{
"name": "mahabhashyam",
"ahnika" : 1,
"ahnika_name": "पस्पशाह्निकम्",
"data":
[
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 1,
"bhashya": "अथ शब्दानुशासनम् ।\nअथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते। शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम् ॥",
"pradeep": "सर्वाकारं निराकारं विश्वाध्यक्षमतीन्द्रियम् । सदसद्रूपतातीतमदृश्यं माययावृतैः ॥ १ ॥\nज्ञानलोचनसंलक्ष्यन्नारायणमजं विभुम् । प्रणम्य परमात्मानं सर्वविद्याविधायिनम् ॥ २ ॥\nपुरुषाः प्रतिपद्यन्ते देवत्वं यदनुग्रहात् । सरस्वतीं च तां नत्वा सर्वविद्याधिदेवताम् ॥ ३ ॥\nपदवाक्यप्रमाणानां पारं यातस्य धीमतः । गुरोर्महेश्वरस्यापि कृत्वा चरणवन्दनम् ॥ ४ ॥\nमहाभाष्यार्णवावारपारीणं विवृतिप्लवम् । यथागमं विधास्येऽहं कैयटो जैयटात्मजः ॥ ५॥\nभाष्याब्धिः क्वातिगम्भीरः क्वाहं मन्दमतिस्ततः ।\nछात्राणामुपहास्यत्वं यास्यामि पिशुनात्मनाम् ॥६॥\nतथापि हरिबद्धेन सारेण ग्रन्थसेतुना । क्रममाणः शनैः पारं तस्य प्राप्तोऽस्मि पङ्गुवत् ॥७॥\nमहाभाष्यकारो विवरणकारत्वात् व्याकरणस्य साक्षात्प्रयोजनमाह । अथ शब्दानुशासनमिति । प्रयोजनप्रयोजनानि तु रक्षोहादीनि पश्चाद्वक्ष्यन्ते ॥ \nस्ववाक्यं व्याख्यातुं तदवयवमथशब्दं तावद् व्याचष्टे । अथेत्ययमिति । इतिशब्दोऽथशब्दस्य स्वरूपेऽवस्थापनाय प्रयुक्तः । एवं हि पदान्तरैः सामानाधिकरण्येन सम्बन्धे सति ‘अथ’शब्दो व्याख्यातुं शक्यते । स्वरूपेऽवस्थितश्च सर्वनाम्ना परामृश्यते- ‘अयं’ इति ॥ शब्द इति स्वरूपकथनं विस्पष्टप्रतिपत्त्यर्थम् ॥ अधिकारार्थ इति । अधिकारः प्रस्तावः, द्योत्यत्वेनास्य प्रयोजनमित्यर्थः । निपातानां च द्योतकत्वं वाक्यपदीये निर्णीतम् ॥ अथशब्दस्याधिकारार्थत्वे यो वाक्यार्थः संपद्यते तं दर्शयति - शब्दानुशासनमिति । अनेकक्रियाविषयस्यापि शब्दानुशासनस्य प्रारभ्यमाणता अथशब्दसन्निधाने प्रतीयते । व्याकरणस्य चेदमन्वर्थं नाम – ‘शब्दानुशासनम्’ इति । अत्र चाचार्यस्य कर्तुः प्रयोजनाभावादनुपादानादुभयप्राप्त्यभावात् न ‘उभयप्राप्तौ कर्मणि’ इत्यनेन षष्ठी, अपि तु ‘कर्तृकर्मणोः कृति’ इत्यनेनेति ‘कर्मणि च’ इति समासप्रतिषेधाप्रसङ्गात् इध्मप्रव्रश्चनादिवत् समासः ।",
"uddyot": "नत्वा साम्बशिवं देवीं वागधिष्ठानिकां गुरून् ।\nपाणिन्यादिमुनीन् वन्द्यान् पितरौ च सतीशिवौ ॥१॥\nनागेशभट्टो नागेशभाषितार्थविचक्षणः । हरिदीक्षितपादाब्जसेवनावाप्तसन्मतिः ॥२॥\nयाचकानां कल्पतरोररिकक्षहुताशनात् । शृङ्गवेरपुराधीशाद्रामतो लब्धजीविकः ॥३॥\nनाविस्तीर्णं न विस्तीर्णं मध्यानामपि बोधकृत् । भाष्यप्रदीपव्याख्यानं कुर्वेऽहन्तु यथामति ॥ ४\nभाष्यं व्याचिकीर्षुः शिष्टाचारप्राप्तं मङ्गलं शिष्यशिक्षायै निबध्नाति - सर्वेति । क्त्वान्तानां पञ्चमश्लोकोत्तरार्द्धेनान्वयः । सर्वाकारत्वं सर्वोपादानकारणत्वान्मृदादिवत् । कार्यातिरिक्तदृश्यस्वरूपाभावात् - निराकारत्वम् । कर्तृत्वात् - विश्वाध्यक्षत्वम् । ‘स ऐक्षत’ इति श्रुतेः । अतीन्द्रियत्वं – विगतेन्द्रियत्वेन, ‘पश्यत्यचक्षुः’ इत्यादिश्रुतेः । सर्वप्रत्यक्षीकरणं तु स्वरूपचैतन्येनैव ॥ इन्द्रियाविषयत्वेन वाऽतीन्द्रियत्वम् । सदसद्रूपता प्रपञ्चधर्मः । एतच्च स्त्रियामिति सूत्रे वक्ष्यते । तामतीतं, तद्रहितमित्यर्थः। एवं च सदेवेति भावः। नन्वीदृशमस्माभिः कुतो न गृह्यत इत्यत आह । अदृश्यमित्यादि ॥१॥ माययावृतैरित्यस्य कृत्यमाह - ज्ञानेति । तत्त्वमस्यादिमहावाक्यजनिताखण्डाद्वितीयसच्चिदानन्दब्रह्माकारा वृत्तिः ज्ञानं तदेव लोचनं, तेन संप्रेक्ष्यमित्यर्थः । नारायणमित्यादि। सर्वनरसमूहान्तर्यामिणमित्यर्थः । सर्वविद्या - वेदरूपा, तद्विधायिनम् ॥२॥ वचनसन्दर्भविशेषरूपग्रन्थे समुचितत्वाद्वागधिदेवतां नमति - पुरुषा इति । देवत्वम् – पाण्डित्यम् ॥३॥ संप्रदायशुद्धिं द्योतयन् गुरुं नमति - पदेति। व्याकरणतर्कमीमांसानामित्यर्थः ॥ धीमतः - ऊहापोहकुशलस्य ॥४॥ महाभाष्येति । व्याख्यातृत्वेऽप्यस्येष्ट्यादिकथनेनान्वाख्यातृत्वादितरभाष्यवैलक्षण्येन महत्त्वम् ॥ अवारपारयोर्भवम् । प्लूयतेऽनेनेति प्लवं- सेतुम् ॥ यथागमम् । संप्रदायमनतिलङ्घ्येत्यर्थः ॥५॥ औद्धत्यं परिहरति - भाष्येति । मयूरव्यंसकादिसमासो रूपकं चेति बोध्यम् ॥ पिशुनत्वम् - दुष्टत्वम् ॥६॥ नन्वेवं कथं प्रवृत्तिरत आह - तथापीति । तत्रत्यसारांश एवात्र निबद्ध इति भावः ॥ शनैरित्यनेनात्यन्तग्रन्थासङ्कोचः । पङ्गुवदित्यनेन व्याख्येयांशापरित्यागो व्याख्यानस्याविस्तृतत्वञ्च बोध्यते ॥७॥\nयद्यपि पाणिनिना 'ब्राह्मणेन निष्कारणः' इत्यादिश्रुतेः सन्ध्योपासनादाविव प्रत्यवायपरिहारार्थितयैवोत्तमाधिकारिप्रवृत्तिसम्भवात् प्रयोजनं नोक्तम् । वार्तिककृतापि ‘शास्त्रपूर्वके प्रयोगे धर्मः’ इत्यनेन मध्यमाधिकारिणः परमप्रयोजनं दर्शितम् । भगवांस्तु विवरणकारत्वान्मन्दाधिकारिणां प्रवृत्तेः प्ररोचकप्रयोजनप्रतिपत्तिप्रवणत्वात् व्यवहितेषु स्वर्गापूर्वादिष्वनाश्वासात्साक्षात्प्रयोजनं शब्दव्युत्पत्तिलक्षणं वदतीत्याह । भाष्यकार इति । तत्र शब्दज्ञानरूपे प्रयोजने उक्ते विषयोऽप्युक्त एव । शास्त्रजन्यज्ञानविषयस्यैव शास्त्रविषयत्वात् - इति बोध्यम् । तज्जिज्ञासुरधिकारी प्रतिपाद्यप्रतिपादकभावः संबन्ध इति - अर्थादेव लब्धम् । ननु ‘कानि पुनर्’ इत्यादिना प्रयोजनानि वक्ष्यति, तेन पौनरुक्त्यमत आह- साक्षादिति ॥ तदेवाह - प्रयोजनप्रयोजनानीति । व्याख्यातुमित्यस्य शब्दानुशासनमित्यादिना - इति शेषः ॥ तावत् - प्रथमम् ॥ व्याचष्टे इति । पदार्थज्ञानायानन्तर्याद्यर्थकत्वनिरासाय चेति शेषः । भाष्यत्वादेव च स्ववाक्यव्याख्यानमिति भावः ॥ नन्वितिं विनाऽप्यथशब्दोऽधिकारार्थ इत्येवोच्यतामत आह - एवं हीति । पदान्तरैः - शब्दपदमधिकारार्थपरं प्रयुज्यत इति पदैः ॥ व्याख्यातुमिति। अधिकारार्थत्वेनेति शेषः । ‘अथेति शब्दोऽधिकारार्थः’ इत्युक्ते आनन्तर्याद्यर्थकत्वमप्रमाणमिति भ्राम्येदतः ‘अयम्’ इति भाष्ये। योऽयमस्मिन् वाक्ये स इत्यर्थः । विस्पष्टेति । ‘नवेति' - इत्यादावर्थपरताया दर्शनेन तथा भ्रमं निवर्तयितुमित्यर्थः ॥ ननु निपातानां द्योतकत्वादभिधेयवाच्यर्थशब्दोऽनुपपन्नोऽत आह॥ अधिकार इति ॥ प्रस्ताव इति । प्रारम्भ इत्यर्थः । स चार्थाद्व्याख्यायमानस्य । अर्थशब्दः प्रयोजनवाचीति भावः । निपातानाञ्च द्योतकत्वमिति । निपातानां द्योतकत्वं चेत्यर्थः । उपसर्गातिरिक्तनिपातानां द्योतकत्ववाचकत्वोभयस्वीकारस्य ‘अव्ययं विभक्ति-' इति सूत्रे भाष्ये स्पष्टत्वात् । उपसर्गाणां तु द्योतकत्वमेवेति स्पष्टं ‘गतिर्गतौ’ इति सूत्रे भाष्ये - इति तत्रैव निरूपयिष्यामः । अत एव ‘साक्षात्क्रियते गुरुः’ इत्यादि सङ्गच्छते ॥ प्रारम्भक्रियाविषयत्वद्योतकस्यापि अथशब्दस्यान्यार्थं नीयमानदध्यादिवत् मङ्गलत्वमपीत्युभयार्थमथशब्दः प्रयुज्यत इति फलितम् ॥ परे त्वत्र वाचकत्वमेवेच्छन्ति । ‘अधिकृतं’ इति च तदर्थं वदन्ति । भाष्ये ‘प्रयुज्यते’ इत्यनेन वर्तमाननिर्देशेन सर्वलोकसिद्धमस्याधिकारार्थत्वं, न तु वृद्ध्यादिवत्पारिभाषिकमिति ध्वनितम् ॥ ननु विवरणे ‘अधिकृतम्’ इत्यधिकं, वाचकपदाभावात्, द्योतकतानुपपत्तिश्च - इत्यत आह - अनेकेति । उच्यते – श्रूयते - क्रियते - इति ॥ प्रतीयत इति । एतावतैव द्योतकत्वमिति भावः ॥ ननु भावसाधनस्यानुशासनपदस्य शास्त्रपदेन सामानाधिकरण्यमनुपपन्नमत आह ॥ व्याकरणस्य चेति । अन्वर्थत्वात्प्रयोजनाभिधानोपपत्तिः । अनुशिष्यन्ते - असाधुशब्देभ्यो विविच्य ज्ञाप्यन्तेऽनेनेति करणल्युडन्ततया शास्त्रपदेन सामानाधिकरण्यमिति भावः । इदमेव ध्वनयितुं भाष्ये नामपदोपादानम् । नामनामिनोरभेदात् ‘नाम - शास्त्रम्’ इति सामानाधिकरण्यम् । अनेनैवापभ्रंशानामविषयत्वं सूचितं ध्वनीनां च ॥ ‘केषाम्-‘ इति प्रश्नस्तु किं लौकिकमात्रविषयं शाकटायनादिशास्त्रमधिकृतम्, उत वैदिकमात्रविषयं प्रातिशाख्यम् – इति - इति परे । ननु ‘कर्मणि च’ इति निषेधात्कथं कर्मषष्ठयन्तेन समासोऽत आह - अत्र चाचार्यस्येति । उभयोपादान एवोभयप्राप्तिरिति ‘आत्ममाने-‘ इति सूत्रे भाष्ये स्पष्टम् । ‘कर्तृकर्मणोः-‘ इति षष्ठ्यामपि समासनिषेधः कुतो नेत्यत आह - इध्मेति । चस्य - इति-अर्थकतया कर्मणीत्युच्चार्य विहितषष्ठ्यैव समासनिषेध इति भावः ॥ भाष्ये शास्त्रमित्यस्य ‘कर्तव्यत्वेन’ इति शेषः । विवरणकारत्वात् व्याख्यातव्यत्वेन इति शेष उचित इत्यन्ये । शास्त्रत्वं चास्य साधुत्वरूपैकप्रयोजनसंबद्धत्वाद्बोध्यम् ।"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 2,
"bhashya": "केषां शब्दानाम्?",
"pradeep": "शब्दशब्दस्य सामान्यशब्दत्वात् विना प्रकरणादिना विशेषेऽवस्थानाभावात् तन्त्रीशब्द-काकवाशितादीनामपि अनुशासनप्रसङ्ग इति मत्वा पृच्छति । केषामिति । उत्तरपदार्थान्तर्गतस्यापि पूर्वपदार्थस्य बुद्ध्या प्रविभागात् किमा प्रत्यवमर्शः । यथा राजपुरुष इत्युक्ते ‘कस्य राज्ञः?’ इति",
"uddyot": "सामान्यशब्दत्वादिति । लोकव्यवहारे ध्वनावपभ्रंशे च शब्दशब्दप्रयोगादिति भावः ॥ एतेन ध्वनिव्यङ्ग्य एव तपरसूत्रादौ शब्दशब्दप्रयोगादिदं चिन्त्यमित्यपास्तम् ॥ ननु ‘व्रीहीन् प्रोक्षति’ इत्यादौ सामान्यशब्दस्याप्यपूर्वीयेषु विशेषेषु प्रवृत्तिवत् वाचके साधौ तद्विशेषे प्रवृत्तिर्भविष्यतीत्यत आह – विनेति । व्रीहिशब्दस्य तु प्रकरणाद्विशेषे प्रवृत्तिरिति भावः । वाशितादीनामिति - आदिनाऽपभ्रंशसङ्ग्रहः॥ उत्तरपदार्थसंसृष्टपूर्वपदार्थस्य कथं सर्वनाम्ना परामर्शोऽत आह - उत्तरपदार्थान्तर्गतस्येति । ततः पृथगुपस्थित्यविषयस्येत्यर्थः ॥ बुद्ध्या - मानस्या । यद्वा वाक्यजन्यबुद्ध्या ॥"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 3,
"bhashya": "लौकिकानां वैदिकानां च। \nतत्र लौकिकास्तावत् – गौः- अश्वः- पुरुषः- हस्ती- शकुनिः- मृगः- ब्राह्मण इति ॥ \nवैदिकाः खल्वपि- शन्नो देवीरभिष्टये (अ.सं.1,1,1), इषे त्वोर्जे त्वा (तै.सं.1,1,1,1), अग्निमीळे पुरोहितम् (ऋ.सं.1,1,1), अग्न आयाहि वीतये (सा. सं. 1,1,1) इति ॥",
"pradeep": "सिद्धान्तवादी तु व्याकरणस्य वेदाङ्गत्वात् सामर्थ्याद्विशेषावगतिरिति मत्वाऽऽह - लौकिकानामिति । लोके विदिता इति ‘लोकसर्वलोकाभ्याम्’ इति ठञ् । अथवा भवार्थे अध्यात्मादित्वात् ठञ् । एवं वेदे भवाः - वैदिकाः । वैदिकानामपि लौकिकत्वे प्राधान्यख्यापनाय पृथगुपादानम् । यथा - ब्राह्मणा आयाता वसिष्ठोऽप्यायात इति वसिष्ठस्य । तेषां तु प्राधान्यं यत्नेनापभ्रंशपरिहारात् । अथवा भाषाशब्दानामेव लौकिकत्वमिति भेदेन निर्देशः ॥ तत्र लोके पदानुपूर्वीनियमाभावात् पदान्येव दर्शयति - गौरश्व इति । वेदे तु आनुपूर्वीनियमाद् वाक्यान्युदाहरति । शन्न इति ॥",
"uddyot": "वेदाङ्गत्वादिति । तत्त्वं चागमसिद्धम् । अनेन तन्त्रीशब्दादीनामविषयता सूचिता ॥ न च वेदाङ्गत्वाद्वैदिका एव विषयाः स्युः । तत्र तत्र ‘भाषायां’ ‘छन्दसि’ इत्याद्युक्त्योभयोरपि विषयत्वात् ॥ ननु चिदानन्दस्वरूपब्रह्मातिरिक्तस्य सर्वस्य लोकपदार्थत्वात् वेदस्यापि लोकान्तर्गतत्वात् भेदेनाभिधानं न युज्यत इत्यत आह - वैदिकानामिति । ‘वैदिकानां लौकिकत्वेऽपि’ इति पाठः ॥ तेषां त्विति। लौकिकानां याज्ञे कर्मण्येव तत्परिहारः, तेषां तु सर्वत्रेति भावः ॥ भाषाशब्दानामिति । भाषा – प्रयोज्यप्रयोजकवृद्धव्यवहारः, तत्र प्रयुज्यमानानामित्यर्थः । एवञ्च वेदमात्रान्तर्गतकर्णेभिर्देवासो गृभ्णामीत्याद्यतिरिक्तपरता लौकिकशब्दस्य, तैस्तद्व्यवहारादर्शनात् । अत एव ‘गौरश्वः’ इत्यादीनां लौकिकोदाहरणत्वसङ्गतिः । लोके स्वरानादरात् वेदे तदादराच्च स्वरविशिष्टानां वेदमात्रविषयतामभिप्रेत्य शन्न इत्यादीनां वैदिकोदाहरणत्वसङ्गतिरिति भावः ॥ [भाष्ये - लौकिकास्तावदिति । तावच्छब्दोऽनुक्रमे । पूर्वं लौकिका उदाह्रियन्ते, पश्चाद्वैदिका इत्यर्थः । वैदिकानां प्रधानत्वेऽपि लौकिकानां पूर्वनिर्देशस्तद्वदादरसूचनार्थः॥] लोके पदानामुदाहरणत्वोक्तौ वेदे वाक्यानामेव तत्त्वोक्तावाशयमाह - तत्रेति । पदान्तरसमभिव्याहारेण स्वरविशेषाच्च वेदे वाक्यानामुदाहरणत्वोक्तिरित्यपि बोध्यम् ॥ लोकवेदसाधारणतया पाणिनीयशब्दानुशासनस्यैवात्राधिकृतत्वं, न तु शाकटायनादिव्याकरणस्येत्युत्तराशयं परे ॥"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 4,
"bhashya": "अथ गौरित्यत्र कः शब्दः?",
"pradeep": "‘अयं गौः - अयं शुक्लः’ इति शब्दार्थयोरभेदेन लोके व्यवहारदर्शनात् शब्दस्वरूपनिर्धारणाय पृच्छति - अथेति । गौः इति विज्ञाने प्रतिभासमानेषु वस्तुषु कः शब्द इत्यर्थः ॥ तान्येव वस्तूनि क्रमेण दर्शयति ।",
"uddyot": "अभेदेन लोके इति । अभेदेनैवेत्यर्थः । शब्दपरत्वाभिप्रायेण ‘अस्य गौः’ इति प्रयोगाभावादिति भावः । पुरोवर्तिव्यक्तिं पश्यतो वाचकजिज्ञासया कोऽयमिति प्रश्ने ‘अयं गौः’ ‘अयं वर्णः शुक्लः’ इत्युत्तरस्थले संनिहितमुद्दिश्य तादात्म्येन शब्दविधेयताप्रतीतेरिति तात्पर्यम् ॥ शब्दार्थयोस्तादात्म्यमेव शक्तिः । स्पष्टञ्चेदं पातञ्जलभाष्ये इति मञ्जूषायामस्माभिर्हर्यादिसंमततया व्युत्पादितम् । अत एव जात्यादिव्यक्त्योरिव 'रामेति द्व्यक्षरं नाम मानभङ्गः पिनाकिनः' इत्यादौ शब्दार्थयोरपि अभेदेन व्यवहारः ॥॥ (अथ गौरिति) भाष्ये । ‘अथ’ इत्यस्य ‘पृच्छ्यते’ इति शेषः ॥ किं पृच्छ्यते, तदाह - गौरित्यत्रेत्यादि ॥ (कः शब्द इति)। कः शब्दशब्दाभिधेय इति प्रश्नः ॥ प्रतिभासमानेषु - शब्दजातिव्यक्त्यादिषु । नन्वेवं गुणक्रिययोः शब्दत्वाशङ्कानुपपन्ना । नहि ते अपि ‘गौः’ इति शब्दजन्यबोधे भासेते इति चेन्न। गुणगुणिनोः क्रियाक्रियावतोश्चाभेदात् । शब्दार्थयोश्च तत्त्वात् ‘तदभिन्नाभिन्नस्य’ इति न्यायेन तच्छङ्कोपपत्तेः । यथा परमकारणाभिन्नकार्यकारणकस्य परमकारणेनाप्यभेदः । यद्वा ‘गुणसमूहो द्रव्यम्’ इति पक्षे ‘तस्य भावः’ इति सूत्रस्थभाष्यसंमते समूहस्य गोशब्दवाच्यत्वेऽवयवभूतगुणादीनामपि तद्वाच्यत्वमिति शङ्का बोध्या। अत्र ‘गौरिति विज्ञाने’ इति सामान्योक्त्या तदाकारप्रत्यक्षादिज्ञानेऽपि गुणादीनां सामान्यरूपेण भानम् । अत एव प्रत्यक्षदृष्टेऽपि आम्रफलादौ रसविशेषादिजिज्ञासा, विशेषजिज्ञासायाः सामान्यज्ञानपूर्वकत्वात् - इत्यन्ये । निरूपितं चैतन्मञ्जूषायाम् ॥"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 5,
"bhashya": "किं यत्तत्सास्ना-लाङ्गूल-ककुद-खुर-विषाण्यर्थरूपं, स शब्दः ?",
"pradeep": "किं यत्तदिति । उद्दिश्यमान-प्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददते इति कामचारतः ‘स शब्दः’ इति पुंलिङ्गेन निर्देशः ॥",
"uddyot": "‘यत्तत्’ इति समुदायो यद्वृत्तार्थे वर्तते तस्यैव पुनस्तद्वृत्तेन ‘सः’ इत्यनेन परामर्शः । यद्वा प्रसिद्धौ । ननु ‘यत्’ इत्यस्य नपुंसकत्वेन तच्छब्देऽपि नपुंसकलिङ्गमेवोचितमत आह - उद्दिश्यमानेति । सिद्धवत्कीर्तनमुद्देशः । प्रतिपाद्यतया विधेयतया वा कीर्तनं प्रतिनिर्देशः । यथा 'शैत्यं हि यत्सा प्रकतिर्जलस्य' इत्यादौ स्त्रीलिङ्गनिदेशः ॥ तल्लिङ्गमिति॥ तयोर्लिङ्गमित्यर्थः ॥"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 6,
"bhashya": "नेत्याह। द्रव्यं नाम तत् ॥",
"pradeep": "नेत्याहेति । भिन्नेन्द्रियग्राह्यत्वान्न द्रव्यं शब्द इति प्रतीतम्, अपि तु द्रव्यम् - इति । यदि हि द्रव्यानुशासनं विवक्षितमभविष्यत् ‘अथ द्रव्यानुशासनम्’ इत्येवावक्ष्यत् ॥",
"uddyot": "भाष्योक्तहेतुमुपपादयति - भिन्नेन्द्रियेति । सामान्यव्यक्त्यतिरिक्तत्वे सति श्रोत्रेन्द्रियग्राह्यत्वं हि शब्दलक्षणमिति भावः॥ यदि च द्रव्येति । यदि द्रव्यं शब्दशब्दाभिधेयं स्यादित्यर्थः । तथा हि सति द्रव्यादीनां तन्त्रान्तरे निरूपितत्वात्तस्य वैयर्थ्यापत्तिरित्यपि बोध्यम् ॥ तत्र द्रव्यस्य क्रियाद्याश्रयत्वात्पूर्वमुक्तिः । क्रियागुणौ च जात्याश्रयाविति तयोस्ततः पूर्वमुक्तिः । वैशेषिकसिद्धगुणानामपि संख्यासंयोगविभागादीनां क्रियात्वं ध्वनयितुं गुणात्प्राक् क्रियोक्तिरिति ध्येयम् । यत्तर्हि शुक्ल इत्यादि गुणस्य शब्दत्वशङ्कापरे वाक्ये ‘इति’ शब्देन प्रकारार्थेन सुरभ्यादिभेदभिन्नं गन्धादिलिङ्गसङ्ख्यादिरूपगुणसङ्ग्रह इति न न्यूनता ॥ ननु शब्दस्यापि गुणत्वाद् ‘गुणो नाम सः’ इत्युत्तरमसङ्गतम्। तस्य द्रव्यत्वे ‘द्रव्यं नाम तत्’ इत्युत्तरासङ्गतिरिति चेत्, न । ‘उक्तद्रव्याश्रितो गुणो नाम सः’ इत्यर्थात् ॥"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 7,
"bhashya": "यत्तर्हि तदिङ्गितं चेष्टितं निमिषितमिति, स शब्दः? \nनेत्याह। क्रिया नाम सा ॥",
"pradeep": "अनेनैव न्यायेन गुणक्रियासामान्यानां निराकृतेऽपि शब्दत्वे प्रपञ्चार्थं तच्चोद्यपूर्वकं निराकरोति - यत्तर्हीति । गोशब्दार्थे चैषां संभवात् शब्दत्वमाशङ्कते । परिहारस्तु पूर्ववत् ॥ तत्रेङ्गितम् - अभिप्रायस्य सूचकः शरीरव्यापारः । चेष्टितं - कायपरिस्पन्दः । निमिषितम् - अक्षिव्यापारः ॥",
"uddyot": "श्रोत्राग्राह्यत्वादेव क्रियादीनां शब्दत्वे निरस्ते किमुत्तरग्रन्थेनेत्यत आह - अनेनैवेति ॥ गोशब्दार्थे चैषां सम्भवादिति । अभेदसम्भवात्तेन ‘तदभिन्नाभिन्नस्य तदभिन्नत्वम्’ इति न्यायेन शब्दत्वाशङ्का तेषामिति भावः ॥ यद्वा गोशब्दार्थे गुणसमूहे समूहितया एषां सम्भवादित्यर्थः ॥ शारीरव्यापारः - रोमाञ्चादिः ॥"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 8,
"bhashya": "यत्तर्हि तच्छुक्लो नीलः कपिलः कपोत इति, स शब्दः? \nनेत्याह। गुणो नाम सः ॥",
"pradeep": " शुक्लो नील इति । द्रव्यस्य प्रागुपन्यासाद्गुणमात्राभिधायिनोऽत्र शुक्लादयो द्रष्टव्याः ॥",
"uddyot": ""
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 9,
"bhashya": "यत्तर्हि तद्भिन्नेष्वभिन्नं छिन्नेष्वच्छिन्नं सामान्यभूतं स शब्दः ?\nनेत्याह। आकृतिर्नाम सा ॥",
"pradeep": " भिन्नेष्वभिन्नमिति । अनेन सामान्यस्य ‘एकत्वं’ कथ्यते । ‘छिन्नेष्वच्छिन्नमिति’ । अनेन तु ‘नित्यत्वम्’ । सामान्यभूतमिति । सत्ताख्यं महासामान्यं गोत्वादेः सामान्यस्योपमानं निर्दिष्टम् । सामान्यमिव - सामान्यभूतम् । भूतशब्द उपमार्थे, यथा- पितृभूत इति ।",
"uddyot": " एकत्वमिति । अनेकसमवेतत्वस्याप्युपलक्षणम् । नित्यत्वेन संयोगनिरासः । एकत्वेन प्रत्यभिज्ञाप्रत्यक्षरूपं प्रमाणं दर्शितम् ॥ भूतशब्दप्रयोगानुपपत्तिं परिहरति - सत्ताख्यमिति । एवं हि ‘वृक्षवदाम्रः’ इत्याद्यापत्तेः, सामान्यश्रुतेः सर्वसामान्यविषयत्वेन प्रवृत्तायाः सङ्कोचे कारणाभावाच्च, उपमाकथनस्य प्रकृतेऽनुपयोगाच्च, अध्याहारे गौरवाच्च - नेदं युक्तम् । किं तु स्वरूपवाची सः । वृद्धिसंज्ञासूत्रस्थभाष्यप्रयोगस्य ‘प्रमाणभूतः’ इत्यस्य स्वयं करिष्यमाण व्याख्यानरीत्याऽस्यापि व्याख्यानसम्भवात् ॥ पितृभूतः इत्यत्रापि ‘अन्यत्रान्यशब्दप्रयोगः सादृश्यपर’ इति सादृश्यप्रतीतिः, न त्वस्य सादृश्यवाचकत्वे मानमस्तीति दिक् ॥ भाष्ये (आकृतिः)- जातिः संस्थानं च, आक्रियते - व्यवच्छिद्यते स्वाश्रयोऽनयेति व्युत्पत्तेरिति भावः ॥ शङ्कापरभाष्ये ‘सामान्यभूतम्’ इत्यस्य तद्व्यञ्जकं चेत्यप्यर्थो बोध्यः ॥ जातिमात्रपरत्वे ‘जात्याकृतिव्यक्तयः पदार्थः’ इति गौतमसूत्रेण तस्यापि पदार्थत्वबोधनात् प्रत्यक्षादौ तद्भानाच्च तस्य शब्दत्वाशङ्का तत्समाधानाभावेन न्यूनता स्यात् ॥ ‘सिद्धे शब्दार्थ-' इति वार्त्तिकव्याख्याने भाष्ये तस्या अपि पदार्थत्वं नित्यत्वञ्च कैयटो वक्ष्यति। ‘तदभिन्नाभिन्नस्य तदभिन्नत्वम्’ इति न्यायस्तु यत्र स्वाभिन्नद्वारकः स्वस्वरूपानुगमस्तद्विषयः । यथा परमकारणकार्योपादानके परमकारणाभेदः । अत एव सुखदुःखयोर्नैक्यम् । नापि कुण्डलकटकयोस्तत् । कुण्डलारम्भकस्वर्णावयवानुगमस्य कटकेऽभावात् । एवं गुणसमूहस्यानुभूतावयवभेदस्य वाच्यत्वेऽपि समूहिनां तत्तद्रूपेणावाच्यत्वान्न तेषां शब्दत्वाशङ्केति भावः ॥"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 10,
"bhashya": "कस्तर्हि शब्दः?\nयेनोच्चारितेन सास्ना-लाङ्गूल-ककुद-खुर-विषाणिनां सम्प्रत्ययो भवति, स शब्दः ॥",
"pradeep": "द्रव्यादिषु निरस्तेषु पृच्छति - कस्तर्हीति ॥ उत्तरमाह - येनोच्चारितेनेति । वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वा वाचकत्वमिच्छन्ति । वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गात् । आनर्थक्ये तु प्रत्येकमुत्पत्तिपक्षे यौगपद्येनोत्पत्त्यभावात् , अभिव्यक्तिपक्षे तु क्रमेणैवाभिव्यक्त्या समुदायाभावात् । एकस्मृत्युपारूढानां वाचकत्वे ‘सरः’ ‘रसः’ इत्यादावर्थप्रतिपत्त्यविशेषप्रसंगात् तद्व्यतिरिक्तस्फोटो नादाभिव्यङ्ग्यो वाचको विस्तरेण वाक्यपदीये व्यवस्थापितः । उच्चारितेन - प्रकाशितेनेत्यर्थः ॥",
