{ "11001": "<<वृद्धिरादैच्>> - इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह — वृद्धिरादैच् । यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रं, तथापि नेदमादावुपन्यस्तम्, अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहरशास्त्रप्रपञ्चनिरूपणात्प्रागुपन्यासनर्हत्वात् । न च सूत्रकृता अयमेव पाठकमः कुतो नाद्रियत इति वाच्यम् । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वात् । आच्च ऐच्चेति समाहारद्वन्द्वः ।द्वन्द्वाच्चुदषहान्तात् इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात् । 'चोः कुः' इति पदान्ते विहितं कुत्वमपि न ।अयस्मयादीनि छन्दसि॑ इति भत्वात् । 'वृद्धिरादैजदेङ' इति संहितापाठपक्षे चकारस्य 'झलां जशोऽन्ते' इति पदान्ते विहितजश्त्वं तु भवत्येव,उभयसंज्ञान्यपि छन्दसि दृश्यन्ते॑ इति वचनात् ,छन्दोवत्सूत्राणि भवन्ति॑ इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तेः । नचैवमपि पदत्वात्कुत्वं भत्वाज्जश्त्वाऽभावश्च कुतो न स्यादिति वाच्यम्,छन्दसि दृष्टानुविधिः॑ इति वचनादित्यलम् ।आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । आचार्यपारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते । तदेतदाह — आदैच्चेत्यादिना ।", "11002": "<<अदेङ् गुणः>> - अदेङ्गुणः । संज्ञाप्रस्तावात्संज्ञेति लभ्यते । अच्च एङ् चेति समाहारद्वन्द्वः । तदाह — अदेङ् चेत्यादिना ।", "11003": "<<इको गुणवृद्धी>> - इको गुणवृद्धि । 'इक' इति षष्टन्तशब्दः स्वरूपपरो नपुंसकलिङ्गः प्रथमैकवचनान्तः । सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घो न ओ ।इकस्शब्द इत्यर्थः । 'उपतिष्ठते' इति शेषः । 'वृद्धिरादैच्' 'अदेङ्गुणः' इत्यतो वृद्धिरिति गुण इति चानुवर्तते । इतिशब्दोऽध्याहार्यः ।यत्र विधीयते तत्रे॑त्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धि विधीयेते तत्र इक इति षष्ठन्तं पदमुपतिष्ठत इति योजना । तदाह — गुणवृद्धिशब्दाभ्यामित्यादिना । उपतिष्ठत इति । सङ्गतं भवतीत्यर्थः ।उपाद्देवपूचासङ्गतिकरणे॑त्यात्मनेपदम् । सोऽयं पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तितः ।सार्वधातुकार्धधातुकयोः॑, मिदेर्गुणः॑ इत्याद्युदाहरणम् । इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभवष्यति । 'यत्र विधीयेते' इत्युक्त्यावृद्धिर्यस्याचा॑मित्याद्यनुवादे इक इति नोपतिष्ठते । अनुवादे परिभाषामनुपस्थितेः । 'त्यदादीनामः' इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात् ।", "11004": "", "11005": "<<क्क्ङिति च>> - क्ङिति च । ग् क् ङ् एषां समाहारद्वन्द्वः, कात्पूर्वगकारस्य चर्त्वेन निर्देशात् । ग् क् ङ् च इत् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इत्यर्थ । इक इत्युचार्य विहिते इति लभ्यते ।न धातुलोप आर्धधातुके॑ इत्यतो नेत्यनुवर्तते । तदाह — गित्किन्ङिन्नमित्ते इत्यादिना । गितीत्यनुक्तौ तुग्लाजिस्थश्च ग्स्नु॑रिति ग्स्नुप्रत्ययेजिष्णु॑रित्यत्र गुणनिषेधो न स्यात् । न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यं, तथा सतिघुमास्थे॑ति किति विहितस्य ईत्वस्य प्रसङ्गात् । यदि तु गिति ङिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघुपधगुणनिषेधो न स्यात् । स्थानिभूतस्येको हला व्यवधानात् । न च येन नाव्यवधानन्यायः शङ्क्यः । चितं स्तुतमित्यादावव्यवहिते चरितार्थत्वात् । यदि च 'इको गुणवृद्धी' इत्येव व्याख्यायेत, न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वान्निषेधः स्यादित्यलम् । भूयादिति । इहार्धधातुकत्वाल्लिङ सलोप इत्यस्याऽप्रवृत्तेः स्कोरिति सलोप इत्युक्तं न विस्मर्तव्यम् । न चैवमपि संयोगादिलोपस्याऽसिद्धत्वाद्धल्ङ्यादिलोपः स्यादिति वाच्यं, सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावादित्यलम् । भूयास्तामिति । आशिषि लिङस्तस्तामादेशे आर्धधातुकत्वाच्छभावे यासुडागमेऽतः परत्वाऽभावादियादेशाऽभावे सुटि झल्परसंयोगदित्वेन यासुटः सकारस्य लोपो, गुणनिषेधश्च । भूयासुरिति । झेर्जुसि यासुडागमे गुणनिषेधे रूपम् । भूया इति । आशीर्लिङः सिपि इतश्चेतीकारलोपः । यासुटःस्को॑रिति सलोपः, गुणनिषेधः, रुत्वविसर्गौ । भूयास्तमिति । थसस्तमादेशे यासुटि गुणनिषेधः । एवं थस्य तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति । मिपोऽमादेशे यासुटि गुणनिषेधः । भूयास्वेति । लिङो वस् । 'नित्यं ङित' इति सकारलोपः । यासुट् । गुणनिषेधः । एवं मसि भूयास्मेति रूपम् । इत्याशीर्लिङ्प्रक्रिया ।", "11006": "<<दीधीवेवीटाम्>> - दीधीवेवी ।दीधीह् दीप्तिदेवनयोः॑वेवीङ् वेतिनी तुल्ये॑ । दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी । 'इको गुणवृद्धी' इत्यतो गुणवृद्धी इति, 'न धातुलोप' इत्यतो नेति चानुवर्तते ।", "11007": "<<हलोऽनन्तराः संयोगः>> - हलोऽनन्तराः संयोगः ।अन्तरशब्दोऽत्र व्यवधाने वर्तते । \"अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये\" इत्यमरः । व्यवधानं च विजातीयेनैव । अविद्यमानमन्तरं व्यवधानं येषामिति विग्रहः । नञोऽस्त्यर्थानामिति विद्यमानपदस्य लोपः । तदाह — अज्भिरित्यादिना । तत्र हलौ च हलश्च हल इत्येकशेषः । तेन द्वयोरपि संयोगसंज्ञा लभ्यते । ततश्च शिक्षेत्यत्र <<गुरोश्च हलः>> इत्यप्रत्ययः सिध्यति । अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञाकरणात्, व्याख्यानाच्च । नतु प्रत्येकम् । तथा सति 'सुदृषत्प्रासाद' इत्यत्र पकारसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तेः । यत्र तु बहवो हलः श्लिष्टास्तत्रापि द्वयोर्द्वयोः संयोगसंज्ञा न तु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम् ।", "11008": "<<मुखनासिकावचनोऽनुनासिकः>> - तदेवमनुनासिका नव अचः, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याऽचेति स्थितम् । अथाऽनुनासिकसंज्ञामाह — मुखनासिका । मुखसहिता नासिका मुखनासिका । शाकपार्थिवादित्वात्सहितपदस्य लोपः । उच्यते उच्चार्यते इति वचनः । कर्मणि ल्युट् । मुखनासिकया वचन इतिकर्तृकरणे कृता बहुलम् इति तृतीयासमासः । तदेतदाह — मुखसहितेत्यादिना । मुखं च नासिका चेति द्वन्द्वस्तु न । तथा सतिद्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इति समाहारद्वन्द्वनियमात्स नपुंसक॑मिति नपुंसकत्वेह्रस्वो नपुंसके प्रातिपदिकस्य॑ इति ह्रस्वत्वे 'मुखनासिकवचन' इत्यापत्तेः । ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः, नेत्याह — तदित्थमिति । इयता प्रबन्धेन यत् अचां भेदप्रपञ्चनं तत् — इत्थं=वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः । अष्टादश भेदा इति । अष्टादश प्रकारा इत्यर्थः । दीर्घाभावादिति । तथा च उदात्तऌकारदीर्घः, अनुदात्तऌकारदीर्घः, स्वरितऌकारदीर्घः । ते च अनुनासिकास्त्रयः अननुनासिकास्त्रय इति षड्भेदानामभावे सति ह्रस्वप्रपञ्चः प्लुतप्रपञ्चश्च ,ड्विध इति ऌकारस्य द्वादशविधत्वमेवेति भावः । ऌकारस्य दीर्घाऽभावे होतृ ऌकार इत्यत्र सवर्णदीर्घे कृते होतृकार इति ॠकारस्यैव अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम् । ह्रस्वाभावादिति । यद्येचो ह्रस्वाः स्युस्तर्हि वर्गसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ्येरन्, नतु दीर्घाः, गौरवात् । अत एचो ह्रस्वा न सन्तीति विज्ञायते । एवं च ह्रस्वप्रपञ्चषड्भेदाभावाद्द्वादशविधत्वमेवैचामिति भावः ।", "11009": "<<तुल्यास्यप्रयत्नं सवर्णम्>> - अथअणुदित्सवर्णस्य चाप्रत्ययः॑ इति अ इ उ इत्यादिसंज्ञां वक्ष्यन्सवर्णसंज्ञामाह — तुल्यास्य । आस्यं = मुखम्, तत्साम्यस्य सर्ववर्णेष्वविशिष्टत्वादव्यावर्तकत्वादास्यशब्दोऽत्र न मुखमात्रपरः । किन्तु आस्ये मुखे भवमास्यं = ताल्वादिस्थानम् । 'शरीरावयवाद्यत्' इति भवार्थे यत्प्रत्ययः । 'यस्येति च' इति प्रकृत्यन्त्यस्य अकारस्य लोपः । प्रकृष्टो यत्नः प्रयत्नः । आस्यं च प्रयत्नश्च-आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसंज्ञकं स्यादिति भावः । तदाह — ताल्वादिस्थानमित्यादिना । मिथ इति । परस्परमित्यर्थः । कस्य किं स्थानमित्याकाङ्क्षायां तद्व्यवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णाति — अकुहेत्यादिना । 'अ' इत्यष्टादश भेदा गृह्यन्ते, 'कु' इतदि कादिपञ्चकात्मकः कवर्गः । न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र 'अ' इत्यष्टादशभेदानां ग्रहणमिति वाच्यम् । लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तेः । एवमग्रेऽपि कथञ्चित्समाधानं बोध्यम् । अश्च कुश्च हश्च विसर्जनीयश्चेति विग्रहः । विसर्जनीयशब्दोऽपि विसर्गपर्यायः । इचुयशेति । इ इत्यष्टादश भेदाः । चु इति चवर्गः । इश्च चुश्च यश्च शश्चेति विग्रहः । तालु = काकुदम् ।ऋटुरषेति । ऋ इत्यष्टादश भेदाः । टु इति टवर्गः । आ च टुश्च रश्च षश्चेति विग्रहः । ऋ शब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत् । लृतुलशेति । लृ इत्यस्य द्वादश भेदाः । तु इति तवर्गः । आ च तुश्च लश्च सश्चेति विग्रहः । लृशब्दस्यापि आ इत्येव प्रथमैकवचनान्तम् । आ अलौ अलः । दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः । अन्यथा भग्नदन्तस्य तदुच्चारणाऽनुपपत्तेः । उपूपेति । उ इत्यष्टादश भेदाः । पु इति पवर्गः उश्च पुश्च उपध्मानीयश्चेति विग्रहः । उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति । ञमङणनेति । ञश्च मश्च ङश्च णश्च नश्चेति विग्रहः । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः ।एदैतोरिति । एच्च ऐच्च एदैतौ । तपरकरणमसंदेहार्थम् । नतु 'तपरस्तत्कालस्य' इति तत्कालमात्रग्रहणार्थम् । तेन प्लुतयोरपि संग्रहः । कण्ठश्च तालु चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवत्त्वं नपुंसकत्वं च । ओदौतोरिति । ओच्च औच्च ओदौतौ । तपरकरणं पूर्ववदसंदेहार्थमेव । कण्ठश्च ओष्टौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवद्भावो नपुंसकत्वं च । वकारस्येति । दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः । एकवत्त्वं नपुंसकत्वं च जिह्वामूलीयस्येति । जिह्वामूलीयशब्दमग्रे व्याख्यास्यति । एवमनुस्वारशब्दमपि । इति स्थानानीति । इति = एवंप्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः ।ननु किमिह तुल्यास्यसूत्रे यत्कचित्स्थानसाम्यं विवक्षितम् , उत यावत्स्थानसाम्यम् । न तावदाद्यः, तथा सति इकारस्य एकारस्य च तालुस्थानकतया सावण्र्यापत्तौभवत्येवे॑त्यत्र इकारादेकारे परे सवर्णदीर्घापत्तेः । न च एकारस्य वर्णसमाम्नाये पाठसामर्थ्यादिकारेण न सावण्र्यमिति वाच्यम्, एकारपाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्त्यर्थत्वसम्भवात् । किं च वकारलकारयोर्दन्तस्थानसाम्येन सावण्र्यापत्तौ 'तोर्ल' इत्यत्र लकारेण वकारस्यापि ग्रहणात्तद्वानित्यत्र दकारस्य परसवर्णापत्तिः । 'यवलपरे यवला वा' इत्यत्र लकारग्रहणं तु यथासंख्यार्थं भविष्यति । न द्वितीयः, तथा सति कङयोः कण्ठस्थानसाम्येऽपि ङकारस्य नासिकास्थानाधिक्येन सावण्र्याभावापत्तौचोः कुः॑, क्विन्प्रत्ययस्य॑ इत्यत्र ङकारस्य ग्रहणानापत्त्या प्राङित्यादौ नुमो नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन ङकाराऽनापत्तेः । तस्मात्स्थ्ानसाम्यं दुर्निरूपमिति चेत्, अत्र ब्राऊमः — यावत्स्थानसाम्यमेव सावण्र्यप्रयोजकम् । एवं च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावण्र्यम् । वलयोश्च न सावण्र्यम् । वकारस्य ओष्ठस्थानाधिक्यात् । एवं च ' तद्वानासाम्' 'यजुष्येकेषाम्' इत्यादिनिर्देशा उपपन्नाः । ङकारस्य नासिका स्थानाधिक्येऽपि ककारेण सावण्र्यमस्त्येव, आस्यमवस्थानसाम्यस्यैव सावण्र्यप्रयोजकत्वात्, नासिकायाश्च आस्यानन्तर्गतत्वात् । उक्तं च भाष्ये-किं पुनरास्यं, लोकिकमोष्ठात्प्रभृति प्राक्काकलकात् इति ।काकलको नाम चुबुकस्याधस्तात् ग्रीवायामुन्नतप्रदेशः॑ इति कैयटः । तस्मादास्यभवयावत्स्थानसाम्यं सावण्र्यप्रयोजकमिति शब्देन्दुशेखरे विस्तरः ।ननु तुल्यास्यसूत्रे प्रयत्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम् । तत्राभ्यन्तरत्वविशेषणं किमर्थम्, व्यावर्त्त्याऽभावादित्यत आह-यत्नो द्विधेति । यत्नानामाभ्यन्तरत्वं बाह्रत्वं च वर्णोत्पत्तेः प्रागूध्र्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम् । आद्य इति । आभ्यन्तयत्न इत्यर्थः । कथं चातुर्विध्यमित्यत आह-स्पृष्टेति ।कस्य कः प्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थापकशिक्षावचनानि पठति — तत्रेति । तेषु मध्य इत्यर्थः । प्रयतनमिति । प्रयत्न इत्यर्थः । स्पर्शादिशब्दानग्रे व्याख्यास्यति । ह्रस्वस्यावर्णस्य संवृतमित्यन्वयः । एतावदेव शिक्षावचनम् । नन्वेवं दण्ड-आढकमित्यत्र अकारस्य च विवृतसंवृतप्रयत्नभेदेन सावण्र्याऽभावात्सवर्णदीर्घो न स्यादित्यत आह-प्रयोग इति । शास्त्रीयप्रक्रियाभिः परिनिष्ठितानां रामः कृष्ण इत्यादिशब्दानां प्रयोगे क्रियमाण एव ह्रस्वस्याऽवर्णस्य संवृतत्वमित्यर्थः । प्रक्रियेति । शास्त्रीयकार्यप्रवृत्तिसमये तु ह्रस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थः । शिक्षावचनसिद्धं स्वाभाविकं ह्रस्वावर्णस्य संवृतत्वं प्रच्याव्य शास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्नशास्त्रीयप्रक्रियासमये ह्रस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाठतमिच्यादौ सवर्णदीर्घादिकार्यं निर्बाधकमिति ऐउणिति सूत्रभाष्ये स्पष्टम् । एवंचह्रस्वस्याऽवर्णस्य संवृत॑मिति शिक्षावचनं परिशेषात्परिनिष्ठतदशायामेव पर्यवस्यतीति न तदानर्थक्यमिति भावः । अयं च शिक्षावचनसङ्कोचः सूत्रकारस्यापि संमत इत्याह-एतच्चेति॥ तदेवोपपादयितुं प्रतिजानीते-तथा हीति । यथा एतज्ज्ञापितं भवति तथा स्पष्टमुपपाद्यत इत्यर्थः ।", "11010": "<<नाज्झलौ>> - एवं प्राप्ते प्रतिषेधति — नाज्झलौ । आसहितः अच्-आच् । शाकपार्थिवादित्वात्सहितशब्दस्य लोपः । आ च हस्व-आज्झलौ । तुस्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुंलिङ्गाद्विवचनान्ततया विपरिणम्यते । तदाह — अकारसहितोऽजित्यादिना । ननु किमर्थोऽयं प्रतिषेध इत्यत आह — तेनेत्यादि यणादिकं नेत्यन्तम् । तेन=प्रतिषेधेन । आदिना सवर्णदीर्घसङ्ग्रहः । दधीति इकारस्य हकारे षकारे सकारे च परे 'इको यणचि' इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः । नन्वस्त्वकारहकारयोरिकारशकारयोरृकारषकारयोर्ऌकारसकारयोश्च सावण्र्यं, तथापिदधि षष्ठ॑मित्यादौ यणादिकं न प्रसक्तम्, अचपरकत्वाऽभावादित्यत आह — अन्यथेत्यादिना । अन्यथा=तेषां सावण्र्याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यच्त्वं स्यादित्यन्वयः । ननु वर्णसमाम्नाये हकारादीनामकारचकारमध्यगत्वाऽभावात्कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति । गृह्णन्त्यकारादयः स्वसवर्णान् येन तद्ग्रहणम् । करणे ल्युट् । स्वार्थे कः । अणुदित्सूत्रादित्यर्थः । यद्यप्यच्छब्द०वाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानान्तथापीको यणचीत्यादावच्छब्देनाऽकारादिषूपस्थितेषु तैरणुदित्सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति । ततश्चाऽत्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः । न च इको यणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासंभवः । अणुदित्सूत्रे तु अस्य च्वावित्यादौ सावकाशमिति वाच्यं, स्वादिभ्य इत्यादिनिर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाऽवश्यंभावात् । तथा चअच्त्वं स्या॑दित्यस्य अचपदबोध्यत्वं स्यादित्यर्थः । किं तद्ग्रहणकशास्त्रमित्याकाङ्क्षायां तदुपपादनं प्रतिजानीते-तथा हीति ।", "11011": "<<ईदूदेद्द्विवचनं प्रगृह्यम्>> - ईदूदेद्द्विचनम् । ईच्च ऊच्च एच्चेति समाहारद्वन्द्वः । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः ।द्विवचन॑मित्यनेन तु प्रत्ययत्वे ।ञपि न तदन्तं गृह्रते,संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑ति तन्निषेधात् । तदाह — ईदूदेदन्तमित्यादिना । हरी एताविति । अत्र ईकारस्य परादिवत्त्वाश्रयणाद्द्विवचनत्वम् । प्रगृह्रत्वे सति 'प्लुतप्रगृह्रा' इति प्रकृतिभावान्न यण् । विष्णू इमावित्यत्राप्येवम् । गङ्गे अमू इत्यत्र त्वयादेशो न भवति ।ईदूदेदन्त॑मिति तदन्तविधेः प्रयोजनं दर्शयितुमाह-पचेते इमाविति । तदन्तविध्यबावे ईदूदेदात्मकं द्विवचनं प्रगृह्रमिति लभ्येत । एवं सति 'पचेते' इत्यत्रइते इति द्विवचनस्य एद्रूपत्वाऽभावात्प्रगृह्रत्वं न स्यादिति भावः ।ईदूदेदन्तं यद्द्विचनान्त॑मिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात् ।ईदूदेदन्तं द्विवचन॑मिति व्याख्याने तु नातिप्रसङ्गः, ओसो द्विवचनस्य ईदूदेदन्तत्वाऽभावात् । ननुमणीवोष्ट्रस्य सम्बेते प्रियौ वत्सतरौ ममे॑ति भारतश्लोकेमणी इवे॑ति ईकारस्य प्रगृह्रत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह-मणीवोष्ट्रस्येति ।वं प्रचेतसि जानीयादिवार्थे च तदव्यय॑मिति मेदिनी ।व वा यथा तथैवैवं साम्ये॑इत्यमरः ।", "11012": "<<अदसो मात्>> - अदसो मात् । 'अदस' इत्यवयवषष्ठी । अदश्शब्दावयवान्मकारादित्यर्थः ।ईदू॑दितिप्रगृह्र॑मिति चानुवर्तते ।मा॑दिति दिग्योगे पञ्चमी । परसभ्दोऽध्याहार्यः । तदाह — अस्मात्पराविति । अदश्शब्दावयवमकारात्परावित्यर्थः ।ए॑दिति नानुवर्तते, अदश्शब्दे मकारात्परस्यैकारस्याऽसंभवात् ।द्विवचन॑मित्यपि नानुवर्तते, अदश्शब्दे मकारात्परस्य ईकारस्य 'अमी' इति बहुवचनत्वात्, ऊकारस्य च मकारात्परस्य तत्र द्विवचनान्तेष्वेव सत्त्वेन व्यावर्त्त्याऽभावात् । अमी ईशा इति । अदश्शब्दाज्जसि त्यदाद्यत्वं पररूपत्वं । जसश्शी । आद्गुणः । 'अदे' इति स्थिते एकारस्यएत ई॑दिति ईत्त्वं, दस्य च मत्त्वम् । तदेवम्-॒अमी॑#इति रूपम् । अत्र ईकारस्य द्विवचनत्वा.ञभावात्पूर्वसूत्रेण प्रगृह्रसंज्ञा न प्राप्तेत्यनेन सा विधीयते । रामकृष्णावमू इति । पुंलिङ्गाददश्शब्दात्प्रथमाद्विवचने औङि, त्यदाद्यत्वं, पररूपत्वं । वृद्धिरेचि । अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वं, दस्य मत्वम् । अमू इति रूपम् । यद्यप्ययमूकारो द्विवचनं भवति, तथापि पूर्वसूत्रेण प्रगृह्रत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्त्रदृष्टआ सत्त्वात्पूर्वस#ऊत्रेण तस्य प्रगृह्रत्वं न प्राप्तमित्यनेन विधीयते ।अदसो मा॑दिति सूत्रं प्रति तु उत्वमत्वे नासिद्धे, आरम्भसामर्थ्यात् । पूर्वसूत्रस्य तु तत्र न सामर्थ्यं, हरी एतौ, विष्णू इमावित्यादौ चरितार्थत्वात् ।स्त्रियौ फले वा अमू आसाते॑ इति स्त्रीलिङ्गो नपुंसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम् । तथाहि स्त्रीलिङ्गददश्शब्दादौङि, त्यदाद्यत्वे, पररूपत्वे, टापि, 'ओङ आप' इति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम् । तथा नपुंसलिङ्गात्तस्मादौङि, त्यदाद्यत्वे, पररूपत्वे, नपुंसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू #इत्येव रूपम् । अत्र पूर्वसूत्रेणैव प्रगृह्रत्वं सिद्धम् । उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्त्वात् । अतः पुंलिङ्ग एव अदश्शब्दोऽत्रोदाहरणमिति प्रदर्शयितुं 'रामकृष्णा' वित्युक्तम् । मात्किमिति । 'अदस' इत्येव सूत्रमस्तु, माद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः । अमुकेत्रेतिअव्ययसर्वनाम्नामकच् प्राक्टेः॑ #इत्यकचि अदकश्शब्दाज्जसि, त्यदाद्यत्वं, पररूपत्वम्, जसश्शी, आद्गुणः उत्वमत्वे । 'अमुके' इति रूपम् । अत्र एकारस्य प्रगृह्रत्वनिवृत्त्यर्थं माद्ग्रहणम् । कृते च तस्मिन्नेकारस्य म#आत्परत्वाऽभावान्न प्रगृह्रत्वमिति भावः । नन्वेवमपि माद्ग्रहणं व्यर्थम्, एद्ग्रहणमननुवर्त्त्य ईदूतोरेवाऽत्र प्रगृह्रत्वविधानाब्युपगमेन 'अमुके' इत्यत्र प्रगृह्रत्वप्रसक्तेरेवाऽभावादित्यत आह — असतीति ।अदसो मा॑दित्यत्र ईदूदेतामेकसमासपदोपात्तानां मध्ये ईदूतोद्र्वयोरनुवृत्तौ एतोऽप्यनुवृत्तिप्रसक्तौ माद्ग्रहणादेतोऽनुवृत्तिः प्रतिबद्धा । माद्ग्रहणाऽभावे तु बाधकाऽभावादेतोऽप्यनुवृत्तिः स्यात् । ततश्च 'अमुके' इत्यत्रापि एकारस्य प्रगृह्रत्वप्रसक्तौ तन्निवृत्त्यर्थं माद्ग्रहणम् । कृते तु तस्मिन्नेतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्रत्वम् । तथाच एकाराननुवृत्तिफलसकं माद्ग्रहणमिति भावः ।", "11013": "", "11014": "<<निपात एकाजनाङ्>> - निपात एकाच् ।प्रगृह्यमित्यनुवर्तते, पुंलिङ्गतया च विपरिणम्यते । एकाश्चासावच्चेति कर्मधारयः । तदाह — एकोऽजित्यादिना । इ विस्मये इति । इ इति चादित्वान्निपातः । स च आश्चर्ये वर्तत इत्यर्थः । इ इन्द्रः । उ उमेशः । इ इति उ इति निपातः । सम्बोधने उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्रत्वान्न सन्धिः ।अना॑ङित्यत्र ङकारानुबन्धस्य प्रयोजनमाह - अनाङित्युक्तेरिति । आ एवमिति । पूर्व प्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः । आ एवमिति । स्मरणद्योतकोऽयमाकारः । इहोभयत्रापि आकारस्य ङित्त्वाऽभावान्न पर्युदासः । ङित्त्विति । ङित्तु आकारः प्रगृह्रो न भवति, अनाङिति पर्युदासादित्यर्थः । ओष्णमिति । आ-उष्णमित्यत्र आकारस्य ङित्त्वात्प्रगृह्रत्वाऽभावे सति आद्गुणः । ननु प्रयोगदशायां ङकारस्याऽश्रवणाविशेषान्ङिदङिद्विवेकः कथमित्यत आह-वाक्येति । प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अङित् । अन्यत्र=ईषदाद्यर्थे गम्ये, ङिदिति विवेकः — भेदोऽवगन्तव्य इत्यर्थः । तथाच भाष्यम्-॒ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातांङितं विद्याद्वाक्यस्मरणयोरङित्॥॑ इति॥एकोऽच् यस्ये॑ति बहुव्रीहिस्तु नाश्रितः, तथा सतिप्रेद॑मित्यादाबतिप्रसङ्गात् ।", "11015": "", "11016": "<<सम्बुद्धौ शाकल्यस्येतावनार्षे>> - संबुद्धौ शाकल्यस्येति । सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति ।प्रगृह्र॑मित्यनुवर्तते, स च पुंलिङ्गतया विपरिणम्यते । ऋषिः=वेदः ।तदुक्तमृषिणे॑त्यादौ तथा दर्शनात् । ऋषौ भवः — आर्षः, न आर्षः-अनार्षः । अवैदिके इतिशब्दे परत इत्यर्थः । शाकल्यग्रहणाद्विकल्पस्तदाह — संबुद्धिनिमित्तक इति । विष्णो इतीति । अत्र ओकारो 'ह्रस्वस्य गुण' इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम् ।विष्ण॑वितीति प्रगृह्रत्वाऽभावे रूपम् ।", "11017": "<<उञ ऊँ>> - ऊँ । इदमप्येकपदं सूत्रम् । ऊँ इति दीर्घस्याऽनुनासिकस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः । उञ इत्यनुवर्तते, इतौ शाकल्यस्य प्रगृह्रमिति च । तदाह — उञ इताविति । ऊँ ईतीति । उक्तविधे ऊँकारादेशे रूपम् । प्रगृह्रत्वात्प्रकृतिभावः । एतदादेशाऽबावपक्षे पूर्वसूत्रेण प्रगृह्रत्वे सतिउ इती॑ति रूपम् । प्रगृह्रत्वस्याप्यभावे सति यणादेशेविती॑ति रूपमिति त्रीणि रूपाणि फलितानि । तदेवमुञ ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम् । एकसूत्रत्वे तु उञ इतौ परे 'ऊँ' इत्ययं दीर्घोऽनुनासिकः प्रगृह्रश्चादेशः शाकल्यामते स्यात् । तदभावपक्षे तुनिपात एका॑जिति नित्यं प्रगृह्रत्वमित्येतावल्लभ्येत । ततश्च 'ऊँ इति 'उ इती॑ति रूपद्वयमेव स्यात्,विती॑ति रूपं न लभ्येत । अतो विभज्य व्याख्यातम् ।", "11018": "", "11019": "<<ईदूतौ च सप्तम्यर्थे>> - ईदूतौ च ।प्रगृह्र॑मित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । शब्दस्वरूपस्य विशेष्यत्वात्तदन्तविधिः ।ईदूतौ च सप्तम्या॑वित्येव सिद्धेऽर्थग्रहणाद्यत्र सप्तम्या लुकियः शिष्यते स लुप्यमानार्थाभिधायी॑ इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसानं तथाविधत्वमीदूदन्तयोर्गम्यते । तथाच सप्तम्यर्थे पर्यवसन्नावीदूदन्तौ शब्दौ प्रगृह्रौ स्त इत्यक्षरार्थः । फलितमाह — सप्तम्यर्थ इत्यादिना । सोमो गौरी इति । गौर्यामित्यर्थः ।सुपां सुलु॑गिति सप्तम्या लुक् । प्रगृह्रत्वे प्रकृतिभावान्न यण् । वातप्रमीत्यादिसप्तम्यन्तं तु नात्रोदाहरणम्, तत्र सप्तम्या लुप्तत्वाऽभावेन प्रकृतेः सप्तम्यर्थेऽप्रवृत्तेः । मामकी तनू इति । मामक्यां तन्वामित्यर्थः ।सुपां सुलु॑गिति सप्तम्यालुक् । प्रगृह्रेभ्यः परत इतिशब्दप्रयोगस्य पदकारैर्नियमितत्वात् पदपाठे 'मामकी इति'तनू इती॑त्यत्र प्रगृह्रत्वफलं बोध्यम् । ननु 'ईदूतौ च सप्तम्याः' इत्येव सूत्र्यताम् । षटआ चाऽर्थद्वारा संबन्धो विवक्ष्यतां, ततश्च सप्तम्यर्थे विद्यमानमीदूदन्तमित्यर्थस्यार्थग्रहणं विनैव लाभादर्थग्रहणं किमर्थमिति पृच्छति — अर्थग्रहणं किमिति । कस्म#ऐ प्रयोजनायेत्यर्थः ।कि॑मित्यव्ययम् । वृत्ताविति । अर्थग्रहणसामर्थ्याल्लुप्तसप्तम्यर्थमात्रे पर्यवसन्नमित्यर्थो विवक्षितः । ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलङ्घ्य उत्तरपदार्थे प्रवृत्ते सति प्रगृह्रसंज्ञा न भवति । मा भूदिति । 'माङि लुङ्' सर्वलकारापवादः । वाप्यआ इति । 'वाप्याम् — अआ' इति विग्रहे सुप्सुपेति समासे 'वाप्यआ' इति रूपमित्यर्थः । अत्र वाप्यामिति सप्तम्या अधिकरणत्वमवगतं, तच्चाधिकरणकारकं क्रियापेक्षं । तत्र वाप्यामआओ वर्तत इति क्रियाध्याहारे वर्तमानक्रियायां वाप्या विद्यमानेऽओ लक्षमया प्रवृतिंत पुरस्कृत्य समासो वक्तव्यः । एवं च समासे लुप्तसप्तमीकस्य वापीशब्दस्य सप्तम्यर्थमतिलङ्घ्य तत्संसृष्टे आधेयभूतेऽओऽपि प्रवृत्तेः सप्तम्यर्थमात्राविश्रान्त्यभावान्न प्रगृह्रत्वमिति भावः ।", "11020": "<<दाधा घ्वदाप्>> - आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन्घुसंज्ञां दर्शयति — दाधाघ्वदाप् ।दे॑त्यनेन स्वाभाविकाऽऽकारान्तयोः 'डु दाञ् दाने' 'दाण् दाने' इत्यनयोः, कृतात्वयोः 'दो अवखण्डने' 'देङ् रक्षणे' इत्यनयोर्लाक्षणिकयोश्च, 'धे' त्यनेन स्वाभाविकाकारान्तस्यडु धाञ् धारणपोषणयो॑रित्यस्य, लाक्षणिकस्य 'धेट् पाने' इत्यस्य च ग्रहणम् ।गामादाग्रहणेष्वविशेषः॑ इति परिभाषाबलात्तत्र दाग्रहणेन धारूपस्यापि ग्रहणाच्च । अत एवदो दद्धो॑रित्त्र धेण्निवृत्त्यर्थं दाग्रहणमर्थवत्, दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः । तदाह — दारूपा धारूपाश्चेति ।", "11021": "<<आद्यन्तवदेकस्मिन्>> - ननु इदम् भ्यामिति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ-भ्याम् इति स्थिते अङ्गस्याकारात्मकत्वाददन्तत्वाभावात्कथंसुपि चे॑ति दीर्घ इत्यत आह-आद्यन्तवदे । आदित्वान्तत्वयोर्नित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्पाप्त्यर्थमिदमारभ्यते ।एकशब्दोऽसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । सप्तम्यन्ता॒त्तत्र तस्येवे॑ति वतिः, एकस्मिन्नित्युपमेये सप्तमीदर्शनात् । वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकं संबध्यते । तदाह-एकस्मिन्नित्यादि । तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः । एकस्मिन्निति किम् । दरिद्रातेरेरजिति न । आदिवत्त्वफलम्-औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम् । आभ्यामित्यादौ अन्तवत्त्वाद्दीर्घादिर्भवति । भाष्ये तु आद्यन्तवदित्यपनीय व्यपदेशिवदेकस्मिन्निति सूत्रपाठः शिक्षितः । तेन इयायेत्यादौएकाचो द्वे प्रथमस्ये॑ति द्विर्भावः, धुगित्यत्र व्यपदेशिवत्त्वेन धात्ववयवत्वाद्भष्भावश्च सिध्यति । विशिष्टोऽपदेशो-व्यपदेश=मुख्यो व्यवहारः । सोऽस्यास्तीति व्यपदेशी । मुख्य इति यावत् । एकस्मिन् तदादित्वतदन्तत्वतदवयवत्वादिप्रयुक्तकार्यं स्यादिति फलितम् । ()इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ।२.४.३२ ।इदम् — भिसिति स्थिते त्यदाद्यत्वे पररूपे 'हलि लोपः' इति इदो लोपे अ-भिस् इति स्थितेअतो भिस ऐ॑सिति प्राप्ते — नेदमदसोरकोः ।अतो भिस ऐ॑सित्यतो भिस ऐसित्यनुवर्तते ।अको॑रिति षष्ठो । न विद्यते ककारो ययोरिति बहुव्रीहिः । तदाह — अककारयोरित्यादिना । एत्त्वमिति ।बहुवचने झलीत्यनेने॑ति शेषः । ङयि विशेषमाह-अत्वमित्यादि । अत्वं ङेः स्मै इत्यन्वयः । इदम् एव इति स्थिते स्मैभावात्परत्वादनादेशेविप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायेन पुनः स्मैभावो न स्यादित्यत आह — नित्यत्वादिति । कृतेऽकृतेऽप्यनादेशे प्रवृत्तियोग्यतया स्मैभावस्य नित्यत्वादनादेशात्प्रागेव स्मैभावे कृतेऽनादेशस्य हलि लोपेन बाध इति भावः । आभ्यामिति । पूर्ववत् । एभ्य इति । त्यदाद्यत्वं, पररूपत्वं, हलि लोपः,बहुवचने झल्ये॑दित्येत्त्वंचेति भावः । अस्मादिति । त्यदाद्यत्वं, पररूपत्वं हलि लोपःस 'ङसिङ्योः' इति स्मादिति भावः । अस्येति । त्यदाद्यत्वं, पररूपत्वं, स्यादेशः, हलि लोपश्चेति भावः । अनयोरिति । त्यदाद्यत्वंस पररूपत्वम्, 'अनाप्यकः'ओसि चे॑त्येत्त्वम्, अयादेशश्चेति भावः । एषामिति । आमि त्यदाद्यत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः । अस्मिन्निति । अत्वं, पररूपत्वं, स्मिन्, हलि लोपश्चेति भावः । एइआति अत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः । ककारयोगे त्विति ।अव्ययसर्वनाम्नामकच् प्राक् टे॑रित्यनेन इदंशब्दस्य, अकचि सतीत्यर्थः । अयकमिति । अकचि सति निष्पन्नस्य इदकम्शब्दस्यतन्मध्यपतिन्यायेन 'इदमो मः' इत्यादाविदंग्रहणेन ग्रहणान्मत्वादिकमिति भावः । 'अनाप्यकः' इति, 'हलि लोपः' इति,नेदमदसोरको॑रिति च नेह प्रवर्तते । ककारयोगे तन्निषेधादित्याशयेनाह — इमकेन इमकाभ्यामिति । इत्यादीति । इमकैः । इमकस्यै । इमकेभ्यः । इमकस्मात् । इमकस्य, इमकयोः २, इमकेषाम् । इमकस्मिन् इमकेषु ।", "11022": "<<तरप्तमपौ घः>> - तरप्तमपौ घः । प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्ययप्रकरणान्ते, 'पितौ घः' तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तस्य आतिशायनिकप्रकरणबहुर्भूतस्य सत्त्वे तत्संग्रहणार्थं प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन 'अल्पाच्तरं' 'लोपस्च बलवत्तरः' इत्यादि सिद्धम् । किमेत्तिङव्यय । 'आमु' इति छेदः । उकार उच्चारणार्थः । किम्, एते, तिङ्, अव्यय — एषां चतुर्णां द्वन्द्वः ।किमेत्तिङव्ययप्रकृतिको घः॑ इति मध्यमपदलोपी समासः । फलितमाह — किम एदन्तादित्यादिना । एभ्य इत्यर्थः । किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने । एषामतिशयेनाढ इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात् । जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम् । प्राह्णे तमामिति । प्राह्ण=पूर्वाह्णः ।प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य॑मित्यमरः । अतिशयिते पूर्वाह्णे इत्यर्थः । पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः । अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः । पचतितमामिति । अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैवप्रशंसायां रूप॑विति सूत्रभाष्ये प्रपञ्चितत्वात् । अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः । उच्चैस्तमामिति ।आशंसती॑त्यध्याहार्यम् । अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः । अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य । उच्चैस्तमस्तरुरिति । अतिशेन उच्चैस्तरुरित्यर्थः । अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः ।किंतमा॑मित्यादौयस्येति चे॑ति लोपं परत्वाद्बाधित्वा ह्रस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन्निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः' इति सूत्रभाष्ये प्रपञ्चितम् ।", "11023": "<<बहुगणवतुडति संख्या>> - अथ षट्संज्ञाकार्यं वक्ष्यन् षट्संज्ञोपयोगिनीं सङ्ख्यासंज्ञामाह-बहुगण । बहुश्च गणस्च वतुश्च डतिश्चेति समाहारद्वन्द्वः । एतत्सङ्ख्यासंज्ञं स्यादित्यर्थः । फलितमाह-एते इति । बह्वादय इत्यर्थः । बहुगणशब्दाविह त्रित्वादिपरार्धान्तशङ्ख्याव्यापकधर्मविशेषवाचिनौ गृह्रेते । न तु वैपुल्यसङ्घवाचिनौ, सङ्ख्यायतेऽनयेति अन्वयर्थसंज्ञाविज्ञानात् । वतुडती प्रत्ययौ । संज्ञाविधावपीह तदन्तग्रहणं, केवलयोः प्रयोगानर्हत्वात् । वतुरिहयत्तदेतेभ्यः परिमाणे वतु॑विति तद्धितप्रत्ययो गृह्रते, न तुतेन तुल्यं क्रिया चेद्वति॑रिति वतिरपि, उकारानुबन्धात् । डतिरपिकिमः सङ्ख्यापरिमाणे डति च ॑ इति विहिस्ततद्धित एव गृह्रते, वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहितः कृदपि । ननुसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु॑जित्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णां ग्रहणं स्यात् । न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि,कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः॑ इति न्यायात् । ततश्च 'पञ्चकृत्वः' इत्यादि न स्यादिति चेन्न,सङ्ख्याया अतिशदन्तायाः कनि॑त्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तिज्ञापनात् । नहि विंशतितिंरशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति । नचैवं सति बहुगणग्रहणवैयथ्र्यं शङ्क्यं, तयोर्नियतविषयपरिच्छेदकत्वाऽभावेन लोकसिद्धसङ्ख्यात्वाऽभावात् । अत एव भाष्येएतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां संख्येत्याह॑ इत्युक्तं सङ्गच्छते इत्यस्तां तावत् ।", "11024": "<<ष्णान्ता षट्>> - पञ्चन्शब्दो नित्यं बहुवचनान्तः । तस्य षट्संभाकार्यं लुकं विधास्यन् षट्संज्ञामाह — ष्णान्ता षट् । ष्च नश्च ष्णौ । ष्टुत्वेन णः । ष्णौ अन्तौ यस्याः सा ष्णान्ता ।बहुगणवतुडति सङ्ख्या॑ इत्यतः सङ्ख्येत्यनुवर्तते । तच्च पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङ्ख्याबोधकशब्दपरमाश्रीयते, बहुगणवतुडतिषु ष्णान्तत्वाऽसम्भवात् । तदाह — षान्तेत्यादिना । षड्भ्यो लुगिति ।अनेन जश्शसोर्लु॑गिति शेषः । पञ्च पञ्चेति । जश्शसोर्लुकि नलोप इति भावः । सङ्ख्या किमिति । सङ्ख्याग्रहणानुवृत्तेः किं फलमिति प्रश्नः । विप्रुषः पामान इति विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाऽभावेन षट्संज्ञाविरहात्ततः परस्य जसो लुगिति भावः । ननु शतशब्दाज्जश्शसोः शिभावे 'नपुंसकस्य झलचः' इति नुमिसर्वनामस्थाने चे॑ति दीर्घे शतानीति रूपम् । एवं सहरुआआणीत्यपि रूपम् । तत्रअट्कुप्वाङि॑ति णत्वं विशेषः । इह 'तदागमाः' इति न्यायेन नुमोऽङ्गभक्तत्वाच्छतन्शब्दसहरुआन्शब्दयोर्नान्तसङ्ख्याशब्दत्वात् षट्संज्ञायां सत्यांषड्भ्यो लु॑गिति जश्शसोर्लुक् स्यादत आह — शतानीत्यादि । सर्वनामेति । सर्वनामस्थानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुकं प्रति निमित्तत्वाऽभावादित्यर्थः । पञ्चभिः पञ्चभ्य इति । नलोपे रूपम् ।", "11025": "<<डति च>> - डति च ।डती॑त्यविभक्तिको निर्देशः । प्रत्ययत्वात्तदन्तग्रहणम् । पूर्वसूत्रात्संख्ये॑त्यनुवर्तते । 'ष्णान्ता षट्' इत्यतःष॑डिति च । तदाह — डत्यन्तेति । संक्येति किम् । पतिः । अथ षट्संज्ञाकार्यं लुकं वक्ष्यन्नाह-प्रत्ययस्य लुक् । 'अदर्शनं लोप' इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्याऽदर्शनं लुक्श्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते । एवं सति एकस्यैव प्रत्ययाऽदर्शनस्य तिरुआओऽपि संज्ञाः स्युः । ततश्चहन्ती॑त्यत्र शब्लुकि 'श्लौ' इति द्वित्वं स्यात् ।जुहोती॑त्यत्र श्लौ सतिउतो वृद्धिर्लुकि हली॑ति वृद्धिः स्यात् ।", "11026": "<<क्तक्तवतू निष्ठा>> - क्तक्तवतू निष्ठा । क्त, क्तवतु अनयोद्र्वन्द्वः । निष्ठेति प्रत्येकाभिप्रायमेकवचनम् ।", "11027": "<<सर्वादीनि सर्वनामानि>> - नपुंसकवशाच्छब्दरूपाणीति विशेष्यमध्याहार्यं, तदाह — सर्वादीनीति । ननु बहुव्रीहेरन्यपदार्थप्रधानत्वात् सर्वशब्दस्य च समासवर्तिपदार्थत्वादन्यपदार्थत्वाभावाद्विश्वादिशब्दानामेव सर्वादिशब्देन बहुव्रीहिणावगमात्सर्वनामसंज्ञा स्यान्न तु सर्वशब्दस्यापीति चेत्, उच्यते — सर्व आदिर्यस्य समुदायस्येति विग्रहः । सर्वशब्दघटितः समुदायः समासार्थः । समुदाये च प्रवर्तमाना सर्वनामसंज्ञा क्वचिदप्यप्रयुज्यमाने तस्मिन् वैयर्थ्यादानर्थक्यात्तदङ्गेष्विति न्यायेनावयवेष्ववतरन्ती अविशेषात्सर्वशब्देऽपि भवति । एवं चात्र सर्वशब्दस्य स्वरूपेण वर्तिपदार्थता, समुदायरूपेण त्वन्यपदार्थप्रवेशः । नच समुदायस्यान्यपदार्थत्वे सर्वादीनीति बहुवचनानुपपत्तिः शङ्क्या, सर्वशब्दघटितस्य विवक्षितावयवसङ्ख्यस्य समूहस्यान्यपदार्थत्वात् । उद्भूतावयवभेदः समुदायः समासार्थ इति कैयटोक्तेरप्ययमेवार्थः । अतो न बहुवचनस्यानुपपत्तिः तदेवं व्याख्याने <<हलि सर्वेषाम्>> [[8.3.22]] इत्यादिनिर्देशाः प्रमाणम् । सर्वशब्दस्य सर्वनामत्वाभावे तु सर्वेषामित्यादौ सर्वनामकार्याणि सुडादीनि न स्युः । तथाच सर्वादीनीति तद्गुणसंविज्ञानो बहुव्रीहिः । तस्य = अन्यपदार्थस्य, गुणाः = विशेषणानि वर्तिपदार्थरूपाणि, तेषां संविज्ञानं = क्रियान्वयितया विज्ञानं यत्र स तद्गुणसंविज्ञान इति व्युत्पत्तिः । यत्र संयोगसमवायान्यतरसंबन्धेनान्यपदार्थे वर्तिपदार्थान्वयस्तत्र प्रायेण तद्गुणसंविज्ञानो बहुव्रीहिः । यथा - द्विवासा देवदत्तो भुङ्क्ते,लम्बकर्णं भोजयेत्यादौ । तत्र हि वाससोः कर्णयोश्च भुजिक्रियान्वयाऽभावेऽपि संनिहितत्वमात्रेण तद्गुणसंविज्ञानत्वम् । प्रकृते च समुदाये अन्यपदार्थे सर्वशब्दस्य समवायान्तर्गतारोपितावयवावयविभावसंबन्धसत्त्वात्तद्गुणसंविज्ञानत्वम् । स्वस्वामिभावादिसम्बन्धेनान्यपदार्थे वर्तिपदार्थान्वये त्वतद्गुणसंविज्ञानो बहुव्रीहिः । यथा — चित्रगुमानयेत्यादावित्यलम् । ननु सर्व विश्वेत्येवं सर्वादिशब्दानां केवलानामेव सर्वादिगणे पाठात्परमसर्वादिशब्दानां कथं सर्वनामतेत्यत आह — तदन्तस्यापीति । द्वन्द्वे चेतीति । <<द्वन्द्वे च>>[[1.1.31]] इत्यनेन सर्वादिशब्दान्तद्वन्द्वस्य सर्वनामसंज्ञा प्रतिषिध्यते — वर्णाश्रमेतराणामित्यादौ । यदि सर्वादिगणपठितानां केवलानामेव सर्वादिशब्दानामस्तु सर्वनामता, मास्तु तदन्तानामपि, 'सर्वनाम्नः स्मै' इत्यादिसर्वनामकार्याणामङ्गाधिकारस्थत्वेनपदाङ्गाधिकारे तस्य च तदन्तस्य चेति परिभाषया 'परमसर्वस्मै' इत्यादिषु सिद्धेरित्यत आह — तेनेति । तदन्तस्यापि संज्ञाबलेनेत्यर्थः । सिध्यतीत्यर्थः । चकारात्पञ्चम्यास्तसिलिति तसिल् च । नचावयवगतसर्वनामत्वेन तत्सिद्धिरिति वाच्यं, <<कुत्सिते>>[[5.3.74]] इति सूत्रस्थभाष्यरीत्या सङ्ख्याकारकाभ्यां पूर्णार्थस्येतरान्वयेन सुबन्तादेव तद्धितोत्पत्त्यवगमेन सर्वनामप्रकृतिकसुबन्तार्थगतकुत्सादिविवक्षायां सर्वनामावयवटेः प्रागकजित्यर्थपर्यवसानात्तदन्तसंज्ञाऽभावे तदसिद्धेरिति भावः ।", "11028": "<<विभाषा दिक्समासे बहुव्रीहौ>> - तत्र विशेषं दर्शयितुमाह — विभाषा दिक्समासे ।सर्वादीनी॑त्यतःसर्वनाम॑ग्रहणमनुवर्तते । तदाह — अत्रेति । दिक्समासे इत्यर्थः । 'न बहुव्रीहौ' इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते विकल्पार्थमिति केचित् । गौणत्वादप्राप्ते विभाषेयमित्यन्ये । सर्वनामत्वपक्षे उदाहरति — उत्तरपूर्वस्यै इति । स्याड्ढ्रस्वौ । उत्तरपूर्वायै इति । सर्वनामत्वाऽभावपक्षे याट् । उत्तरपूर्वायाः-उत्तरपूर्वस्याः । उत्तरपूर्वासाम् — उत्त्रपूर्वाणाम् । उत्तरपूर्वस्याम् — उत्तरपूर्वायाम् ।सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः॑ इति मात्रग्रहणात्संप्रत्यसर्वनामत्वेऽपि पूर्वपदस्य पुंवत्त्वम् । ननूत्तरा दिगिति गत्वा मोहवशात्पूर्वा दिक् यस्याः सा उत्तरपूर्वा । 'अनेकमन्यपदार्थ' इति बहुव्रीहिः । अत्रापि दिक्शब्दघटितसमासत्वात्सर्वनामताविकल्पे उत्तरपूर्वस्यै — उत्तरपूर्वायै इति रूपद्वयं स्यात् । स्याडागमस्तु नेष्यते । तत्राह — दिङ्नामानीति ।दिङ्नामान्यन्तराले॑ इति बहुव्रीहिः प्रतिपदोक्तो दिक्समासः, दिक्शब्दमुच्चार्यं विहितत्वात् । नतु 'अनेकमन्यपदार्थे ' इति बहुव्रीहिरपि । ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्येह ग्रहणमित्यर्थः । योत्तरेति । उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्यं द्योतयितुं यत्तच्छब्दौ । सामानाधिकरण्याऽभावे 'अनेकमन्यपदार्थे' इति बुहुव्रीहेरसंभवात्,बहुव्रीहिः समानाधिकरणानां वक्तव्य)॑ इति वचनात् । उन्मुग्धाया इति । तेन पूर्वोत्तरयोर्विरोधात्कथं सामानादिकरण्यमिति शङ्का निरस्ता । ननु 'विभाषा दिक्समासे' इत्येवास्तु, बहुव्रीहिग्रहणं न कर्तव्यं, प्रतिपदोक्तत्वेनदिङ्नामानी॑ति बहुव्रीहेरेव ग्रहणसिद्धेरित्यत आह — बहुव्रीहिग्रहणं स्पष्टार्थंमिति । बाह्रायै इत्यर्थ इति ।अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि चे॑ति कोशात् । अर्थान्तरपरत्वेन तु सर्वनामत्वाऽभावान्न स्यादिति भावः । अपुरीत्युक्तेरिति ।अन्तरं बहिर्योगेति गणसूत्रे॑ इति शेषः ।", "11029": "<<न बहुव्रीहौ>> - तत्रेदमारभ्यते — ॒न बहुव्रीहौ॑ ।सर्वादीनि सर्वनामानी॑त्यनुवर्तते । बहुव्रीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थः प्रतीयते । एवं सति सूत्रमिदं व्यर्थं,प्रियसर्वाये॑त्यादीनां बहुव्रीहिवर्तिनां सर्वादीनां स्वार्थोपसङ्क्रान्तार्थान्तप्रधानकतयोपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धेः,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यटमाणत्वात् । अतो व्याचष्टे — चिकीर्षित इति । बहुव्रीहाविति विषयसप्तम्याश्रयणादयमर्थो लभ्यते । तथाच बहुव्रीहौ प्रसक्ते सति ततः प्रागेव विग्रहवाक्येऽयं निषेधोर्थवान् । एकार्थीभावात्मकसामर्थ्यस्य समासदशायामेव सत्त्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याऽभावादिति भावः । अथ लौकिकविग्रहवाक्यं दर्शयल्लँक्ष्यभूतं बहुव्रीहिं दर्शयति — त्वकं पितेत्यादिना । सर्वनामत्वाऽभावात्कप्रत्ययेप्रत्ययोत्तरपदयोश्चे॑ति त्वमादेशे त्वत्को मत्क इति च रूपम् । ननु बहुव्रीहिप्रवृत्तेः प्रागलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात्त्वं पितेति कथं लोकिकविग्रहवाक्यप्रदर्शनमित्यत आह — इहेति ।न बहुव्रीहा॑वित्यस्मिन्सूत्र इत्यर्थः । प्रक्रियावाक्य इति । युष्मद् स्-पितृ स्, अस्मद् स्-पित#ऋ स् — इत्यलौकिकविग्रहवाक्य एवेत्यर्थः । लोकिकविग्रहवाक्ये तु नायं निषेधः, बहुव्रीहिवत्तस्य स्वार्थे परिनिष्ठितत्वेन स्वतन्त्रप्रयोगाह्र्मतया बहुव्रीहेस्तत्र चिकीर्षितत्वाऽभावादलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात् । यथा चैतत्तथा समासनिरूपणे वक्ष्यते नन्वलौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेधः, को दोषः । तत्राह-अन्यथेति । न बहुव्रीहावित्यलौकिकविग्रहवाक्ये निषेधाऽभावे सतीत्यर्थः । तत्रापीति । अलौकिकविग्रहवाक्येऽपीत्यर्थः ।नन्वलौकिकविग्रहवाक्ये भवत्कच् । सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाऽभावादित्यत आह — स चेति अलौकिकविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भावः । उभयत्रापि तन्नियमे दृष्टान्तद्वयमाह — अतिक्रान्तो भवकन्तमित्यादि । भवच्छबन्दस्य सर्वादिगणे पाठात्सर्वनामत्वादलौकिकविग्रहदशायामकच् । ततश्च भवकत् अमति इत्यलौकिकविग्रहवाक्यं संपद्यते । तत्रअत्यादयः क्रान्ताद्यर्थे द्वितीयये॑ति समासे सतिसुपो धातुप्रातिपदिकयो॑रिति सुब्लुकि अतिभवकच्छब्दात्प्रथमैकवचने ।ञतिभवकानिति रूपम् । समासाऽभावपक्षे तु भवकन्तमतिक्रान्त इति लौकिकविग्रहवाक्यं भवति । तत्र समासदशायां भवच्छब्दार्थस्य स्वोपसङ्कान्तार्थान्तरप्रधानतयोपसर्जनत्वे ।ञप्यलौकिकविग्रहदशायां भवच्छब्दस्यानुपसर्जनत्वात्सर्वनामत्वे सति प्रवृत्तोऽकच् अतिक्रान्तो भवकन्तमिति लौकिकविग्रहवाक्येऽभवकानिति समासे चानुवर्तते, लौकिकविग्रहदसायां भवच्छब्दस्योक्तरीत्याऽनुपसर्जनत्वात् । समासे तस्योपसर्जनत्वेऽपि योनिभूताऽलौकिकविग्रहदशायां प्रवृत्तस्याऽकचो निवर्तकाऽभावात् । नच भवत् अम् इत्यलौकिकविग्रहदशायां सतोऽप्यनुपसर्जनत्वस्य समासदशायां विनाशं प्राप्स्यमानतया विनाशोन्मुखत्वादकृतव्यूहपरिभाषयाऽलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावादकज्दुर्लभः । ततश्चाऽतिक्रान्तो भवकन्तमिति लोकिकविग्रहवाक्येऽतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तऽसिद्धिरिति वाच्यम् । एवञ्जातीयकाऽलौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तावकृतव्यूहपरिभाषाया अनित्यत्वेनाऽनाप्रवृत्तेः । तदनित्यत्वे च न बहुव्रीहाविति सूत्रमेव ज्ञापकम् । तथा हि — यद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यात्, तर्हि बहुव्रीहिविषयेऽपि युष्मद् स् पितृस् इत्याद्यलौकिकविग्रहवाक्येऽनुपसर्जनत्वस्य बहुव्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याऽप्रसक्तत्वात्न बहुव्रीहा॑विति नारभ्येत । अकृतव्यूहपरिभाषायास्तत्र प्रवृत्तेर्भविष्यद्बहुव्रीहिकालिकविनाशोन्मुखमनुपसर्जनत्वं पुरस्कृत्य तदलौकिकविग्रहवाक्ये सर्वनामत्वस्याऽप्रसक्तत्वान्न तन्निषेधाय न बहुव्रीहावित्यर्थवत् । नचोदाहृतबहुव्रीहिविषयाऽसोकिकविग्रवाक्येऽकृतव्यूहपरिभाषामाश्रित्यैव सर्वनामत्वाऽभाव आश्रीयतां, किं न बहुव्रीहाविति सूत्रेणेति वाच्यम् । एवं सत्यतिक्रान्तो भवकन्तमतिभवकनित्यादि न सिध्येत् । अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावेनाकचः प्रवृत्त्यभावे तस्यातिक्रान्तो भवकन्तमित्यादिलौकिकविग्रहवाक्येऽतिभवकानिति समासेऽपि च श्रवणं न स्यात् । एवञ्च बहुव्रीहिविषयेऽलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्यसिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्या सर्वनामत्वं विज्ञायते । एतदर्थमेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तरः । प्रत्याचख्याविति । निराकृतवानित्यर्थः । सूत्रभाष्ययोरुभयोरपि स्मृतित्वाऽविशेषाद्विकल्पमाशङ्कयाह — यथोत्तरमिति । सूत्रकाराद्वार्तिककारस्य, उभाभ्यामपि भाष्यकृत इत्येवं मुनीनामुत्तरोत्तरस्य ग्रन्थस्य प्रामाण्यं, पूर्वपूर्वस्याऽप्रामाण्यमिति वैयाकरणसमय इति भावः । न चाऽकृतव्यूहपरिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम्, अकृतव्यूहपरिभाषाया निमूर्लत्वस्य निष्फलत्वस्य च हलन्तादिकारे सेदिवस्शब्दनिरूपणे,समर्थानां प्रथमाद्रे॑त्यत्र च वक्ष्यमाणत्वात् । संज्ञोपसर्जनीभूता इति । आधुनिकसङ्केतः संज्ञा । अन्यविशेषणत्वेन स्वार्थोपस्थापकम् — उपसर्जनम् । न सर्वादय इति । सर्वादिगणे पठिता न भवन्तीत्यर्थः ।महासंज्ञेति । टिघुभादिवदेकाक्षरसंज्ञामकृत्वा सर्वेषां नामानीत्यन्वर्थसंज्ञाकरणबलेन प्राधान्येनोपस्थितस्वीयसर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वमित्यवगततया तथाविधानामेव सर्वादिगणे पाठानुमानादित्यर्थः ।प्राधान्येनोपस्थिते॑त्यनेन उपसर्जनव्यावृत्तिः ।प्राधान्येनोपस्थितसर्वार्थवाचकत्व॑मित्युक्ते पूर्वादिशब्देष्वव्याप्तिरतः-॒स्वीये॑ति । सर्वार्थे॑त्यनेन संज्ञाशब्दव्यावृत्तिः, संज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात् । संज्ञाकार्यमिति । सर्वनामसंज्ञाकार्यं शीस्मायादिकमित्यर्थः । अन्तर्गणेति । सर्वादिगणेऽन्तर्गतो गणः-अन्तर्गणः । तदीयं कार्यम् =॒अद्ड्डतरादिभ्यः॑ त्यदादीनामः॑ इत्यादिकमित्यर्थः । सर्वाय देहीति । संज्ञाशब्दत्वात्समायादेशो न । अतिकतरमिति । कतरमतिक्रान्तं कुलमतिकतरमित्यत्र कतरशब्दस्य उपसर्जनत्वान्नाऽद्डादेशः । अतितदिति । तमतिक्रान्तो ब्राआहृणोऽतितदित्यत्र त्यदाद्यत्वं, 'तदोः सः सौ' इति च न भवति ।", "11030": "<<तृतीयासमासे>> - तृतीयासमासे ।सर्वादीनी॑त्यतः सर्वनामग्रहणम् ,नबहिव्रीहा॑वित्यतो नेति चानुवर्तते इत्यभिप्रेत्याह — इहेति । मासूपार्वायेति । मासेन पूर्व इति विग्रहः । हेतौ तृतीया ।पूर्वसदृशे॑ति तृतीयातत्पुरुषसमासः । मासात्पूर्वभावीत्यर्थः ।विभाषा दिक्समासे बहुव्रीहा॑वित्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौकिकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम् । ततश्च फलितमाह — तृतीयासमासार्थेति । द्वन्द्वे च । सर्वादीनीत्यतः सर्वनामग्रहणं, न बहुव्रीहावित्यतो नेति चानुवर्तते ।", "11031": "<<द्वन्द्वे च>> - तदाह — द्वन्द्वे उक्तेति । सर्वनामसंज्ञा नेत्यर्थः । वर्णाश्रमेतराणामिति ।वर्णाश्रमेतराणां नो ब्राऊहि धर्मानशेषतः॑ इति याज्ञवल्क्यस्मृतिः । वर्णाश्चाअश्रमाश्च इतरे चेति द्वन्द्वः । अत्र सर्वनामत्वाऽभावादामि सर्वनाम्न इति न सुट् । समुदायस्यैवेति । द्वन्द्वे विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नाऽर्थः, विद्यतिक्रियाध्याहारे गौरवात् । किन्तु द्वन्द्वे सर्वनामसंज्ञा न भवतीति प्रधानभूतया निषेध्यवनक्रिययैव द्वन्द्वस्याधारतयाऽन्वयः । द्वन्द्वाधारा सर्वनामसंज्ञा न भवतीत्यक्षरार्थः । द्वन्द्वस्य सर्वनामसंज्ञा नेति फलितम् । वर्णाश्रमतरेत्यादिसमुदायस्यैव द्वन्द्वता नतु तदवयवानाम् । एवंच वर्णाश्रमेतरेत्यादिसमुदायस्यैव सर्वनामत्वनिषेधो नतु तदवयवानामिति वस्तुस्तितिकथनम् । ननु द्वन्दावयवानां सर्वनामत्वनिषेधाऽभावे वर्णाश्रमेतरशब्दे इतरशब्दस्य सर्वनामतया ततः परस्यामः सुटि वर्णाश्रमेतरेषामिति स्यात् । नच अवर्णान्तात्सर्वनाम्नोऽह्गात्परस्यामः सुड्विधीयते । ततश्च वर्णाश्रमेतरशब्दस्य समुदायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात्परत्वादामः स#उट् स्यात् । न चैवं सति द्वन्द्वस्य तन्निषेधात् । इतरशब्दस्तु सर्वनामसंज्ञकः,न ततो विहित आम्, आमः समुदायादेव विधानात् । अतो न सुडिति भावः ।अवर्णान्तादङ्गात्सर्वनाम्नो विहितस्यामः सु॑डिति व्याख्याने तु येषां तेषामित्यत्राऽव्याप्तिः । अतोऽवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडित्येव व्याख्येयम् ।", "11032": "<<विभाषा जसि>> - विभाषा जसि । सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च ।जसी॑त्यविभक्तिको निर्देशः । जस इः जशिः । आर्षः सप्तम्या लुक् ।इ॑शब्द इवर्णपरः सन्शी॑तीकारमाचष्टे । ततश्च जसादेशे शीभावे कर्तव्ये इति फलितम् । तदाह — जसाधारमिति । जस् आधारो यस्येति बहुव्रीहिः । जस्स्थानकमित्यर्थः । ननुजसि परतो द्वन्द्वे सर्वानामसंज्ञा वा स्या॑दित्येव कुतो न व्याख्यायत इत्यत आह — शीभावं प्रत्येवेत्यादिना । यदि त्वकच्स्यात्तर्हि तस्याऽव्यवधायकत्वाच्छीभावः प्रसज्येत । कप्रत्यये तु सति तेन व्यवधानान्नोक्तदोष इत्याह — वर्णाश्रमेतरका इति । नचाऽकचि कर्तव्ये विकल्पाऽभावे ।ञपि सर्वादीनी॑ति नित्या सर्वनाम संज्ञा कुतोऽत्र न स्यादिति वाच्यं,द्वन्द्वे चे॑ति तस्या नित्यानिषेधात् । नचद्वन्द्वे॑चेति निषेधस्योक्तरीत्याऽवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्याऽवयवस्य सर्वनामत्वाऽनपायादकज्दुर्वार इति वाच्यं, द्वन्द्वावयवमात्रे सुन्दरादिविशेषणान्वयाऽबाववत्कुत्सादिविवक्षाया अभावात् । समुदाये तद्विवक्षायां समुदायोत्तरप्रत्ययेनाऽवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्यः पृथक् तदनुत्पत्तेः । अन्यथा अवयवेभ्यः प्रत्येकं कप्रत्ययापत्तेः । एतदेवाभिप्रेत्योक्तं भाष्ये — ॒वर्णाश्रमेतरशब्दे अकच् न भवती॑ति । एवंच यदा इतरशब्देन द्वन्द्वं कृत्वा कुत्सिता वर्णाश्रमेतरा इति कुत्सायोगः क्रियते तदा कप्रत्यये सति 'वर्णाश्रमेतरका' इत्येव रूपम् । यदा तु कुत्सित इतरः-इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते, तदा शीभावविकल्पः स्यादेव॥", "11033": "<<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> - प्रथमचरम ।विभाषा जसी॑त्यनुवर्तते,सर्वनामानी॑ति च । तदाह — एते इति । प्रतमादय इत्यर्थः । उक्तसंज्ञा इति । सर्वनामसंज्ञका इत्यर्थः । तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां तु गणे पाठाऽभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह-शेषं रामवदिति । ॒तय॑ शब्दो न प्रातिपदिकमित्याह — तयप्प्रत्यय इति ।संख्याया अवयवे तयबिति विहित॑ इति शेषः । तत इति । तस्मात् प्रत्ययत्वाद्धेतोः प्रत्ययग्रहणपरिभाषया, तदन्ताः=तयबन्ता ग्राह्रा इत्यर्थः । द्वितये द्वितया इति । द्ववयववावस्येत्यर्थे तयप् । यद्यप्यवयवसमुदायोऽवयवी तयवर्थः, तस्य चैकत्वादेकवचनमेव युक्तन्तथापि यदोध्भूतावयवभेदः समुदायस्तयबर्थः, उद्भूतत्वं च विवक्षितसङ्ख्याकत्वं, तदाऽवयवबहुत्वाभिप्रायमवयविनोऽवयवाऽभेदाभिप्रायं वा बहु वचनमिति न दोषः । अत्र च तयब्ग्रहणमेव प्रमाणम् । अन्यथा तयबन्ताज्जस एवाऽभावात्कतेन । चरमे चरमाः । अल्पे अल्पाः । अर्धे अर्धाः । कतिपये कतिपयाः-इत्यपि प्रथमशब्दवदुदाहार्यम् । अर्धशब्दस्त्वेकदेशवाची पुंलिङ्गः । समांशवाची तु नपुंसकलिङ्गः ।वा पुंस्यर्धोऽर्धं समेंऽशके॑ इति कोशात् । शेषं सर्ववदिति । नेमशब्दस्य सर्वादिगणे पाठादिति भावः । विभाषाप्रकरण इति ।विभाषा जसी॑त्यधिकारे तीयान्तस्य ङे-ङसि-ङस्#Hङि-इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः । द्वितीयस्मै द्वितीयायेति । द्वयोः पूरणो द्वितीयः । 'द्वेस्तीय' इति पूरणे तीयप्रत्ययः । इत्यादीति । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन्, द्वितीये इत्यादिशब्दार्थः । एवं तृतीय इति । 'ङित्सूदाहार्य' इति शेषः ।त्रेः संप्रसारणं चे॑ति पूरणे तीयप्रत्ययः । रेफस्य संप्रसारणमृकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । ननुप्रकारवचने जातीयर् इति पटुशब्दाज्जातीयरिपटुजातीय॑शब्दः, तस्यापि तीयान्तत्वान्ङित्सु सर्वनामत्वविकल्पः स्यादित्यत आह — अर्थवदिति ।अर्थवद्ग्रहणे नानर्थकस्ये॑ति परिभाषयाऽर्थवानेन तीयोऽत्र गृह्रते । जातीयरि तु समुदायस्यैवार्थवत्त्वं न तु तदेकदेशस्येति भावः । निष्क्रान्तो जराया निर्जरः ।निरादयः क्रान्ताद्यर्थे॑ इति समासः 'गोस्त्रियोः' इति ह्रस्वत्वम् । निर्जरा जरा यस्मादिति बहुव्रीहिर्वा ।", "11034": "<<पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्>> - अथ सर्वादिगणान्तर्गततिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्रीं पुनरुक्तिशङ्कां व्युदस्यन् व्याचष्टे — पूर्वपरा ।सर्वानामानी॑ति॒विभाषा जसी॑ति चानुवर्तते । तदाह — एतेषामिति । पूर्वादिसप्तानामित्यर्थः । गण इति । सर्वादिगण इत्यर्थः । या प्राप्तेति ।सर्वादीनि॑त्यनेन नित्या संज्ञाया प्राप्तेत्यर्थः । अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसंज्ञार्थम् । अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम् । स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्षः । कर्मणि घ । स्वस्य=ततश्चनियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः । दक्षिणा गाथका इति । अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः । दक्षिणपार्ावर्तिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह — कुशला इत्यर्थ इति । यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापिउत्तरे प्रत्युत्तरे च शक्त॑ इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः । असंज्ञायां किमिति ।संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याऽप्रसक्तेरिति प्रश्नः । उत्तराः कुरव इति । कुरुशब्दो दोशविशेषे नित्यं बहुवचनान्तः । सुमेरमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था । किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानां तु दिक्षु अनादिस्सङ्केत इति न ते संज्ञाशब्दाः । कुरुष तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति मन्यते । केचित्त्वसंज्ञायामित्यस्या.ञभावे संज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहुः ।", "11035": "<<स्वमज्ञातिधनाख्यायाम्>> - स्वमज्ञाति । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनं च ज्ञातिधने, तयोराख्या-ज्ञातिधनाख्या, न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्याम् — अज्ञातिधनाख्यायाम् ।स्व॑मिति शब्दस्वरूपापेक्षया नपुंसकत्वम् । तदाह — ज्ञातिधनान्येति । स्वेस्वा इति । सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः । आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः ।स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने॑ इत्यमरः । अत्रस्वो ज्ञातावात्मनी॑त्येकं वाक्यम् । ज्ञातावात्मनि च स्वशब्दः पुंलिङ्ग इत्यर्थः ।स्वं त्रिष्वात्मीये॑इति द्वितीयं वाक्यम् । आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः ।स्वोऽस्त्रियां धने॑ इति तृतीयं वाक्यम् । धने स्वशब्दः पुंनपुंसक इत्यर्थः ।स्वः स्यात्पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये ।ञस्त्रियां धने॑ इति मेदनीकोशः । तत्र ज्ञातिधनयोः पर्युदासादात्मनि आत्मीये च सर्वनामता जसि विकल्प्यत इत्यबिप्रेत्य व्याचष्टे — आत्मीया इत्यर्थः । आत्मान इति वेति । ज्ञातिधनपर्युदासस्य प्रयोजनमाह — ज्ञातिधनवाचिनस्त्विति । ज्ञातिवाचिनो धनवाचिनश्च सर्वनामत्वपर्युदासाज्जसि 'स्वाः' इत्येव रूपमित्यर्थः । नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्याग्रहणबलेन ज्ञातित्वधनेत्वपुरस्कार एव पर्युदासप्रवृत्तेः ।", "11036": "<<अन्तरं बहिर्योगोपसंव्यानयोः>> - अन्तरम् । अत्रापिसर्वनामानी॑तिविभाषा जसी॑ति चानुवर्तते । बहिः=अनावृतप्रदेशः, तेन योगः=सम्बन्धः यस्य स बहिर्योगः=बहिर्विद्यमानोऽर्थ इति यावत् । उपसंवीयते=परधीयते इति उपसंव्यानम्न्तरीयं वस्त्रम् । तदाह — बाह्रा इत्यादिना ।", "11037": "", "11038": "<<तद्धितश्चासर्वविभक्तिः>> - अथ स्वरादिचादिभिन्नान्यव्ययान्याह — तद्धितश्चासर्व । असर्वविभक्तिरिति बहुर्वीहिः । तत्र सर्वा विभक्तयो यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न संभवति, अव्ययेभ्यः सप्तानां विभक्तीनामुत्पत्त्यभ्युपगमात् । तथाहितद्धितश्चे॑ति प्रकृतसूत्रे भाष्ये तावत्द्व्येकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मिति सूत्रविन्यासं भङ्क्त्वा 'एकवचनं'द्वयोर्द्विवचने॒॑बहुषु बहुवचन॑मिति सूत्रन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबह्वोरर्थयोस्तस्य द्विवचनबहुवचने बाधके इत्यादि स्थितम् । ततश्च एकवचन॑मित्यनेन ङ्याप्प्रातिपदिकादेकवचनं भवतीति सामान्यविधिना द्वित्वबहुत्वाऽभावे एकवचनमिति लभ्यते । एवं च द्विबहुत्वाऽभावे सति एकत्वे तदभावे च एकवचनमिति फलति । तत्र द्वित्वबहुत्वयोर्द्विवचनबहुवचनोक्त्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् 'एकवचनम्' इति सूत्रं कर्मत्वाद्यभावेऽपि प्रापणार्थं संपद्यते । तथाच अलिङ्गसंख्येभ्योऽव्ययेभ्य एकवचनं प्रवर्तमानं विनिगमनाविरहात्सर्वविभक्त्येकवचनं भवति । अत एव 'अव्ययादाप्सुपः' इत्यत्र प्रत्याहारग्रहणमर्थवत् । तस्मात्सर्वा विभक्तियो यस्मादिति न विग्रहः, किन्तु सर्वशब्दोऽत्र सर्व पटो दग्ध इतिवदवयवकार्त्स्न्ये वर्तते । एवंच सर्वा वचनत्रयात्मिका विभक्तिर्यस्मान्नोत्पद्यते । किन्त्वेकवचनान्येवोत्पद्यन्ते, स तद्धितान्तोऽव्ययसंज्ञः स्यादिति फलतीत्यभिप्रेत्याह — यस्मादिति । सर्वेति । वचनत्रयात्मिकेत्यर्थः । नोत्पद्यत इति ।किन्त्वेकवचनान्येवोत्पद्यन्ते॑ इति शेषः । स्यादेतत्-तिङ्श्चे-त्यनुवृत्तौप्रशंसायां रूप॑मिति रूपप्प्रत्ययेईषदसमाप्तौ कल्प॑बिति कल्पप्प्रत्यये च पचतिरूपं पचतिकल्पमिति रूपम् । प्रशस्तं पचति, ईषत् पचतीत्यर्थः । अत्राप्यव्ययत्वं स्यात्, अरुआवविभक्तितद्धितान्तत्वात् । किञ्च उभयशब्देऽतिव्याप्तिः, तस्याप्यसर्वविभक्तितद्धितान्तत्वादित्यत आह-परिगणनमिति । वार्तिकमेतत् । तसिलादय इति । 'पञ्चम्यास्तसिल्' इत्यारभ्यद्वित्र्योश्च धमु॑ञित्यर्थः । शस्प्रभृतय इति ।बह्वल्पार्था॑दित्यरभ्यअव्यक्तानुकरणा॑दिति डाजन्ता इत्यर्थः । अमामिति ।अमु च च्छन्दसी॑त्यम्,किमेत्तिङव्यये॑त्यमा च गृह्रते । कृत्वोऽर्था इति ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्,द्वित्रिचतुभ्र्यःसुच्,विभाषा बहोर्थे॑ति त्रय इत्यर्थः । तसिवती इति ।तेनैकदिक्, 'तसिश्च' इति तसि#ः 'तेन तुल्यम्' इत्यादिविहितो वतिश्च गृह्रते ।प्रतियोगे पञ्चम्यास्तसिः॑ इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम् । एवं च स्वरादिषु वदित्यस्य प्रयोजने चिन्त्यम् । नानाञाविति ।निनञ्भ्यां नानाञौ न सहे॑ति विहातौ नानाञौ । इति परिगणनंकर्तव्यमित्यन्वयः । परिगणनेनैव सिद्धेतद्धितश्चे॑ति सूत्रं न कर्तव्यमिति भावः ।", "11039": "<<कृन्मेजन्तः>> - कृन्मेजन्तः । कृत्-मेजन्त इति छेदः । म् च एच्च मेचौ , तौ अन्ते यस्येति बहुव्रीहिः । तदाह — कृद्योमान्त इति । तदन्तमिति । केवलस्य कृतः प्रयोगाऽनर्हत्वात्संज्ञाविधावपि तदन्तविधिरिति भावः । स्मारं स्मारमिति ।आभीक्ष्ण्ये णमुल्चे॑ति स्मृधातोर्णमुल्,अचो ञ्णिती ति वृद्धिः, रपरत्वम्,नित्यवीप्सयो॑रिति द्वित्वं, मान्तकृदन्तत्वादव्ययत्वम् । जीवसे इति । 'तुमर्थे सेसेनसे' इत्यादिनाऽसेप्रत्ययः । पिबध्यै इति । 'तुमर्थे से' इत्यादिना शध्यैप्रत्ययः । शित्त्वात्सार्वधातुकत्वम् ।पाघ्राध्मे॑ति पिबादेश इति भावः । शप्तु न, कत्र्रर्थे सार्वधातुके तद्विधेः, 'अव्ययकृतो भावे' इति सिद्धान्तादित्याहुः ।", "11040": "<<अव्ययीभावश्च>> - अव्ययीभावश्च ।अव्ययसंज्ञः स्या॑दिति शेषः । अधिहरीति । विभक्तयर्थेऽव्ययीभावः । हरावित्यर्थः ।", "11041": "", "11042": "<<शि सर्वनामस्थानम्>> - शिसर्वनामस्थानम् । उक्तसंज्ञामिति । सर्वनामस्थानसंज्ञकमित्यर्थः । अनपुंसकस्येति पर्युदासाच्छीत्यस्य सर्वनामस्थानत्वेऽप्राप्ते वचनम् ।", "11043": "<<सुडनपुंसकस्य>> - तत्र किं सर्वनामस्थानमित्यत आह — सुडनपुंसकस्य ।शि सर्वनामस्थान॑मित्यतःसर्वानामस्थान॑मित्यनुवर्तते । अक्लीबं=नपुंसकभिन्नप्रातिपदिकं, तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः । तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्व्याचष्टे — सुडिति प्रत्याहार इति ।सु॑इत्यत्र औटष्टकारेणे॑ति शेषः । नतु टाटकारेण, प्रथमातिक्रमणे कारणाऽभावात् ।", "11044": "<<न वेति विभाषा>> - न वेति विभाषा। मेध्यः पशुरनड्वान् विभाषितः इत्यादियाज्ञिकप्रयोगे विभाषाशब्दः केवलविकल्पे दृष्टः। इह तु शास्त्रे निषेधो विकल्पश्चेति द्वयं मिलितं विभाषाशब्दार्थ इति बोधयितुम् इदमारभ्यते। इतिशब्दाभावे, स्वं रूपं शब्दस्येति न-वा-शब्दयोः स्वरूपपरत्वान्नवाशब्दयोर्विभाषासंज्ञेत्यर्थः स्यात्। ततश्च ‘विभाषा ओ’रित्यादौ नवाशब्दावादेशौ स्याताम्। इतिकरणे तु नायं दोषः। इतिर्हि प्रत्येकं संबध्यते। ततश्च ‘न’ इति शब्देन योऽर्थो गम्यते निषेधः, ‘वा’ इति शब्देन योऽर्थो गम्यते विकल्पस्तदुभयस्य मिलितस्य विभाषासंज्ञा स्याद् इत्यर्थः फलति। एवं च नवाशब्दार्थयोरेव संज्ञित्वं लभ्यते, न तु नवाशब्दस्वरूपयोरिति नोक्तदोषः। तदाह-निषेधविकल्पयोरित्यादि। उभयत्रविभाषार्थम् इदं सूत्रम्। तथाहि– (प्राप्तविभाषा अप्राप्तविभाषा उभयत्रविभाषेति) त्रिविधा विभाषा। प्राप्तविभाषा यथा– विभाषा जसीति। वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र हि द्वन्द्वे चेति नित्यतया सर्वनामसंज्ञानिषेधे प्राप्ते विभाषेयम्। अप्राप्तविभाषा यथा– तीयस्य ङित्सु विभाषेति। द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वादिगणे पाठाऽभावादप्राप्तायां सर्वनामसंज्ञायां विभाषेयम्। उभयत्रविभाषा यथा– विभाषा ओरिति। आयतेर्लिटि यङि च सम्प्रसारणविभाषेयम्। तत्र लिटि शुशाव शिश्वाय, शुशुवतुः शिश्वियतुरित्याद्युदाहरणम्। यङि तु शोशूयते इति। अत्र यङंशेऽप्राप्तविभाषैवेयम्। लिटि तु द्विवचनबहुवचनेष्वपित्सु वचिस्वपियजादीनां कितीति नित्यतया सम्प्रसारणं प्राप्तम्, पित्सु त्वेकवचनेषु सम्प्रसारणं न प्राप्तमेव। असंयोगाल्लिट् कित् इति कित्त्वस्य अपित्स्वेव प्रवृत्तेः। एवं च प्राप्तेऽप्राप्ते चारम्भाद् विभाषा ओरित्युभयत्र विभाषेति स्थितिः। तत्र यदि ‘नवेति विभाषा’ इति सूत्रं नारभ्येत, तर्हि ‘अनड्वान्विभाषितः’ इत्यादियाज्ञिकप्रयोग इव विभाषा ओरित्यत्रापि केवलविकल्पः प्रतीयेत। भावोऽभावश्चेति द्वयं तावद् विकल्पः। ततश्च विभाषाश्रुतौ प्रवृत्तिस्तदभावश्चेति द्वयमपि विधेयम् इति लभ्यते। तत्र यदि विभाषा श्वेः इति विकल्पो विधिमुखः– लिटि आयतेः सम्प्रसारणं भवति न भवतीति तर्हि पित्स्वेव विकल्पस्य प्रवृत्तिः स्यात्। तत्र हि सम्प्रसारणस्य वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथमं भवनांशो विधेयः, तस्य पाक्षिकत्वाय न भवतीत्यपि विधेयम्। कित्सु तु प्रवृत्तिर्न स्यात्। तेषु हि वचिस्वपियजादीनां कितीति प्राप्तत्वात् प्रथमं भवनांशो न विधेयः। न भवतीत्यंश एव विधेयः। एवं च उभयांशविधेयत्वाऽलाभात् तत्र विकल्पविधिरयं न प्रवर्तेत, तत्र नित्यम् एव सम्प्रसारणं स्यात्। यदि तु विकल्पो निषेधमुखः– लिटि आयतेः सम्प्रसारणं न भवति भवतीति, तर्हि कित्स्वेव प्रवृत्तिः स्यात्। तत्र हि वचिस्वपीति प्राप्तत्वान्न भवतीति प्रथमं विधेयम्। अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम्। पित्सु तु प्रवृत्तिर्न स्यात्। तत्र सम्प्रसारणस्याऽप्राप्ततया न भवतीत्यंशस्य प्रथमं विध्यनर्हत्वात्। न च पित्सु विधिमुखः कित्सु निषेधमुख इत्युभयथापि प्रवृत्तिरिति वाच्यम्। सकृच्छ्रुतस्य विभाषाशब्दस्य क्वचिद् विधिमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामर्थ्यात्। आवृत्त्या तद्बोधने तु स एव दोषः। नवेति विभाषेत्यारम्भे तु श्रुतक्रमानुरोधेन बोधान्नेत्यंशेन कित्सु पूर्वं निषेधः प्रवर्तते। ततः किदकिद्रूपे सर्वस्मिन् लिटि निःसम्प्रसारणतया ऐकरूप्यं प्रापिते सति, भवति न भवतीत्येकरूपेण विधिमुख एव विकल्पः प्रवर्तते। तदेवमुभयत्र विभाषार्थम् इदं सूत्रम्। प्राप्तविभाषायां तु नास्योपयोगः, तत्र भवनांशस्य प्राप्तत्वेन विध्यनर्हत्वात्। अप्राप्तविभाषायामपि न तस्योपयोगः, तत्र अभवनांशस्य सिद्धत्वेन विध्यनर्हत्वात्। न चैवमपि ‘उणादयो बहुलम्’ ‘हृक्रोरन्यतरस्याम्’ ‘छन्दस्युभयथा’ ‘अनुपसर्गाद्वा’ इत्यादिविधिषु विभाषाशब्दाऽभावात् केवलविकल्पविधौ वैरूप्यं दुर्वारम् इति वाच्यं, विभाषाशब्दस्याऽत्र सूत्रे विकल्पवाचकशब्दोपलक्षणत्वात्। एवं च लोके ये विकल्पपर्यायाः शब्दास्ते सर्वे अस्मिन् शास्त्रे निषेधविकल्पयोः प्रत्यायका इति सूत्रार्थपर्यवसानं बोध्यम्। भाष्ये तु विभाषादिशब्दानां लोकवद् एव केवलविकल्पपरत्वेऽपि लक्ष्यानुरोधेनैव क्वचिद् विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्युपपत्तेरेतत्सूत्रं प्रत्याख्यातम् इत्यलं बहुना।", "11045": "<<इग्यणः सम्प्रसारणम्>> - विआवागम्, विआवाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादावचि संप्रसारणकार्यं वक्ष्यन् संप्रसरणसंज्ञा दर्शयति — इग्यणः यणः स्थाने इति । व्याख्यानात्स्थानार्थलाभः ।षष्ठी स्थानेयोगे॑ति तु नेह भवति, अनुवादे परिभाषामनुपस्थितेः । षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसंभवात् 'षष्ठीस्थानेयोगा' इत्येत॒न्निर्दिश्यमानस्यादेशा भवन्ती॑त्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च । संप्रसारणसंज्ञ इति । ततश्च 'वसोः संप्रसारणं'वचिस्वपियजादीना॑मित्यादौ संप्रसारणश्रुतौ यण्स्थानिक इगुपस्थितो भवति । तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः लस्य ऌकार इति ज्ञेयम् ।", "11046": "<<आद्यन्तौ टकितौ>> - आद्यन्तौ टकितौ । आदिश्च अन्तश्च आद्यन्तौ, टश्च कच् टकौ । टकारादकार उच्चारणार्थः । टकौ इतौ ययोस्तौ टकितौ । द्वन्द्वान्त इच्छब्दः प्रत्येकं संबध्यते । टित्कितावाद्यन्तावयवौ स्तः । कस्येत्याकाङ्क्षायां यस्य तौ विहितौ तयोरित्यर्थाल्लभ्यते । तदाह — टित्कितावित्यादिना । क्रमादिति यथासङ्ख्य सूत्रलभ्यम् । टित् आद्यवयवः, किदन्तावयव इत्यर्थः । नचैवं सति मिलितयोरेकत्रान्वयाऽभावात्कथमिह द्वन्द्व इति वाच्यम्, प्रथमतः समुदायरूपेण परस्परं युगलयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्यां यथासंख्यसूत्रपर्यालोचनया पुनः प्रत्येकान्वयोपपत्तेः । 'एचोऽयवायावः' इत्यादावप्येषैव गतिः । लोके त्वेवंजातीयकप्रयोगोऽसाधुरेवेति भाष्यादिषु स्पष्टम् । अत्रैव यथासङ्ख्यसूत्रोमन्यासो युक्तः ।आर्धधातुकस्येड्वलादेः॑ भविता ।ङ्णोः कुक् टुक् शरि॑, प्राङ्क्षष्ट इत्याद्युदाहरणम् ।पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् इतिषष्ठी स्थानेयोगे॑त्यस्यानन्तरस्यैवायमपवादः । 'प्रत्ययः' परश्चेत्यनेन तु परत्वादिदं बाध्यते । तेन चरेष्टः गापोष्टगित्यादयः परा एव भवन्ति ।", "11047": "<<मिदचोऽन्त्यात्परः>> - मिदचोऽन्त्यात्परः । मकार इत् यस्य स मित् अन्त्यादचः परो भवतीत्यर्थे 'शेमुचादीनाम्' इत्यादाविदं न प्रवर्तेत,तत्रान्त्यस्याचोऽभावादत आह — अचेति षष्ठन्तमिति ।यतश्च निर्धारणमित्यनेने॑ति शेषः । 'अच' इत्येकत्वमविवक्षितं, तदाह — अचां मध्य इत्यादिना । अन्तावयव इति । एतच्च आद्यान्तावित्यतोऽन्तग्रहणानुवृत्त्या लभ्यते, आद्यन्तशब्दैकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनाऽनुवृत्तिसंभवात् । आदिग्रहणमनुवत्र्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने सर्वनामस्थाने चासंम्बुद्धौइति नान्ताङ्गस्य विहितो दीर्घो न सिध्येत् । अभक्तत्वे तु वहंलिह इत्यत्र 'वहाभ्रे लिहः' इति खशि,अरुर्द्विष॑दिति मुमि तस्य 'मोऽनुस्वारः' इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात् । वस्तुतस्तु यस्य समुदायस्य मिद्विहितस्तस्याऽचां मध्ये योऽन्त्यस्तस्य समुदायस्याऽन्तावयवय इति व्याख्येयम् । अत एव 'समुदायभक्तो मित्' इति भाष्यं सङ्गच्छते । समासाश्रयविधौ मूकारश्च वक्ष्यति — ॒अङ्गस्य नुम्विधानात्तद्भक्तो हि नु॑मिति ।", "11048": "<<एच इग्घ्रस्वादेशे>> - अथ ओदन्ताः । प्रकृष्टा द्यौर्यस्येति बहुव्रीहौ प्रद्योशब्दस्य 'ह्रस्वो नपुंसके' इति ह्रस्वः प्राप्नुवन्नेचो ह्रस्वाऽभावात्तेषां द्विस्थानत्वेन अ, इ, उ, ऋ, लृ, इत्येतेषां ह्रस्वानामन्तरतमत्वाऽभावादन्तरस्थानसाम्याश्रयेण अवर्णादिषु यस्य कस्यचिदनियमेन पर्यायेण वा प्राप्ताविदमारभ्यते — एच इक् । आदिश्यते इत्यादेशः । कर्मणि घञ् । तस्य ह्रस्वपदेन सह कर्मधारयः विशेष्यस्यार्षः पूर्वनिपातः । आदेश इति निर्धारणसप्तमी । सौत्रमेकवचनम् । तदाह — आदिश्यमानेष्वित्यादिना । 'मध्ये' इत्यपपाठः, तद्योगे षष्ठआ एवौचित्यात् । इगेवेति । तेन अकारव्यावृत्तिः फलतीति भावः । यद्यपीकश्चत्वारः, एचोऽप्येवं, तथापि स्थान्यादेशानां यथासङ्ख्यं न भवति । न ह्रयमपूर्वविधिः, किन्तु नियमविधिः । यताप्राप्तमेव नियम्यते । एचां हि पूर्वभागोऽवर्णसदृशः । उत्तरभागस्तु इवर्णोवर्णसदृशः । तत्पर पूर्वभागसादृश्यमवर्णस्यास्ति । तस्य च इग्ग्रहणेन निवृत्तौ इवर्णसादृश्यमात्रमादाय एकारस्य ऐकारस्य च इवर्णः, उवर्णसादृस्यादोकारस्य औकारस्य च उवर्ण इति व्यवस्था न्यायप्राप्ता । यताप्राप्तमेव च नियम्यत इति न यतासङ्ख्यम् । ततश्च प्रद्योशब्दे ओकारस्य उकारो ह्रस्व इत्यभिप्रेत्योदाहरति — प्रद्यु इत्यादि । ननुं पुंनपुंसकयोः प्रकृष्टस्वर्गवत्त्वमेकमेव प्रवृत्तिनिमित्तमिति टादौ पुंवत्त्वविकल्पः कुतो नेत्यत आह — इह न पुंवदिति । कुत इत्यत आह — यदिगन्तमिति । प्रद्योशब्द ओदन्तः पुंसि । प्रद्युशब्दस्तु उदन्तो नपुंसके । तथाच पुंसि प्रद्योशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रद्युशब्दस्य तदपेक्षया भिन्नत्वेन भाषितपुंस्कत्वाऽभावान्न पुंवत्वमित्यर्थः । केचित्तु पुंसि यः प्रद्योशब्द ओदन्तः स एवेदानीं नपुंसकः, तस्य ह्रस्वान्तत्वेऽपि एकदेशविकृतस्याऽनन्यत्वात्, अतः पुंवत्वविकल्पोऽस्त्येवेत्याहुः । एवमग्रेऽपीति । प्ररि, सूवु इत्यादावपीत्यर्थः । इत्योदन्ताः । अथ ऐदन्ताः । एकारान्तस्योदाहरणं तु स्मृत इः कामो येन स स्मृतेः । सु=शोभनः स्मृतेर्यस्य तत् 'सुस्मृति' इत्यादि बोध्यम् । प्ररीति । प्रकृष्टो रा=धनं यस्य इति बहुव्रीहौ प्ररैशब्दः । तस्य नपुंसकह्रस्वत्वेन इकारः । सुटि वारिवत् । सोर्लुप्तत्वात्रायो हली॑त्यात्वं न, टादावचि पुंवत्त्वविकल्पः प्रद्युशब्दवत् । भ्यामादौ हलि विशेषमाह — रायो हलीत्यात्वमिति । ननु रैशब्दस्य ऐदन्तस्य बिहितमात्वं कथमिदन्तस्येत्यत आह — एकदेशविकृकतस्यानन्यत्वादिति । आमि विशेषमाह — नुमचिरेति । नुटिरायो हली॑त्यात्वे प्रराणामित्यन्वयः । ननु प्ररि-आमिति स्थिते नुटं बाधित्वा परत्वान्नुमि तस्याङ्गभक्तत्वाद्धलादिविभक्त्यभावात्कथमात्वमित्यत आह — नुमचिरेति । पूर्वविप्रतिषेधान्नुमं बाधित्वा नुठआत्वं निर्बाधमिति भावः । संनिपातेति । ह्रस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वाऽसंभवादिति भावः । ननु तर्हि ह्रस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकंनामी॑ति दीर्घं प्रति कथं निमित्तत्वमित्यत आह — नामीति दीर्घस्त्विति । इत्युक्तमिति । 'रामशब्दाधिकारे' इति शेषः । इत्यैदन्ताः । अथ औदन्ताः । सु=शोभना नौर्यस्येति विग्रहे बहुव्रीहौ 'ह्रस्वो नपुंसके' इति ह्रस्व उकार इति मत्वाह — सुनु इति । इत्यौदन्ताः॥*****इति बालमनोरमायामजन्ता नपुंसकलिङ्गाः*****अथाऽलुक्समासप्रकरणम् । — — — — — — — — —", "11049": "<<षष्ठी स्थानेयोगा>> - षष्ठी स्थानेयोगा । स्थानं प्रसङ्ग इति वक्ष्यति । तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा । निपातनात्सप्तम्या अलुक् । स्थानेन योगो यस्या इति वा विग्रहः । निपातनादेत्वम् ।इको यणची॑त्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः । लोके तावदेकशतं षष्टर्था आर्था यौना मौखाः रुआऔवाश्च । शब्दस्य शब्देन त्रय एव संबन्धाः — आनन्तर्यं सामीप्यं प्रसङ्गश्चेति । तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम् । ततश्च॒इको यणची॑त्यादौ 'इक' इति षष्टआ स्थानमुच्यते । तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति । अचि परत इकः प्रसङ्गे यण् स्यादिति । विवरणवाक्ये त्वस्मिन् 'इक' इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्काः । यता — ॒देवदत्तस्यावयवः पाणि॑रिति । 'ऊदुपधाया गोहः' इत्यत्र तु 'गोह' इति षष्ठी न स्थानार्थिका, उपपधापदसमभिव्याहारेणाऽवयवषष्ठीत्वनिर्धारणात्, परिभाषाणां चाऽनियमे नियमनार्थमेव प्रवृत्तेः । तदेतदाह-अनिर्धारितेत्यादिना । अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः । तदेवमुदाहृतप्रकृतभाष्यरीत्या॒इको यणची॑त्यादौ षष्ठी स्थानरूपसंबन्धविशेषार्थिकेति स्थितम् ।ष मतुप्सूत्रभाष्ये त्वनन्तरादयो न षष्ठर्था इति स्थितम् । एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्ठीश्रुतौ 'स्थाने' इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति । स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविग्रहे त्वध्याह्मतस्थानपदार्थनिरूपितसंबन्धार्थिकेत्यर्थः ।अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति॑ इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यध्याह्मतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः । अनन्तरादीनां षष्ठर्थत्वं तु नास्त्येवेति प्रौढमनोरमायां हलन्त्यमिति सूत्रे स्थितम् । तद्व्याख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम् । अनिर्धारितेति किम् । ऊदुपधाया॑ इत्यत्र 'गोह' इति षष्ठ्याः स्थानार्थकत्वं मा भूत् । सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात् । ननु स्थानशब्द आधारवाची लोके प्रसिद्धः । यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठमित्यादौ । एवं च इको यणचीत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेऽभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यादिति इगधिकरणको यण् स्यादिति वाऽर्थः स्यात् । तत इको निवृत्तिर्न स्यादित्यत आह — स्थानं च प्रसङ्ग इति । क्वचिदाभिचारेष्टौदर्भाणां स्थाने शरैःप्रस्तरितव्य॑मित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भावः । एवं च तत्र यथा शरैर्दर्भा निवत्र्यन्ते, तद्वदिको यणचीत्यादावपि यणादिभिरिगादयो निवत्र्यन्ते । तत्र च यः प्रसक्तो निवर्तते स स्थानीति व्यवह्यियते, यो निवर्तयति स आदेश इति ।", "11050": "<<स्थानेऽन्तरतमः>> - स्थानेऽन्तरतमः । 'स्थानं प्रसङ्ग' इत्युक्तम् । अन्तरशब्दोऽत्र सदृशपर्यायः, अतिशयतोऽन्तरोऽन्तरतमः । तदाह — प्रसङ्गे सतीत्यादिना । एकस्य स्थानिनोऽनेकादेशप्रसङ्गे सति यः स्थानार्थगुणप्रमाणतः स्थानिना सदृशतमः स एवादेशो भवतीत्यर्थः । अत्र स्थानशब्देन ताल्वादिस्थानं विवक्षितम् । गुणशब्देन प्रयत्नः । प्रमाणशब्देन एकद्विमात्रादिपरिमाणम् । तत्र स्थानतो यथा — दध्यत्र । तालुस्थानकस्य इकारस्य तालुस्थानको यकारः । अर्थतो यथा — तृज्वत्क्रोष्टुरिति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन्नर्थसाम्यात् क्रोष्टृशब्द एव तृजन्त आदेशो भवति । गुणतो यथा — वाग्घरिः । अत्र हकारः स्थानी घोषनादसंवारमहाप्राणप्रयत्नवान् । तस्य गकारसवर्णो भवंश्चतुर्थो घकारो भवति, तस्य हकारेण स्थानिना घोषनादसंवारमहाप्राणप्रयत्नसाम्यात् । ककारस्तु न भवति, तस्य आआसाऽघोषविवाराल्पप्राणप्रयत्नकत्वात् । तथा खकारोऽपि द्वितीयो न भवति, तस्य महाप्राणप्रयत्नसाम्येऽपि आआसाऽघोषविवारप्रयत्नभेदात् । तथा तृतीयो ।ञपि गकारो न भवति, तस्य घोषनादसंवारप्रयत्नसाम्येऽपि निना हकारेण आआसाऽघोषविवारप्रयत्नबेदे सत्यपि महाप्राणप्रयत्नसाम्यसत्त्वात् , तथा तृतीयो वा गकारः कुतो न स्यात्, तस्य स्थानिना हकारेण अल्पप्राणप्रयत्नभेदेऽपि घोषनादसंवारप्रयत्नसाम्यसत्त्वात् । अत एव ङकारो वा कुतो न स्यादिति चेन्न ,तमब्ग्रहणेन उक्तातिप्रसङ्गनिरासात् । अतिशयितो ह्रन्तरोऽन्तरतमः । अतिशयितं च प्रयत्नतः सादृश्यं हकारेण घकारस्यैव, उभयोरपि घोषनादसंवारमहाप्राणात्मकप्रयत्नचतुष्टयसाम्येन सादृश्यातिशयसत्त्वात् । खकारस्य महाप्राणप्रयत्नसाम्येऽपि घोषनादसंवारप्रयत्नविरहात् । गङयोः घोषनादसंवारप्रयत्नसाम्येऽपि महाप्राणप्रयत्नविरहात् । प्रमाणतो यथा — ॒अदसोऽसोर्दादुदोमः॑ इति । ह्रस्वस्य उकारो दीर्घस्य ऊकारः । नन्वेवमपि चेता स्तोतेत्यत्र इकारस्य उकारस्य च सार्वाधातुकार्धधातुकयोरिति गुणो भवन् प्रमाणत आन्तर्यवानकारः कुतो न स्यादित्यत आह — यत्रेति । तेन इकारस्य एकार उकारस्य ओकारश्च गुणो भवति, स्थानसाम्यात्, न त्वकारः, स्थानभेदात् । नच इकारेण एकारस्य, उकारेण ओकारस्य कथं स्थानसाम्यम् । एकारस्य ओकारस्य च कण्ठस्थानाधिक्यादिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्यपरीक्षायां कथञ्चित्स्थानसाम्यस्यैव प्रयोजकत्वात् । अत्र सूत्रे पूर्वसूत्रात्स्थानेग्रहणमनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तृतीयान्तं च विपरिणम्यते । अनुवर्त्त्यमानस्चायंस्थान॑शब्दः पूर्वंसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वाद्यन्तयतमस्थानपरः, शब्दाधिकाराश्रयणात् । 'अन्तरतम' इत्यपि तेन संबध्यते । ततश्च 'स्थानेनाऽन्तरतम' इति वाक्यान्तरं संपद्यते । सति संभवे ताल्वादिस्थानत एवान्तरतमो भवतीत्यर्थः । ततश्चयत्रानेकविधमान्तर्यं तत्र स्थानत एवान्तर्यं बलीय॑ इति (सिद्धं) भवति ।", "11051": "<<उरण् रपरः>> - ऌकारेण तु स्थानिना न कस्यापि स्थानसाम्यं, तत्र कतमो गुणो भवतीत्याकाङ्क्षायामिदमारभ्यते — उरण्रपरः । इत्युक्तमिति । 'अणुदित्सूत्रे' इति शेषः । उरितिऋ॑इत्यस्य षष्ठएकवचनम् । 'षष्ठी स्थाने' इति परिभाषया स्थाने इति लभ्यते । अनुवादे तत्परिभाषानुपस्थितावपि स्थानेग्रहणं ततो ।ञनुवर्तते । तदाह — तत्स्थाने योऽणिति । 'स्थानेऽन्तरतम' इत्यतो ।ञपि स्थानेग्रहणमनुवर्तते । स्थानं प्रसह्ग इत्युक्तम् । प्रसङ्गावस्थायामित्यर्थो विवक्षितः । तदाह — रपरः सन्नेव प्रवर्तत इति । अत्र 'र' इति प्रत्याहारो विवक्षितः । ततश्च रेफशिरस्को लकारशिरस्कश्च प्रवर्तत इति लभ्यते । तयोव्र्यवस्थां दर्शयति — तत्रेति । रेफलकारशिरस्कयोर्मध्ये कृष्णर्दिंधरित्यत्र अर्, तवल्कार इत्यत्र अलित्यन्वयः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यादिति । त्रिषु गुणेषु प्रसज्यमानेषु अकारस्याऽणो रेफलकारशिरस्कतया तस्य अर् अलित्येवमात्मकस्य अकारांशे स्थानीभूतेन अकारेण रेफांशे ऋकारेण, लकारांशे ऌकारेण च स्थानसाम्यादकारञकारयोः स्याने अरेव भवति । अकारऌकारयोः स्थानेऽलेव भवति । एकारोकारौ तु गुणौ न भवत एव, तयोरृकारेण ऌकारेण च स्थानसाम्या.ञभावादित्यर्थः । नच एकार ओकारश्च कथं रपरो न स्यातामिति वाच्यं, पूर्वेणैव णकारेण ह्यत्राण् गृह्रते, प्रशास्तृणामित्यादिनिर्देशादित्यलम् ।पक्षे द्वित्वमिति । ऋधधातोः क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकारं रूपं स्वाभाविकम् । तत्र अरादेशे रेफात्परस्य धकारस्याऽचो रहाभ्यामिति कदाचिद्द्वित्वमित्यर्थः ।", "11052": "<<अलोऽन्त्यस्य>> - अलोऽन्त्यस्य ।अ॑लिति प्रत्याहारो वर्णपर्यायः । 'अल' इति षष्ठन्तम् । 'षष्ठी स्थानेयोगा' इत्यतःषष्ठी स्थाने इत्यनुवर्तते । तच्च षष्ठीति प्रथमान्तं तृतीयान्ततया विपरिणम्यते ।निर्दिष्टस्ये॑ति शेषः । 'स्थाने' इत्यनन्तरं 'विधीयमान' इति शेषः । स्थाने विधीयमान आदेशः षष्ठीनिर्दिष्टस्य योऽन्त्योऽल् तस्य स्यादित्यर्थः । तदाह — षष्ठीत्यादिना ।त्यदादीनामः॑-यः सः । आदेश इति किम् , 'आर्धधातुकस्येट्' तृच ऋकारात् पूर्वो मा भूत् । अल इति किम् । पदस्येत्यधिकृत्य विधीयमानं वसुरुआंस्विति दत्वं परमानडुभ्द्यामित्यत्राऽन्त्यस्य कृत्स्नस्य पदस्य मा भूत् ।", "11053": "<<ङिच्च>> - ङिच्च । ङकार इद्यस्य स-ङित् ।अलोऽन्त्यस्ये॑त्यनुवर्तते । तदाह — अयमपीति । ङिदमपीत्यर्थः । अवङ् तावङ् अनङित्यादिरादेश उदाहरणम् ।नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-सर्वस्येति ।अनेकाल् शित् सर्वस्ये॑ति वक्ष्यमाणस्य सर्वादेशत्वविधेरयं विधिरपवादः । अपोद्यते बाध्यते अनेनेति अपवादः । बाहुलकः करणे घञ् । येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम् । अप्राप्ते इति भावे क्तः ।येने॑ति कर्तरि तृतीया । द्वौ नञावावश्यकत्वं बोधयतः । यत्कर्तृकावश्यकप्राप्तौ सत्यां यो विधिरारभ्यते स आरभ्यमाणविधिस्तस्याऽवश्यप्राप्तस्य अपवादो बाधक इति तदर्थः । अयं च न्यायसिद्धः । अवङादयो हि ङित आदेशाः सर्वेऽनेकाल एव । तेषु चानेकाल्विशेषेषु विधीयमानेन ङितामन्त्यादेशत्वेन स्वविषये अवश्यं प्राप्तमनेकाल्सामान्येन विहितं सर्वादेशत्वं बाध्यते, विशेषविहितत्वात्, निरवकाशत्वाच्च । विशेषशास्त्र हि विशेषेषु झटिति प्रवर्तते, विशेषाणां स्वशब्देनोपात्तत्वात् । सामान्यशास्त्रं तु सामान्यमुखेन विशेषेषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्तिः । अतो विशेषशास्त्रं प्रबलम् । उक्तं च भट्टवार्तिकेअवश्यमेव सामान्यं विशेषं प्रति गच्छति । गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम्॥॑ इति । किं च यदि ङिच्चेति शास्त्रमनेक#आल्विशेषेषु ङित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात् ।अनेकाल्शित्सर्वस्ये॑त्यस्य तु ङित्सु अप्रवृत्तावपि नानर्थक्यम्, तस्थस्थमिपां तान्तंताऽमः॑अस्तेर्भू॑रित्यादिष्वनेकाल्षु अङित्सु तस्य सावकाशत्वात् । अतो विशेषशास्त्रं प्रबलमिति ।", "11054": "<<आदेः परस्य>> - आदेः परस्य । परस्येति ।द्व्यन्तरुपसर्गेभ्योऽप ई॑दित्यादौतस्मादित्युत्तरस्ये॑ति परिभाषायां परस्य नियमितं कार्यं यत् तत्तस्यादेरेव भवति, नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः । तदाह — अलोन्त्यस्येत्यस्यापवाद इति । तत्र 'अल' इत्यप्यनुवर्तनीयम् । तेनद्वीप॑मित्यत्र ईत्वं पान्तसमुदायस्य न भवति ।", "11055": "<<अनेकाल्शित्सर्वस्य>> - अनेकाल्शित्सर्वस्य । न एकोऽनेकः, अनेकोऽल् यस्य सोऽनेकाल्, शकार इत् यस्य स शित्, अनेकाल्व शिच्चेति समाहारद्वन्द्वः । स्पष्टमिति । अनुवर्तनीयपदान्तराऽभावादिति भावः । अस्तेर्भूरित्याद्युदाहरणम् । नन्वस्धातोर्भूर्भवतीत्युक्ते कृत्स्नस्यैवादेशः प्राप्त इति किमर्थमिदं सूत्रमारभ्यत इत्यत आह-अलोऽन्त्यसूत्रापवाद इति ।अलोन्त्येति॑ति सूत्रैकदेशानुकरणम् । अनुकरणत्वादेव नापशब्दः, अधिरीश्वर इति सूत्रैकदेशस्य प्राग्रीश्वरान्निपाता इति ग्रहणाल्लिङ्गात् । स्यादेतत् । अष्टन्शब्दाज्जसि शसि चअष्टन आ विभक्ता॑विति आत्वे अष्टा अस् इति स्थिते अष्टाभ्य औशिति कृताकारादष्टनः परयोर्जश्शसोर्विधीयमान औशादेशोऽलोऽन्त्यस्येति बाधित्वा आदेः परस्येत्यादेरकारस्य प्राप्तः । अनेकाल्त्वाच्च सर्वादेशः प्राप्तः । एवम्अतो भिस ऐ॑सित्यादावपि । तत्र कतरच्छास्त्रं बाध्यं कतरच्च प्रवर्तत इत्यत्र किं विनिगमकम्रित्यत आह-अष्टाभ्य औशित्यादाविति । आदिनाअतो भिस ऐ॑सित्यादिसंग्रहः । अष्टाभ्य औ॑ शित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यत इत्यन्वयः । अस्तेर्भूरित्यादौ अनेकाल्शिदित्यनेन यथाऽलोऽन्त्यस्येति बाध्यते तथ#आऽष्टाभ्या औशित्यादावादेः परस्येत्येतदपि बाध्यत इत्यर्थः । नन्वस्तेर्भूरित्यादावलोऽन्त्यस्येति प्राप्ते सत्येवानेकाल्शित्सर्वस्येति नापवादः । अस्तेर्भूरित्यादावादेः परस्येत्यप्राप्तावपि तत्प्रवृत्तेरित्यत आह-परत्वादिति ।विप्रतिषेधे परं कार्य॑मिति तुल्यबलविरोधे परप्राबल्यस्य वक्ष्यमाणत्वादिति भावः ।आदेः परस्ये॑त्यस्यावकाशोद्व्यन्तरुपसर्गेभ्योऽप ई॑दित्यादिः ।अनेकाल्शित्सर्वस्ये॑त्यस्यावकाशः-॒अस्तेर्भूः॒॑इदम इ॑शित्यादिः । अतस्तुल्यबलत्वमुभयोः ।", "11056": "<<स्थानिवदादेशोऽनल्विधौ>> - ननु सुध् य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाच्त्वाद्च्परकत्वात्कथं धकारस्य द्वित्वमिति शङ्का ह्मदि निधाय तस्य स्थानिवद्भावप्रापकसूत्रमाह-स्थानिवदादेशः । गुरुस्थानापन्ने गुरुपुत्रादौ स्थानापत्त्या तद्धर्मलाभो लोकतः सिद्धः । कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्धः । इह तु शास्त्रे स्वं रूपं शब्दस्येति वचनात्स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थं स्थानिवदादेश इत्यारब्धम् । 'स्थानं प्रसङ्ग' इत्युक्तम् । यस्य स्थानेऽन्यद्विधीयते तत्स्थानि । येन विधीयमानेन अन्यत्प्रसक्तं निवर्तते स आदेशः । स्थानिना तुल्यः स्थानिवत् ।तेन तुल्य॑मिति वतिप्रत्ययः । आदेशः स्थानिना तुल्यो भति । स्थानिधर्मको भवतीति यावत् । अलिति वर्णपर्यायः । विधीयत इति विधिः=कार्यम् । अलाश्रयो विधि अल्विधिः अनल्विधिः । अलाश्रयभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थः । अलाश्रयकार्ये कर्तव्ये स्थानिवन्न भवतीति फलितम् । अलाश्रयेति सामान्यवचनात् अला विधिः, अलः परस्य विधिः, अलो विधिः लि विधिश्चेति सर्वसंग्रहः । अला विधौ यथा-व्यूढोर स्केन । अत्र विसर्जनीयस्य सः॑ इति विसर्गस्थानिकस्य सकारस्य व#इसर्गत्वमाश्रित्य अड्व्यवाय इति णत्वं प्राप्तं न भवति । अलः परस्य विधौ यथा-द्यौः ।दिव औ॑दिति वकारस्थानिकस्य औकारस्य स्थानिवद्भावेन हल्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः प्राप्तो न भवति । अलो विधौ यता द्युकामः ।दिव उ॑दिति वकारस्थानिकस्य उकारस्य स्थानिवद्भावेन वकारत्वात्लोपो व्योर्वली॑ति लोपः प्राप्तो न भवति । अलि विधौ यथा-क इष्टः । यजेः क्तः । अत्र यकारस्थानिकसंप्रसारणस्य इकारहस्य स्थानिवद्भावेन हश्त्वात् हशि चे॑त्युत्वं प्राप्तं न भवति । अल् चेह स्थानिभूतः, स्थान्यवयवश्च गृह्रते । ततश्च आदेशस्य स्थानिभूतो योऽल्, स्थान्यवयवश्च योऽल्, तदाश्रयविधौ न स्थानिवदिति फलति । तत्र स्थानीभूताऽल्विधौ व्यूढोरस्केनेत्युदाहृतमेव । यथा वा-धिवि प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे 'धिन्विकृण्व्योर च' इति विकरणस्य उकारस्य यणि वकारे सति तस्य स्थानिवद्भावेनार्धधातुकत्वात् स्वतो वलादित्वाच्च इडागमः प्राप्तो न भवति, वकारस्य स्थानिभूतो योऽल् उकारः, तदादेशं वकारमार्धधातुकत्वेनाश्रित्य प्रवर्तमानस्य इटः स्थान्यलाश्रयत्वात् । स्थान्यवयवालाश्रयविधौ यथा प्रतिदीव्य । इह क्त्वादेशस्य य इत्यस्य स्थानिवद्भावेन बलाद्यार्धधातुकत्वादिडागमः प्राप्तो न भवति । इडागमस्य वलादित्वविषये स्थान्यवयवभूतालाश्रयत्वात् । तदेतदाह-आदेशः स्थानिवत्स्यान्नतु स्थान्यलाश्रयविधाविति । स्थान्यलाश्रयेत्यत्र स्थानीति किम् । रामाय । इहसुपि चे॑ति दीर्घस्य यञादिसुबाश्रयस्य आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावेन सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाऽभावात् । न च नीञ्धातोर्ण्बुलि अकादेशे वृद्धौ नै-अक इति स्थिते ऐकारस्य स्थानिवद्भावेन ईकारधर्मकत्वादायादेशो न स्यात्, ईकारस्य आयादेशाभावादिति वाच्यम्, इह हि स्थानिप्रयुक्तं यत् कार्यं शास्त्रीयं तदेवातिदिश्यते । ईकारस्य च आयादेशभावो न शास्त्रविहित इति न तस्य ईकारस्थानिके ऐकारे अतिदेश इत्यास्तां तावत् । अनेनेति । उदाहृतेन स्थानिवत्सूत्रेण इह=सुध्य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन अनचीत्यनेन धकारस्य द्वित्वनिषेधो न शङ्कनीय इत्यर्थः । कुत इत्यत आह — अनल्विधाविति तन्निषेधादिति । स्थानिवत्त्वनिषेधादित्यर्थः । यकारादेशस्थानीभूतो योऽल् ईकारः तद्गतमच्त्वं यकारे आश्रित्य प्रवर्तमानस्य यकारद्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भावः ।", "11057": "<<अचः परस्मिन् पूर्वविधौ>> - ननु सुध् य् इत्यत्र मास्तु स्थानिवदिति सूत्रेण स्थानिवद्भावः । तद्गुत्तरसूत्रेण तु स्थानिवत्त्वं स्यादेवेति शङ्कामुद्भावयिष्यंस्तथाविधमुत्तरसूत्रमाह-अचः परस्मिन् । स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-अल्विध्यर्थमिति । अलाश्रयविधावपि स्थानिवद्भावार्थमित्यर्थः । तेन वव्रश्चेति सिध्यति ।ओ व्रश्चू च्छेदने॑ । लिटि तिपि णलि द्वित्वम् ।लिठभ्यासस्ये॑ति अभ्यचासे रेफस्य सम्प्रसारणम् । ऋकारः । पूर्वरूपम् । उरदत्वम् । रपरत्वम् । हलादिश्शेषः । तत्राभ्यासे वकारस्य पुनः सम्प्रसारणं न, ञकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसारणतयान सम्प्रसारणे सम्प्रसारणम् इति निषेधात् । पूर्वसूत्रेण त्वत्र स्थानिवद्भावो न सम्भवति — सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भावः । पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति-अच आदेश इति । परहस्मिन्निति सति सप्तमी । ततश्च परनिमित्तक इति लभ्यते । तच्चादेशविशेषणम् । तदाह — परनिमित्तोऽजादेशैति । विधीयत इति बिधिः=कार्यम् । पूर्वस्य विधिः पूर्वविधिः । पूर्वत्वं च यद्यपि सावधिकम्, त्रयं चात्र संनिहितं-स्थानी आदेशः परनिमित्तं चेति । तत्र स्थानी तावन्नावधिर्भवितुमर्हति, तस्यादेशेनापहारात् । नाप्यादेशः, नापि परनिमित्तम्, वैयाकरण इत्यत्र इकारस्थानिकयणादेशात्तत्परनिमित्तादाकाराच्च पूर्वस्य न य्वाभ्यामित्यैकारस्य आयटादेशे कर्तव्ये यणादेशस्य स्थानिवद्भावेनाऽच्त्वापत्तेः । तथापि स्थान्यपेक्षयैवाऽत्र पूर्वत्वं विवक्षितं, स्थानिन आदेशे नापह्मतत्वेऽपि भूतपूर्वगत्या तत्पूर्वत्वस्य सम्भवात् । तदेतदाह — स्थानिभूतादचः पूर्वत्वेनेत्यादि । अत्र स्थानिनि सति यद्भवति तदादेशे ।ञपि भवति, यन्न भवति तदादेसेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याऽभावस्य अतिदेशो भवति । तत्राद्ये वव्रश्चेत्युदाहृतमेव, तत्रन सम्प्रसारणे सम्प्रसारण॑मिति निषेधकार्यस्य शास्त्रीयत्वात् । द्वितीये तु गणयतीत्युदाहरणम् । गण संख्यान इति चुरादौ अदन्तधातुः । तस्माण्णिच् । अतो लोपः । तिप् शप् णेर्गुणः, अयादेशः । गणयतीति रूपम् । अत्र णिचि परत उपधाभूतस्य गकारादकारस्य 'अत उपधायाः' इति न भवति, प्रकृतसूत्रेणाऽल्लोपस्य स्थानिवद्भावात् । अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्ध्यभावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्ध्य भावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य स्थान्यकारान्न पूर्वत्वम्, णकारेण व्यवधानादिति वाच्यम्, पूर्वत्वं ह्यत्र व्यवहिताऽव्यवहितसाधारणम्, उत्तरसूत्रे स्वरे निषेधाल्लिङ्गात् । तच्च तत्रैव स्पष्टीभविष्यतीत्यलम् । इति यण इति । अनेन सूत्रेण सुध् य् इत्यत्र धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिद्भावे प्राप्ते तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थः ।", "11058": "<<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ- जश्चर्विधिषु>> - न पदान्तद्विर्वचन । स्थानिवदादेश॑ इतिअचः परस्मि॑न्निति चानुवर्तते । परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वयः । पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्वः । तेषां विधयः=विधानानि । कर्मणि षष्ठआ समासः । ततश्च पदान्तादिषु विधेयेषु इति लभ्यते । वर इत्यनेन वरे योऽजादेशः स विवक्षितः । आर्षो द्वन्द्वः । सप्तम्या अलुक्च । विधिशब्दः प्रत्येकमन्वेति — पदान्तविधौ द्विर्वचनविधावित्यादि । पदस्यान्तः=चरमावयवः । पदान्तस्य विधाने=पदान्तकर्मके विधाने । पदस्य चरमावयवे कार्ये द्विर्वचनादौ च कार्ये इति यावत् । तदाह — पदस्य चरमेत्यादिना । पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् , तथा सति एषो यन् हसतीत्यसिद्धेः । तथाहि — एषः यन् इति छेदः । इण्धातोर्लटः शतरि शपि लुकि इकारस्य इणो यणिति यण् । अत्र एतत्तदोरिति सुलोपो न भवति, तस्य हलि परतो विधानात्, इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाऽच्त्वात् । नच न पदान्तेति निषेधः शङ्ख्यः, यो विधीयमानः पदस्य चरमावयवः संपद्यते तत्रैव तन्निषेधात्, इह च विधेयस्य सुलोपस्य पदानवयवत्वात् ।पदान्तस्य स्थाने विधा॑विति व्याख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्येत्, लोपस्य पदान्तसकारस्य स्थाने विधानात् । अत्र हशि चेत्युत्वे तु कर्तव्ये यकारो न स्थानिवद्भवति, उकारस्य विधीयमानस्य पदचरमावयवत्वात् । एवं च पदान्तविधावित्यस्य एषो यनित्येतदुत्वविषये उदाहरणम् । सुलोपविषये तु प्रत्युदाहरणमिति भाष्ये स्पष्टम् । बाष्यप्रदीपोद्द्योते स्पश्टतरमेतत् । पदान्तविधौ कानि सन्तीत्याद्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति । द्विर्वचने सुध् य् इतयुदाहरणम् । नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावः स्यादेवेति वाच्यम्, अनचि चेति द्वित्वस्याऽनैमित्तिकतयातद्विषये यकारस्थानिवद्भावस्यानपेक्षितत्वेन तत्र तन्निषेधस्य वैयथ्र्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिषेधस्यैव विवक्षितत्वादिति भावः । वरे यथा — यायावरः । 'यश्च यङ' इति याधातोर्यङन्ताद्वरच् ।सन्यङो॑रिति द्वित्वम् । यायाय वर इति स्थि अतो लोप इति यङोऽकारस्य लोपः ।लोपो व्यो॑रिति यकारलोपः । अत्र अजाद्यार्धधातुकमाश्रित्य 'अतो लोप इटि च' इत्याकारलोपे कर्तव्ये अल्लोपो न स्थानिवत् । यलोपे यता — यातिः । याध#आतोर्यङि द्वित्वं । क्तिच् । यायाय तीति स्थिते-अतो लोपः ।लोपो व्यो॑रिति यलोपः । अल्लोपस्य स्थानिवत्त्वादातो लोपः । लोपो व्योरिति यलोपः । यातिरिति रूपम् । अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत् । न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधः स्यादिति वाच्यं, स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात्, इह च वकारस्य लोपरूपत्वाऽभावात् । स्वरविधौ यथा — चिकीर्षकः । चिकीर्ष इति सन्नन्तात् ण्वुल् । अकादेशः । सनोऽकारस्य अतो लोपः । अत्र ईकारस्य वितीत्युदात्तत्वे कर्तव्ये अल्लोपो न स्थानिवत् । यद्यपि ईकारोऽल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति, तथाप्यस्मादेव ज्ञापकात् पूर्वसूत्रे पूर्वत्वं व्यवहिताव्यवहितसाधारणम् । तत्प्रयोजनं तु पूर्वसूत्र एवोक्तम् ।सवर्णविधो यथा — शिण्ड्ढि । शिष् इति धातो रौधादिकाल्लोण्मध्यमपुरुषैकवचनम् । सिप् श्नम् । शिनष् सि । हित्वम् । धित्वम् । ष्टुत्वम् । षस्य जश्त्वं डकारः । शिनड्ढि । श्नसोरल्लोपः । नश्चापदान्तस्येत्यनुस्वारः । अनुस्वारस्य ययीति तस्य परसवर्णो णकारः । शिण्ड्ढि इति रूपम् । अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत् । वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम् । श्नमकारस्य लोपोऽत्र अजादेशः । तत्स्थानीभूतः श्नमकार एव । तस्मिन् सति नकारस्यानुस्वारप्रसक्तिरेव नास्ति । तथा चानुस्वारस्य स्थानीबूतादचः पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अचः परस्मिन्नित्यलोपस्य स्थानिवत्त्वं न प्रसक्तमिति किं तत्प्रतिषेधेन । यत्तु तत्वबोधिन्याम — अनुस्वारस्य स्थानिभूतो नकारः श्नमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्वं, स्थानिद्वारापि पूर्वत्वाभ्युपगमादित्युक्तम् । एवं सति तितौमाचष्टे तितापयतीत्यत्र पुगागमो न स्यात् । 'तत्करोति तदाचष्टे' इति णिच् । इष्ठवद्भावादुकारस्य टेरिति लोपः । अचो ञ्णितीति तकारादकारस्य वृद्धिराकारः । पुगागमः । तितापीत्यस्मात् लट् तिप् शप् । गुणः । अयादेश#ः । तितापयतीति रूपम् । अत्र अचो ञ्णितीति वृद्ध्या लब्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधाने णिपरकत्वाऽबावात्पुगागमो न स्यात् । आकारस्य लोपस्थानिभूतादुकारात्पूर्वत्वस्य स्वतोऽभावेऽपि स्थानिद्वारा सत्त्वादिति सिद्धान्तरत्नाकरे दूषितम् । प्रौढमनोरमाव्याख्याने तु शब्दरत्ने पादमाचष्टे पादयति, ततः क्विप् पात् हसतीत्यादौ 'झयो हः' इति पूर्वसवर्णे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमासप्राप्तस्थानिवद्भावनिषेधार्थमिह सूत्रे सवर्णग्रहणिति प्रपञ्चितम् । अनुस्वारविधौ यथा — शिंषन्ति । शिष्धातोर्लटि झिः । झोऽन्तः । श्नसोरल्लोपः । नस्चापदान्तस्येत्यनुस्वारः । शिंषन्ति । इह तु न परसवर्णः, षकारस्य यय्त्वाभावात् । अत्र अनुस्वारे कर्तव्ये अल्लोपो न स्थानिवत् । अत्र दीर्घविधौ यथा-प्रतिदीव्ना । हलि चेति दकारादिकारस्य दीर्घे कर्तव्ये अल्लोपो न स्थानिवत् । जइआधौ यथा — ॒सग्धिश्च मे॑ । अद भक्षणे क्तिन् । बहुलं छन्दसीति घस्लादेशः । 'घसिभसोर्हलि च' इत्युपधालोपः ।झलो झली॑ति सलोपः । झषस्तथोरिति तकारस्य धत्वम् । 'झलाञ्जश् झशि' इति जश्त्वेन घकारस्य गकारः । समाना ग्धिः=अदनं-सग्धिः । समानस्य छन्दसीति संभावः । अत्र जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । चर्विधौ यथा — जक्षतुः । घसेर्लिटि अतुस् । द्वित्वम् । 'हलादिश्शेषः'अभ्यासे चर्चे॑ति जश्त्वम् । 'कुहोश्चुः' इति जकारः ।गमहने॑त्युपधालोपः । 'खरि च' इति चर्त्वं ककारः ।शासिवसी॑ति षः । अत्र चर्त्वे कार्ये उपधालोपो न स्थानिवत् । भाष्ये तुपूर्वत्रासिद्धे न श्थानिव॑दित्यवष्टभ्य द्विर्वचनसवर्णानुसारदीर्घजश्चरः प्रत्याख्याताः । किञ्चदीर्घा दाचार्याणा॑मित्युत्तरम् — ॒अनुस्वारस्य ययि परसवर्णः॑ 'वा पदान्तस्य' 'खरि च' 'वावसाने'अणोऽप्रगृह्रस्यानुनासिकः॑ इति पञ्चसूत्रीपाठ इति 'हलो यमां यमि' इति सूत्रस्थबाष्यसंमतः सूत्रक्रमः ।एवं चशिण्ड्ढी॑त्यत्र न परसवर्णप्रसक्तिः । परसवर्णे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यय्परकत्वाऽभावादिति सर्वथापि सवर्णविधौ शिण्ड्ढीति नोदाहसरणमित्यास्तां तावत् । इति स्थानीति । अनेन सूत्रेण सुध् य् इत्यत्र द्वित्वनिषेधे कर्तव्ये यकारस्य स्थानिवत्त्वनिषेध इत्यर्थः । एवं चाच्परकत्वाभावेन अनचि चेति निषेधाभावाद्धकारस्य द्वित्वं निर्बाधमिति भावः । तथाच सुध् ध् यिति स्थितम् ।", "11059": "<<द्विर्वचनेऽचि>> - द्विर्वचनेऽचि । द्विरुच्यते येन परनिमित्तेन तद्द्वर्वचनं । द्वित्वनिमित्तमिति यावत् । अचीत्यस्य विशेषणमिदम् ।अचः परस्मिन्नित्यतोऽचेति, 'स्थानिवदादेश' इत्यत आदेश इति, न पदान्तेत्यतो नेति चानुवर्तते । द्विर्वचन इत्यावर्तते । एवं चद्वित्वे कर्तव्ये सती॑ त्यपि लभ्यते । तदाह — द्वित्वनिमित्तेऽचीत्यादिना ।द्वित्वे कर्तव्ये सती॑त्युक्तेः कृते द्वित्वे 'चक्रे' इत्यादौ यणादयो भवन्ति । अन्यता तु न स्युः, द्वित्वनिमित्तस्य अचः सत्त्वात् । द्वित्वनिमित्त इति किम् । दुद्यूषति । दिव्धातोः सनि द्वित्वात्परत्वादूठि कृते द्वित्वात्प्राग्यण् भवत्येव । तथा च 'द्यू' इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति । द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत । न तूकारः । 'द्वित्वनिमित्ते' इत्युक्तौ तूठि परे द्वित्वात्प्राग्यण्यो न निषेधः, ऊठो द्वित्वनिमित्तत्वाऽभावात् । अचीति किम् \t । जेघ्रीयते । अत्र घ्राधातोर्यङि द्वित्वात्प्राकई घ्राध्मो॑रितीकारादेशो न निषिध्यते । ईत्वस्य द्वित्वनिमित्त यङ्निमित्तकत्वेऽपि द्वित्वनिमित्ताऽज्निमित्तकत्वाऽभावात् । अचः किम् । असूषुपत् । इह स्वापेश्चङि द्वित्वात्प्राक्स्वापेश्चङी॑तिवकारस्य सम्प्रसारणं न निषिध्यते, तस्याऽजादेशत्वाऽभावात् । ततश्च कृते सम्रसारणे सुप् इत्यस्य द्वित्वेऽब्यासे उकारस्य श्रवणं संभवति । संप्रसारणे निषिद्दे तु 'स्वप्' इत्यस्य द्वित्वेऽभ्यासे उकारो न श्रूयेत । एवं च प्रकृते यणादेशात्प्राग्लिटि धातो॑रिति द्वित्वे कृ कृ ए इति स्थिते — ।", "11060": "<<अदर्शनं लोपः>> - सुद् ध् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसंज्ञासूत्रमाह — अदर्शनं लोपः । शब्दानुशासनप्रस्तावाच्छब्दविषयकश्रवणंमिह दर्शनं विवक्षितम् । दर्शनस्याभावोऽदर्शनम् । अर्थाभावेऽव्ययीभावः । 'स्थानेऽन्तरतमः' इत्यतः स्थां इत्यनुवर्तते । स्थानं प्रसङ्ग इत्युक्तम् । शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणं तल्लोपसंज्ञं भवतीत्यर्थः ।", "11061": "<<प्रत्ययस्य लुक्श्लुलुपः>> - अतो नैवमर्थः, किं तु लुक्श्लुलुप इत्यावर्तते । ततश्च लुक् श्लु लुप इत्युच्चार्य विहितं प्रत्ययाऽदर्शनं यथासङ्ख्यपरिभाषया क्रमाल्लुगादिसंज्ञं स्यादिति लभ्यते, अतो नोक्तसङ्कर इत्यभिप्रेत्याह-लुक्श्लुलुप्शब्दैरित्यादिना ।फले लुक्,जुहोत्यादिभ्यः श्लुः॑ 'जनपदे लुप्' इत्यादिविधिप्रदेशेषुअस्य सूत्रस्य शाटकं वये॑तिवद्भाविज्ञानान्नान्योन्याश्रयः । तदेवं कतिशब्दस्य षट्संज्ञायाम् — ।", "11062": "<<प्रत्ययलोपे प्रत्ययलक्षणम्>> - जसि लुप्तेऽपिजसि चे॑ति गुणमाशङ्कितुमाह-प्रत्यय-लोपे प्रत्यय । प्रत्ययो लक्षणं=निमित्तं यस्य तत्-प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादित्यर्थः । फलितमाह — प्रत्यये लुप्तेऽपीत्यादिना । स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं सूत्रम् । यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थं चेति भाष्यादिषु स्पष्टम् । इति जसि चेतीति । अनेन सूत्रेण लुप्तं प्रत्ययमाश्रित्यजसि चे॑ति गुणे प्राप्ते इत्यर्थः ।", "11063": "<<न लुमताऽङ्गस्य>> - न लुमताङ्गस्य ।प्रत्ययलोपे प्रत्ययलक्षण॑मित्यनुवर्तते ।लु॑इत्येकदेशोऽस्यास्तीति लुमान्=लुक्शब्दः श्लुशब्दो सुप्शब्दश्च । तेन शब्देन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्यं न स्यादित्यर्थः । तदाह — लुक्श्लु इत्यादिना । अङ्गस्येत्यनुक्तौ पञ्च सप्तेत्यादौसुप्तिङन्त॑मिति पदसंज्ञा न स्यात्, जश्शसोर्लुका लुप्तत्वात् । ततश्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपो न स्यात् । अतोऽङ्गस्येत्युक्तम् । एवञ्च जसि लुका लुप्तेप्रत्ययलक्षणाऽभावाज्जसि चे॑ति गुणो न भवतीत्यभिप्रेत्योदाहरति — कतीति । प्रसङ्गादाह — अस्मदिति । त्रिष्विति । पुंस्त्रीनपुंसकेष्वित्यर्थः । सरूपा इति । समानानि रूपाणि येषामिति विग्रहः । लिङ्गविशेषबोधकटाबाद्यभावादिति भावः । नचैवं सतिअलिह्गे युष्मदस्मदी॑इतिसाम आक॑मिति सूत्रस्थभाष्यविरोध इति वाच्यं, पदान्तरसंनिधानं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इति हि तदर्थः । अत एवन षट्स्वरुआआदिभ्यः॑ इति पञ्चनादिषट्संज्ञकेभ्यष्टाब्ङीब्निषेधः सङ्गच्छते । अन्यथा स्त्रीत्वाऽभावादेव तदभावे सिद्धे किं तेन । अत एव चङे प्रथमयो॑रिति सूत्रे भाष्ये युष्मानित्यत्रतस्माच्छसो नः पुंसी॑त्युपन्यासः सङ्गच्छते । अत एव चनेतराच्छन्दसी॑ति सूत्रे शिशीनुमादिभिर्युष्मदस्मदाद्यादेशानां विप्रतिषेधपरं वार्तिकं तद्भाष्ये च सङ्गच्छते । इति दिक् । त्रिशब्दे विशेषमाह — त्रिशब्द इति । त्रि-आमिति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते ।", "11064": "", "11065": "<<अलोऽन्त्यात् पूर्व उपधा>> - सखन्-स् इति स्थिते उपधाकार्यं वक्ष्यन्नुपधासंज्ञामाह — अलोन्त्यात् । 'अल' इति पञ्चमी,अन्त्या॑दिति सामानाधिकरण्यात् । अल्प्रत्याहारो वर्णपर्यायः । पूर्वोऽप्यलेव गृह्रते, साजात्यादित्याह — अन्त्यादल इत्यादिना । अलः किम् । 'शिष्ट' इत्यत्र शास्धातौ आसिति संघातात्पूर्वशकारस्योपधात्वं न भवति । अन्यथाशास इदङ्हलो॑रिति शकारस्येकारप्रसङ्गः । वर्णग्रहणं किम् । शास्धातौ 'शा' इति समुदायस्य उपधात्वं न भवति । अन्यथा 'शा' इति समुदायस्य इकारः स्यात् । न चालोन्त्यपरिभाषया आकारस्यैव इकारो भवतीति वाच्यं,नानर्थकेऽलोन्त्यविधि॑रिति तन्निषेधात् ।", "11066": "<<तस्मिन्निति निर्दिष्टे पूर्वस्य>> - तस्मिन्निति निर्दिष्टे ।इको यणची॑त्यत्र अचि इको यण् स्यादित्यवगतम् । तत्राऽचो वर्णान्तराधिकरणत्वं न संभवतीति सतिसप्तम्याश्रयणीया,-अचि सति इको यण् स्यादिति । तत्र व्यवहितेऽव्यवहिते च इको यण् प्राप्तः । ततश्चसमिध॑मित्यत्र धकारल्यलहितेऽकारे सत्यरि मकारादिकारस्य यण् स्यात् । तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्तः । ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण् स्यात् । तत्राऽव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते । तस्मिन्निति न तच्छब्दः स्वरूपपरः । तथा सतितस्मिन्नणि च युष्माकास्माकौ॑ इत्यादावेव प्रवर्तेत, न त्विको यणचीत्यादौ । किन्तु इको यणचीत्यादिसूत्रगतस्याऽचीत्यादिसप्तम्यन्तपदस्यतस्मिन्नि॑त्यनुकरणम् ।इती॑त्यनन्तरं 'गम्येऽर्थे' इति शेषः । निरिति नैरन्तर्ये । दिशिरुच्चारणे । एवं च इको यणचि रायो हलीत्यादिसूत्रेषु इचि हलि इत्येवं सप्तम्यन्तपदगम्येऽर्तेऽकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टेऽव्यवहितोच्चारिते सति पूर्वस्य कार्यं भवति, न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः । व्यवधान#ं च वर्णान्तरकृतमेव निषिध्यते, नतु कालकृतम् ।इको यणची॑त्यादौ कालकृतव्यवधानस्य संहिताधिकारादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधिकारस्य वैयथ्र्यापातात् । एवं च ये संहिताधिकारबहिर्भूताः 'आनङृतो द्वन्द्वे'देवताद्वन्द्वे च॑ इत्यादय उत्तरपदे परत आनङादिविधयस्ते सर्वे अगनाविष्णू इत्यग्नाविष्णू इत्याद्यवग्रहे कालव्यवधानेऽपि भवन्ति । एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह — सप्तमीनिर्देशेनेत्यादिना । — इति सूत्राक्षरानुयायी पन्थाः ।अतिशयने तम॑बित्यत्र तु नेयं परिभाषा प्रवर्तते, सर्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाऽव्यवहितोच्चारितत्वरूपनिर्धिष्टत्वाऽसंभवात् । नचैवमपिकर्तृकर्मणोः कृती॑त्यत्रापि अस्याः परिभाषायाः प्रवृत्तौकर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यान्नतु 'कृतिः कृष्णस्य' 'कर्ता जगत' इत्यत्र इति वाच्यं, लक्ष्यानुरोधेन क्वचिदेवंजातीयकेष्वस्याः परिभाषाया अप्रवृत्तिरिति 'श्नान्नलोप' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । वस्तुतस्तु भाष्यानुसारेणाऽत्र सूत्रे निर्दिष्टग्रहणं संहिताधिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते ।", "11067": "<<तस्मादित्युत्तरस्य>> - तस्मादित्युत्तरस्य । द्व्यन्तरुपसर्गेभ्योऽप ईत्उदस्थारतम्भोः पूर्वस्ये॑त्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणंतस्मा॑दिति । 'इति' शब्दानन्तरं 'गम्येऽर्थे' इति शेषः । 'निर्दिष्टे' इत्यनुवर्तते । निरिति नैरन्तर्ये । दिशिरुच्चारणेद्व्यन्त॑रित्यादिसूत्रेषु पञ्चम्यन्तगम्येऽर्थे=द्व्यन्तरादिशब्दे निर्दिष्टे= अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति, न तु व्यवहितोच्चारिते द्व्यादिशब्दे, नापि ततः पूर्वस्य भवतीति नियमार्थमिदम् । तदाह — पञ्चमीनिर्देशेनेत्यादिना । उत्तरस्य किम् तिङ्ङतिङ॑ इति निघात उत्तरस्यैव भवति — अग्निमीले । नेह ईले अग्निम् । अव्यवहिते किम्, उत्प्रस्थानम् । उदःस्थास्तम्भोरिति पूर्वसवर्णो न भवति ।", "11068": "<<स्वं रूपं शब्दस्याशब्दसंज्ञा>> - ॒अग्नेर्ढक्॒वाय्वृतुपित्रुषसो यत्राज्ञो य॑दित्यादौ लौकिकव्युत्त्पत्या उपस्थितानां वह्निवातादीनामर्थानां ढगादिप्रत्ययैः पौर्वापर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासंभवाच्च तत्तदर्थकपर्यायशब्दानां ग्रहणापत्तौ तन्नियमार्थमिदं सूत्रमारभ्यते — स्वं रूपम् ।अग्नेर्ढगित्यादौ अग्न्यादिशब्दस्य यत्स्वरूपं श्रुतं तदेव अग्न्यादिशब्दै प्रत्येतव्यं, नतु तदन्यस्तत्तत्पर्यायोऽपि । शब्दशास्त्रे संकेतिता वृद्धिगुणादिसंज्ञा शब्दसंज्ञा, तत्र नायं नियम॑ इत्यर्थः । तदाह — शब्दस्य स्व रूपं संज्ञीति । बोध्यमित्यर्थः । न च वृद्धिर्गुण इत्यादिसंज्ञाविधिबलादेव तत्र तदर्थग्रहणं भविष्यतीति किमशब्दसंज्ञेत्यनेनेति वाच्यम्,उपसर्ग घोः कि॑रित्यत्र 'घु शब्दे' इति घुधातुनिवृत्त्यर्थत्वात् 'दाधा ध्वदाप्' इति संज्ञाकरणस्यघुमास्थागापाजहातिसां हलि॑ इत्यादौ आवश्यकतया संज्ञाकरणस्य सामर्थ्योपक्षयादित्यन्यत्र विस्तरः । इदं सूत्रं भाष्ये प्रत्याख्यातम् ।", "11069": "<<अणुदित् सवर्णस्य चाप्रत्ययः>> - अणुदित्सवर्णस्य । प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे 'त्यदादीनामः' 'इदमैश्' इत्यादीनां पर्युदासो न स्यादित्यतो व्याचष्टे — प्रतीयत इति । उत् इत् यस्य सः उदित=कु चु टु तु पु इत्यादिः । चकारात्स्वं रूपमित्यतः स्वमित्यनुवर्तते । तच्च षष्टन्ततया विपरिणम्यते । तदाह-अविधीयमान इत्यादिना । अणिति पूर्वेण परेण वा प्रत्याहार इति संशये निर्धारयति-अत्रेति । अस्मिन्नेव सूत्रे अण् परेण णकारेण, इतरत्र तुअणोऽप्रगृह्रस्ये॑त्यादौ पूर्वेणैवेत्यर्थः । अत्र च आचार्यपारंपर्यौपदेशरूपं व्याख्यानमेव शरणम् । एवं चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिदीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वातेषु परेषु इकारस्य यणादिकं स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम् । अणुदित्सूत्रस्य फलमाह — तदेवमिति । तत्णुदित्सूत्रम् । एवं=वक्ष्यमाणप्रकारेण फलतीत्यर्थः । तिंरशत इति । ऋऌवर्णयोर्मिथः । सवर्णतया ऋकारेण स्वाष्टादशभेदानाम्ऌकारीयद्वादशभेदानां च ग्रहणादिति भावः । एवम्ऌकारोऽपीति । ऋकारस्यापि ऌकारसवर्णत्वादिति भावः । नन्वेकारेण ऐकारप्रपञ्चोऽपि गृह्रते, ऐकारेण एकारप्रपञ्चश्च । तथा ओकारेण औकारप्रपञ्चो गृह्रेत, औकारेण ओकारप्रपञ्चश्च । ततस्च एचश्चतुवशतेः संज्ञा स्युरित्येवं वक्तव्यं नतु द्वादशानामित्यत आह — एदेतोरिति । कुतो न सावण्र्यमित्यत आह — ऐऔजिति । यदि ह्रेदैतोः ओदौतोश्च परस्परं सावण्र्यं स्यात्तर्हि एकारेण ऐकारप्रपञ्चस्य, ओकारेण औकारप्रपञ्चस्य च अकारादिभिदीर्घप्लुतानामिव ग्रहणसम्भवात्ऐऔ॑जिति सूत्रं नारभ्येत । आरभ्यते च (सूत्रकृता) । अत एदैतोरोदौतोश्च न परस्परं सावण्र्यमिति विज्ञायत इत्यर्थः । अच् इच् एच् इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाह्राः । नच 'एचोऽयवायाव' इत्यत्र यथासंख्यार्थमैऔजिति सूत्रमस्त्विति वाच्यम् । तत्र स्थानेऽन्तरतमः॑ इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भावः । वस्तुतस्तुऐऔ॑जिति सूत्राऽभावे 'वृद्धिरादैच्'न त्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् 'प्लुतावैच् इदुतौ' इत्यादौ एङ्ग्रहणापत्तौ एदोतोरपि ग्रहणे प्रसक्ते तन्निवृत्त्यर्थमैच्प्रत्याहार आवश्यक इति तदर्थमैऔजित्यारम्भणमीयमेव । अत ऐऔजिति सूत्रारम्भस्य चरितार्थत्वादेदैतोरोदौतोश्च मिथ: सावण्र्याऽभावसाधकत्वकथनमनुपपन्नमेव । एदैतोरोदौतोश्च मिथः सावण्र्याभावस्तु वृद्दिरादैजित्यादौ क्वचिदैज्ग्रहणात् 'अदेङ्गुणः' इत्यादौ क्वचिदेङ्ग्रहणाच्च सुनिर्वाहः । अन्यथा सर्वत्र एङ्ग्रहणमेव ऐज्ग्रहणमेव वा कुर्यात् । तावतैव चतुर्णां ग्रहणसम्भवात् । अत ऐच् एङिति प्रत्याहारद्वयग्रहणसामर्थ्यादेदैतोरोदौतोश्च न मिथः सावण्र्यम् । 'प्लुतावैच इदुतौ'एचोऽप्रगृस्ये॑ति प्रत्याहारद्वयग्रहणवैयथ्र्याच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । तेनेति । एदैतौरोदौतोश्च मिथस्सावण्र्याभावेनेत्यर्थः । नापादनीयमिति । नाशङ्कनीयमित्यर्थः । एवं च एकारेण सह वर्तत इति सैः, हे सैरित्यत्र 'एङ्ह्रस्वात्' इति संबुद्धिलोपो न । ग्लावं ग्लाव इत्यत्र 'औतोऽम्शसोः' इत्यात्वं च न । स्यादेतत् । हकारस्य आकारस्य च सवर्णसंज्ञा स्यात् , स्थानप्रयत्नसाम्यात्, अज्झलामेव सावण्र्यनिषेधात्, वार्णसमाम्नायिकानामेन वर्णानामज्झलशब्दवाच्यत्वात्, आकारप्रश्लेषे च प्रमाणाऽभावात् । न चाकारस्याच्त्वात्तेन आकारस्यापि अणौदित्सूत्रेण ग्रहणादाकारहकारयोर्न सावण्र्यमिति वाच्यं, ग्रहणकसूत्रे हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रं न लब्धात्मकम् । तद्धि सवर्णपदघटितं, सवर्णपदार्थावगमोत्तरम#एव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुस्यास्यसूत्रं सामान्यतः त्वर्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्तत्रैव पर्यवसन्नं स्वकार्यक्षमम् । तदुक्तम् — ॒प्रकल्प्यपवादविषयमुत्सर्गोऽभिनिविशते॑ इति । उक्तं च भाष्ये-वर्णानामुपदेशस्तावत्, उपदेशोत्तरकाला इत्संज्ञा, इत्संज्ञोत्तरकाल आदिरन्त्येनेति प्रत्याहारः, प्रत्याहारोत्तरकाला सवर्णसंज्ञा, तदुत्तरकालमणुदित्सूत्रमित्येतेन समुदितेन वाक्येनात्यत्र सवर्णानां ग्रहणं भवती॑ति । अन्यत्र=॒अस्य च्वौ॑ इत्यादावित्यर्थः । अत्र भाष्येप्रत्याहारोत्तरकाला सवर्णसंज्ञे॑त्यनेन नाज्झलाविति निषेधसहितः सावण्र्यविधिर्विवक्षितः , केवलसावण्र्यविधेः प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमाऽसम्भवात् । तथा चाणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकत्वात्तेन नाज्झलावित्यत्र अज्ग्रहणेन सवर्णानां ग्रहणाऽभावात्सावण्र्यविधिनिषेधाभावादकारहकारयोः सावण्र्यं स्यादिति शङ्कते — नाज्झलाविति सावण्र्येत्यादिना । यद्यपीति सम्भावनायाम् । अक्षरसमाम्नायः=चतुर्दशसूत्री । तत्र भवा आक्षरसमाम्नायिकाः ।बह्वचोऽन्तोदात्तात् इति ठञ् । न च नाज्झलविति प्रवृत्तिदशायामणुदित्सूत्रप्रवृत्त्यभावेऽपि तत्र अजित्यनेन लक्षणया दीर्घप्लुतानां ग्रहणमस्तु प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम् । स्ववाच्यवाच्येषु हि प्रत्याहाराणां लक्षणा, न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति । अमुदित्सूत्रस्येदानीमप्रवृत्तेरिति भावः । परिहरति — तथापीति । वार्णसमाम्नायिकानामेव नाज्झलाविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थः । कुत इत्यत आह — तत्रापीति । अपिशब्दो व्युत्क्रमः । तत्र=नाज्झलाविति सूत्रे, आसहितोऽच् आचित्याकारस्यापि सवर्णदीर्घेण प्रश्लिष्टत्वादित्यर्थः ।नन्वस्तु हकारस्य आकारस्य च सावण्र्यं, किं तत्प्रतिषेधार्थेन आकारप्रश्लेषेणेत्यत आह — तेनेति । तेन=हकारस्य आकारस्य च सावण्र्यप्रतिषेधेन, हकारेण आकारस्य ग्रहणाऽभावाद्विआपाभिरित्यत्र 'हो ढः' इति हकारस्य विधीयमानं ढत्वं पकारादाकारस्य न भवति । आकारप्रश्लेषाऽभावे तु, तस्य हकारस्य च सावण्र्यसत्वाद्धकारेण आकास्य च ग्रहणात्तस्य ढत्वं स्यादित्यर्थः । अत्र ढत्वस्यासिद्धत्वात्संयोगान्तलोप एवापादनीय #इति नवीनाः ।कालसमयवेलासु तुमुन् इति सूत्रे वेलास्विति लकारादाकारस्य निर्देशो नाज्झलावित्यत्र आकारप्रश्लेषे प्रमाणम् । अन्यथा तत्र ढत्वस्य संयोगान्तलोपस्य वाऽऽपत्तावाकारो न श्रूयेतेत्यलम् । ननु ग्रहणकसूत्रेऽज्ग्रहणमेव क्रियताम्, अणुदित्सवर्णस्येति किमण्ग्रहणेन, हयवरलानां सवर्णाऽभावेन तेषु ग्रहणकशास्त्रस्य व्यर्थत्वादित्यत आह — अनुनासिकेति । तेनेति । उक्तद्वैविध्येन सवर्णत्वात्-अननुनासिकास्ते यवलाः प्रत्येकं द्वयोद्र्वयोः संज्ञाः । अनुनासिकास्तु यवला अननुनासिकानामपि न संज्ञाः, 'भेदको गुणा' इत्याश्रयणात्, वर्णसमाम्नायेऽननुनासिकानामेव तेषां पाठाच्च । एवं च यवलसंग्रहार्थं ग्रहणकसूत्रेऽज्ग्रहणमपह#आय अण्ग्रहणमिति भावः ।", "11070": "<<तपरस्तत्कालस्य>> - ग्रहणकसूत्रेऽण्सवर्णानां ग्राहक इति स्थितम् । एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते — तपरस्तत्कालस्य । 'तपर' इत्यावर्तते । प्रथमस्तावत्तपरशब्दः-तः परो यस्मादिति बहुव्रीहिः । द्वितीयस्तु तात् पर इति पञ्चमीसमासः । ग्रहणकसूत्रादणित्यनुवर्तते । तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः । ऊकालः उष्ट्रमुख इत्यादिवत् समासः । एवं च 'अत्॒इत्' इत्याद्यात्मकोऽण् तपरत्वेन उच्चार्यमाणः स्वीयकालसदृशकालस्य संज्ञा स्यादित्यर्थः । तत्र अत् इत् उत् ऋत् इत्येतेषां तपराणां ह्रस्वाकारादीनामणां तत्तत्कालास्तत्तद्ध्रस्वप्रपञ्चाः । एत्, ऐत्, ओत्ौत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालास्तत्तद्दीर्घप्रपञ्चाः । तत्र ह्रस्वाकारादीनां तपराणां तत्तद्ध्रस्वप्रपञ्चावाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात्सिद्धे सत्यारम्भो नियमार्थः॑ इति न्यायेन सूत्रमिदं नियमार्थं सम्पद्यते — ॒अण् तपरश्चेत्तत्कालस्यैव सवर्णस्य ग्राहको न त्वतत्कालस्ये॑ति । एवं च अतत्कालनिवृत्त्यात्मकपरिसंख्यार्थंमिदं सूत्रम् । वैयाकरणस्तु परिसंख्याविधिमेव नियमविधिरिति व्यवहरन्ति । तदिदं सर्वमभिप्रेत्य व्याचष्टे — तः परोयस्मादित्यादिना । नियमविधानस्य फलमाह — तेनेत्यादिना । तेन=नियमविधानेन । आदिना लृदित्यादिसंग्रहः । अत्, इत्, उत्, लृत्, एत, ऐत्, ओत्, औत् — इत्येते अष्टौ तपरा अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः , न त्वतत्कालानामित्यर्थः । ऋदिति द्वादशानामिति । ऋऌवर्णयोरिति सावण्र्यविधानादिति भावः । नन्वेवम्लृदित्यपि द्वादशानां ग्रहणं स्यात्, तथा चपुषादिद्युताद्य्लृदितः॑ इत्यादिविधय ऋदित्सवपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन ऌकारप्रपञ्चस्य ग्रहणेऽपि क्वचित् लृदिद्ग्रहणबलेन लृ इत्यनेन ऋकारप्रपञ्चस्य ग्रहणाऽभावात् । अन्यथाऋतो ङी॑त्यादौ क्वचित् ऋद्ग्रहणस्य पुषादिद्युताद्य्लृदित इत्यादौ क्वचित् लृदिद्ग्रहणस्य च वैयथ्र्यापत्तेः । प्रथमातिक्रमणे कारणाऽभावेन सर्वत्र ऋदिद्ग्रहणस्यैव कर्तु शक्यत्वात् । इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम्, नतु लृदंपीति । अत्र च तः परो यस्मादिति बहुव्रीहेः-अत्, इत्, उत् इत्याद्युदाहरणम् । तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम् । आत् ईत् ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् , आकारादिषु हि तपरसूत्रमपूर्वविधानार्थम्, उत नियमार्थम् , नाद्यः, तपरसूत्रे अण्ग्रहणानुवृत्त्यभावेऽपि जातिपक्षे आकारादिभिर्दीर्घैः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेव्र्यर्थत्वात् । न द्वितीयः । उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात् । एवं च आत्, ईदित्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत् । तदेवं वृत्तः प्रत्याहारप्रपञ्चो ग्रहणकशास्त्रप्रपञ्चश्च ।", "11071": "", "11072": "<<येन विधिस्तदन्तस्य>> - यच्छब्दस्वरूपमुपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः । विधीयत इति विधिः ।उपसर्गे घोः कि॑रिति धाधातोर्भावे किप्रत्ययः । येनेति करणे तृतीया । शास्त्राकृद्विधाने कर्ता । धातोरित्यधिकृत्य #एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः । करणं च व्यापारवत् । एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः । ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते । स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्ठन्ततया च विपरिणम्यते । एवं चविशेषणसमर्पकः शब्दस्तदन्तस्य स्वस्य च प्रत्यायक॑ इति फलति । तदाह — विशेषणमित्यादि । विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य, विशेषण समर्पकशब्दस्य च बोधकः स्यादिति यावत् । ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्ययः स्यात्, इकाररूपाद्धातोश्चेति फलति । यथा-चयः, अयः । केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः । तत्तु शब्देन्दुशेखरे दूषितम् । समासेति । वार्तिकमेतत् । समासविधौ प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः । तेन कृष्णं परमश्रित इत्यत्रद्वितीया श्रिते॑ति समासो न भवति । सूत्रनडस्य गोत्रापत्यं सौत्रनाडिः ।अत इञ् । अनुशतिकादीनां चेत्युभयपदवृद्धिः । अत्र नडादिभ्यः फगिति फग्नभवति । नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्रउगितश्चे॑ति उगिदन्तात्प्रातिपदिकाद्विहितो ङीप् न स्यात्, प्रत्ययविधौ तदन्तविधेः प्रतिषेधात् । तथा दाक्षिरित्यत्र अत इञिति इञ् न स्यात् । अस्यापत्यं इरित्यत्रैव इञ्स्यादित्यत आह — उगिदिति । इदमपि वार्तिकम् ।द्वितीयायां चे॑ति वर्जयतेर्णमुल् ।उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्या समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवती॑त्यर्थः । उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तादुगितश्चेति ङीप्, दाक्षिरित्यत्र अवर्णान्तादिञ् च सिध्यति ।", "11073": "<<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> - वृद्धिर्यस्य । अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धत्वं सिध्यति । व्यपदेशिवत्त्वेन ज्ञाशब्दस्यापि वृद्धत्वम् ।", "11074": "<<त्यदादीनि च>> - त्यदादीनि च । शेष पूरणेन सूत्रं व्याचष्टे — वृद्धसंज्ञानि स्युरिति । आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः ।", "11075": "<<एङ् प्राचां देशे>> - एङ् प्राचां । देशविशेषणाम्नश्चेदेङादिरेव वृद्धसंज्ञक इति नियमार्थमिदम् ।वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वं, न त्वाधुनिकसंकेतितत्वमेव । तेन घटीयमित्यादि सिद्धम् ।", "12001": "<<गाङ्कुटादिभ्योऽञ्णिन्ङित्>> - गाङ्कुटादिभ्यो । ञ् च ण्च ञ्णौ,तौ इतौ यस्य स ञ्णित्,स न भवतीत्यञ्णित् । गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी । गाङिति ङकारानुबन्धात्इणो गा लुङी॑त्यस्य न ग्रहणमित्युक्तम् । नापि 'गाङ्गतौ' इत्यस्याऽत्र ग्रहणं, तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् । इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः । तदाह — गाङादेशादिति । एवं च सिचो ङित्त्वे आह —", "12002": "<<विज इट्>> - विज इट् । 'गाङ्कुटादिभ्यः' इत्यतो ङिदित्यनुवर्तते । तदाह - विजेः पर इत्यादि । उद्विजिता । उद्विजिषीष्ट ।उदविजिष्ट । व्रश्चधातुरूदित्त्वाद्वेट् । ग्रहिज्येति । लटि व्रश्च् अतीति स्थिते शस्याऽपित्त्वेन ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः ।तदाह - वृश्चतीति । वृश्चतः वृश्चन्तीत्यादि । वव्रश्चेति । णलि रूपमिदम् । थलि च प्रक्रिया अनुपदं वक्ष्यते । अतुसादौ संयोगात्परत्वेन कित्त्वाऽभावात्ग्रहिज्ये॑ति न संप्रसारणम् । तदाह — वव्रश्चतुरिति । ऊदित्त्वात्थलि वेट् । तदाह — वव्रश्चिथ वव्रष्ठेति । धातुपाठे 'व्रश्चू' इत्यत्र व्रस् च् इति सथिते सस्य श्चुत्वेन शकारनिर्देशः । तता च वव्रश्च् थ इति स्थिते श्चुत्वनस्याऽसिद्धत्वात् 'स्कोः' इति सकारलोपे, चस्यव्रश्चे॑ति षत्वे, ष्टुत्वेन थस्यठत्वे, वव्रष्ठेतिरूपम् । वव्रश्चिव । ननु णलि थलि च अकितिद्वित्वे कृतेलिटब्यासस्ये॑त्यब्यासावयवयोर्वकाररेफयोद्र्वयोरपि संप्रसारणं स्यात् । न चन संप्रसारणे संप्रसारण॑मिति वकारस्य संप्रसारणनिषेधः शङ्क्यः, पूर्वं वकारस्य संप्रसारणसंभवादित्यत आह — लिटभ्यासेति । 'न संप्रसारणे' इति निषेधादेव ज्ञापक#आत्प्रथमं रेफस्य ऋकारः संप्रसारणमित्यर्थः । तस्यसंप्रसारणसंपन्नस्य ऋकारस्य अकारविधं स्मारयति - उरदिति । ननु ऋकारस्य अकारे कृते वकारस्य संप्रसारणं स्यात्, संप्रसारणपरकत्ववविरहेण 'न संप्रसारणे' इति निषेधाऽप्रवृत्तेरित्यत आह — तस्य चेति । अकारस्येत्यर्थ- । न च उरदत्त्वस्य परिनिमित्तक्तवाऽश्रवणात्कथं स्थानिवत्त्वमिति वाच्यम्,अपादपरिसमाप्तेरङ्गाधिकार॑ इत्यभ्युपगम्य अह्गाक्षिप्रत्ययनिमित्तकत्वाभ्युपगमात् ।लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रितिन्यायस्तु 'न संप्रसारणे' इति निषेधादेव न स्थानिबेदे प्रवर्तत इति ज्ञायते । अत एव 'सुद्ध्युपास्य' इत्यादौ धकारस्य द्वित्वे कृते पूर्वधकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तां तावत् । आशीर्लिङ्याग - वृश्च्यादिति । कित्त्वात्संप्रसारणमिति भावः । अव्राक्षीदिति । अव्रश्च् सीत् इति स्थिते हलन्तलक्षणावृद्धिः । श्चुत्वस्याऽसिद्धत्वात् 'स्कोः' इति सलोपः ।व्रश्चे॑ति चस्य षः, तस्यषढो॑रिति कऋः, सस्य ष इति भावः ।नकारजावनुस्वरपञ्चमौ झलिधातुषु । सकारजः शकारः श्चे, र्षाट्टवर्गस्तवर्गजः । इत्याहुः । व्यच । सेट् । शेग्रहिज्ये॑ति संप्रसारणं मत्वाह - विचतीति । वव्याचेति ।लिटभ्यासस्ये॑त्यभ्यासयकारस्य संप्रसारणम् । 'न संप्रसारणे' इति न वकारस्य । विविचतुरिति । कित्त्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वितवादीति भावः । विव्यचिथ । विविचिव । विच्यादिति । आशीर्लिङि कित्त्वाद्यकारस्य संप्रसारणम् ।अतो हलादे॑रिति वृद्धिविकल्पं मत्वाह - अव्याचीत् अव्यचीदिति । ननुव्यचेः कुटादित्वमनसी॑ति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यतीत्यादावपि 'गाङ्कुटादिभ्यः' इति ङित्त्वात् संप्रसारणं स्यादित्यत आह- व्यचेरिति । कृन्मात्रेति । अवधारणे मात्रशब्दः । 'उछि उञ्छे' 'उछी विवासे' इति भ्वादौ पठितौ । इह तयोः पाठस्तु शविकरणार्थः । तेन उञ्छती उञ्छन्ती, उच्छती उच्छन्ती इतिआच्छीनद्यो॑रिति नुम्विकल्पः सिध्यति । भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः । ऋच्छ गतीति ।छे चे॑ति तुकि तस्य शचुत्वेन चकानिर्देशः । ऋच्छति । णलि लघूपधत्वाऽभावाद्गुणे अप्राप्ते आह - ऋच्छत्यृतामिति । द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे आ अच्र्छ इति स्थिते बहुहल्त्वाद्विहल्त्वाऽभावान्नुटि अप्राप्ते आह - द्विहल्ग्रहणस्येति । आनच्र्छेति.॒इजादे॑रित्यत्र 'अनृच्छः' इति पर्युदासादाम्न । ऋच्छतेति ।ऋच्छत्यृता॑मित्यत्र लिटीत्यनुवृत्तेर्न गुण इति बावः । लुभधातुः सेट् ।तीषसहे॑ति वेडिति मत्वाह- लोभिता लोब्धेति । शिशुं नेति ।नशब्द इवार्थे । विप्राः शिशुमिव मतिभिः रिहन्ति = हिंसन्तीत्यर्थः । तृपधातुः श्यन्विकरण एवाऽनिट् । अङपवादत्वादिति । अपवादस्य उत्सर्गसमानदेशत्वादिति भावः । चृती हिंसाश्रन्थनयोरिति । श्रन्थनं विरुआंसनम् । चृततीत्यादि सुगमम् ।अथास्य योकं विचृते॑दित्याआलायनः । विरुआंसयेदित्यर्थः , उपसर्गवशात् ।यजमानो मेखलं विचृतते॑ इत्यापस्तम्बसूत्रे तु तङ् आर्षः । षुरधातुः षोपदेशः । कुर शब्दे । करोतेरेवेति । व्याख्यानमेवाऽत्र शरणम् । वृहूधातुः ऋदुपधः । ऊदित्त्वाद्वेट्कः । पवर्गादिरिति । पवर्गतृतीयादिरित्यर्थः । तृहू स्तृहू तृंहू इति । त्रयोऽपि ऋकारवन्तः । तृतीयोऽनुस्वारवान् । उदित्त्वाद्वेट् । तर्ढेति । तृहेस्तासि ढत्वध्तवष्टुत्वढलोपाः । एवं स्तर्ढा । तृण्ढा । अतर्हीत् अतार्क्षीत्, अस्तर्हीत् अस्तार्क्षीदिति सिद्धवत्कृत्याह - अतृंहीत् - अतार्ङ्क्षीदिति । तृंहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम् । हस्य ढः, ढस्य कः, षत्वम् । अनुस्वारस्य परसवर्णो ङकार इति भावः । अतार्ढामिति । तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढञलोपा इति भावः । एव [स्तृहेः-] अस्तार्ढाम् [तृंहः] अतार्ण्ढाम् । स्फुर स्फुरणे ।", "12003": "<<विभाषोर्णोः>> - विभाषोर्णोः । 'गाङ्कुटादिभ्यः' इत्यतो ङिदित्यनुवर्तते, 'विज इ' डित्यत इडिति, — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — इडादीति । ऊर्णुनुविथेति । ङित्त्वपक्षे गुणाऽभावादुवङ् । ऊर्णुनविथेति । ङित्त्वाऽभावपक्षे गुणः । ऊर्णुनुवथुः ऊर्णुनुव । ऊर्णुनाव — ऊर्णुनव । लुटि तासि इटि ङित्त्वविकल्पं मत्त्वाऽऽह — ऊर्णविता ऊर्णुवितेति । ऊर्णविष्यति ऊर्णुविष्यति । ऊर्णविष्यते — ऊर्णुविष्यते । लङि और्णुदिति स्थितेऊर्णोतेर्विभाषे॑ति वृद्धिविकल्पे, गुणे च प्राप्ते —", "12004": "", "12005": "<<असंयोगाल्लिट् कित्>> - असंयोगाल्लिट् । अपिदिति । 'सार्वधातुकमपित्' इत्यतस्तदनुवृत्तेरिति भावः । 'सार्वधातुकमपित्' इति ङित्त्वं तु नात्र प्रवर्तते, लिडादेशानामार्धधातुकत्वादिति बोध्यम् । कित्त्वस्य फलमाह — क्ङिति चेति । द्वित्वादिति । कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम् । कित्त्वस्य फलमाह — क्ङिति चेति । द्वित्वादिति । कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः ।", "12006": "", "12007": "", "12008": "<<रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च>> - रुदविद । इका निर्देशात् संप्रसारणे गृहीति निर्देशः । स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः, सुपीति संप्रसारणप्रसङ्गात् । चकारात्मृडमृदगुधे॑ति पूर्वसूत्रस्थं क्त्वेति समुच्चीयते । तदाह — सन् क्त्वा चेति । किताविति ।असंयोगाल्लि॑डित्यतस्तदनुवृत्तेरिति भावः । रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् । अविशेषात्सर्वस्येत्यन्ये ।हलन्ताच्चे॑ति सिद्धे रुदविदमुषां ग्रहणंरलो व्युपधा॑दिति विकल्पबाधनार्थम् । ग्रहेस्तु क्त्वायांन क्त्वा से॑डिति निषेधबाधनार्थम् ।स्वपिप्रच्छयोस्तु क्त्वायां कित्त्वेऽपि सनोऽप्राप्तकित्तवविधानार्थम् । रुरुदिषतीत्यादौ सनः कित्वाल्लघूपधगुणाऽभावः ।", "12009": "<<इको झल्>> - इको झल् । इगन्तादिति । सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति ।रुदविदमुषग्रही॑त्यतः,असंयोगाल्लिट्कि॑दित्यश्च तदनुवृत्तेरिति भावः । बुभूषतीति । कित्त्वान्न गुणः । इकः परत्वान्नेट् । दिदीषते इति । सनः कित्त्वान्न गुणः । दीङो ङित्त्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् । एज्विषयत्वाभवादिति । कित्त्वे गुणनिषेधादिति भावः । अत एवेति । यद्येज्विषयादन्यत्राप्यात्वं स्यात्तदा मीमेति पृथग्ग्रहणमनर्थकं स्यात्,गामादाग्रहणेष्विशेषः॑ इत्युक्तेरिति भावः ।", "12010": "<<हलन्ताच्च>> - हलन्ताच्च ।इको झ॑लिति पूर्वसूत्रमनुवर्तते ।रुदविदमुषे॑त्यतः सनिति,॒असंयोगाल्लि॑डित्यतः किदिति च ।ह॑लिति लुप्तपञ्चमीकं पदम् । अन्तशब्दः समीपवाची । तदाह — इक्समीपादित्यादि । जुघुक्षतीति । सनः कित्त्वान्न गुणः ।सनि ग्रहगुहोश्चे॑त्यूदित्त्वेऽपि नित्यं नेट् । हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः । बिभित्सतीति । भिदेः सनः कित्त्वान्न गुणः । यियक्षते इति । अत्र हलः इक्समीपत्वाऽभावान्न कित्त्वम् । सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः । विवर्धिषते इति । वृधेः सनि रूपम् । अत्र सन इटि झलादित्वं नेति भावः । ननु 'तृंहू हिंसायाम्' तुदादिर्नोपधोऽयम् । कृतानुस्वारस्य निर्देशः । अस्मात्सनःअनिदिता॑मिति नलोपार्थं कित्त्वमिष्यते । तन्नोपपद्यते । न ह्यत्र इक्समीपादनुस्वारात्सन् परो भवति, हकारेण व्यवधानात् । हकारात्तु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत आह — हल्ग्रहमं जातिपरमिति । हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिपरमित्यर्थः । तृंह्विति । तृंहूधातोः प्रदर्शनामिदम् ।तितृक्षतीति.ऊदित्त्वादिडभावपक्षे रूपम् । सनः कित्त्वान्नलोपः, लघूपधगुणाऽभावश्च । ढत्वकत्वषत्वानि । इट्पक्षे आह — तितृंहिषत#ईति । झलादित्वाऽभावेन कित्त्वाऽभावान्नलोपो नेति भावः ।", "12011": "<<लिङ्सिचावात्मनेपदेषु>> - लिङ् । इको झलिति, हलन्ताच्चेति च सूत्रमनुवर्तते ।असंयोगा॑दित्यतः किदिति च । इक इति सामीप्ये षष्ठी, हलि अन्वेति । तदाह — इक्समीपादित्यादिना । आत्मनेपदपरकत्वं सिच एव विशेषणं, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वाऽसंभवात् । इकः किम् ।वह्वक्षीष्ट । सति तु कित्त्वेवचिस्वपी॑ति संप्रसारणं स्यात् । आत्मनेपदेषु किम् । अद्राक्षीत् । इह कित्त्वे सतिसृजिदृशोर्झल्यमकिती॑त्यम्न स्यात् । अतिप्तेति । लुङस्तादेशे, च्लिः, सिच् ।झलो झली॑ति लोपः । आत्मनेपदपरकत्वेन सिचः कित्त्वान्न लघूपधगुणः । अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह — तितेपे इति । इदुदुपधत्वे तु कित्त्वाद्गुणो न स्यादिति भावः । सेट्कोऽयमिति सूचयति — तेपितेति । तेपिषीष्ट । अतेपिष्ट । ष्टिपृधातोस्तु 'धात्वादेः षः स' इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह — तिष्टिप इति । 'शर्पूर्वाः खयः' इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः । कित्त्वान्न गुणः । तिष्टेप इति । ष्टेपृधातो रूपम् । तेपृ कम्पने चेति । चात्क्षरणे । वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात्पूरवत्रास्य पाटस्त्यक्तुं शक्यः । केचित्तुदेपृ॑इति वर्गतृतीयादिं पठन्ति । चात्कम्पने गतौ चेति । अनुक्तसमुच्चयार्थश्चकार इति भाव- । एतच्च टु वेपृ केपृ गेपृ कम्पन इत्येव सिद्धे पृथ॒क्पाठाल्लभ्यते । अर्थभेदादिति । ग्लेपृ दैन्ये॑ इति पूर्वं पठितम् । #इह त्वर्थभेदात्पुनः पाठः । अन्यथाग्लेपृ दैन्ये कम्पने गतौ चे॑ति गौरवं स्यादिति भावः । त्रपूषिति । ऊकारः षकारश्च इत् । अदुपधः ।", "12012": "<<उश्च>> - आशीर्लिङि भृषीष्टेत्यत्र गुणे प्राप्ते — उश्च ।लिङ्गिचावात्मनेपदेषु॑ इति सूत्रमनुवर्तते ।इको झ॑लित्यतो झलिति च । तदाह — ऋवर्णादिति । भृषीष्टेति । कित्त्वान्न गुणः । अभार्षीदिति । परस्मैपदे सिचि वृद्धौ रपरत्वम् ।", "12013": "<<वा गमः>> - वा गमः । 'इको झल्' इत्यतो झलिति,लिङ्सिचावात्मनेपदेषु॑ इत्यतो लिङ्सिचाविति, 'असंयोगाल्लिट्' इत्यतः किदिति चानुवर्तते । तदाह — गमः परावित्यादि । समगतेति । लुङि रूपम् । सिचः कित्तवपक्षे 'अनुदात्तोपदेशे' ति मकारलोपेह्रस्वादङ्गादि॑ति सिचो लुक् । समृच्छते इति ।ऋच्छ गतीन्द्रियप्लयमूर्तिभावेषु॑ इति तौदादिकस्य रूपम् । अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति — समृच्छिष्यते इति । विदिप्रच्छिस्वरतीनामिति । सम इत्यनुवर्तते । संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः । वेत्तेरिति । लुग्विकरणस्यैव विदेग्र्रहणमित्यर्थः । व्याख्यानादिति भावः ।", "12014": "<<हनः सिच्>> - हनः सिच् ।कित्स्या॑दिति शेषपूरणम् ।असंयोगाल्लिट्कि॑दित्यतस्तदनुवृत्तेरिति भावः । हनधातोः परः सिच् कित्स्यादिति फलितम् । अनुनासिकलोप इति । 'अनुदात्तोपदेशे' इति नकारलोप इत्यर्थः । उत् आ यम् स् त इति स्थिते -", "12015": "<<यमो गन्धने>> - यमो गन्धने । सिच्कित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य 'अनुदात्तोपदेशे' ति लोपः ।", "12016": "", "12017": "<<स्थाघ्वोरिच्च>> - लुङि सिचि अदास् त इति स्थिते — स्थाध्वोरिच्च । 'असंयोगाल्लिट्' इत्यतः किदिति,हनस्सि॑जित्यतः सिजिति चानुवर्तते । तदाह - अनयोरित्यादिना । परस्मैपदेषु नेदं प्रवर्तते, तत्र 'गातिस्थे' ति सिचो लुका लुप्तत्वात् । अत एव 'लिङ्सिचौ' इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यवर्त्त्याऽभावात् । अदितेति । इत्त्वेकृतेह्रस्वादङ्गा॑दिति सिचो लुक् । त इत्यस्य ङित्त्वादिकारस्य न गुणः । आतामादौ तु इत्वे कृतेऽपि सिचो न लुक्, झलिपरतएव लुग्विधेः । सिचः कित्त्वादिकारस्य न गुणः । अदिषातामदिषत । अदिथाः अदिषाथाम् । अदिढ्वम् । अदिषीति । अदिष्वहि अदिष्महि । अदास्यदित्यपि ज्ञेयम् । श्यैङ् गतौ । श्यायते इति । शपि आयादेशः । शिद्विषत्वादात्वं नेति भावः । शश्ये इति । एशि आत्वे आतो लोपः । शश्याते शश्यिरे । क्रादिनियमादिट् । शश्यिषे शश्याथे शश्यिध्वे । शश्ये शश्यिवहे शश्यिमहे । श्याता । श्यास्यते । श्यायताम् । अश्यायताम् । अश्यायत । श्यायेत । श्यासीष्ट । अश्यास्त । अश्यास्यत । प्यैङ्धातुरपि श्यैङ्वत् । त्रैङप्येवम् । पूङ् पवने इति । पवते इति । सेट्, ऊदन्तानामनिट्सु पर्युदासात् । पवते इति । शपि गुणः । अवादेशः । पुपुवे इति । कित्त्वाद्गुणाऽभावे उवङ् । पुपुवाते पुपुविरे । पुपुविषे पुपुवाथे पुपुविध्वे । पुपुवे पुपुविवहे पुपुविमहे । पविता । पविष्यते । पवताम् । सेडयम्, अनिट्सु डीङः पर्युदासात् । डयते इति । शपि ईकारस्य गुणेऽयादेश इति भावः । डिडए डिडिवहे डिडिमहे । डयिता । डयिष्यते । डयताम् । अडयत । डयेत । डयीषीष्ट डयिषीयास्ताम् । डयिषीरन् । डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्-डयिषीध्वम् । डयिषीय डयिषीवहि डयिषीमहि । अडयिष्ट ।अडयिष्यत । इति स्मिङादयो डीङन्ता ङितः । तृधातुः सेट् परस्मैपदी । अनिट्सु ॠदन्तपर्युदासात्सेट् ।", "12018": "", "12019": "<<निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः>> - निष्ठा शीङ् ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति च । तदाह — एभ्यः सेडिति । शीङिति ङकारस्य फलमाह — अनुबन्धेति । यङ् लुकि॒श्तिपा शपे॑ति निषेधार्थ इत्यर्थः । सेश्यितवानिति । अत्र कित्त्वनिषेधाऽभावात्कित्त्वान्न गुण इति भावः । आदिकर्मणि निष्ठा वक्तव्येति । दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंऽश आदिकर्म । तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः । तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाऽभावाद्भूते विहिता निष्ठा न प्राप्तेत्यारम्भः ।", "12020": "<<मृषस्तितिक्षायाम्>> - मृषस्तितिक्षायाम् । तितिक्षा — क्षमा । सेण्निष्ठा किन्नेति — शेषपूरणमिदम् ।निष्ठा शी॑ङित्यतो निष्ठेति,न क्त्वा से॑डित्यतः सेण्नेति,असंयोगा॑दित्यतः किदिति चानुवर्तत इति भावः ।", "12021": "<<उदुपधाद्भावादिकर्मणोरन्यतरस्याम्>> - उदुपधाद्भावादिकर्मणोः । भावे उदाहरति — मुदितमित्यादि । आदिकर्मण्युदाहरति — प्रद्युतितः प्रद्योतितः साधुरिति । आदिकर्मणि कर्तरि क्तः । उदुपधात्क , विदितमिति.॒विद ज्ञानेट इति वेत्तेः रूपम् । गुध्यतेर्गुधितमिति ।गुध परिवेष्टने॑दिवादिः सेट्कः ।", "12022": "<<पूङः क्त्वा च>> - पूङः क्त्वा च ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति,निष्ठा शीङित्यतो निष्टेति च । तदाह — पूङः क्त्वा निष्ठा चेत्यादि । ननुन क्त्वा से॑डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह — क्त्वाग्रहणमुत्तरार्थमिति । तदेवोपपादयति — नोपधादित्यत्रेति । तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा ।पूङश्चे॑त्येवोक्तौ तु 'निष्ठा शी' ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः ।", "12023": "", "12024": "", "12025": "", "12026": "<<रलो व्युपधाद्धलादेः संश्च>> - रलो । क्त्वासनाविति । चकारेण पूङः क्त्वा चे॑त्यतः क्त्वाया अनुकर्षादिति भावः । सेटाविति ।न क्त्वा सेडि॑त्यतस्तदनुवृत्तेरिति भावः । वा किताविति ।नोपधात्थफान्ताद्वे॑त्यतःअसंयोगाल्लिट्कि॑दित्यतश्च तनदुवृत्तेरिति भावः । दिद्युतिषते इति । 'द्युत दीप्तौ' अनुदात्तेत् । सनि द्वित्वे कित्त्वात्द्युतिस्वाप्यो॑रित्यभ्यासस्य संप्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः । सनः कित्त्वाऽभावे आह — दिद्योतषते इति । 'पूर्ववत्सनः' इत्यात्मनेपदम् । एषिषिषतीति । इष्धातोः सन् । इट् । हलादित्वाऽभावेन कित्तवाऽभावाद्गुणे एष् इस तीति स्थितेअजादेर्द्वितीयस्ये॑ति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् । नन्विह सत्यपि कित्त्वे नित्यत्वात्परमपि गुणं बाधित्वा षिसित्यस्य द्वित्वे धात्ववयवस्य इकारस्य उपधात्वाऽभावादेव गुणाऽप्रसक्तेर्हलादेरिति व्यर्थमित्यत आह — इह नित्यमपि द्वित्वं गुणेन बाध्यते इति । कुत इत्यत आह — उपधाकार्यं हि द्वितवात्प्रबलमिति । तच्च कुत इत्यत आह — ओणेरिति । ओणेः ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः । तथाहि — ओणृधातोण्र्यन्ताल्लुङि चङि 'णौ चङ्युपधायाः' ह्रस्वस्यनाग्लोपिशास्वृदित#आ॑ मिति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् । अत्र उपधाह्रस्वनिषेधार्थमोणेरृदित्करणम् । उपधाह्रस्वे कृते तु उण् इ अ त् इति स्थिते णीत्यस्य द्वित्वे मा भवानुणिणदिति स्यात्, ओकारो न श्रूयेयेति स्थितिः । यदि तु नित्यत्वादुपधाह्रस्वत्प्रागेव ओण् इ अ त् इत्यस्यां दशायां द्वित्वं स्यात्तदा ओकारस्य उपधात्वाऽभावादेव ह्रस्वाऽप्रसक्तेस्तन्निषेदार्थमृदित्करणमनर्थकं स्यात् ।तस्मादुपधाह्रस्वात्मकमुपधाकार्यं द्वित्वात्प्रबलमिति विज्ञायते इत्यर्थः । ननु भवतु उपधाह्रस्वो द्वित्वात्प्रबलः, प्रकृते तु उपधागुणः कथं द्वित्वात्प्रबलः स्यादित्यत आह — सामान्यापेक्षेति । उपधाह्रस्वस्य उपधाह्रस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात्प्राबल्यविज्ञानादित्यर्थः । वस्तुतस्तु 'णौ चङ्युपधायाः' इति सूत्रे॒यदमोणिमृदितं करोति तज्ज्ञापयति द्विर्वचनाद्ध्रस्वत्वं बलीय॑ इति विशिष्य उपधाह्रस्वग्रहणात्सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् ।", "12027": "<<ऊकालोऽज्झ्रस्वदीर्घप्लुतः>> - तदेवमणादिसंज्ञासु सिद्धासु अचो ह्रस्वादिसंज्ञां विधत्ते — ऊकालोऽजिति । 'ह्रस्वदीर्घप्लुत' इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्षम् । उ ऊ ऊ३ इति त्रयाणां एकमात्रद्विमात्रत्रिमात्राणां द्वन्द्वसमासे सति सवर्णदीर्घेण ऊ इति प्रश्लिष्टनिर्देशः । तेषां कालः ऊकालः । कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः । ऊकालः कालो यस्येति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति द्विपदो बहुव्रीहिः । ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह — वां काल इवेत्यादिना । 'वः' इति ऊशब्दस्य प्रथमाबहुवचनम् । वामिति षष्टीबहुवचनम् । वां काल इव कालो यस्येति फलितार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहिः । क्रमादिति । यथासंख्यसूत्रलभ्यमेतत् । इहैव तत्सूत्रमुपन्यसितुमुचितम् । नच उ ऊ ऊ३ इत्युवर्णानां कथं ह्रस्वदीर्घप्लुतसंज्ञाः, तेषामूकालसदृशकालत्वाऽभावात्, सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम् । ऊ शब्दस्यात्र एकमात्रद्विमात्रत्रिमात्रकुक्कुटरुतानुकरणत्वात् । स इति । सः=ह्रस्वः दीर्घः प्लुतश्च अच्, प्रत्येकमुदात्तादिभेदेन=उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषण, त्रिधा = त्रिभिः प्रकारैर्वर्तत इत्यर्थः ।", "12028": "<<अचश्च>> - अचश्च । अच इत्यपि षष्ठन्तशब्दः स्वरूपपरः, पूर्वसूत्रे इक इतिवत् । ऊकालोऽजित्यतः 'अच्' 'ह्रस्वदीर्घप्लुत' इत्यनुवर्तते । 'इति यत्र विधीयते' इत्यध्याहार्यम् । फलितमाह — ह्रस्वेत्यादिना । 'दिव उत्' इत्यादौ तु नेदं प्रवर्तते, ह्रस्वादिशब्दानामश्रवणात् ।ह्रस्वो नपुंसके प्रातिपादिकस्ये॑त्याद्युदाहरणम् । श्रीपम् । नेह — सुपात् ब्राआहृणकुलम् ।", "12029": "<<उच्चैरुदात्तः>> - उदात्तसंज्ञामाह — उच्चैरुदात्तः । नादधर्मविशेष उच्चैस्त्वं नेह विवक्षितम्, उपांशूच्चार्यमाणे अव्याप्तेः । किन्तूच्चैश्शब्दोऽधिकरणशक्ति प्रधान ऊध्र्वभागे इत्यर्थे वर्तते । ऊध्र्वावयवस्य चावयव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते । उकालोऽजिति सूत्रादजित्यनुवर्तते, तदेतदाह-ताल्वादिष्वित्यादिना । सभागेष्विति । ताल्वादीनां सावयवत्वकथनमूध्र्वभागे इत्यस्योपपादनार्थम्, तेषामखण्डत्वे 'ऊध्र्वभागे' इत्यनुपपत्तेः । उदात्तमुदाहरति-आ ये इति । 'आये मित्रावरुणा' इत्यृचि आकार एकारश्च उदात्त इत्यर्थः ।", "12030": "<<नीचैरनुदात्तः>> - अनुदात्तसंज्ञामाह-नीचैरनुदात्तः । स्पष्टमिति उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यादिति स्पष्टार्थकमित्यर्थः । अर्वाङ् इति ।अर्वाङ् यज्ञस्संक्राम॑ इत्यृचि आद्योऽकारोऽनुदात्त इत्यर्थः ।", "12031": "", "12032": "<<तस्यादित उदात्तमर्धह्रस्वम्>> - फलितमाह — उदात्तत्वानुदात्तत्वे इत्यादिना । ननु उदात्तत्वानुदात्तत्वयोरेकस्मिन्नपि मेलने कस्मिन्भागे उदात्तत्वस्य समावेशः , कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह-तस्यादितः । तस्य = स्वरितस्य आदितः = पूर्वभागे अर्धह्रस्वमुदात्तमित्यर्थः प्रतीयते । एवं सति दीर्घस्वरिते इयं व्यवस्था न स्यात् । अत आह - ह्रस्वग्रहणतन्त्रमिति । तन्त्रं = प्रधानम् ।तन्त्रं प्रधाने सिद्धान्ते॑ इति कोशः । न विद्यते तन्त्रं वाच्यार्थलक्षणं प्रधानं यस्य तत् अतन्त्रं । अविवक्षितार्थकमित्यर्थः । ह्रस्वग्रहणं न कर्तव्यमिति यावत् । दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भावः । ततश्च फलितमाह — स्वरितस्यादितोऽर्धमुदात्तं बोध्यमिति । ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तेत्यत आह — उत्तरार्धं त्विति । ननु एवं सति अग्निमील इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तं नेत्यत आह — तस्य चेति । चकारो वाक्यालङ्कारे । तस्य अनुदात्तभागस्य उदात्तस्वरितपरत्वे उदात्तस्वरितौ परो यस्मात् सः उदात्तस्वरितपरः । तस्य भावः उदात्तस्वरितपरत्वम् । उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवणं स्पष्टं भवतीत्यर्थः । अन्यत्रेति । उदात्तस्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे, अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुतिः ऋग्वेदप्रातिशाख्ये विहितेत्यर्थः । तत्र त्वेवमुक्तम् — अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् ।उदात्तं वोच्यते किंचित्स्वरितं वाऽक्षरं परम्॥॑ — इति स्वरिते पूर्वभागस्य उदात्तत्वे सति परः शेष उत्तरभागः अनुदात्तः प्रत्येतव्यः । सः परः शेषः उदात्तश्रुतिः क्वचिद्भवति । किं सर्वत्र एवं, नेत्याह — न चेदित्यादिना । उदात्तं स्वरितं वा किञ्चिदक्षरं परं नोच्यते चेदिति योजना । तत्र अनुदात्तभागस्य स्पष्टं श्रवणमुदाहृत्य दर्शयति — केत्यादिना इत्यादिष्वनुदात्त इत्यन्तेना तत्र 'क्व' इति ह्रस्वस्वरितः । स तावत् 'वो' इत्योकारात्मकोदात्तपरकः । 'येऽरा' इत्येकारो दीर्घस्वरितः । स च 'रा' इत्याकारात्मकोदात्तपरः । 'शतचक्रं यो' इत्योकारः कम्पस्वरितः । स तु 'ह्र' इत्यकारात्मकस्वरितपरकः । इत्येवमादिप्रदेशेषु अनुदात्तभागः स्पष्टं श्रूयत इत्यर्थः । अन्यत्र तूदात्तश्रुतिरित्येतदुदाहृत्य दर्शयति-अग्निमीळे इत्यादावुदात्तश्रुतिरिति । पदकाले अग्निमित्यन्तोदात्तम् । ईळ इति अनुदात्तम् । तत्रउदात्तादनुदात्तस्य स्वरितः॑ इति संहितायामीकारः स्वरितः ।स्वरितात्संहितायामनुदात्तानाम् इत्येकारः प्रचयः । ततश्च ईकारः स्वरित उदात्तस्वरितपरको न भवतीति तदुत्तरभागस्य उदाहृतप्रातिशाख्यवचनेन उदात्ततरत्वात्मिका उदात्तश्रुतिरेव भवतीत्यर्थः । तदेवमुदात्तह्रस्वः अनुदात्तह्रस्वः स्वरितह्रस्व इति ह्रस्वस्त्रिविधः । एवं दीर्घोऽपि त्रिविधः । तथा प्लुतोऽपि । ततश्च एकैकोऽच् नवविध इति स्थितम् । स नवविधोऽपीति । उक्तरीत्या नवविधोऽपि सः = अच्, अनुनासिकत्वेन अननुनासिकत्वेन च द्विधा = द्वाभ्यां प्रकाराभ्यां वर्तते इत्यर्थः ।", "12033": "", "12034": "", "12035": "", "12036": "", "12037": "", "12038": "", "12039": "", "12040": "", "12041": "<<अपृक्त एकाल् प्रत्ययः>> - सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह — अपृक्तः । एकालिति कर्मधारयः । अत्रैकशब्दो ।ञसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । 'स्' इत्यस्याऽपृक्तसंज्ञायाम् ।", "12042": "<<तत्पुरुषः समानाधिकरणः कर्मधारयः>> - अथ कर्मधारयकार्यं वक्ष्यन्करमधारयसंज्ञामाह — तत्पुरुषः समाना । समानम्-एकमधिकरणं=वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधिकरणः, मत्वर्थीयोऽर्शाअद्यच् । समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारयसंज्ञको भवतीत्यर्थः । तत्पुरुषाधिकारे इयं संज्ञा न कृता, तथा सत्येकसंज्ञाधिकारात्कर्मधारधारयसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्याहुः ।", "12043": "<<प्रथमानिर्दिष्टं समास उपसर्जनम्>> - अत्र उपसर्जनकार्यं वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम् । ननु समासे प्रतमानिर्दिष्टमुपसर्जनमिति व्याख्याने असंभवः, समाससे सति 'सुपो धातु' इति प्रथमाया लुप्तत्वात् । समासे चिकीर्षिते प्रथमानिर्धिष्टमिति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात् । श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्यात् । अतो व्याचष्टे-समासशास्त्रै इति । समास पदं समासविधायकशास्त्रपरमिति भावः । एवंचद्वितीया श्रिते॑ति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवंचअव्यय॑मिति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्थितम् ।", "12044": "<<एकविभक्ति चापूर्वनिपाते>> - अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह-एकविभक्ति ।प्रथमानिर्दिष्टं समास उपसर्जन॑मित्यतः 'समास' इति,उपसर्जन॑मिति चानुवर्तते । 'समास' इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकंविभक्ति । नियतविभक्तिकमिति यावत् । एवंच विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकार्ये कर्तव्ये उपसर्जनं स्यादित्यर्थः । फलितमाह-विग्रहे यन्नियतेति ।निष्कौशाम्बि॑शब्द उदाहरणम् । तत्र कौशाम्ब्या निष्क्रान्तः । निष्क्रातं निष्क्रान्तेन निष्क्रान्ताय निष्क्रान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषुनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑ इति समासे निष्कौशाम्बिः निष्कौशाम्ब निष्कौशाम्बिना इत्यादीति स्थितिः । अत्रकौशाम्बी॑शब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति । समासशास्त्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति प्रथमानिर्दिष्टमित्यनेनोपसर्जनत्वाऽप्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्याऽनेन उपसर्जनत्वेऽपिनपूर्वनिपातः तत्तद्विभक्त्यन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् ।तुल्यार्थै॑रिति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इत#इअनेक॑मिति सूत्रे भाष्ये स्थितम् ।", "12045": "<<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> - अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति । तत्र ङ्याप्प्रातिपदिकादित्यधिकृतम् । किं तत्प्रातिपदिकमिति जिज्ञासायामाह — अर्थवदधातुः । अर्थोऽस्यास्तीत्यर्थवत् । नपुंसकलिङ्गनुसारात्-॒शब्दस्वरूप॑मिति विशेष्य मध्याहार्यम् । अधातुरिति, अप्रत्यय इति च तद्विशेषणम् । न धातुरधातुरिति नञ्तत्पुरुषः ।परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॑ इति पुंस्त्वम् । 'अप्रत्यय' इत्यावर्तते । प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च विवक्षितम् । पूर्ववत्पुंस्त्वम् ।संज्ञाविधा॑विति निषेधस्तुं प्रत्ययस्य यत्र संज्ञा तद्विषय इति भावः । तदाह — धातु प्रत्ययमित्यादिना । अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि । अर्थवदिति किम् । दनं वनमित्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञा मा भूत् । सत्यां हि प्रातिपदिकसंज्ञायां प्रतिवर्णं सुवुत्पत्तिः स्यात्, सङ्ख्याकारकाभावेऽपि प्रथमैकवचनस्य सोर्दुर्वारत्वात्प्रथमाविभक्तेः कारकानपेक्षत्वात्तदेकवचनस्य सङ्ख्यानवगमे ।ञपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च । नच हल्ङ्यादिना सुलोपात्प्रतिवर्णं सोरुत्पत्तावपि न क्षतिरिति वाच्यम्, एवमपि नलोपस्य दुर्वारत्वादकारात्सो रुत्वविसर्गापत्तेश्चेत्यलम् । अधातुरिति किम् । हनधातोर्लङि, तिपि, शपि लुकि, इतश्चेतीकारलोपे, अडागमे, हल्ङ्यादिलोपेऽहन्निति रूपम् । अत्र धातोः प्रातिपदिकसंज्ञायां सुबपबादे तिङि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसंज्ञायाः प्रागुत्पन्नाया अनपगमान्नलोपः स्यात् । नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम् । एवमपि प्राक्प्रवृत्तप्रातिपदिकत्वस्यानपगमात् । नचैवमपि कार्यकालपक्षे नलोपार्थं प्रातिपदिकसंज्ञायां क्रियमाणायां प्रत्यलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसंज्ञा न स्यादिति वाच्यम् । तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात्प्रातिपदिकत्वाभावे सति नलोपस्याऽप्रसक्तौ 'न ङिसंबुद्ध्योः' इति तन्निषेधवैयथ्र्यप्रसङ्गात् । नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृत्तद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ 'न ङिसंबुद्धयोः' इति निषेधो ।ञर्थवानिति वाच्यम्, उणादीनामव्युत्पत्तिपक्षे कृत्तद्धितेत्यस्याऽप्रवृत्तेः । एवं चास्मादेव निषेधात्प्रत्ययलक्षणमाश्रित्याऽप्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते । एवं च अह न्नित्यत्राप्यप्रत्ययान्तत्वात्प्रातिपदिकत्वप्राप्तौ तन्निवृत्त्यर्थमधातुग्रहणम् । अप्रत्यय इति किम् । हरिषु करोषीत्यत्र सुप्सिपोरर्थवत्त्वादप्रत्ययान्तत्वाच्च प्रातिपदिकत्वे प्राप्ते तन्निवृत्त्यर्थमप्रत्यय इति प्रत्ययपर्युदासः । नचात्र सुप्सिपोव्र्यपदेशिवद्भावेन प्रत्ययान्तत्वात्प्रत्ययान्तपर्युदासेनैव प्रातिपदिकत्वनिवृत्तिसंभवात्क प्रत्ययपर्युदासेनेति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया प्रकृतिप्रत्ययसमुदायस्यैव प्रत्ययान्ततया केवलप्रत्यययोः सुप्सिपोः पर्युदासाऽलाभात् । अप्रत्ययान्त इति किम् ।हरिषु करोषि अत्र प्रक-तिप्रत्ययसमुदाययोः प्रत्ययभिन्नत्वादर्थवत्त्वाच्च प्रातिपदिकत्वं मा भूत् ।", "12046": "<<कृत्तद्धितसमासाश्च>> - कृत्तद्धित । कृच्च तद्धितश्च समासश्चेति विग्रहः । पूर्वसूत्रात्प्रातिपदिक॑मित्यनुवर्तते, तच्च बहुवचनान्ततया विपरिणम्यते । प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तग्रहणम् । तदाह — कृत्तद्धितान्ताविति । कृत्तद्धितान्तयोः प्रत्ययान्तत्वात्पूर्वसूत्रेणा.ञप्राप्तौ कृत्तद्धितग्रहणम् । केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाऽभावात्संज्ञाविधाविति निषेधोऽत्र न भवति । अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात्प्रत्ययान्तपर्युदासः । केचित्तु अर्थवदित्यनुवर्त्त्य तत्सामर्थ्यात्तदन्तविधिमाहुः । कृदन्ते यथा — ॒कर्ता॑ 'भर्ता' इत्यादि । तद्धिते यथा — ॒औपगव॑ इत्यादि । समासे यथा — ॒राजपुरुष॑ इत्यादि । ननु समासग्रहणं व्यर्थं, समासे 'राजपुरुष' इत्यादि । ननु समासग्रहं व्यर्थं, समासे 'राजपुरुष' इत्यादिशब्दानां पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात् । न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्युदासः शङ्क्यः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याऽप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति 'न ङिसम्बुद्धयोः' इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह — पूर्वसूत्रेणेत्यादिना । नियमशरीरं दर्शयति-यत्रेति ।पूर्वो भागः पद॑मित्युपलक्षणम् ।उत्तरभागस्तु प्रत्ययो ने॑त्यपि द्रष्टव्यम् । अन्यथा जन्मवानित्यादौ प्रातिपदिकत्वं न स्यात्, स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात् । नचात्र कृत्तद्धितेति तद्धितग्रहणसामर्थ्यादेव प्रातिपदिकत्वं संभवतीति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात् । तत्र हि प्रकृतिभागो न पदम्, भत्वेन तद्बाधात् ।पूर्वो भागः पद॑मित्यनुक्तौ 'बहुपटव' इत्यत्र प्रातिपदिकसंज्ञा न स्यात् । ईषदसमाप्तावित्यनुवृत्तौविभाषा सुपो बहुच्पुरस्तात्तु॑ इति सूत्रेण 'पटव' इति प्रथमाबहुवचनान्तात्पूर्वतो बहुच्प्रत्यये कृतेऽर्थवदिति प्रातिपदिकत्वात्तदवयवजसो लुकिचितः सप्रकृतेर्बह्वजर्थ॑मिति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि 'बहुपटव' इति रूपम् । अत्र टकारादकार उदात्त इति स्थितिः । जसन्तात्पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वा.ञभावे तु ततो जसन्तरं नोत्पद्येत । नचेष्टापत्तिः, तथ#आ सति बहुच्प्रकृतिभूतजसन्ते जसःप्रातिदिकावयवत्वा.ञभावेन॒सुपो धातुप्रातिपदिकयो॑रिति लुगभावाद्बहुपटव इति जसन्तस्यैव बहुच्प्रक-तितया चितस्सप्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात् । इष्यते तु टकारादुत्तरस्य । 'बहुपटव' इति समुदायस्य प्रातिपदिकावयवत्वाज्जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः । नियमस्य फलमाह — तेनेति । उक्तनियमेनेत्यर्थः । अन्यथादेवदत्त गामभ्याज शुक्लां दण्डेने॑त्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुक् स्यात् । न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादिति भावः । कृत्तद्धितसमासाश्चेति चकारोऽनुकसमनुच्चयार्थः । तेननिपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये॑ति वार्तिकं गतार्थम् ।", "12047": "<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> - अथ आदन्ताः । श्रियं पातीति श्रीपाशब्दो विआपाशब्दवद्विजन्तः क्विबन्तो वा । तस्य न पुंसकत्वे ह्रस्वविधानमाह — ह्रस्वो नपुंसके । ह्रस्वश्रुत्योपस्तितेनाऽच इत्यनेन प्रातिपदिकस्य विशेषणात्तदन्तविधिरित्याह — क्लीब इत्यादिना । नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणादजन्तप्रातिपदिकत्वाद्ध्रस्वः स्यादिति वाच्यम्, अर्थवदधातुरित्यतः प्रातिपदिकग्रहणानुवृत्तौ पुनः प्रातिपदिकग्रहणेनाऽन्तवद्भावतः प्रातिपदिकत्वे ह्रस्वाऽभावबोधनात् । ज्ञानवदिति । ह्रस्वविधानाद्दीर्घान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः ।जश्शसोः शिः॑ । श्रीपाणीति रूपम् । भिन्नपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वप्रवृत्तेः । श्रीपेण । इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात्स्यादेव णत्वम् । श्रीपायेति । श्रीपाशब्दस्य 'ह्रस्वो नपुंसके' इति ह्रस्वत्वे ङेर्यादेशेसुपि चे॑ति दीर्घे रूपम् । संनिपातपरिभाषा तु कष्टायेति निर्देशान्न प्रवर्तत इति प्रागुक्तम् । नन्वत्र ह्रस्वत्वे कृतेऽपिपे॑त्यस्य एकदेशविकृतन्यायेन धातुत्वानपायाद्दीर्घे कृते आकारान्तत्वाच्च 'आतो धातोः' इत्याल्लोपः स्यात्, यादेशस्य स्वतो यकारादितया स्थानिवत्त्वेन स्वादिप्रत्ययतया च तस्मिन् परे भत्वस्यापि सत्त्वादित्यत आह-अत्र संनिपातेति । ननूपजीव्यविघातकं प्रति उपजीवकं निमित्तं न भवतीति संनिपातपरिभाषया लभ्यते । प्रकृतेच अदन्तमुपजीव्य प्रवृत्तस्य यादेशस्य आल्लोपं प्रति कथं न निमित्तत्वम् । यादेशस्य आकारमुपजीव्य प्रवृत्तत्वाऽभावेन आकारलोपं प्रति निमित्तत्वे बाधकाऽभावादिति चेत्, मैवम्-यादेशस्तावद्ध्रस्वमवर्णमुपजीव्य प्रवर्तते, तद्विधावत इत्यनुवृत्तेः । ततश्च ह्रस्वत्वमवर्णत्वं च समुदितं यादेशस्योपजीव्यम् । तत्र कष्टायेति निर्देशात्संनिपातपरिभाषां बाधित्वा कृते ।ञपि दीर्घे ह्रस्वत्वांश एव निवृत्तः । अवर्णत्वांशस्त्वनुवृत्त एव । तस्याप्याल्लोपेन निवृत्तौ उपजीव्यविघातः स्यादेवेति भवेदेव संनिपातपरिभाषाविरोधः । अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् 'इको गुणवृद्धी' इत्यत्र । वस्तुतस्त्वातो धातोरित्यत्र लक्षणप्रतिपदोक्त परिभाषया प्रतिपदोक्त एवाकारान्तदातुर्गृह्रते । इह तु पाधातोह्र्यस्वत्वे तु पुनर्दीर्घे सति अवगम्यमानं पास्वरूपं लाक्षणिकमेवेति न तस्यात्र ग्रहणमित्यास्तां तावत् । इत्यादन्ताः ।", "12048": "<<गोस्त्रियोरुपसर्जनस्य>> - प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात्समासविधौ प्रथमानिर्दिष्टत्वाऽभावेऽपि अनेनोपसर्जनत्वं भवति । पूर्वनिपातस्तु न भवतीति स्थितम् । गोस्त्रियोः ।ह्रस्वो नपुंसके प्रातिपदिकस्ये॑त्यतो 'ह्रस्व' इतिप्रातिपदिकस्ये॑ति चानुवर्तते । उपसर्जनस्येति गोस्त्रिर्विशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशब्देन स्त्रीप्रत्ययो गृह्रते । प्रत्ययग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम् । तेन तदन्तविधिः । तदाह — उपसर्जनमित्यादिना । अत्र च शास्त्रीयमेवोपसर्जनं गृह्रते,न त्वप्रधानमात्रं, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राआहृणः कुमारीत्यत्रातिप्रसङ्गात् । अव्ययीभावश्चेत्यव्ययत्वमिति ।", "12049": "<<लुक् तद्धितलुकि>> - लुक्तद्धितलुकि । प्रथमस्य द्वितीये इदं सूत्रम् । उपसर्जनस्त्रीप्रत्ययस्येति ।गोस्त्रियोरुपसर्जनस्ये॑त्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति । ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः ।लुक्तद्धितलुकी॑त्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम्, असंभवादिति भावः । फल्गुन इति । फल्गुन्योर्जात इत्यर्थः । णो लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातोऽनुराधः । नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एवमग्रे लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातोऽनुराधः । नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एवमग्रेऽपि ।अनुराधान् हविषा वर्धयन्तः॑ इत्यादौ छान्दसं पुंस्त्वम् । स्वात्यां जातः-स्वातिः । तिष्ये जातस्तिष्यः । पुनर्वस्वोर्जातः — पुनर्वसुः । पस्ते जातो-हस्तः । विशाखयोर्जातो-विशाखः । अषाढासु जातोऽषाढः । बहुलासु जातो बहुलः । चित्रेति । चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः । रेवती रोहिणीति । जातायां नक्षत्राऽणो लुकि सति प्रकृतेर्गौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्ङीष् । ननु 'रेवती नक्षत्रे' 'रोहिणी नक्षत्रे' इति गौरादौ पाठादिह जातार्थवृत्तिभ्यां कतं ङीषित्यत आह — आभ्यामिति । रेवतीरोहिणीशब्दाभ्यामित्यर्थः ।परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्ये॑ति शेषः । आकृतिगणत्वादिति । स्त्रीत्वविशिष्टजातार्थवृत्त्योरनयोः पिप्पल्यादौ निवेसे बाष्योदाहरणमेव प्रमाणम् । स्त्रियामित्येवेति । तथा भाष्यादिति भावः । फल्गुनी, आषाढा इत्याभ्यां क्रमाट्टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः । फल्गुनीति । फल्गुन्योर्जातेत्यर्थः । नक्षत्राऽणोऽपवादष्टप्रत्ययः ।यस्येति चे॑ति ईकारलोपः । जातार्थस्त्रीत्वे टित्त्वान्ङीप् । अषाढेति । अषाढासु जातेत्यर्थः । नत्रत्राऽणोऽपवादोऽन् । 'यस्येति च ' इत्याकारलोपः । जातार्थे स्त्रीत्वे टाप् । 'श्रविष्ठाफल्गुनी' त्यादिना टाऽनोर्लुक् तु न, विधानसामर्थ्यात् । छण्वक्तव्य इति । नक्षत्राऽणोऽपवादः । विधिसामर्थ्यादस्यापि न लुक् । अस्त्रियामपीति । अत्र स्त्रियामिति न संबध्यते, भाष्ये तथोदाहरणादिति भावः । श्राविष्ठीय इति । श्रविष्ठासु जात इत्यर्थः । छण् । ईयःयस्येति चे॑त्याकारलोपः । णित्त्वादादिवृद्धिः । आषाढीय इति । अषाढासु जात इत्यर्थः ।", "12050": "<<इद्गोण्याः>> - इद्गोण्याः । लुकोऽपवाद इति ।लुक्तद्धितलुकी॑ति प्राप्तस्येत्यर्थः । पञ्चगोणिरिति । आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः । नच उपसर्जनह्रस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावेसुक्तद्धितलुकी॑ति ङीषो निवृत्तावदन्तत्वाट्टापि पञ्चगोणेत्यापत्तेः । मूलद्रव्यवाचिन एव तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतुदेवदत्तेन क्रीत॑मित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम् ।", "12051": "<<लुपि युक्तवद्व्यक्तिवचने>> - लुपि यक्तवत् । प्रकृतिभूतः शब्दः=युक्तः, व्यक्तिः=लिङ्गं, वचनं=सङ्ख्येति पूर्वाचार्यसङ्केतः । तदाह — लुपि सति प्रकृतिवल्लिङ्गवचने स्त इति ।लु॑बिति प्रत्ययाऽदर्शनमुच्यते । लुपः प्रवृत्तेः प्राक्प्रत्ययप्रकृतेर्यल्लिङ्गं वचनं ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः । पञ्चालानामिति । पञ्चालसंज्ञकानां राज्ञामित्यर्थः । पञ्चाला इति । 'तस्य निवास' इति विहितस्याऽणःजनपदे लु॑बिति लुपि प्रकृतिबद्बहुवचनमिति भावः । कुरव इत्यादि । कुरूणाम्, अङ्गाना, वङ्गानां, कलिङ्गानां च निवासो जनपद इति विग्रहः । लिङ्गातिदेशे तुकटिबदर्या अदूरभवो जनपदः कटुबदरी॑त्युदाहार्यम् ।", "12052": "<<विशेषणानां चाजातेः>> - विशेषणानां चाजातेः । कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह — लुबर्थस्येति । तद्वदिति । प्रकृतिवदित्यर्थः ।लुपि युर्तवद्व्यक्तिवचने॑ इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति । पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रममीयशब्दस्य प्रकृतिवद्बहुवचनम् । गोदौ रमणीयाविति । गोदयोर्निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद्द्विवचनम् । पञ्चाला जनपद इति । जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम् । गोदौ ग्राम इति । अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद्द्विवचनम् । हरीतक्यादिषु व्यक्तिरिति । वार्तिकमिदम् ।लुपि लिङ्गं प्रकृतिवद्भवति, न तु वचन॑मिति शेषः । हरीतक्य इति ।हरीतक्यादिभ्यश्चे॑ति विकारप्रत्ययस्य लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः ।खलतिकादिषु । वार्तिकमिदम् । एषु लुपि प्रकृतिवद्वचनमेव भवति, नतु लिङ्गमित्यर्थः । खलतिकं वनानीति ।वरणादिभ्यश्चे॑ति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुंलिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति । वार्तिकमिदम् ।मनुष्यलक्षणे इति । मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः । चञ्चा अभिरूप इति । चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यश्चञ्चा । 'इवे प्रतिकृतौ' इत्यधिकारेसंज्ञाया॑मिति कनो 'लुम्मनुष्ये' इति लुप् । अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वं, न तु तद्विशेषणस्याऽभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् ।", "12053": "<<तदशिष्यं संज्ञाप्रमाणत्वात्>> - तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे — तदशिष्यं । यथा 'दाराः' इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानं, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसङ्ख्याविशिष्टस्यैव स्वार्थस्य सोकव्यवहारादेव भानं संभवति, न तु तदंशे शास्त्रव्यापारापेक्षेति भावः । संज्ञानामिति । लोकव्यवहाराणामित्यर्थः ।", "12054": "<<लुब्योगाप्रख्यानात्>> - एवंच सुवपि न विदे इत्याह — लुव्योगाप्रख्यानात् ।अशिष्य॑मित्यनुवृत्तं पुंलिङ्गेन तविपरिणतंलु॑वित्यनन्तरं संबध्यते । तदाह — लुबपि न कर्तव्य इति । योगः=अवयवार्थः, तस्य — अप्रख्यानात्प्रतीतेरित्यर्थः । तदाह — अवयवेति । नहि पचालाङ्गवङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः ।", "12055": "<<योगप्रमाणे च तदभावेऽदर्शनं स्यात्>> - प्रत्ययस्वीकारे बाधकमाह — योगप्रमाणे च । पञ्चालाऽङ्गवङ्गादिशब्देषु योगस्य=अवयवार्थस्य प्रमापकत्वे सति तदभावे=पञ्चालाङ्गादिक्षत्रियसम्बन्धाऽभावे संप्रति शूद्रादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्यते, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा जनपदविशेषेषु केवरूढा इति युक्तमित्यर्थः । तदाह-यदि हि योगस्येति ।", "12056": "<<प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्>> - अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे — प्रधानप्रत्ययार्थ । प्रत्ययार्थ इति ।प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण॑मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः ।", "12057": "<<कालोपसर्जने च तुल्यम्>> - कालोपसर्जने च । कालश्च उपसर्जनं चेति समाहारद्वन्द्वाद्विषयसप्तमी ।अशिष्य॑मित्यनुवृत्तं भावप्रधानमाश्रीयते । कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं, तत्राप्यशिष्यत्वं समानमित्यर्थः । तद्विशेषवचनं विशदन्यञ्याचष्टे-अतीताया इत्यादिना ।", "12058": "<<जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्>> - जात्याख्यायाम् । आकृत्यधिकरणमन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः । जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः । तथा सति 'ब्राआहृणा भोज्या' इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानः शब्दो बहूनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति । बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः ।", "12059": "<<अस्मदो द्वयोश्च>> - अस्मदो द्वयोश्च । सविशेषणस्येति ।त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमान्नोन्नताः॑ इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम् ।", "12060": "<<फल्गुनीप्रोष्ठपदानां च नक्षत्रे>> - फल्गुनी । 'नक्षत्रे' इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह — द्वित्वे इति । पूर्वं प्रोष्ठपदे इति । स्त्रीत्वादौङः शीभावः ।प्रोष्ठपदा भाद्रपदा स्त्रिया॑मित्यमरः । फल्गुन्यौ माणविके इति । फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः' इत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थेफल्गुन्यषाढाभ्यां टाऽनौ॑ इति टः । टित्त्वान्ङीप् ।", "12061": "", "12062": "", "12063": "<<तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्>> - तिष्यपुनर्वस्वो । विशाखानुराधा इति । विशाखे च अनुराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति । तिष्यश्च पुनर्वसू चेति विग्रहः । तिष्यशब्दात्पुनर्वसुशब्दाच्च 'नक्षत्रेण युक्तः' इत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थे सन्धिवेलाद्यण् ।श्रविष्ठाफल्गुनी॑त्यादिना लुक् ।जात्याख्याया॑मित्यादिचतुःसूत्र्या अत्र सङ्गतिश्चिन्त्या ।", "12064": "<<सरूपाणामेकशेष एकविभक्तौ>> - अथ प्रातिपदिकार्थगतद्वित्वादिविक्षायां प्रातिपदिकस्य द्वित्र्यादिप्रयोगप्राप्ताविदमारभ्यते — सरूपाणाम् ।एकविभक्ता॑विति 'सरूपाणा' मित्यत्रान्वेति । समानं रूपं येषां तानि सरूपाणि । ज्योतिर्जनपदेत्यादिना समानस्य सभावः । निर्धारणषष्ठी ।वृद्धो यूने॑त्युत्तरसूत्रादेवेत्यपकृष्यते । शिष्यते इति शेषः । कर्मणि घञ् । एकश्चासौ शेषश्चेति पूर्वकालैकेति समासः । एकस्यां विभक्तौ परतः सरूपाणामेव दृष्टानां मध्ये एकः शिष्यते इति फलति । तदाह — एकविभक्ताविति । एवेति कम् । मातृशब्दस्तावज्जननीवाची परिच्छेतृवाची च । त्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि, औजसादिषु मातरौ माताराविति वैरूप्यदर्शनान्नैकशेषः । यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोः सारूप्येणैव दर्शनमस्ति । तथापि एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानित्यर्थो विवक्षितः । एतद्दयोतनायैव एकविभर्तावित्यत्रएक॑ग्रहणम् । एवकारापकर्षसिद्धार्थकथनपरमेकग्रहणं स्पष्टार्थमेवेति केचित् । 'एकशेष' इत्येकपदोपादानं तु द्विबहूनामपि शेषो मा भूदित्येतदर्थम् । 'शेष' पदानुपादाने तु सरूपाणां स्थाने एक आदेशः स्यात् । ततश्च अआश्च अआश्चेति द्वयुदात्तवतः स्थाने द्व्युदात्तवानादेशः स्यात् । तन्निवृत्त्यर्थं शेषग्रहणम् । एकविभक्ताविति सारूप्ये उपलक्षणम् । न तु एकविभक्तौ परतः एकशेषो भवतीति व्याख्यानमुचितम्, जननीपरिच्छेत्तृवाचिनोरेकशेषापत्तेरित्यादि प्रपञ्चितं प्रौढमनोरमायाम् । अत्रतिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे ॑ इति पूर्वसूत्राद्द्वन्द्व इत्यनुवर्त्त्य द्वन्द्वे प्रसक्त इति व्याख्येयम् । ततश्च 'देवदवः' 'राजराज' इत्यादौ नैकशेषः । द्वन्द्वापवाद एकशेष इति फलितम् । यद्यप्यनैमित्तिकत्वादन्तरह्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते, तथापि द्वन्द्वापवाद एवायम् । असति ह्रेकशेषे सुबुत्पत्तिः, पक्षे द्वन्द्वश्च स्यात् । सति तु अनेकसुबन्तीविरहाद्द्वन्द्वस्याऽप्राप्तिः फलिता । घटश्च घटश्च घटश्च तेषां समाहार इति समाहारद्वन्द्वविषये तु नास्य प्रवृत्तिः, अनभिधानात् । द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम् । 'पन्थान' इत्यादौ ऋक्पूरित्यादिसमासान्तापत्तेः । करावित्यादौद्वन्द्वश्च प्राणितूर्ये॑त्याद्यापत्तेः । पूर्वसूत्रादिह द्वन्द्वग्रहणानुवृत्तौ चइदितो नुम्धातो॑रित्यत्र 'इदित' इति निर्देशो लिङ्गम् । इत्िकार इत्संज्ञको यस्य स इदित् । अत्र इच्छब्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाऽभावान्नैकशेषः । अन्यथा तत्राप्येकशेषः स्यादित्यलम् । राम औ इति स्थिते प्रक्रियां दर्शयति-प्रथमयोरित्यादिना । वृदिंध बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते आह-नादिचीति । तस्मिन् प्रतिषिद्धे सति वृद्धेः प्रवृत्तौ रामौ इति रूपमित्यर्थः ।", "12065": "<<वृद्धो यूना तल्लक्षणश्चेदेव विशेषः>> - वृद्धो यूना । रूपतोऽर्थश्च भेदेऽपि प्राप्त्यर्थमिदम् । यूनेति ।जीवति तु वंश्ये युवे॑ति वक्ष्यमाणयुवप्रत्ययान्तेनेत्यर्थः । सहोक्ताविति । अध्याहारलब्धमेतत् । गोत्रमिति । वृद्धशब्देनअपत्यं पौत्रप्भृति गोत्र॑मिति सूत्रोक्तं गोत्रं विवक्षितम् ।अपत्यमन्तरिति वृद्ध॑मिति पूर्वाचार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्त॑मिति यावत् । न चगोत्रं यूने॑त्येव कुतो न सूत्रितमिति वाच्यम्,अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिकं गोत्रं विवक्षितमिति सिद्धान्तज्ञापनार्थत्वात् । शिष्यत इति । शेष इति कर्मणि घञन्तमनुवर्तत इति भावः । तल्लक्षण इति । स=गोत्रप्रत्ययो युवप्रत्ययश्च, लक्षणं=निमित्तं यस्येति विग्रहः । विशेषः=वैलक्षणम् । तथाच गोत्रयुवप्रत्ययान्तयोर्विशेषः=वैरूप्यम्, तल्लक्षणश्चेत्=गोत्रयुवप्रत्ययनिमित्तकश्चेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थः सिद्धः । तदाह — गोत्रयुवेति । कृत्स्नमिति । एवकारलभ्यमिदम् । गाग्र्यश्चेति । गर्गस्य गोत्रपत्यं गार्ग्यः ।गर्गादिभ्यो यञ् । गाग्र्यायण इति । गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापत्यं युवा गाग्र्यायणः ।यञिञोश्चे॑ति फक् । गाग्र्याविति । अत्र गाग्र्यशब्दस्य गाग्र्यायणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यमिति गोत्रप्रत्ययान्तो गाग्र्यशब्दः शिष्यत इति भावः । गर्गगाग्र्यायणाविति । गर्गश्च गाग्र्यायणश्चेति विग्रहः । अत्र गर्गशब्दस्य गाग्र्यायणशब्दस्य च युवप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तत्वाऽभावान्नैकशेष इति भावः । गर्गगाग्र्याविति । अत्र गर्गशब्दस्य गाग्र्यशब्दस्य च गोत्रप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तो गाग्र्यशब्दो न शिष्यते, यूना सहोक्त्यभावादिति भावः । भागवित्तिभागवित्तिकाविति । भगवित्तस्य गोत्रापत्यं भागवित्तिः । अत इञ् । भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः ।वृद्धाठ्ठक् सौवीरेषु॑ इति ठक् । अत्र भागवित्तिशब्दस्य च न [गोत्र]युवप्रत्ययमात्रकृतं वैरूप्यं, कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रप्रत्ययान्तो भागावित्तिशब्दो न शिष्यत इति भावः । गाग्र्यवात्स्यायनाविति । गर्गस्य गोत्रापत्यं गार्ग्यः, वत्सस्य गोत्रापत्यं वात्स्यः । गर्गादित्वाद्यञ् । वत्सस्यापत्यं युवा वात्स्यायनः ।यञिञोश्चे॑ति फक् । गाग्र्यश्च वात्स्यायनवश्चेति विग्रहः । अत्र गाग्र्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यं, प्रकृतिवैरूप्यस्य गोत्रयुवप्रत्ययमात्रकृतत्वाऽभावात् । अतो गोत्रप्रत्ययान्तो गाग्र्यशब्दो न शिष्यत इति भावः ।", "12066": "<<स्त्री पुंवच्च>> - स्त्री पुंवच्च ।वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते । तदाह — यूना सहोक्तौ वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् सत्त्वात् पूर्वेणाऽप्राप्ते वचनमिदम् । तदर्थ इति । तस्य=शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गर्गी चेति । गर्गस्यापत्यं स्त्रीत्यर्थः । गर्गादियञन्तात्यणश्चे॑ति ङीप् । गाग्र्यायणौ चेति । गर्गाद्यञन्ताद्यून्यपत्येयञिञोश्चे॑ति फक् । गर्गा इति । अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते । स पुंवत् । कर्हि यञ् कितो न श्रूयत इत्यत आह — अस्त्रियामितीति । उपलक्षणमिदम् ।तद्राजस्य बहुषु तेनैवास्त्रियामि॑त्यतोऽस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः । एतेनपुंव॑दित्यतस्य प्रयोजनमुक्तम् । गार्गी च गाग्र्यायणश्चेति विग्रहस्तु न दर्शितः । तता सत्यबहुत्वाद्यञो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यं — गाग्र्याविति । तत्र पुंवत्त्वं निरर्थकं स्यात् । उदाहरणान्तरमाह — दाक्षी चेति । दक्षस्य गोत्रा पत्यं स्त्री दाक्षी ।अत इञि॑तीञन्तात्इतो मनुष्यजाते॑रिति ङीष् । दाक्षायणश्चेति । दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः ।यञिञोश्चे॑ति फक् । दाक्षी च दाक्षीयणश्चेति विग्रहे दाक्षीशब्दः शिष्यते । तस्य पुंवत्त्वे निरर्थकं स्यात् । उदाहरणान्तरमाह — दाक्षी चेति । दक्षस्य गोत्रापत्यं स्त्री दाक्षी ।अत इञि॑तीञन्तात्इतो मनुष्यजाते॑रिति ङीष् । दाक्षायणश्चेति । विग्रहे दाक्षीशब्दः शिष्यते । तस्य पुंवत्त्वे सति ङीषो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचनेदाक्षी॑इति भवति । अत्र तल्लक्षणश्चेदेव विशेष इत्यप्यनुवर्तते । ततश्च भागवित्ती च भागवित्तिकश्च, गर्गी च वात्स्याययनश्चेत्यत्र न भवति ।", "12067": "<<पुमान् स्त्रिया>> - पुमान्स्त्रिया । तल्लक्षण एवेति ।वृद्धो यूने॑त्यतस्तदनुवृत्तेरिति भावः । हंसी चेति । अत्र पुंस्त्वस्त्रीत्वमात्रकृतवैरूप्यात् पुंलिङ्गो हंसशब्दः शिष्यते । स्त्रीत्वपुंस्त्वकृतवैरूप्यादेवसरूपाणामि॑त्यस्याऽप्राप्तिः । मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवाचकमातृशब्दयोस्तु नायमेकशेषः, एकविभक्तो सरूपाणामित्यनुवत्र्य एकविभक्तौ सरूपाणां स्त्रीत्वपुंस्त्वेतरकृतवैरूप्यरहितानामित्याश्रयणात् । इह च मातरावित्यत्रअप्तृ॑न्निति दीर्घतदभावाभ्यामपि वैरूप्यात् ।अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम् ।", "12068": "<<भ्रातृपुत्रौ स्वसृदुहितृभ्याम्>> - भ्रातृपुत्रौ । स्वसृदुहितृभ्यां सहोक्तौ क्रमात् भ्रातृपत्रौ शिष्यते । स्वरूपतोऽपि वैरूप्यादप्राप्तौ वचनम् ।", "12069": "<<नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्>> - नपुंसकम् । अन्यतरस्याङ्ग्रहणमेकवदित्यनेनैवान्वेति, आनन्तर्यात्, नत्वेकशेषेणेत्याह — तच्चेति । तल्लक्षण एवेति । नपुंसकत्वाऽनपुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः । शुक्लः पटः शुक्ला शाटी शुक्ल वस्त्रमिति । पटशब्दसमभिव्याहाराच्छुक्लशब्दः पुंलिह्गः, शाटीशब्दसमभिव्याहारात्स्त्रीलिङ्गः, वस्त्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः,गुणे शुक्लादयः पुंसि गुणिलिह्गास्तु तद्वती॑त्यमरोक्तेरिति भावः । स च सा च तच्च तत् ।अयं च इयं च इदं च इदम् । शुक्लश्च शुक्ला च शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते एकवच्चा भवन्ति॥ तानीमानि शुक्लानीति । नपुंसकत्वे एकशेषे सति एकवत्त्वाऽभावे रूपाणि । न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहाद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वादेकवदिति व्यर्थमिति वाच्यम्, अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन ओदनश्च ओदनं च तयोः समाहारे ओदनमिति न भवति । ओदनशब्दो ह्रर्धर्चादिः । ओदनश्च ओदनं चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति न, अनभिधानात् । एवंच । क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं च#आश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् ।", "12070": "", "12071": "<<श्वशुरः श्वश्र्वा>> - नन्वस्तु हल्सूत्रे लकारस्य इत्संज्ञा । ततः किमित्यत आह — आदिरन्त्येन सहेता । अन्ते भवः अन्त्यः । तेन इता सहोच्चार्यमाणः आदिः अण् अच् इत्यादिरूपः संज्ञेत्यर्थः । तत्रयस्मात्पूर्वं नास्ति परमस्ति स आदिः, यस्मात्परं नास्ति पूर्वमस्ति सोऽन्तः॑ इति आद्यन्तवत्सूत्रे भाष्यम् । तदिहाद्यन्तशब्दाभ्यां मध्यगा आक्षिप्यन्ते । अतस्तेषां संज्ञेति लभ्यते ।स्वं रूपं॑मिति पूर्वसूत्रात्स्वमित्यनुवर्तते । तच्च षष्टयन्ततया विपरिणम्यते । तदेतदाह — अन्त्येनेतेत्यादि । स्वस्य चेति । अत्र च स्वशब्देन संज्ञाकोटि प्रविष्ट आदिरेव परामृश्यते, नत्वन्त्योऽपि, अन्त्येनेति तृतीयया 'सहयुक्तेऽप्रधाने' इति विहितया तस्य अप्राधान्यावगमात्, सर्वनाम्नां चोत्सर्गतः प्रधानपरामर्शित्वात् । न च इक् उक् इच् यय् मयित्यादिप्रत्याहाराः कथं स्युः, इकारादीनामादित्वाऽभावादिति वाच्यं, न हि सूत्रापेक्षमिहादित्वं किंतु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् । ततश्च ऐउणिति इकारमारभ्य ॠलृगिति ककारपर्यन्तं वर्णसमुदायं बुद्ध्या परिकल्प्य तदादित्वमिकारस्य संभावनीयम् । एवमिजादिष्वपि । तथा अन्त्यत्मपि बुद्धिकल्पितसमुदायापेक्षमेव न तु सूत्रापेक्षम् । ततश्च रप्रत्याहारः सुग्रहः । अन्यथा लण्सूत्रे अकारस्याऽन्त्यात्वाभावात्स न स्यात् । अत्र आद्यन्तशब्दयोरन्यतराऽभावे मध्यगानामिति न लभ्येत । आदिरित्यस्याऽभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्णोऽन्त्यात्प्राग्भाविनां वर्णानां संज्ञेत्येव लभ्येत । ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहणं स्यात्, अन्त्यलकारात्पूर्वभावित्वाविशेषात् । अन्त्येनेत्यस्याऽभावे तु आदिरिता सहोच्चार्यमाण आदिरूध्र्वभाविनां वर्णानां संज्ञेत्येव लभ्येत । ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्तिः, आदेरकारादूध्र्वभावित्वाऽविशेषात् । उभयोरुपादाने तु मध्यगानामिति लभ्यते इत्यदोषः । परस्मिन् सति यस्मात्पूर्वो नास्ति स आदिः, पूर्वस्मिन् सति यस्मात्परो नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मध्यगाऽविनाभूतत्वेन ताभ्यां मध्यगानामाक्षेपात् । यद्यपि द्वयोरप्याद्यन्तशब्दौ संभवतः, उक्तनिर्वचनाऽविरोधात्, तथापि नेह द्वयोराद्यन्तशब्दौ भवतः । तथा सति हि अन्त्येनेता सह उच्चार्यमाण आदिः स्वस्य आदेः संज्ञेत्येव लभ्येत, उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शाऽसंभवात् । ततश्च उणित्युकारस्य संज्ञेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसंज्ञाविधानं व्यर्थमापद्येत, गौरवात्, प्रत्याहाराणां व्यवहारलाघवार्थत्वात् । अतो मध्यमसत्त्व एवाऽत्र आद्यन्तशब्दाविति ताभ्यां मध्यगानामिति लभ्यते । इतेति किम् । अम्प्रत्याहारो ञमङणेति मकारेण मा भूत् । नचैवमपि सुट्प्रत्याहारः 'टा' इति टकारेण किं न स्यात्, टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमातिक्रमणे कारणाऽभावेन सुट्प्रत्याहारस्य औटष्टकारेणैव ग्राह्रत्वात् । उक्तं च जैमिनिना — ॒प्रथमं वा नियम्येत कारणस्यानतिक्रमात् ।॑ इति । विस्तरभयाद्विरम्यते । इति हल्संज्ञायामिति । हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्तप्रथमसूत्रेण इत्संज्ञायां सत्यामादिरन्त्येनेति हल्संज्ञासिद्धौ चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानां हल्त्वं सिद्धमित्यर्थः ।", "12072": "<<त्यदादीनि सर्वैर्नित्यम्>> - त्यदादीनि । सर्वैरिति । त्यदादिभिरितरैश्चेत्यर्थः । ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तद्देवदत्ताविति न भवति ।सर्वैः किम् । प्रत्यासत्त्या त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदित्येतदर्थम् । त्यदादीनां मिथ इति । भाष्ये स्थितमेतत् । यत्परमिति । त्यदादिगणे यत्परं पठितं तच्छिष्यत इत्यर्थः । शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूध्र्वं पाठात् परत्वात्स एव शिष्यते इति भावः, पूर्वशेषोऽपीति । परशब्दस्येष्टवाचित्वात्क्वचित्पूर्वमपि शिष्यत इति । भावः । अत्रद्विपर्यन्ताना॑मिति न भवति । अहं च भवांस्चावामिति भाष्योक्तेः । त्यादादित इति । आद्यादित्वात्षष्ठर्थे तसिः । त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितेषु यः पुमान् यच्च नपुंसकं यद्वशेन लिङ्गप्रतिपादकानि भवन्तीत्यर्थः । कानीत्याकाङ्क्षायामर्थांत्त्यदादीन्येव सम्बध्यन्ते । सा च देवदत्तश्च ताविति । अत्र तच्छब्दः शिष्यते, समभिव्याह्मतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुंनपुंसकयोरिति ।सहोक्ता॑विति शेषः । परत्वादिति । पुंनपुंसकतो लिङ्गवचनानी॑त्यत्र पुंमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः । अद्वन्द्वेति । द्वन्द्वतत्पुरुषविशेषणानां त्यदादीनां स्त्रीशेषेत्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी॑त्येतन्न भवतीत्यर्थः । द्वन्द्व उदाहरति — कुक्कुटमयूर्याविमे इति ।अयं च इयं च इमे॑इत्यत्र 'त्यदादितः शेषे' इति पुंलिङ्गत्वं न भवति, किंतु विशेष्यनिघ्नतैव विशेषणस्येति बोध्यम् । न च अयं च इयं च इत्यत्र स्त्रीशेष एव न भवति,पुमान् स्त्रिये॑त्युक्तत्वात्, अतः पुंनपुंसकतो लिङ्गविधेः प्रसक्तिः कथमिति वाच्यं,परवल्लिङ्ग॑मिति हि द्वन्द्वतत्पुरुषार्थयोः परवल्लिङ्गविधिः । अतो द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गमिति भाष्यकैयटयोः स्थितम् । ततश्चकुक्कुटमयूर्याविमे॑इति उदाहरणे — अयं च इयं चेति विग्रहेपुमान् स्त्रिया॑ति पुंशेषेऽपिपरवल्लिङ्ग॑मिति विशेषणत्वात्स्त्रीलिङ्गत्वे सति तस्य 'त्यदादितः' इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः । क्वचिन्मूलपुस्तकेषु तुमयूरीकुक्कुटाविमा॑वित्यपि दृश्यते, तत्तुत प्रकृतानुपयुक्तम्, त्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि 'पुमान् स्त्रिया' इति परिशिष्टस्य पुंलिङ्गस्य इदम्शब्दस्य स्त्रीत्वाऽप्रसक्त्या तत्र 'त्यदादितः शेषे' इति पुंस्त्वविधेरप्रवृत्तत्वेनअद्वन्द्वतत्पुरुषविशेषणाना॑मिति निषेधस्यानुपयोगात् । तत्पुरुषे उदाहरति — तच्चेति । पिप्पल्या अर्धम् — अर्धपिप्पली ।अर्धं नपुंसक॑मिति तत्पुरुषः । अर्धपिप्पली च पिप्पल्यर्धं च-अर्धपिप्पल्यौ । तच्च सा च ते । तत्र पिप्पल्यर्धंशब्दविशेष्याभिप्रायंत॑दिति नपुंसककत्वम् ।से॑ति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्रपुमान् स्त्रिये॑त्यस्य नैव प्रसक्तिः, किन्तुनपुंसकमनपुंसकेनैकव॑दिति नपुंसकं शिष्टम् । तत्रपरवल्लिङ्ग॑मिति स्त्रीत्वम् । तस्य स्त्रीलिङ्गतया तद्विशेषणस्यापिपरवल्लिङ्ग॑मिति स्त्रीत्वम् । तस्य 'त्यदादितः शेषे' इति नपुंसकत्वं प्राप्तं निषिध्यते । एवंच 'ते' इति स्त्रीलिङ्गमेव सिध्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा 'ते' इति द्विवचनस्य न कोऽपि विशेषः, तथाप्यर्धपिप्पल्यस्ता इत्युदाहार्यम् । तच्च तच्च सा चेति विग्रहः ।", "12073": "<<ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री>> - ग्राम्यपशु । एष्विति । तरुणभिन्नेषु ग्राम्याणां पशूनां सङ्घेष्वित्यर्थः । इह अनपुंसकेनेत्यनुवर्तनादाहपुमान्स्त्रियेत्यस्यापवाद इति । गौश्च गौश्च गौश्चे॑ति पुंलिङ्गस्त्रीलिङ्गेषु गोशब्देषु सहविवक्षितेषुपुमान् स्त्रिये॑त्यतद्बाधित्वा स्त्री शिष्यत इति भावः । ननु स्त्रीशेषे पुंशेषे वा न कोऽपि रूपभेद इत्यत आह — इमा इति । अनुप्रयोगे रूपभेदः फलमिति भावः । 'त्यदादितः शेषे' इति न भवति, 'गाव इमाः' इतिभाष्यप्रयोगादित्याहुः । रुरव इमे इति । रुरुः — कृष्णाख्यो मृगः । अग्राम्यपशुत्वान्न स्त्री शिष्यते । किंतुपुमान् स्त्रिये॑त्येकशेषः । ततश्चानुप्रयोगे 'इमे' इति पुंलिङ्गत्वमेव । ब्राआहृणा इमे इति । ब्राआहृणी च ब्राआहृणाश्चेति विग्रहः । अपशुत्वान्न स्त्रीशिष्यते, किन्तुपुमान् स्त्रिये॑त्येकशेषः । अन्यथा 'ब्राआहृण्य इमा' इति स्यात् । एतौ गावाविति । स्त्रीलिङ्ग पुंलिङ्गयोः सबोक्तावसङ्घत्वान्न स्त्री शिष्यते । सङ्घशब्दो हि बहूनां समुदाये वर्तते, अन्यथा एकशेषस्यानेकविषयत्वादेवाऽनेकपरिग्रहे सिद्धे किं तेनेति भावः । स्त्रीशेषे तु 'एते' इत्यनुप्रयोगे रूपं स्यात् । वत्सा इमे इति । वत्साश्च वत्साश्चेति विग्रहः । तरुणत्वान्न स्त्री शिष्यते । अन्यथा 'वत्सा इमा' इत्यनुप्रयोगः स्यात् । अनेकशफेष्विति वाच्यमिति । वार्तिकमिदम् । एकशफा अआआदयः, तेषां सहोक्तौग्राम्यपइआ॑ति न भवति । अआआ इमे इति । एकशफत्वान्न स्त्री शिष्यते । ततश्चानुप्रयोगे पुंलिङ्गत्वमिति भावः । ननुसरूपाणा॑मिति सूत्रेतिष्यपुंनर्वस्वोर्नक्षत्रद्वन्द्वे॑ इत्यतो द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात्कृते द्वन्द्वे एकशेषः । स्यादित्यत आह — इहेति । इहोदाहृतेषु एकशेषविषयोषु सर्वत्र प्रसक्तं द्वन्द्वमनवकाशत्वादेकशेषो बाधते । कृते त्वेकशेषेऽनेकाभावाद्द्वन्द्वो नेत्यर्थः ।द्वन्द्वसमासे एकशेष॑ इति भाष्यं तु द्वन्द्वे प्रसक्ते सहविवक्षायामेकशेष इति व्याख्येयम् । ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह — तेनेति । द्वन्द्वात् प्रागेवैकशेषाश्रयणेनेत्यर्थः । कृते द्वन्द्वे एकशेषाभ्युपगमे 'शिरसी' इति द्विवचने शिरांसीति, बहुवचने च समासस्येत्यन्तोदात्तः स्यात्, प्राण्यङ्गत्वात्द्वन्द्वश्च प्राणी॑त्यादिना एकवद्भावश्च स्यादित्यर्थः । आदिना शिरोभ्यां शिरोभिरित्यादिसङ्ग्रहः । पन्थानाविति । द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौ पन्थानः, पथिभ्यां पथिभि॑रित्यादौऋक्पू॑रित्यप्रत्ययः समासान्तः स्यादिति भावः । नचात्रइतोऽत्सर्वनामे॑ति सर्वनामस्थाने परेऽकारविधानाल्लिङ्गात्समासान्तः सुपरिहरः ।इतोऽदि॑त्युक्तेऽपि सावित्यनुवत्र्य 'पन्था' इति सिद्धेरिति वाच्यं,पथो विभाषे॑ति समासान्ताऽभावेऽपन्थानावित्यादौइतोऽदि॑ति सूत्रस्य सावकाशत्वात् । *****इति बालमनोरमायाम् एकशेषप्रकरणम् ।*****", "13001": "<<भूवादयो धातवः>> - भूवादयो धातवः । भूश्च वाश्च भूवौ । आदिश्च आदिश्च आदी । प्रथम आदिशब्दः प्रभृतिवचनः, द्वितीयस्तु प्रकारवचनः । भूवौ आदी येषां ते भूवादयः । भूप्रभृतयो वासदृशाश्च ये, ते धातुसंज्ञका इत्यर्थः । वाधातुसादृश्यं च क्रियावाचकत्वेन । तदाह — क्रियावाचिन #इत्यादिना । क्रियावाचिनः किम् । धातुपाठे या इत्यस्य पाठात् याः पश्यन्तीत्यत्र टाबन्तयच्छब्दस्य धातुत्वं मा भूत् । धातुत्वे हि 'आतो धातोः' इत्याल्लोपः स्यात् । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया टाबन्तयच्छब्दस्याऽत्र न ग्रहणप्रसक्तिः । 'क्रियावाचिन' इति तु वाशब्दस्य विकल्पार्थस्य निपातस्य धातुत्वनिवृत्त्यर्थम्, धातुपाठे वा इत्यस्य पाठात् । 'वां गतिगन्धनयोः' 'या प्रापणे' इत्यर्थनिर्देशस्याधुनिकत्वात् । 'क्रियावाचिन' इत्युक्तौ तु न दोषः । वार्थस्य विकल्पस्य, 'वा भविष्यति' इतिवा अभव॑दित्येवं भूतभविष्यत्कालसंबन्धाऽभावेन क्रियात्वाऽभावादिति शब्देन्दुशेखरे स्थितम् । भ्यादयः किम् । वर्जनक्रियावाचिनो हिरुगित्यस्य धातुत्वं मा भूत् ।", "13002": "<<उपदेशेऽजनुनासिक इत्>> - लण्सूत्रे अकारश्चेति प्रतिज्ञातम् । तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्संज्ञायामप्राप्तायां तत्प्रापकं सूत्रमाह — उपदेशे । संज्ञाप्रस्तावात्संज्ञेति । लभ्यते । तदाह — उपदेशे अनुनासिक इत्यादिना । सूत्रे अजिति कुत्वाऽभाव आर्षः ।अजित्संज्ञः स्या॑दिति विवरणे कुत्वाभावोऽसन्देहार्थः । ननु मुखेन नासिकया चोच्चार्यमाणो वर्णोऽनुनासिक इत्यनुपदमेव वक्ष्यते । शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिताः, इतरे तु केवलं मुखेन उच्चारिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह — प्रतिज्ञानुनासिक्याः पाणिनीया इति । प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा । नित्यस्त्रीलिङ्गोऽयम् । स्त्रियामित्याधिकारे 'आतश्चोपसर्गे' इकति कर्मण्यङ् । अनुनासिकस्या भावः आनुनासिक्यम् । प्रतिज्ञा आनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः पाणिनिशिष्या इत्यर्थः । शिष्यपरंपरया शास्त्रकृतां तथाविधमुच्चारणमिदनींन्तनानां सुगममिति यावत् । तदेवं लण्सूत्रे अकारस्य अनुनासिकत्वादित्संज्ञा सिद्धा । ततः किमित्यत आह — लण्सूत्रस्थेति । लण्सूत्रे तिष्ठतीति लण्सूत्रस्थः, स चासाववर्णश्च लण्सूत्रस्थावर्णः, तेन सहोच्चार्यमाणो रेफो र इत्येवंरूपो रेफलकारयोः संज्ञेत्यर्थः । वस्तुतस्तु रप्रत्याहार एव नास्तीति शब्देन्दुशेखरे व्यक्तम् । ननु आदिरन्त्येनेति सूत्रे मध्यगानामादेश्च संज्ञेति स्थितम् । एवंच अजादिप्रत्याहारेषु संज्ञाकोटिप्रविष्टानामन्त्यानामितां ग्रहणाऽभावेऽपि णकारादीनामपि मध्यगत्वाऽविशेषाद्ग्रहणं स्यात् । ततश्च रलयोः संज्ञेति पूर्वग्रन्थे रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वेन ग्राह्रत्वादित्यत आह — प्रत्याहारेष्वितां न ग्रहणमिति । प्रत्याहारेषु=अजादिसंज्ञासु मध्यवर्तिनामपि इतां न ग्रहणमित्यर्थः । कुत इत्यत आह — अनुनासिक इत्यादिनिर्देशादिति । आदिनातृषिमृषिकृषेः काश्ग्रपस्य॑ इत्यादिसंग्रहः । कथमयं निर्देश उक्तार्थे हेतुरित्यत आह — न हीति । अत्र अनुनासिकशब्दे ककारे परे इकारस्य अच्प्रयुक्तं कार्यम्इको यणची॑ति यणादेशो न दृश्यते हीति योजना । यदि हि अजादिप्रत्याहारेषु इतामपि ग्रहणं स्यात्तर्हि अच्प्रत्याहारे ॠलृक् इति ककारस्यापि प्रविष्टत्वेन च्त्वात्तस्मिन् परे इकारस्य 'इको यणचि' इति यणादेशे 'लोपो व्योर्वलि' इति लोपे 'अनुनास्क' इति स्यात् । इकारो न श्रूयते । श्रूयते च । अतः प्रत्याहारेष्वितां न ग्रहणमिति विज्ञायत इति भावः । यत्तु ॠलृगिति ककारस्य अच्प्रत्याहारप्रविष्यत्वेऽपि 'प्रत्ययस्थात्' इत्यादिना इत्वविधिसामर्थ्यादेव यण् लोपश्च न भवति । अन्यथा लाघवाल्लोपमेव विदध्यात् । अतः प्रत्याहारेष्वितां न ग्रहणमित्यत्र अनुनासिक इत्यादिनिर्देशो न लिङ्गमित्याहुः । तन्न,प्रत्ययस्थात्कात्पूर्वस्यातो लोप आप्यसुपः॑ इति लोपविधौ वर्णादिक्यप्रसङ्गात् । प्रत्याहारशब्दस्याऽप्रसिद्धार्थत्वादाह — आदिरन्त्येनेत्यादिना । प्रत्याह्यियन्ते संक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भावः । नच अणुदित्सूत्रसिद्धासु ऐउ इत्यादिसंज्ञास्वतिप्रसङ्गः शङ्क्यः, योगरूढआश्रयणात् । वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भावः । तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एकः प्रत्याहारः-अण् । ककारेण त्रयः-अक् इक् उक् । ङकारेण एकः-एङ् । चकारेण चत्वारः-अच् इच् एच् ऐच् । टकारेण एकः-अट् । परेण णकारेण त्रयः-अण् इण् यण् । मकारेण चत्वारः-अम् यम् ञम् ङम् । ञकारेण एकः-यञ् । षकारेण द्वौ-झष् भष् । शकारेण षट्-अश् हश् वश् झश् जश् बश् । वकारेण एकः-छव् । यकारेण पञ्च-यय् मय झय् खय् चय् । रेफेण पञ्च-यर् झर् खर्चर् शर् । लकारेण षट्-अल् हल् वल् रल् झल् शल् । अकारेण एको रप्रत्याहारः इति वार्णसमाम्नायिकाः प्रत्याहाराश्चतुश्चत्वारिंशत्, एतेषामेव शास्त्रे उपयोगात् । इङित्यादिप्रत्याहारास्तु प्रयोजनाऽभावान्न भवन्ति, शास्त्रे तद्व्यवहाराऽभावात् । अत्राऽस्मदीया सङ्ग्रहकारिका — ॒स्यादेको ङञणवटैः, षेण द्वौ, त्रय इह कणाभ्याम् । चत्वारश्च चमाभ्यां, पञ्च यराभ्यां, शलाभ्यां षट्॥॑", "13003": "<<हलन्त्यम्>> - ततः किमित्यत आह — हलन्त्यम् । आवृत्तयोर्द्वितीयं सूत्रमेतत् । हल् अन्त्यमितिच्छेदः । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात् ।उपदेशेऽजनुनासिक इ॒दिति पूर्वसूत्रादुपदेश इति॑ इदिति चानुवर्तते । तदाह — उपदेशेऽन्त्यमित्यादिना । धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम॑ तत्राह — उपदेश आद्योच्चारणमिति । उपशब्द आद्यर्थकः । दिशिरुच्चारणक्रियायाम् । भावे घञिति भावः । एतच्च 'आदेच उपदेशे' इत्यादासूत्रे भाष्ये स्पष्टम् । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥ — इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम्-॒इदमस्थमुः॑ इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत् । तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम् । ततः किमित्यत आह-ततोऽण् अजित्यादिसंज्ञासिद्धाविति । ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः ।", "13004": "<<न विभक्तौ तुस्माः>> - अथ जसः सकारस्यहलन्त्यम्मितीत्संज्ञायां लोपमाशङ्क्याह — न विभक्तौ । तु स् म एतेषां द्वन्द्वः । 'इत' इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते । तदाह — विभक्तिस्था इत्यादिना ।", "13005": "<<आदिर्ञिटुडवः>> - आदिः । 'भूवादयो धातवः' इत्यस्माद्धात्व इत्यनुवृत्तं षष्ठआ विपरिणम्यते । 'उपदेशेऽजनुनासिकः' इत्यस्मादुपदेशे इति, इदिति चानुवर्तते । आदिरिति इदिति च बहुत्वे एकवचनं । तदाह — उपदेश इति । ट्विकरणंद्वितीऽथु॑जित्येतदर्थम् । नन्दतीति । इदित्त्वान्नुम् । इदित्त्वादिति । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वादनिदितामिति नलोपो नेत्यर्थः । नन्द्यादिति.अन्त्यात्, अन्द्यादित्यस्याप्युपलक्षणं । चदीति । इदित्त्वान्नुमित्याह — चन्दतीति । त्रदीति । अदुपधोऽयम् । इदित्त्वान्नुमित्याह — त्रन्दतीति.क्रदि क्लदीति । अदुपधौ । क्लिदि परिदेवने इति । अनुदात्तेत्सुपठितस्येह पाठः परस्मैपदार्थः । शुन्ध शुद्धाविति । अकर्मकोऽयम् । शुन्धतीति । शुचिर्भवतीत्यर्थः । ननु शुधीत्येवमिदिदेवाऽयं कुतो न पठित इत्यत आह — नलोप इति । आशीर्लिङिअनिदिता॑मिति नलोपे शुध्यादिति रूपमिष्टम् । इदित्त्वे तु नलोपो न स्यादिति भावः । 'अथ कवर्गीयान्ता' इत्यादि 'लोकृ' इत्यन्तं स्पष्टम् । श्लोकृ इति । सङ्घातशब्दं व्याचष्टे — ग्रन्थ इति । ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथं धात्वर्थत्वमित्याशङ्क्याह — स चेहेति । ग्रन्थनं ग्रन्थः — सङ्घीभावःष सङ्घीकरणं वा । तत्र सङ्घीभवनं सङ्घनिष्ठम् । सङ्घीकरणं तु सङ्घीकर्तृनिष्ठम् । तत्र सङ्घीभवनार्थकत्वेऽकर्मकः । सङ्घीकरणार्थत्वे सकर्मकः इत्यर्थः । श्लोकत इति । सङ्घीभवतीत्यर्थः । सङ्घीकरोततीति वा । द्रेकृ ध्रेकृ इति । शब्दनं शब्दः । [एच इगिति ह्रस्व इति । लिट एशि द्वित्वेहलादिः शेषे॑देद्रेक् ए इति स्थिते अभ्यासे एकारस्य ह्रस्वो भवन् 'एच इग्घ्रस्वादेशे' इति इकारो भवतीत्यर्थः] । दिध्रेके इति । अभ्यासे धकारस्य जश्त्वेन दकारः । एकारस्य तु ह्रस्व इकारः । रेकृ इति । शङ्का — संशयः, आक्षेपो वा । शीकृ सेचने इत्यारभ्य एतत्पर्यन्ता ऋदितः । सेकृ इति । आद्यौ एकारमध्यौ ऋदितौ । इतरे त्रयोऽदुपधा इदितः । त्रय इति । पञ्चसु आद्यास्त्रय इत्यर्थः । अषोपदेशत्वादिति । सेकृधातोः पर्युदासान्न षत्वमिति भावः । 'एच इग्घ्रस्वादेशे' इत्यभिप्रेत्याह — सादित्वाऽभावान्न षोपदेशत्वं । ततश्च सकारस्यादेशसकारत्वाऽभावान्न षत्वमिति भावः । 'एच इग्घ्रस्वादेशे' इत्यभिप्रेत्याह -सिसेक इत्यादि । 'सरुआङ्के' इत्यादावदित्त्वान्नुम् । शकीति । इदित्त्वान्नुमित्याह -शङ्कते । शशङ्क इति । अकीति । लक्षणं — चिह्नीकरणम् । अङ्क इति । इदित्त्वान्नुम् । आनङ्क इति ।तस्मान्नुड् द्विहलः॑इति नुट् ।वकि कौटिल्ये इत्यादि स्पष्टम् । कुक वृकेति । द्वितीय ऋदुपधः । शपि लगूपधगुणं मत्वा आह — कोकत इति । चुकुक इति ।असंयोगा॑दिति कित्त्वान्न लघूपधगुणः । अभ्यासे चुत्वं । लघूपधगुणे रपरत्वं मत्वाह — वर्कत इति । लिटिअसंयोगा॑दिति कित्त्वान्न गुण इति मत्वाह — ववृके इति । उरदत्वं, हलादिः शेषः । ननु कित्त्वात्परत्वाद्गुणः तृप्तावकर्मकः । प्रतिघाते सकर्मकः । एत्वाभ्यासलोपौ मत्वाह — चेक इति । ककीति । एते पञ्चदश धातवः । आद्याश्चत्वार इदितः । द्वितीयो वकारादिः । तृतीयस्तालव्यादिः । पञ्चमषष्ठौ दशमाद्याश्चत्वारश्च ऋदितः । दशमद्वादशौ इदुपधौ । रघिलघी इदितौ चतुर्थान्तौ । 'कङ्कते' इत्यादाविदित्वान्नुम् । डुढौके तुत्रौक इति । अभ्यासे ढस्य जश्त्वेन डकारः, ओकारस्य ह्रस्व उकारः । अथ ष्वष्कधातोः षोपदेशपरिगणनाद्धात्वादेरिति सत्वे प्राप्ते आह — सुब्धात्विति । षष्वष्क इति । संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न, संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च । तृतीय इति । तथा च 'स्वष्कते' इति रूपं । केवलदन्त्यपरकसादित्वाऽभावेन षोपदेशत्वाऽभावः । टेकते इति । लघूपधगुणः । टीकत इति । दीर्घोपधत्वान्न गुणः । एवं तेकते तीकत इति । रङ्घते लङ्घते । इदित्त्वान्नुम् । लघि भोजननिवृत्तावपीति । निवृत्तिः- विमुखीभवनम् । लङ्घते । न भुङ्क्त इत्यर्थः । अघीति । त्रयोऽपि चतुर्थान्ता इदितः । आनङ्घ इति ।तस्मान्नुड् द्विहलः॑ इति नुट् । वङ्घत इति । इदित्त्वान्नुम् । लिटि तु ववङ्घे इति रूपम् । वादित्वात्संयुक्तहल्मद्यस्थत्वात्संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च एत्त्वाभ्यासलोपौ न । मघि कैतवे चेति । कैतवं वञ्चना । राघृ इचि त्रयोऽपि ऋदितः । सामर्थ्यं — कार्यक्षमीभवनम् । ध्राघृ इत्यपीति । चतुर्थादिमपि केचित् पठन्तीत्यर्थः । द्राघृ इति.आयामः — दीर्घीभवनम् । श्लाघृ कत्थन इति । कत्थनं-स्तुतिः । शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः । फक्क नीचैरित्यादि स्पष्टं । प्रनिकखतीति ।शेषे विभाषे॑त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः । ओखृ इति । अलमर्थः- भूषणक्रिया, पर्याप्तिः, वारणं वा । ओखति । ओखांचकार.शाखृ श्लाखृ इति । श्लाघृ इति चतुर्थान्त आत्मनेपदेषु गतः । उख उखीति । पञ्चदशेति । 'ईखि इत्यन्ता' इति शेषः । त्रयोदशेति । 'वल्गादय' इति शेषः । तत्र इदित्त्वान्नुम् । आशीर्लिङि नलोपाऽभावश्च । पठन्तीति । तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् । ओखतीति । शपि लघूपधगुणः ।", "13006": "<<षः प्रत्ययस्य>> - षऋ प्रत्ययस्य । 'आदिर्ञिटुडवः' इत्यत आदिरित्यनुवर्तते ।उपदेशेऽजनुनासिक इ॑दित्यत इदिति च । तदाह — प्रत्ययस्यादिरिति । षकारस्य इत्संज्ञायां तस्य लोपः ।", "13007": "<<चुटू>> - देवदत्तहन्तृंहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रञ्चितम् । राम जस् इति स्थिते — चुटू ।उपदेशेऽजनुनासिक इत् इत्यतः 'इ' दित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । 'आदिर्ञिटुडवः' इत्यतआदि॑ग्रहणमनुवर्त्त्य द्विवचनान्ततया विपरिणम्यते ।षः प्रत्ययस्ये॑त्यनुवर्तते । तदाह — प्रत्ययाद्यावित्यादिना । इति जस्येति । इत्संज्ञायां तस्य लोप॑ इति लोपः । जकारस्तु जसश्शीत्यादौ शसो निवृत्त्यर्थः ।", "13008": "<<लशक्वतद्धिते>> - ॒राम शस्-इति स्थिते, 'न विभक्तौ तुस्मा'इति सकारस्य नेत्वम् । तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्यस्याऽप्राप्तावाह-लशक्वतद्धिते । 'लशकु' इति समाहारद्वन्द्वः । उपदेशेऽजनुनासिक इत्,आदिर्ञिटुडवः,षः प्रत्ययस्ये॑त्यतः-इदिति , आदिरिति, प्रत्ययस्येति चानुवर्तते । अतद्धित इति षष्ठर्थे सप्तमी । तद्धितभिन्नस्य प्रत्ययस्य आदिभूतं लकारशकारकवर्गम् इत्संज्ञं भवतीत्यर्थः । तदाह — तद्धितवर्जेति । अतद्धित इति किम् ।कर्णललाटात्कनलङ्कारे॑ । कर्णिका । अत्र ककारस्य तद्धितावयवत्वान्नेत्त्वम् । सति तस्मिन्किति चे॑त्यादिवृद्धिः स्यात् । एतेन प्रयोजनाऽभावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम् । इति शस इति । शकारस्येत्संज्ञायां 'तस्य लोप' इति लोपः । शकारोच्चारणं तु 'जसः शी' 'तस्माच्छसो नः' इत्यादौ विषयविभागार्थम् । राम असिति स्थिते, अकः सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीर्घे, रामास् इति स्थिते ।", "13009": "<<तस्य लोपः>> - एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमितीत्संज्ञायां लोपमाशङ्कितुमाह — तस्य लोपः । इत्संज्ञाप्रकरणान्ते इदं सूत्रम् । तत्र तच्छब्दः सन्निहितमितं परामृशति । तदाह — तस्येतीति । इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः । कुत इत्यत आह — उच्चारणेति । यद्यत्र यवयोर्लोपः स्यात्तर्हि तयोः सूत्रेऽनुच्चारणमेव स्यात्,प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायादिति भावः । तर्हि किमनयोरित्संज्ञयेत्यत आह — एवंचेति । उक्तप्रकारेण लोपाऽभावे सतीत्संज्ञापीह यकारे वकारे च न भवति, फलाऽभावादित्यर्थः । क्रमेणोदाहस्ति — हरय इत्यादिना । हरे — ए,विष्णो-ए, नै-अकः, पौ-अक इति स्थितेषु एकारादीनां क्रमादयादयः ।", "13010": "<<यथासङ्ख्यमनुदेशः समानाम्>> - यथासङ्ख्यम् । साम्यमिह सङ्ख्यातो विवक्षितम् । अनुदेशः=विधानम् । समानामिति यदि कर्मणि षष्ठी स्यात्तर्हि स्थान्यादिभिः समसङ्ख्यानां यत्र विधानं, यथा 'एचोऽयवायाव' इत्यादौ तत्रैव यथासङ्ख्य प्रवृत्तिः स्यात्,समूलाकृतजीवेषु हन्कृञ्ग्रहः॑ इत्यत्र न स्यात्, तत्र विधेयस्य णमुल एकत्वात् । अतःसमाना॑मिति सम्बन्धसामान्ये षष्ठी । एवञ्च समूलाद्युपपदानां हनादिधातूनां च समसङ्ख्यानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसङ्ख्याकसम्बन्धी विधिरेवेति तत्रापि यथासङ्ख्यप्रवृत्तिनिर्बाधा । तदाह — समसम्बन्धीति । यथासङ्ख्यमिति । सङ्ख्याशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपाः सङ्ख्याघटितधर्मा विवक्षिताः, ताननतिक्रम्य यथासङ्ख्यम् । ततश्च 'एचोऽयवायाव' इत्यादिषु प्रथमस्य स्थानिनः प्रथम आदेशः, द्वितीयस्य द्वितीय इत्येवमक्रमेण स्थान्यादेशतन्निमित्तादीनां समसङ्ख्याकानां क्रमेणाऽन्वयः प्रतिपत्तव्य इति फलितम् । प्रकृ-ते च यपरके हकारे परे मकारस्य यकारः, वपरके वकारः, लपरके लकार इति सिध्यति । किय्#ँ ह्र इति । मस्य यत्वे रूपम् । 'ह्र' इत्यव्ययम्, पूर्वेद्युरित्यर्थः । यत्वाभावे मोऽनुस्वारः । किव्#ँ ह्वलयतीति । मस्य वत्वम् । ह्वल चलने, णिच् । किल्#ँ ह्लादयतीति । मस्य लत्वम्॥ 'ह्लादी सुखे च' णिच् ।", "13011": "<<स्वरितेनाधिकारः>> - स्वरितेनाधिकारः । अधिकारः=व्यापृतिः । यथा लोकेअधिकृतो ग्रामेऽसा॑विति व्यापृत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः । स्वरितेन=स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति यावत् । फलितमाह — स्वरितत्वयुक्तमित्यादिना । आनुनासिक्यवत्सव्रितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविष्यतीति किं सूत्रेण, तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम् ।परनित्येति । परादीनां मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तपरमित्यर्थः ।उत्तरोत्तर॑मित्यत्रआनुपूर्व्ये द्वे वाच्ये॑ इति द्वित्वम् ।कर्मधारयवदुत्तरेषु॑ इति कर्मधारयवद्भावात्सुपो लुक् । बलवच्छब्दात्द्विवचनविभज्योपपदे तरबीयसुनौ ॑ इति ईयसुन् ।विन्मतोर्लु॑गिति मतुपो लुक् । परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयाऽपि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवाद इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः । परं विप्रतिषेधसूत्रात् बलवत् । परान्नित्यं यथा — तुदति । अत्र 'तुदादिभ्यः शः' इति शप्रत्ययं बाधित्वा परत्वाल्लधूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति । शप्रत्ययस्तु कृतेऽकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः ।कृताकृतप्रसङ्गी यो विधिः स नित्य॑ इति हि तल्लक्षणम् । अतो नित्यः शप्रत्ययो लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते । ततः 'सार्वधातुकमपित्' इति शस्य ङित्त्वात् 'क्ङिति च ' इति निषेधान्न गुणः । अकॢप्ताऽभावकस्य नित्यशास्त्रस्याऽभावकल्पनापेक्षया कॢप्ताऽभावकस्याऽनित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्त्वे बीजम् । परादन्तरङ्गं यथा — उभये देवमनुष्याः । अत्रप्रथमचरमे॑ति परमपि विकल्पं बाधित्वासर्वादीनी॑ति नित्यैव सर्वनामसंज्ञा भवति, तस्या विभक्तिनिरपेक्षत्वेनारङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्त्वे बीजमाह — असिद्धं बहिरङ्गमन्तरङ्गे । अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः । इयं तु परिभाषावाहौउठ्सूत्रे भाष्ये स्थिता । परादपवादो यथा — दध्ना । अस्थिदधीत्यनङ् । इह परमप्यनेकालिति सर्वादेशं बाधित्वाङिच्चे॑त्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्त्वे बीजं । त्वनुपदमेवोक्तम् । नित्यादन्तरङ्गं यथा — ग्रामणिनि कुले इह । नित्यमपीकोऽचीति नुमं बाधित्वा 'ह्रस्वो नपुंसके' इति ह्रस्वः । प्रथमतः कृते नुम्यनजन्तत्वाध्यस्वो न स्यात् । अन्तरङ्गादपवादो यथा — दैत्यारिः । श्रीशः । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः ।अकृतव्यूहाः पाणिनीयाः । न कृतः अकृतः, व्यूह=प्रकृतिप्रत्ययविवेचनं यैस्तेऽकृतव्यूहाः पाणिनीयाः=पाणिनिशिष्या इत्यक्षरार्थः । तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यमित्यतोऽध्याह्मत्य व्याचष्टे-निमित्तमित्यादिना । 'सेदुष' इत्याद्युदाहरणम् । तच्च शब्दाधिकारेसेदिवस्शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति । इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम् । इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां परिभाषाप्रकरणम्॥*********************अथ प्राग्दिशीयाः । — — — — — —", "13012": "", "13013": "<<भावकर्मणोः>> - अथ आत्मनेपदप्रक्रिया निरूप्यते । आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि । तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति — अनुदात्तङित इति ।आत्मनेपद॑मित्येतत्शेषात्कर्तरि परस्मैपद॑मित्यतः प्रागनुवर्तते । भावकर्मणोः । भावः भावना क्रियेति पर्यायाः । कर्मशब्दः कर्मकारके वर्तते । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः । भावे उदाहरति — बभूवे इति । वृत्ता भवनक्रियेत्यर्थः । कर्मण्युदाहरति — अनुबभूवे इति । 'आनन्द' इति शेषः । आनन्दकर्मिका वृत्ता अनुभवक्रियेत्यर्थः ।", "13014": "<<कर्त्तरि कर्मव्यतिहारे>> - कर्तरि कर्म । कर्मव्यतिहारशब्दं विवृण्वन्नाह — क्रियाविनिमये द्योत्ये इति । एवं च कर्मशब्दः क्रियापरः, व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति । अन्यस्येति । शूद्रादियोग्यं सस्यादिलवनं ब्राआहृणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहार इति कैयटः । संप्रहरन्ते राजानः । कर्तृग्रहणं भावकर्मणोरित्यस्याऽनुवृत्तिनिवृत्त्यर्थम् ।अन्यथा व्यतिलुनीत इत्यत्र न स्यात् । वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् । व्यति अस् ते इति स्थिते आह — श्नसोरिति । तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः । इहउपसर्गप्रादुभ्र्या॑मिति न षः, यच्परकत्वाऽभावादिति भावः । व्यतिषाते इति । इह अच्परकत्वादुपसर्गप्रादुभ्र्यामिति षः । व्यति स् से इति स्थिते आह — तासस्त्योरिति ।उपसर्गप्रादुभ्र्या॑मिति नेह ष्टवम्, अस्त्यवयवस्य सकारस्य लुप्तत्वात् । व्यति स् ध्वे इति स्थिते आह — धि चेति । 'सलोप' इति शेषः । व्यितस् ए इति स्थिते आह — ह एतीति । सकारस्य हकार इति भावः । व्यत्यसै इति । लोडुत्तमपुरुषैकवचनम् । व्यत्यास्तेति । लङि रूपम् । व्यतिषीतेति । लिङि रूपम् । व्यतिराते इति । लटि प्रथमपुरुषैकद्विबहुवचनेषु समानमेव र#ऊपम् । व्यतिभाते इति । भाधातो रूपम् । व्यतिबभे इति । लिटि रूपम् ।", "13015": "<<न गतिहिंसार्थेभ्यः>> - न गतिहिंसार्थेभ्यः । कर्मव्यतिहारे आत्मनेपदं नेत्यर्थः । हसादिगणस्य अदर्शनादाह — हसप्रकारा इति । उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम् । ह्मञ्धातुस्तु उपसर्गबलादिंधसायां वर्तते इति न तस्य प्रतिषेध इत्याह — हरतेरप्रतिषेध इति । अर्थग्रहणलभ्यमिदं वार्तिकम् ।", "13016": "<<इतरेतरान्योन्योपपदाच्च>> - इतरेतर.॒नात्मनेपद॑मिति शेषः ।", "13017": "<<नेर्विशः>> - नेर्विशः । निपूर्वाद्विश आत्मनेपदं स्यादित्यर्थः । नेति निवृत्तम् । यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः, अटा व्यवधानात्टो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वऽभावात्, तथापिअड्व्यवाये उपसङ्ख्यान॑मिति वार्तिकाद्भवतीति 'शदेः शितः' इत्यत्र भाष्ये स्पष्टम् ।", "13018": "<<परिव्यवेभ्यः क्रियः>> - परि वि अव एभ्य परस्मात् क्रीञ्दातोरात्मनेपदमित्यर्थः । ञित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह — अकत्र्रभिप्रायार्थमिति ।", "13019": "<<विपराभ्यां जेः>> - विपराभ्यां जेः । वि परा आभ्यां परस्माज्जिधातोरात्मनेपदमित्यर्थः । विजयते इति । उत्कृष्टो भवतीत्यर्थः । पराजयते इति । निकृष्टो भवतीत्यर्थः ।", "13020": "<<आङो दोऽनास्यविहरणे>> - आङो दो । आस्यविहरणं — मुखविकसनम् । दा इत्यस्य दः इति पञ्चमी । तदाह — ददातेर्मुखविकसनादन्यत्रेति । विद्यामादत्ते इति । गृह्णातीत्यर्थः । दाञो ञित्त्वेऽप्यकत्र्रभिप्रायार्थमिदम् । अविवक्षितमिति । 'अविहरणे' इत्येतावदेव विवक्षितमित्यर्थः । विपादिकां व्याददातीति । क्षारौषधादिना विदारयतीत्यर्थः । अत्र आस्यविहरणाऽभावेऽपि विकसनसत्त्वान्नात्मनेपदमिति भावः । नदी कूलं व्याददातीति । भिनत्तीत्यर्थः । अत्रापि विकसनसत्त्वादास्यविहरणाऽभावेऽपि नात्मनेपदम् । पराङ्गकर्मकान्न निषेध इति, - वार्तिकम् । पतङ्गस्येति । पक्षिणो मुखं भक्षणाय विकासयन्तीत्यर्थः ।", "13021": "<<क्रीडोऽनुसम्परिभ्यश्च>> - क्रीडोऽनु । चादाङ इति । तथा च अनु सम परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः ।अनोः कर्मपर्वचनीयान्ने॑ति वार्तिकम् । तदिदं न्यायसिद्धमित्याह — उपसर्गेण समेति । 'समोऽकूजने' इति वार्तिकम् । समः परस्मादकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः । कूजने तु संक्रीडति चक्रमिति । कूजतीत्यर्थः । आगमेः क्षमायामिति ।आत्मनेपद॑मिति शेषः । वर्तिकमिदम् । ण्यन्तस्येदं ग्रहणमिति । भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः । आगमयस्व तावदिति । कंचित्कालं सहस्वेत्यर्थः । आङुपसर्गवशाद्गमधातुः क्षमायां वर्तते ।हन्त्यर्थाश्चे॑ति चुरादिगणसूत्रेण स्वार्थे णिच् । चुरादेराकृतिगणत्वाद्वा । मा त्वरिष्ठा इति । फलितार्थकथनम् ।शिक्षेर्जिज्ञासाया॑मितय्पि वार्तिकम् । धुनुषि शिक्षते इति । वैषयिके आधारे सप्मती । शकिः सन्नन्तः । 'सनि मीमा' इति इस् । अभ्यासलोपश्च । तदाह — धनुर्विषये इत्यादि ।सिक्ष विद्योपादाने॑ इत्यस्य तु नेह ग्रहणम्, अनुदात्तेत्त्वादेव सिद्धेरिति भावः । कथमिति । भूभृतां पतिं किमु न नाथसे = न याचसे इत्यर्थः । आशिषोऽप्रतीतेः कथमात्मनेपदमित्यर्थः । नाधसे इति पाठमिति । तवर्गचतुर्थान्तोऽयम् । 'आशिषि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः ।हरतेर्गते॑त्यादि वार्तिकम् ।आत्मनेपद॑मिति शेषः । गतं प्रकार इति । वृत्तमित्यर्थः । ताच्छील्यं = स्वभावानुसरणम् । गतिताच्छील्यमिति यावत् । गतेति पाठे भावे क्तः । पैतृकमआआ इति । पैतृकं वृत्तआआः स्वभावादनुसरन्तीत्यर्थः । मातृकं गाव इति । 'अनुहरन्ते' इत्यनुषज्यते । मातुरनुहरतीति । अनुकरोतीत्यर्थः । अत्र सादृश्यमात्रं विवक्षितं, न तु गतिताच्छील्यमिति भावः । किरतेरिति वार्तिकम् । हर्षः = प्रमोदः, जीविका जीवनोपायो, भक्षणम्, कुलायकरणम् = आश्रयसंम्पत्तिः, एषु कृधातोरात्मनेपदमित्यर्थः । ननु कधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह — हर्षादयो विषया इति । धात्वर्थत्वाऽभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थः । तत्रेति । तेषु हर्षादिष्वित्यर्थः । कारणमिति । तथा च हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः । इतरे इति । जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते । हर्षादीनामेवं विधविषयत्वे सत्येवात्मनेपदमिति फलितम्, भाष्ये तथैवोदाहृतत्वादिति भावः ।", "13022": "<<समवप्रविभ्यः स्थः>> - समवप्रविभ्यः स्थः । स्थ इति पञ्चमी । समव प्र वि एभ्यः परस्मात्स्थाधातोरात्मनेपदमित्यर्थः । संतिष्ठते इति । समाप्तं भवतीत्यर्थः ।", "13023": "<<प्रकाशनस्थेयाख्ययोश्च>> - प्रकाशन । प्रकाशनं — स्वाभिप्रायाविष्करणम् । स्थेयः — विवादपदनिर्णेता । तिष्ठति = विश्राम्यति विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुलके अधिकरणे 'अचो यत्' इति यति [ईत्वे] स्थेयशब्दव्युत्पत्तेः ।स्थेयो विवादस्थानस्य निर्मएतरि पुरोहिते॑ इति मेदिनी । इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षितः । आख्या = अभिधानम् । प्रकाशनाख्यायां, स्थेयाख्यायां च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थः । प्रकाशने उदाहरति - गोपी कृष्णाय तिष्ठते इति ।श्लाघह्नुङ्स्थाशपा॑मिति संप्रदानत्वाच्चतुर्थी । स्थेये उदाहरति- - संशय्येति । कर्णादिष्विति विषयसप्तमी । फलितमाह — कर्णादीनिति ।", "13024": "<<उदोऽनूर्द्ध्वकर्मणि>> - उदोऽनुध्र्वकर्मणि । ऊध्र्वदेशसंयोगानुकूला क्रिया ऊध्र्वकर्म । तद्भिन्नमनूध्र्वकर्म । तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः । मुक्तावुत्तिष्ठते इति । गुरूपगमनादिना यतते इत्यर्थः । पीठादुत्तिष्ठतीति । उत्पततीत्यर्थः । ईहायामेव - इति वार्तिकम् । ईहा कायपरिस्पन्दः । ग्रामाच्छतमुत्तिष्ठतीति । उत्पद्यत इत्यर्थः ।", "13025": "<<उपान्मन्त्रकरणे>> - उपान्मन्त्रकरणे । मन्त्रकरणकेऽर्ते विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः । आग्नेय्या आग्नीध्रमुपतिष्ठते इति । आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः । स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात्स्थाधातोरात्मनेपदमिति व्याचक्षते । तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्रधिकरणे प्रपञ्चितमस्माभिः । श्लोकै राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाऽभावात् । उपाद्देवपूजा — इति वार्तिकम् । अमन्त्रकरणकत्वार्तम् । आदित्यनुपतिष्ठते इति । अभिमुखीभूयाऽवस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः । कथं तर्हीति । रघोर्देवतात्वाभावादिति भावः । समाधत्ते — देवतात्वारोपादिति । नृपस्येति ।नाऽविष्णुः पृथिवीपति॑रित्यादिस्मरणादिति भावः । वा लिप्सायामिति । लिप्साहेतुकाऽर्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः ।", "13026": "<<अकर्मकाच्च>> - अकर्मकाच्च । उपात्तिष्ठतेरिति ।उपान्मन्त्रकरणे इत्यतः, 'समवप्रविभ्यः स्थः' इत्यतश्च तदनुवृत्तेरिति भावः ।", "13027": "<<उद्विभ्यां तपः>> - उद्विभ्यां तपः ।अकर्मकादित्येवे॑ति भाष्यम् । दीप्यते इति । दीप्तिमान् भवतीत्यर्थः । स्वाङकर्मकाच्चेति । 'उद्विभ्यां तप' इत्यनुवर्तते । चकारादकर्मकसमुच्चयः । स्वाङ्गशब्दोऽत्र यौगिक इत्याह — स्वमङ्गमिति । सुवर्णमुत्तपतीति । अस्वाङ्गकर्मकत्वादकर्मकत्वाऽभावाच्च नात्मनेपदमिति भावः । स्वाङ्गशब्दोऽत्र न पारिभाषिकः, किन्तु यौगिक इत्यस्य् प्रयोजनमाह - चैत्रो मैत्रसय् पाणिमुत्तपतीति । अत्रअद्रवं मूर्तिम॑दित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाऽभावान्नात्मनपदमिति भावः ।", "13028": "<<आङो यमहनः>> - आङो यमहनः । आङः परस्माद्यमो, हनश्चात्मनेपदमित्यर्थः । आयच्छते इति । रज्जुर्दीर्घीभवतीत्यर्थः । दीर्घीकरोति पादमिति वा । आहते इति ।स्वोदर॑मिति शेषः । परस्य शिर आहन्तीति । स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मकत्वाऽभावाच्च नात्मनेपदम् । कथं तर्हीति । स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मक्तवाऽभावाच्चात्मनेपदाऽसंभवादिति भावः । प्राप्येति । विषमविलोचनस्य वक्षः प्राप्याअजघ्ने इति, रघूत्तमं प्राप्त माऽऽहध्वमिति च प्राप्तिक्रियां प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदं निर्वाधमिति भावः । यद्यपि हननक्रियां प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याऽविक्षितत्वादकर्मकत्वमेव,धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॑ इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम् । ननु प्राप्येत्यध्याहारेप्रासादात्प्रेक्षते॑ इत्यादिवत्पञ्चमी स्यादित्यत आह — ल्यब्लोपे इति ।ल्यब्लोपे पञ्चमी॑त्येतत्तु यत्राऽर्थाध्याहारमाश्रित्य ल्यबन्तार्थावगतिस्तद्विषयकम् । अत्र तु ल्यबन्तशब्दाध्याहारान्नाऽत्र पञ्चमीत्यर्थः । भेत्तुमित्यादीति । एवं च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भाव- । 'आजघ्ने विषमे' त्यत्र परिहारान्तरमाह — समीपमेत्येति वेति । 'अध्याहार' इति शेषः । विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षो मल्ल इव वीरावेशादास्फालयांचक्रे इत्यर्थः । तथा च स्वाङ्गकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । लुङि आहन् स् त इति स्थिते —", "13029": "<<समो गम्यृच्छिभ्याम् (॰प्रच्छिस्वरत्यर्तिश्रुविदिभ्यः)>> - समो गम्यृच्छिभ्याम् ।आत्मनेपद॑मिति शेषः । अकर्मकाभ्यामित्येवेति ।स्वाङ्गकर्मकाच्चे॑ति तु निवृत्तमिति भावः । सङ्गच्छते इति । संगतं भवतीत्यर्थः ।", "13030": "<<निसमुपविभ्यो ह्वः>> - निसमुपवि । ह्वेञः कृतात्त्वस्य ह्व इति पञ्चम्यन्तम् । निह्वयते इति । संह्वयते । उपह्वयते । विह्वयते । अकत्र्रभिप्रायार्थमिदम् ।", "13031": "<<स्पर्धायामाङः>> - अथ स्वारितसंज्ञामाह-समाहारः स्वरितः । पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते । एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य । अतो नैवमर्थः । किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते । यत्र समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः ।", "13032": "<<गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः>> - गन्धनावक्षेपण ।आत्मनेपदमकत्र्रभिप्रायेऽपी॑ति शेषः । गन्धनं हिंसेति । गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भावः । सूचयतीति । परदोषमाविषकरोतीत्यर्थः । नन्वेवं सति कथमस्य गन्धने वृत्तिः , हिंसाया असत्त्वादित्यत आह — सूचनं हीति । श्येनो वर्तिकामिति । वर्तिका - शकुनिविशेषः । साहसिक्ये उदाहरति — परदारान् प्रकुरुते इति । साहसप्रवृत्तिविषयीकरोतीत्यर्थः । सहसा वर्तते साहसिकः ।ओजस्सहोऽम्भसा वर्तते॑ इति ठक् । तस्य कर्म असमीक्ष्यकरणं = साहसिक्यम् । तदाह — तेषु सहसा प्रवर्तते इति । फलितार्थकथनमिदम्, साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः । अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् । प्रतियत्ने उदाहरति - एधोदकस्योपस्कुरुते इति । एधशब्दोऽदन्तःअवोदैधौद्मप्रश्रथहिमश्रथाः॑ इति सूत्रे निपातितः । एधश्च उदकं चेति समाहारद्वन्द्वः । यद्वा एधस्शब्दः सकारान्तो नपुंसकलिङ्गः । एधश्च दकं चेति विग्रहः । दकशब्द उदकवाची ।