{ "name": "shivasutra", "data": [{ "id": "1", "sutra": "अइउण्", "kashika": "अ इ उ इत्यनेन क्रमेण वर्णानुपदिश्यान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - <<उरण् रपरः>> [[1.1.51]] इत्यकारेण ॥ ह्रस्वः अवर्णः प्रयोगे संवृतः । दीर्घप्लुतयोस्तु विवृतत्वम् । तेषां सावर्ण्यप्रसिद्ध्यर्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते । तस्य प्रयोगार्थम् <<अ अ>> [[8.4.68]] इति शास्त्रान्ते प्रत्यापत्तिः करिष्यते ॥", "vyakhya": "'अइउण्' इति प्रथमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'अ', 'इ', 'उ' इत्येतेषां त्रयाणाम् उपदेशः क्रियते । अन्ते विद्यमानः 'ण्' इत्संज्ञकः अस्ति । अस्य साहाय्येन अण् इति प्रत्याहारः सिद्ध्यति । \n\nअण्<\/b> प्रत्याहारे 'अ', 'इ', 'उ' एते त्रयः वर्णाः समाविश्यन्ते । अण्-प्रत्याहारस्य प्रयोगः पाणिनिना <<उरण् रपरः>> [[1.1.51]], <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]], <<केऽणः>> [[7.4.13]] तथा <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] एतेषु सूत्रेषु कृतः अस्ति । \n\nज्ञातव्यम् - \n1. <<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यस्मिन् सूत्रे विद्यमानः 'अण्' प्रत्याहारः 'परेण णकारेण' (इत्युक्ते, लण्-प्रत्याहारस्थ-णकारेण) सिद्ध्यति, न हि अण्-प्रत्याहारस्थ-णकारेण । \n2. 'इण्' इति प्रत्याहारः नित्यम् 'परेण णकारेण' (लण्-प्रत्याहारस्थ-णकारेण) सिद्ध्यति, न हि अण्-प्रत्याहारस्थ-णकारेण । \n\nशास्त्रचर्चा<\/b> - \nछात्रः<\/b> - ह्रस्व-अकारः संवृतः अस्ति । तस्य दीर्घभेदः (आकारः) तथा प्लुतभेदः (अ३कारः) विवृतरूपेण उच्चार्येते । तर्हि सवर्णग्रहणसमये ह्रस्व-अकारेण दीर्घ-प्लुतभेदयोः ग्रहणं कथं स्यात् ? \nआचार्यः<\/b> - ह्रस्व-अकारेण आकार-अ३कारयोः ग्रहणं कारयितुम् 'अइउण्' सूत्रे पाठितः अकारः प्रतिज्ञया 'विवृतः' स्वीक्रियते । अतः सम्पूर्णे सूत्रपाठे यत्र यत्र अकारस्य निर्देशः भवति, तत्र तत्र विद्यमानः अकारः विवृतः एव ज्ञातव्यः । \nछात्रः<\/b> - परन्तु ह्रस्व-अकारः प्रयोगे संवृतः एव अस्ति, विवृतः न । तर्हि प्रक्रियायाः अन्ते परन्तु प्रयोगात् पूर्वम् विवृतः अकारः संवृतः कथं भवति ? \nआचार्यः<\/b> - अष्टाध्याय्याः अन्तिमं सूत्रम् <<अ अ>> [[8.4.68]] इति अस्ति । प्रक्रियादशायां विवृतः प्रोक्तः अकारः अनेन सूत्रेण पुनः संवृतः पाठ्यते । अनेन प्रयोगार्थं अकारस्य संवृतत्वम् सिदध्यति । त्रिपाद्याः अन्ते विद्यमानम् एतत् सूत्रम् सम्पूर्णाम् अष्टाध्यायीं प्रति असिद्धमस्ति, अतः प्रक्रियादशायाम् तु अकारः विवृतः एव स्वीकर्तव्यः । " }, { "id": "2", "sutra": "ऋऌक्", "kashika": "ऋ ऌ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ककारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः - <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यकारेण, <<इको गुणवृद्धी>> [[1.1.3]] इतीकारेण, <<उगितश्च>> [[4.1.6]] इत्युकारेण ॥ अकारादयो वर्णाः प्रचुरप्रयोगविषयास्तेषां सुज्ञानमुपदेशे प्रयोजनम् । ऌकारस्तु कॢपिस्थः एव प्रयुज्यते, कॢपेश्च <<पूर्वत्रासिद्धम्>> [[8.2.1]] इति लत्वमसिद्धम् । तस्यासिद्धत्वाद् ऋकार एव अच्कार्याणि भविष्यन्तीति किमर्थं ऌकार उपदिश्यते ? लत्वविधानाद्यानि पराण्यच्कार्याणि तानि ऌकारे यथा स्युरिति । कानि पुनस्तानि ? प्लुतः स्वरितो द्विर्वचनम् । 'कॢ३प्तशिखः', 'प्रकॢप्तः', 'कॢप्तः', 'कॢप्तवान्' - इति । यच्चाशक्तिजमसाधुशब्दरूपं, तदनुकरणस्यापि साधुत्वमिष्यते । तत्स्थस्यापि ऌकारस्याच्कार्यप्रतिपत्त्यर्थम् ऌकारोपदेशः क्रियते । 'ऋतकः' इति प्रयोक्तव्ये शक्तिवैकल्यात् कुमारी 'ऌतकः' इति प्रयुङ्क्ते, तदन्योऽनुकरोति 'कुमार्यॢतकः' इत्याह - इति ॥", "vyakhya": "'ऋऌक्' इति द्वितीयं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ऋ', 'ऌ' इत्येतयोः द्वयोः उपदेशः क्रियते । अन्ते विद्यमानः 'क्' इत्संज्ञकः अस्ति । अस्य साहाय्येन 'अक्', 'इक्', 'उक्' एते त्रयः प्रत्याहाराः सिद्ध्यन्ति । \n\nअक्<\/b> प्रत्याहारे 'अ, इ ,उ, ऋ, ऌ' एते स्वराः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः पाणिनिना <<अकः सवर्णे दीर्घः>> [[6.1.101]] तथा <<ऋत्यकः>> [[6.1.128]] इत्यत्र कृतः दृश्यते । \n\nइक्<\/b> प्रत्याहारे 'इ ,उ, ऋ, ऌ' एते स्वराः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः पाणिनिना बहुषु सूत्रेषु कृतः अस्ति । कानिचन उदाहरणानि - <<इको गुणवृद्धी>> [[1.1.3]], <<एचः इग्घ्रस्वादेशे>> [[1.1.48]], <<इकोऽचि विभक्तौ>> [[7.1.73]] । \n\nउक्<\/b> प्रत्याहारे 'उ, ऋ, ऌ' एते स्वराः समाविश्यन्ते । अस्य प्रत्याहारस्य कानिचन उदाहरणानि - <<उगितश्च>> [[4.1.6]], <<इसुसुक्तान्तात् कः>> [[7.3.51]], <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] । \n\nशास्त्रचर्चा<\/b> -\nछात्रः<\/b> - 'ऋऌक्' अस्मिन् सूत्रे ऌकारस्य किम् प्रयोजनम् ?\nआचार्यः<\/b> - अक्, इक्, उक् - एतेषु प्रत्याहारेषु ऌकारस्यापि ग्रहणं स्यात् इति ।\nछात्रः<\/b> - परन्तु ऌकारः न कुत्रचित् भाषायां प्रयुक्तः दृश्यते । <<अकः सवर्णे दीर्घः>> [[6.1.101]], <<इको यणचि>> [[6.1.77]] एतादृशानां सूत्राणाम् अध्ययने ऌकारस्य उदाहरणानि नैव पाठ्यन्ते । निर्दिश्यन्ते चेदपि केवलं 'ऌकारः' इत्यनेनैव शब्दप्रयोगेण तानि पाठितानि सन्ति । तर्हि किं साध्यते माहेश्वरसूत्रेषु अस्य पृथक् उपदेशेन ?\nआचार्यः<\/b> - 'कॢपँ' धातौ ऌकारः प्रयुक्तः अस्ति । तदर्थं ऋऌक्-सूत्रे ऌकारग्रहणम् क्रियते ।\nछात्रः<\/b> - परन्तु कॢपँ-धातोः औपदेशिकरूपम् तु 'कृपँ' इति ऋकारोपधम् एव । अस्य ऋकारस्य अक्\/इक्\/उक्-प्रत्याहारस्थ-ऋकारेण अवश्यं ग्रहणं भवति । अस्य ऋकारस्य ऌकारादेशः <<कृपो रो लः>> [[8.2.18]] इत्यनेन त्रिपादीसूत्रेण कृतः अस्ति । अतः माहेश्वरसूत्रेषु ऌकारस्य भिन्ननिर्देशः किमर्थम् ? \nआचार्यः<\/b> - अन्येषु अपि बहुषु प्रत्याहारेषु ऌकारः प्रयुज्यते । यथा - अच्-प्रत्याहारेण ऌकारस्यापि ग्रहणं भवति । अयं अच्-प्रत्याहारः प्रक्रियायां <<कृपो रो लः>> [[8.2.18]] इत्यस्य प्रयोगात् अनन्तरम् यदा प्रयुज्यते तदा तेन ऌकारस्यापि ग्रहणम् इष्यते । \nछात्रः<\/b> - तत्कथम् ?