{ "name": "shiksha", "data": [ { "id": "1", "text": "अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥", "pc": "अथ शिक्षाम् प्रवक्ष्यामि पाणिनीयम् मतम् यथा । शास्त्र-अनुपूर्वम् तत् विद्यात् यथा उक्तम् लोकवेदयोः", "anvaya": "अथ पाणिनीयं मतं यथा (तथा तदीयां) शिक्षां प्रवक्ष्यामि । यथा लोकवेदयोः उक्तं, (तथा अत्रापि) तत् शास्त्रानुपूर्वम् विद्यात् ।", "artha": "शिष्यजिज्ञासाया अनन्तरं यथा पाणिनीयं मतं तथा तदीयां शिक्षां नाम वेदाङ्गशास्त्रं विशदीकरिष्यामि। किमर्थम् इति चेत्, पाणिनीयं मतं यथा लोके वेदे चोक्तं, तथा शास्त्रानुपूर्वम् अर्थात् पूर्वाचार्यपरम्परया प्राप्तानुशासनपूर्वकं ज्ञातव्यम् अस्ति ।", "tatparya": "अत्रायमाशयः - लोके अस्माभिः व्यवहारार्थम् शब्दाः उपयुज्यन्ते। तेषु अयं साधुशब्दः, अयम् असाधुशब्दः इति विवेकः नितरामावश्यकः। अन्यथा अस्माकं लौकिकव्यवहारः साधुभूतो न स्यात्। तदर्थं प्रथमं कः साधुशब्दः इति ज्ञानमावश्यकम्। तच्च ज्ञानं आचार्यपरम्परया लब्धानुशासनं विना न सिद्ध्यति। अतः पाणिनीयं मतं यथा वर्तते, तथैव तदीयशिक्षारूपं वेदांगं विस्तरेण विवृणोमि इति ग्रन्थकारः अस्यां कारिकायां प्रतिज्ञां करोति। अनेन क्रमेण अस्य ग्रन्थस्य चत्वारः अनुबन्धा अपि दर्शिताः । तथा च शब्दानां उच्चारणं कथं कर्तव्यमिति विषये यस्य पुरुषस्य जिज्ञासा वर्तते, स एव अत्र अधिकारी भवति। शब्दस्य अनेन क्रमेण उच्चारणं कर्तव्यमिति ज्ञानं प्रयोजनम्। कः साधुशब्दः इति प्रतिपादनम् अनेन शास्त्रेण क्रियते इत्यतः अस्य शास्त्रस्य प्रतिपाद्यः साधुशब्दः । अतः स एवात्र विषयः। तत्प्रतिपादकम् इदं शास्त्रमिति प्रतिपाद्यप्रतिपादकभावः सम्बन्धः । \n किमर्थं शब्दानाम् उच्चारणक्रमः अस्माभिः ज्ञातव्यः इति चेत्, साक्षात्कृतं विषयं यथार्थतया प्रतिपादयितुं तदावश्यकम्। अत एव प्रातिशाख्ये एवमुक्तं - \n पदक्रमविभागज्ञो वर्णक्रमविचक्षणः । \n स्वरमात्राविशेषज्ञो गच्छेदाचार्यसम्पदम् ॥ (ऋग्वेदप्रातिशाख्यम् १-८) \n इत्थं शिक्षाविदामेवाचार्यत्वसम्पत्तिरिति कारणात् पाणिनीयमतानुसारं शिक्षा अत्र निरूप्यते इति तात्पर्यम् । ॥१॥" }, { "id": "2", "text": "प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥", "pc": "प्रसिद्धम् अपि शब्दार्थम् अविज्ञातम् अबुद्धिभिः पुनः व्यक्तीकरिष्यामि वाचः उच्चारणे विधीम्", "anvaya": "प्रसिद्धम् अपि शब्दार्थम् अबुद्धिभिः अविज्ञातम् (अस्ति), (अतः) पुनः वाचः उच्चारणे विधिं व्यक्तीकरिष्यामि।", "artha": "वस्तुतः तु शब्दानाम् उच्चारणविधिः प्रसिद्धः (सर्वेषां परिचितः) एव अस्ति, तथापि ये व्याकरणाध्ययनम् न कृतवन्तः, ते अल्पबुद्धिजनाः एतम् सम्यक् रूपेण न जानन्ति । अतः भाषायाः उच्चारणस्य विधिम्, नियमान् च अहम् पुनः एकवारम् विस्तारेण वदामि ।" }, { "id": "3", "text": "त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥", "pc": "त्रिषष्टिः चतुःषष्टिः वा वर्णाः शम्भुमते मताः प्राकृते संस्कृते च अपि स्वयम् प्रोक्ताः स्वयम्भुवा", "anvaya": "प्राकृते संस्कृते चापि त्रिषष्टिः चतुःषष्टिः वा वर्णाः शम्भुमते मताः, (ते च) स्वयं स्वयम्भुवा प्रोक्ताः।", "artha": "भगवता शङ्करस्य मतेन संस्कृतभाषायाम् प्राकृतभाषायाम् च आहत्य त्रिषष्टिः उत चतुःषष्टिः वर्णाः सन्ति (इत्युक्ते, केचन पण्डिताः त्रिषष्टिम् वर्णान् मन्यन्ते, केचन अन्ये च चतुःषष्टिम् वर्णान् मन्यन्ते इत्याशयः) । भगवता ब्रह्मणा अपि एते एव वर्णाः स्वयम् पाठिताः सन्ति । " }, { "id": "4", "text": "स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥", "pc": "स्वराः विंशतिः एकः च