{ "name": "linganushasanam", "data": [ { "id": "1", "adhikaar": "स्त्र्यधिकारः", "sutra": "लिङ्गम्", "sk": "" }, { "id": "2", "adhikaar": "स्त्र्यधिकारः", "sutra": "स्त्री", "sk": "अधिकारसूत्रे एते ।" }, { "id": "3", "adhikaar": "स्त्र्यधिकारः", "sutra": " ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः", "sk": "ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः । स्वस्रादिपञ्चकस्येव ङीब्निषेधेन कर्त्रीत्यादेर्ङीपा ईकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोर्ऋदन्तत्वाभावात् ।" }, { "id": "4", "adhikaar": "स्त्र्यधिकारः", "sutra": "अन्यूप्रत्ययान्ता धातुः", "sk": "अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः । प्रत्ययग्रहणं किम् ? - देपयतेः क्विप् द्यूः । विशेष्यलिङ्गः । " }, { "id": "5", "adhikaar": "स्त्र्यधिकारः", "sutra": "अशनिभरण्यरणयः पुंसि च ", "sk": "इयमयं वा अशनिः ।" }, { "id": "6", "adhikaar": "स्त्र्यधिकारः", "sutra": "मिन्यतः", "sk": "मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्लानिः । " }, { "id": "7", "adhikaar": "स्त्र्यधिकारः", "sutra": "वह्निवृष्णवग्नयः पुंसि", "sk": "पूर्वस्यापवादः ।" }, { "id": "8", "adhikaar": "स्त्र्यधिकारः", "sutra": "श्रोणियोन्यूर्मयः पुंसि च", "sk": "इयमयं वा श्रोणिः ।" }, { "id": "9", "adhikaar": "स्त्र्यधिकारः", "sutra": "क्तिन्नन्तः", "sk": "स्पष्टम् । कृतिरित्यादि ।" }, { "id": "10", "adhikaar": "स्त्र्यधिकारः", "sutra": "ईकारान्तश्च", "sk": "ईप्रत्ययान्तः स्त्री स्यात् । लक्ष्मीः ।" }, { "id": "11", "adhikaar": "स्त्र्यधिकारः", "sutra": "ऊङाबन्तश्च", "sk": "कुरूः । विद्या ।" }, { "id": "12", "adhikaar": "स्त्र्यधिकारः", "sutra": "य्वन्तमेकाक्षरम्", "sk": "श्रीः । भूः । एकाक्षरं किम् ? पृथुश्रीः ।" }, { "id": "13", "adhikaar": "स्त्र्यधिकारः", "sutra": "विंशत्यादिरानवतेः", "sk": "इयं विंशतिः । त्रिंशत् । चत्वारिंशत् । पञ्चाशत् । षष्टिः । सप्ततिः । अशीतिः । नवतिः ।" }, { "id": "14", "adhikaar": "स्त्र्यधिकारः", "sutra": "दुन्दुभिरक्षेषु", "sk": "इयं दुन्दुभिः । अक्षेषु किम् ? अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः ।" }, { "id": "15", "adhikaar": "स्त्र्यधिकारः", "sutra": "नाभिरक्षत्रिये", "sk": "इयं नाभिः । " }, { "id": "16", "adhikaar": "स्त्र्यधिकारः", "sutra": "उभाव्यप्यन्यत्र पुंसि", "sk": "दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हि समुल्लसत्पङ्कजपङ्कजपत्रकोमलैरूपाहितश्रीण्युपनीविनाभिरिति भारवीः ? उच्यते - दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्यात् पुंस्त्वमपीह साधु । अतएव नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामद इति मेदिनी । रभसोऽप्याह - मुख्यराट्क्षत्रिये नाभिः पुंसि प्राण्यङ्गे द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति । एवमेवंविधेऽन्यत्रापि बोध्यम् । " }, { "id": "17", "adhikaar": "स्त्र्यधिकारः", "sutra": "तलन्तः", "sk": "अयं स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्राह्मणस्य कर्म ब्राह्मणता । ग्रामस्य समूहो ग्रामता । देव एव देवता ।" }, { "id": "18", "adhikaar": "स्त्र्यधिकारः", "sutra": "भूमिविद्युत्सरिल्लतावनिताभिधानानि", "sk": "भूमिर्भूः । विद्युत्सौदामनी । सरिन्निम्नगा । लता वल्ली । वनिता योषित् ।" }, { "id": "19", "adhikaar": "स्त्र्यधिकारः", "sutra": "यादो नपुंसकम्", "sk": "यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात् ।" }, { "id": "20", "adhikaar": "स्त्र्यधिकारः", "sutra": "भाःस्रुक्स्रग्दिगुष्णिगुपानहः", "sk": "एते स्त्रियां स्युः । इयं भाः इत्यादिः ।" }, { "id": "21", "adhikaar": "स्त्र्यधिकारः", "sutra": "स्थूणोर्णे नपुंसके च", "sk": "एते स्त्रियां क्लीबे च स्तः । स्थूणा । स्थूणम् । ऊर्णा । ऊर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम । " }, { "id": "22", "adhikaar": "स्त्र्यधिकारः", "sutra": "गृहशशाभ्यां