{ "name": "fit", "data": [ { "i": "1", "p": "1", "n": "1", "s": "फिषोऽन्त उदात्तः", "sk": "प्रातिपदिक फिट् । तस्यान्त उदात्तः स्यात् । उच्चैः ॥" }, { "i": "2", "p": "1", "n": "2", "s": "पाटलापालङ्काम्बासागरार्थानाम्", "sk": "एतदर्थानामन्त उदात्तः । पाटला, फलेरुहा, सुरूपा, पाकला - इति पर्यायाः । <<लघावन्ते—>> इति प्राप्ते । अपालङ्क, व्याधिघात, आरेवत, आरग्वध - इति पर्यायाः । अम्बार्थः । माता । <<उनर्वन्नन्तानाम्>> इत्याद्युदात्तत्वे प्राप्ते । सागरः । समुद्रः ॥" }, { "i": "3", "p": "1", "n": "3", "s": "गेहार्थानामस्त्रियाम्", "sk": "गेहम् । <<नविषयस्य—>> इति प्राप्ते । अस्त्रियाम् किम् ? शाला । आद्युदात्तोऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥" }, { "i": "4", "p": "1", "n": "4", "s": "गुदस्य च", "sk": "अन्त उदात्तः स्यान्न तु स्त्रियाम् । गुदम् । अस्त्रियाम् किम् ? आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यः । <<स्वाङ्गशिटामदन्तानाम्>> इत्यन्तरङ्गमाद्युदात्तत्वम् । ततष्टाप् ॥" }, { "i": "5", "p": "1", "n": "5", "s": "ध्यपूर्वस्य स्त्रीविषयस्य", "sk": "धकारयकारपूर्वो योऽन्त्योऽच् स उदात्तः । अन्तर्धा । <<स्त्रीविषयवर्ण—>> इति प्राप्ते । छा॒या । मा॒या । जा॒या । <<यान्तस्यान्त्यात्पूर्वम्>> इत्याद्युदात्तत्वे प्राप्ते । स्त्री इति किम् ? बाह्यम् । यञन्तत्वादाद्युदात्तत्वम् । विषयग्रहणम् किम् ? इभ्या । क्षत्रिया । <<यतोऽनाव:>> [[6.1.213]] इत्याद्युदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु <<यान्तस्यान्त्यात्पूर्वम्>> इति मध्योदात्तः ॥" }, { "i": "6", "p": "1", "n": "6", "s": "खान्तस्याश्मादेः", "sk": "नखम् । उखा । सुखम् । दुःखम् । नखस्य <<स्वाङ्गशिटामदन्तानाम्>> इत्याद्युदात्तत्वे प्राप्ते । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात् <<खय्युवर्ण कृत्रिमाख्या चेत्>> इत्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुःखयोः <<नब्विषयस्य—>> इति प्राप्ते । अश्मादेः किम् ? शिखा । मुखम् । मुखस्य <<स्वाङ्गशिटाम्—>> इति <<नब्विषयस्य—>> आद्युदात्तत्वम् । शिखायास्तु <<शीडः खो निद्ध्रस्वश्च>> इत्युणादिषु नित्वोक्तेरन्तरङ्गत्वाट्टापः प्रागेव <<स्वाङ्गशिटाम्—>> इति वा बोध्यम् ॥" }, { "i": "7", "p": "1", "n": "7", "s": "बंहिष्ठवत्सरतिशत्थान्तानाम्", "sk": "एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः । नित्त्वादाद्युदात्तत्वे प्राप्ते । बंहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॑न, यद्बंहि॑ष्ठं॒ नाति॒विदे॑ इत्यादौ व्यत्ययादाद्युदात्तः । सवत्सरः, परिवत्सरः । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । अशीतिः । <<लघावन्ते—>> इति प्राप्ते । चत्वारिंशत् । इहापि प्राग्वत् । 'अ॒भ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः' । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् ॥" }, { "i": "8", "p": "1", "n": "8", "s": "दक्षिणस्य साधौ", "sk": "अन्त उदात्तः स्यात् । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया <<स्वाङ्गशिटाम्—>> इत्याद्युदात्तः । अर्थान्तरे तु <<लघावन्ते—>> इति गुरुरुदात्तः । 'दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु' इति कोशः ॥" }, { "i": "9", "p": "1", "n": "9", "s": "स्वाङ्गाख्यायामादिर्वा", "sk": "इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः । आख्याग्रहणम् किम् । