{ "name": "paribhashendushekhar", "data": [ { "num": "1", "prelude": "ननु 'लण्'-'अइउण्'-सूत्रयोर्णकारद्वयस्यैवोपादानेनाणिण्ग्रहणेषु सन्देहादनिर्णयोऽत आह —", "paribhasha": "व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्", "text": "विशेषस्यान्यतराद्यर्थरूपस्य व्याख्यानाच्छिष्टकृतात् प्रतिपत्तिर्निश्चयो, यतः सन्देहाच्छास्त्रमलक्षणमननुष्ठापकं लक्षणमलक्षणं तथा न, शास्त्रस्य निर्णयजनकत्वौचित्यादित्यर्थः । असन्दिग्धानुष्ठानसिद्ध्यर्थेऽत्र शास्त्रे सन्दिग्धोच्चारणरूपाचार्यव्यवहारेण । सन्देहनिवृत्तेर्व्याख्यानातिरिक्तनिमित्तानपेक्षत्वं बोध्यत इति यावत् । तेन <<अणुदित्सवर्णस्य>> [[1.1.69]] इत्येतत्परिहाय पूर्वेणाण्ग्रहणं, परेणेण्ग्रहणमिति 'लण्'सूत्रे भाष्ये स्पष्टम् ॥" }, { "num": "2", "prelude": "तत्र संज्ञापरिभाषाविषये पक्षद्वयमित्याह —", "paribhasha": "यथोद्देशं संज्ञापरिभाषम्", "text": "उद्देशमनतिक्रम्य यथोद्देशम् । उद्देश उपदेशदेशः । अधिकरणसाधनश्चायम् । यत्र देश उपदिश्यते तद्देश एव वाक्यार्थबोधेन गृहीतशक्त्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः । देशश्चोच्चारणकाल एवात्र शास्त्रे व्यवह्रियते । तत्तद्वाक्यार्थबोधे जाते 'भविष्यति किञ्चिदनेन प्रयोजन'मिति ज्ञानमात्रेण सन्तुष्यद्यथाश्रुतग्रहिप्रतिपत्रपेक्षोऽयं पक्ष इति <<ईदूत्>> [[1.1.11]] सूत्रे कैयटः ।\nकेचित्तु- परिभाषाविषये <<तस्मिन्>> [[1.1.66]] इत्यादिवाक्यार्थबोधे 'सप्तमीनिर्देशादिः क्व' इति पर्यालोचनायां सकलतत्तद्विध्युपस्थितौ सकलतत्तत्संस्काराय गुणभेदं परिकल्प्यैकवाक्यतयैव नियमः । कार्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति विशेषः । एतदेवाभिप्रेत्याधिकारो नाम त्रिप्रकारः कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति, यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयतीति <<षष्ठी स्थाने>> [[1.1.49]] इति सूत्रे भाष्ये उक्तम् । अधिकारशब्देन पारार्थ्यात्परिभाषाप्युच्यते । कश्चित् परिभाषारूप इति कैयटः । दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत् स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम् । एतच्च पक्षद्वयसाधारणं भाष्यम्, पक्षद्वयेऽपि प्रदेशैकवाक्यताया इतः प्रतीतेः ।\nतत्रैतावान् विशेषः - यथोद्देशे परिभाषादेशे सर्वविधिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेकवाक्यता परिभाषाणाम् । तदुक्तं <<क्क्ङिति च>> [[1.1.5]] इति सूत्रे कैयटे - 'यथोद्देशे प्रधानान्यत्मसंस्काराय सन्निधीयमानानि गुणभेदं प्रयुञ्जीत' इति । कार्यकाले तु तत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकवाक्यतेति । अत्रैकदेशस्थ इत्यनेन तत्र तत्र तद्बुद्धावपि तत्तद्देशस्थत्वं वारयति, यथा व्यवहर्तृणां कार्यार्थमनेकदेशगमनेऽपि न तत्तद्देशीयत्वव्यवहारः किन्त्वभिजनदेशीयत्वव्यवहार एव, तन्निषेधवाक्यानामपि निषेध्यविशेषाकाङ्क्षत्वाद्विध्येकवाक्यतयैवान्वय इति परिभाषासादृश्यात् परिभाषात्वेन व्यवहारः <<क्क्ङिति च>> [[1.1.5]] इत्यत्र भाष्ये । तत्रैकवाक्यता पर्युदासन्यायेन । प्रसज्यप्रतिषेधेऽपि तेन सह वाक्यार्थबोधमात्रेणैकवाक्यताव्यवहारः ।\nसंज्ञाशास्त्रस्य तु कार्यकालपक्षे न पृथग्वाक्यार्थबोधः, किन्तु प्रदेशवाक्यार्थेन सहैव । अत एव <<अणोऽप्रगृह्यस्य>> [[8.4.57]] इत्येतदेकवाक्यतापन्नम् <<अदसो मात्>> [[1.1.12]] इत्येतत् प्रति न मुत्वाद्यसिद्धम्, असिद्धत्वस्य कार्यार्थतया कार्यज्ञानोत्तरमेव तत्प्रवृत्तिः, कार्यज्ञानं च प्रदेशदेश एवेति तद्देशस्थस्यासिद्धत्वात् पूर्वग्रहणेनाग्रहणात्, एवं तद्बोधोत्तरमेव विरोधप्रतिसन्धानं चेति तत्रत्यपरत्वमेव 'विप्रतिषेध'सूत्रप्रवृत्तौ बीजम् । अत एव कार्यकालपक्षे 'अयादिभ्यः परैव प्रगृह्यसंज्ञा' इति <<अदसो मात्>> [[1.1.12]] इति सूत्रे भाष्य उक्तम् ।\nआकडाराधिकारस्थभपदसंज्ञादिविषये तु यथोद्देशपक्ष एवेति तत्रत्यपरत्वेनैव बाध्यबाधकभावः । पदादिसंज्ञानां तत्र जातशक्तिग्रहेणैव त्रिपाद्यामपि व्यवहारः । अत एव <<पूर्वत्रासिद्धम्>> [[8.2.1]] इति सूत्रे परिभाषाणामेव । त्रिपाद्यामप्रवृत्तिमाशङ्क्य कार्यकालपक्षाश्रयेण समाहितमित्याहुः । यथोद्देशपक्षः प्रगृह्यसंज्ञाप्रकरणे भाष्ये ॥" }, { "num": "3", "prelude": "", "paribhasha": "कार्यकालं संज्ञापरिभाषम्", "text": "कार्यकालमित्यस्य च कार्येण काल्यते स्वसन्निधिं प्राप्यत इत्यर्थः । कार्येण स्वसंस्काराय स्ववृत्तिलिङ्गचिह्नितपरिभाषाणामाक्षेप इति यावत् । अत एव <<पूर्वत्रासिद्धम्>> [[8.2.1]] इति सूत्रे भाष्ये त्रिपाद्या असिद्धत्वात्तत्र सपादसप्ताध्यायीस्थ-परिभाषाणामप्रवृत्तिमाशङ्क्य यद्यपीदं तत्रासिद्धं तत्त्विह सिद्धमित्युक्त्वा तावताप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने - कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमित्युक्तम् ।\nन च कार्यकालपक्षे <<ङमो ह्रस्वात्>> [[8.3.32]] इत्यादौ <<तस्मादित्युत्तरस्य>> [[1.1.67]], <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति परिभाषाद्वयोपस्थितौ परत्वाद् 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति 'तस्मिन्' इति सूत्रस्थभाष्यासङ्गतिः, उभयोरेकदेशस्थत्वेन परत्वादित्यस्यासङ्गत्यापत्तेः, स्पष्टं चेदम् <<इको गुण>> [[1.1.3]] इत्यत्र कैयट इति वाच्यम्, 'विप्रतिषेध'सूत्रेऽष्टाध्यायीपाठकृतपरत्वस्याश्रयणेनादोषात् । न हि कार्यकालपक्ष इत्येतावता तदपैति, पक्षद्वयेऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात् । नहि तत्पक्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति । नाप्यस्मदादिबुद्धिजननेन स्वदेशत्यागो भवति ।\nअत एव भाष्य एकदेशस्थस्यैव सर्वशास्त्राभिज्वालकत्वमुक्तम् । अत एव 'तस्मिन्' इति सूत्रे कैयटः - सूत्रपाठापेक्षया परत्वस्य व्यवस्थापकत्वमिति । 'इको गुण' इति सूत्रस्थकैयटस्तु चिन्त्य एव । अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैकदेशस्थत्वेन क्वापि परत्वं न स्यात् । किञ्च 'क्क्ङिति च' इति सूत्रस्थकैयटरीत्या विधिसूत्राणां यथोद्देशपक्षे परिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत । एवं च वृक्षेभ्य इत्यत्र <<सुपि च>> [[7.3.102]] इत्यतः परत्वाद् <<बहुवचने झल्येत्>> [[7.3.103]] इत्येत्त्वमित्याद्युच्छिद्येतेत्यलम् ॥" }, { "num": "4", "prelude": "इत्संज्ञका अनुबन्धास्तेष्ववयवानवयवत्वसन्देह आह —", "paribhasha": "अनेकान्ता अनुबन्धा इति", "text": "अनेकान्ता अनवयवा इत्यर्थः । यो ह्यवयवः स कदाचित् तत्रोपलभ्यत एव । अयं तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात् ।\nशित्किदित्यादौ समीपेऽवयवत्वरोपेण समासो बोध्यः । <<वुञ्छणकठ>> [[4.2.80]] इत्यादौ णित्त्वप्रयुक्तं कार्यं पूर्वस्यैवेत्यादि तु व्याख्यानतो निर्णेयम् । <<हलन्त्यम्>> [[1.3.3]] इत्यत्रान्त्यशब्दः परसमीपबोधकः ॥" }, { "num": "5", "prelude": "वस्तुतस्तु —", "paribhasha": "एकान्ताः", "text": "इत्येव न्याय्यम्,\nशास्त्रे तत्रोपलम्भादन्यत्रानुपलम्भाच्च । अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते, नैवमयम् । एवं हि बहुव्रीहिरपि न्यायत एवोपपन्नः । अन्त्यादिशब्दे लक्षणा च न । किञ्चानवयवत्वे ण-श-क-प्रत्ययादौ णादेरित्त्वानापत्तिः, प्रत्ययादित्वाभावात् । दध्नचश्चकारस्य वैयर्थ्यापत्तिश्च । इदं च <<तस्य लोपः>> [[1.3.9]] इत्यत्र भाष्ये स्पष्टम् । तत्र ह्युक्तम्, 'एकान्ता अनुबन्धाः' इत्येव न्याय्यमिति दिक् ॥" }, { "num": "6", "prelude": "नन्वेकान्तत्वेऽनेकाल्त्वादेव औशादीनां सर्वादेशत्वसिद्ध्या <<अनेकाल्>> [[1.1.55]] सूत्रे शिद्ग्रहणं व्यर्थमत आह —", "paribhasha": "नानुबन्धकृतमनेकाल्त्वम्", "text": "शिद्ग्रहणमेवैतज्ज्ञापकम् । तेन <<अर्वणस्तृ>> [[6.4.127]] इत्यादेर्न सर्वादेशत्वम् । डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सिद्धम् ॥" }, { "num": "7", "prelude": "न चैवमप्यवदातं मुखमित्यत्र पलोपोत्तरमात्वे कृते <<अदाप्>> [[1.1.20]] इति घुसंज्ञाप्रतिषेधो न स्यात् । दैपः पकारसत्त्वेऽनेजन्तत्वादात्वाप्राप्त्या प-लोपोत्तरं पकाराभावेनास्य दाप्त्वाभावादत आह —", "paribhasha": "नानुबन्धकृतमनेजन्तत्वम्", "text": "उदीचां माङः' [[3.4.19]] इति निर्देशोऽस्या ज्ञापकः । <<आदेच उपदेशे>> [[6.1.45]] इति सूत्रेणोपदिश्यमानस्यैजन्तस्यात्त्वं क्रियते, ङकारसत्त्वे त्वेजन्तत्वाभावादात्वाप्राप्तेस्तस्यासङ्गतिः । न चास्यामवस्थायां तस्य धातुत्वाभावात्कथमात्वम् (इति वाच्यम्), तत्र <<धातोः>> [[6.1.8]] इत्यस्य निवृत्तेरित्यन्यत्र विस्तरः । स्पष्टं चेदं <<दाधा घ्वदाप्>> [[1.1.20]] इति सूत्रे भाष्ये ॥" }, { "num": "8", "prelude": "नन्वेवमपि <<वाऽसरूपः>> [[3.1.94]] इति सूत्रेण क-विषयेऽणोप्यापत्तिरित्यत आह —", "paribhasha": "नानुबन्धकृतमसारूप्यम्", "text": "ददातिदधात्योर्विभाषा' [[3.1.139]] इति ण-बाधकशस्य विकल्पविधायकमस्यां ज्ञापकम् । तेन गोद इत्यादौ नाणिति वाऽसरूपसूत्रे भाष्ये स्पष्टम् ॥" }, { "num": "9", "prelude": "ननु संख्याग्रहणे बह्वादीनामेव ग्रहणं स्यात्, प्रकरणस्याभिधान-नियामकत्वसिद्धात् 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्यायात् । अस्ति च प्रकृते बह्वादीनां संख्यासंज्ञा कृतेति ज्ञानरूपं प्रकरणम् । न तु लोकप्रसिद्धैकद्व्यादीनामित्यत आह —", "paribhasha": "उभयगतिरिह भवति", "text": "इह शास्त्रे । <<संख्याया अतिशदन्तायाः>> [[5.1.22]] इति निषेधोऽस्या ज्ञापकः । न हि कृत्रिमा संख्या त्यन्ता शदन्ता वास्ति । तेन <<कर्तरि कर्मव्यतिहारे->> [[1.3.14]], <<कण्वमेघेभ्यः करणे>> [[3.1.17]], <<विप्रतिषिद्धं चानधिकरण->> [[2.4.13]] इत्यादौ लौकिकक्रियाद्रव्याद्यवगतिः । तत्र क्वोभयगतिः क्वाकृत्रिमस्यैव क्व कृत्रिमस्यैवेत्यत्र लक्ष्यानुसारि व्याख्यानमेव शरणम् । अत एवाम्रेडितशब्देन कृत्रिमस्यैव ग्रहणं न तु द्विस्त्रिर्घुष्टमात्रस्य । स्पष्टं चेदं संख्यासंज्ञासूत्रे भाष्ये ।\nयत्तु संज्ञाशास्त्राणां मच्छास्त्रेऽनेन शब्देनैत एवेति नियमार्थत्वं कृत्रिमाकृत्रिमन्याय-बीजमिति तन्न, तेषामगृहीतशक्तिग्राहकत्वेन विधित्वे सम्भवति नियमत्वायोगात् । 'सर्वे सर्वार्थवाचकाः' इत्यभ्युपगमोऽपि योगिदृष्ट्या, न त्वमस्मदादिदृष्ट्या, विशिष्य सर्वशब्दार्थज्ञानस्याशक्यत्वात् । सामान्यज्ञानं तु न बोधोपयोगीत्यत्र निरूपितम् ॥" }, { "num": "10", "prelude": "नन्वध्येता शायितेत्यादविङ्शीङोर्डित्वाद् गुणनिषेधः स्यादत आह —", "paribhasha": "कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते", "text": "स्थण्डिलाच्छयितरि व्रते' [[4.2.15]] इति निर्देशोऽस्यां ज्ञापकः । उर्णुनविषती-त्यादिसिद्धये कार्यमनुभवन्निति । अत्र हि - <<द्विर्वचनेऽचि>> [[1.1.59]] इति नुशब्दस्य द्वित्वम् । अन्यथा <<सन्यङोः>> [[6.1.9]] इत्यस्य षष्ठ्यन्तत्वात्सन्नन्तस्य कार्यत्वेन इसो द्वित्वनिमित्तत्वाभावात् तत्प्रवृत्तिर्न स्यात् ।\nवस्तुतः समवायिकारणनिमित्तकारणयोर्भेदस्य सकल-लोकतन्त्र-प्रसिद्धतया तस्य तत्त्वेनाश्रयणाभावेन नैषा ज्ञापकसाध्या । अत एव हिः प्रयुक्तः । स हि तत्त्वेनानाश्रयणे हेतोः प्रसिद्धत्वं द्योतयतीति तत्त्वम् । <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यत्र भाष्ये ध्वनितैषा ॥" }, { "num": "11", "prelude": "ननु प्रणिदापयतीत्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापेर्न स्यादत आह —", "paribhasha": "यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते", "text": "यमुद्दिश्यागमो विहितः स तद्गुणीभूतः शास्त्रेण तदवयवत्वेन बोधितोऽतस्तद्ग्रहणेन तद्ग्राहकेण तद्बोधकेन शब्देन गृह्यते बोध्यत इत्यर्थः । तत्र तद्गुणीभूता इत्यंशो बीजकथनम् । लोकेऽपि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्तग्रहणेन ग्रहणं दृश्यते ।\nयमुद्दिश्य विहित इत्युक्तेः प्रनिदारयतीत्यादौ न दारित्यस्य घुत्वम् । <<आने मुक्>> [[7.2.82]] इति मुग्विधानसामर्थ्यादेषाऽनित्या । अन्यथा पचमानः इत्यादावकारस्य मुकि अनया परिभाषया विशिष्टस्य सवर्णदीर्घे तद्वैयर्थ्यं स्पष्टमेव । तेन दिदीय इत्यादौ यणादि न, जहार इत्यादौ <<आत औ णलः>> [[7.1.34]] इति च न । न चाकारादेर्वर्णस्य वर्णान्तरमवयवः कथमिति वाच्यम्, वचनेनावयवत्वबोधनात् । तस्य चावयवत्व-सादृश्ये पर्यवसानं बोध्यम् ।\nन चोक्तज्ञापकाद्वर्णग्रहणेऽस्या अप्रवृत्तिरिति वाच्यम्, <<आने मुक्>> [[7.2.82]] इति सूत्रे भाष्येऽकारस्याङ्गावयवस्य मुगित्यर्थे पचमान इत्यत्र <<तास्यनुदात्तेत्>> [[6.1.186]] इति स्वरो न स्यादित्याशङ्क्यादुपदेशभक्तस्तद्ग्रहणेन ग्रहीष्यत इत्युक्तेरसङ्गत्यापत्तेः ।\nकिञ्च ङमन्तपदावयवस्य ह्रस्वात्परस्य ङमो ङमुडित्यर्थे कुर्वन्नास्त इत्यादौ ङमो ङमुडागमे णत्वप्राप्तिमाशङ्क्य 'यदागमा' इति न्यायेनाद्यनस्यापि पदान्तग्रहणेन ग्रहणात् <<पदान्तस्य>> [[8.4.37]] इति निषेध इत्यनया परिभाषयाऽऽगमानामागमिधर्मवैशिष्ट्यमपि बोध्यत इत्याशयक<<ङमुट्>> [[8.3.32]]सूत्रस्थभाष्यासङ्गतेः ।\nकिञ्च गुणादे रपरत्वे रेफविशिष्टे गुणत्वाद्येष्टव्यम् । अन्यथा ऋकारस्य गुणवृद्धी अरारावेवेति नियमो न स्यात् । तच्च वर्णग्रहणे एतदप्रवृत्तौ न सङ्गच्छते । अत एव <<रदाभ्याम्>> [[8.2.42]] इति सूत्रे भाष्ये 'गुणो भवति वृद्धिर्भवतीति रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिर्वर्तते' इति ।\nअत एव <<नेटि>> [[7.2.4]], <<णेरनिटि>> [[6.4.51]] इत्यादि चरितार्थम् । अनागमकानां सागमका आदेशा त्वयमर्थः- आर्द्धधातुकस्येडागम इत्यर्थे ज्ञाते नित्येषु शब्देष्वागमविधानानुपपत्त्याऽर्थापत्तिमूलकवाक्यान्तरकल्पनेनेड्हितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्तव्येति । एवञ्चादेशेष्विवात्रापि बुद्धिविपरिणाम इति न नित्यत्वहानिः ।\nस्थानिवत्सूत्रे च नेदृशादेशग्रहणम्, साक्षादष्टाध्यायीबोधितस्थान्यादेशभावे चरितार्थ्यम् । किञ्चैवं सति स्थानिबुद्ध्यैव कार्यप्रवृत्त्या 'निर्दिश्यमानस्य' इति परिभाषया अप्राप्त्याडागमसहितस्य पिबाद्यादेशापत्त्या लावस्थायामडिति भाष्योक्तसिद्धान्तासङ्गतिः । स्थानिवद्भावविषये 'निर्दिश्यमानस्य' इति परिभाषायाः प्रवृत्तौ तिसृणामित्यत्र परत्वातिस्रादेशे स्थानिवद्भावेन त्रयोदेशमाशङ्क्य 'सकृद्गति'न्यायेन समाधानपरभाष्यासङ्गतिः ।\n<<एरुः>> [[3.4.86]] इत्यादौ स्थानषष्ठीनिर्देशात्तदन्तपरतया पठितवाक्यस्यैव समुदायादेशपरत्वेनादेशग्रहणसामर्थ्यात्तस्य स्थानिवत्सूत्रग्रहणेन न दोषः । आनुमानिकस्थान्यादेशभावकल्पनेऽपि श्रौतस्थान्यादेशभावस्य न त्याग इति <<अचः परस्मिन्>> [[1.1.57]] इत्यादेर्नासङ्गतिः ।\nएतेन 'यदागमा' इति परिभाषा स्थानिवत्सूत्रेण गतार्थेत्यपास्तम् । एतत्सर्वं <<दाधा घ्वदाप्>> [[1.1.20]] इति सूत्रे भाष्ये स्पष्टम् ॥" }, { "num": "12", "prelude": "नन्वेवम् उदस्थादित्यादौ <<उदःस्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति पूर्वसवर्णापत्तिरत आह —", "paribhasha": "निर्दिश्यमानस्याऽऽदेशा भवन्ति", "text": "षष्ठी स्थाने योगा' [[1.1.49]] इति सूत्रमावर्तते। तत्र द्वितीयस्यायमर्थः - षष्ठ्यन्तं निर्दिश्यमानम् = उच्चार्यमाणमुच्चार्यमाणसजातीयमेव, निर्दिश्यमानावयवरूपमेव वा स्थानेन स्थाननिरूपितसम्बन्धेन युज्यते, न तु प्रतीयमानमित्यर्थः। तेनेदं सिद्धम्। \nन च 'अस्य च्वौ' इत्यादौ दीर्घाणामादेशानापत्तिः, तेषां निर्दिश्यमानत्वाभावादिति वाच्यम्, जातिपक्षे दोषाभावात्। किञ्च <<न भूसुधियोः>> [[6.4.85]] इति निषेधेन ग्रहणकशास्त्रगृहीतानां निर्दिश्यमाकार्यबोधान्न दोषः।\nइयङुवङोर्ङित्वं त्विवर्णोवर्णान्तश्नुधातुभ्रुवामित्यर्थेन धात्वादीनामपि निर्दिष्टत्वादन्त्यादेशत्वाय। रीरिङोर्ङित्वं तु स्पष्टार्थमेव । एतेनेदं ङित्त्वं वर्णग्रहणे निर्दिश्यमानपरिभाषाया अप्रवृत्तिज्ञापकमित्यपास्तम्। 'हयवरट्' सूत्रस्थेन 'अयोगवहानामुपदेशेऽलोन्त्यविधिः प्रयोजनम् । वृक्षस्तत्र, नैतदस्ति प्रयोजनम्, निर्दिश्यमानस्येत्येव सिद्धम्' - इति भाष्येण विरोधात्।\nअनया परिभाषया 'येन विधिः' इति सूत्रबोधिततदन्तस्य स्थानिवत्वाभावबोधनम्, 'यदागमा' इति लब्धस्य च। तेन 'सुपदः' 'उदस्थात्' इत्यादिसिद्धिः। \nअनया च स्वस्वनिमित्तसन्निधापितानाम् <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यादीनां समावेश एव, न बाध्यबाधकभावः, विरोधाभावात्। नाप्येतयोरङ्गाङ्गिभवः, उभयोरपि परार्थत्वेन तदयोघात्। <<अनेकाल् शित्>> [[1.1.55]] इति सूत्रे सर्वश्चैतत्परिभाषाबोधित एव गृह्यते।\nयत्तु <<आदेः परस्य>> [[1.1.54]], <<अलोन्त्यस्य>> [[1.1.52]] इत्येतावेव तद्बाधकाविति तन्न; 'उदः स्थात्' इति सूत्रविषयेऽस्याः <<पादः पत्>> [[6.4.130]] इति सूत्रे भाष्ये सञ्चारितत्वात्। नाप्येतयोरियं बाधिका, एतयोर्निविषयत्वप्रसङ्गादिति <<ति विंशतेः>> [[6.4.142]] इति सूत्रे कैयटः। अकज्विषये नायं न्यायः, स्थानिवद्भावेनेव तन्मध्यपतितन्यायेन तद्बुद्ध्यैव कार्यजननात्। \nइयञ्चावयवषष्ठीविषयेऽपि। अत एव <<तदोः सः साविति>> [[7.2.106]] सत्वम्, 'अतिस्यः' इत्यत्रोपसर्गतकारस्य न। निर्दिश्यमानयुष्मदाद्यवयवमपर्यम्तस्यैव यूयादयः, न तु 'अतियूयम्' इत्यादौ सोपसर्गावयवमपर्यन्तस्येति बोध्यम्।\n<<पादः पत्>> [[6.4.130]] इति सूत्रे <<षष्ठी स्थाने>> [[1.1.49]] इति सूत्रे च भाष्ये च स्पष्टैषा॥" }, { "num": "13", "prelude": "ननु 'चेता' इत्यादौ ह्रस्वस्येकारस्य प्रमाणत आन्तर्यादकारोऽपि स्यादत आह —", "paribhasha": "यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः", "text": "अनेकविधम् = स्थानार्थगुणप्रमाणकृतम्। अत्र मानम्- <<षष्ठी स्थाने>> [[1.1.49]] इत्यत एकदेशानुवृत्त्या स्थाने-ग्रहणेऽनुवर्तमाने पुनः <<स्थानेन्तरतमः>> [[1.1.50]] इति सूत्रे स्थाने ग्रहणमेव। तद्धि तृतीयया विपरिणम्य वाक्यभेदेन स्थानिनः प्रसङ्गे जायमानः सति सम्भवे स्थानत एवान्तरतम इत्यर्थकम्। तमब्ग्रहणमेवानेकविधान्तर्यसत्तागमकम्। स्थानतः = स्थानेनेत्यर्थः। \nतत्र स्थानत आन्तर्यम् <<इको यणचि>> [[6.1.77]] इत्यादौ प्रसिद्धमेव। अर्थतः <<पद्दन्नो>> [[6.1.63]] इत्यादौ स्थान्यर्थाभिधानसमर्थस्यैवाऽऽदेशतेति सिद्धान्ताद् यदर्थाभिधानसमर्थो यः, स तस्यादेश इति तत्समानार्थतत्समानवर्णपदादीनां ते । <<तृज्वत्क्रोष्टुः>> [[7.1.95]] इति च। गुणतो 'वाग्घरिः' इत्यादौ। प्रमाणतः <<अदसोऽसेः>> [[8.2.80]] इत्यादौ। <<स्थानेऽन्तरतमः>> [[1.1.50]] सूत्रे भाष्ये स्पष्टैषा॥" }, { "num": "14", "prelude": "ननु 'प्रोढवान्' इत्यत्र 'प्रादूहोढेति' वृद्धिः स्यादत आह —", "paribhasha": "अर्थवद्ग्रहणे नानर्थकस्य", "text": "विशिष्टरूपोपादाने उपस्थितार्थस्य शब्दं प्रति विशेषणतयाऽन्वयसम्भवे त्यागे मानाभावोऽस्या मूलम्। अत्रार्थः कल्पितान्वयव्यतिरेककल्पितः, शास्त्रीयोऽपि गृह्यते इति <<सङ्ख्यायाः>> [[5.1.22]] इति सूत्रे भाष्ये स्पष्टम्। \nइयं वर्णग्रहणेषु नेति <<लस्य>> [[3.4.77]] इत्यत्र भाष्ये स्पष्टम्। अत एवैषा विशिष्टरूपोपादान विषयेति वृद्धाः। एतन्मूलकमेव <<येन विधिः>> [[1.1.72]] इत्यत्र भाष्ये प़ठ्यते - 'अलैवानर्थकेन तदन्तविधिः' इति।\nकिञ्च <<स्वं रूपम्>> [[1.1.68]] इति शास्त्रे स्वशब्देनाऽऽत्मीयवाचिनाऽर्थो गृह्यते । रूपशब्देन स्वरूपम्, एवञ्च तदुभयं शब्दस्य संज्ञीति तदर्थः। तत्रार्थो न विशेष्यस्तत्र शस्त्रीयकार्यासम्भवात्, किन्तु शब्दविशेषणम्। एवञ्चार्थविशिष्टः शब्दः संज्ञीति फलितम्। तेनैषा परिभाषा सिद्धेति भाष्ये स्पष्टम्॥" }, { "num": "15", "prelude": "नन्वेवमपि 'महद्भतश्चन्द्रमाः' इत्यत्र 'आन्महतः' इत्यात्वापत्तिरत आह —", "paribhasha": "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः", "text": "गुणादागतो गौणः। यथा गोशब्दस्य जाड्यादिगुणनिमित्तोऽर्थो वाहीकः। अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुद्ध्यते। मुखमिव प्रधानत्वाद् मुख्यः = प्रथम इत्यर्थः। गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुखार्थारोपेण प्रवर्तते। एवं चाप्रसिद्धत्वं गौणलाक्षणिकत्वं चात्र गौणत्वम्। तेन 'प्रियत्रयाणाम्' इत्यादौ त्रयादेशो भवत्येव । तत्र त्रिशब्दार्थस्येतरविशेषणत्वेऽप्युक्तगौणत्वाभावात्।