क्लीबे", "sk": "नियमार्थमिदम् । गृहशशपूर्वे स्थूणोर्णे यथासङ्ख्यं नपुंसके स्तः । गृहस्थूणम् । शशोर्णं शशलोमनीत्यमरः ।" }, { "id": "23", "adhikaar": "स्त्र्यधिकारः", "sutra": "प्रावृट्विप्रट्रुट्विट्त्विषः", "sk": "एते स्त्रियां स्युः ।" }, { "id": "24", "adhikaar": "स्त्र्यधिकारः", "sutra": "दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकट्यङ्गुलयः ", "sk": "एते स्त्रियां स्युः । पक्षे ङीप् । दर्वी, दर्विः इत्यादि । " }, { "id": "25", "adhikaar": "स्त्र्यधिकारः", "sutra": "तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः", "sk": "एते प्राग्वत् । इयं तिथिरित्यादि । अमरस्त्वाह तिथयो द्वयोरिति । तथा च भारविः । तस्य भुवि बहुतिथास्तिथय इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च । निखिलान्निशि पौर्णिमातिथीनिति । " }, { "id": "26", "adhikaar": "स्त्र्यधिकारः", "sutra": "शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिङ्क्तयः ", "sk": "एतेऽपि स्त्रियां स्युः । इयं शष्कुलिः ।" }, { "id": "27", "adhikaar": "स्त्र्यधिकारः", "sutra": "प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुषः संवित्क्षुत्पुन्मुत्समिधः । ", "sk": "इयं प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता ।" }, { "id": "28", "adhikaar": "स्त्र्यधिकारः", "sutra": "आशीर्धूःपूर्गीर्द्वारः", "sk": "इयमाशीरित्यादिः ।" }, { "id": "29", "adhikaar": "स्त्र्यधिकारः", "sutra": "अप्सुमनस्समासिकतावर्षाणां बहुत्वं च", "sk": "अबादीनां पञ्चानां स्त्रीत्वं स्यात् बहुत्वं च । आपः इमाः । स्त्रियः सुमनसः पुष्पम् । सुमना मालती जातिः । देववाची तु पुंस्येेव । सुपर्वाणः सुमनसः । बहुत्वं प्रायिकम् । एका च सिकता तैलदाने असमर्थेति अर्थवत्सूत्रे भाष्यप्रयोगात् । <<समांसमां विजायते>> [[5.2.12]] इत्यत्र समायां समायामिति भाष्याच्च । <<विभाषा घ्राधेट्शाच्छासः>> [[2.4.78]] इति सूत्रे अघ्रासातां सुमनसाविति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् । " }, { "id": "30", "adhikaar": "स्त्र्यधिकारः", "sutra": "स्रक्त्वक्ज्योग्वाग्यवागूनौस्फिजः", "sk": "इयं स्रक् त्वक् ज्योक् वाक् यवागूः नौः स्फिक् ।" }, { "id": "31", "adhikaar": "स्त्र्यधिकारः", "sutra": "तृटिसीमासंबध्याः", "sk": "इयं तृटिः । सीमा । संबध्या । " }, { "id": "32", "adhikaar": "स्त्र्यधिकारः", "sutra": "चुल्लिवेणिखार्यश्च", "sk": "स्पष्टम् ।" }, { "id": "33", "adhikaar": "स्त्र्यधिकारः", "sutra": "ताराधाराज्योत्स्नादयश्च", "sk": "" }, { "id": "34", "adhikaar": "स्त्र्यधिकारः", "sutra": "शलाका स्त्रियां नित्यम् ", "sk": "नित्यग्रहणमन्येषां क्वचिद्व्यभिचारं ज्ञापयति । इति स्त्र्यधिकारः ॥" }, { "id": "35", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "पुमान्", "sk": "अधिकारोऽयम्" }, { "id": "36", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "घञबन्तः", "sk": "पाकः । त्यागः । करः । गरः । भावार्थे एवेदम् । नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नाडिभिर्बाधेन परिशेषात् । कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम् । सम्बन्धमनुवर्तिष्यत इति ।" }, { "id": "37", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "घाजन्तश्च", "sk": "विस्तरः । गोचरः । चयः । जयः । इत्यादि । " }, { "id": "38", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "भयलिङ्गभगपदानि नपुंसके", "sk": "एतानि नपुंसके स्युः । भयम् । लिङ्गम् । भगम् । पदम् ।" }, { "id": "39", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "नङन्तः", "sk": "नङ्प्रत्ययान्तः पुंसि स्यात् । यज्ञः । यत्नः ।" }, { "id": "40", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "याच्ञा स्त्रियाम्", "sk": "पूर्वस्यापवादः " }, { "id": "41", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "क्यन्तो घुः", "sk": "किप्रत्ययान्तो घुः पुंसि स्यात् । आधिः । निधिः । उदधिः । क्यन्तः किम् ? दानम् । घुः