\nआचार्यः<\/b> 'कॢप्प्त' इत्यस्य शब्दस्य सिद्धौ <<अनचि च>> [[8.4.47]] इत्यनेन द्वित्वम् इष्यते, तदर्थम् च 'अच्' प्रत्याहारे ऌकारस्यापि ग्रहणम् आवश्यकम् । एवमेव, 'प्रकॢप्त' (प्रकॢ॑प्त॒) अस्मिन् शब्दे ऌकारस्य स्वरितस्वरविधानार्थम् तस्य 'अच्' प्रत्याहारे ग्रहणम् आवश्यकमस्ति यतः केवलम् स्वराणामेव उदात्तानुदात्तस्वरितादयः भेदाः सन्ति । एवमेव 'कॢ३प्तशिख' इत्यत्र ऌकारस्य प्लुतसंज्ञाविधानार्थमपि तस्य अच्-प्रत्याहारे ग्रहणम् आवश्यकम्, यतः ह्रस्वदीर्घप्लुतादयः भेदाः अपि स्वराणामेव विद्यन्ते । \nछात्रः<\/b> - तर्हि 'अच्' प्रत्याहारे ऌकारः इष्यते इति स्पष्टम् । परन्तु तदर्थम् 'ऋऌक्' इत्यस्मिन्नेव सूत्रे ऌकारः स्यात् इति न आवश्यकम् । अन्यत्रापि ऌकारः भवितुमर्हति, यथा - 'ऐऔच्' सूत्रे ऌकारस्य ग्रहणं कृत्वा अपि अच्-प्रत्याहारे तस्य समावेशः भवेत् । अतः 'ऋऌक्' इत्यस्मिन्नेव सूत्रे किमर्थम् ऌकारः पाठितः अस्ति इति इतोऽपि संशयः ।\nआचार्यः<\/b> - येषाम् उच्चारणे वाचि वा सम्यक् शक्तिः न विद्यते तादृशाः जनाः प्रायः ऋकारस्य उच्चारणमपि 'ऌ' इत्येव कुर्वन्ति । यथा - ऋषिः इत्यस्य स्थाने 'ऌषिः', 'ऋतकः' इत्यस्य स्थाने 'ऌतकः', 'ऋक्' इत्यस्य स्थाने 'ऌक्' । एतादृशेषु शब्देषु प्रयुक्तस्य 'ऌ'कारस्यापि ऋकारं यावत् एव सन्धिकार्याणि भवेयुः इति विचिन्त्य माहेश्वरसूत्रेषु ऋकारात् अनन्तरम् अव्यवहितरूपेण ऌकारस्य निर्देशः क्रियते । यथा, पितृ + आज्ञा = पित्राज्ञा इत्यत्र यथा इक्-वर्णस्य (ऋकारस्य) यणादेशः भवति, तथैव अशुद्धरूपेण उच्चारितस्य 'पितॢ' शब्दस्य विषये अपि 'पितॢ + आज्ञा = पित्लाज्ञा' इत्यत्र ऌकारस्य यणादेशं (लकारादेशं) कारयितुम् इक्-प्रत्याहारे ऋकारेण सह ऌकारस्यापि ग्रहणमावश्यकं वर्तते । \n\n" }, { "id": "3", "sutra": "एओङ्", "kashika": "ए ओ इत्येतौ वर्णावुपदिश्यान्ते ङकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - <<एङि पररूपम्>> [[6.1.94]] इत्येकारेण ॥", "vyakhya": "'एओङ्' इति तृतीयं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ए', 'ओ' इत्येतयोः द्वयोः उपदेशः क्रियते । अन्ते विद्यमानः 'ङ्' इत्संज्ञकः अस्ति । अस्य साहाय्येन 'एङ्' इति एकः एव प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे एकारः तथा ओकारः समाविश्येते ।\n\nएङ्-प्रत्याहारस्य प्रयोगः <<अदेङ् गुणः>> [[1.1.2]], <<एङ् प्राचां देशे>> [[1.1.75]], <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] <<एङि पररूपम्>> [[6.1.94]], <<एङः पदान्तादति>> [[6.1.109]] इत्यत्र कृतः दृश्यते । \n" }, { "id": "4", "sutra": "ऐऔच्", "kashika": "ऐ औ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते चकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः - <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यकारेण, <<इच एकाचोऽम्प्रत्ययवच्च>> [[6.3.68]] इतीकारेण, <<एचोऽयवायावः>> [[6.1.78]] इत्येकारेण, <<वृद्धिरादैच्>> [[1.1.1]] इत्यैकारेण ॥ <ऽप्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न ? आचारादप्रधानत्वाल्लोपश्च बलवत्तरःऽ> । वर्णेषु ये वर्णैकदेशाः वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न भवति, तच्छायानुकारिणो हि ते, न पुनस्त एव । पृथक्प्रयत्ननिर्वर्त्यं हि वर्णमिच्छन्त्याचार्याः । <ऽनुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् ऽ>। <<तस्मान्नुड् द्विहलः>> [[7.4.71]] इति नुड्विधौ ऋकारग्रहणम् - 'आनृधतुः', 'आनृधुः' । <<कृपो रो लः>> [[8.2.18]] इति लादेशे ऋकारग्रहणम् - 'कॢप्तः', 'कॢप्तवान्' । <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति विनामे ॠकारग्रहणम् - 'कर्तॄणाम्' ॥", "vyakhya": "'ऐऔच्' इति चतुर्थं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ऐ', 'औ' इत्येतयोः द्वयोः उपदेशः क्रियते । अन्ते विद्यमानः 'च्' इत्संज्ञकः अस्ति । अस्य साहाय्येन 'अच्', 'इच्' , 'एच्', 'ऐच्' एते चत्वारः प्रत्याहाराः सिद्ध्यन्ति । \n\nअच्<\/b> - अस्मिन् प्रत्याहारे सर्वे स्वराः विद्यन्ते । अतएव स्वराणाम् 'अच्' इत्यपि अन्या संज्ञा भवति । अस्य प्रत्याहारस्य प्रयोगः बहुषु सूत्रेषु कृतः अस्ति । कानिचन उदाहरणानि एतानि - <<नाज्झलौ>> [[1.1.10]], <<अचश्च>> [[1.2.28]], <<इको यणचि>> [[6.1.77]] ।\n\nइच्<\/b> - अस्मिन् प्रत्याहारे अवर्णम् (इत्युक्ते, अकार-आकार-अ३कारान्) विहाय अन्ये सर्वे स्वराः विद्यन्ते । इच्-प्रत्याहारस्य प्रयोगस्य कानिचन उदाहरणानि एतानि - <<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]], <<नादिचि>> [[6.1.104]] । \n\nएच्<\/b> - अस्मिन् प्रत्याहारे सर्वे संयुक्तस्वराः (ए, ऐ, ओ, औ) समाविश्यन्ते । एच्-प्रत्याहारस्य प्रयोगस्य उदाहरणानि एतानि - <<कृन्मेजन्तः>> [[1.1.39]], <<एच इग्घ्रस्वादेशे>> [[1.1.48]], <<आदेच उपदेशेऽशिति>> [[6.1.45]], <<वृद्धिरेचि>> [[6.1.88]] । \n\nऐच्<\/b> - अस्मिन् प्रत्याहारे 'ऐ', 'औ' एतौ स्वरौ समाविश्येते । अस्य प्रत्याहारस्य प्रयोगः <<वृद्धिरादैच्>> [[1.1.1]], <<न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्>> [[7.3.3]], <<प्लुतावैच इदुतौ>> [[8.2.106]] एतेषु सूत्रेषु कृतः अस्ति । \n\nशास्त्रचर्चा - 1<\/b> -\nछात्रः<\/b> - प्रत्याहारनिर्माणस्ये इत्संज्ञकवर्णानां ग्रहणम् न क्रियते । यथा, 'अच्' प्रत्याहारस्य वर्णेषु 'अण्'-इत्यस्य णकारः, 'ऋऌक्'-इत्यस्य ककारः, एओङ्-इत्यस्य ङकारः तथा च ऐऔच्-इत्यस्य चकारः न स्वीक्रियते । अस्य किम् प्रमाणम् , कारणम् च ?