\nकिञ्चायं न्यायो न प्रातिपदिककार्ये, किन्तूपात्तं विशिष्यार्थोपस्थापकं विशिष्टरूपं यत्र तादृशपदकार्य एव। परिनिष्टितस्य पदान्तरसम्बन्धे हि 'गौर्वाहीकः' इत्यादौ गौणत्वप्रतीतिर्न तु प्रातिपदिकसंस्कारवेलायामित्यन्तरङ्गत्वाज्जातसंस्कारबाधायोगः प्रातिपदिककार्ये प्रवृत्यभावे बीजम्।\nश्वशुरसदृशस्यापत्यमित्यर्थके 'श्वाशुरिः' इत्यादावत इञः सिद्धये उपात्तमित्यादि। न च प्रातिपतिकपदं तादृशमिति वाच्यम्, तेन हि प्रातिपदिकपदवत्त्वेनोपस्थितिरिति तस्य विशिष्यार्थोपस्थापकत्वाभावात्। निपातपदं तु चादित्वेनैव चादीनामुपस्थापकमिति तदुद्देश्यककार्यविधायके <<ओत्>> [[1.1.15]] इत्यादावेतत्प्रवृत्त्या 'गोऽभवद्' इत्यादौ दोषो न।\nअग्नीषोमौ माणवकमित्यत्र प्रसिद्धदेवताद्वन्द्ववाच्यग्नीषोमपदस्य तत्सदृशपरत्वेऽप्यन्तरङ्गत्वादीत्वषत्वे भवत एव । सदृशलाक्षणिकाग्निसोमपदयोर्द्वन्द्वे तन्नामकावित्यर्थके च नेत्वषत्वे । आद्ये गौणलाक्षणिकत्वादन्त्येऽप्रसिद्धत्वात् । अत एवाग्निसोमौ माणवकावित्यत्र गौणमुख्यन्यायेन षत्ववारणपरम् <<अग्नेः स्तुत्स्तोमसोमाः>> [[8.3.82]] इति सूत्रस्थं भाष्यं सङ्गच्छते ।\n'गां पाठय' इत्यादौ मुख्यगोपदार्थस्य पाठनकर्मत्वासम्भवेन विभक्त्युत्पत्तिवेलायां प्रयोक्तृभिर्गौणार्थत्वस्य प्रतीतावप्यपदस्याप्रयोगेण बोद्धृभिः सर्वत्र पदस्यैव गौणार्थकत्वस्य ग्रहेण 'अत्वं त्वं सम्पद्यते, 'अमहान् महान्भूतः, 'त्वद्भवती'त्यादिभाष्यप्रयोगे त्वाद्यादेशदीर्घादीनां करणेन चास्य न्यायस्य पदकार्यविषयत्वमेवोचितम्। अन्यथा वाक्यसंस्कारपक्षे तेषु तदनापत्तिः।\nकिञ्च शुक्लामित्युक्ते कर्म निर्दिष्टं कर्ता क्रिया चानिर्दिष्टे इत्याद्युक्त्वा इहेदानीं गामभ्याज कृष्णां देवदत्तेत्यादौ सर्वं निर्दिष्टं गामेव कर्म देवदत्त एव कर्ता अभ्याजैव क्रियेत्यर्थकेन <<अर्थवत्>> [[1.2.45]] सूत्रस्थभाष्येण कारकादिमात्रप्रयोगे योग्यसर्वक्रियाध्याहारे प्रसक्ते नियमार्थः क्रियावाचकादिप्रयोग इत्येतत्तात्पर्यकेण सामान्यतः. क्रियाजन्यफलाश्रयत्वमात्रविवक्षायां द्वितीयादीनां साधुत्वान्वाख्यानमित्यर्थलाभेन पाठनक्रियाऽन्वयकाले पदस्यैव गौणर्थत्वप्रतीतिः प्रयोक्तुरपि। एवमेतन्मूलकः 'अभिव्यक्तपदार्थाये' इति श्लोकोऽपि पदकार्यविषयकः ।\nध्वनितं चेद <<सर्वादीनि>> [[1.1.27]] इति सूत्रे संज्ञाभूतानां प्रतिषेधमारभता वार्तिककृता <<पूर्वपर>> [[1.1.34]] इति सूत्रेऽसंज्ञायामिति वदता सूत्रकृतान्वर्थसंज्ञया तत्प्रत्याख्यानं कुर्वता भाष्यकृता च ।\nअर्थाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्वे इति <<ओत्>> [[1.1.15]] सूत्रस्थभाष्यस्य लौकिकार्थवत्वयोग्यपदाश्रय एष न्यायः, तद्रहितशब्दाश्रये च ते इत्यर्थः। <<गोतः>> [[7.1.90]] इति यथाश्रुतसूत्रे विशिष्टरूपोपादानसत्वेनोक्तरीत्यैवैतस्य भाष्यस्य व्याख्येयत्वादित्यलम्॥" }, { "num": "16", "prelude": "अर्थवद्ग्रहणे (प.14) इत्यस्यापवादमाह —", "paribhasha": "अनिनस्मिन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति", "text": "येन विधिः' [[1.1.72]] इत्यत्र भाष्ये वचनरूपेण पठितैषा। तेन 'राज्ञा' 'साम्ना' इत्याद्वल्लोपो, 'दण्डी' 'वाग्मी' इत्यादौ <<इन्हन्>> [[6.4.12]] इति नियमः, 'सुपयाः' 'सुस्रोताः' इत्यादौ <<अत्वसन्तस्य>> [[6.4.14]] इति दीर्घः, 'सुशर्म्मा' 'सुप्रथिमा' इत्यादौ <<मनः>> [[4.1.11]] इति ङीब्निषेधश्च सिद्धः।\nअन्ये तु 'परिवीविषीध्वम्' इत्यत्र ढत्वव्यावृत्तये क्रियमाणाद् <<इणः षीध्वम्>> [[8.8.78]] इत्यत्राङ्गग्रहणादर्थवत्परिभाषाऽनित्या, तन्मूलकमिदमित्याहुः। <<विभाषेटः>> [[8.3.79]] इत्यत्रानर्थकस्यैव षीध्वमः सम्भवादत्रापि तस्यैव ग्रहणमिति भ्रमवारणाय 'अङ्गात्' इति परे॥" }, { "num": "17", "prelude": "ननु <<उश्च>> [[1.2.12]] इत्यत्र <<लिङ्सिचौ>> [[1.2.11]] इत्यतः 'आत्मनेपदेषु' इत्येव सम्बध्येतानन्तरत्वादत आह —", "paribhasha": "एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः", "text": "वा-शब्द एवार्थे। परस्परान्वितार्थकपदानां सहैवानुवृत्तिनिवृत्ती इत्यर्थः। एककार्यनियुक्तानां बहूनां लोके तथैव दर्शनादिति भावः। यत्त्वत्र ज्ञापकं <<ने़ड्वशि>> [[7.2.8]] इत्यत इडित्यनुवर्तमाने <<आर्धधातुकस्येड्>> [[7.2.35]] इत्यत्र पुनरिड्ग्रहणम्। तद्धि नेत्यस्यासम्बम्धार्थमिति। तन्न; <<दीधीवेवीटाम्>> [[1.1.6]] इति सूत्रे भाष्ये तत्रत्येड्ग्रहणप्रत्याख्यानायेड्ग्रहणेऽनुवर्तमाने पुनरिड्ग्रहणस्येटो गुणरूपविकाराभावार्थकत्वस्योक्तत्वेन तद्विरोधात्। नञो निवृत्तिस्तु 'क्वचिदेकदेशोऽप्यनुवर्तते' इति न्यायेन सिद्धा। \nवस्तुतस्तु <<दीधीवेवीटाम्>> [[1.1.6]] इति सूत्रस्थ भाष्यमेकदेश्युक्तिः, <<आर्धधातुकस्य>> [[7.2.35]] इति सूत्रस्थेड्ग्रहणस्य <<नेड्वशि>> [[7.2.8]] इति सूत्रे भाष्ये प्रत्याख्यानात्, तत्करणेन गुरुतरयत्नमाश्रित्यैतत्प्रत्याख्यानस्यायुक्तत्वात्॥" }, { "num": "18", "prelude": "नन्वलुगधिकारः प्रागनङः, उत्तरपदाधिकारः प्रागङ्गाधिकारादित्यनुपपन्नमेकयोगनिर्दिष्टत्वात्। तथा <<दामहायनान्ताच्च>> [[4.1.27]] इत्यादौ <<सङ्ख्याऽव्ययादेः>> [[4.1.26]] इत्यतः सङ्ख्यादेरित्यनुवर्ततेऽव्ययादेरिति निवृत्तमिति चानुपपन्नमत आह —", "paribhasha": "क्वचिदेकदेशोऽप्यनुवर्तते", "text": "एकत्रार्थे योगः = सम्बन्धस्तेन निर्दिष्टयोः समुदायाभिधायिद्वन्द्वनिर्दिष्टयोरित्यर्थ इति <<पक्षात्तिः>> [[4.2.25]] इति सूत्रे कैयटः।\nतावन्मात्रांशे स्वरितत्वप्रतिज्ञाबलाल्लभ्यमिदम्। स्पष्टा चेयम् <<दामहायनान्ताच्च>> [[4.1.27]] इति सूत्रे <<औतोऽम्शसोः>> [[6.1.93]] इति सूत्रे च भाष्ये पूर्वा च॥" }, { "num": "19", "prelude": "ननु 'त्यदादीनामः' इत्यादिना 'इमम्' इत्यादावनुनासिकः स्यादत आह —", "paribhasha": "भाव्यमानेन सवर्णानां ग्रहणं न", "text": "अणुदित्' [[1.1.69]] सूत्रे 'अप्रत्ययः' इत्यनेन सामर्थ्यात्सूत्रप्राप्तम्, जातिपक्षेण प्राप्तम्, गुणाभेदकत्वेन च प्राप्तम्, नेत्यर्थः। अत एवाणुदित्सूत्रे प्रत्ययाऽऽदेशाऽऽगमेषु सवर्णग्रहणाभावं प्रकारान्तरेणोक्त्वा, 'एवं तर्हि सिद्धे यदप्रत्यय इति प्रतिषेधं शास्ति, तज्ज्ञापयति भवत्येषा परिभाषा 'भाव्यमानेन सवर्णानां ग्रहणं न' इति।\nकिञ्च, 'ज्याद ईयसः' इत्येवान्तर्यतो दीर्घे सिद्धे <<ज्यादादीयसः>> [[6.4.160]] इति दीर्घोच्चारणमस्या ज्ञापकम्। अणुदित्सूत्रे 'ज्यादात्' इति सूत्रे च भाष्ये स्पष्टैषा।\n'चोः कुः' इत्यादौ भाव्यमानेनापि सवर्णग्रहणम्, विधेये उदिदुच्चारणसामर्थ्यात्। एतदेवाभिप्रेत्य 'भाव्यमानाऽण् सवर्णान्न गृह्णाति' इति नव्याः पठन्ति॥" }, { "num": "20", "prelude": "नन्वेवम् 'अदसोऽसेः' इत्यादिना 'अमू' इत्यादौ दीर्घविधानं न स्यादत आह —", "paribhasha": "भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति", "text": "दिव उत्' 'ऋत उत्' इति तपरकरणमस्या ज्ञपकम्। 'तित्स्वरितम्' इति सूत्रे भाष्ये स्पष्टैषा॥" }, { "num": "21", "prelude": "ननु 'गवे हितं गोहितम्' इत्यादौ प्रत्ययलक्षणेनावाद्यादेशापत्तिरत आह —", "paribhasha": "वर्णाश्रये नास्ति प्रत्ययलक्षणम्", "text": "वर्णप्राधान्यविषयमेतत्। तत्वं च <<प्रत्ययलोपे>> [[1.1.62]] इति सूत्रे <<स्थानिवत्>> [[1.1.56]] इत्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतराविशेषणत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्त्यर्थमेतत्सिद्धम्। वर्णप्राधान्यं च वर्णस्येतराविशेषणत्वरूपं प्रत्ययनिरूपितविशेष्यतारूपं च। तेन 'गोहितम्' इत्यादौ अवादि न, 'चित्रायां जाता चित्रा' इत्यादावण्योऽकारस्तदन्तान् ङीबिति ङीप् च न। इयमल्विधौ स्थानिवत्त्वाप्राप्तावपि प्राप्तप्रत्ययलक्षणविधेर्निषेधिकेति स्पष्टं भाष्ये॥" }, { "num": "22", "prelude": "ननु 'अतः कृकमि' इत्यत्र कमि ग्रहणे सिद्धे, कंसग्रहणं व्यर्थम्, अत आह —", "paribhasha": "उणादयोऽव्युत्पन्नानि प्रातिपदिकानि", "text": "इदमेवास्या ज्ञापकमिति कैयटादयः । कंसेस्तु न कंसोऽनभिधानात् । <<प्रत्ययस्य लुक्>> [[1.1.61]] इत्यादौ भाष्ये स्पष्टा । <<ण्वुल्तृचौ>> [[3.1.133]] इत्यादौ भाष्ये व्युत्पन्नानीत्यपि । इदं शाकटायनरीत्या । पाणिनेस्त्वव्युत्पत्तिपक्षे एवेति शब्देन्दुशेखरे निरूपितम् । <<आयनेयी>> [[6.1.1]] इति सूत्रे भाष्ये स्फुटमेतत् ॥" }, { "num": "23", "prelude": "ननु 'देवदत्तच्चिकीर्षति' इत्यादौ देवादेः सन्नन्तत्वप्रयुक्तधातुत्वाद्यापत्तिरत आह —", "paribhasha": "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्", "text": "यस्मात्प्रत्ययविधिः' [[1.4.13]] इति सूत्रे 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यय' इति योगो विभज्यते । गृह्यमाण उपतिष्ठत इति दोषः । तेन तदाद्यन्तांशः सिद्धः । तदन्तांशस्तु <<येन विधिः>> [[1.1.72]] इत्यनेन सिद्धः । स च शब्दरूपं विशेष्यमादाय विशेष्यान्तरासत्त्वे ।\nयत्तु प्रत्ययेन स्वप्रकृत्यवयवकसमुदायाक्षेपात् तद्विशेषणत्वेन तदन्तविधिरिति । तन्न 'इयानि'त्यादौ तस्य तादृशसमुदायेन व्यभिचारेणाक्षेपासम्भवात् ।\nयत्र प्रत्ययो निमित्तत्वेनाश्रीयते तत्र तदादीत्यन्तांशमात्रोपस्थितिरिति <<अङ्गस्य>> [[6.4.1]] इति सूत्रे भाष्यकैयटयोः । एवं यत्रापि पञ्चम्यन्तात्परः प्रत्यय आश्रीयते तत्रापि तदादीत्यन्तांशोपस्थितिः, परन्तु तत्र पञ्चम्यन्तता । अत एव <<एङ्ह्रस्वात्>> [[6.1.69]] इति सूत्रे एङन्तादित्यर्थलाभः ।\nअस्याः परिभाषायाः प्रयोजनान्तरं <<येन विधिः>> [[1.1.72]] इत्यत्र भाष्य उक्तम् । परमगार्ग्यायण इति । परमगार्ग्यस्यापत्यमिति विग्रहेऽपि गार्ग्यशब्दादेव प्रत्ययो न विशिष्टात् । निष्कृष्य तावन्मात्रेणैकार्थीभावाभावेऽपि वृत्तिर्भवत्येव । अत्र चेदं भाष्यमेव मानमित्यन्यत्र विस्तरः । प्रत्ययमात्रग्रहणे एषा न तु प्रत्ययाप्रत्ययग्रहण इति । <<उगितश्च>> [[4.1.6]] इति सूत्रे भाष्ये । इयमङ्गसंज्ञासूत्रे [[1.4.13]] भाष्ये स्पष्टा ॥" }, { "num": "24", "prelude": "येन विधिरिति सूत्रे भाष्य एतद्घटकतदन्तांशस्यापवादः पठ्यते —", "paribhasha": "प्रत्ययग्रहणं चापञ्चम्याः", "text": "यत्र पञ्चम्यन्तात्परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते, तत्र तदन्तविधिर्नेत्यर्थः । यथा <<रदाभ्यां निष्ठातो नः>> [[8.2.42]] इत्यत्र । तेन दृषत्तीर्णेत्यादौ धातुतकारस्य न नत्वम् । तदन्तेत्यंशानुपस्थितावपि तदादीत्यंशस्योपस्थितौ रेफदान्तात्परस्य निष्ठातस्येत्यर्थ इति न दोषः, तदंशानुपस्थितौ मानाभावात् । तदन्तांशोपस्थितौ तूभयोरेकविषयत्वमेव स्यादिति 'दृषत्तीर्ण' इत्यादौ दोषः स्यादेव ।\n<<स्यतासी लृलुटोः>> [[3.1.33]] इत्यादौ लृलुटोः परयोरित्यर्थे नियमेनावधिसाकाङ्क्षत्वेन उपस्थितधातोरित्यस्यावधित्वेनान्वयान्न तदन्तविधिः । <<हल्ङ्याब्भ्यः>> [[6.1.68]] इत्यादौ तु न दोषः, तत्र कस्मादिति नियतावध्याकाङ्क्षाया अभावेन पञ्चम्यन्तस्य प्रत्ययविशेषणत्वाभावात् ।\nअङ्गसंज्ञासूत्रे [[1.4.13]] तु तदादेः प्रत्यये पर इत्यर्थे पञ्चम्यन्तस्य विशेषणत्वं स्पष्टमेव । अत एव <<उत्तमैकाभ्याम्>> [[5.4.90]] इत्यादिनिर्देशाः सङ्गच्छते ॥24।" }, { "num": "25", "prelude": "नन्वेवम् 'कुमारी ब्राम्हणीरूपा' इत्यादौ 'घरूप' इति ह्रस्वापत्तिरत आह —", "paribhasha": "उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्", "text": "हृदयस्य हृल्लेखयदण्लासेषु' [[6.3.50]] इत्यत्र लेखग्रहणात् । तत्र लेखेति न घञन्तमनभिधानात् । इयं च 'हृदयस्य' इति सूत्र एव भाष्ये स्पष्टा ॥" }, { "num": "26", "prelude": "नन्वेवं परमकारीषगन्धीपुत्र इत्यत्रेव 'अतिकारीषगन्ध्यापुत्र' इत्यत्र <<ष्यङः सम्प्रसारणं पुत्रपत्योः>> [[6.1.13]] इति स्यादत आह —", "paribhasha": "स्त्रीप्रत्यये चानुपसर्जने न", "text": "विषयसप्तमीयम् । यः स्त्रीप्रत्ययः स्त्रियं प्राधान्येनाऽऽह तत्र तदादिनियमो न, यस्त्वप्राधान्येनाऽऽह तत्र तदादिनियमोऽस्त्येवेत्यर्थः।\nप्रत्यासत्त्या यस्य समुदायस्य स्त्रीप्रत्ययान्तत्वमानेयं तदर्थं प्रत्यनुपसर्जनत्वमेवैतत्परिभाषाप्रवृत्तौ निमित्तम्। तेन 'अतिराजकुमारिः' इत्यादौ राजकुमारीशब्दार्थस्यातिशब्दार्थं प्रत्युपसर्जनत्वेऽपि तदर्थं प्रत्यनुपसर्जनत्वात् तदादानियमाभावेन ह्रस्वसिद्धिः। \nअत एवात्र परिभाषायां न शास्त्रीयमुपसर्जनत्वम्, असम्भवात्। अस्याः 'प्रत्ययग्रहणे' (प.23) इत्यस्यापवादत्वात् तदेकवाक्यत्वापन्नत्वाच्चात्रापि ग्रहणपदसम्बन्धेन स्त्रीप्रत्ययसामान्यग्रहणे तद्विशेषग्रहणे च प्रवृत्तिः, न तु स्त्रीप्रत्ययास्त्रीप्रत्ययग्रहणे। ध्वनितञ्चेदम् <<अर्थवत्>> [[1.2.45]] सूत्रे भाष्ये । इत्थं च वाचनिक्येव। <<ष्यङः>> [[6.1.13]] इति सूत्रे भाष्ये स्पष्टा ॥" }, { "num": "27", "prelude": "नन्वेवम् तरप्तमपौ घः [[1.1.22]] इत्यादिना तरबन्तादेः संज्ञा स्यादत आह —", "paribhasha": "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति", "text": "सुप्तिङन्तम् [[1.4.14]] इत्यन्तग्रहणमस्यां ज्ञापकम्। न च प्रत्यययोः पदसंज्ञायामपि 'प्रत्ययग्रहणे'परिभाषया तदन्तग्रहणाभावाद् ज्ञापितेऽपि फलाभाव इति वाच्यम्, पदसंज्ञायाः स्वादिषु [[1.4.17]] इति विषये प्रकृतिनिष्ठतया पदग्रहणस्य प्रत्ययमात्रग्रहणत्वाभावात् । सुप्तिङन्तम् [[1.4.14]] इति सूत्रे भाष्ये स्पष्टा ॥" }, { "num": "28", "prelude": "ननु 'अवतप्ते नकुलस्थितम्' इत्यादौ नकुलस्थित शब्दस्य क्तान्तत्वाभावात् समासो न स्यादत आह —", "paribhasha": "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्", "text": "अस्याश्च कर्मणि क्तान्त उत्तरपदेऽनन्तरो गतिः प्रकृतिस्वर इत्यर्थके <<गतिरनन्तरः>> [[6.2.49]] इति सूत्रेऽनन्तरग्रहणं ज्ञापकम् । तद्धि अभ्युद्धृतमित्यादावतिव्याप्तिवारणार्थम् । प्रत्ययग्रहणपरिभाषयोद्धृतस्य क्तान्तत्वाभावादेवाप्राप्तौ तद् व्यर्थं सदस्या ज्ञापकम् । न चाभ्युद्धृतमित्यादौ परत्वाद् <<गतिर्गतौ>> [[8.1.70]] इत्यनेनाभेर्निघात एवेति वाच्यम्,पादादिस्थत्वेन पदात्परत्वाभावेन च तदप्राप्तेः । अनन्तरग्रहणे कृते तु तत्सामर्थ्याद् गत्याक्षिप्तधातुनिरूपितमेवानन्तर्यं गृह्यत इति न दोषः । न चाभ्युद्धृतमित्यादावभिना समासेऽनन्दस्योदः पूर्वपदत्वाभावेऽपि स्वार्थं तदिति वाच्यम्, <<कारकाद्दत्त>> [[6.2.148]] इति सूत्रे कारकादिति योगं विभज्य गतिग्रहणमनुवर्त्य कारकादेव परं गतिपूर्वपदं क्तान्तमन्तोदात्तमिति नियमेन थाथादिस्वराप्राप्त्या कृत्स्वरेणोद उदात्तत्वसिद्धेः । तस्मादनन्तरग्रहणं व्यवहितनिवृत्यर्थमेवेति वाचकमेव ।\nयत्र गतिकारकसमभिव्याहृतं कृदन्तं तत्र कृद्ग्रहणे तद्विशिष्टस्यैव ग्रहणम्, अपिशब्दात्तदसमभिव्याहृतस्य केवलस्यापीति तदर्थः । अन्यथा अनया कृद्ग्रहणविषये परत्वात् 'प्रत्ययग्रहण'परिभाषाया बाध एव स्यादित्यपि ग्रहणम् ।\nअत एव 'साङ्कूटिनमि'ति 'गतिकारकोपपदानाम्' (प.76) इति 'कृद्ग्रहण' इति च परिभाषाभ्यां कृदन्तेन समासे कृते विशिष्टादेवाणि सिध्यति, न तु 'सङ्कौटिनमि'तीति <<पुंयोगात्>> [[4.1.48]] इति सूत्रे भाष्योक्तं सङ्गच्छते । अन्यथा तत्र केवलं कूटिन्नित्येतस्यापीनुणन्तत्वात्ततोऽपि पाक्षिकदोषो दुर्वार एव स्यात् ।\nस्पष्टं चेदं सर्वं <<समासेऽनञ्पूर्वे>> [[7.1.37]] इति सूत्रे भाष्यकैयटयोः । <<गतिरनन्तरः>> [[6.2.49]] इत्यत्र तु गतेः पूर्वपदस्य क्तान्त उत्तरपदे परे कार्यविधानात्तत्समवधानेऽपि केवलस्य क्तान्तत्वेन ग्रहणं बोध्यम् । इयं च कृत्सामान्यग्रहणे कृद्विशेषग्रहणे च, न तु कृदकृद्ग्रहण इति <<अनुपसर्जनात्>> [[4.1.14]] इति सूत्रे भाष्ये स्पष्टम् ॥" }, { "num": "29", "prelude": "", "paribhasha": "पदाङ्गाधिकारे तस्य च तदन्तस्य च", "text": "पदमङ्गं विशेष्यम्, विशेषणेन च तदन्तविधिः। <<येन विधिः>> [[1.1.72]] इत्यस्यायं प्रपञ्चः । तेन 'इष्टकचितम्, पक्वेष्टकचितम्' इत्यादौ <<इष्टकेषीकामालानां चित>> [[6.3.65]] इति ह्रस्वः, महान्, परममहान्, परमातिमहानित्यादौ <<सान्तमहतः>> [[6.4.10]] इति दीर्घश्च सिद्धः । अत एव तदुत्तरपदस्येति पाठोऽयुक्त इति भाष्ये स्पष्टम्। अत्र पदशब्देनोत्तरपदाधिकारः केवलपदाधिकारश्च।\n<<पादस्य पदाज्याति>> [[6.3.52]] इत्यत्र न तदन्तग्रहणं लक्ष्यानुरोधादिति सर्वं <<येन विधिः>> [[1.1.72]] इत्यत्र भाष्ये स्पष्टम् ॥" }, { "num": "30", "prelude": "नन्वेवम् 'अस्यापत्यमिः' इत्यादावदन्तप्रातिपदिकाभावादिञ् न स्यात्, अत आह —", "paribhasha": "व्यपदेशिवदेकस्मिन्", "text": "निमित्तसद्भावाद्विशिष्टोऽपदेशो मुख्यो व्यवहारो यस्यास्ति स व्यपदेशी । यस्तु व्यपदेशहेत्वभावादविद्यमानव्यपदेशोऽसहायः स तेन तुल्यं वर्तते कार्यं प्रतीत्येकस्मिन्नसहायेऽपि तत्कार्यं कर्तव्यमित्यर्थः । तेनाकारस्याप्यदन्तत्वान्न क्षतिः ।\nएकस्मिन्नित्युक्तेः सभासन्नयनेन आकारस्य नादित्वम्, दरिद्राधाताविकारस्य नान्तत्वम् । अन्यथा 'सभासन्नयने भव' इत्यर्थे <<वृद्धाच्छः>> [[4.2.114]] दरिद्रातेरिवर्णान्तलक्षणोऽच्च स्यात् । अत एव हरिष्वित्यादौ सोः पदत्वं न । लोकेऽपि बहुपुत्रसत्त्वे नैकस्मिन् ज्येष्ठत्वकनिष्ठत्वादिव्यवहारोऽयं मे ज्येष्ठः कनिष्ठो मध्यम इति किन्त्वेकपुत्रसत्त्व एव ।\nअनेन चाशास्त्रीयस्याप्यतिदेशः । अत एव 'इयाय' इत्यादावेकाच्त्वनिबन्धनद्वित्वसिद्धिः । अत एव 'भवती'त्यादौ 'भू' इत्यस्याङ्गत्वम्, 'इयान्' इत्यादौ कार्यकालपक्षे तद्धितान्तत्वनिबन्धनप्रातिपदिकत्वं च सिद्ध्यति । अन्यथा यस्माद्विहितस्तदादित्वाभावान्न स्यात् ।\nयत्तु योऽर्थवांस्तत्रार्थस्य त्यागोपादानाभ्यामेकाज्व्यवपदेशो, यथा 'इयाय' इत्यादावर्थवतो धातोरयं वर्णरूपः एकोऽजिति कैयटः । तन्न, तस्य 'एकपदाऋग्' इत्यत्र भाष्योक्तरीत्या मुख्यव्यवहारसत्त्वात् । 'एकपदा ऋग्' इत्यत्र 'अर्थेन युक्तो व्यपदेश' इति भाष्ये उक्तम्, ऋक्त्वादेर्थशब्दोभयवृत्तित्वेन तस्याः शब्दमात्ररूपं पदमेकोऽवयव इत्यर्थ इति तदाशयः ।\nतस्मादेकस्मिंस्तत्तद्धर्मारोपेण युगपद् यथा ज्येष्ठत्वादिव्यवहारः, यथा वा 'शिलापुत्रकस्य शरीरम्' इत्यादावेकस्मिन्नरोपितानेककावस्थाभिः समुदायरूपत्वाद्यारोपेण 'एतस्य शरीरमि'त्यादिव्यवहारः, तथाऽत्रैकाच्त्वादिव्यवहारोपपत्तिरिति लोकन्यायसिद्धेयम्।\nन चासहाय एवैतत्प्रवृत्तौ भवतीत्यत्र 'भू' इत्यस्याङ्गत्वानापत्तिः, ससहायत्वादिति वाच्यम्, शपमादायाङ्गत्वे कार्ये यस्माद्विहितस्तदादित्वे तस्य ससहायत्वाभावाल्लोके विजातीयकन्यादिसत्त्वेऽप्येकपुत्रस्य तस्मिन्नेव 'अयमेव ज्येष्ठः' इत्यादिव्यवहारवत्।\nन चैवम् 'निजौ चत्वार एकाचः' इति भाष्यासङ्गतिः, इकारस्यासहायत्वाभावेन तत्रैकाच्त्वानुपपादनादिति वाच्यम् ?, 'एकस्मिन्' इत्यस्यापर्यालोचनया तत्प्रवृत्तेः।\n'अर्थवता व्यपदेशिवद्भावः' इत्यत्रार्थवत्पदेनाप्यसहायत्वमुपलक्ष्यते । अर्थबोधकेन शब्देन व्यपदेशिसदृशो भावः कार्यं लभ्यत इति तदर्थः । प्रायोऽसहाय एवार्थवत्त्वात्।\n'कुरुते' इत्यादौ 'तशब्दाकारोऽचामन्त्यः' इति व्यवहारे, 'स आदिर्यस्ये'ति व्यवहारे चासहाय एवेति तत्र व्यपदेशिवद्भावेन टिसंज्ञासिद्धिरित्यन्यत्र विस्तरः॥" }, { "num": "31", "prelude": "ननु गर्गादिभ्यो विहित यञ् तदन्त विधिना परमगर्गादिभ्योऽपि स्यात्, अत आह —", "paribhasha": "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति", "text": "इयं च 'समासप्रत्ययविधौ प्रतिषेध उगिद्वर्णग्रहणवर्जम्' इति वार्तिकस्थप्रत्ययांशानुवादः। अत एवायं प्रत्ययविधिविषय एव । अत एव <<येन विधिः>> [[1.1.72]] इति सूत्रभाष्ये प्रत्ययविधिभिन्ने <<अप्तृन्तृच्>> [[6.4.11]] इत्यादौ गृह्यमाणप्रातिपदिकेनापि तदन्तविधिप्रतिपादनं 'स्वसा, परमस्वसे'त्याद्युदाहरणं च सङ्गच्छते ।\nअत एव च तदन्तविधिसूत्रे भाष्ये समासेत्यादिनिषेधस्य कथनवदस्य न कथनम् । सोऽपि निषेधो विशिष्य तत्तद्रूपेण गृहीतप्रातिपदिकसूत्र एव । ध्वनितं चेदम् <<असमासे निष्कादिभ्यः>> [[5.1.20]] इति सूत्रे भाष्ये ।