"uddyot": " पृच्छतीति । प्रश्नविषयविशेषान्तराभावात् सामान्यरूपेण पृच्छतीत्यर्थः ॥ भाष्ये (उच्चारितेनेति) । शारीरमारुताभिहतकण्ठादिस्थानैरवयवद्वाराभिव्यक्तेन येनेत्यर्थः । अत्र विषाणान्तैरवयवैर्गुणादयोऽप्युपलक्ष्यन्ते ॥ संप्रत्ययः - ज्ञानम् ॥ ननु प्रत्यायकशब्दस्य वर्णसमूहरूपतया ‘येन’ इत्येकवचनमयुक्तम् । न च ‘वनम्’ इतिवत् समूहाभिप्रायं तत्, समूहस्य स्थिरस्य निरूपयितुमशक्यत्वादत आह - वैयाकरणा इति ॥ वर्णव्यतिरिक्तपदानभ्युपगमे एकैकस्य वर्णस्य वाचकत्वं, समूहस्य वा, नाद्य इत्याह - वर्णानां प्रत्येकमिति॥ द्वितीयमनूद्य दूषयति - आनर्थक्ये तु प्रत्येकमिति । प्रत्येकमानर्थक्ये तु समुदायस्य वाचकत्वमुपेयम्, तत्तु न युक्तम् - इति शेषः । यतस्तत्र नयद्वयम् – उत्पद्यमानसमुदायस्य - अभिव्यज्यमानसमुदायस्य वा वाचकत्वमिति | तत्राद्यं दूषयति - उत्पत्तिपक्षे इति । ‘उत्पत्त्यभावात्’ इत्यस्य ‘समुदायाभावात्’ इत्यनेनान्वयः । द्वितीयं दूषयति - अभिव्यक्तीति। उत्पन्नाभिव्यक्तेर्ध्वस्तत्वादित्यर्थः । ननु पक्षद्वयेऽपि पूर्वपूर्ववर्णानुभवजसंस्कारसहकृतान्त्यवर्णानुभवहेतुकैकस्मृत्युपारूढानां वाचकत्वमस्त्वत आह - एकस्मृतीति ॥ ननु तस्य नित्यत्वे सर्वदार्थप्रतीतिप्रसङ्गोऽत आह - नादेति । नादः - वर्णः ॥ ननु येन क्रमेणानुभूता वर्णास्तेनैव क्रमेणैकस्मृत्युपारूढानां वाचकत्वेन नार्थप्रतीत्यविशेषप्रसङ्गः, अन्यथा त्वयापि वर्णानां स्फोटव्यञ्जकत्वाभ्युपगमात् कथं पूर्वोक्तदोषान्निस्तारस्तवापीत्यत आह - विस्तरेणेति । इदम् - ‘एकं पदम्’ ‘एकं वाक्यम्’ इति प्रत्ययः स्फोटसत्त्वे तदैक्ये च प्रमाणम् । अनुभवक्रमेणैव स्मरणमित्यर्थे दृढप्रमाणाभावाच्च । क्रमेणानुभूतानां व्युत्क्रमेणापि स्मरणदर्शनात् । मम तु यथा पटे नानारञ्जकद्रव्याहितनानावर्णोपरागः क्रमेण, तथा एकस्मिन्नेव तस्मिन्नुच्चारणक्रमेण क्रमवानेव तत्तद्वर्णस्वरूपानुरागः, स च स्थिरस्तस्य च मनसा ग्रहणमिति न दोषः ॥ तत्र ‘येन’ इत्येकवचनेन ‘विषाणिनाम्’ इति बहुवचनेन चानेकोच्चारणविषयगौरित्यस्यैकत्वं सूचितम् । एवञ्च तेनैव दृष्टान्तेन घटपटादिबोधकसाधारण्येन वाचकस्यैकत्वं सूचितम् । भेदप्रत्ययस्त्वौपाधिक इत्याद्यस्मत्कृतमञ्जूषायां शक्तिवादे द्रष्टव्यम् । नन्वेवं तस्य ताल्वोष्ठपुटव्यापारविषयत्वाभावात् ‘उच्चारितेन’ इत्ययुक्तमत आह - प्रकाशितेनेति । अभिव्यञ्जकैरिति शेषः ॥"
},
{
"adhikarana_id": 1,
"adhikarana_name": "शब्दस्वरूपनिर्णयाधिकरणम्",
"chunk_id": 11,
"bhashya": "अथवा प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते। तद्यथा- शब्दं कुरु, मा शब्दं कार्षीः, शब्दकार्ययं माणवकः, इति ध्वनिं कुर्वन्नेवमुच्यते। तस्माद् ध्वनिः शब्दः ॥",
"pradeep": " अथवेति । अन्यत्र ध्वनिस्फोटयोर्भेदस्य व्यवस्थापितत्वादिहाभेदेन व्यवहारेऽपि न दोषः, द्रव्यादयो न शब्दशब्दवाच्या इत्यत्र तात्पर्यात् ॥ ध्वनिं कुर्वन्निति । विधिनिषेधयोरप्रवृत्तविषयत्वात् कथमस्य त्रिभिः सम्बन्धः ? उच्यते - शब्दं कुर्वन्नपि शब्दं कुरु इत्युच्यते विरामाशङ्कायां तन्निवृत्तये । तथाऽनभिमतशब्दश्रवणोद्वेजितेनोच्यते - मा शब्दं कार्षीरिति ॥",
"uddyot": "भाष्ये (अथवा प्रतीतपदार्थक इति) । लोके व्यवहर्तृषु पदार्थबोधकत्वेन प्रसिद्धः श्रोत्रेन्द्रियग्राह्यत्वाद्वर्णरूपध्वनिसमूह एव शब्द इत्यर्थः । तस्यार्थबोधकताऽप्यविचारितरमणीयस्यैव लोके सिद्धा, तादृशस्यैव शास्त्रेणान्वाख्यानमिति तात्पर्यम् । तदाह - अन्यत्रेति । संग्रहादौ तपरसूत्रादौ भाष्ये चेत्यर्थः । ध्वनिपदेनात्र वैखरी, स्फोटपदेनाभिव्यक्तकत्वादिको मध्यमावस्थ आन्तरः शब्द उच्यते ॥ कथमस्येति । कुर्वन् इत्यस्य वर्तमानार्थत्वादित्यर्थः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 12,
"bhashya": "कानि पुनः शब्दानुशासनस्य प्रयोजनानि?",
"pradeep": " कानि पुनरिति । किं सन्ध्योपासनादिवद्व्याकरणाध्ययनं नित्यं कर्म - अथ काम्यमिति प्रश्नः॥",
"uddyot": "भाष्ये - कानि पुनः शब्दानुशासनस्येति । शब्दज्ञानफलकव्याकरणाध्ययनस्येत्यर्थः । तदाह - किं सन्ध्येति । शब्दज्ञानद्वारा-अध्ययनस्य तदज्ञानप्राप्तप्रत्यवायपरिहारः फलम्, उत तदतिरिक्तमपि किंचिदिति प्रश्नाशय इत्यर्थः ॥ प्रयोजनशब्दः करणव्युत्पत्त्या प्रयोजकपरोऽपि । तेन व्याकरणाध्ययनस्य प्रयोजकं किंचिदस्ति, न वा - इत्यपि प्रश्नाशयो बोध्यः । अत एवोत्तरे आगमपदोपादानम् । 'नपुंसकमनपुंसकेन-' इत्येकशेषः । तत्रैकवद्भावस्य वैकल्पिकत्वात्प्रश्ने बहुवचनम्, उत्तरे एकवचनं बोध्यम् ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 13,
"bhashya": "रक्षोहागमलघ्वसंदेहाः प्रयोजनम् ॥ \nरक्षार्थं वेदानामध्येयं व्याकरणम् । लोपागमवर्णविकारज्ञो हि सम्यग्वेदान्परिपालयिष्यतीति ॥",
"pradeep": "पारम्पर्येण पुरुषार्थसाधनतामस्याह - रक्षेति। लोके लोपाद्यदृष्टं वेदे दृष्ट्वा भ्राम्येदवैयाकरणः, वैयाकरणस्तु न भ्रमति, वेदार्थं चाध्यवस्यति । तत्र लोपागमयोरुदाहरणं- देवा अदुह्रेति । दुहेर्लङो झस्यादादेशे कृते 'लोपस्त आत्मनेपदेषु' इति तलोपः, 'बहुलं छन्दसि' इति रुटि सति रूपमेतत् । वर्णविकारो यथा - उद्ग्राभं च निग्राभं चेति । 'हृग्रहोर्भश्छन्दसि' 'हस्येति वक्तव्यम्' इति भकारः। 'उदि ग्रहः' इत्यत्र 'उद्ग्राभनिग्राभौ च छन्दसि स्त्रुगुद्यमननिपातनयोः' इति वचनादुन्निपूर्वाद्ग्रहेर्घञ् ॥",
"uddyot": "पुरुषार्थः - धर्मो मोक्षश्च ॥ ननु शिष्याचार्यसंबन्ध एव महान् वेदरक्षाहेतुः, किं व्याकरणेनेत्यत आह - लोके इति ॥ भ्राम्येदिति । भ्रमेण पाठान्तरं कल्पयेदित्यर्थः । न चाचार्यवचनात् भ्रमनिवृत्तिः, भ्रंशशङ्कया तेष्वविश्वासात् ॥ वेदार्थावगमद्वाराऽपि व्याकरणं पुरुषार्थसाधनमित्याह - वेदार्थ चेति । एवञ्च वेदार्थज्ञानपूर्वकं शुद्धतत्तन्मन्त्रैस्तद्विहितकर्मानुष्ठानेन स्वर्गसुखम्, उपनिषदर्थज्ञानेन वक्ष्यमाणरीत्या वा मोक्षश्च पुरुषार्थो व्याकरणाध्ययनस्य फलमिति भावः ॥ विकार इति ॥ लोपस्तु न विकार इति पृथग्गणितः । भावरूप एव चादेशोऽत्र विकारः ॥ हृग्रहोर्भ इति । इदं च 'गृभ्णामि' इत्याद्यर्थमावश्यकम् । एतेन 'उद्ग्राभनिग्राभौ चेत्यनेनैव भस्यापि सिद्धत्वादेतदुपन्यासश्चिन्त्यः' इति परास्तम् । अन्यार्थमावश्यकेन तेनैव भस्य सिद्धौ तदंशे निपातनाश्रयणवैयर्थ्यात्॥ निपूर्वाद्ग्रहेर्घञ्विधायकाभावादाह - उद्ग्राभनिग्राभौ चेति ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 14,
"bhashya": "ऊहः खल्वपि । न सर्वैर्लिङ्गैर्न च सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिताः। ते चावश्यं यज्ञगतेन यथाऽर्थं विपरिणमयितव्याः । तान्नावैयाकरणः शक्नोति यथाऽर्थं विपरिणमयितुम् । तस्मादध्येयं व्याकरणम्॥",
"pradeep": " ऊहः खल्वपीति । इह यस्मिन्यागे इतिकर्तव्यतोपदिष्टा यागान्तरेणोपजीव्यते सा प्रकृतिः। येन चोपजीव्यते सा विकृतिः। 'प्रकृतिवद्विकृतिः कर्तव्या' इति मीमांसकैर्व्यवस्थापिते न्याये प्रकृतिप्रत्ययादीनामूहं वैयाकरणः सम्यग्विजानाति । तत्राग्नेर्मन्त्रोऽस्ति - अग्नये त्वा जुष्टं निर्वपामि - इति, तत्र 'सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः' इति सौर्यचरौ मन्त्र ऊह्यते - सूर्याय त्वा जुष्टं निर्वपामि - इति । विस्तरेण भर्तृहरिणा प्रदर्शित ऊहः ॥",
"uddyot": "भाष्ये - 'खल्वपि' इति निपातसमुदायो निश्चयार्थः । 'ऊहः खल्वपि' इत्यस्य प्रयोजनमिति शेषः । ननु यत्र प्रकरणे ये मन्त्राः पठितास्तत्र तेषां तथैव प्रयोग इष्ट इति नोहेन प्रयोजनमित्याशङ्क्य प्रकृतावूहाभावेऽपि विकृतावूह इति दर्शयितुं प्रकृतिशब्दार्थमाह - इहेति । यस्मिन् - आग्नेयादौ । यागान्तरेण - सौर्यादिना। प्रकृतिविकृत्यवगमश्च द्विदेवत्यत्वैकदेवत्यत्वादिसाम्येन बोध्यः ॥ अन्यत्र पठितमन्त्राणां कथमन्यत्र गमनमत आह -प्रकृतिवदिति । यथा - सोपकारा प्रकृतिरनुष्ठीयते, तथा विकृतिरपीति तदर्थः । तदनेनोपकारातिदेशे तत्पृष्ठभावेन पदार्था अप्यतिदिश्यन्ते, इतिकर्तव्यतायां भावनायाः साकाङ्क्षत्वात् । एतन्मूलकमेव 'प्रकृतिवत्' इति - इति मीमांसकसरणिः ॥ पदार्थान्तर्गताश्च मन्त्राः । तत्र अग्निसंबन्धिनिर्वापप्रकाशमन्त्रस्थाग्निपदस्य सूर्यसंबन्धिनिर्वापप्रकाशनासमर्थत्वात्तदपहाय तत्स्थाने 'सूर्याय' इत्यूह्यमित्याह - तत्राग्नेरिति ॥ मन्त्र ऊह्यत इति । यद्यप्यूहे न मन्त्रत्वम्, तथाप्येकदेशस्योहेऽपि अनेकपदसमुदाये मन्त्रत्वप्रत्यभिज्ञानात्तद्घटिते समुदाये मन्त्रत्वव्यवहारः, कर्मणः साङ्गत्वं चेति बोध्यम् । सोऽयं प्रकृत्यूहः । अन्येऽप्यूह्याः । ऊहज्ञस्य हि आर्त्विज्यलाभेन द्रव्यप्राप्तिद्वारा ऐहिकसुखसिद्धिः फलमिति बोध्यम् । भाष्ये - लिङ्गपदं च प्रकृत्यादेरुपलक्षणम् ॥ यथायथमिति । अर्थप्रकाशनसामर्थ्यानतिलङ्घनेनेत्यर्थः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 15,
"bhashya": "आगमः खल्वपि । 'ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयः' इति ॥ प्रधानं च षट्स्वङ्गेषु व्याकरणम् । प्रधाने कृतो यत्नः फलवान्भवति ॥",
"pradeep": " आगम इति । आगमः प्रयोजनः प्रवर्तको नित्यकर्मतां व्याकरणाध्ययनस्य दर्शयति । 'प्रयोजन'शब्देन च फलं - प्रयोजकश्चोच्यते ॥ निष्कारण इति । दृष्टं कारणमनपेक्ष्येत्यर्थः ॥ प्रधानं चेति । पदपदार्थावगमस्य व्याकरणनिमित्तत्वात्तन्मूलत्वाद्वाक्यवाक्यार्थावसायस्येति भावः॥",
"uddyot": "ननु वक्ष्यमाणागमस्य न व्याकरणफलत्वमत आह - प्रवर्तक इति ॥ नित्यकर्मतामिति । एतेन नित्यकाम्यता व्याकरणाध्ययनस्येत्युक्तम् । नित्यत्वं चाध्येयज्ञेयपदार्थविशेषणीभूताध्ययनज्ञानयोर्बोध्यम् । अत्र ब्राह्मणेनेत्युक्तेरन्यस्यैवमध्ययनं काम्यमेवेति सूचयतीति कश्चित् ॥ निष्कारण इति । कारणशब्दः फलपरः ॥ ननु नित्यत्वेऽपि प्रत्यवायपरिहाररूपं फलमस्त्येवेत्यत आह – दृष्टमिति । अध्ययनादिनिष्ठं कारणानपेक्षत्वं विषये आरोप्य 'निष्कारणो वेदः' इति प्रयोगः। आगमपदेन श्रुतिः । श्रुतावपि जनमेजयाद्युपाख्यानवत्पौरुषेयव्याकरणस्यापि नित्यताबोधनमुपपद्यते । यद्वा 'तेन प्रोक्तम्' इति सूत्रोक्तभाष्यरीत्या वेदार्थवद्व्याकरणार्थोऽपि 'अनादित्वरूपनित्यतावान्' इति श्रुत्या तस्य नित्यत्वबोधनमिति बोध्यम् । धर्मत्वं च वेदस्य पुरुषयत्नसाध्यतया धर्मत्वेनाभिमताध्ययनज्ञानकर्मत्वेनौपचारिकमित्याहुः ॥ षडङ्गः - शिक्षा-कल्प-व्याकरण-निरुक्त-छन्दो-ज्योतिषाङ्गसहितः, वेदः - स्वशाखारूपः, अध्येयः - प्रेरणाविषयाध्ययनकर्म वेद इति बोधः ॥ यद्यपि 'तेन प्रोक्तम्' इति सूत्रे भाष्ये वक्ष्यमाणया रीत्या वेदत्वं शब्दतदर्थोभयवृत्ति, तथापि 'ज्ञेयः' इत्यस्य 'सम्यगर्थबोधपर्यवसाय्यध्ययनं कार्यम्' इत्यर्थे तात्पर्यम् । अत एव 'समानमीहमानानामधीयानानां च केचिदर्थैर्युज्यन्ते केचिन्न' इति वक्ष्यति भाष्यकृत् । अध्ययनतथाज्ञानयोश्च समुच्चयः । अनेनातादृशस्याधर्मत्वं सूचयति । श्रुत्या मिलितस्यैव धर्मत्वबोधनात् । तथा च व्यासः- \n'वेदार्थज्ञो जपं जप्त्वा तथैवाध्ययनं द्विजः। \n कुर्वन् स्वर्गमवाप्नोति नरकं तु विपर्यये' इति ॥\nजपपदं मन्त्रसाध्यकर्ममात्रोपलक्षणम् ॥ ज्ञाधातोश्च ज्ञानानुकूलो मनःप्रणिधानविषयेन्द्रियसंयोगसंपादनादिरूपो व्यापारोऽर्थः, तस्यैवात्र विधेयत्वम् । एतेन -ज्ञानस्याविधेयत्वादिदं चिन्त्यमित्यपास्तम् ॥ ननु गुणानां परस्परसम्बन्धाभावात् 'षडङ्गेषु प्रधानम्' इत्यनुपपन्नमत आह - पदेति । एवं च वेदार्थज्ञाने व्याकरणं प्रधानं कारणमिति भावः॥ भाष्ये - प्रधाने कृतो यत्न इति । प्रधानविषये निर्वृत्त इत्यर्थः । अन्यथा यत्नविषयकृतेरसंभवादसंगतिः स्पष्टैव ॥ भाष्ये 'फलवान्' इत्यत्र फलपदेन वाक्यार्थावगमो विवक्षितः । एतच्छास्त्रं च पदपदार्थावगमद्वारा वाक्यार्थावगमोपयोगीति बोध्यम् ॥ एवञ्च व्याकरणानध्ययनप्रयुक्तस्य वेदार्थाज्ञानप्रयुक्तस्य च प्रत्यवायस्य परिहारकतयाऽस्य नित्यत्वमिति बोध्यम् ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 16,
"bhashya": "लघ्वर्थं चाध्येयं व्याकरणम् । 'ब्राह्मणेनावश्यं शब्दा ज्ञेयाः' इति, न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या विज्ञातुम् ॥",
"pradeep": " लघ्वर्थमिति । लाघवेन शब्दज्ञानमस्य प्रयोजनम् ॥ ब्राह्मणेनेति । अध्यापनं ब्राह्मणस्य वृत्तिः । न चाशब्दज्ञं तमुपश्लिष्यन्ति शिष्या इति ॥",
"uddyot": "अवश्यम्' इत्यनेन विवक्षितं दर्शयति - अध्यापनमिति । लाघवं च प्रतिपदपाठापेक्षया प्रकृत्यादिविभागेनान्वाख्यानस्य विवक्षितम् ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 17,
"bhashya": "असन्देहार्थं चाध्येयं व्याकरणम् । याज्ञिकाः पठन्ति –'स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेत' इति । तस्यां सन्देहः - स्थूला चासौ पृषती च, स्थूलानि वा पृषन्ति यस्याः सा - स्थूलपृषतीति । तां नावैयाकरणः स्वरतोऽध्यवस्यति । यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिः, अथ अन्तोदात्तत्वं ततस्तत्पुरुष इति ॥",
"pradeep": " असन्देहार्थमिति । सन्देहस्य प्रागभावोऽत्र द्रष्टव्यः, न तु प्रध्वंसाभावः । न हि वैयाकरणस्य संशय उत्पद्य विनश्यति, इतरस्यैव तदुत्पादात् ॥ स्वरत इति । पूर्वपदप्रकृतिस्वराद्बहुव्रीह्यर्थावसाय इत्यर्थः ॥",
"uddyot": "नन्वसन्देहः - सन्देहाभावः। स च नात्यन्ताभावः, तस्य नित्यत्वात् । न च ध्वंसः, तत्तद्विषयकव्याकरणज्ञानवतः सन्देहस्यैवाभावेन तदसम्भवात् । यस्य त्वधीतव्याकरणस्यापि क्वचित्सन्देहः, स तद्विषयकवैयाकरणत्वाभाववानेव, वेदनार्थे हि तत्र प्रत्ययोऽत आह–प्रागभाव इति । तत्परिपालनं च शास्त्राध्ययनफलम् । न तु स्वरूपं, तस्याजन्यत्वात् । तत्पालनं च प्रतियोगिजनककारणविध्वंसनं, प्रागभावस्य प्रतियोगिजन्मनाश्यत्वात् - इति बोध्यम् ॥ भाष्ये याज्ञिकाः पठन्तीति । यज्ञकाण्डभवा वैदिकाः शब्दाः - याज्ञिकाः, ते पठन्तीत्यर्थः । 'ऋषिः पठति' 'शृणोत ग्रावाणः' इतिवत्प्रयोगः । तत्र ऋषिः=वेदः । सन्सूत्रे भाष्ये एष प्रयोगः । ताम् - अनड्वाहीम् । कस्तर्हि निश्चयस्तत्राह - पूर्वपदेति ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 18,
"bhashya": "इमानि च भूयः शब्दानुशासनप्रयोजनानि - तेऽसुराः । दुष्टः शब्दः । यदधीतम् । यस्तु प्रयुङ्क्ते । अविद्वांसः । विभक्तिं कुर्वन्ति । यो वा इमाम् । चत्वारि । उत त्वः । सक्तुमिव । सारस्वतीम् । दशम्यां पुत्रस्य । सुदेवो असि वरुण - इति ॥",
"pradeep": "मुख्यानि प्रयोजनानि प्रदर्श्यानुषङ्गिकाणि प्रदर्शयति - इमानि चेति ॥ भूय इति । पुनरित्यर्थः । आनुषङ्गिकत्वाच्चैषां वर्गद्वयोपादानम् ॥",
"uddyot": "ननु अम्लेच्छत्वादीनां बहुत्वात् 'बहूनामनुग्रहो न्याय्यः' इति प्रथमतोऽभिधानं युक्तमत आह-मुख्यानीति । प्रधानत्वादेव तेषां प्रथमतोऽभिधानमिति भावः ॥ तेषां प्रधानत्वं च पदपदार्थज्ञानाधीनत्वेनान्तरङ्गत्वात् । वक्ष्यमाणानां च बहिरङ्गशब्दापशब्दप्रयोगविधिनिषेधविषयत्वादानुषङ्गिकत्वं बोध्यम् ॥ ननु 'भूयः' इत्येकवचनमनुपपन्नं 'प्रयोजनानि' इत्यनेन सामानाधिकरण्यादत आह - पुनरिति ॥ इमानि चेति। चः समुच्चये ॥ भाष्ये - प्रयोजनानीति । प्रवर्तकानि फलानि चेत्यर्थः । तत्र वक्ष्यमाणवाक्यानि प्रवर्तकानि, तद्बोध्यानि फलानीति विवेकः ॥ ननु रक्षादिभिः सहैवैतानि कुतो न पठितानि इत्यत आह - आनुषङ्गिकत्वादिति । एषामानुषङ्गिकत्वं तेषां प्रधानत्वं वोधयितुं तथोक्तिरिति भावः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 19,
"bhashya": "तेऽसुराः - \n'तेऽसुरा हेऽलयो हेऽलय इति कुर्वन्तः पराबभूवुः । तस्माद्ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष यदपशब्दः' ॥ म्लेच्छा मा भूमेत्यध्येयं व्याकरणम् । तेऽसुराः॥",
"pradeep": " तेऽसुरा हेऽलय इति - निन्दाऽर्थवादेन 'न म्लेच्छितवै' इति म्लेच्छनं निषिध्यते । तत्र केचिदाहुः - ‘हैहेप्रयोगे हैहयोः' इति प्लुते प्रकृतिभावे च कर्तव्ये तदकरणं म्लेच्छनमिति । पदद्विर्वचने कार्ये वाक्यद्विर्वचनं लत्वं च म्लेच्छनमित्यपरे । न म्लेच्छितवा इत्यस्य पर्यायः -नापभाषितवा इति। 'कृत्यार्थे-' इति तवैप्रत्ययः॥ म्लेच्छ इति । कर्मणि घञ्॥",
"uddyot": "ननु ‘पराबभूवुस्तस्माद्ब्राह्मणेन-' इति श्रुतौ पराभवस्यापशब्दभाषणफलत्वावगतेः 'पराभूता मा भूमेत्यध्येयम्' इति वक्तुमुचितमत आह – निन्दाऽर्थवादेनेति। 'द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्' (पू० मी० ४।३।१) इति न्यायेन 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' इत्यादावपापश्लोकश्रवणस्य प्राशस्त्यमात्रपरत्ववदस्य निन्दामात्रपरत्वादिति भावः । प्रकरणाच्च क्रत्वङ्गोऽयं निषेधः ॥ केचिदाहुरिति । अत्रारुचिबीजं तु 'सर्वः प्लुतः साहसमनिच्छता विभाषा कर्तव्यः' इति ॥ पदेति । 'सर्वस्य द्वे' इत्यत्र पदग्रहणस्य वार्तिककृतोक्तत्वादिति भावः ॥ ननु नेदं द्वित्वं, किंत्वैच्छिकः पुनः प्रयोगोऽत आह - लत्वं चेति । 'न म्लेच्छितवै' इत्येतत् म्लेच्छभाषाविषयमिति भ्रमनिवृत्त्यर्थं तद्विवरणं-'नापभाषितवै' इति । 'ह वै' इति - प्रसिद्धौ। अपशब्दत्वं व्याकरणानुगतशब्दस्येषद्भ्रंशन एव प्रसिद्धमिति भावः ॥ ननु म्लेच्छो नाम पुरुषविशेषो देशविशेषो वा, स कथमपशब्दोऽत आह-घञिति । निन्दावचनान्म्लेच्छतेरिति भावः । निन्दा च शास्त्रबोधितविपरीतोच्चारणेन पापसाधनत्वात् । एवं च म्लेच्छा इत्यस्य निन्द्या इत्यर्थ इति दिक् ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 20,
"bhashya": "दुष्टः शब्दः-\n'दुष्टः शब्दः स्वरतो वर्णतो वा\nमिथ्याप्रयुक्तो न तमर्थमाह ।\nस वाग्वज्रो यजमानं हिनस्ति \nयथेन्द्रशत्रुः स्वरतोऽपराधात् ॥' इति ॥\nदुष्टाञ्छब्दान्मा प्रयुक्ष्महीत्यध्येयं व्याकरणम् ॥ दुष्टः शब्दः॥",
"pradeep": " दुष्टः शब्द इति । स्वरेण - स्वरतः, आद्यादित्त्वात्तसिः ॥ मिथ्याप्रयुक्त इति । यदर्थप्रतिपादनाय प्रयुक्तस्ततोऽर्थान्तरं स्वरवर्णदोषात्प्रतिपादयन्नाभिमतमर्थमाहेत्यर्थः । वागेव वज्रो हिंसकत्वात् । यथेन्द्रशत्रुशब्दः स्वरदोषाद्यजमानं हिंसितवानित्यर्थः । इन्द्रस्याभिचारो वृत्रेणारब्धस्तत्र 'इन्द्रशत्रुर्वर्धस्व' इति मन्त्र ऊहितः । तत्रेन्द्रस्य शमयिता शातयिता वा भव-इति क्रियाशब्दोऽत्र शत्रुशब्द आश्रितो न तु रूढिशब्दः, तदाश्रयणे हि बहुव्रीहितत्पुरुषयोरर्थाभेदः । तत्रेन्द्रामित्रत्वे सिद्धे सति ‘इन्द्रस्य शत्रुर्भव' इत्यत्रार्थे प्रतिपाद्येऽन्तोदात्ते प्रयोक्तव्य आद्युदात्त ऋत्विजा प्रयुक्त इति - अर्थान्तराभिधानादिन्द्र एव वृत्रस्य शातयिता संपन्नः । इन्द्रशत्रुत्वस्य च विधेयत्वात् संबोधनविभक्तेरनुवाद्यविषयत्वादिहाभावः । यथा - राजा भव युध्यस्वेति ॥ ऊह्यमानस्य चामन्त्रत्वात् 'यज्ञकर्मणि-' इति जपादिपर्युदासेन मन्त्राणामेकश्रुतिर्विधीयमाना नेह भवति ॥",
"uddyot": "असर्वनामत्वात्तसोऽप्राप्तेराह - स्वरेणेति। आद्यादित्वादिति च । 'तं' इत्यस्य यच्छब्दापेक्षित्वादाह — यदर्थेति ॥ 'मिथ्याप्रयुक्तः' इत्यस्य विवरणं - ततोऽर्थान्तरमिति ॥ न केवलं तदर्थं नाह - इत्येतावत् , किंतु प्रत्यवायोत्पादनद्वारा हिंसकोऽपीत्याह - वागेवेति । यथा - अध्वर्युकृताद्धोमाद्यजमाने धर्मोत्पत्तिः, एवं तत्कृतापशब्दप्रयोगात्तस्मिन् प्रत्यवाय इत्याशयः ॥ तत्र दृष्टान्तमाह - यथेति ॥ वृत्रेणेति - हेतौ तृतीया, फलमपीह हेतुः ॥ मन्त्र इति । न चोहितस्य कथं मन्त्रत्वमिति वाच्यम् । मन्त्रशब्दस्य बोधकपरत्वात् । अत एव 'मन्त्रो हीनः स्वरतः' इति प्रसिद्धमपि शिक्षापाठं विहाय भाष्ये - 'दुष्टः शब्दः' इति पठितं तत्रत्यमन्त्रशब्दस्य शब्दमात्रपरता - इति सूचयितुम् ॥ शत्रुशब्दस्यामित्रपर्यायत्वे बहुव्रीहितत्पुरुषयोरविशेषोऽत आह - तत्रेन्द्रस्येति । शदेर्ण्यन्तादौणादिकः क्रुन् । प्रज्ञादिगणे निपातनाद्ध्रस्वत्वम् । शमेस्तु तत्वम् । संबोधनविभक्त्यभावायाह - इन्द्रशत्रुत्वस्येति ॥ नन्वत्र 'यज्ञकर्मणि-' इत्येकश्रुतौ प्राप्तायां पूर्वपदप्रकृतिस्वरकरणं स्वरापराध इति वक्तुं युक्तम् । न च तथैवास्तु, शतपथब्राह्मणतद्भाष्यविरोधात् । तत्र हि आद्युदात्तत्वकरणमेव स्वरापराध उक्त इत्यादि स्पष्टमस्मत्कृतैकश्रुत्यवादेऽत आह - ऊह्यमानस्य चेति । तदुक्तम् - 'अनाम्नातेष्वमन्त्रत्वम्' (पू० मी० २।१।३४ ) इति । न चास्यामन्त्रत्वे लौकिकशब्देन क्रियमाणस्य कर्मणः कथं फलजनकत्वमिति वाच्यम् । 'सूर्याय त्वा' इत्यादेर्लौकिकघटितस्य ऊहविधायकशास्त्रबलेन फलजनकत्ववदुपपत्तेरित्याहुः॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 21,