प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च॑ इति हलायुधः ।काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् रिउआयामि॑त्यमरः । प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह — गुणमाधत्ते इति । काष्ठस्य शोषणादिगुणाधानम् । दकस्य तु गन्धद्रव्यसंपर्कजनितगन्धाधानम् ।", "13033": "<<अधेः प्रसहने>> - अधेः प्रसहने । अधेः परस्मात् कृञः प्रसहनवृत्तेरात्मनेपदमित्यर्थः ।", "13034": "<<वेः शब्दकर्मणः>> - वेः शब्दकर्मणः । शब्दः कर्म कारकं यस्य तस्मात्कृञो विपूर्वादात्मनेपदमित्यर्थः ।", "13035": "<<अकर्मकाच्च>> - अकर्मकाच्च । वेः कृञ इत्यवेति । तथा च अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः । 'विकुर्वते' इत्येतद्व्याचष्टे — विकारं लभन्ते इति । लाभे विकारस्य कर्मत्वेपि धात्वर्थोपसङ्ग्रहादकर्मकत्वम् ।", "13036": "<<सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः>> - संमननोत्सञ्जना । एषु गम्येषु णीञ्धातोरात् मनेपदमित्यर्थः । परगामिन्यपि फले आत्मनेपदार्थमिदम् । इतरे इति । संमाननाऽऽचार्यकरणप्रभृतय इत्यर्थः । प्रयोगोपाधय इति । वाच्यत्वाऽभावेऽपि आर्थिकाः सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थः । आत्मनेपदद्योत्या इति यावत् । तदेवोपपादयितुं प्रतिजानीते — तथा हीति । संमानने उदाहरति — शास्त्रे नयते इति । अत्र णीञ् प्रापणार्थकः ।सिद्धान्तप्रापणेनेत्यर्थः । फलितमिति । अर्थादिति भावः । उत्सञ्जने इति । 'उदाह्यियते' इति शेषः । उत्सञ्जनमुत्क्षेपः । उत्क्षिपतीत्यर्थ इति । धातूनामनेकार्थत्वादिति सत्त्या प्रापयित्रपेक्षमेव । तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम्, पूर्वोत्तराऽङ्गकलापाम्नासामर्थ्यात् । तदाह - विधिना आत्मसमीपं प्रापयतीति । तत्राऽऽचार्यकरणस्यार्थिकत्वमुपपादयति — उपनयनपूर्वकेणेति ।माणवकमुपनयीत,तमध्यापयीते॑त्यध्यापनार्थत्वमुपनयनस्याऽवगतम्, अध्यापनादाचार्यत्वं संपद्यते,उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।॑ इतिस्मरणात् । तथा च आचार्यकरणमुपनयनसाध्यत्वादार्थिकहरति — कर्मकरानुपनयते इति । भृतिः = वेतनं । तदर्थ#ं कर्म करोतीति कर्मकरः । 'कर्मणि भृतौ' इति टप्रत्ययः । कर्मण्युपपदे कृञष्टः स्यात्कर्तरीति तदर्थः । उपपूर्वको णीञ् समीपप्रापणार्थकः । तदाह — राज्ञे देयं भागंपरिशोधयतीति । परिगणयति दातुमित्यर्थः । व्यये उदाहरति — शतं विनयते धर्मार्थमिति । अत्र विपूर्वो णीञ् व्ययार्थकः । तदाह — विनियुङ्क्ते इत्यर्थ इति ।", "13037": "<<कर्तृस्थे चाशरीरे कर्मणि>> - कर्तृस्थे । निय इति । कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले ञित्त्वात्प्राप्तं, तच्छरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात्कथं शरीरावयवेत्युक्तमित्यत आह — सूत्रे इति । शीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थ्तवं न संभवति । शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः । ननु क्रोधापगमस्य क्रोध विषयशत्रुगताऽनिष्टपरिहारफलकत्वाञ्ञित्वेऽप्यात्मनेपदऽप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह — तत्फलस्येत्यादि । गडुं विनयतीति । कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः । कथं तर्हीति । पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति । कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, ननु विधीयते । अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम्, अतो नात्मनेपदमिति भावः ।", "13038": "<<वृत्तिसर्गतायनेषु क्रमः>> - वृत्तिसर्ग ।आत्मनेपद॑मिति शेषः । तायने उदाहरति — क्रमन्तेऽस्मिन्निति । तायनं = वृद्धिः । तदाह — स्फीतानीति ।", "13039": "<<उपपराभ्याम्>> - राधीक्ष्योः । यदीय इति । यद्विषयक इत्यर्थः । 'विप्रश्न' इत्येतद्व्याचष्टे — विविधः प्रश्न इति । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्ग इति । गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः । 'राध संसिद्धौ 'ईक्ष दर्शने॑ । इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, 'यस्य विप्रश्न' इति लिङ्गात् । तदाह — शुभाशुभं पर्योलोचयतीत्यर्थ इति । अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ । अत एव राध्यतीति श्यन्नुपपद्यते । अन्यथाराधोऽकर्मकादि॑ति नियमाच्छ्यन्न स्यात् । एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः । कृष्णस्य संप्रदानत्वं । षष्ठपवादः ।", "13040": "", "13041": "<<वेः पादविहरणे>> - पादविहरणं = पादविक्षेपः । तद्वृतेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः । साधु विक्रमते वाजीति । सम्यक्पदानि विक्षिपतीत्यर्थः ।", "13042": "<<प्रोपाभ्यां समर्थाभ्याम्>> - प्रोपाभ्याम् ।क्रम आत्मनेपद॑मिति शेषः । समौ अर्थौ ययोरिति विग्रह इत्याह — समर्थौ तुल्यार्थाविति । सवर्णदीर्घमाशङ्क्य आह — शकन्ध्वादित्वादिति । ननु 'प्रक्रमते' इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः, उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह — प्रारम्भेऽनयोस्तुल्यार्थतेति । तथाच आरम्भार्थकाम्यामिति फलितमिति भावः ।", "13043": "<<अनुपसर्गाद्वा>> - अनुपसर्गाद्वा ।कर्म आत्मनेपद॑मिति शेषः । अप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः ।", "13044": "<<अपह्नवे ज्ञः>> - अपह्नवे ज्ञः । अपह्नवः = अपलापः । तद्वृत्तेज्र्ञाधातोरात्मनेपदमित्यर्थः ।", "13045": "<<अकर्मकाच्च>> - अकर्मकाच्च ।ज्ञ आत्मनेपदटमिति शेषः । सर्पिषो जानीते इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते ।ज्ञोऽविदर्थस्य करणे॑ इति तृतीयार्थे षष्ठी । तदाह — सर्पिषोपायेन प्रवर्तते इति । 'अनुपसर्गाज्ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते ।", "13046": "<<संप्रतिभ्यामनाध्याने>> - ॒ज्ञ आत्मनेपद॑मिति शेषः । अवेक्षते इत्यर्थ इति । अकर्मकत्वाऽभावात् पूर्वेणाऽप्राप्तिरिति भावः । अनाध्याने किम् मातरं संजानाति । आध्यायतीत्यर्थः । उत्कण्ठापूर्वकंस्मरणमाध्यानम् । ननु यदा आध्याने कर्मणः शेषत्वविवक्षया षष्ठीमाश्रित्य मातुः संजानातीति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः । ततर्संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदस्याऽप्रवृत्तावपिअकर्मकाच्चे॑ति सूत्रेणात्मनेपदं दुर्वारम्, तत्र अनाध्याने इत्यभावात् । संप्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मतारं संजानातीति सकर्मके चरितार्थत्वादित्यत आह — अनाध्याने इति योगो विभज्यते इति । ततश्चसंप्रतिभ्या॑मित्येको योगः ।संप्रतिपूर्वाज्ज्ञ आत्मनेपदमित्यर्थः । 'अनाध्याने' इति योगान्तरम् । अनाध्याने संप्रतिभ्यामात्मनेपदमित्यर्थ- । ततः किमित्यत आह — अकर्मकाच्चेति प्राप्तिरपि बाध्यते इति । ननु अनन्तरस्येति न्यायेनसम्प्रतिभ्या॑मित्यस्यैव बाधो युक्त इत्यत आह — तत्सामर्थ्यादिति । एकसूत्रत्वेनैव सिद्धे अनाध्याने इति योगविभागाद्व्यवहितस्यापि बाध इत्यर्थः । ननुमातरं मातुर्वा संजानाती॑त्यत्र मातुः कर्मत्वाद्द्वितीयैव युक्तेत्यत आह — कर्मणः शेषत्वविवक्षायां षष्ठीति । नचैवमपिअधीगर्थदयेशां कर्मणि॑ इति षष्ठएव स्यान्नतु द्वितीयेति वाच्यम्, तत्र शेष इत्यनुवर्त्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायां तु द्वितीयेत्यभ्युपगमात् । न चैवं सति 'षष्ठी शेषे' इत्यनेनैव सिद्धत्वात्अधीगर्थे॑ति व्यर्थमिति वाच्यम्,मातुः स्मरण॑मित्यादौ शेषष्ठ्याः समासाऽभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम् ।", "13047": "<<भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः>> - भासनोपसंभाषा ।आत्मनेपद॑मिति शेषः । इतरे इति । भासनज्ञानादय इत्यर्थः । प्रयोगोपाधय इति । इदंसम्माननोत्सञ्जने॑त्यत्र व्याख्यातं प्राक् । भासनं तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः । शास्त्रे वदते इति । विषयसप्तम्येषा इति । भासमान इति । नवनवयुक्तीरुल्लिखतीत्यर्थः । शास्त्रे वदते इति - विषसप्तमी । व्यवहरतीत्यर्थः । व्यवहारश्च ज्ञानं विना न संभवतीति ज्ञानमार्थिकम् । ज्ञात्वा व्यवहरतीति फलितम् । क्षेत्रे विवदन्ते इति । विरुद्धं व्यवहरन्तीत्यर्थः । विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी । उपवदते इति । उपपूर्वस्य वदेः प्रार्थनमर्थः । तदाह — प्रार्थयते इत्यर्थ इत ।", "13048": "<<व्यक्तवाचां समुच्चारणे>> - व्यक्तवाचाम् । व्यक्ताः = अज्झल्भेदेन स्पष्टोच्चारिताः वाचः = शब्दा येषामिति विग्रहः । समित्येकीबावे । तदाह — मनुष्यादीनामिति । संप्रवदन्ते ब्राआहृणा इति । संप्रवदन्ते ब्राआहृणा इति । संभूयोच्चारयन्तीत्यर्थः ।", "13049": "<<अनोरकर्मकात्>> - अनोरकर्मकात् ।व्यक्तावाचा॑मित्यनुवृत्तं विषयषष्ठन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् । तदाह — व्यक्तवाग्विषयादिति । मनुष्यकर्तृकादित्यर्थः । अनुवदते इति । अनुः सादृश्ये ।तुल्यार्थैरतुलोपमाभ्या॑मिति षष्ठी । कठः कलापेन तुल्यं वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् ।तुल्यार्थै॑रित्यत्रअतुलोपमाभ्या॑मिति पर्युदासेनाऽनव्ययानामेव तुल्यार्थानां ग्रहणात् । अन्यथाच्नद्र इव मुख॑मित्यादावपि तृतीयाषष्ठओरापत्तेरित्यलम् ।", "13050": "<<विभाषा विप्रलापे>> - विभाषा विप्रलापे ।व्यक्तवाचां समुच्चारणे॑ इत्यनुवर्तते । विरुद्धोक्तिर्विप्रलापः । तदाह — विरुद्धोक्तिरूपे इति ।", "13051": "<<अवाद्ग्रः>> - अवाद्ग्रः । आत्मनेपद॑मिति शेषः । 'गृ' इत्यस्य 'ग्र' इति पञ्चमी ।प्रकृतिवदनुकरण॑मित्यस्याऽनुत्यत्वात्ऋत इद्धातो॑रिति न भवति । तदनित्यत्वे इदमेव मानम् । अवगिरत इति । शविकरणोऽयम् ।अवगृणाती॑त्यत्राप्यात्मनेपदमाशङ्क्य आह — गृणातिस्त्विति । एवं च तुदादेरेव ग्रहणमिति भावः ।", "13052": "<<समः प्रतिज्ञाने>> - समः प्रतिज्ञाने । गिरतेरात्मनेपदमित्यर्थः । प्रतिज्ञानम् - अभ्युपगमः । सङ्गिरति ग्रासमिति । भक्षयतीत्यर्थः ।", "13053": "<<उदश्चरः सकर्मकात्>> - उदश्चरः । उत्पूर्वाच्चरधातोः सकर्मकदात्मनेपदमित्यर्थः ।", "13054": "<<समस्तृतीयायुक्तात्>> - समस्तृतीया । सकर्मकादिति निवृत्तम् । संपूर्वात्तृतीयान्तसमभिव्याह्मताच्चरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् । रथिकाः संचरन्ति । अत्र यद्यपि रथेनेत्यर्थाद्गम्यते, तथापि तृतीयान्तश्रवणाऽभावान्नात्मनेपदम् । एतदर्थमेव योगग्रहणम् । अन्यथातृतीयये॑त्येवावक्ष्यत् । सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात्, अत एव॒तृतीयायुक्तादिति किम् । उभौ लोकौ संचरसीभं चामुं च लोक॑मिति भाष्यं सङ्गच्छते ।", "13055": "<<दाणश्च सा चेच्चतुर्थ्यर्थे>> - दाणश्च सा ।समस्तृतीयायुक्ता॑दित्यनुवर्तते । तदाह — संपूर्वादिति । उक्तं स्यादिति । आत्मनेपदमित्यर्थः । सा चेदिति । तच्छब्देन तृतीया परामृश्यते । तदाह — तृतीया चेदिति । दास्या संयच्छते इति ।अशिष्टव्यवहारे दाणः प्रयोगे चतुथ्र्यर्थे तृतीया वाच्या॑ इति तृतीया । ननुरथेन समुदाचरते इत्यत्रसमस्तृतीयायुक्ता॑दिति पूर्वसूत्रस्य न प्रवृत्तिः, आङा व्यवहितत्वेन सम्पूर्वकत्वाऽभावात्त्समादित्युत्तरस्ये॑ति परिभाषया सम इति पञ्चम्या चरेरव्यवहितपरत्वलाभात् । तथादास्या संप्रयच्छते॑ इत्यत्रापिदाणश्च सा चे॑दिति कथं प्रवर्तते, प्रशब्देन व्यवधानादित्यत आह — पूर्वसूत्रे सम इति षष्ठीति । तथा च षष्ठआ पौर्वापर्यमेव गम्यते, न त्वव्यवहितत्वमिति भावः । तेनेति । षष्ठआश्रयणेनेत्यर्थः । सूत्रद्वयमिति ।समस्तृतीयायुक्ता॑दिति पूर्वसूत्रस्थस्य षष्ठन्तस्यैव समःदाणश्चे॑ति सूत्रेऽप्यनुवृत्तेरिति भावः ।", "13056": "<<उपाद्यमः स्वकरणे>> - उपाद्यमः ।आत्मनेपद॑मिति शेषः । ननुस्वं वरुआमुत्पादयती॑त्यर्थेवस्त्रमुपयच्छती॑त्यत्राप्यात्मनेपदं स्यादित्यत आह — स्वकरणं स्वीकार इति । अस्वस्य सतः स्वत्वेन परिग्रहः स्वकरणशब्देन विवक्षित इत्यर्थः । च्विप्रत्ययस्तु वैकल्पिकः,समर्थानां प्रथमाद्वे॑त्युक्तेरिति भाष्ये स्पष्टम् ।", "13057": "<<ज्ञाश्रुस्मृदृशां सनः>> - ज्ञानश्र । प्राग्वदिति । आत्मनेपदमित्यर्थः । यद्यपिअपह्नवे ज्ञः, 'अकर्मकाच्च'सम्प्रतिभ्यानाध्याने॑ इति सूत्रैः,अर्तिश्रुदृशिभ्यश्चे॑ति वार्तिकेन च ज्ञादिभ्य आत्मनेपदे कृते 'पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम्,तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थं ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति — धर्मं जिज्ञासते इति । ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति ।अज्झनगमां सनी॑ति दीर्घः ।इको झ॑लिति सनः कित्त्वम् ।श्र्युकः किती॑ति इण्निषेधः । सुस्मूर्षते इति । स्मृधातोः सनिअज्झने॑ति दीर्घेउदोष्ठपूर्वस्ये॑त्युत्त्वे रपरत्वेहलि चे॑ति दीर्घः ।", "13058": "<<नानोर्ज्ञः>> - नानोर्ज्ञः । अनुपूर्वाज्ज्ञाधातोः सन्नन्तान्नात्मनेपदमित्यर्थः । पुत्रमनुजिज्ञासतीति । अनुज्ञातुमिच्छतीत्यर्थः । ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थेसर्पिषोऽनुजिज्ञासते॑ ईत्यत्रापिअपह्नवे ज्ञः॑,अकर्मकाच्चे॑त्यात्मनेदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह — पूर्वसूत्रस्थेवेति । एवं चसर्पिषोऽनुजिज्ञासते॑ इत्यत्रअकर्मकाच्चे॑त्यात्मनेपदं निर्बाधमिति भावः । ननुअकर्मकाच्चे॑ति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथममात्मनेपदलाभ इत्यत आङ — पूर्ववदिति । केवलात्सन्विहीनाज्ज्ञाधातोरात्मनेपदविधानात्सन्न्नतादपि तस्मात् 'पूर्ववत्सनः' इत्यात्मनेपदमित्यर्थः ।", "13059": "<<प्रत्याङ्भ्यां श्रुवः>> - प्रत्याङ्भ्यां श्रुवः । उक्तं नेति । आत्मनेपदं नेत्यर्थः । प्रत्याङाविहोपसर्गावेव गृह्रेते, व्याख्यानात् । तदाह — कर्मप्रवचनीयात्स्यादेवेति ।आत्मनेपद॑मिति शेषः । देवदत्तं प्रतीति ।लक्षणेत्थम्भूते॑ति प्तिः कर्मप्रवचनीयः ।", "13060": "<<शदेः शितः>> - शदेः शितः । 'अनुदात्तङित' इत्यस्मादात्मनेपदमित्यनुवर्तते । श् इत् यस्य स शित् । शप् विवक्षितः ।शिति विवक्षिते सतीत्यर्थः, तिङुत्पत्तेः पूर्वं सार्वधातुकाश्रयस्य शपोऽसंभवात् । तदाह — शिद्भाविन इति । शित् भावी = भविष्यन् यस्मात्स शिद्भावी, तस्मादित्यर्थः । शीयते इति । शपि शदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते शीयन्ते इत्यादि । 'शिद्विषया' दित्युक्तेर्लिटि नात्मनेपदम् ।इत्संज्ञकशकारादा॑वित्युक्तेर्न॑ शीयादेशः । विशीर्यतीत्यर्थः । तदाह — शशादेति । अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इटः 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमाद्वेट् । तदाह — शेदिथ शशत्थेति च । इट्पक्षे 'थलि च सेटी' इत्येत्त्वाभ्यासलोपाविति भावः । शेदिव शेदिम । क्रादिनियमादिट् । अशददिति । लृदित्त्वादङिति भावः । क्रुशधातुरनिट्कः । चुक्रोशिथ । क्रादिनियमात्थलि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । चुक्रुशिव चुक्रुशिम । क्रोष्टेति । व्रश्चादिना शस्य षः ।षढो॑रिति षस्य कः, सस्य षत्वम् । कित्त्वान्न गुणः । कुच । 'कुच शब्दे' इति पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् । बुध इति । सेट्कोऽयम्, अनिट्सु श्यन्विकरणस्यैव बुधेग्र्रहणात् । तदाह — बोधिनेति । अबोधीत् । रुहधातुरनिट्कः । क्रादिनियमात्थल्यपि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । रोढेति । लुटितासिगुणे ढत्वधत्वष्टुत्वढलोपाः । रोक्ष्यतीति । लृटि स्ये ढकषाः । अरुक्षदिति । इगुपधशलन्तत्वात् क्से ढकषाः । कित्त्वान्न गुणः । वृदिति । 'ज्वलितिकसन्तेभ्यः' इति उत्तराऽवधेरपि कसेग्र्रहणादेव सिद्धेर्वृत्करणं स्पष्टार्थमित्याहुः । इति ज्वलादयः । गूहत्यन्ता इति । 'गुहू संवरणे' इत्येतत्पर्यन्ता इत्यर्थः । चते चदे याचने । अचीदिति । एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर् । 'बुध अवगमने' इति केवलपरस्मैपदी गतः । स तु ज्वलादिकार्यार्थः । अयं तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति । इर इत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकमित्त्वेऽपि न नुम्,इदितो नु॑मित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्वधेः । पूर्वोत्तरेति । जन- पूरि- साहचर्येणेत्यर्थः । उ बुन्दिरित । आद्य उकार इत् — 'उदितो वे' ति क्त्वायामिड्विकल्पार्थः । अबुददिति । इरित्त्वादङि 'अनिदिता' नलोपः, इर इकारस्य प्रत्येकमित्संज्ञाविरहात्, अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चेति शब्देन्दुशेखरे स्थितम् । वेणृ गतीति । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । खनुदातुरुदित् — क्त्वायामिड्विकल्पः ।", "13061": "<<म्रियतेर्लुङ्लिङोश्च>> - म्रियतेः । अनुदात्तहितः॑ इत्यत आत्मनेपदमित्यनुवर्तते । चकारेण 'शदेः शितः' इत्यतः शित इत्यनुकृष्यते । प्रकृतिभूतादित्यध्याहार्यम् । तदाह - लुङ्लिङोरिति । तङ् स्यादिति । आत्मनेपदं स्यादित्यर्थः, 'म्रियमाण' इत्यत्र आनस्यापि इष्टत्वात् । ननु हित्त्वादेव सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमित्याह - नान्यत्रेति । तर्हि ङित्त्वं व्यर्थमित्यत आह — ङित्त्वं स्वरार्थमिति ।तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त॑मित्येतदर्तमित्यर्थ- । म्रियते इति । शे कृते रिङियङाविति भावः । ऋदन्तत्वाद्भारद्वाजमतेऽपि नेडित्याह — ममर्थेति । मम्रिवेति । क्रादिनियमादिट् । मर्ता । 'ऋद्धनोः स्ये' इति इटं मत्वाह - मरिष्यतीति । रि पि गताविति । द्वाविमावनिटौ । ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्य आह- अन्तरह्गत्वादियङिति । कृ विक्षेपे इति । दीर्घानतोऽयं , सेट् । किरतीति ।ऋत इद्धातो॑रितीत्त्वं । रपत्वम् । चकरतुरिति । कित्त्वेऽपिऋच्छत्यृता॑मिति गुण इति भावः ।वृतो वे॑ति मत्वाह - करिता करीतेति ।", "13062": "<<पूर्ववत् सनः>> - पूर्ववत्सनः । पूर्वेणेव पूर्ववत् ।तेन तुल्यटमिति तृतीयान्तद्वतिः । पूर्वशब्देन सन्प्रकतिर्विवक्षिता । तदाह — सनः पूर्व इत्यादि । एदिधिषते इति । सन्प्रकृतेरेधधातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम् । 'नेर्विशः' इत्यात्मनेपदविधानात्तत्प्रकृतकसन्नन्तादपि आत्मनेपदम् । ननु 'शदेः शितः'म्रियतेर्लुङ्लङोश्चे॑त्यस्य ग्रहणम् ।शदे॑रित्यादिसूत्रद्वये 'पूर्ववत्सनः' इति, 'नानोर्ज्ञः' इत्यतो नेति चानुवर्त्त्य शदेर्म्रियतेश्च सन्ननतान्नात्मनेपदमिति व्याख्येयमित्यर्थः । नन्वेवं सति शीयते म्रियते इत्यादावात्मनेपदं न लभ्येतेत्यत आह — वाक्यभेदेनेति । 'शदेः शितः' म्रियतेर्लुङ्लिङोश्चे॑त्येकं वाक्यम् । शिद्भाविनः शदेरात्मनेपदं स्यात्, मृङो लुङ्लिङ्प्रकृतिभूतात्, शित्प्रकृतभूताच्चात्मनेपदं स्यान्नान्यत्रेत्यर्थः । तेन शीयते म्रियते ममारेत्यादि सिध्यति ।सनो ने॑त्यपरं वाक्यम् । शदेः, म्रियतेश्च सन्नन्तान्नात्मनेपदमित्यपरम् । तेन शिशत्सति, मुमूर्षति इत्यादौ नात्मनेपदमित्यर्थः ।", "13063": "<<आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य>> - आम्प्रत्ययव । 'अनुदात्तङित' इत्यत आत्मनेपदमित्यनुवर्तते । तत्राम्प्रत्ययस्यात्मनेपदाऽभावादाह — अतद्गुणसंविधानो बहुव्रीहिरिति । तस्य = अन्यपदार्थस्य, गुणाः = विशेषमानि वर्तिपदार्थरूपाणि,तेषां संविज्ञानं = क्रियान्वयो न तु चित्राणां गवामपि । तथा च प्रकृते आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः ।आम्प्रत्यव॑दिति तृतीयान्ताद्वतिः । अनुप्रयुज्यत इत्यनुप्रयोगः । कर्मणि घञ् । पञ्चम्यर्थे षष्ठी । तदाह — आम्प्रकृत्येत्यादिना । आम्प्रकृतेर्भवितुं योग्यं यदात्मनेपदं तत् अनुप्रयुज्यमानात्कृञोऽपि स्यादिति यावत् । अत्र न प्रत्याहारग्रहणम्,अनुप्रयोगस्ये॑त्येव सिद्धे कृञ्ग्रहणादिह न प्रत्याहारग्रहण॑मिति भाष्यम् । परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः । इन्दंचकारेत्यादौ तु परगामिनि क्रियाफले नाऽनेनात्मनेपदम्, आम्प्रकृतेः 'इदि परमैआर्ये' इति धातोरात्मनेपदाऽभावात्, तस्य परस्मैपदित्वात् । एतदर्थमेव आम्प्रत्ययवदित्युपात्तम् । नन्विन्दांचकारेत्यादौ मास्त्वमनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् । आत्मगामिनि तु क्रियाफले 'स्वरतञित' इत्यात्मनेपदं दुर्वारम् । अस्य सूत्रस्य एधाञ्चक्र इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्याऽप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले 'स्वरितञित' इति प्राप्तस्यात्मनेपदस्य निवारणे सामर्थ्याऽभावादित्यत आह — इहेति । इह =आम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये॑ति सूत्रे 'पूर्ववत्सनः' इति पूर्वसूत्रात्पूर्ववदित्यनुवर्त्त्यआम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये॑त्येकं वाक्यं,पूर्ववत्कृञोऽनुप्रयोगस्ये॑ति अन्यद्वाक्यमति वाक्यद्वयं संपाद्यम् । तत्र पूर्ववदिति तृतीयान्ताद्वतिः । पूर्वेण = पूर्वप्रयुक्तेन एधादिधातुना, तुल्यमित्यर्थ- । तत्र वाक्यद्वयस्य समानार्थकत्वे वैयथ्र्याद्द्वितीयं वाक्यं नियमार्थं संपद्यते ।पूर्ववदेव आत्मनेपदं न तु तद्विपरीत॑ मिति । एवं च पूर्ववाक्येन एधाञ्चक्रे इत्यादौ कृञः परगामिन्यपि क्रियाफले आत्मनेपदविधिः, द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले 'स्वरितञित' इत्यात्मनेपदस्य निवृत्तिः फलति । तदाह — तेनेति । द्वितीयवाक्येनेत्यर्थः । न तङिति । न आत्मनेपदमत्यर्थः । एवं चाऽनुप्रयुज्यमानात्कृञो लिटस्तङि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते — ।", "13064": "<<प्रोपाभ्यां युजेरयज्ञपात्रेषु>> - प्रोपाभ्यां ।आत्मनेपद॑मिति शेषः । स्वरेति । स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः । तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः । द्वन्द्वमिति । द्वन्द्वं द्विशः, न्यञ्चि — अधोबिलानीत्यर्थ- ।", "13065": "<<समः क्ष्णुवः>> - समः क्ष्णुवः ।आत्मनेपद॑मिति शेष॒समो गम्यृच्चिभ्या॑मित्यत्रैवसमो गम्यृच्छिक्ष् णुव॑ इति न सूत्रितं , तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान्न स्यात् । तत्सूचयन्नुदाहरति — संक्ष्णुते शस्त्रमिति । तीक्ष्णीकरोतीत्यर्थः ।", "13066": "<<भुजोऽनवने>> - भुजोऽनवने । अवनं -रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः । ननु भुज पालनाऽब्यवहारयो॑ रिति धातुपाठे स्थितम् । तत्रबुभुजे पृथिवी॑मित्यत्र न पालनमर्थः । तथा सति 'अनवने' इति पर्युदासादात्मनेपदाऽयोगात् । नाप्यभ्यवहरणम्, असंभवात् । नहि पृथिव्या अभ्यवहरणं संभवति । तथावृद्धो जनो दुःखशतानि भुङ्क्ते॑ इत्पि न युज्यते, दुःखशतानां पालनस्य अभ्यवहरणस्य चाऽसंभवात् । तत्राह — इह उपभोगो भुजेरर्थ इति । धातूनामनेकार्थकत्वादिति भावः । महीं भुनक्तीति । रक्षतीत्यर्थः । अत्र रौधादिकस्यैवभुज पालनाभ्यवहारयो॑रित्यस्य ग्रहणम् — नतु 'भुजो कौटिल्ये' इति तौदादिकस्याऽपीति भाष्यम् । भुजति वासः = कुटिली भवतीत्यर्थः ।", "13067": "<<णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने>> - णेरणौ । इह चत्वार्यवान्तरवाक्यानि ।णे॑रिति प्रथमं वाक्यम् । प्रत्ययग्रहणपरिभाषया णेरिति तदन्तग्रहणम् । आत्मनेपदमित्यधिकृतं । तदाह — ण्यन्तादात्मनेपदं स्यादिति ।अणौ यत्कर्म णौ चे॑दिति द्वितीयं वाक्यम् ।कर्तरि कर्मव्यतिहारे॑ इतिवत्कर्मशब्दोऽत्र क्रियापरः । यत्तदोर्नित्यसम्बन्धात्तदिति लभ्यते । तथा च द्वितीयं वाक्यम् । तथा च अणौ या क्रिया सा ण्यन्ते चेदिति लभ्यते । एवं सति पचति पाचयतीत्यादौ सर्वतर् अणौ क्रियायाण्यन्ते अवश्यं सत्त्वाद्वाक्यमिदमनर्थकम् । तस्मात् अणौ या क्रिया सैव ण्यन्ते चेदित्येवकारो लभ्यते । ततश्च द्वितीयवाक्यस्य फलितमाह — अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत ।स कर्ते॑ति तृतीयं वाक्यम् । अत्रअणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादिति । अत्र तच्छब्दस्य विदेयसमर्पककर्तृशब्दानुसारेण पुंलिङ्गता ज्ञेया,शैत्यं हि यत्सा प्रकृतिर्जलस्ये॑तिवत् । अथअनाध्याने॑ति चतुर्तं वक्यं व्याचष्टे — न त्वाध्याने इति । आध्यानमुत्कण्ठापूर्वकं स्मरणम् । तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते । वस्तुतस्तु आध्याने आत्मनेपदं नेत्यर्थाश्रयणे भवतीत्यत्र नञोऽन्वितत्वेन असामर्थ्यादाध्यानशब्देन सम#आसाऽसंभवात्पर्युदास एवाऽयम् । 'न त्वाध्याने' इतिमूलं तु फलितार्थकथनपरमेव । तथा च आध्यानभिन्नेऽर्थे विद्यमानाण्ण्यन्तादात्मनेपदं स्यादित्येवं प्रथमवाक्य एव आध्याने इत्यस्यान्वयात्रीण्येवाऽतवाक्यानीति युक्तम् ।वाक्यत्रय॑मित्येव च भाष्ये दृश्यते । ननुणिचश्चे॑ति सिद्धे किमर्थमिदं सूत्रमित्यत आह — णिचश्चेतीति । परगामिन्यपि फले आत्मनेपदार्थमित्यर्थः । स्यादेतत् ।विभाषोपपदेन प्रतीयमाने॑ इति सूत्रं वक्ष्यते । कर्तृगामिनि क्रियाफले यदात्मनेपदं विहितं तदुपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः ।स्वं यज्ञं यजति यजते वे॑त्याद्युदाहरणम् । 'णेरणौ' इत्स्य तु दर्शयते भव इत्यनुपदमेव उदाहरणं वक्ष्यते इत स्थितिः । तत्रदर्शयते भवः स्वयमेवे॑त्यत्र फलस्य कर्तृगामित्वविवक्षायांणेरणा॑विति नित्यमात्मनेपदमिष्यते । तत्र परत्वात्विभाषोपपदेने॑ति विकल्पः स्यात्, 'णेरणौ' इत्स्य फले आत्मगामित्वगमकोपपदाऽभावे सावकाशत्वात् । किंचअणावकर्मकाच्चित्तवत्कर्तृका॑दिति वक्ष्यते । अण्यन्ते यो धातुरकर्मकः, चित्तवत्कर्तृकश्च तस्माण्ण्यन्तात् परस्मैपदं स्यादिति तदर्थः । शेते कृष्णः । तं गोपी शाययतीत्युदाहरणम् । णेरणावित्यस्य तु दर्शयते भव इत्युदाहरणविषय इति स्थितिः । तत्र लूधातोर्लुनाति केदारं देवदत्त इत्यतर्चित्तवत्कर्तृकत्वात्, लूयते केदार इति कर्मकर्तरि कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाच्च 'लावयते केदार' इति ण्यन्तात् 'णेरणौ' इत्यात्मनेपदं बाधित्वा पर्तवात्अणावकर्मका॑दिति परस्मैपदमेव स्यात्, णेरणावित्यस्य दर्शयतेभव इत्यत्र सावकाशत्वादित्यत आह — कत्र्रभिप्राये त्विति । पूर्वविप्रतिषेधेनेति । पूर्वविप्रतिषेधाश्रयणे 'राजा दर्शयते' इति भाष्यप्रयोगो मानम्, अन्यथा तत्रअणावकर्मका॑दिति परस्मैपदापत्तेः, दर्शनविषयो भवतीत्यर्थे पश्यति भव इत्यत्र दृशेरणावकर्मकत्वाच्चित्तवत्कर्तृकत्वाच्च ।विभाषोपपदेने॑ति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् । अन्ये तुदर्शयते राजे॑ति भाष्यप्रयोगः फलस्य परगामित्वविषयो भविष्यति । एवं च कर्तृगामिनि क्रियाफले परत्वादणावकर्मकादित्यस्य प्रवृत्तौ न किंचिद्बाधकमिति पूर्वविप्रतिषेधाश्रयणं चिन्त्यमित्याहुः । तच्चिन्त्यम्,अणावकर्मका॑दित्यस्य परगामिन्यपि फले परत्वात्प्रवृत्तेर्दुर्वारत्वात् । नह्रणावकर्मकादित्यत्र कत्र्रभिप्राय इत्यस्ति,स्वरितञितः कत्र्रभिप्राये॑ इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् । ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भव इत्यतत्र वस्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षायां तस्यकर्मवत्कर्मणे॑ति कर्मवद्भावात्भावकर्मणो॑रित्यात्मनेपदसिद्धेः 'णेरणौ' इति सूत्रं व्यर्थमित्यत आह — कर्तृस्थेति । कर्तृस्थो भावो येषां ते कर्तृस्थकभावकाः, कर्तृस्था क्रिया येषां ते कर्तृस्थक्रियाः, एवंविधा धातव इह सूत्रे उदाहरणम् । 'कर्मवत्कर्मणे' त्यस्य तु कर्मस्थभावकाः, कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणे' ति सूत्रे च भाष्ये स्पष्टम । अतो विषयभेदात्कर्मवत् कर्मणे॑त्यनेनणेरणौ॑इत्यस्य न गतार्थतेति भावः । अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः । यथा दर्शनश्रवणादिः । सपरिस्पन्दनसाधनसाध्यो धात्वर्थः । क्रिया । यथा पाकादिः । यद्यपि दर्शने चक्षुरुन्मीलनादिरूपं स्पन्दनमस्ति तथापि तद्भिन्नहस्तपादादिचेष्टैवाऽत्र स्पन्दनमित्यविरोधः । तत्र कर्तृस्थभावकमुदाहरति — पश्यन्ति भवं भक्ता इति । सकर्मकेषु धातुषु फलव्यापारयोर्धातुर्वर्तते । यथा पचेर्विक्लित्त्यनुकूलो व्यापारः । तत्र विक्लित्तिः फलम् । तदनुकूलोऽधिश्रयणादिव्र्यापारः । धातूपात्तव्यापाराश्रयः कर्ता देवदत्तादिः । व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतं कर्म । यथा तण्डुलान् पचतीत्यत्र विक्लित्त्याश्रयास्तण्डुला इति स्थितिः । प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापार्थकत्वे सकर्मकत्वानुपपत्तिः, फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरण्तवात् । अतो दृशेश्चाक्षुज्ञानविषयत्वापत्त्यनुकूलव्यापारोऽर्थः । तत्र ज्ञानविषत्वापत्तिः फलम् । तदनुकूलः प्रयत्नादिव्ापारो देवदत्तनिष्ठः । एवं च प्रयत्नादिव्यापारव्यधिकणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते । तदेतदाह — चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थ इति । प्रेरणेति । यदा चाक्षुषज्ञानविषयत्वापत्तिरेव दृशेरर्थो विवक्षितो न तु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणांशस्तदा पश्यति भव इत्यस्य चाक्षुषज्ञानविषयः संपद्यते इत्यर्थः । सौकर्यातिशयविवक्षया अनुकूलव्यापारांऽशस्य अविवक्षा बोध्या । तथा च चाक्षुषज्ञानविषयत्वापत्तेरेव दृश्यर्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव । तदाह — विषयो भवतीत्यर्थ इति । लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थः । नचाऽत्र भवस्य वस्तुतो दर्शनकर्मण इह कर्तृत्वात्कर्मवत्ककर्मणा तुल्यक्रियः॑ इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्क्यं,कर्मवत्कर्मणे॑त्यस्य कर्मस्थभावकेषु, कर्मस्थक्रियेषु च प्रवृत्तेः । अतः कर्मकर्तर्यपि शबादिकमेवेति भावः । तत इति । कृञ्धातुगम्यं पेरषणांशं विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेर्दृशेर्हेतुमण्णिजित्यर्थः । दर्शयन्ति भवं भक्ता इति । चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थ- । तदाह — पश्यन्तीत्यर्थ इति । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । पुनरिति । चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थकेदर्शयन्ति भवं भक्ता॑ इत्युक्तोदाहरणे णिजर्थस्य आपादनांऽशस्याऽविवक्षायां प्रकृतसूत्रेणात्मनेपदे सति 'दर्शयते भव' इत्युदाहरणमित्यर्थः । अत्र ण्यन्तस्यप्रेरणारहिऽथ लक्षणा । 'गङ्गायां घोष' इत्यत्र टाप इव णिचः स्थितिः । चुरादेराकृतिगणत्वात्स्वार्थिको णिजित्यन्ये । इहेति । अवस्था = पदविशेषात्मकावयवसंनिवेशविशेषः । प्रथमा च तृतीया च प्रथमतृतीये । तयोरवस्थयोरिति विग्रहः ।सर्वनाम्नो वृत्तिमात्रे॑ इति प्रथमाशब्दस्य पुंवत्त्वम् । पश्यन्ति भवं भक्ता इति प्रथमावस्था । पदविशेषसंदर्भ इति यावत् । अवस्थैव कक्ष्येति व्यवहरिष्यते मूले । कक्ष्या हि राजधान्यादौ जनविशेषसङ्घातनिवासात्मिका अनन्तरस्थानप्रापिका । तद्यथा रामायणे — आपञ्चमायाः कक्ष्याया नैनं कश्चिदवारय॑दित्यादि । इदं च प्रथमवाक्यं प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् । चाक्षुषज्ञानविषयत्वापादने दृश्यर्थे प्रेरणांऽशत्यागसय् प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याऽभावे असंभवात् । प्रेरणांऽशत्यागे पश्यति भव इति द्वितीया कक्ष्या तु दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमण्णिचि दर्शयन्ति भवं भक्ता इति तृतीयवाक्यस्य पश्यन्ति भवं भक्ता इति प्रथमवाक्यसमानार्थकस्य प्रवेशापत्तेः । तृतीयं वाक्यं त्विदं दर्शयन्तीति — ण्यर्थस्याऽविवक्षायां दर्शयते भव इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्य्समानार्थकस्य ण्नय्तघटितस्योपपादकमिति स्पष्टमेव । तथा च प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भवं भक्ताः, दर्शयन्ति भवं भक्ता इत्यनयोः , तथा पश्यन्ति भवः, दर्शयते भव इति द्वितीयचतुर्थ्योः कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थः । तत्र प्रथमद्वितीययोः कक्ष्ययोर्दृशेण्र्यन्तत्वाऽभावादेव तङो न प्रसक्तिरिति मत्वा आह — तत्र तृतीयकक्ष्यायां न तङिति । कुत इत्यत आह — क्रियासाम्येऽपीति ।दर्शयन्ति भवं भक्ता॑ इति तृतीयक्ष्यायाः,पश्यन्ति भवं भक्ता॑ इति प्रथमकक्ष्यासमनार्थकतयाअणौ या क्रिया सैव चेण्ण्यन्तेनोच्येते॑त्यंशस्य सत्तवेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्यदर्शयन्ति भवं भक्ता॑ इति तृतीयकक्ष्यायां णौ कर्तृत्वाऽभावादित्यर्थः । एवं चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्युदाहरणं चेत्युक्तं भवति । अणा या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यंशस्य तु अध्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायां न तङिति फलं वक्ष्यते । चतुर्थकक्ष्या तु प्ररकृतसूत्र्सयोदाहरणमित्याह — चतुर्थ्यां तु तङिति । 'णेरणौ' इति प्रकृतसूत्रेणे॑ति सेषः । तदेवोपपादयति - द्वितीयामादायेति । 'पश्यति भव' इति द्वितीयकक्ष्यायां या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव 'दर्शयते भव' इति चतुर्थक्ष्यायां ण्यन्तदृश्यर्थत्वादित्यर्थः । अनेनअणौ या क्रिया सैव चेण्ण्यन्तेनोच्येते त्यंश उपपादितः । अथअणौ यत्कर्मकारकं णौ स चेत्कर्ता स्या॑दित्यंशमुपपादयति — प्रथमायामिति ।पश्यन्ति भवं भक्ता॑ इति प्रथमकक्ष्यायामण्यन्तदृशिकर्मणो भवस्य 'दर्शयते भव' इति चतुर्थकक्ष्यायां ण्यन्तदृशिकर्तृत्वाच्चेत्यर्थः । अथ कर्तृस्थक्रियधातुमुद#आहरति — एवमारोहयते हस्तीत्यादि । तत्र प्रथमकक्ष्यामाह — आरोहन्ति हस्तिनं हस्तिपका इति । हस्तिनं पान्तीति हस्तिपाः । त एव हस्तिपकाः । स्वार्थे कः । उपरिभागाक्रमणानुकूलव्यापारो रुहरेर्थः । तत्र प्रासादमारोहतीत्यादौ उपरिभागाक्रमणानुकूलव्यापारः सोपानगमनादिः । इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाक्रमणानुकूलो व्यापारो विवक्षितः । तच्च नीचीकरणं । तदाह — न्यग्भावयन्तीति । अत्र उपरिभागाक्रमणानुकूलन्यग्भवनानुकूलोऽङ्कुशपातादिव्र्यापारः । उपरिभागाक्रमणानुकूलन्यग्भवनं फलम् । तदाश्रयत्वाद्धस्ती कर्म । तादृशव्यापारश्रयत्वाद्धस्तिपकाः कर्तारः । अत द्वितीयकक्ष्यामाह — तत इति । प्रेरणांशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थकाल्लटि आरोहति, हस्तीति न्यग्भवतीत्यर्थः । प्रेषणांऽशपरित्यागे फलितमाह — न्यग्भवतीत्यर्थ इति । अथ तृतीयकक्ष्यामाह — ततो णिजिति । प्रेषणांऽशं परित्यज्य न्यग्भवनार्थकत्वमाश्रिताद्धातोः प्रेषणविवक्षायायं हेतुमण्णिजिति भावः । आरोहयन्तीति । 'हस्तिनं हस्तिपका' इति शेषः । प्रेषणांशनिवृत्तौ णिजन्तस्य फलितमर्थमाह - आरोहन्तीत्यर्थ इति । आक्रमणाय हस्तिनं न्यग्भावयन्तीति यावत् । चतुर्थकक्ष्यामाह — तत इति । अविवक्षितप्रेषणाण्ण्यन्तात्प्रकृतसूत्रेणात्मनेपदे आरोहयते इति रूपमित्यर्थः । प्रेषणांऽशत्यागे सति ण्यन्तस्य फलितमर्थमाह — न्यग्भवतीत्यर्थ इति.तददेवंनिवृत्तप्रेषणाअद्धातोः प्राकृतेऽर्थे णिजिष्यते॑ इति पक्षमाश्रित्योदाहृतम् । इदानीमध्यारोपितप्रेषणपक्षमाश्रित्य आह — यद्वेति । पश्यन्तीति । पश्यनति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्या पूर्ववद्व्याख्येयेत्यर्थः । द्वितयीकक्ष्यामाह — ततः कर्मण इति । दृशे रुहेश्च प्थमकक्ष्यायां कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजकर्तृकत्वरूपहेतुत्वारोपाद्धेतुमण्णिजित्यर्थः । दर्शयति भव इति ।भक्ता॑निति शेषः । तदाह — पश्त आरोहतश्च प्रेरयतीत्यर्थ इति । चाक्षुषज्ञानविषयत्वमापादयतो भक्तान्भवः प्रेरयति, न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः । उभयत्रहेतुमण्णिच् । तत्र प्रकृतिभ्यां दृशिरुहिभ्यामेकैकं प्रेरणम् । णिचा तु तद्विषयकमेकैकं प्रेरणान्तरं प्रतीयते इति स्थितिः । चतुर्थकक्ष्यामाह - ततो णिज्भ्यामिति । हेतुमण्णिज्भ्यां, तत्प्रकृतिभूतदृशिरुहिभ्यां च उपात्तयोः प्रेरणयोस्त्यागे सत चाक्षुषज्ञानविषयो भवति भव इति, न्यग्भवति हस्तीति चार्थः पर्यवस्यति । तत्र प्रकृतसूत्रेणात्मनेपदे दर्शयति भवः, आरोहयते हस्तीति च सिद्धमित्यर्थः । पश्यन्ति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्यायां कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायां कर्तृत्वात्, प्रथमकक्ष्यायामणौ या क्रिया तस्या एवाऽत्र तृतीयकक्ष्यायां कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायां कर्तृत्वात्,प्रथमकक्ष्यामणौ या चाक्षुषज्ञानविषयं कुर्वन्तीति, न्यग्भावयन्तीति प्रकृत्युपात्तस्यप्रेषणांशसय् तृतीयकक्ष्यायां त्यागागदणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यंशसय्कथं प्रवृत्तिरिति वाच्यम्,सैव चेण्ण्यन्तेने॑त्यत्र आधिक्यमात्रं व्यवच्छिद्यते, नतु न्यूनत्वमपीत्यदोषात् । ननु द्वितीयकक्ष्यामेव कुतो न तङित्यत आह — अस्मिन्पक्षे द्वितीयेति । कुत इत्यत आह — समानक्रियत्वाभावादिति । द्वितीयकक्ष्यायामणौ या क्रिया सैव चेण्ण्य्नतेनोच्येतेत्यंशस्याऽभावादिति यावत् । तदेवोपपादयति — णिजर्थस्येति । णेरिति किम् । पश्यत्यारोहतीति निवृत्तप्रेषणान्मा भूत् । स्मरति वनगुल्मं कोकिल इति । स्मृतिविषयत्वमापादयतीत्यर्थः । पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितयीतृतीयकक्ष्योरप्युपलक्षणम् । तत्र निवृत्तप्रेषणपक्षेस्मरति वनगुल्मट इति द्वितीयकक्ष्या । स्मृतिविषयो भवतीत्यर्थः ।स्मरयति वनगुल्मं कोकिल॑ इति तृतीयकक्ष्या । स्मृतिविषयत्वमापादयतीत्यर्थः । द्वितीयकक्ष्या । प्रेषणपक्षे तुस्मरयति वनगुल्मः कोकिल॑मिति द्वितीयकक्ष्या । स्मरन्तं प्रेरयतीत्यर्थः । स्मरयति वनगुल्म इति । प्रत्युदाहरणमिदम् । निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा । अध्यारोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्यम् । 'स्मृ आध्याने' इति घाटादिकत्वेन मित्त्वद्ध्रस्वः । विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्दोन्दुशेखरेष्वनुसन्धेयः ।", "13068": "<<भीस्म्योर्हेतुभये>> - भीस्म्योर्हेतुभये ।अनुदात्तङितः॑इत्यत आत्मनेपदमिति, 'णेरणौ' इत्यतो णेरिति चानुवर्तते । हेतुः- प्रयोजकः । तदाह - आभ्यां ण्यन्ताभ्यामित्यादि अकत्र्रभिप्रायार्थमिदम् । ननु हेतोश्चेद्भयस्मयावित्यनुवपपन्नं, सूत्रे स्मयग्रहणाऽभावादित्यत आह — सूत्रे भयेति । सूत्रे भयग्रहणं स्मिङ्घात्वर्थस्य स्मयस्याप्युलक्षणमित्यर्थः । मुण्डो भापयते इति । अत्र आत्त्वं पुक्, आत्मनेपदं च । भिय आत्त्वाऽभावपक्षे विशेषमाह —", "13069": "<<गृधिवञ्च्योः प्रलम्भने>> - गृधिवञ्च्योः । प्रलम्भनं प्रतारणमिति मत्वाऽऽह- प्रतारणेऽर्थे इति । प्राग्वदिति । आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः ।", "13070": "<<लियः सम्माननशालीनीकरणयोश्च>> - लियः संमानन । 'लिय' इतिलीलीङोग्र्रहणम् । 'अनुदात्तङितः' इत्यत् आत्मनेपदमिति, 'णेरणौ' इत्यतो णेरिति चानुवर्तते ।णिचश्चे॑ति सिद्देऽकत्र्रभिप्रायार्थमिदम् । संमाननं - पूजालाभः । शालिनीकरणम् - अभिनवः । चकारात्गृधिवच्च्यो॑रितिपूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते । तदाह — लीङ्लियोरित्यादिना ।", "13071": "<<मिथ्योपपदात् कृञोऽभ्यासे>> - मिथ्योपपदात् । अभ्यासवृत्तेर्मिथ्याशब्दोपपदकात्कृञ आत्मनेपदमित्यर्थः । इत ऊध्र्वंणे॑रिति निवृत्तम् ।", "13072": "<<स्वरितञितः कर्त्रभिप्राये क्रियाफले>> - स्वरितञितः । स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य तस्मादिति बहुव्रीहिः । इच्छब्दः प्रत्येकं सम्बध्यते । तदाह — स्वरितेतो ञितश्चेति । धातोरित्यनन्तरंलस्य स्थाने॑इति शेषः । कर्तारमभिप्रैति गच्छतीतिकत्र्रभिप्रायम् । कर्मण्यण् । तदाह — कर्तृगामिनीति । एवं चहोता याज्यया यजती॑त्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाऽभावान्नात्मनेपदम् । तथावेतनेन यज्ञदत्तभृतो देवदत्तः पचती॑त्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाऽभावान्नात्मनेपदम् । दक्षिणादिलाभस्तु न फलम् । लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिस्तस्यैवात्र क्रियाफलशब्देन । विवक्षित्वात् । कर्तृगामिफलकक्रियावृत्तेर्धातोरित्यर्थः । आत्मनेपदं तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम् ।", "13073": "<<अपाद्वदः>> - अपाद्वदः । अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः । न्यायमपवदते इति । वचनेने निरस्यतीतय्र्थः ।किमिह वचनं न कुर्यान्नास्ति वचनस्यातिभारः॑ इति न्यायात् ।", "13074": "<<णिचश्च>> - णिचश्च ।अनुदात्तङितः॑इत्यत आत्मनेपदमिति,स्वरितञितः कत्र्रभिप्राये क्रियाफले॑ इति चानुवर्तते । प्रत्ययग्रहणपरिभाषया । णिजन्तादिति लभ्यते । तदाह — णिजन्तादित्यादिना । चोरयतीति । चोरयिष्यति । चोरयिष्यते । चोरयतु । चोरयताम् । अचोरयत् । अचोरयत । चोरयेत । आशीर्लिहि परस्मैपदे आह - चोर्यादिति ।णेरनिटी॑ति णिलोप इति भावः । आशीर्लिङि आत्मनेपदे आह - चोरयिषीष्टेति । लुङ्याह - णिश्रीत्यादि । दीर्घो लघोरिति ।सन्वल्लघुनी॑ति सन्वद्भावविषयत्वादिति भावः । चिति स्मृत्याम् । चिन्तयतीति । इदित्त्वान्नुमि णिजन्तात्तिङ उत्पत्तिरिति भावः । ननु इदित्करणं मास्तु, प्रक्रियालाघवात्चिन्त स्मृत्या॑मित्येवोच्यताम् । न च नलोपनिवृत्त्यर्थमिदित्त्वमिति वाच्यं, चिन्तयति चिन्तयांचकारेत्यादौ णिचः क्ङित्त्वाऽभावादेव नलोपस्याऽप्रसक्तेः । न च णिजभावे आशीर्लिङि चिन्त्यादिति, कर्मलकारे यकि चिन्त्यते इत्यत्र नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्क्यं, चुरादिणिचो नित्यत्वेन णिचं विना केवलात् चिन्त्यात् चिन्त्यते इति प्रयोगस्य शशशृङ्गायमाणत्वादित्यत आह — चिन्तेत्यादि । तेनेति । पाक्षिकत्वेनेत्यर्थः । तथा च कदाचित् चिन्त्यात् चिन्त्यते इति प्रयोगस्य सत्त्वात्तत्र नलोपनिवृत्त्यर्थमिदित्करणमिति भावः । ननु तथापि यत्र नलोपप्रसक्तिस्तत्रैव चिन्त्यात् चिन्त्यते इत्यत्र णिज्विकल्पः स्यान्नतु चिन्ततीत्यादौ, शपा व्यवधानेन तत्र नलोपस्याऽप्रसक्तेरित्याशङ्क्य ज्ञापकमिदं चिन्तधातुसामान्यापेक्षमित्यभिप्रेत्योदाहरति — चिन्तिति । चिन्तेदिति । ज्ञापकमिदं चुरादित्वसामान्यापेक्षमिति मतान्तरमाह — एतच्चेति । ज्ञापकस्य चुरादित्वसामान्यापेक्षत्वे वृद्धसंमतमाह- अत एकेति । ज्ञापकस्य चितिधातुमात्रिषयकत्वे गणधातोश्चौरादिकस्य जगणतुरित्युदाहरमानुपपत्तिः स्पष्टैवेति भावः । विशेषापेक्षमिति । चितिधातुमात्रविषमित्यर्थः । इदमेव मतं युक्तमित्याह — अत एवेति । सर्वस्यापि चुरादैर्णिज्विकल्पे सतिआ धृषाद्वा॑इति कतिपयचुराद्यन्तर्गणपठितानां णिज्विकल्पिविदिवैयथ्र्यमिति भावः । यत्रि सङ्कोचे । यन्त्रयतीति । अकारस्य उपधात्वाऽभावान्न वृद्धिः । अययन्त्रदिति । अकारस्य गुरुत्वादलघुत्वाल्लघुपरकत्वाऽभावात् सन्वद्भावाऽभावादित्त्वदीर्गौ न । एवमग्रेऽपि संयोगान्तधातूनां ज्ञेयम् । पठितुं शक्यमिति । नलोपाऽभावस्तु इदित्त्वस्य न फलं, नकारस्य उपधात्वाऽभावादेव नलोपस्याऽप्रसक्तेरिति भावः । तच्चिन्त्यमिति । यन्त्र्यादित्यणिजन्ते सत्यपि नकारस्य अनुपधात्वादेव लोपाऽप्रसक्त्या इत्त्वस्य प्रयोजनाऽभावादिति भावः । एवं 'कुद्रि अनृतभाषणे'तत्रि कुटुम्बधारणे॑ 'मत्रि गुप्तभाषणे' इति चुरादौ पठिष्यमाणेष्वपि इदित्त्वं त्यक्तुं शक्यमित्यर्थः । लड उपसेवायां । लाडयतीति । णिचि अतुपधावृद्धिः । एवमग्रेऽपि ज्ञेयम् । अलीलडत् । पीड अवगाहने ।", "13075": "<<समुदाङ्भ्यो यमोऽग्रन्थे>> - समुदाङ्भ्यो । सम्, उत्, आङ् एतत्पूर्वादग्रन्थविषयकाद्यमेरात्मनेपदमित्यर्थः । व्रीहीन्संयच्छते इति । संगृह्णातीत्यर्थः । भारमुद्यच्छते इति । उदृह्णातीत्यर्थः । वरुआमायच्छते इति । कटआदौ निबध्नातीत्यर्थः । कत्र्रभिप्राये इत्येवेति । व्रीहीन् संयच्छतीति । परार्थं संगृह्णातीत्यर्थः । 'आङो यमहनः' इत्येव सिद्धे आड्ग्रहणं सकर्मकार्थम्, तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम् ।", "13076": "<<अनुपसर्गाज्ज्ञः>> - अनुपसर्गाज्ज्ञः । अनुपसर्गाज्ज्ञादातोरात्नेपदमित्यर्थः ।अकर्मकाच्चे॑त्येव सिद्धे सकर्मकार्थमिदम् । तदाह — गां जानीते इति । कथमिति । अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याऽप्रवृत्तेः सकर्मकतयाअकर्मकाच्चे॑त्यस्याप्यप्रवृत्तेरनुजज्ञे इतिकथमात्मनेपदमित्यर्थः । समाधत्ते — कर्मणि लिडिति । तथा चभावकर्मणोटरित्यात्मनेपदमिति भावः । सुतस्य गमनमनुज्ञातमित्यर्थः फलति । नन्वेवं सति 'नृप' इति प्रथमान्तरस्य कथमिहान्वय इत्यत आह — नृपेणेति विपरिणाम इति । अवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तरं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः ।", "13077": "<<विभाषोपपदेन प्रतीयमाने>> - विभाषोपपदेन । स्वरितञित इत्यादीति ।स्वरितञितः कत्र्रभिप्राये क्रियाफले॑,अपाद्वदः॑,णिचश्च॑,॒समुदाङ्भ्यो यमोऽग्रन्थे॑,॒अनुपसर्गाज्ज्ञः॑ इति पञ्चसूत्रीत्यर्थः । समीपोच्चारितं पदमुपपदम्, नततुतत्रोपपदं सप्तमीस्थ॑मिति सङ्केतितम्, असंभवात् । तदाह — समीपोच्चारितेन पदेनेति । फस्य कर्तृगामित्वे नित्यमात्नेपदे पञ्चसूत्र्या प्राप्ते विभाषेयमितिन वेति विभाषा॑इति सूत्रे भाष्ये स्पष्टम् । स्वं यज्ञमिति । स्वीयमित्यर्थः । अत्र स्वशब्देनैव फलस्याऽऽत्मगामित्वावगमात् 'स्वरितञितः' इति नित्यात्मनेपदस्यानेन विकल्पः । स्वं यज्ञं कारयतीत्यत्रणिचश्चे॑त्यस्याऽनेन विकल्पः । स्वं व्रीहिमिति । अत्र 'समुदाङ्भ्यो यमः' इत्यस्याऽनेन विकल्पः । स्वां गामिति । अत्र 'अनुपसर्गाज्ज्ञः' इत्यस्याऽनेन विकल्पः । इत्यात्मनेपदप्रक्रिया । स्वरादिनिपातमव्ययम् ।१.१.३७ ।स्वरादिनिपातमव्ययम् । स्वर् आदिः येषां ते स्वरादयः, ते च निपाताश्चेति समाहारद्वन्द्वः । फलितमाह — स्वरादय इति । स्वरादीन् पठति — स्वरित्यादिना । स्वरादीनांचादीनां च पृथक्पाठस्तुनिपाता आद्युदात्ताः॑ इति स्वरभेदार्थः, चादीनामसत्त्ववाचिनामेवाऽव्ययत्वम्, स्वरादीनां तु सत्त्ववाचिनामसत्त्ववाचिनां च तदिति व्यवस्थार्थश्च । स्वर् — स्वर्गे पारत्रिकसुखविशेषे,परलोके च । अन्तर् — मध्ये । प्रातर्-प्रत्यूषे । पुनर् — अप्रथमे, विशेषे च । सनुतर — अन्तर्धाने । स्वराद्याः पञ् रेफान्ताः । र्तेन स्वर्याति प्रातरत्रेत्यादौहशि चे॑त्युत्त्वं न, तत्र 'रोः' इत्युकारानुबन्धग्रहणात् ।उच्चैस् — महति । नीचैस् — अल्पे । शनैस् — क्रियामान्द्ये । ऋधक् — सत्ये । वियोगशैघ्र्यसामीप्यलाघवेष्वित्यन्ये । ऋते — वर्जने । युगपत्-एककावे । आरात्-दूरसमीपयोः । पृथक् — भिन्ने । ह्रस्-अतीतेऽह्नि । दिवा-दिवसे । रात्रौ-निशि । सायं-निशामुखे । चिरं बहुकाले । मनाक्, ईषत् — इदं द्वयमल्पे । जोषं-सुखे, मौने च । तूष्णीम् — मौने । बहिस् अवस — इदं द्वयं बाह्रे । समया — समीपे, मध्ये च । निकषा — अन्तिके । स्वयम् — आत्मनेत्यर्थे । वृथा — व्यर्थे । नक्तम् — रात्रौ । नञ् — निषेधे ।तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।॑ इत्यन्ये । हेतौ — निमित्ते । इद्धां — प्रकाशये । अद्धा — स्फुचावधारणयोः । तत्त्वातिशययोरित्यन्ये । सामि — अर्धे, जुगुप्सिते च । वत् इत्यनेनतेन तुल्यं क्रिया चेद्वतिः॑ 'तत्र तस्येव' 'तदर्हम्' इति वतिप्रत्ययो गृह्रते ।उपसर्गाच्छन्दसि धात्वर्थे॑ इति वतिस्तु न गृह्रते,परावतो निवत उद्वतश्चे॑त्यत्राव्ययत्वाऽभावात् । वस्तुतस्तुतद्धितश्चासर्वविभक्तिः॑ इत्येव सिद्धे वतिग्रहणमिह व्यर्थमेव । ब्राआहृणवत्, क्षत्रियवदिति वतिप्रत्ययान्त स्योदाहरणम् । केवसप्रत्ययस्य अव्ययत्वे प्रयोजनाऽभावात् । सना, सनत्, सनात्-एतत्रयं नित्ये । उपधा-भेदा । तिरस् — अन्तर्धौ, तिर्यगर्थे, पराभवे च । अन्तरा — मध्ये, विनार्थे च । अन्तरेण — वर्जने । वस्तुतस्तुअन्तबोध्यम् । ज्योक् — कालभूयस्त्वे प्रश्ने, शीघ्रार्थे, सम्प्रतीत्यर्थे च । कम् — वारिमूर्धनिन्दासुखेषु । शम् — सुखे । सहसा आकस्मिकाविमर्शयोः । विना वर्जने । नाना अनेकविनार्थयोः । स्वस्ति-मङ्गले । स्वधा-पितृहविर्दाने । अलम् — भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट्, वौषट्, श्रौषट्, एतत्रयं देवहविर्दावे । अन्यत्-अन्यार्थे । अस्ति-सत्तयाम् ।उपसर्गविभक्तिस्वरप्रतिरूपकाश्चे॑ति चाद्यन्तर्गणसूत्रादेवअस्ति॑शब्दस्य विभक्तिप्रतिरूपकस्य अव्ययत्वसिद्धेरिह स्वरादिगणे तस्य पाठो व्यर्थ इति मतुप्सूत्रे भाष्यकैयटयो स्थितम् । उपांशु — अप्रकाशोच्चारणे, रहस्ये च । क्षमा — क्षान्तौ ।विहायसा — आकाशो । दोषा — रात्रौ । मृषा मिथ्या-इदं द्वयं वितथे । मुधा-व्यर्थे । पुरा — अविरते, चिरातीते, भविष्यदासन्ने च । मिथो मिथस्-इदं द्वयं रहसि, सहार्थे च । प्रायस् — बाहुल्ये । मुहुस् — पुनरार्थे । प्रबाहुकम् — समानकाले, ऊध्र्वार्थे च । प्रवाहिका इति पाठान्तरम् । आर्यहलम् — बवात्कारे । शाकटायनस्तु — आर्येति प्रतिबन्धे, हलमिति निषेधानुवादयोरित्याह । अभीक्ष्णम्-पौनः पुन्ये । साकम् सार्धम् — इदं द्वयं सहार्थे । नमस्-नतौ । हिरुक् वर्जने । धिक्-निन्दाभत्र्सनयोः । अम्-शैध्न्ये, अल्पे च । आम्-अङ्गीकारे । प्रताम् — ग्लानौ । प्रशाम्-समानार्थे । प्रतान् — विस्तारे । अत्र 'प्रतान्' इति नान्तस्य पुनः पाठसामर्थ्यात् । प्रताम्, प्रशाम् इति पूर्वयोः 'मो नो धातोः' इति नत्वं न । प्रशान् इति नान्तपाठस्तु असाम्प्रदायिकः । 'कृन्मेजन्तः' इति सूत्रभाष्यस्वरसोऽप्येवभिति शब्देन्दुशेखरे स्थितम् । मा, माङ् — एतो निषेधे । आकृतिगणोऽयमिति । ततश्च अन्येऽप्येवंजातीयकाः स्वरादिगणे ज्ञेयाः । तथाहि — कामम्-स्वाच्छन्द्ये । प्रकामम्-अतिशये । भूयस् — पुनरर्थे । साम्प्रतम् — न्याय्ये । परम्-किन्त्वर्थे । साक्षात्-प्रत्यक्षे । साचि-तिर्यगर्थे । सत्यम् — अर्धाङ्गीकारे । मङ्क्षु, आशु — इदं द्वयं शैघ्र्ये । संवत्-वर्षे । अवश्यम् — निश्चये । सपदि — शैघ्र्ये । बलवत् — अतिशये । प्रादुस् आविस् — इदं द्वयं प्रकाशे । अनिशम्, नित्यम्, सदा, अजरुआम्, सन्ततम् — एतत्पञ्चकं सातत्ये । उषा — रात्रौ । रोदसी द्यावापृथिव्यर्थे । ओम् — अङ्गीकारे ब्राह्म्णि च । अत्र अश्च उश्च म् चेति समाहारद्वन्द्वे, ओम्शब्दो ब्राहृविष्णुशिवात्मकब्राहृवाची । 'अवतेष्टिलोपश्च' इत्युणादिव्युत्पन्नस्तु ब्राहृण्यङ्गीकारे चेति विवेकः ।अवतेष्टिलोपश्चे॑त्यस्यायमर्थः, — अवधातोर्मन्स्यात्प्रत्ययस्य टिलोपश्चेति । अव्म् इति स्थितेज्वरत्वरे॑ति वकारस्य उपधाभूतस्याकारस्य च ऊठ्, ऊकारद्वयस्य सवर्णदीर्घः,सार्वधातुके॑ति तस्य गुणः, ओमिति रूपम् । उभयोरपि स्वरादित्वम् । न चौणादिकस्य 'कृन्मेजन्तः' इत्येव सिद्धमिति वाच्यम्, उणादौ हिच्विकव्यय॑मिति पठते । च्व्यन्तानां नेतर॑दिति । ततश्च ओमित्यस्य औणादिकस्याऽप्राप्ते अव्ययत्वे स्वरादिपाठ इत्यलम् । भूः — पृथिव्याम् । भुवर् — अन्तरिक्षे । झटिति, द्राक्, तरसा-त्रयमिदं शैघ्र्य#ए । सुष्ठु — प्रशंसायाम् । दुष्ठु — निकृष्टे । सु-पूजायाम् । आः — आश्चर्ये । कु — कुत्सिते, ईषदर्थे च । अञ्जसा — तत्त्वे शीघ्रार्थे च । मिथुं-द्वावित्यर्थे । अस्तम् — विनाशे । स्थाने-युक्तार्थे । ताजक् — शैघ्र्ये । चिराय चिररात्राय, चिरस्य, चिरम्, चिरेण, चिरात् — इति षट्कं चिकार्थकम् । वरम् — ईषदुत्कर्षे । आनुषके-आनुपूर्व्ये । अनुषक् — अनुमाने । अमेनः-शीघ्रसाम्प्रतिकयोः । सुदि — शुक्लपक्षे । वदि-कृष्णपक्षे इत्यादि । इति स्वरादयः । अथ चादीनाह — च वा इत्यादिना । च — समुच्चयान्वाचयेतरेतरयोगसमाहारेषु । वा — विकल्पादिषु ।वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये ।॑ ह — प्रसिद्धौ । अह — अद्भुते, खेदे च । एव — अवधारणे, अनवकॢप्तौ च । एवम्-उक्तपरामर्शे । नूनम् — निश्चये, तर्के च । शआत् — पौनःपुन्ये, नित्ये, सहार्थे च । युगपत् — एककाले । भूयस्-पुनरर्थे, आधिक्ये च । कूपत्-प्रश्ने, प्रशंसायां च । कुवित् — भूर्यर्थे, प्राशंसायां च । नेत् — शङ्कायां, प्रतिषेधविचारसमुच्चयेषु च । चेत् — यद्यर्थे । चण् अयं चेदर्थे णित्, समुच्चयादिष्वननुबन्धकः । स्वरे भेदः फलम् । कच्चित् — इष्टप्रश्ने । यत्र-अनवकॢप्त्यवमर्षगर्हाश्चर्य#एयु ।नावकल्पयामि, न मर्षये, गर्हे, आश्चर्यं वा यत्र भवान्वृषलं याजयेत् । नग-प्रत्यारम्भे । हन्त — हर्षे, विषादे, अनुकम्पायां, वाक्यारम्भे च । माकिः माकिम्, नकिः,-इदं त्रयं वर्जने । माङ्नञौ-स्वरादिषूक्तौ । अन्यतरत्र पाठ इति युक्तम्, उभयत्र पाठस्तु ब्यर्थ एव । नच निपातस्वरार्थ इह पाठ इति वाच्यं, 'फिषोऽन्त उदात्तः' इत्येव तत्सिद्धेः । नच सत्त्ववचनत्वेऽप्यव्ययत्वार्थं स्वरादिपाठ इति वाच्यं, तथा सति लक्ष्मीवाचकस्यापि माशब्दस्याव्ययत्वापत्तेः । तस्माच्चादिष्वेव माङ्नञौ पाठआवित्याहुः । यावत् तावत्-इदं द्वयं साकल्यावधिमानावधारणेषु । त्वै — विशेषवितर्कयोः । द्वै-वितर्के । न्वै इति पाठान्तरम् । रै — दाने, अनादरे च । श्रौषट्, वौषट्, स्वाहा — इदं त्रयं देवहविर्दाने । स्वधा — पितृदाने । श्रौषडादीनामनेकाचां त्रयाणाअं स्वरभेदार्थ उभयत्र पाठः । तुम्-तुङ्कारे । तथाहि — निदर्शने । खलु — निषेधवाक्यालंकारनिश्चयेषु । किल — इवार्थे, वार्तायाम्, अलीके च । अथ — अयं मङ्गलानन्तरारम्भश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु । अयं स्वरादावपि । तेन मङ्गलवाचकस्य सत्त्वार्थंकत्वेऽप्यव्ययत्वम् । तथाच श्रीहर्षः — ॒\tयथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयाम्बभूव ताम् इति । 'अथ स्नपयाम्बभूव' इत्यस्य मङ्गस्नानं कारयामासेत्यर्थः । निपातश्चाऽथशब्दः भृदङ्गादिध्वानवत् मङ्गवम् । सुष्ठु । स्वरभेदार्थः पुनः पाठः । स्म — अतीते, पादपूरणे च । आदह — उपक्रमहिंसाकुत्सनेषु । उपसर्गविभक्ति । चादिगणसूत्रमेतत् । उपसर्गप्रतिरूपकाः, विभक्त्यन्तप्रतिरूपकाः, अच्प्रतिरूपकाश्च चादिगणे पाठआ इत्यर्थः । तत्रोपसर्गप्रतिरूपकमुदाहरतिअवदत्तमिति । अत्र अवेत्युपसर्गप्रतिरूपकं, न तूपसर्गः । ततस्च 'अच उपसर्गातः' इति तो न भवति । तादेशे तुअवत्त॑मिति स्यात् । अहंयुरिति ।अह॑मिति सुबन्तप्रतिरूपकहङ्कारे ।अहंशुभमोर्यु॑सिति मत्वार्थीयो युस् । अत्र अहमिति न अस्मच्छब्दस्य प्रथमैकवचनम्, तथा सतिप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तस्य मदादेशे मद्युरित्यापत्तेः । अस्तिक्षीरेति । अस्ति क्षीरं यस्या इति बहुव्रीहिः । अत्र अस्तीति तिङन्तप्रतिरूपकमव्ययं, नतु तिङन्तम् । तथा सति बहुव्रीह्रनुपपत्तेः । 'अनेकमन्यपदार्थे' इति बहुव्रीहिविधौ सुबित्यनुवृत्तेः । एवं च बहुव्रीहिविधौअस्तिक्षीरेत्युपसंख्यान॑मिति वार्तिकं न कर्तव्यमिति 'अनेकमन्यपदार्थे' इत#इ सूत्रे भाष्ये स्पष्टम् ।स्वरप्रतिरूपकानुदाहरति — अ इत्यादिना । अ — सम्बोधने । आ — वाक्यस्मरणयोः । इ — सम्बोधनजुगुप्साविस्मयेषु । इ उ ऊ ए ऐ ओ औ इतचि सप्तकं सम्बोधने । पशु — सम्यगर्थे । शुकम् — शेघ्र्ये । यथाकथाच सङ्घातोऽयमनादरे । पाट् प्याट् अङ्ग है हे भो अये एते सप्त सम्बोधने । द्य हिंसाप्रातिलोम्यपादपूरणेषु विषुनानार्थे । एकपदे-अकस्मादिदित्यर्थे । युत्-कुत्सायाम् । आतः-इतोऽर्थे । चादिरप्याकृतिगण इति । यत् तत् द्वयंहेतौ । आहोस्वित् विकल्पे । सम् सर्वतोभावे । कम् पादपूरणे ष । सुकमतिशये । अनु वितर्के । शम्बत्(ट) अन्तःकरणे, आभिमुख्ये च । व पादपूरणे इवार्थे च । चटु चाटु द्वयं प्रियवाक्ये । हुम् भत्र्सने । इव सादृश्ये । अद्यत्वे-इदानीमित्यर्थे इत्यादि । अत्र स्वरादिचाद्योराकृतिगणत्वेऽपि येषां निपातस्वर इष्टस्ते चादिषु, अन्ये तु स्वरादिषु, स्वरद्वयभाजस्तु उभयत्र बोध्याः । इति चादयः ।", "13078": "<<शेषात् कर्तरि परस्मैपदम्>> - शेषात्कर्तरि । 'अनुदात्तङित' इति 'स्वरितञित' इति चोक्तादात्मनेपदविषयादन्यः शेषः । तदाह — आत्मनेपदनिमित्तहीनादिति । अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम् । तत्र तिबादिनवके युगपत्पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्तेयुष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॑ 'अस्मद्युत्तमः' 'शेषे प्रथमः' इति व्यवस्थां वक्ष्यन् प्रथमादिसंज्ञां तावदाह — तिङस्त्रीणि त्रीणि ।", "13079": "<<अनुपराभ्यां कृञः>> - अनुपराभ्यां कृञः ।परस्मैपदमिति शेषः । ननु 'स्वरितञितः' इत्यात्मनेपदस्य कर्तगाम्नियेव फले विधानादकर्तृगामिनि फलेशेषात्कर्तरी॑ति परस्मैपदस्य सिद्धत्वात् किमर्थ मिदमित्यत आह — कर्तृगेऽपीति । गन्धनादाविति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः । मा भूदिति । भावे कर्मणि लकारस्य कर्तृगे फलेपरस्मपैदनिवृत्त्यर्थं कर्तरीत्यस्याऽनुवृत्तिरिति भावः । ननु कर्तरीत्यस्यानुवृत्तावपिअनुक्रियते शब्दः स्वयमेवे॑त्यत्र कर्मकर्तरि परस्मैपदं दुर्वारमित्याशङ्क्य परिहरति — नचेति । एवमपि = कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः । कुत इत्यत आह — कार्यातिदेशेति । तत्र कर्मकर्तरिकर्मवत्कर्मणा तुल्यक्रियः॑ इत्यात्मनेपदेन परेणाऽस्य परस्मैपदस्य बाधादित्यन्वयः । नु कर्मणि यच्छास्त्रं तत्कर्मवत्कर्मणे॑ति कर्मकर्तर्यतिदिश्यते, तथा चाऽत्र कर्मकर्तरिभावकर्मणो॑रित्यात्मनेपदशास्त्रमिह प्राप्तम् । तस्य च परत्वाऽभावात् 'अनुपराभ्यां कृञः' इत्यनेन कथं बाधः स्यादित्यत आह — कार्यातिदेशपक्षस्य मुख्यतयेति । शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम् । ततश्चकर्मवत् कर्मणे॑त्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते । तस्य च परत्वात्तेनात्मनेपदेनअनुपराभ्याटमिति परस्मैपदं कर्मकर्तरि बाधमर्हतीति भावः ।कर्मवत्कर्मणे॑त्यत्र शास्त्रातिदेशमभ्युपगम्याअह — - शास्त्रातिदेशपक्षे त्विति । 'अनुपराभ्यां कृञः' इत्यत्रकर्तरि कर्मव्यतिहारे॑ इत्यस्मादेकं कर्तृघणमनुवर्तते । तथाशेषात्कर्तरि परस्मैपद॑मित्यस्माद्द्वितीयं कर्तृग्रहणमनुवर्तते । तथा चस्वभावतः एव यः कर्ता, नतु विवक्षाधीनः कर्मकर्ता तथाविधकर्तर्येव अनुपराभ्यां कृञः परस्मैपद॑मिति लभ्यते । एवं च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः ।", "13080": "<<अभिप्रत्यतिभ्यः क्षिपः>> - अभिप्रति ।परस्मैपद॑मिति शेषः । स्वरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः । अभिक्षिपतीति । प्रतिक्षपति अतिक्,िपतीत्यप्युदाहार्यम् ।", "13081": "<<प्राद्वहः>> - प्रद्वहः । प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः । वहेः स्वरितेत्त्वात्कर्तृगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् ।", "13082": "<<परेर्मृषः>> - परेर्मृषः ।परस्मैपद॑मिति शेषः ।मृष तितक्षाया॑मिति दैवादिकस्य स्वरितेत्त्वात्पदद्वये प्राप्तेऽयं विदिः । तदाह — परिमृष्यतीति । चौरादिकस्याऽपिआधृषाद्वे॑ति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव- परिमर्षतीति । भौवादिकस्य त्विति ।मृषु सहने सेचने चे॑ति भौवादिकस्यतु परस्मैपदित्वात्परिमर्षतीत्येव रूपं सिद्धम् । अतोऽमिन् सूत्रे तस्य न ग्रहणमिति भावः । इहेति । 'परे' रिति योगो विभज्यते । 'वह' इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । 'मृष' इति योगान्तरम् । तत्र परेरित्यनुवर्तते, परेर्मृषः पर्समैपदमित्युक्तोऽर्थ इति केचिदाहुरित्यर्थः । भाष्ये त्वयं योगविभागो न दृश्यते । व्याङ्परिभ्यो रमः ।१.३.८३ ।व्याङ्परिभ्यो रमः ।परस्मैपद॑मिति शेषः । रमेरनुदात्तेत्त्वाद्विधिरयम् । विरमतीति । आरमति, परिरमतीत्यप्युदाहार्यम् ।", "13083": "", "13084": "<<उपाच्च>> - उपाच्च । उपपूर्वादपि रमेः परस्मैपदमित्यर्थः । उत्तरसूत्रे उपादित्यस्यैवाऽनुवृत्तयेव्याङ्पर्युपेभ्यो रमे॑रिति नोक्तम् । अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम्, तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात् । अतः सकर्मकमुदाहरति — यज्ञदत्तमुपरमतीति । ननु विरामार्थकत्वात्कथं सकर्मकतेत्यत आह — उपरमयतीत्यर्थ इति । ननु णिजभावात्कथमयमर्थो लभ्यते इत्यत आह — अन्तर्भावितण्यर्थोऽयमिति । धातूनामनेकार्थत्वादिति भावः ।", "13085": "", "13086": "<<बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः>> - बुधयुध । बुध युध नश जन इङ् प्रुद्रु रुआउ एषां द्वन्द्वः । बोधयति पद्ममिति ।सूर्य॑इति शेषः । बुधिर्विकसनार्थकः । विकसति पद्मम् । तद्विकासयति सूर्य इत्यर्थः ।अणावकर्मकाच्चित्तवत्कर्तृका॑दिति परस्मपैदं तु न सिध्यति, अणौ पद्मस्य कर्तृतया चित्तवत्करर्तृकत्वाऽभावत् । योधयति काष्ठानीति । काष्ठानि युध्यन्ते स्वयमेव । तानि योधयतीत्यर्थः । अणावचित्तवत्कर्तृकत्वात्अणावकर्मका॑दित्यस्य न प्राप्तिः । अतएव योधयति देवदत्तमिति नोदाहृतम्,अणावकर्मकाच्चित्तवत्कर्तृका॑दित्येव सिद्धेः । एवमग्रेऽपि ज्ञेयम् । नाशयति दुःखमिति । दुखं नश्यति, तन्नाशयति हरिरित्यर्थः । जनयति सुखमिति । जायते सुखम्, तज्जनयति हरिरित्यर्थः । अध्यापयतीति । अधीते वेदं विधिः, तमध्यापयतीत्यर्थः । 'प्रु गतौ' इत्यस्योदाहरति — प्रावयतीति । गत्यर्थकत्वं मत्वा आह — प्रापयतीत्यर्थ इति । द्रावयतीति । द्रवत्याज्यं, तद्द्रावयतीत्यर्थः । धातोद्र्रवीभावार्थकत्वं मत्वा आह — स्यान्दयतीत्यर्थ इति ।प्रीतिं भक्तजनस्य यो जनयते॑ इत्यात्मनेपदं तु प्रामादिकमेव । यद्वा भक्तजनो हरौ प्रीतिं जनयत्यत्मविषये , तां हरिर्जनयते इति ण्यन्ताण्णौ रूपम् । प्रयोज्यकर्तुः शेषत्वविवक्षय#आ भक्तजनस्येति षष्ठीत्याहुः ।", "13087": "<<निगरणचलनार्थेभ्यश्च>> - निगरण । निगरणं भक्षणम् । चलनं — कम्पनम् । एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः । पूर्वसूत्रे प्रुद्रुरुआऊणां ग्रहणं तु अचलनार्थानामेव । अत एव मूले प्रापयतीत्यादि व्याख्यातम् । पानमपि चकोरजिह्वया कथं चिदेतन्मुखचन्द्रचन्द्रिका । इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी॑ । इति श्रीहर्षश्लोके आचामयेति पृथक्पदम् । अः विष्णुः, तस्य स्त्री ई = लक्ष्मीः । तया सहिता से इत्येकारान्तस्य सेशब्दस्य संबोधनम् । 'एङ्ह्रस्वात्' इति सम्बुद्धिलोप इति व्याख्येयमिति प्रौढमनोरमायां स्थितम् । वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनाऽसंभवादाचामिरादरे लाक्षमिकःअतो निगरणार्थकत्वाऽभावान्न परस्मैपदम् । नचैवं सति प्रत्यवसानार्थकत्वाऽभावाच्चक्,ुषोःगतिबुद्धी॑ति कर्मत्वं न स्यादिति शङ्क्यम्, न ह्राचामिरत्र केवले आदरे वर्तते, किंतु दर्शनपूर्वकादरे वर्तते । सादरज्ञाने लाक्षणिक इति यावत् । ततश्च बुद्ध्यर्थकत्वादाचामेश्चक्षुषोः कर्मत्वं निर्बाधमित्यादि शब्देन्धुशेखरे प्रपञ्चितम् । अदेः प्रतिषेध इति । अदेण्र्यन्तान्निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः ।आदयते देवदत्तेने॑त्यत्र अदेः प्रत्यवसानार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह — निगरणचलनेति सूत्रेण प्राप्तस्यैवायं निषेध इति । नतु शेषात्कर्तरीति प्राप्तस्येत्येवकारार्थः, 'अनन्तरस्य' इति न्यायादिति भावः ।", "13088": "<<अणावकर्मकाच्चित्तवत्कर्तृकात्>> - अणावकर्मकात् । ण्यन्तादिति शेषपूरणम्, णेरित्यनुवृत्तेरिति भावः । अणौ यो दातुरकर्मकः, चित्तवत्कर्तृकश्च, तस्माण्ण्यन्तात्परस्मैपदमिति यावत् । चित्तवत्कर्तृकादिति किम् । व्रीहयः शुष्यन्ति, तान् शोषयते । अकर्मकात्किम् । कटं करोति तं प्रयुङ्क्ते ।कटं कारयति ।", "13089": "<<न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः>> - न पादम्याङ्यम् । पा दमि आङ्यमाङ्यमाङ्यस परिमुहरुचि नृति वद वस् एषां समाहारद्वन्द्वात्पञ्चमी । प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति — पिबतिर्निगरणार्थ इति । ततश्च 'निगरणचलनर्थेभ्यः' इति प्राप्तिरिति भावः । नृतिरिति । नृतिश्चलनार्थकः । अणौ चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः । सूत्रद्वयनेनेति ।अणावकर्मका॑दिति,निगरणचलनार्थेभ्यश्च॑ इति च सूत्रद्वयेनेत्यर्थः । पाययते इति ।शाच्छासाह्वाव्यावेपां यु॑गिति पुकोऽपवादो युक् । दमयते इति ।जनीजृष्क्नसुरञ्जोऽमन्ताश्चे॑त मित्त्वाद्ध्रस्वः । ननु दिवादौ दमिः सकर्मक इत्युक्तम्, अतः कथमिहअणावकर्मका॑दिति प्राप्तिरिति चेद्दमेः परस्मैनिषेधादेव दमिरकर्मकोऽपि । अतो दमिः सकर्मक इत्यस्य न विरोधः । आयामयते इति । 'यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः । वासयते इति । 'वस निवासे' इति भौवादिकस्यैवात्र ग्रहणम्, नतु 'वस आच्छादने' इत्यादादिकस्याऽपि, तस्य सकर्मकत्वादेवाऽप्राप्तेः,लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहण॑मित्युक्तेश्च । धेट #उपसङ्ख्यानमिति ।परस्मैपदनिषेधस्ये॑ति शेषः । धापयेते शिशुमिति मन्त्रः । ननुवत्सान् पाययति पयः॑,दमयन्ती कमनीयतामदं॑,भिक्षा वासयती॑ति च कथम् ।न पादम्यडमेति परस्मैपदस्य निषेधादित्यत आह — अकत्र्रभिप्राये इति ।अनन्तरस्ये॑ति न्यायेननिगरणचलनार्थेभ्यश्च॑,॒अणावकर्मकाटदिति सूत्रद्वयप्राप्तस्यैवन पादम्याङ्यमाङ्यमसे॑ति निषेध इति भावः । 'वा क्यषः' इत्यादि प्राग्व्याख्यातमपि सूत्रक्रमेण पुनरुपात्तम् । इतिपरस्मैपदव्यवस्था । अथ परिभाषाप्रकरणम्॥", "13090": "<<वा क्यषः>> - वा क्यषः । परस्मैपदमिति ।शेषात्कर्तरी॑त्यस्तदनुवृत्तेरिति भावः । लोहितायतीति । अलोहितो लोहितो भवतीत्यर्थः । अत्रेति ।लोहितादी॑ति सूत्रे इत्यर्थः । तच्चेति । अभूततद्भाविषयत्वमित्यर्थः । असंभवादिति । अव्यक्तानुकरणड्डाचो विहितत्वेन तस्य अभूततद्भावविषयत्वे अनुकरणत्वस्य भङ्गापत्तेरिति भावः । नाप्यादिशब्दग्राह्राणामिति ।श्यामादिशब्दाना॑मिति शेषः । तस्येति । आदिग्रहणस्येत्यर्थः । आदिगर्हणप्रख्याने प्रमाणं दर्शयति — तथा चेति । आदिग्रहणमपनीय लोहितशब्दाड्डाजन्तेभ्यश्च क्यष्वचनं कर्तव्यम् । इतराणि = लोहितादिगणपठितानि श्यामादीनि प्रतिपदिकानि भृशादिष्वेव पठनीयानीत्यर्थः । एवं च श्यामादिशब्देभ्यः क्यङि आत्मनेपदमेवेति फलितम् । तस्यापीति । आदिग्रहणस्येव क्यषः ककारस्यापि विवक्षिते सतिडाचि विवक्षिते द्वे बहुल॑मिति द्वित्वे नित्यमाम्रेडितेडाची॑ति पूर्वखण्डान्तस्य तकारस्य , उत्तरखण्डादेः पकारस्यच पररूपे एकस्मिन् पकारे, डित्त्वाट्टिलोपे, पटपटाशब्दाड्डाजन्तात् क्यषि तदन्ताल्लडादीति भावः । 'अभूततद्भावे' इति तु नात्र संबध्यते इत्युक्तम् । न ह्रपटच्छब्दः पटच्छब्दो भवतीति युज्यते । ननु कृभ्वस्तियोगाऽभावादिह कथं डाजित्यत आह — कृभ्वस्तियोगं विनापीति । भवत्यर्थसत्तामात्रेणेत्यर्थः । कुत इत्यत आह — डाजन्तादिति । तद्भाष्येति ।भृशादिष्वितराणी॑त्युक्तवार्तिकतद्भाष्यविरुद्धमित्यर्थः । तस्मादिति । उक्तवार्तिकभाष्यविरोधात्तेभ्यः श्यामादिभ्यो भृशादित्वलक्षणः क्यङेव नतु क्यषित्यर्थः । ततश्च 'वा क्यषः' इत्यस्याऽप्रवृत्तेर्ङित्त्वादात्मनेपदमेवेति मत्वाऽऽह — श्यामायते इति । श्यामो भवतीत्यर्थः । ननु देवदत्तः सुखायते इति कथम्, देवदत्तस्य सुखत्वाऽभावादित्यत आह — सुखादय इति । श्यामादिषु ये सुखदुःखादिशब्दा गुणवचनास्ते सुखादिगुणवति वर्तन्ते इत्यर्थः । एवंच 'सुखायते' इत्यस् सुखवान् भवतीत्यर्थः । एवं 'दुखायते' इत्यादावपि । ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात्स्यादित्यत आह - लिङ्गविशिष्टेति ।", "13091": "<<द्युद्भ्यो लुङि>> - द्युद्भ्यो लुङि । बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी ।तस्मादित्त्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — अद्योतिष्टेति । इआता वर्णे इति । आत्मनेपदपक्षे रूपम् । एवमग्रेऽपि द्युतादौ लुङि रूपभेदो ज्ञेयः । ञि मिदा स्नेहने इति । ञिरित् 'ञीतः क्तः' इत्येतदर्थः ।", "13092": "<<वृद्भ्यः स्यसनोः>> - वृद्भ्यः । बहुवचनाद्वृतादिभ्य इति गम्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते, 'वा क्यषः' इत्यतो वेति च । तदाह — वृतादिभ्य इति ।", "13093": "<<लुटि च कॢपः>> - लुटि च कॢपः । चकारात्वृद्भ्यः सस्यनो॑रित्यतः स्यसनोरित्यनुकृष्यते,शेषात्कर्तरी॑त्यतः परस्मैपदमिति, 'वा क्यषः' इत्यतो वेति च । तदाह — लुटि स्यसनोरित्यादिना ।", "14001": "<<आ कडारादेका संज्ञा>> - नह्यत्र द्वयोरपि संज्ञयोः समावेसे विरोधोऽस्ति, तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्ययादिसंज्ञासमावेशदर्शनादित्यत आह-आ कडारा । आङ्मर्यादायामित्याह — कडाराः कर्मधारये इति । आङिह नाभिविधौ । कडारशब्दस्यापि प्रवेशे प्रयोजनाऽभावात् ।प्राक्कडारा॑दिति कडारशब्दस्तु नोत्तरावधिः । 'कडाराः कर्मधारये' इति कडारशब्दस्य उत्तरावधित्वेऽधिकलाभात् ।प्राक्कडारादित्युत्तरं तत्पुरुषः द्विगुश्चेति चकाराच्च । संज्ञाद्वयसमावेशषार्थो हि चकारः । तत्रैकसंज्ञाया नियमाऽप्रवृत्तौ किं तेन । नन्वस्त्विह एकैव संज्ञा, तथापि विनिगमनाविरहाद्भसंज्ञैवेति कुतो लाभः । तत्राह — या परेत्यादि । विरोधाऽभावेन विप्रतिषेधसूत्रस्य सामान्याद्विशेषबलीयस्त्वस्य चाऽप्रवृत्तावपि परत्वनिरवकाशत्वयोरन्यत्र बलवत्त्वेन दृष्टत्वादिहापि ताभ्यां व्यवश्ता युज्यते इति भावः । द्वयोः सावकाशयोः परा संज्ञा बलवती । अन्यतरस्या निरवकाशत्वे तु सैवेति बोध्यम् । तत्र परा यथा — ॒धनुषा शरैर्विध्यती॑त्यत्र शराणां विश्लेषं प्रत्यवधिभूतस्यैव धनुषा व्यधनं प्रति साधकतमत्वादपादानत्वे करणत्वे च प्राप्ते परा करणसंज्ञैव भवति । अनवकाशा यथाअततक्षदिति । अत्र तकारादकारस्य 'संयोगे गुरु' इति गुरुसंज्ञैवाऽनवलकाशत्वाद्भवति, नतु लघुसंज्ञा । तस्या असंयोगे परे चरितार्थत्वात् । अतः सन्वल्लघुनीति तत्र न प्रवर्तते । तेनेति । अनवकाशत्वेनेत्यर्थः । अत इति । पदत्वाऽभावाज्जश्त्वं नेत्यर्थः । जश्त्वमिति । दत्-भ्यामिति स्थितेस्वादिष्वसर्वनामस्थाने॑ इति पदान्तत्वात् । 'झलां जशोऽन्ते' इति जश्त्वमित्यर्थः । इत्यादीति । दद्भिः दते इत्यादिरादिशब्दार्थः । 'खरि च' इति चर्त्वे-दत्सु । पक्षे रामवत् । मास इति । मासशब्दस्य शसि 'पद्दन्न' इति मासित्यादेशे रूपम् । मासेति तृतीयैकवचनम् । रुत्व इति । मास्-भ्याम् इति स्थिते स्वादिष्विति पदत्वात् 'ससजुषोः' इति रुः । 'भोभगो' इति तस्य यकारेहलि सर्वेषा॑मिति तस्य लोपे माभ्यां॑माभि॑रिति रूपमित्यर्थः । इत्यादीति । 'माब्यः' इत्यादिरादिशब्दार्थः । मास्-सु इति स्थिते रुत्वे 'खरवसानयोः' इति विसर्गे 'वा शरि' इति सत्वविकल्पः । मास्सु-माःसु ।", "14002": "<<विप्रतिषेधे परं कार्यम्>> - ननु परत्वाद्रेफलोप एव स्यादिति शङ्कितुमाह — विप्रतिषेधे । विप्रतिपूर्वात्सेधतेर्घञि उपसर्गवशात्परस्परविरोधे विप्रतिषेधशब्दः । विरोधश्च तुल्यबलयोरेव लोकसिद्धः । नहि मशकसिंहयोर्विरोध इत्यस्ति । तदाह — तुल्यबलेति । द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः । कार्यस्य परत्वञ्च-परसास्त्रविहितत्वमेव । इति लोपे च प्राप्त इति ।हशि चे॑त्यस्यावकाशः-शिवो वन्द्य इति । रेफलोपस्यावकाशः-पुना रमते इति । तत्र हि रोरित्युकारानुबन्धग्रहणाद्धसिचेत्यप्रसक्तम् । ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोर्मनोरथ इत्यत्र युगपत्सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः । तामिमां रेफलोपशङ्कां परिहरति-पूर्वत्रेति । अत्र रेफलोपस्यासिद्धत्वादित्यनुक्त्वा रो रीत्यस्यासिद्धत्वादिति ब्राउवन् पूर्वत्रासिद्धमित्य्तर शास्त्रासिद्धत्वमेवाभ्युपैति, नतु कार्यासिद्धत्वम् । तथा सति हि अतिदेशस्यारोपरूपत्वादऽसिद्धत्वोरोपान्निरधिष्ठानारोपाऽसम्भवेन सूत्रोदाहरणसम्पत्त्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात्त्रैपादिके कार्ये जाते तत्राऽभावप्रतियोगित्वारोपेऽपि देवदत्तस्य न पुनरुन्मज्जनमिति न्यायेन स्थानीबूतरोरभावाद्धशि चेत्यस्य प्राप्तिर्न स्यात् । शास्त्राऽसिद्धत्वे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्त्च्चास्त्र एवासिद्धत्वारोपात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्यांविप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । तदुक्तं — ॒पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ततश्च स्थानिनो निवृत्त्यभावात्पूर्वशास्त्रप्रवृत्तिर्निर्बाधा । एतच्च पूर्वत्रासिद्धमित्यत्र, अचः परस्मिन्नित्यत्र, षत्वतुकोरसिद्ध इत्यत्र च भाष्ये स्पष्टम् । न च तौ सदित्यादिनिर्देशाद्देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यं,हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेषः । हन्तृहन्तरि हतत्वारोपे तु सुतरां नोन्मेषः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवे॑ति न्यायशरीरम् । तावित्यादौ च वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य हननोद्यमसजातीयं प्रसङ्गमात्रम् । न तु हननस्थानीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी । ततस्च प्रवृत्तस्य रेफलोपस्याऽसिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेन रोरुन्मेषा.ञभावादुत्वं न भवतीति शब्दरत्ने प्रपञ्चितम् । न च उत्वकार्यासिद्धत्वपक्षे ।ञपि मनोरथसिद्धिरस्त्येव, दर्शनाऽभावरूपरेफलोपस्याभावरूपा.ञसिद्धत्व सति रोरुन्मेषावश्यकत्वात्, अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यं, एवमपि कार्यासिद्धत्वे अमू अमी इत्याद्यसिद्धेः । यता चैतत्तथा अदस्शब्दनिरूपणावसरे प्रपञ्चयिष्यते ।", "14003": "<<यू स्त्र्याख्यौ नदी>> - हे बहुश्रेयसी सिति स्थिते नदीकार्यं वक्ष्यन्नदीसंज्ञामाह — यूस्त्र्याख्यौ नदी । ईश्चौउश्च यू । पूर्वसवर्णदीर्घः ।दीर्घाज्जसि चे॑ति निषेधाऽभावश्छान्दसः । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्र्याख्यौ । शब्दावित्यर्थाल्लभ्यते । 'यू' इतितद्विशेषणं, ततस्तदन्तविधिः ।स्त्रिया॑मित्येव सिद्धेआख्या॑ग्रहणं नित्यस्त्रीलिङ्गलाभार्थम् । द्वित्वे नदीत्येकवचनं छान्दसम् । तदाह — इदूदन्तावित्यादिना । यू किम् । मात्रे । 'आण्नद्याः' इति न भवति । स्त्रीलिङ्गाविति किम् । वातप्रम्ये । नित्येति किम् । ग्रामण्ये ।ननु प्रकृते बहुश्रेयसीशब्दस्य पुंलिङ्गत्वात्कथं नदीसंज्ञेत्यत आह — प्रथमलिङ्गग्रहणं चेति । वार्तिकमेतत् । प्रथमस्य=समासादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य, स्त्रीलिङ्गस्य 'यूस्त्र्याख्यौ' इत्यत्र ग्रहणं कर्तव्यमित्यर्थः । नन्वेवं सति समासादिवृत्त्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङ्क्य अपिशब्दमध्याह्मत्य व्याचष्टे — पूर्वमित्यादिना । समासादिवृत्तिप्रवृत्तेः पूर्वं स्त्रीलिङ्गस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाऽभावेऽपी नदीत्वं वक्तव्यमिति वार्तिकार्थ इति भावः । अम्बार्थनद्योह्र्यस्वः ।", "14004": "<<नेयङुवङ्स्थानावस्त्री>> - नेयङुवङ्स्थानावित्यतोऽस्त्रीत्यस्यानुवृत्तिर्वक्तव्या । ततश्च इयङुवङ्स्थानाविति यत्रान्वेति तत्रैव तत्संबद्धस्याऽस्त्रीत्यस्यानुवृत्तिरुचिता । एवं च ह्रस्वादिवाक्ये इयङुवङ्स्थानावित्यस्याऽनुवृत्त्यभावादस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः । अतिस्त्रियै इति । नदीत्वपक्षे आट् वृद्धिः । अतिस्त्रये इति । नदीत्वाऽभावे घित्वात्घेर्ङिती॑ति गुणेऽयादेशः । अतिस्त्रियाः अतिस्त्रेरिति । नदीत्वे आट् । तदभावे गुणः ।ङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रियामिति । नदीत्वपक्षे ङेराम्, आट् । अतिस्त्राविति । नदीत्वाऽभावपक्षेअच्च घेः॑ । श्रीरिति । श्रयन्त्येतामिति श्रीः ।क्विब्बचिप्रच्छिश्रिस्नुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे॑ति क्विप्, प्रकृतेदीर्घश्च । श्री शब्दात्सुः । अङ्यन्तत्वान्न सुलोपः । श्रियौ श्रिय इति ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधौइको यणची॑ति यणि प्राप्ते धात्वयवेवर्णान्तत्वादचि श्नुधात्वितीयङ् । एकाच्त्वात्संयोगपूर्वकत्वाच्च यण् न । 'यू स्त्र्याख्यौ' इति नदीत्वात्अम्बार्थे॑ति ह्रस्वेप्राप्ते — नेयङुवङ् ।यू स्त्र्याख्यौ नदी॑ इत्यतो 'यू'नदी॑त्यनुवर्तते । 'स्थान' शब्दो भावे ल्युङन्तः । इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः । इयङुवङ्योग्याविति यावत् । तदाह — इयङुवङोरित्यादिना । हे श्रीरिति । अजादाबियङ्योग्यत्वान्नदीत्वनिषेधादम्बार्थनद्यौ॑रिति ह्रस्वो नेति भावः । श्रियमिति । अमि पूर्वरूपं बाधित्वा इयङ् । श्रियौ श्रिय इति । औट्शसोः पूर्ववत् । टा-श्रिया । श्रियै इति ।ङिति ह्रस्वश्चे॑ति ङिति नदीत्वपक्षे आट्, वृद्धिः । श्रिये इति । नदीत्वाऽभावे इयङ् । श्रिया इति । ङसिङसोर्नदीत्वे आट्, वृद्धिः । श्रिय इति । नदीत्वाऽभावपक्षे इयङेव । ङित्त्वाऽभावादामिङिति ह्रस्वश्चे॑ति अप्राप्ते ।", "14005": "<<वाऽऽमि>> - वाऽऽमि ।यूस्त्र्याख्यौ नदी॑त्यनुवर्तते ।नेयङुवङ्स्थानावस्त्री॑ति नञ्वर्जनमनुवर्तते । वा आमीति च्छेदः । अमि नदीकार्याऽभावात् । तदाह — इयङुवङ्स्थानावित्यादिना । श्रीणामिति । नदीत्वपक्षे 'ह्रस्वनद्यापः' इति नुट् । श्रियामिति । नदीत्वाऽभावे तु इयङेव । श्रियोः श्रीषु । प्रधीशब्दस्य त्विति । प्रध्यायतीत्यर्थेध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपे 'हलः' इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीवद्रूपाणि । तत्र 'एरनेकाचः' इति यणा इयङो बाधितत्वेन इयङ्स्थानत्वाऽभावान्नेयङुवङ्स्थानौ॑ इति नदीत्वनिषेधाऽभावा 'द्यू स्त्र्याख्यौ' इति नित्यनदीत्वे सतिअम्बार्थे॑त्यादिनदीकार्यप्रवृत्तेरिति भावः । तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यणेवेति विशेषः । ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वान्नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावात्कथं नदीकार्याणीत्यत आह — पदान्तरं विनापीति । पदान्तरसमभिव्याहाराऽभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सः नित्यस्त्रीलिङ्ग इति विवक्षितः । अत एव ब्राआहृण्यामाधीशब्दस्य आध्यै इति रूपमास्थितं भाष्येस्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये ।स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य संभवत्येव, प्रकर्षेण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात् । परन्तु प्रधीरित्युक्ते पुंसः स्त्रियाश्च प्रतीतिप्रसक्तावन्यतरव्यवच्छेदाय 'ब्राआहृणः'ब्राआहृणी॑त्यादिपदान्तरसमभिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराऽभावे स्त्रियां वृत्तिरपैति । अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वान्नदीकार्यं निर्बाधमिति भावः । लिङ्गान्तरेति ।स्त्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्व॑मिति कैयटमतम् ।स्त्रीविषायावेव यौ यू तयोरेव नदीसंज्ञे॑ति 'यू स्त्र्याख्यौ' इत्यत्र भाष्यादिति तदाशयः ।पुंवद्रूपमिति । उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यस्त्रीत्वाऽभावात्पुंसीव स्त्रियामपि अनदीत्वादिति भावः । प्रकृष्टेति । प्रकृष्टा धीरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्गत्वाल्लक्ष्मीवद्रूमित्यर्थः । अमि शसि चेति । प्रध्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दादमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा 'एरनेकाचः' इति यणित्येतावान्विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थः । कैयटमते ब्राआहृण्याम् 'आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्रभिप्रायेण नेयः । अत एव भाष्यात् 'नद्यृतश्च' इति कप् नेत्याहुः । सुष्ठि धीर्स्या इति । सुष्ठुधीर्यस्या इति, सुष्ठु ध्यायतीति उभयविधविग्रहेऽपि पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वृत्तिकारादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन 'नेयङुवङ्स्थानौ' इति नदीत्वनिषेधान्ङिति ह्रस्वश्चे॑तिवामी॑ति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि ।न भूसुधियो॑रिति यण्निषेधे इयङ एव प्रवृत्तेरिति भावः । मतान्तरे तु पुंवदिति ।लिङ्गाऽन्तरनभिधाकत्वं नित्यस्त्रीत्व॑मिति कैयटमते तु त्रिलिङ्गतया नदीत्वाऽभावात्पुंवदेव रूपमित्यर्थः । ननु सुधीशब्दे बहुव्रीहिप्रवृत्तेः प्राक् धीशब्दस्य नित्यस्त्रीलिङ्गत्वात्प्रथमलिङ्गग्रहणं चे॑ति नदीत्वं दुर्वारमिति चेत्, सत्यम्-यस्य वृत्तेः प्राक् नदीत्वं दृष्टं तस्योपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्तेः प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इयङयोग्यतया 'नेयङुवङ्स्थानौ' इति नदीत्वनिषेधाद्वृत्तावपि न तदतिदेश इत्यास्तां तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति । मतद्वयेपि नित्यस्त्रीलिङ्गत्वादिति भावः । ग्रामणीः पुंवदिति ।स्त्रिया॑मिति शेषः । ननु ग्रामं नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत्पदान्तरं विनापि स्त्रियां वर्तमानत्वान्नित्यस्त्रीलिङ्गत्वान्नदीकार्यसत्त्वात्पुंवदिति कथमित्यत आह — ग्रहनयनस्येति । ग्रामनयनस्य लोके उत्सर्गतः=सामान्यतः पुंधर्मतया=पुरुषकर्तव्यतया ब्राआहृणीत्यादिपदान्तरसमभिव्याहारं विना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वं नेत्यर्थः । एवमिति खलपवकनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्वमौत्सर्गिकं सामान्यतः सिद्धम् । अतः खलपूः कटप्ररित्यादिशब्दानामपि स्त्रियां वृत्तिकारादिमतेऽपि नित्यस्त्रीत्वं न । अतः पुंवदेव रूपमित्यर्थः । इति ईदन्ताः । अथ उदन्ताः । धेनुर्मतिवदिति । उकारस्य ओकारो गुणोऽवादेश इत्यादिविशेषस्तु सुगम इति भावः ।", "14006": "<<ङिति ह्रस्वश्च>> - इदन्तत्वाद्यूस्त्र्याख्याविति नदीत्वेऽप्राप्ते ङित्सु तद्विकल्पं दर्शयितुमाह — ङिति ह्रस्वश्च । अत्र चकाराद्वाक्यद्वयं, तथा हियूस्त्र्याख्यौ नदी॑त्यनुवर्तते । ईश्च ऊश्च यू ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः । स्त्रियमेवाचक्षाते स्त्र्याख्यौ । नित्यस्त्रीलिङ्गाविति यावत् ।नेयङ्वङ्स्थानावस्त्री॑ति सूत्रं नञ्वर्जमनुवर्तते । इयङुवङोः स्थानं स्थितिर्ययोस्ताविति विग्रहः । इयङुवङ्प्राप्तियोग्यावित्यर्थः ।वामी॑त्यतोवे॑त्यनुवर्तते । ततश्चइयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि 'यू' इत्यनुवर्तते । इश्च उश्च यू । 'ह्रस्व' इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गवीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि 'यू' इत्यनुवर्तते । इश्च उश्च यू । 'ह्रस्व' इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गाविति , व्याख्यानात् ।वामी॑त्यतो वेति चानुवर्तते । ततश्चस्त्रीलिङ्गौह्रस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते ।तदाह — इयङुवङ्स्थानाविति । द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गानां, पटुमृदुप्रभृतीना त्रिलिङ्गानां च ङिति नदीत्वविकल्पो न स्यादिति बोध्यम् । तत्र ह्रस्वयोकप्राप्ते दीर्घयोस्तुनेयङुवङ्स्थाना॑विति निषेधादप्राप्ते नदीत्वे विभाषेयम् । नदीत्वपक्षे आह — आण्नद्या इति । मति-ए इति स्थिते आटि वृद्धौ यणि च सिद्धं रूपमाह — मत्यै इति । मतये इति । नदीत्वाऽभावपक्षेशेषो घ्यसखी॑ति घित्वाद्धेर्ङितीति गुणेऽयादेशे हरिशब्दवद्रूपम् । नदीत्वपक्षे ङसिङसोरटि वृद्धिराकारः, यण् । मत्याः । नदीत्वाऽभावे-मतेः । आमि नदीत्वाभावेऽपि हस्वान्तत्वान्नुटि दीर्घः । मतीनाम् । ङौ विशेषमाह — नदीत्वपक्षे इति । नदीत्वपक्षे घित्वाऽभावात् 'अच्च घेः' इत्यत्वसंनियोगशिष्टमौत्वं न भवति । किंतु ङेरामिति प्राप्तं, तद्बाधित्वा औदिति केवलमौत्वे परत्वात्प्राप्ते सतीत्यर्थः ।", "14007": "<<शेषो घ्यसखि>> - तृतीयैकवचने हरि आ इति स्थिते घिकार्यं वक्ष्यन्घिसंज्ञामाह — शेषो । 'यू स्त्र्याख्यौ' इत्यतो 'यू' इत्यनुवर्तते । इश्च उश्च यू=इवर्णश्च उवर्णश्च ।ङिति ह्रस्वश्चे॑त्यतो 'ह्रस्व' इत्यनुवर्तते । तच्च यूभ्यां प्रत्येकमन्वेति । उक्तान्नदीसंज्ञकादन्यः शेषः । स च यूभ्यां प्रत्येकमन्वेति ।शब्दस्वरूप॑मित्यध्याहार्यं यूभ्यां विशेष्यते । तदन्तविधिः । तदाह — अनदीसंज्ञावित्यादिना । शेषः किमिति । अनदीसंज्ञकत्वविशेषणं किमर्थमिति प्रश्नः । मत्यै इति । शेषग्रहणाऽभावेङिति ह्रस्वश्चे॑ति नदीत्वपक्षेऽपि घिसंज्ञा स्यात् । ततश्च आण्नद्याः॑ इत्याडागमे वृद्धौघेर्ङिती॑ति गुणेऽयादेशे '\tमतयै' इति स्यादिति भावः । शेषग्रहणाऽभावे ।ञपि 'मत्यै' इत्यत्र घिसंज्ञा न भवति,आकडारादेका संज्ञे॑त्यनवकाशया नदीसंज्ञया बाधादित्यत आह — एकसंज्ञेति । वातप्रम्ये इति । ह्रस्वग्रहणाऽभावे वातप्रमी-ए इति स्थिते ईकारान्तस्यापि घिसंज्ञा स्यात् । ततश्चघेर्ङिती॑ति गुणेऽयादेशे च 'वातप्रमये' इति स्यात् । अतो ह्रस्वग्रहणमिति भावः । मात्रे इति । 'यू' इत्यस्याऽभावे मातृ-ए इति स्थिते ऋकारान्तस्यापि घिसंज्ञायांघेर्ङिती॑ति गुणे अकारे रपरत्वे 'मातरे' इति स्यात् । अत इदुताविति भावः । वस्तुतस्तु इदुताविति व्यर्थमेव, 'मात्रे' इत्यत्र ऋकारान्तस्यापि घित्वे तुघेर्ङिती॑त्येव गुणसिद्धौ किं तेन ।", "14008": "<<पतिः समास एव>> - अथ पतिशब्दे विशेषं दर्शयति — पतिः समास एव ।शेषो घ्यसखी॑त्यतोघी॑त्यनुवर्तते । तदाह पतिशब्द इति । पत्या । पत्ये इति । घित्वाऽभावान्नात्वगुणाऽभावे यणि रूपम् । पत्युरिति ।ख्यत्या॑दित्युत्त्वम् । पत्याविति । घित्वाऽभावात् 'अच्च घेः' इत्यस्य प्रवृत्तेरभावे 'औत्' इति ङेरौत्त्वे यणि रूपम् । आरम्भसामर्थ्यादेव नियमार्थत्वे सिद्धे एवकारस्तुपतिरेव समासे घि॑रिति विपरीतनियमव्यावृत्त्यर्थः । तेन सुहरिणेत्यादि सिध्यति । समासे तु भूपतये इति ।भूपतिने॑त्याद्युपलक्षणम् । 'सीतायाः पतये नमः' इत्यादि त्वार्षम् । अथ कतिशब्दे विशेषं दर्शयति-कतिशब्दे नित्यं बहुवचनान्त इति ।किमः सङ्ख्यापरिमाणे॑ इत्यनेन किंशब्दाद्बहुत्वसङ्ख्यावच्छिन्नसङ्ख्येयविषयप्रश्न एव डतिरिति भाष्ये स्पष्टत्वादिति भावः ।", "14009": "", "14010": "<<ह्रस्वं लघु>> - ह्रस्वं लघु । ह्रस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वान्न व्याख्यातम् । अत एव निर्देसाद्ध्रस्वशब्दो नपुंसकलिङ्गोऽपि ।", "14011": "<<संयोगे गुरु>> - संयोगे गुरु ।ह्रस्व॑मित्यनुवर्तते । तदाह — संयोगे पर इत्यादिना ।", "14012": "<<दीर्घं च>> - दीर्घं च । संयोग इति नानुवर्तते । दीर्घमपि गुरुसंज्ञकमित्यर्थः । इति संज्ञाप्रकरणमिति । सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां संज्ञाप्रकरणं समाप्तम्॥********************अथ सन्नन्तप्रक्रिया ।अथ सन्प्रक्रिया निरूप्यन्ते ।", "14013": "<<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>> - राम-आ इति स्थिते अङ्गकार्यं वलिधास्यन्नङ्गसंज्ञामाह - यस्मात्प्रत्ययविधि । यस्मादिति । प्रकृतिभूतादित्यर्थः । यः प्रत्यय इति । यच्छब्दान्तराध्याहारस्तु प्रत्यासत्तिलभ्यः । स च यस्माद्यस्य प्रत्ययस्य विधिस्तस्मिन्प्रत्यये तदादेरङ्गसंत्रेत्यर्थलाभाय । तत्प्रकृतिरूपमादिर्यस्य तत् — तदादि । नपुंसकवाशाच्छब्दरूपमित्यध्याहार्यम् । तदाह — तदादि शब्दस्वरूपमिति । प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्वं व्यभूधातोर्लट् । मिप् । कर्तरि शवबिति विकरणसंज्ञः शप् । गुणावादेशौ अतो दीर्घो यञीति भवेत्यङ्गस्य दीर्घः । भवामीति रूपम् । तथा भूधातोर्लृट् मिप् । 'स्यातासी लृलुटोः' इति विकरणसंज्ञः स्यः । इट् गुणावादेशौ । षत्वम् ।अतो दीर्घो यञी॑ति 'भविष्य' इत्यङ्गस्य दीर्घः । भविष्यामी॑ति रूपम् । अत्र आदिग्रहणाऽभावे मिप्प्रत्यये परतो भू इति प्रकृतिमात्रस्य अङ्गसंज्ञा स्यात्, भूशब्दादेव मिप्प्रत्ययविधेः, नतु 'भव' इत्यस्य, 'भविष्य' इत्यस्य च विकरणविशिष्टस्य, ततो मिप्प्रत्ययविधेरभावात् । ततश्चअतो दीर्घो यञी॑ति मिप्प्रत्यये परतो दीर्घो न स्यात् । अत आदिग्रहणमित्यर्थः । विधिरिति किमिति । यस्माद्यः प्रत्यय#ः । परत्वेन श्रूयते तदादि शब्दरूपं तस्मिन् प्रत्यये अङ्गसंज्ञामित्येतावतैव सिद्धे विधिग्रहणं किमर्थमिति प्रश्नः । स्त्री इयतीति । इदं परिमाणमस्या इत्यर्थे इदंशब्दात् 'किमिदंभ्यां वो घः' इति वतुप्, वस्य घश्च । तस्य इयादेशः । 'इदंकिमोः' इति इदम् ईश् । शित्त्वात्सर्वादेशः । ई-इयत् इति स्थिते 'यस्येति च' इतीकारलोपः । इयदिति प्रत्ययमात्रमवशिष्यते ।उगितश्चे॑ति ङीपि इयतीति रूपम् । अत्र विधिग्रहणाऽभावे स्त्री-इयतीत्यत्र रेफादीकारस्य 'स्त्रियाः' इत्यङ्गकार्यमियङ् स्यात् । स्त्रीशब्दात्परत्वेन इयदिति प्रत्ययस्य श्रूयमाणत्वात् । न च यस्येति लोपस्याभीयत्वेना.ञसिद्धत्वादजादिप्रत्ययपरकत्वाऽभावान्नात्र इयङः प्राप्तिरिति वाच्यम्, अन्यूनानतिरिक्तसमानाश्रये कार्ये कर्तव्य एव आभीया.ञसिद्धत्वस्य प्रवृत्तेः । अस्ति च यस्येति चेति शास्त्रापेक्षया 'स्त्रिया' इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा । कृते तु विधिग्रहणे इयङत्र न भवति, बतुप् इदम एवात्र विहितत्वेन तस्मिन् परे स्त्रीशब्दस्याङ्गत्वाऽभावात् । न च यस्येति लोपस्य इयङि कर्तव्ये अचः परस्मिन्निति स्थानिवद्भावः शङ्क्यः, पदान्तविधौ तन्निषेधात् । स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयङ्, प्रत्यासत्त्या अजादिप्रत्ययनिरूपिताङ्गत्वे तत्प्रवृत्तेः । प्रत्यये किमिति ।यस्मात्प्रत्ययविधिस्तदाद्यङ्ग॑मित्येतावदेवास्त्वित्यर्थः । प्रत्ययविशिष्यस्य ततो ।ञप्यधिकस्य वा मा भूदिति । तदादि शब्दरूपं कियदित्यपेक्षायामविशेषात्प्रत्ययविशिष्टं वा, ततोऽप्यधिकं वा निरवधिकमङ्गं स्यात् । नच यस्मात्प्रत्ययेति प्रत्ययस्य श्रुतत्वात्प्रत्ययावध्येवाङ्गत्वं भविष्यतीति वाच्यम्, यस्मात्प्रत्ययविधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात् । ततश्च प्रत्ययविशिष्टस्याङ्गत्वे वव्रश्चेत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वाऽलाभादचः परस्मिन्निति स्थानिवत्त्वाऽप्रवृत्त्या 'न सम्प्रसारण' इति सम्प्रसारणनिषेधो न स्यात् । अधिकस्याङ्गत्वे चदेवदत्त् ओदनमापाक्षी॑दित्यादौ देवदत्तादिशब्दोत्तरं सुपं निमित्तीकृत्य लुङ्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापत्तिः, अङ्गसंज्ञायाः प्रत्ययनिमित्तत्वाऽभावेन लुङादिनिरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात् ।॒प्रत्यये॑ इत्युक्तौ तु न कोऽपि दोष इत्यलम् ।", "14014": "<<सुप्तिङन्तं पदम्>> - सुप्तिङन्तं पदम् । सुबिति स्वौजसमौङिति सूत्रे 'सु' इत्यारभ्या सुपः पकारेण प्रत्याहारो न तु सप्तमीबहुवचनस्यैवाऽत्र ग्रहणं, व्याख्यानात् । सुप्च तिङ् च सुप्तिङौ, तौ अन्ते यस्य तत् सुप्तिङन्तम् । शब्दरूपमिति शब्दशास्त्रप्रस्तावाल्लभ्यते । अन्तशब्दश्च प्रत्येकं सम्बध्यते । तदाह — सुबन्तमिति ।", "14015": "<<नः क्ये>> - नः क्ये । नकारादकार उच्चारणार्थः ।सुप्तिङन्त॑मित्यतः सुबन्तं पदमित्यनुवर्तते । सुबन्तं नकारेण विशेष्यते । तदन्तविधिः । नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते । सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम् । क्यग्रहणेन क्यच्क्यङोग्र्रहणं न तु क्यषः,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्क्यषोऽभावात् । तदाह क्यचि क्यङि चेत्यादिना । ननु गव्यांचकारेत्यत्र आम आर्धधातुकावादेशसंपन्नवकारस्य यकारलोपं प्रति निमित्तत्वाऽसंभवादिति भावः । गव्यितेति । इटि अतो लोपः । राजीयतीत्यत्र आह — नलोप इति । राजानमिच्छतीत्यर्थे क्यचि राजन् य तीतिस्थिते 'नः क्ये' इति पदत्वान्नकारस्य लोप इत्यर्थः । कृते नलोपेक्यचि चे॑त्यकारस्य ईत्त्वमिति मत्वाह — राजीयतीति । न च ईत्त्वे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं,नलोपः सुप्स्वरे॑ति नियमादित्यलम् । ननु त्वामात्मन इच्छति, मामात्मन इच्छतीत्यत्र युष्मदस्मद्भ्यां क्यचि धात्ववयवत्वात्सुपो लुकि प्रत्ययलक्षणाऽभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्यातां, विभक्तौ परत एव तद्विधानादित्यत आह — प्रत्ययोत्तरपदयोश्चेति । सुपो लुका लुप्तत्वेऽपि क्यचमादाय मपर्यन्तस्य त्वमाविति भावः । ननु युष्मानात्मन इच्छति, अस्मानात्मन इच्छति- युष्मद्यति अस्मद्यतीत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह — एकार्थयोरित्येवेति । प्रत्ययोत्तरपदयोश्चे॑त्यत्र 'त्वमावेकवचने' इति सूत्रमनुवृत्तम् । एकवचनशब्दश्च न रूढः, किंतु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्राक् । तथा च युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाऽभावान्न त्वमाविति भावः । गिरमात्मन इच्छति, पुरमात्मन इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह — हलि चेति । 'उपधादीर्घ' इति शेषः । ननु दिवमिच्छति दिव्यतीत्यत्रापिहलि चे॑ति दीर्घः स्यादित्यत आह — धातोरित्येवेति ।हलि चे॑ति सूत्रेसिपि धातो॑रित्यस्तदनुवृत्तेरिति भावः । दिव्यतीति । दिव्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति भावः । इहेति ।हलि चे॑ति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः । कुत इत्यत आह — पुर्गिरोः साम्यादिति । 'गृ शब्दे' 'पृ पालनपूरणयोः' इत्याभ्यां क्विपिऋत इद्धातोटरितिउदोष्ठपूर्वस्ये॑ति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य च निष्पत्तेरिति भावः । प्रामादिक एवेति । दिव्शब्दस्याऽव्युत्पन्नप्रातिपदिकत्वान्न धातुत्वम् । दिव्धातोः क्विबन्तादूठि द्यूशब्दाच्च क्यचिद्यूयती॑त्येव उचितम् । विचि तु लघुपधगूणेलोपो व्यो॑रिति लोपे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः । अदस्यतीति । अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात्क्यचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाऽभावान्न त्यदाद्यत्वम् । सान्तत्वान्नोत्त्वमत्त्वे । 'नः क्ये' इति नियमेन पदान्तत्वाऽभावान्न सस्य रूत्वमिति भावः । कर्तृशब्दात्क्यचि विशेषमाह — रीङृत इति । गाग्र्यशब्दात्क्यचि विशेषमाह — क्यच्व्योश्चेति । आपत्यस्य यञो यकारस्य लोप इति भावः । कृते यलोपेक्यचि चे॑त्यकारस्य ईत्त्वं मत्वाह — गार्गीयतीति । वात्सीयतीति । वात्स्यशब्दात्क्यचि पूर्ववत् । कविशब्दात्क्यचि विशेषमाह — अकृत्सार्वेति । वाच्यतीति । वाच्शब्दात्क्यचि 'नः क्ये' इति नियमेन पदत्वाऽभावान्न कुत्वम् ।वचिस्वपी॑ति संप्रसारणं तु न,धातोः कार्यमुच्यमानं धातुविहितप्रत्यये एवे॑ति नियमात् । समिध्यतीति । समिध्शब्दात्क्यचि 'नः क्ये' इति नियमेन पदत्वाऽभावान्न जश्त्वम् । लुटस्तासि इटिसमिध्य इता इति स्थिते 'यस्य हलः' इति नित्ये यलोपे प्राप्ते —", "14016": "", "14017": "<<स्वादिष्वसर्वनामस्थाने>> - तदेतदाह — स्वादिपञ्चेति । स्वादिष्वस ।असर्वनामस्थाने॑इति बहुत्वेऽप्येकवचनमार्षम् । कप्प्रत्ययावधिष्विति । पञ्चमाध्यायान्ते विधीयमानकप्प्रत्ययोत्तरावधिकेष्वित्यर्थः । तत्र च व्याख्यानमेव शरणम् । एवं च दत्-असित्यत्र दत्शब्दस्य सुबन्तत्वाऽभावेन पदत्वाऽभावेऽप्यनेन सूत्रेण पदत्वात् 'झलां जशोऽन्ते' इति तकारस्य जश्त्वं स्यादित्याक्षेपः सूचितः ।", "14018": "<<यचि भम्>> - भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति समाधातुं भसंज्ञासूत्रमाह — यचि भं । य्च अश्चेति समाहाद्वन्द्वः ।स्वादिष्वसर्वनामस्थाने॑ इत्यनुवृत्तंयची॑त्यनेन विशेष्यते ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — यकारादिष्वित्यादिना । एवंच दत्-असित्यत्र 'दत्' इत्यस्य भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति भावः । ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात् । नच॒विप्रतिषेधे परं कार्य॑मिति परैव भसंज्ञा भवतीति वाच्यं, विरोध हि विप्रतिषेधः ।", "14019": "<<तसौ मत्वर्थे>> - ननु विद्वच्छब्दान्मतुपि यजादिस्वादिपरकत्वाऽभावेन भत्वाऽभावात्वसोः संप्रसारण॑मिति करथं संप्रसारणमित्यत आह — तसौ मत्वर्थे । मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्याह-तान्तसान्ताविति । तकारसकारान्तावित्यर्थः । गुणवचनेभ्य इति वार्तिकमिदम्, गुणे गुणवति च ये प्रसिद्धाः शुक्लादिशब्दास्त एव गृह्यन्ते, नतु रूपादिशब्दा अपि.तेनरूपं वस्त्र॑मित्यादि न भवति । अत्र यद्वक्तव्यं तदध्वरमीमांसाकौतूहले अरुणाधिकरणे प्रपञ्चितमस्माभिः ।", "14020": "", "14021": "<<बहुषु बहुवचनम्>> - बहुषु । पूर्वसूत्राऽवैरूप्यायेहापि बहुशब्दो बहुत्वपर इत्याह — बहुत्व इति । नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वाद्बहुष्विति बहुवचनं कथमिति शङ्क्यम्, बहुत्वसंख्याधरद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्तेः । बहुत्वं च त्रित्वचतुष्ट्वादिपराद्र्धसङ्ख्याव्यापकीभूतधर्मविशेषः, नतु त्रित्वाद्यन्यतममित्येकादशस्य प्रथमेबहुवचनेन सर्वप्राप्तेर्विकल्पः स्या॑दिति कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयोः स्थितम् । प्रपञ्चितं चास्माभिरध्वरमीमांसाकुतूहलवृत्तौ । एवंच बहुरोदन इति वैपुल्यवाचिनो बहुशब्दान्न बहुवचनम् । द्वयेकयोरित्यादिप्रायपाठबलेन सङ्ख्यानियतस्यैव तथाविधबहुत्वस्यात्र विवक्षितत्वात् । एकस्यामेव स्त्र्यादिव्यक्तौ दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्बहुवचनं कोशवृद्धव्यवहारबलादित्यलम् । रुत्वविसर्गाविति । रामशब्दात्प्रथमाविभक्तौ एकवचने सुप्रत्यये सति, उकारस्य इत्त्वेन लोपे,ससजुषो॑रिति रुत्वे,खरवसानयो॑रिति विसर्ग इत्यर्थः । स इत्युकारस्तु अर्वणस्त्रसावित्यादौ विशेषणार्थः । असीत्युक्ते हि असकारादावित्यर्थः स्यात् । ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्न प्रवर्तेत । नचात्र रोरसुप्त्वात्तदन्तस्य पदत्वाऽभावाद्रेफस्य पदान्तत्वाऽभावात्कथमिह विसर्ग इति वाच्यम् । स्थानिवद्भावेन रोः सुप्त्वात् । नच स्थानिवद्भावे कर्तव्ये त्रैपादिकस्य रोरसिद्धत्वं शङ्क्यम्,इदुदुपधस्य चाप्रत्ययस्ये॑त्यप्रत्ययग्रहणेन स्थानिवत्त्वातिदेशे रोरसिद्धत्वाऽभावज्ञापनात् । तत्र ह्रप्रत्ययग्रहणमग्निᳵकरोति, कविभिᳵकृतमित्यादौ विसर्गपर्युदासार्थम् । स्थानिवत्त्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यैवाऽबावात्तद्वैयथ्र्यं स्पष्टमेवेत्यलम् । राम इति ।रमन्ते योगिनो ।ञनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्राहृआभिधीयते । इति श्रुतिः । 'करणाधिकरणयोश्च' इत्यधिकारे 'हलश्च' इत्यधिकरणे घञ् । कृत्तद्धितेति प्रातिपदिकत्वम् । अव्युत्पन्नः संज्ञाशब्दो वा । तथा सति अर्थवदिति प्रातिपदिकत्वम् ।", "14022": "<<द्व्येकयोर्द्विवचनैकवचने>> - द्वयेकयोः ।द्वयेकयो॑रिति भावप्रधानो निर्देशः, अन्यथाद्वयके॑ष्विति स्यादित्यभिप्रेत्य व्याचष्टे — द्वित्वैकत्वयोरिति ।", "14023": "", "14024": "<<ध्रुवमपायेऽपादानम्>> - अथ पञ्चमी । ध्रुवमपाये । अपायपदं व्याचष्टे — अपायो विश्लेष इति । वियोग इत्यर्थः ।ध्रुव॑पदं व्याचष्टे-अवधिभूतमिति । द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचलनाऽनाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षितमिति भावः ।", "14025": "<<भीत्रार्थानां भयहेतुः>> - भीत्रा । चोराद्विभेतीति । चोरेण हेतुनेत्यर्थः । हेतुतृतीया प्राप्ता । चोरात्रायत इति । चोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः । यदा तु चोराद्विभेति=भीत्या निवर्तते, चोरात्रायते=आत्मानं त्रातु निवर्तयतीत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् ।", "14026": "<<पराजेरसोढः>> - पराजेरसोढः । सहधातोः क्तप्रत्यये धत्वढत्वष्टुत्वढलोपेषु कृतेषुसहिवहोरोदवर्णस्ये॑त्योत्त्वे सोढ इति रूपम् । तत्र क्तार्थो भूतकालो न विवक्षितः । तदाह — असह्रोऽर्थ इति । सोढुमशक्य इत्यर्थः । हेतुतृतीयाऽपवादोऽयम् । ग्लायतीत्यर्थ इति ।असहना॑दिति शेषः । यदा तु असहनान्निवर्तत इत्यर्थः आश्रीयते, तदा ध्रुवमित्यपादानत्वादेव सिद्धमिति भाष्यम् । अभिभवतीति । तिरस्करोतीत्यर्थः । अत्र शत्रूणामभिभवनीयतया सह्रत्वाऽभावान्नापादानता ।", "14027": "<<वारणार्थानां ईप्सितः>> - वारणार्थानामीप्सितः । प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति । यवेषु प्रवर्तितुकामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाऽभावात् 'ध्रुवमपाये' इत्यप्राप्ताविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, न तु गोः, तस्याः परकीयत्वेनानीप्सितत्वात्, वारणीयतया ईप्सितत्वाव्याघाताच्च । तथा च तथायुक्तं चेति गोः कर्मत्वाद्द्वितीया । यदा तु यवाः परकीयाः, गौस्तु स्वकीया, तदा वारणमसंभावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मः स्यात्, यवस्वामी गामपहृत्य बध्नीयात्, गोस्वामिनं च यवस्वामी दण्डयेत्, अतो यवानां रक्षितुमिष्टत्वादीप्सितत्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात्कर्मत्वम् । न च गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किं न स्यादिति वाच्यम्, ईप्सिततमत्वेवारणार्थानामित्यपादानत्वं बाधित्वाकर्तुरीप्सिततममिति कर्मत्वस्यैव परत्वात्प्राप्तेः । न च वारणार्थानामीप्सितः इत्यपादानत्वस्यकर्तुरीप्सततममिति कर्मत्वापवादत्वं शङ्क्यं,कर्तुरीप्सिततममिति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वं तु ईप्सितविषयम् । तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वान्नकर्तुरीप्सततममिति कर्मत्वापवादत्वम् । अतः परत्वाद्गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात्कर्मत्वमेव । न च अग्नेर्माणवकं प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्राग्निस्पर्शे माणवकस्य दाहप्रसङ्गात्तद्विषयप्रवृकत्तिविमुखीकरणात्मकवारणक्रिययाऽऽप्तुमिष्टतमत्वेन वारयितुरीप्सिततमत्वान्माणवकस्य कर्मत्वम् । अग्नेस्तु वारणक्रियेप्सिततममाणवकीयस्पर्शक्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सिततत्वादपादानत्वम् । एतेन तयोः पृथग्ग्रहणेन । एतावतैव हरिं भजति, ग्रामं गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते इत्यादिसर्वलक्ष्यसङ्ग्रहादिति निरस्तम् । कर्तृव्यापारजन्यफलाश्रयः कर्मेत्युक्तौ हि वारणार्थानामिति सूत्रमस्यापवादः स्यात्, विशेषविहितत्वात् । तथाच माणवकस्य कर्मत्वं न स्यात् । न चाग्नौ वारणार्थानामिति सावकाशमिति वाच्यं, वारयतेरत्र स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादिरूपम् । तादृशव्यापारप्रयोज्यफलं माणवककर्तृकस्पर्शफलकप्रवृत्तिविरहः । तत्र स्पर्शांशोऽग्निनिष्ठः माणवकनिष्ठश्च, संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतयाऽग्निनिष्ठः, आश्रयतया माणवकनिष्ठश्च । तथा च कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभयत्रापि प्राप्तौ वारणार्थानामित्यपादानत्वं निरवकाशत्वादपवादः स्यादिति माणवकादपि पञ्चमी स्यात्, तद्बाधनार्थं कर्तुरीप्सिततमं कर्मेत्यारब्धव्यम् । एवं च ईप्सितमात्रेऽग्नौ सावकाशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधः सिध्यति । कर्तुरीप्सिततममित्यारब्धे च द्वेष्योदासीनसङ्ग्रहार्थं तथायुक्तमित्यप्यारब्धव्यमित्यास्तां तावत् । भाष्ये तु बुद्धिकल्पितसंयोगविश्लेषकृतमपादानत्वामाश्रित्य प्रत्याख्यातमिदं सूत्रम् ।", "14028": "<<अन्तर्द्धौ येनादर्शनमिच्छति>> - अन्तर्धौ । अन्तर्धावित्येतद्व्याचष्टे — व्यवधाने सतीति । व्यवधानेनेति यावत् । यत्कर्तृकस्येति । येनेति कर्तृतृतीयेति भावः । आत्मनो दर्शनस्येति । 'आत्मन' इति दर्शनशब्दयोगे कर्मणि षष्ठी । 'आत्मन' इत्यध्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योगषष्ठीप्रसङ्गात् । 'आत्मन' इत्यध्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योग९षष्ठी । आत्मशब्देन इच्छतिकर्ता विवक्षितः । व्यवदानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्म इति ।लीङ्श्लेषणे॑श्यन्विकरणः । इह तूपसर्गवशाद्व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णो मातृकर्तृकस्वविषयकदर्शनविरहाय कुडआदिना प्रच्छन्नो भवतीत्यर्थः । अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात्पञ्चमी । कर्तृतृतीयापवादोऽयं , षष्ठपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् ।", "14029": "<<आख्यातोपयोगे>> - आख्यातोपयोगे । आख्याता-उपयोगे इति च्छेदः । आख्यातेति तृजन्तात्प्रथमैकवचनम् । उपयोगपदं व्याचष्टे-नियमपूर्वकेति । भाष्ये तथोक्तेरिति भावः । आख्यातेति तृजन्तं व्याचष्टे-वक्तेति । अध्यपयितेत्यर्थः । उपाध्यायादधीते इति । नियमविशेषपूर्वकमुपाध्यायस्योच्चारणमनूच्चरयतीत्यर्थः । षष्ठपवादोऽयम् । भाष्ये तूपाध्यांयान्नर्गतं वेदं गृह्णातीत्यर्थमाश्रित्य प्रत्याख्यातमिदम् ।", "14030": "<<जनिकर्त्तुः प्रकृतिः>> - जनिकर्तुः प्रकृतिः । जनिर्जननमुत्पत्तिः ।जनी प्रादुर्भावे॑दैवादिकोऽकर्मकः । 'इण्जादिभ्यः' इति भावे इण् ।जनिवध्योश्चे॑ति निषेधान्नोपधावृद्धिः । जनेः कर्तेति विग्रहः । शेषषष्ठआ समासः ।तृजकाभ्यां कर्तरी॑ति निषेधस्तु कारकषष्ठआ एवेति वक्ष्यते । जायमानस्येति । जनधातोः कर्तरि लटश्शानच्, श्यन्, 'ज्ञाजनोर्जा'आने मुक् । उत्पत्त्याश्रयस्येत्यर्थः । प्रकृतिशब्दं व्याचष्टे-हेतुरिति । ब्राहृण इति । हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत्तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम्, संयोगविश्लेषसत्त्वेन 'ध्रुवमपाये' इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्द उपादानकारणपर एव । अत एव भाष्यकैयटयोःगोमायाद्वृश्चिका जायन्ते॑ गोलोमाऽविलोमभ्यो दूर्वा जायन्ते॑ इत्युदाहृत्य परिणामेषु प्रकृतिद्रव्यवायवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् 'ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवं चब्राहृणः प्रजाः प्रजायन्ते॑ इत्यत्र ब्राहृशब्देन मायोपहितमीआरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः ।", "14031": "<<भुवः प्रभवः>> - भुवः प्रभवः । पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह — भूकर्तुरिति । भवनं भूः । संपदादित्वात्क्विप् । भुवः कर्ता भूकर्ता, तस्येत्यर्थः । प्रभव इति । प्रभवति=प्रथमं प्रकाशतेऽस्मिन्निति प्रभवः । प्रथमप्रकाशस्थानमित्यर्थः ।प्रभवती॑त्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायस्तत्रानुत्पत्तेः । तदाह — प्रकाशते इत्यर्थ इति । प्रथमं प्रकाशते इति यावत् । अत एव 'हिमवपि प्रकाशते' इत्यत्र न भवति । एतेनजनिकर्तु॑रित्यनेन 'ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भाष्ये तु अपक्रामतीत्यर्थमाश्रित्य 'ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । ल्यब्लोपे इति । ल्यबन्तस्य लोपे= अदर्शने अप्रयोगे सति गम्यमानतदर्थं प्रति कर्मणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिह्येतीति । लज्जते इत्यर्थः ।नन्वत्र ल्यबन्तस्य प्रयोगाऽभावात्कथं तदर्थं प्रति कर्माद्यवगतिरित्यत आह — गम्यमानापीति । प्रकरणादिनेत्यर्थः ।गम्यमानापी॑त्यस्य प्रयोजनान्तरमाह — कस्मात्त्वमिति ।आगतोऽसी॑ति गम्यमानक्रियापेक्षमपादानत्वगिति भावः । 'नद्या' इत्युत्तरम् ।आगतोऽस्मी॑ति गम्ययानक्रियापेक्षमपादानत्वमिति भावः । यतश्चेति । 'यत' इति तृतीयार्थे तसिः । येनावधिना अध्वनः कालस्य वा निमानं परिच्छेदः=इयत्ता गम्यते, ततः पञ्चमी वाच्येत्येकं वाक्यम् ।तत्र पञ्चमी॑ति पाठेऽप्ययमेवार्थः । तद्युक्तादिति । तेन=पञ्चम्यन्तेन युरक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये॑ इति द्वितीयं वाक्यम् ।कालात्सप्तमी च वक्तव्या॑ इति वाक्यान्तरम् । तद्युक्तादित्यनुषज्यते । तेन=पञ्चम्यन्तेन अन्वितात्कालवाचिनः सप्तमी वक्तव्येत्यर्थः । वनादिति । अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते, कस्मादाभ्य योजनमित्याकाङ्क्षोत्थानात् । योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः । वनात्मकपूर्वावधिकयोजनोत्तरदेशे ग्राम इत्यर्थः । अवधिसत्वसत्त्वेऽपि विश्लेषाऽप्रतीतेध्र्रुवमित्यपादानत्वाऽभावाद्वचनम् । कार्तिक्या इति । कार्तिक्या मासे आग्रहायणीत्यन्वयः । अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य मास इत्याकाङ्क्षोत्थानात् । मासे इति सप्तम्यास्तु स्वोत्तराऽव्यवहितकालवृत्तित्वमर्थः । कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्षपौर्णमासीत्यर्थः ।", "14032": "<<कर्मणा यमभिप्रैति स सम्प्रदानम्>> - अथ चतुर्थी । कर्मणा यमभि । कर्मसंज्केन गवादिद्रव्येण यमभिप्रैति शेषित्वेनऽध्यवस्यति स संप्रदानमित्यर्थः । शेषित्वं-भोक्तृत्वम् । संप्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थसंज्ञैषा । ततश्च कस्याः क्रियायाः कर्मणेत्याकाङ्क्षायां दानस्येति गम्यते । तदाह — दानस्येत्यादिना । देयद्रव्योद्देश्यं संप्रदानमिति फलितम् । दानस्येति किम् पयो नयति देवदत्तस्य । अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न संप्रदानत्वं, पयसो दानकर्मत्वाऽभावात् ।", "14033": "<<रुच्यर्थानां प्रीयमाणः>> - रुच्यर्थानां । रुच्यर्थानां धातूनामिति ।रुच दीप्तावभिप्रीतौ च॑ । दीप्तिरिह न रुच्यर्थः, प्रीयमाण इति विरोधात् । तथाच प्रीतिजननार्थानामित्यर्थः । प्रीयमाण इति । समवायेन प्रीत्याश्रय इत्यर्थः । हरये रोचते भक्तिरिति । भक्तिः स्वविषयां प्रीति हरौ जनयतीत्यर्थः । भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तं, तदपवादोऽयम् । नन्वेवं सति हरिर्भक्तिममिलषतीत्यत्रापि भक्तेः प्रीतिविषयत्वात्संप्रदानत्वं स्यादित्यत आह-अन्यकर्तृक इति । समवायेन प्रीत्याश्रयापेक्षया यदन्यत्, तत्कर्तृकाभिलाषो रुच्धात्वर्थः । प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः । तथा च अभिलषते रुच्र्थकत्वाऽभावान्न तद्योगे संप्रदानत्वम् । प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यता=भक्तिः, तत्कर्तृकैव प्रीतिरिति रूच्यर्थयोगः । नन्विह भक्तेः संप्रदानत्वं कुतो न स्यात्, विषयतासंबन्धेन भक्तिरपि प्रीत्याश्रयत्वादित्यत आह — हरिनिष्ठप्रीतेर्भक्तिः कत्र्रीति । हरेरेव समवायसंबन्धेन प्रीत्याश्रयतया प्रीयमाणत्वाद्भक्तेः कर्त्र्या उक्तरीत्या प्रीयमामत्वाऽभावाच्च न संप्रदानत्वमिति भावः । भक्तिर्हरिं प्रीणाति, प्रीणयतीत्यादौ तु न भक्तेः संप्रदानत्वप्रसक्तिः, तिङा अभिहितत्वात्, समवायेन प्रीत्याश्रयत्वाऽभावाच्च । नापि हरेः, प्रीयमाण इति कर्मणि सानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्यस्याऽप्रसक्तेर्विज्ञानात्, अन्यथा प्रीधातुकर्मणः संप्रदानत्वे कर्मणि शानचो दौर्लभ्यात् । मोदकः पथीति । अत्र पथः प्रीयमामत्वाऽभावान्न संप्रदानत्वमिति भावः ।", "14034": "<<श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः>> - श्लाघह्नुङ् । 'श्लाघृ कत्थने' 'ह्नुङ् अपनयने' 'ष्ठा गतिनिवृत्तौ' 'शप उपालम्भे' एषां द्वन्द्वः ।शपा॑मित्यनन्तरं 'प्रयोगे' इत्यध्याहार्यम् । श्लाघादीनां स्तुत्यादिना बोधनमर्थः, ज्ञीप्स्यमान इति लिङ्गात् । ज्ञापनवाचिनो ज्ञपेः सन्नन्तात्कर्मणि शानच् । तदाह — एषां प्रयोगे इत्यादिना । गोपी स्मरादीति । मन्मथपीडावशाद्नोपी आत्मस्तुत्या विरहवेदनां कृष्णं बोधयतीत्यर्थः । कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः । ह्नुते इति । सपत्न्यपनयनेन स्वाशयं कृष्णं बोधयतीत्यर्थः । तिष्ठते इति । गन्तव्यमित्युक्तेऽपि स्थित्या स्वाशयं कृष्णं बोधयतीत्यर्थः ।प्रकाशनस्थेयाख्ययोश्चे॑त्यात्मनेपदम् । शपते इति । उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः ।", "14035": "<<धारेरुत्तमर्णः>> - धारेरुत्तमर्णः ।धारे॑रित्यनन्तरं 'प्रयोगे' इत्यध्याहार्यम् । 'धृङ् अवस्थाने' इत्यस्य हेतुमण्ण्यन्तस्य धारेरिति निर्देशः । तदाह — धारयतेरित्यादिना । अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणमित्युच्यते । तत्र ऋणस्य ग्रहीता-अधमर्णः, ऋणस्यार्पयिता-धनस्वामी-उत्तमर्णः । प्रतिमासमशीतिभगादिवृद्ध्या उत्तमम्= अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः । भक्तायेति । भक्तसंबन्धी यो मोक्षः= अपरिमितनित्यसुखविशेषस्तं धारयतीत्यर्थः । धरते मोक्षः, अवतिष्ठते इत्यर्थः । तं प्रेरयति धारयति, अवस्थापयतीति यावत् । पूजयन्हि भक्तस्तुलसीदलादिद्रव्यं प्रयच्छति, तच्च गृह्णन्तुष्टो हरिस्तत्प्रत्तद्रव्यं मोक्षदानेन निष्क्रीणाति । तदाहुः पौराणिकाः-॒तोयं वा पत्रं वा यद्वा किञ्चित्समर्पितं भक्त्या । तदृणं मत्वा देवो निःश्रेयसमेव निष्क्रयं मनुते ।॑ इत्यादि । तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात्संप्रदानत्वं संबन्धषष्ठपवादः ।", "14036": "<<स्पृहेरीप्सितः>> - स्पृहेरीप्सितः ।स्पृह ईप्सायाम्चुरादावदन्तः । ततः स्वार्थे णिचि अल्लोपस्य स्थानिवत्त्वाल्लघूपधगुणाऽभावे स्पृहिशब्दात्षष्ठएकवचनम् । 'प्रयोग' इत्यध्याहार्यम् । तदाह — स्पृहयतेरित्यादिना । ननुपुष्पेभ्यः स्पृहयती॑त्येव स्यात्, नतु पुष्पाणि स्पृहयतीत्यपि । उभयं त्विष्यते । तत्राह ईप्सितमात्र इति । यदा त्वीप्सितत्वस्यापि न विवक्षा, किं तु विषयतामात्रविवक्षा, तदापुष्पाणां स्पृहयती॑ति साधु ।कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चे॑त्यादिदर्शनात् । वाक्यपदीये तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठआश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्याद्यसाध्वेवेत्यन्यत्र विस्तरः ।", "14037": "<<क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः>> - क्रुधाद्यर्थानामिति । क्रुध क्रोधे, द्रुह द्रोहे श्यन्विकरणौ । ईर्ष्य ईर्ष्यायां शब्विकरणः । असूञ् उपतापे कण्ड्वादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये क्रुध्यतीति ।रावणादिरिति शेषः । हरिविषयकं कोपं करोतीत्यर्थः । घातेच्छासमनियतश्चित्तवृत्तिविशेषः कोपः । अकर्मकत्वात्षष्ठी प्राप्ता । द्रुह्यतीति । कोपाद्धरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात्षष्ठी प्राप्ता । अपकारो दुःखजनिका क्रिया । धात्वर्थोपसङ्ग्रहादकर्मकः । ईर्ष्यतीति । ईर्ष्या असहनम् । हरिं कोपान्न सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति । असूया गुणेषु दोषारोपः । यथाविहितकर्माचारे दम्भादिकृत्वारोपणम् । इह कोपाद्धरिं दुर्गुणं मन्यत इत्यर्थः । मैनामिति । एनां भार्यामन्यो न पश्येदित्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः । नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षितमिति बोध्यम् । एवंच क्रोधद्रोहेर्ष्यासूयानां कोपमूलकत्व एवेदमिति भाष्ये स्थितम् । तथा च कुप्यति कस्मैचिदित्याद्यसाध्वेव, कोपमूलकत्वाभावात्क्रुधार्थकत्वाऽभावाच्च । प्ररूढकोप एव हि क्रोधः, न ह्यकुपितः क्रुध्यति इति भाष्यात् ।", "14038": "<<क्रुधद्रुहोरुपसृष्टयोः कर्म>> - क्रुधद्रुहोः ।उपसृष्टयो॑रित्येतद्व्याचष्टे — सोपसर्गयोरिति । पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाऽभावात्क्रियया यमभिप्रैती॑ति संप्रदानत्वस्य न प्रसक्तिः । नापि तादथ्र्यचतुर्थ्याः । क्रुधद्रुहोरकर्मकत्वान्नहरेः कर्मत्वम् । अतः शेषषष्ठआं प्राप्ताया वाचनिकां कर्मत्वम् ।", "14039": "", "14040": "<<प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता>> - प्रत्याङ्भ्याम् । प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यं श्रुव इत्यस्य विशेषणम् ।श्रु श्रवणे॑ । इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणात्मकव्यापारं परामृशति । तदाह — आभ्यामित्यादिना ।पूर्वस्ये॑त्यस्य व्याख्यानं-प्रवर्तनारूपस्येति । प्रेरणारूपस्येत्यर्थः ।प्रत्याङ्भ्या॑मित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथाअभिनिविशश्चे॑तिवत् 'प्रत्याङ् श्रुवः' इत्येव ब्राऊयादित्यभिप्रेत्योदाहरति — विप्राय गां प्रतिश्रणोति आश्रणोति वेति । अत्र प्रतिपूर्वक आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्यपगमे वर्तते, ततश्च प्रवर्तितः प्रतिजानीते इति लभ्यते केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्त्तृत्वेनान्वेति । तत्र विप्रस्य प्रेरणाकर्त्तृत्वात्संप्रदानत्वं कर्त्तृ तृतीयापवाद इत्यभिप्रेत्याह — विप्रेणेति । मग्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तस्तुभ्यं ददामीत्यभ्युपगच्छतीति योजना ।", "14041": "<<अनुप्रतिगृणश्च>> - अनुप्रतिगुणश्च । पूर्वस्य कर्तेत्यनुवर्तते । 'गृ शब्दे' इत्यस्य श्नान्तस्याऽनुकरणशब्दाद्गृण इति षष्ठी । अत्र गृधातुः शंसितृकर्मके शंसनविषयकप्रोत्साहने वर्तते । तत्र पूर्वव्यापारस्य शंसनस्य कर्ता संप्रदानमित्यर्थः । तदाह — आभ्यामिति । पूर्वसूत्रे प्रत्याङ्भ्यामिति द्विवचननिर्देशबलात्प्रत्येकमेव धातुसंबन्धावधारणात्तत्साहचर्यादिहापि प्रत्येकमेव धातुसंबन्ध इत्यबिप्रेत्यादाहरति — होत्रे अनुगृणाति प्रतिगृणाति वेति । होत प्रथममिति । शंसितारं होतारमुत्तरोत्तरशंसनविषये प्रोत्साहयतीति यावत् ।ओऽथ मोदै वे॑ति प्रतिगरमन्त्रः । 'ओ' इति संबोधने, मोदै॑ इति लोडुत्तमपुरुषैकवचनम् । 'व' इत्येवकारार्थे । हे होतः । अथ त्वदीयशंसनान्तरं तुष्याम्येवेति तदर्थः । प्रोत्साहने होतुः कर्मत्वं प्राप्तं, पूर्वव्यापारं शंसनं प्रति कर्त्तृत्वाद्धोतुः संप्रदानत्वम् ।", "14042": "<<साधकतमं करणम्>> - साधकतमं करणं । क्रियासिद्धाविति । क्रियोत्पत्तावित्यर्थः । कारकाधिकारलभ्यमिदम् । प्रकृष्टोपकारकमिति । कत्र्रा क्रियायां जनयितव्यायां यत्सहायभूतं तदुपकारकमित्युच्यते ।साधकतम॑मित्यस्य व्याख्यानमेतत् । साधकशब्दादतिशायने तमबिति तमप् । अतिशयितं साधकं साधकतममिति भावः । यद्व्यापारानन्तरं क्रियानिष्पत्तिस्तत् प्रकृष्टम् । कर्तृव्यापाराधीनयद्व्यापाराऽव्यवहिता क्रियानिष्पत्तिस्तत्तस्यां करणमिति यावत् । तमब्ग्रहणं किमिति । साधकमित्येवोच्यताम्, कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोष इति । अयमाशयः, — कारकप्रकरणे गौणमुख्यान्याय एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थं तमब्ग्रहणम् । अन्यथाआधारोऽधिकरण॑मित्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्ग्रहणसामर्थ्यात्रुआआववयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं चतिलेषु तैलं॑,दध्नि सर्पि॑रित्यादावेव स्यात् ।गङ्गायां घोषः॑, कूपे गर्गकुल॑मित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् 'आधारोऽधिकरणं' 'सप्तम्यधिकरणे च' इत्यत्र वक्ष्यते ।", "14043": "<<दिवः कर्म च>> - दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह — दिवः साधकतममिति । दिवुधात्वर्थं प्रति साधकतममित्यर्थः । चादिति । चकारात्करणसंज्ञकमित्यपि लभ्यत इत्यर्थः ।", "14044": "<<परिक्रयणे सम्प्रदानमन्यतरस्याम्>> - परिक्रयणे । नियतकालमिति ।तुभ्यमेतावद्वेतनं दीयते, तद्गृह्णन्नेतावन्तं कालं त्वं मम कर्मकरो भवे॑त्येवं परिमितकालं भृत्या स्वीकरणं परिक्रयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह — तस्मिन्साधकतममिति । संप्रदानत्वाऽभावे करणसंज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्द्रव्यशतेनेत्यर्थः । तादर्थ्ये चतुर्थीति । 'चतुर्थी संप्रदाने' इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अर्थेन नित्यसमासः । तदर्थस्य भावस्तादथ्र्यम् । ब्राआहृणादित्वात् ष्यञ् । तेन च उपकार्योपकारकभावसंबन्धो विवक्षितः । तत्र उपकार्यादेव चतुर्थी, भाष्ये यूपाय दारु, कुण्डलाय हिरण्यमित्युदाहृतत्वादित्यभिप्रेत्योदाहरति-मुक्तये इति । मुक्त्यर्थमित्यर्थः । उपकार्यत्वं च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति । मुक्तिर्जन्येति गम्यते । प्राप्यत्वं वा, ब्राआहृणाय दधीति । ब्राआहृणस्योपकार्यत्वं गम्यते इत्यादि । नचैवमपि अनेनैव सिद्धेचतुर्थी सम्प्रदाने॑ इति सूत्रं संप्रदानसंज्ञाविधानं च व्यर्थमिति वाच्यं, 'हरये रोचते भक्तिः' इत्यादौरुच्यर्थानां प्रीयमाणः॑ इत्याद्यर्थ तदावश्यकत्वादिति भाष्ये स्पष्टम् । कॢपि संपद्यमाने चेति । कॢपीति सप्तमी । सम्पत्तिः=विकारात्मना उत्पत्तिः । परिणाम इति यावत् । कॢपिधातौ प्रयुज्यमाने सति संपद्यमानेऽर्थे वर्तमानाच्चतुर्थी वाच्येत्यर्थः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः ।कॢपीत्यर्थग्रहण॑मित्यभिप्रेत्यादाहरति — संपद्यते जायते इत्यादीति । आदिना 'परिणमते' इत्यादिसङ्ग्रहः । परिणामत्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादथ्र्यचतुर्थ्यैव सिद्धमित्याहुः ।उत्पातेन ज्ञापिते चेति । अशुभसूचक आकस्मिको भूतविकार उत्पातः, तेन सूचितेऽर्थे विद्यमानाच्चतुर्थी वाच्येत्यर्थः । वातायेति । महाबातस्य सूचिकेत्यर्थः ।हितयोगे चेति ।चतुर्थी वाच्ये॑ति शेषः । ब्राआहृणाय हितमिति । ब्राआहृणस्य सुखकृदित्यर्थः ।याजनादी॑ति शेषः ।", "14045": "<<आधारोऽधिकरणम्>> - आधारोऽधिकरणं । 'कारके' इत्यधिकृतं प्रथमान्ततया विपरिणम्यते, तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायामुपस्थितत्वात्क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वं च न साक्षात्, किंतु कर्तृकर्मद्वारैव, व्याख्यानात् । तदाह — कर्तृकर्मद्वारेति । तन्निष्ठेति । कर्तृकर्मनिष्ठेत्यर्थः ।", "14046": "<<अधिशीङ्स्थाऽसां कर्म>> - अधिशीङ् । शीङ्, स्था, आस् एषां द्वन्द्वः । अधिपूर्वा शीङ्स्थाऽऽस इति विग्रहे शाकपार्थिवात्वादुत्तरपदलोपः । तदाह — अधिपूर्वाणामिति । अधिकरणसंज्ञापवादोऽयम् । अधिशेतीति । अधिशेते वैकुण्ठं हरिः, अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः ।", "14047": "<<अभिनिविशश्च>> - अभिनिविशश्च । आधार इति कर्मेति चानुवर्तते । अभिनीति सङ्घातग्रहणम् । तदाह — अभिनीत्येतदिति । अभिनिविशते सन्मार्गमिति । आग्रहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत् । नन्वेवं सति 'पापेऽभिनिवेश' इत्यत्रापि कर्मत्वाद्द्वितीया स्यादित्यत आह — परिक्रयणे इति । 'परिक्रयणे' इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्नेत्यन्वयः । तर्हिअभिनिविशते सन्मार्ग॑मित्यत्रापि विकल्पः स्यादित्यत आह — व्यवस्थितेति ।ननुपरिक्रयणे संप्रदानमन्यतरस्याम्,आधारोऽधिकरणम्,॒अधिशीङ्स्थासां कर्म॑, 'अभिनिविशश्च' इति सूत्रक्रमः । तत्रअभिनिविशश्चे॑त्यत्र कथमन्यतरस्याङ्ग्रहणानुवृत्तिः, 'आधारोऽधिकरणम्'अधिशीङ्स्थासां कर्म॑ इत्यत्र च तदनुवृत्तेरभावादित्यत आह — मण्डूकप्लुत्येति ।तुल्य॑मिति शेषः । मण्डूका यतामध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्र्येत्यर्थः ।एष्वर्थेष्वभिनिविष्टाना॑मिति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् ।", "14048": "<<उपान्वध्याङ्वसः>> - उपान्वध्याङ्वसः । उप अनु अधि अङ् इत्येतेषां द्वन्द्वः । उपान्वध्याङ्पूर्वो वसिति विग्रहे शाकपार्थिवादित्वात्समासः । तदाह — उपादिपूर्वस्येति । उपवसतीत्यादि । वैकुण्ठे वसतीत्यर्थः । उपसर्गा आधारत्वद्योतकाः । अत्रवसेरश्यर्थस्य प्रतिषेधः॑ इति वार्तिकम् । तत्राऽर्थशब्दो निवृत्तिवचनः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । भोजनस्याऽर्थो निवृत्तियस्मात्प्रतीयते सोऽश्यर्थः । भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत् ।तदेतदर्थतः । सङ्गृह्णाति — अभुक्त्यर्थस्य नेति । उभसर्वतसोरिति । वार्तिकम् । उभशब्दसर्वशब्दप्रकृतिकतसन्तयोः प्रयोगे सति द्वितीया कार्येत्यर्थः । धिगिति । धिक्शब्दस्य प्रयोगे सति द्वितीया कार्या ।प्रकृतिवदनुकरणमि॑त्यव्ययत्वात्सुपो लुक् । उपर्यादिष्वित्यनेनउपर्यध्यधसः सामीप्ये॑ इति सूत्रोपात्तान्यव्ययानि गृह्यन्ते । द्विरुक्तस्य परमाम्रेडितम् । तदन्तेषु । कृतद्विर्वचनेष्विति यावत् । तथाच कृत्तद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्वितीयेत्यर्थः । तत इति । उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यत इत्यर्थः । उभयतः कृष्णं गोपा इति । कृष्णस्य पार्ाद्वयेऽपीत्यर्थः । आद्यादित्वात्तसिः ।उभयोऽन्यत्रे॑त्ययच् । षष्ठर्थे द्वितीया । सर्वतः कृष्णमिति । कृष्णस्य सर्वेषु पार्ोषु गोपा इत्यर्थः । धिक्कृष्णाभक्तमिति । धिक्-निन्दायाम् । कृष्णाभक्तस्य निन्देत्यर्थः । केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थः, प्रथमार्थे द्वितीयेत्याहुः ।धिङ्मूर्खे॑त्यत्र तुनषिद्धाचरण॑मित्यध्याहार्यम् । उपर्युपरीति ।उपर्यध्यधसः सामीप्ये॑ इति द्विर्वचनम् । लोकस्य समीपे उपरि हरिरस्तीत्यर्थः । अध्यधीति । लोकस्य समीपदेसे हरिरस्तीत्यर्थः । अधोऽध इति । लोकस्य समीपे अधो हरिरस्तीत्यर्थः ।अबितः परित इति ।ततोऽन्यत्रापि दृश्यते॑ इत्यस्य प्रपञ्चोऽयम् ।योगेऽपी॑त्यनन्तरंद्वितीये॑ति शेषः । अभितः कृष्णमिति । 'गोपा' इति शेषः । कृष्णस्य पार्ाद्वयेऽपीत्यर्थः । परितः कृष्णमिति । कृष्णस्य सर्वेषु पार्ोषु गोपा इत्यर्थः ।पर्यभिभ्यां चे॑ति तसिल् । ग्रां समया निकषेति । 'समया' 'निकषा' इति च आकारान्ते अव्यये ।ग्राम॑मित्यस्य प्रत्येकमन्वयः । ग्रामस्य समीपे इत्यर्थः । 'निकषाऽन्तिके' 'समयाऽन्तिकमध्ययोः' इति चामरः । विलङ्घ्य लङ्कां निकषा हनिष्यती॑ति माघः । हा कृष्णाभक्तमिति । 'हा' इत्याकारान्तमव्ययं खेदे ।हा विषादशुगार्तिषु॑ इत्यमरः । तदाह-तस्य शोच्यतेत्यर्थ इति । कृष्णाभक्तः शोच्य इत्यर्थ इत्यन्ये । प्रतियोगमुदाहरति — बुभुक्षितमिति । क्षुधार्तस्य किंचिदपि न स्फुरतीत्यर्थः ।भा दी#उतौ॑ । इह तु उपसर्दबलात्स्फुरणे वर्तते । ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम् । एवंचकर्मप्रवचनीययुक्ते द्वितीया॑ इत्यनेन गतार्थत्वं न भवति ।", "14049": "<<कर्तुरीप्सिततमं कर्म>> - कारके इत्यधिकृत्येति । 'संज्ञा वक्ष्यन्ते' इति शेषः ।क्रियाजनकं कारकं, करोति क्रियां निर्वर्तयती॑ति भाष्ये व्युत्पत्तिदर्शनात् ।ब्राआहृणस्य पुत्रं पश्यती॑त्यत्र ब्राआहृणस्याऽन्यथासिद्धत्वान्न कारकत्वम् । कर्तुरीप्सित । 'कारके' इत्यनुवृत्तं प्रथमया विपरिणम्यते । आप्तुमिष्यमाणम्-ईप्सितम् ।आप्लृ व्याप्तौ॑, अस्मात्सन्नन्ता॒न्मतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तः । मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । अतिशयेनेप्सितमीप्सिततमम् । धातूपात्तव्याव्यापाराश्रयः कर्ता । केनाऽऽप्तुमित्याकाङ्क्षायां कर्तृविशेषणीभूतव्यापारेणेत्यर्थाल्लभ्यते । तत्फलितमाह — कर्तुः क्रिययेत्यादिना । क्तप्रत्ययोपात्तं वर्तमानत्वं तु न विवक्षितम् । तेन कटं करोति कृतवान् इत्यादौ नाव्याप्तिः । आप्तिः=संबन्धः । एवं च कत्र्रा स्वनिष्ठव्यापारप्योज्यफलेन संबन्द्धुमिष्यमाणमित्यर्थः । यतातण्डुलान्पचती॑त्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः । तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वात्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारोऽधिश्रयणोदकासेचनैधोऽपकर्षणप्रज्वलनादिरूप इति 'कारके' इत्यादिसूत्रभाष्ये स्पष्टम् । अत एवफलव्यापारयोर्धातु॑रिति सिद्धान्तः । तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः । अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्य विक्लित्तिरूपफलाश्रयत्वात्तण्डुलानां कर्मत्वम् । ननु कर्तृग्रहणं व्यर्थम् । नच व्यापारलाभाय तदिति वाच्यं, केना प्तुमित्याकाङ्क्षायां कारकाधिकारादेव तल्लाभादिति पृच्छति — कर्त्तुः किमिति । माषेष्वआं वध्नातीति । माषेषु भक्षणाय प्रवृत्त्युन्मुखमुदरव्यथाभयात्तद्भक्षणान्निवर्तयितुमन्यत्र बध्नातीत्यर्थः । अत्र माषाणां कर्मत्वनिवृत्त्यर्थं कर्तृग्रहणमिति भावः । कर्तृ ग्रहणे कृते तुनोक्तदोष इत्याह — कर्मण #इति । बन्धनकर्मीभूतस्याआस्यैवात्र माषा ईप्सिता नतु बन्धनकर्तुः, अआरक्षणस्यैव तदपेक्षि तत्वादित्यर्थः । तमब्ग्रहणं किमिति । तमबन्धमीप्सिततममित्येतत्किमर्थं कर्तृरिद्देश्यं कर्मे॑त्येवास्त्विति प्रश्नः । पयसा ओदनं भुङ्क्ते इति । पयसा मिश्रमित्यर्थः । यद्यप्यत्र भोक्तुरोदन एव पयसा मिश्र उद्देश्यो, नतु केवलं पयो, नापि केवल ओदनः, नह्रसौ केवलपयःपानेन तुष्यति, नापि केवलौदनेन । तथापि यदा भुक्तवानेन पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम् । तत्र यद्यपि पय एव उद्देश्यं भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रमसाधनतया गुमत्वेनैव तदुद्देश्यं, नतु भोज्यत्वेन । अतस्तत्र पयसो गुणत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम्, नतु पयसोऽपि । तस्याप्योदन एव ईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः । नच तमब्ग्रहणं किमर्थम्,कर्तुरीप्सितं कर्म॑ इत्येबास्त्विति वाच्यम्,अग्नेर्माणवकं वारयती॑त्यत्र मामवकस्यवारणार्थानामीप्सितः॑ इत्यपादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद्वारणार्थानामिति सूत्रव्याख्यावसरे स्फुटीभविष्यति । प्रचीनैस्तु कैश्चित्, — ॒तमब्ग्रहणं किम्, पयसा ओदनं भुङ्क्ते॑ इति ग्रन्थः केवलतमब्ग्रहणप्रयोजनपरतया व्याख्यातः । ते भाष्यविरुद्धत्वादुपेक्ष्याः । ननुअधिशीङ्स्थासां कर्मे॑त्यतोऽनुवृत्तेरिह कर्मग्रहणं व्यर्थमित्यत आह — कर्मग्रहणमाधारेति । अधिशीङित्यत्र हि आधार इत्यनुवर्तते । इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमित्यर्थः । ननुहरिं भजती॑त्यादावसंभवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह — अन्यथेत्यादि । हरिं भजतीत्यादौ न स्यादित्येवकारार्थः ।", "14050": "<<तथायुक्तं चानिप्सीतम्>> - क्रीतात्करणपूर्वात् । प्रातिपदिकादित्यनुवृत्तमत इत्यनुवृत्तेन क्रीतादित्यनेन च विशेष्यते, तदन्त विधिः । तदाह — क्रीतान्तादित्यादिना । करणमादिर्यस्येति विग्रहः । प्रातिपदिकशब्दो विशेष्यं, तेन करणादेरिति पुंस्त्वमुपपन्नम् । वस्त्रक्रीतीति । ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे कर्तृकरणे कृता बहुल॑मिति समासात्मकं प्रातिपदिकमादन्तमेव, न त्वदन्तमिति कथमत्र ङीषिति चेत्, सत्यम् — समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः । वस्त्र भिस् क्रीत इति स्थितेगतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः॑ इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे 'सुपो धातु' इति सुब्लुकि वस्त्रक्रीतेति प्रातिपदिकस्य अदन्तत्वं निर्बाधमिति भावः । एतच्चपुंयोगादाख्याया॑मिति सूत्रे भाष्ये स्पष्टम् । धनक्रीतेत्यत्रापि ङीष् स्यादित्यत आह-क्वचिन्नेति ।कर्तृकरणे कृता बहुल॑मिति बहुलग्रहणेनगतिकारकोपपदाना॑मित्यस्य क्वचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः । तत्र च सुपः प्रागेवान्तरङ्गत्वाट्टापि सति ततः सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रातीशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः । एवं च 'अत' सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः । एवं च 'अत' इत्यनुवृत्तेरेतत्प्रयोजनमित्युक्तं भवति । एतच्चउपपदमतिङि॑त्यत्र कैयटे स्पष्टम् । करणपूर्वार्त किम् । सुकीता नचैवमपि वस्त्रेण क्रीतेति वाक्यान्ङीष्प्रसङ्गः, क्रीतेति प्रातिपदिकस्य करणपूर्वात्वात्, अदन्तत्वाच्चेति वाच्यं, करणपूर्वादिति हि क्रीतान्तस्य प्रातिपदिकस्य विशेषणं, नतु क्रीतशब्दस्य । करणं पूर्वं यस्मिन्निति बहुव्रीहिः । करणशब्दात्मकपूर्वायवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थः । एतदर्थमेव पूर्वग्रहणम् । अन्यथाक्रीतात्करणा॑दित्येवावक्ष्यदित्यलम् ।", "14051": "", "14052": "<<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ>> - गतिबुद्धि । गतिश्च बुद्धिश्च प्रत्यवसानं च तानीति द्वन्द्वः । प्रत्यवसानं-भक्षणम् । गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषां ते शब्दकर्मणः, तेषामिति बहुव्रीहिः । अविद्यमान कर्म येषां ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः । अणौ कर्ता-अणिकर्ता । यच्छब्दोऽध्याहार्यः । तदाह — हत्याद्यर्थानामित्यादिना । णौ अनुत्वपन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता स ण्यन्ताधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः । क्रमेणोदाहरति — शत्रूनिति ।शत्रूनगमयत् स्वर्ग॑मिति गत्यर्थकस्योदाहरणम् । शत्रवो युद्धे मृताः स्वर्गमगच्छन्, तान् यः शस्त्रवातेनाऽगमयत् स्वर्गं, स श्रीहरिर्मे गतिरित्यत्रान्वयः । अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः, स्वर्गस्तु कर्म । ण्यन्तावस्थायां तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता । शत्रवस्तु कर्म । शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात् । एवंच हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः । प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति । शत्रूणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोकधीनत्वाद्गुणभूतमेव । सेषित्वलक्षणमार्थप्राधान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापास्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः । तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापारे सत्त्वात्तदनुरोधि शत्रुगतं कर्मत्वंकर्तुरीप्सिततम॑मित्येव सिद्धम् । अतो नियमार्थमिदं सूत्रेणिजर्थनाऽऽप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवे॑ति । तेन 'पाचयति देवदत्तेन' इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वं, किंतु कर्तृत्वमेव । तदेतत्हेतुमिति चे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । उक्तं च हरिणा — ॒गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ।॑ इति स्वधर्मेणेति । तृतीययेत्यर्थः । एवंच स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः । एवमग्नेऽप्यूह्रम् । वेदार्थं स्वानवेदयदिति । बुद्ध्यर्थधातोर#उदाहरणम् । स्वशब्द आत्मीयपरः । स्वे=स्वकीयाविधिप्रमुखा वेदार्थमविदुः, तान् हरिर्वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्कर्त्तृणां कर्मत्वम् । आशयच्चामृतं देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्नन्, तान् हरिराशयदित्यर्थः । वेदमध्यापयद्विधिमिति । शब्दकर्मण उदाहरणमेतत् । विधिब्र्राहृआ वेदमधीतवान्, तं हरिरध्यापयदित्यर्थः । अत्र प्रयोज्यकर्तुर्विधेः कर्मत्वम् । आसयत्सलिले पृथ्वीमिति । अकर्मकस्योदाहरणम् । सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः । अत्र पृथिव्याः प्रयोज्यकर्त्र्याः कर्मत्वम् । यः स मे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः ।नीवह्र्रोनेति । 'णीञ् प्रापणे,' 'वह प्रापणे' इत्यनयोण्र्यन्तयोः प्रयोज्यकर्तु॒र्गतिबुद्धी॑त्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वेति । भृत्यो भारं नयति वहति वा, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य णिच्प्रकृत्यर्थं नयं वहनं च प्रति कर्तुः प्रयोजकव्यापारं प्रतिकर्मत्वे निवृत्ते णिच्प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वे नावस्थानात्तृतीया बोध्या । यद्यपि नीवग्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारार्थके प्रापणे गतेर्विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात्प्राप्तिरिति भावः । नियन्तृकर्तृकस्येति । एवंच तत्र प्रयोज्यकर्तुरुक्तस्यनीवह्रोर्ने॑ति प्रतिषेधस्याऽभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति । बाहाः=अआआ वहन्ति, तान् सूतः प्रेरयतीत्यर्थः ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः ।वहन्ति बलीवर्दा यवान्, वाहयति बलीवर्दान् देवदत्तः॑ इति बाष्योदाहरणान्नियन्ता पशुप्रेरक एव विवक्षितः ।अदिखाद्योर्नेति । अद भक्षणे, खादृ भक्षणे, अनयोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थकत्वात् प्राप्तिः । आद्यति खादयति वेति । अत्ति खादति वा अन्नं बटुः, तं प्रेरयतीत्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोजकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । ननुगतिबुद्धी॑ति सूत्रे अणौ कर्तुर्णौ कर्मत्वमुक्तम् । भक्षधातुस्तु चुरादित्वान्नित्यं स्वार्थिकण्यन्तः, तस्याऽणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषेधोऽनुपपन्नः, अप्रसक्तत्वादिति चेन्न, अत एव निषेधाल्मलिङ्गात्गतिबुद्धी॑ति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवंच हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभक्षिधातुवाच्यां क्रियां प्रति कर्तुर्हेतुमण्ण्यन्तवाच्यां क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः । भक्षयत्यन्नं बटुनेति । चुरादिण्यन्ताद्भक्षधातोर्हेतुमण्णिचि पूर्वणेर्लोपे हेतुमण्ण्यन्तात्तिबादौ सति भक्षयतीति रूपम् । एवंच भक्षयत्यन्नं बटुः । खादतीत्यर्थः । तं प्रेरयतीति ण्यन्तस्यार्थः । भक्षयति बलीवर्दानिति । क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितम् । तस्य तदानीमन्तःप्रज्ञजीवत्वात्तद्भक्षणं हिंसैवेति भावः ।जल्पतिप्रभृतीनामिति । एतेषामणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । जल्पयति भाषयति वेति ।धर्म मिति शेषः । पुत्रो धर्मं जल्पति भाषते वा, तं देवदत्तः प्रेरयतीत्यर्थः । गत्यर्थादिष्वनन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम्, अत एवशब्दकर्माकर्मकाणा॑मित्यस्य शब्दः कर्म कारकं येषामित्यर्थात् । अन्यथा वेदमध्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां सङ्ग्रहः । भाष्ये तुके पुनर्जल्पतिप्रभृतयः । जल्पति विलपति आभाषते॑ इत्येवोक्तम् । परिगणनमित्येके, उदाहरणमात्रप्रदर्शनमित्यन्ये ।दृरोश्चेति । 'दृशिर्प्रेक्षणे' अस्याप्यणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति । हरि भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह-सूत्रे इति ।गतिबुद्धी॑ति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनांविद ज्ञाने, ज्ञा अवबोधने॑ इत्यादीनामेव ग्रहणं नतु ज्ञानविशेषवाचिनामित्येतत्दृरोश्चे॑त्यनेन विज्ञायते । अन्यथादृरोश्चे॑त्यस्य वैयथ्र्यप्रसङ्गात् । तेनेति । ज्ञापनेनेत्यर्थः । स्मरति जिघ्रतीत्यादीनामिति । आदिना प्रेक्षते इत्यादीनां सङ्ग्रहः । स्मारयतीति । स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्त, तं यज्ञदत्तः, प्रेरयतीत्यर्थः ।शब्दायतेर्नेति । शब्दं करोतीत्यर्थेशब्दवैरे॑त्यादिना क्यङि,अकृत्सार्वधातुकयो॑रिति दीर्घे, 'सनाद्यन्ताः' इति धातुत्वे श्तिपा निर्देशोऽयम् । शब्दायेति क्यङ्न्तधातोरणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्तेनेति । शब्दायते देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः । देवदत्तस्य कर्मत्वाऽभावात्प्रयोज्यकर्तृत्वमादाय तृतीयैव । अत्र शब्दकर्मकत्वात्प्राप्तिरिति भ्रमं निरस्यति-धात्वर्थेति । शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः । एवं च शब्दात्मकं कर्म धात्वर्थेऽन्तर्भूतम्, अतः शब्दस्येति क्यङन्तदातुरकर्मकः,धात्वर्थबहुर्भूतकर्मकत्वमेव सकर्मकत्वमि॑ति 'सुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्तिरित्यर्थः । एवं चशब्दाययति सैनिकै रिपून् इति कर्म प्रयुञ्ज्ञानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वं न स्यात् । आसधातोर्गत्यादिष्वनन्तर्भावात् । नचाकर्मकत्वात्तदन्तर्भाव इति वाच्यम्,अकर्मकधातुभिर्येगे॑इति मासस्य कर्मतया आसेरकर्मकत्वाऽसंभवात् । किं च ओदनादिकर्मणोऽविवक्षायां देवदत्तः पचति,पाचयति देवदत्तेन यज्ञदत्त #इत्यत्र प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वं स्यात्, तदानीं पचेरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह — येषामिति । इदं च प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् ।", "14053": "<<हृक्रोरन्यतरस्याम्>> - ह्मक्रो । हा च का च ह्मकरौ, तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्यः, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य कर्मत्वविकल्पः । ह्मक्रोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । ह्मक्रोरर्थान्तरे तु प्राप्तविभाषा ।अब्यवहारयति सैन्धवान्सैन्धवैर्वा,॑विकारयति सैन्धवान्सैन्धवैर्वा॑ । अत्र अब्यबहरतेर्भक्षणार्थत्वाद्विकारयतेरकर्मकत्वाच्च प्राप्तिः ।अभिवादीति । हेतुमण्ण्यन्तस्याभिपूर्वकवदधातोर्दृशिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौकर्म वेत्यर्थः । अभिवादयते इति । अभिवदति=नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिति फलेणिचश्चे॑त्यात्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परसमैपदे तु अभिवादयति देवं भक्तेनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति, दर्शयते देवं भक्तं भक्तेन वा ।गतिबुद्धी॑त्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रहणमित्युक्तम्, तथापिदृशेश्चे॑ति नित्यं प्राप्ते विकल्पः ।", "14054": "<<स्वतन्त्रः कर्त्ता>> - अथ तृतीया । स्वतन्त्रः कर्ता । कारकाधिकारात्क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह — क्रियायामिति । स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम् । ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याऽभावादित्यत आह — विवक्षितोऽर्थ इति ।विवक्षातः कारकाणि भवन्ती॑ति भाष्यादिति भावः । स्वातन्त्र्यं च धात्वर्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारो धात्वर्थः । तत्र पचतीत्यत्र विक्लित्रिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति । उक्तं च हरिणा — ॒धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।॑इति । धातूपात्तव्यापारवतीत्यर्थः ।", "14055": "<<तत्प्रयोजको हेतुश्च>> - अथहेतुमति चे॑ति णिज्विधिं वक्ष्यन् हेतुसंज्ञामाह — तत्प्रयोजको हेतुश्च ।स्वतन्त्रः कर्ते॑ति पूर्वसूत्रोपात्तः कर्ता तच्छब्देन परामृश्यते । तस्य कर्तुः प्रयोजकः प्रवर्तयिता - तत्प्रयोजकः । तदाह — कर्तुः प्रयोजको हेतुसंज्ञ इति । चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति । तदाह — कर्तृसंज्ञश्चेति.देवदत्तः पचति, तं प्रेरयति यज्ञदत्त इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपक्रतृत्वसत्त्वात्प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः । प्रयोजकस्य प्रयोज्यकत्र्रा अन्यथासिद्धत्वाद्धेतुत्वाऽप्राप्तौ हेतुसंज्ञाविधिः ।", "14056": "<<प्राग्रीश्वरान्निपाताः>> - प्रागीआरान्निपाताः । प्रथमस्य चतुर्थपादेतत्प्रयोजको हेतुश्चे॑त्यनन्तकमिदं सूत्रम् ।रीश्वर॑शब्दः 'अधिरीश्वरे' इति सूत्रैकदेशस्य अनुकरणम् । अनुकरणत्वान्नापशब्दः । अत एवप्रत्यक्षोपजीव्यत्वा॑दिति चिन्तामणिवाक्यस्यप्रत्यक्षविती॑ति प्रतीकग्रहणं तद्व्याख्याने दृश्यते ।इतः प्रभृति अधिरीश्वर इति एतत्पादीयोपरितनसूत्रे रीश्वरशब्दात् प्राक्निपातसंज्ञकाः प्रत्येतव्या इत्यर्थः । निपातपदमनुवर्तत इति यावत् । रेफविशिष्टग्रहणं किम् । 'ईआरे तोसुन्कसुनौ' इति तृतीयाध्यायस्थस्यावधित्वं मा भूत् । यदि तु प्रथमातिक्रमणे कारणाभावादधिरीश्वर इत्यस्यैवावधित्वं तदा सरेफग्रहणं स्पष्टार्थम् ।", "14057": "<<चादयोऽसत्त्वे>> - चादयोऽसत्त्वे । च आदिर्येषां ते चादयो गणपाठसिद्धाः । निपाता इत्यधिकृतम् ।सत्त्व॑शब्देन द्रव्यमुच्यते ।द्रव्यासुव्यवसायेषु सत्त्वम् इत्यमरः । लिङ्गसङ्ख्याकारकान्वितं द्रव्यम् । चाद्यर्थाः समुच्चयादयो यदा चादिभिर्गम्यन्ते, तदा लिङ्गद्यन्विता न भवन्ति, यदा समुच्चयादिशब्दगम्यास्तदा लिङ्गद्यन्विताः, शब्दस्वाभाव्यात् । न सत्त्वमसत्त्वम् = अद्रव्यं । तत्र वाचकतया विद्यमानाश्चादयो निपातसंज्ञकाः स्युरित्यर्थः । तदाह — अद्रव्यार्था इति । असत्त्वे किम् छागः पशुः । चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम् । इह तु स्यादेव-पुष्टं पशु मन्यते । इह पशु इति सम्यगर्थे ।", "14058": "<<प्रादय उपसर्गाः क्रियायोगे>> -", "14059": "", "14060": "<<गतिश्च>> - उपसर्गाः । गतिश्च । सूत्रद्वयमिदं व्याख्यासौकर्यात्सहोपात्तम् । प्रादय इत्यनुवर्तते । गतिरिति बहुत्वे एकवचनमार्षम् । तदाह — प्रादय इत्यादिना । क्रियायोग इति । क्रियया अन्वये सतीत्तयर्थः । निपात इत्यप्यत्रानुवर्तते, प्रागीआकात्तदधिकारात् । ततश्च प्रादयो निपातसंज्ञका एव सन्तो गत्युपसर्गसंज्ञका भवन्ति । आकडारादिति च बाध्यते । गत्युपसर्गसंज्ञायोस्तु गतिश्चेति चकारादेव समावेशः । सिध्यति । ततश्च प्रणेयमित्यादावुपसर्गकार्यम् 'उपसर्गादसमासेऽपि' इत्यादि सिध्यति, गतिकारकेत्यादि कार्यं च, निपातस्यानर्थकस्येत्यादि च । अथ प्रादीन् पठति — प्र परेत्यादि । 'परा' इत्याकारान्तम् । अयदातौ 'उपसर्गस्यायतौ' इति निर्दुरोर्लत्वम् — निलयते दुलयते । निसो दुशश्च 'सुसजुषो रुः' इति रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते दुरयते । एतदर्थमेव निस्दुसोर्निर्दुरोश्च पृथक्पाठः ।", "14061": "<<ऊर्यादिच्विडाचश्च>> - ऊर्यादिच्वि । च्वि-डाचौ प्रत्ययौ । ऊरीकृत्येति । ऊरीत्यव्ययमङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनञ्पूर्वे क्त्वो ल्यप् । शुक्लीकृत्येति । अशुक्लं शुक्लं कृत्वेत्यर्थः । 'कृभ्वस्तियोगे' इत्यभूततद्भावे च्विः । गतिसमासे सति क्त्वो ल्यप्,वेरपृक्तस्ये॑ति वलोपः । 'अस्य च्वौ' इति ईत्त्वम् । पटपटाकृत्येति । 'पटपटा' इति शब्दं कृत्वेत्यर्थः ।अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति पटच्छब्दाड्डाचि द्वित्वम्, टिलोपः ।नित्यमाम्रेडिते डाची॑ति तकारपकारयो पकार एकादेशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसङ्ख्यानमिति । 'गतिसंज्ञाया' इति शेषः । कारिकाशब्दं व्याचष्टे — कारिका क्रियेति ।स्त्रियां क्ति॑नित्यधिकारे धात्वर्थनिर्देशे ण्वुल् । कारिकाकृत्येति । क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप्, सुब्लुक् । कारिकाशब्दोऽत्र न कत्र्रीवाची, न श्लोकवाची च, व्याख्यानात् ।", "14062": "<<अनुकरणं चानितिपरम्>> - अनुकरणं चा । अनुकरणं गतिसंज्ञं स्यादितिपरं वर्जयित्वेत्यर्थः । खाट्कृत्येति । खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् । खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात् । 'ते प्राग्धातोः' इति सूत्रं तुते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत॑ इति प्रयोगनियमपरमेवेति भावः ।", "14063": "<<आदरानादरयोः सदसती>> - आदरानादरयोः । सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः । सत्कृत्येति । आदरं कृत्वेत्यर्थः । असत्कृत्येति । अनादरं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् ।", "14064": "<<भूषणेऽलम्>> - भूषणेऽलम् । भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । अलंकृत्येति । कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । अलंकृत्येति । कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । कृञ्विषयेति । कृञ्योग एव भवतीत्यर्थः । वस्तुतस्तु सङ्कोचे प्रमाणाऽभावाद्धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता । अत एवअलं भुक्त्वा ओदनं गत॑ इति वृत्तिकृता प्रत्युदाहृतम् ।", "14065": "<<अन्तरपरिग्रहे>> - अन्तरपरि । अपरिग्रहे वर्तमानमन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । हतं परिगृह्रेति । हत्वा गमनं हतमपरिगृह्र परिगृह्र वा भवति । तत्र आद्यमुदाहरणं, द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् ।", "14066": "<<कणेमनसी श्रद्धाप्रतीघाते>> - कणेमनसी । कणेशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञकौ स्तः । अत्यन्ताभिलाषः=श्रद्धा, तस्या निवृत्तिः=प्रतीधातः । कणेहत्येति । गतिसमासे क्त्वो ल्यप् । मनोहत्येति ।पयः पिबती॑त्यनुषज्यते । ननु समासे कृते 'कणे' इति सप्तम्याः कथं न लुगित्यत आह — कणेशब्द इति । ननु श्रद्धाप्रतीघातस्य कथमिहावगतिः, श्रद्धावाचकशब्दाऽभावात् । मनसो घाते सति कथं वा पयःपानमित्यत आह — अभिलाषातिशये इति । 'कणेशब्द' इत्यनुषज्यते ।परावरयोगे चे॑ति सूत्रेण क्त्वा । अभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः । श्रद्धाप्रतीघाते किम् कणे हत्वा गतः । सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः । मनो हत्वा गतः । विषपानादौ मनः प्रवृतिंत प्रतिवध्य गत इत्यर्थः ।", "14067": "<<पुरोऽव्ययम्>> - पुरोऽव्ययं । पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् । पुरम्, पुरौ, पुरः कृत्वा गतः ।", "14068": "<<अस्तं च>> - अस्तं च । पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह — मान्मव्ययमिति । अस्तङ्गत्येति । तिरोधानं प्राप्येत्यर्थः । अव्ययं किं । काण्डमस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः । अच्छ गत्यर्थ । गत्यर्थधातुषु, वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञं स्यात् ।", "14069": "<<अच्छ गत्यर्थवदेषु>> - अच्छगत्येति । गतिसमासे क्त्वो ल्यप् । अच्छोद्येति । वदधातोः क्त्वा । गतिसमासे क्त्वो ल्यप् । अच्छेत्यव्ययमाभिमुख्ये । तद्यथा — बर्हिरच्छैतीति । तदाह — अभिमुखमिति । जलमच्छं गच्छतीति । अत्राऽच्छशब्दस्य नाव्ययत्वं, न गतिसंज्ञा, नापिप्राग्रीश्वरान्निपाताः॑ इत्यधिकृतनिपातसंज्ञा । निपातत्वे सति हि अव्ययत्वाद्विभक्तिलुक् । स्यादिति भावः ।", "14070": "<<अदोऽनुपदेशे>> - अदोऽनुपदेशे । अदश्शब्दोऽनुपदेशे गतिसंज्ञः स्यात् । अदः कृतमिति । गतिसमासे क्त्वो ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च । अदः कृतमिति । 'गतिरनन्तरः' इति स्वरः फलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति । अदऋ कृत्वा अदः कुर्वित्यादावित्यर्थः ।", "14071": "<<विभाषा कृञि>> - विभाषा कृञि । कृञि प्रयुज्यमाने तिरसित्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः । तिरस्कृत्य तिरः कृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् ।तिरसोऽन्यतरस्या॑मिति सत्वविकल्पः । तिरः कृत्वेति । गतित्वाऽभावपक्षे सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः । केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात्सत्वविधौ गतिग्रहणं नानुवर्तयन्ति ।", "14072": "", "14073": "<<उपाजेऽन्वाजे>> - उपाजेऽन्वाजे । उपाजेकृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् । अन्वाजेकृत्येत्यपि तथैव 'उपाजे' 'अन्वाजे' इत्यव्यये दुर्बलस्य बलाधाने वर्तेते । तदाह — दुर्बलस्येति ।", "14074": "<<साक्षात्प्रभृतीनि च>> - साक्षात्प्रभृतीनि च । शेषपूरणेन सूत्रं व्याचष्टे — कृञि वेति । साक्षादित्यव्ययम् । च्व्यर्थ इति । अभू ततद्भावे गम्ये सतीति वक्तव्यमित्यर्थः । साक्षात्कृत्येति । अप्रत्यक्षं प्रत्यक्षं कृत्वेत्यर्थः । गतित्वपक्षे क्त्वो ल्यप् । तत्र सुब्लुकमाशङ्क्याह — मान्तत्वमिति । लवणम्, उष्णम्, शीतम्, उदकम्, आमिति पञ्चानां साक्षात्प्रभृतिगणे मान्तत्वं निपात्यत इत्यर्थः ।", "14075": "<<अनत्याधान उरसिमनसी>> - अनत्याधाने । 'उपसि' 'मनसि' इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तोऽनत्याधाने । उरसिकृत्येति । गतित्वपक्षे कत्वो ल्यप् । इह अत्याधानं न गम्यत इत्याह -अभ्युपगम्येत्यर्थ इति । मनसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप् । इहापि नाऽत्याधानं गम्यत इत्याह — निश्चित्येत्यर्थ इति । अत्याधानशब्दं विवृण्वंस्तस्य प्रयोजनमाह — उपश्लेषणमिति । संयोग इत्यर्थः । उरसि कृत्वेति । उरसि पाणिं निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गतिसंज्ञेति भावः । मध्येपदे । गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते ।", "14076": "<<मध्येपदेनिवचने च>> - मध्येकृत्येति । गतिसमासे क्त्वो ल्यप् । मद्यं कृत्वेत्यर्थः । पदेकृत्येति । गतिसमासे क्त्वो ल्यप् । पदं कृत्वेत्यर्थः । निवचनेकृत्येति । वचनाऽभावं कृत्वेत्यर्थः । तदाह — वाचं नियम्येत्यर्थ इति । वचनस्याभावो निवचनम् । अर्थाभावेऽव्ययीभाव इति भावः ।", "14077": "<<नित्यं हस्ते पाणावुपयमने>> - नित्यं हस्ते । शेषपूरणेन सूत्रं व्याचष्टे-कृञीति । हस्ते इति पाणाविति च शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमन इति यावत् । हस्तेकृत्य, पाणौकृत्येति । कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः । एदन्तत्वमौदन्तत्वं चानयोर्निपात्यते । उपयमने किं । हस्ते कृत्वा सुवर्णं गतः । अन्यदीयमिति बुद्ध्या दातु परावृत्त इत्यर्थः ।", "14078": "<<प्राध्वं बन्धने>> - प्राध्वं बन्धने । प्राध्वमिति न द्वितीयान्तमित्याह — प्राध्वमित्यव्ययमिति । बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । प्राध्वङ्कृत्येति । गतिसमासे क्त्वे ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्ये वर्तते । तदाह — बन्धनेनेति । बन्धनग्रहणस्य प्रयोजनमाह — प्रार्थनादिनेति ।", "14079": "<<जीविकोपनिषदावौपम्ये>> - जीविकोपनि । उपमैव ओपम्यं, तस्मिन्विषये जीविकाशब्द उपनिषच्छब्दश्च कृञा योगे गतिसंज्ञौ स्तः । जीविकामिवेति । अशनपानादिजीवनोपायो जीविका । तामिव अवश्यं कृत्वेत्यर्थः । जीविकाकृत्येति । गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषद्वेदान्तभागः, तामिव अवश्यं कृत्वेत्यर्थः । जीविका कृत्येति । गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषद्वेदान्तभागः, तामिव रहसि ग्राह्रत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति । गतिसमासे क्त्वो ल्यप् । उभयत्रापि सुब्लुक् । तदेवं 'कुगतिप्रादयः' इत्यत्रत्यगतिसमासाः प्रपञ्चिताः । ननु गतिग्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह — प्रादिग्रहणमगत्यर्थमिति । सुपुरुष इति । अत्र क्रियायोगाऽभावादगतित्वेऽपि समासः । सोः पूजार्थकत्वेऽपि धातुवाच्यक्रियायोगाऽभावान्न गतित्वम् । भाष्ये तु 'कुगतिप्रादयः' इति सूत्रमपनीय तत्स्थानेक्वाङ्स्वतिदुर्गतयः समस्यन्त इति वक्तव्य॑मित्युक्त्वा॒कुब्राआहृणः॑आकडारः॑,सुब्राआहृणः॑,॒अतिब्राआहृणः,दुब्र्राआहृणः॑,ऊरीकृत्ये॑त्युदाहृतम् ।स्वती पूजायां॑,दुर्निन्दायाम्,आङीषदर्थे॑, 'कुः पापार्थे' इति सौनागव्याकरणवचनमित#इ भाष्ये स्पष्टम् । अत्र वार्तिकानीति ।प्रादयो गताद्यर्थे समस्यन्ते इति वक्तव्य॑मिति वार्तिकं पठित्वा तत्र व्यवस्तापकानि पञ्च वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदश्र्यन्त इत्यर्थः । प्रादय इति । गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः । प्रगत आचार्य इति । प्रेत्यस्य विवरणं गत इति, 'गत आचार्य' इत्येव अस्वपदविग्रहः, नित्यसमासत्वात् । अभिगतो मुखमभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि । अत्यादय इति । क्रान्ताद्यर्थे अत्यादयः समस्यन्त इत्यर्थः । अति क्रान्तो मालामिति । अतिशब्दः क्रान्ते वर्तते । क्रान्तो मालामित्यस्वपदविग्रहः । तत्र क्रमुधातोरतिक्रमणमर्थ । अतिमाल इति ।एकविभक्ति चे॑ति मालाशब्दस्य उपसर्जनत्वात् 'गोस्त्रि योः' इति ह्रस्वः ।अवादय इति । क्रुष्टाद्यर्थे अवादयः समस्यन्त इत्यर्थः । अवकोकिल इति । कोकिलया आहूत इत्यर्थः । पर्यादय इति । ग्लानाद्यर्थे पर्यादयः समस्यन्त इत्यर्थः । अध्ययनाय=अध्ययनार्थम् । तेन श्रान्त इत्यर्थः । परिरत्र ग्लाने वर्तते । निरादय इति । क्रान्ताद्यर्थे निरादयः समस्यन्त इत्यर्थः । निष्कोषाम्बिरिति । अतिमालवद्ध्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति । वार्तिकमेतत् । वृक्षं प्रतीति ।लक्षणेत्थ॑मिति कर्मप्रवचनीयत्वान्न प्रादिसमासः । इदं वार्तिकं भाष्ये प्रत्याख्यातम् ।", "14080": "<<ते प्राग्धातोः>> - ते प्राग्धातोः । 'ते' इत्यस्य विवरणं — गत्युपसर्गसंज्ञा इति ।उपसर्गाः क्रियायोगे॑गतिश्चे॑ति प्रकृतत्वादिति भावः । प्रागेवेति । न परतो, नापि व्यवहिता इत्यर्थ- । इहधातोः प्रागेव प्रयुज्यमाना गत्युपसर्गाः स्यु॑रिति संज्ञानियमपक्षोऽपि भाष्ये स्थितः ।", "14081": "", "14082": "", "14083": "<<कर्मप्रवचनीयाः>> - कर्मप्रवचनीयाः । इत्यधिकृत्येति ।प्राग्रीस्वरान्निपाताः॑ इति पर्यन्तमिति बोध्यम् ।", "14084": "<<अनुर्लक्षणे>> - अनुर्लक्षणे । लक्षणे द्योत्ये इति । लक्ष्यलक्षणभावसंबन्धे द्योत्ये इत्यर्थः । उक्तसंज्ञ इति । कर्मप्रवचनीसंज्ञ इत्यर्थः । लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम्, नतु वृक्षं प्रति विद्योतते विद्युदितिवच्चिह्नमात्रम्, तथा सतिलक्षणेत्थ॑मित्येव सिद्धेरिति वक्ष्यते । गत्युपसर्गसंज्ञापवाद इति । अनेन क्रियायोगे एव कर्मप्रवचनीयसंज्ञेति सूचितम् । 'कर्मप्रवचनीयाः' इति महासंज्ञाकरणसामर्थ्यादन्वर्थत्वम् । कर्मेति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीयाः, भूते कर्तरि बाहुलकादनीयप्र्रत्ययः, ततश्च क्रियामेव न द्योतयन्ति किंतु क्रियानिरूपितसंबन्धविशेषं द्योतयन्ति । एवं च अनुप्रत्यादिषु क्रियानिरूपितसंबन्धस्य द्योत्यत्वेन अन्वयात्तत्र गत्युपसर्गसंज्ञयोः प्राप्तिर्बोध्या ।", "14085": "<<तृतीयाऽर्थे>> - तृतीयार्थे । अनुरित्यनुवर्तते । 'कर्मप्रवचनीयाः' इत्यधिकृतम् । अस्मिन्द्योत्ये इति । 'सहयुक्तेऽप्रधाने' इति तृतीयार्थे साहित्ये द्योत्ये इत्यर्थः । अत्र 'तृतीयार्थे' इत्यनेन कर्तृकरणे न गृह्रेते,रामेण शरेणानुहतो वाली॑त्यत्रउपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्याः संज्ञायाः फलाऽभावात् । नापि 'येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः,अनन्तरस्ये॑ति न्यायेनकर्मप्रवचनीययुक्ते द्वितीया॑ इत्यस्य 'सहयुक्तेऽप्रधाने' इत्यस्यैव बाधकत्वात् । तदाह-नद्या सह संबद्धेति । साहित्यं द्वितीयार्थः, अनुस्तद्ध्योतक इति भावः । नन्ववसितशब्दस्य अवपूर्वात् 'षो अन्तकर्मणि' इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह-षिञ्बन्धने क्त इति । उपसर्गबलेन संबन्धवृत्तेरस्मात्क्तप्रत्यय इत्यर्थः । अत्र यदवश्यं पुनः पुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम्, किंतु सकृज्ज्ञापकमपि । यथा यं कमण्डलुना भवानद्राक्षीत्, स छात्र इति । सकृदेव हि कमण्डलुपाणिर्दृष्टः, तस्य कमण्डलुर्लक्षणमिति 'अनुर्लक्षणे' इत्यत्र भाष्ये स्पष्ठम् । तेन व्याप्यात्मकलिङ्गमेवात्र लक्षममिति न भ्रमितव्यम् ।", "14086": "<<हीने>> - हीने । हीने द्योत्ये इति । निकर्षे द्योत्ये इत्यर्थः । हीन इति भावे क्तः । 'ओ हाक् त्यागे' इति धातोरोदित्त्वात्ओदितश्चे॑ति निष्ठानत्वम् । अनुः प्राग्वदिति । क्रमप्रवचनीयसंज्ञ इत्यर्थः । अनु हरिं सुरा इति । अत्र निकृष्टभावोऽनुद्योत्या द्वितीयार्थः । तदाह — हरेर्हीना इत्यर्थ इति । हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः ।", "14087": "<<उपोऽधिके च>> - उपोऽधिके च । चकारात् 'हीने' इति समुच्चीयते । तदाह-अधिके हीने चेति । आधिक्ये निकर्षे चेत्यर्थः । प्राक्संज्ञमिति । प्रागुक्तकर्मप्रवचनीयसंज्ञकमित्यर्थः । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह-अधिके सप्तमी वक्ष्यत इतियस्मादधिक॑मित्यनेन कर्मप्रवचनीयसंज्ञाकार्यं सप्तमी वक्ष्यते इत्यर्थः । हीने इति । 'उदाहरणं वक्ष्यते' इति शेषः । उप हरिं सुरा इति । हरेर्हीना इत्यर्थः ।", "14088": "<<अपपरी वर्जने>> - अपपरी वर्जने । कर्मप्रवचनीयौ स्त इति । 'कर्मप्रवचनीयाः' इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतः सिञ्चतीत्यर्थः । अत्रोपसर्गत्वात्उपसर्गात्सुनोती॑ति षत्वम् ।", "14089": "<<आङ् मर्यादावचने>> - आङ्मर्यादावचने । उक्तसंज्ञ इति । कर्मप्रवचनीयसंज्ञक इत्यर्थः । ननुआङ्मर्यादायामि॑त्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह — वचनग्रहणादिति । तेन विनेति मर्यादा । तेन सहेत्यभिविधिः । मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम्=आङ्मर्यादाभिविध्योः॑ इति सूत्रम् । तत्र य आङ् दृष्टः स कर्मप्रवचनीयसंज्ञकः स्यादित्यर्थः । तथाच मर्यादिभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः ।", "14090": "<<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> - लक्षणेत्थंभूत । लक्षणं ज्ञापकम् । अयं प्रकार इत्थं, तं प्राप्त इत्थम्भूतः तस्याख्यानमुपपादकमित्थम्भूताख्यानम् । भागः स्वीकार्योऽशस्तत्स्वामी विवक्षितः । व्याप्तुं कार्त्स्न्येन संबन्द्धुमिच्छा वीप्सा । लक्षणं च इत्थम्भूताख्यानं भागश्च वीप्सा चेति द्वन्द्वाद्विषयसप्तमी । तदाह-एष्विति । एष्वर्थेषु द्योत्येष्विति तु नाश्रितम् । व्याप्तुमिच्छायास्तद्द्योत्यार्थत्वाऽभावादिति भावः । लक्षणे इति । 'उदाहरणं वक्ष्यते' इति शेषः । वृक्षं प्रतीति । लक्ष्यलक्षणभावसंबन्धो द्वितीयार्थः । स च प्रत्यादिद्योत्यः । वृक्षेण लक्ष्यमाणा विद्युद्विद्योतते इत्यर्थः । उत्पन्नविनष्टा विद्युत्, तदुत्पादितो वृक्षप्रकाशोऽपि उत्पन्नविनष्ट एव । तथाच वृक्षप्रकाशोत्तरं विद्युतोऽसत्त्वेन प्रत्यक्षाऽभावादनुमेया सा । ततश्च प्रकाशितेन वृक्षेम विद्युज्ज्ञानाद्वृक्षो लक्षणम् । इत्थम्भूताख्यात इति । 'उदाहरणं वक्ष्यते' इति शेषः । भक्तो विष्णुं प्रतीति ।भज सेवायाम् । भक्तिरस्त्यस्येति भक्तः, मत्वर्थीयोऽर्शाअद्यच्, विषयतासंबन्धः प्रत्यादिद्योत्यो द्वितायार्थः , तस्य भक्तावेकदेशेऽन्वयः । विष्णुविषयकभक्तिमानित्यर्थः । अत्र भक्तो भक्तिरूपं प्रकारविशेषं प्राप्तत्वादित्थम्भूतस्तस्य विष्णुविषयकतया उपपाद्यत्वाद्विषयतासंबन्धस्तदुपपादकः प्रतिद्योत्य इति ज्ञेयम् । भागे इति । 'उदाहरणं वक्ष्यते' इति शेषः । लक्ष्मीर्हरिं प्रतीति । स्वामित्यं द्वितीयार्थः । प्रत्यादिद्योत्यः । तदाह — हरेर्भाग इत्यर्थ इति । हरेः स्वभूतेति यावत् । वीप्सायामिति । 'उदाहरणं वक्ष्यते' इति शेषः । वृक्षं वृक्षं प्रतीति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अत्र सन्वाच्या इच्छा स्वरूपसती व्याप्तिरेव तु विवक्षिता, सा च कार्त्स्न्येन संबन्धात्मिका । तथाच प्रकृत्यर्थगतकार्त्स्न्यमेव व्याप्तिः, सा यद्यपि द्विर्वचनद्योत्या, तथापि प्रतिपर्यनुयोगे तद्द्योत्यत्वमपि । तथाच कृत्स्नं वृक्षं सिञ्चतीत्यर्थः । व्यक्तिकार्त्स्न्यमिह विवक्षितं नत्ववयवकार्त्स्न्यमितिनित्यवीप्सयो॑रित्यत्र भाष्ये स्पष्टम् । ननु सेचने वृक्षस्य कर्मत्वादेव द्वितीयासिद्धेः किमिह कर्मप्रवचनीयसंज्ञयेत्यत आह — अत्रेति । गत्युपसर्गसंज्ञापवादः कर्मप्रवचनीयसंज्ञेत्युक्तमतोऽत्र प्रतेः क्रमप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात्उपसर्गात्सुनोती॑ति षत्वं न भवति । कर्मप्रवचनीयत्वाऽभावे तु प्रतेरुपसर्गत्वात्ततः परस्य सिञ्चतेः सस्य षत्वं स्यादित्यर्थः । भाष्ये तुकिमर्थमिदमुच्यते, कर्मत्वादेव द्वितीया सिध्यति,उपसर्गसंज्ञानिवृत्तिस्तु न प्रयोजनम् । क्रियायोगाऽभावे तदप्रसक्ते॑रित्याक्षिप्यद्वितीयार्थमेवैतत् कर्मप्रवचनीयसंज्ञाविधान॑मित्यक्तम् । वृक्षस्य सेचने कर्मत्वेऽपि तदविवक्षायां षष्ठीं बाधितुमिदं कर्मप्रवचनीयत्वाविधानम् । किं च वृक्षस्य सेचने कर्मत्वेऽपि प्रथमतः प्रतिद्योत्यसंबन्धेऽन्वयेन अन्तरङ्गत्वात्तन्निमित्तषष्ठीबाधनार्थमिदम् ।वृक्षं वृक्षं प्रति पक्षिण आसते॑ इत्यादावकर्मकधातुयोगेऽधिकरणादिसंज्ञानिरसार्थं चेदमिति भाष्याशय इति शब्देन्दुशेखरे मञ्जूषायां च स्पष्टम् । एषु किमिति ।लक्षणेत्थम्भूताख्यानभागवीप्सासु॑ इति किमर्थमित्यर्थः । परिषिञ्चतीति ।अग्नि॑मित्यादि शेषः । अत्र लक्षणाद्यभावात्कर्मप्रवचनीयत्वाऽभावे॒उपसर्गात्सुनोती॑ति षत्वमिति भावः ।", "14091": "<<अभिरभागे>> - अभिरभागे । लक्षणादाविति । आदिना इत्थम्भूताख्यानवीप्सयोः सङ्ग्रहः । लक्षणे उदाहरति — हरिमभि वर्तत इति । जयः क्वेति प्रश्ने इदमुत्तरम् । लक्ष्यभावोऽभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति । इत्थम्भूताख्याने उदाहरणमिदम् । विषयतासंबन्धोऽभिद्योत्यो द्वितीयार्थः । हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति-देवं देवमभि सिञ्चतीति । कार्त्स्न्यसंबन्धात्मिका व्याप्तिर्द्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्चतीत्यर्थः । षत्वाऽभावादिपूर्ववत् । यदत्रेति । बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वाभिभावः षष्ठर्थः । अभिस्तद्द्योतकः । अत्र संसृष्टद्रव्ये यद्वस्तु मम स्वभूतं स्यात्तन्मह्रं दीयतामित्यर्थः । स्यादित्यस्तेर्लिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासादुपसर्गत्वस्य निर्बाधत्वात्उपसर्गप्रादुभ्र्यामस्तिर्यच्परः॑ इति षत्वम् ।", "14092": "<<प्रतिः प्रतिनिधिप्रतिदानयोः>> - प्रतिनिधि । अत्रेति सूत्रोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ठर्थे पञ्चमी, अस्मादेव निर्देशात् ।कृष्णस्य प्रतिनिधिः॑ इति तुज्ञापकसिद्धं न सर्वत्रे॑ति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति । युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थः सादृश्यम् । प्रतिस्तु तद्द्योतकः । तिलेभ्य इति । ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः । कर्मणि पञ्चमी ।", "14093": "<<अधिपरी अनर्थकौ>> - अधिपरी । उक्तसंज्ञो स्त इति । कर्मप्रवचनीयसंज्ञकावित्यर्थः । कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति । अत्र 'कुत' इत्यपादानपञ्चम्यास्तसिल् । कस्मात् प्रदेशादागच्छतीत्यर्थः । नन्वत्र अधिपर्योरनर्थकतया सम्बन्धस्य तद्द्योत्यत्वाऽभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याऽभावान्न द्वितीयाप्रसक्तिरित्यत आह — गतिसंज्ञाबाधादिति । अत्र 'गतिर्गतौ' इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये 'कुत' इत्युपात्तमिति भावः । अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवाऽर्थान्तरद्योतकत्वाऽभावेऽपि धात्वर्थद्योतकत्वमस्त्येव । अर्थान्तरद्योतकत्वाऽभावेनाऽनर्थकत्वव्यवहारः । उक्तं च भाष्ये — ॒अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः॑ इति । एवंच क्रियायोगाऽभावाद्गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता ।", "14094": "<<सुः पूजायाम्>> - सुः पूजायाम् । 'कर्मप्रवचनीय' इति शेषः । सु सिक्तं सु स्तुतमिति । अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।उपसर्गात्सुनोतीत्यनेने॑ति शेषः । पूजायां किमिति । सुना पूजाया नित्यं प्रतीतेः प्रश्नः । सुषिक्तं किं [स्यात्]तवात्रेति । त्वया सम्यक् सिक्तं, किन्त्वत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः । क्षेपोऽयमिति । निन्दाऽत्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्मप्रवचनीयत्वम् । तदभावात्उपसर्गात्सुनोती॑ति षत्वमिति भावः ।", "14095": "<<अतिरतिक्रमणे च>> - अतिरतिक्रमणे च । चकारात्पूजायामिति समुच्चीयत #इत्याह — पूजायां चेति । अतिक्रमणम्-उचितादाधिक्यम् । अति देवान् कृष्ण इति । प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः । देवानां पूज्य इति वा । आद्यऽर्थे 'कुगतिप्रादयः' इति समासो न,स्वती पूजायामि॑ति नियमात् । द्वितीये त्वनभिधानान्नेत्याहुः ।", "14096": "<<अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु>> - अपिः पदार्थ । पदार्थश्च संभावनञ्च अन्ववसर्गश्च गर्हा च समुच्चयश्चेति द्वन्द्वः । एषु द्योतकतया विद्यमानोऽपिः कर्मप्रवचनीय इत्यर्थः । तदाह — एष्विति । अप्रयुज्यमानस्य पदान्तरस्यार्थः-पदार्थः । तद्द्योतकमपिमुदाहरति — सर्पिषोऽपि स्यादिति । यत्रातिदौर्लभ्यादत्यल्पमाज्यं भुञ्जनेभ्यो दीयते तदुपहासार्थमिदं वाक्यम् । अत्रापेः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।#उपसर्गाप्रादुभ्र्यामित्यनेने॑ति शेषः । अपिद्योत्यं पदार्थं विशदयितुमाह — संभावनायां लिङिति ।उपसंवादाशङ्कयोश्चे॑ति सूत्रे उपसंवादाशङ्कयोर्लि॑ङिति पठितवचनेने॑ति शेषः । तत्र आशङ्का=उत्कटान्यतरकोटिका शङ्का संभावनैवेति भावः । सा च प्रकृत्यर्थगता भवति, प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः । अस्धातोश्च भवनमर्थः,अस भुवी॑त्युक्तेः । भवनं च सत्ता,भू सत्ताया॑मित्युक्तेः । ततश्च संभावनाविषयीभूतभवनार्थकाऽस्धातोः कर्तरि लिङि श्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च संभावनाविषयीभूतभवनार्थकाऽस्धातोः कर्तरि लिङि श्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च संभावनाविषयभवनाश्रयः कर्ता अवगतः । सच कर्ता क इत्याकाङ्क्षायां प्रकरणादौचित्यात्सर्पिष इत्यवयवषष्ठीबलाच्च बिन्दुरिति गम्यते, तमेवाऽपिशब्दो द्योतयति । सच विन्दुरपिशब्दद्योत्यः कर्ता प्रकृत्यर्थे संभावनाविषये भवने स्वस्य विन्दोर्दौर्लभ्यात्तदेव दौर्लभ्यं पुरस्कृत्यान्वेति, संभावनाविषयत्वबोधे दौर्लभ्यस्यापि संभावनाविषयतया अनुभवसिद्धत्वात् । तदिदं दौर्लभ्यमपि अपिशब्दो द्योतयति । एवं च बिन्धोः कर्तृविशेषरूपेण द्योत्योक्तदौर्लभ्यसंबन्धेन च स्यादित्यत्रान्वयः । तदाह — तस्या एवेति । संभावनाया एवेत्यर्थः । कर्तुर्बिन्दोर्दौर्लभ्याद्भवन क्रियायां यद्यौर्लभ्यं तद्द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यत इत्यर्थः । ननु सर्पिरेव कर्तृत्वेनान्वेति इत्यत आह — सर्पिष इति । 'संबन्ध' इत्यनन्तरं 'वर्तते' इति शेषः । एवंच सर्पिरवयवबिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती बुन्दु कर्तृका संभावनाविषयीभूता सत्तेति बोधः । इयमेवेति । बिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । ननु कर्मप्रवचनीयेनाऽपिना अन्वयसत्त्वात् सर्पिषो द्वितीया स्यादित्यत आह — द्वितीया तु नेति । कुत इत्यत आह — सर्पिष इति । सर्पिषो बिन्दुनैव योगो न त्वपिनेत्येवं सर्पिष इति षष्ठी त्वित्यादिसंदर्भेण उक्तत्वादित्यर्थः । कर्मप्रवचनीयद्योत्यसंबन्धप्रतियोगित्वमेव कर्मप्रवचनीययुक्तत्वम्, प्रकृते च अपिद्योत्यस्य उक्तसंबन्धस्य विन्दुरेव प्रतियोगी नतु सर्पिरिति भावः । तदेवं पदार्थद्योतकमपिमुदाहृत्य संभावनद्योतकमपिमुदाहरति — अपि स्तुयादिति ।संभावनेऽलमिति चेत् सिद्धाऽप्रयोगे॑ इति लिङ् । संभावनपदं व्याचष्टे — संभावनमित्यादिना । अवाङ्भनसगोचरं विष्णुमपि स्तुयात् । स्तोतु शक्त इत्यर्थः । अत्युक्तिरियम्, अवाङ्मनसगोचरस्य विष्णोः केनापि स्तोतुमशक्यत्वात् । तत्र कर्मप्रवचनीयत्वे उपसर्गत्वबाधात्उपसर्गात्सुनोती॑ति षत्वं न । अन्ववसर्गद्योतममपिमुदाहरति — अपिस्तुहीति । स्तुहि वा, न वा, यथेष्टं कुर्वित्यर्थः । अन्ववसर्गपदं व्याचष्टे — कामचारानुज्ञेति ।प्रैषातिसर्गे॑ति लोट् । गर्हाद्योतकमप्युदाहरति — अपि स्तुयाद्वृषलमिति ।गर्हायां लडपिजात्वोः॑ इति लटं बाधित्वा परत्वादन्तरङ्गत्वाच्च संभावनायां लिङ् । अत्र वृषलस्य निन्द्यत्वात् तत्स्तुतेर्निन्द्यत्वं गम्यमानमपिशब्दो द्योतयति । धिग्देवदत्तमिति तदनुवादः । समुच्चयद्योतकमपिमुदाहरति — अपि सिञ्च अपि स्तुहीति । अपिद्वयेन मिलितेन समुच्चयद्योतनात् प्रत्येकं कर्मप्रवचनीयत्वादुभयत्रापि षत्वाऽभावः । सिञ्च, स्तुहि चेत्यर्थः ।", "14097": "<<अधिरीश्वरे>> - अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह — अधिरीश्वरे । ईआरशब्देन इआरत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम् । 'कर्मप्रवचनीयाः' इत्यधिकृतमेकवचनान्ततया विपरिणम्यते । तदाह — स्वस्वामीति ।", "14098": "<<विभाषा कृञि>> - विभाषा कृञि । 'अधिरीश्वरे' इत्यनुवर्तते । 'कर्मप्रवचनीया' इत्यधिकृतम् । तदाह — अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीआरत्वे इति यावत् । यदत्रमामधिकरिष्यतीति । अत्र=अस्मिन्विषये मामधिकरिव्यतीति यत्नयुक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतद्व्याचष्टे — विनियोक्ष्यत इत्यर्थ इति । तर्हि कर्मत्वादेव द्वितीयासिद्धेः किं कर्मप्रवचनीयत्वेनेत्यत आह — अगतित्वादिति । तिङि चेति । उदात्तवति तिङि परे गतिर्निहन्यत इति तदर्थः । अत्र करिप्यतीति तिङन्तमुदात्तवत्, तिङ्ङतिङः॑ इति निघातस्य 'निपोत्तैर्यत्' इत्यादिना निषेधात् । ततश्च अधेरत्र गतित्वान्निघात इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति, तेन गतित्वस्य बाधात् । अतोऽधेर्निघाताऽभावार्थमिदं सूत्रमिति सिद्धम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां विभक्त्यर्थनिरूपणम् । ************************अथ तिङन्ते कर्तृकर्मप्रक्रिया ।अथ कर्मकर्तृप्रक्रियां निरूपयिष्यन्कर्मणः कर्तृत्वं साधयितुमाह — यदेति ।फलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचिर्हि विक्लित्यनुकूलव्यापारे वर्तते । तत्र विक्लित्तिः फलम् । तदाश्रय ओदनं कर्म.तदनुकूलो व्यापारः — अधिश्रयणादिः पुरुषप्रयत्नरूपो व्यापारः । तत्राधिश्रयणं चुल्ल्या उपरि तण्डुलयुक्तस्थाल्याः स्थापनम् । स्थापनं स्थित्यनुकूलव्यापारः । तत्र स्थितिः स्थालीतण्डुलनिष्ठा । तदनुकूलः पुरुषचेष्टाविशेषः । धातु#ऊपात्तव्यापाराश्रयः पुरुषः कर्ता, स्वतन्त्रत्वात् । स्वातन्त्र्यं प्रधान्यमिति भाष्यम् । कर्मकरणादिकं तु पुरुषप्रयत्नपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः । तत्र यदा सौकर्यतिशयविवक्षया कर्त्तुः पुरुषस्य व्यापारः प्रयत्नो न विवक्ष्यते, किंतु कर्मादिगत एव व्यापारो विक्लित्यादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकारकाण्यपि कर्तृसंज्ञा लभन्ते इत्यर्थः । ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्वतन्त्रत्वात्कथं कर्मणः कर्तृत्वमित्यत आह — स्वव्यापारे स्वतन्त्रत्वादिति । स्वातन्त्र्येण विवक्षितत्वादित्यर्थः । तदुक्तंकर्मवत्कर्मणे॑त्यत्र भाष्ये — कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्ष#इत्तवात् इति । अत्र कर्मग्रहणं करणादिकारकस्याप्युपलक्षणम् । तेनेति । असिना छिनत्तीत्यादिप्रयोगदशायामसिकुठारादीनां करणत्वादिसत्त्वेऽपि, 'असिश्छिनत्ती' इत्यादिप्रयोगदशायां कर्तृत्वेन विवक्षितत्वात्कर्तरि लकार इत्यर्थः । साध्वसिश्छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा । 'साधु' इति क्रियाविशेषं सौकर्यातिशयद्योतनाय । अतितैक्ष्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव असिश्छिनत्तीत्यर्थः । काष्ठानि पचन्तीति । अत्रापि करणानां कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राऽधिकरणस्य कर्तृत्वविवक्षा । काष्ठानामतिशुष्कत्वाद्धमनफूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्ब्यश्रपणतया सौकर्यं बोध्यम् । कर्मणस्त्विति । ये छिदिभिदिप्रभृतय एककर्मकास्तत्र कर्मणः कर्तृत्वविवक्षायां वृक्षश्छिनत्ती॑त्यादौ प्राक् सकर्मकत्वेऽपि संप्रति सर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः । ये तु द्विकर्मकास्तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्त्वात्प्रायेणेत्युक्तिः । ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा — सुधां क्षीरसागरो मथ्यते॑ । कर्तरि यथथा — सुधां क्षीरसागरो मथ्न#आति॑ । अथ यदुक्तम् — एककर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति, तस्य प्रयोजनाह — तेभ्यो भावे कर्तरि च लकारा इति । नतु कर्मणि, असंभवात् । अत एवअकर्मकेभ्यो भावे कर्तरि ल॑ इत्युक्तमिति भावः । तत्र एककर्मकेभ्यः कर्मणः कर्तत्वविवक्षायां भावे लकारमुदाहरति — पच्यते ओदनेनेति । ओदनकर्तृकः पाक इत्यर्थः । एवं भिद्यते काष्ठेनेत्यपि । यद्यपि पचेर्द्विकर्मकत्वं तथापि तण्डुलानामविवक्षायामेककर्मकत्वं पचेराश्रितम् । कर्तरि त्विति । एककर्मकेषु कर्मणः कर्तृत्वविवक्षायां कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः ।", "14099": "<<लः परस्मैपदम्>> - लः पर । 'ल' इति स्थानषष्ठी । 'आदेश' इत्यध्याहार्यम् । तदाह — लादेशा इति ।", "14100": "<<तङानावात्मनेपदम्>> - तङानौ । तङ् च आनश्चेति द्वन्द्वः । प्रत्याहार इति ।त आतामिति तशब्दमारभ्य महिङिति ङकारेणे॑ति शेषः । तदाह — तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते । ततश्च आनग्रहणेन शानच्कानचावेव गृह्रते, न तुताच्छील्यवयोवचनशक्तिषु चान॑शिति विहितश्चानशपि, तस्य लादेशत्वाऽभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति — निघ्नाना इत्यादौ । तदाह — शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः । पूर्वसंज्ञेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदं, कस्मादात्मनेपदमित्याकाङ्क्षायामाह — अनुदात्तङितः । अनुदात्तश्च ङ्च अनुदात्तङौ । तावितौ यस्य सः - अनुदात्तङित् । तस्मात् — अनुदात्तङितः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते । अनुदात्तेतो ङितश्चेति । लभ्यते ।उपदेशेऽजनुनासिक इ॑दित्यस्मान्मण्डूकप्लुत्या उपदेश इत्यनुवृत्तं ङित इत्यनेन सम्बध्यते, नत्वनुदात्तेत इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाऽव्यभिचारात् । 'भूवादयो धातव' इत्यस्मान्मण्डूकप्लुत्या 'धातव' इत्यनुवृत्तं पञ्चम्या विपरिणतमनुदात्तेता ङिता च विशेष्यत#ए । तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाऽभावान्ङिदंशे तदन्तविधिः । तदाह — अनुदात्तेत इत्यादिना । लस्य स्थान इति । आत्मनेपदग्रहणलभ्यमिदम्, तिङां लादेशत्वनियमात् । उपदेशे किम् । चुकुटिषति । अत्र 'गाङ्कुटादिभ्य' इति सन आतिदेशिकमेव ङित्त्वम्, नत्वौपदेशिकम् । धातोः किम् । अदुद्रुवत् । अत्रणिश्री॑ति चङन्तान्नात्मनेपदम् । ङिदंशे तदन्तविध्यभावे तु 'बोभूयते' इत्यादौ 'सनाद्यन्ता' इति धातुसंज्ञकाद्यङन्तादात्मनेपदं न स्यात् । 'ङित' इत्येवोक्तौ यङो ङित्त्वेऽपि तद्वन्तस्य धातोर्ङित्त्वाऽभावादात्मनेपदं न स्यात् ।", "14101": "<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> - तिङः षट् त्रिकाः,संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह — तिङ उभयोः पदयोरिति ।लः परस्मैपद॑मित्यतः परस्मैपदमिति,तङानावात्मनेपद॑मित्यत आत्मनेपदमिति चानुवृत्तं षष्ठन्ततया विपरिणम्यते । ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येकं त्रयस्त्रिकाः सन्तीति यथासङ्ख्यं प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः । प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धेति बोध्यम् ।", "14102": "<<तान्येकवचनद्विवचनबहुवचनान्येकशः>> - अथ प्रथमादिपुरुषेषु एकैकस्मिन्पुरुषे प्रत्ययत्रिकात्मके युगपत्पर्यायेण वा एकैकप्रत्यये प्राप्तेद्व्येकयोर्दविवचनैकवचने॑बहुषु बहुवचन॑मिति व्यवस्तार्थमेकवचनादिसंज्ञामाह — तान्येक । तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममध्यमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते । तदाह — लब्धप्रथमादिसंज्ञानीति ।एकश॑इत्यस्य विवरणं — प्रत्येकमिति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति शसिति भावः ।", "14103": "<<सुपः>> - सुपः । सुप् प्रत्याहारः, षष्ठएकवचनम् ।तान्येकवचनद्विवचनबहुवचनान्येकशः॑ इति सूत्रं तानीतिवर्जमनुवर्तते । एकश इति । एकैकमित्यर्थःसङ्ख्यैकवचनाच्च वीप्सायाम् इति शश् । शसैव वीप्साया अबिधानात् 'नित्यवीप्सयोः' इति द्वित्वं न । तच्चसङ्ख्यैकवचनाच्चे॑ति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते ।तिङस्त्रीणि त्रीणी॑त्यतःत्रीणि त्रीणि॑त्यनुवर्तते । तदाह — सुपस्त्रीणीत्यादिना ।", "14104": "<<विभक्तिश्च>> - अथ 'न विभक्तो तुस्माः' इत्याद्युपयोगिनी विभक्तिसंज्ञामाह — विभक्तिश्च । 'सुप' इति पूर्वसूत्रात्सुब्ग्रहणम्,तिङस्त्रीणी॑त्यतस्तिङ्ग्रहणं चानुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह — सुप्तिङाविति । चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः । तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम् । अन्यथा 'रामेभ्यः' 'भवाम' इत्यादौ विभक्तिसंज्ञाविरहेणन विभक्ता॑विति निषेधो न स्यात् । ननु प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सम्पतम्यधिकरणे चेत्यादौ कथं प्रथमादिव्यवहारः , सूत्रकृता पाणिनिना प्रथमादिसंज्ञानामनुक्तत्वादित्यत आह — तत्रेति । तेषु स्वादिप्रत्ययेषु मध्य इत्यर्थः । इत्यादीनामिति । आदिना — अम् — औट् — शस् — इत्यादीनां ग्रहणम् । प्राचामिति । पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः । किं तत् इत्यत आह — ताभिरिति । ताभिः=प्रथमादिसंज्ञाभिरिहापि=पाणिनीयशास्त्रेऽपि व्यवहारः — सम्भवतीत्यर्थः ।", "14105": "<<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> - युष्मदि । उपोच्चारितं पदमुपपदम् । युष्मदि समीपोच्चारिते सतीत्यर्थः । समानमेकमधिकरणं वाच्यं यस्येति विग्रहः । सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम्,लः परस्मैपद॑मित्यतस्तदनुवृत्तेः । तथा च फलितमाह — तिङ्वाच्यकारकवाचिनि युष्मदीति । स्थानं — प्रसङ्गोऽस्यास्तीति स्थानी, तस्मिन् । प्रसक्ते सतीत्यर्थः । प्रसङ्गश्च तदर्थावगतौ सत्यां वक्रा अप्रयोग एव भवति । तथा चस्थानिनी॑त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थं बोधयति सतीत्यर्थः पर्यवस्यति । तदाह — अप्रयुज्यमान इति ।स्थानिनी॑त्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात् । ततश्च राम पाहीत्यादावव्याप्तिः स्यात् । अपिना लब्धमाह — प्रयुज्यमानेऽपीति ।युष्मद्युपपदे स्थानिनी॑त्येवोक्तौ राम त्वं पाहीत्यादौ युष्मत्प्रयोगे मध्यमो न स्यादतोऽपिग्रहणमिति भावः । अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात् ।भवानागच्छती॑त्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात्, भवच्छब्दस्य तु स्वभावेन संबोध्याऽसंबोध्यसादारणत्वादित्यलम् ।", "14106": "<<प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च>> - प्रहासे च । वाक्यद्वयमिदं सूत्रम् ।प्रहासे च मन्योपपदे इति प्रथमं वाक्यम् । मध्यम इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते । तदाह — मन्यधातुरित्यादिना । तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति । 'अस्मद्युपपदे' इति शेषः । अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः । एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः ।मन्यतेरुत्तम एकवच्चे॑ति द्वितीयं वाक्यम् । तद्व्याचष्टे — मन्यतेस्तूत्तमः स्यादिति । 'युष्मद्युपपदे' इति शेषः । पूर्वसूत्रात्तदनुवृत्तेः । स चेति । सः = मन्येतरुत्तमपुरुषः,द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः । मध्यमोत्तमयोव्र्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति ।", "14107": "<<अस्मद्युत्तमः>> - अस्मद्युत्तमः । तथाभूत इति । तिङ्वाच्यकारकवाचिनि अप्रयुज्यमाने प्रयुज्यमाने चेत्यर्थः ।", "14108": "<<शेषे प्रथमः>> - शेषे । उक्तान्मध्यमोत्तमविषयादन्यः शेषः । तदाह — मध्यमोत्तमयोरविषय #इति । 'त्वमहं च पचाव' इत्यत्र तु परत्वादुत्तमपुरुष एव न तु मध्यमः ।देवदत्तस्त्वं च पचथ॑ इत्यत्रापि न प्रथमपुरुषः, युष्मदस्सत्वेन शेषत्वाऽभावादित्यलम् । भू सत्तायामिति । 'वर्तते' इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्रभू॑इत्येव गणे पाठः । अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः, न क्रिया, तथापि आत्मधारणं सत्तेत्युच्यते । स्वरूपेणाऽवस्थानमिति यावत् । कर्तृविवक्षायामिति । वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याऽभावात् प्रथमपुरुषत्रिके, तत्रापि कर्तुरेवकत्वविवक्षायां तिपि सति, भू-तीति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः ।", "14109": "<<परः सन्निकर्षः संहिता>> - परः संनिकर्षः । परः=अतिशयितः ।दूरानात्मोत्तमाः पराः॑ इत्यमरः । सन्निकर्षः=सामीप्यम् । अर्धमात्राधिककालव्यवधानाऽभावः । अर्धमात्राकालव्यवधानस्याऽवर्जनीयत्वात् । तदेतदभिप्रेत्याह-अतिशयित इत्यादिना ।", "14110": "<<विरामोऽवसानम्>> - विरामोऽवसानम् । विरम्यते अस्मिन्निति विरामः । सामीपिकेऽधिकरणे घञ् । विरमणं-क्रियाया अभावः, स च शब्दशास्त्रप्रस्तावाद्वर्णानामुच्चारणाऽभावात्मक इति लभ्यते । तथा चयस्मिन्वर्णे उच्चारिते सति अव्यवहितात्तरकाले वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक॑ इत्यर्थः फलति । तदभिप्रेत्य व्याचष्टे — वर्णानामिति । यस्मिन्नुच्चारिते सति वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक इत्यद्याहारेण विवरणं योज्यम् । यद्वा वर्णानामुच्चारणाऽभावो विरामः । भावे घञ् । स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एव गृह्रते , व्याख्यानात् । अस्मिन् पक्षेकिञ्चिद्वर्णोच्चारणोत्तरं वर्णान्तराणामुच्चारणाभावोऽवसान॑मिति विवरणयोजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतो रेफस्य विसर्गः, अवसाने तुरेफे स्थानिनी॑ति योज्यम् । खपवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम् ।", "21001": "<<समर्थः पदविधिः>> - अथ समासेष्वव्ययीभावः । तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासान्निरूपयिष्यंस्तदुपोद्धातत्वेनाह समर्थः पदविधिः । विधीयते इति विधिः-कार्यम् । पदस्य विधिः पदविधिरिति शेषषष्ठआ समासः । तदाह-पदसंबन्धी यो विधिरिति । समर्ताश्रित इति । सूत्रे समर्थशब्दः समर्थाश्रिते लाक्षणिक इति भावः । सामर्थ्यं द्विविधम्-व्यपेक्षालक्षणमेकार्थीभावलक्षणं च । तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयस्तद्व्यपेक्षाभिधं सामर्थ्यम्, विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः । संबद्धार्थः समर्थ इति व्युत्पत्तेश्च । इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तत्र च एकैकस्य शब्दस्य यो यः संनिहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽआश्चेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुष इति च । एकार्थीभावलक्षणसामर्थ्यं तु प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन पृथग्गृहीतानां पदानां समुदायशक्त्या विसिष्टैकार्थप्रतिपादकतारूपम् ।सङ्गतार्थः समर्थः॑,संसृष्टार्थः समर्थ॑ इति व्युत्पत्तेः । सङ्गतिः संसर्गश्च एकीभाव एव । यथा-सङ्गतं घृतं तैलेनेति । एकीभूतमिति गम्यते । यथा वा संसृष्ट#ओऽग्निरिति । एकीभूत इति गम्यत इति भाष्याच्च । इदंच सामर्थ्यं राजपुरुष इत्यादिवृत्तावेव । अत एव 'ऋद्धस्य राजपुरुष' इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात् ।देवदत्तस्य गुरुकुल॑मित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात्समासः । यद्वा गुरुवद्देवदत्तोऽपि विशेष्ये प्रदाने कुल एवान्वेति । तत्र गुरुणा कुलस्य उत्पाद्यत्वसंबन्धेनान्वयः । देवदत्तेन तु कुलस्य तदीयगुरूत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तं च हरिणा-॒संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ।॑ इति । समुदायेन संबन्धो येषां गुरुकलादिना । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह.॑ इति च ।एतेन 'अयश्शूल' इति सूत्रे भाष्येशिवस्य भगवतो भक्तः॑ इत्यर्थे 'शिवभागवतः' इत्यादि व्याख्यातम् । एकार्थीभावश्चाऽयमलौकिकविग्रहवाक्ये कल्प्यते । यथा लादेशभूतशतृशानचोरप्रथमासामानाधिकरण्यं लकारेऽपि कल्प्यते तद्वत् । अत एवलस्य अप्रथमासमानाधिकरणेनार्थेनाऽयोगादादेशानुपपत्तिः, तस्य क्वापि प्रयोगाऽभावा॑दि त्याक्षिप्यआदेशे सामानाधिकरण्यं दृष्ट्वा अनुमानाद्गन्तव्यं प्रकृतेरपि तद्भवति ॑ इति 'लटश्शतृशानचौ' इति सूत्रभाष्ये समाहितम् ।सिद्धानां शब्दानामन्वाख्यानात् पचन्तं देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता । अलोकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां कॢप्तशक्तित्यागे मानाऽभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च यमेकार्थीभावोऽजहत्स्वार्था वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्था इत्यादौ आत्त्वाद्यनापत्तेः, वृत्तौ महादादिशब्दानामनर्थकत्वादर्थवद्ग्रहणसंभवे अनर्थकस्य 'आन्महतः' इत्यादौ ग्रहणाऽयोगात् । तदुक्तम् — ॒जहत्स्व#आर्था तु तत्रैव यत्र रूढिर्विरोधिनी॑ इति । अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अआकर्णमण्डपादौ । विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायां चानुसंधेयः । समर्थः किम् । पश्य कृष्णं, श्रितो रामं मित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाऽभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान्न सामर्थ्यम् ।", "21002": "", "21003": "<<प्राक् कडारात् समासः>> - प्राक्कडारात् । 'आकडारात्' इत्येवप्रा॑गिति सिद्धे प्राग्ग्रहणमेकसञ्ज्ञाधिकारेपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम् । सम्पूर्वकस्य अस्यतेरेकीकरणात्मकऋ संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः ।अकर्तरि च कारके संज्ञाया॑मिति कर्मणि घञ् । अत एव मूले समस्यते इति वक्ष्यते । तथा च अन्वर्थेयं संज्ञा ।", "21004": "<<सह सुपा>> - सह सुपा । 'सुबामन्त्रिते' इत्यतःसु॑बित्यनुवर्तते । सुबन्तं सुबन्तेन सहोच्चारितं समाससंज्ञं भवतीति फलति । एवं सतिपर्यभूषय॑दित्यादौ सुबन्तस्य तिङन्तेन समासो न स्यात् । तत्राह — सहेति योगो विभज्यत इति । समाससंज्ञायां अन्वर्थत्वादेकस्याऽप्रसङ्गात्सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः ।सहे॑त्यत्र 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते । तदाह — सुबन्तमित्यादिना । समस्यत इति । एकीक्रियते प्रयोक्तृभिरित्यर्थः । समाससंज्ञां लभत इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते, एकीभवतीत्यर्थः । कर्तरि लट् ।उपसर्गादस्यत्यूह्रो॑रित्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुलकाद्घञन्तएव, कर्मणि घञन्तो वा । तथा सति समस्यत इति कर्तरि तिङन्तं फलितार्थकथनपरमित्याहुः । ननुघटो भवती॑त्यत्र समासे घट-भवतीत्यपि लोके प्रयोगः स्यादित्यत आह — योगविभागस्येति । कतिपयेति । कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः ।पर्यभूषयदिति । समासान्तोदात्तत्वे शेषनिघात इति 'कुगति' इति सूत्र#ए कैयटः ।देवो देवान् क्रतुना पर्यभूषय॑दित्यत्र तु स्वरव्यत्ययो बोध्यः । अनुव्यचलदिति ।अचल॑दित्यनेन वेः पूर्वं समासे सति तेन अनोः समासः । नत्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विवक्षित्वात् । अत एवमहिष्या अजायाश्च क्षीर॑मित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः । सुपा । 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । 'समास' इत्यधिकृतम् । तदाह — सुप्सुपेति । सुबन्तं सुबन्तेनेत्यर्थः । ततश्च पूर्वं भूत इति विग्रहे समाससंज्ञा स्थिता । समासत्वात्प्रातिपदिकसंज्ञेति ।कृत्तद्धितसमासाश्च इत्यनेने॑ति शेषः ।", "21005": "<<अव्ययीभावः>> - अव्ययीभावः । अधिकारोऽयमिति । एकसंज्ञाधिकारेऽपि अनया संज्ञया समास संज्ञा न बाध्यते इति 'प्राक्कडारात्' इत्यत्रोक्तम् ।", "21006": "<<अव्ययं विभक्तिसमीपसमृद्धि- व्यृद्ध्यर्थाभावात्ययासम्प्रति- शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य- सम्पत्तिसाकल्यान्तवचनेषु>> - अव्ययं विभक्ति । विभक्त्यर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह — अव्ययमिति योगो विभज्यत इति । अत्र 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयान्ततया विपरिणम्यते । समास इति, अव्ययीभाव इति चाधिकृतम् । तदाह — अव्ययं समर्थेनेति । सोऽव्ययीभाव इति । स समासः अव्ययीभावसंज्ञः स्यादित्यर्थः । तथाच दिशयोर्मध्यमित्यस्वपदविग्रहे मध्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समाससंज्ञा, तस्य समासस्याऽव्ययीभावसंज्ञा च सिद्धा । तथाच समासत्वात्प्रातिपदिकत्वेसुपो धातु॑इति सुब्लुकि सति दिशा-अप इति स्थितम् ।", "21007": "<<यथाऽसादृश्ये>> - यथाऽसादृस्ये । 'असादृश्ये' इति छेदः । व्याख्यानात् । असादृश्ये योग्यतावीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्य यथार्थत्वादेव सिद्धे नियमार्थमिदमित्याह-असादृश्ये एवेति । ननुप्रकारवचने था॑लिति विहिततताल्प्रत्ययान्तस्य कथं सादृश्ये वृत्तिरित्यत आह — हरेरिति । सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन्प्रकारे थालिति 'प्रकारवचने थाल्' इत्यास्यार्थः । ततश्च यद्विशेषधर्मवान्हरिस्तद्विशेषधर्मवान्हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोरभेदावगमादुपमानत्वप्रतीतिरिति भावः । तेनेतिप्राप्त॑मित्यत्रान्वयः । सादृश्यार्थकत्वेनेत्यर्थः । सादृश्य इति वेति ।अव्ययं विभक्ती॑ति सूत्रगतेन सादृश्ये वर्तमानमव्ययं समस्यत इत्यंशेन वा, यथार्थे विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्तमव्ययीभावसमासकार्यं निषिध्यत इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृस्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता । यथाशब्दस्य सूत्रगृहीतत्वेन तद्योगे यतार्थेत्यस्याऽप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः ।", "21008": "<<यावदवधारणे>> - यावदवधारणे । इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते, सोऽव्ययीभाव इत्यर्थः । यावन्त इति । यत्परिमाणं येषामिति विग्रहे॒यत्तदेतेभ्यः परिमाणे वतु॑बिति वतुप्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । इयद्भुक्तमिति नावधारयतीत्यर्थः ।", "21009": "<<सुप्प्रतिना मात्राऽर्थे>> - सुप्प्रतिना मात्रार्थे । सुबिति छेदः । मात्रा-लेशः । तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनः सुब्ग्रहणं संनिहितस्याऽव्ययमित्यस्याननुवृत्त्यर्थं, तद्ध्वनयन्नुदाहरति-शाकस्य लेश इति । अत्रप्रती॑त्यव्ययं मात्रार्थकम् । अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जनत्वात्पूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं प्रतीति । अत्र प्रतेर्मात्रार्थकत्वाऽभावान्न तेन समासः । न चलक्षणेत्थ॑मिति कर्मप्रवचनीयत्वविधानसामर्थ्यादेवाऽत्र समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठआ वा लुकि अविशेषात्, सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम्,वृक्षं प्रति सिञ्चती॑त्यादौउपसर्गात्सुनोती॑ति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः ।", "21010": "<<अक्षशलाकासंख्याः परिणा>> - अक्षशलाका ।समस्यन्ते सोऽव्ययीभाव॑ इति शेषः । द्यूतव्यवहारे इति । वार्तिकमिदम् । [इद] द्यूतं तावत्पञ्चभिरक्षैः शलाकाभिर्वा भवति । यदि अक्षाः शलाका वा कत्स्ना उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयति । अन्यथा पराजयत इति स्थितिः । अक्षेणेति । कर्तरि तृतीया ।विपरीतं वृत्त॑मित्यत्र वृत्तेर्भाव क्तः ।विपरीत॑मिति क्रियाविशेषणम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः । शलाकापरीति । शलाकया विपरीतं वृत्तमिति भावः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं 'द्विपरि'त्रिपरी॑त्यादि ।", "21011": "<<विभाषाऽपपरिबहिरञ्चवः पञ्चम्या>> - अपरिबहिः ।समस्यन्ते सोऽव्ययीभाव॑ इति शेषः । अपविष्ण्विति । अत्र 'अप' इत्यव्ययं वर्जने । विष्णुं वर्जयित्वा संसरणमित्यर्थः । अप विष्णोरिति-लौकिकविग्रहवाक्यम्, समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाऽभावात् । 'अपपरी वर्जने' इति अपेत्यव्ययस्य कर्मप्रवचनीयत्वात्तद्योगेपञ्चम्यपाङ्परिभि॑रिति पञ्चमी । तदन्तेनअपे॑त्यस्याव्ययीभावसमासः । सुब्लुक् । अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । समासात्सुबुत्पत्तिः । 'अव्ययादाप्सुपः' इति लुक् । एवं यथायथमग्रेऽपि ज्ञेयम् । परिविष्ण्विति । अत्रापि परिर्वर्जने । पञ्चम्यादि पूर्ववत् । बहिर्वनं बहिर्वनादिति । अस्मादेव ज्ञापकाद्बहिर्योगे पञ्चमी । इतरत् पूर्ववत् । दन्तत्वादम्भावः । प्राग्वनं प्राग्वनादिति । अञ्चूत्तरपदयोगे पञ्चमी ।", "21012": "", "21013": "<<आङ् मर्यादाभिविध्योः>> - आङ्मर्यादाभिविध्योः । एतयोरिति । मर्यादाभिविध्योर्विद्यमानादित्यर्थः । मर्यादायामुदाहरति-आमुक्तीति । मुक्तेः प्रागित्यर्थः । अमिविधावुदाहरति-आबलमिति । बालानारभ्येत्यर्थः । 'आङ्मर्यादावचने' इत्युभयत्रापि कर्मप्रवचनीयत्वात्पञ्चम्यपाङ्परिभि॑रिति पञ्चमी ।", "21014": "<<लक्षणेनाभिप्रती आभिमुख्ये>> - लक्षणेनाभि । लक्षणेनेत्येतद्व्याचश्टे-चिह्नवाचिनेति । प्राग्वदिति ।समस्येतेसोऽव्ययीभाव॑ इत्यर्थः । अभ्यग्नीति । शलभाः-क्षुद्रजन्तुविशेषाः स्थूलमक्षिकाः । अग्निमभीति । विग्रहोऽयम् । 'अभिरभागे' इतिलक्षणेत्थ॑मिति चाभिप्रत्योः कर्मप्रवचनीयत्वम्, अग्निज्ञाप्यं तदभिमुखं च शलभपतनमित्यर्थः ।", "21015": "<<अनुर्यत्समया>> - अनुर्यत्समया । लक्षणेनेत्यनुवर्तते ।य॑दिति समयायोगे 'अभितःपरितः' इति द्वितीयान्तम् । सामान्ये नपुंसकम् । तदाह — पदार्थमिति । अनुवनमिति । अत्र वनशब्दः वनसमीपदेशे लाक्षणिकः । वनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् । तदाह — वनस्य समीपं गत इत्यर्थ इति । वस्तुतो लक्षणीभूतस्य वनस्य समीपंगत इति यावत् ।अव्ययं विभक्ती॑त्यादिना सिद्धे विभाषार्थमिदं सूत्रम् । ततश्च 'वनस्यानु' इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्मप्रवचनीयसंज्ञा शङ्क्या, वस्तुसत एवात्र लक्षणत्वस्य निमित्तत्वाश्रयणात् । लक्षणत्वस्य ज्ञातस्य निमित्तत्वे तु 'वनमनु' इत्येववाक्यमुदाहार्यम् ।", "21016": "<<यस्य चायामः>> - यस्य चायामः । लक्षणेनेत्यनुवर्तते । अनुरित्यनुवर्त्त्य आवर्त्त्य तृतीयया विपरिणम्यते । तत्र एकं लक्षणेनेत्यत्र संबध्यते । द्वितीयं तु अनुनेत्येतत् — ॒यस्य चायामः॑ इत्यनन्तरं संबध्यते । द्योत्यत इति शेषः । आयामो दैघ्र्यम् । तदाह-यस्य दैघ्र्यमिति । यद्दैघ्र्यसदृशं दैघ्र्यमित्यर्थः । समस्यते इति ।सोऽव्ययीभाव॑\t इत्यपि बोध्यम् । अनुगङ्गमिति-समासः । लौकिकविग्रहं दर्शयति-गङ्गाया अन्विति । इहापि लक्षणत्वं वस्तुसदेव निमित्तं न त्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैघ्र्यसदृशं दैघ्र्यं लक्ष्यते । तदेवानुद्योत्यम् । तदाह — गङ्गा-दैघ्र्येति ।", "21017": "<<तिष्ठद्गुप्रभृतीनि च>> - तिष्ठद्गुप्रभृतीनि च । एतानीति शब्दरूपाणीत्यर्थः । तिष्ठन्ति गाव इति । फलितार्थकथनम् । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः इत्येव वक्तव्यम्, 'सुप्सुपः' इत्यनुवृत्तेः । दोहनकाल इति । तदा गवां शयनोपवेशनयोरभावादिति भावः । आयतीगवमिति । आयत्यो गावो यस्मिन् काले इति विग्रहः । इहेति । उदाहरणद्वये इत्यर्थः । शत्रादेश इति । 'तिष्ठन्त्यो गाव' इति 'आयत्यो गाव' इति च प्रथमासमानाधिकरणत्वात् 'लटश्शतृशानचौ' इत्यस्याऽप्राप्तौ तन्निपातनमिति भावः । पुंवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि 'स्त्रियाः पुंवत्' इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यते इति भावः । समासान्तश्चेति । आयतीगोशब्दस्य टच् समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः ।समासान्तश्चे॑ति चकारादव्ययीभावश्च निपात्यते इति ज्ञेयम् । तथा च तिष्ठद्गोशब्दस्य नपुंसकह्रस्वत्वम् । अव्ययत्वात् सुपो लुक् । औगतीगवशब्दात्तु 'नाव्ययीभावात्' इत्यम्भाव इत्यादि फलति । इत्यादीति । खलेयवं खलेबुसमिति सप्तम्या अलुगिति -आदिपदग्राह्रम् ।", "21018": "<<पारे मध्ये षष्ठ्या वा>> - पारे मध्ये । पारे मध्ये #इति न सप्तम्यन्तयोग्र्रहणं, किन्तु पारमध्यशब्दयोरेवेत्याह — पारमद्यशब्दाविति । समस्येते इति । अव्ययीभावसंज्ञौ चेत्यपि बोध्यम् । ननु पारमध्यशब्दयोरकारान्तयोग्र्रहणे कथमेकारनिर्देश इत्यत आह — एदन्तत्वं चेति । ननु विभाषेत्यधिकारादेव सिद्धेवा॑ग्रहणं किमर्थमित्यत आह — पक्षे षष्ठीतत्पुरुष इति वाग्रहणाभावेऽयमव्ययीभावसमासो विशेषविहितत्वात् षष्ठीसमासं बाधेत, तदबाधार्थं वाग्रहणमिति भावः । पारेगङ्गादानयेति । गङ्गायाः पारादिति विग्रहे अव्ययीभावसमासे सति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसकह्रस्वत्वे पारेगङ्गशब्दात्समासात्पुनः पञ्चम्युत्पत्तिः । 'अव्ययादाप्' इति न लुक्, अदन्ततया 'नाव्ययीभावात्' इति निषेधात् । 'अपञ्चम्या' इति पर्युदासादम्भावश्च नेति भावः । गङ्गापारादिति -षष्ठीसमासपक्षे ज्ञेयम् । मद्येगङ्गादिति । पारेगङ्गादितिवद्रूपम् । गङ्गामध्यादिति -षष्ठीसमासेज्ञेयम् ।पारे मध्ये इति सप्तम्यन्ते षष्ठआ समस्येते॑ इति व्याख्याने तु गङ्गायाः पारे मध्ये इति विग्रहे संमासे सतितत्पुरुषे कृति बहुलम् इति बहुलग्रहणात् सप्तम्योरलुकि नपुंसकह्रस्वत्वे समासात्पुनरुत्वपन्नायाः सप्तम्या अम्भावे पारेमध्यं पारेगङ्गमिति सिद्धे रेकारनिर्देशो व्यर्थः स्यात् । अतो यत्र सप्तम्यर्थो न संभवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम् । एतत्सूचनायैव पञ्चम्यन्तोदाहरणमिति बोध्यम् । ननु यदि वाग्रहणमिह पक्षे षष्ठीसमासप्राप्त्यर्थमेव स्यात्, तर्हि गङ्गायाः पारात् गङ्गाया मध्यादिति वाक्यं न स्यादित्यत आह-महाविभाषयेति । विभाषेत्यधिकृता महाविभाषा । सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेर्महत्त्वं बोध्यम् । नन्वव्ययीभावसमासस्य षष्ठीसमासापवादत्वेऽपि तस्य महाविभाषया वैकल्पिकत्वात्तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव । तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्तदभावपक्षे वाक्यमपि सिध्यत्येव । तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, उच्यते,यत्र उत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते ॑ इति ज्ञापनार्थमिह वाग्रहणम् । तेन पूर्वं कायस्येत्यत्र #एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति । दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्तेतस्यापत्य॑मित्यण् न भवति । किं तु वाक्यमेवेति भाष्ये स्पष्टम् ।", "21019": "<<संख्या वंश्येन>> - संख्या वंश्येन । वंशो द्विधेति । वंशः-सन्ततिः ।सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः सन्तानः॑ इत्यमरः । विद्यया जन्मनेति । तत्र जन्मनवांशः पुत्रादिपरम्परेति प्रसिद्धमेव । विद्यया तु वंशो गुरुपरम्परा,यस्माद्धर्मानाचिनोति स आचार्यः । तस्मै न द्रुह्रेत्कदाचन । स हि विद्यातस्तं जयति तच्छ्रेष्ठं जन्म । शरीरमेष मातापितरौ जनयतः॑ इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति । दिगादित्वाद्यत् । वा समस्यते इति । 'सोऽव्ययीभाव' इत्यपि बोध्यम् । द्वौ मुनी वंश्याविति । विग्रहोऽयम् । मुनिशब्दो विद्यावंश्यवाचीति सूचनाय वंश्यावित्युक्तम् । द्विमुनि व्याकरणस्येति । द्वौ च तौ मुनी चेति विग्रहेविशेषणं विशेष्येण बहुल॑मिति कर्मधारयं बाधित्वाऽव्ययीभावः । अव्ययत्वात्सुब्लुक् । व्याकरमविद्यायाः प्रवर्तकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थः । त्रिमुनीति । त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः । नन्वेवंत्रिमुनि व्याकरण॑मिति सामानाधिकरण्यानुपपत्तिरित्यत आह — विद्यातद्वतामिति । यद्यपि बहुव्रीहिणाप्येतत्सिद्धं तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति — एकविशतिभ#आरद्वाजमिति एकविंशतिर्भरद्वाजा इति कर्मधारयं बाधित्वाऽव्ययीभावः । तत्र विग्रहवाक्ये भरद्वाजशब्दाद्विदादित्वादञ् ।यञञोश्चे॑ति लुक् । समासे तुउपकादिभ्योऽन्यतरस्यामद्वन्द्वे॑ इति लुगभावः ।तृतीयासप्तम्योर्बहुल॑मिति सूत्रेएकविंशतिभारद्वाज॑मिति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात् ।", "21020": "<<नदीभिश्च>> - नदीभिश्च । प्राग्वदिति । नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः । समाहारे चेति — वार्त्तिकम् । चकार एवार्थे । भाष्ये चकारविहीनस्यैव पाठात् । सप्तगङ्गमिति । सप्तानां गङ्गानां समाहार इति विग्रहेतद्धितार्थोत्तरपदसमाहारे चे॑ति द्विगुसमासं बाधित्वाऽव्ययीभावसमासः । द्वियमुनमिति । द्वयोर्यमुनयो समाहार इति विग्रहः । अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणमिति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति ।", "21021": "", "21022": "<<तत्पुरुषः>> - तत्पुरुषः । प्रागिति ।शेषो बहुव्रीहि॑रित्यनः प्रागित्यर्थः ।", "21023": "<<द्विगुश्च>> - द्विगुश्च । द्विगुरपीति ।तद्धितार्थोत्तरपदसमाहारे च॑ इति वक्ष्यमाणसमासस्यसंख्यापूर्वो द्विगु॑रिति द्विगुसंज्ञा विधास्यते । स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत् । एतत्सूत्राऽभावे एकसंज्ञाधिकाराद्द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः । इदमिति ।द्विगुश्चे॑त्येतदित्यर्थः । तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह — संख्येति ।संख्यापूर्वोद्विगु॑रिति द्विगुसंज्ञाविधायकं सूत्रम् । तत्र चकारः पठनीयः । ततश्च संख्यापूर्वसमासो द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते । एवञ्च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभा॒द्द्विगुश्चे॑ति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः । ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह — समासान्तः प्रयोजनमिति । तदुदाहृत्य दर्शयति - पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रहेतद्धितार्थे॑ति द्विगुः । तस्य तत्पुरुषत्वाद्राजाहःसखिभ्यष्टजि॑ति टच् ।स नपुंसक॑मिति नपुंसकत्वम् ।अकारान्तोत्तरपदो द्विगुः स्त्रिया॑मिति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाऽभावात् । न चसंख्यापूर्वोद्विगुश्चे॑ति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात्, अतः समुच्चयार्थंद्विगुश्चे॑ति पृथक्सूत्रमस्त्विति वाच्यम्, 'सङ्ख्यापूर्व' इति,द्विगु॑रिति च योगौ विभज्य पूर्वेण सङ्ख्यापूर्वस्य तत्पुरुषसंज्ञाविधिः, द्विगुरित्यनेन द्विगुसंज्ञाविदिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्ध्या चकारस्य समुच्चयार्थत्वोपपत्तेः ।", "21024": "<<द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः>> - द्वितीया श्रिता । द्वितीयान्तमिति । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते । तथा चसुबन्तै॑रित्यस्य सुप्-तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति । श्रितादिशब्दास्तु क्तप्रत्ययान्ता एव न तु सुबन्ताः, तेषां सुब्घटितसमुदायात्मकत्वाऽभावादित्यत आह-श्रितादिप्रकृतिकैः सुबन्तैरिति । श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः ।गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्ते॑रित्यस्य तु नायं विषयः, 'कर्तृकरणे कृता'साधनं कृते॑तिवत्कारकविशेषानुपादानादिति प्रौढमनोरमायां स्थितम् । न च श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकैरित्यर्थलाभा॒त्कृष्णं परमश्रित॑ इत्यत्रापि समासः स्यादिति वाच्यं, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रित इति । श्रयतेर्गतिविशेषार्थकत्वाद्गत्यर्थाकर्मकेति कर्तरि क्तः ।न लोके॑ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात्कृष्णशब्दस्य पूर्वनिपातः दुःखातीत इति ।दुःखमतीत इति विग्रहः ।इण् गतौ॑ । अतिपूर्वात् कर्तरि क्तः । इत्यादीति । गर्तं पतितो गर्तपतितः ।पल्लृ गतौ॑ । कर्तरि क्तः । तनिपतिदरिद्रातिभ्यः सनो वेट्कत्वेनयस्य विभाषे॑तीण्निषेधप्राप्तावप्यत एव निपातनादिट् । ग्रामं गतो ग्रामगतः । ग्राममत्यस्तः-अतिक्रान्तो-ग्रामात्यस्तः । ग्रामं प्राप्तः ग्रामप्राप्ताः । संशयमापन्नः संशयापन्नः । गम्यादीनामिति । गम्यादिप्रकृतिकैः सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति । 'गमेरिनिः' रित्यौणादिक इनिप्रत्ययः, स च 'भविष्यति गम्यादयः' इति वचनाद्भविष्यति काले भवति ।अकेनो॑रिति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । ग्रामं गमिष्यन्नित्यर्थः । अन्नं बुभुक्षुरिति । भुजेः सन् ।सनाशंसभिक्ष उः॑ ।न लोके॑ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादपठित इति भावः । स्वयं क्तेन । क्तप्रत्ययान्तप्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः । अयोग्यत्वादिति ।स्वय॑मित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति भावः ।स्वय॑मित्यव्ययस्य समासेऽसमासेऽपि को भेदः । असमासेऽपि 'अव्ययादाप्सुपः' इति लुकः प्रवृत्तेरित्यत आह — स्वयंकृतस्यापत्यमिति । स्वयंकृतस्यापत्यमित्यर्थे 'अत इ' ञिति स्वयंकृतशब्दात्षष्ठन्तत्वात्तत इञि ऋकारस्यादिवृद्धौ रपरत्वे स्वयंकार्तिरित्येव स्यादिति भावः । वस्तुतस्तु असामर्थ्यादिह न तद्धितः । स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् ।", "21025": "", "21026": "<<खट्वा क्षेपे>> - खट्वा क्षेपे । क्तेनेत्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा । द्वितीयेति सुपेति चानुवर्तते । तदुभयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत्प्रकृतिप्रत्ययसमुदायपरम् । खट्वाशब्दस्य क्तान्तशब्दस्य च सुब्घटितसमुदायात्मकत्वाऽसंभवादत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह-खट्वाप्रकृतिकमिति । खट्वारूढौ जाल्म इति ।जाल्मोऽसमीक्ष्यकारी॑त्यमरः । खट्वा अम्-आरूढ स् इत्यलौकिकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति । तत्कुत इत्य आह — न हि वाक्येनेति । वृत्त्यर्थबोधकं वाक्यं-लौकिकविग्रहः । तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दां न गमयति । 'खट्वा रूढ' इति समासस्तु रूढआ निन्दां गमयति । तथाच भाष्यम् — ॒अधीत्य रुआआत्वा गुर्वनुज्ञातेन खट्वा आरोढव्या । यस्तावदन्यथा करोति सखट्वारूढोऽयं जाल्म॑इत्युच्यते॑ इति । अत्र 'जाल्य' इत्यनेनोद्वृत्तेऽयं शब्दो रूढः अवयवार्थे तु नाभिनिवेष्टव्यमिति सूचितम् ।", "21027": "<<सामि>> - सामि ।सामी॑त्यव्ययमर्धे वर्तते । तत्-क्तान्तप्रकृतिकसुबन्तेन समस्यत इत्यर्थः । सामिकृतमिति । समासाऽभावे तु तद्धितवृत्तौसामिकार्ति॑रिति स्यादिति भावः ।", "21028": "<<कालाः>> - कालाः । क्तेनेत्येवेति । क्तेनेत्यनुवर्तत एवेत्यर्थः । कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननुअत्यन्तसंयोगे चे॑त्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — अनत्यन्तेति । मासप्रमितीति । मासं प्रमित इति विग्रहः । प्रपूर्वकान्माधातोरादिकर्मणि क्तः कर्तरि चेति कर्तरि क्तः । तदाह — मासं परिच्छेत्तुमिति । इह प्रतिपच्चन्द्रेण मासस्य नात्यन्तसंयोग इति भावः ।", "21029": "<<अत्यन्तसंयोगे च>> - अत्यन्तसंयोगे च । काला इत्येवेति । तेनात्यन्तसंयोगे कालवाचिनो द्वितीयान्ताः सुबन्तेन सह वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'कालाः' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्याअह — अक्तान्तार्थमिति । अत्र क्तेनेति निवृत्तमिति भावः । मुहूर्तं सुखमिति । अत्यन्त संयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः ।", "21030": "<<तृतीया तत्कृतार्थेन गुणवचनेन>> - तृतीया तत्कृत । तत्कृतेत्यस्याऽव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह — तत्कृतेति लुप्ततृतीयाकमिति । तत्रतृतीये॑त्यनेन तृतीयान्तं विवक्षितम् ।तत्कृते॑ति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते । तत्कृतेत्येतच्च गुणद्वारा गुणवचनेऽन्वेति । ततश्चतृतीयान्तं तृतीयान्तार्थकृतो यो गुणस्तद्वाचिना समस्यते॑अर्थशब्देन च तृतीयान्तं समस्येति॑ इति वाक्यद्वयं संपद्यत इति भाष्ये स्थितत् । तदाह — तृतीयान्तमित्यादिना ।गुणे॑त्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । इदं सूत्रं कृतशब्दार्थद्वारक एव सामर्थ्ये प्रवर्तते न तु साक्षात्परस्परान्वये इति भाष्ये स्पष्टम् । नचघृतेन पाटव॑मित्यत्रातिप्रसङ्गः शङ्क्यः । गुणेनेति सिद्धे वचनग्रहणाद्गुणोपसर्जनद्रव्यवाचिशब्दो गृह्रत॑ इति व्याख्यानात् । शङ्कुलाखण्ड इति । 'देवदत्त' इति शेषः ।शह्कुलाखण्डो देवदत्तः॑ इत्येव भाष्ये उदाहृतम् ।खडि भेदने॑भावे घञ् । खण्डनं खण्डः । मत्वर्थीयोऽर्वाअद्यच् । शङ्कुलयेति करणे तृतीया । शङ्कुलाकृतखण्डनक्रियावानित्यर्थः । यत्त्वाकडारादिति सूत्रभाष्येसमासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दस्वरूपं गुणवचनसंज्ञं भवती॑त्युक्त, तदेतत्प्रकृते न प्रवर्तते ।गुणमुक्तवता गुणवचनेने॑ति भाष्येण यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवञ्च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यां तदुवोतो गुणवचना॑दित्यत्रसत्त्वे निविशतेऽपैती॑त्यादिलक्षणलक्षितो गुणोऽत्र गृह्रत इत्युक्तम् । तद्व्याख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्डशब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्धत्वात्पूर्वोत्तरविरुद्धत्वाच्चोपेक्ष्यम् । अर्थशब्देन समासमुदाहरति — धान्येनेति । अर्थशब्दो धनपरः । हेतौ तृतीया । धान्यहेतुकं धनमित्यर्थः । अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाऽभावदप्राप्तौ पृथगुक्तिः ।धान्येनेति प्रकृत्यादित्वात्तृतीया, धान्याऽभिन्नं धनमित्यर्थ॑ इति केचित् । ननु 'शङ्कुलया खण्ड' इत्यत्रकर्तृकरणे कृता बहुल॑मित्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति-तत्कृतेति किमिति ।गुणवचनेन चेत्तत्कृतेनैवे॑ति नियमार्थं तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति — अक्ष्णा काण इति । नह्रक्ष्णा काणत्वं कृतं, किन्तु रोगादिनेति भावः । गुणवचनेनेति किम् । गोभिर्वपावान् । गोसम्बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम् । किन्तु न गुणवचनोऽसौ ।", "21031": "<<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> - पूर्वसदृश । एतैरिति । पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण एतैरित्यर्थः । मासपूर्व इति । मासेन पूर्व इति विग्रहः । मासात्प्रागुत्पन्न इत्यर्थः । यद्यप्यवधित्वसम्बन्धे 'अन्यारादितरर्ते' इति दिक्शब्दयोगे पञ्चमी प्राप्ता, दिशि दृष्टः शब्दो दिक्शब्द इत्यभ्युपगमात् । तथाप्यत-एव ज्ञापकात्तृतीया हेतौ तृतीयेत्यन्ते । मातृसदृश इति 'मात्रा सदृश' इति विग्रहः । पितृसम इति । पित्रा सम इति विग्रहः ।तुल्यार्थैरतुलोपमाभ्या॑मिति तृतीया ।तुल्यार्थै॑रिति षष्ठआं षष्ठीसमासेनैव सिद्धमिदमित्यहुः । ऊनार्थेति । उदाहरणसूचमिदम् । मात्रोनमिति । मात्राख्यपरिमाणविशेषेण ऊनं परिमाणमित्यर्थः । अतएव ज्ञापकादवधित्वे तृतीया, हेतौ वा । अर्थग्रहणं च ऊनेनैव सम्बध्यते, न पूर्वादिभिरपि, समसदृश्योः पृथगुपादानात् । अर्थग्रहणस्य प्रयोजनमाह — माषविकलमिति । माषेण विकलमिति विग्रहः । हीनमित्यर्थः । पूर्ववत्तृतीया । वाक्कलह इति । वाचा कलह इति विग्रहः । आचारनिपुण इति । आचारेण निपुण इति विग्रहः । आचारहेतुकनैपुण्यवानित्यर्थः । गुडमिश्र इति । गुडेन मिश्र इति विग्रहः । आचारश्लक्ष्ण इति । आचारेण श्लक्ष्ण इति विग्रहः । आचारहेतुककुशलत्ववानित्यर्थः । ननु 'गुडसंमिश्रा' इत्यत्र कथं समासः, सुबन्तविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तत्राह — मिश्रग्रहणे सोपसर्गस्यापीति । कुत इत्यत आह — मिशं चेति ।असन्धौ मिश्रेत्युत्तरपदमुपसर्गहीनं तृतीयान्तात्परमन्तोदात्त॑मिति तदर्थः । अत्राऽनुपसर्ग गणादितरत्र मिश्रग्रहणे सोपसर्गग्रहणं विज्ञायत इत्यर्थः । मासेनावर इति । मासेन पूर्व इत्यर्थः । न्यून इत्यर्थे तूनार्थकत्ववादेव सिद्धम् ।", "21032": "<<कर्तृकरणे कृता बहुलम्>> - कर्तृकरणे । कर्ता च करणं चेति समाहाद्वन्द्वात्सप्तमी । तृतीयेत्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं । कृतेत्यपि तथैव । तदाहकर्तरि करणे चेति । प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । इह कृद्ग्रहणेन क्तप्रत्यय एव गृह्रते, बहुलग्रहणादिति भाष्यम् । अतः क्तान्तमेवोदाहरति — हरिणा त्रात इति । पालित इत्यर्थः । ननु कृदन्तस्य समर्थविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधान्नखनिर्भिन्न इत्यत्र न स्यादित्यत आह — कृद्ग्रहणे इति । परिभाषेयम् 'गतिरनन्तरः' इति सूत्रे भाष्ये स्थिता । पचतितरामिति । अतिशयेन पचतीत्यर्थः । 'अति शायने'तिङश्चे॑त्यनुवृत्तौद्विवचनविभज्ये॑ति तरप् ।किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे॑ इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थं कृद्ग्रहणमिति भावः ।", "21033": "<<कृत्यैरधिकार्थवचने>> - कृत्यैरधिकार्थवचने । अर्थवादवचनमिति । असदुक्तरित्यर्थः । वातच्छेद्यमिति । वातेन च्छेद्यमिति विग्रहः । छेत्तुं योग्यमित्यर्थः ।ऋहलोण्र्य॑दिति कृत्यप्रत्ययः । कोमलत्वेन स्तुतिः, दुर्वलत्वेन निन्दा वा । काकपेयेति ।अचो य॑दिति यत् ।ईद्यती॑ति गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा ।", "21034": "<<अन्नेन व्यञ्जनम्>> - अन्ने व्यञ्जनम् । व्यञ्जनशब्दं व्याचष्टे — संस्कारेति । संस्क्रियते गुणविशेषवतया क्रियते अनेनेति संस्कारः=उपसेकादिसाधनं दद्यादि, त्दावचकमित्यर्थः । अन्ननेति । अन्नम्-ओदनः । तद्वाचकशब्देनेत्यर्थः ।भिस्सा स्त्री भक्तमन्धोऽन्न॑मिति कोशः । दध्योदन इति । नन्विह दध्नेति करणत्वस्योपसिक्तपदापेक्षत्वादसामर्थ्यात्कथमिह समास इत्यत आह — अन्तर्भूतेति । उपसेकक्रियां विना दध्नोऽन्नसंस्कारकत्वानुपपत्त्या दध्नेत्यस्य दधिकरणकोपसेके वृत्तेर्नाऽसामर्थ्यामिति भावः । तदुक्तं भाष्ये — ॒युक्तार्थसंप्रत्ययाच्च सामर्थ्य॑मिति ।", "21035": "<<भक्ष्येण मिश्रीकरणम्>> - भक्ष्येण । मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं-गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः । कठिन द्रव्य-खाद्यम् । पृथुकादि भक्ष्यं विवक्षितम् । गुडधाना इति ।धाना भृष्टयवे स्त्रियः॑ इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदाऽपेक्षत्वान्न सामर्थ्यमित्यत आह — मिश्रेणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्तेर्नाऽसामर्थ्यमिति भावः ।चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुथ्र्यन्तं गृह्रते । तदर्थ- अर्थ-बलि-हित-सुख-रक्षित-एषां द्वन्द्वः । चतुथ्र्यन्तम् एतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुथ्र्यन्तार्थो विवक्षितः । तस्मै चतुथ्र्यन्तार्थाय इदं तदर्थम् । 'अर्थेन नित्यसमासः' इति वक्ष्यमाणः समासः । चतुथ्र्यन्तवाच्यप्रयोजनकं यत्तत्तदर्थमिति पर्यवस्यति । तदाह — चतुथ्र्यन्तार्थायेत्यादिना । तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति, न त्वन्यत्रेत्यर्थः । कुत इत्यत आह — बलिरक्षितेति । यदि तादथ्र्यमात्रेऽयं समासः स्यात्प्रकृतिविकृतिभाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थं स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तृममित्यत्रापि बलेर्भूतार्थतया, रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायेति । अत्र चुत्रथ्यन्तवाच्ययूपार्थं दारु, अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह — नेहेति । रन्धनायेति । पाकायेत्यर्थः ।रध हिंसायाम् । इह पाको विवक्षितः । भावे ल्युट्, अनादेशः ।रधिभजोरची॑ति नुम् । स्थाल्याश्चतुथ्र्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान्न समासः । नन्वओभ्यो घासः अआघासः, धर्माय नियमो धर्मनियम इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह — अआघासादयस्त्विति । न चैवंरन्धनायस्थाली॑त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यं, शाब्दबोधे सम्बन्धत्वतादथ्र्यन्तवकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्चरन्धनस्य स्थाली॑ति सम्बन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादथ्र्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तां तावत् । तदेवं तदर्थेत्यंशः प्रपञ्चितः । अथेदानीमर्थशब्देन चतुथ्र्यन्तस्य समासे विशेषमाह — अर्थेनेति । अर्थशब्देन चतुथ्र्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुंलिङ्गत्वात्परवल्लिङ्ग॑मिति सर्वत्र पुंलिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । इहोपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति — द्विजार्थ इति । तत्र द्विजायाऽयमित्यस्वपदविग्रहः । तत्रा.ञर्थशब्दस्थानेऽयमिति शब्दः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । द्विजायेति तादथ्र्यचतुर्थी । तदन्तस्याऽर्थशब्देन समासो विशेष्यसूपशब्दस्य पुंलिङ्गत्वात्समासस्य पुंलिङ्गता च । द्विजस्यो कारकः सूप इत्यर्थः । द्विजार्थेति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुंलिङ्गत्वेऽपिपरवल्लिङ्ग॑मिति पुंलिङ्गं बाधित्वाऽनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्थ्यैव तादथ्र्यस्योक्तत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेनाऽर्थशब्देन विग्रहाऽप्रसक्तेर्नित्यसमासत्वं न्यायसिद्धमेव ।गुरोरिदं गुर्वर्थ॑मित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति । विग्रहः । गवामनुकूलमित्यर्थः ।हितयोगे चे॑ति शेषषष्ठपवादश्चतुर्थी॑ । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति ।तृणादिक॑मिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य रक्षितशब्देन समासः ।", "21036": "", "21037": "<<पञ्चमी भयेन>> - पञ्चमी भयेन । पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चोरभयमिति ।भीत्रार्थानां भयहेतुः॑ इत्यपादानत्वात्पञ्चमी । भयभीतभिति । सूत्रे भयशब्दस्यैव ग्रहणाद्भूतादेरप्राप्ते समासे वचनम् । वृकभीत इति । वृकभीतिः वृकभीरित्यप्युदाहार्यम् । अत्र भाष्येअपर आहे॑त्युक्त्वा भयनिर्गतजुगुप्सुभिरिति वक्तव्यमित्युक्त्वा वृकभयं ग्रामनिर्गतः, अधर्मजुगुप्सु॑रित्युदाहृतम् । चोरत्रस्तः, भोगोपरत इत्यादौसुप्सुपे॑ति वा, मयूरव्यंसकादित्वाद्वा समासः ।", "21038": "<<अपेतापोढमुक्तपतितापत्रस्तैरल्पशः>> - अपेतापोढ । अल्पशः॑ इति स्वार्थे शस् अत एव निपातनात् । तदाह — अल्पं पञ्चम्यन्तमिति ।