\nअत्र च ज्ञापकं <<सपूर्वाच्च>> [[5.2.87]] इति सूत्रम्, अन्यथा <<पूर्वादिनिः>> [[5.2.86]] इत्यत्र तदन्तविधिनैव सिद्धे किं तेन ॥" }, { "num": "32", "prelude": "नन्वेवं <<सूत्रान्ताट्ठक्>> [[4.2.60]], <<दशान्ताड्डः>> [[5.2.45]], <<एकयोगपूर्वात्>> [[5.2.118]] इत्यादेः केवलसूत्रशब्ददशन्शब्दैकशब्दादिष्वपि प्रवृत्तिर्व्यपदेशिवद्भावात्स्यादत आह —", "paribhasha": "व्यपदेशिवद्भावोऽप्रातिपदिकेन", "text": "पूर्वात्सपूर्वादिनिः' इत्येकयोग एव कर्तव्ये पृथग्योगकरणमस्या ज्ञापकम् । न च <<इष्टकादिभ्यः>> [[5.2.88]] इति सूत्रेऽनुवृत्त्यर्थं तथा पाठः, अत एव 'अनिष्टी'त्यादिसिद्धिरिति वाच्यम्, ज्ञापकपरभाष्यप्रामाण्येन 'अनिष्टी'त्यादिप्रयोगाणामनिष्टत्वात्, एकयोगेऽपि तावद् उत्तरत्रानुवृत्तौ बाधकाभावाच्च ।\nअत एव <<नान्तादसङ्ख्यादेः>> [[5.2.49]] इति चरितार्थम् । अन्यथा 'पञ्चमः' इत्यादावपि व्यपदेशिवद्भावेन सङ्ख्यादित्वात्तद्वैयर्थ्यं स्पष्टमेव ।\nइयं च प्रातिपदिकग्रहणे एव, न तु प्रातिपदिकाऽप्रातिपदिकग्रहणे । तेन <<उगितश्च>> [[4.1.6]] इत्यत्र न दोष इति तत्रैव भाष्ये स्पष्टम् ।\nइयं 'ग्रहणवता' (प.31) इति च परिभाषा प्रत्ययविधिविषयैवेति <<असमासे निष्कादिभ्यः>> [[5.1.20]] इति सूत्रे भाष्यकैयटयोः । तेन 'अहन्' इत्यादेः परमाहन्शब्दे केवलाहन्शब्दे च प्रवृत्तिरित्यन्यत्र विस्तरः॥" }, { "num": "33", "prelude": "ननु <<वान्तो यि>> [[6.1.79]] इत्यादौ यादौ प्रत्यय इत्यर्थः कथम् ? अत आह —", "paribhasha": "यस्मिन्विधिस्तदादावल्ग्रहणे", "text": "तदन्तविधेरपवाद इयम् । वाचनिक्येषा, येन विधिः [[1.1.72]] इत्यत्र भाष्ये पठिता ।| अस्याश्च स्वरूपसती सप्तमी निमित्तम् । अत एव नेड्वशि कृति [[7.2.8]] इत्यादौ वशादेः कृत इत्याद्यर्थलाभः । इयं च आर्धधातुकस्येड् [[7.2.35]] इति सूत्रे वलादेरित्यादिग्रहणसामर्थ्याद् विशेष्यविशेषणयोरुभयोः सप्तम्यन्तत्व एव प्रवर्तते । तेन डः सि धुट् [[8.3.29]] इत्यादौ सादेः परस्येति नार्थः । तीषसह [[7.2.48]] से ऽसिचि [[7.2.57]] इत्यादौ यथा तादेरित्याद्यर्थलाभः, तथा शब्देन्दुशेखरे निरूपितम् ॥" }, { "num": "34", "prelude": "घटपटम्, घटपटौ इत्यादिसिद्धय आह —", "paribhasha": "सर्वो द्वन्द्वो विभाषयैकवद्भवति", "text": "द्वन्द्वश्च प्राणि [[2.4.2]] इत्यादिप्रकरणविषयः सर्वो द्वन्द्व इत्यर्थः, चार्थे द्वन्द्वः [[2.2.29]] इति सूत्रेण समाहारेतरयोगयोरविशेषेण द्वन्द्वविधानात् न्यायसिद्धेयम्। तिष्यपुनर्वस्वोः [[1.2.63]] इति सूत्रस्थं बहुवचनस्येति ग्रहणमस्या ज्ञापकम्। तद्धीदम् तिष्यपुनर्वसु इत्यत्र तद्व्यावृत्त्यर्थम्।\nन चैवमप्यत्र जातिरप्राणिनाम् [[2.4.6]] इति नित्यैकवद्भावेन बहुवचनाभावादिदं सूत्रं व्यर्थमिति वाच्यम् ? तद्वैकल्पिकत्वस्याप्यनेन ज्ञापनात्। न चैते प्राणिन इति वाच्यम् ? आपोमयः प्राणः इति श्रुतेरद्भिर्विना ग्लायमानप्राणानामेव प्राणित्वात्। स्पष्टं चेदं तिष्यपुनर्वस्वोः [[1.3.63]] इति सूत्रे भाष्ये। अत एव द्वन्द्वश्च प्राणि [[2.4.2]] इत्यादेः प्राण्यङ्गादीनामेव समाहार इति विपरीतनियमो न॥" }, { "num": "35", "prelude": "", "paribhasha": "सर्वे विधयश्छन्दसि विकल्प्यन्ते", "text": "व्यत्ययो बहुलम् [[3.1.85]] इति सूत्रे भाष्ये बहुलमिति योगविभागेन षष्ठीयुक्तश्छन्दसि [[1.4.9]] इति सूत्रे वेति योगविभागेन चैषा साधिता । तेन 'प्रतीपमन्यः' 'ऊर्मिर्युध्यति' इत्यादि सिद्धम् । युद्ध्यत इति प्राप्नोति ॥" }, { "num": "36", "prelude": "ननु क्षिय इत्यादावियङ् कथम् ? अत आह —", "paribhasha": "प्रकृतिवदनुकरणं भवति", "text": "क्षियः' इतीयङ्निर्देशोऽस्या ज्ञापकः। तत्रैव प्रातिपदिकत्वनिबन्धनविभक्तिकरणादनित्या चेयमिति क्षियो दीर्घात् [[8.2.46]] इति सूत्रे भाष्ये स्पष्टम् ॥" }, { "num": "37", "prelude": "ननुरामौइत्यादौ वृद्धौ कृतायां कार्यकाल पक्षे कथं पदत्वम्? उभयत आश्रयणेऽन्तादित्वाभावात् यस्माद्वहितस्तदादितदन्तत्वाभावादत आह —", "paribhasha": "एकदेशविकृतमनन्यवत्", "text": "अनन्यवदित्यस्यान्यवन्नेत्यर्थः। तत्रान्यसादृश्यनिषेधेऽन्यत्वाभावः सुतराम् । अत एव तादृशादर्थबोधः, अन्यथा शक्ततावच्छेदकैमुपूर्व्यज्ञानात् ततो बोधो न स्यात् । एवञ्च रामिति मान्तस्य यस्माद् विहितस्तत्त्वम्, औ इत्यस्य परादिवत्त्वेन सुप्त्वमिति तदादितदन्तत्वम् आर्थसमाजग्रस्तम्।\nछिन्नपुच्छे शुनि श्वत्वव्यवहारवन्मान्ते तत्त्वं लोकन्यायसिद्धम् । अत एव <<प्राग्दीव्यतः>> [[4.1.83]] इति सूत्रे भाष्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानुकरणमिदमित्युक्त्वा 'किमर्थं विकृतनिर्देशः ?' एतदेव ज्ञापयत्याचार्यो भवत्येषा परिभाषैकदेशविकृतमनन्यवदित्युक्तम् । एतेनायं न्यायः शास्त्रीयकार्य एव शास्त्रीविकार एवेत्यपास्तम्। विकृतावयवनिबन्धनकार्ये तु नायम्, छिन्नपुच्छे शुनि पुच्छवत्त्वव्यवहारवद् विकृतावयवव्यवहारस्य दुरुपपादत्वात् । एवमक्तपरिमाणग्रहणेऽपि नायम्, उक्तयुक्तेः । एतद् येनविधिः [[1.1.72]] इत्यत्र भाष्यकैयटयोर्ध्वनितम् ।\nयत्र त्वर्धं तदधिकं वा विकृतम्, तत्र जातिव्यञ्जकभूयोऽवयवदर्शनाभावेन तत्त्वाप्रतीतौ कार्यसिध्यर्थं विकृतानल्रूपावयवत्वप्रतीत्यर्थं च स्थानिवत्सूत्रम् । क्वचित्तु लक्ष्यानुरोधान्न्यायानाश्रयणम् । तेन 'अभीयाद्' इत्यादिसिद्धिः। स्पष्टं च क्वचिन्न्यायाप्रवृत्तिः प्रथमयोः पूर्वसवर्णः [[6.1.102]] इत्यत्र कैयटेन दर्शितेत्यन्यत्र विस्तरः ॥ इति शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ॥" }, { "num": "38", "prelude": "", "paribhasha": "पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः", "text": "पूर्वात्परं बलवत् । विप्रतिषेध शास्त्रात्पूर्वस्यपरं बाधकमिति यावत् ॥" }, { "num": "39", "prelude": "नन्वेवम् 'भिन्धि' इत्यत्र परत्वात् तातङा बाधितो धिर्न स्यादत आह —", "paribhasha": "पुनः प्रसङ्गविज्ञानात्सिद्धम्", "text": "" }, { "num": "40", "prelude": "नन्वेवम् 'तिसृणाम्' इत्यत्र परत्वात् तिस्रादेशे पुनस्त्रयादेशः स्यादत आह —", "paribhasha": "सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव", "text": "तत्र क्वचिच्चरितार्थयोरेकस्मिन् युगपदुभयोः कार्ययोरसम्भवेन बाधकाभावात्पर्यायेण तृजादिवच्छास्त्रद्वयप्रसङ्गे नियमार्थं विप्रतिषेधसूत्रमिति सकृद्गतिन्यायसिद्धिः । यथा- तुल्यबलयोरेकः प्रेष्यो भवति, स तयोः पर्यायेण कार्यं करोति । यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये, तदोभयोर्न करोति यौगपद्यासम्भवात् । तथा शास्त्रयोर्लक्ष्यार्थयोः क्वचिल्लक्ष्ये यौगपद्येन प्रवृत्त्यसम्भवादप्रतिपत्तौ प्राप्तायामिदं परविध्यर्थम् । तत्र कृते यदि पूर्वप्राप्तिरस्ति, तर्हि तदपि भवत्येवेति पुनःप्रसङ्गविज्ञानसिद्धिरिति विप्रतिषेधसूत्रे भाष्ये स्पष्टम् ।\nयत्तु कैयटादयो व्यक्तौ पदार्थे प्रतिलक्ष्यं लक्षणोपप्लवादुभयोरपि शास्त्रयोस्तल्लक्ष्यविषययोरचरितार्थ्येन पर्यायेण द्वयोरपि प्राप्तौ परमेवेति नियमार्थमिदमिति 'सकृद्गति'न्यायसिद्धिः। अत्र पक्षे एतन्नियमवशादेतल्लक्ष्यविषयकपूर्वशास्त्रानुपप्लव एव । जातिपक्षे तूद्देश्यतावच्छेदकाक्रान्ते क्वचिल्लक्ष्ये चरितार्थयोर्द्वयोः शास्त्रयोः 'सत्प्रतिपक्ष'न्यायेन युगदुभयासम्भवरूपविरोधस्थल उभयोरप्यप्राप्तौ परविध्यर्थमिदमिति पुनःप्रसङ्गविज्ञानसिद्धिरित्याहुः । तन्न, व्यक्तिपक्षे सर्वं लक्ष्यं शास्त्रं व्याप्नोति न जातिपक्ष इत्यत्र मानाभावात् । 'न ब्राह्मणं हन्याद्' इत्यादौ जात्याश्रयसकलव्यक्तिविषयत्वार्थमेव जातिपक्षाश्रयणस्य भाष्ये दर्शनात् ।\nअत एव 'सरूप'सूत्रे भाष्ये जातौ पदार्थेऽनवयवेन साकल्येन विधिप्रवृत्तेः गौरनुबन्ध्य इत्यादौ सकलगवानुबन्धनासम्भवात्कर्मणो वैगुण्यमुक्तम् । द्रव्यवादे चासर्वदव्यावगते 'गौरनुबन्ध्य' इत्यादावेकः शास्त्रोक्तोऽपरोऽशास्त्रोक्त इत्युक्तम् । किञ्च न हि भाष्योक्ततृजादिदृष्टान्तस्य व्यक्तिपक्ष एव सर्वविषयत्वं न जातिपक्ष इत्यत्र मानमस्ति ।\nअपि च व्यक्तिपक्षेऽप्यन्यव्यक्तिरूपविषयलाभेन चरितार्थयोरियं व्यक्तिविरोधात् स्वविषयकत्वं न कल्पयतीति वक्तुं शक्यम्। जातिपक्षेऽपि तज्जात्याश्रयतद्व्यक्तिविषयकत्वमेव नैतद्व्यक्तिविषयकत्वमित्यत्र विनिगमकाभावः।\nतत्र लक्ष्यानुसारात् क्वचिच्छास्त्रीयदृषटान्ताश्रयणम्, क्वचिल्लौकिकदृष्टान्ताश्रयणमिति भाष्यसम्मत मार्ग एव युक्त इति बोध्यम्।\nद्वयोः कार्ययोर्यौगपद्येनासम्भव एव विप्रतिषेधशास्त्रोपयोगी । इदम् <<इको गुण>> [[1.1.3]] इति सूत्रे कैयटे स्पष्टम् । \nयथा 'शिष्टात्' इत्यादौ तातङ्शाभावयोर्युगपत्प्रवृत्तौ स्वस्वनिमित्तनन्तर्यासम्भवः। यद्यपि तातङादेः स्थानिवद्भवेनास्त्येव तत्, तथाप्यादेशप्रवृत्युत्तरमेव सः, न तु तत्प्रवृत्तिकाले। एवं नुम्तृज्वत्त्वयोः 'प्रियक्रोष्टूनि' इत्यादौ युगपदसम्भवः, 'यदागमाः' (प.11) इत्यस्य नुम्प्रवृत्युत्तरं प्रवृत्तः। एवम् 'भिन्धि' इत्यत्र तातङ्धिभावयोर्युगपदेकस्थानिसम्बन्धस्याङ्गरूपनिमित्तानन्तर्यस्य चासम्भवो बोध्यः। नुम्नुटोरपि नुट्यजादिविभक्त्यानन्तर्यबाधः, नुमि ह्रस्वन्ताङ्गबाध इत्यसम्भवाद् विप्रतिषेधः।\nक्वचिदिष्टानुरोधेन पूर्वशास्त्रे स्वरितत्वप्रतिज्ञाबलात् स्वरितेनाधिकं कार्यमित्यर्थात्पूर्वमेव भवति । तेन 'सर्वे पूर्वविप्रतिषेधाः सङ्गृहीताः' इति <<स्वरितेन>> [[1.3.11]] इति सूत्रे भाष्ये । विप्रतिषेधसूत्रस्थपरशब्दस्येष्टवाचित्वात् तत्सङ्ग्रह इति विप्रतिषेधसूत्रे भाष्ये ॥" }, { "num": "41", "prelude": "नन्वेवम् 'एधते' इत्यादौ परत्वाद्विकरणे <<अनुदात्तङितः>> [[1.3.12]] इत्यादिनियमानुपपत्तिस्तेन व्यवधानादत आह —", "paribhasha": "विकरणेभ्यो नियमो बलीयान्", "text": "अत्र <<वृद्भ्यः स्यसनो>> [[1.3.92]] इति सूत्रेण स्ये विभाषाऽतङ्विधानं ज्ञापकम् । अन्यथा स्यव्यवधाने नियमाप्रवृत्तौ सामान्यशास्त्रेणोभयसिद्धौ विकल्पविधानं व्यर्थं स्यात्। अत्रार्थे ज्ञापिते तु 'स्य' इति विषयसप्तमी बोध्येति 'अनुदात्तङितः [[1.3.12]] इत्यत्र भाष्यकैयटयोः स्पष्टम्।\nविकरणव्यवधानेऽपि नियमप्रवृत्तेरिदं ज्ञापकमिति <<शदेः शितः>> [[1.3.60]] इत्यत्र भाष्ये ध्वनितम् ।\nवस्तुतः-अस्माज्ज्ञापकात् <<अनुदात्तङितः>> [[1.3.12]] इत्यादिप्रकरणं तिबादिविध्येकवाक्यतया विधायकम् । तत्र 'धातोः [[3.1.91]] इति विहितपञ्चमी, तत्समानाधिकरणम् <<अनुदात्तडितः>> [[1.3.12]] इत्यादिविहितविशेषणमेव। एवं च लावस्थायां स्येऽपि तद्व्यवधाने तङ्सिद्धिः। शबादिभ्यस्तु पूर्वमेव नियमः। \nयद्वा-लमात्रापेक्षत्वादन्तरङ्गा आदेशा लकारविशेषापेक्षत्वात्स्यादयो बहिरङ्गा इति दिग्योगलक्षणपञ्चम्यामपि न दोषः। अत्र पक्षे <<वृद्भ्यः स्य>> [[1.3.92]] इति सूत्रं स्यविषय इति व्याख्येयम् । आत्मनेपदशब्दादौ भाविसंज्ञाश्रयणीयेति तत्त्वम् ।\nभिन्नवाक्यतया सामान्यशास्त्रविहितानां नियमे तु लुगादिनेव नियमेन जातनिवृत्तिरङ्गीकार्या। 'भुक्तवन्तं प्रति मा भुक्था इति ब्रूयात्; किं तेन कृतं स्यादि'ति न्यायस्तु नात्र शास्त्र आश्रयितं युक्तो नियमादिशास्त्राणां वैयर्थ्यापत्तेः।\nध्वनितं चेदं <<स्थानेऽन्तरतमः>> [[1.1.50]] इति सूत्रे भाष्ये । शास्त्रानर्थक्यं तु वृद्धिसंज्ञा सूत्रे भाष्ये तिरस्कृतम्। सामान्यशास्त्रेणोत्पत्तिस्तु सरूपसूत्रस्थकैयटरीत्या प्रधानानुरोधेन गुणभेदकल्पना तावत्प्रकृति कल्पनया कार्या । प्रत्ययनिवृत्तौ च तत्कल्पितप्रकृतेरपि निवृत्तिः कल्प्येति गौरवमित्यन्यत्र विस्तरः ॥" }, { "num": "42", "prelude": "", "paribhasha": "परान्नित्यं बलवत्", "text": "कृताकृतप्रसङ्गित्वात्। तत्राक्लृप्ताभावकस्याभावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनमुचितमिति नित्यस्य बलवत्वे बीजम्। तदाह — कृताकृतप्रसङ्गि नित्यम्, तद्विपरीतमनित्यम् । अत एव 'तुदति' इत्यादौ परादपि गुणान्नित्यत्वात् शप्रत्ययादिर्भवति ॥" }, { "num": "43", "prelude": "यद्व्यक्तिसम्भन्धितया पूर्वं प्रवृत्तिस्तद्व्यक्तिसम्भन्धितयैव पुनः प्रवृत्तौकृताकृतप्रसङ्गित्वमित्याशखयेनाह —", "paribhasha": "शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति", "text": "इदं <<शदेः शितः>> [[1.3.60]] इति सूत्रे भाष्ये स्पष्टम्। तत्र हि 'न्यविशत' इत्यत्र विकरणे कृते तदन्तस्याट्, अकृते विकरणे धातुमात्रतस्येत्यडनित्य इत्युक्तम् ॥" }, { "num": "44", "prelude": "एतत्तुल्यन्यायेनाह —", "paribhasha": "शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम्", "text": "" }, { "num": "45", "prelude": "एतन्मूलकमेवाह —", "paribhasha": "लक्षणान्तरेण प्राप्नुवन् विधिरनित्यः", "text": "अतिदेशविषये इयम् <<असिद्धवत्>> [[6.4.22]] सूत्रे कैयटेनोक्ता ॥" }, { "num": "46", "prelude": "यदा तु शास्त्रव्यतिरेकेण तद्विधेयकार्ययोरेव नित्यत्वादिविचारो यदाऽपि व्यक्तिविशेषाश्रयणाभावः, तदाह —", "paribhasha": "क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता", "text": "कृते द्वितीये नित्यत्वेनाभिमतस्य पुनः प्रसङ्गमात्रं नित्यत्वव्यवहारे प्रयोजकम्, न तु बाधकाबाधित फलोपहित प्रसङ्गोऽपि तथेति भावः॥" }, { "num": "47", "prelude": "तदाह —", "paribhasha": "यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्", "text": "" }, { "num": "48", "prelude": "क्वचित्तु बाधकाबाधित फलोपहित प्रसङ्ग एव गृह्यते तदाह —", "paribhasha": "यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्", "text": "सप्तमे कैयटेनैतदुपष्टम्भकं लोकव्यवहारद्वयमुदाहृतम्। वालिसुग्रीवयोर्युध्यमानयोर्भगवता बालिनि हतेऽपि सुग्रीवस्य बालितः प्राबल्यं न व्यवहरन्ति, भगवत्सहायैः पाण्डवैर्जये लब्धेपि पाण्डवानां प्राबल्यं व्यवहरन्ति चेति । सर्वं चेदं लक्ष्यानुरोधाद् व्यवस्थितम् ॥" }, { "num": "49", "prelude": "लुटः प्रथमस्य' [[2.4.85]] इति सूत्रे भाष्ये —", "paribhasha": "स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति", "text": "इति पठ्यते । यत्र त्वेकस्यैव कार्यस्य परत्वं नित्यत्वं च, तत्रेच्छयान्यतरत्तदुभयं वा तस्य बलवत्त्वे नियामकमुल्लेख्यम्। अत एव तत्र तत्र परत्वान्नित्यत्वाच्चेति भाष्ये उच्यते।\nवस्तुतस्तु परत्वादित्युक्तिरेकदेशिनः । स्पष्टं चेदं विप्रतिषेधसूत्रे कैयटे । <<णौ चङि>> [[7.4.1]] इति ह्रस्वापेक्षया नित्यत्वान्तरङ्गत्वप्रयुक्तद्वित्वस्य प्रथमतः प्रवृत्तौ नित्यत्वादित्येव भाष्य उक्तम् । एवं नित्यान्तरङ्गयोर्बलवत्त्वमपि यौगपद्यासम्भव एवेति बोध्यम् ॥" }, { "num": "50", "prelude": "नित्यादप्यन्तरङ्गं बलीयः; अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्। तदाह —", "paribhasha": "असिद्धं बहिरङ्गमन्तरङ्गे", "text": "अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । एवं तदीयनिमित्तसमुदायाद् बहिर्भूताङ्गकं बहिरङ्गम् । एतच्च <<खरवसानयोः>> [[8.3.15]] इति सूत्रे <<असिद्धवत्>> [[6.4.22]] सूत्रे च भाष्यकैटयोः स्पष्टम् ।\nअत्राङ्गशब्देन शब्दरूपं निमित्तमेव गृह्यते, शब्दशास्त्रे तस्यैव प्रधानत्वात् । तेनार्थनिमित्तकस्य न बहिरङ्गत्वम् । अत एव <<न तिसृचतसृ>> [[6.4.4]] इति निषेधश्चरितार्थः । अन्यथा स्त्रीत्वरूपार्थनिमित्तकतिस्रपेक्षयाऽन्तरङ्गत्वात् त्रयादेशे तदसङ्गतिः स्पष्टैव। अत एव त्रयादेशे 'स्रन्तस्य प्रतिषेधः' इति स्थानिवत्सूत्रस्थभाष्यवार्तिकादि सङ्गच्छते ।\nएतेन 'गौधेरः, 'पचेत्' इत्यादावेयादीनामङ्गसंज्ञासापेक्षत्वेन बहिरङ्गतयाऽसिद्धत्वाद् वलिलोपो न स्यादिति परास्तम्। एयादेशादेरपरनिमित्तकत्वेनान्तरङ्गत्वाच्च।\nननु 'येन विधिस्तदन्तस्य [[1.1.72]] इति सूत्रे भाष्ये <<इको यणचि>> [[6.1.77]] इत्यादावपि तदन्तविधौ 'स्योन' इत्यत्रान्तरङ्गत्वाद्यणो गुणबाधकत्वमिष्यते तन्न सिद्धयेत्, ऊनशब्दमाश्रित्य यणादेशो नशब्दमाश्रित्य गुण इत्यमन्तरङ्गत्वाद् गुण एव स्यादित्युक्तम्।\nअत्र कैयट:-सिवेर्बाहुलकादौणादिके नप्रत्यये गुणवलोपोठां प्रसङ्ग ऊठपवादत्वावलोपं बाधते गुणं त्वन्तरङ्गत्वाद् बाधते । गुणो ह्यङ्गसम्बन्धिनी मिग्लक्षणां लध्वीमुपधामार्द्धधातुकं चाश्रयति । ऊठ तु वकारान्तमङ्गमनु नासिकादिकञ्च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्गः। तत्र कृते यण्गुणौ प्राप्नुतं इति । एवञ्च संज्ञापेक्षस्यापि बहिरङ्गत्वं स्पष्टमेवोक्तमिति चेत्, न । तदन्तविधावपि बहुपदार्थापेक्षत्वरूपबहिरङ्गत्वस्य गुणे. सत्त्वेन तत्र दोष कथनपरभाष्यासङ्गतेः । बहिरङ्गान्तरङ्गशब्दाभ्यां बह्वपेक्षत्वाल्पापेक्षत्वयोः शब्दमर्यादयाऽलाभाच्च । तथा सति 'असिद्धं बह्वपेक्षमल्पापेक्ष' इत्येव वदेत् । अत एव 'विप्रतिषेध' सूत्रेभाष्ये गुणाद्यणादेशोऽन्तरङ्गत्वादित्यस्य 'स्योन' इत्युदाहरणं न तु गुणादूट अन्तरङ्गत्वादित्युक्तम्। त्वद्रोत्या तदपि वक्तमु चितम् । प्राथम्यात्तदेव वा वक्तुमुचितम् । मम त्वन्तरङ्गपरिभाषया तद्वार णासम्भवात्तन्नोक्तम् ।\nकिश्च सिद्धान्ते नित्यत्वाद् गुणात्पूर्वमूठ, गुणस्तु ऊठि यणाबाधितत्वादनित्यः। ऊनशब्दमाश्रित्येत्यादिभाष्येण च परिभाषायामङ्गशब्देन सप्तम्याद्यन्ततयोपात्तं शब्दरूपं निमित्तमेव गृह्यत इति स्पष्ट मेवोक्तम् ॥\nयत्तु कयटेन तदन्तविधिपक्षे परत्वाद् गुणः प्राप्नोतीत्युक्तं तत्तु न शब्दमाश्रित्येत्यादिभाष्यासङ्गत्या चिन्त्यम् ।\nवलिलोपेऽन्तरङ्गपरिभाषा न प्रवर्तत इति तु न युक्तम्, तत्सूत्रे भाष्य एव व्रश्वादिषु लोपातिप्रसङ्गमाशङ्कयोपदेशसामर्थ्यान्न । न च 'वृश्चती'त्यादी चारितार्थ्यम्, बहिरङ्गतया सम्प्रसारणस्यासिद्धत्वेन पूर्वमेव तत्प्राप्तेरिति भाष्योक्तेः।\nयत्तु नलोपस्य षट्संज्ञायामसिद्धत्वात् 'पञ्चे'त्यत्र <<न षट्>> [[4.1.10]] इति निषेध इति । तच्चिन्त्यम् । नलोपस्य हि पदसंज्ञासापेक्षत्वेन बहिरङ्गत्वं वाच्यम् । तच्च न, संज्ञाकृतबहिरङ्गत्वस्यानाश्रयणात् । 'पञ्चे'त्यत्र निषेधस्तु स्त्रियां यत् प्राप्नोति तन्नेति व्याख्यानसामर्थ्येन भूतपूर्वषट्त्वमादायेति बोध्यम्। अत एव कृति तुग्ग्रहणं चरितार्थम् । 'वृत्रहभ्या मित्यादौ पदत्वनिमित्तकत्वेऽपि नलोपस्य बहिरङ्गत्वाभावात् । भ्यामः पदसंज्ञानिमित्तत्वेऽपि नलोपस्य तन्निमित्तकत्वाभावात् । परम्परया निमित्तत्वमादाय बहिरङ्गत्वाश्रयणे तु न मानम् । ध्वनितं चेदं <<नलोपः सुप्>> [[8.2.2]] इति सूत्रे भाष्य इति तत्रैव भाष्यप्रदीपोद्योते निरूपितम् ।\nअन्तरङ्गे कर्तव्ये जातं, तत्काल प्राप्तिकञ्च बहिरङ्गमसिद्धमित्यर्थः । बवादिषु पदसंस्कारपक्षे समानकालत्वमेव द्वयोरिति बोध्यम्।\nएतेन 'अन्तरङ्गं बहिरङ्गाद् बलीयः' इति परिभाषान्तरमित्यपास्तम्। एनामाश्रित्य 'विप्रतिषेध' सूत्रे भाष्ये तस्याः प्रत्याख्यानाच्च ।\nइयं च त्रिपाद्यां न प्रवर्तते, त्रिपाद्या असिद्धत्वात् । अस्याञ्च 'वाह ऊठ' सूत्रस्थभूग्रहणं ज्ञापकमित्येषा सपादसप्ताध्यायीस्था । अन्यथा सम्प्रसारणमात्रविधानेन लघूपधगुणे <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धौ 'विश्वौह' इत्यादिसिद्धस्तद्वं यथ्यं स्पष्ट मेव । सत्यां ह्येतस्यां बहिरङ्गसम्प्रसारणस्यासिद्धत्वाल्लघूपधगुणो न स्यात् । न च <<पुगन्त>> [[7.3.86]] इति सत्र निमित्तमिको विशेषणमत एव 'भिनत्ती'त्यादौ न गुणः, एवञ्च 'नाजानन्तर्ये' (प.51) इति निषेधात्कथं परिभाषाप्रवृत्तिरिति वाच्यम् ? प्रत्ययस्याङ्गांश उत्थिताकाङ्क्षत्वेन तत्रैवान्वयात् । पुगन्तेत्यादौ कर्मधारयाश्रयणेन प्रत्ययपराङ्गावयवलघूपधारूपेको गुण इति <<इको गुणवृद्धी>> [[1.1.3]] इति सूत्रभाष्यसम्मतेऽर्थे भिनत्तीत्यादावदोषाच्च ।\nअकारान्तोपसर्गेऽनकारान्ते चोपपदे वहेवहिर्वा ण्विविचावनभिधानान्न स्त एव । वायू हेत्यादि तूहतेः क्विपि बोध्यम्। धातूनामनेकार्थत्वान्नायासङ्गतिः। 'प्रोह' इत्याद्यसाध्वेव, वृद्धरप्राप्तेः। अस्योहस्यानर्थक्यात न <<प्रादूहोढः>> [[6.1.89]] वार्त्तिकम्-3) इत्यस्यापि प्रवृत्तिः।\nन च कार्यकालपक्षे त्रिपाद्यामेतत्प्रवृत्तिर्दुवरिति वाच्यम्, पूर्व प्रति परस्यासिद्धत्वादन्तरङ्गाभावेन पूर्वस्य तन्निरूपितबहिरङ्गत्वाभावात्तया तस्यासिद्धत्वप्रतिपादनासम्भवात् । न चानया पूर्वस्यासिद्धत्वादभावेन तं प्रति परासिद्धत्वं <<पूर्वत्र>> [[8.2.1]] इत्यनेन वक्तु मशक्यमिति वाच्यम्, एवं हि विनिगमनाविरहादुभयोरप्यप्रवत्यापत्तेः। किञ्च पूर्वत्रेत्यस्य प्रत्यक्षत्वेन तेनाऽऽनुमानिक्या अस्या बाध एवोचितः। अतः कार्यकालपक्षेऽपि त्रिपाद्यामस्या अनुपस्थितिरेव ॥