किम् ? जज्ञिर्बीजम् । " }, { "id": "42", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "इषुधि स्त्री च", "sk": "इषुधिशब्दः स्त्रियां पुंसि च । पूर्वस्यापवादः ।" }, { "id": "43", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि", "sk": "एतानि पुंसि स्युः । देवाः सुराः । असुराः दैत्याः । आत्मा क्षेत्रज्ञः । स्वर्गो नाकः । गिरिः पर्वतः । समुद्रोऽब्धिः । नखः कररुहः । केशः शिरोरुहः । दन्तो दशनः । स्तनः कुचः । भुजो दोः । कण्ठो गलः । खड्गः करवालः । शरो मार्गणः । पङ्कः कर्दमः इत्यादु । " }, { "id": "44", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "त्रिविष्टपत्रिभुवने नपुंसके ", "sk": "स्पष्टम् । तृतीयं विष्टपं त्रिपिष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्ते अयमारम्भः ।" }, { "id": "45", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "द्यौः स्त्रियाम् ", "sk": "द्योदिवोस्तन्त्रेणोपादानमिदम् । " }, { "id": "46", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "इषुबाहू स्त्रियां च", "sk": "चात्पुंसि । " }, { "id": "47", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "बाणकाण्डौ नपुंसके च", "sk": "चात्पुंसि । त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः ।" }, { "id": "48", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "नान्तः", "sk": "अयं पुंसि । राजा । तक्षा । न च चर्मवर्मादिष्वतिव्याप्तिः 'मन्द्व्यच्कोऽकर्तरि' इति नपुंसकप्रकरणे वक्ष्यमाणत्वात् ।" }, { "id": "49", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "क्रतुपुरुषकपोलगुल्फमेघाभिधानानि", "sk": "क्रतुरध्वरः । पुरुषो नरः । कपोलो गरुडः । गुल्फः प्रपदः । मेघो नीरदः ।" }, { "id": "50", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "अभ्रं नपुंसकम् ", "sk": "पूर्वस्यापवादः" }, { "id": "51", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "उकारान्तः", "sk": "अयं पुंसि स्यात् । प्रभुः । इक्षुः । हनुर्हट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः कपोकावयव इति मेदिनी । करेणुरिभ्यां स्त्री नेभे इत्यमरः । एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः । उक्तं च - लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधित इति । एवमन्यत्रापि । " }, { "id": "52", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् । ", "sk": "" }, { "id": "53", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "समासे रज्जुः पुंसि च", "sk": "कर्कटरज्वा । कर्कटरज्जुना । " }, { "id": "54", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रयपुतालूनि नपुंसके", "sk": "" }, { "id": "55", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "वसु चार्थवाचि", "sk": "अर्थवाचीति किम् ? वसूर्मयुखाग्निधनाधिपेषु । " }, { "id": "56", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च", "sk": "चात्पुंसि अयं मद्गुः । इदं मद्गु ।" }, { "id": "57", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "रुत्वन्तः", "sk": "मेरुः । सेतुः ।" }, { "id": "58", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "दारुकशेरुजतुवस्तुमस्तूनि नपुंसके", "sk": "रुत्वन्त इति पुंस्त्वस्यापवादः । इदं दारु ।" }, { "id": "59", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "सक्तुर्नपुंसके च ", "sk": "चात्पुंसि । सक्तुः, सक्तु ।" }, { "id": "60", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "प्रागरश्मेरकारान्तः", "sk": "रश्मिर्दिवसाभिधानमिति वक्ष्यति । प्रागेतस्मादकारान्त इत्यधिक्रियते ।" }, { "id": "61", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "कोपधः ", "sk": "कोपधोऽकारान्तः पुंसि स्यात् । स्तबकः । कल्कः ।" }, { "id": "62", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके", "sk": "पूर्वसूत्रापवादः ।" }, { "id": "63", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च", "sk": "चात्पुंसि । अयं कण्टकः । इदं कण्टकमित्यादि ।" }, { "id": "64", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "टोपधः", "sk": "टोपधोऽकारान्तः