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ॥" }, { "i": "10", "p": "1", "n": "10", "s": "छन्दसि च", "sk": "अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ॥" }, { "i": "11", "p": "1", "n": "11", "s": "कृष्णस्यामृगाख्या चेत्", "sk": "अन्त उदात्तः । <<वर्णानां तण—>> इत्याद्युदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते । कृष्णानां व्रीहीणाम् । कृ॒ष्णो नो॑ नाव वृष॒भः । मृगाख्यायां तु कृष्णो रात्र्यै ॥" }, { "i": "12", "p": "1", "n": "12", "s": "वा नामधेयस्य", "sk": "कृष्णस्येत्येव । अ॒यं वा॑ कृ॒ष्णाे अ॑श्विना । कृष्णर्षिः ॥" }, { "i": "13", "p": "1", "n": "13", "s": "शुक्लगौरयोरादिः", "sk": "नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् । सरो॑ गौ॒रो यथा॑ पिब - इत्यत्रान्तोदात्तदर्शनात् ॥" }, { "i": "14", "p": "1", "n": "14", "s": "अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः", "sk": "अङ्गुष्ठस्य <<स्वाङ्गानामकुर्वादीनाम्>> इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमार्थं छन्दस्येवेति । तेन लोके आद्युदात्ततेत्याहुः ॥" }, { "i": "15", "p": "1", "n": "15", "s": "पृष्ठस्य च", "sk": "छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् । पृष्ठम् ॥" }, { "i": "16", "p": "1", "n": "16", "s": "अर्जुनस्य तृणाख्या चेत्", "sk": "<<उनर्वन्नन्तानाम्>> इत्याद्युदात्तस्यापवादः ॥" }, { "i": "17", "p": "1", "n": "17", "s": "अर्यस्य स्वाम्याख्या चेत्", "sk": "<<यान्तस्यान्त्यात्पूर्वम्>> इति <<यतोऽनाव>> [[6.1.213]] इति वाद्युदात्ते प्राप्ते वचनम् ॥" }, { "i": "18", "p": "1", "n": "18", "s": "आशाया अदिगाख्या चेत्", "sk": "दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिक्पर्यायस्याद्युदात्तता । इन्द्र॒ आशा॑भ्य॒ स्परि॑ ॥" }, { "i": "19", "p": "1", "n": "19", "s": "नक्षत्राणामाब्विषयाणाम्", "sk": "अन्त उदात्तः स्यात् । आश्लेषानुराधादीनां <<लघावन्ते—>> इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ॥" }, { "i": "20", "p": "1", "n": "20", "s": "न कुपूर्वस्य कृत्तिकाख्या चेत्", "sk": "अन्त उदात्तो न । कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय आर्यिका, बहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः ॥" }, { "i": "21", "p": "1", "n": "21", "s": "घृतादीनां च", "sk": "अन्त उदात्तः । 'घृ॒तं मि॑मिक्षे' । आकृतिगणोऽयम् ॥" }, { "i": "22", "p": "1", "n": "22", "s": "ज्येष्ठकनिष्ठयोर्वयसि", "sk": "अन्त उदात्तः स्यात् । ज्ये॒ष्ठ आ॑ह च॒मसा । कनि॒ष्ठ आ॑ह च॒तुरः॑ । वयसि किम् ? ज्येष्ठः श्रेष्ठः , कनिष्ठोऽल्पिकः । इह नित्त्वादाद्युदात्त एव ॥" }, { "i": "23", "p": "1", "n": "23", "s": "बिल्वतिष्ययोः स्वरितो वा", "sk": "अनयोरन्तः स्वरितो वा स्यात् । पक्ष उदात्तः ॥ " }, { "i": "24", "p": "2", "n": "1", "s": "अथादिः प्राक् शकटेः", "sk": "अधिकारोऽयम् । <<शकटिशकट्योः—>> इति यावत् ॥" }, { "i": "25", "p": "2", "n": "2", "s": "हस्वान्तस्य स्त्रीविषयस्य", "sk": "आदरुदात्तः स्यात् । बलिः । तनुः ॥" }, { "i": "26", "p": "2", "n": "3", "s": "नब्विषयस्यानिसन्तस्य", "sk": "व॒ने न वा॒ यः । इसन्तस्य तु सर्पिः । नब्नपुंसकम् ॥" }, { "i": "27", "p": "2", "n": "4", "s": "तृणधान्यानां च द्व्यषाम्", "sk": "द्व्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्वचां तु गोधूमाः ॥" }, { "i": "28", "p": "2", "n": "5", "s": "न्रः सङ्ख्यायाः", "sk": "पञ्च । चत्वारः ॥" }, { "i": "29", "p": "2", "n": "6", "s": "स्वाङ्गशिटामदन्तानाम्", "sk": "शिट् सर्वनाम । कर्णा॑भ्यां॒ चु॒बु॑कादधि॑ । ओष्ठा॑विव॒ मधु॑ । विश्वो॒ विहा॑याः ॥" }, { "i": "30", "p": "2", "n": "7", "s": "प्राणिनां कुपूर्वम्", "sk": "कवर्गात्पूर्वः आदिरुदात्तः । काकः । वृकः । शुके॑षु मे । प्राणिनाम् किम् ? क्षी॒रं स॒र्पिर्मधू॑द॒कम् । कुपूर्वाद् किम् ? धनुः ॥" }, { "i": "31", "p": "2", "n": "8", "s": "खय्युवर्ण कृत्रिमाख्या चेत्", "sk": "खयि परे उवर्णमुदात्तं स्यात् । कन्दुकः ॥" }, { "i": "32", "p": "2", "n": "9", "s": "उनर्वन्नन्तानाम्", "sk": "उन । 'वरु॑ण वो रि॒शाद॑सम्' । ॠ । स्वसा॑रं त्वा कृणवै॒ । वन् । पीवा॑न मे॒षम् ॥" }, { "i": "33", "p": "2", "n": "10", "s": "वर्णानां तणतिनितान्तानाम्", "sk": "आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥" }, { "i": "34", "p": "2", "n": "11", "s": "हस्वान्तस्य हस्वमनृताच्छील्ये", "sk": "ऋद्वर्जं हस्वान्तस्यादिभूतं हस्वमुदात्तं स्यात् । मुनिः ॥" }, { "i": "35", "p": "2", "n": "12", "s": "अक्षस्यादेवनस्य", "sk": "आदिरुदात्तः । तस्य॒ नाक्षः॑ । देवने तु - अ॒क्षैर्मा दी॑व्यः ॥" }, { "i": "36", "p": "2", "n": "13", "s": "अर्धस्यासमद्योतने", "sk": "अर्धो ग्रामस्य । समेंऽशके तु अर्धं पिप्पल्याः ॥" }, { "i": "37", "p": "2", "n": "14", "s": "पीतद्र्वर्थानाम्", "sk": "आदिरुदात्त । पीतद्रुः सरलः ॥" }, { "i": "38", "p": "2", "n": "15", "s": "ग्रामादीनां च", "sk": "ग्रामः । सोमः । यामः ॥" }, { "i": "39", "p": "2", "n": "16", "s": "लुबन्तस्योपमयनामधेयस्य", "sk": "चञ्चेव चञ्चा । 'स्फिगन्तस्य' इति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा ॥" }, { "i": "40", "p": "2", "n": "17", "s": "न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्", "sk": "एषामुपमेयनाम्नामादिरुदात्तो न । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥" }, { "i": "41", "p": "2", "n": "18", "s": "राजविशेषस्य यमन्वा चेत्", "sk": "यमन्वा वृद्धः। आङ्गमुदाहरणम् । अङ्गाः प्रत्युदाहरणम् ॥" }, { "i": "42", "p": "2", "n": "19", "s": "लघावन्ते द्वयोश्च बह्वषो गुरुः", "sk": "अन्ते लघौ, द्वयोश्च लध्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः ॥" }, { "i": "43", "p": "2", "n": "20", "s": "स्त्रीविषयवर्णक्षुपूर्वाणाम्", "sk": "एषा त्रयाणामाद्युदात्तः । स्त्रीविषयम् । मल्लिका । वर्णः श्येनी । हरिणी । अक्षुशब्दात्पूर्वोऽस्त्येषां ते अक्षुपूर्वाः । तरक्षुः ॥" }, { "i": "44", "p": "2", "n": "21", "s": "शकुनीनां च लघु पूर्वम्", "sk": "पूर्वं लघु उदात्त स्यात् । कुक्कुटः । तित्तिरिः ॥" }, { "i": "45", "p": "2", "n": "22", "s": "नर्तुप्राण्याख्यायाम्", "sk": "यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः । कृकलासः ॥" }, { "i": "46", "p": "2", "n": "23", "s": "धान्यानां च