स्पर्शानाम् पञ्चविंशतिः । य-आदयः च स्मृताः हि अष्टौ चत्वारः च यमाः स्मृताः", "anvaya": "विंशतिः एकश्च स्वराः, स्पर्शानां पञ्चविंशतिः, यादयः च हि अष्टौ स्मृताः, चत्वारः च यमाः स्मृताः।", "artha": "इदानीम् त्रिषष्टिवर्णानाम् / चतुःषष्टिवर्णानाम् परिगणनं क्रियते । स्वराः आहत्य एकविंशतिः सन्ति । स्पर्शवर्णाः आहत्य पञ्चविंशतिः सन्ति । यकारादयः वर्णाः आहत्य अष्ट सन्ति । यमाः आहत्य चत्वारः सन्ति । (अनेन प्रकारेण अत्र आहत्य अष्टपञ्चाशत् वर्णाः प्रोक्ताः सन्ति । अवशिष्टाः षट् वर्णाः अग्रिमश्लोके दीयन्ते । अपि च, एतेषां सर्वेषां वर्णानां अर्थः विवरणम् च अग्रिमश्लोकेषु दत्तम् अस्ति । " }, { "id": "5", "text": "अनुस्वारो विसर्गश्च ≍क≍पौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च ॥", "pc": "अनुस्वारः विसर्गः च ≍क≍पौ च अपि पर-आश्रितौ । दुःस्पृष्टः च इति विज्ञेयः ऌकारः प्लुतः एव च", "anvaya": "अनुस्वारः विसर्गः च, पराश्रितौ ≍क≍पौ चापि, दुःस्पृष्टः च, प्लुतः लकारः च विज्ञेयः।", "artha": "इदानीम् अवशिष्टानाम् षण्णां वर्णानाम् परिगणनं क्रियते - अनुस्वारः, विसर्गः, जिह्वामूलीयः, उपध्मानीयः, दुःस्पृष्टः, तथा च प्लुतः ऌकारः । अनेन प्रकारेण आहत्य चतुःषष्टिवर्णाः विद्यन्ते । ये पण्डिताः प्लुत-ऌकारं न मन्यन्ते, ते त्रिषष्टिवर्णान् एव स्वीकुर्वन्ति । एतेषां वर्णानां विवरणम् अग्रे वक्ष्यते । " }, { "id": "6", "text": "आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥", "pc": "आत्मा बुद्ध्या समेति अर्थान् मनः युङ्क्ते विवक्षया । मनः कायाग्निम् आहन्ति सः प्रेरयति मारुतम्", "anvaya": "आत्मा अर्थान् बुद्ध्या समेत्य विवक्षया मनः युङ्क्ते, मनः कायाग्निम् आहन्ति, सः मारुतं प्रेरयति।", "artha": "बुद्धेः साहाय्येन आत्मा अर्थम् चिन्तयित्वा भाषया तं प्रकटीकर्तुम् चित्तम् अस्मिन् कार्ये योजयति । तदनन्तरम् चित्तम् जठराग्निम् उत्तेजयति । जठराग्निः च वायुं बहिः गन्तुं प्रेरयति ।" }, { "id": "7", "text": "मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । प्रातः सवनयोगं तं छन्दो गायत्रमाश्रितम् ॥", "pc": "मारुतः तु उरसि चरन् मन्द्रम् जनयति स्वरम् । प्रातः सवनयोगम् तम् छन्दः गायत्रम् आश्रितम्", "anvaya": "मारुतस्तु उरसि चरन् प्रातः सवनयोगं छन्दोगायत्रम् आश्रितं तं मन्द्रं स्वरं जनयति।", "artha": "जठराग्निना उत्तेजितः वायुः हृदयं प्रविशति । प्रातःकाले क्रियमाणे यज्ञकर्मणि 'गायत्रि' नाम्नि छन्दसि यः स्वरः उच्चार्यते, तं गभीरं ध्वनिम् अयं वायुः हृदये निर्माति ।" }, { "id": "8", "text": "कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥", "pc": "कण्ठे माध्यन्दिन-युगम् मध्यमम् त्रैष्टुभ-अनुगम् । तारम् तार्तीयसवनम् शीर्षण्यम् जागत-अनुगम्", "anvaya": "(मारुतः) कण्ठे (चरन्) त्रैष्टुभानुगं माध्यन्दिनयुगं मध्यमम्, शीर्षण्यं जागतानुगं तार्तीयसवनं तारं (स्वरं जनयति)।", "artha": "तदनन्तरम् जठराग्निना उत्तेजितः वायुः कण्ठे प्रविशति । दिनस्य मध्यभागे क्रियमाणे यज्ञकर्मणि 'त्रिष्टुभ्' नाम्नि छन्दसि यः स्वरः उच्चार्यते, तं मध्यमं ध्वनिं अयं वायुः कण्ठे जनयति । ततः अयं वायुः शिरसि प्रविशति । सायङ्काले क्रियमाणे यज्ञकर्मणि 'जगति' नाम्नि छन्दसि यः स्वरः उच्चार्यते, तं तारध्वनिम् अयं वायुः शिरसि निर्माति ।" }, { "id": "9", "text": "सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥", "pc": "स-उदीर्णः मूर्ध्नि अभिहतः वक्त्रम् आपद्य मारुतः । वर्णान् जनयते तेषाम् विभागः पञ्चधा स्मृतः", "anvaya": "स मारुतः उदीर्णः मूर्ध्नि