पुंसि स्यात् । घटः । पटः ।" }, { "id": "65", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "किरीटमुकुटललाटवटवीटशृङ्गाटकराटलोष्टानि नपुंसके च", "sk": "किरिटमित्यादि ।" }, { "id": "66", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "कुटकूटकटपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च", "sk": "चात्पुंसि । कुटः कुटमित्यादि ।" }, { "id": "67", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "णोपधः ", "sk": "णोपधोऽकारान्तः पुंसि स्यात् । गुणः । गणः । पाषाणः ।" }, { "id": "68", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "ऋणलवणपर्वतोरणरणोष्णानि नपुंसके", "sk": "पूर्वसूत्रापवादः ।" }, { "id": "69", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसकेच", "sk": "चात्पुंसि ।" }, { "id": "70", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "थोपधः", "sk": "रथः ।" }, { "id": "71", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "काष्ठपृष्ठसिक्थोक्थानि नपुंसके", "sk": "इदं काष्ठमित्यादि ।" }, { "id": "72", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "काष्ठा दिगर्था स्त्रियाम्", "sk": "इमाः काष्ठाः ।" }, { "id": "73", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "तीर्थप्रोथयूथगाथानि नपुंसके च", "sk": "चात्पुंसि । अयं तीर्थः । इदं तीर्थम् ।" }, { "id": "74", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "नोपधः ", "sk": "अदन्तः पुंसि । इनः फेनः ।" }, { "id": "75", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "जघनाकिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके", "sk": "पूर्वस्यापवादः ।" }, { "id": "76", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनासमानभवनवसनसंभावनविभावनविमानानि नपुंसके च", "sk": "चात्पुंसि । अयं मानः । इदं मानम् ।" }, { "id": "77", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "पोपधः", "sk": "अदन्तः पुंसि । यूपः । दीपः ।" }, { "id": "78", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "पापरूपोडुपतल्पशिल्पपुष्पसमीपान्तरीपाणि नपुंसके", "sk": "इदं पापमित्यादि ।" }, { "id": "79", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च", "sk": "अयं शूर्पः । इदं शूर्पमित्यादि ।" }, { "id": "80", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "भोधपः ", "sk": "स्तम्भः ।" }, { "id": "81", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "तलभं नपुंसकम्", "sk": "पूर्वस्यापवादः ।" }, { "id": "82", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "जृम्भं नपुंसके च", "sk": "जृम्भम् । जृम्भः ।" }, { "id": "83", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "मोपधः", "sk": "सोमः । भीमः ।" }, { "id": "84", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके", "sk": "इदं रुक्ममित्यादि ।" }, { "id": "85", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च", "sk": "चात्पुंसि अयं संग्रामः । इदं संग्रामम् । " }, { "id": "86", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "योपधः", "sk": "समयः । हयः ।" }, { "id": "87", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके", "sk": "स्पष्टम् ।" }, { "id": "88", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "गोमयकषायमलयान्वयाव्ययानि नपुंसके च", "sk": "गोमयः । गोमयम् ।" }, { "id": "89", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "रोपधः", "sk": "क्षुरः । अङ्कुरः । " }, { "id": "90", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्ररन्धाश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जराजरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि नपुंसके", "sk": "इदं द्वारमित्यादि । " }, { "id": "91", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "शुक्रमदेवतायाम्", "sk": "इदं शुक्रं रेतः ।" }, { "id": "92", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारबषङ्गारमन्दारोशीरतिमितशिशिराणि नपुंसके च", "sk": "चात्पुंसि । चक्रः, चक्रमित्यादि ।" }, { "id": "93", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "षोपधः", "sk": "वृषः । वृक्षः ।" }, { "id": "94", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "शिरीषर्जीषाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके", "sk": "" }, { "id": "95", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "यूषकरीषमिषविषवर्षाणि नपुंसके च", "sk": "चात्पुंसि । अयं यूषः । इदं यूषमित्यादि ।" }, { "id": "96", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "सोपधः", "sk": "वत्सः । वायसः । महानसः । " }, { "id": "97", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "पनसबिसबुससाहसानि नपुंसके", "sk": "" }, { "id": "98", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "चमसांसररनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च", "sk": "इदं चमसम् । अयं चमसः । इत्यादि ।" }, { "id": "99", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "कंसं चात्प्राणिनि", "sk": "कंसोऽस्त्री पानभाजनम् । प्राणिनि तु कंसो नाम कश्चिद्राजा । " }, { "id": "100", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "रश्मिदिवसाभिधानानि", "sk": "एतानि पुंसि स्युः । रश्मिर्मयूखः दिवसो घस्नः । " }, { "id": "101", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "दीधितिः स्त्रियाम्", "sk": "पूर्वस्यापवादः ।" }, { "id": "102", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "दिनाहनी नपुंसके", "sk": "अयमप्यपवादः ।" }, { "id": "103", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "मानाभिधामनि", "sk": "एतानि पुंसि स्युः । कुडवः । प्रस्थः ।" }, { "id": "104", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "द्रौणाढकौ नपुंसके च", "sk": "इदं द्रोणम् । अयं द्रोणः ।" }, { "id": "105", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "खारीमानिके स्त्रियाम्", "sk": "इयं खारी । इयं मानिका ।" }, { "id": "106", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "दाराक्षतलजासूनां बहुत्वं च", "sk": "इमे दाराः ।" }, { "id": "107", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "नाड्यपजनोपपदानि व्रणाङ्गपदानि", "sk": "यथासङ्ख्यं नाड्यादीन्युपपदानि व्रणादीनि पुंसि स्युः । अयं नाडीव्रणः । अपाङ्गः । जनपदः । व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वानुवृत्यर्थं सूत्रम् ।" }, { "id": "108", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "मरुद्गरुत्तरदृत्विजः", "sk": "अयं मरुत् ।" }, { "id": "109", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः", "sk": "एते पुंसि स्युः । अयमृषिः ।" }, { "id": "110", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "ध्वजगजमुञ्जपुञ्जाः", "sk": "एते पुंसि । " }, { "id": "111", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "हस्तकुन्तान्तव्रातवातदूतधूतसूतचूतमुहूर्ताः", "sk": "एते पुंसि । अमरस्तु मुहुर्तोऽस्त्रियामित्याह ।" }, { "id": "112", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः", "sk": "अयं षण्डः । " }, { "id": "113", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "वंशांशपुरोडाशः", "sk": "अयं वंशः । पुरो दाश्यते पुरोडाशाः । कर्मणि घञ् । भव्यव्याख्यानयोः प्रकरणे <<पौरोडाशपुरोडाशात् ष्ठन्>> [[4.3.70]] इति विकारप्रकरणे, <<व्रीहेः पुरोडाशे>> [[4.3.148]] इति च निपातनात् प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् । पुरोडाशभुजामिष्टमिति माघः । " }, { "id": "114", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "हृदकन्दकुन्दबुद्बुदशब्दाः ", "sk": "अयं हृदः ।" }, { "id": "115", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "अर्धपथिमथ्यृभुक्षिस्तम्बनितम्बपूगाः", "sk": "अयमर्धः ।" }, { "id": "116", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "पल्लवपल्वलकफरेफकटाहनिर्व्यूहमठमणितरङ्गतुरङ्गगन्धमृदङ्गसङ्गसमुद्गपुङ्खाः", "sk": "अयं पल्लवः इत्यादि ।" }, { "id": "117", "adhikaar": "पुंलिङ्गाधिकारः", "sutra": "सारथ्यतिक्षिकुक्षिबस्तिपाण्यञ्जलयः ", "sk": "एते पुंसि । अयं सारथिः । इति पुंलिङ्गाधिकारः ॥" }, { "id": "118", "adhikaar": "नपुंसकाधिकारः", "sutra": "नपुंसकम्", "sk": "अधिकारोऽयम् ।" }, { "id": "119", "adhikaar": "नपुंसकाधिकारः", "sutra": "भावे ल्युडन्तः", "sk": "हसनम् । भावे किम् ? पचनोऽग्निः । इध्मप्रवचनः कुठारः ।" }, { "id": "120", "adhikaar": "नपुंसकाधिकारः", "sutra": "निष्ठा च", "sk": "भावे या निष्ठा तदन्तं क्लीबन्तं स्यात् । हसितम् । गीतम् । " }, { "id": "121", "adhikaar": "नपुंसकाधिकारः", "sutra": "त्वष्यञौ तद्धितौ", "sk": "शुक्लत्वम् । शौक्ल्यम् । ष्येञः षित्वसामर्थ्यात् पक्षे स्त्रीत्वम् । चातुर्यम् । चातुरी । सामग्र्यम् । सामग्री । औचित्यम् । औचिती । " }, { "id": "122", "adhikaar": "नपुंसकाधिकारः", "sutra": "कर्मणि च ब्राह्मणादिगुणवचनेभ्यः", "sk": "ब्राह्मणस्य कर्म ब्राह्मण्यम् ।" }, { "id": "123", "adhikaar": "नपुंसकाधिकारः", "sutra": "यद्यढग्यगयण्बुञ्छाश्च भावकर्मणि", "sk": "एतदन्तानि क्लीबानि । <<स्तेनाद्यन्नलोपश्च>> [[5.1.125]] - स्तेयम् । <<सख्युर्यः>> [[5.1.126]] - सख्यम् । <<कपिज्ञातोर्ढक्>> [[5.1.127]] - कापेयम् । <<पत्यन्तपुरोहितादिभ्यो यक्>> [[5.1.128]] - आधिपत्यम् । <<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> [[5.1.129]] - औष्ट्रम् । <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] - द्वैहायनम् । <<द्वन्द्वमनोज्ञादिभ्यश्च>> [[5.1.133]] - पितापुत्रकम् । <<होत्राभ्यश्छः>> [[5.1.135]] - अच्छावायीकम् । <<अव्ययीभावः>> [[2.4.18]] - अधिस्त्री । " }, { "id": "124", "adhikaar": "नपुंसकाधिकारः", "sutra": "द्वन्द्वैकत्वम् ", "sk": "पाणिपादम् ।" }, { "id": "125", "adhikaar": "नपुंसकाधिकारः", "sutra": "अभाषायां हेमन्तशिशिरावहोरात्रे च ", "sk": "स्पष्टम् ।" }, { "id": "126", "adhikaar": "नपुंसकाधिकारः", "sutra": "अनञ्कर्मधारयस्तत्पुरुषः", "sk": "अधिकारोऽयम् ।" }, { "id": "127", "adhikaar": "नपुंसकाधिकारः", "sutra": "अनल्पे छाया", "sk": "शरच्छायम् ।" }, { "id": "128", "adhikaar": "नपुंसकाधिकारः", "sutra": "राजाऽमनुष्यपूर्वा सभा", "sk": "इनसभमित्यादि ।" }, { "id": "129", "adhikaar": "नपुंसकाधिकारः", "sutra": "सुरासेनाच्छायाशालानिशा स्त्रियां च", "sk": "" }, { "id": "130", "adhikaar": "नपुंसकाधिकारः", "sutra": "परवत्", "sk": "अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् । रात्राह्नाहाः पुंसि । " }, { "id": "131", "adhikaar": "नपुंसकाधिकारः", "sutra": "अपथपुण्याहे नपुंसके", "sk": "" }, { "id": "132", "adhikaar": "नपुंसकाधिकारः", "sutra": "संख्यापूर्वा रात्रिः", "sk": "त्रिरात्रम् । सङ्ख्यापूर्वेति किम् ? सर्वरात्रः ।" }, { "id": "133", "adhikaar": "नपुंसकाधिकारः", "sutra": "द्विगुः स्त्रियां च", "sk": "व्यवस्थया । पञ्चमूली । त्रिभुवनम् । " }, { "id": "134", "adhikaar": "नपुंसकाधिकारः", "sutra": "इसुसन्तः ", "sk": "हविः । धनुः ।" }, { "id": "135", "adhikaar": "नपुंसकाधिकारः", "sutra": "अर्चिः स्त्रियां च", "sk": "इसन्तत्वेऽपि अर्चिः । स्त्रियां नपुंसके च स्यात् । इयमिदं वा अर्चिः । " }, { "id": "136", "adhikaar": "नपुंसकाधिकारः", "sutra": "छदिः स्त्रियामेव", "sk": "इयं छदिः । छद्यते अनेन इति छादेश्चुरादिण्यन्तादर्चिशुचीत्यादिना इस् । इस्मन्नित्यादिना ह्रस्वः । पटलं छदिरित्यमरः । तत्र पटलसाहचर्याच्छदिषः क्लीबतां वदन्तोऽमरव्याख्यातारः उपेक्ष्याः ।" }, { "id": "137", "adhikaar": "नपुंसकाधिकारः", "sutra": "मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि", "sk": "एतेषामभिधानानि क्लीबे स्युः । मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिषम् । रुधिरं रक्तम् । कार्मुकं शरासनम् । विवरं बिलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रविणम् । अन्नमशनम् । अस्यापवादानाह