बह्वल्पार्था॑दिति शस्तु न भवति,बह्वल्पार्थान्मङ्गलवचन॑मिति वक्ष्यमाणत्वात् ।", "21039": "<<स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन>> - स्तोकान्तिक । स्तोक-अन्तिक-दूर-एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः । अर्थग्रहणं स्तोकान्तिकदूरेषु संबध्यते । अल्पान्मुक्त इति । स्तोकपर्यायस्योदाहरणम् । अभ्याशादागत इति । अन्तिकपर्यायस्योदाहरणम् । विप्रकृष्टादागत इति । दूरशब्दपर्याय उदाहार्यः ।करणे च स्तोके॑ति पञ्चमी । 'दूरादागत' इत्यत्र तुदूरान्तिकार्थेभ्यः॑ इति पञ्चमी । अत्रसुपो धात्वि॑ति लुकमाशङ्क्याह — पञ्चम्याः स्तोकादिभ्य इत्यलुगिति ।", "21040": "<<सप्तमी शौण्डैः>> - सप्तमी शौण्डैः । शौण्डादिभिरिति । बहुवचननिर्देशाद्गणपाठाच्च शौण्डशब्दस्तदादपरः । अक्षेषु शौण्ड इति । शौण्डः=क्रियाकुशलः । वौषयिकाधिकरणत्वे सप्तमी । अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति । शौण्डादावित्यर्थः । ईआराधीन इति । 'प्रपञ्च' इति शेषः । 'ईआरे अधि' इति विग्रहः । 'अधिरीओरे' इत्यधेः कर्मप्रवचनीयत्वम् ।यस्मादधिक॑मिति सप्तमी । तदन्तस्याऽधिना समासः । सुब्लुक् ।अषडक्षे॑त्यद्युत्तरपदत्वात्खः । ईनादेशः । 'ईआराधीन' इति रूपम् ।", "21041": "<<सिद्धशुष्कपक्वबन्धैश्च>> - सिद्धशुष्क ।सप्तमी॑त्यनुवर्तते । तदाह — एतैः सप्तम्यन्तमिति । साङ्काश्यसिद्ध इति । सङ्खाशेन निर्वृत्तं नगरं साङ्काश्यम् । तत्र सिद्धः=उत्पन्नो ज्ञातो वेत्यर्थः । आतशुष्क इति । आतपे शुष्क इति विग्रहः । स्थालीपक्व इति । स्थाल्यां पक्व इति विग्रहः ।चक्रबन्ध इति । चक्रे बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाऽभावात्पृथगुक्तिः ।", "21042": "<<ध्वाङ्क्षेण क्षेपे>> - ध्वाङ्क्षेण क्षेपे ।ध्वांक्षे॑त्यर्थग्रहणम्, व्याख्यानात् । तदाह — ध्वाङ्क्षवाचिनेति ।क्षेप॑पदं व्याचष्टे — निन्दायामिति । तीक्र्षध्वाङ्क्ष इति । ध्वाङ्क्षः=काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह — तीर्थकाक इति ।", "21043": "<<कृत्यैरृणे>> - कृत्यैरृणे ।सप्तमी॑त्यनुवर्तते । कृत्यग्रहणेन प्रत्ययग्रहणपरिभाषया कृत्यसंज्ञकप्रत्ययान्तग्रहणम् ।ऋणपदमावस्यकोपलक्षण॑मिति भाष्यम् । तदाह — ,प्तम्यन्तमित्यादि । मासे इति । सामीप्याधिकरणत्वे सप्तमी । मासाऽव्यवहितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः । ऋणपदस्यावश्यकोपलक्षणतायाः प्रयोजनमाह — पूर्वाह्णेगेयमिति ।तत्पुरुषे कृती॑त्यलुक् । यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम् । तेनेह न-पूर्वाह्णे दातव्या भिक्षेति ।", "21044": "<<संज्ञायाम्>> - संज्ञायाम् ।सप्तमी॑त्यनुवर्तते । तदाह — सप्तम्यन्तमित्यादि । 'अरण्येतिलका' इति 'वनेकशेरुका' इति च संज्ञाशब्दौ ।हलदन्तात्सप्तम्याः॑ इत्यलुक् ।क्तेनाहो । अहोरात्रयोरवयवा इति विग्रहः । सप्तमीत्यनुवर्तते । क्तेनेति तदन्तग्रहणं । तदाह — अह्नो रात्रेश्चेति । अहरवयवस्योदाहरति — पूर्वाह्णकृतमिति । रात्र्यवयवस्योदाहरति — अपररात्रकृतमिति ।", "21045": "", "21046": "<<क्षेपे>> - क्षेपे । 'सप्तमी'क्तेने॑ति चानुवर्तते । तदाह — सप्तम्यन्तमित्यादि । अवतप्तेनकुलस्थितं त एतदिति ।स्थित॑मिति भावे क्तः । नकुलेन स्थितम् ।कर्तृकरणे कृता बहुल॑मिति समासः ।कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण॑मिति परिभाषयानकुलस्थित॑शब्दोऽपि क्तान्तः, तेन सहावतप्ते इति सप्तम्यन्तस्याऽनेन समासे कृतेतत्पुरुषे कृती॑त्यलुक् । हे देवदत्त ! ते=तव, एतत्वस्थानम्, अवतप्ते नकुलस्थित॑मित्यन्वयः । यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वर्त्त्य तव इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया ।", "21047": "", "21048": "<<पात्रेसंमितादयश्च>> - पात्रेसमितादयश्च । निपात्यन्त इति । कृतसमासादिकार्या एते शब्दा निर्दिश्यन्त इत्यर्थः । पात्रेसमिता इति । इण् गतौ । संपूर्वात्गत्यर्थाकर्मके॑ति कर्तरि क्तः । निपातनात्सप्तम्या अलुक् । भोजनपात्रे निहिते सति सङ्गता इत्यर्थः । फलितमाह — भोजनेति । गेहेशूर इति । गेह एव प्रकटितशौर्यो, न तु युद्ध इत्यर्थः । गेहेनर्दीति । 'नर्द शब्दे' 'सुप्यजातौ' इति णिनिः । समासे सति निपातनादलुक् । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । अवधारणार्थ इति । ततश्च एते यथा गणे पठितास्तथैव भवन्तीत्यर्थः । ततः किमित्यत आह — तेनेति । ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति ।", "21049": "<<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> - पूर्वकालैक ।सु॑बित्यनुवृत्तं बहुवचनेन विपरिणम्यते । सुपेति चानुवर्तते । पूर्वः कालो यस्य स पूर्वकालः । पूर्वकालवृत्तिरित्यर्थः । ततश्चपूर्वकाले॑त्यनेन पूर्वकालवृत्त्यर्थकशब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथाच पूर्वकालादयः सप्तसुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते, स तत्पुरुष इत्यर्थः । समानम्-एकमधिकरणं=वाच्यं यस्येति विग्रहः । एकार्थवृत्तित्वं सामानाधिकरण्यमिति फलितम् । पूर्वनिपातेति । पश्चादनुलिप्तः पूर्वं स्नातत्वेन, पूर्वं स्नातो वा पश्चादनुलिप्तत्वेन विशेष्टुं शक्यते, अतोविशेषणं विशेष्येणे॑ति समासे सति अन्यतरस्य पूर्वनिपाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेकादीनामपीत्यर्थः । एकशब्दविषये प्रयोजनान्तरमप्याह — एकशब्दस्येति ।दिक्संख्ये संज्ञायां समस्येते॑ इति नियमस्य वक्ष्यमाणतया 'एकनाथ' इत्यत्र विशेषणसमासस्य बाधे प्राप्ते तत्प्रतिप्रसवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चाच्छब्दाऽभावेऽपि स्नानानुलेपनयोः पौर्वापर्यं समासगम्यमेव । 'पूर्वकालः समस्यते' इत्युक्ते परकालेनेत्यर्थात्प्रतीतेः । एकनाथ इति । एकश्चासौ नाथश्चेति विग्रहः । सर्वयाज्ञिका इति । यज्ञमधीयते विदन्ति वा याज्ञिकाः ।क्रतूक्थादिसूत्रान्ताट्ठक् । सर्वे च ते याज्ञिकाश्चेति विग्रहः । जरन्नैयायिका इति । मीमांसामधीयते मीमांसकाः ।क्रमादिभ्यो वुन् । पुराणश्च ते मीमांसकाश्चेति विग्रहः । नवपाठका इति । नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहचर्यान्नवशब्दो नूतनवाच्येव गृह्रते, न तु सङ्ख्याविशेषवाची । केवलवैयकरणा इति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः ।तदधीते तद्वेदे॑त्यण् । न य्वाभ्या॑मिति वृद्धिनिषेध ऐजागमश्च । केवलाश्च ते वैयाकरणाश्चेति विग्रहः ।", "21050": "<<दिक्सङ्ख्ये संज्ञायाम्>> - दिक्संख्ये । अधिकार इति ।पूर्वकालैके॑ति सूत्रस्थंसमानाधिकरणेने॑त्येतदा पादसमाप्तेरनुवर्तत इत्यर्थः । ततश्च दिक्सङ्ख्ये समानाधिकरणेन सुबन्तेन समस्येते, स तत्पुरुष इत्यर्थः । ननुविशेषणं विशेष्येणे॑ति यदि दिक्सङ्ख्ययोस्समासः स्यात्तर्हि संज्ञायामेवे॑ति नियमशरीराभ्युपगमात् । 'पूर्वसूत्रं' 'पूर्वमासः' 'पूर्वसमुद्रः' इत्यादौ तु संज्ञात्वाऽभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव । ननुत्रिलोकनाथः पितृसद्मगोचरः॑ इति कथं कालिदासप्रयोगः, त्रिलोकशब्दस्य असंज्ञात्वात् । त्रयाणां लोकानां समाहार इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे तु 'द्विगोः' इति ङीप्प्रसङ्गः ।अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीलिङ्गत्वात् । पात्रादित्वान्न स्त्रीत्वमित्यभ्युपगमेयदि त्रिलोकी गणनापरा स्या॑दित्यादिप्रयोगा न युज्येरन्निति चेत्सत्यम् । लोकशब्दोऽत्र लोकसमुदायपरः । त्त्यवयवो लोकस्त्रिलोक इति मध्यमपदलोपी समासः । एतच्च 'द्विगोर्लुगनपत्ये' इति सूत्रे भाष्ये स्पष्टम् ।षोडशपदार्थाना॑मित्यत्र तु षोडशसंख्याकाः पदार्था इति मध्यमपदलोपी समास इत्यलम् । पूर्वेषुकामशमीति । पूर्वशब्दस्य इषुकामशमीशब्देन समासः । देशविशेषस्य संज्ञेयम् । सप्तर्षय इति । मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां संज्ञेयम् । नेहेति । असंज्ञात्वादिति भावः ।", "21051": "<<तद्धितार्थोत्तरपदसमाहारे च>> - तद्धितार्थ । एकापि सप्तमी विषयभेदाद्भिद्यते । तत्र तद्धितार्थेत्यंशे वैषयिकाधारत्वे वर्तते । उत्तरपदेत्यंशे सामीपिकमाधारत्वमादाय परसप्तमी पर्यवस्यति । समाहारांशे तु वाच्यतया आधारत्वे सप्तमी । पूर्वसूत्राद्दिक्संख्ये इत्यनुवर्तते । तदाह — तद्धितार्थे विषये इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः । तद्धिते भविष्यतीति यावत् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । तद्धितार्थे दिक्समासमुदाहरति — पूर्वस्यामिति । समासे कृते इति । पूर्वस्यां शालायां भव इति विग्रहे 'तद्धितार्थ' इति समासे कृतेदिक्पूर्वपदा॑दिति ञप्रत्यते कृतेयस्येति चे॑त्याकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति । मात्रशब्दः कार्त्स्न्ये । समासतद्धितादिवृत्तिगतसर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तुतद्धिते परे दिक्सङ्ख्ये समस्येते॑ इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसङ्गः ।तद्धितार्थे वाच्ये दिक्संख्ये समस्येते॑ इति तु न व्याख्यातं, तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वाऽभावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वादुत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह — तेन शालाशब्दे आकार उदात्त इति । अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह — दिक्ष्विति । दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । सङ्ख्यायास्तद्धितार्थे इति । समास उदाह्यियत इत्यर्थः । तत्र तद्धितार्थे उदाहरति-षाण्मातुर इति । मातुरुत्सह्ख्यासम्भद्रपूर्वायाः॑ इत्यण्, प्रकृतेरुकारश्चादेशः, आदिवृद्धिश्च । अथ उत्तरपदे परत उदाहरति-पञ्चगाव इति । अवान्तरतत्पुरुषस्येति । उत्तरपदे परतो विहितस्येत्यर्थः । विकल्पे प्राप्ते इति ।महाविभाषाधिकारा॑दिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाऽभावपक्षेगोरतद्धितलुकी॑ति तत्पुरुषप्रयुक्तटजभावे 'पञ्चगोधन' इत्यपि स्यादिति भावः । द्वन्द्वतत्पुरुषयोरिति । उत्तरपदे परतो यौ द्वन्द्वतत्पुरुषौ तयोर्नित्यत्वं वक्तव्यमित्यर्थः । समासग्रहणं तु संपातायातम्, अनन्वयात्, उत्तरपदे परतः समाससंज्ञया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात् ।", "21052": "<<संख्यापूर्वो द्विगुः>> - अत्र समासे सति 'गोरतद्धितलुकि' इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्यं विधास्यन् द्विगुसंज्ञामाह — संख्यापूर्वो द्विगुः । सङ्ख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः । 'तद्धितार्थ' इति पूर्वसूत्रविहितसमासोऽन्यपदार्थः, प्रत्यासत्तेः, तदाह — तद्धितार्थेत्यत्रोक्तस्त्रिविध इति । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्ख्यापूर्वः समास उक्तः, स द्विगुरिति यावत् । तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वाद्द्विगुसंज्ञा स्थिता । तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । उत्तरपदे यथा,-पञ्चनावप्रियः ।नावो द्विगो॑रिति समासान्तष्टच् ।", "21053": "<<कुत्सितानि कुत्सनैः>> - कुत्सितानि । वर्तमाने क्तः, व्याख्यानात् । तदाह — कुत्स्यमानानीति । कुत्सनैरिति करणे ल्युट् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । वैयाकरणखसूचिरिति । वैयाकरणश्चासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टःसन् प्रश्नं विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूट इति ।दुल उत्क्षेपे॑चुरादिः दुर्पूर्वादौणादिकाः कूटप्रत्ययः ।बहुलमन्यत्रापी॑ति णेर्लुक् । रलयोरभेदाद्रः । यो मीमांसामधीत्याऽन्यथा जानानो दुराक्षेपं करोति स एवमुच्यते । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात् ।", "21054": "<<पापाणके कुत्सितैः>> - पापाणके । पापशब्दोऽणकशब्दश्च कुत्सितवाचकैः समस्यते स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह — पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयोऽर्शाअद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते ।कुरूपकुत्सिताऽवद्यखेटगह्र्राऽणकाःसमाः॑ इत्यमरः । ततश्च पापाऽणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेम समासे परनिपातः स्यादतः पूर्वनिपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्चासौ कुलालश्चेति विग्रहः ।", "21055": "<<उपमानानि सामान्यवचनैः>> - उपमानानि । उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तानि — उपमानानि । सादृश्यनिरूपकाणीत्यर्थः । सामान्यम्ुपमानोपमेयसाधारणधर्मः, तमुक्तवन्तः शब्दाः सामान्यवचनाः । बाहुलकः कर्तरि ल्युट् । पूर्वं सामान्यमुक्त्वा तद्विति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथाच सादृश्यनिरूपकशब्दाऽपरपर्याया उपमानशब्दा उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः । घनश्याम इति । नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याऽभावात्कथमिह समासः, इवशब्दापेक्षत्वेनाऽसामर्थ्याच्चेत्यत आह — इह पूर्वपदमिति । एवं च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामानाधिकरण्यम् । अत एव मृगीव चपला मृगचपलेत्यत्रपुंवत्कर्मधारये॑ति पुंवत्त्वं सिध्यति । घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्रम् । तथाच 'घनसदृशश्यामः' इति बोधः । सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । एवंच सादृश्यप्रतियोग्यनुयोगिनोः साधारणधर्मवत्त्वं लब्धम् । स चेह साधारणधर्म उत्तरपदोपस्थाप्य एव गृह्रते, संनिहितत्वात् । तथाच घनगतश्यामत्वसदृशश्यामत्ववानिति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह — पूर्वनिपातेति । अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभावे कामचारात्खञ्जकुब्जः कुब्जखञ्ज इतिवदनियमः स्यादिति भावः ।", "21056": "<<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> - उपमितम् । प्राग्वदिति । समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । अत्रोपमितस्य नित्यमुपमानाकाङ्क्षत्वादुपमानभूतव्याघ्रादिभिरित्यर्थसिद्धम् । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-विशेष्यस्येति । उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातनार्थमिदमित्यर्थः । पुरुषव्याघ्र इति । पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृश्योपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः । पुरुषोव्याघ्र इव शूर इति । शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः ।भाष्याब्धिः क्वातिगम्भीरः॑ इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । बाष्यमेवाब्धिरिति रूपकं वा । न च पुरुषशब्दस्य शूरशब्दसापेक्षत्वादसामर्थ्यादेवात्र समासस्य न प्रवृत्तिः, अतः 'सामान्याऽप्रयोगे' इति व्यर्थमिति वाच्यं, समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामर्थ्यविघातकं न तु प्रधानस्य । तथाचाऽत्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्यमिति समासप्रवृत्तेः, तन्निवृत्त्यर्थं सामान्याऽप्रयोग इति वचनम् । इदमेवप्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्व॑मिति ज्ञापयति । तेन 'राजपुरुषः सुन्दर' इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम् ।", "21057": "<<विशेषणं विशेष्येण बहुलम्>> - विशेषणं विशेष्येण । विशिष्यते अनेनेति विशेषणम्, इतरस्माद्व्यावर्तकम् । व्यावर्त्त्यं तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृतम् । तदाह — भेदकमिति प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । नीलोत्पलमिति । नीलपदं तावदुत्पलमनीलादुत्पलाद्व्यावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन विशेष्य समर्पकेण समासः । प्रतमानिर्दिष्टत्वाद्विशेषणस्यपूर्वनिपात इति भावः । नच उत्पलपदमनुत्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यं, जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषण समर्पकः, स्वभावात् । यथा-॒नीलोत्पलं॑ 'पाचकब्राआहृण' इति । गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा-खञ्जकुब्जः कुब्जखञ्ज इति । क्रियाशब्दयोरप्यनियमः । यथा-॒खञ्जपाचकः॑ 'पाचकखञ्ज' इति -इतिभाष्ये स्पष्टम् । तथा 'कैलासाद्रिः' 'मन्दराद्रिः'अयोध्यानगरी॑त्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव, स्वभावात् । सामान्यजाति-विशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम् । 'शिंशपावृक्ष' इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुलग्रहणं किमर्थमित्यत आह — बहुलग्रहणादिति ।", "21058": "<<पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च>> - पूर्वापर । पूर्वादय समानाधिकरणेन समस्यन्ते इत्यर्थः । विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह-पूर्वनिपातेति । अपराध्यापक इति । बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम् । ततश्च 'अपराध्यापकः' इत्युदाहरणमुपेक्ष्यम् । 'अपरमीमांसक' इत्युदाहरणमुचितम् । अपरस्यार्धे इति ।पश्चा॑दिति सूत्रभाष्ये इदं वार्तिकं स्थितम् । प्रथमवैयकरणः । चरमवैयाकरणः ।मच्यान्मः॑ । मध्यमवैयाकरणः । वीरवैयाकरणः । आक्षिपति-कथमेकवीर इति । हि=यतः, अनेन=प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात्, अतः 'एकवीरः' इति कथमित्यन्वयः । ननुपूर्वकालैके॑ति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति 'एकवीरः' इति निर्बाधमित्यत आह — पूर्वकालैकेति बाधित्वा परत्वादिति । परिहरति — बाहुलतादिति । बहुलग्रहणानुवृत्तेरस्य सूत्रस्याऽप्रवृत्तौपूर्वकाले॑त्येव समासो भवतीत्यर्थः ।", "21059": "<<श्रेण्यादयः कृतादिभिः>> - श्रेण्यादयः । श्रेम्यादयः कृतादिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः । श्रेण्यादिष्विति । श्रेण्यादिषु समासविधौ च्व्यर्थवचनं । च्विप्रत्ययार्थेऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः । अश्रेमय इति । शिल्पेन पण्येन वा जीविनां समूहाः-श्रेणयः । पूर्वं शिल्पेन पण्येन वा जीवितुमसमर्था इदानीं तेन जीवितुं समर्थाः कृता इत्यर्थे समासे सति 'श्रेणिकृताः' इति भवतीत्यर्थः । श्रेणिशब्दो ह्रस्वान्तः, भाष्ये तथैवोदाहरणात् । यदा तु सिद्धा एव श्रेणयः परिष्कृतास्तदा तु न समासः, च्व्यर्थाऽभावात् । च्विप्रत्ययान्तस्य तु परत्वात्कुगती॑ति नित्यसमासः । ततःच्वौ चे॑ति श्रेणिशब्दस्य दीर्घः ।", "21060": "<<क्तेन नञ्विशिष्टेनानञ्>> - क्तेन नञ्विशिष्टेनानञ् । नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह नञ्रहितं क्तान्तं समस्यते, तत्पुरुष इत्यर्थः । कृतं च तदिति । एकदेशस्य करणात्कृतम्, एकदेशान्तरस्याऽकरणात्तदेवाऽकृतम् । पूर्वनिपातनियमार्थम् । सिद्धं च तदभुक्तं चेत्यत्र तु नायं समासः, विशिष्टशब्दो ह्यत्राधिकवाची । यथादेवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट॑ इत्युक्ते अधिक इति गम्यते । नञैव विशिष्टं । नञ्मात्राधिकेन क्तान्तेनेति लभ्यते । एवंच समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति ।वर्णो वर्णेने॑ति सूत्रभाष्ये इदं वार्तिकं पठितम् । शाकपार्थिव इति । शाकः प्रियो यस्य स शाकप्रियः ।वा प्रियस्ये॑ति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्चेति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः । तत्र पूर्वखण्डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः । देवब्राआहृण इति । देवाः प्रिया यस्य स देवप्रियः, स चासौ ब्राआहृणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राआहृण इति वा विग्रहः ।", "21061": "<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> - सन्महत्परम ।समानाधिकरणैः समस्यन्ते स तत्पुरुषः॑ इति शेषः । सद्वैद्य इति । सन्-वैद्य इति विग्रहः । चिकित्साशास्त्ररकूलङ्कषज्ञानवत्त्वं सत्त्वम् । तेन वैद्यस्य पूजा गम्यते । पूर्वनिपातनियमार्थं सूत्रम् । वक्ष्यमाणेनेति । महांश्चासौ वैयाकरणश्चेति विग्रहेऽनेन समासे सति महच्छब्दस्य 'आन्महतः' इति वक्ष्यमाणेन आकारेऽन्तादेशे सवर्णदीर्घे 'महावैयाकरण' इति भवतीत्यर्थः । ननूत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्याऽतिशयितवाचितया तेन गोः पूजावगमात्कथमिह समासो न भवतीत्यत आह — पङ्कादुद्धृत इत्यर्थ इति । उत्पूर्वकः कृषधातुरिहोद्धरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः । गुणक्रियाशब्दैः समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम् ।", "21062": "<<वृन्दारकनागकुञ्जरैः पूज्यमानम्>> - वृन्दारकनाग ।समानाधिकरणैः समस्यते॑ इति शेषः । विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थं सूत्रम् । गोवृन्दारक इति । वृन्दारकशब्दो देवतावाची ।अमरा निर्जरा देवाः॑ इत्युपक्रम्यं,वृन्दारका दैवतानी॑त्यमरः । गौर्वृन्दारक इवेति विग्रहः । गौर्नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नागशब्दः कुञ्जरशब्दश्च गजवाची । अत्र गौर्वृन्दारादितुल्यत्वात् श्रैष्ठं गम्यत इति पूज्यमानता । ननु व्याघ्रादेराकृतिगणत्वात्उपमितं व्याघ्रादिभि॑रित्येव सिद्धे किमर्थमिदमित्यत आह — व्याघ्रादेरिति । सामान्येति । गोकुञ्जरः श्रेष्ठ इत्यादिविति भावः ।", "21063": "<<कतरकतमौ जातिपरिप्रश्ने>> - कतरकतमौ । जातिपरिप्रश्ने गम्ये कतरकतमो समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति । अनयो कः कठ इत्यर्थः ।किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् । कठेन प्रोक्तमधीते कठः । वैशम्पायनान्तेवासित्वात् प्रोक्ते णिनिः ।कठचरकाल्लु॑गिति तस्य लुक् । ततः 'तदधीते ' इत्यणःप्रोक्ताल्लु॑गिति लुक् । कतमकलाप इति । एषां कः कलाप इति विग्रहः कलापिना प्रोक्तमधीते कलापः ।कलापिनोऽण् ।सब्राहृचारी॑ति टिलोपः ।वा बहूनां जातिपरिप्रश्ने डतमच् । ननु घटत्वादिवत्कठशाखाध्येतृत्वादिकं न जातिः, 'आकृतिग्रहणा जातिः' इति लक्षणस्यलिङ्गानां च न सर्वभाक्, सकृदाख्यातनिग्र्राह्रा॑ इति लक्षणमस्य च तत्राऽप्रवृत्तेरित्यत आह — गोत्रं चेति । अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनातरार्थमेव जातिपरिप्रश्नग्रहणम् । एवंचाऽनयोः कतरो देवदत्त इत्यत्र न भवति समासः ।एषां कतमो देवदत्तः॑ इति तु नास्त्येव, जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु डतरतमविधौ द्वयोरिति बहूनामिति जातिपरिप्रश्ने इति प्रत्याख्यातं भाष्ये । एवंच 'कतम एषां देवदत्त' इत्यप्यस्ति । तत्र समासाऽभावाय जातिपरिप्रश्नग्रहणमिति शब्देन्दुशेखरे स्थ#इतम् ।", "21064": "<<किं क्षेपे>> - किं क्षेपे । क्षेपो निन्दा । तत्रगम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । कुत्सितो राजेति । अस्वपदविग्रहोऽयम् । किम्पदस्थाने कुत्सिदपदमिति ज्ञेयम्, वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहाऽसम्भवात् । किंराजेति । 'राजाहःसखिभ्यः' इति टच् तु न, 'किमः क्षेपे' इति निषेधात् । ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह — यो न रक्षतीति । स किराजेत्यन्वयः ।", "21065": "<<पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः>> - पोटायुवति । पोटादिभिः समानाधिकरणैर्जातिवाचकं समस्यते स तत्पुरुष इत्यर्थः ।", "21066": "<<प्रशंसावचनैश्च>> - प्रशंसावचनैश्च । एतैरिति । रूढआ प्रशंसावाचकैरित्यर्थः । जातिरिति ।पोटायुवती॑त्यतस्तदनुवृत्तेरिति भावः । प्राग्वदिति । समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । जातेः पूर्वंनिपातनियमार्थं सूत्रम् । गोमतल्लिकेति । मतल्लिका चासौ गौश्चेति विग्रहः । गोमचर्चिकेति । मचर्चिका चासौ गौश्चेति विग्रहः । गोप्रकाण्डमिति । प्रकाण्डं चासौ गौश्चेति विग्रहः । गवोद्ध इति । उद्धश्चासौ गोश्चेति विग्रहः । 'अवङ् स्फोटायनस्य'आद्गुणः॑ । गोतल्लज इति । तल्लजश्चासौ गौश्चेति विग्रहः । सर्वत्र परवल्लिङ्गता । मतल्लिकादिशब्दानमप्रसिद्धत्वाद्व्याचष्टे — प्रशस्ता गौरित्यर्थ इति । गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात्प्रशस्तेति स्त्रीलिङ्गनिर्देशः । गोशब्दस्य पुंलिङगत्वे तु प्रशस्त इति पाठम् । ननु गोशब्दस्य पुंलिङ्गत्वे मतल्लिकामचर्चिकाप्रकाण्डशब्दानामपि विशेष्यनिग्नत्वात्पुंलिङ्गतापत्तिः । गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह — मतल्लिकादय इति ।मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनी॑त्यमरः । कुमारी मतल्लिकेति । अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः । समासे तुपुंवत्कर्मधारये॑ति पुंवत्त्वं स्यादिति भावः ।", "21067": "<<युवा खलतिपलितवलिनजरतीभिः>> - युवा खलति । युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्दे किमर्थमिदमित्यत आह — पूर्वेति । युवन्शब्दस्य खलत्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्याऽनियमे प्राप्ते तन्नियमार्तमिदं सूत्रमित्यर्थः । खलतिः=केशहीनशिराः ।पलितं जरसा शौक्लयं॑ 'वलिनो वलिभः समौ' इत्यमरः । युवखलतिरिति । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नलोपः । ननु युवेति पुंलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह — लिङ्गविशिष्टेति । युवखलतीति ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । युवजरतीति । जरती=वृद्धा । युवतिश्चासौ जरती चेति विग्रहः ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । ननु युवतिः कतं जरती स्यादित्यत आह — युवत्यामेवेति ।", "21068": "<<कृत्यतुल्याख्या अजात्या>> - कृत्यतुल्याख्या । कृत्यप्रत्ययान्ताः , तुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति । भोज्यं च तदुष्णं चेति विग्रहः ।ऋहलोण्र्य॑दिति ण्यत् । अर्हे । कृत्यप्रत्ययः । भोज्योष्णशब्दयोः क्रियागुणशब्दत्वाद्विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम् । तुल्यओत इति । तुल्यश्चासौ ओतश्चेति विग्रहः । उभयोर्गुणवचनतया विशेषणत्वाऽनियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः । आख्याग्रहणस्य प्रयोजनमाह — सदृशओत इति । सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः । भोज्य ओदन इति । अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाऽभावेऽपि विशेषणसमासो दुर्वार इत्यत आह-प्रतिषेधेति । भोज्यशब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतयाअजात्ये॑ति पर्युदासवैयथ्र्यादिति भावः ।", "21069": "<<वर्णो वर्णेन>> - वर्णो शेषपूरणेन सूत्रं व्याचष्टे — समानाधिकरणेनेति । वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः । कृष्णसारङ्ग इति । सारङ्गः-चित्रवर्णवान् । कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम् । कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव । यत्तुवर्णो वर्णेष्वनेते॑ इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम् । तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र 'वर्णो वर्णेषु' इति स्वरो नेति, तच्चिन्त्यं, कर्मधारयस्वरप्रकरणेवर्णो वर्णेष्वनेते॑ इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् ।", "21070": "", "21071": "<<चतुष्पादो गर्भिण्या>> - चतुष्पादो गर्भिण्या ।जातिग्रहणं कर्तव्य॑मिति वार्तिकमभिप्रेत्याह — चुत्ष्पाज्जातीति । गोगर्भिणीति । गर्भिणी चासौ गौश्चेति विग्रहः । विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् । कालाक्षी गर्भिणी ।", "21072": "<<मयूरव्यंसकादयश्च>> - मयूरव्यंसका । एते निपात्यन्त इति । कृतसमासकार्या निर्दिश्यन्त इत्यर्थः । मयूरव्यंसक इति । व्यंसकश्चासौ मयूरश्चेति विग्रहः । व्यंसको धूर्त इति । त्र कोशो मृग्यः । गुणवचनत्बाद्ब्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वचनम् । उच्चावचमिति । उदक्शब्दस्य उच्चेत्यादेशः । अवाक्शब्दस्य अवचादेशश्च । उच्चावचयं नैकबेद॑मित्यमरः । निश्चप्रचमिति । निश्चितशब्दस्य निश्चादेशः । प्रचितशब्दस्य प्रचादेशः । नास्तिकिंचनेति । चनेत्यव्ययमप्यर्थे । नास्ति किमपि यस्येत्यर्थे बहुव्रीह्रपवादस्त्रिपदस्तत्पुरुषः । नञो नकारस्य लोपश्च निपात्यते । 'नलोपो नञः' इति तु नात्र प्रवर्तते, किंशब्दस्य उत्तरपदत्वाऽभावात्, समासचरमखण्ड एव उत्तरपदशब्दस्य रूढत्वात् । नास्ति कुत इति । कुतोऽपि भयमस्य नास्तीति विग्रहस्यार्थः । अकुतोभय इति । बहुव्रीह्रपवादस्तत्पुरुषः । राजान्तरमिति । अत्राऽन्तरशब्दोऽन्यपर्यायः । तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । नित्यसमासत्वं च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम् । अत्र अन्तरशब्दस्य परनिपातः । चिन्मात्रमिति ।मात्रं कार्त्स्न्येऽवधारणे॑ इत्यमरः । नित्यसमासत्वसूचनाय अस्वपदविग्रहः । निपातनादनुनासिकनित्यतेत्याहुः । आख्यातमिति । गणसूत्रम् । क्रियासातत्ये गम्ये तिङन्तं तिङन्तेन समस्यते, स तत्पुरुष इत्यर्थः । अश्नीतपिवतेति । इहाऽसुबन्तत्वेऽपि समासः । क्रियारूपस्यान्यपदार्थस्य प्राधान्यात्स्त्रीत्वाट्टाप् । एवं पचतभृज्जतेत्यादावपि । एहीजादय इति । इदमपि गणसूत्रम् । अन्यपदार्थधे एहीडादयो निपात्यन्त इत्यर्थः । एहि ईडे इति विग्रहः । 'ईडे' इति लडुत्तमपुरुषैकवचनम् । डकारादेकारस्य अकारादेशः । एहियवमिति ।यौमी॑त्यस्य यवादेशः ।उत्सृजे॑त्यस्य विवरणं-देहीति । इह पाठ इति । एहीडादिष्वत्यर्थः ।जहि कर्मणा बहुल॑मित्यपि गणसूत्रम् । कर्ताऽभिधीयते । इति । उक्तेः कर्तेत्यर्थः । जहिजोड इति । 'जोड' इति कस्यचित्संज्ञा । जहि जोडं जहि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः । जहि स्तम्बं, जहि स्तम्बमिति य आहेति विग्रहः । [इति समानाधिकरणाधिकारः] ।", "22001": "<<पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे>> - पूर्वापर ।पूर्वापराधरोत्तर॑मिति समाहरद्वन्द्वात्प्रथमैकवचनम् । एकदेशशब्दोऽवयवे रूढः । एकदेशोऽस्यास्तीत्येकदेशी-अवयवी, तेनेति लभ्यते । अधिकरणं=द्रव्यम् । एकमधिकरणम्-एकाधिकरणम् । एकत्वविशिष्टद्रव्ये वर्तमानेऽवयविवाचकसुबन्तेन पूर्वापराधरोत्तरशब्दाः सुबन्ताः समस्यन्ते, स तत्पुरुष इत्यर्थः । फलितमाह-अवयविना सहेत्यादिना । ननु पूर्वश्चासौ कायश्चेति कर्मधारयेणैव 'पूर्वकाय' इत्यादि सिद्धम् । भक्त्या कायशब्दस्य कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह — षष्ठीसमासापवाद इति । पूर्वं कायस्येति विग्रहेषष्ठी॑ति सूत्रे समासे सति षष्ठन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात्पूर्वनिपातः स्यात्तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्वं कायस्येति । अत्र पूर्वं कायस्येति विग्रहवाक्यम् ।अर्ध॑मिति गम्यम् । विसेष्याभिप्रायान्नपुंसकत्वम् ।तस्य परमाम्रेडित॑मिति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात्षष्ठी । पूर्वकाय इति । पूर्वशब्दस्य समासविधौ प्रथमानिर्धिष्टत्वात् पूर्वनिपातः ।परवल्लिङ्ग॑मिति पुंस्त्वमिति भावः ।यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते॑ इतिपारे मध्ये षष्ठआ वे॑त्यत्रोक्तम् । ततश्च एकदेशिसमासाऽभावे षष्ठीसमासो न भवति । अपरकाय इति । अपरं कायस्येति विग्रहः । अपरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयः समस्यन्त इत्येवास्त्वित्यर्थः । पूर्वं नाभेः कायस्येति । अत्रनाभे॑रिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमर्द्धं तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य पूर्वांशेऽन्वयः । अत्र पूर्वस्यांशय नाभिरवधिरेव, न त्ववयवी । अतो नाभिशब्देन पूर्वशब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छात्राणामिति । अत्र छात्रशब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अवयवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः । अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भूताववयकतया बहुत्वादेकसंख्यावैशिष्टआऽभावान्न समास इति भावः । ननु अह्नो मध्यं मध्याह्न इत्यत्र कथमेकदेशिसमासः, मध्यशब्दस्य पूर्वादिष्वनन्तर्भावादित्यत आह — सर्वोऽप्येकदेश इति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति ।तत्पुरुषस्ये॑तिअहस्सर्वैकदेशसंख्यातपुण्याच्चे॑ति च प्रकृते,-॒अह्नोऽह्न एतेभ्यः॑ इत्येकदेशवाचकात्परस्याऽहन्शब्दस्याऽह्नादेशो विधीयते । ततश्चाह्नः साय इति विग्रहे अवयविवृत्तिना अहन्शब्देन षष्ठन्तेन अवयववृत्तिसायशब्दस्य तत्पुरुषसमासे सति प्रतमानिर्दिष्टत्वात्सायशब्दस्य पूर्वनिपाते सति एकदेशवृत्तिसायशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशे रात्राह्नाहाः पुंसीति पुंस्त्वे॒सायाह्न॑ इति भवति । तस्मात्सप्तम्येकवचने परेसङ्क्याविसाये॑ति सायशब्दपूर्वकस्याह्नशब्दस्याऽहन्नादेशविकल्प उक्तः । सायाह्नि, सायाहनि, सायाह्ने इत्युदाहरणम् । तत्र अह्नः साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्टत्वादहन्शब्देन समासो न स्यात् तदा 'षष्ठी' इति सूत्रेण अहन्शब्दस्य षष्ठन्तस्य सायशब्देन समासे सति षष्ठन्तस्यैव समासशास्त्रे प्रतमानिर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात्परस्याह्नशब्दस्याऽहन्नादेशविधानं निर्विषयं स्यात्, अतःसर्वोऽप्येकदेशोऽह्ना समस्यते॑ इति विज्ञायते इत्यर्थः । मध्याह्न इति । अह्नो मध्यमिति विग्रहेऽयं समासः । 'राजाहःसखिभ्यष्टच्' इति टच् । 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः । सायाह्न इति । अह्नः साय इति विग्रहः । मध्याह्नवत् । ननुसर्वोऽप्येकदेशः कालेन समस्यते॑ इत्ययुक्तं,संख्याविसाये॑ति सूत्रेऽहन्तशब्दस्यैवौपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापन#आऽनुपपत्तेरित्यत आह — ज्ञापकस्येति । अहन्शब्देन सह सायशब्दस्य एकदेशिसमासं सिद्धवत्कृत्य सायशब्दादह्नशब्दोपादानात्सर्वेणाप्यवयविवृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते, ज्ञापकस्य सामान्या पेक्षत्वात्, नत्वहन्शब्देन सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वेऽपि समासो ज्ञाप्यत इति भावः । मध्यरात्र इति । रात्रेर्मध्यमित्यर्थः । पश्चिमरात्रेति । रात्रेः पश्चिममिति विग्रहः ।अहः सर्वैकदेशे॑त्यच्समासान्तः ।", "22002": "<<अर्धं नपुंसकम्>> - अर्धं नपुंसकम् । अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकग्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह — समांशवाच्यर्धशब्दो नित्यं क्लीबे इति । 'वर्तते' इति शेषः ।वा पुंस्यर्धोऽर्धं समेंऽशके॑ इति कोशादिति भावः । अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः, अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम् । स प्राग्वदिति । स नित्यनपुंसकलिङ्गोऽर्धशब्दोऽवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात्पूर्वेण न प्राप्तिः । नन्वर्धं पिप्पल्या अर्धपिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्धं पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्या अर्धपिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात्पिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, अर्धे पिप्पल्याः अर्धपिप्पल्यामिति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतयाएकविभक्ति चापूर्वनिपाते॑इत्युपसर्जनत्वात् 'गोस्त्रियोः' इति ह्रस्वः स्यादित्यत आह — एकविभक्ताविति ।एकविभक्ति चापूर्वनिपाते॑ इति सूत्रेअषष्ठन्त॑मिति वक्तव्यमित्यर्थः । ततश्च पिप्पलीशब्दस्य षष्ठ्न्यतत्वान्नोपसर्जनत्वमिति न ह्रस्व इत्यर्थः । नन्वेवं सति पञ्चानां खट्वानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्वाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठन्तत्वादनुपसर्जनत्वात्गोस्त्रियो॑रिति ह्रस्वाऽभावेऽदन्तत्वाऽभावेनद्विगो॑रिति ङीबभावे पञ्चखट्वेति स्यात्, पञ्चखट्वीति न स्यादित्यत आह — एकदेशिसमासेति ।अपथं नपुंसक॑मिति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः । अर्धपिप्पलीति ।प्रथमानिर्दिष्ट॑मित्यर्धशपब्दस्योपसर्जनत्वात्पूर्वनिपातः । प#इप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि 'एकविभक्तौ' इति निषेधादुपसर्जनत्वाऽभावान्न ह्रस्व इति भावः । ग्रामार्ध इति । ग्रामस्याऽर्ध इति विग्रहः । ग्रामस्यांश इत्यर्थः । अर्धशब्दस्य समांशवाचित्वाऽभावेन नित्यनपुंसकत्वाऽभावान्नायं समास, किन्तुषष्ठी॑इत्येव समास इति षष्ठन्तस्य पूर्वनिपातः । द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः । अर्धं पिप्पलीनामिति । अत्र द्रव्यैक्याऽभावान्न समासः । सति समासेऽर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात् । इदं सूत्रंपरवल्लिङ्ग॑मिति सूत्रभाष्ये प्रत्याख्यातम् ।", "22003": "<<द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्>> - द्वितीयतृतीय । द्वितीयं भिक्षाया इति । विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात्पूर्वनिपातः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः । 'भिक्षाया' इत्यवयवषष्ठी 'द्वितीय' मित्यत्रान्वेति ।द्वितीय॑मित्येतत्तुभिक्षुकस्ये॑त्यत्र कर्मत्वेनान्वेति । न लोके॑ति निषेधान्न षष्ठी । अत्रद्वितीय॑मित्यस्यभिक्षुकस्ये॑त्यनेन समासो न भवति, द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाऽभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धेऽन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह — अन्यतरस्यामिति । अन्यतरस्याङ्रग्रहणसामर्थ्यात्पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठपवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तेत । महाविभाषाधिकारेअपवादेन मुक्ते उत्सर्गो न प्रवर्तते, इतिपारेमध्ये षष्ठआ वे॑ति वाग्रहणेन ज्ञापितत्वादिति भावः । ननुपूरणगुणे॑ति निषेधात्कथमिह षष्ठीसमास इत्यत आह — पूरणगुणेति निषेधं बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयथ्र्यादिति भावः । [इत्येकदेशिसमासनिरूपणम्] ।", "22004": "<<प्राप्तापन्ने च द्वितीयया>> - प्राप्तापन्ने च । प्राप्त आपन्न एतौ शब्दौ द्वितीयान्तेन समस्येते इत्यर्थः । चकारो द्वितीयासमाससमुच्चयार्थः । तदाह-पक्ष इति । वस्तुतस्तुद्वितीया श्रिते॑ति सूत्रेप्राप्तापन्नशब्दाभ्यां द्वितीयायाः समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्धत्वाच्चकारो न तत्समुच्चयार्थः॑ इति भाष्ये स्थितम् । तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयोः पूर्वनिपातः ।द्वितीया श्रिते॑ति समासे तु द्वितीयान्तस्य पूर्वनिपातः । तदाह प्राप्तजीविक इत्यादि । अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्री इति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपदयोरकारमन्तादेशं साधयितुमाह — इह सूत्रे इति । अकारोऽपीति ।प्राप्तापनने द्वितीयया समस्येते, तयोरकारोऽन्तादेशश्चे॑त्यर्थलाभादिति भावः । तेनेति । प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः ।", "22005": "<<कालाः परिमाणिना>> - कालाः परिमाणिना । परिमाणिपदं व्याचष्टे — परिच्छेद्यवाचिनेति ।काला॑इति बहुवचनात्कालविशेषवाचका इत्यर्थः । मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधानम् ।मासजातो दृश्यता॑मित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः । विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः । एतदेवाभिप्रेत्य मूले क्वचित् पुस्तकेमासो जातस्य यस्य स॑ इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी । जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः । मासपरिच्छेद्यो जात इति समासाद्बोधः । तत्र मासस्तावज्जननं साक्षात्परिच्छिनत्ति । जननाश्रयं तु देवदत्तं जननद्वारां परिच्छिनत्ति । तथाचमासपरिच्छेद्यजननाश्रयो देवदत्त॑ इति समासाद्बोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु 'जातमास' इति स्यात् । न च मासो जातस्य यस्य स मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यं, समानाधिकरणानामेव बहुव्रीहिविधानात् ।निष्ठे॑ति जातशब्दस्य पूर्वनिपातापत्तेश्च ।जातिकालसुखादिभ्यः परा निष्ठा वाच्ये॑ति जातशब्दस्य परनिपातस्तु न, सुखादावस्य पाठकल्पनायां प्रमाणाऽभावादित्यलम् । द्व्यहो जातस्येति । 'तद्धितार्थ' इति समाहारे द्विगुः॑ 'राजाहःसखिभ्यः' इति टच् ।रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । उत्तरपदेनेति । 'तद्धितार्थ' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्ख्ययोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जातशब्दे उत्तरपदे संपन्ने पूर्वयोः सुबन्तयोर्द्विगुसमासप्रवृत्तिर्वक्तव्या । सच समासस्त्रयाणांकालाः परिमाणिने॑ति पूर्वसूत्रेण न सम्भवति,सुप्सुपे॑त्येकत्वस्य विवक्षितत्वात् । अत उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानं वक्तव्यमित्यर्थः । उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् ।सुप्सुपे॑त्येकत्वलं विवक्षितमित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति । द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि 'द्व्यहन्-जात' इति जातशब्दे उत्तरपदे परे द्वि-अहन् इत्यनयोःतद्धितार्थ॑इति द्विगुसमासे 'राजाहःसखिभ्यः' इति टचि 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशे 'द्यह्नजात' इति रूपमित्यर्थः । अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाऽभावे टच्, अह्नादेशश्च न स्यातामिति भावः । ननु द्वयोरह्नोः समाहारो द्व्यह इति कथं पूर्वमुक्तं, तत्राप्यह्नादेशप्रसङ्गादित्यत आह — पूर्वत्र त्विति । निषेध इति । अह्नादेशनिषेध इत्यर्थः ।", "22006": "<<नञ्>> - नञ् । इदं समानाधिकरणाधिकारस्थं नेत्यभिप्रेत्याह-सुपा समस्यत इति ।", "22007": "<<ईषदकृता>> - ईषदकृता । ईषच्छब्दोऽकृदन्तप्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । ईषत्पिङ्गलं इति । पिङ्गलशब्दोऽव्युत्पन्नप्रातिपदिकमिति भावः । ईषद्गुणवचनेनेति ।अकृतेत्यपहाये॑ति शेषः ।", "22008": "<<षष्ठी>> - षष्ठी । षष्ठन्तं सुबन्तेन समस्यते, स तत्पुरुष इत्यर्थः । राजपुरुष इति । राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनीं विभकिंत प्रत्ययलक्षणेनाश्रित्य नलोपः । नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यं, पदत्वस्य सुब्घटितसमुदायधर्मत्वेन तस्याऽङ्गकार्यत्वाऽभावादिति भावः ।", "22009": "<<याजकादिभिश्च>> - याजकादिभिश्च । ननुषष्ठी ॑ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह तृजकाभ्यामिति । ब्राआहृणयाजक इति । ब्राआहृणस्य याजक इति विग्रहः । यजतेण्र्यन्तात्कर्तरि ण्वुल् । अकादेशः ।कर्तृकर्मणोः कृती॑ति कर्मणि षष्ठी । देवपूजक इति । देवानां पूजक इति विग्रहः । पूजकशब्दो याजकादिरिति भावः ।भूभर्ते॑ति तृजन्तस्योदाहार्यम् । भर्तृशब्दस्य याजकादित्वात् । गुणात्तरेणेति । वार्तिकमिदं सर्वं गुणे॑ति सूत्रे भाष्ये स्थितम् । गुणवाचकाद्विहितो यस्तरप्तदन्तेन षष्ठी वा समस्यते, तरपो लोपश्चेत्यर्थः । फलितमाह — तरबन्तं यदिति । ननुषष्ठी॑ति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — न निर्धारणे इति ।सर्वं गुणे॑ति सूत्रे भाष्ये तुपूरणगुणेत्यस्यापवाद॑इत्येवोक्तम् । सर्वशब्दानुवृत्तेः सर्वंशब्द एवेदं वार्तिकमित्यभिप्रेत्योदाहरति — सर्वओत इति । 'वकानां गुण' इति शेषः । द्रव्यान्तरवृत्तिओतरूपापेक्षया सर्वेषां वकानां ओतगुणोऽयमधिक इत्यर्थः । 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् । अत्र सर्वेषामिति षष्ठन्तस्य ओततरशपब्देन समासे तरपो लोपेसर्वओत इति रूपम् । सर्वमहानिति । 'ईआर' इति शेषः । पूर्ववत्तरप् । 'सर्वेषां महत्तरः' इति विग्रहः । इतरसंबन्धिमहत्तावापेक्षया ईआरस्य महत्त्वमधिकमित्यर्थः । कृद्योगेति । कृता योगो यस्या इति विग्रहः ।कर्तृकर्मणोः कृतीति विहिते॑ति भाष्यम् । इध्मप्रव्रश्चन इति । 'कुठार' इति शेषः । प्रवृश्च्यतेऽनेनेति प्रव्रश्चनः॑ । करणे ल्युट् । इध्मानां प्रव्रश्चन इति विग्रहः । कर्मणि षष्ठी ।प्रतिपदविधाने॑ति वक्ष्यमाणनिषेधस्यापवादोऽयम् ।", "22010": "<<न निर्धारणे>> - न निर्धारणे । नृणां द्विजः श्रेष्ठ इति । अत्रनृणा॑मिति षष्ठन्तस्य द्विजशब्देन समासो न भवति । पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्ठएव न तु निर्धारणषष्ठी ।यतो निर्धारणं यच्च निर्धायते यश्च निर्धारणहेतुः-एतत्त्रितयसंनिधान एव तस्याः प्रवृत्ते॑रिति कैयटः ।गुणेन निषेधस्त्वनित्य॑ इति तरप्सूत्रे कैयटः । केचित्तुउत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः॑ इति गीतावाक्यात्कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः ।प्रतिपदविधानेति । पदं पदं प्रतीति वीप्सायामव्ययीभावः । प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना । 'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम् । सर्पिषो ज्ञानमिति । अत्रज्ञोऽविदर्थस्य करणे॑ इति विहितषष्ठ्याः समासो न भवति, 'न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम् ।", "22011": "<<पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन>> - पूरणगुण । पूरणगुणसुहितानि अर्था येषां ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययं च तव्यश्च समानाधिकरणं चेति समाहारद्वन्द्वात्तृतीया । तदाह — पूरणाद्यर्थैरिति । पूरणे इति । 'उदाहरणं वक्ष्यते' इति शेषः । सतां षष्ठ इति । षण्णां पूरण इत्यर्थे 'तस्य पूरणे डट्'षट्कतिकतिपयचतुरां थुक् । नचकुम्भपूरण॑मित्यत्रापि निषेधः स्यादिति वाच्यम्,सोऽचि लोपे चेत्पादपूरण॑मिति निर्देशेन पूरणार्थकप्रत्ययस्यैव ग्रहणात् ।उञ्छषष्ठाङ्कितसैकतानी॑त्यत्र तूञ्चात्मकः षष्ठ इति व्याख्येयम् । गुणे इति । 'उदाहरणं वक्ष्यते' इत्यर्थः । प्रधानत्वेन वा , उपसर्जनत्वेन वा गुणवाची गुणशब्दः, व्याख्यानात् । तदाह — काकस्य कार्ष्ण्यं ब्राआहृणस्य शुक्ला इति । कृष्णशब्दात्गुणवचनब्राआहृणादिभ्यः॑ इति भावे ष्टञ् । शुक्लशब्दात्तुगुणवचनेभ्यो मतुपो लु॑गिति लुक् । ननु 'दन्ता' इति शेष पूरणेनब्राआहृणस्य दन्ताः शुक्ला॑ इत्यर्थे ब्राआहृणशब्दस्य दन्तशब्देनैवान्वयाच्छुक्लशब्देनान्वयाऽभावादसामर्थ्यात्कथमिह समासप्रवृत्तिरित्यत आत-यदा प्रकरणादिनेति । प्रकरणादर्थाद्वेत्यर्थः । दन्ताः संयुक्ताः शुभावहा न तु, विरला इत्यादिदन्तवर्णने प्रकृते यदा 'ब्राआहृणस्य शक्ला' इत्युच्यते, तदा प्रकरणादर्थाद्वेत्यर्थः । दन्ताः संयुक्ताः शुभावहा न तु, विरला इत्यादिदन्तवर्णने प्रकृते यदाब्राआहृणस्य शुक्ला॑ इत्युच्यते, तदा प्रकरणाद्दन्त #आ इति विशेष्योपस्थितिः । यदा वा सर्ववर्णेषु दन्तवस्त्रभूषणेषु प्रकृतेषुब्राआहृणस्य शुक्ला॑ इत्युच्यते, तदाऽर्थाद्दन्ता इति विशेष्योपस्थितिस्तत्र सामर्थ्यसत्त्वात्समासे प्राप्ते निषेध इत्यर्थः । अत्रआकडारा॑दिति सूत्रोक्तगुणवचनसंज्ञकानांतृतीया तत्कृते॑ति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम्, अत्र गुणवचनशब्दाभावात् । किंतुवोतो गुणवचना॑दिति सूत्रभाष्ये तद्धितान्तस्य गुणवचनत्वपर्युदासात्कथं काष्ण्र्यादिशब्दानां गुणवचित्वमिति निरस्तम् । अथअर्थगौरव॑मित्यादौ षष्ठीसमासं साधयितुमाह — अनित्योऽयमिति । संज्ञाप्रमाणत्वादिति । संज्ञायाः प्रमाणत्वं-संज्ञाप्रमाणत्वं, तस्मादिति विग्रहः । अत्र प्रमाणत्वस्य गुणत्वात्तेन षष्ठीसमासनिषाधत्समासनिर्देशोऽनुपपन्नः स्यादतो गुणेन निषेध इत्ययमर्थो भाष्ये न दृश्यते । न च कृष्णैकत्वमित्यादौ समासानुपपत्तिरिति वाच्यं,पङ्क्तिविशती॑ति सूत्रेविंशत्यादिशब्दा भाववचना भवन्ती॑त्युक्त्वा गवां विशतिगवां सहरुआमित्यर्थे गोर्विशतिर्गोसहरुआमित्यादिप्रयोगात् ।अर्थगौरव॑मित्यादौ त्वर्थगतं गौरवमिति मध्यमपदलोपिसमासो बोध्य इति शब्देन्दुशेखरे प्रपञ्चितम् ।सुहित॑पदं व्याचष्टे — सुहितार्तास्तृप्त्यर्था इति । नपुंसके भावे क्त इति भावः ।फलानां सुहित इति करणत्वस्याऽविवक्षायां संबन्धविवक्षायां षष्ठी । अर्थग्रहणात्फलानां तृप्तिरित्यादावपि न समासः ।फलसुहित॑मिति कथं समास इत्यत आह — तृतीयासमासस्त्विति । करणत्वविवक्षायां तृतीया ।कर्तृकरणे कृता बहुल॑मिति समास इति भावः । तर्हि सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आह — स्वरे विशेष इति । तृतीयासमासेतृतीया कर्मणी॑ति पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे तुसमासस्ये॑त्यन्तोदात्तत्वमिति फलभेद इति भावः । सदिति । सद्योगे षष्ठीसमासनिषेध उदाह्यियत इत्यर्थः ।तौ स॑दिति शतृशानचोः सदिति संज्ञा वक्ष्यते । ननुद्विजस्य कुर्व॑न्निति न कर्मणि षष्ठी,न लोके॑ति निषेधात् । नापिद्विजस्य घटं कुर्व॑न्नितिघटाद्यपेक्षया शेषषष्ठी, तर्हि सापेक्षत्वेनाऽसामर्थ्यात्कुर्वन्नित्यनेन समासाऽप्रवृत्तेरित्यत आह — किङ्कर इत्यर्थ इति । द्विजं परिचरन्नित्यर्थ इति यावत् । कुञ्धातुरिह परिचरणे वर्तत इति फलितम् । अव्ययमिति । 'उदाहरणं वक्ष्यते' इति शेषः । पूर्वोत्तरेति । सत्तव्याभ्यां कृद्भ्यामित्यर्थः । 'अनेकमन्यपदार्थे' इति सूत्रभाष्येसर्वपश्चा॑दिति प्रयोगश्चेह लिङ्गम् । तव्य इति । उदाहरणं वक्ष्यते इत्यर्थः । ब्राआहृणस्य कर्तव्यमिति । 'अर्हे कृत्यतृचश्च' 'तव्यत्तव्यानीयरः' इति कृत्यस्तव्यः ।कृत्यानां कर्तरि वे॑ति षष्ठी । तव्यता तु भवत्येवेति । 'षष्ठीसमास' इति शेषः । तकारानुबन्धरहितस्येव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः । स्वकर्तव्यमिति । स्वस्य कर्तव्यमिति विग्रहः ।कृत्यानां कर्तरि वे॑ति षष्ठी । अत्र तव्यता योगात्समासनिषेधो नेति भावः । ननु तव्यत्प्रत्ययमाश्रित्यब्राआहृणकर्तव्य॑मिति समाससंभवात्क तव्ययोगे तन्निषेधेनेत्यत आह — स्वरे भेद इति । तव्यति कृते कृदुत्तरपद प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः । समानाधिकरण इति । समानाधिकरणेन षष्ठन्तं न समस्यते इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः । तक्षकस्य सर्पस्येति । अत्र समासे सति पुनः समासात् षष्ठ्युत्पत्तौ तक्षकसर्पस्येति न भवतीत्यर्थः । ननु षष्ठीसमासस्य निषेधेऽपिविशेषणं विशेष्येणे॑ति कर्मधारयसमासो दुर्वारोऽतः किं षष्ठी समासनिषेधेनेत्यत आह — विशेषणसमासस्त्विति । ननु षष्ठीसमासनिषेधसामर्थ्यादेवात्र कर्मधारयो न भविष्यति, तत्किमगतिकगत्या बहुलग्रहणाश्रयणेन । न च कर्मधारयस्वर एव यथा स्यान्नतु षष्ठीसमासस्वर इत्येतदर्थः षष्ठीसमासनिषेध इति वाच्यम्, उभयथापिसमासस्ये॑त्यन्तोदात्तत्स्याऽविशिष्टत्वादिति चेत्, मैवम्-कर्मधारये हि सति 'गमनस्य श्रेयस' इत्यादौश्रज्यावमकन्पापवत्सु भावे॑ इति पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे त्वन्तोदात्तत्वं स्यात्, तन्माबहुलग्रहणमाश्रितम् । न चैवमपि तक्षकः सर्प इति प्रथमान्तविग्रहे कर्मधारये सतितक्षकसर्पस्ये॑ति दुर्निवारमिति वाच्यं, निषेधसामर्थ्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवंजातीयकप्रयोगाऽभावोन्नयनात् । थ समानाधिकरणे निषेधे उदाहरणान्तरमाह — गोर्धेनोरिति । गोर्धोनोरित्यादिषु षष्ठीसमासः प्राप्तः, सोऽप्यनेन वार्यत इत्यन्वयः । आदिना यूनः खलतेरित्यादिसङ्ग्रहः । ननु षष्ठीसमास एवात्र न प्रसज्यते,पोटायुवति॑, युवा खलती॑त्यादि विसेषविहितकर्मधारयेणाऽत्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आह — पोटायुवतीत्यादि । 'पोटायुवति'युवा खलती॑त्यादिविधयो 'गौर्देनुः'युवा खलति॑रित्यादिषु प्रतमाविभक्त्यन्तेषु सावकाशाः । षष्ठीसमाससस्तु 'राज्ञः पुरुषः' इत्यादावसमानाधिकरणे सावकाशः ।गोर्धेनोः॑,यूनः खलते॑रित्यादिषूभयं प्राप्तम् । तत्रपोटायुवति॑,युवा खलती॑त्यादिसमासे तु गोयुवादिशब्दस्यैवेति फलभेदस्य स्पष्टत्वात् । समानाधिकरणेन निषेधश्चायं क्वाचित्क एव,अन्यस्य पदस्यार्थ इत्यर्थेऽन्यपदार्थ इति निर्देशात् । तेन 'नीलोत्पलस्य गन्ध' इत्यादिः सिद्धः ।", "22012": "<<क्तेन च पूजायाम्>> - क्तेन च । अत्र पूजाग्रहणंमतिबुद्धिपूजार्थेभ्यश्चे॑ति सूत्रोपलक्षणं । तदाह — मतिबुद्धीति सूत्रेणेति । राज्ञा मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणो ज्ञायमानः पूज्यमान इति क्रमेणार्थः ।मतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तः । 'क्तस्य च वर्तमाने' इति षष्ठी । नन्वेवं सति 'राजपूजितः' 'राजमतः' 'राजबुद्ध' इति कथं समास इत्यत आह-राजपूजित इत्यादाविति ।", "22013": "<<अधिकरणवाचिना च>> - अधिकरण । शेषपूरणेन सूत्रं व्याचष्टे-क्तेनेति । इदमेषामासितं शयितं गतं भुक्तं वेति ।क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः॑ इत्यधिकरणे क्तः ।अधिकरणवाचिनश्चे॑ति षष्ठी ।", "22014": "<<कर्मणि च>> - कर्मणि च । क्तेनेति निवृत्तम् । कर्मणि या षष्ठी सा न समस्यते इत्यर्थे अपां रुआष्टेत्यादावपि निषेधसिद्धेःतृजकाभ्यां कर्तरी॑ति व्यर्थं स्यात् । किं तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य यां षष्ठी विहिता सा न समस्यत इत्यर्थः । फलितमाह — उभयेत्यादिना । आश्चर्य इति । यद्यप्यत्रकर्तृकर्मणोः कृती॑त्येव कर्मणि षष्ठी, न तुउभयप्राप्तौ कर्मणी॑ति सूत्रेण, तस्य सूत्रस्य कर्मण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात्, तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः ।शब्दानुशासन॑मित्यत्र तु वस्तुत आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याऽप्रवृत्तेर्नायं निषेधः, 'कृत्वोऽर्थप्रयोगे' इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । यद्वा शेषे विभाषा अविशेषेण विभाषेत्याश्रित्य उभयप्राप्तावित्यभावपक्षेकर्तृकर्मणोः कृती॑त्येव षष्ठ्याः प्राप्तेर्नायं निषेध इत्यलम् ।", "22015": "<<तृजकाभ्यां कर्तरि>> - तृजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणं, श्रुतत्वात्, नतु षष्ठ्याः । तदाह — कत्र्रर्थतृजकाभ्यामिति । अपां रुआष्टा वज्रस्य भर्तेति । 'ण्वुल्तृचौ' इति कर्तरि तृच् । 'कर्तृकर्मणोः' इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल् । अकादेश इति विशेषः । इक्षुभक्षिकेति ।स्त्रियां क्ति॑न्नित्यदिकारे धात्वर्थनिर्देसे ण्वुल् । कर्मणि षष्ठआ समासः ।कर्मणि चे॑ति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु भुवो भर्ता भूभर्तेत्यत्रापि निषेधः स्यात् । न च भर्तृशब्दस्य याजकादौ पाठाद्भवत्येव षष्ठीसमासः,याजकादिभिश्चे॑त्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम्, एवं ततिवज्रस्य भर्ते॑त्यत्रापि समासप्रसङ्गादित्यत आह — पत्यर्थेति । याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात् । ततश्चवज्रस्य भर्ते॑त्यत्रयाजकादिभिश्चे॑ति समासो नेति भावः । कथं तर्हीति । त्रायाणां भुवनानां समाहारस्त्रिभुवनं ।तद्धितार्थे॑ति द्विगुः ।अकारान्तोत्तरपदो द्विगुः स्त्रिया॑मिति तु न भवति,पात्राद्यन्तस्य ने॑त्युक्तेः ।त्रिभुवनस्य विधाते॑ति तृचो योगे कथं कर्मणि षष्ठआ समास इत्याक्षेपः । परिहरति — शेषषष्ठएति । प्रत्यासत्या कारकषष्ठआ एवायं निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः ।", "22016": "<<कर्तरि च>> - कर्तरि च । कर्तरीत्येतत्षष्ठीत्यनुवृत्तेऽन्येति । तदाह — कर्तरि षष्ठआ इति । अकेनेति ।तृजकाभ्यां कर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति ।स्त्रियां क्ति॑न्नित्यधिकारे धात्वर्थनिर्देशे ण्वुल्, अकादेशः, टाप् ।कर्तृकर्मणो॑रिति कर्तरि षष्ठी । अत्र अकस्य कत्र्रर्थकत्वाऽभावात्तृजकाभ्या॑मित्यस्य न प्राप्तिः । ननु पूर्वसूत्रेतृजकाभ्या॑मिति समस्तपदोपादानात्कथमिहाऽकस्यैवानुवृत्तिः, न तु तृच इत्यत आह-नेहेति । तद्योगे इति । तृचः कर्तरि विहितत्वेन 'रुआष्टां कृष्ण' इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठआ एवाऽप्रसक्त्या तत्समासनिषेधस्यशशशृङ्गेण कण्डूयनं न कर्तव्य॑मितिवदसंभवपराहतत्वादित्यर्थः ।", "22017": "<<नित्यं क्रीडाजीविकयोः>> - नित्यं क्रीडा । उद्दालकपुष्पभञ्जिकेति । उद्दालकः=श्लेष्मातकः, तस्य पुष्पाणि, तेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति । 'स्त्रियां क्तिन्' इत्यधिकारेसंज्ञाया॑मिति भावे ण्वुलित्यर्थः । अत्र कर्मणि षष्ठ्याः समासः । वस्तुतस्तु 'स्त्रियां क्ति' न्नित्यधिकारेधात्वर्थनिर्देशे ण्वु॑लिति भावे ण्वुलित्येव युक्तम् ।संज्ञाया॑मिति त्वधिकरणार्थमिति कृदन्ते वक्ष्यते । तथा सति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः । जीविकायामिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति । दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः । लिखेः कर्तरि ण्वुल् । अकादेशः । जीविका समासगम्या । ननुषष्ठी॑ति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थमिदमित्यत आह — तत्रेति । तत्र=तस्मिन्नुदाहरणद्वये, क्रीडाबाधकेउद्दालकपुष्पभञ्जिके॑त्यत्र विभाषाधिकारात् षष्ठीसमासनिषेधे प्राप्ते, जीविकाबोधकेतु 'दन्तलेखक' इत्यत्र 'तृजकाभ्याम्' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः ।", "22018": "<<कुगतिप्रादयः>> - कुगतिप्रादयः । समस्यन्त इति । स तत्पुरुष इत्यपिज्ञेयम् । कुत्सितः पुरुष इति । नित्यसमासत्वादस्वपदविग्रहः । कुत्सितार्थकस्य 'कु' इत्यव्ययस्यैवात्र ग्रहणं, न तु पृथ्वी पर्यायस्य, गत्वादिसाहचर्यात् । गतिश्चेत्यनुवर्तमान इति । क्रियायोग इति चेति बोध्यम् ।", "22019": "<<उपपदमतिङ्>> - उपपदमतिङ् । सुबन्तमिति । 'सुबामन्त्रिते' इत्यतस्तदनुवृत्तेरिति भावः । समर्तेनेति । प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । अतिङन्तश्च समास इति । सूत्रे तिङिति तदन्तग्रहणमिति भावः । समासः तिङन्तघटितो न भवतीत्यर्थः । अतिङ् किम् , कारको व्रजति ।तुमुन्ण्वुलो क्रियायां क्रियार्थाया॑मिति व्रजतावुपपदे कृञो ण्वुल्, अकादेशः ।उपपदं समर्थेने॑त्येतावत्युक्ते इहाप्युपपदसमासः स्यात् । अतोऽतिङ्ग्रहणम् । नचैवं सुबित्यनुवृत्तेः प्रयोजनाऽभाव इति वाच्यं, 'चर्मकार' इत्यत्र नलोपार्थकत्वात् ।उपपदमतिङन्तं समर्तेन समस्यते॑ इति व्याख्याने तु सुबिति नानुवर्तेत । ततश्च 'चर्मकार' इत्यत्र नलोपो न स्यादिति भावः । कुम्भिमिति । कुम्भं करोतीत्यर्थः ।कर्मण्य॑णिति कर्मीभूतकुम्भवाचकपदे उपपदे कृञ्धातोः कर्तरि अण्प्रत्ययेअचो ञ्णिती॑ति वृद्धौ रपरत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम्, 'अतिङन्तः समास' इत्युक्तत्वादित्यत आह — कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति । लोके प्रयोगानर्हत्वमलौकिकत्वम् ।प्रत्ययोत्तरपदयोश्चे॑ति सूत्रभाष्यरीत्या अलोकिकविग्रहवाक्य एव समासप्रवृत्तिः । कुम्भं करोतीति तदर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम्-कार इत्यपपाठः, कृद्योगे षष्ठआ विधानात् । मा भवान्भूदिति । अत्र भूदिति तिङन्तेन माङः समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः । भवानिति पदं तु समासाऽभावसूचनाय मध्ये प्रयुक्तम् । ननु माङस्तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वं तु अदृष्टं येन तस्य उपपदत्वात्समासः प्रसज्यत इत्यत आह — माङिति । ननु अतिङ्ग्रहणं व्यर्थं, मा भवान्भूदित्यत्र सुपेत्यनुवृत्त्यैव समासनिवृत्तिसंभवादित्यत आह — अतिङ्ग्रहणमिति । एवंच उपपदमसुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह — पूर्वसूत्र इति । उत्तरसूत्रात्पूर्वसूत्रेऽनुवृत्तिरपकर्षः । 'कुप्रादयः' इतिगति॑रिति च योगो विभज्यते । कुप्रादयः सुबन्तेन समस्यन्ते । गतिस्तु समर्थेन समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमित्यत आह — तथा चेति ।गतिकारकोपपदानां कृदन्तैः सह सुबुत्पत्तेःप्राक्समासो वक्तव्य॑ इति प्राचीनव्याकरणोक्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथाप्येकदेशानुमतिद्वारा प्राचीनपरिबाषेयं सिध्यति । अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति — व्याघ्रीति । व्याजिघ्रतीति व्याघ्रः ।व्याङ्पूर्वाद्घ्राधातोः 'आतश्चोपसर्गे' इति कः,आतो लोप इटि चे॑त्याल्लोपः ।पाघ्राध्मादेट्दृशः शः॑ इति तु न भवति,जिघ्रतेः संज्ञायां नेति वाच्य॑मिति निषेधात् । आङो घ्रशब्देन गतिसमासः । आघ्रशब्देन वेर्गतिसमासः । तत्र यदि घ्रशब्दस्य सुबन्तत्वमपेक्ष्येत, तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात्, स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्यकुत्सिते॑इति सूत्रस्थभाष्यदर्शितस्यङ्याप्प्रातिपदिका॑दित्यत्रास्माभिः प्रपञ्चितत्वात् । ततश्च सुबुतपत्तये लिङ्गसङ्ख्याकारकं क्रमेणाऽपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति अदन्तत्वाट्टाप्स्यात् । न तु जातिलक्षणङीष्, घ्रशब्दमात्रस्य जातिवाचित्वाऽभावात् । ततश्च घ्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्याऽदन्तत्वाऽभावाज्जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धं, तथापि गतित्वसंभवमात्रेणेदमित्याहुः । वस्तुतस्तु आङो घ्राशब्देन उपपदसमासः, 'आतश्चोपसर्गे' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति तदंशे गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति — अआक्रीतीति । अओन क्रीतेति विग्रहे 'कर्तृकरणे कृता' इति समासः ।क्रीतात्करणपूर्वा॑दिति ङीष् । सुबन्तेन समासे तूक्तरीत्या पूर्वं टापि अदन्तत्वाऽभावान्ङीष् न स्यादिति भावः । उपपदसमासमुदाहरति-कच्छपीति । कच्छः=तीरं, तेन तस्मिन्वा पिबतीतिकच्छपो । 'सुपि स्थः' इत्यत्र सुपी॑ति योगविभागात्कः, उपपदसमासः, । तस्य सुबन्तापेक्षायामुक्तरीत्या टाबेव स्यान्न तु जातिलक्षण ङीषिति भावः ।", "22020": "<<अमैवाव्ययेन>> - अमैवाऽव्ययेन ।अमैवे॑त्यनन्तरं तुल्यविधानमित्यध्याहार्यम् । तुल्यार्थैरतुलोपमाभ्या॑मिति तृतीया । अमैव तुल्येति । अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियामार्थमिदमित्याह — तदेवेति । विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविदानत्वेऽवधारणार्थत्वात् । स्वादुङ्कारमिति । स्वादुंकृत्वेत्यर्थः । 'ओदनं भुङ्क्ते' इति शेषः ।स्वादुमि णमु॑लिति णमुल् । स्वादुशब्दस्य मान्तत्वं निपातनात् । 'कृन्मेजन्तः' इत्यव्ययत्वम् ।तदेवे॑ति नियमस्य प्रयोजनमाह — नेहेति । 'उपपदसमास' इति शेषः । भोक्तुमिति । यद्यपि॒कालसमयवेलासु॑ इति सप्तमीनिर्देशात्कालसमयवेलानामुपपदत्वन्तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा । अतः कालदीनामुपपदत्वेऽपि न समास इत्यर्थः । अमैवेति किमिति । अमैवेत्येकारः किमर्थ इति प्रश्नः । अमा चान्येन चेति । अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यबिधानत्वाऽभावान्नोपपदसमास इति भावः ।", "22021": "<<तृतीयाप्रभृतीन्यन्यतरस्याम्>> - तृतीयाप्रभृतीनि । तृतीयाशब्देनउपदंशस्तृतीयाया॑मित्यारभ्य॒अन्वच्यानुलोम्ये॑ इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि । अमेति, अव्ययेनेति चानुवर्तते । एवकारस्तु नानुवर्तते, अस्वरितत्वात् । अमेत्येतदव्ययविशेषणम् । तदाह — उपदंशस्तृतीयायामित्यादिना । मूलकोपदंशमिति ।उपदंशस्तृतीयाया॑मिति णमुल् । अमैव तुल्यविधानत्वात्पूर्वसूत्रेण नित्ये प्राप्ते विकल्पोऽयम् । ननुमूलकेने॑त्यस्य 'भुङ्क्ते' इत्यत्रैवान्वयादुपदंश इत्यत्रानन्वयादसामर्थ्यात्कथमिह समास इति चेत्, मैवम् — उपदंशनक्रियां प्रति हि मूलकस्य आर्थकं कर्मत्वमादाय सामर्थ्यमुपपाद्यम् । तृतीया तु प्रधानक्रियानुरोधात्परत्वाच्चोपपाद्येत्यन्यत्र विस्तरः । उच्चैःकारमिति । उच्चेःकृत्वेत्यत्र तुअव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॑ ।तत्रउच्चैःकार॑मित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वाऽभावात्अमैवाव्ययेने॑त्यप्राप्तेऽनेन विकल्पः । समासपक्षेआदिर्णमुल्यन्यतरस्या॑मिति कृदुक्तरपदप्रकृतिस्वर आद्युदात्तत्वम् । असमासपक्षे तु उच्चैरिति फिट्सूत्रेणाऽन्तोदात्तत्वमिति फले भेदः । अमन्तेनेति किम् । पर्याप्तो भोक्तुम् । 'पर्याप्तिवचनेषु' इति तुमुन् ।", "22022": "<<क्त्वा च>> - क्त्वा च ।तृतीयाप्रभृतीनी॑ति पूर्वसूत्रमनुवर्तते । क्त्त्वेति तृतीयार्थे प्रथमा । टायांसुपां सुलुक्पूर्वसवर्णे॑ति पूर्वसवर्णदीर्घ इत्यपरे । तदाह — तृतीयेति । ननुउपदंशस्तृतीयाया॑मित्यतः प्रागेवसमानकर्तृकयो॑रिति क्त्वाविधेः पाठात्कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह — अव्ययेऽयथेति ।अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॑ इति सूत्रेणेत्यर्थः । अलं कृत्वेति ।अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॑ इत्येतत्उपदंशस्तृतीयाया॑मित्यतः पूर्वमेव पठितम् । अतस्तद्विहितक्त्त्वो मान्तेन सह समासाऽभावान्न ल्यबिति भावः । इत्युपपदसमासाः ।", "22023": "<<शेषो बहुव्रीहिः>> - शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तेरित्यर्थः । ननुद्वितीया श्रिते॑तितृतीया तत्कृते॑तिचतुर्थी तदर्थे॑तिपञ्चमी भयेने॑ति,षष्ठी॑ति,सप्तमी शौण्डै॑रिति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः ।विशेषणं विशेष्येणे॑त्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह — विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रतमाविभकिंत विशिष्य उच्चार्य विधानाऽभावात्समासविधिषु विसिष्यनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरित भावः । तदाह — प्रथमान्त इत्यर्थ इति । एतच्च भाष्ये स्पष्टम् ।", "22024": "<<अनेकमन्यपदार्थे>> - अनेकमन्य । प्रथमान्तमिति । शेषग्रहणानुवृत्तिलभ्यमिदम् । एवं च सुप्सुपेति नानुवर्तते, प्रयोजनाऽभावात् ।अनेकं सुबन्त॑मिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति । उपस्थितप्रथमान्तातिरिक्तेत्यर्थः । एवंच पञ्चभिर्भुक्तमन्नं यस्य सः 'पञ्चभुक्त' इति बहुव्रीहिनिवृत्त्यर्थंबहुव्रीहिः समानाधिकरणानामिति वक्तव्य॑मिति वार्तिकं यद्भाष्ये स्थितं, यच्च वृष्टे देवे यो गतः स वृष्टदेव इति बहुव्रीहिनिवृत्त्यर्थम्अप्रथमाविभक्त्यर्थे बहुव्रीहिर्वक्तव्यः॑ इति वार्तिकं तदुभयमपि न कर्तव्यमित्याह — अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति । समानाधिकरणानामिति च फलितमिति ।शेषग्रहणा॑दिति शेषः ।शेषग्रहणात् प्रथमान्त इति लभ्यते॑ इति हि भाष्यम् ।पञ्चभिर्भुक्तमस्ये॑त्यत्र च समस्यमानपदयोरेकस्याऽप्रथमान्तत्वान्न बहुव्रीहिरिति फलितम् । प्रथमान्तातिरिक्तस्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद्वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितम् । प्रतमान्तातिरिक्तस्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद्वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितमिति भावः । तत्र द्वितीयार्थबहुव्रीहिमुदाहरति — प्राप्तमिति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । अत्र विग्रहवाक्ये ग्रामकर्मकप्राप्तिकर्तृ उदकमित्येवं ग्रामस्य विशेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एकार्थीभावमहिम्ना उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इत्येवं ग्रामस्य विशेष्यतया, तद्विशेषणतया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः । अथ तृतीयार्थबहुव्रीहिमुदाहरति — ऊढरथोऽनड्वानिति । ऊढो रथो येनेति विग्रहः । अथ चतुथ्र्यर्थबहुव्रीहिमुदाहरति — ऊढरथोऽनड्वानिति । ऊढो रथो येनेति विग्रहः । अथ चतुथ्र्यर्थबहुव्रीहिमुदाहरति — उपह्मतपशू रुद्र इति । उपह्मतः पशुर्यस्मै इति विग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति -उद्धृतौदना स्थालीति । उद्धृत ओदनो यस्या इति बहुव्रीहिः । अथ षष्ठर्थंबहुव्रीहिमुदाहरति — पीताम्बरो हरिरिति । पीतमम्बरं यस्येति विग्रहः । अथ सप्तम्यर्थबहुव्रीहिमुदाहरति — वीरपुरुषको ग्राम इति । वीराः पुरुषा यस्मिन्निति विग्रहः । 'शेषाद्विभाषा' इति कप् । अत्र कर्मादीनां समासेनाभिहितत्वात्प्रथमैव । प्रथमार्थे तु नेति ।अन्यपदार्थ॑शब्देन प्रथमान्तातिरिक्तद्वितीयाद्यन्तार्थस्यैव विवक्षितत्वादिति भावः । व्यधिकरणानामपि नेति ।अनेकं प्रथमान्त॑मित्युक्तेरिति भावः । प्रादिभ्यः । प्रादिभ्यः परं यद्धातुजप्रकृतिकप्रधमान्तं तस्य अन्येन प्रथमान्तेन बहुव्रीहिर्वाच्यः । तत्र बहुव्रीहौ प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विकल्पेन वाच्य इत्यर्थः । अत्रबहुव्रीहि॑रित्यनुवादः, लोपस्यैव विधिः । प्रपतितपर्ण इति । प्रकृष्टं पतितं — प्रपतितम् । प्रादयो गताद्यर्थे॑ इति समासः । प्रपतितं पर्णं यस्मादिति विग्रहः । प्रपर्ण इति । प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम् । नञोऽस्त्यर्थानां । नञः परेषामस्त्यर्थवाचिना सुबन्तानां बहुव्रीहिर्वाच्यः, त[था]त्रास्त्यर्थवाचिनामुत्तरपदभूतानां लोपश्च वा वक्तव्य इत्यर्थः । अविद्यमानपुत्र इति । न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । अपुत्र इति । अस्त्यर्थकविद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुव्रीहिरित्यनुवादः । अव्ययानां चेति । 'बहुव्रीहिर्वाच्य' इति शेषः । उच्चैर्मुख इति । उच्चैरित्यस्याधिकरणशक्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाऽभावादप्राप्ते बहुव्रीहौ वचनम् । सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्चेति । सप्तम्यन्तोपमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम्, तस्य समस्तपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । समस्तपदात्मके पूर्वपदे यदुत्तरपदं तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति — कण्ठेस्थ इत्यादि । 'सुपि स्थः' इति कः । कण्ठे तिष्ठतीति कण्ठेस्थः । उपपदसमासः ।अमूद्र्धमस्तका॑दिति सप्तम्या अलुक् । 'कण्ठेस्थ' इति समस्तपद्रम् । तस्य कालशब्देन बहुव्रीहिरित्यनुवादः । सुपो लुक् । त्तर कण्ठेस्थेत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं, तस्मिन् यदुत्तरपदं स्थेत्येतत्, तस्य लोपो वाचनिकः । 'कण्ठेकाल' इति सप्तम्यन्तपदघटितसमासगर्भो बहुव्रीहिः । तदवयवभूतसप्तम्याःअमूर्धमस्तका॑दित्यलुक् । अथ उपमानसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति — उष्ट्रमुख इति । उष्ट्रस्य मुखमिवेति विग्रहे षष्ठीतत्पुरुषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिवशब्दः । उष्ट्रमुखिमिव मुखं यस्येति विग्रहे बहुव्रीहिरित्यनुवादः । तत्रउष्ट्रमुखेत्येतद्बहुव्रीहेः पूर्वपदं, तस्मिन्नुत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । सङ्घातविकारेति । षष्ठन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः, षष्ठन्तादुत्तरपदस्य लोपश्च । केशचूड इति । सङ्घातशब्दस्यो लोपे रूपम् । सुवर्णालङ्कार इति । अत्र विकरशब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति । अस्तिक्षीरादयो बहुव्रीहावुपसङ्ख्येया इत्यर्थः ।अस्तिक्षीरागौ॑रित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमाविभक्त्यन्तत्वाऽभावादप्राप्ते बहुव्रीहाविदं वचनम् । वस्तुतस्तु वचनमिदं नारब्धव्यमित्याह — अस्तीति विभक्तिप्रतिरूपकमव्ययमिति । विभक्तिप्रतिरूपकत्वेन निपातितत्वादस्तीतिस्वरादिनिपातमव्यय॑मित्यव्ययं विद्यमानार्थकम् । ततः सोः 'अव्ययादाप्सुपः' इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदुक्तं भाष्ये — ॒अस्तिक्षीरादिवचनं, न वाऽव्ययत्वा॑दिति ।", "22025": "<<संख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये>> - सङ्ख्यया । शेषग्रहणम्, 'अनेकमन्यपदार्थे' इति च निवृत्ते ।बहुव्रीहि॑रित्यनुवर्तते । 'सुप्सुपा' इति च । 'सङ्ख्येये' इतयेतत्सङ्ख्ययेत्यत्रान्वेति । सङ्ख्यया परिच्छेद्यं-सङ्ख्येयम् ।तत्रार्थे विद्यमानया सङ्ख्यये॑ति लभ्यते । सङ्ख्या शब्दश्चायं न स्वरूपपरः, किंतु एकादिशतान्तशब्दपरः । तदाह — सङ्ख्येयार्थया सङ्क्ययेति । एकादिशब्देन सुबन्तेनेत्यर्थः । अव्ययादय इति । अव्यय-आसन्न-अदुर-सङ्ख्या एते सुबन्ता इत्यर्थः । अत्रापि सङ्ख्याशब्दो न स्वरूपपरः, किंतु एकादिशब्दपर एव । अत्रेदमवधेयम्-विशतेः प्रागेकादिशब्दाः सङ्ख्येयेषु वर्तन्ते, विशेष्यलिङ्गाश्च । दसादयो नित्यबहुवचनान्ताः । विंशत्यादिशब्दास्तु नित्यमेकवचनान्ताः, सङ्ख्यायां सङ्ख्येये च वर्तन्ते, नवतिपर्यन्ताः नित्यस्त्रीलिङ्गाश्च । यता विंशतिब्र्राआहृणाः, ब्राआहृणानां विंशतिरिति । यदा विंशत्यादिः सङ्ख्या, ततो द्वित्वबहुवचने स्तः । यथा गवां द्वे विंशती इति । चत्वारिंशदिति गम्यते । गवां तिरुआओ विंशतय इति । षष्ठिरिति गम्यते ।विंशत्याद्याः सदैकत्वे सङ्ख्याः सङ्ख्येयसङ्क्ययोः । सङ्ख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।॑इत्यमरः । अत्राव्ययस्योदाहरति — उपदशा इति । उपशब्दस्य समीपार्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्त्तिनि उपशब्दो वर्तते । दशसमीपवर्तिन इत्यर्थः । ततश्च अन्यपदार्थवृत्तित्वाऽभावादप्रथमान्तत्वाच्च 'अनेकमन्यपदार्थे' इत्यप्राप्ते वचनमिदम् । तस्य दशानां वृक्षादीनां समीपवर्तिनो गवादय इत्यर्थभ्रमं वारयति — नवैकादश वेत्यर्थ इति । सामीप्यमिह दशन्शब्दार्थगतदशत्वापेक्षम्, एकार्थीभावबलात् । तथाच दशत्वसमीपवर्तिसङ्ख्यावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवर्तिसङ्ख्यावन्त इति बोधपर्यवसानं भवति । डजिति । उपदशन्शब्दाड्डचि 'नस्तद्धिते' इति टिलोप इति भावः ।", "22026": "<<दिङ्नामान्यन्तराले>> - दिङ्नामानि । नामानीत्यनन्तरंसुबन्तानि परस्पर॑मिति शेषः । प्राग्वदिति । समस्यन्ते, स च बहुव्रीहिरित्यर्थः ।नामानी॑ति बहुत्वविवक्षितमित्यभिप्रेत्योदाहरति — दक्षिणस्याश्चेति । दक्षिणपूर्वेति । स्त्रीत्वं लोकात् । यद्वा अन्तरालमिह दिगेव गृह्रते ।सर्वनाम्नो वृत्तिमात्रे पुंवत्त्व॑मिति भाष्यम् । यद्यप्युपसर्जनत्वान्न सर्वनामत्वन्तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्त्वं भवति,अत एव भाष्यात् । ननु दिसोरन्तराले इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह — नामग्रहणादिति । दिक्षु रूढाः शब्दाःदिङ्नामानी॑त्यनेन विवक्षिताः । ऐन्द्रीशब्दः कोबैरीशब्दश्चेन्द्रसंबन्धात्कुबेरसंबन्धाच्च प्रवृत्तौ यौगिक एव, न रूढ इति भावः ।", "22027": "<<तत्र तेनेदमिति सरूपे>> - तत्र तेन । समास इति, बहुव्रीहिरिति चाधिकृतम् ।तत्रे॑त्यनेन सप्तम्यन्ते पदे विवक्षिते । 'ग्रहणविषये' इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् ।तेने॑त्यनेन तु तृतीयान्ते पदे विवक्षिते ।प्रहरणविषये॑इति, प्रथमाद्विवचनान्तं तद्विशेषणमध्ताहार्यम् । 'सरूपे' इति प्रथमाद्विवचनान्तं पदविशेषणम् । 'ग्रहणविषये' इति 'प्रहरणविषये' इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति ।इद॑मित्यर्थनिर्देशः ।युद्धं प्रवृत्त॑मिति तद्विशेष्यमध्याहार्यम् । कर्मव्यतिहारे द्योत्ये॑इत्यपयध्याहार्यम् । तदाह — सप्तम्यन्ते इति । प्रथमाद्विवचनमिदम् । ग्रहणविषये इति । गृह्रते अस्मिन्निति ग्रहणं=केशादि । अधिकरणे ल्युट्, तत् विषयः=वाच्यं ययोस्ते ग्रहणविषये । ग्रहणवाचके इति यावत् । प्रहरणविषये इति । प्रह्यियते अनेनेति प्रहरणं =दण्डादि । तत्-विषयः=वाच्यं ययोस्ते प्रहरणविषये । प्रहरणवाचके इति यावत् । अत्रापिसरूपे॑पदे इन्यन्वेति । इदं युद्धं प्रवृत्तमित्यर्थे इति ।इद॑मिति सामान्यार्थनिर्देशः ।युद्ध॑मिति विशेषणिर्देशः । अतः केशाकेशि युद्धिमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु 'ग्रहणविषये'प्रहरणविषये॑इत्यध्याहारे किं प्रमाणमित्यत आह — इतिशब्दादिति । इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः ।केशाकेशी॑त्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः ।", "22028": "<<तेन सहेति तुल्ययोगे>> - तेन सहेति । तुल्ययोगे इति । युगपत्कालिकक्रियायोगे इत्यर्थः । तृतीयान्तेनेति । तेनेत्यनेन तल्लाभादिति भावः । प्राग्वदिति समस्यते स बहुव्रीहिरित्यर्थः । असामानाधिकरण्यार्थं कबभावार्थं चेदम् ।", "22029": "<<चार्थे द्वन्द्वः>> - अथ द्वन्द्वसमासनिरूपणम् । चार्थे द्वन्द्वः । 'सुबामन्त्रिते' इत्यतःसुबिति, 'अनेकमन्यपदार्थे' इत्यतोऽनेकमिति चानुवर्तते । समास इति विभाषेति चाधिकृतं । तदाह — अनेकमित्यादिना । कश्चार्थ इत्यत आह — समुच्चयेति ।चाऽन्वाचयसमाहारेतरेतरसमुच्चये॑इत्यमरः । तत्र समुच्चयं निर्वक्ति — परस्परेति । एकस्मिन्निति । अकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः, तदनन्तरमन्यस्यान्वयो यत्र, तत्र समुच्चयश्चार्थं इत्यर्थः । यथा -॒ईस्वरं गुरुं च भजस्वे॑ति । तत्र हि चशब्दयोगाद्गुरोरीश्वरसापेक्षत्वम्, न त्वीआरस्य गुरुसापेक्षत्वं, तस्य चकारयोगाऽभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवंच 'ईआरं च भजस्व' गुरुं च भजस्वे॑ति वाक्यद्वयं पर्यवस्यति । अथाऽन्वाचयं लक्षयति — अन्यतरस्येति । यत्राऽन्यतरस्य पदस्यैकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविशषयत्वेनान्वयः, इतरस्य यतु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च तत्रान्वाचयश्चार्थ इत्यर्थः । यथा — ॒भिक्षामट गां चानये॑ति ।अट गतौ॑ । भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौः सङ्गता चेत्तामप्यानय, नतु गवानयने ऐदंपर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति — मिलितानामिति । परस्परापेक्षितानां समुदितानामेकस्मिन् क्रियापदेऽन्वयो यत्र, तत्रेतरेतरयोगः परस्परसाहर्यं चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति — समूहः समाहार इति । परस्परसाहित्यमित्यर्थः । यथा संज्ञापरिभाषयोः समूहः संज्ञापरिभाषमिति । तत्रेतरेतरयोगद्वन्द्वे साहित्यं द्रव्यविशेषणम् । यता धवखदिरौ छिन्द्धीति । समिदिताविति गम्यते । समाहारद्वलन्द्वे तु समूहो विशेष्यम् । यतासंज्ञापरिभाष॑मिति । तयोः समूह इति गम्यते ।संज्ञापरिभाषमधीयते॑ इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यल्म् । तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः । ईआरं गुरुं च भजस्वेति । समुच्चयोदाहरणमिदम् ।भिक्षामट गां चानये॑त्युदाहरणं चानुपदमेव व्याख्यातम् । असामर्थ्यादिति ।ईआरं गुरुं चे॑त्यत्रोक्तरीत्या ईआरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्तेभजस्वे॑ति पदे क्रमेणान्वयात्परस्परमन्वयाऽभावादसामर्थ्यम् ।भिक्षामट गां चानये॑त्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवार्तानभिज्ञयोरेवान्वयात्परस्परान्वयाभावादसामर्थ्यं स्पष्टमेव । ततश्च इतरेतरयोगसमाहायोरेव चार्थयोः परस्परसाहित्यसत्त्वात्समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु मञ्जूषायाः द्रष्टव्यः । इतरेतरयोगमुदाहरति-धवखदिराविति । धवश्च खदिरश्चेति द्वन्द्वः । धवो-वृक्षविशेषः, खदिरः-प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति — संज्ञेति । संज्ञा च परिभाषा च तयोः समाहार इति विग्रहः । समाहारस्यैकत्वादेकवचनम् ।स नपुंसक॑मिति नपुंसकत्वम् । ननु 'चार्थे द्वन्द्वः' इत्यत्रसुप्सुपे॑त्यनुवृत्त्यैव धवखदिरावित्यादिसिद्धेरनेकग्रहणानुवृत्तिर्वयर्थेत्यत आह — अनेकोक्तेरिति । होतृपोत्रिति । होता च पोता च नेष्टा च उद्गता चे॑ति विग्रहे वहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । 'आनङृतो द्वन्द्वे' इति नेष्टृशब्दस्यैव उत्तरपदपरकत्वादानङ्, नतु होतृपोतृशब्दयोरपि, उत्तरपदस्य मध्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाऽभावात् । ननु तर्हिहोतापोतानेष्टोद्गातार॑ इति कथमित्यत आह — द्वयोरिति । होता च पोता चेति द्वयोद्र्वन्द्वः । होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्गाता चेति द्वयोद्र्वन्द्वः । नेष्टृशब्दस्यानङ् । ततो होतापोतारौ च नेष्टोद्गातारो चेति द्वन्द्वद्वयगर्भो द्वन्द्वः । तत्र नेष्टोद्गातृशब्द उत्तरपदे होतापोतृशब्दस्य आनङित्यर्थः । आनङि ङकार इत् । ङित्त्वादन्तादेशः । अकार उच्चारणार्थः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नस्य लोपः ।", "22030": "<<उपसर्जनं पूर्वम्>> - उपसर्जनं पूर्वम् । प्राक्कडारात् समास इत्यदिकृतम् । समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते । तदाह — समासे उपसर्जनं प्राक् प्रयोज्यमिति । पूर्वमित्यस्य पूर्वं प्रयोज्यमित्यर्थ इति भावः । एवंच प्रकृते अपेत्यस्य पूर्वं प्रयोगनियमः सिद्धः । अप दिशा इति स्थितम् ।", "22031": "<<राजदन्तादिषु परम्>> - नेष्टोद्गातृशब्दे आद्गुणश्च । राजदन्तादिषु परम् ।उपसर्जनं पूर्व॑मित्यनुवर्तते । तदाह — एष्विति । राजदन्तादिष्वित्यर्थः । पूर्वप्रयोगर्हमित्यतः प्राक्उपसर्जनं॑मिति सेषः । राजदन्त इति । दन्तशब्दस्य षषष्टीतत्पुरुषेऽप्रदानतयोपसर्जनत्वेऽपि परनिपातः । इह गणे राजदन्ताग्रेवणादिशब्दास्तत्पुरुषाः,विष्वक्सेनार्जुनादयो द्वन्द्वश्च पठिता अतो द्वन्द्वप्रकरणे तदुपन्यासः । विआक्सेनार्जुनावित्यत्रअजाद्यदन्त॑मित्यर्जुनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातः । धर्मादिष्वनियम इति । गणसूत्रमिदम् । अन्यतरस्य पूर्वनिपात इत्यर्थः । अर्थधर्माविति । अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते तदनियमो वक्तव्य इत्यर्थः । निपात्यत इति । पाक्षिको राजदन्तादिगण इत्यर्थः । पत्युरभ्यर्हितत्वेऽपि परनिपातश्च । आकृतिगणोऽयमिति । वृत्तौ तु कृत्स्नोऽयं गणः पठितः ।", "22032": "<<द्वन्द्वे घि>> - द्वन्द्वे घि ।पूर्व॑मित्यनुवर्तते । तदाह — पूर्वं स्यादिति । हरिहरापिति । हरिशब्दस्य घित्वात्पूर्वनिपातः ।ननु 'हरिहरगुरव' इत्यत्र गुरुशब्दस्यापि घित्वात्पूर्वनिपातः । स्यादित्यत आह — अनेकेति । अनेकस्य घिसंज्ञकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसंज्ञकस्य पूर्वनिपातनियमः । शेषेऽन्यस्मिन् घिसंज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः । इदंअल्पाच्तर॑मिति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावदाकृतिं पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्त्राणि सकृदेव प्रवर्तन्ते,सकृच्छतत्वात्, न तु प्रतिव्यक्ति, तथा सति प्रतिव्यक्त्यावृत्तिप्रसङ्गात् । ततश्च अनेकघिसंज्ञकसमवाये एकस्य घिसंज्ञकस्य पूर्वनिपाते सति पुनः शास्त्रं न प्रवर्तते, सकृत्प्रवृत्त्यैव शास्त्रस्य शान्ताकाङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते, लक्ष्यानुरोधादित्याहुः । हरिहरगुरव इति । हरगुरुशब्दयोर्न नियम इति भावः ।", "22033": "<<अजाद्यदन्तम्>> - अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्याऽदन्तत्वेऽप्यजादित्वाऽभावान्न पूर्वनिपातः । बहुष्वनियम इति । वक्तव्य॑ इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह — ध्यन्तादिति । ध्यन्तशब्देनद्वन्द्वे घी॑ति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेणद्वन्द्वे घी॑त्येतद्बाधित्वाअजाद्यदन्त॑मिति प्रवर्तते इत्यर्थः ।", "22034": "<<अल्पाच्तरम्>> - अल्पाच्तरम् । अल्पः=अल्पसङ्ख्योऽच्यस्य तदल्पाच्, तदेवाऽल्पाच्तरम् । अत एव निपातनात्स्वार्थे तरप्, कुत्लाऽभावश्च । अल्पसङ्ख्याऽच्कं पदं द्वन्द्वे पूर्वं प्रयोज्यमित्यर्थः । शिवकेशवाविति । हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्जवादत्वादिति भावः । यदि तु 'द्विवचनविभज्य' इत्यादिशयार्थे तरप्स्यात्, तदा 'धवखदिरपलाशा' इत्यत्र बहुषु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवायं तरबिति स्थितम् । ऋतुनक्षत्राणामिति ष समानसङ्ख्याऽच्कानाम् ऋतूनां नक्षत्राणां च द्वन्द्वे आनुपूर्व्येण=क्रमेण पूर्वनिपातो वक्तव्य इत्यर्थः । हेमन्तशिशिरबसन्ता इति । त्रयाणामृतूनामानुपूर्व्यं लोकप्रसिद्धम् । एवं कृत्तिकादिनक्षत्राणामपि । ग्रीष्मवसन्ताविति । विषमाक्षरत्वान्न वसन्तस्य पूर्वनिपातः, किंतु अल्पाच्त्वाद्ग्रीष्मस्य पूर्वनिपातः । लघ्वक्षरं पूर्वं । लघु अक्षरमच् यस्य तद्द्वन्द्वे पूर्वं प्रयोज्यमिति वक्तव्यमित्यर्थः । कुशकाशमिति । समाहारद्वन्द्वोऽयम् । अभ्यर्हितं चेति । श्रेष्ठः पूर्वं प्रयोज्य इति वक्तव्यमित्यर्थः । तापसपर्वताविति । पर्वतस्य स्थावरजन्मतया तापसस्य तदपेक्षया अभ्यर्हितत्वं बोध्यम् । भाष्ये तु मातापितरावित्युदाहृतम् ।गर्भधारणपोषाभ्यां पितुर्माता गरीयसी॑त्यादिस्मृतेरिति तदाशयः ।वर्णानामानुपूर्व्येणेति । एषां क्रमेण पूर्वनिपातः ।ब्राहृक्षत्रियविट्छूद्वा वर्णाः॑ इत्यमरः । तेषामानुपूर्व्यं तुप्रजापतिरकामयत प्रजायेयेति, स मुखतस्त्रिवृत्तं निरमिभीते॑त्यादितैत्तिरीयब्राआहृणादिसिद्धम् । भ्रातुज्र्यायस इति । ज्येष्ठभ्रातुः पूर्वनिपात इत्यर्थः ।अत्र 'द्वन्द्वे घि'अजाद्यदन्त॑मिति विधिद्वयम् 'अल्पाच्तरं'लघ्वक्षरं पूर्वम्,ऋतुनक्षत्राणाम्, 'अभ्यर्हितं च' 'भ्रातुज्र्यायसः' इति विधिभिः परत्वाद्बाध्यते । भाष्ये तुसर्वत एवाभ्यर्हितं पूर्वं निपतती॑ति मतान्तरं स्थितम् ।", "22035": "<<सप्तमीविशेषणे बहुव्रीहौ>> - सप्तमीविशेषणे ।उपसर्जनं पूर्व॑मित्यतः पूर्वमित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया सप्तमीति तदन्तग्रहणं । तदाह — सप्तम्यन्तमिति । कण्ठेकाल इति ।कण्ठे तिष्ठतीति कण्ठेस्थः, स कालो यस्येति विग्रहः ।सुपी॑ति योगविभागात्कः ।सप्तम्युपमानपूर्वपदस्ये॑ति बहुव्रीहि समासः, स्थशब्दलोपश्चे॑ति 'अनेकमन्यपदार्थे' इति सूत्रे भाष्ये स्पष्टम् ।अमूर्धमस्तका॑दिति सप्तम्या अलुक् । अत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्त एवात्र बहुव्रीहौ पूर्वपदं, तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति कथं सप्तमीग्रहणं व्यधिंकरणपदबहुव्रीहिज्ञापकम् । किंच विशेषणत्वादेव सिद्धे किं वा सप्तमीग्रहणेन । तथापि यदा स्थपदमनादृत्य 'कण्ठे' इत्यस्याधिकरणत्वं, तस्य च कालरूपे उत्तरपदार्थे उपसङ्क्रमस्तदा 'कण्ठे' इत्यस्याऽप्रथमान्तत्वाद्बहुव्रीहेरप्रसक्तेस्तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितः स्यात् । ततश्च सप्तमीग्रहणादप्रथमान्तोऽपि बहुव्रीहिः क्वचिदस्तीति विज्ञायते इति योज्यम् । तेनसच्चास्त्रजन्मा हि विवेकलाभः॑ इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमानिर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य प#ऊर्वनिपाते प्राप्ते उत्तरपदविशेषणस्यैव पूर्वनिपातार्थं विशेषग्रहणमिति भावः । सर्वनामसङ्ख्ययोरिति ।बहुव्रीहौ पूर्वनिपातस्ये॑ति शेषः । सर्वओत इति । रार्वः ओतो यस्येति विग्रहः । उभयोरपि गुमवचनत्वेन विशेषणविशेष्यभावे कामचारादन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात्सर्वशब्दस्यैव पूर्वनिपातः । उपसर्जनत्वेऽपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति । त्रयः शुक्ला यस्येति विग्रहः । उभयोरपि कामचारेण पूर्वनिपाते प्राप्ते सङ्ख्यात्वत्रिशब्दस्यैव पूर्वनिपातः । 'द्विशुक्ल' इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ अन्यौ यस्य द्व्यन्य इति बहुव्रीहौ सर्वनामसङ्ख्ययोरन्त्यतरस्य पाक्षिकः पूर्वनिपातः स्यादित्यत आह — मिथोऽनयोरिति । सर्वनामसङ्ख्ययोरित्यर्थः । सङ्ख्या पूर्वमिति ।प्रयोज्ये॑ति शेषः । शब्दपरेति । एकस्मिन्नेव सूत्रे सर्वनामसङ्क्ययोः समासोपात्तत्वेऽपि सर्वनामसङ्क्याशब्दयो सङ्ख्याशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तेरित्यर्थः । सङ्क्याया अल्पीयस्या इति । न्यूनाधिकसङ्ख्यावाचकशब्दानां समासे न्यूनसङ्ख्यायाः पूर्वप्रयोग इति वक्तव्यमित्यर्थः । द्वित्रा इति । द्वौ वा त्रयो वेति विग्रहेसङ्ख्ययाव्यये॑ति बहुव्रीहिः । ननुद्वन्द्वे घी॑त्यतो 'द्वन्द्वे' इत्यनुवृत्तौअल्पाच्तर॑मिति सूत्रभाष्येऽस्य वार्तिकस्य पाठाद्बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत आह — द्वन्द्वेऽपीति । इदंच वार्तिकं द्वन्द्वेऽद्वन्देऽपि प्रवर्तत इत्यर्थः । द्वादसेति । द्वौ च दश चे॑ति द्वन्द्वः । तत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् ।तदस्मिन्निधिकमिति दशान्ताड्डः॑ इति सूत्रबाष्ये सहरुआआणां शतमित्यर्थे शतसहरुआमिति भाष्यकैयटयो प्रयोगोऽत्रमानमिति शब्देन्दुशेखरे स्थितम् ।वा प्रियस्येति । बहुव्रीहौ पूर्वं प्रयोगो वक्तव्य इत्यर्थः । गड्वादेः परा सप्तमीति ।बहुव्रीहौ योज्येति वक्तव्य॑मिति शेषः । गडुकण्ठ इति । गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मांसगोलः । असंज्ञात्वात् 'हलदन्तात्' इत्यलुङ् न । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । वहेगडुरिति । वहः=स्कन्धः, तन्मिन् गडु-दुर्मांसग्रन्तिर्यस्येति विग्रहः । निष्ठा । निष्ठान्तमिति ।क्तक्तवतूनिष्ठे॑ति वक्ष्यति, तदन्तमित्यर्थः । कृतकृत्य इति । कृतं कृत्यं येनेति विग्रहः । उभयोरपि क्रियाशब्दात्वाद्विशेषणत्वे कामचारादन्यतरस्य पूर्वनिपाते प्राप्ते निष्ठान्तस्य पूर्वनिपातः । जातिकालेति ।जातिकालसुखादिभ्योऽनाच्छादनात्क्तः, इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जातिपूर्वस्योदाहरणमाह — सारङ्गजग्धीति सारङ्गः=हरिणः, जग्धः=भक्षितो यया इति विग्रहः ।अस्वाङ्गपूर्वपदाद्वे॑ति ङीष् । कालपूर्वस्योदाहरति — मासजातेति । मासो जातो यस्या इति विग्रहः । टाप् । सुखपूर्वस्योदाहरति — सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति । व्याख्यानमेवात्र शरणम् । कृतकट इति । कृतः कटो येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः ।", "22036": "", "22037": "<<वाऽऽहिताग्न्यादिषु>> - वाऽऽहिताग्न्यादिषु ।निष्ठायाः पूर्वं प्रयोग॑ इति शेषः । आहिताग्निरिति । आहिताः=आधानेन संस्कृता अग्नयो येनेति विप्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति - अस्युद्यत इति । असिः उद्यतो येनेति विग्रहः । सप्तम्या उदाहरति — दण्डपाणिरिति । दण्डः पाणौ यस्येति विग्रहः ।निष्ठे॑त्यस्य 'सप्तमीविशेषणे' इत्यस्य चा.डयमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः=कोशान्निष्कासितोऽसिर्येनेति विग्रहः । एवंजातीयान्याहिताग्न्यादित्वकल्पनया समाधेयानीत्याहुः । *****इति बालमनोरमायां बहुव्रीहिसमासः*****अथ भावकर्मप्रक्रिया ।अथ भावकर्मतिङ्प्रकरणं निरूप्यते ।लः कर्मणी॑त्यत्र सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च, अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिताः । तेषु कर्तरि लकारा निरूपिताः । अथेदानीं भावकर्मणोर्लकारा निरूप्यन्ते इति प्रतिजानीते — अथेति । 'निरूप्यन्ते' इति शेषः । तत्रशेषात्कर्तरि परस्मैपदम्,॒अनुपराभ्यां कृञः॑ इत्यादिपरस्मैपदविधिषु प्राप्तेष्वाह — भावकर्मणोरिति तङिति ।", "22038": "", "23001": "<<अनभिहिते>> - अनभिहिते । इत्यधिकृत्येति । द्वितीयादि वक्ष्यत इत्यर्थः ।", "23002": "<<कर्मणि द्वितीया>> - कर्मणि द्वितीया । 'अनभिहिते' इत्यनुवृत्तं व्याचष्टे — अनुक्ते इति । हरिं भजतीति । तुष्टनुकूलपरिचरणात्मकव्यापारो भजेरर्थः । पूजादिव्यापारेण हरि #ं तोषयतीत्यर्थः । कर्तृनिष्ठपूजनादिव्यापारप्रयोज्यतुष्टिरूपफलाश्रयत्वाद्धरिः कर्म । हरिनिष्ठतुष्टनुकूल एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः ।बावप्रधानमाख्यात॑मिति निरुक्तकारयास्कवचनात् । क्रियाप्रधानं तिङन्तमिति तदर्थः । एवं च हरिनिष्ठतुष्टनुकूलव्यापाराश्रयो देवदत्त इति प्रथमान्तविशेष्यकबोधस्तार्किकसंमतो नादर्तव्य इति मञ्जूषादौ प्रपञ्चितम् । अबिहिते त्विति । 'हरिः सेवय्ते' इत्यादा॑विति शेषः । प्रथमैवेति । तद्विधावनभिहिताधिकाराऽभावात्अबिहिते प्रथमे॑ति वार्तिकाच्चाति भावः । अत्र भाष्येकटं करोति भीष्ममुदारं दर्शनीयं शोभन॑मित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोतीत्याशङ्क्यतिङ्कृत्तद्धितसमासैरबिधान॑मिति परिगणितम् । तत्रप्रायेणे॑त्यध्याह्मत्याह — अभिधानं चेति ।समासै॑रित्यनन्तरंविवक्षित॑मिति शेषः । तिङिति । अविभक्तिकनिर्देशोऽयं तिङभिधानप्रधर्शनाय । हरिः सेव्यत इति ।लः कर्मणी॑ति कर्मणि॑ लकारः । 'भावकर्मणोः' इत्यात्मनेपदम् । तिङन्तेनाऽभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः । हरिं भजतीति वाक्यार्थः । कर्तृकर्मलकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः । कृदिति । तिङितिवदयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । लक्ष्म्या सेवित इति ।हरि॑रिति शेषः । भूते कर्मणि क्तः , कर्तरि तृतीया । लक्ष्मीनिष्ठपरिचरणजनिततुष्टआश्रयो हरिरिति बोधः । सत्त्वप्रधानानि नामानीति यास्कस्मृतिमनुरुध्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यक बोधस्यैव सर्वसंमतत्वात् । अत्र सेवितहरेः कर्मणः कृता अभिहितत्वान्न द्वितीया । तद्धितेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । शत्य #इति । पटादिरिति शेषः । 'शताच्च ठन्यतावशते' इति यत्प्रत्ययस्तद्धितः । अत्र कर्मणस्तद्धितेनोक्तत्वान्न द्वितीया । समासेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । प्राप्तानन्द इति । देवदत्तादिरिति शेषः ।गत्यर्थाकर्मके॑त्यादिना प्राप्तेति कर्तरि क्तः । अन्यपदार्थस्य कर्मणो बहुव्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः । आनन्दकर्तृकप्राप्तिकर्मीभूत इति बोधः ।प्रायेणे॑त्यस्य फलं दर्शयति-क्वचिदिति ।विषवृक्षो ।पी॑तिअसाम्प्रत॑मित्यत्रान्वेति ।संबध्र्ये॑त्यत्रछेत्तु॑मित्यत्र चान्वये द्वितीयापत्तेः । तत्रत्वर्थाद्विषवृक्षमिति गम्यते । न सांप्रतमिति विग्रहे नञ्तत्पुरुषः । युज्यत इत्यर्थ इति । युजिर्योगे कर्मणि लकारः । औचित्या न युज्यते । औचित्ययुक्तो न भवतीति यावत् ।युक्ते द्वे साम्प्रतं स्थाने॑ इत्यमरः । अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेति भावः । वस्तुतस्तुछेत्तु॑मिति तुमुन्नत्र दुर्लभः ।कृष्णं द्रष्टुं याती॑त्यत्रेव क्रियार्थक्रियोपपदत्वाऽभावेनतुमुन्ण्बुलौ क्रियायां क्रियार्थाया॑मित्यस्याऽप्रवृत्तेः ।शकधृषे॑त्यादिनापि तुमुन्न, शकादियोगाऽभावात् । किंतु 'इच्छार्थेषु' इत्यनुवृत्तौसमानकर्तृकेषुतुमुन्, इति तुमुन् । अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तेः । यथाइच्छति भोक्तु॑मित्यादि । एवंच तुमुनः साधुत्वाय इष्यत इत्यध्याहार्यम् । विषवृक्षोऽपि संबध्र्य छेत्तुमिष्यत इति यत्तदसांप्रतम्ायुक्तमित्यर्थः । एवं चात्रापि तिङाभिहितत्वादेव द्वितीयानिवारणात्तिङ्कृद्धितसमासैरभिधानमिति परिगणनवार्तिकेप्रायेणे॑त्यध्याहारो विफल इति शब्देन्दुशेखरे स्थितम् । पक्वमोदनं भुङ्क्त इत्यत्र तु पचिभुजिक्रियानिरूपिते द्वे कर्मत्वशक्ती । तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्ययाभिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामनभिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाष्ये स्पष्टम् । ननु यथाबहुपटु॑रित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात्कल्पबादयो न भवन्ति तथा 'क्रियते कट' इत्यादावपि तिङादिभिरुक्तत्वाद्द्वितीयादयो न भविष्यन्ति,उक्तार्थानामप्रयोगः॑ इति न्यायात् । किंचकटं करोती॑त्यादौ सावकाशा द्वितीया 'कृतः कटः' इत्यादौ न भवत्येव, अनवकाशया प्रथमया बाधात् । नच वृक्षः प्लक्ष इत्यादिः प्रथमाया अवकाश इति वाच्यं, तत्र गम्यमस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अस्तु वा तत्र प्रथमाया अवकाशः, तथाप्युभयोः सावकाशत्वे परत्वात्प्रथमैव स्यात् । एवं चानभिहीताधिकारो व्यर्थ इति चेत्, मैवम्-॒कर्मणि द्विताये॑त्यादीनांद्व्येकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मित्यनयोश्चएकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते । तत्रअनभिहिते॑इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थः स्यात् ।अनभिहिते॑इत्यभावे तु कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्येव पर्यवस्येत् । तथा सति 'कृतः कट' इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया द्वितीयैकवचनं दुर्वारं स्यात् । न च प्रथमाया निरवकाशत्वं शङ्क्यं, नीलमिदं नतु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यकेऽस्तिक्रियाया अनावश्यकत्वेन तत्र प्रथमायाः सावकाशत्वात् । नापि तत्र परत्वात्प्रथमैव भविष्यतीति वाच्यं, 'कर्तव्यः कटः' इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् । एवं च संख्या विभक्त्यर्थ॑ इत्याश्रीयते, तदा कारकस्य क्तप्रत्ययादिनोक्तत्वान्न द्वितीयादिविभक्तिप्रसक्तिः । एकत्वादिसङ्ख्याबोधश्च प्रातिपदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति । अतः 'अनभिहिते' इति नारब्धव्यमिति भाष्यकैयटकौस्तुभादिषु स्पष्टम् । अतिविस्तरस्तु मञ्जूषायामनुसन्धेयः ।", "23003": "", "23004": "<<अन्तराऽन्तरेणयुक्ते>> - अन्तरान्तरेणयुक्ते । 'अन्तरा' इत्याकारान्तमव्ययं, नतु टाबन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तमिति भाष्ये स्थितम् । अन्तरा त्वां मां हरिरिति । तव च मम च मध्ये हरिरित्यर्थः । 'अन्तरा मध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुखं नास्तीत्यर्थः ।पृथिग्विनान्तरेणर्ते हिरुङ्नाना वर्जने इत्यमरः ।किमनयोरन्तरेण गतेने॑त्यत्र तु अन्तरशब्दो विशेषवाची । अनयोर्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाऽभावान्न तद्योगे द्वितीया । नचैवं सतिहलोऽनन्तराः संयोगः॑ इत्यत्र द्वयोश्चैवान्तरा कश्चि॑दिति भाष्यप्रयोगः कथमिति शङ्क्यम्, मध्यत्वनिमित्तमवधित्वं हि ययोर्निर्णीतं तत्र द्वितीया । ययोस्तु न तन्निर्णयस्तत्र संबन्धसामान्ये षष्ठएव भवति युक्तग्रहणादिति कैयटः ।", "23005": "<<कालाध्वनोरत्यन्तसंयोगे>> - कालाध्वनोः । इहेति । कालाध्वनोरत्यन्तसंयोगे इत्यर्थः । निरन्तरसंयोगः=अत्यन्तसंयोगः । अन्तो विच्छेदः, तमतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चेति विग्रहः । गुणक्रियाद्रव्यैरित्यौचित्याद्गम्यते । गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः । सा च कालाध्वभ्यामेव भवति, श्रुतत्वात् । तत्र गुणात्यन्तसंयोगे उदाहरति — मासं कल्याणीति ।भवती॑ति शेषः । तिंरशद्दिनात्मको मासः । तस्मिन्नविच्छिन्नमङ्गलवानित्यर्थः । क्रियात्यन्तसंयोगे उदाहरति — मासमधीते इति । तिंरशद्दिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः । द्रिव्यात्यन्तसंयोगे उदाहरति — मासं गुडधाना इति । मासे प्रतिदिनं निरन्तरं गुडधानाः सन्तीत्यर्थः । कालात्यन्तसंयोगमुदाहृत्य अध्वात्यन्तसंयोगे उदाहरति — क्रोशं कुटिलेत्यादि । मासस्य द्विरिति । मासे तिंरशद्दिनात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारमित्येव द्विरधीत इत्यर्थः ।द्वित्रिचतुभ्र्यः सुच् इति द्विशब्दात्कृत्वोऽर्थे सुच् ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑ इति षष्ठी । शेषषष्ठीति केचित् ।शिवरात्रौ जागृयात् इत्यत्र त्वधिकरणत्वस्य विवक्षितत्वात्सप्तमीत्याह#उ#ः । उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तेरिति तदाशयः । इति द्वितीया ।", "23006": "<<अपवर्गे तृतीया>> - अपवर्गे तृतीया । अपवर्द समाप्तिः,कर्मापवर्गे लौकिका अग्नयः॑ इत्यादौ दर्शनात् । इह तु फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः । तदाह-अपवर्गः फलप्राप्तिरिति । कालाध्वनोरिति । अनेन 'कालाध्वनोः' इति द्वितीयाय अयमपवाद इति सूचितम् । अह्नेति । अह्नि कोशे वा निरन्तरमनुवाकोऽध्ययनेन गृहीत इत्यर्थः । नायात #इति । न गृहीत इत्यर्थः ।", "23007": "<<सप्तमीपञ्चम्यौ कारकमध्ये>> - सप्तमीपञ्चम्यौ । कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कत्र्रादिपरः, व्याख्यानात् । मध्यस्यावधिद्वयसापेक्षत्वात्कारकयोर्मध्यमिति विग्रहः । तदाह — शक्तिद्वयमध्ये इति । 'कालाध्वनोः' इत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यत इत्याह — यौ कालाध्वानाविति । अद्य भुक्त्वेति । सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम् । अद्य भुक्त्वा द्व्यहे अतीते तत्समीपे तृतीयेऽह्नि भोक्तेत्यर्थः । भविष्यति लुट् । कर्तृशक्त्योरिति । अद्यतनभुजिक्रियानिरूपितकर्तृत्वस्य, द्व्यहोत्तरदिनगतभुजिक्रियागिरूपितकर्तृत्वस्य चेत्यर्थः । कारकशब्दस्य कत्र्रादिपरत्वे त्विह न स्यात्, क्त्वाप्रत्ययस्य कत्र्रेकत्वे विधानात् । कर्तृशक्तिस्तु भुजिक्रियाभेदाद्भिद्यत एव । कारकद्वयमध्येऽप्युदाहरति — इहस्थोऽयमिति । इहापि देशतः सामीपिकमधिकरत्वं पञ्चमीसप्तम्योरर्थः । इहतिष्ठन्नयमिष्वास इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्येदित्यर्थः । कर्तृकर्मशक्त्योरिति । कर्तृत्वकर्मत्वरूपशक्त्योर्मध्य इत्यर्थः । कारकशब्दस्य कत्र्रादिपरत्वे त्विहैव स्यात् । अद्य भुक्त्वायमित्यत्र न स्यादिति सूचयितुमिदमष्युदाहृतम् । ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसंबन्धे शेषषष्ठएवोचितेत्याशङ्क्याह — अधिकशब्देनेति । लोके लोकाद्वेति । अवधित्वसंबन्धः सप्तमीपञ्चम्योरर्थः । लोकापेक्षया श्रेष्ठ इत्यर्थः ।", "23008": "<<कर्मप्रवचनीययुक्ते द्वितीया>> - कर्मप्रवचनीय । युक्ते इति भावे क्तः । तदाह — एतेन योगे इति जपमन्विति । कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्यः, स च दुज्र्ञानत्वात्शाखाग्रं प्रति द्विकलश्चन्द्र॑ इतिवत्प्रज्ञानं किंचिदवलम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति संभवति । हेतुभूतजपो ह्यत्र लक्षणम् । हेतुत्वं च पूर्वकालवृत्तित्वघटितम् । एवंच वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्त्वं चेति द्वयं द्वितीयार्थः । तदुभयमनुना द्योत्यते । लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम् । जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिज्र्ञाप्यते । ततस्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह — हेतुभूतेति । अनभिहिताधिकारान्न पर्जन्यात्तृतीया, तस्य तिङा अभिहितत्वात् । ननु हेतुत्वाऽविवक्षायांवृक्षमनु विद्योतते विद्यु॑दित्यत्रअनुर्लक्षणे॑इत्यत्र तदनुपादानात् । एवंच हेतुत्वाऽविवक्षायांवक्षमनु विद्योतते विद्यु॑दित्यत्र 'अनुर्लक्षणे' इति सावकाशम् । 'हेतौ' इति तृतीया तुधनेन कुल॑मित्यादौ सावकाशा ।पर्जन्यो जपमनु प्रावर्ष॑दित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वाद्धेतुतृतीयैव स्यादित्यत आह — परापीति । 'अनुर्लक्षणे' #इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनः संज्ञेति ।वृक्षमनु विद्योतते विद्यु॑ दित्यत्र हि 'अनुर्लक्षणे' इत्यस्य न प्रयोजनम्,लक्षणेत्थ॑मित्येव सिद्धेः । ततश्च 'अनुर्लक्षणे' इत्यारम्भसामर्थ्याद्धेतुभूते लक्षणेऽनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौतृतीया बाध्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति ।", "23009": "<<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> - यस्मादधिकम् ।कर्मप्रवचनीययुक्ते॑ इत्यनुवर्तते । तदाह — अत्र कर्मप्रवचनीयेति । शेषषष्ठपवादः । उप पराध इति । अवधित्वं सप्तम्यर्थः । तदाह — परार्धादधिका इत्यर्थ इति । यस्मादधिकं संख्यान्तरं न विद्यते तत्परार्धम् । तदपेक्षयेत्यर्थः । 'उपोऽधिके च' इति उपेत्यस्य कर्मप्रवचनीयत्वस्येदं फलम् । यस्येआरवचनमित्यस्य यत्सम्बन्धी ईस्वर उच्यते तत सप्तमीत्येकोऽर्थः । इह यच्छब्देन स्वमुच्यते । #एवंच स्ववाचकात्सप्तमीति लभ्यते । ईआरशब्दो भावप्रधानः । यस्येआरत्वमुच्यते ततः सप्तमीत्यन्योऽर्थः । यन्निष्ठमीआरत्वमुच्यते ततः सप्तमीति यावत् । स्वामिवाचकात्सप्तमीति लभ्यते । तदाह — ऐआर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमीति । अधि भुवि राम इति । अधिरीश्वरपर्यायः । संबन्धः सप्तम्यर्थः । भुवः स्वामी राम इत्यर्थः । अत्र स्ववाचकात्सप्तमी । अधि रामे भूरिति । अत्र अधिः स्वशब्दपर्यायः । सम्बन्धः सप्तम्यर्थः । रामस्य स्वभूता भूरित्यर्थः । अत्र स्वामिवाचकात्सप्तमी । समासपक्षे त्विति । शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाऽधिशब्देन रामे इति सप्तम्यन्तस्य समासे सति 'सुपो धातु' इति सुब्लुकि रामाधिशब्दात्अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः॑ इति खप्रत्यये 'आयनेयीनीयियः' इति तस्य ईनादेशे रामाधीना भूरिति सिध्यति । रामस्वामिकेत्यर्थः । विभक्त्यर्थे अव्ययीभावे त्वधिरामं भूः । रामाधिकरणिका भूरित्यर्थः । खप्रत्ययस्तु न, अध्युत्तरपदत्वाऽभावात् ।", "23010": "<<पञ्चमी अपाङ्परिभिः>> - पञ्चम्यपाङ्परिभिः । एतैरिति । अप आङ् परि-इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति ।कर्मप्रवचनीययुक्ते॑ इत्यतस्तदनुवृत्तेरिति भावः । अप हरेः परि हरेः संसार इति । अपहरेः संसारः, परिहरेः संसार इत्यन्वयः । हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननुवृक्षं प्रति विद्योतते॑, 'भक्तो हरिं प्रति' इत्यादौलक्षणेत्थंभूते॑ति कर्मप्रवचनीयत्वात्कर्मप्रवचनीययुक्ते द्वितीया॑ इति द्वितीयां परत्वादपवादत्वाच्च बाधित्वापञ्चम्यपाङ्परिभि॑रिति पञ्चमी स्यादित्यत आह — परिरत्रेति 'पञ्चम्यपाङ्परिभिः' इत्यत्र वर्जनार्थकेनाऽपेन साहचर्यात् परिरपि वर्जनार्थकं एव गृह्रत इत्यर्थः । आ मुक्तेरिति । मुक्तेः प्रागिति यावत् । आ सकलादिति । ब्राहृ सकलमभिव्याप्य वर्तत इत्यर्थः ।", "23011": "", "23012": "<<गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि>> - गत्यर्थ । शारीरपरिस्पन्दः-चेष्टा । मनसेति । अत्र शारीरचेष्टाया अभावान्न द्वितीयाचतुथ्र्यौ, किन्तु द्वितीयैवेति भावः ।आस्थितप्रतिषेधो वक्तव्यः॑ इति वार्तिकमर्थतः सङ्गृह्णाति-गन्त्राऽधिष्ठिते इति । गन्त्राक्रान्ते अध्वन्येव अनध्वनीत्ययं निषेध इत्यर्थः । यथा-पन्थानं गच्छतीति । पन्थानं प्राप्नोतीत्यर्थः । अत्र पथः प्राप्त्याश्रयत्वेन गन्त्राधिष्ठित्वान्निषेधः । अस्य वार्तिकस्य प्रयोजनमाह-यदा त्विति । उत्पथादिति । अमार्गादित्यर्थः । ल्यब्लोपे पञ्चमी । उज्जयिनीं प्राप्तुं प्रस्थितो मोहात्तन्मार्गात्प्रच्युतो मार्गान्तरं प्रविष्टः । तं परित्यज्य पुनरुज्जयिनीमार्ग आक्रमितुमिष्यते, तदाऽनध्वनीति निषेधाऽभावाच्चतुथ्र्यपि भवत्येवेत्यर्थः । तादृशं लक्ष्यं दर्शयति — उत्पथेन पथे गच्छतीति ।उत्पथेने॑त्यनन्तरं 'गन्तुमशक्त' इति शेषः । उत्पथेन उज्जयिनीं प्राप्तुमशक्त उत्पथं परित्यज्य उज्जयिनीमार्गं प्रवेष्टुं तदीयं मार्गमनुसरतीत्यर्थः । अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाऽभावादनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः । इति चतुर्थी ।", "23013": "<<चतुर्थी सम्प्रदाने>> - चतुर्थी सम्प्रदाने । विप्रायेति । विप्रमुद्दिश्य गां ददातीत्यर्थः । अनभिहित इत्येवेति । अनुवर्तत एवेत्यर्थः । दानीयो विप्र इति । दानोद्देश्य इत्यर्थः ।कृत्यल्युटो बहुल॑मिति बहुलग्रहणात्संप्रदानेऽनीयर् । तेन कृता संप्रदानस्य विप्रस्याऽभिहितत्वान्न चतुर्थीति भावः । ननु दानक्रियाकर्मोद्देश्यस्यैव संप्रदानत्वे 'पत्ये शेते' इत्यत्र अकर्मकशयनक्रियोद्देश्यस्य पत्युः कथं संप्रदानत्वमित्याशङ्कायांक्रियाग्रहणमपि कर्तव्य॑मिति वार्तिकं प्रवृत्तम् ।तदेतदर्थतः सङ्गृह्णाति-क्रियया यमिति । क्रियोद्देश्यमपि संप्रदानमिति यावत् । पत्ये शेते इति । पति मुद्दिश्य शेते इत्यर्थः॥ नन्वेवमपि ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गः । न च कर्मसंज्ञाविधिवैयथ्र्यं शङ्क्यम्, अत एव तत्र कर्मत्वसंप्रदानत्वयोर्विकल्पोपपत्तेरिति चेन्न, 'पत्ये शेते' इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः सकर्मकस्थले कर्मसंज्ञया बाओधात् । तथाच अकर्मकक्रियोद्देश्यमपि संप्रदानमिति फलतीति भावः । कर्मणः करण संज्ञेत्यादि । वार्तिकमिदम् ।एकस्मिन्वाक्ये कर्मणः संप्रदानस्य च समवाये सती॑ति शेषः । यजधातुविषयमेवेदमित्यभिप्रेत्योदाहरति — पशुना रुद्रं यजत इति । अत्र यजधातुर्दानार्थक इत्यभिप्रेत्याह — ददातीत्यर्थ इति । इदं वार्तिकं छान्दसमेवेति कैयटः ।", "23014": "<<क्रियार्थोपपदस्य च कर्मणि स्थानिनः>> - क्रियार्थ । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था ।क्रिये॑ति विशेष्यमध्याहार्यम् । क्रियाफलकक्रियावाचकमिति यावत् । क्रियार्था क्रिया उपपदं यस्येति विग्रहः । तुमुनो विशेषणमेतत् । उपोच्चारितं पदम्-उपपदम् । 'स्थानिन' इत्यपि तद्विशेषणम् । स्थानं प्रसक्तिरस्यास्तीति स्थानी, तस्येति विग्रहः । अप्रयुज्यमानस्येति यावत् । तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम् ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते । तदाह — क्रियार्था क्रियेति । 'स्थानिन' इत्यस्य व्याख्यानम्-अप्रयुज्यमानस्येति ।फलेभ्यो याती॑त्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह — फलान्याहर्तुमिति । इह फलाहरणक्रियार्था यानक्रिया, तद्वाचने उपपदे आहर्तुमित्यध्याहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वाच्चतुर्थी द्वितीयापवादः । नच तादथ्र्यचतुथ्र्या गतार्थता शङ्क्या, नहि यानक्रिया फलार्था, किन्तु फलकर्मकाहरणक्रियार्थैव, अतो न फलेभ्यस्तादथ्र्यचतुर्थीप्रसक्तिः । एवं च फलकर्मकाहरणक्रियार्था यानक्रियेति बोधः । उदाहरणान्तरमाह — नमस्कुर्म इति । तुमुन्नन्तार्थाध्याहारं दर्शयति — नृसिंहमनुकूलयितुमिति । नचात्रनमःस्वस्ती॑त्येव चतुर्थी सिद्धेति वाच्यम्,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति द्वितीयापत्तेः । एतत्सूचनार्थमेवेदमुदाहरणान्तरं दर्शितम् ।", "23015": "<<तुमर्थाच्च भाववचनात्>> - तुमर्थाच्च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति सूत्रम् । क्रियार्थानां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलौ स्तः । भोक्तुं व्रजति, भोजको व्रजति । भविष्यद्भुजिक्रियार्थो व्रजतिरत्रोपपदम् । अस्य तुमुनोऽर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः=क्रिया । उच्यते अनेनेति वचनः, भावस्य वचनो भाववचनः, तस्मादिति विग्रहः । क्रियावाचिन इति यावत् ।प्रत्यया॑दिति शेषः । तत्र 'अव्ययकृतो भावे' इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहणार्थमित्याह — भाववचनाश्चेति ।भावे॑इत्यधिकृत्य ये घञादिप्रत्यया विहितास्ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः ।यागाय याती॑त्याद्युदाहरणम् । #एवं च क्रियार्थक्रियोपपदत्वलाभार्थं तुमर्थादिति विशेषणम् । अत्र तादथ्र्यस्य तुमुनेव घञा द्योतितत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन तादथ्र्यचतुथ्र्या अप्राप्तौ प्रथमायाः प्राप्ताविदं वचनम् । तुमर्थादिति किम् । पाकः त्याद इत्यादौ घञो भावे इत्यधिकारस्थत्वेऽपि न चतुर्थी । क्रियार्थक्रियोपपदत्वाऽभावेन तुमर्थकत्वाऽभावात् । भ#आववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । 'तुमुन्ण्वुलौ' इति ण्वुल् । तस्य तुमर्थकत्वेऽपि 'भावे' इत्यधिकारे विध्यभावान्न चतुर्थी । तादथ्र्यस्य ण्वुलैवोक्तत्वान्न तादथ्र्यचतुर्थी, किंतु प्रथमैव ।", "23016": "<<नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च>> - नमःस्वस्ति । युज्यत इति योगः । कर्मणि घञ् । 'नमस्' इत्यादिभिर्युक्तादित्यर्थः । फलितमाह — एभिर्योगे इति । न च तादथ्र्यचतुथ्र्या गतार्थत्वं शङ्क्यं, तादथ्र्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थत्वात् । तादथ्र्यं हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानं तदा षष्ठी, यतागुरोरिदं गुर्वर्थ॑मिति भाष्ये स्पष्टम् । एवंच नमःस्वस्त्यादियोगे तादथ्र्यस्य शेषत्वविक्षायामपि चतुर्थ्येवेत्येतदर्थमिदं सूत्रम् । ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह — उपपदविभक्तेरिति । पदान्तरयोगनिमित्तिका विभक्तिः-उपपदविभक्ति, तदपेक्षया कारकविभक्तिर्बलीयसीत्यर्थः ।अन्तरान्तरेणे॑ति सूत्रे भाष्ये पठितमिदं वचनम् । तच्च न्यायसिद्धम् । क्रियाकारकयोर्हि सम्बन्धः-अन्तरङ्गः । उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः । अन्ये तूपपदविभक्त्या सम्बन्धसामान्यमवगम्यते, विशेषावगमस्तु प्रकरणादिपर्यालोचनया लभ्यः । कारकविभक्त्या तु कर्मत्वादिसम्बन्धविशेषो झटित्येवावगम्यत इति सा बलीयसीत्याहुः । नमस्करोति देवानिति । कारशिरःसंयोगादिना तोषयतीत्यर्थः । करशिरःसंयोगादिमात्रार्थत्वेऽकर्मकत्वापातात् । प्रजाभ्यः स्वस्तीति । प्रजासम्बन्धि कुशलमित्यर्थः । अग्नये स्वाहेति । अग्न्युद्देश्यकं द्रव्यदानमित्यर्थः । पितृभ्यः स्वधेति । पित्तुद्देश्यकं द्रव्यदानमित्यर्थः । स्वं रूपं शब्दस्य॑ इति अलशब्दस्यैव ग्रहणे 'कुमारीणामलङ्कार' इत्यत्रातिव्याप्तिः । किंच दैत्येभ्यो हरिरलमित्यत्रैव स्यात्,दैत्येभ्यो हरिः प्रभु॑रित्यादौ न स्यादित्यत आह — अलमितीति । वार्तिकमेतत् । अलमित्यनेन पर्याप्त्यर्थकशब्दानां ग्रहणमित्यर्थः । तेनेति । पर्याप्त्यर्थग्रहणेनेत्यर्थः । इत्यादीति । आदिना 'कुमारीणामलङ्कार' इत्यत्रातिव्याप्तिनिराससङ्ग्रहः । ननुप्रभुर्बुभूषुर्भुवनत्रयस्ये॑त्यादौ कथं षष्ठीत्यत आह — प्रभ्वादियोगे षष्ठीति । कुत इत्यत आह — स एषां ग्रामणारात निर्देशादिति । नन्वेवं सतिदैत्येभ्यः प्रभु॑रिति चतुर्थी न स्यात् । अलंशब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह — तस्मै प्रभवतीति । वषडिन्द्रायेति । इन्द्रोद्देश्यकं हविर्दानमित्यर्थः । ननु स्वस्ति गोभ्यो भूयादित्याशीर्वाक्ये चतुर्थ्येवेष्यते । तत्रचतुर्थी॑चाशिष्यायुष्ये॑त्यादिना परत्वात्पक्षे षष्ठीप्रसङ्गः इत्यत आह — चकारः पुनर्विधानार्थ इति । तेनेति । पुनर्विधानसामर्थ्येनेत्यर्थः ।", "23017": "<<मन्यकर्मण्यनादरे विभाषाऽप्राणिषु>> - मन्यकर्मणि ।अप्राणिष्वि॑ति च्छेदः । 'मन ज्ञाने' दिवादिः, श्यन्विकरणः, 'मनु अवबोधने' तनादिरिविकरणः । तत्र मन्येति श्यना निर्देशाद्दैवादिकस्य ग्रहणमित्याह-मन्यतेरिति । कर्मणीति । अतो द्वितीयां बाधित्वा पक्षे चतुर्थीति सूचितम् । तिरस्कारे इति । 'अनादारे' इत्यस्य व्याख्यानमेतत् ।अनादरः परिभवः परीभावस्तिरस्क्रिया॑ इत्यमरः । न त्वां तृणमिति । हे देवदत्त त्वां तृणत्वेनापि न मन्ये इत्यर्थः । नञुपादानादयमर्थो लभ्यते । तृणाद्पयधमत्वप्रतीतेस्तिरस्कारातिशयः फलितः ।तृणं त्वां मन्ये तृणाय वे॑त्युक्तौ तु तृणसाम्यमेव प्रतीयेत । न तु ततोऽप्यपकृष्टत्वम् । एतदेवाभिप्रेत्य भाष्येऽपि नञुपात्तः । न च मन्यकर्मत्वाऽविशेषात्त्वमिति युष्मच्छब्दादपि चतुर्थी शङ्क्या, अनादरद्योतके कर्मणीत्यर्थस्य विवक्षितत्वात् । तृणमेव ह्यत्रानादरद्योतकं, न तु युष्मदर्थः । श्यनेति । तानादिकमनुधातुकर्मणि द्वितीयैव, नतु पक्षे चतुर्थीति भावः । न त्वां तृणं मन्वे इति । मनुधातोरुविकरणस्य लडुत्तमपुरुषैकवचनम् । ननुन त्वां नावमन्नं मन्ये॑ इत्यत्रापि चतुर्थीविकल्पः स्यादित्यतिव्याप्तिः,न त्वां शुने मन्ये॑ इत्यादौ तु प्राणित्वाच्चतुर्थीविकल्पो न स्यादित्यव्याप्तिः , कर्मणः प्राणित्वादित्यत आह — अप्राणिष्वित्यपनीयेति । न त्वां नावं मन्ये इति । जीर्णां नावं प्रति वाक्यमेतत् । न त्वामन्नं मन्ये इत्यप्युदाहार्यम् । कुत्सितमन्नं प्रति वाक्यमेतत् । उभयत्राप्यप्राणित्वेऽपि न चतुर्थीविकल्पः, किंतु द्वितीयैवेति भावः । न त्वां शुने मन्ये इति । हे देवदत्त । त्वां आत्वेनापि न मन्ये इत्यर्थः । न त्वां काकं मन्ये, न त्वां शुकं मन्ये, न त्वां सृगालं मन्ये इत्यप्युदाहार्यम् । एषु प्राणित्वेऽपि न चतुर्थीविकल्प इति भावः ।", "23018": "<<कर्तृकरणयोस्तृतीया>> - कर्तृकरणयोस्तृतीया । 'अनभिहिते' इत्यदिकारादाह-अनभिहित इति । रामेणेति । रामकर्तृकबाणकरणकहिंसाक्रियाविषयो वालीत्यर्थः । प्रकृत्यादिभ्य उपसंख्यानमिति । 'तृतीयाया' इति शेषः । उपपदविभक्तिरियम् । यथायोगं सर्वविभक्त्यपवादः । प्रकृत्या चारुरिति । संबन्धस्तृतीयार्थः । प्रकृतिः=स्वभावः, तत्संबन्धिचारुत्ववानित्यर्थः । यदा तु स्वभावेनैवाऽयमभिरूपो न त्वलङ्कारादिनेति करणान्तरव्युदासाय प्रकृतेः करणत्वं विवक्ष्यते तदाकर्तृकरणयो॑रित्येव सिद्धमिति भाष्यम् । प्रायेण याज्ञिक इति । प्रायशब्दो बहुलवाची । बहुलाचारसंबन्धियाज्ञिकत्ववानित्यर्थः । संबन्धश्च ज्ञाप्यज्ञापकभावः । बहुलेन आचारेण हेतुना ज्ञाप्ययाज्ञिकत्ववानित्यर्थे तु इत्थंभूतलक्षणे॑ इत्येव सिद्धम् । बहुलेन आचारेम संपन्नयाज्ञिकत्ववानित्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । गोत्रेण गाग्र्य इति । गोत्रमस्य गाग्र्य इत्यर्थः । अत्र प्रथमा प्राप्ता । गोत्रेण हेतुना ज्ञाप्यगाग्र्यत्ववानित्यर्थे तु इत्थभूतलक्षणे॑ इत्येव सिद्धमिति भाष्यम् । समेनैति विषमेणैतीति । क्रियाविशेषणमेतत् । समं विषमं च गमनं करोतीत्यर्थः । कर्मणि द्वितीया प्राप्ता । समेन विषमेण वा पथा एतीत्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । द्विद्रोणेनेति । द्वयोद्र्रोणयोः समाहारो द्विद्रोणम् । पात्रादित्वान्न स्त्रीत्वम् । द्विद्रोणसंबन्धि धान्यमित्यर्थः । षष्ठी प्राप्ता । द्विद्रोणपरिमितधान्यमूल्यं हिरण्यं द्विद्रोणं, तेन क्रीणातीत्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । सुखेनेति । सुखजनकं यानं करोतीत्यर्थः । क्रियाविशेषणम् । द्वितीया प्राप्ता । इत्यादीति ।नाम्नासुदीक्ष्णः॑ । नामसंबन्धिसुतीक्ष्णत्ववानित्यर्थः । नामज्ञाप्यसुतीक्ष्णत्ववानित्यर्थे तु 'इत्थंभूतलक्षणे' इत्येव सिद्धम् ।धान्येन धनवा॑नित्यत्र तु अभेदस्तृतीयार्थः । नामज्ञाप्यसुतीक्ष्णत्ववानित्यर्थे तु 'इत्थंभूतलक्षमे' इत्येव सिद्धम् ।धान्येन धनवा॑नित्यत्र तु अबेदस्तृतीयार्थः । धान्याऽभिन्नधनवानित्यर्थः ।बह्नित्वेन वह्न जानामी॑त्यत्र तु प्रकारत्वं तृतीयार्थः । बह्नित्वप्रकारकबह्निज्ञानवानस्मीत्यर्थ इत्याद्यूह्रम् ।", "23019": "<<सहयुक्तेऽप्रधाने>> - सहयुक्ते । 'पृथग्विनानानाभिः' इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणार्थमित्याह — सहार्थेनेति । पुत्रेणेति । पितुरत्रागमनक्रियासंबन्धः शाब्दः, पुत्रस्य तु तत्साहित्यगम्य आर्थिक इति तस्याऽप्राधान्यम् । यद्यप्यागमनक्रियाकर्तृत्वादेव पुत्रात्तृतीया सिद्धा तथापि 'पुत्रेण सह स्थूल' इत्याद्येवास्य मुख्योदाहरणमिति भाष्ये स्पष्टम् । अर्थग्रहणस्य प्रयोजनमाह — एवं साकमिति । ननुपुत्रेणागतः पिते॑त्यत्र सहादिशब्दाऽभावात्कथं तृतीयेत्यत आह — विनापीति । वृद्धो यूना तल्लक्षणश्चेदि॑ति सूत्रे सहादिशब्दाऽभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः ।", "23020": "<<येनाङ्गविकारः>> - येनाङ्गविकारः । अङ्गान्यस्य सन्तीत्यङ्गं=शरीरम् । अर्शाअद्यच् । तस्य विकार इति विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्रविकृतेन अङ्गेन अङ्गिनो विकारः संभवति । तदाह — येनाङ्गेनेत्यादिना । अक्ष्णा काण इति । काणशब्दः काणत्ववति वर्तते । संबन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह — अक्षिसंबन्धीति । संबन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते, तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारो निरूढः । द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः ।", "23021": "<<इत्थंभूतलक्षणे>> - इत्थंभूतलक्षणे । अयं प्रकार इत्थं, तं भूतः=प्राप्तः-इत्थंभूतः । 'भू प्राप्तौ' इति चौरादिकात् 'आधृषाद्वा' इति णिजभावे गत्यर्थाकर्मकेत्यादिना कर्तरि क्तः । लक्षणं=ज्ञापकम् । प्रकारविशेषं प्राप्तस्य ज्ञापके इत्यर्थः । तदाह — कंचित्प्रकारमिति । जटाभिस्तापस इति । तपोऽस्यास्तीति तापसः ।तपस्सहरुआआभ्यां विनीनी॑अण्चे॑ति मत्वर्थीयोऽण्प्रत्ययः । तापसत्ववति वर्तते । लक्ष्यलक्षणभावस्तृतीयार्थः । तदाह — जटाज्ञाप्येति । नच ज्ञाने करणत्वादेव तृतीया सिद्धेति वाच्यं, करणत्वाऽविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थत्वात् ।", "23022": "<<संज्ञोऽन्यतरस्यां कर्मणि>> - संज्ञोऽन्यतरस्यां । संपूर्वस्य ज्ञाधातोरनुकरणात् षष्ठएकवचनं 'संज्ञ' इति, तदाह — संपूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । संजानीते इति । सम्यक् जानीते इत्यर्थः ।संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदम् ।", "23023": "<<हेतौ>> - हेतौ । हेत्वर्थे इति । हेतुरिह कारणपर्यायो लौकिक एव विवक्षितो, न तु तत्प्रयोजको हेतुश्चे॑ति कृत्रिमः, तस्य चकारेण कर्तृसंज्ञाया अपि सत्त्वेन कर्तृतृतीययैव सिद्धेः । ननु हेतोरपि करणत्वादेव तृतीया सिद्धेत्याशङ्क्य हेतुत्वकरणत्वयोर्भेदमाह — द्रव्यादिसाधारणमिति । आदिना गुणक्रियासङ्ग्रहः । द्रव्यं गुणं क्रियां च प्रति यज्जनकं, तत्र सर्वत्र विद्यमानमित्यर्थः । निर्व्यापारसाधारणं चेति । द्वारीभूतव्यापारवति तद्रहिते च विद्यमानं चेत्यर्थः । एवं च द्रव्यगुणक्रियात्मककार्यत्रयनिरूपितं निर्व्यापारसव्यापारवृत्ति च यत्तद्धेतुत्वमिति फलति । करणत्वं त्विति । क्रियाजनकमात्रवृत्ति व्यापारवद्वृत्ति च यत्तदेव करणत्वमित्यर्थः । एवं च हेतुत्वकरणत्वयोर्भेदादन्यतरेण अन्यतरस्य नान्यथासिद्धिरिति भावः । तत्र द्रव्यं प्रति हेतुमुदाहरति — दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । दण्डे व्यापारसत्त्वेऽपि क्रियाजनकत्वाऽभावान्न करणत्वमिति भावः । क्रियां प्रति हेतुमुदाहरति-पुण्येन दृष्टो हरिरिति । वागादिना स्वर्गादिफले जननीये यदवान्तरव्यापारभूतमपूर्वं तत् पुण्यमित्युच्यते । तस्य हरिदर्शनजनकत्वेऽपि निर्व्यापारत्वान्न करणत्वमिति भावः । गुणं प्रति हेतुत्वे तु पुण्येन ब्रह्मवर्चसमित्याद्युदाहार्यम् । नन्वध्ययनेन वसतीत्यत्र कथं तृतीया, अध्ययनस्य गुरुकुलवासं प्रति हेतुत्वाऽभावात्, प्रत्युत अध्ययनस्य वाससाध्यत्वादित्यत आह — फलमपीह हेतुरिति । अध्ययनं यद्यपि वासफलं तथापि वासं प्रति हेतुरपि भवति, इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतया अध्ययनस्य फलस्य स्वज्ञानद्वारा वासजनकत्वात् । यदा त्वध्ययने फले एतादृशं हेतुत्वमविवक्षित्वा अध्ययनार्थमेव वासो विवक्ष्यते, तदा चतुर्थ्येव भवति - अध्ययनाय वसतीति । एतच्च प्रकृतसूत्रे कैयटे स्पष्टम् । ननु अलं श्रमेण इत्यत्र कार्यस्य कस्यचिदप्यश्रवणात्करणत्वहेतुत्वयोरसंभवात्कथं तृतीयेत्यत आह-गम्यमानाऽपीति । न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किं तु गम्यमानाऽपीत्यर्थः । करणतृतीयैवेयमित्यभिप्रेत्याह — अलं श्रमेणेति । ऊषरक्षेत्रं परिष्कुर्वाणं प्रतीदं वाक्यं प्रवृत्तम् । अत्र अलमिति नञर्थे निषेधे वर्तते । अलं भूषणपर्याप्तिशक्तिवारणवाचक॑मित्यमरः ।साध्य॑मित्यध्याहारलभ्यम् । तदाह — श्रमेण साध्यं नास्तीति । सद्यः खेदाधायकत्वात्साधने व्यापृतिरेव श्रम इत्युपचर्यते । नन्वेवमपि साधनीयस्य व्रीह्यादिफलस्य क्रियारूपत्वाऽभावात्कथं श्रमस्य तत्र करणत्वमित्यत आह — इहेति ।स ाध्य॑मित्यत्र प्रकृतिभूतो यो धातुस्तदर्थः साधनक्रिया उत्पत्त्यात्मिका, तां प्रतीत्यर्थः । एतेन श्रमस्य साधनक्रियायाश्चाऽभेद इति निरस्तम्, श्रमशब्देन व्रीह्याद्युत्पत्त्यनुकूलकर्षणादिव्यापारस्य,साधनक्रियां प्रती॑त्यनेन व्रीह्याद्युत्पत्तेश्च विवक्षितत्वात् । गम्यमानापि क्रिया विभक्तौ प्रयोजिके॑त्यत्र उदाहरणान्तरमाह — शतेनेति । वीप्सायां द्विर्वचनम् । एकैकेन शतेन सङ्ख्यया वत्सान्पाययतीति प्रतीयमानार्थः । तत्र वत्सनिष्ठशतसङ्ख्यायाः पायने करणत्वाऽभावात्परिच्छिद्येति गम्यते । एकैकशतसङ्ख्यया वत्सान्परिच्छिद्य तदधिकवत्सेभ्यो व्यावर्त्त्य पाययतीत्यर्थः । तथाच शतसङ्ख्यायाः परिच्छेदं प्रति करणत्वमिति भावः । अशिष्टेति । इदं च दाणश्च सा चेच्चतुर्थ्यर्थे॑ इत्यनेन ज्ञाप्यत इति पदव्यवस्थायां वक्ष्यते । वैदिकमार्गानुयायिनः शिष्टाः, वेदमार्गादपेता अशिष्टाः, तेषां व्यवहारः = आचारः, तस्मिन्विषये दाण्धातोः प्रयोगे सति चतुर्थ्यर्थे संप्रदाने तृतीया वाच्येत्यर्थः । दास्येति । दास्यै कामुकः प्रयच्छतीत्यर्थः । 'कामुक' इत्यनेन रत्यर्थमिति गम्यते । दास्यां रतिर्धर्मशास्त्रनिषिद्धत्वादशिष्टव्यवहार इति भावः । अशिष्टपदप्रयोजनमाह - धर्म्ये त्विति । धर्मादनपेत इत्यर्थः । न तृतीये॑ति शेषः । धर्मपथ्यर्थन्यायादनपेते इति यदिति रत्नाकरः । धर्मे त्विति पाठस्तु सुगम एव । इति तृतीया ।", "23024": "<<अकर्तर्यृणे पञ्चमी>> - अकर्तर्यृणे । 'हेतौ' इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह-कर्तृवर्जितमिति । कर्तृसंज्ञारहितमित्यर्थः । शताद्बद्ध इति । नियमितकाले प्रत्यर्पणाऽभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधर्मणो बद्ध इत्यर्थः । हेतुतृतीयापवादः । शतेन बन्धित इति ।अधर्मण उत्तमर्णेने॑ति शेषः । बन्धेर्हेतुमण्ण्यन्तात्कर्मणि क्तः । अधमर्ण उत्तमर्णेन बद्ध इत्यण्यन्तस्यार्थः । शतेन ऋणेन प्रयोजककत्र्रा उत्तमर्णेन प्रयोज्यकत्र्रा बन्धनं कारितोऽधमर्ण इति ण्यन्तस्यार्थः । अत्र शतमृणं प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञे च,तत्प्रयोजको हेतुश्चे॑त्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वाऽपवादत्वात्पञ्चमी स्यात्, अतोऽकर्तरीत्युक्तमिति भावः । शतस्य हेतुत्वेऽपि कर्तृत्वान्न ततः पञचमीति भावः ।", "23025": "<<विभाषा गुणेऽस्त्रियाम्>> - विभाषा । हेतावित्यनुवर्तते । तदाह — गुणे हेतावस्त्रीलिङ्गे इति ।विद्यमाना॑दिति शेषः । जाडआदिति । जडस्य भावो जाडम् ।गुणवचनब्राआहृणादिभ्यः कर्मणि चे॑ति ष्यञ् । ननु धूमादग्निमानित्यादौ कथं पञ्चमी, धूमादेरगुणत्वादित्यत आह — योगविभागादिति । 'विभाषा' इति योगो विभज्यते । हेतावित्यनुवर्तते, पञ्चमीति च । हेतौ पञ्चमी वा स्यादिस्यर्थः । ततश्च धूमादग्निमानित्यादि सिद्धम् । ततः-॒गुणेऽस्त्रिया॑मिति । तत्र विभाषेत्यनुवर्तते पञ्चमीति च । गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः । ततश्च 'जाडआद्बद्ध' इत्यादि सिद्धम् । ननु विभाषेत्येव सिद्धे गुणेऽस्त्रियामिति व्यर्थमित्यत आह — अगुणे स्त्रियां च क्वचिदिति । योगविभागस्य इष्टसिद्ध्यर्थत्वादिति भावः । अत्राऽगुणे उदाहरति — धूमादिति ।अग्निमा॑नित्यनन्तरं॒॑ज्ञायते॑ इति शेषः । धूमस्य अग्निज्ञानहेतुत्वादत्र धूमस्य अगुणत्वेऽपि हेतुत्वात्ततः पञ्चमीति भावः । स्तिरायमुदाहरति — नास्ति घट इति । 'घट' इत्यनन्तरं 'इति ज्ञायते' इति शेषः । अनुपलब्धेरपि । उपलब्धिः=ज्ञानम्, तस्या अभावः-अनुपलब्धिः । नञ्तत्पुरुषः । न चार्थाऽभावेऽव्ययीभावः शङ्क्यः, अर्थाऽभावे तयोर्विकल्पस्य वक्ष्यमाणत्वात् ।", "23026": "<<षष्ठी हेतुप्रयोगे>> - षष्ठीहेतुप्रयोगे । हेतावित्यनुवर्तते । तदाह — हेतौ द्योत्ये इति । हेतुत्वे द्योत्ये इत्यर्थः । हेतुवाचकात्षष्ठीति फलितम् । 'हेतौ' इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य हेतोस्तुभ्यं नमः । अत्र युष्मच्छब्दान्न भवति ।", "23027": "<<सर्वनाम्नस्तृतीया च>> - सर्वनाम्नस्तृतीया च । सर्वनाम्न इति षष्ठी । तदाह — सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात्सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहति — केन हेतुनेति । सर्वनाम्न इति यदि पञ्चमी स्यात्तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम् ।", "23028": "<<अपादाने पञ्चमी>> - अपादाने पञ्चमी । स्पष्टत्वान्न व्याख्यातम् । ग्रामादायातीति । आगच्छतीत्यर्थः । कस्मादित्याकाङ्क्षाविषयत्वाद्ग्रामोवधिरिति अपादानत्वात्पञ्चमी ।माथुराः पाटलीपुत्रकेभ्य आढतराः॑ इत्यादौ बुद्धिकल्पितविशेषावधित्वमादाय अपादानत्वमिति भाष्ये स्पष्टम् । ननु विश्लेषानुकूलचलनाऽनाश्रयभूतं यत्तदेव ध्रुवमिति व्याख्यायताम्, किमवधित्वविवक्षयेत्यत आह — धावतोऽआआत्पततीति । अआस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः ।जुगुप्सेति । जुगुप्साद्यर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादानत्वमित्यर्थः । पापाज्जुगुप्सत इति । पापविषये कुत्सितत्वबुद्ध्या न रमते इत्यर्थः । विरमतीति ।पापा॑दित्यनुषज्यते । पापविषये न प्रवर्तत इत्यर्थः । धर्मात्प्रमाद्यतीति । धर्मविषये मुह्यतीत्यर्थः । वास्तवसंयोगविश्लेषयोरभावाद्वचनमिदम् । यदा तु 'जुगुप्सते' इत्यादेर्जुगुप्सादिभिर्निवर्तत इत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् ।", "23029": "<<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> - अन्यारात् । युक्त इति भावे क्त इत्याह-एभिर्योगे इति । अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आच्, आहि एतैरष्टभिर्योगे सतीत्यर्थः । भिन्नादिशब्दयोगे पञ्चमीं साधयितुमाह — अन्येत्यर्थग्रहणमिति । व्याख्यानादिति भावः । अन्यार्थकशब्दयोगे पञ्चमीति फलितम् । तर्हितरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह — इतरग्रहणं प्रपञ्चार्थमिति ।पचि विस्तारे॑ । अन्यशब्दस्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत् । अन्यो भिन्न इतरो वेति । भेदवान्विलक्षण इत्याद्युपलक्षणमिदम् । कृष्णप्रतियोगिकभेदवानित्यर्थः । षष्ठपवादोऽयम् । अन्यादिशब्दानामवधिनियमसत्त्वेऽपि संयोगविश्लेषाऽभावादपादानत्वस्य न प्रसक्तिः । एवमग्रेऽपि । आराद्वनादिति । वनस्य दूरं समीपं वेत्यर्थः । 'आराद्दूरसमीपयोः' इत्यमरः । ऋते कृष्णादिति । 'ऋते' इत्येकारान्तमव्ययम् । 'ऋते वर्जने' इत्यमरः । कृष्मस्य वर्जने सुखं नास्तीत्यर्थः ।क्व कर्मप्रध्वंसः फलति पुरुषाराधनमृते॑ इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः ।ततोन्यत्रापि दृश्यते॑ इति वा द्वितीया ।ऋते द्वितीया चे॑ति चान्द्रं सूत्रम् । अथ दिक्छब्दयोगे उदाहरति — पूर्वो ग्रामादिति । ग्रासावधिकपूर्वदिग्वर्ती ग्राम इत्यर्थः । ननुचैत्रात्पूर्वः फाल्गुन॑ इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाऽभावात्कथं तद्योगे पञ्चमीत्यत आह — दिशि दृष्ट इति । रूढआ दिग्विशेषवाचकाः पूर्वादय एव गृह्यन्ते नत्वैन्द्रीककुबादयः । संप्रतीति । कदाचिद्दिग्वाचकानामिदानीं कालवाचकानामपि योगे पञ्चमी भवतीत्यर्थः । नन्वेवं सति पूर्वं कायस्येत्यत्रापि स्यादित्यत आह — अवयववाचीति । तस्य परमिति । तस्येति हि प्रकृतं द्विरुक्तं पराभृशति । द्विरुक्तस्य परं=परावयवभूतमाम्रेहितमिति तदर्थः । पूर्वं कायस्येति । शसीरस्य पूर्वावयव इत्यर्थः । अञ्चुधातुरुत्तरपदं यस्य स अञ्चूत्तरपदः=प्रागादिदिक्छब्दः, नतु सध्र्यङ् इत्यादिशब्दोऽपि, दिक्शब्दसाहचर्यात् । तेन सध्र्यङ् देवदत्तेनेत्यत्र न पञ्चमी । ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यत आह — अञ्चूत्तरपदस्येति.॒षष्ठतसर्थे॑त्नन्तरंपरत्वात्प्राप्ता॑मिति शेषः । प्राक् प्रत्याग्वा ग्रामादिति । ग्रामावधिक इत्यर्थः । आजिति । अच्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम् । दक्षिणा ग्रामादिति । ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः । आहीति । आहिप्रत्ययान्तयोगे उदाहरणसूचनमिदम् । दक्षिणाहि ग्रामादिति । ग्राभावधिकायां दक्षिणस्यां दिशि दूर इत्यर्थः । 'आहि च दूरे' इत्याहिप्रत्ययः । आजाहिप्रत्ययान्तयोर्दिक्शब्दत्वेऽपिषष्ठतसर्थे॑ति षष्ठीं बाधितुं पृथग्ग्रहणम् । नन्वेवमपिभवात्प्रभृत्यारभ्य वा सेव्यो हरिः॑ इत्यादौ कथं पञ्चमी, अन्यादिशब्दयोगाऽभावादित्यत आह — अपादाने इति । प्रभृतियोगे इति । प्रभृत्यर्थकशब्दयोगे इत्यर्थः । तथा हि — ॒अपादाने पञ्चमी॑ति सूत्रे भाष्येयतश्चाध्वकालनिमानमि॑ति वार्तिकं पठित्वा कार्तिक्या आग्रहायणी मासे इत्युदाहृत्यइदं न वक्तव्यमि॑ति तद्वार्तिकप्रत्याख्यानमुपक्षिप्यइदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते, कार्तिक्याः प्रभृत्याग्रहायणी मासे॑ इत्युक्तम् । प्रभृतिशब्दाऽभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः । एवं वदता भाष्यकृताप्रभृत्यर्थकशब्दयोगे पञ्चमी॑ति वचनं ज्ञाप्यते । अन्यथा पञ्चम्यर्थं वार्तिकस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । एवंच प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति । अत एव चकार्तिक्याः प्रभृति॑ इति भाष्यव्याख्यावसरे 'तत आरभ्येत्यर्थ' इति कैयट आह । तत्र हि तत इति पञ्चम्यास्तसिः । एतत्सर्वमभिप्रेत्योदाहरति — भवात्प्रभृत्यारभ्य वेति । भवः=उत्पत्तिः । आरभ्येत्यस्यावधिं परिगृह्रेत्यर्थः । प्रभृतीत्यव्ययमप्येतदर्थकमेव । भवमवधिं परिगृह्र हरिः सेव्य इत्यर्थः । उत्तपत्तिक्षणात्मकपूर्ववधिकोत्तरकाले सर्वदा आमरणं हरिः सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्वविवक्षायां द्वितीयैव,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑त्युक्तेः । यथासूर्योदयमारभ्य आऽस्तमयाज्जपती॑त्यादौ । शेषत्वविवक्षायां द्वितीयैव,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑त्युक्तेः । यथासूर्योदयमारभ्य आऽस्तमयाज्जपती॑त्यादौ । शेषत्वविवक्षायां तु षष्ठी बाधित्वा भवशब्दात्पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्येत्यर्थे कदापि न द्वितीया, प्रभृतिशब्दार्थस्यावधिं परिगृह्रेत्यस्यावध्यादिघटित्वेन क्रियात्वाऽभावात् । अपपरीति । बहिश्शब्दयोगे पञ्चमीं सिद्धवत्कृत्यअपपरिबहिरञ्चवः पञ्चम्या॑ इति समासविधानाद्बहिश्शब्दयोगे पञचमी विज्ञायते इत्यर्थः । इदंचअपपरी॑ति सूत्रे भाष्ये स्पष्टम् । 'करस्य करमो बहिः' इति त्वसाध्वेव ।ज्ञापकसिद्धं न सर्वत्रे॑ति वा कथञ्चित्समाधेयम् ।", "23030": "<<षष्ठ्यतसर्थप्रत्ययेन>> - षष्ठतसर्थ । एतद्योगे इति ।दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः॑ इत्यारभ्य 'आहि च दूरे'उत्तराच्चे॑त्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्यः स्वार्थे प्रत्यया विहिताः । तत्रदक्षिणोत्तराभ्यामतसुच् इति विहितो योऽतसुच्प्रत्ययः, तस्यार्थः=दिग्देशकालरूपः, स एवार्थो यस्य स-अतसर्थप्रत्ययः, तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमस्थापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति, संयुक्ताक्षरघयितत्वेन गौरवात् । दिक्शब्देतीति ।अन्यारादि॑ति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणत इति । सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेर्दक्षिणशब्दादतसुच् । दक्षिणस्यां, दक्षिणस्याः, दक्षिणा वा दिगित्यर्थः । एवं देशे काले च । पुर इति । पूर्वाशब्दादस्तात्यर्थे॒पूर्वाधरावराणामसि पुरधवश्चैषाम् इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः, पूर्वा वेत्यर्थः । पुरस्तादिति । पूर्वशब्दादस्तातिप्रत्यये सतिआस्ताति चे॑ति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति ।उपर्युपरिष्टादि॑ति सूत्रेण ऊध्र्वशब्दाद्रिल्प्रत्ययो शिष्टातिल्प्रत्ययः प्रकृतेरूपादेशश्च निपातितः । ऊध्र्वायां दिशि, ऊध्र्वाया दिशः, ऊध्र्वादिगिति वा अर्थः । एवं देशे कालेऽपि ।", "23031": "<<एनपा द्वितीया>> - एनपा द्वितीया ।षष्ठतसर्थे॑ति षष्ठआ नित्य बाधे प्राप्ते आह — योगविभागादिति । एनपेति योगो विभज्यते ।षष्ठतसर्थे॑ति पूर्वसूत्रात्षष्ठीत्यनुवर्तते । एनबन्तेनयोगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति ।एनबन्यतरस्यामदूरेऽपञ्चम्याः॑ इत्येनप् । एवमुत्तरेणेति । उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यचम्, दिक्शब्देभ्यः एनब्विधेः । भाष्ये तुषष्ठतसर्थे॑ति सूत्रात्प्राक् 'एनपा द्वितीया' इत्यस्य पाठ इति 'पृथग्विना' इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसंभवादेनपायोगे षष्ठसाधुरेवेति युक्तम् ।", "23032": "<<पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्>> - पृथग्विना । पञ्चमीद्वितीये चेति । 'तृतीयाऽभावपक्षे' इति शेषः । 'अपादाने पञ्चमी'षष्ठतसर्थप्रत्ययेन॑ 'एनपा द्वितीया' 'पृथग्विना' इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते । तथाच तृतीयाऽभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाऽभावपक्षे द्वितीयैव संनिहितत्वात् स्यात्, नतु पञ्चम्यपि, षष्ठतसर्थेत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्याः समावेशोऽनुपपन्न इत्यत आह — अन्यतरस्याङ्ग्रहणमिति । तृतीया चेत्येताबतैव संनिहितद्वितीयासमुच्चयसिद्धेरन्यतरस्यामिति गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्याः समुच्चयार्थम्, अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याःषष्ठतसर्थे॑त्यत्राननुवृत्ताया इहानुवृत्तेरसम्भवात्कथमिह तदुपस्थितिरित्यत आह — पञ्चमीद्वितीये चानुवर्तेते इति ।मण्डूकप्लुत्ये॑ति शेषः । पृथग्रामेणेति । रामप्रतियोगिकभेदवानित्यर्थः । एवं विना नानेति । विना रामेण, रामात्, रामम्, । नाना रामेण, रामात्, रामं वा । पृथिग्विनानानास्त्रयोऽपि भेदार्थका इति केचित् ।पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने॑ इत्यमरः । रामस्य वर्जने सुखं नास्तीत्यर्थः ।", "23033": "<<करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य>> - करणे च । एभ्य इति । स्तोक अल्प कृच्छ्र कतिपय-एभ्यश्चतुभ्र्य इत्यर्थः । असत्त्वपदं व्याचष्टे — अद्रव्येति । अन्यतरस्यामित्यनुवर्तते, पञ्चमीति च । ततश्च करणे पञ्चमी वेति लभ्यते । तदभावे तु तृतीया सिद्धैव । तदाह — तृतीयापञ्चम्याविति । स्तोकेन स्तोकाद्वामुक्त इति । लघुना आयासेन मुक्त इत्यर्थः । आयासो न द्रव्यमिति भावः । द्रव्ये त्विति । द्रव्ये वृत्तौ स्तोकेन विषेण हत इति तृतीयैवेत्यर्थः । अल्पेनाल्पाद्वा मुक्तः, कृच्छ्रेण कृच्छ्राद्वा मुक्तः । कष्टेनेत्यर्थः । कतिपयेन कतिपयाद्वा मुक्तः । अकृत्स्नेन साधनेनेत्यर्थः ।", "23034": "<<दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्>> - दूरान्तिकार्थैः । एतैरिति । दूरार्थकैरन्तिकार्थकैश्च शब्दैर्योगे इत्यर्थः । पञ्चमी चेति । षष्ठभावेअपादाने पञ्चमी॑त्यतोऽनुवृत्ता पञ्चमीति भावः ।एनपा द्वितीया॑इतिपृथग्विनानानाभिस्तृतीया॑ इति द्वितीयातृतीया संनिहिते अपि न समुच्चीयेते, व्याख्यानात् ।", "23035": "<<दूरान्तिकार्थेभ्यो द्वितीया च>> - दूरान्तिक । एभ्य इति । दूरार्थकेभ्योऽन्तिकार्थकेभ्यश्चेत्यर्थः । चकारो व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः, नतुदूरान्तिकार्थैः षष्ठन्तरस्या॑मिति संनिहितषष्ठआ अपि, व्याख्यानात् । तदाह — चात्पञ्चमीतृतीये चेति । प्रातिपदिकार्थमात्रे विधिरयमिति । व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् ।दूरादावसथान्मूत्रं दूरात्पादावनेजनम् इति भाष्यप्रयोगात्सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः । ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह — असत्त्ववचनस्येति । 'दूरः' 'पन्था' इत्यत्र पन्था द्रव्यम् । तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः॥ इति पञ्चमी ।", "23036": "<<सप्तम्यधिकरणे च>> - सप्तम्यधिकरणे च । चकाराद्दूरेति ।दूरान्तिकार्थेभ्यो द्वितीया चे॑ति पूर्वसूत्रात्दूरान्तिकार्थेभ्यः॑ इत्यस्य चकारेणानुकर्षणादिति भावः । औपश्लेषिक इति । उपश्लेषः=संयोगादिसंबन्धः, तत्प्रयोज्य आधारः प्रथम इत्यर्थः । वैषयिक इति । विषयतासंबन्धकृत आधारो द्वितीय इत्यर्थः । अभिव्यापक इति । सकलावयवव्याप्तिकृत आधारस्तृतीय इत्यर्थः । तत्र औपश्लेषिकं कर्तृद्वारकमाधारमुदाहरति — कटे आस्ते इति । 'देवदत्तः' इति शेषः । तत्र साक्षाद्देवदत्तात्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरणत्वम् । अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति-स्थाल्यां पचतीति ।तण्डुला॑निति शेषः । अत्र साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्याः संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम् । रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औपश्लेषिकमाधारत्वमित्यादि ज्ञेयम् । अथ वैषयिकमाधारमुदाहरति — मोक्षे इच्छास्तीति । अत्र कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छाद्वाराऽऽधारत्वादधिकरणत्वम् । अथाऽभिव्यापकमाधारमुदाहरति — सर्वस्मिन्नात्मास्तीति । अत्र आत्मरूपकर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्याप्त पुरस्कृत्य आत्मद्वारा सत्ताधारत्वात्सर्वस्याधिकरणत्वम् । अथ चकारानुकृष्टदूरान्तिकार्थेभ्य उदाहरति — वनस्य दूरे अन्तिके वेति । दूरमन्तिकमित्यर्थः । प्रातिपदिकार्थमात्रे विधिरयम् । विभक्तित्रयेणेति । द्वितीयापञ्चमीतृतीयाभिरित्यर्थः । वस्तुतस्तु उप समीपे श्लेषः संबन्धः, तत्कृतमौपश्लेषिकमिति व्युत्पत्त्या सामीपिकमेवाधारत्वमौपश्लेषिकम् । अत एवअधिकरणं नाम त्रिप्रकारं, व्यापकमोपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हति अन्यदत उपश्लेषात् । 'इको यणचि' अच्युपश्लिष्टस्ये॑ति 'संहितायाम्' इत्यत्र भाष्यं सङ्गच्छते । अच्युपश्लिष्टस्य=अच्समीपोच्चारितस्येत्यर्थ इति कैयटः । अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमितितत्र च दीयते कार्यं भववत् इत्यत्र भाष्यं सङ्गच्छते । अत एव चतदस्मिन्नधिकमिति दशान्ताड्डः॑ इत्यत्र एकादश भाषा अधिक अस्मिन् कार्षापणशते इत्यत्राधिकानां एकादशानां कथं शतरुआधिकरणमित्याक्षिप्य व्यापकवैषयिकाधिकरणसंभवादौपश्लेषिकमधिकरणं विज्ञायत इति भाष्यं सङ्गच्छते । एवंच 'कटे आस्ते' इत्यादौ औपश्लेषिकाधारोदाहरणं मूलोक्तमनुपपन्नमेव, उक्तभाष्यविरोधात् । एवंच 'कटे आस्ते' इत्यादौ एकदेशव्याप्त्या गौणमभिव्यापकाधारत्वम् । सर्वावयवव्याप्तिकृताधिकरणत्वमेव मुख्यम्, वैषयिकमौपश्लेषिकं च गौणमित्यर्थस्य भाष्यसंमतत्वात् । अत एव 'स्वरितेनाधिकारः' इति सूत्रेसाधकतमं करण॑मिति सूत्रे च भाष्येअधिकरणमाचार्यः किं मन्यते । यत्र कृत्स्नमाधारात्मा व्याप्तो भवति । तर्हि इहैव सप्तमी स्यात्-तिलेषुतैलं, दध्निसर्पिरिति । गङ्गायां घोषः, कूपे गर्गकुलमित्यत्र तु न स्यात्, मुख्य एव कार्यसंप्रत्यया॑दित्याशङ्क्य स्वरितेनाधिकं कार्यं भवतीति वचनात्तमब्ग्रहणाच्च न दोष इति समाहितम् । एवंचकटे आस्ते, गङ्गायां घोषः॑ इत्यादौ गौणमप्यधिकरणं सप्तम्यर्थं एव । यदि तु 'गङ्गायां घोषः' इत्यादौ सामीपिकमधिकरणत्वं न विवक्ष्यते तदा लक्षणेति बोध्यम् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः । क्तस्येन्विषयस्येति । न चकृतपूर्वी कट॑मित्यत्रापि सप्तमी शङ्क्या, इन्प्रत्ययान्तो यः क्तप्रत्ययान्तस्तस्य कर्मणीत्यर्थाभ्युपगमात् । कर्तरीनिरिति । भावक्तान्तादधीतशब्दात् कर्तरीनिप्रत्यये कृते अधीतीत्यस्याधीतवानित्यर्थः पर्यवस्यति । किमधीतवानिति कर्मविशेषजिज्ञासायां व्याकरणमध्ययने कर्मत्वेनान्वेति । तच्च व्याकरणकर्मत्वं न केनाप्यभिहितमिति कृतपूर्वी कटमितिवत् द्वितीयायां प्राप्तायामनेन सप्तमीति भावः ।साध्वसाधुप्रयोगे चेति ।सप्तमी वक्तव्ये॑ति शेषः । साधुरिति । हितकारीत्यर्थः । असाधुरिति । अहितकारीत्यर्थः । उभयत्र शेषषष्ठपवादः ।साधुनिपुणाब्यामर्चाया॑मित्येव सिद्धे इह साधुग्रहणमनर्चार्थम् । यथा साधुर्मृत्यो राजनि । इह तत्त्वकथने तात्पर्यम् । साधुनिपुणाभ्यामित्यत्र साधुग्रहणमस्य प्रयोजनं वक्ष्यते । निमित्तादिति । कर्मयोगे हेतुवाचकाच्छब्दात् सप्तमी वाच्येत्यर्थः । ननु 'जाडएन बद्ध' इत्यत्रापि सप्तमी स्यादित्यत आह — निमित्तमिह फलमिति । फलमेवेत्यर्थः । इष्टसाधनताज्ञानस्य प्रवर्तकतया फलस्यापि हेतुत्वं बोध्यम् । जन्यजन्कत्वादिसंबन्धं व्यावर्तयितुमाह — योगः संयोगेति । अयुतसिद्धयोः संबन्धः समवायः । अन्ययोस्तु संयोगः । चर्मणीति । चर्मार्थं व्याघ्रं हन्तीत्यर्थः । अत्र द्वीपिना कर्मणा चर्मणः समवाय एव, अवयवावयविनोरयुतसिद्धत्वात् । दन्तयोरिति । दन्तार्थमित्यर्थः । अत्र कुञ्जरेण कर्मणा दन्तयोः समवाय एव । केशेष्विति । केशार्थमित्यर्थः । चमरी-मृगविशेषः । सीम्नीति । सीमार्थमित्यर्थः । हेतुतृतीया प्राप्तेति । तादथ्र्यचतुथ्र्यपीति बोध्यम् । सीमा अण्डकोश इति ।सीमा घट्टस्थितिक्षेत्रेआण्डकोशेषु च स्त्रियाम् इति मेदिनी । पुष्कलको गन्धमृग इति ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः॑ इति मेदिनी । अत्रापि पुष्कलकेन कर्मणा सीम्नः समवाय एव । हरदत्तस्तु-सीमा ग्रामादिमर्यादा, तस्या ज्ञानार्थं पुष्कलकः=शङ्कुर्हतः=निखात इति व्याचष्ट । अत्र पुष्कलकेन कमणा सीम्नः संयोगो बोध्यः । वेतनेनेति । अत्र वेतनं भृतिद्रव्यम्, तदर्थमित्यर्थः । अत्र वेतनस्य लूयमानस्य धान्यस्य च तादथ्र्यमेव संबन्धो, न तु संयोगः, नापि समवाय इति भावः ।", "23037": "<<यस्य च भावेन भावलक्षणम्>> - यस्य च । भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे — यस्य क्रिययेति । क्रिया च कत्र्राश्रया कर्माश्रया च । तत्र कर्माश्रयामुदाहरति — गोष्विति । देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्व संबन्धे सप्तमी । शेषषष्ठपवादः । वर्तमानदोहनविशिष्टाभिर्गोभिज्र्ञाप्यगमनवानित्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्षकता । गवां तु तदाश्रयतया । ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । 'दुग्धासु गत' इत्यत्र तु अतीतदोहनविशिष्टाभिर्गोभिज्र्ञाप्यमानगमनवानित्यर्थः । गोदोहोत्तरकाले गत इति फलितम् । कर्तृगतक्रियायास्तु ब्राह्मणेष्वधीयानेषु गतः इत्युदाहार्यम् । अत्र यदवश्यं पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किंतु सकृज्ज्ञापकमपि । यथा-यं कमण्लुपाणिं भवानद्रीक्षीत्स छात्र इति । यद्यपि सकृदसौ कमण्डलुपाणिर्दृष्टस्तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम् ।उदिते आदित्ये जुहोती॑त्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः । उदितादित्यसमीपकाल इत्यर्थः । आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः । 'उपरागे रुआआयात्' इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणसप्तम्येवेत्यन्यत्र विस्तरः ।", "23038": "<<षष्ठी चानादरे>> - षष्ठी चानादरे । चातसप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । यस्य चेति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह — अनादराधिक्ये इति । अनादरोऽधिको यस्मादिति विग्रहः । रुदति रुदत इति ।कदा संन्यस्तवा॑निति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वं षष्ठीसप्तम्योरर्थः । अनादरविशिष्टं प्रव्रजनं धात्वर्थः । षष्ठीसप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविषयः । वर्तमानरोदनक्रियाविशिष्टपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमित्यर्थः ।", "23039": "<<स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च>> - फलितमाह — रुदन्तं पुत्रादिकमिति । स्वामीआर । षष्ठीसप्तम्याविति । चकारेण तदुभयानुकर्षणादिति भावः । ननु शेषषष्ठऐव सिद्धे किमर्थमिह षष्ठीविधानमित्यत आह — षष्ठआमेवेति । गवां गोषु वेति । गोसंबन्धीत्यर्थः । गवां गोषु वा ईआरः । गवां गोषु वा अधिपतिः । गवा गोषु वा दायादः । पुत्रादिभिग्र्रहीतुं योग्यः पित्राद्यर्जितधनांशो दायः । तमादत्त इति दायादः । 'आतोऽनुपसर्गे' इति कविधौ अनुपसर्गग्रहणे सत्यपि अत एव निपातनात्कः । गोसंबन्धिदायाद इत्यर्थः । गवां च दाये अन्वयः नित्यसाकाङ्क्षत्वाद्वृत्तिः । गवात्मकस्यांशस्य आदातेति फलितोऽर्थः । 'यस्मादधिकम्' इति सूत्रभाष्ये तु दायादशब्द स्वामिपर्याय इति स्थितम् । गवां गोषु वा प्रसूत इति । गोसंबन्धीत्यर्थः । संबन्धश्च भोक्तृत्वरूपः । तदाह — गा एवेति । एवशब्दान्महिषादिव्यावृत्तिः ।", "23040": "<<आयुक्तकुशलाभ्यां चासेवायाम्>> - आयुक्त । आसेवापदं व्याचष्टे — तात्पर्ये इति । औत्सुक्ये इत्यर्थः ।तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॑ इत्यमरः । आयुक्तपदं व्याचस्टे — व्यापारित इति । प्रवर्तित इत्यर्थः । आयुक्तः कुशलो वेति । हरिपूजनविषये आयुक्तः=प्रवर्तित इत्यर्थः । अत्र वैषयिकाधिकरणत्वविवक्षायां तु षष्ठआमेव प्राप्तायां वचनम् । आयुक्तो गौरिति । आङीषदर्थे ।युजिर्योगे॑ । तदाह — ईषद्युक्त इत्यर्थ इति ।", "23041": "<<यतश्च निर्धारणम्>> - यतश्च निर्धारणम् । जातिगुणेति । 'यतः' इति 'ततः' इति च पञ्चम्यर्थे तसिः । यस्मात्समुदायादेकदेशस्य जातिगुणक्रियासंज्ञाभिः पृथक्करणं=स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं निर्धारणशब्दवाच्यं गम्यते तस्मात्षष्ठीसप्तम्यावित्यर्थः । अत्र स्वशब्देन एकदेश उच्यते । तत्र जात्या पृथक्करणमुदाहरति — नृणा नृषु वेति । नृशब्दो मनुष्यसमुदाये वर्तते । उद्भूतावयवभेदविवक्षायां बहुवचनम् । द्विज इति तु जात्यभिप्रायमेकवचनम् । षष्ठीसप्तम्योरवयवावयविभावः संबन्धोऽर्थः, उदाहृतनिर्धारणविषयत्वरूपश्च । ततश्च मनुष्यसमुदायैकदेशभूतो द्विजः स्वेतरव्यावृत्तश्रैष्ठरूपधर्मक इत्यर्थः । गुणेन पृथक्करणमुदाहरति — गवां गोषुवेति । गोसमुदायैकदेशभूता कृष्णा गौः स्वेतरव्यावृत्तबहुक्षीरत्वरूपधर्मिकेत्यर्थः । क्रियया पृथक्करणमुदाहरति — गच्छतां गच्छत्सु वेति । गच्छत्समुदायैकदेशभूतो धावन्स्वेतरव्यावृत्तशैघ्र्यधर्मक इत्यर्थः । संज्ञया पृथक्करणमुदाहरति — छात्राणामिति । छात्रसमुदायैकदेशभूतो मैत्रनामा स्वेतरव्यावृत्तपटुत्वधर्मक इत्यर्थः ।", "23042": "<<पञ्चमी विभक्ते>> - पञ्चमी विभक्ते । विभागो विभक्तिमिति । भावे क्तप्रत्ययाश्रयणादिति भावः ।यतश्चनिर्धारण॑मित्यनुवर्तते । निर्धारणावधिभूतानां मनुष्यादीनां निर्धार्यमाणानां द्विजानां च सामान्यात्मनाऽभेदो, विशेषात्मना भेदश्च स्थितः । एवं च निर्धारणे सर्वत्र कथंचिद्भेदस्य सत्त्वाद्विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः । ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, न तु केनाप्युपात्तरूपेणाऽभेदस्तत्रैवास्य प्रवृत्तिरित्यभिप्रेत्याह — निर्धार्यमाणस्येति ।निर्धारणावधे॑रिति शेषः,यतश्च निर्धारण॑मित्यनुवृत्तेः । अत्रावधिव्यवृत्तधर्मवत्त्वबोधनमेव , न तु समुदायादेकदेशस्येत्यंशो विवक्षितः, असम्भवादित्यभिप्रेत्योदाहरति — माथुरा इति । अवधित्वं पञ्चम्यर्थं मथुरादेशीयाः पाटलीपुत्रदेशीयापेक्षया अतिशयेनाढआ धनिन इत्यर्थः । अत्र मथुरादेशीयत्वपाटलीपुत्रदेशीयत्वयोर्गोत्वाऽआत्ववद्विरोधात्कथञ्चिदपि तद्रूपेण नाऽभेद इति निर्धारणावधेः पञ्चमीति भावः ।", "23043": "<<साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः>> - शादुनिपुणाभ्याम् । शेषषष्ठपवादः । मातरिसाधुरिति । हितकारीत्यर्थः । निपुणो वेति । मातरि कुशल इत्यर्थः ।शुश्रूषाया॑मिति शेषः । निपुणो राज्ञ इति । साधुशब्दप्रयोगे तु अर्चा विनापि सप्तमी भवत्येव,साध्वसाधुप्रयोगे चे॑त्युक्तेः । इह साधुग्रहणं तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम् ।अप्रत्यादिभिरिति । प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः ।", "23044": "<<प्रसितोत्सुकाभ्यां तृतीया च>> - प्रसितोत्सुकाभ्याम् ।तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॑ इत्यमरः । वैषयिकाधिकरणत्वे सम्यम्यामेव प्राप्तायामिदं वचनम् ।", "23045": "<<नक्षत्रे च लुपि>> - नक्षत्रे च लुपि । 'नक्षत्रे ' इत्यनन्तरंप्रकृत्यर्थे सती॑ति शेषः । लुप्शब्देन लुप्संज्ञाया लुप्तप्रत्ययार्थो विवक्षितः । तदाह — नक्षत्रे प्रकृत्यर्थे इति । अधिकरण इति ।सप्तम्यधिकरणे चे॑त्यत मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनेति । मूलनक्षत्रयुक्तकाल इत्यर्थः ।नक्षत्रेण युक्तः कालः॑ इत्यण् । 'लुबविशेषे' इति तस्य लुप् । अधिकरणे किम् । मूलं प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह 'जनपदे' इति लुप् ।", "23046": "<<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>> - तदेवंङ्याप्प्रातिपदिका॑दित्यधिकृत्य विहिताः स्वादिप्रत्ययाः सप्रपञ्चं निरूपिताः । तत्र प्रथमादिसप्तम्यन्तसप्तविभक्तीनामर्थविशेषव्यवस्थां दर्शयितुमुपक्रमते-प्रातिपदिकार्थ । ननुप्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विकं प्रातिपदिकार्थः॑,प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं चेति त्रिकं प्रातिपदिकार्थः॑, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं संख्या चेति चतुष्कं प्रातिपदिकार्थः, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं सङ्ख्या कारकं चेति पञ्चकं प्रातिपदिकार्थः॑ इत्येते पक्षासरूपाणामेकशेष एकविभक्तौ॑स्त्रिया॑मित्यादिसूत्रेषु भाष्ये स्थिता मञ्जूषायां प्रपञ्चिताश्च । तत्र त्रिकादिपक्षेषु लिङ्गस्यापि प्रातिपदिकार्थत्वात्पृथग्ग्रहणं व्यर्थमित्यत आह — नियतेति । नियता उपस्थितिर्यस्येति विग्रहः । यस्मिन्प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स तदर्थ इत्यर्थः । एवंच तटः तटी तटमित्याद्यनियतलिङ्गेषु नियमेन कस्यापि लिङ्गस्योपस्थित्यभावात्प्रातिपदिकार्थशब्देनाऽग्रहणात्पृथग्लिङ्गग्रहणमावश्यकमिति भावः । मात्रशब्दस्य वचनशब्देनैवान्वयभ्रमं वारयति — मात्रशब्दस्येति । प्रातिपदिकार्थश्च लिङ्गं च परिमाणं च वचनं चेति द्वन्द्वः । प्रातिपदिकार्थलिङ्गपरिमाणवचनान्येव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्र॑मित्यस्वपदविग्रहः । मात्रशब्दोऽवधारणे ।मात्रं कार्त्स्न्येऽवधारणे॑ इत्यमरः ।मयूरब्यंसकादयश्चेति नित्यसमासः । मात्रशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात्प्रातिपदिकार्थे, लिङ्गे, परिमाणे, वचने, च प्रत्येकमन्यवय इत्यर्थः । वचनं सङ्ख्येति वक्ष्यति । ननु प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे सङ्ख्यामात्रे च प्रथमेत्यनुपपन्नं, लिङ्गादीनां केवलानां प्रातिपदिकार्थं विना क्वाप्यनुपस्थितेरित्याशङ्क्य-॒अत एव बाधकाल्लिङ्गमात्रेऽधिके इति विवक्षित॑मित्यभिप्रेत्य व्याचष्टे — लिङ्गमात्राद्याधिक्ये इति । लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये चेत्यर्थः । प्रातिपदिकार्थमात्र #इत्यस्योदाहरति — उच्चैरित्यादि । नन्वव्ययेषुसामान्ये नपुंसक॑मिति नपुंसकत्वस्य च कृष्णशब्दे पुंस्त्वस्य च श्रीशब्दे स्त्रीत्वस्य च ज्ञानशब्दे नपुंसकत्वस्य च भानात्कथं प्रातिपदिकार्थस्योदाहरणान्येतानीत्यत आह — अलिङ्गा इत्यादि । 'अव्ययादाप्सुपः' इति सूत्रेआब्ग्रहणं व्यर्थमलिङ्गत्वा॑दिति भाष्योक्तरीत्याऽव्यये कस्यापि लिङ्गस्यानुपस्थ#इतिरिति प्रातिपदिकार्थमात्रे इत्यस्य भवत्यव्ययमुदाहरणम् । कृष्णशब्दे पुंस्त्वस्य श्रीशब्दे स्त्रीत्वस्य ज्ञानशब्दे नपुंसकत्वस्य च नियमेन भानमस्ति तेषां नियतलिङ्गत्वात् अतस्तेषु लिङ्गनामपि प्रातिपदिकार्थान्तर्भावात्तेषामपि प्रातिपदिकार्थमात्रे इत्युदाहरणत्वं निर्बाधमिति भावः । यद्यपि 'कृष्णः पटः' 'कृष्णा पटी'कृष्णं वस्त्र॑मित्यादौ कृष्णशब्दस्त्रिलिङ्गः, तथापि भगवत्पर एवात्र कृष्णशब्दो विवक्षित इति भावः । नच प्रातिपदिक्तोक्तार्थे किं प्रथमयेति वाच्यम्, एकत्वादिसंख्याबोधार्थत्वात् । नचाऽव्ययात्प्रथमोत्पत्तेः फलाऽभावः 'अव्ययादाप्सुप' इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यं, पदत्वार्थं सुबुत्पत्तेरावश्यकत्वात् । नचाऽव्ययात्प्रथमोत्पत्तेः फलाऽभावः 'अव्ययादाप्सुप' इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यं, पदत्वार्थं सुबुत्पत्तेरावश्यकत्वात् । तेन उच्चैरित्यादौ रुत्वविसर्गौउच्चैस्ते सम्यगुच्चारण॑मित्यादौ तेमयादिसिद्धिश्च भवति । अनियतेति । अनियतलिङ्गास्तु तटादिशब्दा लिङ्गमात्राधिक्यस्योदाहरणम् । तत्र लिङ्गानामनियतोपस्थितिकतया प्रातिपदिकार्थनन्तर्भावादित्यर्थः । तटः तटी तटमिति । 'तटं त्रिषु' इत्यमरः । परिमाणमात्रे इति । उदाहरणं वक्ष्यते इत्यर्थः । द्रोणो व्रीहिरिति । द्रोणः परिमाणविशेषः ।जालसूर्यमरीचिस्थं त्रसरेणुरिति स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिरुआओ राजसर्षप उच्यते । गौरस्तु ते त्रयः, षट् ते यवो, मध्यस्तु ते त्रयः । कृष्णलः, पञ्च ते माषः, ते सुवर्णस्तु षोडश । बलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । पलद्वयं तु प्रसृतं, द्विगुणं कुडबं मतम् । चतुर्भिः कुडवैः प्रस्थः, प्रस्थाश्चत्वार आढकः । आढकैस्तैश्चतुर्भिस्तु द्रोण इत्यभिधीयते । कुम्भो द्रोणद्वयं शूर्पः, खारी द्रोणास्तु षोडश । ॑ #इति स्मरणात् ।ब्राईहिरिति । जातावेकवचनंजात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् इति वचनात् । व्रीहिराशिरिति यावत् । नह्रेकस्या व्रीहिव्यक्तेद्र्रोणपरिमाणं संभवति । ननु द्रोणाख्यापरिमाणविशेषस्य व्रीहिव्यक्तेश्च कथमभेदान्वयः, धर्मधर्मिणोर्भेदादित्यत आह — द्रोणरूपमिति । तथाचाऽभेदान्वयवस्य बाधादेव द्रोणपरिमाणस्य व्रीहिव्यक्तेश्च परिच्छेदकभावेनान्वयाभ्युपगमान्नोक्तदोष इति भावः ।ननु द्रोणशब्दस्य परिमाणविशेषवाचिनो नियतपुंलिङ्गत्वे प्रातिपदिकार्थमात्रे इत्येव सिद्धम् । यदि तुअस्त्रियामाढकद्रोणौ॑ इति द्विलिह्गता, तर्हि लिङ्गमात्राधिक्ये इत्येव सिद्धं । तत्क परिमाणग्रहणेनेति चेत्तत्राह — प्रत्ययार्थे परिमाणे इति । न हि द्रोणत्वेन रूपेणपरिमाणविशेषवाचिद्रोणशब्दात्स्वार्थे प्रथमाविभक्तिरिष्यते, येन प्रातिपदिकार्थंमात्रे इत्यनेन गतार्थता स्यात् । किं तु द्रोणत्वेन परिमाणवाचिनो द्रोणशब्दात्परिमाणत्वसामान्यरूपेण द्रोणपरिमाणे विवक्षिते प्रथमा विभक्तिर्विधीयते । ततश्च प्रत्ययार्थे परिमाणसामान्ये द्रोणशब्दार्थात्भकप्रकृत्यर्थः परिमाणविशेषः सामान्यविशेषात्मकाऽभेदसंसर्गेणान्वेति । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत्सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात् । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत्सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात् । परिमाणसामान्यं न प्रतीयते । तदर्थमिह परिमाणग्रहणमित्यर्थः ।वचनं सङ्ख्येति । पूर्वाचार्यैस्तथा संज्ञाकरणादिति भावः । तथाच सङ्ख्यमात्रे प्रथमेति लभ्यते । नच लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये इतिवत्सह्ख्यामात्राधिक्ये इति कुतो न व्याख्यातमिति वाच्यं, केवललिङ्गपरिमाणयोः क्वाप्युपस्थित्यभावेन तथा व्याख्यानेऽपि एकद्विबहुशब्देष्वेकत्वद्वित्वबहुत्वानां केवलानां नियतोपस्थितिसत्त्वेन सङ्ख्यामात्रे इत्येव व्याख्यातुमुचितत्वात् । अत एव भाष्ये वचनग्रहणांशे एको द्वौ बहव इत्युदाहृतम् ।ननु एको द्वौ बहव इत्यत्र एकत्वद्वित्वबहुत्वानां नियमनोपस्थित्या 'प्रातिपदिकार्थे ' इत्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह — इहेति । प्रकृतिभिरेवैकत्वादीनामुक्तत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन प्रथमाविभक्तेरप्राप्तौ तदर्थं वचनग्रहणमित्यर्थः । तथाच विभक्तिरिहानुवादिका शब्दसाधुत्वार्थं प्रयोज्या,न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः॑ इत्यनभिहितसूत्रभाष्यसिद्धन्यायादिति भावः । इदमेवाभिप्रेत्योक्तं भाष्ये — ॒उक्तेष्वप्येकत्वादिषु प्रथमा॑ इति । मात्रग्रहणात्कारकाद्याधिक्ये प्रथमा न भवति । अत्रअर्थे प्रथमे॑त्येव सूत्रयितुमुचितमिति प्रौढमनोरमादौ प्रपञ्चितम् ।", "23047": "<<सम्बोधने च>> - संबोधने च । इहेति । संबोधनेऽधिके गम्येऽपि प्रथमा स्यादित्यर्थः । संबोधमभिमुखीकृत्य ज्ञापनम् । हे रामेति ।मां पाही॑ति शेषः । इह रामं प्रति मद्रक्षणं ज्ञाप्यम् । नचहे राजन्सार्वभौमो भव॑ इत्यत्र सार्वभौमशब्दादपि संबोधने प्रथमा स्यादिति वाच्यं, सम्यग्बोधनमेव हि संबोधनं, समित्युपसर्गबलात् । श्रोतरि विसिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थौ ज्ञापयितुं शक्यः, नान्यथा । ततश्च संबोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाऽभावान्न सार्वभौमशब्दात्संबोधनविभक्तिरिति मञ्जूषायां विस्तरः । [इति प्रथमा] ।", "23048": "<<साऽऽमन्त्रितम्>> - सामन्त्रितं । प्रातिपदिकार्तसूत्रोपात्ता प्रथमा 'सा' इत्यनेन परामृश्यते ।संबोधने चे॑त्यतः 'संबोधने' इत्यनुवर्तते । तदाह-संबोधने इत्यादिना ।तदन्त॑मिति प्रत्ययग्रहणपरिभाषालभ्यम् । महासंज्ञाकरणात्संज्ञाविधावपि तदन्तग्रहणम् । अत एव हे है भो इत्यादीनामपि संज्ञा सिद्धा ।", "23049": "<<एकवचनं संबुद्धिः>> - हे रामसिति स्थिते,एङ्ह्रस्वात्संबुद्धेः॑ इति लोपं विधास्यन् संबुद्धिसंज्ञामाह — एकवचनम् ।प्रातिपदिकार्थलिङ्गे॑त्यतःप्रथमे॑त्यनुवृत्तं षष्ठआ विपरिणम्यते ।संबोधने चे॑त्यतः संबोधने इत्यनुवर्तते । तदाह-संबोधने इति ।सुः संबुद्धि॑रित्येव सुवचम् । प्रथमाग्रहणानुवृत्तेः सप्तमीबहुवचनस्य सुपो न ग्रहणम् । नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शङ्क्यम् । 'ह्रस्वस्य गुणः' इति संबुद्धौ परतोऽङ्गस्य गुणविधिबलात्, संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च । एतेन तदन्तसंज्ञानिवृत्त्यर्थमेकवचनग्रहणमित्यपास्तम् ।", "23050": "<<षष्ठी शेषे>> - अथ षष्ठी । षष्ठी शेषे । उक्तादन्यः शेषः । 'कर्मणि द्वितीया' इत्यादिसूत्रेषु द्वितीयादिविधिषु हि कर्मकर्तृकरणसंप्रदानापादानाधिकरणकारकाण्यनुक्रान्तानि । प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः । एतेभ्योऽन्यः स्वस्वामिभावादिसंबन्धः शेषपदार्थ इत्यर्थः । तत्राऽसति बाधके संबन्धो विशेषरूपेण सामान्यरूपेण च भासते,न हि निर्विशेषं सामान्यमि॑ति न्यायात् । सति तु बाधकेमातुः स्मरती॑त्यादौ संबन्धत्वेनैव भानम् । कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थितिः । 'राज्ञ पुरुष' इत्यत्र स्वस्वामिभावरूपविशेषात्मना संबन्धत्वरूपसामान्यात्मना च संबन्धः षष्ठर्थः । राजाश्रितस्वामित्निरूपितस्वत्वात्मकसंबन्धाश्रयः पुरुष इति बोधः । आश्रयत्वादि तु संसर्गमर्यादया भासते । तत्र पुरुषो मुख्यं विशेष्यम् । संबन्धस्त्वाधेयतया पुरुषविशेषणम् । राजा तु आश्रयतया संबन्धविशेषणम् । संबन्धस्त्वाधेयतया राजानं प्रति विशेष्यं,प्रधानप्रत्ययार्थवचनमि॑ति वचनेन प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यावगमात् । अत एव पुरुषशब्दादपि न षष्ठी, राजनिरूपितसंबन्धाश्रयः पुरुष इति बोधे संबन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन च भानानुपपत्तेः । यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्यरूपसंबन्धाश्रयो राजेति बोधः, तदा पुरुषस्य राजेति पुरुषशब्दात् षष्ठी भवत्येवेत्यन्यत्र विस्तरः । सतां गतमित्यादौ कर्तृतृतीयादिकमाशङ्क्याह — कर्मादीनामपीति । कर्मत्वकर्तृत्वादीनामपि संबन्धत्वसामान्यात्मना विवक्षायां षष्ठएव, नतु कारकविभक्तय इत्यर्थः । तथाच 'क्तस्य च वर्तमाने' इति सूत्रे भाष्यं — ॒कर्मत्वादीनामविवक्षा शेषः॑ इति । सतांगतमिति । भावे क्तः । सत्संबन्धि गमनमित्यर्थः । कर्तृत्वविवक्षायां तु सद्भिर्गतमिति तृतीया भवत्येव । कृद्योगलक्षणा षष्ठी तु न भवति,न लोके॑ति निषेधात् । सर्पिषो जानीते इति । करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः । करणत्वस्य संबन्धत्वविवक्षायां तु षष्ठी, कत्र्राश्रिता सर्पिःसम्बन्धिनी प्रवृत्तिरिति बोधः । मातुः स्मरतीति । कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु देवदत्तकर्तृकं मातृसम्बन्धि स्मरणमित्यर्थः । एधो दकस्योपस्कुरुते इति । एधशब्दोऽकारान्तः पुंलिङ्गः, 'कारके' इति सूत्रे 'एधाः पक्ष्यन्ते' इति भाष्यप्रयोगात् । एधाश्च उदकानि चेति द्वन्द्वात् षष्ठी ।जातिरप्राणिना॑मित्येकद्भावः । कर्मत्वविवक्षायां एदोदकं शोषणगन्धद्रव्याधानादिना परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु एधोदकसम्बन्धि परिष्करणमिति बोधः । एधश्शब्दः सकारान्तोऽप्यस्ति नपुंसकलिङ्गः ।काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् इति कोशात् ।यथैधांसि समिद्धोऽग्निः॑ इत्यादिदर्शनाच्च । तथा सतिएधः-दकस्ये॑तिच्छेदः । उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः । उदकशब्दपर्यायो दकशब्दोऽप्यस्ति,भुवनममृतं जीवनं स्याद्दकं च॑ इति हलायुधकोशात् । तथाच एधः कर्तृ उदकं परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु षष्ठी, निम्बकरञ्जादिकाष्ठविशेषप्रज्वलिताग्नितप्तोदकस्य गुणविशेषो वैद्यशास्त्रप्रसिद्धः । भजे शम्भोश्चरणयोरिति । अत्र चरणयोः कर्मत्वस्य शेषत्वविवक्षायां षष्ठी । शम्भुचरणसंबन्धि भजनमित्यर्थः । फलानां तृप्त इति । अत्रापि करणत्वस्य शेषत्वविवक्षायां षष्ठी । फलसंबन्धिनी तृप्तिरिति बोधः ।", "23051": "<<ज्ञोऽविदर्थस्य करणे>> - ज्ञोऽविदर्थस्य । ज्ञः-अविदर्थस्येति च्छेदः । 'ज्ञ' इति ज्ञाधातोरनुकरणात्षष्ठएकवचनम् । वित्=ज्ञानं अर्थो यस्य विदर्थः, स न भवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह — जानातेरज्ञानार्थस्येति । शेषत्वेनेति । संबन्धत्वेनेत्यर्थः । शेष इत्यनुवृत्तेरिति भावः । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिस्तत्संबन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव 'ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । 'षष्ठी शेषे' इति सिद्धेऽपिप्रतिपदविधाना षष्ठी न समस्यते॑ इत्येतदर्थं वचनम् ।", "23052": "<<अधीगर्थदयेशां कर्मणि>> - अधीगर्थ । एषामिति ।इक्स्मरणे॑नित्यमधिपूर्वः, तस्यार्थ इवार्थों यस्य सोऽधीगर्थः । स्मरणार्थक इति यावत् । शेष इति । 'षष्ठी शेषे' इत्यतस्तदनुवृत्तेरिति भावः । मातुः स्मरणमिति । वस्तुतःकर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः । सर्पिषो दयनमिति । वस्तुतः कर्मींभूतसर्पिःसंबन्धि दयनमित्यर्थः ।दय दानगतिरक्षणहिंसादानेषु॑ । दीनान्दयते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः । परदुःखापहरणेच्छा दया । ईशनं वेति । 'सर्पिष' इत्यनुषज्यते । वस्तुतः कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोग इत्यर्थः । इदमपि समासनिषेधार्थमेव । 'लोकानीष्टे' इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः ।", "23053": "<<कृञः प्रतियत्ने>> - कृञः प्रति । कर्मणीति, शेष इति चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाह — कृञः कर्मणीति । एधोदकस्योपस्करणमिति । एधश्शब्दः सकारान्तो नपुंसकलिङ्गः । दकशब्द उदकवाची । एधश्च दकं चेति द्वन्द्वः । यद्वा एधशब्दोऽकारान्तः पुंलिङ्गः । एधश्च उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम् । वस्तुतःकर्मीभूतैधोदकसंबन्धि परिष्करणमित्यर्थः ।", "23054": "<<रुजार्थानां भाववचनानामज्वरेः>> - रुजार्थानाम् । रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः । भाववचनानामित्येतद्व्याचष्टे — भावकर्तृकाणामिति । वक्तीति वचनः, कर्तरि ल्युट् । प्रकृत्यर्थौ न विवक्षितः । भावो=धात्वर्थो, वचनः=कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह — कर्मणि शेष इति । इदमपि समासाऽभावार्थमेव । चौरस्य रोगस्य रुजेति । अत्र रुजेति व्याधिकृतसन्तापादिपीडोच्यते । रोगश्चौरं संतापादिना पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतःकर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः । अत्र भावघञन्तेन रोगशब्देन शारीरक्षयादिविकारविशेषो विवक्षितः । सच रुजायां कर्ता । तत्कर्मश्चौरस्य शेषत्वविवक्षायां षष्ठी ।रोगस्य चोररुजे॑ति समासो न भवतीति बोध्यम् । अज्वरिसंताप्योरिति ।रुजार्थानां भाववचनानां ज्वरिसंतापिवर्जिताना॑मिति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वर इति । अत्र चौरज्वरशब्दे शेषषष्ठआ समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात् । एवं 'रोगस्य चौरसंताप' इत्यत्रापि बोध्यम् । अत्राऽज्वरिसंताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात्षष्ठी स्यादित्यतिव्याप्त दर्शयितुमाह — रोगकर्तृकमिति । रोगकर्तृको वस्तुतःकर्मीभूतचौरसंबन्धी ज्वरः संतापो वेति यावत् । एवंच ज्वरिसंताप्योः रुजार्थकत्वाद्रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणश्चौरस्य शेषत्वविवक्षायां नाऽनेन षष्ठी, किन्तु कृद्योगे षष्ठी, षष्ठी शेषे इत्येव षष्ठी वा । अतः-चौरज्वरः चौरसन्ताप इति समासो भवत्येवेति भावः ।", "23055": "<<आशिषि नाथः>> - आशिषि नाथः । शेषे, कर्मणि इति चानुवर्तते । तदाह — आशीरर्थस्येति । इदमपि समासाऽभावार्थमेव । सर्पिषो नाथनमिति । इदं मे भूयादितीच्छा आशासनम् । तदेवाशीर्नाथतेरर्थः । वस्तुतःकर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः ।", "23056": "<<जासिनिप्रहणनाटक्राथपिषां हिंसायाम्>> - जासिनिप्र । कर्मणि शेषे इत्यनुवर्तते । तदाह — हिंसार्थानामित्यादिना । इदमपि समासाऽभावार्थमेव । चौरस्योज्जासनमिति । 'जसु ताडने' 'जसु हिसायाम्' इति चुरादौ । वस्तुतः कर्मीभूतचौरसंबन्धिनी हिंसेत्यर्थः । 'जसु मोक्षणे' इति दैवादिकस्य तु न ग्रहणम्, हिंसार्थत्वाऽभावात्, जासीति निर्देशाच्च । निप्राविति । निप्रहणेति निप्रपूर्वस्य हनधातोर्निदेशः । तत्र नि प्र इत्येतौ समस्तौ गृह्रेते, प्रनीत्येवं व्युक्रमेण च गृह्रेते, प्रेति नीति च पृथगपि गृह्रेते, व्याख्यानादित्यर्थः । समस्तावुदाहरति — चौरस्य निप्रहणनमिति । वस्तुतःकर्मीभूतचौरसंबन्धि हननमित्यर्थः ।हन्तेरत्पूर्वस्ये॑ति णत्वम् । विपर्यस्तावुदाहरति — प्रणिहननमिति ।नेर्गदे॑ति णत्वम् । हन्तेर्नकारस्य तु न णत्वम्, 'अट्कुप्वाङ्' इति नियमात्, नेर्नकारस्य तदनन्तर्भावात् । व्यस्तावुदाहरति — निहननं प्रहणमनं वेति । निमित्ताऽभावान्निहननमित्यत्र 'बन्तेरत्पूर्वस्य' इति णत्वं न । चुरादिरिति । 'नट नृत्तौ' इति तु न गृह्रते, नाटेति दीर्घोच्चारणादिति भावः । चौरस्योन्नाटनमिति । उपसर्गवशान्नाटेर्हिसायां वृत्तिरिति भावः । चौरस्य क्राथनमिति । 'क्रथ हिंसायाम्' इति घटादौ । 'घटादयो मितः' इति तस्य मित्त्वेऽपि 'मितां ह्रस्वः' इति न भवति, इह दीर्घनिपातनात् । वृषलस्य पेषणमिति । हिसेत्यर्थः । व्यपह्मपणोः । शेषपूरणेन सूत्रं व्याचष्टे — शेषे कर्मणि षष्ठी स्यादिति । समौ तुल्यौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकस्य व्यवपूर्वकह्मञ्धातोः पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनिवृत्त्यर्थमेव । ननुपण व्यवहारे स्तुतौ चे॑ति पणधातुः स्तुतावपि वर्तते, नतु व्यवहार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह — द्यते इति । द्यूते=अक्षैः क्रीडने, क्रयविक्रयविषयकमूल्यसंवादे चानयोः=व्यवह्मपणोरेकार्थकत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृह्णातीत्यर्थः । केवलव्यवहारार्थकत्वेऽकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसंबन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषयकमूल्यसंवादेन ग्रहणं वेत्यर्थः ।", "23057": "<<व्यवहृपणोः समर्थयोः>> - समर्थयोः किमिति । व्यवहारार्थकयोरिति किमर्थमित्यर्थः । शलाकाव्यवहार इति । प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह — गणनेत्यर्थ इति । वस्तुतःकर्मीभूतशलाकासंबन्धिगणनेति फलितम् । अत्र षष्ठ्याः पुनर्विध्यभावादस्त्येव समास इति भावः । ब्राआहृणपणनमिति । पणतेः प्रत्युदाहरणम् । अत्र पणिर्न व्यवाहारार्थ इत्याह — स्तुतिरित्यर्थ इति । वस्तुतःकर्मीभूतब्राआहृणसम्बन्धिनी स्तुतिरित्यर्थः । अत्रापि अस्त्येव समास इति भावः ।", "23058": "<<दिवस्तदर्थस्य>> - दिवस्तदर्थस्य पूर्वसूत्रे निर्दिष्टव्यवह्मपणौ तच्छब्देन परामृश्येते । तयोः=व्यवह्मपणोरर्थ एवार्थो यस्येति विग्रहः । तदाह — द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणमर्थो यस्य दिव इति विग्रहः । क्रयेति । क्रयविक्रयविषयकमूल्यसंवादोऽर्थो यस्यदिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणः शेषत्वविवक्षाऽभावात् 'षष्ठी शेषे' इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम् । तद्ध्वनयन्नुदाहरति — शतस्य दीव्यतीति । शतमक्षक्रीडनेन, क्रयविक्रयविषयकमूल्यसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः । अत एवद्वितीया ब्राआहृणे॑ इत्युत्तरसूत्रेगामस्य तदहः सभायां दीव्येयुः॑ इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थ॑मित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः ।", "23059": "<<विभाषोपसर्गे>> - प्रेष्यब्राउवोः । देवतासप्रदानके इति । देवता संप्रदानं यस्य तस्मिन्नित्यर्थः । प्रेष्यब्राउवोरिति । 'ईष गतौ' दिवादिः श्यन्नन्तः, उपसर्गवशात्प्रेरणे वर्तते । प्रेष्यश्च ब्राऊश्चा तयोरिति विग्रहः । कर्मण इति ।अधीगर्थे॑त्यतः कर्मणीत्यनुवृत्तं षष्ठआ विपरिणम्यत इति भावः । हविष इति । हविश्शब्दो न स्वरूपपरः किंतु हविर्विंशेषवाचकशब्दपरः , व्याख्यानात् । तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विंशेषवाचकशब्दपरः, व्याख्यानात् । तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विशेषवाचकशब्दपरः, व्याख्यानात् । तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विशेषस्तद्वाचकाच्छब्दात्षष्ठीति फलितम् । अत्रापि शेष इति नानुवर्तते, व्याख्यानात् । तथाच द्वितीयापवादोऽयम् । अग्नये छागस्येति । मैत्रावरुणं प्रति अध्वर्युकर्तृकोऽयं सम्प्रैषः । हे मैत्रावरुण । अग्न्युद्देशेन प्रदास्यमान छागसम्बन्धि यद्धविः वपाख्यं मेदोरूपं तत्प्रेष्य ।होता यक्षदग्न छागस्य वपाया॑मेदसो जुषतां हविर्होतर्यजे॑ति प्रैषेण प्रकाशयेत्यर्थः । अत्र यद्यपिअग्नये छागस्य वपाया मेदसः प्रेष्ये॑त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणात्क्वचिच्छाखायां ज्ञेयः । मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते । अनुब्राऊहि वेति ।अग्नये छागस्य हविषो वपाया मेदसः प्रेष्ये॑त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणत्क्वचिच्छाखायां ज्ञेयः । मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते । अनुब्राऊहि वेति ।अग्नये छागस्य हविषो वपाया मेदसः प्रेष्ये॑त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणात्क्वचिच्छाखायां ज्ञेयः । मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते । अनुब्राऊहि वेति ।अग्नये छागस्य हविषो वपाया मेदसोऽनुब्राऊही॑त्युदाहरम् । हे मैत्रावरुण ! अगन्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः-वपाख्यं मेदोरूपं — तत्पुरोऽनुवाक्यया प्रकाशयेत्यर्थः । प्रेष्यब्राउवोः किम् । अग्नये छागस्य हविर्वपां मेदो जुहुधि । हविषः किम् । अग्नये गोमयानि प्रेष्य । देवतासंप्रदाने किम् । माणवकाय पुरोडाशं प्रेष्य ।हविषः प्रस्थितत्वविशेषणे प्रतिषेधो वक्तव्यः॑ । इन्द्राग्निभ्या#ं छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य । प्रस्थितमिति । अव्यक्तमित्यर्थः ।", "23060": "", "23061": "", "23062": "", "23063": "", "23064": "<<कृत्वोऽर्थप्रयोगे कालेऽधिकरणे>> - कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थो येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति ।दिवस्तदर्थस्ये॑त्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतोऽधिकरणीभूतं यदहस्तत्संबन्धि भोजनमित्यर्थः ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति ।द्वित्रिचतुभ्र्यः सुच् इति कृत्वोऽर्थे सुच् । अत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव,नतु षष्ठी ।", "23065": "<<कर्तृकर्मणोः कृति>> - कर्तृकर्मणोः कृति । कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः । फलितमाह — कृद्योग इति । तत्र कर्तर्यु दाहरति — कृष्णस्य कृतिरिति । भावे स्त्रियां क्तिन् । कृष्णक्रतृका सृष्टिरित्यर्थः । कर्मण्युदाहरति-जगत इति । जगत्कर्मकसृष्टनुकूलव्यापारवानित्यर्थः । गुणकर्मणीति । कृदन्तद्विकर्मकधातुयोगेऽप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः । प्रधानकर्मणि तु नित्यैव षष्ठी ।अकथितं चे॑त्यत्र भाष्ये स्थितमेतत् । नेताऽआस्येति ।अकथितं चे॑त्यत्रग्राममजां नयती॑त्युदाहरणे अजा प्रदानं कर्म, ग्रामस्तु गुणकर्मेति प्रपञ्चितं प्राक् । तद्रीत्या अत्र अआः प्रधानकर्म, रुआउघ्नस्तु गुणक्रमेति ज्ञेयम् । स्यादेतत् — कृतीति व्यर्थम् । नच तिङ्व्यावृत्त्यर्थं तदिति वाच्यम्,ओदनं पचती॑त्यादौन लोके॑ति लादेशयोगे षष्ठीनिषेधादेव षष्ठभावसिद्धेः ।शतेन क्रीतः शत्योऽआः॑ इत्यादौ तु तद्धितयप्रत्ययाभिहितत्वादेवाऽआआदेः षष्ठी न भविष्यति । न च देवदत्तं हिरुगित्यादौ हिरुगाद्यव्ययबोध्यवर्जनादिक्रियां प्रति कर्मंत्वादनेन षष्ठी शङ्क्या,न लोकाव्यये॑ति तन्निषेधात् । शेषत्वविवक्षायां तु षष्ठत्र इष्यत एव । एवञ्च परिशेष#आत्कृद्योग एवेयं षष्ठी पर्यवस्यतीति किं कृद्ग्रहणेनेति पृच्छति — कृति किमिति । उत्तरमाह — तद्धिते इति । तद्धितयोगे षष्ठीनिवृत्त्यर्थमिति यावत् । कृतपूर्वी कटमिति । कटः पूर्वं कृतोऽनेनेति लौकिकविग्रहः । तत्र पूर्वमिति क्रियाविशेषणं । 'सुप्सुपा' इति समासः । अनेनेत्यनुवृत्तौ क-तपूर्वशब्दात् 'पूर्वादिनः'सपूर्वाच्चे॑ति इनिप्रत्ययस्तद्धितः । तत्र करोतिक्रियापेक्षया कटस्य कर्मत्वादनेन षष्ठीप्राप्तौ तद्धितयोगान्न भवति । ननु कृतः कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन समासो न संभवति, कृतशब्दस्य कटशब्दापेक्षत्वेन सामर्थ्यविरहात् । अत एव तद्धितैनिप्रत्ययोऽपि दुर्लभः । किञ्च कृतमिति क्तप्रत्ययेन कटस्य कर्मणोऽभिंहितत्वेन ततः षष्ठ्याः प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन कृद्ग्रहणेन । क्तप्रत्ययेन कुता अभिहितत्वादेव कटाद्द्वितीयापि दुर्लभेति चेत्, मैवम्, कृत अम् पूर्वं अम् इत्यलौकिकविग्रहवाक्ये कटस्याऽसंनिहिततया कर्मत्वेनान्वयाऽसंभवेन कृञ्धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्याऽसंभवे सति 'नपुंसके भावे क्तः' इति भावे क्तप्रत्यये कृते सति कृतशब्दस्य कटशब्दसापेक्षत्वाऽभावात्समासतद्धितौ निर्बाधौ । ततश्च कृतपूर्वीति तद्धितान्तस्य पूर्व कृतवानित्यर्थः पर्यवस्यति । किं कृतवानिति कर्मजिज्ञासायां कटमित्यन्वेति, गुणभूतयापि क्रियया कारकसंबन्धस्य कटं कृतवानित्यादौ दर्शनात् । तच्च कर्मत्वं न क्तप्रत्ययेनाभिहितम्, तस्य भावे विधानात् । नापीनिप्रत्ययेन, तस्य कर्तरि विधानात् । तथाच असति कृद्ग्रहणे षष्ठी स्यात् । तन्निवृत्त्यर्थं कृद्ग्रहणमिति भाष्ये स्पष्टम् । न च निष्ठायोगे निषेधादेवात्र षष्ठी न भविष्यतीति वाच्यं,नपुंसके क्ते भावे षष्ठआ उपसङ्ख्यान॑मिति 'क्तस्य च वर्तमाने' इति सूत्रस्थवार्तिकेन निष्ठायोगे षष्ठीनिषेधस्यात्राऽप्रसक्तेः । तथाच षष्ठभावे उक्तरीत्याऽनबिहितत्वाद्द्वितीया सुलभैव । नच कृतेऽपि कृद्ग्रहणे षष्ठी दुर्वारा, कृतेति क्तप्रत्ययात्मककृद्योगस्य सत्त्वादिति वाच्यं, कृद्ग्रहणसामर्थ्येन भाष्योदाहरणेन च वृत्त्यन्तर्भावानापन्नकृद्योगस्य विवक्षितत्वात् । प्रकृते च कृतेत्यस्य तद्धितवृत्त्यन्तर्भूतत्वान्न तद्योगः षष्ठीनिमित्तम् । नचैवं सति 'ओदनस्य पाचकतमः'ओदनस्य पाचकग्रहण॑मित्यादौ षष्ठी न स्यात् , वृत्त्यनन्तर्भूतकृद्योगाऽभावात् । तथाच ओदनं पाचकतमः, ओदनं पाचकग्रहणमिति द्वितीयैव स्यादिति वाच्यम्, इष्टापत्तेः । अत एव मतुबधिकारेप्रज्ञाश्रद्धार्चाभ्यो णः॑ इत्यत्रप्राज्ञो व्याकरण॑मित्युदाहरिष्यते मूलकृता । नचैवं 'घटः क्रियत' इत्यत्रापि कर्मणो विवक्षाऽभावमाश्रित्य भावलकारे सति अनन्तरं घटस्य कर्मत्वेनाऽन्वयसंभवादनभिहितत्वाद्द्वितीया दुर्वारेति वाच्यं, वैषम्यात् । कृतपूर्वीत्यत्र हि अलौकिकविग्रहदशायां कटशब्दस्याऽसंनिधानात् कर्मणो विवक्षा न संभवतीति भावे क्तप्रत्यय इति युक्तमाश्रयितुम् । 'क्रियते' इत्यत्र तु न संभवत्येवाऽविवक्षा, कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपवृत्तिपञ्चकानन्तर्भूतत्वेन वृत्तिशून्यतया विग्रहाऽभावात् । तथाच वृत्तिविषयएवायं व्युत्पत्तिप्रकार इति प्राचीनमतानुसारी पन्थाः । शब्देन्दुशेखरे तु 'ओदनं पाचकतम' इत्यादौ द्वितीयाऽसाधुरेव, षष्ठएव साधुरिति प्रपञ्चितम् । विस्तरभयान्नेह तल्लिख्यते । ननु भट्टिकाव्येददैर्दुःखस्यमादृग्भ्यो धायैरामोदमुत्तमम् । लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः॑ इति श्लोकोऽस्ति । श्रीरामस्य विरहार्तस्य वाक्यमेतत् । अत्र दुःखस्येति तनोरिति च कर्मणि षष्ठी । मादृग्भ्यो दुःखं ददैः=ददद्भ#इ#ः, पुष्पादीनामामोदं=परिमलं धायैः=पोषकैः, तनोः=तनुं शरीरं लिम्पैः=लिम्पद्भिः कः चेतयः=प्राणी, ज्वलः=ज्वलन्निव न स्यादित्यर्थः । अत्रामोदस्योत्तमस्येति कर्मणि षष्ठआ भाव्यम् । धायशब्दस्य पोषणार्थकधाञ्धातोः 'ददातिदधात्योः' इति णप्रत्ययात्मककृदन्तत्वादिति चेत्, न, उत्तममामोदं पुष्पादीनां गृहीत्वा दुःखस्य पौषकैरित्येवं गृहीत्वेत्यध्याह्मत्य तद्योगे द्वितीयाया उपपत्तेः ।", "23066": "<<उभयप्राप्तौ कर्मणि>> - उभयप्राप्तौ कर्मणि । पूर्वसूत्रात्कृतीत्यनुवर्तते । उभयप्राप्ताविति बहुव्रीहिः । अन्यपदार्थः कृत् । तदाहः-उभयोः प्राप्तिर्यस्मिन्कृतीति । एकस्मिन्कृति उभयोः=कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्ठी स्यात्, नतु कर्तरीति यावत् । आश्चर्य इति । अगोपकर्तृको गोकर्मको यो दोहः सोऽद्भुत इत्यर्थः । उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्रापि कर्मण्येव षष्ठी स्यान्न तु कर्तरि बहुव्रीह्राश्रयणे तु एकस्यैव कृतो निमित्तत्वलाभाद्भिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति ।स्त्रीप्रत्यययोरिति । वार्तिकमेतत् ।स्त्रियां क्ति॑न्नित्यधिकारविहितयोरकाऽकारप्रत्यययोः कृतोः प्रयोगे 'कर्मण्येवे' त्युक्तनियमो नास्तीत्यर्थः । कर्तर्यपि षष्ठी भवतीति फलितम् । भेदिकेति । धात्वर्थनिर्देशे ण्वुल् । अकादेशः, टाप्,प्रत्ययस्थादि॑तीत्त्वम् । विभित्सेति । भिदेः सन्नान्तात्अ प्रत्यया॑दित्यकारप्रत्ययष्टाप् । रुद्द्रकर्तृकं जगत्कर्मकं भेदनं, भेदनेच्छा वेत्यर्थः । शेषे विभाषेति । इदमपि वार्तिकम् । अकाऽकारप्रत्ययव्यतिरिक्तप्रत्ययोगे 'उभयप्राप्तौ' इति नियमो विकल्प्य इत्यर्थः । स्त्रीप्रत्यये इत्येके इति । उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाऽकारभिन्नस्त्रीप्रत्यये इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाऽकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उक्तविकल्प इत्यर्थः । शब्दानामिति । आचार्यकर्तृकं शब्दक्रमकमनुशासनमित्यर्थः । अनुशासनमसाधुभ्यो विवेचनम् ।", "23067": "<<क्तस्य च वर्तमाने>> - क्तस्य च वर्तमाने । ननुकर्तृकर्मणोः कृती॑त्येव सिद्धे किमर्थमिदमित्यत आह-न लोकेति । राज्ञां मतो बुद्धः पूजितो वेति । मनुधातोः बुधधातोः पूजधातोश्चमतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तप्रत्ययः । तत्र मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । राजकर्तृकवर्तमानेच्छाविषयः, राजकर्त्तृकवर्तमानज्ञानविषयः, राजकर्तृकवर्तमानपूजाश्रय इति क्रमेणार्थः ।पूजितो यः सुरासुरैः॑ 'त्वया ज्ञातो घटः' इत्यत्र तु भूते क्तप्रत्ययो बोध्यः ।", "23068": "<<अधिकरणवाचिनश्च>> - अधिकरणवाचिनश्च । शेषपूरणेन सूत्रं व्याचष्टे — क्तस्य योगे षष्ठीति । शयितमिति । शेतेऽस्मिन्निति शयितम् । 'शीङ् स्वप्ने'क्तोऽधिकरणे च ध्रौब्ये॑ति क्तप्रत्ययः । तत्र एषामिति कर्तरि षष्ठी ।न लोके॑निषेधापवादः । भुजेस्तु प्रत्यवसानार्थकत्वादधिकरणे क्तप्रत्ययः ।इदमेषां भुक्तमोदनस्ये॑त्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी । 'उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेनकर्तृकर्मणोः कृती॑ति षष्ठआ एव तन्नियमाभ्युपगमात् ।", "23069": "<<न लोकाव्ययनिष्ठाखलर्थतृनाम्>> - न लोक । एषामिति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन् एषामित्यर्थः । उ, उक इत्यत्र सवर्णदीर्घे सति ऊकेति भवति । ततो ल-ऊकेत्यत्र आद्गुणे लोकेति भवति । लादेशेति । अविभक्तिकनिर्देशोऽयं लादेशोदाहरणसूचनार्थः । ल इति लडादीनां सामान्येन ग्रहणम् । तेषां च साक्षात्प्रयोगाऽभावात्तदादेशग्रहणमिति भावः । कुर्वन्कुवाणो वेति । लटः शतृशानचौ । इह कर्मणि षष्ठीनिषेधाद्द्वितीया । उ इति । उदाहरणसूचनमिदम् । उ इत्यनेन कृतो विशेषणात्तदन्तविधिः । हरिं दिदृक्षुरिति । दृशेः सन्नन्तात् 'सनाशंसभिक्ष उः' इति उप्रत्ययः कृत् । व्यपदेशिवत्त्वेन उकारान्तोऽयं कृत् । हरिकर्मकदर्शनेच्छावानित्यर्थः । अलङ्करिष्णुर्वेति । हरिमित्यनुषज्यते ।अलं कृञि॑त्यादिना ताच्छील्यादाविष्णुच् । उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात् । उक इति । इदमपि तदुदाहरणसूचनार्थम् । दैत्यान्घातुको हरिरिति ।आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॑ इत्यधिकारेलषपतपदस्थाभूवृषहनकमगमशृभ्य उकञि॑ति तच्छीलादिषु हनधातोः कर्तरि उकञ्प्रत्ययः, उपधावृद्धिः । 'हो हन्तेः' इति हस्य घत्वम् । 'हनस्तोऽचिण्णलोः' इति नकारस्य तकारः । घातनशीलः, घातनधर्मा घातनसाधुक#आरी वेत्यर्थः ।कमेरिति । वार्तिकमिदम् । उकान्तकमेर्योगे षष्ठआ निषेधो नास्तीत्यर्थः । लक्ष्म्याः कामुक इति ।लषपते॑त्यादिना उकञ् । अव्ययमिति । उदाहरणसूचमिदम् । जगत्सृष्ट्वेति ।हरिरास्ते॑इति शेषः । 'समानकर्तृकयोः' इति क्त्वाप्रत्ययः । क्त्वातोसुन्कसुनः॑ इति अव्ययत्वम् । सुखं कर्तुमिति ।भक्तस्य हरिः प्रभवती॑ति शेषः ।तुमिन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति तुमुन् । 'कृन्मेजन्तः' इत्यव्ययत्वम् । इह कृदव्ययमेव गृह्रत इति केचित् । वस्तुतस्त्वविशेषादकृदन्तमपीति तत्त्वम् । देवदत्तं हिरुक् । तत्कर्मकं वर्जनमित्यर्थः । निष्ठेति । उदाहरणसूचनमिदम् ।क्तक्तवतू निष्ठा॑ । विष्णुना हता इति । अत्र भूते इति कर्मणि क्तः । कर्तरि षष्ठीनिषेधात्तृतीया दैत्यान्हतवानिति । भूते कर्तरि क्तवतुः । कर्मणि षष्ठीनिषेधाद्द्वितीया । खलर्था इति । उदाहरणसूचनमिदम् । ईषत्कर इति ।ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् इति कर्मणि खल् । अर्थग्रहणात् 'आतो युच्' इति खलर्थको युजपि गृह्रते । ईषत्पानः सोमो भवता । ननु तृन्नित्यनेन यदि तृनेव गृह्रेत तर्हि 'सोमं पवमान' इत्यादौ निषेधो न स्यादित्यत आह — तृन्निति प्रत्याहार इति । कुत आरभ्य किमन्तानामित्यत आह — तृशब्दादारभ्य तृनो नकारादिति । लटः शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशब्दः, तत आरभ्य 'तृन्' इति सूत्रस्थनकारपर्यन्तानामित्यर्थः ।लटः शतृशानचावप्रथमासमानाधिकरणे,॑ 'सम्बोधने च,' 'तौ ससू'पूङ्यजोः शानन्,ताच्छील्यवयोवचनशक्तिषु चानश॑\t,इङ्धार्योःशत्रकृच्छ्रिणि॑, 'द्विषोऽमित्रे,' 'सुञो यज्ञसंयोगे,'अर्हः प्रशंसायाम्,आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॑, 'तृन्' इति सूत्रक्रमः । अत्र शानन्नादितृन्नन्तानां ग्रहणं, नतु 'लटः शतृ' इति तृशब्दस्यापि शत्रादेशैकदेशस्य, तस्य क्वापि पृथक् प्रयोगानर्हत्वात् । नापि शानचः, लादेशत्वादेव सिद्धे इति स्थितिः । शानन्निति । उदाहरणसूचनमिदम् । सोमं पवमान इति ।पूयङ्यजोः शानन् । आत्मानं मण्डयमान इति । 'मडि भूषायाम्'ताच्छील्यवयोवचन॑इति चानश् । शतृ इति । उदाहरणसूचनमिदम् । वेदमधीयन्निति । 'इङ्धार्योः' इति शतृप्रत्ययः । तृन्निति । उदाहरणसूचनमिदम् । कर्ता लोकानिति । तृन्निति सूत्रेण तच्छीलादिषु तृन्प्रत्ययः शानन्नादितृन्नन्तानां लादेशत्वाऽभावात्प्रत्याहाराश्रयणमिति बोध्यम् । द्विषः शतुर्वेति । शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः । मुरस्य मुरं वा द्विषन्निति । द्विषोऽमित्रे ॑ इति शतृप्रत्ययः । तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषेधे प्राप्ते विकल्पोऽयम् । सर्वोऽयमिति ।अनन्तरस्ये॑ति न्यायादिति भावः । शेषे षष्ठी त्विति । शब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः । ब्राआहृणस्य कुर्वन्निति ।हरि॑रिति शेषः । लटः शत्रादेशः । मुखतो ब्राआहृणसंबन्धिसृष्टनुकूलव्यापारवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव । नरकस्य जिष्णुरिति ।ग्लाजिस्थश्च ग्स्नुः॑ इति तच्छीलादिषु ग्स्नुप्रत्ययः । नरकसंबन्धिजयवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव ।", "23070": "", "23071": "<<कृत्यानां कर्तरि वा>> - कृत्यानाम् । शेषपूरणेन सूत्रं व्याचष्टे — षष्ठी वा स्यादिति । 'कृत्या' इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्ययविशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । कर्तृकर्मणोः॑ इति नित्यं प्राप्ते विकल्पोऽयम् । मया मम वा सेव्यो हरिरिति । 'षेवृ सेवायाम्'ऋहलोण्र्य॑दिति कर्मणि ण्यत्प्रत्ययः । अस्मच्छब्दार्थस्य कर्तुरनभिहितत्वात्षष्ठींतृतीये । गेय इति । नन्विह साम्नः कर्मत्वस्यअचो य॑दिति यत्प्रत्ययाभिहितत्वात्कथं षष्ठीप्रसक्तिरित्यत आह — भव्येति । ननुनेतव्या व्रजं गावः कृष्णेने॑त्यत्र कृत्यसंज्ञकतव्यप्रत्यययोगात् 'उभयप्राप्तौ' इति बाधित्वा कृष्णात्षष्ठीविकल्पः स्यात्, व्रज्रात्तुकर्तृकर्मणोः कृती॑ति नित्यं स्यादित्यत आह-अत्र योगो विभज्यत इति । विभागप्रकारं दर्शयति — कृत्यानामिति । अनुवर्तत इति । तथाच कृत्ययोगे कर्तृकर्मणोरुभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति । 'गुणकर्मणि वेष्यते' इति व्रजाद्विकल्पस्तु न भवति, नेता अआस्य रुआउघ्नस्य रुआउघ्नं वेति उभयप्राप्तिरहिते कृत्यव्यतिरेक्ते चरितार्थस्यदोग्धव्या गाः पयः कृष्णेने॑त्यादौ गुणकर्मण उक्तत्वेन प्रधानकर्मणि चरितार्थेनान#एन परत्वाद्बाधात् । ततः कर्तरि वेति ।कृत्याना॑मिति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक्प्रेणतव्यमित्यर्थः । उक्तोऽर्थ इति ।कृत्याना॑मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । उक्तोऽर्थ इति ।कृत्याना॑मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । अनुभयप्राप्तिविषयेमया मम वा सेव्यो हरि॑रित्यादाविदमवतिष्ठते ।", "23072": "<<तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्>> - अथोपपदविभक्तयः । तुल्यार्थैः । शेषषष्ठआं नित्यं प्राप्तायां तृतीयाविकल्पोयम् । तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम् । तेन 'गौरिव गवय' इत्यादौ नेत्याहुः । अतुलोपमाभ्यामिति पर्युदासादनव्यययोग एवेदमित्यन्ये ।", "23073": "<<चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः>> - चतुर्थी च । एतदर्थैरिति । आयुष्य, मद्र भद्र, कुशल, सुख, अर्थ, हित-एतदर्थकैरित्यर्थः । पक्षे षष्ठीति । चकारेण तत्समुच्चायावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितमिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ । शमिति सुखपर्यायः । प्रयोजनमित्यर्थपर्यायः । पथ्यमिति हितपर्यायः ।हितयोगे चे॑ति नित्यचतुर्थी तु नाशिषि ज्ञेया । ननुस्वं रूपमि॑ति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचितमित्यत आह — व्याख्यानादिति । ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थैरिति व्याख्यानमयुक्तमित्यत आह — मद्रभद्रयोरिति । इति षष्ठी ।", "24001": "<<द्विगुरेकवचनम्>> - द्विगुरेकवचनम् । अत्रसमाहारग्रहणं कर्तव्य॑मिति वार्तिकात्समाहार इति लभ्यते । वक्तीति वचनम् । बाहुलकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुरेकार्थप्रतिपादकः स्यादिति लभ्यते । तत्र यदि समाह्यियत इति कर्मणि घञि समाहारशब्दः समाह्मतप्रधानः तदा समाह्मतगतद्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशः सम्पद्यते । तदाह — द्विग्वर्थः समाहार एकवदिति । यदा समाहरणं समाहारः=समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवं चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलतीत्याहुः ।स नपुंसकमिति । समाहारे द्विगुद्र्वन्द्वश्च नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते ।[इति द्विगुसमासः] ।", "24002": "<<द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्>> - द्वन्द्वश्च प्राणि ।प्राणितूर्यसेनाङ्गानी॑ति द्वन्द्वगर्भषष्ठीसमासः । द्वन्द्वान्ते श्रूयमाणोऽङ्गशब्दः प्रत्येकं संबध्यते, इत्यभिप्रेत्याह — एषामिति । प्राण्याङ्गानां तूर्याङ्गानां सेनाङ्गानां चेत्यर्थः । द्वन्द्व इति । समाहारद्वन्द्व इत्यर्थः ।द्विगुरेकवचन॑मिति पूर्वसूत्रेसमाहारग्रहणं कर्तव्य॑मिति वार्तिकस्यात्राप्यनुवृत्तेः । एकवदिति ।एकवचन॑मित्यनुवर्तते । एकं वक्तीत्येकवचनम् । ल्युट् । सामान्याभिप्रायं नपुंसकम् । पाणिपादमिति । पाण्योः पादयोश्च समाहार इति विग्रहः । अत्र समाहारे एकवत्त्वं,स नपुंसक॑मिति नपुंसकत्वं च । पाण्योः पादयोश्च प्राण्यवयवत्प्राण्यङ्गोदाहरणमिदम् । अत तूर्याङ्गद्वन्द्वे उदाहरति — मार्दङ्गिकपाणविकमिति । मृगङ्गपणवशब्दौ वाद्यविशेषपरौ । इह तु तद्वादनेऽपि वर्तेते । मृदङ्गवादनं शिल्पमस्येत्यर्थेशिल्प॑मिति ठक् । मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः । तूर्याङ्गत्वादेकवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम् ।स नपुंसक॑मिति नपुंसकत्वम् । सेनाङ्गद्वन्द्वे उदाहरति — रतिकाआआरोहमिति । रथेन चरन्तीति रथिकाः ।पर्पादिभ्यः ष्ठन् । रथिकानामआआरोहाणा च समाहार इति विग्रहः । सेनावयवत्वादेकवत्त्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य इति विग्रहः । सेनावयवत्वादेकवत्त्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहरस्य विशेष्यत्वात्तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह — समाहारस्यैकत्वादिति । समाहार एवेति । न त्वितरेतरयोगः । एषां द्वन्द्वे नियमार्थं सूत्रमित्यर्थः । एवमुत्तरसूत्राण्यपि समाहर एवेति नियमार्थानि । नचेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु । तथा च 'पाणिपाद' इति पुंलिङ्गमेकवचनान्तं रूपं फलमिति वाच्यं,समाहारग्रहणं कर्तव्य॑मिति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्चा । नच रथिकमार्दङ्गिकावित्यादावतिप्रसङ्गः शङ्क्यः, प्राण्यङ्गानां परस्परद्वन्द्व एकवत्, तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाह्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम् ।", "24003": "<<अनुवादे चरणानाम्>> - अनुवादे चरणानाम् । चरणानां द्वन्द्व एकवदिति । शाखाध्येतृविशेषणास्चारणाः । तद्वाचिना परस्परद्वन्द्वः । एकवदित्यर्थः । 'अनुवादे' इत्येतद्व्याचष्टे — सिद्धस्योपन्यासे इति । अवगतार्थस्य प्रतिपादने इत्यर्थः । स्थेणोरिति । लुङीति प्रत्येकमन्वयाभिप्रायमेकवचनम् । लुङन्ते स्थाधातौ, लुङन्ते इण्धातौ च प्रयुज्यमान एव अनुवादे चरणानां द्वन्द्व एकवदिति वक्तव्यमित्यर्थः । उदगादिति । प्रादुरभूदित्यर्थः । इण्धातोर्लुङि रूपम् । कठकालापमिति । कठेन प्रोक्तमधीयते इति कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्यकठचरका॑दिति लुक् । ततोऽध्येतृप्रत्ययस्यप्रोक्ताल्लु॑गिति लुक् । कलापिना प्रोक्तमधीयते इति कालापाः । प्रोक्तार्थेकलापिनोऽण् । सब्राहृचारिपीठसर्पित्यापिना टिलोपः । ततोऽध्येत्रणःप्रोक्ताल्लु॑गिति लुक् । कठानां कालापानां च समाहार इति विग्रहः । प्रत्यष्ठादिति । प्रतिपूर्वात्स्ताधातोर्लुङि रूपम् । कठकौतुममिति । कठेन प्रोक्तमधीयत इति कठाः । कौथुमिना प्रोक्तमधीयते इति कौथुमाः । प्रोक्तेऽर्थेतेन प्रोक्त॑मित्यण् ।सब्राहृचारी॑त्यनेन टिलोपः । ततोऽध्येत्रणो लुक् । कठानां कौथुमानां च समाहार इति विग्रहः । यदा कठाः कलापाश्च उदिताः, यदा कठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसङ्कतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्वसिद्धयोरनुवादादेकत्वम् । स्थेणोः किम् । अभूवन्कठकालापा#ः । लुङि किम् । अतिष्ठन्कठकालापाः ।", "24004": "<<अध्वर्युक्रतुरनपुंसकम्।>> - अध्वर्युक्रतुः । अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकजुर्वेदपरः । तदाह — यजुर्वेद इति । अर्काआमेधमिति । अर्को — महाक्रतुः । अआमेधो नाम प्रसिद्धः । उभौ यजुर्वेदविहितक्रतू । अर्कस्य च अआमेधस्य च समाहार इति विग्रहः । इषुवज्राविति । क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन्वेदे विहितावित्यत आह — सामेति । राजसूयवाजपेये इति । एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः । राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह — अर्धर्चादी इति । अध्ययनतः ।अविप्रकृष्टाख्याना॑मिति च्छेदः । 'अध्ययनत' इति तृतीयार्थे तसिः ।", "24005": "<<अध्ययनतोऽविप्रकृष्टाख्यानाम्>> - तदाह — अध्ययनेन प्रत्यासन्नेति । संनिकृष्टेत्यर्थः । पदककक्रमकमिति । पदान्यधीयते पदकाः । क्रमान् अधीयते क्रमकाः ।क्रमादिभ्यो बुन् । पदकानां क्रमकाणां च समाहर इति विग्रहः । पदाध्ययनानन्तरं क्रमाध्ययनमित्यद्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम्,जातिरप्राणिना॑मित्येव सिद्धेः । तदध्येतृत्वे तु न जातिरिति भावः ।", "24006": "<<जातिरप्राणिनाम्>> - जातिरप्राणिनां ।जाति॑रिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा जातिवाचिनामित्यर्थः । धानाशुष्कुलीति । धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकवत्त्वम्, नपुंसकत्वाद्ध्रस्व इति भावः । विट्छूद्रा इति । विशश्च शूद्राश्चेति विग्रहः । द्रव्यजातीयानामेवेति ।अप्राणिना॑मिति पर्युदासे सति नञिवयुक्तन्यायादिदं लभ्यत इति भावः । रूपरसाविति । गुणगतजातिवचावेतौ । गमनाकुञ्चने इति । क्रियागतजातिविशेषवाचिनावेतौ । ननु बदर्याः फलानि बदरामि, आमलक्याः फलान्यामलकानि ।फले लु॑गिति विकारप्रत्ययस्य लुकिलुक्तद्धितलुकी॑ति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यजातिविशेषवाचिनावेतौ । ततश्च बदराणि चामलकानि च बदरामलकं, बदरामलकानीति कथं रूपद्वयम् ,जातिरप्राणिना॑मित्येकवत्त्वस्य नित्यत्वादित्यत आह — जाति प्राधान्ये इति । व्यक्तिविशेषाऽनादरेण सकलतत्तद्व्यक्त्यनुस्यूतजातिविवक्षायामित्यर्थः ।घटमानये॑त्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः । जातेश्च निराश्रयाया उपस्थित्यसंभवादाश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात्कृत्स्नाप्युपस्थिता । तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्तमानकृत्स्नव्यक्तीनां च क्रियान्वयाऽसंभवाद्ध्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति । इदमेव च जातेः प्राधान्यं, तत्तज्जात्याश्रयसकलतत्तद्व्यक्तिबोधकत्वात्मकम् । 'घटाः शुक्लाः' इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवसाद्व्यक्तिविशेषामेव जातिरुपस्थापयतीति जातेरप्रधान्यम्, जात्याश्रयसकलव्यक्त्यनुपस्थधापकत्वादिति 'तस्यादितः' इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यया बदरत्वजात्या, आमलकत्वजात्या चाऽविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमित्येकवद्भावः । द्रव्यविशेषेति ।आरण्यानि बदरामलकानी॑त्यादौ फलत्वव्याप्यबदरत्वामलकत्वादिजातिभ्यामारण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः, ग्राम्याणां व्यक्तीनामनुपस्थितेस्तयोर्जात्योरप्राधान्यान्ना.डयमेकवद्बाव इत्यर्थः ।क्षीरोदके संपृक्ते॑इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः ।", "24007": "<<विशिष्टलिङ्गो नदी देशोऽग्रामाः>> - विसिष्टलिङ्गो नदीदेशोऽग्रामाः । अग्रामा॑ इति च्छेदः । व्यत्ययेन बहुत्वे एकवचनम् । विपूर्वकशिषधातुर्भेदेवर्ततेविशेषणं विशेष्येणे॑त्यादौ यथा । विशिष्टं लिङ्गं येषामिति विग्रहः । तथा च ग्रामवाचकभिन्ना भिन्नलिङ्गका ये नदीवाचिनो, ये देशवाचिनश्च तेषा द्विन्द्व एकवत्स्यादिति लभ्यते । तदाह — ग्रामवर्जेति । समाहारे द्वन्द्वः स्यादिति । एकवत्त्वविधेः फलाभिप्रायमेतत् । अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्थताया अनुपदमेवोक्तत्वात् । उद्द्यश्चेति । उद्ध्यो ना नदविशेषः । इरावती नाम कचिन्नदी । तयोर्नदीविशेषवाचकत्वादेकवत्त्वम्, नदीशब्देन नदस्यापि ग्रहणात्, अन्यथा भिन्नलिङ्गत्वाऽसम्भवादिति भावः । जाम्बवशालूकिन्याविति । 'अग्रामाः' इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वे नगरग्रामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः ।", "24008": "<<क्षुद्रजन्तवः>> - क्षुद्रजन्तवः । एतेषां द्वन्द्व एकबदित्यर्थः । फलितमाह — एषां समाहारे [एव ]द्वन्द्व इति । यूकालिक्षमिति । यूकाश्च लिक्षाश्चेति विग्रहः । केशबहुले शिरःप्रदेसे स्वेदजा जन्तविशेषा यूकाः । लिक्षाश्च प्रसिद्धाः । एकवत्त्वं, नपुंसकह्रस्वत्वं च । आ नकुलादिति ।नकुलपर्यन्ताः क्षुद्रजन्तवः॑ इति भाष्यादिति भावः ।", "24009": "<<येषां च विरोधः शाश्वतिकः>> - येषां च । शेषपूरणेन सूत्रं व्याचष्टे — एषां प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः ।शआ॑दित्यव्ययं सदेत्यर्थे वर्तते । ततो भवार्थे ठञ् । निपातनादव्ययानां भमात्रे टिलोपः, 'इसुसुक्तान्तात्कः' इति कादेशस्च न भवति । स्वाभाविक इत्यर्थः । अहिनकुलमिति । अहयो नकुलाश्चेति विग्रहः । अनयोः स्वभाविको विरोधः प्रसिद्धः । विरोधो — वैरं, नतु सहानवस्थितिः तेन छायातपावित्यत्र न भवति । 'देवाऽसुराः' इत्यत्र तु नायमेकवद्भावः, तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः कादाचित्क एव हि तेषां विरोधः, अमृतमथनादि काले तेषां विरोधाऽभावात् । ननुविभाषा वृक्षमृगे॑ति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते । तस्य तावद्गोमहिषु गोमहिषाः, हंसचक्रवाकं, हंसचक्रवाका इत्यत्रावकाशः ।येषां चे॑त्यस्य-अहिनकुलमित्यवकाशः गोव्याघ्रं काकोलूकमित्यादौ तदुभयं प्रसक्तम् । तत्र परत्वाद्क्ष्यमाणविभाषा प्राप्नोतीत्याशङ्क्याह — गोव्याघ्रमिति । चकारेणेति ।येषां चे॑ति चकारेणेत्यर्थः । एतच्च भाष्ये स्पष्टम् ।", "24010": "<<शूद्राणामनिरवसितानाम्>> - शूद्राणाम् ।अनिरवसित॑शब्दं व्याचष्टे — अबहिष्कृतानामिति ।यैर्भुक्तं पात्रं क्षारोदकप्रक्षालनेन संस्कारेणापि न शुध्यत ते निरवसिताः, — चण्डालादयः । यैस्तु भुक्तं पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः॑इति भाष्ये स्पष्टम्य । शूद्राणामिति.त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः,अनिरवसिताना॑मिति लिङ्गात् । प्राग्वदिति । समाहरद्वन्द्व एकवदित्यर्थः । तक्षायस्कारमिति । तक्षाणश्च अयस्काराश्चेति विग्रहः ।अनिरवसिताना॑मित्यस्य प्रयोजनमाह — पात्रादिति । चण्डालमृतपा इति । #एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति-अत एव भाष्याद्विज्ञेयम् । धर्मशात्रेषु च प्रसिद्धमेतत् ।", "24011": "<<गवाश्वप्रभृतीनि च>> - गवाशम्वप्रभृतीनि च । यथागणे गणितानि तथैव साधीनित्यर्थः । गवाआमिति । गावश्चाआआश्चेति विग्रहः । अत्रविभाषा वृक्षे॑ति पशुद्वन्द्वत्वाद्विकल्पे प्राप्ते नित्योऽयं विधिः ।अत्रसर्वत्र विभाषे॑ति प्रकृतिभावे पूर्वरूपे च गो-अआं, गोऽआमिति नैकवत्त्वनियमः,यथोच्चारितानी॑त्युक्तेः, गणे च गवाआमित्येव निर्देशात् । गवाआआदिषुयथोच्चारितं द्वन्द्ववृत्तमिति वार्तिकमत्र मानम् । दासीदासमिति । अत्रैकवत्त्वनियमः । पुमान्स्त्रिये॑त्येकसेषस्तु निपातनान्न । इत्यादिति । गवाविकं गवैडकमित्यादि वृत्तौ स्पष्टम् ।", "24012": "<<विभाषा वृक्षमृगतृणधान्यव्यञ्जन- पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्>> - विभाषा वक्ष । द्वन्द्व॑ इत्यनुवृत्तम् । एकापि षष्ठी विषयभेदाद्भिद्यते । वृक्षादिसप्तानामवयवत्वेनान्वयः — वृक्षादीनां द्वन्द्व॑ इति । वृक्षाद्यवयवको द्वन्द्व इति लभ्यते । अआबहबादियुगलत्रयस्य त्वभेदेनान्वयः-॒अआवडव॑, 'पूर्वापर,'अधरोत्तरे॑त्यात्मको द्वन्द्व॑ इति । तदाह — वृक्षादीनामिति । प्राग्वदिति । विकल्पेन एकवदित्यर्थः । वृक्षादाविति । वृक्षविशेषवाचिनां, तृणविशेषवाचिनां, धान्यविसेषवाचिनां पशिविशेषवाचिनां चेत्यर्थः ।स्वं रूप॑मिति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथा च वृक्षाश्च धवाश्चेत्यादौ नायं विधिरिति फलितम् । किं तुजातिरप्राणिना॑मिति नित्यमेवैकवत्त्वम् । तत्र वृक्षाद्यवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्वमुदाहरति — प्लक्षेति । प्लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति — रुरुपृषतमिति । रुरवश्च पृषताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति — कुशेति । कुशास्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति — व्रीहिति । व्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदाहरचि — दधीति । दधि च घृतं चेति विग्रहः । पसुद्वन्द्वमुदाहरति-गोमहिषमिति । गावस्च महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति — शुकेति । शुकाश्च बकाश्चेति विग्रहः । अआवडवादिद्वन्द्वमुदाहरति-अआवडवमिति । अआआश्च वडवाश्चेति विग्रहः । 'पूर्वपदआवडवौ' इति अआवडवादित्यत्र पूर्वपदवत्पुंलिङ्गता । फलसेनेति । एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । द्वन्द्वश्च प्राणी॑त्यादिसूत्रैः फलसेनादीनां द्वन्द्व एकवद्भवन् बहुवचनान्तावयवक एव एरवद्भवति, नत्वेकद्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति — बदराणि चेति । बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक् ।सुक्तद्धितलुकी॑ति स्त्रीप्रत्ययस्य लुक् । जातिरिति । बहुवचनान्तावयवकद्वन्द्वत्वात्जातिरप्राणिना॑मित्येकवत्त्वमित्यर्थः ।बहुप्रकृतिरेवे॑त्यस्य प्रयोजनमाह — नेहेति । बदरामलके इति । बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवकद्वन्द्वत्वाऽभावान्नजातिरप्राणिना॑मित्येकवत्त्वम् । रतिकाआआरोहाविति । अत्र सेनाङ्गत्वेऽपि नैकवत्त्वम् । प्लक्षन्यग्रोधाविति । इह वृक्षद्वन्द्वत्वेऽपिविभाषा वृक्षे॑त्येकवत्त्वं न । इत्यादीति । रुरुपृषतौ ।अत्र मृगद्वन्द्वत्वेऽपि नैकत्त्वम् । हंसचक्रवाकौ । अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्त्वम् । यूकालिक्षे । अत्र क्षुद्रजन्तुद्वन्द्वत्वेऽपि नैकवत्त्वम् । व्रीहियवौ । अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्त्वम् । कुशकाशौ । अत्र तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् । ननु 'चार्थे द्वन्द्वः' इत्यनेन#एतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वात्विभाषा वृक्षे॑ति सूत्रंव्यर्थंमित्याशङ्क्याह — विभाषेत्यादि, विकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्यव्यञ्जनद्वन्द्वेषु प्लक्षन्यग्रोधं, रुरुपृषतं, कुशकाशं, व्रीहियवं, दधिघृतमित्येतेषुजातिरप्राणिना॑मिति नित्यविहितैकवत्त्वाऽनित्यत्वार्थमप्राणिवृक्षादिग्रहणमित्यर्थः । नन्वेवमपि पशुग्रहणं व्यर्थं, तदुदाहरणेगोमहिष॑मित्यत्रजातिरप्राणिना॑मिति नित्यैकवत्त्वनियमस्याऽप्राप्त्या तन्निवृत्त्यर्थत्वाऽयोगादित्यत आह — पशुग्रहणं हस्त्यआआदिषु सेनाङ्गत्वान्नित्यं प्राप्ते इति ।विकल्पार्थ॑मित्यनुषज्यते । नन्वेवमपि मृगशकुनिग्रहणं व्यर्थं, तदुदाहरणे रुरुपृषतं शुकबकमित्यादौजातिप्राणिना॑मित्येकवत्त्वस्य सेनाङ्गनिबन्धनैकवत्त्वस्य च अप्राप्त्या तन्निवृत्त्यर्थत्वाऽभावेन 'चार्थे द्वन्द्वः' इत्येवेतरेतरयोगसमाहारद्वन्द्वाभ्यामेकवत्त्वविकल्पसिद्धेरित्यत आह — मृगाणां मृगौरेवेत्यादि, मृगशकुनिग्रहणमित्यन्तम् । मृगाणां मृगैरेव सह उभयत्र=इतरेतरयोगे समाहारे चचार्थे॑इति द्वन्द्वः । यथा — शुकबकं, शुकबकाविति । मृगाणां तदितरैः शकुनीनां तदन्यैश्च सह इतरेतरयोगद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यता — रुरुशुका इति । एतादृशनियमार्थं मृगशकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणमधरोत्तरग्रहणं च व्यर्थंसचार्थे॑इत्येव सिद्धेः ।जातिरप्राणिना॑मित्यादिनित्यैकवत्त्वस्य तत्राऽप्रवृत्त्या तन्निवृत्त्यर्थत्वाऽसंभवादित्यत आह — एवं पूर्वापरमधरोत्तरमित्यपीति । यथा मृगशकुनिग्रहणं मृगैर#एव मृगाणां, शकुनीनां तैरेव उभयत्र द्वन्द्वः, एवं पूर्वशब्दस्य अपरशब्देनैव, अधरशब्दस्य उत्तरशब्देनैव उभयत्र=इतरेतरयोगे समाहारे च द्वन्द्वः, अन्येन तु सह पूर्वोत्तरावित्यादौ इतरेतरयोगे एवेति नियमार्थं पूर्वापरग्रहणमधरोत्तरग्रहणं चेत्यर्थः । नन्वआवडवग्रहणं व्यर्थं, सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एकवद्भावविकल्पसिद्धेरित्यत आह — अआवडवेति । नपुंसकत्वविकल्पार्थमित्यर्थः । ननु समाहारस्य एकत्वादेव एकवत्त्वसिद्धेरिदमेकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति नियमार्थमित्युक्तम् । तथा च पशुद्वन्द्वत्वादेकवत्त्वविकल्पे सति समाहारे वा, इतरेतरयोगे वा द्वन्द्व इत्यनियमः पर्यवस्यति । एवंच समाहारद्वन्दवपक्षेस नपुंसक॑मिति नपुंसकत्वम्, इतरेतरयोगे तु नेति नपुंसकत्वविकल्पस्य सिद्धत्वादआवडवग्रहणं व्यर्थमेवेत्यत आह — अन्यथेति । इह नपुंसकत्वविध्यभावे समाहारद्वन्द्वपक्षेऽपिस नपुंसक॑मिति नपुंसकत्वं बाधित्वा परत्वात् 'पूर्वपदस्ववडवौ' इह पुंस्त्वं स्यात् । नपुंसकविधौ तु तत्सामर्थ्यात्समाहारद्वन्द्वपक्षे 'पूर्वपदआवडवौ' इत्येतद्बाधित्वा नपुंसकत्वं भवत्येव । अधिकारप्राप्तपूर्ववदओत्येतत्तु इतरेतरयोगद्वन्द्वे सावकाशमिति भावः ।", "24013": "<<विप्रतिषिद्धं चानधिकरणवाचि>> - विप्रतिषिद्धं च ।विभाषे॑त्यनुवर्तते । विप्रतिषेधो विरोधः, सहानवस्थानलक्षणः । अधिकरणं-द्रव्यम् । अद्रव्यवाचि विरुद्धार्थकं च यदनेकं सुबन्तं तदवयवको द्वन्द्वो विभाषैकवद्भावक इत्यर्थः । फलितमाह — विरुद्धार्थानामिति । गोत्वाआत्वम् । गोत्वाआत्वे । सुखदुःखं सुखदुःखे इत्याद्युदाहरणम् । ननु 'चार्थे' इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवत्त्वविकल्पसिद्धेरिदं व्यर्थम् । नचजातिरप्राणिना॑मिति नित्यं प्राप्तं विकल्पार्थमिति वाच्यं, जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्व एव तत्प्रवृत्तेरित्यत आह — वकल्पिक इत्यादि, नियमार्थमिदमित्यन्तम् । तेनेति । उक्तनियमेनेत्यर्थः । शीतोष्णे उदके स्त इति । अत्र विरुद्धार्थकत्वेऽपि द्रव्यवाचित्वान्न समाहारद्वन्द्व इति भावः । नन्दकपाञ्चजन्यमिति । विष्णोः कङ्गो नन्दकः, शङ्खस्तु पाञ्चजन्यः, तयोरेकत्र विष्णौसहावस्थानान् विरुद्धत्वमिति स्थितिः । इह विप्रतिषिद्धग्रहणाऽभावे 'चार्थे' इति समाहारद्वन्द्वोऽद्रव्यवाचिनामेवेति नियमो लभ्येत । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिनामेवे॑ति नियमो लभ्यते । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिष्वेव नियमितत्वात् ।विप्रतिषिद्ध॑मित्युक्तौ तुविरुद्धार्थानां समाहारद्वन्द्वश्चेत्तर्हि अद्रव्यवाचिनामेवे॑ति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्चाऽविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि 'चार्थे' इति रदाचित्समाहारद्वन्द्वः, कदाचिदितरयोगद्वन्द्वश्च भवत्येव । तदाह — इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति ।", "24014": "<<न दधिपयआदीनि>> - न दधिपयाअदीनि । नैकवत्स्युरिति । एषां समाहारद्वन्द्वो नास्तीत्यर्थः । दधिपयसी इति । दधि च पयश्चेति विग्रहः ।जातिरप्राणिना॑मिति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वात्वाद्विकल्पः प्राप्तः, सोऽपि न भवति । इध्माबर्हिषी इति । इध्मं च बर्हिश्चेति विग्रहः । दीर्घ इति ।इध्मशब्दस्ये॑ति शेषः । ऋक्सामे इति । ऋक्च साम चेति विग्रहः ।अचतुरे॑त्यादिनाऽच्समासान्तः । वाङ्मनसे इति । वाक्च मनश्चेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणेब्राहृप्रजापती॑इत्यादि पठितम् ।समाहारद्वन्द्व एवे॑ति नियमप्रकरमेपि नानेन नियमस्यैव निषेधः, 'ब्राहृप्रजापती' इत्यादौ नियमस्याऽप्राप्तेः । किंत्वेकवत्त्वस्यैव । तथाच 'चार्थे' इति समाहारद्वन्द्वस्य निषेधः फलति ।", "24015": "<<अधिकरणैतावत्त्वे च>> - अधिकरणैतावत्त्वे च । अधिकरणं-द्रव्यं, तस्य एतावत्त्वम्-इयत्ताविशेषः । तदाह — द्रव्यसङ्ख्यावगमे इति । समस्यमानपदार्थस्येयत्ताविसेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः । नियमो नेति । 'ब्राहृप्रजापती' इत्यादौ समाहार एव द्वन्द्व #इति नियमस्य प्रकृतस्याऽप्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकाऽभावात्प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः । दश दन्तोष्ठा इति । दन्ताश्च ओष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयं, न तु समाहार द्वन्द्वः । समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनाऽसामर्थ्यात् । इतरेतरयोगद्वन्द्वस्तु भवत्येव, तत्र समस्यमानपदार्थानामेव प्रधानत्वात् ।उपमितं व्याघ्रादिभिः॑ इति सूत्रभाष्ये प्रदानस्य सापेक्षत्वेऽपि समासाभ्युगमात् । ततश्चात्रैकवदेवेति नियमाऽभावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते । यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति 'दश दन्तोष्ठाः' इतीतरेतरयोगद्वन्द्वो न स्यात्,द्वन्द्वश्च प्राणितूर्ये॑ति तन्निषेधात् । तताच वाक्यमेव स्यात् । किंच समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनाऽसामर्थ्यादेवऽप्राप्तेः । अत एकवदिति नियमो न स्यादित्येव व्याख्ययेम् । एवं च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्तिफलकस्याऽनेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमञ्जर्या स्पष्टम् ।", "24016": "<<विभाषा समीपे>> - विभाषा समीपे । 'अधिकरणैतावत्त्वे' इत्यनुवर्तते । 'समीपे' इत्यस्य सामीप्येन परिच्छिन्ने सतीत्यर्थः । फलितमाह — अधिकरणेति । उपदशं दन्तोष्ठमिति । दशानां समीपे इत्यर्थेऽव्ययीभावः । उक्तरीत्याऽसामर्थ्येऽपि वचनसामर्थ्यात्समाहारद्वन्द्वः । समानलिङ्गवचनत्वादव्ययीभावस्यैवाऽनुप्रयोग इति भाष्यम् । अत एवोपदशं दन्तोष्ठेनेत्यादि सिद्धम् । समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसङ्ख्ययदन्तोष्ठसमूहः, एकादशत्वसङ्ख्यदन्तोष्ठसमूह इति वा बोधः । उपदशा दन्तोष्ठा इति । इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः । नव एकादश वेत्यर्थः ।बहुव्रीहेरेवात्राऽनुप्रयोगः, समानलिङ्गवचनत्वा॑दिति भाष्यम् ।", "24017": "<<स नपुंसकम्>> - स नपुंसकं ।द्विगुरेकवचन॑मिति द्विगुः, द्विगुः,द्वन्द्वश्च प्राणी॑ति द्वन्द्वश्च तच्छब्देन परामृश्येते । तौ च समाहारार्थावेव विवक्षितौ, व्याख्यानात् । तदाह — समाहारे इति । पञ्चगवमिति । पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्ठमिति । दन्ताश्च ओष्ठौ चेति विग्रहः ।द्वन्द्वश्च प्राणी॑ति समाहारद्वन्द्वः । अकारान्तेति । अकारान्तमुत्तरपदं यस्येति विग्रहः ।स नपुंसक॑मित्यस्यापवादः । पञ्चमूलीति । समाहारद्विगुः, स्त्रीत्वं, 'द्विगोः' इति ङीप् । आबन्तो वेति ।स्त्रियां वे॑ति वक्तव्यमित्यर्थः । पञ्चखट्वमिति । समाहारद्विगुः । नपुंसकत्वे ह्रस्वः । पञ्चखट्वीति । उपसर्जनह्रस्वत्वे अदन्तत्वात्, 'द्विगोः' इति ङीप् । अनो नलोपश्चेति । 'अन' इत्यावर्तते । एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात्, अनो नस्य लोपः स्यादित्यर्थः । वाग्रहणं स्त्रियामित्यत्रैव संबध्यते, न तु नलोपेऽपि तेन स्त्रीत्वाऽभावेऽपि नलोपः । पञ्चतक्षीति । पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं नलोपः, 'द्विगोः' इति ङीबिति भावः । पञ्चतक्षमिति । समाहारद्विगुः । स्त्रीत्वाऽभावपक्षेस नपुंसक॑मिति नपुंसकत्वं, नलोप इति भावः । न चान्तर्वर्तिर्नी विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात्न लोपः प्रातिपदिके॑त्यनेन नलोपो भविष्यतीति वाच्यम्उत्तरपदत्वे चे॑ति प्रत्ययलक्षणनिषेधात् । पात्राद्यन्तस्य नेति । पात्रादिर्गणः । तदन्तस्य समाहारद्विगोर्न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रं त्रिभुवनं चतुर्युगमिति । स्त्रीत्वाऽभावेस नपुंसक॑मिति नपुंसकत्वमिति भावः । पुण्येति । पुण्यसुदिनाभ्यां परो योऽहन्शब्दस्तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः ।रात्राह्ने॑त्यस्यापवादः । पुण्याहमिति । पुण्यमहरिति कर्मधारयः, 'राजाहः' इति टच्, टिलोपः ।उत्तमैकाभ्यां चे॑त्यत्यह्नादेशनिषेधः । सुदिनाहमिति । सुदिनमहरिति कर्मधारयः, टच्, टिलोपः । प्रशस्तपर्यायः सुदिनशब्द इति न पौनरुक्त्यम् । पथः सङ्ख्याव्ययादेरिति ।नपुंसकत्वं वक्तव्य॑मिति शेषः । संख्याव्ययेति समाहारद्वन्द्वः । संख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी । पर इति शेषः । पथ इति कृतसमासान्तादकारान्तात्प्रथमा । तदाह — सङ्ख्याव्ययादेरिति । परवल्लिङ्गतापवादः । त्रिपथमिति । 'ऋक्पूः' इति अप्रत्ययः, टिलोपः । एवं विपथमित्यपि ।प्रादयो गताद्यर्थे॑ इति समासः । सुपन्था अतिपन्था इति ।स्वती पूजाया॑मिति समासः ।न पूजना॑दिति समासान्तनिषेधः । आवश्यकत्वादनेन सिद्धे अपथं नपुंसक॑मिति न कार्यम् । सामान्ये नपुंसकमिति । न्यायसिद्धमेतत्, विशेष्यविशेषणसंनिधाने सति स्त्रीत्वपुंस्तवयोरनभिव्यक्तौउभयोरन्तरं यच्च तदभावे नपुंसक॑मिति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात् ।अत एवदाण्डिनायने॑ति सूत्रभाष्येएकश्रुतिः स्वरसर्वनाम, नपुंसकं लिङ्गसर्वनामे॑त्युक्तम् । मृदु पचतीति । क्रियाविशेषणमिदं द्वितीयान्तम् । पचेर्हि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्त्यंशे मृदुत्वमन्वेति । विक्लित्तिश्चव्यापारे साध्यत्वेनान्वेति । तथाच धातूपात्तव्यापारं प्रति कर्मीभूतेन विक्लित्त्यंशेन सामानाधिकरण्यान्मृद्विति द्वितीया । यत्र तु धात्वर्थः करणत्वेनान्वेति 'यजेत स्वर्गकामः' इत्यादौ, तत्र हि यागेन स्वर्गं कुर्यादित्यर्थः । तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेवज्योतिष्टोमेन यजेत स्वर्गकामः॑ इत्यादावित्यन्यत्र विस्तरः । प्रातः कमनीयमिति । रमणीयमित्यर्थः । अत्रापिप्रात॑रित्यव्ययस्य विशेष्यस्याऽलिङ्गत्वात्तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाऽभावान्नपुंसकत्वमेवेति भावः । इदं चाऽनियतलिङ्गविषयम् । तेन आदिं पचति, प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियतलिङ्गत्वात् ।", "24018": "<<अव्ययीभावश्च>> - अव्ययीभावश्च । अयं नपुंसकमिति ।स नपुंसक॑मित्यतस्तदनुवृत्तेरिति भावः । नपुंसकत्वस्य फलमाह-ह्रस्वो नपुंसक इति । गोपायतीति । रक्षतीत्यर्थः ।गुपू रक्षणे॑विच् ।आयादय आर्धधातुके वा॑ इत्यायप्रत्ययः । 'लोपो व्योः' इति यलोपः ।वेरपृक्तस्ये॑ति वकारलोपः । गोपाशब्द अकारान्तः । गाः पातीति । पातेर्विचि उपपदसमासे गोपाशब्द इति भावः । अधिगोपमिति । विभक्त्यर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे ह्रस्वत्वे सति 'नाव्ययीभावात्' इत्यमिपूर्वरूपमिति भावः । 'गोस्त्रियोः' इति तु नात्र प्रसज्यते, स्त्रीप्रत्ययान्तत्वाऽभावात् । समीपे इति । समीपार्थकाव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति । लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीपमिति प्रयुक्तम् । कृष्णस्य-उप इति तु न विग्रहः नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । ननु समया ग्रामं, निकषा लङ्कामाराद्वनादित्यत्रापि समयाद्यव्ययानां समीपार्थकत्वादव्ययीभावः स्यात्, ततश्चग्रामं समया, ग्रामं निकषा, वनादारा॑दिति च प्रयोगो न स्यात् । अव्ययीभावसमासेऽव्ययस्य पूर्वनिपातनियमादित्यत आह समयेति । विधानसामर्थ्यादिति । समया ग्रामं, निकषा लङ्कामाराद्वनादित्यत्र शेषषष्ठआं सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वादुपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठआ वा लुकि समासात्प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथसम्भावे तद्विकल्पे चसमयाग्रामं॑,निकषालङ्कमाराद्वनं,॑समयाग्रामेण॑, निकषालङ्केन, 'आराद्वनेन'समयाग्रामे॑,निकषालङ्के॑, 'आराद्वने' इति स्यादेव । ततश्च द्वितीयापञ्चम्योर्विधिव्र्यर्थः स्यात् । षष्ठऐव गतार्थत्वात् । नच समासात्पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्क्ये, सकृत्प्रवृत्तयोः पुनः प्रवृत्त्य योगात् । वस्तुतस्तु मध्यार्थकसमयाशब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमीविधानस्य चरितार्थत्वादिदमयुक्तम् । नचैवं सतिसमया ग्राम॑मित्यादावव्ययीभावः शङ्क्यः, अब्भक्ष इत्यादाविव विभक्त्यर्थसमीपादिमात्रवृत्त्यव्ययस्यैव ग्रहणात्, समयानिकषाऽऽराच्छब्दानां चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाऽभावात् । ग्रामस्य समीपे इति हि तेषामर्थः । उपशब्दस्तु तन्मात्रवाची । 'उपकृष्णं भक्ता' इत्यत्र कृष्णसामीप्यवन्त इति बोधात् । मद्राणां समृद्धिरिति ।\tस॑मित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एतत्सूत्रविहितसमासस्य नित्यतयाऽस्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । संमद्रमिति । सर्वत्र सुब्लुगादि पूर्ववज्ज्ञेयम् । समृद्धा मद्राः संमद्रा इत्यादौ तु नाव्ययीभावः, वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव तत्प्रवृत्तेरिति भाष्ये स्पष्टम् । यवनानां व्यृद्धिः दुर्यवनमिति । दुर्शब्दार्थको व्यृद्धिशब्दो विग्रहे ज्ञेयः । विगतेति । अभावप्रतियोगिनीत्यर्थः । ऋद्धेरभावो व्यृद्धिरिति यावत् । नचार्थाभावेऽयमिति भ्रमितव्यं, समस्यमानपदार्थाऽभावस्यैव तत्र विवक्षितत्वात् । इह च यवनाऽभावस्याऽप्रतीतेः । यवनीयवृद्ध्यभावस्यैव प्रतीतेः । तद्ध्वनयन्नर्थाऽभावे उदाहरति — मक्षिकाणामभावो निर्मक्षिकमिति । विग्रहे निर्शब्दसमानार्थकमभावपदमिति भावः । घटः पटो नेत्यत्र तु नाव्ययीभावः, अर्थग्रहणसामर्थ्येनात्यन्ताऽभावस्यैव विवक्षितत्वात् । हिमस्यात्ययोऽतिहिममिति । अतीत्यव्ययपर्यायोऽत्ययशब्दो विग्रहे ज्ञेयः । अर्थाभावेत्यनेन पौनरूक्त्यं निरस्यति-अत्ययो ध्वंस इति । अर्थाऽभावशब्देनाऽत्यन्ताभाव एव विवक्षितः । तेन पटस्य प्रागभावो निष्पटमिति न भवतीति भावः । सूत्रे असंप्रतीत्यस्य संप्रति न युज्यते इत्यर्थः ।