\nआचार्यः<\/b> - अस्य स्पष्टीकरणार्थम् भाष्यकारेण एकं श्लोकवार्त्तिकं पाठितमस्ति - <ऽप्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न ? आचारादप्रधानत्वाल्लोपश्च बलवत्तरःऽ> । अस्मिन् श्लोके 'इत्संज्ञवर्णानां ग्रहणं किमर्थं न भवति' इत्यस्य त्रीणि उत्तराणि उक्तानि सन्ति -\n(अ) आचारात्<\/b> - ण्, क्, ङ् आदीनाम्, इत्युक्ते 'प्रत्याहारस्य मध्ये विद्यमानानाम्' इत्-संज्ञकवर्णांनां प्रत्याहारेषु ग्रहणं क्रियते चेत् यानि कार्याणि भवेयुः तानि व्यवहारे (शिष्टप्रयोगे) न कृतानि दृश्यन्ते । यथा, 'अच्' प्रत्याहारे यदि 'ऋऌक्'-इत्यस्य ककारस्यापि ग्रहणं स्यात्, तर्हि <<न धातुलोप आर्धधातुके>> [[1.1.4]] अस्मिन् सूत्रे विद्यमानस्य तकारोत्तरस्य उकारस्य <<इको यणचि>> [[6.1.77]] इति 'अच्'संज्ञकस्य ककारस्य उपस्थितौ यणादेशे (वकारादेशे) कृते, 'न धातुलोप आर्धधात् व् के' इति प्राप्ते, <<लोपो व्योर्वलि>> [[6.1.66]] इत्यनेन वकारस्य लोपे कृते 'आर्धधात्के' इति शब्दः जायेत । परन्तु सूत्रे 'आर्धधातुके' इत्यत्र उकारस्य पृथक् रूपेण श्रवणम् भवति । अतः 'आचारेण' (प्रयोगेण) एतत् स्पष्टी भवति यत् मध्यगानां इत्संज्ञकवर्णानां प्रत्याहारेषु ग्रहणं न भवति - इति । \n (आ) अप्रधानत्वात् <\/b> - 'अइउण्' इत्यस्मिन् प्रथममाहेश्वरसूत्रे णकारं विहाय अन्ये सर्वे स्वराः उपदिष्टाः सन्ति । णकारात् अनन्तरमपि 'ऋऌक्' इत्यत्र स्वराः एव उपदिश्यन्ते । इत्युक्ते, अत्र स्वरोपदेशः मुख्यः (प्रधानः) । एतेषाम् स्वराणाम् रचनायाः मध्ये स्थापितानि 'ण्, क्, ङ्' एतानि व्यञ्जनानि अप्रधानानि सन्ति । प्रधानस्य ग्रहणे अप्रधानस्य ग्रहणं न भवतीति न्यायम् अनुसृत्य अत्र अचां ग्रहणे मध्यगानां (इत्युक्ते, व्यञ्जनानां) ग्रहणं न भवति ।\n (इ) लोपः बलवत्तरः - प्रत्याहाराणां निर्माणम् <<आदिरन्त्येन सहेता>> [[1.1.78]] इत्यनेन सूत्रेण भवति । अस्मिन् सूत्रे 'इता' इति शब्देन इत्संज्ञकवर्णानां निर्देशः क्रियते । अतः प्रत्याहारविधानात् पूर्वमेव इत्संज्ञायाः विधानम् करणीयम् । तदर्थम् <<हलन्त्यम्>> [[1.3.3]] इदं सूत्रं प्रयुज्यते । अनेन सूत्रेण माहेश्वरसूत्रान्ते विद्यमानानां ण्, क्, ङ् एतादृशानाम् वर्णानाम् इत्संज्ञा भवति । इत्संज्ञायां प्राप्तायाम् <<तस्य लोपः>> [[1.3.9]] इत्यनेन एषाम् लोपः अपि जायते । अतः प्रत्याहारनिर्माणात् पूर्वमेव इत्संज्ञकवर्णाः लुप्यन्ते । अयं लोपः नित्यत्वात्, परत्वात् च <<आदिरन्त्येन सहेता>> [[1.1.78]] इत्यपेक्षया बलवत्तरः अस्ति । लोपे कृते ण्, ङ् आदीनां व्यञ्जनानाम् प्रत्याहारेषु ग्रहणम् न हि सम्भवति । \n\nशास्त्रचर्चा -2 <\/b> -\nछात्रः<\/b> - आ, ए, ऐ एतादृशानां वर्णानाम् उच्चारणसमये अन्यवर्णानाम् अपि अवयवरूपेण उच्चारणं भवति । यथा, आकारस्य उच्चारणसमये अकारस्य उच्चारणम्, एकारस्य उच्चारणसमये अकार-इकारयोः उच्चारणम् - आदयः । कुत्रचित् कस्यचन वर्णस्य उच्चारणसमये समानरूपकस्य भिन्नवर्णस्य अपि उच्चारणं सम्भवति । यथा - ऋकारस्य उच्चारणसमये रेफस्य उच्चारणम् , ऌकारस्य उच्चारणसमये लकारस्य उच्चारणम् - आदयः । अस्यां स्थितौ मुख्यवर्णस्य ये अवयवभूताः वर्णाः, तद्विशिष्टानि कार्याणि अपि मुख्यवर्णस्य उपस्थितौ भवन्ति वा ? यथा - 'वने + अत्र' इति स्थिते एकारस्य अवयवभूतः यः इकारः तद्विशिष्टः यणादेशः अत्र भवेत् वा ?\nआचार्यः<\/b> नैव नैव । वर्णेषु विद्यमानाः ये एकदेशाः (अवयवाः) तेषाम् कार्याणि अत्र नैव प्रवर्तन्ते, यतः एतेषाम् एकदेशानाम् (अवयवानाम्) अत्र न हि वर्णसंज्ञा विधीयते । सम्पूर्णरूपेण यस्य उच्चारणं भवति, तस्यैव 'वर्ण' इति संज्ञा भवति, अवयवरूपेण उच्चार्यमाणस्य अंशस्य न । इत्युक्ते 'ए' इति उच्चारिते तदवयस्य 'इ' इत्यस्य पृथक् वर्णसंज्ञा न क्रियते । अतः 'इ'विशिष्टानि वर्णकार्याणि तत्र न भवन्ति । \nछात्रः<\/b> - परन्तु एवमस्ति चेत् 'पितृ + नाम्' इत्यत्र नकारस्य णत्वं न सम्भवेत्, यतः णत्वविधायके सूत्रे <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इत्यत्र केवलं रेफस्य निर्देशः कृतः अस्ति, न हि ऋकारस्य । वस्तुतस्तु 'पितृ + नाम्' इत्यत्र ऋकारस्य उपस्थितौ अपि णत्वं इष्यते, तत् च कारयितुम् ऋकारे रेफविशिष्टस्य कार्यस्य अतिदेशः आवश्यकः । अतः मुख्यवर्णे अवयवीभूतस्य वर्णस्य कार्यमपि भवेदेव इति मे मतिः । \n आचार्यः <\/b> - सत्यम् । आहत्य त्रिषु स्थलेषु रेफविशिष्टं कार्यम् ऋकारे अपि इष्टम् अस्ति -\n(अ)<\/b> <<तस्मान्नुड् द्विहलः>> [[7.4.71]] अनेन सूत्रेण अभ्यासस्य नुडागमः उच्यते । एतादृशः नुडागमः तदा एव भवति यदा अङ्गे द्वौ हल्-वर्णौ स्तः । यथा, 'अन्ज्' इत्यस्य लिट्-लकारस्य रूपसिद्धौ द्वित्वे कृते 'आ + अन्ज्' इति प्राप्ते अङ्गे 'न्ज्' इति द्वौ हल्-वर्णौ विद्येते अतः 'आ' इति अभ्यासस्य नुडागमं कृत्वा 'आनञ्ज' इति अन्तिमं रूपं सिद्ध्यति । अयं नुडागमः ऋकारस्य विषये अपि इष्यते । तदर्थम् रेफम् ऋकारस्य अवयवं मत्वा रेफस्य हल्-गुणधर्मम् ऋकारेऽपि अतिदिश्य ऋध्, ऋच् - एतादृशानां धातूनां लिट्लकारस्य रूपेषु (आनर्ध, आनर्च - इत्यत्र) नुडागमः भवितुमर्हति । \n(आ)<\/b> <<कृपो रो लः>> [[8.2.18]] इत्यत्र रेफस्य यथा लकारादेशः विधीयते, तथैव ऋकारस्यापि ऌकारादेशः इष्यते, येन 'कॢप्तम्', 'कॢप्तिः' आदीनि रूपाणि साधुत्वं प्राप्नुवन्ति । अत्रापि रेफम् ऋकारस्य अवयवरूपेण स्वीकृत्य तद्विशिष्टं कार्यम् ऋकारे अतिदिश्यते ।\n(इ)<\/b> <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इत्यनेन रेफस्य उपस्थितौ नकारस्य यः 'विनामः' (मूर्धन्यादेशः इत्यर्थः) विधीयते, सः ऋकारस्यापि उपस्थितौ इष्यते, येन 'पितॄणाम्', 'मातॄणाम्' आदीनि रूपाणि सिद्ध्यन्ति । अत्रापि रेफविशिष्टम् कार्यम् ऋकारे अतिदिष्टमस्ति । \nएते त्रयः विधयः भाष्यकारेण <<नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम्>> इत्यस्मिन् एकस्मिन्नेव वार्त्तिके पाठिताः सन्ति । 'नुड्-विधिः, 'लादेशः', तथा 'विनामः (मूर्धन्यादेशः)' एतेषु विषयेषु ऋकारे अवयवभूतस्य रेफस्य गुणः अतिदिश्यते - इति अस्य वार्त्तिकस्य आशयः ।\nछात्रः<\/b> - एवमस्ति चेत् <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इत्यत्र <<ऋवर्णान्नस्य णत्वं वाच्यम्>> इति यत् वार्त्तिकं पाठ्यते, तस्य न किञ्चन प्रयोजनम् ?