\nअत एव कार्यकालपक्षमेवोपक्रम्योक्तयुक्तीरक्त्वा 'अतोऽयुक्तोऽयं परिहारो' न वा बहिरङ्गलक्षणत्वात्' इत्युक्तं विसर्जनीयसूत्रे भाष्ये सिद्धाजना त्रिपादीस्थेऽन्तरङ्ग कर्तव्येऽयं परिहारो न युक्त इति तदर्थः। कि वचनमेवाऽऽरब्धव्यमिति तदाशयः।\nअत एव 'निगाल्यत' इत्यादौ लत्वार्य तस्य दोषः' इति वचनमेवाडरब्धम् । अन्यथान्तरङ्गत्वाण्णिलोपात्पूर्व वैकल्पिक-लत्वे त_यथ्यं स्पष्टमेव ।\nयेऽपि लक्ष्यानुरोधात् आनुमानिक्याऽप्यन्तरङ्गपरिभाषया प्रत्यक्षसिद्धस्य पूर्वत्रे'त्यस्य बाधं वदन्ति, तेऽपि लक्षणकचक्षुभिर्नादर्तव्या इति दिक्।\nअत एव <<ओमाङोश्च>> [[6.1.95]] इत्याङ्ग्रहणं चरितार्थम् । तद्धि 'खट्वा आ ऊढे'त्यत्र परमपि सवर्णदीर्घ बाधित्वा अन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ पररूपार्थम् । साधनबोधकप्रत्ययोत्पत्त्यनन्तरं पूर्व धातोरुपसर्गयोगे पश्चात् खट्वाशब्दस्य समुदायेन योगाद् गुणस्यान्तरङ्गत्वमिति <<सम्प्रसारणाच्च>> [[6.1.108]] इति सूत्रे भाष्ये स्पष्टम् । 'एही'त्यनुकरणस्य शिवादिशब्दसम्बन्धे तु नास्य प्रवृत्तिः । ज्ञापकपर <<सम्प्रसारणाच्च>> [[6.1.108]] इति सूत्रस्थभाष्यप्रामाण्येनानित्यं प्रकृतिवदनुकरणमित्यतिदेशमादाय लब्धाङ्त्वे एतदप्रवृत्तेः।\nयत्तु- पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन । उपसर्गेण तत्संज्ञकशब्देन, साधनेन कारकेण तत्प्रयुक्तकार्येण च । अत एव 'अनुभूयते' इत्यादी सकर्मकत्वात् कर्मणि लकारसिद्धिरिति । तन्न, क्रियायाः साध्यत्वेन बोधात्साध्यस्य च साधनाकाङ्क्षतथा तत्सम्बन्धोत्तरमेव निश्चितक्रियाबोधन साधनकार्यप्रवृत्त्युत्तरमेव क्रियायोगनिमित्तोपसर्गसंज्ञकस्य सम्बन्धौचित्यात् । अत एव <<सुट्कात् पूर्वः>> [[6.1.135]] इति सूत्रे 'पूर्व धातुरुपसर्गेणे'त्युक्त्वा नैतत् सारं 'पूर्व धातुः साधनेन युज्यते पश्चादुपर्गेणे'त्युक्त्वोक्तयुक्त्याऽस्यैव युक्तत्वमुक्तं 'साधनं हि क्रियां निवर्तयती'त्यादिना भाष्ये । उपसर्गद्योत्यार्थान्तविण धातुनवार्थाभिधानादुक्तेषु कर्मणि लकारादिसिद्धिः। पश्चाच्छोतृबोधाय द्योतकोपसर्गसम्बन्धः ।\nएवं च अन्तरङ्गतरार्थकोपसर्गनिमित्तः सुट संकृतीत्यवस्थायां द्वित्वावितः पूर्व प्रवर्तते ततो द्वित्वादि ।\nअत एव 'प्रणिदापयती'त्यादौ णत्वं 'यदागमाः' (प.11) इति न्यायेन समाहितं भाष्ये।\nअत एव प्रत्येति 'प्रत्ययः' इत्यादिसिद्धिः। अन्यथान्तरङ्गत्वात् सवर्णबीचे रूपासिद्धिः। यदुपसर्गनिमित्तकं कार्यमुपसर्गार्थाश्रितं विशिष्टोपसर्गनिमित्तकत्वात्तवन्तरङ्गम्। यत्तु न तथा तत्र पूर्वागतसाधननिमित्तकमेवान्तरङ्गम् । अत एव <<न धातु>> [[1.1.4]] इति सूत्रे 'प्रेद्ध' इत्यत्र गुणो बहिरङ्ग इति भाष्य उक्तम्।\nकिञ्च पूर्वमुपसर्गयोगे धातूपसर्गयोः समास ऐकस्वर्याद्यापत्तिरिति 'उपपदमतिङ [[2.2.19]] इति सूत्रे भाष्ये स्पष्टम् ।\nभावार्थप्रत्ययस्यापि पूर्वमेवोत्पत्तिः। अत एव <<णेरध्ययने>> [[7.2.26]] इति निर्देशः सङ्गच्छते। इदं च सामान्यापेक्षज्ञापकं, भावतिकोऽपि पूर्वमुत्पत्तेः । अन्यथा तत्र समासापत्तिः। तिङि त्वतिडिति निषेधान्न तत्र दोषो यदि भावतिङ्युपसर्गयोगोऽस्तीत्यलम् ।\nयत्तु विशेषापेक्षात्सामान्यापेक्षमन्तरङ्ग विशेषापेक्षे विशेषधर्मस्याधिकस्य निमित्तत्वात् । यथा <<रुदादिभ्यः सार्वधातुके>> [[7.2.66]] इत्यत्र वादित्वं सार्वधातुकत्वञ्च । तत्र सार्वधातुकत्वज्ञानाय प्रकृतेर्धातुत्वज्ञानं प्रत्ययस्य प्रत्ययत्वज्ञानं चाऽऽवश्यकमिति यासुडन्तरङ्गः। एतेन यद् 'अनुबातडितः, [[1.3.12]] इति सूत्रे कैयटेनोक्तं 'लमात्रापेक्षयाऽन्तरङ्गास्तिबादयो 'लकारविशेषापेक्षत्वाद्बहिरङ्गाः स्यादय' इति तत्परास्तम्; विशेषापेक्षत्वेऽपि तस्य सामान्यधर्मनिमित्तकत्वाभावेन तत्त्वस्य दुरुपपादस्वात, परनिमित्तकत्वेन स्यादीनां बहिरङ्गत्वाच्चेति। तन्न, विशेषस्य ध्याप्यत्वेन व्यापकस्यानुमानेनोपस्थितावपि तस्य निमित्तत्वे मानाभावेनाधिकधर्मनिमित्तकत्वानुपपादनात्, भाष्ये एवंविधान्तरङ्गबहिरङ्गभावस्य क्वाप्यनुल्लेखाच्च।\nयत्तु <<मतुप्>> [[5.2.94]] सूत्र भाष्ये पञ्च गावो यस्य सन्ति स पञ्चगुरित्यत्र मतुष्प्राप्तिमाशय प्रत्येकमसामर्थ्यात् समुदायादप्रातिपदिकत्वात् समासात् समासेनोक्तत्वादिति सिद्धान्तिनोक्ते 'नैतत्सारमुक्तेऽपि हि प्रत्ययार्थे उत्पद्यते द्विगोस्तद्धितो यथा-पाञ्चनापितिरिति पूर्वपक्ष्युक्तिर्भाष्ये । <<द्विगोर्लंगनपत्ये>> [[4.1.88]] इति लुग्विधानात्तद्धितार्थद्विगोस्तद्धितो भवति पश्चगुशब्दश्च द्विगुरिति तदाशयं कयटः । ततो 'द्वैमातुरः, पाञ्चनापितिः, पञ्चसु कपालेषु संस्कृत' इत्यादौ सावकाशद्विगोर्बहुव्रीहिणा प्रकृते परत्वाद्वाध इत्याशयेन नैष द्विगुः, कस्तहि ? बहुव्रीहिरिति सिद्धान्तिनोक्ते तमवकाशमजानानोऽपवादत्वाद् द्विगुः प्राप्नोतीति पूर्वपक्षी। अन्यपदार्थे, सुबन्तमात्रस्य विधीयमानबहुव्रीहेः संख्यायास्तद्धितार्थे विधीयमानो द्विगुविशेषविहितत्वाद् बाधकः प्राप्नोतीति कैयटः। ततः सिद्धान्त्येकदेश्याह, अन्तरङ्गत्वाद् बहुव्रीहिः। काऽन्तरङ्गता ? अन्यपदार्थे बहुव्रीहिविशिष्टेऽन्यपदार्थे द्विगुस्तस्मिँश्चास्य तद्धितेऽस्तिग्रहणं क्रियत' इति । अधिकास्त्यर्थापेक्षमत्वर्थनिमित्तो द्विगुर्बहिरङ्ग इति कैयट इति। नैषा सिद्धान्त्युक्तिरेतावताप्यपवादत्वाहानेः । अच्सामान्यापेक्ष-यणो विशिष्टसवर्णाजपेक्षदीर्घेण बाधदर्शनात् । उक्तरीत्या परत्वेनैव बाधसिद्धेः। किञ्च अत्राधिकापेक्षत्वेनैव बहिरङ्गत्वम् । न केवलविशेषापेक्षत्वेनेति नैतद्भाष्यारूढं विशेषापेक्षस्य बहिरङ्गत्वम् । अत एव सुबन्तसामान्यापेक्षो बहुव्रीहिस्तद्विशेषापेक्षो द्विगुरिति नोक्तं भाष्ये ।\nन चार्थकृतबहिरङ्गत्वस्यानाश्रयणादिदमयुक्तम्, एकदेश्युक्तित्वेनादोषात् । अत एवास्तिग्रहणं नोपाध्यर्थ, किन्तु अस्तिशब्दान्मतुबर्थमिति त्वदभिमतं बहिरङ्गत्वमपि द्विगोस्तिीति प्रतिपाद्य सिद्धान्तिना 'मत्वर्थे द्विगोः प्रतिषेधो वक्तव्यः' इति वचने तत्सिद्धमित्युक्तम् । अत एव <<तदोः सः सौ>> [[7.2.106]] इति सूत्रेऽनन्त्ययोरिति चरितार्थम् । अन्यथा प्रत्ययसामान्यापेक्षत्वेनान्तरङ्गत्वादन्त्यस्यात्वेऽनन्त्यस्यैव सत्वे सिद्धे तद्वैयर्थ्यं स्पष्टमेव ।\n<<पादः पत्>> [[6.4.130]] इति सूत्रे भाष्यकैटयोरप्येतदन्तरङ्गत्वाभाव एव सूचित इति सुधियो विभावयन्तु ।\nनन्वेवम् 'असुनुवदि'त्यत्र लघूपधगुणादुवडोऽल्पनिमित्तत्वाभावादुवङ् न स्यादिति चेत्, न। तत्रान्तःकार्यत्वरूपान्तरङ्गत्वसत्त्वात् । अन्त:कार्यत्वञ्च पूर्वोपस्थितनिमित्तकत्वमङ्गशब्दस्य निमित्तपरत्वात् ।\nइटमन्तरङ्गत्वं लोकन्यायसिद्धमिति मनुष्योऽयं प्रातरुत्थाय शरीरकार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम् । अर्थानामपि जातिव्यक्तिलिङ्गसंख्याकारकाणां बोधक्रमः शास्त्रकृत्कल्पितस्तत्क्रमेणव च तद. बोधकशब्दप्रादुर्भावः कल्पित इति तत्क्रमेणव तत्कार्याणीति 'पव्ये'त्यादाव. न्तरङ्गत्वात् पूर्व पूर्वयणादेशः परयणादेशस्य बहिरङ्गतया असिद्धत्वादित्यनेन <<अचः परस्मिन्>> [[1.1.57]] इति सूत्रे भाष्ये स्पष्टम् ।\nतदपि युगपत्प्राप्तौ पूर्वप्रवृत्तिनियामकमेव । यथा 'पद्व्ये त्यत्र पदस्य विभज्यान्वाख्याने न तु जातस्य बहिरङ्गस्य तादृशेऽन्तरङ्गऽसिद्धतानियामकं प्रागुक्तलोकन्यायेन तथैव लाभादिति <<वाह ऊठ्>> [[6.4.132]] सूत्रे कैयटे स्पष्टम् । अत एव 'वाय्वो रित्यादौ वलिलोपो यणः स्थानिवत्त्वेन वारितः 'अचः परस्मिन्' इत्यत्र भाष्यकृता। क्रमेणान्वाख्याने तु उक्तोदाहरणे पूर्वप्रवृत्तिकत्वमप्यन्तरङ्गत्वं बहिरङ्गस्यासिद्धत्वमपि निमित्ताभावादप्राप्तिरूपं बोध्यम् ।\nयत्तु एवंरीत्या पूर्वस्थानिकमप्यन्तरङ्गमिति । तच्चिन्त्यम्, 'स्रजिष्ठ' इत्यादौ विन्मतोलकि टिलोपस्यापवावविन्मतोलप्रवृत्त्या जातिपक्षाश्रयणेन वारणप्रयासस्य <<प्रकृत्येकाच्>> [[6.4.163]] इति सूत्रप्रयोजनवपनावसरे भाष्यकृत्कृतस्य नष्फल्यापत्तः। त्वयुक्तरीत्या विन्मतोलको बहिरङ्गासिकत्वेन अनायासतस्तद्वारणात । भाष्य ईदृशरीत्या बहिरङ्गासिद्धत्वस्य क्वाप्यनाश्रयणाच्च । परिभाषायामशब्दस्य निमित्तपरत्वाच्च ।\nइयं चोत्तरपदाधिकारस्थबहिरङ्गस्य नासिद्धत्वबोधिकेति च <<एकाचोऽम्>> [[6.3.68]] इति सूत्रे भाष्ये पूर्वपक्ष्युक्तिरिति सा नादर्तव्या। 'परन्तप' इत्यादावनुस्वारे नासिद्धत्वं मुमस्त्रिपाद्यां तवप्रवृत्तः।\nनव्यमतेऽपि यथोद्देशपक्षाश्रयणेनान्यथासिद्धोबाहरणदानेन तस्य तदुक्तित्वमावश्यकमित्याहुः । आभीयेऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समान्याश्रयस्य नानेनानि सिचिवृद्धर्येन नाप्रतिनानेनासिद्धत्वमसिद्धत्वादित्यसिद्धवत्सत्रे भाष्ये स्पष्टम् । एवं येन नाप्राप्तिन्यायेनान्तरङ्गबाधकत्वमूलकं न सिच्यन्तरङ्गमस्तीति <<इको गुणवृद्धी>> [[1.1.3]] इति सूत्रे भाष्ये स्पष्टम् ॥" }, { "num": "51", "prelude": "नन्वेवम् 'अक्षद्यूः' इत्यादौ बहिरङ्गस्योठोऽसिद्धत्वादन्तरङ्गो यण् न स्यात्, अत आह —", "paribhasha": "नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः", "text": "अत्र <<षत्वतुकोः>> [[6.1.86]] इति सूत्रस्थतुग्ग्रहणं ज्ञापकम् । अन्यथा 'अधीत्य' 'प्रत्ये'त्यादौ समासोत्तरंल्यपप्रवृत्या पूर्व समासे जाते तत्र संहिताया नित्यत्वादल्यबुत्पत्तिपर्यन्तमप्यसंहितयाऽवस्थानासम्भवेनैकादेशे ल्यपि तुगपेक्षया पदद्वयसम्बन्धिवर्णद्वयापेक्षकादेशस्य बहिरङ्गतयाऽसिद्धत्वेन तद्वैयथ्यं स्पष्टमेव । पदद्वयसम्बन्धिवर्णद्वयापेक्षं बहिरङ्गमिति 'प्रेद्ध' इत्यादौ गुणो बहिरङ्ग इति ग्रन्थेन <<न धातुलोपः>> [[1.1.4]] इति सूत्रे <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रे च भाष्ये स्पष्टम् ।\nयत्तु षत्वग्रहणमपि ज्ञापकम्, अन्यथा 'कोसिदित्यादौ पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन बहिरङ्गस्यैकादेशस्यासिद्धत्वेन षत्वाप्रवत्तौ कि तेनेति । तन्त्र, इणः पूर्वपदसम्बन्धित्वेन षत्वस्यापि पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन उभयोः समत्वात् । एकादेशस्य परादित्त्वेनौसिदित्यस्य पदत्वेन सस्य पदादित्वाभावान्न <<सात्पदाद्योः>> [[8.3.111]] इत्यनेन निषेधः। पादिकेऽन्तरङ्गे कार्यकालपक्षेऽपि बहिरङ्गपरिभाषाया अप्रवत्तः पूर्वमुपपादितत्वाच्च ।\nपरिभाषार्थस्तु -- अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्व प्रक्लृप्तिः। बहिष्पदेन बहिरङ्गम्, तस्य भावो बहिरङ्गत्वम्। तत्प्रयुक्तासिद्धत्वस्य न प्रक्लृप्तिः, न प्राप्तिरिति। 'असिद्धं बहिरङ्गम्' इत्युक्त्वा 'नाजानन्तर्य इति वक्ष्यामि' इति भाष्याक्त्या तत्रत्यस्य अन्तरङ्ग इत्यस्यानुवृत्तिसूचनात्। तेन 'पचावेदम्' इत्यादौ न दोषः। अन्तरङ्गस्याच्स्थानिक कार्यस्यैत्वस्य अन्यनन्तर्य निमित्तकत्वाभावात्।\nजातस्य बहिरङ्गस्येत्युक्त्या 'अयजे इन्द्रं धियती'त्यादौ बहिरङ्गदीर्घगुणा देरसिद्धत्वं सिद्धम् । अत एव 'इडिशीनामाद्गुणः सवर्णदीर्घत्वाच्छचङन्त स्यान्तरङ्गलक्षणत्वादि'त्यादि सङ्गच्छते। अत एव <<ओमाङोश्च>> [[6.1.95]] इत्याङ्ग्रहणं चरितार्थम् । तद्धि 'शिव आ इही ति स्थिते पर मपि सवर्णदीर्घ बाधित्वा धातूपसर्गकार्यत्वेनान्तरङ्गत्वाद् गुणे वृद्धिबाध नार्थम् ।\nन च 'अक्षयूरि'त्यत्र यणि कृते ऊठोऽसिद्धत्वाद्वलि लोपापत्तिरिति वाच्यम्, अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्ग कर्तव्ये कृते च तस्मिन् यदन्तरङ्गं प्राप्नोति तत्र च कर्तव्ये नासिद्धत्वमिति तदर्थात् । असिद्धपरिभाषाया अनित्यत्वेन तद्वारणे त्वस्या वैयर्थ्यम्, तेनैव सिद्धः।\nअत एव <<नलोपः सुप्>> [[8.2.2]] इति सूत्रे कृति तुग्ग्रहणं चरितार्थम् । अन्यथा 'वृत्रहभ्यामि'त्यादौ बहिर्भूतभ्यानिमित्तकपदत्वाश्रयत्वेन बहिरङ्ग तया नलोपस्यासिद्धत्वेन सिद्धस्तद्वयर्थ्य स्पष्टमेव । मम तु तुक्यजानन्तर्य सत्त्वान्न दोषः।\nन चैवं सति <<हस्वस्य पिति>> [[6.1.71]] इति सूत्रस्थभाष्यविरोधः। तत्र हि 'ग्रामणिपुत्र' इत्यत्र <<इको ह्रस्वोऽड्य>> [[6.3.61]] इति ह्रस्वे कृते तुकमाशङ्कच ह्रस्वस्य बहिरङ्गासिद्धत्वेन समाहितम् । 'नाजानन्तर्ये' इत्यस्य सत्त्वे तत्र तदप्राप्तेरसङ्गतिः स्पष्टवेति वाच्यम् । तेन भाष्येणास्या अनावश्यकत्वबोधनात्। एतज्ज्ञापकेनान्तरङ्गपरिभाषाया अनित्यत्व बोधनस्यैव न्याय्यत्वात् ।\nअत एव <<अचः परिस्मिन्>> [[1.1.57]] इति सूत्रे भाष्ये 'पटु ई आ' इत्यत्र परयणादेशस्यानयासिद्धत्वात्पर्वयणादेशः साधितः। अत एवैषा परिभाषा भाष्ये पुनः क्वापि नोल्लिखिता। अत एवान्तरङ्गपरिभाषामुप क्रम्य विप्रतिषेधसत्रेऽस्या बहूनि प्रयोजनानि सन्ति तदर्थभेषा परिभाषा कर्तव्या प्रतिविधेयं च दोषेध्वित्युक्तं <<सम्प्रसारणाच्च>> [[6.1.108]] इति सूत्रे भाष्ये । प्रतिविधानञ्च परिभाषाविषयेऽनित्यत्वाश्रयणमेवेति ध्वनितमिदम् ॥" }, { "num": "52", "prelude": "नन्वेवम् 'गोमत्प्रियः' इत्यादौ पदद्वयनिमित्तकसमाश्रितत्वेन बहिरङ्गं लुकं बाधित्वाऽन्तरङ्गत्वाद्धल्ङ्यादिलोपे नुमादयः स्युः, अत आह —", "paribhasha": "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते", "text": "अत्र च <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति सूत्रं ज्ञापकम् । त्वत्कृतमित्यादौ लुगपेक्षयान्तरङ्गत्वाद्विभक्तिनिमित्तकेन <<त्वमावेकवचने>> [[7.2.97]] इत्यनेन सिद्धे इदं व्यर्थ सत्तज्ज्ञापकम्।\nननु 'तव पुत्रस्त्वत्पुत्रः' इत्यादौ तवममादिबाधनाथं तदावश्यकमिति चेत्, एवं तर्हि अत्रत्यमपर्यन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति भाष्यकृतः। \nयुष्मदादिभ्य आचारक्विप् तु न, सम्पूर्णसूत्रस्य ज्ञापकतापरभाष्य प्रामाण्यात; <<हस्वनद्यापः>> [[7.1.54]] इति नुविधायकसूत्रस्थभाष्य प्रामाण्येन हलन्तेभ्य आचारक्विबभावाच्च । एवमेवैकार्थकाभ्यां प्रातिपदि काभ्यां प्रातिपदिकणिचोप्यनभिधानं बोध्यम् । एतेन तत्रादेशार्थं प्रत्ययग्रहणं चरितार्थमित्यपास्तम् । \nननु मपर्यन्तानुवृत्तिरपि सर्वादेशत्ववारणाय चरितार्था । न च 'उत्सर्ग समानदेशा अपवादाः' इति न्यायेनासिद्धवत्सूत्रस्थभाष्यसम्मतेन मपर्यन्तस्यै वादेशे सिद्ध तदनुवृत्तिर्व्यर्थेति वाच्यम्, तस्य श्नमकजादौ व्यभिचारादिति चेत्, न । श्नमि मित्त्वेन बहुचि पुरस्ताद्ग्रहणेनाकचि प्राक्टेग्रहणेन तस्य बाधेऽप्यत्रोत्सर्गस्य त्यागे मानाभावात् । . \nअत एव <<तस्मिन्नणि च>> [[4.3.2]] इत्यनेन युष्माकाद्यादेशविधानं चरितार्थम् । अन्यथा आकाङादेशमेव विदध्यात् । आकङि तवकाद्यादेशयोरेतदपवादयोरुक्तन्यायेनान्त्यादेशत्वांपत्तिः, अतस्तद्विधानम्, इदमेव च तज्ज्ञापकम् । \nयद्यपि विरोधे बाधकत्वमिति वातिकमतेऽयं न्यायो भाष्यकारस्तु विनापि विरोधं सत्यपि सम्भवे बाधकत्वमिच्छतीत्यनभिहितसूत्रस्थकेयट रीत्या नायं नियमः, तथापि युष्माकाद्यादेशविधानज्ञापित उत्सर्गः स्वीक्रियत.. एवेति प्रकृते न दोषः। एतद्भाष्यमपि तत्स्वीकारे मानम् । एवं च मपर्यन्तानुवृत्तिः त्वत्कृतमि'त्यादौ मपर्यन्तस्यादेशविधानार्था । तत्र चान्तरङ्गत्वात् <<त्वमौ>> [[7.2.97]] इत्येव सिद्ध व्यर्था सैतज्ज्ञा पिका। ज्ञापिते त्वस्मिन्नेतद्विषये तवादीनामप्राप्त्या तदपवादत्वाभावेन मपर्यन्तस्यैवादेशार्थ सा चरितार्थेति तदाशयः। \nयत्तु हरदत्तेनान्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भवेन तदनु वृत्तियर्था सती ज्ञापिकेत्युक्तं तन्न। अन्तरङ्गाणामप्यवादबाध्यत्वेन तद्विषये तदप्रवृत्तेः। \nवस्तुतस्तु इदं ज्ञापकं वार्तिकरीत्यैव, भाष्यरीत्या तु वाचनिक एवायमर्थ इत्याहुः। \nइयं <<सुपोधातु>> [[2.4.71]] इति लुग्विषयैवेति केचित् । <<एङ्ह्रस्वात्सम्बुद्धेः>> [[6.1.69]] <<न यासयोः>> [[7.3.45]] इति सूत्रस्थाकरप्रामा ण्येन लुग्मात्रविषया। आये 'हे त्रपु' इत्यादावनेन न्यायेन लोपं बाधित्वा लुग्भवतीति भाष्ये उक्तम् । अन्त्येऽन्तरङ्गांश्च विधीन् सर्वोऽपि लुग्बाधते न तु सुब्लुगेव । अत एव 'सनीस्रंस' इत्यादौ नलोपो न भवति । पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व इत्यादावेकादेशात् प्रागेव टापो लुक् । अन्यथा कृतकादेशस्य लुक्यकारश्रवणं न स्यादिति कयटे उक्तम् । एतद्विरोधाद्यत् <<तद्राजस्य>> [[2.4.62]] इति सूत्रे कैयटेनोक्तम् 'अङ्गानतिक्रान्तोऽत्यङ्ग' इत्यत्र सुपो लुकि बहुवचनपरत्वाभावात् 'तद्राजस्य' इति लुग् न स्यादिति शङ्कापरभाष्यव्याख्यावसरेऽन्तरङ्गानपीति न्यायेनायं लुक् सुब्लुको बाधकः स्यादित्याशङ्कय सुब्लुक एवानेन बलवत्त्वं बोध्यत इति तत्प्रौढयेति द्रष्ट व्यम् । लुगपेक्षया लुको बलवत्त्वस्य वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं वक्तं युक्तम्। अनेन न्यायेनान्तरङ्गनिमित्तविनाशकलुकस्तत्प्रयोजक समासादीनां च प्राबल्यं बोध्यत इत्यन्यत्र विस्तरः ॥" }, { "num": "53", "prelude": "नन्वेवं सौमेन्द्रऽन्तरङ्गत्वाद् आदगुणे पूर्वपदात् परेन्द्रशब्दाभावेन <<नेन्द्रस्य परस्य>> [[7.3.22]] इति वृद्धिनिषेधो व्यर्थः, अन्तादिवद्धा. वस्तूभयत आश्रयणे निषिद्धः। किश्च वद्धिरप्यत्र न प्राप्नोत्यन्तादिवत्त्वोभयाभावेऽपि पूर्वान्तवत्त्वेनैकादेशविशिष्टे पूर्वपदत्वेन 'इन्द्र'शब्दस्यैकदेशविकृतन्यायेन 'उभयत आश्रयणे नान्तादिवदि'त्यस्याभावेन तदाश्रयणेन वोत्तरपदत्वेऽपि तस्यानच्कत्वादेकस्यकादेशेन परस्य नित्येन <<यस्येति>> [[6.4.148]] लोपेनापहारात्।\nन च परादिवभावेनकादेशविशिष्टस्योत्तरपदत्वमेकास्त्विति तत्सम्भव इति वाच्यम्, उत्तरपदाद्यच्स्थानिकत्वाद् वृद्धस्तदभावेनाप्राप्तेस्ताद्रूप्यानतिदेशात् । अन्यथा 'खट्वाभिरि'त्यादावपि पूर्वान्तवत्त्वेनादन्तत्वे भिस ऐसापत्तिरिति भाष्ये स्पष्टम् । अत एव 'पूर्वेषुकामशम' इत्यादावन्तरङ्गत्वादाद् गुणे वृद्धिर्न स्यादित्याशङ्कितम् । तदेकदेशमात्रस्य विकाराभावाच्च ।\nतदुक्तं भाष्ये- 'इन्द्रे द्वावचावेको यस्येति लोपेनापहृतोऽपर एकादेशेन ततोऽनचक इन्द्रशब्दः सम्पन्नस्तत्र कः प्रसङ्गो वधेरि'ति । मरुदाभिरिन्द्रस्य द्वन्द्वे इन्द्रस्यैव पूर्वनिपातोऽत आह —", "paribhasha": "पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गेऽप्येकादेशो न", "text": "अत्र च <<नेन्द्रस्य>> [[7.3.22]] इति निषेध इव ज्ञापक इति <<अन्तादिवच्च>> [[6.1.85]], <<विप्रतिषेधे परम्>> [[1.4.2]] इति सूत्रयोर्मध्ये स्पष्टम् ॥" }, { "num": "54", "prelude": "नन्वेवमपि 'प्रधाय, प्रस्थाय' इत्यादावन्तरङ्गत्वाद्वित्वादिषु कृतेषु ल्यप् स्यादत आह —", "paribhasha": "अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते", "text": "अदो जग्धिः' [[2.4.36]] इति सूत्रे कितीत्येव सिद्धे ल्यब्ग्रहणमस्या ज्ञापकमिति 'अदो जग्धिः' इत्यत्र भाष्ये स्पष्टम् ॥" }, { "num": "55", "prelude": "नन्वेवमपीयायेत्यादौ द्वित्वे कृतेऽन्तरङ्गत्वात् सवर्णदीर्घत्वेन तदसिद्धिरत आह —", "paribhasha": "वार्णादाङ्गं बलीयो भवति", "text": "तेनान्तरङ्गमपि सवर्णदीर्घं बाधित्वा वृद्धिरिति तत्सिद्धिः ।\n<<अभ्यासस्यासवर्णे>> [[6.4.78]] इतीयङ्विधायकसूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम् । तद्धि 'ईषतुः' इत्यादावियङादिव्यावृत्यर्थम्। एतत्परिभाषाभावे तु 'ईषतुः' इत्यादावन्तरङ्गेण सवर्णदीर्घेण बाधात्तद्व्यर्थम्। इयङुवङौ ह्यभ्याससम्बन्धनिमित्तकत्वाद् बहिरङ्गौ। न चेयङादिरपवादः, 'येननाप्राप्ति' न्यायेन 'इयति' इत्यादिसकललक्ष्य प्राप्त यणपवादत्वस्यैव निर्णयादिति प्राञ्चः।\nपरे तु एतत्परिभाषाभावे 'अभ्यासस्य' इति सूत्रमेव व्यर्थम् । न 'इयाय' 'इयेषे'त्यादौ चरितार्थम्, तयोरपि पूर्वप्रवृत्तगुणस्य पूर्वप्रवृत्तवद्धश्च <<द्विर्वचनेऽचि>> [[1.1.59]] इति रूपातिदेशेनापहारे द्वित्वे कृते पुनः प्राप्ते गुण वृद्धीबाधित्वाऽन्तरङ्गत्वात्सवर्णदीर्घापत्तेः । न च 'इयती<<त्यादौ तच्चरित तार्थम्, तावन्मात्रप्रयोजनकत्वे उरित्येव ब्रूयात् । य्वोरित्यनुर्वत्तते। यण>> [[6.4.81]] इति साहचर्याद व्याख्यानाच्च ऋधातोरेव ग्रहणम् । अर्तेरिवर्णस्येयडित्यर्थः। अभ्यासस्यार्ताविति अभ्यासस्यातरिति वा गुरुत्वान्न युक्तम्।