अभिहतः, वक्त्रम् आपाद्य वर्णान् जनयते, तेषां विभागः पञ्चधा स्मृतः।", "artha": "ह्रदये, कण्ठे, शिरसि च निर्मितः वायुः मूर्ध्नि प्रहारं कृत्वा मुखे प्रविश्य वर्णानां निर्माणम् करोति । एतेषां वर्णानाम् पञ्चप्रकारैः विभागाः कृताः सन्ति ।" }, { "id": "10", "text": "स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ॥", "pc": "स्वरतः कालतः स्थानात् प्रयत्न-अनुप्रदानतः । इति वर्णविदः प्राहुः निपुणम् तम् निबोधत", "anvaya": "वर्णविदः स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः इति प्राहुः, तं निपुणं निबोधत।", "artha": "स्वरस्य आधारेण, कालस्य आधारेण, स्थानस्य आधारेण, आभ्यन्तरप्रयत्नस्य आधारेण, तथा च बाह्यप्रयत्नानाम् आधारेण - अनेन प्रकारेण पञ्चप्रकारैः वर्णविभागाः कृताः सन्ति, इति शिक्षाशास्त्रस्य पण्डिताः वदन्ति । एते भेदाः सम्यक् रूपेण ज्ञेयाः ।" }, { "id": "11", "text": "उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥", "pc": "उदातः च अनुदात्तः च स्वरितः च स्वराः त्रयः । ह्रस्वः दीर्घः प्लुतः इति कालतः नियमाः अचि", "anvaya": "उदात्तश्च अनुदात्तश्च स्वरितश्च (इति) त्रयः स्वराः, अचि ह्रस्वः दीर्घः प्लुतः इति कालतः नियमाः (भवन्ति)", "artha": "" }, { "id": "12", "text": "उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥", "pc": "उदात्ते निषाद-गान्धारौ अनुदात्ते ऋषभ-धैवतौ । स्वरित-प्रभवाः हि एते षड्ज-मध्यम-पञ्चमाः", "anvaya": "उदात्ते निषादगान्धारौ, अनुदात्ते ऋषभधैवतौ (अन्तर्भूतौ स्तः), एते षड्डमध्यमपञ्चमाः स्वरितप्रभवाः हि (सन्ति)। ", "artha": "" }, { "id": "13", "text": "अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥", "pc": "अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरः तथा । जिह्वामूलम् च दन्ताः च नासिका-ओष्ठौ च तालु च", "anvaya": "वर्णानाम् उरः कण्ठः शिरः तालु जिह्वामूलं नासिकोष्ठौ तथा दन्ताश्च (इति) अष्टौ स्थानानि (भवन्ति)", "artha": "" }, { "id": "14", "text": "ओभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥", "pc": "ओभावः च विवृत्तिः च शषसाः रेफः एव च । जिह्वामूलम् उपध्मा च गतिः अष्टविधा ऊष्मणः", "anvaya": "ऊष्मणः ओभावः विवृत्तिः शषसाः रेफः जिह्वामूलम् उपमा च (इति) अष्टविधा गतिः (भवति)", "artha": "" }, { "id": "15", "text": "यद्योभावप्रसन्धानमुकारादि परं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः ॥", "pc": "यदि ओभाव-प्रसन्धानम् उकारादि परम् पदम् । स्वर-अन्तम् तादृशम् विद्यात् यत् अन्यत् व्यक्तम् ऊष्मणः", "anvaya": "यदि उकारादिपरं पदम् ओभावप्रसन्धानम्, तादृशं स्वरान्तं विद्याद्, यद् अन्यद् ऊष्मणः व्यक्तम्।", "artha": "" }, { "id": "16", "text": "हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । उरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥", "pc": "हकारम् पञ्चमैः युक्तम् अन्तस्थाभिः च संयुतम् । उरस्यम् तम् विजानीयात् कण्ठ्यम् आहुः असंयुतम्।", "anvaya": "पञ्चमैः युक्तम् अन्तस्थाभिश्च संयुतं हकारम् उरस्यं विजानीयात् । असंयुतं तं कण्ठ्यम् आहुः।", "artha": "" }, { "id": "17", "text": "कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥", "pc": "कण्ठ्यौ अ-हौ इ-चु-य-शाः तालव्याः ओष्ठजौ उ-पू । स्युः मूर्धन्याः ऋ-टु-र-षाः, दन्त्याः ऌ-तु-ल-साः, स्मृताः।", "anvaya": "अहौ कण्ठ्यौ । उपू ओष्ठजौ (विज्ञेयौ) । इचुयशाः तालव्याः । ऋटुरषाः मूर्धन्याः स्युः । ऌतुलसाः दन्त्याः स्मृताः।", "artha": "" }, { "id": "18", "text": "जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । एऐ तु कण्ठतालव्या ओऔ कण्ठोष्ठजौ स्मृतौ ॥", "pc": "जिह्वामूले तु कुः प्र-उक्तः दन्त्य-ओष्ठ्यः वः स्मृतः बुधैः । ए-ऐ तु कण्ठ-तालव्यौ ओ-औ कण्ठ-ओष्ठजौ स्मृतौ।", "anvaya": "कुः तु जिह्वामूले प्रोक्तः । वः बुधैः दन्त्योष्ठ्यः स्मृतः । एऐ कण्ठतालव्यौ । ओऔ कण्ठोष्ठजौ स्मृतौ।", "artha": "" }, { "id": "19", "text": "अर्धमात्रा तु कण्ठ्यस्य एकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥", "pc": "अर्ध-मात्रा तु कण्ठ्यस्य एकार-ऐकारयोः भवेत् । ओकार-औकारयोः मात्रा तयोः विवृत-संवृतम्।", "anvaya": "एकारैकारयोः ओकारौकारयोः कण्ठ्यस्य अर्धमात्रा मात्रा तु भवेत् । तयोः विवृतसंवृतम् (ज्ञेयम्)।", "artha": "" }, { "id": "20", "text": "संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥", "pc": "संवृतम् मात्रिकम् ज्ञेयम् विवृतम् तु द्वि-मात्रिकम् । घोषाः वा संवृताः सर्वे अघोषाः विवृताः स्मृताः", "anvaya": "मात्रिकं संवृतम्, द्विमात्रिकं विवृतं तु ज्ञेयम् । सर्वे घोषाः वा संवृताः अघोषाः विवृताः स्मृताः।", "artha": "" }, { "id": "21", "text": "स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥", "pc": "स्वराणाम् ऊष्मणाम् च एव विवृतम् करणम् स्मृतम् । तेभ्यः अपि विवृतौ एङौ ताभ्याम् ऐचौ तथा एव च।", "anvaya": "स्वराणाम् ऊष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि एङौ विवृतौ, ताभ्याम् ऐचौ तथैव च।", "artha": "" }, { "id": "22", "text": "अनुस्वारयमानां च नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥", "pc": "अनुस्वार-यमानाम् च नासिका स्थानम् उच्यते । अयोगवाहाः विज्ञेयाः आश्रय-स्थान-भागिनः।", "anvaya": "अनुस्वारयमानां च नासिका स्थानम् उच्यते । अयोगवाहा आश्रयस्थानभागिनः विज्ञेयाः।", "artha": "" }, { "id": "23", "text": "अलाबुवीणानिर्घोषो दन्त्यमूल्यस्वरानुगः । अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च ॥", "pc": "अलाबु-वीणा-निर्घोषः दन्त-मूल्यः स्वर-अनुगः । अनुस्वारः तु कर्तव्यः नित्यम् ह्रोः शषसेषु च।", "anvaya": "अलाबुवीणानिर्घोषः दन्तमूल्यः स्वरानुगः अनुस्वारस्तु ह्रोः शषसेषु च नित्यं कर्तव्यः।", "artha": "" }, { "id": "24", "text": "अनुस्वारे विवृत्त्यां तु विरामे चाक्षरद्वये । द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रोकारवकारयोः ॥", "pc": "अनुस्वारे विवृत्याम् तु विरामे च अक्षर-द्वये । द्विः ओष्ठ्यौ तु विगृह्णीयात् यत्र औकार-वकारयोः।", "anvaya": "अनुस्वारे विवृत्यां विरामे अक्षरद्वये यत्र औकारवकारयोः तु द्विः ओष्ठ्यौ विगृह्णीयात्।", "artha": "" }, { "id": "25", "text": "व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥", "pc": "व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्याम् न च पीडयेत् । भीता पतनभेदाभ्याम् तद्वत् वर्णान् प्रयोजयेत्।", "anvaya": "यथा व्याघ्री पतनभेदाभ्यां भीता दंष्ट्राभ्यां पुत्रान् हरेत्, न च पीडयेत्, तद्वत् वर्णान् प्रयोजयेत्।", "artha": "" }, { "id": "26", "text": "यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते । एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ॥", "pc": "यथा सौराष्ट्रिका नारी तक्रँ इति अभिभाषते । एवम् रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया।", "anvaya": "यथा सौराष्ट्रिका नारी तक्रँ इति अभिभाषते एवं रङ्गाः प्रयोक्तव्याः (निदर्शनं तत्र) खे अराँ इव खेदया।", "artha": "" }, { "id": "27", "text": "रङ्गवर्णान् प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥", "pc": "रङ्ग-वर्णम् प्रयुञ्जीरन् नो