एतर्हि संप्रतीदानी॑मित्यमरः । युजिक्रियान्तर्भावेण एकार्थीभावान्नञ्समासः । तदाह — निद्रा संप्रति न युज्यते इत्यतिनिद्रमिति । अतीत्यव्ययस्याऽसंप्रत्यर्थकस्य स्थाने 'संप्रति न युज्यते' इति विग्रहवाक्यं ज्ञेयम् । सूत्रे 'शब्दप्रादुर्भाव' इत्यनेन शब्दस्य प्रकाशनं विवक्षितं, तदाह — हरिशब्दस्य प्रकाश इतिहरि इति ।इती॑त्यव्ययं शब्दप्रकाशे वर्तते । तस्य हरिशब्देन स्वरूपपरेण षष्ठन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णु इति । 'अनु' इत्यव्ययं पश्चादर्ते वर्तते इत्यर्थः । भाष्येति । 'अचः परस्मिन्' इति सूत्रभाष्ये इत्यर्थः । 'ततः पश्चात्' इत्यत्राव्ययीभावे तु पश्चाच्छब्दस्य पूर्वनिपातः स्यादिति भावः । एतद्भाष्यप्रयोगादेव एतत्सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनाऽयं समासो नेति विज्ञायते । अत एव 'यथाऽसादृश्ये' इति सूत्रेसादृश्यसंपत्तीति प्राप्नोती॑त्येवोक्तं भाष्ये । यथाशब्देन तु भवत्येव समासः, उत्तरसूत्रारम्भात् । सूत्रे यथाशब्देन तदर्थो लक्ष्यते । यथार्थे विद्यमानमव्ययं समस्यते इति लभ्यत इत्यभिप्रेत्याह — योग्यतेति । अनुरूपमिति । अत्रानु इत्यव्यय योग्यतायाम्, अतो यथार्थे वर्तत इति भावः । अर्थमर्थं प्रतीति — लौकिकविग्रहवाक्यम् । अत्र वीप्सायां द्विर्वचनम् ।लक्षणेत्थंभूताख्यान॑ इति वीप्सायां द्योत्यायां प्रतेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । समासे तु द्विर्वचनं न, समासेन वीप्साया द्योतितत्वात् — इति 'हयवरट्' इति सूत्रे कैयटः । प्रतिना तस्योक्तत्वादिति तु तत्त्वम् । प्रतिना तस्योक्तत्वादिति तु तत्त्वम् । नन्वर्थमर्थं प्रतीति लौकिकविग्रहप्रदर्शनं न संभवति । नित्यसमासत्वादित्यत आह — प्रतिशब्दस्येति । सामर्थ्यादिति । अव्ययीभावसमासस्य नित्यत्वे तु शेषषष्ठआमपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामम्भावे तद्विकल्पे च प्रत्यर्थं प्रत्यर्थेनेत्यादिसिद्धे द्वितीयाफलकं प्रते कर्मप्रवचनीयत्वविधानमर्थकं स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति' इति षत्वाऽभावसंपादन#एन कर्मप्रवचनीयत्वं चरितार्थमेव ।अर्थमर्थं प्रति प्रत्यर्थ॑मितिसरूपाणा॑मिति सूत्रे भाष्ये प्रयोगदर्शनादिह वैकल्पिकसमास इति तत्त्वम् । शक्तिमनतिक्रम्येति ।परावरयोगे चे॑ति क्त्वाप्रत्ययः । परावरत्वं च बौद्धम् । अत् यथेत्यव्ययं पदार्थानतिक्रमे वर्तत इत्यर्थः । हरेः सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणनेति । 'अव्ययीभावे चाकाले' इत्यनेनेत्यर्थः । ज्येष्ठस्यानुपूर्व्येणेति ।कार्यं कृ॑मिति शेषः । तत्तद्विभक्त्या विग्रह इति पक्षाभिप्रायेणेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वं । ततः स्वार्थे यञ् । एतत्सूत्रगृहीताव्ययेन समासो नेत्यनुपदमेवोक्तम् । तथापि सूत्रगृहीतानुनाऽप्यनुज्येष्ठमिति समासः, अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छब्दात्स्वार्थे ष्यञि यौगपद्यशब्दः । तद्ध्वनयन्नाह — चक्रेण युगपदिति । युगपत्पर्यायस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः, सूत्रे गृहीतत्वादिति भावः ।", "24019": "<<तत्पुरुषोऽनञ् कर्मधारयः>> - तत्पुरुषोऽनञ । नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः । तदाह — अधिकारोऽयमिति ।परवल्लिङ्गमित्यतः प्रा॑गिति शेषः ।", "24020": "<<संज्ञायां कन्थोशीनरेषु>> - संज्ञायां कन्थो । सुगममेव । उपज्ञा । उपज्ञायते=प्रथमं ज्ञायत इत्युपज्ञा ।स्त्रियां क्ति॑न्नित्यधिकारे 'आतश्चोपसर्गे' इति कर्मण्यङ् । उपक्रम्यते=आरभ्यते इत्युपक्रमः । कर्मणि घञ् ।नोदात्तोपदेशस्ये॑ति वृद्धिनिषेधः । उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः । 'तत्पुरुष' इत्यस्य विशेषमिदम् । तदन्तविधिः ।स नपुंसक॑मित्यतोनपुंसक॑मित्यनुवर्तते ।", "24021": "<<उपज्ञोपक्रमं तदाद्याचिख्यासायाम्>> - तदाह — उपज्ञान्त उपक्रमान्तश्चेति । तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ । आदिशब्दो भावप्रधानः प्राथम्ये वर्तते । तयोरादिः=प्राथम्यं — तदादिः । तस्य आचिख्यासा=आख्यातुमिच्छा । विवक्षायामिति यावत् । तदाह — तयोरादिरित्यादि । पाणिनेरुपज्ञेति । कर्तरि षष्ठी । पाणिन्युपज्ञं ग्रन्थ इति । पाणिनिना प्रथमं ज्ञायमान इत्यर्थः । इदं प्रकरणं परवलिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः । नन्दोपक्रमं द्रोण इति । नन्देनारभ्यमाण इत्यर्थः । कर्तरि षष्ठआ समासः ।", "24022": "<<छाया बाहुल्ये>> - छाया बाहुल्ये । छायया तत्पुरुषस्य विशेषणात्तदन्तविधिमभिप्रेत्याह — छायान्त इति । पूर्वपदार्थेति । कस्य बाहुल्ये इत्याकाङ्क्षायामापादकद्रव्यनिमित्तकत्वाच्छायायास्तद्बाहुल्ये इति गम्यते । तच्चापादकद्रव्यमर्थात्पूर्वपदार्थभूतमिति भावः । बाहुल्ये किम् । कुडस्य छाया कुडच्छाया ।", "24023": "<<सभा राजाऽमनुष्यपूर्वा>> - सभा । राजा च अमनुष्यश्च राजाऽमनुष्यौ, तौ पूर्वौ यस्याः सा-राजाऽमनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविदिः । राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह — राजपर्यायपूर्व इति । इनसभम् ईआरसभमिति । इनस्य ईआरस्य वा सभेति विग्रहः । इनेस्वरशब्दौ राजपर्यायाविति भावः ।पर्यायमात्रग्रहणे प्रमाणं दर्शयति — पर्यायस्यैवेष्यत इति ।भाष्यकृते॑ति शेषः ।स्वं रूप॑मिति सूत्रेजित्पर्यायवचनस्यैव राजाद्यर्थ॑मिति वार्तिकं भाष्ये पठितमिति भावः । राजसभेति । राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसभेति । 'चन्द्रगुप्त' इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वाद्देवसभेत्यादावपि स्यादित्यत आह — अमनुष्यशब्दो रूढएति । असुरशब्दो दैत्यानिवेति भावः ।", "24024": "<<अशाला च>> - अशाला च । अशालार्थकेत्यर्थः । सभाशब्दः शालायां, सङ्घातार्थे च वर्तते । तत्र राजाऽमनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम्, संप्रति सङ्घातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह — सङ्घातार्था या सभेति । सभाशब्द इत्यर्थः ।", "24025": "<<विभाषा सेनासुराछायाशालानिशानाम्>> - विभाषा सेना । प्रथमार्ते षष्ठी । 'तत्पुरुष' इत्यनुवृत्तं सेनादिभिर्विशेष्यते । तदन्तविधिः । तदाह — एतदन्त इति । प्रत्येकाभिप्रायमेकवचनम् । आनिशमिति । शुनो निशेति विग्रहः । कृष्णचतुर्दशीत्याहुः ।शुनश्चतुर्दश्यामुपवसतः पश्यामः॑ इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति । दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाऽभावान्न क्लीबत्वविकल्पः । असेनेति । तत्पुरुषत्वेऽपि नञ्समासत्वान्न क्लीबत्वविकल्पः । परमसेनेति । कर्मधारयत्वान्न कील्बत्वम् ।तत्पुरुषोऽनञ्कर्मधारयः॑ इत्यदिकारस्याऽत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम् । *****इति तत्पुरुषसमासः*****टित्ले । वैयाकरण-सिद्धान्त-कौमुदी,श्रीमज्ज्ञानेन्द्रभिक्षुविरचितया तत्त्वबोधिनीटीकया, श्रीवासुदेवभट्टदीक्षितविरचितया बालोपकारिण्या बालमनोरमाख्यया व्याख्यया, (तत्पुरुषादारभ्य) महामहोपाध्याय-श्रीनागेशभट्टविरचितया लघुशब्देन्दुशेखरटीकया च समन्विता ।टीकत्रयोपेता आउथोर्ः महामहोपाध्यायश्रीभट्टोजिदीक्षितफुब्लिचतिओन्ः भ्हरथिय भोओक् चर्पोरतिओन्,१,ऊ ।भ् ।झवहेर्णगर्, भन्ग्लो ऋओअद्,डेल्हि-११०००७ ।\tआच्चेस्सिओन् णो । ५१४७१येअर् ओf Eदितिओन् । १९९७ (Fइर्स्त्)फगेस् । ७६८प् ।शिऽए । २४च्म् ।ईश्भ्ण् । ८१-८५१२२-२२-७ळन्गुअगे । शन्स्क्रित्श्च्रिप्त् । डेवनगरिशुब्जेच्त् ःएअदिन्ग्स् । शन्स्क्रित्घ्रम्मर्Cलस्सिfइचतिओन् णो । फ्१५, Cक्ष्१,१,६,५भोओक् णो । ण् ९७फ्रिचे । ५००.०० ऋस्\/-अथ ठगधिकार प्रकरणम् । — — — — — — — — -", "24026": "<<परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः>> - परवल्लिङ्गं ।परहव॑दिति षष्ठन्ताद्वतिः । तदाह — एतयोः परपदस्येवेति । द्व्न्द्वपदमत्र इतरेतरयोगद्वन्द्वपरं, समाहाद्वन्द्वेस नपुंसक॑मित्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे इति । अत्र द्वन्द्वे अवयवलिङ्गनाऽनियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति । 'अर्धं नपुंसकम्' इति तत्पुरुषः । अस्यैकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वपदलिङ्गे प्राप्ते उत्तरपदलिङ्गार्थं विधिः । अत्रद्वन्द्वतत्पुरुषयोः॑ इति षष्ठन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवंचकुक्कुटमयूर्याविमे॑ इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति । 'द्विगु' 'प्राप्त' 'आपन्न' 'अलंपूर्व'गतिसमास॑-एतेषु परवल्लिङ्गस्य प्रतिषेधो वक्तव्यः इत्यर्थः । पञ्चस्विति । उत्तरपदस्य नपुंसकत्वात्समासस्य नपुंसकत्वं प्राप्तं, न भवति, किन्तु विशेष्यलिङ्गमेव प्राप्तजीविक इति । अत्रोत्तरपदस्य जीविकाशब्दस्य यल्लिङ्गं तत्समासस्य न भवति । अलंपूर्वस्योदाहरति — अलंकुमारिरिति । अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति । नन्वत्र तदर्थादियोगाऽभावान्न चतुर्थीसमासः ।पर्यादयो ग्लानाद्यर्थे॑ इत्यपि न भवति, तस्य समासस्य नित्यत्वेन 'अलं कुमार्यै' इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह — अत एवेति ।एकविभक्ति चे॑ति कुमारीशब्दस्योपसर्जनत्वाद्ध्रस्वः । गतिसमासमुदाहरति — निष्कौशाम्बिरिति । अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति । यद्यपि निरादिसमास एवायं, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तेः, तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः ।", "24027": "<<पूर्ववदश्ववडवौ>> - पूर्वपदआवडवौ ।अआश्च बहवा चे॑ति द्वन्द्वे परवल्लिङ्गं बाधित्वा पूर्ववल्लिङ्गार्थमिदम् ।अआवडवाविति द्वन्द्वः पूर्वपदस्य लिङ्गं लभते॑ #इत्यर्थे बहुवचने विभक्त्यन्तरे च न स्यादित्यत आह — द्विवचनमतन्त्रमिति । उपलक्षममिदम् द्विवचनं विभक्तिश्चेति द्वयमपि अविवक्षितमित्यर्थः ।पूर्वव॑द्ग्रहणमत्र लिङ्गमन्यथा निपातनादेव सिद्धे किं तेनेति भावः ।", "24028": "", "24029": "<<रात्राह्नाहाः पुंसि>> - रात्राह्नाहाः ।द्वन्द्वतत्पुरुषयो॑रित्यनुवृत्तं प्रथमाबहुवचनेन विपरिणतं रात्रादिभिर्विशष्यते, तदन्तविधिः । रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः । फलितमाह — एतदन्ताविति । परवल्लिङ्गतापवादः । नन्वहोरात्र इति समाहारद्वन्द्वेःस नपुंसक॑मिति नपुंसकत्वप्रसङ्गः । नच नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यं,पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायेनऽनस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इतरेतरद्वन्द्व एवेहोदाहर्तुमुचित इत्यत आह-अनन्तरत्वादिति । अयमिति ।पुंस्त्वविधि॑रिति शेषः । अहोरात्र इति । अहश्च रात्रिश्च तयोः समाहार इति द्वन्द्वे परत्वान्नपुंसकत्वम् । अपवादत्वात्परवल्लिङ्गमपि बाधित्वाऽनेन पुंस्त्वम् ।अहःसर्वैकदेशे॑त्यच् । पूर्वाह्ण । इति अह्नः पूर्वमित्येकदेशिसमासः । 'राजाहःसखिभ्यः' इति टच् । 'अह्नोऽहः' #इत्यह्नादेशः । परवल्लिङ्गं नपुंसकं च बाधित्वा पुंस्त्वम् । द्व्यह इति द्वयोरह्नोः समाहार इति विग्रहे द्विगुः, टच्,न सङ्ख्यादेः समाहारे॑ इत्यह्नादेशनिषेधः । परवल्लिङ्गं बाधित्वा पुंस्त्वम् । उत्तरपदस्याऽहन्शब्दस्य#आऽकारान्तत्वाऽभावान्न स्त्रीत्वं, समासन्तस्य समासभक्तत्वात् । सङ्ख्यापूर्वं । लिङ्गानुशासनसूत्रमिदम् । न त्वाष्टाध्यायीस्थं सूत्रं, नापि वार्तिकम्, भाष्ये अदर्शनात् ।रात्राह्नाहाः पुंसी॑त्यस्यायमपवादः । द्विरात्रमिति । समाहारद्विगुः ।अहःसर्वैकदेशे॑त्यच् । गणरात्रमिति । गणशब्दो बहुपर्यायः, 'बहुगणवति' इति सङ्ख्यात्वम् । गणाना रात्रीणां समाहार इति द्विगुः । अच् ।", "24030": "<<अपथं नपुंसकम्>> - अपथं नपुंसकं । न-पन्था इति विग्रहे नञ्समासे नञो नस्य लोपे 'ऋक्पूः' इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवेति ।परवल्लिङ्ग॑मित्यतस्तदनुवृत्तेरिति भावः । द्वन्द्वग्रहणं तु नानुवर्तते, अयोग्यत्वात् । अन्यत्र त्विति । बहुव्रीहावित्यर्थः । अपन्था इति । 'पथो विभाषा' इति समासान्तविकल्पः ।पथः संख्याव्ययादेः॑ इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम् ।", "24031": "<<अर्धर्चाः पुंसि च>> - अर्धर्चाः । बहुवचनात्तदादीनां ग्रहणमित्याह — अर्धर्चादय इति । अर्धर्चमिति । ऋचोऽर्धमिति विग्रहेअर्द्धं नपुंसक॑मिति समासः । 'ऋक्पूः' इति अच् । परवल्लिङ्गं स्त्रीत्वं बाधित्वा पुंनपुंसकत्वविकल्पः ।", "24032": "", "24033": "<<एतदस्त्रतसोस्त्रतसौ चानुदात्तौ>> - एतदस्त्रतसोः । 'इदमोऽन्वादेशे' इत्यस्मादन्वादेशे अशनुदात्त इत्यनुवर्तते । तदाह — अन्वादेशेत्यादिना । अतोऽत्रेति । एतच्छब्दात्तसिल्, प्रकृतेरशादेशः । एतदोऽ॑न्नित्येव सिद्धेऽनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन त्रतयसोरनुदात्तत्वं सिद्धमिति शङ्क्यं, लित्स्वरापवादेऽशोऽनुदात्तत्वे कृते लित्स्वराऽप्राप्त्या प्रत्ययस्वरेण त्रतसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात् ।", "24034": "<<द्वितीयाटौस्स्वेनः>> - द्वितीयाटौस्स्वेनः । द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः । 'इदमोऽन्वादेशे' इत्यत 'इदम' इति, 'अन्वादेशे' इति चानुवर्तते । 'एतदस्त्रतसोः' इत्यत 'एतद' इति च । तदाह — द्वितीयायामित्यादिना । 'अनावादेश' शब्दं व्याचष्टे-किञ्चिदिति । विधातुमिति । अपूर्वं बोधयितुमित्यर्थः । अन्वादेशमुदाहृत्य दर्शयति -यथेति । उदाहरणप्रदर्शने यथाशब्द ।ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात् । किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम् । इति मान्ताः । अथ णकारान्ताः । गणयतेर्विजिति । 'गण सङ्ख्याने' इति चुरादिरदन्तः । ततः सुपूर्वात्स्वार्थे णिच् । अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः । तस्माद्विच्,अन्येभ्योऽपि दृश्यते॑ इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः । सुगण् इति रूपम् । सुगणौ, सुगण इत्याद्यविकृतमेव । सुपिङ्णोः कुक्टुक्शरी॑ति टुग्विकल्पः । 'चयो द्वितीयाः' इति टस्य ठ इत्यभिप्रेत्याह — सुगण्ठ्सु इति । द्वितीया.ञभावे रूपमाह — सुगण्ट्सु इति । टुगभावे रूपमाह — सुगण्सु इति । सुगाणिति । गणधातोरदन्ताण्णिच्, अल्लोपः । तस्य स्थानिवत्त्वान्नोपधावृद्धिः । तस्मात्क्विप्, णिलोपः अपृक्तलोपः ।अनुनासिकस्य क्विझलो॑रिति दीर्घः । सुगाणिति रूपम् । सुगाणौ सुगाण इत्यादि । नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च । इति आन्ताः । अथ नान्ताः । राजन्शब्दे विशेषमाह — परत्वादिति । हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेवसर्वनामस्थाने चाऽसंबुद्धौ॑ इति दीर्घः । ततो हल्ङ्यादिलोप इत्यर्थः । नचविप्रतिषेधे यद्बाधितं तद्वाधितमेवे॑ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं,पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति । विप्रतिषेधे यद्वाधितं॑मित्यस्याऽसार्वत्रिकत्वादिति भावः । नलोप इति ।न लोपः प्रातिपदिकान्तास्ये॑ति नकारस्य लोप इत्यर्थः ।", "24035": "<<आर्द्धधातुके>> - आर्धधातुके । इत्यधिकृत्येति ।अदो जग्धि॑रित्यादिविधयो वक्ष्यन्ते॑ इति शेषः । तदधिकारस्थं सूत्रमाह —", "24036": "<<अदो जग्धिर्ल्यप्ति किति>> - अदो जग्धिः । धत्वमिति । जघ्ध् त इति स्थितेझषस्तथो॑रिति तकारस्य धकार इत्यर्थः । झरो झरीति । अनेन पाक्षिको धकारलोप इत्यर्थः । आदिकर्मणि क्त इति । व्याख्यातं प्राक् । उदाहरणान्तरविवक्षया पुनरुपन्यासः । प्रकृतः कटं स इति.कर्तुमारब्धवानित्यर्थः । कटस्य कर्मणोऽनभिहितत्वाद्द्वितीया । कर्तुरभिहित्वात्तच्छब्दात्प्रथमा । चकाराद्भावे कर्णणि चेत्युक्तम् । तत्र कर्मण्युदाहरति — प्रकृतः कटस्तेनेति । प्रक्षीणः स इति । आदिकर्मणि क्तः ।", "24037": "<<लुङ्सनोर्घसॢ>> - लुङ्सनोर्घस्लृ ।अदो जग्धिः इत्यतोऽद इत्यनुवर्तते । तदाह — अद इति । लृदित्त्वस्य प्रयोजनमाह — लृदित्त्वादिति । हनधातुरिनिट् । प्रणिहन्तीति । शपो लुक् । नस्याऽनुस्वारपरसवर्णौ ।नेर्गदे॑ति णत्वम् ।", "24038": "", "24039": "", "24040": "<<लिट्यन्यतरस्याम्>> - लिटन्यतरस्याम् । 'अदो जग्धि' रित्यतोऽद इति, 'लुङ्सनोर्घस्लृ' इत्यतो घस्लृ इति चानुवर्तते । तदाह — अद इति । आदेशे ऌकार इत् । घसादेशोऽत्राऽनिट् । जघासेति । अकित्त्वात्गमहने॑त्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते आह — गमहनेत्युपधालोप इति ।असंयोगा॑दिति कित्त्वादिति भावः । जघ्स् अतुसिति स्थिते घकारस्य चर्त्वं वक्ष्यन्नुपधालोपस्य स्थानिवत्त्वमाशङ्क्याह — तस्येति । उपधालोपस्येत्यर्थः । जघ्स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाऽभावादाह — शासीति । थलितु क्रादिनियमान्नित्यमिट् । 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्याऽनिड्विषयत्वात् । रघस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिट्कत्वम् ।यस्तासावस्ति अनिट् चे॑ति हि भाष्यम् । तदाह — घसेस्तासाविति । जघसिथेति । जक्षयुः जक्ष । जघासजघस जक्षिव जक्षिम । घसादेशाऽभावपक्षे त्वाह — आदेति । थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते इडत्त्यर्तीति । आदिथेति । आदथुः आद । आद आदिव आदिम । अत्ता । अत्स्यतीति । अनिट् । दस्य तः । अत्तु अत्तात् अत्तामदन्तु । अद् — हि इति स्थितेझयो होऽन्यतरस्या॑मिति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते —", "24041": "", "24042": "<<हनो वध लिङि>> - हनो वध ।वधे॑ति लुप्तप्रथमाकम् । हनो वधादेशः स्यादार्धधातुके लिङीत्र्थः ।", "24043": "", "24044": "", "24045": "<<इणो गा लुङि>> - इणो गा । इण्धातोर्गा इत्यादेश स्याल्लुङीति सूत्रार्थः स्पष्टः । अगा स् त् इति स्थिते आह — गातिस्थेतीति । लृङि ऐष्यते । इङ् अध्ययने इति । अधिरुपरिभावे ।उपरिभावश्च पठने नियमपूर्वकत्व॑मिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्व इति । धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीते इति ।सार्वधातुकमपि॑दिति ङित्त्वाद्गुणनिषेध सवर्णदीर्घः । अजादौ तु इयङ् ।तदाह — अधीयाते अधीयते इति । अधीषे अधीयाथे अधीध्वे । अधीये अधीवहे अधीमहे ।", "24046": "<<णौ गमिरबोधने>> - णौ गमिरबोधने ।इणो गा लुङी॑त्यत इण इत्यनुवर्तते । तदाह — इणो गमिरिति । मकारादिकार उच्चारणार्थः । गमयतीति । प्रापयतीत्यर्थः । प्रत्याययतीति । बोधयतीत्यर्थः । लुङि- प्रत्यायियत् । इणो णिचिइणो य॑णिति यणं बाधित्वा परत्वाद्वृद्धावायादेशो आय् इ अ त् इति स्थितेयी॑त्यस्य द्वित्वम् । न च द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद्वृद्धेर्निषेधः शङ्क्यः, 'अजादेर्द्वितीयस्य' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाऽभावात् । 'इक स्मरणे' इत्यस्य इण्वत्त्वमुक्तं स्मारयति — इण्वदिक इति.अधिगमयतीति । स्मारयतीत्यर्थः । हन्तेर्ञिति णिति च तकारादेशमुक्तं णौ स्मारयति — हनस्तोऽतचिण्णलोरिति । कुत्वमिति ।हस्ये॑ति शेषः । उपधावृदिंध मत्वाह — घातयतीति । लुङि अजीघतत् । ईष्र्ययतीति । ईष्र्यतेर्णौ रूपम् । वक्तव्यमिति ।द्वित्व॑मिति शेषः । इति वाऽर्थ इति । 'न न्द्राः' इति सूत्रभाष्ये स्पष्टमिदम् । आद्ये इति ।तृतीयस्य व्यञ्जनस्ये॑ति पक्षे इत्यर्थः । षकारस्येति । अन्यथा इर्ष्य् इ अ त् इति स्थिते 'न न्द्राः' इति रेफं वर्जयित्वा षकारसहितस्य 'ष्यि' इत्यस्य द्वित्वं स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् । ऐर्ष्य्यदितीष्टं न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवं च यकारद्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिध्यतीत्यर्थः । द्वितीये इति ।तृतीयैकाच॑इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तते इति ।उक्तवार्तिक॑मिति शेषः । सनि इटि ईर्ष्य् इस इति स्थिते ईर्ष्य् इति प्रथमैकाच्, 'ष्यिस्' इति द्वितीयैकाच् स इति तृतीयैकाजिति स्थितिः । तत्र तृतीयैकाचः संभवात्तस्य द्वित्वविधिः । अन्यथाअजादेर्द्वितीयस्ये॑ति स्यादिति भाव) । ऐर्ष्य्यदिति । यकारमात्रस्य द्वत्वे णिलोपे संयुक्ताद्वियकारकं रूपम्ऽथ द्वितीयव्याख्यायां रूपमाह — ऐर्षिष्यदिति । तदुपपादयति — द्वितीयव्याख्यायामिति । ण्यन्ताच्चङि ईर्ष्य् इ अ त् इति स्थिते 'न न्द्राः' इति निषेधाद्रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति 'ष्यि' इत्यस्य द्वित्वं न तु यकारमात्रस्य, प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र 'ष्यि' इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकारएव हल् इकारशिरस्कः श्रूयते, न तु यकारोऽपीत्यर्थः । कुत इत्यत आह — हलादिशेषादिति । नतु तृतीयस्यैकाच द्वितीयव्याख्यायामिह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह — द्वित्वं तु द्वितीयस्यैवेति । 'एकाच' इति शेषः । कुत इत्यत आह — तृतीयाभावेनेति । ईर्ष्य् इ अ त् इत्यत्र ईर्ष्य् इति प्रथमैकाच्, र्ष्यि इति द्वितीयैकाच् , न तु चङि परे तृतीयैकाजस्ति । अतोऽत्र 'तृतीयैकाच' इति वार्तिकं न प्रवर्तते । तस्माद्द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवं च 'तृतीयस्यैकाच' इति वार्तिकं सन्नन्त एव प्रवर्तते । ईष्र्यतेरामः सत्त्वेन ततः परस्यलिटोऽभावादिति बोध्यम् । ननुप्रार्थयन्ति शयनोत्थितं प्रियाः॑ इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिकणिजन्तं, तस्याऽऽगर्वीयतया आत्मनेपदप्रसङ्गात् । नापिहेतुमण्ण्यन्तं ,स्वाभीष्टं याचते इत्यर्थे तदसंभवात् । नहि प्रयोजकव्यापाराऽभावे तत्प्रवृत्तिरस्तीत्यत आह — निवृत्तेति । निवृत्तं प्रेषणं यस्मात् स निवृत्तप्रेषमः । संप्रति अविवक्षितप्रेषण इत्यर्थः । त्समाद्धातोर्भूतपूर्वगत्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्तं — ॒निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते॑इति । इदं च 'णेरणौ' इति सूत्रे भाष्ये स्पष्टम् ॥ इति बालमनोरमायाम् हेतुमण्णिच्प्रक्रिया॥अथ पाञ्चमिकास्तत्र छयद्विधिः । — — — — — — — — — — —", "24047": "<<सनि च>> - सनि च ।इणो गा लुङी॑त्यत इण इति, 'णौ गमिरबोधने' इत्यतो 'गमिरबोधने' इति चानुवर्तते । तदाह — इणो गमिरित्यादि । जिगमिषतीति ।गमे॑रिति इट् । अत्रअज्झनगमा॑मिति दीर्घो स्थितेअजादेर्द्वितीयस्ये॑ति सनो द्वित्वे अभ्यासेत्त्वम् । प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः । 'इक स्मरणे' इत्यस्याह — इण्वदिक इति । अनेन वार्तिकेन इक्धातुरिण्वद्भवतीत्यर्थः । ततस्चसनि चे॑ति गमिरादेश इति भावः । कर्मणि तङिति । इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तङित्र्थः ।भावकर्मणो॑रित्यनेनेति भावः । परस्मैपदेष्विति ।गमेरिट्परस्मैपदेषु॑ इत्युक्तेस्तङि नेडित्यर्थः । झलादाविति ।अज्झने॑ति झलादौ सनि वहितो दीर्घ इत्यर्थः । जिगांस्यते इति । गन्तुमिष्यते इत्यर्थः । इणो रूपम् । अधिजिगांस्यते इति । स्मर्तुमिष्यत इत्यर्थः । इको रूपम् । जिगंस्यते इति । गम्लृधातोः सन्नन्तात्कर्मणि तङि रूपम् । गमेरजादेशत्वाऽभावान्न दीर्घः ।", "24048": "<<इङश्च>> - इङश्च । गमिः स्यात्सनीति ।णौ गमि॑रित्यतः,सनि चे॑त्यतश्च तदनुवृत्तेरिति भावः । इङो ङित्त्वात् 'पूर्वक्त्सनः' इति तङ् । परस्मैपदेष्वित्युक्तेर्नेट् ।अज्झने॑ति दीर्घ इति भावः ।", "24049": "", "24050": "<<विभाषा लुङ्लृङोः>> - आगस्त्य । अगस्तयः । कुण्डिना इति । अगस्त्यशब्दादृष्यणो लुक् । प्रकृतेरगस्त्यादेशः । कौण्डिन्यशब्दो गर्गादियञन्तः । बहुत्वे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च ।यस्कादिभ्यो गोत्रे॑ इत्यारभ्यआगस्त्यकौण्डिन्ययोः॑ इत्यन्तं द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम्- ।", "24051": "<<णौ च सँश्चङोः>> - णौ च संश्चङोः । विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते ।इङश्चे॑त्यत इङ इति,गाङ् लिटी॑त्यतो गाङिति,विभाषा लुङ्लृङो॑रित्यतो विभाषेति चानुवर्तते । तदाह — सन्परे चङ्परे चेत्यादि । सन्परे चङ्परे च णौ विवक्षिते इत्यर्थः । अध्यजीगपदिति । णौ इङो गाङादेशे पुकि उपधाह्रस्वे अधि गप् इ अ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । नचद्वित्वे कार्ये णावजादेशो ने॑ति द्वित्वात् प्राग्गाङादेशनिषेधः शङ्क्यः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात् । द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम्अजादेर्द्वितीयस्ये॑ति णिच एव द्वित्व सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डेऽवर्णाऽभावादिति रूपमिति भावः । अध्यापिपदिति । गाङभावे 'क्रीङ्जीनां णौ' इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थितेपी॑त्यस्य द्वित्वे रूपमिति भावः । सिध्येतरपारलौकिके । 'आदेच उपदेशे' इत्यस्मादादेचेति,क्रीङ्जीनामित्यस्माण्णाविति चानुवर्तते । तदाह — ऐहलौकिके इत्यादि । अन्नमिति । तन्निष्पादनं तृत्प्यर्थत्वादैहलौकिकमिति भावः । तत्त्वमिति । आत्मस्वरूपमित्यर्थः । सेधयति तापसं तप इति । तत्त्वं निश्चाययतीत्यर्थः । आत्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः ।", "24052": "<<अस्तेर्भूः>> - अस्तेर्भूः । असधातोर्भूभावः स्यादार्धधातुके परे इत्यर्थः । अस् हि इति स्थिते —", "24053": "<<ब्रुवो वचिः>> - ब्राउवो वचिः । ब्राउवो वचिरादेशः स्यादार्धधातुके इत्यर्थः । इकार उच्चारणार्थः । उवाचेति । अकिति द्वित्वे कृतेलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । ऊचतुरिति । किति द्वित्वात्प्राक्वचिस्वपियजादीना॑मिति संप्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वात् 'अभ्यासस्याऽसवर्णे' इत्युवङभावे सवर्णदीर्घ इति भावः । वचिर्निट्सु परिगणितः । तस्य भारद्वाजनियमात्थलि वेट् । तदाह — उवचिथ उवक्थेति । इडभावेचोः कुः ।ब्राउव ई॑डित्यत्रनाभ्यस्तस्ये॑त्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीण्न । ऊचथुः ऊच । उवाच — उवच ऊचिम ऊचिम । क्रादिनियमादिट् । ऊचे इति ऊचाते ऊचिरे । ऊचिषे ऊचाथे ऊचिध्वे । ऊचे ऊचिवहे ऊचिमहे । वक्तेति । वच्यादेशे इण्निषेधः । वक्ष्यति वक्ष्यते । ब्रावीतु ब्राऊतादिति । ननु तिबादेशस्य तातङ पित्त्वात्ब्राउव ई॑डिति ईडागमः स्यादित्यत आह — ङिच्चेति । ब्राऊताम् ब्राउवन्तु । ब्राऊहि ब्राऊतात् ब्राऊतम् ब्राऊत । ब्रावाणीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः । ब्रावाव ब्रावाम । ब्राऊताम् ब्राउवाताम् ब्राउवताम् । ब्राऊष्व ब्राउवाथाम् ब्राऊध्वमिति सिद्धवत्कृत्य आह — ब्रावै इति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुणः । ब्रावावहै ब्रावामहै । लङि — अब्रावीत् अब्राऊतामब्राउवन् । अब्रावीः अब्राऊतमब्राऊत । अब्रावमब्राऊव अब्राऊम । विधिलिङ्याह — ब्राऊयादिति । ब्राऊयादिति । ब्राऊयातामित्यादि । आशीर्लिङ्याह — उच्यादिति । वच्यादेशेवचिस्वपी॑ति संप्रसारणमिति भावः । उच्यास्तामित्यादि । आत्मनेपदे आशीर्लिङि — वक्षीष्ट वक्षीयास्तामित्यादि । अकित्त्वान्न संप्रसारणम् । लुङि सिचि वच्यादेशे अवच् स् त् इति स्थिते आह — अस्यतीति । अवच् अ त् इति स्थिते —", "24054": "<<चक्षिङः ख्याञ्>> - चक्षिङः ख्याञ् । चक्षिङः ख्याञ् स्यादार्धधातुके परे इत्यर्थः ।", "24055": "<<वा लिटि>> - वा लिटि । चक्षिङः ख्याञ् वा स्याल्लिटीत्यर्थः । अत्रेति ।चक्षिङः ख्या॑ञिति सूत्रभाष्ये 'ख्शादिरयमादेश' इति,पूर्वत्रासिद्ध॑मित्यधिकारेख्शाञः शस्य यो वा वक्तव्यः इति च सित्थमित्यर्थः । तेनपुंख्यान॑मित्यत्र यत्वस्याऽसिद्धत्वात् 'पुनः खय्यम्परे' इति रुत्वं नेति हल्सन्धिनिरुपणे प्रपञ्चितम् । ञित्त्यात्पदद्वयमिति । परस्मपैदमात्मनेपदं चेत्यर्थः । चख्यौ इति । ख्शादेशस्य शस्य वत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः चख्युः । भारद्वाजनियमात्थलि वेट् — चख्यिथ-चख्याथ, चख्यथुः चख्य । चख्यौ चख्यिव चख्यिमाक्रादिनियमादिट् । लिटि तङि ख्शाञादेशस्य शस्य वत्वपक्षे आह - चख्ये इति । चख्याते चख्यिरे । चख्यिषे चख्याते [चख्यिढवे] चख्यिध्वे चख्ये । चख्यिवहे । चख्यिमहे । शस्य वत्वाऽभावपक्षे त्वाह - चक्शौ चक्शे इति । खस्य चर्त्वेन क इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशह्क्य निराकरोति — खय इति । अथ ख्यानादेशाऽभावपक्षे आह — चचक्षे इति । चचक्षिषे चचक्षिध्वे । चचक्षिवहे । ख्यास्यतीति । चष्टाम् चक्षाताम् चक्षताम् । चक्ष्व चक्षाथाम् चड्ढ्वम् ।चक्षै चक्षावहै चक्षामहै । लडआह — अचष्टेति । अचक्षातामचक्षत ।अचष्ठ#आ#ः अचक्षाथामचड्ढ्वम् । अचक्षि अचक्ष्वहि अचक्ष्महि । विधिलिडआह — चक्षीतेति । आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह - ख्यायात् ख्येयादिति ।वाऽन्यस्ये॑त्येत्वविकल्पः । शस्य यत्वाऽभावपक्षे आह — क्शायात् क्शेषादिति । लुङि च्लेः सिचि प्राप्ते आह —", "24056": "", "24057": "", "24058": "<<ण्यक्षत्रियार्षञितो यूनि लुगणिञोः>> - अत्र इञो लुकमाशङ्कितुमाह — ण्यक्षित्रियार्ष । ण्यादयः सर्वे गोत्रप्रत्यया एव गृह्यन्ते,गोत्राद्यूनी॑त्युक्तेः । तदाह — गोत्रप्रत्ययान्तादित्यादि । ण्यप्रत्ययस्योदाहरति — कौरव्य इति । कुरोर्गोत्रापत्यं कौरव्यः ।कुर्वादिभ्यो ण्यः॑ । कौरव्यस्यापत्यं युवेत्यर्थेऽत इञ् । तस्यानेन लुक् । क्षत्रियप्रत्ययस्योदाहरति — आआफल्क इति । आफल्कस्य गोत्रापत्यं आआफल्कः ।ऋष्यन्धके॑त्यण् । आआफल्कस्यापत्यं युवेत्यर्थेअत इञ् । तस्याऽनेन लुक् । आर्षप्रत्ययस्योदाहरति — वासिष्ठ इति । वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण् । वासिष्ठस्यापत्यं युवेत्यर्थे इञ् । तस्यानेन लुक् । ञित उदाहरति — तैकायनिरिति । तिकस्य गोत्रापत्यं तैकायनि । तिकादिभ्यः फिञ् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण् । तस्यानेन लुक् । वामरथ्यस्येति । वामरथस्य गोत्रापत्यं वामरथ्यः । 'कुर्वादिभ्यो ण्यः' वामरथ्यस्य छात्रा इत्यर्थेकण्वादिभ्यो गोत्रे॑ इति छापवादोऽण्, तस्यानेन लुङ्ग भवति, तस्य युवार्थकत्वाऽभावादिति भावः । इत्यणो लुक्तु न भवतीति ।ण्यक्षत्रिये॑ति सूत्रेण पाणिनिरित्यत्र [अणः परस्य]इणो लुङ्न भवतीत्यर्थः । कुत इत्यत आह — आर्षग्रहणेनेति । पाणिनिशब्दे पणिन्शब्दादण्प्रत्ययस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वाऽभावान्न ततः परस्य इञो लुगिति भावः । नच पणिन्शब्दाद्गोत्रापत्येऋष्यन्धके॑त्यणेव कुतो न स्यादिति वाच्यं, यत्र औत्सर्गिकस्य अण इञादिना बाधः प्रसक्तः, तत्रैव तद्वाधनार्थभृष्यणः प्रवृत्तेः । वस्तुतस्तुवाऽन्यस्मिन्सपिण्डे॑ इति सूत्रभाष्येऽत्रिशब्दात् 'इतश्चानिञः' इति ढकि आत्रेयशब्दादिञोण्यक्षत्रियार्षे॑ति लु॑गित्युक्तत्वादिदमुपेक्ष्यम् ।ण्यक्षत्रिये॑त्यत्र तु ऋशिवाचकस्य रूञस्यैव ग्रहणम् । पणिन्शब्दः, तदपत्ये पाणिनशब्दश्च न ऋषिवाचकौ । अत औत्सर्गिकाणन्त एव पाणिनशब्द इति शब्देन्दुशेखरे प्रपञ्चितम् । पाणिनिनेति । पाणिनिना प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणं बाधित्वा॒वृद्धाच्छः॑ इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षितेयूनिलुगितीञो लुकि सत्यपि प्रत्ययलक्षणेन इञन्तत्वमाश्रित्य छापवादोऽण्स्यादित्यत आह — इञश्चेत्यण्तु नेति । पाणिनिशब्दे इञ् युवापत्यार्थक एव, न तु गोत्रार्थकः, युवसंत्रया गोत्रसंज्ञाया बाधादिति भावः । अद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकं गोत्रमित्युक्तं, तथाप्यत्र पारिभाषिकमेव गोत्रं गृह्रते इत्युपरिष्टात्इञश्चे॑ति सूत्रे वक्ष्यते । तत इति । पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेति वेत्यर्थे पाणिनीयशब्दादणिप्रोक्ताल्लु॑गिति तस्य लुगिति भावः । ननु असत्यपि अध्येतृवेतितृप्रत्ययस्याऽणो लुकि पाणिनीयशब्दः सिध्यत्येवेत्यत आह — स्वरे स्त्रियां च विशेष इति । अध्येतृवेदितृप्रत्ययस्याऽणो लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः । प्रत्ययस्वरेणोदात्तः टाप्च सिध्यति । तदाह — पाणिनीयः पाणिनीयेति ।", "24059": "<<पैलादिभ्यश्च>> - पैलादिभ्यश्च ।ण्यक्षत्रियार्षे॑त्यतो यूनि लुगित्यनुवर्तते । तदाह — एभ्यां युवप्रत्ययस्य लुगिति । अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम् । पीलाया इति । पीलाया गोत्रापत्यमित्यर्थेस्त्रीभ्यो ढ॑गिति ढकं बाधित्वापीलाया वे॑त्यणित्यर्थः । तस्मादिति । पैलस्यापत्यं युवेत्यर्थे पैलादिभ्यश्चे॑ति लुक् 'अमो द्व्यचः' इति फिञित्यर्थः । पीलाया गोत्रापत्यस्यापत्यं । पीलाया युवापत्यमिति पर्यवस्यति । तस्येति । तस्य-युवार्थकफिञ्प्रत्ययस्य अनेन लुगित्यर्थः । पीलाया गोत्रापत्ये, युवापत्ये च पैलशब्द इत्याह — पैलः पिता पुत्रश्चेति । यूनः पिता, युवा चेत्यर्थः ।तद्राजाच्चाऽणः॑इति पैलादिगणसूत्रम् । तद्राजप्रत्ययात्परस्य युवप्रत्ययस्याऽणो लुगित्यर्थः । द्व्यञ्मगधेति । अङ्गशब्दो देशविशेषे तस्य राजा आङ्गः । तस्य गोत्रापत्यमप्याङ्गः ।द्व्यञ्मगधे॑त्यण् । तस्यापत्यं युवाप्याङ्ग एव । 'अणो द्व्यचः' इति फिञ्, तस्यानेन लुक् ।", "24060": "<<इञः प्राचाम्>> - इञः प्राचाम् । 'इञः' इति पञ्चमी । प्रत्ययत्वात्तदन्तग्रहणम् ।ण्यक्षत्रिये॑त्यतो यूनि लुगित्यनुवर्तते । इञन्तात्परस्य युवप्रत्ययस्य लुगित्यर्थः । अर्थादिञो गोत्रार्थकत्वं लभ्यते । तदाह — गोत्रे य इञ्तदन्ताद्युवप्रत्ययस्य लुगिति । प्राचामिति गोत्रविशेषणं, न तु विकल्पार्थं, व्याख्यानात् । तदाह — तच्चेद्गोत्रं प्राचां भवतीति । प्राग्देशीयमित्यर्थः । पन्नागारस्येति । प्राग्देशे पन्नागारो नाम कश्चित्, तस्य गोत्रापत्यमित्यर्थेअत इ॑ञिति इञि पान्नागारिः । पान्नागारेरपत्यं युवेत्यर्थे पान्नागारिशब्दात्यञिञोश्चे॑ति फक् । तस्यानेन लुक् । एवंच पन्नागरस्य गोत्रापत्ये युवापत्ये च पान्नागारिरित्येव रूपमित्यर्थः । प्राचां किमिति । गोत्रविशेषणं किमर्थमित्यर्थः । दाक्षिः पिता, दाक्षायणः पुत्र इति । दक्षस्य गोत्रापत्यं दाक्षिः ।अत इञ् । तस्यापत्यं युवादाक्षायणः ।यञिञोश्चे॑ति फक् । तस्य लुङ् न भवति, दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाऽभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगोत्रार्थंकादिञः परत्वम् ।", "24061": "<<न तौल्वलिभ्यः>> - न तौल्वलिभ्यः । बहुवचनात्तौल्वल्यादीनां ग्रहणमित्याह — तौल्वल्यादिभ्यः परस्येति । पूर्वेणेति ।इञः प्राचा॑मित्यनेन प्राप्तो लुगनेन प्रतिषिध्यत इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित् । तस्य गोत्रापत्यं तौल्वलिः ।अत इञ् । तस्यापत्यं युवा तौल्वलायनः ।यञिञोश्चे॑ति फक् ।", "24062": "<<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> - तद्राजस्य ।ण्यक्षत्रियार्षे॑त्यतोलु॑गित्यनुवर्तते ।तेने॑त्यनन्तरं कृते बहुत्वेइत्यध्याहारः । तदाह — बहुष्विति । तदर्थकृतबहुत्वे इति । अञादिप्रत्ययान्तमात्रार्थगतबहुत्वे सतीत्यर्थः । तेनेति किम् । प्रियो वाङ्गो येषां ते प्रियवाङ्गा इत्यत्र बहुत्वस्यान्यपदार्थगतत्वाद्वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थविसिष्टान्यपदार्थंगतं बहुत्वं वर्तिपदार्थगतमपि भवति, ततापि अञ्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकबः षञ्चाला इति ।जनपदशब्दा॑दिति विहिस्य अञो लुकि आदिवृद्धिनिवृत्तिः । इत्यादीति । अङ्गाः वङ्गा इत्यादि बोध्यम् । कतं तर्हीति । 'कौरव्या' इत्यत्र ण्यप्रत्ययस्य, 'पाण्ड' इत्यत्र डण्प्रत्ययस्य च तद्राजतया बहुषु लुक्प्रसङ्गादित्यर्थः । साधव इतीति । कौरव्यशब्दात्, पाण्डआशब्दाच्च 'तत्र साधुः' इति यत्प्रत्ययेयस्येति चे॑त्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाऽभावान्न लुगित्यर्थः । ननु रघुयदुशब्दयोर्जनपदवाचित्वाऽभावात्प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाऽभावात्कथं बहुषु तस्य लुगित्याशङ्क्यपरिहरति-रघूणामिति । लक्षणयेति । 'प्रयोग' इति शेषः । ततश्च नेदमपत्यप्रत्यान्तमिति भावः । लक्षणाबीजं तु रघुयदुसमानवृत्तिकत्वं बोध्यम् ।", "24063": "<<यस्कादिभ्यो गोत्रे>> - यस्कादिभ्यो । नेदं सूत्रमपत्याधिकारस्थं, किंतु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्यायप्रसिद्धमेव गोत्रमिह विवक्षितम्,अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते॑ इति 'यूनि लुक्' इति स्त्रीपुसाभ्या॑मित्यादिसूत्रभाष्ये सिद्धान्तितत्वात् ।ण्यक्षत्रियार्षे॑त्यतो सुगित्यनुवर्तते ।तद्राजस्य बहुषु तेनैवास्त्रिया॑मिति सूत्रं तद्राजवर्जमनुवर्तते । तदाह — एभ्योऽपत्यप्रत्ययस्येति । मित्रयव इति । मित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्टआदिढको लुकि आदिवृद्धिनिवृत्तिः ।", "24064": "<<यञञोश्च>> - यञञोश्च । द्वितीयचतुर्थपादे इदं सूत्रं न त्विदं चातुर्थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् ।तद्राजस्य बहुषु तेनैवाऽस्त्रिया॑मिति सूत्रं तद्राजस्येतिवर्जमनुवर्तते ।ण्यक्षत्रिये त्यतोलु॑गिति,यस्कादिभ्यो गोत्रे॑ इत्यतो 'गोत्रे' इति च । तदाह — गोत्रे यदिति । एतयोरिति । यञञोरित्यर्थः । प्रत्ययाऽदर्शनस्यैव लुक्त्वादिति भावः । तत्कृते इति । यञञ्प्रत्ययार्थगतबहुत्वे इति यावत् । गर्गाइति । गर्गस्यापत्यानीत्यादिविग्रहः । प्रियागाग्र्या इति । प्रियो गाग्र्यो येषामिति विग्रहः । अत्र यञर्थगतबहुत्वाऽभावान्न लुगिति भावः । द्वैप्या इति । द्वीपे भवा इत्यर्थः ।द्वीपादनुसमुद्र॑मिति यञ् । औत्सा इति । उत्से भवा इत्यर्थः ।उत्सादिभ्योऽञ् । इहोभयत्रापि यञञोर्गौत्रवाचित्वाऽभावान्न लुगिति भावः । ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिविदादिलक्षणाऽञो लुक्स्यात् । नच तस्यानन्तरापत्यवाचित्वाऽभावान्न लुगिति भावः । ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिविदादिलक्षणाऽञो लुक्स्यात् । नच तस्यानन्तरापत्यवाचित्वाद्रोत्रवाचित्वाऽभावान्न लुगिति वाच्यं,यूनि लु॑गिति सूत्रभाष्ये अपत्य#आधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते इति सिद्धान्तित्वादित्यत आह — प्रवरेति ।कश्यपोऽत्रिर्भरद्वाजो विआआमित्रोऽथ गौतमः । जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ।तेषां यदपत्यं तद्गोत्रमित्याचक्षते॑ इति बोधायनीयादिप्रवराध्यायप्रसिद्धा भार्गवादय एवैह गोत्रत्वेन विवक्षिता इत्यर्थः । कैयटेनलौकिकस्य गोत्रस्य ग्रहण॑मिति भाष्यमुपादाय तथैव व्याख्यातत्वादिति भावः । एवंच पौत्रा दौहित्रा इत्यादौ पौत्रदौहित्रयोस्तथाविधगोत्रवाचित्वाऽभावान्न लुगिति स्थितम् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः ।", "24065": "<<अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च>> - अत्रिभृगु । पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते । तदाह — एभ्यो गोत्रेति । अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अत्रेः 'इतश्चाऽनिञः' इति ढको ।ञनेन लुक् । इतरेभ्यस्तु ऋष्यण इति बोध्यम् । लुकि आदिवृद्धेर्निवृत्तिः ।", "24066": "<<बह्वचः इञः प्राच्यभरतेषु>> - बह्वच इञः । प्राच्ये उदाहरति — पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इञो लुक् । भरतगोत्रे उदाहरति — युधिष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ् । तस्य लुक् । बहुत्वे तु यौधिष्ठिरिः ।", "24067": "<<न गोपवनादिभ्यः>> - न गोप । बिदाद्यन्तर्गणोऽयमिति । ततश्च अञःयञञोश्चे॑ति प्राप्तस्य लुङ् नेति भावः ।", "24068": "<<तिककितवादिभ्यो द्वन्द्वे>> - तिककितव । तैकायनयश्च कैतवायनयश्चेति । द्वन्द्वविग्रहप्रदर्शनम् । तिककितवा इति । 'द्वन्द्वे' इति सप्तमीनिर्देशात्पदद्वयादपि फिञो लुक् ।", "24069": "<<उपकादिभ्योऽन्यतरस्यामद्वन्द्वे>> - उपकादिभ्यो । चकारमध्याह्मत्याह — द्वन्द्वे चेति । एवं च अस्वरितत्वादेव पूर्वसूत्राद्द्वन्द्वग्रहणाननुवृत्त्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव । नचद्वन्द्वे ने॑ति निषेध एव किं न स्यादिति वाच्यं, द्वन्द्वानामपि गणे पाठात् । तदेतत्सूचयन्द्वन्द्वमुदाहरति — भ्राष्ट्रककपिष्ठला इति । इञो वा लुक् । अद्वन्द्वे उदाहरति-लमकाः लामकायना इति । अआआदिओ लुग्विकल्पः । 'उपका' 'औपकायना' इत्याद्यप्युदाहार्यम् ।", "24070": "", "24071": "<<सुपो धातुप्रातिपदिकयोः>> - सुपो धातु ।धातुप्रातिपदिकयो॑रित्यवयवषष्ठीत्याह — एतयोरवयवस्येति । लुक्स्यादिति ।ण्यक्षत्रियार्षञितो यूनि लुक् इत्यतस्तदनुवृत्तेरिति भावः । न च 'सुप' इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्,पञ्चम्याः स्तोकादिभ्यः॑ इत्यलुग्विधानात्सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात् । नचैव मपि पूर्वं भूत इति लोकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाऽभावात् कथं लुगिति वाच्यं, 'सुपो धातु' इति लुग्विषयेअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ #इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवाऽलौकिकविग्रहवाक्ये समासप्रवृत्तिरितिप्रत्ययोत्तरपदयोश्च॑ इति सूत्रभाष्ये स्थितम् ।कृत्तद्धितसमासाश्च॑ इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम् । 'भस्त्रैषा' इति सूत्रव्याख्यावलरे प्रपञ्चितं चास्माभिः । एवंच पूर्व अम् भूत सित्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्तेर्नोक्तदोषः । तथाच सुपो लुकि भूतपूर्वेति स्थितम् । ननुसुबन्तं सुबन्तेन समस्यते॑ इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वं च द्वयोरप्यविशिष्टम् । ततश्चप्रथमानिर्दिष्टं समास उपसर्जनम् इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात्उपसर्जनं पूर्व॑मित्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह — भूतपूर्वे चरडिति । पूर्वं भूत इति । लौकिकविग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति समासत्वेन प्रातिपदिकत्वात्समुदायात्पुनर्यथायथं सुबुत्पत्तिरिति भावः ।इवेनेति । इवेत्यव्ययेन सुबन्तस्य समासः । 'सुपो धातु' इति लुगभावः । पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, न तु समासस्वर इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् । अन्यथा अत्र इवशब्दस्यापि सुबन्तत्वाऽविशेषात्समासशास्त्रे प्रतमानिर्दिष्टत्वेनोपसर्जनत्वात्पूर्वनिपातः स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिट्स्वरेणान्तोदात्तत्वमेव , न तु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न,तत्र तस्येवे॑ति निर्देशात् । क्वाचित्कश्चायं समासः । अत एव बह्वचा एव पदपाठे अवगृह्णन्ति । याजुषास्तु भिन्ने एव पदे पठन्ति । 'उद्बाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाश्च सङ्गच्छन्ते ।हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणी॑मित्यत्र तु मातरमिवेति भवितव्यम् ।तिङ्समानाधिकरणे प्रथमा॑ 'अभिहिते प्रथमा' इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्येण च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमाया मातृसदृशीमित्यर्थे असाधुत्वादित्यस्तां तावत् ।", "24072": "<<अदिप्रभृतिभ्यः शपः>> - अदिप्रभृतिभ्यः ।ण्यक्षत्रियार्षञितः॑ इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लुक् स्यादिति । अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अत्तीति । शपो लुकि दस्य चर्त्वेन तकारः । एवमत्त इत्यपि । अदन्तीति । तदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः । अत्सि अत्थः अत्थ । अद्मि अद्वः अद्मः ।", "24073": "", "24074": "", "24075": "<<जुहोत्यादिभ्यः श्लुः>> - जुहोत्यादिभ्यः श्लुः । शप इति । 'अदिप्रभृतिभ्यः' इत्यस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु तीति स्थिते श्लुः । शप इत ।अदिप्रभृतिभ्यः॑इत्यतस्दनुवृत्तेरिति भावः । हु अ स्थिते शपः श्लौ कृते हु तीति स्थिते —", "24076": "", "24077": "<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> - गातिस्थाघु । गाति स्था घु पा भू एषां द्वन्द्वात्पञ्चमीबहुवचनम् । परस्येति शेषः । सिचेति षष्ठी । गातीति श्तिपा निर्देशाद्गाधातग्र्रहणम् । घु इत्येन दाधा घ्वदाबिति घुसंज्ञकयोर्दाधातोर्धाधातोश्च ग्रहणम् ।ण्यक्षत्रियार्षञितो यूनि लुगणिञो॑रित्यस्माद्व्यवहितादपि लुगित्यनुवर्तते,जुहोत्यादिभ्यः श्लु॑रित्यव्यवहितमपि श्लुग्रहणं नानुवर्तते, व्याख्यानात् । तदाह — एभ्यः सिच इत्यादिना । गापाविहेति । इह = गातिस्थेति, सूत्रे गातीत्यनेन पाग्रहणेन च इणो गा लुङीति लुग्विकरणस्येणो गादेशः, शब्विकरणः पिबादेशयोग्यः पाधातुश्च गृह्रेते इत्यर्थः ।गापोग्र्रहणे इण्पिबत्योग्र्रहण॑मिति भाष्यादिति भावः । तथा च लुङस्तिबादेशे इतश्चेति इकारलोपे शबपवादे च्लिप्रत्यये तस्य सिचि तस्य लुकि अडागमे अभू-त् इति स्थिते पित्त्वान्ङित्त्वाऽभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते —", "24078": "<<विभाषा घ्राधेट्शाच्छासः>> - चङभावपक्षे विशेषमाह — विभाषा घ्रा ।ण्यक्षत्रियार्षे॑त्यतो लुगित्यनुवर्तते,गातिस्थे॑त्यतः सिचः परस्मैपदेष्विति, तदाह — एभ्य इति । 'घ्रा गन्धोपादाने' 'धेट् पाने' 'शो तनूकरणे' 'छो छेदने'षो अन्तकर्मणि — एषां समाहारद्वन्द्वत्पञ्चम्येकवचनम् । शोप्रभृतीनां कृतात्त्वानां निर्देशः । धेटःगातिस्थाघुपे॑ति नित्यं प्राप्ते, अन्येषामप्राप्ते वचनम् । अधुरिति ।उस्यपदान्ता॑दिति पररूपम् । अधाः अधातमधात । अधामधाव अधाम ।", "24079": "<<तनादिभ्यस्तथासोः>> - तनादिभ्यस्तथासोः ।गातिस्ते॑त्यतः सिचेति, 'ण्यक्षत्रियार्षे' त्यतो लुगिति,विभाषा घ्राधे॑डित्यतो विभाषेति चानुवर्तते । तदाह - तनादेरित्यादिना । एकवचनशब्दो गृह्रत इति । नतु लुङादेशपरस्मैपदमध्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः । यूयमिति । लुङि मध्यमपुरुषबुहवचने सिचि वृद्धिविकल्पे सति अतनिष्ट अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः । तदेवं प्रत्युदाहरममुक्त्तवा सूत्रस्योदाहरणं वक्ष्यन्प्रक्रियां दर्शयति — अनुदात्तोदेशेत्यनुसाकिलोपस्तङीति । तङि प्रथमैकवचने, तशब्दे मध्यमपुरुषैकवचने, तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकिअनुदात्तोपदेसे॑ति नकारस्य लोप इत्यर्थः । तदाह — अतत अतनिष्टेति । अतथाः अतनिष्ठा इति च । अतनिषातामित्यादि सुगमम् । षणु दाने । षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति । सिचो लुक्पक्षे रूपम् । असनिष्टेति । इट् । झलादिपरकत्वाऽभावादात्त्वं नेति भावः । क्षणुधातुरदुपधः ।वज्रेऽध्वर्युः क्षण्वीते॑ति तैत्तिरीये । क्षिणु चेति । इदुपधः । अयमपि हिंसायमित्यर्थः ।वज्रेऽध्वर्युः क्षिण्वीते॑ति शाखान्तरं शाबरभाष्ये उदाहृतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मान्नेत्यत आह — उप्रत्ययनिमित्त इति । ऋणु गतौ । अत्रापि क्षिणुवन्मतभेदाल्लघूपधगुणतदभावौ । तदाह — ऋणोति अर्मोतीति.एवमग्रेऽपि । अर्ण्वन्तीति ।इको यणची॑ति यणिति भावः । डु कृञ् करणे । करोतीति । उप्रत्यमाश्रित्य ऋकारस्य गुणः । रपरत्वम् । उकारस्य तु तिपमाश्रित्यगुणः । कुरुत इति । तसो ङित्त्वादुकारस्य न गुणः । रकुरु अन्तीति स्थिते आह — यणिति ।इको यणचीत्यनेने॑ति शेषः । उकारस्य यणि कुर्व् अन्तीति स्थितेहलि चे॑ति दीर्घमाशङ्क्याह — नभेति । वसि मसि चलोपस्चास्यान्यतरस्या॑मित्युकारलोपविकल्पे प्राप्ते — नित्यं करोतेः ।उतश्च प्रत्यया॑दित्यनुवर्तते,लोपश्चास्यान्यतरस्या॑मित्यतो लोपः, म्वोरिति च । तदाह- - करोतेरिति । चकर्थेति ।कृसृभृवृ॑इति नेडिति भावः । अजन्तत्वेऽपि ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । करिष्यतीति । करोतु- कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै करवावहै करवामहै । अकरोत् अकुरुताम् । अकुरुत अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते — ये च ।लोपश्चास्यान्यतरस्या॑मित्यतो लोप इति, अस्येति चानुवर्तते । अस्येत्यनेन पूर्वसूत्रे उत इत्युपात्त उत्परामृस्यते ।नित्यं करोते॑रित्यतः करोतेरित्यनुवर्तते । अङ्गाक्षिप्तः प्रत्ययो यकारेण विशेष्यते, तदादिविधिः । तदाह - कृञ उलोप इति । आशिषि क्रियादिति । 'रिङ् शयग्लिङ्क्षु' इति रिङिति भावः । कृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुण इति भावः । अकार्षीदिति । सिचि वृद्धौ रपरत्वमिति भावः । ननु लुङ्स्तङि अकृ स् त इति स्थितेतनादिभ्यस्तथासो॑रिति सिचो लुकि अकृतेतीष्टं सिद्ध्यति । सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह - तनादिभ्य इत्यादि ।", "24080": "", "24081": "<<आमः>> - आमः ।मन्त्रे घसह्वरे॑त्यतो लेरिति,ण्यक्षत्रियार्षञित॑ इत्यतो लुगिति चानुवर्तते । तदाह — आमः परस्य लेरिति । अत्रेदमवधेयम् — 'कृन्मेजन्त' इत्यत्र कृद्यो मान्तस्तदव्ययमिति व्याख्याने एधामित्यादि नाऽव्ययं , लिट एव कृत्त्वात्, तस्य च मान्तत्वाऽभावात् । तथा च प्रत्ययलक्षणेन कृदन्तत्वात्प्रातपदिकत्वे स्वाद्युत्पत्तौ 'आम' इति लुक् । लेरित तु नानुवर्तते ।मान्तं कृदन्तमव्यय॑मिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वादेधामिति मान्तमव्ययम् । ततः सुबुत्पत्तावव्ययादाप्सुप इति लुक् । 'आम' इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरितिनानुवर्तनीयम् ।आमः परस्य ले॑रिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवं च एधामित्यव्ययं न वेति पक्षद्वयम्, उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम् ।", "24082": "<<अव्ययादाप्सुपः>> - अव्ययादाप्सुपः । आप्च सुप्च आप्सुप्, तस्य आप्सुपः, समाहारद्वन्द्वात्षष्ठी ।ण्यक्षत्रियार्षे त्यतोलु॑गित्यनुवर्तते । तदाह — अव्ययाद्विहितस्येति । तत्र शालायामिति । तत्रेत्यस्याव्ययत्वादापो लुक् । स्त्रीत्वबोधनायशालाया॑मिति । अथेति । अत्र सुपो लुक् । विहितेति । अव्ययात्परस्येत्यनुक्त्ता अव्ययाद्विहितस्येति व्याख्यानादिति भावः । अत्युच्चैसाविति । उच्चैरतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अधिकरणशक्तिप्रधानान्यव्ययानिरेवृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यतादोषामन्यमहः,दिवाभूता रात्रि॑रिति । अतो द्वितीयासम्भवात् 'अत्यादयः' इति द्वितीयासमासस्याऽविरोधः । अत्र समासाद्विहितस्य सुपोऽव्ययभूतादुच्चेश्शब्दात्परत्वे ।ञपि ततो विहतत्वाऽभावान्न लुक् ।अत्युच्चे॑रिति समुदायस्य तु नाव्ययत्वं, स्वरादिगणे उच्चेश्शब्दस्य केवलस्य पाठादिति भावः । ननु स्वरादिगणे केवलोच्चैश्शब्दस्य पाठेऽपि 'स्वरादिनिपातमव्यय' मित्यव्ययसंज्ञा भवत्येव,प्रयोजनं सर्वनामाव्ययसंज्ञाया॑मिति वचनादित्याशङ्कते — अव्ययसंज्ञायामिति । परिहरति — तथापीति । सर्वनामसंज्ञायामुपसर्जनस्य नेति प्रकृतः प्रतिषेधोऽव्ययसंज्ञाविधावनुवर्तत इतितद्धितश्चासर्वविभक्तिः॑ इति सूत्रे भाष्ये स्पष्टमिति भावः । व्यर्थमिति । 'अव्ययादाप्सुपः' इति सूत्रे॑ इति शेषः । अलिङ्गत्वादिति । अव्ययानां लिङ्गाऽभावादित्यर्थः । तथाच वार्तिकम्,-॒अव्ययादाब्लुग्वचनानर्थक्यं, लिङ्गाऽभावात् इति । तथातद्धिताश्चासर्वविभक्तिः॑ इति सूत्रे भाष्येऽप्युक्तम् — स्त्रीनपुंसकत्वानि सत्त्वगुण एकत्वद्वित्ववहुत्वानि च-एतानर्थान् ये न वियन्ति तदव्ययमितित । ननु अव्ययानां लिङ्गाऽभावेसदृशं त्रिषु लिङ्गेषु॑ इत्याथर्वणश्रुतिविरोध इत्याशङ्क्य परिहरति-सदृशमिति । त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु, सर्वेषु वचनेषु च यत् न व्येति=विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति तदव्ययमिति आथर्वणश्रुतियोजना । अत्र विभक्तिवचनशब्दौ कारकसङ्ख्यापरौ नतु प्रत्ययपरौ, अन्यतरग्रहणवैयथ्र्यात् । लिङ्गकारकेति । लिङ्गकारकसङ्ख्याऽभावः परः=तात्पर्यविषयभूतो यस्या इति विग्रहः । लिङ्गेष्वित्यादिषु सप्तमी हि 'षष्ठी चानादरे' इति विहिता । तथाच लिङ्गकारकसङ्ख्या अनादृत्य यन्न व्येति विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति, तदव्ययमित्युदाहृतश्रुतेरर्थः ।तद्धितश्चासर्वविभक्तिः॑ इति सूत्रभाष्येस्त्रीपुंनपुंसकत्वानि सत्त्वगुणा एकत्वद्वित्वबहुत्वानि च । एतानर्थान् ये न वियन्ति तदव्ययम् इत्युपक्षिप्य तत्र प्रमाणतया अस्याः श्रुतेरुदाहृतत्वादिति भावः । अयं च लिङ्गकारकसङ्ख्याऽभावनियमो निपातानामेव, स्वरादीनां तु कतिपयानां लिङ्गकारकसङ्ख्यान्वयोऽस्त्येव,स्वरादिनिपातमव्यय॑मिति सूत्रे भाष्येचादीनामस्त्तववचनानामेव संज्ञा । स्वरादीनां तु सत्त्ववचनानामसत्त्ववचनानां चे॑त्युक्तत्वात्,स्वस्ति वाचयति॑, 'स्वस्ति वाच्य' इति,क्षीणे पुण्ये स्वः पतति॑, 'प्रातर्यजते' इत्यादौ कर्मकारकयोगदर्शनाच्च । अथ प्रसङ्गादाह — वष्टीति । अव अपि इकत्युपसर्गयोरकारस्य लोपं, हलन्तानामापं च भागुरिनामक आचार्यो वष्टि -इच्छतीत्यर्थः । एवशब्दस्तु पादपूरणः अवेत्युपसर्गे आदेरेवाकारस्य लोपो नान्त्यस्य, अपिना साहचर्यात् । भागुरिशब्दं दन्त्योष्ठआदिं केचित्पठन्ति । तत्त्वबोधिन्यां तु पव्गचतुर्थादिः पठितः । शब्देन्दुशेखरेऽप्येवम् । यथा वाचेति । परिगणनमिति केचित् । उदाहरणमात्रमित्यन्ये । यद्यपि 'वश क्रान्तौ' इत्यस्य छन्दोमात्रविषयत्वं वक्ष्यते, तथापि अस्माद#एव लिङ्गाल्लोकेऽपीत्याहुः । वस्तुतस्तुवष्टि भागुरि॑रिति श्लोको भाष्ये न दृश्यते । प्रत्युतङ्याप्प्रातिपदिका॑दिति सूत्रस्थभाष्यपर्यालोचनया नास्तीत्येव युक्तम् । तत्र ह्रेवमुक्तम्-॒आब्ग्रहणं न कार्यं, खट्वा मालेत्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम् इत्युक्त्वा, क्रुञ्चा उष्णिहा देवविशेति हलन्ताट्टापः स्वाद्यर्थमाब्ग्रहणस्त्वि॑ति आक्षिप्यक्रुञ्चानालभेत उष्णिहककुभौ देवविशं चे॑ति अकारान्तादेव तत्रापि टा॑बित्युक्त्ताडाबुभाभ्यामन्यतरस्या॑मिति बहुराजा, बहुराजे, बहुराजाः — इत्यर्थमाब्ग्रहण॑मिति समाहितम् । तस्मात्आपं चैव हलन्ताना॑मित्याश्रित्य वाचा निशा दिशेत्ययुक्तम् । अत्र निश्दिशोरिगुपधलक्षणे के अदन्तत्वाट्टापि निशेत्यादिरूपसंभवेऽपि वाचाशब्दोऽसाधुरेवेति शब्देन्दुशेखरे स्थितम् । ***इति बालमनोरमायामव्ययानि ।***सिद्धान्तकौमुद्याम् । — — — — — -अव्ययीभावप्रकरणम् । — — — — — — -", "24083": "<<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> - तथाच अव्ययीभावसमासादुत्पन्नानां सुपामव्ययादाप्सुप इति लुक् स्यादिति शङ्कायामाहनाव्ययीभावात् । 'अम् तु अपञ्चम्या' इति छेदः । 'नाव्ययीभावदतः' इत्येकं वाक्यम् ।ण्यक्षत्रियार्षे॑त्यतो लुगित्यनुवर्तते । 'अव्ययादाप्सुपः' इत्यतः 'सुप' इति च । अता अव्ययीभावो विशेष्यते । तेन तदन्तविधिः । तदाह अदन्तादव्ययीभावात्सुपो न लुगिति । 'अम् तु अपञ्चम्याः' इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात् । पञ्चम्यास्तु अम्न भवतीति लभ्यते । तदाह — तस्य पञ्चमीं विना अमादेश इति । अत्राऽपञ्चम्या इति प्रतिषेधोऽयमनन्तरत्वादम एव भवति, न तु लुङ्निषेधस्यापि । एवंचाऽदन्तादव्ययीभावात्परस्य सुपो न लुक्, किंत्वमादेशः । पञ्चम्यास्तु लुगमादेशश्च न भवतीति स्थितिः । सूत्रे एतत्सूचनार्थमेव तुशब्दः ।अव्ययीभावादतोऽम्त्वपञ्चम्याः॑ इत्येवोक्तौ तु अदन्तादव्ययीभावात्परस्य पञ्चमीभिन्नस्य सुपो लुकोऽपवादोऽमादेशः स्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे 'अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तां तावत् । अपदिशमिति । पञ्चमीभिन्नविभक्तीनामुदाहरणम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसकह्रस्वत्वेनाऽप्येतत्सिध्यति,अव्ययीभावश्चे॑ति नपुंसकत्वस्य वक्ष्यमाणत्वात् । तथापिगोस्त्रियो॑रिति सूत्रं चित्रगु अतिखट्व इत्याद्यर्थमावश्यकमितीहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्याऽदृष्टेनापि योगविभागेनाऽपदिशमिति रूपसाधनं वृद्धसंमतमित्याह-क्लीबेऽव्ययमिति ।", "24084": "<<तृतीयासप्तम्योर्बहुलम्>> - तृतीया ।नाव्ययीभावा॑दित्यस्मादत इत्यनुवर्तते, तदाह — अदन्तादिति । अमादेशाऽभावे तुनाव्ययीभावा॑दित्यलुक् । ननु वेति सिद्धे किं बहुलग्रहणेनेत्यत आह — बहुलग्रहणादिति । तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमते-विभक्तीत्यादेरयमर्थ इति । विभक्तीत्यनेन विभक्त्यर्थो विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति-समीप समृद्धि-व्यृद्धि-अर्था-ऽभावाऽत्यया-ऽसंप्रति-शब्दप्रादुर्भाव-पश्चात्-यथा-ऽऽनुपूर्व्य-यौगपद्य-सादृश्य-संपत्ति-साकल्य-अन्त॑ — एतेषां षोडशानां द्वन्द्वः । ते च ते वचनाश्चेति विग्रहः । विभक्त्यर्थादिषु वाच्येइआत्यर्थः ।अव्यय॑मित्यनुवर्तते । 'अव्ययीभावः' 'समास' इति चाधिकृतं । तदाह — विभक्त्यर्थादिष्विति । विभक्तौ तावदिति । विभक्त्यर्थे प्रथममुदाह्यियत इत्यर्थः । हरौ इत्यधिहरीति । हरौ इति लौकिकविग्रहः । तेन यावदवगम्यते तावदेवाधिहरीति समासेनाप्युच्यत इत्यर्थः । अधिशब्दस्य हरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्ययमिति प्रथमानिर्दिष्टत्वादधेः पूर्वनिपाते समासादुत्पन्नस्य सुपःअव्ययादाप्सुपः॑इति लुगिति भावः । ननु लौकिकविग्रहे समस्यमान#ओऽधिशब्दः कुतो नोपात्त इत्यत आह — सप्तम्यर्थस्यैवात्रेति । तथाचाऽधिद्योत्यार्थस्याऽधिकरणत्वस्य सप्तम्यैव उक्तत्वादधिशब्दो न पृथगुपात्तः, नित्यसमासताया वक्ष्यमाणत्वेन स्वपदविग्रहानोचित्नादिति भावः । ननु हरौ इति परिनिष्ठितसन्धिकार्यस्य समासे सति 'औ' इत्यस्य सुपो लुकि समासे रेफादिकारः कुतः श्रूयेतेत्यत आह-हरि ङि इति । संधिकार्यात्प्रागलौकिकविग्रहवाक्य एव समासप्रवृत्तेःप्रत्ययोत्तरपदयोश्चे॑ति भाष्यसंमतत्वादिति भावः । यथा चैत्तथा 'भूतंपूर्व' इत्यत्रानुपदमेवोक्तम् । नन्वधिना निपातेनाकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह-अत्र निपातेनेति । वचनेति । सुप्तेयनुवर्त्त्य सुबन्तेनाऽत्र समासविधिसामर्थ्यात् सप्तमी स्यादेवेति भावः । वस्तुतस्तु अनभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासैरित्येव परिगणमनं दृष्टम् । अतो निपातेनाऽधिना अभिहितेऽप्यधिकरणत्वे सप्तमी निर्बाधा ।विषवृक्षोऽपि संबध्र्य स्वयं छेत्तुमसांप्रत॑मित्यत्र तु 'एष्टव्य' इत्यध्याहार्यम् । कृताऽभिधानाद्विषवृक्षाद्द्वितीया न भवति । नच कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम्,कटं करोति भीष्ममुदारं दर्शनीय॑मित्यत्र परिगणनफलस्याऽन्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां तावत् ।", "24085": "<<लुटः प्रथमस्य डारौरसः>> - भू इ तास् इति स्थिते — उकारस्य गुणेऽवादेशे च भविता स् इति स्थिते — लुटः प्रथमस्य । डा रौ रस् एषां द्वन्द्वात्प्रथमाबहुवचनम् । 'लुट' इति स्थानषष्ठी । लुडादेशस्य प्रथमपुरुषस्येत्यर्थः । क्रमादिति — यथासङ्ख्यलभ्यम । ननु परस्मैपदस्य त्रयः प्रथमाः, आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, आदेशास्तु त्रय इति कथं यथासङ्ख्यमिति चेन्न, डाश्च रौश्च रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेत्येकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्त्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् । एवं च भू तास् आ इति स्थिते प्रक्रियां दर्शयति — डित्त्वसामर्थ्यादिति । डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाऽभावेऽपि डित्त्वसामर्थ्याट्टेरिति टिलोप इत्यर्थः ।", "31001": "<<प्रत्ययः>> - प्रत्ययः । तृतीयाध्यायस्यादिमं सूत्रमिदम् । इत ऊध्र्वमा पञ्चमाध्यायपरिसमाप्तेः प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः ।हनश्च वधः॑,ई च खनः॑,नडादीनां कुक्चे॑त्यादीनामादेशागमानां तु न प्रत्ययसंज्ञा, महासंज्ञाकरणात् ।", "31002": "<<परश्च>> - परश्च । तृतीयाध्यायस्य द्वितीयसूत्रमेतत् । अयमपि तथेति । अयमपि योग आ पञ्चमपरिसमाप्तेरधिकार इत्यर्थः । अवधिनियमे तु व्याख्यानमेव शरणम् ।", "31003": "", "31004": "", "31005": "<<गुप्तिज्किद्भ्यः सन्>> - गुप्तिज्किद्भ्यः ।", "31006": "<<मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य>> - मान्बध । गुप्तिजी इह पठितौ । 'कित निवासे' इत्यनुपदमेव परसमैपदिषु पठिष्यते । एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः । मानधातुर्बधधातुश्च इह पठितौ । दान खण्डने, शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्येते । एभ्यश्चतुभ्र्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्याऽर्थः ।आभ्यासस्ये॑ति च्छेदः । अभ्यासस्य विकारः आभ्यासः । स च 'सन्यतः' इति इत्त्वमेव,न तु ह्रस्व इतिगुणो यङ्लुको॑रिति सूत्रे भाष्ये स्पष्टम् । ततश्च मान्बधदान्शानामब्यासावयवस्य इकारस्य सन् — संनियोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः । इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह — सत्रद्वयेति । अथ उक्तसनोर्वृत्तिकृदात्युपनिबद्धानर्थविशेषानाह — गुपेर्निन्दायामित्यादिना, शानेर्निशाने इत्यन्तेन । अत गोपानाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्या । जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते । 'मानेर्विचारे' इत्येव वृत्तिकृत् । सन्नन्तस्य धातुकार्यप्राप्त्यर्थमाह — सनाद्यन्ता इति ।", "31007": "<<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> - धातोः कर्मणः । 'गुप्तिज्किद्भ्यः' इत्यतः सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम् । तथा समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्दद्वारा धातौ सा मानाधिकरण्येनान्वेति । एवं च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारस्तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति । तदाह — इषिकर्मण इत्यादि । इषिरिच्छा । इषिणा एककर्तृकतत्वादिषैकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः । ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम्, धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत आह — धातोरिति । धातोरिति विहितस्यैव प्रत्ययस्यार्धधातुकत्वं, नतु धातोः परस्य । अन्यथा जुगुप्सते इत्यत्र आर्धधातुकत्वे फलमाह — इडिति । द्वित्वमिति ।सन्यङो॑रित्यनेनेति भावः । अभ्यासस्य इत्त्वविधिं स्मारयति — सन्यत इति । पठितुमिच्छतीति । भावस्तुमुनर्थः । 'अव्ययकृतो भावे' इत्युक्तेः । धात्वर्थ एव भाव इत्युच्यते । तथा च पठितुमित्यस्य पठनक्रियैऽवार्थः । तस्मिन् पठने #इच्छाकर्मत्वम्, इच्छासमानकर्तृकत्वं च सना गम्यते । तथा च स्वकर्तृकं फटनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तत इत्युक्तं भवति । अथ 'अद भक्षणे' इति धातोः सनि घस्लृभावं स्मारयति — लुङ्सनोर्घस्लृ इति । घस् स इति स्थिते इटमाशङ्क्य आह — एकाचेति नेडिति । घस् स इति स्थिते आह — सस्य तत्वमिति ।सः स्यार्धधातुके॑ इत्यनेनेति भावः । जिघत्सतीति । द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः । य्सनोर्द्वित्वमिति ।तृतीयस्य व्यञ्जनस्ये॑ ति पक्षे ईर्ष्य् इस इत्यत्र यकारमात्रस्य द्वित्वे, सनः षत्वेसं युक्तद्वियकारं रूपमिति भावः । तदाह — ईष्र्ययिषतीति । तथा च सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः । 'तृतीयस्यैकाच' इति पक्षे ईष्र्य इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्तवे सकारद्वयस्यापि षत्वे रूपं मत्वा आह — ईर्ष्यिषिषतीति । अत्र तु सन्नन्ते ईकाररेफषकारयकारेकारषकारेकारषकाराऽकाराः ।", "31008": "<<सुप आत्मनः क्यच्>> - अथ नमधातुप्रक्रिया निरूप्यन्ते । सुप आत्मनः । प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते । सन्निधानादिच्छां प्रत्येव कर्मत्वं विवक्षितम् । आत्मन्शब्दः स्वपर्यायः । तादथ्र्यस्य शेषत्वविवक्षायां षष्ठी । स्वर्थात्कर्मण इति लभ्यते । स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः । तथा च स्वस्मै यदिष्यते कर्मकारकं तद्वृत्तेः सुबन्तादिच्छायां क्यज्वा स्यादिति फलति । तदिदमभिप्रेत्य आह — इषिकर्मण एषितृसम्बन्धिन इत्यादिना । एषित्रर्थादिषिकर्मण इत्यर्थः । एषित्रा स्वार्थं यदिष्यते कर्मकारकं ।द्वाचकात्सुबन्तादिति यावत् । धात्ववयवत्वादिति । सुबन्तात्क्यचि कृते तदन्तस्य 'सनाद्यन्ता' इति धातुत्वादिति भावः ।", "31009": "<<काम्यच्च>> - ॒सुप आत्मनः क्य॑जित्युत्तरमिदं सूत्रम् । तदाह — उक्तविषये इति । पुत्रकाम्यतीति । कस्येत्संज्ञा तु न, फलाऽभावात् । अनर्थकत्वादिति । काम्यच एकदेशस्य यकारस्य अर्थाऽभावादित्यर्थः । ननु बेभिदितेत्यत्राऽपि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह — यस्येतीति । 'यस्य हलःर' इत्यत्रयस्ये॑त्यनेन यकाराऽकारसङ्घातग्रहणमित्यनुवपदमेवोक्तमित्यर्थः । तथा च बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्याऽर्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्याऽनर्थकत्वाल्लोपो नेति भावः । यशस्काम्यतीति । 'सोऽपदादौ' इति सत्वम् । ननु किमात्मन इच्छति किंकाम्यति, स्वःकाम्यतीति कथम् मान्ताव्ययानां ने॑त्यनुवृत्तेरित्यत आह — मान्ताव्ययेभ्योऽप्ययमिति ।", "31010": "<<उपमानादाचारे>> - उपमानादाचारे ।सुप आत्मनः क्य॑जित्यतः सुप इत्यनुवर्तते ।धातोः कर्मणः समानक्रतृका॑दित्यतः कर्मण इति । तदाह - उपमानात्कर्मण इत्यादिना । उपमां यत्कर्मकारकं तद्वृत्तेः सुबन्तादित्यर्थः । पुत्रमिवेति । 'धातोः कर्मणः' इत्यतो वेत्यनुवृत्तिरनेन सूचिता । छात्रं पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति । द्विजं विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति । उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः । प्रासादीयति कुटआमिति । प्रासादे इव कुठआं ह्मष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति । कुटआमिव प्रासादे क्लिष्टो वर्तते इत्यर्थः ।", "31011": "<<कर्तुः क्यङ् सलोपश्च>> - कर्तुः क्यङ् ।कर्तु॑रित्यावर्तते ।कर्तुः क्य॑ङित्येकं वाक्यम् । अत्र कर्तुरिति पञ्चम्यन्तम् । उपमानादाचारे इत्यनुवर्तते । 'धातोः कर्मणः' इत्यतो वेति च । तदाह — उपमानादिति । उपमानं यत्कर्तृकारकं तद्वृत्तेः सुबन्तादित्यर्थः ।कर्तुः सलोपश्चे॑ति द्वितीयं वाक्यम् । चकारःतु॑पर्यायो भिन्नक्रमः । 'स' इति लुप्तषष्ठीकं पृथक्पदं ।कर्तु॑रिति षष्ठन्तस्य विशेषणम् । तदन्तविधिः । तदाह — सान्तस्य त्विति । पक्षे इति । क्यङभावपक्षे इत्यर्थः । क्यङभावपक्षे सकारलोप इति भ्रमं वारयति — सान्तस्य लोपस्त्विति । एतच्च महाभाष्ये स्पष्टम् । क्यङि सलोपविकल्पः सर्वत्र स्यादित्यत आह — स च व्यवस्थित इति । सान्तस्य सलोप इत्यर्थः । व्यवस्थामेव दर्शयति — ओजसोऽप्सरस इति । इदं वार्तिकम् । ओजश्शब्द इति । क्यङन्तोऽयम् । 'सनाद्यन्ता' इति धातुत्वाद्वृत्तिः । तत्र ओजश्शब्द ओजस्विनि वर्तत इत्यर्थः । ओजायते इति । अप्सरश्शब्दात्क्यङि सलोपदीर्घौ । क्यङो ङित्त्वादात्मनेपदम् ।इतरेषां विभाषये॑त्यस्योदाहरति — यशायते यशस्यते इति । यशस्वीवाचरतीत्यर्थः । विद्वायते विद्वस्यते इति । विद्वानिवाचरतीत्यर्थः । विद्वच्छब्दात्क्यङि सलोपविकल्पः । त्वद्यते मद्यते इति । त्वमिव अहमिव आचरतीत्यर्थः । युष्मदस्मच्छब्दात्क्यङिप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तस्य त्वमौ । युष्मद्यते अस्मद्यते इति । यूयमिव वयमिव आचरतीत्यर्थः । 'त्वमावेकवचने' इत्यस्मात्प्रत्ययोत्तरपदयोश्चे॑ति सूत्रे 'एकवचने' इत्नुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मादोस्त्वमाविति भावः । कुमार्यादिशब्दात्क्यङि पुंवत्त्वं स्मारयति — क्यङ्मानिनोश्चेति । कुमारायते इति । पुंवत्त्वेन ङीषो निवृत्तौ दीर्घः । हरितायते इति । हरिणीशब्दात् क्यङि पुंवत्त्वेनवर्णादनुदात्ता॑दिति नत्वस्य ङीषश्च निवृत्तौ दीर्घः । गुरूयते इति । गुर्वीशब्दात्क्यङि ङीषो निवृत्तौ दीर्घः । सपत्नायते इति । शत्रुपर्यायात् सपत्नशब्दाच्छाङ्र्गरवादित्वेन ङीनन्तात्पुंवत्त्वेन ङीनो निवृत्तौ दीर्घ इति भावः । सपतीयते इति । समानः पतिः स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च निष्पन्नात्सपत्नीशब्दात्क्यङि पुंवत्त्वेन ङीब्नत्वयोर्निवृत्तौ दीर्घ इति भावः । सपत्नीयते इति । युवायते इति । युवतिशब्दात्क्यङि पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ नलोपे दीर्घ इति भावः । वयोवाचिनां जातिकार्यं वैकल्पिकमितिजातेरस्त्रीविषया॑दित्यत्र भाष्ये स्पष्टम् । एतेनजातेश्चे॑ति निषेधादिह पुंवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् । पट्वीमृदूयते इति ।आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वे॑ति वार्तिकम् । उपमानादित्यनुवर्तते । 'धातोः कर्मणः' इत्यतो वाग्रहणस्याऽस्मिन्प्रकरणे अनुवृत्त्यैव सिद्दे वागरहणं व्यर्थमित्यत आह — वाग्रहणात्क्यङपीति । अन्यथा विशेषविहितत्वात्क्विपा क्यङो बाधः स्यादिति भावः । तथाचाऽत्र वाशब्दो विकल्पार्थक इति फलितम् । अत्र सुप इति नानुवर्तते । प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात्समुच्चीयते इति केचित् । अवगल्भादयत इति ।गल्भ अवगल्भ इति इवाचरति, क्लीब इवाचरति, होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः क्विप्क्यङाविति स्थितम् । अवगल्भते इत्यात्मनेपदलाभायाह — क्विप्संनियोगेनेति । अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वं चाऽत्र प्रतिज्ञायते । ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तेत्त्वादात्मनेपदं लभ्यते । तदाह — तेन तङिति अवगल्भते इति । क्विपि भकारादकारस्य लोपे हल्नताल्लडादौ तङि शविति भावः । ननु अवगल्भांचक्रे, क्लीबाञ्चक्रे, होडांचक्रे इत्यतर् कथमाम् अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेनकास्यनेका॑जित्यस्याऽप्रवृत्तेः । न चअवगल्भे॑त्यस्य क्विबन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम्,उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते॑ इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह — भूतपूर्वादपीति । क्विबुत्पत्तेः प्राक्तनमनेकाच्त्वं भूतपूर्वगत्या आश्रित्येत्यर्थः । भूतपूर्वगत्याश्रयणे प्रमाणमाह — एतद्वार्तिकेति ।सर्वप्रातिपदिकेभ्यः क्विब्वे॑ति वक्ष्यमाणवार्तिकादेव अवगल्भते, अवजगल्भे इत्यादिसिद्धौ पुनरेभ्यः क्विब्विधां तत्संनियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीत्यर्थः । नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनपदसिद्धावुपक्षीणत्वात्कथमुक्तज्ञापकतेत्याशङ्क्य निराकरोति — नचेत्यादि । कुत इत्यत आह — केवलानामिति । अच्प्रत्ययरहितानां धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधातूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसंभवात् । तच्च कुत इत्यत आह — धातूनामनेकार्थत्वादिति । एवं चआचारेऽवगल्भे॑ति क्विब्विधानमनुबन्धासञ्जनार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीति सिद्धम् । न चसर्वप्रतापिदकेभ्यः॑ इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथं तस्य उक्तज्ञापकतेति वाच्यं,सर्वप्रातिपदिकेभ्यः॑ इति वार्तिकेन क्विपि तथा प्रयोगे इष्टापत्तेः, भूतपूर्वाश्रयणपरभाष्यप्रामाण्येनसर्वप्रातिपदिकेभ्यः॑ इति वार्तिकस्य अवगल्भादिभ्योऽप्रवृत्तिविज्ञानाद्वेत्यास्तां तावत् । आचारेऽवगल्भे॑त्यत्र अवेत्यस्य प्रयोजनमाह — अवेत्युपसर्गेति । केवलादिति । उपसर्गविहीनाद्गल्भशब्दादित्यर्थः । उपसर्गान्तरेति । प्रगल्भाऽनुगल्बादिशब्दादित्यर्थः । क्यङेवेति । न तु क्विबित्यर्थः । माधवादय इत्यस्वरसोद्भावनम् । तद्बीजमाह — तङ् नेति तूचितमिति । केवलादुपसर्गान्तरविशिष्टाच्च गल्भशब्दात्, प्रगल्भादिशब्दाच्च अनेन क्विबभावेऽपिसर्वप्रातिपदिकेभ्यः॑ इति वार्तिकेन क्विब्निर्बाधः । परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः । सर्वप्रातिपदिकेभ्यः इति । 'आचारे' इति शेषः । नन्वनेनैव वार्तिकेन सिद्धेआचारेऽवगल्भे॑ति वार्तिकं व्यर्थमित्यत आह — पूर्ववार्तिकं त्विति । अन्त्यवर्णस्य इत्संज्ञासिद्ध्यर्थमित्यर्थः । तर्हि तत्र क्विब्ग्रहणं व्यर्थमित्यत आह — तत्र क्विबनूद्यते इति । तत्संनियोगेनानुबन्धासङ्गार्थमित्यर्थः । पदकार्यं नेति ।राजानती॑त्यादौ नलोपादिकं नेत्यर्थः । अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः । पररूपमिति । कृष्णशब्दात् क्विबन्ताल्लडादौ शप 'अतो गुणे' इति पररूपमित्यर्थः । कृष्णांचकार । कृष्णिता । कृष्णिष्यति । कृष्णतु । अकृष्णत् । कृष्णेत् । कृष्णायात् । अतो लोपात्परत्वात्अकृत्सार्वे॑ति दीर्घः । पूर्वविप्रतिषेधस्य विहितत्वादतो लोप इत्यन्ये । अ इवेति । अः = विष्णुः । स इवेत्यर्थः । अतीति । शपा पररूपम् । असि अथः अथ । आमि आवः आमः । क्विप्प्रत्ययान्तत्वाल्लिटि 'कास्प्रत्ययात्' इत्याम्प्रत्ययमाशङ्क्य आह — प्रत्ययग्रहणमपनीयेति । औ अतुः उरिति सिद्धरूपप्रदर्शनम् । तत्र प्रक्रियां दर्शयति — द्वित्वमिति । णलिद्विर्वचनेऽची॑ति लोपस्य निषेध इति भावः । अतोगुणे इति । द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं बाधित्वा पररूपमिति भावः । अत आदेरिति । न च परत्वान्नित्यत्वादपवादत्वाच्च 'अतो गुणे' इत्यस्मात्प्राक्अत आदे॑रित्यस्य प्रवृत्तिरिति वाच्यं, तस्य बहिरङ्गत्वात्अत आदे॑रित्स्यापवादत्वेऽपि आनर्देत्यत्र हलादिशेषात्प्रागेव परत्वात्अत आदे॑रित्यस्य चरितार्थत्वेन बाधकत्वाऽसंभवात् ,अपवादोऽपि यद्यन्यत्र चरितार्थस्तह्र्रन्तरङ्गेण बाध्यते॑ इत्युक्तेरित्यन्यत्र विस्तरः । यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्तितथापि न्याय्यत्वादेवमुक्तम् । णल औ इति । पररूपे दीर्घे च आ अ इति स्थितेआत औ णलः इत्यौत्वमिति भावः । वृद्धिरिति । आ औ इति स्थितेवृद्धिरेची॑ति वृद्धिरित्यर्थः । तथा च 'औ' इति रूपं परिनिष्ठितम् । अतुसादिष्विति । अ अतुस्, अ उस्, इति स्थिते द्वित्वे पररूपे 'अत आदेः' इति दीर्घे आतो लोप इत्यर्थः । अतुः उरिति प्रत्ययमात्रं शिष्यते । थलि इटि द्वित्वे दीर्घे आल्लोपे, - इथ अथुः अ । औ इव इम । वस्तुतस्तुकास्यनकाज्ग्रहण॑मिति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् । कासेश्च, प्रत्ययान्ताच्च आमिति लभ्यते । अत एवआचारेऽवगल्भक्लीबहोडेभ्यः॑ इति वार्तिके 'अवगल्भांचक्रे' इत्यादौ अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपिकास्प्रत्यया॑दित्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम् । इता । इष्यति । अतु- अतात् अतामन्तु अ-अतात् अतमत । आनि आव आम । आत् आतामान् । आः आतमात । आमाव आम । विधिलिङि एत् एताम् एयुः । एः एतम् एत । एयम् एव एम । यात् यास्ताम् यासुः । लुङि 'इट ईटि' इति सिज्लोपेआटश्चे॑ति वृदिंध बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत् ऐष्टाम् ऐषुरित्यादीति केचित् । आर्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याऽभावादाण्नेत्यन्ये । ईत् इष्टामित्यादि । ऐष्यत् । ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्राप्तिपदिकत्वाऽभावात्ततः कथं क्विबित्यत आह — लिङ्गविशिष्टेति । वस्तुतस्तु आबन्तेभ्य आचारे क्विब्नास्त्येवेति विआपाशब्दनिरूपणे प्रपञ्चितम् । ङीप्साहचर्यादिति । ङ्यन्तादाचारक्विबन्ताद्गौरीशब्दाल्लुङि अगौरयदित्यादौ तिस्योडर्न्तात्परत्वाऽसंभवात्तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः । कवयतीति । शपि गुणाऽयादेशौ । कवीयादिति ।अकृत्सार्वे॑ति दीर्घः । लुङि अकवि ईत् स्थिते सिचि वृद्धिमाशङ्क्य आह — सिचि वृद्धिरित्यत्रेति । सिचा धातोराक्षेपतो लाभेऽपिऋत इद्धातो॑रित्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भावः । कैयटादय इति ।इको गुणवृद्धी॑ति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भावः । माधवस्त्विति ।सिचि वृद्धि॑रित्यत्रऋत इद्धातो॑रित्यतो धातुग्रहणानुवृत्तौ मानाऽभावेन धातुरेव यो धातुरित्युक्तार्थाऽलाभादिति तदाशयः । वस्तुतस्तु 'इको गुणवृद्धी'वदव्रजहलन्तस्याऽचःर॑ इत्यादिसूत्रस्थभाष्ये सिचि परत एजन्तं नास्तीत्युक्तत्वादेजन्तेभ्य आचारक्विब्नास्त्येवेति शब्देन्दुशेखरे प्रपञ्चितम् । विरिवेति । विः = पक्षी, स इवेत्यर्थः । अभिव्यक्तत्वेनेति ।अभिव्यक्तपदार्था ये॑इति न्यायेनेति भावः । बुभावेति । इह न वुक् । अभ्यासस्य अत्त्वं च न । अभावीदिति । इहगातिस्थे॑ति सिचो न लुक् । चङ् नेति ।णिश्री॑ति सूत्रे द्रुग्रहणेन धातुपठास्थस्यैव ग्रहणादिति भावः ।", "31012": "<<भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः>> - भृशादिभ्यो । भवनं भूः, भावे क्विप् । तदाह — भवत्यर्थे इति । भवने इत्यर्थः । क्यङ् स्यादिति ।कर्तुः क्यङ् स लोपश्चे॑त्यतस्तदनुवृत्तेरिति भावः । हलन्तानामेषामिति । भृशादिषु ये हलन्तास्तेषां लोपः, क्यङ् चेत्यर्थः । ननु 'अभूततद्भावे' इतिकुतो लब्धमित्यत आह — अच्वेरिति पर्युदासबलादिति ।अभूततद्भावग्रहण॑मिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः । ये रात्रौ भृशा इति । प्रकाशाऽतिशयवन्त इत्यर्थः । भृशादिषु हलन्तमुदाहरति — सुमनसिति । सुमनायते इति । असुमनाःसुमना भवतीत्यर्थः । यद्यपि स्त्रियामित्यधिकारेअप्सुमनस्समासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचनं विहितं, तथापि तद्देवादिपर्यायरूढविषयम् । सु = शोभनं मनो यस्येति सुमना इति बहुव्रीहिर्यौगिक इति भावः । सुमनायते इति । क्यङि सलोपेअकृत्सार्वे॑ति दीर्घः । ननु लङि मनश्शब्दात्प्रागटिस्वमनायते॑ति वक्ष्यमाणमनुपपन्नम्, अङ्गस्य अड्विधानात्सुमनश्शब्दस्य समस्तस्यैव लङं प्रत्यङ्गत्वात्,प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहण॑मिति न्यायादित्याशङ्क्याह — चुरादौ सङ्ग्राम युद्धे इति पठते इति । ततश्च क्वचित्सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः । ननु चुरादौसङ्ग्रामे॑ति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः । एवं चास्य प्रातिपदिकत्वाऽभावात्सोपसर्गात्क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदं गमकमित्यत आह — तत्र सङ्ग्रामेति प्रातिपदिकमिति ।ग्रसेरा॑चे॑त्यौणादिके मन्प्रत्ययेनिष्पन्नस्य ग्रामशब्दस्यकृत्तद्धिते॑ति प्रातिपदिकत्वम् । अव्युत्पत्तिपक्षेअर्थवदधातु॑रिति प्रातिपदिकत्वमित्यर्थः । ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादकणिजर्थः । एवं च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह — तस्मादिति । तस्मात्सङ्ग्रामेति प्रातिपदिकाच्चौरादिकणिजसंभवेऽपितत्करोती॑त्यर्थे णिच् सिद्ध इत्यर्थः । ननुतत्करोती॑त्यनेनैव सङ्ग्रामशब्दात्प्रातिपदिकाण्णिच्सिद्धे किमर्थमिह चुरादौ तस्य पाठ इत्यत आह — तत्संनियोगेनेति । णिच्संनियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसञ्जनार्थ इत्यर्थः । न च मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाऽभावादससङ्ग्रामत्येत्यत्र 'णौ चङ्युपधायाः' इत्युपधाह्रस्वः स्यादिति वाच्यं, सङ्ग्रामेत्ययं हि कथादित्व#आददन्तः । तस्मादकारो भिन्न एव अनुबन्धत्वेनासज्यते इत्यर्थः । एवं च णौ अतो लोपे सति णावग्लोपित्वान्नोपधाह्रस्वः । कथादित्वलक्षणाऽदन्तत्वलाभायैवाऽस्य चुरादौ पाठ इति भावः । ननु चुरादौ सङ्ग्रामशब्दस्यतत्करोती॑ति णिचि परे अस्त्वनुबन्धाऽऽसङ्गः, तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यतर् कथमस्य ज्ञापतेत्यत आह — युद्धे इति । सामर्थ्यादिति । 'ग्राम युद्धे' इत्येतावतैव सङ्ग्रामशब्दो लभ्यते, केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाऽभावादित्यर्थः । विशिष्टपाठ इति । सङ्ग्रामशब्दपाठ इत्यर्थः । ज्ञाप्यमर्थमाह — सामानाकारमिति । सङ्ग्रामशब्दे युद्धवाचिनिस॑मित्यस्य क्रि#आययोगाऽभावात्समानाकारमित्युक्तम् । धातुसंज्ञाप्रयोजके इति ।क्विबादा॑विति शेषः । पृथक्क्रियते इति । तथा च न तस्य धातुसंज्ञाप्रवेश इत्यर्थः । ततः किमित्यत आह — तेनेति ।स॑मित्यस्य धातुसंज्ञाप्रवेशाऽभावेनेत्यर्थः । तथा च सुमनश्शब्दादाचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्तः प्रागेव अट्, न तु सुमनसिति समुदायात्प्रागित्यर्थः । एतेनसङ्ग्रामयतेरेव सोपसर्गान्नाऽन्यास्मा॑दित्यादि भाष्यं 'भृषादिभ्य' इति सूत्रस्थं व्याख्यातमिति बोध्यम् । उन्मनायते इति । भृशादित्वात् क्यङि सलोपः । एवं चेति । एवमुक्तरीत्याआचारेऽवगल्भे॑ति क्विब्विधावपि अवेत्यस्य पृथक्करमाद्गल्भशब्दात्प्रागेव अडित्यर्थः । ननु आ ऊढः ओढः ।कुगती॑ति समासः । अस्माद्भृशादित्वात्क्यङि 'ओढायते' इत्यादि रूपम् । अत्रापि आङो धातुसंज्ञाप्रवेशो न स्यात्, तत्र यद्यपि लङि ऊढशब्दाद्वा आङो वा प्रागाटि न रूपे विशेषः, उभयथापि औढायतेत्येव रूपं सिद्धमेव । तथापि ओढायेति क्यङन्तात्क्वाप्रत्ययेअतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः 'कुगतिप्रादयः' इति क्त्वाप्रत्ययान्तेन अतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः 'कुगतिप्रादयः' इति क्त्वापत्र्ययान्तेन समासे सतिसमासेऽनञ्पूर्वे क्त्वो ल्य॑बिति ल्यप् स्यादित्यत आह — ज्ञापकं च सजातीयविषयमिति । तदेवोपपादयति — तेनेति । चुरादौसङ्ग्राम युद्धेट इति सङ्ग्रहणस्य उक्तार्थे पृथक्कृतिरिति ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपमविकृतं श्रूयते नत्वेकादेशेनापह्मतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः, सङ्ग्रामे सङ्ग्रहणस्य ज्ञापकस्य एवंविधत्वादिति भावः । ततः किमित्यत आह — एवं चेति । ओढायित्वेति । ओढशब्दाद्भृशादित्वात् क्यङि ओढायेत्यस्मात्क्यङ्नतात्क्वाप्रत्यये अतो लोपे रूपम् । अत्रेति । अत्र न ल्यबित्यन्वयः । क्यङि विवक्षिते आङ एकादेशेनापह्मत्वेन पृथक्करणाऽभावे सति तस्य आङः क्त्वाप्रत्ययान्तेन समासाऽभावान्न ल्यबिति भावः । उन्मनाय्य, अवगल्भ्येतिवदिति व्यतिरेकदृष्टान्तः । उन्मनस्शब्दाद्भृशादित्वादाचारे क्यङि सकारलोपेअकृत्सार्वे॑ति दीर्घे उन्मनायेत्यस्मात्क्त्वोल्यपि, अतो लोपे, उन्मनाय्येति रूपम् । अवगल्भशब्दादाचारेऽवगल्भेति क्विबन्तात्क्वो ल्यपि रूपम् । अत्रउ॑दित्यस्यअवे॑त्यस्य च उपसर्गस्वरूपस्य अनपगृतत्वेन क्यङि क्विपि च विवक्षिते पृथक्कृततया तयोः क्त्वान्तेन समासे सति ल्यबुचितः । इह तु ओढायित्वेत्यत्र न ततेति व्यतिरेकदृष्टान्तोऽयम् । ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति — ज्ञापकस्येति । षाष्ठं वार्तिकं दर्शयति — उस्योमाङ्क्ष्विति । उसि, ओम्, आङ् एषां द्वन्द्वः । षष्ठ्स्य प्रथमे पादेओमाङोश्चे॑ति सूत्रे इदं वार्तिकं पठतिम् । तद्व्याचष्टे — उस्योमाङोश्च परयोरिति ।एङि पररूप॑मित्यत#ः पररूपग्रहणानुवृतिंत मत्वा आह — पररूपं नेति । उसि तावदुदाहरति — औरुआईयदिति । उरुआआमात्मन ऐच्छदित्यर्थे 'सुप आत्मनः' इति क्यजन्ताल्लङि उरुआईयशब्दादङ्गात्प्रागटि कृतेउस्यपदान्ता॑दिति पररूपं प्राप्तमनेन निषिध्यते । अर्थवद्गर्हणपरिभाषा त्वनित्या, अस्मादेव भाष्योदाहरणात् । अन्यथा भिन्द्युरित्यादौ पररूपं न स्यात्, क्यजन्ताल्लङि अङ्गस्य आटि कृतेओमाङोश्चे॑ति पररूपं प्राप्तमनेन निषिध्यते । आङि उदाहरति — औढीयदिति । आ ऊढः ओढः, तस्मात् क्यजन्ताल्लङि अङ्गस्य ओढशब्दस्य आटि कृतेओमाङोश्चे॑ति पररूपं प्राप्तमनेन निषिध्यते । उदाहरणत्रयमिदं भाष्ये स्थितम् । तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि पृथक्करणं स्यात्तर्हि क्यचि विवक्षिते आङः पृथक्कृतौ सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र आटि सति पररूपस्याऽप्रसक्कतेराङि पररूपप्रतिषेधो व्यर्थः स्यात् । उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आङ एकादेशेनापहारात्पृथक्करणाऽभावादोढशब्दात् प्रागाडागमे सति आङि पररूपप्राप्तेस्तन्निषेधोऽर्थवान् भवति । अतो ज्ञापकस्य सजातीयविषयत्वे 'उस्योमाङ्क्षु' इत्याङ्ग्रहणम्, औढीयदिति तदुदाहरणपरभाष्यं च अत्र प्रमाणमिति भावः । ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह — आटश्चेति चशब्देनेति ।आटश्चे॑ति सचकारः पुनर्वृद्धिविधानार्थः । तथा च आटोऽचि वृद्धिरेव यता स्यान्नाऽन्यत्पररूपमितिलभ्यते इत्यपि षष्ठाध्यायेओमाङोश्चे॑ति सूत्रे,आटश्चे॑ति सूत्रे च भाष्ये स्थितमित्यर्थः । एवं च एतद्वार्तिकप्रत्याख्यानपरः सौत्रश्चकारस्तद्भाष्यं चाऽत्र ज्ञापकमित्युक्तं भवति ।", "31013": "<<लोहितादिडाज्भ्यः क्यष्>> - लोहितादि । भवत्यर्थे इति ।भृशादिभ्यो भुवी॑त्यतो भुवीत्यनुवृत्तेरिति भावः ।", "31014": "<<कष्टाय क्रमणे>> - कष्टाय क्रमणे ।क्रमण॑शब्दं विवृणोति उत्साहे इति । अस्वरितत्वात् क्यषिति नानुवर्तते इति भावः ।क्रियार्थोपपदस्ये॑ति चतुर्तीति मत्वा आह — पापं कर्तुमिति । क्रमते इत्यत्रवृत्तिसर्गतायनेषु क्रमः॑ इति तङ् ।कण्वचिकीर्षाया॑मित्यत्र कण्वपदं व्याचष्टे — कण्वं पापमिति । सत्रादिशब्दान्विवृणोति — सत्रादय इति । द्वितीयान्तेभ्य इति । चिकीर्षायां द्वितीयान्तस्यैवाऽन्वययोग्यत्वादिति भावः । कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः । केचित्तुकण्वे॑त्यविभक्तिकम् । कण्वर्तिभ्य इति व्याचक्षते । अस्वपदविग्रह इति । वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः । इदं कष्टं शब्दाद्नयत्रैव । 'कष्टाय क्रमते' इति तु स्वपदविग्रहोऽस्त्येव । भाष्ये एवं विग्रहं प्रदश्र्य सत्रादिषु विग्रहाऽप्रदर्शनादित्याहः ।", "31015": "<<कर्मणः रोमन्थतपोभ्यां वर्तिचरोः>> - कर्मणो रोमन्थ । वृतुधातोण्र्यन्तात्धात्वर्थनिर्देशे इग्वक्तव्यः॑ इति इकि वर्तिशब्दः । आवर्तनमर्थः । चरेः संपदादित्वाद्भावे क्विप् । वर्ति चर अनयोद्र्वन्द्वात्सप्तमी । आवर्तने चरणे चेति लभ्यते । कर्मशब्देन कर्मकारकं विवक्षितम् । तपोभ्यामिति । रोमन्थमिति । उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम् । उद्गीर्णस्य = उदरादुपरि कण्ठ्दवारा निर्गतस्य, निगीर्णस्य = अपानद्वारा निर्गतस्य च मन्थः = चर्वणं रोमन्थ इत्यर्थः । वर्तयतीति । आवर्तयतीत्यर्थः । हनुचलन इति । हनु = तालु, तच्चलने सत्येव अयं विधिरित्यर्थः । तथा च उदरगतं भक्षितं द्रव्यं तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात्क्यङिति फलितम् । तदाह — चर्वितस्येति । हनुचलनेन भक्षितस्य उदरं प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः । कीट इति । इह हनुचलनाऽभावान्न क्यङिति भावः । तदेवोपपादयति — अपानेति । तपसः परस्मैपदं चेति — वार्तिकम् । तपश्शब्दः कर्मकारकवृत्तिः पूर्वसूत्राच्चरणे क्यङं लभते, ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव च लभते इत्यर्थः । तपस्यतीति । प्रातिपदिकादेवास्य क्यङुत्पत्तेरन्वर्वर्तिविभक्त्यभावात् 'नः क्ये' इति नियमाच्च पदत्वाऽभावान्न रुत्वमिति भावः ।", "31016": "<<बाष्पोष्माभ्यां उद्वमने>> - बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति ।कर्मणो रोमन्थे॑त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्वमतीत्यर्थः ।", "31017": "<<शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे>> - शब्दवैर । करणं - क्रिया । तदाह — करोत्यर्थे इति ।तत्करोती॑ति णिचोऽपवादः । पक्षे इति । कदाचिदित्यर्थः । न्यास इति । भाष्याऽनारूढत्वमत्र अरुचिबीजम् । सुदिनदुर्दिन इति- वार्तिकम् ।करोत्यर्थे क्य॑हिति शेषः ।", "31018": "<<सुखादिभ्यः कर्तृवेदनायाम्>> - सुखादिभ्यः ।कर्मणो रोमन्थे॑त्यतः कर्मग्रहणाऽनुवृतिंत मत्वा आह — एभ्यः कर्मभ्य इति । वेदनायामिति । ज्ञाने इत्यर्थः । कर्तृत्वं च वेदनां प्रत्येव विवक्षितम्, उपस्थितत्वात् । वेदनाकर्तृवृत्तिवाचिभ्यः सुखादिशब्देभ्य इति लभ्यते । फलितमाह — वेदनाकर्तुरेव चेदिति । सुखं वेदयते इति । जानातीत्यर्थः ।विद चेतनाया॑मिति चुरादौ ।", "31019": "<<नमोवरिवश्चित्रङः क्यच्>> - नमोवरिवस् । नमस्, वरिवस्, चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी । आत्मनेपदार्थं चित्रशब्दो ङिन्निर्दिष्टः ।शब्दवैरे॑त्यतः करणे इत्यनुवर्तते । करणं - क्रिया । सा च पूजापरिचर्याऽऽश्चर्यात्मिका विवक्षिता,नमसः पूजायां॑वरिवसः कारकविभक्तेर्बलीयस्त्वाद्द्वितीया । परिचर्या शुश्रूषेति मत्वाह — शुश्रूषते इत्यर्थ इति । आश्चर्यशब्दो विस्मयवाचीति मत्वाह- विस्मयते इत्यर्थ इति । विस्मापयते इत्यन्ये इति । आश्चर्यशब्दो विस्मापनपर इति भावः ।ततश्चित्रीयमाणोऽसा॑विति भट्टिः । असौ — मायामृगो विस्मयमुत्पादयन्नित्यर्थः ।", "31020": "<<पुच्छभाण्डचीवराण्णिङ्>> - पुच्छभाण्ड । पुच्छादुदसने इति वार्तिकम् । उत्पुच्छयते इति । विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः । भाण्डात्समाचयने - इत्यपि वार्तिकम् । समबभाण्डतेति । उपसर्गसमानाकरां पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात्संभाण्डशब्दात्क्यङ्यपि भाण्डशब्दात्प्रागेवाऽडिति भावः । एवमुदपुपुच्छतेत्यादावपि । चीवरादर्जने इत्यपि वार्तिकम् ।", "31021": "<<मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्>> - मुण्डमिश्र । कृञर्थे इति । शेषपूरणमिदम्,शब्दवैरे॑त्तः करणे इत्यनुवृत्तेरिति भावः । व्रताद्भोजनेति वार्तिकम् । पयः शूद्रान्नं वा व्रतयतीति । पयो भुङ्क्ते, शूद्रान्नं वर्जयतीत्यर्थः । वरुआआत्समाच्छादने — इत्यपि वार्तिकम् । भाष्ये तु न दृश्यते । संवरुआयतीति । वरुओण सम्यगाच्छादयतीत्यर्थः॥ वरुआं परिधत्ते इति वा । हल्यादिभ्यो घणे — इति वार्तिकम् । भाष्ये तु न दृश्यते । हलिकल्योरिति । हलिकली इदन्तौ । हलकलशब्दावदन्तौ, अकारे इष्ठवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताब्यां लडादीति भावः । महद्धलं हलिरिति । अत्र वृद्धप्रयोगोऽन्वेषणीयः । अचकलदित्यत्र सन्वत्त्वाऽप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम्, इकारलोपेऽप्यग्लोपित्वसिद्धेरित्यत आह — परत्वादिति । इकारस्य णौ इष्ठवत्त्वे टिलोपात्प्रागेव परत्वात्अचो ञ्णिती॑ति वृद्धौ कृतायामैकारस्य इष्ठवत्त्वाट्टिलोपेऽग्लोपित्वं न स्यात् । इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद्वृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः । अत इति । अग्लोपित्वात्सन्वत्त्वम्,दीर्घो लघो॑रिति दीर्घश्च नेत्यर्थः । कृतं गृह्णातीति । उपकारं स्वीकरोतीत्यर्थः । पठितुं य#उक्ता इति । लाघवादेकसूत्रत्वं युक्तमित्यर्थः । केषांचिदिति । मुण्डादीनामित्यर्थः । सापेक्षेभ्योऽपीति । अन्यथा णिजन्तस्याऽस्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज्न भवेत्, सविशेषमानां वृत्तिनिषेधात् । इह मुण्डादीनां पुनग्र्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्यतीत्यर्थः । स्पष्टं चेदं 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थ मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः । 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः ।सुप आत्मनः इति सूत्रभाष्ये तुमुण्डयति माणवक॑मित्यत्र गमकत्वाण्णिच्,महान्तं पुत्रमिच्छती॑त्यादौ त्वगमकत्वान्न क्यजित्युक्तम् । तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम् । श्लक्ष्णयति वरुआमिति । निर्मलं करोतीत्यर्थः । लवणयति व्यञ्जनमिति । लवणयुक्तं करोतीत्यर्थः । हलिकल्योरिति । एवं च ताभ्यां सापेक्षभ्यां न णिच्, तद्ग्रहणस्य अदन्तत्वनिपातनेन चरितार्थत्वादिति भावः । ननु सत्यशब्दा॒त्तत्करोती॑ त्यादिनैव णिच् सिद्धेःसत्यापे॑ति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह- सत्यस्यापुगर्थमिति । केषांचिदिति । पाशादीनामित्यर्थः । सत्यापयतीति । आपुग्विधिसामर्थ्यान्न टिलोपः । पाशं विमुञ्चतीत्यादौप्रातिपदिकाद्धात्वर्थे॑ इति णिच् । अभिषिषेमयिषतीति । अभिषेणि इति ण्यन्तात्सनि रूपम् । ननु त्वचं गृह्णाति त्वचयतीति कथम् । त्वच्छब्दाच्चकाराण्णिचि टिलोपे त्वयतीत्यापत्तेरित्यत आह — त्वचेति । 'त्वच संवरणे' इत्यस्मात्पुंसि संज्ञायां घः प्रायेणे॑ति घप्रत्ययय इत्यर्थः । पुंवद्भावादय इति.आदिना रभावटिलोपादिग्रहणम् । एतयतीति । 'भस्याऽढे' इति पुंवत्त्वस्य इष्ठनि प्रवृत्तेर्णावपि तस्याऽतिदेशात्वर्णादनुदात्तादिति स्त्रीप्रत्ययस्य, तत्संनियोगशिष्टनत्वस्याऽपि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसात्पुंवद्भावे उदाहरणान्तरमाह - दरदमिति । दरदिति कश्चिद्राजा, तस्यापत्यं दारदः ।द्व्यञ्मगधे॑त्यण् । स्त्र्यपत्ये तु दरदोऽपत्यं स्त्री दरत् ।अतश्चे॑त्यणो लुक् । तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्टवत्त्वात् पुंवत्त्वेन स्त्रियामित्यनुवृत्तौअतश्चे॑ति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दादयतीति रूपं सिध्यति । पुंवद्भावाऽभावे तु दरच्छब्दस्य टिलोपे सति दरयतीति स्यादिति भावः । टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धि ।पृथुं मृदुं भृशं चैव, कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् । इति । क्रमेणोदाहरति — पृथुमिति । 'आचष्टे' इति शेषः । प्रथयति । तत्र प्रक्रियां दर्शयति — वृद्धौ सत्यामिति । पृथु इ इति स्थिते परत्वाद्वृद्धौ कृतायां टिलोपः । अथवा कृतायामकृतायां च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धेः प्राक्टिलोपः । उभयथापिर ऋतः इति रभावे प्रथयतीति रूपमिति भावः । वस्तुतस्त्वकृतायां वृद्धौ उकारस्य लोपः, कृतायां तु औकारस्य लोपः । तथा चशब्दान्तरस्य प्राप्नुवन् विधिरनित्यः॑ इति टिलोपोऽनित्यः । ततश्च परत्वाट्टिलोपात् प्राग्वृद्धिरेवेतिमुण्डमिश्रे॑ति सूत्रे भाष्ये स्थितम् ।वृद्धौ सत्यां पूर्वं वा टिलोप॑ इति मूलं तु कृताऽकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम् । अपिप्रथदिति । वृद्धौ सत्यां टिलोप#ए अग्लोपित्वाऽभावात् सन्वत्त्वे 'सन्यतः' इति इत्त्वमिति भावः । अपप्रथदिति । वृद्धेः पूर्वं टिलोपेन उकारस्य निवृत्तावग्लोपित्वात्सन्वत्त्वान्वत्त्वाऽभावे रूपम् । अबभ्रशदित्यादौ वृद्धेः पूर्वं पश्चाद्वा टिलोपेऽपि अग्लोपित्वान्न सन्वत्त्वमिति भावः । औजिढदिति । वहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः । तस्माण्णौ टिलोपे ऊढि इतिण्यन्ताल्लुहि चङि आटि वृद्धौ औढि अ त् इति स्थिते प्रक्रियां दर्शयति- ढत्वादीनामिति । ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात्अजादेर्द्वितीयस्ये॑ति ह्तशब्दस्य द्वित्वमित्यर्थः । इत्युक्तमिति ।लुग्विकरणप्रक्रियायां ऊर्णुञ्धाता॑विति शेषः । एवं च ह् तिशब्दस्य द्वित्वे हलादिशेषेकुहोश्चु॑रिति हस्य चुत्वमिति भावः । ढिशब्दस्येति ।पूर्वत्रासिद्धीयमद्वित्वे॑ इत्स्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाऽभावादिति भावः । ऊढमाख्यदिति । वहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दाण्ण्यन्ताल्लुङि चङि ढत्वादीनामसिद्धत्वात्ह् ते॑त्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम् । औडढदिति ।पूर्वत्रासिद्धीयमद्वित्वे॑ इति ढत्वादीनामसिद्धत्वाऽभावपक्षे ढशब्दस्य द्वित्वे रूपम् । नन्विह परत्वाट्टिलोपे सति णिच्सहितस्य ह् तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह — ओः पुयणित्यादि । स्वशब्दाण्णिचि टिलोपमाशङ्क्याह — प्रकृत्यैकाजिति । प्रकृतिभावाट्टिलोपाऽभावे अकारस्य वृद्धौ आकारे पुगागमः । तदाह — वृद्धिपुकाविति । त्वापयति मापयतीत्यत्र प्रक्रियां दर्शयति — मपर्यन्तस्येति । युष्मदस्मद्भ्यां णौप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तसय् त्वमौ । त्व अद् इ, म अद् इ, इति स्थिते आह — पररूपादिति । कृते अकृते च पररूपे टिलोपस्य प्रवृत्तेर्नित्यत्वं बोध्यम् । त्व इ म इ इति स्तिते आह — वृद्धिरिति । अकारस्य आकारः । टिलोपस्य स्थानिवत्तवं तु न शङ्क्यम्, अजादेशत्वाऽभावात् । पुगिति ।अर्ती॑त्यनेनेति भावः । तदेवं प्राचीनमतमुपन्यस्यस्वमतमाह — त्वादयतीत्यादिना । तदेवोपपादयति — अन्तरङ्गत्वादिति । त्व अद् इ, म अद् इ, इति स्थिते नित्यमपि टिलोपं बाधित्वा अन्तरङ्गत्वात्पररूपे कृतेप्रकृत्यैका॑जिति प्रकृतिभावे टिलोपस्याऽप्रवृत्तौ उपधावृद्धिरिति भावः । ननु इष्ठेमेयस्सु किमुदाहरणमिति प्रश्ने प्रेयान् प्रेमा प्रेष्ट इत्युदाहरणानि प्रदश्र्य,नैतदस्ति प्रयोजनंप्रस्थस्फे॑ति विहित प्रादीनामाभीयत्वेनाऽसिद्धतया तत्र टिलोपाऽप्रसक्ते॑ रित्युक्त्वा, श्रेयान् श्रेष्ठ इत्यत्र 'प्रशस्यस्य श्रः' इति श्रादेशस्य पाञ्चमिकतया आभीयत्वाभावेनाऽसिद्धत्वाऽभावाट्टिलोपे प्राप्ते प्रकृतिभावविधिरित्युदाहरणान्तरं प्रदश्र्य॑श्रादेशे अकारोच्चारणसामर्थ्याट्टिलोपो न भविष्यती॑त्युक्त्वा, रुआग्वितमः रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति लुकि टिलोपनिवृत्त्यर्थं प्रकृतिभावविधानमित्युक्त्वा, प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तदपवादतया लुका टिलोपस्य बाधो भविष्यती॑ति 'प्रकृत्यैका' जित्यस्य् भाष्ये प्रत्याख्यातत्वात्त्वादयति मादयतीत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्क्य निराकरोति — न चेत्यादि । कुत इत्यत आह — भाष्यस्येति । उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीनां प्रकृतिभावं विनाऽपि साधने तात्पर्यं, न तु प्रकृततिभावप्रत्याख्यानमभिमतम्, स्वमाचष्टे स्वपायतीत्यादौ तदावश्यकत्वात् । अत एवप्रकृत्यैकाजिष्ठेमेयस्सु चेन्नैकाच उच्चारणसामर्थ्यादवचनात्पर्कृतिभावः॑ इति वार्तिकव्याख्यावसरेअन्तरेणापि वचनं प्रकृतिभावो भविष्यती॑ति भाष्ये उक्तम् । अन्यथा 'अन्तरेणैव वचन' मित्युच्येतेत्यास्तां तावत् ।प्रत्ययोत्तरपदयोश्चे॑त्यत्र 'एकवचने' इत्यनुवृत्तम् । तच्च यौगिकमाश्रीयते । तेन एकत्वविशिष्टवाचिनोर्युष्मदस्मदोरिति लभ्यते इति मत्वाऽऽह युवामावां वेति । न च द्वयोरुक्तौ युवावादेशौ शङ्क्यौ, विभक्तेर्लुका लुप्तत्वात् । न च लुकः प्रागेव युवावौ किं न स्यातामिति वाच्यम् ।अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते॑ इत्युक्तेरिति भावः । शावयतीति । आआनमाचष्टे इत्यर्थः । आन्शब्दाण्णौ आन् इ इति स्थिते आह — नस्तद्धिते इति ।प्रकृत्यैका॑जिति प्रकृतिभावमाशङ्क्याह — प्रकृतिभावस्तु नेति । कुत इत्यत आह — येनेति ।टे॑रिति टिलोपे प्राप्ते सत्येवप्रकृत्यैका॑जित्यारभ्यते, 'नस्तद्धिते' इत्यस्य रुआजिष्ठ इत्यादावप्राप्तावपि प्रकृतिभाव आरभ्यते इति भावः । भत्वादिति । इष्ठवत्त्वेन भत्वात्आयुवे॑त संप्रसारणमित्यर्थः । तथा च आन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनाऽसिद्धत्वादन्नन्तत्वाद्वस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धावावादेशः । अन्येत्विति । इष्ठनि दृष्टस्यैव इष्ठवदित्यतिदेशः । टेरित्येव टिलोप इष्ठनि दृष्टो, न तु॑ 'नस्तद्धिते' इति । अतो नाऽस्यातिदेश इत्यर्थः । नन्वतिशयेन ब्राहृआ ब्राहिऋष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह — ब्राहिऋष्ठ इत्यादाविति । तेनेति । 'नस्तद्धिते' इत्यस्याऽप्रवर्तनेनेत्यर्थः । ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याऽभावे संप्रसारणे शुनयतीति रूपमित्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु ब्राहृवच्छब्दादिष्ठानि टेरिति टिलोपापवादेविन्मतोर्लु॑गिति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव । ततश्चइष्ठनि तस्याऽदृष्टत्वा॑ दित्यत्युक्तम् । किं चब्राहिऋष्ठ इत्यादौ परत्वाट्टेरित्यस्य प्रवृत्ति॑रित्ययुक्तम्, केवलस्य ब्राहृन्शब्दस् वेदादिवचनस्य गुणवचनत्वाऽभावेन इष्ठनो दुर्लभत्वात्,अजादी गुणवचनादेवे॑त्युक्तेः । मत्वन्तादिष्ठनि तु मतोर्लुकि तेनटे॑रित्यस्य प्रवृत्तिबाधेन लुगुत्तरं तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम् । विद्वयतीति । विद्वस् शब्दाण्णौ टिलोपः । ननु इष्ठवत्त्वाद्भत्वेवसोः संप्रसारण्मित्याशङ्क्याह — अङ्गवृत्तेति ।अङ्गवृत्ते पुनर्वृत्तावविधि॑रिति परिभाषयेत्यर्थः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यमिति तदर्थः । वस्तुतस्तु विद्वयतीत्यत्रटे॑रित्यसो लोपे वस्वन्तत्वाऽभावात्संप्रसारणाऽप्रसक्तेरङ्गवृत्तपरिभाषोपन्यासो वृथेत्यस्वरसं सूचयति — इत्येके इति । संप्रासरणे इति । विद्वच्छब्दाम्णौ इष्ठवत्त्वेन टिलोपे कृते वकारस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्य्नते इत्यर्थः । अत्रापि पूर्ववदेवाऽस्वरसः, टिलोपे सति वस्वन्तत्वाऽभावात् । नित्यत्वादिति । टिलोपे कृते अकृते च प्रवृत्तेः संप्रसारणं नित्यम् । टिलोपस्तु कृते संप्रसारणे पूर्वरूपे च कृते उसो भवति, अकृते तु अस इत्यनित्यः,शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायादिति भावः । ननु कृतेऽपि संप्रासरणे पररूपात्प्राक् अस एव टिलोप इति तस्यनित्यत्वमित्यत आह — अन्तरङ्गत्वात्पूर्वरूपं टिलोप इति । संप्रसारणे पूर्वरूपे च कृते उसो लोपेऽपि वस्वन्तत्वस्य विनङ्क्ष्यत्त्वान्न संप्रसाणमित्यस्वरसं सूचयति — इत्यपरे इति । एवं च विद्वयतीति प्रथमपक्ष एव स्थितः । तत्राङ्गवृत्तपिरभाषोपन्यास एव वृथेति स्थितम् । उदीचयतीति । उत्पूर्वकादञ्चेः ऋत्विगित्यादिना क्विनिअनिदिता॑मिति नलोपे उदच्शब्दः । तस्माण्णौ इष्ठवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वाउद ई॑दिति ईत्त्वेउदीची॑ति ण्यन्ताल्लडादय इति भावः । उदैचिदिति । लुङिद्विर्वचनेऽची॑ति णिलोपनिषेधाच्चिशब्दस्य द्वित्वम् ।उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते॑ इत्युक्तेरुद उपर्याडिति भावः । एवं च उदः पृथक्करणेनप्रकृत्यैकाजिति प्रकृतिभावान्न टिलोपः । प्रतीचयतीति । 'अच' इत्यल्लोपे 'चौ' इति पूर्वस्य दीर्घः । प्रत्यचिचदिति । इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नाऽसिद्धत्वम्, लोपस्य णिनिमित्तत्वात्, आटस्तु लुङ्निमित्तत्वात् । इकोऽसवर्णे इतीति । 'न समासे' इति तु न, पृथक्करणेन समासनिवृत्तेः । समीचयतीति । 'समःसमि' इति सम्यादेशः । 'अच' इति लोपे 'चा' विति दीर्घः । सम्यचिचदिति । सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम्, पृथक्करणेन उत्तरपदपरत्वाऽभावेऽप्य्नतरङ्गत्वाज्जातः सम्यादेशो न निवर्तते । तिराययतीति ।तिर॑सित्यव्ययम् । तत्पूर्वादञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोर्निवृत्तौ 'तिरसस्तिर्यलोपे' इति तिरिभावे इकारस्य वृद्धावायादेशे 'तिरायी' त्यस्माण्ण्य्नताल्लडादीति भावः । न च तिरसः पृथक्करणे सति धातोःप्रकृत्यैका॑जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह — अञ्चेष्टिलोपेनेति । बहिरङ्गत्वेनेति । बहिर्भूतणिनिमित्तकत्वादिति भावः । न च तिरसः पृथक्करणे सति धातोःप्रकृत्यैका॑जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह — अञ्चेष्टलोपेनेति । बहिरङ्गत्वेनेति । बहिर्भूतणिनिमित्तकत्वादिति भावः । नन्वस्तु तिरसस्तिरिः, तत्र रेफादकारस्य टेरिति लोपः स्यादित्यत आह — असिद्धवदवेति । प्रथमटिलोपोऽसिद्ध इत्यन्वयः । तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटेर्लोपःतिरे टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः । ननु प्रथमटिलोपस्य कथं तिरेष्टिलोपे कर्तव्ये असिद्धत्वं, टिलोपशास्त्रस्य एकत्वादित्यत आह — चिणो लुङ्न्यायेनेति । पचधातोर्भावकर्मणोर्लुङस्तङि प्रथमपुरुषैकवचने तशब्दे परेचिण् भावकर्मणो॑रिति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात्तिङश्चे॑ति तरपि तदन्तात्किमेत्तिङव्ययघादा॑मित्याम्प्रत्यये अपाचिततरामिति स्थितेचिणो लु॑गिति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति, स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकोऽसिद्धत्वेन व्यवधानादिति स्थितिः । एवमिहापीत्यर्थः । अत इति । प्रतमटिलोपस्याऽसिद्ध्त्वादित्यर्थः । अङ्गवृत्तपरिभाषया वेति ।पुनष्टिलोपे ने॑त्यनुषज्यते । न च तिरेरिकारस्याङ्गवृत्तपरिभाषयाटे॑रिति लोपाऽभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम्, अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्तेः । अग्लोपित्वादिति । तिरस् अच् इ इति स्थितेटे॑रित्यचो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम्चो धातोर्लोपे अकारस्यापि लोपसत्त्वादित्यभिमानः । सध्राययतीति । सहस्य सध्रिः । तिराययतीतिवद्रूपम् । सहेत्यस्य उपसर्गत्वाऽभावान्न पृथक्करणम् । तदाह — अससध्रायदिति । विष्वद्रञ्चमिति । विष्वक् अच् इ इति स्थितेविष्वग्देवयोश्चे॑ति विष्वक्शब्दटेरद्रआदेशे टेरित्यचो धातोर्लोपे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वद्रायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् । देवद्रञ्चमिति । देवशब्दस्य टेरद्रआदेशे देवद्राययतीति सिद्धवत्कृत्य लुङ्याह — अदिदेवद्रायदिति । अतितिरायदितिवद्रूपम् । आददद्रायदिति । सर्वनामत्वाददस्शब्दस्य टेरद्रआदेशः ।त्यदाद्यत्वे सत्येव उत्त्वमत्वे॑ इति पक्षे इदम्, अदस्शब्दाद्विभक्तेर्लुका लुप्तत्वेन विभक्तिपरकत्वाऽभावेन त्यदाद्यत्वाऽप्रवृत्तेः ।त्यदाद्यत्वाऽविषयत्वेऽपि उत्त्वमत्त्वे स्त॑ इति मतमाश्रित्य आह — अमुमुयञ्चमिति । अदस् अच् इ इति स्थिते टेरद्रआदेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थितेअदसोऽद्रेः पृथङ्मुत्व॑मिति मते दकाराऽकारयोर्दकाररेफयोश्च मत्वेत्त्वयोःकृतयोः अमुमु इ इति स्तिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयीति ण्यन्ताल्लडादीति भावः । मुत्वस्याऽसिद्धत्वान्न यण् । अदमुआययतीति ।केचिदन्त्यसदेशस्ये॑ति मते इदम् । भुवमिति । भुमाचष्टे इत्यर्थ भूशब्दाण्णिच् । वृद्ध्यावादेशौ, भावीत्यस्माल्लडादीति भावः । अबीभवदिति ।\tओः पुयण्जी॑ति इत्त्वम् । अबुभ्रवदिति । अवर्णपरकपवर्गादिपरत्वाऽभावात्ओः पुयण्जी॑ति न । स्वआमिति । सुशोभनः अआ इति विग्रहः । स्वाशश्वदिति । उपसर्गसमानाकारस्य पृथक्करणादआशब्दस्यअजादेर्द्वितीयस्ये॑ति द्वित्वमाडागमश्च । स्वरिति । स्वरित्यस्माण्णिचि 'अव्ययानां भमात्रे' इति टिलोपः, इष्ठवत्त्वेन भत्वात् ।प्रकृत्यैकाजिति प्रकृतिभावस्तु येन नाप्राप्तिन्यायेनटे॑रित्यस्यैव बाधकः । असस्वदिति । द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपं बाधित्वा स्वर्शब्दस्य द्वित्वम्, 'अ' रित्यस्य लोपे अकारस्यापि लोपसत्त्वेन अजादेशत्वादिति भावः । असिस्वदिति । अर्लोपस्य अजादेशत्वं नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाऽभावाट्टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः । बहूनिति । बहुशब्दाण्णिचिणाविष्ठव॑दित्यतिदेशात्बहोर्लोपो भू च बहो॑रिति बहोर्भूभावः ।इष्ठस्य यिट् चे॑ति यिडागमस्तु न, 'णाविष्ठव' दिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः । बहयतीति । यिडभावे तत्संनियोगशिष्टस्य भूभावस्याप्यभावादिति भावः । रुआजयतीति । इष्ठवत्वात्विन्मतो॑रिति लुक् । नचाऽजादी गुणवचनादेवेति इष्ठन्प्रत्ययः रुआग्विन्शब्दाद्दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्क्यं,विन्मतो॑रिति लुग्विधानेन रुआग्विन्शब्दादिष्ठवत्त्वसिद्धरिति भावः । उपधावृद्धिमाशङ्क्याह — संज्ञापूर्वकत्वान्न वृद्धिरिति ।णाविष्ठव॑दित्येनातिदेशेन विनो लुकः सत्त्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः । श्रीमतीमिति । श्रीमतीशब्दाण्णिचिणाविष्ठव॑दित्यतिदेशेन 'भस्याऽढे' इति पुंवत्त्वे 'विन्मतोः' इति मतो लुकि रेफादिकारस्य वृद्ध्यादेशयोः 'श्रायी' त्यरमाल्लडादीति भावः । अशिश्रयदिति । णावच आदेशो नेति वृद्ध्यायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृद्ध्यायादेशयोः कृतयोरुपधाह्रस्वः इति माधवः । मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्रस्व इत्यन्ये । पयस्विनीमिति । णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः । पयस्यतीत्यत्र इष्ठवत्त्वाट्टिलोपमाशङ्क्य आह — इह टटिलोपो नेति.कुत इत्यत आह — तदपवादस्येति । न च टिलोपं बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोः कुतो न स्यादिति वाच्यं,सत्यपि संभवे बाधन॑मिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् । स्थवयतीति । स्थूलशब्दाण्णिचि इष्ठवत्त्वात्स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे #ऊकारस्य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः । गुणे ओकारस्याऽचो ञ्णितीति वृद्धिस्तु न शङ्क्या, अङ्गकार्ये कृते पुनरङ्गकार्यस्याऽप्रवृत्तेः । दवयतीति.पूर्ववद्यणादिलोपो गुणश्च ।कथं तर्हीति ।स्थूलदूरे॑ति यणादिलोपस्य टिलोपाऽपवादत्वादिति भावः । दूरमततीति । 'अत सातत्यगमने' इति धातोःअन्येभ्योऽपि दृश्यते॑ इति क्विपि दूरादिति रूपम् । अय गतावित्यस्मात् क्विपिलोपो व्यो॑रिति यलोपेह्रस्वस्य पिती॑ति तुकि दूरादित्येव रूपम् । तस्माण्णौ टिलोपेदूरी॑ति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः । तदाह — दूरातं कुर्वतीत्यर्थ इति ।कुर्वती॑ति सप्तम्यन्तम् । यवयतीति । युवन्शब्दाण्णौ स्थूलदूरेति वनो यणादेर्लोपः । पूर्वस्य उकारस्य गुणे अवादेशः । यवि इत्यस्माल्लडादि । कनयतीति । युवन्शब्दस्य कनादेशपक्षे रूपम् । तदाह — युवाल्पयोरिति । नेदयतीति । अन्तिकशब्दस्य णौ नेदादेशः,अन्तिकबाढयोर्नेदसाधा॑वित्युक्तेः । साधयतीति । बाढशब्दस्य णौ साधादेशः । इहेति । प्रशस्ययतीत्यत्र 'प्रशस्यस्य श्रः'ज्य चे॑ति श्रज्यौ नत्यर्थः । कुत इत्यत आह — उपसर्गस्येति । तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः । वृद्धं — ज्यापयतीति ।वृद्धस्य चे॑ति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः ।प्रियस्थिरे॑ति सूत्रक्रमेणोदाहरति — प्रियं — प्रापयतीति । प्रियशब्दस्य प्रादेशे वृद्धिः पुक् । स्थापयतीति । स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ ।वरयति वारयतीति । उरुशब्दस्य वर् । संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः । बंहयतीति । बहुलस्य बंहादेशः । गरयतीति । गुरोर्गुर् । वृद्धं वर्षयतीति । वृद्धस्य वर्षादेशःवृद्धस्य चे॑ति ज्यादेशेन विकल्प्यते । त्रपयतीति । तृप्रस्य त्रप् आदेशः । अदुपधः । संज्ञापूर्वकत्वान्न वृद्धिः । गरयतीत्यादिवत् ।त्रापयती॑ति क्वचित्पाठः । द्राघयतीति । दीर्घस्य द्राघादेशः । वृन्दयतीति । बृन्दारकस्य बृन्दादेशः । इति नामधातुक्रिया ।अथ ण्यन्तप्रक्रिया ।", "31022": "", "31023": "", "31024": "", "31025": "<<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण- चूर्णचुरादिभ्यो णिच्>> - सत्याप । सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच वर्मन् वर्ण चूर्ण चुरादि — एषां द्वन्द्वात्पञ्चमी । तदाह - एभ्यो णिच्स्यादिति । कस्मिन्नर्थे इत्याकाङ्क्षायामाह — चूर्णान्तेभ्य इति । सत्यादिभ्यश्चूर्णान्तेभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यथप्रातिपदिकाद्धात्वर्थे बहुल॑मिति वक्ष्यमाणेन सिद्धमेवाऽर्थनिर्देशनमित्यर्थः । ननु तेनैव सिद्धत्वादिह चूर्णान्तानुक्रमणं व्य्रथमित्यत आह - तेषामिह ग्रहणं प्रपञ्चार्थमिति । नच तेभ्यः स्वार्थे एव णिज्विधिरस्त्विति वाच्यं,सत्यस्यतु कृञ्यापुङ्नपात्यते । सत्यं करोति सत्यापयती॑त्यादिभाष्यविरोधादिति भावः । नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति । चुरादिभ्यस्तु स्वार्थे इति । अर्थान्तरस्याऽनिर्देशादिति भावः । अत्र 'धातोरेकाचः' इत्यतो धातोरित्यनुवर्तते । चुरादिभ्यो धातुभ्यो णिजिति फलितम् । ततश्च णिच आर्धधातुकत्वं सिध्यति । अन्यथा धातोरिति विहितत्वाऽभावादार्धधातुकत्वं न स्यादिति बोध्यम् । तदाह — पुगन्तेति गुण इति । णिचि कृते चुर् इ इति स्थिते णिच आर्धधातुकत्वात्तस्मिन् चकारादुकारस्यपुगन्तलघूपधस्ये॑ति गुण इत्यर्थः ।", "31026": "<<हेतुमति च>> - हेतुमति च ।सत्यापपाशे॑त्यतो णिजित्यनुवर्तते ।हेतुः प्रयोजकः = आधारतया अस्यास्तीति हेतुमान् = प्रयोजकनिष्ठः प्रेषणादिव्यापारः, तस्मिन् वाच्ये णिच् स्यादित्यर्थः ।धातोरेकाचो हलादे॑रिति धातोरित्यनुवर्तते । तदाह - प्रयोजकव्यापार #इति । प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशादीनां ग्रहणम् । तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम् । आज्ञेत्यर्थः । समानस्याऽधिकस्य च सख्याचार्यादेः प्रवर्तना- अध्येषणा । अनुमति — राजादेः समंतिः । ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना — उपदेशः । हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः । प्रयोजकनिष्ठप्रवर्तनायां णिजिति फलितम् । एते तु विशेषाः प्रकरमादिना अवगम्यन्ते । 'कुलालो घटं करोती' त्यत्र तु न णिच्, प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेरित्यन्यत्र विस्तरः । भवन्तमिति । देवदत्तो यज्वा भवति । तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्यभवनस्य मुख्यकर्ता यज्वा, तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः, तन्निष्ठआं प्रेरणायां भूधातोर्णिच् । वृद्ध्यावादेशौ । भावीति णिजन्तम् । तस्माद्भवनानुकूलव्यापारार्थकाल्लटिभावयती॑ति रूपम् । भवन्तं प्रेरयतीति फलितोऽर्थः । भावयांबभूवेति । कर्तृगामिन्यपि क्रियाफले भूधातोरनात्मनेपदित्वादनुप्रयुज्यमानादपि नात्मनेपदमिति भावः ।", "31027": "<<कण्ड्वादिभ्यो यक्>> - अथ कण्वादिप्रक्रिया निरूप्यन्ते । कण्ड्वादिभ्यो यक् । धातुभ्य इति । 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । वाग्रहणं तु निवृत्तमिति भावः । अन्यथा कण्डवतीत्याद्यपि स्यादिति भावः । द्विधा हीति । एतच्च भाष्ये स्पष्टम् । तेन कण्डूरित्याद्यविगृहीतरूपसिद्धिः । लेटितेति । 'यस्य हलः' इति यलोपः । मेधा आशुग्रहणे इति । आशुग्रहणँ त्वरया बोधः । 'सुग्रहणे' इति पाठान्तरम् । सुख्यतीति । यकि अतो लोपः । प्रातिपदिकेभ्यो यकि तु आर्धधातुकत्वाऽभावादल्लोपो न स्यादिति बोध्यम् । चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् । अरर आराकर्मणीति । आरा = प्रतोदः, तत्करणकं कर्म- आराकर्म । भिषज् चिकित्सायाम् । जान्तोयऽयम् । भिषज्यति । लेखा स्खलने चेति । लेखायति.लेख्यतीति । अदन्ताद्यकि अतो लोपः । आकृतिगणोऽयमिति । कण्ड्वादिरित्यर्थः । तेन दुवस् संदीपने इत्यादिसङ्ग्रहः ।समिधाऽग्न दुवस्यते॑ । इति कण्ड्वादयः ।अथ कारकप्रकरणम् । — — — — — — -", "31028": "<<गुपूधूपविच्छिपणिपनिभ्य आयः>> - गुपूधूप । एभ्य इति । गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः । अर्थनिर्देशाऽभावादाह — स्वार्थ इति । आयप्रत्ययः अकारान्तः । तत्फलं तुगोपायतं नः सुमनस्यमान॑ इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तत्वेन शबकारेण एकदेशस्यापिएकादेश उदात्तेनोपादात्तः॑ इत्युदात्तत्वे,त॑मित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्यउदात्तादनुदात्तस्य स्वरितः॑ इति स्वरितत्वमिति बोध्यम् । 'धातोरेकाच' इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्त्वात्कार्यं गुणादि भवति । तदाह - पुगन्तेति गुण इति ।", "31029": "<<ऋतेरीयङ्>> - ऋतेरीयङ् । ऋतेर्धातुपाठेऽदर्शनादाह — ऋतिः सौत्र इति । स्वार्थे इति । अर्थविशेषस्याऽनिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः । इदन्तत्व हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयथ्र्यात् । नच इदन्तत्वे सति 'एरनेकाचः' इति यण् स्यादिति वाच्यम्, एवमपि 'ऋतेर्ङ्यः' इति ङ्यप्रत्यये कृतेअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घेणैव सिद्धे इयङ्विधिवैयथ्र्यात् । एके इति । अन्ये इत्यर्थः । ऋतीयते इति । ईयङोऽदन्तत्वाच्छपि पररूपम् । ऋतीयांचक्रे इति ।कास्प्रत्यया॑दित्याम् । ऋतीयिता । ऋतीयिष्यते । ऋतीयताम् । आर्तीयत । ऋतीयेत । ऋतीयिषीष्ट । आर्तीयिष्ट । आर्तीयिष्यत । आनर्तेति । ऋत् इति तकारान्ताल्लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषेअत आदे॑रित्यभ्यासस्य दीर्घेतस्माननुड्द्विहलः॑ इति नुट्,नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्रते॑ इत्युक्तेरिति भावः । आनृततुः आनृतुः । अनिट्सु अस्याऽपाठात् थलि नित्यमिट् । आनर्तिथ आनृतथुः आनृत । आनर्त । आनृतिव आनृतिम । अर्तिता । अर्तिष्यति । ऋत्यात् । आर्तीदिति । 'इट ईटि' इति सिज्लोपः । आडागमः । आर्तिष्यत् । अथ लुगविकरणान् धातून्निरूपयितुमुपक्रमते — अद भक्षणे इति । अनिडयम् ।", "31030": "<<कमेर्णिङ्>> - कमेर्णिङ् । शेषपूरणेन सूत्रं व्याचष्टे -स्वार्थे इति । अर्थविशेषाऽनिर्देशादिति भावः । णङावितौ ।णेरनिटी॑त्यत्रोभयोग्र्रहणायाऽनुबन्धकरमम् । ङित्त्वात्तङिति । अनुदात्तेत्वं तु णिङभावे 'चकमे' इत्यादौ चरितार्थमिति भावः । कामयत इति । णिङि 'अत उपधाया' इति वृद्धौकामी॑ति णिङन्तम् ।क्ङिति चे॑ति निषेधस्तु न,अनिग्लक्षणत्वात् । णिङन्तस्य धातुत्वाल्लडादयः । तत्र लटि शपि गुणेऽयादेशे कामयते इति रूपम् । कामयेति इत्यादि सुगमम् । लिटि 'कास्यनेकाच' इत्यामि, 'आम' इति लिटो लोपे '\tकामि-आम्' इति स्थिते, सार्वधातुके॑ति गुणं बाधित्वाणेरनिटी॑ति वक्ष्यमाणे णिलोपे प्राप्ते ।", "31031": "<<आयादय आर्धद्धातुके वा>> - आयादयः । आय आदिर्येषां ते आयादयः ।आय ईयङ्णिङ् चेति त्रय आयादयो मताः॑ । गुपूधूपविच्छिपणिपनिभ्य आयः, ऋतेरीयङ्, कमेर्णिङित्युत्तरमस्य सूत्रस्य पाठात् । विवक्षायामिति । 'आर्धधातुके' इति विषयसप्तमीति भावः । परसप्तमीत्वे तु गोपायितेत्यत्र अतो लोपो न स्यात्, आर्धधातुकोपदेशकालेऽदन्तत्वाऽभावादिति भावः ।", "31032": "<<सनाद्यन्ता धातवः>> - नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाऽभावेन धातुत्वाऽभावात् कथमस्माल्लडादय इत्यत आह — सनाद्यन्ताः ।गुप्तिज्किद्भ्यः स॑नित्यारभ्यकमेर्णि॑ङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् आदिर्येषां ते सनादयो णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः । तदाह -सनादयः इति ।सन्क्यच्काम्यच्क्यङ्क्यषोऽथाचारक्विब्णिज्यङौ तथा । यगाय ईयङ् णिङ् चेति द्वादशाऽमी सनादयः॑ इति । सङग्रहः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति । आयप्रत्यान्तस्येत्यर्थः । गोपायतीति । शपि 'अतो गणे' इति पररूपम् ।", "31033": "<<स्यतासी लृलुटोः>> - भू-तीति स्थितेकर्तरि शबि॑ति शपि प्राप्ते — स्यतासी लृ । स्यश्च तासिश्चेति द्वन्द्वात्प्रथमाद्विवचनम् । तासेरिकार उच्चारणार्थः । लृ लुट् अनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । ग्रहणमिति । लृस्वरूपस्योभयत्राऽविशिष्टत्वादिति भावः । धातोरित्यधिकृतम् । तदाह — धातोरिति ।", "31034": "", "31035": "<<कास्प्रत्ययादाममन्त्रे लिटि>> - तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे आह -कास्प्रत्ययात् । आम् — अमन्त्रे इति च्छेदः । चकासृ दीप्तौ, जागृ निद्राक्षये इत्यादिभ्योऽपि लिटि आमिष्यते । प्रत्ययान्ताच्चेति लभ्यते । ततश्च अ इवाचरति अति । क्विबन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कासृधातोश्च, अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह — प्रत्यग्रहणमपनीयेति । तथाच कास्धातोरनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः । वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते । तथा च गोपया — आमिति स्थितम् ।", "31036": "<<इजादेश्च गुरुमतोऽनृच्छः>> - इजादेश्च । नञ ऋच्छ इत्यनेन समासेऽनृच्छ इत्यस्मात्पञ्चमी । 'धातोरेकाच' इत्यतो धातोरित्यनुवर्तते ।कास्प्रत्यया॑दित्यत आमिति,लिटीति चानुवर्तते तदाह — इजादिरित्यादिना । आस्कासोरिति ।कास्प्रत्ययादाममन्त्रे लिटी॑ति ,दयायासश्चे॑ति च कास्धातोः, आस्धातोश्चलिटि आम्विहितः । तत्र मकारस्य इत्संज्ञकत्वे 'मिदचोऽन्त्यात्पर' इति आकारादाकारान्तरं स्यात् । ततश्च सवर्णदीर्घे कृते कास् आस् इत्येव भवतीति आम्विधिरनर्थकः स्यात् । अत आमो मकारस्य नेत्संज्ञेति विज्ञायत इत्यर्थः । तथा च एध् आम् ल इति स्थिते —", "31037": "<<दयायासश्च>> - दायायासश्च । दय अय आस् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुर्तते । तदाह — एभ्य आम् स्याल्लिटीति ।", "31038": "<<उषविदजागृभ्योऽन्यतरस्याम्>> - उषविद । 'कास्प्रत्यया' दित्यत आम् लिटीत्यनुवर्तते । तदाह — एभ्यो लिटीति । आमभावपक्षे आह - उवोषेति । 'अभ्यासस्याऽसवर्णे' इति उवङादेशः । जिषु विषु मिषु सेचन इति । द्वितीयो दन्त्योष्ठआदिः । थलि वसि मसि च विशेषमाह — क्रादिनियमादिडिति । विवेषिथेति । अजन्ताकारवत्त्वाऽभावेन भारद्वाजनियमाऽप्रवृत्तेस्थल्यपि क्रादिनियमान्नित्यमिट् । वेष्टेति । तासि ष्टुत्वेन तकारस्य टः । वेक्ष्यतीति ।षढो॑रिति षस्य कः, सस्य षः । अविक्षदिति ।शल इगुपधा॑दिति क्सः, षस्य कः, सस्य षः, कित्त्वान्न गुणः । पुषधातु सेडिति मत्वाह — पोषितेति । अपोषीदिति ।नेटी॑ति वृद्धिनिषेधः । नन्विट्सु पुषेः पाठात् कथं सेट्कत्वमित्यत आह -अनिट्केष्विति । अत इति । सेट्कत्वात् क्सो नेत्यर्थः । ननु पुषादित्वलक्षणः अङ्कुतो नेत्यत आह — अङ्विधाविति । एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति । अयमपीति । पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः । कैयटादय इति । 'श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः । द्वयोग्र्रहणमिति । भौवादिकदैवादिकयोरित्यर्थः । स्वोक्तीति । 'श्लिष आलिङ्गने' इति सूत्रे दैवादिकश्लिषेरनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्चोक्तत्वादिति भावः । पृषु वृषु इत्यारभ्य ह्मषुपर्यन्ता ऋदुपधाः । अलीकं — मिथ्याभवनं, मिथ्योक्तिर्वा । तुस ह्यसेत्यारभ्य णश गतावित्यतः प्राक् सकारान्ताः । घस्लृ धातुरनिट्कः । अयमिति । घस्लृधातुः, सर्वेषु न प्रयोज्य इत्यर्थः । कुत इत्यत आह — लिटीति । यद्ययं सार्वत्रिकः स्यात्तदा लिटपि प्रयुज्येत ततश्च 'अद भक्षणे' इति धातोर्लिटन्यतरस्यामिति घस्लृभावविधिव्र्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह — ततश्चेति । यत्र घस्लृधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः । ततर् तावल्लिङ्गं दर्शयति — अत्रैवेति । भ्वादिगणे अत्रैव क्रमे अस्य पाठः शपि परस्मैपदे प्रयोगे लिङ्गमित्यर्थः । न च धातुसंज्ञार्थः पाठ इति शङ्क्यं, द्युत दीप्तावित्यतः प्राक् । [॒अनुदात्तेत इत्यतोग्रे॑[ पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयथ्र्यादिति भावः । लृदित्करणमङीति ।प्रयोगे लिङ्ग॑मिति शेषः । अनिट्कारिकास्विति । अनुदात्तोपदेशेषु घस्लृधातोः पाठो वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनं दर्शयति — क्मरचीति । 'सृघस्यदः क्मरः' जित्यत्र विशिष्य घसेरुपादानं क्मरचि प्रयोगे प्रमाणमित्यर्थः । घसतीति । लटि तसाद्युपलक्षममिदम् । लिटि अस्य प्रयोगाऽभावाल्लुटदाहरति — घस्तेति ।", "31039": "<<भीह्रीभृहुवां श्लुवच्च>> - भीहि । भी ह्यी भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुवर्तते । तदाह — एतेभ्य इति ।श्लुव॑दिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह — आमि श्लाविव कार्यं चेति । जुहवामनिति । आमि श्लाविव द्वित्वे गुण इति भावः । जुहावेति । जुहुवतुः । जुहविथ जुहोथ । जुहुधि । हेर्धिरिति ।हुझल्भ्यो हेर्धि॑रित्यनेनेति भावः ।जुहवानी॑त्यत्र आटः पित्त्वेन अङित्तवाद्गुणे प्राप्ते तं बाधित्वाहुश्नुवो॑रिति यणि प्राप्ते आह — आटि परत्वादिति ।हुश्नुवो॑रित्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः । लङि — अजुहोत् अजुहुतामिति सिद्धवत्कृत्यसिजभ्यस्ते॑ति जुसिहुश्नुवो॑रिति यणमाशङ्क्याह — परत्वाज्जुसि चेति गुण इति अजुहवुरिति । अजुहोः अजुहुतमजुहुत अजुहवमजुहुव अजुहुम । अहौषीदिति । सिचि वृद्धिः । अहौष्टामित्यादि । अहोष्यत् । ञि भी भये इति । अनिट् । ईदन्तः । शपः स्लौ द्वित्वादि मत्वाह — बिभेतीति ।", "31040": "<<कृञ् चानुप्रयुज्यते लिटि>> - कृञ्चानु । 'कास्प्रत्ययादा' मित्यत आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते । प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते ।लिटि परे यः कृञ् सोऽनुप्रयुज्यत इत्यन्वयः । फलितमाह — आमन्ताल्लिट्परा इति । लिट्शिरस्का इत्यर्थः । कृभ्वस्तय इति ।कृ॑ञित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः । अनुप्रयुज्यन्त इति । प्रशब्दादनुशब्दाच्चाऽव्यवहिताः पश्चात्पयुज्यन्त इत्यर्थः ।विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्यर्थं चे॑ति वार्तिकाद्भाष्याच्च । एवं चतं पातयां प्रथममास पपात पश्चात्प्रभ्रंशयां यो नहुषं चकारे॑त्यादिप्रयोगाः प्रामादिका एव । धातोराम् स्यात्, कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः । ननु कृञ एवाऽनुप्रयोगश्रवणात्कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह — आम्प्रत्ययवदित्यादिना । 'कृञ्चानुप्रयुज्यत' इत्यत्र कृञ एकस्यैवानुप्रयोगविधौ सतिआम्प्रत्यव॑दिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृञ इति विशेषणं व्यर्थं स्यात्, धात्वन्तरस्याऽनुप्रयोगाऽप्रसक्तेः । ततश्च 'कृञ' इति विशेषणादन्यस्ाप्यनुप्रयोगो विज्ञायत इत्यर्थः । ननु कृञोऽन्यस्याऽप्यनुप्रयोगो विज्ञायतां, भ्वस्त्योरपीत्येव कुत आयातमित्यत आह — तेनेति । कृञ्ग्रहणेनेत्यर्थः । प्रत्याहाराश्रयणादिति । एतच्च भाष्ये स्पष्टम् । नन्वनुप्रयुज्यमानानां कृभ्वस्तीनामाम्प्रकृतिभूतानां च कथमन्वय इत्यत आह — तेषामित्यारभ्याभेदेनान्वय इत्यन्तेन । सामान्यविसेयोरभेदान्वयस्य न्याय्यत्वादिति भावः । कृञ इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात्, धातूनामनेकार्थत्वादिति ज्ञेयम् । ननु 'कृभ्वस्तियोगे' इत्यस्य, 'कृञो द्वितीये' त्यस्य च सूत्रस्य मध्येअभिविधौ संपदा चे॑ति पठितम् । एवं च कृञ्प्रत्याहारे संपदोऽपि कुतो न ग्रहणमित्यत आह — संपदिस्त्विति । अनन्वितार्थत्वादिति । सिद्धस्य वस्तुनो रूपान्तरापत्तिः सम्पदेरर्थः । एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृद्ध्यादिरर्थः । तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाऽभावेन अभेदान्वयाऽसंभवादित्यर्थः । अत एव कृभ्वस्तीनां ग्रहणमिति भाष्यं सङ्गच्छत इति भावः । ननु आम्प्रत्ययवदिति कृञ आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थं, 'स्वरितञित' इत्येव तत्सिद्धेरित्याशङ्क्याह -कृञस्त्विति ।", "31041": "<<विदाङ्कुर्वन्त्वित्यन्यतरस्याम्>> - विदाङ्कुवन्त्वित्यन्तयतरस्याम् ।कृञ् चानुप्रयुज्यते लिटी॑त्युत्तरमिदं सूत्रम् । इतिशब्दः प्रकारे । एवंजातीयकं वैकल्प्येन प्रत्येतवयमित्यर्थः । वेत्तेरिति । लुगविकरणाद्विदधातोः लोटिपरे आम्प्रत्ययो निपात्यते इत्यर्थः । लोडन्तेति । आम्न्ताद्विदेर्लोडनतकृञ्धातोनुप्रयोगश्च निपात्यतैत्यर्थः । ननुविदाङ्कुर्वन्तु॑ति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात्कतं लोडन्तसामान्यानुप्रयोग इत्यत आह — पुरुषेति । कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः । तयोस्तु नान्तरीयकमुच्चारणमिति भावः । इति शब्दादिति । तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः ।", "31042": "", "31043": "<<च्लि लुङि>> - च्लि लुङि । च्लीति लुप्तप्रथमाकम् । लुङि परे धातोश्च्लिप्रत्ययः स्यादित्यर्थः । शबाद्यपवाद इति । आदिना श्यनादिविकरणसङ्ग्रहः ।", "31044": "<<च्लेः सिच्>> - च्लेः सिच् । इचाविति । चित्स्वरश्चित्त्वस्य प्रयोजनम् । इदित्त्वस्यतु अमंस्तेत्यत्रअनिदितां हल उपधाया॑ इत्युपधालोपस्याऽप्रवृत्तिः प्रयोजनम् ।", "31045": "<<शल इगुपधादनिटः क्सः>> - शल इगुपधा । शलन्त इति । 'धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशे,णत्वात्तदन्तविधिरिति भावः । सिचोऽपवादः । क्सादेशोऽदन्तः । ककार इत् । अघृक्षतेति । च्लेः क्सः । तस्य कित्त्वादृकारस्य न गुणः । हस्य ढः, भष्भावः, ढस्य कः, षत्वमिति भावः ।", "31046": "<<श्लिष आलिङ्गने>> - आलिङ्गने । 'श्लिष' इति पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहानुवर्तते, श्लिष इति च । तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते । 'श्लिषः' इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् । तदाह — श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति । नन्वयं नियमःअनन्तरस्येटति न्यायात् 'श्लिष' इति सूत्रप्राप्तस्यैव स्यान्नतुशल इगुपधा॑दित्यस्यापीत्यत आह — शल इगुपधादित्यस्याप्ययं नियम इति । कुत इत्यत आह — योगविभागसमाथ्र्यादिति । यदि 'श्लिष' इति प्राप्तएव क्स आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात्, 'श्लिष् आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात् । अतःशल इगुपधा॑दिति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायत इत्यर्थः । अश्लिक्षत्कन्यां देवदत्त इति । आलिङ्गदित्यर्थः । अत्र पुषाद्यङं बाधित्वा अनेन क्सः । समाश्लिषज्जतु काष्ठमिति । जतु = लाक्षा । सा च काष्ठलग्नैवोत्पद्यते इति स्थितिः । जतु च काष्टं चेति समाहारद्वन्द्वः ।उपाश्लिषज्जतु काष्ठं चे॑त्येव भाष्यम् । अत्र श्लिषेरालिङ्गनार्थकत्वाऽभावान्न क्सः, किन्तु पुषाद्यङेवेति बावः । नन्वजादित्वाऽभावेन आडागमस्याऽसंभवात्समाश्लिषदित्ययुक्तमित्यत आह — आङिति । समाश्लिषदित्यत्र श्लिषेः प्रागाङुपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थः । नन्वालिङ्गनं समाश्लेषणं, तथा च समाश्लिषज्जतु काष्ठमित्यत्रापि श्लिषेरालिङ्गनार्थकत्वात्क्सो दुर्वार इत्यत आह — प्रत्यासत्ताविहेति । इह = समाश्लिषज्जतु काष्ठमित्यत्र, श्लिषिः प्रत्यासत्तौ = संयोगे वर्तते, नतु बाह्वादिना संवलनात्मकसंबन्धविशेषरूपे आलिङ्गने इत्यर्थः । नन्वालिङ्गने एव श्लिषश्च्लेः क्सो, न त्वनालिङ्गने इति नियमादनालिङ्गने 'शल इगुपधा' दित्यपि क्सो न भवतीत्युक्तमयुक्तं, समाश्लिषज्जतु काष्ठमित्यत्राऽनालिङ्गनेशल इगुपधा॑दितक्सं बाधित्वा परत्वात्पुषाद्यङ एव प्राप्त्या क्सस्याऽप्रसक्तेरित्यत आह - कर्मणीति । अनालिङ्गनवृत्तेः श्लिषधातोः कर्मणि लुङि च्लेः सिजेव भवति, न तु पुषाद्यङ्, तस्य परस्मैपदविषयत्वात्, कर्मणि लुङश्चभावकर्मणो॑रित्यात्मनेपदनियमात् । तस्य च 'शल इगुपधा' दिति प्राप्तः क्स उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः । यदुक्तम् -आलिङ्गने श्लिषश्च्लेः क्सः पुषाद्यङ एवापवादो नतु चिण॑इति, तस्य प्रयोजनमाह — एकवचने चिणिति । तदेवोदाहृत्य दर्शयति — अश्लेषीति । आलिङ्गिता कन्या देवदत्तेनेत्यर्थः । श्लिषेरालिङ्गनार्थकात्कर्मणि लुङिप्रथमैकवचने तशब्दे परेचिण भावकर्मणो॑रिति च्लेश्चिणि कृतेचिणो लु॑गिति तशब्दस्य लुक् । अत्र 'श्लिष' इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्चिणपवादत्वाऽभावाच्चिण् निर्बाध इति भावः ।समाश्लेषि जतुना काष्ठ॑मित्यत्र त्वनालिङ्गनाच्च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव । एवं च आलिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् । अथाऽनालिङ्गने श्लिषः कर्मणि लुङ आतामि च्लेः क्साऽभावात्सिचिषढो॑रिति षस्य कत्वे सस्य षत्वे रूपमिति भावः । नन्वश्लिक्षामित्यत्र सत्यपि क्सेकस्स्याची॑त्यकारलोपे इष्टं सिद्धमित्यस्वरसात्कर्मणि लुङि झादावुदाहरति — अश्लिक्षतेत्यादि । अश्लिष् स् झेति स्थिते जोऽन्तादेशं बाधित्वा 'आत्मनेपदेष्वनतः' इत्यदादेशे षस्य कत्वे सिचः सस्य षत्वे अश्लिक्षतेतीष्यते । च्लेः क्से तु सति अश्लिष् स् झ इति स्थितेक्सस्याची॑त्यकारलोपाऽप्रसक्तेरतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न स्यादिति भावः । अश्लिष्ठा इति । श्लिषेः कर्मणि लुङस्थासि च्लेः सिचिझलो झली॑ति सिचो लोपे ष्टुत्वे 'अश्लिष्ठा' इति रूपमिष्यते । क्से तु 'झलो झली' त्यसंभवादश्लिक्षथा स्यादिति भावः । अश्लिड्ढ्वमिति । श्लिषः कर्मणि लुङो ध्वमि सिचिझलो झली॑ति सस्य लोपे स्य झश्त्वेनन डकारे ष्टुत्वेन धस्य ढः । क्से तु सति अश्लिक्षध्वमिति स्यादिति भावः । शक विभाषित इति । मर्षणेऽर्थे शकधातुरविकल्पित इत्यर्थः । विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः, व्याख्यानात् । तदाह — उभयपदीति । मर्षणमिह — सामर्थ्यम् । शक्यति शक्यते वेति । समर्थो भवतीत्यर्थः । सेट्कोऽयमित्येके इति । स्वमते त्वनिट्क एवेति भावः । नन्वनिट्कारिकासु लृदितः शकेः पाठात्कथमनिट्कत्वमित्यत आह — तन्मतेनेति । ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्याऽनिट्कारिकासु शकि र्लृदित्पठित इत्यर्थः । संपदादिक्विबन्तादिति । रक्षुध्यत इति क्षुध्, भावे क्विप् । क्षुध् अस्य संजाता क्षुधित इति विग्रहः । वसतिक्षुधोरिति । वसेः क्षुधेश्च क्त्वानिष्ठयोरिडागमः स्यादिति तदर्थः । वक्ष्यते इति ।कृत्स्वि॑ति शेषः । षिधु संराद्धाविति । निष्पत्तावित्यर्थः । प्रामादिक इति । माधवादिसंमत्वादिति भावः । रध हिंसेति । सेट् । चतुर्थाऽन्तोयम् । ररन्धतुरिति । एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगात्परत्वेन अकित्त्वान्नलोपो नेति भावः ।", "31047": "<<न दृशः>> - न दृशः ।च्लेः सि॑चित्यत श्च्लेरिति, 'शल इगुपधा' दित्यतः क्स इति चानुवर्तते । तदाह — दृशश्च्लेः क्सो नेति । क्सादेशे तु 'अदृश' दिति स्यादिति भावः । अद्राक्षीदिति । सिचि अमागमे ऋकारस्य यणि अकारस्य हलन्तलक्षणवृद्दौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः । अद्रक्ष्यत् । दंश दशने इति । अयमनिट्, नोपधश्च । कृतानुस्वारनिर्देशः । दंष्ट्राव्यापार इति । हनुमूलगताः स्थूलदन्ता दंष्ट्राः, तद्व्यापारः = क्षतक्रियादिरूप इत्यर्थः । ननु दंशधातोर्ल्युटि दशनशब्दः । तत्रअनिदिता॑मिति नकारस्य लोपो न संभवति, ल्युटः क्ङित्त्वाऽभावात् ।दंशसञ्जे॑त्यपि नस्य लोपो न संभवति, तस्य शप्येव प्रवृत्तेः । तथा च दशन इत्यर्थनिर्देशः कथमित्यत आह -पृषोदरादित्वादिति । अत एवेति । दशनशब्दनिर्देशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः । तेषामपीति । 'निपातनान्नकारलोप' इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्यं, न तु धातुपाठे 'दंशदशने' इत्यर्थनिर्देशे इति भावः । विनिगमनाविरहमाशङ्क्याह — अर्थनिर्देशस्याधुनिकत्वादिति । सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः । क्वचिदेव धातुष्वर्थनिर्देशः पाणिनीय इति भूधातौ निरूपितम् । अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वात्अनिदिता॑मिति शपीत्युक्तेरार्धधातुके नलोपो न । संयोगात्परत्वेन लिटः कित्त्वाऽभावादनिदितामित्यपि न । ददंश ददंशतुः ददंशुः । भारद्वाजनियमात्थलि वेट् । तदाह — ददंशिथ ददंष्ठेति । अनिट्पक्षे व्रश्चादिना शस्य षः । थस्य ष्टुत्वेन ठ इति भावः । दंष्टेति । तासि व्रश्चादिना शस्य षत्वे तकारस्य ष्टुत्वमिति भावः । दङ्क्ष्यतीति । व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे ङकारे सस्य षत्वमिति भावः । दशतु । अदशत् । दशेत् । दश्यादिति । आशीर्लिङिअनिदिता॑मिति नलोप इति भावः । अदाङ्क्षीदिति । सिचि हलन्तलक्षणा वृद्धिः, शस्य षः, तस्य कः अनुस्वारस्य परसवर्णेन ङः, सस्य षत्वमिति भावः । अदङ्क्ष्यत् । कृष विलेखने इति । अनिडयम् । कर्षति । चकर्ष चकृषतुः चकृषुः । थलि अजन्ताऽकारवत्त्वाऽभावात् क्रादिनियमान्नित्यमिट् — चकर्षिथ कृषथुः चकृष । चकर्ष चकृषिव चकृषिम । इति सिद्धवत्कृत्याह — क्रष्टा कर्ष्टेति ।अनुदात्तस्ये चे॑ति अम्विकल्पः । तकारस्य ष्टुत्वम् । क्रक्ष्यति कक्ष्र्यतीति । षस्य कत्वे सस्य षः । कर्षतु । अकर्षत् । कर्षेत् । कृष्यात् ।शल इगुपधा॑दिति च्लेः क्सादेशे प्राप्ते आह — स्पृशमृशेति । अक्राक्षीदिति । च्लेः क्सादेशाऽभावे सिचिअनुदात्तस्य चर्दुपधस्ये॑ त्यमि ऋकारस्य यणि हलनतलक्षणवृद्धौषढोः कः सी॑त्यनेन षस्य कतवे ससय् षत्वमिति भावः । अकार्क्षीदिति । अमभावे सिचि वृद्धौ रूपम् । पक्षे क्स इति । च्लेः सिजभावपक्षेशल इगुपधा॑दिति क्स इत्यर्थः । अकृक्षदिति । क्से सति, कित्त्वाद्गुणाऽभावे षस्य कः, ससय् ष इति भावः । अक्रक्ष्यत् — अकक्ष्र्यत् । दह भस्मीकरणे इति । अनिट् । दहति । ददाह देहतुः देहुः । थलि तु भारद्वाजनियमाद्वेडित्याह — देहिथ ददग्धेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । अनिट्पक्षेतुदादे॑रिति हस्य घः,झषस्तथो॑रिति थस्य धः, घस्य जश्त्वेन ग इति भावः । धक्ष्यतीति । हस्य घः, दस्य भष्, घस्य गः, तस्य चर्त्वेन कः, सस्य ष इति भावः । दहतु । अदहत् । दहेत् । दह्रात् । अधाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । हस्य घः, दस्य भष्, घस्य ग-, तस्य कः, सस्य ष इति भावः । अदाग्धामिति । सिचि वृद्धिः, हस्य घः,झलो झली॑ति सलोपः,झषस्तथो॑रिति तकारस्य धः, घस्य ग इति भावः । अधाक्षुरिति । सिचि वृद्धिः, हस्य घः, दस्य भष्, घस्य गः, तस्य कः, सस्य ष इति भावः । अधाक्षीःअदाग्धमदाग्ध । अधाक्षमधाक्ष्व अधाक्ष्म । अधक्ष्यत् । मिह सेचने इति । अनिट् । मेहति । मिमेह मिमिहतुः मिमिहुः । अजन्ताऽकारवत्त्वाऽबावाक्रादिनियमान्नित्यमिट् । तदाह — मिमेहिथेति । मिमिहथुः मिमिह । मिमेह मिमिहिव मिमिहिम । मेढेति । तासि ढत्वधत्वष्टुत्वढलोपाः । मेक्ष्यतीति । हस्य ढः, तस्य कः, सस्य षः । तदाह-अमिक्षदिति । अमेक्ष्यत् । कित निवासे रोगापनयने चेति । परस्मैपदषु पाठादयं परस्मैपदी । अर्थद्वयमात्रमत्र निर्दिष्टम् । अर्थनिर्देशस्य उपलक्षणत्वादर्थान्तरेषु वृत्तिः । तत्रकितेव्र्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये चे॑ति निबद्धेष्वर्थेषुगुप्तज्किद्भ्यः स॑न्निति सन्विहितः । तदाह — चिकित्सतीति ।सन्यतः इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सन्नन्तं, तस्माल्लिटि शपिचिकित्सती॑ति रूपम् । अस्य सनःधातो॑रिति विहितत्वाऽभावादनार्धधातुकत्वान्न लघूपधगुणो, नापि इडागम इति प्रागुक्तम् । चिकित्सांचकारेत्यादि सुगमं जुगुप्सतिवत् । संशये इत्यादि । व्यक्तम् । निवासे त्विति । व्याधिप्रतीकाराद्यर्थपञ्चकादर्थपञ्चकादर्थान्तरे चुरादित्वस्योक्तत्वादिति भावः । दान खण्डने । शान तेजने इति । तेजनं — तीक्ष्णीकरणम् । इत इति । 'दान खण्डने' इत्यारभ्य 'वह प्रापणे' इत्येतत्पर्यन्ताः स्वरितेत इत्यर्थः । तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे, शानधातुस्तु निशाने वर्तते तदामान्बधदान्शा॑निति सनि,सन्यङो॑रिति द्वित्वे, अभ्यासह्रस्वे, तस्य 'सन्यतः' इति इत्त्वे, तस्यमान्बधे॑ति दीर्घे सति, नकारस्याऽनुस्वारे, दीदांस शीशांसाभ्यां लटि स्वरितानुबन्धस्य केवलयोरचरितार्थत्वात्, कर्तृगे फले तङि शपि दीदांसते शीशांसते इति रूपम् । परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति शीशांसतीति रूपम् । तदाह — दीदांसते इत्यादि । शीशांसतीति । तीक्ष्णीकरोतीत्यर्थः । अर्थविशेषे इति । आर्जवे निशाने चार्थे सनित्यर्थः । अन्यत्रेति । आर्जवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्र्थः ।अर्थान्तरे अननुबन्धकाश्चुरादय॑ इत्युक्तेरिति भावः । डु पचष् पाके इति । डुः, षकारश्चकारादकारश्च इत् । स्वरितेत्त्वादुभयपदी । तदाह — पचति पचते इति । पपाच पेचतुः पेचुः । भारद्वाजनियमात्थलि वेट् ।तदाह — पेचिथ पपक्थेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । अनिट्पक्षे तुचोः कु॑रिति भावः । पेचे पेचिवहे पेचिमहे । क्रादिनियमादिट् । फक्तेति । तासिचोः कुः॑ । पक्ष्यति पक्ष्यते । पचतु पचताम् । अपचत् अपचत । पचेत् । पक्षीष्टेति । आशीर्लिङि तङि सीयुटिचोः कुः॑ । षत्वम् । अपाक्षीत् । अपक्त । अपक्षाताम् । अपक्ष्यत् अपक्ष्यत । षचधातुः षोपदेशः । तदाह — सचति सचते इति । सेडयम् । ससाच सेचतुः सेचुः । सेचिथ सेचथुः सेच । ससाच-ससच, सेचिव सेचिम । सेचे । सेचिषे सेचिवहे सेचिमहे । सच्यात् सचिषीष्ट । असाचीत् — असचीत् । असचिष्ट । भजधातुरनिट् । भजति । किति लिटि वैरूप्यापादकादेशादित्वात्अत एकहल्मध्ये॑इत्यप्राप्तौतृफले॑त्येत्त्वाभ्यासलोपौ । तदाह — भेजतुरिति । भारद्वाजनियमात्थलि वेट् । तदाह — भेजिथ बभक्थेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपाविति भावः । भेजिव भेजिम । क्रादिनियमादिट् । भेजे । भेजिषे । भेजिवहे । भक्तेत्यादि । सुगमम् । रञ्ज रागे इति । नोपधोऽयम् । कृतानुस्वारपसवर्णनिर्देशः । अनिडयम् । शपः पित्त्वेन ङित्त्वाऽभावात्अनिदिता॑मित्यप्राप्तावपिरञ्जेश्चे॑ति शपि नलोपः । तदाह — रजति रजते इति । संयोगात्परत्वाल्लिटो न कित्त्वम् । ररञ्ज ररञ्जतुः । भारद्वाजनियमात्थलि वेट् । ररञ्जिथ — ररङ्क्थ । अनिट्पक्षे जस्य कुत्वेन गः । ततोऽनुस्वारपरसवर्णञकारनिवृत्तौ गस्य चर्त्वेन कः । नस्यानुस्वारे तस्य परसवर्णो ङकार इति भावः । ररञ्जिव ररञ्जिम । क्रादिनियमादिट् । रङक्ता । रङ्क्ष्यति । रङ्क्ष्यते ।रजतु रजताम् । अरजत् अरजत । रजेत् रजेत । आशीर्लिङ यासुटः कित्त्वात्अनिदिता॑मिति नलोपः ।तदाह — रज्यादिति । रङ्क्षीष्टेति । आत्मनेपदे लिङः सीयुटि जस्य कुत्वेन गः, ततः परसवर्णसंपननञकारनिवृत्तिः, गस्य कः, नस्य परसवर्णेन ङः, षत्वमिति भावः । अराङ्क्षीदिति । सिचि हलतन्तलक्षणवृद्धौ कुत्वादि पूर्ववत् । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तते इति भाष्ये स्पष्टम् । अराङ्क्तामिति ।झलो झली॑ति सलोपः । कुत्वादि पूर्ववत् । अरङ्क्तेति । लुङस्तङि प्रथमपुरुषैकवचनेझलो झलीति सलोपे कुत्वादि । शप आक्रोशे इति । अनिडयम् । भारद्वाजनियमात्थलि वेट् । वमादौ तु क्रादिनियमादिट् । अशाप्सीदिति । हलन्तलक्षणा वृद्धिः । अशप्तेति ।झलो झली॑ति सलोपः । अशप्साताम् । त्विषधातुरनिट् । शपि लघूपधगुणः । तदाह — त्वेषति त्वेषते इति । तित्वेष तत्विषतुः तित्विषुः । तित्वेषिथ तित्विषथुः तित्विष । तित्वेष तित्विषिव तित्विषिम । क्रादिनियमादिट् । तित्विषे इति । तित्विषाते तत्विषिरे । तित्विषिषे तित्विषाथे तित्विषिध्वे । तित्विषे तित्विषिवहे तित्विषिमहे । त्वेष्टेति । तासि तकारस्य ष्टुत्वम् । त्वेक्ष्यति त्वेक्ष्यते इति । स्ये कत्वषत्वे । त्वेषतु त्वेषताम् । अत्वेषत् अत्वेषत । त्वेषेत् त्वेषेत । त्विष्यादिति । यासुट आशीर्लिङि कित्त्वान्न लघूपधगुणः । त्विक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । लुङि परस्मैपदे 'शल इगुपधा' दिति च्लेः क्सः । कित्त्वान्न गुणः । तदाह — अत्विक्षदित्यादि । लुङि आत्मनेपदे च्लेः क्सादेशं मत्वा 'आत्मनेपदष्वनतः' इत्यदादेशाऽसंभवादन्तादेशे क्सस्याऽन्त्यलोपे पररूपे वा रूपमिति भावः । यज देवपूजेति । अनिडयम् । यजति यजते इति । देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः ।", "31048": "<<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> - अथ णिङन्तात्कामीत्यरस्माल्लुङस्तादेशे च्लेः सिजादेशे प्राप्ते — णिश्रि । णि श्रि द्रु रुआउ एषां द्वन्द्वः । प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहमम् ।च्लि लुङी॑त्यतो लुङीति,च्लेः सि॑जित्यतश्च्लेरिति चानुवर्तते । तदाह — ण्यन्तादित्यादिना । चङावितौ ।", "31049": "<<विभाषा धेट्श्व्योः>> - लुङि च्लेः सिचि प्राप्ते — विभाषा धेट् ।च्लि लुङी॑त्यनुवर्तते ।णिश्रिद्रुरुआउभ्यःरर॑ इत्यतः कर्तरि चङिति च । तदाह — आभ्यामिति । धेट् इआ आभ्यामित्यर्थः । अदधदिति । चङि द्वित्वे आल्लोप इति भावः । अदधताम् । अदधन् । अदधः अदधतमदधत । अदधमदधाव अदधाम ।", "31050": "", "31051": "", "31052": "<<अस्यतिवक्तिख्यातिभ्यः अङ्>> - अस्यतिवक्ति ।च्लेः सिजित्यतश्च्लेरित्यनुवर्तते । तदाह — एभ्यश्च्लेरिति । अस्यत् अस्यतेति । यत्वपक्षे रूपम् । आल्लोपः । ञित्त्वादुभयपदित्वादात्मनेपदेऽपि रूपम् । क्शादेशपक्षे परस्मैपदपक्षे तु आह — अक्शासीदिति । अङ्विधौ ख्यातीति आत्मनेपदे लुङि रूपम् । अक्शासातामित्यादि । अख्यास्यत् अख्यास्यत । अक्सास्यत् । अक्शास्यत । वर्जने क्शाञ् नेष्ट इति । इत्येतत्पर्यन्ता इत्यर्थः । ईर्गसाविति । सेट् । ईर्ते इति । ईराते ईरते । ईर्षे ईराधेईर्ध्वे । ईरे ईर्वहे ईर्महे । ईराथामित्यपि ज्ञेयम् । ईध्र्वमिति । ई रै ईरावहै ईरामहै । ऐर्त ऐराताम् ऐरत । ऐर्याः ऐराथाम् ऐध्र्वम् । ऐरि ऐर्वहि ऐर्महि । ईरीत । ईरिषीष्ठ । ऐरिष्ठ । ऐरिष्यत । ईड स्तुतौ । ईद्वे इति । तकारस्य ष्टुत्वेन टः, जस्य चर्त्वेन ट इति भावः । ईडाते ईडते । ईड्-से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते —", "31053": "<<लिपिसिचिह्वश्च>> - लिपिसिचि । लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् ।च्लेः सि॑जित्यतश्च्लेरिति,अस्यतवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । तदाह — एभ्य इति । इदं परस्मैपदविषयम्, आत्मनेपदे विकल्पविधानात् । तदाह —", "31054": "<<आत्मनेपदेष्वन्यतरस्याम्>> - आत्मनेपदेषु । आतो लोप इति अह्वा अ त् इति स्थितेआतो लोप इटि चे॑त्यालोप इत्यर्थः । अह्वदिति । अह्वताम् । अहवन्नित्यादि । अह्वतेति । लुङि आत्मनपदे अङि रूपम् । अह्वेतामह्वन्तेत्यादि । अङभावपक्षे त्वाह — अह्वास्तेति । अह्वासातामह्वासत । इत्यादि । अह्वास्यत् अह्वास्यत । वद व्यक्तायां वाचीति । अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः । सेडयम् । अच्छ वदतीति । 'अच्छे' त्यव्ययमाभिमुख्ये । अभिमुखं वदतीत्यर्थः । 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः । अकिति लिटि द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणमिति मत्वा आह — उवादेतिकिति लिटि तुवचिस्वपियजादीना॑मिति द्वित्वात्प्राक् संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति मत्वाह — ऊदतुरिति । उवदिथेति । द्वित्वे अभ्यासस्य संप्रसारणमिति भावः । ऊदथुः ऊद । उवाद — उवद ऊदिव ऊदिम । वदितेति । तासि इट् । वदिष्यति । वदतु । अवदत् । वदेत् । उद्यादिति । आशीर्लिङि यासुटः कित्त्वात्वचिस्वपी॑ति संप्रसारणमिति भावः ।अवादी॑दित्यत्र हलन्तलक्षमवृद्धेःनेटी॑ति निषेधेऽपिअतो हलादे॑रिति वृद्धिविकल्पमाशङ्क्य वदधातोः पृथग्ग्रहणाद्वृद्धिरित्यभिप्रेत्याह — वदव्रजेति वृद्धिरिति । एतदर्थमेववदव्रजहलन्तस्ये॑त्यत्र वदधातोः पृथग्ग्रहणमिति भावः । टु ओ आईति । टुरोकारश्चेत् । आयतीति । शपि गुणाऽयादेशौ । लिटि तु अकिति णलादौलिटभ्यासस्ये॑त्यभ्यासस्य नित्यं संप्रसारणे प्राप्ते, किति तु अतुसादौ द्वित्वात्प्राक्वचिस्वपी॑ति नित्यं संप्रसारणे प्राप्ते आह —", "31055": "<<पुषादिद्युताद्यॢदितः परस्मैपदेषु>> - लुङि च्लेः सिचि प्राप्ते — पुषादि ।च्लेः सि॑जित्यतः च्लेरिति,अस्यतिवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । पुषादि द्युतादि लृदित् एषां समाहारद्वन्द्वत्पञ्चमी । तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादौ चास्ति । तत्र यदि भौवादिकः पुषादिगमो गृह्रेत तर्हि द्युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात् । नापि क्र्याद्यन्तर्गणः । तत्र ह 'मुष स्तेये'खच भूतप्रादुर्भावे॑ 'हेठ च ' 'ग्रह उपादाने' इति चत्वार एव पठन्ते । यदि त एवात्र पुषादयो विवक्षिताः स्युत्ततर्हि लाघवात् लृदित एव ते क्रियेरन् । नाप्यत्र चौरादिकः पुषादिर्गृह्रते, णिचा च्लेव्र्यवहितत्वात् । अतः परिशेषाद्दिवाय एव गृह्यन्ते । तदाह — श्यन्विकरमेति । जर्ज चर्च झर्झेति । एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति । एदिदयम् । न वृद्धिरिति ।ह्म्यन्तेत्यनेने॑ति शेषः । णिश समाधाविति । णोपदेशत्वनादुपसर्गादसमासेऽपीति नस्य णत्वम् । तदाह — प्रणेशतीति ।शसु हिंसाया॑मित्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति । नोपधः । कृतानुस्वारस्य निर्देशः । 'चह परिकल्पने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः । रह त्यागे इति । न#आऽयमिदित् । रहि गताविति । अयमिदित् । दृह दृहीति । ऋदुपधा एते । द्वितीयचतुर्थाविदितौ । अवृहत् । अवर्हीदिति । इरित्त्वादङ्विकल्प इति भावः । उवोहेति । उहिधातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे 'अभ्यासस्यासवर्णे' इत्युवङ् । मा भवानुहदिति । इरित्त्वादङि रूपम् । औहीदिति । अङभावपक्षे च्लेः सिचि तस्य इटि 'अस्तिसिचः' इति तकारस्य ईटिइट ईटी॑ति सिचो लोपेआडजादीना॑मिति आटि वृद्धिः । माङ्योगे तु मा भवानुहीत् । आनर्हेति । 'अत आदेः' इति दीर्घे नुट् । कृपूपर्यन्ता इति ।द्युते॑त्यारभ्य कृपूपर्यन्ता इत्यर्थः ।", "31056": "<<सर्त्तिशास्त्यर्तिभ्यश्च>> - अत्र च्लेरङमाशङ्कितुमाह — सर्ति । च्लि लुङीत्यनुवर्तते ।णिश्रिद्रुरुआउब्यः॑ इत्यतः कर्तरि चङिति । तदाह — एभ्य इति । ततश्च प्रकृते असार्षीदित्यत्र अङ् स्यादिति शङ्का सूचिता । तां परिहरति — इह लुप्तेत्यादिना । इह अङ्विधौ शास्तीत्यनेन लुप्तविकरणः शासिर्गृह्रते इति निर्विवादं, तस्य विकरणान्तराऽभावात् । एवं च तत्साहचर्यात्सृधातुरृधातुश्च जौहोत्यादिकौ श्लुविकरणावेव नेत्यर्थः । तदेवं सृदातोर्गतिसामान्यवृत्तेरुक्तानि रूपाणि । यदि शीघ्रगतौ सृधातुस्तदा तस्य विशेषमाह — शीघ्रगतौ त्विति । धौरादेश इति । धौशब्दस्यधौ॑रिति प्रथमान्तम् ।धौ॑इत्यौकारान्त आदेश इत्यर्थः ।पाघ्रे॑ति सूत्रे सर्तीति श्तिपा निर्देशः । लुप्तविकरणनिर्देशस्तु अविवक्षित इति भावः । सर्तेर्वेगितायां गतौ धावादेशः॑ इति वार्तिकमभिप्रेत्येदम् । धावतीति । शपि सृधातोर्धौभावे आवादेशः । धावतु । अधावत् । धावेत् । ऋ गतिप्रापणयोः । अनिट् ।पाघ्राध्मे॑ति शिद्विषये ऋच्छादेशः । तदाह — ऋच्छतीति ।", "31057": "<<इरितो वा>> - इरितो वा । 'धातोरेकाच' इत्यतो धातोरिति,च्लेः सि॑जित्यतश्च्लेरिति,अस्यतिवक्तिख्यातिब्य॑ इत्यतोऽङिति,पुषादिद्युतादी॑त्यतः परस्मैपदेष्विति चानुवर्तते । तदाह — इरितो धातोरित्यादिना । अच्युतदिति । अङि सति ङित्त्वान्न गुणः । अच्युततामच्युतन् । अच्युतः अच्युततमच्युतत । अच्युतमच्युताव अच्युताम । अङभावे त्वाह — अच्योतीदिति ।इट ईटी॑ति सिज्लोपः । अच्योतिष्टामित्यादि । श्च्युतिरिति.च्युतिवद्रूपाणि । चुश्च्योतेति । 'शर्पूर्वा' इति चकारः शिष्यते । यकाररहितोऽपीति ।मधुश्चुतं घृतमिव सुपूत॑मित्यादौ तथा दर्सनादिति भावः । मन्थेति । विलोडलनम् — आस्फालनम् । मन्थतीत्यादि । सुगमम् । आशीर्लिङि विशेषमाह — यासुट इति । कुथीति । चत्वारोऽपि द्वितीयान्ताः । इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वेन अनिदितामिति पर्युदासन्नलोपो नेत्याह — इदित्त्वादिति । कुन्थ्यादिति । पुन्थ्यात् लुन्थ्यात् मन्थ्यात् । एतदर्थमेव मन्थदातोः पृथङ् मथीति निर्देशः । षिध गत्यामिति । अच्परकषकारादित्वात्षोपदेशोऽयम् । ततश्च धात्वादेरिति सः । तदाह — सेधतीति । सिषेधेति । आदेशसकारत्वात्षत्वम् । अनिट्सु श्यन्विकरमस्यैव सिधेग्र्रहणात्सेट्कोऽयम् । असेधीदिति ।इट इटी॑ति सिज्लोपः । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि । अथ निषेधतीत्यादौउपसर्गात्सुनोती॑ति षत्वं वक्ष्यति तत्किमर्थम्, आदेशप्रत्ययो॑रित्येव सिद्धेरित्याशङ्क्याह — सात्पदाद्योरिति ।", "31058": "<<जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च>> - जृस्तन्भु ।च्लेऋः सि॑जित्यतश्च्लेरिति,अस्यतिवक्तिख्यातिभ्यः॑ इत्यतोऽङिति,इरितो वेत्यतो वेति चानुवर्तते । तदाह — एभ्यश्च्लेरङ् वेति ।जृष् वयोहानौ॑,स्तम्भुः॑सौत्रो धातुः,म्रचुम्लुचू गत्यर्थौ॒॑ग्रुचु ग्लुचु स्तेयकरणे॑,ग्लुञ्चु गतौ, — इत्येतेभ्य इत्यर्थः । अम्रुचदिति । च्लेरङि सति ङित्त्वान्न लघूपधगुणः । अम्रोचीदिति । अङभावेइट ईटी॑ति सिज्लोपः । ग्रुचु ग्लुचु इति ।जृस्तन्भु॑इत्यङ् वेत्याह — अग्रुचत् अग्रोचीदिति । आद्यस्य रूपे । अथ द्वितीयस्य अङ्विकल्पमुदाहरति — अग्लुचत् अग्लोचीदिति । अङि सति ङित्त्वान्न लघूपधगुणः । अङभावे सिज्लोपः । ग्लुञ्चु षस्जेति । आद्यो नोपधः, द्वितीयस्तु षोपदेशः, अच्परकसादित्वात् । त्तर आद्यस्य लुङि विशेषमाह — अङ्वेति ।जृस्तम्भ्वित्येनेने॑ति शेषः । ग्लुचुग्लुञ्च्वोः पृथग्ग्रहणसामर्थ्यान्नलोपो नेति वृत्तिकृतम् । ग्लुञ्च्यात् । सस्येति । धात्वादेः षस्य सत्वे सस्ज् स्थिते, द्वितीयस्य सकारस्य श्चुत्वेन शकार इत्यर्थः । तस्येति । शकारस्यझलां जश् झशी॑ति जकार इत्यर्थः । गुजीति । इदित्त्वादाशीर्लिङि नलोपो नेत्याह — लच्छतीति रूपम् । ललच्छ ललच्छतुः । आछीति । लिटि णलि द्वित्वे हलादिशेषे अभ्यासह्रस्वे अ आञ्छ् अ इति स्थितेअत आदे॑रिति दीर्घं,तस्मान्नुड्द्विहल॑ इति च नुटमाशङ्क्याह — अत आदेरिति । तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाऽभावादेव ह्रस्वाकारस्य दीर्घैति सिद्धावत इति तपरकरणं स्वाभवाकिस्यैव ह्रस्वाकारस्य परिग्रहार्थमित्यर्थः । ततः किमित्यत आह — तेनेति ।अत आदे॑रिति दीर्घविधौ स्वाभाविकह्रस्वाकारस्यैव ग्रहणेन,अत आदे॑रिति दीर्घस्याऽभावान्न नुडित्यर्थः । आञ्छेति । द्वित्वे हलादिशेषेऽभ्यासह्रस्वे सवर्णदीर्घ इति भावः । मुखसुखार्थमिति । तथा च ह्रस्वस्थानिकदीर्घाकारादपि परसय् नुड् भवत्येवेति भावः ।ह्यीछ लज्जाया॑मित्यादि स्पष्टम् । युछ प्रमाद इति । यकारादिरुदुपधोऽयम् । युच्छतीति । अन्तरङ्गत्वात्छे चे॑ति तुकि लघूपधत्वाऽभावान्न गुणः । उञ्छांचकारेति । नुमि कृते 'संयोगे गुरु' इत्युकारस्य गुरुत्वात्इजादेश्चे॑त्यामिति भावः । धृजेति । आद्यौ ऋदुपधौ । इतरे चत्वारोऽदुपधाः । द्वितीयचतुर्थषष्ठा इदितः । धर्जतीति । शपि लघूपधगुणः । रपरत्वम् । दधर्ज दधृजतुः । धृज्यात् । अधर्जीत् । धृञ्जतीति । इदित्त्वान्नुम् । दधृञ्ज । इदित्त्वान्नलोपो न । धृञ्ज्यात् । अधृञ्जीत् । ध्रजतीति । णलि — दध्राज दध्रजतुः । अध्राजीत् — अध्रजीत् । ध्रञ्जतीति । अदुपधोऽयम् । दध्रञ्ज । इदित्त्वान्नलोपो न — दध्रञ्जतुः । ध्वजतीति । दध्वाज । ध्वञ्जतीति । दध्वञ्ज । कूज अव्यक्त इति । स्पष्टम् । सर्जतीत्यत्र षोपदेशत्वात्षत्वम् । अज गतीति । लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह — अजेव्र्यघञपोः ।वी॑ति दीर्घान्तं लुप्तप्रथमाकम् । 'आर्धधातुके' इत्यधिकृतं । विषयसप्तम्येषा, नतु परसप्तमी, व्याख्यानात् । तदाह — आर्धधातुकविषय इत्यादि । अजेरिति इका निर्देशः । अजधातोरित्यर्थः । आर्धधातुक इति परसप्तम्याश्रयणेतु वेवीयत इति न स्यात्, वीभावात्प्रागजादित्वाद्यङसंभवात् । विषयसप्तम्याश्रयणे तु यङि विवक्षिते वीभावे सति हलादित्वाद्यङ् निर्बाधः । अघञपोः किम् । घञि समाजः । 'समुदोरजः पशुषु' इत्यपि समजः । अत्रअघञपोरिति न वक्तव्यं ।वा लिटी॑त्यतो वेत्यनुवर्तते । व्यवस्थितविभाषेयं । घञि अपि च न भवति । ल्युटि वलादावार्धधातुके च विकल्पः । अन्यत्र तु आर्धधातुके नित्य॑मिति भाष्यकयटयोः स्थितं । तदाह — वलादावार्धधातुके वेष्यत इति । उक्तव्यवस्थितविभाषोपलक्षणमिदं । विवायेति । लिटो णलि विवक्षिते वीभावे सति णलि द्वित्वेऽभ्यासह्रस्वे 'अचो ञ्णिति' इति व#ऋद्धावायादेश इति भावः । विव्यतुरिति । वीभावे सति अतुसि द्वित्वेऽभ्यासह्रस्वेअसंयोगा॑दिति कित्त्वाद्गुणाऽभावे इयङपवादे 'एरनेकाचः' इति यणि रूपम् । एवमुसि विव्युरिति रूपं । ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मकहल्परकत्वात्उपधायां चे॑तीकारस्य दीर्घः स्यादित्याशह्क्य ईकारस्थानिकस्य यकारस्यअचः परस्मि॑न्नति स्थानिवत्त्वेन द्वितीयवकारस्य हल्परकत्वाऽभावात्तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति — अत्र वकारस्येत्यादि अच्पर[क]त्वमित्यन्तम् । ननु दीर्घविधौन पदान्ते॑ति निषेधात्कथमिह यकारस्य स्थानिवत्तवमित्याशङ्क्य निराकरोति — न च न पदान्तेति निषेध इति । 'शङ्क्य' इति शेषः । कुत इत्यत आह-स्वरदीर्घेति । इत्युक्तेरिति ।वार्तिककृते॑ति शेषः । थलि एकाचेति । अजधातोरनुदात्तोपदेशानन्तर्भावेऽपिवी॑ति तदादेशोऽनुदात्तः, अजन्तेषु ऊदृदन्तादिचतुर्दशभिन्नधातूनामनुदात्तत्वाभ्युपगमादिति भावः ।", "31059": "", "31060": "<<चिण् ते पदः>> - चिण् ते पदः । पदश्च्लेरिति ।च्लेः सि॑जित्यत श्च्लेरित्यनुवर्तते इति भावः । तशब्दे इति । आत्मनेपदप्रथमैकवचनने इत्यर्थः । इदं च भाष्ये स्पष्टम् । प्रण्यपादीति । श्लेश्चिणि उपधावृद्धौचिणो लु॑गितितशब्दस्य लोपः ।नेर्गदे॑ति णत्वमिति भावः । विद सत्तायाम् । वेत्तेति । अनिडिति भावः । लिटि क्रादिनियमादिट् । एवं बुधष्टेति । 'लिङ्सिचौ' इति कित्त्वम् ।दीपजने॑ति चिण्विकल्पं मत्वा आह — अबोधि अबुद्धेति । कथं युध्यतीति । आत्मनेपदित्वादिति भावः । समाधत्ते — युधमिति । युध्शब्दो भावक्विबन्तः । युधमिच्थीत्यर्थे 'सुप आत्मनः' इति क्यजन्तात्परस्मैपदमित्यर्थः ।अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्य॑मिति समाधानं त्वनुचितं, तस्य भाष्याऽदृष्टत्वेनाऽप्रामाणिकत्वात् । अत एवव्यत्ययो बहुल॑मिति सूत्रभाष्येप्रतीपमन्य ऊर्मिर्युध्यती॑त्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् । अनो रुधेति । अनु इत्युपसर्गात्परो रुधधातुः कामे वर्तत इत्यर्थः । युज समाधौ । अनिट् । अकर्मक इति । चित्त्वृत्तेर्धात्वर्थान्तर्भावादिति भावः । अर्थान्तरे तु सकर्मकोऽपि भवति,सृजियुज्योः सकर्मकयोः कर्मवद्भाव॑ इति कर्मवत्सूत्रवार्तिकात् । एतच्च कर्मकर्तृप्रक्र#इयायां वक्ष्यते । लिटआह — ससृजिषे इति । क्रादिनियमादिडिति भावः । रुआष्टेति ।सृजिदृशोर्झल्यमकिती॑त्यमागमे ऋकारस्य यणि व्रश्चादिना जस्य षः । ष्टुत्वेन तकारस्य ट इति भावः । रुआक्ष्यते इति । पूर्वपदमि जस्य षत्वेषढो॑रिति षस्य कत्वे सस्य षत्वमिति भावः । आशीर्लिङि आह — सृक्षीष्टेति । अत्र लघूपधगुणमाशङ्क्याह -लिङ्सिचाविति । नाप्यमिति ।सृजिदृशोर्झल्य॑मित्यमपि नास्तीत्यर्थः । अकित्ये तद्विधानादिति भाव । लुङ्याह — असृष्टेति ।झलो झली॑ति सिचो लोपः ।लिङ्सिचावात्मनपदेषु॑ इति सिचः कित्त्वान्न गुणो नाप्यमिति भावः । लिश अल्पीभावे । लिक्षीष्टेति । 'लिङ्सिचौ' इति कित्त्वान्न गुणः । अलिक्षतेति ।शल इगुपधा॑दिति क्सः । आगणान्तादिति । दिवादिगसमाप्तिपर्यन्तमित्यर्थः । राधोऽकर्मकाद्वृद्धावेवेति । श्य॑न्निति शेषः । राधधातोरकर्मकाद्वृद्धावेवाऽर्थे श्यनिति प्रतीयमानोऽर्थः । एवं सति अकर्मकादिति व्यर्थम् । राधेरर्थान्तरे च श्यन् स्यात् । इष्यते हिअपराध्यती॑त्यादौ द्रोहाद्यर्थेऽपि श्यन् । तत्राह — एवकारो भिन्नक्रम इति । यस्मिन् कमे वृद्धावित्यत ऊध्र्वम एवकारः पठितः, ततोऽन्यः कमो यस्य स भिन्नक्रम इत्यर्थः ।वृद्धा॑वित्यत ऊध्र्वं पठित एवाकरोऽन्यत्र निवेशनीय इति यावत् । तदेव दर्शयति — राधोऽकर्मकादेव श्यनिति । एवं चार्थान्तरेऽपि श्यन् सिध्यति ।शत्रुं हिनस्ती॑त्यर्ते शत्रुमपराध्नोतीत्यत्र सकर्मकत्वान्न श्यन्निति भाव- । तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्क्य अकर्मकक्रिया एवं विधेति प्रदर्शनार्थं तत्, नतु परिसङ्ख्यानार्थमित्याह — उदाहरणमाह — वृद्धावितीति । एवं च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भावः । तथाविधाऽर्थान्तराण्युदाहरति — यन्मह्रमित्यादिना ।क्रुधद्रुहे॑ति संप्रदानत्वम् । कृष्णाय राध्यतीति ।राधीक्ष्योर्यस्य विप्रश्नःर॑ इति संप्रदानत्वम् । दैवमिति । कृष्णस्य किमिदानां शुभमशुभं वेति पृष्टो दैवज्ञस्तस्य शुभाऽशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षते इति यावत् । ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेत्यत आह — दैवस्येति । ननुराधोऽकर्मकाद्वृद्धावेवे॑त्यत्र वृद्धिग्रहमस्यौपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकतवाद्रराधतुरित्यादौराधो हिंसाया॑मिति वक्ष्यमाणावेत्त्वाऽभ्यासलोपौ स्यातामित्यत आह — राध इति । इह नेति.रराधतुरित्यादौ राधेर्हिंसार्थकत्वेराधो हिंसाया॑मिति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः । कुत इत्यत आह — हिंसार्थस्येति । नोन्मिषत्येवैषा शङ्का, राधेरकर्मकस्यैव दैवादिकत्ववचनात् । हिंसार्थकस्य च राधेः सकर्मकतया दैवादिकत्वाऽभावादुक्तशङ्काया अनुन्मेषादित्यर्थः । ननु राध्नोति राधयतीति कथमित्यत आह — अयं स्वादिश्चुरादिश्चेति । रराधिथ । क्रादिनियमान्नित्यमिट्, दीर्घाकारवत्त्वेन 'उपदेशेऽत्वतः' इत्यस्याऽप्रवृत्तेः, अजन्तोऽकारवानित्यत्र च ह्रस्वाऽकारस्यैव विवक्षितत्वात् । राद्धा । अरात्सीत् । व्यध ताडने इति । चतुर्थान्तोऽयम् । अनिट् । विध्यतीति । श्यनो ङित्त्वात्ग्रहिज्ये॑ति यकारस्य संप्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः । वकारस्य तु न संप्रसारणं ,न संप्रासरणे संप्रसारण॑मिति निषेधात् । विव्याधेति । द्वित्वे कृते अभ्यासस्यलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । विविधतुरिति । परत्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वित्वमिति भावः । भारद्वाजनियमात्थलि वेडित्याह — विव्यधिथ विव्यद्धेति ।लिटभ्यासस्ये॑ति संप्रसारणम् । अनिट्पक्षेझषस्तथो॑रिति धः । अव्यात्सीदिति । हलन्तलक्षणा वृद्धिः । पुष पुष्ठौ । अनिट् । पुपोषिथेति । अजन्ताऽकारवत्त्वाऽभावाक्रादिनियमान्नित्यमिट् । अपुषदिति । पुषाद्यङ् ।ङित्त्वान्न गुणः । शुष धातुरनिट् । अशुषदिति । पुषाद्यङिति भावः । एवमग्रेपि । तुष् दुष् श्लिष् — एतेऽनिटः । लुङि स्लिषश्च्लेः सिजादेशे प्राप्ते -", "31061": "<<दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्>> - दीपजन ।च्लेः सि॑जित्यत च्लेरिति, 'चिण् ते पदः' इत्यस्माच्चिण् ते इति चानुवर्तते । तदाह — एभ्यश्च्लेरिति । एकवचन इति । दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः ।", "31062": "", "31063": "<<दुहश्च>> - दुहश्च । 'अच' इतिवर्जं पूर्वसूत्रं तत्रानुवृत्तं यत्तत्सर्वमिहानुवर्तते । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वा स्यादित्यर्थः स्पष्ट इति न व्याख्यातम् । अनुवृत्तिसौकर्यार्थमेव पूर्वसूत्रं प्रकृतदुहधातावनुपयुक्तमप्युपन्यस्तम् । अदोहीति । दुहेः कर्मकर्तरि लुङ् । 'स्वयमेव गौः पय' इति शेषः । चिण्पक्षे लघूपधगुणः । चिणभावपक्षे आह — पक्षे क्स इति ।शल इगुपधा॑दित्यनेनेति भावः । लुग्वेति ।लुग्वा दुहदिहलिहगुहा॑मिति क्सस्यपाक्षिको लुगित्यर्थः । अथदुहपच्यो॑रित्यत्र पचेरुदाहरति — उदुम्बरः फलं पच्यतेइति ।उदुम्बरवृक्षं फलं पचति कालविशेष॑ इत्यत्र द्विकर्मकः पचिः । इह तु उदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फलं पक्वाश्रयं करोतीत्यर्थः । अत्र उदुम्बरस्यगौणकर्मणः कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मकत्वात्सकर्मकाणां प्रतषेधः॑ इति कर्मवत्त्वस्य प्रतिषेधे प्राप्तेदुहिपच्यो॑रिति कर्मवत्त्वस्य प्रतिप्रसवाद्यगादिकमिति भावः । वस्तुतस्तु भाष्ये द्विकर्मकेषु पचेरपरिगणनान्न द्विकर्मकत्वमिति कारकाधिकारे प्रपञ्चितमस्माभिः । तथा च कर्मकर्तरि 'फलं पच्यते' इत्यत्र फलस्यैव कर्मतया तस्यकर्तृत्वविवक्षायां पचेरकर्मकत्वात्सकर्मकाणा॑मिति प्रतिषेधस्याऽप्रसक्तेः प्रतिप्रसवविधिरयं व्यर्थं इति यद्यपि, तथाप्यत्र मतेउदुम्बरः फलं पचती॑त्यत्र कर्तृलकारे पचेः कर्तृस्थक्रियत्वात् कर्मस्थक्रियत्वाऽभावादुदुम्बरः फलं पच्यतिति कर्मकर्तरिकर्मवत्कर्मणेति कर्मवत्त्वस्याऽप्राप्तौदुहिपच्यो॑रिति कर्मवत्त्वस्य बहुलं पचेरपूर्वविधिरित्यन्यत्र विस्तरः ।सृजियुज्योः श्यस्तु॑ इति वार्तिकम् ।अनयोः सकर्मकयो॑रित्यादि तद्भाष्यम् । अत्र सृजियुज्योर्दैवादिकयोर्न ग्रहणं,तयोरकर्मकताया उक्तत्वात्, किंतु 'सृज विसर्गे' इति तौदादिकस्य, 'युजिर्योगे' इति रौधादिकस्य च ग्रहणं, तत्र विसर्गः = उत्पादनम् । यथा प्रजाः सृजतीति.योगः — संयोजनम् । यता अआं युनक्तीति । रथादिना संयोजयतीति गम्यते । सृजेः श्रद्धोपपन्ने इति । श्रद्धायुक्ते मुख्यकर्तर्येव उक्तो विधिरित्यर्थः । तत्र मुख्यकर्तरि अत्यन्ताऽप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते ।यजेस्तु कर्मकर्तर्येव उक्तविधि॑ रिति भाष्यात्तत्रापि कर्मणि क्रियाकृतवैलक्षण्याऽभावादप्राप्तं कर्मत्वमिह बहुलं विधीयते । कर्मत्वे सति यकि प्राप्ते तदपवादः श्यन्विधीयते । तेनञ्नित्यादिर्नित्य॑मित्याद्युदात्तत्वं सिध्यति । यकि तुतास्यनुदात्तेदित्यादिना लसार्वधातुकानुदात्तत्वे प्रत्ययस्वरेण यक उदात्तत्वं स्यात् । सृज्यते रुआजं भक्त इति । अत्र मुख्यकर्तरि लकारः । कर्मवत्त्वादात्मनेपदम् । यगपवादः श्यन् । श्रद्धया निष्पादयतीत्यर्थ इति । धातूनामनेकार्थत्वादित भावः ।सृज्यते रुआजं भक्त॑ इत्यत्र यदा तु निष्पादयतीत्येवाऽर्थः, नतु श्रद्धयेति दा सृजति रुआजमित्येव भवति.अथ युजेरुदाहरति — युज्यते ब्राहृचारी योगमिति । अत्रकर्मकर्तरि यगपवादः श्यन्नि॑ति भाष्यम् । योगश्चित्तवृत्तिनिरोधः योगशास्त्रप्रसिद्धः । ब्राहृचर्यं — स्त्रीसङ्गराहित्यम् । तद्योगाङ्गमिति च योगशास्त्रप्रसिद्धम् । स योगः ब्राहृचारिणं युनक्ति = आत्मदर्शनेन संयोजयतीति कर्तृलकारे संयोजनक्रियायां योगो मुख्यकर्ता, ब्राहृचारी तु कर्मेति स्थितिः । तत्र कर्मणो ब्राहृचारिणः कर्तृत्वविवक्षायांयुज्यते ब्राहृचारी योग॑मिति कर्मकर्तरि ब्राहृचारिणि लकारः, कर्मवत्त्वात्तदैव यगपवादः श्यन् । ब्राहृचारी प्राणायामाभ्यासादिश्रमबाहुल्यं विना स्वयमेव योगेन संबध्यते इत्यर्थः । तत्र ब्राहृचारिणि कर्मकर्तरि धात्वर्थसंबन्धोऽनुयोगितया वर्तते, योगे तु प्रतियोगितया वर्तत इति स्थितिः । तत्र यद्यपि प्रतियोगिनो योगात् 'सहयुक्तेऽप्रधाने' इति तृतीयया भवितव्यं, तथापि युजेः प्रतियोगित्वावच्छिन्नसंबन्धोऽर्थः । तत्र प्रतियोगित्वं फलं, संबन्धो व्यापारः । प्रतियोगित्वरूपफलाश्रयत्वाद्द्वितीयेति समाहितं शब्देन्दुशेखरे । अत्र भाष्यप्रयोगादेव योगाद्द्वितीयेत्यन्ये । भूषाकर्मेति वार्तिकम् । भूषाकर्म, किरादि, सन् एषां द्वन्द्वः । अन्यत्रेति । प्रथमान्तात्स्वार्थे त्रल् । आत्मनेपदादन्यत्कर्मकार्यमिति लभ्यते । भूषा कर्म क्रिया येषां वाच्यतया ते भूषाकर्माणो धातवः । भूषणक्रियावाचिनामिति यावत् । तदाह — भूषावाचिनामित्यादिना । अलङ्कुरुते कन्येति । स्वयमेव अन्यप्रयत्नं विना भूषणक्रियावतीत्यर्थः । अत्र भूषार्थकत्वात्कर्मकर्तरि तङेव, न तु यक् । अलमकृतेति । अत्र तङेव नतु चिण् । लुटि तु अलङ्कर्तेत्येव, नतु चिण्वदिटौ । अवकिरते हस्तीति । हस्तिनमवकिरति कुसुमादिरित्यत्र मुख्यकर्तरि लकारः । तत्र हस्ती कर्म । तस्यकर्तृत्वविवक्षायां स्वयमेव पुरुषप्रयत्नं विना वृक्षादिसमीपं गच्छन् पुष्पादिभिरवकीर्णवान् भवतीत्यर्थः । अत्रापि तङेव, नतु यगादि । अवाकीर्ष्टेति ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् । गिरते इति ।ओदनं स्वयमेव#ए॑ति शेषः । 'गृ निगरणे' अयं किरादिः । शप्रत्यये 'रिङ् शयग्लिङ्क्षु' इति रिङ् । अतिथिमाद्रियते इति मुख्यकर्तरि । आद्रियतेऽतिथिरिति कर्मकर्तरि । स्वयमेव आदरणाश्रय इत्यर्थः । अत्र यद्यपि शे यकि च न विशेषस्तथापि न्याय्यः श एव, यको निषिद्धत्वात् । स्वरे वा विशेषः । तङ् तु ङित्त्वादेव सिद्धः । अतिथेरभिहितत्वात् प्रथमेति विशेषः । आदृतेति । चिणोऽनेन निषेधेह्रस्वादङ्गा॑दिति सिचो लोपः ।उश्चे॑ति कित्त्वम् । अथ सन्नन्तस्योदाहरति — चिकीर्षते कट इति । स्वयमेव कर्तुमिच्छाविषय इत्यर्थः । नन्विच्छायाः पुरुषरूपकर्तृनिष्ठत्वात्कृटरूपकर्मनिष्ठत्वाऽभावादित्छायां सत्यामसत्यां च कटे कर्मणि वैलक्षण्याऽदर्शनाच्च कर्मस्थक्रियत्वाऽभावादिह कर्मवत्त्वस्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इत्यत आह — इच्छाया इति ।", "31064": "<<न रुधः>> - न रुधः । अस्माच्चेश्चिण्नेति । अवारुद्ध गौरिति ।स्वयमेवे॑ति शेषः । कर्मकर्तरीत्येवेति ।अचः कर्मकर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । अवारोधि गौर्गोपेनेति । इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः ।", "31065": "", "31066": "<<चिण् भावकर्मणोः>> - चिण्भावकर्मणोः । च्लेरिति ।च्लेः सि॑जित्यतस्तदनुवृत्तेरिति भावः । तशब्दे परे इति । तशब्दे परे इति । 'चिण् ते पदः' इत्यतस्तदनुवृत्तेरिति भावः अभावीति । च्लेश्चिणि कृतेचिणो लु॑गिति तशब्दस्य लोपः । चिण्विधौ तशब्दे किम् । अभाविषात् । अथ अनुपूर्वाद्धूधातोरुपभोगार्थकात्सकर्मकात्कर्मणि लकारे विशेषमाह - तिङोक्तत्वादिति । कर्तुस्त्वनभिहित्वात्तृतीयैवेति भावः । युष्मदस्मदुपात्तयोः कत्र्रोस्त्वनभिहितत्वातत्तृतीया । अनूभूयेते इति । 'सुखदुःखे' इति शेषः । अनुभूयन्ते इति ।सुखानी॑ति शेषः । णिलोप इति । भूधातोर्णौ वृद्दधौ आवादेशे भावीति ण्यन्तात्कर्मणि लटस्तादेशे यकि णिलोप इत्यर्थः । भावयामासे इति । प्रथमपुरुषैकवचने, उत्तमपुरुषैकवचने च रूपम् । इहेति । 'भावयामासे' इत्यत्र प्रथमैकवचनतशब्दस्यलिटस्तझयो॑रिति एशादेशे उत्तमपुरुषैकवचनस्य इटश्चटित आत्मनेपदाना॑मित्येत्त्वे च कृते भावयमामास् ए इति स्थितेह एती॑ति सकारस्य हकारः प्राप्तो न भवतीत्यर्थः । कुत इत्यत आह — तासीति ।ह एती॑त्यत्र तासस्त्योरित्यनुवर्तते । तत्र एधिताहे इत्यादौ तासेः सार्वधातुक एव एति परे हकार इति निर्विवादम् । तथाविधतासिसाहचर्यादस्तेरपि सकारस्य 'व्यत#इहे' इत्यादौ सार्वधातुक एव परे प्रवृत्तिः । अतोभावयामासे इत्यत्र नाऽस्तेः सकारस्य हकारः, एकारस्यार्धधातुकत्वादित्यर्थः । भावितेति । ण्यन्तात् भावि- ता इति स्थिते परत्वाद्वलादिलक्षणमिटं बाधित्वा चिण्विदिटि तस्याऽऽभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपे भावितेति रूपम् । अतएव चिण्वदिड्विधौउपदेशे योऽ॑जित्येव व्याख्यातम्, नतुउपेदशे अजन्तस्ये॑ति, तथा सति हि णिजन्तस्य उपदेशाऽभावान्न स्यादिति भावः । वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन असिद्ध्तवाऽभावादनिटीति निषएधाण्णिलोपाऽभावे णेर्गुणाऽयादेशयोः कृतयोर्भावयितेति रूपमिति मत्वा आह — पक्षे भावयितेति । अथ सन्न्नताद्भूधातोर्भावलकारे उदाहरति — बूभूष्यते इति । यकि सनोऽकारस्य 'अतो लोपः' इति लोपः । बूभूषिता । बुभूषिष्यते इति । चिण्वदिटि वलादिलक्षणे इटि च रूपं तुल्यम् । चिण्वदिड्भावपक्षे ।ञपि तदतिदेशेन प्राप्तां वृदिंध बाधित्वा परत्वादतो लोपः । अथ यङन्ताद्भूधातोर्भावलकारे उदाहरति — बोभूय्यते इति । यकि यङोऽकारस्य पूर्ववदतो लोपः । द्वियकारकं रूपम् । यङलुगन्ताद्बोभूयते इति एकयकारं रूपम् । ष्टुञ्धातोः कर्मलकारे यकि तस्यार्धधातुकत्वात्अतो दीर्घो यञी॑त्यप्राप्तावाह — अकृत्सार्वेति । स्ताविता स्तोतेति । चिण्वदिडभावपक्षेऽनिट्कत्वान्नेट् । अथ ऋधातोः कर्मणि लकारे यकि कृते कित्त्वाद्गुणनिषेधे प्राप्ते आह - गुणोऽर्तीति । अर्यते इति । गुणे कृते रपरत्वम् ।स्मृ॑धातोः कर्मणि लकारे आह — — स्मर्यते इति ।गुणेऽर्ती॑ति संयोगादित्वाद्गुणे रपरत्वमिति भावः । ननु लुटि ऋ ता, स्मृ इति स्थिते चिण्वदिटं बाधित्वा परत्वाद्गुणः प्राप्नोति, नित्यत्वाच्च, अकृते कृते च चिण्वदिटिगुणस्य प्राप्तेः । कृते तु गुणे रपरत्वेऽजन्तत्वाभावच्चिण्वदिडभावे अनिट्त्वाद्वलादिलक्षणेऽभावे अत स्मर्तेत्येव स्यात्, आरिता स्मारितेति न स्यादित्यत आह — परत्वादित्यादि । कृते गुणे रपरत्वे अजन्तत्वाऽभावेऽपि उपदेशे योऽच् तदन्तस्येत्युक्तेश्चिण्वदिण्निर्बाध इत्यर्थः । आरितेति । कृतेऽपि गुणे रपरत्वे चिण्वदिटि उपधावृद्धिः । अर्तेति । चिण्वदिडभावे रूपम् । एवं स्मारिता स्मर्तेत्यपि । ननु संपूर्वात्कृञः कर्मणि लकारे यकिरिङ् शयग्लिङक्षुट इति रिङादेशेसंपरिभ्यां करोतौ भूषणे, समवाये चे॑ति सुटि संस्क्रियते इति वक्ष्यते । तत्रगुणोऽर्ती॑ति संयोगादित्वाद्गुणः स्यादित्यत आह — नित्यग्रहणानुवृत्तेरिति ।नित्यं छन्दसी॑त्यतो नित्यमित्यनुवृत्तेः गुणो॑र्ती॑त्यत्र नित्यं यः संयोगादित्यस्यैव संयोगादिस्तस्यैव संयोगादिलक्षणो गुण इति लभ्यते । कृञ्तु न नित्यं संयोगादिः, संपरिपूर्वकत्वाऽभावे तदभावादिति भावः । अथ रुआंस्धातोर्भावलकारे यकि विशेषमाह — अनिदितामिति नलोप इति । इदितस्त्विति । 'टु नदि समृद्धौ' इत्यस्माद्भावलकारे यकि इदित्त्वान्नलोपो नेत्यर्थः । अथ यजधातो कर्मलकारे यकि विशेषमाह — संप्रसारणमिति ।वचिस्वपियजादीना॑मित्यनेनेति भावः । शीङ्धातोर्भावलकारे यकि विशेषमाह — अयडि क्ङितीति ।", "31067": "<<सार्वधातुके यक्>> - सार्वधातुके यक् । धातोरिति । 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । भावकर्मवाचिनीति ।चिण्भावकर्मणो॑रित्यतस्तदनुवृत्तेरिति भावः । घटस्य भावो घटत्वमित्यादौ प्रकृतिज्नयबोधे प्रकारो भावः । कवेरयं भाव इत्यादौ अभिप्रायः ।भावः पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु॑ इति नानार्थरत्नमाला ।भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु॑ इत्यमरः । इह तु 'लः कर्मणि' इत्यत्र भावशब्दो भावनायां यौगिक इत्याह — भावो भावनेति । लः कर्मणी॑त्यत्र भावशब्देन भावना विवक्षितेति भावः । भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह — उत्पादनेति । उत्पत्त्यनुकूलो व्यापार इत्यर्थः । एवं च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृद्ध्यावादेशयोर्भाविशब्दात्एर॑जिति भावे अचि णिलोपे भावशब्दः, भावयतेरुत्पत्त्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारेण्यासश्रन्थो यु॑जिति युचि अनादेशे टापि भावनाशब्द इति बोध्यम् । उत्पादना चेयं धात्वर्थान्नातिरिच्यते इति दर्शयतुमाह — क्रियेति । धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः । तथाहिफलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचधातोः पाकोऽर्थः । पाको — विक्लित्त्यनुकूलव्यापारः । तत्र विक्लित्त्यंशः फलम् । अधिश्रयणादिस्तदनुकूलो व्यापारः । तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता,धातूपात्तव्यापाराश्रय कर्ते॑ति सिद्धान्तात् । अधिश्रयणादिव्यापारजन्या विक्लत्तिः फलं, तदाश्रयत्वादोदनं कर्म,व्यापारजन्यफलशालि कर्मे॑ति सिद्धान्तात् । एवं सकर्मकेषु सर्वत्र ज्ञेयम् ।एध वृद्धौ॑इत्यस्मिन्नकर्मकेऽपि वृद्ध्यनुकूलव्यापारो धात्वर्थः । नचैवं सति 'एधते देवदत्त' इत्यत्र धातूपात्तव्यापाराश्रयत्वाद्व्यापारव्यधिकरणफलाश्रयत्वं कर्मत्व॑मिति सिद्धान्तात् । एवं च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् । एतेन क्रियावाची धातुः, धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः । उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात् । तदुक्तं — व्यापारो भावना सैवोत्पादना सैव च क्रिये॑ति । ननूत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः । विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापार्थकत्वं तु न संभवति, एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे, तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह — सा चेत्यादि । पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकं क्रियामाहुः । पचित्वादितविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः । तथा च वाचकतावच्छेदकबेदाद्विक्लित्त्यादिफलविशेषस्य, क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः । तथा च भट्टिराह — विभज्य सेनां परमार्थ सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्॥॑ इति । अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः । तत्र सत्ता आत्मभरणम् । तदनुकूलव्यापारस्तु जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति वाष्र्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः । भूवादिसूत्रे भाष्ये स्पष्टमेतत् । प्रपञ्चतं च मञ्जूषायामित्यलम् । ननूत्पादनात्मकक्रियारूपस्य भावस्य धातुवाच्यत्वेलः कर्मणि च भावे चे॑ति भावे कथं लकारविधिः । अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह — भावार्थकलकारेणानूद्यते इति । 'द्वौ' 'त्रयः' इत्यादौ द्विवचनबहुवचनवदति भावः । युष्मदस्मद्भ्यामिति । युष्मदि अस्मिद च तिङ्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ । युष्मदस्मदोस्तिङ्सामानाधिकरण्यं च तिङ्वाच्यकारकवाचित्वमेव । भावे लकारे तु 'आस्यते त्वया'आस्यते मये॑त्यादौ भाव एव तिङ्वाच्यो नतु युष्मदस्मदर्थौ, अतो न मध्यमोत्तमावित्यर्थः । कर्मलकारे तुत्वं वन्द्यसे॑,॒अहं वन्द्ये॑ इत्यादौ लकारस्य, युष्मदस्मदोश्च सामनाधिकरण्यसंभवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते । तिङ्वाच्येति । सत्त्वं = द्रव्यं — लिङ्गसङ्क्यान्वययोग्यम् । तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा = लिङ्गसङ्ख्यान्वयाऽयोग्या, शब्दशक्तिस्वभावात् । ततश्च तस्यां तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेर्युवाभ्यां युष्माभिर्वा आस्यते इत्यादौ न द्विवचनं, बहुवचनं चेत्यर्थः । तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियाया लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तं भवति । तद्यथा - पाकौ पाका इत्यादि । तदुक्तं — ॒सार्वधातुके य॑गिति सूत्रे भाष्ये -कृदभिहितो भावो द्रव्यवत्प्रकाशते॑ इति । द्रव्यवल्लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः, शब्दशक्तिस्वभावादिति भावः । ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विवहुवचनाऽभावे आस्यते इत्यादौ एकवचनं च न स्यादित्यत आह — किं त्वेकवचनमेवेति ।तिङ्वाच्यभावलकारस्ये॑ति शेषः । तस्येति ।द्वेयकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मिति सूत्रन्यासं भङ्क्त्वा 'एकवचनं' द्विबहुषु द्विबहुवचने॑ इति सूत्रन्यासः कर्तव्यः । तत्र द्वित्वबहुत्वयोर्द्विबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम् । एवं च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन औत्सर्गिकतया एकत्वसङ्ख्यानपेक्षत्वाद्भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः । अनभिहिते इति । भावलकारे कर्तुस्तिङ्वाच्यत्वाऽभावेन अनभिहितत्वात्तृतीयेत्यर्थः । त्वया मयेति । त्वत्कर्तृकं मत्कर्तृकमन्यकर्तृकं भवनमित्यर्थः ।", "31068": "<<कर्तरि शप्>> - कर्तरि शप् ।सार्वधातुके य॑गित्यस्मात्सार्वधातुक इत्यनुवर्तते ।धातोरेकाचो हलादे॑रित्यस्माद्धातोरिति । तदाह — कत्र्रर्थ इत्यादिना । तिङि परे धातोर्विहितानां प्रत्यायानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा । शपाविताविति । शकारपकारौ 'लशक्वतद्धिते' इतिहलन्त्य॑मिति चेत्संज्ञकावित्यर्थः । ततश्च शपि शकारपकारयोर्लोपेऽकारमात्रं शिष्यत इत्यर्थः ।", "31069": "<<दिवादिभ्यः श्यन्>> - दिवादिभ्यः ।कर्तरि श॑बित्यतः कर्तरिति,सार्वधातुके य॑गित्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्याह — शपोऽपवाद इति । शकारनकारावितौ । दिव् यतीति स्थिते आह — हलि चेति दीर्घ इति । श्यनोऽपित्त्वेन ङित्त्वान्न गुण इति भावः । दीव्यतः दीव्यन्तीत्यादि सुगमम् । दिदेवेति । दिदिवतुः । दिदेविथ । दिदिविव । सेट्त्वं सूचयति — देवितेति । षिनुधातुरपि सेट् । षोपदेशः । दिवुधातुवदस्य रूपाणि.परिषीव्यतीति ।परिनिविभ्यः सेवे॑ति षत्वमिति भावः । परिषिषेवेति ।स्थादिष्वेवाभ्यासस्ये॑ति नियमस्तु न, तत्रप्राक्सिता॑दित्यनुवृत्तेरितिभावः ।सिवादीनां वाऽड्व्यवायेऽपी॑ति मत्वाह — न्यषेवीत् न्यसेवीदिति । रिउआवुधातुस्तु रेफवान् । ष्ठिवु निरसने इति ।सुब्दातुष्वक्कष्ठीवा॑मिति न सत्वम् । ष्ठीव्यतीत्यादि सुगमम् । आर्धधातुकेषु तु शब्विकरणस्थष्ठिबुधातुवद्रूपाणि । ष्णसुधातुश्च षोपदेशः । नृती गात्रेति । 'श्वीदितः' इत्याद्यार्थमीदित्त्वम् । सेडयम् ।", "31070": "<<वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः>> - वा भ्राश । 'दिवादिब्यः श्य' नित्यतः श्यन्निति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तदाह -एभ्यः श्यन्वेत्यादि ।", "31071": "<<यसोऽनुपसर्गात्>> - यसोऽनुपसर्गात् ।", "31072": "<<संयसश्च>> - संयसश्च । सूत्रद्वमिदम् । श्यन् वा स्यादिति । शेषपूरणमिदम् । 'दिवादिभ्यः श्यन्' इत्यतो,वा भ्राशे॑त्यतश्च तदनुवृत्तेरिति भावः । अनुपसर्गाद्यसः श्यन्वा स्यादिति प्रथमसूत्रार्थः । सोपसर्गात्तु नित्य एव श्यन्, अनुपसर्गादिति पर्युदासात् । संपूर्वाद्यसेर्नित्यमेव श्यनः प्राप्तौ द्वितीयसूत्रम् । रव्युष विभागे । अयमिति । दिवादिगण एव पुषादिभ्यः प्रागयं धातुः पठित इत्यर्थः । पौनरुक्त्यमाशङ्क्याअह — अर्थबेदेन त्वङर्थं पठते इति । विभागात्मके अर्थविशेषे एव पुषाद्यङर्थमिह पुनः पाठ #इत्यर्थः । अव्युषदिति । 'व्युष दाहे' इति पूर्वं पठितस्य तु सिजेव । अव्योषीत् । ओष्ठआदिरिति । दन्त्योष्ठआदिर्दन्त्योष्मान्तोऽयमिति केचिन्मन्यन्त इत्यर्थः । अयकार इति । दन्तोष्ठआदिर्दन्त्योष्मान्तो यो दातुरुक्तः स एवायं यकाररहित इत्यन्ये मन्यन्त इत्यर्थः ।अयकार॑मिति पाठे क्रियाविशेषणम् । प्लुष दाहे । ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्रागस्य पाठः क्वचित् दृस्यते तत्र पौनरुक्त्यशङ्कां परिहरति — पूर्वत्र पाठः सिजर्थ इति.पुषादावेव पाठे सति अङेव श्रूयेत नतु सिच् । पुषादेः प्रागपि पाठे तु तस्य अङभावात्सिच् श्रूयेत । तथा च सिचः कदाचिच्छ्रवणार्थः पूर्वं पाठ इत्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं दर्शयति — तद्भ्वादीति । तत् = दिवादिगणे पुषादिभ्यः पूर्वमस्य पठनं, भ्वादिपाठेनैव संपन्नप्रयोजनकमिति सुष्ठु वक्तुं शक्यमित्यर्थः । एवं च भ्वादिपाठाच्छब्विकरमो, लुङि सिचः श्रवणं च सिध्यति । पुषादौ पाठात्तु श्यन्विकरणः, अङ् च सिध्यति । अतो दिवादिगणे पुषादिभ्यः प्रागस्य पाठो व्यर्थ एवेति भावः । एतदेवाभिप्रेत्य मूले दिवादिगणे पुषादिगणात्प्राक् 'प्लुष दाहे' इति न पठितमिति बोध्यम् । मसी परिणामे इति । ईदित्त्वंश्वीदितः॑इत्येतदर्थम् । मस्यति । समी इत्येके इति । सम्यति । भृशु भ्रंशु । द्वितीयधातोराह -अनिदितामिति । युप रुप लुप । धातुवृत्त्यादिविरोधादुदित्पाठो लेखकप्रमादायातः । इह पाठस्त्विति । क्षुभिनभितुभीनां इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः । वस्तुतस्तु पुषादेः प्रागेव एषां त्रयाणां पाठो युक्त इति भावः । ञि मिदा । अमिददिति । ननु भ्वाद्यन्तर्गणे द्युतादौ 'ञि मिदा स्नेहने' इत्यात्मनेपदिषु पठितः । लुङि तुद्युद्भ्यो लुङी॑त्यत्र परस्मपैदविकल्प उक्तः । द्युताद्यङ् तु परस्मैपद एव, न तु तङि । एवं च द्यातादिपाठादेव परस्मैपदपक्षे अङि अमिददिति, तङ#इ तु अङभावे अमेदिष्टेति सिद्धम् । तथा च पुषादावस्य पाठो व्यर्थः । तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धेरित्याशङ्क्ये — द्युतादिपाठादेवेत्यादिना, सिद्धे इत्यन्तेन । तामिमां शङ्कां परिहरति — इह पाठोऽमेदीदिति मा भूदितीति । पुषादावस्य पाठोऽमेदीदिति व्यावृत्त्यर्थ इत्यर्थः । पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि अङसंभवादमेदीदिति स्यादिति भावः । रनन्वेवं सति भवाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः, द्यातादिभ्यो बहिरेवात्मनेपदिषु पठताम् । एवं च अमेदिष्टेति सिद्धम् । इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्क्येष्टापत्त्या परिहरति — बहिरेवेति । 'सूचितः' इतिपाठे तु सुतरामुचित इति व्याख्येयम् । ञि क्ष्विदेत्यादि । व्यक्तम् । इति दिवादयः ।॥ इति बालमनोरमायाम् दिवादयः॥ *****अथ द्वन्द्वः ।*****", "31073": "<<स्वादिभ्यः श्नुः>> - स्वादिभ्यः श्नुः । कत्र्रर्थे सार्वधातुके स्वादिभ्यः श्नुः स्यादित्यर्थः । शपोऽपवादः । सुनोतीति । लटस्तिपि श्नुः, शकार इत् । शित्त्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति ङित्त्वातत्स्मिन् परे धातोर्न गुणः । श्नोस्तु तिपमाश्रित्य गुण इति भावः । सुनुत इति । तसो ङित्त्वात् स्नोर्न गुण इति भावः । सुनु — अतीति स्थिते 'अचि श्नुधातु' इति उवङमाशङ्क्याह — हुश्नुवोरिति । सुनोषि सुनुथः सुनुथ । सुनोमि । वसि मसि चलोपश्चास्यान्यतकरस्यां म्वो॑रित्युकारलोपविकल्पं मत्वाह — सुन्वः सुनुव इति । सुन्मः सुनुम इत्यपि ज्ञेयम् । अथ लटस्तङि — सुनुते सुन्वाते सुन्वते । सुनुषे सुन्वाथे सुनुद्वे । सुन्वे । इति सिद्धवत्कृत्य आह — सुन्वहे सुनुवहे इति ।लोपश्चास्ये॑त्युकारलोपविकल्प इति भावः । सुन्महे सुनुमहे इत्यपि ज्ञेयम् । सुषावेति.सुषुवतुः सुषुवुः । सुषविथ — सुषोथ सुषुवथुः सुषुव । सुषाव — सुषव सुषुविव सुषुविम । अथ लिटस्तह्राह — सुषुवे इति । सुषुवाते सुषुविरे । सुषुविषे सुषुवाथे [सुषुविढवे] सुषुविधवे । सुषुवे सुषुविवहे सुषुविमहे ।सोतेति । अनिट्त्वसूचनमिदम् । सोष्यति सोष्यते । सुनोतु — सुनुतात् सुनुताम् सुन्वन्तु । इतिसिद्धवत्कृत्य आह — स#उनु इति ।उतश्च प्रत्यया॑दिति हेर्लुक् । सुनुतात् सुनुतम् सुनुत । सुनवानीति ।हुश्नुवो॑रिति यणं बाधित्वा परत्वाद्गुणः, आटः पित्तवेनाऽङित्त्वादिति भावः । सुनवाव सुनवाम । लोटस्तङि सुनुताम् सुन्वाताम् सुन्वताम् । सुनुष्व सुन्वाथाम् सुनुध्वम् । इति सिद्धवत्कृत्य आह — सुनवै इति ।हुश्नुवो॑रिति यणं बाधित्वा परत्वाद्गुणः, आटः पित्त्वेन ङित्त्वाऽभावादिति भावः । सुनवावहै सुनवामहै । असुनोत् असुनुतामसुन्वन् । असुनोः । असुनवमसुनुव असुन्व । असुनुत असुन्वातामसुन्वत । इत्याद्यूह्रम् । विधिलिङ्याह — सुनुयादिति । यासुटो ङित्त्वात्श्नोर्न गुण इति भावः । सूयादिति । आशीर्लिङिअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । सोषीष्ट । लुङि परस्मैपदे सिच इण्निषेधे प्राप्ते आह — स्तुसुधूञ्भ्य इतीडिति । असाविष्टामित्यादि । लुङस्तङ्याह — असोष्टेति । असोषातामित्यादि । असोष्यत् असोष्यतउपसर्गात्सुनोती॑ति षत्वं मत्वा आह — अभिषुणोतीति । षात्पर्तवाण्णत्वम् । अभ्यषुणोदिति ।प्राक् सितादड्व्यवायेऽपी॑ति षत्वम् । अभिसुषावेति ।स्थादिष्वभ्यासेने॑ति नियमादभ्यासस्य न षः ।आदेशप्रत्यययो॑रित्युत्तरखण्डस्य षः ।", "31074": "<<श्रुवः शृ च>> - श्रुवः शृ च । 'शृ' इति लुप्तप्रथमाकम् । चकारेणस्वादिभ्यः श्नु॑रिति सूत्रस्थः श्नुः समुच्चीयते । तदाह — श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति । शपोऽपवाद इति । अनेन शब्विषये कत्र्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोर्हित्त्वादिति ।सार्वधातुकमपि॑दित्यनेनेति भावः । शृणोतीति । तिपमाश्रित्य श्नोर्गुणः । तसादीनं ङित्त्वात् श्नोर्न गुणः । तदाह — शृणुत इति ।", "31075": "<<अक्षोऽन्यतरस्याम्>> - अक्षोऽन्यतरस्याम् । 'अक्ष' इति पञ्चमी ।स्वादिभ्यः श्नु॑रित्यतः श्नुरिति,॒कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके ये॑गित्यतः सार्वधातुक इति चानुवर्तते । तदाह — अक्षो वेति । श्नुप्रत्ययस्य शित्त्वं सार्वधातुकत्वार्थम् । तत्फलं तुस्वादिभ्यः श्नु॑रित्यत्र वक्ष्यते । अक्ष्णोतीति । तिपि श्नुः । तस्य तिपः पित्त्वेन ङित्त्वाऽभावात्सार्वधातुके॑ति गुणः । णत्वम् । अक्ष्णुत इति । तसोऽपित्त्वेन ङित्त्वात् श्नोर्न गुणः । अक्ष्णुवन्तीति । ङित्त्वाद्गुणाऽभावे उवङ् । अक्ष्णोषि अक्ष्णुथ । अक्ष्णोमि अक्ष्णुवः अक्ष्णुमः । अक्षतीति । शप्पक्षे रूपम् । आनक्षेति । णलि द्विहल्त्वान्नुट् । आनक्षतुः आनक्षुः । ऊदित्त्वादिट्पक्षे आह — आनक्षिथेति । इडभावे आह — आनष्ठेति । आनक्ष् थ इति स्थितेस्को॑रिति कलोपः । थस्य ष्टुत्वेन ठः । अष्टेति । लुटि तासि इडभावपक्षेस्को॑रिति कलोपे तकारस्य ष्टुत्वेन टः । अक्ष् स्य तीति स्थिते प्रक्रियां दर्शयति — स्कोरिति कलोपः, षढोः कः सीति । कात्परत्वात् सस्य षत्वं च । अक्ष्णोत्विति । अक्ष्णोतु अक्ष्णुतात्-अक्ष्णुताम् । अक्ष्णुवन्तु । अक्ष्णुहीति । संयोगपूर्वत्वादुतश्चेति हेर्लुक् न । हेरपित्त्वेन ङित्त्वात् श्नोर्न गुणः । अक्ष्णुतात् अक्ष्णुतमक्ष्णुत । अक्ष्णवानीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेधः । गुणेऽवादेशः । आक्ष्णुवन् । आक्ष्णोः आक्ष्णुतमाक्ष्णुत । आक्ष्णवमिति । मिपोऽम् । श्नोर्गुणः । अवादेशः । आक्ष्णुव आक्ष्णुम । अक्ष्णुयादिति । विधिलिङि यासुटो ङित्त्वात् श्नोर्न गुणः । अक्ष्णुयुरिति । 'लिङः सलोपः' इति सलोपेउस्यपदान्ता॑दिति पररूपमिति भावः । अक्ष्णुयाः अक्ष्णुयातमक्ष्णुयात । अक्ष्णुयामक्ष्णुयाव अक्ष्णुयाम । शप्पक्षे अक्षेदित्यादि । अक्ष्यादिति । आशीर्लिङ आर्धधातुकत्वान्न श्नुः, नापि शप् । लुङि सिचि विशेषमाह — ऊदित्त्वाद्वेडिति । तत्र इट्पक्षे आह — नेटीति । हलन्तलक्षणा वृद्धिर्नेत्यर्थः । नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धेश्चरितार्थत्वादत्र न तत्प्रसक्तरिति शङ्क्यं, रञ्जेरराङ्क्षीदित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाष्यादौ प्रपञ्चितत्वादिति भावः । मा भवानक्षीदिति । आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्यां च रूपे भेदाऽभावात्मा भवा॑नित्युपात्तम् । अक्षिष्टाम् । अक्षिषुरिति । अत्रापि 'मा' इति संबध्यते । इडभावे त्विति । लुङस्तिपि अक्ष् स् ईदिति स्थिते इडभावान्नेटीति निषेधाऽप्रसक्त्या हलन्तलक्षणवृद्धौस्को॑रिति कलोपेषढो॑रिति कत्वे षत्वमिति भावः । अत्रनेटी॑ति निषेधाऽभावेन हलन्तलक्षणवृद्धिर्निर्बाधेति स्पष्टयितुमेव 'मा भवान्' इत्यत्राप्युपात्तमिति बोध्यम् । आष्टामिति । अक्ष् स् ताम् इति स्थिते हलन्तलक्षणवृद्धौझलो झली॑ति सिज्लोपेस्को॑रिति कलोपे तकारस्य ष्टुत्वम् । आक्षुरिति । अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौस्को॑रिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः । आक्षीः आष्टमाष्ट । आक्षमाक्ष्व आक्ष्म । आक्षिष्यत् — आक्ष्यत्, आक्ष्यतामाक्ष्यन् । आक्ष्यः आक्ष्यतमाक्ष्यत । आक्ष्यमाक्ष्याव आक्ष्याम । तक्षू त्वक्षू इति । स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणं तनूकरणम् ।", "31076": "<<तनूकरणे तक्षः>> - तनूकरणे । शेषपूरणेन सूत्रं व्याचष्टे — श्नुः स्याद्वा शब्विषये इति ।स्वादिभ्यः श्नु॑रित्यतः श्नुरिति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तनूकरणेऽर्थे विद्यमानात्तक्षधातोः श्नुः स्यात्कत्र्रर्थे सार्वधातुके इति फलितम् । नच तक्षूधातोस्तनूकरणार्थकत्वाऽव्यभिचारात् श्नुविधौ तनूकरणग्रहणं व्यर्तमिति वाच्यम्, अत एव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तक्ष्णोतीत्यादि । अक्षूवद्रूपाणि । लुङि सिचि इट्पक्षेनेटी॑ति वृद्धिनिषेधे अतक्षीदिति, इडभावे तु अताक्षीदिति च रूपमक्षवत् । एवं त्वक्षूधातुरपि । णिक्षधातुर्णोपदेशः । प्रक्षिणतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् । त्रण ष्ट्रक्ष गताविति । त्रयोऽप्यकारमध्याः । द्वितीयः षोपदेशः । तदाह — रुआक्षतीति । षस्य सत्वे ष्टुत्वनिवृत्तिरिति भावः । णक्षदातुर्णोपदेशः । सिचिनेटी॑ति हलन्तलक्षणवृद्धिनिषेधः । वक्ष रोष इति । वक्ष रोष इति । दन्त्योष्ठआदिः । म्रक्षधातुरकारमध्यः । त्वचनशब्दस्य विवरणं — संवरणमिति । सूक्र्षदातू रेफमध्यः । अपपाठत्वे हेतुमाह — अवज्ञेति । सूक्र्षधातोरनादरार्थकत्वे असूक्र्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः । घोरवाशिते चेति । चात् काङ्क्षायामपि । घोरवाशितं — क्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः । ईष उञ्छ इति । ईदुपधः । कषेत्यारभ्य दश धातवः । तत्र तृतीयो दशमश्च इदुपधः । शिषधातुरनिट्कः । क्रादिनियमात्थलि वसि मसि च नित्यमिट् अजन्ताकारवत्त्वाऽभावेन थलि वेट्कत्वाऽभावात् । शिशेषिथ । शिशिषिव शिशिषिम । अशिक्षदिति । 'शल इगुपधा' दिति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः । ववषतुरिति ।न शसददे॑ति निषेधादेत्तवाभ्यासलोपौ न । रुषधातुः सेट्कः । रोषति । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ रुरुषथुः रुरुष । रुरोषिव रुरुषिम ।", "31077": "<<तुदादिभ्यः शः>> - तुदादिभ्यः शः । कत्र्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात्स्वार्थे इत्यर्थः । शबपवादः । तुदतीति । लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् 'सार्वधातुकमपि' दिति ङित्त्वान् गुण इति भावः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमाल्लिटिथल्यपि नित्यमिट् ।तदाह — तुतोदिथेति । तोत्तेति । अनिडिति भावः । अतौत्सीदिति । हलन्तलक्षणा वृद्धिः । णुदधातुर्णोपदेशः । अनिट् ।दिशधातुरप्यनिट् । देष्टेति । व्रश्चेति षत्वे ष्टुत्वम् । स्ये तुषढो॑रिति षस्य कत्वं च — देक्ष्यति । दिक्षीष्टेति । 'लिङ्सिचौ' इति कित्त्वान्न गुणः । 'शल इगुपधा' दिति क्सं मत्वाह — अदिक्षत् । अदिक्षतेति । भ्रस्ज पाके । अनिट् । भ्रस्ज अ तीति स्थिते आह — ग्रहिज्येति । ङित्त्वाद्रेफस्य संप्रसारममृकारः, पूर्वरूपं चेति भावः । भृस्ज् अ तीति स्थिते आह — सस्येत्यादि । णलि भ्रस्ज् अ इति स्थिते —", "31078": "<<रुधादिभ्यः श्नम्>> - रुधादिभ्यः श्नम् । कत्र्रर्थे सार्वधातुके परे रुधादिभ्यः श्नम्प्रत्ययः स्यात्स्वार्थे इत्यर्थः । तदाह-शपोऽपवाद इति । श्नमि शमावितौ । मित्त्वस्य फलमाह - मित्त्वादन्त्यादचः पर इति । प्रत्ययत्वाच्छकारस्येत्संज्ञा । शकारनिर्देशस्तु 'श्नसोरल्लोपः' 'श्नान्नलोपः' इत्यत्र विशेषणाऽर्थः, नतु सार्वधातुकसंज्ञार्थः, फलाऽभावात् । न च 'सार्वधातुकमपि' दिति ङित्त्वे गुणनिषेधः फलमिति शङ्कयं, श्नमः पूर्वस्य इगन्तस्य अङ्गत्वाऽभावादेव गुणाऽप्रसक्तेः । ननु श्नमः प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् श्नमि रोणद्धीति स्यादित्यत आह - नित्यत्वाद्गुणं बाधते इति । कृते अकृते च गुणे प्रवृत्तेः श्नम् नित्यः । तस्मिन् सति लघूपधत्वाऽभावान्न गुण इति भावः । रुणद्धीति । रुनध् तीति स्थिते 'झषस्तथो' रितधत्वे णत्वमिति भावः । रुनध् तस् इति स्थिते प्रक्रियां दर्शयति - श्नसोरल्लोप इति । क्ङिति सार्वधातुके तद्विधेरिति भावः । रुन्ध् तस् इति स्थिते नस्य णत्वमाशङ्क्याह - मत्वस्यासिद्धत्वादिति । ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह - तस्यासिद्धत्वादिति । परसवर्णसंपन्नस्येत्यर्थः । नन्विह अल्लोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वात् कथमनुस्वारपरसवर्णावित्यत आह - न पदान्तेति । रुन्द्ध इति ।झषस्तथो॑रिति धः । रुन्धन्तीति । रुणत्सि रुन्द्धः रुन्द्ध । रुणध्मि रुन्ध्वः रुन्ध्मः । रुन्द्धे इति । रुन्धाते रुन्धते । रुन्त्से रुन्धाथे रुन्द्ध्वे । रुन्धे रुन्ध्वहे रुन्ध्महे । रुरोध । रुरोधिथ । अरुणदिति । लङि हल्ङ्यादिना तिपो लोपः । धस्य चर्त्वविल्पः । सिपि तु हल्ङ्यादिना लुप्तेदश्चे॑ति रुत्वविकल्पं मत्वाह -अरुणत् अरुण इति । रुन्ध्यात् । रुन्धीत । रुत्सीष्ट । इरित्त्वादङ्विकल्पं मत्वाह — अरुधत् अरौत्सीदिति । अङभावे सिचि हलन्तलक्षणा वृद्धिः । लुङस्तह्राह - अरुद्धेति ।जलो झली॑ति सिज्लोपः । भिनत्तीति । भिन्त्तः भिन्दन्ति । भिनत्सि भिन्त्त्थः भिन्त्थ । भिनद्मि भिन्द्वः भिन्द्मः । भिन्त्ते इति । भिन्दाते भिन्दते । भिन्त्से भिन्दाथे । भिन्द्ध्वे । भिन्दे भिन्द्वहे । बिभेद । बिभेदिथ । बिभिदिव । बिभिदे । बिभिदिषे । अभिनत् अभिन इति । 'दश्चे' ति रुर्वेति भावः । अभिन्त्तेति । लङि तङि रूपम् । लुङः परस्मैपदे आह - अभिदत् अभैत्सीदिति । इरित्त्वादङ्वेति भावः । लुङि तङ्याह अभित्तेति । 'झलो झली' ति सिज्लोपः । अभित्सातामित्यादि । उच्छृदिरिति । उकार इत् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थः । ञि इन्धी दीप्तौ । ईदित्त्वं 'श्वीदितः' इत्येतदर्थम् । श्नमि कृते इन न् ध् ते इति स्थिते -", "31079": "<<तनादिकृञ्भ्य उः>> - तनादिकृञ्भ्यः उः । शपोऽपवाद इति । अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् ।सार्वधातुके य॑गित्यतः सारवधातुकग्रहणस्यकर्तरि श॑बित्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः । तेनेति । गणकार्यस्याऽनित्यतया 'आसे' दित्यत्र अदादिगणकार्यं शपो लुङ्न भवतीत्यर्थः । वस्तुतस्तु कृञ्ग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वादुक्तज्ञापनाऽभावाद्विआसेदित्यसंबद्धमेवेत्याहुः ।विआस्त॑मित्यत्र तुआगमशास्त्रस्याऽनित्यत्वान्नेडित्याहुः । विदांकरोत्विति । अत्र विदेर्लोटि आमि लोटोलुकिआमन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः ।तत्र लोटस्तिपि 'एरु' रित्युत्वे शपं बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः । तातङि तु ऋकारस्य गुणे रपरे तातङो ङित्त्वादुकारस्य गुणाऽभावे विदाङ्करुतादिति स्थिते —", "31080": "<<धिन्विकृण्व्योर च>> - धिन्विकृण्व्योः । 'अ' इति लुप्तप्रथमाकम् । धिविकृव्योः कृतनुमोर्धिन्विकृण्वीत निर्देशः । 'तनादिकृञ्भ्यः उः' इत्यत उरिति चकारादनुकृष्यते ।कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति च । तदाह — अनयोरित्यादिना । वकारस्याऽकारः । दिन् अ उ तीति स्थितम् । अतो लोप इति । युगपत्संनियोगशिष्टतया उप्रत्ययाऽकारयोर्विधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या आर्धधातुकोपदेशेकाले 'धिन' इत्यस्याऽदन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनेत्यत आह — तस्येति । वकारस्य लोपाविधौ तु अजादेशत्वाऽभावात्स्थानिकवत्त्वं न स्यादिति भावः । तथा च धिनु तीति स्थिते आह — उप्रत्ययस्येति । धिनुत इति । धिविधातोरनुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपः । तसो ङित्त्वादुकारस्य न गुणः । धिन्वन्तीति । धिन्व् इत्यस्माज्झिः । झोऽन्तः । उप्रत्ययः । वकारस्य अकारः । अतो लोपः । उकारस्य यणिति भावः । अत् वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदं 'भोभगो' इति सूत्रभाष्ये स्पष्टम् । धिनोषि धिनुथः धिनुथ । धिनोमि ।", "31081": "<<क्र्यादिभ्यः श्ना>> - क्र्यादिभ्यः श्ना.कत्र्रर्थे सार्वधातुके परे क्र्यादिभ्यः श्नाप्रत्ययः स्यात्स्वार्थे इत्यर्थः । शपोऽपवादः । क्रीणातीति । श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन ङित्त्वादीकारस्य न गुण इति भावः । ई हल्यघोरिति । हलादौ क्ङिति सार्वधातुके ईत्त्वमिति भावः । क्री णा झीति स्थितेई हल्यघो॑रिति ईत्वमाशङ्क्य आह — ईत्वात्पूर्वमिति । नित्यत्वादिति । अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भावः । एवं झस्येति । क्री णा झ इति स्थिते 'आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्त्वात्पूर्वमित्यर्थः । तत इति । अन्तादेशाददादेशाच्च पश्चादित्यर्थः । अजादौ क्ङिति सार्वधातुके श्नाप्रत्ययस्य आल्लोपः । भारद्वाजनियमात्थलि वेडिति मत्वाऽऽह — चिक्रयिथ चिक्रेथेति । चिक्रियिवेति । क्रादिनियमादिडिति भावः । क्रीणातु । क्रीणीहि । अक्रीणात् । अक्रीणीत । क्रीणीयात् । क्रीणीत ।", "31082": "<<स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च>> - सौत्रा इति । नोपधा इत्यपि ज्ञेयम् । नलोप इति ।अनिदिता॑मित्यनेनेति भावः । विष्टभ्नोतीति ।स्तन्भे॑रिति षत्वम् । अवष्टभ्नोतीति ।अवच्चालम्बनाविर्दूययो॑रिति षत्वम् । अवतष्टम्भेति ।स्थादिषवभ्यासेने॑ति षत्वम् । व्यष्टभदिति ।प्राक्सितादिति षत्वम् ।", "31083": "<<हलः श्नः शानज्झौ>> - स्तभानेति श्नाप्रत्ययस्य शानजादेसे कृते 'अतो हे' रिति लुक् ।", "31084": "", "31085": "", "31086": "", "31087": "<<कर्मवत् कर्मणा तुल्यक्रियः>> - कर्मवत्कर्मणा ।कर्तरि श॑बित्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते ।तुल्या क्रिया यस्य स तुल्यक्रियः कर्ता ।कर्मणे॑त्यनेन कर्मकारकस्था क्रिया विवक्षिता, क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात् । तदाह — कर्मस्थयेत्यादिना । कर्मणः कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत् । वत्करणाऽभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात् ।तथा सति सकर्मकत्वात्पच्यते ओदनेन भिद्यते काष्ठेनेति भावे लो न स्यात् । कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः, तथापि शास्त्रातिदेशस्यापि कार्यातिदेशार्थत्वातन्मुख्यत्वात्कार्यातिदेश एवाश्रयणीय इत्यर्थः । तेनेति ।स्यु॑रित्यत्रान्वेति । कर्मवत्त्ववचनेन कर्मकार्याणिसार्वधातुके य॑गिति यक्,भावकर्मणो॑रित्यात्मनेपदम्,चिण् भावकर्मणो॑रिति चिण्,स्यसिच्सीयुट्तासिषु॑ इति चिण्वत्त्वं, तत्संनियोगाशिष्ट इट् च स्युरित्यर्थः । कर्मणः कर्त्तृत्वविवक्षायां कर्तरि विहितानि शास्त्राण्येव न स्युरिति भावः । कर्तुरिति । कर्मणः कर्तृत्विविक्षायां कर्तरि लकारे सति तदादेशतिङा कर्तुरभिहितत्वादित्यर्थः । पच्यते ओदन इति । फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्लित्त्याश्रयो भवतीत्यर्थः । भिद्यते काष्ठमिति । कुठारादिदृढाघातं पुरुषश्रमं विना द्विधा भवतीत्यर्थः । अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वाऽतिदेशाद्यक् । अपाचि अभेदीति । अत्र कर्मवत्त्वाच्चिण् । ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन , भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिङाऽनभिहितत्वाद्द्वितीया स्यात्, कर्मवत्त्वातदेशादित्याशङ्कते — नन्विति । परिहरति — नेति । नायमाक्षेप उन्मिषतीत्यर्थः । कुत इत्यत आह — लकार वाच्य एवेति । तच्च कुत इत्यत आह — लिङ्याशिषीति ।व्यत्ययो बहुलँल्लिडआशिष्य॑ङ्ङिति संहितया पाठे लकारात् पूर्वं लकारान्तरंहलो यमा॑मिति लुप्तं प्रश्लिष्यते । ततस्च ल् ल् इति द्विलकारात्सूत्रात् ल् इति षष्ठन्तं 'कर्मवत्कर्मणा' इत्यत्रानुवर्तते । तथाच लः कर्ता कर्मवदिति लभ्यते । वाच्यत्वं षष्ठर्थः । तथा च लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः । अस्त्वेवं, प्रकृते किमायातमित्यत आह — भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति । तत्र भावस्यैव तद्वाच्यत्वादिति भावः । अत एवेति । लकारवाच्यस्यैव कर्मकर्तुः कर्मवत्त्वविधानादेव कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति, तस्य लकारवाच्यत्वऽबावेन कर्मवत्त्वस्य तत्राऽप्रवृत्त्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । ननुसिनोतेग्र्रासकर्मकर्तृकस्ये॑ति निष्ठानत्ववार्तिकेसिनो ग्रासः स्वयमेवे॑ति भाष्येकथमुदाहृतं, क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेदुच्यते - अत एव भाष्यात्निष्ठे॑ति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते ।सिनो ग्रासः स्वयमेवे॑त्यत्र तुगत्यर्थाऽकर्मके॑त्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः । भेत्तव्यं कुसूलेनेति । पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः । शङ्कते — नन्विति । इदानीमिति । कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः । नतु तत्तुल्येति । तुल्यत्वस्य भेदघटित्त्वादिति भावः । अद्र्धाङ्गोकारेण परिहरति — सत्यमिति । विक्लित्तिर्द्विधाभवनं च कर्मस्थमेव संप्रति कर्तृस्थमिति युक्तं तथापि तयोस्तुल्यत्वाऽभावस्तु नेत्यर्थः । कर्मत्वेपि । कर्मत्वकर्तृत्वे अवस्थे = धर्मविशेषौ तयोर्भेदः स एव उपाधिः = निमित्तं यस्य तताविधं कर्मत्वकर्तृत्वसमानाधिकरणक्रियाभेदमाश्रित्य तुल्यत्वव्यवहार इत्यर्थः । वास्तवभेद#आऽभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्मकर्तृरिति भावः । करणाधिकरणाभ्यामिति । 'असिना छिनत्ति' स्थाल्यां पचती॑त्यत्र करणाऽधिकरणयोर्यो व्यापारः स एव 'असिश्छिनत्ति' स्थाली पचती॑ त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्त्वं स्यात्, तन्निवृत्त्यर्थं कर्मणेति पदमित्यर्थः । ननुकर्मवत्कर्मणे॑त्यत्र 'धातोरेकाच' इत्यतो धातोरित्यनुवर्तते । धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः । करणत्वाद्यवस्थायां वस्तुतः सन्नपि असिस्थाल्योव्र्यापारो न धातूपात्त इति नोक्तदोष इत्यस्वरसादाह — किंचेति । गच्छति ग्राम इति । मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः । आरोहति हस्तीति । अङ्कुशाऽऽघातादिहस्तिपकव्यापारं विना स्वयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः । अधिगच्छतीति । पूर्वाद्र्धमिदम् ।यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा॑ इत्युत्तराद्र्धम् । गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थोऽधिगच्छति = निश्चयविषयो भवति, स्मृतिविषयो भवति, श्रद्धाविषयो भवतीत्यर्थः । अत्र कर्मकर्तुग्र्रामादेः कर्तृस्थक्रियावत्त्वेन कर्मस्थक्रियावत्त्वाऽभावान्न कर्मवत्त्वम् । अतो न कर्मकार्यम् यगादि.किंतु कर्तृकार्यं शबाद्येवेति भावः । ननु कर्मकर्तुग्र्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह — यत्रेति । यत्रक्रियाकृतो विशेषो = वैलक्षण्यं दृश्यते = प्रत्यक्षमुपलभ्यते, तत्र कर्मणि विद्यमाना क्रिया कर्मस्थक्रियेत्युच्यते इत्यन्वयः । तदुदाहृत्य दर्शयति - यथा पक्वेषु तण्डुलेष्विति ।तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषो दृश्यते॑ इति शेषः । अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाहृत्य दर्शयति — यथा वा छिन्नेषु काष्ठेष्विति ।अच्छिन्नापेक्षया वैलक्षण्यं दृश्यते॑ इति शेषः । 'गच्छति ग्राम' इत्यादौ तु नैवमित्याह — न हीति । ग्रामेष्विति । उपलक्षणमिदम् । पक्वाऽपक्वतण्डुलेषु यथा क्रियाकृतं वैलक्षण्यमुपलभ्यते तथा गताऽगतग्रामे आरूढाऽनारूढहस्तिनि अधिगताऽधिगते स्मृताऽस्मृते श्रद्धिताऽश्रद्धिते च शास्त्रार्थे क्रियाकृतवैलक्षण्यं न दृश्यते इत्यर्थः । ग्राममनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः । ननु ज्ञानेच्छयोरिव यत्नस्याऽपि कर्तृस्थत्वात्तद्वाचिनः कृञोऽपि कर्ता न कर्मवत्स्यात् । ततश्चक्रियते घटः स्वयमेवे॑ति यगादिर्न सिद्ध्येदित्याशङ्क्य कृञो न यत्नार्थत्वमित्याह — करोतिरुत्पादनार्थ इति । उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः । एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् । करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वं तत्कर्तुरुपपादयति — उत्पत्तिश्च कर्मस्थेति । उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्ष्टवादिति भावः । तेनेति । कृञः कर्तुः कर्मस्थक्रियत्वेनैत्यर्थः । तथा चक्रियते घटः स्वयमेवे॑त्यत्र यक् । तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्तेति सिद्धवत्कृत्याह — करिष्यते घट इत्यादीति । चिण्वदिट्पक्षे 'कारिष्यते' इति रूपं, तदभावपक्षे तु 'ऋद्धनोः स्ये' इतीट् — करिष्यते । सीयुटश्चिण्वदिटि — कारिषीष्ट । तदभावे तु — कृषीष्ट । लुङि — अकारि अकृत । नैतदिति । कर्मवत्वं न सिद्ध्येदित्यर्थः ।यततेट इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोध्यम् । एतेनेति । ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः । अनुव्यवस्यमानेऽर्थे इति । अर्ते स्वयमेव निश्चयविषयतां संपद्यमाने इत्यर्थः । व्याख्यातमिति । समर्थितमित्यर्थः । कथं समर्थितमित्यत आह — कर्तृस्थत्वेन यगभावादिति । अनुव्यवसायः = निश्चयः, तत्र कर्मकर्ता अर्थः, स न कर्मस्थक्रियः, अर्थे अनुव्यवसायकृतवैलक्षण्याऽभावात्, किंतु कर्तृस्थक्रिय एव, अनुव्यसायकर्तरि देवदत्ते हर्षादिदर्शनात् । ततश्चकर्मवत्त्वाऽभावान्न यक् ।यकि तु कित्त्वात्घुमास्थागापाजहातिसा॑मिति ईत्वे 'अनुव्यवसीयमान' इति स्यादित्यर्थः । ननु यगभावे कथं यकारश्रवणमित्यत आह — श्यनीति । 'षो अन्तकर्मणि' इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तेराने कृते श्यनि 'ओतः श्यनी' त्योकारलोपे 'अनुव्यवस्यमान' इति रूपसिद्धेरित्यर्थः । ननु कर्मवत्त्वाऽभावे 'भावकर्मणो' रित्यात्मनेपदाऽभावात्कथमिह लटः शानच्, तस्यात्मनेपदत्वादित्यत आह — ताच्छील्यादाविति ।ताच्छील्यवयोवचनशक्तिषु चान॑शित्यनेन चानशित्यर्थः । तस्य च लादेशत्वाऽभावेन आत्मनेपदत्वाऽभावात् करमवत्त्वाऽभावेऽपि कर्मकर्तरि प्रवृत्तिर्निर्बाधा । तदाह — न त्वात्मनेपदमिति । ननुअन्योन्यं स्पृशतः स्वयमेव यज्ञदत्त देवदत्ता॑वित्यत्रापि कर्मत्वाद्यगादि स्यात् । तत्र हि स्पृशिः संयोगानुकूलव्यापारार्थकः । उभावपि कर्तारौ, कर्मभूतौ च । स्पर्शनक्रियाया एकत्वेऽपि आश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्य कर्मत्वम् । एवं देवदत्तनिष्ठां स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम् ।एवं कर्तृत्वप्युभयोज्र्ञेयम् । एवंच उभयोः कर्तृत्वकर्मत्वसत्त्वादेकस्मिन् कर्तरि कर्मणि वा स्पृशिक्रिया सैवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात्, आश्रयनिबन्धनं भेदमाश्रित्य तुल्यक्रियत्वोपपत्तेः । स्पृष्टाऽस्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावर्सनाचच्चेत्यत आह — सकर्मकाणां प्रतिषेध इति । एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवक्षया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम् । ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवस्तेषां धातूनां कर्मकर्तुः कर्मवत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । अन्योन्यं स्पृशत इति । कर्मवत्त्वे तु यकि तङि च 'स्पृश्येते' इति स्यादिति भावः ।सकर्मकाणां प्रतिषेधः इत्यस्योदाहरणान्तरमाह — अजा ग्रामं नयतीति । अजा ग्रामं स्वयमेव प्राप्नोतीत्यर्थः । अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविववक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भाव- । वस्तुतस्तु गते अगते चग्रामे वैलक्षण्याऽभावादेवाऽत्र क्मवत्त्वस्याऽप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम् । अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्यं स्पृशतः, अन्योन्यं सङ्गृहीत इत्येवोदाहृतमिति शब्देन्दुशेखरे स्पष्टम् । दुहिपच्योरिति ।कर्मवत्त्व॑मिति शेषः । अनयोर्द्विकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रवसोऽयम् ।", "31088": "<<तपस्तपःकर्मकस्यैव>> - तपस्तपः कर्मकस्यैव । आद्यं तप इति षष्ठन्तम् । तपः कर्मकस्यैव तपधतोरिति लभ्यते ।कर्तरिश॑बित्यतःकर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते ।कर्मवत्कर्मणे॑त्यतः कर्मवदित्यनुवर्तते इति मत्वा सूत्रशेषं पूरयति — कर्ताकर्मवदिति । विध्यर्थमिदमिति । एतच्चानुपदमेव उदाहरणव्याख्यावसरे स्पष्टीभविष्यति । ननु विद्यर्थत्वे एवकारो व्यर्थ इत्यत आह — एवकारस्त्विति । तप्यते तपस्तापस इति । अत्र तपिरर्जनार्थक इत्याह — अर्जयतीत्यर्थ इति । प्राजापत्यचान्द्रायणादिकृच्छ्राद्यात्मकं तपः संपादयतीत्यर्थः । मुख्यकर्तरि लः । मुख्यकर्तरि लः । संपादनस्य तापसात्मककर्तृस्थत्वात्तपोरूपकर्मस्थत्वाऽभावात्कर्मवत्कर्मणे॑त्यप्राप्तं कर्मवत्त्वमनेन सूत्रेण विधीयते । तेन यगात्मनेपदादि । यदा तु तदपि दुःखजननात्मके संतापे वर्तते तदातापसं तपस्तपती॑त्येव भवति । दुःखयतीत्यर्थः । अत्र मुख्यकर्तृ तपः । तापसस्तु कर्म । अत्रापि दुःखजननव्यापारस्य तपोरूपकर्तृस्थतया तापसरूपकर्मस्थत्वाऽभावात्कर्मवत्कर्मणे॑त्यनेन कर्मवत्त्वं न भवति । तपः कर्मकत्वाऽभावादनेनापि न कर्मवत्त्वम् । अतो यगादि कर्मकार्यम् । अथ लुङि अतप्तेत्यत्र कर्मवत्त्वाच्चिणमाशङ्क्य आह — तोपऽनुतापे चेति चिण्निषेधात्सिजिति । तस्यझलो झली॑ति लोपे परिनिष्ठितमाह — अतप्तेति । उत्तपति सुवर्णं सुवर्णकार इति । अत्र तपः कर्मकत्वाऽभावान्न कर्मवत्त्वमपि भावः । भाष्ये तु एवकारादिदं सूत्रं नियमार्थमित्युक्तमिति शब्देन्दुशेखरे प्रपञ्चितमेतत् । वृत्त्यनुसारिण इत्यनेन भाष्यविरोधः सूचित इत्यलम् ।दुहिपच्योर्बहुल॑मिति कर्मवत्त्वविधिस्थदुहिप्रसङ्गात्न दुहस्नुनमामिति सूत्रमुपन्स्तं प्राक् । इदानां सिंहावलोकनन्यायेन स्नु धातुः क्षीरप्ररुआवणसूत्रमुपन्यस्यति- न दुहस्नुनमां यक्चिणाविति । तत्र स्नुधातोरुदाहरति — प्रस्नुते इति । स्नुधातुः क्षीरप्ररुआवणविषये उत्कण्ठीकरणे वर्तते । वत्सो गां प्रस्नौतीति मुख्यकर्तरि लकारे वत्सो गां क्षीरप्ररुआवणविषये उत्कष्ठयतीत्यर्थः । अन्तर्भावितण्यर्थोऽत्र स्नुधातुः । अत्र गौः कर्म । उत्कण्ठव्यापारस्तु कर्तृभूतवत्सनिष्ठः । उत्कण्ठा तु गोरूपकर्मनिष्ठा । गोः कर्मणः कर्तृत्वविवक्षायां तु — प्रकृते गौः । स्वयमेव क्षीरप्ररुआवणविषये उत्कण्ठावतीत्यर्थः । तत्र उत्कण्ठा पूर्वं कर्मप्राप्तेऽनेन निषेधः । प्रास्नाविष्टेति । अत्र कर्मवत्त्वात्प्राप्तश्चिण् न । किंतु चिण्वदिटौ पक्षे स्तः । चिण्वदिडभावे तु 'स्नुक्रमो' रिति निमाद्वलादिलक्षण इण्न । तदाह — प्रास्नोष्टेति । णम उदाहरति — नमते दण्ड इति । नमति दण्डं कश्चित् । नमयतीत्यर्थः । कर्मणः कर्तृत्वविक्षायां तुनमते दण्डः॑ । अत्र कर्मवत्त्वेऽपि न यक् । अनंस्तेति । अत्र कर्मवत्त्वेऽपि न चिण् । ननु णमधातोः प्रह्वीभावार्थकस्याऽकर्मकत्वात्कर्यवत्त्वाऽप्रसक्तेर्यक्चिणोर्न प्रसक्तिरित्यत आह — अन्तर्भावितण्यर्थोऽत्र नमिरिति । धातूनामनेकार्थकत्वादिति भावः । यक्चिणोरिति ।न दुहस्नुनमा॑मिति यक्चिणोः प्रतिषेधसूत्रे दुहस्नुनमां, हेतुमण्णिश्रिब्राऊञामिति च वाच्यमित्यर्थः । कारयते इति । 'स्वयं देवदत्त' इति शेषः । करोति देवदत्तः, तं प्रेरयति यज्ञदत्त इति ण्यन्तान्मुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदत्तस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वेऽपि तङेव, न यगिति भावः । अचीकरतेति । अत्र कर्मवत्त्वेऽपि न चिण्,णिश्रीति चङेव । उच्छ्रयते दण्ड इति ।स्वयमेवे॑ति शेषः ।दण्डमुच्छ्यति कश्चि॑दिति मुख्यकर्तरि लकारः । तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वेऽपि न यक्, तङेव । उदशिश्रियतेति । कर्मवत्त्वेऽपि चिणभावात्णिश्री॑ति चङ् । ननु 'कारिष्यते' इत्यत्र कथं चिण्वदिटौ, ण्यन्तस्याऽजन्तस्य उपदेशाऽभावादित्यत आह — चिण्वदिट् तु स्यादेवेति ।स्यसिच्सीयुट्तासिषुट इत्यत्र हि उपदेशे अजन्तस्येति नाऽर्थः, किंतु उपदेशे योऽच् तदन्तस्येत्यर्थः । तथा च णिजन्तस्योपदेशाऽभावेऽपि णेरुपदेशसत्त्वान्न दोष इति भावः । उच्छ्रायिष्यते इति । श्रिञ उपदेशे योऽच् तदन्तत्वाच्चिण्वदिटौ । ब्रूते कथेति ।स्वयमेवे॑ति शेषः । कथां ब्रावीति कश्चिदित मुख्यकर्तृलकारे कथा कर्म, तस्य पुरुषप्रयत्नाऽविवक्षायां क्मकर्तरि लकारः । कर्मवत्त्वात्तङ् । न कथां ब्रावीति कश्चिदिति मुख्यकर्तृलकारे कथा कर्म, तस्य पुरुषप्रयत्नाऽविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वात्तङ् । न यक् । अवोचतेति । कर्मवत्त्वेऽपि न चिण् किंतु 'ब्राऊवो वचिः'अस्यतिवक्तिख्यातिभ्योऽङ्ट 'वच उ' मिति भावः । उच्चारणएन शब्देषु प्राकटरूपविशेषदर्शनात् कर्मस्थक्रियत्वं बोध्यम् । णिश्रन्थीति । ण्यन्तस्ये श्रन्थेः ग्रन्थेः ब्राऊञ आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधो भारद्वाजीयाऽभिमत इत्यर्थः । अत्र णीति सामान्यस्य ग्रहणं न तु हेतुमण्णिच एव । ततश्च णिङन्तस्यापि न यक्चिणाविति मत्वाऽऽह — पुच्छमुदस्यति उत्पुच्छयते गौरिति ।पुच्छादुदसने इति णिङ् । नन्वत्र उदसने पुच्छं कर्म, गौर्मुख्यकत्र्री, नतु कर्मकत्र्री ।ततश्च नाऽत्र यक्चिणोः प्रसक्तिरित्यत आह — अन्तर्भावितण्यर्थतायामिति ।उदस्यती॑त्यस्य उदासयतीत्यन्तर्भावितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्त इत्यत्र गौः कर्म, तस्यगोरूपकर्मणः प्रेयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायां कर्मकर्तरि लकारे उत्पुच्छयते गौरिति भवतीत्यर्थः । स्वयमेव पुच्छमुदस्यतिगौरिति बोधः ।उदपुपुच्छतेति । अत्र न चिण् । श्पचङाविति ।उत्पुच्छयते गौ॑रित्यत्र यकः प्रतिषेधाच्छप् । उदपुपुच्छतेत्यत्र चिणः प्रतिषेधाच्चङित्यर्थः । ननुश्रन्थ मोक्षणे, ग्र्नथ ग्रथने॑ इति श्रन्थिग्रन्थ्योश्चौरादिकतया । णिग्रहणेनैव सिद्धेः पुनग्र्रहणं वयर्थमित्यत आह — श्रन्थिग्रन्थ्योरिति । ग्रन्थति ग्रन्थमिति । रचयतीत्यर्थः । श्रन्थति मेखलां देवदत्त इति । विरुआंसयतीत्यर्थः । 'देवदत्त' इत्युभयत्रान्वेति । अत्र कर्मणो ग्रन्थस्य, मेखलायाश्च कर्तृत्वविवक्षायं ग्रन्थते ग्रन्थः, श्रन्थते मेखलेति च भवति । स्वयमेव ग्रन्थरचनाश्रयः, रुआंसनाश्रयश्चेत्यर्थः । तत्र कर्मवत्त्वेऽपि न यगिति भावः । अग्रन्थिष्ट, अश्रन्थिष्टेत्यत्र च न चिण् । क्रैयादिकयोस्त्विति । कर्मवत्त्वेऽपि तयोर्यकि निषिद्धे श्नाविकरण इति भावः । आत्मनेपदविधावकर्मको यस्तमुदाहरति — विकुर्वते सैन्धवा इति । सैन्धवाः = अआआः । अत्र विपूर्वः कृञ् वल्गने वर्तते, उपसर्गवशात् । तदाह — वल्गन्तीति । शब्दं कुर्वन्तीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकोऽयम् ।मुख्यकर्तरि लकारः । वेरिति । 'वेः शब्दकर्मणः' इत्यन्तरं पठितेनअकर्मकाच्चे॑ति सूत्रेण परगामिन्यपि फेल तङित्यर्थः । नन्वस्याऽकर्मकतया अआआनां कर्मकर्तृत्वाऽभावान्न यकः प्रसक्तिरित्यत आह — अन्र्तभावितेति.विपूर्वकः कृञ् शब्दं कुर्वाणस्य प्रेरणे यदा वर्तते तदा विकुर्वते सैन्धवानिति भवति । अआआन् शब्दायतीत्यर्थः । तत्र सैन्धवानां कर्मणां पुरुषप्रेरणाऽविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवा इति भवति । वल्गन्तीत्यर्थः । अत्र सैन्धवानां कर्मकर्तृणां कर्मवत्त्वेऽपि न यगित्यर्थः । व्यकारिष्टति । चिणि निषिद्धे ण्यन्तत्वाऽभावाच्चङभावे सिचश्चिण्वदिटि वृद्दिरिति भावः । चिण्वदिडभावपक्षे आह — व्यकृतेति ।ह्रस्वादङ्गा॑दिति सिचो लोपः ।", "31089": "<<न दुहस्नुनमां यक्चिणौ>> - न दुह । दुह स्नु नम् एषां द्वन्द्वः । कर्मकर्तरीति । एतत्तु नाऽनुवृत्तिलभ्यं, पूर्वत्रानुपलम्भात् । किंतुकर्मवत्कर्मणा तुल्यक्रियः॑ इति समभिव्याहारलभ्यमेव ।अचः कर्मकर्तरी॑त्यतो मण्डूकप्लुत्या तदनुवृत्तिर्वा । दुहेरनेनेति ।न दुहस्नुनमा॑मित्यनेन दुहेः कर्मकर्तरि यक एव निषेधः । चिण्तुदुहश्चे॑ति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थः ।चिण्तु विकल्पेनेष्यते॑ इति क्वचित्पाठः । दुग्धे इत्यत्र प्रक्रियां दर्शयति — शप् लुगिति । दुहेः कर्मकर्तरि यकि निषिद्धे शप्प्रवर्तते, तस्य 'अदिप्रभतिभ्यः' इति लुगित्यर्थः ।गौः पयो दुग्धे इति । गौः स्वयमेव पय उत्सृजतीत्यर्थः । कर्मकर्तृभूतायां गवि लट् । स्वरितेत्त्वेऽपिभावकर्मणो॑रित्यात्मनेदमेव ।न दुहेति न यक् । गांपयो दुग्धे इति तु नोदाहृतम्,गौणे कर्मणि दुह्रादेर्लादयो मताः॑इत्युक्तेः । अचः कर्मकर्तरि ।च्लेः सि॑जित्यतश्च्लेरिति,चिण् ते पदः॑इत्यतश्चिण्ते इति,दीपजने॑त्यतोऽन्यतरस्यामिति चानुवर्तते । 'धातोरेकाचः' इत्यतोऽनुवृत्तस्य धातुग्रहणस्य अचा विशेषतत्वात्तदन्तविधिः । तदाह — अजन्तादित्यादिना । अकारीति ।कटः स्वयमेवे॑ति शेषः । कर्मकर्तरि लुङ् । च्लेश्चिण् । वृद्धिः । रपरत्वम् ।चिणो लु॑गिति तशब्दस्य लुक् । अकृतेति । चिणभावपक्षेह्रस्वादङ्गा॑दिति सिचो लोपः ।", "31090": "<<कुषिरजोः प्राचां श्यन् परस्मैपदं च>> - कुषिरञ्जोः । अनयोरिति । 'कुष निष्कर्षे'रञ्ज रागे॑इत्यनयोरित्यर्थः । कर्मकर्तरीति । 'अचः कर्मकर्तरी' त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः ।न दुहस्नुनमा॑मित्यतो नेति, यगिति चानुवर्तते । तदाह — न यगिति । किंतु श्यन्निति । यग्विषये इत्यर्थः । एवं च यग्विषयादन्यत्र न श्यः प्रवृत्तिः ।न य॑गित्यनुक्ताव श्यनो विधाने तु यग्विषयादन्यत्रार्धधातुकेऽपि श्यन् स्यादिति भावः ।प्राचां॑ग्रहणाद्विकल्पः । तदाह — कुष्यति कुष्यते वा पाद इति ।स्वयमेवे॑ति शेषः । कुष्णाति पादं देवदत्त इति मुख्यकर्तृलकारे पादः कर्म । तस्य पुरुषप्रयत्नमनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम् । तदुभयाऽभावे यकि आत्मनेपदे च कुष्यते इति रूपमिति भावः । यक्श्यनोः स्वरे विशेषः । श्यनिकुष्यन्ती वधू॑रित्यत्रशप्श्यनोर्नित्य॑मिति नित्यं नुम् । यकि तुआच्छीनद्यो॑रिति विकल्पः स्यात् । रज्यति रज्यते वा वरुआमिति । अन्तर्भावितण्यर्थतायां दैवादिकत्वाच्छ्यनिरज्यति वरुआ॑मित्यत्र रञ्जयतीत्यर्थः । मुख्ये कर्तरि लः । कर्मणः कर्तृत्वविवक्षायां तु रज्यति रज्यते वा वरुआमिति भवतीत्यर्थः । यगवि,ये तु नास्त्येवेति ।श्य॑निति शेषः । यक#ं प्रतिषिध्य तत्स्थाने श्यनो विधिसामर्थ्यादित्यर्थः । कोषिषीष्टेति । आर्धधातुकत्वेन यगविषयत्वान्न श्यन् । तत्संनियोगशिष्टत्वात् परस्मैपदं च श्यनभावे सति न भवतीति भावः । रङ्क्षीष्टेति । रञ्जेः सीयुटि जस्य कुत्वेन गः । तस्य चर्त्वेन कः । अनुस्वारपरसवर्णौ । अत्र कर्मकर्तृप्रकरणे सर्वत्र पच्यते ओदनः स्वयमेवेति, भिद्यते काष्ठं स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः, न त्वात्मना कत्र्रेति, तथा सति कर्मण्येव लः स्यादिति 'णेरणौ' इति सूत्रे कैयटे स्पष्टम् । इति कर्मकर्तृप्रक्रिया । अथ पूर्वकृदन्ते कृत्यप्रकरणम् ।अथ कृदन्तप्रक्रिया निरूप्यन्ते । तदेवंप्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः॑इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययेषु प्रथमपादेप्रत्ययः॑,परश्चे॑त्यारभ्यकुषिरञ्जोः प्राचां श्य॑न्नित्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः । अथतदुत्तरसूत्रविहितान्निरूपयितुमुपक्रमते —", "31091": "<<धातोः>> - धातोः । आ तृतीयेति । आतृतीयाध्यायपरिसमाप्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्रोपपदं कृदतिङिति । व्याख्यातं प्राक् ।", "31092": "<<तत्रोपपदं सप्तमीस्थम्>> - अथोपपदसमासं वक्ष्यन्नुपपदसंज्ञामाह — तत्रोपपदं सप्तमीस्थम् । अधिकाऽयम् ।