"bhashya": "यदधीतम् –\n'यदधीतमविज्ञातं निगदेनैव शब्द्यते । \n अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥'\n \t\t तस्मादनर्थकं माधिगीष्महीत्यध्येयं व्याकरणम् ॥ यदधीतम् ॥",
"pradeep": " अविज्ञातमिति । अविदितसुबादिसंस्कारत्वात्, अर्थापरिज्ञानाद्वा ॥ निगदेनेति । पाठमात्रेण ॥ न तज्ज्वलतीति । निष्फलं भवति ॥ अनर्थकमिति । निष्प्रयोजनम् ॥",
"uddyot": "ननु – अधीतमविज्ञातम् - इति विरुद्धमत आह- अविदितेति ॥ शुष्कैध इति । सान्तक्लीबैधःशब्देनादन्तपुंलिङ्गेन वा निर्वाह्यम् ॥ निरुक्ते तु 'यद्गृहीतमविज्ञातम्' इति पठ्यते । तत्र गृहीतं शब्दतः, अविज्ञातमर्थत इति बोध्यम् ॥ भाष्ये - तस्मादनर्थकमिति । अनेन निन्दार्थवादेन निष्प्रयोजनाध्ययनानौचित्येन निष्प्रयोजनं नाध्येयमिति निषेधकल्पनादिति भावः । अतो निषिद्धमध्ययनं मा भूदिति व्याकरणमध्येयमिति तात्पर्यम् ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 22,
"bhashya": "यस्तु प्रयुङ्क्ते-\n'यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले। \nसोऽनन्तमाप्नोति जयं परत्र वाग्योगवित् दुष्यति चापशब्दैः ॥' \nकः? वाग्योगविदेव ॥ कुत एतत् ? यो हि शब्दान् जानाति, अपशब्दानप्यसौ जानाति । यथैव हि शब्दज्ञाने धर्मः, एवमपशब्दज्ञानेऽप्यधर्मः। अथवा भूयानधर्मः प्राप्नोति । भूयांसोऽपशब्दाः, अल्पीयांसः शब्दा इति । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा -गौरित्यस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः। अथ योऽवाग्योगवित्, अज्ञानं तस्य शरणम् ॥",
"pradeep": " यस्तु प्रयुङ्क्ते इति । अनेनाभ्युदयहेतुत्वं व्याकरणाध्ययनस्य दर्शयति ॥ विशेष इति । स एव शब्दः क्वचिदर्थे केनचिन्निमित्तेन प्रयुक्तः साधुः, अन्यथा त्वसाधुः। यथा – अश्वे अस्वशब्दो धनाभावनिमित्तकः साधुः, जातिनिमित्तकोऽसाधुः । गवि च गोणीशब्दः साधर्म्यात्प्रयुक्तः साधुः, जातिप्रयुक्तस्त्वसाधुः ॥ क इति । वाग्योगविदः श्रुतत्वाद्दोषदर्शनाच्च प्रश्नः ॥ प्रष्टैव परमतमाशङ्क्याह - वाग्योगविदेवेति ॥ एवमपशब्दज्ञानेऽपीति । यथा श्लैष्मिकद्रव्यसेवया श्लैष्मिकव्याधिसम्भवः, तद्विपरीतसेवया त्वारोग्यं; तथाऽत्रापि यथोक्तं न्याय्यमिति भावः ॥ भूयांसोऽल्पीयांस इति । परमतापेक्षया प्रकर्षप्रत्ययः। यदि मन्यसे - बहवः शब्दाः, अल्पेऽपशब्दाः, अङ्गभूयस्त्वाच्च फलभूयस्त्वमिति । तन्न । यस्माद्भूयांसोऽपशब्दाः, अल्पीयांसः शब्दाः ॥ अज्ञानमिति । तथा च तिरश्चां ब्रह्महत्यादिफलाभावः ॥",
"uddyot": "'एकः पूर्वपरयोः' इत्यत्र भाष्यपठित 'एकः शब्दः-' इत्यादिश्रुतिमूलकमाह - (भाष्ये)-यस्त्विति । अभ्युदयहेतुत्वम् - अदृष्टद्वारा पुरुषार्थसाधनत्वम् । कुशलः - अधीतव्याकरणः । लक्षणस्मरणपूर्वकं यः प्रयुङ्क्ते - इति फलति ॥ विशेष इति । अर्थविशेष इत्यर्थः । तदाह -स एवेति ॥ साधर्म्यात् - साधर्म्यमूलकादभेदारोपात् ॥ भाष्ये – यथावत् -अम्बूकृतादिदोषरहितम् । वाचो योगः - प्रकृतिप्रत्ययविभागेनार्थविशेषपरत्वं, तद्वेत्तीति-वाग्योगवित् ॥ श्रुतत्वादिति । एकत्र जयाप्तिदोषयोश्चकारेण समुच्चयप्रतिपादनाच्चेत्यपि बोध्यम् ॥ दोषदर्शनादिति । शास्त्रस्याधर्महेतुत्वं दोष इत्यर्थः ॥ वादिप्रतिवादिपूर्वपक्षोत्तरपरतया व्याख्यानेऽसामञ्जस्यं मत्वाऽऽह - प्रष्टैवेति ॥ भाष्ये - कुत एतदिति । वाग्योगविदो दोषः कुत इत्यर्थः ॥ ननु साधुज्ञानस्य यथा धर्मजनकता शास्त्रोक्ता न तथाऽसाधुशानस्याधर्मजनकता शास्त्रोक्तेत्यत आह - यथेति । एवञ्च – अपशब्दज्ञानम् - अधर्मसाधनं, धर्महेतुशब्दज्ञानविरोधित्वात् ; यद्यद्विरोधि तत्तद्विरोधिफलकं, यथा-श्लैष्मिकद्रव्यसेवा-इत्यनुमानं प्रमाणमिति भावः । एवं च शास्त्रस्याधर्महेतुतया तत्र प्रवृत्तिर्न स्यादिति नेदं वचो व्याकरणाध्ययनानुष्ठापकं स्यादिति तात्पर्यम् ॥ नन्वस्त्वधर्मोऽपि, तथापि धर्माधिक्यायाध्येयं व्याकरणमत आह-भाष्ये- अथवेति ॥ अङ्गभूयस्त्वादिति । अङ्गानां धर्मजनकानां भूयस्त्वादित्यर्थः । एवं च यज्ञादेः पापजनकत्वेऽप्यधिकधर्मजनकत्वाद्यथा तत्र प्रवृत्तिस्तथा प्रकृतेऽपीति भावः ॥ अल्पीयांसः शब्दा इति । एवं च श्वदृतिप्रक्षिप्तक्षीरवदनुपादेयं तद्विज्ञानमिति भावः ॥ नन्वेवं सामर्थ्यादवाग्योगविदेव 'दुष्यति' इत्यत्र कर्ताऽस्त्वत आह-भाष्ये- अथ योऽवाग्योगविदिति ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 23,
"bhashya": "विषम उपन्यासः। नात्यन्तायाज्ञानं शरणं भवितुमर्हति । यो ह्यजानन् वै ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये पतितः स्यात् ॥",
"pradeep": "नात्यन्तायेति । पुरुषाणां विधिनिषेधयोरधिकारात्तत्परिज्ञाने प्रयत्नस्य न्याय्यत्वात् ॥",
"uddyot": "अत्यन्तमित्यर्थे 'अत्यन्ताय' इति अव्ययम् । पुरुषाणामिति । मनुष्याणामित्यर्थः । तिरश्चामत्यन्तायोग्यत्वादस्त्वज्ञानं शरणं, मनुष्याणां तु योग्यत्वात्तैर्निषिद्धानुष्ठानवर्जनार्थमवश्यं शास्त्रं विज्ञेयम् । अतोऽवाग्योगविदो महाननर्थ इति भावः ॥ तत्र 'नात्यन्ताय' इत्यनेन शास्त्राज्ञानं नैव शरणं, दोषद्वयप्रसङ्गात् । किं तु वध्यादेर्ब्राह्मणत्वाद्यज्ञानमेव पापाल्पत्वे प्रयोजकमिति ध्वनितम् ॥ भाष्ये - यो ह्यजानन्निति । निषेधशास्त्रमजानन् ब्राह्मणत्वादिज्ञानपूर्वकं तद्वधादि कुर्यात्सोऽपि पतित एवेत्यर्थः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 24,
"bhashya": "एवं तर्हि—\nसोऽनन्तमाप्नोति जयं परत्र\nवाग्योगवित् दुष्यति चापशब्दैः॥\nकः ? \nअवाग्योगविदेव। \nअथ यो वाग्योगवित्, विज्ञानं तस्य शरणम् ॥",
"pradeep": "प्रकरणात्सामर्थ्यं बलीय इत्याह - अवाग्योगविदिति । वाग्योगवित्तूभयज्ञोऽपि शब्दान्प्रयुङ्क्ते, नापशब्दान् - इति ज्ञानपूर्वकप्रयोगादभ्युदयभाग्भवति ॥",
"uddyot": " प्रकरणादिति । संनिधेरित्यर्थः ॥ नन्वेवं वाग्योगविदोऽपशब्दज्ञानादधर्मः स्यादत आह-वाग्योगेति । एवञ्चापशब्दप्रयोग एवाधर्महेतुः, न ज्ञानमात्रमिति न दोष इति भावः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 25,
"bhashya": "क्व पुनरिदं पठितम्?",
"pradeep": "श्लोकस्यापरिज्ञानात्पृच्छति - क्व पुनरिति । प्रातिपदिकार्थप्रश्ने चात्र तात्पर्यम्, किं तदस्ति यत्रेदं पठितमित्यर्थः । अत एव 'श्लोकाः' इति प्रथमान्तेनोत्तरम् । अन्यथा 'श्लोकेषु' इति वाच्यं स्यात् ॥",
"uddyot": ""
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 26,
"bhashya": "भ्राजा नाम श्लोकाः ॥",
"pradeep": "",
"uddyot": "भ्राजाः' नाम कात्यायनप्रणीताः श्लोका इत्याहुः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 27,
"bhashya": "किंच भोः श्लोका अपि प्रमाणम् ? किं चातः? यदि प्रमाणम् , अयमपि प्रमाणं भवितुमर्हति –\n'यदुदुम्बरवर्णानां घटीनां मण्डलं महत् ॥\nपीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥'\nइति॥",
"pradeep": "आप्तोक्तत्वापरिज्ञानादाह - किं च भो इति॥ यदुदुम्बरेति । अयं श्लोकः सौत्रामणियागे सुरापाणस्य दुष्टत्वमुद्भावयति ॥",
"uddyot": "भाष्ये - किं चात इति । अतः प्रश्नात्किं विवक्षितमित्यर्थः ॥ उदुम्बरं ताम्रम् ॥ दुष्टत्वमिति । इदमुपलक्षणं - अन्यत्राप्यदुष्टत्वस्य ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 28,
"bhashya": "प्रमत्तगीत एष तत्रभवतः । यस्त्वप्रमत्तगीतस्तत्प्रमाणम् ॥ यस्तु प्रयुङ्क्ते ॥",
"pradeep": " प्रमत्तगीत इति । प्रमादेन - विप्रतिपन्नत्वेन गीत इत्यर्थः । कात्यायनोपनिबद्धभ्राजाख्यश्लोकमध्यपठितस्य त्वस्य श्लोकस्य श्रुतिरनुग्राहिकाऽस्ति - 'एकः शब्दः सुज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति' इति ॥",
"uddyot": "ननु कर्तरिक्तान्तप्रमत्तशब्दस्य गीतशब्देन समासोऽनुपपन्नः, 'तत्रभवतः' इत्यनेन साकाङ्क्षत्वादत आह - प्रमादेनेति । भावे क्तान्त इति भावः ॥ विप्रतिपन्नत्वेन -वेदविषयविप्रतिपत्त्याश्रयत्वेन । तत्त्वं स्वस्मिन्नारोप्य दैत्यनाशाय पूज्यस्यापि भगवत ईश्वरस्य तथोक्तिरिति स न प्रमाणमिति भावः ॥ [ भाष्ये - यस्त्वप्रमादेन गीतो यस्य कस्यापि तत्प्रमाणमिति प्रतिनिर्देशलिङ्गम्॥] ननु कथं ज्ञातं 'अयमप्रमत्तगीतः' इति - अत आह -श्रुतिरनुग्राहिकेति ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 29,
"bhashya": "अविद्वांसः-\n'अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः।\nकामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ॥'\nस्त्रीवन्मा भूमेत्यध्येयं व्याकरणम् ॥ अविद्वांसः॥",
"pradeep": " स्त्रीष्विवेति । प्रत्यभिवादे हि गुरुणा प्लुतः कार्यः । यस्तु प्लुतं कर्तुं न जानाति स स्त्रीवद्वक्तव्यः – अयमहम् इति, न तु 'अभिवादये देवदत्तोऽहम्' इत्यादिना संस्कृतेन वाक्येनेत्यर्थः ॥",
"uddyot": "भाष्ये - अविद्वांस इति । अत्र योग्यत्वाद्व्याकरणं कर्म बोध्यम् ॥ प्रत्यभिवादे -अभिवादानन्तरप्रयोज्ये वचने नाम्नः - अभिवादकनाम्नष्टेः प्लुतिं कर्तुं ये न जानन्ति तेषु कामं निःशङ्कं विप्रोष्य - प्रवासादेत्य । यद्वा - कामं - विध्यनुसारमन्तरैवेत्यर्थः । 'अयमहम्' इत्यनुकरणस्यानितिपरत्वेऽपि कृञ्योगाभावाद्गतित्वाभावेन 'वदेत्' इत्यस्य तिङन्तत्वेन च समासाभाव इत्याहुः ॥ अत्र क्वचित् 'अयमहमिति वदेत् । अनुकरणं चानितिपरमिति गतित्वात्समासः' इति पाठो दृश्यते सोऽपपाठः ॥ भाष्ये — स्त्रीवदिति । तद्वत्करणेन सूचितशास्त्रज्ञानित्वकृतापमानप्रयुक्तदुःखभाजो मा भूमेति भावः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 30,
"bhashya": "विभक्तिं कुर्वन्ति -\nयाज्ञिकाः पठन्ति-'प्रयाजाः सविभक्तिकाः कार्याः' इति । न चान्तरेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कर्तुम् ॥ विभक्तिं कुर्वन्ति ॥",
"pradeep": " प्रयाजा इति । प्रयाजमन्त्रा ऊह्यमानाऽग्निशब्दप्रकृतिकविभक्तियुक्ता इत्यर्थः । यथा 'समिधः समिधोऽग्ने अग्न आज्यस्य व्यन्तु' अग्निरग्निरिति।",
"uddyot": "ननु प्रकृतौ प्रयाजमन्त्राः सविभक्तिका एव पठ्यन्ते, तत्किमनेन वचनेन ? इत्यत आह –प्रयाजेति । ऊह्यमाना याऽग्निशब्दप्रकृतिकविभक्तिस्तद्युक्ता इत्यर्थः ॥ ननु ‘अग्निशब्दप्रकृतिक' इत्यसङ्गतम् । अपूर्वविभक्तिमात्रविधाने 'न केवलः प्रत्ययः' इति निषेधात् यत्किंचित्प्रातिपदिकप्रकृतिकाः सर्वा विभक्तयः प्रयोक्तव्या इति प्राप्नोति - इति चेत्, न । 'त्वमग्ने प्रयाजानुयाजानां पुरस्तात्त्वं पश्चात्' इति मन्त्रवर्णेनाग्निशब्दप्रकृतिका एव ता इत्याशयात् । तत्राग्नेर्देवताया एकत्वादेकवचनमेव । विभक्तयश्च प्रथमाद्वितीयातृतीया-षष्ठीसप्तम्य एवेति श्रौतसंप्रदायः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 31,
"bhashya": "यो वा इमाम् -\n 'यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति स आर्त्विजीनो भवति' । आर्त्विजीनाः स्यामेत्यध्येयं व्याकरणम् ॥ यो वा इमाम् ॥",
"pradeep": " पदश इति । पदं पदमिति 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् ॥ स्वरश इति । स्वरः - उदात्तादिः॥ अक्षरश इति । अक्षरं - व्यञ्जनसहितोऽच् ॥ आर्त्विजीन इति । ऋत्विजमर्हतीति – आर्त्विजीनः - यजमानः । ऋत्विक्कर्मार्हतीति - याजकोऽप्यार्त्विजीनः। 'यज्ञर्त्विग्भ्यां घखञौ' इति सूत्रेण 'यज्ञर्त्विग्भ्यां तत्कर्मार्हतीति चोपसंख्यानम्' इति वार्तिकेन च खञ् । 'विद्वान्यजेत विद्वान्याजयेत्' इति द्वयोरपि विदुषोरधिकारात् ॥",
"uddyot": " व्यञ्जनसहित इति । यथा 'ये यजामहे - इति पञ्चाक्षरम्' इति । 'वर्णं वाऽऽहुः पूर्वसूत्रे' इति भाष्यात् वर्णमात्रमित्यन्ये ॥ सकृत्प्रयुक्तार्त्विजीनशब्दस्योभयपरत्वे युक्तिमाह - विद्वानिति । वेदार्थज्ञ इत्यर्थः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 32,
"bhashya": "चत्वारि-\n'चत्वारि शृङ्गा त्रयो अस्य पादा \nद्वे शीर्षे सप्त हस्तासो अस्य ।\nत्रिधा बद्धो वृषभो रोरवीति\nमहो देवो मर्त्याँ आविवेश ॥' इति ।\nचत्वारि शृङ्गाणि - पदजातानि, नामाख्यातोपसर्गनिपाताश्च ॥ त्रयो अस्य पादाः - त्रयः कालाः = भूतभविष्यद्वर्तमानाः ॥ द्वे शीर्षे - द्वौ शब्दात्मानौ - नित्यः कार्यश्च ॥ सप्तहस्तासो अस्य - सप्त विभक्तयः। त्रिधा बद्धः - त्रिषु स्थानेषु बद्धः - उरसि कण्ठे शिरसीति ॥ वृषभो वर्षणात् ॥ रोरवीति - शब्दं करोति ॥ कुत एतत् ? रौतिः शब्दकर्मा॥ महोदेवो मर्त्यां आविवेशेति । महान्देवः - शब्दः, मर्त्याः - मरणधर्माणो मनुष्याः, तानाविवेश । महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरणम् ॥",
"pradeep": "चत्वारीति । शब्दस्य वृषभत्वेन निरूपणम् ॥ त्रयः काला इति । लडादिविषयाः॥ नित्यः कार्यश्चेति । व्यङ्ग्यव्यञ्जकभेदेन ॥ सप्त विभक्तय इति । सुप इत्यर्थः ॥ केचित्तु तिङामपरिग्रहप्रसङ्गात्सह शेषेण सप्त कारकाणि विभक्तिशब्दाभिधेयानि - इति व्याचक्षते ॥ वर्षणादिति । कामानां ज्ञानपूर्वकानुष्ठानफलत्वात् ॥ महतेति । परेण ब्रह्मणेत्यर्थः ॥",
"uddyot": "चत्वारीति - ऋङ्मन्त्रः ॥ शब्दस्येति । शब्दशास्त्रप्रतिपाद्यस्येत्यर्थः । वृषभाकारः शब्दशास्त्रप्रतिपाद्यः शब्दो रोरवीति । महान् देवः - अन्तर्यामिरूपः शब्दो मर्त्यानाविवेश - स्वाभेदमाविष्कृतवानिति मन्त्रतात्पर्यम् । महतो देवस्य - शब्दब्रह्मणो व्याकरणज्ञाप्यतया व्याकरणज्ञस्तदाविष्ट इव भवतीति यावत् । भाष्ये - पदजातानि - परापश्यन्तीमध्यमावैखरीरूपाणि । अत एवाग्रे 'निपाताश्च' इति चकारः संगच्छते ॥ नामाख्यातेति । नामशब्देन सुबन्तं, नमति - आख्यातार्थं प्रति विशेषणीभवतीति व्युत्पत्तेः । आख्यातं - तिङन्तम् । उपसर्गनिपातयोः पृथगुपादानं गोबलीवर्दन्यायेन ॥ व्यङ्ग्यः - आन्तरः । व्यञ्जकः - वैखरीरूपः ॥ तिङ्विभक्तीनां षट्त्वादाह - सुप इति ॥ सह शेषेणेति । शेषः - षष्ठ्यर्थः, तत्सहितकारकाभिधायकत्वेन सुप्तिङोरुभयोरपि संग्रह इति भावः ॥ भाष्ये - उरसीत्यादि । 'हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम् ॥ उरस्यं तं विजानीयात् ।' \n'मूर्धन्या ऋटुरषाः' इत्युक्तेर्मूर्धैव शिरः ॥ 'कण्ठे' इत्यनेन मुखान्तर्गतकण्ठादिस्थानमुपलक्ष्यते ॥ ननु वर्षति - मूत्रेण भूमिं सिञ्चतीति - वृषभ इत्युच्यते, तत्कथं शब्द एवम् ? इत्यत आह - कामानामिति । मेघ उदकमिवोक्तचतुश्शृङ्गत्वादिगुणवैशिष्ट्येन ज्ञानपूर्वकं प्रयोगेण कामानां दानादित्यर्थः । द्विशृङ्गद्विपाद्द्विकरकण्ठमात्रबद्धलौकिकवृषभादस्य व्यतिरेकः ॥ किं रोरवीति, तत्राह - भाष्ये - महान् देव इत्यादि । महान् - परब्रह्मस्वरूपो देवः - अन्तर्यामिरूपः शब्दो मर्त्येष्वाविष्ट इत्यर्थः । तदावेशफलमाह - महता देवेनेति । साम्यं - सायुज्यम् । \nतदुक्तं हरिणा\nअपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् ।\nप्राहुर्महान्तमृषभं येन सायुज्यमिष्यते ॥\n'आह च - चत्वारि शृङ्गा त्रयो अस्य पादा इत्यादि ऋग्मन्त्रः। इह द्वौ शब्दात्मानौ - कार्यो नित्यश्च । तत्रान्त्यः सर्वेश्वरः सर्वशक्तिर्महान् शब्दवृषभः, तस्मिन् खलु वाग्योगवित् शास्त्रजशब्दज्ञानपूर्वकं प्रयोगेण क्षीणपापः पुरुषो विच्छिद्याहंकारग्रन्थीन् अत्यन्तं संसृज्यते' इति तदर्थं तद्व्याख्यातारः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 33,
"bhashya": "अपर आह - \n'चत्वारि वाक्परिमिता पदानि\nतानि विदुर्ब्राह्मणा ये मनीषिणः।\nगुहा त्रीणि निहिता नेङ्गयन्ति\nतुरीयं वाचो मनुष्या वदन्ति ॥'\n 'चत्वारि वाक्परिमिता पदानि' चत्वारि पदजातानि - नामाख्यातोपसर्गनिपाताश्च ॥ 'तानि विदुर्ब्राह्मणा ये मनीषिणः।' मनस ईषिणः - मनीषिणः॥ 'गुहा त्रीणि निहिता नेङ्गयन्ति' गुहायां त्रीणि निहितानि नेङ्गयन्ति - न चेष्टन्ते, न निमिषन्तीत्यर्थः ॥ 'तुरीयं वाचो मनुष्या वदन्ति ॥' तुरीयं वा एतद्वाचो यन्मनुष्येषु वर्तते । चतुर्थमित्यर्थः ॥ चत्वारि ॥",
"pradeep": "चत्वारि' इत्यनेनैकदेशेन सदृशेन वाक्यान्तरमपि सूच्यत इत्याह - अपर आहेति । परिमितानि - इति प्राप्ते 'शेश्छन्दसि बहुलम्' इति शेर्लोपे परिमिता - इति भवति । परिमितानि - परिच्छिन्नानि, एतावन्त्येवेत्यर्थः ॥ मनीषिशब्दः पृषोदरादित्वात्साधुः ॥ कथं मनीषिण एव विदन्तीत्याह - गुहेति । अज्ञानमेव गुहा, तस्यामित्यर्थः । 'सुपां सुलक् - ' इति सप्तम्या लुक्, व्याकरणप्रदीपेन तु तानि प्रकाशन्ते । तत्र चतुर्णां पदजातानामेकैकस्य चतुर्थं भागं मनुष्याः - अवैयाकरणा वदन्ति । नेङ्गयन्तीत्यस्यैव व्याख्यानं न चेष्टन्ते, न निमिषन्तीति ॥",
"uddyot": " एतावन्त्येवेति । वाक्परिमितानीति षष्ठीतत्पुरुषः । पदजातानि - परापश्यन्तीमध्यमावैखर्यः, नामादीनि च । नामादिमध्ये च एकैकं चतुष्पादम् ॥ भाष्ये - मनस ईषिणः - चित्तशुद्धिक्रमेण वशीकर्तारः, विषयान्तरेभ्यो व्यावृत्त्या हिंसका वा । ते च वैयाकरणाः ॥ अन्येषां तदज्ञाने हेतुमाह - गुहेति । एकैकस्य - नामादिरूपस्य चतुर्थं भागम् , एकैकस्य चतुरंशत्वात् । परादीनां वा त्रयोंऽशा मध्यमान्ताः । गुहा - अज्ञानं, हृदयादिरूपा च । वैयाकरणस्तु शास्त्रबलेन - तद्बललब्धयोगेन च गुहान्धकारं विदार्य सर्वं जानातीति भावः ॥ न निमिषन्तीति - ज्ञानसामान्यविषयत्वाभाव उच्यते ॥ भाष्ये - यन्मनुष्येषु वर्तते - ज्ञानविषयतया तत् वाचश्चतुर्थमित्यन्वयः । तस्मात्सकलपदज्ञानाय मनीषित्वाय वाऽध्येयं व्याकरणमिति शेषः । हरिरप्याह – \n वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम्।\n अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम् ॥ \nतत्र श्रोत्रविषया वैखरी । मध्यमा हृदयदेशस्था पदादिप्रत्यक्षानुपपत्त्या व्यवहारकारणम् । पश्यन्ती तु लोकव्यवहारातीता । योगिनां तु तत्रापि प्रकृतिप्रत्ययविभागावगतिरस्ति । परायां तु नेति त्रय्या इत्युक्तम् , \n 'स्वरूपज्योतिरेवान्तः परा वागनपायिनी । \n तस्यां दृष्टस्वरूपायामधिकारो निवर्तते ॥' इत्युक्तेः । \nअनेकतीर्थभेदायाः - नामाख्यातादि - वीणावेणुमृदङ्गशब्दादिरूपानेकभेदायाः । आह खल्वपि - चत्वारि वाक्परिमिता पदानि - इति ऋङ्मन्त्र इति तद्वयाख्यातारः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 34,
"bhashya": "उतत्वः - \n'उत त्वः पश्यन्न ददर्श वाच- \nमुत त्वः शृण्वन्न शृणोत्येनाम् ।\nउतो त्वस्मै तन्वं विसस्रे \nजायेव पत्य उशती सुवासाः॥'\nअपि खल्वेकः पश्यन्न पश्यति, अपि खल्वेकः शृण्वन्न शृणोत्येनामिति - अविद्वांसमाहार्धम् ॥ उतो त्वस्मै तन्वं विसस्रे - तनुं विवृणुते । जायेव पत्य उशती सुवासाः । तद्यथा - जायेव पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते, एवं वाक् वाग्विदे स्वात्मानं विवृणुते ॥ वाङ् नो विवृणुयादात्मानमित्यध्येयं व्याकरणम् ॥ उत त्वः ॥",
"pradeep": "उत त्व इति । त्वशब्दोऽन्यवाची । उतशब्दः - अपिशब्दस्यार्थे । स च भिन्नक्रमः, प्रत्यक्षेण शब्दखरूपमुपलभमानोऽप्यर्थापरिज्ञानान्न पश्यतीत्यर्थः ॥ उतो इति । ‘उत - उ’ इति निपातनसमाहारः॥ अविद्वांसमहार्धमिति। अविद्वल्लक्षणमर्थमर्द्धर्च आहेत्यर्थः ॥",
"uddyot": "उतत्व इति । 'उत'शब्दोऽप्यर्थे । बहूनामपि समानपृष्ठोदरपाणिपादानामध्ययनमधीयानानामेकः कश्चित्पश्यन्नपि स्वभ्यस्ताध्ययनोऽपि तीक्ष्णबुद्धिरपि सन्न पश्यति, अर्थानभिज्ञत्वात् । अर्थपरिज्ञानफला हि वाक् - इत्यभिप्रायः । एवं - एकः शृण्वन्नपि न शृणोत्येनां वाचम्, य एव ह्यर्थं सम्यगवबुध्यते तेनैव सा सम्यक् श्रुता भवति ॥ एवमर्धेनाविद्वांसं निन्दित्वाऽर्धान्तरेण विद्वांसं स्तौति - उतो त्वस्मै । अप्येकस्मै - कस्मैचिद्वैयाकरणाय तन्वं - शरीरं विसस्रे = विवृणोति - प्रकाशयति । सम्यक् ज्ञानं हि प्रकाशनमर्थस्य । अर्थो हि वाचः शरीरम् ॥ अथोपमायुक्तयोत्तमया वाचाऽन्त्यपादेनार्थज्ञं प्रशंसति - यथा जाया विवृतसर्वाङ्गावयवा भूत्वोशती कामयमाना भर्त्रे प्रेम्णा दर्शयत्यात्मानम् । कस्मिन् काले ? यदा सुवासाः - निर्णिक्तवासा नीरजस्का ऋतुकालेषु, तदा ह्यतितमां स्त्री पुरुषं प्रार्थयते । यथा स पुरुषस्तां यथावत्पश्यति, शृणोति तद्वचनार्थं; नान्यदा घनपटप्रावृतशरीराम् । एवं - स एवैनां वाचं पदशः प्रकृतिप्रत्ययविभागेन विगृह्यार्थमस्याः पश्यति शृणोति चेति । अयमर्थो निरुक्ततद्भाष्ययोः ( १ अ० १९ ख० ) स्पष्टः । भाष्ये - वाग्विदे - वैयाकरणाय ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 35,