\n आचार्यः <\/b> - सत्यम् । <<नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम्>> अस्मिन् पक्षे तस्य वार्त्तिकस्य न किञ्चन प्रयोजनम् । \nछात्रः<\/b> - तर्हि <<ऋवर्णान्नस्य णत्वं वाच्यम्>> इति वार्त्तिकम् किमर्थम् पाठ्यते ? \n आचार्यः <\/b> - अत्र पक्षद्वयं विद्यते । एकस्मिन् पक्षे <<नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम्>> इति सिद्धान्तरूपेण स्वीकृत्य 'आनर्च', 'कॢप्त', 'पितॄणाम्' इत्येतेषां साधुत्वं प्रतिपाद्यते । अयम् ग्रहणपक्षः<\/b> । अस्मिन् पक्षे <<ऋवर्णान्नस्य णत्वं वाच्यम्>> इति वार्त्तिकम् अनावश्यकम् । परन्तु अत्र अपरः अपि कश्चन पक्षः विद्यते । अस्मिन् पक्षे 'ऋकारे रेफः न कदाचित् अतिदिश्यते' इत्येव मत्वा <<नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम्>> इति वार्त्तिकं सिद्धान्तरूपेण न स्वीक्रियते । अस्यां स्थितौ 'आनर्च', 'कॢप्त', 'पितॄणाम्' इत्येतेषां साधुत्वज्ञापनार्थम् वार्त्तिकानि अन्यज्ञापकानि वा दीयन्ते । अस्मिन् पक्षे <<ऋवर्णान्नस्य णत्वं वाच्यम्>> इति वार्त्तिकमावश्यकम् । अयम् अग्रहणपक्षः<\/b> । <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इत्यत्र भाष्यकारेण एतयोः द्वयोः अपि पक्षयोः विषये विमर्शः कृतः अस्ति । \n" }, { "id": "5", "sutra": "हयवरट्", "kashika": "ह य व र - इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते टकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - <<शश्छोऽटि>> [[8.4.63]] इत्यकारेण ॥ अयं रेफो यकारात्पर उपदिश्यते । तस्य यर्-ग्रहणेन यय्-ग्रहणेन च ग्रहणे सति 'स्वर्नयति', 'प्रातर्नयति' इत्यत्र <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.58]] इत्यनुनासिकः प्राप्नोति । 'मद्रहृदः', 'भद्रहृदः' इत्यत्र द्विर्वचनं प्राप्नोति <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति । 'कुण्डं रथेन', 'वनं रथेन' इत्यत्र <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः प्राप्नोति । नैष दोषः । आकृतौ पदार्थे समुदाये 'सकृल्लक्ष्ये लक्षणं प्रवर्तते' इत्येतस्मिन् दर्शने <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.58]] अन्तरतमो भवतीत्येवमेतत् प्रवर्तते । तदनेन गकारादीनां ङकारादयो ये यथास्वं स्थानतो गुणतश्चान्तरतमाः, ते सर्वे विहिताः । ये तु न स्थानतः, नापि गुणतः, स्थानमात्रेण गुणमात्रेण वा अन्तरतमास्ते सर्वे निवर्तिता इति स्थानमात्रान्तरतमो रेफस्य णकारो न भवति । द्विर्वचनेऽपि रेफस्य यरन्तर्भावे सति यर्-कार्यं प्राप्तम्, तत्साक्षाच्छिष्टेन निमित्तभावेन बाध्यत इति न द्विरुच्यते रेफः । <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्येतदप्यनुस्वारान्तरतमं सकृदेव परसवर्णं विदधाति । न च रेफस्यानुस्वारान्तरतमः सवर्णोऽस्तीति न भविष्यति 'कुण्डं रथेन', 'वनं रथेन' इत्यत्र ॥ <ऽअटां मध्ये विसर्जनीयजिह्वामूलीयोपध्मानीयानामप्युपदेशः कर्तव्यः ।ऽ> किं प्रयोजनम् ? 'उर≍केण', 'उरःकेण'; 'उर≍पेण', 'उरःपेण' । अत्र 'अड्व्यवाये' इति णत्वं यथा स्यादिति ॥", "vyakhya": "'हयवरट्' इति पञ्चमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ह्', 'य्', 'व्', 'र्' एतेषां चतुर्णां व्यञ्जनानाम् उपदेशः क्रियते । अन्ते विद्यमानः टकारः इत्संज्ञकः अस्ति । अस्य साहाय्येन 'अट्' इति एकः प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे सर्वे स्वराः तथा च 'ह्', 'य्', 'व्', 'र्' एतानि चत्वारि व्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः आहत्य चतुर्षु सूत्रेषु कृतः दृश्यते - <<आतोऽटि नित्यम्>> [[8.3.3]], <<दीर्घाटि समानपदे>> [[8.3.9]] <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.1]], <<शश्छोटिः>> [[8.4.63]] । एतानि सर्वाण्यपि सूत्राणि त्रिपाद्यां विद्यते इति अत्र विशेषः द्रष्टव्यः । सपादसप्ताध्याय्याम् अट्-प्रत्याहारस्य प्रयोगः नैव कृतः अस्ति ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <ऽअटां मध्ये विसर्जनीय-जिह्वामूलीय-उपध्मानीयानाम् अपि उपदेशः कर्तव्यःऽ> । इत्युक्ते, अट्-प्रत्याहारेण यत् किमपि कार्यम् उच्यते, तत् कार्यम् विसर्गस्य उपस्थितौ, जिह्वामूलीयस्य उपस्थितौ, उपध्मानीयस्य च उपस्थितौ अपि भवति । यथा <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.1]] इत्यनेन सूत्रेण अट्-वर्णस्य व्यवधाने यत् णत्वं विधीयते, तत् णत्वम् 'उरःकेण' इत्यत्र विसर्गस्य उपस्थितौ, 'उर≍केण' इत्यत्र जिह्वामूलीयस्य उपस्थितौ, तथा च 'उर≍पेण' इत्यत्रउपध्मानीयस्य उपस्थितौ अपि इष्यते । अतः अट्-प्रत्याहारे एतेषाम् त्रयाणाम् ग्रहणम् आवश्यकम् ।\n\nशास्त्रचर्चा<\/b> -\n छात्रः - 'हयवरट्' अस्मिन् प्रत्याहारे रेफः यकारात् परः अस्ति । अयं रेफः वस्तुतः यकारात् पूर्वम् पाठनीयः । इत्युक्ते, 'हरवयट्' इति सूत्रं स्यात् - इति मे मतिः । \nआचार्यः - किम् कारणम् ?\nछात्रः - 'हयवरट्' सूत्रे यदि रेफः यकारात् अनन्तरम् गृह्यते, तर्हि <<यरोऽनुनासिकेऽनुनासिको वा>> इत्यस्मिन् सूत्रे विद्यमानेन यर्-प्रत्याहारेण ('शषसर्' इत्यत्र स्थापितेन इत्संज्ञकरेफेण अयं प्रत्याहारः सिद्ध्यति) रेफस्यापि ग्रहणं स्यात् । एतादृशं ग्रहणं क्रियते चेत् 'स्वर् + नयति' इत्यत्र यर्-वर्णस्य (इत्युक्ते रेफस्य) नकारे परे (इत्युक्ते अनुस्वारे परे) विकल्पेन अनुनासिकादेशः, इत्युक्ते णकारादेशः भवेत्, येन 'स्वण् + नयति' इति सिद्ध्येत् ।\nआचार्यः - रेफस्य अनुनासिकादेशः णकारः कथम् ?\nछात्रः - उच्चारणस्थानसाधर्म्यात् । <<ऋटुरषाणां मूर्धा>> इति रेफस्य णकारस्य उच्चारणस्थानं मूर्धा एव ।\nआचार्यः - सत्यम् । परन्तु <<यरोऽनुनासिकेऽनुनासिको वा>> अस्मिन् सूत्रे विद्यमानानां अन्येषां वर्णानां विषये स्थानसाधर्म्यम् तथा च आभ्यन्तरप्रयत्नसाधर्म्यम् - द्वयोरपि साधर्म्यं विद्यते । यथा, टकारस्य स्थाने जायमानः णकारः स्थानेन अपि णकारसदृशः अस्ति, आभ्यन्तरप्रयत्नेन अपि । अस्यां स्थितौ रेफस्य विषये णकारेण सह केवलं स्थानसाधर्म्यम् एव विद्यते, न हि आभ्यन्तरप्रयत्नस्य साधर्म्यम् । अतः <<यरोऽनुनासिकेऽनुनासिको वा>> अस्मिन् सूत्रे रेफः स्थानिरूपेण नैव भवितुम् अर्हति । अतः यर्-प्रत्याहारेण रेफस्य ग्रहणं क्रियते चेदपि न दोषाय ।\nछात्रः - परन्तु तत्र कश्चन अन्यः दोषः अवश्यं भवेत् । यर्-प्रत्याहारे यदि रेफः अपि स्वीक्रियते, तर्हि <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन 'मद्रहृदः', 'भद्रहृदः' एतादृशेषु स्थलेषु हकारात् परस्य रेफस्यापि द्वित्वं स्यात् - यत् न इष्यते ।