सप्तमी॑ति तदन्तग्रहणम् । सप्तम्यन्ते पदे वाच्यवाचकभावसंबन्धेन तिष्ठतीति सप्तमीस्थम् । सप्तम्यन्तवाच्यमिति यावत् । धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम् । ततश्च तदधिकारान्तर्गतेषुकर्मण्य॑णित्यादिसूत्रेषु यत्सप्तम्यन्तमुच्चारितं तदेव इह विवक्षितम् । एवंच तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भादीति पर्यवसन्नम् । कुम्भादेश्च उपपदसंज्ञायां प्रयोजनाऽभावात्तद्वाचकपदेषु विश्राम्यति । तथाच धातोरित्यधिकारान्तर्गते कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तंकर्मणी॑त्यादि, तद्वाच्यं यत्कुम्भादि, तद्वाचकं पदमुपपदसंज्ञं स्यादित्यधिकृत वेदितव्यमित्यर्थः फलितः । तदाह — सप्तम्यन्ते पद इत्यादिना । तत्रधातोः कर्मणः समानकर्तृकात् इति, 'धातोरेकाचो हलादेः' इति,धातो॑रिति च क्रमेण त्रयो धात्वधिकाराः । तत्र प्रत्यासत्त्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणात् 'धातोरेकाचः' इत्याधिकारेच्लि लुङी॑त्यत्र सप्तम्यन्तं न गृह्रते । अन्यथा कर्मणीत्यादाविव लुङन्ते अभूदित्यादावुपपदो धातोः च्लिरित्यर्थः स्यात् । ननु तत्रेति व्यर्थं, तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसंभवादित्याशङ्क्या — तस्मश्च सत्येवेति । अयमाशयः — तत्रेति भिन्नं वाक्यं क्रमव्यत्यासेन योज्यम् । सप्तमीस्थमुपपदसंज्ञं स्यात्,तत्र॑=तस्मिन्सतीति चाधिकृतं वेदितव्यमिति । तथाचोपपदे सति वक्ष्यमाणः प्रत्ययः स्यादितितत्रे॑त्यस्यार्थः फलति । तथाचकर्मण्य णित्यत्र इदं सूत्रमुपस्थितम् । कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते । सप्तमीनिर्देशस्तु उपपदसंज्ञाप्रवृत्त्यर्थः ।धातोरण्स्यात्कर्तर्यर्थे, कर्मवाचकं तु कुम्भादिपदमुपपदसंज्ञं प्रत्येतव्यम्, तस्मिन्नपपदे सत्यव अण्स्या॑दिति फलति ।तस्मिन्सत्येवाऽण्स्या॑दित्यभावे तु कारेत्येवं केवलादपि धातोः कर्तर्यर्थे अण्प्रत्ययः स्यात् । कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसंज्ञां प्रापय्य॒उपपदमति॑ङिति नित्यसमाससंपादनेन कुम्बे त्यस्य कारेत्यस्य च साधुत्वप्रापणार्थतया चरितार्थः ।तस्मिन्नुपपदे सत्येवाण्स्या॑दित्युक्ते तु कुम्भाद्युपपदस्य अम्प्रत्ययोत्पत्तौ निमित्तत्वावगमान्न केवलादण्प्रत्ययः, उपपदसंज्ञायाः प्रत्ययविधिसंनियोगशिष्टत्वलाभात् । 'धः कर्मणि ष्ट्रन्' 'भुवो भावे' इत्यादौ सप्तम्यन्तमर्थनिर्देशपरमेव, व्याख्यानादिति भाष्यकैयटादिषु स्पष्टम् ।", "31093": "<<कृदतिङ्>> - अथ क्विन्नन्तस्यकृत्तद्धिते॑ति प्रातिपदिकत्वं वक्तुं क्विनः कृत्संज्ञां दर्शयति — कदतिङ् ।धातो॑रित्यधिकृतं, 'प्रत्यय' इति च ।धातो॑रिति च विहितविशेषणम् । तेन धातोर्विहितः प्रत्यय इत्यर्थो लभ्यते ।धातो॑रित्यधिकृत्य विहित इति यावत् । तदाह — संनिहिते इति । तेन णिजादिनिरासः । युज् व् इति स्थिते ।", "31094": "<<वाऽसरूपोऽस्त्रियाम्>> - वाऽसरूपोऽरिउआयाम् ।असरूप॑इति छेदः । परिभाषेयमिति । अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः । असरूप इति लिङ्गनिर्देशः । यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते ।वे॑त्यतः प्राक् 'बाधक' इति शेषः । असरूपो वा बाधको भवतीति यावत् । कस्य बाधको वेतयाकाङ्क्षायामुत्सर्गस्येत्यर्थाल्लभ्यते । फलितमाह — अस्मिन् धात्वधिकारे इत्यादिना । स्त्रीशब्दः स्वर्यते । तदाह — स्त्र्यधिकारोक्तं विनेति ।स्त्रियां क्तिन् इति वक्ष्यमाणस्त्र्यधिकारस्थमपवादं विनेत्यर्थः । स्त्र्यधिकारस्थस्तु असरूपः प्रत्यय उत्सर्गस्य नित्यमेव बाधक इतिभावः । 'ण्वुल्तृचौ' इत्युपसर्गः ।इगुपधज्ञाप्रीकिरः कः॑ इत्यपवादः । तद्विषये ण्वुल्तृचवावपि भवतः । विक्षिपः । विक्षेपकः । विक्षेप्ता । असरूप इति किम् । 'कर्मण्यण्' इत्युत्सर्गः । 'आतोऽनुपसर्गे कः' इत्यपवादः । स तु सरूपत्वान्नित्यं बाधक एव । गोदः । कम्बलदः ।नानुबन्धकृतमसारूप्य॑मिति वचनादनुबन्धो न सारूप्यप्रतिबन्धकः । अस्त्रियां किम् । 'स्त्रियां क्तिन्' इत्युत्सर्गः ।अ प्रत्यया॑दिति प्रत्ययान्तद्विहितोऽकारप्रत्ययः, तस्याऽपवादो बाधक एव भवति । चिकीर्षा । व्यावक्रोशी व्याक्रुष्टिरित्यत्र तुकर्म व्यतिहारे णच् स्त्रिया॑मिति णच् क्तिनो बाधको वा भवत्येव ।अस्त्रिया॑मिति निषेधस्तु नास्ति,तस्यणचः स्त्रिया॑मित्यधिकारोक्तत्वाऽभावात् ।", "31095": "<<कृत्याः (प्राङ् ण्वुलः)>> - कृत्याः । कृत्यसंज्ञका इत्यर्थः । ततश्चप्रैषातिसर्गप्राप्तकालेषु कृत्याश्च॑,॒अर्हे कृत्यतृचश्च॑,शकि लिङ् चे॑त्यादिषु प्रवर्तते । ण्वुलः प्रागिति । 'ण्वुल्तृचौ' इत्यतः प्रागित्यर्थः । एतच्च भाष्ये स्पष्टम् ।", "31096": "<<तव्यत्तव्यानीयरः>> - तव्यत्तव्यानीयरः । तव्यत् तव्य अनीयर् एषां द्वन्द्वः । प्रत्ययाः स्युरिति । ते कृत्संज्ञकाः, कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम् । स्वरार्थाविति ।तित्स्वरित॑मिति, 'उपोत्तमं रिति' इति च स्वरविशेषार्थावित्यर्थः । निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आद्युदात्तत्वमेवेति बोध्यम् । भावे उदाहरति — एधितव्यमिति । त्वत्कर्तृका एधनक्रियेत्यर्थः । ननुलः कर्मणि चे॑त्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम्, तिङ्वाच्यभावनाया असत्त्वरूपताया उक्तत्वात् । ततश्च तस्य भावस्य असत्त्वरूपस्याऽत्रतयोरेव कृत्ये॑ति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसङ्ख्यान्वयोऽनुपपन्न इत्यत आह — भावे औत्सर्गिकमेकवचनमिति ।एकवचनम्,द्विबहुषु द्विबहुवचने॑ इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाऽभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः । क्लीबत्वं चेति ।एकश्रुतिः स्वरसर्वनाम, लिङ्गसर्वनाम नपुंसक॑मिति 'दाण्डिनायने' ति सूत्रस्थभाष्यादिति भावः । कर्मण्युदाहरति — चेतव्य इति ।वसेस्तव्यत्कर्तरि णिच्चेति वार्तिकम् । वास्तव्य इति । वस्तेत्यर्थः । णित्त्वादुपधावृद्धिः । केलिमर इति । धातोरित्येव । भावकर्णोरेवेदम् । केलिमरि ककाररेफावितौ । भिदेलिमा इति । कित्त्वान्नोपधागुणः । सरलाः = वृक्षविशेषाः । तद्भाष्येति । भाष्ये भिदेलिमा इत्युदाहृत्य 'भेत्तव्या' इत्येव विवरणादिति भावः ।", "31097": "<<अचो यत्>> - अचो यत् । शक्यमकर्तुमिति ।ऋहलोण्र्य॑दिति ऋहलन्ताद्विशिष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्ययस्याऽप्रवृत्तिरित्यर्थः । वासरूपविधिस्तु सरूपत्वान्न भवति । योगविभागोऽप्येवमिति । कर्तुमशक्य इत्यर्थः । कुत इत्यत आह — तव्यदादिष्वेवेति ।तव्यत्तव्यानीयर्यतः इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः ।", "31098": "<<पोरदुपधात्>> - पोरदुपधात् । ननु शप्यं लभ्यमित्यत्रऋहलोण्र्य॑दिति कदाचिण्ण्यदपि स्यात्, यण्ण्यतोरसारूप्येण वाऽसरूप इत्यस्य प्रवृत्तेरित्यत आह — - नानुबन्धकृतमसारूप्यमिति । वाऽसरूपसूत्रे भाष्ये स्थिमिदम् । अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विविक्षितमित्यर्थः । प्रकृते च यण्ण्यतोरनुबन्दरहितयोः सारूप्याद्वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ ण्यदपवादो यदेवेति भावः ।", "31099": "<<शकिसहोश्च>> - शकिसहोश्च । पञ्चम्यर्थे षष्ठी । आभ्यां यदित्यर्थः । ण्यतोऽपवादः ।", "31100": "<<गदमदचरयमश्चानुपसर्गे>> - गदमद । गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्योऽनुपसर्गेभ्यो यदित्यर्थः । ण्यतोऽपवादः । उपसर्गाण्ण्यदेव । प्रगाद्यमित्यादि । चरेराङिचाऽगुराविति । वार्तिकमिदम् । आङि उपसर्गे सत्यपिचरेर्यत्स्यादगुरौ इत्यर्थः । आचार्यो गुरुरिति । शुश्रूषणीय इत्यर्थः । ननु 'पोरदुपधा' दित्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह — यमेर्नियमार्थमिति । अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यत्यर्थः । तत्फलमाह — सोपसर्गान्मा भूदिति । ननुअनियम्यस्य नाऽयुक्तिः॑ इत्यत्र,त्वया नियम्या ननु दिव्यचक्षा॑ इत्यादौ च निपूर्वनाद्यमेः कथं यत्, अनुपसर्गादिति निषेधादित्यत आह — निपूर्वात्स्यादेवेति । 'य' दिति शेषः । कुत इत्यत आह — तेन न तत्रेति । प्रकारान्तरेण समाधत्ते — नियमे साधुरिति वेति ।यमः समुपनिविषु चे॑ति निपूर्वाद्यमेर्भावे अप्प्रत्यये नियमशब्दः । नियमे साधुरित्यर्थः 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः ।", "31101": "<<अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु>> - अवद्यपण्य । अवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम् । गह्र्र, पणितव्य,अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयरुआयः क्रमाद्गह्र्रादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु 'वदः सुपि' इत्येव सिद्धे अवद्यग्रहणं व्यर्थमित्यत आह — नञ्युपपदे इति । यत्क्यपोः स्वरे विशेषः,संप्रसारणतदभावौ चेति भावः । अवद्यं पापामिति.गर्हितत्वादवाच्यमित्यर्थः । अनुद्यं गुरुनामेतव । अत्र नञि उपपदेवदः सुपीटति क्यपिवचिस्वपियजादीनां किती॑ति संप्रसारणे रूपम् । वचनाऽनर्हमित्यर्थः । अत्र गर्हाया अप्रतीतेर्यदेवेदित न नियम इति भावः । ननु गुरुनाम्नोऽगह्र्रत्वातकथं वचनानर्हत्वमित्यत आह — तद्धि न गर्ह्रं वचनानर्हं चेति.कुत इत्यत आह — आत्मनामेति । पण्या गौरिति । पणधातोव्र्यवहारार्थकाद्यन्निपात्यते इति भावः । यद्यपिपण व्यवहारे स्तुतौ च॑ इति धातोर्र्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्रते । तदाह — व्यवहर्तव्येति । क्रेतव्येत्यर्थः । पाण्यमन्यदिति । ण्यति उपधावृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः । तदाह — स्तुत्यर्हमिति । प्रतिबन्ध इति । अनियम इत्यर्थः । वृङो यदिति । 'वृङ् संभक्तौ' इति क्रैयादिकस्यैवाऽत्र ग्रहणं, नतु 'वृञ् वरणे' इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः । शतेन वर्याकन्येति । पुरुषशतेन परिग्रहीतुमर्हा । अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थः ।एतिस्तुशास्वृदृजुषः क्य॑बिति तुक् । अत्र अनियमस्य अप्रतीतेर्न यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि 'वार्या ऋत्विज' इति वृत्तिः ।", "31102": "<<वह्यं करणम्>> - वह्रं करणम् । वहेः करणे यन्निपात्यते । ण्यतोऽपवादः ।", "31103": "<<अर्यः स्वामिवैश्ययोः>> - अर्यस्वामिवैश्ययोः । अस्माद्यदिति । निपात्यत इति शेषः । ण्यतोऽपवाद इति ।ऋहलो॑रिति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम् । तदाह — अर्यः स्वामीति । आर्यो ब्राआहृण इति । ण्यति वृद्धौ रपरत्वमिति भावः ।", "31104": "<<उपसर्या काल्या प्रजने>> - उपसर्या । प्रजननं प्रजनः = गर्भग्रहणम् । भावे घञ् ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या ।तदस्य प्राप्त॑मित्यनुवर्तमानेकालाद्य॑दिति यत् । चेदित्यध्याहार्यम् । तदाह — गर्भग्रहणे प्राप्तकाला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिर्विवक्षिता चेदुपसर्या इति निपात्यते इत्यर्थः । उपपूर्वात् सृधातोर्यदिति फलितम् । ण्यतोऽपवादः ।", "31105": "<<अजर्यं संगतम्>> - अजर्यम् । कर्तरि यदिति ।कर्तरीति वक्तव्य॑मिति वार्तिकम् । निपातनात्कर्तरीति लभ्यत इति तदाशयः । सङ्गतमिति । सङ्गतं = सङ्गमः । न जीर्यतीत्यजर्यमिति ।मित्रत्व॑मिति शेषः । जरितृ न भवतीत्यर्थः । अत्र भट्टिप्रयोगमाह — तेनेति । हे राम ! तेन आर्येण अजर्यम् = अनआरं, सङ्गतं- सङ्गमं द्रुतं कुरु इत्यन्वयः । ननु 'मृगौरजर्यं जरसा' इत्यत्र सङ्गतशब्दाऽभावात्कथं यदित्यत आह — मृगैरित्यादि । कालिदासकाव्यमिदम् । अजरितेति । तृजऽभावान्न यदित्यर्थः ।", "31106": "<<वदः सुपि क्यप् च>> - वदः सुपि । उत्तरेति । 'भुवो भावे' इत्यत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः । भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयथ्र्यादिति भावः । अनुपसर्गे इति ।वृः सुप्यनुसर्गग्रहण॑मिति भाष्यादिति भावः । ब्राहृओद्यमिति । वदेः क्यपि\tवचिस्वपी॑पि संप्रसारणम् ।वस्तुतस्तु नेह भावग्रहणमपकृष्यते, तत्र भावग्रहणमुत्तरार्थमिति भाष्या॑दिति मतमनुसृत्य आह — कर्मणि प्रत्ययावित्येके इति । क्यब्यतावित्यर्थः ।", "31107": "<<भुवो भावे>> - भुवो भावे । ब्राहृभूयमिति । कित्त्वान्न गुणः । क्लीबत्वं लोकात् । भव्यमिति । भाव इत्यर्थः । अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः,वान्तो यी॑त्यवादेशः । प्रभव्यमिति । प्रभाव इत्यर्थः ।", "31108": "<<हनस्त च>> - हनस्त । अन्तादेश इति ।प्रकृते॑रिति शेषः । भावे किम् । घात्यो वृषलः । अनुपसर्गे किम् । प्रघातः । निरुपपदं हत्येति त्वसाध्वेव ।", "31109": "<<एतिस्तुशस्वृदृजुषः क्यप्>> - एतिस्तु । एति, स्तु, शास्, वृ , दृ, जुष् एषां षण्णां समाहारद्वन्द्वात्प्रञ्चमी । सुप्यनुपसर्गे भाव इति निवृत्त्म् । तदाह — एभ्यः क्यप्स्यादिति ।", "31110": "<<ऋदुपधाच्चाकॢपिचृतेः>> - ऋदुपधाच्चा । कॢप्चृती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः । ननु तपरकरममिह व्यर्थमित्यत आह — अनित्यण्यन्ता इति । णिजन्तात्तु यदेवेति ।अचो य॑दित्यनेनेति भावः ।", "31111": "<<ई च खनः>> - ई च खनः । चात्क्यविति । खनेः क्यप् स्यात्प्रकृतेरीकारोऽन्तादेशश्चेत्यर्थः । ह्रस्व सुपठ इति । ह्रस्वस्य इकारस्य आद्गुणेनखेय॑मिति सिद्धेरिति भावः ।", "31112": "<<भृञोऽसंज्ञायाम्>> - भृञोऽसंज्ञायाम् ।क्य॑बिति शेषः । भृत्याः कर्मकुर्वाणा इत्यर्थः । 'कर्मणि भृतौ' इति कृञष्टः । भर्तव्या इति । वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः । ननु भृत्यशब्दस्य कर्मकरेषु रूञत्वात्संज्ञाशब्दत्वमेवेत्यत आह — क्रियाशब्दिति । भार्या नाम क्षत्रिया इति । क्षत्रियविशेषेषु रूढः संज्ञाशब्दोऽयमिति भावः । अथ कथं भार्येति । क्यपा भवितव्यमित्याक्षेपः । ननु बध्वां भार्याशब्दस्य संज्ञाशब्दत्वात्भृञोऽसंज्ञाया॑मित्यत्र असंज्ञायामिति व्यर्थमित्यत आह — संज्ञापर्यादुसत्विति । समाधत्ते — सत्यमिति ।डु भृञ् धारणपोषणयोः॑ इति जुहोत्यादौ ह्रस्वान्तो ड्वित्, ञिच्च ।भृ भत्र्सने, भरणेऽपी॑ति क्र्यादौ दीर्घान्तः । आभ्यामृहलोण्र्यदिति ण्यदेवेत्यर्थः । क्यप्तु भरतेरेवेति । 'भृञ् भरणे' इति भ्वादौ ह्रस्वान्तो ञित् । अस्यैवसंज्ञायां समजनिषदे॑त्त्र,भृञोऽसंज्ञाया॑मित्यत्र च भृञ्ग्रहणेन ग्रहणम्, नतु डुभृञौ जौहोत्यादिकस्य । न च क्रैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भावः । कुत इत्यत आह — तदनुबन्धकेति ।तदनुबन्धकग्रहणे नातदनुबन्धकस्ये॑ति परिभाषयेत्यर्थः । बिभर्तेः क्यबभावे बीजमिदम् । क्रैयादिकस्य दीर्घान्तत्वान्न क्यबिति बोध्यम् ।", "31113": "<<मृजेर्विभाषा>> - मृजेर्विभाषा । क्यप्पक्षे उदाहरति — मृज्य इति । कित्त्वान्न गुणः ।", "31114": "<<राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः>> - राजसूय । राज्ञेति । क्षत्रियेणेत्यर्थः । अभिषवेति । ग्रावभी रसनिष्पत्त्यर्थं सोमलातानां कुट्टनमभिषवः, तत्प्रणाडिकया निष्पादयितव्यो यज्ञविशेषो राजसूय इत्यन्वयः । यद्वेति । लताविशेषात्मकः सोमो राजशब्देन विवक्षितः,राजानं क्रीणाती॑त्यादौ तथा प्रसिद्धेः । स राजा सूयते = अभिषूयते अत्र यज्ञविशेषे इति व्युत्पत्या राजसूय इत्यन्वयः ।कर्तरि कृ॑दित्यधिकारात्कथमधिकरणव्युत्पत्तिरित्यत आह — अधिकरणे क्यबिति । कुत इत्यत आह — निपातनादिति । ननु षुञ्धातोः क्यपि कथं दीर्घः,अकृत्सार्वधातुकयो॑रित्यतस्य कृत्यप्रवृत्तेरित्यत आह — निपातनाद्दीर्घ इति । निपातनादित्युभयत्रान्वेति । उत्वमिति । तस्य रपरत्वेहलि चे॑ति दीर्घ इत्यपि बोध्यम् । मृषोद्यमिति । क्यपिवचिस्वपी॑ति संप्रसारणम् । रोचतेरिति । रुचदातोः क्यपि 'रुच्य' इति रूपमित्यर्थः । गुपेरिति । गुब्धातोः क्यप्, प्रकृतेरादिवर्णस्य ककारश्च संज्ञायां निपात्यते इत्यर्थः । सुवर्णरजतभिन्नं धनं कुप्यमिति ज्ञेयम् । तथा च 'हेमरूपे कृताऽकृते' इत्युक्त्वा अमर आह — ताभ्यां तदन्यत्तत्कुप्यमिति । कृष्ट इति । कृष्टप्रदेशे ये स्वयं पच्यन्ते = फलन्ति ते कृष्टपच्या इत्यर्थः । कर्मकर्तरीति । अत्र कर्मकर्तरि क्यबित्यर्थः । निपातनादिति भावः । शुद्धे त्विति । मुक्यकर्मणि तुण्यति उपधावृद्धौचजो॑रिति कुत्वे 'कृष्टपाक्य' इति रूपमित्यर्थः । अव्यथ्य इति । अत्र निपातनात्कर्तरि क्यबिति भावः ।", "31115": "<<भिद्योद्ध्यौ नदे>> - भिद्योध्यौ नदे । क्यबिति ।नद विशेषे कर्तरि निपात्यते॑ इति शेषः ।", "31116": "<<पुष्यसिद्ध्यौ नक्षत्रे>> - पुष्यसिध्यौ । 'निपात्येते' इति शएषः । नक्षत्रविशेषे गम्ये इत्यर्थः ।", "31117": "<<विपूयविनीयजित्या मुञ्जकल्कहलिषु>> - विपूय । विपूय, विनीय, जित्य - एते यथाक्रमं मुञ्जुकल्कहलिषु क्यबन्ता निपात्यन्ते । तदाह — पूङित्यादिना । न्यादिसाहचर्याद्भौवादिकस्यैव पूधातोग्र्रहणमिति भावः । हलिशब्दस्य विवरणं - कृष्टेति ।", "31118": "<<प्रत्यपिभ्यां ग्रहेश्छन्दसि>> - प्रत्यपिभ्यां ग्रहे । छन्दसीति । वार्तिकमिदम् । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह — लोके त्विति ।", "31119": "<<पदास्वैरिबाह्यापक्ष्येषु च>> - पदाऽस्वैरि.पद, अस्वैरि, बाह्रा, पक्ष्य एष्वर्थेषु ग्रहेः क्यबित्यर्थः । अवगृह्रं प्रगृह्रं वा पदमिति । समस्तपदस्य अवान्तरपदविच्छेदोऽवग्रहः ।अप्रावेत्यादिपदमितिशिरस्कं प्रग्रहः॑ इति प्रातिशाख्ये प्रसिद्धम् ।ईदूदेद्द्विवचनं प्रगृह्र॑मिति सूत्रोदाहरणं च प्रगृह्रम् ।", "31120": "<<विभाषा कृवृषोः>> - विभाषा कृवृषोः । पञ्चम्यर्थे षष्ठी । कृञ ऋदन्तत्वान्नित्यं ण्यति प्राप्ते, वृषेरृदुपधत्वान्नित्यं क्यपि प्राप्ते च क्यब्विकल्पोऽयम् । पक्षे इति । क्यबभावपक्षे विशेषो वक्ष्यते इत्यर्थः ।", "31121": "<<युग्यं च पत्त्रे>> - युग्यं च पत्रे । क्यबन्तं निपात्यते । ण्यतोऽपवादः । युग्यो गौरिति । शकटादिना योक्तव्य इत्यर्थः । क्यपि कुत्वं निपातनात् । पत्रं वाहनमिति । पतन्ति गच्छन्त्यनेनेत्यर्थे 'दाम्नीशसे' त्यादिना करणे ष्ट्रन् । ण्यति तु योग्यमिति स्यात् ।", "31122": "<<अमावस्यदन्यतरस्याम्>> - अमावस्यद । अधिकरणे इति । निपातनलभ्यमिदम् ।अमे॑त्यस्य विवरणम् — सहेति ।ऋहलोण्य॑दित्यनुपदमेव प्राक् प्रसङ्गाद्व्याख्यातमपि सूत्रक्रमात्पुनरुपात्तम् । कुत्वमिति । पचेण्र्यतिचजो॑रिति कुत्वमिति भावः । ननुपाणौ सृजेण्र्य॑दिति व्यर्थम्,ऋहलो॑रित्येव सिद्धेरित्यत आह — ऋदुपधलक्षणस्येति ।ऋदुपदाच्चाऽकॢपिचृतेः॑ इति ण्यदपवादस्य क्यपो बाधनाथमतित्यर्थः । पाणिसग्र्या रज्जुरिति । ण्यतिचजो॑रिति कुत्त्वम् । समवपूर्वाच्चेति । वार्तिकमिदम् ।सृजेण्र्य॑दिति शेषः ।", "31123": "", "31124": "<<ऋहलोर्ण्यत्>> - ऋहलोण्र्यत् । पञ्चम्यर्थे षष्ठी । तदाह — ऋवर्णान्तादिति ।", "31125": "", "31126": "", "31127": "<<आनाय्योऽनित्ये>> - अनाय्योऽनित्ये । 'अनित्ये' इति च्छेदः । दक्षिणाग्निविशेषएवेति । वार्तिकमिदम् । स हीति । दक्षिणाग्निर्ह अग्निहोत्रार्थमहरर्गार्हपत्यादेः प्रणीयत इत्यर्थः । एतेन आङ्पूर्वकस्य नयतेरर्थ उक्तः । अनित्यश्चेति । गार्हपत्यवन्नित्यधारणाऽभावादिति भावः । तदाह — सततमिति । सततं धारणाऽभावादित्यर्थः । प्रमैइतस्य दक्षिणाऽग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्पसूत्रेषु — अप्रवृत्ते कर्मणि लौकिकं संपद्यतेट इति । ततश्चपुनःपुनः प्रणयनादनित्यत्वं दक्षिणाग्नेरिति बोध्यम् । यद्यप्याहवनीयस्यापि पुनःपुनः प्रणयनमस्ति, तथापिदक्षिणाऽग्निविशेष एवे॑ति वार्तिकान्नाहवनीयस्य ग्रहणमित्यर्थः । विशेषग्रहणान्नित्यधारणपक्षे दक्षिणाग्निरिह न गृह्रते इति सूचितम्, गतश्रियां दक्षिणाग्नेरपि नित्यधार्यत्वात्,गतश्रियो नित्यधार्या अग्नयः॑इति वचनादित्यलं पल्लवितेन । वैश्यकुलादानीत इति । दक्षिणाग्न प्रकृत्यहि श्रूयते — अहरहरेवैनं वैश्यकुलादाहरन्इति । तथाविधदक्षिणाग्नौ वाच्ये आनेयशब्द एवेति भावः ।", "31128": "<<प्रणाय्योऽसंमतौ>> - प्रणाय्योऽसमंतौ । असंमतौ गम्यायां 'प्रणाय्य' इति निपात्यते । तत्र असंमतिशब्दैकदेशं समंतिशब्दं विवृणोति — प्रीतिविषयीभवनमिति । तच्च कर्मनिष्ठमित्याह — कर्मव्यापार इति.तथेति । भोगेषु = सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः । एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम् । प्रणाय्यश्चोर इति । ण्यति वृद्धौ आयादेशः ।", "31129": "<<पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु>> - पाय्यसांनाय्य । पाय्य, सांनाय्य, निकाय्य, धाय्य — एषां द्वन्द्वात्प्रथमाबहुवचनम् । मान,हविः, निवास, सामिधेनी - एषां द्वन्द्वात्सप्तमी । मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते । मीयते अनेनेति । माधातोः करणे ण्यत्,धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः । आत इति.ण्यतिमीनातीत्यात्त्वे कृते आतो युगिति भावः । ण्यदिति । संपूर्वान्नीदातोः कर्मणि निपात्यत इत्यर्थः । आयादेशिति । सननीय इतिस्थिते आयादेशो निपात्यते इत्यन्वयः । निवास इति । कुसलादिरित्यर्थः । अधिकरणे इति । चिञ्धातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः । आयिति । अच्परकत्वाऽभावादायादेशोऽप्राप्तो निपात्यते इत्यन्वयः । धाय्या ऋगिति । धाधातोः करणे ण्यति आयादेशो निपात्यते इति भावः । सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः । तत्र 'समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्यापृथुपाजा अमत्र्यः इत्याद्या ऋक्प्रसिद्धा ।", "31130": "<<क्रतौ कुण्डपाय्यसंचाय्यौ>> - क्रतौ कुण्डपाय्य । ऋतुविशेषे गम्ये एतौ निपात्येते । कुण्डेनेति । अत्सरुकैश्चमसैरित्यर्थः । सामान्येनैकवचनम् ।यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्ड॑मिति श्रुतिः । कुण्डपाय्य इति । सत्रविशेषात्मकः ऋतुः । कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत् । आतो युक् । संचाय्य इति । संपूर्वाच्चिञः कर्मणि ण्यत्, आयादेशश्च निपात्यते इति भावः । संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः ।", "31131": "<<अग्नौ परिचाय्योपचाय्यसमूह्याः>> - अग्नौपरिचाय्य । अग्नौ गम्ये — परिचाय्य, उपचाय्य, समूह्र एते निपात्यन्ते । अग्निशब्द इष्टकारचित्तस्थण्डिलविशेषे वर्तते, यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यग्नयो वै छन्दांसी तस्मादग्निरुच्यतेऽथो इयं वा अगनिर्वैआआनरो यन्मृदा चिनोति तस्मादग्निरुच्यते॑ इति वाक्यशेषाच्च । तदाह — अग्निधारणेति । तत्र परिपूर्वादुपपूर्वाच्च चिञः कर्णि ण्यत्, आयादेशश्च निपात्यते । संपूर्वस्य वहेस्तु कर्मणि ण्यति संप्रसारणं, दीर्घश्च निपात्यते ।समूह्रं चिन्वीत पशुकामः, परिचाय्यंचिन्वीत ग्रामकामः॑इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्रौप्रसिद्धौ । उपचाय्यस्त्वग्निःक्वचिच्छाखायामन्वेषणीयः ।", "31132": "<<चित्याग्निचित्ये च>> - चित्याग्निचित्ये च । चित्यश्च अग्निचित्या चेति द्वन्द्वः । अग्नौ निपात्येते । चित्योऽग्निरिति । कर्मणि ण्यत्,तुकच निपात्यते । अग्नेश्चयमिति । अग्निशब्दे षष्ठन्ते उपपदे चिणो ण्यत्,तुक् च । स्त्रीत्वं लोकात् ।प्रैषातिसर्गे॑ति व्याख्यातमपि स्मार्यते । गम्यमिति ।पोरदुपधा॑दिति ण्यदपवादः क्यप् । ननु सामान्येन बावकर्मणोर्विहितानां कृत्यानां प्रैषादिषु तदभावे च सिद्धेः प्रैषादिषु कृत्यविधिव्र्यर्थ इत्यत कृत्यानां प्रेषाद्यभावे भावकर्मणोश्चरितार्थत्वात् । अतः प्रैषादिषु कृत्यानां लोटा कृत्यानां बाधनिवृत्त्ये पुनः कृत्यविधिरित्यर्थः । ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह — स्त्र्यधिकारादूध्र्वमिति ।स्त्रियां क्ति॑न्नित्यत ऊध्र्वमित्यर्थः ।प्राक् स्त्रिया वासरूपविधिः॑ इति भाष्यम् । ननु स्त्र्यधिकारादूध्र्वं वाऽसरूपवदेरप्रवृत्तौस्त्रियां क्ति॑न्निति सामान्यविहितस्य कित्नः 'षिद्भिदादिभ्योऽभि' ति विशेषविहितेन नित्यबाधः स्यात्, ततः — क्षमा क्षान्ति, भिदा भित्तिरित्यादि न स्यादित्यत आह — क्वचिन्नेति ।क्वचि॑दित्यस्याऽनिर्धारणादाह — तेनेति । सिद्धमिति । एषु वासरूपविधित्यत्र सङ्कोचेति भावः । अत्र व्याख्यानमेव शरणम् । अर्हे कृत्यतृचश्चेति । प्राग्व्याख्यातं विशेषविवक्षया स्मार्यते ।लिङ्यदी॑त्यतो लिङनुकर्षार्थश्चकार इत्युक्तं प्राक् । ननु अर्हे अनर्हे च सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिव्र्यर्थ इत्यत आह — लिङा बाधेति ।अर्हे चे॑त्येतावत्येव उक्ते चकारानुकृष्टस्य लिङ एवार्हे विधिः स्यात्, तथा च अर्हे कृत्यतृचोर्विधिर्न स्यात्, अर्हे विशेषविहितेन लिङा बाधात्, अनर्हे कृत्यतृचोश्चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधिकारादूर्द्ध्वं न प्रवर्तते इत्युक्तमेव । अतो लिङा बाधा मा भूदिति कृत्यतृचोर्विधिरित्यर्थः ।", "31133": "<<ण्वुल्तृचौ>> - अथ कृदन्तप्रकरणं । ण्वुल्तृचौ । अनयोर्वर्तमानकालादन्यत्र न प्रयोग इति भाष्यम् । वोढुमर्ह इति ।अर्हे कृत्यतृचश्चे॑त्युक्तेरिति भावः । वोढेति । वहेस्तृच्यनुदात्तत्वादिडभावे ढत्वधत्वष्टुत्वढलोपेषुसहिवहो॑रित्योत्त्वम् । कुटितेत्यत्र लघूपधगुणमाशङ्क्याह — गाङिति । तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह — अञ्णिदित्युक्तेरिति । विजितेत्यत्र लघूपधगुणमाशङ्क्याह — विज इडिति ।इति ङित्त्व॑मिति शेषः । विजितेति । ङित्त्वान्न गुणः अनिट्स्त्विति । तस्यानुदात्तोपदेशत्वादिति भावः । 'जनक' इत्यत्रोपधावृद्धिमाशङ्क्य वृद्धिनिषेधं स्मारयत — जनिवध्योश्चेति । वध हिंसायामिति,- धात्वन्तरं भौवादिकं,भ्वादेराकृतिगणत्वात् । नत्वयं हन्तेर्वधादेशः । तथा सतिजनिवध्योश्चे॑ति वृद्धिनिषेधसूत्रे वधिग्रहणवैयथ्र्यात्, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव वृद्ध्यभावसिद्धेः । वधक इति ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । रन्धकः जम्भक इत्यत्र इदित्त्वाऽभावादप्राप्ते नुमि तद्विधिं स्मारयति — रधिजभोरचीति । रधितेत्यत्ररधिजभो॑रिति नुममाशङ्क्याह — नेटलिटीति । रधिता रद्धेति ।रधादिभ्यश्चे॑ति वेट् । मस्ज् तृ इति स्थिते आह — मस्जिनशोरिति । नुम्विधिरयम् । मङ्क्तेति । मस्ज् तृ इति स्थितेमस्जेरन्त्यात् पूर्वो नुम् वाच्यः॑ इतिसकारादुपरि जकारात् प्राङ्नुम् । मस्न्ज् तृ इति स्थितेस्को॑रिति सलोपः, जस्य कुत्वेन गः, तस्य चर्त्वेन कः, अनुस्वारः, परसवर्णेन ङ इति भावः । नंष्टा नशितेति । रधादित्वाद्वेट् । इडभावपक्षेमस्जिनशो॑रिति नुमि, नन्श् तृ इति स्थितेव्रश्चे॑ति शस्य षः । नस्याऽनुस्वारः । ष्टुत्वम् । रमेरशब्लिटोरिति नुम्विधिरयम् । लब्धेति ।झषस्तथो॑रिति तस्य धः, जश्त्वेन भस्य बः । तीषसहेति । इड्विकल्पोऽयम् । सोढेति । ढत्वधत्वष्टुत्वढलोपाः ।सहिवहो॑रित्योत्त्वम् । दरिद्रातेरालोप इति ।दरिद्रातेरालोपो वक्तव्यः॑ इत्यनेनेति भावः । ण्वुलि नेति । दरिद्रातेर्ण्वुलि आलोपो नेत्यर्थः । 'न दरिद्रायके लोपः' इति वार्तिकादिति भावः । दरिद्रायक इति ।अतो यु॑गिति युगिति भावः । पादाभ्यां ह्यियते पादहारक इत्यत्र कर्मणि ण्वुलं साधयितुमाह — कृत्यल्युट इत्येवेति । 'कृत्यल्युटः' त्येतावतैव पुनर्वचबालद्येष्वर्थेषु ते कृत्यल्युटो विहितास्ततोऽन्यष्वप्यर्थेषु भवन्तीत्यर्थलाभाद्बहुलग्रहणं योगविभागार्थं — कृत्प्रत्यया येष्वर्थेषु विहितास्ततोऽन्यत्रापि क्वचिद्भवन्ती॑ति । एवं च कर्मण्यपि ण्वुल् सिध्यतीत्यर्थः ।कृतो बहुल॑मिति वार्तिकं तु एतद्योगविभागसिद्धकथनपरमिति भावः । क्रमेरिति । आत्मनेपदविषयात्क्रमेः परस्य कर्तरि कृतो नेडित्यर्थः ।स्नुक्रमो॑रिति सूत्रस्थमिदं वार्तिकम् । प्रक्रन्तेति ।प्रोपाभ्यां समर्थाभ्या॑मित्यात्मनेपदविषयोऽयम् । नन्वेवं सति क्रमितेत्यत्र कथमिडित्यत आह — अनन्यभावे विषयशब्द इति । 'वर्तते' इति शेषः । आत्मनेपदाऽविनाभाव इति यावत् ।क्रमेः कर्तर्यात्मनेपदिन॑ इत्येतावतैव सिद्धे विषयपदोपादानादयमर्थो लभ्यते इति भावः । तथा च नित्यमात्मनेपदिन इति फलितम् । तेनेति ।क्रमिते॑त्यत्र क्रमेः 'अनुपसर्गाद्वे' त्यात्मनेपदविकल्पविधानान्नित्यमात्मनेपदित्वाऽभावादिण्निषेधो नेत्यर्थः । मतान्तरमाह — तदर्हत्वमेवेति । आत्मनेपदार्हत्वमेवात्मनेपदविषयत्वम् । ततश्च आत्मनेपदपक्षे इण्निषेधे सति कर्न्तेति रूपम्, आत्मनेपदाऽभावपक्षे तु क्रमं इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थः । अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः । ननु संजिगमिषितेत्यत्र सनः कथमिट्, कगमेरनिट्सु पाठात्, सनः परस्मैपदपरत्वाऽभावेनगमेरिट् परस्मैपदेषु॑ इत्यस्याऽप्रवृत्तेरित्यत आह — गमेरिडित्यत्रेति । एवमिति ।न वृद्ध्यश्चतुभ्र्यः॑ इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तङानयोरभावं लक्षयतीत्यर्थः । विवृत्सितेति । वृतेः सनि रूपम् ।हलन्ताच्चे॑ति कित्त्वान्न गुणः । यङन्तादिति । पचिधातोर्यङन्तात् पापच्येत्यस्माण्ण्वुलित्यर्थः । तस्य अकादेशे 'यस्य हलः' इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्क्याह — स्थानिवत्त्वान्न वृद्धिरिति । यङ्लुगन्तात्त्विति । यङः सङ्घातस्य लुकोऽजादेशत्वाऽभावेन स्थानिवत्त्वाऽसंभवादुपधावृद्धिर्निर्बाधा । 'न धातुलोपे' इति निषेधस्तु न, यङ्लुकोऽनैमित्तिकत्वादुपधावृद्धेरिग्लक्षणत्वाऽभावाच्च ।", "31134": "<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> - नन्दिग्रहि । नन्दि,ग्रहि, पच एषां द्वन्द्वः । नन्दिग्रहिपचा आदिर्येषामिति विग्रहः । आदिशब्दस्य प्रत्येकमन्वयः फलति । ल्यु , ण्नि, अच् - एषां द्वन्द्वात्प्रथमा । यथासङ्ख्यमन्वयः । तदाह — न्द्यादेरित्यादि । नन्दीति ण्यन्तग्रहणम् । तदाह — नन्दयतीत्यादि । ल्योरनादेशः,णेरनिटी॑ति णिलोपः । मधुं सूदयतीति । मधुरसुरविशेषः, तं सूदयति = केचिदण्यन्ताः । सूत्रे 'ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देशः । सौत्रत्वात् 'ग्रहिज्ये' ति संप्रसारणं न । ग्राहीति । ग्रहधातोरदुपधाण्णिनिः । नकारादिकार उच्चारणार्थः । उपधावृद्धिः । विशयीति । विपूर्वात् 'शीङ् स्वप्ने' इति धातोर्णिनिः । गुणाऽयादेशौ ।अचोऽञ्णिती॑ति वृद्धिमाशङ्क्याऽऽह — वृद्ध्यभाव इति । विषयीति । 'षिञ् बन्धने' अस्मात्कृतषत्वाण्णिनिः । गुणाऽयादेशौ । नन्विह कतं न वृद्धिः, कथं च षत्वं, पदादित्वादित्यत आह — षत्वमपीति । निपातनाद्वृद्ध्यभावः षत्वं चेत्यर्थः । परिभावी परिभवीत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्क्य आह — पाक्षिक इति । ग्रह्रादयो वृत्तौ पठिताः । पचादिराकृतिगण इति । पच वप इत्यादिकतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः । गणपाठे आकृतिगणत्ववचनाऽभावेऽप्याह — शिवशमिति । सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृञोऽच्प्रत्ययान्तस्य, 'कर्मणि घट' इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः । अच्प्रत्यय इति । यङन्तादच्प्रत्यये परेयङोऽचि चे॑ति यहो लुग्विधीयते । नहि पचादिगणे यङन्तं पठितमस्ति । अतोऽपि पचादेराकृतिगणत्वं विज्ञायते इत्यर्थः । पचादेराकृतिगणत्वे नदट् चोरडित्यादीनं तत्र पाठो व्यर्थ इत्यत आह - केषांचिदिति । टकारानुन्धासञ्जानार्थ इत्यर्थः । नन्वेमपि वद चल इत्यादीनामनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह — केषांचित्प्रपञ्चार्थ इत । बाधकेति । 'जारभर'आपचे॑त्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थं भरपचादीनां पाठ इति भाष्यम् । देवः सेव इत्यादौइगुपधज्ञाप्रीकिरः कः॑ इति विशिष्य विहितस्य कस्य बाधनार्थं च । तदेतदुपपादयति — नदडित्यादि । ननु पचादिगणे आपचशब्दस्य बाधकबाधनार्थत्वे आपाक इति कथमित्यत आह — न्यङ्क्वादिषु पाठाच्छ्वपाकोऽपीति । कदाचिदण्प्रत्ययः,कुत्वं चेत्यर्थः । चेक्रियः, मरीमृज इत्यादौ प्रक्रियां दर्शयति — यङोऽचि चेति । क्रीञादिधातोरचि यङो लुगित्यर्थ- । द्वित्वादौ चेक्री अ इत्यादिस्थितौ आह — न धातुलोप इति । चेक्रिय इति । गुणाऽभावे संयोगपर्वत्वान्न यण् । नेन्य इति । 'एरनेकाचः' इति यण् । लोलुव इति । उवङ् । यण्तु न,ओः सुपी॑त्युवक्तेः । मरीमृज इति । अत्र 'न धातुलोपे' इति निषेधान्न मृजेर्वृद्धिः । चरिचलीति । एषामच्प्रत्यये परे द्वित्वम्, अभ्यासस्य आगागमश्चेत्यर्थः । ननु 'चराचर' इत्यत्राऽभ्यासे रेफादाकारस्य ह्रस्वः स्यात्, हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह — आगागमस्येति । ह्रस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम्, आगागमस्यैव विधातुं शक्यत्वात् । तथा हलादिशेषेण रेफस्य निवृत्तौ ह्रस्वत्वेऽपि सवर्णदीर्घेण 'चाचर' इति सिद्धेर्धीर्घोच्चारणं हलादिशेषाऽभावं गमयतीत्यर्थः । हन्तेरितति । वार्तिकमिदम् । हनधातोरचि घत्वं द्वित्वमापक् चेत्यर्थः । ननूत्तरखण्डेअभ्यासाच्चे॑ति कुत्वसिद्धिः किमर्थमिह घत्वविधानमित्यत आह — घत्वमभ्यासस्येति ।इह विधीयतेट इति शेषः । पाटेरिति । वार्तिकमिदम् । पाटेर्णौ पाटि इत्यस्मादचि णेर्लुक्, द्वित्वम्, अभ्यासस्य ऊगागमः । अभ्यासस्य आकारस्य ह्रस्वे तसय् दीर्घश्चेत्यर्थः । वृद्धिनिवृत्तये णेर्लुग्विधिः । आगमे दीर्घोच्चारणाद्धलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः ।", "31135": "<<इगुपधज्ञाप्रीकिरः कः>> - इगुपधज्ञा । 'कृ विक्षेपे' इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम् । इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी । कित्त्वं गुणनिषेधार्थम् । ज्ञ इति । आतो लोपः । प्रिय इति । प्रीञ् के इयङ् । किर इति । कृधातोः कप्रत्यये इत्त्वे रपरत्वम् ।", "31136": "<<आतश्चोपसर्गे>> - आतश्चोपसर्गे । कः स्यादिति । शेषपूरणम् । उपसर्गे उपपदे आदन्ताद्धातोः कः स्यादिति फलति । णस्यापवाद इति । तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वादिति भावः । सुग्ल इति । ग्लैधातोः 'आदेचः' इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः । प्रज्ञ इति । ज्ञाधातोरातो लोपः ।", "31137": "<<पाघ्राध्माधेट्दृशः शः>> - प्राघ्रा । अत्रलुग्विकरणाऽलुग्विकरणयोरलुगविकरणस्ये ग्रहण॑ मिति मत्वाऽऽह — पिबतीति पिब इति । पाधातोः शप्रत्यये तस्य शित्त्वेन सार्वदातुकत्वात्पाघ्राध्मे॑ति पिबादेशः । स चाऽदन्त इत्युक्तम् । शप् । पररूपम् । जिघ्र इति ।प्राघ्रे॑ति घ्राधातोर्जिघ्रादेशः । धम इति । ध्माधातोर्धमार्देशः । धय इति । धेटः शः, शप्, अयादेशः, पररूपमिति भावः । धया कन्येति । अत्र धेट्धातुष्टित् । स अदन्तो न भवति, यस्त्वदन्तो धयशब्दः, स न टित्, अतोऽत्रटिड्ढाण॑ञिति न ङीबिति भावः । धेटष्टित्त्वादित्यारभ्य हरदत्तमतम् । स्तनन्धयीतीति । स्तनशब्दे उपपदे धेट्धातोःनासिकास्तनयो॑रिति खशि कृतेखत्यनव्ययस्ये॑ति मुमि स्तनन्धयशब्दः । तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथाटिड्ढाम॑ञिति ङीप्, तथा धया कन्येत्यत्रापि ङीप् प्राप्तः, स ङीप् खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः । वस्तुतस्तुडिड्ढाण॑ञिति सूत्रे टिदाद्यवयवाऽकारस्यैव ग्रहणमिति भाष्यविरोधादिदं चिन्त्यम् । नच टित्त्वसामर्थ्यादेव स्तनन्धयीशब्दान्ङीबिति वाच्यं, धया कन्येत्यत्रापि ङीप्प्रसङ्गात्, खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाऽभावात् । त्समात्स्तनन्धयीत्यप्रामाणिकमेव । तस्य प्रामाणिकत्वे गौरादित्वं कल्प्यम्, ङीप्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाऽभावादिति शब्देन्दुशेखरे स्थितम् । दृश उदाहरति — पश्य इति ।पाघ्रे॑ति पश्यादेशः । घ्रः संज्ञायां नेति । घ्राधातोः संज्ञायां शो नेत्यर्थः । कुत इत्यत आह — व्याघ्रादिभिरिति । अन्यथाव्याजिघ्रादिभि॑रिति निर्दिशेदिति भावः ।", "31138": "<<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेति- सातिसाहिभ्यश्च>> - अनुपसर्गात् । शः स्यादिति । शेषपूरणम् । लिम्पः विन्द इति ।लिप उपदेहे 'विद्लृ लाभे' इति तुदादौ, ताभ्यां शः ।शे मुचादीना॑मिति नुम् । सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ, अतस्तौदादकयोरेव ग्रहणम् । धारय इति । 'धृञ् धारणे' 'धृङ् अवस्थाने' आभ्यां हेतुमण्ण्यन्ताभ्यां शः शप्, गुणाऽयादेशौ । पारय इति । पृधातोण्र्यन्ताच्छः, शप्, गुणाऽयादेशौ । विद वेदनाख्यादिषु, चुरादिण्यन्ताच्छः, शप् गुणाऽयादेशौ । उदेजय इति । उत्पूर्वादेजधातोण्र्यन्ताच्छः, शप् गुणाऽयादेशौ । चेतय इति । 'चिती संज्ञाने' ण्यन्ताच्छः, शप्,गुणाऽयादेशौ । एवं सातयः । सादिति रूपं साधयितुमाह — वासरूपनयायेन क्विबिति । सातयति सुखयतीत्यर्थे क्विप् । णिलोपः । यद्यपि क्विप् सामान्यविहितः सातेः शप्रत्ययस्तु तदपवादः, तथापि वासरूपविधिना क्विबपि भवतीत्यर्थः । सात्परमात्मेति ।एष ह्रेवानन्दयती॑ति श्रूतेः तस्यसुखयितृत्वावगमादिति भावः । सात्वन्त इति । सात् = परमात् मा भजनीय एषामित्यर्थे मतुप् । 'मादुपधायाः' इति मस्य वः । 'तसौ मत्वर्थे' इति बत्वात्पदत्वाऽभावान्न जश्त्वम् । साहय इति । साहेः शः । शप् । गुणाऽयादेशौ । प्रलिप इति । इगुपधलक्षणः कः । नौ लिम्पेरिति । वार्तिकमिदम् ।नी॑त्युपसर्गे उपपदे लिम्पेः शो वाच्य #इत्यर्थ- । 'अनुपसर्गा' दित्युक्तेः पूर्वेणाऽप्राप्तौ वचनम् । गवादिष्विति । वार्तिकमिदम् । गवादिषु उपपदेषु विन्देः शो वाच्य इत्यर्थः ।संज्ञायामेवे॑ति नियमार्थमिदम् । गोविन्द इति । गाः = उपनिषद्वाचः प्रमाणतया विन्दतीत्यर्थः । अरविन्दिमिति । चक्रे नाभिनेम्योरन्तरालप्रोतानि काष्ठानि अराणि, तत्सदृशानि दलानि विन्दतीत्यर्थः । कर्मण्यणोऽपवादः शः ।", "31139": "<<ददातिदधात्योर्विभाषा>> - ददातिदधात्योर्विभाषा । दाञ्, धाञ्, आभ्यां शो वा स्यात् । ददः दध इति । शः, शप्, श्लुः । 'श्लौ' इति द्वित्वम् । आतो लोपः । वक्ष्यमाण इति । 'स्याद्व्यदे' त्यनेनेति भावः । प्रदः प्रध इति । 'आतश्चोपसर्गे' इति कः ।", "31140": "<<ज्वलितिकसन्तेभ्यो णः>> - ज्वलिति । आद्यर्थ इति । तथा च ज्वल् इति = आदिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताःष तेभ्य इति विग्रहः । तदाह — ज्वलादिभ्य इति ।ज्वल दीप्तौ इत्यारभ्य 'कस गतौ' इत्येवमन्तेभ्य इत्यर्थः । वा णः स्यादिति.विभाषेत्यनुवर्तते इति भावः । पक्षेऽजिति । 'इगुपधेभ्यः कः' इत्यपि बोध्यम् । उपसङ्ख्यानमिति ।णस्ये॑ति शेषः । न संबध्यते इति । 'अवतानः' इत्येव भाष्ये उदाहरणादिति भावः ।", "31141": "<<श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह- श्लिषश्वसश्च>> - श्याद्व्यधारुआउ । श्या, आत् , व्यध, आरुआउ, संरुआउ, अतीण्, अवसा, अवह्म, लिह, श्लिष, स्वस् एषामेकादशाद्यां समाहारद्वन्द्वात्पञ्चमी । अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात् । एवं च तत्सम्बद्धं विभाषाग्रहणं च नानुवर्तते । तदाह — नित्यमिति । श्यैङ इति । श्यैङ्धातोरवपूर्वस्य षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः । तयोरादन्तत्वादेव सिद्धे पुनग्र्रहणम् 'आतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः । अवश्यायः प्रतिश्याय इति । श्यैङ आत्त्वे कृते णः । आतो युक् । आदिति । आदन्तस्योदाहरणसूचनम् । दायः धाय इति । णे आतो युक् । व्याध इति । अतिपूर्वादिण्धातोर्णे वृद्ध्यायादेशौ । अवसाय इति । अवपूर्वात् 'षोऽन्तकर्मणि' इत्यस्माण्णे आतो युक् । लेहः श्लेष इति । णे लघूपधगुणः । आआस इति । णे उपधावृद्धिः ।", "31142": "<<दुन्योरनुपसर्गे>> - दुन्योरनुपसर्गे । दुनोतेर्नयतेश्चेत्यर्थः ।दव॑शब्दं साधयितुमाह — नी साहचर्यादिति । नीञ्धातुः सानुबन्धकः, तत्साहचर्यात् 'टु दु उपतापे' इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । 'दु द्रु गतौ' इति भौवादिकान्निरनुबन्धकात्पचाद्यजित्यर्थः ।", "31143": "<<विभाषा ग्रहेः>> - विभाषा ग्रहः । व्यवस्थितविभाषेयमिति । इदंशाच्छो॑रिति सूत्रे भाष्ये स्पष्टम् । तेनेति । जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ 'ग्राह' इत्येव भवति, ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये 'ग्रह' इत्येव भवतीत्यर्थः । भवतेश्चेति ।णो वे॑ति शेषः । पक्षे अच् । काशिकेति । भाष्ये तु न दृस्यते इति बावः । इयमपि व्यवस्थिविभाषैव । तदाह — भवो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्र ण एवेति भावः । ननुभवतेश्चे॑ति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह — भाष्यमते त्विति । भावयति प्रापयति स्वस्वकार्यमित्यर्थे 'भृ प्राप्तौ' इतिचुरादिण्यन्ताद्भावीत्यस्मादच्प्रत्यये णिलोपे भावशब्द इत्यर्थः ।", "31144": "<<गेहे कः>> - गेहे कः । 'विभाषा ग्रहः' इत्यस्यापवादः । गृहमिति ।ग्रहिज्ये॑ति संप्रसारणं, पूर्वरूपं च॥ ननु 'गृहा दारा' इति कथम्, गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह — तात्स्थ्यादिति । गृहशब्दो गेहस्थे लाक्षणिक इति भावः । गृहा दारा इति । 'दारेष्वपि गृहाः' इत्यमरः ।", "31145": "<<शिल्पिनि ष्वुन्>> - शिल्पिनि ष्वुन् । नृतिखनिरञ्जिभ्य एवेति । वार्तिकमिदम् । नर्तकीति । षित्त्वान्ङीषिति भावः ।दंशसञ्जस्वञ्जां शपी॑ति सूत्रेरजकरजनरजः सूपसङ्ख्यान॑मिति वार्तिकम् । तदर्थतः सङ्गृह्णाति — असि अके अने चेति । रजक इति । रञ्जेः शिल्पिनि ष्वुनि अकादेशे नलोपः । रजकीति । षित्त्वान्ङीष् ।नृतिखनिरञ्जिभ्य एवे॑ति परिगणनात्वेञ् तन्तुसन्ताने ॑ इत्यस्मात् कृतात्त्वात्श्याद्व्यधे॑ति णप्रत्यये आतो युकिवाय॑इति सिध्यति । भाष्यमते तु नृतिखनिभ्यामेवेति । इदं चदंशसञ्जस्वञ्जां शपीटति सूत्रे भाष्ये स्पष्टम् । ननु भाष्यमते क्वुनिरजकी॑ति कथमित्यत आह — पुंयोगे तु रजकीति ।", "31146": "<<गस्थकन्>> - गस्थकन् ।गः - थक्न्निति च्छेदः । गैधातोः कृतात्वस्य 'ग' इति पञ्चम्यन्तम् । तदाह — गायतेरिति ।", "31147": "<<ण्युट् च>> - ण्युट् च । चकार उक्तसमुच्चये । गायतेर्ण्युट्, थकन् च शिल्पिनि कर्तरि । गायन इति । आत्वे युक् । 'आदेचः' इत्यात्वस्य अनैमित्तिकत्वेन वृद्ध्यपेक्षया अन्तरङ्गत्वात् । यद्यपिगस्थकन्- ण्युट् चे॑त्येकमेव सूत्रमुचितम्, तथापि ण्युट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः ।", "31148": "<<हश्च व्रीहिकालयोः>> - हश्च । 'ओ हाक् त्यागे' इत्यस्य 'ओ हाङ् गतौ' इत्यस्य च 'ह' इति पञ्चम्यन्तम् । तदाह — हाको हाङश्चेति ।", "31149": "<<प्रुसृल्वः समभिहारे वुन्>> - प्रुसृल्वः । लक्ष्यते इति । एतच्च भाष्ये स्पषमट् । प्रु, सृ, लू एषां समाहारद्वन्द्वात्पञ्चमी ।", "31150": "<<आशिषि च>> - आशिषि च । जीवक इत । आशास्यमानजीवनक्रियाश्रय इत्यर्थः । एवं नन्दकः । आशीरिति । आशासनम् = अयमित्थं भूयादिति प्रार्थनं, शब्दप्रयोक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इयं = नन्दकशब्दप्रयोगः । औचित्यादिति भावः । [इति तृतीयाध्यायस्य प्रथमः पादः] । अथ तृतीयाध्यायस्य द्वितीयः पादः ।", "32001": "<<कर्मण्यण्>> - कर्मण्यण् । कर्मण्युपपदे इति ।तत्रोपपदं सप्तमीस्थ॑मित्यत्रतत्रे॑त्यनेनदं लभ्यत इति तत्रैवोक्तम् । प्रत्ययस्तु कर्तर्येव । उपपदसमास इति ।उपपदमति॑ङित्यनेनेति भावः । कुम्भं करोतीति । अस्वपदो लौकिकविग्रहोऽयम् । कुम्भ अस् कार इत्यलौकिकविग्रह वाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठन्तस्य समास इति प्रागेवोक्तम् । ननु आदित्यं पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामं गच्छतीति ग्रामगाम इत्यादि स्यादित्यत आह — आदित्यं पश्यतीत्यादावनभिधानान्नेति । एतच्च भाष्ये स्पष्टम् । शालीति । शीलि, कामि, भक्षि, आचरि एभ्यो णप्रत्ययो वाच्य इत्यर्थः । ननु 'कर्मण्य' णित्यणैव सिद्धे किमर्थमिदत्यत आह — अणोऽपवादार्थमिति । अण्णन्तत्वे तु ङीप् स्यात्, तन्निवृत्त्यर्थं णविधानमिति भावः । तदाह — मांसशीलेति । 'शील समाधौ' इति भ्वादिः । इह तु स्वभावतः सेवने वर्तते । मांसं स्वभावतः सेवमानेत्यर्थः । मांसकामेति । मांसकामेति । मांसं कामयते इति विग्रहः । मांसभक्षेति । मांसं भक्षयते इति विग्रहः । कल्याणाचारेति । कल्याणमाचरतीति विग्रहः । सर्वत्र टाप् । ईक्षिक्षमिभ्यामिति । वार्तिकमिदम् । 'ण' इति शेषः । कथमिति । कर्मण्यणि गङ्गाधार इत्यादि स्यादित्याक्षेपः ।कर्मणः शेषत्वेति । तथा च कर्मोपपदाऽभावान्नाऽणिति भावः ।", "32002": "<<ह्वावामश्च>> - ह्वावामश्च ।ह्वेञ् स्पर्धायाम् 'वेञ् तन्तुसन्ताने' अनयोः कृतात्वयोर्निर्देशः, 'माङ् माने' एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्य इति । कर्मण्युपपदे एभ्योऽण् स्यादित्यर्थः । ननुकर्मण्य॑णित्येव सिद्धे किमर्थमिदमित्यत आह — कापवाद इति । 'आतोऽनुपसर्गे कः' इत्यस्याऽणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः । माङ्मेङोरिह ग्रहणं, नतु 'मा माने' इत्यस्य, अकर्मकत्वात् । स्वर्गह्वाय इति । यद्यपि पराभिभवेच्छायां स्पद्र्धायां परिभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्ग्रहादकर्मक इत्युक्तम्, तथापि इहाऽभिभवेच्छा धात्वर्थः । स्वर्गमभिभवितुं वाञ्छतीत्यर्थः । अन्तरङ्गत्वादात्वे कृते आतो युक् । एवमग्रेऽपि ।", "32003": "<<आतोऽनुपसर्गे कः>> - आतोऽनुपसर्गे कः । पाष्णत्रमिति । पाष्णः — पादमूलभागः । तं त्रायते विग्रहः । 'त्रैङ् पालने' आत्वे कृते कः । गोसंदाय इति । अणि - आतो युक् । कविधौ सर्वत्रेति । वार्तिकमिदम् । सर्वत्र कप्रत्ययविधौ संप्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः । ब्राहृज्य इति । 'ज्या वयोहानौ' अस्माड्डः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । अत्र कप्रत्यये सति कित्त्वात् 'ग्रहिज्ये' ति संप्रसारणं प्रसक्तम्, अतो ड एव, नतु कः । सर्वत्रेति । उपसर्गे उपपदे आतोऽपि ड एव, नतु 'आतश्चोपसर्गे' इति कः,॒सर्वत्र॑ ग्रहणादित्यन्वयः । अन्यथाअनन्तरस्य विधि॑रिति न्यायात्आतोऽनुपसर्गे॑इति कं बाधित्वा ड एव । तस्य अकित्त्वाद्यजादिलक्षणं संप्रसारणं न । सुपि स्थः । योगो विभज्यते इति । इदं भाष्ये स्पष्टम् । तत्रसुपी॑त्यंशं व्याचष्टे — सुप्युपपदे इति इदं केवलोपसर्ग व्यर्थम्, 'आतश्चोपसर्गे' इत्येव सिद्धेः, कर्मण्युपपदेऽप्येतद्व्यर्तमेव, 'आतोऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति — द्वाभ्यामिति । तत इति ।सुपी॑त्यंशस्य व्याख्यानान्तरं 'स्थ' इत्यंशो व्याख्यायत इत्यर्थः । ननुसुपी॑त्यंशेनैव सिद्धे किमर्थमिदमित्यत आह — आरम्भसामर्थ्यादिति । कर्तरि 'सुपि' इति पूर्वेण स्दधेकर्तरि कृ॑दिति नानुवर्तते । अनिर्दिष्टार्थत्वात्गुप्तिज्किद्भ्यः स॑ नित्यादिवत्स्वार्थिकोऽयम्, स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् । न च एवं सतिघञर्थे कविधान॑मित्येव सिद्धमिति वाच्यम्, नित्योपपदसमासार्थत्वात् । अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह - आखूनामुत्थानमाखूत्थ इति ।", "32004": "", "32005": "<<तुन्दशोकयोः परिमृजापनुदोः>> - तुन्दशोकयोः । तुन्दशोकयोरिति सप्तमी । परिमृज, अपनुद, अनयोद्र्वन्द्वात्पञ्चम्यर्थे षष्ठी । तदाह — उपपदयोराभ्यामिति । तुन्दपरिमृज इति । तुन्दम् = उदरम् । अत्र 'मृजेरजादौ' इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः । मूलानि विभुजतीति । विमर्दयतीत्यर्थः । 'भुजो कौटिल्ये' तुदादिः । इहोपसर्गबलादन्मर्दने वृत्तिः । महीध्र इति । महीं धरतीति विग्रहः । कित्त्वान्न गुणः । ऋकारस्य यण् रेफः । अणि तु 'महीधार' इति स्यात् । कुध्र इति । कुः = पृथ्वी, तां धरतीति विग्रहः । गिल इति । 'गृ निगरणे' अस्मात्कः, कित्त्वान्न गुणः, इत्त्वं, रपरत्वम् ।अचि विभाषे॑ति लत्वम् ।", "32006": "<<प्रे दाज्ञः>> - प्रे दाज्ञः । 'प्रे' इति सप्तमी पञ्चम्यर्थे । दा, ज्ञा — अनयोद्र्वन्द्वात्पञ्चम्येकवचम् । प्रोपसृष्टादिति । प्रेत्युपसर्गपूर्वकादित्यर्थः । सोपसर्गार्थ आरम्भः ।", "32007": "<<समि ख्यः>> - समि ख्यः ।समी॑ति पञ्चम्यर्थे सप्तमी । गोसङ्ख्य इति । गाः संचष्ट इति विग्रहः । संपूर्वाच्चक्षिङः ख्याञि रूपम् । 'ख्या प्रकथने' इत्यस्य तु संपूर्वस्य प्रयोगाऽभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते ।", "32008": "<<गापोष्टक्>> - गापोष्टक् । 'गै शब्दे' 'पा पाने' इत्यनयोः टक् स्यात्कर्मण्युपपदे । आतो युकि रूपम् । पिबतेरिति । वार्तिकमिदम् । पाधातोः सुराशीध्वोरुपपदयोः टक् स्यादित्यर्थः । क्षीरपेति । क्षीरं पिबतीत्यर्थे सुराशीध्वोर्नयतरत्वाऽभावात् 'आतोऽनुपसर्गे कः' इति कप्रत्यये टाप् । पाति रक्षतीति । अजित्यर्थः । उद्यमनम् - उद्ग्रहणम् । अंशहर इति । अंशस्य स्वीकर्तेत्यर्थ- । भारहार इति । भारमुद्गृह्णातीत्यर्थः । ग्रहेरुपसङ्ख्यानमिति ।अच्प्रत्ययस्ये॑ति शेषः । 'ग्रह उपादाने' अदुपधऋ ।गृहे॑रिति पाठे तु कृतसंप्रसारणस्य इका निर्देशो बोध्यः । शक्तिग्रह इति । अकित्त्वान्न संप्रसारणम् । लाङ्गलग्रह इति । एवम् — 'अङ्कुशग्रह' इत्याद्यप्युदाहार्यम् । सूत्रे चेति । वार्तिकमिदम् । सूत्रे कर्मण्युपपदे धारणार्थकाद्ग्रहधातोजित्यर्थः ।", "32009": "", "32010": "<<वयसि च>> - वयसि च । कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः । ननुहरतेरनुद्यमनेऽ॑जित्येव सिद्धे किमर्थमिदमित्यत आह — उद्यमनार्थमिति ।", "32011": "<<आङि ताच्छील्ये>> - आङि ताच्छील्ये । आङ्पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये । ताच्छील्यं - तत्स्वभावता । पुष्पाहर इति । पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः ।", "32012": "<<अर्हः>> - अर्हः । अणोऽपवाद इति । यद्यपि अणि अचि च पूजार्हरूपे न विशेषः, अदुपधत्वाऽभावेन वृद्धेरप्रसक्तेः, तथापि स्त्रियामण्णन्तत्वे ङीप्स्यात्, तन्निवृत्तये अज्विधिः । तदाह — पूजार्हेति ।", "32013": "<<स्तम्बकर्णयो रमिजपोः>> - स्तम्बकर्णयोः । रम जप अनयोरकर्मकत्वात्कर्मणीति न संबध्यते । जपेः शब्दोच्चारणार्तकस्य धात्वर्थोपसङ्ग्रहादकर्मकत्वं बोध्यम् । दर्भादितृणनिचयः - स्तम्बः । सूचकः - पिशुनिः । हस्तिसूचकयोः किम् । स्तम्बे रन्ता गौः कर्णे जपिता गुरुः, मशको वा ।", "32014": "<<शमि धातोः संज्ञायाम्>> - शिमि दातोः ।शमी॑ति सप्तम्यन्तम् । 'श' मिति सुखार्थकमव्ययम् । तस्मिन्नुपपदे दातोरच् स्यात्संज्ञायाम् । ननु धातुग्रहणं व्यर्थम्, न च रमिजपोरननुवृत्त्यर्थं तदिति वाच्यम्, अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत आह — पुनर्धातुग्रहणमिति ।कृञो हेतुताच्छील्यानुलोम्येषु॑ इति टप्रत्ययोऽच्प्रत्ययबाधको वक्ष्यते, तद्बाधनार्थमित्यर्थः ।", "32015": "<<अधिकरणे शेतेः>> - हरतेर्दृतिनाथयोः । दृतिः चर्मभस्त्रिका । दृतिहरिः आआ इति वृत्तिः । 'नाथ' शब्दस्य विवरणम् — नासारज्जुमिति । नासिकाप्रोतरज्जुमित्यर्थः । नाथहरिरिति । नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम् ।", "32016": "<<चरेष्टः>> - चरेष्टः । ट इति च्छेदः । 'अधिकरणे उपपदे' इति शेषः । 'अधिकरणे शेते' रित्यतस्तदनुवृत्तेरिति भावः । कुरुचर इति । कुरुषु चरतीति विग्रहः । न चअकर्मकधातुभिर्योगे॑ इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात् । तत्र अत्रत्यमपि भाष्यं प्रमाणम् ।", "32017": "<<भिक्षासेनाऽऽदायेषु च>> - भिक्षासेना । भिक्षा, सेना, आदाय- एषु चोपदेषु चरेष्टः स्यादित्यर्थः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके आर्जने वर्तते । चरणेन भिक्षा मार्जयतीत्यर्थ- । सेनाचर इति । सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आदाय चरतीति । लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः । कथमिति । अधिकरणे भिक्षासेनाऽऽदायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाच्चरेसंभवादिति भावः । समाधत्ते — पचादिष्विति । यद्यपि 'भिक्षाचर' इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः ।", "32018": "<<पुरोऽग्रतोऽग्रेषु सर्तेः>> - पुरोऽग्रतः । पुरस्, अग्रतस्, अग्रे — एषूपपदेषु सर्तेः टः स्यादित्यर्थः । अग्रेसर इति । ननु समासाऽवयवत्वात्सुपो लुकि अग्रसर इति स्यादित्यत आह — सूत्र इति । कथमिति । एदन्तत्वनिपातनात्कथमग्रसरशब्द इत्यर्थः । समाधत्ते — बाहुलकादिति । पूर्वे कर्तरि । कर्तृशब्दः कर्तृवाचिनि गौणः । तदाह — कर्तृवाचिनीति ।", "32019": "", "32020": "<<कृञो हेतुताच्छील्यानुलोम्येषु>> - नाडीमुष्टओश्च । यथासङ्ख्यं नेष्यते इति । इदं तु भाष्ये स्पष्टम् । घटीखारीत्यादि स्पष्टम् ।", "32021": "<<दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दी- किम्लिपि लिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु>> - दिवाविभा । दिवा, विभाष निशा, प्रभा, भास्, कार, अन्त,अनन्त, आदि, बहु, नानदी, किम् लिपि लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र , सङ्ख्या, जङ्घा, बाहु, अहर्, यद् , तद्, धनुस्रुस् — एषां सप्तमविंशतेद्र्वन्द्वात्सप्तमी । एष्विति ।उपपदेष्वि॑ति शेषः । अहेत्यादिष्वपीति । हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः । हेत्वादिग्रहणस्य अननुवृत्तेरिति भावः । एतेन अहेत्वाद्यर्थमिदं सूत्रमुक्तं भवति । अत्र कर्मणीति सुपति चानुवृत्तं यथायोगमन्वेति । दिवाकर इति । दिवेत्याकारान्तमव्ययमह्नीत्यर्थे । तस्याऽधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम् । दिवा = अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः । विभाकर इति । विभां करोतीति विग्रहः । निशाकर इति । निशां करोतीति विग्रहः । एवं प्रभाकरः । भाः करोतीति विग्रहेअतः कृकमी॑त्यत्राऽत इति तपरकरणात्सत्वस्याऽप्राप्तेःकुप्वो॑रिति जिह्वामूलीयविसर्गावाशङ्क्याह — कस्कादित्वादिति । कारकरः, अन्तकरः, अनन्तकरः, आदिकर इति सिद्धवत्कृत्य आह — बहुकर इति । ननु सङ्ख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह — बहुशब्दस्येति । वैपुल्यवाचिनस्तस्य न सङ्ख्याशब्दत्वमितबहुगमवतुडति सङ्ख्ये॑त्यत्रोक्तम् । नान्दीकरः किह्कर इति सिद्धवत्कृत्य आह — लिपिलिशब्दाविति । तथा च लिपिकरः लिबिकरः क्षेत्रकर इत्यन्तं सिद्धवत्कृत्य आह — सङ्ख्येति । 'उदाह्यियते' इति शेषः । जङ्घाकरः बाहुकर इति सिद्धवत्कृत्य अहस्करशब्देकुप्वो॑रिति जिह्वामूलीयविसर्गावाशङ्क्याह — कस्कादित्वादिति । नञि जहातेरुत्पन्ने अहन्शब्दे हन्शब्दस्योत्तरपदतया तद्विसर्गस्य उत्तरपदस्थत्वात्अतः कृकमी॑त्यस्य न प्राप्तिरिति भावः । धनुष्करशब्दे आह — नित्यं समास इति । प्रत्ययवयवत्वात्इदुदुपधस्य चे॑त्यस्य न प्राप्तिरिति भावः । कृञोऽज्विधानमिति । टस्याऽपवादः । किङ्करेति । टप्रत्यये तु टित्त्वान्ङीपस्यादिति भावः । हेत्वादिषु पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः । तर्हि किङ्करीति कथमित्यत आह — पुंयोगे ङीषिति । कर्मणि भृतौ । कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणं तु कर्मशब्दस्वरूपग्रहणाऽर्थम् । कर्मकरो भृतक इति । वेतनं गृहीत्वा यः परार्थ कर्म करोति स भृतक इत्युच्यते ।", "32022": "", "32023": "<<न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु>> - न शब्दश्लोक । शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र, पद- एषां नवानां द्वन्द्वः । हेत्वादिष्विति ।कृञो हेतुताच्छील्यानुलोम्येषु॑ इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः ।", "32024": "<<स्तम्बशकृतोरिन्>> - स्तम्बशकृतोरिन् । स्तम्बे शकृति च कर्मण्युपपदे कृञ इन् स्यात् । नकार इत् । व्रीहिवत्सयोरिति । व्रीहौ वत्से च कर्तरीत्यर्थः । स्तम्बशकृतोर्यथासङ्ख्यमन्वयः । स्तम्बकरिव्र्रीहिरिति.स्तम्बं तृणनिचयं करोतीति विग्रहः ।", "32025": "", "32026": "<<फलेग्रहिरात्मम्भरिश्च>> - फलेघिः । ग्रहेरिन्निति । नतु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः । मुमागम इति । आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह — चात्कुक्षम्भरिरिति । भाष्ये तुभृञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्य॑मिति स्थितम् ।स्यादवन्ध्यः फलेग्रहिः॑ इति वृक्षपर्याये अमरः ।उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके॑ इति विशेष्यनिघ्नवर्गे । उदरम्भरिशब्दं समर्थयितुमाह — चान्द्रास्त्विति ।", "32027": "", "32028": "<<एजेः खश्>> - #एजेः खश् । एजेरिति ण्यन्तस्य एजृधातोग्र्रहणम्, न त्विका निर्देशः, व्याख्यानादिति भावः । खकारशकारावितौ । कर्मण्युपपदे इत्यपि ज्ञेयम् ।", "32029": "<<नासिकास्तनयोर्ध्माधेटोः>> - नासिका । नसिका, स्तन अनयोद्र्वन्द्वात्सप्तमी । ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।ख॑शिति शेषः । यथासङ्ख्यमन्वये प्राप्ते आह — अत्र वार्तिकमिति । धेटष्टित्त्वादिति । यद्यपिटिड्ढे॑त्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम्, तथापि टित्त्वस्यावयवे अचरितार्थत्वान्ङीबिति हरदत्तः । अत्र यद्वक्तव्यं तत्प्राघ्राध्माधेट्दृशः शः॑ इत्यत्रोक्तम् । नासिकन्धम इति । ह्रस्वे कृते मुम् । नासिकाया ध्मश्चेति । चकाराद्धेटश्चेति लभ्यते । तस्योदाहरति — नासिकन्धय इति ।", "32030": "", "32031": "<<उदि कूले रुजिवहोः>> - उदि कूले । उदीति दिग्योगपञ्चम्यर्थे सप्तमी । रुजिवहोरिति पञ्चम्यर्थे षष्ठी । 'रुजो भङ्गे' तुदादिः । अत्र रुजेः सकर्मकत्वात्कर्मण्युपपदे इति लब्धं, तेन कूलं विशेष्यते, न तू च्छब्दः, तस्याऽसत्त्ववाचित्वात् । तदाह — उत्पूर्वाभ्यामित्यादि । कूलमुद्रुज इति । सुपो लुकि मुमिति भावः ।", "32032": "<<वहाभ्रे लिहः>> - वहाभ्रे लिहः । वहे अभ्रे च कर्मण्युपपदे लिहः खशित्यर्थः । वहशब्दस्य विवरणम् — स्कन्ध इति । शपो लुगिति । खशः शित्त्वेन सार्वधातुकत्वात्कृतस्य शपो लुगित्यर्थः ।", "32033": "<<परिमाणे पचः>> - परिमाणे पचः । परिमाणं प्रस्थादि । तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः । खारिम्पचेति । 'खित्यनव्ययस्य' इति ह्रस्वः । मुम् ।", "32034": "<<मितनखे च>> - मितनखे च । मिते नखे च कर्मण्युपपदे पचेः खशित्यर्थः । नखानां विक्लित्त्यसंभवादाह — पचिरत्रेति ।", "32035": "<<विध्वरुषोः तुदः>> - विध्वरुषोस्तुदः । विधु, अरुस् अनयोः कर्मणोरुपपदयोस्तुदः खशित्यर्थः । विधुंतुद इति । विधुश्चन्द्रः, तं तुदतीति विग्रहः । राहुरित्यर्थः । अरुस्शब्दे उकारादुपरि मुमि कृते सकारस्य संयोगान्तलोप इत्यर्थः । अरुन्तुद इति । अरुर्मर्म, तत्तुदन्तीति विग्रहः ।", "32036": "<<असूर्यललाटयोर्दृशितपोः>> - असूर्यललाट । दृशितपोरिति पञ्चम्यर्थे षष्ठी । असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः । असूर्यमितीति ।असूर्यपश्या॑इत्युदाहरणे असूर्यमित्यसमर्थसमासः सौत्र इत्यर्थः । कुतोऽसामर्थ्यमित्यत आह — दृशिनेति । सूर्यं न पश्यन्तीत्यर्थे नञो दृशिनाऽन्वितत्वेन सूर्यशब्देनाऽन्वयाऽभावादित्यर्थः । ललाटन्तपःसूर्य इति । ललाटं तपतीति विग्रहः । सूर्य पश्यतो ललाटस्य अवश्यं तापादिति भावः ।", "32037": "<<उग्रम्पश्येरम्मदपाणिन्धमाश्च>> - उग्रम्पश्य इति । खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् — उदकमिति । इरम्मद इति ।खित्यनव्ययस्ये॑ति ह्रस्वः । मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह — निपातनाच्छ्यन्नेति । पाणिन्धम इति । शपिपाघ्रे॑ति धमादेशः ।", "32038": "<<प्रियवशे वदः खच्>> - प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः । खशि प्रकृते खज्विधेरुत्तरसूत्रे प्रयोजनं वक्ष्यते । गमेः सुपि वाच्य इति । 'ख' जिति शेषः । ननु संज्ञायामित्यनुवृत्तौगमश्चे॑ति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदं वार्तिकमित्यत आह - असंज्ञार्थमिदमिति । विहायस इति । विहायः शब्दः आकासे वर्तते । तस्मिन्नुपपदे गमेः खच् ।गमश्चे॑ति वक्ष्यमाणसूत्रेण , पूर्ववार्तिकेन वा सिद्धः खच्चे॑त्यनूद्यते । प्रकृतेर्विहायश्शब्दस्य विहादेशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः । विहङ्ग इति । डित्त्वपक्षे तत्सामर्थ्यादभस्यापि टेर्लोपः । विहङ्गम इति । विहायसा गच्छतीति विग्रहः । भुजङ्गम इति । भुजैर्गच्छतीति विग्रहः । द्विषत्परयोः । 'तप दाहे' चुरादिः, 'तप सन्तापे' भ्वादिः । द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः । खच् स्यादिति । द्विषत्, पर अनयोः कर्मणोरुपपदयोस्तापेः खजित्यर्थः । द्विषत् तापि अ इति स्थिते आह —", "32039": "<<द्विषत्परयोस्तापेः>> - द्विषन्तप इति । 'अरुर्द्विष' दित तकारात्प्राक् मुम् । परन्तप इति । परः - शत्रुः । ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि 'द्विषतीतप' इति स्यात् 'द्विषतीताप' इत्यण्णन्तं न स्यादित्यत आह — घटघटीति ।शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसङ्ख्यान॑मित्यत्र घटग्रहणेनैव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धे पुनर्घटीग्रहणाल्लिङ्गविसिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः ।उपपदविधौ लिङ्गविशिष्टपरिभाषा ने॑ति ङ्याप्पसूत्रे भाष्याच्चेत्यपि द्रष्टव्यम् ।", "32040": "<<वाचि यमो व्रते>> - वाचि यमो व्रते । इत्यादि व्यक्तम् ।", "32041": "<<पूःसर्वयोर्दारिसहोः>> - पूः सर्वयोर्दारिसहोः । दारिसहोरिति पञ्चम्यर्थे षष्ठी । पुर्शब्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेः सहेश्च खजित्यर्थः । यथासङ्ख्यमन्वयः ।दारी॑ति ण्यन्तस्य ग्रहणम् । पुरन्दर इति । पुरं दारयतीति विग्रहे दारेः खचि णिलोपे 'खचि ह्रस्वः' इत्युपधाह्रस्वे सुपी लुकिवाचंयमपुरन्दरौ चे॑ति खचो विकल्पविधौ खजभावेकर्मण्य॑णित्यस्य सिद्धत्वादण्ग्रहमं व्यर्थमित्यत आह — असंज्ञार्थमिति । भगे चेति । इत्यादि स्पष्टम् । ऋतिह्कर इति । ऋतिर्गमनम् । अभयह्करशब्दं साधयितुमाह — भयशब्देन तदन्तविधिरिति । इदं चयेन विधि॑रित्यत्र भाष्ये स्पष्टम् ।", "32042": "", "32043": "", "32044": "<<क्षेमप्रियमद्रेऽण् च>> - क्षेमप्रिय । ननुक्षेमप्रियमद्रवे॑ति खचो विकल्पविधौ खजभावेकर्मण्य॑णित्यस्य सिद्धत्वादण्ग्रहणं व्यर्थमित्यत आह — वेति वाच्ये इति । हेत्वादिष्विति ।कृञो हेतुताच्छील्यानुलोम्येषु इति विहित इत्यर्थः । कथं तर्हीति । 'कृञो हेतु' इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम्, खचि तु मुम् स्यादित्याक्षेपः । समाधत्ते — कर्मणः शेषत्वेति । तथा च कर्मोपपदाऽभावादणभावे चाऽजिति भावः । क्षेमङ्करीति तु गौरादित्वान्ङीषित्याहुः ।", "32045": "<<आशिते भुवः करणभावयोः>> - #आशिते । करणे उदाहरति — आशितो भवत्यनेनेति । भावे उदाहरति — आशितस्य भवनमिति ।", "32046": "<<संज्ञायां भृतॄवृजिधारिसहितपिदमः>> - संज्ञायाम् ।ख॑जिति शेषः । भृ, तृ , वृ ,जि, धारि, सहि, तपि, दमि- एषामष्टानं समाहारद्वन्द्वात्पञ्चमी । विआम्भर इति । विष्णोरियं संज्ञा । विआम्भरेति । पृथिव्याः संज्ञा इयम् । रथन्तरमिति । तृधातोः खच् । रथेन तरितृत्वस्य सामविशेषे असंभवादाह — इहेति । वृधातोरुदाहरति — पतिंवरेति । शत्रुञ्जय इति । जिधातोः खच् ।धारी॑ति ण्यन्तग्रहण, तस्योदाहरति — युगन्धर इति । युगं धारयतीति विग्रहः । 'खचि ह्रस्वः' इत्युपधाह्रस्वः । णिलोपः । शत्रुंसह इति । शत्रून् सहते विग्रहः । ह्रस्वादि पूर्ववत् । एवमग्रेऽपि । शत्रुन्तप इति । शत्रून् तपतीति विग्रहः । अरिन्दम इति । अरिषु निग्रहविषये शाम्यतीत्यर्थः । दमिः शमनायामिति । 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमेण्र्यन्ताद्धञ् । तथा च दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात्सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः । मतान्तरे त्विति । 'दमु उपशमे' इत्युपशमार्थस्य दमेरकर्मकत्वमिति हरदत्तादिभिरुक्तमित्यर्थः ।", "32047": "<<गमश्च>> - गमश्च ।संज्ञायां ख॑जिति शेषः ।", "32048": "<<अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः>> - अन्तात्यन्त । इत्यादि व्यक्तम् । सर्वत्रपन्नयोरिति । सर्वत्रशब्दे, पन्नशब्दे चोपपदे गमेर्डस्योपसङ्ख्यानमित्यर्थः उरस इति । उरसि उपपदे गमेर्डः, उरः शब्दान्त्यस्य लोपश्चेति वक्तव्यमित्यर्थः । सुदूरोरिति । सु, दूर् — अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्ये इत्यर्थः । अन्यत्रापि दृश्यत इति । अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यो डो दृश्यते इत्यर्थः । अनेनैव सिद्देसर्वत्रपन्नयो॑रित्यादि प्रपञ्चार्थमेव । एवं च 'सप्तम्यां जनेर्डः' इत्यत्रापिअन्येष्वपि दृश्यते॑ इति प्रपञ्चार्थमेव । डे चेति ।विहायसो विहे॑त्युक्तस्य खज्विषयत्वादिदं वचनम् । विहग इति । खचि तु मुमि विहङ्गम इति रूपम् ।", "32049": "<<आशिषि हनः>> - आशिषि हनः । कर्मण्युपपदे हन्तेर्डः स्यादाशिषि गम्यायामित्यर्थः । शत्रुघात इति । आसीरभावाड्डाऽभावे अण् । 'हनस्त' इति तत्वम् । दारावाहन इति । वार्तिकमिदम् । दारौ, आहनः, अण्, अन्तस्येति च्छेदः । अण्संनियोगेन टत्वविधानार्थमिदम् । चारौ वेति । वार्तिकमिदम् । चारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण्, अन्तस्य टो वा स्यादित्यर्थः । कर्मणणि समि चेति । वार्तिकमिदम् । उक्तं वेति । अण्, अन्तस्य ट इत्यर्थः । चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः ।", "32050": "<<अपे क्लेशतमसोः>> - अपे क्लेशतमसोः । 'आशिषि हनः' इत्येव सिद्धे किमर्तमिदमित्यत आह — अनाशीरर्थमिति ।", "32051": "<<कुमारशीर्षयोर्णिनिः>> - कुमारशीर्षयोर्णिनिः । अनयोरुपपदयोर्हन्तेर्णिनिः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः ।", "32052": "<<लक्षणे जायापत्योष्टक्>> - लक्षणे । लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः । जायाघ्नो नति । जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः ।गमहने॑त्युपधालोपः । पतिघ्नी स्त्रीति । पतिहननसूचनलक्षणवतीत्यर्थः । टित्त्वान्ङीप् ।", "32053": "<<अमनुष्यकर्तृके च>> - अमनुष्य । अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः । जायाघ्नस्तिलकालक इति । तिलाकृतकृष्णबिन्दुरित्यर्थः । पूर्वसूत्रस्य लक्षणवति कर्तरि प्रवृत्तिरिति भावः । अथ कथमिति । प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसंभवादित्याक्षेपः । समाधत्ते — मूलविभुजादित्वात्सिद्धमिति । कप्रत्ययेनेति भावः । ननुचोरघातो हस्ती॑त्यादि कथम्, अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह — चोरघात इत्यादीति । बाहुलकादणीति ।कृत्यल्युटो बहुल॑मिति बहुलग्रहणादणि समाधेयमिति भावः ।", "32054": "<<शक्तौ हस्तिकपाटयोः>> - शक्तौ हस्तिकवाटयोः । हस्तिघ्न इति । हस्तिनं हन्तुं शक्त इत्यर्थः । एवं कवाटघ्नः ।", "32055": "<<पाणिघताडघौ शिल्पिनि>> - पाणिघताडघौ । पाणिना हन्तीति पाणिघः । ताडः = ताडनं, तेन हन्तीति ताडघः = मल्लादिः । राजघ उपसङ्ख्यानमिति । राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः ।", "32056": "<<आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्>> -", "32057": "<<कर्तरि भुवः खिष्णुच्खुकञौ>> - कर्तरि भुवः । खिष्णुचि खचावितौ । खुकञि खञावितौ । आढम्भविष्णुरिति । अनाढ आढओ भवतीति विग्रहः । आढम्भावुक इति । ञित्त्वाद्वृद्धिः । करणग्रहणाऽनुवृत्तिनिवृत्तये कर्तृग्रहणमम् । खिष्णुचि इकारस्तु व्यर्थ एव, इटा सिद्धेः । अच्वौ किम् । आढ्यीभविता । स्पृशोऽनुदके क्विन्निति — व्याक्यातं हलन्ताधिकारे । निवृत्तिमिति । अत्र व्याख्यानमेव शरणम् । समानान्ययोश्चेति । अनयोरुपपदयोर्दृशः क्विन्कञावित्यर्थः । सदृक् सदृश इति । समानो दृश्यते इति न विग्रहः, कर्तर्येव क्विन्विधानात् । किन्तु कर्मकर्तरि क्विन्कञौ॥ समानः पश्यतीति विग्रहः । समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् । 'दृग्दृशवतुषु' इति समानस्य सभावविकल्पऋ । तत्र 'विभाषोदरे' इत्यतो विभाषानुवृत्तेः,समानदृक् सदृक् । समानसदृशः सदृश॑ इति भाषाच्च । अन्यादृगिति । 'आ सर्वनाम्नः' इत्यात्वम् । क्सोऽपीति । त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः ।", "32058": "<<स्पृशोऽनुदके क्विन्>> - स्पृशोऽनुदके । अनुदके सुपीति । उदकशब्दबिन्ने सुबन्ते इत्यर्थः । 'सुपि स्थः' इत्यतःसपी॑त्यनुवर्तते इति भावः । घृतस्पृगिति । घृतं स्पृशतीति विग्रहे क्विन् । उपपदसमासः । सुब्लुक् । घृतस्पृशशब्दात्सुबुत्पत्तिः । सोर्हल्ङ्यादिलोपः ।क्विन्प्रत्ययस्ये॑ति कुत्वस्याऽसिद्धत्वात् पूर्वंव्रश्चे॑ति षः ।तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वाविकल्प इति भावः । घृतस्पृग्भ्याम् । घृतस्पृक्षु । अथक्विन्प्रत्ययस्य कुः॑ इत्यत्र 'क्विनः कुः' इत्यतावतैव क्विन्नन्तस्येति लब्धे प्रत्ययग्रहणं क्विन् प्रत्ययो यस्मादिति बहुव्रीहिलाभायेत्युक्तं युक्शब्दनिरूपणावसरे, तस्य प्रयोजनमाह — क्विप्यपिकुत्वमिति ।सति भवती॑ति शेषः । अनुदके सुप्युपपदे तावत् स्पृशेः क्विन् विहितः । अतो निरुपसर्गात् स्पृशेः क्विबेव । तस्य संप्रति क्विन्नन्तत्वाऽभावेऽपि कुत्वं भवत्येव, बहुव्रीह्राश्रयणेन कदाचित् क्विन्नन्तत्वमात्रेणापि क्विन्प्रत्ययान्तत्वयोग्यतालाभादिति भावः । षडगकाः प्राग्वदिति । षत्वजश्त्वकुत्वचर्त्वैरिति भावः । इति शान्ताः । अथ षान्ताः । दधृष्शब्दस्य व्युत्पतिंत दर्शयति — ञि धृषेति । 'आदिर्ञिटुडवः' इति ञिरित् । आकारस्तु 'उपदेशेऽजनुनासिक' इति इत् । ऋत्विगादिनेति । क्विन्नादित्रयं निपात्यते । क्पिनि लुप्ते धृष् इत्यस्य द्वित्वं । 'उरत्' रपरत्वम् ।हलादिः शेषः॑ । कित्त्वान्न लघूपधगुणः, दधृष् इति रूपम् । ञ्नित्यादिर्नित्य॑मित्याद्युदात्तनिवृत्त्यर्थमन्तोदात्तनिपातनम् । कुत्वात्पूर्वमिति । जश्त्वं प्रति कुत्वस्याऽसिद्धत्वात्प्रथमं जस्त्वेन षस्य डकार इत्यर्थः । गः क इति ।क्विन्प्रत्ययस्ये॑ति डस्य कुत्वेन गकारः, तस्य चर्त्वेन ककार इत्यर्थः । रत्नमुडिति ।मुष स्तेये॑क्विप्, उपपदसमासः सुब्लुक्, हल्ङ्यादिलोपः, जश्त्वचर्त्वे इति भावः । षष्शब्दो नित्यं बहुवचनान्तः । तस्य बहुवचनेष्वेव रूपाणि दर्शयति — षड्भ्यो लुगिति ।अनेन जश्शसोर्लुकि जश्त्वचर्त्वे॑ इति शेषः । तदन्तविधिरिति ।षड्भ्यो लुक्, षट्चतुभ्र्यश्चे॑त्यनयोराङ्गत्वादिति भावः । प्रिया षट् यस्येति बहुव्रीहौ प्रियषष्शब्दस्य एकद्विबहुवचनानि सन्ति । प्रियषट-प्रियषड्, प्रियषषौ, प्रियषष इत्यादि रत्नमुषशब्दवत् । तत्र 'षड्भ्यो लुक्' इतिषट्चतुभ्र्यश्चे॑ति च लुङ्नुटोः प्रवृत्तेरिति भावः । पठितुमिच्छतीत्यर्थेपठ व्यक्तायां वाचि॑-इति धातोः 'धातोः कर्मणः' इति सन्प्रत्यये 'सन्यङीः' इति द्वित्वे हलादिशेषे 'सन्यतः' इत्यब्यासस्य इत्त्वं, सन इट्, षत्वं, 'सनाद्यन्ताः' इति धातुत्वम् । 'पिपठिष' इत्यस्मात् क्विप्,अतो लोपः॑, पिपठिष् इति षकारान्तम् । कृदन्तत्वात्प्रातिपदिकत्वं, ततः सुः । तत्र विशेषं दर्शयति-रुत्वं प्रतीति ।क्वौ लुप्तं न स्थानिवत् इति निषेधाद्धल्ङ्यादिलोपे कृते 'ससजुषो रुः' इति रुत्वम् । न च सकाराऽभावः शङ्क्यः, रुत्वं प्रति षत्वस्याऽसिद्धत्वादित्यर्थः ।", "32059": "<<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> - अथ जान्ताः । अथ युज्शब्दस्य व्युत्पतिंत दर्शयितुमाह-ऋत्विग्दधृक् ।धातो॑रित्यधिकृतं ।स्पृशोऽनुदके क्विन् इत्यतः क्विन्नित्यनुवर्तते । पञ्चम्यर्थे षष्ठी । तदाह-एभ्य इति । ऋतौ उपपदे यज्धातोः, धृष्धातोः, सृज्धातोः, दिश्धातोः ष्णिधातोः, अञ्चुधातोः, युज्धातोः, क्रुञ्च्धातोश्चेत्यर्थः । ननु ऋत्विक्, दधृगित्यादौ कुत्वद्वित्वादि कुत इत्यत आह — अलाक्षणिकमपीति । लक्षणानि=सूत्राणि तद्विहितं कार्यं लाक्षणिकम् । सूत्रतः प्रतय्क्षानुपदिष्टमपि कार्यं निपातनात्सिद्धरूपनिर्देशाल्लभ्यत इत्यर्थः । तत्र ऋतावुपपदेः यजेः क्विन् । तस्य कित्त्वात्वचिस्वपियजादीना॑मिति संप्रसारणं,व्रश्चे॑ति षत्वापवादः कुत्वं च । धृषेः क्विनि द्वित्वमन्तोदात्तत्वं च । सृजेः क्रमणि क्विन्, अमागमश्च । दिशेः कर्मणि क्विन् । उत्पूर्वात्स्निहेः क्विन्, उदोदलोपः, षत्वं च । अञ्चेः सुप्युपपदे क्विन् । युजे केवलात् क्विन् । क्रुञ्चेः क्विन्, नलोपाऽभावश्च निपात्यते । यद्यपि अञ्चे केवलस्यैवोपादानं तथाप्युष्णिक्शब्दसाहचर्यात्सोपपदस्यैवाञ्चेग्र्रहणमित्याहुः । निरुपपदादिति । क्विन्विधिफलं हि नुमो नस्य कुत्वमेव । नुम् च असमासे एव वक्ष्यते । समासे तु सुयुगित्यादौ जस्यचोः कु॑रिति कुत्वेनैव सिद्धतया क्विनि क्विपि च विशेषाऽभावादिति भावः । कनाविताविति । 'लशक्वतद्धिते' इति हलन्त्य॑मिति च सूत्राभ्या॑मिति शेषः । वकारादिकारस्तूच्चारणार्थः ।", "32060": "<<त्यदादिषु दृशोऽनालोचने कञ् च>> - अथ शान्ताः । तादृक्शब्दं व्युत्पादयितुमाह — त्यदादिषु । चकारात्स्पृशोऽनुदके क्विन् इत्यतः 'क्विन्' इत्यनुकृष्यते । आलोचनमिह ज्ञानसामान्यं विवक्षितं, तदाह — त्यदादिष्वित्यादि । अनालोचने किम् । तं पश्यति तद्दर्शः । कर्मण्यण् । कञि तु कित्त्वाद्गुणो न स्यात् । तद् शब्दे उपपदे क्विनि उपपदसमासे सुब्लुकि तद्-दृश् इति स्थिते ।", "32061": "<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि क्विप्>> - सत्सूद्विष । सद्, सू, द्विष,द्रुह, दुह, युज, विद, भिद, छिद, जि , नी, राज् एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी । 'अनुपसर्गे' इत्यस्य निवृत्त्यैव सिद्धेउपसर्गेऽपी॑ति वचनमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं नेति ज्ञापनार्थम् । तेन 'वदः सुपि क्यप् चे' ति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम् । द्युसदिति । दिवि सीदतीति विग्रहः ।सात्पदाद्यो॑रिति न षत्वम् ।पूर्वपदा॑दिति षत्वं तु न भवति, तस्य च्छान्दसत्वात् ।॒आदितेया दिविषदः॑ इत्यत्र सुषामादित्वात्वमित्याहुः । उपनिषदिति ।सदिरप्रते॑रिति षत्वम् । इत्यादीति । काष्ठभित्, रज्जुच्छित् । शत्रुजित् । अत्रह्रस्वस्य पिती॑ति तुक् । सेनानीः । विराट् । अंशभागीति । णित्त्वादुपधावृद्धिः ।", "32062": "", "32063": "", "32064": "", "32065": "", "32066": "", "32067": "", "32068": "<<अदोऽनन्ने>> - अदोऽनन्ने । विट् स्यादिति । शेषपूरणमिदम् । अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम् ।जनसनखनक्रमगमो वि॑जिति छान्दससूत्राद्विडित्यनुवर्तते । सस्यादिति । सस्यमत्तीति विग्रहः । अन्नाद इति । कर्मण्यण् ।", "32069": "<<क्रव्ये च>> - क्रव्ये च । अदेर्विडिति । शेषपूरणमिदम् । अण्बाधनार्थमिति । क्रव्ये अदेर्विडेव, न त्वणित्यर्थलाभादिति भावः । कथं तर्हीति ।क्रव्ये उपपदे अदेर्विडेवे॑ति नियमादणोऽसंभवादित्याक्षेपः । समाधत्ते — पक्वमांसशब्ददिति । तर्हि 'पक्वमांसाद' इति स्यादित्यत आह — उपपस्य क्रव्यादेश इति । कुत इत्येत आह — पृषोदरादित्वादिति ।", "32070": "<<दुहः कब् घश्च>> - दुहः कुब्धश्च । सुप्युपपदे दुहेः कप्स्यात्, प्रकृतेर्घश्चान्तादेश इत्यर्थ- । कामदुघेति ।धेनु॑रिति शेषः । कामम् = अपेक्षितं दुग्धे इति विग्रहः ।", "32071": "", "32072": "", "32073": "", "32074": "", "32075": "<<अन्येभ्योऽपि दृश्यन्ते>> - अन्येभ्योऽपि दृस्यन्ते । 'विजुपे छन्दसि'आतोमिन्क्वनिब्वनिपश्चे॑त्यधिकारे इदं इत्, इकार उच्चारणार्थः । विचि चकार इत् इकार उच्चारणार्थः ।", "32076": "<<क्विप् च>> - क्विप् च । अयमपीति । सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि लोके च क्विप् दृश्यते इत्यर्थः । नन्वनेनैव सिद्धेसत्सूद्विषे॑ति सूत्रं व्यर्थमित्यत आह — सत्सूद्विषेति ।सत्सूद्विषे॑ति सूत्रं तुक्विप् चे॑त्यस्यैव प्रपञ्च इत्यर्थः । उखारुआदिति । उखायाः रुआंसत इति विग्रहः । रुआंसेः क्विप्,अनिदिता॑मिति नलोपः, 'वसुरुआंसु' इति दत्वम् । एवं पर्णध्वत् । पर्णात् द्वंसत इति विग्रहः । वाहभ्रडिति । वाहात् भ्रश्यतीति विग्रहः । व्रश्चादिना षः ।", "32077": "<<स्थः क च>> - स्थः क च ।के॑त्यविभक्तिकम् । स्थ इति पञ्यम्यन्तम् ।चात् क्विबिति । उपसर्गे अनुपसर्गे च सुबन्धे उपपदे स्थाधातोः कप्रत्ययः स्यात्, क्विप् चेति फलितम् । शंस्थ इति । शमित्यव्ययं सुखे । तत्पूर्वात्स्थाधातोः कप्रत्यये आतो लोपः । शंस्था इति, - क्विपि रूपम् ।सुखं स्थापयतीत्यर्थः । तिष्टितरन्तर्भावितण्यर्थः ।शंस्थाट इति भाष्यप्रयोगात्पृषोदरादित्वाच्चघुमास्थे॑ति ईत्त्वं न । केचित्तुक चे॑ति चकाराद्विजेवानुकृष्यते इत्याहुः । ननु 'सुपि स्थः' इति कप्रत्ययेक्विप् चे॑ति क्विपि च सिद्धे किमर्थमिदमित्यत आह — शमिधातोरित्यचमिति । अन्यथा धातुग्रहणसामर्थ्यात्कृञो हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपं च अच्प्रत्ययो बाधेतेति भावः ।", "32078": "<<सुप्यजातौ णिनिस्ताच्छिल्ये>> - सुप्यजातौ । 'सुपि स्थः' इत्यतः सुपीत्यनुवृत्तौ पुनः सुब्ग्रहणमुपसर्गेऽपि विधानार्थमम् । अन्यथा 'आतोऽनुपसर्गे' इत्यतोऽनुपसर्गे इत्यनुवर्तेत । तद्ध्वनयन्नुदाहरति — उष्णभोजीति । उष्णभोजनशील इत्यर्थः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तुसत्सूद्विषे॑ति सूत्रादुपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तुसत्सूद्विषे॑ति सूत्रादुपसर्गेऽपीत्यनुवृत्तये इति भावः । उत्प्रतिभ्यामिति । उत्प्रतिभ्यां परे आङि प्रयुज्यमाने सति तत्पूर्वात्सर्तेर्णिनेरुपसङ्ख्यानमिति तदर्थः । उदासारिणी प्रत्यासारिणीत्युदाहरणम् । भाष्यविरोधादिति । सुब्ग्रहणमुपसर्गग्रहणाऽनुवृत्तिनिवृत्त्यर्थम्, उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोर्णिनिरित्येव भाष्ये उदाहृतत्वादिति भावः । तथा चउत्प्रतिभ्यामाङि सर्ते॑रिति वचं नादर्तव्यम् । भाष्ये तत्पाठस्तु प्रक्षिप्त एवेति भावः । अत एव 'अनुगादिनष्ठ' गिति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम् ।उपसर्गभिन्न एव सुपि णिनि॑रिति मतं शिष्टप्रयोगविरुद्धं चेत्याहु — — प्रसिद्धश्चोपसर्गेऽपि णिनिरिति ।इत्यादा॑वित्यत्रान्वयः । साधुकारिणीति । कृञ्ग्रहणं सर्वधातूपलक्षणम् । साधुकारीत्यात्युदाहरणात् । ब्राहृणि वद इति ।णिनेरुपसङ्ख्यान॑मिति शेषः ।णिनेरुपसङ्ख्यान॑मिति शेषः । ननु 'सुप्यजातौ' इत्येव सिद्धे किमर्थमिदं वार्तिकमित्यत आह — अताच्छील्यार्थमिति । साधुदायीति । आतो युक् । ब्राहृवादीति । ब्राहृ - वेदः ।", "32079": "<<कर्तर्युपमाने>> - कर्तर्युपमाने । कर्तुरुपमानमिति ।चे॑दित्यध्याहार्यम् । ननु 'सुप्यजातौ' इति सिद्धे किमर्थमिदमित्यत आह — अताच्छील्यार्थमिति ।", "32080": "", "32081": "<<बहुलमाभीक्ष्ण्ये>> - बहुलमाभीक्ष्ण्ये । जातावप्युपपदे प्राप्त्यर्थमिदम् । तद्ध्वनयन्नुदाहरति — क्षीरपायिण इति ।", "32082": "<<मनः>> - मनः । दैवादिकस्यैव मनेग्र्रहणं न तु तानादिकस्य, बहुलग्रहणाऽनुवृत्तेः । तदाह — मन्यतेरिति । मनुतेग्र्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते ।", "32083": "<<आत्ममाने खश्च>> - आत्मामने खश्च । आत्मनः = स्वस्य, मानः = मननम् - आत्ममानः । तदाह — स्वकर्मके मनने इति । पण्डितम्भन्य इति । खशः शित्त्वेन सार्वधातुकत्वाच्छ्यन् । खित्त्वात्अरुर्द्विषटदिति मुम् । तानादिकस्य मनेग्र्रहणे तु उविकरणः स्यात् । कालीमात्मानं मन्यते इत्यर्थे खशि श्यनि कृते आह — खित्यनव्यवयस्येति ।स्त्रियाः पुंव॑दिति पुंवत्त्वं बाधित्वा परत्वाद्ध्रस्व इत्यर्थः । दिवामन्येति । अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम् ।", "32084": "<<भूते>> - भूते । अधिकारोऽयमिति । धातोरित्यधिकृतम् । ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्राऽनुवर्तते इति फलति । वर्तमाने इति ।वर्तमाने ल॑डित्यतः प्रागित्यर्थः । अत्र व्याख्यानमेव शरणम् ।", "32085": "<<करणे यजः>> - करणे यजः । सोमेनेति । सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः । सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः । एतच्च द्वितीयस्य द्वितीयेद्रव्यसंयोगाच्चोदना पशुसोमयो॑रित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । अग्निष्टोमयाजीति । अग्निष्टोमाख्ययागेन अपूर्वं भावितवानित्यर्थः ।", "32086": "<<कर्मणि हनः>> - कर्मणि हनः । कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । 'हनस्तः' इति तः,हो हन्ते॑रिति हस्य घः ।", "32087": "<<ब्रह्मभ्रूणवृत्रेषु क्विप्>> - ब्राहृभ्रूण । पूर्वसूत्रात्कर्मग्रहमाऽनुवृत्तेराह — कर्मस्विति । हन्तेभूते इति । भूतार्थवृत्तेर्हन्तेरित्यर्थ- । चतुर्विध इति । पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाच्चतुष्र्वपि निवेश इति भावः । तत्रब्राहृआदिष्वेव हन्ते॑रिति नियमात् पुरुषं हतवानित्यत्र न क्विप् ।ब्राहृआदिषु हन्तेरेवे॑ति नियमाद्ब्राहृ अधीतवानित्यत्र न क्विप् ।ब्राहृआदिषु हन्तेर्भूतकाले एवे॑ति नियमाद्ब्राहृ हन्ति हनिष्यति वेत्यत्र न क्विप् ।क्विबेवे॑ति नियमाद्ब्राहृ हतवानित्यतर् अण् न भवति, किंतुब्राहृभ्रूणे॑ति क्विबेव । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः । द्विविध इति । 'उभयतो नियमोऽयम्' - ब्राहृआदिष्वेव॑क्विबेवे॑ति च भाष्यमित्यर्थः । एवं चहन्तेरेव॑,भूत एवे॑ति नियमद्वयमुपेक्ष्यमिति भावः ।", "32088": "", "32089": "<<सुकर्मपापमन्त्रपुण्येषु कृञः>> - सुकर्म.सु, कर्म, पाप, मन्त्र, पुण्य एषां पञ्चानां द्वन्द्वः । त्रिविध इति ।सुकर्मादिषु भूते कृञः क्विबेवे॑ति,सुकर्मादिषु भूते कृञ एव क्विबिति,सुकर्मादिषु भूते कृञ एव क्वि॑बितिसुकर्मादिषु भूत एव कृञ॑ इति त्रिविध इत्यर्थः । अण् नेति । क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेरिति भावः । स्वादिष्वेवेति । सुकर्मादिषु पञ्चस्वित्यर्थः ।", "32090": "<<सोमे सुञः>> - समो सुञः । सोमे कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः । चतुर्विध इति । पूर्ववद्व्याख्येयम् । एवमिति ।अग्नौ चे॑रित्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः ।", "32091": "<<अग्नौ चेः>> - अग्नौ चेः । ग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्चिनोतेः क्विप् स्यादित्यर्थ- । अग्निचिदिति । अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः ।", "32092": "<<कर्मण्यग्न्याख्यायाम्>> - कर्मण्यग्न्याख्यायाम् । कर्मणीत्यनुवृत्तमुपपदसमर्पकम् । अत्रत्यं तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् । तथा चाऽत्र कर्तरीति न सम्बध्यते । तदाह — कर्मण्युपपदे इत्यादि । चिनोतेरिति । भूतार्थादित्यपि बोध्यम् । श्येन इवेति । श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः । श्येनाकृतिक इति यावत् ।", "32093": "<<कर्मणीनिविक्रियः>> - कर्मणीनि विक्रियः । 'इनि' इत्यविभक्तिकम् । विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः । सोमविक्रयीति । सोमद्रव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः ।", "32094": "<<दृशेः क्वनिप्>> - दृशेः क्वनिप् ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यन्ते॑ इत्येव क्वनिपि सिद्धे तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदं, सोपपदाऽणादिबाधनार्थं च । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवाऽत्र पुनः क्विब्ग्रहणेन निवृत्तेः । पारं दृष्टवान् ।", "32095": "<<राजनि युधिकृञः>> - राजनि युधि कृञः । युधि, कृञ् अनयोः समाहारद्वन्द्वात्पञ्चमी । क्वनिप् स्यादिति । राजनि कर्मण्युपपदे भूतार्ताद्युधेः कृञश्च क्वनिबित्यर्थः । ननु युधेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आह — युधिरन्तर्भावितेति । राजकृत्वेति.राजानं कृतवानित्यर्थः ।", "32096": "<<सहे च>> - सहे च । सहशब्दे उपपदे युधिकृञ्भ्यां क्वनिबित्यर्थः ।", "32097": "<<सप्तम्यां जनेर्डः>> - सप्तम्यां जनेर्डः । सप्तम्यन्ते उपपदे जनेर्भूताऽर्थाड्ड इत्यर्थः । सरसिजमिति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । `हलदन्तात्` इति `तत्पुरुषे कृति` इति वा अलुक् । मन्दुरज इति । वाजिशाला तु मन्दुरेत्यमरः ।", "32098": "<<पञ्चम्यामजातौ>> - पञ्चम्यामजातौ । जनेरिति ।भूतार्था॑दिति शेषः । संस्कारज[म] इति । संस्काराज्जात्[म] इत्यर्थः ।", "32099": "<<उपसर्गे च संज्ञायाम्>> - उपसर्गे च । 'जनेर्ड' इति शेषः । संज्ञायामिति समुदायोपाधिः ।", "32100": "<<अनौ कर्मणि>> - अनौ कर्मणि । ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्र्थस्य कथमन्वय इत्यत आह — पुमांसमनुरुध्येति । अनुरुध्य जननं धात्वर्थ इति भावः । पुमनुजेति । पुंसिति पूर्वपदे संयोगान्तलोप इति भावः ।", "32101": "<<अन्येष्वपि दृश्यते>> - अन्येष्वपि दृश्यते । अज इति । न जात इत्यर्थः । द्विजो ब्राआहृण इति । द्विर्जात इत्यर्थ- ।मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धना॑दित्यादिस्मृतेरिति भावः । अपि शब्द इति । 'सप्तम्यां जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि प्रकृतिविशेषरूपाणि, भूते कर्तरीति प्रत्ययार्थविशेषणं च तदतिक्रमार्थ इत्यर्थः ।", "32102": "<<निष्ठा>> - निष्ठा । भूते इति धातोरिति चाधिकृतम् । तदाह — भूतार्थेत्यादि । भावकर्मणोः क्त इति । तथा च क्तप्रत्ययविषये कर्तरीति न संबध्यते इति भावः । कर्तरि क्तवतुरिति । कृत्यक्तखलर्थानामेव भाव कर्मणोर्विधानादिति भावः ।तयोरेव कृत्युक्ते॑त्यत्रलः कर्मणी॑त्यस्मात्सकर्मकेभ्यः कर्णि कर्तरि च अकर्मकेभ्यो भावे कर्तरि चेत्यनुवर्तते । ततश्च अकर्मकेभ्यो भावे क्तः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वोदाहरति — स्नातं मयेति । अकर्मकत्वाद्भाव क्तः । स्तुतस्त्वया विष्णुरिति । सकर्मकत्वात्कर्मणि क्तः । कर्तरि क्तवतुमुदाहरति — विष्णुर्विआमिति ।", "32103": "<<सुयजोर्ङ्वनिप्>> - सुयजोर्ङ्वनिप् । पञ्चम्यर्थे षष्ठी । सुनोतेर्यजेश्च ङ्वनिबित्यर्थः । भूते इति । अस्य भूताधिकारस्थत्वादिति भावः । सुत्वा सुत्वानाविति । ङ्वनिपि ङपावितौ , इकार उच्चारणार्थः । ङित्त्वान्न गुणः ।", "32104": "<<जीर्यतेरतृन्>> - जीर्यतेरतृन् । भूते इत्येवेति । भूतार्थवृत्तेर्जृधातोरतृन् स्यादित्यर्थः । ऋकारनकारावितौ । अत्प्रत्ययः शिष्यते । जरन्निति.उगित्त्वान्नुम् । जीर्ण इति ।ऋत इत् । रपरत्वम् । '\tहलि च' इति दीर्घः । निष्ठानत्वम् ।", "32105": "<<छन्दसि लिट्>> - छन्दसि लिट् ।", "32106": "<<लिटः कानज्वा>> - लिटः कानज्वा ।", "32107": "<<क्वसुश्च>> - क्वसुश्च । त्रीणीमानि सूत्राणि । अत्र प्रथम सूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे — भूतसामान्ये छन्दसि लिडिति । अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः ।लिटः कानज्वे॑ति द्वितीयं सूत्रम् । तत्र छन्दसीत्यनुवर्तते, भूते इति च । छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः । लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम् । तेन 'परोक्षे लि' डिति यो लिड्विहितस्तस्यापि ग्रहणार्थः । अन्यथाअनन्तरस्ये॑ति न्यायेन प्रकृतस्यैव लिटो ग्रहणं स्यादिति वृत्तौ स्पष्टम् । वाग्रहणं तु पक्षे लिटः श्रवणाअर्थं, वासऽरूपविधिर्लादेशेषु नेति ज्ञापनार्थं वा । तत्प्रयोजनं तुभाषायां सदवसे॑त्यत्र क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छन्दसि भूते लिटः क्वसुश्चादेशः स्यादित्यर्थः । योगविभागस्तु उत्तरसूत्रे क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छान्दसाविति — अत्रैव भाष्यकैटयोः स्पष्टम् । तदाह — तस्येत्यादि, त्रिमुनिमतमित्यन्तम् ।विभाषा पूर्वाह्णाऽपराह्णे॑ति सूत्रभाष्ये तु पपुष आगतं पपिवद्रूप्यमिति प्रयुक्तम् । तेन लोकेऽपि क्वचिक्त्वसोः साधुत्वं सूचितम् । तदाह - कवयस्त्विति । तस्थिवांसमिति । स्थाधातोर्लिटः क्वसुः । द्वितीयैकवचनेअत्वसन्तस्ये॑ति दीर्घः । उगित्त्वान्नुम् । अधिजग्मुष इति । अधिपूर्वाद्गमेर्लिटः क्वसुः, आङोयमहने॑त्युपधालोपः, शसि वसोः संप्रसारणं, पूर्रूपम् , षत्वम् ।", "32108": "<<भाषायां सदवसश्रुवः>> - भाषायाम् । सद, वस, श्रु एषां द्वन्द्वात्पञ्चमी । पुंस्त्वमेकवचनं चार्षम् । तस्य च नित्यं क्वसुरिति । वाग्रहणं लिटैव संबध्यते, तस्य क्वसुस्तु नित्य इति भाष्ये स्पष्टम् । पक्षे लुङ्, तसय् भूतसामान्ये विहितत्वात् । वाग्रहणाननुवृत्तौ तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात्, सरूपत्वात् । अस्य च भूतसामान्ये लिटो न तिङ्, अस्य क्वसोस्तदपवादत्वात् । वासरूपविधिस्तु लोदेशेषु नेतिलिटः कानज्वे॑त्यत्र उक्तमिति शब्देन्दुशेखरे विस्तरः । निषेदुषीमिति । निपूर्वात्सदेर्लिटः क्वसुः, द्वित्वम्, 'अत एकहल्मध्ये' इत्येत्वाभ्यासलोपौष वसोः संप्रसारणं, पूर्वरूपं, षत्वम् । अध्यूषुष इति । अधिपूर्वाद्वसधातोर्लिटः क्वसुः, याजित्वाद्धातोर्वस्य संप्रसारणम् । पूर्वरूपम् । उस् इत्यस्य द्वित्वं, हलादिशेषः, सवर्णदीर्घः । शसि वसोः संप्रसारणं, पूर्वरूपम् । शुश्रुवानिति । श्रुधातोर्लिटः क्वसुः । द्वित्वम् ।", "32109": "<<उपेयिवाननाश्वाननूचानश्च>> - उपेयिवान । इडिति । उपपूर्वादिण्धातोर्लिटः क्वसुः, नित्यत्वाद्द्वित्वम् । वलादिलक्षण इट्नेड्वशि कृती॑ति प्रतिषिद्धः, स तावत्कादिनियमात्पुनरुत्थितः । पुनश्चवस्वेकाजाद्धसा॑मितिसूत्रेण एकाच्श्च आदन्ताच्च घसेश्च परस्य वसोरिट् स्यान्नान्येभ्य॑ इत्यर्थकेन द्वित्वनन्तरमनेकाच्त्वात्प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम् । इटि कृते उत्तरखण्डस्य इकारस्य यण् । अभ्यासस्य दीर्घस्तु न निपात्यते । नन्वत्र अपूर्व इट् निपात्यतामित्यत आह — उपेयुषीति । उगित्त्वान्ङीपि वसोः संप्रसारणम् । प्रतिसूतो वलादिलक्षण इट् तु न, तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात् । अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः । उपेत्यविवक्षितमिति । अत्र व्याख्यानमेव शरणम् । अश्नातेरिति । 'अश भोजने' श्नाविकरणः क्र्यादिः, लिटः क्वसुः, द्वित्वम्,अत आदे॑रिति दीर्घः, सवर्णदीर्घः, द्वहल्त्वाऽभावान्न नुट् ।अश्नोतेश्चे॑त्यपि न नुट्, श्नुविकरणस्थस्यैव तत्र ग्रहणात् । नञ उपपदसमासः । 'नलोपो नञः'तस्मान्नुडची॑ति भावः । वचेः कर्तरीति । न तु भावकर्मणोरिति भावः । कानचि यजादित्वात्संप्रसारणं, पूर्वरूपं, सवर्णदीर्घः ।विभाषा गमहने॑त्यादि स्पष्टम् ।", "32110": "<<लुङ्>> - लुङ् । धातोरिति भूत इति चाधिकृतम् । तदाह — भूतार्थवृत्तेरिति ।", "32111": "<<अनद्यतने लङ्>> - अनद्यतने लङ् । धातोरिति, भूत इति चाधिकृतम् । भूत इति धात्वर्थेऽन्वेति । तदाह — अनद्यतनभूतार्थवृत्तेरिति ।", "32112": "<<अभिज्ञावचने लृट्>> - अभिज्ञावचने लृट् । अभिज्ञा = स्मृतिः, सा उच्यते बोध्यते अनेनेति विग्रहः । तदाह — स्मृतिबोधिन्युपपदे इति । स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः । 'भूते' इत्यधिकृतम् ।अद्यतने ल॑ङित्यतोऽनद्यतने इत्यनुवर्तते । तदाह - भूतानद्यतने इति । लङ इति ।अनद्यतने ल॑ङित्यस्यापवाद इत्यर्थः । स्मरसीति । हे कृष्ण ! गोकुले अवसामेति यत्तत्स्मरसीत्यर्थः । अत्र वाक्यार्थः कर्म । कृतं गोकुलवासं स्मरसीति यावत् । एवमिति । समरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगेऽपि लृडित्यर्थः । ननु बुध्यत्यादेः स्मृत्त्विएन रूपेण स्मृत्यर्थकत्वाऽभावात्कथमिहि लृडित्यत आह — तेषामपीति । पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लृट् । एतदर्थमेव वचनग्रहणमिति भावः ।", "32113": "<<न यदि>> - न यदि ।यदी॑ति सप्तमीति मत्वाह - यद्योगे इति । उक्तं नेति । 'अभिज्ञावचने' इति लृण्न भवतीत्यर्थः । अभिजानासीति । वने अभुञ्जमहीति यत्तस्मरसीत्यर्थः ।", "32114": "<<विभाषा साकाङ्क्षे>> - विभाषा । उक्तविषये इति । अभिज्ञाबोधिन्युपपदे इत्यर्थः । लक्ष्यलक्षणभावेनेति । ज्ञाप्यज्ञाप्यकभावेनेत्यर्थः । अत्र व्याख्यानमेव शरणम् । स्मरसीति । पूर्वं वने अवसाम, तत्र वने गा अचारयामेति यत्तत् हे कृष्ण ! स्मरसीत्यर्थः । अत्र यदित्यस्य गम्यत्वेऽपि तस्य प्रयोगाऽभावान्न यद्योगः । वासो लक्षणमिति ।चारणस्ये॑ति शेष- । उभयत्रापि लृड्विकल्पः, अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । न च यद्योग एव 'विभाषा साङ्काक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यं,यदि च अयदि चाऽयं विकल्प॑ इति भाष्यात्तदाह — यच्छब्दयोगेऽपीति ।परोक्षे लि॑डिति प्राग्व्याख्यातमपि विशेषविवक्षया स्मार्यते । अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाऽभावात्कथमस्य लिट उत्तमपुरुष इत्यत आह — उत्तमपुरुषे चित्तेति । सुप्त इति । सुप्तत्वादहं विललापेत्यर्थः । अत्र स्वापाच्चित्तविक्षेपः । बहु जगदेति । मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः । अत्र उन्मादाच्चित्तविक्षेपः । आदिना व्यासङ्गसङ्ग्रहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलिङ्गेष्ववात्सीरिति । अतस्त्वं न सहवासयोग्य इति प्रश्नः ।अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना यातः पुनः संस्कारमर्हति.॑ इति वचनादिति भावः । नाहं कलिङ्गान् जगामेत्युत्तरम् । कलिङ्गशब्दस्य जनपदविसेषवाचित्वाद्बहुवचम् । अत्र तद्देशगमनोत्तरकालिकववासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्रअकर्मकधातुभिर्योगे देशः कालो भावः॑ इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् ।", "32115": "<<परोक्षे लिट्>> - परोक्षे लिट् । अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते । 'भूते' इत्यधिकृतम् । परोक्षत्वं धात्वर्थविशेषणम् । तदाह — भूतानद्यतनेत्यादिना । अतीतरात्रेरन्त्ययामेन आगमिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इति लुङ्सूत्रभाष्ये कैयटे स्थितम् । परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । द्व्यहवृत्तत्वं, त्र्यहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वमितीतरे । एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियाऽगोचरत्वं परोक्षत्वमित्येव सर्वसंमतमित्यलम् । लस्य तिबादय इति । तिबादिनवकमित्यर्थः ।", "32116": "<<हशश्वतोर्लङ् च>> - हशआतोर्लङ् च । स्पष्टम् ।", "32117": "<<प्रश्ने चासन्नकाले>> - प्रश्ने चासन्नकाले ।प्रश्ने इत्यनेन प्रश्नविषयो विवक्षित इत्याह — प्रष्टव्यः प्रश्न इति । अर्थे इत्यन्तरंवर्तमानाद्धातो॑रिति शेषः । प्रयोक्तृदृष्टिपथातिक्रान्तत्वमनासन्न्कालत्वम् । वृत्तौ तु पञ्चवर्षातीतकालोऽनासन्नकाल इत्युक्तम् ।", "32118": "<<लट् स्मे>> - लट् स्मे ।स्मे॑त्यव्ययम् । तद्योगे लिड्विषये लट् स्यादित्यर्थः । यजति स्मेति । स्मशब्दो भूतकालद्योतकः ।", "32119": "<<अपरोक्षे च>> - अपरोक्षे च । एवं स्मेति । पिता एवमुक्तवानित्यर्थः ।", "32120": "<<ननौ पृष्टप्रतिवचने>> - ननौ पृष्ट । निवृत्तमिति । व्याख्यानादिति भावः । अकार्षीः किमिति प्रश्नः । ननु करोमीत्युत्तरम् । अकार्षमित्यर्थः । नन्विति संबोधने ।", "32121": "<<नन्वोर्विभाषा>> - नन्वोर्विभाषा । न नु अनयोद्र्वन्द्वः । तदाह — नशब्दे नुशब्दे चेति । लड्वा स्यादिति 'भूते' इति शेषः । अकार्षीः किमिति प्रश्नः । न कोरमि, नाकार्षमित्युत्तरम् । अहं नु करोमि, अहं न्वकार्षमिति च ।तर्के नु स्या॑दित्यमरः ।", "32122": "<<पुरि लुङ् चास्मे>> - पुरि लुङ् चास्मे ।अस्मे इति च्छेदः । पुरेत्याकारान्तमव्यम् । पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभाघादाल्लोपः । मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चाल्लडिति । तथा च लुङ् लट् च वेति फलितम् । पक्षे इति । एतदुपभयाऽभावपक्षे इत्यर्थः । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाऽविवक्षायां तु लङित्यर्थः । 'अभिज्ञावचने ' इत्यारभ्य एतदन्ता विधयस्तृतीयस्य द्वैतीयीकाः । अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते । भविष्यतीत्यनुवर्तमाने इति । 'भविष्यति गम्यादयः' इति सूत्रादिति भावः ।", "32123": "<<वर्त्तमाने लट्>> - वर्तमाने लट् ।धातो॑रिति सूत्रमा तृतीयाध्यायसमाप्तेरधिकृतम् । 'वर्तमाने' इति तत्रान्वेति । वर्तमानेऽर्थे विद्यमानाद्धातोर्लडिति लभ्यते । फलितमाह — वर्तमानक्रियावृत्तेरिति । धात्वर्थक्रियाया वर्तमानत्वं तु वर्तमानकालवृत्तित्वम् । कालस्य तु वर्तमानत्वम् — अतीतानागतभिन्नकालत्वम् ।भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानः काल॑ इति भाष्यम् । वर्तमानत्वं च न प्रत्ययार्थभूतकत्र्रादिविशेषणम् । अतीतपाकादिक्रिये कर्तरि वर्तमाने पचतीत्याद्यापत्तेः, किंतु धात्वर्थविशेषणमेव वर्तमानत्वम् । लट् तु तस्य द्योतक एव । अटाविताविति । न च अकार उच्चारणार्थ एवास्त्विति वाच्यं, लिडादि वैलक्षण्याय तस्यावश्यकत्वात् । तथा च तस्य इत्संज्ञां विना निवृत्त्युपायाऽभावादित्संज्ञैवादर्तव्येति भावः ।", "32124": "<<लटः शतृशनचावप्रथमासमानाधिकरणे>> - लटः शतृशानचौ ।वर्तमाने ल॑डिति पूर्वसूत्रविहितस्यैव एतौ शतृशानचौ, अनन्तरस्येति न्यायादिति 'वर्तमानसामीप्ये' इत्यादिभाष्ये स्पष्टम् । शतृप्रत्यये शकारऋकारावितौ । पचन्तमिति । पाकानुकूलव्यापाराश्रयमित्यर्थः,क्रियाप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि॑ति सिद्धान्तात् । शतुः शित्त्वेन सार्वधातुकच्छपि 'अतो गुणे' इति पररूपम् । शानचि शाचवितौ ।", "32125": "<<सम्बोधने च>> - संबोधने च ।शतृशानचा॑विति शेषः । प्रथमासमानाधिकरणार्थ आरम्भः । पूर्सूत्रस्थपुनर्लड्ग्रहणस्य अधकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम् ।", "32126": "<<लक्षणहेत्वोः क्रियायाः>> - लक्षणहेत्वोः । लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणं = ज्ञापकम् । तदाह — क्रियायाः परिचायके इति । धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् । कर्तैव प्रत्ययार्थः । शयाना भुञ्जते यवना इति । अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम् । हेतावुदाहरति — अर्जयन्वसतीति । अर्जनाय वसतीत्यर्थः ।हेतावुदाहरणान्तरमाह — हरिं पश्यन्निति । हरिदर्शनेन संसारदुःखान्मुच्यते इत्यर्थः । ननु धनाद्यार्जनस्य वाससाध्यतया कथं तस्य वासहेतुत्वमित्यत आह — हेतुः फलं कारणं चेति । इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्यापि वासहेतुमिति भावः । प्रपीयमाण इति । अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह — कृत्यचेति ।", "32127": "<<तौ सत्>> - तौ सत् । 'लटः शतृशानचौ' इति सूत्रोपात्तौ शतृशानचौ तच्छब्दः परामृशति । तदाह — तौ शतृशानचाविति ।", "32128": "<<पूङ्यजोः शानन्>> - पूङ्यजोः शानन् । पञ्चम्यर्थे षष्ठी । वर्तमाने इति । शेषपूरणमिदम् ।वर्तमाने ल॑डित्यतस्तदनुवृत्तेरिति भावः । लड्ग्रहणं तु निवृत्तम् । ततश्च ण्वुलादिवत्स्वतन्त्रोऽयं , न तु शत्रादिवल्लादेशः । तथा च कर्तर्येवायं, न तु भावकर्मणोः । न च लादेशत्वाऽबावेसोमं पवमानट इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यं,न लोके॑ति सूत्रे 'तृन्' इति प्रत्याहार इत्युक्तत्वात् ।", "32129": "<<ताच्छील्यवयोवचनशक्तिषु चानश्>> - ताच्छील्य । चानशि शचावितौ । भोगं भुञ्जान इति । भोगशील इत्यर्थः । कवचं विभ्राण इति । यौवनबालदिति भावः । शत्रुं निघ्ना इति । निहन्तुं शक्त इत्यर्थः । अतः परत्वाऽभावान्न मुक् । चानशो लादेशत्वाऽभावादनामत्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः ।", "32130": "<<इङ्धार्योः शत्रकृच्छ्रिणि>> - इङ्धार्योः । शतृ- अकृच्छ्रिणीति छेदः । अकृच्छ्रम् = अदुःखम्, तदास्यास्तीति अकृच्छ्री । इङ्, धारि अनयोद्र्वन्द्वात् पञ्चम्यर्थे षष्ठी । अधीयन्निति । सुखमध्येतेत्यर्थः । धारयन्निति । सुखेन धारयितेत्यर्थः ।", "32131": "<<द्विषोऽमित्रे>> - द्विषोऽमित्रे । द्विषः शतृप्रत्ययः स्यादमित्रे कर्तरीत्यर्थः ।", "32132": "<<सुञो यज्ञसंयोगे>> - सुञो यज्ञ । यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः । संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम् । तेन याजकेषु न भवति । तत्र सुन्वन्नित्येकवचनान्तं दशपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात् । बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह — सर्वे सुन्वन्त इति ।", "32133": "<<अर्हः पूजायाम्>> - अर्हः प्रशंसायाम् । अर्ह इति पञ्चमी । 'शतृप्रत्यय' इति शेषः । अर्हन्निति । पूजां प्राप्तुं योग्य इत्यर्थः । अत्र प्रशस्तस्यैव पूजायोग्यत्वात्प्रशंसा गम्यते ।", "32134": "<<आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु>> - आ क्वेः । आङभिविधौ । तदाह — क्विपमभिव्याप्तेति ।भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्वि॑ बिति सूत्रमभिव्याप्येति यावत् । तत्र ताच्छीलिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नेति 'आढसुभगे' ति सूत्रे भाष्ये स्पष्टम् । तच्छीलः = तत्स्वभावः । फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् । स धर्मो यस्य स तद्धर्मा । स्वधर्मोऽयमिति प्रवर्तमानः । तस्या = धात्वर्थस्य साधुकर्ता तत्साधुकारी ।", "32135": "<<तृन्>> - तृन् । धातोस्तृन्प्रत्ययः स्यात्तच्छीलादिषु कर्तृषु । तच्छीले उदाहरति — कर्ता कटमिति । कटकरणक्रियाशील इत्यर्थः ।न लोके॑ति षष्ठीनिषेधः,न लोके॑ति सूत्रेतृ॑न्नित्यनेन 'लटः शत' इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहारश्रयणात् । तद्धर्मणि यथा — मुण्डयितारः श्राविष्ठायना भवन्ति ऊढां वधूम् । श्राविष्ठायना नाम देशविशेषीया वधूमुण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः । तत्साधुकारिणिकर्ता कट॑मित्येवोदाहरणम् ।कटं साधु करोतीत्यर्थः ।", "32136": "<<अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद- रुच्यपत्रपवृतुवृधुसहचर इष्णुच्>> - अलङ्कृढञ् । अलङ्कृञ्, निराकृञ्, प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर एषां द्वादशनां द्वन्द्वात्पञ्चमी । एभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् स्यात् । इत्यादीति । निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, वर्धिष्णुः, सहिष्णुः, चरिष्णुः ।", "32137": "<<णेश्छन्दसि>> - णेश्छन्दसि । ण्यन्ताद्धातोरिष्णुच् स्याच्छन्दसीत्यर्थ- । पारयिष्णव इति । पृधातोण्र्यनतादिष्णुचि णेर्लोपं बाधित्वाअयमन्ताल्वाय्ये॑त्यय् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् ।", "32138": "<<भुवश्च>> - भुवश्च । छन्दसीत्येवेति । भूधातोरिष्णुच् स्यात्तच्छीलादिषु छन्दसीत्यर्थ- । अण्यन्तार्थ आरम्भः ।", "32139": "<<ग्लाजिस्थश्च क्स्नुः>> - ग्लाजिस्थश्च । निवृत्तमिति । व्याख्यानादिति भावः । चाद्भुव इत्यनुवकृष्यते । ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी । ग्ला, जि,स्था, भू इत्येभ्यः क्स्नुः स्यात्तच्छीलादिष्वित्यर्थः । ककार इत् । 'स्थास्नु' इत्यत्र कित्त्वलक्षणं 'घुमास्थे' तीत्त्वमाशङ्क्याह — गिदयमिति । सूत्रे चर्त्वेन ककारनिर्देश इति भावः । गित्त्वान्न गुण इति ।क्क्ङिति चे॑त्यत्र गस्य चर्त्वेन ककारान्तरप्रश्लेषादिति भावः । ननु भूष्णुरित्यत्र इट् स्यात्,श्र्युकः किती॑ति कित एव इण्निषेधात् , अस्य च गित्त्वादित्यत आह — श्र्युक इति । प्रश्लेषादिति । चर्त्वेनेति भावः ।", "32140": "<<त्रसिगृधिधृषिक्षिपेः क्नुः>> - त्रसिगृधि ।तच्छीलादिषु कर्तृष्वि॑ति शेषः । त्रस्नुरिति ।नेड्वशी॑ति नेट् । गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः ।", "32141": "<<शमित्यष्टाभ्यो घिनुण्>> - शमित्यष्टाभ्यः । इति शब्द आदिपर्यायः । शमादयो दिवादौ स्थिताः । तेभ्योऽष्टाभ्यो घिनुण् स्यात्तच्छीलादिष्वित्यर्थः । घित्त्वमुत्तरसूत्रार्थम् ।अकर्मकेभ्य एव घिनु॑णिति भाष्यम् । शमिनितरा शमिनीतरेति । शमिन्शब्दात्स्त्रियां नान्तलक्षणङीबन्तात्तरबन्ताट्टाप् । ह्रस्वविकल्प इति । भाष्यमते उगित्त्वाद्ध्रस्वः । काशिकामते तु उगित्त्वाऽभावन्न ह्रस्वः । न च ह्रस्वाऽभावे 'तसिलादिषु' इति पुंवत्त्वं शङ्क्यं,संज्ञापूरण्योश्चे॑ति निषेधात् । ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी शमिनौ इत्यादौउगिदचा॑मिति नुम् स्यादित्याशङ्क्य निराकरोति — न चैवमपि । झल्ग्रहणमपकृष्येति । 'नपुंसकस्य झलचः' इति उत्तरसूत्रादिति भावः । एतच्च प्रकृतसूत्रे, 'युवोरनाकौ' इति सूत्रे च भाष्ये स्पष्टम् । शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्क्याह — नोदात्तेति । प्रमादीति । प्रमादीति । मान्तत्वाऽभावान्न वृद्धिनिषेधः । ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण्, अलङ्कृञादिसूत्रे उत्पूर्वान्मदेर्विशिष्य इष्णुचो विधानादित्यताअह — उत्पूर्वादित्यादिना । ननु कथमत्र ताच्छीलिके घिनुणि वाऽसरूपविधिप्रवृत्तिः,ताच्छीलिकेषु वाऽसरूपविधिर्नास्ती॑ति निषेधादित्यत आह — ताच्छीलिकेष्विति । इयं परिभाषानन्दहिंसे॑त्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् । प्रायिकमिति । एतच्चसूददीपदीक्षश्चे॑ति दीपग्रहणादितिजुचङ्क्रम्यदन्द्रम्ये॑ति सूत्रे भाष्ये स्पष्टम् ।", "32142": "<<संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज- परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह- दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज- भजातिचरापचरामुषाभ्याहनश्च>> - संपृचानु । संपृच, अनुरुध, आडम, आडस, परिसृ, संसृज, परिदेवि, संज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, द्रुह, दुह, युज, आक्रीड, विविच, त्यज, रज, भज, तिचर, अपचर, आमुष , अभ्याहन्, एषां सप्तविंशतेद्र्वन्द्वात्पञ्चमी । संपर्कीति ।चजो॑रिति कुत्वम् । अनुरोधीत्यादौ लघूपधगुणः । अदुपधेषु उपधावृद्धिः । परिदेवीति । 'देवृ देवने' भ्वादिः । दीव्यतेस्तु ण्यन्तस्य ग्रहणं , लाक्षणिकत्वात्, अण्यन्तैः साहचर्याच्च । अभ्याघातीति ।हनस्तोऽचिण्णलो॑रिति तत्वम् । 'हो हन्ते' रिति कुत्वम् ।", "32143": "<<वौ कषलसकत्थस्रम्भः>> - वौ कषलस । कष, लस, कत्थ, रुआम्भ् एषां द्वन्द्वात्पञ्चमी । एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः ।", "32144": "<<अपे च लषः>> - अपे च लषः । चाद्वाविति । वौ उपपदेऽपीत्यर्थः । अपे वौ च उपपदे लषोर्घिनुणित्यर्थः । ताच्छील्यादिष्वेव ।", "32145": "<<प्रे लपसृद्रुमथवदवसः>> - प्रे लप । लप, सृ, द्रु, मथ, वद, वस्, एषां षण्णां द्वनद्वात्पञ्चमी । प्रे उपपदे एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः ।", "32146": "<<निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ्>> - निन्दहिंस । निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय एषां दशानां द्वन्द्वः । पञ्चम्यर्थे प्रथमेति । सौत्रं पुंस्त्वमेकवचनं वेति भावः । विनाशेति — विपूर्वस्य नशेण्र्यन्तस्य भाविना णिलोपेन निर्देशः । शकारादकार उच्चारणार्तः । केचित्तुविनाशी॑ति ण्यन्तमेव पठन्ति । परिवादीति — तु ण्यन्तमेव । असूयेति — कण्ड्वदियगन्तः । इत्यादीति । क्लेशकः, खादकः,विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः । ननुअसूयो वु॑ञिति असूयतेरेव वुञ्विधीयतां , न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः । लित्स्वरञित्स्वरयोस्तु नास्ति विशेषः, उभयथाप्याद्युदात्तत्वात् । असूयतेस्तु ण्वुलिलिती॑ति प्रत्ययात्पूर्वं उकार उदात्तः । वुञि तुञ्नित्यादिर्नित्य॑मिति धातोरकार उदात्त इति विशेषः । तस्मादसूयतेरेव वुञ्विधिरिति युक्तमित्यत आह — ण्वुला सिद्धे इति । तृजादयो नेतीति । तच्छीलादिषु वासरूपविदिस्त्तवे हि तद्विषये तृनि प्राप्ते वुञ्विधिरर्थवान् । अतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भावः । इदं च प्रायिकम् । तत्फलं तु ऊत्पूर्वान्मदेरलङ्कृञादिसूत्रेण इष्णुजुक्तो, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् ।", "32147": "<<देविक्रुशोश्चोपसर्गे>> - देवीक्रुशोः । देवीति चुरादिण्यन्तस्य,दिवु क्रीडा॑इत्यस्य च ग्रहणम् । उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः ।", "32148": "<<चलनशब्दार्थादकर्मकाद्युच्>> - चलन । शब्दन इति । 'शब्द शब्दने' चुरादिः । शब्दनं - शब्दोच्चारणम् । धात्वर्थोपसङ्ग्रहादकर्मकः ।", "32149": "<<अनुदात्तेतश्च हलादेः>> - अनुदात्तेतश्च । आदिग्रहणाऽभावे हलन्तादित्यर्थः स्यात्, ततश्च जुगुप्सन इति न स्यात्, सन्नन्तस्य हलन्तत्वाऽभावात् । अस्ति चाऽनुदात्तेत्वं सन्नन्तस्य, 'गुप' इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाऽभावेन सन्नन्तार्थत्वात् ।", "32150": "<<जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः>> - जुचङ्क्रम्य । जु, चङ्क्रम्य, दन्द्रस्य, सृ, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी । एभ्यस्तच्छीलादिषु युच् स्यादित्यर्थः । धातुपाठे जुधातोरदर्शनादाह — सौत्र इति । चङ्क्रमण इति । यङन्ताद्युच् । 'यस्य हलः' इति यकारलोपः, अतो लोपः । एवं दन्द्रमणः, सरणः, गद्र्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम् । पूर्वेणेति ।अनुदात्तेतश्च हलादे॑रित्यनेनेत्यर्थः । तेनेति । उकञ् ह्रयं तच्छीलाधिकारस्थः । तत्र वाऽसरूपविधिनैव उकञाअनुदात्तेतश्च हलादे॑रिति विहितस्य पदेर्युचो बाधो न भविष्यतीति 'जुचङ्क्रम्ये' ति युज्विधिरनर्थकः स्यादतस्तातच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति विज्ञायते इत्यर्थः ।निन्दहिंसे॑ति सूत्रेतच्छीलादिषु वासरूपविधिना तृजादयो ने॑ति ज्ञापितम् । इह तुताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ती॑ति ज्ञाप्यते इति न पौनरुक्त्यम् । तृन्नेति । अलम्पूर्वात्कृञोऽलङ्कृञित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचातृ॑न्निति सामन्यविहितस्तच्चीलाधिकारस्थो बाध्यते इत्यर्थः ।", "32151": "<<क्रुधमण्डार्थेभ्यश्च>> - क्रुधमण्डार्थेभ्यश्च । 'क्रुध कोपे' 'मडि भूषायाम्' एतदर्थेभ्यो धातुभ्यो युच् स्यात्तच्छीलादिष्वित्यर्थः ।", "32152": "<<न यः>> - न यः । 'य' इति पञ्चम्यनतं धातुविशेषणं । तदन्तविधिः । तदाह — यकारान्तादिति । क्नूयिता । क्ष्मायितेति ।क्नुयी शब्दे उन्दन चटक्ष्मायी विधूनने॑ । अनुदात्तेतश्च हलादे॑रिति युच् निषिध्यते । तृनेव भवति ।", "32153": "<<सूददीपदीक्षश्च>> - सूददीप । सूद, दीप, दीक्ष, एषां द्वन्द्वात्पञ्चमी । युज्नेति । शेषपूरणमिदम् ।अनुदात्तेतश्चे॑ति प्राप्तो युच् प्रतिषिध्यते । नन्विह दीपग्रहणं व्यर्थं,नमिकम्पिस्म्यजसकमहिंसदीपोरः॑ इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः । नच वाऽसरूपविधिना तद्बाधः शङ्क्यः, ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत आह — नमिकम्पीति । रेणेति । रप्रत्ययेनेत्यर्थः । प्रायिकमिति । तथा चाऽत्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचो बाधासंभवादिह दीपेर्युचो निषेधोऽर्थवानिति भावः । तेनेति । ताच्छीलिकेऽपि क्वचिद्वासरूपविदेः सत्त्वादित्यर्थः । कम्ना कमनेति । इच्छाशीलेत्यर्थः । अत्रापिनमिकम्पी॑ति रेण युचः पक्षे बाध इति भावः । आक्षिपति — यदीति.यदिसूददीपदीक्षश्चे॑तिसूदेर्युच्प्रतिषिध्यते तदा 'मधुशूदन' इति कथमित्यन्वयः । समाधत्ते — नन्द्यादिरिति ।सूदि॑रिति सेषः । तथा चनन्दिग्रही॑ति ल्युप्रत्यय इति भावः ।", "32154": "<<लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्>> - लषपत । एभ्यो दशभ्य उकञ् स्यात्तच्छीलादिष्वर्थेषु । इत्यादीति । पादुकः । आतो युक् । स्थायुकः । भावुकः । वर्षुकः । घातुकः । 'हनस्तः' इति तत्वम् । 'हो हन्तेति' कुत्वम् । कामुकः । गामुकः । शारुकः ।", "32155": "<<जल्पभिक्षकुट्टलुण्टवृङः षाकन्>> - पुवः संज्ञायाम् । 'इत्र' इति शेषः । करणे इत्येव । पवित्रमिति । पूयते अनेनाऽऽज्यामिति विग्रहः । तदाह — येनाज्यमिति । पूयते आचमनोदकादिकमनेनेति विग्रहं मत्वाऽऽह — यच्चानामिकेति । अनामिका — उपकनिष्ठिकाह्गुलिः ।", "32156": "<<प्रजोरिनिः>> - प्रजोरिनिः । जुः सौत्रो धातुः । प्रपूर्वादस्मादिनिप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । नकारादिकार उच्चारणार्थः ।", "32157": "<<जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च>> - जिदृक्षि । जि, दृ, क्षि, विश्रि, इण्, वम, अव्यथ, अभ्यम, परिभू, प्रसू, एषां दशानं द्वन्द्वः । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां विपूर्वः । इण् गतौ । वमु उद्गिरणे । व्यथ भयसंचलनयोः — नञ्पूर्वः । निपातनान्नञो धातुना समासे 'न लोपो नञः' इति नकारलोपः । अमु गत्यादिषु- अभिपूर्वः । भू सत्तायाम् — परिपूर्वः । षू प्रेरणे प्रपूर्वः । एभ्य इनिः स्यात्तच्छीलादिष्वित्यर्थः । सूतिसूयत्योस्तु सानुबन्धकत्वान्नेह ग्रहणम् ।", "32158": "<<स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्>> - स्पृहिगृहि । स्पृहि, गृहि,पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तम्य आलुच् स्यात्तच्छीलादिष्वित्यर्थः । स्पृहयालुरिति । स्पृहधातोरदन्तादालुच् ।अयामन्ते॑ति णेरय् णिलोपापवादः । अल्लोपस्य स्थानिवत्त्वान्न लघूपधगुणः । एवं गृहयालुः । पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः । निद्रालुरिति ।द्रा कुत्सायां गतौ॑ निपूर्वादालुच् । तत्पूर्वो द्रेति । तच्छब्दपूर्वो द्राधातुस्तन्द्रेत्यनेन गृह्रत इत्यर्थः । श्रद्धालुरिति ।श्र॑दित्यव्ययं, तत्पूर्वाद्धातोरालुच् । शीङो वाच्य इति । आलु॑जिति शेषः ।", "32159": "<<दाधेट्सिशदसदो रुः>> - दाधेट् । दा, धेट्, सि, शद्, सद् एषां द्वन्द्वात्पञ्चमी । एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः ।", "32160": "<<सृघस्यदः क्मरच्>> - सृघस्यदः । सृ, घसि, अद् एषां द्वन्द्वात्पञ्चमी । घसिः प्रकृत्यन्तरम् ।", "32161": "<<भञ्जभासमिदो घुरच्>> - भञ्जभास । भञ्ज, भास, मिद्, एषां द्वन्द्वात्पञ्चमी । एभ्यो घुरच् स्ात्तच्छीलादिष्वित्यर्थः । घचावितौ । भङ्गुर इति ।चजो॑रिति कुत्वम् ।", "32162": "<<विदिभिदिच्छिदेः कुरच्>> - विदिभिदि । तच्छीलादिष्वित्येव । विदेज्र्ञानार्थस्य ग्रहणं, नतु लाभार्थस्य, व्याख्यानादित्याहुः । विदुर इत्यादौ कित्त्वान्न लघूपधगुणः ।", "32163": "<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> - इण्नशिजि । इण्, नशि, जि, सृ एभ्य क्वरप् स्यात्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । पित्त्वं तु तुगर्थम् ।", "32164": "<<गत्वरश्च>> - गत्वरश्च । गमेरिति.गमेः क्वरप्, अनुनासिकलोपश्च निपात्यते इत्र्थः । झलादिप्रत्ययपरकत्वाऽभावादनुनासिकलोपस्याऽप्राप्तिः । पित्त्वात्तुक् । गत्वरीति ।टिड्ढे॑ति ङीप् ।", "32165": "<<जागुरूकः>> - जागुरूकः । 'जागृ' इत्यस्य जागुरित पञ्चम्यन्तं पदम् । तदाह — जागर्तेरिति । तच्छीलादिष्वित्येव । जागरूक इति । ऋकारस्य गुणः, रपरत्वम् । सिद्धरूपं तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् ।", "32166": "<<यजजपदशां यङः>> - यजजपदशां यङः । यज, जप,दश एषां त्रयाणां द्वन्द्वः । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । तच्छीलादिष्वित्येव । ननु दंशेर्नोपधत्वनात्कथं दशामिति निर्देश इत्यत आह — भाविनेति । ऊके कृतेसति भविष्यतो नलोपस्याऽत्र निर्देश इति यावत् । यायजूक इति । 'यस्य हलः' इति यलोपः । 'अतो लोपः' 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः । जञ्जपूक इति ।जपजभदहदशभञ्जपशां चे॑त्यभ्यासस्य नुक् । एवं दन्दशूकः ।", "32167": "<<नमिकम्पिस्म्यजसकमहिंसदीपो रः>> - नमिकम्पि । नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्यः सप्तभ्यो रप्रत्ययः स्यात्तच्छीलदिष्वित्यर्थः । अजसधातोर्धातुपाठेऽदर्शनादाह — जसिर्नञ्पूर्व इति ।जसु मोक्षणे॑अयं नञ्पूर्वः शक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः । निपातनाद्धातुना नञः समासे 'नलोपो नञः' इति नलोपः ।", "32168": "<<सनाशंसभिक्ष उः>> - सनाशंस । सन्, आशंस, भिक्ष एषां त्रयाणां द्वन्द्वात्पञ्चम्येकवचनम् ।स॑निति सन्प्रत्ययान्तं गृह्रते ।षणु दाने॑, 'षण संभक्तौ' इत्यनयोस्तु न ग्रहणं , गर्गादिषु विजिगीषुशब्दापाठाल्लिङ्गात् । एभ्य उप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । आशंसुरिति ।आङः शसि इच्छाया॑मित्यस्मादुः ।", "32169": "<<विन्दुरिच्छुः>> - विन्दुरिच्छुः । वेत्तेरिति । 'विद ज्ञाने' इत्यस्यादुप्रत्यये प्रकृतेर्नुमागमः । इषु इच्छायामित्यस्मादुप्रत्यये षकारस्य छत्वं च निपात्यते इत्यर्थः । वेत्तीति । धातुप्रदर्शनम् । तच्छील इति । वेदनशील इत्यर्थः । इच्छतीति ।इषु इच्छाया॑मिति धातुप्रदर्शनम् । एषणशील इत्यर्थः ।", "32170": "<<क्याच्छन्दसि>> - क्याच्छन्दसि । क्यप्रत्ययान्तादुप्रत्ययः स्यात्तच्छीलादिषु छन्दसीत्यर्थः । सुम्नयुरिति । सुम्नं - सुखम् ।तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच् ।न च्छन्दस्यपुत्रस्ये॑ति निषेधात्क्यचि चे॑ति ईत्त्वम्,अकृत्सार्वे॑ति दीर्गश्च न ।सुम्नये॑ति क्यजन्तादुप्रत्ययः । अतो लोपः ।", "32171": "<<आदृगमहनजनः किकिनौ लिट् च>> - आदृगम । आत्, ऋ, गम, हन, जन्, एषां द्वन्द्वात्पञ्चमी ।कि किन् अनयोद्र्वन्द्वः । लिट् चेति व्याचष्टे — तौ च लिड्वदिति । तच्छीलादिष्वित्येव । पपिरिति । पाधातोः किः । द्वित्वादि, आल्लोपः । ददिरिति । दाधातोः किः । द्वित्वादि । बभ्रिर्वज्रमिति । भृञः किः, द्वित्वादि । जघ्निरित । हनः किः । द्वित्वादि ।गमहने॑त्युपधालोपः ।हो हन्ते॑रिति कुत्वम् । जज्ञिरिति । जनेः किः । द्वित्वादि । एवं किन्यपि बोध्यम् । स्वरे विशेषः । छान्दसमप्येतत्सूत्रद्वयं भाषायामित्यादिवक्ष्यमाणवरातिकविवेचनाय इहोपन्यस्तम् । भाषायामिति । वार्तिकमिदम् । धाञ्, कृ, सृ, गमि, जनि, नमि एभ्यः षड्भ्यः किकिनौ , तौ च लिड्वदिति वक्तव्यमित्यर्थः । दधिरित्यादि । किकिनोः कृतयोर्द्वित्वादि यथासंभवं ज्ञेयम् । नेमिरिति । नमेः किः । द्वित्वम् । एत्त्वाभ्यासलोपौ । सासहीति । सहेर्यङि द्वित्वादौ 'दीर्गोऽकितः' इति दीर्घे, किकिनोः कृतयोः 'यस्य हलः' इति यकारलोपे , अतो लोपेसासही॑ति निर्देशः । एवं वहेः चलेः पतेश्च यङन्तस्य किकिनन्तस्य निर्देशः । एषां निपातनस्य उपसङ्ख्यानमित्यर्थः । तदाह — यङन्तेभ्यः सहत्यादिभ्य इति । नीगभाव इति । 'नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याऽभावन इत्यर्थः ।", "32172": "<<स्वपितृषोर्नजिङ्>> - स्वपितृषोर्नजिङ् । पञ्चम्यर्थे षष्ठी । स्वपेर्नजिङ् स्यात्तच्छलादिष्वित्यर्थः । जकारादिकार उच्चारणार्थः । ङकार इत् । स्वप्नगिति । स्वपनशील इत्यर्थ- । स्वप्नजौ स्वप्नजः । एवं तृष्णक् । तर्षणशीलः इत्यर्थः । धृषेश्चेति ।नजि॑ङिति शेषः । काशिकादाविति । भाष्ये तु न दृश्यते इति भावः ।", "32173": "<<शॄवन्द्योरारुः>> - शृवन्द्योरारुः । पञ्चमर्थे षष्ठी । 'शृ हिंसायां'वदि अभिवादनस्तुत्योः॑ । आभ्यामारुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः ।", "32174": "<<भियः क्रुक्लुकनौ>> - भियः । भीधातोः क्रु क्लुकन् एतौ स्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः ।", "32175": "<<स्थेशभासपिसकसो वरच्>> - स्थेश । ष्ठा गतिनिवृत्तौ, ईश ऐआर्ये, भासृ दीप्तौ, पिसू पेसृ गतौ, कस गतौ,एभ्यो वरच् स्यात्तच्छीलादिष्वित्यर्थः । ईआरीति तु पुंयोगे ङीष् ।", "32176": "<<यश्च यङः>> - यश्च यङः । 'या प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य 'यः' इति षष्ठन्तम् । तदाह - यातेरिति । याधतोर्यङ् । द्वित्वादि । 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः ।यायाये॑ति यङन्ताद्वरचिविशेषमाह — अतो लोप इति । हलः परत्वाऽभावात् 'यस्य हलः' इति यकारोलोप न । 'यायाय् - वर' इति स्थिते आह — लोपो व्योरिति यकारलोप इति । ननु अतो लोपस्यअचः परस्मिन् इतस्थानिवत्त्वदाकरेण व्यवधानाद्वल्परत्वाऽभावात्कथमह यलोप इत्यत आह — तस्येति । तस्य= अल्लोपस्य यलोपे कर्तव्येन पदान्ते॑ति स्थानिवत्त्वनिषेधादित्यर्थः । एवं च यङोऽकारस्य यकारस्य च लोपे यायावर इत्यत्रआतो लोप इटि चे॑त्याल्लोपमाशङ्क्य निराकरोति — अल्लोपस्येति । यङकारलोपस्यअचः परस्मि॑न्नति स्थानिवत्त्वमाश्रित्य तदाकारात्मकार्धधातुकपरत्वादाकारस्यआतो लोप इटि चे॑त्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः । परिहारमेवाह — वरे लुप्तं न स्थानिवदिति ।लुप्त॑मिति भावे क्तः । 'न पदान्ते' ति सूत्रे 'वरे' इत्यनेन वरे परे विहितं न स्थानिवदिति लभ्यते । अल्लोपोऽयमार्धधातुके वरे परे विहितः । अतस्तस्य स्थानिवत्त्वाऽभावान्न यङोऽकारमाश्रित्यआतो लोप इटि चे॑त्यस्य प्रवृत्तिरित्यर्थः । एवंचन पदान्ते॑ति सूत्रे 'वरे' इत्यंशस्य , 'यलोपे' इत्यंशस्य च यायावर इत्युदाहरणमिति बोध्यम् ।", "32177": "<<भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्>> - भ्राजभास । भ्राज, भास , धुर्वि, द्युत, ऊर्जि, पृ , जु, ग्रावस्तु, एभ्योऽष्टभ्यः क्विप्स्यात्तच्छीलादिषु कर्तृष्वित्यर्थः । विभ्राडिति ।व्रश्चे॑ति षः । भा इति । भासेः क्विपि सकारान्तस्य रुत्वविसर्गौ । धूरिति । धुर्वीधातोः क्विप् । 'राल्लोपः' इति वकारस्य लोपः ।धु॑रिति रेफान्तम् । सुलोपः । 'र्वोरुपधायाः' इति दीर्घः । पूरिति । पृधातोः क्विप् ।उदोष्ठए॑त्युत्त्वम्, रपरत्वम् ।पु॑रिति रेफान्तम्, सुलोपेर्वो॑रिति दीर्घः । जुधातोः क्विपि दीर्घं साधयितुमाह — दृशिग्रहणस्याप्यपकर्षादिति । उत्तरसूत्रादिति भाव- । अत्र व्याख्यानमेव शरणम् । ननु 'ग्रावस्तु' इति कथं समस्तनिर्देशः, सुबन्तस्य ग्रावशब्दस्य धातुना समासाऽसंभवादित्यत आह — ग्रावशब्दस्येति । ग्रावस्तुदिति । पित्त्वात्तुक् ।", "32178": "<<अन्येभ्योऽपि दृश्यते>> - अन्येभ्योऽपि । क्विबिति । शेषपूरणमिदम् ।भ्राजभासे॑त्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः । विध्यन्तरेति । विधीयते इति विधिः = कार्यं । कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः । तदेव दर्शयति — क्वचिद्दीर्घ इत्यादि । कक्विब्वचीत्यादिनेति ।क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं चे॑त्यौणादिकसूत्रेणेत्यर्थः । तृना बाधा मा भूदिति । वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः । वागिति । वचधातोः क्विप्, वचनादुपधाया दीर्घः,वचिस्वपी॑ति संप्रसारणाऽभावश्च । एवं कटप्रूरित्यत्र दीर्घः । प्राडिति । वचनान्न संप्रसारणम् । जुरुक्त इति ।भ्राजभासेत्यत्रे॑ति शेषः । अतोऽत्र तद्ग्रहमं मासत्विति भावः । श्रीरिति । श्रिञः क्विपि दीर्घः । द्युतीति ।द्युतिगमिजुहोत्यादिनां द्वित्वं क्विप्चे॑ति वाच्यमित्यर्थः । 'पूर्वोऽभ्यासः' इत्यतर् षाष्ठद्विर्वचन एव पूर्वखण्डस्याऽभ्याससंज्ञावचनादाह — दृशिग्रहणादिति ।अन्येब्योऽपि दृश्यते॑ इत्यत्रेत्यर्थः । ततश्चाऽभ्यासकार्यं हालदिशेषादीति भावः । दिद्युदिति ।द्युतिस्वाप्यो॑रिति संप्रसारणम् । जगदिति । गमेः क्विप् 'गमः क्वौ' इत#इ मलोपे तुक् । जुहोतेर्दीर्घश्चेति । वार्तिकमिदम् । चात्क्विब्द्वित्वे । ह्रस्वश्चेति । वार्तिकमिदम् । ददृदिति । ह्रस्वे कृते तुक् । ध्यायते । वार्तिकमिदम् । चात्क्विप् । धीरिति । ध्यैधातोः क्वनिपि संप्रासरणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः । अत्रध्यायतेः संप्रसारमं चे॑त्युणादिषु पठितत्वादिदं वार्तिकं माऽस्त्वित्याहुः । वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौरनुक्त्यशङ्का ।", "32179": "<<भुवः संज्ञाऽन्तरयोः>> - भुवः संज्ञान्तरयोः ।क्वि॑बिति शेषः ।संज्ञान्तरयोरेवेति॑ नियमार्थं सूत्रम् । संज्ञायामुदाहरति — मित्रभूर्नामेति । अन्तरे उदाहरति — धनिकेत्यादि । यावद्द्रव्यभाविन्यः प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति, ऋणे प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः ।", "32180": "<<विप्रसम्भ्यो ड्वसंज्ञायाम्>> - विप्रसंभ्यः ।डु- अ- संज्ञाया॑मिति छेदः । विभुरिति । डित्तवसमाथ्र्यादभस्यापि टेर्लोपः । सप्भुरिति । संभवति उत्पादयतीति सम्भुः । तदाह — जनितेति । मितद्व्रादिसिद्द्ध्यर्थं डुप्रत्ययस्य उपसङ्ख्यानमित्यर्थः । शम्भुरिति । शं = सुखं , भवति = उत्पादयतीत्यर्थः । तदेवोपपादयति - अन्तर्भावितेति ।", "32181": "<<धः कर्मणि ष्ट्रन्>> - धः कर्मणि ष्ट्रन् । धेटः कृतात्वस्य धाञश्च ध इति पञ्चम्यन्तम् । तदाह — धेट इत्यादि । षकारात्तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः । तदाह — धात्रीत्यादि ।", "32182": "<<दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे>> - दाम्नी । दाप्, नी, शस, यु , युज, स्तु, तुद, सि, सिच, मिह, पत, दश , नह एषां त्रयोदशानां द्वन्द्वः । 'दाप् लवने' इत्यस्य पकारस्य स्थाने 'यरोऽनु' इति कृतमकारस्य निर्देशः । अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्क्याऽऽह —", "32183": "<<हलसूकरयोः पुवः>> - हलसूकरयोः पुवः । पोत्रमिति ।तितुत्रतथसिसुसरे॑ति नेट् ।", "32184": "<<अर्तिलूधूसूखनसहचर इत्रः>> - अर्तिलूधू । अर्ति, लू, धू, सू , खन, सह , चर एषां सप्तानां द्वन्द्वात्पञ्चमी ।", "32185": "", "32186": "<<कर्तरि चर्षिदेवतयोः>> - कर्तरि च । पवित्रमिति । पावमान्यादिसूक्तम् । अग्निः पवित्रमिति । पुनातीत्यर्थः । सामान्याभिप्रायमेकवचनं, नपुंसकत्वं च । इति पूर्वकृदन्तम्॥॥ इति बालमनोरमायाम् पूर्वकृदन्तम्॥अथ रुधादयः ।अथ श्नम्विकरणा धातवो निरूप्यन्ते ।", "32187": "<<ञीतः क्तः>> - ञीतः क्तः । ञि इद्यस्य तस्माद्वर्तमानाक्रियावृत्तेः क्त इत्यर्थः ।तयोरेव कृत्युक्ते॑ति भावकर्मणोरेव भूते विहितः क्तो वर्तमाने न प्राप्नोतीत्यारम्भः । क्ष्विण्ण इति ।आदिश्चे॑ति नेट् । इद्ध इति । श्वीदितः॑ इति नेट् ।", "32188": "<<मतिबुद्धिपूजार्थेभ्यश्च>> - मतिबुद्धि । मति, बुद्धि, पूजा , अर्थ एषामिति विग्रहः । 'वर्तमाने क्त' इति शेष- ।तयोरेवे॑ति भावकर्मणोरेव । मतः इष्ट इति । इच्छार्थकान् मनेरिषेश्च क्तः ।तीषसहे॑ति वेट्कत्वात्यस्य विभाषे॑ति नेट् । शीलितो रक्षित इति । भाष्यस्थश्लोकोऽयम् । इत्यादीति । आदिनारुष्टश्च रुषितश्चोभावभिव्याह्मत इत्यपि । ह्मष्टतुष्टो तथाक्रान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः॑ । इति सङ्ग्रहः । कष्टशब्दो भविष्यति, अमृतशब्दो वर्तमाने इत्यर्थः ।", "33001": "", "33002": "", "33003": "", "33004": "<<यावत्पुरानिपातयोर्लट्>> - यावत्पुरा । यावत् पुरा इति द्वे पदे । अनयोः प्रयुज्यमानयोर्लट् स्यादित्यर्थः । लुडादेरपवादः । निश्चयं द्योतयत इति ।यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॑इत्यमरः । यावद्दास्यते तावद्भोक्ष्यते इति । यत्परिणमाणकं तत्परिमाणकमित्यर्थः ।यत्तदेतेभ्यः परिमाणे वतु॑बिति वतुबन्तत्वेन निपातत्वाऽभावान्न लडिति भावः । करणभूतयेति ।पुरा यास्यती॑ति प्रत्युदाहरणान्तरम् । पुर्शब्दस्य पुरेति तृतीयान्तमिदम् । तत्स्फोरणाय करणभूतयेत्युक्तम् ।", "33005": "<<विभाषा कदाकर्ह्योः>> - विभाषा कदाकर्ह्योः ।भविष्यति लड्वा स्या॑दिति शेषपूरणम् । लडभावपक्षे लुटलृटौ यथाप्राप्तम् । तदाह — कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति । न च कर्हियोगे लडभावपक्षे लुडेवोचितो, नतु लृट् ।अनद्यतने र्हिलन्यतरस्या॑मिति र्हिलन्तकर्हियोगविरोधादिति वाच्यं, लृडुदाहरणस्य कदायोगमात्रविषयत्वादिहुः ।", "33006": "<<किंवृत्ते लिप्सायाम्>> - किंवृत्ते लिप्सायां । किंशब्देन वृत्तं निष्पन्नं किंवृत्तमित्यभिप्रेत्य आह — विभक्त्यन्तमिति लड्वेति । लडभावे तु लुट्लृटौ यथाप्राप्तम् । किंवृत्तशब्देन विभक्त्यन्तडतरडतमान्तानामेव ग्रहणमिति युक्तम् । कं कतरं कतमं वेति ।क्षुधितमन्नलिप्स॑मिति शेषः ।", "33007": "<<लिप्स्यमानसिद्धौ च>> - लिप्स्यमानसिद्धौ च । लड्वेति । पक्षे यथाप्राप्तम् । लिप्स्यमानसिद्धौ लिप्सायायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति — योऽन्नमिति । योऽन्नं ददाति स स्वर्गं याति, योऽन्नं दास्यति स स्वर्गं यास्यति, योऽन्नं दाता स स्वर्गं यातेत्यन्वयः ।", "33008": "<<लोडर्थलक्षणे च>> - लोडर्थलक्षणे च । लोडर्थः प्रैषादिरिति ।विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु॑ इत्यनुवृत्तौलोट् चे॑ति लोड्विधानादिति भावः । कृष्णश्चेदिति । कृष्णबोजनकाले त्वं गाश्चारयेत्यर्थः । अत्र कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम्, परिच्छेदकमिति यावत् । पक्षे लुट्लृटाविति । कृष्णश्चेद्भोक्ता, भोक्ष्यते वा, त्वं गाश्चारयेत्युदाहार्यम् ।", "33009": "<<लिङ् चोर्ध्वमौहूर्तिके>> - लिङ् चोध्र्वमौहूर्तिके ।ऊध्र्व॑मिति विभक्तिप्रतिरूपकमव्ययम् । ऊध्र्वं मुहूर्ताद्भव इति विग्रहः । केचित्तुऊध्र्व॑मिति द्वितीयान्तम्,अकर्मकधातुभिर्योगे॑ इति कर्मत्वादित्याहुः । ऊध्र्वमौहूर्तिक इति । ऊध्र्वमुहूर्तशब्दाद्भवार्थे कालाट्ठिति भावः । ननु तद्धितार्थेत्यत्र दिक्सङ्ख्ये इत्यनुवृत्तेः समानाधिकरणाधिकाराच्चात्र कथंसमास इत्यत आह — निपातनादिति । पूर्वपदे आदिवृद्धिमाशङ्क्य आह — उत्तरपदवृद्धिश्चेति । निपातनादित्यनुषज्यते । ऊध्र्वमौहूर्तिके इति । मुहूर्तादूध्र्वकालीने इत्यर्थः । इदं च लोडर्थलक्षण इत्यत्रान्वेति । लिङ्लटाविति । चाल्लट् समुच्चीयत इति बावः । वा स्त इति । पक्षे लुट्लृटौ यथाप्राप्तम् । छन्द इति । वेदमित्यर्थः । इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्था लविधयः । अथाऽस्मिन्नेव तृतीयपादे कतिपयान्विधीनाह —", "33010": "", "33011": "", "33012": "", "33013": "<<लृट् शेषे च>> - लृट् शेषे च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति प्रागुक्तं,ततोऽन्यः शेष इत्याह -असत्यामिति । चार्थमाह — सत्यमिति । हरदत्तस्त्वाह — अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवं चशेषे चे॑ति सुत्यजमिति । तच्चिन्त्यम् ।शयिष्यत इति स्थीयते॑ इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्तुमुन्खलर्थेषु वासरूपविधेरभावात् । अत्र च ज्ञापकंप्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे॑त्यत्र लोटा बाधा मा भूदिति पुनः कृत्यविधि॑रित्यादि कृदन्ते वक्ष्यति । इदमपि ज्ञापकमित्यन्यदेतत् । यत्तु प्राचा — भविष्यतीति व्रजती॑त्युदाहृतं, तदापाततः,तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यते॑ इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्,न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति,भावे हि सः । समानकर्तृकेष्वेवेति च वक्ष्यते । लृडित्येतावत्सूत्रकरणेऽपिभविष्यतीति व्रजती॑त्ययं सिध्यत्येवेत्यास्तां तावत् । स्य इडिति । लृटस्तिपिस्यतासी लृलुटो॑रिति स्यप्रत्ययः । तस्य वलाद्यार्धधातुकत्वादिडागम इत्यर्थः । भविष्यतीति । स्यप्रत्ययस्य इटि ऊकारस्य गुणे अवादेशे प्रत्ययावयवत्वत्सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः । तसादौ भविष्यत इत्याद्यप्येवं योज्यम् । भविष्यामीत्यादौअतो दीर्घो यञी॑ति दीर्घः । इति लृट्प्रक्रिया ।", "33014": "<<लृटः सद् वा>> - लृटः सद्वा । लृटः शतृशानचौ वा स्त इत्यर्थः । व्यवस्थितेति । व्याख्यानादिति भावः । नित्यमिति । तेन तिङां निवृत्तिः । अप्रथमासामानाधिकरण्ये उदाहरति — करिष्यन्तमिति । प्रत्ययये परत उदाहरति — कारिष्यत इति । उत्तपदे उदाहरति — करिष्यद्भक्तिरिति । करिष्यन्ती भक्तिरिति । कर्मधारयः । सम्बोधने उदाहरति — हे करिष्यन्निति ।शयिष्यमाणाभोक्ष्यन्ते यवना॑ इति लक्षणे उदाहार्यम् । हेतावुदाहरति — अर्जयिष्यन्वसतीति । प्रथमासामानाधिकरण्येऽपि क्वचिदिति । अप्रथमासामानादिकरण्याऽभावेऽपि क्वचिदित्यर्थः । कदाचिदित्यपि द्रष्टव्यम् । इदं चलृट् शेषे चे॑ति भविष्यदधिकारविहिते लृटएव प्रवर्तते इतिअनवकॢप्त्यमर्षे॑त्यत्र भाष्ये स्पष्टम् ।", "33015": "<<अनद्यतने लुट्>> - अनद्यतने लुट् । धातोरित्यधिकृतम् । 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवर्तते । भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति । तदाह — भविष्यत्यनद्यतन इति । अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्याख्यातः । उटावितौ । लुटस्तिबादयः ।", "33016": "", "33017": "", "33018": "", "33019": "", "33020": "", "33021": "", "33022": "", "33023": "", "33024": "", "33025": "", "33026": "", "33027": "", "33028": "", "33029": "", "33030": "", "33031": "", "33032": "", "33033": "", "33034": "", "33035": "", "33036": "", "33037": "", "33038": "", "33039": "", "33040": "", "33041": "", "33042": "", "33043": "", "33044": "", "33045": "", "33046": "", "33047": "", "33048": "", "33049": "", "33050": "", "33051": "", "33052": "", "33053": "", "33054": "", "33055": "", "33056": "", "33057": "", "33058": "", "33059": "", "33060": "", "33061": "", "33062": "", "33063": "", "33064": "", "33065": "", "33066": "", "33067": "", "33068": "", "33069": "", "33070": "", "33071": "", "33072": "", "33073": "", "33074": "", "33075": "", "33076": "", "33077": "", "33078": "", "33079": "", "33080": "", "33081": "", "33082": "", "33083": "", "33084": "", "33085": "", "33086": "", "33087": "", "33088": "", "33089": "", "33090": "", "33091": "", "33092": "", "33093": "", "33094": "", "33095": "", "33096": "", "33097": "", "33098": "", "33099": "", "33100": "", "33101": "", "33102": "", "33103": "", "33104": "", "33105": "", "33106": "", "33107": "", "33108": "", "33109": "", "33110": "", "33111": "", "33112": "", "33113": "<<कृत्यल्युटो बहुलम्>> - कृत्यल्युटो । याभ्यः प्रृतिभ्यो येष्वर्थेषु विहितास्ततोऽन्यत्रापि स्युरित्यर्थः ।स्नानीयमिति । करणे अनीयर् । दानीय इति । संप्रदाने अनीयर् । भाष्ये तुकृतो बहुलमिति वक्तव्य॑मित्युक्त्वा पादाभ्यां ह्यियते पादहारकः । कर्मणि ण्वुल् । आओऽग्नीनाधास्यमानेन । अनद्यतने भविष्यति लृडित्युदाहृतम् ।", "33114": "<<नपुंसके भावे क्तः>> - नुपंसके भावे क्तः । कालसामान्ये इति । अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः । अकर्मकेभ्य एव नपुंसके भावे क्तः, नतु सकर्मकादितिणेरध्ययने वृत्त॑मिति सूत्रे भाष्यकैयटयोः स्पष्टम् । तद्ध्वनयन्नकर्मकेभ्य एवोदाहरति — जल्पितमित्यादि । गतं भुक्तमित्यादौ त्वविक्षितकर्मकत्वादकर्मककत्वं बोध्यम् । अत एव गतं हंसस्य, भुक्तमोदनस्येत्यादौ शेषत्वविक्षया षष्ठीति दिक् ।", "33115": "", "33116": "", "33117": "", "33118": "", "33119": "", "33120": "", "33121": "", "33122": "", "33123": "", "33124": "", "33125": "", "33126": "", "33127": "", "33128": "", "33129": "", "33130": "", "33131": "<<वर्तमानसामीप्ये वर्तमानवद्वा>> - वर्तमानसामीप्ये । स्वर्थे प्यञिति । अस्मादेव निर्देशाच्चतुर्वर्णादेराकृतिगणत्वाद्वेति भावः । इत्यारभ्येति । तृतीयस्य द्वितीयेवर्तमान ल॑डित्यारभ्य आपादसमाप्तेःउणादयो बहुल॑मिति तृतीयपादादिमसूत्रात्पाग्वर्तमानाधिकारः । तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यो वर्तमाने प्रत्यया वहिताते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यो वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः । अत्र भूते भविष्यति चेत्यार्थिकं, तयोरेव वर्तमानसामीप्यसत्त्वात् । कदा आगतोऽसीत्यगतं प्रति प्रश्नः । अयमागच्छामित्युत्तरम् । अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः । वर्तमानसमीपकाले भूते लट् ।अय॑मित्यनेन आगमनकालीनं प्रस्वेदपरिकरबन्धादियुक्तं रूपं निर्दिश्यते इदानीमागमनं सूचयितुम् । आगममिति । वर्तमानवत्त्वाऽभावे भूते लुङ् । कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामीत्युत्तम् । अव्यवहितोत्तरकाले गमिष्यामीत्यर्थः । 'एष' इति तु अयमितिवद्वयाख्येयः । वर्तमानकालसमीपे भविष्यति लट् । गमिष्यामि वेति । वर्तमानवत्त्वाऽभावे भविष्यति लृट् ।", "33132": "<<आशंसायां भूतवच्च>> - आशंसायां भूतवच्च । नानुवर्तते इति । अत्र व्याख्यानमेव शरणम् । अप्राप्तस्य प्रियस्य् प्राप्तीच्छा आशंसा । सा च भविष्यद्विषयैव । भूते इच्छाविरहात् । तदाह — भविष्यति काले इति । देवश्चेदिति । देव = पर्जन्यः, अवर्षीच्चेद्धान्यमवापम्स्म । वर्षति चेद्वपामः । वर्षिष्यति चेद्वप्स्याम इत्यन्वयः । भूतवद्भावाद्भविष्यति लुङ् — अवर्षीदिति अवाप्स्मेति च भवति । वपधातोर्लुङि उत्त्मपुरुषबहुवचने अवाप्स्मेति भवति । वृष्टिवापयोरुभयोरप्याशंसाविषयत्वादुभत्रापि लुङ । वर्तमानवत्त्वपक्षे तु लट् । तदुभयाऽभावे तु लृट् । ननु भूतवत्त्वपक्षे लङ्लिटावपि कुतो न स्यातामित्यत आह — सामान्यातिदेशे इति । भूतत्वसामान्ये विहितस्याऽतिदेशादनद्यतनभूतत्वविशेषविहितयोर्लङ्लिटोर्नाऽतिदेश इत्यर्थः । एतच्च भाष्ये स्पष्टम् ।", "33133": "<<क्षिप्रवचने लृट्>> - क्षिप्रवचने लृट् । वचनग्रहणात्क्षिप्रपर्याये इति लभ्यते । तदाह — क्षिप्रपर्याये इति । पूर्वविषये इति । आशंसायामित्यर्थः ।आशंसायां भूतवच्चे॑त्यस्यापवादः । ननुक्षिप्रवचनेने॑त्येतावतैव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवन्न वर्तमानवदिति लाभाल्लृङ्गहणमनर्थकमित्यत आह — नेति वक्तव्ये इति ।क्षिप्रवचने ने॑त्युक्तेसामान्यातिदेशे विशेषानतिदेशः इनि न्यायेन भविष्यत्सामान्ये विहितस्य लृट एव निषेधः स्यान्नतु लुटः, तस्यानद्यतनभविष्यद्विशेषविधानात् । शीघ्रं वप्स्याम इति । अनद्यतनत्वद्योताय आश्शब्दः । अत्र न लुडिति भावः ।", "33134": "<<आशंसावचने लिङ्>> - #आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद्भविष्यतीति लभ्यत इति मत्वाह — भविष्यतीति ।आशंसायां भूतवच्चे॑त्यस्यापवादः । तदाह — नतु भूतवदिति । गुरुश्चेदिति । गुरुरुपेयाच्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिङेव, नतु लृडिति भावः ।", "33135": "<<नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः>> - भविष्यति मर्यादा ।अवरस्मि॑न्निति च्छेदः । अनद्यतनवन्नेति । लुण्नेत्यर्थः ।अक्रियाप्रबन्धार्थ॑मिति भाष्यम् ।असामीप्यार्थं चे॑ति कैयटः । योऽयमिति । कस्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् आः प्रभृति पास्याम इति योजना । अत्र कौशाम्ब्या इति मर्यादा गम्यते ।अवर॑मित्यनेन अवरत्वं गम्यते । अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः । कालविभागे । पूर्वसूत्रमिति ।भविष्यति मर्यादावचनेऽवरस्मि॑न्निति सूत्रमित्यर्थः । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह — अहोरात्रेति । तथा च आहोरात्रसंबन्धिनि प्रविभागेभविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः । ननुभविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह — योगविभाग उत्तरार्थ इति । इदमुत्तरसूत्रे स्पष्टीभविष्यति । योऽयं वत्सर आगामीति । कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्णमास्या इत्यर्थः । युक्ता इति । नियमयुक्ता इत्यर्थः । अध्येष्यामहे इति । अत्र न लुट्, किंतु लृडेवेति भावः । पञ्चदशरात्रयुक्ता इति । पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः ।अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः । यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः ।अहःसर्वैकदेशे॑त्यच्समासान्तः ।सङ्ख्यापूर्वंरात्रं क्लीब॑मिति तुलिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये॑ति वचनान्न भवति ।", "33136": "", "33137": "", "33138": "<<परस्मिन् विभाषा>> - परसमिन्विभाषा । अनुवर्तते इति । तथा च भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यनवद्वेति फलितम् ।लिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति व्याख्यातं भूधातुनिरूपणे ।", "33139": "<<लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ>> - लिङ्निमित्ते । हेतुहेतुमद्भावादीति । हेतुहेतुमतोर्लिङ् ,इच्छार्थेषु लिङ्लोटा॑वित्यादि लिङ्निमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति । भविष्यत्यर्थ इति ।भविष्यति मर्यादावचने॑ इत्यतस्तदनुवृत्तेरिति॑ भावः । क्रियातिपत्तिपदं व्याचष्टे -क्रियाया अनिष्पत्ताविति ।सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य॑दित्युदाहरणं बोध्यम् । अभविष्यदिति । लृङ् । तिप् । इतश्चेतीकारललोपः ।स्यतासी लृलुटो॑रिति शबपवादः स्यप्रत्ययः । अट् । वलादिलक्षम इट् । गुणावादैशौ । षत्वम् । अभविष्यन्निति । झिः । स्यः । अट् । इट् । गुणावादेशौ ।झोऽन्त इति झेरन्तादेशः । इतश्चेतीकारलोपः । षत्वम् । रुत्वविसर्गौ । अभविष्यतमिति । थसस्तमादेशः । स्यः अट् । इट् । गुणः । अवादेशः । इतश्चेतीकारलोपः । षत्वम् । रुत्वविसर्गौ । अभविष्यमिति । मिपोऽम् । स्यः । अट् । इट् । गुणावौ । पूर्वरूपम् । षत्वम् । अभविष्यावेति । वस् । स्यः । अट् । इट् । नित्यं ङित इति सकारलोपः । अतो दीर्घः । षत्वम् । एवं मसि अभविष्यामेति रूपम् । इति लृङ्प्रक्रिया । अथ प्रसङ्गादाह —", "33140": "<<भूते च>> - भूते च । अधिकारोऽयम् । अनुवर्तते इति । तथा च लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः ।", "33141": "<<वोताप्योः>> - वोताप्योः । अयमप्यधिकारः । वा आ उताप्योरिति छेदः । भूते इति, लिङ्निमित्ते लृङिति चानवर्तते । तदाह — उताप्योरित्यतः प्रागिति ।उताप्योः समर्थयो॑रित्यतः प्रागित्यर्थः । नन्वनेनउताप्यो॑रित्यतः प्राग्भूते लिङ्निमित्ते लृङ्वेत्याधिकाराक्रान्तत्वाद्भूतेचेति पूर्वमधिकारसूत्रं निर्विषयमित्यत आह — पूर्वसूत्रं त्विति ।उताप्योः समर्थयोर्लि॑ङित्यारभ्य इच्छार्थेभ्यो विभाषे॑त्यतः प्राक्भूते चे॑ति पूर्वमधिकारसूत्रं प्रवर्तत इत्यर्थः । इमावधकारौ यत्रलिङ्विधिस्तत्रैव प्रवर्तेतते, नतु लडादिविधौ, लिङ्निमित्ताऽभावात् ।", "33142": "<<गर्हायां लडपिजात्वोः>> - गर्हायाम् । अपि जातु अनयोद्र्वन्द्वः । अत्रवोताप्योरिति भूते लिङ्निमित्ते लृङ् वा इत्यधिकारो न संबध्यते । लड्विधानेन तद्विषये लिङ्निमित्ताऽभावात् । कालत्रये इति । वर्तमाने भूते । भविष्यति चेत्यर्थः । भविष्यतीति निवृत्तम् । अतः कालसामान्ये लडिति भावः । परत्वादिति । अनवकाशत्वाच्चेत्यपि द्रष्टव्यम् ।अपि जाया॑मित्यत्र ,जातु गणिका॑मित्यत्र अपि- जातुशब्दौ निन्दाद्योतकौ । तदाह — गर्हितमेतदिति ।", "33143": "<<विभाषा कथमि लिङ् च>> - विभषा कथमि । गर्हायामित्येवेति । अनुवर्तत एवेत्यर्थः ।कालत्रये लि॑ङिति शेषपूरणम् । भविष्यतीति निवृत्तमिति । भावः चाल्लडिति । 'समुच्चीयते' इति शेषः । तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हायां लिङ्लटौ वा स्त इति फलितम् । कथं धर्मं त्यजेरिति । त्यक्तत्वान् त्यक्ष्यसि त्यजसि वेत्यर्थः ।गर्हितमेतदिति कथंशब्दाद्गम्यते । लटि उदाहरति — त्यजसि वेति । उक्तोऽर्थः । पक्षे इति । विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लङ्लुङ्लट्लुट्लृट इत्यर्थः । अत्रेति । अत्रा = उक्तविषये भविष्यति काले क्रियाया अनिष्पत्तौ गम्यमानांलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति नित्यमेव लृङ्, कथमो गर्हायाश्च लिङ्निमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः । भूते वेति ।वोताप्यो॑रिति भूते लिङ् निमित्ते लृङ् वेत्यधिकृत्वादुक्तविषये भूतकाले लृङ् वेत्यर्थः । भविष्यि नित्यं लृडित्यत्रोदाहरति — कथं नामेति ।तत्र भवा॑निति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवंविधः कथं धर्मत्यक्ष्यत्, तत्त्यागस्य गर्हितत्वादिति भावः ।", "33144": "<<किंवृत्ते लिङ्लृटौ>> - किंवृत्ते लिङ्लृटौ । नानुवर्तते इति । व्याख्यानादिति भावः । विभक्त्यन्तं डतरडतमान्तं च किंशब्दनिष्पन्नं किंवृत्तमित्युक्तम् । तस्मिन्प्रयुज्यमाने गर्हायां लिङ्लृटौ स्त इत्यर्थः । सर्वलकाराणामपवादाविति वृत्तिः । लृङ् प्राग्विदिति । भविष्यति नित्यं लृङ्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः । लिङ्निमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः ।", "33145": "<<अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि>> - अनवकॢप्यमर्ष । निवृत्तमिति । व्याख्यानादिति भावः । अनवकॢप्त्यमर्षयोर्लिङ्लृटोश्च यथासङ्ख्यं नेष्यते, अल्पाच्तरस्य अमर्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः । न सम्भावयामीति । अकिंवृत्ते उदाहरणम् । भवान् हिरं निन्देदिति यत्तन्न संभवायामि, न मर्षये वेत्यन्वयः । किंवृत्ते उदाहरति — कः कतर इति । लृङ्प्राग्वदिति । भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः ।", "33146": "<<किंकिलास्त्यर्थेषु लृट्>> - किङ्किला । किंङ्किलेति । समुदायस्य, अस्त्यर्थानां च द्वन्द्वः । यावदिति ।गर्हायां चेत्तः प्रागित्यर्थः । किङ्किलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवकॢप्त्यमर्षयोर्लृट् स्यादित्यर्थः । पूर्वसूत्रेण लृङ्लृरटोः प्राप्तौ लृडेवेत्यर्थमिदम् । तदाह — लिङोऽपवाद इति । न श्रद्दधे इति । न संभावयामीत्यर्थः । त्वं शूद्रान्नं भोक्ष्यसे इति यत्तन्न श्रद्दधे, न मर्षये वा किङ्किलेत्यन्वयः । किङ्किलेति क्रोधं द्योतयति । अस्तीति । शूद्रस्य स्त्री शूद्री । तां गमिष्यसीत्यस्ति भवति विद्यते वेत्यन्वयः । अत्र लृङ् नेति । भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिह न संभवति, अत्र लिङो विध्यभावेन लिङ्निमित्तविरहात् ।", "33147": "<<जातुयदोर्लिङ्>> - जातुयदोर्लिङ् ।जातु यत् अनयोः प्रयोगे अनवकॢप्त्यमर्,योर्लिङ् स्यादित्यर्थः । यदिति विभक्तिप्रतिरूपकमव्ययम् ।अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपी॑ति लिङ्लृटौ प्राप्तौ लिङेवेत्यर्तमिदम् । तदाह - लृटोऽपवाद इति । यदायद्योरिति । यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसङ्ख्यानमित्यर्थः । जात्वादिशब्दा उदाहरणे अनवकॢप्त्यमर्षद्योतकाः । त्वादृशो हिरं निन्देदित्यतेतन्नावकल्पयामि, न मर्षयामि वेत्यन्वयः । नावकल्पयामीत्यस्य न संभवायामीत्यर्थः । लृङ् प्राग्वदिति । भविष्यति नित्यं लृङ्भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः, जात्वादियोगस्तु, अनवकॢप्त्यमर्षयोश्च लिङ्निमित्तत्वादिति भावः ।", "33148": "<<यच्चयत्रयोः>> - यच्चयत्रयोः । यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवकॢप्त्यमर्षयोर्लिङ् स्यादित्यर्थः । लृटोऽपवादः । योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवकॢप्त्यमर्षद्योतकौ । त्वमेवं कुर्या इत्येतन्न श्रद्दधे, न मर्षयामि वेत्यन्वयः । अत्रापिभविष्यति नित्यं लृङ्, भूते वे॑त्युक्तमनुसंधेयम् । लिङ्निमित्तस्य सत्त्वात् ।", "33149": "<<गर्हायां च>> - गर्हायां च । निवृत्तमिति । व्याख्यानादिति भावः ।यच्चत्रयोरिति, लिहिति चानुवर्तते । तदाह -यच्चयत्रयोर्योगे इति.लिङेवेति । नतु लकारान्तरमित्यर्थः । उदारसणे यच्चेति यत्रेति च गर्हाद्योतकम् । 'त्वं शूद्रं याजये' रितियत्तदन्याय्यमित्यन्वयः । लृङ् प्राग्वत् ।", "33150": "<<चित्रीकरणे च>> - चित्रीकरणे च । यच्चयत्रयोः प्रयोगे आश्चर्ये गम्ये लिहेव स्यान् तु लकारान्तरमित्यर्थः । उदाहरणे यच्चेति यत्रेति चाश्चर्यद्योतकम् । त्वं शूद्रं याजयेरिति यत्तदाश्चर्यमित्यन्वयः ।", "33151": "<<शेषे लृडयदौ>> - शेषे लृडयदौ ।यच्चयत्राभ्यामन्यः शेषः । तदाह — यच्चयत्राभ्यामन्यस्मिन्निति । 'यदिभिन्ने' इति शेषः । लृट्स्यादिति । नतु लकारान्तरमित्यर्थः । आश्चर्यमिति । अन्धः कृष्णं द्रक्ष्यतीत्याश्चर्यमित्यन्वयः । नामेत्यव्ययमाश्चर्यद्योतकम् । मूक् इति । मूकोऽधीयीत इत्याश्चर्यमित्यन्वयः । यदीत्याश्चर्यद्योतकम् ।", "33152": "<<उताप्योः समर्थयोर्लिङ्>> - उताप्योः । समौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थयोरित्यर्थः । कमर्तमादायानयोरेकार्थकत्वमित्यत आह — बाढमिति । तथा च बाढार्थकयोः उत अपि इत्यनयोः प्रयोगे लिङ् स्यान्न तु लकारान्तरमित्यर्थः । उत अपि वेति । उत हन्यादघं हरिः, अपि हन्यादघं हरिरित्यन्वयः ।उताऽपी॑बाढमितयर्थकौ । गम्यते इति ।उत दण्ड पतिष्यती॑त्यत्र उतशब्देन प्रश्नो गम्यते ।अपिधास्यति द्वार॑मित्यत्र अपिना धाधातोः प्रच्छादनार्थकत्वं गम्यत इत्यर्थः । इतः प्रभृतीति ।वोताप्यो॑रिति मर्यादायामाङ् ।उताप्यो॑रत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते ।उताप्यो॑रित्यादिसूत्रेषु भूतेलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इत्येवाधिक्रियते इत्युक्तम् । एवं चउताप्यो॑रिति सूत्रप्रभृति लिङ्निमित्तेक्रियापत्तौ भूते लृङित्येवाधिक्रियते, नतु वाग्रहणम् । अतो नित्यमेवाऽत्र विषये क्रियातिपत्तौ भूते भविष्यति च लृङित्यर्थः ।", "33153": "<<कामप्रवेदनेऽकच्चिति>> - कामप्रवेदनेऽकच्चिति ।अकच्चिती॑ति च्चेदः । तदाह — नतु कच्चितीति । सर्वलकारापवादः । अभिप्रायः = इच्छा । काम इति । भवान् भुञ्जीतेति मे कामः । इच्छेत्यर्थः । अत्र लिङ्निमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्यं लिङ् । प्रश्न एवायं कामप्रवेदनद्योतक इति प्राप्तिः । अत्र कच्चिच्छब्दस्य इच्छार्थकत्वाऽभावादिच्छार्थेष्विति वक्ष्यमाणं नाऽत्र प्रवर्तते ।", "33154": "<<सम्भवानेऽलमिति चेत् सिद्धाप्रयोगे>> - संभावने । अलमर्थोऽत्र प्रौढिरिति । पर्याप्तिरित्यर्थः । विपरिणम्यते इति । संभावने इति यत् सप्तम्यन्तं तदावर्त्त्य प्रथमया संभावनमिति च विपरिणम्यते, यत्तु अलमिति प्रथमान्तं तदावर्त्त्य सप्तम्या अलमि इति च विपरिणम्यत इत्यर्थः ।छान्दसं विभक्तिव्यत्ययमाश्रित्ये॑ति शेषः । तथा च संभावने इति सप्तम्यन्तं, संभावनमिति प्रथमान्तं च लभ्यते । तथा अलमिति प्रथमान्तमलभि इति सप्तम्यन्तं च लभ्यते । तत्र संभावने इति सप्तम्यन्तमर्थनिर्देशपरं । तदाह — संभावनेऽर्थ लिङ्स्यादिति । उत्कटान्यतरकोटिकं ज्ञान संभावनमित्युच्यते । संभावनमितिप्रथमान्तं तु अलमिति प्रथमान्तेन विशेष्यते । इति र्हेतौ । तदाह — तच्चेदिति । तत् = संभावनम्, अलं = पर्याप्तिहेतुकं चेदित्यन्वयः । षिधधातोज्र्ञानार्थकात्मतिबुद्धी॑त वर्तमाने कर्मणि क्ते सिद्धशब्दः । सिद्धे गम्यमानेऽप्यलमर्थे अप्रयोगो यस्य स सिद्धाऽप्रयोगस्तस्मिन्निति विग्रहः । अलमीति सप्तम्यन्तमत्र विशेष्यसमर्पकं संबध्यते । अलंशब्दप्रयोगं विनापि तदर्थे गम्यमाने इति यावत् । तदाह — सिद्धाऽप्रयोगे सतीति ।अलमी॑ति शेषः । अपि गिरिमिति । बलवन्तं पुरुषमधिकृत्य अत्युक्तिरियम् । प्रायेण शिरसा गिरि भ#एत्तुमयं समर्थ इत्यर्थः । गिरिभेदसंभावनस्य सामर्थ्यहेतुकत्वद्योतकोऽपिशब्दः । अत्र लिङ्निमित्तसत्त्वात् क्रियातिपत्तौ भूते लृङ् ।अलमिति संभावने सिद्धाऽप्रयोगश्चे॑दिति सुवचम् ।", "33155": "<<विभाषा धातौ सम्भावनवचनेऽयदि>> - विभाषा धातौ ।अयदी॑ति छेदः । तदाह — नतु यदिति । लिङभावे लृट्, 'शेषे लडयदौ' इत्यतस्तदनुवृत्तेः । संभावयामीति । प्रायेण भोक्तुं समर्थ इत्यर्थः ।", "33156": "<<हेतुहेतुमतोर्लिङ्>> - हेतुहेतुमतोर्लिङ् । पूर्वसूत्राद्विभाषानुवृतिंत मत्वा आह — वा स्यादिति । पक्षे लृट् । हेतुभूते फलभूते वाऽर्थे वर्तमानाद्धातोर्लिङ् वा स्यादिति यावत् । भविष्यत्येवेति । लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणादिति भावः । हन्तीति । इतिर्हेतौ । वर्तमानकालिकहननाद्धेतोरित्यर्थः । अत्र लिङ्निमित्तसत्त्वाद्भविष्यति तु क्रियातिपत्तौ भूते च लृङ् ।", "33157": "<<इच्छार्थेषु लिङ्लोटौ>> - इच्छार्थेषु लिङ्लोटौ । इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्लोटौ स्तः । सर्वलकारापवादः । असमानकर्तृकविषयमिदम् । समानकर्तृकेषु तुलिङ् चे॑ति वक्ष्यते । इच्छामिति । भुञ्जीत भवानिति इच्छामीत्यन्वयः । कामप्रवेदने इति । परं प्रति स्वाभिप्रायाविष्करणेइच्छार्थेषु लिङ्लोटा॑विति विधिरित्यर्थः । इच्छन्करोतीति । परं प्रति स्वाभिप्रायाविष्करणाऽभावान्न लिङ्लोटाविति भाव- ।कामप्रवेदनेऽकच्चिती॑ति सूत्रं तु प्रकरणादिना यत्र कामप्रवेदनं, नत्विच्छार्थकमुपपदमस्ति तद्विषयमिति बोध्यम् । इत उत्तरसूत्रंसमानकर्तृकेषु तुमु॑न्निति तु कृदधिकारे व्याख्यास्यते ।", "33158": "", "33159": "<<लिङ् यदि>> - लिङ्यदि । कालसमयवेलास्वत्यनुवर्तते । सर्वलकारापवादः, तुमुनपवादश्च । भुञ्जीत भवानिति यत्तस्यकालः समयो वेला वेत्यन्वयः ।", "33160": "", "33161": "<<विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लिङ्>> - विधिनिमन्त्रणाअ । ननु विध्यादयो हि न लिङो वाच्याः, लः, कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् । नच लः कर्मणि चेति शास्त्रं लिङ्व्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यं, तथा सति यजेतेत्यादौ कर्तृवाचकत्वाऽभावेन शबाद्यनापत्तेरित्यत आह — द्योत्येष्विति ।लः कर्मणि चे॑ति सूत्रं सामान्यविषयं चेदपि विधिनिमन्त्रणेति विशेषशास्त्रेण न बाध्यते, अविरोधात् । तथा च विध्यादिविशिष्टकत्र्रादिषु लिङिति फलतीति मत्वाह — वाच्येषु वेति । पक्षद्वयमपीदं भाष्ये स्थितम् ।विधिः प्रेरण॑मिति भाष्यमर्थतस्सङ्गृह्णाति -विधिः प्रेरणमिति । ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनक्त्यमित्यतो व्याचष्टे । भृत्यादेर्निकृष्टस्य प्रवर्तनमिति । तद्यथा भृत्यं स्वामी वदति — भवान् वस्त्रं क्षालये॑दिति । आमन्त्रणाद्भेदं दर्शयितुं निमन्त्रणशब्दं व्याचष्टे - निमन्त्रणं नियोगकरणमिति । नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति — आवश्यके इति ।त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलः॑ इत्यादिवचनादिति भावः । तद्यथा दौहित्रादीन् प्रतिइह श्राद्धे भवान् भुञ्जीते॑ति । आमन्त्रणं कामचारानुज्ञेति । 'यथेच्छं क्र#इयता' मित्यभ्यनुज्ञानमित्यर्थः । अधीष्टं सत्कारपूर्वको व्यापार इति । भाष्यवाक्यमिदम् । सत्कृत्य प्रवर्तनमित्यर्थः । अधिपूर्वकस्येषधातोर्भावे क्तान्तस्योपसर्गवशादस्मिन्नर्थे वृत्तिः । अत एव भाष्यप्रयोगादधीष्टशब्दस्य पुंस्त्वम् । 'अधीष्ट' मित्येव क्वचित्पाठः ।माणवकं भवानध्यापये॑ दित्युदाहरणम् ।इदं कार्यं न वे॑ति विचार्य निर्धारणं संप्रश्नः । यथा — किं भोः व्याकरणं भवानधीयीते॑ति । प्रार्थनं — याच्ञा । यथा 'भवानन्नं मे दद्या' दिति । सुवचमिति । प्रवर्तनात्वस्य विध्यादिचतुर्षु अनुस्यूतत्वादिति भावः । प्रवृत्यनुकूलव्यापारः — प्रवर्तना । तत्र प्रवृत्तिः शिष्यादिनिष्ठा । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः । विस्तरस्तु मञ्जूषायां द्रष्टव्यः । चतुर्णामिति । विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः ।", "33162": "", "33163": "<<प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च>> - प्रैषातिसर्ग ।लोट् चेति । पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते । कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाणा, लोट् च प्रैषादिषु भवन्तीत्यर्थः । प्रैषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति — भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोटमुदाहरति — भवान्यजतामिति । ननु चकारेण लोटोऽनुकर्षणं व्य्रथं, प्रैषस्य विधिरूपतया, अतिसर्गस्य आमन्त्रणरूपतया चलोट् चे॑त्यनेनैव सिद्धेरित्यत आह — वकारेणेति । प्राप्तकाले यथा — गुरुणा भोक्तव्यम् । गुरुर्भुञ्जीत । भोजनं प्राप्तावसरमित्यर्थः ।प्राप्तकाले च कृत्याश्चे॑त्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः । अतः प्रैषादिग्रहणम् ।", "33164": "<<लिङ् चोर्ध्वमौहूर्तिके>> - लिङ् चोध्र्वमौहूर्तिके ।लोडर्थलक्षणे चे॑त्युत्तरमेवंजातीयकमेव सूत्रं लिङ्लड्लुङ्लृड्विधायकं प्राक् पठितम् । तत्र ऊध्र्वमौहूर्तिकशब्दो व्याख्यातः । प्रैषादय इति । तथा च मुहूर्तादूध्र्वं यजेत यजतां यष्टव्यमिति । अत्र प्राप्तकालेऽप्राप्तस्य लिङो विधिः, विध्यादिसूत्रे लिङ्विधौ प्राप्तकालस्य ग्रहणाऽभावात् । प्रैषातिसर्गयोस्तु विद्यादिसूत्रेणैव लिङ् सिध्यति । लिङ एवात्र विधौ तु तेन लोटः कृत्यानां च बाधः स्यात्, अतश्चकारेण तेषामिति विधिरिति ज्ञेयम् ।", "33165": "<<स्मे लोट्>> - स्मे लोट् । पूर्वसूत्रेति । तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यान्नतु लिह् कृत्याश्चेत्यर्थः । तदाह — लिङः कृत्यानां चापवाद इति ।", "33166": "<<अधीष्टे च>> - अधीष्टे च । लोट् स्यादिति । अधीष्टे विहितस्य लिङोऽपवादः । अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम् । त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः ।स्मे लोडधीष्टेचे॑त्येकसूत्रत्वेन सिद्धए योगविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः ।कालसमयेलासु तुमु॑न्नित्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते ।", "33167": "", "33168": "", "33169": "<<अर्हे कृत्यतृचश्च>> - अर्हे कृत्यतृतश्च । चाल्लिङिति । योग्येकर्तरि गम्ये कृत्याः, तृच्, लिङ् चेत्यर्थः । त्वं कन्यां वहेरिति । कन्याविवाहस्य योग्य इत्यर्थः ।", "33170": "", "33171": "", "33172": "<<शकि लिङ् च>> - शकि लिङ् च । 'शक्' इति भावे क्विबन्तम् । शक्तौ गम्यमानायामित्यर्थः । भारं त्वं वहेरिति । वोढुं शक्त इत्यर्थः ।माङि लु॑ङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मार्यते । ननु सर्वलकारापवादोऽयमित्युक्तम्, एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्क्यते — कथमिति । परिहरति — नायं माङिति । किंत्विति । ङकारानुबन्धविधिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः । नच माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वेमाङि लु॑ङिति व्यर्थमिति वाच्यं, सर्वलकारविषये 'न माङ्योगे' इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात् ।", "33173": "<<आशिषि लिङ्लोटौ>> - आशिषि लिङ् । आशिष्यपीत्यर्थः । आशासनमासीः, इष्टप्राप्तीच्छा ।", "33174": "", "33175": "<<माङि लुङ्>> - माङि लुङ् । माङि प्रयुज्यमाने धातोर्लुङ् स्यादित्यर्थः । ननु लुङित्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह — सर्वलकारापवाद इति । मास्त्वित्यादौ तु 'मा' इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः । आङ्माङोश्चे॑ति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात्प्रमाछन्द इत्यत्र तुङ्न भवतीत्युक्तम् । माशब्दस्याऽव्ययान्तरस्य सत्त्वे तु तदेवोदाह्यियेत । मास्त्क्यत्र तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये ।", "33176": "<<स्मोत्तरे लङ् च>> - स्मोत्तरे लङ् च । चकारान्माङि लुङित्यनुकृष्यते ।स्मे त्यव्ययमुत्तरं यस्मादिति विग्रहः । तदाह -स्मोत्तरे माङिति । अयमपि सर्वलकारापवादः ।", "34001": "<<धातुसम्बन्धे प्रत्ययाः>> - धातुसम्बन्धे । धातुशब्देन धात्वर्थो लक्ष्यते । धात्वोः संबन्ध इति विग्रहः, संबन्धस्य द्विनिष्ठत्वात् । तथा च धात्वर्थयोः संबन्धे सति परत्ययाः स्युरिति लब्धम् । कस्मिन्नर्थे इत्याकाङ्क्षायां काले इति गम्यते, 'वर्तमाने ल' डित्यारभ्य तत्तत्कालविशेषेष्वेव प्रत्ययविधिदर्शनात् । तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धेस्ततोऽन्यस्मिन्काले इति गम्यते । तदाह — धात्वर्थानामित्यादिना । धात्वर्थयोरित्यर्थः । उदाहरणबहुत्वाभिप्रायं बहुवचनम् ।वर्तमानसामीप्ये वर्तमानवद्वे॑त्यादिसूत्रे यत्र काले ये प्रत्यया उक्तास्ते धात्वर्थयोः सम्बन्धे गम्ये ततोऽन्यमिन्नपि काले स्युरिति यावत् । तथा च 'वसन् ददर्शे' इत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इतिसिद्धं भवति । ननुवसन् ददर्शे॑त्यत्र भूते लडिव वर्तमाने लिडितय्पि स्यादित्यत आह — तिङन्तेति । 'वसन् ददर्शे' त्यादौ तङन्तवाच्या दर्शनादिक्रिया प्रधानम् । वासादिक्रिया तु दर्शनादिक्रियार्थत्वाद्गुणभूता । अतः प्रधानभूतदर्शनादिक्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः । भूते लडिति । एवं च उषित्वा ददर्शेत्यर्थ- । तदाह — अतीतेति । अत#ईति वासे कर्ता यस्येति विग्रहः ।सप्तमीविशेषणे बहुव्रीहौ॑ इति ज्ञापकाद्व्यधिकणपदो बहुव्रीहिः । उदाहरणान्तरमाह — सोमयाजीति । सोमेन इष्टवान्यः स सोमयाजी । करणे यजः॑ इति भूते विहितो णिनिः, इह भवितेत्यनद्यतनभविष्यल्लहन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोध्यः । तदाह — सोमेन यक्ष्यमाण इति । भवनमिति । उत्पत्तरित्यर्थः ।गोमानासी॑दित्यप्युदाहार्यम् । अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायां वर्तमानायांतदस्यास्ती॑ति विहितो मतुप् गौरस्यासीदिति भूतायामस्तिक्रियायां भवति, धात्वर्थद्वयसंबन्धस्य सत्त्वात् । एतेन अर्थद्वारके धात्वोः संबन्धे इत्यपि व्याख्यानं परास्तम् । तथा सति परस्परसंबन्धार्थबोधकधातुद्वयप्रोगे प्रत्यया इत्यर्थलाभाद्गोमानासीदित्यत्र मतुबनापत्तेः । नहि धात्वोरिह प्रयोगोऽस्ति । धात्वर्थयोः सम्बन्धे इत्यर्थाभ्युपगमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्व्यस्य सत्त्वादासीदित्यर्थे मतुब्निर्बाध इत्यन्यत्र विस्तरः ।", "34002": "<<क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः>> - क्रियासमभि । अत्र चत्वारि वाक्यानि । तत्रक्रियासमभिहारे लो॑डिति प्रथमं वाक्यम् । पौनः पुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वर्थविशेषणम् । क्रियासमभिहारविसिष्टक्रियावृत्तेर्धातोरिति लभ्यते । लोट् तु द्योतकः । तदाह — पौनः पुन्ये भृशार्थे च द्योत्ये इति । क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोर्लोडिति यावत् । सर्वलकारापवादः ।लोटो हिस्वा॑विति द्वितीयं वाक्यं व्याचष्टे — तस्येति । पूर्ववाक्यविहितस्य लोटो हिस्वावादेशौ स्त इत्यर्थः । तिङामपवाद इति । अपवादावित्यर्थः । प्रत्येकाभिप्रायमेकवचनम् । ननु हिस्वयोरुभयोरपि लादेशत्वात्परस्मैपदत्वं स्यात् । तथा सति हेः परस्मपैदत्वं, स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत् । अस्य स्वादेशस्य तङ्प्रत्याहारप्रविष्टत्वाऽभावेनतङानावात्मनेपदटमित्स्याऽप्रवृत्तेः ।तिप्रतस्झी॑त्यादिसूत्रोपात्तेषु ताऽऽतामादिष्वेव तङ्संज्ञाप्रवृत्तेः । किंच अनयोर्हिस्वयोःतिप्तस्झी॑ति सूत्रानन्तर्भूतत्वात्तिङ्त्वं च दुर्लभमित्यत आह — तौ चेति ।लोटो हिस्वा॑विति द्वितीयवक्ये तावत्क्रियासमभिहारे लोडिति प्रतमवाक्याल्लोडित्यनुवृत्तं स्थानषष्ठआ विपरिणतं तृतीयं वाक्यं संपद्यते । तत्र हि 'लोटो हिस्वौ' इति द्वितीयवाक्याद्धिस्वावित्यनुवृत्तं धर्मपरमाश्रीयते । तथा च लोडादेशौ हिस्ववद्भवत इत लभ्यते । कौ भवत इत्याकाङ्क्षायां पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते । ततश्च याविमौ तिङनन्तर्भूतौ हिस्वावुक्तौ तौ प्रसिद्धलोडादेशतिङन्तर्बूतहिस्ववद्भवत इति तृतीयं वाक्यं पर्यवस्यति । तिङन्तर्भूतहिस्वयोस्तावत्क्रमात्परस्मैपदत्वमात्मनेपदत्वं तिङ्त्वं च प्रसिद्धम् । अतः प्रकृतौ हिस्वौ कर्मात्परस्मैपदात्मनेपदसंज्ञौ तिङ्संज्ञौ चेत्यर्थः । तिङ्त्वात्पदत्वसिद्धिः । ननुवा च तध्वमो रिति तध्वमोर्हिस्वादेशविकल्पविदिरनुपपन्नः, लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वमोरप्रसक्तेरित्यत आह — तध्वमोर्विषयेत्विति । स्थानषष्ठीमाश्रित्यलोडादेशतध्वमोः स्थाने हिस्वा॑वित्यर्थ इति न भ्रमितव्यम्, येनोक्तदोषः स्यात्, किंतुं विषयविषयिभावः षष्ठर्थः । तथा च तध्वमोर्विषये लोटो हिस्वौ, पक्षे तध्वमाविति फलतीत्यर्थः ।अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्रते, व्याख्यानात्, ध्वंसाहचर्याच्च । ननु हिस्वयोरनयोर्मध्यमपुरुषैकवचनत्वस्याप्यतिदेशाद्युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्व#औ स्याताम् । तथा चइणौ हिस्वौ सर्वेषां पुरुषाणां, सर्वेषां च वचनानामिष्येते॑ इति भाष्यमनुपपन्नमित्यत आह — हिस्वविधानेति । यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्यातां तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येवलोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिबाद्यादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थकं स्यादतो न पुरुषवचनातिदेश इत्यर्थः । तेनेति । हिस्वयोः पुरुषवचनातिदेशाऽभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः । सकलेति । सकलपुरुषवचनविषये हिर्भवति, स च भवन् परस्मैपदिभ्य एव कर्तर्येव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः,शेषात्कर्तरि परस्मैपदमित्युक्तेरिति भावः । आत्मनेपदिभ्यः स्व इति ।अनुदात्तङित आत्मनेपदम्,॒भावकर्मणोरित्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तुषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः ।", "34003": "<<समुच्चयेऽन्यतरस्याम्>> - समुच्चये । समभिहार इति पदरहितंक्रिया, लोट् लोटौ हिस्वौ वा च तध्मो॑रिति पूर्वसूत्रमनुवर्तते । क्रियेति लुप्तषष्ठीबहुवचनान्तं समुच्चय इत्यत्रान्वेति । तदाह — अनेकक्रियासमुच्चये द्योत्ये इति । एवं च कारकसमुच्चयमाश्रित्य नाऽस्य प्रवृत्तिः । प्रागुक्तमिति । धातोर्लोट्, तस्य हिस्वौ प्रसिद्धहिस्वधर्मकौ तध्मोर्विषये वा इत्युक्तमित्यर्थः । यथाविध्यनुप्रयोगः । 'क्रियासमभिहारे' इति,समुच्चयेऽन्यतरस्या॑मिति च लोड्विधी उक्तौ, तयोर्मध्ये यत्पूर्वसूत्रं 'क्रियासमभिहारे' इति, तदेतत्पूर्वशब्देन परामृश्यते । तदाह - आद्ये लोड्विधाते इति । विधिमनतिक्रम्य यथाविधि । यस्याः प्रकृतेर्लोडविहितस्तस्या अनुप्रयोग इति लभ्यते । तदाह — लोट्प्रकृतिभूत एवेति । अत्राऽनुप्रयोगः पश्चात्प्रयोगः, न त्वव्यवहितत्वं विवक्षितम्, लुनीहिलुनीहीत्येवायं लुनाती॑ति भाष्यप्रोगाल्लिङ्गात् ।", "34004": "", "34005": "<<समुच्चये सामान्यवचनस्य>> - समुच्चये सामान्यवचनस्य । उच्यतेऽनेनेति वचनः । सामान्यवाचिन इत्यर्थः । फलितमाह — सामान्यार्थकस्येति । समुच्चीयमानक्रियासामन्यवाचिन इत्यर्थः । अनुप्रयोगादिति । अनुप्रयोगादिति । अनुप्रयुज्यमानादित्यर्थः । तत इति । अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः । हिस्वाभ्यां तु न सङ्ख्याकारकाद्यभिव्यक्तिः । तथा च भाष्यं — हिस्वान्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थः॑ इत्यादि ।क्रियासमभिहारे द्वे वाच्ये॑ इति वार्तिकं द्विरुक्तप्रक्रियायां व्याख्यातम् । इदमाद्यसूत्रविहितलोडन्तविषयमिति भाष्ये स्पष्टम् । क्रियासमभिहारे लोटमुदाहरति — याहियाहीति यातीति । भाष्ये 'इति' शब्दस्य दर्सनादिति भावः । ह्रन्तस्येति । याहि याहीत्यस्येत्यर्थः । एककर्तृकतकमिति । यातीति यानिकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः । अभेदान्वये इति । तथा च पुनः पुनरतिशयेन वा यद्यानं तदात्मकमेककर्तृकं वर्तमानं यानमिति बोधः । तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः । एवमिति । याहि याहीति यातः । याहि याहीति यान्तीतित्यादिसकलपुरुषवचनेषूदाहार्यमित्यर्थः । याहि याहीति ययौ । याहि याहीति याता । याहि याहीति यास्यति । याहि याहीति यातु । लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः — वा च तध्वमोरिति । तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्धवत्कृत्य अभावपक्षे आह — यात यातेति यूयं यातेति । याहि याहीत्ययात् । याहि याहीति यायात् । लुङ्याह — याहि याहीत्ययासीदिति । लृङि उदाहरति — अयास्यद्वेति । याहि याहीत्ययास्यदिति लृङि रूपम् । यास्यति वेति पाठे लृटि उदाहरणम् । क्रमस्तु न विवक्षितः । पक्षे इति । ध्वंविषये स्वादेशाऽभावपक्षे इत्यर्थः । यूयमधीध्वमिति — लोण्मध्यमपुरुषबहुवचनम् । भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते । पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम् । अथसमुच्चये सामान्यवचनस्ये॑ त्यस्योदाहरति — समुच्चये त्विति । अभ्यवहरतीति । पानं द्रवद्रव्यस्य । दन्तसंमर्दनं विना भक्षणम् । खादनं तु — कठिनद्रव्यस्य चर्वणम् । तयोः सामान्यरूपमभ्यवहरणम्, यथाकथंचिद्भक्षणात्मकत्वात् । पक्षे हिस्वाविति । तध्वमोर्विषये कदाचिद्धिस्वादेशौ पक्षे इत्यर्थः ।पिब खादेत्यभ्यवहरते॑ त्युदाहार्यम् । अत्रेति ।पिब खादेत्यभ्यवहरती॑त्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषाणामनुप्रयुज्यमानधातुवाच्याभ्यवहरणातमकक्रियासामान्येनाऽभेदान्वय इत्यर्थः । पक्षे सक्तूनिति । समुच्चये लोडभावपक्षे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः । एतेनेति ।समुच्चयेऽन्यतरस्या॑मितिसमुच्चये समान्यवचनस्ये॑ति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन चपुरीमवस्कन्दे॑त्यादि माघकाव्यस्थं श्लोकवाक्यं व्याख्यातमित्यर्थः । बली — रावणो, नमुचिद्विषा = इन्द्रेण सह, विगृह्र - विरोधं प्राप्य, पुर्याः = अमरावत्याः, अवस्कन्दनं = पीडनं, नन्दनवनस्य लवनं, रत्नानां मोषणम्, अमराङ्गनानां हरणमित्येवंप्रकारेण अहर्दिवम् = अहन्यहनि, अस्वास्त्यं चक्रे = कृतवानित्यन्वयः । इत्थंशब्द इतिपर्यायोऽवस्कन्दनादिक्रियाविशेषणामस्वस्थ्यक्रियासामान्येऽभेदं ग्राहयति । फलितमाह — अवस्कन्दलवनादिति । आदिना मोषणं हरणं च गृह्रते । भ्रममूलकत्वमुपपादयति — द्वितयीसूत्रे इति । अननुवृत्तेरिति । भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः । तदनुवृत्त्यभ्युपगमे बाधकमाह - लोडन्तस्येति ।समुच्चयेऽन्यतरस्या॑मिति सूत्रे 'क्रियासमभिहारे' इत्नुवृत्तौ 'अवस्कन्दे' त्यादिलोडन्तानांक्रियासमभिहारे द्वे वाच्ये॑ इति द्वित्वापत्तेरित्यथः । भ्रम एवेति । मध्यमपुरुषांऽशे, एकवचनांशे च भ्र एवेत्यर्थः । कुत इत्यत आह — पुरुषवचनसंज्ञे इह नेत्युक्तत्वादिति । अत्र भाष्ये हिस्वान्तयोरनभिव्यक्तसङ्ख्याकालकत्वात्तदभिव्यक्तयेऽनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्माऽस्तु इत्युक्तम् । एवं चतानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थान॑मिति श्रुतौसमुच्चयेऽन्यतरस्या॑मिति लोटो हिस्वावेव भवतो,न त्वनुप्रयोगः । तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्ख्याकालभिव्यक्तेरविवक्षितत्वेन तत्राऽनुप्रयोगस्य प्रयोजनाऽभावात् । एतेनआ च सत्यलोकादाचाऽवीचेर्जायस्वम्रियस्वेति विपरिवर्तमानमात्मानं जीवलोकं चालोक्याऽस्मिन् संसारे नित्याऽशुचिदुःखात्मकं प्रसङ्ख्यानमुपवर्तते॑ इति वाचस्पत्यग्रन्थेऽपि जायस्व म्रियस्वेति व्याख्यातम् । नचात्रसमुच्चयेऽन्यतरस्या॑मित्यत्र 'क्रियासमभिहारे' इत्यस्याननुवृत्तेरुक्तत्वात्कथमिह पौनःपुन्यमसकृत्पदगम्यमित्यदोषः । कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र 'क्रियासमभिहारे' इति सूत्रेण लो॑डित्युक्तम्, तत्तु द्वित्वापत्तेरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपञ्चितम् । इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां लकारार्थप्रक्रियानिरूपणम् । अथ मत्वर्थीयप्रकरणम् । — — — — — — — —", "34006": "", "34007": "", "34008": "", "34009": "", "34010": "", "34011": "<<दृशे विख्ये च>> - अथाशीर्लिङि विशेषमाह — लिङाशिषि ।लि॑ङिति लुप्तषष्ठीकं पदम् । तिङ्शित्सार्वधातुमित्यतस्तिङित्यनुवर्तते । तदाह — आशिषि लिङस्तिङिति । सार्वधातुकसंज्ञाऽपवादोऽयम् । ततश्च सार्वधातुकसंज्ञाकार्यं शबादि न भवति ।", "34012": "", "34013": "", "34014": "", "34015": "", "34016": "", "34017": "", "34018": "", "34019": "", "34020": "", "34021": "", "34022": "", "34023": "", "34024": "", "34025": "", "34026": "", "34027": "", "34028": "", "34029": "", "34030": "", "34031": "", "34032": "", "34033": "", "34034": "", "34035": "", "34036": "", "34037": "", "34038": "", "34039": "", "34040": "", "34041": "", "34042": "", "34043": "", "34044": "", "34045": "", "34046": "", "34047": "", "34048": "", "34049": "", "34050": "", "34051": "", "34052": "", "34053": "", "34054": "", "34055": "", "34056": "", "34057": "", "34058": "", "34059": "", "34060": "", "34061": "", "34062": "", "34063": "", "34064": "", "34065": "", "34066": "", "34067": "<<कर्तरि कृत्>> - कर्तरि कृत् । अर्थनिर्देशोऽयम् । इति प्राप्ते इति । वक्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञकत्वात्तेषां कर्तरि प्राप्तावित्यर्थः ।", "34068": "<<भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा>> - भव्यगेय । कर्तरि वेति ।कर्तरि कृ॑दित्यतः कर्तरीत्यनुवृत्तं वेत्यनेन संबध्यते । तथा च कर्तरि वा एते निपात्यन्ते । अन्यत्र नेति फलति । तत्र अन्यत्रेत्यस्याऽनिर्धारणादाह — पक्षे इति । अन्यत्रापि न सर्वत्र, किंतुतयोरेव कृत्यक्तखलर्थाः॑ इति सूत्रेण सकर्मकात्कर्मणि, अकर्मकाद्भावे एते कृत्या ज्ञेया इत्यर्थः ।तयोरेव कृत्ये॑ति सूत्रेलः कर्मणि चे॑त्यस्मात्सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भाव इत्यनुवर्तते इति भावः । भव्य इति । कर्तरि अचो यत् । भव्यमनेन वेति । भावे यत् ।गेयः साम्नामयमित । गाधातोः कर्तरि यत् ।ईद्यती॑ति प्रकृतेरीत्त्वम् । गुणः । साम्नां कर्मणामनभिहितत्वात्कृद्योगे षष्ठी । कर्तुरभिहितत्वात्प्रथमा । गेयं सामाऽनेनेति । कर्मणि यत्, सकर्मकत्वात्, नतु भावे, कर्तुरनभिहितत्वात्तृतीया । कृद्योगषष्टी तु कृत्ययोगे कर्तरि वैकल्पिकी,कृत्यानां कर्तरि वा ॑ इत्युक्तेः । इत्यादीति ।प्रवचनीयो गुरुर्वेदस्य॑ । प्रवक्तेत्यर्थः । कर्तरि अनीयर् ।प्रवचनीयो वेदो गुरुणे॑ति वा ।उपस्थानीयः शिष्यो गुरोः॑,उपस्थानीयो गुरुः शिष्येणे॑ति वा ।जन्योऽसौ॑ । जायते इत्यर्थः ।जन्यमनेने॑ति वा । आप्लवतेऽसौआप्लाव्यः॑ । 'ओरावश्यके' इति कर्तरि ण्यत् ।आप्लाव्यमनेने॑ति वा । आपतत्यसौआपात्यः ।ऋहलो॑रिति कर्तरि ण्यत् ।आपात्यमनेन वा॑ ।शकि लिङ् चे॑त्यपि व्याख्यातं प्राक् विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् । नन्विह चकारानुकृष्टकृत्यविधिव्र्यर्थः, शक्तौ अशक्तौ च भावकर्मणोः सामान्यतः कृत्यविदित एव शक्तावपि सिद्धेरित्यत आह — लिङा बाधेति ।शकि लि॑ङित्येतावत्येवोक्ते शक्तौ विशेषविहितेन लिङा कृत्यानां बाधः स्यात्, अशक्तौ कृत्यानां चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधिकारादूध्र्वं नेत्युक्तमेवेति भावः । लाघवादिति । इह चकारमात्रेण वासरूपविधेः स्त्र्यधिकारादूध्र्वमनित्यताज्ञापनं संभवति, अतःप्रैषातिसर्गे॑ति सूत्रे कृत्यग्रहणेनअर्हे कृत्यतृचश्चे॑त्यत्र कृत्यतृज्ग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः । इति कृत्यप्रक्रिया ॥ इति बालमनोरमायाम् कृत्यप्रक्रिया॥अथ क्र्यादयः । अथ श्नाविकरणधातवो निरूप्यन्ते । डु क्रीञिति ।", "34069": "<<लः कर्मणि च भावे चाकर्मकेभ्यः>> - लः कर्मणि च । वाक्यद्वयमिदं सूत्रम् ।लः कर्मणि चे॑ति प्रथमं वाक्यम् । 'ल' इति प्रथमाबहुवचनान्तम् । चकारेणकर्तरि कृ॑दित्यतःकर्तरी॑त्यनुकृष्यते ।धातो॑रित्यधिकृतम् । लकाराः कर्मणि कर्तरि च धातोः स्युरिति लभ्यते । सकर्मकधातुविषयमेवेदम्, अकर्मकेषुकर्मणी॑त्यस्य बाधितत्वात् । तदाह लकाराः सकर्मकेभ्य इति । एवं च सकर्मकेभ्यो भावे लकारान भवन्ति । सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तुदेवदत्तेन घटं क्रियते॑ इत्यादौ भावलकारेण कर्मणोऽनभिहितत्वाद्द्वितीया स्यादिति भावः । 'भावे चाकर्मकेभ्यः' इति द्वितीयं वाक्यम् । अत्रापि चकारेण कर्तैवानुकृष्यते, न तु कर्म, असंभवात् । तदाह — अकर्मकेभ्यो भावे कर्तरि चेति । अत्राऽकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते । तेन 'देवदत्तेन भुज्यते' इत्यत्र सतोऽप्योदनरूपकर्मणोऽविवक्षायां भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः ।", "34070": "<<तयोरेव कृत्यक्तखलर्थाः>> - तयोरेव कृत्यखलर्थाः ।लः कर्मणि च भावे चे॑ ति सूत्रोपात्ते भावकर्मणी तच्छब्देन कृत्संज्ञकतया प्राप्तकत्र्रर्थकत्वस्याऽभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संज्ञाया अबाधं गमयति ।", "34071": "<<अदिकर्मणि क्तः कर्तरि च>> - आदिकर्मणि क्तः कर्तरि च । चाद्भावकर्मणोरिति ।तयोरेव कृत्ये॑त्यतस्तदनुवृत्तेरिति भावः ।प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः॑ इति भाष्ये उदाहृतम् । आरभ्यमाणकरणक्रियेति बोधः ।", "34072": "<<गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च>> - गत्यर्थ । गत्यर्थ, अकर्मक, श्लिष, शीङ्, स्था, आस , वस, जन, रुह, जीर्यति एषां दशानां द्वन्द्वः ।लः कर्मणि च भावे चे॑त्यतो भावे कर्मणीतिआदिकर्मणि क्तः कर्तरि चे॑त्यतः कर्तरि इति चानुवर्तते । तदाह — एभ्य इत्यादिना । कर्तरीत्येवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः । गङ्गां गत इति । कर्तरि क्तः । गङ्गां प्राप्त इति । 'आप्लृ व्याप्तौ' उपसर्गवशाद्गतौ वर्तते । अकर्मकादुदाहरति — म्लान इति । क्षीण इत्यर्थः । 'संयोगादेः' इति निष्ठानत्वम् । आश्लिष्ट इति । आलिङ्गितवानित्यर्थः । नन्वकर्मकत्वादेव सिद्धे शीङादीनां पुनग्र्रहणं व्यर्थमित्यत आह — शेषमधिशयित इति । शेषे शयितवानित्यर्थः ।अधीशीङ्स्थासाटमिति शेषः कर्म, अतो नाऽकर्मकत्वादिह प्राप्तिरिति भावः । वैकुण्ठमधिष्ठित इति । वैकुण्ठे स्थिवानित्यर्थः ।अधिशीङ्स्थासा॑मिति वैकुण्ठः कर्म । अतो नाऽकर्मकत्वादिह प्राप्तिः । शिवमुपासित इति । शिवं परिचरितवानित्यर्थ- । उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशेनाऽर्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः । हरिदिनमुपोषित इति ।वसतिक्षुधो॑रिति इट् । यजादित्वात्संप्रसारणम् ।शासी॑ति षः । हरिदिने न भुक्तवानित्यर्थः । 'उपान्वध्याङ्वसः' इति हरिदिनं कर्म । ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः । राममनुजात इति । अनुकृतवानित्यर्थः । अनुसृत्य जातवानिति वा ।ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः । गरुडमारूढ इति । उपर्याक्रान्तवानित्यर्थः । विआमनुजीर्ण इति । हतवानित्यर्थः । व्याप्तवानिति वा । अकर्मकत्वाऽभावादप्राप्तिः । जृधातोः कर्तरि क्तः । 'ऋतः' इतित इत्त्वं । रपरत्वं । 'हलि चे ' ति दीर्घः ।रदाभ्या॑मिति नत्वं । णत्वम् । पक्षे इति । कर्तरि प्रत्ययाऽभावपक्षे इत्यर्थः ।", "34073": "", "34074": "", "34075": "", "34076": "<<क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः>> - क्तोऽधिकरणे च । ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः । ध्रौव्यार्थेभ्यो, गत्यर्थेभ्यः, प्रत्यवसानार्थेभ्यश्चेति यावत् । चाद्यथाप्राप्तमिति । कर्मकर्तृभावेष्वपि यथासंभवमित्यर्थ- । ध्रौव्यमित्यस्य विवरणं - स्थैर्यमिति । स्थिरीभवनम् । उपवेशनशयनादिक्रियेति यावत् । मुकुन्दस्यासितमिदमिति । श्लोकोऽयम् । आस्यते अस्मिन्नित्यासितम् । आसनमित्यर्थः । ध्रौव्यार्थस्योदाहरणमिदम् । इदं यातं रमापतेरिति । गत्यर्थस्योदाहरणम् । यायते गम्यते अस्मिन्निति यातं, मार्गं इत्यर्थः । भुक्तमेतदनन्तरस्येति । भुज्यते अस्मिन्निति भुक्तम् । भोजनस्थानमित्यर्थः ।अधिकरणवाचिनश्चे॑ति त्रिष्वपि कर्तरि षष्ठी । पक्षे इति । आधिकरणे प्रत्ययाऽभावपक्षे इत्यर्थः । आसेरकर्मकत्वादिति । ततश्च न कर्मणि क्त इत्यर्थः । आसितो मुकुन्द इति । आसितवानित्यर्थः । आसितं तेनेति । भावे उदाहरणम् । गत्यर्थेभ्य इति । तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः,लः कर्मणि चे॑त्यत्राऽदर्शनादिति भावः । भुजेः कर्मणीति । भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्यलः कर्मणी॑त्यत्राऽदर्शनात् । नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः । कथमिति । भुजेः कर्तरि क्ताऽभावस्योक्तत्वादिति भावः । समाधत्ते — भुक्तमस्त्येषामिति । अत् गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव , अविशेषात्,अजर्यं सङ्गत॑मिति सूत्रेअनेकमन्यपदार्थेट इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः । इत्यधिकृत्येति ।वर्तमाने ल॑डित्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः 'भूते' इति सूत्र भाष्ये उक्तत्वादित्याहुः ।", "34077": "<<लस्य>> - लस्य ।धातो॑रित्यधिकृतम् । अकारो न विवक्षितः । तेन लिडादीनामपि सङ्ग्रहः । 'चूडाल' इत्यादौ च नातिप्रसङ्गः ।", "34078": "<<तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्>> - तिप्तस् । तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त , आताम्, झ,थास्, आथाम्, ध्वम्, इड्, वहि, महिङ् । एषां समाहारद्वन्द्वात्प्रथमैकवचनम् । लस्येति स्थानषष्ठन्तमधिकृतम् । तेन आदेश इति लभ्यते । फलितमाह — एत इति । तसादौ रुत्वाऽभाव आर्षः । तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपदिति ङित्त्वनिवृत्त्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति ।", "34079": "<<टित आत्मनेपदानां {टे}रे>> - टित आत्म । टेः - ए इति च्छेदः । लस्येत्यधिकृतं । तदाह — टितो लस्येति ।आदेशाना॑मिति शेषः । अत्रात्मनेपदशब्देन तङेव गृह्रते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् । एधत इति । अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्त्वादेत्वम् । अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशेटित आत्मनेपदाना॑मिति आम एत्वे, शपि एध — आते इति स्थिते ङित्कार्यं वक्ष्यन्ङित्त्वमाह — सार्वधातुकमपित् । 'गाङ्कुटादिभ्य' इत्यतो ङिदित्यनुवर्तते । अङितो ङित्त्वं वास्तवं न संभवतीति ङिद्वदिति लभ्यते । तदाह — ङिद्वदिति ।", "34080": "<<थासस्से>> - थासः से । 'से' इति लुप्तप्रथमाकम् । एधस इति । थासि शपि थासः सेभावः । एधेथे इति । लटो मध्यमपुरुषदिवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोप इति भावः । एधध्व इति । लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति — अतो गुणे इति ।अतो गुणे॑इति पररूपे वृद्ध्यपवादे कृते सति 'एधे' इति रूपमित्यर्थः । एधावहे इति । लट उत्तमपुरुषबहुवचने वहीत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधमह इति । लट उत्तमपुरुषबहुवचने महीत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिङिति ङकारस्तङ्प्रत्ययार्थः । इति लट्प्रक्रिया ।", "34081": "<<लिटस्तझयोरेशिरेच्>> - लिटस्तझयो । ननु लिटस्तझयोरिशिरिजित्येवास्तु, आदेशयोरेकारोच्चारणं व्यर्थं, टित आत्मनेपदानामित्येत्वेनैन सिद्धेरित्यत आत — एकारोच्चारणमिति । ज्ञापनस्य फलमाह — तन डारौरसां नेति डा रौ रस् — एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वं नेत्यर्थः । वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायादेत्वं नेति लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम् । कृ ए इति स्थित इति । तकाराऽकारसङ्घातस्य एकारः शित्त्वात्सर्वादेश इति भावः ।", "34082": "<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> - परस्मैपदानां । लिटस्तझयोरित्यस्माल्लिट इत्यनुवृत्तिमभिप्रेत्याह — लिटस्तिबादीनामिति । णलादय इति । णल्, अतुस्, उस् । थल्, अथुस् अ । णल्, व , म-इत्येते नव यथासङ्ख्यं स्युरित्यर्थः । तत्र तिपो णल् सर्वादेशः । न च णकारलकारयोः 'चुटू' इतिहलन्त्य॑मिति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वामिति वाच्यं, सर्वादेशत्वात्प्राग्णलः प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्तेः । णित्त्वं तु जुहावेत्यादौ वृद्ध्यर्थम् । लित्त्वं तु लित्स्वरार्थम् । ननु मध्यमपुरुषबहुवचनथस्य विधीयमानोऽकारःअलोऽन्त्यस्ये॑त्यन्यस्य स्यात् । अकारस्य अकारविधिस्तु यथासङ्ख्यापादनार्थ इति चेत्, सत्यम्, द्वयोरकारयोः परूपेण 'अ' इति सूत्रे निर्देशादनेकाल्त्वात्सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात्पूर्वं विभक्तित्वाऽभावेन 'न विभक्ता' विति निषेधाऽभावत्सकारस्येत्त्वं दुर्वारमिति वाच्यं, सकारादुपरि सकारान्तस्य संयोगान्तलोपेन लुप्तया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाऽभावादित्यलम् ।", "34083": "<<विदो लटो वा>> - विदो लटो वा ।परस्मैपदानां णलतु॑सित्यादिसूत्रमनुवर्तते ।विद॑इति पञ्चमी । तदाह — वेत्तेर्लट इति । विन्दतिविद्यत्योस्तु शेन श्यना च व्यवधानान्नैते आदेशाः । इत्यादीति । विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । विविदतुरिति । विविदुः । विवेदिथ विविदथुः विविद । विवेद विविदिव विविदिम । आम्पक्षे इति । न लघूपधगुण इत्यन्वयः । कुत इत्यत आह — अकारान्तनिपातनादिति ।उषविदे॑ति सूत्रे विदेत्यकारान्तत्वमाम्संनियोगेन निपात्यत इत्यर्थः । आमि अतो लोपः । तस्य स्थानिवत्त्वान्न लघूपधगुण इति भावः । वेदितेति । वेदिष्यतीत्यपि ज्ञेयम् ।", "34084": "<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> - ब्राऊञ् । ब्राउवः पञ्चानाम् ।परस्मैपदानां णलतु॑रित्यत उत्तरसूत्रमिदम् ।विदो लटो वे॑त्यतो लटो वेत्यनुवर्तते । तदाह — ब्राउवो लट इति । आदितः पञ्चानामिति । तिप् तस् झि सिप् थसित्येषामित्यर्थः । णलादयः पञ्चेति । णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । उच्चारणार्थ इति । तत्प्रयोजनमात्तेत्यत्रानुपदमेव व्यक्तं भविष्यति । आहेति ब्राऊधातोर्लटस्तिपो णलि प्रकृतेराहादेशः । सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते —", "34085": "<<लोटो लङ्वत्>> - लोटो लङ्वत् । लङ इव लङ्वत् ।तत्र तस्येवे॑ति षष्ठन्ताद्वतिः । तदाहलोटो लङ इवेति । ननु तर्हिलुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यडागमोऽपि स्यादित्यत आह — तेनेति । लङ इति स्थानषष्ठन्ताद्वतिप्रत्ययाश्रयणेनेत्यर्थः । अडागमस्तु न लङो विधीयते, किन्तु लङि अङ्गस्येति भावः । केन तामादयः, केन वा सलोप इत्यत आह — तथा हीति । तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः ।", "34086": "", "34087": "<<सेर्ह्यपिच्च>> - सेह्र्रपिच्च । 'हि' इति लुप्तप्रथमाकम् ।लोटो लङ्व॑दित्यतो 'लोट' इत्यनुवर्तते । तदाह — लोटः सेरिति । स्तुहीत्यादौ सिप्स्थानिकस्य हेः पित्त्वात्सार्वधातुकमपिदिति ङिद्वात्त्वाऽभावाद्गुणे प्राप्ते अपिद्वचनम् । एवञ्च ङिद्वत्त्वात् 'क्क्ङिति च' इति गुणो न । सेर्हर्हिङिच्चे॑त्येव तु न सूत्रितम्, पितस्सिपोऽनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि स्थिते —", "34088": "", "34089": "<<मेर्निः>> - लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते — मेर्निः ।लोटो लङ्व॑दित्यतो इत्यनुवर्तते । तदाह — लोटो मेरिति ।", "34090": "<<आमेतः>> - आमेतः । आम्-एत इति च्छेदः ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोट एकारस्येति । लोडादेशावयवस्य एकारस्येत्यर्थः । एधतामिति । लोटस्तादेशे टेरेत्वे आमादेशे शपि रूपम् । एधेतामिति । आताम् । टेरेत्वं । शप् ।सार्वधातुकमपि॑दिति ङित्त्वादातो ङित इत्याकारस्य इय् । गुणः । यकारलोपः । 'आमेत' इत्येकारस्य आम् । एधन्तामिति । झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम् ।अथ लोटस्थासः सेभावे शपि एध — से इति स्थिते ।", "34091": "<<सवाभ्यां वामौ>> - सवाभ्यां । सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च अम्च वाऽमौ ।लोटो लङ्व॑दित्यास्माल्लोट इतिआमेत॑इत्यस्मादेत इति चानुवर्तते । तदाह — सकारेति ।आमेत॑इत्यस्यापवादः । एधस्वेति ।एध-सेट इत्यत्र एकारस्य 'व' इति वकाराकारसङ्घात आदेशः । एधेथामिति । आथाम् । टेरत्वं । शप् । 'आतो ङि' इत्याकारस्य इय् । गुणः । यलोपः 'आमेत' इत्याम् । एधध्वमिति । ध्वमि, शप्, टेरेत्वे कृते सवाभ्यामिति वकारात्परत्वादेकारस्य अम् ।", "34092": "<<आडुत्तमस्य पिच्च>> - भव नि इति स्थिते — आडुत्तमस्येति ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोडुत्तमस्येति । स्तवानि स्तवावेत्यादौ सार्वधातुकपिदिति ङित्त्वनिवृत्त्यर्थं पिद्वचनम् । यद्यपि मिपस्थानिकस्य नः पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं, तथापि वस्मसोराडागमस्याऽङित्तवार्थं पिदिति वचनम् । ननु स्तुहि भवानीत्यत्र 'एरु' रित्युत्वं कुतो न स्यादित्यत आह-हिन्योरुत्वं नेति । सामर्थ्यादिति । अन्यथा — 'हु-नु' इत्येव विदध्यादिति भावः । भवानीति । आडागमे सवर्णदीर्घः । न चाऽत्र लङ्वद्भावादितश्चेति लोपः शङ्क्यः, इकारोच्चारणसामर्थ्यात् । अन्यथा 'मो न' इत्येव विदध्यात् । एवं हेरपि बोध्यम् । यद्यपि भवानीत्यादवतो दीर्घो यञि इत्येव दीर्घसिद्धेराडागमविधिव्र्यर्थस्तथापि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम् । भवावेति । लोटो वस् । गुणावादेशौ । आडागमः । सवर्णदीर्घः । लङ्वद्भावात् 'नित्यं ङित' इति सकारलोपः । एवं मसि भवामेति रूपम् । इति लोट्प्रक्रिया ।", "34093": "<<इतश्च>> - इतश्च । लस्येत्यधिकृमतम् ।इतश्च लोपः परसमैपदेष्वि॑त्यस्माल्लोप इति, परस्मैपदेष्विति चानुवर्तते । परस्मैपदष्वित्येततत्षष्ठआ विपरिणम्यते । तदाह — ङितो लस्येत्यादिना । अलोऽन्त्यस्येत्यन्त्यस्य लोपः । तदाह — अभवदिति । अभवतामिति । लङस्तस्तामादेशः । शप् गुणावादैशौ । अट् । अभवन्निति । झेरन्तादेशः । शप् गुणावादेशौ ।अट् ।इतश्चे॑तीकारलोपः । तकारस्य संयोगान्तलोपः । अभव इति । सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ । अभवतमिति । थसस्तमादेशः । शप् । गुणावदेशौ । अट् । अभवतेति । थस्य तादेशे शपि गुणे अवादेशेऽटि । अभवमिति । मिपोऽमादेशे शपि गुणेऽवादेशे पूर्वरूपम् । अभवावेति । वसि शपि गुणावादेशौ । अट् ।अतो दीर्घो यञी॑ति दीर्घः । 'नित्यं ङित' इति सकारलोपः । एवं मसि अभवामेति रूपम् । इति लङप्रक्रिया ।", "34094": "", "34095": "", "34096": "", "34097": "", "34098": "", "34099": "<<नित्यं ङितः>> - नित्यं ङितः । उत्तमपुरुष एवास्य सूत्रस्य प्रयोजनम्, प्रसङ्गादिहोपन्यस्तम् ।स उत्तमस्ये॑ति सूत्रमनुवर्तते । तत्र 'स' इति षष्ठन्तम् । तेन उत्तमो विशेष्यते । तदन्तविधिः । 'इतश्च लोप' इत्यतो 'लोप' इत्यनुवर्तते । तदाह — सकारान्तस्य ङिदुत्तमस्येति । ङितो लकारस्य य आदेशः — उत्तमपुरुषस्तस्येत्यर्थः ।वैतोऽन्यत्रे॑त्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् । अलोऽन्त्यस्येत्यन्त्यलोपः । भवतामिति । लोटस्तस् । तस्य तामादेशः । शप् । गुणाऽवादेशौ । न च तामादेशस्य सर्वादेशत्वात्प्राग्विभक्तित्वाऽभावा॑न्न विभक्तौ तुस्मा॑ इति निषेधाऽभावान्मकारस्येत्संज्ञा शङ्क्या । संयोगान्तलोपेन मकारान्तप्रश्लेषेण उपदेशेऽन्त्यत्वाऽभावात् । भवन्त्विति । लोटो रेझन्तादेशे शिपि गुणेऽवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् । अथ लोटः सिपि शपि गुणाऽवादेशयोः भव सि इति स्थिते — ।", "34100": "", "34101": "<<तस्थस्थमिपां तांतंतामः>> - तस्थस्थमिपां । तस्,थस्, थ, मिप्, — एषां द्वन्द्वात्षष्ठीबहुवचनम् । ताम तम् त आम् एषां द्वन्द्वात्प्रथमाबहुवचनम् । 'नित्यं ङित' इत्यस्मान्ङित इत्यनुव्रतते । तदाह — ङितश्चतुर्णामिति । ङितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति । यथासङ्ख्यसूत्रलभ्यमिदम् ।", "34102": "<<लिङस्सीयुट्>> - लिङः सीयुट् । स्पष्टम् । परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ।लिङः सलोप इत्यनेने॑ति शेषः । एधेतेति । लिङस्तादेशः । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेयातामिति । आतामि सीयुट् शप् सलोपः । आद्गुणः । झस्य रन् ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झस्येति । लिङादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति । झस्य रन् । शप् । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेथा इति । थास् सीयुट् शप् । सीयुटः सस्य लोपः । आद्गुणः । यलोपः ।थासः सस्य रुत्वविसर्गौ । एधेयाथामिति । आथां । सीयुट् । सलोपः । शप् ।आद्गुणः । एधेध्वमिति । ध्वम् सीयुट् । शप् । सलोपः । आद्गुणः । यलोपः ।", "34103": "<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> - अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणेऽवादेशे भव त् इति स्थिते — यासुट् पर ।लिङ सीयु॑डित्यतो लिङ इत्यनुवर्तते । षष्ठर्थे सप्तमी । तदाह — लिङः परस्मैपदानामिति । सीयुटोऽपवादः । यासुटि टकार इत्, उकार उच्चारणार्थः । टित्त्वात्तिबादीनामाद्यवयवः । अवयवे ङित्त्वं चआनर्थक्यात्तदङ्गेषु॑ इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति । 'आगमा अनुदात्ता' इति यासुटोऽनुदात्तत्वे प्राप्ते उदात्तवचनम् । इदमेव वचनम् 'आगमा अनुदात्ता' इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम् । ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः, ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटो ङित्तवविधिर्व्यर्थः । न च स्थानिभूतलिङो ङकारस्याऽल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्वस्यन ल्यपी॑ति निषेधेन लिङ्गेनाऽनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनादित्यत आह — ङित्त्वोक्तेरिति । क्वचदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति । यासुटो ङित्त्वेन ज्ञायत इत्यन्वयः । तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्त्वमिति भावः । ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङीबभावः । अन्यथा लृडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान्ङीप् स्यात् । ननुक्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध॑ इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाऽभावे सत्यपि यासुटो ङित्त्वस्य तिप्सिप्मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्, नह लिङादेशत्वेऽपि तिपसिप्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् ।हलश्श्नश्शानज्झा॑विति सूत्रभाष्येङिच्च पिन्न पिच्च ङिन्ने॑ति प्रपञ्चितत्वादित्यस्वरसादाह — श्नः शानचः शित्तवमपीह लिङ्गमिति । इह — अनुबन्धकार्येऽपि क्वचदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे, श्नः — श्नाप्रत्ययस्य, यः शानजादेशो हलः श्नश्शानज्झाविति विहितः, तस्य शित्त्वमपि लिङ्गं — ज्ञापकमित्यर्थः । अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थं स्यादिति भावः । अत्र च यद्वक्तव्यं तत्स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् ।", "34104": "<<किदाशिषि>> - किदाशिषि ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते ।यासुट् परस्मैपदेष्वि॑त्यतो यासुडिति च । तदाह — आशिषि लिङ इति ।यासुट् परस्मैपदेष्वि॑ति ङित्त्वस्यापवादः । यद्यपि ङित्त्वेनैव गुणनिषेधः सिध्यति, तथापिइज्या॑दित्यादौवचिस्वपियजादीनां किती॑ति संप्रसारणार्थं कित्तवमावश्यकमिह न्याय्यत्वादुपन्यस्तम् । अथ आशिषि लिङस्तिप्यार्धधातुकत्वाच्छबभावेइतश्चे॑तीकारलोपे यासुटागमेऽतः परत्वाऽभावात् सार्वधातुकात्वाऽभावाच्च इयादेशाऽभावे सुटि भूयास् स् त् इति स्थिते प्रक्रियामाह — स्कोरिति लोप इति । 'लिङसलोप' इत्यस्य सार्वधातुकविषयत्वात्स्कोरिति सुः पदान्तसंयोगादित्वाल्लोपः । ततो यासुटः सस्यापि पदान्तसंयोगादित्वादेव लोपः, न तु झल्परसंयोगादित्वेन यासुटः सस्य लोपे सुटः सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तं, तथा सति झल्पसंयोगादिलोपस्याऽसिद्धत्वेन संयोगान्तलोपापत्तेः । भ्रष्ट इत्यादौ सावकाशस्यझल्परसंयोगादिलोपस्य संयोगान्तलोपाऽबाधकत्वादिति शब्दरत्ने विस्तरः । एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् । तत्रसार्वधातुकार्धधातुकयो॑रिति गुणे प्राप्ते ।", "34105": "", "34106": "<<इटोऽत्>> - इटोऽत् । इटः -अत् इति च्छेदः ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते ।तदाह — लिङादेशस्येति । 'अच्च घे' रित्यत्रेव आदेशे तकार उच्चारणार्थ एव, नत्वित्संज्ञक इति शब्देन्दुशेखरे दिव औदित्यत्र प्रपञ्चितम् । इत्संज्ञक एवेत्यन्ये । न विभक्ताविति निषेधस्तु न, आदेशत्वात्प्राग्विभक्तित्वाऽभावात् ।झस्य र॑न्नित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारानतरप्रश्लेषादुपदेशेऽन्त्यत्वाऽभावान्नकारस्य नेत्संज्ञेत्यलम् । एधेयेति । इट् । तस्य अकारादेशः ।सीयुट् शप् । सलोपः । आद्गुणः । एधेवहि । एधेमहीति । वहिमह्योः सीयुट् । सलोपः । शप् । आद्गुणः । यलोपः । इति विधिलिङ्प्रक्रिया । आर्धधातुकत्वादिति ।लिङाशिषी॑त्यनेनेति भावः । सलोपो नति । सार्वधातुकग्रहणस्य 'लिङः सलोप' इत्यत्रानुवृत्तेरिति भावः । सीयुट्सुटोरिति । लक्ष्यभेदात्पुनःप्रवृत्तिरिति भावः । युगपदेवोभयोः षत्वमित्यन्ये । एधिषीष्टेति । आशिषि लिङस्तादेशः । आर्धधातुकत्वान्न शप् । सीयुट् । तकारस्य सुट् । सीयुटः सकारात्प्रागिडागमः । यलोपः । सीयुट सुटश्च सकारस्य षत्वं । तकारस्य ष्टत्वेन टकारः । एधिषीयास्तामिति । आताम् सीयुट् । अकारादुपरि तकारात्प्राक्सुट् ।सीयुः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीरन्निति । झस्य रन् । सीयुट् । इजागमः । यकारलोपः । षत्वम् । एधिषीष्ठा इति । थास् सीयुट् । थकारस्य सुट् । सीयुटः प्रागिट् । सकारद्वयस्य षत्वम् । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । एधिषीयास्थामिति । आथाम् । सीयुट् । अकारादुपरि थकारात्प्राक्सुट् । सीयुटः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीध्वमिति । ध्वम् सीयुट् यलोपः । सीयुटः प्रागिट् । षत्वम् । इणः परत्वेऽपि इण्णन्तादङ्गात्परत्वं नास्ति, इटः प्रत्ययभक्तत्वात् । ततश्चइणः षीध्व॑मिति ढत्वं न भवति । एधिषीयेति । इटोऽत् । सीयुट् । इट् । षत्वम् । एधिषीवहि एधिषीमहीति । वहिमह्योः सीयुट् । इट् षत्वम् । इत्याशीर्लिङ्प्रक्रिया । ऐधिष्टेति । लुङस्तादेशः । च्लिः । सिच् । इट् । धातोराट् । वृद्धिः । षत्वं ष्टुत्वम् । ऐधिषातामिति । आताम् । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् ।", "34107": "<<सुट् तिथोः>> - तथा च प्रकृते भव यास् त इति स्थिते — सुट्तिथोः । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तिश्च थ् चेति द्वन्द्वात्षष्ठीद्विवचनम् । इकार उच्चारणार्थः । तदाह — लिङस्तकारेति । सुटि टकार इत्, उकार उच्चारणार्थः । भव यास् स् त् इति स्थितम् । नन्विह परेण सुटा यासुटः कथं न बाधः । भवेयुरित्यादौ परस्मैपदेषु यासुड्विधेश्चरितार्थत्वादित्याशङ्क्य निराकरोति — सुटा यासुण्न बाध्यत इति । तत्कुतः इत्यत आह — लिङो यासुडिति । लिङः सीयुट् यासुडागमश्च, लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च यौगपद्याऽसम्भवाऽभावाद्विप्रतिषेधाऽभावान्न पेरणापि सुटा यासुटो बाध इति भावः ।", "34108": "<<झेर्जुस्>> - अथ लिङो झेर्झोऽन्त इति प्राप्ते — झेर्जुस् । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झेरिति । अनेकाल्त्वात्सर्वादेशः । ज इदिति । जुसः स्थानिवत्त्वेन प्रत्ययत्वाच्चुटू इति जकार इत्संज्ञक इत्यर्थः । उसि शपिगुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेशं बाधित्वा पररूपप्रवृतिंत शङ्कितुमाह — उस्यप । एकः पूर्व्परयोरित्यधिकृतम् । आद्गुण इत्यस्मादादित्यनुवर्तते ।एङि पररूप॑मित्यस्मात्पररूपमिति । तदाह — अपदान्तादिति । उसीति । उसि योऽच् उकारस्तस्मिन् परत इत्यर्थः,इको यणची॑त्यतोऽचीत्यनुवृत्तेः । यद्यपि उसः कृत्स्नस्याऽऽकारस्य च उसित्येकादेशेऽपि रूपं तुल्यं, तथापि अकः सवर्णे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमत्राप्यनुवर्तत इति बोध्यम् । भिन्द्युरित्याद्युदाहरणम् । इति प्राप्त इति । भव या उसित्यत्राकारस्योकारस्य चाद्गुणं बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः । सति च पररूपे या इत्यस्याऽभावादिञ् न स्यादिति मन्यते — परत्वादिति । पररूपापेक्षया इयादेशः परो नित्यश्च, अकृते कृते च प्रवृत्तेः । कृते पररूपे य् इत्यस्यैकदेशविकृतन्यायेन , एकादेशस्य पूर्वान्तवत्त्वेन वा इयादेशस्य निर्बाधत्वात् । ततश्च पररूपं बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीना मन्यन्त इत्यर्थः । ननु पररूपमङ्गाधिकारस्थत्वाऽभावादङ्गानपेक्षत्वादन्तरङ्गम्, इयादेशस्तु आङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वाद्बहिरङ्गः । ततश्च परान्नित्यादपीयादेशात्पररूपस्यान्तरङ्गतया बलवत्त्वात्पररूपमेव इह स्यादिति शङ्कते — यद्यपीति । परिहरति — तथापिति । अतः -यास्-इयः-इति पदच्छेदः । यासिति लुप्तषष्ठीकं पदम् । ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः । ननुलिङः स लोपोऽनन्तयस्ये॑ति सकारस्य लोप इयादेशं बाधित्वा नित्यत्वात्प्राप्नोतीति, ततश्च यास् इत्यस्य इय् इति कथमित्यत आह — एवं चेति । यासिति सकारान्तस्य इयादेशविधिसामर्थ्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः । तथा च सकारावस्थायामवर्णात्परत्वाऽभावेन पररूपस्याऽप्रवृत्तिरिति भावः । ननु यदि 'यास्-इयः' इति च्छेदस्तदा सकारस्य रुत्वे, भोभगो इति यत्वे,लोपः शाकल्यस्ये॑ति तस्य लोपे अतो — या इय इति स्यात् । आद्गुणे कर्तव्ये यलोपस्याऽसिद्धत्वादित्यत आह — सन्धिरार्ष इति ।आने मु॑गिति सूत्रे भाष्ये तुअतो या — इय इत्येव सूत्रपाठो लक्ष्यते । भवेरिति । सिपि, शपि गुणः । अवादेशः । इतश्चेति इकारलोपः । यासुडागमः । सकारस्य लोपः । इयादेशः । आद्गुणः यलोपः । रुत्वविसर्गौ । एवं थसस्तमादेशे थस्य तादेशे च , भवेतं भवेतेति च रूपम् । भवेयमिति । मिपि अमादेशः । शप् । गुणः । अवादेशः । यासुट् । सलोपः । इयादेशः । आद्गुणः । भवेवेति । वस् । शप् । गुणावादैशौ । 'नित्यं ङित' इति सकारलोपः । यासुट् । सलोपः । इयादेशः । आद्गुणः । यलोपः । एवं मसि भवेमेति रूपम् । इति विधिलिङ्प्रक्रिया ।", "34109": "<<सिजभ्यस्तविदिभ्यश्च>> - सिजभ्यस्तविदि ।झेर्ज॑सिति सूत्रमनुवर्तते । 'नित्यं ङित' इत्यतो ङित इति च । तदाह — सिचोऽभ्यस्तादित्यादिना । इति प्राप्त इति ।लिङो झेर्जुसी॑ति शेषः ।", "34110": "<<आतः>> - आतः ।झेर्जु॑सिति सूत्रमनुवर्तते ।आतः सिज्लुगन्तादिति वक्तव्य॑मिति वार्तिकं भाष्ये पठितम् । ततस्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति लभ्यते । सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियार्थमिदम् । तदाह — आदन्तादेवेति । अभूवन्निति । झिः । च्लिः । सिच् । लुक् । अट् । झोऽन्तः । इतश्चेति इकारलोपः । तकारस्य संयोगान्तलोपः ।भुवो वुग्लुङ्लिटो॑रिति वुक् । सिज्लुकि आतः परस्यैवेति नियमात्सिजभ्यस्तेति न जुसिति भावः । अभूरिति । सिप् च्लिः सिच् लुक् अट् इकारलोपः । रुत्वविसर्गौ । अभूतमिति । थसस्तम् च्लिः सिच् लुक् अट् । गुणनिषेधः । एवं थस्य तादेशे अभूतेति रूपम् । अभूवमिति । मिप् अम् । च्लिः सिच् । लुक् । अट् वुक् । अभूवेति । वस् च्लिः सिच् लुक् अट् । नित्यं ङित इति सकारलोपः । गुणनिषेधः । एवं मसि अभूमेति रूपम् । अथ माङि लुङि विशेषमाह — न माङयोगे । शेषपूरणेन सूत्रं व्याचष्टे -अडादौ न स्त इति ।लुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यत,आडजादीना॑मित्यश्च तदनुवृत्तेरिति भावः । मा भवान्भूदिति ।मा स्म भवद्भूद्वेति । एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम् । इति लुङ्प्रक्रिया ।", "34111": "<<लङः शाकटायनस्यैव>> - लङः शाकटायनस्यैव ।झेर्जुसि॑ति 'आत' इति चानुवर्तते । तदाह — आदन्तादिति । जुस्वेति । शाकटायनग्रहणाद्वकल्पलाभ इति भावः । एवकारस्तु 'लिट् च'लिङाशिषी॑त्युत्तरार्थ इति भाष्ये स्पष्टम् । नचलोटो लङ्व॑दित्यतिदेशाद्यान्तु इत्यत्रापिजुस्विकल्पः शङ्क्यः,॒नित्यं ङितः॑ इत्यतो हित इत्यनुवृत्त्यैव सिद्देर्लङ्ग्रहमस्य लङ्वद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् । इदमपि भाष्ये स्पष्टम् । अयानिति । जुसभावे रूपम् । अयासीत् । ष्णाधातुः षोपदेशः । नस्य ष्टुत्वेन णत्वनिर्देशः । स्नाति । स्नायात्-स्नेयात् । पा रक्षणे ।एर्लिङी॑ति सूत्रेगातिस्थे॑त्यत्र च पिबतेरेव ग्रहणादेत्त्वसिज्लुकौ न । तदाह — पायास्ताम् । अपासीदिति । दाप् लवने । घुत्वाऽभावात्शेषे विभाषे॑ति णत्वविकल्पं मत्वा आह — प्रणिदाति प्रनिदातीति । घुत्वाऽभावादाशीर्लिङि एत्वं, लुङि लुक्, च नेति मत्वाऽऽह अदायास्तामिति । अदासीदिति च । ख्या प्रकथन.सार्वधातुकमात्रविषय इति । मात्रशब्दोऽवधारणे । सार्वधातुक एवास्य ख्याधातोः प्रयोगः,न त्वार्धधातुक इत्यर्थः । कुत इत्यत आह — सस्थानत्वमिति ।चक्षिङ ख्या॑ञिति सूत्रे ख्यास्थाने 'ख्याञ्' इति वक्तव्यम् । अस्य शकारस्यपूर्वत्रासिद्ध॑मित्यधिकारे यकारो वक्तव्य इत्युक्तवाप्रयोजननं सौप्रख्ये वुञ्विधि॑रित्युपक्रम्यसस्थानत्वं नमः ख्यात्रे॑ इत्युक्तं वार्तिके । तत्र नञमध्याह्मत्य 'नमः ख्यात्रे' इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये । तदिदं वार्तिकं भाष्यं च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः । तत्र सस्थानपदं व्याचष्टे - सस्थानो जिह्वामूलीय इति । प्राचीनाचार्यसमयादिति भावः । स नेति । स = जिह्वामूलीयो नमः ख्यात्रे इत्यत्र न भवतीत्येतत् ख्याञादेशस्य ख्श्यादित्वविधौ, शस्य यत्वविधौ च प्रयोजनमित्यर्थः । ख्श्यादित्वे इति । यत्वविधावित्यस्याप्युपलक्षणम् । शकार्थानिकयत्वस्याऽसिद्धत्वात् 'शर्परे विसर्जनीयः' इति विसर्जनीय इष्टः सिध्यति, जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तकह्मदयम् । ख्याधातोरस्यार्धधातुकेऽपि प्रयोदसत्त्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाऽभावादसिद्धत्वाऽभावात् 'शर्परे विसर्जनीयः' इत्यस्याऽप्रवृत्तौ कुप्वोर्जिह्वामूलीयोदुर्वारः स्यात् । ततश्चाद्र्धदातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते,ज्ञापकस्य सामान्यापेक्षत्वादिति भावः । संपूर्वस्येति । सार्वधातुकेऽपीति भ#आवः । अत्र व्याख्यानमेव शरणम् । एवं चसङ्ख्यती॑त्यादि नास्तीति फलितम् । सङ्ख्यादिशब्दास्तु ख्याञादेशस्येति बोध्यम् । मा माने इति । मानं परिमितिरिति भावः । तदाह — अकर्मक इति ।माति घृतं पात्रेऽस्मि॑ न्निति उदाहरणम् । परिमितं भवतीत्यर्थः । संगृहीतं भवतीति यावत् । अत्रार्थे शिष्टप्रयोगसंवादं दर्शयति — तनो ममुस्तत्रेति ।तनौ मुमस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः॑ इति माघकाव्ये तपोधनस्य नारदस्य अभ्यागमेन आगमनेन संभवाः मुदः = संतोषाः, कैटभद्विषः = श्रीकृष्णस्य तनौ = शरीरे , न ममुः= परिमिता न बभूवुः । आधिक्यान्न संगृहीता बभूवुरिति यावत् । अर्थान्तरे त्विति । परिच्छेदे त्वित्यर्थः । उदरमिति ।उदरंपरिमाति मुष्टिना कुतुकी कोऽपिदमस्वसुः किमु॑ इति नैषधकाव्ये । कोऽपिकुतुकी दमस्वसुः =दमयन्त्याः, उदरं मुष्टिना परिमाति किमु , किमुपरिगृह्णातीत्यर्थः । नास्य ग्रहणमिति ।घुप्रकृतिमा॑ङिति भाष्यादिति भावः । एवं च 'शेषे विभाषाऽकखादौ' इति णत्वविकल्प इति मत्वाऽऽह -प्रणिमाति प्रनिमातीति । ममौ ।ममिथ — ममाथ । ममिव । मात । मास्यति । मातु । अमात् । अमासीत् । अमास्यत् । वचपरिभाषणे । अनिट् । अयमन्तीति । लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्थः । बहुवचनपर इति । 'न प्रयुज्यते' इति शेषः । अस्मिन् पक्षे पुरुषत्रये बहुवचनं नास्ति । झिपर इति । 'न प्रयुज्यते' इति शेषः । अस्मिन् पक्षे लिडादिष्वपि [प्रथमपुरुष] बहुवचनं नास्तीति भावः । तत्र लिटि अकितिलिटभ्यासस्ये॑ति संप्रसारणम् । उवाच । किति तुवचिस्वपी॑ति संप्रसारणम् । ऊचतुः । उवचिथ — उवक्थ । ऊचिव । वक्ता वक्ष्यति । वक्तु । अवक् । वच्यादिति । विधिलिङि रूपम् । आशीर्लिङिवचिस्वपी॑ति संप्रसारणं मत्वाऽऽह — उच्यादिति । अवोचदिति । लुङिअस्यतिवक्ती॑ति च्लेरङिवच उ॑मिति भावः । विद ज्ञाने इति । अनिट्सु लुग्विकरणस्याऽग्रहणादयं सेट् ।", "34112": "<<द्विषश्च>> - द्विषश्च ।झेर्जु॑सितिलङः शाकटायनस्ये॑ति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लङो झेरिति । अद्विषन्निति । अद्वेट् अद्विष्टमद्विष्ट । अद्वेषमद्विष्व अद्विष्म । विधिलिङि परस्मैपदे आह - द्विष्यादिति । द्विष्याताम् द्विष्युः — इत्यादि । तङि आह — द्विषीतेति । द्विषीयाताम् द्विषीरन् इत्यादि । आशीर्लिङि द्विष्यास्ताम् — इत्यादि । तङ्याह — द्विक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । द्विक्षीयास्तामित्यादि । लुङि परस्मैपदे आह — अद्विक्षदिति । 'शल इगुपधात्' इति क्सः । अद्विक्षतामद्विक्षन्नित्यादि । तङित्यादौ प्रकृष्टपूरणस्यार्थस्यानवगमादाह — प्रपूरणं पूरणाऽभाव इति । ऊधः पूरणप्रतिकूलीभाव इत्यर्थः । ऊधशः सकाशात्क्षारणे इति यावत् । ननु प्रपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह — धात्वर्थं बाधते कश्चिदिति । प्रसिद्धं धात्वर्तं कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्र्थः । दोग्धीति ।दादे॑रिति हस्य घः,झषस्तथो॑रिति तकारस्य धकारः, घस्य जश्त्वेन गः । एवं दुग्ध इत्यपि । दुहन्ति । धोक्षीति । हस्य घः, चर्त्वेन कः, षत्वमिति भावः । दुग्धः दुग्ध.दोहृ दुह्वः दुह्मः । लटि आत्मनेपदे आह — दुग्धे इति । घधगाः । दुहाते दुहते । धुक्षे इति । हस्य घः, दस्य भष् धकारः, घस्य कः, षत्वम् । दुहाथे । धुग्ध्वे इति । हस्य घः, भष्, घस्य गः । दुह्वहे दुहृहे । दुदोह, दुदुहतुः, दुदुहुः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट् । दुदोहिथ, दुदुहथुः दुदुह.दुदोह दुदुहिव दुदुहिम । दुदुहे दुदुहाते दुदुहिरे दुदुहिषे दुदुहाथे दुदुहिढ्वे — दुदुहिध्वे । दुदुहे दुदुहे दुदुहिवहे दुदुहिमहे । दोग्धा । धोक्ष्यति । धोक्ष्यते । दोग्ध्विति.दुग्धात् दुग्दाम् दुहन्तु । दुग्धीति । हेर्धिः ।घत्वजश्त्वे । दुग्धात् । दुग्धम् । दुग्ध । जश्त्वचर्त्वे । षत्वम् । दुहाथाम् । धुग्ध्वमिति । हस्य घः, भष्, घस्य जश्त्वम् । दोहै इति । आटः पित्त्वादङित्त्वाद्गुण इति भावः । दोहावहै दोहामहै । लङि परस्मैपदे आह — अधोगिति । तिप इकारलोपः, हल्ङ्यादिलोपः, हस्य घः, दस्य भष्, घस्य चर्त्वविकल्पः । अदुग्धामदुहन् । अधोक् अदुग्धमदुग्ध । अदोहमिति । अदुह्व अदुहृ । लङस्तङ्याह — अदुग्धेति । हस्य घः, तकारस्य धः, घस्य गः । अदुहातामदुहत । अदुग्धाः, अदुहाथाम् । अधुग्ध्वमिति ।क्सस्याऽचि॑ । अधुक्षातामधुक्षन्त । अधुक्षथाः, अधुक्षाथाम्, अधुक्षध्वम् । अधुक्षि, अधुक्षावहि, अध#उक्षामहि । लुग्वेति । त थास् ध्म् वहि — एषु चतुर्षु दन्त्यादिषु परेषुलुग्वा दुहे॑ति क्सस्य लुक्पक्षे लङीव रूपाणीत्यर्थः । तथा च अदुग्ध, अदुग्धाः, अधुग्ध्वम्, तदुह्वहि — इत्यपि रूपाणीति फलितम् । अधोक्ष्यत् । अधोक्ष्यत । दिह उपचये इति । #उपचयो वृद्धिःओओ । अनिट् । प्रणिदेग्धीति ।नेर्गदे॑ति णत्वम् । दुहधातुवद्रूपाणि । लिह आस्वादने इति । अनिट् । लेढीति । शपो लुकि ढत्वधत्वष्टुत्वढलोपाः । लेक्षीति । सिपि हस्य ढः ।षढो॑रिति ढस्य क इति भावः । लीढः लीढ । लेहमि लिह्वः लिह्मः । लटि तङ्याह — लीढे इति.लिहाते लिहते । लिक्षे इति । ढकषाः । लिहाते इति सुगमम् । लीढ्वे इति । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लिहे लिह्वहे लिहृहे । लेढा । लेक्ष्यति । लेक्ष्यते । लेढ्विति । लीढात् लीढाम् लिहन्तु । लीढीति । हेर्धिः । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लीढात् लीढम् लीढ । लेहानीति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः । लेहाव लेहाम । लीढाम् लिहाताम् लिहताम् । लिक्ष्व लिहाथाम् लीढ्वम् । लेहै लेहावहै लेहामहै । अलेडिति । लङि तिपि शपो लुकि इकारलोपे हल्ङ्यादिलोपे हस्य ढः । चर्त्वविकल्प इति भावः । अलीढामलिहन् । अलेट् अलीढमलीढ । अलेहमलिह्व अलिहृ । अलीढ अल#इहातामलिहत । अलीढाः । अलिहाथामलीढ्वम् । अलिहि अलिह्वहि अलिहृहि । अलिक्षिदिति । लुङि क्सः । अलिक्षतामलिक्षन्त । अलिक्षथाः — अलीढाः, अलिक्षाथामलिक्षध्वम् — अलीढ्वम् । अलिक्षि ।लुग्वा दुहे॑ति लुग्विकल्पं मत्वा आह — अलिक्षावहि अलिह्वहीति । अलेक्ष्यत् अलेक्ष्यतेति । लृङि रूपे । द्विषादयश्चत्वारः स्वरितेतो गताः । चक्षिङ् व्यक्तायां वाचीति । गूढार्थस्य स्पष्टप्रतिपत्त्यर्थे विवरणे इत्यर्थः । अयं दर्शनेऽपीति । श्रुतौपूर्वाऽपरं चरतो माययैतो । शिशू क्रीजन्तौ परियातो अध्वरम् । विआआन्यन्यो भुवनानि चक्षे । ऋतूनन्यो विदधज्जायते पुनः इत्यादौ तथा दर्शनादिति नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुं,ङित्त्वादेव तत्सिद्धेरित्यत आह — इकारोऽनुदात्तो युजर्थ इति । नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुं, ङित्त्वादेव तत्सिद्धेरित्यत आह — इकारोऽनुदात्तो युजर्थ इति ।अनुदात्तेतश्च हलादे॑रिति ल्युडपवादयुच्प्रत्ययार्थ इत्यर्थः । अकारमुल्लङ्घ्य इकारोच्चारणं तु उच्चारणार्थत्वाऽभावप्रतिपत्त्यर्थमिकारस्य इत्संज्ञावश्यकत्वे नुमागमः स्यादित्यत आह — नुम् तु नेति । कुत इत्यत आह — अन्ते इदित इति ।इदितो नुम् धातो॑रित्यत्र 'गोः पादान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः । नन्विकारे युजर्थमनुदात्तत्वस्य इत्संज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसंभवान्ङकारोच्चारणं व्यर्थमित्याशङ्क्य आह — ङकारस्त्विति । ङकारो नित्यात्मनेपदार्थः । अनुदात्तेतत्वप्रयुक्तं त्वात्मनेपदं कदाचिन्न स्यात्, अतो ङकारोच्चारणम् । अत एवअनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्य॑मिति विज्ञायत इत्यर्थः । स्फायन्निति ।स्फायी वृद्धा॑वित्यनुदात्तेतोऽपि लटः शत्रादेश न त्वात्मनेपदं शानजिति बावः । वस्तुतस्तु अन्त्येकत्ववयाघातेन चरितार्थत्वान्ङकारोच्चारणमुक्तार्थे कथं ज्ञापकम् , भाष्ये तथाऽनुक्तत्वाच्च । अतःपृषोदरादित्वकल्पनया स्फायन्निति कथंचित्साध्यमित्याहुः । चष्टे इति ।स्को॑रिति कलोपः, ष्टुत्वं चेति भाव- । चक्षाते इति । चक्षते । थासः सेभावेस्को॑रिति कलोपेषढोरिति षस्य कत्वे षत्वे च कृते चक्षे चक्षाथे । ध्वमिस्को॑रिति कलोपे षस्य जश्त्वेन ङकारे चड्ढ्वे । चक्षे चक्ष्वहे चक्ष्महे । आर्धधातुके इत्यनन्तरम् 'इत्यनुवर्तमाने' इति शेषः ।", "34113": "<<तिङ्शित्सार्वधातुकम्>> - तत्र सार्वधातुककार्यं वक्ष्यन्सार्वधातुकंसंज्ञामाह — तिङ्शित् । धातोरित्यधिकृतं । तदाह — धात्वधिकारोक्ता इति । तेनहरी॑नित्यत्र शसः सार्वधातुकत्वं न,अन्यथा तिङ्शित्सार्वधातुक॑मिति शसः सार्वधातुकत्वात्सार्वधातुकमपिदिति ङित्त्वेघेर्ङिती॑ति गुणः स्यात् ।", "34114": "<<आर्धधातुकं शेषः>> - भू तास् तीति स्थिते — आर्धधातुकं शेष- ।तिङ्शित्सार्वधातुक॑मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः । तदाह — तिङ्शिद्भ्योऽन्य इति । विहित इति ।धातो॑रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः । एवं च 'जुगुप्सते' इत्यादौ 'गुप्तिज्किद्भ्य' इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आर्धधातुकत्वाऽभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आर्धधातुकसंज्ञक इत्यर्थः । इडिति । तास्प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात्स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादे॑रितीडागम इत्यर्थः ।", "34115": "<<लिट् च>> - लिट् च ।लि॑डिति लुप्तस्थानषष्ठन्तम् ।तिङ्शित्सार्वधातुक॑मित्यस्मात्तिङित्यनुवर्तते । 'आर्धधातुकं शेष' इत्यस्मार्धधातुकमिति । तदाह — लिडादेशस्तिङिति । एकसंज्ञाधिकारबहिर्भूतत्वात्सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह — आर्धधातुकसंज्ञ एवेति ।लङः शाकटायनस्यैवे॑ति सूत्रादेवकारानुवृत्तेरिति भावः । तेनेति । सार्वधातुकतवाऽभावेन तन्निमित्ताः शप्श्यनादयो न भवन्तीत्यर्थः ।", "34116": "", "34117": "", "41001": "<<ङ्याप्प्रातिपदिकात्>> - ङ्याप्प्रातिपदिकात् । चतुर्थाध्यायस्यादिमं सूत्रमिदम् । ङी च, आप् च, प्रातिपदिकं चेति समाहारद्वन्द्वः । ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम् । आबिति टाप्डाप्चापां ग्रहणम् । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । तदाह — ङ्यन्तादित्यादिना ।आ पञ्चमे॑त्य वधिनियमे तु व्याख्यानमेव शरणम् । ननु प्रातिपदिकादित्येव सूत्र्यताम् । ङ्याब्ग्रहणं मास्तु । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण॑मिति परिभाषया ऊङप्रत्ययान्तात् आश्रूशब्दादिव दण्डिनी अजा खट्वेत्यादिभ्योऽपि ङ्याबन्तेभ्यः सुबादिप्रत्ययसम्भवादित्यत आह — प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति । स्त्रीलिङ्गबोधकङीबादिप्रत्ययविशिष्टस्येत्यर्थः । यथा स्यादिति । यथेति योग्यतायाम् । ङ्याबन्तादेव तद्धितः प्राप्तुं योग्यः । स च ङ्याब्ग्रहणे सत्येव स्यादित्यर्थः । व्यवच्छेद्यं दर्शयति-ङयाब्भ्यां प्राङ्भाभूदिति । ततश्च लोहनिका आर्यका च सिध्यति । तथाहि — लोहितशब्दस्तावत्वर्णाना तणतिनितान्तानाम् इति फिट्सूत्रेणाद्युदात्तः । ततश्च ओकार उदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति परिशिष्टौ इकारा.ञकारावनुदात्तौ । तथाचवर्णादनुदात्तात्तोपधात्तो नः॑ इत#इ मणौ विद्यमानाल्लोहितशब्दात्स्त्रीत्वविवक्षायां ङीप्, तत्संनियोगेन तकारस्य नकारादेशश्च प्राप्तः । 'लोहितान्मणौ' इति स्वार्थिकः कनपि प्राप्तः । तत्र स्वार्थिकत्वादन्तरङ्ग परश्च कन् नत्वसंनियोगशिष्टं ङीपं बाधित्वा प्रवर्तेत । ततश्च ङीपो न प्रसक्तिः । कोपधत्वेन तोपधत्वाऽभावात् । ततश्च लोहितकशब्दात् 'अजाद्यतः' इति टापिप्रत्ययस्था॑दित्यादिना इत्वे लोहितिकेत्येव स्यात्, न तु लोहिनिकेति । इष्यते तु रूपद्वयमपि ।ङ्याप्प्रातिपदिका॑दित्यत्र ङीब्ग्रहणे तु तत्सामर्थ्यादन्तरङ्गं परमपि कनं बाधित्वा नत्वसंनियोगशिष्टे ङीपि कृते, लोहिनीशब्दात्कनि, 'केऽणः' इति ह्रस्वे, लोहिनिकेति रूपम् ।वर्णादनुदात्ता॑दित्यस्य वैकल्पिकतया नत्वसंनियोगशिष्टङीबभावे तु लोहिताशब्दात्कनि, ह्रस्वे, पुनः कान्ताट्टापि, प्रत्ययस्थादितीत्वे लोहितिकेत्यपि सिध्यति । तथा आर्यशब्दात्स्वार्थिके कनि, समुदायोत्तरटापैव स्त्रीत्वबोधनसम्भवादेकाज्द्विर्वचनन्यायेन कनन्तादेव टापि, कनः पूर्वं टाबभावात्, आत्स्थानिकस्य अतोऽभावादुदीचामातःस्थाने इति इत्वविकल्पस्याऽप्रवृत्तौ, प्रत्ययस्थादिति नित्यमित्वे आर्यिकेत्येव स्यात्, आर्यकेति न स्य#आत् । इष्यते तूभयमपि ।ङ्याप्प्रातिपदिका॑दित्यत्र आब्ग्रहणे तु तत्सामर्थ्यात्स्वार्थिकं कनं बाधित्वा टापि, ततः कनि, 'केऽण' इति ह्रस्वे, पुनः कनन्ताट्टापि , 'उदीचामातः स्थाने' इतीत्वविकल्पे रूपद्वयं सिध्यति । वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु, सुबन्तादेव तद्धितोत्पत्तिः । सुपः प्रागेव च ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात् । तथाहि-स्वार्थः=प्रवृत्तिनिमित्तं जात्यादि । तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिराकाङ्क्षितत्वाच्च । ततः स्वमात्रापेक्षत्वाल्लिङ्गस्य ज्ञानम् । ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम् । ततः कारकरूपविभक्त्यर्थापेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम् । शब्दरत्ने च परिष्कृतमेतत् ।", "41002": "<<स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> - स्वैजसमौट् । सु-औ-जस्, अम्-औट्-शस्, टा-भ्यां-भिस्, ङे-भ्यां-भ्यस्, ङसि-भ्यां-भ्यस्, ङस्-ओस्-आम्, ङि-ओस्-सुप् — इत्येकविंशतिः स्वादयः । समाहाद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । ङ्याप्प्रातिपदिकादित्यदिकृतं,प्रत्ययः॑,परश्चे॑ति च यथायथं च विपरिणम्यते । तदाह — ङ्यन्तादित्यादिना । सुङस्योरिति । सु-ङसि-इत्यनयोरुकारेकारौ, जस्-शस्-इत्यनयोर्जकारशकारौ, औट्-टा — इत्यनयोष्टकारः, ङे-ङसि-ङस्-ङि-इत्येतेषां ङकारः, 'सुप्' इत्यस्य पकार इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः ।उपदेशेऽजनुनासिक इत्,चुटू॑, लशक्वतद्धिते॑, 'हलन्त्यम्' इति सूत्रै॑रिति शेषः । इत्संज्ञायां च लोपः । तदुच्चारणफलं तु तत्र तत्र वक्ष्यते ।", "41003": "<<स्त्रियाम्>> - अथ स्त्रीप्रत्ययाः । तदेवंङ्याप्प्रातिपदिका॑दित्यधिकृत्यस्वौजसमौ॑डिति सूत्रं सप्रपञ्चं निरूप्य तदुत्तरम-नुक्रान्तान्स्त्रीप्रत्ययान्निरूपयितुमाह-स्त्रियाम् । अधिकारोऽयमिति ।अजाद्यतष्टाबित्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, नतु स्वतन्त्रविधिरित्यर्थः । कियत्पर्यन्तमयमधिकार इत्यत आह — समर्थेति ।याव॑दित्यवधौ ।समर्थानां प्रथमा॑-दित्यतः प्रागित्यर्थः । अत्रेदमवधेयम् ।स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तद भावे नपुंसकम् ।॑ इति लक्षणलक्षितमवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीपुंसयोर्लिङ्गम् । तदभावे=तयोरुभयोरभावे सति, यदुभयोरन्तरं=सदृशं तन्नपुंसकमित्यर्थः । तदिदं लौकिकं लिङ्गमस्मिन् शास्त्रे नोपयुज्यते, तस्याऽचेतने खट्वामालादौ बाधात्स्त्रीप्रत्ययानापत्तेः । दारानित्यादौतस्माच्छसो नः पुंसी॑ति नत्वानापत्तेश्च । किंतु सत्त्वरजस्तमसां प्राकृतगुणानां वृद्धिः — पुंस्त्वम्, अपचयः — स्त्रीत्वम्, स्थितिमात्रं नपुंसकत्वम् । अत एव ऊत्कार्षापकर्षंसत्वेऽपि स्थितिमात्रमादायसामान्ये नपुंसक॑मिति प्रवादः । उत्कर्षाऽपकर्षसाम्यात्मकावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसकं भवतीति तदर्थः । ईदृशमवस्थात्रयं केवलान्वयि । 'अयं पदार्थः,'इयं व्यक्तिः॑, 'इदं वस्तु' इति व्यवहारस्य सार्वत्रिकत्वात् । तच्चेदं लिङ्गमर्थनिष्ठमेव । तदुक्तं भाष्ये — ॒एकार्थे शब्दान्यत्वाद्दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्चे॑ति । एकस्मिन्नेवार्थे 'पुष्यः' 'तारका'नक्षत्र॑मिति शब्दनानात्वदर्शनात्, कुटीकुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशाद्यतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः । 'पुलिङ्गः शब्द' इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचारद्बोध्यः । नच उपचयादिधर्माणां विरुद्धत्वादेकत्र समावेशाऽयोगादेकस्य द्वित्रिलिङ्गताऽनापत्तिरिति वाच्यम्, एकैकस्मिन्वस्तुनि क्षणभेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः । उक्तंच भाष्ये-॒कश्चिदपि सत्त्वादिधर्म क्वचिन्मुहुर्तमपि नावतिष्ठते, यावदनेन वर्द्धितव्यमपायेन वा युज्यते॑ इति नचैवं सति युगपद्द्वित्रिलिङ्गत्वानापत्तिरिति वाच्यम्, नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका । तथा सति भूतभविष्यद्व्यवहारोच्छेदापातात् । तत्र कश्चिच्छब्द एकलिङ्गविशिष्ट एवार्थे प्रयोज्यः, कश्चित्तु द्विलिङ्गे, कश्चित्तु त्रिलिङ्गे इत्येतत्तु लिङ्गानुशासनशास्त्रादवगन्तव्यम् । एषां पुंस्त्रीनपुंसकशब्दानां वृद्ध्यादिशब्दवदस्मिन् शास्त्रे संकेतश्च लिङ्गानुशासनत एव ज्ञेयः । उक्तं च भाष्ये-अवश्यं तावत्कश्चित्स्वकृतान्त आस्थेयः॑ इति वैयकरणसिद्धान्त इत्यर्थः ।