"bhashya": "सक्तुमिव - \n \t\t\t\t'सक्तुमिव तितउना पुनन्तो\nयत्र धीरा मनसा वाचमक्रत । \nअत्रा सखायः सख्यानि जानते\nभद्रैषां लक्ष्मीर्निहिताऽधिवाचि ॥'\nसक्तुः - सचतेर्दुर्धावो भवति, कसतेर्वा विपरीताद्विकसितो भवति । तितउ - परिपवनं भवति, ततवद्वा, तुन्नवद्वा । धीराः - ध्यानवन्तः, मनसा - प्रज्ञानेन, वाचमक्रत - अकृषत । \n 'अत्रा सखायः सख्यानि जानते' अत्र सखायः सन्तः सख्यानि जानते - सायुज्यानि जानते । \nक्व? \nय एष दुर्गो मार्गः, एकगम्यो वाग्विषयः॥ \nके पुनस्ते? \nवैयाकरणाः॥ \nकुत एतत्? \n'भद्रैषां लक्ष्मीर्निहिताऽधिवाचि।' \nएषां वाचि भद्रा लक्ष्मीर्निहिता भवति । लक्ष्मीर्लक्षणाद्भासनात्परिवृढा भवति ॥ सक्तुमिव ॥",
"pradeep": "सचतेरिति । 'षच - सेचने' इत्यस्य । दुर्धाव इति । दुःशोधः । यथा - तितउना सक्तोस्तुषाद्यपनीयते तथा व्याकरणेन वाचोऽपशब्दा इत्यर्थः ॥ कसतेरिति । पृषोदरादित्वाद्वर्णव्यत्ययः ॥ ततवदिति । विस्तारयुक्तमित्यर्थः ॥ तुन्नवदिति । बहुच्छिद्रम् ॥ धीरा इति । वैयाकरणाः ॥ वाचमक्रतेति । अपशब्देभ्यो विविक्तां कृतवन्तः । 'मन्त्रे घस - ' इति लेर्लुकि सति 'अक्रत' इति रूपम् ॥ अत्रा सखाय इति । 'ऋचि तुनुघ - ' इति दीर्घः । सखायः समानख्यातयो भेदग्रहस्य निवृत्तत्वात्सर्वमेकमिति मन्यन्ते ॥ सख्यानीति । सायुज्यानीत्यर्थः ॥ एकगम्य इति । ज्ञानेनैव प्राप्यः ॥ वाचीति । वेदाख्ये ब्रह्मणि या लक्ष्मीर्वेदान्तेषु परमार्थसंविल्लक्षणोक्ता सैषां निहितेत्यर्थः ॥",
"uddyot": "भाष्ये - सक्तुमिवेति। यत्र - व्याकरणे धीराः - ध्यानवन्तः सन्तस्तितउना सक्तुमिव ध्यानयुक्तमनसा तल्करणज्ञानेन वाचमक्रत - अकृषत - असाधुभ्यो विविक्तां कृतवन्तस्ते तत्करणेन शुद्धचित्ता अत्र - ब्रह्मप्रतिपादकशब्दे शब्दार्थयोरभेदबुद्ध्या सखायः = समानख्यातयः = समानज्ञानाः, तच्छब्दे ब्रह्मैकत्वज्ञानवन्तस्तेनैव दृष्टान्तेन सर्वपदार्थेषु ब्रह्मनिरूपिताभेदज्ञानवन्तः सख्यानि = सायुज्यानि जानते, प्राप्नुवन्तीत्यर्थः । यत एषां वाचि भद्रा लक्ष्मीः स्वप्रकाशब्रह्मरूपा अधि = अधिकं निहिता = स्थिता भवतीति ऋगर्थः ॥ सचतेर्दुर्धाव इति । यतः सचतेः, अतो दुःशोधार्थप्रतिपादको भवतीत्यर्थः ॥ तितउशब्द इत एव भाष्यान्नपुंसकः । 'चालनी तितउः पुमान्' इति कोशात्पुंलिङ्गोऽपि ॥ विस्तारेति । 'तनोतेर्डउः सन्वच्च' इति व्युत्पत्तेरिति भावः ॥ तुन्नेति । तुदधातोः कर्मणि डउः सन्वच्चेति भावः ॥ ध्यानं - ज्ञातार्धभानम् ॥ 'मनसा' इति व्यापारपरं, तदाह - प्रज्ञानेनेति ॥ भाष्ये - क्वेति । 'किं तत् यत्र सायुज्यानि प्राप्नुवन्ति' इति प्रश्नः ॥ उत्तरयति - य एष इति । दुर्गमार्गप्राप्यत्वात् दुर्गमार्गत्वोपचारः ॥ दुर्गत्वमेवाह - एकेति ॥ ज्ञानेनैवेति । निर्विकल्पकज्ञानेनैवेत्यर्थः । अत एव दुर्गत्वं, 'नान्यः पन्थाः ' इति श्रुतेरिति भावः ॥ भाष्ये - वाग्विषय इति । अत एव श्रवणोपपत्तिः ॥ वाक् वेदरूपाऽत्र । वेदान्तेष्विति । सत्यं ज्ञानमित्यादिषु । परमार्थसंविल्लक्षणा परमार्थब्रह्ममात्रविषयाऽखण्डार्थरूपा सैषां वाचि निहितेत्यर्थः । सर्वोऽपि वेदस्तेषां ब्रह्मपरः, वेदैश्च सर्वैरहमेव वेद्य इत्युक्तेरिति भावः ॥ अयं भावः - ये शास्त्रतः प्रकृतिप्रत्ययविभागेन साधून् ज्ञात्वा शास्त्रार्थध्यानवन्तो मानसज्ञानेन वाचमसाधुभ्यः पृथक् कृतवन्तस्ते तज्ज्ञानपूर्वकैः साधुशब्दप्रयोगैर्लब्धान्तःकरणशुद्धयः, अत्र य एष दुर्गो मार्गो ब्रह्मरूपस्तत्रात्मना सह समानख्यातयः - त्यक्तभेदभावनाः सख्यानि - सायुज्यानि प्राप्नुवते । यत एषां वाचि वेदाख्ये ब्रह्मणि सर्वभासकब्रह्मरूपा सा अधि - अधिकं निहिता भवति । एतच्छास्त्रसाध्यप्रयोगव्यङ्ग्यस्य ध्वनिरूपवैखरीरूपरूषितस्यैव तैर्वाचकत्वस्वीकारेण तस्य चात्यन्तविचारे ब्रह्मातिरेके मानानुपलम्भेन तत्तदुपाधिभिन्नचित एव बोधकतया तैर्ग्रहात् । एवं सर्वबोधकेषु ब्रह्मबुद्धौ जातायां तेनैव दृष्टान्तेन सर्वपदार्थेषु ब्रह्मबुद्धिर्वैयाकरणानामिति ॥ यत्तु पदपदार्थवाक्यार्थमर्यादया 'सत्यं - ' इत्यादितस्तेषां तद्वोधात्सा तेषां वाचि निहितेति, तन्न; 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुत्या ब्रह्मणस्तन्मर्यादया शब्दाबोध्यत्वोक्तेः । तत्र हि 'अप्राप्य' इत्यस्य संबन्धज्ञानेऽविषयीभूय - असंबध्य चेत्यर्थः । आद्यं शब्दे, अन्त्यं मनसि ॥ शुद्धचित्तस्य तूभयमपि बोधकमखण्डविषयस्य, दृश्यते त्वग्र्यया बुद्ध्येति श्रुत्यन्तरात् ; न तु पदपदार्थमर्यादयेति बोध्यम् । [ एवञ्च सर्वबोधकेषु ब्रह्मबुद्धौ जातायां तेनैव दृष्टान्तेन सर्वपदार्थेष्वपि ब्रह्मबुद्धिर्वैयाकरणानामिति तात्पर्यम् ॥]\nलक्षणादित्यस्य व्याख्या - भासनादिति॥ परिवृढा - अज्ञाननिवर्तने प्रभ्वी ॥ एते च मन्त्राः सर्वानुक्रमेऽन्यत्र विनियुक्ता अपि भाष्यप्रामाण्यादेतत्तात्पर्यका अपीति बोध्यम् ॥ 'चत्वारि - ' इत्यादि ऋक्चतुष्टयं व्याकरणस्य मोक्षजनकत्वं प्रतिपादयति ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 36,
"bhashya": "सारस्वतीम् –\nयाज्ञिकाः पठन्ति - 'आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्' इति ॥ प्रायश्चित्तीया मा भूमेत्यध्येयं व्याकरणम् ॥ \nसारस्वतीम् ॥",
"pradeep": " प्रायश्चित्तीयामिति । भवार्थे 'वृद्धाच्छः' ॥ प्रायश्चित्तीया इति । प्रायश्चित्ताय - पापशोधनाय श्रुतिस्मृतिविहिताय कर्मणे हिताः - तन्निमित्तोत्पादका मा भूमेत्यर्थः ॥",
"uddyot": " भवार्थे इति । प्रायश्चित्तसाधनत्वेन तद्भवत्वम् ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 37,
"bhashya": "दशम्यां पुत्रस्य - \nयाज्ञिकाः पठन्ति - 'दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्यात् घोषवदाद्यन्तरन्तस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितम् । तद्धि प्रतिष्ठिततमं भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितम्' इति ॥ न चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुम् ॥ \nदशम्यां पुत्रस्य ॥",
"pradeep": "दशम्युत्तरकालमिति । दशम्या उत्तर इति 'पञ्चमी - ' इति योगविभागात्समासः। ततः कालशब्देन बहुव्रीहिः । क्रियाविशेषणं चैतत् । दश दिनान्यशौचं भवति - इति दशम्युत्तरकालमित्युक्तम् । येऽपि गृह्यकाराः पठन्ति - दशम्यां \nपुत्रस्य' इति, तैर्दशम्यामिति सामीपिकमधिकरणं व्याख्येयम् ॥ घोषवदादीति । घोषवन्तो ये वर्णाः शिक्षायां प्रदर्शिताः, तदादि ॥ अन्तरन्तस्थमिति । मध्ये यरलवा यस्य तदित्यर्थः ॥ त्रिपुरुषानूकमिति । नामकरणे योऽधिकारी पिता तस्य ये त्रयः पुरुषास्ताननुकायति - अभिधत्त इति त्रिपुरुषानूकम् , 'अन्येषामपि दृश्यते' इति दीर्घः ॥",
"uddyot": " पञ्चमीति योगविभागादिति । 'सुप्सुपा' इति तु युक्तम् ॥ ननु ‘दशम्यां पुत्रस्य' इति प्रयोजनस्वरूपगणने भाष्ये उक्तम् । गृह्येऽपि तथैव पठ्यते, अतः 'दशम्युत्तरकालं' इत्ययुक्तमत आह - तैरपीति ॥ शिक्षायामिति । ते च हशः । अन्तरन्तःस्था यस्येत्यर्थः ॥ त्रिपुरुषानूकम् । त्रिपुरुषशब्दो द्विगुः । मूलविभुजादित्वात्कः ॥ भाष्ये - अनरीति । अमनुष्ये अरिभिन्ने - इति वाऽर्थः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 38,
"bhashya": "सुदेवो असि वरुण –\n'सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।\nअनु क्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥'\n'सुदेवो असि वरुण' - सत्यदेवोऽसि, 'यस्य ते सप्त सिन्धवः ।' - सप्त विभक्तयः, 'अनुक्षरन्ति काकुदम्' काकुदं=तालु । काकुः =जिह्वा, साऽस्मिन्नुद्यत इति - काकुदम् । 'सूर्म्यं सुषिरामिव ।' तद्यथा - शोभनामूर्मिं सुषिरामग्निरन्तः प्रविश्य दहति, एवं ते सप्त सिन्धवः - सप्त विभक्तयस्ताल्वनुक्षरन्ति । तेनासि सत्यदेवः ॥ सत्यदेवाः स्यामेत्यध्येयं व्याकरणम् ॥ \nसुदेवो असि ॥",
"pradeep": " सुदेवो असीति । वरुणस्येयं स्तुतिः । यतो हेतोर्व्याकरणज्ञानाद्वरुणः सत्यदेवः, ततो हेतोरन्येऽपि सत्यदेवा भवन्तीत्यर्थः ॥ सिन्धव इति । नद्य इव विभक्तय इत्यर्थः ॥ अनुक्षरन्तीति । ताल्वनुप्राप्य प्रकाशन्त इत्यर्थः ॥ साऽस्मिन्नुद्यत इति । अनेकार्थत्वाद्धातूनां 'उत्क्षिप्यते' इत्यर्थः॥ सूर्म्यमिति । 'सूर्मिं' इति प्राप्ते 'अमि पूर्वः' इत्यत्र 'वा छन्दसि' इत्यनुवृत्त्या यणादेशः ॥",
"uddyot": " सत्यदेवा इति । वरुणे यथा - सत्येन दीव्यति द्योतत इति यौगिकोऽयं शब्दस्तथाऽन्येष्वपीत्यर्थः ॥ यस्येति । पञ्चमीस्थाने षष्ठी । यस्मात्ते काकुदं - तालु प्राप्य सिन्धवः सप्तसमुद्ररूपाः सप्तविभक्तयोऽनुक्षरन्ति, प्रकाशन्ते - इत्यर्थः ॥ अनेकार्थत्वादिति । वदेरधिकरणे 'घञर्थे - ' इति कः। शकन्धुवत्पररूपं, पृषोदरादित्वाद्वैकस्योकारस्य लोपः । नुदेर्वाऽधिकरणे कः, पृषोदरादित्वान्नुलोपः॥ सूर्मिं - शोभनामयःप्रतिमाम् , सुषिरां - 'ऊषसुषि - इति रप्रत्ययेन' सच्छिद्रां प्रविश्याग्निर्यथा तत्रत्यं मलं भस्मीकृत्य प्रतिमां शुद्धां करोति, एवं तालुदेशे प्रकाशं प्राप्य विभक्तयः - विभक्त्यन्ताः शब्दाः शारीरं पापमपाकुर्वन्तीत्यर्थः ॥ अनेन स्वर्गप्राप्तिः फलमित्युक्तम्॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 39,
"bhashya": "किं पुनरिदं व्याकरणमेवाधिजिगांसमानेभ्यः प्रयोजनमन्वाख्यायते, न पुनरन्यदपि किंचित् - 'ॐ' इत्युक्त्वा वृत्तान्तशः 'शम्' इत्येवमादीन् शब्दान्पठन्ति ?",
"pradeep": " किं पुनरिति । ननु 'कानि पुनरस्य' इति येन पृष्टं स एव कथं पृच्छति - 'किं पुनर्' इति । एवं तर्हि भाष्यकारः प्रयोजनान्वाख्यानस्य विषयविभागं दर्शयति । पुरा वेदाध्ययनात्पूर्वं व्याकरणमधीयते ते बाल्यात्प्रष्टुमसमर्था इति न प्रयोजनमन्वाख्येयम् । अद्यत्वे तु स्वल्पायुष्ट्वात्पूर्वमेव वेदं प्रधानमधीयते, अतः प्रष्टुं समर्थत्वाद्व्याकरणाध्ययनस्य प्रयोजनं पृच्छन्तीत्यवश्यान्वाख्येयं प्रयोजनम् ॥ न पुनरन्यदिति । वेदमप्यधिजिगांसमानेभ्य इत्यर्थः ॥ ॐ इत्युक्त्वेति । अभ्युपगम्येत्यर्थः ॥ वृत्तान्तश इति । वृत्तान्तः प्रपाठक उच्यते । वृत्तान्तं वृत्तान्तं प्रति - इत्यर्थः ॥",
"uddyot": " एवं तर्हीति । 'वेदातिरिक्तविषय एव प्रयोजनान्वाख्यानं, न तु वेदविषये' इत्येवंरूपं - विषयविभागम् ॥ तृतीयस्य प्रश्न इत्यन्ये ॥ किंचित्पदार्थमाह - वेदमपीति । शेषपूरणमन्यत् । किं तत् किञ्चिदित्याकाङ्क्षायां - भाष्ये - ओमित्युक्त्वेति ॥ 'पठन्ति' इत्यस्यानन्तरं तेभ्योऽपि' इति शेषः । एवञ्च वेदमधिजिगांसमानेभ्यो वेदाध्ययनप्रयोजनं किमिति नान्वाख्यायत इति प्रश्नः ॥ वेदाध्ययनवत् व्याकरणाध्ययनमपि प्रयोजनमन्तरैव करिष्यन्तीति प्रयोजनविचारो व्यर्थ इति तात्पर्यम् ॥ नन्वोमित्यधिकमत आह - अभ्युपगम्येति । विनैव प्रयोजनज्ञानमिति शेषः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 40,
"bhashya": "पुराकल्प एतदासीत् - संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्माधीयते, तेभ्यस्तत्तत्स्थानकरणनादानुप्रदानज्ञेभ्यो वैदिकाः शब्दा उपदिश्यन्ते । अद्यत्वे न तथा । वेदमधीत्य त्वरिता वक्तारो भवन्ति । 'वेदान्नो वैदिकाः शब्दाः सिद्धाः, लोकाच्च लौकिकाः, 'अनर्थकं व्याकरणम्' इति । तेभ्य एवं विप्रतिपन्नबुद्धिभ्योऽध्येतृभ्य आचार्य इदं शास्त्रमन्वाचष्टे - इमानि प्रयोजनान्यध्येयं व्याकरणम् - इति ॥",
"pradeep": "अद्यत्वेशब्दो निपातः - अस्मिन् काल इत्यत्रार्थे वर्तते ॥ त्वरिता इति । विवाहादौ ॥",
"uddyot": "भाष्ये - उत्तरमाह - पुराकल्पे इति । युगान्तरे इत्यर्थः ॥ संस्कारः - उपनयनम् ॥ करणं - आभ्यन्तरप्रयत्नः ॥ अनुप्रदानं - नादादिबाह्यप्रयत्नः । तेनाधीतव्याकरणशिक्षेभ्य इत्यर्थः । ते तदानीमपि कर्मानुष्ठानफलकत्वं वेदस्य जानन्तो नित्यत्वं वा तदध्ययनस्य जानन्तो न तदध्ययनप्रयोजनं पृच्छन्तीति न कदाचिदपि वेदाध्ययनप्रयोजनोपदेश इति तात्पर्यम् ॥ (भाष्ये) - न तथेति । किं तु विपरीतमित्यर्थः । भाष्ये - आचार्यपदेन शास्त्राध्यापको भाष्यकृदेव विवक्षितः ॥ इदं शास्त्रमिति । प्रयोजनान्वाख्यानमित्यर्थः ॥"
},
{
"adhikarana_id": 2,
"adhikarana_name": "शास्त्रप्रयोजनाधिकरणम्",
"chunk_id": 41,
"bhashya": "उक्तः शब्दः । स्वरूपमप्युक्तम् । प्रयोजनान्यप्युक्तानि ॥",
"pradeep": "",
"uddyot": "भाष्ये - उक्तः शब्द इति । 'लौकिकानां वैदिकानां च' इत्यनेन विषयभूतः शब्द उक्त इत्यर्थः ॥ स्वरूपमपीति । 'अथ गौः' इत्यादिना ॥ अयमुपसंहारो ग्रन्थस्य, विषयप्रयोजननिरूपणमेतावता कृतमिति बोधयितुम् । तेनैव संबन्धाधिकारिणावुक्ताविति तौ पृथङ्नोक्तौ ॥"
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 42,
"bhashya": "शब्दानुशासनमिदानीं कर्तव्यम् । किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः, आहोस्विदुभयोपदेश इति?",
"pradeep": " उभयोपदेश इति । हेयोपादेयोपदेशे स्पष्टा प्रतिपत्तिर्भवति - इत्युभयोपदेश उद्भावितः ॥",
"uddyot": ""
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 43,
"bhashya": "अन्यतरोपदेशेन कृतं स्यात् । तद्यथा - भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते । 'पञ्च पञ्चनखा भक्ष्याः' इत्युक्ते गम्यत एतत् - अतोऽन्येऽभक्ष्या इति ॥ अभक्ष्यप्रतिषेधेन च भक्ष्यनियमः । तद्यथा - 'अभक्ष्यो ग्राम्यकुक्कुटः - अभक्ष्यो ग्राम्यसूकरः' इत्युक्ते गम्यत एतत् - आरण्यो भक्ष्य इति ॥ एवमिहापि। यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपदिष्टे गम्यत एतत् - गाव्यादयोऽपशब्दा इति । अथाप्यपशब्दोपदेशः क्रियेत, गाव्यादिषूपदिष्टेषु गम्यत एतत् - गौरित्येष शब्द इति ॥",
"pradeep": "यद्यपि प्रतिपत्तिः स्पष्टा, गौरवं तु भवतीत्याह अन्यतरेति । शब्दापशब्दयोरित्यर्थः । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावात् द्विबहुविषये निर्धारणे वर्तेते ॥ पञ्चेति । अर्थित्वाद्भक्षणं प्राप्तं पञ्चसु पञ्चनखेषु नियम्यमानं सामर्थ्यादन्येभ्यो निवर्तते । न त्वयं विधिः, अप्राप्तेरभावात् ॥",
"uddyot": "किंयत्तद्भ्योऽन्यत्र डतराभावादाह - अन्यतरान्येति । तत्र सुशब्दोपदेशः प्रयोगविध्यर्थोऽनुवादः। अपशब्दोपदेशस्तु प्रयोगप्रतिषेधार्थः ॥ पञ्चनखा इत्यस्य नियमत्वं दर्शयति - अर्थित्वादिति । नियम्यमानं - बोध्यमानमित्यर्थः ॥ ननु अस्य परिसङ्ख्यात्वात्कथं नियमत्वेन व्यवहारः ? अस्ति च नियमपरिसंख्ययोर्भेदः । पाक्षिकाप्राप्तिकाप्राप्तांशपरिपूरणफलो नियमः । अन्यनिवृत्तिफला च परिसंख्या - इति चेत् , न। नियमेऽप्यप्राप्तांशपरिपूरणरूपफलबोधनद्वाराऽर्थान्यनिवृत्तेः सत्त्वेन अभेदमाश्रित्योक्तेः ॥ विधिरिति । अपूर्वविधिरित्यर्थः ॥ ये तु पञ्चपदस्य तदतिरिक्ते लक्षणा, भक्ष्यपदस्य चाभक्ष्ये सा - इति वदन्ति तेषां पदद्वये लक्षणागौरवम् । अस्यैव नियमत्वेन ‘भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते' इति भाष्यविरोधश्च । नियमपदस्य तद्बोधके लक्षणायां सैव दोषः, अक्षरास्वारस्यं च । 'नियम्यमानं भक्षणं सामर्थ्यादन्येभ्यो निवर्तते' इति कैयटासंगतिश्च। दृष्टान्तदार्ष्टान्तिकयोरत्यन्तवैषम्यापत्तिश्च । 'अन्यनिवृत्तिफला परिसंख्या' इति अभियुक्तोक्तिविरोधश्च। सिद्धस्य पुनर्विधानात्प्रापकप्रमाणस्य तदितराविषयत्वरूपसङ्कोचकल्पनम् । तेनान्येषां भक्षणाभावस्तद्भक्षणे प्रायश्चित्तं च सिध्यति । एवसमभिव्याहारे सोऽपि स्फुटमस्यार्थस्यैव द्योतकः । अन्ययोगव्यवच्छेद एवकारार्थ इति तु सामान्यप्रमाणसंकोचफलितमर्थमादाय नेयम् ॥ भक्ष्यनियम इति । भक्ष्यानुमतिरूप उपदेश इत्यर्थः ॥"
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 44,
"bhashya": "किं पुनरत्र ज्यायः?",
"pradeep": "किं पुनरिति । उभयोपदेशाद्गुरोर्द्वावपि प्रशस्यौ, तयोः को ज्यायानित्यर्थः ॥",
"uddyot": ""
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 45,
"bhashya": "लघुत्वाच्छब्दोपदेशः । लघीयाञ्छब्दोपदेशः । गरीयानपशब्दोपदेशः । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा - गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिका - इत्येवमादयोऽपभ्रंशाः। इष्टान्वाख्यानं खल्वपि भवति ॥",
"pradeep": "इष्टेति । साधुप्रयोगाद्धर्मावाप्तेरित्यर्थः। अथवा - उपादेयोपदेशात्साक्षात्प्रतिपत्तिर्भवतीति भावः॥",
"uddyot": ""
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 46,
"bhashya": "अथैतस्मिञ्शब्दोपदेशे सति किं शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः - गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इत्येवमादयः शब्दाः पठितव्याः ?",
"pradeep": "",
"uddyot": "भाष्ये 'प्रतिपत्तौ' इत्यस्योपायभूत इति शेषः ॥"
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 47,
"bhashya": "नेत्याह । अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः ॥ एवं हि श्रूयते - 'बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम' ॥ बृहस्पतिश्च प्रवक्ता, इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकालः, न चान्तं जगाम ।\nकिं पुनरद्यत्वे ? यः सर्वथा चिरं जीवति - वर्षशतं जीवति । चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति - आगमकालेन, स्वाध्यायकालेन, प्रवचनकालेन, व्यवहारकालेनेति । तत्र चास्यागमकालेनैवायुः पर्युपयुक्तं स्यात् । तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः॥",
"pradeep": "बृहस्पतिरिन्द्रायेति । प्रतिपदपाठस्याशक्यत्वं प्रतिपादयितुमयमर्थवादः ॥ शब्दानामिति । 'शब्दपारायण’ शब्दो योगरूढः शास्त्रविशेषस्य, तत्र 'प्रतिपदोक्तानां' इति विशेषणाभिधानाय गम्यमानार्थस्यापि 'शब्दानाम्' इत्यस्य प्रयोगः ॥ एकदेशोपयोगादपि लोके 'उपयुक्तम्' इत्युच्यते । यथा - औषधसंस्कृतघृतमात्रैकदेशोपयोगे 'उपयुक्तं घृतम्' इति व्यवहारः, तथेह न - इति प्रतिपादयति - चतुर्भिरिति । आगमकालः = ग्रहणकालः । स्वाध्यायकालः = अभ्यासकालः । प्रवचनकालः = अध्यापनकालः । व्यवहारो याज्ञे कर्मणि ॥",
"uddyot": "(भाष्ये) - अनभ्युपाय इति । तत्त्वं चाशक्यत्वेन, कृत्स्नाभिमतानभ्युपायत्वात् । तत्रार्थवादमाह - भाष्ये - बृहस्पतिरिति ॥ ननु 'शब्दानां' इति पुनरुक्तमत आह — योगरूढ इति ॥ अर्थपौनरुक्त्यमाशङ्क्य निराकरोति - तत्रेति ॥ ननु यावदेवाध्येष्यते तावदेवाभ्युपयुक्तं स्यादत आह - भाष्ये - चतुर्भिरिति ॥ उक्तमेव तदाशयमाह - एकदेशेत्यादि । विद्योपयोगाधारभूतानां कालानां विद्यां प्रत्यप्याधारत्वात् तस्य च करणत्वविवक्षा बोध्या । चतुर्षु कालेषु विद्योपयुज्यते - इति फलितोऽर्थः । तत्राद्ययोः 'विद्यार्थ्ययं बुद्धिमान्' इत्यादरपूर्वकमन्नवस्त्रादिलाभरूप उपयोगः । तृतीये - प्रतिष्ठा, सच्छिष्यलाभद्वाराऽर्थप्राप्तिः, सत्कारविशेषश्च । चतुर्थे - यज्ञाद्यनुष्ठानकालेऽपशब्दप्रयोगप्रयुक्तप्रायश्चित्ताभावः, कर्मसाङ्गता, दक्षिणालाभः, प्रतिष्ठा चेत्युपयोगः । तादृशश्चोपयोगः सर्वाध्ययन एव ॥ भाष्ये — पर्युपयुक्तमिति । समाप्तमित्यर्थः । ‘पर्यवसन्नम्' इति पाठान्तरम् । न चेष्टापत्तिः, विद्योच्छेदापत्तेः । कर्मसु प्रायश्चित्तविधिवैयर्थ्यापत्तेश्च॥"
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 48,
"bhashya": "कथं तर्हीमे शब्दाः प्रतिपत्तव्याः? \nकिंचित्सामान्यविशेषवल्लक्षणं प्रवर्त्यम् । येनाल्पेन यत्नेन महतो महतः शब्दौघान् प्रतिपद्येरन् ॥ \nकिं पुनस्तत् ? उत्सर्गापवादौ । कश्चिदुत्सर्गः कर्तव्यः, कश्चिदपवादः ॥",
"pradeep": "किंचिदिति । सामान्यविशेषौ यस्मिंस्तत् - सामान्यविशेषवत्। 'कर्मण्यण्', ’आतोऽनुपसर्गे कः' इत्यादि ॥",
"uddyot": "ननु तदात्मकत्वाल्लक्षणस्य मतोरनुपपत्तिरत आह - सामान्यविशेषाविति । लक्षणं - शास्त्रमित्यर्थः॥"
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 49,