\nआचार्यः - <<अचो रहाभ्यां द्वे>> अस्मिन् सूत्रे निमित्तवाची रेफः स्पष्टरूपेण 'रहाभ्याम्' इत्यनेन प्रोक्तः अस्ति । स्थानिवाची रेफः तु केवलं यर-प्रत्याहारे एव गृहीतः अस्ति (इत्युक्ते, 'अनुमितः अस्ति') । अस्यांस्थितौ 'प्रत्यक्षानुमितयोः प्रत्यक्षं बलीयः' इति न्यायेन प्रत्यक्षेण निर्दिष्टम् कार्यम् एव स्वीक्रियते, न हि अनुमितं कार्यम् । अस्य सूत्रस्य प्रयोगे रेफः केवलं निमित्तरूपेणैव स्वीक्रियते, न हि स्थानिरूपेण । अतएव यर्-प्रत्याहारे रेफस्य ग्रहणम् क्रियते चेदपि तस्य द्वित्वं नैव सम्भवति । \nछात्रः - परन्तु तत्र अन्यः अपि कश्चन दोषः सम्भवति । यकारात् अनन्तरम् रेफः पाठ्यते चेत् यय्-प्रत्याहारे रेफस्य समावेशः स्यात्, येन 'कुण्डं रथेन' इत्यत्र <<वा पदान्तस्य>> [[8.4.59]] इति परसवर्णः स्यात् ।\nआचार्यः - रेफस्य न कश्चन सवर्णः विद्यते । णकाररेफौ सवर्णौ न, तयोः आभ्यन्तररप्रयत्नभेदात् । अतः अत्र यय्-प्रत्याहारे अपि रेफस्य उपस्थितिः न दोषाय ।\nछात्रः - परन्तु यदि यकारात् पूर्वम् रेफः स्थाप्यते तर्हि एतादृशानि क्लिष्टानि उत्तराणि अपि नैव चिन्तनीयानि, येन शास्त्रेऽपि लाघवं स्यात् किल ?\nआचार्यः - यकारात् पूर्वम् यदि रेफः पाठ्यते तर्हि 'रल्' , 'वल्' एतौ प्रत्याहारौ न सिद्ध्येताम् । अतः यकारवकारयोः अनन्तरमेव रेफः पाठनीयः ।" }, { "id": "6", "sutra": "लण्", "kashika": "ल इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते णकारम् इतं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः - <<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यकारेण , <<इण्कोः>> [[8.3.57]] इतीकारेण, <<इको यणचि>> [[6.1.77]] इति यकारेण ॥ इण्ग्रहणानि सर्वाणि परेण णकारेण । अण्ग्रहणानि तु पूर्वेण, <<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्येतदेवैकं परेण ॥ अथ किमर्थमज्ग्रहणमेवैतन्न क्रियते ? नैवं शक्यम्, अन्तःस्थानामपि हि सवर्णानां ग्रहणमिष्यते - 'सय्ँयन्ता', 'सव्ँवत्सरः', 'यल्ँलोकम्', 'तल्ँलोकम्' - इत्यत्रानुस्वारस्यानुनासिके ययि परसवर्णे कृते तस्य यर्-ग्रहणेन ग्रहणाद्द्विर्वचनं यथा स्याद् - इति ॥ हकारादिष्वकार उच्चारणार्थः, नानुबन्धः । लकारे तु अनुनासिकः प्रतिज्ञायते, तेन <<उरण् रपरः>> [[1.1.51]] इत्यत्र 'र' इति प्रत्याहारग्रहणात् लपरत्वमपि भवति ॥", "vyakhya": "'लण्' इति षष्ठं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ल्' इत्यस्य उपदेशः क्रियते । लकारोत्तरः अकारः, तथा च अन्ते विद्यमानः णकारः - उभावपि अत्र इत्संज्ञकौ स्तः । इत्संज्ञक-अकारस्य साहाय्येन 'र' इति प्रत्याहारः सिद्ध्यति । अस्य प्रयोगः महर्षिणा <<उरण् रपरः>> [[1.1.51]] अस्मिन् सूत्रे कृतः अस्ति । णकारस्य साहाय्येन तु 'अण्', 'इण्', 'यण्' एते त्रयः प्रत्याहाराः सिद्ध्यन्ति ।\n\nअण्<\/b> प्रत्याहारे सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा <<अणुदित्सवर्णस्य चाप्रत्यययः>> [[1.1.69]] अस्मिन् सूत्रे कृतः अस्ति ।\n\nइण्<\/b> प्रत्याहारे अवर्णं विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा <<इणः षः>> [[8.3.39]], <<इण्कोः>> [[8.3.57]] तथा <<इणः षीध्वंलुङ्लिटां धोऽङ्गात्>> [[8.3.78]] इत्यत्र कृतः अस्ति । \n\nयण्<\/b> प्रत्याहारे सर्वे अन्तस्थाः (य्, व्, र्, ल्) समाविश्यन्ते । अस्य प्रयोगः महर्षिणा <<इग्यणः सम्प्रसारणम्>> [[1.1.45]], <<इणो यण्>> [[6.4.81]], <<इको यणचि>> [[6.1.77]] एतादृशेषु सूत्रेषु कृतः दृश्यते । \n\nशास्त्रचर्चा - 1 <\/b>\nछात्रः<\/b> - <<अणुदित्सवर्णस्य चाप्रत्यययः>> [[1.1.69]] इत्यत्र 'अण्' प्रत्याहारः पूर्व-णकारेण किमर्थम् न उपदिश्यते ?\nआचार्यः<\/b> - ऋकारेण अपि सवर्णग्रहणम् इष्यते, अतः । यथा, तॄ-धातोः ऋकारस्य लटलकारे शप्-प्रत्यये परे यः गुणः भवति, सः रपरः इष्यते । रपरस्य विधानम् <<उरण् रपरः>> इति सूत्रेण भवति । अस्मिन् सूत्रे विद्यमानः 'उः' इति अंश: ऋकारस्य षष्ठ्येकवचनम् । अत्र ऋकारेण दीर्घ-ॠकारस्य अपि ग्रहणम् आवश्यकं भवति, नो चेत् तरति इति रूपस्य सिद्धौ ऋकारस्य गुणभूतः अकारः रपरः नैव स्यात् । इत्युक्ते, अणुदित्सूत्रे अण्-प्रत्याहारेण ऋकारः अपि ग्राह्यः इति स्पष्टम् । अतः अत्र पूर्वणकारेण प्रत्याहारनिर्माणम् नोचितम् ।\n\nशास्त्रचर्चा - 2 <\/b>\nछात्रः<\/b> - 'अइउण्' तथा 'लण्' उभयत्र महर्षिणा णकारः एव किमर्थम् स्थापितः ? कश्चन अन्यः वर्णः किमर्थं न प्रयुक्तः ?\nआचार्यः<\/b> - अत्र णकारस्य द्विवारं प्रयोगं कृत्वा महर्षिः सन्देहं जनयित्वा एतत् ज्ञापयति, यत् सूत्रपाठे यत्र कुत्राचित् सन्देहः भवेत्, तत्र व्याख्यानानाम् साहाय्येन सन्देहस्य समाधानं करणीयम्, सन्देहवशात् सूत्राणामेव असाधुत्वं न प्रतिपादनीयम् - इति । अतएव नागेशेन परिभाषेन्दुशेखरे <<व्याख्यानतो विशेषप्रतिपत्तिः, न हि सन्देहादलक्षणम्>> इति परिभाषा पाठ्यते । लण्-सूत्रस्थः णकारः अस्याः परिभाषायाः ज्ञापकरूपेण तत्र उदाह्रियते । \n\nशास्त्रचर्चा - 3 <\/b>\nछात्रः<\/b> - लण्-प्रत्याहारे लकारोत्तरः अकारः किमर्थम् इत्संज्ञकः अस्ति ?\nआचार्यः<\/b> - 'हयवरट्' इत्यत्र विद्यमानेन रेफेण सह अस्य योगं कृत्वा 'र' इति प्रत्याहारः सिद्ध्यति । र् + (अ) + (ट्) + ल् + अँ → र । रेफोत्तरः अकारः उच्चारणार्थः अस्ति, टकारः च इत्संज्ञकः अस्ति, अतः उभयोः प्रत्याहारनिर्माणे ग्रहणं न भवति । इत्युक्ते, 'र' अस्मिन् प्रत्याहारे रेफः तथा लकारः - द्वौ वर्णौ विद्येते ।\nछात्रः<\/b> - किं प्रयोजनम् अस्य प्रत्याहारस्य ? \nआचार्यः<\/b> - <<उरण् रपरः>> [[1.1.51]] इत्यत्र अयं प्रत्याहारः प्रयुज्यते । अनेन सूत्रेण यथा ऋकारस्य स्थाने विधीयमानाः अवर्ण-इवर्ण-उवर्णाः रपराः भवन्ति तथैव ऌकारस्य स्थाने विधीयमानाः अवर्ण-इवर्ण-उवर्णाः अपि लपराः भवेयुः, इति अत्र प्रयोजनम् । \nछात्रः<\/b> - किम् उदाहरणम् ?