कृतान्तौ यमसिद्धान्तौ॑ इत्यमरः । तत्र टिघुभादिसंज्ञावल्लघुसंज्ञामकृत्वा महासंज्ञाकरणसामर्थ्यात्सति संभवेस्तनकेशवती॑त्यादिलौकिकं लिङ्गमप्यत्राश्रीयते । अन्यथापशुना यजेते ॑त्यत्र स्त्रीव्यक्तावपि सत्त्वाद्युपचयात्मकपुंस्त्वाद्यनपायादाङोनाऽस्त्रियामिति नाभावस्याऽविरोधात्स्त्रीपशुरप्यालभ्येत । तदेतच्चतुर्थस्य प्रथमपादेतथालिङ्ग॑मित्यधिकरणे अद्वरमीमांसाकुतूहरवृत्ताववोचाम । त्रिविधमपि एतल्लिङ्गं जातिव्यक्तिवत्प्रातिपदिकार्थ एव । प्रत्ययार्थत्वे प्राधान्यापत्तौ अजा, खट्वा इत्यादौ स्त्रीत्वविशिष्टतादात्म्यावच्छिन्नाऽजादिबोधोऽनुभवसिद्धो विरुध्येत । किंच मातृदुहितृस्वसृगवादिशब्देषु विनापि टाबादिप्रत्ययं स्त्रीत्वविशिष्टार्थस्य बोधात्प्रातिपदिकस्य तत्र शक्त्यावश्यकत्वे टाबादीनामपि शक्तिकल्पने गौरवम् ।ऋकारान्तामातृदुहितृस्वसृयातृननान्दरः, प्रावृड्विप्रुडक्तिविषः॑ इत्याद#इलिङ्गानुशासनसूत्राण्यपि प्रकृतिविषयाण्येव दृश्यन्ते । अत एव च 'कृदिकारादक्तिनः' इत्यत्र 'अक्तिन' इत्यतदर्थवत् । अन्यथा क्तिनैव स्त्रीत्वस्योक्तत्वान्ङीपोऽप्राप्तेस्तद्वैयथ्र्यं स्पष्टमेव । न चैवमपि प्रकृत्यैव स्त्रीत्वस्योक्तत्वात्कथं टाबादय #इति वाच्यं, द्वावित्यादिवत्प्रकृत्युक्तस्याऽव्यावर्तकत्वात् । अन्यथा टाबादिविधिवैयथ्र्यात् । तथा च स्त्रीत्वमिह प्रातिपदिकस्यैव वाच्यं । टाबादयस्तु तद्द्योतकाः । तथाच टाबादिषु सत्सु अवश्यं स्त्रीत्वबोध इति नियमः, नतु टाबादिषु सत्स्वेवेति नियम इति ।", "41004": "<<अजाद्यतष्टाप्>> - अजाद्यतष्टाप् । अजः=अजशब्दः-आदिर्येषां ते अजादयः, ते च अच्चेति समाहारद्वन्द्वात्षष्ठी ।ङ्यात्प्रातिपदिका॑दित्यतः प्रातिपदिकादित्यनुवृत्तं षष्ठआ विपरिणतमजादिभिरता च विशेष्यते । तदन्तविधिः । तत्राऽद्विषयेसमासप्रत्ययविधौ तदन्तविधे प्रतिषेधो वक्तव्यः॑ इति निषेधो न,उगिद्वर्णग्रहणवर्ज॑मित्युक्ते । ङ्याब्ग्रहणं तु नानुवर्तते,स्त्रिया॑मित्यधिकारे तयोर्विधेयत्वात् । नच अजादिभिः प्रातिपदिकस्य विशेषणेऽपि तदन्तविधिर्नास्ति, 'समासप्रत्ययविधौ' इति निषेधात्,ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति च निषेधादिति वाच्यं, 'शूद्रा' चामहत्पूर्वा जाति॑रित्यत्र अमहत्पूर्वेति वचनेना.ञत्र तदन्तविधिज्ञापनात् । किंच 'स्त्रियां व्यक्तौ' गम्यमानाया॑मिति नार्थः । तर्हि अजा खट्वेत्यादौ अजत्वाद्याकरेण वस्तुतः स्त्रीव्यक्तौ गम्यमानायां टाबादिप्रत्ययाः स्युः । ततश्च टाबादिप्रत्ययेषु प्रयुज्यमानेषु स्त्रीत्वस्य भानं न नियतं स्यात् । अतः स्त्रियामिति भावप्रधानो निर्देशः । स्त्रीत्वे इति यावत् । तदाह — अजादीनामित्यादिना । अजाद्यन्तानामित्यर्थः । द्योत्ये इति । उक्तरीत्या स्त्रीत्वस्य प्रातिपदिकार्थत्व#आदिति भावः । उक्तं च भाष्ये-॒स्त्रियां यत्प्रातिपदिकं वर्तते, तस्माट्टाबादयो भवन्ति स्वार्थे॑ इति । टाप्स्यादिति ।प्रत्ययः॑,परश्चे॑त्यधिकृतम् । कस्मात्परो भवतीत्याकाङ्क्षायां संनिधानादजादिभ्योऽदन्ताच्चेति बोध्यम् । नन्वजादिगणेअज॑, 'अआ' इत्याद्यदन्तपाठो व्यर्थः, अदन्तत्वादेव सिद्धेरित्यत आह — अजाद्युक्तिरिति । 'वयसि प्रथमे'जातेरस्त्रीविषया॑दित्यादिवक्ष्यमाणस्य ङीपो ङीषश्च अदन्तटाबपवादस्य बाधनार्थमजादिग्रहणमित्यर्थः । एवंच अदन्तटाबपवादौ ङीप्ङीषौ, तयोरप्यजादिटाबपवाद इति फलति । अजशब्दश्छागजातौ वर्तते । अजा छागी तुभच्छागबस्तच्छगलका अजे॑ इत्यमरः । अजशब्दाट्टाप्, टपावितौ । सवर्णदीर्घः । व्यपदेशिवत्त्वादजान्तत्वम् । अत इति । 'उदाहरणं वक्षयते' इति शेषः । खट्वेति । खट काङ्क्षायाम्अशू प्रुषिलटिकणिखटिविशिब्यः क्वन् । खट्वशब्दोऽदन्तः । तस्माट्टापि सवर्णदीर्घः ।शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः॑ इत्यमरः । ननुप्रत्ययः॑,परश्चे॑त्यनुवृत्तौ दिग्योगपञ्चम्या युक्तत्वादजादिभ्योऽतश्च टाप्स्यात्स्त्रीत्वे द्योत्ये इत्यर्थ एव युक्तः, तथाच 'अजाद्यतः' इति षष्ठआश्रयणमयुक्तमित्यत आह — अजादिभिरिति । 'अजाद्यत' इति षष्ठीमाश्रित्य अजादीनामदन्तस्य च वाच्ये स्त्रीत्वे टाबित्येवमजादिभिः स्त्रीत्वस्य विशेषणादित्यर्थः । पञ्चाजीति । पञ्चानामजानां समाहार इति विग्रहे 'तद्धितार्थ' इत्यादिना द्विगुः । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीत्वम् । 'द्विगोः' इति ङीप् ।यस्येति चे॑त्यकारलोपः । नन्वत्र समासेऽजशब्दसत्त्वात्तद्वाच्यमेव स्त्रीत्वमित्यत आह-अत्रेति । हि=यतोऽच्र =पञ्चाजशब्दे समासार्थभूतो यः समाहारस्तन्निष्ठं स्त्रीत्वं पञ्चाजेति समुदायस्य वाच्यं नत्वजशब्दस्य, अतोऽत्र न टाबित्यर्थः । नचोक्तरीत्या तदन्तविधिसत्त्वादजशब्दान्तस्य पञ्चाजेति समासस्य ग्रहणात्तद्वाच्यत्वं स्त्रीत्वस्येति वाच्यं, सत्यपि तदन्तविधावजादीनां श्रुतत्वेन स्त्रीत्वस्य तद्विशेषणताया एव न्याय्यत्वात् ।अजादिभ्यष्टापस्त्रीत्वेद्योत्ये॑ इति व्याख्याने तु स्त्रीत्वस्य अजादिशब्दवाच्यत्वाऽलाभात्समाहारनिष्ठमपि स्त्रीत्वमादाय टाप्स्यादिति भावः । अथाजादीनुदाहरति — अजेत्यादिना । एडकेति ।मेढ्रोरभ्रोरणोर्णायुमेषवृष्णाय एडके॑ इत्यमरः । अस्य स्त्रीत्वे कोसान्तरं मृग्यम् । अओति । 'वाम्यआआ वडव#आ' इत्यमरः । चटकेति । चटकः पक्षिजातिविशेषः । अस्य जातिशब्दस्य स्त्रीत्वं मृग्यम् । अमरस्तुचटकः कलविङ्कः स्यात्तस्य स्त्री चटका॑ इत्याह । मूषिकेति ।चुचुन्दरी गन्धमूषी दीर्घेदेही तु मूषिका॑ इत्यमरः । एषु जातीति । अजादिपञ्चसुजातेरस्त्री॑ति ङीष् प्राप्तः स अजादिटापा बाध्यत इत्यर्थः । बालादयः प्रथमवयोवचनाः, तत्र होढादित्रयस्य प्रथमवयोवाचित्वे कोशो मृग्यः । एष्विति । बादिपञ्चसु 'वयसि प्रथमे' इति ङीप् प्राप्तः सोऽजादिटापा बाध्यत इत्यर्थः ।सम्भस्त्रेति ।पाककर्णे॑ति सूत्रभाष्ये पठितमिदं वार्तिकमर्थतः संगृहीतम् । 'सम्' 'भस्त्र' 'अजिन' 'शण' 'पिण्ड' एतेभ्य परो यः फलशब्दस्तस्मादपिपाककर्णे॑ति ङीष् न भवति, किंतु टाबेवेत्यर्थः । सम्फलेति । समृद्धानि फलानि यस्या इति विग्रहः । भस्त्रफलेति । भस्त्रेव फलानि यस्या इति विग्रहः ।भस्त्रा चर्मप्रसेविका॑ इत्यमरः । ननु भस्त्राशब्दस्य नित्यस्त्रीत्वाद्भाषितपुंस्कत्वाऽभावात्स्त्रियाः पुंव॑दिति पुंवत्त्वस्याऽप्रसक्तेः कथं ह्रस्व इत्यत आह — ङ्यापोरिति ।ङ्यापोः संज्ञाच्छन्दसोर्बहुल॑मिति ह्रस्व इत्यर्थः । अजिनफला, शणफसा, पिण्डफला-ओषधिविशेषसंज्ञाः । सदच्काण्ड । अयमपि पाककर्णे॑ति सूत्रपठितवार्तिकार्थसङ्ग्रहः । 'सत्'अच्॒काण्ड॒॑प्रान्त॒॑शत॒॑एक॑ — एतेभ्यः परो यः पुष्पशब्दस्तस्तमादपिपाककर्णे॑ति ङीष् न भवति, किन्तु टाबेवेत्यर्थः । सत्पुष्पेति । सन्ति पुष्पाणि यस्या इति विग्रहः । अचेति लुप्तनकारोऽञ्चुधातुर्गृह्रत इत्यभिप्रेत्य उदाहरति — प्रक्पुष्पेति । प्राञ्चिपुष्पाणि यस्या इति विग्रहः । प्रत्यक्पुष्पेति । प्रत्यञ्चि पुष्पाणि यस्या इति विग्रहः । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एक पुष्पा ।शूद्रा च । 'अजाद्यतः' इति प्रकृतसूत्रे पठितं वार्तिकमेतत् । शूद्रजातिर्वाच्या चेदमहत्पूर्वाः शूद्रशब्दः स्त्रियां टापं लभते । जातिलक्षणङीषोऽपवादः । शूद्रात् स्वभार्यायां विधिनोढायामुत्पन्ना स्त्री शूद्रा ।जाति॑रित्यस्य प्रयोजनमाह-पुंयोगे त्विति । शूद्रस्य स्त्रीत्येव पुंयोगात्स्त्रियां वृत्तौ जातिवाचित्वाऽभावान्न टाप् किन्तुपुंयोगादास्त्र्याया ङीषेवेत्यर्थः । महाशूद्रीति । महती च सा शूद्रा चेति विग्रहः । कर्मधारयःपुंवत् कर्मधारये॑ति पुंवत्त्वम् । अत्र महत्पूर्वत्वान्न टाप् । किन्तु जातिलक्षणङीषेव ।आभीरी तु महाशूद्री जातिपुंयोगयोः समा॑इत्यमरः । नृपाच्छूद्रायामुत्पन्ना उग्रा, तस्या ब्राआहृणादुत्पन्नः आभीरः । स्त्री चेदाबीरी । अत्र जातीग्रहणस्य, अमहत्पूर्वग्रहणस्य च प्रयोजनविचारः शब्देन्दुशेखरे भाष्यप्रदीपोद्द्योते च स्फुटः । क्रुञ्चेति । क्रुञ्चशब्दः चकारान्ताःऋत्विक॑इत्यादिना क्विबन्तः पक्षिजातिविशेषे वर्तते ।यत्क्रोञ्चमिथुनादेकमवधीः काकममोहित॑मिति रामायणे । उष्णिह्शब्दो हकारान्तश्छन्दोविशेषेऋत्विक्इत्यादिना क्विन्नन्त एव । देवविश्शब्दः शकारान्तः गणविशेषात्मकमरुत्सु वर्ततेमरुतो वै देवानां विशः॑इति श्रुतेः । एतेषामदन्तत्वाऽभावादप्राप्ते टापि तद्विधानार्थमजादिषु पाठः ।॒ङ्याप्प्रातिपदिकात् इति सूत्रभाष्ये त्वेषां त्रयाणामदन्तत्वमास्थितमिति ॒॑वष्टि भागुरिरल्लोप॑मिति श्लोकव्याख्यावसरे प्रपञ्चितमनुपदमेव । ज्येष्ठेति । यदा ज्येष्टादिशब्दाः प्रथमोत्पन्नादौ वर्तन्ते तदाऽदन्तत्वादेव टाप् सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्यादिविवक्षा तदापि पुंयोगलक्षणं ङीषं बाधित्वा टाबर्थमिह पाठ इत्यर्थः । कोकिलेति । कोकिलशब्दस्य जातावपि जातिलक्षणङीषं बादित्वा टाबर्थमिह पाठ इत्यर्थः । मूलान्नञ इति ।पाककर्णे॑ति सूत्रे पठितं वार्तिकमेतत् । नञः परो यो मूलशब्दस्तस्मात्पाककर्णेति॑ङीष् न भवति, किन्तु टाबेवेत्यर्थः । अमूलेति । अविद्यमानं मूलं यस्या इति विग्रहेनञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः॑इति बहुव्रीहिः । अत्रसम्भस्त्रेति,सदच्काण्डेति, मूलान्नञ इति च वार्तिकत्रयं॒॑पाककर्णे॑ति सूत्रभाष्यपठितमपि फले विशेषाऽभावादजादिगणे मूवे प्रपञ्चितम् । न चैतान्यजाद्यन्तर्गणसूत्राणीति भ्रमितव्यम् । अजादिराकृतिगणः । तेन 'न मु ने' इति सूत्रभाष्ये 'टायामादेश' इति भाष्यप्रयोगः सिद्धः । अत एव च पूर्वमीमांसायां द्वितीयस्य प्रथमपादेस्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वा॑दिति स्तुतशस्त्रीधिकरणेवशावद्वा गुणार्थं स्या॑दिति गुणसूत्रव्याख्यावसरे शाबरभाष्यभट्टवार्तिकयोःछागाय वपाया॑इत्यूहानुक्रमणं सङ्गच्छते । अत एव च ब्राहृमीमासायां प्रथमस्य चतुर्थपादेचमसवदविशेषा॑दित्यधिकरणे शाङ्करभाष्यवाचस्पत्ययोरजायां छागेति टाबन्तः प्रयोग उपपन्नः । अन्यथा जातिलक्षणङीष्प्रसङ्गादित्यास्तां तावत् । 'ऋन्नेभ्यः' इति सूत्रमजन्तस्त्रीलिङ्गाधिकारे प्रसङ्गाद्व्याख्यातम्, इह तु सूत्रक्रमात्पुनस्तदुपन्यासः ।", "41005": "<<ऋन्नेभ्यो ङीप्>> - ऋन्नेभ्यो ङीप् । ऋतस्च नाश्चेति द्वन्द्वः ।स्त्रिया॑मित्यधिकृतम् ।ङ्याप्प्रातिपदिकात् इत्यतः प्रातिपदिकग्रहणमनुवृत्तमृन्नकारैर्विशेष्यते । अतस्तदन्तविधिस्तदाह — ऋदन्तेभ्य इत्यादिना । ङपावितौ । क्रोष्टृ ई इति स्थिते यणि क्रोष्ट्रीशब्दात्सुबुत्पत्तिः । गौरीवद्रूपाणीत्याह — क्रोष्टीत्यादि । इत्युदन्ताः । अथ ऊदन्ताः । वधूर्गौरीवदिति ।वहो धश्चे॑त्यूप्रत्ययः, हस्य धश्च । धात्ववयवोवर्णाऽभावान्नोवङ । ऊकारस्य यण्वकार इत्यादिविशेषस्तु सुगम इति भावः । भ्रूः श्रीवदिति । 'भ्रमेश्च डूः' इति डूप्रत्ययान्तोऽयम् ।अचि श्नुधातुभ्रुवा॑मित्युवङित्यादिविशेषस्तु सुगम इति भावः । सु=शोभना भ्रूर्यस्याः सा सुभ्रूः । अस्त्रीप्रत्ययान्तत्वात्गोस्त्रियो॑रिति ह्रस्वो न भवति । नेयङुवङ्स्थानावस्त्री ति भ्रूशब्दस्य तदन्तस्य च निषेधान्नदीत्वं न । ततश्चअम्वार्थे॑त्यादि नदीकार्यं नेत्यभिप्रेत्याह — हे सुभ्रूरिति॥ कथं तर्हीति । यदि सुभ्रूशब्दे नदीकार्यं न स्यात्तदाहा पितः क्वासि हे सुभ्रु॑ इति कथं भट्टिराहेत्यर्थः । रावणेन सीतापहारोत्तरं रामविलापोऽयम् । हे सुभ्रु त्वयाऽहं हापितोऽस्मि विधिनेत्यर्थः । 'हापित' इत्यस्य त्याजित इत्यर्थः । प्रमाद इति ।अम्बार्थे॑ति ह्रस्वस्य करणादिति भावः । बहव इति कतिपये सामान्ये नपुंसकत्वमाश्रित्य कथं॑चित्समादधुः । खलपूः पुंवदिति । खलपवनस्य उत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियां वर्तमानत्वाऽभावेन नित्यस्त्रीत्वाऽभावान्नदीत्वं नेति भावः । पुनर्भूरिति ।पुनर्भूर्दिधिषूरूढाद्विः॑ इत्यमरः । तस्यनेयङुवङि॑ति नेषेधमाशङ्क्याह-दृन्करेतीति ।अम्शसोःपूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वादृन्करे॑ति यणिति मत्वाह — पुनर्भ्वं पुनर्भ्वाविति । पुनर्भ्वाः । नद्यन्तत्वान्नुटि दीर्घे पुनर्भूनामिति स्थिते रेफान्नकारस्य भिन्नपदस्थत्वात्अट्कुप्वा॑ङित्यप्राप्ते- ।", "41006": "<<उगितश्च>> - उगितश्च । उक् प्रत्याहारः । उक् इद्यस्य स उगित् ।॒उगित॑ इति पञ्चम्यन्तम्, ते प्रातिपदिकादित्येतद्विशेष्यते, तदन्तविधिः ।उगिद्वर्णग्रहणवर्ज॑मित्युक्तेः 'समासप्रत्ययविधौ' इति प्रतिषेधो न । पूर्वसूत्रान्ङीबित्यनुवर्तते । तदाह-उगिदन्तादिति । उगिद्द्विविधं, प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति — भवतीति । सर्वादिगणे 'भवतु' इत्यव्युत्पन्नं प्रातिपदिकं पठितं, तस्य व्यपदेशिवत्त्वे उगदन्तत्वान्ङीप् । ङपावितौ ।आच्छीनद्योर्नुम्॒शप्श्यनोर्नित्य॑मिति नुम्न, शत्रन्तत्वाऽभावात् ।उगिदचा॑मित्यपि न सर्वनामस्थानत्वाऽभावात् । अथ द्वितीयमुगितमुदाहरति-पचन्तीति । पचेर्लटः शतरि शषि पररूपे पचच्छब्दः । तत्र शतृप्रत्यय उगित्, तदन्तं पचदिति प्रातिपदिकमिति तस्मान्ङीपिशप्श्यनोर्नि॑मिति नुमिति भावः । यदि तु सर्वादिगणे पठितं भवतु इत्येतत्भातेर्डवतुः॑इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोः शतरि शपि ऊकारस्य गुणेऽवादेशे भवच्छब्दान्ङीपि तु,शप्श्यनोर्नित्य॑मिति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्याऽप्युत्पन्नत्वे तस्य कथं व्यपदेशिवत्त्वेनोगिदन्तत्वं,व्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति वचनादिति वाच्यं, प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्तेः । 'उगिदचामिति सूत्र' इत्यादिग्रन्थो हलन्ताधिकारे गोमच्छब्दनिरूपणे व्याख्यातः । तेनेति । अञ्चुव्यतिरिक्तधातोरुगित्कार्याऽभावलाभेनेत्यर्थः । उखेति । उखा=कुण्डी । उखायाः रुआंसते, पर्णाद्ध्वंसतेइति विग्रहः ।पिठरं स्थाल्युखा कुण्ड॑मित्यमरः ।रुआंसु ध्वंसु अवरुआंसने॑ । सुपीत्यनुवृत्तौक्विप्चे॑ति क्विप्, उपपदसमासः, सुब्लुक्,अनिदिता॑मिति न लोपः, हल्ङ्यादिना सोर्लोपः,वसुरुआंसु॑इति दत्वमिति भावः । स्यादेवेति ।ङी॑बिति शेषः । प्राचीति । प्रपूर्वादञ्चतेः 'ऋत्विक' इत्यादिना क्विन्,अनिदिता॑मिति नलोपः । उगित्त्वान्ङीप्,अचः॑इत्यकारलोपेचौ॑इति दीर्घः ।", "41007": "<<वनो र च>> - वनोर च । वनः र चेति च्छेदः ।र॑इति लुप्तप्रथमाकम्, अकार उच्चारणार्थः । चकारात्ङीप्समुच्चीयते ।वन॑इति पञ्चम्यन्तम् । तेन वन्प्रत्ययान्तं तदन्तं च विवक्षितम् ।प्रातिपदिका॑दित्यधिकृतम् । तदाह-वन्नन्तादित्यादिना । अन्तादेश इति ।प्रकृते॑रिति शेषः । नान्तत्वादेव ङीप्प्राप्तः, तत्संनियोगेन रेफमात्रमिह विधेयम् । सामान्येति । अनुबन्धविनिर्मुक्तवन॑ग्रहणस्य त्रिष्वपि साधारणत्वादिति भावः ।ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह-प्रत्ययग्रहणे इति । यस्मात्प्रकृतिभूताच्छब्दाद्यः प्रत्ययो विहितः तदादेः=स प्रकृतिभूतः शब्द आदिर्यस्य तस्य , तदन्तस्य=स प्रत्ययोऽन्तो यस्य समुदायस्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः ।तिड्डतिङ॑इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम् ।यस्मात्प्रत्ययविधि॑रिति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वन्नन्तेन प्रातिपदिकादित्यधिकृतस्य विशेषणात्पुनस्तदन्तविधिलाभावादिति भावः । नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यं,यनविधिस्तदन्तस्ये॑त्यत्रस्वं रूप॑मित्यतः॒स्व॑मित्यनुवर्त्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भानः । तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्त्वेन वन्नन्तान्तमिति केचित् ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तुस्त्रिया॑मित्यस्मिन्नधिकारे न प्रवर्तते,शूद्रा चामहत्पूर्वा जातिः॑इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नान्तान्तमुदाहरति-सुत्वानमिति । 'षुञ् अभिषवे' 'सुजयोङ्र्वनिप्'ह्रस्वस्य पिति कृती॑ति तुक् । सुत्वन्शब्दः । सुत्वानमतिक्रान्ता इति विग्रहेअत्यादयः॑इति समासः । सुब्लुकि, ङीप्, नकारस्य रत्वम्, इतिसुत्वरीति रूपम् । अतिधीवरीति ।डुधाञ्धारणपोषणयोः॑,अन्येभ्योऽपि दृश्यते॑इति भाषायामपि क्वनिप् ।घुमास्था॑इति ईत्त्वम् । धीवानमतिक्रान्ता इति विग्रहे 'अत्यादयः' इति समासः । ङीब्राश्च, अतिधीवरीति रूपम् । भाष्ये तुध्यायतेः क्वनिपि संप्रसारणे 'हलः॑इति दीर्घ' इति स्थितम् । शर्वरीति ।शृ हिंसायाम्,आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यते॑ इति भाषायामपि वनिप्,सार्वधातुकार्धधातुकयोः॑ इति गुणः,वनो र चे॑ति ङीब्राश्च । वन्नन्तस्योदाहरणमेतत् ।अतिशर्वरी॑ति पाठे तु इदमपि वन्नन्तातन्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरीति वन्नन्तस्योदाहरणानि । वनो नेति । पूर्ववद्वन्नन्तं वन्नन्तान्तं च गृह्रते । 'हश' इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेवनाऽऽक्षिप्तं धातोरित्येतद्विशेष्यते, तदन्तविधिः । ङीबिति रश्चेति चानुवर्तते । तदाह — हशन्तादित्यादिना । विहितविशेषणस्य प्रयोजनं दर्शयन्वन्नन्तोदाहरणं दर्शयितुमाह — ओणृ इत्यादिना । वनिबिति ।अन्येभ्योऽपि दृश्यते इत्यनेने॑ति शेषः । आवावेति । ओण् इत्यस्मद्वनिपिविड्वनोरनुनासिकस्या॑दिति णकारस्य आत्त्वे ओकारस्यावादेशे 'अवावन्' शब्दः । स्त्रीत्वस्फोरणायब्राआहृणी॑ति विशेष्यम् । अत्र ओण् इति धातोर्हशन्ताद्वन् विहितः, तदन्तत्वान्न ङीब्रात्वे, किंतु राजवद्रूपम् ।हशन्ताद्धातोः परो यो व॑न्निति व्याख्याने तु आत्वे सति वनो हशः परत्वाऽभावान्निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरति-राजयुध्वेति । राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्तमाने 'राजनि युधिकृञः' इति क्वनिप् । कर्मीभूते राजनि उपपदे युधेः कृञ्श्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुकि राजयुध्वन्शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्राआदेशावित्यर्थः । बहुव्रीहौ वा । इदं वार्तिकम् ।वनो र चे॑ति विधिर्वहुव्रीहौ वा स्यादित्यर्थः ।अनो बहुव्रीहे॑रिति निषेधस्यापवादः । बहुधीवरीति । बहवो धीवानो यस्या इति विग्रहः । बहुधीवेति । ङीब्रात्वयोरभावे राजवद्रूपम् । नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि हीब्रात्वविकल्पः स्यादिति वाच्यम्, 'अल्लोपोऽनः' इति उपधालोपयोग्यस्थल एवैतद्वार्तिकस्य प्रवृत्तेर्भाष्ये उक्तत्वात् । बहुपर्वन्शब्दे चन संयोगाद्वनमन्ता॑दित्यचल्लोपनिषेधात् । पक्षे इति । ङीब्रात्वाऽभावपक्षेडाबुभाभ्या॑मिति डाब्वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन्-आ इति स्थिते 'टेः' इति टिलोपे बहुधीवाशब्दात्सोर्हल्ङ्यादिलोपेबहुधीवे॑ति रमावद्रूपम् । ङीब्रात्वयोर्डापश्चऽभावेसौ बहुधीवेत्येव रूपम् । ङीब्रात्वयोर्बहुधीवरीति । औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहूधीवानौ इत्यादि रूपत्रयमिति भावः ।", "41008": "<<पादोऽन्यतरस्याम्>> - पादो । कृतसमासान्त इति । अन्तलोपात्मके समासान्ते कृते परिशिष्टः पाच्छशब्द इह गृह्रत इत्यर्थः । तदन्तादिति । पाच्छब्दान्तादित्यर्थः । 'पाद' इति पञ्चम्यन्तेनप्रातिपदिका॑दित्यधिकृतस्य विशेषणादिति भावः । ङीब्वा स्यादिति । 'ऋन्नेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । द्विपदीति । द्वौ पादौ यस्या इति बहुव्रीहिः ।सङ्ख्यासुपूर्वस्ये॑ति पादशब्दान्तस्याऽकारस्य लोपः । ङीपि भत्वात्पादः पत् । द्विपदिति रूपम् । ङीबभावे तुद्विपादिति ।", "41009": "<<टाबृचि>> - टाबृचि । पादन्तादिति ।प्रातिपदिका॑दिति शेषः ।पादोऽन्यतरस्या॑मित्यतोऽनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः ।पादोऽन्यतरस्या॑मिति ङीपोऽपवादोऽयम् । द्विपदा ऋगिति । द्वौ पादौ यस्या इति विग्रहः । एकपदेति । एकः पाटो यस्या इति विग्रहः । उभयत्रापि टापि,पादः पत् ।ङ्याप्प्रातिपदिकात् इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दमवष्टभ्य प्रत्याख्यातमेतत् । नच ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्त्ये एतत्सूत्रमिति वाच्यम्, एतद्भाष्यप्रामाण्येन तथाविधप्रयोगस्याऽपीष्टत्वादित्यसम् । न षडिति । इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम् । पञ्चेति । इहान्तरङ्गत्वान्नन्तलक्षणङीपि प्राप्ते षट्त्वान्निषिद्धे 'षड्भ्यो लुक्' इति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वसंज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात् । ननुन षट्स्वरुआआदिभ्यः॑ इति न टाबित्यन्वयः ।अदन्तलक्षणष्टा॑बिति शेषः । नान्तलक्षणङीपि प्रतिषिद्दे सति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वस्संज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात् । ननुन षट्स्वरुआआदिभ्यः॑ इत्यत्र सत्यामपि टाबनुवृत्तौ कथमिह षट्संज्ञानिबन्धस्तन्निषेधः, नलोपे कृते षट्संज्ञाविरहात् । नच टाब्निषेधे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं, टाब्निषेधस्य सुप्स्वरसंज्ञातुग्विधिष्वनन्तर्भावादित्यत आह — नलोपे कृतेऽपीत्याद्यसिद्धत्वादित्यन्तम् । टाब्निषेधविधिरयं षट्संज्ञामपि विधत्ते, कार्यकालपक्षाश्रयणात् । ततश्च तस्मिन् कर्तव्ये नवोपस्याऽसिद्धत्वेन षट्संज्ञाया निर्बाधतया षट्संज्ञानिबन्धनष्टाप्प्रतिषेधोऽत्र निर्बाध इति बावः । वस्तुतस्तु नलोपस्याऽसिद्धत्वेऽपि बूतपूर्वषट्संज्ञामाश्रित्य टाब्निषेध उपपद्यते । अत एव षट्संज्ञायां नलोपाऽसिद्धत्वस्य न फलमितिनलोपः सुप्स्वरे॑ति सूत्रभाष्ये उक्तमित्याहुः ।", "41010": "<<न षट्स्वस्रादिभ्यः>> - ॒ऋन्नेभ्यः॑ इति ङीपि प्राप्ते — न षट् । षट् इत्यनेन षट्संज्ञका गृह्रन्त इत्याह — षट्संज्ञकेभ्य इति । ङीप्टापाविति । 'ऋन्नेभ्यः' इत्यतोङी॑विति, 'टावृचि' इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः । स्वरुआआदीन् पठतिस्वसा तिरुआ इत्यादिना । अथ 'तिसृचतसृ' इत्यनयोः पाठो न कर्तव्यः, 'न तिसृचतसृ' इति नामि दीर्घनिषेधादेव लिङ्गान्ङीबभावसिद्धेरिति 'कृन्मेजन्तः' इति सूत्रे कैयटः । न नन्दतीनि ननान्दा । 'नञि च नन्देः' इति ऋन्, वृद्धिश्च ।ननान्दा तु स्वसा पत्युः॑ इत्यमरः । दोग्धीति दुहिता ।नप्तृनेष्टृत्वहोतृपोतृभ्रातृजामातृपितृदुहितृ॑ इति दुहेस्तृच् । इट् गुणाऽभावश्च निपातितः । मान्यते पूज्यते इति माता । मान पूजायाम् । तृचि नलोपश्च । यतते इति याता । 'यतेर्वृद्धिश्च' इति ऋन्, उपधावृद्धिश्च ।भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् इत्यमरः । अतृन्नितीति । स्वसृशब्दात् सुः, 'ऋदुशनस्' इत्यनङ्, तृप्रत्ययान्तत्वाऽभावेऽपि 'अप्तृन्' इति सूत्रे स्वसृग्रहणाद्दीर्घ इति भावः । माता पितृवदिति । 'अप्तृन्' इति सूत्रे औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भावा । इत्यृदन्ताः । अथ ओदन्ताः । द्यौर्गोवदिति । ओतो णित् इति णिद्वत्त्वाऽतिदेशात् । 'अचो ञ्णिति' इति वृद्धिः ।द्योदिवौ द्वे स्त्रियामभ्र॑मित्यमरः । इत्योदन्ताः । अथ ऐदन्ताः । राः पुंवदिति ।रायो हली॑त्यात्वम् । 'राः स्त्रीत्येके' इति क्षीरस्वाम्युक्तेः स्त्रीलिङ्गोऽप्ययमिति भावः । इत्यैदन्ताः । अथ ओदन्ताः नौर्ग्लौवदिति । स्त्रियां नौस्तरणिस्तरिः॑ इत्यमरः । इत्यौदन्ताः ।*****इति बालमनोरमायामजन्ताः स्त्रीलिङ्गा**********अथाजन्तनपुंसकलिङ्गप्रकरणम् ।*****", "41011": "<<मनः>> - मनः ।न षट्स्वरुआआदिभ्यः॑ इत्यतो नेतिऋन्नेभ्यः इत्यतो ङीबिति चानु वर्तते । 'मन' इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रंते । तदाह — मन्नन्तादिति । सीमेति । 'पिञ् बन्धने' औणादिको मनिन्, प्रकृतेदीर्घश्च । सीमन्शब्दान्ङीपि निषिद्धे राजवद्रूपम् । ङीपि सति तु अल्लोपे सीम्नीति स्यादिति भावः । ननु वक्ष्यमाणडापि सीमेति सौ रूपसिद्धेः किं ङीब्निषेधेनेत्यत आह — सीमानाविति । डापि तु सति 'सीमे' इत्येव स्यादिति भावः ।", "41012": "<<अनो बहुव्रीहेः>> - अनो बहुव्रीहेः । 'अन' इतिबहुव्रीहे॑रित्यस्य विशेषणम्, तदन्तविधिः । नेति ङीविति च पूर्ववदनुवर्तते । तदाह — अन्नन्तादिति । बहुयज्वेति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षणङीप प्रतिषेधे राजवद्रूपाणि ।न संयोगा॑दिति निषेधान्नायमुपधालोपी । अतोऽत्र 'अन उपधालोपिनः' इति विकल्पो न प्रवर्तितुमर्हति ।", "41013": "<<डाबुभाभ्यामन्यतरस्याम्>> - डाबुभाभ्याम् ।उभाभ्या॑मित्येतद्व्याचष्टे — सूत्रद्वयोपात्ताभ्यामिति । 'मन' इति 'अनो बहुव्रीहेः' इति च सूत्रद्वयोपात्तान्मन्नादन्नन्तबहुव्रीहेश्चेत्यर्थः । नन्विहान्यतरस्याङ्ग्रहणं व्यर्थम् । नच तदभावे डाब्नित्यः स्यादिति वाच्यं, डापो नित्यत्वे तेनैव ङीपो निवृत्तिसंभवेन ङीब्निषेधवैयथ्र्यात् । एवञ्च ङीप्निषेधडापोर्वचनसामर्थ्यादेव विकल्पसिद्धेरन्यतरस्याङ्ग्रहणं व्यर्थमिति चेत्, स्पष्टार्थमिति केचित् । भाष्ये तुअन्यतरस्या॑मिति योगविभागमाश्रित्य 'बहुव्रूहौ' इति वार्तिकं प्रत्याख्यातम् । सीमेति । सीमन्शब्दाड्डापि टिलोपे सीमाशब्दात्सोर्हल्ङ्यादिलोपः । डाबभावपक्षेऽपि 'मनः' इति ङीब्निषेधे सौसीमे॑त्येव राजवद्रूपम् । तर्हि डाब्विधेः किं फलमित्यत आह-सीमे सीमानाविति । मन्नन्तविषये उदाहरणान्तरमाह-दामेति । दाधातोरौणादिको मनिन् ।हिरण्मयं दाम दक्षिणा॑ इत्यादौ दामशब्दस्य नपुंसकत्वदर्शनादाह-न पुंसीति । दामन्शब्दः पुंसि न, किंतु स्त्रीनपुंसकयोरित्यर्थः,निषिद्धलिङ्गं शेषार्थ॑मिति परिभाषितत्वात् । अन्नन्तबहुव्रीहेरुदाहरति-बहुयडज्वेति । बहवो यज्वानो यस्या इति विग्रहः । डापि टिलोपे बहुयज्वाशब्दात्सोर्हल्ङ्यादिलोपः । ङीब्निषेधे सौ एतदेव राजवद्रूपम् । डापः फलमाह-बहुयज्वे बहुयज्वानाविति । शसि-बहुयज्वनः । अत्राऽल्लोपस्तु न भवति,न संयोगाद्वमन्ता॑दिति निषेधात् । अत एव 'अन उपदालोपिनः' इत्यस्य नायं विषयः ।", "41014": "", "41015": "<<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (टिद्॰क्वरप्ख्युनाम्)>> - टिड्ढाणञ् । टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्,-एषां द्वादशानां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । ढादय एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययोऽप्रत्ययश्च । टिदादिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात्तदन्तविधिः । ततश्च टिदन्ताड्ढाणादिप्रत्ययान्तान्ताच्च प्रातिपदिकादिति लभ्यते । 'अजाद्यतष्टाप्' इत्यस्मादत इत्यनुवृत्तं, तेनापि प्रातिपदिकं विशेष्यते । तदन्तविधिः ।अनुपसर्जना॑रित्येतच्छतेषु टिदादिष्वेवान्वेति, नतु तदन्तेषु । स्त्रियामित्यधिकृतं । तदाह — अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति । टिदन्तं, ढादिप्रत्ययान्तं चेत्यर्थः । टित्रिविधिः । प्रत्ययः, प्रातिपदिकं, धातुश्च । तत्राद्यमुदाहरति — कुरुचरीति । कुरुषु चरतीत्यधिकरणे उपपदे 'चरेष्टः' इति कर्तरि टः । टकार इत् । उपपदसमासः । नच प्रत्ययस्यैवाऽत्र टित्त्वात्प्रत्ययग्रहणुपरिभाषया चरेत्येव टिदन्तं, नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यं, नदट् देवडित्यादेरप्रत्ययस्यापि टितः सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषाया अप्रवृत्तौ 'येन विधिः' इति टिदन्तत्वस्य कुरुचरशब्दे सत्त्वात् । अथ द्वितीयं टितमुदाहरति-नदडिति । पचादिगणे पठितं प्रातिपदिकमेतत् । तृतीयं तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसप्जनत्वविशेषणस्य प्रयोजनमाह — बहुकुरुचरेति । बहवः कुरुचरा यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थप्रधानः । ततश्च टितष्टप्रत्ययस्य उपसर्जनत्वान्न ङीप् । अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वारः । अतएव च आपिशालिना प्रोक्तमधीते आपिशला ब्राआहृणीत्यत्रापि न ङीप् । तत्र हि आपिशलिना प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे 'तदधीते तद्वेदे' त्यणिप्रोक्ताल्लुगि॑ति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनुपसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात्स्त्रियां वर्तमानत्वाच्च अणन्तत्वनिबन्धनो ङीब्दुर्वारः स्यात् । तस्य च श्रुतटिदाद्यन्वये तु प्रोक्ताऽण उपसर्जनत्वान्न दोषः । अध्येत्रण्तु लुप्तः, अणोयोऽकार इति व्याख्यानेन वर्णाश्रयतया प्रत्ययलक्षणाऽभावात् । नच स्त्रिया॑मित्यस्य श्रुतटिदादिविशेषणत्वात्प्रोक्ताऽणश्चस्त्रियामवर्तनादेव न ङीपः प्रसक्तिरिति वाच्यं, ज्ञापिते तदन्तविधौ प्राधान्यात्स्त्रिया॑मित्यस्य ङीप्प्रकृतिविशेषणताया एव उचितत्वात्, अन्यथा अनुपसर्जनाधिकारवैयथ्र्याच्च । अतएव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम् । स्यादेतत्-॒वच परिभाषणे॑ । अस्मात्कर्मणि, लृट्, 'लृटः सद्वा' इति तस्य शानजादेशः, 'स्यतासी लृलुटोः' इति स्यः कुत्वषत्वे, आने मुक्, णत्वम्, टाप्, वक्ष्यमाणेति रूपम् । अत्र लृडादेशस्य स्थानिवत्त्वेन टित्त्वादुगित्वाच्चटिड्ढाणञि॑तिउगितश्चे॑ति च ङीप् प्राप्नोति । नच स्थानिनो लृटष्टकारस्य ऋकारस्य च इत्त्वाश्रयणान्ङीब्विधेरल्विधित्वादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्त्वस्यन ल्यपी॑ति निषेधेन लिङ्गेन अनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनात् । अनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तौ हि क्त्वादेशस्य ल्यपः कित्त्वाऽप्रसक्तेस्तस्मिन्परत ईत्वस्याऽप्रसक्त्या तन्निषेधवैयर्थ्यां स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्त्वेन शानचष्टित्त्वादुगित्वाच्च ङीब्दुर्वार इत्याशङ्क्य परिहरति — वक्ष्यमाणेत्यादिना । वक्ष्यमाणेत्यत्र टित्त्वादुगित्वाच्च ङीप् प्राप्तो न भवतीत्यन्वयः । कुतो नेत्यत आह — यासुट इत्यादि, ज्ञापनादित्यन्तम् ।यासुट् परस्मैपदेषूदात्तो ङिच्चे॑ति लिङादेशानां-तिप्तस्झीत्यादिपरस्मैपदानां यासुडागमस्य ङित्त्वं विहितम् । 'यदागमाः' इति न्यायेन यासुडागमो लिङादेशावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटस्तद्विधिवैयथ्र्यं स्यादतोलाश्रयमनुबन्धकार्यमादेशाना ने॑ति विज्ञायते । ततश्च वक्ष्यमाणेत्यत्र लृडादेशस्य शानचष्टिदुगित्कार्ये ङीपि कर्तव्ये स्तानित्त्वाऽभावान्न ङीबित्यर्थः । ननुलाश्रयमनुबन्धकार्यमादेशानां ने॑ति ज्ञापनेऽपि ब्राऊतादित्यत्र 'ब्राउव ईट्' इति पितो विधीयमान ईडागमो दुर्वारः । तस्य तिबाश्रयत्वे ।ञपि लाश्रयत्वाऽभावेन तस्मिन्कर्तव्ये तातङः स्थानिवत्त्वेन पित्त्वस्य निर्बाधत्वादित्यस्वरसादाह — श्नः शानचेति । श्ना इत्यस्मात्षष्ठएकवचने आल्लोपे 'श्न' इति रूपम्, 'आतो धातोः' इत्यत्र 'आत' इति योगविभागमाश्रित्य अधातोरपि क्वचिदाल्लोपाभ्युपगमात् । 'हलः श्नः शानज्झौ' इति स्नाप्रत्ययस्य शानजादेशो विधीयते । तत्र स्थानिवत्त्वेनैव सिद्धत्वाच्छानचः शित्त्वं व्यर्थम् । नचानल्विधाविति निषेधः शङ्क्यः,न ल्यपी॑ति लिङ्गेनाऽनुबन्धकार्येऽनल्विधाविति निषेधाऽभावस्यानुपदमेवोक्तत्वात् । एवं च क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कार्ये ङीपिअनल्विधा॑विति निषेधप्रवृत्त्या स्थानिवत्त्वाऽभावेन टित्त्वोगित्त्वयोरबावान्न ङीबित्यर्थः । वस्तुतस्तुलाश्रयमनुबन्धकार्यं नादेशाना॑मित्यत्र यासुटो ङित्त्वं न ज्ञापकं, तस्य तिप्सिब्मिवर्थत्वात् । नहि लिङादेशत्वेऽपि तिप्सिब्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् , 'हलः श्नः शानज्झौ' इति सूत्रे भाष्येङिच्च पिन्न, पिच्च ङिन्ने॑ति प्रपञ्चितत्वात् । तथा श्नश्शानचः शित्त्वमपि न लिङ्गं, तत्र शित्त्वस्य भाष्ये प्रत्याख्यातत्वात् । प्रत्युत शित्त्वस्य ज्ञापकत्वेसेह्र्रपिच्चे॑ति हेरपित्त्वस्य तातङो ङित्त्वस्य च वैयथ्र्यमिति भाष्ये दूषणाभिधानाच्च । तस्माद्वक्ष्यमाणेत्यत्र ङीबेव युक्तः, टाप् त्वसाधुरेव । अजादित्वाट्टाबिति वा कथञ्चित्समाधेयमित्यास्तां तावत् ।सौपर्णेयीति । सुपण्र्या अपत्यं स्त्रीत्यर्थेस्त्रीभ्यो ढ॑गिति ढकिआयने॑यित्येयादेशः ।यस्येति चे॑तीकारलोपः,किति चे॑त्यादिवृद्धिः । सौपर्णेयशब्दान्ङीप्,यस्येति चे॑त्कारलोपः, सौपर्णेयीति रूपम् । न चनिरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषाया 'शिलाया ढः' ढश्छन्दसि॑ इत्यनयोरेव ग्रहणमिति वाच्यं, तयोः स्त्रियामप्रवृत्तेरगत्या सानुबन्धकस्य ढस्य ग्रृहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति । इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, 'सास्य देवता' इत्यमि,यस्येति चे॑त्यकारलोपः, आदिवृद्धिः । ऐन्द्रशपब्दान्ङीप्,यस्येति चे॑त्यकारलोपः । इन्द्रस्येयमिति वा विग्रहः,तस्येद॑मित्यण् । औत्सीति ।उत्सः प्रस्नवणं वारि॑ इत्यमरः । ऋषिविशेषो वा उत्सः । उत्सस्येयमिति विग्रहः ।उत्सादिभ्योऽञ् ।यस्येति ट॑ । ङीप् । उत्सस्यापत्यं स्त्री औत्सीति तु नोदाहरणम्, जातेरित्यनुवृत्तौशाङ्र्गरवाद्यञो ङी॑नित्येव सिद्धेः,गोत्रं च चरणैः सहे॑त्यपत्यप्रत्ययान्तस्य जातित्वादित्यलम् । ऊरुद्वयसी ऊरुदघ्नी ऊरुमात्रीति । ऊरू प्रमाणमस्या इति विग्रहः ।प्रमाणे द्वयसच्दघ्नञ्मात्रचः॑ । ङीप् । पञ्चतयीति । पञ्च अवयवा यस्या इति विग्रहः ।सङ्ख्याया अवयवे तयप् । ङीप् । आक्षिकीति । अक्षैर्दीव्यतीति विग्रहः ।तेन दीव्यति खनति जयति जित॑मिति ठक्, आदिवृद्धिः, 'ठस्येकः'यस्येति चे॑त्यकारलोपः । आक्षिकशब्दान्ङीप्,यस्येति च॑ । लावणिकीति । लवणं पण्यमस्या इति विग्रहः । 'लवणाट्ठञ्' ठस्येकः॑, आदिवृद्धिः,यस्येति च॑, लावणिकशब्दान्ङीप्, 'यस्येति च' ठेत्येव सिद्धे ठक्ठञोः पृथग्ग्रहणं तु ठनो ञिठस्य च व्यावृत्त्यर्थम् । दण्डोऽस्त्यस्याः दण्डिका ।अत इनिंठनौ॑ । काश्यां भवा काशिका ।काश्यादिभ्यष्ठञ्ञिठौ॑ इति ञिठः । यादृशीति । 'त्यदादिषु दृशः' इति यच्छब्दे उपपदे कञ्, 'आ सर्वनाम्नः' इति यच्छब्दस्याकारः । ङीप्,यस्येति च॑ । इत्वरीति । 'इण् गतौ'इण्नशजिसर्तिभ्यः क्वरप् ॑ ।ह्रस्वस्य पिति कृति॑ इति तुक् । इत्वरशब्दान्ङीप् ।यस्येति च॑ ।स्थेशभासे॑ति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् ।विन्यस्तमङ्गलमहौषधिरीश्वरायाः॑ इति भारविः । 'सैनमीआराप्रदह' इति वेदे । क्वरपि अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेरनुबन्धद्वयोपादानं स्पष्टार्थम् । ईआरी तु ईआरशब्दादीआरस्य स्त्रीति पुंयोग ङीष् । अथवाअस्नोतेराशुकर्मणि वरट् चे॑ति वरडन्ताट्ठित्त्वान्ङीप् । यद्वाआतो मनिन्क्वनिब्वनिपश्च॑ अन्येभ्योऽपि 'दृश्यते' इति क्वानिपि वनिपि चवनो र चे॑ति ङीब्राऔ ।ताच्छीलिके णेऽपीति । तच्छीले भवस्तच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् णप्रत्यये सति तदन्तादपि ङीब्भवतीत्यर्थः । ज्ञेपकसिद्धमेतत् । तथाहि — ॒शील॑मित्यनुवृत्तौ 'छत्रादिभ्यो णः' इति विहिते णप्रत्ययेऽण्कार्यं भवति, 'कार्मस्ताच्छील्ये' इति ज्ञापकात् । कर्म शीवमस्येति विग्रहे छत्रादित्वाण्णप्रत्यये 'नस्तद्धिते' इति टिलोपे, 'कार्म' इति भवति, नतु 'अन्' इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात्ताच्छीलिके णुप्रत्ययेऽण्कार्यं विज्ञायते । अतस्ताच्छीलिकणप्रत्ययान्तादण्कार्यं ङीब् भवतीति भावः । चौरीति । चुरा शीलमस्या इति विग्रहः । छत्रादित्वाण्णः । आदिवृद्धिः ।यस्येति च॑ । चौरशब्दान्ङीपि,यस्येति च॑ ।नञ्सन्ञ् । नञ्, स्नञ्, ईकक्, ख्युन्, तरुण, तलुन — एतेषामपि ङीब्विधिवचनं कर्तव्यमित्यर्थः । नञादयश्चत्वारः । प्रत्ययाः, अतस्तदन्तविधिः । स्त्रौणी पौंस्नीति । 'स्त्रीपुंसाभ्याम्' इति नञ्स्नञौ । तत्र स्त्रीशब्दान्नञि, आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । पुंस्शब्दात्स्नञि, आदिवृद्धिः, ङीप्,यस्येति च॑ । शाक्तीकीति । शक्तिः-आयुधविशेषः प्रहरणमस्या इति विग्रहः ।शकिंतयष्ठओरीकक् । आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । आढङ्करणीति । अनाढ आढ्यः क्रियते अनयेति विग्रहः ।आढसुभगे॑त्यादिना ख्युन् । 'युवोः' इत्यनादेशः । 'अरुर्द्विषत्' इति मुम्, णत्वम्, ङीप्,यस्येति च॑ । तरुणी तलुनीति । यद्यप्यनयोः 'वयसि प्रथमे' इत्येव ङीप्सिद्धः, तथापि गौरादिषु पाठान्ङीषि प्राप्ते इदं वचनम् । गौरादिपाठान्ङीषि स्वरे विशेष इति भावः ।", "41016": "<<यञश्च>> - यञश्च । यञ इति प्रत्ययत्वात्तदन्तग्रहणम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । स्त्रियामित्यधिकृतम् । तदाह — यञन्तादिति । यद्यपिटिड्ढाणञि॑ति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितं 'तथापि ष्फ तद्धितः' इत्युत्तरसूत्रे यञ एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति । गार्गीत्युदाहरणं वक्ष्यति । गर्गस्यापत्यं स्त्री इत्यर्थेगर्गादिभ्यो यञि॑ति यञ्, आदिवृद्धिः,यस्येति चे॑ति गकारादकारस्य लोपः । गाग्र्यशब्दान्भीपिहलस्तद्धितस्ये॑ति यकारलोपात्परत्वात्यस्येति चे॑ति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः ।", "41017": "<<प्राचां ष्फ तद्धितः>> - प्राचां ष्फ तद्धितः । 'यञ' इत्यनुवर्तते, स्त्रियामित्यदिकृतम् । 'ष्पे' ति लुप्तप्रथमाकम् । तदाह — यञ्न्तादिति ।", "41018": "<<सर्वत्र लोहितादिकतान्तेभ्यः>> - सर्वत्र लोहितादिर्गर्गाद्यन्तर्गणः । लोहित आदिर्येषामिति, कतोऽन्तो येषामिति च विग्रहः ।कतन्ते॑त्यत्र शकन्ध्वादित्वात्पररूपम् । 'यञ' इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते ।प्राचां ष्फ तद्धितः॑ इति सूत्रंप्राचां॑वर्जमनुवर्तते । सर्वत्रेति । सर्वेषु मतेष्वित्यर्थः । नित्यमिति यावत् । तदाह — लोहितादिभ्य इत्यादिना । लौहित्यायनीति । लोहितस्यापत्यं स्त्रीति विग्रहः । लोहितशब्दाद्गर्गादियञन्तात् ष्फः । ष इत्, फकारस्यायन्,यस्येति चे॑ति यकारादकारस्य लोपः, 'तद्धितः' इत्यप्यनुवृत्तेः षित्त्वान्ङीषिति भावः । कात्यायनीति । पूर्ववत्प्रक्रिया बोध्या ।", "41019": "<<कौरव्यमाण्डूकाभ्यां च>> - कौरव्यमाण्डूकाभ्यां च । आभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति । कौरव्यशब्दाट्टापो माण्डूकशब्दान्ङीषस्चापवाद इत्यर्थः ।छ कौरव्यशब्दस्य यञन्तत्वान्माण्डूकशब्दस्य अणन्तत्वाच्च 'ङीपोऽपवाद' इत्युचितमिति भ्रमं वारयितुमाह — कुर्वादिभ्य इत्यादिना । कौरव्यायणीति । कुरोरपत्यं स्त्रीति विग्रहः । 'कुर्वादिभ्यो ण्यः' इति ण्यः । णकार इत्, 'ओर्गुणः,'आदिवृद्धिः,गोत्रं च चरणैः सहे॑ति जातित्वेऽपि योपधत्वात्जातेरस्त्रीविषया॑दिति ङीषभावे टाप् प्राप्तः । तं बाधित्वा ष्फः, ष इत्, आयन्,यस्येति चे॑त्यकारलोपः । षित्त्वान्ङीष् ।यस्येति चे॑ति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः, तस्यापत्यं स्त्रीति विग्रहः ।ढक् च मण्डूका॑दित्यण्, आदिवृद्धिः, 'यस्येति च,'गोत्रं च चरणैः सहे॑ति जातित्वान्ङीष् प्राप्तः, तं बाधित्वा ष्फः, ष इत्, आयन्, 'यस्येति च,' षित्त्वान्ङीष्,यस्येति चे॑ति भावः । 'टाब्ङीपोरपवाद' इति पाठस्तु प्रामादिकः ।आसुरेरुपसङ्ख्यानमिति ।ष्फस्ये॑ति शेषः । आसुरायणीति । असुरस्यापत्यं स्त्रीति विग्रहः ।अत इञ्, आदिवृद्धिः, ष्फः, ष इत्ायन् ।यस्येति च॑ ।षित्त्वान्ङीष्,यस्येति च॑ । णत्वमिति भावः ।", "41020": "<<वयसि प्रथमे>> - वयसि प्रथमे । प्राणिनां कालकृतावस्ताविशेषो वयः । तच्च कौमारं यौवनं वार्धकं चेति त्रिधा ।पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति॥॑ इति दर्शनात् । चतुर्विधं वय इत्यन्ये ।आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति॥॑ इति दर्शनात् ।प्रथमे वयसी॑त्यनन्तरंविद्यमाना॑दिति शेषः । 'अजाद्यतष्टाप्' इत्यतोऽत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विसेष्यते । तदन्तविधिः । स्त्रियामित्यधिकृतम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । तदाह — प्रथमवयोवाचिन इत्यादिना । कुमारीति । अप्रादुर्भूतयौवनेत्यर्थः । वृद्धकुमारीति तु वृद्धायामेव कुमारीत्वारोपाद्बोध्यः ।वयस्यचरम इति । चरमम्न्त्यं वयः, तद्भिन्नमचरमं । प्रथमे इत्यपनीय अचरमे इति वक्तव्यमित्यर्थः । किमर्थमित्यत आह — वधूटी चिरण्टीति । अनयोर्द्वितीयवयोवाचित्वादप्राप्तिरिति भावः । अनयोर्द्वितीयवयसि अप्रसिद्धत्वादाह — यावनवाचिनाविति । भाष्यप्रामाण्यादिति भावः । शिशुरिति । शिशुशब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाऽभावान्न ङीबिति भावः । कन्याया नेति ।ङी॑बिति शेषः । कुत इत्यत आह — कन्यायाः कनीन चेति । नचद्विवर्षा स्त्री॑त्यादावपि ङीप् शङ्क्यः, शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमयोवाचित्वाऽभावात्, पदान्तरसमभिव्याहारप्रकरणादि अनपेक्ष्या यो वयोवाची तस्यैव विवक्षितत्वात् ।", "41021": "<<द्विगोः>> - द्विगोः ।स्त्रिया॑मिति 'अत' इति 'ङी' बिति चानुवर्तते । तदाह-अदन्तादिति । त्रिलोकीति । त्रयाणां लोकानां समाहार इति विग्रहः ।तद्धितार्थोत्तरपदसमाहारे चे॑ति द्विगुसमासः ।अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीत्वम् । त्रिलोकशब्दाट्टाबपवादो ङीप् ।यस्येति चे॑ति भावः । ननु त्रिफला त्र्यनीका इत्यत्रापि ङीप् प्राप्नोतीत्यत आह — अजादित्वात्रिफला त्र्यनीकेति ।भवती॑ति शेषः । त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे 'तद्धितार्थ' इति द्विगुः । 'अकारान्तोत्तरपदः' इति स्त्रीत्वम्, 'द्विगोः' इति ङीपं बाधित्वाऽजादित्वाट्टाबिति भावः । अनीकशब्द ऐन्द्रवायवाग्रत्वे शुकाग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः । अपरिमाण । 'द्विगोः' इति ङीबिति चानुवर्तते । प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते । तदन्तविधिः ।", "41022": "<<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> - तदाह-अपरिमाणान्तादित्यादिना । अपरिमाणान्तमुदाहरति-पञ्चभिरिति । तद्धितलुकं दर्शयति-आर्हीयष्ठक्, अध्यर्धेति लुगिति । पञ्चभिरऔः क्रीतेति विग्रहे 'तद्धितार्थ' इति द्विगुः ।आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठ॑गित्यधिकारेतेन क्रीत॑मिति ठक्,अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञाया॑मिति तस्य लुक् । अत्र 'द्विगोः' इति ङीप् न भवति, अपरिमाणान्तद्विगुत्वात् । नन्वत्रद्विगो॑रिति प्राप्तङीब्निषेधेऽपिटिड्ढाण॑ञिति ठग्निमित्तको ङीब् दुर्वारः । द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्रसङ्ख्याया अतिशदन्तायाः॑ इति कनःअध्यर्धे॑ति लुकिअपरिमाणे॑ति निषेधस्य चरितार्थत्वादिति चेत्सत्यम्,टिड्ढाण॑ञित्यत्र प्रत्यासत्त्या टिड्ढाणञादीनां यो ।ञकारस्तदन्तमिति विवक्षितम् । पञ्चाआशब्दश्चायं ठगवयवाकारान्तो न भवतीति न दोषः । नच प्रत्ययलक्षणेन ठगवयवाकारान्तत्वं शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात् । विस्तादिशब्दानां तु परिमाणविशेषवाचित्वात्अपरिमाणे॑त्यनेनाऽप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति ।सुवर्णबिस्तौ हेम्नोऽक्षे॑ इत्यमरः ।गुञ्जाः पञ्च-आद्यमाषकः । ते षोडश अक्ष इति च । गुञ्जापञ्चकं माषपरिम#आणम् । माषषोडशकमक्षपरिमाणम्, तच्च अशीतिगुञ्जात्मकम् तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णबिस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे 'तद्धितार्थ' इति द्विगुः ।सम्भवत्यवहरतिपचती॑ति ठक्, तस्य 'अध्यर्धे' ति लुक् ।द्विगो॑रिति ङीपि प्रितषिद्धे सति टापि-॒द्विबिस्ता मूषा॑ । द्विबिस्त परिमाणकहिरण्यं द्वावयतीत्यर्थः । पचिरिह द्रावणे द्रष्टव्यः । द्व्याचितेति । 'आचितो दश भाराः' इत्यमरः ।तुला स्त्रियां पलशतं भारः स्यादिंवशतिः पुमा॑निति च । द्वावाचितौ वहतीत्यर्थेआढकाचिढपात्रात्खोऽन्यतरस्याम्द्विगोष्ठं श्च॑ इति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति तस्य लुक् । अनेन 'द्विगोः' इति ङीपि निषिद्धे टापि-॒द्व्याचिता शकटी॑ । द्विकम्बल्येति । कम्बलस्य प्रकृतिभूतं द्रव्यं कम्बल्यम् ऊर्णापलशतं ।तदर्थं विकृतेः प्रकृतौ॑ इत्यर्थेकम्बलाच्च संज्ञाया॑मिति यत् । द्वाभ्यां कम्बल्याब्यां क्रीतेति विग्रहेतेन क्रीत॑मिति ठञःअध्यर्द्धे॑ति लुक्,द्विगो॑रिति ङीपि अनेन प्रतिषिध्दे टाप् । नन्वत्र ।न तद्दितलुकी॑त्येवास्तु । तावतैव पञ्चभिरऔः क्रीता पञ्चाओति सिद्धेःअपरिमाणे॑ति मास्तु । एवंच द्विबिस्ता द्व्याचिता द्विकम्बल्येत्यपि सिद्धे विस्तादिग्रहणमपि मास्त्वित्यत आह — परिमाणान्तात्त्विति ।गुञ्जाः पञ्च तु माषः स्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम्॥ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः॥॑ इति स्मृतिः । द्वावाढकौ पचतीति विग्रहेआढकाचितपात्रात्खोऽन्यतरस्यां॒॑द्विगोष्ठंश्चे॑ति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति लुक् । 'द्विगोः' इति ङीप् । द्व्याढकीति रूपम् ।न तद्धितलुकी॑त्येवावत्येवोक्तेऽत्रापि ङीपो निषेधः स्यात् । अतोऽपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्ते द्विबिस्तेत्यादौ परिमाणत्वान्ङीब्निषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति ।", "41023": "<<काण्डान्तात् क्षेत्रे>> - काण्डान्तात्क्षेत्रे । 'द्विगोः' इति,न तद्धितलुकी॑ति चानुवर्तते । तदाह — क्षेत्रे य इत्यादि । द्वे काण्डे इति । षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे प्रमाणमस्या इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे द्विकाण्डशब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्काव्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं दर्शयितुमाह-प्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्क्यम्, अलसति ह्रन्तग्रहणे क्षेत्र इत्येतत्काण्डस्यैव विशेषणं स्यात्, श्रुतत्वात् । क्षेत्रे यः काण्डशब्दस्तदन्तादिति लभ्येत एवंचद्विकाण्डा क्षेत्रभक्ति॑रित्यत्र द्विकाण्डशब्दस्यैव क्षेत्रवर्तित्वात्काण्डशब्दस्य प्रमाणवाचित्वान्ङीब्निषेधो न स्यात् । द्वाभ्यां काण्डाभ्यां= काण्डप्रमितक्षेत्राभ्यां क्रीताद्विकाण्डी बहवे॑त्यत्रैव ङीम्निषेधः स्यात् । अतोऽन्तग्रहणम् । द्विकाण्डी रज्जुरिति । पूर्ववन्मात्रचो लुकिद्विगो॑रिति ङीप् । क्षेत्रवृत्तित्वाऽभावान्न तन्निषेध इति भावः । ननुअपरिमाणे॑ति पूर्वसूत्रे परिमाणशब्देन किं परिच्छेदकमात्रं विवक्षितम्, उतऊध्र्वमान#ं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् इति वार्तिकानुसारेण परितः-सर्वत आरोहतः परिणाहतश्च येन मियते तत् परिमाणमित्याढककुडवाद्येव आयाभव्यावृत्तं विवक्षितम् । नाद्यः, तथा सति द्वौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचौ लुकि ङीब्निषेधो न स्यात् । न द्वितीयः, तथा सतिकाण्डशब्दस्यायामप्रमाणपरतयोक्तपरिमाणपरत्वाऽभावेनअपरिमाणे॑त्यनेनैवद्विकाण्डा क्षेत्रभक्ति॑रित्यत्रापि ङीब्निषेधसंभवेनकाण्डान्तात्क्षेत्र एव ङीब्निषेधः, नान्यत्रद्विकाण्डीरज्जु॑रित्यादाविति नियमार्थमित्यन्यत्र विस्तरः ।", "41024": "<<पुरुषात् प्रमाणेऽन्यतरस्याम्>> - पुरुषात् । द्विगोरिति तद्धितलुकीति ङीबिति चानुवर्तते । तदाह — प्रमाणे य इत्यादिना । प्रमाणमायामः,आयामस्तु प्रमाणं स्यात् इति वचनात् । द्वौ पुरुषाविति ।पञ्चहस्तायामः पुरुषः॑ इति शुल्वसूत्रात् । द्वौ पुरुषौ प्रमाणमस्या इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासः । प्रमाणे द्वयसज्दघ्नञ्मात्रचः॑ इति विहितस्य मात्रचःप्रमाणे लः, द्विगोर्नित्य॑मिति लुक् । अत्रोक्तरीत्या पुरुषप्रमाणस्य आयामात्मकस्यअपरिमाणे॑ति नित्यं ङीब्निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । अन्ये तुतदस्य परिमाण॑मिति ठकः ठञो वाअध्यर्धे॑ति लुक् । तत्र हि उत्तरसूत्रानुरोधात्परिमाण शब्देन परिच्छेदकमात्रं गृह्रते इत्याहुरित्यास्तां तावत् । द्विपुरुषी द्विपुरुषा वा परिखेति । तिर्यक् द्विपुरुषायतेत्यर्थः । दुर्गं परितः तत्संरक्षणार्थौ जलाशयः परिखा । अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ कुण्डोधस्शब्दः ।", "41025": "<<बहुव्रीहेरूधसो ङीष्>> - बहुव्रीहेः । 'ऊधस' इति बहुव्रीहेर्विशेषणम्, तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह — ऊधोऽन्तादिति । कुण्डोध्नीति । अनङि कृते ङीषि 'अल्लोपोऽनः' इति भावः ।ऊधस्तु क्लीबमापीन॑मित्यमरः । ङीष्विधेस्तु स्वरे विशेषः फलम् । स्त्रियां किमिति । ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति । कुण्डमिव ऊधोयस्येति विग्रहः । नपुंसकत्वस्फोरणायधैनुक॑मिति विशेष्यम् । धेनूनां समूह इत्यर्थः ।अचित्तहस्तिधेनोष्ठक् । 'इसुसुक्तान्तात्कः'आदिवृद्धिः, क्लीबत्वं लोकात् । अत्र स्त्रीत्वाऽभावान्न ङीषित्यर्थः । ननु मास्तु ङीष्, अनङ् तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौस्त्रिया॑मित्यभावादित्यत आह — तद्विधाविति । ऊधसोऽनङ्विधौस्त्रिया॑मित्युपसङ्ख्यानादित्यर्थः । बहुव्रीहेः किम् । ऊधः प्राप्तेति विग्रहेप्राप्तापन्ने च द्वितीयये॑ति समासेप्राप्तोधाः॑ ।", "41026": "<<संख्याऽव्ययादेर्ङीप्>> - सङ्ख्याव्ययादेर्ङीप् । सङ्ख्याव्ययादेरूधोऽन्तात्स्त्रियां ङीप् स्यादित्यर्थः । ङीषोऽपवाद इति ।बहुव्रीहेरूधसो ङी॑षित्यस्यापवाद इत्यर्थः । स्वरे विशेषः । सङ्ख्यादेरुदाहरति — द्व्यूध्नीति । द्वे ऊधसी यस्या इति विग्रहः । बहुव्रीहेरित्येवेति ।बहुव्रीहे॑रित्यनुवर्तते एवेत्यर्थः । ऊधोऽतिक्रान्तेति ।अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासस्य अबहुव्रीहित्वान्न ङीप् । अत एव नानङ्, नापि ङीष् ।", "41027": "<<दामहायनान्ताच्च>> - दामहायनान्ताच्च । 'सङ्ख्यादेः'ङी॑विति चानुवर्तते । तदाह — सङ्ख्यादेरिति । अव्ययग्रहणं तु नानुवर्तते, अस्वरितत्वादिति भावः । बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टार्थम् । दामान्ते इति द्विदामन्शब्दे दामान्तेडाबुभाभ्या॑मिति डापि 'अन उपधालोपिनः' इति ङीपि,अनो बहुव्रीहे॑रिति ङीप्प्रतिषेधे च-प्राप्ते, द्विहायनीत्यत्रापि हायनान्तेऽदन्तत्वाट्टापि प्राप्तेदामहायनान्ताच्चे॑ति वचनमित्यर्थः । द्विदाम्नीति । द्वे दामनी यस्या इति विग्रहः । ङीपि 'अल्लोपोऽनः' इति भावः । नन्वव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह्म अव्ययग्रहणेति । उद्दामेति । उद्दामेति । उत्क्रान्तं दाम यस्या इति विग्रहः । डाब्विषेधावपीति । अपिनाअन उपधे॑ति ङीप् गृह्रते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरति — द्विहायनी बालेति । द्वौ हायनौ यस्या इति विग्रहः ।अथ त्रिहायणीत्यत्र भिन्नपदत्वाण्णत्वाऽप्राप्तावाह — त्रिचतुभ्र्यामिति । नन्वेवमपिद्विहायना शाले॑त्यत्रापि ङीप् स्यात्,त्रिहायना शाले॑त्यत्र तु ङीप् णत्वं च स्यातामित्यत आह — वयोवाचकस्येति । इष्यते इति ।भाष्यकृते॑ति शेषः ।", "41028": "<<अन उपधालोपिनोन्यतरस्याम्>> - अथ बहवो राजानो यस्या इति बहुव्रीहौ बहुराजन्शब्दात्अनो बहुव्रीहे॑रिति ङीब्निषेधेडाबुभाभ्या॑मिति डापि च नान्तत्वमाकारान्तत्वं च प्राप्तम्, ङीबन्तत्वमपीष्यते, तदर्थमिदमारभ्यते-अन उपधा । इदं सूत्रं नात्र प्रकरणे पठितम्, किंतुदामहायनान्ताच्चे॑त्युत्तरं पठितं, प्रसङ्गादत्रोपन्यस्तम् ।बहुव्रीहेरूधसो ङी॑षित्यतो बहुव्रीहेरित्यनुवर्तते, किंतुदामहायनान्ताच्चे॑त्युत्तरं पठितं, प्रसङ्गादत्रोपन्यस्तम् ।बहुव्रीहेरूधसो ङी॑षित्यतो बहुव्रीहेरित्यनुवर्तते,संख्याव्ययादेर्ङी वित्यतो ङीबिति च । प्रातिपदिकादित्यदिकृतमन इत्यनेन विशेष्यते, तदन्तविधिः । तदाह — अन्नन्तादित्यादिना । पक्षे डाब्ङीब्निषेधाविति । कदाचिन्ङीब्निषेधः, कदाचिड्डाप्येत्यर्थः । अन्यतरस्याङ्ग्रहणस्य प्रयोजनमिदम् । अकृतेऽत्वन्यतरस्याङ्ग्रहणे बहुयज्वादिशब्दे अनुपधालोपिनि सावकाशस्यअनो बहुव्रीहे॑रिति ङीप्प्रतिषेधस्यडाबुभाभ्या॑मिति डापश्च बहुराजन्शब्दादावुपधालोपिन्यनवकाशेन ङीपा बाधः स्यात् । बहुराज्ञीति । ङीपि अल्लोपे सोर्हल्ङ्यादिलोप इति भावः । बहुराजेति । डापि ङीब्निषेधे च सौ रूपम् । बहुराज्ञ्याविति । ङीप्पक्षे औङि यण् । बह#उराजे इति । डाप्पक्षे औङि रूपम् । बहुराजानाविति ष । ङीब्निषेधे औङि रूपम् ।", "41029": "", "41030": "<<केवलमामकभागधेयपापापरसमानार्यकृत- सुमङ्गलभेषजाच्च>> - केवलमामक । नित्यं संज्ञाच्छन्दसोः॑ इति पूर्वसूत्रमनुवर्तते । एवंचअन उपधालोपिनोऽन्यतरस्या॑मित्यन्यतरस्यांग्रहणं निवृत्तम् ।सङ्ख्याव्ययादेर्ङी॑बित्यतो ङीबित्यनुवर्तते । तदाह-एभ्य इति । केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेषज-इत्येतेभ्यो नवब्य इत्यर्थः । छन्दस्युदाहरति — अथोत इन्द्रः केवलीरिति । मामकी तनू इति । मदीयायामित्यर्थः ।युष्मदस्मदोरन्यतरस्यां खञ् चे॑त्यणि 'तवकममकावेकवचने' इति प्रकृतेर्ममकादेशः, ङीप्,सुपां सुलुगि॑ति सप्तम्या लुक् ।मित्रावरुणोर्भागधेयी स्थ॑ । 'भागरूपनामभ्योधेयः' इति स्वार्थिको धेयप्रत्ययः । भागशब्दस्य पुंलिङ्गत्वेऽपिस्वार्थिकाः प्रकृतेः क्वचिल्लिङ्गवचनान्यतदिवन्र्तते॑ इति स्त्रीत्वं, ङीप् ।तन्वः सन्तु पापीः॑ । पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात्स्त्रीत्वे ङीप् ।उत वापरीभ्यो मघवा विजिग्ये॑ । अपरशब्दः पवर्गमध्यः । 'समानीव आकूतिः ।' आर्यकृतीति क्वचिद्वेदेऽन्वेषणीयम् । एवं सुमङ्गलीति च । 'सुमङ्गलीरियं वधूः' इत्यत्र 'छन्दसीवनिपौ च' इति मत्वर्थे ईप्रत्ययः ।शिवा रुद्रस्य भेषजा.॑ भेषजशब्दो रोगनिवर्तके औषधे प्रसिद्धः । अत एव सूत्र#आत्स्त्रीत्वमपि । यद्वा भिषज इयमित्यर्थेऽणि इकारस्य एकारोऽत एव निपातनात् । संज्ञायामप्येवमेव सर्वत्र ङीबुदाहार्यः ष संज्ञाच्छन्दोभ्यामन्यत्र सु केवला मामिका इत्यादि । नन्वणन्तत्वादेवटिड्ढाणञि॑ति ङीपि सिद्धे मामकग्रहणं व्यर्थमित्यत आह — मामकग्रहणमिति । लोकेऽसंज्ञायां च ङीब्निवृत्त्यर्थमिति भावः । एवं भेषजशब्दस्य अणन्तत्वेऽपि ज्ञेयम् । एतदर्थमेव वैदिकप्रक्रियायामिदं नोपन्यस्तम् ।", "41031": "", "41032": "<<अन्तर्वत्पतिवतोर्नुक्>> - अन्तर्वत्पतिवतोर्नुक् । नुक्स्यादिति । कित्त्वसामर्थ्यादयमागमः, नतु प्रत्यय इति भावः । कित्त्वादन्तावयवः । अन्तर्वत्-न, पतिवत्-न इति स्थिते आह — ऋन्नेभ्यो ङीबिति । गर्भिण्यामिति । गर्भिण्यां जीवद्भर्तृकायां च स्त्रियामन्तर्वत्पतिवदिति प्रकृतिभागौ नुक्संनियोगेन निपात्येते इत्यर्थः । वार्तिकमेतत् । कतरस्मिन् किं निपात्यत इत्यत आह — तत्रेति । तयोर्मध्य इत्यर्थः । अन्तरस्त्यस्यां गर्भ इति विग्रहेऽप्राप्तो मतुप् निपात्यत इत्यन्वयः । कथमप्राप्तिर्मतुप इत्यत आह — अन्तःशब्दस्येत्यादि, अभावादित्यन्तम् ।तदस्यास्त्यस्मिन्निति मतु॑बिति सूत्रे अस्तिसमानाधिकरणात्कर्तृकारकप्रधानप्रथमान्तान्मतुप्प्रत्ययो विहितः । यथा गौरस्यास्तीति गोमानित्यादौ । प्रकृते प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरणो, नत्वन्तश्शब्दः, तस्याधिकरणकारकप्रधान तया अस्तिसामानाधिकरण्याऽसंभवात् । अतोऽत्राऽप्राप्तो मतुब्निपात्यत इत्यर्थः । ततश्चमादुपधायाश्च मतोर्वः॑ इति मकारस्य वत्वेऽन्तर्वदिति प्रकृतिभागः संपद्यत इति भावः । वत्वमिति पतिरस्या अस्तीति विग्रहेतदस्यास्त्यस्मिन्नि॑ति मतुपो मकारस्य मादुपधात्परत्वाऽभावेन 'मादुपधायाः' इति वत्वमप्राप्तं निपात्यत इत्यर्थः । प्रत्युदाहरणं त्विति । गर्भिण्यामेव मतुब्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहवाक्यमेव, नतु मतुबित्यर्थः । पतिमती पृथिवीति । जीवद्भर्तृकायामेव वत्वनिपातनादिह वत्वाऽभाव इति भावः ।", "41033": "<<पत्युर्नो यज्ञसंयोगे>> - पत्युर्नो । पत्युरिति षष्ठी । 'न' इत्यकार उच्चारणार्थः । स्त्रियामित्यधिकृतम् । तदाह — पतिशब्दस्येति । यज्ञेनेति । यज्ञसंबन्धः=यज्ञेन सह स्वामितया संबन्धः । यज्ञफलभोक्तृत्वमिति यावत् । तदाह — तत्कर्तृकस्येति । वसिष्ठकर्तृकस्येत्यर्थः । ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्तृत्युचितं, नतु तत्स्त्र्यपि, 'स्वर्गकामः' इत्यादिपुंलिङ्गशब्दैः पुंस एवाधिकारावगमादित्यत आह — दम्पत्योः सहाधिकारादिति । एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम् । अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादेलिङ्गविशेषणिर्देशात्पुंयुक्तमैतिशायनः॑ इत्यधिकरणेस्ववतोस्तु वचनादैककम्र्यं स्यात् इत्यधिकरणे च दम्पत्योः सहाधिकारः सिद्धान्तितः । प्रपञ्चितं चैतदस्माबिरध्वरमीमांसाकुतूहलवृत्तौ ।", "41034": "<<विभाषा सपूर्वस्य>> - विभाषा सपूर्वस्य । 'पत्युर्न' इत्यनुवर्तते । प्रातिपदिकादित्यनुवृत्तं षष्टआ विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः । सपूर्वस्येत्येतत्पतिशब्दान्तप्रातिपदिकेऽन्वेति । पूर्वावयवसहितस्येत्यर्थः । तदाह — पतिशब्दान्तस्येत्यादिना । यज्ञसंयोगाऽभावेऽपि अप्राप्तविभाषेयम् । गृहपतिः गृहपत्नीति । नत्वपक्षे 'ऋन्नेभ्य' इति ङीप् । अत्र गृहपतिशब्दः पतिशब्दान्तो गृहशब्दात्मकपूर्वावयवसहितश्चेति भावः । नचग्रहणवता प्रातिपदिकेने॑ति निषेधः शङ्क्यः,शूद्रा चामहत्पूर्वा॑ इति लिङ्गेन तस्य स्त्रियामित्यधिकारेऽप्रवृत्तेरुक्तत्वात् । ननु दृढः पतिर्यस्या इति बहुव्रीहौ दृढपतिः दृढपत्नीति नत्वविकल्प इष्यते, स तु न संभवति, अनुपसर्जना॑दित्यधिकारात्, पतिशब्दस्यात्रोपसर्जनत्वात् । नच अनुपसर्जनादिति नात्र संबध्यते इति वाच्यम्, उत्तरत्रानुवृत्तये इहापि तदनुवृत्तेरावश्यकत्वादित्यत आह — अनुपसर्जनस्येत्यादि । किं तु तदन्तस्येति । सपूर्वस्येति पत्यन्तस्य श्चुतत्वेन तद्विशेषणताया एव न्याय्यत्वात् । अवान्तरवाक्यार्थबोधोत्तरमेव अनुपसर्जनत्वविशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव संबन्धे जाते सति पश्चात्पतिशब्देऽपि पुनव्र्यापारे मानाऽभावादिति भावः । तेनेति । अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वेनेत्यर्थः । यज्ञसंयोगग्रहणमनुवर्त्त्य प्राप्तविभाषो कुतो न स्यादित्यत आह — वृषलपत्नीति । पाति रक्षतीति पतिः, वृषलस्य पतिः स्त्री इति विग्रहः । अपशूद्राधिकरणे शूद्राणां यज्ञाधिकारनिराकरणादिह यज्ञसंयोगाऽभावादप्राप्तमेव नत्वं विभाष्यत इति भावः । आक्षिपति — अथेति । आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्नद्योतको वा ।मह्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अत॑ इत्यमरः । व्यस्ते इति । विग्रहवाक्ये इत्यर्थः । ततश्च सपूर्वत्वाऽडभावान्न प्रकृतसूत्रेण नत्वविकल्पः । यज्ञसंयोगाऽभावाच्च न पूर्वसूत्रेण, अकतो वूषलस्य पत्नीत्यनुपपन्नमित्याक्षेपः । इति चेन्नेति । इत्याक्षिपसि चेन्नैतद्युक्तमित्यर्थः । पत्नीवेति । यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितस्तस्यैव शूद्रस्त्रियामपि अयज्ञसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गौण्या वृत्त्या प्रयोगः । यथा गङ्गायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः । उक्तं च भाष्ये-॒तुषजकस्य पत्नीत्युपमानात्सिद्ध॑मिति । यद्वेति । प्रौढिवादमात्रमिदम्, स्त्रियामाचारक्विबन्तप्रकृतिकक्विबन्तशब्दां न सन्तीतिअनुपसर्जना॑दित्यत्रोक्तात्वेता । सपूर्वस्येति किमिति । प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वाऽव्यभिचारात्सपूर्वस्येति किमर्थमिति प्रस्नः । गवां पतिः स्त्रीति । स्वामिनी, रक्षित्री वेत्यर्थः । असमस्तत्वाद्गवामित्यस्य न पूर्वावयवत्वमिति भावः । यद्यपियत्र सङ्घाते पूर्वो भागः पदं तत्र चेत्प्रातिपदिकसंज्ञा भवति तर्हि समासस्यैवे॑ति नियमेन गवां पतिरिति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाऽभावादेवात्र नत्वविकल्पो न भवति तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्त्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थं सपूर्वस्येति वचनमिति भावः । वस्तुतस्तुव्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधादिह केवलपतिशब्दस्य पतिशब्दान्तत्वाऽभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः ।", "41035": "<<नित्यं सपत्न्यादिषु>> - नित्यं सपत्न्यादिषु । विषयसप्तम्येषा । सपत्न्यादिविषये तत्सिद्ध्यर्थं नित्यं नत्वमित्यर्थः । पूर्वविकल्पेति ।विभाषा सपूर्वस्ये॑ति विकल्पस्यापवाद इत्यर्थः । आरम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम् । ननु समानः पतिर्यस्याः सा सपत्नीति वक्षयति । तत्र समानशब्दस्य सभावोऽनुपपन्नः, अतः सदृशपर्यायेण सहशब्देनैव बहुव्रीहिराश्रयणीयः । एवं चवोपसर्जनस्ये॑ति वैकल्पिकः सभाव इत्यत आह — समानस्येति । इह गणे समान,एक, वीर, भ्रातृ, पुत्र इति समानादयः पठिताः । अतः समानशब्देनैन बहुव्रीहिकुचितः । तस्य च निपातनादेव नित्यं सभाव इति भावः । समानः पतिरिति । अत्र समानशब्द एकपर्यायः, पतिशब्दस्तु विवाहनिबन्धनभर्तृशब्दपर्यायः । वीरपत्नीति । वीरः पतिर्यस्या इति विग्रहः । सपत्न्यादित्वान्नत्वम् ।", "41036": "<<पूतक्रतोरै च>> - पूतक्रतोरै च । 'ऐ' इति लुप्तप्रथमाकम् । पूतक्रतुशब्दात्स्त्रियां ङीप्स्यात्, प्रकृतेरैकारोऽन्तादेशश्चेत्यर्थः ।इयं त्रिसूत्रीति । वार्तिकमिदम् । पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात्स्त्रियां वृत्तावेवेत्यर्थः । पूतक्रतायीति । पूतः क्रतुर्येन स पूतक्रतुः, तस्य स्त्रीत्यर्थे ङीप्, तकारादुकारस्य ऐकारः , तस्य आयादेश इति भावः । पुंयोग इत्यस्य प्रयोजनमाह — ययेति । वृषाकप्यग्नि ।ऐ चे॑त्यनुवर्तते । तदाह — एषामिति ।", "41037": "<<वृषाकप्यग्निकुसितकुसीदानामुदात्तः>> - वृषाकपायीति । ङीप्, प्रकृतेरुदात्त ऐकारोऽन्तादेशः, तस्य आयादेशः, तस्य एकारस्थानिकत्वात्तदाकारोऽप्युदात्तः,अनुदात्तं पदमेकवर्ज॑मित्यवशिष्टानामचामनुदात्तत्वम् । उदात्त इति किम् ।लघावन्ते द्वयोश्च वह्वषो गुरुः॑ इति वृषाकपिशब्दो मध्योदात्तः,नाहमिन्द्राणि रारण सख्युर्वृषाकपेः॑ इति यथा । अन्ते एकस्मिन् लघौ सति द्वयोर्वा लध्वोः सतोः पूर्वो बह्वच्कस्य गुरुरुदात्तः स्यादिति तदर्थः । ततश्च षकारादाकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्जमित्यवशिष्टानामचामनुदात्तत्वमिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात्तत्स्थाने एकारोऽनुदात्तः स्यात् । ततस्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽत्र उदात्तत्वविधिः । ग्नायीति । 'अग्निर्मूर्धा' इत्यादौ अग्निशब्दोऽन्तोदात्तः, ततो ङीप्, प्रकृतेरैकारोऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशाऽऽयादेशाकारस्य उदात्तत्वसिद्धेरुदात्त इत्येतदग्निशब्दे अन्वयं न लभते, प्रयोजनाऽभावात् । कुसितायी कुसिदायीति । कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिट्स्वरेणान्तोदात्ते । ततो ङीप् ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम् । अत एवाह — न तु दीर्घमध्य इति । दीर्घमध्यत्वे हि 'लघावन्ते' इति मध्योदात्ततया शिष्टस्वरेण दकारादकारस्यानुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने आयाकारस्यानुदात्तत्वापत्त्या तन्निवृत्त्यर्थं तत्राप्युदात्तग्रहणस्यावश्यकत्वादुदाहृतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः ।", "41038": "<<मनोरौ वा>> - मनोरौ वा । ऐ चेति, उदात्त इति, ङीबिति चानुवर्तते । तदाह — मनुशब्दस्येति । उदात्तैकारश्च वेति । औकारः, उदात्त एकारश्च वा स्यादित्यर्थः । 'उदात्तैकार' इति समासनिर्देशादुदात्त इत्यौकारेण न संबध्यत इति सूचितम्, एतच्च वृत्तिपदमञ्जर्योः स्पष्टम् । चकारान्ङीप् एकारौकाराभ्यां समुच्चीयते । तदाह — ताभ्यामिति । एकारौकाराभ्यां समुच्चयेनैव विहित इत्यर्थः । ततश्च तदुभयाऽभावपक्षे ङीबपि नेति लभ्यते,संनियोगशिष्टानां सह वा प्रवृत्तिः॑ सह वा निवृत्तिः॑ इति परिभाषावशादिति भावः । इयं तु परिभाषापूतक्रतोरै चे॑ति सूत्रभाष्ये स्थिता । मनायीति ।यद्वै किं च मनुरवद॑दित्यादौ मनुशब्दः 'ञ्नित्यादिनित्यम्' इत्याद्युदात्तः । 'धान्ये नित्' इत्यतो निदित्यनुवृत्तौशृस्वृस्निही॑त्यादिना मनेरुप्रत्ययविधेः । ततश्च सिष्टस्वरेण नकारादुकारोऽनुदात्तः । तस्य स्थाने उदात्त ऐकारः, तस्यायादेशो ङीप् चेति भावः । मनावीति । अत्रौकारोऽनुदात्त एव । मनुरिति । ऐकारस्य औकारस्य चाऽभावे तत्संनियोगशिष्टो ङीबपि नेत्युक्तमेव ।", "41039": "<<वर्णादनुदात्तात्तोपधात्तो नः>> - वर्णादनु । वेति ङीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणं, तदन्तविधिः तोपदादित्यपि वर्णादित्यत्रान्वेति, तकार उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः ।वर्णा॑दित्यस्यस्वं रूपं शब्दस्ये॑ति वर्णशब्दादिति नार्थः, तोपधत्वाऽसंभवात् । किं तु वर्णवाचिनः शब्दादित्यर्थो विवक्षितः । वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेषणम्, तदन्तविधिः । 'त' इति षष्ठी, तकारस्येत्यर्थः । 'न' इत्यत्र नकारादकार उच्चारणार्थः । नकार इत्यर्थः । तदाह — वर्णवाचीत्यादिना । तदन्तादनुपसर्जनादिति । अनुपसर्जनादित्यनुवृत्तं वर्णान्तेऽन्वेति, नतु वर्णादित्यत्रेति भावः । एनी एतेति । ओतेत्यर्थः । एतशब्दान्ङीप्, तकारस्य नकारश्च । ङीबभावे टाबेव । नत्वं तु न भवति, ङीपा संनियोगशिष्टत्वात् । एतशब्दः ओतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरूद्रदत्तभृतयो याज्ञिकाः । रोहिणी रोहितेति । रोहितशब्दो रक्तवर्णपर्यायः । ङीपि णत्वे-रोहिणीति । तदभावे टाप् । अनुदात्तान्तत्वं गमयितुमाह — वर्णानामिति । तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, त् इत्यन्तानां आदिरुदात्त इत्यर्थः । एतः, शोण, श#इतिः , पृश्निः, पृषत् इति क्मेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य, रोहितशब्दे ओकारस्य चोदात्तत्वेअनुदात्तं पदमेकवर्जम् इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्वादन्तानुदात्तत्वमित्यर्थः । ननुअनुपसर्जना॑दित्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तं, नतु तदन्तविधिलभ्यवर्णान्तविशेषणत्वमित्यत आह — त्र्येण्येति । त्रीणि एतानि ओतानि अवयवसंस्थानानि यस्या इति बहुव्रीहौ त्र्येतशब्दः । तत्र एतशब्दस्य वर्णवाचिन उपसर्जनत्वान्ङीब्नत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्र्येतशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । शलल्येति । शल्यकाख्यामृगविशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्रमिति । गृह्यन्ते संगृह्यन्ते औपासनाग्निसाध्यकर्णाण्यत्रेति व्युत्पत्त्या आपस्तम्बाआलायनादिप्रणीतकल्पसूत्रविशेष उच्यते । त्र्येण्येति णत्वनमार्षम् । यजुर्वेदे तुत्रि एण्या शलल्या निवर्तयेते॑ति पठितम् । तत्र त्रीणि एतानि ओतानि यस्या इति विग्रहः । यणभावो णत्वं च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु 'वर्णानां तणति' इति ओतशब्दस्याद्युदात्तत्वाच्छिष्टस्वरेणानुदात्तान्तत्वमेवेत्यत आह — घृतादीनाभिति । अत इत्येवेति ।अजाद्यतष्टा॑वित्यस्मादत इत्यनुवर्तते एवेत्यर्थः । शितिः स्त्रीति । 'शिती धवलमेचक्तौ' इत्यमरः । पिशङ्गीति । 'लघावन्ते' इति पिशङ्गशब्दस्य मध्योदात्ततया शिष्टस्वरेणानुदात्तान्तत्वेऽपि तोपधत्वाभावादप्राप्तो ङीबुपसङ्ख्यायते ।अन्यतो ङी॑षिति वक्ष्यमाणङीषोऽपवादः । स्वरे विशेषः ।असितेति । वार्तिकमेतत् । असितशब्दस्य कृष्णवाचकतया पलितशब्दस्य स्वेतवाचकतया चवर्णादनुदात्ता॑दिति प्राप्ते ङीब्नत्वे निषिध्येते । छन्दसि क्नमेके इति । इदमपि वार्तिकम् । असितपलितयोस्तकारस्य ङीप्संनियोगेन क्नादेशमन्ये आचार्या इच्छन्तीत्यर्थः । असिक्नीति । असितशब्दान्ङीप्, तकारस्य क्नादेशे पररूपेयस्येति चे॑त्यकारलोपः । क्न् इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्नीत्यपि ।पलितं जरसा शौक्ल्य॑मित्यमरः । ननु 'अवदातः सितो गौरः' इति कोशादवदातशब्दस्य वर्णवाचित्वा॒ल्लघावन्ते॑ इति मध्योदात्ततयाऽनुदात्तान्तत्वात्तोपधत्वाच्चवर्णादनुदात्ता॑दिति ङीब्नत्वे स्यातामित्यत आह — अवदातशब्दस्त्विति ।अवदातः सिते पीते शुद्धे॑ इति कोशात् 'दैप् शोधने' इत्यस्मात्तप्रत्ययेऽवदातशब्दस्य व्युत्पत्तेश्चेति भावः । एतच्चपुंयोगादाख्याया॑मिति सूत्रे भाष्ये स्पष्टम् । 'अवदातः सितो गौरः' इति कोशस्तु शुद्धत्वसाधम्र्याद्बोध्यः ।", "41040": "<<अन्यतो ङीष्>> - अन्यतो ङीष् । पञ्चम्यास्तसिः । वर्णादिति, अनुदात्तादिति, तोपधादिति चानुवर्तते । तत्र कस्मादन्यत इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति — तोपधापेक्षया अन्यत इति । तदाह — तोपधभिन्नादिति । कल्माषीति । चित्रवर्णेत्यर्थः ।चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे॑ इत्यमरः । सारङ्गीति । सारङ्गः शबले त्रिषु॑ इत्यमरः । 'फिषोऽन्त उदात्तः' इत्यन्तोदात्तत्वशङ्कां व्युदस्यति — लघाविति । एतत्सूत्रंवृषाकपी॑ति सूत्रव्याख्यावसरे व्याख्यातम् । कृष्णा कपिलेति । फिट्स्वरेणान्तोदात्ताविमाविति भावः ।", "41041": "<<षिद्गौरादिभ्यश्च>> - षिद्गौरादिभ्यश्च । ष् इत् येषां ते षितः, गौर आदिर्येषां ते गौराभ्यः, षितश्च गौरादयश्चेति द्वन्द्वः । नर्तकीति ।नृती गात्रविक्षेपे॑ 'शिल्पिनि ष्वुन्' 'षः प्रत्ययस्य' इति षकार इत्,हलन्त्य॑मिति नकारश्च इत्, 'युवोरनाकौ' इति अकादेशः, लघूपधगुणः, रपरत्वम् । नर्तकशब्दात्ङीष्, टापोऽपवादः,यस्येति चे॑त्यकारलोप इति भावः । गौरीति । ओतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् । 'अन्यतो ङीष्' इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वाऽयम् ।उमा कात्ययनी गौरी॑त्यमरः ।दशवर्षा भवेद्गौरी॑ति स्मृतिः ।अनडुही अनड्वाहीति । अनडुहः स्त्रीत्यर्थः । अनो वहतीति यौगिको वा । गौरादिगणे निपातनादेव ङीपि आम्बिकल्पः । एवं चअनुडुहः स्त्रियामाम् वेचि वक्तव्य॑मिति न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र-गौर मत्स्य म मनुष्य, शृङ्ग, गवयं, हय, मुकय, गौतम, अनड्वाही, अनडुही, तरुण, तलुन आन्-इति पठित्वापिप्पल्यादयश्चे॑त्युक्त्वा-पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम् । पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वान्ङीषोऽप्राप्तेरिह पाठः । आन्शब्दस्य तु॒ऋन्नेभ्यः॑ इति ङीपि प्राप्ते ङीषर्थ इह पाठः । स्वरे विशेषः । आकृतिगणोऽयमिति । गौरादिरित्यर्थः । पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् ।", "41042": "<<जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक- कबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य- वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु>> - जानपद । जानपदेत्यादि कबरादित्यन्तमेकं पदम् । समाहारद्वन्द्वात्पञ्चमी । जानपदीति । जनपदे भवेत्यर्थः । वृत्तिश्चेदिति । जीविका गम्या चेदित्यर्थः । ननूत्सादित्वादञि ङीपैव सिद्धे ङीष्विधिव्र्यर्थ इत्यत आह — उत्सादित्वादिति ।अनुदात्तौ सुप्पितौ॑ इति ङीप्याद्युदात्तत्वम् । ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वमिति भेद इत्यर्थः । कुण्डीति । पिठरं स्थाल्युखा कुण्डम् इत्यमरः ।पात्राऽमत्रे च भाजन॑मिति च कुण्डशब्दस्य स्त्रीत्वमपि ङीष्विधिसामर्थ्यात् ।पिठरे तु न ना कुण्ड॑मिति विआः । कुण्डाऽन्येति । दहनीयेत्यर्थः । तदेव विशदयति-कुडि दाहे इति । गुरोश्चेति । गुरुमतो हलन्ताद्धातोरप्रत्ययः स्याद्भावकर्णणोः स्त्रियामिति तदर्थः । ननुअमृते जारजः कुण्डो मृते भर्तरि गोलकः॑ इति मनुष्यजातिविशेषवाची कुण्डशब्दोऽपि प्रत्युदाहरणं किं न स्यादित्यत आह — यस्त्विति । जातिलक्षण इति । जातेरस्त्रीविषया॑दिति जातिनिमित्तर इत्यर्थः । नन्वमत्रेऽपि वाच्ये कुण्डशब्दाज्जातिलक्षणङीषि सिद्धे तद्वचनं व्यर्थम् । नच अमत्र एव ङीषिति नियमार्थं तदिति वाच्यम्, एवं सति मनुष्यजातिविशेषवाचित्वे ङीषोऽनुत्पत्तेरित्यत आह — अमत्रे हीति ।जातेरस्त्रीविषया॑दित्यनित्यस्त्रीलिङ्गान्ङीष् विहितः । अमत्रे कुण्डशब्दो नित्यस्त्रीलिङ्गः,पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्व॑मिति स्वीकारात् ।कुण्डी कमण्डलौ जारात्पतिपत्नीसुते पुमान् इति मेदिनीकोशाच्च । तथाच कुण्डशब्दाज्जातिलणङीषप्राप्त #एव विधीयते, नतु नियम्यते । अतो मनुष्यजातिवाचित्वेऽपि ङीष् निर्बाध इति भावः । आवपनं चेदिति । ओप्यते निक्षिप्यते अस्मिन्नित्यर्थे आङ्पूर्वाद्वपेर्ल्युट् । गोणाऽन्येति । कस्याश्चिदिदं नाम । अकृत्रिमा चेदिति । इदामीन्तनपुरुषपरिष्कृता भूमिः कृत्रिमा, तद्भिन्नेत्यर्थः । स्थलाऽन्येति । कृत्रिमेत्यर्थः ।स्थलयोदकं परिगृह्णन्ति॑ इति यजुर्वेदे । भाजीति । भज्यते सेव्यते इति कर्मणि घञ् । 'घञजबन्ताः पुंसि' इति तु प्रायिकम् । श्राणा चेदिति ।यवागूरुष्णिका श्राणा॑ इत्यमरः । भूजाऽन्येति । अश्राणेत्यर्थ #ः ।श्रा पाके॑क्तः ।संयोगादेरातो धातोर्यण्वतः॑ इति निष्ठानत्वम्, णत्वं च । पक्तेत्यर्थः । नागशब्दस्य स्थौल्ये क्वाप्यप्रसिद्धेराह — गजवाचीति । वर्णश्चेदिति । वर्णः प्रवृत्तिनिमित्तं चेदित्यर्थः । वर्णविशिष्टा चेदिति यावत् । अन्यथा कालशब्दस्यगुणे शुक्लादयः पुंसि॑ इति पुंस्त्वापात्तात् । सूत्रे वर्णा इति च्छेदः । अर्शाअद्यजन्तट्टाप् । कालाऽन्येति । क्रौर्ययुक्तेत्यर्थः । संज्ञाशब्दो वा । अनाच्छादनं चेदिति । वस्त्रभिन्नं गवादिकमित्यर्थः । नीलाऽन्येति । नन्वत्राच्छादनस्य विशेष्यत्वे स्त्रीत्वानुपपत्तिः । पटीत्यस्य विशेष्यत्वेऽपि नीलवर्णवती पटीत्यर्थे ङीषोऽप्रसक्तिरेव,नीलादोषधौ, प्राणिनि चे॑ति नियमस्य वक्ष्यमाणत्वादित्यत आह — नील्यारक्तेति । नील्या ओषध्या रागविशेषं प्राप्तेत्यर्थः । ननु कथमयमर्थो लभ्यत इत्यत आह — नील्या अनिति ।तेन रक्तं रागा॑दित्यत्रेदं वार्तिकम् । नीलीशब्दादन्प्रत्यये सतियस्येति चे॑ति लोपे नीलशब्दः, तस्य नीलीरक्तवाचकस्य विशेषणांशे ओषधिवाचकत्वसत्त्वात्नीलादोषधौ प्राणिनि चे॑ति नियमे सत्यपि ङीषः प्राप्तेस्तन्निवृत्त्यर्थमनाच्छदानाग्रहणमिति भावः । ननु नीला कुण्डीत्यत्रापि अनाच्छादनत्वान्ङीष् स्यादित्याशङ्क्य आह — अनाच्छादनेऽपीति ।नीवादोषधौ प्राणिनि चे॑ति वार्तिकमेतत् । नीलादनाच्छादनेऽपि भवन्ङीष् ओषधौ प्राणिनि चैव स्यात्, न त्वन्यत्रेत्यर्थः । एवं च नीला कुण्डीत्यादौ न ङीषिति भावः । 'संज्ञायां वा' इत्यपि वार्तिकम् । संज्ञायामुक्त विषये तदन्यत्रापि ङीष् वा स्यादित्यर्थः । अयोविकारश्चेदिति । फाला इति प्रसिद्धः । कुशाऽन्येति छन्दोगसूत्रेप्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य खदिरस्य दीर्घसूत्रेष्वेके प्रादेशमात्रीः कुशपृष्ठास्त्वक्तस्समाभज्जते॑ इति प्रसिद्धा । कामुकीति । कामयितुं शीलमस्या इति विग्रहेलषपते॑त्यादिना कमेरुकञ् । मैथुनेच्छावती चेदित्यर्थः । अर्शाअद्यजन्ताट्टाप् । कामुकान्येति । धनादीच्छावतीत्यर्थः ।", "41043": "<<शोणात् प्राचाम्>> - शोणात्प्राचाम् ।रोहितो लोहितो रक्तः शोणः कोकनदच्छविः॑ इत्यमरः ।वर्णानां तणतिनितान्ताना॑मिति शोणशब्द आद्युदात्तोऽनुदात्तान्तः ।अन्यतो ङी॑षिति नित्यं ङीषि प्राप्ते विकल्पार्थमिदम् ।", "41044": "<<वोतो गुणवचनात्>> - वोतो गुणवचनात् । प्रातिपदिकादित्यनुवृत्तम् । वा उत इतिच्छेदः । उता गुणवचनस्य प्रातिपदिकस्य विशेषणात्तदन्तविधिः । तदाह — उदन्तादिति । वा ङीबिति । ङीषिति नात्रानुवर्तते ।गुणवचनान्ङीबाद्युदात्तार्थः॑ इति वार्तिकादिति भावः । मृद्वीति । मृदुशब्दान्ङीपि यण् । अत्र-॒सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः॑ इति भाष्ये गुणलक्षणमुक्तम् । सत्त्वं द्रव्यं समवायिकारणं, तत्रैव निविशते समवैति यः स गुण इत्यन्वयः । द्रव्यमात्रसमवेत इति यावत् । मात्रपदात्सत्ताजातिव्र्यवच्छिद्यते, तस्या द्रव्यगुणक्रियावृत्तित्वात् । अथ द्रव्यत्वेऽतिव्याप्तिवारणाय आह — अपैतीति । कतिपयद्रव्येभ्योऽपगच्छतीत्यर्थः । द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वान्नातिव्याप्तिरिति भावः । एवमपि क्रियायामतिव्याप्तिवारणाय आह — आधेयश्चाक्रियाजश्चेति । आधीयते उत्पाद्यते इत्याधेयः=उत्पाद्यः, अक्रियाजः=अनुत्पाद्यः । उत्पाद्यत्वाऽनुत्पाद्यत्वाभ्यां द्विविध इति यावत् । गुणोनित्याऽनित्यभेदेन द्विविधो भवति । नित्यगतानां गुणानां नित्यत्वात्, अनित्यगतानामनित्यत्वात् । क्रियायास्तु सर्वस्या अप्युत्प#आद्यत्वान्नातिव्याप्तिरिति भावः । एवमपि द्रव्येऽतिव्याप्तिः, तस्य अवयवद्रव्यसमवेतत्वादसमवायिकारणसंयोगनाशे ततोऽपायात्, विजातीयपार्थिवाद्यवयवेषु सत्त्वात्, नित्याऽनित्यभेदसत्त्वाच्च । त आह — असत्त्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः । द्रव्यभिन्न इति यावत् । त्र मात्रपदेन सत्ताजातेः, अपैतीत्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासत्ताद्भिन्नत्वमिति लब्धम् ।आधेयश्चाक्रियाजश्चे॑त्यनेन क्रियानिरासात्क्रियाभिन्नत्वं लब्धम् । असत्वप्रकृतीरित्यनेन द्रव्यस्य निरासाद्द्रव्यभिन्नत्वं लब्धम् । तथाच जातिभिन्नत्वे सति क्रियाभिन्नत्वे सति द्रव्यभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं वेदितव्यम् । समवेतत्वाऽभावादभावनिरासः । अत्रनित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव॑ इति तार्किकाभिमतविशेषपदार्थाङ्गीकारे तद्भिन्नत्वमपि निवेश्यम् । 'आकडारादेक संज्ञा' इति सूत्रभाष्ये तुसमासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंज्ञं भवती॑त्युक्तम् । तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्यास्योक्तस्य प्रपञ्चनपरं वेदितव्यम् । परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्युपात्तम् । तदप्युक्तलक्षणे निवेश्यम् । न चैवमपि मृदुपट्वादिशब्दानां गुणविशिष्टद्रव्यवाचित्वाद्गुणवचनत्वाऽभाव इति वाच्यं, गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनद्रव्यवाचित्वस्यैव विवक्षितत्वात् । एवं च रूपशब्दस्य न गुणवचनता तस्य प्राधान्येन रूपवाचितया रूपवति प्रयोगाऽभावात् । रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणेगुणवचनेभ्यो मतुपो लुगिष्टः॑ इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ 'रूपो घटः' इत्यादिप्रयोगापत्तेः । प्रपञ्चितं चैदरूणाधिकरणेऽस्माभिरध्वरमीमांसाकुतूहलवृत्तौ । शुचिरिति । शुक्लेत्यर्थः ।शुक्लशुभ्रशुचिओतविशदश्येतपाण्डराः॑ इत्यमरः । नच शुचिधातोःइगुपधात् कि॑दित्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आकडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र ङीष् न भविष्यतीति वाच्यम्, उणादीनामव्युत्पत्तिपक्षाश्रयणात् । आखुरिति । मूषिकेत्यर्थः । आखोस्तु जातिविशिष्टद्रव्यवचनत्वादुक्तगुणवचनत्वाऽभावान्न ङीप् ।खरुसंयोगापधान्ने॑ति वार्तिकम् । खरुश्च संयोगापधश्चेति समाहारद्वन्द्वः । खरुशब्दात् संयोगोपधाञ्चवोतो गुणवचनादि॑ति ङीप् नेत्यर्थः । खरुशब्दमप्रसिद्धत्वाद्व्याचष्टे — पतिंवरा कन्येति । पतिलाभोत्कण्ठावतीत्यर्थः । औत्कण्ठलक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः । पाण्डुरिति । ओतेत्यर्थः । संयोगोपधत्वान्न ङीप् ।", "41045": "<<बह्वादिभ्यश्च>> - बह्वादिभ्यश्च । गुणवचनत्वादेव सिद्धे बहुग्रहणं व्यर्थमेवेति प्राञ्चः । वस्तुतस्तु अनुपदोदाहृताकडारसूत्रभाष्यरीत्या सङ्ख्याशब्दानां गुणवचनत्वाऽभावादप्राप्तस्य ङीषो विधानार्तं बहुग्रहणमित्याहुः । बह्वी बहुरिति । वैपुल्यवाची बहुशब्दोऽयम् । त्रित्वादिशमनियतसङ्ख्याविशेषवाचित्वे तु एकवचनानुपपत्तेः । वैपुल्यवाचित्वेऽपिबहुगणवतुडति सङ्ख्या॑ इति सङ्ख्याशब्दत्वान्न गुणवचनत्वमिति न वैयथ्र्यमिति भावः । 'कृदिकारादक्तिनः' इति बह्वाद्यन्तर्गणसूत्रम् । कृतो यैकारस्तदन्तात्प्रातिपदिकात् ङीष् वा स्यात्, न तु क्तिन्नान्तादित्यर्थः । रात्रिः रात्रीति । 'राशदिभ्यां त्रिप्' इति राधातोरौणादि कस्त्रिप् । गुणवचनत्वाऽभावात्, उदन्तत्वाऽभावाच्चाऽप्राप्ते वचनम् ।सर्वतोऽन्नर्थादित्येके॑ इत्यपि बह्वाद्यन्तर्गणसूत्रमेव । कृदिकारान्तादृकृदिकारान्तादपि ङीष् वा स्यात्, नतु क्तिन्नर्थकप्रत्ययान्तादित्यर्थः । शकटिः शकटीति । शकटिशब्दस्य अव्युत्पन्नप्रातिपदिकत्वात् कृदन्तत्वाऽभावात् 'सर्वत' इति वचनम् । अव्युत्पतिपक्षे रात्रिशब्दोऽप्युदाहरणं बोध्यम् । अजननिरिति ।स्त्रियां क्तिन्नि॑त्यधिकारे 'आक्रोशे नञ्यनिः' इति नञि उपपदे जनेरनिप्रत्ययः । 'अक्तिन' इत्यक्तौ अत्र निषेधो न स्यादतोऽक्तिन्नर्थादित्युक्तिरिति भावः । ननु हनधातोः स्त्रियां कर्मणि क्तिनिअनुदात्तोपदेशे॑त्यादिना नलोपे हतिशब्दः, तस्य क्तिन्नन्तत्वात्कथं पद्धतिशब्दान्ङीषित्यत आह — क्तिन्नन्तत्वादिति । गणे इति । बह्वादिगण इत्यर्थः । ननु पादाभ्यां हतिरिति विग्रहेकर्तृकरणे कृता बहुल॑ शब्दस्य ग्रहणात्, भत्वाऽभावाच्च ।पादस्य पदाज्यातिगोपहतेषु॑ इत्यपि न संभवति, तस्य आज्यादिष्वेव परेषु प्रवृत्तेरित्यत आह — हिमकाषीति । हिमादिषु परेषु पादशब्दस्य पदादेशः स्यादिति तदर्थः ।", "41046": "", "41047": "", "41048": "<<पुंयोगादाख्यायाम्>> - पुंयोगात् । पुंयोगादिति हेतौ पञ्चमी । आख्यायामिति पञ्चम्याः सप्तम्यादेशः,सुपां स्थाने सुपो भवन्तीति वक्तव्य॑मित्युक्तेः । आख्येत्यनेन वाचकः शब्दो विवक्षितः, कस्य वाचक इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात्पुंस इति लभ्यते । तथाच आख्यायामित्यनेन पुंसि प्रसिद्धाच्छब्दादिति लभ्यते । पुंयोगादिति स्त्रियामित्यत्रान्वेति । तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते । तदा — या पुमाख्येत्यादिना । ङीषिति । 'अन्यतो ङीष्' इत्यतस्त दनुवृत्तेरिति भावः ।वोतो गुणवचना॑दिति पूर्वसूत्रे तुगुणवचनान्ङीबाद्युदात्तार्थः॑ इति वार्तिकान्ङीप् लब्ध इति न तत्राऽस्यानुवृत्तिः । गोपस्य स्त्रीति । गाः पातीति गोपः,आतोऽनुपसर्गे कः॑ । तज्जायायां तु गोरक्षणाऽभावेऽपि तद्भार्यात्वात्तद्व्यपदेशः । ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वान्ङीषियस्येति चे॑त्यकारलोप इति भावः । हरेः स्त्री, शम्भोः स्त्रीत्यादौ न ङीष्, स्त्रीप्रत्ययविधिप्रकरणेऽत इत्यनुवृत्तेः । या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा । तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः । नच गोपस्य माता आश्रूः मातुलानी वा गौपीति स्यादिति वाच्यम्,अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छब्दमपी॑ति बाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात् । दुहितरि कैकयी देवकीत्यादयस्तु गौरादौ पाठआ इति शब्देन्दुशेखरे स्थितम् । आख्याग्रहणं किम् । प्रसूता । अयं हि शब्दो जातप्रसवामाहा । स च प्रसवः पुंयोगनिमित्तकः, तन्निमित्ता चास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न ङीष् । अत्रगोपालकादीनां प्रतिषेधः॑ इति वार्तिकम् । अत्र आदिपदेन अआपालिकेत्यादयः पालकान्ता एव गृह्यन्ते, भाष्ये तेषामेवोदाहरणात् । तदाह — पालकान्तान्नेति ।पुंयोगलक्षण ङी॑षिति शेषः । गोपालिकेति । गोपालकस्य स्त्रीत्यर्थः । ननु पालयतीति पालकः, कर्तरि ण्वुल्, 'युवोरनाकौ' इत्यकादेशः । 'णेरनिटि' इति णिलोपः । गवां पालक इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः । तत्र किं शेषे षष्ठी, उत 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । न तावदाद्यः, प्रत्ययलक्षणमाश्रित्य टापः समासावयवात् पालकशब्दादुत्पन्नसुपः परत्वेन असुप इति निषेधात्प्रत्ययस्था॑दिति इत्त्वानुपपत्तेः । नचाऽस्तु कर्मणि षष्ठीत#इ द्वितीयः पक्षः,गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्वपत्तेः॑ इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठ्याः समासे सति समासदुत्पन्नस्य टापः सुपः परत्वाऽभावेन इत्त्वस्य निर्बाधत्वादिति वाच्यं,तृजकाभ्यां कर्तरी॑ति कारकषष्ठ्याः समासनिषेधादिति चेत्, मैवम् — गाः पालयतीति गोपालः । कर्मण्यण् । उपपदसमासः । गोपाल एव गोपालकः, स्वार्थिकः कः । तद्धितावयवत्त्वात्सुब्लुक् । गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्याश्रयणात् । नह्यत्र टाप् सुपः परः, केन व्यवधानात् । अस्तु वा शेषषष्ठआ समासः, एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ठआ समासप्रवृत्तेः । अत एव प्रकृतसूत्रेउपपदमतिङि॑ति सूत्रे च भाष्ये कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषषष्ठआ समास उपन्यस्तः सङ्गच्छत इति शब्देन्दुशेखरे प्रपञ्चितम् ।सूर्याद्देवतायामिति । देवताभूतायां स्त्र पुंयोगाद्वर्तमानात्सूर्यशब्दाच्चाप् वक्तव्य इत्यर्थः ।गुयोगा॑दिति ङीषोऽपवादः । चपावितौ । सूर्येति । चापि सवर्णदीर्घः । देवतायां किमिति । सूर्यस्त्रियां देवतात्वाऽव्यभिचारात् प्रश्नः । सूरी कुन्तीति । ङीषिसूर्यतिष्ये॑ति यकारलोपः,यस्येति चे॑त्यकारलोपः । मानुषीयमिति । इयं कुन्ती मानुषी, न तु देवतेत्यर्थः । एतच्च महाभारतादौ स्पष्टम् । नचसूर्याद्देवतायां ने॑त्येवोच्यतां, ङीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यं, टापि हि सति पित्त्वादनुदात्तत्वम्अनुदात्तौ सुप्पित्तौ॑ इत्युक्तेः । चापि तु 'चितः' इत्यन्तोदात्तत्वमिति भेदः ।", "41049": "<<इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन- मातुलाचार्याणामानुक्>> - इन्द्रवरूण । आनुगागम इति । कित्त्वादागमलिङ्गादिति भावः । ङीष् चेति । 'अन्यतो ङीष' इत्यतस्तदनुवृत्तेरिति भावः । पुंयोग एवेष्यते इति । पुंयोगादित्यनुवृत्तेः, तेषां स्त्रीत्वे पुंयोगं विनाऽप्रवृत्तेश्चेति भावः । नन्वेवं पुंयोगादित्येव सिद्धे ङीष्विधिव्र्यर्थ इत्यत आह — तत्रेति । तत्र इन्द्रादिषु षट्सुमातुलाचार्ययोश्च पुंयोगादित्येव ङीषि सिद्धे तत्संनियोगेन आनुगागममात्रं विधीयत इत्यर्थः । इतरेषामिति । हामारण्ययवयवनानां तु आनुक् ङीष् चेत्युभयं विधीयते, तत्र पुंयोगस्याऽसंभवादिति भावः । इन्द्राणीति । आनुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः, सवर्णदीर्घः, णत्वमिति भावः । वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानीत्युदाहरणानि सुगमत्वादुपेक्षितानि । दीर्घोच्चारणं विना अनुग्विधौ तु पररूपापत्तिः, अकारोच्चारणस्य अल्लोपनिवृत्त्य चरितार्थत्वात् । नुग्विधौ तु अल्लोपापत्तिरित्यन्यत्र विस्तरः ।हिमारण्योर्महत्त्वे — इति वार्तिकम् । महत्त्वविशिष्टे हिमे अरण्ये च वर्तमानयोरानुङ्ङीषावित्यर्थः । महद्धिमं हिमानीति । महत्त्वयोगे स्त्रीत्वमत एव ज्ञेयम् । अरण्यानीति । महदरण्यमित्यर्थः ।यवाद्दोषे — इति वार्तिकम् ।आनुङ्ङीषा॑विति शेषः । दुष्टयवे वृत्तौ स्त्रीत्वमत एव ज्ञेयम् । यवनाल्लिप्याम् — इत्यपि वार्तिकम् । विपिरक्षरविन्यासः । तत्र लक्षमया वृत्तौ आनुङ्ङीषावित्यर्थः ।मातुलोपाध्याययोरानुग्वेति । इदमपि वार्तिकम् । अत्र पुंयोगादिति सम्बध्यते, हिमादिष्विवाऽत्र असम्भवाऽभावात् । अत्र आनुगेव तु विकल्प्यते, आनुगभावेऽपि पक्षे ङीष् भवत्येव । मातुलान्नित्यं प्राप्ते उपाध्यायादप्राप्ते विभाषेयम् । मातुलानी मातुलीति । मातुलस्य स्त्रीत्यर्थः । उपाध्यायानी उपाध्यायीति । उपाध्यायस्य स्त्रीत्यर्थः ।या तु स्वयमेवेति । इदं तु वार्तिकं तृतीयस्य तृतीयस्य तृतीयेइहश्चे॑ति सूत्रे पठितम् । या स्वयमेवाध्यापयति न तूपाध्यायस्य स्त्री, तत्र पुंयोगाऽभावेऽपि केवलङीष्विकल्पो वाच्य इत्यर्थः । युगान्तरे ब्राहृवादिन्यः स्त्रियः सन्ति तद्विषयमिदम् ।पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्री वचनं तथा.॑ इति स्मरणात् ।आचार्यादणत्वं च — इत्यपि वार्तिकम् । चकार आनुङ्ङीषोः समुच्चयार्थः । आचार्यानीति । आचार्यस्य स्त्रीत्यर्थः ।अट्कुप्वा॑ङिति णत्वं न भवति ।उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।॑ 'एकदेशमुपाध्यायः' इति स्मृतिः । पुंयोग इत्येवेति । पुंयोगग्रहणमनुवर्तते एवेत्यर्थः । तत्प्रयोजनमाह — आचार्येति । अत्र पुंयोगाऽभावं विशदयति — स्वयं व्याख्यात्रीति । धर्मोपदेष्ट्रीत्यर्थः ।यस्माद्धर्मानाचिनोति स आचार्यः इति स्मरणादिति भावः ।अर्यक्षत्रियाभ्यां वा — इति वार्तिकम् ।आनुङ्ङीषा॑विति शेषः ।स्वार्थे॑ति व्याख्यानलभ्यं, तेन पुंयोगनिरासः । अत एव भाष्ये 'आर्याणी अर्या' इत्येवोक्तम् । पुंयोग एव प्रवृत्तौ तु उपाध्यायीतिवदर्यीति ङीषमेवोदाहरेत् । अर्यशब्दं व्याचष्टे — स्वामिनी वैश्या वेत्यर्थ इति ।अर्यः स्वामिवैश्ययोः॑ इति निपातनादिति भावः । क्षत्रियाणी क्षत्रियेति । क्षत्रियात् क्षत्रियायां भार्यायामुत्पन्नेत्यर्थः ।सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः॑ इत्युपक्रम्यविन्नास्वेष विधिः स्मृतः॑ इति स्मरणात् । विन्नास्वित्यस्य ऊढास्वित्यर्थः । पुंयोगे तु अर्यी क्षत्रियीति । अर्यस्य स्त्री अर्यी, क्षत्रियस्य स्त्री क्षत्रियी, वैश्या शूद्रा वेत्यर्थः । कथमिति ।इन्द्रवरुण॑त्यादिसूत्रे ब्राहृन्शब्दस्याऽग्रहणाद्ब्राहृणः स्त्रीत्यर्थे ब्राहृणीत्यानुङ्ङीषौ कथमिति प्रश्नः । उत्तरमाह — ब्राहृआणमिति । आनयतीत्यस्य व्याख्यानं-जीव्यतीति ।अन प्राणने॑ । प्राणनं जीवनम् । अस्माद्धातोर्हेतुमण्णिचि उपधावृद्धौ तिपि शपि गुणाऽयादेशयोरानयतीति रूपम् । भर्तृजीवनस्य जायासौमङ्गल्यायत्तत्वात् । ततस्च ब्राहृआणमानयतीति विग्रहे 'आनि' इति ण्यन्तात्कर्मण्यणि॑त्यपिणेरनिटी॑ति णिलोपे आनशब्देन ब्राहृआणमित्यस्य उपपदसमासे सुब्लुकि नलोपे सवर्णदीर्घे ब्राहृआनशब्दात्टिड्ढाणञि॑ति ङीपियस्येति चे॑त्यकारलोपेपूर्वपदात्संज्ञाया॑मिति णत्वे ब्राहृणीति रूपमिति भावः । 'एकाजुत्तरपदे' इति तु न, अणि सति प्रातिपदिकस्य द्व्यच्कत्वाल्लुप्तेऽप्यणि लोपस्य स्थानिवत्त्वात् ।पूर्वत्रासिद्धीये न स्थानिवत् इति तु न, 'तस्य दोषः' इत्युक्तेः ।", "41050": "", "41051": "<<क्तादल्पाख्यायाम्>> - क्तादल्पाख्यायां । करणादेरिति । करणपूर्वादित्यनुवृत्तेरिति भावः । क्तान्तादिति । क्तान्तान्तादित्यर्थः, प्रत्ययग्रहणपरिभाषालब्धक्तान्तेन प्रातिपदिकस्य विशेषणात् । अदन्तादिति । 'अत' इत्यनुवृत्तेरिति भावः । अल्पत्वे द्योत्ये इति ।अल्पाख्याया॑मिति समुदायोपाधिः । अल्पत्वं करणगतं क्रियागतं वा । अभ्रलिप्ती द्यौरिति । अभ्रैरल्पैराच्छन्नेत्यर्थः । अभ्रैरीषदाच्छन्नेति वा ।", "41052": "<<बहुव्रीहेश्चान्तोदात्तात्>> - बहुव्रीहेश्च । क्तादिति अत इति चानुवर्तते । तदाह — बहुव्रीहेरिति । क्तान्तादिति । क्तान्तान्तादित्यर्थः । तेनेति । जातिपूर्वादिति विशेषणेन बह्वादिपूर्वान्न ङीषित्यर्थः ।सुखादिभ्यः कर्तृवेदनाया॑मित्यत्र सुखादिगणः पठितः । जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः॑ इति,नञ्सुभ्या॑मितिबहोर्नञ्वदुत्तरपदभूम्नी॑ति च क्तान्तबहुव्रीहावन्तोदात्तविधायकानि । अत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वस्यान्तोदात्तत्वेऽप्यर्थात् पर्युदास इति भावः ।ऊरुभिन्नीति । ऊरू भिन्नौ असंयुक्तौ यस्या इति विग्रहः । 'निष्ठा' इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति,जातिकालसुखादिभ्यः परा निष्ठा वाच्या॑ इति वार्तिकात् । 'जातिकालसुखादिभ्यः' इत्यादिसूत्रेणान्तोदात्तमिदम् । जातिलक्षणं तुजातेरस्त्रीविषया॑दित्यत्र वक्ष्यते । बहुकृतेति । बहवः कृता यायेति विग्रहः । अकृता, सुकृता, मासयाता, सुखयाता, दुःखयाता इति च भाष्ये प्रत्युदाहृतम् ।जातान्तान्न-इति वार्तिकम् ।बहुव्रीहेश्चे॑त्युक्तो ङीष् नेत्यर्थः । दन्तजातेति । दन्ता जाता यस्या इति विग्रहः । ऊरुभिन्नीतिवत् परनिपातः ।पाणिगृहीती भार्यायामिति । इदमपि वार्तिकम् । विधिवदूढा भार्या , तदस्यां विद्यमानादेव पाणिगृहीतशब्दान्ङीषित्यर्थः । विवाहकाले विधिवत् पाणिर्गृहीतो यस्या इति विग्रहः । अन्येति । दास्यादिरित्यर्थः ।", "41053": "<<अस्वाङ्गपूर्वपदाद्वा>> - अस्वाङ्गपूर्वपदाद्वा । स्वाङ्गलक्षणमुत्तरसूत्रे वक्ष्यते । अस्वाङ्गं यत् पूर्वपदं तस्यात् परं यत् क्तान्तं तदन्ताद्बहुव्रीहेर्ङीष् वा स्यादिति सूत्रार्थः । यद्यपिअस्वाङ्गं पूर्वपदं यस्य तस्मात् क्तान्तबहुव्रीहे॑रित्यपि व्याख्यातुं शक्यं, तथापि उत्तरसूत्रेऽस्वाङ्गपूर्वपदादित्यनुवृत्तस्य कर्मधारयसमासाश्रयणादिहापि तथा व्याख्यानमुचितम् । ननु बहुकृता, अकृता इत्यादावपि अस्वाङ्गपूर्वपदक्तदान्तबहुव्रीहित्वान्ङीष्विकल्पः स्यादित्याशङ्क्याह — पूर्वेणेति ।बहुव्रीहेश्चान्तोदात्ता॑दिति पूर्वसूत्रेण नित्यं ङीषि प्राप्ते तद्विकल्पोऽत्र विधीयत इत्यर्थः । एवं च जातिपूर्वादित्यस्य अन्तोदात्तादित्यस्य चेहापि संबन्धाद्बहुकृतेत्यादौ नातिप्रसङ्ग इति भावः । सुरापीति सुरापीतेति । सुरा पीता ययेति विग्रहः । ऊरुभिन्नीतिवत् पूर्वनिपातः । अन्तोदात्तात्किमिति ।बहुव्रीहेश्चे॑त्यत्र श्रुतम्,अस्वाङ्गपूर्वपदाद्वा॑ इत्यत्रानुवृत्तमपि अन्तोदात्तादित्येतत्किमर्थमिति प्रश्नः । वस्त्रच्छन्नेति । ऊरुभिन्नीतिवत्पूर्वनिपातः । अथ वस्त्रच्छन्नेत्यत्र 'जातिकालसुखादिभ्यः' इत्यन्तोदात्तत्वमाशङ्क्य निरस्यति — अनाच्छादनादिति । तथाच बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरे शेषनिघातेन अनुदात्तान्तमेतदिति भावः । अत एवेति ।अस्वाङ्गपूर्वपदा॑दित्यनेनबहुव्रीहेश्चे॑ति पूर्वसूत्रेण च वस्त्रच्छन्नेत्यत्र वैकल्पिको नित्यश्च ङीष् नेत्यर्थः । अन्तोदात्तत्व एवोभयोः प्रवृत्तेरिति भावः ।", "41054": "<<स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्>> - स्वाङ्गच्च । उपसर्जनादिति असंयोगपधादिति च स्वाङ्गादित्यत्रान्वेति । स्वाङ्गादित्येतदत इत्यनुवृत्तं च प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः । तदाह — असंयोगोपधमित्यादिना । वा ङीषिति ।अस्वाङ्गपूर्वपदाद्वा॑ इत्यतो वेति 'अन्यतो ङीष्' इत्यतो हीषित्यस्य चानुवृत्तेरिति भावः । बहुव्रीहेरित्यनुवर्तमाने उपसर्जनग्रहणं किमर्थमित्याशङ्क्य परिहरति — केशानतिक्रान्तेति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासस्तत्पुरुषः । अत्र बहुव्रीहित्वाऽभावेऽपि प्राप्त्यर्थमुपसर्जनग्रहणमिति भावः ।एकविभक्ति चापूर्वनिपाते॑ इति केशशब्दस्योपसर्जनत्वम् । चन्द्रमुखी चन्द्रमुखेति । चन्द्र इव मुखं यस्या इति विग्रहः । सुगुल्फेति । सु=शोभनौ गुल्फौ यस्या इति विग्रहः ।पदङ्घ्रिश्चरणोऽस्त्रियाम् । तद्ग्रन्थी घुटिके गुल्फौ॑ इत्यमरः । उपसर्जनात्किमिति । केवलकेशादिशब्दानामनुपसर्जनानां स्त्रीत्वविरहादेवाऽप्राप्तेः प्रश्नः । शिखेति । अत्र स्वाङ्गान्तत्वात्केवलशिखाशब्दान्ङीष्निवृत्त्यर्थमुपसर्जनग्रहणमित्युक्तम् । अन्यथा टापं बाधित्वा पक्षे ङीष् स्यादिति भावः ।शोभना शिखा सुशिखे॑ति क्वचित् पुस्तकेषु दृष्टं, तत् प्रक्षिप्तं वेदितव्यम् । टाबन्तेन समासेऽनदन्तत्वादेव प्राप्तिविरहात् । ननु स्वस्य अवयवीभूतस्य अङ्गं-स्वाङ्गम् । तथा च सुमुखा शालेत्यादावतिव्याप्तिः, तत्र मुखशब्दार्थस्य प्रथमभागस्य अवयवीभूतशालाङ्गत्वात् । किंच सुकेशी रथ्येत्यत्राऽब्याप्तिः, तत्र केशानां रथ्याङ्गत्वाऽभावादित्यत आह — स्वाङ्गं त्रिधेति ।अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च, तेन चेतत्तथायुतम् ।॑ इति भाष्ये त्रिधा निरुक्तं पारिभाषिकं स्वाङ्गमिह विवक्षितमित्यर्थः । तत्र प्रथमार्धं प्रथमं स्वाङ्गलक्षणमित्यभिप्रेत्य विच्छिद्य पठति — अद्रवमिति । न विद्यते द्रवो यस्य तत्-अद्रवम् ।मूर्तिः=अवयवसंयोगोऽस्यास्तीति मूर्तितम् । अवयवसंयोगसमवायिकारणं द्रव्यमिति यावत् । प्राणिनि=प्राणवति जन्तौ विद्यमानं प्राणिस्थम्, अविकारजं=रोगादिविकाराजन्यं च यत् तत् प्रथमं स्वाङ्गमित्यर्थः ।अद्रव॑मित्यस्य प्रयोजनमाह — सुस्वेदेति । सु=शोभनः, स्वेदः=घर्मज उदकप्ररुआवो यस्या इति विग्रहः । स्वेदस्य शोभनत्वं तु दुर्गन्धाऽभावः । द्रवत्वादिति ।न स्वाङ्गत्व॑मिति शेषः । अतो न ङीषित्यर्थः ।मूर्तिम॑दित्यस्य प्रयोजनमाह — सुज्ञानेति । सु=शोभनं ज्ञानं यस्या इति विग्रहः । अमूर्तत्वादिति ।न स्वाङ्गत्व॑मिति शेषः ।प्राणिस्थ॑मित्यस्य प्रयोजनमाह — सुमुखा शालेति । सु=शोभनं मुखं प्रथमभागो यस्या इति विग्रहः । अप्राणिस्थत्वादिति ।न स्वाङ्गत्व॑मिति शेषः ।अविकारज॑मित्यस्य प्रयोजनमाह — सुशोफेति । सु=अधिकः शोफः=आयथुर्यस्या इति विग्रहः । 'शोफस्तु आयथुः' इत्यमरः । विकारजत्वादिति । रोगजत्वादित्यर्थः ।न स्वाह्गत्व॑मिति शेषः । अतत्स्थं तत्र दृष्टं चेति । द्वितीयं स्वाङ्गलक्षणम् । तच्छब्देन प्राणी परामृश्यते । अतत्स्थम्= अप्राणिस्थं, तत्र=प्राणिनि, दृष्टं यत् तदपि स्वाङ्गमित्यर्थः । रथ्येति । रथ्यास्थानां केशानां प्राणिस्थत्वाऽभावात्पूर्वलक्षणेन स्वाङ्गत्वाऽसिद्धेर्लक्षणान्तरमिति भावः । उक्तलक्षणमुदाहरणे योजयति — अप्राणिस्थस्यापीति । इदानीं प्राणिस्थत्वाऽभावेऽपि कदाचित् प्रामिस्थत्वादपि स्वाङ्गत्वमित्यर्थः ।तेन चेत्तत्तथेति । तृतीयं स्वाङ्गलक्षणम् । अत्र भाष्येस्वाङ्गमप्राणिनोऽपि॑ इति शेषः पूरितः । चेदिति यद्यर्थे । तेन प्राणिस्थेन स्तनाद्यङ्गाकृतिकावयवविशेषेण तत्प्राणिद्रव्यं प्रतिमादि, तथा=प्राणिद्रव्यवत्, युतं=संबद्धं यदि, तदा तत्=स्तनाद्याकृतिकं अप्राणिनोऽपि स्वामित्यर्थः । सुस्तनी सुस्तना वा प्रतिमेति । सु=शोभनौ स्तनौ=स्तनाकृती अवयवौ यस्या इति विग्रहः । प्रतिमागतयोः स्तनाकृतिकावयवयोः कदाचिदपि प्राणिस्थत्वाऽभावात् प्राम्यन्तरेऽदृष्टत्वाच्च पूर्वलक्षणद्वयस्याप्यप्रवृत्तेर्लक्षणान्तरमिदम् । अथोदाहरणे लक्षणं योजयति — प्राणिवदिति । सुप्तम्यन्ताद्वतिः । प्राणिवत्-प्राणिसदृशे=प्रतिमादिद्रव्ये स्थितत्वात् स्वाङ्गमित्यर्थः । नचकल्याणपाणिपादे॑ति बहुव्रीहावपि ङीष् स्यादिति वाच्यम्,अस्वाङ्गपूर्वपदाद्वा॑ इत्यनुवृत्तेः । अत्र हि पाणिपादेति समुदायो न स्वाङ्गं, किन्तु स्वाङ्गसमुदाय एव यत्तु स्वाङ्गं पादेति न तु तदस्वाङ्गात्पूर्वपदात् परम्, पाणिपदेन व्यवधानात् । तथा च स्वाङ्गस्य पादस्य अस्वाङ्गात्पूर्वपदात् कल्याणशब्दात् परत्वाऽभावान्न ङीषिति भाष्ये स्पष्टम् ।", "41055": "<<नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च>> - नासिकोदरोष्ठ । अस्वाङ्गपूर्वपदाद्वा॑ इत्यतो वेति, 'अन्यतो ङीष्' इत्यतो ङीषिति चानुवर्तते । तदाह — एभ्य इति । उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः , पूर्वसूत्रादुपसर्जानादित्यनुवृत्तेः । ननुस्वाङ्गाच्चे॑ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — आद्ययोरिति । नासिकोदरशब्दयोर्विषये 'न क्रोडादिबह्वचः' इति निषेधः प्राप्तः सोऽनेन ङीष्विकल्पविधिना वाध्यत इत्यर्थः । बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः । ननु सहनासिका, अनासिका, सहोदरा, अनुदरा #इत्यत्रसहनञ्विद्यमानपूर्वाच्चे॑ति निषेधोऽप्यनेन वाध्यतां, 'सहनञ्' इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्य आह — पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् इति न्यायादित्यर्थः । ततश्चसहनञि॑ति निषेधोन क्रोडादि॑सूत्रे व्यवहितत्वात्नासिकोदर; इत्यनेन बाधं नार्हतीत्यर्थः । ओष्ठादिपञ्चकस्य प्रयोजनमाह — ओष्ठादीनामिति । सुगुल्फोत्यादावसंयोगापधादित्यस्य सावकाशत्वादिति भावः । ननु सहोष्ठा, अनोष्ठा इत्यादौसहनञि॑ति निषेधोऽप्यनेन बाध्यतामित्यत आह — मध्येऽपवादेति ।मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इत#इ न्यायादित्यर्थः । ननु 'नासिकोदर' इति ङीष्विकल्पस्तुङ्गनासिकीत्यादौ सावकाशः,सहन॑ञिति निषेधस्तु सहकेशेत्यादौ सावकाशः, सहनासिकेत्यादौ तूभयप्राप्तौ कतरस्या बाध इत्यत आह — सहनञ्लक्षणस्त्विति । अस्येति । 'नासिकोदर' इति हीष्विकल्पविधेरित्यर्थः । तुङ्गनासिकी तुङ्गनासिकेति । 'न क्रोडादिबह्वचः' इति बह्वज्लक्षणङीष्निषेधं बाधित्वा 'नासिकोदर' इति विकल्पः । इत्यादीति । कुम्भोदरी-कुम्भोदरा । अत्र बह्वज्लक्षणङीष्निषेधं बाधित्वा ङीष्विकल्पः । बिम्बोष्ठी-विम्बोष्ठा । सुजङ्घी-सुजङ्घा । शुभ्रदन्ती-शुब्रादन्ता.सुकर्णी-सुकर्णा । सुश्रह्गी-सुशृङ्दा । ओष्ठादिषु संयोगोपधत्वेऽपि ङीष्विकल्पः । सहनासिकेति । सहशब्दोविद्यमानवचनः, सह नासिका यस्या इति विग्रहः । अविद्यमाना नासिका यस्या इति च विग्रहः । इह उभयत्रापिसहनञ्विद्यमाने॑ति ङीष्निषेधो नतु 'नासिकोदर' इति ङीष्विकल्प इत्यर्थः । वक्तव्यमिति ।वा ङी॑षितीति शेषः संयोगापधत्वाद्ववचनम् । स्वङ्गीतचि । सु=शोभनानि अङ्गानि यस्या इति विग्रहः । सुगात्री-सुगात्रा । सुकण्ठी-सुकण्ठा । वृत्तिग्रन्थस्य मूलं दर्शयति — एतच्चेति । प्रामाणिका इति । एवं च तन्वङ्गी, सुगात्री, कलकण्ठी त्यपभ्रंशा एवेति भावः ।पुच्छाच्चेति । संयोगापधत्वेऽपि पुच्छशब्दान्तान्ङीष्वेति वक्तव्यमित्यर्थः ।कबरमणीति । कबरादिभ्यः परो यः पृच्छशब्दस्तदन्तान्नित्यं ङीषिति वक्तव्यमित्यर्थः ।पुच्छाच्चे॑त्युक्ताविकल्पापवादः । कबरमित्यस्य व्याख्यानं त्रित्रमिति । इत्यादीति । मणिपुच्छी वृश्चकी । विषपुच्छी । शरपुच्छी पक्षिजातिविशेषः ।उपमानादिति । उपमानात्परौ यौ पक्षपुच्छशब्दौ तदन्तादपि ङीषित्यर्थः । नित्यमित्येवेति । नित्यमित्यनुवर्तत एवेत्यर्थः । विकल्पापवादः । उलूकपक्षी शालेति । उलूकः पक्षिविशेषः, उलूकपक्षाविव पक्षौ पार्ो यस्या इति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्च॑ इति समासः । संयोगोपधत्वादप्राप्ते विधिः । उलूकपुच्छी सेनेति । उलूकपुच्छमिव पुच्छ=पश्चिमान्तो यस्या इति विग्रहः । पूर्वपदे बहुव्रीहिः ।पुच्छाच्चे॑ति विकल्पस्यापवादः ।", "41056": "<<न क्रोडादिबह्वचः>> - न क्रोडादिबह्वचः । क्रोडा आदिर्यस्येति, बहवोऽचो यस्येति च विग्रहः । क्रोडादिश्च बह्वच्चेति समाहारद्वन्द्वः । क्रोडादेरिति । क्रोडादिर्गणः, बह्वच्च यत्स्वाङ्गं तदन्तान्ङीष् नेत्यर्थः । कल्याणक्रोडेति । कल्याणी क्रोडा यस्या इति विग्रहः । 'स्त्रियाः पुंवत्' इति कल्याणशब्दस्य पुंवत्त्वम् । अआआनामिति । हरदत्तादिमते क्रोडाशब्दो नित्यस्त्रीलिङ्गः । उपसर्जनह्रस्वत्वेऽदन्ततयास्वाङ्गाच्चोपसर्जना॑दिति प्राप्तो ङीष् निषिध्यते । अमरस्तुन ना क्रोडं भुजान्तर॑मिति स्त्रीत्वं नपुंसकत्वं चाह । क्वचित् कोशे पुंस्त्वमपि दृश्यते । क्रोडादिगणे क्रोड इति प्रातिपदिकं पठते । एवं च लिङ्गत्रयेऽपि उदाहरणं निर्बाधम् । आकृतिणोऽयमिति ।क्रोडादि॑रिति शेषः । सुजघनेति — बह्वच उदाहरणम् । सुशोभनं जघनं यस्या इति विग्रहः ।", "41057": "<<सहनञ्विद्यमानपूर्वाच्च>> - सहनञ् । त्रिकपूर्वादिति ।स्वाङ्गा॑दिति शेषः । सकेशेति । सह केशा यस्या इति बहुव्रीहिः । सहशब्दो विद्यमानवचनः ।वोपसर्जनस्ये॑ति सभावविकल्पः ।स्वाङ्गाच्चे॑ति प्राप्तस्य निषेधः । 'नासिकोदर' इति ङीष्विकल्पोऽप्यनेन बाध्यत इत्युक्तं स्मारयितुमुदाहरति — विद्यमाननासिकेति । विद्यमाना नासिका यस्या इति बहुव्रीहिः ।", "41058": "<<नखमुखात् संज्ञायाम्>> - नखमुखात् । नखमुखादिति । समाहारद्वन्द्वः । शेषपूरणेन सूत्रे व्याचष्टे — ङीष् नेति ।स्वाङ्गाच्चे॑ति प्राप्तस्य निषेधोऽयम् । शूर्पणखेति । राक्षसीविशेषस्य नाम । शूर्पाणीव कररूहा यस्या इत्यस्वपदविग्रहः, संज्ञात्वेन नित्यसमासत्वात् ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । केवलयौगिकत्वे तु ङीष् भवत्येव । णत्वं तु न । गौरमुखेति — कस्याश्चिन्नाम । ओतं मुखं यस्या इत्यस्वपदविग्रहः ताम्रमुखीति । यौगिकोऽयम् । ताम्रं मुखं यस्या इति विग्रहः ।", "41059": "", "41060": "<<दिक्पूर्वपदान्ङीप्>> - दिक्पूर्वपदान्ङीप् । दिक्पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनुवर्तते । प्रातिपदिकादिति च ।॒अन्यतो ङीषि॑त्यतो ङीषित्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — दिक्पूर्वेत्यादिना । प्राङ्मुखीति । प्राक् मुखं यस्या इति विग्रहः । ङीषो ङीब्विधेः फलमाह — आद्युदात्तं पदमिति । ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्तत्वम् । ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो ङीबेव विधीयतामिति वाच्यं, तथा सति प्राग्गुल्फेत्यादावपिअसंयोगोपधा॑दिति निषेधं बाधित्वा ङीप्प्रसङ्गात् । ङीषो ङीबादेशविधौ तुस्वाङ्गाच्चोपसर्जनादसंयोगोपधा॑दिति विहितङीषो ङीब्विधानान्न दोषः ।असंयोगोपधा॑दित्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः ।", "41061": "<<वाहः>> - वाहः । 'वाह' इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः । तदाह — वाहन्तादिति । ङीषेवानुवर्तत इति । 'अन्यतो ङीष् इत्यत' इति शेषः । न ङीबिति । 'दिक्पूर्वपदात्' इति पूर्वसूत्रे संनिहितमपि ङीब्ग्रहणमिह नानुवर्तते, अस्वरितत्वादित्यर्थः । स्वरे विशेषः । दित्यौहीति । गवां तावत् षण्मासात्मकमेकैकं वयः ।गर्भाश्च मे वत्साश्च मे॑ इत्यनुवाके अनुक्रान्तानि वयांसि । तत्र तृतीयं वयो दित्यशब्देनोच्यते, इति यजुर्वेदभाष्ये, भवस्वामिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च स्पष्टम् । दित्यं वहतीति विग्रहेच्छन्दसि सहः॑,वहश्चे॑ति ण्विः, उपधावृद्धिः, उपपदसमासः । दित्यवाह्शब्दात् ङीष् ।वाह ऊठ् । 'एत्येधत्यूठ्सु ' इति वृद्धिः, दित्यौहीति रूपम् । ण्विप्रत्ययस्य छन्दोमात्रविषयत्वाद्वेदवाक्यमुदाहृतम् । सोके तु वाहयतेः क्विपि, वाह्शब्दात् ङीषि, दित्यौहीति रूपमस्ति । वैदिकप्रक्रियायामुपन्यसनीयमेप्येतत्सूत्रमेतदर्थमिहोपन्यस्तम् ।", "41062": "<<सख्यशिश्वीति भाषायाम्>> - सख्यशिआई । सखिशब्दादशिशुशब्दाच्च स्त्रियां ङीष् निपात्यते भाषायाम् । सौकिकप्रयोगो-भाषा । तर्हि वेदे नैव स्यादित्यत आह — इतिशब्द इति । 'प्रकारे' इत्यनन्तरं 'वर्तते' इति शेषः । प्रकारः=सजातीयता । भाषायामित्यस्येति । सचइति॑शब्दो भाषायामित्यस्यानन्तरं संनिवेश्यते इत्यर्थः । ततश्च भाषायां वेदे चेति फलितम् । नन्वेवं सति भाषायामिति व्यर्थमित्यत आह — तेनेति । भाषाग्रहणेन भाषायां सर्वत्र भवति, वेदे तु क्वचिदिति लभ्यत इत्यर्थः । सखीति । सखिशब्दान्ङीषियस्येति चे॑ति खकारादिकारस्य लोपः । भाषायां किम् । 'सखा सप्तपदा भव' अशिआईति । न विद्यते शिशुर्यस्या इति विग्रहः । अशिशुशब्दान्ङीषि उकारस्य यण् ।अशिआई शिशुना विना॑ इत्यमरः । छन्दस्यपि क्वचिदित्यस्योदाहरणमाह — आ धेनवो धुनयन्तामशिआईरिति । अशिआईशब्दाज्जसिदीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः ।", "41063": "<<जातेरस्त्रीविषयादयोपधात्>> - जातेरस्त्री । अर्थे कार्याऽसंभवाच्छब्दे कार्यं विज्ञायत इत्याह — जातिवाचीति । न च स्त्रियां नियतमिति । स्त्री विषयः=नियमेन वाच्या यस्या इति बहुव्रीहिणा स्त्रीविषयशब्दो नियतस्त्रीलिङ्गपरः । तथा चअस्त्रीविषया॑दित्यनेन अनियतस्त्रीलिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम् । अन्यथा 'अस्त्रिया' इत्येवावक्ष्यदिति भावः । ननु यदिनित्यमेकमनेकानुगतं सामान्य॑मिति तार्किकोक्ता जातिस्तर्हि शुक्लादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेत्यादावतिव्याप्तिः, औपगवी कठीत्यादावव्याप्तिश्च ।सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः॑ इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राआहृणत्वादि सा जातिश्चेद्युवत्वादावव्याप्तिः । तथा च युवतितरेत्यत्रजातेश्चे॑ति पुंवत्त्वनिषेधो न स्यादिति चेन्न,आकृतिग्रहणा जातिः, लिङ्गानां च न सर्वभाक् । सकृदख्यातनिग्र्राह्रा, गोत्रं च चरणैः सह॑ इति बाष्योक्तत्रिविधजातेर्विवक्षितत्वादित्यभिप्रेत्य भाष्योक्तत्रैविध्यं प्रपञ्चयति — आकृतिग्रहणा जातिरिति ।प्रथमे॑ति शेषः । आकृतिः= अवयवसंनिवेशविशेषः । गृह्रते अनेनेति ग्रहणं=व्यञ्जकम् । करणे ल्युट्, सामान्ये नपुंसकम् । आकृतिग्र्रहणं यस्या इति विग्रहः । उपसर्जनत्वात्टिड्ढाणञि॑ति ङीब्न । फलितमाह — अनुगतेति । सर्वासु घटादितत्तद्व्यक्तिषु एकरूपतत्तदाकारव्यङ्ग्येति यावत् । गृह्रते इति कर्मणि ल्युट्, आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम्,टिड्ढाणञ्इति ङीप्प्रसङ्गात् । तटीति । 'तटं त्रिषु' इत्यमरः । जलसमीपप्रदेश आकृतिविशेषविशिष्टस्तटःष अतस्तटत्वमाकृतिव्यङ्ग्यत्वाज्जातिः, अतस्तटशब्दस्य जातिवाचित्वादिनियतस्त्रीलिङ्गत्वादयोपधत्वाच्च ङीषिति भावः । युवत्वादिकमप्याकृतिव्यङ्ग्यत्वाज्जातिरेव । अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययसिद्धा तटत्वादिजातिरुक्ता ।नन्वेवं सति वृषलत्वादीनां जातित्वं न स्यात्, तदवयवसंनिवेशस्य ब्राहाहृणादिसाधारणत्वेन वृषलत्वादीनां तद्व्यङ्ग्यत्वाऽभावादित्याशङ्क्याह-लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिग्र्राह्रेति ।अन्या जाति॑रिति शेषः । लिङ्गानामिति कर्मणी षष्ठी । सर्वाणि लिङ्गानि न भजते इत्यर्थः । निग्र्राह्रेत्यस्य व्यक्त्यन्तरे उपदेशं विनापि सुगमेत्यर्थः, निरित्युपसपर्गवशात् । निग्र्राह्रेत्यनन्तरम्-॒अन्या जाति॑रिति शेषः । फलितमाह — असर्वेति । एकस्यामिति । एकस्यां व्यक्तौ वृषल इत्युपदेशाद्व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति यावत् । लक्षणान्तरमिति । जात्यन्तमित्यर्थः । अन्यथोक्ततटत्वादिजातेरेव 'आकृतिग्रहणा जातिः' इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात्, नहीदं युज्यते, तटस्य सर्वलिङ्गत्वात् । वृषलीति । वृषलत्वं ह्रसर्वलिङ्गं, नपुंसकत्वाऽभावात्, एकस्यां व्यक्तौ वृषलत्वे उपदिष्टे सति तदपत्यसहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात्सकृदाख्यातनिग्र्राह्रं चेति भावः । ब्राआहृणत्वं तु पुत्रपौत्रादौ यद्यपि न सुगमं, ब्राआहृणात्क्षत्रियायामुत्पन्नस्य ब्राआहृणत्वाऽभावात्, तथापि पित्रादौ सुगममेव । एवं क्षत्रियत्वं वैश्यत्वं च तत्पित्रादावेव सुग्रहम् । सत्यन्तं किमिति । असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः । शुक्लेति ।बलाके॑ति शेषः ।गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति॑ इति कोशाद्विशेष्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाऽभावाच्छुक्लत्वं न जातिः । अवयवसंस्थानव्यङ्ग्यत्वाऽभावान्न पूर्वलक्षणमपि । देवदत्तेति । संज्ञात्वेन नपुंसकलिङ्गहीनतया असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिग्र्राह्रत्वमिति भावः । अनेन द्वितीयलक्षणेन जनननिमित्तकब्राआहृणत्वादिजातिसङ्ग्रहः ।\tनन्वेवमपि औपगवी कठीत्याद्यसङ्ग्रहः, औपगवत्वादेरनुगतसंस्थानव्यङ्ग्यत्वाऽभावात्, सर्वलिङ्गत्वाच्चेत्यत आह — गोत्रं च चरणैः सहेति ।जाति॑रित्यनुषज्यते । गोत्रशब्देन अपत्यं विवक्षितं, नतु पौत्रप्रभृतीति परिभाषिकं, व्याख्यानात् । अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो ङीषितिअनुपसर्जना॑दिति सूत्रस्थभाष्यं सङ्गच्छते । शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षितमिति प्रपञ्चितम् । चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः । चरणैः सह गोत्रं जातिरिति लभ्यते । गोत्रं चरणाश्च जातिरिति यावत् । यद्यपि अनुगताकारप्रत्ययवेद्या जननविशेषप्रयुक्ता चेति द्विविधैव जातिर्लोके प्रसिद्धा । तत्र गोत्रचरणा नान्तर्भवन्ति । तथापितस्मस्तच्छब्दस्तद्वाचिषु शब्देषु तत्कार्यार्थ॑ इत्यभिप्रेत्य व्याचष्टे — अपत्यप्रत्ययान्त इत्यादिना । गोत्रमुदाहरति — औपगवीति । उपगोरपत्यं स्त्रीत्यर्थेतस्यापत्य॑मित्यणिटिड्ढाण॑ञिति ङीपं बाधित्वा परत्वादनेन ङीष् । स्वरे भेदः । चरममुदाहरति — कठीति । कठेन प्रोक्तमधीयानेत्यर्थः । कलापीति वैशम्पायनान्तेवासित्वनिबन्धनो णिनिः ।कठचरकाल्लु॑गिति तस्य लुक् । ततःतदधीते॑इत्यणःप्रोक्ताल्लु॑गिति लुक्, ततो ङीष् । चरणविषये उदाहरणान्तरमाह — वह्वृचीति । बहव ऋचोऽध्येया यस्या इति विग्रहः ।ऋक्पूरब्धूःपथामानक्षे॑अनृचबह्वृचावध्येतर्येव॑ इत्यच्समासान्तः, ततो ङीष् ।पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑ इति यमादिस्मृतिः । ननुलिङ्गानां च न सर्वभाक् इतिगोत्रं च चरणैः सहे॑ति च जातिलक्षणे ब्राआहृणीति परित्यज्य वृषली औपगवीत्येव कुत उदाहृतमित्यत आह — ब्राआहृणीत्यत्रेति । ब्राहृणोऽपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणि 'ब्राआहृओऽजातौ' #इति टिलोपाऽभावे आदिवृद्धौ ब्राआहृणशब्दः । स्त्रियां तु जातिलक्षणं ङीषं बाधित्वाशाङ्र्गरवाद्यञो ङी॑निति ङीन्, शाङ्र्गरवादिगणे तत्पाठस्य निरवकाशत्वादिति भावः । तदेवं जातिस्वरूपमुक्त्त्वा ङीष्विधौ तद्ग्रहणस्य प्रयोजनं पृच्छति — जातेःकिमिति मुण्डेति । मुण्डत्वं नाम विलुप्तसर्वकेशत्वम् । तत्तु नाकृतिव्यङ्ग्यं, केशदशायामपि तदाकृतेः सत्त्वात् । नापिलिङ्गानां चे॑ति लक्षणलक्षितं, सर्वलिङ्गत्वात् । नापि गोत्रचरणान्तर्भूतं, अतो न जातिरिति भावः । अस्त्रीविषयात्किमिति । विषयग्रहणलभ्यं नियतत्वं प्रव#एश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः । बलाकेति । पक्षिवर्गे 'बलाका विसकण्ठिका' इत्यमरः । बलाकात्वस्य आकृतिव्यङ्ग्यतया जातित्वेऽपि नियतस्त्रीलिङ्गत्वान्न ङीषित्यर्थः । यद्यपि बलां कायतीति यौगिकत्वे त्रिलिङ्गत्वमस्ति, तथापि प्रवृत्तिनिमित्तैक्यस्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवहितम् । क्षत्रियेति ।लिङ्गानां च न सर्वभा॑गिति जातिलक्षणसत्त्वेऽपि योपधत्वान्न ङीषिति भावः ।योपधप्रतिषेधे हयगवयेति । वार्तिकमिदम् । हयादानां योपधत्वेऽपि ङीष् वाच्य इत्यर्थः । हयीति । अआआ प्रसिद्धा । गवयीति । गोसदृशश्चतुष्पाज्जातिविशेषः । मुकयीति । चतुष्पाज्जातिविशेषः । हल इति । मनुष्यशब्दात्स्त्रियां ङीषि मनुष्य-ई इति स्थितेहलस्तद्धितस्ये॑ति यकारस्य लोपेयस्येति चे॑त्यकारलोपे मनुषीति रूपमित्यर्थः ।हलस्तद्धितस्ये॑ति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितुमाह — मनोर्जाताविति । तद्धिताधिकारेऽपत्याधिकारस्थमिदं सूत्रम् ।मनुशब्दादपत्येऽञ्यतौ प्रत्ययौ स्तः, प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तदर्थः ।मात्स्यशब्दान्ङीषि यकारस्य तद्धितावयवत्वाऽभावादप्राप्ते लोपे आह — मत्स्यस्य ङ्यामिति ।सूर्यतिष्ये॑ति सूत्रे वार्तिकमिदम् । मत्स्यस्यावयवस्य यकारस्य लोपः स्यान्ङ्यामेवेति नियमार्तमिदम् । मत्सीति । ङीषि यकारलोपेयस्येति चे॑ति लोप इति भावः । ङ्यांकिम् । मात्स्योऽवतारः ।", "41064": "<<पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च>> - पाककर्ण ।जातेरस्त्रीविषया॑दिति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — स्त्रीविषयादपीति । नियतस्त्रीलिङ्गादपीत्यर्थः । नियतस्त्रीलिङ्गत्वात्पूर्वेणाऽप्राप्तिरिति भावः । जातिवाचित्वं दर्शयितुमाह — ओषधिविशेष रूढा इति । अवयवव्युत्पत्तिरहिता इत्यर्थः ।", "41065": "<<इतो मनुष्यजातेः>> - इतो मनुष्यजातेः । शेषपूरणेन सूत्रं व्याचष्टे — ङीष् स्यादिति । इदन्तान्मनुष्यजातिवाचिनः स्त्रियां ङीष्स्यादित्यर्थः । स्त्रीप्रत्ययविधिषु त इत्यनुवृत्तेरिदन्तात्जातेरस्त्रीविषया॑दित्यप्राप्तौ वचनम् । दाक्षीति । दक्षस्यापत्यं स्त्रीत्यर्थेः अत इञि अल्लोपः, आदिवृद्धिः, ङीष्,यस्येति चे॑तीकारलोपः ।गोत्रं च चरणैः सहे॑ति जातिवाचित्वम् । दक्षः-प्रजापतिविशेषः । योपधादपीति ।अयं ङी॑षिति शेषः । पुनर्जातिग्रहणेन योपधग्रहणस्याऽनुवृत्त्यभावबोधनादिति भावः । औदमेयीमि । उदमेयो नाम कश्चित्, तस्यापत्यं स्त्रीत्यर्थेअत इञ्,यस्येति चे॑त्यल्लोपः, आदिवृद्धिः, औदमेयिशब्दान्ङीष्,यस्येति चे॑तीकारलोपः । तित्तिरिरिति । तित्तिरिः पक्षि जातिविशेषः । स्त्रियां ङीष् न, अमनुष्यजातिवाचित्वादिति भावः ।स्त्रीपुंसयोरपत्यन्तद्विचतुष्षट्पदोरगाः॑ इत्यमरकोशादयं स्त्रियामपि भवति, द्विपात्त्वात् ।", "41066": "<<ऊङुतः>> - ऊडुतः ।अयोपधा॑दितिमनुष्यजाते॑रिति चानुवर्तते, उत इति तद्विशेषणम्, तदन्तविधिः । तदाह — उकारान्तादित्यादिना । कुरूरिति । कुरुक्षेत्रस्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः ।गोत्रं च चरणैः सहे॑ति जातित्वम् । कुरुशब्दाडूङि सवर्णदीर्घः । ऊङि दीर्घोच्चारणस्य प्रयोजनं भाष्ये स्पष्टम् ।तस्यापत्य॑मित्यणमाशह्क्याह — कुरुनादिभ्यो ण्य इति । अपत्याधिकारस्थमिदं सूत्रम् । अनेन सूत्रेम अणपवादो ण्यप्रत्यय इत्यर्थः । तर्हि स श्रूयेतेत्यत आह — तस्येति । अध्वर्युरिति । अध्वर्युशाखाध्यायिनीत्यर्थः । चरणत्वाज्जातित्वम् ।पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑ इति यमादिस्मृतिः ।अप्राणिजातेश्चेति ।वाचकाना॑मिति शेषः । रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि ऊङ उपसङ्ख्यानमित्यर्थः । नन्वत्र उत इति संबध्यते वा, न वा । नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात्, अलाबूशब्दस्य ऊदन्तत्वात् । न द्वितीयः, अदन्तादपि अप्राणिजातिवाचन ऊङापत्तेरित्यत आह — रज्ज्वादिपर्युदासादिति । 'उत' इति न संबध्यतो । अदन्तेषु नातिप्रसङ्गःनञिवयुक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः॑ इति न्यायेन रज्ज्वादिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः । अलाब्वेति । अलाबूशब्दादूङि सवर्णदीर्घे अलाबूशब्दादूङन्तात्सुबुत्पत्तिः । टायां यणादेशे अलाब्वा इति रूपम् । एवं कर्कन्धूशब्दादूङन्ताट्टायां 'कर्कन्ध्वा' इति रूपम् ।कर्कन्धूर्बदरी॑त्यमरः,तुम्ब्यलाबूरुभे समे॑ इति च । ननु ऊदन्तत्वादनयोरूङ्विधिव्र्यर्थ इत्यत आह — अनयोरिति । कृकवाकुरिति । पक्षिजातिविशेषः । अत्र मनुष्यजातित्वाऽभावात्पूर्वेणापि न ङीष् ।", "41067": "<<बाह्वन्तात् संज्ञायाम्>> - बाह्वन्तात्संज्ञायाम् । 'ऊङुत' इत्यत ऊङित्यनुवर्तते, स्त्रियामित्यधिकृतं, प्रातिपदिकादिति च । तदाह — स्त्रियामूङ् स्यादिति । भद्रबाहूरिति । कस्याश्चित्संज्ञा । संज्ञायां किमिति । संज्ञायामित्येतत्किमर्थमिति प्रश्नः । वृत्तबहुरिति । वृत्तौ बाहू यस्या इति विग्रहः । स्त्रियामपि नोङ् ।", "41068": "<<पङ्गोश्च>> - पङ्गोश्च ।ऊ॑ङिति सूत्रशेषः । भग्नपादत्वं पङ्गुत्वं न जातिः, आसीने शयाने च आकृत्या दुग्र्रहत्वात्, एकस्या व्यक्तौविकलपादोऽयं पङ्गु॑रिति पङ्गुत्वस्योपदेशेऽपि व्यक्त्यन्तरेषु आसनशयनाद्यस्थेषु तस्य दुग्र्रहत्वात्, गोत्रचरणानन्तर्भावाच्च । ततश्च 'ऊङुतः' इत्यप्राप्तौ वचनमिदम् ।आशुरस्येति । वृत्त्यादौ पठितमिदम् । चकारादूङनुकृष्यते । आशुरस्य स्त्री इत्यर्थे पुंयोगलक्षणे ङीषि प्राप्ते तदपवाद ऊङ्, तत्संनियोगेन रेफादकारस्य शकारादुकारस्य लोपश्चेत्यर्थः । नच वकारादकारस्य लोपः शङ्क्यः,अन्त्यबाधेऽन्त्यसदेशस्ये॑ति वचनात् ।यस्येति चे॑ति तु नात्र भवति, ईकारे तद्धिते च तद्विधानात् । ननु आशूरित्यत्र कथं स्वादयः,ङ्याप्प्रातिपदिका॑दित्यधिकृत्य तद्विधेः, अस्य च ङ्याबन्तत्वाऽभावात्, ऊङन्तस्य च प्रत्ययान्तत्वेन प्रातिपदिकत्वाऽभावादित्यत आह — लिङ्गविशिष्येति ।प्रातिपदिकग्रहणे लिङ्गविशिष्यस्यापि ग्रहण॑मिति परिभाषयेत्यर्थः । वस्तुतस्तु आशुरस्येति वचनममूलकमेव, भाष्येऽदृष्टत्वात्,ङ्याप्प्रातिपदिका॑दिति सूत्रस्थभाष्यविरोधाच्च । तत्र हिङ्याप्प्रातिपदिका॑दित्यत्र ऊहोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णान्तादूङ् विधीयते । तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम् । यदि ह्रुक्तरीत्या आश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुप्तत्वेन एकादेशाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव । तथाच आश्रूरित्यव्युत्पन्नं प्रातिपदिकमिति शब्देन्दुशेखरे स्पष्टम् ।", "41069": "<<ऊरूत्तरपदादौपम्ये>> - ऊरुत्तर । ऊरुः-उत्तरपदं यस्येति बहुव्रीहिः । प्रातिपदिकादित्यनुवर्तते । उत्तरपदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति । उपमीयते अनयेत्युपमा=उपमानम्, उपमैव औपम्यं, स्वार्थे ष्यञ् । तदाह — उपमानवाचीति । करभोरूरिति । करभाविव ऊरू यस्या इति विग्रहः ।मणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ इत्यमरः । करभोरुत्वस्याऽजातित्वादप्राप्तौ वचनम्, ऊर्वाकृतेः करभसदृशपुरुषोरुसाधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्रत्वाऽभावात्, असर्वलिङ्गत्वाद्यभावाच्च । उपमानवचीति किम् । वृत्तोरुः । करभोपमोरुरित्यादौ नोङ्, करभशब्दस्य करभसदृशेऽवृत्त्या उपमानवाचित्वाऽभावात् ।", "41070": "<<संहितशफलक्षणवामादेश्च>> - संहितशफ । संहित शफ लक्षण वाम एतत्पूर्वपदादप्यूरूत्तरपदादूङ् ऊरू यस्या इति विग्रहः । सैव शफोरूरिति । संहितोरूरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृणोतिशपौ खुराविति । यद्यपिशफं क्लीबे खुरः पुमा॑नित्यमरस्तथापिशफः खुरे गवादीना॑मिति [हेम] चन्द्रकोशात्पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह — ताविवेति । यतः शफाविव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह — संश्लिष्टत्वादिति । तर्ह्रुपमानवाचिपूर्वपदत्वादेव सिद्धमित्यत आह — उपचारादिति । शफवद्वास्तवं संश्लिष्टत्वमवलम्ब्या शफत्वस्य आरोपादित्यर्थः । एवं च शफशब्दात्तत्सादृश्याऽप्रतीतेर्नोक्तदोष इति भावः । लक्षणोरूरिति । लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह — लक्षणशब्दादिति । लक्षणमनयोरस्तीति विग्रहे लक्षणशब्दादर्शाअदिभ्योऽजित्यच्प्रत्यय इत्यर्थः । तथाच लक्षणयुर्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ=सुन्दरौ ऊरू यस्या इति विग्रहः ।वामौ वल्गुप्रतीपौ द्वौ॑ इत्यमरः ।सहितेति । 'सहित' 'सह' आब्यां परो य ऊरुशब्दस्तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृतन्यायेन सिद्धे पुनः सहितग्रहणं व्यर्थमित्यत आह — हितेनेति । हितेन सहेति विग्रहेतेन सहे॑ति बहुव्रीहौवोपसर्जनस्ये॑ति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमानवचनत्वे सहोरूरित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह — सहेते इति ।रतिकालिकमर्दन॑मिति शेषः । विद्यमानवचनत्वेऽपि सहशब्दस्य न वैयथ्र्यामित्याह-यद्वेति । अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयथ्र्यमिति भावः ।", "41071": "", "41072": "<<संज्ञायाम्>> - संज्ञायाम् । कद्रुकमण्जल्वोरिति ऊङिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह — कद्रकमणाडल्वोरित्यादि । अच्छन्दोऽर्थमिति । पूर्वसूत्रे छन्दसीत्युक्तत्वाल्लोके संज्ञायामप्राप्तावयमारम्भः । कद्रूरिति । नागानां मातुः संज्ञा । एतच्च महाभारतादौ स्पष्टम् । कमण्डलूरिति । कस्यचिन्मृगस्य संज्ञा । अत एवचतुष्पाद्भ्यो ढ॑ञित्यत्र कामम्जलेय इत्युदाहरिष्यते । पात्रपर्यायस्तु नोदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात् ।", "41073": "<<शार्ङ्गरवाद्यञो ङीन्>> - शाङ्र्गरवाद्यञो ङीन् । शाङ्र्गरवादीति लुप्तपञ्चमीकम् । 'अञ' इति षष्ठी । 'अत' इत्यनुवृत्त पञ्चम्यन्ते अन्वेति । जातेरित्यनुवृत्तमता विशेष्यते । तदन्तविधिः । तदाह — शाङ्र्गरवादेरित्यादिना । शङ्र्गरवीति । शृङ्गरोरपत्यं स्त्रीत्यर्ते अण्, आदिवृद्धिः, रपरत्वम्, ओर्गुणःगोत्र च चरणैः सहे॑ति जातित्वान्ङीषि प्राप्ते ङीन् । स्वरे विशेषः । वैदीति । विदस्यापत्यं स्त्रीत्यर्थः ।अनृष्यानन्तर्ये विदादिभ्योऽञ् । गोत्रत्वेन जातित्वान्ङीषि प्राप्ते ङीन् । अञा अकारस्य विशेषणान्नेह-शूरसेनी ।जनपदशब्दा॑दित्यपत्येऽञ् ।अतश्चे॑ति तस्य लुक् । अत्र जातिलक्षणङीषेव न तु ङीन्, अञो लुप्तत्वेन नकारादकारस्य अञोऽवयवत्वाऽभावात् । नृनरयोर्वृद्धिश्चेति । चकारात् ङीन् । नारीति । नृनरशब्दयोरुभयोरुदाहरणम् । तत्र नृशब्दात् 'ऋन्नेभ्यः' इति ङीपि प्राप्ते ङीन्, ऋकारस्य वृद्धिः, रपरत्वम् । जातिलक्षणङीषस्तु नृशब्दान्न प्रसक्तिः, तत्र 'अत' इत्यनुवृत्तेः । नरशब्दात्तु ङीनि नकारादकारस्य वृद्धिः । ननु परमपियस्येति चे॑ति लोपं बाधित्वाऽन्तरङ्गत्वादलोऽन्त्यपरिभाषया रेफादकारस्य वृद्धिः स्यात् । न च कृतायामपि वृद्धौयस्येति चे॑त्यकारलोपः स्यादिति वाच्यं, वृद्धिविधिसामर्थ्यादेव तस्य लोपाऽभावासिद्धेरिति चेदुच्यते-नृनरयोरित्यत्र 'नर्' इति रेफान्तस्य लुप्ताकारस्यानुकरणम् । नरः-अः-नरः, ना च नरश्च नृनरौ, तयोरिति विग्रहः । नचैवमपि वानरीशब्देऽतिप्रसङ्ग इति वाच्यम्, अर्थवत एव ग्रहणात् । न च नृशब्दान्ङीनि वृद्धौ नारीति सिद्धेर्नरग्रहणं व्यर्थमिति वाच्यं, नरत्वजातिवाचिनो नरशब्दात्स्त्रियां जातिलक्षणङीषि नरीति व्यावृत्त्यर्थत्वात् । वस्तुतस्तुनृनरयोर्वृद्धिश्चे॑ति गणसूत्रं नारब्धव्यमेव ।तदस्य धम्र्य॑मित्यनुवृत्तौऋतोऽञि॑ति सूत्रेणनरस्य चे ति वक्तव्य॑मिति वार्तिकेन च नुर्धम्या नरस्य धम्र्येत्यर्ते नृशब्दान्नरशब्दाच्च अञि ततःटिड्ढाण॑ञिति ङीपि नारीति सिद्धेः ।ञ्नित्यादिर्नित्य॑मिति प्रकृतेराद्युदात्तत्वे ङीपः पित्त्वादनुदात्तत्वम् । ङीन्यपि नित्स्वरेण प्रकृतेरुदात्तत्वमिति स्वरे विशेषाऽभावात् । नचैवं सति मनुष्यधम्र्यत्वेनैव बोधः स्यान्न तु नरत्वेनेति वाच्यं, योग्यतया हि तद्धम्र्या नरत्वाजातिविशिष्टैव बुध्यते । अत एव वास्तुनि भवो वास्तव्य इति रूपस्यदिगादिभ्यो य॑दिति भवार्थकतया सिद्धत्वात्वसेस्तव्यत्कर्तरि णिच्चे॑ति वचनं न कर्तव्यमिति भाष्यं सङ्गच्छते । रूढानां यथाकथंचिदन्वाख्यानमिति कैयट इति शब्देन्दुशेखरे स्थितम् ।", "41074": "<<यङश्चाप्>> - यङश्चाप् । पकारो 'हल्ङ्याब्भ्यः' इत्यत्र ग्रहणार्थः । चकारः 'चितः' इत्यन्तोदात्तार्थः । सामान्येति । यङ्रूपस्य उभयत्रापि सत्त्वादिति भावः । ञ्यङमुदाहरति — आम्बष्ठएति । आम्बषष्ठस्यापत्यं स्त्रीत्यर्थः ।वृद्धेत्कोसले॑ति ञ्यङ् । आम्बष्ठशब्दाच्चाप् । ष्यङमुदाहरति — कारीषगन्ध्येति । करीषं=गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः-करीषगन्धिः ।उपमानाच्चे॑ति गन्धस्य इकारोऽन्तादेशः । करीषगन्धेर्गोत्रापत्यं स्त्रीत्यर्थेऽण्प्रत्ययः । 'अणिञोरनार्षयोः' इति तस्य ष्यङादेशः । षाद्यञ इति । षकारात्परो यो यञतदन्तादपि चाबित्यर्थः । शार्कराक्ष्येति । शर्कराक्षस्यापत्यं स्त्रीत्यर्थः । पौतिमाष्येति । पूतिमाषस्यापत्यं स्त्रीत्यर्थः ।गर्गादिभ्यो य॑ञित्युभयत्र यञ् ।", "41075": "<<आवट्याच्च>> - आवटआच्च । ननु कथमवयशब्दस्यापत्यमित्यर्थे यञन्तत्वमित्यत आह — अवटशब्द इति । आवटएति । अवटस्यापत्यं स्त्रीत्यर्थः । गर्गादियञियस्येति चे॑त्यकार लोपे आदिवृद्धौ आवठशब्दाच्चाप् ।", "41076": "<<तद्धिताः>> - तद्धिताः । वक्ष्यमाणाः प्रत्ययास्तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः । अधिकार सूत्रमेतत् । उत्तरावधिमाह — आ पञ्चमेति ।", "41077": "<<यूनस्तिः>> - यूनस्तिः । 'तद्धिता' इत्यनुवृत्तमेकवचनेन विपरणम्यते । तदाह — युवन्शब्दादित्यादि ।स्त्रिया॑मिति शेषः ।समर्थना॑मित्यतः प्राक्तदधिकारस्योक्तत्वादिति भावः । नान्तलक्षणङीपोऽपवादः । नन्वत्र तद्धितग्रहणानुवृत्तिव्र्यर्था । नचकृत्तद्धिते॑ति प्रातिपदिकत्वार्थं तदनुवृत्तिरिति वाच्यम्, प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात्सुबुत्पत्तिसिद्धेरित्यत आह — लिङ्गविशिष्टस्येति । युवतिरिति । स्वादिष्विति पदत्वात् 'न लोप' इति नकारलोपः । अनुपसर्जनादित्येवेति । अनुवर्तत एवेत्यर्थः । बहुयुवेति । उपसर्जनत्वात्तिप्रत्ययाऽभावे नान्तलक्षणङीपः 'अनो बहुव्रीहेः' इति निषेधेडाबुभाभ्या॑मिति डापि च रूपम् । ननु 'युवतीभिः परिवृत' इत्यादौ कथं युवतीशब्द ईकारान्त इत्यत आह — युवतीति त्विति । 'युमिश्रणे' इत्यस्माल्लटः शतरि, शपो लुकि, उवङि उगित्त्वान्ङीपि युवतीशब्दो व्युत्पन्नो बोध्य इत्यर्थः । पतिं सुखेन मिश्रयन्ती योषिदुच्यते । अन्ये तु युधातोरौणादिके बाहुलकात्कतिप्रत्यये कित्त्वाद्गुणाऽभावे उवङि उगित्त्वान्ङीपि युवतीशब्दः सिध्यतीत्याहुः । इति श्रीमद्वासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणम् । — — — — — — — — — — - अथ स्वादिसन्धिः ।", "41078": "<<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे>> - अणिञोः । त्र्यादीनामन्त्यमुत्तममिति । तथा भाष्यादिति भावः । तस्य समीपमुपोत्तममिति । सामीप्येऽव्ययीभाव इति भावः । गुरु-उपोत्तमम्-उत्तमसमीपवर्ति ययोरिति विग्रहः । प्रातिपदिकादित्धिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति लभ्यते ।अणिञो॑रित्यनेन प्रत्ययग्रहणपरिभाषयाञन्तयोग्र्रहणम् । 'गोत्रे' इत्येतत् अणिञोरन्वेति । ऋषेरविहितौ-अनार्षौ । इदमपि अणिञोविशेषणं । स्त्रियामित्यधिकृतम् । तदाह गोत्रे यावणिञावित्यादिना । आदेशः स्यादिति । स्थानषष्ठीनिर्देशादादेशत्वलाभः ।ननु अणिञन्तयोः श्यङादेशोऽयमनेकाल्त्वात्सर्वादेशः स्यादित्यत आह — निर्दिश्यमानस्येति । तथा च अणिञोरेवायमादेश इति भावः ।ङिच्चे॑त्यन्तादेश इति तु न युक्तं, ङित्त्वस्य ष्यङः सम्प्रसारण॑मित्यादौ चरितार्थत्वात् । कुमुदगन्धेरिति । कुमुदगन्ध इव गन्धो यस्येति विग्रहः ।सप्तम्युपनानपूर्वपदस्य बहुव्रीहिर्वाच्यः, उत्तरपदलोपश्चे॑ति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च ।उपमानाच्चे॑ति इत्त्वं । कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण् ।यस्येति चे॑ति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः । तत्समीपवर्ती गुरुः गकारादकारः, 'संयोगे गुरु' इत्युक्तेः । नचाऽनुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यं, येन नाव्यवधानं तेन व्यवहितेऽपी॑ति न्यायेन हला व्यवधानस्याऽदोषत्वात् । नह्रणि परेऽव्यवहितो गुरुः क्वचिदस्ति । एवंच गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अमः ष्यङादेशेयङश्चा॑विति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इञन्तस्योदाहरति — वाराह्रेति । वराहस्यापत्यं स्त्री विग्रहः । अत इञ् । अकारलोपः । वाराहिशब्दः । तत्र इकार उत्तम#ः । रेफादाकार उत्तमसमीपवर्ती गुरुः इञ इकारस्य ष्यङादेशः, चाविति भावः । वासिष्ठी वैआआमित्रीति । ऋष्यणन्तावेतौ औपगवीति । अणन्तत्वेऽपि गुरूपोत्तमत्वाऽभावान्न ष्यङ् । जातिलक्षण इति ।गोत्रं च चरणैः सहे ति जातित्वम् । आहिच्छत्रीति । जातार्थे अणयं, नतु गोत्र इति न ष्यङ् । नच ष्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यं, तथा सति उदमेघस्यापत्यं स्त्रीति विग्रहेऽत इति ष्यङि चापि औदमेध्या, तस्या अपत्यं ओदमेधेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाऽभावेन यलोपाऽप्राप्तेरिति स्पष्टं भाष्ये ।", "41079": "<<गोत्रावयवात्>> - गोत्रावयवात् । गोत्रावयवशब्दं व्याचष्टे-गोत्रावयवा गोत्राभिमता इति । गोत्र=कुलम्, अभिमतं=प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत इत्यर्थः ।कुलव्यपदेशकृत इति यावत् । तदाह — कुलाख्या इति । कुलमाख्यायते व्यपदिश्यते आभिरिति कुलाख्याः । कुलनामानीत्यर्थः । पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते-॒पुणिकाः वयं॑,भुणिकाः वय॑मित्यादि । अवपूर्वकात् 'यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि अवयवशब्दः । कुवस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः । ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अगुरूपोत्तमार्थ इति । गोत्रादवयुतं=मिश्रितम्-अनन्तरापत्यं, तदर्थमित्यपि भाष्ये स्पष्टम् । एवञ् पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारिभाषिकमेव गोत्र गृह्रत इति भाष्यस्वरसः । पौणिक्येति । पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङि चाप् । एवं मौणिक्या । मनुष्यनामत्वे तन्नामिकाऽणः ष्यङ् ।", "41080": "<<क्रौड्यादिभ्यश्च>> - क्रौडआदिभ्यश्च ।प्रत्ययविधि॑रिति भाष्योक्तं पक्षान्तरमाश्रित्याह — ष्यङ्प्रत्यय इति । पूर्वेण सिद्धे किमर्थमिदमित्यत आह — अगुरूपोत्तमार्थोऽनणिञन्तार्थश्चेति । क्रौडएति । क्रोडस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङ्, चाप् । इहत्र्यादीनामन्त्यमुत्तम॑मित्युक्तेर्न गुरूपोत्तमत्वम् । मनुष्यनामत्वे त्वण् । 'गौकक्ष्य' शब्दो गर्गादिञन्तः । तस्य अनणिञन्तत्वेऽपि ष्यङ् । सूतयुवत्वामिति । गणसूत्रमिदम् । सूतशब्दो युवत्या ष्यङं लभत इत्यर्थः । सूत्रेयति । प्राप्तयौवनेत्यर्थः । जातौ तु सूतीत्येव । भोज क्षत्रिये । इदमपि गणसूत्रम् ।", "41081": "<<दैवयज्ञिशौचिवृक्षिसात्यमुग्रि- काण्ठेविद्धिभ्योऽन्यतरस्याम्>> - दैवयज्ञीति । देवयज्ञस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङ्विकल्पः । इत्यादीति । शुचिवृक्षस्यापत्यं स्त्री शौचिवृक्ष्या — शौचिवृक्षी । सत्यमुग्रमस्येत्यर्थे — सत्यमुग्रः । निपातनान्मुम् । सत्यमुग्रहस्यापत्यं स्त्री सात्यमुग्रय-सात्यमुग्री । काण्डेन विद्धः काण्डेविद्धः । निपातनादेत्त्वम् । काण्डेविद्धस्यापत्यं स्त्री काण्डेविद्ध्या-काण्डेविद्धी । कण्ठेविद्धीति पाठान्तरम् । *****इति बालमनोरमायामपत्याधिकारः ।*****अथाऽऽर्हीयाः । — — — — —", "41082": "<<समर्थानां प्रथमाद्वा>> - तदेवं समासप्रप्चं निरूप्य तद्धितप्रकरणमारभते — समर्थाना प्रथमाद्वा । विधेयस्याऽदर्शनान्नायं स्वतन्त्रविधिरिति मत्वाह — इदं पदत्रयमधिक्रियत इति । स्वरितत्वप्रतिज्ञाबलादिति भावः । अधिकारस्योत्तरावधिमाह — प्राग्दिश इति यावदिति ।प्राग्दिसो विभक्ति॑रिति सूत्रमुत्तरावधिरित्यर्थःसमर्थाना॑मिति निर्धारणषष्ठी । प्राथम्यं चतस्यापत्य॑मित्यादितत्तत्सूत्रेषु प्रथमोच्चारितत्वम् । समर्थानां मध्ये प्रथमोच्चारितादित्यर्थः ।समर्थात्प्रथमाद्वे॑ति सुवचम् । केचित्तु बहुवचनबलादनेकसमर्थसमवाय एवास्य प्रवृत्तिः । एवंच 'प्राग्दिशः' इत्यादिषु स्वार्थिकप्रत्ययविधिषु नाऽस्य प्रवृत्तिरिति लभ्यते इत्याहुः ननु सुबन्तात्तद्धितोत्पत्तेर्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितयासमर्थः पदविंधि॑रिति परिभाषयैव एकार्थीभावरूपसामर्थ्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह — सामर्थ्यं परिनिष्ठितत्वमिति । समर्थः पटुः शक्त इति पर्यायाः । शक्तत्वं च कार्योत्पादनयोग्यत्वम् । शब्दस्य च कार्यमर्थप्रतिपादनमेव । तच्छक्तत्वं च कृतेष्वेव सन्धिकार्येषु संभवति । तथाच कृतसन्धिकार्यत्वमेव सामर्थ्यमिह पर्यवस्यति । तदाह — कृतसन्धिकार्यत्वम#इति ।", "41083": "<<प्राग्दीव्यतोऽण्>> - प्राग्दीव्यतोऽण् ।तेन दीव्यति खनति जयति जित॑मिति सूत्रस्थदीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्घटितं तत्सूत्रं लक्ष्यते । तदाह — तेन दीव्यतीत्यतः प्रागिति । तथाचतस्यापत्य॑मित्याद्युत्तरसूत्रेषु विधेयप्रत्ययविशेषाऽसंयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते ।कस्माद्भवती॑त्याकाङ्क्षायांसमर्थात्प्रथमा॑दिति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राऽणिति नोपतिष्ठते, अमित्यस्यौत्सर्गिकतया वैशेषिकेणेञादिना बाधात् ।", "41084": "<<अश्वपत्यादिभ्यश्च>> - अआपत्यादिभ्यश्च । चकारात्प्राग्दीव्यतोऽ॑णित्यनुकृष्यते । तदाह — एभ्योऽण् स्यादिति । दीव्यतः प्राक् — प्राग्दीव्यत् ।अपपरिबहिरञ्चवः पञ्चम्या॑ इत्यव्ययीभावः । 'झयः' इति टच् तु न, तस्य पाक्षिकत्वात् । प्राग्दीव्यति भवाः-प्राग्दीव्यतीयाः ।वृद्धाच्छः॑ ।अव्ययात्त्यबि॑ति तु न, अव्ययीभावस्याव्ययत्वेलुहृउखस्वरोपचाराः प्रयोजन॑मिति परिगणनात् । अत एवअव्ययानां भमात्रे टिलोपः॑ इत्यपि न भवति । ननुप्राग्दीव्यतोऽ॑णित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह — वक्ष्यमाणस्येति ।दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः ।", "41085": "", "41086": "<<उत्सादिभ्योऽञ्>> - उत्सादिभ्योऽञ् ।प्राग्दीव्यतीयेआर्थेष्वि॑ति शेषः । अणिञाद्यपवादः ।दृष्टं सामे॑ति सूत्रभाष्येसर्वत्राऽग्निकलिभ्यां ढग्वक्तव्यः॑ इति वार्तिकं पठितम् ।दृष्टं सामे॑त्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः । ॒तत्र सर्वत्रे॑ति त्यक्त्वा लाघवात्प्राग्दीव्यतीयेष्वेवेदं वार्तिकं पठति — अग्निकलिभ्यामिति । अपत्यादीति । अग्निर्देवता अस्य इत्यादिसङ्ग्रहः । आग्नेयं कालेयमिति । ढकि एयादेशे कित्त्वादादिवृद्धौ 'यस्येति च' इति लोपः । इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः ।", "41087": "<<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> - अथाऽपत्याधिकारो निरूप्यते । स्त्रीपुंसाभ्याम् । भवनशब्देनधान्यायां भवने क्षेत्रे ख॑ञिति सूत्रं विवक्षितम् । 'प्राग्दीव्यत' इत्यतः प्रागित्यननुवृत्तम् । तदाह — धान्यानामिति । स्त्रीपुंसाभ्यामिति ।अचतुरे॑त्यच् । स्त्रीशब्दात्, पुंस्शब्दाच्चेत्यर्थः । स्त्रैण इति । स्त्रिया अपत्यं, स्त्रीषु भवः स्त्रीणां समूह इत्यादिविग्रहः । नञ्, वृद्धिः, णत्वम् । पौंस्न इति । पुंसोऽपत्यं, पुंसि भवः, पुंसां समूह इत्यादिविग्रहः । पुंस्शब्दात् स्नञिस्वादिषुइति पदत्वात्संयोगान्तलोपः, आदिवृद्धिः । प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नञ्प्रत्ययस्यैव विधौ तु पुंसः सकारस्य संयोगान्तलोपे 'पुन्न' इति स्यादिति भावः । वत्यर्थे नेति ।तेन तुल्यं क्रिया चेद्वति॑रिति वतिप्रत्ययो वक्ष्यते । तस्यार्थे स्त्रीपुंसाभ्यां नञ्स्नञौ न भवत इत्यर्थः । कुत इत्यत आह स्त्री पुंवच्चेति ज्ञापकादिति । अन्यथापुंव॑दिति निर्देशोऽनुपपन्नः स्यादिति भावः । न चपुंव॑दिति निर्देशः पुंस्शब्दाद्वतद्यर्थे स्नञभावं ज्ञापयेन्नतु स्त्रीशब्दान्नञभावमपीति वाच्यं, नञ्स्नञोरेकसूत्रोपात्ततया वत्यर्थे स्नञभावे ज्ञापिते सति स्त्रीशब्दान्नञभावस्यापि लाभात्, ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तं भाष्येयोगापेक्षं ज्ञापक॑मिति ।", "41088": "<<द्विगोर्लुगनपत्ये>> - द्विगोर्लुगनपत्ये । द्विगोरिति हेतुत्वसंबन्धे षष्ठी । लुक्श्रवणात्प्रत्ययस्येत्युपस्थितम्, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । तताचद्विगुनिमित्तस्य प्रत्ययस्य लु॑गिति लभ्यते । द्विगुनिमित्तश्च प्रत्ययस्तद्धित एव भवति तद्धितार्थे विषये तद्विधानात् । ततश्चद्विगुनिमित्तस्य तद्धितस्ये॑ति लभ्यते । द्विगुनिमित्तस्य तद्धितस्ये॑ति लभ्यते । प्राग्दीव्यत॑ इत्यनुवृत्तेः । तद्धितविशेषणं ।गोत्रेऽलुगची॑त्युत्तरसूत्रेऽचीति सप्तम्यन्तस्य गोत्रविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहाऽपकृष्यते । तच्च षष्ठआ विपरिणतं तद्धितविशेषणम् । तदाह — द्विगोर्निमित्तमित्यादिना । पञ्चकपाल इति । 'संस्कृतं भक्षाः' इत्यण् । तद्धितार्थे द्विगुः । अणो लुक् । प्रत्ययलक्षणाऽभावान्नादिवृद्धिः । पञ्चकपालस्येदमिति । पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासेऽणो लुकि निष्पन्नात्पञ्चकपालशब्दात्तस्येद॑मित्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राऽणोलुङ्न भवति अणो द्विगुनिमित्तत्वाऽभावादिति भावः । पञ्चगर्गरूप्यमिति । पञ्चभ्यो गर्गेभ्य आगतमित्यर्थे 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । 'तद्ध#इतार्थ' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाऽभावान्न लुगिति भावः । द्वैमित्रिरिति । अत्रअत इ॑ञिति इञोऽपत्यार्थकत्वान्न लुगिति भावः । न च तिस्नो विद्या अधीयानस्तैविद्य इत्यत्राप्यणो लुक् स्यादिति वाच्यं, त्र्यवयवा विद्या त्रिविद्या । शाकपार्थिवादिः । त्रिविद्यामधीते त्रैविद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाऽभावात् । प्राग्दीव्यतीयस्येति । किम् । पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम् ।", "41089": "<<गोत्रेऽलुगचि>> - गोत्रेऽलुगचि ।अलु॑गिति च्छेदः । 'प्राग्दीव्यत' इत्यनुवृत्तेः, प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लब्धम् । अचीति तद्विशेषणं । तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह — अजादावित्यादिना । गोत्रप्रत्ययस्येति । गोत्रार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लब्धम् । गर्गाणां छात्रा इति । वक्ष्यमाणोदाहरणविग्रहप्रदर्शनमिदम् । गर्गस्य गोत्रापत्यं गार्ग्यः ।गर्गादिभ्यो यञ् । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यञि कृते तस्ययञञोश्चे॑ति लुकि 'गर्गा' इति भवति । वृद्धाच्छ इति । गाग्र्य शब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः । छस्य ईयादेशः, तस्मिन्भविष्यति अजादौ परेयञञोश्चे॑ति प्राप्तो लुङ् न भवति ।", "41090": "<<यूनि लुक्>> - यूनि लुक् । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्चप्राग्दीव्यतीये प्रत्यये॑ इति लभ्यते । अचीति प्रत्ययविशेषणं, तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह — अजादौ प्राग्दीव्यतीये विवक्षिते इति । युवप्रत्ययस्येति । युवार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम्,अत इ॑ञितीञः प्राप्तेरित्यत आह — वक्ष्यमाण इति ।प्राचामवृद्धात्फिन्बहुल॑मित्यनेने॑ति शेषः । आयन्नादेशे ग्लुचुकायनिरिति रूपमिति भावः । तत इति । ग्लुचुकायनेरपत्यार्थेतस्यापत्य॑मित्यणि आदिवृद्धौयस्येति चे॑ति लोपे 'ग्लौचुकायन' इति रूपमित्यर्थः । तस्येति । ग्लौचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापत्याऽणो लुकि 'ग्लौचुकायन' इत्येव रूपमित्यर्थः । ननु युवापत्याऽणःयस्येति चे॑ति लोपेनैव छात्रार्थे ग्लौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह — अणो लुकीति । छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याऽणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाऽभावाच्छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वाच्छः स्यात् । अतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः । स्थितश्चातुर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद्द्वैतीयीको युवप्रत्ययलुगनुक्रम्यते- ।", "41091": "<<फक्फिञोरन्यतरस्याम्>> - ॒इञः प्राचा॑मिति लुङ्नेत्यर्थः । अथ प्रकृतं चातुर्थिकं लुग्विधिमनुसरति — फक्फिञोरन्यतरस्यां । यूनीत्येवेति ।यूनि लु॑गिति पूर्वसूत्रमनुवर्तते इत्यर्थः ।यूनि लु॑गित्यक्तो लुक् फक्फिञोर्वा स्यादित्यर्थः । तदाह — पूर्वेणेति । कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वाद्यञ् । तस्यापत्यं युवा — कात्यायनः ।यञिञोश्चे॑ति फक् । कात्यायनस्य छात्रा इत्यर्थेतस्येद॑मित्यनुवृत्तौ 'वृद्धाच्छः' इति छः । तस्य ईयादेशः । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य-ईय इति स्थिते॒यस्येति चे॑त्यकारलोपेआपत्यस्य चे॑ति यलोपे 'कातीया' इति रूपम् । फको लुगभावे तु 'कात्यायनीया' इति रूपमित्यर्थः । यस्कस्येति । यस्कस्य गोत्रापत्यमित्यर्थेअत इ॑ञिति इञपवादः शिवाद्यणित्यर्थः । तस्येति । यास्कस्यापत्यं युवेत्यर्थेअणो द्व्यचः॑इति फिञि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः । तस्य छात्रा इति । यास्कायनेश्छात्रा इत्यर्थेतस्येद॑मित्यनुवृत्तौ 'वृद्धाच्छः' इति छः । तस्य ईयादेशः । 'यास्कायनीया' इति रूपम् । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थफकिञो लुकियस्येति चे॑त्यकारल#ओपे 'यास्कीया' इति रूपमित्यर्थः ।", "41092": "<<तस्यापत्यम्>> - तस्यापत्यं । तद्धिता इति, प्रत्ययः, परश्चेति चाधिकृतम् । तच्छब्दः सर्वनामतया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः । तस्य उपग्वादेरपत्यमित्यर्थे तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते ।कस्मात्परे प्रत्यया भवन्तीत्याकाङ्क्षायांसमर्थानां प्रथमाद्वे॑त्यधिकारात्प्रथमोच्चारितात्समर्थात्तच्छब्दलब्धोपग्वादेरिति लभ्यते । प्रातिपदिकादित्यधिकृतम् ।घकालतनेषु कालनाम्नः॑ इति तरप्तमप्तनेषु तद्धितेषु परतः सप्तम्या अलुग्विधानात्सुपस्तद्धितोत्पत्तज्र्ञापितत्वात्सुप्शिरस्कात्प्रातिपदिकादिति लभ्यते । सुप् चेह तस्येति प्रथमोच्चारिति पदे उपस्थितत्वात्षष्ठएव गृह्रत । ततश्च षष्ठन्तादिति फलति ।सामर्थ्यं कृतसंधिकार्यत्व॑मित्युक्तमेव । तदाह — षष्ठन्तात्कृतसन्धेरिति ।समर्थः पदविधि॑रिति परिभाषया लब्धमाह — समर्थादिति । विशिष्टैकार्थप्रतिपादकादित्यर्थः । सुबन्तात्तद्धितोत्पत्त्या तद्धितविधीनांपदविधित्वादिति भावः । उक्ता इति ।प्राग्दीव्यतोऽ॑णित्याद्या औत्सर्गिका इत्यर्थः । वक्ष्यमाणश्चेति ।अत इ॑ञित्याद्या वैशेषिका इत्यर्थः । वा स्युरिति ।समर्थानां प्रथमाद्वे॑त्यधिकृतत्वादिति भावः ।अपत्यं पौत्रप्रभृति गोत्र॑मित्युत्तरसूत्रव्याख्यावसरेऽपत्यशब्दो व्याख्यास्यते । औपगव इति । उपगोरणि आदिवृद्धिः । ओर्गुणः । अवादेशः । अत्र प्रकृत्यैव उपगोर्लाभादपत्यमेव प्रत्ययार्थ इति स्थितिः । ननु उपगु अ इति स्थिते ओर्गुणात्परत्वात्अचो ञ्णिती॑ति वृद्धिः स्यात्, ओर्गुणस्य 'पशव्य' इत्यादौ चरितार्थत्वात् । कृते च गुणे अवादेशे सतिअत उपधायाः इति बृद्धिर्दुर्निवारा । त्वष्टुरपत्यं त्वाष्ट्रः, मघवतोऽपत्यं माघवत इत्यादौ गुणाऽप्रसक्त्या अन्त्योपधावृद्ध्योर्निर्बाधत्वाच्च । नच परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाध्येते इति वाच्यं, विप्रतिषेधे हि परस्य पूर्वबाधकता । नचेह विप्रतिषेधोऽस्ति, देशभेदेनोभयसंभवात् । नाप्यन्त्योपधावृद्ध्योरपवाद आदिवृद्धिरिति वक्तुं शक्यं सुश्रुतोऽपत्यं सौश्रुत इत्यादौ अन्त्योपधावृद्ध्योरप्राप्तयोरप्यादिवृद्धे प्रवृत्तेः । तस्मादादिवृद्धिस्थलेऽन्त्योपधावृद्धी स्यातामित्यत आह — आदिवृद्धिरिति ।अचो ञ्णिती॑त्यन्त्यवृद्धिम्, 'अत उपधायाः' इत्युपधावृद्धिः, पुष्करसच्छब्दस्य अनुशतिकादौ पाठात् । तत्र यद्यादिवृद्धिरन्त्योपधावृद्धी न बाधेत, तदा आदिवृद्ध्या उपधावृद्ध्या च पौष्करसादेः सिद्धत्वादनुशतिकादौ पुष्करसच्छब्दपाठोऽनर्थकः स्यात् । अतस्तक्रकौण्डिन्यन्यायात्सत्यपि सम्भवे बाधनं भवतीति विज्ञायत इति भाष्ये स्पष्टम् । तस्येदमित्यपत्येऽपीत्यादि । श्लोकवार्तिकमिदम् । तत्र प्रथमचरणस्यायमर्थः — तस्येदमिति विहितोऽण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात् । अतस्तस्यापत्यमित्यण्विधानं व्यर्थमित्याक्षेपः । नचअत इ॑ञित्याद्युत्तरसूत्रार्थंतस्यापत्य॑मित्यावश्यकमिति वाच्यम्, एवं हि सति 'तस्यापत्यमत इ' ञित्येकमेव सूत्रमस्तु । तथा चतस्यापत्य॑मिति पृथक्सूत्रकरणं व्यर्थमित्याक्षेपः पर्यवस्यति । अत्र समाधत्ते — बाधनार्थं कृतं भवेदिति ।तस्येद॑मित्यणं बाधित्वावृद्धाच्छः इति छोऽपत्ये प्राप्तः, तद्वाधनार्थंतस्यापत्य॑मिति पृथक्सूत्रं कृतमित्यर्थः । ननु 'वृद्धाच्छः' इति सूत्रं शेषाधिकारस्थम्, अपत्यादिचतुथ्र्यन्तेभ्योऽन्यः शेषः, तथाच अपत्यार्थस्य शेषाधिकारस्थत्वाऽभावात्, तस्मात्तत्र छप्रत्ययस्याऽप्रसक्तेस्तद्बाधनार्थत्वंतस्यापत्य॑मित्यस्य कथमित्यत आह — उत्सर्गः शेष एवासाविति । उत्सृज्यते अदन्त-बाह्वादिप्रकृतिभ्यो इत्युत्सर्गः । कर्मणि घञ् । अदन्त-बाह्वादिभिन्नप्रकृतिसंबद्धोऽपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः । आक्षेप्तुर्हि॒तस्याप्तयमत इ॑ञित्येकसूत्रमभिमतम् । विनियुक्तादन्यः शेषः । अदन्त-बाह्वादिप्रकृतिसंयुक्ताऽपत्यार्थ एव विनियुक्तो नतु तद्भिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि । ततस्च तस्य शेषत्वात्तस्मिन्नपत्ये छस्य प्रसक्तत्वात्तद्बाधनार्थंतस्यापत्य॑मिति पृथक्सूत्रम् । सति चास्मिन् पृथक्सूत्रे प्रकृतिसामान्यसंयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छस्य न प्राप्तिरित्यप्राप्तिसंपादनद्वारा छबाधकत्वंतस्यापत्य॑मिति पृथक्सूत्रस्य सिद्धम् । अयमप्राप्तबाध इत्युच्यते । नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वाच्छस्य नैव प्रसक्तिरिति किं पृथक्सूत्रेणेत्यत आह — वृद्धान्यस्य प्रयोजनमिति । भानोरपत्यं भानव इत्यादौ यानि भान्वादिप्रातिपदिकानि वृद्धानि, यानि उपग्वादिप्रातिपदिकानि नामधेयत्वाद्वृद्धानि, तेभ्यश्छप्रत्ययबाधनार्थंतस्यापत्य॑मिति पृथक्सूत्रमित्यर्थः । ननुतस्येद॑मित्यणि इदन्त्वेन बोधः,तस्यापत्य॑मित्यणि त्वपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात्तस्येदमित्यपत्येऽपि॑ इत्याक्षेप एवाऽयमनुपपन्न इति चेन्न, एतद्वार्तिकभाष्यप्रामाण्येनतस्येद॑मितीदंशब्देन अपत्यस्य इदंत्वेन ग्रहणाऽभावविज्ञानात् ।प्रदीयतां दाशरथाय मैथिली॑ति त्वार्षत्वान्न दुष्यतीत्यास्तां तावत् । कृतसन्धेः किमिति ।समर्थानां प्रथमाद्वे॑त्यधिकारसूत्रस्थसमर्थग्रहणलब्धं कृतसन्धेरित्येतत्किमर्थमिति प्रश्नः । सौत्थितिरिति । सु=शोभन उत्थितः सूत्थितः । प्रादिसमासे सवर्णदीर्घः । सूत्थितस्यापत्यं सौत्थितिः । अत इञ्, सुब्लुक्, आदिवृद्धिः,यस्येति चे॑त्यकारलोपः ।कृतसंधे॑रित्यभावे तु सु-उत्थितैत्यस्यामेव दशायां सवर्णदीर्घात्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः । नन्वन्तरङ्गत्वात्सवर्णदीर्घे कृते तदुत्तरमेव इञ्प्रत्यय उचितः, परादन्तरङ्गस्य बलवत्त्वात् । ततश्च सन्धेः प्राक् तद्धितोत्पत्तेरप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आह-अकृतेति । अन्तरङ्गपरिभाषाया अप्यपवादभूतया अक-तव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात् । ततश्च आदिवृद्ध्यपोक्षया अन्तरङ्गोऽपि सवर्णदीर्घोऽकृतव्यूहपरिभाषया आदिवृद्धेः प्राक् न प्रवर्तते । एवञ्च सवर्णदीर्घात्प्रागेवादिवृद्धौ आवादेशे सावुत्थितिरिति स्यादित्यर्थः । नच इञि सति कृते सवर्णदीर्घे ऊकारस्य जायमानया वृद्ध्यासवर्णदीर्घंनिमित्तस्य कस्यचिद्विनाशाऽभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यं,यदि सवर्णदीर्घो न स्यात्तदा सु-उत्थित इत्यवस्थायां सकारादुकारस्य वृद्ध्या औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्या॑दिति संभावनयाऽकृतव्यूहपरिभाषायाः प्रवृत्तेरिति कथञ्चिद्योज्यम् । वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव , भाष्ये क्वाप्यव्यवह्मतत्वात्, प्रत्युत भाष्यविरुद्धत्वाच्च ।विप्रतिषेधे परं कार्य॑मिति सूत्रभाष्ये हिपरादन्तरङ्गं बलीयः-इत्युक्त्वा सोत्थितिरित्यत्र परामप्यादिवृदिंध बाधित्वा अन्तरङ्ग एक#आदेश इत्युक्तम् । पदस्य विभज्यान्वाख्याने-सु उत्थित इति स्थिते परत्वाद्वृद्धिः प्राप्ता । अन्तरङ्गत्वादेकादेश इति कैयटः । अकृतव्यूहपरिभाषासत्त्वे तदसङ्गतिः स्पष्टैव । 'सेदुष' इत्यादावकृतव्यूहपरिभाषाफलस्यान्यथासिद्धिस्तु तत्र तत्र प्रपञ्चितैवेत्यास्तां तावत् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः ।वस्त्रमुपगोरपत्यं चैत्रस्येति । अत्र उपगुशब्दादपत्ये अण्न भवति, उपगोर्वस्त्रेणैवान्वयात् । यद्यपि तत्संबन्ध्येऽपत्ये प्रत्ययविधानादिह च अपत्यस्य तच्छब्दवाच्योपगुसंबन्धाऽभावादेव अत्र प्रत्ययस्य न प्रसक्तिस्तथापि ऋद्धस्य औपगवमित्यादिवारणाय सामर्थ्यमेकार्थीभावलक्षणमाश्रयणीयमिति भावः । अपत्यवाचकादिति । उपगुरपत्यमस्य देवदत्तप्त्येत्यर्थे औपगवो देवदत्त इति माभूदित्यर्थः ।प्रथमा॑दित्युक्तौ तुतस्यापत्य॑मिति सूत्रे षष्ठन्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्तान्न भवतीत्यर्थः । वाग्रहणाद्वाक्यमपीति । वाग्रहणाऽभावे हि तद्धितस्य नित्यत्वादुवगोरपत्यमिति वाक्यं न स्यादिति भावः । ननु उपग्वपत्यमिति कथं षष्ठीसमासः, तद्धितानां समासापवादत्वात् । नच तद्धितानां पाक्षिकत्वात्तदभावपक्षे षष्ठीसमासो निर्बाध इति वाच्यम्,अपवादेन मुक्ते उत्सर्गो न प्रवर्तते॑ इतिपारे मध्ये षष्ठआ वे॑ति वाग्रहणेन ज्ञापितत्वादित्यत आह — देवयज्ञीति सूत्रादिति । जातित्वादिति । अपत्यार्थंकाऽणन्तस्य औपगवशब्दस्य 'गोत्र च चरणैः सह' इति जातित्वान्ङीषित्यर्थः । आआपत इति । अआपतेरपत्यमिति विग्रहः । पत्युत्तरपदलक्षणं ण्यं बाधित्वा॒अआपत्यादिभ्यश्चे॑त्यणिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः ।दित्यदिती॑ति ण्योऽणपवादः । औत्स इति । उत्सः कश्चित्, तस्यापत्यमिति विग्रहः ।उत्सादिभ्योऽ॑ञित्यञ् इञाद्यपवादः । स्वरे विशेषः । स्त्रैणः । पौंस्न इति । स्त्रिया अपत्यं, पुंसो ।ञपत्यमिति विग्रहः ।स्त्रीपुसाभ्या॑मिति नञ्स्नञौ । अणोऽपवादः ।", "41093": "<<एको गोत्रे>> - एको गोत्रे । संख्याविशेषोपादाने तदितरसङ्ख्याव्यवच्छेदस्य स्वभावसिद्धत्वादेक एवेति गम्यते । अपत्याधिकारात्प्रत्ययाधिकाराच्चापत्यप्रत्यय इति तद्विशेष्यलाभः । तदाह — गोत्रे एक एवापत्यप्रत्ययः स्यादिति । औपगव इति । उपगोर्गोत्रापत्येतस्यापत्य॑मित्यण् । गाग्र्य इति । गर्गस्य गोत्रापत्ये 'गर्गादिभ्य' इति यञ् । नाडायन इति । नडस्य गोत्रापत्ये 'नडादिभ्यः' इति फक् ।गोत्र एक एव प्रत्ययः स्या॑दित्येबोक्तौ त्वनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिञ्प्रत्ययो न निवार्येत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वार्येत । अतोऽपत्यग्रहणमित्याहुः । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाऽप्रसक्तेव्र्यर्थमिदं सूत्रमिति चेत्, मैवम्-अपत्यशब्दो हि पुत्र एव रूढ इत्येक पक्षः । पुत्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतत्अपत्यं पौत्रप्रभृती॑ति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुं प्रत्यपत्यत्वाऽभावात्तस्यापत्य॑मित्यण्न सम्भवति । ततश्च उपगुपुत्रे वाच्येतस्यापत्य॑मित्यणा औपगवशब्दे व्युत्पादिते सति, औपगवस्यापत्ये वस्तुतः उपगोस्तृतीया गोत्रे विवक्षिते औपगवशब्दात्अत इ॑ञिति इञि औपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवञ्च उपगोस्तृतीये विवक्षिते उपगोरण् औपगवादिञिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात् । तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमिञ्प्रत्ययमण्प्रत्ययो घटयतीति सोऽप्यनिष्ट एव । तथाच तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादित्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । सच वस्तुतोऽणेव, न त्विञ्, अदन्तत्वाऽभावात् । विहिते च तस्मिन्नौपगवादिञपि निवर्तते, गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वमाला निवर्तते । एवमुपगोश्चतुर्थे विविक्षिते तस्य उपगुं तत्पुत्रं च प्रत्ययपत्यत्वाऽभावात् पौत्रं प्रत्येवापत्यत्वादौपगविशब्दात्यञिञोश्चेति फकि प्रकृतित्रयादनिष्टा 'औपगवायन' इति प्रत्ययत्रयमाला स्यात् । उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिञिऔपगवायनि॑रित्येवं प्रकृतिचतुष्टयमाला स्यात् । षष्ठे तु औपगवायनिशब्दात्फकि 'औपगवायनायन' इत्येवं प्रकृतिपञ्चकात्पञ्च प्रत्ययाः स्युः । तदेवं फगिञोः परम्परायां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः । तदेवं फगिञोः परम्परायां मूलप्रतृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः । अत्र तृतीयप्रभृति कस्मश्चिद्गोत्रे विवक्षिते उपगुं प्रत्यनपत्येऽपि तस्मिन् 'एको गोत्रे' इत्यणेव भवति, नतु इञादि । यदा त्वपत्यशब्दः पुत्रपौत्रादिसाधारणस्तदा यद्यपि उपगोरनन्तरापत्ये पुत्रे इव पौत्रादिष्वपि विवक्षितेषुतस्यापत्य॑मित्यणि औपगव इतीष्टं सिध्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्तरापत्ये उपगोस्तृतीये विवक्षिते द्वितीयस्मादेकः प्रत्ययोनिष्टः प्रसज्येत । एवमुपगोश्चतुर्थे विवक्षिते सिद्धेऽपि उपगोरणि औपगवे, तस्मादिञि औपगविः, तस्मात्फकि औपगवायन इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत । तत्रापि उपगोर्मूलप्रकृतेरणिष्ट एव । इञ्फकौ तु प्रत्ययावनिष्टौ । तथा उपगोश्चतुर्थे विवक्षिते द्वितीयस्मादेकोऽनिष्टप्रत्ययः, तृतीयस्मादन्य इत्येवं प्रकृतिद्वयादनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवं पञ्चमे प्रकृतित्रयात्रयः प्रत्ययाः । षष्ठे प्रकृ-तिचतुष्टय#आच्चत्वारः प्रत्यया इत्येवं मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनिष्टप्रत्ययाः स्युः । तत्र 'एको गोत्रे' इति नियमविधिः — ॒गोत्रे एक एव प्रत्ययः स्या॑दिति । तत्रापि प्रथमातिक्रमे कारणाऽभावान्मूलप्रकृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूत्रे एकशब्दः प्रथमपर्यायः ।एके मुख्यान्यकेवलाः॑ इत्यमरः । मुखे भवो मुख्यः=प्रथमः ।एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा॑ इति कोशान्तरम् । तथाच मूलप्रकृतेरेव गोत्रे विवक्षिते स्वयोग्यप्रत्ययलाभ इति व्याख्यान्तरम् । गोत्रे एकः प्रथम एवशब्दः प्रत्ययत्पादक इति । तदेतत्सर्वं श्लोकद्वयेन संगृह्णाति — गोत्रे स्वैकोनेति । अत्र प्रथमश्लोकान्ते श्रुतं 'प्रसज्यते' इत्येतत्पदं पूर्वार्धे परम्परेत्यनन्तरमपि संबध्यते । तत्र स्वं=गोत्रं मूलपुरुषोपग्वपेक्षया यत्संख्याकं तदपेक्षया एकोनसङ्ख्याकानामनिष्टप्रत्ययानां परम्परैवोक्तरीत्या प्रसज्येत, नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिध्यतीत्यर्थः ।यद्वेति । स्वं=गोत्रं, तत् मूलपुरुषोपग्वक्षया यत्सङ्ख्याकं तदपेक्षया द्व्यूनसङ्ख्याकप्रकृतिभ्यस्तावतां प्रत्ययानामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्यत इत्यर्थः । ननु कथमिदं पक्षद्वयमित्यत आह — अपत्यमित्यादि मतभेदेनेत्यन्तम् ।पुत्र एवापत्य॑मिति पक्षे प्रथमः पक्ष उन्मिषथतीति,पुत्रपौत्रादि साधारणोऽपत्यशब्द॑ इति पक्षे तु द्वितीयः पक्ष उन्मिषतीति भावः । तद्धान्यै इति । तस्य=उक्तप्रकाराभ्यामनिष्टोत्पादनस्य हानिः=निवृत्तिः, तदर्थमिदमित्यर्थः । तथोत्तरमिति ।गोत्राद्यून्यस्त्रिया॑मित्युत्तरसूत्रमपि तथा योज्यमित्यर्थः । तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टं प्रपञ्चयति — पितुरेवेत्यादिना । औपगवादिञ्स्यादिति ।अत इञ् इत्यनेने॑ति शेषः । औपगवादेव इञ् स्यन्नतूपगोरणित्यर्थः, तृतीयस्य उपगुं प्रत्यपत्यत्वाऽभावादिति भावः । चतुर्थे त्वित्यतः पूर्वम्उपगो॑रिति शेषः । अजीवज्ज्येष्ठे इति । जीवन् ज्येष्ठो यस्येति विग्रहः । जीवति तु ज्येष्ठे चतुर्थस्यभ्रातरि च ज्यायसी॑ति युवसंज्ञया गोत्रत्वं बाध्येतेति भावः । औपगवेः फगिति ।यञिञोश्चेनेने॑ति शेषः । एकोनेति । एकोनशतात्प्रकृतिभ्यः एकोनशतं प्रत्यया अनिष्टाः स्युरित्यर्थः । अथाऽपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे अनिष्टं प्रपञ्चयति — पितामहादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपक्षस्य निराकरणात्अपत्यं पौत्रप्रभृति॑ इति सूत्रस्वरसाच्च बोध्यम् । इष्टे सिद्धेऽपीति । तृतीयादीनामप्यपत्यत्वेन तत्रतस्यापत्य॑मित्यणो निर्बाधत्वादिति भावः । तत इति । इञन्तादित्यर्थः । अष्टनवतेरिति । 'प्रकृतिभ्यः' इति शेषः । अनिष्टप्रत्ययाः स्युरिति ।अष्टनवति॑रिति शेषः । नियमार्थमिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथमपक्षे, तथापि गर्गात्तृतीयादिषु विवक्षितेषु गोत्रविहितगर्गादियञा गाग्र्यशब्दस्येष्टस्य सिद्धावपि गर्गादिञि ततः फिञित्येवं प्रत्ययपरम्पराप्तनिष्टा प्राप्नोतीति नियमार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः । एवमुत्तरसूत्रेऽप्यूह्रमिति । तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते ।", "41094": "<<गोत्राद्यून्यस्त्रियाम्>> - गोत्राद्यून्यस्त्रियाम् । गर्गस्य गोत्रं गार्ग्यः, गर्गस्य तृतीयः । 'गर्गादिभ्यः' इति गोत्रे यञ् । गाग्र्यस्य तृतीयः सगर्गस्य पञ्चमो युवापत्यं, तस्मिन्बुबोधयिषिते गाग्र्यशब्दात् गोत्रप्रत्ययान्तात्यञिञोश्चे॑ति फकि 'गाग्र्यायण' इति रूपमिष्यते । तथा षष्ठादिष्वपि युवापत्येषु 'गाग्र्यायण' इत्येवेष्यते । तदिदमपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे यद्यपि सुलभमेव,गर्गात्तृतीयं गाग्र्यं प्रति पञ्चमादीनामप्यपत्यत्वात्, तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अन्तरापत्ये इञि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अन्तरापत्ये इञि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि 'गार्गायण' इत्यपि स्यात् । तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाऽभावात् यञभावे इञि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि 'गार्गायण' इति स्यात् । गोत्रपत्ययान्तादेव यूनि प्रत्यया॑ इति नियमः क्रियते — गोत्राद्यूनी॑ति । तदाह — यून्यपत्ये गोत्रप्रत्ययान्तादेवेति । नतु मूलप्रकृतेस्तदनन्तरापत्यप्रत्ययान्ताद्युवप्रत्ययान्ताच्चेति भावः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात्, नतु तृतीयवाचिगोत्रप्रत्ययान्तादिति तत्र विष्यर्थमेवेदं स्यात्, नतु नियमार्थमिति वाच्यं,पुत्रपौत्रादिसाधारणोऽपत्यशब्द॑ इत्येव भाष्ये सिद्धान्तितत्वादिति भावः । स्त्रियां तु न युवसंज्ञेति । इहअस्त्रिया॑मिति योगो विभज्यते । यूनीत्यनुवर्तते । उभयमपि प्रथमया विपरिणम्यते । तथाचस्त्री उक्तयुवसंज्ञिका ने॑ति फलितमिति भावः । नच स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते, एवं सत्येकवाक्यत्वलसाभादिति वाच्यं, युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच 'एको गोत्रे' इति नियमात्तन्निवृत्तिः संभवतीति वाच्यं, युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच सत्यपि योगविभागेस्त्रियां न युवप्रत्यय॑ इति व्याख्यायतामिति वाच्यं, गोत्रप्रत्ययेन युवत्यभिधानानापत्तेरित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गाग्र्यशब्दाद्गोत्रे यञन्तात्फकि 'गाग्र्यायण' इति रूपमित्यर्थः । स्त्रियां युवसंज्ञानिषेधस्य प्रयोजनं दर्शयति — स्त्रियामिति । पञ्चमादियुवतीनां युवसंज्ञानिरहेण गोत्रत्वात् । 'एको गोत्रे' इति नियमाद्गार्गीत्येव भवति, नतु गाग्र्यायणीति रूपमित्यर्थः ।स्त्रीभिन्ने यूनि गोत्रादेवे॑त्यर्थाश्रयणे तु युवसंज्ञया गोत्रसंज्ञाया बाधात् 'एको गोत्रे' इत्यस्याऽप्रवृत्तेः प्रत्ययमाला स्यादिति भावः ।", "41095": "<<अत इञ्>> - अत इञ् । प्रातिपदिकादित्यधिकृतमता विशेष्यते, तदन्तविधिः । तदाह — अदन्तं यत्प्रातिपदिकमिति ।तस्यापत्य॑मित्यनुवृत्तंसमर्थानां प्रथमाद्वे॑ति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धं । सुबन्तात्द्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात्षष्ठएव विवक्षिता । तथा च षष्ठन्तात्प्रातिपदिकादिति लभ्यते । यद्यपि प्रातिपदिकं न षष्ठन्तं, प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमुदायस्यैव लाभात् । तथापि प्रातिपदिकप्रकृतिषष्ठन्तादित्यर्थो विवक्षितः । तदाह — तत्प्रकृतिकात्षष्ठन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ् । आदिवृद्धिः,यस्येति चे॑त्यकारलोपः ।प्रदीयतां दाशरथाय मैथिली॑ति त्वार्षमितितस्यापत्य॑मित्यत्र निरूपितम् । प्रातिपदिकग्रहणाऽननुवृत्तौ त्वदन्तात्षष्ठन्तादिति लभ्येत । तथा च दक्षयोरपत्यं दाक्षिरिति न सिध्येदिति भावः ।", "41096": "<<बाह्वादिभ्यश्च>> - बाह्वादिभ्यश्च ।अपत्ये इ॑ञिति शेषः । बाहविरिति । बाहुर्नाम कश्चिदृषिः, अथ 'ऋषयः' इत्यधिकृत्य॒बाहविर्गाग्र्यगौतमौ॑ इत्याआलायनसूत्रे दर्शनात् । बाहोरपत्यमिति विग्रहः । इञि ओर्गुणः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । इञि 'नस्तद्धिते' इति टिलोपः । आदिवृद्धिः, अदन्तात्वाऽभावादप्राप्तिः ।", "41097": "", "41098": "<<गोत्रे कुञ्जादिभ्यश्च्फञ्>> - गोत्रे कुञ्ज । स्पष्टम् । इञोऽपवादः । च्फञिचञावितौ ।", "41099": "<<नडादिभ्यः फक्>> - नडादिभ्यः फक् । इञोऽपवादः । अनन्तरो नाडिरिति । अनन्तरापत्यस्य गोत्रत्वाऽभावात्फगभावे इञेवेत्यर्थः ।", "41100": "<<हरितादिभ्योऽञः>> - ॒हरितादिभ्योऽञ॑ इत्यादि स्पष्टम् ।", "41101": "<<यञिञोश्च>> - यञिञोश्च । 'गोत्रे' इत्यधिकृतं यञिञोर्विशेषणं, नतु विधेयस्य फकः, व्याख्यानात् । तदाह — गोत्रे यौ यञिञाविति । सामर्थ्याद्यून्ययम् । न हि गोत्रप्रत्ययात् गोत्रप्रत्ययोऽस्ति, 'एको गोत्रे' इति नियमात् । अनातीति । गर्गस्य गोत्रं गार्ग्यः । गर्गादित्वाद्यञ् । गाग्र्यस्यापत्यं युवेत्यर्थे यञन्तात्फकि आयन्नादेशअनाती॑ति पर्युदासात्आपत्यस्य चे॑ति यलोपाऽभावे णत्वे 'गाग्र्यायण' इति रूपमित्यर्थः । दाक्षायण इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ्, दाक्षेरपत्यं युवा दाक्षायणः । इञन्तात्फक् । गोत्रे किम् । सुतङ्गमस्यादूरभव इत्यर्थेसुतङ्गमादिभ्य इ॑ञितीञि सौतङ्गमेरपत्ये न फक् ।", "41102": "<<शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु>> - शरद्वच्छुनक । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे फगिति । आद्यौ विदादी इति । शरद्वच्छुनकशब्दौ विदादी । अतस्तदुभयविषयेऽञपवाद इत्यर्थः । दर्भविषये त्विञोऽपवाद इति स्पष्टमेव । दर्भः — कस्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादिञ् । आग्रायणश्चेदिति । अग्रो नाम कश्चिदृषिः । नडादिफगन्तोऽयम् ।", "41103": "<<द्रोणपर्वतजीवन्तादन्यतरयाम्>> - द्रोणपर्वत । अनादिरिति । अस्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः,तदपेक्षया अन्य एवायमनादिद्रोण इत्यर्थः । अआत्थाम्नीति । द्रोणाचार्यस्यानन्तरापत्ये अआत्थाम्नि 'द्रौणायन' इति प्रयोग इत्यर्थः । तदिदंबाह्वादिभ्यश्चे॑ति सूत्रे भाष्ये स्पष्टम् ।", "41104": "<<अनृष्यानन्तर्ये बिदादिभ्योऽञ्>> - अनृष्यानन्तर्ये ।अनृषी॑ति लुप्तपञ्चमीकम् । बिदादिभ्योऽञिति द्विरावर्तते । तथा चअनृष्यानन्तर्ये विदादिभ्योऽ॑ञिति कृत्स्नमेकं वाक्यं ।बिदादिभ्योऽ॑ञिति वाक्यान्तरं । तत्र द्वितीयं वाक्यं व्याचष्टे — एभ्योऽञ्गोत्रे इति । गोत्रे विवक्षिते विदादिभ्योऽञ्स्यादित्यर्थः ।अथ प्रथमं वाक्यं कृत्सनसूत्रं व्याचष्टे — ये त्विति । अनृषिभ्यो विदादिभ्योऽनन्तरापत्येऽञ्स्यादित्यक्षरार्थः । विदादौ हि ऋषयोऽनृषयश्च पठिताः । तत्र येऽनृषयस्तेभ्योऽनन्तरापत्येऽञिति फलितमिति भावः । नन्वानन्तर्ये इति श्रवणादनन्तर इति कथमित्यत आह — सूत्रे स्वार्थे ष्यञिति ।अनन्तरशब्दा॑दिति शेषः । चतुर्वर्णादित्वादिति भावः । बिदस्य गोत्रापत्यं बैद इति । बिदस्य ऋषित्वात्ततो गोत्र एवाऽञिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । नन्वनन्तरापत्येऽञभावे इञपवाद ऋष्यणेवोचित इति कथमनन्तरो वैदिरित्यत आह — बाह्वादेरिति । बिदादिगणस्थादनृषेरनन्तरात्येऽञमुदाहरति — पौत्रो दौहित्र इति । पुत्रस्यानन्तरापत्यमिति, दुहितुरनन्तरापत्यमिति च विग्रहः । यथायथमणिञोपरपवादेऽञ् ।", "41105": "<<गर्गादिभ्यो यञ्>> - गर्गादिभ्यो यञ् । गाग्र्यो वात्स्य इति । गर्गस्य गोत्रपत्यमिति, वत्सस्य गोत्रापत्यमिति च विग्रहः ।रामो-जामदग्न्यः॑, 'पाराशर्यो व्यास' इत्यादौ त्वनन्तरापत्ये गोत्रात्वारोपाद्यञित्याहुः ।", "41106": "<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> - मधुबभ्व्रोः । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे यञिति । मधुशब्दाद्वभ्रुशब्दाच्च गोत्रापत्ये यञ्स्याद्वाहृणे कौशिके च यथासङ्ख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिर्गर्गाद्यन्तर्गणै इति भावः । बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियञि बाभ्रव्यशब्दात्सर्वत्र लोहितादिकतन्तेभ्यः॑ इति ष्फः ।आयन्नादेशः, षित्त्वान्ङीषिति भावः ।", "41107": "<<कपिबोधादाङ्गिरसे>> - कपिबोधादा । गोत्रे यञ्स्यादिति । शेषपूरणमिदं । कपिशब्दाद्बोधशब्दाच्च आङ्गिरसात्मके गोत्रे गम्ये यञ्स्यादित्यर्थः । कापेय इति । अत्र गोत्रस्य अनाङ्गिरसत्वाद्यञभावे 'इतश्चानिञः' इति ढक् । बौधिरिति । अत्राप्यनाङ्गिरसत्वाद्यञभावे ऋष्यणं बाधित्वा बाह्वादित्वादिञिति भावः । कपेर्गर्गादौ पाठेऽपि आङ्गिरस एवेति नियमार्थं ग्रहणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी । बोधशब्दात्तु अप्राप्ते विधिः ।", "41108": "<<वतण्डाच्च>> - वतण्डाच्च । वतण्डस्य गर्गादौ शिवादौ च पाठाद्यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थमिदम् ।", "41109": "", "41110": "<<अश्वादिभ्यः फञ्>> - अआआदिभ्यः । गोत्रे इति । शेषपूरणमिदम् । 'आङ्गिरसे' इति निवृत्तम् । आआआयन इति । अआस्य गोत्रापत्यमिति विग्रहः । इञपवादः फञ् । पुंसि जाते इति । गणसूत्रम् । प्रकृतिविशेषणमिति । पुंसि विद्यमानो यो जातशब्दस्तस्माद्गोत्रे फञित्यर्थः । जातेय इति । स्त्रीब्यो ढक् ।", "41111": "<<भर्गात् त्रैगर्ते>> - भर्गात्रैगत्रे । इदमपि गणसूत्रम् । त्रिगर्तो नाभ भर्गस्य पुत्रः । तस्यापत्यं त्रैगर्तः । ऋष्यण् । तस्मिन्गोत्रे भर्गात्फञ् ।", "41112": "<<शिवादिभ्योऽण्>> - शिवादिभ्योऽण् । निवृत्तमिति । वृत्तिकैयटयोस्थोक्तत्वादिति भावः ।यूनि लु॑गिति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते । तत्तु मतान्तरमित्येके । तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम् ।", "41113": "<<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> - अवृद्धाभ्यो नदी । नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तुअवृद्धेभ्यो नदीमानुषीनामभ्य॑ इत्येव सूत्रयितुमुचितमिति व्याचष्ट — अवृद्धेभ्य इत्यादि । ननुतस्यापत्य॑मित्येकसिद्धे किमर्थमिदमित्यत आह — ढकोऽपवाद इति । चिन्तिता नाम काचिन्मानुषी । वासवदत्तेय इति । वासवदत्ता नाम काचिन्मनुष्यस्त्री । तस्या अपत्यमिति विग्रहः । वृद्धसंज्ञकत्वादणभावे ढगिति भावः । वैनतेय इति । विनताया अपत्यमिति विग्रहः । विनता नाम गरुडमाता, सा न मानुषी, नापि नदीति भावः । शौभनेय इति । शोभनाशब्दोऽयं न नदीमानुषीनामेति भावः ।", "41114": "<<ऋष्यन्धकवृष्णिकुरुभ्यश्च>> - ऋष्यन्धक । प्रलीना वेदास्तपोबलवशाद्यान् अर्षन्ति=प्राप्तनुवन्ति ते ऋषयः । तथा च तैत्तिरीये श्रुतम् — ॒अजान्ह वै पृश्नींस्तपस्यमानान्ब्राहृ स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्व॑मिति । अजाः=नित्याः, पृस्नयः=शुक्लाः । शुद्धा इति यावत् । तान्तपस्यमानांस्तपश्चरतः स्वयम्भु=अनादि ब्राहृ वेदः अभ्यानर्षत् ।ऋष गतौ॑ । आभिमुख्येन प्राप्नोत् । ते वेदस्य अर्षणादृषिशब्दवाच्या अभव॑न्निति वेदभाष्यम् ।सर्बादिसमये वेदान्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा । ॑ इति पुराणेषु प्रसिद्धं कात्यायनप्रणीतसर्वानुक्रमणिकाख्यग्रन्थेस्पष्टमेतत् । तदाह — ऋषयो मन्त्रद्रष्टार इति । अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः । ऋषिविशेषवाचिभ्योऽन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । इञोऽपवादः । ऋषिभ्य उदाहरति — बासिष्ठः वैआआमित्र इति ।अन्धकेभ्य इति । अन्धकवंश्यवाचिभ्य उदाह्यियते इत्यर्थः । वासुदेव इति । वसुदेवस्यापत्यमिति विग्रहः । आनिरुद्ध इति । अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चिद्वृष्णिवंश्यः, तस्यापत्यं शौरिः कथम्स अण्प्रसङ्गादित्यत आह — शौरिरिति त्विति ।बाह्वादित्वा॑दित्यनन्तरमिञा समाधेय॑मिति शेषः । कुरुभ्य इति । कुरुवंश्यवाचिभ्य उदाह्यियते इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । नन्वत्रेरपत्यमित्यर्थे '#इतश्चानिञ' इति ढकि आत्रेय इति कथम्, ऋष्यणा इञ इव ढकोपि बाधौचित्यादित्यत आह — इञ एवेति । न तु ढक इत्यर्थः ।", "41115": "<<मातुरुत् संख्यासम्भद्रपूर्वायाः>> - मातुरुत् । द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । 'तद्धितार्थ' इति समासः । अण् । ऋकारस्योकारः । रपरत्वम् । एवं षाण्मातुरः सांमातुर इति । समीचीना माता संमाता, संमातुरपत्यं सांमातुरः । अण् उत् । रपरत्वं । भाद्रमातुर इति । भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननुतस्यापत्य॑मित्येव सिद्धेऽण्विधिव्र्यर्थ एवेत्यताअह — आदेशार्थं वचनमिति । उदादेशस्य अण्सन्नियोगेन विध्यर्थमित्यर्थः । ननु धान्यं यो मिमीते तस्यापि मातुग्र्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह — स्त्रीलिङिगनिर्देशीऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोप्यसङ्ख्यासम्भद्रपूर्वाया॑ इति निर्दिश्यते । अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः ।सौमात्र इति । सुमातुरपत्यमित्यर्थेतस्यापत्य॑मित्यण् । सङ्ख्यासम्भद्रपूर्वत्वाऽभात्वात् नायमण्, उत्त्मपि तत्सन्नियोगशिष्टत्वान्नेति भावः । ननु द्वैमात्रेय इति कथम्, सङ्ख्यापूर्वकतया अण उत्त्वस्य च दुर्वारत्वादित्यत आह — शुभ्रादित्वादिति ।शुब्राआदिभ्यश्चे॑ति ढकि रूपमित्यर्थः ।", "41116": "<<कन्यायाः कनीन च>> - कन्यायाः क ।कनीने॑ति लुप्तप्रथमाकम् । ढक इति ।स्त्रीभ्यो ढ॑हिति विहितस्येत्यर्थः । कनीनादेशश्चेति ।प्रकृते॑रिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम् । ननु कन्याया अप्रादुर्भूतयौवनत्वात्पुंसंयोगाऽभावात्कथमपत्यसम्बन्ध इत्यत आहानूढाया इति । अलब्धविवाहाया इत्यर्थः । एतच्च भाष्ये स्पष्टम् ।", "41117": "<<विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु>> - विकर्ण । वत्सादिशब्दैस्तद्वंश्या विवक्षिताः । विकर्ण, शुङ्ग, छगल एभ्योऽण् स्यात्, वत्संवश्ये भरद्वाजवंश्येऽत्रिवंश्ये चापत्ये इत्यर्थः । एतेन वत्सादीनां विकर्ण, शुङ्ग, छगल एभ्योऽण् स्यात्, वत्सवंश्ये भरद्वाजवंश्येऽत्रिवंश्ये चापत्ये इत्यर्थः । एतेन वत्सादीनां मूलपुरुषत्वाद्विकर्णादीन्प्रत्यपत्यत्वाऽसम्भव इति निरस्तम् ।विकर्णादिभ्यो वात्स्यादिष्वेव ऋष्य॑णिति नियमार्थं सूत्रं ।", "41118": "<<कुलटाया वा>> - कुलटाया वा । इनङ्मात्रमिति । व्याख्यानादिति भावः । पूर्वेणैवेति ।स्त्रीभ्यो ढ॑गित्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति रुलटा । शकन्ध्वादित्वात्पररूपम् । अत्रेति ।कुलटाया वे॑ति सूत्रे इत्यर्थः । पक्षे ढ्रगिति । ढ्रगपि कदाचिद्भवतीत्यर्थः । कौलटेर इति । कुलटाया ढ्रकि ढकारस्य एयादेशेलोपो व्यो॑रिति यकारलोप इति भावः ।", "41119": "<<ढक् च मण्डूकात्>> - अन्यथा शैवः शैविरित्यादिः स्यात्, ढक् च । मण्डूको नाम ऋषिः पक्षे इञिति । पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः ।", "41120": "<<स्त्रीभ्यो ढक्>> - स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चातुर्थिका गृह्यन्ते, न त्वन्येऽपि स्त्रीवाचका, व्याख्यानादित्याह — स्त्रीप्रत्ययान्तेभ्य इति । विनता नामगरुडमाता, तस्या अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् । दरत्कश्चित्क्षत्रियः, तस्यापत्यं स्त्री दरत् ।द्व्यञ्मगधे॑त्यण् ।अतश्चे॑ति तस्य लुक् । तस्या अपत्यं-दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वाऽभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः, सपत्न्या अपत्यं सापत्न इति कथं, ढक्प्रसङ्गादित्यत आह — बाह्वादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति प्रागेवोक्तम् ।", "41121": "<<द्व्यचः>> - द्व्यचः । ननुस्त्रीभ्यो ढ॑गित्येव सिद्धे किमर्थमिदमित्यत आह — तन्नामिकेति । दात्तेय इति । दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः । ननु पृथाया अपत्यं पार्थ इति कथम्, तन्नामिकाऽणं बाधित्वा 'द्व्यचः' इति ढक्प्रसङ्गादित्यत आह — पार्थ इत्यत्रेति । शिवादित्वादपत्य एवाऽणित्यन्ये ।", "41122": "<<इतश्चानिञः>> - इतश्चाऽनिञः । अस्त्रीप्रत्ययान्तार्थमिदम् । दुलिः निधिश्च-कश्चित् । आत्रेय इति । अत्रिः प्रसिद्धः । परत्वादयमृष्यणमपि बाधत इति भावः ।", "41123": "<<शुभ्रादिभ्यश्च>> - शुभ्रादिभ्यश्च । ढक् स्यादिति । शेषपूरणम् । इञाद्यपवादः । शुभ्रस्यापत्यमिति । अस्त्रीत्वादप्राप्तौ ढगिति भावः ।", "41124": "<<विकर्णकुषीतकात् काश्यपे>> - विकर्णकुषीत । अपत्ये ढगिति । शेषपूरणम् ।काश्यप एवे॑ति नियमार्थं शुभ्रादिभ्यः पृथक् पाठः ।", "41125": "<<भ्रुवो वुक् च>> - भ्रुवो वुक् च । चाड्ढगिति । भ्रूशब्दादपत्ये ढक् स्यात्प्रकृतेर्वुगागमश्च । वुकि ककार इत् । उकार उच्चारणार्थछः । कित्त्वादन्तावयवः । भ्रौवेय इति । भ्रूर्नाम काचित्, तस्या अपत्यमिति विग्रहः । ढकि एयादेसे प्रकृतेर्वुकि आदिवृद्धिः । वुगभावे तु ऊकारस्य वृद्धौ आवादेसे 'भ्रावेय' इति स्यात् ।", "41126": "<<कल्याण्यादीनामिनङ्>> - काल्याणिनेय इति । कल्याण्या अपत्यमिति विग्रहः । बान्धकिनेय इति । बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठन्ते । तेभ्यो ढक्सिद्ध एव इनङेव तु विधीयते ।", "41127": "", "41128": "<<चटकाया ऐरक्>> - चटकायाः । चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्त्रीलिङ्गनिर्देशात्पुंलिङ्गान्न स्यादित्यत आह — चटकादिति । सूत्रे 'चटकाया' इत्यपनीयचटका॑दिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह — लिङ्गेति । स्त्रिया अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायटाश्चेत्यर्थः । ननु चटकेति कथं, जातित्वान्ङीष्प्रसङ्गादित्यत आह — अजादित्वादिति ।", "41129": "<<गोधाया ढ्रक्>> - गोधाया ढ्रक् । गौधेर इति । गोधाया अपत्यमिति विग्रहः । ढ्रकि ढकारस्य एयादेशेलोपोव्यो॑रिति यलोपः । कित्त्वादादिवृद्धिरिति भावः ।", "41130": "<<आरगुदीचाम्>> - आरगुदीचां । गोधाया आरग्वा स्यादित्यर्थः । अन्यत इति । आकारान्तादन्यत् अदन्तं, तस्मादपि क्वचिद्विधानार्थमित्यर्थः । जाडार इति । रग्विधौ आकारो न श्रूयेतेति भावः । पण्डो — नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना ।", "41131": "<<क्षुद्राभ्यो वा>> - श्रुद्राभ्यो वा । अङ्गहीना इति । चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति । सद्वृत्तहीना इत्यर्थः । यथेष्टपुरुषसंचारिण्य इति यावत् ।अनियतपुंस्का अङ्गहीना वा क्षुद्राः॑ इति भाष्यम् ।", "41132": "<<पितृष्वसुश्छण्>> - पितृष्वसुश्छण् । पैतृष्वस्त्रीय इति । पितृस्वसुरपत्यमिति विग्रहः । छस्य ईयादेशे आदिवृद्धिः । करारादृकारस्य यण् ।", "41133": "<<ढकि लोपः>> - ढकि लोपः ।पितृष्वसु॑रित्यनुवर्तते । अलोऽन्त्यपरिबाषयाऽन्त्यस्य लोपः । तदाह — पितृष्वसुरन्त्यस्य लोप इति । ननु पितृष्लसुरपत्ये ढक एक दुर्लभत्वात्कथं तस्मिन्परे लोपविधिरित्यत आह — अत #एवेति । शुब्राआदित्वाड्ढगित्यन्ये । पैतृष्वसेय इति । ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः ।मातृपितृभ्यां स्वसे॑ति षत्वम् ।", "41134": "<<मातृष्वसुश्च>> - मातृष्वसुश्चा । चकाराच्छण्, ढकि लोपश्चानुकृष्यते । तदाह — पितृष्वसुर्यदुक्तमिति ।", "41135": "<<चतुष्पाद्भ्यो ढञ्>> - चतुष्पाद्भ्यो । चतुष्पादः-पशवः । तद्विशेषवाचिभ्योऽपत्ये ढञित्यर्थः ।", "41136": "<<गृष्ट्यादिभ्यश्च>> - गृष्टआदिभ्यश्च । अण्ढकोरिति । गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्रयु एते गृष्टआदयः । अत्राऽन्त्ययोरृषित्वादण्प्राप्तः ।अन्येभ्यस्तु 'इतश्चाऽनिञः' इति ढक्प्राप्त इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गोरेव । ततश्च 'चतुष्पाद्भ्यः' इत्यनेन न प्राप्तिः ।", "41137": "<<राजश्वशुराद्यत्>> - राजआशुराद्यत् । राजन्शब्दाच्छ्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अणिञोरपवादः । राज्ञो जातावेवेति । जातिः समुदायवाच्याचेदित्यर्थः ।", "41138": "<<क्षत्राद्घः>> - क्षत्राद्धः । 'अपत्ये' इति शेषः । क्षत्रिय इति । घस्य इयादेशेयस्येति चे॑त्यकारलोपः । क्षात्रिरन्य इति । क्षत्राच्छूद्रादाबुत्पन्न इत्यर्थः ।", "41139": "<<कुलात् खः>> - कुलात्खः । 'अपत्ये' इति शेषः । कुलीन इति । खस्य ईनादेशः । ननु 'समासप्रत्ययविधौ' इति तदन्तविधिनिषेधादाढकुलीन इति कथमित्यत आह — तदन्तादपीति । आढकुलीन इति । आढकुलशब्दात्कर्मधारयात्खः । कुले आध्यत्वप्रतीतिरत्र फलम् । कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः ।", "41140": "<<अपूर्वपदादन्यतरस्यां यड्ढकञौ>> - अपूर्वपदादन्यतरस्याम् । कुलादित्येवेति । पूर्वपदरहितात्कुलादपत्ये यड्ढकञौ वा स्त इत्यर्थः । पक्षे ख इति । यड्ढकञोरभावपक्षे इत्यर्थः । बहुकुल्य इति 'विभाषा सुपः' इति बहुच्प्रत्ययो न पदम् । अतः पूर्वपदरहितत्वाद्यड्ढकञ्खा भवन्त्येवेत्यर्थः ।", "41141": "<<महाकुलादञ्खञौ>> - महाकुलादञ्खञौ । अनुवर्तत इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्ते उत्सर्गस्याऽप्रवृकत्तेः पीलाया वे॑त्यत्रोक्तत्वात्पूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह — पक्षे ख इति । तथा सति आदिवृद्धिर्नेति भावः ।", "41142": "<<दुष्कुलाड्ढक्>> - दुष्कुलाड्ढक् । पूर्ववदिति । अन्यतरस्याङ्रग्रहणानुवृत्तेरिति भावः ।", "41143": "<<स्वसुश्छः>> - स्वसुश्छः । 'अपत्ये' इति शेषः । स्वस्त्रीय इति । छस्य ईयादेशः, ऋकारस्य यण् ।", "41144": "<<भ्रातुर्व्यच्च>> - भ्रातुव्र्यच्च । तकारःतित्स्वरित॑मिति स्वरार्थ इति बोध्यम् ।", "41145": "<<व्यन् सपत्ने>> - व्यन्सपत्ने । अपत्ये इति । प्रत्ययेनाऽपत्यमुच्यते । भ्रातृशब्दार्थस्तु न विवक्षितः । तथाच भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुरिति भाष्ये स्पष्टम् । ननुपाप्मना भ्रातृव्येणे॑ति कथं, पाप्मनोऽपत्यत्वाऽभावादित्यत आह — उपचारादिति । हिंसकत्वगुणयोगाल्लाक्षणिक इत्यर्थः ।", "41146": "<<रेवत्यादिभ्यष्ठक्>> - रेवत्यादिभ्यष्ठक् । 'अपत्ये' इति शेषः । ढगाद्यपवादः ।", "41147": "<<गोत्रस्त्रियाः कुत्सने ण च>> - गोत्रस्त्रियाः । 'ण' इति लुप्तप्रथमाकं चाट्ठगनुकृष्यते । तदाह — गोत्रं यास्त्रीत्यादिना । सामर्थ्यादिति । 'एको गोत्रे' इति नियमादिति भावः । गाग्र्या अपत्यमिति । गर्गस्य गोत्रापत्यं स्त्री गार्गी । 'गर्गादिभ्यः' इति यञ् ।यञश्चे॑ति ङीप् ।यस्येति चे॑त्यकारलोपः ।हलस्तद्धितस्ये॑ति यकारलोपः ।छ गाग्र्या अपत्यं युवेति विग्रहः । पितुरविज्ञानेमात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे चयस्येति॑चे॑ति लोपे गार्ग गार्गिकः इति सिध्यति, तथापि वस्तुस्थितिमाह — पुंवद्भ्वादिति ।भस्याढे॑इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमब्युपगम्य गाग्र्यशब्दादित्युक्तम् । तच्च समूहाधिकारेभिक्षादिभ्योऽ॑णित्यत्र स्फुटीभविष्यति । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा । गोत्रेति किं । णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्ध्यर्थम् ।", "41148": "<<वृद्धाट्ठक् सौवीरेषु बहुलम्>> - वृद्धाट्ठक्सौ । पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते । सौवीरेष्विति प्रकृतिविशेषणं । तदाह — वृद्धादिति ।वृद्धिर्यस्याचामादि॑रिति वृद्धिसंज्ञकादित्यर्थः । ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरं गोत्रापत्यं — भागावित्तिः, तस्यापत्य युवेत्यर्थे ठकि इकादेसे भागवित्तिक॑ इति रूपमित्यर्थः । पक्षे फगिति । 'यञिञोश्चे' त्यनेने॑ति शेषः ।", "41149": "<<फेश्छ च>> - फेश्छ च ।छे॑ति लुप्तप्रथमाकम् । यमुन्दस्येति ष यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दायनिरिति । यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाऽभावाच्छठगभावेतस्यापत्य॑मित्यण् ।ण्यक्षत्रियार्षे॑ति तस्या लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावेतस्यापत्य॑मित्यण् । 'ण्यक्षत्रिये' ति तस्य लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावेतस्यापत्य॑मित्यण् ।ण्यक्षत्रिये॑ति तस्य लुगिति भावः ।", "41150": "<<फाण्टाहृतिमिमताभ्यां णफिञौ>> - फाण्टाह्मति ।सौवीरेष्विति । शेषपूरणमिदम् । सैवीरगोत्रादित्यर्थः । फाण्टाह्मतस्य गोत्रापत्यं फाण्टाह्मतिः, अत इञ् । तस्यापत्यं युवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाऽभावाच्चेति भावः ।", "41151": "<<कुर्वादिभ्यो ण्यः>> - कुर्वादिभ्यो ण्यः । अपत्ये इति । शेष पूरणमिदम् ।सौवीरेष्वि॑ति निवृत्तम् । कौरव्या ब्राआहृणा इति । कुरुर्नाम कश्चिद्ब्राआहृणः । तस्यापत्यानीति विग्रहः । ण्यप्रत्यये ओर्गुणे अवादेशः । आदिवृद्धिः । यस्तु 'कुरुनादिभ्यो ण्यः' इति ण्यो वक्ष्यते, तस्य तद्राजत्वाद्बहुषु लुकि-॒कुरवः क्षत्रियाः॑ इति भवति । एतत्सूचनार्थमेव बहुवचनं, 'ब्राआहृणा' इति विशेष्यं चोदाहृतम् । वावदूक्या इति । वावदूकस्यापत्यानीति विग्रहः । सम्राजः क्षत्रिये इति । कुर्वादिगणसूत्रम् । 'अपत्ये' इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् । साम्राजोऽन्य इति । सम्राजः क्षत्रिये इति । कुर्वादिगणसूत्रम् । 'अपत्ये' इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् । साम्राजोऽन्य इति । सम्राजः शूद्रादौ उत्पन्न इत्यर्थः ।", "41152": "<<सेनान्तलक्षणकारिभ्यश्च>> - सेनान्त । एभ्य इति । सेनान्तलक्षणकारिभ्य इत्यर्थः । अकुर्वादित्वाद्वचनम् । हारिषेण्य इति । हरिषेणो नाम कश्चित् ।एति संज्ञायां॑मिति षत्वम् । तस्याऽसिद्धत्वात्सेनान्तत्वाण्ण्यः । लाक्षण्य इति । लक्षणमस्यास्तीति लक्षणः । अर्शाअद्यच् । तस्यापत्यमिति विग्रहः । कारिपदं व्याचष्टे — कारिः शिल्पीति । तस्मादिति । कारिविशेषवाचिनो ण्ये सतीत्यर्थः । तान्तुवाय्य इति । तन्तुवायस्यापत्यमिति विग्रहः । कौम्भकार्य इति । कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति । नापितस्यापत्यमिति विग्रहः ।", "41153": "<<उदीचामिञ्>> - उदीचामिञ् । सेनान्तलक्षणकारिभ्य इञ् स्यादुदीचां मते इत्यर्थः । परत्वात्फिञेवेति ।उदीचां वृद्धा॑दित्यनेनेति शेषः ।तक्ष्णोऽण उपसङ्ख्यानमिति ।उदीचांमते॑इति शेषः । ताक्ष्ण इति । अणि प्रकृतिभावान्न टिलोपः ।अल्लोपस्तुषपूर्वह॑न्निति वचनाद्भवति । पक्षे ताक्षण्य इति । प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः । 'ये चाऽभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः ।", "41154": "<<तिकादिभ्यः फिञ्>> - तिकादिभ्य फिञ् । इञोऽपवादः । तैकायनिरिति । फञि आयन्नादेशः ।", "41155": "<<कौसल्यकार्मार्याभ्यां च>> - कौसल्य । परमप्रकृतेरेवेति । कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ्, तस्य युट् चेति वक्तव्यमित्यर्थः ।", "41156": "<<अणो द्व्यचः>> - अणो द्व्यचः । अपत्ये फिञिति । शेषपूरणमिदम् । द्व्यचोऽण्प्रत्यान्तादपत्ये फिञित्यर्थः । कात्र्रायणिरिति । कर्तु छात्रः कार्त्रः ।तस्येद॑मित्यणम् । कात्र्रस्यापत्यं कात्र्रायणिः । फिञि आयन्नादेशे णत्वम् । दाक्षायण इति । दक्षस्यापत्यं दाक्षिः । अत इञ् । दाक्षेरपत्यं दाक्षायणः ।यञिञोश्चे॑ति फक् । अण्णन्तत्वाऽभावान्नफिञिति भावः । औपगविरिति । उपगोर्गोत्रापत्यमौपगवः । तस्यापत्यमौपगविः युवा । द्व्यच्त्वाऽभावान्न फिञिति भावः । कर्तुरपत्ये तु कुर्वादिगणे पाठाण्ण्य एवेति बोध्यम् ।त्यदादीनां फिञ्वा वाच्यः । त्यादायनिः त्यादः॑ इति क्वचित्पुस्तके दृश्यते । तत्तु प्रामादिकं,त्यदादीनि चे॑ति त्यदादीनां वृद्धत्वात्उदीचां वृद्धा॑दित्येव सिद्धेः, भाष्येऽस्य वार्तिकस्याऽदर्शनाच्च ।", "41157": "<<उदीचां वृद्धादगोत्रात्>> - उदीचां वृद्धा । वृद्धसंज्ञकादगोत्रप्रत्ययान्तात्फिञ्स्यादुदीचां मते इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यमिति विग्रहः । प्राचां त्विति । 'मते' इति शेषः । आम्नगुप्तिः । अत इञ् । औपगविरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इञेवेति भावः ।", "41158": "<<वाकिनादीनां कुक् च>> - वाकिनादीनां । शेषपूरणेन सूत्रं व्याचष्टे — अपत्ये फिञ्वेति । चकारादुदीचामिति फिञिति चानुवर्तते इति भावः । तथा च वाकिनादिभ्यः फिञ् वा स्यात्, प्रकृतीनां कुगागमश्चेति फलितम् ।", "41159": "<<पुत्रान्तादन्यतरस्याम्>> - पुत्रान्तादन्यतरस्यां । स्पष्टम् ।", "41160": "<<प्राचामवृद्धात् फिन् बहुलम्>> - प्राचामवृद्धात् । अवृद्धसंज्ञकादपत्ये बहुलं फिन् स्यादित्यर्थः । प्राचांग्रहणं पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् । राजदन्तिः । बहुवग्रहणान्नेह — दाक्षिः ।", "41161": "<<मनोर्जातावञ्यतौ षुक् च>> - मनोर्जातौ । मनुशब्दादञ् यत् एतौ प्रत्ययौ स्तः, तयाः परयोर्मनुशब्दस्य षुगागमश्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामित्यर्थः । तदाह — समुदायार्थो जातिरिति । नात्राऽपत्यग्रहणं संबध्यत इति भावः । अन्यथा 'मानुषा' इत्यत्रयञञोश्चे॑ति लुक्स्यादिति बोध्यम् ।", "41162": "<<अपत्यं पौत्रप्रभृति गोत्रम्>> - अपत्यम् । अपत्याधिकारात्सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह — अपत्यत्वेन विवक्षितमिति । एवंच पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसंज्ञेति भावः ।सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ॑ इति कोशतो गोत्रशब्दस्य सन्ततिवाचकत्वात्पुत्रस्यापि गोत्रत्वे प्राप्ते प्रौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननुआत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे॑ इत्यादिकोशादपत्यशब्दस्य पुत्र एव रूढत्वात्कथमम्अपत्यं पौत्रप्रभृती॑ति सामानाधिकरण्यमिति चेत्, मैवम् — अपत्यशब्दो हि नात्मजपर्यायः किंतु पुत्रपौत्रादिसंततिपर्यायः,न पतन्ति नकरे पितरो येन तदपत्य॑मितिपङ्क्तिविंशती॑ति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति 'एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारतादौ जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वादुपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यं, यस्य यः पौत्रादिस्तस्य तद्गोत्रमिति व्याख्यानादित्यलम् ।", "41163": "<<जीवति तु वंश्ये युवा>> - जीवति । वंशः — उत्पादकपित्रादिपरम्परा । तत्र भवो वंश्यः । दिगादित्वाद्यत् । तदाह — वंश्ये पित्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौत्रप्रभृति इत्यनुवृत्तं षष्ठआ विपरिणम्यत इति भावः । यदपत्यमिति ।तस्यापत्य॑मित्यतस्तदनुवृत्तेरिति भावः । तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः । तदाह — युवसंज्ञमेनेति । तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन्न समावेश इति भावः । युवसञ्ज्ञया सहगोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलङ्कुः कश्चित्, तस्य गोत्रापत्यं शालङ्किः । इञ् । पैलादिगणे शालङ्कीति पाठात्प्रकृतेः शलङ्कादेशश्च । शालङ्केरपत्यं युवापि शालङ्किरेव ।यञिञोस्चे॑ति फक् ।पैलादिभ्यश्चे॑ति तस्य लुक् । शालङ्केर्यूनछात्रा इत्यर्थेइञश्चे॑त्यणि 'शालङ्का' इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । 'पीलाया वा' इत्यण् । पैलस्यापत्यं युवापि पैल एव । 'अणो द्व्यचः' इति फिञ् ।पैलादिभ्यश्चे॑ति तस्य लुक् । पैलस्य यूनश्छात्र इत्यर्थे वृद्धाच्छः । 'पैलीया' इति रूपम् । युवगोत्रसंज्ञयोः समावेशे तु 'गोत्रेऽलुगचि' इति फक्फिञोरलुक्प्रसज्येतेत्यलम् ।", "41164": "<<भ्रातरि च ज्यायसि>> - भ्रातरि च ज्यायसि । जीवतीत्यनुवर्तते । तदाह — ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः ।पौत्रप्रभृती॑त्यनुवृत्तं षष्ठआविपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्रादेरपत्यमित्यर्थः । फलितमाह — चतुर्थादिरिति । मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम् ।", "41165": "<<वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (वृद्धस्य च पूजायाम्) (यूनश्च कुत्सायाम्)>> - वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे — पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति । सपिण्डास्तु-स्वयम्, पिता, पितामहः, प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः । एवं मातृसंषेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम् । स्थविरतरः — अतिवृद्धः । जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति । अत्रत्यं तु जीवतिपदं तिङन्तमपत्येऽन्वेति, यदपत्यं जीवति तद्युवसंज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति सति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति फलितम् । एकमिति । अत्रत्यमित्यर्थः । द्वितीयमिति । अनुवर्तमानमित्यर्थः । उभयोरिति । हेतुत्वसंबन्धे षष्ठी । उभयहेतुकोत्कर्षवाचकस्तरवित्यर्थः । तदेव विवृणोति-स्थानेन वयसा चेति । स्थानतः उत्कृष्टः-पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो-मातामहः । भार्तरीति संनिहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित् । पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति । जीवतिद्वयस्य किं प्रयोजनमिति प्रश्नः । मृते मृतो वा गाग्र्य एवेति । मृते सपिण्डे चतुर्थौ गाग्र्य एव, मृतश्च चतुर्थो गाग्र्य एवेत्यर्थः ।वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपदं विवृणोति-गोत्रस्यैव वृद्धसंज्ञा प्राचामिति । गोत्रमेववृद्ध॑मिति प्राचीनाचार्या व्यवहरन्तीत्यर्थः । तथा च वार्तिकस्य फलितमर्थमाह — गोत्रस्य युवसंज्ञा पूजायां गम्यमानायामिति । उदाहरति — तत्रभवान्गाग्र्यायण इति ।तत्रभवा॑निति पूज्यवाची, युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा । ता गोत्रप्रभृतिस्तृतीयोऽपि मन्यते ।अत्र युवसंज्ञाविधिसामर्थ्यात्स्वार्थे युवप्रत्ययो बोध्यः । गाग्र्यो जाल्म इति । वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विषयमिदम् ।", "41166": "", "41167": "", "41168": "", "41169": "<<साल्वेयगान्धारिभ्यां च>> - साल्वेय । ननु साल्वेयगान्धारिशब्दावव्युत्पन्नौ देशक्षत्रियोभयवाचिनौ, ताभ्यां जनपदशब्दादिञि सिद्धे किमर्थमिदमित्यत आह — ञ्यङोऽपवाद इति ।", "41170": "<<द्व्यञ्मगधकलिङ्गसूरमसादण्>> - द्व्यञ्मगध । अञोऽपवाद इति । जनपदशब्दादिति विहितस्याऽञोऽपवाद इत्यर्थः । द्व्यजिति । 'उदाह्यियते' इति शेषः । अङ्ग, वङ्ग, सुहृ-इत्येते द्व्यचो देशक्षत्रियवाचिनः । अङ्गस्यापत्यमिति विग्रहः । तस्य राजन्यप्येवमिति । अङ्गादिदेशस्य राजेति विग्रहः ।", "41171": "", "41172": "<<कुरुणादिभ्यो ण्यः>> - कुरुनादिभ्यो ण्यः । कुरुशब्दान्नकारादिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये राजनि च ण्यः स्यादित्यर्थः । कौरव्य इति । कुरोरपत्यं, कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजनि च । शैषिक इति ।तस्येदमित्यनेने॑ति शेषः ।", "41173": "<<साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्>> - साल्वावयव । उदुम्बरादय इति ।उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः । इति प्रसिद्धिः ।द्व्यञ्मगधे॑ति भाष्ये तु-बुध अजमीढ-अडक्रन्धा अपि गृहीताः ।", "41174": "<<ते तद्राजाः>> - ते तद्राजाः । ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते । तदाह — अञादय इति ।", "41175": "<<कम्बोजाल्लुक्>> - कम्बोजाल्लुक् । 'तद्राजा' इत्यनुवृत्तं षष्ठआ विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः । अबहुत्वार्थं सूत्रम् ।तदाह-कम्बोजः कम्बोजाविति ।जनपदशब्दा॑दिति विहितस्य अञो लुक् । चोलः शक इति । चोलशकौ देशविशेषौ, राजविशेषौ च द्व्यज्लक्षणस्येति ।द्व्यञ्मगधे॑ति विहितस्येत्यर्थः । केरल इति । केरलयवनशब्दौ देशराजोभयवाचिनौ । अञो लुगिति ।जनपदशब्दादिति विहितस्ये॑ति शेषः । ननु 'काम्बोज' इति कथं, लुक्प्रसङ्गादित्यत आह — कम्बोजाः समरे इति । दीर्घपाठे त्विति । अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः । अभिजन इति । यत्र पूर्वैरुषितं सोऽभिजन इत्यग्रे वक्ष्यति । सिन्धुतक्षेति । सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः ।", "41176": "<<स्त्रियामवन्तिकुन्तिकुरुभ्यश्च>> - स्त्रियामवन्ति । अवन्ती कुन्तीति । अवन्तेः कुन्तेश्चापत्यं स्त्री राज्ञी वेति विग्रहः ।वृद्धेत्कोसले ति ञ्यङोऽनेन लुकिइतो मनुष्यजाते॑रिति ङीष् । कुरूरिति । 'कुरुनादिभ्यः' इति ण्यस्य लुक् ।", "41177": "<<अतश्च>> - अतश्च । तद्राजस्याकारस्येति । 'अत' इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शूरसेनीति । अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वान्ङीष् ।न लुमते॑ति निषेधस्तु न, ङीष्विधेरङ्गकार्यत्वाऽभावात् । एवं मद्री ।", "41178": "<<न प्राच्यभर्गादियौधेयादिभ्यः>> - न प्राच्य । एभ्य इति । प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चेतियर्थः । एते प्राच्या इति । 'क्षत्रिया' इति शेषः । यथायथमञोऽणश्च लुक् । भर्गादीनुदाहरति — भार्गीस कारूशी, कैकेयीति । जन्यजनकभावेति । अत्र यद्वक्तव्यं तत्पुंयोगादाख्याया॑मित्यत्रोक्तम् । अथ यौधेयादिभ्यो लुक्प्रतिषेधं दर्शयितुमाह — युधा, शुक्रा इत्यादिना । ढगिति । युधाया अपत्यं, शुक्राया अपत्यमिति विग्रहे तन्नामिकाऽणं बाधित्वा 'द्व्यचः' इति ढकि एयादेशेयस्येति चे॑त्यकारलोपे आदिवृद्धिः । यौधेयशब्दात्, शौक्रेयशबदाच्चपर्ाआदियौधेयादिभ्योऽणञौ॑ इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अञियस्येति चे॑त्यकारलोपे 'शाङ्र्गरवाद्यञः' इति ङीनि यौधेयी शौक्रेयीति रूपमिति भावः । नन्वत्र 'अतश्च' इत्यञोलुकि सत्यपिटिड्ढे॑ति ङीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणनर्थकमित्यत आह — अतश्चेति लुकि त्विति । उदात्तनिवृत्तीति । अनुदात्तस्य च यत्रोदात्तलोपः॑ इत्यनेन ङीबुदात्तः स्यात् । सिद्धान्ते त्वञन्तत्वान्ङीनि आद्युदात्तत्वमिति भावः ।", "42001": "<<तेन रक्तं रागात्>> - तेन रक्तं रागात् । रज्यत इति । रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रञ्जेः करणे घञि कृतेगञि च भावकरणयो॑रिति नलोपेचजोः कुघिण्ण्यतो॑रिति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः । तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति ।तेने॑ति सामान्यनिर्देशः । तथाच तेन रक्तं=वर्णान्तरं प्राप्तमित्यर्थे, रागात्=रञ्जनद्रव्यवाचकात्तृतीयान्तादण् स्यादित्यर्थः,प्राग्दीव्यतोऽणि॑त्यधिकारात् । कषायेणेति । कषायो धातुविशेषः, रञ्जनद्रव्यं, तेन रक्तं वर्णान्तरं प्राप्तं काषायमित्यर्थः । माञ्जिष्ठमिति । मञ्जिष्ठानाम रञ्जनद्रव्यविशेषः ।", "42002": "<<लाक्षारोचना (शकलकर्दमा) ट्ठक्>> - लाक्षारोचनाट्ठक् । अमोऽपवादः । लाक्षिक इति । 'पट' इति शेषः । लाक्षया रक्त इति विग्रहः । रौचनिक इति । रोचनया रक्त इति विग्रहः । शाकलिक इति । शकलं — रागद्रव्यविशेषः । वृत्तिरिति । भाष्ये तु नैतद्दृष्टम् । नील्या अनिति । 'वक्तव्य' इति शेषः । अणोऽपवादः । नीली ओषधिविशेषः । ॒पीतात्कन् । अणोऽपवादः । पीतं हरितालकादि द्रव्यम् ।हरिद्रामहेति । अणोऽपवादः । स्वरे विशेषः । हरिद्रा प्रसिद्धा । महारजनं — नाम रागद्रव्यविशेषः । इति रक्ताधिकारः ।", "42003": "<<नक्षत्रेण युक्तः कालः>> - नक्षत्रेण । अस्मिन्नर्थे प्रथमोच्चारितान्नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमा-नक्षत्रशब्देन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः । पौषमहरिति । पुष्यशब्दादणितिष्यपुष्ययोर्नक्षत्राऽणि यलोपः॑ इति यलोपः । पौषी रात्रिरिति । पुष्ययुक्तचन्द्रमसा युक्तेत्यर्थः । अणि यलोपेटिड्ढे॑ति ङीप् । नक्षत्रेणेति किम् । चन्द्रेण युक्ता रात्रिः । कालः किम् । पुष्येणयुक्तश्चन्द्रमाः ।", "42004": "<<लुबविशेषे>> - लुबविशेषे । षष्ठिदण्डेति । षष्टिघटिकापरिच्छिन्ने काले एकैकस्मिन्नेकैकेन नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः । तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषोऽहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः । अद्य पुष्य इति । अद्येत्यव्ययमहोरात्रवाचि अधिकरणशक्तिप्रधानम्, इह तु अधिकरणशक्तिविनिर्मुक्तोऽहोरात्रकालो विवक्षितः । तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप् । कथं तर्हीति । पौर्णमस्याः षष्टिदण्डात्मिकाया अवान्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः । समाधत्ते — विभाषेति । फाल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राऽण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यां नक्षत्रयुक्तायांलुबंभावात्कथं श्रणणेति निर्देश इत्यत आह — श्रवणशब्दात्त्वत एव लुबिति ।श्रवणे॑ति निपातनादेव पौर्णमास्यां लुबित्यर्थः । ननुकृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्तर॑मित्यादौ श्रवणशब्दस्य पुंलिङ्गत्वदर्शनेन तस्मादणो लिपि कृतेलुपि युक्तवद्व्यक्तिवचने॑ इति पुंलिङ्गत्वावश्यंभावाच्छ्रवणेति कथं स्त्रीलिङ्गतेत्यत आह — युक्तवद्भावाभावश्चेति ।निपातना॑दिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह — अबाधकान्यपीति । इयं परिभाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तुबाधकान्येव निपातनानी॑त्युक्तम् ।", "42005": "<<संज्ञायां श्रवणाश्वत्थाभ्याम्>> - संज्ञायाम् । श्रवणाऽआत्थाभ्यां परस्य नक्षत्र प्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः । ननु लुबविशेषे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — विशेषार्थोऽयमारम्भ इति । श्रवणा रात्रिरिति । श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः ।विभाषा फाल्गुनीश्रवणे॑ति सूत्रे श्रवणेति निर्देशस्य सामान्यापेक्षत्वादपोर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते । अतःश्रवणा रात्रि॑रिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम् । अआत्थो मुहूर्त इति । अआत्थो नाम अइआनीनक्षत्रम् । तेन युक्तः अआत्थः — मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः ।", "42006": "<<द्वन्द्वाच्छः>> - द्वन्द्वाच्छः । तिष्यपुनर्वसवीयमिति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छस्य ईयादेशे ओर्गुणः । राधानुराधीयेति । रादेति विशाखानक्षत्रमुच्यते । राधा च अनूराधाश्च राधानूराधाः, तद्याक्ता रात्रिरित्यर्थः ।", "42007": "<<दृष्टं साम (कलेर्ढक्)>> - कलेर्ढक् । वार्त्तिकमिदम् ।", "42008": "", "42009": "<<वामदेवाड्ड्यड्ड्यौ>> - वामदेवाड्डड्डऔ । वामदेव्यमिति । डित्त्वाट्टिलोपः । तित्त्वं स्वरार्थम् । ननुयस्येति चे॑ति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम्ययतोरेव विधौ 'ययतोश्चाऽतदर्थे' इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधावनयोग्र्रहणं स्यात्, तदभावार्थ डित्करणं । डित्करणे सति तु स्वरविधावनयोर्न ग्रहणंनिरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहण॑मिति परिभाषयातदनुबन्धकग्रहणे सति नाऽतदनुबन्धकस्य॑ इति परिभाषया च तन्निवृत्तिर्भवति । एते तु परिभाषे इहैव ज्ञाप्येते । तथाचअवामदेव्य॑मित्यत्राऽयं स्वरो न भवति । एतत्सङ्ग्राहकं भाष्यस्थं श्लोकं पठति — सिद्धे यस्येत्यादि । अत्र पूर्वार्धमाक्षेपपरम् । 'यस्य' इति लोपेन सिद्धे ययतौ किमर्थं डितौ कृतावित्यर्थः । ग्रहणमिति । वामदेव्यशब्दस्य नञ्स्वरे=नञाश्रयस्वरविधौ अतदर्थे=नञाश्रयस्वरविधौ अतदर्थे=॒ययतोश्चातदर्थे॑ इति सूत्रे अनयोडर्ड्डयोग्र्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः ।", "42010": "<<परिवृतो रथः>> - परिवृतो रथः ।तेने॑त्यनुवर्तते । तेन 'परिवृतोरथः' इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथ इत्यत्रापि स्यादित्यत आह — समन्तादिति । रथस्य समन्तादाच्छादनार्थं यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणिति वार्तिकात् ।", "42011": "<<पाण्डुकम्बलादिनिः>> - पाण्डुकम्बलादिनिः । तेनेति, परिवृतो रथ इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु 'अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह — अणो निवृत्त्यर्थमिति ।", "42012": "<<द्वैपवैयाघ्रादञ्>> - द्वैपवैयाघ्रादञ् । तेनेति परिवृतो रथ इति चानुवर्तते । तृतीयान्ताद्द्वैपशब्दार्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः । अणोऽपवादः । स्वरे विशेषः । द्वीपिन इति । द्वीपी — व्याघ्रः, तस्य विकारश्चर्मेत्यर्थे 'प्राणिरजतादिभ्यः' इत्यञि द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म, वैयाघ्रम् । अञिन य्वाभ्या॑मित्यैच् । तेन परिवृतो वैयाघ्र इति भावः ।", "42013": "<<कौमारापूर्ववचने>> - कौमारापूर्व । तेनेति परिवृतो रथ इति च निवृत्तम् । अविभक्तिक इति । लुप्तप्रथमाक इति भावः । अपूर्वशब्दो भावप्रधान इत्याह — अपूर्वत्वे निपातनमिदमिति । न पूर्व पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात्कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्वपतिमुपपन्नेत्यर्थे प्रथमान्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः । आद्यो उदाहरति — अपूर्वपतिमिति । द्वितीये उदाहरति — यद्वेत्यादि । आद्ये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः ।", "42014": "<<तत्रोद्धृतममत्रेभ्यः>> - तत्रोद्धृतम् । तत्रोद्धृतमित्यर्थे अमत्रवाचकशब्दात्सप्तम्यन्तात्प्रत्ययः स्यादित्यर्थः । अमत्रं-भजनं शरावादि । ननु उद्धरणे पृथक्करणे शरावस्याऽपादानत्वात् कथं सप्तमीत्यत आह — उद्धरतिरिहेति । 'सास्मिन्पौर्णमासी' त्यतः प्राक्तत्रे॑त्यनुवर्तते ।", "42015": "<<स्थण्डिलाच्छयितरि व्रते>> - स्थण्डिलात् । स्थण्डिलशब्दात्सप्तम्यन्ताद्व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः ।", "42016": "<<संस्कृतं भक्षाः>> - संस्कृतं भक्षाः । भक्ष्यन्ते इति भक्षाः, कर्मणि घञ् । तत्रेत्यनुवर्तते । तदाह — सप्तम्यन्तादिति । एकवचनं बहुवचनं च सामान्याभिप्रायं, जात्याख्यायामेकस्मिन्बहुवचन॑मित्युक्तेरित्यभिप्रेत्याह — यत्संस्कृतमिति । संस्कारो नाम पाकादिना गुणविशेषाधानम् । अष्टाकपाल इति । 'तद्धितार्थ' इति समासः । भक्षा इति किम् पुष्पपुटे संस्कृतं भक्षाः॑ इत्यर्थे यत्स्यादित्यर्थः । उखा पात्रविशेष इति ।पिठरं स्थाल्युखा कुण्ड॑मित्यमरः ।", "42017": "", "42018": "<<दध्नष्ठक्>> - दध्नष्ठक् । सप्तम्यन्ताद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः । अणोऽपवादः । दाधिकमिति । ठकि इकादेशेयस्येति चे॑ति इकारलोपः । इह दध्नि अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहतेरित्यत्र तु 'संस्कृतम्' इति तृतीयान्ताठ्ठग्वक्ष्यते ।", "42019": "<<उदश्वितोऽन्यतरस्याम्>> - उदइआतो । ठक्स्यादिति । शेषपूरणमिदम् । उक्तविषये उदइआच्छब्दाट्ठग्वा स्यादित्यर्थः ।", "42020": "", "42021": "<<साऽस्मिन् पौर्णमासीति (संज्ञायाम्)>> - इतिशब्दादिति । एतच्च भाष्ये स्थितम् । पौषीति । पुष्येण युक्ता पौषी पौर्णमासी, सा यस्मिन्मासे स पौषो मासः । पौषीशब्दादणियस्येति चे॑ति ईकारलोपः । एवं मघाभिर्युक्ता पौर्णमासी माघी, सा यस्मिन्स माघो मासः । तथा फाल्गुन इत्यादि । संज्ञायां किम् । पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे ।", "42022": "<<आग्रहायण्यश्वत्थाट्ठक्>> - आग्रहायण्यआत्थाट्ठक् । पूर्वसूत्रविषये आग्रहायणीशब्दादआत्थशब्दाच्च ठक् स्यादित्यर्थः अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः ।संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री॑त्यमर । यस्या ऊध्र्वं संवत्सरस्यारम्भः सा पोर्णमासी आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह — प्रज्ञादेरिति ।प्रज्ञादिभ्यश्चे॑ति स्वार्थे अमिटिड्ढे॑ति ङीबित्यर्थः । अआत्थेनेति । अइआनीनक्षत्रेणेत्यर्थः । अआत्थ इति । नक्षत्राऽणो 'लुबविषेशे ' इति लुबिति भावः । ननुविभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः॑ इति निर्देशेन पौर्णमास्यां 'लुबविशेषे' इत्यस्याऽप्रवृत्तेरुक्तत्वात्कथमिह लुबित्यत आह — निपातनादिति । तथाच पौणमास्यां लुब्नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः ।", "42023": "<<विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः>> - विभाषा फाल्गुनी । एभ्यष्ठग्वेति । 'सास्मिन्' इत्युक्तविषये॑ इति शेषः । फाल्गुनिकः — फाल्गुनो वा मास इति । फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकाः ।", "42024": "<<साऽस्य देवता>> - साऽस्य देवता । अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः । ऐन्द्रं हविरिति । इन्द्रात्मकदेवतासम्बन्धीत्यर्थः । पाशुपतमिति । पशुपतिर्देवता अस्येति विग्रहः । ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्त्रयमित्याद्यनुपपन्नमित्यत आह — त्यज्यमानद्रव्ये इति ।हविश्शेषमृत्विग्भ्यो ददाति॑, विप्राय गां ददाती॑त्यादौ ऋत्विग्विप्रादेर्देवतात्वव्यावृत्तये विशेषग्रहणम् । त्यज्यमानहविस्साध्योऽस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारस्तदाश्रयो देवतेति यावत् । मन्त्रस्तुत्या चेति ।अग्निमीडे पुरोहित॑मित्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः । ऐन्द्रो मन्त्र इति । इन्द्रस्तुत्यको मन्त्र इत्यर्थः । ननुआग्नेयो वै ब्राआहृणो देवतया॑ इत्यत्र कथं देवतातद्धितः । अत्र अग्नेर्हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्य चाऽभावादित्यत आह — आग्नेयो वै इति । शैषिकेऽर्थे इति । 'शेषे' इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः । अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धस्तदभिमानिको ब्राआहृण इति बोधः ।", "42025": "<<कस्येत्>> - कस्येत् । प्रत्ययसंनियोगेनेति ।साऽस्य देवते॑ति विहिते कशब्दादण्प्रत्यये परे तत्संन्नियोगेन प्रकृतेरिकारोऽन्तादेश इत्यर्थः । तताच कशब्दादणि प्रकृतेरिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि-अ इति स्थितेयस्येति चे॑ति इकारलोपमाशङ्क्याह — यस्येति लोपादिति । कशब्दस्य विवरणं — ब्राहृएति । यद्यप्यत्र इत्त्वविधिबलादेव लोपो न भवतीति भाष्यम्, तथापि वस्तुस्थितिकथनमिदम् । तस्य प्रयोजनमाह — श्रायं हविरिति । अत्रेदमवधेयम् ।कस्ये॑दित्यत्र कशब्दस्य अकारान्तस्य षठएकवचनमित्येकः पक्षः । सर्वादिगणपठितस्य किंशब्दस्य षष्ठएकवचनमिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारेकायानुब्राऊही॑ति प्रैष इति निर्विवादं, सर्वादिगणबहुर्भूतत्वेन स्मैबावाऽसम्भवात् । द्वितीयपक्षे तु किंशब्दस्य प्रजापतिनामत्वेन असर्वनामत्वान्न स्मैभावः, अन्वर्थसंज्ञाबलेन एकार्थवृत्तेः संज्ञाशब्दस्य सर्वनामत्वात्कस्मा अनुब्राऊही॑त्येव संप्रैष इति भाष्ये प्रपञ्चितम् । एवञ्च विष्णुसहरुआनामसु-॒विआं विष्णुः॑ इति,एकौ नैकः सवः कः किं यत्तत्पदमनुत्तम॑मिति च पठितम् । विआआदिशब्देष्वप्ययं न्यायस्तुल्यः । तथाच विआस्म#ऐ नमः, 'विआआय नमः' इत्यादि प्रयोज्यमित्यास्तां प्रासङ्गिकम् ।", "42026": "<<शुक्राद्घन्>> - शुक्राद्धन् । 'साऽस्य देवता' 'इत्यर्थे' इति शेषः । शुक्रियमिति । शुक्रो देवता अस्येति विग्रहः ।", "42027": "<<अपोनप्त्रपान्नप्तृभ्यां घः>> - अपोनप्त्रपांनपतृभ्यां घः । प्रत्ययसंनियोगेनेति । घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः । अत एवेति । घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाऽभावान्नोक्तादेशाविति भावः ।", "42028": "<<छ च>> - छ च । उक्तविषये छोऽपीत्यर्थः ।ननु अपोनप्त्रपांनप्तृभ्यां॑ घच्छौ इत्येवास्तु । तत्राह — योगविभाग इति । पैङ्गाक्षीपुत्रीयमिति । पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः । तार्णविन्दवीयमिति । तार्णविन्दुर्देवता अस्येति विग्रहः ।शतरुद्राद्धश्चेति । वार्तिकमिदम् । शतरुद्रियमिति । घस्य इयादेश । शतरुद्रीयमिति । छस्य ईयादेशः । उभयत्र 'तद्धितार्थ' इति द्विगुसमासः । 'द्विगोर्लुगपत्ये' इति लुकमाशङ्क्याह — घच्छयोरिति ।", "42029": "<<महेन्द्राद्घाणौ च>> - महेन्द्राद्धाणौ च । महेन्द्रियमिति । महेन्द्रो देवता अस्येति विग्रहः घस्य इयादेशः माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति । छस्य ईयादेशः ।", "42030": "<<सोमाट्ट्यण्>> - सोमाट्टण् । सौम्यमिति । सोमो देवता अस्येति विग्रहः । टित्त्वस्य प्रयोजनमाह — टित्त्वान्ङीबिति । सौमीति । सोमो देवता अस्या ऋचेति विग्रहः ।ङीपिहलस्तद्धितस्ये॑ति यलोपः ।", "42031": "<<वाय्वृतुपित्रुषसो यत्>> - वाय्वृतुपित्रुषसो यत् । वायु, ऋतु, पितृ,उषस् एभ्यो यदित्यर्थः । वायव्यमिति । वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः ।वान्तो यी॑त्यवादेशः । ऋतव्यमिति । ऋतुर्देवता अस्येति विग्रहः ।", "42032": "<<द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च>> - द्यावापृथिवीयं द्यावापृथिव्यमिति । द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभयत्रयस्येति चे॑ति लोपः । शुनासीरीयमिति । शुनो वायुः, सीरः आदित्यः । शुनश्च सीरश्च शुनासीरौ ।देवताद्वन्द्वे चे॑त्यानङ् । शुनासीरावस्य स्त इति शुनासीरः ।वाय्यादित्यवानिन्द्रो विवक्षितः॑ इति वेदभाष्ये भट्टभास्करः । शुनासीरो देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयं मरुत्वत्यम् । अग्नीषोमौ देवता अस्य अग्नीषोमीयमग्निषोम्यम् ।वास्तुनः पतिः वास्तोष्पतिः-रुद्रः । निपातनादलुक् षत्वं च ।रुद्रः खलु वै वास्तोष्पतिः॑ इति ब्राआहृणम् । अमरस्तु इन्द्रपर्यायेवास्तोष्पतिः सुरपति॑रित्याह वास्तोऽपतिर्देवता अस्य वास्तोष्पतीयं, वास्तोष्पत्यम् । गृहमेधो देवता अस्यगृहमेधीयम् । गृहमेध्यम् ।", "42033": "<<अग्नेर्ढक्>> - अग्नेर्ढक् । आग्नेयमिति । प्राग्दीव्यतीयेष्वर्थेष्वयम्,सर्वत्राग्निकलिभ्या॑मिति वचनात् ।", "42034": "<<कालेभ्यो भववत्>> - कालेभ्यो भववत् । कालवाचिभ्यो भवेऽर्थे येन विशेषणेन ये प्रत्यया वक्षयन्ते, तेसाऽस्य देवते॑त्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः । मासिकमिति । मासो देवता अस्येति विग्रहः । कालाट्ठञ् । प्रावृषेण्यमिति । प्रावृट् देवता अस्येति विग्रहः ।प्रावृष एण्यः॑ ।", "42035": "<<महाराजप्रोष्ठपदाट्ठञ्>> - महाराजप्रोष्ठपदाट्ठञ् । माहाराजिकमिति । महाराजो वैश्रवणः, स देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः ।", "42036": "<<पितृव्यमातुलमातामहपितामहाः>> - पितृव्यमातुल । कस्मिन्नर्थे किं निपात्यते इत्यत आह — पितुभ्र्रातरि व्यदित्यादिना । मातुल इति । मातृशब्दाड्डुलचि 'टे' इति टिलोपः । मातामह इति । मातृशब्दाड्डमहचि टिलोपः । एवं पितामहः । मातरि षिच्चेति । मातृपितृभ्यां मातरि डामहच्, स च षिद्भवतीत्यर्थः । षित्त्वफलं ङीषित्याह — मातामही पितामहीति । अवेरिति । अवोर्दुग्धमित्यर्थे अविशब्दात् सोढः, दूस, मरीसच् एते प्रत्यया वक्तव्या इत्यर्थः । सोढसकारस्य प्रत्यटयावयवत्वात्षत्वमाशङ्क्याह — सकारापाठसामर्थ्यान्न ष इति । अन्यथा षोढ इत्येवोपदिशेदिति भावः ।तिलादिति । तिलशब्द ओषदिविशेषे मुख्य । तत्फले तु गौणः । तत्र यदा तिलशब्दो निष्फले आषधिविशेषे वर्तते, तदा तस्मात्स्वार्थे पेज, पिञ्ज इति प्रत्ययौ स्त इत्यर्थः । इति देवतार्थकाः ।", "42037": "<<तस्य समूहः>> - तस्य समूहः । इनित्रकठचस्चे॑ति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात्षष्ठन्तात्प्राग्दीव्यतीया अणादयो यथासम्भवं स्युरित्यर्थः ।अचित्तहस्तिधेनोष्ठ॑गित्याद्यपवादविषयं परिह्मत्योदाहरति — काकं बाकमिति.समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् ।", "42038": "<<भिक्षाऽऽदिभ्योऽण्>> - भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्रअचित्तहस्ती॑ति वक्ष्यमाणठगपवादोऽण् । गार्भिणमिति । गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः परश्च आद्युदात्तश्चेति इकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्ज॑मिति शिष्टस्यानुदात्तत्वे गर्भिन्शब्दः अनुदात्तादिः । ततो नान्तलक्षणङीपि तस्यअनुदात्तो सुप्पितौ॑ इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽर्थेअनुदात्तादेर॑ञिति वक्ष्यमाणे अञि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेणान्तोदात्तत्वम्, अञि तुञ्नित्यादिर्नित्यम् इत्याद्युदात्तत्वमिति स्वरे विशेषः । अणि टिलोपाऽभावोऽपि प्रयोजनमिति दर्शयति — इह भस्येति । गर्भिणीशब्दादणि सति 'भस्याऽढे' इति पुंवत्त्वेन ङीपो निवृत्तौ गर्भिन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपे प्राप्ते सतीत्यर्थः ।", "42039": "<<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स- मनुष्याजाद्वुञ्>> - गोत्रोक्षोष्ट्रो । एभ्य इति । गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज-एतेब्य इत्यर्थः लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिकं गोत्रं किमित्यत आह — तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः ।अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते, नतु पारिभाषिकं गोत्रमिष्यते॑ इतिस्त्रीपुंसाभ्या॑मित्यादिसूत्रबाष्ये सिद्धान्तितत्वादिति भावः ।", "42040": "<<केदाराद्यञ् च>> - केदराद्यञ् च । कैदार्यम्-कैदारकमिति । केदाराणां समूह इति विग्रहः ।गणिकाया यञ् । यञ्ग्रहणाद्वुञो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः ।", "42041": "<<ठञ् कवचिनश्च>> - ठञ्कवचिनश्च । केदारादपीति । कवचिन्शब्दात्केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति । ठञ्, इकादेशे टिलोपः ।", "42042": "<<ब्राह्मणमाणववाडवाद्यन्>> - ब्राआहृणमाणव । ब्राआहृण्यमित्यादि । ब्राआहृणानां माणवानां बाडबानां च समूह इति विग्रहः । मनोरपत्यं माणवः । अणि नस्य णत्वम् ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः॑ इतिमनोर्जातावञ्यतौ षुक्च॑ इति सूत्रे भाष्यम् ।पृष्ठादिति । 'यन' इति शेषः । पृष्ठ्यः षडह इति । षष्ण्णामह्नां समाहारः षडहः । समाहारे द्विगुः । 'राजाहः सखिभ्यः' इति टचि टिलोपः । रथन्तरबृहद्रौरूपवैराजशाक्वररैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि । तद्युक्तान्यहानि लक्षणया पृष्ठानि, तेषां समूह इति विग्रहः ।", "42043": "<<ग्रामजनबन्धुसहायेभ्यः तल्>> - ग्रामजन । समूह इत्येव । ग्रामतेत्यादि । ग्रामाणां, जनानां, बन्धूनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात्, 'तलन्तं स्त्रियाम्' इति लिङ्गानुशासनसूत्राच्च । गजसहायाभ्यां चेति । आभ्यामपि समूहे तलिलि वक्तव्यमित्यर्थः ।अह्नः खः क्रतौ इति । वार्तिकमिदम् । क्रतौ वर्तमाना दहन्शब्दात् समूहेऽर्थे खप्रत्ययो वाच्य इत्यर्थः । अहीन इति । अहश्शब्देन सौत्यान्यहानि विवक्षितानि । तेषां समूह इति विग्रहः । अहन्शब्दात् खः, ईनादेशः ।अह्नष्टखोरेवे॑ति ट्लोपे इति भावः । फलितमाह — अहर्गणेति । आह्न इति । अह्नां समूह इति विग्रहः । इह क्रत्वप्रतीतेर्न ख इति भावः ।अचित्तहस्तिधेनो॑रिति ठकमाशङ्कयाह — इहेति ।खण्डिकादिभ्यश्चे॑त्यठित्यर्थः । नन्वेवं सति 'अन्' इति प्रकृतिभावस्याऽणि विहितस्यात्राऽसंभवाट्टिलोपः स्यादित्यत आह — आह्नष्टखोरेवेतीति । टिलोपाऽभावे सति 'अल्लोपोऽनः' इत्यकारलोपे 'आह्न' इति रूपमिति भावः । पर्ाआ णसिति । अणोऽपवादः । पर्शुशब्द उकारान्तस्त्रीलिङ्गः पार्ागतास्थिवाची । तस्माण्णसि ओर्गुणे प्राप्ते-सिति च ।सुप्तिङन्तं पद॑मित्यतः पदमित्यनुवर्तते । तदाह — सिति परे पूर्वं पदसंज्ञमिति । सकार इत् यस्य स सित् ।स्वादिष्वसर्वनामस्थाने॑इत्येव सिद्धे भसंज्ञापवादोऽयम् । अभत्वादिति । पदत्वेनानेन भत्वस्य बाधादिति भावः । पार्ामिति । पर्शु-अ इति स्थिते 'इकोऽसवर्णे' इति शाकल्यह्रस्वप्रकृतिभावयोःसिति चे॑ति तत्रत्यवचनान्तरेण तन्निषेधे यणादेशे पार्ामिति रूपमिति भावः ।", "42044": "<<अनुदात्तादेरञ्>> - अनुदात्तादेरञ् । समूह इत्येव । कापोतं । मायूरमिति ।लघावन्ते द्वयोश्च बह्वषो गुरु॑रिति कपोतमयूरशब्दौ मध्योदात्ताविति भावः ।", "42045": "<<खण्डिकादिभ्यश्च>> - खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे — अञ्स्यादिति ।समूहे॑इति शेषः । आद्युदात्तार्थमिदम् ।", "42046": "<<चरणेभ्यो धर्मवत्>> - चरणेभ्यो धर्मवत् । चरणाः=शाखाध्येतारः । धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । 'गोत्रचरणाद्वुञ्' इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति । छान्दोग्यमिति । छन्दोगाः-सामशाखिनः, तेषां समूह इति विग्रहः ।छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः॑ इति धर्मे वक्ष्यमाणो ञ्यः समूहेऽपि भवति ।", "42047": "<<अचित्तहस्तिधेनोष्ठक्>> - अचित्तहस्ति । अचित्ताः=अप्राणिनः, तद्वाचिभ्यः, हस्तिशब्दाद्धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । 'इसुसुक्तान्तात्कः' इत्युकः परत्वाट्ठस्य कः आदिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः । ठक् इकः । टिलोपः । आदिवृद्धिः । धैनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वाट्ठस्य कः । आदिवृद्धिः ।", "42048": "<<केशाश्वाभ्यां यञ्छावन्यतरस्याम्>> - केशाआआभ्यां । समूह इत्येव । केशाद्यञ् वा, अआआच्छो वेत्यर्थः । पक्षे इति । केशाद्यञभावेअचित्ते॑ति ठक् । अआच्छाऽभावे अणित्यर्थः । कैश्यं कैशिकमिति । केशानां समूह सति विग्रहः । क्रमेण यञ्ठकौ । अआईयमाआमिति । क्रमेण छाऽणौ ।", "42049": "<<पाशादिभ्यो यः>> - पाशादिभ्यो यः । समूह इत्येव । पाश्येत्यादि । पाशानां, तृणानां, धूमानां, वनानां, वातानां च समूह इति विग्रहः । स्त्रीत्वं लोकात् ।", "42050": "<<खलगोरथात्>> - खलगोरथात् । समूह इत्येव । खल, गो, रथ एभ्यो यः स्यादित्यर्थः । खल्या गव्य रथ्येति । खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि पाशिद्ष्वेव एषां पाठो युक्तस्तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः ।", "42051": "<<इनित्रकट्यचश्च>> - इनित्र । स्युरिति । इनि त्र कटच् — एते स्युरित्यर्थः । खलिनीति । खलानां समूह इति विग्रहः । इनिप्रत्यये नकारादिकार उच्चारणार्थः । स्त्रीत्वं लोकात् । नान्तत्वान्ङीप् । गोत्रेति । गवां समूह इति विग्रहः । गोशब्दात्रः । स्त्रीत्वं लोकात् । टाप् । रथकटएति । रथानां समूह इति विग्रहः । कठचि ककारस्य नेत्त्वम्, अतद्धित इत्युक्तेः स्त्रीत्वाट्टाप् । खलादिभ्य इति ।इनित्रकटचश्चे॑ति सूत्रे इनिग्रहणमकृत्वा 'गोरथात्रकटचौ' इत्येव सूत्रं कृत्वाखलादिभ्य इनि॑रिति पृथक्कर्तव्यमित्यर्थः ।", "42052": "<<विषयो देशे>> - विषयो देशे । समूह इति निवृत्तं । तस्येत्यनुवर्तते । तस्य विषय इत्यर्थे प्रथमोच्चारितात्षष्ठन्तात्प्रत्ययाः स्युरिति लभ्यते । तदाह — षष्ठन्तादिति ।विषय॑शब्दं व्याचष्टे — अत्यन्तपरिशीलितेऽर्थे इति ।