ग्रसेत् पूर्वम् अक्षरम् । दीर्घ-स्वरम् प्रयुञ्जीयात् पश्चात् नासिक्यम् आचरेत्।", "anvaya": "रङ्गवर्णं (तथा) प्रयुञ्जीरन् (यथा) पूर्वम् अक्षरं न ग्रसेत्, दीर्घस्वरं प्रयुञ्जीयात् पश्चात् नासिक्यम् आचरेत्।", "artha": "" }, { "id": "28", "text": "हृदये चैकमात्रस्त्वर्द्धमात्रस्तु मूर्द्धनि । नासिकायां तथार्द्धं च रङ्गस्यैवं द्विमात्रता ॥", "pc": "हृदये च एक-मात्रः तु अर्ध-मात्रः तु मूर्द्धनि । नासिकायाम् तथा अर्द्धम् च रङ्गस्य एवम् द्वि-मात्रता।", "anvaya": "एकमात्रस्तु हृदये, अर्द्धमात्रस्तु मूर्द्धनि, तथा अर्द्धं नासिकायाम्, एवं रङ्गस्य द्विमात्रता।", "artha": "" }, { "id": "29", "text": "हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरन् । मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम् ॥", "pc": "हृदयात् उत्करे तिष्ठन् कांस्येन सम्-अनु-स्वरन् । मार्दवम् च द्वि-मात्रम् च जघन्वाँ इति निदर्शनम्।", "anvaya": "हृदयात् उत्करे तिष्ठन् कांस्येन समनुस्वरन् मार्दवं च द्विमानं च (समुच्चारयेत्)। (तत्र) जघन्वाँ इति निदर्शनम् (अस्ति)।", "artha": "" }, { "id": "30", "text": "मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत् । सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥", "pc": "मध्ये तु कम्पयेत् कम्पम् उभौ पार्श्वौ समौ भवेत् । सरङ्गम् कम्पयेत् कम्पम् रथीव इति निदर्शनम्।", "anvaya": "कम्पं तु मध्ये कम्पयेत् । उभौ पार्श्वौ समौ भवेत् । कम्पं सरङ्गं कम्पयेत् । रथीव इति निदर्शनम्।", "artha": "" }, { "id": "31", "text": "एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः । सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥", "pc": "एवम् वर्णाः प्रयोक्तव्याः न अव्यक्ताः न च पीडिताः । सम्यक् वर्णप्रयोगेण ब्रह्म-लोके महीयते।", "anvaya": "एवं वर्णाः प्रयोक्तव्याः। न अव्यक्ताः। न च पीडिताः। सम्यक् वर्णप्रयोगेण ब्रह्मलोके महीयते।", "artha": "" }, { "id": "32", "text": "गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥", "pc": "गीती शीघ्री शिरः-कम्पी तथा लिखित-पाठकः । अनर्थज्ञः अल्प-कण्ठः च षट् एते पाठक-अधमाः।", "anvaya": "गीती शीघ्री शिरःकम्पी लिखितपाठकः तथा अनर्थज्ञः अल्पकण्ठः च एते षट् पाठकाधमाः (भवन्ति)।", "artha": "" }, { "id": "33", "text": "माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्यं लयसमर्थं च षडेते पाठकाः गुणाः ॥", "pc": "माधुर्यम् अक्षर-व्यक्तिः पदच्छेदः तु सु-स्वरः । धैर्यम् लय-समर्थम् च षट् एते पाठकाः गुणाः।", "anvaya": "माधुर्यम् अक्षरव्यक्तिः पदच्छेदः सुस्वरः धैर्यं लयसमर्थं च एते षट् पाठकाः गुणाः (सन्ति)।", "artha": "" }, { "id": "34", "text": "शङ्कितं भीतिमुद्घृष्टमव्यक्तमनुनासिकम् । काकस्वरं शिरसिगं तथा स्थानविवजिर्तम् ॥", "pc": "शङ्कितम् भीतिम् उद्धृष्टम् अव्यक्तम् अनुनासिकम् । काक-स्वरम् शिरसिगम् तथा स्थानविवर्जितम्।", "anvaya": "शङ्कितं भीतिम् उद्धृष्टम् अव्यक्तम् अनुनासिकं काकस्वरं शिरसिगं तथा स्थानविवर्जितम् --", "artha": "" }, { "id": "35", "text": "उपांशुदष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ॥", "pc": "उपांशु-दष्टम् त्वरितम् निरस्तम् विलम्बितम् गद्गदितम् प्रगीतम् । निष्पीडितम् ग्रस्त-पद-अक्षरम् च वदेत् न दीनम् न तु स-अनुनास्यम्।", "anvaya": "-- उपांशुदष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतं निष्पीडितं ग्रस्तपदाक्षरं दीनं तथा