"bhashya": "कथंजातीयकः पुनरुत्सर्गः कर्तव्यः, कथंजातीयकोऽपवादः?",
"pradeep": "",
"uddyot": "भाष्ये - कथंजातीयक इति । केन प्रकारेणेत्यर्थः । एतेनैवंजातीयकेन शास्त्रेण सुशब्दोपदेशप्रवृत्तिः पाणिनेरुचितेति सूचितम् ॥"
},
{
"adhikarana_id": 3,
"adhikarana_name": "शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्",
"chunk_id": 50,
"bhashya": "सामान्येनोत्सर्गः कर्तव्यः । तद्यथा - 'कर्मण्यण्'। \nतस्य विशेषेणापवादः । तद्यथा - 'आतोऽनुपसर्गे कः' ॥",
"pradeep": "",
"uddyot": ""
},
{
"adhikarana_id": 4,
"adhikarana_name": "जातिव्यक्तिपदार्थनिर्णयाधिकरणम्",
"chunk_id": 51,
"bhashya": "किं पुनराकृतिः पदार्थः, आहोस्विद् द्रव्यम्? \nउभयमित्याह ॥\nकथं ज्ञायते? \nउभयथा ह्याचार्येण सूत्राणि पठितानि । आकृतिं पदार्थं मत्वा - 'जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्' इत्युच्यते । द्रव्यं पदार्थं मत्वा - 'सरूपाणाम् - ' इत्येकशेष आरभ्यते ॥",
"pradeep": "सकलशास्त्रव्यवस्था एकतरपक्षाश्रयणे न सिध्यतीति पक्षद्वयाश्रयणं प्रश्नपूर्वकं करोति - किं पुनरिति । आकृतिपक्षे केवल आश्रीयमाणे 'सकृद्गतौ विप्रतिषेधे - ' इत्यादि नोपपद्यते, केवलेऽपि व्यक्तिपक्षे 'पुनःप्रसङ्गविज्ञानात्' इत्यादि न घटेत । तस्माल्लक्ष्यसिद्धये क्वचित्प्रदेशे कश्चित्पक्षः परिगृह्यते । तत्र जातिवादिन आहुः - जातिरेव शब्देन प्रतिपाद्यते, व्यक्तीनामानन्त्यात्संबन्धग्रहणासंभवात् । सा च जातिः सर्वव्यक्तिष्वेकाकारप्रत्ययदर्शनादस्तीत्यवसीयते । तत्र गवादयः शब्दा भिन्नद्रव्यसमवेतां जातिमभिदधति । तस्यां प्रतीतायां तदावेशात्तदवच्छिन्नं द्रव्यं प्रतीयते । शुक्लादयः शब्दा गुणसमवेतां जातिमाचक्षते । गुणे तु तत्संबन्धात्प्रत्ययः, द्रव्ये संबन्धिसंबन्धात् । संज्ञाशब्दानामप्युत्पत्तिप्रभृत्याविनाशात् पिण्डस्य कौमारयौवनाद्यवस्थाभेदेऽपि स एवायमित्यभिन्नप्रत्ययनिमित्ता डित्थत्वादिका जातिर्वाच्या । क्रियास्वपि जातिर्विद्यते, सैव धातुवाच्या। पठति - पठतः - पठन्ति - इत्यादेरभिन्नस्य प्रत्ययस्य सद्भावात्तन्निमित्तजात्यभ्युपगमः ॥ व्यक्तिवादिनस्त्वाहुः - शब्दस्य व्यक्तिरेवाभिधेया, जातेस्तूपलक्षणभावेनाश्रयणादानन्त्यादिदोषानवकाशः ॥",
"uddyot": "आकृतिपक्षे इति । तत्र उद्देश्यतावच्छेदकजात्याक्रान्ते क्वचिच्चरितार्थयोर्द्वयोः सत्प्रतिपक्षन्यायेन विरोधस्थले उभयोरप्यप्राप्तौ 'विप्रतिषेधे परम्' इति विध्यर्थम्, न तु नियमार्थमिति 'सकृद्गतौ' इति न सिद्ध्यति । व्यक्तौ तु तत्तद्व्यक्तिविषययोरपि शास्त्रयोरचारितार्थ्यात्पर्यायेणोभयप्राप्तौ नियमार्थं तदिति 'पुनः प्रसङ्गेन' इत्यादि न सिद्ध्यतीत्यर्थः । इदं च विप्रतिषेधसूत्रे दूषयिष्यते ॥ तस्यां प्रतीतायामिति । शब्दशक्यत्वेन गृहीतायामित्यर्थः । एवं 'अभिदधति' इत्यस्याभिधाविषयत्वेन गृह्णन्तीत्यर्थः ॥ तदावेशात्तत्समवायात् ॥ प्रतीयत इति । अविनाभावाच्छब्दजन्यबोधविषयो भवतीत्यर्थः । प्रत्ययः - ज्ञानम् ॥ उपलक्षणभावेनेति । शक्यतावच्छेदकत्वेनेत्यर्थः । तत्र तु न शक्तिरिति मञ्जूषायां प्रतिपादितम् ॥ \n[भाष्ये - जात्याख्यायामिति । व्यक्तौ पदार्थे ‘संपन्ना ब्रीहयः' इति व्यक्तिबहुत्वाद्बहुवचनं सिद्धमेवेति व्यर्थं तत्स्यात् - इति भावः ॥ सरूपाणामिति । आकृतेरेकत्वादेवैकशब्दप्रयोगोपपत्तौ तदुक्तिसंभवो व्यक्तिपक्ष एवेति भावः । न चाकृतिपक्षेऽपि 'अक्षाः' 'पादाः' इत्याद्यर्थं स आवश्यक इति वाच्यम् । तावतीषु कांचिदेकां जातिं स्वीकृत्य तस्या एव शब्दवाच्यत्वम् , परम्परयाऽत्र व्यक्तिप्रत्यय इति सरूपसूत्रे कैयटेनैव वक्ष्यमाणत्वात् । जातौ न जातिरिति परेषां दर्शनं, नास्माकमिति च तत्रोक्तम् ॥]"
},
{
"adhikarana_id": 5,
"adhikarana_name": "शब्दनित्यत्वानित्यत्वविचारः",
"chunk_id": 52,
"bhashya": "किं पुनर्नित्यः शब्दः, आहोस्वित्कार्यः?",
"pradeep": "किं पुनरिति । विप्रतिपत्त्या संशयः । केचित् ध्वनिव्यङ्ग्यं वर्णात्मकं नित्यं शब्दमाहुः। अन्ये - वर्णव्यतिरिक्तं पदस्फोटमिच्छन्ति। वाक्यस्फोटमपरे संगिरन्ते। अन्ये तु - ध्वनिरेव शब्दः स च कार्यः, तद्व्यतिरेकेणान्यस्यानुपलम्भात् इत्याचक्षते ॥",
"uddyot": " विप्रतिपत्त्येति । शब्दानां नित्यत्वे व्यर्थं व्याकरणशास्त्रमिति प्रश्नाशयः ॥ केचित् - मीमांसकाः ॥ वर्णात्मकमिति । पदवाक्ये च वर्णसमूहरूपे एवेति तदाशयः । अत्र मते 'एकं पटपदम्' इत्याद्यनुपपत्तेराह – अन्ये - वैयाकरणाः ॥ अपरे - त एव मुख्याः । पदे वर्णानामिव वाक्ये पदानां कल्पितत्वात् तेषामर्थवत्त्वमपि काल्पनिकमिति वाक्यस्यैव शब्दत्वमिति तद्भावः ॥ अन्ये त्विति । वैशेषिकादयः ॥ ध्वनिरिति । स च वर्णावर्णात्मकत्वेन द्विविधः । एवं च कण्ठादिवच्छास्त्रमपि तस्य कारणमित्याशयः ॥"
},
{
"adhikarana_id": 5,
"adhikarana_name": "शब्दनित्यत्वानित्यत्वविचारः",
"chunk_id": 53,
"bhashya": "संग्रह एतत्प्राधान्येन परीक्षितम् - नित्यो वा स्यात्कार्यो वेति । तत्रोक्ता दोषाः, प्रयोजनान्यप्युक्तानि । तत्र त्वेष निर्णयः - यद्येव नित्यः, अथापि कार्यः, उभयथाऽपि लक्षणं प्रवर्त्यमिति ॥",
"pradeep": " संग्रह इति । ग्रन्थविशेषे ॥",
"uddyot": "संग्रहः - व्याडिकृतो लक्षश्लोकसंख्यो ग्रन्थ इति प्रसिद्धिः ॥ भाष्ये - उभयथाऽपीति । एवं च निष्फलोऽयं विचार इति भावः ॥ साधुत्वज्ञानायोभयथाऽपि शास्त्रमावश्यकमिति तात्पर्यम् ॥"
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 54,
"bhashya": "कथं पुनरिदं भगवतः पाणिनेराचार्यस्य लक्षणं प्रवृत्तम् ? ॥ * ॥ सिद्धे शब्दार्थसंबन्धे ॥ * ॥ सिद्धे शब्देऽर्थे संबन्धे चेति ॥",
"pradeep": "कथं पुनरिति । किमाचार्य एव स्रष्टा शब्दार्थसंबन्धानाम्, अथ स्मर्ता - इति प्रश्नः॥ सिद्ध इति । तत्र नित्यः शब्दो जातिस्फोटलक्षणो व्यक्तिस्फोटलक्षणो वा। कार्यशब्दिकानामपि प्रवाहनित्यतया । अर्थस्यापि जातिलक्षणस्य नित्यत्वम् । द्रव्यपक्षेऽपि सर्वशब्दानामसत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं वाच्यमिति - नित्यता, प्रवाहनित्यतया वा । संबन्धस्यापि व्यवहारपरम्परयाऽनादित्वान्नित्यता ॥",
"uddyot": "अथ पाणिनिसूत्रव्याख्यानभूतं वार्तिकमवतारयति - कथं पुनरिति । अत एवात्रैव पाणिनिनामग्रहणम् । इतः पूर्वं तु सवार्तिकशास्त्रान्वाख्यानप्रयोजनविषयप्रदर्शनपरो भाष्यकारस्यैव ग्रन्थ इति बोध्यम् ॥ शब्दार्थसंबन्धानामिति । शब्दाश्चार्थाश्च संबन्धाश्चेति द्वन्द्वः । एवं च किमपूर्वशब्दनिष्पादनद्वाराऽर्थविशेषसंबन्धनिष्पादकत्वं शास्त्रस्य, किं वा सिद्धशब्दार्थसंबन्धबोधकत्वमिति प्रश्नार्थ इति तात्पर्यम् ॥ \n'सिद्धे शब्दार्थसंबन्धे' इति वार्तिके समाहारद्वन्द्वात्सप्तमी । संबन्धश्च प्रत्यासत्त्या शब्दार्थयोरेव । त्रयाणामात्यन्तिकाविश्लेषप्रदर्शनाय समाहारनिर्देश इति बोध्यम् ॥ व्यक्तिस्फोटेति । सा पदवाक्यरूपा नित्यैवेति तद्भावः । एतच्चोपपादितं प्राक् ॥ कार्यशब्दिकानामिति । 'कार्यशाब्दिकानाम्' इति त्वपपाठः, उत्तरपदवृद्धेर्दुलभत्वात् ॥ असत्योपाधीति । जातिरूपेत्यर्थः । जातिर्हि तन्मते आविद्यको धर्मविशेषः । यद्वा [ लाघवेन धर्माणामेवाविद्याकार्यत्वेन ] सर्वेषां धर्माणां ब्रह्मण्यध्यस्तत्वेन शुक्तिरजतादिज्ञाने शुक्त्यादीनां विशेष्यत्ववत् सर्वत्राधिष्ठानभूतं ब्रह्मैव विशेष्यम् , विशेष्यमेव च द्रव्यमिति भावः । \n[यत्तु - व्यक्तीनामाविद्यकत्वेन तदवच्छिन्नं ब्रह्मैव जातिरिति, तन्न । अनेकव्यक्तीनामाविद्यकानां कल्पने गौरवात् । 'अपागादग्नेरग्नित्वम्' इत्यादिश्रुत्या जातेरेवानित्यत्वबोधनाच्च । अत एव जातेर्व्यवहारनित्यताम् - आकृतेः प्रवाहनित्यतामेवाग्रे वक्ष्यति भाष्यकृत् । ] \nशब्दार्थयोर्नित्यत्वपक्षे तत्संबन्धस्य नित्यत्वेऽप्यनित्यत्वपक्षे कथं संबन्धस्य नित्यत्वमत आह - संबन्धस्येति । तयोरिव तस्यापि नित्यत्वमिति भावः ॥ शब्दार्थयोः संबन्धश्च शक्तिरूपं तादात्म्यमेवेत्यन्यत्र प्रपञ्चितम् ॥"
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 55,
"bhashya": "अथ सिद्धशब्दस्य कः पदार्थः?",
"pradeep": "सिद्धशब्दस्य नित्यानित्ययोर्दर्शनात्पृच्छति - अथेति ॥",
"uddyot": "भाष्ये - सिद्धशब्दस्य कः पदार्थ इति । अत्र पदार्थशब्दो रूढः । सिद्धशब्दसंबन्धी कः पदार्थः - इत्यर्थः ॥"
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 56,
"bhashya": "नित्यपर्यायवाची सिद्धशब्दः ॥ \nकथं ज्ञायते? - यत्कूटस्थेष्वविचालिषु भावेषु वर्तते । तद्यथा - सिद्धा द्यौः, सिद्धा पृथिवी, सिद्धमाकाशमिति ॥",
"pradeep": "नित्येति । नित्यलक्षणस्यार्थस्य पर्यायेण वाचकः, तमेवार्थं कदाचिन्नित्यशब्द आह - कदाचित्सिद्धशब्द इत्यर्थः ॥ कूटस्थेष्विति । अविनाशिषु ॥ अविचालिष्विति । देशान्तरप्राप्तिरहितेषु ॥",
"uddyot": "कूटस्थेष्विति । कूटम् अयोघनस्तद्वत्तिष्ठन्ति ये तेषु, संसर्गिनाशेऽपि स्वयमनष्टेष्वित्यर्थः ॥ नन्वयोघनस्यापि तर्हि नित्यत्वं स्यादत आह - अविचालिष्विति । भाष्ये द्यावापृथिव्याद्यपि व्यावहारिकनित्यत्वाभिप्रायेण दृष्टान्तितम् । आकाशस्यापि व्यावहारिकनित्यत्वमेवाचार्याभिमतम् । एवञ्च तत्र रूढत्वान्नित्यवाचकस्यैव ग्रहणमिति भावः ॥"
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 57,
"bhashya": "ननु च भोः कार्येष्वपि वर्तते । तद्यथा - सिद्ध ओदनः, सिद्धः सूपः, सिद्धा यवागूरिति । यावता कार्येष्वपि वर्तते, तत्र कुत एतत् - नित्यपर्यायवाचिनो ग्रहणम्, न पुनः कार्ये यः सिद्धशब्द इति।",
"pradeep": " ननु चेति । सिद्धशब्दात्क्रियानिष्पन्नोऽप्यर्थोऽवगम्यत इत्यर्थः ॥",
"uddyot": ""
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 58,
"bhashya": "संग्रहे तावत्कार्यप्रतिद्वन्द्विभावान्मन्यामहे नित्यपर्यायवाचिनो ग्रहणमिति । इहापि तदेव ॥",
"pradeep": " संग्रहे तावदिति । तत्र हि 'किं कार्यः शब्दोऽथ सिद्धः' इति पक्षद्वयविचारः कृतः। तत्र कार्यप्रतिपक्षार्थाभिधायी सामर्थ्यात्सिद्धशब्द इति स्थितम् । तत्समानतन्त्रत्वादिहापि तथैव युक्तमित्यर्थः॥",
"uddyot": ""
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 59,
"bhashya": "अथवा सन्त्येकपदान्यप्यवधारणानि । तद्यथा अब्भक्षो वायुभक्ष इति, अप एव भक्षयति - वायुमेव भक्षयतीति गम्यते । एवमिहापि - सिद्ध एव, न साध्य इति ॥",
"pradeep": "अथवेति । एवशब्दप्रयोगे द्विपदमवधारणम्, द्योतकत्वेनैवशब्दस्यापेक्षणात् । यदा तु द्योतकमन्तरेण सामर्थ्यादवधारणं गम्यते तदा तत् एकपदमित्युच्यते॥ तत्र 'सर्व एवापो भक्षयन्ति' इत्यब्भक्षश्रुतिः सामर्थ्यान्नियममवगमयति - अप एवेति ॥ इहापि नित्यानित्यव्यतिरेकेण राश्यन्तराभावात्सिद्धशब्दोपादानान्नियमोऽवगम्यते - सिद्ध एवेति । कार्याणां तु पदार्थानां प्राक्प्रध्वंसावस्थयोः सिद्धता नास्तीति न ते सिद्धा एव ॥",
"uddyot": "ग्रन्थान्तरानालोचनेऽपि नियामकमाह - भाष्ये - अथवेति । एतेन तत्समानतन्त्रत्वाद्व्यक्त्येकपदार्थवादोऽपि तव स्यादित्यपास्तम् ॥ ननु 'एकपदानि' इत्युक्त्वा 'अब्भक्षः' इत्यस्य पदद्वयात्मकस्योदाहरणत्वमसङ्गतमत आह - एवशब्देति ॥ नियमप्रत्यायकसामर्थ्यं दर्शयति - इहापीति ॥ कार्यवाचिन एव ग्रहणाभावे मूलमाह - कार्याणामिति । प्राक्प्रध्वंसावस्थयोरिति पाठः। भाष्ये 'अप एव….इति गम्यते' इति वाक्ये इव समासेऽपि सामर्थ्यात् तदतिरिक्तभक्षणाभावो गम्यत इत्यर्थः ॥"
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 60,
"bhashya": "अथवा पूर्वपदलोपोऽत्र द्रष्टव्यः – अत्यन्तसिद्धः सिद्ध इति । तद्यथा - देवदत्तः - दत्तः, सत्यभामा भामेति ॥",
"pradeep": "अथवेति । कथं पुनर्देवदत्तशब्दे संज्ञात्वेन विनियुक्ते एकदेशः प्रयुज्यते, न ह्यसौ संज्ञात्वेन विनियुक्तः । न चैकदेशात्स्मर्यमाणस्य समुदायस्य वाचकत्वमुपपद्यते, प्रतीयमानस्य प्रत्यायकत्वासंभवादुच्चार्यमाणस्यैव वाचकत्वात् । एवं तर्ह्यनुनिष्पादिन्योऽवयवसरूपाः संज्ञा विनियोगकाले विनियुक्ता एव । लोपस्तु वर्णानां साधुत्वं मा भूदित्यन्वाख्यायते । इहापि नित्यानित्ययोर्निष्पन्नत्वाविशेषात्सिद्धश्रुतिरुपात्ता प्रकर्षं गमयति - अत्यन्तसिद्ध इति ॥",
"uddyot": "अथवेति । मनुष्यवृक्षाद्यपेक्षयाऽऽकाशादीनामप्यत्यन्तसिद्धत्वमिति भावः ॥ प्रतीयमानस्येति । एतदणुदित्सूत्रे उपपादयिष्यते ॥ एवं तर्हीति । एवमेव 'घटपदं कलशपर्यायः' इत्यादिप्रयोगाः । अन्यथा 'पर्यायवाचि' इति प्रयोज्यं स्यात् ॥ विनापि प्रत्ययं पूर्वोत्तरपदयोर्लोप इति लोपविधायकं तर्हि किमर्थमत आह - लोपस्त्विति । वर्णानाम् - 'दे' इत्यादीनाम् । तत्रापि क्वचित्पूर्वपदस्यैव क्वचिदुत्तरपदस्यैव क्वचिदुभयोरिति लोकव्यवहारेण निर्णेयम् । एवं वर्णानां शक्त्यभावोऽपि तत एव निर्णेय इति तत्त्वम् ॥ निष्पन्नत्वेति । विद्यमानकालसंबन्धः - निष्पन्नत्वम् ॥"
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 61,
"bhashya": "अथवा 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्यामः॥",
"pradeep": "न्यायाद्वा नित्यत्वं शब्दादीनां स्थितमित्याह - अथवेति । न हि संदेहमात्रादलक्षणता भवति, पुनः प्रमाणान्तरेण निश्चयोत्पादात् ॥",
"uddyot": "ननु निर्युक्तिकं व्याख्यानमयुक्तं, विपरीतस्यापि संभवादत आह - न्यायाद्वेति । वृद्धव्यवहारादेव पदार्थसंबन्धानां नित्यत्वं संग्रहादौ स्थितमिति व्याख्यानतः सिद्धशब्देन तदेवोपात्तमित्यर्थः ॥"
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 62,
"bhashya": "किं पुनरनेन वर्ण्येन । किं न महता कण्ठेन नित्यशब्द एवोपात्तः, यस्मिन्नुपादीयमानेऽसंदेहः स्यात् ?",
"pradeep": " वर्ण्येनेति । प्रयत्नव्याख्यातव्येनेत्यर्थः ॥",
"uddyot": ""
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 63,
"bhashya": "॥ मङ्गलार्थम् ॥ \nमाङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति, आयुष्मत्पुरुषाणि चाध्येतारश्च सिद्धार्था यथा स्युरिति ॥",
"pradeep": "माङ्गलिक इति । अगर्हिताभीष्टार्थसिद्धिः - मङ्गलं, तत्प्रयोजन आचार्यो माङ्गलिकः ॥ प्रथन्त इति । अध्ययनस्याविच्छेदात् ॥ वीरपुरुषाणीति । श्रोतॄणां परैरपराजयात् ॥ आयुष्मत्पुरुषाणीति । शास्त्रार्थानुष्ठाने धर्मोपचयादायुर्वर्धनात् ॥ सिद्धार्था इति । अध्ययननिर्वृत्तिरेव तेषां सिद्धिः॥",
"uddyot": "सिद्धिर्मङ्गलमिति । तस्या मङ्गलत्वं च कार्ये कारणरूपोपचारादिति बोध्यम् ॥ तत्प्रयोजनमस्य - इति प्राग्वतीयष्ठक् ॥ तत्र मङ्गलानुष्ठानप्रयोजनान्याह - भाष्ये - मङ्गलादीनीत्यादिना ॥ ग्रन्थे तन्निबन्धनस्य फलमाह - अध्येतारश्चेत्यादिना। आनुषङ्गिकमङ्गलसंपत्त्येत्यर्थः ॥ अध्ययननिर्वृत्तिः - तत्समाप्तिः ॥ सिद्धिः - सिद्धिविषयोऽर्थः ॥ मङ्गलार्थमित्यनेनेत एव वार्तिकप्रवृत्तिः सूचिता ॥"
},
{
"adhikarana_id": 6,
"adhikarana_name": "शास्त्रस्य धर्मजनकताधिकरणम्",
"chunk_id": 64,
"bhashya": "अयं खलु नित्यशब्दो नावश्यं कूटस्थेष्वविचालिषु भावेषु वर्तते। किं तर्हि ? आभीक्ष्ण्येऽपि वर्तते । तद्यथा - नित्यप्रहसितो नित्यप्रजल्पित इति । यावता आभीक्ष्ण्येऽपि, तत्राप्यनेनैवार्थः स्यात् - 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति । पश्यति त्वाचार्यो मङ्गलार्थश्चैव सिद्धशब्द आदितः प्रयुक्तो भविष्यति, शक्ष्यामि चैनं नित्यपर्यायवाचिनं वर्णयितुमिति । अतः सिद्धशब्द एवोपात्तो न नित्यशब्दः॥",
"pradeep": "नावश्यमिति । ततश्चाभीक्ष्ण्येन ये शब्दाः प्रयुज्यन्ते आगोपालाङ्गनं तेषामेवान्वाख्यानं स्यात्, न विरलप्रयोगाणाम् । विनाऽपि च क्रियापदप्रयोगेणाभीक्ष्ण्यवृत्तिर्नित्यशब्दः प्रयुज्यते । यथा - 'आश्चर्यमनित्ये' 'नित्यवीप्सयोः' इति ॥",
"uddyot": "असंदिग्धो नित्यशब्दः किं न प्रयुक्त इत्युक्तम् , तत्रापि संदेहमाह - भाष्ये - अयं खल्विति ॥ आभीक्ष्ण्येन - बाहुल्येन । 'अभीक्ष्णं' इति पाठेऽप्ययमेवार्थः ॥ प्रयुज्यन्त इति । साक्षात् शब्दे आभीक्ष्ण्यासंभवात्प्रयोगद्वारा तत् ग्राह्यम् । एवञ्च नित्यशब्दोपादानेऽपि सप्रयोजनकोट्यन्तरसंभवेन तत्रापि संदेह एवेति भावः ॥ 'नित्ये शब्दार्थसंबन्धे' इत्यस्य शब्दार्थसंबन्धे ज्ञाते सति नित्ये - नित्यप्रयोगविषये शब्दे शास्त्रं प्रवृत्तमित्यर्थः स्यादिति तात्पर्यम् ॥ नन्वाभीक्ष्ण्यवाचिनो नित्यं क्रियापदसाकाङ्क्षतया कथं केवलस्य प्रयोगोऽत आह–विनाऽपि चेति ॥ "
},
{
"adhikarana_id": 7,
"adhikarana_name": "नित्यतासाधकपक्षनिर्णयाधिकरणम्",
"chunk_id": 65,
"bhashya": "अथ कं पुनः पदार्थं मत्वा एष विग्रहः क्रियते - सिद्धे शब्दे अर्थे संबन्धे चेति ? \nआकृतिमित्याह ॥ \nकुत एतत् ? आकृतिर्हि नित्या, द्रव्यमनित्यम् ॥ \nअथ द्रव्ये पदार्थे कथं विग्रहः कर्तव्यः ? \nसिद्धे शब्दे अर्थसंबन्धे चेति । नित्यो ह्यर्थवतामर्थैरभिसंबन्धः॥",
"pradeep": "अर्थसंबन्धे चेति । द्रव्यपक्षे द्रव्यस्यानित्यत्वादर्थग्रहणं संबन्धविशेषणार्थमुपात्तम् । अनित्येऽर्थे कथं संबन्धस्य नित्यता - इति चेत्, योग्यतालक्षणत्वात्संबन्धस्य । तस्याश्च शब्दाश्रयत्वात् - शब्दस्य च नित्यत्वाददोषः ॥",
"uddyot": "नन्वेवमर्थग्रहणं व्यर्थमत आह - द्रव्यपक्षे इति ॥ योग्यता = बोधजनकत्वयोग्यता - तादात्म्यम् । तदुक्तं भाष्ये - नित्यो ह्यर्थवतामिति । शब्दानामित्यर्थः ॥ ननु तादात्म्यस्य संबन्धत्वे कथं तस्य नित्यत्वमिति चेन्न । नष्टभाविवस्तुनोऽपि शब्देन बोधनाद्बौद्धार्थेन तस्य तादात्म्यं नित्यमित्याशयात् । शब्दवृत्तिधर्मस्यैवार्थवृत्तिधर्माभेदमापन्नस्य तादात्म्यत्वेनादोषाच्च ॥ शब्दस्य च नित्यत्वादिति । आकाशवत्तन्निष्ठः शब्दोऽपि नित्यः । व्यञ्जकाभावात्तु न सर्वदोपलम्भ इति भावः ॥"
},
{
"adhikarana_id": 7,
"adhikarana_name": "नित्यतासाधकपक्षनिर्णयाधिकरणम्",
"chunk_id": 66,
"bhashya": "अथवा द्रव्य एव पदार्थे एष विग्रहो न्याय्यः - सिद्धे शब्दे अर्थे संबन्धे चेति । द्रव्यं हि नित्यम्, आकृतिरनित्या ॥ \nकथं ज्ञायते? \nएवं हि दृश्यते लोके - मृत्कयाचिदाकृत्या युक्ता पिण्डो भवति, पिण्डाकृतिमुपमृद्य घटिकाः क्रियन्ते, घटिकाकृतिमुपमृद्य कुण्डिकाः क्रियन्ते । \nतथा - सुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते । पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या युक्तः खदिराङ्गारसवर्णे कुण्डले भवतः। आकृतिरन्या चान्या च भवति, द्रव्यं पुनस्तदेव । आकृत्युपमर्देन द्रव्यमेवावशिष्यते ॥",
"pradeep": "द्रव्यं हि नित्यमिति । असत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थः ॥ आकृतिरिति । संस्थानम् । ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्यत्वादनित्यत्वम्, 'आत्मैवेदं सर्वम्' इति श्रुतिवचनात् ॥",
"uddyot": "ननु घटादिद्रव्यस्य कथं नित्यतेत्यत आह - असत्येति । स च कम्बुग्रीवादिमदाकारादिरूपः, तद्व्यङ्ग्यजातिरूपश्च ॥ भाष्ये यद्याकृतिशब्देन तद्व्यङ्ग्यमुच्यते तर्हि तदप्याविद्यकत्वेन व्यञ्जकानित्यत्वेन चानित्यमित्याह - जातेरपीति । अनेनैतत्प्रकरणस्थाकृतिपदस्य व्यङ्ग्यव्यञ्जकोभयपरतां सूचयति । गौतमेनाप्युक्तं 'जात्याकृतिव्यक्तयः पदार्थः' इति ॥ भाष्ये 'खदिराङ्गारसवर्णे कुण्डले भवतः' इति प्रयोगादच्व्यन्ते विकृतेः कर्तृत्वं बोध्यम् ॥"
},
{
"adhikarana_id": 7,
"adhikarana_name": "नित्यतासाधकपक्षनिर्णयाधिकरणम्",
"chunk_id": 67,
"bhashya": "आकृतावपि पदार्थ एष विग्रहो न्याय्यः - सिद्धे शब्दे अर्थे संबन्धे चेति ॥ \nननु चोक्तम् - आकृतिरनित्या - इति ॥ \nनैतदस्ति । नित्याऽऽकृतिः॥ \nकथम्? \nन क्वचिदुपरतेति कृत्वा सर्वत्रोपरता भवति । द्रव्यान्तरस्था तूपलभ्यते ॥",
"pradeep": "न क्वचिदुपरतेति। अनभिव्यक्तेत्यर्थः । अद्वैतेन लोके व्यवहाराभावात् - व्यवहारे चाकृतेरेकाकारपरामर्शहेतुत्वान्नित्यत्वम् ॥",
"uddyot": "आकृतिपदेन जातिरित्यभिप्रायेण - भाष्ये - आकृतावपि पदार्थ इति ॥ क्वचिदुपरतेति कृत्वा न सर्वत्रोपरतेत्यन्वयः ॥ ननूपरमो नाशश्चेत्तत्काले एवान्यत्र सत्त्वं विरुद्धमत आह - अनभीति ॥ ननु परमार्थदृष्ट्या सर्वमनित्यमत आह - अद्वैतेनेति॥ नित्यत्वमिति । सर्वदा एकाकारपरामर्शदर्शनेन यावद्व्यवहारकालं तस्या अपि ध्रुवादित्वेन नित्यत्वमिति भावः ॥"
},
{