\nन च 'ऐ ओ औ' शब्देभ्य आचारक्विबन्तेभ्यो लिटीयङाद्यथं तत्सूत्रमावश्यकं तथा ओणधातोर्ण्वुलन्तादिच्छाक्यजन्तात्सनि 'उवोणकीयिषती'त्याद्यर्थमावश्यकमिति वाच्यम्, षाष्ठप्रथमाह्निकान्तस्थभाष्यप्रामाण्येन तेषामभिधानात् । अन्त्ये द्वितीयद्विर्वचनस्यैव सत्त्वेन त्वदुक्तप्रयोगस्यैव दुर्लभत्वात् । एवञ्च सम्पूर्णसूत्रस्य ज्ञापकता युक्ता।\nयद्यपि भाष्ये 'यवयमभ्यासस्यासवर्ण इत्यसवर्णग्रहणं करोति' इति अन्नासवर्णग्रहणस्यैव ज्ञापकता लभ्यते, तथापि 'न ह्यन्तरेण गुणवृद्धी असवर्णपराभ्यासो भवति' इति तदूपपादनग्रन्थेन सम्पूर्णसूत्रस्यैव ज्ञापक लभ्यते। अग्रेऽपि तदस्ति ज्ञापकमर्त्यर्थमेतत्स्यादित्यनेन सूत्रसार्थक्योर दशितम् । असवर्णग्रहणस्यैव ज्ञापकत्वे तु तद्वचावर्त्य प्रदर्शनेन तत्सार्थक्यो दर्शितं स्यात् ।\nन च 'अकृतव्यूह'परिभाषया 'इयेषे'त्यादौ सवर्णदीर्घाप्राप्तिर्यदि दीर्घो न स्यात्तर्हि गुणः स्यादिति सम्भावनायाः सत्त्वेन परिभाषाप्रवृत्तेः सूपपादत्वादिति कथं सम्पूर्णसूत्रस्य ज्ञापकतेति वाच्यम्, तस्या असत्त्वात् । सत्त्वे वैतद्भाष्यप्रामाण्येन यत्रान्तरङ्गकार्यप्रवृत्तियोग्यकालोत्तरमेव तन्निमित्तविनाशकबहिरङ्गविधेःप्राप्तिस्तत्रैव तत्परिभाषाप्रवृत्तिस्वीकाराच्च ।\nन चान्तरङ्गत्वाद्दीर्धेऽपि 'इयाये'त्यादौ पूर्वान्तवत्त्वेनाभ्यासत्वादिवर्णवाच्च णल्यसवर्ण इयङ्विधानेन सूत्रं चरितार्थम् । न च <<अचि श्नु>> [[6.4.77]] इत्यनेन सिद्धिः, वृद्धिबाधनार्थत्वादिति वाच्यम्, प्रत्यासत्त्याऽसवर्णपदेनाभ्यासोत्तरखण्डसम्बन्ध्यसवर्णाच एव ग्रहणाच्छास्त्रबाधकल्पनापेक्षया परिभाषाज्ञापकत्वस्यैवौचित्याच्चेत्याहुः।\nसा चेयं धर्मिग्राहकमानादावार्णयोः समानकायित्व एव ।\nयत्तुसमाननिमित्तकत्वरूपसमानाश्रयत्व एवैषेति । तन्न, ज्ञापितेऽपि 'इयायेयेषे'त्याद्यसिद्धः, सूत्रवैयर्थ्यस्य तदवस्थत्वाच्च । 'स्योन' इत्यत्र त वक्ष्यमाणरीत्याऽस्या अनित्यत्वादप्रवृत्तौ गुणादन्तरङ्गत्वाद्यणादेशः।\nन चैवमपि 'इयाये'त्यादावियङ् दुर्लभः, तत्र कर्तव्ये वृद्ध्यादेः स्थानिवत्त्वेन असवर्ण इति प्रतिषेधादिति वाच्यम्, सूत्रारम्भसामर्थ्यादेव स्थानिवत्त्वाप्रवृत्तेः। तच्च सामान्यापेक्षमभ्यासकायें तदुत्तरखण्डादेशस्य तत्कार्यप्रतिबन्धकीभूतस्थानिवत्त्वं नेति । अत एव 'आरती'त्यादौ यणादेशस्य स्थानिवत्त्वादभ्यासस्य 'ढ्रलोप' इति दीर्घो दुर्लभ इत्यपास्तम् । दीर्घविधौ तनिषेधाच्च । अरियियादित्यत्र तु स्थानिवत्वेनेयङ् भवत्येव, तस्य स्थानिवत्त्वस्याभ्यासकार्यप्रतिबन्धकत्वाभावात् ।\nइयं चाङ्गसम्बन्धिन्याङ्ग एवेति <<स्वरितो वा>> [[8.2.6]] इति सूत्रे भाष्ये । तत्र हि-कुमार्यै इत्यादौ यणुत्तरमाडुक्तः । इयं चानित्या <<च्छ्वोः >> [[1.4.19]] इति सतुङ्निर्देशात् । अन्यथा अन्तरङ्गत्वात् पूर्वं तुकः शादेशे तुकोऽप्राप्त्या तद्वैयर्थ्यं स्पष्टमेवेत्यन्यत्र विस्तरः॥" }, { "num": "56", "prelude": "नन्वेवम् 'सेदुषः' इत्यादौ क्वसोन्तरङ्गत्वादिटि, ततः सम्प्रसारणेऽपीटः श्रवणापत्तिरिति चेत्, अत्र केचित् —", "paribhasha": "अकृतव्यूहाः पाणिनीयाः", "text": "न कृतो विशिष्ट ऊहः = निश्चयः, शास्त्रप्रवृत्तिविषयो यैरित्यर्थः। भाविनिमित्तविनाश इत्यध्याहारः। बहिरङ्गेणान्तरङ्गस्य निमित्तविनाशे पश्चात् सम्भावितेऽन्तरङ्गं नेति यावत्। अत्र च ज्ञापकं <<समर्थानां प्रथमात्>> [[4.1.82]] इति सूत्रे समर्थानामिति । तद्धि सूत्थितादिभ्यः कृतदीर्घेभ्यः प्रत्ययोत्पत्त्यर्थम् । अन्यथाऽन्तरङ्गत्वाद् दीर्घे कृत एव प्रत्ययप्राप्त्या तद्व्यर्थता स्पष्ट एव। तत्र हि भाविन्यादिवृद्ध्या सवर्णाच्त्वविनाशः स्पष्ट एव ।\nन चात्रैकादेशप्रवृत्ति समये वृद्ध्यप्राप्त्यैकादेशे कृत आदेशे वृद्धेः प्राप्तावपि तन्निमित्तविनाशाभाव इति वाच्यम् । तद्द्वारैव तन्निमित्तविनाशसत्वेनाक्षतेः। न च 'सौत्थितौ' बहिरङ्गतया वृद्धेरसिद्धत्वान्न तन्निमित्तविनाश इति वाच्यम् । समर्थग्रहणेनैतद्विषये तस्या अप्रवृत्तेरपि ज्ञापनात्।\nयत्तु समर्थग्रहणेनान्तरङ्गपरिभाषाया अनित्यत्वमेव ज्ञाप्यत इति । तन्न, असिद्धपरिभाषया समकालप्राप्तबहिरङ्गस्य पूर्व जातबहिरङ्गस्य चान्तरङ्गे कर्तव्येऽसिद्धत्वं बोध्यते न तु जातेऽन्तरङ्गे तस्य तत्त्वं बोध्यते, मानाभावात् फलाभावाच्च । एवञ्च सूत्थितादावेकादेशस्य परिभाषासाध्यत्वाभावेन तदनित्यत्वज्ञापनासम्भवात् ।\n'अन्तरङ्गानपि विधीन' इत्यादेरप्यस्यामेवान्तर्भावः। एतत्प्रवृत्तीच निमित्तविनाशसम्भावनापि निमित्तम् । अत एव 'गोमद्दण्डी'त्यादौ हलङवादिलोपो न । अन्यथा हलङयादिलोपकाले सामासिकलुको प्राप्त्या तदुत्तरं चापहार्याभावादप्राप्त्या लोपस्यैवापत्तेः। अस्ति चात्रापि यदि लोपो न स्यातहि लुक स्यादिति सम्भावना। <<अल्लोपोऽनः>> [[6.4.134]] इति सूत्रस्थतपरकरणन्तु परिभाषाऽनित्यत्वज्ञापनेन चरितार्थम् । तद्धि 'आ न' इत्यादौ लोपवारणाय । अन्यथा दीर्घाभावे लोपसम्भावनयैतत्परिभाषाबलाद्दीर्घाप्राप्तौ तद्वैयर्थ्यं स्पष्टमेवेत्याहुः।\n'समर्थानाम्' इति सूत्रे कैयटस्तु समर्थवचनेनेयं परिभाषा ज्ञाप्यते 'अकृतव्यूहाः पाणिनीयाः' इति । तेन 'पपुष' इत्यादावन्तरङ्गत्वात्पूर्व कृतोऽपीडागमो निवर्तत इति वदन 'न कृतो व्यहो विशिष्टस्तर्को निमित्तकारणविनाशेऽपि कार्यस्थितिरूपो यैरि'त्यर्थमभिप्रेति । 'निमित्तापाये नैमित्तिकस्याप्यपायः' इति यावत् । सूत्थितादिनि वृद्धौ दीर्घनिवृत्ती सावुत्थितिर्मा भूदिति समर्थानामिति ।\nलोकन्यायसिद्धश्चायमर्थः। तथा हि लोके निमित्तं द्विविधं दृष्टङ्कार्यस्थिती नियामकं तदनियामकञ्च । आद्यं यथा न्यायनयेऽपेक्षाबुद्धिः, तन्नाशे द्वित्वनाशाभ्युपगमात् । वेदान्तिनये प्रारब्धस्य विक्षेपस्थितिनियामकत्वं च प्रसिद्धमेव । द्वितीयं यथा-दण्डादि, तन्नाशेऽपि घटनाशादर्शनात् । शास्त्रे लक्ष्यानुरोधाद् व्यवस्था।\nभाविनिमित्तविनाशे पूर्वमनुत्पत्तौ तु न कश्चिन्यायो नापि सम्प्रतिपन्नो दृष्टान्तः। समर्थानामित्यस्यापि लोकसिद्धार्थज्ञापनेन चारितार्थ्यसम्म लोकासिद्धापूर्वतावशार्थज्ञापकत्वे मानाभाव इति तदाशय इति बोध्यम्।\nपरे तु 'सेदुष' इत्यादौ पदावधिकेऽन्वाख्याने 'सेद् वस् अस्' इति स्थिते इटसम्प्रसारणयोः प्राप्तौ प्रतिपदविधित्वातपूर्व सम्प्रसारणे वलादित्वाभावादिटः प्राप्तिरेव नेति तत्सिद्धिरिति 'समर्थानाम्' इति सत्र कैयटे 'असिद्धवत्' सत्रे कैयटे च स्पष्टमेतत् । यद्यपि प्रतिपदविधित्वमनवकाशत्वे सत्येव बाधकत्वे बीजम्, तथापि पूर्वप्रवतौ सावकाशत्वेऽपि नियामकं भवत्येवेति तदाशयः। निरूपितं चैतद्बहुशः शब्देन्दुशेखरादौ।\n'समर्थानाम्' इति सत्रस्थसमर्थग्रहणन्तु 'विषुण' इत्यादावकृतसन्धेः प्रत्ययदर्शनेन सर्वत्र तथा भ्रमवारणाय न्यायसिद्धार्थानुवाद एव । ध्वनितं चेदं 'विप्रतिषेध'सूत्रे भाष्ये। तत्र हि 'वैक्षमाणिरित्यन्तरङ्गपरिभाषोदाहरणमुक्तम् । किञ्च विभज्यान्वाख्याने 'सु उत्थित अस् इ' इति स्थिते 'वादाङ्ग बलीय' इति प्राप्तवृद्धिवारणाय समर्थग्रहणमित्यत्रव कैयटे स्पष्टम्।\nअत एव असिद्धवत्सत्रे वसुसम्प्रसारणमज्विधौ सिद्ध वक्तव्यं 'पपुष' इत्यादौ वसोः सम्प्रसारणे कृते आतो लोपो यथा स्यात् इति भाष्ये उक्तम् । पदस्य विभज्यान्वाख्याने पूर्वोक्तकैयटरीत्या पूर्व सम्प्रसारणे इटोप्राप्तावुसनिमित्तक एवाऽऽतो लोप इति तदाशयः। अन्यथाऽन्तरङ्गत्वादिटि तन्निमित्तक एवाऽऽतो लोप इति तदसङ्गतिः।\nअत एव 'चौ प्रत्यङ्गस्य प्रतिषेध' इति वचनं वात्तिककृतारब्धं भाष्यकृता चन प्रत्याख्यातम् । प्रत्यङ्गमन्तरङ्गम् । अस्यां परिभाषायां सत्यां तु तवययं स्पष्ट मेव।\nअत एव <<च्छ्वोः >> [[6.4.19]] इति सत्रे 'अवश्यमत्र तुगभावार्थो यत्नः कार्योऽन्तरङ्गत्वाद्धि तुक प्राप्नोती ति भाष्ये उक्तम् । एतत्सत्त्वे तु तुकोऽप्राप्त्या यत्नावश्यकत्वकथनमसङ्गतमिति स्पष्ट मेव । न चैतदनित्यत्वज्ञापनार्थमेव तदिति तदाशयः, अवश्यमत्रत्यक्षरस्वारस्यभङ्गापत्तेः।\nकिचानयव 'प्रत्ययोत्तरपदयोश्च' 'अदो जग्धिर्ल्यप्तिकिती'त्यनयोवारितायेंन तज्ज्ञापकवशाल्लुकल्यपोरन्तरङ्गबाधकता भाष्योक्ता भज्येत।\nकिञ्चैषा भाष्ये न दृश्यते । तदुक्तम् 'असिद्धवत्' सूत्रे कैयटेन 'निमित्तापाये नैमित्तिकस्याप्यपाय इति परिभाषाया भाष्यकृताऽनाश्रयणादिति ।\nपदसंस्कारपक्षे 'हरिरि'त्यादौ विसर्गे कृते ततो गच्छतीत्यादिसम्बन्धे 'हरिः गच्छती'त्याद्येव साधु । तद्विषये पदसंस्कारपक्षानाश्रयणं वेति दिक् ॥" }, { "num": "57", "prelude": "", "paribhasha": "अन्तरङ्गादप्यवादो बलवान्", "text": "" }, { "num": "58", "prelude": "तत्रापवादपदार्थमाह —", "paribhasha": "येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति", "text": "प्राप्त इति भावे क्तः। येन नाप्राप्त इत्यस्य यत्कत कावश्यप्राप्तावित्यर्थः, नद्वयस्य प्रकृतार्थदायबोधकत्वात् । एवञ्च विशेषशास्त्रोद्देश्यविशेषधर्मावच्छिन्नवृत्तिसामान्यधर्मावच्छिन्नोद्देश्यकशास्त्रस्य विशेषशास्त्रेण बाधः।\nतदप्राप्तियोगेऽचारितार्थ्यं ह्येतस्य बाधकत्वे बीजम् ।\nअत एव <<आयादयः>> [[3.1.31]] इति सूत्रे गोपायिष्यतीत्यादावा दीन् बाधित्वा परत्वात् स्यादयः प्राप्नुवन्तीत्याशङ्कच अनवकाशा आ दयः। 'गोपायतीत्यादावपि शपस्यादिः प्राप्नोति । न च सति शप्यसति न विशेषः, अन्यदिदानीमिदमुच्यते नास्ति विशेष इति । यदुक्तमायादी स्यादिभिरव्याप्तोऽवकाश इति स नास्त्यवकाश इति भाष्ये उक्तम। - मत्र तत्प्रवत्त्युत्तरं चारितार्थेऽपि तदव्याप्तोऽवकाशो नास्तीति सममेव ।\nकिञ्चानेन न्यायेन तत्प्रवृत्त्युत्तरमपि. चारितार्थ्यऽपि तद्बाधबोधनम् । अन्यथानवकाशत्वेनैव बाधे सिद्धे एतत्कथनवयापत्तस्तक्रकौण्डिन्यन्यायप्रदर्शनस्यापि वैयर्थ्यापत्तश्च । यथा प्रथमद्विवचनस्य तदुत्तरं सावकाशेनापि द्वितीयद्विर्वचनेन बाधः । यथा वा आदेरपि प्रवृत्त्या चरितार्थेन <<आदेः परस्य>> [[1.1.54]] इत्यनेन <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यस्य बाधः। तदुक्तं <<मिदचोऽन्त्यात्>> [[1.1.47]] इति सूत्रे भाष्ये 'सत्यपि सम्भवे बाधनं भवतीति । अन्यथा 'ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डिन्याये'त्यत्र तक्रदानेन दधिदानस्य बाधो न स्यात् । तद्दानोत्तरं तत्पूर्व वा तद्दानस्य चारितार्थ्यसम्भवात् । अत एव विषयभेदेऽप्यपवादत्वम् । अत एवाचिरादेशेन नुटोऽप्यपवादत्वाद्बाधमाशङ्क्य <<न तिसृ>> [[6.4.4]] इति ज्ञापन समाहितं तृज्वत्सूत्रे भाष्ये। तेन विषयभेदेऽपवादत्वाभाव एव बोध्यत इति कश्चित्, तन्न। विन्मतोर्लुका टिलोपमात्रस्य बाधानापत्तेः।\nयत्तु <<दयतेर्दिगि>> [[7.4.9]] इति सूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारितार्थ्यं कैयटेनोक्तं तत् प्रौढ्या। ध्वनितं च तेनापि तस्य तथात्वं तदुत्तरग्रन्थेन।\n'असम्भव एव बाधकत्वं विरोधस्य तद्बीजत्वात्' इति वार्तिकमतं तु भाष्यकृता दूषितत्वान्न लक्ष्यसिद्ध्युपयोगि।\nतक्रकौण्डिन्यन्यायोऽपि तदप्राप्तियोग्येऽचरितार्थविषयो विधेयविषय एव चेति <<तद्धितेष्वचामादेः>> [[7.2.117]], <<धातोरेकाच>> [[3.1.22]] इत्यादिसूत्रेषु भाष्ये स्पष्टम्।\nक्वचित्तु सर्वथानवकाशत्वादेव बाधकत्वम्, यथा- ङेरामो याडादिबाधकत्वम् । न हि याडादिषु कृतेषु ङेराम् प्राप्नोति, निर्दिश्यमानस्य व्यवधानात्। तत्र स्वस्य पूर्वं प्रवृत्तिरित्येव तेषां बाधः। तत्र बाधके प्रवृत्ते यद्युत्सर्गप्राप्तिर्भवति तदा भवत्येव । यथा तत्रैव याडादयः। अप्राप्तौ तु न। यथा पचेयुरित्यादौ दीर्घबाधके निरवकाश इयादेशे दीर्घाभावः ॥" }, { "num": "59", "prelude": "तदेतत् पठ्यते —", "paribhasha": "क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति", "text": "अपवादशब्दोऽत्र बाधकपरः । तदुक्तं <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यत्र भाष्ये अभ्यासविकारेष्वपवादा उत्सर्गान्न बाधन्ते। अजीगणत् । अत्र गणेरीत्वमपवादत्वाद् हलादिः शेषं बाधते । न गणेरीत्वमपवादत्वाद् हलादिः शेषं बाधते । किं तर्हि ? अनवकाशत्वादिति ग्रन्थेन ।\nगणरूपाभ्यासान्त्यणस्येत्वमित्यर्थे हलादिः शेषेण तन्निवृत्तौ तदनवकाशमीत्वे तु कृते न तस्य प्राप्तिरन्त्यहलोऽभावात् । अभ्यासविकारेषु बाध्य बाधकभावाभावेन च साधितम् । तस्मिँश्च सति लोपे कृते सामर्थ्याच्छिष्टस्यान्त्यस्येत्वमिति न दोषः। न च येन नामाप्तिन्यायेनापवादत्वमप्यस्य सवचं, तस्य चरितार्थविषयताया उक्तत्वात् ।\n<<इको झल्>> [[1.2.9]] इत्यत्र भाष्येऽपि ध्वनितमेतत् । तत्र हि <<अज्झन>> [[6.4.16]] इति दीर्घेण गुणोत्तरं फलाभावेनानवकाशत्वाद् गुणे बाधिते दीर्घोत्तरं गुणः स्याद्दीर्घविधानं तु मिनोतेर्दीर्घे कृते <<सनि मीमा>> [[7.4.54]] इत्यत्र मीग्रहणेन ग्रहणेऽर्थवत्, तत्र पश्चात् प्राप्तगुणबाधनार्थम् 'इको झल्' इति कित्त्वमित्युक्तम् । अन्यथाऽपवादत्वेन बाधे तद्विषये उत्सर्गाप्रवृत्तेर्भाष्यस्य सूत्रस्य चासङ्गतिरिति स्पष्टमेव।\nयत्तु 'काञ्चनी'त्यादावपवादमयड्विषयेऽप्यण् भवति, क्वचिदपवादविषयेऽपि न्यायादिति, तन्न। <<अण् कर्मणि च>> [[3.3.12]] इति सूत्रस्थभाष्यविरोधात्। तत्र ह्यणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थं गोदायो व्रजतीत्याद्युक्तम् । काञ्चनीत्यादौ काञ्चनेन निर्मितेत्यर्थे शैषिकोऽण् बोध्यः।\nअत्रेदं बोध्यम्- 'येन नाप्राप्ते'त्यत्र येनेत्यस्य यदि स्वेतरेणेत्यर्थस्तदा स्वविषये स्वेतरत् यद्यत् प्राप्नोति तद्बाध्यम्, विध्यन्तराप्राप्तविषयाभावात् । इयमेव बाध्यसामान्यचिन्तेति व्यवह्रियते । अनवकाशत्वेन बाधेऽप्येषा वक्तुं शक्या यद्युदाहरणमस्ति विनिगमनाविरहात् ।\nयदि तु येनेत्यस्य लक्षणेनेत्यर्थः कार्येणेत्यर्थो वा तदा बाध्यविशेषचिन्ता । अनवकाशत्वेन बाधेऽप्येतद्बाधेन सार्थक्यमुत तद्बाधेनेत्येवं विशेषचिन्ता सम्भवति यद्युदाहरणमस्ति ॥ 59॥" }, { "num": "60", "prelude": "तत्र कार्येणेत्यर्थे पररूपत्ववच्छिन्ने कात्य आरभ्यमाणाया वृद्धेस्तद्बाधकत्वे न निर्णीते किं शास्त्रविहितस्येत्येवं तद्विशेषचिन्तायामाह —", "paribhasha": "पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान्", "text": "अवश्यं स्वपरस्मिन् बाधनीये प्रथमोपस्थितानन्तरबाधेन चारितार्थ्ये पश्चादुपस्थितस्य ततः परस्य बाधे मानाभावः । आकाङ्क्षाया निवृत्तेर्विप्रतिषेधशास्त्रबाधे मानाभावाच्चेत्येतस्य बीजम् ॥" }, { "num": "61", "prelude": "नासिकोदरौष्ठजङ्घादन्त' [[4.1.55]] इत्यस्यौष्ठाद्यंशे ङीष्निषेधत्वावच्छिन्नबाधकत्वे निर्णीते किंविहितस्येत्याकाङ्क्षायामाह —", "paribhasha": "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्", "text": "तेन ओष्ठादिषु पञ्चसु 'असंयोगोपधात्' इति प्रतिषेध एव बाध्यते, न तु <<सहनञ्विद्यमान>> [[4.1.57]] लक्षण इति <<नासिकोदर>> [[4.1.55]] इत्यत्र भाष्ये स्पष्टम् । पूर्वोपस्थितबाधेन नैराकाङ्क्ष्यमस्या बीजम् ॥" }, { "num": "62", "prelude": "ननु वा छन्दसि' [[3.4.88]] इत्यनेन <<सेर्ह्यपिच्च>> [[3.4.87]] इत्यनन्तरस्यापित्त्वस्येव हेरपि विकल्पः स्यात् । तथा <<नेटि>> [[7.2.4]] इति निषेधोऽनन्तरहलन्तलक्षणाया इव सिचिवृद्धिमृजिवृद्ध्योरपि स्यात् । अत उक्तन्यायमूलकमेवाह —", "paribhasha": "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति", "text": "अत एव <<संख्याव्ययादेः>> [[4.1.26]] इति ङीब्ग्रहणं चरितार्थम् । तद्ध्यनन्तरस्य ङीषो विध्यभावाय । <<न क्तिचि>> [[6.4.39]] इति सूत्रे दीर्घग्रहणञ्च चरितार्थम् । तद्ध्यनन्तरस्य <<अनुदात्तोपदेश>> [[6.4.37]] इत्यस्यैव निषेधाभावाय । मध्येऽपवादन्यायाद्यपेक्षयानन्तरस्येति न्यायः प्रबल इति <<अष्टाभ्य>> [[7.1.21]] इति सूत्रे कैयटः ।\nप्रत्यासत्तिमूलकोऽयम् । लक्ष्यानुरोधाच्च व्यवस्थेत्यपि पक्षान्तरम् । तत्र तत्र क्वचित् स्वरितत्वप्रतिज्ञासामर्थ्येन बाध्यतेऽयं न्यायः। <<टिड्ढ>> [[4.1.15]] इति सूत्रेण डापा व्यवहितस्यापि ङीपो विधिः। <<न षट्>> [[4.1.10]] इत्यादिना द्वयोरपि टाब्ङीपोः प्रतिषेधः। इयञ्च <<शि सर्वनामस्थानम्>> [[1.1.42]] इत्यादौ भाष्ये स्पष्टेत्यन्यत्र विस्तरः॥" }, { "num": "63", "prelude": "ननु दधतीत्यादावन्तरङ्गत्वादन्तादेशेऽल्विधौ, स्थानिवत्वाभावाददादेशो न स्यादिति तद्वैयर्थ्यापत्तिः, अत आह —", "paribhasha": "पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः", "text": "लक्षणैकचक्षुष्को ह्यपवादविषयं पर्यालोच्य तद्विषयत्वाभावनिश्चय उत्सर्गेण तत्तल्लक्ष्यं संस्करोति। अन्यथा विकल्पापत्तिरित्यर्थः। अभिनिविशन्त इत्यस्य बुद्ध्यारूढा भवन्तीत्यर्थः। 'अपवादो यद्यन्यत्र चरितार्थः' इति न्यायस्य तु नात्र प्रप्तिः, अन्तादेशप्राप्तिविषये चारितार्थ्याभावात् ॥" }, { "num": "64", "prelude": "लक्ष्यैकचक्षुष्कस्तु तच्छास्त्रपर्यालोचनं विनाप्यपवादविषयं परित्यज्योत्सर्गेण लक्ष्यं संस्करोति, तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्तेः, तदाह —", "paribhasha": "प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशन्ते", "text": "तत इत्यस्यापवादशास्त्रपर्यालोचनात् प्रागपीत्यर्थः। प्रकल्प्येत्यस्य परित्यज्येत्यर्थः । अत एव प्रातिपदिकार्थसूत्रे भाष्ये 'इदं द्वयमप्युक्त्वा न कदाचित्तावदुत्सर्गो भवत्यपवादं तावत् प्रतीक्षत इत्यर्थकमुक्तम् ॥ 64 ॥" }, { "num": "65", "prelude": "एतन्मूलकमेव नवीनाः पठन्ति —", "paribhasha": "उपसञ्जनिष्यमाणनिमित्तोप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति", "text": "यत्त्वभ्यस्तसंज्ञासूत्रे कैयटेन प्रकल्प्य चेति प्रतीकमुपादाय यथा <<न सम्प्रसारणे>> [[6.1.37]] इति 'परस्य यणः पूर्वं सम्प्रसारणम्, पूर्वस्य तु तन्निमित्तः प्रतिषेधः' इत्युक्तम्, तत्तु तत उत्सर्ग इत्याद्यक्षरार्थाननुगुणम् ।\nयत्तु अपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थ इति, तन्न। अभिनिविशतेऽपवादविषयमित्यादिपदस्वारस्यभङ्गापत्तेः। पदजन्यपदार्थोंपस्थितौ वाक्यार्थबोधाभावे कारणाभावाच्च । यत्र त्वपवादो निषिद्धस्तत्रापवादविषयेऽप्युत्सर्गः प्रवर्तत एव। यथा वृक्षावित्यत्र 'नादिचि [[6.1.104]] इति पूर्वसवर्णदीर्घनिषेधादप्रवर्तमानस्य वृद्धिबाधकत्वाभावाद् वृद्धिः प्रवर्तते। अतएव <<तौ सत्>> [[3.2.127]] इत्यादि सङ्गच्छते । अत एव निर्देशाद् भ्रष्टावसरन्यायस्यात्र शास्त्रेऽनाश्रयणम् । ध्वनितं चेदम् <<इको गुण>> [[1.1.3]] इति सूत्रे भाष्य इति भाष्यप्रदीपोद्योते निरूपितम्।\nअत्र देवदत्तस्य हन्तरि हते देवदत्तस्योन्मज्जन नेति न्यायस्य विषय एव नास्ति । हते देवदत्त उन्मज्जनं न, देवदत्तहननोद्यतस्य हनने तु भवत्येवोमज्जनम् । प्रकृतेऽपि न पूर्वसवर्णदीर्घेण वृद्धेर्हननं किन्तु हननोद्यमसजातीयं प्रसक्तिमात्रम्, प्रसक्तस्यैव निषेधात् ।\nप्रतिपदोक्तत्वमपि निरवकाशत्वे सत्येव बाधप्रयोजकम् । स्पष्टं चेदं <<शेषाद्विभाषा>> [[5.4.144]] इति सूत्रे भाष्ये । तत्र हि शेषग्रहणमनर्थकं ये प्रतिपदं विधीयन्ते ते बाधका भविष्यन्तीत्याशङ्क्य, 'अनवकाशा विधयो बाधका भवन्ति, समासान्ताश्च कबभावे सावकाशा' इत्युक्तम् । क्वचिदनवकाशत्वाभावेऽपि परनित्यादिसमवधाने शीघ्रोपस्थितिकत्वेन पूर्वप्रवृत्तिप्रयोजकं बलवत्त्वं प्रतिपदविधित्वेनापि । परनित्यान्तरङ्गप्रतिपदविधयो विरोधिसन्निपाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति सूत्रे कैयटेन पाठात् । अत एव रमे इत्यादौ प्रतिपदोक्तत्वात् पूर्वमेत्वे आकारप्रश्लेषाद्धल्ङ्यादिलोपो न प्राप्नोतीत्याशङ्क्य <<एङ्ह्रस्वात्>> [[6.1.69]] इति लोपेन समाहितम् ॥" }, { "num": "66", "prelude": "ननु 'अयजे इन्द्रम्' इत्यादावन्तरङ्गस्यापि गुणस्यापवादेन सवर्णदीर्घेण बाधः स्यात्, अत आह —", "paribhasha": "अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते", "text": "निरवकाशत्वरूपस्य बाधकत्वबीजस्याभावात्। एवञ्च प्रकृतेऽन्तरङ्गेण गुणेन सवर्णदीर्घः समानाश्रये चरितार्थो यण्गुणयोरपवादोऽपि बाध्यते। पूर्वोपस्थितिनिमित्तत्वरूपान्तरङ्गत्वविषय इदम्।\nयत्तु आगमादेशयोर्न बाध्यबाधकभावः, भिन्नफलत्वात्; अत एव 'ब्राह्मणेभ्यो दधि दीयतां कम्बलः कौण्डिन्याये'त्यादौ कम्बलेन न दधिदानबाध इति <<च्छ्वोः>> [[6.4.19]] इति सूत्रे कैयटः, तन्न । अपवादो नुग्दीर्घत्वस्येति <<दीर्घोऽकितः>> [[7.4.83]] इति सूत्रस्थभाष्यविरोधात् ॥" }, { "num": "67", "prelude": "ननु 'अजीगणत्' इत्यादौ गणेरीत्वं निरवकाशत्वाद्धलादिःशेषं बाधेत, तत्राह —", "paribhasha": "अभ्यासविकारेषु बाध्यबाधकभावो नास्ति", "text": "दीर्घोऽकितः' [[7.4.83]] इत्यकिद्ग्रहणमस्या ज्ञापकम् । अन्यथा यम्यत इत्यत्र नुकि कृतेऽनजन्तत्वाद्दीर्घाप्राप्त्या तद्वैयर्थ्य स्पष्टमेव ।\nइयं परान्तरङ्गादिबोधकानामप्यबाधकत्वबोधिका। तेन अचीकरत्, मीमांसत इत्यादि सिद्धम् । आद्ये सन्वद्भावस्य परत्वाद्दीर्घेण बाधः प्राप्नोति । अन्त्ये <<मान्बध>> [[3.1.6]] इति दीर्घेणान्तरङ्गत्वादित्त्वस्य बाधः प्राप्तः।\nयत्तु यत्रकैकप्रवृत्त्युत्तरमपि सर्वेषां प्रवृत्तिस्तत्रैवेदमिति <<अत एक>> [[6.4.120]] इति सूत्रे कैयटः, तन्न । नुकि कृते दीर्घाप्राप्त्या धर्मिग्राहकमानविरोधान्मान्बधादीनां दीर्घे कृते इत्त्वाप्राप्त्या <<गुणो यङ्लुकोः>> [[7.4.82]] इति सूत्रस्थभाष्योक्ततदुदाहरणासङ्गतेश्चेत्यन्यत्र विस्तरः ॥" }, { "num": "68", "prelude": "ननु तच्छीलादितृन्विषये ण्वुलपि स्यात्। न च तृन्नपवादः, असरूपापवादस्य विकल्पेन बाधकत्वात्। अत आह —", "paribhasha": "ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति", "text": "ण्वुलि सिद्धे 'निन्दहिंस' आदि [[3.2.146]] सूत्रेणैकाज्भ्यो वुञ्विधानमत्र ज्ञापकम्, तत्र ण्वुल्वुञोः स्वरे विशेषाभावात्। ताच्छीलिकेष्विति विषयसप्तमी। तेन ताच्छीलिकैरताच्छीलिकैश्च वासरूपविधिर्नेति बोध्यम्।\nनन्वेवं कम्रा कमनेत्याद्यसिद्धिः <<नमिकम्पि>> [[3.2.167]] इति रेण <<अनुदात्तेतश्च हलादेः>> [[3.2.149]] इति युचो बाधादिति चेत्, न। <<सूददीपदीक्षश्च>> [[6.2.153]] इत्यनेन दीपेर्युज्निषेधेनोक्तार्थस्यानित्यत्वात् ॥ 68॥" }, { "num": "69", "prelude": "नन्वेवम् 'हसितं छात्रस्य हसनम्' इत्यादौ घञ्, 'इच्छति भोक्तुम्' इत्यत्र लिङ्लोटौ, 'ईषत्पानः सोमो भवता' इत्यत्र खल् प्राप्नोतीत्यत आह —", "paribhasha": "क्तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति", "text": "इदं च वासरूपविधेरनित्यत्वात् सिद्धम् । तदनित्यत्वे ज्ञापकं च <<अर्हे कृत्यतृचश्च>> [[3.3.169]] इति । तत्र हि चकारसमुच्चितलिङा कृत्यतृचो बाधो मा भूदिति कृत्यतृज्ग्रहणं क्रियत इत्यन्यत्र विस्तरः। वासरूपसूत्रे भाष्ये स्पष्टैषा ॥" }, { "num": "70", "prelude": "ननु 'श्वः पक्ते'त्यत्र वासरूपविधिना लृडपि प्राप्नोति, कृत आदेशे वैरूप्यादत आह —", "paribhasha": "लादेशेषु वाऽसरूपविधिर्नास्ति", "text": "आदेशकृतवैरूप्यवत्सु लकारेषु स नास्तीत्यर्थः। अत्र च <<हशश्वतोर्लङ् च>> [[3.2.116]] इति लङ्विधानं ज्ञापकम् । अन्यथा <<परोक्षे लिट्>> [[3.1.115]] इति लिटा लङः समावेशोऽसारूप्यात्सिद्ध इति किं लङ्विधानेन ? शत्रादिभिस्तिङां समावेशार्थं शतृविधायके विभाषाग्रहणानुवृत्तिः <<लिटः कानज्वा>> [[3.3.106]] इति वाग्रहणं च कृतम्। तज्ज्ञापयति वासरूपसूत्रेऽपवाद आदेशत्वानाक्रान्तः प्रत्यय एव गृह्यत इति कैयटादौ ध्वनितम् । तत्फलं तु सदादिभ्यो भूतसामान्ये लिटा क्वसुरेव, न तु पक्षे तिङ् इति बोध्यम् ॥" }, { "num": "71", "prelude": "ननु <<ङमो ह्रस्वात्>> [[8.3.32]] इत्यादौ ङमः परस्याचोऽचि परतो ङम इति वेति सन्देहः स्यादत आह —", "paribhasha": "उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्", "text": "अचीति सप्तमीनिर्देशस्य <<मय उञः>> [[8.3.33]] इत्युत्तरत्र चारितार्थ्यात् पञ्चमीनिर्देशोऽनवकाश इति तस्मादित्युत्तरस्य' [[1.1.67]] इत्यस्यैव प्रवृत्तिः। \nयत्र तु <<डः सि धुट्>> [[8.3.29]] इत्यादावुभयोरप्यचारितार्थ्यं तत्र <<तस्मिन्निति>> [[1.1.66]] सूत्रापेक्षया <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यस्य परत्वात्तेनैव व्यवस्था। एवमुभयोश्चारितार्थ्येऽपि। यथा <<आमि सर्वनाम्नः>> [[7.1.52]] इत्यादौ। तत्रामीति सप्तमी <<त्रेस्त्रयः>> [[7.1.53]] इत्यत्र चरितार्था । आदिति पञ्चमी <<आज्जसेरसुक्>> [[7.1.50]] इत्यत्र चरितार्थेति स्पष्टं तस्मिन्' इति सूत्रे भाष्ये कैयटे च ॥ इति बाधबीजनामकं द्वितीयं प्रकरणम् ॥" }, { "num": "72", "prelude": "ननु <<अतः कृकमि>> [[8.3.46]] इति सत्वमयस्कुम्भीत्यत्र न स्यात्, कुम्भशब्दस्यैवोपादानादत आह —", "paribhasha": "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्", "text": "सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकबोधकशब्दग्रहणे सति लिङ्गबोधकप्रत्ययविशिष्टस्यापि तेन ग्रहणं बोध्यम् । अपिना केवलस्यापीत्यर्थः ।\nअस्याश्च ज्ञापकं समानाधिकरणाधिकारस्थे <<कुमारः श्रमणादिभिः>> [[2.1.70]] इति सूत्रे स्त्रीलिङ्गाश्रमणादिशब्दपाठः । स्त्रीप्रत्ययविशिष्टश्रमणादिभिश्च कुमारीशब्दस्यव सामानाधिकरण्यं न तु कुमारशब्दस्येति तदेतज्ज्ञापकम् ।\nइयं च <<द्विषत्परयो:>> [[3.2.39]] इत्याद्युपपदविधौ, समासान्तविधौ, महदात्त्वे, ञ्नित्स्वरे राजस्वरे ब्राह्मणकुमारयोः, <<बहोर्नञ्वदुत्तरपदभूम्नि>> [[6.2.175]] इत्यादौ समाससङ्गातग्रहणेषु च न प्रवर्तत इति 'ङ्याप्'सूत्रे भाष्ये स्पष्टम् । विभक्तिनिमित्तककार्ये च नेत्यपि तत्रैव । तत्र समासान्तविधाववयवग्रहण एव न, समाससङ्घातग्रहणे तु प्रवर्तत एव, स्वरविधावेव समाससङ्घातग्रहणे तत्र दोषोक्तः । <<बहुव्रीहेरूधसः>> [[4.1.25]] इति सूत्रस्थभाष्याच्च ।\nएतावत्सु एवानित्यत्वादप्रवृत्तिः, दोषाः खल्वपि साकल्येन परिगणिता इति भाष्योक्तः ।\nनन्वेवं <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इति सूत्रस्थभाष्यासङ्गतिः । तत्र हि कुण्डोध्नीत्यत्र <<नद्यृतश्च>> [[5.4.153]] इति कबापादितो नद्यन्तबहुव्रीहेरित्यर्थात् । नद्यन्तस्य बहुव्रीहित्वाभावात्तदसङ्गतिः । नद्यन्तानां यः समास इत्यर्थेन च परिहृतम् । नद्यन्तप्रकृतिकसुबन्तोत्तरपदकः समास इति चेत्, न । अनया परिभाषया स्त्रीप्रत्ययसमभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्वतद्व्याप्यधर्माणां विशिष्टेऽपि पर्याप्तत्वमतिदिश्यत इत्याशयात् ॥" }, { "num": "73", "prelude": "नन्वेवं 'यूनः पश्येत्यत्रेव 'युवतीः पश्ये'त्यत्रापि <<श्वयुव>> [[6.4.133]] इति सम्प्रसारणं स्यादत आह —", "paribhasha": "विभक्तौ लिङ्गविशिष्टाग्रहणम्", "text": "स्पष्टा चेयं <<युवोरनाको>> [[7.1.1]] इत्यत्र भाष्ये । घटघटीग्रहणेन लिङ्कविशिष्टपरिभाषाया अनित्यत्वात्तन्मूलैवेत्यन्ये ॥" }, { "num": "74", "prelude": "ननु <<तस्यापत्यम्>> [[4.1.92]] इत्येकवचननपुंसकाभ्यां निर्देशाद् 'गार्ग्यो, गार्ग्यौ' इत्याद्ययुक्तमत आह —", "paribhasha": "सूत्रे लिङ्गवचनमतन्त्रम्", "text": "<<अर्द्धं नपुंसकम्>> [[2.2.2]] इति नपुंसकग्रहणमस्या ज्ञापकम् । नित्यनपुंसकत्वार्थ तु न तदित्यन्यत्र निरूपितम् ।\nधान्यपलालन्यायेन नान्तरीयकतया तयोरुपादानमिति <<तस्यापत्यम्>> [[4.1.92]] इत्यत्र भाष्ये स्पष्टम् । अत एव <<आकडारा..>> [[1.4.1]] सूत्रे एकेति चरितार्थमित्यन्यत्र विस्तरः ॥" }, { "num": "75", "prelude": "ननु <<भृशादिभ्यो भुव्यच्वेः>> [[3.1.12]] इत्यादौ विधीयमानः क्यङ्, क्व दिवा भृशा भवन्तीत्यत्रापि स्यादत आह —", "paribhasha": "नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः", "text": "नञ्युक्तमिवयुक्तं वा यत्किञ्चिद् दृश्यते तत्र तस्माद्भिन्ने तत्सदृशेऽधिकरणे द्रव्ये कार्यं विज्ञायते, हि यतस्तथार्थगतिरस्ति । न हि 'अब्राह्मणमानय' इत्युक्ते लोष्ठमानीय कृती भवति । अतश्च्व्यन्तभिन्ने च्व्यन्तसदृशेऽभूततद्भावविषये क्यङ्ङिति नोक्तदोषः ।\n<<ओषधेश्च विभक्तावप्रथमायाम्>> [[6.3.132]] इत्यादौ विभक्तिग्रहणं ह्येतन्यायसिद्धार्थानुवाद एव । एतेन विभक्तावित्याद्यस्यानित्यत्वे ज्ञापकमिति वदन्तः परास्ताः, अनित्यत्वे भाष्यसम्मतफलाभावात् । अत एव <<अकर्तरि च>> [[3.3.19]] इति सूत्रे कारकग्रहणं भाष्ये प्रत्याख्यातमिति बोध्यम् । स्पष्टा चेयं 'भृशादिभ्यः [[3.1.12]] इति सूत्रे भाष्ये ।\nअत्र अन्यसदृशेत्युक्त्या सादृश्यस्य भेदाघटितत्वं सूचयति । निरूपितं चैतन्मञ्जूषायाम् ॥" }, { "num": "76", "prelude": "ननु 'व्याघ्री, कच्छपी' इत्यादौ सुबन्तेन समासात्ततोऽप्यन्तरङ्गत्वाट्टाप्यदन्तत्वाभावाज्जातिलक्षणो ङीष् न स्यादत आह —", "paribhasha": "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः", "text": "<<उपपदम्>> [[2.2.19]] इति सूत्रेऽतिङ्ग्रहणेन <<कुगति>> [[2.2.18]] इत्यत्र तदपकर्षणेनातिङन्तश्च समास इत्यर्थात्तयोः सूत्रयोः 'सुप्सुपा' इत्यस्य निवृत्त्यैकदेशानुमत्या कारकांशे च सिद्धेयम् । तेनाश्वक्रीतीति सिद्धा । अन्यथा पूर्वं टाप्यदन्तत्वाभावात् <<क्रीतात् करणपूर्वात्>> [[4.1.50]] इति ङीष् न स्यात् ।\nअस्या अनित्यत्वात् क्वचित् सुबुत्पत्त्यनन्तरमपि समासो, यथा 'सा हि तस्य धनक्रीता' इति । अन्ये तु, अनित्यत्वे न मानम्, तत्र अजादित्त्वाट्टाबित्याहुः । अत एव कुम्भकार इत्यादौ षष्ठीसमासोऽपि सुबुत्पत्तेः पूर्वमेव । षष्ठीसमासाभावे चोपपदसमासकृत एकार्थीभाव इति न तत्र वाक्यमिति भाष्ये स्पष्टम् । तत्र हि-'षष्ठीसमासादुपपदसमासो विप्रतिषेधेने' इति वार्तिकम् । अथवा विभाषा षष्ठीसमासो, यदा न षष्ठीसमासस्तदोपपदसमास' इति तत् प्रत्याख्यानञ्च ।\nयद्यप्युपपदसमासस्यान्तरङ्गत्वाभिप्रायकं 'न वा षष्ठीसमासाभावादुपपदसमास' इति वात्तिककृतोक्तं, तथापि तदुभयप्रत्याख्यानपरम् 'अथवे'त्यादि भाष्यम् । परिभाषायां सामान्यतः कारकोपादानेन कारकविभक्त्यन्तेन कृद्भिः समासमात्रस्य सुबुत्पत्तेः पूर्वमेव लाभात् ।\nएतेनैषां कारकतद्विशेषयोरुपादान एवेति परास्तम् । अस्या विध्येकवाक्यत्वाभावेन विप्रतिषेधादिशास्त्रवत्कार्यव्यवस्थापकत्वेनोपादान एवेत्यर्थालाभाच्च ॥" }, { "num": "77", "prelude": "ननु <<उगिदचाम्>> [[7.1.70]] इत्यत्र धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति नियमेनाधातोरेव नुमि सिद्धेऽधातुग्रहणं व्यर्थमत आह —", "paribhasha": "साम्प्रतिकाभावे भूतपूर्वगतिः", "text": "तत्तद्वचनसामर्थ्यन्यायसिद्धेयम् । तत्सामर्थ्यादधातुभूतपूर्वस्यापीत्यर्थेन गोमत्यतेः क्विपि गोमानित्यादौ नुम्सिद्धिः । <<नामि>> [[6.4.3]] इत्यादिसूत्रेषु भाष्ये स्पष्टा ॥" }, { "num": "78", "prelude": "", "paribhasha": "बहुव्रीहौ तद्गुणसंविज्ञानमपि", "text": "अपिनाऽतद्गुणसंविज्ञानम् । तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेष्यान्वयित्वमिति तदर्थः । यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थस्तत्र प्रायस्तद्गुणसंविज्ञानम्, अन्यत्र प्रायोऽन्यत् । 'लम्बकर्णचित्रगू' उदाहरणे <<सर्वादीनि>> [[1.1.27]] <<जक्षित्यादयः>> [[6.1.6]] इति चोदाहरणे सर्वनामसंज्ञासूत्रे भाष्ये स्पष्टा ॥" }, { "num": "79", "prelude": "ननु <<वदः सुपि क्यप् च>> [[3.1.106]] इति चेनानुकृष्टस्य यतो <<भुवो भावे>> [[3.1.107]] इत्यत्राप्यनुवृत्तिः स्यादत आह —", "paribhasha": "चानुकृष्टं नोत्तरत्र", "text": "णमुल्यनुवर्तमाने <<अव्ययेऽयथाभिप्रेत>> [[3.4.59]] इति सूत्रे पुनर्णमुल्ग्रहणमस्या ज्ञापकम् । अन्यथा क्त्वा चेति वदेत् । तद्धि उत्तरत्रोभयोः सम्बन्धार्थम् । उदाहरणानि स्फुटानि ।\nइदमनित्यम् । अत एव <<तृतीया च होः>> [[2.3.3]] इत्यत्र चानुकृष्टाया अपि द्वितीयाया <<अन्तरान्तरेण>> [[2.3.4]] इत्यत्र सम्बन्धः ।\n<<लुटि च क्लृपः>> [[1.3.93]] इति सूत्रस्थेनानुवृत्त्यर्थसकलचकारप्रत्याख्यानेन विरुद्धेयम् । व्याख्यानादेवानुवृत्तिनिवृत्त्योर्निर्वाह इति तदाशयः । <<कुलिजाल्लुक्खौ च>> [[5.1.55]] इति सूत्रस्थभाष्यविरुद्धा च । तत्र हि- <<द्विगोः ष्ठंश्च>> [[5.1.54]] इति सूत्रात् ष्ठनस्तत्र चेनाप्यनुकष्टस्य 'खोऽन्यतरस्याम्' इत्यस्य चानुवृत्तिं स्वीकृत्य 'लुक्खौ च' इति भाष्ये प्रत्याख्यातम् ॥" }, { "num": "80", "prelude": "नन्वनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोतीत्यत आह —", "paribhasha": "स्वरविधौ व्यञ्जनमविद्यमानवत्", "text": "स्वरोद्देश्यके विधावित्यर्थः । <<नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु>> [[6.2.142]] इति सूत्रे पृथिव्यादिपर्युदासोऽस्या ज्ञापकः । अन्यथा पृथिव्यादीनामनुदात्तादित्वाभावादप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव ।\nधर्मिग्राहकमानादेव च स्वरोद्देश्यकविधिविषयमिदम् । अत एवं <<शतुरनुमो नद्यजादी>> [[6.1.173]] <<अचः कर्तृयकि>> [[6.1.195]] इत्यादावजादी अच इत्यादेश्चारितार्थ्यम् । अत एव 'राजवती'त्यादौ नलोपस्यासिद्धत्वादन्वतीशब्दत्वात् <<अन्तोऽवत्याः>> [[6.1.220]] इति स्वरो न 'उदश्वित्वान्' इत्यत्र <<ह्रस्वनुड्भ्याम्>> [[6.1.176]] इति मतुबुदात्तत्वं नेत्याकरः । स्पष्टं चेदं <<समासस्य>> [[6.1.223]] इति सूत्रे भाष्ये ।\n<<उच्चैरुदात्त:>> [[1.2.29]] इति सूत्रे कैयटस्त्वियमनावश्यकी, समभिव्याहृताजुपरागेण हलोऽप्युदात्तादिवद् अवभासात् तदुपपत्तेरित्याह । तत्र भाष्येऽपि ध्वनितमेतत् ॥" }, { "num": "81", "prelude": "नन्वेवमपि राजदृषदित्यादौ <<समासस्य>> [[6.1.223]] इत्यन्तोदात्तत्वं षकारस्य न स्यादत आह —", "paribhasha": "हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत्", "text": "अस्याश्च <<यतोऽनावः>> [[6.1.213]] इति सूत्रेऽनौप्रतिषेधो ज्ञापकः । 'नाव्यम्' इत्यत्रादिर्नकारो न स्वरयोग्यो यश्चाकारस्तद्योग्यो नासावाविरिति स प्रतिषेधोऽनर्थकः । न चादिरेव नकार उदात्तगुणविशिष्टान्तरतमाज्रूपोऽस्त्विति वाच्यम् । तथा सति निमित्तभूतद्वयच्कत्वस्य विनाशादुपजीव्यविरोधेनाद्युदात्तत्वाप्राप्तेरित्यन्यत्र विस्तरः । स्पष्टा चेयं <<समासस्य>> [[6.1.223]] इति सूत्रे भाष्ये ॥" }, { "num": "82", "prelude": "ननु <<पूरणगुण>> [[2.2.11]] इति निषेधस्तव्यत्यपि स्यात् । <<दिव औत्>> [[7.1.84]] इत्यौत्त्वं दिवेः क्विप्यपि स्यात् । तथा <<यतोऽनावः>> [[6.1.213]] इति स्वरो ण्यत्यपि स्यात् । <<ऋदृशोऽङि गुणः>> [[7.4.16]] इति चङ्यपि स्यात् । अत आह —", "paribhasha": "निरकबन्धकग्रहणे न सानुबन्धकस्य", "text": "" }, { "num": "83", "prelude": "", "paribhasha": "तदनुबन्धकग्रहणे नातदनुबन्धकस्य", "text": "<<वामदेवाड्ड्यड्ड्यौ>> [[4.2.9]] इति सूत्रे ड्यड्यतोर्डित्वमनयोर्ज्ञापकम् । तद्धि- <<ययतोश्चातदर्थे>> [[6.1.156]] इत्यत्र तयोरग्रहणार्थम् । नञः परस्य ययदन्तस्योत्तरपदस्यान्त उदात्त इति तदर्थः । एवञ्चावामदेव्येऽव्ययपूर्वपदप्रकृतिस्वर एव भवति ।\nतन्मात्रानुबन्धकग्रहणे स चान्यश्चानुबन्धो यस्य तद्ग्रहणं नेत्यन्त्यार्थः ।\nएते च प्रत्ययाप्रत्ययसाधारणे, <<दिव औत्>> [[7.1.84]] इत्यादौ सञ्चारितत्वात् ।\nवर्णग्रहणे चानयोरप्रवृत्तिरिति स्पष्टम् <<औङ आपः>> [[7.1.18]] इत्यत्र भाष्ये ।\nयेनानुबन्धेन सानुबन्धकत्वं द्व्यनुबन्धकत्वादि वा तदनुच्चारण एवैषा धर्मिग्राहकमानात् । तेन <<जश्शसोः>> [[7.1.20]] इत्यत्र नैषेति निरनुबन्धकत्वात् तद्धितशस एवात्र ग्रहणं स्यादिति न शङ्क्यम् ।\nएवमन्त्यान्यतरानुबन्धोच्चारण एव । तेन <<वनो र च>> [[4.1.7]] इत्यादौ ङ्वनिप्क्वनिपोर्ग्रहणसिद्धिः ।\nएकानुबन्धग्रहणे सम्भवतीति त्वर्थो न भाष्यादिसम्मत इत्यन्यत्र विस्तरः ॥" }, { "num": "84", "prelude": "ननु 'कुटीर' इत्यादौ स्वार्थिकत्वात् स्वार्थिकानां प्रकृतितो लिङ्गवचनानुवृत्तेर्न्यायप्राप्तत्वात् पुंस्त्वानुपपत्तिः, 'अप्कल्पम्' इत्यत्र नपुंसकत्वैकवचनयोरनुपपत्तिश्चेत्यत आह —", "paribhasha": "क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते", "text": "<<णचः स्त्रियाम्>> [[5.4.14]] इति सूत्रे स्त्रियामित्युक्तिरस्या ज्ञापिका । अन्यथा <<कर्मव्यतिहारे णच् स्त्रियाम्>> [[3.3.43]] इति स्त्रियामेव विधानात् किं तेन ? स्पष्टा चेयं बहुज्विधायके भाष्ये ॥" }, { "num": "85", "prelude": "ननु 'सुपथी नगरी' इति <<युवोरनाकौ>> [[7.1.1]] इति सूत्रभाष्योदाहृत <<इनः स्त्रियाम्>> [[5.4.152]] इति कप् स्यादत आह —", "paribhasha": "समासान्तविधिरनित्यः", "text": "<<प्रतेरंश्वादयस्तत्पुरुषे>> [[6.2.193]] इत्यन्तोदात्तत्वायांश्वादिषु राजन्शब्दपाठोऽस्या ज्ञापकः । अन्यथा टचैवान्तोदात्तत्वे सिद्धे किं तेन ।<<द्वित्रिभ्यां पाद्दन्मूर्द्धसु>> [[6.2.197]] इति स्वरविधायके भाष्ये स्पष्टेयम् ॥" }, { "num": "86", "prelude": "ननु 'शतानी'त्यादौ नुमि कृते षट्संज्ञा प्राप्नोति, ततश्च लुक् स्यात्तथा 'उपादास्ते'त्यत्रात्त्वे कृते <<स्थाघ्वोरिच्च>> [[1.2.17]] इतीत्त्वं प्राप्नोतीत्यत आह —", "paribhasha": "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य", "text": "सन्निपातः = द्वयोः सम्बन्धस्तन्निमित्तो विधिस्तं सन्निपातं यो विहन्ति तस्याऽनिमित्तम् । उपजीव्यविरोधस्यायुक्तत्वमिति न्यायमूलैषा ।\nअत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव, किन्तु विशेष्यविशेषणसन्निपातोऽपि गृह्यते । अत एव 'ग्रामणि कुलमि'त्यादौ नपुंसकह्रस्वत्वेऽपि <<पिति कृति>> [[6.1.71]] इति तुग्न प्रातिपदिकाजन्तत्वसन्निपातेन जातस्य ह्रस्वस्य तद्विघातकत्वात् । तुक्यजन्तत्वविघातः स्पष्ट एव ।\nन चार्थाश्रयत्वेन ह्रस्वस्य बहिरङ्गतयाऽसिद्धत्वम्, अर्थकृतबहिरङ्गत्वानाश्रयणस्योक्तत्वात् । किञ्च <<षत्वतुकोरसिद्धः>> [[6.1.86]] इत्वेतद्बलात्कृतितुग्ग्रहणाच्च तुग्विधौ बहिरङ्गपरिभाषाया अप्रवृत्तेः ।\nसर्वविधसन्निपातग्रहणादेव वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यादित्येतत्परिभाषादोषनिरूपणावसरे वार्त्तिककृतोक्तम् । न हि प्रत्ययः पूर्वपरसन्निपातनिमित्तकः स एव च सन्निपातशब्देन गृह्यत इति मत्वा न प्रत्ययः सन्निपातनिमित्तक इति शङ्कायां तदभ्युपेत्यैवाङ्गसंज्ञा तर्ह्यनिमित्तं स्यादित्येकदेशिनोक्तमिति न तद्भाष्यविरोधः । किञ्चैवं 'शैवो गार्ग्यो वैनतेयः' इत्यादावप्यङ्गसंज्ञाया लोपनिमित्तत्वानापत्त्या वर्णाश्रय इत्यस्य वैयर्थ्यम् ।\n'ग्रामणिकुलं, ग्रामणिपुत्र' इत्यादावुत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिद्बहिरङ्गपरिभाषयापि वारणं सम्भवतीति <<कृन्मेजन्तः>> [[1.1.39]] इत्यत्र <<ह्रस्वस्य पिति>> [[6.1.71]] इति सूत्रे चैकदेशिना तया परिभाषया तुग्वारितो भाष्ये । अत एव परिभाषाफलत्वेनेदमुक्तं 'कृन्मेजन्तः' इति सूत्रे वार्त्तिककृतेति केचित् ।\nसन्निपातलक्षणविधित्वमस्या लिङ्गम् । स्वप्रवृत्तेः प्राक् स्वनिमित्तभूतो यः सन्निपातस्तद्विघातस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्तमिति फलति ।\nनन्वेवं 'रामाय' इत्यादौ <<सुपि च>> [[7.3.102]] इति दीर्घानापत्तिः । अदन्ताङ्गङेसन्निपातेन जातस्य यादेशस्य तदविघातकत्वात् । न च यञादित्वसापेक्षदीर्घस्य बहिरङ्गतयाऽसिद्धत्वान्नात्र सन्निपातविघात इति वाच्यम् । आरोपितासिद्धत्वेऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तेः । किञ्चान्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धत्वेऽपि तत्र कृते तस्यासिद्धत्वे मानाभावः । किञ्च, आतिदेशिकसन्निपातविघाताभावमादायैतत्प्रवृत्तौ 'गौरी'त्यादौ सम्बुद्धिलोपेऽपि स्थानिवत्त्वेन ह्रस्वनिमित्तसन्निपातविघाताभावात् तत्रैतस्यातिव्याप्तिपर-<<कृन्मेजन्तः>> [[1.1.39]] इति सूत्रस्थभाष्यासङ्गतिः । सन्निपातस्य अशास्त्रीयत्वान्नात्र स्थानिवत्त्वमिति चेत् ? तर्ह्यत्रासिद्धत्वमपि कथमिति विभावय, अशास्त्रीयेऽसिद्धत्वाप्रवृत्तेः <<ईदूदेत्>> [[1.1.11]] इति सूत्रे कैयटेन स्पष्टमुक्तत्वात् । एवं च पूर्वत्रासिद्धीयेऽपि कार्यं एतत्परिभाषाप्रवृत्तिर्भवत्येवेति चेत्, न । <<कष्टाय>> [[3.1.14]] इति निर्देशेनैतस्या अनित्यत्वात् ।\nययोः सन्निपातस्य विघातकं शास्त्रं तयोः सन्निपातनिमित्तकविधावुपादानमपेक्षितमिति तु नाऽऽग्रहः । अत एव 'दाक्षिरि'त्यत्राकारान्तप्रकृतीन्सन्निपातनिमित्ताङ्गसंज्ञाऽनया परिभाषयाऽल्लोपस्य निमित्तं न स्यादित्याशङ्क्यानित्यत्वेन समाहितं <<कृन्मेजन्तः>> [[1.1.39]] इति सूत्रे भाष्ये । 'न ह्यङ्गसंज्ञायामदन्तस्याङ्गसंज्ञे'त्युक्तमस्ति ।