सानुनास्यं च न वदेत्।", "artha": "" }, { "id": "36", "text": "प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन । मध्यन्दिने कण्ठगतेन चैव चक्राह्वसङ्कूजितसन्निभेन ॥", "pc": "प्रातः पठेत् नित्यम् उरः-स्थितेन स्वरेण शार्दूल-रुत-उपमेन । मध्यन्दिने कण्ठ-गतेन च एव चक्राह्व-सङ्कूजित-सन्निभेन।", "anvaya": "प्रातः उरःस्थितेन शार्दूलरुतोपमेन, मध्यन्दिने चक्राह्वसङ्कूजितसन्निभेन कण्ठगतेन चैव स्वरेण नित्यं पठेत्।", "artha": "" }, { "id": "37", "text": "तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥", "pc": "तारम् तु विद्यात् सवनम् तृतीयम् शिरो-गतम् तत् च सदा प्रयोज्यम् । मयूर-हंस-अन्यभृत-स्वराणाम् तुल्येन नादेन शिरः-स्थितेन।", "anvaya": "तृतीयं सवनं मयूरहंसान्यभृतस्वराणां तुल्येन शिरःस्थितेन नादेन, तच्च सदा शिरोगतं प्रयोज्यं तारं तु विद्यात्।", "artha": "" }, { "id": "38", "text": "अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ॥", "pc": "अचः अस्पृष्टाः यणः तु ईषत् नेम-स्पृष्टाः शलः स्मृताः । शेषाः स्पृष्टाः हलः प्र-उक्ताः निबोध अनुप्रदानतः।", "anvaya": "अचः अस्पृष्टाः, यणस्तु ईषत्, शलः नेमस्पृष्टाः स्मृताः, शेषाः हलः स्पृष्टाः प्रोक्ताः, अनुप्रदानतः निबोध।", "artha": "" }, { "id": "39", "text": "ञमोनुनासिका न ह्रौ नादिनो हझषः स्मृताः । ईषन्नादा यणो जशः श्वासिनस्तु खफादयः ॥", "pc": "ञमः अनुनासिकाः न ह्रौ नादिनः ह-झषः स्मृताः । ईषत्-नादाः यणः जशः श्वासिनः तु ख-फ-आदयः।", "anvaya": "ञमः अनुनासिकाः, ह्रौ न, हझषः नादिनः स्मृताः । यणः जशश्च ईषन्नादाः। खफादयः तु श्वासिनः (सन्ति)।", "artha": "" }, { "id": "40", "text": "ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते । दाक्षीपुत्रपाणिनिना येनेदं व्यापितं भुवि ॥", "pc": "ईषत्-श्वासान् चरः विद्यात् गोः धाम एतत् प्रचक्षते । दाक्षी-पुत्र-पाणिनिना येन इदम् व्यापितम् भुवि।", "anvaya": "चरः ईषच्छ्वासान् विद्यात्। एतत् गोः धाम प्रचक्षते। येन दाक्षीपुत्रपाणिनिना इदं भुवि व्यापितम् (अस्ति)।", "artha": "" }, { "id": "41", "text": "छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥", "pc": "छन्दः पादौ तु वेदस्य हस्तौ कल्पः अथ पठ्यते । ज्योतिषाम् अयनम् चक्षुः निरुक्तम् श्रोत्रम् उच्यते।", "anvaya": "वेदस्य पादौ छन्दः, अथ हस्तौ कल्पः पठ्यते । चक्षुः ज्योतिषाम् अयनम्, श्रोत्रं निरुक्तम् उच्यते।", "artha": "" }, { "id": "42", "text": "शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥", "pc": "शिक्षा घ्राणम् तु वेदस्य मुखम् व्याकरणम् स्मृतम् । तस्मात् स-अङ्गम् अधीत्य एव ब्रह्म-लोके महीयते।", "anvaya": "वेदस्य घ्राणं तु शिक्षा, मुखं व्याकरणं स्मृतम् (अस्ति)। तस्मात् साङ्गम् (वेदम्) अधीत्य एव ब्रह्मलोके महीयते।", "artha": "" }, { "id": "43", "text": "उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा । उपान्तमध्ये स्वरितं द्रुतं च कनिष्ठकायामनुदात्तमेव ॥", "pc": "उदात्तम् आख्याति वृषः अङ्गुलीनाम् प्रदेशिनी-मूल-निविष्ट-मूर्धा । उपान्त-मध्ये स्वरितम् द्रुतम् च कनिष्ठिकायाम् अनुदात्तम् एव।", "anvaya": "अङ्गुलीनां वृषः प्रदेशिनीमूलनिविष्टमूर्धा उदात्तम्, उपान्तमध्ये द्रुतं च स्वरितम्, कनिष्ठिकायाम् अनुदात्तम् एव आख्याति।", "artha": "" }, { "id": "44", "text": "उदात्तं प्रदेशिनीं विद्यात्प्रचयं मध्यतोङ्गुलिम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥", "pc": "उदात्तम् प्रदेशिनीम् विद्यात् प्रचयम् मध्यतः अङ्गुलिम् । निहतम् तु