"adhikarana_id": 7,
"adhikarana_name": "नित्यतासाधकपक्षनिर्णयाधिकरणम्",
"chunk_id": 68,
"bhashya": "अथवा नेदमेव नित्यलक्षणम् - ध्रुवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगि यत् तन्नित्यमिति ।\nतदपि नित्यं यस्मिंस्तत्त्वं न विहन्यते ॥ \nकिं पुनस्तत्त्वम् ? \nतद्भावस्तत्त्वम् ॥ आकृतावपि तत्त्वं न विहन्यते ॥",
"pradeep": "अथवेति । असत्यत्वेऽपि तत्त्वतो लोकव्यवहाराश्रयेण जातेर्नित्यत्वं साध्यते । त्रिविधा चानित्यता, संसर्गानित्यता यथा - स्फटिकस्य लाक्षाद्युपधाने स्वरूपतिरोधानेन पररूपप्रतिभासः। उपधानापगमे स्वरूपप्रतिभासात्तु परिणामाभावः ॥ परिणामानित्यता यथा - बदरफलस्य श्यामतातिरोभावे लौहित्यस्याविर्भावः ॥ प्रध्वंसानित्यता - सर्वात्मना विनाशः । एतत्त्रिविधानित्यताप्रतिक्षेपेण नित्यतां प्रतिपादयितुमुक्तं - ध्रुवमित्यादि । तत्र ध्रुवं कूटस्थमिति संसर्गानित्यता परिहृता, अविचालीति परिणामानित्यता, अनपायेत्यादिना प्रध्वंसानित्यता ॥",
"uddyot": "अथावयवसंस्थानरूपाया जातिव्यञ्जिकाया आकृतेर्यावद्व्यवहारकालं मध्ये मध्ये उत्पत्तौ नाशेऽपि प्रकारान्तरेण नित्यत्वमाह - भाष्ये - अथवेति ॥ नित्यत्वलक्षणे ध्रुवपदस्यैव व्याख्यानं - कूटस्थमिति । रूपान्तरापत्तिः - विचालः। यथा पयसो दध्यादिरूपता । अनेन परिणामानित्यता परास्ता । उत्पत्तेः सत्तापर्यन्तत्वादनुत्पत्तीत्यनेन जन्मसत्तारूपौ भावविकारौ निरस्तौ । अवृद्धीत्यनेन तृतीयो वृद्धिलक्षणः । अनुपजनेति चतुर्थः परिणामः । अनपायेति पञ्चमोऽपचयः । एतद्रूपविकाररहितमिति तदर्थः ॥ अव्ययेति षष्ठो विनाशः । इदं च ब्रह्मविषयं नित्यत्वं, यावद्व्यवहारमेकरूपस्थितपदार्थविषयं च ॥ अयमेव न नित्यशब्दार्थः, प्रवाहाविच्छेदेऽतादृश्यपि नित्यत्वव्यवहारादित्याह - भाष्ये—तदपीति ॥ यस्मिंस्तत्त्वमिति । यस्मिन्विहतेऽपि तद्वृत्तिधर्मो न विहन्यते तदित्यर्थः ॥ प्रवाहनित्यता चानेनोक्ता । तन्नाशेऽपि तद्धर्मो न नश्यति । आश्रयप्रवाहाविच्छेदादिति भावः ॥"
},
{
"adhikarana_id": 7,
"adhikarana_name": "नित्यतासाधकपक्षनिर्णयाधिकरणम्",
"chunk_id": 69,
"bhashya": "अथवा किं न एतेन - इदं नित्यम् - इदमनित्यमिति। यन्नित्यं तं पदार्थं मत्वैष विग्रहः क्रियते - सिद्धे शब्देऽर्थे संबन्धे चेति ॥",
"pradeep": "यन्नित्यमिति । बुद्धिप्रतिभासः शब्दार्थः, यदा यदा शब्द उच्चारितस्तदाऽर्थाकारा बुद्धिरुपजायते - इति प्रवाहनित्यत्वादर्थस्य नित्यत्वमित्यर्थः ॥",
"uddyot": "यन्नित्यमिति । व्यक्तिजात्याकृतीनां मध्ये यन्नित्यमित्यर्थः ॥ ननु शशशृङ्गादिपदार्थानां कथं नित्यत्वं, तेषां स्वरूपस्यैवाभावादत आह—बुद्धिप्रतिभास इति । बाह्यः पदार्थो न शाब्दबोधे विषयः, किंतु बौद्धः । स च प्रवाहनित्य इति भावः ॥ एतच्च मञ्जूषायां विस्तरेण निरूपितम् ॥"
},
{
"adhikarana_id": 7,
"adhikarana_name": "नित्यतासाधकपक्षनिर्णयाधिकरणम्",
"chunk_id": 70,
"bhashya": "कथं पुनर्ज्ञायते - सिद्धः शब्दोऽर्थः संबन्धश्चेति ? ॥ * ॥ लोकतः॥ * ॥\nयल्लोकेऽर्थमर्थमुपादाय शब्दान्प्रयुञ्जते, नैषां निर्वृत्तौ यत्नं कुर्वन्ति । ये पुनः कार्या भावा निर्वृत्तौ तावत्तेषां यत्नः क्रियते । तद्यथा - घटेन कार्यं करिष्यन् कुम्भकारकुलं गत्वाऽऽह - कुरु घटं कार्यमनेन करिष्यामीति । न तद्वच्छब्दान्प्रयुयुक्षमाणो वैयाकरणकुलं गत्वाऽऽह - कुरु शब्दान्प्रयोक्ष्य इति । तावत्येवार्थमुपादाय शब्दान्प्रयुञ्जते ॥",
"pradeep": "लोकत इति । अन्यथा कार्येषु वस्तुषु लोकव्यवहारः, अन्यथा नित्येषु । शाब्दश्च व्यवहारोऽनादिवृद्धव्यवहारपरम्पराव्युत्पत्तिपूर्वक इति शब्दादीनां नित्यत्वम् । घटादयस्त्वर्थक्रियार्थिभिरन्यत आनीयन्ते, उत्पादविनाशयुक्ताश्चोपलभ्यन्ते । नैवं शब्दादयः ॥ तावत्येवार्थमिति । बुद्ध्या वस्तु निरूप्येत्यर्थः ॥",
"uddyot": "शब्दादीनां नित्यत्वमिति । व्याकरणानिष्पाद्यत्वमित्यर्थः ॥ तावत्येवेति । वैयाकरणकुलमगत्वैवेत्यर्थः ॥"
},
{
"adhikarana_id": 8,
"adhikarana_name": "धर्मनियमाधिकरणम्",
"chunk_id": 71,
"bhashya": "यदि तर्हि लोक एषु प्रमाणम्, किं शास्त्रेण क्रियते?॥ * ॥ लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ॥ * ॥ लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते ॥ किमिदं धर्मनियम इति? !\nधर्माय नियमः - धर्मनियमः, धर्मार्थो वा नियमः - धर्मनियमः, धर्मप्रयोजनो वा नियमः - धर्मनियमः॥",
"pradeep": "अत्र भाष्यकारेण संभवन्तीमप्येकवाक्यतामनाश्रित्य वाक्यत्रयं स्थापितम् । सिद्धे शब्दार्थसंबन्धे शास्त्रं प्रवृत्तमित्येकं वाक्यम् । कथं ज्ञायत इति प्रश्ने लोकतो ज्ञायते इति द्वितीयम् । लोकत इत्यस्यावृत्त्या लोकतोऽर्थप्रयुक्त इत्यादि तृतीयम् ॥ शब्दप्रयोग इति । प्रयोगग्रहणेन प्रयोगाद्धर्मो न तु ज्ञानमात्रात्' इत्युक्तं भवति । अर्थेनात्मप्रत्यायनाय प्रयुक्तः - अर्थप्रयुक्तः ॥ \nधर्माय नियम इति । चतुर्थ्या तादर्थ्यं प्रतिपाद्यते । संबन्धसामान्ये तु षष्ठीं विधाय समासः कर्तव्यः, चतुर्थीसमासस्य प्रकृतिविकारभाव एव विधानात् ॥ धर्मार्थ इति । धर्मार्थत्वान्नियम एव धर्मशब्देनाभिधीयते - इति कर्मधारयः समासः ॥धर्मप्रयोजन इति । लिङादिविषयेण नियोगाख्येन धर्मेण प्रयुक्त इत्यर्थः ॥",
"uddyot": "ननु सकृदन्वितस्य 'लोकतः' इत्यस्य पुनः 'अर्थप्रयुक्ते' इत्यनेनान्वयः कथम् ? वार्तिके चैकवाक्यतयैवान्वयः प्रतीयतेऽत आह - अत्रेति ॥ अनाश्रित्येति । न्यूनतापरिहारायेत्यर्थः । 'लोकतः' इत्यस्य च लोकव्यवहारत इत्यर्थः ॥ भाष्ये - अर्थप्रयुक्त इति । अर्थज्ञानप्रयोजनेन कृत इत्यर्थः । परस्य विशिष्टार्थबोधो भवत्विति शब्दः प्रयुज्यते, प्रयोगेणाविर्भूतशब्दज्ञानेनार्थज्ञानादिति भावः ॥ एवम्प्राप्तशब्दप्रयोगे शास्त्रेणास्येयं प्रकृतिरयं प्रत्यय इत्यादिप्रकृत्यादिविभागज्ञानद्वारा गवादय एव प्रयुक्ता धर्मजनकाः, न गाव्यादय इति नियमः क्रियत इति तात्पर्यम् । विधानादिति । तादर्थ्यस्य षष्ठ्यर्थत्वबोधनाय त्वेवं प्रयोग इति भावः ॥ 'चतुर्थी' इति योगविभागो न भाष्यारूढः, 'सुप्सुपा' इति समास इत्यप्यगतिकगतिरित्येवं व्याख्यातम् ॥ द्वितीयपक्षात्तृतीये विशेषं दर्शयति - लिङादिति । प्रभाकराङ्गीकृतमतेनेदम् । तन्मते हि लिङादीनामपूर्वरूपं कार्यं वाच्यम् । तदेव च स्वस्मिन् पुरुषं प्रयुञ्जानं नियोग इत्युच्यते । स एव धर्मः, तेन प्रयुज्यते - आक्षिप्यते इति कर्मल्युडन्तः प्रयोजनशब्दः । स चासाधुनिवृत्तिरूपो नियमः। 'धर्मप्रयोजनः' इति षष्ठीसमासः । एवं च द्वितीये धर्मफलको नियम इत्यर्थः । तृतीये धर्मप्रयोज्य इत्यर्थ इति भेदः ॥ केचित्तु 'धर्माय नियमः' इत्यनेन प्रत्यवायपरिहाररूपधर्मायायं नियमः, असाधुप्रयोगेऽधर्मोत्पत्तेः ॥ 'धर्मार्थो नियमः' इत्यनेन धर्मस्य यज्ञादेरङ्गभूत इत्यर्थः, 'नानृतं वदेत्' इति क्रत्वङ्गवाक्येन क्रतुवैगुण्यस्य बोधनात् ॥ 'धर्मप्रयोजनो नियमः' इत्यनेन 'एकः शब्दः' इति श्रुतेर्नियमादृष्टं पुरुषार्थकरं सूचितमित्याहुः ॥"
},
{
"adhikarana_id": 8,
"adhikarana_name": "धर्मनियमाधिकरणम्",
"chunk_id": 72,
"bhashya": "॥ * ॥ यथा लौकिकवैदिकेषु ॥ * ॥ प्रियतद्धिता दाक्षिणात्याः । 'यथा लोके वेदे च' इति प्रयोक्तव्ये 'यथा लौकिकवैदिकेषु' इति प्रयुञ्जते ॥ \nअथवा - युक्त एव तद्धितार्थः। यथा लौकिकवैदिकेषु च कृतान्तेषु ॥ \nलोके तावत् - 'अभक्ष्यो ग्राम्यकुक्कुटः, अभक्ष्यो ग्राम्यसूकरः' इत्युच्यते । भक्ष्यं च नाम क्षुत्प्रतीघातार्थमुपादीयते । शक्यं चानेन श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम् । तत्र नियमः क्रियते - इदं भक्ष्यम्, इदमभक्ष्यमिति ॥ तथा - खेदात्स्त्रीषु प्रवृत्तिर्भवति। समानश्च खेदविगमो गम्यायां चागम्यायां च । तत्र नियमः क्रियते - इयं गम्या - इयमगम्येति ॥",
"pradeep": "प्रियतद्धिता इति । नायमपशब्दः, किंतु ये लोकवेदयोर्भवा अवयवास्ते लोकवेदशब्दाभ्यामभिधातुं शक्यन्ते । आधाराधेयभावकल्पनया तु तद्धितप्रयोगः प्रियतद्धितत्वनिमित्तः । यथा - कश्चिद्वनस्पतय इति प्रयुङ्क्ते, कश्चिद्वानस्पत्यमिति समूहप्रत्ययान्तम् ॥ अथवेति । नात्रावयवावयविविभागः, किं तर्हि ? वेदलोकव्यतिरिक्तः सिद्धान्तः शब्दार्थो भवरूप इत्यर्थः ॥ लौकिकः - स्मृत्युपनिबद्धः। वैदिकः - श्रुत्युपनिबद्धः ॥ शक्यं चानेनेति । शकेः कर्मसामान्ये लिङ्गसर्वनामनपुंसकयुक्ते कृत्यप्रत्ययः । ततः शब्दान्तरसंबन्धादुपजायमानमपि स्त्रीत्वं बहिरङ्गत्वादन्तरङ्गसंस्कारं न बाधते इति 'शक्यं…. क्षुत्' इत्युक्तम् । यदा तु पूर्वमेव विशेषविवक्षा तदा 'शक्या क्षुत्' इति भवत्येव । यदा तु प्रतिघातस्यैव क्षुत्कर्म, शकेस्तु प्रतिघातः, तदा 'क्षुधं प्रतिहन्तुं शक्यम्' इति भवति ॥ खेदादिति । खेदयतीति - खेदः रागः, इन्द्रियनियमासामर्थ्यं वा खेदः ॥",
"uddyot": "नन्वीदृशो धर्मनियमः क्व दृष्टोऽत आह भाष्ये - - यथेति ॥ ननु 'लोकवेदयोः' इत्येव सिद्धे तद्धितनिर्देशोऽयुक्तोऽत आह - प्रियतद्धिता इति ॥ नन्वन्यार्थेऽन्यशब्दप्रयोगेऽपशब्दत्वं स्यादत आह - नायमिति ॥ ते वेदलोकेति । अवयवे समुदायशब्दप्रयोगदर्शनादिति भावः ॥ आधाराधेयकल्पनया त्विति । लोकरूपसमुदायतदवयवयोरित्यादिः ॥ नात्रावयवावयविविभाग इति । 'तत्र भवः' इत्यादिव्यवहारप्रयोजको विभागारोपोऽवयवावयविनोर्नेत्यर्थः ॥ कृतान्तेषु । कृतान्तः - सिद्धान्तः, तत्प्रतिपादकवाक्येष्वित्यर्थः ॥ 'भक्ष्यं च नाम' इत्यस्य तद्भवति यदिति शेषः ॥ 'शक्यं क्षुत्' इति सामानाधिकरण्यं कथं भिन्नलिङ्गत्वादत आह - शकेरिति ॥ तदा क्षुधमिति । ननु प्रधानक्रियानिरूपितशक्तेरभिधाने गुणक्रियानिरूपितशक्तेरनभिहिताया अभिहितवत्प्रकाशस्य 'स्वादुमि णमुल' इत्यत्र वक्ष्यमाणत्वेन कथमेतत् ? इति चेत् , न । प्रधानतिङन्तार्थक्रियानिरूपितशक्तेरेवायं स्वभावो यत् स्वसमानाधिकरणगुणशक्तेरभिहितवत्प्रकाश इत्यभिमानः । वस्तुत इदमयुक्तमेवेति 'स्वादुमि - ' इत्यत्र निरूपयिष्यामः ॥ खेद इति । एवञ्च ग्राम्यकुक्कुटपरदारादौ विशेषणिषेधस्येतराभ्यनुज्ञाफलकतया आरण्यकतद्भक्षणस्वदारगमनयोर्यथा दोषाभावः, यथा च ग्राम्यकुक्कुटभक्षणपरदारगमनयोरधर्मः, तथा शास्त्रजनितज्ञानपूर्वके गवादिप्रयोगेऽपूर्वोत्पत्तिरूपं फलं शास्त्रेण बोध्यते; तेषां साधुत्वबोधनात् । अर्थादपशब्दानामधर्मजनकत्वं बोध्यते, एकविधेस्तदितरनिषेधफलकत्वात् । यथैकनिषेधस्यापराभ्यनुज्ञाफलकत्वमिति भावः। दृष्टान्तता त्वंशेन, वक्ष्यमाणवैदिकानां तु सर्वांशेनेति बोध्यम् ॥"
},
{
"adhikarana_id": 8,
"adhikarana_name": "धर्मनियमाधिकरणम्",
"chunk_id": 73,
"bhashya": "वेदे खल्वपि - 'पयोव्रतो ब्राह्मणः - यवागूव्रतो राजन्यः - आमिक्षाव्रतो वैश्यः' इत्युच्यते । व्रतं च नामाभ्यवहारार्थमुपादीयते । शक्यं चानेन शालिमांसादीन्यपि व्रतयितुम् । तत्र नियमः क्रियते । \nतथा - 'बैल्वः खादिरो वा यूपः स्यात्' इत्युच्यते । यूपश्च नाम पश्वनुबन्धार्थमुपादीयते । \nशक्यं चानेन यत्किंचिदेव काष्ठमुच्छ्रित्यानुच्छ्रित्य वा पशुरनुबन्धुम् । तत्र नियमः क्रियते । \nतथा - 'अग्नौ कपालान्यधिश्रित्याभिमन्त्रयते - भृगूणामङ्गिरसां घर्मस्य तपसा तप्यध्वम्' इति । अन्तरेणापि मन्त्रमग्निर्दहनकर्मा कपालानि सन्तापयति । तत्र च नियमः क्रियते । एवं क्रियमाणमभ्युदयकारि भवतीति ॥",
"pradeep": "पयोव्रत इति । सत्यामर्थितायां 'पय एव व्रतयति' इति नियमोऽयं न तु विधिः, अर्थित्वाभावे कारणाभावात्॥",
"uddyot": "व्रतयतीति । अभ्यवहार्यत्वेनोपादत्ते - इत्यर्थः ॥ भाष्ये - उच्छ्रित्यानुच्छ्रित्य वेति । संतक्ष्यासंतक्ष्य वेत्यर्थः । निखन्यानिखन्य वेत्यर्थ इत्यन्ये ॥"
},
{
"adhikarana_id": 8,
"adhikarana_name": "धर्मनियमाधिकरणम्",
"chunk_id": 74,
"bhashya": "एवमिहापि समानायामर्थगतौ शब्देनापशब्देन च धर्मनियमः क्रियते - शब्देनैवार्थोऽभिधेयो नापशब्देनेति । एवं क्रियमाणमभ्युदयकारि भवतीति ॥",
"pradeep": "समानायामिति । यद्यपि साक्षादपभ्रंशा न वाचकास्तथापि स्मर्यमाणसाधुशब्दव्यवधानेनार्थं प्रत्याययन्ति । केचिच्चापभ्रंशाः परम्परया निरूढिमागताः साधुशब्दानस्मारयन्त एवार्थं प्रत्याययन्ति ॥ अन्ये तु मन्यन्ते - साधुशब्दवदपभ्रंशा अपि साक्षादर्थस्य वाचका इति ॥",
"uddyot": "ननु अपभ्रंशा न वाचकाः, वाच्यप्रतीत्यन्यथाऽनुपपत्त्या कल्प्यमानशक्तेः शिष्टप्रयुक्तसंस्कृतेष्वेव कल्पनात् । तदनुसारेणैव चापभ्रंशानां साधुस्मरणेन बोधकत्वोपपत्तेः 'समानायां' इत्यनुपपन्नमिति शङ्कते - यद्यपीति ॥ तथापीति । एवं च वाचकत्वाभावेऽप्यर्थप्रत्यायकत्वाविशेषेण 'समानायां' इत्युक्तम् ॥ निरूढिमागता इति । ते च शक्तिभ्रमेण बोधका इति भावः ॥ शक्तिभ्रमश्चेत्थम् - केनचित् 'गावी' इति प्रयुक्ते 'गौः' इति साधुस्मरणात् प्रयोज्यस्य बोधेऽपि तटस्थस्य गावीशब्दादेवास्य गोबोध इति भ्रमेण तन्मूलकोऽन्येषामपि भ्रम इति ॥ वस्तुतो विनिगमनाविरहात् भाषाशब्देष्वपि शक्तिरेवेत्याह - अन्ये त्विति । साधुत्वं चैतन्मते शब्दगतधर्मसाधनतावच्छेदकवैजात्यमेव । यद्यपि 'साधूनेव भाषेत' इति न श्रूयते, तथापि फलनिर्देशवाक्ये तन्निर्देशादेवेदृशविधिः कल्प्यते । तत्र ‘के साधवः' इत्याकाङ्क्षायामेत एव साधव इति व्याकरणेन निष्पादनात्तद्द्वारा शास्त्रेण धर्मनियमो विधीयत इति बोध्यम् ॥ भाष्ये - शब्देनैवेति । साधुनेत्यर्थः ॥ एवं क्रियमाणमिति । शास्त्रज्ञानपूर्वकमुच्चार्यमाणमित्यर्थः ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 75,
"bhashya": "॥ अस्त्यप्रयुक्तः॥ सन्ति वै शब्दा अप्रयुक्ताः। तद्यथा - ऊष, तेर, चक्र, पेच - इति ॥\nकिमतो यत्सन्त्यप्रयुक्ताः? \nप्रयोगाद्धि भवाञ्छब्दानां साधुत्वमध्यवस्यति । य इदानीमप्रयुक्ताः, नामी साधवः स्युः॥",
"pradeep": "अस्त्यप्रयुक्त इति । प्रयोगमूलत्वादस्याः स्मृतेरप्रयुक्तानामप्यन्वाख्यानादप्रामाण्यमाशङ्कते ॥",
"uddyot": "'अस्त्यप्रयुक्तः' इत्यादेः प्रकृतोपयोगमाह प्रयोगमूलत्वादिति । लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः इत्यनेन प्रयुक्तेषु साध्वसाधुषु प्रयुक्तसाध्वन्वाख्यानेन तेषु धर्मः प्रयुक्तासाधुष्वधर्म इत्यर्थकेनेदं सूचितम् । एवं चाप्रयुक्तानामप्रयोगेणैवासाधुत्वानुमानादसाधूनामप्यनेनान्वाख्यानादप्रामाण्यमिति भावः॥ वार्तिकोक्तनियमानुपपत्तिश्चेत्यपि बोध्यम् ॥ भाष्ये - किमत इति। अप्रयुक्तसत्त्वं नास्माकमनिष्टं, साधुमात्रार्थत्वाद्व्याकरणस्येत्यर्थः ॥ उत्तरम् - प्रयोगादिति । तथा चाप्रयोगादसाधुत्वानुमानमिति भावः ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 76,
"bhashya": "इदं तावद्विप्रतिषिद्धम् - यदुच्यते - 'सन्ति वै शब्दाः, अप्रयुक्ताः' इति । \nयदि सन्ति, नाप्रयुक्ताः। \nअथाप्रयुक्ताः, न सन्ति । सन्ति चाप्रयुक्ताश्चेति विप्रतिषिद्धम् । प्रयुञ्जान एव खलु भवानाह - सन्ति शब्दा अप्रयुक्ता इति । कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात् ?",
"pradeep": "यथा घटादीनां विनाऽप्यर्थक्रियया सत्त्वं गम्यते नैवं शब्दानां, ते हि सर्वदा व्यवहाराय प्रयुज्यमानाः सन्तः सत्त्वेनावसीयन्ते - इत्याह - इदमिति । कश्चेदानीमिति उपहासपरम् ॥",
"uddyot": "विप्रतिषिद्धत्वमुपपादयति - यथेति । एवं सत्त्वे प्रयोग आवश्यक एव, अप्रयोगे च सत्त्वमेव न स्यादिति भावः ॥ ननु लक्षणवशेन सत्त्वं, केनाप्यप्रयोगाच्चाप्रयुक्तत्वमिति न विरोधोऽतो भाष्ये - प्रयुञ्जान एवेति ॥ ननु मया प्रयुक्तश्चेत्किम्? तत्र सोपहासमाह - कश्चेदानीमिति । स्वयमेव प्रयोगं कृत्वा 'सन्ति चाप्रयुक्ताः' इत्यादीनां शब्दानां प्रयोगे साधुर्योग्यः स्यादित्यर्थः । त्वत्प्रयोगेणैव प्रयुक्तत्वावगमेऽप्रयुक्तत्वोक्तिर्विरुद्धेति भावः ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 77,
"bhashya": "नैतद्विप्रतिषिद्धम् । सन्तीति तावद्ब्रूमः, यदेताञ्शास्त्रविदः शास्त्रेणानुविदधते ॥\nअप्रयुक्ता इति ब्रूमः, यल्लोकेऽप्रयुक्ता इति ॥ \nयदप्युच्यते - ‘कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात्' इति । \nन ब्रूमोऽस्माभिरप्रयुक्ता इति । \nकिं तर्हि ? \nलोकेऽप्रयुक्ता इति ॥",
"pradeep": "उत्तरं तु शास्त्रदृष्ट्या प्रकृतिप्रत्ययादिसद्भावादनुमितसत्त्वाः, व्यवहारे तु न दृश्यन्त इत्युक्तम् ॥",
"uddyot": ""
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 78,
"bhashya": "ननु च भवानप्यभ्यन्तरो लोके ॥ \nअभ्यन्तरोऽहं लोके, न त्वहं लोकः ॥",
"pradeep": "न त्वहं लोक इति । यथा लोकोऽर्थावगमाय शब्दान् प्रयुङ्क्ते नैवं मयैतेऽर्थे प्रयुक्ताः, अपि तु स्वरूपपदार्थका इत्यर्थः ॥",
"uddyot": "ननु लोकान्तर्भूतस्य 'न त्वहं लोकः' इति वचो विरुद्धमत आह - यथेति । अर्थबोधाय शब्दान्प्रयुञ्जानो हि मम लोकत्वेनाभिमत इत्यर्थः ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 79,
"bhashya": " ॥ * ॥ अस्त्यप्रयुक्त इति चेत् नार्थे शब्दप्रयोगात् ॥ * ॥ \nअस्त्यप्रयुक्त इति चेत्, तन्न ।\nकिं कारणम् ? \n'अर्थे शब्दप्रयोगात्' अर्थे शब्दाः प्रयुज्यन्ते । सन्ति चैषां शब्दानामर्था येष्वर्थेषु प्रयुज्यन्ते ॥",
"pradeep": "अर्थे शब्दप्रयोगादिति । अर्थसद्भावः शब्दसद्भावे लिङ्गम् । न हि विना शब्देनार्थप्रत्यायनमुपपद्यते ॥",
"uddyot": "भाष्ये - अर्थे शब्दप्रयोगादिति । अर्थविषयकज्ञानाय शब्दप्रयोगादित्यर्थः ॥ तदाशयमाह - अर्थसद्भाव इति ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 80,
"bhashya": "॥ * ॥ अप्रयोगः प्रयोगान्यत्वात् ॥ * ॥ अप्रयोगः खल्वप्येषां शब्दानां न्याय्यः। \nकुतः? '\n‘प्रयोगान्यत्वात्' । यदेतेषां शब्दानामर्थेऽन्याञ्छब्दान्प्रयुञ्जते । तद्यथा - 'ऊष' इत्यस्य शब्दस्यार्थे - क्व यूयमुषिताः, 'तेर' इत्यस्यार्थे - क्व यूयं तीर्णाः, 'चक्र' इत्यस्यार्थे - क्व यूयं कृतवन्तः। 'पेच' इत्यस्यार्थ - क्व यूयं पक्ववन्त इति ॥",
"pradeep": "इतरोऽन्यथासिद्धतामाह - अप्रयोग इति । यतोऽन्ये तेषामर्थानां सन्ति वाचकास्ततो नैषामनुमानमुपपद्यते । यद्यपि 'ऊष' इत्यस्य 'उषिताः' इति समानार्थो न भवति, परोक्षतादेर्विशेषस्यानवगमात्, तथापि तत्प्रत्यायनाय पदान्तरसहितः प्रयुज्यते॥",
"uddyot": "भाष्ये - प्रयोगान्यत्वादिति । प्रयुज्यत इति - प्रयोगः - शब्दः, सोऽन्यो यस्यार्थस्यास्ति तत्त्वादित्यर्थः। सर्वनाम्नः परनिपातः, पूर्वनिपातप्रकरणानित्यत्वात् ॥ पदान्तरसहित इति । पदान्तरं - क्व यूयमिति । तत्र 'क्व' इत्यनेन साधनपारोक्ष्यं, निष्ठया भूतत्वं कर्तृत्वं च, 'यूयं' इत्यनेन मध्यमपुरुषबोध्यमाभिमुख्यं बहुत्वञ्च, चेतनत्वं वा बहुत्वं च । वसेः साक्षात् 'गत्यर्थाकर्मक - ' इत्यत्र निर्देशात् , तरतेर्गत्यर्थत्वात् कर्तरि क्तः ॥ नन्वाख्याते क्रियाविशेष्यको बोधः, अत्र कर्तृविशेष्यकः - इति कथं लिडन्तसमानार्थत्वम् ? इति चेत्, न। विषयताविशेषानादरेण तथोक्तेः । न चाख्याते क्रियाविशेष्यकबोधे 'पक्ष्यति भवति' 'अपाक्षीद्भवति' इति भूवादिसूत्रस्थभाष्यप्रयोगविरोधः, अतीतानागतपाककर्तृकसत्ताया वर्तमानत्वासङ्गतेरिति वाच्यम् । वर्तमानसामीप्ये तत्र लटः सत्त्वात् । 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इत्यादौ यत्कर्तृको यागस्तत्कर्तृकं तरणमिति बोधः । अत एव 'ह्रस्वो नपुंसके - ' इति सूत्रे 'रमते ब्राह्मणकुलमिति क्रियाप्रधानं' इति भाष्ये उक्तम् ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 81,
"bhashya": "॥ * ॥ अप्रयुक्ते दीर्घसत्त्रवत् ॥ * ॥ यद्यप्यप्रयुक्ताः, अवश्यं दीर्घसत्त्रवल्लक्षणेनानुविधेयाः। तद्यथा - दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च, न चाद्यत्वे कश्चिदप्याहरति। केवलमृषिसंप्रदायो धर्म इति कृत्वा याज्ञिकाः शास्त्रेणानुविदधते ॥",
"pradeep": "संप्रत्यप्रयुज्यमानानामपि पूर्वं प्रयुक्तत्वादनुशासनं कर्तव्यमित्याह - अप्रयुक्त इति ॥ ऋषिसंप्रदाय इति । वेदाध्ययनमित्यर्थः ॥",