\nआचार्यः<\/b> - 'तव + ऌकारः' अत्र <<आद्गुणः>> [[6.1.87]] इति सूत्रेण अकार-ऌकारयोः स्थाने गुण-एकादेशरूपेण लपरः अकारः भवति , येन 'तवल्कार' इति साधु रूपम् सिद्ध्यति । यदि <<उरण् रपरः>> [[1.1.51]] इत्यत्र लकारस्य ग्रहणं न स्यात्, तर्हि गुणसंज्ञकवर्णेषु कस्यापि उच्चारणस्थानम् ऌकारेण समानं न भवेत्, येन आदेशविधानमपि न सम्भवेत् । \n" }, { "id": "7", "sutra": "ञमङणनम्", "kashika": "ञ म ङ ण न इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते मकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः - <<पुमः खय्यम्परे>> [[8.3.6]] इत्यकारेण, <<हलो यमां यमि लोपः>> [[8.4.64]] इति यकारेण, <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इति ङकारेण ॥ <ऽञमन्ताड्डःऽ> इति ञकारेणापि ग्रहणमस्य दृश्यते ॥ केचित्तु सर्वाण्येतानि प्रत्याहारग्रहणानि ञकारेण भवन्त्विति मकारमनुबन्धं प्रत्याचक्षते । तथा च सति <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इत्यत्रागमिनोर्झभोरभावादागमाभावप्रतिपत्तौ प्रतिपत्तिगौरवं भवति ॥", "vyakhya": "'ञमङणनम्' इति सप्तमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ञ्', 'म्', 'ङ्', 'ण्', 'न्' इत्येतेषाम्, इत्युक्ते सर्वेषाम् वर्गपञ्चमानाम् उपदेशः क्रियते । अन्ते विद्यमानः मकारः इत्संज्ञकः अस्ति । अस्य मकारस्य साहाय्येन आहत्य चत्वारः प्रत्याहाराः सिद्ध्यन्ति । \n\nअम्<\/b> प्रत्याहारे सर्वे स्वराः, अन्तस्थाः, वर्गपञ्चमाः तथा हकारः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा <<पुमः खय्यम्परे>> [[8.3.6]] अस्मिन् सूत्रे कृतः अस्ति ।\n\nयम्<\/b> प्रत्याहारे सर्वे अन्तस्थाः तथा च वर्गपञ्चमाः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा <<हलो यमां यमि लोपः>> [[8.4.64]] अस्मिन् सूत्रे कृतः अस्ति । \n\nङम्<\/b> प्रत्याहारे सर्वे ङ्, ण्, न् एते त्रयाः समाविश्यन्ते । अस्य प्रयोगः महर्षिणा <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इत्यत्र कृतः अस्ति ।\n\nञम्<\/b> प्रत्याहारे सर्वे वर्गपञ्चमवर्णाः समाविश्यन्ते । अस्य प्रयोगः पाणिनिना अष्टाध्याय्यां तु कस्मिंश्चिदपि सूत्रे न कृतः अस्ति,परन्तु उणादिपाठे <<ञमन्ताड्डः>> (१.१११) अस्मिन् सूत्रे अयं प्रत्याहारः प्रयुक्तः दृश्यते ।\n\nविशेषः - अत्र केचन वैयाकरणाः 'ञमङणनम्' तथा अग्रिमं 'झभञ्' इति द्वे माहेश्वरसूत्रे एकीकृत्य एकम् एव 'ञमङणनझभञ्' इति एकमेव शिवसूत्रम् स्यात् इति वदन्ति । एतादृशं कृत्वा 'अम्' इत्यस्य स्थाने 'अञ्', 'यम्' इत्यस्य स्थाने 'यञ्', तथा च 'ङम्' इत्यस्य स्थाने 'ङञ्' इत्येव प्रत्याहाराः क्रियन्ताम्; ततश्च ततः <<पुमः खय्यम्परे>> [[8.3.6]] इत्यस्य स्थाने 'पुमः खय्यञ्परे', <<हलो यमां यमि लोपः>> [[8.4.64]] इत्यस्य स्थाने 'हलो यञां यञि लोप', तथा च <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इत्यस्य स्थाने 'ङञो ह्रस्वादचि ङञुण् नित्यम्' इत्येतानि एव सूत्राणि स्युः - इति तेषाम् आशयः । किमर्थम् ? एतादृशं क्रियते चेत् किञ्चित् लाघवं जायते । कीदृशं लाघवम् ? 'यम्' इत्यस्य स्थाने 'यञ्' इति यः प्रत्याहारः स्थाप्यते, सः 'झभञ्'-सूत्रस्थञकारेण तादृशः अपि कृतः अस्ति । अतः अत्र 'अम्/यम्/ङम्' इत्येतेषां मूलप्रत्याहाराणां स्थाने 'अञ्' तथा 'ङञ्' एतौ द्वौ एव नूतनप्रत्याहारौ स्याताम् - इति । अयं पक्षः नैव दोषाय, परन्तु एतादृशं क्रियते चेत् 'ङञो ह्रस्वादचि ङञुण् नित्यम्' इत्यत्र निर्दिष्टौ ङञ्-प्रत्याहारस्थौ झकारभकारौ स्थानिरूपेण प्रक्रियायां नैव आगन्तुम् अर्हतः इति कारणात् स्थानिनः त्रयः परन्तु आगमाश्च पञ्च इति स्थानिनाम् गौरवः स्यात् । अपि च, यथासङ्ख्यत्वम् विनश्येत् इत्यपि सन्देहः जायेत । अतः अत्र मकारस्य अनुबन्धरूपेण ग्रहणं कृत्वा 'ञमङणनम्' इत्येव भिन्नः प्रत्याहारः भवेत् इति निर्णयः भाष्यकारेण दत्तः अस्ति । " }, { "id": "8", "sutra": "झभञ्", "kashika": "झ भ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ञकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - <<अतो दीर्घो यञि>> [[7.3.101]] इति यकारेण ॥", "vyakhya": "'झभञ्' इति अष्टमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'झ्' तथा 'भ्' एतयोः उपदेशः क्रियते । अन्ते विद्यमानः ञकारः इत्संज्ञकः अस्ति । अस्य मकारस्य साहाय्येन 'यञ्' इति एकः प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे सर्वे वर्गपञ्चमाः, सर्वे अन्तस्थाः, तथा च झकारभकारौ समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<अतो दीर्घो यञि>> [[7.3.101]] अस्मिन् सूत्रे कृतः अस्ति । " }, { "id": "9", "sutra": "घढधष्", "kashika": "घ ढ ध इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते षकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति द्वाभ्याम् - <<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] इति झकारभकाराभ्याम् । ", "vyakhya": "'घढधष्' इति नवमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'घ्' 'ढ्' तथा 'ध्' एतेषाम् उपदेशः क्रियते । अन्ते विद्यमानः षकारः इत्संज्ञकः अस्ति । अस्य षकारस्य साहाय्येन 'झष्' तथा 'भष्' इति द्वौ प्रत्याहारौ सिद्ध्यतः । झष्<\/b>-प्रत्याहारेण सर्वे वर्गचतुर्थाः गृह्यन्ते; तथा च भष्<\/b>-प्रत्याहारेण झकारं विहाय अन्ये सर्वे वर्गचतुर्थाः गृह्यन्ते । द्वावपि एतौ प्रत्याहारौ <<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] अस्मिन् सूत्रे प्रयुक्तौ स्तः । 'झष्' इति प्रत्याहारः <<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यस्मिन् सूत्रे अपि प्रयुक्तः अस्ति ।" }, { "id": "10", "sutra": "जबगडदश्", "kashika": "ज ब ग ड द इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते शकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः - <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यकारेण, <<हशि च>> [[6.1.114]] इति हकारेण, <<नेड्वशि कृति>> [[7.2.8]] इति वकारेण, <<झलां जश् झशि>> [[8.4.53]] इति जकारझकाराभ्याम्, <<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] इति बकारेण ॥", "vyakhya": "'जबगडदश्' इति दशमं माहेश्वरसूत्रम् । अनेन सूत्रेण 'ज्' 'ब्', 'ग्', 'ड्' 'ष्' एतेषाम् उपदेशः क्रियते । अन्ते विद्यमानः शकारः इत्संज्ञकः अस्ति । अस्य शकारस्य साहाय्येन आहत्य षट् प्रत्याहाराः सिद्ध्यन्ति -\nअश्<\/b>- अस्मिन् प्रत्याहारे सर्वे स्वराः तथा सर्वाणि मृदुव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] अस्मिन् सूत्रे कृतः अस्ति ।