त्रिसूत्र्या । " }, { "id": "138", "adhikaar": "नपुंसकाधिकारः", "sutra": "सीरार्थौदनाः पुंसि", "sk": "" }, { "id": "139", "adhikaar": "नपुंसकाधिकारः", "sutra": "वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च", "sk": "वक्त्रो वक्त्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् । " }, { "id": "140", "adhikaar": "नपुंसकाधिकारः", "sutra": "अटवी स्त्रियाम् ", "sk": "" }, { "id": "141", "adhikaar": "नपुंसकाधिकारः", "sutra": "लोपधः", "sk": "कुलम् । कूलम् । स्थलम् । " }, { "id": "142", "adhikaar": "नपुंसकाधिकारः", "sutra": "तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि", "sk": "अयं तूलः " }, { "id": "143", "adhikaar": "नपुंसकाधिकारः", "sutra": "शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालनिगलपलालबिडालखिलशूलाः पुंसि च ", "sk": "चात्क्लीबे । शीलं शीलः इत्यादि । " }, { "id": "144", "adhikaar": "नपुंसकाधिकारः", "sutra": "शतादिः संख्या ", "sk": "शतम् । सहस्रम् । शतादिरिति किम् ? एक द्वौ बहवः । सङ्ख्येति किम् ? शतशृङ्गो नाम पर्वतः । " }, { "id": "145", "adhikaar": "नपुंसकाधिकारः", "sutra": "शतायुतप्रयुताः पुंसि च", "sk": "अयं शतः । इदं शतम् इत्यादि । " }, { "id": "146", "adhikaar": "नपुंसकाधिकारः", "sutra": "लक्षा कोटिः स्त्रियाम्", "sk": "इयं लक्षा । इयं कोटिः । वा लक्षा नियुतं च तदित्यमरात् क्लीबेऽपि लक्षम् । " }, { "id": "147", "adhikaar": "नपुंसकाधिकारः", "sutra": "शङ्कुः पुंसि", "sk": "" }, { "id": "148", "adhikaar": "नपुंसकाधिकारः", "sutra": "सहस्रः क्वचित्", "sk": "अयं सहस्रः । इदं सहस्रम् । " }, { "id": "149", "adhikaar": "नपुंसकाधिकारः", "sutra": "मन्द्व्यच्कोऽकर्तरि", "sk": "मन्प्रत्ययान्तो द्व्यच्कः क्लीबः स्यान्न तु कर्तरि । वर्म । चर्म । द्व्यच्कः किम् - अणिमा । महिमा । अकर्तरि किम् ? ददातीति दामा । " }, { "id": "150", "adhikaar": "नपुंसकाधिकारः", "sutra": "ब्रह्मन् पुंसि च ", "sk": "अयं ब्रह्मा । इदं ब्रह्म ।" }, { "id": "151", "adhikaar": "नपुंसकाधिकारः", "sutra": "नामरोमणी नपुंसके", "sk": "'मन्द्व्यच्क' इत्यस्यायं प्रपञ्चः । " }, { "id": "152", "adhikaar": "नपुंसकाधिकारः", "sutra": "असन्तो द्व्यच्कः", "sk": "यशः । मनः । तपः । द्व्यच्कः किम् ? चन्द्रमाः । " }, { "id": "153", "adhikaar": "नपुंसकाधिकारः", "sutra": "अप्सराः स्त्रियाम्", "sk": "एता अप्सरसः । प्रायेणायं बहुवचनान्तः ।" }, { "id": "154", "adhikaar": "नपुंसकाधिकारः", "sutra": "त्रान्तः", "sk": "पत्रम् । छत्रम् । " }, { "id": "155", "adhikaar": "नपुंसकाधिकारः", "sutra": "यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव", "sk": "" }, { "id": "156", "adhikaar": "नपुंसकाधिकारः", "sutra": "भृत्रामित्रछात्रपुत्रमन्त्रवृत्रमेढोष्ट्राः पुंस", "sk": "अयं भृत्रः । " }, { "id": "157", "adhikaar": "नपुंसकाधिकारः", "sutra": "पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च ", "sk": "" }, { "id": "158", "adhikaar": "नपुंसकाधिकारः", "sutra": "बलकुसुमशुल्बपत्तनरणाभिधानानि", "sk": "बलं वीर्यम् ।" }, { "id": "159", "adhikaar": "नपुंसकाधिकारः", "sutra": "पद्मकमलोत्पलानि पुंसि च", "sk": "पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्तुः । अमरोऽप्याह वा पुंसि पद्मं नलिनमिति । एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरेण नेयः ।" }, { "id": "160", "adhikaar": "नपुंसकाधिकारः", "sutra": "आहवसङ्ग्रामौ पुंसि", "sk": "" }, { "id": "161", "adhikaar": "नपुंसकाधिकारः", "sutra": "आजिः स्त्रियामेव", "sk": "" }, { "id": "162", "adhikaar": "नपुंसकाधिकारः", "sutra": "फलजातिः", "sk": "फलजातिवाची शब्दो नपुंसकः स्यात् । आमलकम् । आम्रम् । " }, { "id": "163", "adhikaar": "नपुंसकाधिकारः", "sutra": "वृक्षजातिः स्त्रियामेव", "sk": "क्वचिदेवेदम् । हरीतकी ।" }, { "id": "164", "adhikaar": "नपुंसकाधिकारः", "sutra": "वियज्जगत्सकृत्शकन्पृषत्शकृद्यकृदुदश्वितः", "sk": "एते