"uddyot": "नन्वप्रयुक्तानुशासने निर्मूलत्वाच्छास्त्रस्याप्रामाण्यं स्यादत आह - संप्रतीति । पाणिनेर्व्याकरणप्रणयनकाले इत्यर्थः । पूर्वप्रयोगसत्ता च व्याकरणप्रणयनादेवानुमीयत इति भावः । इदमपि यत्र भाष्यवार्तिककाराभ्यामप्रयुक्तत्वं नोक्तं तदभिप्रायकमनुमानं बोध्यम् ॥ (भाष्ये ) वार्षशतिकानीति । वर्षशब्दो दिवसपरः, यथाश्रुत एव वा ॥ आहरति । सामग्र्यभावादिति भावः ॥ ननु सत्त्राणां बहुयजमानकानामृषिभिर्वसिष्ठादिभिः संप्रदीयमानत्वाभावादृषिसंप्रदाय इत्ययुक्तमत आह - वेदेति ॥ भाष्ये 'कृत्वा' इत्यनन्तरं 'अधीयते' इति शेषः । याज्ञिकाश्च कल्पसूत्रेणान्याचक्षत इत्यर्थः । अत्र सत्त्राणां कर्मत्वम् ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 82,
"bhashya": "॥ * ॥ सर्वे देशान्तरे ॥ * ॥ सर्वे खल्वप्येते शब्दा देशान्तरेषु प्रयुज्यन्ते ॥",
"pradeep": "सर्व इति । इदमत्र तात्पर्यम् - यस्य कस्यचिद्वचनात्प्रयोगाप्रयोगौ न व्यवतिष्ठेते, अपि तु शिष्टानामेव वचनात् ॥",
"uddyot": ""
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 83,
"bhashya": "न चैवोपलभ्यन्ते ॥",
"pradeep": "",
"uddyot": "अनुपलब्ध्याऽप्रयुक्तत्वं शङ्कते - भाष्ये - न च वेति ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 84,
"bhashya": "उपलब्धौ यत्नः क्रियताम् ॥ महान् शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती, त्रयो लोकाः, चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्नाः - एकशतमध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः, एकविंशतिधा बाह्वृच्यं, नवधाऽऽथर्वणो वेदः, वाकोवाक्यम् , इतिहासः, पुराणं, वैद्यकमित्येतावाञ्छब्दस्य प्रयोगविषयः। एतावन्तं शब्दस्य प्रयोगविषयमननुनिशम्य 'सन्त्यप्रयुक्ताः' इति वचनं केवलं साहसमात्रमेव ॥",
"pradeep": "वाकोवाक्यशब्देनोक्तिप्रत्युक्तिरूपो ग्रन्थ उच्यते । यथा - 'किंस्विदावपनं महत् भूमिरावपनं महत्' इति । पूर्वचरितसंकीर्तनं - इतिहासः। वंशाद्यनुकीर्तनं - पुराणम् ॥",
"uddyot": "इतरलोकापेक्षया वसुमत्यां शब्दबाहुल्यात्तस्याः पृथग्ग्रहणम् । अनेनान्त्यपातालपर्यन्तसंग्रहः। त्रयो लोकाः - स्वस्त्वेनोपरितनसकलसंग्रहः । रहस्यम् - उपनिषत् । मन्वादिस्मृतयो वा, वेदनिगूढार्थप्रकाशकत्वात् । एवं च देशान्तरशब्दः शास्त्रान्तरवेदान्तरोपलक्षक इति बोध्यम् ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 85,
"bhashya": "एतस्मिंश्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दास्तत्र तत्र नियतविषया दृश्यन्ते । तद्यथा शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति, विकार एनमार्या भाषन्ते - शव इति । हम्मतिः सुराष्ट्रेषु, रंहतिः प्राच्यमध्येषु, गमिमेव त्वार्याः प्रयुञ्जते । दातिर्लवनार्थे प्राच्येषु, दात्रमुदीच्येषु॥",
"pradeep": "विकार इति । जीवतो मृतावस्था - विकारः, तत्रेत्यर्थः ॥",
"uddyot": "भाष्ये - हम्मतिरित्यत्र रंहतिरित्यत्र च 'गतिकर्मा' इत्यनुकर्षः ॥ दातिर्लवनार्थ इति । क्तिन्नन्तं क्तिजन्तं वा। लवनेऽर्थे दातिशब्दं प्राच्याः प्रयुञ्जते, तत्रार्थे दात्रशब्दमुदीच्या इत्यर्थः ॥"
},
{
"adhikarana_id": 9,
"adhikarana_name": "शब्दविषयप्रदर्शनाधिकरणम्",
"chunk_id": 86,
"bhashya": "ये चाप्येते भवतोऽप्रयुक्ता अभिमताः शब्दा एतेषामपि प्रयोगो दृश्यते ॥\nक्व?\nवेदे। तद्यथा - 'यद्वो रेवतीरेवत्यन्तमूष, यन्मे नरः श्रुत्यं ब्रह्म चक्र, यत्रा नश्चक्रा जरसं तनूनाम्' इति ॥",
"pradeep": "",
"uddyot": ""
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 87,
"bhashya": "किं पुनः - शब्दस्य ज्ञाने धर्मः, आहोस्वित्प्रयोगे?",
"pradeep": "किं पुनरिति । 'एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति'[[6.1.84]] इति श्रुतिः । तत्र किं सम्यक् ज्ञातः कामधुग्भवति, सुप्रयोगात्तु सम्यग्ज्ञातत्वानुमानमित्यर्थः; आहोस्वित्सुप्रयुक्तः कामधुक् भवति, सुप्रयुक्तत्वं सम्यग्ज्ञानादित्यर्थ इति प्रश्नः ॥",
"uddyot": "वार्तिकोक्तो धर्मनियमः श्रुतिसिद्धस्तस्यामुभयोः श्रवणात्प्रश्न इत्याह - एकः शब्द इति । तत्र 'यदैकस्मादपूर्वं तदितरत्तदर्थम्' इति न्यायात् द्वयोः साम्येन फलसंबन्धाभावाद्विकल्पायोगेनैकस्य प्राधान्यम्, अपरस्याङ्गत्वं कल्प्यम् ॥ तत्र 'प्रथमं वा नियम्येत - ' (पू० मी० ११।१।४३) इति न्यायाश्रयेणाह - तत्र किमिति ॥ \n सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । \n पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधार्यताम् ॥ \nइति न्यायेन ज्ञानस्य ज्ञेयशेषतया धर्महेतुत्वाभावात् , प्रयोगाङ्गतया दृष्टार्थत्वाच्च, प्रयोगस्य फलं प्रति संनिहितत्वाच्चाह - आहोस्विदिति ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 88,
"bhashya": "कश्चात्र विशेषः? ॥*॥ ज्ञाने धर्म इति चेत्तथाऽधर्मः॥*॥ ज्ञाने धर्म इति चेत्तथाऽधर्मः प्राप्नोति । यो हि शब्दान् जानाति, अपशब्दानप्यसौ जानाति । यथैव शब्दज्ञाने धर्मः, एवमपशब्दज्ञानेऽप्यधर्मः ॥",
"pradeep": "ज्ञाने धर्म इति चेदिति । यथा श्लेष्मणः प्रकोपनं स्नेहद्रव्यं, रूक्षं वायोः, तथेहापि प्राप्तमिति भावः ॥",
"uddyot": "यथा श्लेष्मण इति । तथा धर्मजनकज्ञानविपरीतत्वात् तद्विपरीतजनकत्वेनापशब्दज्ञानादधर्मप्राप्तिरित्यर्थः ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 89,
"bhashya": "अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दाः, अल्पीयांसः शब्दाः । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः। तद्यथा - गौरित्यस्य गावी - गोणी - गोता - गोपोतलिकेत्येवमादयोऽपभ्रंशाः ॥ ॥ * ॥ आचारे नियमः ॥ * ॥ आचारे पुनर्ऋषिर्नियमं वेदयते - 'तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः' इति ॥",
"pradeep": "आचार इति । प्रयोगे ॥ ऋषिः - वेदः ॥",
"uddyot": "प्रयोगे इति । एवं च प्रयोगादेवाधर्मवद्धर्मोऽपीति 'ज्ञानाद्धर्मः' इति वेदविरुद्धमिति भावः ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 90,
"bhashya": "अस्तु तर्हि प्रयोगे॥ ॥ * ॥ प्रयोगे सर्वलोकस्य ॥ * ॥ यदि प्रयोगे धर्मः, सर्वो लोकोऽभ्युदयेन युज्येत ॥ \nकश्चेदानीं भवतो मत्सरः, यदि सर्वो लोकोऽभ्युदयेन युज्येत? \nन खलु कश्चिन्मत्सरः । प्रयत्नानर्थक्यं तु भवति । फलवता च नाम यत्नेन भवितव्यम् । न च प्रयत्नः फलाद्व्यतिरेच्यः॥",
"pradeep": "न च प्रयत्न इति । यदि प्रयत्नेन विना फलं स्यात् प्रयत्नवैयर्थ्यमापद्येतेत्यर्थः ॥",
"uddyot": "भाष्ये - फलाद्व्यतिरेच्य इति । फलवद्वृत्त्यभावपप्रतियोगी न कार्य इत्यर्थः ॥ प्रयत्नवैयर्थ्यमिति । व्याकरणाध्ययनविषयकप्रयत्नवैयर्थ्यमित्यर्थः ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 91,
"bhashya": "ननु च ये कृतप्रयत्नास्ते साधीयः शब्दान्प्रयोक्ष्यन्ते, अत एव साधीयोऽभ्युदयेन योक्ष्यन्ते ॥",
"pradeep": "",
"uddyot": "साधीय इति । क्रियाविशेषणम् । शास्त्रसंस्कारवतां प्रभूतशब्दप्रयोगजन्यबह्वपूर्वद्वारा बहुतराभ्युदययुक्तत्वमित्यर्थः ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 92,
"bhashya": "व्यतिरेकोऽपि वै लक्ष्यते । दृश्यन्ते हि कृतप्रयत्नाश्चाप्रवीणाः, अकृतप्रयत्नाश्च प्रवीणाः । तत्र फलव्यतिरेकोऽपि स्यात् ॥",
"pradeep": "व्यतिरेक इति । परिहासः ॥",
"uddyot": "भाष्ये - तत्र फलव्यतिरेक इति । कौशलव्यतिरेकवत् फलव्यतिरेकोऽपि स्यादिति तस्य व्याकरणाध्ययनं व्यर्थमेव स्यादिति भावः ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 93,
"bhashya": "एवं तर्हि - नापि ज्ञान एव धर्मः, नापि प्रयोग एव ॥ किं तर्हि ? ॥ * ॥ शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन ॥ * ॥ शास्त्रपूर्वकं यः शब्दान्प्रयुङ्क्ते सोऽभ्युदयेन युज्यते। 'तत्तुल्यं वेदशब्देन' । वेदशब्दा अप्येवमभिवदन्ति - 'योऽग्निष्टोमेन यजते य उ चैनमेवं वेद', 'योऽग्निं नाचिकेतं चिनुते य उ चैनमेवं वेद' ॥",
"pradeep": "तत्तुल्यमिति । वेदः शब्दो यस्यार्थस्य सः - वेदशब्दः, तस्य यथा ज्ञात्वाऽनुष्ठानं तथा शब्दानामपि प्रकृत्यादिविभागज्ञानपूर्वकः प्रयोग इत्यर्थः ॥",
"uddyot": "शास्त्रपूर्वके इति । व्याकरणाध्ययनपूर्वके इत्यर्थः ॥ तत्र वेदाङ्गत्वादेतद्व्याकरणाध्ययनपूर्वकप्रयोगे एव धर्म इति प्रामाणिकाः ॥ वेदः शब्द इति । बोधक इत्यर्थः। प्रमाणमित्यर्थो वा ॥ तस्य यथेति । तस्य यथा 'य उ चैनमेवं वेद' इति ग्रन्थेन वेदतो ज्ञात्वाऽनुष्ठानं फलायोक्तम् , तथाऽस्यापि शास्त्रज्ञानपूर्वकप्रयोगः फलायेति 'एकः शब्दः' इत्यादिनोक्तमित्यर्थः ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 94,
"bhashya": "अपर आह - तत्तुल्यं वेदशब्देन - इति । यथा - वेदशब्दा नियमपूर्वमधीताः फलवन्तो भवन्ति, एवं यः शास्त्रपूर्वकं शब्दान्प्रयुङ्क्ते सोऽभ्युदयेन युज्यत इति ॥",
"pradeep": "अपर आहेति । वेदश्चासौ शब्दश्च - वेदशब्द इति कर्मधारयः ॥",
"uddyot": ""
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 95,
"bhashya": "अथ वा पुनरस्तु \nज्ञान एव धर्म इति ॥\nननु चोक्तम् - *ज्ञाने धर्म इति चेत्तथाऽधर्मः* इति ॥ \nनैष दोषः, शब्दप्रमाणका वयम् , यच्छब्द आह तदस्माकं प्रमाणम् । शब्दश्च शब्दज्ञाने धर्ममाह, नापशब्दज्ञानेऽधर्मम् ॥ यच्च पुनरशिष्टाप्रतिषिद्धम्, नैव तद्दोषाय भवति, नाभ्युदयाय। तद्यथा - हिक्कितहसितकण्डूयितानि नैव दोषाय भवन्ति, नाभ्युदयाय ॥",
"pradeep": "",
"uddyot": "भाष्ये - प्रमाणमिति । प्रामाणिकमित्यर्थः ॥ शब्दश्च शब्दज्ञाने इति । 'एकः शब्दः सम्यक् ज्ञातः' इत्यादिः ॥ 'हेलयो हेलयः' इत्यादि तु अपशब्दप्रयोगेऽधर्ममाह, न तु ज्ञाने इति भावः ॥ यद्यपि तत्र 'प्रयुक्तः' इत्यप्युक्तं, तथाप्यवैयाकरणस्य सम्यक्प्रयोगादपि धर्माभावेन ज्ञानमेव तद्धेतुः । प्रयोगस्तु तस्य द्वारमिति भावः ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 96,
"bhashya": "अथवाऽभ्युपाय एवापशब्दज्ञानं शब्दज्ञाने । यो ह्यपशब्दाञ्जानाति शब्दानप्यसौ जानाति । तदेवं 'ज्ञाने धर्मः' इति ब्रुवतोऽर्थादापन्नं भवति - 'अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः' इति ॥",
"pradeep": "अथवेति । अपशब्दज्ञाननान्तरीयकत्वाच्छब्दज्ञानस्य पृथक्फलमपशब्दज्ञानस्य नास्तीत्यर्थः ॥",
"uddyot": "भाष्ये - अभ्युपाय एवेति । अपशब्दज्ञाननान्तरीयकं शब्दज्ञानमिति शब्दज्ञानेन फले जननीये सहकारितैवापशब्दज्ञानस्य, न पृथक्फलतेति भावः ॥ अपशब्दज्ञानम् - अपशब्दत्वेन तज्ज्ञानम् ॥ एवं 'शब्दज्ञाने' इत्यपि ॥ अपशब्दत्वेन तज्ज्ञाने हि तद्भिन्नत्वेन शब्दज्ञानं भवति ॥ 'यो हि' इति भाष्यस्य य एव अपशब्दान् जानाति असावेव शब्दान् जानातीति तज्ज्ञानसमानाधिकरणशब्दज्ञानादेव धर्म इति न ततो विपरीतफलकल्पना युक्तेति भावः ॥ तदाह - अपशब्दज्ञाननान्तरीयकत्वादिति । बहुव्रीहिः । न हि वह्न्यानयननान्तरीयकं पात्रानयनं ततः पृथक्फलं भवति ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 97,
"bhashya": "अथवा कूपखानकवदेतद्भविष्यति । तद्यथा कूपखानकः कूपं खनन्यद्यपि मृदा पांशुभिश्चावकीर्णो भवति सोऽप्सु संजातासु तत एव तं गुणमासादयति, येन स च दोषो निर्हण्यते भूयसा चाभ्युदयेन योगो भवति ॥ एवमिहापि यद्यपशब्दज्ञानेऽधर्मः, तथापि यस्त्वसौ शब्दज्ञाने धर्मस्तेन स च दोषो निर्घानिष्यते, भूयसा चाभ्युदयेन योगो भविष्यति ॥",
"pradeep": "दोष इति । उत्कृष्टधर्मफलावाप्तौ स्वल्पमधर्मफलमुत्पन्नमप्यनुत्पन्नकल्पं भवतीत्यर्थः ॥",
"uddyot": "तुष्यतु दुर्जनः' इति न्यायेनापशब्दज्ञानस्य विपरीतत्वमात्रेणाधर्मसाधनत्वमभ्युपगम्यापि भाष्ये समाध्यन्तरमाह अथवा कूपेति । मृत् - आर्द्रा । पांसुः - शुष्का। यत्कर्मनान्तरीयककर्मजन्यो यो विपरीतत्वमात्रेण कल्प्योऽवैधो दोषः स तत्कर्मजन्यफलनाश्यः, यथा कृपखनननान्तरीयकशरीरव्यापारजन्यो मृल्लेपस्तत्फलजलनाश्य इति सामान्यतो दृष्टानुमानात्तन्नाशानुमानमिति बोध्यम् ॥ उत्कृष्टधर्मेति । धर्मस्य विधिबोध्यत्वादुत्कृष्टत्वम् । अधर्मस्य तु वचनाबोध्यत्वेन विपरीतत्वमात्रेण कल्प्यस्याल्पत्वेन तत्फलधर्मनाश्यत्वम् ॥ यागीयहिंसायाः 'न हिंस्यात्' इतिवचनेन दुष्टताबोधनाद्दुष्टत्वमेवेत्यन्यत्र विस्तरः ॥"
},
{
"adhikarana_id": 10,
"adhikarana_name": "शब्दज्ञानस्य धर्मजनकताधिकरणम्",
"chunk_id": 98,
"bhashya": "यदप्युच्यते - *आचारे नियमः* इति । याज्ञे कर्मणि स नियमः, अन्यत्रानियमः । एवं हि श्रूयते - 'यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परापरज्ञा विदितवेदितव्या अधिगतयाथातथ्याः।' ते तत्रभवन्तः 'यद्वा नः' 'तद्वा नः' इति प्रयोक्तव्ये 'यर्वाणः - तर्वाणः' इति प्रयुञ्जते, याज्ञे पुनः कर्मणि नापभाषन्ते ॥ तैः पुनरसुरैर्याज्ञे कर्मण्यपभाषितम् , ततस्ते पराभूताः ॥",
"pradeep": "प्रत्यक्षधर्माण इति । योगिप्रत्यक्षेण सर्वं विदितवन्तः ॥ परापरज्ञाः - विद्याऽविद्याप्रविभागज्ञाः ॥",
"uddyot": "भाष्ये - अन्यत्रानियम इति । यज्ञे सुशब्दप्रयोगाद्धर्मः - अपशब्दप्रयोगादधर्म इति तत्रैव तयोः प्रयोगनियमः । तदतिरिक्तस्थले तु सुशब्दापशब्दयोः प्रयोगेऽनियमः । योऽपि यज्ञे दोषः सोऽपि तदङ्गभूतसंकल्पोहादिविषये एव । श्रुतौ 'हेलयो हेलयो नश्यध्वं' इत्यूह एव ॥ विदितवेदितव्याः - इत्यनेन श्रवणमनननिदिध्यासनसंपदुक्ता ॥ अधिगतयाथातथ्याः - इत्यनेन साक्षात्कार उक्तः । याथातथ्यं प्रयुञ्जते - इति वर्तमानसमीपे भूते लट्। एवं 'नापभाषन्ते' इत्यपि । अत एव तन्नामानो बभूवुरित्यर्थः । स्वार्थे ष्यञ् । वेदितव्यस्य यद्यद्यथा तथा स्वरूपं शुद्धचिदानन्दरूपं तदधिगतं - प्रत्यक्षेण प्राप्तं यैरित्यर्थः ॥ याज्ञे पुनरिति । अनेन तत्त्वज्ञानामपि कर्माधिकारं सूचयति ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 99,
"bhashya": "अथ व्याकरणमित्यस्य शब्दस्य कः पदार्थः? सूत्रम् ॥",
"pradeep": "अथेति । उक्तमिदं - न चान्तरेण व्याकरणं - इत्यादि । तत्र पक्षद्वयेऽपि दोषदर्शनात् पदार्थप्रश्नः॥",
"uddyot": "व्याकरणपदार्थविचारस्य सङ्गतिं दर्शयितुमाह - उक्तमिदमिति । आदिना 'तस्मादध्येयं व्याकरणं' इत्यादि पुनः पुनरुक्तिर्गृह्यते ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 100,
"bhashya": "॥*॥ सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः॥*॥ सूत्रे व्याकरणे षष्ठ्यर्थो नोपपद्यते - 'व्याकरणस्य सूत्रम्' इति ॥ किं हि तदन्यत्सूत्रात् व्याकरणं यस्यादः सूत्रं स्यात् ?",
"pradeep": "षष्ठ्यर्थ इति । द्वाभ्यामपि शब्दाभ्यामष्टाध्याय्याः प्रतिपादनाद्व्यतिरेकाभावः । सामान्यविशेषशब्दतया तु द्वयोः प्रयोगो न विरुध्यते । यदा त्वष्टाध्याय्येकदेशः सूत्रशब्देनोच्यते, तदा पष्ठ्यर्थोऽप्युपपद्यते ॥",
"uddyot": "ननु सूत्रसमुदायस्य व्याकरणस्येदं सूत्रमित्युपपद्यतेऽत आह - द्वाभ्यामिति । सूत्रपदेनाप्यष्टाध्याय्येव यदोच्यते तदापीष्यतेऽयं प्रयोगः, स न सिध्येदित्यर्थः ॥ ननु किमुच्यते - 'षष्ठयर्थोऽनुपपन्नः' इति, पर्यायतया सहप्रयोगोऽपि न स्यादत आह - सामान्यविशेषेति । सूत्रं सामान्यं, व्याकरणं विशेषः । सूत्रशब्देनाष्टाध्याय्येव, तदेकदेशे तु योगव्यवहार एव 'योगे योगे उपतिष्ठते' इत्यादौ ॥ यदा त्विति । 'सूत्राणि चाप्यधीयान' इति भाष्ये वक्ष्यमाणत्वादिति भावः । वस्तुत एकदेशस्य सूत्रत्वेऽपि तस्यापि साक्षात्परम्परया वा व्याकरणत्वात्षष्ठयर्थानुपपत्तिरेवेति तत्त्वम् ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 101,
"bhashya": "॥ * ॥ शब्दाप्रतिपत्तिः ॥ * ॥शब्दानां चाप्रतिपत्तिः प्राप्नोति - 'व्याकरणाच्छब्दान्प्रतिपद्यामहे' इति । न हि सूत्रत एव शब्दान्प्रतिपद्यन्ते। \nकिं तर्हि ? व्याख्यानतश्च ॥",
"pradeep": "शब्दाप्रतिपत्तिरिति । न हि व्याख्यानरहितसूत्रमात्रश्रवणाच्छब्दाः प्रतीयन्ते ॥",
"uddyot": "समुदायस्यातिरिक्तत्वेऽपि दोषमाह - भाष्ये - शब्दाप्रतिपत्तिरिति । व्याकरणाच्छब्दान्प्रतिपद्यामह इति शब्दविषयव्यवहारासिद्धिः प्राप्नोतीत्यर्थः । यतः केवलसूत्रेभ्यः शब्दप्रतिपत्तिर्न दृश्यते । व्याकरणस्य शब्दप्रतिपत्तिहेतुत्वं च लोकसिद्धम् , व्याकरणाच्छब्दान्प्रतिपद्यामह इति व्यवहारात् । सेयं प्रतिपत्तिसाधनता सूत्राद्व्यावर्तमाना तद्व्याप्यां व्याकरणशब्दवाच्यतां व्यावर्तयतीति भावः । तदाह - न हीति ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 102,
"bhashya": "ननु च तदेव सूत्रं विगृहीतं व्याख्यानं भवति ॥ \nन केवलं चर्चापदानि व्याख्यानम् - 'वृद्धिः, आत्, ऐच्' इति । \nकिं तर्हि ? \nउदाहरणं - प्रत्युदाहरणं - वाक्याध्याहारः - इत्येतत्समुदितं व्याख्यानं भवति ॥",
"pradeep": "समुदितमिति । समुदायादेवार्थावसायोत्पादादित्यर्थः ॥",
"uddyot": "भाष्ये - चर्चापदानि - चर्च्यमानानि - विभज्यमानानीत्यर्थः ॥ वाक्याध्याहार इति । वाक्यघटकपदानां सूत्रान्तरे श्रुतानां स्वरितत्वप्रतिज्ञयाऽध्याहारः - कल्पनमित्यर्थः । यद्वा वाक्याध्याहार इत्यनेन वार्तिककृद्वाक्यानां सूत्रतात्पर्यविषयता वाक्यैकदेशन्यायेन सूचिता ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 103,
"bhashya": "एवं तर्हि शब्दः।",
"pradeep": "",
"uddyot": "शब्द इति । लक्ष्यमित्यर्थः । अत्र पक्षे षष्ठयर्थ उपपद्यते । शब्दाप्रतिपत्तिहेतुता तु तदवस्था ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 104,
"bhashya": " ॥ * ॥ शब्दे ल्युडर्थः ॥ * ॥ \n\nयदि शब्दो व्याकरणं ल्युडर्थो नोपपद्यते - व्याक्रियन्ते शब्दा अनेनेति व्याकरणम् । न हि शब्देन किंचित् व्याक्रियते। केन तर्हि ? सूत्रेण ॥",
"pradeep": "शब्द इति । करणे ल्युड्विधीयते । शब्दश्च व्याक्रियमाणत्वात्कर्म, न तु करणमिति भावः ॥",
"uddyot": "ननु राजभोजना इतिवत् कर्मल्युटि न दोषोऽत आह - करणे इति । कर्मणि स तु क्वाचित्क इति भावः ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 105,
"bhashya": "॥ * ॥ भवे च तद्धितः॥ * ॥भवे च तद्धितो नोपपद्यते - व्याकरणे भवो योगो वैयाकरणः - इति । नहि शब्दे भवो योगः। क्व तर्हि? \nसूत्रे॥",
"pradeep": "भवे चेति । शब्देऽप्यन्वाख्यायकत्वेन भवो योग इति चेत्, मीमांसकादियोगस्यापि शब्दं प्रति विचारकत्वात् वैयाकरणत्वप्रसङ्गः ॥",
"uddyot": ""
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 106,
"bhashya": "॥ * ॥ प्रोक्तादयश्च तद्धिताः॥ * ॥ प्रोक्तादयश्च तद्धिता नोपपद्यन्ते । पाणिनिना प्रोक्तं पाणिनीयम्, आपिशलं, काशकृत्स्नमिति । न हि पाणिनिना शब्दाः प्रोक्ताः । किं तर्हि ? सूत्रम् ॥ \nकिमर्थमिदमुभयमुच्यते - * भवे - प्रोक्तादयश्च तद्धिताः* इति । न *प्रोक्तादयश्च तद्धिताः* इत्येव भवेऽपि तद्धितश्चोदितः स्यात् ? \nपुरस्तादिदमाचार्येण दृष्टम् - *भवे च तद्धितः* इति, तत्पठितम् । तत उत्तरकालमिदं दृष्टम् - *प्रोक्तादयश्च तद्धिताः* इति, तदपि पठितम् । न चेदानीमाचार्याः सूत्राणि कृत्वा निवर्तयन्ति ॥",
"pradeep": "न चेदानीमिति । लक्षणप्रपञ्चाभ्यां मूलसूत्रवत् वार्तिकानामुपपत्त्या दोषाभावः ॥",
"uddyot": "लक्षणप्रपञ्चाभ्यामिति । यथा - कर्मधारयप्रकरणे, अलुक्प्रकरणे च । विजिगीषुकथायां हि अभिहिताभिधानमशक्तिसूचकत्वाद्दोषाय । इह तु व्युत्पादनार्थत्वान्न दोषकृदिति भावः॥ पूर्वं सामान्ये उक्ते पश्चाद्विशेषकथनं प्रपञ्चार्थमिति युज्यते, अत्र तु विपरीतमिति न तत्साम्यमित्यन्ये ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 107,
"bhashya": "अयं तावददोषः - यदुच्यते *शब्दे ल्युडर्थः* इति । नावश्यं करणाधिकरणयोरेव ल्युड्विधीयते । किं तर्हि ? अन्येष्वपि कारकेषु - 'कृत्यल्युटो बहुलम्' इति । तद्यथा - प्रस्कन्दनं प्रपतनमिति ॥",
"pradeep": "प्रस्कन्दनमिति । यद्यप्ययं भीमादिः, तथापि ‘कृत्यल्युटो बहुलम्' इत्यस्यैव 'भीमादयोऽपादाने' इत्ययं प्रपञ्च इति भावः ॥",
"uddyot": ""
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 108,
"bhashya": "अथवा शब्दैरपि शब्दा व्याक्रियन्ते । तद्यथा गौरित्युक्ते सर्वे संदेहा निवर्तन्ते, नाश्वो न गर्दभ इति ॥",
"pradeep": "गौरित्युक्त इति । सास्नादिमति यदा कञ्चित्प्रति ‘अयं गौः' इत्युच्यते तदाऽत्र वाचकान्तराणां निवृत्तिः कृता भवति, एवमेकस्मिन्नुदाहरणे उपन्यस्ते सर्वाणि तत्सदृशानि शब्दान्तराणि प्रतीयन्ते ॥",
"uddyot": "प्रतीयन्त इति । एवं च विपरीतव्यावृत्तिः सदृशसंग्रहश्च व्याकृतिरिति भावः ॥ एतेन शब्दाप्रतिपत्तिरप्यत्र पक्षे उद्धृता ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 109,