\nहश्<\/b>- अस्मिन् प्रत्याहारे सर्वाणि मृदुव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<हशि च>> [[6.1.114]] अस्मिन् सूत्रे कृतः अस्ति ।\nवश्<\/b>- अस्मिन् प्रत्याहारे हकारयकारौ विहाय सर्वाणि मृदुव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<नेड्वशि कृति>> [[7.2.8]] अस्मिन् सूत्रे कृतः अस्ति ।\nजश्<\/b>- अस्मिन् प्रत्याहारे सर्वे वर्गतृतीयाः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<झलां जश् झशि>> [[8.4.53]] तथा <<झलां जशोऽन्ते>> [[8.2.39]] एतयोः सूत्रयोः कृतः अस्ति । \nझश्<\/b>- अस्मिन् प्रत्याहारे सर्वे वर्गतृतीयाः वर्गचतुर्थाः च समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<झलां जश् झशि>> [[8.4.53]] अस्मिन् सूत्रे कृतः अस्ति । \nबश्<\/b>- अस्मिन् प्रत्याहारे जकारं विहाय अन्ये वर्गतृतीयाः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.27]] अस्मिन् सूत्रे प्रयुक्तः अस्ति ।" }, { "id": "11", "sutra": "खफछठथचटतव्", "kashika": "ख फ छ ठ थ च ट त इत्येतान् वर्णानुपदिश्यान्ते वकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन - <<नश्छव्यप्रशान्>> [[8.3.7]] इति छकारेण ॥ खफग्रहणमुत्तरार्थम् ॥", "vyakhya": "'खफछठथचटतव्' इति एकादशं, दीर्घतमं च माहेश्वरसूत्रम् । अनेन सूत्रेण 'ख्' 'फ्', 'छ्', 'ठ्', 'थ्', 'च्', 'ट्', 'त्' एतेषाम् उपदेशः क्रियते । अन्ते विद्यमानः वकारः इत्संज्ञकः अस्ति । अस्य वकारस्य साहाय्येन 'छव्' इति प्रत्याहारः सिद्ध्यति । 'छव्'-प्रत्याहारे 'च्', 'छ्', 'ट्', 'ठ्', 'त्', 'थ्' एते वर्णाः समाविश्यन्ते । 'छव्'-प्रत्याहारस्य प्रयोगः <<नश्छव्यप्रशान्>> [[8.3.7]] अस्मिन् सूत्रे कृतः अस्ति ।\n\nविशेषः<\/b> - यद्यपि खकारफकारयोः 'छव्' प्रत्याहारे ग्रहणं नैव आवश्यकम्, तथापि अग्रे विद्यमानयोः चय्/चर्-प्रत्याहारयोः खकार-फकारयोः ग्रहणं मा भूत् इति हेतुना एतयोः वर्णयोः अस्मिन् शिवसूत्रे एव स्थापनं कृतम् अस्ति । अतएव अत्र काशिकाकारः 'खफग्रहणम् उत्तरार्थम्' इति स्पष्टी करोति । " }, { "id": "12", "sutra": "कपय्", "kashika": "क प इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते यकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः - <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति यकारेण, <<मय उञो वो वा>> [[8.3.33]] इति मकारेण, <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति झकारेण, <<पुमः खय्यम्परे>> [[8.3.6]] इति खकारेण ॥", "vyakhya": "'कपय्' इति द्वादशं माहेश्वरसूत्रम् । अनेन सूत्रेण 'क्' तथा 'प्' एतयोः उपदेशः क्रियते । अन्ते विद्यमानः यकारः इत्संज्ञकः अस्ति । अस्य यकारस्य साहाय्येन आहत्य पञ्च प्रत्याहाराः सिद्ध्यन्ति -\nयय्<\/b> - अस्मिन् प्रत्याहारे सर्वे अन्तस्थवर्णाः सर्वाणि वर्गीयव्यञ्जनानि च समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] अस्मिन् सूत्रे कृतः अस्ति \nमय्<\/b> - अस्मिन् प्रत्याहारे ञकारं विहाय सर्वाणि वर्गीयव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<मय उञो वो वा>> [[8.3.33]] अस्मिन् सूत्रे कृतः अस्ति । \nझय्<\/b> - अस्मिन् प्रत्याहारे वर्गपञ्चमान् विहाय अन्यानि वर्गीयव्यञ्जनानि समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<झयो होऽन्यतरस्याम्>> [[8.4.62]], <<झयः>> [[5.4.111]], तथा च <<झयः>> [[8.2.10]] एतेषु सूत्रेषु कृतः अस्ति । \nखय्<\/b> - अस्मिन् प्रत्याहारे वर्गप्रथमाः वर्गद्वितीयाः च समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः <<शर्पूर्वा खयः>> [[7.4.61]] तथा च <<पुमः खय्यम्परे>> [[8.3.6]] एतयोः सूत्रयोः कृतः अस्ति । \nचय्<\/b> - अस्मिन् प्रत्याहारे वर्गप्रथमाः समाविश्यन्ते । अस्य प्रत्याहारस्य प्रयोगः पाणिनिना सूत्रपाठे न कुत्रचित् कृतः दृश्यते । परन्तु वार्त्तिककारेण <<चयोः द्वितीयाः शरि पौष्करसादेः इति वाच्यम्>> अस्मिन् वार्त्तिके अस्य प्रत्याहारस्य प्रयोगः कृतः अस्ति ।" }, { "id": "13", "sutra": "शषसर्", "kashika": "श ष स इत्येनान् वर्णानुपदिश्य पूर्वांश्चान्ते रेफमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति पञ्चभिः - <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति यकारेण, <<झरो झरि सवर्णे>> [[8.4.65]] इति झकारेण, <<खरि च>> [[8.4.55]] इति खकारेण, <<अभ्यासे चर्च>> [[8.4.54]] इति चकारेण, <<शर्पूर्वाः खयः>> [[7.4.61]] इति शकारेण ॥", "vyakhya": "'शषसर्' इति त्रयोदशं माहेश्वरसूत्रम् । अनेन सूत्रेण 'श्' 'ष्', 'स्' एतेषाम् उपदेशः क्रियते । अन्ते विद्यमानः सकारः इत्संज्ञकः अस्ति । अस्य सकारस्य साहाय्येन पञ्च प्रत्याहाराः सिद्ध्यन्ति -\nयर्<\/b> - अस्मिन् प्रत्याहारे हकारं विहाय सर्वाणि व्यञ्जनानि समाविश्यन्ते । अस्य प्रयोगः <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्यस्मिन् सूत्रे कृतः अस्ति ।\nझर्<\/b> - अस्मिन् प्रत्याहारे वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, तथा च हकारं विहाय अन्ये त्रयः ऊष्माणः समाविश्यन्ते । अस्य प्रयोगः <<झरो झरि सवर्णे>> [[8.4.65]] इत्यस्मिन् सूत्रे (द्विवारं) कृतः अस्ति ।\nखर्<\/b> - अस्मिन् प्रत्याहारे सर्वाणि कर्कशव्यञ्जनानि (वर्गप्रथमाः, वर्गद्वितीयाः तथा च शकारषकारसकाराः) समाविश्यन्ते । अस्य प्रयोगः <<खरि च>> [[8.4.55]] इत्यस्मिन् सूत्रे कृतः अस्ति ।