कनिष्ठिक्याम् स्वरित-उप-कनिष्ठिकाम्।", "anvaya": "उदात्तं प्रदेशिनीम्, प्रचयं मध्यतः अङ्गुलिम्, निहतं कनिष्ठिक्याम्, स्वरितम् उपकनिष्ठिकां विद्यात्।", "artha": "" }, { "id": "45", "text": "अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् । मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥", "pc": "अन्त-उदात्तम् आदि-उदात्तम् उदात्तम् अनुदात्तम् नीच-स्वरितम् । मध्य-उदात्तम् स्वरितम् द्वि-उदात्तम् त्रि-उदात्तम् इति नव-पद-शय्या।", "anvaya": "अन्तोदात्तम् आद्युदात्तम् उदात्तम् अनुदात्तं नीचस्वरितं मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तम् इति नवपदशय्या।", "artha": "" }, { "id": "46", "text": "अग्निः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तम् । प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ॥", "pc": "अग्निः सोमः प्र वः वीर्यम् हविषाम् स्वर् बृहस्पतिः इन्द्राबृहस्पती अग्निः इति अन्त-उदात्तम् सोमः इति आदि-उदात्तम् प्र इति उदात्तम् वः इति अनुदात्तम् वीर्यम् नीच-स्वरितम्", "anvaya": "अग्निः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिः इन्द्राबृहस्पती (इत्यस्मिन् उदाहरणे) अग्निः इति अन्तोदात्तम्, सोम इति आद्युदात्तम्, प्र इति उदात्तम्, वः इति अनुदात्तम्, वीर्यं (इति) नीचस्वरितम् --", "artha": "" }, { "id": "47", "text": "हविषां मध्योदात्तं स्वरिति स्वरितम् । बृहस्पतिरिति द्व्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥", "pc": "हविषाम् मध्य-उदात्तम् स्वर् इति स्वरितम् बृहस्पतिः इति द्व्युदात्तम् इन्द्राबृहस्पती इति त्र्युदात्तम्।", "anvaya": "-- हविषां (इति) मध्योदात्तम्, स्वर् इति स्वरितम्, बृहस्पतिः इति द्व्युदात्तम्, इन्द्राबृहस्पती इति त्र्युदात्तम्।", "artha": "" }, { "id": "48", "text": "अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः । स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥", "pc": "अनुदात्तः हृदि ज्ञेयः मूर्ध्नि उदात्तः उदाहृतः । स्वरितः कर्ण-मूलीयः सर्व-आस्ये प्रचयः स्मृतः।", "anvaya": "अनुदात्तः हृदि ज्ञेयः, उदात्तः मूर्ध्नि उदाहृतः, स्वरितः कर्णमूलीयः, प्रचयः सर्वास्ये स्मृतः (अस्ति)।", "artha": "" }, { "id": "49", "text": "चाषस्तु वदते मात्रां द्विमात्रं चैव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥", "pc": "चाषः तु वदते मात्राम् द्वि-मात्रम् च एव वायसः । शिखी रौति त्रिमात्रम् तु नकुलः तु अर्ध-मात्रकम्।", "anvaya": "चाषः मात्रां वदते, वायसः च द्विमात्रम् एव, शिखी त्रिमात्रं रौति, नकुलः तु अर्धमात्रकम्।", "artha": "" }, { "id": "50", "text": "कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥", "pc": "कुतीर्थात् आगतम् दग्धम् अप-वर्णम् च भक्षितम् । न तस्य पाठे मोक्षः अस्ति पाप-अहेः इव किल्बिषात्।", "anvaya": "कुतीर्थात् आगतं दग्धम् अपवर्णं भक्षितं च (यद् ब्रह्म वर्तते) तस्य पाठे किल्बिषात् पापाहेः इव मोक्षः न अस्ति।", "artha": "" }, { "id": "51", "text": "सुतीर्थादगतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् । सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ॥", "pc": "सु-तीर्थात् आगतम् व्यक्तम् सु-आम्नाय्यम् सु-व्यवस्थितम् । सु-स्वरेण सु-वक्त्रेण प्रयुक्तम् ब्रह्म राजते", "anvaya": "सुतीर्थात् आगतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितं सुवक्त्रेण सुस्वरेण प्रयुक्तं ब्रह्म राजते", "artha": "" }, { "id": "52", "text": "मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ॥", "pc": "मन्त्रः