"bhashya": "अयं तर्हि दोषः - * 'भवे - प्रोक्तादयश्च तद्धिताः'* इति॥ \nएवं तर्हि - ॥ * ॥ लक्ष्यलक्षणे व्याकरणम् ॥ * ॥ \nलक्ष्यं च लक्षणं चैतत्समुदितं व्याकरणं भवति॥ किं पुनर्लक्ष्यम्, किं लक्षणम्? शब्दो लक्ष्यः, सूत्रं लक्षणम् ॥",
"pradeep": "",
"uddyot": "व्यावर्त्यव्यावर्तकरूपलक्ष्यलक्षणस्यातिप्रसक्तत्वात्पृच्छति - भाष्ये - किं पुनरिति ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 110,
"bhashya": "एवमप्ययं दोषः - समुदाये व्याकरणशब्दः प्रवृत्तोऽवयवे नोपपद्यते । सूत्राणि चाप्यधीयान इष्यते - वैयाकरण इति ॥ \nनैष दोषः । समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि वर्तन्ते । तद्यथा - पूर्वे पञ्चालाः, उत्तरे पञ्चालाः, तैलं भुक्तम् , घृतं भुक्तम्, शुक्लो नीलः कृष्ण इति ॥ एवमयं समुदाये व्याकरणशब्दः प्रवृत्तोऽवयवेऽपि वर्तते ॥",
"pradeep": "पूर्वे पञ्चाला इति । जनपदान्तरनिवृत्तिविवक्षायामेकदेशेऽपि समुदायरूपारोपात्प्रयोगः ॥ तैलमिति । यदौषधसंस्कृता घृततैलमात्रा भवति तदैतदुदाहरणम् । आकृतिवाचित्वे तु घृततैलशब्दयोः संस्थानप्रमाणनिरपेक्षा सर्वत्र मुख्या वृत्तिः ॥ शुक्ल इति । अशुक्लेऽप्यवयवेऽवयवान्तरस्य शौक्ल्यात्समुदायस्य शुक्लत्वे सति आरोपात्प्रयोगः ॥",
"uddyot": "जनपदान्तरेति । भावप्रधानो निर्देशः ॥ यदेति । मात्रा - परिच्छिन्नोंऽशः । औषधसंस्कृते तत्र समुदाये घृतादिशब्दस्य रूढिरिति भावः ॥ अशुक्लेऽप्यवयवे इति । 'प्रयोगः' इत्यनेनान्वेति ॥ आरोपादिति । समुदायस्य शुक्लत्वे अशुक्लावयवे प्रयोगे च हेतुः । तत्र समुदाये शुक्लत्वारोपे हेतुः 'अवयवान्तरस्य शौक्ल्यात्' इति । वनैकदेशे 'पुष्पितं वनम्' इतिवदेकदेशेऽपि शुक्ले 'शुक्लः पटः' इति व्यवहार इति बोध्यम् ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 111,
"bhashya": "अथ वा पुनरस्तु सूत्रम् ॥ \nननु चोक्तम् - *सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः* इति ॥ \nनैष दोषः। व्यपदेशिवद्भावेन भविष्यति ॥",
"pradeep": "व्यपदेशिवद्भावेनेति । यथा 'राहोः शिरः' इत्येकस्मिन्नपि वस्तुनि शब्दार्थभेदाद्भेदव्यवहारः, एवमिहापि व्याकरणशब्देन शास्त्रस्य व्याकृतिक्रियायां करणरूपत्वमुच्यते । सूत्रशब्देन तु समुदायरूपता - इति भेदव्यवहार उपपद्यते ॥",
"uddyot": "शब्दार्थभेदादिति । अनेकावस्थायुक्तं शिरो राहुशब्दार्थः, यत्किंचिदेकावस्थायुक्तं तत् शिरःशब्दार्थः । तादृशराहुशब्दार्थस्य तादृशशिरःपदार्थोऽवयव इति षष्ठ्यर्थोपपत्तिरिति भावः ॥ सूत्रशब्देन तु समुदायरूपतेति । अनेकावस्थायुक्तस्य तस्य व्याकृतिक्रियाकरणावस्थाविशिष्टमवयव इति तद्रूपावयवस्यायं समुदाय इत्यर्थः ॥ ईदृशे स्थले विकल्पात्मकं ज्ञानं वस्तुशून्यमेव । व्यपदेशिवद्भावविषयेऽप्येवमेव, 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः' इति योगसूत्रे पतञ्जल्युक्तेरित्यन्ये ॥"
},
{
"adhikarana_id": 11,
"adhikarana_name": "व्याकरणाधिकरणम्",
"chunk_id": 112,
"bhashya": "यदप्युच्यते - *'शब्दाप्रतिपत्तिः'*इति । \nन हि सूत्रत एव शब्दान्प्रतिपद्यन्ते । किं तर्हि ? व्याख्यानतश्च - इति। \nपरिहृतमेतत् - तदेव सूत्रं विगृहीतं व्याख्यानं भवतीति ॥ \nननु चोक्तम् - 'न केवलानि चर्चापदानि व्याख्यानम् - वृद्धिः - आत् - ऐजिति । किं तर्हि ? \nउदाहरणं - प्रत्युदाहरणं - वाक्याध्याहारः - इत्येतत्समुदितं व्याख्यानं भवति' इति ॥ \nअविजानत एतदेवं भवति । सूत्रत एव हि शब्दान् प्रतिपद्यन्ते ॥ आतश्च सूत्रत एव । यो ह्युत्सूत्रं कथयेन्नादो गृह्येत ॥",
"pradeep": "सूत्रत एवेति । पदच्छेदादिभिः सूत्रार्थस्यैवाभिव्यञ्जनात् ॥ आत इति । निपातः । अतश्च हेतोरित्यर्थः ॥ नाद इति । नैतदित्यर्थः ॥ अथवा नादोऽर्थरहितत्वात् घोषमात्रमेव गृह्यतेत्यर्थः॥",
"uddyot": "भाष्ये — अविजानत इति । मन्दबुद्धेरित्यर्थः॥ सूत्रत एवेति । एतन्मूलकमेव पठ्यते 'सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्तिके।' इति ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 113,
"bhashya": "अथ किमर्थो वर्णानामुपदेशः?",
"pradeep": "किमर्थ इति । न हि वर्णोपदेशेन कस्यचित्साधुशब्दस्यानुशासनमिति भावः ॥",
"uddyot": "ननु लोकप्रसिद्धमातृकापाठेनैव वर्णज्ञानसंभवान्माहेश्वरो वर्णसमाम्नायः किमर्थ इति पृच्छति - भाष्ये - किमर्थ इति । पाणिनये महादेवकृत इत्यर्थः ॥ ननु साधुत्वान्वाख्यानं फलमत आह - न हीति ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 114,
"bhashya": " ॥ * ॥ वृत्तिसमवायार्थ उपदेशः ॥ * ॥ वृत्तिसमवायार्थो वर्णानामुपदेशः कर्तव्यः। \nकिमिदं वृत्तिसमवायार्थ इति? \nवृत्तये समवायः - वृत्तिसमवायः । वृत्त्यर्थो वा समवायः - वृत्तिसमवायः। वृत्तिप्रयोजनो वा समवायः - वृत्तिसमवायः॥ \nका पुनर्वृत्तिः? शास्त्रप्रवृत्तिः ॥ \nअथ कः समवायः? वर्णानामानुपूर्व्येण संनिवेशः॥ \nअथ क उपदेशः? उच्चारणम् ॥ \nकुत एतत् ? दिशिरुच्चारणक्रियः । उच्चार्य हि वर्णानाह - उपदिष्टा इमे वर्णा इति ॥",
"pradeep": "वृत्तिसमवायार्थ इति । लाघवेन शास्त्रप्रवृत्त्यर्थ इत्यर्थः । धर्मनियमवत्समासः ॥ वृत्त्यर्थ इति । शास्त्रप्रवृत्तिप्रत्यासन्नत्वं समवायस्य दर्शयति - 'इग्यणः'इत्यादौ हि यथासंख्यशास्त्रं वर्णसंनिवेशमात्रादेवावतिष्ठते ॥ वृत्तिप्रयोजन इति । पारम्पर्येण शास्त्रप्रवृत्तावस्याङ्गत्वम् । सति हि समवाये इत्संज्ञा, ततः 'आदिरन्त्येन - ' इति, ततः 'ढ्रलोपे - 'इत्यादिशास्त्रप्रवृत्तिः ॥",
"uddyot": "उत्तरम् - वृत्तिसमवायार्थ इति । वृत्तिः= शास्त्रप्रवृत्तिः, तदुपयोगी समवायो वर्णगतः क्रमविशेषः, स बोध्यत्वेनार्थः प्रयोजनं यस्य सः – तथोक्तः । सति ह्यक्षरसमाम्नायेऽजादिसंज्ञाभिर्लाघवेन शास्त्रप्रवृत्तिः, 'इग्यणः' इत्यादौ यथासङ्ख्यप्रवृत्तिश्चेति भावः । अनेनास्य शास्त्रबहिर्भूतत्वं सूचितम् । अत एव 'मङ्गलार्थं महतः शास्त्रौघस्यादितो वृद्धिशब्दं पठति' इति वक्ष्यति। अन्यकर्तृकत्वं च सूचितम् । 'पाणिनिशास्त्रप्रवृत्त्यर्थ उपदेशः' इत्युक्ते उपदेशे गुरुकर्तृकतायाः स्वरसतः प्रतीतेः, सिद्धोच्चारणेऽपि मन्त्रोपदेश इत्यादावुपदेशव्यवहारात् । 'अनुबन्धकरणार्थः' इत्यत्र करणपदेनेतरस्य सिद्धत्वसूचनात् । तत्करणं चोपदेशकर्तृकर्तृकमेव प्रत्यासत्तेरित्याहुः ॥ भाष्ये - किमिदमिति । कोऽयं समास इति प्रश्नः ॥ धर्मनियमवदिति । षष्ठीसमासः ॥ पक्षत्रयभेदमुपपादयति - शास्त्रेति । आद्यतात्पर्यं तूक्तं - 'लाघवेन शास्त्रप्रवृत्त्यर्थः' इति ॥ ननु नेदमाद्योच्चारणम् , अस्यानादित्वात् ; तत्कथमुपदेशत्वव्यवहारोऽत आह - - भाष्ये - उच्चारणमिति । ढक्कानिनादेनाभिव्यक्तिरित्यर्थः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 115,
"bhashya": " ॥ * ॥ अनुबन्धकरणार्थश्च ॥ * ॥ अनुबन्धकरणार्थश्च वर्णानामुपदेशः कर्तव्यः । अनुबन्धानासङ्क्ष्यामीति । न ह्यनुपदिश्य वर्णाननुबन्धाः शक्या आसङ्क्तुम् ॥ स एष वर्णानामुपदेशो वृत्तिसमवायार्थश्चानुबन्धकरणार्थश्च ।\nवृत्तिसमवायश्चानुबन्धकरणं च प्रत्याहारार्थम् । प्रत्याहारो वृत्त्यर्थः॥",
"pradeep": "प्रत्याहारार्थमिति । प्रत्याहारशब्देनाणादिकाः संज्ञा उच्यन्ते ॥",
"uddyot": "फलान्तरमाह - भाष्ये - अनुबन्धकरणार्थश्चेति । अनुबन्धबोधनार्थ इत्यर्थः। चेनाकारस्य विवृतगुणत्वसंग्रहः, उपलक्षणत्वेन वा। अनुबन्धत्वं च समुदायान्त्यसत्त्वे सति, नान्यथेति तात्पर्यम् ॥ ननु प्रत्याहारशब्देन सूत्रं चेत् तादर्थ्यमनुबन्धानामनुपपन्नमत आह - प्रत्याहारशब्देनेति । अधिकरणव्युत्पत्त्या, अर्श आद्यचा वेति भावः ॥ भाष्ये - वृत्त्यर्थ इति । लाघवेन शास्त्रप्रवृत्यर्थ इत्यर्थः ॥ एतेन प्रत्याहारद्वारा समवायस्य वृत्त्यर्थता दर्शिता ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 116,
"bhashya": "इष्टबुद्ध्यर्थश्च वर्णानामुपदेशः। \n'इष्टान्वर्णान् भोत्स्यामहे' इति । न ह्यनुपदिश्य वर्णानिष्टा वर्णाः शक्या विज्ञातुम् ॥",
"pradeep": "इष्टबुद्ध्यर्थश्चेति । सति ह्युपदेशे कलादिदोषरहिता ये वर्णा निर्दिष्टास्ते तथैव प्रयोक्तव्या इत्युक्तं भवति ॥",
"uddyot": "भोत्स्यामहे इति । अन्तर्भावितण्यर्थः, बोधयिष्यामह इत्यर्थः ॥ एवं 'विज्ञातुं' इत्यस्य ज्ञापयितुमित्यर्थः ॥ सति ह्युपदेशे इति । एवं च व्याकरणाध्येतॄणामक्षरसमाम्नायेनैवावश्यकेनेष्टवर्णज्ञाने सिद्धे न तदर्थं मातृका पाठनीयेति भावः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 117,
"bhashya": " ॥ * ॥ इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः ॥ * ॥ इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः कर्तव्यः । एवंगुणा अपि हि वर्णा इष्यन्ते ॥",
"pradeep": "एकश्रुत्या सूत्राणां पाठात्सर्वेषामुदात्तादीनामुपदेशः कर्तव्य इत्याह - इष्टबुद्ध्यर्थश्चेति चेदिति ।",
"uddyot": "एकश्रुत्येति । त्रैस्वर्यपाठे तु द्वयोरेव कर्तव्यतां वदेदित्यर्थः । तेषां लोकतः सिद्धौ तु दोषरहितानामपि तत एव सिद्धेरुपदेशवैयर्थ्यापत्तिरिति भावः ॥ त्रैस्वर्येण पाठेऽपि अन्यतमपाठेऽन्यस्य कर्तव्यत्वाभिप्रायेण सर्वेषां ग्रह्णमित्यन्ये ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 118,
"bhashya": " ॥ * ॥ आकृत्युपदेशात्सिद्धम् ॥ * ॥ आकृत्युपदेशात्सिद्धमेतत् । अवर्णाकृतिरुपदिष्टा सर्वमवर्णकुलं ग्रहीष्यति । तथेवर्णाकृतिः। तथोवर्णाकृतिः॥",
"pradeep": "आकृत्युपदेशादिति । उपात्तोऽपि विशेषो नान्तरीयकत्वाज्जातिप्राधान्यविवक्षायां न विवक्ष्यत इत्यर्थः ॥",
"uddyot": "आकृत्युपदेशे किमिति अकारादिह्रस्वव्यक्तिविशेषोपादानं, तदुपादाने व्यक्त्यन्तरग्रहणानापत्तिश्चेत्यत आह - उपात्त इति । नान्तरीयकत्वं च तं विना जातेरुच्चारयितुमशक्यत्वात् ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 119,
"bhashya": "॥ * ॥ आकृत्युपदेशात्सिद्धमिति चेत् संवृतादीनां प्रतिषेधः ॥ * ॥ \nआकृत्युपदेशात्सिद्धमिति चेत् संवृतादीनां प्रतिषेधो वक्तव्यः॥\nके पुनः संवृतादयः ? \nसंवृतः, कलः, ध्मातः, एणीकृतः, अम्बूकृतः, अर्धकः, ग्रस्तः, निरस्तः, प्रगीतः, उपगीतः, क्ष्विण्णः, रोमशः - इति ॥\nअपर आह -\n 'ग्रस्तं निरस्तमवलम्बितं निहतमम्बूकृतं ध्मातमथो विकम्पितम्। \n संदष्टमेणीकृतमर्धकं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ॥' इति । \nअतोऽन्ये व्यञ्जनदोषाः॥",
"pradeep": "संवृतादीनामिति । आकारादीनां संवृतत्वं दोषः । न त्वकारस्य संवृतगुणत्वात् । तत्र संध्यक्षरेषु विवृततमेषूच्चार्येषु संवृतत्वं दोषः । कलः - स्थानान्तरनिष्पन्नः काकलिकत्वेन प्रसिद्धः । ध्मातः - श्वासभूयिष्ठतया ह्रस्वोऽपि दीर्घ इव लक्ष्यते । एणीकृतः - अविशिष्टः किमयमोकारोऽथौकार इति यत्र संदेहः। अम्बूकृतः - यो व्यक्तोऽप्यन्तर्मुखमिव श्रूयते । अर्धकः - दीर्घोऽपि ह्रस्व इव । ग्रस्तः - जिह्वामूले निगृहीतः, अव्यक्त इत्यपरे । निरस्तः - निष्ठुरः । प्रगीतः - सामवदुच्चारितः । उपगीतः - समीपवर्णान्तरगीत्यानुरक्तः । क्ष्विण्णः - कम्पमान इव । रोमशः - गम्भीरः । अवलम्बितः - वर्णान्तरसंभिन्नः । निर्हतः - रूक्षः । सन्दष्टः - वर्धित इव । विकीर्णः - वर्णान्तरे प्रसृतः, एकोऽप्यनेकनिर्भासीत्यपरे । स्वरदोषभावना इति । स्वरदोषगोत्राणि । अनन्ता हि दोषा अशक्तिप्रमादकृताः ॥",
"uddyot": "संवृतादीनामिति - भाष्ये - तादृशदोषसहितानामाकृतिग्रहणात्प्राप्तस्य ग्रहणस्य प्रतिषेधो वक्तव्य इत्यर्थः ॥ तदाह - एकारादीनां संवृतत्वमिति ॥ अविशिष्ट इति । संश्लिष्टः, संदिग्ध इति यावत् ॥ ह्रस्व इवेति । तद्वत्कालसङ्कोचेनोच्चारित इत्यर्थः ॥ निष्ठुर इति । त्वरित इत्यन्ये ॥ गोत्राणीति । स्वरदोषजातय इत्यर्थः॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 120,
"bhashya": "नैष दोषः।\nगर्गादिबिदादिपाठात्संवृतादीनां निवृत्तिर्भविष्यति॥",
"pradeep": "",
"uddyot": "भाष्ये - गर्गादिबिदादिपाठादिति । संवृतादिदोषरहितानामेव तत्र पाठादिति भावः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 121,
"bhashya": "अस्त्यन्यत् गर्गादिबिदादिपाठे प्रयोजनम् ॥\n किम् ? \nसमुदायानां साधुत्वं यथा स्यादिति ॥",
"pradeep": "अस्त्यन्यदिति । गर्ग इत्यादिनैव संनिवेशेन गर्गादीनां साधुत्वं यथा स्यात्, गार्ग्य इत्यादीनां मा भूत् । ततश्च तद्गतानामेवाकारादीनां दोषनिवृत्तिः कृता स्यात्, न तु समुदायान्तरस्थानाम् । यद्यपि प्रत्ययविध्यर्थो गर्गादीनां पाठस्तथापि प्रसङ्गात्समुदायसाधुत्वायापि भवति ॥",
"uddyot": "साधुत्वमिति । निवृत्तकलादिदोषवत्त्वमित्यर्थः ॥ गार्ग्य इत्यादीनामिति । तत्रत्यानां कलादिदोषनिवृत्तिर्न स्यादित्यर्थः । तदाह - ततश्चेति ॥ परे तु समुदायानां - एतत्प्रकृतिकयञन्तसमुदायानां साधुत्वं यथा स्यादित्यर्थं पाठश्चरितार्थः, न कलादिदोषान्निवर्तयेदित्येव भाष्यार्थः । 'पाठश्चैव विशेष्यते' इत्यग्रिमभाष्यस्वरसादित्याहुः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 122,
"bhashya": "एवं तर्ह्यष्टादशधा भिन्नां निवृत्तकलादिकामवर्णस्य प्रत्यापत्तिं वक्ष्यामि ॥<",
"pradeep": "निवृत्तकलादिकामिति । अकारस्य संवृतत्वात् 'निवृत्तसंवृतत्वादिकाम्' इति नोक्तम् । अकारस्य निदर्शनार्थत्वात्सर्ववर्णानां शास्त्रान्ते प्रत्यापत्तिरित्यर्थः ॥",
"uddyot": "निदर्शनार्थत्वादिति । तत्रावर्णस्य 'अ - अ' इति कृतैव, तद्वत्तदनन्तरमन्येषामपि करिष्यामीति भावः॥ एतेन अवर्णप्रतिपत्तेः कृतत्वात् 'वक्ष्यामि - इत्यनुपपन्नम्' इति परास्तम् ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 123,
"bhashya": "सा तर्हि वक्तव्या ॥",
"pradeep": "",
"uddyot": "भाष्ये - सा तर्हि वक्तव्येति । तथा च प्रत्यापत्त्याश्रयणे गौरवमिति भावः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 124,
"bhashya": " ॥ * ॥ लिङ्गार्था तु प्रत्यापत्तिः॥ * ॥ \nलिङ्गार्था सा तर्हि भवति ॥",
"pradeep": "",
"uddyot": "लिङ्गार्था त्विति । अनुबन्धस्थानीयतत्तद्धात्वादिगतकलादिलिङ्गनिवृत्त्यर्था - इत्यर्थः ॥ न कृतिनिर्देशप्रयुक्तदोषपरिहारमात्रप्रयोजना प्रत्यापत्तिः, किं तु सर्वानुबन्धेत्संज्ञाशास्त्राद्यकरणफलिकाऽपीति न गौरवमिति भावः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 125,
"bhashya": "तत्तर्हि वक्तव्यम् ॥",
"pradeep": "",
"uddyot": "तदेव विवृणोति - तत्तर्हीत्यादिना। धात्वादिगतकलादिलिङ्गमित्यर्थः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 126,
"bhashya": "यद्यप्येतदुच्यते, अथवैतर्हि अनेकमनुबन्धशतं नोच्चार्यम्, इत्संज्ञा च न वक्तव्या, लोपश्च न वक्तव्यः । यदनुबन्धैः क्रियते तत्कलादिभिः करिष्यते ॥",
"pradeep": "यदनुबन्धैरिति । यथा स्वरितत्वमधिकारार्थमेवमात्मनेपदार्थं कलादिकं प्रतिज्ञाय कलादात्मनेपदमित्यादि करिष्यते, न तु 'अनुदात्तङितः' इत्यादि ॥ नन्वनुबन्धाभावे कथमणादिकाः संज्ञा उपपद्यन्ते? 'आदिः कलैः सह' इत्युक्त्वा 'अ - उ' इत्यादिकाः संज्ञाः करिष्यन्ते, स्वरसन्धिश्चासन्देहाय न करिष्यते - इत्यदोषः ॥",
"uddyot": "अथवैतर्हि' इत्यस्य तथापीत्यर्थः ॥ अनेकमनुबन्धशतमिति । एकैकस्यानुबन्धस्य शतश उच्चारणं, तादृशाश्चानेक उच्चारणीया इत्यर्थः ॥ यथेति । 'एध शी' इत्यादयोऽनुदात्तङितः कलदोषयुक्ताः पाठ्याः । स्वरितञितश्च ध्माताः । तत्र 'कलादात्मनेपदम्' 'ध्मातात्कर्तृगामिनि क्रियाफले' इति सूत्रे कार्ये । एवं टकितौ कलध्मातौ पठित्वा 'आद्यन्तौ कलध्मातौ' इति पाठ्यम् । एवं ड्वितोऽर्द्धकदोषयुक्तान् पठित्वा 'अर्धकात् क्त्रिः' इति । ट्वितश्च ग्रस्तान्पठित्वा 'ग्रस्तादथुच्' इत्यादि बोध्यम् । एते च कलादयः प्रक्रियादशायामेव । प्रयोगे तु शुद्ध एव, शास्त्रान्ते प्रत्यापत्तिकरणात् । 'आदिः कलैः सह' इति पाठः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 127,
"bhashya": "सिद्ध्यत्येवम् । अपाणिनीयं तु भवति ॥",
"pradeep": "",
"uddyot": "भाष्ये - अपाणिनीयमिति । वर्णसमाम्नायसमर्थनाय प्रवृत्तस्य एकदोषपरिहाराय सकलशास्त्रस्य व्याख्यानसापेक्षगुरुप्रकारेणान्यथाकरणे 'वृश्चिकभिया' इत्यादिन्याय आपततीति भावः ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 128,
"bhashya": "यथान्यासमेवास्तु ॥ \nननु चोक्तम् - *आकृत्युपदेशात्सिद्धमिति चेत्संवृतादीनां प्रतिषेधः* इति ॥ \nपरिहृतमेतत् - गर्गादिबिदादिपाठात् संवृतादीनां निवृत्तिर्भविष्यति - इति॥\nननु चान्यत् गर्गादिबिदादिपाठे प्रयोजनमुक्तम् । \nकिम् ? \nसमुदायानां साधुत्वं यथा स्यादिति ॥ \nएवं तर्ह्युभयमनेन क्रियते - पाठश्चैव विशेष्यते, कलादयश्च निवर्त्यन्ते ॥ \nकथं पुनरेकेन यत्नेनोभयं लभ्यम् ? \nलभ्यमित्याह । \nद्विगता अपि हेतवो भवन्ति । तद्यथा - आम्राश्च सिक्ताः पितरश्च प्रीणिता इति । तथा वाक्यान्यपि द्विष्ठानि भवन्ति - श्वेतो धावति, अलम्बुसानां यातेति ॥",
"pradeep": "उभयमिति । यथाभूता गर्गादिस्था अकारादयस्तथाभूता एव सर्वत्र प्रयोक्तव्या इति प्रतिपाद्यते - इत्यर्थः ॥ द्विगता इति । द्वौ - अर्थौ गताः - प्रयोजनद्वयस्य संपादका इत्यर्थः ॥ तथा वाक्यान्यपीति । शब्दस्याप्यर्थवत् द्विगतत्वमित्यर्थः ॥",
"uddyot": "नन्वपठितेषु दोषनिवृत्तिर्न कृता स्यादत आह - यथाभूता इति । गर्गाद्यकारादिषु एकरूपेण पठितेषु तज्जातीया एव ते सर्वत्र साधव इत्यनुमातुं शक्यत इति भावः ॥ भाष्ये - पाठश्चैवेति । विशेष्यते - तत्तत्प्रत्ययवैशिष्टयेन बोध्यत इत्यर्थः ॥ 'द्विष्ठानि' इत्यस्य द्वयोरर्थयोस्तिष्ठन्तीत्यर्थ इत्याह - शब्दस्यापीति । तत्र 'कः कीदृशो धावति' इति प्रश्ने - श्वेत इति उत्तरम् । 'श्वा - इतः' इति छेदेन 'कः' इत्यस्योत्तरम् , श्वेत इति च्छेदेन कीदृशः' इत्यस्योत्तरमिदम् ॥ एवं 'केषां जनपदानां गन्ता को वा समर्थः' इति प्रश्ने उत्तरम् - अलमित्यादि । अलंबुसाः - देशविशेषाः । बुसानां - पलालवर्णानां याता - प्राप्तिमान् अलं - समर्थ इति चार्थः । 'पाता' इति क्वचित्पाठः । 'पा - रक्षणे' इत्यस्य रूपम् ॥"
},
{
"adhikarana_id": 12,
"adhikarana_name": "वर्णोपदेशाधिकरणम्",
"chunk_id": 129,
"bhashya": "अथवा - इदं तावदयं प्रष्टव्यः - क्वेमे संवृतादयः श्रूयेरन्निति? \nआगमेषु । \nआगमाः शुद्धाः पठ्यन्ते ॥\nविकारेषु तर्हि । \nविकाराः शुद्धाः पठ्यन्ते ॥ \nप्रत्ययेषु तर्हि । \nप्रत्ययाः शुद्धाः पठ्यन्ते ॥ \nधातुषु तर्हि । \nधातवोऽपि शुद्धाः पठ्यन्ते ॥ \nप्रातिपदिकेषु तर्हि। \nप्रातिपदिकान्यपि शुद्धानि पठ्यन्ते ॥ \nयानि तर्ह्यग्रहणानि प्रातिपदिकानि । \nएतेषामपि स्वरवर्णानुपूर्वीज्ञानार्थ उपदेशः कर्तव्यः । शशः षष इति मा भूत् । पलाशः पलाष इति मा भूत् । मञ्चको मञ्जक इति मा भूत् ॥ \n 'आगमाश्च विकाराश्च प्रत्ययाः सह धातुभिः। \n उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादयः ॥ १॥\nइति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये \nप्रथमस्याध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥",
"pradeep": "अथ वेति। केवलानां वर्णानां लोके प्रयोगाभावात् धात्वादीनां च शुद्धानां पाठात् तत्स्थत्वाच वर्णानां न कश्चिद्दोषः ॥ यानि तर्हीति । डित्थादीनि ॥ एतेषामपीति। शिष्टप्रयुक्तत्वेनोणादीनां पृषोदरादित्वाच्च साधुत्वाभ्यनुज्ञानात्सर्वेषामत्र सङ्ग्रहः सिद्धः ॥\nइत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपेप्रथमस्याध्यायस्य प्रथमे पादे प्रथममाह्निकम्",
"uddyot": "केवलानामिति । एवं च कलादिदोषाणां न कुत्रापि प्रसक्तिरिति भावः ॥ भाष्ये - यानि तर्ह्यग्रहणानीति । कार्यविधावकृतानुवादानीत्यर्थः ॥ उपदेश इति । 'ड्याप्प्रातिपदिकात्' इत्यादावनुवादरूपेण ग्रहणमित्यर्थः । एतेन 'उद्देशश्च प्रातिपदिकानां नोपदेशः' इति 'आदेच-' इति सूत्रस्थभाष्यविरोध इत्यपास्तम् ॥ नन्वेवमतिप्रसङ्गः स्यादत आह - शिष्टेति । एवं 'संवृतादीनां प्रतिषेधः' इत्यस्मिन् प्रत्याख्याते 'इष्टबुद्ध्यर्थः' इत्यपि प्रत्याख्यातप्रायमेवेत्यलम् ॥ \nइति शिवभट्टसुतसतीगर्भसंभवनागोजीभट्टेन कृते भाष्यप्रदीपोद्द्योते प्रथमस्य प्रथमे आद्यमाह्निकम् ॥"
}
]
}