\nन च 'कुम्भकारेभ्य आधय' इत्यादावव्ययसंज्ञाया अनया परिभाषया वारणपरभाष्यासङ्गतिः । अनया परिभाषया लुग् मा भूत्, अव्ययत्वं तु स्यादेव, लुका हि तदीयसन्निपातस्य विघातो नाव्ययसंज्ञया, संज्ञाफलं त्वकच् स्यादिति वाच्यम् । एतदुदाहरणपरभाष्यप्रामाण्येन साक्षात् परम्परया वा स्वनिमित्तसन्निपातविघातकस्य स्वयमनिमित्तमित्यर्थेनादोषात् । एतेनात्राकच् स्यादित्यपास्तम् ।\nन च कार्यकालपक्षे लुगेकवाक्यतापन्नसंज्ञाबाधेऽप्यकजेकवाक्यतापन्ना स्यादिति वाच्यम्, अन्तरङ्गायां तदेकवाक्यतापन्नसंज्ञायां बहिरङ्गगुणादेरसिद्धत्वात् । लुगेकवाक्यतापन्ना तु न, गुणादितोऽन्तरङ्गोभयोरपि शब्दतः सुबाश्रयत्वात् ।\n<<न यासयोः>> [[7.3.45]] इति निर्देशाच्चैषाऽनित्या तेन नातिप्रसङ्गः । स्पष्टा चेयं <<कृन्मेजन्तः>> [[1.1.39]] इति सूत्रे भाष्ये । अस्या अनित्यत्वे फलानि भाष्ये परिगणितानि । वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तम्-दाक्षिः । आत्त्वं पुग्विधे:-'क्रापयति' । पुग् ह्रस्वत्वस्य- 'अदीदपत्' । त्यदाद्यकारष्टाब्विधेः- 'यासे'ति । इड्विधिराकारलोपस्य- 'पपिवान्' । <<ह्रस्वनुड्भ्यां मतुप>> [[6.1.176]] <<अन्तोदात्तादुत्तरपदात्>> [[6.1.169]] इति मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य- 'अग्निमान्, परमवाचा' । नदीह्रस्वत्वं सम्बुद्धिलोपस्य- 'नदि, कुमारी'त्यादि । यादेशो दीर्घत्वस्य- 'कष्टाय' ।\nइतोऽन्यत्र प्रवृत्तिरेव, 'दोषाः खल्वपि साकल्येन परिगणिता' इति भाष्योक्तेरित्यन्यत्र विस्तरः ॥" }, { "num": "87", "prelude": "ननु 'पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र' इत्यादौ <<द्विगोर्लुक्>> [[4.1.88]] इत्यणो लुकि <<लुक्‍तद्धित>> [[1.2.49]] इति स्त्रीप्रत्ययलुक्यानुकः श्रवणापत्तिरत आह —", "paribhasha": "सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः", "text": "अत्र च <<बिल्वकादिभ्यश्छस्य लुक>> [[6.4.153]] इति सूत्रस्थं छग्रहणं ज्ञापकम् । तद्धि छमात्रस्य लुग्बोधनद्वारा कुकोऽनिवृत्तिर्यथा स्यादित्येतदर्थम् । कृतकुगागमा नडाद्यन्तर्गतबिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन । न चैवमपि छग्रहणं व्यर्थम्, कृतकुगागमानुवादसामर्थ्यादेव तदनिवृत्तिसिद्धेः । अन्यथा 'बिल्वादिभ्य' इत्येव वदेत्, 'लक्षणप्रतिपदोक्त'परिभाषया बिल्वादिपुरस्कारेण विहितप्रत्ययस्यैव लुग्विधानान्नातिप्रसङ्ग इति वाच्यम्, ततोऽपि प्रतिपदोक्तत्वेन <<बिल्वादिभ्योऽण>> [[4.3.136]] इति विकाराद्यर्थस्य लुगापत्तिवारणार्थं कुगनुवादचारितार्थ्यात् । समुच्चयार्थकचशब्दयोगे त विधेययोरेककालिकत्वकदेशत्वनियमान्यायसिद्धापीयम् । \nयत्तु 'णाविष्ठवदि'त्यनेन पुंवत्त्वविधानमेतदनित्यत्वज्ञापनार्थम्, अन्यथा 'एतयती'त्यादौ टिलोपेनैव डीपि निवृत्ते सन्नियोगशिष्टपरिभाषया नस्यापि निवृत्त्या 'एतयती'त्यादिसिद्धौ पुंवत्त्ववैयर्थ्यं स्पष्टमेवेति <<टेः>> [[6.4.155]] इति सूत्रे कैयटः, तन्न । 'इडबिडमाचष्ट, ऐडबिडयती'त्यादौ पुंवत्त्वस्य आवश्यकत्वात् । 'ऐनेयः, श्यैनेय' इत्यादि तु स्थानिवत्त्वेन सिद्धमित्यन्यत्र विस्तरः ॥" }, { "num": "88", "prelude": "ननु 'चुरा शीलमस्याः सा चौरी'त्यादौ <<शीलम्>> [[4.4.61]] <<छत्रादिभ्यो णः>> [[4.4.62]] इति णे ङीप् न प्राप्नोतीत्यत आह —", "paribhasha": "ताच्छीलिके णेऽण्कृतानि भवन्ति", "text": "<<अन्>> [[6.4.167]] इत्यणि विहितप्रकृतिभावबाधनार्थं <<कार्मस्ताछील्ये>> [[6.4.172]] इति निपातनमस्या ज्ञापकम् ।\nताच्छीलिकणान्ताद् <<अणो द्व्यचः>> [[4.1.156]] इति फिञ्सिद्धिरप्यस्याः प्रयोजनमिति नव्याः ।\nताच्छीलिक इत्युक्ते <<तदस्यां प्रहरणम्..>> [[4.2.57]] इति णे 'दाण्डे'त्येव । <<कार्मः>> [[6.4.172]] इति सूत्रे भाष्ये स्पष्टा ॥" }, { "num": "89", "prelude": "ननु 'कंसपरिमृड्भ्यामि'त्यादौ <<मृजेर्वृद्धिः>> [[7.2.114]] दुर्वारेत्यत आह —", "paribhasha": "धातोः कार्यमुच्यमानं तत्प्रत्यये भवति", "text": "'भ्रौणहत्ये' तत्त्वनिपातनमस्या ज्ञापकम् । 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमि'ति पाठस्तु 'प्रसृड्भिरि'त्यादौ <<अनुदात्तस्य चर्दुपधस्य>> [[6.1.59]] इत्यमापादनेन भाष्ये दूषितः ।\nयत्कार्यं प्रत्ययनिमित्तं तत्रेयं व्यवस्थापिका । तेन पदान्तत्वनिबन्धनं <<नशेर्वा>> [[8.2.63]] इति कुत्वं 'प्रणड्भ्यामि'त्यादौ भवत्येव । इयङादिविधौ तु नैषा । <<न भूसुधियोः>> [[6.4.85]] इति निषेधेनानित्यत्वात् । <<मृजेर्वृद्धिः>> [[7.2.114]] इत्यत्र भाष्ये स्पष्टा ॥" }, { "num": "90", "prelude": "ननु 'सर्वके, उच्चकैः' इत्यादौ सर्वनामाव्ययसंज्ञे न स्यातामत आह —", "paribhasha": "तन्मध्यपतितस्तद्ग्रहणेन गृह्यते", "text": "<<नेदमदसोरकोः>> [[7.1.11]] इति सूत्रे 'अकोः' इति निषेधोऽस्या ज्ञापकः । 'तदेकदेशभूतं तद्ग्रहणेन गृह्यते' इति <<येन विधिः>> [[1.1.72]] इति सूत्रे भाष्ये पाठः ॥" }, { "num": "91", "prelude": "ननु <<गातिस्थाघुपाभूभ्यः>> [[2.4.77]] इति सिचो लुक् 'अपासीत्' इत्यादौ पातेरपि स्यादत आह —", "paribhasha": "लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य", "text": "अस्याश्च ज्ञापकः <<स्वरतिसूति>> [[7.2.44]] इति सूत्रे सुङिति वक्तव्ये सूतिसूयत्योः पृथङ्निर्देश इति कैयटः । तन्न, साहचर्यादलुग्विकरणस्यैव ग्रहणे प्राप्ते पृथङ्निर्देशस्य तज्ज्ञापकत्वासम्भवात् ।\nध्वनिता चेयं परिभाषा <<यस्य विभाषा>> [[7.2.15]] इत्यत्र भाष्ये । तत्र हि विदित इति प्रयोगे निषेधमाशङ्क्य - 'यदुपाधेर्विभाषा तदुपाधेर्निषेधो <<विभाषा गमहनविदविशाम्>> [[7.2.68]] इति सत्रे शविकरणस्य ग्रहणं लुग्विकरणश्चायमि' - इत्युक्तम् । तत्र चो हेतौ । यतोऽयं लुग्विकरणोऽतो विशिसाहचर्याच्छविकरणस्य ग्रहणं न तु हनिसाहचर्यावस्याप्येतत्परिभाषाविरोधादिति तदाशयः ।\nअत एव परिभाषायां लुग्विकरणस्यैवेति नोक्तम् । कण्ठतस्तु भाष्ये एषा क्वापि न पठिता । <<गातिस्था>> [[2.4.77]] इति सूत्रे पिबतेर्ग्रहणं कर्त्तव्यमिति वार्तिककृता सर्वत्रैव पाग्रहणेऽलुग्विकरणस्य ग्रहणमिति भाष्यकृता चोक्तम् । <<स्वरतिसूति>> [[7.2.44]] इति सूत्र कैयटेन च स्पष्टमुक्तम् ॥" }, { "num": "92", "prelude": "ननु 'प्रजिघायिषती'त्यादौ <<हेरचङि>> [[7.3.56]] इति विधीयमानं कुत्वं न स्यादत आह —", "paribhasha": "प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्", "text": "'अचङी'ति प्रतिषेध एवास्या ज्ञापकः । इयं च कुत्वविषयैव । 'हेरचङि' इति सूत्रे भाष्ये स्पष्टेयम् ॥" }, { "num": "93", "prelude": "ननु 'युष्मभ्यमि'त्यादौ <<भ्यसः>> [[7.1.30]] इत्यत्र भ्यमिति च्छेदे भ्यसो भ्यमि कृतेऽन्त्यलोप एत्वं स्यादत आह —", "paribhasha": "अङ्गवृत्ते पुनर्वृत्तावविधिः", "text": "अङ्गे=अङ्गाधिकारे, वृत्तं = निष्पन्नं यत्कार्यं तस्मिन् सति पुनरन्यस्याङ्गकार्यस्य वृत्तौ = प्रवृत्तावविधानं भवतीत्यर्थः ।\nएषा च 'ज्यादादीयसः [[6.4.160]] इति आद्-विधानेन ज्ञापिता । अन्यथेकारलोपेव <<अकृत्सार्व0>> [[7.4.25]] इति दीर्घेण च सिद्धे तद्वैयर्थ्यं स्पष्टमेव । अत एव भिन्नस्थानिकाङ्गकार्यविषयाप्येषा ।\nइयं चानित्या, 'द्वयोः' ([[1.2.59]]; [[5.3.92]]) इति निर्देशात् । अनित्यत्वबललभ्यार्थमादायैव <<भ्यसो भ्यम्>> [[7.1.30]] इति सूत्रे भाष्ये निष्ठितस्येति पठितम् ।\nकेचित्तु अनया परिभाषया न किञ्चिल्लक्ष्यं साध्यते । अत एव <<ज्ञाजनोर्जा>> [[7.3.79]] <<ज्यादादीयसः>> [[6.4.160]] इति सूत्रयोरेनां ज्ञापयित्वा किं प्रयोजनम् इति प्रश्ने पिबतेर्गुणप्रतिषेध उक्तः, स न वक्तव्य इत्येव प्रयोजनमुक्तं न तु लक्ष्यसिद्धिरूपम् । तदुक्तम्- <<भ्यसो भ्यम्>> [[7.1.30]] इत्यत्राभ्यमिति च्छेदः शेषे लोपश्चान्त्यलोप एव <<अतो गुणे>> [[6.1.97]] इति पररूपेण सिद्धं 'युष्मभ्यमि'त्यमित्यन्यत्र निरूपितम् । एवञ्च सूत्रद्वयस्थमेतज्ज्ञापनपरं भाष्यं 'भ्यसोऽभ्यम्' इति सूत्रस्थं च भाष्यमेकदेश्युक्तिरित्याहुः ॥" }, { "num": "94", "prelude": "यत्तु 'ओरोदि'ति वाच्ये <<ओर्गुणः>> [[6.4.116]] इति गुणग्रहणात् —", "paribhasha": "संज्ञापूर्वकविधेरनित्यत्वम्", "text": "इयं च विधेयकोटौ संज्ञापूर्वत्व एव । तेन स्वायम्भुवमित्यादि सिद्धम् ॥" }, { "num": "95", "prelude": "तथा 'निलोड्' इत्येव सिद्धे आनिग्रहणात्", "paribhasha": "आगमशास्त्रमनित्यम्", "text": "तेन 'सागरं तर्त्तुकामस्य' इत्यादि सिद्धम् ॥" }, { "num": "96", "prelude": "तथा तनादिपाठादेव सिद्धे <<तनादिकृञ्भ्यः>> [[3.1.79]] इति सूत्रे कृञ्ग्रहणाद् —", "paribhasha": "गणकार्यमनित्यम्", "text": "तेन 'न विश्वसेदविश्वस्तम्' इत्यादि सिद्धम् ॥" }, { "num": "97", "prelude": "तथा चक्षिङो ङित्करणात् —", "paribhasha": "अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्", "text": "तेन 'स्फायन्निर्मोक' इत्यादि सिद्धम् ॥" }, { "num": "98", "prelude": "तथा विनार्थनञा समासेनानुदात्तं पदमनेकमित्येव सिद्धे वर्जग्रहणात् —", "paribhasha": "नञ्घटितमनित्यम्", "text": "तेन <<नेयङुवङ्>> [[1.4.4]] इत्यस्यानित्यत्वाद् 'हे सुभ्रु' इति सिद्धमिति ।\nतन्न, भाष्येऽदर्शनात् । भाष्यानुक्तज्ञापितार्थस्य साधुतानियामकत्वे मानाभावात् । भाष्याविचारितप्रयोजनानां सौत्राक्षराणां पारायणादावदृष्टमात्रार्थकत्वकल्पनाया एवौचित्यात् ।\nकिञ्च ज्ञापितेऽप्यानीत्यस्य न सार्थक्यमाडागमशून्यप्रयोगस्य अप्रसिद्धेः । आट्-ग्रहणं तु लोड्ग्रहणवदिति बोध्यम् । अत एव <<घोर्लोपो लेटि वा>> [[7.3.70]] इति सूत्रे वेति प्रत्याख्यातम् । लोपेऽप्याट्पक्षे आटः श्रवणं भविष्यति 'दधादि'ति, अटि 'दधदिति आगमशास्त्रस्यानित्यत्वे त्वाट्यसति दधादित्यसिद्ध्या वाग्रहणस्यावश्यकत्वेन तत्प्रत्याख्यानासङ्गतिः स्पष्टैव ।\nएतेन यत्कैयटेन केचिदित्यादिनाऽस्यैव वाग्रहणस्य तदनित्यत्वज्ञापकतोक्ता सापि चिन्त्या, प्रत्याख्यानपरभाष्यविरोधात्, 'तनादि' सूत्रे कृञ्ग्रहणस्य भाष्ये प्रत्याख्यानाच्च, चक्षिङो ङकारस्यान्तेदित्त्वाभावसम्पादनेन चारितार्थ्याच्च ॥" }, { "num": "99", "prelude": "एवमेव —", "paribhasha": "आतिदेशिकमनित्यम्", "text": "" }, { "num": "100", "prelude": "", "paribhasha": "सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान्", "text": "इत्यादि भाष्यानुक्तं बोध्यम् ।'स्वायम्भुवमि'त्यादि लोकेऽसाध्वेवेत्यन्यत्र विस्तरः ॥" }, { "num": "101", "prelude": "यदपि ननु हन्तेर्यङ्लुक्याशीर्लिङि वधादेशो न स्यादत आह", "paribhasha": "प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्", "text": "षाष्ठद्वित्वस्य द्विःप्रयोगत्वसिद्धान्तेन प्रयोगद्वयरूपे समुदाये प्रकृतिरूपत्वबोधनेनेदं न्यायसिद्धम् । अत एव 'जुहुधी'त्यादौ द्वित्वे कृते धित्वसिद्धिरिति, तदपि न, भाष्येऽदर्शनात् ।\nकिञ्च तेन सिद्धान्तेन प्रत्येकं द्वयोस्तत्त्वबोधनेऽपि समुदायस्य तत्त्वबोधने मानाभावः । अत एव <<दयतेर्दिगि>> [[7.4.9]] इति सूत्रेऽस्तेः परत्वाद् द्वित्वे कृते परस्यास्तेर्भूभावे पूर्वस्य श्रवणं प्राप्नोतीत्याशङ्क्य विषयसप्तम्याश्रयणेन परिहृतं भाष्ये । अन्यथा त्वदुक्तरित्यैकाज्द्विर्वचनन्यायेन समुदायस्यैवादेशापत्तौ तदसङ्गतिः स्पष्टैव । तस्मादुत्तरखण्डमादायैव यथायोगं तत्तत्कार्यप्रवृत्तिर्बोध्या ।\n<<भूभुवोः>> [[7.3.88]] इत्यस्य तदन्ताङ्गस्येत्यर्थात् प्राप्तस्य गुणनिषेधस्य बोभूत्विति नियम इति न तद्विरोधः । तस्माद्धन्तेर्यङ्लुकि 'वध्यादि'त्यादि माधवाद्युदाहृतं चिन्त्यमेवेत्यन्यत्र विस्तरः ॥" }, { "num": "102", "prelude": "यदपि ननु <<वृद्धिर्यस्याचामादिः>> [[1.1.73]] इत्यत्रेक्परिभाषोपस्थितौ शालीयाद्यसिद्धिरत आह —", "paribhasha": "विधौ परिभाषोपतिष्ठते नानुवादे", "text": "अनुद्यमानविशेषणेषु तन्नियामिका परिभाषा नोपतिष्ठत इति तदर्थः । विध्यङ्गभूतानां परिभाषाणां विधेयेनासिद्धतया सम्बन्धासम्भवेऽपि तद्विशेषणव्यवस्थापकत्वेन चरितार्थानां तद्विशेषणव्यवस्थापकत्वे मानाभाव इति तर्कमूलेयम् । किञ्च <<उदीचामातः स्थाने>> [[7.3.46]] इति सूत्रे स्थानेग्रहणमस्या लिङ्गम् । अन्यथा 'षष्ठी स्थाने' [[1.1.49]] इति परिभाषयैव तल्लाभे तद्वैयर्थ्यं स्पष्टमेवेति ।\nतन्न, <<उदात्तस्वरितयोर्यणः>> [[8.2.4]] इत्यादौ 'ष्यङः सम्प्रसारणम् [[6.1.13]] इति सूत्रभाष्योक्तरीत्या <<अल्लोपोऽनः>> [[6.4.134]] इत्यादौ चैतस्या व्यभिचरितत्वात्, भाष्यानुक्तत्वाच्च । स्थानसम्बन्धो न परिभाषालभ्य इत्यर्थस्य <<षष्ठी स्थाने>> [[1.1.49]] इति सूत्रे भाष्ये स्पष्टमुक्तत्वेन त्वदुक्तज्ञापकासम्भवाच्च । तत्र स्थाने-ग्रहणन्तु स्पष्टार्थमेव । किञ्च विधौ परिभाषेति प्रवादः <<इको गुणवृद्धी>> [[1.1.3]] <<अचश्च>> [[1.2.28]] इत्यनयोर्विधीयत इत्यध्याहारमूलकः । अन्यत्र तु नास्याः फलमित्यन्यत्र विस्तरः ॥" }, { "num": "103", "prelude": "ननु 'नमस्करोति देवान्, नमस्यति देवान्' इत्यादौ <<नमः स्वस्ति>> [[2.3.16]] इति चतुर्थी दुर्वारेत्यत आह —", "paribhasha": "उपपदविभक्तेः कारकविभक्तिर्बलीयसी", "text": "कारकविभक्तित्वञ्च क्रियाजनकार्थकविभक्तित्वम्, तच्च प्रथमाया अप्यस्तीति सापि कारकविभक्तिरिति <<सहयुक्ते>> [[2.3.19]] इत्यादिसूत्रेषु भाष्ये ध्वनितम् ।\nइयं च वाचनिक्येव । अत एव <<यस्य च भावेन>> [[2.3.37]] इति सप्तम्यपेक्षयाधिकरणसप्तम्या बलवत्त्वमनेन न्यायेन <<तत्र च दीयते>> [[5.1.96]] इति सूत्रे भाष्ये ध्वनितं कैयटेन च स्पष्टमुक्तम् । एतेन क्रियान्वयित्वं कारकत्वमित्यपास्तम् । 'यस्य च भावेन' इति सप्तम्या अपि क्रियान्वयित्वात् ।\nये तु प्रधानीभूतक्रियासम्बन्धनिमित्तकार्यत्वेन कारकविभक्तीनां बलवत्त्वं वदन्ति तेषामुभयोरपि क्रियासम्बन्धनिमित्तकत्वेन तदसङ्गतिः स्पष्टैव, <<नमोवरिवः>> [[3.1.19]] इति सूत्रे नमस्यति देवानित्यादौ चतुर्थीवारणाय भाष्ये उपन्यासस्यासङ्गतेश्च ।\nएतेन क्रियाकारकसम्बन्धोऽन्तरङ्ग इति तन्निमित्ता विभक्तिरन्तरङ्गा, उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेत्यपास्तम् । नमस्यतीत्यत्र नमःपदार्थेऽपि क्रियाकारकभावेनैवान्वयात् । अत्र च नमःपदार्थस्यापि क्रियात्वं मुण्डयतौ मुण्डस्येव ।\n<<सहयुक्ते>> [[2.3.19]] इत्यादौ च प्रधाने प्रथमासाधनार्थमियं भाष्य उपन्यस्तेत्यन्यत्र विस्तरः ॥" }, { "num": "104", "prelude": "नन्वदमुयङ्ङित्यादौ पूर्वस्यापि मुत्वापत्तिरत आह —", "paribhasha": "अनन्त्यविकारेऽन्त्यसदेशस्य", "text": "अन्त्यसदेशानन्त्यसदेशयोरेकप्रयोगे युगपत् प्राप्तावन्त्यसदेशस्यैवेति तदर्थः । अन्यथा धात्वादेर्नत्वसत्वे 'नेता सोते'त्यादावेव स्याताम्, न तु नमति सिञ्चतीत्यादौ । अनन्त्यविकार इति च लिङ्गम् । अन्त्येन समानो देशो यस्य सोऽन्त्यसदेशः । तत्त्वं च अन्त्यवर्णतद्वर्णयोरितराव्यवधानेन बोध्यम् । अत एव विद्ध इत्याद्यर्थं <<न सम्प्रसारणे>> [[6.1.37]] इति चरितार्थम् । <<अल्लोपोऽनः>> [[6.4.134]] इत्यादेः 'अनस्तक्ष्णे'त्यादावाद्याकारादावप्रवृत्तिरपि अस्याः फलम्, यजादिस्वादिपरानन्ताङ्गस्याकारस्य लोप इत्यर्थस्योत्थिताकाङ्क्षतयौचित्यादङ्गावयवयजादिस्वाविपरस्यान इत्यादिक्रमेण अनेकत्रानेकक्लिष्टकल्पनापेक्षयाऽस्या उचितत्वात् । न चैषा <<ष्यङः सम्प्रसारणम्>> [[6.1.13]] इति सूत्रे भाष्ये प्रत्याख्यातेति भ्रमितव्यम्, वार्तिकोक्तफलानामनेकक्लिष्टकल्पनाभिरन्यथासिद्धिं प्रदर्श्यापि यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषां कर्तव्या प्रतिविधेयं दोषेषु प्रतिविधानं चोदात्तनिर्देशात् सिद्धमित्युपसंहारात् । मिमार्जिषतीत्यर्थं चैषा । तत्र वृद्धेः पूर्वमन्तरङ्गत्वाद् द्वित्वे परत्वादभ्यासकार्ये ततोऽभ्यासेकारस्य वृद्धिवारणायावश्यकी । न च वृद्धौ पुनरभ्यासह्रस्वत्वेन सिद्धिः 'लक्ष्ये लक्षणस्य' इति न्यायेन पुनरप्रवृत्तेः । यत्तु 'न सम्प्रसारणे' इति सूत्रे भाष्ये नैतस्याः परिभाषायाः प्रयोजनानीत्युक्तं तस्यायमर्थः - एतत्सूत्रप्रयोजनान्येतस्याः परिभाषायाः न भवन्ति, व्यधादावन्त्यसमानदेशयणोऽभावादिति । नैतान्येतस्याः प्रयोजनानीति पाठोऽपि क्वचिद् दृश्यते । वाचनिक्येवैषा । स्पष्टा च <<ष्यङः>> [[6.1.13]] इति सूत्रे <<अदसोऽसेः>> [[8.2.80]] इति सूत्रे च 'केचिदन्त्यसदेशस्ये'त्यनेन भाष्य इत्यन्यत्र विस्तरः ॥" }, { "num": "105", "prelude": "ननु <<अव्यक्तानुकरणस्यातः>> [[6.1.98]] इति पररूपं 'पटत् इति पटिती'त्यादौ <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्त्यस्य प्राप्नोतीत्यत आह —", "paribhasha": "नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे", "text": "अनभ्यासेत्युक्तेः 'बिभर्ती'त्यादौ <<भृञामित्>> [[7.4.76]] इत्याद्यन्त्यस्यैवाभ्यासोऽनर्थकोऽर्थावृत्त्यभावात्, किन्तु उत्तरखण्ड एवार्थवानिति अन्यत्र निरूपितम् ।\nएषा <<अलोऽन्त्यात्..>> [[1.1.65]] सूत्रे भाष्ये स्पष्टा । फलानामन्यथासिद्धिकरणेन प्रत्याख्याता चेति तत एवावधार्यताम् ॥" }, { "num": "106", "prelude": "ननु 'ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चे'त्यादौ 'पुमान् स्त्रिया' इत्येकशेषापत्तिः स्त्रीत्वपुंस्त्वातिरिक्तकृतविशेषणाभावादत आह —", "paribhasha": "प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः", "text": "तेन प्रधानस्त्रीत्वपुंस्त्वातिरिक्ताऽप्रधानस्त्रीत्वपुंस्त्वकृतविशेषस्यापि सत्त्वेन न दोषः ।\nस्पष्टा चेयं <<पुमान् स्त्रिया>> [[1.2.67]] <<नपुंसकमनपुंसकेन>> [[1.2.69]] इत्यनयोर्भाष्ये । अन्तरङ्गोपजीव्यादपि प्रधानं प्रबलमिति <<हेतुमति च>> [[3.1.26]] इत्यत्र भाष्यकैयटयोः ॥" }, { "num": "107", "prelude": "ननु स्वस्रादित्वप्रयुक्तो मातृशब्दस्य ङीब्निषेधः परिच्छेतृवाचकमातृशब्देऽपि स्यादत आह —", "paribhasha": "अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी", "text": "तेन शुद्धरूढस्य जननीवाचकस्यैव ग्रहणं न परिच्छेत्तृवाचकस्य । योगजबोधे तदनालिङ्गितशुद्धरूढिजोपस्थितिः प्रतिबन्धिकेति व्युत्पत्तिरेव तद्बीजम् ।\n रथकाराधिकरणन्यायसिद्धोऽयमर्थः । \nकश्चित्तु <<दीधीवेवीटाम्>> [[1.1.6]] इत्यत्रानया परिभाषया दीधीङ्- वेवीङोरेव ग्रहणं न दीङ्धीङ्वेञ्वीनामिति । तन्न । तथा सति दीवेधीवीटामित्येव वदेदित्यन्ये ॥" }, { "num": "108", "prelude": "ननु वातायनार्थे गवाक्षेऽवङो वैकल्पिकत्वाद् 'गोक्ष' इत्याद्यपि स्यादत आह —", "paribhasha": "व्यवस्थितविभषयाऽपि कार्याणि क्रियन्ते", "text": "लक्ष्यानुसाराद् व्यवस्था बोध्या । <<शाच्छोः>> [[7.4.41]] इति सूत्रे लटः शतृ' [[3.2.124]] इत्यादिसूत्रेषु च भाष्ये स्पष्टा ॥" }, { "num": "109", "prelude": "", "paribhasha": "विधिनियमसम्भवे विधिरेव ज्यायान्", "text": "नियमे ह्यश्रुताया अन्यनिवृत्तेः सामर्थ्यात्परिकल्पनमुक्तानुवाददोषश्चेति लाघवाद्विधिरेवैति बोध्यम् । <<यस्य हलः>> [[6.4.49]] इत्यत्र <<इजादेः सनुमः>> [[8.4.32]] इत्यादौ च भाष्ये स्पष्टेयम् ॥" }, { "num": "110", "prelude": "ननु <<आशंसायां भूतवच्च>> [[3.3.132]] इत्यनेन लुङ इव लङ्लिटोरप्यतिदेशः स्यादत आह —", "paribhasha": "सामान्यातिदेशे विशेषानतिदेशः", "text": "सामान्योपस्थितिकाले नियमेन विशेषोपस्थापकसामग्र्यभावोऽस्या बीजम् । तेनानद्यतनभूतरूपे विशेषे विहितयोस्तयोर्नातिदेशः । इयमनित्या, <<न ल्यपि>> [[6.4.69]] इति लिङ्गात् । तेन स्थानिवत्सूत्रेण विशेषातिदेशोऽपि । स्पष्टं चैतत् सर्वं स्थानिवत्सूत्रे भाष्ये ॥" }, { "num": "111", "prelude": "ननु <<तित् स्वरितम्>> [[6.1.185]] इति स्वरितत्वं 'चिकीर्षती'त्यादौ स्यादत आह —", "paribhasha": "प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्", "text": "इयं च <<अङ्गस्य>> [[6.4.1]] इति सूत्रे भाष्ये पठिता । वर्णग्रहणे च न वर्तत इति तत्रैव कैयटे स्पष्टम् । अत एव <<सनाशंसभिक्ष उः>> [[3.2.168]] <<वले>> [[6.3.118]] इत्यत्र सन्वलयोः प्रत्यययोर्ग्रहणम् ।