वृद्धक्षान्तानाम्", "sk": "आदिरुदात्तः । कान्तानाम् - श्यामाकाः । षान्तानाम् - राजमाषाः ॥" }, { "i": "47", "p": "2", "n": "24", "s": "जनपदशब्दानामषान्तानाम्", "sk": "आदिरुदात्तः । केकयः । <<यान्तस्यान्त्यात् पूर्वम्>> इति प्राप्ते ॥" }, { "i": "48", "p": "2", "n": "25", "s": "हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा", "sk": " हयिति हल्सज्ञा । पललम् । शललम् । हयादीनाम् किम् ? एकलः । असंयुक्त इति किम् । मल्लः ॥" }, { "i": "49", "p": "2", "n": "26", "s": "इगन्ताना च द्व्यषाम्", "sk": "आदिरुदात्तः । कृषिः ॥" }, { "i": "50", "p": "3", "n": "1", "s": "अथ द्वितीयं प्रागीषात्", "sk": "<<ईषान्तस्य हयादे—>> इत्यतः प्राग्द्वितीयाधिकार ॥" }, { "i": "51", "p": "3", "n": "2", "s": "त्र्यचा प्राङ्मकरात्", "sk": "<<मकरवरूढ—>> इत्यतः प्राक् त्र्यचामित्यधिकारः ॥" }, { "i": "52", "p": "3", "n": "3", "s": "स्वाङ्गानामकुर्वादीनाम्", "sk": "कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम् । ल॒लाट॒म् । कुर्वादीनां तु । क॒पोलः॑ । रसना । वदनम् ॥" }, { "i": "53", "p": "3", "n": "4", "s": "मादीनां च", "sk": "मलयः । मकरः ॥" }, { "i": "54", "p": "3", "n": "5", "s": "शादीनां शाकानाम्", "sk": "शीतन्या । शतपुष्पा ॥" }, { "i": "55", "p": "3", "n": "6", "s": "पान्तानां गुर्वादीनाम्", "sk": "पादपः । आतपः । लघ्वादीना तु - अनूपम् । द्व्यचां तु - नीपम् ॥" }, { "i": "56", "p": "3", "n": "7", "s": "युतान्यण्यन्तानाम्", "sk": "युत । अयुतम् । अनि । धमनि । अणि । विपणिः ॥" }, { "i": "57", "p": "3", "n": "8", "s": "मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा", "sk": "एषामादिर्द्वितीयो वोदात्तः । मकरः वरूढ इत्यादि ॥" }, { "i": "58", "p": "3", "n": "9", "s": "छन्दसि च", "sk": "अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिर्द्वितीयं चोदात्तं ज्ञेयम् ॥" }, { "i": "59", "p": "3", "n": "10", "s": "कर्दमादीनां च", "sk": "आदिर्द्वितीयं वोदात्तम् ॥" }, { "i": "60", "p": "3", "n": "11", "s": "सुगन्धितेजनस्य ते वा", "sk": "आदिर्द्वितीयं तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥" }, { "i": "61", "p": "3", "n": "12", "s": "नपः फलान्तानाम्", "sk": "आदिर्द्वितीयं वोदात्तम् । राजादनफलम् ॥" }, { "i": "62", "p": "3", "n": "13", "s": "यान्तस्यान्त्यात्पूर्वम्", "sk": "कुलायः । तलयः । वलयः ॥" }, { "i": "63", "p": "3", "n": "14", "s": "थान्तस्य च नालघुनी", "sk": "नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥" }, { "i": "64", "p": "3", "n": "15", "s": "शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च", "sk": "अन्त्यात्पूर्वमुदात्तं द्वितीयं वा ॥" }, { "i": "65", "p": "3", "n": "16", "s": "साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्", "sk": "द्वितीयमुदात्तं वा ॥" }, { "i": "66", "p": "3", "n": "17", "s": "ईषान्तख्य हयादेरादिर्वा", "sk": "हलीषा । लाङ्गलीषा ॥" }, { "i": "67", "p": "3", "n": "18", "s": "उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्", "sk": "एषामादिरुदात्तः स्यात् ॥" }, { "i": "68", "p": "3", "n": "19", "s": "महिष्याषाढयोर्जायेष्टकाख्या चेत्", "sk": "आदिरुदात्तः । महिषी जाया । आषाढा उपदधाति ॥" }, { "i": "69", "p": "4", "n": "1", "s": "शकटिशकट्योरक्षरमक्षरं पर्यायेण", "sk": "उदात्तम् । शकटिः । शकटी ॥" }, { "i": "70", "p": "4", "n": "2", "s": "गोष्ठजस्य ब्राह्मणानामधेयस्य", "sk": "अक्षरमक्षर पर्यायेणोदात्तम् । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ॥" }, { "i": "71", "p": "4", "n": "3", "s": "पारावतस्योपोत्तमवर्जम्", "sk": "शेष क्रमेणोदात्तम् । पारावतः ॥" }, { "i": "72", "p": "4", "n": "4", "s": "धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्", "sk": "एषां चतुर्ण्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥" }, { "i": "73", "p": "4", "n": "5", "s": "कपिकेशहरिकेशयोश्छन्दसि", "sk": "कपिकेशः । हरिकेशः ॥" }, { "i": "74", "p": "4", "n": "6", "s": "न्यङ्स्वरौ स्वरितौ", "sk": "स्पष्टम् । न्य॑ङ्ङुत्ता॒नः । व्य॑चक्षय॒त्स्वः ॥" }, { "i": "75", "p": "4", "n": "7", "s": "न्यर्बुदव्यल्कशयोरादि", "sk": "स्वरितः स्यात् । न्यर्बुदाय स्वाहा । पाकदूर्वा व्यल्कशा ॥" }, { "i": "76", "p": "4", "n": "8", "s": "तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्त", "sk": "स्वरितः स्यात् । तिलाना भवनं क्षेत्रं तिल्यम् । वैश्वानर्या शिक्यमादत्ते । प्रभिन्नायमत्यमन्व्यास्यति । वज्रः कार्ष्मर्योर्वज्रेण । <<यतोऽनाव:>> [[6.1.213]] इति प्राप्ते । कार्ष्मर्यमुपयाति । धान्यमसिधिनुहि । मावीरवीकन्या । राजन्यो वज्रस्य रूपम् । प्रतीची मनुष्या ॥" }, { "i": "77", "p": "4", "n": "9", "s": "बिल्वभक्ष्यवीर्याणि च्छन्दसि", "sk": "अन्तस्वरितानि । ततो बिल्वस्य उदतिष्ठत् । बलं विरुजवीर्यम् ॥" }, { "i": "78", "p": "4", "n": "10", "s": "त्वत्त्वसमसिमेत्यनुच्चानि", "sk": "स्त॒रीरु॑ त्व॒त् । उ॒त त्वः॒ पश्य॑न् । नभ॑न्तामन्यके॒ स॑मे । सिम॑स्मै ॥" }, { "i": "79", "p": "4", "n": "11", "s": "सिमस्याथर्वणेऽन्त उदात्तः", "sk": "अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवंपरं वा । तेन 'वास॑स्तनुते सि॒मस्मै॑' इत्यृग्वेदेऽपि भवत्येव ॥" }, { "i": "80", "p": "4", "n": "12", "s": "निपाता आद्युदात्ताः", "sk": "स्वाहा ॥" }, { "i": "81", "p": "4", "n": "13", "s": "उपसर्गाश्चाभिवर्जम्", "sk": "" }, { "i": "82", "p": "4", "n": "14", "s": "एवादीनामन्तः", "sk": "एवमादीनामिति पाठान्तरम् । एव । एवम् । नूनम् । सह । सह॑ ते पुत्र सू॒रिभिः॑ । षष्ठस्य तृतीये <<सहस्य सः संज्ञायाम्>> [[6.3.78]] इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः । तच्चिन्त्यम् ॥" }, { "i": "83", "p": "4", "n": "15", "s": "वाचादीनामुभावुदात्तौ", "sk": "उभौग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय ॥" }, { "i": "84", "p": "4", "n": "16", "s": "चादयोऽनुदात्ताः", "sk": "स्पष्टम् ॥" }, { "i": "85", "p": "4", "n": "17", "s": "यथेति पादान्ते", "sk": "तं ने॒मिमृ॒भवो॑ य॒था । पादान्ते किम् । यथा॑नो॒ अदि॑तिः॒ कर॑त् ॥" }, { "i": "86", "p": "4", "n": "18", "s": "प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः", "sk": "पटुपटुः ॥" }, { "i": "87", "p": "4", "n": "19", "s": "शेषं सर्वमनुदात्तम्", "sk": "शेषमित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रा॒यम् । दि॒वेदि॑वे ॥" } ] }