क्लीबाः स्युः ।" }, { "id": "165", "adhikaar": "नपुंसकाधिकारः", "sutra": "नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि ", "sk": "" }, { "id": "166", "adhikaar": "नपुंसकाधिकारः", "sutra": "श्राद्धकुलिशदैवपीठकुण्डाङ्काङ्गदधिसक्थक्ष्यास्यास्पदाकाशकण्वबीजानि", "sk": "एतानि क्लीबे स्युः ।" }, { "id": "167", "adhikaar": "नपुंसकाधिकारः", "sutra": "दैवं पुंसि च", "sk": "दैवम्, दैवः ।" }, { "id": "168", "adhikaar": "नपुंसकाधिकारः", "sutra": "धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि", "sk": "इदं धान्यमित्यादि" }, { "id": "169", "adhikaar": "नपुंसकाधिकारः", "sutra": "द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि", "sk": "" }, { "id": "170", "adhikaar": "नपुंसकाधिकारः", "sutra": "अक्षमिन्द्रिये", "sk": "इन्द्रिये किम् ? रथाङ्गादौ मा भूत् । इति नपुंसकाधिकारः ॥" }, { "id": "171", "adhikaar": "स्त्रीपुंसाधिकारः", "sutra": "स्त्रीपुंसयोः", "sk": "अधिकारोऽयम्" }, { "id": "172", "adhikaar": "स्त्रीपुंसाधिकारः", "sutra": "गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः", "sk": "इयं वा गौः । " }, { "id": "173", "adhikaar": "स्त्रीपुंसाधिकारः", "sutra": "मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः", "sk": "इयमयं वा मृत्युः ।" }, { "id": "174", "adhikaar": "स्त्रीपुंसाधिकारः", "sutra": "गुणवचनमुकारान्तं नपुंसकं च", "sk": "त्रिलिङ्गमित्यर्थः । पटु । पटुः । पट्वी ।" }, { "id": "175", "adhikaar": "स्त्रीपुंसाधिकारः", "sutra": "अपत्यार्थतद्धिते", "sk": "औपगवः । औपवगी । इति स्त्रीपुंसाधिकारः ॥" }, { "id": "176", "adhikaar": "पुंनपुंसकाधिकारः", "sutra": "पुंनपुंसकयोः", "sk": "अधिकारोऽयम् ।" }, { "id": "177", "adhikaar": "पुंनपुंसकाधिकारः", "sutra": "घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः", "sk": "अयं घृतः । इदं घृतम् ।" }, { "id": "178", "adhikaar": "पुंनपुंसकाधिकारः", "sutra": "शृङ्गार्घनिदाघोद्यमशल्यदृढाः", "sk": "अयं शृङ्गः । इदं शृङ्गम् ।" }, { "id": "179", "adhikaar": "पुंनपुंसकाधिकारः", "sutra": "वज्रकुञ्जकुथकूर्चप्रस्थदर्पार्भार्धर्चदर्भपुच्छाः", "sk": "अयं वज्रः । इदं वज्रम् ।" }, { "id": "180", "adhikaar": "पुंनपुंसकाधिकारः", "sutra": "कबन्धौषधायुधान्ताः", "sk": "स्पष्टम् ।" }, { "id": "181", "adhikaar": "पुंनपुंसकाधिकारः", "sutra": "दण्डमण्डखमशमसैन्धवपार्श्वाकाशकुशकाशाङ्कुशकुलिशाः", "sk": "एते पुंनपुंसकयोः स्तुः । कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जले - इति विश्वः । शलाकावाची तु स्त्रियाम् । तथा च <<जानपदकुण्ड...> [[4.1.42]] इति सूत्रेणायोचिकारे ङीषि कुशी । दारुणि तु टाप् । कुशा वानस्पत्याः स्थ ता मा पातेति श्रुतिः । <<अतः कृकमि...>> [[8.3.46]] इति सूत्रे कुशाकर्णीश्विति प्रयोगश्च । व्याससूत्रे च । हानी तूपायनशब्दे शेषत्वात्कुशाच्छन्द इति । तत्र शारीरकभाष्येऽप्येवम् । एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याङ्प्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः । " }, { "id": "182", "adhikaar": "पुंनपुंसकाधिकारः", "sutra": "गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च ।", "sk": "इति पुंनपुंसकाधिकारः ॥" }, { "id": "183", "adhikaar": "", "sutra": "अविशिष्टलिङ्गम्", "sk": "" }, { "id": "184", "adhikaar": "", "sutra": "अव्ययं कतियुष्मदः", "sk": "" }, { "id": "185", "adhikaar": "", "sutra": "ष्णान्ता सङ्ख्या", "sk": "शिष्टा परवत् । एकः पुरुषः । एका स्त्री । एकं कुलम् । " }, { "id": "186", "adhikaar": "", "sutra": "गुणवचनं च", "sk": "शुक्लः पटः । शुक्ला पटी । शुक्लं वस्त्रम् ।" }, { "id": "187", "adhikaar": "", "sutra": "कृत्याश्च", "sk": "" }, { "id": "188", "adhikaar": "", "sutra": "करणाधिकरणयोर्ल्युट् च", "sk": "" }, { "id": "189", "adhikaar": "", "sutra": "सर्वादीनि सर्वनामानि", "sk": "स्पष्टार्थेयं त्रिसूची ।" } ] }