हीनः स्वरतः वर्णतः वा मिथ्या-प्रयुक्तः न तम् अर्थम् आह । सः वाग्-वज्रः यजमानम् हिनस्ति यथा इन्द्र-शत्रुः स्वरतः अपराधात्।", "anvaya": "स्वरतः वर्णतः वा हीनः मन्त्रः मिथ्याप्रयुक्तः तम् अर्थं न आह, सः वाग्वज्रः यजमानं हिनस्ति, यथा स्वरतः अपराधात् इन्द्रशत्रुः (यजमानं हतवान्)।", "artha": "" }, { "id": "53", "text": "अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् । अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥", "pc": "अनक्षरम् हत-आयुष्यम् वि-स्वरम् व्याधि-पीडितम् । अक्षता शस्त्र-रूपेण वज्रम् पतति मस्तके।", "anvaya": "अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् अक्षता शस्त्ररूपेण वज्रं (सत्) (यजमानस्य) मस्तके पतति।", "artha": "" }, { "id": "54", "text": "हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥", "pc": "हस्त-हीनम् तु यः अधीते स्वर-वर्ण-विवर्जितम् । ऋक्-यजुः-सामभिः दग्धः वियोनिम् अधि-गच्छति", "anvaya": "यः हस्तहीनं स्वरवर्णविवर्जितम् अधीते (सः) ऋग्यजुःसामभिः दग्धः (सन्) वियोनिम् अधिगच्छति।", "artha": "" }, { "id": "55", "text": "हस्तेन वेदं योऽधीते स्वरवर्णर्थसंयुतम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥", "pc": "हस्तेन वेदम् यः अधीते स्वर-वर्ण-अर्थ-संयुतम् । ऋक्-यजुः-सामभिः पूतः ब्रह्म-लोके, महीयते", "anvaya": "यः स्वरवर्णार्थसंयुतं वेदं हस्तेन अधीते (सः) ऋग्यजुःसामभिः पूतः ब्रह्मलोके महीयते।", "artha": "" }, { "id": "56", "text": "शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्राय धीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥", "pc": "शङ्करः शाङ्करीम् प्र-अदात् दाक्षी-पुत्राय धीमते । वाङ्मयेभ्यः सम्-आ-हृत्य देवीम् वाचम् इति स्थितिः", "anvaya": "शङ्करः वाङ्मयेभ्यः समाहृत्य शाङ्करीं देवीं वाचं धीमते दाक्षीपुत्राय प्रादात् इति स्थितिः (अस्ति)।", "artha": "" }, { "id": "57", "text": "येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥", "pc": "येन अक्षर-समाम्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्र-उक्तम् तस्मै पाणिनये नमः", "anvaya": "येन महेश्वरात् अक्षरसमाम्नायम् अधिगम्य कृत्स्नं व्याकरणं प्रोक्तम् तस्मै पाणिनये नमः।", "artha": "" }, { "id": "58", "text": "येन धौता गिरः पुंसां विमलैः शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥", "pc": "येन धौताः गिरः पुंसाम् विमलैः शब्द-वारिभिः तमः च अज्ञानजम् भिन्नम् तस्मै पाणिनये नमः", "anvaya": "येन विमलैः शब्दवारिभिः पुंसां गिरः धौताः अज्ञानजं तमः च भिन्नम् तस्मै पाणिनये नमः।", "artha": "" }, { "id": "59", "text": "अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥", "pc": "अज्ञान-अन्धस्य लोकस्य ज्ञान-अञ्जन-शलाकया चक्षुः उन्मीलितम् येन तस्मै पाणिनये नमः", "anvaya": "ज्ञानाञ्जनशलाकया अज्ञानान्धस्य लोकस्य चक्षुः येन उन्मीलितम् तस्मै पाणिनये नमः।", "artha": "" }, { "id": "60", "text": "त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमान् अतुलं च सुखं समश्नुते दिवीति दिवीति ॥", "pc": "त्रि-नयनम् अभि-मुख-निःसृताम् इमाम् यः इह पठेत् प्रयतः च सदा द्विजः । सः भवति धन-धान्य-पशु-पुत्र-कीर्तिमान् अतुलम् च सुखम् सम्-अश्नुते दिवि इति दिवि इति", "anvaya": "यः द्विजः प्रयतः (सन्) सदा त्रिनयनम् अभिमुखनिःसृताम् इमां पठेत् सः इह धनधान्यपशुपुत्रकीर्तिमान् भवति दिवि इति दिवि इति अतुलं सुखं च समश्नुते।", "artha": "" } ] }