\nचर्<\/b> - अस्मिन् प्रत्याहारे सर्वे वर्गप्रथमाः तथा च शकारषकारसकाराः समाविश्यन्ते । अस्य प्रयोगः <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] तथा च <<अभ्यासे चर्च>> [[8.4.54]] एतयोः सूत्रयोः कृतः अस्ति । \nशर्<\/b> - अस्मिन् प्रत्याहारे शकारषकारसकाराः समाविश्यन्ते । अस्य प्रयोगः <<शर्पूर्वा खयः>> [[7.4.61]], <<ङ्णोः कुक्टुक् शरि>> [[8.3.28]], <<वा शरि>> [[8.3.36]], <<नुम्विसर्जनीयशर्व्यवायेऽपि>> [[8.3.58]] तथा च <<शरोऽचि>> [[8.4.49]] एतेषु सूत्रेषु कृतः अस्ति । " }, { "id": "14", "sutra": "हल्", "kashika": "ह इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते लकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः - <<अलोऽन्त्यात्पूर्व उपधा>> [[1.1.65]] इत्यकारेण, <<हलोऽनन्तराः संयोगः>> [[1.1.7]] इति हकारेण, <<लोपो व्योर्वलि>> [[6.1.66]] इति वकारेण, <<रलो व्युपधाद्धलादेः संश्च>> [[1.2.26]] इति रेफेण, <<झलो झलि>> [[8.2.26]] इति झकारेण, <<शल इगुपधादनिटक्सः>> [[3.1.45]] इति शकारेण ॥ अथ किमर्थमुपदिष्टोऽपि हकारः पुनरुपदिश्यते ? कित्त्व-विकल्प-क्स-इड्विधयो यथा स्युः इति । 'स्निहित्वा', 'स्नेहित्वा' इत्यत्र <<रलो व्युपधाद्धलादेः संश्च>> [[1.2.26]] इति कित्त्वं वा यथा स्यात् । लिहेः 'अलिक्षत्' इति <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्सः यथा स्यात् । 'रुदिहि', 'स्वपिहि' इति वलादिलक्षणः इट् यथा स्यात् । 'अदाग्धाम्' इति झल्ग्रहणेषु च हकारस्य ग्रहणं यथा स्यात् । यद्येवम्, 'हयवरट्' इत्यत्र तर्हि किमर्थमुपदिश्यते ? 'महाँ हि सः', 'देवा हसन्ति' इत्यत्र अट्-्ग्रहणेषु च अश्-ग्रहणेषु च हकारस्य ग्रहणं यथा स्यात् । <<हशि च>> [[6.1.114]] इति हकारस्य ग्रहणं यथा स्यात् - 'ब्राह्मणो हसति' इति <<हशि च>> [[6.1.114]] इत्युत्वं यथा स्यात् ।\n\nएकस्मान् ङञणवटाः; द्वाभ्यां षः; त्रिभ्यः एव कणमाः स्युः । ज्ञेयौ चयौ चतुर्भ्यो, रः पञ्चभ्यः, शलौ षड्भ्यः ॥ इति प्रत्याहाप्रकरणम् ", "vyakhya" : "'हल्' इति चतुर्दशम् अन्तिमं च माहेश्वरसूत्रम् । अनेन सूत्रेण 'ह्' वर्णस्य पुनरेकवारम् उपदेशः क्रियते । अन्ते विद्यमानः लकारः इत्संज्ञकः अस्ति । अस्य लकारस्य साहाय्येन षट् प्रत्याहाराः सिद्ध्यन्ति -\nअल्<\/b> - अनेन प्रत्याहारेण सर्वे वर्णाः गृह्यन्ते । <<अलोऽन्त्यस्य>> [[1.1.52]], <<अनेकाल्शित्सर्वस्य>> [[1.1.55]], <<अलोऽन्त्यात् पूर्व उपधा>> [[1.1.65]] तथा च <<अपृक्तः एकाल् प्रत्ययः>> [[1.2.41]] एतेषु सूत्रेषु अस्य प्रत्याहारस्य प्रयोगः कृतः दृश्यते ।\nहल्<\/b> - अस्मिन् प्रत्याहारे सर्वाणि व्यञ्जनानि समाविश्यते । अस्य प्रयोगस्य कानिचन उदाहरणानि एतानि - <<हलन्त्यम्>> [[1.3.3]], <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]], <<हलि च>> [[8.2.77]] ।\nवल्<\/b> - अस्मिन् प्रत्याहारे यकारं विहाय अन्यानि सर्वाणि व्यञ्जनानि समाविश्यन्ते । अस्य प्रयोगः <<लोपो व्योर्वलि>> [[6.1.66]] अस्मिन् सूत्रे कृतः अस्ति । \nरल्<\/b> - अस्मिन् प्रत्याहारे यकारवकारौ विहाय अन्यानि सर्वाणि व्यञ्जनानि समाविश्यन्ते । अस्य प्रयोगः <<रलो व्युपधाद्धलादेः संश्च>> [[1.2.26]] इत्यस्मिन् सूत्रे कृतः अस्ति । \nझल्<\/b> - अस्मिन् प्रत्याहारे वर्गपञ्चमान् अन्तःस्थान् च विहाय अन्यानि व्यञ्जनानि समाविश्यन्ते । अस्य प्रयोगस्य कानिचन उदाहरणानि एतानि - <<इको झल्>> [[1.2.9]], <<झलां जशोऽन्ते>> [[8.2.39]], <<नश्चापदान्तस्य झलि>> [[8.3.24]] ।\nशल्<\/b> - अनेन प्रत्याहारेण सर्वे ऊष्माणः निर्दिश्यन्ते । अस्य प्रयोगः <<शल इगुपधादनिटक्सः>> [[3.1.45]] इत्यस्मिन् सूत्रे कृतः अस्ति । \n\nअत्र अवश्यं कश्चन प्रश्नः स्यात् । 'हयवरट्' तथा 'हल्' द्वयोः अपि माहेश्वरसूत्रयोः हकारस्य ग्रहणम् किमर्थम् ? अस्य उत्तरम् काशिकायाम् एतादृशम् दत्तम् अस्ति - 'रल्','शल्','वल्','झल्' एतेषु प्रत्याहारेषु हकारः आवश्यकः, अतः 'हल्' इति चतुर्दशसूत्रे हकारग्रहणम् चरितार्थम् अस्ति । एवमेव 'अट्', 'अश्', 'हश्' एतेषु प्रत्याहारेषु हकारः आवश्यकः, अतः 'हयवरट्' इति पञ्चमसूत्रे अपि हकारस्य ग्रहणम् चरितार्थत्वं प्राप्नोति ।\n\nअत्र कश्चन अन्यः अपि प्रश्नः उदेति । यद्यपि एतादृशेषु बहुषु प्रत्याहारेषु हकारस्य ग्रहणम् आवश्यकम्, तथापि वर्णमालायाः काचित् अन्या रचना भवितुम् अर्हति वा, यत्र हकारस्य एकवारम् एव ग्रहणं कृत्वा अपि सर्वे प्रत्याहाराः सम्यक् रूपेण सिद्ध्येयुः ? अस्य उत्तरम् अस्ति - न । वर्णमालायाः एतादृशी भिन्ना रचना नैव सम्भवति । अस्य स्पष्टीकरणम् इत्थम् - वर्णमालायाः काचित् एतादृशी रचना प्रायः स्यात् इति आदौ चिन्तयामः । इदानीम् 'अच्' तथा 'यर्' एतौ प्रत्याहारौ स्वीकुर्मः । एतयोः द्वयोः मध्ये न कोऽपि वर्णः समानः, अतः वर्णमालायाः अस्याम् नूतनरचनायाम् अच्-प्रत्याहारस्थाः सर्वे वर्णाः एकस्मिन् स्थले, तथा च यर्-प्रत्याहारस्थाः सर्वे वर्णाः अन्यस्मिन् स्थले भवेयुः, तयोर्मध्ये कश्चन समभागः न भवेत् इति आवश्यकम् । एवं क्रियते चेत् अस्यां वर्णमालायां हकारस्य स्थलनिर्धारणार्थम् त्रयः विकल्पाः जायन्ते - (अ) 'अच्' तथा 'यर्' एताभ्यां यः गणः परः स्थापितः, तस्मात् अनन्तरम् हकारः स्यात् । उत, (आ) 'अच्' तथा 'यर्' एतयोः यः गणः पूर्वः स्थापितः, तस्मादपि प्राक् हकारः स्यात् । उत, (इ) 'अच्' तथा 'यर्' द्वयोः अपि गणयोः मध्ये हकारः स्यात् । एतेषु प्रथमः उत द्वितीयः विकल्पः स्वीक्रियते चेत् 'इण्' प्रत्याहारः नैव सिद्ध्यति, यतः अस्मिन् प्रत्याहारे केचन एव अच्-वर्णाः तथा च केचन एव यर्-वर्णाः सन्ति, न हि सर्वे । अपि च, तृतीयमेव विकल्पं स्वीकृत्य 'अच्' तथा 'यर्' एतयोर्मध्ये हकारः स्थाप्यते चेत् 'हश्' तथा 'शल्' एतेषु कश्चन एकः एव प्रत्याहारः सिद्ध्येत्, यतः शल्-प्रत्याहारस्य सिद्ध्यर्थम् यकारस्य अपेक्षया ऊष्मणः हकारस्य समीपे भवेयुः, परन्तु हश्-प्रत्याहारस्य सिद्ध्यर्थम् ऊष्मणां अपेक्षया यकारः एव हकारस्य समीपे स्यात् । इत्युक्ते, त्रिभ्यः विकल्पेभ्यः एकम् एव विकल्पम् स्वीकृत्य सर्वे प्रत्याहाराः नैव सिद्ध्यन्ति । अतः एतादृशी वर्णरचना नैव सम्भवति । अतएव माहेश्वरसूत्रेषु हकारस्य द्विवारं ग्रहणम् कृतम् दृश्यते - प्रारम्भे तृतीयं विकल्पं स्वीकृत्य, ततश्च 'शल्' तथा च तत्सदृशानां प्रत्याहाराणां सिद्ध्यर्थं प्रथमं विकल्पं स्वीकृत्य । अनेन प्रकारेण हकारस्य द्विवारं ग्रहणं माहेश्वरसूत्रेषु चरितार्थत्वं प्राप्नोति ।\n\n" } ] }