देवदत्तविषयोऽनुवाक इत्यत्र तथा दर्शनादिति भावः । तर्हि तत्रातिव्याप्तिः स्यादित्यत आह — स चेदिति । सः= अत्यन्तपरिशीलितोऽर्थो देशश्चेदित्यर्थः । एवंच अतन्यतपरिशीलिते देशे गम्ये प्रत्ययाः स्युरिति फलितम् । विषयशब्दो ह्रयं क्वचिद्ग्रामसमूहात्मके जनपदे वर्तते । तद्यथा — ॒सामन्तस्य राज्ञो विषयोऽनेन लब्ध॑ इति । क्वचिदिन्द्रियग्राह्रे वर्तते । तद्यथाचक्षुर्विषयो रूप॑मिति । क्वचिदन्यत्राऽवृत्तौ वर्तते । यथामत्स्यानां विषयो जल॑मिति । अन्यत्र नास्तीति गम्यते । प्रकृते तुदेवदत्तविषयोऽनुवाक इत्यर्थः । अत्र देशस्यानवगमान्न प्रत्यय इति भावः । विषय इति किम् । देवदत्तस्य कदाचिद्गन्तव्यो मार्गः । न चदेवदत्तस्य गृह॑मित्यत्र अत्यन्तपरिचितदेशत्वात्प्रत्ययः स्यादिति वाच्यं, जनपदसमूहात्मकात्यन्तपरिशीलितदेशस्यैवात्र विवक्षितत्वात् ।", "42053": "<<राजन्यादिभ्यो वुञ्>> - राजन्यादिभ्यो वुञ् । तस्य विषयो देश इत्यर्थे राजन्यादिभ्यः षष्ठन्तेभ्यो वुञ् स्यादित्यर्थः । अणोऽपवादः । राजन्यक इति । अत्र राजन्यानां विशेषो देश इत्यर्थः ।", "42054": "<<भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ>> - भौरिक्याद्यैषु । भैरिक्यादिभ्य ऐषुकार्यादिभ्यश्च षष्ठन्तेभ्यः यथाक्रमं विधल्, भक्तल्-एतौ प्रत्ययौ स्तो विषयो देश इत्यर्थे । ऐषुकारिभक्तमिति । ऐषुकारीणां विषयो देश इत्यर्थः । सारसायनभक्तमिति । सारसायनानां विषयो देश इत्यर्थः । इह नपुंसकत्वं लोकात् ।", "42055": "<<सोऽस्यादिरिति च्छन्दसः प्रगाथेषु>> - सोऽस्यादिः । ऋग्द्वयमाम्नातं पादावृत्त्या ऋक्त्रयं संपद्यते । स च 'संप्रगाथ' इति छन्दोगसूत्रे बह्वचसूत्रे च प्रसिद्धम् । षष्ठएकवचनस्थाने सप्तमीबहुवचनमार्षम् । सोऽस्य प्रगाथस्य आदिरित्यर्थे प्रथमान्ताच्छन्दोविशेषवाचकदणादिप्रत्ययाः स्युरित्यर्थः । अक्षरेयत्ताविशेषो गायत्र्यादिश्छन्दः । पङ्क्तिरादिरिति । पङ्क्तिच्छन्दस्का ऋक् आदिर्यस्य प्रघाथस्य स पाङ्क्तः प्रगाथ इत्युच्यते इत्यर्थः । स्वार्थ इति । छन्दोवाचिभ्यः स्वार्थेऽणादिप्रत्ययस्योपसह्ख्यानमित्यर्थः । त्रैष्टुभमिति । क्लीबत्वं लोकात् ।", "42056": "<<संग्रामे प्रयोजनयोद्धृभ्यः>> - संग्रामे । अनुवर्तते इति । तथाच 'संग्रामे' इति सप्तम्यन्तं षष्ठआ विपरिणतमस्येत्यनेनान्वेति । तदस्य सङ्ग्रामस्य प्रयोजनं, तेऽस्य सह्ग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रतमान्तेभ्योऽणादयः स्युरित्यर्थः ।", "42057": "<<तदस्यां प्रहरणमिति क्रीडायाम् णः>> - तदस्यां ।तत् अस्यां क्रीडायां प्रहरण॑मित्यर्थ प्रथमान्तात् प्रहरणवाचनकाण्णप्रत्ययः स्यादित्यर्थः । प्रह्यियते अनेनेति प्रहरणम् — आयुधम् । दाण्डेति । अणि तु ङीप् स्यादिति भावः । मौष्टेति । मुष्टिः प्रहरणमस्यां क्रीडायामिति विग्रहः ।", "42058": "<<घञः साऽस्यां क्रियेति ञः>> - घञः सास्याम् । अस्यामित्यनन्तरंमृगयाया॑मित्यादि स्त्रीलिङ्गं विशेष्यमध्याहार्यम् । सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनो ञः स्यादित्यर्थः । फलितमाह — घञन्तादित्यादिना । कृद्ग्रहणादिति । तत्प्रयोजनमनुपदमेव वक्ष्यते ।", "42059": "<<तदधीते तद्वेद>> - तदधीते । तदधीते इत्यर्थे, तद्वेत्तीत्यर्थे च द्वितीयान्तादणादयः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्ययनम् । शब्दार्थज्ञानं वेदनम् । एतेन अध्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसकोक्तिः परास्ता, पृथग्ग्रहणवैयथ्र्यात् । यताचैतत्तथा अध्वरमीमासाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति । अणिन य्वाभ्यामि॑त्यैजागमः ।ऋतूक्थादि । 'तदधीते तद्वेदे' त्यर्थयोः — क्रतु, उक्थादि,सूत्रान्तः-एभ्यः ठक् स्यादित्यर्थः । क्रतुविशेषवाचिनामेवेति । न तु क्रतुशब्दस्यैवेत्यर्थः । अन्यथा उक्थादिगण एव क्रतुशब्दमपि पठेदिति भावः । ननु क्रतुविशेषाणां कथमद्ययनम्, अक्षरग्रहणात्मकत्वाऽभावादित्यत आहतेभ्य इति । अग्निष्टोमादिशब्दाः क्रतुविशेषेषु मुख्याः । तत्प्रतिपादकग्रन्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्योऽग्निष्टोमादिशब्देभ्यो वेदितरि प्रत्ययाः । अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्योऽध्येतरीत्यर्थः । आग्निष्टोमिक इति । अग्निष्टोमं क्रतुं वेत्ति, तत्प्रतिपादकग्रन्थमधीते इति वाऽर्थः । उक्थशब्दः सामसु मुख्यः । सामलक्षणग्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थकादेव उक्थशब्दाट्ठगित्याह — उक्थं सामविशेष इति ।अग्निष्टोमस्तोत्रात्परं यत्साम गीयते॑ इति वृत्तिकृदुक्तेरिति भावः । भाष्ये तु सामशब्दपर्याय उक्थशब्द इति लक्ष्यते । मुख्यार्थादिति । सामवाचिन उक्थशब्दात्तु न ठक् । तस्मिन्निषिद्धे तदधीते इत्यण् च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थकादुक्थशब्दाट्ठक् नेत्येव लक्ष्यते । उक्थादिगणपठितान्न्यायादिशब्दाट्ठकमुदाहरति — न्यायमिति ।अधीते वेत्ति वे॑ति शेषः । नैयायिक इति । ठकि ऐजागमः । वृत्तिमिति ।अधीते वेद वे॑ति शेषः । वार्त्तिक इति । ठकि आदिवृद्धौ रपरत्वम् । साङ्ग्रहसूत्रिक इति । संग्रहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः । विद्यालक्षणेति । विद्या, लक्षण, कल्प-एतदन्तादपि उक्तेऽर्थे ठगित्यर्थः । अङ्गेति । अङ्ग, क्षत्र, धर्म, त्रि-एतत्पूर्वकाद्विद्यान्तात्समासाट्ठक् नेत्यर्थः । ततश्च अणेव । त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिरुआओ विद्यास्त्रिविद्या इति न विग्रहः,दिक्सङ्ख्ये संज्ञाया॑मिति नियमात् । नापि तिरुआओ विद्या अधीते वेद वेति तद्धितार्थे द्विगुः, तथा सति तद्धितस्य द्विगुनिमित्ततया 'द्विगोर्लुगनपत्ये' इति लुगापत्तेः । तिसृणां विद्यानां समाहर इति द्विगुरप्यत्र निर्बाध एव । आख्यानेति । आख्यान, आख्यायिका, इतिहास, पुराण-एभ्यश्च उक्तेऽर्थे ठग्वक्तव्य इत्यर्थः । तत्र आख्यानशब्देन आक्यायिकाशब्देन च आख्यानविशेषवाचिन आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहास पुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । आख्यानं नाम कथाप्रबन्धः ।आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षण॑मित्यमरः ।इतिहासः पुरावृत्त॑मिति च ।सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षमम् । तत्र आख्यानादुदाहरति — यवक्रीतमिति । आख्यायिकाया उदाहरति — वासवदत्तामिति । लुग्वक्तव्य इति ।उक्तप्रत्ययस्ये॑ति शेषः । सर्ववेद इति । अणो लुकि आदिवृद्ध्यभावः । सर्वतन्त्र इति । सर्वतन्त्राण्यधीते वेद वेत्यर्थः । सवार्तिंक इति । वार्तिकेन सह सवार्तिकम् ।तेन सहे॑ति बहुव्रीहि ।वौपसर्जनस्ये॑ति सभावः । सवार्तिकं सूत्रमधीते इत्यर्थः । द्विगोरिति । द्वे तन्त्रे अधीते वेत्ति वेत्यर्थे तद्धितार्थे द्विगुनिमित्तत्वादणो लुकि आदिवृद्ध्यभावे 'द्वितन्त्र' इति रूपमित्यर्थः । इकन्पदोत्तरपदादिति । पदशब्द उत्तरपदं यस्य स पदोत्तरपदः, तस्मादुक्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेः षिकन्पथ इति । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तस्मादुक्तेर्थे षिकन्प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति । पूर्वपदमधीते वेत्ति वेत्यर्थः । एवमुत्तरपदिकः । शतपथिक इति । शतपथं नाम वाजसनेयिब्राआहृणं । तदधीते वेत्ति वेत्यर्थः । शतपथिकीति । षित्त्वान्ङीषिति भावः । एवं षष्ठिपथिकः । षष्टिपथिकीति ।", "42060": "", "42061": "<<क्रमादिभ्यो वुन्>> - क्रमादिभ्यो वुन् ।तदधीते तद्वेद इत्यर्थे॑ इति शेषः । क्रमक इति । क्रममधीते वेत्ति वेत्यर्थः । क्रमादिगणं पठति-क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । 'पदकः॒॑मीमांसकः' इत्युदाहरणानि ।", "42062": "<<अनुब्राह्मणादिनिः>> - अनुब्राआहृणादिनिः । सेषपूरणेन सूत्रं व्याचष्टे — तदधीते तद्वेदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथा च नकारस्योपदेशेऽन्त्यत्वाऽभावान्नेत्संज्ञा । ननु 'अत इनिठनौ' इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह — अण्बाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् ।", "42063": "<<वसन्तादिभ्यष्ठक्>> - वसन्तादिभ्यष्ठक् ।तदधीते तद्वेदे॑त्येव । वासन्तिक इति । वसन्तवर्णनपरो ग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्तो वेदो लक्षमया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्यऋषिभ्यो लुग्वक्तव्यः॑ इति वचनाल्लुक् । आथर्वणिक इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्क्याह — दाण्डिनायनेति । वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः ।", "42064": "<<प्रोक्ताल्लुक्>> - अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमते-प्रोक्ताल्लुक् । प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः । अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते । तदाह — प्रोक्तार्थकेति । पण इति । स्तुरित्यर्थः । ननुहलश्चे॑ति घञि उपधावृद्धिः स्यादित्यत आह — घञर्ते इति । पणीति । 'अत इनिठनौ' इति मत्वर्थे इनिः । तस्येति । पणिनो गोत्रापत्येतस्यापत्य॑मित्यणि 'पाणिन' इति रूपमित्यर्थः । अत्र अणोऽपत्यत्वात्तस्मिन्परे 'इनण्यनपत्ये' इति प्रकृतिभावाऽभावाट्टिलोपे प्राप्ते ।", "42065": "<<सूत्राच्च कोपधात्>> - सूत्राच्च को । ककारोपधादित्यनन्तरंपरस्ये॑ति शेषः । ननुप्रोक्ताल्लु॑गित्येव सिद्धे किमर्थमिदमित्यत आह — अप्रोक्तार्थ आरम्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति ।तदस्य परिमाण॑मित्यधिकारेसङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑ इतिसङ्ख्याया अतिशदन्तायाः क॑न्निति च सूत्ररूपेऽर्थे कन् । अष्टका इति । अष्टकशब्दाध्येतृवेदितृप्रत्ययस्य नेन लुक्, कोपधात्सूत्रवाचिनः परत्वादिति भावः ।सह्ख्याप्रकृतिकादिति ।सूत्राच्च कोपधा॑दितिलुक्सङ्ख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहावार्तिक इति । महावार्तिकं नाम सूत्रम् । तदधीते वेत्ति वा माहावार्तिकः । अत्र अणो न लुक् ।", "42066": "<<छन्दोब्राह्मणानि च तद्विषयाणि>> - छन्दोब्राआहृणानि । छन्दांसि-मन्त्राः, ब्राआहृणानि-विधिवाक्यानि । तेषां द्वन्द्वः । वेद इति यावत्,मन्त्रब्राआहृणोर्वेदनामधेय॑मिति स्मरणात् ।प्रोक्ताल्लु॑गित्यतः प्रोक्तादित्यनुवर्तते । प्रथमाबहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह — छन्दांसीत्यादिना । तद्विषयाणीत्यत्र तच्छब्देन अध्येतृवेदितृप्रत्यया विवक्षिताः । तैर्विषयः=अविनाभावो येषां तान — तद्विषयाणि ।षिञ्बन्धने॑ । विशिष्य सयो-बन्धः-विषयः । अविनाऽभाव इति यावत् । अध्येतृवेदितृप्रत्ययसंयुक्तान्येव स्युरित्यर्थः । फलितमाह — अध्येतृवेदितृप्रत्ययं विनेति । पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेति वदध्येतृप्रत्ययं विनापि प्रयोगे प्राप्ते नियमार्थमिदम् । कठेनेति । कठेन प्रोक्तमधीयते इत्यर्थे 'कठा' इत्युदाहरणमिति भावः । तदुपपादयति — वैशम्पायनेति । कठेन प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणपवादःवैशम्पायनान्तेवासिभ्यश्च॑ इति णिनिरित्यर्थः । तस्येति । णिनेःकठचरकाल्लु॑गित्यनेन लुगित्यर्थः । एवंच कठेन प्रोक्तो वेदभागः कठ इति स्थितम् । ततोऽणिति । तस्माल्लुप्तप्रोक्तप्रत्ययकात्कठशब्दात्तदधीते इति अणित्यर्थः । तस्य प्रोक्ताल्लुगिति । तस्य=अध्येत्रणः, 'प्रोक्ताल्लुक्' इति लुगित्यर्थः । तथा च कठेन प्रोक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्येत्रणा सहैव प्रयोगार्हता, नतु तेन विना केवलप्रोक्तप्रत्ययान्तस्येति भावः । **** इति बालमनोरमायाम् रक्ताद्यर्थक प्रकरणम् ।****अथ तनादयः ।अथ उविकरणधातवो निरूप्यन्ते । तनुधातुरुदित् ।उदितो वे॑ति प्रयोजनम् । तनादिकृञ्भ्य उः । कत्र्रर्थे सार्वधातुके तनादिभ्यः कृञश्च उप्रत्ययः स्यात्स्वार्थेइत्र्थः । शपोऽपवादः । तनोतीति । उप्रत्ययस्य तिपमाश्रित्य गुणः । तसादौ तु ङित्त्वान्न गुणः । तनुतः । झोऽन्तादेशे कृतेइको यणची॑ति यण् । तन्वन्ति । तनोषि तनुथः । तनुथ । तनोमि ।लोपश्चाऽस्यान्यतरस्या॑मित्यकारलोपविकल्पमभिप्रेत्याह — तन्वः तनुव इति । तङ्याह - तनुते इति । तन्वाते तन्वते ।तनुषे तन्वाथेतनुध्वे । तन्वे तनुवहे - तन्वहे तनुमहे - तन्हे । ततानेति । तेनतुः । तेनिथ । तेन । तेनिव । तङ्याह - तेने इति । तेनात् तेनिरे । तेनिषे तेनाथे तेनिध्वे । तेने तेनिवहे तेनिमहे ।तनिता । तनिष्यति । तनिष्यते । तनोतु- तनुतात् तनुताम् तन्वतु ।उतश्चप्रत्यया॑दिति हेर्लुकं मत्वाह — तन्विति । तनुतात् तनुतम् तनुत । तनवानि । तनवाव तनवाम । अतनोत् अतनुतामतन्वन् । अतनोः । अतनम्, अतन्व- अतनुव । तनुयात् । तन्वीत । तनिषीष्ट ।अतो हलादे॑रिति वृद्धिविकल्पं मत्वाऽऽह - अतनीत् अतानीदिति । अतनिष्टामतनिषुः । अतनीः अतनिष्टमतनिष्ट । अतनिषमतनिष्व अतनिष्म । वृद्धिपक्षे अतानिष्टामित्यादि । अतनिष्यत् । लुङस्तङि प्रतमैकवचने, मध्यमपुरुषैकवचने च विशेषमाह -", "42067": "<<तेन निर्वृत्तम्>> - तेन निर्वृत्तं । देशे तन्नाम्नीत्यनुवर्तते । तेन निर्वृत्तमित्यर्थे तृतीयान्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः ।", "42068": "", "42069": "<<तस्य निवासः>> - तस्य निवासः । 'तन्नाम्नि देशे' इत्येव । तस्य निवास इत्यर्थे षष्ठन्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः । स्वत्ववान्विषयः, निवासस्तु वसतिमात्रं, स्वत्वाऽस्वत्वसाधारणमित्याहुः ।", "42070": "<<ओरञ्>> - ओरञ् ।तदस्मिन्नस्ती॑त्यादिषु चतुष्र्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्तादञ्स्यात् । अणोऽपवादः । अञधिकारःसुवास्त्वादिभ्योऽण् इति यावत् । काक्षतवमिति । कक्षतुरस्मिन्नस्तीत्यादि विग्रहः ।", "42071": "", "42072": "<<मतोश्च बह्वजङ्गात्>> - मतोश्च । सैध्रकावतमिति । सिध्रकावानस्मिन्नस्तीत्यादयश्चत्वारोऽर्थाः यथायोगं बोध्याः । आहिमतमिति । अहिमानस्मिन्नस्तीत्यादयोऽर्थाः । अहिशब्दस्य द्व्यच्कत्वादञ्नेति भावः ।", "42073": "<<बह्वचः कूपेषु>> - बह्वचः कूपेषु । बह्वचः प्रातिपदिकादञ्चतुष्र्वर्थेषु । अणोऽपवादः दीर्घवरत्रेण निर्वृतः कूपः — दैर्घवरत्रः ।", "42074": "<<उदक् च विपाशः>> - उदक्च विपाशः । उत्तरे कूले इति । विपाश्शब्दः शकारान्तो नदीविशेषवाची ।", "42075": "<<संकलादिभ्यश्च>> - सङ्कलादिभ्यश्च । निवृत्तमिति । व्याख्यानादिति भावः । अणोऽपवादः । पौष्कलमिति । पुष्कलेन निर्वृत्तमिति विग्रहः ।", "42076": "<<स्त्रीषु सौवीरसाल्वप्राक्षु>> - स्त्रीषु सौवीर । सौवीरे इति । 'उदाहरणं वक्ष्यते' इति शेषः । दात्तामित्री नगरीति ।टिड्ढे॑ति ङीप् । साल्वे इति । 'उदाह्यियते' इति शेषः । वैधूमाग्नीति । विधामाग्निना निर्वृत्तेत्यर्थः । अञि ङीप् । प्राचीति । प्राचि देशे उदाह्यियत इत्यर्थः । माकन्दीति । माकन्देन निर्वृत्तेत्यर्थः ।", "42077": "<<सुवास्त्वादिभ्योऽण्>> - सुवास्त्वादिभ्योऽण् । अञ इति ।ओर॑ञित्यस्यापवाद इत्यर्थः । सौवास्तवमिति । अणि ओर्गुणः । वार्णवमिति । वर्णोरदूरभवमित्यर्थः । ननुओर॑ञित्येव सिद्धे पुनर्विधिसामर्थ्यादेव तदननुवृत्तौ अणि सिद्धे पुनरण्ग्रहणं व्यर्थमित्यत आह — अण्ग्रहणमिति ।", "42078": "<<कोपधाच्च>> - कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः । कार्कवाकवमिति । कृकवाकुना निर्वृत्तः कूप इत्यर्थः । ओर्गुणः । आदिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति । त्रिशङ्कुना निर्वृत्तः कूप इत्यर्थः ।", "42079": "<<वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्य- कक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखि- संकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः>> - वुञ्छण् । वुञ्, छण्, क, ठच्, इल, स, इनि, र, ढञ्, ण्य, य, फक्, फिञ्, इञ्, ञ्य, कक्, ठक् एतेषां सप्तदशानां द्वन्द्वात्प्रथमाबहुवचनम् ।अरीहण, कृशाआ, ऋश्य, कुमुद, काश, तृण, प्रेक्ष, अश्मन्, सखि, सङ्काश, बल, पक्ष, कर्ण, सुतङ्गम, प्रगदिन्, वराह,कुमुद एतेषां सप्तदशानां द्वन्द्वः । एते आदयो येषामिति बहुव्रीहेः पञ्चमीबहुवचनम् । यथासङ्ख्यावगमाय कुमुदशब्दयोरेकशेषो न कृतः । प्रगदिन्शब्दे नलोपाऽभावस्तु इकारान्तत्वभ्रमनिरासाय । द्वन्द्वान्ते श्रूयमाणस्य आदिशब्दस्य अरीहणादिषु प्रत्येकमन्वयः । तथा च अरीणादिभ्यो बुञ्, कुशाआआदिभ्यश्छणित्येवं सप्तदश वाक्यानि सम्पन्नानि । तदाह — सप्तदशभ्य इति । अरीहणादिसप्तदशगणेभ्यो वुञादयः प्रत्ययाः क्रमात्स्युरित्यर्थः । चतुरथ्र्यामिति ।तदस्मिन्न॑स्तीति देशे तन्नाम्नि॒॑तेन निर्वृत्तं॒॑तस्य निवासः॑अदूरभवश्चे॑ति चतुष्र्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्ताद्यथायोगं प्रत्यया इति फलितम् । एतेषु गणेषु चेतनवाचका अचेतनवाचकाश्च सन्ति । तत्र यथायोगं चतुरथ्र्या अन्वयः । प्रेक्षीति । प्रेक्षते इति प्रेक्षः, तेन निर्वृत्त मित्यर्थः । प्रेक्षया निर्वृत्तमिति वा । पथः पन्थ चेति । पक्षादिगणसूत्रमिदम् । पान्थायन इति । पथोऽदूरभव इत्यर्थः ।", "42080": "", "42081": "<<जनपदे लुप्>> - जनपदे लुप् । चातुरर्थिकस्येति । प्रकरणलभ्यमिदम् ।", "42082": "<<वरणादिभ्यश्च>> - अथ प्रकृतमारभते — वरणादिभ्यश्च ।जनपदे लु॑बित्त्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप्स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अजनपदार्थ इति । वरणानामिति । वरणा नाम नदी काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायं, पूजार्थ वा बहुवचनम् । वरणानामदूरभवं नगरं-वरणाः । अत्र लुप्तप्रत्ययान्तस्य वरणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्गं बहुवचनं च ।", "42083": "<<शर्कराया वा>> - शर्कराया वा ।लु॑बित्यनुवर्तते । प्रत्यासत्त्या चातुरर्थिकस्येति लभ्यते । तदाह — अस्मादिति ।", "42084": "<<ठक्छौ च>> - ठक्छौ च ।शर्कराया इत्यनुवर्तते । तदाह — शर्कराया एतौ स्त इति । ठच्ककाविति । कुमुदादित्वाट्ठच्, वराहादित्वात्कगिति विवेकः । वाग्रहणेति । अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयथ्र्यादिति भावः । शर्करेति । अणो लुपि युर्तवद्भावे रूपम् । शार्करमिति । अणि रूपम् । शार्करिकमिति । ठकि रूपम् । शर्करीयमिति । छे रूपम् । शर्करिकमिति । ठचि रूपम् । शार्करकमिति । ककि रूपम् । शर्कराः सन्त्यस्मिन्नित्यर्थः, शर्कराबिर्निर्वृत्तमपि वा ।", "42085": "<<नद्यां मतुप्>> - नद्यां मतुप् । चातुरर्थिक इति । शेषपूरणम् । इक्षमतीति । मतुपि उपावितौ । इक्षवः सन्त्यस्मिन् इत्यर्थः ।", "42086": "<<मध्वादिभ्यश्च>> - मध्वादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे — मतुप्स्याच्चातुरर्थिक इति । मधुमानिति । मधूनां निवास इत्यर्थः । पूर्वेण सिद्धे किमर्थमिदमित्यत आह — अनद्यर्थ इति ।", "42087": "<<कुमुदनडवेतसेभ्यो ड्मतुप्>> - कुमुदनड । कुमुद नड वेतस-एतेभ्यो ड्मतुप्स्यादित्यर्थः । डकार उपौ च इतः । अयं मत्वर्थ एवेति 'न पदान्ते ति' सूत्रभाष्यकैयटयोः स्थितम् । कुमुद्वानिति । कुमुदाः अस्मिन्सन्तीति विग्रहः । ङ्भतुपि डित्त्वाट्टिलोपः । नड्वानिति । नडा अस्मिन्सन्तीति विग्रहः ।कुमुद्वान्कुमुदप्राये॑ इस्यमरः । वेतस्वानिति । वेतसा अस्मिन्सन्तीति विग्रहः । आद्ययोरिति । कुमुद्वच्छब्दे, नड्वच्छब्दे च 'झयः' इति मतुपो मस्य वकारः, वेतस्वच्छब्दे तु 'मादुपधायाः' इति मस्य वकार इत्यर्थः । वस्तुतस्तु नड्वच्छब्देऽपि 'झयः' इत्यस्याऽसिद्धत्वात् 'मादुपधायाः' इत्येव न्याय्यं,प्रकरणे प्रकरणमसिद्धं, नतु एकस्मिन्नेव प्रकरणे पूर्वयोगं प्रति परस्याऽसिद्धत्व॑मित्यस्य 'उपसर्गादसमासे' इति सूत्रभाष्ये दूषितत्वात् ।वेतस्वा॑नित्यत्र रुत्वं तु न, अल्लोपस्य स्थानिवत्त्वात् ।न पदान्ते॑ति निषेधस्तु न, पदे अन्त इति विगृह्र पदे परतश्चरमावयवे कर्तव्ये पदपदस्थाऽजादेशस्यैव तन्निषेधप्रवृत्तेर्भाष्येऽभ्युपगतत्वात् । पूर्वत्रासिद्धे न स्थानिव॑दिति निषेधोऽपि न, पदे अन्त इति विगृह्र तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्यप्रामाण्येन पदचरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणादिति शब्देन्दुशेखरे विस्तरः । माहिषाच्चेत्यनन्तरं तुड्भतु॑बिति शेषः । महिष्मानिति । महिषा अस्मिन्सन्तीति विग्रहः । टित्त्वाट्टिलोपः । अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम् ।प्रत्यये भाषायां नित्य॑मिति तु न, तस्य सवर्णे परतो विधेः । न हि षकारसवर्णोऽनुनासिकोऽस्ति ।", "42088": "<<नडशादाड्ड्वलच्>> - नडशादाड्ड्वलच् । नड्वल इति । डित्त्वाट्टिलोपः । शाद्वल इति । शादा अस्मिन्सन्तीति विग्रहः । शादो — दन्त्योपधः । डोपध इत्यन्ये ।नडप्राये नड्वान्नड्वल इत्यपी॑त्यमरः । 'शाद्वलः शादहरिते' इति च ।", "42089": "<<शिखाया वलच्>> - शिखाया वलच् । निर्वृत्ताद्यर्थं सूत्रं, देशे तन्नाम्नि अणो बाधनार्थं च ।दन्तशिखात्संज्ञाया॑मिति पञ्चमे वक्ष्यमाणं तु अदेशे ।ञपि शिखावल इति रूपार्थछम् ।", "42090": "<<उत्करादिभ्यश्छः>> - उत्करादिभ्यश्छः । 'चातुरर्थिक' इति शेषः । उत्करीय इति । देशविशेषोऽयम् । उत्करेण निर्वृत्तमिति वा, तस्य निवासः, तस्य अदूरभव इति वा ।", "42091": "<<नडादीनां कुक् च>> - नडादीनां कुक्च । नडादिभ्यछः स्याच्चातुरर्थिकः, प्रकृतेः कुक्च । क्रुञ्चा ह्रस्वत्वं चेति । नडादिगणसूत्रम् । क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति क्रुञ्चा अस्मिन्सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गमसूत्रम् । तक्षन्शब्दाच्छः कुक्, नकारस्य लोपश्च ।", "42092": "<<शेषे>> - अथ शैषिकप्रकरणं निरूप्यते । शेषे । अणादय इति ।प्राग्दीव्यतोऽणित्यादिसाधारणाः प्रत्यया इत्यर्थः । वतुर्भिरिति । अआआदिभिरिति शेषः । चतुर्दश्यामिति । कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृशयन्ते इत्यागमः । लक्षणमिति.प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः । अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदं न सिध्येदिति भावः । अधिकारश्चेति । उत्तरसूत्रेष्वनुवृत्त्यर्थः, स्वरितत्वादिति भावः । अधिकारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति । नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणामपत्यादिचतुरथ्र्यन्तादन्यत्वस्य सिद्धत्वाच्छेषाधिकारो व्यर्थ इति वाच्यं,तस्येद॑मित्यादावपत्यादिचतुरथ्र्यन्तार्थानां ग्रहणाऽभावाय तदावश्यकत्वात् । नच प्रदर्शितेषु ग्रहणाद्यर्थेषुतस्येद॑मित्येव अणादिसिद्धेः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यं,शैषिकान्मतुवर्थीया॑दित्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदंत्वेन भासमानमपत्याद्यपि न शेषः,इदंविशेषा ह्रेते अपत्यं समूहो विकारो निवासः॑ इति भाष्यात् । प्रपञ्चितं चैतत्तस्यापत्य॑मित्यत्रतस्येदमित्यपत्येऽपीत्यादिश्लोकवार्तिकव्याख्यावसरे ।", "42093": "<<राष्ट्रावारपाराद्घखौ>> - राष्ट्रावारपाराद्धखौ । आभ्यामिति । राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः । राष्ट्रिय इति । राष्ट्रे जातः भव इत्यादिरर्थो यथायथं बोध्यः । धस्य इयः । अवारपारीण इति । खस्य ईनादेशः, णत्वम् ।अवारपारादविगृहीतादपीति । अवारशब्दात्पारशब्दाच्च पृथग्भूतदादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति । पाराऽवारशब्दादपीत्यर्थः । ननुसार्ष्टावारपारे॑त्यरभ्यविभाषा पूर्वाह्णाऽपराह्णाभ्या॑मित्यन्तैः सूत्रै राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः । तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते, यत्किञ्चिद्विभक्त्यन्तेभ्यो राष्ट्रादिप्रकृतिविशेषेभ्यो घादयः टउटउलन्ताः प्रत्ययाः स्युः,समर्थानां प्रथमाद्वे॑त्थस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः । किंच 'तत्र जातः' इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः । तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः । तत्राह — इह प्रकृतीत्यादिना ।राष्ट्रावारे॑त्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनामर्थविशेषविभक्तिविशेषाकाङ्क्षायां, 'तत्र जातः' इत्यादि सूत्राणां च केवलमर्थविशेषणिर्देशपराणांसमर्थाना॑मिति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्क्षायां परस्परमेकवाक्यत्वे सति तत्र जात इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्त्यन्तेभ्यो राष्ट्रादिशब्देभ्यो घादयः ठ्युठ्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्राद्यन्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव ।", "42094": "<<ग्रामाद्यखञौ>> - ग्रामाद्यखञौ । ग्राम्य इति । यप्रत्ययेयस्येति चे॑ति लोपः । ग्रामीण इति । खञ ईनादेशः, णत्वम् ।", "42095": "<<कत्त्र्यादिभ्यो ढकञ्>> - कत्र्यादिभ्यो । कत्रय इति । 'कुगतिप्रादयः' इति कुशब्दस्य समासः ।त्रौ चे॑ति कोः कदादेशः । कात्रेयक इति । ढकञ्, ञकारस्य एयादेशः ।लोपो व्यो॑रिति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः । तथाच ग्रामशब्दाड्ढकञपि लभ्यते इत्यर्थः ।", "42096": "<<कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु>> - कुलकुक्षि । कुलाच्छुनि, कुक्षेः असौ , ग्रीवाया अलंकारे ढकञित्यर्थः । कौलेयकः । ओति । कुले जातादिरिति विग्रहः । कौक्षेयकोऽसिरिति । कुक्षौ=कोशे भवः खङ्ग इत्यर्थः । ग्रैवेयक इति । ग्रीवासु भव इति विग्रहः ।", "42097": "<<नद्यादिभ्यो ढक्>> - नद्यादिभ्यो ढक् । माहेयमिति । मही=भूमिः, तस्यां जातादीत्यर्थः । वाराणसेयमिति । वाराणस्यां जातादीत्यर्थः ।", "42098": "<<दक्षिणापश्चात्पुरसस्त्यक्>> - दक्षिणापश्चात् । आजन्तमव्ययमिति । अव्ययसाहचर्यादाजन्तं गृह्रत इति भावः । दक्षिणा, पश्चात्, पुरस्, एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः ।", "42099": "<<कापिश्याः ष्फक्>> - कापिश्याष्ष्फक् । कापिष्याः ष्फक् इति छेधः । कापिशीशब्दात् ष्फक् स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । षित्त्वान्ङीष् ।", "42100": "<<रंकोरमनुष्येऽण् च>> - रङ्कोरमनुष्येऽण् च । रङ्कोरण् स्याच्चात्ष्फक् । राङ्कवो गौरिति । रङ्कुर्नाम देशविशेषः । तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वान्न ष्फगणौ । किन्तुमनुष्यस्तत्स्थयो॑रिति वक्ष्यमाणो वुञ् । अकादेशः । राङ्कवो मनुष्य इति त्वपपाठः ।", "42101": "<<द्युप्रागपागुदक्प्रतीचो यत्>> - द्युप्रागपाक् । दिव्, प्राञ्च्, अपाञ्च्, उदञ्च्, प्रत्यञ्च् एभ्यो यत्स्यादित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः । दिव्यमिति । दिवि जातादीत्यर्थः । प्राच्यमिति । प्राचि प्रदेशे जातादीत्यर्थः । तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थितेअनिदिता॑मिति नलोपे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घे प्राच्यमिति रूपम् । अपाच्यमिति । इदमपि पूर्ववत् । उदीच्यमिति । अत्रउद ईदि॑ति ईत्त्वं विशेषः । प्रतीच्यमिति । प्राच्यवद्रूपम् ।", "42102": "<<कन्थायाष्ठक्>> - कन्थायाष्ठक् । तिर्यक्स्यूतबहुवस्त्रखण्डसमूहः कन्था । देशविशेष इत्यन्ये ।", "42103": "<<वर्णौ वुक्>> - वर्णौ वुक् । वर्णुसमीपेति । वर्णुर्नाम सिन्धुनदः, तस्याऽदूरभव इत्यर्थे सुवास्त्वादित्वादणोजनपदे लुबि॑ति लुप् । तथाच वर्णुसमीपदेशो वर्णुः, तस्मिन् या कन्था तद्वाचकाद्वक्प्रत्यय इति यावत् ।", "42104": "<<अव्ययात्त्यप्>> - अव्ययात्त्यप् ।अमेहेति । अमा, इह, क्व, तसि, त्र एभ्य एव अव्ययेभ्यस्त्यप्प्रत्यय इति परिगणनवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः । औपरिष्ट इति ।उपरिष्टा॑दित्यव्ययस्य परिगणितेष्वनन्तर्भावान्न त्यप् । अणि 'औपरिष्ट' इति रूपमित्यर्थः । कथमिह टिलोप इत्यत आह — अव्ययानामिति । वार्तिकमिदम् । भमात्रे इति । कार्त्स्न्ये मात्रशब्दः । कृत्स्नस्य भस्याव्ययस्य टेर्लोपः । 'नस्तद्धिते' इत्याद्युपाधिर्नापेक्षित इत्यर्थः । नन्वेवं सति आरादित्यव्ययाच्छस्य ईयादेशे टिलोपे 'आरीय' इति स्यादित्यत आह — अनित्योऽयमिति । त्यब्नेरिति । नि इत्यव्ययात्त्यप् स्याद्ध्रुवे गम्ये इत्यर्थः । नियतं भवं नित्य॑मिति भाष्यम् । निसो गत इति । निस् इस्यव्ययात्त्यब्वक्तव्यो गते गम्ये इत्यर्थः । निस्-त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाऽभावाच्च षत्वे अप्राप्ते — ।", "42105": "<<ऐषमोह्यःश्वसोऽन्यतरस्याम्>> - ऐषमोह्रः । एभ्य इति । ऐषमस्, ह्रस्, आस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति ।सायञ्चिरंप्राहेप्रगेऽव्ययेभ्यष्टउठ्युलौ तुट् चे॑त्यनेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते । तत्र भवमित्यर्थः ।परुत्परो र्यैषमो ।ञब्दे पूर्वे पूर्वतरे यती॑त्यमरः । ऐषमस्तनमिति । ठ्युठ्युलौ वा । टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थः, टित्त्वादाद्यवयवः । ह्रस्त्यं, ह्रस्तनमिति । ह्रसित्यव्ययं गतेऽह्नि । तत्र भवमित्यर्थः । आस्त्यं-आस्तनमिति । आस् इत्यव्ययमनागतेऽह्नि । तत्र भवमित्यर्थः ।ह्रो गतेऽनागतेऽह्नि आः॑ इत्यमरः । पक्षे इति ।आसस्तुट् चे॑ति ठञि तस्य इकादेशे तुडागमेद्वारादीनां चे॑त्यैजागमेशौवस्तिक॑मित्यपि वक्ष्यमाणं रूपमित्यर्थः ।", "42106": "<<तीररूप्योत्तरपदादञ्ञौ>> - तीररूप । तीरोत्तरपदाद्रूपोत्तरपदाच्च क्रमादञ्ञ्यश्चेत्यर्थः । काकतीरमिति । ककतीरे भवतित्यर्थः । पाल्वलतीरमिति । पल्वलतीरे भवमित्यर्थः । शैवरूप्यमिति । शिवरूपे भवमित्यर्थः ।रूप्योत्तरपदे॑ति क्वचित्पाठः । तथा सति ञ्यप्रत्ययेयस्येति चे॑त्यकारलोपे द्वियकारं रूपम् । बाहुरूपमिति ।विभाषा सुपो बहुच् पुरस्तात्तु॑ इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तरपदकत्वाऽभावान्न ञ्य इति भावः ।", "42107": "<<दिक्पूर्वपदादसंज्ञायां ञः>> - दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूताद्दिक्पूर्वपदकाञ्ञः स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे 'तद्धितार्थ' इति समासाञ्ञः ।", "42108": "<<मद्रेभ्योऽञ्>> - मद्रेभ्योऽञ् । इत्येवेति । दिक्पूर्वान्मद्रशब्दादञित्यर्थः । पर्युदासादिति । उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति । पूर्वेषु मद्रेषु भव इत्यर्थः ।", "42109": "<<उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्>> - उदीच्यग्रामाच्च । शैवपुरमिति । उत्तरदेशे शिवपुरं नाम ग्रामविशेषः । तत्र भवमित्यर्थः । समासस्येत्यन्तोदात्तः शिवपुरशब्दः । बह्वचः किम् । ङीषन्तो ध्वञ्जी नाम उत्तरदेशे ग्रामविशेषः । तत्र भवो ध्वाञ्जः । अन्तोदात्तात्किम् । शार्करीधनाम् । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानान्मध्योदात्तोऽयम् ।", "42110": "<<प्रस्थोत्तरपदपलद्यादिकोपधादण्>> - प्रस्थोत्तरपद । प्रस्थोत्तरपदात्पलद्यादिभ्यः कोपधाच्च अणित्यर्थः । पलदिः-आदिर्येषामिति विग्रहः । उदीच्यग्रामलक्षणस्य अणोऽपवादः । माहिकिप्रस्थ इति । महिकिप्रस्थनाम्नि ग्रामे भव इत्यर्थः । पालद इति । पलदिनाम्नि ग्रामे भव इत्यर्थः । नैलीनक इति । निलीनकनाम्नि ग्रामे भव इत्यर्थः ।", "42111": "<<कण्वादिभ्यो गोत्रे>> - कण्वादिभ्यो गोत्रे । काण्व्यस्येति । कण्वस्य गोत्रापत्यं काण्व्यः । गर्गादियञ् । काण्व्यस्य छापवादोऽण् ।यस्येति चे॑त्यकारलोपः ।आपत्यस्य चे॑ति यकारलोपः । 'काण्वा' इति रूपम् ।", "42112": "<<इञश्च>> - इञश्च । दाक्षा इति । दक्षस्य गोत्रापत्यं दाक्षिः ।अत इञ॑ । दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुतङ्गमस्य निवासः सौतङ्गमिः ।सुतङ्गमादिभ्य इञ् । सौतङ्गमेरिदमित्यर्थे वृद्धाच्छः, न त्वण्, इञो गोत्रार्थकत्वाऽभावात् । गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि लौकिकमेव गोत्रमिति सिद्धान्तस्तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रं गृह्रते,यूनि लु॑गिति सूत्रभाष्ये तथोक्तत्वादिति भावः । पाणिनीयमिति । पणिनो गोत्रापत्यं पाणिनः । तस्यापत्यं युवा — पाणिनिः । तस्येदं पाणिनीयम् । वृद्धाच्छः । अण् तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः ।", "42113": "<<न द्व्यचः प्राच्यभरतेषु>> - न द्वयचः । प्राच्येषु [परेषु ]भरतेषु च गोत्रेषु विद्यमानादिञन्तात् द्व्यचोऽण् न भवतीत्यर्थः । इञश्चेत्यणोऽपवादः । प्रतिषेध इत्यर्थः । प्राष्ठीया इति । प्राष्ठस्य गोत्रापत्यं प्राष्ठिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धाच्छः । सिङ्गमिति । तेन औद्दालकिः पिता, औद्दालकायनः पुत्र इत्यत्रइञः प्राचा॑मिति भरतेब्यो लुङ् न भवति ।", "42114": "<<वृद्धाच्छः>> - भवतष्ठक्छसौ । भावत्क इति ।इसुसुक्तान्तात्कः॑ । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह — जश्त्वमिति ।सिति चे॑ति पदत्वेन भत्वस्य बाधादिति भावः । ननु 'भावत' इति कथमण्प्रत्ययः,त्यदादीनि चे॑ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह — वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषुभातेर्डवतु॑रिति डवत्वन्तस्यैव पाठादिति भावः ।", "42115": "", "42116": "<<काश्यादिभ्यष्ठञ्ञिठौ>> - काश्यादिभ्यष्ठञ्ञिठौ । ठञ् — ञिठ इति प्रत्ययौ स्तः । ञिठप्रत्यये ञि इति समुदायस्य 'आदिर्ञिटुडवः' इति इत्संज्ञायां प्रयोजनाऽभावाञ्ञकार एव इत्, तस्य ञित्स्वरः प्रयोजनम् । ठञ एव विधौ तु ङीप् स्यात्, टाब् न स्यात् । नन्वेवं सति इठप्रत्यये ठस्य इकादेशो न स्यात्, अङ्गात्परत्वाऽभावादित्यत आह — उच्चारणार्थ इति । काशिकीति काश्यां जातादिरित्यर्थः । ठञन्तान्ङीप् । काशिकेति । ञिठप्रत्यये इकादेशे टाप् । वैदिकी वैदिकेति । वेदिर्देशविशेषः । आपदादिपूर्वपदादिति । गणसूत्रम् । ठञ्ञिठावित्येव । आपदादिरिति । आपत् आदिर्यस्येति विग्रहः । आपत्कालिकी आपत्कालिकेति । ठञि ङीप्, ञिठेटाप् । बाहीकग्रामेभ्यश्च । बाहीकाख्याः केचिद्ग्रामाः, तद्विशेषवाचिभ्य इत्यर्थः ।", "42117": "<<वाहीकग्रामेभ्यश्च>> - तदाह — वाहीकग्रामवाचिभ्य इति ।", "42118": "<<विभाषोशीनरेषु>> - विभाषोशीनरेषु । पूर्वसूत्रे समस्तनिर्देशेऽपि ग्रामेभ्य इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । तदाह — एषु ये ग्रामा इति । उशीनरेषु ये ग्रामास्तद्विशेषवाचिभ्यः इत्यर्थः । सौदर्शनो नाम उशीनरदेशे कश्चिद्ग्रामः । सौदर्शनीयेति । ठञ्ञिठयोरभावे वृद्धाच्छः ।", "42119": "<<ओर्देशे ठञ्>> - ओर्देशे ठञ् । निषादकर्षूरिति । 'कश्चिद्ग्राम' इति शेषः । नैषादकर्षुक इति । उगन्तात्परत्वात्कादेशः ।", "42120": "<<वृद्धात् प्राचाम्>> - वृद्धात्प्राचाम् ।ओर्देशे ठ॑ञित्यनुवर्तते । प्राचामिति देशविशेषणं, नतु विकल्पार्थं, व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह — प्राग्देशेत्यादिना । आढकजम्बुक इति । आढकजम्बूर्नाम कश्चिद्ग्रामः । तत्र भव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । 'केऽणः' इति ह्रस्वः । एवे शाकजम्बुकः । मल्लवास्त्विति ।कश्चित् प्राच्यो ग्राम॑ इति शेषः ।", "42121": "<<धन्वयोपधाद्वुञ्>> - धन्वयोपधाद्वुञ् । ऐरावतं धन्वेति । ऐरावताख्यं धन्वेत्यर्थः । धन्व-मरुप्रदेशः । 'समानो मरुधन्वानौ' इत्यमरः ।आष्टकं नाम धन्वे॑ति बाष्यान्नपुंसकत्वमपि । ऐरावतक इति । ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इत्यर्थः ।", "42122": "<<प्रस्थपुरवहान्ताच्च>> - प्रस्थपुरवहान्ताच्च । एतदन्तादिति । प्रस्थ, पुर, वह-एतदन्तादित्यर्थः । ननु पुरान्तग्रहणं व्यर्थं, नान्दीपुरक इत्यत्ररोपधेतोः प्राचा॑मित्युत्तरसूत्रेण सिद्धत्वादित्यत आह — पुरान्तेति ।", "42123": "<<रोपधेतोः प्राचाम्>> - रोपधेतोः प्राचां । रोपधश्च, ईच्च तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे । प्राचामिति धेशविशेषणं । तदाह — रोपधादित्यादिना । ईत इति । 'उदाह्यियते' इति शेषः । काकन्दक इति । काकन्दी नाम देशः, तत्र भव इत्यर्थः ।", "42124": "<<जनपदतदवध्योश्च>> - जनपदतदवध्योश्च । आदर्शक इति । आदर्शो नाम जनपदः । तत्र भव इत्यर्थः । त्रिगत्रो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तरपदच्छं बाधितुमिह तदवधिग्रहणम् । तदाह — त्रैगर्तक इति ।", "42125": "<<अवृद्धादपि बहुवचनविषयात्>> - अवृद्धादपि बहुवचनविषयात् । अवृद्धाज्जनपदादिति । 'उदाह्यियते' इति शेषः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यो जनपदः कस्यचिज्जनपदस्यावधिः । वृद्धाज्जनपदादिति । 'उदाह्यियते' इति शेषः । दार्वक इति । 'दार्वा' इति बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः । कालञ्जरक इति । कलञ्जरेषुभव इत्यर्थः ।", "42126": "<<कच्छाग्निवक्त्रगर्त्तोत्तरपदात्>> - कच्छाग्नि । कच्छ, अग्नि, वक्त, वर्त-एतदुत्तरपदादित्यर्थः । शेषपूरणेन सूत्रं व्याचष्टे — देशवाचिन इति । छाऽणोरपवादः । दारुकच्छक इति । दारुकच्छे भव इत्यर्थः । काण्डाग्नक इति । काण्डाग्नौ भव इत्यथः । अकादेशेयस्येति चे॑ति इकारलोपः । सैन्धुवक्रक इति । सिन्धुवक्रे भव इत्यर्थः । बाहुवर्तक इति । बहुवर्ते भव इत्यर्थः ।", "42127": "<<धूमादिभ्यश्च>> - धूमादिभ्यश्च ।देशवाचिभ्यो वु॑ञिति शेषपूरणम् ।", "42128": "<<नगरात् कुत्सनप्रावीण्ययोः>> - नगरात्कुत्सन । नागरा ब्राआहृणा इति । कत्र्यादिषु माहिष्मतीसाहचर्येण संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् । अतो न ढकञ् ।प्राचां ग्रामनगराणामि॑ति सूत्रभाष्ये 'नागरा' इत्युदाहरणात् ।", "42129": "<<अरण्यान्मनुष्ये>> - अरण्यान्मनुष्ये । आरण्यक इति । पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । वा गोमयेष्विति । वार्तिकमिदम् ।", "42130": "<<विभाषा कुरुयुगन्धराभ्याम्>> - विभाषा कुरु । कुरुयुगन्धरौ जनपदौ । अवृद्धाभ्यामपि ताभ्याम्अवृद्धादपी॑ति नित्यं प्राप्ते विकल्पः ।", "42131": "<<मद्रवृज्योः कन्>> - मद्रवृज्योः कन् । मद्रो वृजिश्च जनपदविशेषः । जगपदवुञोऽपवादः ।", "42132": "<<कोपधादण्>> - कोपधादण् । माहिषिक इति । महिषिको नाम जनपदः, तत्र भव इत्यर्थः ।प्रस्थोत्तरपदे॑त्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम् ।", "42133": "<<कच्छादिभ्यश्च>> - कच्छादिभ्यश्च । काच्छ इति । अत्र वुञोऽपवादोऽण् । सैन्धव इति । #ओर्देशे ठञोऽपवादः ।", "42134": "<<मनुष्यतत्स्थयोर्वुञ्>> - मनुष्यतत्स्थयोर्वुञ् । कच्छादिभ्य इत्यनुवर्तते । तदाह — कच्छादीति ।", "42135": "<<अपदातौ साल्वात्>> - अपदातौ साल्वात् । नियमार्थमिति ।साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः ।", "42136": "<<गोयवाग्वोश्च>> - गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थः ।", "42137": "<<गर्तोत्तरपदाच्छः>> - गर्तोत्तरपदाच्छः । देशे इति । शेषपूरणम् । देशवाचिन इति यावत् । वृकगर्तीयमिति । वृकगर्तो नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छ इत्येतावतैव केवलगर्तशब्दस्य देशवाचित्वाऽभावाद्गर्तोत्तरपदादिति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आह — उत्तरपदग्रहणमिति ।", "42138": "<<गहादिभ्यश्च>> - गहादिभ्यश्च । गहीय इति । गहो देश विशेषः । मुखपार्ोति । गहादिगणसूत्रम् ।मुखपार्ो॑ति लुप्तषष्ठीकं पदम् । तसन्तयोरेतयोरन्त्यस्य लोपश्च । चाच्छः । असम्भवादत्र जनपदस्येति न सम्बध्यते । कुग्जनस्येति । गणसूत्रमिदम् । जनशब्दस्य परशब्दस्य च कुगागमः स्यात् । चाच्छः । अत्रापि देश इति न सम्बध्यते । देवस्य च । इदमपि गणसूत्रम् चात्कुक्छश्च । 'देवाद्यञञौ' इत्यस्यापवादः । 'दैवानुग्रह' इति भाष्यप्रयोगाद्दैवमित्यपि साधु । स्वकीयमिति । गहादित्वाच्छः, कुक्च । स्वशब्दोऽपि गहादिः, आगमशास्त्रस्याऽनित्यत्वात्स्वीयम् ।", "42139": "<<प्राचां कटादेः>> - प्राचां कटादेः । कटनगरीयमिति । कटनगरो नाम प्राच्यो देशः ।", "42140": "<<राज्ञः क च>> - राज्ञः क च । राजन्शब्दाच्छः स्यात्, ककारश्चान्तादेशः ।", "42141": "<<वृद्धादकेकान्तखोपधात्>> - वृद्धादकेकान्तखोपधात् । ब्राआहृणकीय इति । कोपधाऽणोऽपवादश्छः । शाल्मलिकीय इति । शाल्मलिको नाम देशः । तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । कोपधाऽणपवादः । अयोमुखीय इति ।बाहीकग्रामेभ्यश्चे॑ति ठञ्ञिठयोरपवादश्छः ।", "42142": "<<कन्थापलदनगरग्रामहृदोत्तरपदात्>> - कन्थापलद । ठञ्ञिठादेरपवाद इति । नगरान्तेरोपधेतो॑रिति वुञोऽपवादः । इतरत्रबाहीकग्रामेभ्यश्चे॑ति ठञ्ञिठयोरपवाद इति विवेकः ।", "42143": "<<पर्वताच्च>> - पर्वताच्च — इत्यादि स्पष्टम् ।", "42144": "<<विभाषाऽमनुष्ये>> - पक्षेऽणिति । अत्यतरस्यांग्रहणादिति भावः । अत्रयुष्मदस्मदो॑रिति योगो विभज्यते । आभ्यां छो भवतीत्यर्थः । 'खञ् च' इति योगान्तरम् । आभ्यां खञ् च भवतीत्यर्थः ।अन्यतरस्या॑मिति योगान्तरम् । आभ्यां छखञौ वा स्तः, पक्षेऽणित्यर्थः । अतो न यथासह्ख्यामिति भाष्ये स्पष्टम् ।", "42145": "", "43001": "<<युष्मदस्मदोरन्यतरस्यां खञ् च>> - युष्मदस्मदोः । युष्मदस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् त्यदादीनि सर्वैर्नित्यम् इत्येकशेषो न भवति । पञ्चम्यर्थे षष्ठी । युष्मच्छब्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ्-स्यादित्यर्थः । चाच्छः । गर्तोत्तरपदादित्यधिकृतः छः चकारेण समुच्चीयत इत्यर्थः ।युष्मदीय इति । द्विवचनान्दाद्बहुवचनान्ताच्च छः । ईयादेशः । सुब्लुकि युवादेशस्य निवृत्तिः, तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थैकत्वे विभक्तेर्लुप्तत्वेऽपि त्वादेशो वक्ष्यते । अस्मदीय इति । आवयोरस्माकं वा अयमित्यर्थः ।", "43002": "<<तस्मिन् नणि च युष्माकास्माकौ>> - अथ खञि अणि च विशेषमाह — तस्मिन्नणि च । पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते । तदाह — खञि अणि चेति । अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यं, न तु परनिमित्तयोः, तस्मिन्नणीति व्यस्तनिर्देशात् । यौष्माकीण इति । युवयोर्युष्माकं वा अयमिति विग्रहः । खञ्, ईनादेशः, युष्माकादेशः आदिवृद्धिः, णत्वम् । आस्माकीन इति । आवयोरस्माकं वा अयमिति विग्रहः । अणि उदाहरति — यौष्माकः आस्माक इति ।", "43003": "<<तवकममकावेकवचने>> - तवकममकौ । 'एकवचने' इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम्ुक्तिः-एकवचनम् । एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते । तदाह — एकार्थवाचिनोरिति । छे त्विति ।एकार्थवृत्तयोर्विशेषो वक्ष्यते॑ इति शेषः ।", "43004": "<<अर्धाद्यत्>> - अर्धात् । अध्र्य इति । अर्धे जातादिरित्यर्थः ।सपूर्वपदाट्ठञ् वाच्यः॑ इति वार्तिकं भाष्ये स्थितम् । बालेयार्धिकः ।", "43005": "<<परावराधमोत्तमपूर्वाच्च>> - परावरअर्धाद्य॑दिति शेषः । अवरशब्दो दन्तोष्ठवकारमध्यः ।", "43006": "<<दिक्पूर्वपदाट्ठञ् च>> - दिक्पूर्वपदायट्ठञ् च । अर्धादित्येव । परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव, विशिष्य विहितत्वात् ।", "43007": "<<ग्रामजनपदैकदेशादञ्ठञौ>> - ग्रामजनपद । ननु अञ् चेत्येतावतैव चकाराट्ठञोऽनुकर्षसिद्धेः ठञ्ग्रहणं व्यर्थमित्यत आह — ठञ्ग्रहणमिति । ननु अञ् चेत्युक्तेऽपि चकाराट्ठञोऽनुकर्षः स्पष्ट एवेत्यत आह — अञ्चेत्युक्त इत्यादि ।", "43008": "<<मध्यान्मः>> - मध्यान्मः । स्पष्टम् ।", "43009": "<<अ साम्प्रतिके>> - अ सांप्रतिके । 'अ' इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह — मध्यशब्दादित्यादि ।संप्रती॑त्यव्ययमुत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीयेअनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथवा एष सम्प्रतियज्ञो यत्पञ्चरात्रः॑ इत्यत्र तथा दर्शनात् । पञ्चरात्रो न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः । सम्प्रतिशब्दात्स्वार्थे विनयादित्वाट्ठकि साम्प्रतिकम् । प्रज्ञादित्वात्स्वार्थ अणि तु साम्प्रतमित्यपि भवति ।एतर्हि सम्प्रती॑ति कोशादिदानीमित्यर्थेऽपि । प्रकृते तु साम्यं विवक्षितम् ।", "43010": "<<द्वीपादनुसमुद्रं यञ्>> - द्वीपादनु ।अनुसमुद्र॑मिति सामीप्ये अव्ययीभावः । अनुसमुद्रमिति सप्तम्यन्तम्, विद्यमानादित्यध्याहार्यम् । तदाह — समुद्रस्य समीपे इति । द्वैप्येति ।यञश्चे॑ति ङीप् तु न,अनपत्याधिकारस्थान्ने॑ति तन्निषेधात् ।", "43011": "<<कालाट्ठञ्>> - कालाट्ठञ् ।कालशब्दस्यैव न ग्रहणं, किन्तु कालशब्दस्य, कालविशेषवाचकानां च ग्रहण॑मिति 'तदस्य परिमाणं' 'सङ्ख्यायाः' इति सूत्रभाष्ये स्पष्टम् । तदाह — कालवाचिभ्य इति । सायंप्रातिकः पौनःपुनिक इति । 'अव्ययानां भमात्रे' इति टिलोपः ।सायञ्चिर॑मिति ठ्युठ्युलौ तु न भवतः, 'नस्तद्धिते' इति सूत्रभाष्ये तथा प्रयोगदर्शनात् । शार्वरस्येति । समानकालिकं प्राक्रालिकमिति भाव्यमित्यर्थः । प्रामाणिका इति । केचित्तु अमुकः पुरतः परेद्युरित्यादिवदेतेऽपि शब्दा अव्युत्पन्नाः, पृष्टोदरादयो वा साधव इत्याहुः । इति यावदिति । व्याख्यानादिति भावः ।", "43012": "<<श्राद्धे शरदः>> - श्राद्धे शरदः । ठञ् स्यादिति । शेषपूरणमिदम् । ननुकालाट्ठ॑ञित्येव सिद्धे किमर्थमिदमित्यत आह — ऋत्वण इति ।सन्धिवेसाद्यृतुनक्षत्रेभ्योऽणि॑ति वक्ष्यमाणस्येत्यर्थः । शारदिकमिति । शरदि ऋतौ भवमित्यर्थः । शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम् ।", "43013": "<<विभाषा रोगातपयोः>> - विभाषा रोगातपयोः ।ठ॑ञिति शरद इति चानुवर्तते । शारदं दधीति । ञत्वणिति भावः ।", "43014": "<<निशाप्रदोषाभ्यां च>> - निशाप्रदोषाभ्यां च । वा ठञ् स्यादिति । शेषपूरणम् ।कालाट्ठ॑ञिति नित्यं प्राप्ते विकल्पोऽयम् ।", "43015": "<<श्वसस्तुट् च>> - आसस्तुट् च । तस्येति । प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः ।", "43016": "<<संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण्>> - सन्धिवेलां । कालवृत्तिभ्य इति ।कालाट्ठ]ञित्यतस्तदनुवृत्तेरिति भावः । ठञोऽपवादः । तैषमिति । तिष्ये भवादीत्यर्थः ।तिष्टपुष्ययोर्नक्षत्राऽणी॑ति । यलोपः । तिष्ये जात इत्यर्थेश्रविष्ठाफल्गुनी॑ति लुग्वक्ष्यते । सन्धिवेलादिगणं पठति — सन्धिवेलेत्यादि । संवत्सरात्फलपर्वणोरिति । गणसूत्रमिदम् ।", "43017": "<<प्रावृष एण्यः>> - प्रावृष एण्यः । ऋत्वणोऽपवादः । प्रावृषेण्य इति । प्रावृट्-वर्पर्तुः । तत्र भवादिरित्यर्थः । जाते तु ठब् वक्ष्यते । प्रक्रियालाघवार्थं णकारोच्चारणम् ।", "43018": "<<वर्षाभ्यष्ठक्>> - वर्षाभ्यष्ठक् । तृतीयर्तौवर्षाशब्दौ नित्यं बहुवचनान्तः,अप्सुमनःसमासिकतावर्षाणां बहुत्व॑मिति लिङ्गानुशासनसूत्रात् ।स्त्रिया प्रावृट् स्त्रियां भूम्नि वर्षाः॑ इत्यमरः । वर्षाशब्दाजाताद्यर्थे ठगित्यर्थः । वर्षाषु साध्विति हितकारीत्यर्थः । ननुतत्र साधु॑रिति साध्वधिकारस्य शेषाधिकारबहुर्भूतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत आह — कालादिति । साध्वर्थे इति । साध्वर्थेऽपि ठगित्यर्थः । अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः ।", "43019": "", "43020": "", "43021": "", "43022": "<<सर्वत्राण् च तलोपश्च>> - सर्वत्राऽण्च । छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदे चेत्यर्थः ।हेमन्ताच्चे॑ति पूर्वसूत्राद्धेमन्तादित्यनुवर्तते । तदाह — हेमन्तादित्यादिना । ननुसर्वत्राऽण् तलोपश्चे॑त्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह — चकारादिति । हैमनमिति ।हेमन्ते॑त्यत्र तकारात्प्राग् नकारस्यानुस्वारपरसवर्णौ स्थितौ । तत्र तकाराकारसमुदायस्य लोप इति पक्षेअ॑निति प्रकृतिभावान्न टिलोपः । तकारस्यैव लोप इति पक्षे तु अकारस्ययस्येति चे॑ति लोपे तस्य आभीयत्वेनासिद्धत्वात्स्थानिवत्त्वाद्वा न टिलोपः । हैमन्तमिति । ऋत्वणि रूपम् । अत्र न तलोपः, तस्य एतत्सूत्रप्रतिपदोक्ताऽणा संनियोगशिष्टत्वादिति भावः ।", "43023": "", "43024": "<<विभाषा पूर्वाह्णापराह्णाभ्याम्>> - विभाषा पूर्वाह्णा । पक्षे ठञिति । तथा सति न तुट्, तस्य ठ्युठ्युल्भ्यां संनियोगशिष्टत्वादिति भावः । तदेवंराष्ट्रावारे॑त्यारभ्य एतदन्तैः सूत्रैः शाष्ट्रादिप्रकृतिविशेषेभ्यो घादयः प्रत्ययविशेषा अनुक्रान्ताः ।", "43025": "<<तत्र जातः>> - अथ तेषां प्रत्ययानामर्थविशेषान्, प्रकृतीनां च विभक्तिविशेषान् दर्शयितुमुपक्रमते — तत्र जातः सप्तमीसमर्थादिति । सप्तम्यन्तात्कृतसन्धेरित्यर्थः । तत्रेत्यनेन सप्तम्यन्तस्यैव प्रथमानिर्दिष्टत्वादिति भावः । अणादय इति । अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति ।राष्ट्रावारपारे॑त्यादिभिर्विशेषविहिता इत्यर्थः ।", "43026": "<<प्रावृषष्ठप्>> - प्रावृषष्ठप् । ठपः पित्त्वम्अनुदात्तौ सुप्पितौ॑ इति स्वारार्थम् । एण्यस्येति । 'प्रावृष एण्यः' इति विहितस्येत्यर्थः । एवंच 'प्रावृष एम्यः' इति सूत्रं जातादन्यार्थमिति पर्यवस्यति ।", "43027": "<<संज्ञायां शरदो वुञ्>> - संज्ञायां शरदो वुञ् । संज्ञायामित्येतदत्कृतलब्धक्रीते॑त्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः ।", "43028": "<<पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्>> - कृतलब्ध । तत्रेत्येवेति । 'तत्र जातः' इत्यतस्तत्रेत्येवानुवर्तते ।जात इति तु निवृत्तमित्यर्थः । तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । स्नौग्घ्न इति । औत्सर्गिकोऽण् । राष्ट्रे कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम् ।", "43029": "", "43030": "<<अमावास्याया वा>> - अमावास्याया वा ।वु॑निति शेषः । पक्षे सन्धिवेलादित्वादण् । एकदेशविकृतन्यायादमावस्याशब्दादप्ययं विधिः ।", "43031": "", "43032": "<<सिन्ध्वपकराभ्यां कन्>> - सिन्ध्वपकराभ्यां कन् । सिन्धुक इति । सिन्धौ जात इत्यर्थः । कच्छादीति ।कच्छादिभ्यश्चे॑त्यणिमनुष्यतत्स्थयोश्चे॑ति वुञि च प्राप्तेऽयं कन्विधिरित्यर्थः । अपकरक इति । अपकरे जात इत्यर्थः । अणि प्राप्ते इति ।कन्विधि॑रिति शेषः ।", "43033": "<<अणञौ च>> - अणञो च । क्रमात्स्त इति ।सिन्ध्वपकराभ्या॑मिति शेषः ।", "43034": "<<श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्त- विशाखाऽषाढाबहुलाल्लुक्>> - श्रविष्ठा । एभ्य इति । श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्ट, पुर्नर्वसु, हस्त विशाखा, अषाढा, बहुला — एतेभ्यः इत्यर्थः । जातार्थेति । प्रकरणलभ्यमिदम् । स्वातिशब्दो ह्रस्वान्त इति कैयटहरदत्तौ । दीर्घान्त इति 'अत सातत्यगमने' इति धातौ माधवः । कृत्तिकावाचिबहुलाशब्दष्टाबन्तः । समाहारद्वन्द्वे ह्रस्वनिर्देशः ।", "43035": "<<स्थानान्तगोशालखरशालाच्च>> - स्थानान्तगोशाल । एभ्य इति । स्थानान्त, गोशाल, खरशाल — एतेभ्यः इत्यर्थः । गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति । गोशाले जात इत्यर्थः । एवं खरशालः । सर्वत्र अणो लुकि नादिवृद्धिः । ननु शालाशब्दस्य स्त्रीलिङ्गत्वाद्ध्रस्वनिर्देशोऽनुपपन्न इत्यत आह — विभाषा सेनेति । लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादवपि लुक् ।", "43036": "<<वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा>> - वत्सशालाभिजित् । एभ्य इति । वत्सशाला, अभिजित्, अआयुज्, शतभिषज् इत्येभ्य इत्यर्थः ।परस्ये॑ति शेषः । इत्यादीति अभिजिति जात आभिजितः, अभिजित् । अआयुजोर्जातः-आआयुजः, अआयुक् । शतभिषजि जातः-शातभिषजः , शतभिषक् । जातार्थे इति ।कालाट्ठञि॑ति ठञा निवर्तित औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः ।दृष्टं सामे॑ति सूत्र भाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति । अणि ङित्त्वपक्षे टिलोपः ।", "43037": "<<नक्षत्रेभ्यो बहुलम्>> - नक्षत्रेभ्यो बहुलं । रोहिण इति । रोहिण्यां जात इत्यर्थः । नक्षत्राऽणो लुकि आदिवृद्धिनिवृत्तौलुक्तद्धितलुकी॑ति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यं, न हि रोहितशब्दोऽयं वर्णविशेषवाचको येनवर्णादनुदात्ता॑दिति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किंतु रोहिणीशब्दोऽयमब्युत्पन्नो नक्षत्रविशेषे रूढः । 'रोहिणी नक्षत्रे' इति गौरादि पाठान्ङीष् । अत एवरोहिणी नक्षत्रं प्रजापतिर्देवते॑त्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते । अन्यथावर्णानां तणतिनितान्ताना॑मित्याद्युत्तत्वं स्यादित्यलम् ।", "43038": "", "43039": "<<प्रायभवः>> - प्रायभवः । तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । प्रायशब्दस्य व्याख्यानम् — बाहुल्येनेति । तत्र भव इत्येव सिद्धत्वात्प्रत्याख्यातमिदं भाष्ये ।", "43040": "<<उपजानूपकर्णोपनीवेष्ठक्>> - उपजानूपकर्ण । 'प्रायभव' इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यष्ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । औपकर्णिक इति । कर्णस्य समीपमुपकर्ण, तत्पर प्रायभव इत्यर्थः । औपनीविक इति । नीवेः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः ।", "43041": "<<संभूते>> - संभूते । तत्रेत्येव । सप्तम्यात्सम्भूतेऽर्थेऽणादयो घादयश्च यथातं स्युरित्यर्थः । संभवः-संभावना ।", "43042": "<<कोशाड्ढञ्>> - कोशाड्ढञ् । कौशेयं वस्त्रमिति । कृमिविशेषकोशस्य विकार इत्यर्थः ।विकारे कोशाड्ढ॑ञिति वार्तिकात् ।", "43043": "<<कालात् साधुपुष्प्यत्पच्यमानेषु>> - उप्ते च । तत्रेत्येव । कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः । उप्यन्त इति ।डु वप् बीजसन्ताने॑ । भूतकालस्त्वविवक्षित इति भावः ।", "43044": "", "43045": "<<आश्वयुज्या वुञ्>> - आआयुज्या वुञ् । तत्रोप्य इत्येव । सप्तम्यन्तादाआयुजीशब्दादुप्तेऽर्थे वुञ्स्यादित्यर्थः । ठञोऽपवाद इति ।कालाट्ठ॑ञिति विहितस्येत्यर्थः । आआयुजका इति । अआयुग्भ्यां युक्ता पौर्णमासी आआयुजी, तत्रोप्ता इत्यर्थः ।", "43046": "<<ग्रीष्मवसन्तादन्यतरस्याम्>> - ग्राष्मवसन्तात् । ग्रीष्माद्वसन्ताच्च सप्तम्यन्तादुप्ते वुञ्वेत्यर्थः ।", "43047": "<<देयमृणे>> - देयमृणे । कालादित्येवेति । तत्रेत्यप्यनुवर्तते । वुञिति निवृत्तम् । सप्तम्यन्तात्कालवाचिनो देयमित्यर्थे यताविहितं प्रत्ययाः स्युः । तस्मिन्देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति ।कालट्ठञ् ।", "43048": "<<कलाप्यश्वत्थयवबुसाद्वुन्>> - कलाप्यआत्थ । कलापिन्, अआत्थ, यवबुस — एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन्स्यादित्यर्थः । कलापकमिति । वुन् । अकादेशः । 'नस्तद्धिते' इति टिलोपः । अआत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अआत्थशब्दस्य प्लक्षादित्वे तु ततःप्लक्षादिभ्योऽ॑णिति फले अणो विधानसामर्थ्याल्लुगभावे अआत्थशब्दः फले लाक्षणिक इति भावः ।", "43049": "<<ग्रीष्मावरसमाद्वुञ्>> - ग्रीष्मावरसमाद्वुञ् । समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः । ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वात्पञ्चमी । तत्र देयमृणमित्यर्थे आभ्यां वुञित्यर्थः । आवरसमकमिति । अवरासु समासु देयमृणमित्यर्थः । 'तद्धितार्थ' इति समासः ।", "43050": "<<संवत्सराग्रहायणीभ्यां ठञ् च>> - संवत्सराग्रहायणीभ्यां ठञ्च ।देयमृण॑मित्यर्थे सप्तम्यन्ता॑दिति शेषः । सन्धिवेलादिगणेसंवत्सरात्फलपर्वणोः॑ इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तोऽण् अनेन ठञा बाध्यते ।", "43051": "<<व्याहरति मृगः>> - व्याहरति मृगः । तत्र कालादित्येव । 'देयमृणे' इति निवृत्तम् ।", "43052": "<<तदस्य सोढम्>> - तदस्य सोढम् । अस्मिन्नर्थे प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युः । सोढमित्यस्य अभ्यस्तमित्यर्थः । नैशिकः नैश इति ।निशाप्रदोषाभ्यां चे॑त्यण्ठञौ ।", "43053": "<<तत्र भवः>> - तत्र भवः । कालादिति निवृत्तम् । अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । भवनं सत्ता, जननमुत्पत्तिरिति भेदः । रुआऔग्घ्न इति । #औत्सर्गिकोऽण् । राष्ट्रिय इति ।राष्ट्रावारे॑ति घः ।", "43054": "<<दिगादिभ्यो यत्>> - दिगादिभ्यो यत् ।भव इत्यर्थे सप्तम्यन्तेभ्यः॑ इति शेषः । दिश्यमिमि । दिशि भवमित्यर्थः ।", "43055": "<<शरीरावयवाच्च>> - शरीरावयवाच्च ।भव इत्यर्थे सप्तम्यन्तेभ्य॑ इति शेषः । दन्त्यमिति । दन्ते भवमित्यर्थः ।यस्येति चे॑त्यकारलोपः । एवं कण्ठम् ।", "43056": "<<दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्>> - दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि — इत्येभ्यः । 'सप्तम्यन्तेभ्यः' इति शेषः । दार्तेयमिति । दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका । कौक्षेयमिति । दूमादित्वाद्वुञि प्राप्ते ठञ् । कलिशिर्घटः ।कलशिर्मथनपात्र॑मित्यमरव्याख्यातारः ।वस्तिर्नाभेरधो द्वयो॑रित्यमरः । तत्र भवो बास्तेयः । अस्तीति विभक्तिप्रतिरूपककमव्ययम् सत्तायां घने चेति न्यासकारो हरदत्तश्च । तत्र भव आस्तेयः । अहिः-सर्पः, तत्रभवः-आहेयः ।", "43057": "<<ग्रीवाभ्योऽण् च>> - ग्रीवाभ्योऽण् च ।शरीरावयवाच्चे॑ति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते । तत्र उद्भूतावयवभेदसङ्गविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम् । तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्ढञौ स्त एव ।", "43058": "<<गम्भीराञ्ञ्यः>> - गम्भीराञ्ञ्यः । गाम्भीर्यमिति । यञ्विधौ तु स्त्रियांप्राचां ष्फः तद्धितः॑ इति ष्फः स्यात् ।", "43059": "<<अव्ययीभावाच्च>> - अव्ययीभावाच्च । 'ञ्य' इति शेषः ।\tपरिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टं, तथापि दिगदिगणपाठानन्तरं परिमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्रष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति । उपकूलं भव इत्यर्थः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावान्न ञ्यः ।", "43060": "<<अन्तःपूर्वपदाट्ठञ्>> - अन्तःपूर्वपदाट्ठञ् । अन्तर्वेश्ममिति । विभक्त्यर्थेऽव्ययीभावः ।अनश्चे॑ति टच् । आन्तर्वेश्मिकमिति । ठञ् । इकः । सुब्लुक् । टिलोपः । आदिवृद्धिः । आन्तर्गणिकमिति । गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । आध्यात्मिकमिति । आत्मनीत्यध्यात्मम् । तत्र भवमित्यर्थः । आध्यात्मिकमिति । आत्मनीत्यध्यात्मम् । तत्र भवमित्यर्थः ।", "43061": "<<ग्रामात् पर्यनुपूर्वात्>> - ग्रामात्पर्यनुपूर्वात् । ठञ् स्यादिति ।अन्तःपूर्वपदा॑दित्यतस्तदनुवृत्तेरिति भावः ।", "43062": "<<जिह्वामूलाङ्गुलेश्छः>> - जिग्वामूलाङ्गुलेश्छः ।शरीरावयवाच्चे॑ति यतोऽपवादः ।", "43063": "<<वर्गान्ताच्च>> - वर्गान्ताच्च । कवर्गीयमिति । कादिवर्गे भवमित्यर्थः ।", "43064": "<<अशब्दे यत्खावन्यतरस्याम्>> - अशब्दे । 'वर्गान्ताच्छः' इति शेषः । मद्वर्ग्यः मद्वर्गीण इति । मत्पक्षे भव इत्यर्थः ।", "43065": "<<कर्णललाटात् कनलंकारे>> - कर्णललाटात् ।शरीरावयवाच्चे॑ति यतोऽपवादः । कर्णिका ललाटिकेति । कर्णे ललादे भवोऽलङ्कार इत्यर्थः । स्त्रीत्वं लोकात् । टापिप्रत्ययस्था॑दितीत्त्वम् ।", "43066": "<<तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः>> - तस्य व्याख्यान इति च । व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः, करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थप्रतिपादकात्षष्ठन्तात्, भव इत्यर्थे च सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । चकारः 'तत्र भवः' इत्यस्य समुच्चयार्थः । सौप इति । औत्सर्गिको ।ञण् । तैङ इति । तिङां व्याख्यानो ग्रन्थ इत्यर्थः । कार्त इति । कृता व्याख्यान इत्यर्थः । अणि आदिवृद्धौ रपरत्वम् । भवार्थे उदाहरति — सौपमिति । नच 'तस्येदं' 'तत्र भवः' इत्याभ्यामेव भाष्ये स्पष्टम् ।", "43067": "<<बह्वचोऽन्तोदात्ताट्ठञ्>> - बह्वचोऽन्तोदात्ताट्ठञ् । अन्तोदात्ताद्बह्वच उक्तविषये ठञ्स्यात् । अणोऽपवादः ।", "43068": "<<क्रतुयज्ञेभ्यश्च>> - क्रतुयज्ञेभ्यश्च । सोमेति । सोमलताद्रव्यकयोगेषु क्रतुशब्दो यज्ञशब्दश्च प्रसिद्ध इत्यर्थः । तह्र्रन्तरग्रहणं व्यर्थं, बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह — तत्रेति । गृह्रन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागा विवक्षिता इति भावः । एवंच सोमयागविशेषवाचिभ्यस्तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठछञित्यर्थः । पाकयाज्ञिक इति । औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः — पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद्रव्यक आग्रयणाख्यो यज्ञो नवयज्ञः । ननु पूर्वसूत्रेम सिद्धे किमर्थमिदमित्यत आह — अन्तोदात्तार्थ इति । वाचपेयशब्दो मध्योदात्तस्तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्निष्टोमशब्दोऽन्तोदात्त एव तैत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठीसमासः समासस्वरेणान्तोदात्त एव, तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः ।", "43069": "<<अध्यायेष्वेवर्षेः>> - अध्यायेष्वेवर्षेः । मन्त्रो वसिष्ठ इति । लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति । कश्चिद्ग्रन्थविशेषोऽयम् । वासिष्ठी ऋगिति । ऋचोऽध्यायसमाख्याऽभावान्न ठञिति भावः ।", "43070": "<<पौरोडाशपुरोडाशात् ष्ठन्>> - पौरोडाश । 'उक्तविषये' इति शेषः । पुरोडाशेति । पुरोडाशशब्दसहितो मन्त्रो लक्षमया पुरोडाश इत्युच्यत इत्यर्थः । स एव पौरोडाश इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति । पौरोडाशात्ष्ठनि रूपम् । पुरोडाशिक इति । पुरोजाशशब्दात्ष्ठनि रूपम् । षित्त्वान्ङीष् । पौरोडाशिकी — पुरोडाशिकी ।", "43071": "<<छन्दसो यदणौ>> - छान्दसो यदणौ ।तस्य व्याख्याने, तत्राभवे चे॑ति शेषः । छन्दस्य छान्दस इति । छन्दसां व्याख्यानः, तत्र भवो वेत्यर्थः । द्व्यज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः ।", "43072": "<<द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरण- नामाख्याताट्ठक्>> - द्व्यजृद्ब्राआहृण । द्व्यच्, ऋत्, ब्राआहृण, ऋक्, प्रथम, अध्वर, पुरश्चरण, नामन्स, आख्यात एभ्यष्ठक्स्यात्तस्य व्याख्याने, तत्र भवे च । शैषिक इति । शेषस्य व्याख्यानस्तत्र भवो वेत्यर्थः । पाशुक इति.पशुयागप्रतिपादकग्रन्थः । पशुः, तस्य व्याख्यानस्तत्र भवो वेत्यर्थः । उकः परत्वाट्ठस्य कः । ऋत इति । उदाह्यियत इत्यर्थः । चातुर्होतृक इति । 'चित्तिः रुआउक्' इत्यादयो मन्त्राश्चतुर्होतारस्तैत्तिरीये प्रसिद्धाः । तेषां व्याख्यानस्तत्र भवो वेत्यर्थः । ब्राआहृणिकः, आर्चिक इति । ब्राआहृणानि मन्त्रव्यतिरिक्तवेदभागाः, तेषामृचां वा व्याख्यानः, तत्र भवो वेत्यर्थः । ब्राआहृणिकः, आर्चिक इति । ब्राआहृणानि मन्त्रव्यतिरिक्तवेदभागाः, तेषामृचां वा व्याख्यानः, तत्र भवो वेत्यर्थः । इत्यादीति । प्राथमिकः, आध्वरिकः, पौरश्चरणिकः, नामिकः, आख्यातिकः ।", "43073": "<<अणृगयनादिभ्यः>> - अणृगयनादिभ्यः ।तस्य व्याख्याने तत्र भवे चे॑ति शेषः । आर्गयनैति । ऋगयनम् — ऋक्संहिता, तस्य व्याख्यानस्तत्र भवो वेत्यर्थः ।बह्वचोऽन्तोदात्ता॑दिति ठञि प्राप्ते अण् । औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः । एवं वैयाकरणः ।न य्वाभ्या॑मित्यैच् । अण्ग्रहणं तु छबाधनार्थम्, अन्यथा अणा मुक्ते छो दुर्वारः स्यादित्याहुः ।", "43074": "<<तत आगतः>> - तत आगतः । अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । स्नौघ्न इति । औतद्सर्गिकोऽण् ।", "43075": "<<ठगायस्थानेभ्यः>> - ठगायस्थानेभ्यः । 'तत आगत इत्यर्थे' इति शेषः । हट्टादिषु स्वामिग्राह्रो भागः-आयः । स यस्मिन्गृह्रते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः ।", "43076": "<<शुण्डिकादिभ्योऽण्>> - शुण्डिकादिभ्योऽण् । 'तत आगत' इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण इति । 'कृकणादागत' इति शेषः ।कृकणपर्णाद्भारद्वाजे॑ इति छस्यापवादः । तैर्थ इति । धूमादिवुञोऽपवादः । औदपान इति । अत्र उत्सादित्वादञ्प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अञेव स्यात् ।", "43077": "<<विद्यायोनिसंबन्धेभ्यो वुञ्>> - विद्यायोनि । 'तत आगत' इत्येव । औपाध्यायकः, पैतामहक इति । उपाध्यायात्पितामहाच्च आगत इत्यर्थः ।", "43078": "<<ऋतष्ठञ्>> - ऋतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । <<तत आगत>> इत्येव । हौतृकं भ्रातृकमिति। उकः परत्वाट्ठस्य कः ।", "43079": "<<पितुर्यच्च>> - पुतुर्यच्च । यति प्रक्रियां दर्शयति — रीञ्ङृत इति ।", "43080": "<<गोत्रादङ्कवत्>> - गोत्रादङ्कवत् । अङ्के ये प्रत्ययास्ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः । बिदेभ्य आगतमिति । विग्रहप्रदर्शनम् । अत्रयञञोश्चे॑ति बहुत्वे अञो लुकि 'बिदेभ्य' इति निर्देशः । बैदमिति ।सङ्घाङ्कलक्षणेष्वञ्यञिञाम॑णित्युक्तरञन्तादिहाप्यर्थे अणि विवक्षितेगोत्रेऽलुगची॑त्यञो लुङ्निवृत्तौ बैदशब्दादण् ।द्व्यजृद्ब्राआहृणे॑ति द्व्यज्लक्षणस्य ठकोऽपवादः । गार्गमिति । यञन्तादण् । दाक्षमिति । इञन्तादण् । औपगवकमिति । उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः ।गोत्रचरणाद्व]ञिति वुञ् । यद्यपि तस्येदमित्यर्थे अयं वुञ्विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति । न हिसङ्घाङ्के॑ति प्रतिपदोक्तस्याऽण एवात्राऽतिदेशः, किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः ।", "43081": "", "43082": "<<मयट् च>> - मयट् च । 'उक्तविषये' इति शेषः ।", "43083": "<<प्रभवति>> - अभिनिष्क्रामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः ।", "43084": "<<विदूराञ्ञ्यः>> - विदूराञ्ञ्यः । ततः प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः । वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम् ।", "43085": "<<तद्गच्छति पथिदूतयोः>> - तद्गच्छति पथिदूतयोः । गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद्गन्ता पन्था दूतो वा इत्यर्थः ।", "43086": "", "43087": "<<अधिकृत्य कृते ग्रन्थे>> - अधिकृत्य । तदित्येवेति ।अदिकृत्य कृतो ग्रन्थः॑ इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारीरकमिति । शरीरस्यायं शारीरः=जीवात्मा, तमित्यर्थः । तस्येदमित्यणन्तात्स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः ।", "43088": "<<शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः>> - शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि एभ्यश्छः स्यादधिकृत्य कृते ग्रन्थे इत्यर्थे । निपातनादिति ।सभा राजे॑ति तु नपुंसकत्वं न भवति, तत्रअमनुष्यशब्दो रूढआ रक्षःपिशाचादीनाहे॑त्युक्तेरिति भावः ।", "43089": "<<सोऽस्य निवासः>> - सोऽस्य निवासः । अस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः ।यत्र संप्रत्युष्यते स निवास॑ इति भाष्यम् ।", "43090": "<<अभिजनश्च>> - अभिजनश्च । स इत्यनुवर्तते । पूर्ववद्व्याख्येयम् ।यत्र पूर्वैरुषितं सोऽभिजन॑ इति भाष्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः ।", "43091": "<<आयुधजीविभ्यश्छः पर्वते>> - आयुधज्ञीविभ्यः ।पर्वता॑दिति पाठान्तरम् । अभिजनशब्दादिति । अबिजनदेशवाचिन इत्यर्थः ।आयुधजीविनोऽभिधातु॑मिति शेषः । सूत्रेक्रियार्थोपपदस्ये॑ति चतुर्थी । ह्मद्गोल इति । पर्वतविशेषोऽयम् । ऋक्षोद इति । अयमपि पर्वतविशेषः ।", "43092": "<<शण्डिकादिभ्यो ञ्यः>> - शाण्डिकादिभ्यो ञ्यः ।सोऽभिजन इत्यर्थे प्रथमान्तेभ्य॑ इति शेषः ।", "43093": "<<सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ>> - सिन्धुतक्ष । सैन्धव इति । सिन्धुर्देशविशेषोऽभिजनोऽस्येति विग्रहः ।", "43094": "<<तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः>> - तुदीसलातुर । तुदी, सलातुर, वर्मती, कूचवार — एभ्यः प्रथमान्तेभ्यो ढक्, छण्, ढञ्, यक् एते स्युः अस्याभिजन इत्यर्थे ।", "43095": "<<भक्तिः>> - भक्तिः । अनुवर्तते इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः ।", "43096": "<<अचित्ताददेशकालाट्ठक्>> - अचित्ताददेश । देशकालव्यतिरिक्ताऽप्राणिवाचिनः ठक्स्यादुक्तविषये । अपूपाः भक्तिरिति । सामान्याभिप्रायं भक्तिरित्येकवचनं,वेदाः माण॑मितिवत् । पायसिक इति । पयो भक्तिरस्येति विग्रहः ।", "43097": "<<महाराजाट्ठञ्>> - महाराजाट्ठञ् ।सोऽस्य भक्तिरित्यर्थे॑ इति शेषः । माहाराजिक इति । महाराजो भक्तिरस्येति विग्रहः ।", "43098": "<<वासुदेवार्जुनाभ्यां वुन्>> - वासुदेव ।सोऽस्य भक्ति॑रित्येव । वासुदेवक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्य॑मित्यर्थेऋष्यन्धकवृष्णिकुरुभ्यश्चे॑ति वाष्र्णेयत्वादणि वासुदेवशब्दात्गोत्रक्षत्रियाख्येभ्यो बहुलं वु॑ञिति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम्, अणन्तो वासुदेवशब्दोऽत्र न गृह्रते किंतु यस्मिन्समस्तं वसति, यो वा समस्ते वसति स वासुः स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः । उक्तच भाष्ये-॒नैषा क्षत्रियाख्या, संज्ञैषा तत्रभवतः॑ इति ।", "43099": "<<गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्>> - गोत्रक्षत्रिया । गोत्रप्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्चोक्तविषये बहुलं वुञ्स्यादित्यर्थः । इह न पारिभाषिकं गोत्रम् । छै बाधते इति ।औपगवक इत्यादी॑विति शेषः । ग्लुचुकायनिरिति ।प्राचामवृद्धा॑दिति फिनि ग्लुचुकायनिशब्दः । नाकुलक इति । क्षत्रियाख्योदाहरणम् ।", "43100": "<<जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने>> - जनपदिनां । बहुवचने परे ये जनपदे समानशब्दाः=जनपदवाचिशब्देन समानः शब्दः=श्रवणं येषां तथाविधाः, तेषां जनपदिनां=जनपदस्वामिवाचिनां जनपदवत्=जनपदे इव सर्वं स्यादित्यर्थः ।जनपदतदवध्योश्चे॑ति प्रकरणे ये प्रत्यया विहितास्ते भवन्ति, प्रकृतयोऽपि तथैव भवन्तीति तु 'सर्व' शब्दाल्लभ्यते । तदाह — जनपदस्वामिवाचिनामित्यादिना । अङ्गा जनपद इति । दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो जनपदः-अङ्गाः । 'जनपदे लुप्' इति चातुरर्थिकस्य लुप् । स जनपदो भक्तिरस्येत्यर्थेजनपदतदवध्योश्चे॑ति वुञ्प्रत्यये 'आङ्गकः' इति यथा तथा अङ्गदेशस्वामिनः क्षत्रिया अङ्गा भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद्वुञि 'आङ्गका' इति रूपमित्यर्थः । पञ्चाला ब्राआहृणा इति । अभेदोपचारादिह ब्राआहृणेषु पञ्चालशब्दः । तत्रातिदेशा.ञभावादणेव भवति । पौरव इति । पौरवशब्दो न जनपदवृत्तिरिति भावः । बहुवचने किम् । एकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवतचि । यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति । प्रकृतिश्चेति किम् । मद्राणां राजा माद्रः ।द्य्वञ्मगधे॑त्यण् । माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सतिमद्रवृज्यो॑रिति कनि 'माद्रक' इति सिध्यति ।", "43101": "<<तेन प्रोक्तम्>> - तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति ।व्याकरण॑मिति शेषः । वृद्धाच्छः । प्रथमं प्रकाशितं — प्रोक्तम् । नेह — ॒देवदत्तेनाद्यापितम् ।", "43102": "<<तित्तिरिवरतन्तुखण्डिकोखाच्छण्>> - तित्तिरिवरतन्तु । तेन प्रोक्त॑मित्येव । तित्तिरि, वरतन्तु, खण्डिक, उख-एभ्य उक्तविषये छण्स्यादित्यर्थः । इत आरभ्यतेनैकदि॑गितिपर्यन्तं प्रोक्ते वेदे भवन्ति,शौनकादिभ्यः छन्दसी॑ति छन्दोग्रहणस्य ततः पूर्व ततद उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः, किंत्वध्येतृवेदितृप्र्तययशिरस्काणामेवेत्याह — छन्दोब्राआहृणानीति । तद्विषयतेति । अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः । तैत्तिरीया इति । प्रोक्ते वेदे छण् । ईयः । तैत्तिरीयः=शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् ।प्रोक्ताल्लु॑गिति तस्य लुगिति भावः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः । तित्तिरिणा प्रोक्तः श्लोक॑ इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणं, तेषां सर्वशाखागतविधिवाक्यसङ्ग्रहात्मकत्वात् । काश्यप ।तेन प्रोक्त॑मित्येव । छस्यापवादः ।", "43103": "<<काश्यपकौशिकाभ्यामृषिभ्यां णिनिः>> - काश्यपिन इति । काश्यपशब्दाण्णिनिः । णकार इत् । नकारादिकार उच्चारणार्थः । काश्यपिन्शब्दात्प्रोक्ताल्लु॑गित्यध्येतृप्रत्ययस्याऽणो लुगिति भावः । एवं कोशिकिनः । ऋषिभ्यां किम् । इदानींतनेन काश्यपेन प्रोक्तं काश्यपीयम् ।", "43104": "<<कलापिवैशम्पायनान्तेवासिभ्यश्च>> - कलापि ।तेन प्राक्त॑मित्येव । कलापिशिष्यवाचिभ्यो, वैशम्पायनशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । 'उदाह्यियते' इति शेषः । हारिद्रविण इति । हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः ।ओर्गुणः॑ । आदिवृद्धिः । हरिद्रविन्शब्दादध्येत्रणःप्रोक्ताल्लु॑हिति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलप इति चत्वारः कलापिशिष्याः । तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनान्तेवासिभ्य इति । 'उदाह्यियते' इति शेषः । आलम्बिन इति । आलम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्डः, श्यामायनः, कठः, कलापी इति नव वैशम्पायशिष्याः । तत्र आलम्बिशब्दादध्येत्रणः प्रोक्ते णिनि । आलम्बिन्शब्दादध्येत्रणःप्रोक्ताल्लु॑गिति लुक् । आलम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः । अत्रआपत्यस्ये॑ति यलोपः । श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण्वक्ष्यते । वैशम्पायनशिष्यः कलापी । तता च कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात्तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् ।", "43105": "<<पुराणप्रोक्तेषु ब्राह्मणकल्पेषु>> - पुराणप्रोक्तेषु ।तेन प्रोक्त॑मिति,णिनि॑रिति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागा ब्राआहृणानि । बोधायनादिकल्पसूत्राणिकल्पाः । तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः । तदाह — तृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राआहृणकल्पात्मकं चेदिति यावत् ।पुराणप्रोक्त॑मित्येतद्व्याचष्टे — पुराणेनेति । ब्राआहृणे उदाहरति — भल्लु-भाल्लविन इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थो प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि 'भाल्लविन' इति रूपमिति भावः । ब्राआहृणे उदाहरणान्तरमाह — शाठआयन शाठआयनिन इति । शाठआयनेति प्रकृतिनिर्देशः । शाठआयनेन पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थे प्रोक्तार्थणिनि प्रत्यये शाठआयनिन्शब्दाध्येत्रणो लुकि 'शाठआयनिन' इति रूपमित्यर्थः । कल्पे इति । 'उदाह्यियते' इति शेषः । पिङ्ग-पैह्गी कल्प इति । पिङ्गेति प्रकृतिनिर्देशः । पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे णिनौ रूपम् ।", "43106": "<<शौनकादिभ्यश्छन्दसि>> - ॒छन्दोब्राआहृणानि च तद्विषयाणी॑त्यध्येतृप्रत्ययान्तत्वनियमस्तु कल्पेषु न सर्वत्र प्रवर्तत इतिछन्दोब्राआहृणानी॑ति सूत्रेभाष्ये स्पष्टम् । याज्ञवल्कानीति । याज्ञवल्क्येन प्रोक्तानीत्यर्थः । आश्मरथ इति । आश्मरथ्येन प्रोक्त इत्यर्थः । यलोप इति । यज्ञवल्काआरथशब्दौ कण्वादी । ताभ्यां यञन्ताभ्यामणिआपत्यस्य चे॑ति यलोप इत्यर्थः । याज्ञवल्क्याऽऽश्मरथ्यावाधुनिकावित्यभिमानः । भाष्ये तु शाठआयनादितुल्यकालत्वाद्याज्ञवल्क्यादिभ्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्धमित्यास्तां तावत् ।", "43107": "<<कठचरकाल्लुक्>> - कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति । प्रकरणलभ्यम् । कठा इति । वैशम्पायनान्तेवासित्वलक्षणणिनो लुक् । अध्येत्रणस्तुप्रोक्ताल्लु॑गिति लुक् । चराका इति । चरकेण प्रोक्तमधीयते । इत्यर्थः । प्रोक्ताणोऽनेन लुक् अध्येत्रणः प्रोक्ताल्लुक् ।", "43108": "<<कलापिनोऽण्>> - कलापिनोऽण् ।तेन प्रोक्त॑मित्येव वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः ।॒इनण्यनपत्ये॑ इति प्रकृतिभावमाशङ्क्याह — नान्तस्येति ।", "43109": "<<छगलिनो ढिनुक्>> - छगलिनो । छगलिन्शब्दाक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत् । उकार उच्चारणार्थः । 'ढिन्' शिष्यते । ढस्य एय् । टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य णिनिः स्यादिति । 'उक्तविषये' इति शेषः । मण्डूकप्लुत्या णिनिरेवानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटसूत्रमित्यर्थे च तृतीयटान्ताण्णिनिः स्यादिति यावत् । भिक्षवः=संन्यासिनः, तदधिकारिकं सूत्रं भिक्षुसूत्रं=व्यासुप्रणीतं प्रसिद्धम् ।", "43110": "<<पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः>> - पाराशर्येणेति । पराशरशब्दाद्गर्गादित्वाद्गोत्रे यञि-॒पाराशर्यः॑ व्यासः । इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ् । तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक् । पाराशरिण इति । जसि रूपम् । शैलालिन इति । शिलालिन्शब्दान्नटसूत्रे प्रोक्ते णिनौ टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याऽणो लुकि 'शैलालिन' इति जसि रूपमिति भावः ।", "43111": "<<कर्मन्दकृशाश्वादिनिः>> - कर्मन्द । कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे, कृशाओन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवंकृशाइआनः॑ ।", "43112": "<<तेनैकदिक्>> - तेनैकदिक् । सहार्थे तृतीया । एका दिक् अधिकरणात्मिका यस्य तदेकदिक् । तेन सह एकस्यां दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सौदामनीति । अणिअ॑निति प्रकृतिभावान्न टिलोपः ।", "43113": "<<तसिश्च>> - तसिश्च ।तेनैकदिगि॑त्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति ।स्वरादिनिपातमव्यय॑मिति प्रकरणेतद्धितश्चासर्वविभक्ति॑रित्यत्र 'तसिलादयः' इतिपरिगणने तसेः पाछादित्यर्थः ।", "43114": "<<उरसो यच्च>> - उरसो यच्च । उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः ।", "43115": "<<उपज्ञाते>> - उपज्ञाते । तेनोपज्ञातमित्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञातं-प्रथमज्ञातम् ।", "43116": "<<कृते ग्रन्थे>> - कृते ग्रन्थे । 'तेन कृतो ग्रन्थ' इत्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः ।", "43117": "<<संज्ञायाम्>> - सङ्घाङ्क । यञन्तात्, अञन्तात्, इञन्ताच्च सङ्गे अङ्के लक्षणे च इदन्त्वेन विवक्षितेऽणित्यर्थः । छस्यापवादः । घोषेति ।सङ्घाङ्कलक्षणघोषेषु॑ इति सूत्रं कर्तव्यमित्यर्थः । तथाच तिरुआः प्रकृतयः, प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम् । गार्ग इति । सङ्घोऽङ्को घोषो वे॑ति शेषः । गार्गमिति ।लक्षण॑मिति शेषः । एवं दाक्ष दाक्षमित्यत्रापि नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यर्त आह — परम्परेति । यथा गवादिनिष्ठस्तप्तमुद्राविशेषोऽङ्कः । तस्य हि गोद्वारा स्वामिसम्बन्धः । साक्षादिति । विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । वैदी विद्या ।घोष आभीरपल्ली स्या॑दित्यमरः ।", "43118": "<<कुलालादिभ्यो वुञ्>> - कुलालादिभ्यो वुञ् ।तेन कृते संज्ञाया॑मिति शेषपूरणम् । वारुडकमिति । वरुडो जातिविशेषः ।", "43119": "<<क्षुद्राभ्रमरवटरपादपादञ्>> - क्षुद्राभ्रमर ।तेन कृते संज्ञाया॑मिति-सेषपूरणम् । क्षुद्राः=मधमक्षिकाः ।", "43120": "<<तस्येदम्>> - तस्येदम् । इदमित्यर्थे षष्ठन्तादणादयः साधारणप्रत्यया, राष्ट्रावारेत्यादिभिर्विशिष्य विहिता घादयश्च प्रत्यया यताविहितं स्युरित्यर्थः । अत्र शेषे इत्यनुवृत्तम् । ततश्च अपत्यादिचतुरथ्र्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते । अपत्यादीनां तु न केनापि रूपेण इदंशब्दार्थत्वमितितस्यापत्य॑मित्यत्रोक्तम् ।वहेस्तुरणिट् चेति । वार्तिकमिदम् ।तु॑रिति तृन्तृचोः सामान्येन ग्रहणम् । वहधातोर्विहितो यस्तृप्रत्ययस्तस्मादण् स्यात्तृप्रत्ययस्य इडागमश्च । तत्र अण् पूर्वे सिद्ध इड्विध्यर्थमनूद्यते । संवोढुः स्वमिति । विग्रहदर्शनम् । वहेस्तृच्, तृन् वा । वहेरनुदात्तत्वात् 'एकाच उपदेशे' इति नेट् । ढत्वधत्वष्टुत्वढलोपाः ।सहिवहोरोदवर्णस्ये॑त्योत्त्वम् । सांवहित्रमिति । ढत्वादीनामसिद्धत्वादलौकिक एव विग्रहवाक्ये पूर्वमिट् । ततो निमित्ताऽभावान्न ढत्वादि । अग्नीधः शरणे इति । वार्तिकमिदम् ।शरण॑मित्यर्थे अग्नीच्छब्दात्षष्ठन्ताद्रण्, तस्मिन्परे भत्वं च वक्तव्यमित्यर्थः । शरणं — गृहम् । अग्नीदिति । ऋत्विग्विशेषोऽयम् । इन्धेः क्विप् ।अनिदिता॑मिति नलोपः । आग्नीध्रमिति । सोमे महावेदेरुत्तरार्धे पञ्चरत्नि चतुरश्रस्थानविशेषसंज्ञेयम् । भत्वान्न जश्त्वम् । प्रत्ययस्वरेणान्तोदात्तो ।ञयं शब्दः । तैत्तिरीयेएतद्वै यज्ञस्यापराजितं यदाग्नीध्र॑दित्यादावाद्युदात्तत्वं तुआग्नीध्रसाधारणादञ् वक्तव्यः॑ इति स्वार्थिके अञि बोध्यम् । नन्वेवम्आग्नीध्रः प्रत्याश्रावये॑दित्यादौ कथमृत्विग्विशेषे आग्नीध्रशब्दः । तत्राह — तात्स्थ्यादिति । आग्नीध्राख्यदेशस्थत्वात् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः । समिधामिति । आधीयते अनेनेत्याधानो मन्त्रः । आधानो मन्त्र इत्यर्थे षष्ठन्तात्समिच्छब्दात् षेन्यण्प्रत्ययटो वाच्य इत्यर्थः । षत्वं ङीषर्थमित्याह — सामिधेनीति । सामिधेन्यशब्दात् ङीष् ।हलस्तद्धितस्ये॑ति यलोपः ।", "43121": "<<रथाद्यत्>> - रथाद्यत् ।तस्येद॑मित्येव । रत्यं चक्रमिति । 'रथाद्रथाङ्गे' इति वचनाच्चकमिति विशेष्यम् ।", "43122": "<<पत्त्रपूर्वादञ्>> - पत्रपूर्वादञ् । रथादित्येव । पत्रं वाहनमिति ।पत्रं वाहनपक्षयो॑रिति कोशः ।", "43123": "<<पत्त्राध्वर्युपरिषदश्च>> - पत्राध्वर्यु । अञिति । शेषपूरणम् । पत्रादिति ।पत्राद्बाह्र एवे॑ति वक्तव्यमित्यर्थः । आआमिति । पत्रेत्यर्थग्रहणमिति भावः । आध्वर्यवं, पारिषदमिति । अध्वर्योरिदं परिषद इदमिति विग्रहः ।", "43124": "<<हलसीराट्ठक्>> - हलसीराट्ठक् । तस्येदमित्येव । हालिकं सैरिकमिति । हलस्येदं, सीरस्येगदमिति विग्रहः ।", "43125": "<<द्वन्द्वाद्वुन् वैरमैथुनिकयोः>> - द्वन्द्वाद्वुन् । वैरे मैथुनिकायां च इदन्त्वेन विवक्षिते द्वन्द्वात्षष्ठन्ताद्वुन्स्यादित्यर्थः । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः । वुनि स्त्रीत्वं लोकात् । कुत्सकुशिकिकेति । कुत्सकुशिकयोर्विवाह इत्यर्थः । वुनि स्त्रीत्वं लोकात् । मिथुनं — दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वाद्वुञ् । स्त्रीत्वं लोकात् । वैरे देवासुरेति । वार्तिकमिदम् । दैवासुरमिति । देवासुरयोर्वैरमित्यर्थः । वुनभावेऽण् । मैथुनिकायां तु देवासुरिकेत्येव ।द्वन्द्वे देवासुरे॑ति त्वपपाठः, अत्र भाष्ये वैर इत्येव वार्तिकपाठात् ।शिशुक्रन्दे॑ति सूत्रभाष्ये तुद्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॑ इति पठितम्, दैवासुरम् राक्षोऽसुरमित्युदाहृतं च । देवासुराद्यधिकृत्य कृतमाख्यानमित्यर्थः । गोत्रचरणाद्वुञ् । गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठन्तादिदमित्यर्थे वुञित्यर्थः ।प्रवराध्यायप्रसिद्धमिह गोत्र॑मित्यभिप्रेत्योदाहरति-औपगवकमिति । औपगवस्येदमित्यर्थः । वस्तुतस्तु औपगवः प्रवरसूत्रेषु न दृष्टः । ग्लौचुकायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति । चरणाद्यो वुञ्विहितः स धर्मे आम्नाये च वाच्ये भवति, नान्यत्रेत्यर्थः । काठकमिति । कठेन प्रोक्तमधीयते कठाः, तेषां धर्म आम्नायो वेत्यर्थः । आम्नायो-वेदाभ्यासः ।", "43126": "", "43127": "", "43128": "<<शाकलाद्वा>> - शाकलाद्वा । शाकलेनेति । शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् 'गोत्रचरणा' दिति धर्माम्नाययोर्वुञोऽपवादोऽण् । तदभावे वुञ् ।", "43129": "<<छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः>> - छन्दोगौक्थिक । सङ्घादयो निवृत्ताः । छन्दोगादीनां चरणत्वात् धर्माम्नाययोरिति संबध्यते । छन्दोग, औक्थिक, याज्ञिक, बद्वृच, नट-एभ्यो धर्मे आम्नाये च इदंत्वेन विवक्षिते ञ्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययो कथमन्वय इत्याशङ्कते — चरणाद्धर्माम्नाययोरित्युक्तमिति ।यद्यपी॑ति शेषः । परिहरति-तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यान्नटशब्दादपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः ।", "43130": "<<न दण्डमाणवान्तेवासिषु>> - न दण्ड । दण्डमाणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति । दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः, शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति, किंत्वौत्सर्गिकोऽणेव ।", "43131": "<<रैवतिकादिभ्यश्छः (कौपिञ्जलहास्तिपदादण्) (आथर्वणिकस्येकलोपश्च)>> - आथर्वणिकस्येति । अथर्वणा प्रोक्तो वेदोऽथर्वेत्युपचर्यते, तमधीते आथर्वणिकः । वसन्तादित्याट्ठक् । आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपेदाण्डिनायने॑ति टिलोपाऽभावे 'आथर्वण' इति रूपमित्यर्थः । धर्म आम्नायो वेति ।चरणाद्धर्माम्नाययो॑रित्युक्तेरिति भावः । ननु तस्येदमित्येव सिद्धेऽण्विधिव्र्यर्थ इत्यत आह — चरणाद्वुञोऽपवाद इति । आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः ।*****इति बालमनोरमायाम् शैषिकाः ।*****", "43132": "", "43133": "", "43134": "<<तस्य विकारः>> - अथ विकारार्थप्रत्यया निरूप्यते । तस्य विकारः । विक्रियते इति विकारः । कर्मणि घञ् । प्रकृतेकवस्थान्तरात्मिका विक्रियां प्राप्त इत्यर्थः । विकार इत्यर्थे षषथ्ठन्तादणादयः साधारणा, वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः । अश्मनो विकार इति । विकारार्थकप्रत्यये परे अश्मन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः ।अ॑निति प्रकृतिभावापवादः । आश्म इति । अणि टिलोपे रूपम् । एवं चर्मणो विकारः चार्मः कोशः । 'चर्मणः कोशे' इत्युपसह्ख्यानाट्टिलोपः । भास्मन इति । भस्मनो विकार इत्यर्थः । अणिअ॑निति प्रकृतिभावान्न टिलोपः । मार्त्तिक इति । मृत्तिकाया विकार इत्यर्थः । अत्रप्राणिरजतादिभ्योऽञ् 'ओरञ्'अनुदात्तादेश्चे॑त्यादिवक्ष्यमाणपवादविषयभिन्नमुदाहरणम् । तत्र अश्मन्, भस्मन्, चर्मन् इतित्रयं मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्तम् । मृत्तिकाशब्दोऽपिमृदस्तिक॑न्निति तिकन्नन्तो नित्स्वरेणाद्युदात्तः ।", "43135": "<<अवयवे च प्राण्योषधिवृक्षेभ्यः>> - अवयवे च प्रा.प्राणिवाचिन ओषधिवाचिनो वृक्षवाचिनश्च षष्ठन्तेभ्योऽवयवे विकारे च अणादयः उक्ता वक्ष्यमाणाश्च प्रत्यया यथाविहितं स्युः, अन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदारहरति — मायूर इति । 'लघावन्ते' इति मयूरशब्दो भध्योदात्तः । ततः 'प्राणिरजतादिभ्यः' इत्यञ् । ओषधेरुदाहरति — मौर्वमिति । मूर्वा ओषधिविशेषः । तस्या अवयवो विकारो वेत्यर्थः । औत्सर्गिकोऽण् ।अनुदात्तादेश्चे॑त्यञ् तु वक्ष्यमाणो न भवति,तृणधान्यानां च द्व्यषा॑मित्याद्युदात्तत्वात् । वृक्षस्योदाहरति — पैप्पलमिति । पिप्पलः-अआत्थः, तस्यावयवो विकारो वेत्यर्थः । 'लघावन्ते' इति मध्योदात्तः पिप्पलशब्दः ।अनुदात्तादेश्चे॑ति वक्ष्यमा॑णाऽञोभावे औत्सर्गिकोऽण् ।", "43136": "<<बिल्वादिभ्योऽण्>> - विल्वादिभ्योऽण् । एषु प्राण्योषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अण् स्यादित्यर्थः । बैल्वमिति । बिल्वस्यावयवो विकारो वेत्यर्थः । बिल्व, व्रीहि काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पासी, पाटली, कर्कन्धू, कटी॑ति बिल्वादयः । तत्र गवेदुकस्यकोपधाच्चे॑त्यणि सिद्धे मयड्बाधनार्थमिह पाठः । इतरेषां तुअनुदात्तादेश्चे॑त्यञो बाधनार्थमिति कौस्तुभे विस्तरः ।", "43137": "<<कोपधाच्च>> - कोपधाच्च ।अ॑णिति शेषः । तत्र प्राण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव तर्कु — तार्कवमिति । तर्कु इति प्रकृतिनिर्देशः । तर्कुर्नाम — वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः ।ओर॑ञित्यस्यापवादोऽण् । तित्तिङीकशब्दो 'लघावन्ते' इति मध्योदात्तः ।अनुदात्तादेश्चे॑कत्यञोऽपवादोऽण् ।", "43138": "<<त्रपुजतुनोः षुक्>> - त्रपुजतुनो षक् । त्रापुषं जातुषमिति । त्रपुणो जतुनश्च विकार इत्यर्थः ।", "43139": "<<ओरञ्>> - ओरञ् । उवर्णादढ् स्यादित्यर्थः । प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे । दैवदारवं भाद्रदारवमिति । देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः ।पीतद्वर्थाना॑मित्याद्युदात्तावेतौ । ततश्चअनुदात्तादेश्चे॑त्यनेन गतार्थता न ।", "43140": "<<अनुदात्तादेश्च>> - अनुदात्तादेश्च ।विकारे अ॑ञिति शेषः ।अवयवे चे॑ति सूत्रमप्यत्र सम्बध्यते । दाधित्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः । एवं कापित्थम् ।कपित्थे तु दधित्थग्राहिमन्मथाः॑ इत्यमरः । अव्युत्पन्नप्रातिपदिकत्वात्-फिट्-स्वरेणान्तोदात्तावेतौ ।", "43141": "<<पलाशादिभ्यो वा>> - पलाशादिभ्यो वा । 'अ' ञिति शेषः । अवयवे चेत्येव पलाशखदिररशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, इतरेषामप्राप्ते विकल्पोऽयम् ।", "43142": "", "43143": "<<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> - मयड्वैतयोः । अधिकारादेवविकारावयवयोट॑रिति सिद्धेरेतयोरिति वचनमुक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयडर्थमिति भाष्ये स्पष्टम् । तेन विल्वमयं वैल्वमित्यादि सिध्यतीत्यभिप्रेत्य आह — प्रकृतिमात्रादिति । सर्वस्याः प्रकृतेरित्यर्थः । अश्ममयमिति । मयटि अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वम् । नलोपः । आश्मनमिति । कल्माषाङ्घ्रिर्नाम कस्चिद्राजा तत्पत्न्यां वसिष्ठेनोत्पदितोऽश्मक इति । अश्मन्शब्दात्स्वार्थे कप्रत्ययः, तदभावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः ।अ॑न्निति प्रकृतिभावान्न टिलोपः । नच विकारार्थकत्वे 'अश्मनो विकारे' इति टिलोपः शङ्क्यः, तत्र पाषाणवाचनत्वेन प्रसिद्धस्याऽश्मन्शब्दस्यैव ग्रहणादिति भावः ।", "43144": "<<नित्यं वृद्धशरादिभ्यः>> - नित्यं वृद्ध ।मय॑डिति शेषः । उक्तविकल्पस्यापवादः ।एकाचो नित्यमिति ।नित्य॑मिति योगविभागलब्धमिदम् । अण्णन्तादिति । अपामिदमापम् ।तस्येद॑मित्यण् । ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञि आप्यमिति रूपमित्यर्थः ।", "43145": "<<संज्ञायां कन्>> - संज्ञायां कन् । विकारविशेष इति । अपूप इत्यर्थः । तदाह — पूपोऽपूपः पिष्टकः स्यादिति । अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् ।तुङ्गमनपूपाकृतिमआशफमात्रं पुरोडाशं करोती॑ति श्रुतेः ।", "43146": "<<पिष्टाच्च>> - पिष्टाच्च । शेषपूरणेन सूत्रं व्याचष्टे — मयट् स्याद्विकारे इति ।", "43147": "", "43148": "<<व्रीहेः पुरोडाशे>> - व्रीहेः पुरोडाशे । पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह — व्रैहमन्यदिति ।", "43149": "<<असंज्ञायां तिलयवाभ्याम्>> - असंज्ञायां तिलयवाभ्याम् ।नित्यंमय॑डिति शेषः । यावक इति । यवशब्दाद्विकारे अण् । ततः 'यावादिभ्यः' इति स्वार्थे कन् ।", "43150": "", "43151": "", "43152": "<<तालादिभ्योऽण्>> - तालादिभ्योऽण् । तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति ।नित्यं वृद्धे॑ति मयटोऽपवादः । ऐन्द्रायुधमिति ।अनुदात्तादेश्चेत्यञोऽपवादः, समासस्वरेणान्तोदात्तत्वात् ।", "43153": "<<जातरूपेभ्यः परिमाणे>> - जातरूपेभ्यः । अणिति । शेषपूरणम् । जातरूपं-सुवर्णं, तद्वाचिभ्योऽण् स्यात्परिमाणे विकारे गम्ये इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह — बहुवचनादिति । हाटक इत्यादि । हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः । तापनीय इति ।नित्यं वृद्धशरादिभ्यः॑ इति मयटोऽपवादः । इतरत्र तुअनुदात्तादेश्चे॑त्यञोऽपवादः ।गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाऽक्षः॑ इत्यमरः । सुवर्णविस्तौ हेम्नोऽक्षे॑ इति च ।", "43154": "<<प्राणिरजतादिभ्योऽञ्>> - प्राणिरजतादिभ्योऽञ् । शौकंबाकमिति । शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः ।प्राणिना कुर्पूर्व॑मित्याद्युदात्तत्वात्अनुदात्तादेश्चे॑त्यञो न प्राप्तिः । राजतमिति । अनुदात्तादित्वादञि सिद्धे मयड्बाधनार्थमञ्विधिः ।", "43155": "<<ञितश्च तत्प्रत्ययात्>> - ञितश्च तत्प्रत्ययात् । तयोः= विकारावयवयोः प्रत्ययः-तत्प्रत्ययः । तदाह — ञिद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या विकारोऽवयवो वा शामीलम् ।शम्याः ष्यञ् । शामीलस्य विकारोऽवयवो वेत्यर्थे अञि शामीलमिति भवतीत्यर्थः ।नित्यं वृद्धे॑ति मयटोऽपवादः । दाधित्थमिति । दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम् । मयडपवादोऽञ् । बैल्वमयमिति ।बिस्वादिभ्यो॑णिति बिल्वशब्दादणि बैल्वः । तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो ञित्त्वाऽभावादिति भावः । भाष्ये तुविकारावयवप्रत्ययान्तात्पुनस्तत्प्रत्यया अनभिधानान्ने॑त्याश्रित्या सूत्रमिदं प्रत्याख्यातम् ।", "43156": "<<क्रीतवत् परिमाणात्>> - क्रीततवत्परि । उपाधिनेति । प्रकृत्यादि विशेषणेनेत्यर्थः । नैष्किक इति ।असमासे निष्कादिभ्यः॑ इति क्रीते ठक् । शत्यः शतिक इति । 'शताच्च ठन्यतौ' इति क्रीते ठन्यतौ ।", "43157": "<<उष्ट्राद्वुञ्>> - उष्ट्राद्वुञ् । प्राण्यञ इति ।प्राणिरजतादिभ्योऽञि॑त्यस्यापवाद इत्यर्थः ।", "43158": "<<उमोर्णयोर्वा>> - उमोर्णयोर्वा ।नु॑ञिति शेषः । औमकमिति । उमा — सस्यविशेषः ।उमा स्यादतसी क्षुमा॑ इत्यमरः । उमाया विकारोऽवयवो वेत्यर्थः । औममिति ।तृणधान्यानां चे॑त्युमाशब्द आद्युदात्तः । ततो वुञभावेअनुदात्तादेश्चे॑त्यञभावादौत्सर्गिकोऽण् । ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः । ततो वुञभावे अनुदात्तादित्वादञित्यर्थः ।ऊर्णा मेषादिलोम्नि स्यादि॑त्यमरः ।स्थूणोर्णे नपुंसके चे॑ति लिङ्गानुशासनसूत्रम् ।", "43159": "<<एण्या ढञ्>> - एण्या ढञ् । एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः ।यस्येति चे॑ति ईकारलोपः । स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह — एणस्य त्विति ।", "43160": "<<गोपयसोर्यत्>> - गोपयसोर्यत् । गव्यमिति । गोर्विकारोऽवयवो वेत्यर्थः ।वान्तो यी॑त्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थः ।सर्वत्र गोरजादिप्रसङ्गे य॑दित्येव सिद्धे यद्विधानंमयड्वैतयो॑रिति पाक्षिकमयटो बाधनार्थम् ।", "43161": "<<द्रोश्च>> - द्रोश्च ।य॑दिति शेषः ।एकाचो नित्य॑मिति मयटःओरञि॑त्यस्य चापवादः ।", "43162": "<<माने वयः>> - माने वयः । द्रोरित्येवेति । माने विकारे गम्ये द्रुशब्दाद्वयप्रत्ययः स्यादित्यर्थः ।", "43163": "<<फले लुक्>> - फले लुक् । आमलकमिति । फलितस्य वृक्षस्य फलमवयवो विकारश्च । तस्मिन्मयटो लुकिलुक्ताद्धितलुकी॑ति ङीषो लुक् ।", "43164": "<<प्लक्षादिभ्योऽण्>> - प्लक्षादिभ्योऽण् । विकारे अवयवे चे॑ति शेषः । तत्र शिग्रुकर्कन्धूशब्दयोरुवर्णान्तत्वादञि प्राप्ते, प्लक्षन्यग्रोधादीनामनुदात्तादित्वादञि प्राप्तेऽण्विधिः । नन्वस्य फले अणो लुक्कुतो नेत्यत आह — विधानेति ।", "43165": "<<जम्ब्वा वा>> - जम्ब्वा वा । जम्ब्विति । जम्ब्वाः फलमित्यर्थः । अञो लुकि विशेष्यानुसारेण नपुंसकत्वाद्ध्रस्व इति भावः ।", "43166": "<<लुप् च>> - लुप् च । लुकैव सिद्धे सुब्विधेः फलमाह — लुपि युक्तवदिति जम्बूरिति । जम्ब्वाः फलमित्यर्थः । फलप्रत्ययस्य लुपि युक्तवत्त्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथाच जम्ब्वाः फलान्यपि जम्बूरेव ।फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुष — ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्ख्यानमित्यर्थः ।फले लुगि॑त्यस्यापवादः । व्रीहय इति । व्रीह्राख्यानामोषधीनां फलानीत्यर्थः । एवं मुद्गाः । बिल्वाद्यणो लुप् । युक्तवद्भावात्पुंस्त्वं, नतु विशेष्यनिघ्नत्वम् । पुष्पमूलेष्विति । वार्तिकमिदम् ।विकारावयवप्रत्ययस्य लुप् स्या॑दिति शेषः । पुष्पं मल्लिकेति ।अथ द्वितीयं प्रागीषा॑दित्यनुवृत्तौमादीनां चे॑ति फिट्सूत्रेण मध्योदात्तो मल्लिकाशब्दः । ततःअनुदात्तादेश्चे॑त्यञो लुप् । युक्तवत्त्वात्स्त्रीत्वम् । जातीति । 'लघावन्ते' इत्यन्तोदात्तो जातिशब्दः । ततःअनुदात्तादेश्चे॑त्यञोऽनेन लुप् । युक्तवत्त्वात्स्त्रीत्वम् । जातीति । 'लघावन्ते' इत्यन्तोदात्तो जातिशब्दः । ततःअनुदात्तादेश्चे॑त्यञोऽनेन लुप् । युक्तवत्त्वात्स्त्रीत्वम् ।विदारीति । जातिङीषन्तमिदं प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्ता दित्वादञि तस्य लुप्, युक्तवत्त्वात्स्त्रीत्वम् । पाटलानीति । बिल्वादित्वादण् । एवं साल्वानि । नन्वशोकस्य पुष्पमशोकं, करवीरस्य पुष्पं-करवीरमित्यत्रापिपुष्पमूलेषु बहुल॑मिति लुपि युक्तवत्त्वात्पुंस्त्वे अशोकः पुष्पं, करवीरः पुष्पमिति स्यादित्यत आह — बहुलग्रहणादिति । तथाच युक्तवत्त्वस्याऽप्रवृत्तेः विशेष्यनिघ्नत्वमेवेति । भावः ।", "43167": "<<हरीतक्यादिभ्यश्च>> - हरीतक्यादिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य इति । जातिङीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादञि तस्यफले लु॑गिति लुकि प्राप्ते लुपि युक्तवत्त्वात्स्त्रीत्वे विशेष्यानुरोधाद्बहुवचनम् ।", "43168": "<<कंसीयपरशव्ययोर्यञञौ लुक् च>> - कंसीयपरशब्द । अत्र यञञोर्न लुक्, विधिवैयथ्र्यात् । नापि प्रकृत्योः, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । अतः परिशेषात्प्रकृत्येकदेशयोश्छयतोरिति लभ्यते । तदाह — छयतोरिति । कंसीयमिति । कंसो नाम धातुर्लोहविशेषः ।तस्मै हित॑मिति छः । कांस्यमिति । कंसीयशब्दाद्यञि छस्य लुकि आदिवृद्धौयस्येति चे॑त्यकारलोपः । परशब्दमिति ।तस्मै हित॑मित्यधिकारेउगवादिभ्यो य॑दिति ओर्गुणेवान्तो यी॑त्यवादेशः । पारशव इति । परशब्दशब्दादञि यतो लुकि ओर्गुणे पारशवः ।हलस्तद्धितस्ये॑ति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वात्आपत्यस्य चे॑त्यपि लोपो न प्रसज्यत इति भावः ।*****इति बालमनोरमायाम् प्राग्दीव्यतीयाः ।*****अथ प्राग्घितीय प्रकरणम् । — — — — — — — — -", "44001": "<<प्राग्वहतेष्ठक्>> - प्राग्वहतेष्ठक् । वहतीत्येकदेशेनतद्वहति रथयुगप्रासङ्ग॑मिति सूत्रं परामृश्यते इत्यभिप्रेत्याह — तद्वहतीत्यत आति । तदाहेति । इतिशब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः । तदित्याहेत्यर्थे माशब्द — स्वागतैत्यादिशब्देभ्यष्ठक उपसङ्ख्यानमित्यन्वयः ।त॑दित्यनेन वाक्यार्थो विवक्षितः । इतिशब्दस्तस्य वाक्यार्थस्य कर्मत्वं गमयति ।मा शब्दं कार्षी॑रित्याहेत्याद्यर्थे तद्वाक्यावयवात् 'माशब्द' इत्यादिशब्दाट्ठगिति यावत् । माशाब्दिक इति । शब्दं मा कार्षीरित्यन्वयः ।माङि लुङि॑ति लोडर्थे लुङ् । 'न माडओगे' इत्यजागमनिषेधः । शब्दं न कुरु इत्यर्थः । अत्र आहेति ब्राऊञ्धात्वर्थव्यक्तवचनक्रियां प्रतिमा शब्दं कार्षी॑रिति वाक्यार्थः कर्म । तद्वाक्यैकदेशो माशब्देति समुदायः । तस्मान्निर्विभक्तिकादयं प्रत्ययः । न हि माशब्देति समुदायाद्विभक्तिरस्ति । एवंच माशब्देति समुदायाट्ठकि 'माशब्दिक' इति रूपम् ।मा शब्दः कारी॑ति पाठे तु कारीति कर्मणि लुङ । शब्दो न कार्य इत्यर्थः । नच तदाहेत्यर्थे माशब्दादिभ्यष्ठगिति यथाश्रुतमब्युपगम्य माशब्दमाहेत्याद्यर्थे माशब्देत्यादिशब्देभ्यो द्वितीयान्तेभ्यष्ठगित्येव कुतो न व्याख्यायत इति वाच्यम्, एवं सति 'आहौ प्रभूतादिभ्यः' इत्युत्तरवार्तिकारम्भवैयर्थध्यापत्तेरिति भावः ।", "44002": "<<तेन दीव्यति खनति जयति जितम्>> - तेन दीव्यति । तेन दीव्यति, तेन खनति, तेन जयति, तेन जितमिति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः । पारदारिक इति परदारान्गच्छतीत्यर्थः । अभ्रिः=कुद्दालः ।देवदत्तेन जित॑मित्यत्र तु न ठक्, करणतृतीयान्तादेव तद्विधेः ।", "44003": "<<संस्कृतम्>> - संस्कृतम् । तेनेत्येव संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । 'सस्कृतं भक्षाः' इत्यत्र तु सप्तम्यन्तादणादि विधिः । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः ।", "44004": "<<कुलत्थकोपधादण्>> - कुलत्थकोपधादण् ।संस्कृतमित्यर्थे तृतीयान्ता॑दिति शेषः । तैन्तिणीकमिति । तिन्तिणीकेन संस्कृतमित्यर्थः ।", "44005": "", "44006": "<<गोपुच्छाट्ठञ्>> - गोपुच्छाट्ठञ् ।तरतीत्यर्थे तृतीयान्ता॑दिति शेषः ।", "44007": "<<नौद्व्यचष्ठन्>> - नोद्व्यचष्ठन् ।ठ॑निति च्छेदः । ष्टुत्वकृतः सस्य षकारः । तरतीत्यर्थे नौशब्दात् द्व्यचश्च तृतीयान्ताट्ठनित्यर्थः । नाविक इति । नावा तरतीत्यर्थः । घटिक इति । घटेन तरतीत्यर्थः । बाहुका स्त्रीति । उकः परत्वाट्ठस्य कः । अदन्तत्वाट्टाप् ।", "44008": "<<चरति>> - चरति । गच्छतिभक्षयतीति ।चरगतिभक्षणयो॑रिति चरधातोरर्थद्वये वृत्तेरिति भावः । हास्तिक इति । ठनि इके 'नस्तद्धिते' इति टिलोपः", "44009": "<<आकर्षात् ष्ठल्>> - आकर्षात्ष्ठल् । तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात्ष्ठलित्यर्थः ।", "44010": "<<पर्पादिभ्यः ष्ठन्>> - पर्पादिभ्यः ष्ठन् । ष्ठन् इति च्छेदः ।चरतीत्यर्थे तृतीयान्तेभ्य॑ इति शेषः । षित्त्वं ङीषर्थमित्याह — पर्पिकीति । अइआक इति । अओन चरतीत्यर्थः ।", "44011": "<<श्वगणाट्ठञ्च>> - आगणाट्ठञ् च । 'उक्तविषये' इति शेषः । आगणशब्दात्तृतीयान्ताच्चरतीत्यर्थे ठञ् ष्ठन् च स्यादित्यर्थः । आआगणिक इत्युदाहरणं वक्ष्यति । तत्र आन्शब्दस्य द्वारादित्वादेजागमे प्राप्ते ।", "44012": "<<वेतनादिभ्यो जीवति>> - वेतनादिभ्यो जीवति ।जीवतीत्यर्थे तृतीयान्तेभ्यष्ठ॑गिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुष्क इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षत्वम् ।", "44013": "<<वस्नक्रयविक्रयाट्ठन्>> - वस्नक्रयविक्रयाट्ठन् । जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यष्ठन् स्यादित्यर्थः । सङ्घातविगृहीतार्थमिति । व्याख्यानादिति भावः ।", "44014": "<<आयुधाच्छ च>> - आयुधाच्छ च । जीवतीत्यर्थे तृतीयान्तादायुधशब्दाच्छः स्याट्ठन् चेत्यर्थः ।", "44015": "<<हरत्युत्सङ्गादिभ्यः>> - हरत्युत्सङ्गादिभ्यः । हरतीत्यर्थे तृतीयान्तेभ्य इत्सङ्गादिभ्यष्ठक् स्यादित्यर्थः ।", "44016": "<<भस्त्राऽऽदिभ्यः ष्ठन्>> - भस्त्रादिभ्यः ष्ठन् ।ष्ठ॑निति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो भस्त्रादिभ्यः ष्ठन् स्यादित्यर्थः । षित्त्वादिति ।ङी॑षिति शेषः ।", "44017": "<<विभाषा विवधात् (विवधवीवधात्)>> - विभाषा विवधात् ।हरतीत्यर्थे तृतीयान्तात् ष्ठ॑निति शेषः ।", "44018": "<<अण् कुटिलिकायाः>> - अण् कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात्कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः, तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः ।", "44019": "<<निर्वृत्तेऽक्षद्यूतादिभ्यः>> - निर्वृत्तेऽक्षद्यूतादिभ्यः । निर्वृत्तमित्यर्थे तृतीयान्तेभ्योऽक्षद्यूतादिभ्यष्ठगित्यर्थः ।", "44020": "<<क्त्रेर्मम् नित्यं>> - त्रेर्मम्नित्यम् । तेन निर्वृत्तमित्यर्थेड्वितः क्रि॑रिति क्रिप्रत्ययान्तान्नित्यं मप्प्रत्ययः स्यादित्यर्थः ।समर्थानां प्रथमाद्वे॑ति महाविकल्पनिवृत्त्यर्थं नित्यग्रहणात् । ततश्च अस्मिन्नर्थे मप्प्रत्ययं विना क्रियप्रत्ययान्तस्य प्रयोगो नेति भाष्ये स्पष्टम् । एवं चात्र अस्वपदविग्रहं दर्शयति — कृत्या निर्वृत्तमिति । अत्र विग्रहवाक्येस्त्रियां क्तिन्नि॑ति क्तिन्नन्तोऽयं कृतिशब्दः । कृत्रिममिति । 'डुकृञ् करणे' इति धातोःड्वितः क्रि॑रिति क्रिप्रत्ययान्तान्मप् । पक्रिममिति । पक्त्या निर्वृत्तमित्यस्वपदविग्रहः । 'डुपचष् पाके' इत्यस्मात्क्रियप्रत्ययान्तान्मप् । इमब्वक्तव्य इति । निर्वृत्तमित्यर्थे तृतीयान्ता॑दिति शेषः । अत्र नित्यमिति न संबध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति — पाकेन निर्वृत्तमिति ।", "44021": "<<अपमित्ययाचिताभ्यां कक्कनौ>> - अपमित्ययाचिताभ्याम् । ल्यबन्धमिति । 'मेङ् प्रणिदाने' इत्यस्यमादिंवनिमयार्थकात्उदीचां माहो व्यतिहारे॑ इति क्त्वाप्रत्यये गतिसमासे ल्यपिमयतेरिदन्यतरस्या॑मिति इत्त्वेह्रस्वस्य पिती॑ति तुगागमे अपमित्येत्यव्ययम्, 'क्त्वातोसुन्कसुनः' इत्युक्तेरित्यर्थः । निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्तादिति लभ्यते ।", "44022": "<<संसृष्टे>> - संसृष्टे । संसृष्टमित्यर्थे तृतीयान्ताट्ठागित्यर्थः ।", "44023": "<<चूर्णादिनिः>> - चूर्णादिनिः ।संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः ।", "44024": "<<लवणाल्लुक्>> - लवणाल्लुक् ।पूर्वसूत्रविहितस्ये॑ति शेषः ।", "44025": "<<मुद्गादण्>> - मुद्गादण् ।तेन संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः । मौद्ग ओदन इति । मुद्गैः संसृष्ट इत्यर्थः ।", "44026": "<<व्यञ्जनैरुपसिक्ते>> - व्यञ्डनैरुपसिक्ते । उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यष्ठगित्यर्थः । सेचनेन मृदूकरणमुपसेकः । संसृष्ट इत्येव सिद्धे नियमार्थं सूत्रम् — ॒व्यञ्जनवाचिभ्य उपसिक्त एवे॑ति । तेनेह न, सूत्रेन संसृष्टा स्थाली ।", "44027": "<<ओजस्सहोऽम्भसा वर्तते>> - ओजःसहो । वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस्, अम्भस् — एभ्यः तृतीयान्तेभ्यष्ठक् स्यादित्यर्थः । औजसिक इति । ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः । साहसिक इति । सहसा=प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः । आम्भसिक इति । अम्भसा हेतुना संचारे व्याप्रियत इत्यर्थः ।", "44028": "<<तत् प्रत्यनुपूर्वमीपलोमकूलम्>> - तत्प्रत्यनुपूर्व ।त॑दिति द्वितीयान्तानुकरणम् । प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्य ईषलोमकूलशब्देभ्यो वर्तते इत्यर्थे ठक् स्यादित्यर्थः । ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात्कथं द्वितीयेत्यत आह — क्रियाविशेषणत्वादिति । इदंच कारकनिरूपणे निरूपितम् ।क्रियाविशेषणानां प्रतमान्तत्वमेवे॑ति तु शब्देन्दुशेखरे प्रतीपमिति । प्रतिगता आपो यस्मिन्निति बहुव्रीहिः । 'ऋक्पूः' इत्यकारः समासान्तः । द्व्यन्तरूपसर्गेभ्योऽप ई॑दिति ईत्त्वम् । अनुगता आपो यस्मिन् तदन्वीपम् । 'ऊदनोर्देशे' इत्यूत्त्वं तु न, अदेशत्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ । अवयवार्थेषु तु नाभिनिवेष्टव्यम् ।", "44029": "<<परिमुखं च>> - परिमुखं च । अस्माद्द्वितीयान्ताद्वर्तते । इत्यर्थे ठगित्यर्थः । चादिति । चकारादनुक्तसमुच्चयार्थात् परिपार्ामित्यस्मादपि ठकि पारिपार्िआकः ।", "44030": "<<प्रयच्छति गर्ह्यम्>> - प्रयच्छति गह्र्रम् । तदिति द्वितीयान्तमनुवर्तते । गर्ह्रं प्रयच्छतीत्यर्थे द्वितीयान्ताट्ठगित्यर्थः । द्विगुणार्थं द्रव्यं द्विगुणमिति । द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षितमित्यर्थः । तत्प्रय्च्छति द्वैगुणिक इति । द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः ।अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धकः॑ इत्यादिधर्मशास्त्रविरुद्धत्वादिह गह्र्रमिति भावः । वृद्धेरिति । वृद्धिशब्दादुक्तार्थे ठकि प्रकृतेत्र्रधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धुषिक इति । वृद्ध्यर्थं द्रव्यं-वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दाट्ठक इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः ।वृद्ध्याजीवस्तु वार्धुषि॑रिति तु प्रमाद एव ।", "44031": "<<कुसीददशैकादशात् ष्ठन्ष्ठचौ>> - कुसीद । गह्र्रार्थाभ्यामिति । कुसीद, तदशैकादश — आभ्यां द्वितीयान्ताभ्यां गह्र्रार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात्ष्ठन्ष्ठचौ स्त इत्यर्थः । षित्त्वं ङीषर्थमित्याह — कुसीदिकीति । नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ष्ठच् प्रकृतिं दशैकादशशब्दं व्युत्पादयति — एकादशार्थत्वादित्यादिना । यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्का ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्का एकादशार्थत्वादेकादशशब्देन उपचर्यन्ते । ततश्च एकादश च ते दश चेति कर्मधारयेसङ्ख्याया अल्पीयस्या॑ इति दशन्शब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशा इति रूपमित्यर्थः । दशैकादशिक इति । एकादश निष्खानधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति — दशैकादशान् प्रयच्छतीति । इहापीति । विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणदातैव तद्धितार्थः प्रधानभूत इत्यर्थः ।", "44032": "<<रक्षति>> - रक्षति । अस्मिन्नर्थे द्वितीयान्ताट्ठगित्यर्थः ।", "44033": "", "44034": "<<शब्ददर्दुरं करोति>> - शब्ददर्दुरं करोति । शब्दं करोति, दर्दुरं करोतीति विग्रहे द्वितीयान्ताट्ठगित्यर्थः । इह शब्दविषये प्रकृतिप्रत्ययविभादपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात् । तेनेह न — शब्दं करोति खरः । दार्दुरिक इति ।दर्दुरस्तोयदे भेके वाद्यभाण्डाऽद्रिभेदयोः । दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुर॑मिति विआः । इह यथायोग्यमन्वयः ।", "44035": "<<पक्षिमत्स्यमृगान् हन्ति>> - पाक्षिमत्स्यमृगान्हन्ति । अस्मिन्नर्थे पक्ष्यादिशब्देभ्यो द्वितीयान्ताट्ठगित्यर्थः । स्वरूपस्येति । पक्षिमत्स्यमृगशब्दैस्तत्तत्स्वरूपाणां, तत्तत्पर्यायाणां, तद्विशेषवाचिनां च ग्रहणमित्यर्थः,स्वं रूप॑मिति सूत्रभाष्ये तथोक्तेरिति भावः । मीनस्यैवेति । मत्स्यपर्यायेषु मीनस्यैव ग्रहणं, न त्वनिमिषादिशब्दानामित्यर्थः । इदमपिस्वं रूप॑मित्यत्र भाष्ये स्थितम् । पाक्षिक इति — स्वरूपस्योदाहरणम् । शाकुनिक इति — पक्षिपर्यायस्य । मायूरिक इति — पक्षिविशेषस्य । तथा मात्स्यिकः, मैनिकः, शाकलिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । तथा मार्गिकः, हारिणिकः, सारङ्गिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् ।", "44036": "<<परिपन्थं च तिष्ठति>> - परिपन्थं च तिष्ठति । अस्मादिति । परिपन्थशब्दादित्यर्थः । चकाराद्धन्तीत्यनुकृष्यते । तदाह — तिष्ठति हन्ति चेति । पन्थानं वर्जयित्वेति । एतेन 'अपपरी वर्जने' इति परेः कर्मप्रवचनीयत्वेपञ्चम्यपाङ्परिभि॑रिति पञ्चम्याम्अपपरिबहिरञ्चवः पञ्चम्ये॑ति अव्ययीभावसमासः सुचितः । व्याप्त वेति । एतेन सर्वतःशब्दपर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम् । अव्ययीभावः, प्रादिसमासो वेत्यपि बोध्यम् । उभयथाऽपि क्रियाविशेषणत्वाद्द्वितीयान्तत्वम् । इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः इदमेवाभिप्रेत्य विग्रहं दर्शयति — परिपन्थं तिष्ठतीति ।", "44037": "<<माथोत्तरपदपदव्यनुपदं धावति>> - माथोत्तर । मथोत्तरपद, पदवी, अनुपद — एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे ठगित्यर्थः । माथपदं व्याचष्टे — माथः पन्था इति । मथ्यते गन्तृभिराहन्यते #इति व्युत्पत्तेरिति भावः । दण्डमाथ इति । शाकपार्थिवादिः । पन्थानं धावतीति धावतेर्गत्यर्थत्वात् सक्रमकत्वम् । पादविक इति । पदवीं धावतीति विग्रहः । आनुपदिक इति । अनुपदं धावतीति विग्रहः ।", "44038": "<<आक्रन्दाट्ठञ्च>> - आक्रन्दाट्ठञ्च । अस्मादिति । आक्रन्दशब्दाद्द्वितीयान्तादित्यर्थः । आकन्दन्ति । अस्मिन्नत्याक्रन्दः । तदाह — रोदनस्थानमिति ।", "44039": "<<पदोत्तरपदं गृह्णाति>> - पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तस्माद्द्वितीयान्ताद्गृह्णातीत्यर्थे ठक्स्यादित्यर्थः ।", "44040": "<<प्रतिकण्ठार्थललामं च>> - प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम — इत्येभ्य इत्यर्थः । आर्थिक इति । अर्थं गृह्णातीत्यर्थः । लालामिक इति । ललामं=चिह्नं, तद्गृह्णातीत्यर्थः ।लिङ्गं ललामं च ललाम चे॑त्यमरः ।", "44041": "<<धर्मं चरति>> - धर्मं चरति । चरतीत्यर्थे द्वितीयान्ताद्धर्मशब्दाट्ठगित्यर्थः । अधर्माच्चेतीति ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तदन्ताऽग्रहणादप्राप्ते आरम्भः ।", "44042": "<<प्रतिपथमेति ठंश्च>> - प्रतिपथमेति ठंश्च । प्रतिपथमित्यव्ययीभावादेतीत्यर्थे ठन्ठक्च स्यादित्यर्थः । प्रतिपथमिति ।लक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावः । 'ऋक्पूः' इति समासान्तः ।", "44043": "<<समवायान् समवैति>> - समवायान्समवैति । द्वितीयान्तेभ्यः समवायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । समवैति=मेलयतीत्यर्थः ।", "44044": "<<परिषदो ण्यः>> - परिषदो ण्यः । द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः ।", "44045": "<<सेनाया वा>> - सेनाया वा । ण्यः स्यादिति । शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः । सैन्याः सैनिका इति । सेनां मेलयन्तीत्यर्थः ।", "44046": "<<संज्ञायां ललाटकुक्कुट्यौ पश्यति>> - संज्ञायाम् । ललालकुक्कुटीशब्दाभ्यां फश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः । संज्ञा=रूढिः, न त्वाधुनिकः सङ्खेतः । लालाटिकः शेवक इति । दूरे स्थधित्वा प्रभोर्ललाटं पश्यति, नतु कार्ये प्रवर्तत इत्यर्थः ।लालाटिकः प्रभोर्भालदशीं कार्याऽक्षमश्च यः॑ इत्यमरः । कौक्कुटिक इति । कुक्कुटीपतनार्हदेशं पश्यतीत्यर्थः ।", "44047": "<<तस्य धर्म्यम्>> - तस्य धम्र्यम् । धर्मदनपेतं धम्र्यम्, आचरितुं योग्यमित्यर्थः । धम्र्यमित्यर्थे षष्ठन्ताट्ठगित्यर्थः ।", "44048": "<<अण् महिष्यादिभ्यः>> - अण् महिष्यादिभ्यः ।षष्ठन्तेभ्यो धम्र्यमित्यर्थे॑ इति सेषः ।", "44049": "<<ऋतोऽञ्>> - ऋतोऽञ् । ऋदन्तात्षष्ठन्ताद्धम्र्यमित्यर्थे अञित्यर्थः । नारीति । अञन्तत्वान्ङीबिति भावः । इड्लोप इति । इटो लोप इत्यर्थः । वैशस्त्रमिति । विशसितृशब्दादञि इटो लोपे ऋकारस्य यणि आदिवृद्धिः । वैभाजित्रमिति । विभाजयितृशब्दादञि णिलोपः ।", "44050": "<<अवक्रयः>> - अवक्रयः । तस्येत्यनुवर्तते । तदाह — षष्ठन्तादिति ।", "44051": "<<तदस्य पण्यम्>> - तदस्य पण्यम् । अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः । विक्रेतव्यं द्रव्यं-पण्यम् । लवणाट्ठञ् ।तदस्य पण्य॑मित्येव ।", "44052": "<<लवणाट्ठञ्>> - विक्रेतव्यं द्रव्यं-पण्यम् । लवणाट्ठञ् ।तदस्य पण्य॑मित्येव । लावणिक इति । लवणमस्य पण्यमित्यर्थः ।", "44053": "<<किशरादिभ्यः ष्ठन्>> - किसरादिभ्यः ष्ठन् । तदस्य पण्यमित्येव ।ष्ठ॑न्निति च्छेदः । तदाह — षित्त्लान्ङीषिति ।", "44054": "<<शलालुनोऽन्यतरस्याम्>> - शलालुनोऽन्यतरस्याम् ।ष्ठ॑न्निति शेषः ।तदस्य पण्यमित्येव ।शलालुक इति । शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । षित्त्वस्य फलमाह — शलालुकीति ।", "44055": "<<शिल्पम्>> - शिल्पम् । तदस्य शिल्पमित्यर्थे प्रतमान्ताट्ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु 'मार्दङ्गिक' इत्युदाहरणं वक्ष्यति, तत्र मृदङ्गं शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वाऽसंभवात् । तत्राह — मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः ।", "44056": "<<मड्डुकझर्झरादणन्यतरस्याम्>> - मड्डुकझर्झरात् ।तदस्य शिल्प॑मित्येव । पक्षे ठक् ।मड्डुकझर्झरौ — वाद्यविशेषौ ।", "44057": "<<प्रहरणम्>> - प्रहरणम् ।तदस्ये॑त्येव । प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः । प्रह्यियतेऽनेनेति प्रहरणम्ायुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षः ।", "44058": "<<परश्वधाट्ठञ्च>> - परआआधाट्ठञ् च ।तदस्य प्रहरण॑मित्येव । चाट्ठक् । 'परशुश्च परआधः' इत्यमरः ।", "44059": "<<शक्तियष्ट्योरीकक्>> - शक्तियष्टओरीकक् । शक्तियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे ईकक् स्यादित्यर्थः ।", "44060": "<<अस्तिनास्तिदिष्टं मतिः>> - अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरस्यास्ति, नास्तीति मतिरस्यास्ति, दिष्टमिति मतिरस्यास्तीत्यर्थेषु क्रमेण अस्तीत्यस्मान्नास्तीत्यस्माद्दिष्टमित्यस्माच्च प्रथमान्ताट्ठगित्यर्थः । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनादेव आख्यातात्प्रत्ययः ।दैवं दिष्ट॑मित्यमरः ।", "44061": "<<शीलम्>> - शीलम् । अस्येत्यर्थे शीलवाचिनः प्रथमान्ताट्ठगित्यर्थः । शीलं=स्वभावः । अपूपभक्षणमिति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः ।", "44062": "<<छत्रादिभ्यो णः>> - छत्रादिभ्यो णः । एभ्यः प्रथमान्तेभ्योऽस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः । छत्रं शीलमस्य छात्र इत्युदाहरणं वक्ष्यति, तत्र छत्रस्य शीलत्वानुपपत्तेः छत्रपदं गुरुदोषावरणे गौणमित्याह — गुरोरिति । शीलमित्यर्थे छत्रादित्वाण्णप्रत्यये कृते- ।", "44063": "<<कर्माध्ययने वृत्तम्>> - कर्माध्ययने वृत्तम् ।तदस्य पण्य॑मित्यतस्तदस्येत्यनुवर्तते ।तदस्य कर्माध्ययने वृत्त॑मित्यर्थनिर्देशः । तत्रत॑दित्यनेन विशेष्येण कर्म वृत्तमित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्म प्रति विशेष्यसमर्पकं तदिति प्रथमोच्चारितम् । ततश्च स्य अध्ययनविषयेतत्कर्म वृत्त॑मित्यर्थे तच्छब्दगम्यविशेष्यवाचकात्प्रथमान्ताट्ठक् स्यादित्यर्थः । तदाह — प्रथमान्तादिति ।वृत्तं कर्म प्रति विशेष्यसमर्पका॑ दिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति । अनेन कर्मशब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति ।अनेन कर्म वृत्त॑मित्येतत्तदित्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । तदित्यननुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रतमानिर्दिष्टत्वात्तत एव प्रत्ययः स्यात्, नतु तद्विशेष्यवाचकात्, तस्य प्रथमानिर्दिष्टत्वाऽभावादित्यभिप्रेत्योदाहरति — एतमन्यद्वृत्तमस्य ऐकान्यिक इति । 'तद्धितार्थ' इति समासे एकान्यशब्दाट्ठहगिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः ।", "44064": "<<बह्वच्पूर्वपदाट्ठच्>> - बह्वच्पूर्वपदाट्ठच् ।तदस्य कर्माध्ययने वृत्त॑मित्यनुवर्तते । तदाह — प्राग्विषये इति । द्वादशान्यिक इति । 'तद्धितार्थ' इति समासः । एवं त्रयोदशान्यिकः चित्त्वान्नादिवृद्धिः ।", "44065": "<<हितं भक्षाः>> - हितं भक्षाः । तदस्येत्यनुवृत्तम् । तत्र षष्ठी चतुथ्र्याविपरिणम्यते, हितयोगात् । तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्यात्, यद्धितं भक्षाश्चेत्ते स्युरित्यर्थः । संस्कृतं भक्षा इति वद्व्याख्येयम् । अपूपभक्षणमिति । अनेन अपूपशब्दोऽपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थे तु न ठक्, अभिधानस्वाभाव्यादिति भावः ।", "44066": "<<तदस्मै दीयते नियुक्तम्>> - तदस्मै दीयते नियतम् । अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः ।", "44067": "<<श्राणामांसौदनाट्टिठन्>> - श्राणामांस ।तदस्मै दीयते नियत॑मित्येव । श्राणा=यवागूः ।यवागूरुष्णिका श्राणा विलेपी तरला च से॑त्यमरः । टित्त्वं ङीबर्थम् । तदाह — श्राणिकीति । सङ्घातविगृहीतार्थमिति । ठकैव सिद्धे 'ओदनिक' इत्यत्र आदिवृद्ध्यभावार्थं प्रत्ययान्तरविधानमिति भावः ।", "44068": "<<भक्तादणन्यतरस्याम्>> - भक्तादणन्यतरस्याम् ।तदस्मै दीयते नियत॑मित्येव ।", "44069": "<<तत्र नियुक्तः>> - तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः । नियुक्तः=अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । आकरिक इति । आकरो रत्नाद्युद्भवस्थानम् ।", "44070": "", "44071": "<<अध्यायिन्यदेशकालात्>> - अध्यायिन्यदेशकालात् । निषिद्धेति ।अदेशकाले॑त्यत्र नञ् निषिद्धे वर्तत इति भावः । श्माशानिकः चातुर्दशिक इति । देशकालभिन्नादिति व्याख्याने तु इह न स्यादिति भावः ।", "44072": "<<कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति>> - कठिनान्तप्रस्तार । अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यष्ठगित्यर्थः । वंशकठिनशब्दं विवृणोति — वंशा इति । व्यवहरणम्-उचितक्रिया । तदाह — यस्मिन्देशे इति । प्रस्तारसंस्थानशब्दौ अवयवसंनिवेशपर्यायौ ।", "44073": "<<निकटे वसति>> - निकटे वसति । अस्मिन्नर्थे सप्तम्यन्तातन्निकटशब्दाट्ठगित्यर्थः । नैकटिको भिक्षुरिति । ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शास्त्रमुल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । अत्र व्याख्यानमेव शरणम् ।", "44074": "<<आवसथात् ष्ठल्>> - आवसथाष्ठल् । तत्र वसतीत्यर्थे आवसतात्सप्तमय्न्तात्ष्ठलित्यर्थः । आवसथं — गृहम् । षित्त्वं ङीषर्थम् । तदाह — आवसथिकीति । आकर्षादित्यादि । श्लोकवार्तिकमिदम् — ॒प्राग्वहतेष्ठक् इत्यादौ ठगिति वा ष्ठगिति छेद इति संशयनिवृत्त्यर्थम्आकर्षात्ष्ठ॑लिति सूत्रभाष्ये पठितम् । तत्र आकर्षादित्यनेनआकर्षात्ष्ठ॑लिति सूत्रं विवक्षितम् । 'पर्पादिभ्यः' इत्यनेनपर्पादिभ्यः ष्ठ न्निति सूत्रं विपक्षितम् । 'भस्त्रादिभ्यः' इत्यनेनभस्त्रादिभ्यः ष्ठ॑न्निति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेनकुसीददशैकादशात् ष्ठन्ष्ठचौ॑ इति सूत्रं विवक्षितम् । आवसथादित्यनेनआवसथात्ष्ठ॑लिति सूत्रं विवक्षितम् । किसरादेरित्यनेनकिसरादिभ्यः ष्ठ॑न्निति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकारे एतैः सूत्रैर्विहिताः षट् प्रत्ययाः षित इत्यर्थः । ननुकुसीदे॑ति सूत्रे प्रत्ययद्वयविधानादेतत्सूत्रषट्कविहिता सप्त प्रत्यया लभ्यन्त इति षट् षित इति कथमित्यत आह — षडितीति ।ष॑डित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः । *****इति बालमनोरमायाम् प्राग्वहतीयाः ।*****अथ ठञधिकारः । — — — — — —", "44075": "<<प्राग्घिताद्यत्>> - अथ प्राग्घितीयप्रकरणं निरूप्यते — प्राग्घिताद्यत् । हितशब्दस्तद्धटितसूत्रपरः तदाह — तस्यै हितमिति ।", "44076": "<<तद्वहति रथयुगप्रासङ्गम्>> - तद्विहति रथ । रथादि वहतीत्यर्थे द्वितीयान्ताद्रथ युग प्रासङ्ग इति त्रयाद्यत्स्यादित्यर्थः । युग्य इति । रथादिवहनकाले अआआदिस्कन्धेषु तिर्यग्यत् काष्ठमीषत्प्रोतमासज्यते तद्युगम् । तद्विहतीत्यर्थः । दमनकाले इति । रथादिवहने सुशिक्षितावआऔ नियुज्य तत्स्कन्धवाह्रयुगे यद्युगान्तरमासज्य तस्मिन्नशिक्षिता अआआदयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः ।प्रासङ्गो ना युगाद्युगे॑ इत्यमरः ।", "44077": "<<धुरो यड्ढकौ>> - धुरो यड्ढकौ । धुरशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्, ढक्च स्यादित्यर्थः ।यड्ढकञो॑विति पाठान्तरम् । हलि चेतीति । 'धुर्वी हिंसायां'भ्राजभासे॑ति क्विप् । 'राल्लोपः' इति लोपः । अआआदिस्कन्धवाह्रप्रदेशो युगावयवो धुः । धुर्शब्दाद्यतिहलि चे॑ति दीर्घे प्राप्ते सतीत्यर्थः ।", "44078": "<<खः सर्वधुरात्>> - खः सर्वधुरात् । सर्वा धूः सर्वधुरा । 'पूर्वकाल' इति तत्पुरुषः ।ऋक्पू॑रिति समासान्तः ।परवल्लिङ्ग॑मिति स्त्रीत्वाट्टाप् । इह तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । द्वितीयान्तात्सर्वधुराशब्दाद्वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां वहतीत्यर्थः ।स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः॑ इत्यमरः ।", "44079": "<<एकधुराल्लुक् च>> - एकधुराल्लुक् च । एकधुराशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पक्षे लुगित्यर्थः । एकधुरीणः । एकधुर इति । एकधुरां वहतीत्यर्थः ।", "44080": "<<शकटादण्>> - अगारान्ताट्ठन् । तत्र नियुक्त इत्येव । नित्त्वान्नादिवृद्धिः । तदाह — देवगारिक इति ।", "44081": "<<हलसीराट्ठक्>> - हलसीराट्ठक् । आभ्यां द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः ।", "44082": "<<संज्ञायां जन्याः>> - संज्ञायां जन्याः । जनीशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थेजनिघसिभ्या॑मिति जनधातोरिणिजनिवध्योश्चे॑ति वृद्धिप्रतिषेधेकृदिकारा॑दिति ङीषि जनीशब्दस्य निष्पत्तेरिति भावः ।समाः स्नुषाजनीवध्वः॑ इत्यमरः । वहन्तीत्यस्य विवरणं — ॒प्राप्यन्ती॑ति । 'वरगृह' मिति शेषः । जन्या इ ।ति । 'जामातुर्वयस्या' इति शेषः ।जन्याः स्निग्धा वरस्य ये॑ इत्यमरः ।", "44083": "<<विध्यत्यधनुषा>> - विध्यत्यधनुषा । तदिति द्वितीयान्तमनुवर्तते । अधनुषेति सप्तम्यर्थे तृतीया । धनुषोऽभावः-अधनुः, तस्मिन्सतीत्यर्थः । अर्थाऽभावे नञ्तत्पुरुषः,अर्थाभावे अव्ययीभावे अयं विकल्प्यते॑ इत्युक्तत्वात् । द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुष करणस्याऽभावे सतीत्यर्थः । न चेत्तत्रेति । तत्र=वेधने धनुः करणं न चेदित्यर्थः । पद्या इति । पादशब्दाद्यति 'पद्यत्यतदर्थे' इति पद्भावः । अधनुषेति किम् । धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यन्न भवति । न चाऽसामर्थ्यादेवात्र यन्नेति वाच्यं, विध्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याऽविधातात् । अन्यथाऔपगवो देवदत्त उपगुनप्तृत्वा॑ दित्यादौ अणादिकं न स्यात्, प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषणित्यसापेक्षत्वाच्चेति शब्देन्दुशेखरे विस्तरः ।", "44084": "<<धनगणं लब्धा>> - धनगणं लब्धा । धनशब्दाद्गणशब्दाच्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह — तृन्नन्तमेतदिति । तथाच 'न लोके' ति निषेधान्न षष्ठीति भावः ।", "44085": "<<अन्नाण्णः>> - अन्नाण्णः ।लब्धेत्यर्थे द्वितीयान्ता॑दिति शेषः ।", "44086": "<<वशं गतः>> - वशंगतः । वशशब्दाद्द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः । वश्य इति । वशं गत इति विग्रहः ।वश कान्तौ॑ । कान्तिरिच्छा । वशनं वशः ।वशिरण्योरुपसङ्ख्यान॑मित्यप् । वशम्िच्छां, गतः=प्राप्तः । इच्छाधीन इत्यर्थः । वशाधातुश्छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाह — परेच्छानुसारीति ।", "44087": "<<पदमस्मिन् दृश्यम्>> - पदमस्मिन्दृश्यं । प्रथमान्तात्पदशब्दाद्दृश्यत इत्यर्थे यदित्यर्थः । अत्र तदिति द्वितीयान्तमनुवृत्तं प्रथमया विपरिणम्यते ।", "44088": "<<मूलमस्याबर्हि>> - मूलमस्याबर्हि । आबर्हणमिति । उत्पाटनमित्यर्थः । उपसर्गवशात् 'बृहूउद्यमने' इति धातोरुत्पाठने वृत्तिः । मूल्या मुद्गा इति । मूलत उत्पाटनीया इत्यर्थः ।", "44089": "<<संज्ञायां धेनुष्या>> - संज्ञायां धेनुष्या । यप्रत्ययश्चेति । यति तु तित्स्वर) स्यादिति भावः । धेनुष्येति । या धेनुर्दोहनार्थमुत्तमर्णाय अधमर्णेन दीयते तस्या इयं संज्ञा । तदाह — बन्धके स्थितेति । अमरवाक्यमिदम् । संज्ञायामित्या पादपरिसमाप्तेरधिकारः । संज्ञा हि रूठिर्विवक्षिता ।", "44090": "<<गृहपतिना संयुक्ते ञ्यः>> - गृहपतिना । अस्मिन्नर्थे गृहपतिशब्दात्तृतीयान्ताञ्ञ्यः स्यादित्यर्#H । गार्हपत्योऽग्निरिति । अग्निविशेष इत्यर्थः । तत्र पत्नीसंयोजेषु अग्निहोत्तरे च गृहपतिदेवताकहोमस्य क्रियमामत्वाद्गृहपतियोगः । यद्यपिदेवसूहविःषु अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति॑ इति हविर्होम आहबनीये क्रियते, तथापि संज्ञाधिकारादाहरवनीये नास्य प्रयोगः ।", "44091": "<<नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्य- वध्यानाम्यसमसमितसम्मितेषु>> - नौवयोधर्म ।नौ, वयस्, धर्म, विष, मूल, सीता, तुला एभ्योऽष्यभ्यः क्रामात्तार्ये, तुल्ये, प्राप्ये, वध्ये, आनाम्ये, समे, समिते, संमिते चार्थे यत्स्यादित्यर्थः । 'तृतीयान्तेभ्य' इत्यर्थाद्गम्यते । तार्यादियोगे करणे कर्तरि हेतौ तुल्यादियोगे च तस्या एव संभवात् । अत्र मूलशब्दयोर्यथासङ्ख्याप्रवृत्तये नैकशेषः । अन्यथा सप्तानां प्रकृतीनाम् एकैकस्या अष्टस्वप्यर्थेषु प्रत्यय इति भ्रमः स्यात् । तार्यमिति । तरीतुं शक्यमित्यर्थः ।ऋहलोण्र्यत् । वयसा तुल्य इति । मित्रे एवायं प्रत्ययो, नतु शत्रौ, संज्ञार्धिकारात् । मूलेनानाम्यमिति । पटादेरुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यं मूलम् । तेन सह यदधिकं द्रव्यमानम्यते=विक्रेतुः संमतीकरणेन लभ्यते तन्मूल्यमित्यर्थः । लोकास्तु विक्रेतुर्लब्धं सर्वं द्रव्यं मूल्यमिति व्यवहन्ति । तत्र लक्षणा बोध्या । सा च सांप्रतिकी, निरूढा वा । सीतयेति । सीता लाङ्गलपद्धतिः । तया समितं=सङ्गतमित्यर्थः । कृष्टमिति यावत् । तुला=धटा, तया उन्मितमित्यर्थः ।", "44092": "<<धर्मपथ्यर्थन्यायादनपेते>> - धर्मपथ्यर्थ । धर्म, पथिन्, अर्थ, न्याय एभ्योऽनपेतमित्यर्थे यदित्यर्थः । औचित्यात्पञ्चम्यन्तेभ्य इति लभ्यते । धर्मादनपेतमिति । अप्रच्युतमित्यर्थः । पथ्यमिति । पथोऽनपेतमित्यर्थः । न्याय्यमिति । न्यायदनपेतमित्यर्थः ।", "44093": "<<छन्दसो निर्मिते>> - छन्दसो निर्मिते । छन्दश्शब्दात्तृतीयान्तान्निर्मितेऽर्थे । यदित्यर्थः । इच्छयेति । छन्दःशब्द इच्छावाचीति भावः ।छन्दः पद्येऽभिलाषे चे॑त्यमरः ।", "44094": "<<उरसोऽण् च>> - उरसोऽण्च ।तृतीयान्तान्निर्मिते इत्यर्थे॑ इति शेषः । उरस्य इति ।अङ्गादङ्गात्सम्भवसि ह्मदयादधिजायसे॑ इति श्रुतेरिति भावः । 'पुत्र' इति संज्ञाधिकाराल्लब्धम् ।", "44095": "<<हृदयस्य प्रियः>> - ह्मदयस्य प्रियः । षष्ठन्ताद्धृदयशब्दात्प्रिय इत्यर्थे यत्स्यादित्यर्थः ।", "44096": "<<बन्धने चर्षौ>> - बन्धने चर्षौ ।", "44097": "", "44098": "<<तत्र साधुः>> - तत्र साधुः । सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः । अग्रय इति । अग्रे साधुरित्यर्थः । साधुरत्र प्रवीणो गृह्रते, नतु हितः, तत्रतस्मै हित॑मिति वक्ष्यमाणत्वात् ।", "44099": "<<प्रतिजनादिभ्यः खञ्>> - प्रतिजनादिभ्यः खञ् । तत्र साधुरित्येव । सप्तम्यन्तेभ्य एभ्यः साधुरित्यर्थे खञ् स्यादित्यर्थः । प्रातिजनीन इति ।प्रतिजन॑मिति वीप्सायामव्ययीभावः । तत्र साधुरित्यर्थः । एवं-वैआजनीनः ।", "44100": "<<भक्ताण्णः>> - भक्ताण्णः । सप्तम्यन्तादस्मात्साधुरित्यर्थ इति शेषः ।", "44101": "<<परिषदो ण्यः>> - परिषदो ण्यः ।सप्तम्यन्तात्साधुरित्यर्थ॑ इति शेषः । योगेति । परिषद इति प्रथमो योगः । परिषदो णः स्यादित्यर्थः । ततो 'ण्यः' इति द्वितीयो योगः । परिषदो ण्यः स्यादित्यर्थः ।", "44102": "<<कथाऽऽदिभ्यष्ठक्>> - कथादिभ्यष्ठगित्यादि स्पष्टम् ।", "44103": "<<गुडादिभ्यष्ठञ्>> - पथ्यतिथीत्यादि स्पष्टम् ।", "44104": "", "44105": "", "44106": "", "44107": "<<समानतीर्थे वासी>> - समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्ताद्वसतीत्यर्थे यत्स्यादित्यर्थः । वसतीति वासीति । ग्रह्रादेराकृतिगणत्वाण्णिनिः । तीर्थशब्दस्य विवरणं-गुराविति । सतीथ्र्य इति । समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः ।", "44108": "<<समानोदरे शयित ओ चोदात्तः>> - समानोदरे । समानोदरशब्दात्सप्तम्यन्ताच्छयित इत्यर्थे यत्स्यादोकाराश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयमित्यादौ तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति । विग्रहेपूर्वापरप्रथमे॑त्यादिना समासाद्यति कृते तित्स्वरापवाद ओकारस्योदात्तः । 'विभाषोदरे' इति सभावेऽसति रूपम् ।", "44109": "<<सोदराद्यः>> - सोदराद्यः ।सप्तम्यन्ताच्छयित इत्यर्थे॑ इति शेषः । तित्त्वाऽभावात्प्रत्ययस्वेरणान्तोदात्तोऽयम् ।विभाषोदरे॑इति सभावः ।अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चती॑त्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौवोपसर्जनस्ये॑ति सभावो बोध्यः । एवंयत्र भ्राता सहोदरः॑ इत्याद्यपि सिद्धम् । *****इति बालमनोरमायाम् प्राग्घितीयाः ।**********अथ प्रकृतिभावः******", "44110": "", "44111": "", "44112": "", "44113": "", "44114": "", "44115": "", "44116": "", "44117": "", "44118": "", "44119": "", "44120": "", "44121": "", "44122": "", "44123": "", "44124": "", "44125": "", "44126": "", "44127": "", "44128": "", "44129": "", "44130": "", "44131": "", "44132": "", "44133": "", "44134": "", "44135": "", "44136": "", "44137": "", "44138": "", "44139": "", "44140": "", "44141": "", "44142": "<<सर्वदेवात् तातिल्>> - शम्याः ष्लञ् । शमीशब्दो गौरादिङीषन्तः, तस्मात्षष्ठन्तादवयवे विकारे च ष्लञ् स्यादित्यर्थः । षकारलकारावितौ ।अनुदात्तादेश्चे॑त्यञो ।ञपवादः । शामीलं भस्मेति । शम्या विकार इत्यर्थः । शामीली रुआउगिति । शम्या विकार इत्यर्थः । वरुणप्रघासेषु शमीमय्यः रुआउचः प्रसिद्धाः । अवयवे तु शामीली शाखा ।", "44143": "", "44144": "", "51001": "<<प्राक् क्रीताच्छः>> - अथ पञ्चमाध्यायः । प्राक्क्रीताच्छः । क्रीतशब्दस्तद्धटितसूत्रपरः । तदाह — तेन क्रीतिमिति ।तेन क्रीत॑मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः, तेशु 'छ' इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत् । उश्च गवादयश्चेति द्वन्द्वात्पञ्चमी । उवर्णान्तादिति । प्रातिपदिकविशेषणत्वात्तदन्तविदिः ।उगिद्वर्णग्रहणवर्ज॑मित्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्रं प्राक्कीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषाऽनुपादाने उपतिष्ठते । नाभि नभं चेति । गवादिगणसूत्रम् । नाभिशब्दो नभादेशं यत्प्रत्ययं च प्राप्नोतीत्यर्थः । नभ्योऽक्ष इति । यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नाभिरित्युच्यते तस्मै हितोऽक्षदण्डः । स हि अनुगुणत्वान्नाभये हितः । नभ्यमञ्जनमिति । अञ्जनं-तैलसेकः । नाभेरञ्जनेकृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादञ्जनं नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्रते । भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह — रथनाभावेवेदममिति । शरीरावयवविशेष वाचिनाभिशब्दात्तुशरीरावयवाद्य॑दिति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः । शुनः संप्रसारणमिति । गवादिगणसूत्रम् । आन्शब्दाद्यत्स्यात्प्रकृतेः संप्रसारणं, तस्य संप्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यं — शुन्यमिति । शुने हितमित्यर्थः । ऊधसोऽनङ् चेति । इदमपि गणसूत्रम् । ऊधश्शब्दाद्यत्स्यात्प्रकृतेरनङादेशश्चेत्यर्थः । आदेशे ङकार इत्, नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः ।", "51002": "", "51003": "<<कम्बलाच्च संज्ञायाम्>> - कम्बलाच्च । कम्बलशब्दाद्यत्स्यात्प्राक्कीतीयेष्वर्थेषु संज्ञायामित्यर्थः । कम्बल्यमूर्णापलशमिति । कम्बलाय हितमित्यर्थः ।", "51004": "<<विभाषा हविरपूपादिभ्यः>> - विभाषा हविः । हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः । पक्षे छः । आमिक्ष्यं दधीति । आमिक्षायै हितमित्यर्थः । तप्ते पयसि दध्नि निक्षिप्ते सति यद्ध्नीभूतं निष्पद्यते सा आमिक्षेत्युच्यते ।", "51005": "<<तस्मै हितम्>> - तस्मै हितम् । असमिन्नर्थे चतुथ्र्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति । छे रूपम् । यो गोधुग्वत्सेभ्यः पयः शिष्ट्वा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्कवे हितमित्यर्थः । उवर्णान्तत्वाद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविष्यमिति । हविषे हितमित्यर्थः । हविःशब्दो गवादिः ।विभाषा हवि॑रित्यत्र तु हविर्विशेषवाचिनामेव ग्रहणं, व्याख्यानात् ।", "51006": "<<शरीरावयवाद्यत्>> - शरीरावयवाद्यत् । शरीरावयवविशेषवाचकाच्चतुथ्र्यन्ताद्धितमित्यर्थे यत्स्यादित्यर्थः । छस्यापवादः । नस्यमिति । नासिकायै हितमित्यर्थः । 'पद्दन्' इति नस्, प्रभृतिग्रहणमस्य प्रकारार्थत्वात् । भाष्ये तुनासिकाया यत्-तस्-क्षुद्रेषु नस् इति पठितम् । नाभ्यमिति । नाभये हितमित्यर्थः । नाभिरत्र शरीरावयवः । रथावयवत्वे तु नभादेश उक्तः ।", "51007": "<<खलयवमाषतिलवृषब्रह्मणश्च>> - खलयव । खलादिभ्यश्चतुथ्र्यन्तेभ्यो हितमित्यर्थे यत्स्यादित्यर्थः । वृषशब्दोऽत्र अकारान्त एव गृह्रते, नतु नकारान्तः । तेनवृष्णे हित॑मिति वाक्यमेव । ब्राहृन्शब्दो ब्राआहृणवाच्येव गृह्रते, नतु वेदादिवाची । तेनब्राहृणे वेदाय हित॑मिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्राहृण्यमित्यत्रये चाभावकर्मणो॑रिति प्रकृतिभावान्न टिलोपः । चाद्रथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः ।", "51008": "<<अजाविभ्यां थ्यन्>> - अजाविभ्यां थ्यन् । अजश्च अविश्चेति द्वन्द्वः । अविशब्दस्य धित्वेऽपिअजाद्यदन्त॑मित्यजशब्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्योऽजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्यपरिभाषा अजाशब्दादपि थ्यन् ।तसिलादिष्वि॑ति पुंवत्त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्त्रीत्वं लोकात् ।", "51009": "<<आत्मन्विश्वजनभोगोत्तरपदात् खः>> - आत्मन्विआजन । अत्मजन्, विआजन, भोगोत्तरपद-एभ्यो हितमित्यर्थे खः स्यादित्यर्थः ।आत्मनीन॑मित्युदाहरणं वक्ष्यति ।", "51010": "<<सर्वपुरुषाभ्यां णढञौ>> - सर्वपुरुषाभ्याम् । सर्व, पुरुष आभ्यां चतुथ्र्यन्ताभ्यां क्रमाण्णढञौ स्तो हितमित्यर्थे इत्यर्थः । सर्वाण्ण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् ।पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ्स्यात्, न हितार्थे इत्यर्थः । ननुतेन कृत॑मिति समुदायस्य असुबन्तत्वात्कथं समासे निवेश इत्यत आह — भाष्येति । अणि प्राप्ते इति ।अनेन ढ॑ञिति शेषः । प्राणीति । रजतादित्यादञि प्राप्ते अनेन ढञित्यर्थः । समूहेऽप्यणि प्राप्ते इति । पुरुषाणां समूह इत्यर्थे 'तस्य समूहः' इत्यणि प्राप्ते अनेन ढञित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परित आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे 'कृते ग्रन्थे' इत्यणि प्राप्ते,पुरुषेण कृतः प्रासाद॑ इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढञित्यर्थः । माणव । आभ्यां चतुथ्र्यन्ताभ्यां हितमित्यर्थे खञ्स्यादित्यर्थः ।", "51011": "<<माणवचरकाभ्यां खञ्>> - माणवीनमिति । मनोः कुत्सितमपत्यं माणवः ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण्स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॑ इत्यपत्याधिकारवार्तिकात् । माणवाय हितमिति विग्रहः । चारकीणमिति चरतीति चरः । पचाद्यच् । ततः स्वार्थिकः कः । [चरकाः] । चरकाय हितमिति विग्रहः ।", "51012": "<<तदर्थं विकृतेः प्रकृतौ>> - तदर्थं विकृतेः प्रकृतौ । तदर्थमितिसामान्ये नपुंसकम् । तस्मै इदं तदर्थम् । तच्छब्देन विकृतिः परामृश्यते । सप्तम्यर्थे प्रथमा । विकृत्यर्थायां प्रकृताविति लभ्यते । एवं च तच्छब्देन चतुथ्र्यन्तेन विकृतिरेव प्रथमं निर्दिश्यते । तथा च चतुथ्र्यन्ताद्विकृतिवाचकादिति लभ्यते । तदाह — विकृतिवाचकादित्यादिना । प्रत्ययः स्यादिति ।यथाविहित॑मिति शेषः । अङ्गारेब्य एतानीति । अङ्गारार्थानीत्यर्थः । अर्थेन नित्यसमासविधानादस्वपद विग्रहः । अत्र काण्ठानि प्रकृतिद्रव्याणि । अङ्गारा विकृतयः । तद्वाचकादङ्गारशब्दाच्छप्रत्ययेअङ्गारीयाणी॑ति रूपम् । प्राकारीया इष्टका इतदि । प्राकारेभ्य इमा इति विग्रहः । प्राकारार्था इत्यर्थः । शङ्कव्यमिति । शङ्कवे इदमिति विग्रहः । शङ्क्वर्थमित्यर्थः । 'उगवादिभ्यः' इति यत् ।", "51013": "<<छदिरुपधिबलेः ढञ्>> - छदिरुपधिबलेर्ढञ् । छदिष्, उपधि, बलि-एषां समाहारद्वन्द्वे सौत्रं पुस्त्वम् । एभ्यस्तादथ्र्यचतुथ्र्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः । छादिषेयाणीति । छदिस्तृणपटलः । तस्मै इमानीति विग्रहः । छदिरर्थानीत्यर्थः । ढञि एयादेशे षात्परत्वाण्णत्वम् । बालेयास्तण्डुला इति । बलये इमे इति विग्रहः । बल्यर्था इत्यर्थः ।करोपहारयोः पुंसि बलि॑रित्यमरः ।भागधेयः करो वलि॑रिति च । उपधिशब्दादिति । वार्तिकमिदम् । उपधीयते इति । अक्षदण्डाग्रे उपधीयते=प्रोतं क्रियते इत्युपधिः । 'उपसर्गे घोः किः' इति धाञः किप्रत्ययः ।आता लोप इटि चे॑त्याल्लोपः । उपधी रथाङ्गमिति । तथा भाष्यादिति भावः ।", "51014": "<<ऋषभोपानहोर्ञ्यः>> - ऋषभोपानहो । ऋषभ उपानह् अनयोः समाहारद्वन्द्वात्पञ्चमी । ऋषभशब्दादुपानह्शब्दाच्च तादथ्र्यचतुथ्र्यन्तात्प्रकृतौ वाच्यायां ञ्यप्रत्ययः स्यादित्यर्थः । आर्षभ्य इति । ऋषभाय अयमिति विग्रहः । ऋषभार्थ इत्यर्थः । यो वत्स ऋषभावस्थाप्राप्त्यर्थं पोष्यते स एवमुच्यते । औपानह्रो मुञ्ज इति । उपानहे अयमिति विग्रहः । उपानदर्थो मुञ्ज इत्यर्थः । क्लचिद्देशे मुञ्जतृणैरुपानत् क्रियते ।", "51015": "<<चर्म्मणोऽञ्>> - चर्मण्यपीति । चर्मणि प्रकृतित्वेन वाच्येऽपि अयं ञ्य एवचर्मणोऽ॑ञित्ययं परमपि पूर्वविप्रतिषेधेन बाधित्वा भवतीत्यर्थः । एतच्च 'उगवादिभ्यः' इति सूत्रभाष्ये स्थितम् । औपानह्रमिति । उपानदर्तं चर्मेत्यर्थः । चर्मणोऽञ् । 'चर्मण' इति षष्ठन्तं विकृतावन्वेति । तदाह — चर्मणो या विकृतिस्तद्वाचकादिति ।तादथ्र्यचतुथ्र्यन्ता॑दिति शेषः । अञ्स्यादिति ।प्रकृतौ वाच्याया॑मिति शेषः । वध्रर्यै इद॑मिति पाठान्तरम् । 'वृधिवपिब्यां रन्' इति वृधेः रनि लघूपधगुणे रपरत्वे वध्र्रशब्दश्चर्मवाचकः, तस्माद्विकारे अणि वार्ध्री रज्जुः ।", "51016": "<<तदस्य तदस्मिन् स्यादिति>> - तदस्य तदस्मिन् स्यादिति ।तदर्थं विकृतेः प्रकृतौ॑ इति निवृत्तमिति कैयटः ।तदस्य स्या॑दिति,तदस्मिन्स्या॑दिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादित्यर्थः ।स्या॑दित्यत्रसम्भावनेऽलमिती॑ति सम्भावने लिङ् । प्राकार आसामिति । करणत्वस्य सम्बन्धसामान्यविवक्षायां षष्ठी । आभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलितोऽर्थः । प्राकारीया इति । प्राकारशब्दात्प्रतमान्ताच्छः । इष्टकाः प्रत्ययार्थः । प्राकारपर्याप्तां इष्टका इति यावत् । प्रासादीयं दार्विति । प्रासादोऽस्य स्यादिति विग्रहः । प्रासादपर्याप्तमिति यावत् । प्राकारीयो देश इति । प्राये प्राकारोऽस्मिन्देशे सम्भाव्यत इत्यर्थः । देशस्य तद्योग्यपाषाणेष्टकादिबहुलत्वादिति भावः । अनेन तदर्थं विकृते॑ रित्यनुवृत्ताविह न स्यादिति सूचितम् । ननुप्रासादो देवदत्तस्य स्या॑दित्यत्रातिप्रसङ्गः स्यादित्यत आह — इतिशब्दो लौकिकीं विवक्षामिति । शिष्टव्यवहारमित्यर्थः ।", "51017": "<<परिखाया ढञ्>> - परिखाया ढञ् । 'पूर्वसूत्रविषये' इति शेषः । पारिखेयी भूमिरिति । परिखा अस्या अस्ति, अस्यामस्तीति वा विग्रहः । परिखायोग्येत्यर्थः । छयतोः पूर्णोऽवधिरिति ।प्राग्वतेष्ठ॑ञित्यारभ्यद्वित्रिपूर्वादण्चे॑त्यन्तै सूत्रैः प्रत्ययविशेषेष्वनुक्रान्तेषुतेनक्रीत॑मिति पठितम् । ततश्च प्राक्क्रीतादित्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्क्यं, प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसंभवादिति भावः । *****इति बालमनोरमायाम् छयतोरवधिः*****अथ पाञ्चमिकाः । — — — — — -", "51018": "<<प्राग्वतेष्ठञ्>> - अथ आर्हीयाः । प्राग्वतेः । वतिशब्दस्तद्धटितसूत्रपरः । तदाह — तेन तुल्यमिति ।तेनतुल्य॑मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु प्रत्ययाः, तत्र ठञित्युपतिष्ठत इति यावत् ।", "51019": "<<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> - आर्हादगो । तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हेति, तच्च तद्घटितसूत्रपरम्, आङभिव्याप्तौ, व्याख्यानात् । तदाह — तदर्हतीति । इत्येतदभिव्याप्येति । इदमपि सूत्रं प्रत्ययविशेषाऽश्रवणे उपतिष्ठते । अत्र सङ्ख्यापरिमाणयो पृथग्ग्रहणात्सङ्ख्या न परिमाणम् । तथा च वार्तिकम् — ॒ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः ।॑ इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं=गुञ्जामाषनिष्कसुवर्णपलादि । येन काष्ठादिनिर्मितेन आयतविस्तृतोच्छ्रितेन पात्रविशेषेण पात्रगतायामविस्तारोच्छ्रायैः व्रीह्रादि परिच्छिद्यते तत्परिमाणं=प्रस्थादि । आयामो दैध्र्यं येन परिच्छिद्यते तत्प्रमाणम्रत्निप्रादेशादि । सङ्ख्या तु उक्तत्रितयापेक्षया बाह्रा=भिन्ना एकत्वद्वित्वादीत्यर्थः ।", "51020": "<<असमासे निष्कादिभ्यः>> - असमासे । इति यावदिति ।तेनक्रिती॑मित्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । आर्हीयेष्विति ।तदर्हती॑त्येतत्पर्यन्तमनुक्रान्तेषुतेन क्रीत॑मित्याद्यर्थेष्वित्यर्थः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः । समासे तु ठञ्ेव]इति । परमनिष्कादिशब्दादित्यर्थः ।", "51021": "<<शताच्च ठन्यतावशते>> - शताच्च । आर्हीयेष्वर्थेषु शताट्ठन्यतौ स्तो नतु शतेऽर्थे इत्यर्थः । उत्तरसूत्रप्राप्तकनोऽपवादः । शतक इति । उत्तरसूत्रेण कन्निति भावः । नन्विह सङ्घस्यैव प्रत्ययार्थत्वात् कथम् 'अशते' इति निषेध इत्यत आह — इहेति । प्रत्ययार्थः सङ्घः प्रकृत्यर्थाच्छतात्परिमाणान्न भिद्यते । गुणगुणिनोरभेद एव हि पारमार्थिकः । भेदस्तु काल्पनिक एवेति भावः । यत्र तु शतं प्रत्ययार्थः प्रकृत्यर्थाद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्कशतं प्रकृत्यर्थः । सादकशतं तु प्रत्ययार्थः । एतत्सर्वं भाष्ये स्पष्टम् । असमास इत्येवेति । चकारस्य तदनुकर्षणार्थत्वादिति भावः । द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु द्विशतशब्दस्य लुगन्ततया लुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् ।", "51022": "<<संख्याया अतिशदन्तायाः कन्>> - सह्ख्यायाः । तिश्च शश्च तिशतौ, तौ अन्ते यस्याः सा तिशदन्ता, न तिशदन्ता अतिशदन्ता । द्वन्द्वगर्भबहुव्रीहिगर्भो नञ्तत्पुरुषः । साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः ।तेन क्रीत॑मिति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता क्रीत इत्यर्थः ।तेन क्रीत॑मिति ठञष्ठस्य तकारात्परत्वात्कः ।", "51023": "<<वतोरिड्वा>> - वतोरिड्वा ।वतो॑रित्यनेन प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते ।क॑न्निति प्रथमान्तमनुवृत्तम्,वतो॑रिति पञ्चमीतस्मादित्युत्तरस्ये॑ति परिभाषया षष्ठन्यतं प्रकल्पयति । तदाह — वत्वन्तादिति । तावतिक इति तावता क्रीत इत्यर्थः । 'यत्तदेतेभ्यः' इति वतुप् । 'बहुगणवतु' इति सङ्ख्यासंज्ञायां सङ्ख्याया अतिशदन्तायाः॑ इति कन्, तस्य इट्, टित्त्वादाद्यवयवः ।", "51024": "<<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> - विंशतित्रिशद्भ्यां । नन्वेकसूत्रत्वे विंशतितिंरशद्भ्यां ड्वुनेव स्यात्, कन् तु नस्यात्, 'अतिशदन्ताया' इति निषेधादित्यत आह — योगेति । विंशतित्रिशद्भ्यामित्येकं सूत्रम् ।ड्वुन्नसंज्ञायां॑मित्यपरमित्यर्थः । आद्यं व्याचष्टे — आभ्यां कन्स्यादिति ।शसङ्ख्याया अतिशदन्तायाः॑इत्यतः कनित्यनुवर्तते इति भावः । द्वितीयसूत्रे विंशतितिंरशद्भ्या॑मित्यनुवृत्तिभिप्रेत्याह — असंज्ञायामिति ।आभ्या॑मिति शेषः । विंशक इति । विंशत्या क्रीत इत्यर्थः । ड्वुन् । अकादेशः ।ति विंशतेर्डिती॑ति तिशब्दस्य लोपः । तिंरशक इति । ड्वुन् । अकादेशः ।टे॑रिति टिलोपः । आद्यसूत्रं परिशेषात्संज्ञायामित्यभिप्रेत्याह — संज्ञायां त्विति । कंसात् । इत्यादि स्पष्टम् ।", "51025": "", "51026": "<<शूर्पादञन्यतरस्याम्>> - शूर्पादञ् ।आर्हीयेष्वर्थेष्वि॑ति शेषः । शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पक्षे ठञ् ।", "51027": "<<शतमानविंशतिकसहस्रवसनादण्>> - शतमान । शातमानमिति । अत्र ठञ् प्राप्तः । वैंशतिकमिति । विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् ।विंशतितिंरशद्भ्या॑मिति योगविभागात्कन् । विंशतिकेन क्रीतिमिति विग्रहः । तत्र परिमाणविशेषस्य संज्ञा चेट्ठञ् प्राप्तः, अन्यस्य संज्ञा चेट्ठक् प्राप्तः । साहरुआमिति । सहरुओण क्रीतमिति विग्रहः ।सङ्ख्याया अतिशदन्तायाः॑ इति कन् प्राप्तः । वासनमिति । वसनेन क्रीतिमिति विग्रहः । अत्र ठक् प्राप्तः ।", "51028": "<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> - अध्यर्धपूर्व । अध्यर्थशब्दः पूर्वो यस्य स अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्वन्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् । तदाह — अध्यर्धपूर्वाद्द्विगोश्चेति । आर्हीयस्येति । प्रत्यासात्तिलभ्यम् । अध्यर्थकंसमिति । अध्यारूढमर्द्धं यस्मिन् तत् अध्यर्धम् ।प्रादिभ्यो धातुजस्ये॑ति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः । सार्धमित्यर्थः । अध्यर्धेन कंसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः ।संख्याया अतिशदन्तायाः॑ इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः ।संक्याया अतिशदन्तायाः॑ इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्थकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यं, किञ्चित्संख्याकार्यं कृत्वसुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात् । पाञ्चकलायिकमिति । पञ्च कलायाः परिमाणमस्येति । विग्रहे 'तद्धितार्थ' इति द्विगुः ।तदस्ये॑तिठञ् । सङ्ख्यासंज्ञासूत्रभाष्ये तुअध्यर्धपूर्वा॑दिति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं, तेन क्रीतं द्विशौर्पिकमित#इ पूर्वोक्तोदाहरणे ठञो लुक् स्यादिति वाच्यं, द्विगुनिमित्तस्यार्हीयस्य लुगिति व्याख्यानादित्यलम् ।", "51029": "<<विभाषा कार्षापणसहस्राभ्याम्>> - विभाषा । लुग्वेति ।आर्हीयस्ये॑ति शेषः । औपसंख्यानिकस्येति.॒कार्षापणाट्ठिन् वक्तव्यः॑ इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्संनियोगशिष्टत्वात्प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहरुआमिति ।शतमाने॑ति विहितस्याऽणो लुक् । लुगभावे तुसङ्ख्यायाः संवत्सरसङ्ख्यस्य चे॑त्युत्तरपदवृद्धिः ।", "51030": "<<द्वित्रिपूर्वान्निष्कात्>> - द्वित्रिपूर्वान्निष्कात् । लुग्वा स्यादिति ।आर्हीयस्ये॑ति शेषः । द्विनिष्कमिति । ठञो लुक्, समासाट्ठकोऽसंभवात् ।", "51031": "<<बिस्ताच्च>> - विस्ताच्च ।आर्हीयस्य लुग्वे॑ति शेषः । द्विबिस्तं द्विबैस्तिकमिति । द्वाभ्यां बिस्ताभ्यां क्रीतमिति विग्रहः । ठञः पाक्षिको लुक् । इत्यादीति । बहुविस्तं बहुबैस्तिकमित्युदाहार्यम् ।बहुपूर्वाच्चे॑ति वार्तिकस्य अत्राप्यनुवृत्तेर्भाष्ये उक्तत्वात् ।", "51032": "<<विंशतिकात् खः>> - विशतिकात्खः । अद्यर्धपूर्वाद्द्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्याऽसंभवाद्द्विगोरित्यस्य प्रयोजनाऽभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । अध्यर्थविंशतिकीनमिति । अध्यर्धर्विंशत्या क्रीतमध्यर्थविंशतिकम् ।विशतितिंरशद्भ्या॑मिति योगविभागात्कन् । अध्यर्थविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः ।", "51033": "<<खार्या ईकन्>> - खार्या ईकन् ।अध्यद्र्धपूर्वा॑दिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति — अध्यर्थखारीकं, द्विखारीकमिति ।तदस्य परिमाण॑मिति ठञि तस्य च लुकि प्राप्ते ईकन् ।", "51034": "<<पणपादमाषशतादत्>> - प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात्पादशब्दोऽपि परिमाणविशेषवाची गृह्रते ।", "51035": "<<शाणाद्वा (द्वित्रिपूर्वादण् च)>> - अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन्विशेषमाह — द्वित्रिपूर्वादण् । च वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् चकारेण समुच्चीयत इत्यर्थः । ततश्च यतो ।ञभावे ठञपि लभ्यते । तदाह-तेन त्रैरूप्यमिति । अणा, यता, ठञा चेत्यर्थः । अणि परिमाणान्तस्येत्युत्तरपदवृद्धिमाशङ्क्याह — परिमाणान्तस्येति । ठञादयस्त्रयोदशेति ।प्राग्वते॑रिति ठञ्,आर्हा॑दिति ठक्,शताच्चे॑ति ठन्यतौ, 'संज्ञायाः' इति कन्,विंशतितिंरशद्भ्या॑ति ड्बुन्,कंसा॑दिति टिठन्,शूर्पा॑दित्यञ्,शतमाने॑त्यण्, 'विंशतिकात्खः' इति खः, खार्याः॑ इति ईकन्,पणपादे॑ति यत्,द्वित्री॑ति वार्तिकोक्ताऽण् । इत्येव त्रयोदशेत्यर्थः । प्रकृता इति । प्रक्रान्ता इत्यर्थः । समर्थविभक्तय इति ।समर्थानां प्रथमाद्वे॑ति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः ।", "51036": "", "51037": "<<तेन क्रीतम्>> - तेन क्रीतम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । ठञिति ।उदाह्यियते इति शेषः । गौ पुच्छिकमिति ।अगोपुच्छे॑ति पर्युदासाट्ठगभावे ओत्सर्गिकष्ठञिति भावः । साप्ततिकमिति । सप्तत्या क्रीतमित्यर्थः ।अगोपुच्छसङ्ख्ये॑ति पर्युदासाट्ठगभावे ठञिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमित्यर्थः ।अगोपुच्छसङ्ख्यापरिमाणा॑दिति पर्युदासाट्ठगभावे ठञिति भावः । ठगिति । 'उदाह्यियते' इति शेषः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः ।असमासे निष्कादिभ्यः॑ इति ठगिति भावः ।", "51038": "<<तस्य निमित्तं संयोगोत्पातौ>> - तस्य निमित्तम् । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठन्ताट्ठञादयः स्युरित्यर्थः । शत्यः शतिको वेति । शतस्य निमित्तमित्यर्थः ।शताच्चे॑ति यट्ठनौ ।धनपतिसंयोग इति । याजनशुश्रूषादिसम्पर्क इत्यर्थः । उत्पाते उदाहरति — शत्यं शतिकं वा दक्षिणाक्षिस्पन्दनमिति । शतस्य निमित्तमित्यर्थः । सूचकत्वमेवात्र निमित्तत्वमिति भावः । उपसङ्ख्यानमिति । 'आर्हीयस्य ठक्' इति शेषः । कोपनं-वृद्धिः । संन्निपाताच्चेति ।तस्य निमित्तं संयोगोत्पातौ॑ इत्यर्थे ठ॑गिति शेषः । सान्निपातिकमिति । सन्निपातो — वाततित्तश्लेष्मणां दोषाणां सङ्कर इति वैद्यके प्रसिद्ध । तस्य निमित्तं — सान्निपातिकम्, ज्वरप्रकोपादौ अपथ्यभक्षणादिसंयोगः, संनिपातसूचकं जिह्वाकाष्ण्र्यादि च ।", "51039": "<<गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत्>> - गोद्व्यचः । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे गोशब्दात्,द्व्यश्च षष्ठन्ताद्यत्प्रत्ययः स्यात्, नतु सङ्ख्यायाः परिमाणादआआदेश्चेत्यर्थः । ठकोऽपवादः । द्व्यचेति । 'उदाह्यियते' इति शेषः । धन्य इत्यादि । धनस्य यशसः स्वर्गस्य च निमित्तमित्यर्थः । विजयस्येति ।निमित्त॑मिति शेषः । वैजयिक इति । आर्हीयष्ठक् । पञ्चानामिति ।निमित्त॑मिति शेषः । पञ्चकमिति । 'सङ्ख्यायाः' इति कन् । सप्तकमिति । सप्तानां निमित्तमित्यर्थः । प्रास्थिकमिति । प्रस्थस्य निमित्तमित्यर्थः ।आर्हा॑दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । खारीकमिति । खार्या निमित्तमित्यर्थः । आर्हीयष्ठरक् । आश्मकमिति । अश्मनो निमित्तमित्यर्थः । आर्हीयष्ठक् । 'नस्तद्धिते' इति टिलोपः ।ब्राहृवर्चसादिति । 'गोद्व्यचः' इति सूत्रेब्राहृवर्चसाच्चे॑ति वक्तव्यमित्यर्थः । ब्राहृवर्चस्यमिति । ब्राहृवर्चस्य निमित्तमित्यर्थः ।", "51040": "<<पुत्राच्छ च>> - पुत्राच्छ च । तस्य निमित्तमित्येव । कथं तर्हिआरेभिरे यतात्मानः पुत्रीयामिष्टिमृत्विजः॑ इति । नहीष्टिः संयोग उत्पातो वा । उच्यते — संयुज्यतेऽनेनेति संयोगः इष्टया हि पुत्रेणफलेन युज्यते यष्टा ।", "51041": "<<सर्वभूमिपृथिवीभ्यामणञौ>> - सर्वभूमि । तस्य निमित्तमित्येव । सर्वभूमि, पृथिवी — आभ्यां यथासङ्ख्यमणञौ स्तः । सार्वभौम इति । ठञोऽपवादोऽण् । पार्थिव इति । पृथिव्या निमित्तं संयोग उत्पातो वेत्यर्थः । स्त्रिया पार्थिवी । सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह — अनुशतिकादिषु पठत इति । तथाचअनुशतिकादीनां चे॑त्युभयपदवृद्धिरिति भावः ।", "51042": "<<तस्येश्वरः>> - तस्येआरः ।", "51043": "<<तत्र विदित इति च>> - तत्र विदित इति च । सूत्रद्वयमिदम् । सर्वभूमिपृथिवीभ्यामित्यनुवर्तते ।तस्य निमित्तं संयोगात्पाता॑विति तु निवृत्तम्, पुनस्तस्येत्युक्तेः । तस्येआर इत्यर्थे षष्ठन्तात्, तत्र विदित इत्यर्थे तु सप्तम्यन्तादणञौ स्त इत्यर्थः । योगविभागो यथासङ्ख्यनिवृत्त्यर्थः, उत्तरसूत्रे 'तत्र विदित' इत्यस्यैवानुवृत्त्यर्थश्च ।", "51044": "<<लोकसर्वलोकाट्ठञ्>> - लोकसर्व । तत्र विदित इत्यर्थं इति । योगविभागसामर्थ्यात्तस्येआर इति नानुवर्तत इति भावः । लौकिक इति । लोकेषु विदित इत्यर्थः । सर्वलोकशब्दे विशेषमाह — अनुशतिकादित्वादिति ।", "51045": "<<तस्य वापः>> - तस्य वापः । अस्मिन्नर्थे षष्ठन्ताद्यथाविहितं टञादयः स्युरित्यर्थः । प्रास्थिकमिति । प्रस्थपरिमितबीजवापयोग्यं क्षेत्रमित्यर्थः ।आर्हा॑दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीष्ठञ् । द्रौणिकमिति । निष्कादित्वाट्ठक् । खारीकमिति । खार्या ईकन् । द्रोणस्य खार्याश्च वाप इत्यर्थः ।", "51046": "<<पात्रात् ष्ठन्>> - पात्रात् ष्ठन् । तस्य वाप इत्येव । पात्रिकमिति । पात्रस्य वाप इत्यर्थः । षित्त्वं ङीषर्थमित्याह — पात्रिकीति ।", "51047": "<<तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते>> - तदस्मिन् । वृद्धि, आय, लाभ, शुल्क, उपदा एषां द्वन्द्वात्प्रथमाबहुवचनम् । ननु तर्हि दीयत इति कथमेकवचनमित्यत आह — वृद्धिर्दीयत इत्यादि क्रेमेणेति । एवंच तदस्मिन्वृद्धिर्दीयते, तदस्मिन् आयो दीयते, तदस्मिन् लाभो दीयते, तदस्मिन् शुल्को दीयते, इत्यर्थेषु प्रतमान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । पञ्चक इति । 'सङ्ख्यायाः' इति कन् । शतिकः । शत्य इति । शतमस्मिन्वृद्धिः, आयः, लाभः, शुल्कः, उपदा वा दीयते इति विग्रहः ।शताच्च ठन्यतौ॑ । साहरुआ इति । सहरुआमस्मिन्दीयते इत्यादि विग्रहः ।शतमानसहरुओ॑त्यण् । रक्षानिर्वेश इति । रक्षा=प्रजापरिपालनम्, तदर्थे निर्वेशः=भृतिः रक्षानिर्वेशः । उत्कोचेति ।मह्रं किञ्चिद्दत्तं चेत्तव राजद्वारेऽनुरकूलो भवामी॑त्यादि समयं कृत्वा यद्गृह्रते तदुत्कोच इत्युच्यत इत्यर्थः ।चतुथ्र्यर्थ इति । तदस्मै वृद्ध्यादि दीयते इत्युपसंख्यातव्यमित्यर्थः । सममब्राआहृणे इति । एवंच सम्प्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धेरुपसह्ख्यानमिदं नादर्तव्यमिति भावः ।", "51048": "<<पूरणार्धाट्ठन्>> - पूरणार्धाट्ठन् । तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे पूरणप्रत्ययान्तादर्धशब्दाच्च प्रथमान्ताट्ठन् स्यादित्यर्थः । द्वितीयिक तृतीयिकः इति ।आर्हा॑दिति ठकोऽपवादष्ठन् । अर्धिक इति । अर्धमस्मिन् वृद्ध्यादि दीयते इत्यर्थः ।अर्धाच्चेति वक्तव्य॑मिति टिठनोऽपवादष्ठन् । टिठनि सति तु स्त्रियां ङीप् स्यात् । अर्धिकेति तु टाबेवेष्यते । रूपकस्येति । रूप्यस्य कार्षापणस्येत्यर्थः । रूढ इति । अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामर्थ्यं स्यादिति भावः । रूप्यकस्यार्धे रूढ इत्यत्र प्रमाणं मृग्यम् । असामर्थ्यं तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः ।", "51049": "<<भागाद्यच्च>> - भागाद्यच्च । तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे भागशब्दात्प्रथमान्ताद्यत्प्रत्ययश्च स्यादित्यर्थः । चाट्ठनिति ।पूर्वसूत्रादनुकृष्यते॑ इति शेषः । भागशब्दोऽपि रूपकस्यार्ध इति । 'वर्तते' इति शेषः ।", "51050": "<<तद्धरति वहत्यावहति भाराद्वंशादिभ्यः>> - तद्धरति वहति । वंशाद्भारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्याऽसम्भावद्वैयधिकरण्येनान्वयः । स च व्युक्रमः, व्याख्यानात् । तदाह — वंशादिभ्यः पर इति ।द्वितीयान्ता॑दित्यनन्तरं हरति वहति आवहतीत्यर्थे यथाविहितं प्रत्ययः स्या॑दिति शेषः । हरणं कथञ्चिद्देशान्तरप्रापणं, चौर्यं वा । शकटादिना प्रापणं वहनम् । स्वसमीपं प्रापणमावहनम्, उत्पादनं वा । वांशभारिक इति ।आर्हा॑दिति ठक् । अत्र पञ्चम्यन्तयोव्र्युक्रमेण वैयधिकरण्येन चान्वये प्रमाणाऽभावादाह — भाराद्वंशादिभ्य इत्यस्य व्याख्यान्तरमिति ।भारात्परेभ्यो वंशादिभ्य॑ इत्यर्थभ्रमव्यावृत्तये व्याख्यान्तरं विशदयति — भारभूतेभ्यो वंशादिभ्य इतीति । वंशादिशब्दानां भारभूतत्वं तु भारबूतवंशादिवृत्तेर्बोध्यम् । अस्मिन्व्याख्याने भारादित्येकवचनमार्षम् । यद्वा प्रत्येकान्वयाभिप्रायम् । वस्तुतो भारबूता ये वंशादयस्तद्वाचिभ्य इति यावत् ।", "51051": "<<वस्नद्रव्याभ्यां ठन्कनौ>> - वस्नद्रव्याभ्याम् । तद्धरतिवहत्वायवहतीत्यनुवर्तते इत्यभिप्रेत्याह — वस्नं हरतीत्यादि ।", "51052": "<<सम्भवत्यवहरति पचति>> - संभवत्यवहरति ।त॑दिति द्वितीयान्तमनुवर्तते । द्वितीयान्तात्संभवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः । प्रास्थिक इति ।आर्हा॑दित्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वतीयष्ठञ् । ननुसंभवती॑त्यस्य उपपद्यत इत्यर्थकत्वादकर्मकत्वात्प्रस्थं संभवतीति कथं द्वितीयेत्यत आह — समावेशयतीत्यर्थ इति । उपसर्गवसादिति भावः । प्रास्थिकी ब्राआहृणीति । ठञन्तत्वान्ङीबिति भावः । अवहरतीप्येतीत्यर्थ इति । उपसर्गवशादिति भावः । प्रास्थिकी ब्राआहृणीति । ठञन्तत्वान्ङीबिति भावः । अवहरतीप्येद्व्याचष्टे — उपसंहरतीति । किंचिदूनमपि यया प्रस्थपरिमितं भवति तथा मिमीत इत्यर्थः । तत्पचतीति द्रोणादण् चेति । वार्तिकमिदम् । द्वितीयान्तोद्द्रोणशब्दात्पचतीत्यर्तेऽण्च स्यादित्यर्थः । पचतिग्रहणं सम्भवत्यवहरतिनिवृत्त्यर्थम् । चाट्ठञिति ।आर्हा॑दिति ठग्विधौ परिमाणपर्युदासाट्ठगभावे प्राग्वतेष्ठञेव चकारादनुकृष्यत इति भावः । द्रौणीति । अणन्तत्वान्ङीप् । द्रौणिकीति । ठञन्तत्वान्ङीप् ।", "51053": "<<आढकाचितपात्रात् खोऽन्यतरयाम्>> - आढकाचित । आढक, आचित, पात्र — एभ्यो द्वितीयान्तेभ्य सम्भवत्यवहरतिपचतीत्यर्थेषु खो वा स्यादित्यर्थः । पक्षे ठञिति । 'आर्हाता' इत्यत्रः परिमाणपर्युदासान्न ठगिति भावः ।", "51054": "<<द्विगोष्ठंश्च>> - द्विगोः ष्ठंश्च । ष्ठन्खाविति । चकारेण खस्यानुकर्षादिति भावः । वा स्त इति । अन्यतरस्यामित्यनुवृत्तेरिति भावः । पक्षे ठञिति । 'आर्हात्' इत्यत्र परिमाणपर्युदासान्न ठगिति भावः । षित्त्वान्ङीष् । द्व्याढकिकीति । द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे 'तद्धितार्थ' इति द्विगुः, ष्ठन्, षित्त्वान्ङीष् । द्व्याढकिकीति । द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे 'तद्धितार्थ' इति द्विगुः, ष्ठन्, षित्त्वान्हीषित्यर्थः । अत्र 'न य्वाभ्याम्' इत्यैज्न, वृद्धिनिषेधसन्नियोगशिष्टत्वात्, ञ्णित्किदभावेन वृद्धेरप्रसक्तेः । द्व्याकढीनेति । खे रूपम् । द्विगोरिति ङीप् । द्व्याढकीति । ठञिअध्यर्थे॑ति तस्य लुक् । 'द्विगोः' इति ङीबित्यर्थः । प्रत्ययलक्षणमाश्रित्य ठञन्तलक्षणङीप्तु नेतिअपरिमाणविस्ते॑त्यत्रोक्तम् ।अध्यर्धे॑ति लुक्ठञ एव, नतु ष्ठन्खयोरपि, विधिसामर्थ्यात् । द्व्याचितिकी द्व्याचितीनेति । ष्ठनि खे च रूपम् । अथ द्व्याचितशब्दाट्ठञो लुकि द्विगोः॑ इति ङीपमाशङ्क्याह — अपरिमाणेति ङीब्निषेधादिति । [एवं ष्ठन् ख ठञ्लुग्भिः] द्विपात्रिकीत्यादि ।", "51055": "<<कुलिजाल्लुक्खौ च>> - कुलिजाल्लुक्खौ च । अन्यतरस्यामित्यनुवृत्तिमभिप्रेत्याह — लुक्खौ वा स्त इति । 'आर्हात्' इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वहतीयस्य ठञःअध्यर्धे॑ति नित्यं लुकि प्राप्ते लुको विकल्पविधिः । चात्ष्ठंश्चेति । तथाच ठञो लुक्खश्च ष्ठंश्चेति । तथाच ठञो लुक्खश्च ष्ठंश्चेति त्रितयं विकल्प्यते । तत्र ष्ठनः खस्य ठञो लुकश्चाऽभावे ठञः श्रवणं पर्यवस्यति । तदाह — लुगभावे ठञः श्रवणमिति । द्विकुलजीति । ठञो लुकि रूपम् । 'द्विगोः' इति ङीप् । द्विकुलिजीनेति । खे रूपम् । द्विकुलिजिकीति । ष्ठनि रूपम् । द्वौकुलिजिकीति । ठञो लुगभावे रूपम् ।परिमाणान्तस्ये॑त्यत्रअसंज्ञाशाणकुलिजाना॑मित्युक्तेर्नोत्तरपदवृद्धिः ।", "51056": "<<सोऽस्यांशवस्नभृतयः>> - सोऽस्यांश । स इति प्रत्येकमंशादिष्वन्वेति । सोऽस्यांशः, तदस्य वस्नम्, सास्य भृतिरित्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पञ्चक इति । 'संख्यायाः' इति कन् ।", "51057": "<<तदस्य परिमाणम्>> - तदस्य परिमाणम् । अस्मिन्नर्थे प्रतमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रास्थिक इति । 'आर्हात्' इत्यत्र परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । अत्र संख्याऽपि परिमाणम् । यद्यपिअगोपुच्छसंख्यापरिमाणा॑दिति पृथग्ग्रहणात् संख्या न परिमाणम्,तथाप्यत्र परिच्छेदकत्वात् संख्यापि परिमाणम्, उत्तरसूत्रे संख्यायाः परिमाणेन विशेषणाल्लिङ्गात् । तेन षष्टिः परिमाणमस्य षाष्टिकमिति सिद्धम् । द्विषष्टआदिभ्यस्त्वनभिधानान्नेति भाष्ये स्पष्टम् ।", "51058": "<<संख्यायाः संज्ञासंघसूत्राध्ययनेषु>> - सङ्ख्यायाः । अनुवर्तत इति । तथाचतदस्य परिमाण॑मित्यर्थे प्रथमान्तात्संख्यात्मकपरिमाणवाचिनो यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायां स्वार्थे प्रत्ययो वाच्य इति । 'पञ्चकाः शकुनय' इत्यत्र पञ्च परिमाणमेषामित्यर्थो न संभवति, आ दशतः संख्याः संख्येये इति पञ्चन्शब्दस्य संख्येयवृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः । अतः संज्ञायां स्वार्थ #एव संख्यायाः प्रत्यय इति पर्यवस्यतीति भावः । यद्वेति । द्विशब्दस्य एकशब्दस्य च संख्येयवृत्तित्वेऽपि 'द्व्येकयोः' इति समासवृत्तावेकत्वद्वित्वपरत्वमभ्युपगम्यते । अन्यथा 'द्व्येकयोः' इति द्विवचनानुपपत्तेः । तद्वत्पञ्चकाः शकुनय इति तद्धितवृत्तावपि पञ्चन्शब्दस्य पञ्चत्वसंख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चन्शब्दात् पञ्चत्वरूपपरिमाणवति प्रत्यय उपपद्यत इत्यर्थः । तत्र संज्ञायां स्वार्ते उदाहरति — पञ्चैवेति । परिमाणिनि प्रत्ययमुदाहरति — पञ्च परिमाणमिति । पञ्चत्वमित्यर्थः । सङ्घे इति । उदाहरणं वक्ष्यत इत्यर्थः । पञ्चक इति । पञ्चत्वस्य सङ्घस्य परिमाणमित्यर्थः । सङ्घस्य पञ्चत्वं तु अवयवाद्वारा बोध्यम् । सूत्र इति । उदाह्यियत इति शेषः । अष्टकं पाणिनीयमिति ।सूत्र॑मिति शेषः । अष्टावध्यायाः परिमाणमस्येति विग्रहः । अत्राष्टत्वमध्यायद्वार#आ सूत्रेऽन्वेति । सूत्रशब्दश्च सूत्रसंघपरः, एकस्मिन्सूत्रे अष्टकत्वस्याऽसंभवात् । नन्वेवं सति सङ्घग्रहणेनैव सिद्धे सूत्रग्रहणं व्यर्थमित्यत आह — सङ्घशब्दस्येति । पञ्चकमध्ययनमिति । पञ्चावृत्तयः परिमाणमस्येति विग्रहः । स्तोमे डविधिरिति ।तदस्य परिमाण॑मित्यर्थे सङ्ख्यावाचिन उपसंख्यातव्य॑ इति शेषः । सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः । मनुष्यादिसमूहे तु स्तोमशब्दो लाक्षणिक इति तदाशयः । तदाह — पञ्चदश मन्त्रा इति । पञ्चदशः स्तोम इति । पञ्चदशन्शब्दाड्डप्रत्ययेटे॑रिति टिलोपः । सामाधारबूतपञ्चदशमन्त्रसमूह इत्यर्थः । ननु ङित्त्वाऽभावेऽपि 'नस्तद्धिते' इत्येव टिलोपसिद्धेर्ङित्त्वं व्यर्थमित्यत आह — एकविंश इति । एकविंशतिर्मन्त्राः परिमाणमस्य समूहस्येति विग्रहः । डप्रत्यये इति ।ति विंशतेर्डिती॑ति टिलोपः । मीमासकास्तु पृष्ठरथन्तरादिशब्दवाच्या प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तोमः, स एव डप्रत्ययार्थः । प्रगीतपञ्चदशमन्त्रपरिमाणकः स्तोम इत्यर्थः । पञ्चदशत्वसंख्यात्मकपरिमाणं स्तुतौ मन्त्रद्वारा बोध्यम् । एवंच 'पञ्चदशेन स्तुवते' इत्यादौ धात्वर्थभूतस्तुतिसामानाधिकरण्यं पञ्चदसादिशब्दानामुपपद्यत इत्याहुः । तन्मतमवलम्ब्याह — सोमयागेष्वित्यादि ।", "51059": "<<पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टि- सप्तत्यशीतिनवतिशतम्>> - पङ्क्तिविंशति । रूढिशब्दा निपात्यन्त शति ।तदस्य परिमाणमित्यर्थे॑ इति शेषः । पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात्तिप्रत्ययः , प्रकृतेष्टिलोपः, चकारस्य कुत्वम्, अनुस्वारपरसवर्णौ । पङ्क्तिरिति रूपम् ।पञ्चाक्षरा पञ्चपदा पङ्क्ति॑रिति छन्दःशास्त्रे । दशानां वर्गः दशत् ।पञ्चद्दशतौ वर्गे वा॑ इति वक्ष्यते । द्वौ दशतौ परिमाणमस्य सङ्घस्येति विंशतिः । शतिच्प्रत्ययः, प्रकृतेर्विन्भावः, अनुस्वारश्च । अत्र सङ्घग्रहणमनुवर्तते । तथा च गवां विंशतिरिति भवति । सङ्घसङ्घिनोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति । स्वभावादेकवचनं स्त्रीत्वं च । एवं तिंरशदादावपि ।विंशत्याद्याः सदैकत्वे संख्याः संख्येयसङ्ख्ययो॑रिति,तासु चानवतेः स्त्रियः॑ इति चाऽमरः । त्रयो दशतः परिमाणमस्य सङ्घस्य त्रिशत्, शत्प्रत्ययः, प्रकृतेः त्रिन्भावश्च । चत्वारो दशतः परिमाणमस्य सङ्घस्य चत्वारिंशत् । शत्प्रत्ययः, प्रकृतेः चत्वारिन्भावश्च । पञ्च दशतः परिमाणमस्य सङ्घस्य पञ्चाशत् । शत्प्रत्ययः, प्रकृतेः पञ्चादेशः । षड् दशतः परिमाणमस्य सह्घस्य षष्ठिः । तिप्रत्ययः, प्रकृतेः षष्, जश्त्वाऽभावश्च । सप्त दशतः परिमाणमस्य सङ्घस्य सप्ततिः । तिप्रत्ययः, प्रकृतेः सप्तादेशः । अष्टौ दशतः परिमाणमस्य सङ्घस्य अशीतिः । तिप्रत्ययः, प्रकृतेरशीत्यादेशः । नव दशतः परिमाणमस्य सङ्घस्य नवतिः । तिप्रत्ययः, प्रकृतेर्नवादेशः । दश दशतः परिमाणमस्य सङ्घस्य शतम् । तप्रत्ययः, प्रकृतेः शादेशश्च । एतत्सर्वं भाष्ये स्पष्टम् ।एतान्यव्युत्पन्नप्रातिपदिकानी॑ति तु भाष्यनिष्कर्षः ।", "51060": "<<पञ्चद्दशतौ वर्गे वा>> - पञ्चद्दशतौ । पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे एतौ निपात्येते इत्यर्थः । पञ्चद्वर्ग इति । पञ्च परिमाणमस्येत्यर्थे पञ्चन्शब्दाड्डतिप्रत्ययः । तत्र इकार उच्चारणार्थः ।टे॑रिति टिलोपः । दशदिति । दश परिमाणमस्य वर्गस्येति विग्रहः । डतिः । डित्त्वाट्टिलोपः । एतदर्थमेव डित्त्वम् । पक्षे इति । डत्यभावपक्षे 'संख्यायाः' इति कन्नित्यर्थः ।", "51061": "", "51062": "<<त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्>> - तिंरशच्चत्वारिंशतोः । तदस्य परिमाणमित्यर्थे परिमाणिनि ब्राआहृणे वाच्ये त्रिशच्चत्वारिंशद्भ्यां डण्स्यादित्यर्थः । ब्राआहृणं=वेदेषु मन्त्रव्यतिरिक्तो भागः । त्रैंशानीति । डित्त्वात् 'टेः' इति टिलोपः ।", "51063": "<<तद् अर्हति>> - तदर्हति । अर्हतीत्यस्य योग्यो भवतीत्यर्थे अकर्मकत्वात्तदिति द्वितीया न स्यात् । इष्यते तु द्वितीयान्तादेव प्रत्ययः । तत्राह — लब्धुमिति । औतच्छत्रिक इति । आर्हीयष्ठक् ।", "51064": "<<छेदादिभ्यो नित्यम्>> - छेदादिभ्यो आभीक्ष्ण्यमिति । पौनःपुन्यमित्यर्थः । तन्नित्यमर्हतीत्यर्थे द्वितीयान्तेभ्यश्छेदादिभ्यो यथाविहितं प्रत्ययः स्यादित्यर्थः । छैदिको वेतस इति ।आर्हा॑दिति ठक् । 'तदर्हति' इत्येव सिद्धे आभीक्ष्ण एवेति नियमार्थमिदं सूत्रम् । वस्तुतस्तु नित्यमिति नाभीक्ष्ण्यार्थकं प्रत्ययार्थकोटि प्रविष्टं, किंतु अपाक्षिकार्थकम्समर्थानां प्रथमाद्वा॑ इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमित्यभिप्रेत्य विग्रहवाक्यस्यापि लोके दर्शनान्नित्यग्रहणं न कर्तव्यमित्युक्तं भाष्ये । एवंच छेदादिभ्यः पाक्षिकप्रत्ययस्यतदर्हती॑त्येव सिद्धत्वात्सूत्रमेवेदं नारब्धव्यमिति । फलति । विराग विरङ्गं चेति । गणसूत्रमिदम् । उक्तेऽर्थे विरागशब्दो विरङ्गादेशं लभत इत्यर्थः चादार्हीयष्ठक् ।", "51065": "<<शीर्षच्छेदाद्यच्च>> - शीर्षच्छेदाद्यच्च । चादार्हीयदृक् । ननुशीर्षंश्छन्दसी॑ति छन्दस्येव शिरसः शीर्षादेव विधानात्कथमिह शीर्षादेश इत्यत आह — यट्ठकोरिति ।", "51066": "<<दण्डादिभ्यः>> - दडादिभ्यः । यदित्यनुवर्तते । तदाह — यत्स्यादिति । 'दण्डादिभ्यो यः' इति त्वपपाठः,अचोय॑दिति सूत्रभाष्ये तथैव दर्शनात् । अध्र्य इति । मूल्यं, पूजाविधि वार्हतीत्यर्थः ।मूल्ये पूजाविधावर्धः॑ इत्यमरः । वध्य इति । वधमर्हतीत्यर्थः ।", "51067": "", "51068": "<<पात्राद्घंश्च>> - पात्राद्धंश्च । पात्रियः प्रात्र्य इति । पात्रमर्हतीत्यर्थः ।", "51069": "<<कडङ्गरदक्षिणाच्छ च>> - कडङ्करदक्षिणाच्छ च । 'कडमदे' कडनं कडः=मजः ।घञर्थे कविधान॑मिति कः । खजिति । तथा चखित्यनव्ययस्ये॑ति मुमिति भावः । कडङ्करं च दक्षिणा चेति समाहारद्वन्द्वात्पञ्चमी ।", "51070": "<<स्थालीबिलात्>> - स्थालीबिलात् । छयतावनुवर्तेते, तदर्हतीति च ।", "51071": "<<यज्ञर्त्विग्भ्यां घखञौ>> - यज्ञत्वग्भ्यां घखञौ । तदर्हतीत्येव । यज्ञमृत्विज्ञं वेति । यज्ञमर्हतीति यज्ञिकः । ऋत्विजमर्हतीत्यात्वजीन इत्यन्वयः । तत्कर्मेति । यज्ञर्मार्हतीत्यर्थे यज्ञशब्दादृत्विक्कर्मार्हतीत्यर्थे ऋत्विक्छब्दाच्च यथासह्ख्यं घखञोरुपसह्ख्यानमित्यर्थः । यद्यपि यज्ञत्वक्छब्दयोस्तत्कर्मणि लक्षणया सिध्यति तथाप्यत्र प्रकरणे मुख्यार्थेभ्य एव प्रत्यय इति ज्ञापनार्थमिदम् । ठगादीनां द्वादशानामिति ।प्राग्वते॑रित्यारभ्यतेन क्रीत॑मित्यतः प्राक्र त्रयोदश प्रत्यया अनुक्रान्ताः । तत्रप्राग्वते॑रिति ठ#ं विनाआर्हा॑दित्यादिविहितानां ठगादीनां द्वादशानां विधिः पूर्ण इत्यर्थः ।***** इति बालमनोरमायामार्हीयाणां द्वादशानां पूर्णोऽवधिः । *****अथ तिङन्ते आत्मनेपदप्रक्रिया ।", "51072": "<<पारायणतुरायणचान्द्रायणं वर्तयति>> - अथ तद्धिते प्राग्वतीये ठञधिकारे कालाधिकारो निरूप्यते — अतः परं ठञेवेति । आर्हीयेष्वर्थेषु प्राग्वतीयठञपवादा आर्हीयाष्ठगादयः । आर्हीयार्थेषु निरूपितेषु तत ऊध्र्वं ठगादिप्रत्ययानामनुवृत्तेरसम्भवात्प्राग्वतीयष्ठञेवानुवर्तत इत्यर्थः । पारायण ।द्वितीयान्तेभ्यः पारायणादिशब्देभ्यो वर्तयतीत्यर्थे ठञ्स्यादित्यर्थः । पारायणं वर्तयतीति । पारायणं — वेदाध्ययनम् । तद्वर्तयति=आवर्तयतीत्यर्थः । पारायणिकः छात्र इति । गुरौ त्वध्येतरि नायं प्रत्ययः, अनभिधानादिति भावः । तौरायणिको यजमान इति । ऋत्विजिनायं प्रत्ययः, अनभिधानादिति भावः । चान्द्रायणिक इति । चान्द्रायणं कृच्छ्रविशेषः ।", "51073": "<<संशयमापन्नः>> - संशयमापन्नः । अस्मिन्नर्थे संशयशब्दाद्द्वितीयान्ताट्ठक्स्यादित्यर्थः । अत्र 'आपन्न' इति कर्तरि क्तः । विषयतया प्राप्त इत्यर्थः, उपसर्गवशात् । संशयविषयीभूतोऽर्थ इति । तेन समवायेन संशयाधारे संदेग्धरिनायं प्रत्यय इति भावः । अमरस्तुसांशयिकः संशयापन्नमानसः॑ इत्याह ।", "51074": "<<योजनं गच्छति>> - योजनं गच्छति । द्वितायान्ताद्योजनशब्दाद्गच्छतीत्यर्थे ठञ्स्यादित्यर्थः । क्रोशशतेति । आभ्यामपि द्वितीयान्ताभ्यां गच्छतीत्यर्थे ठञ उपसङ्ख्यानमित्यर्थः । क्रोशशतादिति । ल्यब्लोपे पञ्चमी । क्रोशशतमतीत्येत्यर्थः ।", "51075": "<<पथः ष्कन्>> - पथः ष्कन् । पथः ष्कन्नितिच्छेदः । द्वितीयान्तात्पथिन्शब्दाद्गच्छतीत्यर्थे ष्कन् स्यादित्यर्थः ।", "51076": "<<पन्थो ण नित्यम्>> - पन्थो ण नित्यम् । पथ इत्यनुवर्तते, गच्छतीति च । नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्यमेव, नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम् । द्वितीयान्तात्पथिन्शब्दान्नित्यं गच्छतीत्यर्थे णप्रत्ययः स्यात्, प्रकृतेः पन्थादेशश्चेत्यर्थः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् ।", "51077": "<<उत्तरपथेनाहृतं च>> - उत्तरपथेनाह्मतं च । उत्तरपथशब्दात्तृतीयान्तादाहृतमित्यर्थे, गच्छतीत्यर्थे च ठञ्स्यादित्यर्थः । वारिजङ्गलेति । वारि, जङ्गल, स्थल, कान्तार — एतत्पूर्वात्पथिन्शब्दात्तृतीयान्तादाहृतमिति, गच्छतीति चार्थे ठञित्यर्थः । वारिपथेन गच्छति, आह्मतं वेत्यर्थः । जाङ्गलपाथिकः, स्थालपथिकः, कान्तारपथिकः ।", "51078": "<<कालात्>> - कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः ।", "51079": "<<तेन निर्वृत्तम्>> - तेन निर्वृत्तम् । तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ्स्यादित्यर्थः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमान्न टिलोपः ।", "51080": "<<तमधीष्टो भृतो भूतो भावी>> - तमधीष्टो द्वितीयान्तादधीष्टादिष्वर्थेषु ठञ्स्यादित्यर्थः । व्यापारित इति । प्रेरित इत्यर्थः । तादृश एवेति । स्वसत्तया व्याप्यमानकाल इत्यर्थः । मासमधीष्य इत्यादौकालाध्वनो॑रिति द्वितीया ।", "51081": "<<मासाद्वयसि यत्खञौ>> - मासाद्वयसि । अत्र भूत इत्येवानुवर्तते, व्याख्यानात् । मासशब्दाद्द्वितीयान्ताद्भूत इत्यर्थे यत्खञौ स्तो वयसि गम्ये इत्यर्थः ।", "51082": "<<द्विगोर्यप्>> - द्विगोर्यप् । अनुवर्तत इति । मासान्ताद्द्विगोर्भूत इत्यर्थे यप्स्याद्वयसि गम्ये इत्यर्थः ।", "51083": "<<षण्मासाण्ण्यच्च>> - अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यद्यवावेव स्यातां, नतु ठञपि । इष्यते तु ठञपि । तत्राह — यवप्यनुवर्तत इति । स्वरितत्वादिति भावः । तर्हि चकारः किमर्थ इत्यत आह — चाट्ठञिति । तथा च ण्यत् यप्-ठिञिति त्रयः प्रत्ययाः फलिताः ।", "51084": "<<अवयसि ठंश्च>> - अवयसि टंश्च । षण्मासशब्दाद्द्वितीयान्ताद्भूते अवयसि ठन् च स्यादित्यर्थः ।", "51085": "<<समायाः खः>> - समायाः खः । मण्डूकप्लुत्यातमधीष्टो भृतो भूतो भावी॑ति कृत्स्नमेव सूत्रमनुवर्तते । समाशब्दाद्द्वितीयान्तादधीष्टादिष्वर्थेषु खः स्यादित्यर्थः ।", "51086": "<<द्विगोर्वा>> - द्विगोर्वा । समायाः ख इत्येवेति । तथाच समान्ताद्विगोर्द्द्वितीयान्तात्खो वा स्यात्, पक्षे ठञिति फलितम् ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रम् ।हायनोऽस्त्री शरत्समाः॑ इत्यमरः । 'समां समां विजायते' इति सूत्रादेकवचनमप्यस्ति । पञ्चस्विति । 'ते निर्वृत्तं'तमधीष्ठो भृतदो भावी॑ति पञ्चस्वित्यर्थः । एषां यथायोगमन्वयः । द्वैसमिक इति । खाऽभावे प्राग्वतीयष्ठञ् ।", "51087": "<<रात्र्यहस्संवत्सराच्च>> - रात्र्यहः । द्विगोरित्येवेति । रात्रि, अहन् संवत्सर — एतदन्ताद्द्विगोर्निर्वृत्तादिष्वर्थेषु खो वा स्यादित्यर्थः । पक्षेठञ् । द्विरीत्रीण इति । द्वाभ्यां रात्रिभ्यां निर्वृत्तः, द्वे अहनी अधीष्ट इत्यादिष्वर्थेषु 'तद्धितार्थ' इति द्विगोः खः,अह्नष्टखो॑रिति टिलोपः । समाहारद्विगोस्तु न खः, टचि कृते अहन्शब्दाऽभावात् । द्वैयह्निक इति ।अह्वष्टखोरेव॑ति नियमान्न टिलोपः, किन्त्वल्लोपः, अह्नादेशो वा ।न य्वाभ्या॑मित्यैच् । ननु 'द्व्यहीन' इत्यत्र तद्धितार्थ॑ इति द्विगुसमासे कृतेरात्र्यहःसंवत्सराच्चे॑ति र्ख बाधित्वा परत्वात् 'राजाहःसखिभ्यः' इति टचि 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशे तस्य स्थानिवत्त्वेनाऽहन्शब्दत्वेऽपि टजन्तस्य तदभावात् 'रात्र्यहःसखिभ्यः' इति टचि 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशे तस्य स्थानिवत्त्वेनाऽहन्शब्दत्वेऽपि टजन्तस्य तदभावात्रात्र्यहःसंवत्सराच्चे॑ति खप्रत्ययो न स्यात् । कृतेऽपि खप्रत्यये 'द्व्यह्नीन' इतिस्यादित्यत आह — समासान्तविधेरनित्यत्वान्न टजिति । एवं च टजभावे सति नाह्नादेशः, समासान्ते पर एव तद्विधानादिति भावः ।समासान्तविधिरनित्यः॑ इति षष्ठाध्यायस्य द्वितीये पादेद्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ॑ इति सूत्रभाष्ये स्पष्टम् । अथ संवत्सरान्तस्य खे उदाहरति — द्विसंवत्सरीण इति ।", "51088": "<<वर्षाल्लुक् च>> - वर्षाल्लुक् च । वा च लुगिति ।खठञो॑रिति शेषः । द्विवर्षीम इति । खे रूपम् । द्विवर्ष इति । खठञोर्लुकि रूपम् ।", "51089": "<<चित्तवति नित्यम्>> - चित्तवति नित्यं । प्रत्ययस्येति । खस्य ठञश्चेत्यर्थः । दारकः । बालकः ।", "51090": "<<षष्टिकाः षष्टिरात्रेण पच्यन्ते>> - षष्टिकाः । तृतीयान्तादिति ।षष्टिरात्रशब्दा॑दिति शेषः ।", "51091": "", "51092": "", "51093": "<<तेन परिजय्यलभ्यकार्यसुकरम्>> - तेन परिजय्य । निर्वृत्तायदयः पञ्चार्था निवृत्ताः । तेन परिजय्यं, तेन लभ्यं तेन कार्यं, तेन सुकरमित्यर्थेषु । तृतीयान्ताट्ठञित्यर्थः । परिजय्य इत्यस्य विवरणं — जेतुं शक्य इति ।", "51094": "<<तदस्य ब्रह्मचर्यम्>> - तदस्य ब्राहृचर्यं । ननु द्वितीयान्तादिति, कथं सूत्रे ब्राहृचर्यविशेषणस्य तच्छब्दस्य प्रतमान्तत्वादित्यत आह — अत्यन्तेति । तता च कालविशेषाभिव्याप्तं ब्राहृचर्यमस्येत्यर्थे कालात्प्रत्ययः । इदमर्थं प्रति ब्राहृचर्यं विशेषणम् । मासिको ब्राह्वचारीति । मासाभिव्याप्तब्राहृचर्यवानित्यर्थः । आर्धमासिक इति ।अर्धात्परिमाणस्ये॑त्युभयपदवृद्धिः । अत्र इदंशब्दार्थस्य ब्राहृचर्यमिति षष्ठर्थे प्रथमा । तथाच प्रथमान्तात्कालवाचिनोऽस्य ब्राहृचर्यस्येत्यर्थे ठञित्यर्थः फलति । तदाह — प्रथमान्तादिति । 'कालवाचिन' इति शेषः । अस्येत्यर्थ इति । अस्य ब्राहृचर्यस्येत्यर्थे इत्यर्थः । मासोऽस्येत्यनन्तरंब्राहृचर्यस्ये॑ति शेषः । अस्मिन्पक्षे ब्राहृचर्यमेव प्रत्ययार्थत्वात्प्रधानम् । इदमर्थस्तु तद्विशेषणिति बोध्यम् । उपसंख्यानमिति ।अस्य ब्राहृचर्यमित्यर्थे ठञ॑ इति शेषः । माहानाम्निक इति । महानाम्नीशब्दस्य ऋग्विशेषेषु रूढस्य नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाऽभावात् 'भस्याऽढे' इति पुंवत्त्वं नेति भावः । हरदत्तस्त्विति ।माहनाम्निक॑मित्येव भाष्ये उदाहृतत्वादिमुपेक्ष्यमिति भावः । चतुर्मासाण्ण्यो यज्ञे तत्रेति । वार्तिकमिदम् । तत्र भवो यज्ञ इत्यर्थे चतुर्मासशब्दात्सप्तम्यन्ताण्ण्यो वाच्य इत्यर्थः । चतुर्ष्विति । चतुर्षु मासेषु अतीतेष्वित्यर्थः । अण् संज्ञायामिति । वार्तिकमिदम् । चतुर्मासब्दाद्भवार्थे अण् वाच्यः संज्ञायामित्यर्थः । चतुर्ष्विति । फाल्गुनीं पौर्णमासीमारभ्य चतुर्षु मासेष्वतीतेष्वित्यर्थः । आषाढीति । आषाढ्याः पौर्णमास्याश्चातुर्मासीति संज्ञेति भाव । नच 'तत्र भवः' इत्यणैव सिद्धमिति वाच्यं, 'द्विगोर्लुगनपत्ये' इति लुङ्निवृत्त्यर्थत्वात् ।", "51095": "<<तस्य च दक्षिणा यज्ञाख्येभ्यः>> - तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यष्ठञ्स्यादित्यर्थः । द्वादसाहस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुद्र्वादशाहः । तस्येत्यर्थः । कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः ।काला॑दित्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमितितदस्य परिमाण॑मिति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ्न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाऽभावादित्यत आह — आक्याग्रहणादकालादपीति । अन्यथा 'यज्ञेभ्य' इत्येव सिद्धे आख्याग्रहणवैयथ्र्यादिति भावः । वस्तुतस्तु 'यज्ञेभ्य' इत्येवाक्तौ कालादित्यधिकाराद्द्वादशाहादिशब्देभ्य एव स्यान्नतु अग्निष्टोमादिशब्देभ्यः । आख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम् ।", "51096": "<<तत्र च दीयते कार्यं भववत्>> - तत्र च दीयते । 'तत्र दीयते'तत्र कार्य॑मित्यर्थयोः सप्तम्यन्तात्कालवाचिनो भववत्प्रत्ययाः स्युरित्यर्थः । प्रावृषेण्यमिति । 'प्रावृष एण्यः' इति भवार्थे विहित इहापि भवति । शारदमिति । शरदि दीयते कार्यं वेत्यर्थः । सन्धिवेलाद्यण्भवे विहित इहापि भवति । वस्तुतस्तु तत्र कार्यं दीयते इत्यर्थे यज्ञाख्येभ्यो भववत्प्रत्ययाः स्युरित्यर्थः । अग्निष्टोमे दीयते भक्तमाग्निष्योमिकम् । कार्यग्रहणादिग्निष्टोमे दीयते हिरण्यमित्यत्र न भवति । न ह्रग्निष्टोमे हिरण्यं क्रियत इति भाष्ये स्पष्टम् । इति प्राग्वतीये ठञधिकारे कालाधिकारः ।", "51097": "<<व्युष्टादिभ्योऽण्>> - अथ ठञ्विधिर्निरूप्यते — व्युष्टादिभ्योऽण् ।तत्र च दीयते कार्य॑मित्यनुवर्तते । दीयते कार्यं वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्योऽण्स्याट्ठञोऽपवादः । व्युष्टं — प्रभातम् । वैयुष्टमिति । अणिन य्वाभ्या॑मित्यैच् ।", "51098": "<<तेन यथाकथाचहस्ताभ्यां णयतौ>> - तेन यथा । अर्थाभ्यामिति । प्रकृत्योः प्रत्ययोश्च यथासङ्ख्यम्, नतु दीयते कार्यमित्यनयोरित्यर्थः, वल्याख्यानादिति भावः ।", "51099": "<<सम्पादिनि>> - सम्पादिनि । तेनेत्येवेति । संपाद=संपत्तिः, शोभा, अस्यास्तीति-संपादी । तस्मिन्नर्थे तृतीयान्ताट्ठगित्यर्थः ।", "51100": "<<कर्मवेषाद्यत्>> - कर्मवेषाद्यत् । तृतीयान्तात्कर्मन्शब्दात्, वेषशब्दाच्च संपादिन्यर्थे यत्स्यादित्यर्थः ।", "51101": "<<तस्मै प्रभवति संतापादिभ्यः>> - तस्मै प्रभवति । चतुथ्र्यन्तेभ्यः संपातादिभ्यः प्रभवतीत्यर्थे ठञ् स्यादित्यर्थः । संतापाय प्रभवतीति । शत्रूणां पीडायै शक्नोतीत्यर्थः ।", "51102": "<<योगाद्यच्च>> - योगाद्यच्च ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः ।", "51103": "<<कर्मण उकञ्>> - कर्मण उकञ् ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः । कार्मुकमिति । उकञि टिलोपः ।", "51104": "<<समयस्तदस्य प्राप्तम्>> - समयस्तदस्य । तदिति, प्राप्तमिति च सामान्ये नपुंसकम् । समयः प्राप्तोऽस्येत्यर्थे प्रथमान्तात्समयशब्दाट्ठञित्यर्थः ।त॑दित्युत्तरार्थम् ।", "51105": "<<ऋतोरण्>> - ऋतोरण् । प्राप्तमित्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्तादृतोरणित्यर्थः । आर्तवमिति । अणि ओर्गुणः, आदिवृद्धिः । रपरत्वम् ।", "51106": "", "51107": "<<कालाद्यत्>> - कालाद्यत् । तदस्य प्राप्तमित्येव । प्रतमान्तात्कालशब्दादस्य प्राप्त इत्यर्थे यदित्यर्थः । प्रातःकाले काल्यशब्दस्तु कल्यवदव्युत्पन्नं प्रातिपदिकम् । कल्यमेव काल्यं वा ।", "51108": "<<प्रकृष्टे ठञ्>> - प्रकृष्टे ठञ् । अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालशब्दाट्ठञित्यर्थः । यतोऽपवादः । प्रकृष्टशब्दस्य विवरणं-दीर्घ इति ।", "51109": "<<प्रयोजनम्>> - प्रयोजनम् । तदस्येत्येवेति । अस्य प्रयोजनमित्यर्थे प्रथमान्ताट्ठञित्यर्थः । इन्द्रमह इति । इन्द्रोत्सव इत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः । प्रयोजनं फलं कारणं चेति । प्रयुज्यते प्रवृत्त्या निष्पाद्यते इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची । प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः ।", "51110": "<<विशाखाऽऽषाढादण् मन्थदण्डयोः>> - विशाखाषाढात् । विशाखाशब्दादाषाढशब्दाच्च प्रथमान्तादस्य प्रयोजनमित्यर्थे अण् स्यात्, समुदायेन मन्थे दण्डे च क्रमाद्गम्ये सतीत्यर्थः । तदाह — आब्यामिति । स्थूणामेका निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्य तयो रज्ज्वोर्मन्थनदण्ड ऊध्र्वमासज्यते । येन रज्ज्वा भ्रामितेन दधि विलोडते इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते । मन्थानाख्यदण्डो दण्ड उच्यते । अनयोर्वैशाखशब्द आषाढशब्दश्च रूढौ । तत्रावयवार्थाभिनिवेशो न कर्तव्यः । चूडादिभ्य इति । चूडादिभ्यः प्रतमान्तेभ्योऽस्य प्रयोजनमित्यर्थे अणित्यर्थः । चौडमिति । चूडाप्रयोजनमस्येति विग्रहः । डलयोरभेदाच्चौलमित्यपि । श्राद्धमिति । श्रतद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्धमित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची । श्रद्धाहेतुकमिति यावत् ।", "51111": "<<अनुप्रवचनादिभ्यश्छः>> - अनुप्रवचनादिभ्यश्चः । प्रथमान्तादनुप्रवचनादिशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । अनुप्रवचनं नाम उपनयनाङ्गं किञ्चित्कर्म आआलायनसूत्रे प्रसिद्धम् ।", "51112": "<<समापनात् सपूर्वपदात्>> - समापनात्सपूर्वपदात् । सपूर्वपदात्समापनशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । व्याकरणसमापनीय इति । 'मङ्गलाचार' इति शेषः ।", "51113": "<<ऐकागारिकट् चौरे>> - ऐकागारिकट् चौरे । एकमगारं प्रयोजनं=प्रयोजकस्य चोरस्येति विग्रहे एकागारशब्दादिकट्प्रत्यये ऐकागारिकडिति निपात्यते । टित्त्वं ङीबर्थम् । प्रयोजनमित्येय सिद्धे चोर एवेति नियमार्थ सूत्रम् । एकमित्यस्य विवरणम् — असहायमिति ।एके मुख्यान्यकेवलाः॑ इत्यमरः । मुमुषिषोरिति । चौर्यं कर्तुमिच्छोरित्यर्थः । चोरस्य हि असहायमगारमिष्टं, गोहान्तरसत्त्वे चौर्यप्रकरटनप्रसङ्गादिति भावः । चोरे किम् । एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव । भाष्ये तु 'एकागाराच्चोरे' इत्येव सुवचं, प्रकृतत्वाट्ठञ् सिद्ध इत्युक्तम् ।", "51114": "<<आकालिकडाद्यन्तवचने>> - आकालिकट् । समानकालाविति बहुव्रीहिः । आद्यन्ताविति । उत्तपत्तिवनाशादित्यर्थः । समानकालस्येति । समानकालशब्दस्य इकप्रत्यये परे आकालादेशो निपात्यत इत्यर्थः ननूत्पत्तिविनाशयोकेककालिकत्वमसंभवपराहतमित्यत आह — आशु विनाशीति । लक्षणां विनैवाह — पूर्वदिने इति । आकालाट्ठंश्चेति । आकालशब्दादाद्यन्तवचनाट्ठन्प्रत्ययश्च वक्तव्य इत्यर्थः । चाट्ठञ् । आकालिका विद्युदिति । ठनि टाप् । ठञि तु ङीप् । आकालिकी । अर्थः प्राग्वत् । ***** इति बालमनोरमायाम् प्राग्वतीयस्य ठञः पूर्णोऽवधिः । *****तिङन्ते तुदादयः ।अथ शविकरणा धातवो निरूप्यन्ते । इतः षडिति । 'ऋषी गतौ' इत्यतः प्रागित्यर्थः ।", "51115": "<<तेन तुल्यं क्रिया चेद्वतिः>> - अथ बावकर्मार्था निरूप्यन्ते । तेन तुल्यं । तुल्यमिति क्रियेत्यस्य विशेषणम् । सामान्याभिप्रायं नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात् । यत्तुल्यं सा चेत् क्रियेत्यर्थः । तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत् । ब्राआहृणवदधीते इति । अत्रब्राआहृणव॑दित्युदाहरणम् ।ब्राआहृणेन तुल्यमधीते॑ इति विग्रहवाक्यम् । अत्र ब्राआहृणशब्देन ब्राआहृणकर्तृकाध्ययनं लक्ष्यते । ब्राआहृणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः । गुणतुल्ये इति । द्रव्यतुल्येऽपीति बोध्यम् । तेनचैत्रेण तुल्यो धनी देवदत्तः॑ इत्यादौ न भवति ।अयमेवं न तद्व॑दित्यादौ वतेः साधुत्वार्थमाहेति क्रियापदं प्रयुञ्जते वृद्धाः ।", "51116": "<<तत्र तस्येव>> - तत्र तस्येव । तत्रेवेति तस्येवेति चार्थे सप्तम्यन्तात्षष्ठन्ताच्च वतिः स्यादित्यर्थः । अतृतीयान्तार्थ आरम्भः । अस्मादेव निर्देशादिवशब्दयोगे षष्ठर्थे सप्तम्यपीति भाष्यम् । अत्रक्रिया चे॑दिति नानुवर्तते इत्यभिप्रेत्योदाहरति — मधुरायामिव मधुरावत्स्नुघ्ने प्राकार इति । अत्र मधुरायामिवेति नाधिकरणसप्तमी, तथा सति विद्यमानेति क्रियापदासपेक्षतया असामर्थ्यात् । अत एव अस्मादेव सूत्रनिर्देशादिवशब्दायोगे षष्ठर्थे सप्तमीति भाष्यं सङ्गच्छते । मधुरासम्बन्दिप्राकारसदृशः रुआउघ्नस्य प्राकार इति बोधः । मैत्रस्य भाव इति । वृत्तमित्यर्थः ।", "51117": "<<तदर्हम्>> - तदर्हम् । अर्हतीत्यर्हम् । पचाद्यच् । तदिति कर्मणि द्वितीयान्तम्, लब्धुं योग्यं भवतीत्यर्थात् । कृद्योगलक्षणषष्ठभावस्तु आर्षः । वतिरित्यनुवर्तते । द्वितीयान्तादर्हतीत्यर्थे वतिः स्यादित्यर्थः । विधिमर्हतीति । विधिं लब्धुं योग्यं भवतीत्यर्थः । विधिबत्पूज्यत इति ।हरि॑रिति शेषः । विंधिं लब्धु योग्यं हरिपूजनमित्यर्थः । विहितं प्रकारमनतिक्रान्तमिति यावत् । मण्डूकप्लुत्येति । पूर्वसूत्रे अननुवृत्तेरिति भावः ।", "51118": "", "51119": "<<तस्य भावस्त्वतलौ>> - तस्य भावः । षष्ठन्ताद्भाव इत्यर्थे त्वतलौ स्त इत्यर्थः । भावशब्दस्य अभिप्रायादावपि वृत्तेराह — प्रकारो भाव इति । त्वतल्प्रत्ययौ यत उत्पत्सेयेते तस्मात्प्रकृतिभूतशब्दाद्व्यक्तिबोधे जायमाने यज्जात्यादिकं विशेषणतया भासते तद्व्यक्तिविशेषणं भावशब्देन विवक्षितमित्यर्थः । यथा-गोशब्दाद्धि व्यक्तिबोधे जायमाने गोत्वं विशेषणत्वेन भासते, गोशब्दस्य गोत्ववतीषु व्यक्तिषु, गोत्वे च शक्तिग्रहणात् । न हि गोत्वं विहाय गोव्यक्तिषु गोशब्दस्य शक्तिग्रहः । सम्भवति अतीतानागतानां वर्तमानानां चाऽनन्तत्वेन युगपदुपस्थित्यसम्भवाद्गोशब्दात् प्राणित्वपशुत्वादिरूपेणाऽपि गोव्यक्तिप्रतीत्यापत्तेश्च । ततश्च सर्वासु गोव्यक्तिष्वनुगतं तदितरव्यक्तिभ्यो व्यावृत्तं कञ्चिद्धर्मविशेषं शक्यतावच्छेदकं पुरस्कृत्य गोशब्दः प्रवर्तत इति सिद्धान्तः । एवं घटादिशब्दा अपि घटत्वादित्तद्धर्मं पुरस्कृत्य प्रवर्तन्ते । तदिदं शब्दप्रवृत्तिनिमित्तं बोधः । त्वान्तं क्लीबं तलन्तं स्त्रियामिति । लिङ्गानुशासनसूत्रसिद्धमिदम् ।", "51120": "<<आ च त्वात्>> - आच त्वात् । त्वलावित्यनुवर्तते । आड्भर्यादायाम् । तदाह — ब्राहृणस्त्व इत्तः प्रागिति । ननु 'तस्य भावस्त्वतलौ' इत्यतस्त्वतलोरुत्तरसूत्रेष्वनुवृत्त्यैव सिद्धेरधिकारोऽयं व्यर्थ इत्यत-आह — अपवादैरिति ।पृथ्वादिभ्यः इमनिज्वा॑ इत्यादिविहितैरिमनिजादिभिरपवादैः समुच्चायार्थमित्यर्थः । असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात् । प्रत्यक्षनिर्दिष्टैरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात् । अन्यथाप्राग्दीव्यतोऽ॑णित्यधिकृतस्य अणः 'अत इ' ञित्यादावपि प्रवृत्तिः स्यादिति भावः । प्रयोजनान्तरमाह — गुणवचनादिभ्य इति । अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यञा बाधप्रसङ्ग इति भावः । नन्वेवमपिआ त्वा॑दित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थ इत्यत आह — चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम्, अन्यत्र तयोः सावकाशत्वादिति भावः । पौंस्नमिति । संयोगान्तलोपे पुमः खय्यम्परे॑ इति रुत्वम् । पाक्षिकावनुनासिकानुस्वारौ । विसर्गे कृतं सत्वम् । एवं पुंस्त्वम् । तत्र 'ह्रस्वात्तादौ' इति षत्वं न भवति, सवनादिषु पाठात् ।", "51121": "<<न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर- सलसेभ्यः>> - न नञ्पूर्वात् । इतः परमिति । त्वतल्विधेरूध्र्वमित्यर्थः, नञ्पूर्वादित्युत्तरस्य प्रतिषेध इति भाष्यादिति । भावः । चतुरादीनिति । चतुर, सङ्गत, लवण, वट, युध, कत, रस, लस, — एतान्वर्जयित्वेत्यर्थः । अपतित्वमिति । इह॒पत्यन्तपुरोहितादिभ्यः॑ इति यक्न भवति । अपटुत्वमिति । इह॒इगन्ताच्च लघुपूर्वा॑दित्यण्न भवति । बार्हस्पत्यमिति ।पत्यन्तपुरोहितादिभ्यः॑ इति यक् । आपटवमिति ।इगन्ताच्च लघुपूर्वा॑दित्यण् । अपटुशब्दस्य बहुव्रीहित्त्वात्तत्पुरुषत्वाऽभावान्नास्याऽणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य भावः । ब्राआहृणादित्वात्ष्यञ् । आसंगत्यमिति । असङ्गतशब्दात्ष्यञ् । आलवण्यमिति । अलवणशब्दात्ष्यञ् । आवटमिति । न वटः अवटः, तस्मात्ष्यञ् । आयुध्यमिति । आयुधशब्दात्ष्यञ् । आकत्यमिति । अकतशब्दात्ष्यञ् । आरस्यमिति । अरसशब्दात्ष्यञ् । आलस्यमिति । लसतीति लसः । न लसः अलसः । तस्मात्ष्यञ् ।", "51122": "<<पृथ्वादिभ्य इमनिज्वा>> - पृथ्वादिभ्य । तस्य भाव इत्यनुवर्तते । पृथ्वादिभ्यः षष्ठन्तेभ्यो भावे इमनिज्वा स्यादित्यर्थः । ननु वाग्रहणं व्यर्थं,समर्थानां प्रथमाद्रे॑ति महाविभाषयैव वाक्यस्य सिद्धत्वात् । नच इमनिजभावेत्वतल्प्रत्ययर्थां वाग्रहणमिति वाच्यम्,आ च त्वा॑दित्येव तत्समावेशसिद्धेरित्यत आह — वपावचनमणादिसभावेशार्थमिति । पृथुमृदुप्रभृतिषुइगन्ताच्च लघुपूर्वा॑दित्यणः, चण्डखण्डादिषु गुणवचनलक्षणष्यञः, बालवत्सादिषु वयोवचनलक्षणस्य अञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः । अन्यथा महाविबाषावशादपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते इतिपारे मध्ये षष्ठआ वे॑ति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच्त्वतलाभभावे तेषां प्रवृत्तिर्न स्यादिति भावः ।", "51123": "<<वर्णदृढादिभ्यः ष्यञ् च>> - वर्णदृढादिभ्यः । षष्ठन्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ्च स्यादित्यर्थः । गुणवचनत्वादेव ष्यञि सिद्धे इमनिच्समुच्चयार्थं वचनम् ।॒पृथु मृदुं भृशं चैव कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान्रविधौ स्मरेत् इति वार्तिकमर्थतः सङ्गृह्णाति — पृथुमृदुभृशेत्यादि । तेन कृतयतीत्यादाविष्ठवत्त्वेऽपि रभावो न । द्रढिमेति । दृढशब्दादिमनिचि ऋकारस्य रः । भ्रशिमा क्रशिमा द्रढिमा परिब्राढिमा । ननु वर्णदृढादीनां ष्यञन्तानां लोकतो नपुंसकत्वात्ष्यञः षित्त्वस्य किं प्रयोजनमित्यत आह — षो ङीषर्थ इति । औचितीति । उचितशब्दाद्ब्राआहृणादित्वात्ष्यञि लोकात्स्त्रीत्वम् । शित्त्वान्ङीषिहलस्तद्धितस्ये॑ति यलोपः । उचितस्तु न दृढादिः, तद्गणे अदर्शनात्, इनिच्प्रसङ्गाच्च । अस्यैव ष्यञ उत्तरसूत्रे अनुवृत्तेरिहैव तस्य षित्त्वप्रयोजनकथनमिति बोध्यम् । याथाकामीति । काममनतिक्रम्य यथाकामम् । ततः स्वार्थे चतुर्वर्णादित्वात्ष्यञि लोकात्स्त्रीत्वे षित्त्वान्ङीष् ।", "51124": "<<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> - गुणवचन । गुणोपसर्जनद्रव्यवाचिभ्यो, ब्राआहृणादिभ्यश्च षष्ठन्तेभ्यो भावे कर्मणि च अर्थे ष्यञित्यर्थः । अर्हतो नुम्चेति । वार्तिकमिदम् ।अर्हः प्रशंसाया॑मिति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः । अर्हच्छब्दात्ष्यञ्स्यात्प्रकृतेर्नुम्चेत्यर्थः । मित्त्वादन्त्यादचः परः । अनुस्वारपरसवर्णौ । लोकान्नपुंसकत्वं स्त्रीत्वं च । तदाह — आर्हन्त्यम्, आर्हन्तीति । आर्हन्त्यशब्दान्ङीषिहलस्तद्धितस्ये॑ति यलोपः । यथातथेति निपातसमुदायः । यथापुरमिति पुराशब्देन पदार्थनतिवृत्तावव्ययीभावः । इमौ शब्दौ नञ्पूर्वपदौ ब्राआहृणादी ।", "51125": "<<स्तेनाद्यन्नलोपश्च>> - स्तेनाद्यन्नलोपश्च ।य॑दिति च्छेदः । स्तेनशब्दात्षष्ठन्ताद्भावे कर्मणि चार्थे यत्स्यादित्यर्थः । नेति सङ्घातग्रहणमिति ।नलोपश्चे॑त्यत्र नेत्यकार उच्चारणार्थो न भवति, किंतु नकाराऽकारसङ्गातग्रहणमित्यर्थः । स्तेयमिति । स्तेनशब्दाद्यत्प्रत्यये सति नेति सङ्गातस्य लोप इति भावः । नच नकारमात्रलोपेऽपियस्येति चे॑त्यकारलोपात्स्तेयमिति सिध्यतीति वाच्यम्,अचः परस्मि॑न्नित्यकारलोपस्य स्थानित्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच सङ्गातग्रहणेऽपिअलो ।ञन्त्यस्ये॑त्यकारस्यैव लौपः स्यादिति शङ्क्यं,यस्येति चे॑त्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयथ्र्यात्,नानर्थकेऽलोऽन्त्यविधि॑रिति निषेधाच्च । योगं विभज्येति । स्तेनादिति पृथक्सूत्रम् । ष्यञित्यनुवर्तते । स्तेन शब्दाद्भावे कर्मणि च ष्यञित्यर्थः । समासकृदन्ततद्धितान्ताऽव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति आकडारसूत्रभाष्यरीत्या स्तेनशब्दस्य पचाद्यजन्तस्य कृदन्तस्य गुणवचनत्वाऽभावादप्राप्ताविदं वचनम् । अव्युत्पन्नप्रतिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थं वचनम् । ततोयन्नवलोपश्चे॑ति योगान्तरम् । स्तेनादित्यनुवृत्तावुक्तोऽर्थः । केचिदिति । भाष्याऽदृष्टवाद्योगविभागोऽयप्रमाणिक इति भावः ।", "51126": "<<सख्युर्यः>> - सख्युर्यः । सखिशब्दात्षष्ठन्ताद्भावकर्मणोर्यः स्यादिति वक्तव्यमित्यर्थः । नास्त्येवेति । वार्तिकत्वे तस्य भाष्ये पाठावश्यकत्वात्, पाठस्य चाऽभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः । तर्हि दूतवणिग्भ्यां भावकर्मणोः कथं यत्प्रत्ययः, किंतु ष्यञेवेत्याह — ब्राहृणादित्वाद्वाणिज्यमपीति । अपिना दौत्सयसङ्ग्रहः ।", "51127": "<<कपिज्ञात्योर्ढक्>> - कपिज्ञात्योर्ढक् । पञ्चम्यर्थे षष्ठी । आभ्यामपि षष्ठन्ताभ्यां भावकर्मणोर्ढगित्यर्थः । अत्र कपि ज्ञात्योर्भावकर्मणोश्च न यथासङ्ख्य, व्याख्यानात् ।", "51128": "<<पत्यन्तपुरोहितादिभ्यो यक्>> - पत्यन्त । पत्यन्तेभ्यः पुरोहितादिभ्यश्च षष्ठन्तेभ्यो भावकर्मणोर्याक्स्यादित्यर्थः । राजासे इति । पुरोहितादिगणसूत्रमिदम् । राजा असे इति च्छेदः । 'स' इति समासस्य प्राचां संज्ञा । तदाह — राजन्शब्द इति राज्यमिति । यकि टिलोपः ।ये चाऽभावकर्मणो॑रिति प्रकृतिभावस्तु न,अभावकर्मणो॑रिति पर्युदासात् । समाऽसे त्विति । अदिको राजा अदिराजः । प्रादिसमासः । 'असे' इति पर्युदासाद्यगभावे ब्राआहृणादित्वात्ष्यञि आधिराज्यमिति रूपमित्यर्थः । यक्ष्यञोः स्वरे विशेषः ।", "51129": "<<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> - प्राणभृज्जाति । प्राणभृतः — प्राणिनः, तज्जातिवाचिभ्यो, वयोविशेषवाचिभ्य, उद्गात्रादिभ्यश्च षष्ठन्तेभ्यो भावकर्मणोरञित्यर्थः । प्राणभृज्जातीति । उदाहरणसूचनम् । एवं वयोवचनेति ।", "51130": "<<हायनान्तयुवादिभ्योऽण्>> - हायनान्त । हायनान्तेभ्यो युवादिभ्यश्च षष्ठन्तेभ्यो भावकर्मणोरण्स्यादित्यर्थः । द्वैहायनमिति । द्विहायनस्य भावः कर्म वेति विग्रहः । वयोवचनलक्षणस्य अञो ।ञपवादः । एवं — त्रैहायनमपि । यौवनमिति ।अ॑निति प्रकृतिभावान्न टिलोपः । श्रत्रियस्येति । वार्तिकमिदम् । श्रोत्रियशब्दात्षष्ठन्ताद्भावकर्मणोरण्, प्रकृतेर्यलोपश्चेत्यर्थः । येति सङ्घातग्रहणम् । श्रोत्रमिति । छन्दोऽधीते इत्यर्थे छन्दस्शब्दाद्धप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशेयस्येति चे॑त्यल्लोपे श्रोत्रियशब्दः । श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराऽकारसङ्घातस्य लोपे रेफादिकारस्ययस्येति चे॑ति लोपे श्रोत्रमिति रूपम् । यकारादकारस्ययस्येति चे॑ति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण्स्यात् । नच तस्ययस्येति चे॑ति लोपः शङ्क्यः,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायात् । अकारलोपस्य स्थानित्वेन इकारान्तस्य भत्वाऽभावाच्च ।श्रोत्रियस्य घलोपश्चे॑त्येके पठन्ति ।", "51131": "<<इगन्ताच्च लघुपूर्वात्>> - इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति विग्रहः । पूर्वत्वं च इगवधिकमेव गृह्रते, व्याख्यानात् । तथा च लघुपूर्वो य इक्तदन्तात्प्रातिपदिकात्षष्ठन्ताद्भावकर्मणोरण्स्यादित्यर्थः ।गणवचने॑त्यादेरपवादः । कतं काव्यमिति । कविशब्दस्य लघुपूर्वेगन्तत्वात्गुणवचने॑ति ष्यञं बाधित्वा अण्प्रसङ्गात्काव्यमिति कथमित्याक्षेपः । समाधत्तेः — कविशब्दस्येति । ब्राआहृणादित्वादित्यनन्तरंष्यञि उपपाद्य॑मिति शेषः ।", "51132": "<<योपधाद्गुरूपोत्तमाद्वुञ्>> - योपधात् । योपधाद्गुरूपोत्तमात्प्रातिपदिकात्षष्ठन्ताद्भावकर्मणोर्वुञित्यर्थः । रामणीयकमिति । रमणीयशब्दाद्वुञ् । आभिधानीयकमिति । अभिधानीयशब्दाद्वञ् । सहायाद्वेति ।वु॑ञिति शेषः । पक्षे ब्राआहृणादित्वात्ष्यञ् । इदंतु वार्तिकं भाष्ये क्वचिन्मृग्यम् ।", "51133": "<<द्वन्द्वमनोज्ञादिभ्यश्च>> - द्वन्द्वमनोज्ञादिभ्यश्च । द्वन्द्वान्मनोज्ञादिभ्यश्च षष्ठन्तेभ्यो वुञित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद्वुञ् । स्त्रीत्वं लोकात् । यद्यपियोपधा॑दित्येव सिध्यति तथापि गौपालपशुपालिकेत्युदाहरणं बोध्यम् ।", "51134": "<<गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु>> - गोत्रचरणात् । गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठन्ताद्भावकर्मणोर्वुञ्स्यात्श्लाघादिषु विषयेष्वित्यर्थः ।अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्र॑मित्युक्तम् । 'अत्याकार' इत्यस्य विवरणम्-अधिक्षेप इति । तदवेत इत्येतद्विवृणोति — ते गोत्रेति । तच्छब्देन गोत्र चरणयोर्भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थाज्ज्ञानार्थाद्वा कर्तरि क्तः । ते अवेतस्तदवेत इति विग्रहः ।द्वितीये॑ति योगविभागात्समासः । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गाग्र्यशब्दाद्वुञिआपत्यस्ये॑ति यलोपेयस्येति चे॑त्यकारलोपे लोकात्स्त्रीत्वे टापिप्रत्ययस्था॑दिति इत्त्वे गार्गिकाशब्दः । काठिकाया श्लाघते । इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययर्थान्वयिनो नतु प्रत्ययवाच्या इति बोध्यम् ।", "51135": "<<होत्राभ्यश्छः>> - होत्राभ्यश्छः । ऋत्विग्वाचीति । याज्ञिकप्रसिद्धेरिति भावः । ऋत्विग्विशेषवाचिभ्यः षष्ठन्तेभ्यश्छः स्याद्भावकर्मणोरित्यर्थः ।अच्छावाकीयमिति ।आ च त्वा॑दिति त्वतलोरपि सर्वत्र समावेशो बोध्यः ।", "51136": "<<ब्रह्मणस्त्वः>> - ब्राहृणस्त्वः । 'होत्राभ्यः' इत्यनुवृत्तमेकवचनेन विपरिणम्यते । तदाह — होत्रावाचिन इति । ऋत्विग्वाचिन इत्यर्थः । ननुब्राहृणो ने॑त्येवास्तु, ब्राहृणश्छो न इत्यर्थलाभे सति छे निषिद्धेआ च त्वा॑दित्यधिकारात् 'होत्राभ्यश्चः' इत्येव भावकर्मणोस्त्वप्रत्ययः सिध्यतीत्यत आह — वेति वाच्ये 'तस्य भावस्त्वतलौ' इत्यनेन ब्राहृणः कर्मणि त्वस्याऽप्राप्तेस्तदर्थं त्वप्रत्ययविधानमिति न शङ्क्यम् । नापिब्राआहृणो ने॑त्युक्ते पूर्वसूत्रविहितानां त्वतल्छानां निषेधः स्यादित्यपि शङ्क्यम्, शब्दोपात्तस्य छस्यैव निषेधात् । अत्र होत्राग्रहणानुवृत्तेः प्रयोजनमाह — ब्राआहृणपर्यायादिति ।**** इति बालमनोरमायाम् नञ्स्नञोरधिकारः । ****सिद्धान्तकौमुदीतस्या उत्तरार्धम् ।अथ तिङन्ते भ्वादयः ।बालमनोरमाअस्तु मः पाणिनये भूयो मुनये तथास्तु वररुचये ।किंचास्तु पतञ्जलये भ्रात्रे विओआराय गुरवे च॥१॥व्याख्याता बहुभिः प्रौढैरेषा सिद्धान्तकौमुदी ।वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम्॥२॥ॐमङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च मङ्गलयुक्ताः स्यु॑रिति भाष्यप्रमाणकं ग्रन्थमध्ये विघ्नविघातादिप्रयोजनाय कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबन्धाति — श्रोत्रेति । वेदाध्येता श्रोत्रियः ।श्रोत्रियंश्छन्दोऽधीते॑ इति वेदपर्यायाच्छन्दश्शब्दाद्द्वितीयान्तादधीत इत्यर्थे घन्प्रत्ययः,प्रकृतेः श्रोत्रादेशस्च निपातितः । श्रोत्रियस्य भावः — श्रौत्रम् ।श्रोत्रियस्य यलोपश्चे॑यलोपश्चे॑त्यणि इकारादुत्तरस्य यकाराऽकारसङ्घातस्य लोपे इकारस्ययस्येति चे॑ति लोपः । अर्हति — आर्यैः प्रशस्यमानेषु वेदविहितकर्मसु योग्यो भवतीत्यर्हन् ।अर्हः प्रंशसाया॑मिति शतृप्रत्ययः । अर्हतो भावः — आर्हन्ती ।अर्हतो नुम् चे॑ति ष्यञि आदिवृद्धौ प्रकृतेर्नुमामे षित्वान्ङीषिहलस्तद्धितस्ये॑ति यकारलोपेयस्येति चे॑त्यकारलोपः । स्त्रीत्वं लोकात् । श्रौत्रं च आर्हन्ती च वेदविहितकर्मयोग्यता च प्रसिद्धैरिति यावत् । गुण्यैरिति । नित्याऽनित्यवस्तुविवेकः, इहाऽमुत्रार्थफलभोगविरागः, शमदमादिसम्पत्तिः, मुमुक्षुत्वमित्यादिप्रशस्तगुणसम्पन्नैरित्यर्थः ।रूपादाहतप्रंशसयो॑रिति सूत्रेअन्येभ्योऽपि दृस्यते॑ इति वार्तिकेन यप् प्रत्ययः, तद्भाष्येगुण्या ब्राआहृण्या॑ इत्युदाहरणात् । महर्षिभिरिति । महान्तश्च ते ऋषयश्चेति कर्मधारयः ।आन्महत॑इत्यात्वम् । अतितपस्विभिरित्यर्थः । अहर्दिवमिति । अहश्च दिवा चेति वीप्सायाम्अचतुरे॑त्यादिना द्वन्द्वो निपातितः । अहन्यहनीत्यर्थः । तोष्टूय्यमानोऽपीति ।ष्टुञ् स्तुतौ॑, सकर्मकः । गुणवत्त्वेनाऽभिधानं स्तुतिः । अभिधानक्रियानिरूपितं कर्मत्वमादय 'देवान् स्तौती' त्यादौ द्वितीया । न तु गुणाभिधानमेव स्तुतिः, तथा सति गुणस्य धात्वर्थोपसङ्गृहीतत्वेनाऽकर्मकत्वापत्तेः । 'धात्वादेः षः सः' इति षकारस्य सकारे ष्टुत्वनिवृत्तौ, 'धातोरेकाच' इति भृशार्थे यङि,अकृत्सार्वधातुकयो॑रिति दीर्घे,सन्यङो॑रिति द्वित्वे, 'शर्पूर्वाः खय' इति सकारस्याभ्यासगतस्य लोपे,गुणो यङ्लुको॑रित्यभ्यासोकारस्य गुणे, ततः परस्य सस्यआदेशप्रत्यययो॑रिति षत्वे, ष्टुत्वेन तकारस्य टकारे,तोष्टूये॑ति यङन्तात् 'सनाद्यन्ता' इति धातुसंज्ञकात्कर्मणि लटि लटश्शानचिआने मु॑गिति मुमागमे,सार्वधातुके य॑गिति यकि,यङोऽकारस्यअतो लोप॑इति लोपे, 'तोष्टूय्यमान' इति रूपम् । भृशं स्तूयमानोऽपीत्यर्थः । अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृसं सङ्कीत्र्यमानोऽपीति यावत् । अगुण इति । निर्गुण इत्यर्थः ।साक्षी चेता केवलो निर्गुणश्चे॑त्यादिश्रुतेरिति भावः । निर्गुणस्य गुणवत्त्वेन कथनात्मिका स्तुतिर्विरुद्धेत्यापातप्रिपन्नं विरोधमपिशब्दो द्योतयति । गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वाऽभावान्न विरोध इत्युत्तरमीमांसायां स्पष्टम् । विभुरिति । सर्वव्यापकः परमेआर इत्यर्थः । वि जयतेतरामिति ।जि जये॑, अकर्मकः । उत्कर्षेण वर्तनं जयः ।विपराभ्यां जे॑रित्यात्मनेपदम् ।तिङश्चे॑त्यतिशायने तरप् ।किमेत्तिङव्यये॑ति तरबन्तात्स्वार्थे आम्प्रत्ययः ।तद्धिश्चाऽसर्वविभक्ति॑रित्यत्र तसिलादिषु परिगणनादामन्तमव्ययम् । सर्वोत्कर्षेण वर्तत इत्यर्थः । न च 'विजयते' इति समुदायस्याऽतिङन्तत्वात्कथं ततस्तरबिति वाच्यं, 'वि' इति हि भिन्नं पदम्, तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात् । ततश्च जयत इत्यस्मादेव तरप् । न च 'जयते' इत्यस्यविपराभ्यां जे॑रिति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामर्थ्यं शङ्क्यम् ।वी॑त्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षऽभावात्तिङन्तस्य प्रधानतया तस्य विशब्दाऽपेक्षत्वेऽपि बाधकाऽभावाच्चेत्यलम् । वृत्तकथनपूर्वकं वर्तिष्यमाणनिरूपणं प्रतिजानीते — पूर्वाद्र्ध इति । तत्रेति । निर्धारणसप्तम्यन्तात्त्रल् । तेषु तृतीयाध्यायवर्तिप्रत्ययेष्वित्यर्थः । दशेति । अनुबन्धभेदाल्लकारभेद इति भावः । पञ्चम इति । लेडित्यर्थः । छन्दोमात्रेति ।लिङर्थे ले॑डित्यत्रछन्दसि लुङ्लङ्लिटः॑ इति पूर्वसूत्राच्छन्दसीत्यनुवृत्तेरिति भावः । एतेन लेडपाणि इह कुतो न प्रदश्र्यन्त इति शङ्का निरस्ता ।", "52001": "<<धान्यानां भवने क्षेत्रे खञ्>> - अथ पाञ्चमिका निरूप्यन्ते । धान्यानां भवने । धान्यवाचिभ्यः षष्ठन्तेभ्यो भने क्षेत्रेऽर्थे खञित्यर्थः । भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह — भवन्त्यस्मिन्निति । भवनमिति । भूधातुरुत्पत्तिवाची । उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पत्तिस्थानं क्षेत्रम् ।केदारः क्षेत्र॑मित्यमरः । क्षेत्रशब्दाऽभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्यं गृहकुसूलादिलभ्येत, अतः क्षेत्रपदम् । भवनपदाऽभावे तु क्षेत्रशब्देन सेतुवन्धकाश्यादिपुण्यप्रदेशोऽपि लभ्येत, अतो भवनपदम् । उभयोपादाने तु धान्योत्पत्तिप्रदेश एव लभ्यत इति न पौनरुक्त्यम् ।", "52002": "<<व्रीहिशाल्योर्ढक्>> - व्रीहिशाल्योर्ढक् । व्रीहिशब्दाच्छालिशब्दाच्च षष्ठन्ताद्भवने क्षेत्रे ।ञर्थे ढगित्यर्थः । खञोऽपवादः ।", "52003": "<<यवयवकषष्टिकादत्>> - यवयवक । यव, यवक, षष्टिक-एभ्यः षष्ठन्तेभ्यो भवने क्षेत्रे यत्स्यादित्यर्थः । खञोऽपवादः ।धान्याना॑मित्यनुवृत्तेरिहापि षष्ठएव समर्थविभक्तिः ।", "52004": "<<विभाषा तिलमाषोमाभङ्गाऽणुभ्यः>> - विभाषा तिस ।तिल, माष, उमा, भङ्ग, अणु-एभ्यो धान्यविसेषवाचिभ्यः षष्ठन्तेभ्यो यद्वा स्यादित्यर्थः ।उमाभङ्गौ धान्यविशेषौ॑ इति भाष्यम् ।उमा स्यादतसी क्षुमा॑ इत्यमरः । अणव्यमिति । अणुर्धान्यविशेषः । यति 'ओर्गुणः'वान्तो यी॑त्यवादेशः ।", "52005": "<<सर्वचर्मणः कृतः खखञौ>> - सर्वचर्मणः । सर्वचर्मन्शब्दात्तृतीयान्ताच्चर्मणा सर्वं कृतमित्यर्थः खखञौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयाच्चर्मण्यन्वयाऽभावादसामर्थ्यांच्चर्मणा समासाऽसम्भवात्कथं सर्वचर्मन्शब्दात्प्रत्यय इत्यत आह — असामर्थ्येऽपीति । सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्नः कृत इत्यर्थः । सर्वचर्मीण इति । 'नस्तद्धिते' इति टिलोपः । सर्वेण चर्मणा कृत इत्यर्थे तु न खखञौ, व्याख्यानात् ।", "52006": "<<यथामुखसंमुखस्य दर्शनः खः>> - यथामुख । यथामुख, समुखं-आभ्यां षष्ठन्ताभ्यां दर्शन इत्यर्थे खःस्यादित्यर्थः । दृश्यतेऽस्मिन्निति दर्शनः= आदर्शादिः । ननु मुखस्य सदृशं यथामुखमिति कथमव्ययीभावः , 'यथाऽसादृश्ये' इति सादृश्ये तन्निषेधादित्यत आह — निपातनादिति । सम्मुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किंतु समशब्दस्य सर्वपर्ययस्येत्याह — समं सर्वं मुखं संमुखमिति । सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखं चेति कर्मधारये संमुखशब्द इत्यर्थः । निपात्यत इति । इदं च भाष्ये स्पष्टम् । एवञ्च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः ।", "52007": "<<तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति>> - तत्सर्वादेः । पथिन्, अङ्ग, कर्मन्, पत्र, पात्र-एषां समाहारद्वन्दावात्पञ्चम्यर्थे द्वितीया । प्रातिपदिकविशेषणत्वात्तदन्तविधिः ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधस्तु न, केवलानामेषां सर्वादित्वस्याऽसंभवात् ।त॑दिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति । ततश्च तद्व्याप्नोतीत्यर्थे सर्वशब्दपूर्वपदकेभ्यः प्रातिपदिकेभ्यो द्वितायान्तेभ्यः पथ्यङ्गकर्मपत्रपात्रान्तेभ्यः खः स्यादित्यर्थः फलति । तदाह — सर्वादेरित्यादिना । सर्वपथानिति ।ऋक्पू॑रिति समासान्ताः । आप्रपदम् ।आप्रपद॑मित्यव्ययीभावाद्द्वितीयान्तात्प्राप्नोतीत्यर्थे खः स्यादित्यर्थः । पदस्याग्रं प्रपदमिति ।पादाग्रं प्रपद॑मित्यमरः ।", "52008": "<<आप्रपदं प्राप्नोति>> - आप्रपदमिति ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीबावः । अनुपद । अनुपद, सर्वान्न, अयानय-एषां समाहारद्वन्द्वाद्द्वितीया । बद्धा, भक्षयति, नेय-एषां द्वन्द्वात्सप्तमी । तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । आद्ये 'यस्य चायामः' इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः ।", "52009": "<<अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु>> - अनुपदं बद्धेति । क्रियाविशेषणत्वाद्द्वितीया । अनुपदीना उपानदिति । पदसम्बन्धिदैर्ध्योपलक्षितेत्यर्थः । पदेन सदृशीति वा । तत्तुल्यपरिमाणेति यावत् । यानय इति द्यूते शाराणां प्रदक्षिणपरिवर्तनम् — अयः, प्रसव्यपरिवर्तनम्-अनयः । अयसहितः अनयः-अयानयः । प्रदक्षिणप्रसव्यगामिना यस्मिन्युग्यमादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत्स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् ।समहायस्य शारस्य परैर्नाक्रम्यते पदम् । असहायस्तु शारेण परकीयेण बाध्यते । इति द्यूतशास्त्रामर्यादा । विस्तरस्तु कैयटमनोरमादावनुसन्धेयः । तं नेय इति । तं=स्थानविशेषमयानयाख्यं, प्रापणीय इत्यर्थः । णीञ्द्विकर्मकः ।प्रधाने कर्मणि यत्, अप्रधाने द्वितीया॑ इति भावकर्मलकारप्रक्रियायां वक्ष्यते ।", "52010": "<<परोवरपरम्परपुत्रपौत्रमनुभवति>> - परोवर । परोवर, परम्पर, पुत्रपौत्र-एभ्यो द्वितीयान्तेभ्योऽनुभवतीत्यर्थे खः स्यादित्यर्थः । परोवरीण इति । परे च अवरे च परावरे ताननुभवतीत्यर्थः । अवरस्योत्त्वमिति । अवरशब्दस्य आदेरकारस्य खप्रत्ययसंनियोगेन उत्त्वं निपात्यत इत्यर्थः । एवं च विग्रहवाक्ये इदमुत्त्वं न भवति । प्रकृतेरिति । परपरतरशब्दाद्द्वन्द्वात्खे सति तत्सन्नियोगेन प्रकृतेः परम्परभावो निपात्यत इत्यर्थः । नन्वेवं सतिकल्याणपरम्परे॑त्यादौ कथं परम्पराशब्दः , परम्परभावस्य खप्रत्ययसन्नियोगशिष्टत्वादित्यत आह — परम्पराशब्दस्त्विति । तस्मादेवेति ।परम्परे॑त्यव्युत्न्नप्रातिपदिकादेवेत्यर्थः । कथमिति । परावरशब्दाद्भावे वा स्वार्थे वा ष्यञि अवरस्यादेरुत्वे पारोवर्यशब्दान्मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्त्वस्य खप्रत्ययसन्नियोगाशिष्टत्वादिति भावः । उत्त्वं दुरुपपादमेवेत्याह — असाधुरेवेति । नन्वत्र परोवरेति निर्देशात् — खादन्यत्राप्युत्त्वं किं न स्यादित्यत आह — खप्रत्ययसन्नियोगेनैवेति । अत एव भाष्येपरांश्चावरंश्चानुभवती॑त्येव विग्रहो दर्शित इति भावः ।", "52011": "<<अवारपारात्यन्तानुकामं गामी>> - अवारपार । अवारपार, अत्यन्त, अनुकाम — एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः ।आवश्यकाधमण्र्ययोर्णिनि॑रिति णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । 'बहुलमाभीक्ष्ण्ये' इति वा णिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह — अवारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह — भृशं गन्तेति । अनुकाममिति । कामः=इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्यायीभावः ।", "52012": "<<समांसमां विजायते>> - समां समाम् । विपूर्वो जनिर्गर्भविमोचने वर्तते । विजायते=गर्भं विमुञ्चतीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकः । अतो न कर्मणि द्वितीया । गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोगलक्षणा द्वितीयापि न भवति । किंतु सप्तम्येव । तत्र सप्तम्यन्तस्य समाया॑मित्यस्यनित्यवीप्सयो॑रिति द्विर्वचने समायां — समायामिति भवितव्यम् । तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते — समां समामिति । समायां समायामित्यर्थः । एवं च समायां समायां विजायत इत्यर्थे सप्तम्यन्तद्वयसमुदायाद्विजायत इत्यर्थः । खः स्यादिति फलितम् । ननु सप्तम्यन्तद्वयसमुदायात्खप्रत्ययोत्पत्तौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात्तदवयवयोः सप्तम्योर्लुकि 'समासमीन' इति स्यात्, इष्यते तुसमांसमीने॑ति । तदा — यलोप इति । पूर्वपदे विभक्ते तदवयवस्य यकारस्य लोपः अवशिष्यस्य विभक्त्यंशस्य अलुक्च निपात्यत इत्यर्थः । भाष्ये तुयलोपनिपातनादवशिष्टविभक्त्यंशस्य न लु॑गित्युक्तम् । ननु समां समामिति निर्देशादुत्तरपदेऽपि यकारलोपः, अवशिष्टविभक्त्यंशस्य अलुक्च स्यादित्यत आह — पूर्वपदे इति ।पूर्वपदस्य यलोपवचन॑मिति वार्तिकादिति भावः । खप्रत्ययानुत्पत्ताविति ।पदतद्वयेऽपी॑ति शेषः । इह विभाषया कदाचित्खप्रत्ययाऽभावे सतिसमायां समायं विजायते॑ इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः । तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः, सूत्रे उभयत्रापि तथोच्चारणात् । विकल्प एव तु यलोपस्य वाक्यदसायां वाचनिक इति बोध्यम् । एतत्सर्वं भाष्ये स्पष्टम् ।", "52013": "<<अद्यश्वीनाऽवष्टब्धे>> - अद्यआईनाऽवष्टब्धे ।अद्यआईने॑त्यविभक्तको निर्देशः । अवष्टब्धम्ासन्नम् ।अवाच्चालम्बनाविदूर्ययो॑रित्याविदूर्ये स्तन्भेः षत्वविधानात् । अद्य आओ वा विजायत इत्यर्थे अद्य आसिति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः । अद्यआईना वडवेति । अद्य वा आओ वेति वार्थे निपानात्समासः । खे सति 'अव्ययानां भमात्रे' इति टिलोपः । सूत्रे अद्यआईनेति टाबन्तनिर्देशे तु अद्यआईनो गोसमूहः, अद्यआईनां गोमण्डलमिति न स्यात् ।", "52014": "<<आगवीनः>> - आगवीनः । कर्मकरे इति । वार्तिकलभ्यमिदम् । भृतिं गृहीत्वा यः कर्म करोति स — कर्मकरः । अत्र गोपालो विवक्षितः । स हि प्रातर्गां गृहीत्वा आसायं चारयित्वा स्वाभिनो गृहं नीत्वा प्रत्यर्पयति । तदाह — गोः प्रत्यर्पणेति । आगवीन इति । 'गो' शब्दो गोप्रत्यर्पणे लाक्षणिकः ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीभावेगोस्त्रियो॑रिति ह्रस्वत्वे, आगुशब्दात्खे 'ओर्गुणः' इति भावः ।", "52015": "<<अनुग्वलंगामी>> - अनुग्वलंगामी । 'अनुगु' इत्यविभक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्रस्वत्वे अनुगुशब्दः । तस्मादलङ्गामीत्यर्थे खः स्यादित्यर्थः । अत्र 'अनुगु' इत्यस्य क्रियाविशेषणत्वाद्द्वितीयैव समर्थविभक्तिरिति हरदत्तः । कृद्योगषष्ठीत्यन्ये ।अलङ्गामी॑त्यत्र अलंशब्दस्य विवरणं — पर्याप्तमिति । क्रियाविशेषणम् ।", "52016": "<<अध्वनो यत्खौ>> - अद्वनो यत्खौ । अध्वन्शब्दादलिङ्गमीत्यर्थे यत्खौ स्त इत्यर्थः । अध्वानमलंगच्छतीति । अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः ।", "52017": "<<अभ्यमित्राच्छ च>> - अब्यमित्राच्छ च । अमित्रः=शत्रुः । तमभिमुखो भूत्वेत्यर्थेलक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्मादलङ्गामीत्यर्थे छप्रत्ययः स्यादित्यर्थः ।", "52018": "<<गोष्ठात् खञ् भूतपूर्वे>> - गोष्ठात्खञ् । बूतपूर्व इति प्रकृतिविशेषणम् । भूतपूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः ।", "52019": "<<अश्वस्यैकाहगमः>> - अआस्यैकाहगमः । अआशब्दात्षष्ठन्तादेकाहगम इत्यर्थे खञ्स्यादित्यर्थः ।एकाहगम॑शब्दं व्युत्पादयति — एकाहेनेति । अस्मादेव निपातनात्कर्मणि गमेरविति भावः ।कर्तृकरणे कृते॑ति समासः । अआस्येति कर्तरि षष्ठी । आआओनोऽध्वेति । अओन कत्र्रा एकाहेन गन्तुं शक्य इत्यर्थः ।", "52020": "<<शालीनकौपीने अधृष्टाकार्ययोः>> - शालीन ।शालप्रवेशमर्हत्यधृष्ट॑ इति,कूपावतरणमर्हत्यकार्य॑मिति चाऽर्थे शालाप्रवेशशब्दात्कूपावतरणशब्दाच्च खञ् ।प्रवेशशब्दस्य अवतरणशब्दस्य चोत्तरपदस्य लोपे शालीनरौपीनशब्दौ निपात्येते॑ इति भाष्यम् । अधृष्ट इति । अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमेवार्हति यः स शालीन इति यावत् । कूपपतनमिति । कूपावतरणशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी । कौपीनं पापमिति । नरकपतनसाधनमकार्यं पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ । ननु पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । कौपीनशब्दस्य लक्ष्यपुरुषलिङ्गसंबन्धात्तदाच्छादनवस्त्रखण्डै कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः ।", "52021": "<<व्रातेन जीवति>> - व्रातेन जीवति । व्रातशब्दात्तृतीयान्ताज्जीवतीत्यर्थे खञ्स्यादित्यर्थः । नानाजातीयानामलब्धजीवनद्रव्याणां भरवहनादिकष्टकर्मजीविनां सङ्घो — ब्राआतः । तस्य यज्जीवनार्थं कष्टं कर्म तदिह व्रातमिति भाष्यम् । तादृशसङ्घावाचिनो व्रातशब्दात्तस्येद॑मित्यणि व्रातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः । तदाह — शरीरायासेनेति ।", "52022": "<<साप्तपदीनं सख्यम्>> - साप्तपदीनम् । सप्तपदशब्दात्तृतीयान्तादवाप्यं सख्यमित्यर्थे खञि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः ।", "52023": "<<हैयंगवीनं संज्ञायाम्>> - हैयङ्गवीनम् । ह्रसित्यव्ययं पूर्वेद्यरित्यर्थे । तत्रोत्पन्नो गोदोहः=गोपयः-ह्रोगोदोहः । तस्मात्षष्ठन्ताद्विकारार्थे खञि ईनादेशे प्रकृतेर्हियङ्गु इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौहैयङ्गवीन॑मिति भवतिसंज्ञायामिति भाष्यम् । तदाह — ह्रोगोदोहस्येत्यादिना । नवनीतमिति । भाष्ये तुहैयङ्गवीनं घृत॑मिति दृश्यते ।तत्तु हैयङ्गवीनं स्याद् ह्रोगोदोहोद्भवं घृत॑मित्यमरः ।", "52024": "<<तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ>> - तस्य पाफमूले । 'पाकमूले' इति समाहारद्वन्द्वात्सप्तमी । पाकः=परिणामः । षष्ठन्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणप् । कर्णादिभ्यस्तु मूलेऽर्थे जाहजित्यर्थः । कुणपस्तद्धितत्वात्ककारस्य नेत्संज्ञा । जाहचस्तु जकारस्य प्रयोजनाऽभावान्नेत्संज्ञा ।", "52025": "<<पक्षात्तिः>> - पक्षात्तिः । मूलग्रहणमात्रमिति । पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः । तस्येत्यप्यनुवर्तते । पक्षशब्दात् षष्ठन्तान्मूलेर्थे तिप्रत्ययः स्यादित्यर्थः ।", "52026": "<<तेन वित्तश्चुञ्चुप्चणपौ>> - तेन वित्तः । तृतीयान्ताद्वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः । वित्तः=प्रसिद्धः । चस्य नेत्संज्ञेति । उपदेशे आदित्वाऽभावादिति भावः ।", "52027": "<<विनञ्भ्यां नानाञौ नसह>> - वैः शालच्छङ्कटचौ । क्रियाविशिष्टेति । क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययो स्त इति यावत् । इदं च भाष्ये स्पष्यटम् ।", "52028": "", "52029": "<<सम्प्रोदश्च कटच्>> - संप्रोदश्च कटच् । सं, प्र, उत् एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वार्थे कटच् स्यादित्यर्थः । चाद्वेरपि । संकटं । संहतमित्यर्थः । निबिडीकृतमिति यावत् । रूढशब्दा एते कथञ्चिद्व्युत्पाद्याः । अलाबूतिलेति । अलाबू, तिल, उमा, भङ्गा-इत्येभ्यः षष्ठन्तेभ्योरजसिपशिनामभ्यः स्थानादिष्वर्थेषु गोष्ठजादयः प्रत्यया वक्तव्या इत्यर्थः । गोष्ठजादीनां प्रत्ययानां स्थानादीनां चार्थानां प्रपञ्चनपराणिसङ्घाते कटजि॑त्यादीनिशाकटशाकिना॑वित्यन्तानि षड्वार्तिकानि । तेषु चतुर्षु 'पशुनामब्य' इत्यनुवर्तते । अप्रसृतावयवः समूहः-सङ्घातः ।