\nपरे तु <<तित् स्वरितम्>> [[6.1.185]] इति सूत्र एषा परिभाषा लक्ष्यसंस्काराय भाष्ये क्वापि नाश्रितेति कैयटेनोक्तम् । <<अङ्गस्य>> [[6.4.1]] इति सूत्रे तत्प्रत्याख्यानायैषा भाष्य एकदेशिनोक्ता । अत एव 'तिति प्रत्ययग्रहणं कर्तव्यमिति वार्तिककृतोक्तम् । उक्तसूत्रयोर्व्याख्यानात् प्रत्यययोरेव ग्रहणमित्याहुः ॥" }, { "num": "112", "prelude": "ननु <<विपराभ्यां जेः>> [[1.3.19]] इत्यात्मनेपदम् परा सेना जयतीत्यर्थके 'पराजयति सेने'त्यत्र प्राप्नोतीत्यत आह —", "paribhasha": "सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्", "text": "तेन विशब्दसाहचर्यादुपसर्गस्यैव पराशब्दस्य ग्रहणमिति तत्रैव भाष्ये स्पष्टम् । सहचरणं सदृशयोरेवेति सहचरितशब्देन सादृश्यवानुच्यते । 'रामलक्ष्मणावि'त्यादावपि सादृश्यमेव नियामकम् । सदृशयोरेव सहविवक्षा तयोरेव सहप्रयोग इत्युत्सर्गाच्च । ध्वनितं चेदं <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इति सूत्रे भाष्ये । तत्र हि-<<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] इति सूत्रेण लक्षणादिद्योतकपरियोगे पञ्चमीमाशङ्क्य - 'यद्यप्ययं परिदृष्टापचारो वर्जने चावर्जने च, अयं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थ एव कर्मप्रवचीयस्तस्य कोऽन्यः सहायो भवितुमर्हत्यन्यो वर्जनार्थाद्यथाऽस्य गोः सहायेनार्थ इति गौरेवानीयते नाश्वो न गर्दभ' - इत्युक्तम् । तेन हि-सदृशानामेव प्रयोगे सहायभावो बोधितः । <<द्विस्त्रिश्चतुः>> [[8.3.43]] इति सूत्रे साहचर्येणैव कृत्वोऽर्थस्य ग्रहणे. सिद्धे कृत्वोऽर्थग्रहणादेषानित्या । तेन <<दीधीवेवीटाम्>> [[1.1.6]] इत्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणमित्यन्यत्र विस्तरः ॥" }, { "num": "113", "prelude": "ननु <<अस्थि>> [[7.1.75]] इत्यनङ् 'प्रियसक्थ्ना ब्राह्मणेने'त्यत्र न स्याद् अङ्गस्य नपुंसकत्वाभावादत आह —", "paribhasha": "श्रुतानुमितयोः श्रुतसम्बन्धो बलवान्", "text": "श्रुतेनैव सम्बन्धो नानुमितेन प्रकरणादिप्राप्तेनेत्यर्थः । प्रकरणादितः श्रुतेर्बलवत्त्वादिति भावः । एवं च तत्र लिङ्गमस्थ्यादीनामेव विशेषणं नाङ्गस्य । शिशीलुङ्नुम्विधिषु तु गृह्यमाणस्याभावात् प्रकरणप्राप्ताङ्गस्यैव विशेषणम् ।\nअत एव <<वा नपुंसकस्य>> [[7.1.79]] इति सूत्रे वा शाविति न कृतम् । तत्र नपुंसकग्रहणं हि गृह्यमाणस्य शत्रन्तस्यैव नपुंसकत्वे यथा स्यात् । 'बहवो ददतो येषु तानि कुलानि बहुददती'त्यत्र मा भूद्, 'बहूनि ददन्ति येषु ते बहुददन्त' इत्यत्र यथा स्यादित्येवमर्थम् । स्पष्टं चेदं <<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यत्र भाष्ये ।\nकेचित्तु <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यत्र श्रुतेन रेफस्य निमित्तत्वेन यरन्तर्भावादनुमितेन कायित्वं बाध्यत इत्येतदुदाहरणमाहुः, तन्न । तक्रकौण्डिन्यन्यायेन सिद्धेरित्यन्यत्र विस्तरः ॥" }, { "num": "114", "prelude": "ननु <<तत्पुरुष तुल्यार्थ>> [[6.2.2]] इति स्वरः 'परमेण कारकेण, परमकारकेणे'त्यादौ स्यात्तथा 'गातिस्थाघुपाभूभ्यः' [[2.4.77]] इति लुक् 'पै ओवै शोषण' इत्यतः कृतात्त्वात्परस्यापि स्यादत आह —", "paribhasha": "लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्", "text": "लक्षणं लाक्षणिकमुपचारात् ।\nतत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तस्तस्यैव ग्रहणं शीघ्रोपस्थितिकत्वात् । द्वितीयो हि विलम्बोपस्थितिकः । 'पै' इत्यस्य पा इति रूपं लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकम्, पिबतेस्तु तच्छीघ्रोपस्थितिकम् । इदमेव ह्येतत्परिभाषाबीजम् ।\nइयं च वर्णग्रहणेऽपि 'ओत्' सूत्रे भाष्ये सञ्चारितत्वात् ।\nयत्तु वर्णग्रहणे नैषा <<आदेचः>> [[6.1.45]] इत्यत्रोपदेशग्रहणादिति, तत्तु तस्मिन्नेव सूत्रे शब्देन्दुशेखरे दूषितमिति तत एव द्रष्टव्यम् ।\nअनित्या चेयं <<भुवश्च महाव्याहृतेः>> [[8.2.71]] इति महाव्याहृतिग्रहणादित्यन्यत्र विस्तरः ॥" }, { "num": "115", "prelude": "नन्वेवं देडो दोधातोश्च कृतात्त्वस्य घुसंज्ञा न स्यात्, तथा मेङ आत्त्वे 'प्रणिमाते'त्यादौ <<नेर्गदनद>> [[8.4.17]] इति णत्वं न स्यात्, तथा 'गै' इत्यस्यात्वे <<घुमास्था>> [[6.4.66]] इतीत्वं न स्यादत आह —", "paribhasha": "गामादाग्रहणेष्वविशेषः", "text": "अत्र च ज्ञापकं दैपः पित्त्वम् । तद्धि 'अदाबि'ति सामान्यग्रहणार्थम् । अन्यथा लाक्षणिकत्वादेव विधौ तदग्रहणे सिद्धे किं निषेधे सामान्यग्रहणार्थेन पित्त्वेन । तेन चैकदेशानुमतिद्वारा सम्पूर्णपरिभाषा ज्ञाप्यते ।\nइयं च 'लक्षणप्रतिपदोक्त'परिभाषा-'निरनुबन्धक'परिभाषा-'लुग्विकरण'परिभाषाणां बाधिका । <<दाधाघ>> [[1.1.20]] सूत्रे भाष्ये स्पष्टा ।\n<<गातिस्था>> [[2.4.77]] इति सूत्रे इणादेशगाग्रहणमेवेष्यत इति दोष इत्यन्यत्र विस्तरः ॥" }, { "num": "116", "prelude": "ननु वृद्ध्यादिसंज्ञाः समुदाये स्युरत आह —", "paribhasha": "प्रत्येकं वाक्यपरिसमाप्तिः", "text": "देवदत्तादयो भोज्यन्तामित्यत्र भुजिवत् ॥" }, { "num": "117", "prelude": "नन्वेवं संयोगसंज्ञासमाससंज्ञाऽभ्यस्तसंज्ञा अपि प्रत्येकं स्युरत आह —", "paribhasha": "क्वचित्समुदायेऽपि", "text": "'गर्गाः शतं दण्ड्यन्ताम्, अर्थिनश्च राजानो हिरण्येन भवन्ती'त्यादौ दण्डनवत् । लक्ष्यानुरोधेन च व्यवस्था ॥" }, { "num": "118", "prelude": "ननु <<यूस्त्र्याख्यौ>> [[1.4.3]] इत्यत्र व्यक्तिपक्षे दीर्घनिर्देशादनण्त्वेन ग्राहकसूत्राप्राप्त्योदात्ताद्यन्यतमोच्चारणेऽन्यस्वरकस्य संज्ञा न स्यादत आह —", "paribhasha": "अभेदका गुणाः", "text": "असति यत्ने स्वरूपेणोच्चारितो गुणो न भेदको न विवक्षित इत्यर्थः ।\nअत्र च <<अस्थिदधि>> [[7.1.75]] इत्यादावनङादेरुदात्तस्यवोच्चारणेन सिद्धे उदात्तग्रहणं ज्ञापकम्॥\n'स्वरूपेणोच्चारित' इत्युक्तेरनुदात्तादेरन्तोदात्तादित्युदात्तादिशब्दोच्चारणे विवक्षैव । <<उञः>> [[1.1.17]] <<ऊँ>> [[1.1.18]] इत्यत्र अननुनासिके एवोच्चारणीये यत्नाधिक्येनानुनासिकोच्चारणाद्विवक्षा बोध्या । <<पथिमथ्यृभुक्षाम्>> [[7.1.85]] इत्यादौ स्थान्यनुरूपतयानुनासिक एवोच्चारणीये निरनुनासिकोच्चारणात्तद्विवक्षा । एतदर्थमेव 'असति यत्न' इत्युक्तम् ।\nन चैवमस्थ्यादीनां 'नब्विषयस्य' इत्याद्युदात्ततया अन्त्यादेशस्यानङः स्थान्यनुरूपेऽनुदात्त एवोच्चारणीये उदात्तोच्चारणं विवक्षार्थ भविष्यतीति कथमस्य ज्ञापकत्वमिति वाच्यम् । परमास्थिशब्दादावन्तोदात्त उदात्तगुणकस्यापि स्थानित्वेन विवक्षायां मानाभावात् ।\n'चतसर्याद्युदात्तनिपातं करिष्यते, वधादेश आद्युदात्तनिपातनं करिष्यते, पदादयोऽन्तोदात्ता निपात्यन्ते, सहस्य स उदात्तो निपात्यत' इत्यादिभाष्यं त्वेकश्रुत्याष्टाध्यायीपाठे क्वचिदुदात्ताद्युच्चारणं विवक्षार्थमित्याशयेन । त्रैस्वर्येण पाठ इति पक्षे तु ज्ञापकपरं भाष्यमिति कैयटादयः ।\nपरे तु - निपातनं नामान्यादृशे प्रयोगे प्राप्तेऽन्यादृशप्रयोगकरणम्, तत्तद्रूपाद् यत्नात्तत्र तत्रोदात्तादिविवक्षा । 'तिसृचतसृ' इत्यत्र द्वन्द्वप्रयुक्तेऽन्तोदात्ते उच्चारणीये आद्युदात्तोच्चारणमन्यत्र स्थान्यनुरूपे स्वर उच्चारणीये तत्तदुच्चारणं विवक्षार्थम् ।\nसम्पूर्णाष्टाध्याय्याचार्येणैकश्रुत्या पठितेत्यत्र न मानम् । क्वचित्पदस्यैकश्रुत्यापि पाठो यथा <<दाण्डिनायन>> [[6.4.174]] इत्यादि सूत्र 'ऐक्ष्वाके'ति । यद्यप्यध्येतार एकश्रुत्यैवाङ्गानि पठन्ति ब्राह्मणवत्तथापि व्याख्यानतोऽनुनासिकत्वादिवदुदात्तनिपातनादिज्ञानमित्याहुः ।\nविधेयाण्विषये त्वप्रत्यय इति निषेधान्न गुणाभेदकत्वेन सवर्णग्रहणम् । अत एव घटवदित्यादौ मतोर्मस्य नानुनासिको वकारः । अत एव <<तद्वानासाम्>> [[4.4.125]] इति सूत्रनिर्देशः । अन्यथा 'प्रत्यये भाषायाम्' इति नित्यमनुनासिकः स्यात् । जातिपक्षे तु नास्योपयोग इति बोध्यम् । 'यू' इत्यादौ दीर्घमात्रवृत्तिजातिनिर्देशान्न क्षतिरित्यन्यत्र विस्तरः ॥" }, { "num": "119", "prelude": "ननु <<सर्वनामानि>> [[1.1.27]] इत्यत्र णत्वाभावनिपातनेऽपि लोके सणत्वप्रयोगस्य साधुत्वं स्यादत आह —", "paribhasha": "बाधकान्येव निपातनानि", "text": "तत्तत्कायें नाप्राप्ते निपातनारम्भात् । <<पुराणप्रोक्तेषु>> [[4.3.105]] इति निपातितपुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तोऽपि पृषोदरादित्वान्नेति बोध्यम् ।\nपुराणेति पृषोदरादिः पुरातनेति चेत्यन्ये ।\nइयं सर्वादिसूत्रे भाष्ये स्पष्टा । अबाधकान्यपि निपातनानीति तु भाष्यविरुद्धम् ॥" }, { "num": "120", "prelude": "ननु 'उख' धातोर्द्वित्वे स्वत एव ह्रस्वत्वात् पूर्वमभ्यासह्रस्वाप्रवृत्तौ हलादिशेषे, सवर्णदीर्घे ह्रस्वापत्तिरत आह —", "paribhasha": "पर्जन्यवल्लक्षणप्रवृत्तिः", "text": "एवं च ह्रस्वस्यापि ह्रस्वे कृते 'लक्ष्ये लक्षणस्य' इति न्यायेन न पुनर्ह्रस्वः । तदुक्तम् <<इको झल>> [[1.2.9]] इति सूत्रे भाष्ये- 'कृतकारि खल्वपि शास्त्रं पर्जन्यवदि'ति । सिद्धेऽपि ह्रस्वादिकारीत्यर्थः ।\nन च लक्ष्ये लक्षणस्य सकृदेव प्रवत्तिरित्यत्र न मानमिति वाच्यम्, 'समो वा लोपमेके' इति लोपेनैकसकारस्य, द्वित्वेन द्विसकारस्य, पुनर्द्वित्वेन च त्रिसकारस्य सिद्धौ <<समः सुटि>> [[8.3.5]] इति सूत्रस्यैव मानत्वात् । <<सम्प्रसारणाच्च>> [[6.1.108]], <<सिचि वृद्धिः>> [[7.2.1]] इत्यादौ भाष्ये स्पष्टमुक्तत्वाच्च ।\nअत्र विकारकृतो लक्ष्यभेदो न इति 'सिचि वृद्धिः' इति भाष्यात् प्रतीयत इत्यन्यत्र विस्तरः ॥" }, { "num": "121", "prelude": "ननु 'स्यन्दू'धातौ 'स्यन्त्स्यती'त्यादावात्मनेपदनिमित्तत्वाभावनिमित्तत्वाच्च <<न वृद्भ्यश्चतुर्भ्यः>> [[7.2.59]] इति निषेधस्य बहिरङ्गत्वेन अन्तरङ्गत्वादूदिल्लक्षणस्येड्विकल्पस्यापत्तिरत आह —", "paribhasha": "निषेधाच्च बलीयांसः", "text": "अन्तरङ्गादुपजीव्यादपि बलीयांस इत्यर्थः । 'चतुर्भ्य' इति तु स्पष्टार्थमेव । अत एव तत्प्रत्याख्यानं भाष्योक्तं सङ्गच्छते । अत एव सवर्णसंज्ञादेर्निषेधविषये न विकल्पः । अन्यथा मीमांसकरीत्या विधेरुपजीव्यत्वेन प्राबल्यात्तस्य सर्वथा बाधानुपपत्त्या दुर्वारः स इति मञ्जूषायां विस्तरः । अत एव <<द्वन्द्वे च>> [[1.1.31]] <<विभाषा जसि>> [[1.1.32]] इति चरितार्थम् । विध्युन्मूलनाय प्रवृत्तिरस्या बीजम् । <<न लुमता>> [[1.1.63]] <<कमेणिङ्>> [[3.1.30]] इत्यनयोर्भाष्ये स्पष्टैषा ॥" }, { "num": "122", "prelude": "ननु अत्यन्तस्वार्थिकानामर्थप्रत्यायकत्वरूपप्रत्ययत्वानुपपत्तिरत आह —", "paribhasha": "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे", "text": "यस्यार्थः प्रकृत्या प्रत्याय्यते सोऽपि प्रत्यय इत्यस्याप्यङ्गीकारात्तस्य प्रत्ययत्वमिति न दोषः । स्वार्थ इत्यस्य स्वीयप्रकृत्यर्थ इत्यर्थः । \nमहासंज्ञाबलादर्थाकाङ्क्षायामन्यानुपस्थितिरस्या बीजम् । <<सुपि स्थः>> [[3.2.4]] इत्यादिसूत्रेषु भाष्ये स्पष्टैषा ॥" }, { "num": "123", "prelude": "", "paribhasha": "योगविभागादिष्टसिद्धिः", "text": "इष्टसिद्धिरेव न त्वनिष्टापादनं कार्यमित्यर्थः । तत्तत्समानविधिकद्वितीययोगेन विभक्तस्यानित्यत्वज्ञापनमेतद्बीजम् ॥" }, { "num": "124", "prelude": "", "paribhasha": "पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते", "text": "तत्र तत्रान्यतरस्यां विभाषा वेति सूत्रनिर्देशज्ञापितमिदम् ॥" }, { "num": "125", "prelude": "", "paribhasha": "ज्ञापकसिद्धं न सर्वत्र", "text": "स्पष्टमेव पठितव्येऽनुमानाद् बोधनसार्वत्रिकत्वार्थमित्यर्थः । तेन ज्ञापकसिद्धपरिभाषयानिष्टं नापादनीयमिति तात्पर्यम् । भाष्येऽपि ध्वनितमेतत् ङ्याप्सूत्रादौ ।\nज्ञापकेति न्यायस्याप्युपलक्षणम् । न्यायज्ञापकसिद्धानामपि केषाश्चित्कथनमन्येषामनित्यत्वबोधनायेति भावः । यथा 'तत्स्थानापन्ने तद्धर्मलाभ' इति न्यायसिद्धं स्थानिवत्सूत्रम्, ज्ञापकसिद्धं च तत्र 'अनल्विधा'विति ॥" }, { "num": "126", "prelude": "ननु 'द्रोग्धा द्रोग्धा द्रोढा द्रोढे'त्यादौ घत्वादीनामसिद्धत्वात् पूर्वं द्वित्वे एकत्र घत्वमपरत्र ढत्वमित्यस्याप्यापत्तिरत आह —", "paribhasha": "पूर्वत्रासिद्धीयमद्वित्वे", "text": "द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धमित्यर्थः । <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यधिकारभवं शास्त्रमस्या लिङ्गम् ।\nयत्र च सिद्धत्वासिद्धत्वयोः फले विशेषस्तत्रैवेयम् । 'कृष्णर्द्धि'रित्यादौ जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषाभावेन नास्याः प्रवृत्तिरित्यन्यत्र विस्तरः । <<सर्वस्य द्वे>> [[8.1.1]] इति सूत्रे भाष्ये स्पष्टेयम् ॥" }, { "num": "127", "prelude": "ननु 'गोष्वश्वेषु च स्वामी'त्यादिवत् 'गोष्वश्वानां च स्वामी'त्यपि स्यात् <<स्वामीश्वर>> [[2.3.39]] इति सूत्रेण षष्ठीसप्तम्योर्विधानादत आह —", "paribhasha": "एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति", "text": "यत्रान्याकृतिकरणे भिन्नार्थत्वसम्भावना तद्विषयोऽयं न्याय इत्यन्यत्र विस्तरः । <<कृञ्चानुप्रयुज्यते>> [[3.1.40]] इति सूत्रे भाष्ये स्पष्टेयम् ॥" }, { "num": "128", "prelude": "ननु 'विव्याधे'त्यादौ परत्वाद् 'हलादिः शेषे' वस्य सम्प्रसारणं स्यादत आह —", "paribhasha": "सम्प्रसारणं तदाश्रयं च कार्यं बलवत्", "text": "तदाश्रयं <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम् ।\nवस्तुतो <<लिट्यभ्यासस्य>> [[6.1.17]] इति सूत्रे उभयेषां ग्रहणस्योभयेषां सम्प्रसारणमेव यथा स्यादित्यर्थकत्वेनेदं सिद्धमित्येषा व्यर्थेति 'लिट्यभ्यासस्य' इति सूत्रे भाष्ये स्पष्टम् । फलान्तरान्यथासिद्धिरपि तत्रैव भाष्ये स्पष्टा । <<णौ च संश्चङोः>> [[6.1.31]] इत्यादौ संश्चङोरित्यादि विषयसप्तमीति तत्रापि न दोष इत्यन्यत्र विस्तरः ॥" }, { "num": "129", "prelude": "यत्तु —", "paribhasha": "क्वचिद्वकृतिः प्रकृतिं गृह्णाति", "text": "तेन <<निसमुपविभ्यो ह्वः>> [[1.3.30]] इत्यत्र ह्वाग्रहणेन ह्वेञो ग्रहणसिद्धिः ।" }, { "num": "130", "prelude": "तथा —", "paribhasha": "औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्", "text": "तेन <<दादेर्धातोः>> [[8.2.32]] इत्यत्र औपदेशिकधातोरेव ग्रहणमिति । तन्न । तयोर्निर्मलत्वाभाष्याव्यवहृतत्वाच्च । न च विकृतिः प्रकृतिं गृह्णातीति <<ग्रहिज्या>> [[6.1.16]] इति सूत्रस्थभाष्येणाद्यायास्तिरस्काराच्च 'निसमुपविभ्यो ह्वः' इत्यादौ ह्वेञोऽनुकरणे सौत्रः प्रयोगः ।\n आत्वविषय एवात्मनेपदं प्रयोगस्थानामेवानुकरणस्य घुसंज्ञासूत्रे भाष्ये स्पष्टमुक्तत्वादित्यन्ये ।\nअन्त्यापि तत्रोपदेशग्रहणं कुर्वतः सूत्रकृतो वार्तिककृतश्चासम्मता । 'इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते यत्र अस्यैतद्रूपमिति । रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम् । तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते, क उपदेशो नामे'ति घुसंज्ञासूत्रस्थभाष्येण प्रायोगिकासम्भवे तद्ग्रहणमित्यर्थस्य लाभेन भाष्यासम्मता च ।\nभाष्ये सानुबन्धकेत्यादि प्रकृताभिप्रायेण । 'दादेः' इति सूत्रे दादिपदस्यौपदेशिकदादित्ववति लक्षणेति न दोष इत्यन्यत्र विस्तरः ॥" }, { "num": "131", "prelude": "यदपि ननु 'अजर्घा, बेभिदीती'त्यादौ तत्तद्गणप्रयुक्ता विकरणा यङ्लुकि स्युः, तथा यङ्लुकि 'बेभिदिते'त्यादौ <<एकाचः>> [[7.2.10]] इति इण्निषेधः स्यादत आह —", "paribhasha": "श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥", "text": "अनुबन्धनिर्देशो द्विधा- स्वरूपेण 'ङित' इत्यादिपदेन च । 'हन्ति, याति, वाति' <<सनीवन्त>> [[7.2.49]] इति सूत्रे 'भरे'ति, <<दीङो युडचि>> [[6.4.63]], <<अनुदात्तङितः>> [[1.3.12]], <<दिवादिभ्यः श्यन्>> [[3.1.69]], <<एकाच उपदेशे>> [[7.2.10]], इत्युदाहरणानि ।\nद्वित्वं <<सनाद्यन्ताः>> [[3.1.32]] इति <<भूवादयः>> [[1.3.1]] इति च धातुत्वं भवत्येव, <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यादिभिनिषेधानित्यत्वकल्पनात् । तेन भषभावोऽप्यजर्घा' इत्यादौ भवति । अत एव <<श्वीदितः>> [[7.2.14]] इति सूत्रे कैयटे 'यत्रकाजग्रहणं किञ्चिद्' इति पाठः ।\n<<एकाच उपदेशेऽनुदात्तात्>> [[7.2.10]] इति सूत्रे एकाज्ग्रहणेनैकदेशानुमत्यषा ज्ञाप्यते । अन्यथोपदेशेऽनेकाचामुदात्तत्वस्यैव सत्त्वेन तद्वैयर्थ्यं स्पष्टमेवेति । तदपि न, भाष्यानुक्तत्वात्, एकाज्ग्रहणस्य वधिव्यावृत्त्यर्थमावश्यकत्वाच्च । न च वधिस्थान्युपदेश एकाजेवेति वाच्यम्, साक्षादुपदेशसम्भवेनैतद्विषये स्थान्युपदेशाग्रहणादुपदेशत्वावच्छेदेनकाजित्यर्थाच्च । किञ्च उत्तरार्थमेकाज्ग्रहणम् । अत एव 'जागरितवानि'त्यादावुपदेश उगन्तत्वमादाय <<श्र्युकः किति>> [[7.2.11]] इतीण्निषेधो न । तत्रोपदेश इत्यनुवृत्तिश्च स्तीर्णमित्यादाविण्निषेधायेत्याकरे स्पष्टम् ।\nन च भाष्ये यङ्लोपे 'बेभिदिते'त्यादाविट्प्रवृत्त्यर्थम् उपदेशेऽनुदात्तादेकाचः श्रूयमाणादङ्गादित्यर्थे सनीट्प्रतिषेधो वक्तव्यः, 'बिभित्सती'ति दोषोपन्यासवद्यङ्लुकि दोषानुपन्यासेन तत्रेडिष्टः, यङ्लोपेत्यादिभाष्यं तूपक्रमोपसंहारबलेन न यङ्लुग्विषयम् । किञ्च तस्य तद्विषयकत्वे यङ्लोपे स्थानिवत्त्वस्येव यङ्लुक्युपायाप्रदर्शनेन न्यूनतापत्तिरिति वाच्यम् । इड्विषये यङ्लुको लोकेऽनभिधानेन छन्दसि सर्वविधीनां वैकल्पिकत्वेन च तत्र दोषानुपन्यासेनादोषात् । अन्यथा 'एकाज्ग्रहणं किमर्थमि'ति प्रश्नस्य 'उत्तरत्र जागर्त्यर्थमिह च वध्यर्थमित्युत्तरस्य च भाष्ये निरालम्बनतापत्तेः ।\nन च आर्द्धधातुकाक्षिप्तधातोरेकाच इति विशेषणम् । एवं च 'बिभित्सती'त्यादावुत्तरखण्डस्य धातोरेकाच्त्वमस्त्येवोत्तरखण्डेऽस्तित्ववत् । एतच्च <<दयतेः>> [[7.4.9]] इति सूत्रे भाष्ये स्पष्टम् । एवं च प्रकृतभाष्यासङ्गतिरिति वाच्यम् । आक्षेपे आक्षिप्तस्यान्वये च मानाभावात् । अङ्गत्वं तु विशिष्ट एवेति <<एकाचो द्वे>> [[6.1.1]] इति सूत्र भाष्ये स्पष्टम् । निरूपितं च तनादिशेष शब्देन्दुशेखरे । धातुत्वं तूत्तरखण्ड एव । अत एव <<एकाचो बशो भष>> [[8.2.37]] इति सूत्रे धातोरवयवस्यैकाच इति वैयधिकरण्येनान्वये 'गर्धप्'सिद्धिःप्रयोजनमुक्तंभाष्ये, न तु प्रसिद्धम् 'अजर्घा' इति ।\n'अजर्घा, बेभिदीती'त्यादौ श्नम्श्यनादयस्तु 'चर्करीतं चे'त्यस्यादादौ पाठेन यङ्लुगन्ते गणान्तरप्रयुक्तविकरणस्याप्राप्त्या न भवन्ति ।\nछान्दसत्वादेव कार्यान्तराणामपि छन्दसि दृष्ट प्रयोगेष्वदृष्टानामभावो बोध्यः । भाषायां तु तादृशानामभाव एव । श्तिप्शबादिनिर्देशास्तु <<भवतेरः>> [[7.4.73]] इत्यादिसूत्रस्थतन्निर्देशवन्नार्थसाधका इत्यन्यत्र विस्तरः ॥" }, { "num": "132", "prelude": "ननु 'जभोऽचि' 'रधेश्च' 'नेट्यलिटी'त्येव सूत्र्यतां किं द्वीरधिग्रहणेनेत्यत आह —", "paribhasha": "पदगौरवाद्योगविभागो गरीयान्", "text": "प्रतिवाक्यं भिन्नवाक्यार्थबोधकत्वेन गौरवं स्पष्टमेव । परन्तु भाष्यासम्मतेयम् । <<टाङसि>> [[7.1.12]] इति सूत्रस्थभाष्यविरुद्धा च ।तत्र च इनादेशे इकारप्रत्याख्यातं योगविभागेनैव कृतिमिति बहवः ॥" }, { "num": "133", "prelude": "", "paribhasha": "अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः", "text": "'एओङ्' 'ऐऔच्' सूत्रयोर्ध्वनितैषा भाष्ये । तत्रानेकपदघटितसूत्रे प्रायेण पदलाघवविचार एव, न तु मात्रालाघवविचार इति <<ऊकालोऽच्>> [[1.2.27]] <<अपृक्त एकाल्>> [[1.2.41]] इत्यादिसूत्रेषु भाष्ये ध्वनितम् । तत्र हि सूत्रे - 'अल्ग्रहणहल्ग्रहणयोर्विशेषविचारे संज्ञायां हल्ग्रहणं <<ण्यक्षत्रिया>> [[2.4.58]] इति सूत्रेऽणिञोरिति वाच्यमिति त्रीणि पदान्यल्ग्रहणे, तदेकं स्वादिलोपे हल्ग्रहणं ण्येतिसूत्रेऽणिजोरिति न वाच्यमपृक्तस्येति वाच्यमिति त्रीण्येव पदानीति नास्ति लाघवकृतो विशेष' इत्युक्तम् ।\n<<अचि श्नु>> [[6.4.77]] इति सूत्रे इण इत्येव सिद्धे ग्वोरिति सम्मृद्य ग्रहणान्न पूर्वेणेण्ग्रहणम् । तत्र विभक्तिनिर्देशे सम्मृद्य ग्रहणे च सार्धास्तिस्रो मात्रा इण्ग्रहणे तिस्रो मात्रा इति लणसूत्रे भाष्योक्तः । तथा <<ओतः श्यनि>> [[7.3.71]] इति सूत्रे शितीति न वक्तव्यम् । तत्रायमर्थः- <<ष्ठिवुक्लमु>> [[7.3.75]] इति सूत्रे शितीति न कर्तव्यं भवतीति भाष्ये न केवलं मात्रालाघवं यावदयमप्यर्थ इति कैयटोक्तः प्रायेणेति शिवम् ॥" } ] }