प्रसृतावयवस्स्तु विस्तारः । द्वित्व इति । प्रकृत्यर्थगतद्वित्व इत्यर्थः । वृषगोयुगमिति । द्व्यवयवकसङ्घामिताभिप्रायमेकवचनम् । द्वयं युग्ममित्यादिवत् । केचित्तु द्वौ वृषावित्यर्थेवृषगोयुग॑मिति स्वभावादेकवचनं विंशतिरित्यादिवदित्याहुः । एवमुष्ट्रगोयुगम् । अआषङ्गवम् ।", "52030": "<<अवात् कुटारच्च>> - अवात्कुटारच्च । क्रियाविशिष्टसाधानवाचकादवात्स्वार्थे कुटरच स्यादित्यर्थः । अवाचीन इति । अवाचीने विद्यमानादवात्कुटरचि अवकुटार इत्यर्थः ।", "52031": "<<नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः>> - नते नासिकायाः । अवादित्येवेति । अवशब्दान्नासिकाया अवनतेऽर्थे टीटच्, नाटच्, भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रह्वत्वे' इति धातोर्भावे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमनमिति । प्रह्वत्वमित्यर्थः । ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकेति कथमित्यत आह — तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः ।", "52032": "<<नेर्बिडज्बिरीसचौ>> - नेर्बिडज्विरीसचौ ।नते नासिकायाः संज्ञाया॑मित्यनुवर्तते । नेः-नासिकाया नतेऽर्थे बिडच्, विरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः । 'निबिडा वृक्षा' इति तु उपमानादित्याहुः ।", "52033": "<<इनच्पिटच्चिकचि च>> - इनच्पिटच् । इनच् पिटजिति समामहाद्वन्द्वात्प्रथमैकवचनम् । 'चिकचि' इत्यपि चिक-चि-इत्यनयोः समाहाद्वन्द्वात्प्रथमैकवचनम् । प्रकृतेरिति । नेरित्यर्थः । तत्र इनचि परे चिक इत्यादेशः । तत्र अकार उच्चारणार्थः । पिटचि तु परे चीत्यादेशः । कप्रत्ययेति । उक्तनेः कप्रत्ययः, प्रकृतेः चिकादेशश्चेत्यर्थः । अयमपि ककारान्तः एवादेशः । चिकिनमिति । इनचि प्रत्यये कृते नेश्चिकादेशे रूपम् । चिपिटमिति । पिटचि कृते नेश्चीत्यादेशे रूपम् । चिक्कमिति । कप्रत्यये नेश्चिकादेशे रूपम् । क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी इति । वार्तिकमिदम् । चिल् पिलिति समाहारद्वन्द्वात्प्रथमैकवचनम् । क्लिन्ने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दादस्य चक्षुषी इत्यर्थे लप्रत्ययः, प्रकृतेश्चिल् पिल् एतावादेशौ स्त इत्यर्थः । क्लिन्ने इति । नेत्राऽ.ञमयप्रयुक्तजलनिष्यन्दवतीइत्यर्थः । चिल्ल पिल्ल इति । क्लिन्नचक्षुष्क इत्यर्थः । चुल्चेति । उक्तविषये क्लिन्नस्य चुल् आदेशश्च लप्रत्ययसंनियोगेन वक्तव्य इत्यर्थः । उपाधिभ्याम् । उप, अधि आभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन्प्रत्ययः स्यादित्यर्थः । आसन्नं=समीपम् । आरूढम्ुच्चम् । अनुवर्तत इति । 'नते नासिकायाः' इत्यस्मादिति भावः । कस्य समीपं, कस्योच्चमित्याकाङ्क्षायां संज्ञाधिकारात् पर्वतस्येति लभ्यत इत्यभिप्रेत्याह — पर्वतस्येति । उपत्यका, अधित्यकेति । स्त्रीत्वं लोकात् । अत्रप्रत्ययस्था॑दिति इत्त्वं तु न,त्यकनश्चे॑त्युक्तेः ।", "52034": "", "52035": "<<कर्मणि घटोऽठच्>> - कर्मणि घटोऽठच् । सप्तम्यन्तात्कर्मन्शब्दाद्धट इत्यर्थे अठच्स्यादित्यर्थः । घटशब्दस्य कलशषपर्यायत्वभ्रमं वारयति — कर्मणि घटत इति । व्याप्रियत इत्यर्थः । तथाचाऽत्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि 'नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाऽभावादिकादेशाऽभाव इति भावः ।", "52036": "<<तदस्य संजातं तारकाऽऽदिभ्य इतच्>> - तदस्य । प्रथमान्तेभ्यस्तारकादिभ्योऽस्य तत्संजातमित्यर्थे इतच् स्यादित्यर्थः । तारकितं नभ इति । संजातनक्षत्रमित्यर्थः । आकृतिगणोऽयमिति । तेनपुष्पितो वृक्षः॒॑फलित॑ इत्यादिसंग्रहः ।", "52037": "<<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> - प्रमाणे । अनुवर्तत इति । ततश्च अस्य प्रमेयस्य तत्प्रमाणमित्यर्थे प्रमाणे विद्यमानात्प्रथमान्ताद्द्वयसच्, दघ्नच्, मात्रच् एते प्रत्ययाः स्युः । प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थ इति भाष्ये स्पष्टम् । तत्रप्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति भाष्ये उक्तम् । प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रच् । प्रस्थमात्रमूरुमात्रमित्यादि इति कैयटः ष । वस्तुतस्तु 'यत्तदेतेभ्यः' इति सूत्रभाष्यस्वरसादायामपरिच्छेदकमेवात्र प्रमाणमिति शब्देन्दुशेखरे विस्तरः । प्रमाणे ल इति । लुको 'ल' इति पूर्वाचार्यशास्त्रसिद्धा संज्ञा । प्रमाणे वर्तमानाद्विहितस्य द्वयसजादेर्लुग्वक्तव्य इत्यर्थः । शमो दिष्टिर्वितस्तिरिति । रामः प्रमाणमस्येत्यादिविग्रहः । शमादयोऽनूद्र्धमानविशेषाः, तेभ्यो मात्रचो लुक्, इतरयोरसंभवात् । अत्रआयामस्तु प्रमाणं स्यादि॑त्येव गृह्रते । एवंच ऊरुद्वयसमित्यादौ न लुक् । द्विगोर्नित्यमिति । प्रमाणान्ताद्द्विगोः परस्य द्वयसजादेर्नित्यं लुक् स्यादित्यर्थः । प्माणान्तस्य द्विगोः प्रमाणाऽवृत्तित्वात्सामर्थ्यादिह तदन्तविधिः । पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाऽभावात् । द्विशममिति । तद्धितार्थे द्विगुः । ततो मात्रचोऽनेन लुक् । विकल्पस्याऽप्रकृतत्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचो लुगर्थम् । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि स मात्रच न लुप्येतेति भाष्ये स्पष्टम् । प्रमाणेति । प्रमाणवाचिनः परिमाणवाचिनः सङ्ख्यावाचिनश्य संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एव गृह्रते,आयामस्तु प्रमाणं स्यादि॑ति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शममात्रमित्यादि । शमः स्यान्न वेत्यादिर्गविग्रहः ।वत्वन्तादिति । वार्तिकमिदम् । पुरुषहस्तिभ्यामण् च । 'उक्तविषये' इति शेषः । चाद्द्वयसजादयस्त्रयः ।", "52038": "<<पुरुषहस्तिभ्यामण् च>> - पुरुषहस्तिभ्यामण् च । 'उक्तविषये' इति शेषः । चाद्द्वयसजादयस्त्रयः ।", "52039": "<<यद्तदेतेभ्यः परिमाणे वतुप्>> - यत्तदेतेभ्यः । तदस्येत्यनुवर्तते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद्, एभ्यो वतुप् स्यादित्यर्थः । यावानिति । यच्छब्दाद्वतुप् । उपावितौ । 'आ सर्वनाम्नः' इत्यात्त्वम्, सुः,उगिदचामि॑ति नुम्,अत्वसन्तस्ये॑ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ । एवं तावान्, एतावान् ।", "52040": "<<किमिदंभ्यां वो घः>> - किमिदंभ्यां वो घः । तदस्येति, परिमाणे वतुविति चानुवर्तते । तदाह — आभ्यां वतुप् स्यादिति । आभ्यां प्रथमान्ताभ्याम्अस्य तत्परिमाण॑मित्यर्थे वतुप्स्यादित्यर्थः । वस्य च घ इति । वकारस्य घकार इत्यर्थः । कियानिति । किं परिमाणमस्येति विग्रहः । किंशब्दाद्वतुप् । उपावितौ । वकारस्य घकारः । इयादेशः । किम् इयत् इति स्थिते 'इदङ्किमोरीश्की' इति किमः कीभावेयस्येति चे॑ति ईकारलोपे कियच्छब्दात्सौउगिदचा॑मिति नुमि अत्वसन्तस्ये॑ति दीर्घे, हल्ङ्यादिसंयोगान्तलोपाविति भावः । इयानिति । इदंशब्दाद्वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थितेइदङ्किमोरीश्की॑ति शित्त्वादिदम ईकारे सर्वादेशेयस्येति चे॑ति ईकारस्य लोपे इयदिति प्रत्ययमात्रं शिष्यते । ततः सौ नुमादि पूर्ववत् ।", "52041": "<<किमः संख्यापरिमाणे डति च>> - किमः सङ्ख्या । तदस्येत्यनुवर्तते । सङ्ख्यायाः परिमाणं=परिच्छेदः । किंशब्दःप्रश्ने वर्तते । का अस्य सङ्ख्येत्येवं सङ्ख्या परिच्छेदविषयकप्रश्ने विद्यमानात्कशब्दात्प्रथमान्तादस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः । कतीति । का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति,अस्ये॑त्यनेन एकत्वस्य, अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात्, ज्ञाते च प्रश्नाऽसम्भवात् । का सङ्ख्या एषामिति तु प्रश्नः सम्भवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात् । उक्तं च भाष्ये — ॒न द्व्येकयोः प्रश्नोऽस्ती॑ति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दोडति चे॑ति षट्संज्ञकत्वात्षड्भ्यो लु॑गिति जश्शसोर्वुक् । कियन्त इति । कियानितिवत्प्रक्रिया । बहुवचने विशेषः । 'सङ्ख्यापरिमाणे' इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति । का सङ्ख्या एषां दशानामिति ।दशाऽवरा परिष॑दित्यत्र ब्राआहृणब्राउवाणां मेलने इदं वाक्यं प्रवृत्त्म् । सङ्ख्येयद्वारा सङ्ख्यायाः कुत्साऽत्र गम्यते,अव्रतानाममत्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्त्वं न विद्यते ।॑ इति स्मरणात् ।", "52042": "<<संख्याया अवयवे तयप्>> - सङ्ख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसङ्ख्याका अवयवा अस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तादस्यावयविन इत्यर्थे तयवित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः ।", "52043": "<<द्वित्रिभ्यां तयस्यायज्वा>> - द्वित्रिभ्यां द्वित्रिभ्यां परस्य तयपोऽयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपोऽयचिःयस्येति चे॑ति इकारलोपः । द्व्यवयवकसमुदाय इत्यर्थः । एवम् त्रयम् ।", "52044": "<<उभादुदात्तो नित्यम्>> - उभादुदात्तो नित्यं । स चोदात्त इति । आद्युदात्त इत्यर्थः । अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम् । अत्रअयच्प्रत्यय एव विधीयते, नतु तयप आदेशः॑ इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । 'तयप आदेश' इति मूलं तु वार्तिकानुरोधेन ।**** इति बालमनोरमायाम् पाञ्चमिकाः । ****अथ परस्मैपदप्रक्रिया ।अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते — शेषात्कर्तरीति ।", "52045": "", "52046": "<<शदन्तविंशतेश्च>> - शदन्तविंशतेश्च । शेषपूरणेन सूत्रं व्याचष्टे — डः स्यादुक्तेऽर्थेइति । दशान्तत्वाऽभावात्पूर्वेणाऽप्राप्तिः । तिंरशं शतमिति । हे सतिटि॑रिति टिलोपः । विंशमिति । विंशतिरिस्मिन्नधिका इति विग्रहः ।ति विंशते॑रिति तिशब्दस्य लोपः । अन्तग्रहणादेकतिंरशं शतमिति सिद्धम् । अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् ।विंशतावप्यन्तग्रहण॑मिति वार्तिकादेकविंशं शतमित्यादि सिद्धम् ।", "52047": "<<संख्याया गुणस्य निमाने मयट्>> - सङ्ख्याया गुणस्यतदस्ये॑त्यनुवर्तते । गुणः=भागः, अंशः । निमीयते क्रीयतेऽनेनेति निमानं=मूल्यद्रव्यम् ।मेङ् प्रणिदाने॑ । करणे ल्युट् । तदाह — भागस्य मूल्य इत्यादि । षष्ठर्थे इति । अस्येत्यर्थे इत्यर्थः ।यवानां द्वौ भागौ निमानमस्योदइआद्भागस्ये॑ति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदइआत्प्रस्थः क्रियते यत्र तत्रेदं वाक्यं प्रयुज्यते ।द्विमयमुमइआद्यवाना॑मित्युदाहरणम् ।यवाना॑मिति संबन्धसामान्ये षष्ठी । यवप्रस्थद्वयेन क्रेतव्यमुदइआदित्यर्थः । द्विशब्दस्य भागवृत्तेर्नित्यसापेक्षत्वेऽपि प्रत्ययः । द्वौ व्रीहियवौ निमानमस्योदइआत इति । द्वित्वसङ्ख्याविशिष्टौ व्रीहियवराशी यौ तौ अस्य उदइआतो निमानमित्यर्थः । अत्र उदइआद्यावत् तदपेक्षया व्रीहियवराश्योर्द्वि गुणत्वं न विवक्षितं, किंतु राशद्वित्वमेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाऽभावान्न प्रत्ययः ।", "52048": "<<तस्य पूरणे डट्>> - तस्य पूरणे । सङ्ख्याया इत्यनुवर्तते । सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठन्तात्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः=अवयवः, स प्रत्ययार्थः । एकादश इति । एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन्ननुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयवः । एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चाना घटानां पूरणं जलादि ।", "52049": "<<नान्तादसंख्याऽऽदेर्मट्>> - नान्तासङ्ख्यादेर्मट् । डटो मडागमः स्यादिति । शेषपूरणमिदम् । डटि टकार इत् । अकार उच्चारणार्थः । पञ्चम इति । पञ्चन्शब्दाड्डटि तस्य भडागमे सति नलोपः । यद्यपिमटः प्रत्ययत्वेऽपि न रूपभेदः, तथापि स्वरविशेषार्थं मडागमाश्रयणमिति भाष्ये स्पष्टम् ।", "52050": "", "52051": "<<षट्कतिकतिपयचतुरां थुक्>> - षट्कति । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्त्यादचः परः । षष्ठ इति । अपदान्तत्वात्षस्य न जश्त्वम् । चतुर्थ इति अपदान्तत्वान्न रेफस्य विसर्गः । चतुर इति । वार्तिकमिदम् । चतुर्शब्दात्षष्ठन्तात्पूरणे छयतौ स्तः । आद्यक्षरस्य लोपश्चेति । 'च' इति सङ्घातस्य लोपश्चेत्यर्थः ।", "52052": "<<बहुपूगगणसंघस्य तिथुक्>> - वतोरिथुक् । डटीत्येवेति । वतुबन्तस्य इथुगागमः स्याड्डटीत्यर्थः । यावतिथ इति । यावतां पूरण इति विग्रहः ।बहुगणे॑ति सङ्ख्यात्वात् 'तस्य पूरणे' इति डेटि प्रकृतेरिथुक् ।", "52053": "", "52054": "<<द्वेस्तीयः>> - द्वेस्तीयः । द्विसब्दात्षष्ठन्तात्पूरणे तीयप्रत्ययः स्यादित्यर्थः ।", "52055": "<<त्रेः सम्प्रसारणं च>> - त्रेः संप्रसारणं च । त्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः । तीयप्रत्यये सति रेफस्य सम्प्रसारणमृकारः ।सम्प्रसारयणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घस्तु न भवति, 'ढ्रलोपे' इत्यतोऽण इत्यनुवृत्तेः ।", "52056": "<<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> - विंशत्यादिभ्यः । तमटि टकार इत् । मकारादकार उच्चारणार्थः । अत्रपङ्क्तिविंशती॑ति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ते नतु लोकप्रसिद्धा एकविशत्यादयोऽपि, विप्रकर्षादिति कैयटः । एकविंशतितम॑ इत्यत्र तु तदन्तविधिना तमडित्यग्रे वक्ष्यते ।", "52057": "<<नित्यं शतादिमासार्धमाससंवत्सराच्च>> - नित्यं शतादि । शतादिभ्यो मासात् अर्धमासात्संवत्सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ननुषष्ठआदेश्चे॑त्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह — एकशततम इति ।असङ्ख्यादे॑रिति पर्युदासादुत्तरसूत्रस्य नात्र प्रवृत्तिरिति भावः । ननु मासार्धमाससंवत्सरशब्दानां सङ्ख्यावाचित्वाऽभावात्तेभ्यो डट एवाऽप्रसक्तेस्तस्य कथं तदड्विधिरित्यत आह — मासादेरिति । मासतम इति । मासस्य पूरणः-अर्धमासादिरवयवः । अर्धमासतम इति । अर्धमासस्य पूरणस्तिथ्यादिरवयवः । संवत्सरतम इति । संवत्सरस्य पूरणो मासादिरवयवः ।", "52058": "<<षष्ट्यादेश्चासंख्याऽऽदेः>> - षष्ठआदेश्चासह्ख्यादेः । सङ्ख्यापूर्वपदात्पष्टआदेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । विंशत्यादिभ्यः॑ इति विकल्पस्याऽपवादः । एकषष्टः एकषष्टितम इति । सङ्ख्यादित्वान्नित्यस तमटोऽभावे 'विंशत्यादिभ्यः' इति डटस्तमड्विकल्पः । तमडभावे डटियस्येति चे॑ति इकारलोपे 'एकषष्ट' इति रूपम् । ननु केवलसात्षष्टआदेर्विहितस्य नित्यतमटः सह्ख्यादेः कथं प्रसक्तिः, तमडागमविधेरप्रत्ययविधित्वेऽपिग्रहणवता प्रातिपदिकेन तदन्तविधिं ज्ञापयति । तेन 'विंशत्यादिभ्यः' इति पूर्वसूत्रमेकविंशतितम इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम् । एवंच 'एकान्नविंशतितमः' इत्यपि सिद्धम् ।", "52059": "<<मतौ च्छः सूक्तसाम्नोः>> - मतौ छः ।मतु॑शब्दो मत्वर्थे लाक्षणिक इत्याह मत्वर्थे इति । अच्छा वाकीयं सूक्तमिति । अच्छावाकशब्दोऽस्यास्ति, अस्मिन्नस्तीति वा विग्रहः । अच्चावाकशब्दयुक्तमित्यर्थः । अच्छावाकशब्दाच्छब्दस्वरूपपरात् प्रथमान्ताच्छः । वारवन्तीयं सामेति ।अआं नत्वा वारवन्त॑मित्यस्यामृच्यध्यूढमित्यर्थः । एवमस्यवामीयमित्यपि ।अस्यवामस्ये॑त्यस्य एकदेशानुकरणस्यवामेति । तस्माच्छः । अस्यवामशब्दसंयुक्तमित्यर्थः ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यात्वात्सुपो न लुक् ।", "52060": "<<अध्यायानुवाकयोर्लुक्>> - अध्यायानुवाकयोर्लुक् । नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः, सूक्तसाम्नोरिति नियमादित्यत आह — अत एवेति । विधानेति । मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधानसामर्थादिति कैयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु अध्यायानुवाकयोर्वा लुग्वक्तव्यः॑ इति वचनमेवारब्धम् । गर्दभाण्डः गर्दभाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । भाष्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वाऽन्वेष्यः ।", "52061": "<<विमुक्तादिभ्योऽण्>> - विमुक्तादिभ्योऽण् । वैमुक्त इति । विमुक्तशब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः ।", "52062": "<<गोषदादिभ्यो वुन्>> - गोषदादिभ्यो वुन् । गोषदक इति । गोषदशब्दसंयुक्तोऽध्यायो ।ञनुवाको वेत्यर्थः । इषेत्वक इति ।इषेत्वे॑ति शब्दयुक्त इत्यर्थः ।अस्यवामीय॑मित्यत्रोक्तरीत्या सुपो न लुक् ।", "52063": "<<तत्र कुशलः पथः>> - तत्र कुशलः पथः । बुन्स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थः । पथक इति । आकादेशेनस्तद्धिते॑इति टिलोपः ।", "52064": "<<आकर्षादिभ्यः कन्>> - आकर्षादिभ्यः कन् । आकर्षक इति । यद्यपि वुनैवाऽनुवृत्तेनेदं सिध्यति तथापि शकुनिक॑ इत्यद्यर्थं कन्ग्रहणम् ।", "52065": "<<धनहिरण्यात् कामे>> - धनहिरण्यात्कामे । तत्रेत्यनुवर्तते । धनशब्दाद्धिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये कन्स्यादित्यर्थः । काम इच्छेति । नतु कामयिता, व्याख्यानादिति भावः ।", "52066": "<<स्वाङ्गेभ्यः प्रसिते>> - स्वाङ्गेभ्यः प्रसिते । तत्रेत्यनुवर्तते । स्वाङ्गेभ्यः सप्तम्यन्तेभ्यः प्रसितेऽर्थे कन्स्यादित्यर्थः । प्रसितः=उत्सुकः । तद्रचनायामिति । वेण्यादिग्रथने इत्यर्थः । अत्रैवार्थेऽस्य साधुत्वम्, व्याख्यानादिति भावः ।", "52067": "<<उदराट्ठगाद्यूने>> - उदराट्ठगाद्यूने । तत्र प्रसित इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दादाद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आद्यूनशब्दं विवृण्वन्नाह — अविजिगीषाविति ।दिवोऽविजिगाषाया॑मित्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितो नतु मल्लवद्युद्धे विजिगीषयेत्यर्थः । उदरक इति । 'मल्ल' इति शेषः । स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति । तदाह — उदर परिमार्जनादौ प्रसक्त इति ।विजिगीषये॑ति शेषः ।", "52068": "<<सस्येन परिजातः>> - सस्येन परिजातः । तृतीयान्तात्सस्यशब्दात्परिजात इत्यर्थे कन्स्यादित्यर्थः । सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह — कन्स्वर्यते नतु ठगिति । स्वरितत्वप्रतिज्ञायां तु पाणिनीयपरम्परैव प्रमाणम् । गुणवाचीति । व्याख्यानमेवात्र शरणम् । शस्येनेतीति । 'शंसु स्तुतौ' इति धातोः कर्मणि यति शस्यशब्दः स्तुत्यपर्यायः । स्तुत्यश्च गुण एवेति भावः । परिजात इत्यस्य विवरणं — संबद्ध इति ।", "52069": "<<अंशं हारी>> - अंशं हारी । द्वितीयान्तादंशशब्दाद्धरीत्यर्थे कन्स्यादित्यर्थः । ननु कृद्योगषष्ठीप्रसङ्गादंशमिति कथं द्वितीयेत्यत आह — आवश्यके णिनिरिति ।आवश्यकाधमण्र्ययो॑रित्यनेने॑ति शेषः । षष्ठी नेति ।अकनो॑रिति तन्निषेधादिति भावः ।", "52070": "<<तन्त्रादचिरापहृते>> - तन्त्रादचिरापह्मते । तन्त्रशब्दात्पञ्चम्यन्तादचिरापह्मतेऽर्थे कनित्यर्थः । तन्त्रं — तन्तुवायशलाका । अचिरेण कालेन अपह्मतः — अचिरापह्मतः ।कालाः परिमाणिने॑ति समासः । प्रत्यग्र इति । नूतन इत्यर्थः ।", "52071": "<<ब्राह्मणकोष्णिके संज्ञायाम्>> - ब्राआहृणकोष्णिके । आयुधजीविविषयब्राआहृणशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्निपात्यत इत्यर्थः । अल्पान्नशब्दस्येति । अल्पान्नशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्प्रत्ययः, प्रकृतेरुष्णादेशश्च निपात्यत इत्यर्थः ।", "52072": "<<शीतोष्णाभ्यां कारिणि>> - शीतोष्णाभ्यां शीतमिव शीतं मन्दमित्यर्थः । उष्णमिव उष्णम् । शीघ्रमित्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन्स्यादित्यर्थः । य आशु कर्तव्यानर्थाश्चिरेण करोति स शीतक उच्यते, यस्तु अनाशु कर्तव्यानाओव करोति स उष्णक उच्यत इति भाष्ये । संज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः । तदाह — शीतकोऽलस इति । उष्णकः शीघ्रकारीति च ।", "52073": "<<अधिकम्>> - अधिकम् । अध्यारूढशब्दादिति । व्युत्पादनमात्रमिदम् । शुद्धरूढ एवायमिति बोध्यम् ।", "52074": "<<अनुकाभिकाभीकः कमिता>> - अनुकाभिका । अनुक, अभिक, अभीक-एषां समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् ।", "52075": "<<पार्श्वेनान्विच्छति>> - पार्ोनाऽन्विच्छति । तृतीयान्तात्पार्ाशब्दादन्विच्छतीत्यर्थ संज्ञायां कन्स्यादित्यर्थः । अन्वेषणं=मार्गणम् । पार्वआमिव पार्ाम्नुजुरुपायः ।ऋजूपायेन अन्वेष्टव्यानर्थान्योऽनृजुनोपायेनान्विच्छति स पार्ाक॑ इति भाष्यम् । तदाह — अनृजुरित्यादि ।", "52076": "<<अयःशूलदण्डाजिनाभ्यां ठक्ठञौ>> - अयःशूल । अयःशूल, जण्डाजिन आभ्यां, तृतीयान्ताभ्यामन्विच्छतीत्यर्थे संज्ञायां ठक्ठञौ स्त इत्यर्थः । अयःशूलमिव अयःशूलम् । साहसमित्यर्थः । यो मृदुनोपायेनन्विष्टव्यानर्थास्तीक्ष्णोपायेनान्विच्छति स आयःशूलिक॑ इति भाष्यम् । तदाह — तीक्ष्णोपाय इत्यादि । दम्भ इति । दम्भार्थत्वाद्दण्डाजिनशब्दो दम्भे लाभणिक इति भावः ।", "52077": "<<तावतिथं ग्रहणमिति लुग्वा>> - तावतिथं । तावतां पूरणं तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । तृतीयार्थे प्रथमा ।ग्रहण॑मिति भावे ल्युडन्तम् । तथा च तृतीयान्तात्पूरणप्रत्ययान्ताद्ग्रहणमित्यर्थे कन्स्यातद्पूरणप्रत्ययस्य च लुग्वेत्यर्थ इत्यभिप्रेत्याह — कन्स्यादित्यादि । पूरणप्रत्ययान्तस्य तु प्रकृतिभूतस्य न लुक्, किंतु पूरणप्रत्ययमात्रस्य, षष्ठेन गृह्णाति षट्क इति भाष्योदाहरणात् । द्वितीयेन रूपेणेति । अनेन तृतीयैव समर्थविभक्तिरिति सूचितम् । इतिना लोकानुसारित्वं गम्यते । एवं च ग्रन्थविषयकमेव ग्रहणिह फलति । तेनद्वितीयं ग्रहणं देवदत्तेन दण्डस्ये॑त्यादौ न भवति । तावतिथेनेति । ग्रहणे ।ञर्थे विहितं ग्रहीतरि न प्राप्नोतीत्यारम्भः । षट्को देवदत्त इति । भाष्ये एवमेवोदाहृतत्वात्पूरणप्रत्ययस्यैव लुगिति गम्यते, नतु तदन्तस्य ।", "52078": "<<स एषां ग्रामणीः>> - स एषा ग्रामणीः । ग्रामणीविशेषवाचकाच्छब्दात्प्रथमान्तादस्येत्यर्थे कन्स्यादित्यर्थः । देवदत्तो मुख्य एषामिति । एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम् ।ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॑ इत्यमरः । त्वत्काः मत्का इति । त्वमहं वा मुख्य एषामिति विग्रहः ।प्रत्ययोत्तरपदयोश्चे॑ति त्वमौ शृङ्खलमस्य । करभ इति । षष्ठर्थे सप्तमी ।बन्धन॑मिति करणे ल्युट् । अस्य करभस्य शृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणाच्छृङ्खलशब्दात्प्रथमान्तादस्य करभस्येत्यर्थे कन्स्यादित्यर्थः । शृङ्खलक इति । शृङ्खलेन बद्ध इति यावत् । करभः=बाल उष्ट्रः ।", "52079": "", "52080": "<<उत्क उन्मनाः>> - उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्टितवृत्तेरित्यर्थः ।", "52081": "<<कालप्रयोजनाद्रोगे>> - कालप्रयोजनाद्रोगे । काल, प्रयोजन — अनयोः समाहारद्वन्द्वः । तदाह — कालवचनात्प्रयोजनवचनाच्चेति ।यथोचितविभक्त्यन्ता॑दिति शेषः । कालशब्देनाऽत्र कालवृत्तिःपूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्रते, न तु मासादिशब्दः, व्याख्यानात् । तदाह — द्वितीयेऽहनीति । प्रयुज्यतेऽनेनेति करणे ल्युटिप्रयोजनं॑साधनम् । कर्मणि ल्युटि तु फलम् । तदाह — प्रयोजनं कारणं रोगस्य फलं वेति ।", "52082": "<<तदस्मिन्नन्नं प्राये संज्ञायाम्>> - तदस्मिन्नन्नं । प्रथमान्तादन्नवाचकादस्मिन्नित्यर्थे कन् स्यादन्नस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः । वटकेभ्य इति । संज्ञायामित्येव वटकिनीति । वटकाः प्रायेण अन्नमस्यां प्रौर्णमास्यामिति विग्रहः ।", "52083": "<<कुल्माषादञ्>> - कुल्माषादञ् । कनोऽपवादः ।स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॑ इत्यमरः ।", "52084": "<<श्रोत्रियंश्छन्दोऽधीते>> - श्रोत्रियंश्छन्दोऽधीते । द्वितीयान्ताच्छन्दश्शब्दादधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते । अध्येत्रणोऽपवादः । वेत्यवृत्तेरिति ।तावतिथ॑मिति सूत्रान्मण्डूकप्लुत्ये॑ति शेषः । ततश्च घनभावे अद्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् ।", "52085": "<<श्राद्धमनेन भुक्तमिनिठनौ>> - श्राद्धमनेन । प्रथमान्ताच्छ्राद्धशब्दाद्भुक्तमनेनेत्यर्थे इनिठनौ [एतौ] स्त इत्यर्थः । श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः । इनिप्रत्यये नकारादिकार उच्चारणार्थः ।", "52086": "<<पूर्वादिनिः>> - पूर्वादिनिः । अनेनेति कर्तृतृतीयान्तमनुवर्तते । कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम् । उपस्थितत्वात् कृञर्छभूतं क्रियासामान्यमेव प्रतीयते । ततश्च पूर्वं कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दादनेनेत्यर्थे इनिः स्यादित्यर्थः ।", "52087": "<<सपूर्वाच्च>> - सपूर्वाच्च । विद्यमानपूर्वादपि पूर्वशब्दादुक्तविषये इनिः स्यादित्यर्थः । पूर्वान्तादिति यावत् । प्रातपदिकविशेषणत्वेऽपि प्रत्ययविधौ तदन्तविधिप्रतिषेधादप्राप्ते सूत्रमिदम् । कृतपूर्वी कटमिति । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम् ।", "52088": "<<इष्टादिभ्यश्च>> - इष्टादिभ्यश्च । इष्टादिभ्यस्तृतीयान्तेभ्योऽनेनेत्यर्थे इनिः स्यादित्यर्थः ।", "52089": "<<छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि>> - छन्दसि परिपन्थि । परिपन्थिन्, परिपरिन् एतौ शब्दौ छन्दसि निपात्येते पर्यवस्थातरि वाच्ये । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेसे परिपन्थिन्शब्दः । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पर इत्यादेसे परिपरिन्शब्दः ।मा त्वा विदन्परिपन्थिनः, मा वा परिपरिणो विदन् इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् ।", "52090": "<<अनुपद्यन्वेष्टा>> - अनुपद्यन्वेष्टा । पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुपदमित्यस्मादन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते ।", "52091": "<<साक्षाद्द्रष्टरि संज्ञायाम्>> - साक्षाद्द्रष्टरि ।साक्षा॑दित्यव्ययम्, इह शब्दस्वरूपपरं लुप्तपञ्चमीकम् । साक्षादित्यव्ययाद्द्रष्टर्यर्थे इनिः स्यादित्यर्थः । साक्षीति । यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः । 'अव्ययानां भमात्रे' इति टिलोपः ।", "52092": "<<इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्- इन्द्रदत्तमिति वा>> - इन्द्रियम् । इन्द्रलिङ्गमित्याद्यर्थेषु इन्द्रियमिति भवति । इन्द्रशब्दाद्यथायोगं षष्ठीतृतीयान्ताल्लिङ्गमित्याद्यर्थेषु घच् निपात्यत इति यावत् । इन्द्र आत्मेति ।स एतमेव पुरुषं ब्राहृ ततममपश्यदिदमदर्शमिति । तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्रमित्याचक्षते॑ इति श्रुतेरिति भावः । तस्यलिङ्गमिति । आत्मनोऽनुमापकमित्यर्थः । लिङ्गत्वमुपपादयति — करणेनेति ।चक्षुरादीन्द्रियं किञ्चित्कत्र्रधिष्ठितं भवितुमर्हति, करणत्वात्, घटकरणदण्डादिव॑दित्यनुमानादित्यर्थः । मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातामिन्द्रियम् । इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम् । रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः । इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह — इतिकरणमिति । इतिशब्द इत्यर्थः ।", "52093": "", "52094": "<<तदस्यास्त्यस्मिन्निति मतुप्>> - तदस्यास्त्यस्मिन्निति मतुप् । तदस्यास्तीति तदस्मिन्नस्तीति विग्रहे अस्मि समानाधिकरणात्प्रथमान्तादस्य अस्मिन्निति चार्थे मतुप्स्यादित्यर्थः । उपावितौ । इतिशब्दो विषयविशेषलाभार्थः । तदाह — भूमनिन्देति । श्लोकवार्तिकमिदम् । भूमा=बहुत्वम् । यथा गोमान्, यवमान् । निन्दायां-ककुदावर्तिनी कन्या । प्रशंसायां-रूपवान् । नित्ययोगे — क्षीरिणो वृक्षाः । अतिशायने-उदरिणी कन्या । संसर्गे-दण्डी । छत्री । वृत्तिनियामकः संसर्गविशेषो विवक्षितः । तेन 'परुषी दण्ड' इति नास्ति ।", "52095": "<<रसादिभ्यश्च>> - रसादिभ्यटश्च । मतुबिति । शेषपूरणमिदम् । 'उक्तविषये' इति शेषः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अन्यमत्वर्थीयेति । 'अत इनिठनौ' इत्यादिनिवृत्त्यर्थमित्यर्थः । रसादीन्पठति — रसरूपेत्यादि भावेत्यन्तम् । गुणादिति । एकाचेति । गणसूत्रम् । उदाहरति-स्ववानिति । गुणग्रहणमिति । गुणादित्येतद्रसादीनां षण्णां विशेषणमित्यर्थः । तेन गुणवाचकानामेव एषां ग्रहणाज्जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानामिह न ग्रहणमिति भावः । 'रसिको नटः' 'स्पर्शिकं वारि' इत्यादि प्रयोगदर्शनादिदं सूत्रं भाष्ये प्रत्याख्यातम् ।", "52096": "<<प्राणिस्थादातो लजन्यतरस्याम्>> - प्राणिस्थात् । आदन्तात्प्राणिस्थवाचिनः शब्दान्मत्वर्थे लज्वा स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य दीपाग्रवाचिनः प्राणिस्थवाचित्वाऽभावान्न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचिश्चत्करणं व्यर्थं, चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धेरित्यत आह — प्रत्ययस्वरेणेति । चूडालोऽसीति । तत्र असीत्येतत् 'तिङ्ङतिङः' इति निहतम् । चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनाऽनुदात्तस्याद्गुणस्यएकादेश उदात्तेने॑त्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्ते सहैकादेशत्वात्स्वरितो वाऽनुदात्ते॑ इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः ।", "52097": "<<सिध्मादिभ्यश्च>> - सिध्मादिभ्यश्च । लज्वा स्यादिति । 'मत्वर्थे' इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्ययविकल्पार्थकं, किन्तु मतुप्प्रत्ययसमुच्चयार्थकमेव, अन्यतरस्यामित्यस्याव्ययत्वेनाऽनेकार्थकत्वात् । ततश्च सिध्मादिभ्यो लच्, मतुप्च स्यादिति लभ्यते । नचान्यतरस्यामित्यस्याऽत्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप्सिद्ध इति वाच्यम्,लजभावे मतुबेव भवति, नतु अत इनिठनौ॑ इत्येतदर्थ समुच्चयविधानात् । तदाह — तेनेति । सिध्मादिषु ये अकारान्तास्तेभ्य इनिठनौ नेत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, [निष्पाव]पांसु, हनु, पाष्ण इत्यादयः सिध्मादिषु पठिताः । एवंच लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्याङ्ग्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नतु रूढशब्देषु । अतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामूङ् चेति । सिघ्मादिगणसूत्रमिदम् । एभ्यो लच्, प्रकृतेरूङ् चादेशः । ङकारस्तु #आदेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशङ्का स्यात् । वातूलः । एवं दन्तूलः, बलूलः ललाटूलः ।", "52098": "<<वत्सांसाभ्यां कामबले>> - वत्सासाभ्यां लच्स्यादिति । 'मत्वर्थे' इति शेषः । कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह — कामवति बलवति चेति ।", "52099": "<<फेनादिलच् च>> - फेनादिलच्च । 'मत्वर्थ' इति शेषः । चाल्लजिति । संनिहितत्वादिति भावः । नन्वेवं सति मतुब् नैव स्यादित्यत आह — अन्यतरस्यांग्रहणमिति । सिघ्मादिसूत्रे व्याख्यातमिदम् ।", "52100": "<<प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः>> - प्रज्ञाश्रद्धार्चाभ्योणः । प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः । प्राज्ञो व्याकरणमिति । प्रज्ञानं प्रज्ञा । स्त्रियामित्यधिकारे प्रपूर्वकाज्ज्ञाधातोः 'आतश्चोपसर्गे' इति भावे अङ् । प्रज्ञा अस्यास्तीति विग्रहः । उपसर्जनभूतामपि प्रज्ञानतन्निषेधात् । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम् । नच प्रजानातीति प्रज्ञः ।इगुपधे॑ति कः । प्रज्ञशब्दात्स्वार्थे अणि प्राज्ञ इति सिध्यतीति शङ्क्यं, तथा सति स्त्रिया ङीप्प्रसङ्गात् । तदाह — प्राज्ञेति । श्राद्ध इति । श्रद्धा अस्यास्तीति विग्रहः । आर्चेति । अर्चा अस्यास्तीति विग्रहः ।वृत्तेश्चेति । वार्तिकमिदम् । 'मत्वर्थे णप्रत्यय' इति शेषः । वार्त इति । वृत्तिरस्यास्तीति विग्रहः ।", "52101": "", "52102": "<<तपःसहस्राभ्यां विनीनी>> - तपः सहरुआआभ्यां । विनिश्च इनिश्चेति द्वन्द्वः । 'मत्वर्थे' इति शेषः । यथासंख्यमन्वयः । विनिप्रत्यये इनि प्रत्यये च नकारादिकारौ उच्चारणार्थौ । ननु नकारयोरित्संज्ञा कुतो न स्यात् । नच प्रयोजनाऽभावः, नित्स्वरस्यैव फलत्वादित्यत आह — नकारपरित्राणार्थ इति । तथा च उपदेशे अन्त्यत्वाऽभावान्नेत्संज्ञेचि भावः । यद्यपिअस्मायामेधे॑त्यसन्तत्वादेव तपःशब्दाद्विन्सिद्धः, सहरुआशब्दात्तु 'अत इनिठनौ' इत्येवेन्सिद्धस्ततथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्ताऽदन्तलक्षणयोर्विनीन्योः सामान्यलिगितयोर्बाधो मा भूदिति विशिष्येह तपःसहरुआशब्दाभ्यां तयोर्विधानम् । सहरुआशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते ।", "52103": "<<अण् च>> - अण्च ।तपःसहरुआआभ्यां मत्वर्थे॑ इति शेषः । ननुतपःसहरुआआभ्यां विनीन्यणः॑ इत्येकमेव सूत्रमस्तु । नच तपःसहरुआआभ्यां विनीन्योर्यथासंख्यार्थं पृथक्सूत्रकरणम्, अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यं,तपःसहरुआआभ्यामण्विनीनी॑ इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अण उभयसम्बन्धस्य, विनीन्योर्यथासंख्य(त्व)स्य च सिद्धेरित्यत आह — योगविभाग उत्तरार्थ इति । उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थः । ज्यौत्स्न इति । 'शुक्लपक्ष' इति शेषः । ज्योत्स्ना=चन्द्रिका । सा अस्यास्तीति विग्रहः । तामिरुआ इति । 'कृष्णपक्ष' इति शेषः । तमिरुआआः=तमोयुक्ता रात्रयः । ता अस्य सन्तीति विग्रहः । ज्योत्स्नादित्वादण् ।", "52104": "<<सिकताशर्कराभ्यां च>> - सिकताशर्कराभ्यां च । 'मत्वर्थे अ' णिति शेषः । सैकतो घट इति । सिकता अस्य सन्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वाद्धट इति विशेष्यम् ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रात्सिकताशब्दो नित्यं बहुवचनान्तः ।", "52105": "<<देशे लुबिलचौ च>> - देशे लुबिलचौ च । पूर्वसूत्रविहितस्या.ञणो लुप्, इलच्च स्यादित्यर्थः । चादणिति । संनिहितत्वादिति भावः । तर्हि अपवादेन मुक्ते उत्सर्गस्याऽप्रवृत्तेर्मतुब्नैव स्यादित्यत आह — मतुप्चेति । समुच्चयार्थकन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः । सिकता इति । सिकताशब्दान्नित्यं बहुवचनान्तादणो लुपि प्रातिपदिकावयवत्वात्सुपो लुकि युक्तवद्भावाद्विशेष्यस्य देशस्य एकत्वेऽपि बहुवचनमिति भावः ।हयवर॑डिति सूत्रेएका च सिकता तैलदाने असमर्थेति भाष्ये प्रयोगात्सिकताशब्द एकवचनान्तोऽप्यस्तीति लिङ्गानुशासने मूलकारो वक्ष्यति ।", "52106": "<<दन्त उन्नत उरच्>> - दन्त उन्नत उरच् । उन्नतविशेषणकाद्दन्तशब्दान्मत्वर्थेउरच्स्यादित्यर्थः । 'उन्नत' इति प्रकृतिविशेषणम् । दन्त इति सप्तमी पञ्चम्यर्थे ।", "52107": "<<ऊषसुषिमुष्कमधो रः>> - ऊषसुषि । ऊष, सुषि, मुष्क, मधु-एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । सोत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति । ऊषः क्षारमृत्तिकाविशेषोऽस्यास्तीति विग्रहः । सुषिर इति । सुषिः=बिलम्,-अस्यास्तीति विग्रहः । मधुशब्दः क्षोद्रे द्रव्ये, माधुर्यात्मकरसविशेषे च गुणे वर्तते । तत्र रसविशेषवाचिन एवात्र ग्रहणमित्याह — मधुमाधुर्यमिति । तथा भाष्यादिति भावः । अन्यथा मधुद्रव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्णयो वा । मुखरः=शभ्दं कुर्वन् । कुञ्जरो-हल्ती । रूढशब्दा एते । नगपांस्विति । वार्तिकमिदम् ।नगर॑मिति जातिविशेषवाची । अत एव नगरीति ङीष् । पांसुर इति । पांसुरस्यास्तीति विग्रहः । पाण्डुर इति । पाण्डुः=शुक्लवर्णः, स अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह — पाण्डरशब्दस्त्विति ।हरिणः पाण्डरः पाण्डु॑रित्यमरः । कच्छ्वा इति । वार्तिकमिदम् । कच्छूशब्दाप्र्रत्ययः, प्रकृतेह्र्यस्वश्च अन्तादेश इत्यर्थः । कच्छुरः — शुनां रोगविशेषः ।", "52108": "<<द्युद्रुभ्यां मः>> - द्युद्रुभ्यां मः ।दिव उ॑दिति कृतोत्वस्य दिव्शब्दस्य 'द्यु' इति निर्देशः । दिव्शब्दात् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः । द्युमः द्रुम इति । रूढशब्दावेतौ ।", "52109": "<<केशाद्वोऽन्यतरस्याम्>> - केशाद्रोऽन्यतरस्याम् । 'मत्वर्थे' इति शेषः । नन्विहाऽन्यतरस्याङ्ग्रहणं व्यर्थं, समर्थानामिति वाग्रहणेनैव वाक्यस्य सिद्धत्वात् । नच महाविभाषया अपवादेन मुक्ते औत्सर्गिकस्याऽप्रवृत्तेःपारेमध्ये षष्ठआ वे॑त्यत्रोक्तत्वादिह मतुपोऽप्रवृत्त्यापत्तौ तत्प्रवृत्त्यर्थमन्यतरस्याङ्ग्रहणमिति वाच्यं,प्राणिस्था॑दिति सूत्रादन्यतरस्याङ्ग्रहणस्य समुच्चयार्थकस्याऽनुवृत्त्यैव तत्सिद्धेरित्यत आह — प्रकृतेनेति । इनिठनोरिति । इनिठनोरपीत्यर्थः । अन्यथासिध्मादिभ्यश्चे॑त्यत्रेव मतुबेव समुच्चीयेत, नत्विनिठनाविति भावः । तथाच वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह — केशव इत्यादि । अन्येभ्योऽपीति । वार्तिकमिदम् । केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः । अर्णस इति । वार्तिकमिदम् । अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः ।अर्णव इति । अर्णः=जलम् । तत्प्रभूतमस्मिन्नस्तीति विग्रहः । इदं तु वार्तिकं भाष्ये न दृश्यते ।", "52110": "<<गाण्ड्यजगात् संज्ञायाम्>> - गाण्डजगात्संज्ञायाम् । ह्रस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणो गाण्ड इति युगपन्निर्देशः — ॒ख्यत्वात्परस्ये॑त्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः । ततश्च गाण्डिशब्दाद्गाण्जीशब्दादजगशब्दाच्च मत्वर्थे वप्रत्ययः स्यादित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः ।", "52111": "<<काण्डाण्डादीरन्नीरचौ>> - काण्डाण्डादीरन्नीरचौ । काण्ड, आण्ड-आभ्यां ईरन्, ईरच् इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः ।", "52112": "<<रजःकृष्यासुतिपरिषदो वलच्>> - रजःकृषि । रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच्स्यादित्यर्थः । आसुतीवल इति ।षुञ् अभिषवे॑ । आङ्पूर्वात्स्त्रियां क्तिन् । 'वले' इति दीर्घः ।अन्येभ्योऽपीति । वार्तिकमिदम् ।रजः कृषी॑त्यादिसूत्रोपात्तादन्येभ्योऽपि वलच्दृश्यत इत्यर्थः । भ्रातृवलः । 'ढ्रलोपे' इत्यतोऽण इत्यनुत्तेः 'वले' इति न दीर्घः । पुत्रवल इत्यादौ 'वले' इति दीर्घमाशङ्क्याह — वले इत्यत्रेति ।", "52113": "<<ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः>> - ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवाः=ज्योतीषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दान्नप्रत्ययः, उपधाभूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाऽभावात्षत्वनिवृत्तौ ज्योत्स्नेति रूपम् ।चन्द्रिका कौमुदी ज्योत्स्ने॑त्यमरः । तमस इति । तमोऽस्यास्तीति विग्रहे तमस्मशब्दात् रक्प्रत्ययाः । उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः ।तमिरुआआ तामसी रात्रि॑रित्यमरः । ननुतमिरुओ॑ति स्त्रीलिङ्गनिसर्देशात्तमिरुआं गृहमिति कथमित्यत आह — स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । 'निपात्यते' इति शेषः । शृङ्गिण इति । शृङ्गमस्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो वलजिति । 'निपात्यते' इति शेषः । ऊर्जसित्यसुन्नन्तं प्रातिपदिकम् । ननुअस्मायामेधे॑ति लिनिना सिद्धेरूर्जस्विन्निति भूदित्येतदर्थं विनो निपातनमित्यर्थः । ऊर्ज इति । ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थोऽनुपपन्न इत्यर्थः । कुत इत्यत आह — ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र बलप्रत्ययाऽभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याऽप्रसक्तेस्तत्र ऊर्जसित्यसुन्नन्तं प्रातिपदिकमवयश्यमभ्युपेयम् । तेनैव ऊर्जस्विन्नूर्जस्वलयोर्विनिवलज्मात्रनिपातनोपपत्तेरित्यर्थः । ईमसच्चेति । मलशब्दान्निपात्यत इति शेषः ।", "52114": "", "52115": "<<अत इनिठनौ>> - अत इनिठनौ । अदन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुलपि भवति । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ॑ इति भाष्यम् । एकाक्षरात्-स्बवान्, कृतः-कारकवान्, जातेः-वृक्षकवान्, सप्तम्यां — दण्जा अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यी कार्यिकः, तण्डुली तण्डुलिक इत्यादि सिद्धमिति भाष्ये स्पष्टम् ।", "52116": "<<व्रीह्यादिभ्यश्च>> - व्रीह्रादिभ्यश्च । 'मत्वर्थे इनिठनौ' इति शेषः । शिखामालेत्यादि । वार्तिकमिदम् ।शिखा, माला, संज्ञा, वीणा, बडवा, बलाका, पताका, वर्मन्, शर्मन् एभ्य इनिरेव, नतु ठनित्यर्थः । यवखलेति । यवखल, नौ, कुमारी एभ्यष्ठनेव, न त्विनिरित्यर्थः । परिशिष्टेभ्यस्तु व्रीह्रादिगणपठितेभ्य उभावित्यर्थसिद्धम् । इदं वृत्तौ स्पष्टम् ।", "52117": "<<तुन्दादिभ्य इलच् च>> - तुन्दादिभ्य इलच्च । मतुप्चेति । समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः । उदरादयश्चत्वारस्तुन्दादिगणपठिताः । आआङ्गाद्विवृद्धाविति । गणसूत्रमिदम् । वृद्धविषयात्वात्स्वाङ्गादिलच्, इनिठनौ मतुप्चेत्यर्थः । कर्णिल इति । वृद्धौ कर्णौ यस्येति विग्रहः ।", "52118": "<<एकगोपूर्वाट्ठञ् नित्यम्>> - एकगोपूर्वाठ्ठञ्नित्यम् । एकपूर्वाद्गोपूर्वाच्च नित्यं ठञ्स्यादित्यर्थः । यद्यपि नित्यग्रहणाऽभावेऽपि ठञा इनिठनोर्निर्वृत्तिः सिध्यति, तथापि समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुत्त्या मतुप्समुच्चीयेत, तन्निवत्त्यर्थं नित्यग्रहणम् । ऐकशतिक इति । 'पूर्वकाल' इति समासः ।सङ्ख्यायाः संवत्सर॑ इत्युत्तरपदवृद्धिस्तु न, तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणात् ।", "52119": "<<शतसहस्रान्ताच्च निष्कात्>> - शतसहरुआ । निष्कात्पराविति । असामर्थ्येऽपि सौत्रत्वात्समास इति भावः ।", "52120": "<<रूपादाहतप्रशंसयोरप्>> - रूपादाहत । आहतेति भावे क्तः । आहतविशेषणकात्प्रशंसाविशेषणकाच्च रूपशब्दान्मत्वर्थे यप्स्यादित्यर्थः । आहतं रूपमिति । आहतेन निष्पन्नं स्वरूपं यस्येति विग्रहे रूपशब्द इत्यर्थः । रूप्यः कार्षापण इति । परिमाणविशिष्टो रजतसुवर्णादिर्मुद्रिकाविशेषयुक्तः कार्षापण इत्युच्यते । तत्स्वरूपं च स्वर्णकारकृता हनननिष्पाद्यमिति बोध्यम् । रूप्यो गौरिति । प्रशस्तरूपसम्पन्न इत्यर्थः । हिम्याः पर्वता इति । भूम्नि यप् । बहुलं हिममेष्वस्तीति विग्रहः । गुण्या ब्राआहृणा इति । प्रशंसायां यप् । प्रशस्तगुणसम्पन्ना इत्यर्थः । अन्येभ्योऽपीति । वार्तिकमिदम् । रूपशब्दादन्येभ्योऽपि यप्दृश्यत इत्यर्थः । हिम्याः पर्वता इति । भूम्नि यप् । बहुलं हिममेष्वस्तीति विग्रहः । गुण्या ब्राआहृणा इति । प्रशंसायां यप् । प्रशस्तगुणसम्पन्ना इत्यर्थः ।", "52121": "<<अस्मायामेधास्रजो विनिः>> - अस्मायामेधा ।अ॑सित्यनेन असन्तं विवक्षितम् । असन्त, माया, मेधा, रुआज् एभ्यो विनि प्रत्ययः स्यादित्यर्थः । प्रत्यये नकारादिकार उच्चारणार्थः । यशस्वीति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वमिति भावः । यशस्वानिति ।एकगोपूर्वा॑दिति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्याङ्ग्रहणमिहमण्डूकप्लुत्या अनुवर्तते, 'तसौ मत्वर्थे' इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः । रुआग्वीत्यत्रव्रश्चे॑ति षत्वमाशङ्क्याह — क्वन्नन्तत्वादिति । आमयस्येति । आमशब्दान्मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । शृङ्गवृन्दाभ्यामिति । फलबर्हाभ्यामिति । ह्मदयाच्चालुरिति । वार्तिकत्रयमिदम् । मतुप्चेति । 'वक्तव्य' इति शेषः, भाष्ये तथोक्तत्वात् । चुटू इति चकारस्येत्यसंज्ञा अन्यतरस्यांग्रहणाच्चालोपभावे इनिठनौ । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि । तथा चाऽत्र चत्वारः प्रत्ययाः । तदाह — ह्मदयालुरित्यादि ।॒शीतोष्णतृप्रेम्यस्तन्न सहते॑ इति वार्तिकमर्थतः सङ्गृहणाति — शीतेति । शीत, उष्ण, तृप्र — एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः । तृप्रः पुरोडाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमोच्चेलुरिति । वार्तिकमिदम् । हिमशब्दाद्द्वितीयान्तान्न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । बलादूल इति ।तन्न सहते इत्यर्थे वक्तव्य॑ इति शेषः । वातात्समूहे चेति । षष्ठन्ताद्वातशब्दात्समूहेऽर्थे, द्वितीयान्तान्न सहते इत्यर्थे च ऊलप्रत्ययो वाच्य इत्यर्थः । तप्पर्वमरुद्भ्यामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप्वक्तव्य #इत्यर्थः । 'तन्वक्तव्य' इति वृत्तिकृत्, हरदत्तश्च । प्रौढमनोरमायां तु नित्त्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम् । रूढत्वादवयवार्थाऽभावान्न मतुप् ।", "52122": "", "52123": "<<ऊर्णाया युस्>> - ऊर्णाया युस् । ऊर्णायुशब्देयस्येति चे॑ति लोपमाशङ्क्याह — सित्त्वादिति । अनुवर्तयन्तीति ।बहुलं छन्दसीत्यस्मा॑दिति शेषः ।", "52124": "<<वाचो ग्मिनिः>> - वाचोग्मिनिः । वाच्शब्दान्मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । अतद्धित इति पर्युदासाद्गकारस्य नेत्संज्ञा । वाग्ग्मीति । वाच्शब्दात्-ग्मिनिप्रत्यये कुत्वंस जश्त्वम् । प्रत्यये गकारोच्चारणं तुप्रत्यये भाषाया॑मित्यनुनासिकाऽभावार्थम् ।", "52125": "<<आलजाटचौ बहुभाषिणि>> - आलजाटचौ । वाच्शब्दात् — आलच्, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यं,यो हि सम्यग्बहु भाषते वाग्गमीत्येव स भवती॑ति भाष्यबलेन पूर्वसूत्रस्य सम्यग्बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः ।", "52126": "<<स्वामिन्नैश्वर्ये>> - स्वामिन्नैआर्ये । 'ऐआर्ये' इति प्रकृतिविशेषणमित्यभिप्रेत्याह — ऐआर्यवाचकादिति । आमिनजिति । 'निपात्यते' इति शेषः । स्वामीति । स्वम्ैआर्यं, तद्वानित्यर्थः । नियन्तेति यावत् । ऐआर्ये इत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति ।", "52127": "<<अर्शआदिभ्योऽच्>> - अर्शाअदिभ्योऽच् । अर्शस्शब्द आदिरेषामिति विग्रहः । अर्शस इति । अर्शो — गुदरोगविशेषः ।", "52128": "<<द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः>> - द्वन्द्वोपताप । द्वन्द्वसमासादुपतापवाचकाद्गह्र्रवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनि स्यादित्यर्थः । द्वन्द्वेति उदाहरण सूचनम् । कटकवलयिनीति । कटकवलययोः कञ्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः । उपताप इत्यस्य विवरणं — रोग इति । किलासः कुष्ठभेदः । गह्र्रमित्यस्य विवरणं — निन्द्यमिति । ककुदावर्तीति । ककुदं ग्रीवाया अधस्तात्पृष्ठभागः । तत्र आवर्तः ककुदावर्तः, सोऽस्यास्तीति विग्रहः । काकतालुकिनीति । काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति । व्याख्यानमेवात्र शरणम्, एवंविधवार्तिकस्य भा,ये अदर्शनात् । अत इत्येवेति । समासन्त इति सूत्रभाष्यरीत्या मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । चित्रकललाटिकावतीति । चित्रकं च ललाटिका चेति द्वन्द्वः । अदन्तत्वाऽभावादिनिर्नेति भावः । ननु 'अत इनिठनौ' इत्यतोऽनुवृत्त्यैव सिद्धे पुनरिह इनिग्रहणं किमर्थमित्यत आह — सिद्धे प्रत्यये इति । ठनादिति । आदिना मतुपः सग्रहः ।", "52129": "<<वातातिसाराभ्यां कुक् च>> - वातातीसाराभ्यां । चादिनिरिति । वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः । अथीसारकीति । अतीसाररोगवानित्यर्थः ।रोगे चायमिति । व्याख्यानादिति भावः । रोग एवेत्यर्थः । वातवती गुहेति । अत्र रोगस्याऽप्रतीतेरिनिकुकौ नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः ।", "52130": "<<वयसि पूरणात्>> - वयसि पूरणात् ।अत इनिठना॑वित्येव इनिसिद्धेः किमर्थमिदिमित्यत आह — ठनादिबाधनार्थमिति ।", "52131": "<<सुखादिभ्यश्च>> - सुखादिभ्यश्च । इनिर्मत्वर्थे इति । इनिरेव, नतु ठनित्यर्थः । माला क्षेपे इति । शुखादिगणसूत्रमिदम् ।", "52132": "<<धर्मशीलवर्णान्ताच्च>> - धर्मशील । धर्माद्यन्तादिति । धर्म, शील, वर्ण — एतदन्तादिनिरेवेत्यर्थः ।", "52133": "<<हस्ताज्जातौ>> - हस्ताज्जातौ । हस्तान्मत्वर्थे इनिरेव, समुदायेन जातिविशेषे गम्ये इत्यर्थः ।", "52134": "<<वर्णाद्ब्रह्मचारिणि>> - वर्णाद्ब्राहृचारिणि । वर्णशब्दान्मत्वर्थे इनिरेव, समुदायेन ब्राहृचारिणि गम्ये इत्यर्थः । वर्णीति । वर्णः=ब्राआहृणादितत्तद्वर्णोचितवसन्तादिकाले उपनयनम्, सोऽस्यास्तीति विग्रहः ।", "52135": "<<पुष्करादिभ्यो देशे>> - पुष्करादिभ्यो देशे । पुष्करशब्दान्मत्वर्थे इनिरेव स्याद्देशे गम्ये ।बाहुरुपूर्वपदद्बलादिति । वार्तिकमिदम् । बहु, ऊरु एतत्पूर्वपदकाद्बलशब्दान्तान्मत्वर्थे इनिरेवेत्यर्थः । सर्वादेश्चेति । वार्तिकमिदम् ।॒इनिरेवे॑ति शेषः । अर्थाच्चासंनिहिते इति । वार्तिकमिदम् । असन्निहितविषयकादर्थशब्दादनिरेवेत्यर्थः । अर्थीति । असंनिहितोर्थोऽस्येति विग्रहः । अर्थो नास्तीति यावत् । त्र विरोधादस्तीति न सम्बध्यते । अर्थोऽसंनिहितोऽस्येत्यर्थे अप्राप्त एव इनिर्विधीयत इति कैयटः ।प्रत्ययविधौ तदन्तविधिनिषेधादाह — तदन्ताच्चेति । अर्थशब्दान्तादपि इनिर्वक्तव्य इत्यर्थः ।", "52136": "<<बलादिभ्यो मतुबन्यतरस्याम्>> - बलादिभ्यो । मतुबभावपक्षे संनिहित इनिरित्यभिप्रेत्योदाहरति — बलवान् बलीति । संज्ञायां मन्माभ्याम् । प्रथमिनीति ।पृथ्वादिभ्य इमनिज्वे॑ति इमनिजन्तः प्रथमन्शब्दः । अत्र मनोऽनर्थकत्वेऽपिअनिनस्म॑न्निति तदन्तविधिना इमनिजन्तोऽपि गृह्रते । प्रथमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणङीपि प्रथिमिनीशब्दः । दामिनीति । दामन्शब्दादिनौ टिलोपे ङीबिति भावः । मेति । मान्तोदाहरणसूचनमिदम् । होमिनी सोमिनीति । होमशब्दात्सोमशब्दाच्च इनौ ङीबिति भावः ।", "52137": "", "52138": "<<कंशंभ्यां बभयुस्तितुतयसः>> - कंशंभ्याम् । व, भ, युस्, ति, तु, त, यस्, एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति । 'मत्वर्थे' इति शेषः । पदत्वार्थ इति । अन्यथा कमित्यस्माद्युप्रत्यये यप्रत्यये च कृते भत्वात्पदत्वाऽभावादनुस्वारो न स्यादिति भावः । वकारयकारपरस्येति-बहुव्रीहि । वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः ।", "52139": "<<तुन्दिवलिवटेर्भः>> - तन्दिवलि । तन्दि, वलि, बटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः । समाहारद्वन्द्वात्पञ्चम्येकवचनम् । पुंस्त्वमार्षम् । वटिभ इति ।वट वेष्टने॑ । वटनं वटिः । सोऽस्यास्तीति विग्रहः ।", "52140": "<<अहंशुभमोर्युस्>> - अहंशुभमोर्युस् । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह — अहमित्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति । ***** इति बालमनोरमायम् मत्वर्थीयाः । *****अथ नामधातुप्रक्रिया ।", "53001": "<<प्राग्दिशो विभक्तिः>> - अथ पञ्चमाध्यायस्य तृतीयापादे प्राग्दिशीयप्रकरणं निरूप्यते । प्राग्दिशो विभक्तिः । दिक्छब्देन तद्धटितं सूत्रं विवक्षितमित्यभिप्रेत्याह — दिक्छब्देभ्य इत्यत इति । विभक्तिसंज्ञका इति । तत्फलं तु 'न विभक्तौ तुस्माः' इति निषेधः, त्यदाद्यत्वम्, इदमऊडिदंपदादी॑ति स्वरश्च । स्वार्थिका इति । स्वीयप्रकृत्यर्थे भवा इत्यर्थः । तसिलादिष्वर्थनिर्देशाऽभावात्, 'अतिशायने' इत्यादीनां प्रकृत्यर्थविशेषणत्वाच्चेति भावः । निवृत्तमिति । अत्रोपपत्तिः — ॒समर्थाना॑मित्यत्रोक्ता । अनुवर्तत एवेति । व्याख्यानमेवात्र शरणम् ।", "53002": "<<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> - किंसर्वनाम । अद्व्यादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाह — प्राग्दिशोऽधिक्रियत इति । विधेयाऽनिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वेऽपि द्व्यादिपर्युदासात्पृथग्ग्रहणम् । द्व्यादिषु किशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च कौ इत्यत्रत्यदादीनां मिथः सहौक्तौ॑ इति किमः शेषत्वाऽर्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह — इदम इशित्यादिना ।", "53003": "<<इदम इश्>> - इदम इश् । 'प्रग्दिशीये परे' इति — शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात्सर्वादेशः । 'इत' इत्युदाहरणम् ।", "53004": "<<एतेतौ रथोः>> - एतेतौ रथोः । 'इदम' इत्यनुवर्तते । एतश्च इच्चेति द्वन्द्वात्प्रथमाद्विवचनम् । रश्च थ् च तयोरिति द्वन्द्वः । रेफादकार उच्चारणार्थः । रेफाथकाराभ्यां प्राग्दिशीयं प्रकरणलभ्यं विशेष्यते ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — इदंशब्दस्येत्यादिना । तत्र रेफादौ परे एतः, थादौ तु इदिति यथासङ्ख्यं बोध्यम् । एतर्हि । इत्थम् ।", "53005": "<<एतदोऽश्>> - एतदोऽन् । प्राग्दिशीये प्रत्यये परे एतच्छब्दस्य अन्स्यादित्यर्थः प्रतीयते, एवं सति एतच्छब्दस्य अनेव स्यात्, नत्वेतेतौ । तत्राह — योगविभाग इति । एतद इति । प्रथमसूत्रमिदम् । तस्य शेषपूरणम् 'एतेतौ रथोः' इति । एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः । एतर्हि, इत्थमित्युदाहरणम् । अन्निति । द्वितीयं सूत्रम् ।एतद इत्येवेति रथोरिति तु नानुवर्तते इति भावः । तथाच 'एतद' इत्यस्य अन्स्यात्प्राग्दिशीये परे इत्यर्थः फलति । अतः, अत्र इत्युदाहरणम् । ननु अनादेशे नकारस्य इत्संज्ञायामकारोऽन्तादेशः स्यादित्यत आह — अनेकाल्त्वादिति । नकारस्य प्रयोजनाऽभावान्नेत्संज्ञा, नित्स्वरस्य प्रत्ययविषयत्वादिति भावः । तर्हि 'अत' इत्यादौ नकारस्य श्रवणं स्यादित्यत आह — नलोप इति ।", "53006": "<<सर्वस्य सोऽन्यतरस्यां दि>> - सर्वस्य सो । 'दि' इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — प्राग्दिशीये दकाराविति । सदा इत्युदाहरणम् ।", "53007": "<<पञ्चम्यास्तसिल्>> - तदेव तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् आदेशान्विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते — पञ्चम्यास्तसिल् । किमादिभ्य इति किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति ।समर्थाना॑मित्यतो वाग्रहणस्याऽनुवृत्तेरिति भावः ।", "53008": "<<तसेश्च>> - तसेश्च । परस्य तसेरिति ।प्रतियोगे पञ्चम्यास्तसिः॑अपादाने चाहीयरुहो॑रिति वक्ष्यमाणस्य तसेरित्यर्थः । ननु तसेस्तसिल्किमर्थमित्यत आह — स्वराथमिति । लित्स्वरार्थमित्यर्थः । विभक्त्यर्थमिति । विभक्तिनिमित्तकत्यदाद्यत्वार्थमित्यर्थः । अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वाद्विभक्तित्वाऽभावात्त्यदाद्यत्वादिकं न स्यादित्यर्थः ।", "53009": "<<पर्यभिभ्यां च>> - पर्यभिभ्यां च । सर्वोभयार्थाभ्यामेवेति । वार्तिकमिदम् । परिषिञ्चति अबिषिञ्चतीत्यादौ वाग्रहणात्पक्षे न तसिल् ।", "53010": "<<सप्तम्यास्त्रल्>> - सप्तम्यास्त्रल् । किमादिभ्यः सप्तम्यन्तेभ्योऽद्व्यादिभ्यस्त्रलित्यर्थः ।कुत्रे॑त्यादिरूपाणि 'कुत' इत्यादिवत् ।", "53011": "<<इदमो हः>> - इदमो हः । इदंशब्दात्सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः ।", "53012": "<<किमोऽत्>> - किमोऽत् । अपकृष्यत इति ।वा ह च छन्दसी॑त्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् ।न विभक्ता॑विति निषेधस्तु न भवति,तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते॑ इति वार्तिकात् ।", "53013": "<<वा ह च च्छन्दसि>> - वाह च छन्दसि ।हे॑ति लुप्तुप्रथमाकम् । किमः सप्तम्यन्तात् हप्रत्ययः, स्यादित्यर्थः । चादत्, त्रल्च । यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयं, तथापि वाग्रहणस्य पूर्वसूत्रेऽपकर्षज्ञानायाऽत्र तदुपन्यासः ।", "53014": "<<इतराभ्योऽपि दृश्यन्ते>> - इतराभ्यो ।ञपि दृश्यन्ते । पञ्चमीसप्तमीतरविभक्तिभ्योऽपीत्यर्थः । फलितमाह — पञ्चमीसप्तमीतरविभक्त्यन्तादपीति ।किमादे॑रिति शेषः । एवमिति । स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घीयुरित्याद्यूह्रमित्यर्थः ।", "53015": "<<सर्वैकान्यकिंयत्तदः काले दा>> - सर्वैकान्य । सप्तम्यन्तेभ्य इति । 'सर्वादिभ्य' इति शेषः । 'सप्तम्या' इत्येवानुवर्तते, व्याख्यानादिति भावः । सदा सर्वदेति ।सर्वस्य सोऽन्यतरस्यां दी॑ति सभावविकल्पः । कदेति । किंशब्दाद्दाप्रत्यये सति तस्य 'किमः कः' इति कादेशः ।", "53016": "<<इदमो र्हिल्>> - इदमो र्हिल् । इदमः — र्हिल् इति च्छेदः । एतर्हीति । इदम्शब्दात् र्हिल् ।एतेतौ रथो॑रित्येतादेशः ।", "53017": "<<अधुना>> - अधुना । 'इदम' इति, सप्तम्या॑ इति, 'काले' इति चानुवर्तते । तदाह — इदम इति । इशिति । 'इदम इ' शित्यनेने॑ति शेषः । अधुनेति ।इय॑दितिवत्प्रत्ययमात्रं शिष्यते । पठन्ति चाभियुक्ताःउदितवति परस्मिन्प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्राकृते ।ञपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ।॑ इति वैयाकरणीमौपनिषर्दी च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः ।", "53018": "<<दानीं च>> - दानीं च । इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थे दानीमिति च प्रत्ययः स्यादित्यर्थः । इदानीमिति । इदंशब्दाद्दार्नीप्रत्ययः, इश् ।", "53019": "<<तदो दा च>> - तदो दा च । सप्तम्यन्तात्कालवृत्तेस्तच्छब्दाद्दाप्रत्ययः, दानींप्रत्ययश्च स्यादित्यर्थः । तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति ।सर्वैकान्ये॑त्यनेने॑ति शेषः ।", "53020": "", "53021": "<<अनद्यतने र्हिलन्यतरस्याम्>> - अनद्यतने र्हिल् । अनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यः र्हिल्प्रत्ययो वा स्यादित्यर्थः । पक्षे दाप्रत्ययः । एतर्हीति । एतच्छब्दात् र्हिल् । 'एतद' इति योगविभागाद्रेफादौ एतादेशः ।", "53022": "<<सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्- अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः>> - सद्यःपरुत् । ॒समानस्य सभावो द्यश्चाहनी॑ति भाष्यवाक्यमिदम् । अहर्वृत्तेः समानशब्दात्सप्तम्यन्तात् द्यस्प्रत्ययः, समानस्य सभावश्च निपात्यत इत्यर्थः । सद्यः समानेऽहनीत्यर्थः । ॒पूर्वपूर्वतरयोः परादेशः उदारी च संवत्सरे॑ इत्यपि भाष्यवाक्यम् । उच्च — आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययौ संवत्सरे अभिधेये ।॒इदम इश् समसण् इत्यपि भाष्यवाक्यम् । ऐषम इति । समसणि णकार इत्, सकारादकार उच्चारणार्थः । णित्त्वादादिवृद्धिः । ॒परस्मादेद्यव्यहनी॑त्यपि भाष्यवाक्यम् । सप्तम्यन्तादेद्यविरिकारान्तः प्रत्ययः । ॒इदमोऽश्भावो द्यश्चे॑त्यपि भाष्यवाक्यम् । सप्तम्यन्तादकारान्तो द्यप्रत्ययः ।पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् चे॑त्यपि भाष्यवाक्यम् ।", "53023": "<<प्रकारवचने थाल्>> - प्रकारवचने थाल् । पञ्चम्यर्थे सप्तमीत्याह — प्रकारवृत्तिभ्य इति । सामान्यस्य भेदको विशेषः प्रकारः । यथाबहुभिः प्रकारैर्भुङ्क्ते॑ इति । विशेषैरिति गम्यते । सादृश्यं त्विह न गृह्रते, सर्वथेत्यादौ तदप्रतीतेः । तेन प्रकारेणेत्यनन्तरं 'विशिष्ट' इति शेषः । 'यथा हरिस्तथा हरः' इत्यादौ यत्प्रकारवान्हरिस्तत्प्रकारवान्हर इति बोधे सति हरिसदृशो हर इति फलति । तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः ।", "53024": "<<इदमस्थमुः>> - इदमस्थमुः । इदंशब्दात्प्रकारवृत्तेस्थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उच्चारणार्थः । मकारस्य उपदेशेऽन्त्यत्वाऽभावान्नेत्त्वम् । यद्यपि 'न विभक्तौ' इति निषेधादेव मस्येत्त्वं न भवति, ततापि तदनित्यत्वज्ञापनार्थं मकारोच्चारणमित्याहुः । इत्थमिति ।एतेतौ रथो॑रिति प्रकृतेरिदम इदादेशः । एतच्छब्दात्थमुप्रत्यये तु 'एतद' इति योगविभागादिदादेशः ।", "53025": "<<किमश्च>> - किमश्च ।प्रकारवृत्तेस्थमु॑रिति शेषः । कथमिति । 'किमः कः' इति कादेशः । **** इति बालमनोरमायाम् प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः । ****अथ प्रागिवीयाः । — — — — -", "53026": "", "53027": "<<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> - अथ प्रागिवीयप्रकरणमारभ्यते — दिक्छब्देभ्यः । सप्तम्याद्यन्तेभ्य इति । सप्तमीपञ्चमीप्रथमान्तेभ्य इत्यर्थः । रूढेभ्य इति । शब्दग्रहणलभ्यमिदम् । अस्तातिप्रत्यये इकार उच्चारणार्थः । तकारान्तः प्रत्ययः ।सङ्ख्याया विधार्थे धे॑ति सूत्रपर्यन्तमिदं सूत्रमस्तातिवर्जनमनुवर्तते । अत्र विभक्तीनां दिगादीनां च न यथासङ्ख्यं, व्याख्यानात् ।", "53028": "<<दक्षिणोत्तराभ्यामतसुच्>> - दक्षिणोत्तराभ्यां ।दिग्देशकालवृत्तिभ्या॑मिति शेषः । दक्षिणत उत्तरत इति । नच तसुजेव प्रत्ययोऽस्तु, दिग्वर्तित्वे तुसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्वेनैव 'दक्षिणतः' इत्यादि सिद्धमिति वाच्यं, स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु — अकारोच्चारणमन्यतो विधानार्थं, तेन पुरत इति सिद्धमित्याहुःसमानकालीन॑मित्यादिवत् 'पुरत' इति प्रामादिकमेवेति बहवः ।", "53029": "<<विभाषा परावराभ्याम्>> - विभाषा ।अतसु॑जिति शेषः । पक्षे अस्तातिः ।", "53030": "<<अञ्चेर्लुक्>> - अञ्चेर्लुक् । प्राच्यामिति । लिङ्गविशिष्टपरिभाषयाऽस्तातेर्लुक् ।", "53031": "<<उपर्युपरिष्टात्>> - उपर्युपरिष्टात् ।उध्र्वस्य उपभावो रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्चे॑ति भाष्यम् । तदाह — अस्तातेर्विषये इत्यादिना । वसति, आगतो, रमणीयं वेति — विभक्तित्रयस्य यथासङ्ख्यमुदाहरणम् । पश्चात् ।अपरस्य पश्चभावः, आतिश्च प्रत्ययः॑ इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः ।", "53032": "", "53033": "", "53034": "<<उत्तराधरदक्षिणादातिः>> - उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः ।", "53035": "<<एनबन्यतरस्यामदूरेऽपञ्चम्याः>> - एनबन्यतरस्याम् ।अपञ्चम्या इति प्रागसे॑रिति भाष्यम् । सूत्रक्रमेपूर्वाधरे॑त्यसिं वक्ष्यति ततः प्रागित्यर्थः । उत्तरादिभ्य इति । उत्तराधरदक्षिणादित्यनुवर्तत इति भावः । 'अदूरे' इत्येतद्व्याचष्टे — अवध्यवधिमतोः सामीप्ये इति । पञ्चमीं विनेति । पञ्चम्यन्तान्न भवतीत्यर्थः । यथास्वमिति । एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः । दिक्छब्दमात्रादिति । अञ्चत्यन्तात्तु नेदम्, व्यवस्थितविभाषाश्रयणात् । तेन प्राचेन ग्राममित्यादि न भवतीत्याहुः ।", "53036": "<<दक्षिणादाच्>> - तद्युक्तात् । संदिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे अण्णित्यर्थः । कर्मैव कार्मणमिति ।अ॑न्निति प्रकृतिभावान्न टिलोपः । दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते । तदाह — वाचिकं श्रुत्वेति ।", "53037": "<<आहि च दूरे>> - आहि च दूरे ।दक्षिणाशब्दा॑दिति शेषः । चादाजिति । तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः ।", "53038": "<<उत्तराच्च>> - उत्तराच्च ।आच् आहि चे॑ति शेषः । अतसुचा आतिना च चत्वारि रूपाणि ।", "53039": "<<पूर्वाधरावराणामसि पुरधवश्चैषाम्>> - पूर्वाधरावराणम् ।असी॑ति लुप्तप्रथमाकम् । पुर अध्, अव्-एषां द्वन्द्वात्प्रथमाबहुवचनम् । अस्तात्यर्थे इति । दिग्देशकालवृत्तिभ्य इत्यर्थः ।", "53040": "<<अस्ताति च>> - अस्ताति च ।अस्ताती॑ति लुप्तसप्तमीकम्, अस्तातीति तकारान्तात्सप्तम्येकवचनं वा ।पूर्वाधरावराणा॑मिति 'पुरधव' इति चानुवर्तते । तदाह — अस्ताताविति । यद्यपि सूत्रक्रमेपूर्वाधरे॑तिअस्ताति चे॑ति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनायपूर्वाधरे॑त्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दादसिप्रत्ययः प्रकृतेः 'पुर्' आदेशः । पुरस्तादिति । पूर्वाशब्दादस्तातिप्रत्ययः, प्रकृतेः 'पुर्' आदेशः । अधः, अधस्तादिति । अधरशब्दादसिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः 'अध्' आदेशे रूपम् । अव इति । अवरशब्दादसिप्रत्ययेप्रकृतेः 'अव्' आदेशे रूपम् ।", "53041": "<<विभाषाऽवरस्य>> - विभाषाऽवरस्य ।अस्ताति चे॑ति पूर्वसूत्रादस्तातीत्यनुवर्तते । तदाह — अवरस्येति । एवमिति । पूर्वस्मिन्पूर्वस्मात्पूर्वो वा देशः, कालो वा — पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु 'दिक्छब्देभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह — अस्ताति चेतीत्यादि ।", "53042": "<<संख्याया विधाऽर्थे धा>> - सङ्ख्याया विधार्थे धा । विधाशब्दस्याऽर्थः प्रकारो विधार्थः ।विधा विधौ प्रकारो विधार्थः ।विधा विधौ प्रकारे चे॑त्यमरः । सामान्यस्य भेदको विशेषः-प्रकारः । सचाभिधानस्वभावाक्रियाविषयक एव गृह्रते । तदाह — क्रियाप्रकारेति । चतुर्धापञ्चधेति ।गच्छती॑त्यादि क्रियापदमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः ।नवधा द्रव्य॑मित्यादावपिभवती॑त्यादि क्रियापदमध्याहार्यम् ।", "53043": "<<अधिकरणविचाले च>> - अधिकरणविचाले च । अधिकरणं — द्रव्यं, तस्य विचालः=विचालनं, सङ्ख्यान्तरापादनम् । तदाह — द्रव्यस्येति । सङ्ख्यान्तरापादनं च न्यूनसङ्ख्यस्य अधिकसङ्ख्याकरणम्, अधिकसङ्ख्यस्य न्यूनसङ्ख्याकरणं च । आद्ये उदाहरति — एकं राशिंपञ्चधा कुर्विति । द्वितीये तु 'अनेकमेकधा कुर्वि' त्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः ।", "53044": "<<एकाद्धो ध्यमुञन्यारयाम्>> - एकाद्धो । एकात्-ध इति च्छेदः । धाशब्दस्य 'ध' इति षष्ठएकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयतां नतु धाप्रत्ययस्यादेश इति वाच्यं, तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः ।", "53045": "<<द्वित्र्योश्च धमुञ्>> - द्वित्र्योश्च धमुञ् । षष्ठी पञ्चम्यर्थे । 'ध' इतिअन्यतरस्या॑मिति चानुवर्तते । तदाह — आभ्यामिति ।परस्ये॑ति शेषः । धमुञन्तादिति । वार्तिकमिदम् । दृशिग्रहणात्क्वचिदेवायम् । पति द्वैधानीति ।तृणानी॑ति शेषः ।द्वैध॑मित्यस्माड्डप्रत्यये टिलोपे रूपम् । नचतसिलादयः प्राक् पाशपः॑ इति डप्रत्ययान्तस्याप्यव्ययत्वं शह्क्यं, स्वभावतः सत्त्ववचनत्वेनाऽव्ययत्वाऽसंभवात्,द्वैधानी॑ति भाष्यप्रयोगाच्च ।", "53046": "<<एधाच्च>> - एधाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्यं एधाजित्यादेशः स्यादित्यर्थः ।पञ्चम्यास्तसि॑लित्यारभ्यएधाच्चे॑त्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम् ।", "53047": "<<याप्ये पाशप्>> - याप्ये पाशप् । याप्यः=कुत्सितः ।निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः॑ इत्यमरः । कुत्सितेविद्यमानात्स्वार्थे पाशप्स्यादित्यर्थः । प्रवृत्तिनिमित्तकुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये, स्पष्टम् ।", "53048": "<<पूरणाद्भागे तीयादन्>> - पूरणाद्भागे । पूरणार्थकतीयप्रत्ययान्ताद्भागे विद्यमानात्स्वार्थे अन्स्यादित्यर्थः । अन्विधेः प्रयोजनमाह — स्वरे विशेष इति ।ञ्नित्यादिर्नित्य॑मिति स्वरे इत्यर्थः । तीयादीकगिति । वार्तिकमिदंदृष्टं सामे॑ति सूत्रभाष्ये स्थितम् । न विद्याया इति । वार्तिकमिदमपि तत्रैव स्थितम् । विद्यावृत्तेस्तीयप्रत्ययान्तादीकङ्नेत्यर्थः ।", "53049": "<<प्रागेकादशभ्योऽच्छन्दसि>> - प्रागेकदशभ्यः । शेषपूरणेन सूत्रं व्याचष्टे-पूरणप्रत्ययान्ताद्भागेऽनिति । द्वितीयतृतीयशब्दाभ्यां पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमित्यभिप्रेत्योदाहरति — चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रं किकिमर्थमिति शङ्क्यं, तस्य छन्दस्यापि प्रवृत्त्यर्थत्वात् ।", "53050": "<<षष्ठाष्टमाभ्यां ञ च>> - षष्ठाष्टमाभ्यां ञ च । 'पूर्वसूत्रविषये' इति शेषः ।ञे॑ति लुप्तप्रथमाकम् । ञे आदिवृद्दिः । चादनिति । इह न यथासह्ख्यं, व्याख्यानात् ।", "53051": "<<मानपश्वङ्गयोः कन्लुकौ च>> - मानपआङ्गयोः ञस्य अनो वेति । अष्टकशब्दात्पूर्वसूत्रविहितस्य ञप्रत्ययस्य अन्प्रत्ययस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । ञप्रत्ययः, अन्प्रत्ययश्चेत्यर्थः । ननुसमर्थाना॑मित्यतो वाग्रहणानुवृत्त्यैव ञाऽनोरभावे । सति पआङ्गे अष्टमो भाव इत्यस्य सिद्धेरिह लुग्विधानं व्यर्थमित्याशङ्क्याह — महाविभाषयेति । पूर्वत्रेति ।षष्ठाऽष्टमाभ्यां ञ चे॑ति सूत्रे इत्यर्थः । एवं षष्ठाष्टमाभ्यां शब्दाभ्यां ञाऽनोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः ।", "53052": "<<एकादाकिनिच्चासहाये>> - एकादाकिनिच्चा । असहायवाचकादेकशब्दात्स्वार्थे आकिनिच्यप्रत्ययः स्यादित्यर्थः ।", "53053": "<<भूतपूर्वे चरट्>> - भूतपूर्वे चरट् । भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः ।", "53054": "<<षष्ठ्या रूप्य च>> - षष्ठआ रूप्य च ।रूप्ये॑ति लुप्तप्रथमाकम् । 'भूतपूर्वे' इत्यनुवर्तते । षष्ठन्ताद्भूतपूर्वेऽर्थे इति । भूतपूर्वेऽर्थे विद्यमानात्षष्ठन्तादित्यन्वयः । भूतपूर्वे इत्यनुवृत्तं हि श्रुतत्वात्षष्ठआ विशेषणम् । भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः । कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसंबन्धी गौरित्यर्थः । शुभ्रारूप्यशब्दे 'तसिलादिषु' इति पुंवत्त्वमाशङ्क्यतसिलादयः प्राक्पाशपः॑ इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह — तसिलादिइआत्यादि । शुभ्राया भूतपूर्व इति ।गौ॑रिति शेषः । शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासंबन्धी गौरित्यर्थः ।", "53055": "<<अतिशायने तमबिष्ठनौ>> - अतिशायने । अतिपूर्वकः शीङ्धातुरुपसर्गवसादुत्कर्षे वर्तते । उत्कर्षश्चाधिक्यफलको न्यक्कारः, नत्वाधिक्यमात्रं, तथा सति अकर्मकत्वापातात् । न चेष्टापत्तिः, तथा सतिशुक्लमतिशेते कृष्णतरः॑ इत्यादिभाष्यविरोधात् । अतिशयिता=अतिशायनः बाहुलकः कर्तरि ल्यु॑डिति भाष्यम् । अत एव निपानाद्दीर्घः । 'अतिशायने' इति प्रकृत्यर्थविशेषणम् । अतिशयितरि विद्यमानात्प्रातिपदिकात्स्वार्थे तमप् इष्टन् च स्यादित्यर्थः । फलितमाह — अतिशयविशिष्टार्थवृत्तेरिति । यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्यापत्तौ शुक्लतरादिशब्दाच्छुक्लादिगतमतिशयनमिति बोधः स्यान्नत्वतिशयितशुक्ल इति । तता च शुक्लतरः शुक्लतरेति पुंस्त्वं स्त्रीत्वं च न स्यात् ।अतिशायने वर्तमाना॑दित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यान्नतु पट्वादिभ्यः । अतिशयविशिष्टे लक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः । अतिशयनकर्तरि लक्षणायां तु भाष्योक्तमेव साधि इत्यास्तां तावत् । अयमेषामिति । द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादौ वक्ष्येते । अतः परिशेषाद्बहूनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः । अतिशयेनाढ इति । द्रव्यस्य जातेर्वा त्वतः प्रकर्षयोगो नास्ति, अन्यथा 'घटतम' इत्याद्यापत्तेः । किंतु गुणद्वारैव द्रव्य.जात्योः प्रकर्षयोगः । तथा च 'आढतम' इत्यत्र उत्कर्षविशिष्ट आढ्यः प्रकृत्यर्थः तमप्तु तद्द्योतकः । तमपि सति 'सुपो दाथु' इति सुपो लुक्, 'घकालतनेषु' इति योगेन सुबन्तादेव तद्धितोत्पत्तेरुक्तत्वात् । अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभिधानान्न भवति ।श्रेष्ठतमाय कर्मणे॑ इति नुछान्दसमिति भाष्ये स्पष्टम् । लघिष्ठ इति । लघुशब्दादिष्ठनि ओर्गुणे प्राप्ते 'इष्ठेमेयस्सु' इत्यनुवृत्तौटे॑रिति टिलोपः ।", "53056": "<<तिङश्च>> - ह्रस्वे । ह्रस्वत्वविशिष्ठे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः । अल्पत्वं — महत्त्वप्रतिद्वन्द्वि, ह्रस्वत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः ।", "53057": "<<द्विवचनविभज्योपपदे तरबीयसुनौ>> - द्विवचन । उच्यतेऽनेनेति वचनम् । द्वयोरर्थयोर्वचनं द्विवचनम् । द्व्यर्थप्रतिपादकमिति यावत् । न द्विवचनसंज्ञकमिह गृह्रते, व्याख्यानात् विभक्तव्यं — विभज्यम् ।ऋहलो॑रिति ण्यतं बाधित्वा निपातनाद्यत् । द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः । द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः । द्व्यर्थप्रतिपादके विभक्तव्यविषयके च उपपदे सतीति फलितम् । प्रातिपदिकादिति, तिङ इति चानुवर्तते । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते । फलितमाह — द्वयोरेकस्येत्यादिना । द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्टस्वार्थवृत्तेः, विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वार्थे तरबीयसुनौ स्त इति यावत् । यद्यप्यत्र द्वे सुबन्ततिङन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासङ्ख्यम्, व्याख्यानात्, अथ द्विवचनोपपदे उदाहरति — अयमनयोरिति । अत्र उपोच्चारितं पदमुपपदम्, नतु कृत्रमं, तद्धितविधौ तदसंभवात्, धात्वधिकार एव तत्प्रवृत्तेरुक्तत्वात् । तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते । तद्धितवृत्तौ तु गतार्थत्वान्नवस्यकम् । लघीयानिति । ईयसुनि नकार इत्, उकार उच्चारणार्थः, उगित्त्वान्नुम्,सान्ते॑ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ ।अथ विभज्योपपदे उदाहरति — उदीच्याः प्राच्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । द्विवचनसंज्ञकग्रहणे तुदन्ताः स्निग्धतराः॑ इति न सिध्येत् ।बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठोऽयं मे मध्यमः, अयं मे कनीया॑निति आद्यन्तवत्सूत्रस्थबाष्यप्रयोगात्,नैर्देशिकानां वार्ततरका॑ इति 'तस्मिन्' इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः ।", "53058": "<<अजादी गुणवचनादेव>> - अजादी । तरप्तमुपौ इष्ठन्नीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः । तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः । तदाह — इष्ठन्नीयसुनाविति । पाचकतरः, पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठन्नीसुनौ नेति भावः ।गुणवचनादजादी एवे॑ति विपरीतनियमव्यावृत्त्यर्थ एवकारः । तेन पटुतरः पटुतम इत्यादि सिद्धम् ।", "53059": "<<तुश्छन्दसि>> - तुश्छन्दसि । 'तृ' इत्यस्यतु॑रिति पञ्चम्येकवचनम् । 'तृ' इत्यनेन तृन्तृचोः सामान्येन ग्रहणम् । प्रत्ययत्वात्तदन्तग्रहणम् । अजादी इत्यनुवर्तते । तदाह — तृन्तृजन्तादिति । अगुणवचनादपि तृप्रत्ययान्तात्प्राप्त्यर्थमारम्भः । एवंच पूर्वेण नियमेव व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम् ।", "53060": "<<प्रशस्यस्य श्रः>> - प्रशस्यस्य श्रः । अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुमवचनत्वाऽभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र-इष्ठ, श्र-ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते — ।", "53061": "<<ज्य च>> - ज्य च ।ज्ये॑ति लुप्तप्रथमाकम् । प्रशस्यस्येति, अजादी इति चानुवर्तते । तदाह — प्रशस्यस्येति । ज्येष्ठ इति ।प्रकृत्यैका॑जिति प्रकृतिभावान्न टिलोपः । #ईयसु निज्यादेशेज्येया॑निति प्राप्ते — ।", "53062": "<<वृद्धस्य च>> - वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे — ज्यादेशः स्यादजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरति शयेन वृद्ध इत्यर्थः ।", "53063": "<<अन्तिकबाढयोर्नेदसाधौ>> - अन्तिकबाढयोः अजाद्योरिति । शेषपूरणमिदम् । अन्तिक, बाढ अनयोरिष्ठेयसुनोः परतः 'नेद' 'साध' एतावादेशौ स्त इत्यर्थः । नेदिष्ठः नेदीयानिति । अयमनयोरतिशयेनान्तिक इत्यर्थः । साधिष्ठः साधीयनिति । अयमनयोरतिशयेन बाढ इत्यर्थः । बाढो — भृशः ।भृशप्रतिज्ञयोर्बाढ॑मित्यमरः ।अतिवेलभृशाऽत्यर्थातिमात्रोद्गाढनिर्भर॑मिति च ।", "53064": "<<युवाल्पयोः कनन्यतरस्याम्>> - युवाल्पयोः । इष्ठेयसोरिति । 'अजादी' इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः कनीयानिति । अयमनयोरतिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति । युवन्शब्दादिष्ठनिस्थूलदूरे॑ति वनो लोपे उकारस्य गुणेऽवादेशे रूपम् । अल्पिष्ठ इति । अल्पशब्दादिष्ठनि टिलोपः । इत्यादीति । यवीयान्, अल्पीयानिति रूपद्वयमादिपदग्राह्रम् ।", "53065": "<<विन्मतोर्लुक्>> - विन्मतोर्लुक् । इष्ठेयसोरिति । 'अजादी' इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । रुआजिष्ठ इति । रुआग्विन्शब्दादिष्ठनि विनो लुकि तन्निमित्तपदत्वभङ्गात्रकुत्वनिवृत्तिरिति भावः । एवं रुआजीयानिति । त्वचिष्ठ इति । त्वग्वच्छब्दादिष्ठिनि मतुपो लुकि तन्निमित्तपदत्वभङ्घात्कुत्वनिवृत्तिरिति भावः । एवं त्वचीयान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ ।", "53066": "<<प्रशंसायां रूपप्>> - प्रशंसायां रूपप् । सुबन्तात्तिङन्ताच्चेति । शेषपूरणमिदम् ।तिङश्चे॑त्यनुवृत्तम्, प्रातिपदिकादिति च ।धकाले॑त्यादिलिङ्घात्सुबन्तादिति लभ्यत इति भावः । प्रशंसाविसिष्टे स्वार्थे वर्तमानात्तिङन्तात्सुबन्ताच्च रूपविति फलितम् । पचतिरूपमिति । प्रशस्ता पाकक्रियेत्यर्थः । अत्र भाष्येक्रियाप्रधानमाख्यातं द्रव्यप्रधानं नामे॑ति सिद्धान्तितम् । पचतोरूपं पचन्तिरूपमित्यत्र च न द्विवचनबहुवचने, तिङैव द्वित्वबहुत्वयोरुक्तत्वात् । एकवचनं तूत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकादित्यपि भाष्ये स्पष्टम् । ईषदसमाप्तौ । ईषदसमाप्तिविशिष्ठेऽर्थे । यशस्कल्पमिति । असंपूर्णं यश इत्यर्थः । 'सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति । असंपूर्णं यजुरित्यर्थः । 'इणः षः' इति षत्वम् । विद्वद्देश्य इति । असम्पूर्णवैदुष्यवानित्यर्थः । एवं विद्वद्देशीयः । अत्र सर्वत्रस्वार्थिकाः प्रकृतितो लिङ्गवचनान्नयनुवर्तन्ते॑ इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । असंपूर्णा पाकक्रियेत्यर्थः ।पचतिरूप॑मिति वल्लिङ्गवचननिर्वाहः । एवंवृषभकल्प इयं गौ॑रित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम् ।क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गावचनान्यतिवर्तन्ते॑ इति वचनाद्गुडकल्पा द्राक्षेत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् ।", "53067": "", "53068": "<<विभाषा सुपो बहुच् पुरस्तात्तु>> - विभाषा । ईषदसमाप्तावित्यनुवर्तते । तदाह — ईषदसमाप्तिविशिष्ट इति । प्रागेवेति । सूत्रे तुशब्दोऽवधारणे इति भावः । बहुपटुरिति । पटुशब्दात्सुबन्तात्प्राग्बहुचि कृते प्रातिपदिकावयवत्वात्सुपो लुकि समुदायात्पुनः सुबुत्पत्तिः । नच तद्धितान्तत्वाऽभावात्समासत्वाऽभावाच्च पूर्वोत्पन्नसुब्विशिष्टस्य प्रातिपदिकत्वाऽभावात्कथमिह लुगिति वाच्यम्,अर्थव॑दित्यनेन तस्य प्रातिपदित्वसत्त्वात् । पटुरित्यस्य पूर्वोत्पन्नसुप्प्रत्ययान्तत्वेऽपिबहुपटु॑रिति समुदायस्य प्रत्ययान्तत्वाऽभावात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । नचैवं सतिकृत्तद्धिते॑त्यत्र समासग्रहणं व्यर्थमिति वाच्यं,पदघटितसङ्घातस्य चेत्प्रातिपदिकसंज्ञा तर्हि समासस्यैवे॑ति नियमार्थत्वात् । नचैवं सति प्रकृतेबहुपटु॑रिति समुदायस्य पूर्वोत्पन्नसुब्विशिष्टस्य कथं प्रातिपदिकत्वम्, असमासत्वादिति वाच्यं,यत्र सङ्घाते पूर्वो भागः पदं तस्य चेत्प्रातिपदिकसंज्ञातर्हि समासस्यैवे॑ति नियमशरीराभ्युपगमादिति प्रागुक्तं न विस्मर्तव्यम् । न चसमर्थाना॑मिति सूत्रे वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यं, बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथामहाविभाषया अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्ति॑रिति सिद्धान्ताद्बहुजभावे वाक्यमेव स्यात् । नच कल्पबादीनां बहुचा समानविषयकत्वान्निरवकाशत्वं शङ्क्यं, तेषां तिङन्ते सावकाशत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह — पटुकल्प इति । ननु लुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुब्ग्रहणं व्यर्थमिति पृच्छति — सुपः किमिति ।तिङ्श्चे॑त्यनुवृत्तिनिवृत्त्यर्थं सुब्ग्रहणम् । नच अस्वरितत्वादेव तदनुवृत्तिर्न भविष्यतीति वाच्यम्,अव्ययसर्वनाम्ना॑मित्याद्युत्तरसूत्रेतिङ्श्चे॑त्यनुवृत्तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह — यजतिकल्पमिति । तुग्रहणं तुस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तते, क्वचिदतिवर्तन्ते॑ इति ज्ञापनार्थमिति भाष्ये प्रपञ्चितम् ।", "53069": "<<प्रकारवचने जातीयर्>> - प्रकारवचने ।प्रकारवचने था॑लित्यतोऽस्य वैलक्षण्यमाह — प्रकारवति चायमिति । प्रकारवत्येवेत्यर्थः । थाल्लु प्रकारमात्रे इति । वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम्, अविशेषात् । अन्यथातथे॑त्यत्र स प्रकारः इत्येवार्थः स्यात् । नच किमादिभ्यो विशिष्य विहितेन थाला जातीयरो बाधात्तज्जातीय इत्याद्यसिद्धिरिति वाच्यं,जात्यन्ताच्छ बन्धुनी॑ति तज्जात्यादिशब्दाच्छप्रत्ययेनैव तज्जातीयादसिद्धेः । अत एव 'यथाजातीयक' इत्यादिभाष्यप्रयोगाः सङ्गच्छन्ते । जयादित्यस्तु-अत्र प्रकारो भेदःस थाल्विधौ सामान्यस्य भेदको विशेषः प्रकार इत्याह — वामनस्तु-सादृश्यं भेदश्चेत्युभयमपि प्रकार इत्याह ।", "53070": "<<प्रागिवात्कः>> - प्रागिवात्कः ।इवशब्दस्तद्घटितसूत्रपर इति मत्वाह — इवे प्रतीति ।", "53071": "<<अव्ययसर्वनाम्नामकच् प्राक् टेः>> - अव्ययसर्वनाम्नाम् । अनुवर्तत इति ।मण्डूकप्लुत्ये॑ति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्रागकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः । चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः ।", "53072": "<<कस्य च दः>> - कस्य च दः । पूर्वसूत्रेअव्ययसर्वनाम्ना॑मिति समासनिर्देशेऽपि एकादेशे स्वरितत्वप्रतिज्ञाबलादव्ययग्रहणमेवात्राऽनुवर्तते ।कस्ये॑त्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेनाऽव्ययस्य विशेषणात्तदन्तविधिः । तदाह — कान्ताव्ययस्येति । अकच्चेति । चकारेण तदनुकर्षादिति भावः । एतेन अकच्संनियोगशिष्ट एवाऽयं दकार इत्युक्तं भवति । अयमपि प्रागिवादधिकारः ।", "53073": "<<अज्ञाते>> - अज्ञाते । अज्ञातेऽर्थे विद्यमानात्सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्ययसर्वनाम्ना तिङन्तानां च टेः प्रागकच्स्यात् । तत्रापि ककारान्ताव्ययानां दकारोऽन्तादेशः स्यादित्यर्थः । कस्यायमिति । स्यादित्यर्थः । अज्ञातत्वाभिनयोऽयम् । अज्ञातोऽआ इति विग्रहः । उच्चकैरिति । उच्चैरित्यव्ययस्य टेः प्रागकच् । सर्वके विआके इति । ननु अव्ययसर्वनाम्नामिति सूत्रे 'सुप' इत्यनुवृत्तेः सुबन्तानां सर्वनाम्नां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकचि युवकयोः, आवकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिरिति न स्युः । युवयकोः आवयकोः, युष्मासकु अस्मासकु, युष्माभकिः अस्माभकिरिति स्युः । यदि तु 'सुप' इत्यननुवर्त्त्य प्रातिपदकादित्येवानुवर्त्त्यं प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात् तर्हिं त्वयका मयकेति न स्यात् । त्वकया, मकया इति स्यादित्यत आह — ओकारेति । वार्तिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदं तु वार्तिकं युष्मदस्मन्मात्रविषयकमेव, भाष्ये तथैवौदाहृतत्वात् । अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच्, नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एवविभक्तौ परतो विहितः किमः क आदेशः साकच्कार्थः, कः कौ के इति भाष्यं सङ्गच्छते । त्वयका मयकेति । इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदिकस्य टेः प्रागकचि तु त्वकया मकयेति स्यादिति भावः । काम् वक्तव्य इति । 'काम्प्रत्यय' इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्याऽदर्शनात् । किं तु मित्त्वादागम एवायम् । तदाह — मित्त्वादिति । अकचोऽपवादः । तूष्णीकामिति । तूष्णीमित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः ।शीले इति । इदमपि वार्तिकम् ।तूष्णी॑मित्यव्ययात्कप्रत्ययः स्यान्मकारस्य लोपश्च शीले गम्ये इत्यर्थः । शीलं=स्वभावः । तूष्णीक इति । मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् 'केऽणः' इति ह्रस्वो न भवति ।अव्ययसर्वनाम्ना॑मित्यत्र तिङश्चेत्यनुवृत्तेः प्रयोजनमाह — पचतकीति ।पचती॑त्यत्र इकारात्प्रागकच् । ककारदकार उच्चारणार्थः । अन्यथा इकारात्प्रागकच्प्रत्यये आद्गुणे 'पचतके' इति स्यादिति भावः । जल्पतकीति ।जल्पती॑त्यस्य टेः प्रागकच् । धकिदिति ।धि॑गित्यव्ययस्य टेः प्रागकच्, कान्तस्याव्ययस्य दकारश्चान्तादेश इति बोध्यम् ।तिङश्चे॑त्यप्यनुवर्तते । अआक इति । धावनस्य असम्यक्त्वादआस्य कुत्सा बोध्या । सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि ।याप्येपाश॑विति प्रवृत्तिनिमित्तकुत्सायामेव भवति, इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्सायामपीति भाष्ये स्पष्टम् ।", "53074": "", "53075": "<<संज्ञायां कन्>> - संज्ञायां कन् । कुत्सिते इत्यनुवर्तते । तदाह — कुत्सित इति । तदन्तेन चेदिति । कुत्साहेतुकसंज्ञाविषये कनिति यावत् ।", "53076": "<<अनुकम्पायाम्>> - अनुकम्पायाम् । अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा=दया ।", "53077": "<<नीतौ च तद्युक्तात्>> - नीतौ च तद्युक्तात् । सामदानादीति । आदिना भेददण्डयोग्र्रहणम् । तद्युक्तादित्येतद्व्याचष्टे — अनुकम्पायुक्तादिति । अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते, 'कस्य च दः' इति च । हन्त ते धानका इति । 'दास्यन्ते' इति शेषः ।हन्ते॑त्यव्ययमनुकम्पाद्योतकम् ।हन्त हर्षेऽनुकम्पाया॑मित्यमरः ।हन्ते॑त्यदन्तम् ।हे पुत्रे॑ति शेषः । अनुकम्पायुक्ता धाना इत्यर्थः । धानाशब्दात्कप्रत्यये 'केऽणः' इति ह्रस्वे कान्ताट्ठापिअबाषितपुंस्काच्चे॑ति विकल्पात्पक्षे इत्त्वाऽभावः । एहकीति ।एही॑ति तिङन्तस्य टेः प्रागकच् ।अव्ययसर्वनाम्ना॑मित्यत्र तिङस्चेत्यनुवृत्तेरिति भावः । अद्धकीति ।अद्धी॑ति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति । अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धे ।ञपीति । पुत्रः साक्षादनुकम्प्यः, तद्द्वारा धाना अनुकम्पायुक्ता इति भावः ।", "53078": "<<बह्वचो मनुष्यनाम्नष्ठज्वा>> - बह्वचो मनुष्य ।ठ॑जिति च्छेदः पूर्वसूत्रद्वयविषये इति शेषपूरणम् ।अनुकम्पाया॑मितिनीतौ च तद्युक्ता॑दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकाट्ठज्वा स्यादित्यर्थः । पक्षे कः ।", "53079": "<<घनिलचौ च>> - घनिलचौ च । तत्रैवेति । शेषपूरणमिदम् । 'बह्वच' इति पूर्व सूत्रविषये इत्यर्थः ।अनुकम्पाया॑मिति,नीतौ च तद्युक्ता॑दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नो घन् इलच् एतौ च प्रत्ययावित्यर्थः ।", "53080": "<<प्राचामुपादेरडज्वुचौ च>> - प्राचामुपादेरडज्वुचौ च । पूर्वविषये इति ।बह्वचो मनुष्यनाम्नः॑ इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति । ठच्, धन्, इलच्चेत्यर्थः । ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचाङ्ग्रहणं व्यर्थमित्यत आह — प्राचाङ्ग्रहणमिति । उपड इति उपेन्द्रदत्तशब्दादडचिद्वितीयं सन्ध्यक्षर॑मिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् ।नेन्द्रस्य परस्ये॑ति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे । उपक इति । वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपो न ।", "53081": "<<जातिनाम्नः कन्>> - जातिनाम्नः कन् । जातिशब्दो य इति । यो जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतः स इत्यर्थः ।अनुकम्पाया॑मिति 'नीतौ' इति च सूत्रद्वयविहितस्याऽपवादः । द्वितीयं सन्ध्यक्षरं चेदिति ।एचः सन्ध्यक्षराणी॑ति प्राचामाचार्याणां प्रवादः । कहोड इति । ऋषिविशेषस्य नामेदम् । अत्र द्वितीयोऽच् सन्ध्यक्षरं, तदादेर्लोपो, नतु तदूध्र्वस्यैव । एकाक्षरेति । व्यञ्जनसहित एकोऽच — एकाक्षरम् । एकाच्कमिति यावत् । तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषां मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः । इह उत्तरपदशब्दो यौगिकः, नतु समासस्य चरमावयवे रूढो, व्याख्यानात् ।द्वितीयादच ऊध्र्व॑मित्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्ते वचनमिदम् । वागाशीर्दत्त इति । वाचि आशीर्यस्य नतु मनस्येव स वागाशीः । तेन दत्त इति विग्रहः । यद्वा आशासनमाशीः, वाचा आशीः — वागाशीः ।कर्तृकरणे कृते॑ति समासः । तया वागाशिषा दत्त इति विग्रहः । वाक्करणकाशासनेन दत्त इत्यर्थः । वाचिक इति । वागाशीर्दत्तशब्दाट्ठचि वागित्येकाक्षरपूर्वपदात्परयोराशीर्दत्तशब्दयोर्लोपे सति अन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेन पदत्वबाधान्निवृत्तौ वाचिक इति रूपमिति केचित् । वस्तुतस्तु ठचि इकादेशात्प्राक्ठावस्थायामेव उत्तरपदलोपे कर्तव्येऽसिद्धत्वान्न पूर्वं कुत्वादिप्रवृत्तिरित्याहुः । यद्यपि द्वितीयादच ऊध्र्वस्य 'शीर्दत्त' शब्दस्य लोपे वागा-इक इति स्थितेयस्येति चे॑त्याकारलोपे उक्तरीत्या कुत्वजश्त्वयोर्निर्वृत्तौ 'वाचिक' इति सिध्यति, तथापि आकारलोपस्य स्थानिवत्त्वेन आकारान्तस्य इकमाश्रित्य भत्वे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्याऽव्याघातात्कुत्वजश्त्वयोः 'वागिक' इति स्यात् । उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्त्वाऽभावात्तुल्यावधिकया भसंज्ञयासुप्तिङन्त॑मिति पदसंज्ञा बाध्यतेस, एकसंज्ञाधिकारे परत्वादिति भावः । कथमिति । अत्रापि अङ्गुलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितभत्वेन पदत्वाऽभावाज्जश्त्वं दुर्लभमिति प्रश्नः । षष इति । षष्शब्दस्य पूर्वपदत्वे 'ठाजादौ' इति सूत्रसिद्धो द्वितीयादच ऊध्र्वस्यैव लोपो, न त्वयमुत्तरपदलोप इति वचनात्षडिक इति सिद्धमित्यर्थः । एवंच 'षडङ्गुलिदत्त' इत्यत्र डकाराऽकारादूध्र्वस्य लोपे सति डकाराऽकारस्ययस्येति चे॑ति लोपे सति तस्य स्थानिवत्त्तवेन अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाऽव्याघाताज्जश्त्वं निर्बाधमिति भावः । स्पष्टं चेदं 'स्वादिषु' इति सूत्रे भाष्ये ।", "53082": "<<अजिनान्तस्योत्तरपदलोपश्च>> - अजिनान्तस्य । व्याघ्रक इति । 'व्याघ्राजिन' इति कस्यचिन्मनुष्यस्य नाम । तस्मात्कनि अजिनकस्य लोपः । सिंहक इति । सिंहाजिनशब्दात्कनि अजिनस्य लोपः ।", "53083": "<<ठाजादावूर्ध्वं द्वितीयादचः>> - ठाजादौ । अस्मिन्प्रकरणे इति । अनुकम्पायां, नीतौ चेत्यस्मिन्प्रकरणे इत्यर्थः । सन्निधानलभ्यमिदम् । सर्वमिति । ऊर्द्ध्वग्रहणादिदं लभ्यते । अन्यथाआदेः परस्ये॑ति परिभाषया द्वितीयाऽचो यः परस्तस्यादेरेव स्यादिति भावः ।अजिनान्तस्योत्तरपदलोपश्चे॑त्यतो लोप इत्यनुवृत्तमिह कर्मसाधनमाश्रीयते इति मत्वाह — लुप्यत इति । देविक इति । देवदत्तशब्दाट्ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम् । देविय इति । देवदत्तशब्दाद्धनि दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाऽजाद्यभावान्न दत्तपदलोपः । वायुक इति । वायुदत्तशब्दाद्दत्तशब्दस्य लोपः । उकः परत्वाट्ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह — ठग्रहणमिति । कृत एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाऽजाद्यभावान्न दत्तपदलोपः । वायकु इति । वायुदतद्तशब्दाद्दत्तशब्दस्य लोपः । उकःपरत्वाट्ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह — ठग्रहणमिति । कृत #एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वाल्लोपे कृते ठस्य उकः परत्वात्कादेशः सिध्यति । अन्यथा इकादेशे कृतेऽजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु — इक इति स्थिते ठस्याऽभावात्कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शह्क्यं, 'ठस्येकः' इत्यत्र स्थान्यादेशयोरकार उच्चारणार्थ इति पक्षे अल्विधित्वात्सन्निपातपरिभाषाविरोधाच्चेति भाष्ये स्पष्टम् । पितृक इति । पितृदत्तशब्दाठ्ठचि दत्तशब्दस्य लोपे उकः परत्वाट्ठस्य कः । अथचतुर्थादनजादौ वा लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ।॑ इति वक्ष्यमाणश्लोकवार्तिकं भङ्क्त्वा 'चतुर्थादच' इत्येतद्व्याचष्टे — चतुर्थादचेति । बृहस्पतिक इति । बृहस्पतिदत्तशब्दाट्ठचि दत्तशब्दस्य लोपे ठस्य इकादेशः । द्वितायादूध्र्वत्वाऽभावादप्राप्ते वचनम् । ॒अनजादौ वे॑ति वार्तिकभागं व्याचष्टे — अनजादौ चेति ।अनजादौ चे॑पाठे विभाषेति भाष्यलब्धम्, तत्र देवत्तको देवक इति कप्रत्यये दत्तलोपविकल्पोदाहरणात् ।लोपः पूर्वपदस्य चेति ।विभाषे॑ति शेषः । अनजादाविति तु नात्र सम्बध्यते । तदाह — दत्तिक इत्यादि । ठचि धनि इलचि के च रूपम् ।अप्रत्यये तथैवेष्ट॑ इति वार्तिकभागं व्याचष्टे — विनापि प्रत्ययमिति । दत्तः देव इति । देवदत्तशब्दाट्ठाजादिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम् । उवर्णादिति । 'ल' इति लोपस्य पूर्वाचार्यसंज्ञा । उवर्णात्परस्य इलचो लोपः स्यादित्यर्थः ।आदेः परस्ये॑तीकारस्य लोपः । चकारेण ठाजादौ द्वितीयादच ऊध्र्वं लोपः सूत्रसिद्धोऽनुद्यते । ऋवर्णादपीति । ऋवर्णादपि परस्य इलच आदेर्लोपः स्यादित्यर्थः । सवित्रियः सवितृल इति । धनि इलचि च रूपम् । वस्तुतस्तु ऋवर्णादपीति भाष्याऽदृष्टत्वादुपेक्ष्यम् । तदेवं व्याख्यातं वार्तिकं समस्तं पठति — चतुर्थादित्यादि ।", "53084": "<<शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्>> - शेवल । एषामिति । शेवल, सुपरि, विशाल, वरुण, अर्यमन्-एतत्पूर्वपदकानामित्यर्थः । पूर्वस्येति । 'ठाजादौ' इत्यस्येत्यर्थः । शेवलिक इति । शेवलदत्त शब्दाट्ठचि तृतीयादचः परस्य दत्तशब्दस्य लोपः । शेवलिल इति । इलचि रूपम् । सुपरिक इति । सुपरिदत्तशब्दाट्ठचि दत्तशब्दलोपः । विशालिक इति । विशालदत्तशब्दाट्ठचि रूपम् । वरुणिक इति । वरुणदत्तात् — वरुणिकः । अर्यमिक इति । अर्यमदत्तात्-अर्यमिकः ।अकृतसन्धीनामेषा॑मिति वार्तिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः सुपरिक इत्यादि सिध्यति ।", "53085": "<<अल्पे>> - अल्पे । अल्पत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्ययाः स्युः । तैलकमिति । 'सर्वकम्' 'उच्चकैः'पचतकी॑त्याद्यप्युदाहार्यम् ।", "53086": "", "53087": "<<संज्ञायां कन्>> - संज्ञायां कन् । वंशक इति । ह्रस्वस्य वेणुजातिविशेषस्य नाम ।", "53088": "<<कुटीशमीशुण्डाभ्यो रः>> - कुटीशमी । ह्रस्व इत्येव कुटीर इति ।स्वार्थिकाः क्वचित्प्रकृतितो लिह्गवचनान्यतिवर्तन्ते॑ इति पुंस्त्वम् । एवं शमीरः शुण्डार इत्यपि । ह्रस्वा शमी, शुण्डा चेत्यर्थः ।", "53089": "<<कुत्वा डुपच्>> - कुत्वा डुपच् । कुतुप इति । कुतूशब्दात् डुपचि ङित्त्वाट्टिलोपः । तत्रापि कुटीरादिवत्स्तीर्तवमपहाय पुंस्त्वमेव । तत्राऽमरकोशषमपि प्रमाणयति — कुतूः कृत्तिस्नेहेति ।", "53090": "<<कासूगोणीभ्यां ष्टरच्>> - कासूगोणीभ्यां ष्टरच् । ह्रस्व इत्येव । कासूतरीति । षित्त्वान्ङीषिति भावः ।कासूर्बुद्धे कुवाच्येऽस्त्रे॑ इति नानार्थरत्नमालायाम् । एवं गोणीतरीति ।", "53091": "<<वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे>> - वत्सोक्ष । ह्रस्व इति निवृत्तम् । वत्स, उक्षन्, अआ, ऋषभ — एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः स्यादित्यर्थः । तनुत्वं — न्यूनत्वम् । वत्सः-प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् — उत्तर वयः प्राप्त्या ज्ञेयम् । तदाह — द्वितीयं वयःप्राप्त इति । उक्षतर इति । उक्षा — तरुणो बलीवर्दः । तारूण्यस्य तनुत्वं तृतीयवयः प्राप्त्या ज्ञेयम् । अआतर इति । गर्दमेन अआआयामुत्पादितः । अआतरः — अआतरत्वं च अआत्वापेक्षया न्यूनमेव । ऋषभतर इति । ऋषभो-भारस्य वोढा तस्य तनुत्वं भारोद्वहने मन्दशक्तिता, तद्वानित्यर्थः । तनुः कृशो वत्सो वत्सतर इति कुतो नेत्यत आह — प्रवृत्तिनिमित्ततनुत्वे एवायमिति । एतच्च भाष्ये स्पष्टम् ।", "53092": "<<किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्>> - किंयत्तदो निर्धारणे । किम्, यत्, तत् एषां समाहारद्वन्द्वात्पञ्चमी । द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यो डतरच् स्यादित्यर्थः । अनयोः कतरो वैष्णव इति । को वैष्णव इत्यर्थः । अत्र वैष्णवत्वगुणेन कुंशब्दार्थ इदमर्थाभ्यां निर्धार्यते । अतः किंशब्दाड्डतरचि डित्त्वाट्टिलोपे 'कतर' इति भवति । एवं यच्छशब्दात्, तच्छशब्दाच्च डतरचि टिलोपे यतरः ततर इति भवति । निर्धार्यमाणवाचिभ्य इति किम् । कयोरन्यतरो देवदत्तः, ययोरन्यतरः, तयोरन्यतर इत्यत्र किमादिभ्यो न भवति ।", "53093": "<<वा बहूनां जातिपरिप्रश्ने डतमच्>> - वा बहूनाम् । किंयत्तद इति, निर्धारणे इति, एकस्येति चानुवर्तते । बहूनामिति निर्धारणे षष्ठी । तदाह — बहूनां मध्ये निर्धारणे डतमज्वा स्यादिति । 'मध्ये' इत्यनन्तरम् — एकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्लः । जातौ परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदां सर्वेषामेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणं, तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् — ॒किमादीनां द्विबह्वर्थे प्रत्ययविधानापरिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् — ॒किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्य॑मिति ।पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भाव॑ इति कैयटः । तदाह — प्रत्याख्यातमाकरे इति । क्षेपार्थस्य त्वनभिदानान्न ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाचकतम एषां पाचकः, शूरो, देवदत्तः, इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारणे डतमज् भवति ।एषां कतरो देवदत्तः॑ इत्यत्र बहूनाम#एकस्य निर्धारणे डतरच् भवति । अत एव प्रत्ययः॑ इति सूत्रभाष्येबहुष्वासीनेषु कस्छित् कंचित्पृच्छति कतरो देवदत्तः॑ इति प्रयोगः सङ्गच्छते । कतमो भवतां कठ इति ।गोत्रं च चरणैः सहे॑ति कठस्य जातित्वम् । वाग्रहणमकजर्थमिति । अन्यथा महाविभाषया.ञपवादेन मुक्ते उत्सर्गस्याऽप्रवृत्तेरुक्तत्वादकच् न स्वादिति भावः । नचअव्ययसर्वनाम्ना॑मित्यस्याधिकारत्वात्तदनुवृत्त्यैव सिद्धे वाग्रहणं व्यर्थमेवेति वाच्यम्, इहैव सूत्रे तदनुवृत्तिर्नतु पूर्वसूत्रे इति ज्ञापनार्थत्वात् । अतो डतरज्विषये नाऽकच् । महाविभाषयेति । अत एव 'अवक्षेपणे' इति सूत्रे भाष्येक एतयोरर्थयोर्विशेषः॑ इति प्रयोगः सङ्गच्छते ।तमबादयः प्रागवक्षेपणकनो नित्याः प्रत्ययाः॑ इति तु प्रायिकमिति भावः । किमोऽस्मिन्निति ।वा बहूना॑मिति प्रकृतसूत्रविषयेऽपीत्यर्थः, बहुष्वासीनषु इत्याद्युदाहृतभाष्यप्रयोगादिति भावः ।", "53094": "<<एकाच्च प्राचाम्>> - एकाच्च प्राचाम् । शेषपूरणेन सूत्रं व्याचष्टे — डतरच् — डतमच्च स्यादिति ।पूर्वसूत्रद्वयविषये॑ इति शेषः ।महाविभाषयैव सिद्धे प्राचाङ्ग्रहणं न कर्तव्य॑मिति भाष्यम् । अत एव नाऽकजर्थं तत् ।", "53095": "<<अवक्षेपणे कन्>> - अपक्षेपणे कन् । व्याकरणकेन गर्वित इति । व्याकरणं हि स्वतो न कुत्सितं, किं तु अधीतं सदध्येतृकुत्साहेतुभूतं गर्मावहदवक्षेपणम् । नन्ववक्षेपणं कुत्सा । तत्कथं व्याकरणमवक्षेपणं स्यात्, 'कुत्सित' इत्यनेन गतार्थं चेदमित्यत आह — येनेतर इति । अवक्षेपणशब्दः करणे ल्युडन्त इति भावः । ***** इति बालमनोरमायाम् प्रागिवीयानां पूर्णोऽवधिः । *****अथ प्राग्दीव्यतीयाः । — — — — — — —", "53096": "<<इवे प्रतिकृतौ>> - अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते । इवे प्रतिकृतौ । कन्स्यादिति ।अवक्षेपणे क॑न्नित्यतस्तदनुवृत्तेरिति भावः । इवार्थौपमानत्वम् । तद्वति वर्तमानात्प्रातिपदिकात्कन्स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिर्मिता प्रतिमा प्रतिकृतिः । अआक इति । प्रतिकृतेः स्त्रीत्वेऽपिस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॑ इति पुंलिङ्गत्वम् ।", "53097": "<<संज्ञायां च>> - संज्ञायां च ।क॑निति शेषः । समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्प्रकृत्यर्थसदृशस्य संज्ञेत्यर्थः । पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — अप्रतिकृत्यर्थमारम्भ इति तथाच प्रतिकृताविति निवृत्तम् । इव इति त्वनुवर्तत एव । तदाह — अआसदृशस्येति । अआसदृशश्य अमनुष्यस्य कस्यचित्संज्ञैषा । अआसदृशोऽयमआकसंज्ञक इति बोधः ।", "53098": "<<लुम्मनुष्ये>> - लुम्मनुष्ये । संज्ञायां चेति विहितस्येति । नतु 'इवेप्रतिकृतौ' इति विहतस्य प्रतिकृतित्वाऽसंभवादिति भावः । चञ्चेव मनुष्यः चञ्चेत्युदाहरणं वक्ष्यन्चञ्चाशब्दं व्याचष्टे — चञ्चा तृणमयः पुमानिति । चञ्चेति । चञ्चातुल्यो मनुष्योऽयं चञ्चासंज्ञक इत्यर्थः । वर्ध्रिकेति । वर्ध्रि चर्ममयी प्रतिकृतिः । तत्तुल्यो मनुष्योऽयं वर्ध्रिकासंज्ञक इत्यर्थः । लुपि युक्तवत्वात्स्त्रीत्वम् । वचनं तु विशेष्यवदेव,हरीतक्यादिषु व्यक्ति॑रित्युक्तेः । तेन 'चञ्चे इव मनुष्यौ' इत्यत्र चञ्चा इति न भवति ।", "53099": "<<जीविकाऽर्थे चापण्ये>> - जीविकार्थे चापण्ये । पण्यं — विक्रीयमाणम् । तदाह — अविक्रीयमाणमिति । वासुदेव इति । वासुदेवतुल्या जीविकार्था अविक्रेया प्रतिकृतिरित्यर्थः । एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रेयाया जीविकार्थत्वमित्यत आह — देवलकानामिति । प्रतिमां गृहीत्वा भिक्षार्थं प्रतिगृहमटतामित्यर्थः । तत्तदायतनेषु प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वक्ष्यते । हस्तिकान्विक्रीणीते इति । जीविकार्थं हस्तितुल्यप्रतिकृतीर्विक्रीणीते इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् ।सज्ञायां चे॑तिज विहितस्य नायं लुप्, किन्तु 'इवे प्रतिकृतौ' इति विहितस्यैव, भाष्ये प्रतिकृतावेव एतदुदाहरणात् । पठन्ति । चाभियुक्ताः — ॒रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चात्र पण्यतया कनो लुब्दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः ।", "53100": "<<देवपथादिभ्यश्च>> - देवपथादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप्स्यादिति यावत् । देवपथ इति । देवानां पन्थाः देवपथः । तत्प्रतिकृतिरित्यर्थः ।इवे प्रतिकृतौ लोपः कनो देवपथादिषु॑ इति । अर्चाः=प्रतिमाः । पूजार्थासु तासु, चित्रकर्मसु, ध्वजेषु देवपथादिगणपठितेषुइवे प्रतिकृतौ॑विहितस्य कनो लुबित्यर्थः । 'तद्राजस्ये' ति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ । अर्चासु यथा — शिवो विष्णुर्गणपतिरित्यादि । चित्रकर्मसु यथा — रावणः कुम्भकर्णः इन्द्रजिदित्यादि । ध्वजेषु यथाकपिः गरुडः वृषभ इत्यादि ।", "53101": "<<वस्तेर्ढञ्>> - वस्तेर्ढञ् । निवृत्तमिति । अस्वरितत्वादिति भावः ।संज्ञायां चे॑त्यादिपूर्वसूत्रेषु क्वापि प्रतिकृतावित्यस्याऽनिवृत्तेर्न लुब्विधिषु तेषु तदनुवृत्तिरपेक्षिता । वस्तिरिवेति ।बस्तिर्नाभेरधो द्वयो॑रित्यमरः ।", "53102": "<<शिलाया ढः>> - शिलाया ढः । इवे इत्येव । शिलेव शिलेयमिति ।दध्यादी॑ति शेषः । योगेति । 'शिलाया' इत्येको योगः । ढञित्यनुवर्तते, इवे इति च । शैलेयमिति । ञित्त्वादादिवृद्धिः, स्त्रियां, ङीप् च फलम् । 'ढः' इति द्वितीयो योगः । शिलाया इत्यनुवर्तते । उक्तोऽर्थः ।", "53103": "<<शाखाऽऽदिभ्यो यत्>> - शाखादिभ्यो यत् । 'य' इति त्वपपाठः । तैत्तिरीये॒मुख्यो भवती॑त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च ।", "53104": "<<द्रव्यं च भव्ये>> - द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेर्यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । भव्य आत्मवान् ।अभिप्रेतानामर्थानां पात्रभूतः॑ इति वृत्तिः । द्रव्यमयमिति । द्रुः=वृक्षः, स यथा पुष्पफलादिभागेवमभिमतफलपात्रभूत इत्यर्थः । यद्वा द्रुः=कल्पवृक्षो ।ञत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः । यप्रत्यये ओर्गुणः । अवादेशः ।", "53105": "<<कुशाग्राच्छः>> - कुशाग्राच्छः । इवे इत्येव । कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम् । कुशाग्रवत्सूक्ष्मेत्यर्थः ।", "53106": "<<समासाच्च तद्विषयात्>> - समासाच्चा । तच्छब्देन प्रकृत इवार्थः परामृश्यते । तदाह — इवार्थविषयादिति । इवार्थः सादृश्यमुपमानोपमेयभावात्मकं, तद्विषयकादित्यर्थः । सादृस्यवदथबोधकात्समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि सादृश्यवदर्थबोधकस्तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात्समासादिति विवक्षितमिति न दोषः । छः स्यादिति । चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः ।इवार्थे॑इति शेषः । 'पूगाञ्ञ्यः' इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थसमस्यमानयावत्पकात्समासादिवार्थे छः स्यादिति लभ्यते । काकतालीयो देवदत्तस्य वध इति । काकः कश्चिदकस्मात्ताल वृक्षस्य मूलं गतस्तालफलपतनान्भृतः । तथैव कश्चिद्देवदत्तोऽकस्मान्निर्जनप्रदेशे क्वचिद्गतश्चोरेण हतस्तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकं, प्रत्ययार्थगतमन्यत्सादृश्यं च भासते । तथाहि — काकगमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः । अत्र 'काक' शब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः ।ताल॑शब्दस्तु तालपतनसदृशे चोरागमने लाक्षणिकः । काकागमनसदृशं देतवदत्तागमनं, तालपतनसदृशं चोरागमनमिति च काकतालमिति समासाद्बोधः । यद्यप्यत्र काकतालशब्दयोर्मिलितय#ओरेकत्रान्वयाऽभावाद्द्वन्द्वसमासो न संभवति, परस्परान्वयाऽभावेन असामर्थ्याच्च, तथापि अस्मादेव विधिबलात् 'सुप्सुपा' इति समासः । तथाच काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः । तदाह — इहेत्यादि । अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समागम इत्यर्थः । तदेवंविदात्समासात्काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्रत्ययः । तत्र समासात्मककाकतालशब्दबूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वं, देवदत्तवधे चोरागमकृते उपमेयत्वं च छप्रत्ययेन गम्यते । ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकमरणसदृशो देवदत्तस्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह — तत्प्रयुक्त इति । तादृशतालपतनप्रयुक्तेत्यर्थः । सदृश इत्यनन्तरं 'देवदत्तवध' इति शेषः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्देतुकस्तालपतनकृत काकमरणसदृशश्चोरकृतो देवदत्तवध इत्येवंकाकलतालीयो देवदत्तवध॑ इति समासाद्बोधः ।एतदेवाभिप्रेत्योक्तं भाष्येकाकागमनमिव तालपतनमिव काकतालम् । काकतालमिव काकतालीय॑मिति । अत्र काकतालमिति इवार्थगर्भितकेवलद्वन्द्वान्न भवति, इवान्तरार्थस्य सादृश्यान्तरस्याऽप्रतीतेरित्यलम् । अजाकृपाणीय इति । अजागमनमिव कृपाणपतनमिव अजाकृपाणम्, तदिव अजाकृपाणीयः । अजाकृपाणसमागमसदृशो देवदत्तचोरसमागमः समासार्थः, कृपाणपतनप्रयुक्ताऽजामरणसदृशो देवदत्तवधश्चोरकृतः प्रत्ययार्थः । अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह — अतर्कितेति ।", "53107": "<<शर्कराऽऽदिभ्योऽण्>> - शर्करादिभ्योऽण् । इवे इत्येव । शार्करमिति ।स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑ इति विशेष्यनिघ्नतेति भावः ।", "53108": "<<अङ्गुल्यादिभ्यष्ठक्>> - अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् कृदिकारादक्तिनः॑ इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भारूजिक इति । पूर्ववद्विशेष्यनिघ्नता ।", "53109": "<<एकशालायाष्ठजन्यतरस्याम्>> - एकशालायाः । पक्षे ठगिति । अन्यतरस्याङ्ग्रहणमनन्तरठ,कः समुच्चयार्थमिति भावः ।ठज्वे॑त्येव सुवचम् ।", "53110": "<<कर्कलोहितादीकक्>> - कर्कलोहितादीकक् । कर्कः शुक्लोऽआ इति । अआउपर्यायेषु 'सितः कर्कः' इत्यमरः । लौहितीकः स्फटिक इति । जपापुष्पादिसम्पर्कवशाल्लोहित इवेत्यर्थः ।", "53111": "", "53112": "<<पूगाञ्ञ्योऽग्रामणीपूर्वात्>> - पूगाञ्ञ्यः । इवार्थो निवृत्त इति । व्याख्यानादिति भावः । अनियतवृत्तय इति । उद्वृत्ता इत्यर्थः । तद्वाचकादिति । पूगेति न स्वरूपग्रहणं, व्याख्यानात् । ग्रामणीवाचकपूर्वावयवकभिन्नात्पूगवाचकादित्यर्थः । लौहितध्वज्य इति । लोहिता ध्वजा यस्य पूगस्य स लोहितध्वजः । सएव लौहितध्वज्यः । व्रातच्फञोरस्त्रियामिति । इदं सूत्रम् ।गोत्रे कुञ्जादिभ्यः॑ इत्यत्र प्रसङ्गादुपादाय व्याख्यातम् । व्रात इति । उदाहरणसूचनमिदम् । भारोद्वहनादिशरीरायासजीवनान्नानाजातीयानामनियतवृत्तीनां सङ्घो व्रातः । कापोतपाक्य इति । कपोतान्=पक्षिविशेषान् भक्षणाय पचतीति कपोतपाकः, स एव कापोतवाक्यः । पचेः कर्तरि घञ्,चजोः कु घिण्ण्यतो॑रिति कुत्वम् । च्फञिति । उदाहरणसूचनमिदम् । कौञ्जायन्य इति । गोत्रे कुञ्जादिभ्यः॑ इति च्फञ् । आयन्नादेशः । ततः स्वार्थे अनेन ञ्यः । एवं व्राध्नायन्यः ।", "53113": "<<व्रातच्फञोरस्त्रियाम्>> - आयुधजीवि । बाहीकेष्विति । बाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति । क्षुद्रको नाम कश्चिदायुधजीविनां बाहीक देशवासिनां सङ्घः । स एव क्षौद्रक्यः । मालव्य इति । मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनांसङ्घः । स एव मालव्यः । टित्त्वान्ङीबिति । एवं च अस्त्रियामिति नात्र सम्बध्यत इति भावः । तद्विशेषेति । व्याख्यानादिति भावः ।", "53114": "", "53115": "<<वृकाट्टेण्यण्>> - वृकाट्टेण्यण् । वृको नाम कश्चिदायुधजीविसङ्घः । स एव वार्केण्यः । आदिवृद्धिः । रपरत्वम् । जातिविशेषादिति । वृको नाम कश्चिन्मनुष्यखादी चतुष्पाज्जातिविशेषः प्रसिद्धः,तस्मान्नेत्यर्थः ।", "53116": "<<दामन्यादित्रिगर्तषष्ठाच्छः>> - दामन्यादि । दानिरादिर्यस्य दामन्यादिः । त्रिगर्तः षष्ठो यस्य वर्गस्य स त्रिगर्तषष्ठः । दामन्यादिश्च त्रिगर्तषष्ठश्चेति समाहार द्वन्द्वात्पञ्चमी । फलितमाह — दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्त्रिगर्तो वर्गः, तेभ्यः षड्वर्गेभ्य इति यावत् । के ते त्रिगर्तषष्ठा इत्यत आह — आहुरिति । कौण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राआहृगुप्तः, जालकिरित्येतान् त्रिगर्तषष्ठान् आहुरित्यर्थः ।जालकि॑रिति त्रिगर्तस्य नामान्तरम् । एतेषु षट्सु कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ । शेष इञन्तः । दामादिगणमुदाहरति — दामनीय इति । दामनिरेव दामनीयः । औलपीति । प्रकृतिप्रदर्शना । औलपीय इति । औलपिशब्दात्स्वार्थे छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कौण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वार्थे छः । दाण्डकीय इति । दाण्डकिशब्दात्वार्थे छः । क्रौष्टुकीयः, जालमानीयः, ब्राआहृगुप्तीयः, जालकीयः — इत्यप्युदाहार्यम् ।", "53117": "<<पर्श्वादियौधेयादिभ्यामणञौ>> - पर्ाआदियौधेयादि । एभ्य इति । पर्ाआदिभ्यो यौधेयादिभ्यश्चेत्यर्थः । पार्शव इति । पर्शुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचकादपत्येष्वर्थेषुद्व्यञ्मगधे॑त्यण् । ततोऽपत्यसङ्घविवक्षायामनेन अणिति भावः । पर्शव इति । अपत्वसङ्गबहुत्वविवक्षायां प्रकृतस्याऽणोऽपि तद्राजत्वाल्लुक्, 'ञ्यादस्तद्राजाः' इति वक्ष्यमाणत्वादिति भावः । यौधेय इति । युधाशब्दादपत्येऽर्थे 'द्व्यचः' इति ढक् । तदन्ताऽपत्यसङ्घविवक्षायामनेन अञ् । ञित्त्वमाद्युदात्तत्वफलकम् । यौधेया इति । अपत्यसङ्घबहुत्वविवक्षायांतद्राजस्ये॑त्यञो लुक् । 'कितः' इत्यन्तोदात्तं फलम् ।", "53118": "<<अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्>> - अभिजिद्विदभृत् । अभिजित्, पिदभृत्, शालावत्, शिखावत्, शमीवत्, ऊर्णावत्, श्रुमत् — एषां समाहारद्वन्द्वात्पञ्चम्या लुक् । अण इति प्रत्ययत्वात्तदन्तग्रहणम् । तदाह — अभिजिदादिभ्य इति । अत्रआयुधजीविसङ्घादिति निवृत्त॑मिति वृत्तिः ।आभिजित्य इति । अभिजितोऽपत्यमाभिजितः । अपत्येऽण् । आभिजित एव आभिजित्यः । वैदभृत्य इति । विदभृत्यः । शालावत्य इति । शालावतोऽपत्यं शालावतः, स एव शालावत्यः । शैखावत्यैति । शिखावतोऽपत्यं शैखावतः । स एव शैखावत्यः । शामीवत्य इति ।शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः । और्णावत्य इति । ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः । श्रौमत्य इति । श्रुमतोऽपत्यं श्रौमतः, स एव श्रौमत्यः । अत्र अभिजिदित्यादिशब्देषु यञः स्वार्थिकतया गोत्रार्थकत्वादाभिजित्यस्यायमिति विग्रहेगोत्रचरणा॑दिति वुञि॒आपत्यस्य चे॑ति यलोपे 'आभिजितक' इति भवति ।अपत्याऽणन्तेभ्य एवायं यञ् । तेन आभिजितो मुहूर्त इत्यादौ न य॑ञिति भाष्ये स्पष्टम् ।", "53119": "<<ञ्यादयस्तद्राजाः>> - ञ्यादयस्तद्राजाः । लोहितध्वजा इति ।पूगा॑दिति विहितस्य ञ्यस्य तद्वाजत्वाद्बहुत्वे लुक् । कपोतपाकाः कौञ्जायनाः ब्राआध्नायना इति ।व्रातच्फञो॑रिति विहितस्य ञ्यस्य लुक् । इत्यादीति । क्षौद्रक्यौ, क्षुद्रकाः ।आयुधजीवी॑ति ञ्यटो लुक् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दीमनीयौ, दामनयः, कौण्डोपरथाः इत्यादौदामन्यादित्रिगर्तषष्ठा॑दिति छस्य लुक् । पार्शवौः, पार्शव, पर्शवः, यौधेयाः इत्यत्र पर्ाआदियौधेयाद्यणञोर्लुक् । आभिजित्यः आभिजित्यौ, अभिजितः, विदभृत इत्यादौअभिजिद्विदभृ॑दित्यादिविहितस्य यञो लुगिति भावः । इति पञ्चमस्य तृतीयपादः ।", "54001": "<<पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च>> - अथ पञ्चमस्य चतुर्थपादः-पादशतस्य । पादश्चशतं चेति समाहारद्वन्द्वाल्लोपापेक्षया षष्ठी । वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे । सङ्ख्यावचकशब्दपूर्वकात्पादशब्दाच्च वीप्साविशिष्टार्थवृत्तेः स्वार्ते वुन्प्रत्ययः स्यात्, प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः । ननु वुनोऽकादेशे सतियस्येति चे॑त्येव लोपसिद्धेरिह लोपविधिव्र्यर्थ इत्यत आह — अनैमित्तिकत्वार्थमिति ।यस्येति चे॑ति लोपस्य परनिमित्तकतया तस्य 'अचः परस्मिन्' इति स्थानिवत्त्वापादः प॑दिति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः पद्भावो निर्बाध इति भावः । तद्धितार्थ इति । नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाऽभावात्कथमिह॒तद्धितार्थ॑ इति समास इति वाच्यं, वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति । स्वभावादिति भावः । द्विशति कामिति । द्वे द्वे शते ददातीति विग्रहः । पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथं, पादशतभिन्नव्यावृत्त्यर्थत्वादित्यत आह — अन्यत्रापि दर्शनादिति । तदुदाहृत्य दर्शयति — द्विमोदकिकामिति । द्वौ द्वौ मोदकौ ददातीति विग्रहः ।", "54002": "<<दण्डव्यवसर्गयोश्च>> - दण्डव्यवसर्गयोश्च । बुन्स्यादिति सङ्ख्यादेः पादशताद्दण्जव्यवसर्गयोर्गम्ययोर्वुन्स्यात्प्रकृतेरन्तलोपश्चेत्यर्थः । दण्डनं-दण्डः=बलाकृत्य द्रव्यग्रहणम् । व्यवसर्गो-दानम् । ननु पूर्वेण सिद्धे किमर्थमिदमित्यत आह — अवीप्सार्थमिति । द्वौ पादौ दण्डित इति । बलाकृत्य ग्राहित इत्यर्थः ।", "54003": "<<स्थूलादिभ्यः प्रकारवचने कन्>> - स्थूलादिभ्यः । प्रकारो भेदः सादृश्यं च, व्याख्यानात्, तद्वति वर्तमानाद्यथायोयं कन्नित्यर्थः । जातीयरोऽपवाद इति । एतेन अयमपि तद्वदेव प्रकारवति भवति, नतु प्रकारमात्रे इति सूचितम् । चञ्चत्क इति । चञ्चधातुश्चलने । अचञ्चन्नपि यश्चञ्चन्निव दृश्यते स चञ्चत्कः । यथा स्पन्दमानस्वच्छजनमध्यवर्ती मणिः । बृहत्क इति । अबृहन्नपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यसामविशेषो वा । सुराया अहाविति । गणसूत्रमिदम् ।॒प्रकारवचने क॑न्निति शेषः । सुराया अहावेवेति नियमार्थमिदम् । सुरक इति । 'केऽण' इति ह्रस्वः ।", "54004": "<<अनत्यन्तगतौ क्तात्>> - अनत्यन्तगतौ क्तात् । अत्यन्तगतिरशेषावयवसम्बन्धः, तदभावः=अनत्यन्तगतिः, तस्यां गम्यमानायां क्तान्तात्कन्नित्यर्थः । छिन्नकमिति । किञ्चिदवयवावच्छेदेन छिन्नमित्यर्थः ।", "54005": "<<न सामिवचने>> - न सामिवचने । वचनग्रहणं पर्यायलाभार्थमिति मत्वाऽऽह — सामिपर्याये उपपदे इति । सामिकृतमिति ।सामी॑त्यव्ययमर्धे ।सामी॑ति समासः । अर्धकृतमिति । अर्धं कृतमिति कर्मधारयः ।सामी॑त्यस्य क्रियाविशेषणत्वेन कारकत्वात्समुदायस्य क्तान्तत्वं, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । नन्विह अनत्यन्तगतेः प्रकृत्यैवाभिहितत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन पूर्वसूत्रविहितस्य कनोऽप्रसक्तेरिह तन्निषेधो व्यर्थ इति शङ्कते — अनत्यन्तगतेरिति । परिहरति — इदमेवेति ।तथापी॑ति पूर्वमध्याहार्यम् । ज्ञापयतीति । न ह्रयमनत्यन्तगताविति कनः प्रतिषेधः । किं तर्हि, अत्यन्तस्वार्थिकस्य कनः । तत्र च इदमेव ज्ञापकम् । अन्यथा तद्वैयथ्र्यादिति भावः । बहुतरकमिति । बहुतरमेव बहुतरकम् । भाष्ये तु इदं सूत्रं प्रत्याख्यातम् ।तमबाद्यन्तात्स्वार्थे कन्वक्तव्यः॑ इति वचनेन, यावादित्वाद्वा स्वार्थे कनाबहुतरक सुकरतरकमित्यादि सिद्धमिति तदाशयः ।", "54006": "<<बृहत्या आच्छादने>> - वृहत्या आच्छादने । 'कन्' इति शेषः । बृहत्येव बृहतिका=उत्तरीयं वासः । तदाह — द्वौ प्रावार इति । अमरवाक्यमिदम् । अषडक्षा । स्वार्थे इति । शेषपूरणमिदम् । अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्योऽध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः ।", "54007": "<<अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः>> - अषडक्षीणो मन्त्र इति । मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिर्युक्तिभिः क्रियमाणं निर्धारणम् । अविद्यमानानि षट् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुव्रीहिः ।बहुव्रीहौ सवथ्यक्ष्णो॑रिति षच् । तदन्तादनेन स्वार्थे खः । द्वाभ्या मेवेति ।पुरुषाभ्या॑मिति शेषः । आशिता इति । 'अश भोजने' इत्यस्मादाशितः कर्तेति ज्ञापकात्कर्तरि क्तः । पूर्वस्य मुमिति । आशितशब्दस्येत्यर्थः । अलङ्कर्मीण इति ।पर्यादयो ग्लानाद्यर्थे॑ इति चतुर्थीसमासात्खः, टिलोपः अलम्पुरुषीण इति । अलं पुरुषायेति विग्रहः । 'मातृभोगीण' इत्यादाविव अषडक्षीणादौ णत्वम् ।पदव्यवायेऽपी॑ति निषेधस्तु न, पदे परतो यत्पदं तेन व्यवाये इत्याश्रयणात् । ईआराधीन इति ।यस्मादधिक॑मिति ईआरशब्दात्सप्तमी । शौण्डादित्वादधिशब्देन समासः । ततः स्वार्थे खः ।समर्थाना॑मित्यतो वाग्रहणानुवृत्त्या अस्य वैकल्पकत्वभ्रमं वारयति — नित्यो ।ञयं ख इति । उत्तरेति ।विभाषाऽञ्चे॑रित्युत्तरसूत्रेसमर्थाना॑मित्यतो वाग्रहणानुवृत्त्यैव सिद्धे विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञाप्यत इत्यर्थः । नचैवं सति आशिता गावोऽस्मिन्निति, अलं कर्मणे इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम्, तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवाक्यप्रायत्वात् । प्रसङ्गादाह — अन्येऽपीति । इष्यन्त इति ।भाष्यकृते॑ति शेषः । तमबादयः प्राक्कन इति ।अतिशायने तम॑वित्यारभ्यअवक्षेपणे क॑न्नित्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । ञ्यादयः प्राग्वुन इति ।पूगाञ्ञ्योऽग्रामणीपूर्वा॑दित्यारभ्यअवक्षेपणे क॑न्नित्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । आमादयः प्राङ्भयट इति ।किमेत्तिङव्ययघादा॑मित्यारभ्यतत्प्रकृतवचने मयट् इत्यतः प्राग्विहिता इत्यर्थः । बृहतीजात्यन्ता इति । बृहतीशब्देन 'बृहत्या आच्छादने' इति कन् लक्ष्यते । जात्यन्तशब्देन तुजात्यन्ताच्छ बन्धुनी॑ति छो लक्ष्यते । बहुवचननिर्देशात्पाशबादयो ।ञपिषष्ठआ रूप्य चे॑त्यन्ता गृह्रन्त इति कैयटः । वस्तुतस्तु परिगणिता एव नित्या, नतु पाशबादयोऽपि । 'बृहतीजात्यन्ताः' इति बहुवचनं तु 'बृहत्या आच्छादने' इतिजात्यन्ताच्छ बन्धुनी॑ति च सूत्रयोर्मध्यगतेनअषडक्षे॑ति सूत्रेण विहितं खप्रत्ययमभिप्रेत्येति न दोषः ।विभाषाऽञ्चे॑रिति उत्तरसूत्रे खविधौ विभाषाग्रहणं तु तस्यापि बृहजात्यन्तरालवर्तित्वाऽविशेषान्नित्यत्वे प्राप्ते विकल्पार्थम् ।अनित्योऽयं खः, उत्तरसूत्रेषु विभाषाग्रहणा॑दिति मूलं तु अभ्युच्चययुक्तिरिति शब्देन्दुशेस्वरे स्थितम् ।", "54008": "<<विभाषा अञ्चेरदिक्स्त्रियाम्>> - विभाषाञ्चेरदिक्स्त्रियाम् । अदिक्स्त्रियामिति कर्मधारयगर्बो नञ्तत्पुरुषः । तदाह — अदिक्स्त्रीवृत्तेरिति । प्रागिति ।अञ्चेर्लु॑गिति लुप्ताऽस्तात्यन्तमिदम् प्राचि देशे इत्यर्थे । प्राचीनमिति । खान्तमिदं स्वभावादाधेयपरम् । स्वभावादेव सामान्ये नपुंसकमेकवचनान्तत्वं च । इदं तु पदसंस्कारपक्षे । वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याह्मतदेशकालस्थवृक्षादिबोधकेभ्यः खः । तत्र उपस्थितविशेष्यलिङ्गत्यागे मानाऽभावात्प्राचीना आम्रा॑, 'प्राचीना वाटी'प्राचीनं वन॑मिति भवतीत्याहुः । अर्वन्तमञ्चतीति वक्ष्यन्नर्वच्छब्दं विवृणोति — निकृष्टेति । अमरवाक्यमिदम् । प्राची दिगिति । लिङ्गविशिष्टपरिभाषया प्राप्तिः । दिग्ग्रहणं किमिति ।अस्त्रिया॑मित्ये तावतैव प्राची दिगित्यत्रातिप्रसङ्घनिराशात्क तेनेति प्रश्नः । अव्याप्तिपरिहारार्थमित्याह — प्राचीना ब्राआहृणीति । नेयं दिग्रूपा स्त्री, किंतु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः । स्त्रीग्रहणं किमिति ।अदिशी॑त्येतावतैव प्राचीना ब्राआहृणीत्यत्राऽव्याप्तिनिरासात्प्रश्नः । इदमप्यव्याप्तिपरिहारार्थमित्याह — प्राचीनं ग्रामादाम्रा इति । स्थानिवत्सूत्रभ#आष्येऽयं प्रयोगः स्थितः । अत्र प्राच्यां दिशीत्यर्थे लुप्ताऽस्तात्यन्ता प्रागिति प्रकृतिः । स च अव्ययत्वादस्त्रीति खो भवेत्येववेति भावः ।", "54009": "<<जात्यन्ताच्छ बन्धुनि>> - जात्यन्ताच्छ बन्धुनि । छेति लुप्तप्रथमाकम् । जातिशब्दान्तात्प्रातिपदिकाद्बन्धुनि वर्तमानात्स्वार्थे छप्रत्ययः स्यादित्यर्थः । बन्धुशब्दो द्रव्यवाचीति वक्ष्यति । तथाच बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षकादिति फलितम् । ब्राआहृणजातीय इति । ब्राआहृणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः । ब्राआहृणजातिः शोभनेति । ब्राआहृणत्वजातिरित्यर्थः । बद्यते ब्राआहृणत्वादिजातिव्र्यज्यतेऽस्मिन्निति बन्धु=द्रव्यम् ।शृस्वृस्निही॑त्यादिनाऽधिकरणे उप्रत्ययः । तदाह — जातेव्र्यञ्जकं द्रव्यं बन्ध्विति । आप्तपर्यायस्तु बन्धुशब्दो नेह गृह्रते,बन्धुनी॑ति नपुंसकनिर्देशादिति भावः ।", "54010": "<<स्थानान्ताद्विभाषा सस्थानेनेति चेत्>> - स्थानान्तात् ।संस्थानेने॑त्यस्य विवरणंतुल्येनेति । इतिशब्दादर्थवदिति लभ्यते । तुल्यरूपेणाऽर्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्ताच्छो वा स्यादित्यर्थः । तुल्यरूपार्थे वर्तमानात्स्थानान्ताच्छोवा स्यादिति यावत् । पितृस्थानीय इति । स्थानं-पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोस्थानमिति । गवां निवास इत्यर्थः । अत्र तुल्यत्वाऽप्रतीतेर्न च्छः ।किमेत्तिङव्यये॑त्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम् ।अमु च च्छन्दसी॑ति तु वैदिकप्रक्रियायां व्याख्यास्यते ।", "54011": "<<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> - द्वित्रिभ्यां ।षे॑ति लुप्तप्रथमाकं पदम् । द्विमूद्र्ध इति । द्वौ मूर्धानौ यस्येति विग्रहः । त्रिमूर्ध इति । त्रयो मूर्धानो यस्येति विग्रहः । समासान्तः । 'नस्तद्धिते' इति टिलोपः । षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम् । नेतुरिति । नक्षत्रे विद्यमानो यो नेतृशब्दस्तदन्ताद्बहुव्रीहेरब्वक्तव्य इत्यर्थः । नेता-नायकः । मृगो नेतेति । मृगः=मृगशीर्षम् । रात्रिनेता चन्द्रः । तद्योगान्नक्षत्रस्यापि बोध्यम् । मृगनेत्रा इति । मृगनेतृशब्दादप्, ञकारस्य यण्, रेफः, टाप् । पुष्यनेत्रा इति । पुष्टो नेता यासामिति विग्रहः ।", "54012": "", "54013": "<<अनुगादिनष्ठक्>> - अनुगादिनष्ठक् । 'स्वार्थे' इति शेषः । 'आमादयः प्राङ्भयटः' इत्युक्तेष्ठगादयो नित्या एव प्रत्ययाः । अनुगादीति । 'सुप्यजातौ' इति णिनिः । प्रकृतिप्रदर्शनमिदम् । ठको नित्यत्वात्स एवेत्यस्वपदविग्रहप्रदर्शनम् । आनुगादिक इति । 'नस्तद्धिते' इति टिलोपः । इह क्रमेणचः स्त्रिया॑मिति 'अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते ।", "54014": "", "54015": "", "54016": "<<विसारिणो मत्स्ये>> - विसारिणो मत्स्ये । 'अणिनुणः' इति पूर्वसूत्रादण्णित्यनुवर्तते । तदाह — अण् स्यादिति । मत्स्ये विद्यमानाद्विसारिन्शब्दात्स्वार्थे अण् स्यादित्यर्थः । वैसारिण इति । इनण्यनपत्ये॑ इति प्रकृकतिभावाट्टिलोपो न ।", "54017": "<<संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच्>> - संङ्ख्यायाः । अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रेत, तदा चतुर्वारं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत आह — अभ्यावृत्तिर्जन्मेति । उपसर्गवशात् 'वृतु वर्तने' इति धातोरुत्पत्तौ वृत्तिरिति भावः । कुत्वसुचि चकार इत् । उकार उच्चारणार्थः ।तद्धितश्चाऽसर्वविभक्ति॑रित्यत्र तसिलादिषु परिगणनात्कृत्वोऽर्थानामव्ययत्वम् । पञ्चकृत् वो भुङ्क्त इति । पञ्चत्त्वसङ्ख्याकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । सङ्ख्यायाः किमिति । गणने वृत्तिः सङ्ख्याशब्दानामेवेति प्रश्नः । भूरिवारान्भुङ्क्ते इति । भूरिशब्दो बहुशब्दपर्यायः । वारशब्दस्तु समभिव्याह्मतक्रियापर्याप्ते काले वर्तते ।कालाध्वनोरत्यन्तसंयोगे॑ इति द्वितीया । बहुकालेषु कात्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः । भोजनबहुत्वं त्वर्थाद्गम्यते । तथा च वारशब्दोऽयं न गणनवाची । भूरिशब्दोऽपि न सङ्ख्याशब्देन गृह्रते,बहुगणवतुडति सङ्ख्ये॑त्यत्र बहुग्रहणेन तत्पर्यायस्य असङ्ख्यात्वबोधनात्, अतोऽत्र न कृत्वसुच् ।", "54018": "<<द्वित्रिचतुर्भ्यः सुच्>> - द्वित्रिचतुभ्र्यः । क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत्, उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते॑ इत्यनुषज्यते । रादिति । चतुर्शब्दात्सुचि चतुर्स् इति स्थितेरात्सस्ये॑ति सकारस्य लोपे चतुरिति रूपमित्यर्थः । अत्र 'भुङ्क्ते' इत्यनुषज्यते ।", "54019": "<<एकस्य सकृच्च>> - एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टे — सकृदित्यादेशः स्यादिति । सकृद्भुङ्क्ते इति । एकशब्दात्सुच्, प्रकृतेः सकृदित्यादेशश्च । अत्र एकशब्दः क्रियाविशेषणम् ।एकत्वविशिष्टा भुजिक्रियेत्यर्थः ।स्वादु पचती॑त्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । 'एको भुङ्क्ते' इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननुसंयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । 'हल्ङ्याब्भ्यः' इत्येव हि सुलोपोऽत्र युक्तः तस्मिन्कर्तव्ये संयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । 'हल्ङ्याब्भ्यः' इत्येव हि सुलोपोऽत्र युक्तः, तस्मिन्कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्याऽसिद्धत्वादित्यत आह — नतु हल्याङ्यबितीति । सिच इवेति ।अभैत्सी॑त्यत्रि सिचो लोपनिवृत्तयेहल्ङ्या॑वित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात्सुग्रहणेनापि सुजयं न गृह्रत इति भावः ।", "54020": "<<विभाषा बहोर्धाऽविप्रकृष्टकाले>> - विभाषा बहोर्धा । अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दाद्धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति । दिवसे प्रातःसङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑ इति दिवसात्षष्ठीति हरदत्तः । शेषत्वविवक्षायां षष्ठी इति तु नवीनाः ।", "54021": "", "54022": "<<समूहवच्च बहुषु>> - समूहवच्च । बहुषु । तत्प्रकृतवचने इत्येव । सामूहिका इति । 'तस्य समूहः' इत्यधिकारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात्स्वार्थे समूहवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिन्नधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात्समूहवत्प्रत्ययाः स्युरित्यर्थः । आद्ये उदाहरति — मोदकाः प्रकृता मौदकिकमिति ।अचित्तहस्तिधेनो॑रिति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाष्कुलिकमिति । शष्कुलयः प्रचुरा इत्यर्थः । पूर्ववट्ठक्, प्रकृतिलिङ्गातिकमश्च । द्वितीयेऽर्ते मौदिकको यज्ञ इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः ।", "54023": "<<अनन्तावसथेतिहभेषजाञ्ञ्यः>> - अनन्तावथेतिह । अनन्त, आवसथ, इतिह, भेषज एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति । अन्तोनाशः । तस्याऽभावः अनन्तः । अर्थाऽभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रम । आवसथो-गृहम् । निपातसमुदाय इति । स च उपदेश परम्पर्ये वर्तते । तस्मात्स्वार्थे ञ्यः ।पारम्पर्योपदेशे स्यादैतिह्रमितिहाव्यय॑मित्यमरः । भैषज्यमिति । भैषजम्ौषधम्, तदेव भैषज्यम् ।भेषजौषधभैषज्यानी॑त्यमरः ।", "54024": "<<देवतान्तात्तादर्थ्ये यत्>> - देवतान्तात्तादर्थ्ये यत् । तदर्थ एवेति । तच्छब्देन देवतान्तस्यार्थ उच्यते, तस्मै अयं तदर्थः, ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञित्यर्थः । देवतान्तात्प्रातिपदिकाद्यत्स्यात्प्रकृत्यार्थे वस्तुनि वाच्य इत्यर्थः ।त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या चे॑त्युक्तंसास्य देवते॑त्यत्र अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्याप्तिः । तदाह — पितृदेवत्यमिति । देवताशब्दस्य देवा भावः । भाष्ये तु॒पितृदेवत्यमिति न सिध्यती॑त्याक्षिप्यदिवैरेआर्यकर्मणो देवः, तस्मात्स्वार्थे त॑लिति समाहितम् । हविः प्रति पित्रादीनामीआरत्वं स्वामित्यम् । हविस्तु यजमानस्य स्वम् । तच्च यजमानेन अग्न्याद्युद्देशेन त्यक्तं चेत्तदाग्न्यादिस्वामिकं भवितुमर्हति । अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविसेषात्मकमेव भाष्यरीत्याऽपि पर्यवस्य तीत्यलम् ।", "54025": "<<पादार्घाभ्यां च>> - पादार्धाभ्यां च ।तादर्थ्ये य॑दिति शेषः । अध्र्यमिति । अर्धार्थमुदकमिति विग्रहः । अर्ध — पूजा ।मूल्ये पूजाविधावर्धः॑ इत्यमरः । नवस्येति । वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः । नवीनमिति । नवशब्दात्खप्रत्यये, तस्य ईनादेशे प्रकृतेर्नूभावे, ओर्गुणः, अवादेशः । नश्च पुराणे प्रादिति । वार्तिकमिदम् । चात्पूर्वोक्ता इति । त्नप्, तनप्, ख इत्यर्थः । प्रीणमिति । खे रूपम् । भागरूपेति । वार्तिकमिदम् । आग्नीध्रेति । वार्तिकमिदम् । आग्नीध्रमिति । अग्नीधः शरणम् — आग्नीध्रम् । ततः स्वार्थे अञि आग्नीध्रमेव । अनेकं प्रत्यविशिष्टसम्बन्धं साधारणमुच्यते । ततः स्वार्थे अञि साधारणमित्येव । अञ्विधेः प्रयोजनमाह — स्त्रिया ङीबिति ।", "54026": "<<अतिथेर्ञ्यः>> - अतिथेर्ञ्यः । तादर्थ्ये इत्येवेति । अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुथ्र्यन्ताण्ण्यः लिङ्गातिक्रमात्स्त्रीत्वम् ।", "54027": "", "54028": "<<अवेः कः>> - अवेः कः । अयमपि केवलस्वार्थिकः ।अवयः शैलमेषाऽर्काः॑ इत्यमरः ।", "54029": "<<यावादिभ्यः कन्>> - यावादिभ्यः कन् । यावक इति । यवानामयं यावः=ओदनादिः, स एव यावकः । अलक्तवृक्षो वा यावः, स एव यावकः ।यवोऽलक्तो द्रुमामयः॑ इत्यमरः ।", "54030": "<<लोहितान्मणौ>> - लोहितान्मणौ । मणौ वर्तमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । माणिक्य मयो मणिरेवेह मणिर्विवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान्स्फटिकमणिस्तस्य तु 'रक्ते' इत्युत्तरसूत्रेण सिद्धम् ।", "54031": "<<वर्णे चानित्ये>> - वर्णे चाऽनित्ये । अनित्ये वर्णे विद्यमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । अमण्यर्थमिदम् । लोहितकः कोपेनेति ।देवदत्तादि॑रिति शेषः । कोपनिमित्तकं देवदत्तादेर्वौहित्यमनित्यमेव, कोपाऽभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात्, तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तते, स वर्णो नित्य इत्यभिमतमिति न दोषः । स्यादेतत् ।लोहितिकालोहितिका वा कोपेन॑ति स्त्रियां रूपद्वयमिध्यते । तत्र लोहितशब्दात्वर्णादनुदात्ता॑दिति नत्वसन्नियोगशिष्टं ङीपं परत्वात्स्यार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसन्नियोगशिष्टङीपो न प्रसक्तिः, कोपधत्वेन तोपधत्वाऽभावात् । ततश्च लोहितकशब्दात् 'अजाद्यतः' इति टापिप्रत्ययस्था॑दिति इत्त्वे लोहितिकेत्येव स्यान्नतु तत्र लोहिनिकेति । अत आह — लोहिताल्लिङ्गबाधनं वेति । वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिनीशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिताशब्दात्कनि 'केऽणः' इति ह्रस्वे कन्नन्ताट्टपि लोहिनिकेति सिध्यति । सति तु कना ङीपो बाधे लोहिताशब्दात्कनि 'केऽणः' इत#इ ह्रस्वे टापि लोहितिकेति भवति । ननुङ्याप् प्रातिपदिका॑दित्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तादेव तद्धिता भवन्ति, नतु ङ्याब्भ्यां प्रागित्येवमर्थमित्युक्तम् । एवंच ङीपः प्राक् कनः प्रसक्तेरेवाऽभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु ङ्याब्ग्रहणं न संबध्यते । न चसुबन्तात्तद्धितोत्पत्ति॑रिति सिद्धान्तात् 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचमिदं व्यर्थमिति वाच्यम्, कारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचनमिदं व्यर्थमिति वाच्यम्, अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः ।", "54032": "<<रक्ते>> - रक्ते । लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वेणाऽप्राप्तौ वचनम् ।", "54033": "<<कालाच्च>> - कालाच्च । द्व्यमनुवर्तत इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनित्ये वर्णे उदाहरति — कालकं मुखं वैलक्ष्येणेति । लज्जाऽसूयादिनेत्यर्थः । रक्ते उदाहरति — कालकः पट इति ।नील्यादिने॑ति शेषः ।", "54034": "<<विनयादिभ्यष्ठक्>> - विनयादिभ्यः । उपायाद्ध्रस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थे । ठक्, प्रकृतेदर्दीर्घस्य ह्रस्वत्वं चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैयथ्र्याद्दीर्घस्येति गम्यते । वाचो व्याह्मतार्थायाम् ।इदमस्य वक्तव्य॑मिति दूतं प्रति योऽर्थ उच्यते स व्याह्मतः,व्याह्मतोऽर्थो यस्या इति विग्रहः । तदाह — संदिष्टार्थायामिति ।", "54035": "", "54036": "", "54037": "<<ओषधेरजातौ>> - ओषधेरजातौ । औषधं पिबतीति । शुण्ठीमरीचादिचूर्णमबादिद्रव्यसंसृष्ठं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे रूढा इति । उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् ।", "54038": "<<प्रज्ञादिभ्यश्च>> - प्रज्ञादिभ्यश्च ।स्वार्थे॑ऽणिति शेषः । प्राज्ञ इति । प्रजानातीति प्रज्ञः ।इगुपधज्ञे॑ति कः । प्रज्ञशब्दात्स्वार्थे अण् । प्राज्ञीति । अण्णन्तत्वान्ङीप् । प्रज्ञाअस्यास्तीति विग्रहे तुप्रज्ञाश्रद्धार्चाभ्यः॑ इति णाऽन्ताट्टापि प्राज्ञेति रूपम् ।", "54039": "", "54040": "<<सस्नौ प्रशंसायाम्>> - सस्नौ । प्रशस्तायां मृदि वर्तमानान्भृच्छब्दात्स्वार्थे स स्न एतौ प्रत्ययौ स्त इत्यर्थः । रूपप इति ।प्रशंसायां रूपबि॑ति विहितस्येत्यर्थः । नित्योऽयमिति । सस्नविधिरित्यर्थः । वस्तुतस्तुञ्यादयः प्राग्वुनः॑ इत्यादिपरिगणितेष्वनयोः प्रत्ययोरनन्तर्भावादनित्यत्वमेवाऽनयोरुचितमित्याहुः ।", "54041": "", "54042": "<<बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्>> - बह्वल्पार्थादिति । वार्तिकमिदम् । मह्गलाऽमङ्गलेगम्ये एवायं शसित्यर्थः । बहूनि ददात्यनिष्टेष्विति । भयादिनिमित्तेष्वित्यर्थः । अल्पं ददात्याभ्युदयिकेष्विति । अभ्युदयः=श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः । आभ्युदयिकेषु बहुदानम्, अनिष्टेषु अल्पदानं च मङ्गलम् । तद्विपरीतदानं त्वमङ्गलमिति भावः । अर्थग्रहणाद्भूरिशो ददाति, स्तोकशो ददाति इत्याद्यप्युदाहार्यम् ।", "54043": "<<संख्यैकवचनाच्च वीप्सायाम्>> - प्रतियोगे । विहितेति ।प्रतिः प्रतिनिधिप्रतिदानयो॑रिति प्रते कर्मप्रवचनीयत्वे तद्योगेप्रतिनिधिप्रतिदाने च यस्मा॑दिति पञ्चमी विहितेत्यर्थः । प्रद्यचुम्नः कृष्णतः प्रतीति । कृष्णस्य प्रतिनिधिरित्यर्थः । आद्यादिभ्य इति । अयं सार्वविभक्तिकस्तसिः । अपादाने चाऽहोयरुहोः ।अहीयरूहो॑रिति छेदः । 'हीयते' इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्यहीये॑त्यनुकरणम् । हीयरुहोः संबन्धि यन्न भवति तन्मिन्नपादाने इत्यर्थः । अतिग्रहा व्यथने अतिक्रम्य ग्रह इति । लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः । चारित्रेणेति । चरित्रमेव चारित्रम्, तेन हेतुना इतरविलक्षणत्वेन दृश्यते इत्यर्थः । फलितमाह — अन्यानतिक्रम्य वर्तत इति ।व्यथ भयसंचलनयो॑रिति चलनार्थाल्ल्युटि व्यथनशब्दः । तदाह — अव्यथनमचलनमिति । क्षेपे इति । 'उदाह्यियते' इति शेषः । क्षेपो निन्दा । हीयमानपापयोगाच्च । हीयमानेति । हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह — क्षेपस्याऽविवक्षायामिति । तत्त्वकथने इत्यर्थः । षष्टआ व्याश्रये ष । नानापक्षसमाश्रयणे इति । सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत् । पक्षः — स्वीयत्वेन परिग्रहः । देवा अर्जुनतोऽभवन्निति । अर्जुनस्य पक्षे आसन्नित्यर्थः । रोगाच्चा । रोगस्य प्रतीकारः — चिकित्सा । प्रवाहिकात इति । विषूचिकाप्रतीकारमित्यर्थः ।", "54044": "", "54045": "", "54046": "", "54047": "", "54048": "", "54049": "", "54050": "<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> - कृभ्वस्तियोगे । अभूतेति । येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्रूपप्राप्तावित्यर्थः । एवंच यत्र प्रकृतिस्वरूपमेव विकाररूपमापद्यमानं विकाराऽभेदेन विवक्ष्यते, तत्रैवायं प्रत्यय इति लभ्यते । संपद्यकर्तरीत्येकं पदम् । संपदनं — सम्पद्यः । संपूर्वकात्पदधातोरत एव निपातनादेव भावे कृत्संज्ञः शः, दिवादित्वाच्छ्यन् । संपद्यस्य कर्तेति षष्ठीसमासः । संपद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य संपत्तिरित्याकाङ्क्षायाम्, 'अभूततद्भावे' इति वार्तिकात्प्रकृतेर्विकाररूपेण संपत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः, अस भुवी॑ति धातुभिर्योगे सतीत्यर्थः ।च्विप्रत्यये चकार इत्, इकार उच्चारणार्थः ।", "54051": "<<अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च>> - अरुर्मनश्चक्षुः ।एषामिति । अरुस्, मनस्, चक्षुस्, चेतस्, रहस्, रजस् इत्येतेषामित्यर्थः । पूर्वेणैव प्रत्ययसिद्धेस्तत्संनियोगेन अन्त्यलोप इह विधीयते । अरूकरोतीति । अनरुः अरुः सम्पद्यते, तत्करोतीत्यर्थः । प्रकृतेरन्त्यलोपे उकारस्यच्वौ चे॑ति दीर्घः । उन्मनीकरोतीति । अनुन्मना उन्मनाः संपद्यते तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । उच्चक्षूकरोतीति । अनुच्चक्षुरुच्चक्षुः सम्पद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, दीर्घश्च । उच्चेतीकरोतीति । अनुञ्चेता उच्चेताः सम्पद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । विरहीकरोतीति । रहो विजनप्रदेशः, विशिष्टं रहो विरहः । अविरहो विरहः संपद्यते तत्करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । विरजीकरोतीति । अविरजा विरजाः सम्पद्यते तं करोतीत्यर्थः । अन्त्यलोपे अस्य च्वौ ईत्त्वं च ।", "54052": "<<विभाषा साति कार्त्स्न्ये>> - विभाषा साति ।साती॑ति लुप्तप्रथमाकम् । च्विविषये इति । अभूततद्भावे संपद्यकर्तरि कृभ्यस्तियोगे इत्यर्थः ।", "54053": "", "54054": "<<तदधीनवचने>> - तदधीनवचे । शेषपूरणेन सूत्रं व्याचष्टे — सातिः स्यादित्यादिना । 'अभूततद्भावे' इति निवृत्तमिति भावः ।", "54055": "<<देये त्रा च>> - देये त्रा च । तदधीनवचन इत्येवानुवर्तते । कृभ्वादियोगे इति । कृभ्वस्तिभिः संपदा च योगे इत्यर्थः ।", "54056": "<<देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्>> - देवमनुष्यपुरुष । एभ्य इति । देव, मनुष्य, पुरुष, पुरु, मत्र्य-इत्येतेभ्य इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् ।साती॑ति 'कृभ्वस्तियोगे' इत्यपि निवृत्तम् । देवत्रा वन्दे रमे वेति । देवान् वन्दे, देवेषु रमे वेत्यर्थः । मनुष्यत्रा, पुरुषत्रा । पुरुशब्दो बहुलपर्यायः । पुरुत्रा । मत्र्यत्रा । अन्यत्रापीति । देवादिभ्योःऽन्यत्रापीत्यर्थः । बहुत्रा जीवतो मन इति । जीवतो जन्तोर्मनो बहुषु विषयेषु गच्छति । बहून् व्याप्नोतीत्यर्थः ।", "54057": "<<अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्>> - अव्यक्तानुकरणात् । यत्र ध्वनौ अकारादयो वर्णविशेषा न व्यज्यन्ते सोऽव्यक्तो ध्वनिः । तस्यानुकरणम् — अव्यक्तानुकरणम् ।द्व्यजवरार्ध॑शब्दं व्याचष्टे — द्व्यजिति । द्वावचौ यस्येति विग्रहः । अवरशब्दं व्याचष्टे — न्यूनमिति । द्व्यजेव अवरं=न्यूनसंख्याकमिति सामानाधिकरण्येनान्वयः । न तु ततो न्यूनमिति । एकाच्कमित्यर्थः । फलितमाह — अनेकाजिति यावदिति । तादृशमर्थमिति । अनेकाच्कमर्धं=भागो यस्य तत् — द्व्यजवरार्धम् । तस्मादित्यर्थः । कृभ्वस्तिभिर्योगे इति । मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । तथा च अनेकाच्कभागयुक्तादव्यक्तानुकरणाच्छब्दात्कृभ्वस्तियोगे डाच् स्यादिति फलितम् । अथ पटच्छब्दादव्यक्तानुकरणाड्डाटमुदाहरिष्यन्पटच्छब्दस्य द्विर्वचनमाह — डाचि विवक्षिते द्वे बहुलमिति । यद्यपि 'सर्वस्य द्वे' इति प्रकरणेडाचि द्वे भवत इति वक्तव्य॑मित्येव भाष्ये वार्तिकं पठितम् । तत्र डाचि परत इति नाऽर्थः, तथा सति डाचि सतु पटच्छब्दस्य द्विर्वचनं, सति च द्विर्वचने अद्र्धस्याऽनेकाच्त्वाड्डाजित्यन्योन्याश्रयापत्तेः । अतो डाचि विवक्षिते इत्याश्रितम् । एवंच डाचि विवक्षिते पटच्छब्दस्य द्विर्वचने सति पटत् पटत् इत्यस्यानेकाच्कार्धभागयुक्तत्वाड्डाच् सूपपादः । पटत्, पटत् आ करोतीति स्थिते प्रक्रियां दर्शयति — नित्यमाम्रेडिते डाचीति ।एकः पूर्वपरयो॑रित्यधिकारे पररूपप्रकरणेनाम्रेडितस्यान्त्यस्य तु वे॑ति सूत्रभाष्ये इदं वार्तिकं पठितम् । डाच्परमिति । डाच् परं यस्मादिति विग्रहः । पकार इति । तथा च पटपठत् आ करोतीति स्थिते डित्त्वाट्टिलोपे पटपटाकरोतीति रूपमित्यर्थः । अवरेति किमिति । द्व्यजर्दादित्येवास्त्वित्यर्थः । घरटघरटाकरोतीति । घरटत् इत्यव्यक्तानुकरणाड्डाचि द्विर्वचने पररूपे टिलोपे रूपम् ।द्व्यजर्धा॑दित्युक्ते तु अर्धभागस्य घरटदित्यस्य बह्वच्कत्वाड्डाच् न स्यादित्यर्थः । अनेकाच इत्येवेति ।द्व्यजवरार्धा॑दित्यपनीयअव्यक्तानुकरणादनेकाचोऽनितौ डाजि॑त्येव सूत्रयितुमुचितमित्यर्थः । एवं हीति । 'अनेकाचोऽनितौ' इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रागेव अनेकाच्कत्वाड्डाच् संभवतीतिडाचि परतो द्वित्व॑मिति वक्तुं शक्यमिति भावः । पटितीति ।अव्यक्तानुकरणस्ये॑ति पररूपम् ।", "54058": "<<कृञो द्वितीयतृतीयशम्बबीजात् कृषौ>> - कृञो द्वितीय । द्वितीयादिभ्य इति । द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः । कृञ एव योगे इति । कृञ्ग्रहणात्कृभ्वस्तिर्नानुवर्तत इति भावः । 'मद्रात्परिवापणे' इति यावत्कृञ इत्यनुवर्तते । बहुलोक्तेरिति ।डाचि बहुलं द्वे भवतः॑ इति बहुलग्रहणादव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः । शम्बशब्दः प्रतिलोमे इति । 'वर्तते' इति शेषः । बीजेन सह कर्षतीति । आदौ कृष्टक्षेत्रे कुलत्थादिबीजानां वापे कृते पुनर्बोजैः सह कर्षणं प्रसिद्धम् । 'कर्षात्वत' इति सूत्रभाष्यप्रामाण्यात्कृषधातुः शब्विकरणोऽस्ति । तेन शविकरणत्वात्कृषतीत्येव युक्तमिति न शङ्क्यम् ।", "54059": "<<संख्यायाश्च गुणान्तायाः>> - सङ्ख्यायाश्च । शेषपूरणेन सूत्रं व्याचष्टे — कृञो योगे इति ।", "54060": "<<समयाच्च यापनायाम्>> - समयाच्च । कृषाविति निवृत्तम् । समयशब्दाद्यापनायां गम्यमानायां डाजित्यर्थः । समयाकरोतीति । करोतिरिह यापनायामित्याह — यापयतीति.अतिक्रान्तं करोतीत्यर्थः ।अद्येदं कर्तव्य॑मित्युक्ते विघ्नं कञ्चिदापाद्य कालक्षेपं करोतीति यावत् ।", "54061": "<<सपत्त्रनिष्पत्रादतिव्यथने>> - सपत्र । सपत्रशब्दान्निष्पत्रशब्दाच्च अतिव्यधने डाजित्यर्थः ।व्यध ताडने॑चतुर्थान्तः । अतिक्रम्य वेधः । अतिव्यधनम् । लक्ष्ये शराः पतन्त्यनेनेति पत्रं=शराणां पुङ्खगतो बर्हः । भूतलमिति ।पुङ्खपर्यन्तं पुङ्खवर्जं वा शरप्रवेशनेन सपत्र॑निष्पत्र॑वा भूतलं करोतीत्यर्थः ।", "54062": "<<निष्कुलान्निष्कोषणे>> - निष्कुलान्निष्कोषणे ।डा॑जिति शेषः । निष्कोषणम् — अन्तर्गतावयवानां बहिःकरणम् । निष्कुलाकरोति दाडिममिति । निर्गतं कुलं यस्मादिति बहुव्रीहिः । कुलशब्दश्च अन्तरवयवसमूहे वर्तते । तदाह — निर्गतमित्यादि ।", "54063": "<<सुखप्रियादानुलोम्ये>> - सुखप्रियादानुलोम्ये । सुखशब्दात्प्रियशब्दाच्च आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तमानुलोम्यम् । सुखाकरोति प्रियाकरोति गुरुमिति । चित्तानुवर्तनेन गुरु॑ सुखसंपन्नं प्रयसंपन्नं च करोतीत्यर्थः । तदाह — अनुकूलेति ।", "54064": "<<दुःखात् प्रातिलोम्ये>> - दुःखात् ।डा॑जिति शेषः । आराध्यप्रतिकूलाचरणं प्रातिलोम्यम् । अन्यत्पूर्ववत् ।", "54065": "<<शूलात् पाके>> - शूलात्पाके ।डा॑जिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह — शूलेन पचतीत्यर्थ इति ।", "54066": "<<सत्यादशपथे>> - सत्यादशपथे ।डा॑जिति शेषः । सत्याकरोति भाण्डमिति । रत्नादिद्रव्यजातमित्यर्थः । सत्यशब्दोऽत्र तथ्ये वर्तते ।सत्यं तथ्यमृतं सम्य॑गित्यमरः । क्रेत्वयमितीति ।एतावतैव मूल्येनेदं क्रयणार्हं नातोऽधिकमूल्येने॑त्येवं यथाभूतार्थं वदतीत्यर्थः । सत्यंकरोति विप्र इति । शपथं करोतीत्यर्थः ।", "54067": "<<मद्रात् परिवापणे>> - मद्रात्परिवापणे ।डा॑जिचि शेषः । मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणंमुण्डनमिति । 'केशान्वपते' इत्यादौ तथा दर्शनादिति भावः । माङ्गल्यमुण्डनेनेति । चौलेनेत्यर्थः । मद्रं करोप्ति भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणाऽप्रतीतेर्न डाजिति भावः । **** इति बालमनोरमायाम् तद्धितप्रक्रिया । ****अथ तद्धितेषु रक्ताद्यर्थकाः । — — — — — — — — -", "54068": "<<समासान्ताः>> - समासान्ताः । इत्यधिकृत्येति ।आपादपरिसमाप्ते॑रिति भावः । अत्र समासपदमलौकिकविग्रहवाक्यपरमेव । अत एव 'बहुकुमारीक' इत्यत्र ह्रस्वो न । 'गोस्त्रियोः' इति सूत्रे 'अन्तः' इति सूत्रे च भाष्ये स्पष्टमेतत् । एवंचाऽलौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्ता इति सिद्धान्तः । अन्तशब्दश्चरमावयववाची । अत एव उपशरदमित्यादौनाव्ययीभावा॑दित्यम् । तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाऽभावादम् न स्यात् । तथाच टचस्तदनवयवत्वेअव्ययानां भमात्रे टिलोपः॑ इति प्रसज्येत । टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययीभावसमासतया अव्ययत्वादुपशरदित्यस्याव्ययत्वाऽभावान्न टिलोपः । समासान्तप्रत्ययाश्चलौकिकविग्रवाक्ये सुपः परस्तादेव भवन्ति । अत एव 'प्रत्ययस्थात्' इति सूत्राभाष्ये 'बहुचर्मिका' इत्युदाहृतं सङ्गच्छते । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः ।", "54069": "<<न पूजनात्>> - न पूजनात् । 'परेभ्य' इत्यध्याहार्यम् । 'समासान्ता' इति पूर्वसूत्रमनुवर्तते । तदाह — पूजनार्थादिति ।पूजायां स्वतिग्रहणं कर्तव्य॑मिति वार्तिकमभिप्रेत्योदाहरति — सुराजेति । सु=शोभनो राजेति प्रादिसमासः । अतिराजेति । पूज्यो राजेत्यर्थः । उभयत्रापि 'राजाहःसखिभ्यः' इति टज्न भवति । स्वतिभ्यामेवेति । स्वतिभ्यां परो यो राजन्शब्दस्तस्मादेवेत्यर्थः, तथा वार्तिकादिति भावः । नेहेति । 'निषेधे' इति शेषः । परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति । 'अत्यादयः' इति समासः । अतेः पूजनार्थकत्वाऽभावान्न टचो निषेधः । एवं 'परमराज' इत्यत्रापि । इत्यतः प्रागिति ।प्राग्बहुव्रीहिग्रहणं कर्तव्य॑मिति वार्तिकार्थसङ्ग्रहोऽयम् । सुसक्थः स्वक्ष इति । सु=शोभने सक्थिनी यस्य, सु=शोभने अक्षिणी यस्येति च विघः ।बहुव्रीहौ सक्थ्यक्ष्णो॑रिति षच् । किमः क्षेपे । किंराजा किंसखेति । इह 'राजाहःसखिभ्यः' इति टज्नभवति, 'किं क्षेपे' इति समासः । किंराजः किंसख इति । किंशब्दोऽत्र प्रश्ने । कस्य राजा, को राजेति वा विग्रहः ।", "54070": "", "54071": "<<नञस्तत्पुरुषात्>> - निन्दानवगमान्न टचो निषेधः । नञस्तत्पुरुषात् । शेषपूरणेन सूत्रं व्याचष्ट — समासान्तो नेति । नञ्पूर्वंपदात्तत्पुरुषात्समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नञ्पूर्वपदत्वेऽप्यतत्पुरुषत्वात्ऋक्पू॑रिति समासान्तस्य न निषेधः ।", "54072": "<<पथो विभाषा>> - पथो विभाषा । पथ इति । पथिन्शब्दादित्यर्थः । अपथिमिति । न पन्था इति विग्रहे नञ्तत्पुरुषः ।॒ऋक्पूः॑ इत्यप्रत्यये सति 'नस्तद्धिते' इति टिलोपः ।पथः सङ्ख्याव्ययादे॑रिति नपुंसकत्वम् । अपन्था इति । अप्रत्ययाऽभावे रूपम् । तत्पुरुषादित्येवेति । अनुवर्तत एवेत्यर्थः । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वात्ऋक्पू॑रित्यप्रत्ययस्य न पाक्षिकोऽपि निषेधः ।*****इति बालमनोरमायाम् समासान्तप्रकरणम् ।***** अथ समासाश्रयविधिः । — — — — — — — —", "54073": "<<बहुव्रीहौ संख्येये डजबहुगणात्>> - अथ बहुव्रीहावसाधारणसमासान्तानाह — बहुव्रीहौ । सङ्ख्येये यो बहुव्रीहिरिति ।सङ्ख्ययाव्यये॑ति विहित॑ इति शेषः । तस्मादिति । बहुव्रीहाविति । पञ्चम्यर्ते सप्तमीति भावः । डच्स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । उपदशा इति । दशानां समीपे ये सन्तीति विग्रहः ।सङ्ख्ययाऽव्यये॑ति बहुव्रीहिः । सुब्लुक् । उपदशन्शब्दाड्डचि 'नस्तद्धिते' इति टिलोपः । उपबहवः । उपगणा इति । बहूनां समीपे ये सन्तीति, गणस्य समीपे ये सन्तीति च विग्रहः ।बहुगणवतुडति सङ्ख्ये॑ति सङ्ख्यात्वात्सङ्ख्ययाव्यये॑ति समासः । अबहुगणादिति निषेधान्न डच् । ननूपगणा इत्यत्र डचि सत्यसति च रूपसाम्यात्क तन्निषेधेनेत्यत आह — स्वरेविशेष इति । डचि सति 'चित' इति अन्तोदात्तत्वं स्यादित्यर्थः । सङ्ख्याया इति । सङ्ख्यान्तत्पुरुषस्य समासान्तो डज्वक्तव्य इत्यर्थः । निस्त्रशानीति ।निरादयः क्रान्ते॑ति तत्पुरुषः, डच्,टे॑रिति टिलोपः । तिंरशतोऽधिकानीति यावत् । निस्त्रश इति । समासादि पूर्ववत् । तिंरशदधिकाङ्गुलिरित्यर्थः । न च गवां विंशतिर्गोविंशतिरित्यत्रातिप्रसङ्गः शङ्क्यः,अव्ययादे॑रिति विशेषणादिति भाष्ये स्पष्टम् । नचैकाधिका विंशतिरेकविंशतिरित्यत्रसङ्ख्ययाव्यये॑ति समासे सतिबहुव्रीहौ सङ्ख्येये॑ इति डच्शङ्क्यः,अन्यत्राधिकलोपा॑दिति वार्तिकादित्यास्तां तावत् ।", "54074": "<<ऋक्पूरब्धूःपथामानक्षे>> - अथ सर्वसमाससाधारमसमासान्ता निरूप्यते — ऋक्पूरब्धूः । छेद इति । सूत्रे 'अ' इति लुप्तप्रथमान्तनिर्देश इति भावः । 'समासान्ता' इत्यधिकृतम् । ऋगादिभिः समासो विशेष्यते । तदन्तविधिः । तदाह — ऋगाद्यन्तस्येति । ऋक्, पुर्, अप्, धुर्, पथिन्-एतदन्तस्येत्यर्थः । अप्रत्यय इति । अकारात्मकप्रत्यय इत्यर्थः । अक्षे या धूरिति । अक्षसंबन्धिनी या धूरित्यर्थः । सूत्रे संबन्धिनोऽधिकरणत्वविक्षया अनक्षे इति सप्तमी । 'अनक्षे' इति च धुर्शब्देनैव संबध्यते, अन्यैरसंभवादिति भावः । अर्धर्चेति । ऋचोऽर्धमिति विग्रहः ।अर्धं नपुंसक॑मिति समासः । अकारः समासान्तः ।अर्धर्चाः पुंसि चे॑ति पुंस्त्वम् । अनृचबह्वृचावध्येतर्येवेति । अविद्यमाना ऋचो यस्येति विग्रहः । बहव ऋचो यस्येति बह्वृचः-ऋक्छाखीत्युदाहरणम् ।अध्येतर्येवे॑ति नियमस्य प्रयोजनमाह — नेहेति । अनृक्सामेति । अविद्यमाना ऋचो यस्मिन्निति विग्रहः । ऋच्यनध्यूढं प्रजापतेह्र्मदयं साम । बह्वृक्सूक्तमिति । बहवो ऋचो यस्मिन्निति विग्रहः । अथ पुर्शब्दान्तस्योदाहरति — विष्णोरिति । ननु पुर्शब्दस्य स्त्रीत्वापरवल्लिङ्ग॑मिति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आत — क्लीबत्व#ं लोकादिति । अथाऽप्शब्दान्तस्योदाहरति — विमलापं सर इति । विमला आपो यस्मिन्निति विग्रहः ।", "54075": "<<अच् प्रत्यन्ववपूर्वात् सामलोम्नः>> - अच्प्रत्ययन्वव । एतत्पूर्वादिति । प्रति-अनु-अव-एतत्पूर्वकादित्यर्थः । प्रतिसाममिति । प्रतिगतं सामेति विग्रहः । अच् । 'नस्तद्धिते' इति । टिलोपः । अनुसाममिति । अनुगतं सामेति विग्रहः । अच् । टिलोपः । अवसाममिति । अवकृष्टं सामेति विग्रहः । अच् । टिलोपः । प्रतिलोममिति । प्रतिगतं लोमेति विग्रहः । अनुलोममिति । अनुगतं लोमेति विग्रहः । अवलोममिति । अवगतं लोमेति विग्रहः । सर्वात्राऽच्, टिलोपः । कृष्णोदगिति । नेदं वार्तिकं । किं त्वच्प्रत्येत्यत्र अजिति योगविबागमूलाभियुक्तोक्तिरेषा । कृष्णेति । कृष्णा भूमिर्यस्य, उदीची भूमिर्यस्य, पाण्डुर्भूमिर्यस्य, द्वे भूमी यस्य, तिरुआओ भूमयो यस्येति च विग्रहः । प्रासादः सर्वत्र विशेष्यः । सङ्ख्याया इति । इदमप्यजिति योगविभागमूलकमेव । सङ्ख्यायाः परो यो नदीशब्दो, गोदावरीशब्दश्च ताभ्यामजिष्यत इत्यर्थः । पञ्चनदमिति । पञ्चानां नदीनां समाहार इति विग्रहः । सप्तगोदावरमिति । सप्तानां गोदावरीणां समाहार इति विग्रहः ।नदीभिश्चे॑त्यव्ययीभावः । अचियस्येति चे॑ति लोपः ।नाव्ययीभावा॑दित्यम् । अन्यत्रापीति ।अ॑जिति सेषः । पद्मनाभ इति । पद्मं नाभौ यस्येति विग्रहः । वस्तुतस्तु यागविभागस्य भाष्येऽदर्शनात्पृषोदरादित्वमेवोचितम् ।", "54076": "<<अक्ष्णोऽदर्शनात्>> - अथ तत्पुरुषेष्वसाधारणसमासान्तान् वक्तुमुपक्रमते — तत्पुरुषस्याङ्गुलेः ।अच्प्रत्यन्ववपूर्वा॑दित्यतोऽजित्यनुवर्तते, 'समासान्त' इत्यधिकृतम् । तेन समासस्य अन्तावयव इति लभ्यते । प्रत्ययः परश्च इत्यधिकारादच्प्रत्ययस्य तत्पुरुषात्परत्वेऽपि तस्य तदवयवत्वादङ्गुलेरित्यवयवषष्ठी । अङ्गुलेरिति तत्पुरुषविशेषणं, तदान्तविधिः । तदाह संख्याव्ययादेरिति । सङ्ख्या च अव्ययं च सङ्ख्याव्यये, ते आदी यस्येति विग्रहः । द्व्यङ्गुलमिति । तद्धितार्थ॑ इति द्विगुः । प्रमामे द्वयसज्दघ्नञ्मात्रचःप्रमाणेलो द्विगोर्नित्य॑मिति लुक् । द्व्यङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परेयस्येति चे॑ति इकारलोपः । निरङ्गुलमिति ।निरादयः क्रान्ताद्यर्थे॑ इति समासः अच् इलोपः ।", "54077": "<<अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम- वाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिव- रत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुष- त्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः>> - अचतुर । आद्यास्त्रयो बहुव्रीहय इति । बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् । अचतुर इति ।नञोऽस्त्यर्थाना॑मिति विद्मानपदलोपः । विचतुर इति । विगतानि चत्वारि यस्येति विग्रहः । सुचतुर इति । सु=शोभनानि चत्वारि यस्येति विग्रहः ।न पूजना॑दिति निषेधो बाध्यते । त्र्युपाभ्यामिति । वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चत्वारो वेति विग्रहः ।सङ्ख्याव्ययासन्ने॑ति बहुव्रीहिः ।बहुव्रीहौ सह्ख्येये ड॑जिति डचं बाधित्वाऽच् । डचि तु टिलोपः स्यात् । उपचतुरा इति । त्रयः पञ्च वेत्यर्थः ।सङ्ख्ययाव्यये॑ति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति । द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति । स्त्री च पुमांश्चेति विग्रहः । अच् । धेन्वड्वाहाविति न भवति । समाहारद्वन्द्वे तुद्वन्द्वाच्चुदषहान्ता॑दित्येव सिद्धम् । ऋक्सामे इति । ऋक्च साम चेति विग्रहः । अच् । टिलोपः । ऋक्सामनी इति न भवति । वाङ्मनसे इति । वाक् च मनस्चेति विग्रहः । अच् । वाङ्मनसी इति न भवति । अक्षिभ्रुवमिति । अच् । प्राण्यङ्गत्वादेकवत्त्वम् । अक्षिभ्रु इति न भवति । दारगवमिति । समाहारद्वन्द्वादच् । 'दारगु' इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगावः । ऊर्वष्ठीवमिति । प्राण्यङ्गत्वादेकवत्त्वम् । ऊरू-सक्थिनी । अष्ठीवन्तौ=जानुनी ।सक्थि क्लीबे पुमानू रूः॑ इति,जानूरूपर्वाष्ठीवदस्त्रिया॑मिति चामरः । नन्वडित्त्वादनान्तत्वाच्च कथं टिलोप इत्यत आह — निपातनाट्टिलोप इति । पटष्ठीवमिति । पादौ चाऽष्ठीवन्तौ चेति द्वन्द्वादच् । प्राण्यङ्गत्वादेकवत्त्वम् । नन्वभत्वात्कथमिह पादशब्दस्य पद्भाव इत्यत आह — निपातनादिति । नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तंदिवेति द्वन्द्वादच् ।यस्येति चे॑त्याकारलोपः,अव्ययीभावश्चे॑त्यव्ययत्वम्, नपुंसकत्वं च ।नाव्ययीभावा॑दित्यम्भावः । मान्तत्वमिति । रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेर्मान्तत्वं निपात्यत इत्यर्थः । यस्येति चे॑त्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात्साहित्याऽभावात्कथमिह द्वन्द्वः । अहव्र्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपिविरूपाणामपि समानार्थकाना॑मित्येकशेषो दुर्वार इत्यत आह-वीप्साया द्वन्द्वो निपात्यत इति ।नित्यवीप्सयो॑रिति वीप्सायां द्विर्वचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः । सरजसमिति । रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः । रजः=धूलिः । साकल्ये सहशब्दस्य रजश्शब्देनाऽव्ययीभावः । 'अव्ययीभावे चाकाले' इति सह शब्दस्य सभावः । अच् । अव्ययीभाव इति । भाष्ये तथावचनादव्ययीभावस्य ग्रहणमिति भावः । सरजः पङ्कजमिति । रजोभिः परागैः सहेति विग्रहः ।तेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सहस्य सः । बहुव्रीहित्वान्नाऽच् । निऋश्रेयसमिति । कर्मधारयादच् । तत्पुरुष एवेति । तथा भाष्यादिति भावः ।निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहित्वान्नाऽजिति भावः ।ईथसश्चे॑ति निषेधान्न कप् । पुरुषायुषमिति । षष्ठीसमासादजिति भाष्यम् । ततो द्विगू इति । भाष्यवाक्यमिदम् । द्व्यायुषं त्र्यायुषमिति । द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः । 'तद्धितार्थ' इति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । ऋग्यजुषमिति । ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः । ततस्त्रयः कर्मधारया इति । तथा भाष्यादिति भावः । जातोक्ष इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन्शब्दे टिलोपः । महोक्ष इति । महांश्चासावुक्षा चेति विग्रहः । 'आन्महतः' इत्यात्त्वम् । अचि टिलोपः । वृद्धोक्ष इति । वृद्धश्चासावुक्षा चेति विग्रहः । अचि टिलोपः । उपशुनमिति । अव्ययीभावादच्, तथा बाष्यात् । नन्वत्र 'नस्तद्धिते' इति टिलोपः कुतो न स्यात्, 'अतद्धिते' इति पर्युदासात्आयुवमघोनामतद्धिते॑ इति कथं वा संप्रसारणं स्यादित्यत आह — टिलोपाऽभाः संप्रसारणं च निपात्यत इति । गोष्ठआ इति ।सप्तमीसमासाद॑जिति भाष्यम् । अत एव भाष्यात्सप्तमीसमासः । टिलोपः । 'अतद्धिते' इति निषेधान्न संप्रसारणम् । षष्ठीतत्पुरुषे तु — गोष्ठआआ ।", "54078": "<<ब्रह्महस्तिभ्याम् वर्च्चसः>> - ब्राहृ । शेषपूरणेन सूत्रं व्याचष्टे — अच्स्यादिति । ब्राहृवर्चसमिति । ब्राहृणो वर्चेति विग्रहः । हस्तिवर्चसमिति । हस्तिनो वर्चेति विग्रहः ।पल्यराजभ्यामिति । आभ्यां परो यो वर्चश्शब्दस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चसमिति । पलं मांसं, तदर्हति पल्यः । मांसभोजीत्यर्थः । तस्य वर्चेति विग्रहः । राजवर्चसमिति । राज्ञां वर्चेति विग्रहः ।", "54079": "<<अवसमन्धेभ्यस्तमसः>> - अवसमन्धेभ्यस्तमसः । अव समन्ध एभ्यः परो यस्तमश्शब्दस्तस्मादच्स्यादित्यर्थः । अवतमसमिति । अवहीनं तम इति विग्रहः । प्रादिसमासः । संतमसमिति । संततं तम इति विग्रहः । प्रादिसमासः । अन्धयतीत्यन्धमिति । 'अन्ध दृष्टउपघाते' चुरादिः । दृष्ट प्रतिबध्नातीत्यर्थः । पचाद्यजिति ।नन्दिग्राहिपचादिभ्यो ल्युणिन्यचः॑ इति पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः । अचि णिलोपेऽन्धमिति रूपम् । गाढमित्यर्थः । फलति । गाढस्यैव तमसो दर्शनप्रतिबन्धकत्वात् । अन्धतमसमिति । कर्मधारयादच् ।", "54080": "<<श्वसो वसीयःश्रेयसः>> - आसः ।आ॑सित्यव्ययात् परो यो वसीयश्शब्दः, श्रेयश्शब्दश्च तस्मादच्स्यादित्यर्थः । वसुशब्दः प्रशस्तवाचीति ।यं कामयेत वसीयान् स्यादि॑त्यादौ तथा दर्शनादिति भावः । तत इति । अतिशयेन वसुरिति विग्रहे 'द्विवचनविभज्योपपद' इतीयसुनि, 'तुरिष्ठेमेयस्सु' इत्यनुवृत्तौटे॑रिति टिलोपे वसीयश्शब्द इत्यर्थः । आस्शब्द इति । यद्यपि आस्शब्दः कालविशेषवाची तथापि प्रकृते शब्दशक्तिस्वबावादुत्तरपदार्थगतां प्रशंसामाशीर्विषयं द्योतयतीत्यर्थः । आशिषो वियः आशीर्विषयः, तमिति षष्ठीसमासः । प्रशंसाविशेषणम् । विषयशब्दस्य नित्यपुंलिङ्गत्वान्न स्त्रीलिङ्गता । एवं च आस्शब्द उत्तरपदार्थंगतप्राशस्त्यस्य द्योतक इति फलितोऽर्थः । ननु तर्हि आस्शब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याऽभावात्कथं विशेषण समास इत्यत आह — मयूरेति । तथाचाशीर्लिङ्गादिप्रयोग एवास्य साधुत्वमित्यभिप्रेत्योदाहरति — आओवसीयसमिति । अतिशयेन प्रशस्तमित्यर्थः । आःश्रेयसमिति । अतिशयेन प्रशत्मिति विग्रहे प्रशस्तशब्दादीयसुन्,प्रशस्यस्य श्रः॑ ।प्रकृत्यैका॑जिति प्रकृतिभावान्न टिलोपः । आद्गुणः । श्रेयसिति रूपम् । आस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः ।आऋश्रेयसं शिवं भद्र॑मित्यमरः ।ते भूया॑दिति तु उभयत्रापि संबध्यते,-आओवसीयसं ते भूयात्, आःश्रेयसं ते भूयादिति ।", "54081": "<<अन्ववतप्ताद्रहसः>> - अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रहश्शब्दस्तस्मादच्स्यादित्यर्थः । रहः-अप्रकाशप्रदेशः । अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति । विग्रहः । उभयत्र प्रादिसमासः । तप्तरहसमिति । तप्तं रह इति विग्रहः । प्रतेरुरसः । सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम् । सप्तम्यर्थद्योतकात् प्रतेः परो य उरश्शब्दस्तस्मादच् स्यादित्यर्थः । उरसीति । अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः । सप्तम्यर्थद्योतकः प्रतिः । तस्य विभक्त्यर्थे विद्यमानस्यअव्ययं विभक्ती॑त्यादिनाऽव्ययीभाव इति भावः ।", "54082": "", "54083": "<<अनुगवमायामे>> - अनुगवमायामे । एतदिति । अनुगवमित्येतदित्यर्थः । अनुना दीर्घत्वे द्योत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवंयानामिति । अनुगोशब्दादचि अवादेश इति भावः । यस्य चेति । 'यस्य चायामः' इत्यव्ययीभावसमासः । तथा च गोदैध्र्यकं यानमित्यर्थः फलतीति भावः ।", "54084": "<<द्विस्तावा त्रिस्तावा वेदिः>> - द्विस्तावा । यावती प्रकृताविति । यतोऽङ्गकलाप स्यातिदेशः । सा प्रकृतिः । अआमेघस्य प्रकृतिरग्निष्टोमः, तत्राम्नाताऽङ्गकलापानामआमेधेऽतिदेशात् । तदुक्तं कल्पसूत्रे॒सर्वसोमक्रतूनामग्निष्टोमः प्रकृति॑रिति । तस्मिन्नग्निष्टोमे वेदिपरिमाणं श्रुतम् । तत्र चत्रिशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची षट्त्रशत्, प्राची चतुर्विंशतिः, पुरस्तात्तिरश्ची॑ति प्रकृतौ वेदिपरिमाणमुक्तम् । अस्यां तु वेद्यां ततो द्विगुणितं त्रिगुणितं च क्षेत्रपरिमाणमुक्तं कल्पसूत्रेषु-॒अष्टाविंशत्यूनं पदसहरुआं माहावेदि॑रिति । पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम् । तथाच प्रकृतौ अग्निष्टोमे यावती वेदिस्तदपेक्षया द्विगुणा त्रिगुणा वाऽआमेधादौ वेदिरस्ति, तत्र आआमेधिकवेद्यामभिधेयायां द्विस्तावेति त्रिस्तावेति च भवतीत्यर्थः ।सङ्ख्यायाः क्रियाभ्युवृत्तिगणने कृत्सुच्द्वित्रिचतुभ्र्यः सुच् इति द्विशब्दत् क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम् । तत्र प्राकृतं परिमाणमस्या अस्तीति तावती । प्राकृतपरिमाणेति यावत् । द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति । द्विः -तावतीति विग्रहः द्विरावृत्तं प्राक#ऋतं यत् परिमाणं तद्वत्याआमेधिकी वेदिरित्यर्थः । अत एव निपातनात्समासः, अच्प्रत्ययः, तावतीशब्दस्य 'भस्याऽढे' इति पुंवत्त्वे ङीपो निवृत्तौ प्रत्ययस्याऽडित्त्वेऽपि प्रकृतेर्नान्तत्वाऽभावेऽपि टिलोपः । द्विस्तावती त्रिस्तावती रज्जुरिति । अत्र वेद्यामप्रवृत्तेरच्प्रत्ययटिलोपसमासा न भवन्तीत्यर्थः । तथाच प्रत्युदाहरणेद्वि॑रिति भिन्नं पदम् ।", "54085": "<<उपसर्गादध्वनः>> - उपसर्गादध्वनः । उपसर्गात् परो योऽध्वन्शब्दस्तस्मादच् स्यादित्यर्थः । प्राध्वो रथ इति । 'अत्यादयः' इति समासादच् । 'नस्तद्धिते' इति टिलोपः ।", "54086": "", "54087": "<<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> - अहःसर्वैकदेश । एभ्यो रात्रेरिति । अहन्, सर्व, एकदेश, सङ्ख्यात, पुण्य — एभ्यः परस्य रात्रिशब्दस्येत्यर्थः । अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादी रात्र्यन्तस्तत्पुरुषो नास्त्येव, अह्नो रात्रिरिति वा, अहश्चासौ रात्रिश्चेति वा, असंभवादित्यत आह-अहग्र्रहणं द्वन्द्वार्थमिति । नच ब्राहृणो यदहस्तस्यावयवभूता या मानुषीरात्रिरिति षष्ठीतत्पुरुषः संभवतीति वाच्यम्,अहग्रहणं द्वन्द्वार्थ॑मिति भाष्यप्रामाण्येन एवंजातीयकतत्पुरुषस्य प्रयोगाऽभावोन्नयनात् । अहोरात्र इति । द्वन्द्वादच्, इलोपः,जातिरप्राणिना॑मित्येकवत्त्वम् ।स नपुंसक॑मिति बाधित्वारात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । सर्वा रात्रिः सर्वरात्र इति । सर्वा रात्रिरिति विग्रहेपूर्वकालैके॑ति कर्मधारयः । अच् । इकारलोपः ।रात्राह्नाहा॑इति पुंस्त्वम् ।सर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वम् । एकदेशेत्यर्थग्रहणमित्यभिप्रेत्योदाहरति — पूर्वमिति । पूर्वं रात्रेरिति विग्रहेपूर्वपराधरोत्तर॑मित्येकदेशिसमासः । अच्, इलोपः,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यातरात्र इति । सङ्ख्याता रात्रिरिति विग्रहे कर्मधारायः ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । अच्, इलोपः ।रात्राह्ने॑ति पुंस्त्वम् । द्विरात्रमिति ।तद्धितार्थे॑ति द्विगुः । सङ्ख्यादित्वादच्, इलोपः ।सङ्ख्यापूर्वं रात्रं क्लीब॑मिति नपुंसकत्वम् । अतिरात्र इति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अव्ययादित्वादच्, इलोपः,रात्राह्ने॑ति पुंस्त्वम् ।", "54088": "<<अह्नोऽह्न एतेभ्यः>> - अह्नोऽह्न एतेब्यः । पूर्वसूत्रे अहःसर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे । अहन्शब्दवर्जं ते सर्वे एतच्छब्देन परामृश्यन्ते, नत्वहःशब्दः, अहःशब्दात्परस्य अहन्शब्दस्य तत्पुरुषे असंभवादित्यभिप्रेत्य व्याचष्टे-सर्वादिभ्य इति । समासान्ते पर इति । एतत्तु प्रकरणाल्लब्धम् ।", "54089": "<<न संख्याऽऽदेः समाहारे>> - न सङ्ख्यादेः । अह्नादेश इति । 'अह्नोऽह्नः' इत्यतस्तदनुवृत्तेरिति भावः । ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारेऽभावादेव सिद्धे सङ्ख्यादेरिति व्यर्थमित्यत आह — स्पष्टार्थमिति । द्व्यह इति । समाहारे द्विगुः । टच्,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यादित्वात्प्राप्तस्याऽह्नादेशस्य निषेधः । त्र्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्व्यहवत् ।", "54090": "<<उत्तमैकाभ्यां च>> - उत्तमैकाभ्यां च । ननु उत्तमशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशाऽप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह — उत्तमशब्द इति । उत्तमशब्दोऽन्त्ये वर्तते । यथा द्वादशाहेउदयनीयातिरात्र उत्तममहः॑ इति अन्त्यमिति गम्यते ।अहःसर्वैकदेशसङ्ख्यातपुण्या॑दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हिपुण्यैकाभ्या॑मित्येव कुतो न सूत्रितमित्याशङ्क्य स्वतन्त्रेच्छत्वान्नमहर्षेरित्याह — पुण्यैकाभ्यामित्येवेति । पुण्याहमिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः ।पुण्यसुदिनाभ्यां चे॑ति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहेपूर्वकालैके॑ति समासः । टच् टिलोपः । उपान्त्यस्यापीति ।लक्षणये॑ति शेषः । परुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् । उत्तमे च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । सङ्ख्याताह इति । सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः । 'रात्राह्नाहा' इति पुंस्त्वम् । उपान्त्यसङ्खातशब्दपूर्वकत्वान्नाऽह्नादेशः ।", "54091": "<<राजाऽहस्सखिभ्यष्टच्>> - राजाहःसखिभ्यष्टच् ।तत्पुरुषस्याङ्गुलेः॑ इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतं 'राजाहःसखिभ्यः' इत्यनेन विशेष्यते । तदन्तविधिः । तदाह — एतदन्तादिति । परमराज इति । परमश्चासौ राजा चेति विग्रहः । 'अत्यादयः' इति समासः । टचि टिलोपः । कृष्णसख इति । कृष्णस्य सखेति विग्रहः । समासान्तष्टच् ।यस्येति चे॑ति इकारलोपः ।", "54092": "<<गोरतद्धितलुकि>> - गोरतद्धितलुकि ।तत्पुरुषस्याङ्गुले॑रित्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चम्या विपरिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः ।॒राजाहः सखिभ्यः॑ इत्यतष्टजित्यनुवर्तते । 'समासान्त' इत्यधिकृतम् । तदाह — गोऽन्तादित्यादिना । अतद्धितलुकीति किम् । पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्यअध्यर्धे॑ति लुक् । पञ्चगवधन इति । त्रिपदबहुव्रीहौ कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्रद्वन्द्वतत्पुरुषयो॑रिति वार्तिके द्वन्द्वस्योदाहरणं तु वाक् च त्वक् च प्रिया यस्य स वाक्त्वचप्रिय इति बोध्यम् । इह त्रिपदबहुव्रीहौ कृते पूर्वयोर्नित्यद्वन्द्वः । तेनद्वन्द्वाच्चुदषहान्तात्समाहारे॑ इति टजपि नित्य एव । न च वाक्त्वक्छब्दयोः परस्परसामानाधिकरण्याऽभावात्कथमिह त्रिपदबहुव्रीहिरिति वाच्यं, द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः । सप्तमीविशेषणे बहुव्रीहौ॑ इति ज्ञापकेन 'कण्ठेकाल' इत्यादाविव व्यधिकरणबहुव्रीहिसंभवाच्च । 'वाक्त्वचप्रियः' इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् । अथ समाहारे उदाहर्तुं विग्रहं दर्शयति — पञ्चानां गवां समाहार इति ।", "54093": "<<अग्राख्यायामुरसः>> - अग्राख्याया । शेषपूरणेन सूत्रं व्याचष्टे — टच् स्यादिति । पञ्चम्यर्थे सप्तमी । अग्रं प्रधानं, तद्वाची य उपश्शब्दस्तदन्तात्तत्पुरुषाट्टाच्स्यादित्यर्थः ।अग्नाख्याया॑मिति पाठान्तरम् । अग्रे भवमग्रयं । मुख्यमिति यावत् । अआआनामुर इवेति । उरो यथा प्रधानं तथेत्यर्थः । उपश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अआओरसमिति । उरश्शब्देन मुख्यवाचिना षष्ठीसमासः । टच् । 'परल्लिङ्गम्' इति नपुंसकत्वम् । अग्राख्यायामिति किं । देवदत्तस्योरः देवदत्तोरः ।", "54094": "<<अनोऽश्मायस्सरसाम् जातिसंज्ञयोः>> - अनोऽश्यमायस् । उपानसमिति । उपगतमन इति प्रादिसमासः । अमृताश्म इति । अमृतोऽश्मेति विग्रहः । टचि टिलोपः । कालायसमिति । कालमय इति विग्रहः । टच् ।परवल्लिङ्ग॑मिति नपुंसकत्वम् । मण्डूकसरसमिति । षष्ठीसमासः । टच् । जातिविशेषा एते । महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः ।", "54095": "<<ग्रामकौटाभ्यां च तक्ष्णः>> - ग्रामकौटाभ्यां च । आभ्यां टजिति । ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात्तत्पुरुषाट्टच्स्यादित्यर्थः । ग्रामतक्ष इति । टचि टिलोपः । साधारण इति । ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः । कुटआं भव इति । कुटीमेकां क्रयादिना सम्पाद्य तत्र यो वसति, न तु परकीयभूमिप्रदेशे स कौट इत्यर्थः । फलितमाह — स्वतन्त्र इति । कौटतक्ष इति । टचि, टिलोपः ।", "54096": "<<अतेः शुनः>> - अतेश्शुनः । अतीत्यव्ययात्परो यः आन्शब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः । अतिआ इति । आआनमतिकान्त इति विग्रहः । अत्यादय इति समासः । टचि, टिलोपः । आआपेक्षयाधिकवेगवान्वराह इत्यर्थः । अतिआई सेवेति । आआनमतिक्रान्तेत्यर्थः । आआपेक्षया नीचा सेवेति यावत् । टच्, टिलोपः । टित्त्वान्ङीप्, यस्येति चेत्यकारलोपः ।", "54097": "<<उपमानादप्राणिषु>> - उपमानादप्राणिषु । आकर्षः ओवेति । आकृष्यते कुसूलदिगतधान्यमनेनेत्याकर्षः — पञ्चाङ्गुलो दारुविशेषः ।उपमितं व्याघ्रादिभिः॑ इति समासः । टच् टिलोपः, आकर्षआ इति रूपम् । उपमानात्किम् । शुनो निष्क्रान्तो निःआआ ।", "54098": "<<उत्तरमृगपूर्वाच्च सक्थ्नः>> - उत्तरमृग । 'उत्तर' 'मृग' 'पूर्व' एभ्य, उपमानाच्च परो यः सक्थिशब्दत्तदन्तास्तत्पुरुषाट्टच्स्यादित्यर्थः । उत्तरसक्थमिति । उत्तरं सक्थीति विग्रहः । पूर्वं सक्थीति विग्रहेपूर्वकालैके॑ति समासः । फलकसक्थमिति । फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात्समासः । सर्वत्र टच्, टिलोपः ।", "54099": "<<नावो द्विगोः>> - नावो द्विगोः । न तु तद्धितलुकीति ।गोरतद्धितलुकी॑त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । द्विनावरूप्य इति । तद्धितार्थे समासः, टच्, आवादेशः ।हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॑ । तस्य 'द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्याह — द्विगोर्लुगनपत्ये इत्यत्रेति । अपकर्षणादिति ।गोत्रेऽलुगची॑त्यत्तरसूत्रादित्यर्थः । पञ्चनावप्रिय इति । पञ्च नावः प्रिया यस्येति विग्रहे उत्तरपदे द्विगुः, टचि, आवादेशः । द्विनावमिति । द्वयोर्नावोः समाहार इति विग्रहे द्विगुः । टच् । आवादेशः । 'सनपुंसकम्' इति नपुंसकत्वम् । त्रिनावमिति । तिसृणां नावां समाहार इति विगरहः । द्विनाववत् । पञ्चनौरिति । तद्धितार्थे समासः । आर्हीयष्ठक्,अध्यर्धे॑ति लुक् ।", "54100": "<<अर्धाच्च>> - अद्र्धाच्च । अद्र्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः । अर्धनावमिति ।अर्धं नपुंसक॑मिति समासः, टच्, आवादेशः । अत्र परवल्लिङ्ग॑मिति स्त्रीत्वामशङ्क्याह — क्लीबत्वं लोकादिति ।", "54101": "<<खार्याः प्राचाम्>> - खार्या) प्राचाम् । खारीशब्दान्ताद्द्विगोरर्धपूर्वकात्खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः । द्विखारमिति । द्वयोः खार्योः समाहार इति विग्रहे द्विगुः । टच् ।यस्येति च॑ ।स नपुंसक॑मिति नपुंसकत्वम् । टजभावपक्षेस नपुंसक॑मिति नपुंसकत्वान्नपुंसकह्रस्वः । अर्धखारमिति । खार्या अर्धमिति विग्रहः ।अर्धं नपुंसक॑मिति समासः, टच्, यस्येति च । क्लीबत्वं लोकात् । अर्धखारीति । पूर्ववत्समासः । टजभावपक्षेपरवल्लिङ्ग॑मिति स्त्रीत्वम् । एकविभक्तावषष्ठन्तवचनादुपसर्जनत्वाऽभावान्न ह्रस्वः । 'अर्धखारि' इति काचिद्ध्रस्वान्तपाठः । तदा क्लीबत्वं लोकात्, ततो नपुंसकह्रस्वः ।", "54102": "<<द्वित्रिभ्यामञ्जलेः>> - द्वित्रिभ्यामञ्जलेः । शेषपूरणेन सूत्रं व्याचष्टे — टज्वा स्यादिति । द्विगाविति । द्व्यञ्जलमिति । द्वयोरञ्जल्योः समाहार इति विग्रहे द्विगुः, टच्यस्येति च॑,स नपुंसकम् । द्व्यञ्जलीति । समाहारे द्विगुः । टजभावे सति नपुंसकह्रस्वत्वम् । अतद्धितलुकीत्येवेति । अनुवर्तत एवेत्यर्थः । अञ्जलिभ्यां क्रीत इति । अञ्जलिशब्दोऽञ्जलिपरिमितधान्यादौ वर्तते, केवलस्थाऽञ्जलेर्मूल्यत्वाऽडसम्भवात् । परिमाणत्वाट्ठञ् ।अध्यर्धे॑ति तस्य लुक् ।", "54103": "", "54104": "<<ब्रह्मणो जानपदाख्यायाम्>> - ब्राहृणो जानपदाख्यायां । जनपदे भवो जानपदः । भावप्रधानो निर्देशः । तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात्समासेनेति लभ्यते । तदाह — समासेनेत्यादि । जानपदत्वमित्यनन्तरं 'ब्राहृण' इति शेषः । सुराष्ट्रे ब्राहृएति । ब्राहृशब्दोऽत्र पुंलिङ्गः । ब्राहृआ — विप्रः ।वेदस्तत्त्वं तपो ब्राहृ ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । सप्तमीति योगुविभागात्समासः । टच्, टिलोपः,परवल्लिङ्ग॑मिति पुंस्त्वम् । जानपदेति किं । देवब्राहृआ नारदः ।", "54105": "<<कुमहद्भ्यामन्यतरस्याम्>> - कुमहद्भ्याम् । कुब्राहृएति । टजभावे रूपम् । 'कुगतिप्रादयः' इति समासः । कुब्राहृ इति । टचि रूपं, टिलोपः ।", "54106": "", "54107": "<<अव्ययीभावे शरत्प्रभृतिभ्यः>> - अव्ययीभावे ।राजाहः सखिभ्यष्ट॑जित्यतष्टजित्यनुवर्तते । तदाह — शरदादिभ्य इति । अव्ययीभावे उत्तरपदं यच्छरदादिप्रकृतिकं सुबन्तं तदन्ताट्टच्स्यात् । स च अलौकिकविग्रहवाक्यान्तावयव इत्यर्थः । उपशरदमिति ।अव्ययं विभक्ती॑त्यादिना समीपार्थकस्य उपेत्यव्ययस्य शरद इति षष्ठन्तेनाव्ययीभावः । टच् । टचः । समासावयवत्वेन तदन्तस्याव्ययीभावसमासत्वान्नाव्ययीभावादित्यम् । अपशरदित्यस्य अव्ययीभावसमासत्वाऽभावादनव्ययत्वात्अव्ययानां भमात्रे टिलोपः॑ इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते ।विपाशा तु विपाट् स्त्रियाम् इत्यमरः । 'लक्षणेनाभिप्रती' इति अव्ययीभावसमासः । शरदादिगणं पठति-शरदित्यादिना । अत्र झयन्तानां 'झयः' इति विकल्पे प्राप्ते नित्यार्थः पाठः ।जराया जरश्चे॑ति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चाऽस्मिन्गणे वाच्य इत्यर्थः । उपजरसमिति । जरायाः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्य जराया इति षष्ठन्तेनाव्ययीभावसमासे कृते टच्, सुब्लुक्, उपेत्यस्य पूर्वनिपातः । टचो विभक्तित्वाऽभावात्तस्मिन्परेऽप्राप्तेजरसि अनेन जरस् । टजन्ताद्यथायथं सुपोऽम्भाव इति भावः । 'प्रतिपरसम्' इत्यपि गुणसूत्रम् । एतेभ्यः परस्याऽक्षिरशब्दस्य इह गणे पाठ इत्यर्थः । यस्येति चेति । टचस्तद्धितत्वात्तस्मिन्परे इकारस्य लोप इति भावः । प्रत्यक्षमिति । अक्षिणी प्रतीति विग्रहः । अक्ष्णोरभिमुखमित्यर्थः । 'लक्षणेत्थम्' इति कर्मप्रवचनीयत्वात् द्वितीया । 'लक्षणेनांभिप्रती' इत्यव्ययीभावः । टच्, सुब्लुक् 'यस्येति च' इति इकारलोपः । प्रत्यक्षशब्दाद्यथायथं सुबुत्पत्तिः, अम्भाव इति भावः । परमिति । व्यवहितमित्यर्थः । अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः । ननु परशब्दस्याऽनव्ययत्वात्कथमिहाव्ययीभाव इत्यत आह — समासान्तविधानसामर्थ्यादिति ।प्रतिपरम॑मिति परशब्दात्परस्याक्षिशब्दस्य टजर्थं शरदादिगणे पाठोऽवगतः ।अव्ययीभावे शरत्प्रभृतिभ्यः॑ इत्यव्ययीभावे टज्विहितः । तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः । परोक्षमिति । अक्ष्णः परमिति विग्रहे परमित्यस्य अक्षि इत्यनेनाव्ययीभावसमासः । टच्, सुब्लुक् । परशब्दस्य ओकारोन्तादेशः । पररूपम् । परोक्षाद्यथायथं सुप् । अम्भाव इति भावः । अर्शाअद्यचीति । परोक्षमस्यास्तीत्यर्थे परोक्षशब्दाद्धर्मप्रधानात् 'अर्शाअदिभ्योऽच्' इति मत्वर्थीये अच्प्रत्यये कृते 'यस्येति च' इत्यकारलोपे टापि च कृते परोक्षा क्रिया इत्यादि ज्ञेयमित्यर्थः । अत्र गणसूत्रे परग्रहणं प्रक्षिप्तमित#इ युक्तम् । 'परोक्षे लिट्' इति सूत्रस्थबाष्यकैयटयोरत्र समासान्तस्यापि निपातनेनैव साधितत्वात् । समक्षमिति । अक्ष्णोर्योग्यमित्यर्थः । यथार्थेऽव्ययीभावः । टच्, इकारलोप इति भावः । अन्वक्षमिति । अक्ष्णोः पञ्चादित्यर्थः । पश्चादर्थेऽव्ययीभावः । शेषं समक्षवत् ।", "54108": "<<अनश्च>> - अनश्च । 'अव्ययीभावे' इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । 'अन' इति तद्विशेषणम् । तदन्तविधिः । तदाह अन्नन्तादिति ।", "54109": "<<नपुंसकादन्यतरस्याम्>> - नपुंसकादन्यतरस्याम् । 'अन' इत्यनुवृत्तं नपुंसकस्य विशेषणं । तदन्तविधिः । अन्नन्तात्क्लीबादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः । तदाह — अन्नन्तादित्यादि । उपचर्ममुपचर्मेति । चर्मणः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्याव्ययीभावः । टचि टिलोपः । अम्भावः । टजभावे उपचर्मेति रूपम् ।", "54110": "<<नदीपौर्णमास्याग्रहायणीभ्यः>> - नदीपौर्णमासी । शेषपूरणेन सूत्रं व्याचष्टे-वा टजिति ।अन्यतरस्या॑मितिट॑जिति चानुवर्तत इति भावः । नदी पौर्णमासी आग्रहायणी-एतदन्तादव्ययीभावसमासाट्टज्वा स्यादिति यावत् । अत्र नदीसंज्ञकस्य न ग्रहणम्, पौर्णमास्याग्रहायणीग्रहणाल्लिङ्गात् । उपनदमिति । नद्याः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययीभावसमासः । टच् । 'यस्येति च' इतीकारलोपः । उपनदशब्दात्सुप् । अम्भाव इति भावः । उपनदीति । टजभावे रूपम् । नपुंसकह्रस्वः । 'अव्ययादाप्सुपः' इति लुक् । उपपौर्णमासमिति । पौर्णमास्याः समीपमित्यर्थः । टचि उपनदमितिवद्रूपम् । उपपौर्णमासीति । टजभावे रूपम् । एवम् — उपाग्रहायणमुपाग्रहायणीति ज्ञेयम् । अग्रे हायनमस्याः । आग्रहायणी=मार्गशीर्षपौर्णमासी । अत ऊध्र्वं मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः । उदगयनादिरेव हि संवत्सरस्यादिः ।अयन द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॑ इति प्रसिद्धेः ।", "54111": "<<झयः>> - झयः । झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । अन्यतरस्यामिति टजिति चानुवर्तते । तदाह — झयन्तादिति ।", "54112": "<<गिरेश्च सेनकस्य>> - गिरेश्च सेनकस्य । सेनको नामाचार्यः । पूजार्थमिति । अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः । उपगिरमिति । गिरेः समीपमित्यर्थः । टचियस्येति चे॑तीकारलोपः । अम्भावः । इह सेनकग्रहणान्नदीपौर्णमासीत्यत्र 'झयः' इत्यत्र चाऽन्यतरस्याङ्र्गरहणं नानुवर्तत इति केचित् । इति बालमनोरमायामव्ययीभावः । — — — — — — — — — — — ****अथ बहुव्रीहिसमासप्रकरणम् *****", "54113": "<<बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्>> - बहुव्रीहौ । व्यत्ययेनेति ।सक्थ्यक्ष्णो॑रिति षष्ठी पञ्चम्यर्थे,व्यत्ययो बहुल॑मिति छन्दसिवचनादित्यर्थः ।छन्दोवत्सूत्राणि भवन्ती॑ति भाष्यम् ।बहुव्रीहा॑विति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह — स्वाङ्गवाचीति । सक्थ्यक्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात्तदन्तविधिरिति भावः । षच्स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति ।षच् । यस्येति चे॑ति लोपः । जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि 'नस्तद्धिते' इति टिलोपः । षित्त्वान्ङीप् । षित्त्वं ङीषर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घे सक्थिनी=सक्थिसदृशावोषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोःअद्रवं मूर्तिमत्स्वाङ्ग॑मित्यादिस्वाङ्गलक्षणाऽभावान्न षजिति भावः । अत्रस्वाङ्गा॑दित्यस्य प्रत्युदाहरणान्तरमाह — स्थूलाक्षेति । स्थूलानि अक्षाणि=पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वाङ्गत्वादिह न षजिति भावः । ननु षजभावेऽपि नान्तलक्षणङीपि स्थूलाक्षिणीति स्यादित्यत आह — अक्ष्णोऽदर्शनादित्यजिति । षचि तु षित्त्वलक्षणङीष्स्यादिति भावः ।", "54114": "<<अङ्गुलेर्दारुणि>> - अङ्गुलेर्दारुणि । बहुव्रीहावित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अङ्गुल्या विशेषणात्तदन्तविधिरित्यभिप्रेत्याह — अङ्गुल्यन्तादिति । पञ्चाङ्गुलं दार्विति । षचियस्येति चे॑तीकारलोपः । ननु दारुणः कथमङ्गुलय इत्यत आह — अङ्गुलिसदृशावयवमिति । अङ्गुलिसदृशा अवयवा यस्येति विग्रहः । धान्येति कुसूलादिस्थितधान्याद्याकर्षकमिति यावत् । उच्यत इति ।लक्षणये॑ति शेषः । द्व्यङ्गुलेति ।प्रमाणे द्वयस॑जिति विहितस्य मात्रचोद्विगोर्नित्य॑मिति लुक् । अबहुव्रीहित्वादत्र न षजिति भावः । तर्हिद्व्यङ्गुलि॑रिति स्यादित्यत आह — तद्धितार्थे इति । षचि तु ङीष् स्यादिति भावः ।", "54115": "", "54116": "<<अप् पूरणीप्रमाण्योः>> - अप्पूरणी । अविति छेदः ।बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देशात्पूरणप्रत्ययान्तं स्त्रीलिङ्गमिह गृह्रते । तदाह — पूर्वणार्थेत्यादिना । अप् स्यादिति । समासान्तस्तद्धित इत्यपि बोध्यम् । पञ्चमीति । पञ्चानां पूरणीत्यर्थः । 'तस्य पूरणे डट्'नान्तादसंख्यादे॑रिति तस्य मडागमः । टित्त्वान्ङीप् । कल्याणीपञ्चमा रात्रय इति । इह बहुव्रीहौ कृते पञ्चमीशब्दे पूर्वणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्त्वनिषेधः । अप् । समासान्तस्तद्धितः । टाप्यस्येति चे॑तीकारलोपः । ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्या वा, न वा । नाद्यः । तस्याः समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः । नान्त्यः । पञ्चम्या रात्रेरन्यपदार्थप्रवेशाऽभावे 'कल्याणीपञ्चमा' इति समासात्पञ्चमीं रातिंर विना चतुर्णामेव बोधनापत्तौ पञ्चपदस्याऽसङ्गत्यापादनादिति चेत्, सत्यम्-पञ्चानां रात्रीणामुद्भूतावयवभेदः समुदाय एवान्यपदार्थः । तत्र पञ्चम्या रात्रेः प्रवेशेऽपि तद्धटितसमुदायस्यान्यपदार्थत्वं न विरुध्यते, समुदायस्यावयवापेक्षया अन्यत्वात् । 'रात्रय' इति बहुवचनं त्ववयवबहुत्वापेक्षम् । यथा चैतत्तथा सर्वनामसंज्ञासूत्रे प्रपञ्चितम् । अथ प्रमाण्यन्तादब्विधेरुदाहरणमाह — स्त्रीप्रमाण इति । प्रमाणशब्दोऽत्र करणल्युडन्तो विशेष्यनिघ्नः । टित्त्वान्ङीप् । बहुव्रीहौ सति अप्प्रत्ययेयस्येति चे॑ति ईकारलोपे 'स्त्रीप्रमाण' इति रूपम् । पूर्वपदस्य तु नित्यस्त्रीलिङ्गत्वादभाषितपुंस्कत्वान्न पुंवत्त्वप्रसक्तिः । प्रधानपूरण्यामेवेति ।स्त्रियाः पुंव॑दिति सूत्रे,अप्पूरणी॑ति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः । ननुकल्याणीपञ्चमा रात्रय॑ इत्यत्र पञ्चम्या रात्रे समस्यमानपदार्थत्वात्कथं प्राधान्यं, बहुव्रीहेरन्यपदार्थप्रधानत्वादित्यत आह — रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्येति ।कल्याणीपञ्चमा रात्रय॑ इत्युक्तोदाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थसमुदाय वटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा मुख्या भवतीत्यर्थः । उद्भूतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्धटकतया यता प्रथमाद्याश्चतरुआओ रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिः समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेसात्प्राधान्यमिति भावः । अन्यत्र त्विति ।कल्याणपञ्चमीकः पक्ष॑ इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाऽभावादप्राधान्यादप्प्रत्ययाऽभावे सति विशेषो वक्ष्यत इत्यर्थः ।", "54117": "<<अन्तर्बहिर्भ्यां च लोम्नः>> - अन्तर्बहिभ्र्यां च । अन्तर्लोम इति । अन्तर्लोमानि यस्येति विग्रहः । अप् । टिलोपः । एवं बहिर्लोमः ।", "54118": "<<अञ्नासिकायाः संज्ञायां नसं चास्थूलात्>> - अञ्नासिकायाः ।अ॑जिति च्छेदः । नासिकाया॑ इत्यस्य बहुव्रीहेर्विशेषणणत्वात्तदन्तविदिमभिप्रेत्याह — नासिकान्तादिति.नसमित्यनन्तरंप्राप्नोती॑त्यध्याहार्यम् । उपस्तितत्वान्नासिकाशब्द इति लभ्यते । तदाह — नासिकाशब्दश्च नसं प्राप्नोतीति ।", "54119": "<<उपसर्गाच्च>> - उपसर्गाच्च । नन्वञ्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह — असंज्ञार्थमिदमिति । उपसर्गादनोत्पर इति सूत्रमिति । तत्र हिनश्च धातुस्थो॑इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते । 'रषाभ्यां नो णः' इत्यनुवर्तते । उपसर्गस्थाद्गेफषकारात्परस्य नसो नस्य णः स्यात्, ओत्परस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ताविदं सूत्रम् ।प्र ण आयूँषि तारिषत् इत्याद्युदाहरणम् । अनोत्परः किम् ।प्र नो मुञ्चतम् । अत्र ओत्परकत्वान्न णत्वमिति स्थितिः । तद्भङ्क्त्वेति ।", "54120": "<<सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपद- प्रोष्ठपदाः>> - सुप्रात । सुप्रात इति । अच्प्रत्ययः ।॒अव्ययानां भमात्रे टिलोपः॑ । सुआ इति । अच् । पूर्ववट्टिलोपः । सुदिव इति । शोभनं दिवा यस्येति विग्रहः ।दिवे॑त्याकारान्तमव्ययम् ।अव्ययानां भमात्रे टिलोप॑ इति टिलोपः । शारिकुक्ष इति ।शारिः — पक्षिविशेषः । अचियस्येति चे॑तीकारलोपः । चतरुआओऽश्रय इति । कोणा इत्यर्थः । अचियस्येति चे॑तीकारलोपः । एण्या इवेति । एणी-मृगी । अजपद इति । अजः-छागः, तस्येव पादावस्येति विग्रहः । एणीपदादिषु अच् निपातनात् ।पादः पत् ।", "54121": "<<नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्>> - नञ्दुःसुभ्यः । शेषरपूरणेन सूत्रं व्याचष्टे — अच्स्यादिति । अहलः, अहलिरिति । अविद्यमानो हलिर्यस्येति विग्रहः । हलिशब्द इदन्तो हलपर्यायः । तदन्तादचियस्येति चे॑तीकारलोपे तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धन्तथापि अनुक्तसमासान्तत्वाऽभावादत्र न कप् । असक्थः, असक्थिरिति । अविद्यमानं सक्थि यस्येति विग्रहः । एवं दुःसुभ्यामिति । दुर्हलः, दुर्हलिः । दुःसक्थ, दुःसक्थिः । शक्त्योरिति । 'हलिशक्त्योः' इति केचित्पाणिनीया पठन्तीत्यर्थः । केचिच्छिष्याः पाणिनिना तता पाठिता इति वदन्तीति भावः ।", "54122": "<<नित्यमसिच् प्रजामेधयोः>> - नित्यमसिच् । नञ्दुःसुभ्य इत्येवेति । पूर्वसूत्रादनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच्समासान्त स्यात्, स तद्धित इत्यर्थः । असिचस्चकार इत् । इकार उच्चारणार्थः ।अन्यतरस्या॑मित्यनुवृत्तिनिवृत्त्यर्थं नित्यग्रहणम् । अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम् । अप्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः ।नञोऽस्त्यर्थाना॑मिति समासः । असिचियस्येति चे॑त्यकारलोपादप्रजस्शब्दात्सुबुत्पत्तिः । सौ तुअत्वसन्तस्ये॑ति दीर्घः ।हळ्ङ्या॑बिति सुलोपः । यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदन्तथापि सिच्यभत्वेन आकारलोपाऽभावादप्रजास्शब्दात्सुबुत्पत्तौ, प्रथमैकवचने 'अप्रजा' इति रूपसिद्धावपि अप्रजासाविति न स्यात् । किंतु अप्रजासावित्यादि स्यात् । तस्मादकारोच्चारमं भत्वसंपादनार्थमावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति विग्रहः ।प्रादिभ्यो धातुजस्ये॑ति समासः । असिजादि पूर्ववत् । अमेधा इत्यादि.अविद्यमानां मेधा यस्येति विग्रहः । असिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विदानार्थं तेनाल्पमेधस इत्यादि सिध्यतीत्यप्याहुः ।", "54123": "", "54124": "<<धर्मादनिच् केवलात्>> - धर्मादनिच्केवलात् ।पूर्वपदा॑दित्यध्याह्मत्यकेवला॑दित्यस्य तद्विशेषणत्वमाह — केवलात्पूर्वपदादिति । अनिचि चकार इत् । इकार उच्चारणार्थः । मद्यमपदत्वानाक्रान्तत्वं केवलपूर्वपदत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । अनिचियस्येति चे॑त्यकारलोपः । परम इति । परमः स्वो धर्मो यस्येति बहुव्रीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात्ततः परमस्वधर्मशब्दादप्यचः प्राप्तौ तन्निवृत्त्यर्थं केवलग्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याह — स्वशब्दो हीह न केवलं पूर्वपदमिति । किं त्विति । किं तु स्वशब्दो धर्मपदापेक्षया पूर्वत्वात्पूर्वपदं, न तु केवलं, मध्यमत्वात् । केवलशब्देन च पदान्तरराहित्य वाचिना मध्यमपद्तावनाक्रान्तत्वलाभादित्यर्थः । इदंचइजादे॑रिति सूत्रभाष्ये स्पष्टम् ।एवं च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । नत्वनिच् ।सर्वनामसङ्ख्ययोरुपङ्ख्यान॑मिति स्वशब्दस्य पूर्वनिपातस्तु 'वाहिताग्न्यादिषु' इति पाक्षिकत्वान्न भवति । नन्वेवं सति सन्दिग्धः साध्यो धर्मो यस्य ससन्दिग्धसाध्यधर्मे॑त्यत्र कथमनिच् । अत्र हि सन्दिग्धेति केवलं पूर्वपदं, धर्मशब्दस्तस्म#आत्परो न भवति । यस्मात्साध्यशब्दात्परो धर्मशब्दः, तस्य तु न पूर्वपदत्वं, मध्यमपदत्वादित्यत आह — सन्दिग्धेति । सन्दिग्धश्चासौ साध्यश्चेति कर्मधारयः । सन्दिग्धसाध्यो धर्मो यस्येति कर्मधारयगर्भो बहुव्रीहिः । एवञ्च सन्दिग्धसाध्यशब्दस्य केवलपूर्वपदत्वात्तत्राऽनिच्निर्बाध #इति भावः । एवं चेति । उक्तरीत्या परमश्चासौ स्वश्च परमस्वः, परमस्वो धर्मो यस्येति कर्मधारयाश्रयणे तु केवलपूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साद्वेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति कर्मधारयाश्रयणे तु केवलपूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साध्वेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति, अनुच्छित्तिः धर्मो यस्येति च विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वाद्यथायोग्यमनिजिति भावः ।", "54125": "<<जम्भा सुहरिततृणसोमेभ्यः>> - नन्विह सूत्रे पूर्वपदशब्दस्याऽश्रवणादनुवृत्त्यभावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आह — पूर्वपदं त्विति । जम्भा सुहरित ।जम्भे॑ति नकारान्तं पदम् । तदाह — जम्भेति कृतसमासान्तमिति । अनिजन्तनित्यर्थः । सु-हरुत-तृण-सोम-इत्येतेभ्यः परो यो जम्भशब्दस्तदन्ताद्बहुव्रीहेरनिच्प्रत्ययो निपातित इति भावः । जम्भो भक्ष्ये दन्ते चेति । अत्र कोशो मृग्यः । सुजम्भेति । सुजम्भशब्दादनिचियस्येति चे॑त्यकारलोपः । हरितजम्भेति । हरितो जम्भो यस्येति विग्रहः । तृणमिवेति । तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः । सोमजम्भेति । सोमः=चन्द्रः, स इव शुभ्रा जम्भाः=दन्ता यस्येति विग्रहः ।सोमः=सोमलता वा, सैव जम्भः=भक्ष्यं यस्येति विग्रहः । पतितिजम्भ इति । पतिता जम्भाः=दन्ता यस्येति विग्रहः ।", "54126": "<<दक्षिणेर्मा लुब्धयोगे>> - दक्षिणेर्मा । लुब्धो-व्याधः, तद्योगे 'दक्षिणेरमा' इत्यनिच्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईर्मं यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानंव्रण॑मिति व्यधिकरणत्वेऽपि बहुव्रीहिर्निपातनात् । अनिचियस्येति चे॑त्यकारलोपेदक्षिणेर्मे॑ति रूपम् । लुब्धशब्दं विवृण्वन्नाह-व्याधेनेति । रोगादिना व्रणे तु दक्षिणेर्म इत्येवेति भावः ।", "54127": "<<इच् कर्मव्यतिहारे>> - इच्कर्मव्यतिहारे । समासान्त इति । तद्धित इत्यरि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता ।", "54128": "<<द्विदण्ड्यादिभ्यश्च>> - द्विदण्डआदिभ्यश्च । द्विदण्डआदिषु इदन्तानामेव निपातनात्तेभ्यः परत्वेन इच्प्रत्ययविधिरनर्थक इत्याशङ्क्य नेयं पञ्चमीत्याह — तादर्थ्ये चतुर्थ्येषेति । द्वौ दण्डाविति । कर्मव्यतिहाराभावेऽपि वैरूप्येऽपि बहुव्रीहिरिच्प्रत्ययश्च निपात्यते । द्विदण्डीति । दण्डादण्डीतिवत् प्रक्रिया । कर्मव्यतिहाराऽभावात् पूर्वपदस्य न दीर्घ इति विशेषः । द्विमुसलीति । द्वे मुसले यस्मिन् प्रहरणे इति विग्रहः । उभाहस्ति । उभयाहस्तीति । उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः ।उभयोऽन्यत्रे॑ति नित्यमयचि प्राप्ते निपातनेन विकल्प्यते । कर्मव्यतिहाराभावेऽपि दीर्घश्च ।", "54129": "<<प्रसम्भ्यां जानुनोर्ज्ञुः>> - प्रसंभ्यां । जानुशब्दयोरिति.॒प्र॑ 'सम्' इति पूर्वपदद्वित्वादुत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम् । 'जानुन' इत्युक्ते तुप्रत्ययः, परश्चे॑त्यधिकारात् पञ्चम्यन्तत्वसंभवाज्ज्ञोः प्रत्ययत्वं च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः । तदाह — ज्ञुरादेश इति । प्रज्ञुरिति ।प्रादिभ्यो धातुजस्ये॑ति समासः । संज्ञुरिति । सङ्गते जानुनी यस्येति विग्रहः ।", "54130": "<<ऊर्ध्वाद्विभाषा>> - ऊध्र्वाद्विभाषा । ऊध्र्वशब्दात् परो यो जानुशब्दस्तस्य ज्ञुरादेशो वा स्यात्, बहुव्रीहावित्यर्थः । ऊध्र्वज्ञुरिति । ऊर्ध्वे जानुनी यस्येति विग्रहः ।", "54131": "<<ऊधसोऽनङ्>> - तत्र विशेषमाह — ऊधसोऽनङ् । बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुवीहावित्यनुवृत्तं षष्ठआ विपरिणम्यते, 'ऊधसः' इत्यनेन विशेष्यते, तदन्तविधिः । तदाह — ऊधोऽन्तस्येति । समासान्तप्रकरणस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्यम् । इत्यनङि कृते इति । अनङि ङकार इत्, अकार उच्चारणार्थः,ङिच्चे॑त्यन्त्यस्य सकारस्य अन्, पररूपम्, कुण्जोधन् इति स्थिते सतीत्यर्थः । डाब्डीब्निषेधेष्विति ।डाबुभाभ्या॑मिति वैकल्पिके डापि, 'अन उपधालोपिनः' इति वैकल्पिके ङीपि, तदुभयाऽभावे 'ऋन्नेभ्यः' इति प्राप्तस्य ङीपःअनो बहुव्रीहे॑रिति निषेधे च प्राप्ते इत्यर्थः ।", "54132": "<<धनुषश्च>> - धनुषश्च ।ऊधसोऽनङि॑ति पूर्वसूत्रं स्त्रीप्रत्ययादिकारे व्याख्यातं, तस्मादनङित्यनुवर्तते । तदाह — अनङादेश इति । ङित्त्वादन्तादेश इति भावः । द्विधन्वेति । द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुशब्दे सकारस्य अनङादेशः । ङकार इत् । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शाङ्र्गधन्वेति । शृङ्गस्येदं शाङ्र्गं ।तस्येद॑मित्यण्, तत् धनुर्यस्येति विग्रहः । समासे शाङ्र्गधनुःशब्दे सकारस्यानङ्, ङकार इत्, अकार उच्चारणार्थः । उकारस्य यणिति भावः । महिम्नःस्तवेस्वलावण्याशंसाधृतधनुषमि॑ति प्रयोगस्त्वार्षः ।", "54133": "<<वा संज्ञायाम्>> - वा शंज्ञायां । 'धनुषश्च' इत्युक्तोऽनङ् संज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपाक्याने प्रसिद्ध । जायाया निङ् । आदेश इति ।प्रत्ययः, परश्चे॑त्यधिकारस्थत्वेऽपि ङित्त्वादन्तादेशोऽयमिति भावः ।", "54134": "", "54135": "<<गन्धस्येदुत्पूतिसुसुरभिभ्यः>> - गन्धस्येदुत् । 'गन्धस्य-इत्' इति च्छेदः । एभ्य इति । उत्-पूति-सु-सुरभि-एतेभ्यः इत्यर्थः । इकारोऽन्तादेश इति । पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः । समासान्ताधिकारात्आदेः परस्ये॑ति न भवति । उद्नन्धिरिति । उद्गतो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दोऽसुरबौ । पूर्तिर्गन्धो यस्येति विग्रहः । सुगन्धिरिति । शोभनो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दोऽसुरभौ । पूर्तिर्गन्धो यस्येति विग्रहः । सर्वत्रवायु॑रिति विशेष्यम् । तदेकान्तेति । तस्य =विशेष्यभूतद्रव्यस्य, एकान्तः=एकदेश इव प्रतीयमान इत्यर्थः । अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्क्य एकान्तशब्द एकदेशवदविभक्ते लाक्षणिक इत्याह — एकान्त एकदेश इवेति । सुगन्धि पुष्पं सलिलं चेति । अत्र गन्धस्य पुष्पात्सलिलाच्च द्रव्यात्पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति । 'सु' इत्यस्य व्याख्यानं-शोभना इति । गन्धा इति । गन्धवन्त इत्यर्थः ।गुणवचनेभ्यो मतुपो लुगिष्टः॑ इति लुक् । द्रव्याणीति । चन्दनादीनीत्यर्थः । 'गन्धा' इत्यस्य विशेष्यमेतत् । गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात्पुंस्त्व#ं युज्यते ।गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः॑ इति कोशात् । गन्ध आपण इति । अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूतापणापेक्षया पृथग् लक्ष्यमाणत्वादित्त्वं नेति भावः ।", "54136": "<<अल्पाख्यायाम्>> - अल्पाख्यायाम् । अल्पवचने सति गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः । 'लेशः' इति गन्धशब्दस्य विवरणम् । सूपस्य गन्धो यस्मिन्नित्येव विग्रहः । सूपगन्धि भोजनमिति । उत्पूतिसुसुरभिपूर्वंकत्वाऽभावादेकान्तत्वाऽभावाच्चाऽप्राप्ते वचनमिदम् । व्यधिकरणपदानामपि क्वचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते । घृतगन्धीति । घृतस्य गन्धो लेशो यस्मिन्निति विग्रहः । गन्धशब्दस्याऽल्पवाचित्वे प्रमाणमाह — गन्धो गन्धक इति ।", "54137": "<<उपमानाच्च>> - उपमानाच्च । उपमानवाचिपूर्वपदात्परस्यापि गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः । पद्मस्येवेति । फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मपदं पद्मसंबन्धिगन्धसदृशो लाक्षणिकम् ।सप्तम्युपमानपूर्वपदस्ये॑ति समासः ।", "54138": "<<पादस्य लोपोऽहस्त्यादिभ्यः>> - पादस्य लोपः । 'अहस्त्यादिभ्य' इति च्छेदः । उपमानादित्यनुवर्तते । तदाह — हस्त्यादिवर्जितादिति ।आदेः परस्ये॑त्यप्रवृत्तये आह — समासान्तो बहुव्रीहाविति । शैषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम् । अन्यताऽनुक्तसमासान्तत्वात्कप्प्रसज्येत । नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आह — स्थानीति । व्याघ्रस्येवेति । फलितार्थकथनमिदम् । व्याघ्रपादाविव पादावस्येति विग्रहः ।सप्तम्युपमानपूर्वपदस्ये॑ति समासः ।", "54139": "<<कुम्भपदीषु च>> - कुम्भपदीषु च । कुम्भपदीष्विति बहुवचननिर्देशाद्गणपाठाच्च कुम्भपद्यादिग्रहणमिति भावः । ङीप् चेति ।पादोऽन्यतरस्या॑मिति विकल्पापवाद इति । भावः । स्त्रियामिति । कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः । कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः ।पदास्य लोपोऽहस्त्यादिभ्यः॑ इति लोपे सिद्धे तदनुवादेन नित्यं ङीबर्थं वचनम् ।", "54140": "<<संख्यासुपूर्वस्य>> - सङ्ख्यासुपूर्वस्य । शेषपूरणेन सूत्रं व्याचष्टे — पादस्येति । उपमानात्परत्वाऽभावादप्राप्तौ वचनम् । द्विपादिति । द्वौ पादावस्येति विग्रहः । सुपादिति । शोभनौ पादावस्येति विग्रहः ।", "54141": "<<वयसि दन्तस्य दतृ>> - वयसि दन्तस्य दतृ । द्विदन्निति । द्वौ दन्तौ यस्येति विग्रहः । शिशुत्वं गम्यते । दन्तस्य दत्रादेशः । ऋकार इत् । उगित्त्वान्नुम् । सुलोपः । संयोगान्तलोपः । तस्याऽसिद्धत्वादुपधादीर्घो न । चतुर्दन्निति । चत्वारा दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । षोडन्निति । षट् दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् ।षष उत्त्व॑मिति ष्टुत्वोत्त्वे । सुदन्निति । सु=शोभना दन्ताः समस्ता जाता यस्येति विग्रहः । वयाविशेषावगतये समस्तस्य निवेशः । सुदतीति । शोभना दन्ताः समस्ता यस्या इति विग्रहः । दत्रादेशः ।उगितश्चे॑ति ङीप् । द्विदन्तः करीति । हस्तिनः सर्वदा द्विदन्तत्वेन वयोविशेषानवगतिरिति भावः ।", "54142": "", "54143": "<<स्त्रियां संज्ञायाम्>> - स्त्रियां संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे — दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति । फालदतीति । संज्ञाविशेषाविमो । समदन्तीति । समा दन्ता यस्या इति विग्रहःनासिकोदरे॑ति ङीष् ।", "54144": "<<विभाषा श्यावारोकाभ्याम्>> - विभाषा श्यावारोकाभ्यां । शेषपूरणेन सूत्रं व्याचष्टे — दन्तस्येति । श्यावदन्निति । श्यावा धूम्रा दन्ताः यस्येति विग्रहः ।श्यावः स्यात्कपिशो धूम्रः॑ इत्यमरः । अरोकदन्निति । अरोकाः=अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः ।", "54145": "<<अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च>> - अग्रान्त । अग्रः=अग्रशब्दोऽन्तेऽवसाने यस्य स अग्रान्त इत्यभिप्रेत्योदाहरति — कुड्मलाग्रदन्निति । कुड्मलानां-मुकुलानाम् — अग्राणि, तानीव दन्ता यस्येति विग्रहः । शुद्धदन् । शुद्धदन्तः । शुभ्रदन्-शुभ्रदन्तः । वृषदन्-वृषदन्तः । वराहदन्-वराहदन्तः ।", "54146": "<<ककुदस्यावस्थायां लोपः>> - ककुदस्य । अवस्थायां गम्यमानायां ककुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः । आहारकालादिकृतोऽवयवनामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम् । अजातककुदिति । अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः । पूर्णककुदिति । पूर्णं ककुदमस्येति विग्रहः । युवेत्यर्थः ।", "54147": "<<त्रिककुत् पर्वते>> - त्रिककुत्पर्वते । पर्वतविशेषे गम्ये इत्यर्थः । त्रिककुदिति कृताऽकारलोपो निपात्यते । त्रीणि ककुदानि शृङ्गाणि यस्येत्यर्थः ।", "54148": "<<उद्विभ्यां काकुदस्य>> - उद्विभ्यां काकुदस्य । लोप इति । उद्विभ्यां परस्य काकुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः । उत्काकुदिति । उन्नतं काकुदं यस्येति विग्रहः । काकुदशब्दं व्याचष्टे-काकुदं ताल्विति ।", "54149": "<<पूर्णाद्विभाषा>> - पूर्णाद्विभाषा । पूर्णात्परस्य काकुदस्य लोपा वा स्यादित्यर्थः । पूर्णं काकुदं यस्येति विग्रहः ।", "54150": "<<सुहृद्दुर्हृदौ मित्रामित्रयोः>> - सुह्मद्दुह्र्मदौ । यथासङ्ख्यमभिप्रेत्योदाहरति — सुह्मन्मित्रमिति । सु शोभनं ह्मदयं यस्येति विग्रहः ।", "54151": "<<उरःप्रभृतिभ्यः कप्>> - उरःप्रभृतिभ्यः कप् । बहुव्रीहौ समासान्तस्तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्संज्ञा । व्यूढोरस्क इति । व्यूढं=विशालमुर=वक्षो यस्येति विग्रहः । कप् । 'सोऽपदादौ' इति सत्वम् । प्रियसर्पिष्क इति । प्रियं सर्पिर्यस्येति विग्रहः । कप् । 'इणः ष' इति षत्वम् । ननु द्वौ पुमांसौ यस्य स द्विपुमानित्यनुपपन्नम्, उरः प्रभृतिषु पुमानिति पुंस्शब्दस्य पाठादित्यत आह — इहेति । गणेऽविभक्तिकानामेव पाठः । इह तु केषांचिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति ।संपुंकाना॑मिति सः । अर्थान्नञ इति । गणसूत्रम् । नञ परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेः कप् स्यादिति तदर्थः । अनर्थकमिति । अविद्यमानोऽर्थो यस्येति विग्रहः । अपार्थम्-अपार्थकमिति । अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नञ्पूर्वकत्वान्न नित्यः कविति भावः ।", "54152": "<<इनः स्त्रियाम्>> - इनः स्त्रियाम् । इन्नन्तात् पर् स्याद्बहुव्रीहावित्यर्थः । बहुदण्डिका नगरीति । दण्डोऽस्या अस्तीति दण्डी । 'अत इनिठनौ' इति इनिः । बहवो दण्डिनो यस्यामिति विग्रहः । बहुवाग्ग्मिकेति । वागस्यास्तीति वाग्ग्मी । वाचो ग्मिनिः॑ इति ग्मिनिप्रत्ययः । नकारादिकार उच्चारणार्थः । तद्धितत्वाद्गकारस्य नेत्संज्ञा, चकारस्य कुत्वम्, जश्त्वम्, वाग्ग्मीति रूपम् । बहवो वाग्ग्मिनो यस्यामिति विग्रहः । अत्रेन अनर्थकत्वेऽपिअनिनस्मन्नि॑ति वचनात्तदन्तस्याप्यत्र ग्रहणमिति भावः । बहुदण्डी बहुदण्डिको ग्राम इति । बहवो दण्डिनो यस्मिन्निति विग्रहः । अत्र समासस्याऽस्तरीलिङ्गत्वान्न नित्यः कविति भावः ।", "54153": "<<नद्यृतश्च>> - नद्यृतश्च । नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी ।बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्यृद्भ्यां विशेष्यते । तदन्तविधिः । 'उरः प्रभृतिभ्यः' इत्यतः कबित्यनुवर्तते । तदाह — नद्युत्तरपदादिति । नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति । तद्धितः समासान्तश्चेत्यपि बोध्यम् । तथाच कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कविति भावः ।नद्यन्ताद्बहुव्रीहे॑रिति न व्याख्यातं, बहुधीवरीति बहुव्रीहेर्नद्यन्तत्वात्कबापत्तेः ।नद्यन्तोत्तरपदा॑दिति व्याख्याने तु न दोषः, धीवन्शब्दयोत्तरपदस्य नकारान्तत्वेन नदीत्वाऽभावादिति शब्देन्दुशेखरे विस्तरः । पुंवद्भाव इति । पूरण्या रात्रेः समासवाच्यत्वाऽभावेन निषेधाऽभावादिति भावः ।", "54154": "<<शेषाद्विभाषा>> - शेषाद्विभाषा । इतः पूर्वं येब्यः समासान्ता विहितास्तेभ्योऽन्यः शेषः । तदाह — अनुक्तसमासान्तादिति । शेषाधिकारस्थादिति ।शेषा॑दित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महयशस्क इति । महत् यशः यस्येति विग्रहः 'आन्महतः' इत्यात्त्वे, कपि, 'सोऽपदादौ' इति सत्वम् । महायशा इति । कबभावेअत्वसन्तस्ये॑ति दीर्घः । व्याघ्रपादिति ।पादस्य लोपोऽहस्त्यादिभ्यः॑ इत्युक्तसमासान्तोऽयम् स्थानिद्वारा लोपस्यापि समासान्तत्वात् । सुगन्धिरिति ।गन्धस्येदुत्पूती॑ति कृतसमासान्तोऽयम् । प्रियपथ इति ।ऋक्पू॑रिति कृतसमासान्तोऽयम् । उपबहव इति । सङ्ख्ययाव्यये॑ति बहुव्रीहिरयं, न शेषाधिकारस्थः । उत्तरपूर्वेति । अयमपिदिङ्नामान्यन्तराले॑ इति बहुव्रीहिः न सेषाधिकारस्थः । सपुत्र इति । 'तेन सह' इत्ययमपि बहुव्रीहिः न शेषाधिकारस्थः । ननु सकृदुच्चारिताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह — तन्त्रादिनेति । आदिना आवृत्तिसंग्रहः । एकमनेकोपयोगि तन्त्रम् । उच्चारयित्रा तन्त्रेणोच्चारिताच्छब्दादावृत्त्या बोध इति बोध्यम् ।ओतो धावती॑त्यादौ सकृदुच्चारणेऽपिआआ इतो धावति, ओत गुणको धावती॑त्येवमनेकार्थबोधदर्शनादिति भावः ।", "54155": "<<न संज्ञायाम्>> - न संज्ञायाम् । शेषादिति प्राप्त इति ।अनन्तरस्ये॑ति न्यायात् । 'सेषाद्विभाषा' इति विहितस्य कपएवायं निषेधो, नतु व्यवहितस्यनद्यृतश्चे॑त्यादिकप इति भावः । विओ देवा अस्येति । अत्र संज्ञायां समासस्य नित्यत्वाल्लौकिकविग्रहप्रदर्शनं चिन्त्यमेव ।", "54156": "<<ईयसश्च>> - ईयसश्च । बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषया ईयसन्तत्वादाह — ईयसन्तोत्तरपदादिति । बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत #इति भावः । न कबिति ।न संज्ञेयसो॑रिति वक्तव्ये पृथग्योगकरणान्नित्यस्य वैकल्पिकत्य च कपोऽयं निषेध इति भावः । श्रेयांस इति । अतिशयेन प्रशस्ता इत्यर्थः । 'द्विवचनविभज्य' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः, 'आद्गुणः' इति गुणः । बहुश्रेयानिति । शैषिकः कब्निषिध्यते । ह्रस्वत्वे प्राप्ते इति । बह्व्यः श्रेयस्यो यस्येति बहुव्रीहिः । तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वात्गोस्त्रियो॑रिति ह्रस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति । ईयसन्ताद्बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्रस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति ।नद्यृतश्चे॑ति नित्यः कबिह निषिध्यते, लिङ्गविसिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहुव्रीहेः किमिति । ईयसो बहुव्रीहेरित्यत्रे॑ति शेषः । अतिश्रेयसिरिति । श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः ।", "54157": "<<वन्दिते भ्रातुः>> - वन्दिते भ्रातुः । पूजितेऽर्ते इति ।वदि अभिवादनस्तुत्यो॑रित्युभयार्थकवदिधातोरिह उभयसाधारमपूजार्थकत्वमाश्रीयत इति भावः । प्रशस्तभ्रातेति ।नद्यृतश्चे॑ति प्राप्तः कबिह निषेध्यते । सुभ्रातेति । सु=शोभनो भ्राता यस्य स इति विग्रहः । अत्रापिनद्यृतश्चे॑ति प्राप्तस्य कपो निषेधः । ननुन पूजना॑दित्येव निषेधे सिद्धे किमर्थमिदमित्यत आह — न पूजनादिति । प्रागेवेति । एवंच 'नद्यृतश्चे' त्यादिकपस्तेन निषेधाऽप्राप्तौ इदं वचनमिति भावः ।", "54158": "", "54159": "<<नाडीतन्त्र्योः स्वाङ्गे>> - नाडीतन्त्र्योः स्वाङ्गे । बहुनाडिः काय इति । प्राणिस्थत्वात्स्वाङ्गत्वसूचनायकाय इति विशेष्यम् । उपसर्जह्रस्वः ।नद्यृतश्चे॑ति प्राप्तः कब्न भवति । बहुतन्त्रीग्र्रीवेति । बह्व्यस्तन्त्र्यो यस्या इति विग्रहः । वीणातन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वादाह — तन्त्रीर्धमनीति । बहुतन्त्रीशब्देगोस्त्रियो॑रिति ह्रस्वमाशङ्क्याह — स्त्रीप्रत्ययान्तत्वाऽभावादिति ।अवितृस्तृतन्त्रीभ्य ईः॑ इत्यौणादिकस्यस्त्रिया॑मित्यधिकारेऽविहितत्वादिति भावः ।", "54160": "<<निष्प्रवाणिश्च>> - निष्प्रवाणिश्च । प्रपूर्वादिति । 'वेञ्तन्तुसंताने' इत्यस्मात्प्रपूर्वात्करणाधिकरणयोश्चे॑त्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । समाप्तवान इति । समाप्तं वानं=वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते ।", "61001": "<<एकाचो द्वे प्रथमस्य>> - भूव्-अ इति स्थिते । एकाचः । अजादेः इत्यधिकृत्येति । षष्ठाध्यायारम्भे द्वे इमे सूत्रोते च न विधायके, अतिप्रसङ्गात्, किन्तुष्यङः संप्रसारण॑मित्यतः प्रागनुवर्तेते एवेति भावः ।", "61002": "", "61003": "<<न न्द्राः संयोगादयः>> - न न्द्राः ।एकाचो द्वे प्रथमस्ये॑त्यतो 'द्वे' इत्यनुवर्तते ।अजादेर्द्वितीयस्ये॑त्यतोऽजादेरिति । अञ्चासौ आदिश्चेति कर्मदारयात्पञ्चमी । न्, द्, र् एषां द्वन्द्वः । तदाह — अचः परा इति । ननुणु॑इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह — नुशब्दस्य द्वित्वमिति । णत्वस्येति । धातुपाठे 'ऊर्णु' इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः । लिङ्गादिति ।उभौ साभ्यासस्ये॑त्यस्याऽयमर्थः — साभ्यासस्याऽनितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वं प्राप्नुत इति । प्राणिणदित्युदाहरणम् ।अत्र अनिते॑रिति णत्वे कृतेपूर्वत्रासिद्धीयमद्विर्वचने॑ इति णत्वस्याऽसिद्धत्वाऽभावमाश्रित्यणी॑त्यस्य द्वित्वादेव खण्डद्वये मकारश्रवणसिद्धेःउभौ साभ्यासस्ये॑ति वचनंपूर्वत्रासिद्धीयमद्विर्वचने॑ इत्यस्याऽनित्यतां गमयतीत्यर्थः । ऊर्णुनावेति । नुशब्दस्य द्वित्वे पूर्वनकारस्यरषाभ्या॑मिति णत्वम् । द्वितीयस्य तुअट्कुप्वा॑ङिति न णत्वम्,उभौ साभ्यासस्ये॑ति लिङ्गादेव ।", "61004": "<<पूर्वोऽभ्यासः>> - पूर्वः । अत्रेति ।एकाचो द्वे प्रथमस्ये॑ति षाष्ठद्वित्वप्रकरम इत्यर्थः । तेन 'सर्वस्य द्वे' इत्यादिविहितस्य द्वित्वस्य न सङ्ग्रहः । कस्य पूर्व इत्याकाङ्क्षायां 'द्वे' इत्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । तदाह — ये द्वे विहिते तयोरिति ।", "61005": "<<उभे अभ्यस्तम्>> - ॒उगिदचा॑मिति नुमि प्राप्तेनाब्यस्ता॑दिति तन्निषेधं वक्ष्यन्नभ्यस्तसंज्ञामाह — उभे अभ्यस्तम् ।एकाचो द्वे प्रथमस्ये॑त्यतो 'द्वे' इत्यनुवर्तते ।उबे॑ग्रहणं समुदायप्रतिपत्त्यर्थम् । 'द्वे' इत्यनेन च षष्ठाध्यायविहितमेव द्वित्वं विवक्षितम्,अनन्तरस्य विधिर्वा प्रतिषेधो वा॑ इति न्यायात् । तदाह — षाष्ठेत्यादिना । समुदिते किम् । नेनिजतीत्यत्र प्रत्येकमभ्यस्तसंज्ञायाम् 'अभ्यस्तानामादिः' इत्युदात्तः प्रत्येकं स्यात् ।", "61006": "<<जक्षित्यादयः षट्>> - अभ्यस्तसंज्ञायाश्च द्वित्वनिबन्धनत्वादिहाऽप्राप्ताविदमारभ्यते — जक्षित्यादयः ।अभ्यस्त॑मित्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते । तत्र जक्षितिरादिर्येषामिति तद्गुणसंविज्ञानबहुव्रीहौ सति जक्ष धातुमारभ्य षण्णामेव ग्रहणं स्यात्, वेवीङो न स्यात् । अतद्गुणसंविज्ञानबहुव्रीहौ तु जागृ इत्यारभ्य षण्णां ग्रहणं स्यान्नतु जक्षेः । अतो व्याचष्टे — षड्धातव इत्यादि । अत्र विवरणवाक्येजक्षिति॑रिति श्तिपा निर्देशः । जक्षधातुरित्यर्थः ।रुदादिभ्यः सार्वधातुके॑ इति इडागमे रूपम् । सूत्रे जक्षिति पृथक्पदम् । इतिना जक्षिः परामृश्यते । इति आदिर्येषामित्यद्गुणसंविज्ञानबहुव्रीहिः । ततस्च 'इत्यादयः षट्' इत्यनेन जक्षधातोरन्ये जागृ इत्यारभ्य षड् धातवो विवक्षिताः । चशब्दोऽध्याहार्यः । एवं च जक्षधातुश्च, जागृधातुमारभ्य षड् धातवश्चेत्येव सप्त धातवोऽभ्यस्तसंज्ञकाः स्युरिति फलतीत्यर्थः । तदिदं भाष्ये स्पष्टम् । जक्षदिति । अभ्यस्तत्वान्नुम्निषेध इति भावः । ननु दीधीवेव्योर्ङित्त्वात् 'अनुदात्तङित' इति आत्नेपरदसंज्ञक एव लटः शानजादेशः स्यान्न तु शत्रादेश इत्यत आह — दीधीवेव्योरिति । दीधीवेव्योश्छन्दोमात्रविषयत्वं तिङन्ताधिकारे वक्ष्यते । ततश्चव्यत्ययो बहुव॑मिति छान्दसं परस्मैपदम् । अतः शानजसंभवात् शत्रादेश एवेत्यर्थः । दीध्यद्वेव्यदिति । दीधी वेवी इत्याभ्यां लटः शत्रादेशे कृते शब्लुकि यणादेशः । अभ्यस्तत्वाच्च नुम्नेति भावः । इति तान्ताः । अथ पान्ताः । गुबिति । 'गुपू रक्षणे' क्विप् ।आयादय आर्धधातुके वा॑ इति वैकल्पिकत्वादायप्रत्ययो नेति भावः । गुब्भ्यामिति । 'स्वादिषु' इति पदत्वाद्भ्यामादौ जश्त्वमिति भावः । इति पान्ताः ।", "61007": "", "61008": "<<लिटि धातोरनभ्यासस्य>> - लिटि धातोः ।एकाचो द्वे प्रथमस्ये॑त्यधिकृतं । धातोरित्यवयवषष्ठी । तदाह -धात्ववयवस्येति । 'एकाच' इतिप्रथमस्ये॑ति च धात्ववयवस्य विशेषणम् । एकोऽच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । तथा च लिटि परेऽभ्यासभिन्नस्यैकाऽच्कस्य प्रथमस्य धात्वयवस्य द्वे उच्चारणे स्त इत्यर्थः ।एकाच॑इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् ।अजादेर्द्वितीयस्ये॑त्यप्यधिकृतम् । तत्राऽच्चासावादिश्च अजादिः, तस्मादिति कर्मधारयात्पञ्चमी । तदाह — आदिभूतादचः परस्य तु द्वितीयस्येति । 'एकाच' इति शेषः । अजादिधात्ववयवस्य एकाचश्चेद्द्वित्वं तर्हि द्वितीयस्यैवैकाचो द्वित्वं नतु प्रथमस्येति यावत् । अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याह्मत्यैकाचः प्रथमस्येति कृद्योगलक्षमषष्ठी चाश्रित्य द्विः प्रयोग एवात्र विधीयते, न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् ।आदेशप्रत्यययो॑रिति सूत्रभाष्येऽपि द्विःप्रयोगपक्ष एवोक्तः । तदिह विस्तरभयान्न लिखितम् । पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं च व्यपदेशिवत्त्वेन बोध्यम् । अजादेरिति बहुव्रीह्राश्रयणे तु इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयित#उमिच्छति इन्दिद्रीयषतीत्यादौन न्द्राः संयोगादय॑ इति दकारस्य द्वित्वनिषेधश्च स्यत्, तत्राऽजादेरित्यनुवृत्तेः । धातोरिति किम् । तदभावे हि लिटि परे यः प्रथम एकाच् तस्य द्वे इत्यर्थः स्यात् । एवं सति पपाचेत्यादावेव स्यान्न तु जजागारेत्यादाविति भाष्ये स्पष्टम् । न च पपाचेत्यादौलिटि धातो॑रिति द्वित्वे कृतेलक्ष्ये लक्षणस्ये॑ति न्यायेन पुनर्द्वित्वस्याऽप्रसक्तेनरनभ्यासग्रहमं व्यर्थमिति वाच्यं, यङन्तात्सन्यङो॑रिति यङ्निमित्तकद्वित्वविशिष्टत्वात्सनि सन्निमित्तकद्वित्वनिवृत्तये, सन्नन्तात्सन्यङो॑रिति कृतद्वित्वाण्णिचि लुङि चङि कृतेचङी॑ति द्वित्वनिवृत्तये चाऽनभ्यासग्रहणस्यावश्यकत्वात् । भाष्ये तु — कृष्णो नोनाव वृषभो यदीद॑मित्यादौ नुधातोर्यङन्तात्सन्यङो॑रिति कृतद्वित्वान्नोनूयेत्यस्माल्लिटिकास्प्रत्ययादाममन्त्रे लिटी॑ति मन्त्रपर्युदासादामभावे 'यस्य हल' इति यकारलोपे अतो तिपो णलि वृद्धावावादेशो नोनावेत्यत्र यङन्तात्सनि, सन्नन्ताण्णिचि चङि च प्रयोगो लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् । प्रकृते च भूव् अ इत्यत्र चत्वार एकाचः । तत्र 'भू' इति प्रथमः,ऊ॑विति द्वितीयः, 'ऊ' इति व्यपदेशिवद्भावेन तृतीय एकाच्,भू॑विति समुदायस्तु चतुर्थः । तत्र समुदाये द्विरुच्यमाने सर्वेऽवयवा द्विरुच्यन्त इतिभू॑विति समुदायस्यैव द्विर्वचनमिति भाष्ये स्पष्टं । तदाह — भूव् भूव् अ इति स्थित इति । अत्रभू॑वित्यस्य एकाचो धात्ववयवत्वं प्रथमत्वं च व्यपदेशिवत्त्वाद्बोध्यम् ।", "61009": "<<सन्यङोः>> - सन्यङोः । अवयवषष्ठएषा । प्रत्ययत्वात्तदन्तग्रहणम् ।एकाचो द्वे प्रथमस्ये॑तिअजादेर्द्वितीयस्ये॑ति चाधिकृतं । तदाह — सन्नन्तस्येत्यादिना । 'सनि यङि च परे' इति तु न व्याख्येयम्, तथा सति प्रतिपर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अटाटते इत्यत्र प्रत्ययसहितस्य द्वित्वाऽनापत्तेः । अभ्यासकार्यमिति । हलादिशेषादिकमित्यर्थः । गुपिप्रभृतय इति । कितधातुभिन्ना गुप्तिजमानबधाश्चत्वारोगुपेनिन्दाया॑मित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः । कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादुदात्तेदेव सन् व्याधिप्रतिकारादिषु पञ्चस्वेवार्थेषु सन्भागिति भावः । दानशानौ त्विति । 'दान खण्डने' 'शान तेजने' इति धातू स्वरितेतावेव सन्तौ आर्जवे निशाने चाऽर्थे सन्भाजावित्यर्थः, तयोरनुपदमेव स्वरितेत्सु पाठादिति भावः । एते नित्यं सन्नन्ता इति । एते गुप्तिजादयः सप्त धातवोगुपेर्निन्दाया॑मित्यादिनिबद्धेष्वर्थेषु नित्यं सन्नन्ताः । निन्द्याद्यर्थकत्वे सनं विना एषां प्रयोगो नास्तीत्यर्थः । अर्थान्तरेषु तविति । निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धहिताः सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः । चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तादकर्तृगेऽपि फले तङ् स्यादिति भावः । नन्वेवं सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम्, उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमेन, निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाऽभावादित्यत आह — अनुबन्धकस्येति । गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्पलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इतिकृत्वा सन्नन्तात्तङित्यर्थः । नचैवमपि भ्वादिगणे एषां गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यं, भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः तदुक्तं भाष्ये — गुपादिष्वनुबन्धकरणसामर्थ्यात्सन्नन्तादात्मनेपद॑मिति । अत्र सन्नन्तादात्मनेपदमित्यक्त्वा केवलानामेषां शब्विकरणानां नास्ति प्रयोग इति सूचितम् । तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यपि सूचितम् । अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात्सन्नन्तादिव ण्यन्तादपि अकर्तृगे फले आत्मनेपदार्थत्वापातत्सन्नन्तादात्मनेपदमित्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तरः । धातोरितीति । 'आर्धधातुकं शेषः' इत्यत्र धातोर्विहितः प्रत्यय इति व#इहितविशेषणाश्रयणात्सनश्चास्य धात्वधिकारविहितत्वाऽभावान्नार्धधातुकत्वमित्यर्थः । तेनेति । सन आर्धधातुकत्वाऽभावेनेत्यर्थः । जुगुप्सते इति । निन्दतीत्यर्थः । गुपेः सनि अनार्धधातुकत्वादिड्गुणेयोरभावेसन्यङो॑रिति द्वित्वे हलादिशेषेऽभ्यासचुत्वमिति भावः । जुगुप्सांचक्रे इति ।कास्प्रत्यया॑दित्याम् । जुगुप्सिता । जुगुप्सिष्यते । जुगुप्सताम् । अजुगुप्सत । जुगुप्सेत । जुगुप्सिषीष्ट । अजुगुप्सिष्ट । अजुगुप्सिष्यत । तितिक्षते इति । तिक्ष्णीकरोतीत्यर्थः । मान्धातोः सनिद्वित्वे हलादिशेषे अभ्यासह्रस्वे 'सन्यतः' इति इत्त्वे 'मान्बधे' त्यभ्यासदीर्घे,नश्चे॑त्यनुस्वारे, मीमांसधातोर्लडादीति भावः । बधधातोः सनि विशेषमाह — भष्भाव इति । बकारस्य भकार इत्यर्थः । चर्त्वमिति । धस्य तकार इत्यर्थः । तथा चभत्से॑ति सन्नन्तं संपन्नम् । बीभत्सते इति । भष्ट्वचर्त्वयोरसिद्धत्वात् बध् इत्यस्य द्वित्वे हलादिशेषे 'सन्यतः' इति इत्त्वेमान्बधे॑ति दीर्घे बीभत्सधातोर्लडादिति भावः । तदेवं गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः । कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्र तत्रोदाहरिष्यन्ते । रभ राभस्ये इति । अनिडयम् । राभस्यं — शीघ्रीभावः । आङ्पूर्वकस्तु प्रारम्भर्थकः । तदाह — आरभते इति । रब्धेति ।झषस्तथो॑रिति धत्वं, भस्य जश्त्वम् । रप्स्यत इति । रभताम् । अरभत । रभेत । रप्सीष्ट । अरब्ध । अरप्स्यत । डु लभषिति । डुरित् षकारश्च । 'ड्वितः क्रिः'षिद्भिदादिभ्यो॑ऽङिति प्रयोजनम् । अनिट् । रभधातुवद्रूपाणि । ष्वञ्ज परिष्वङ्गे इति । षोपदेशोऽयमनिट् ।", "61010": "", "61011": "<<श्लौ>> - शेषं पूरयति — धातोद्र्वे स्त इति ।एकाचो द्वे॑इत्यतोलिटि धातो॑इत्यतश्च तदनुवृत्तेरिति भावः । द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह — जुहोतीति । यणिति । उवङपवाद इत्यर्थः ।", "61012": "", "61013": "<<ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे>> - संप्रसारणस्य दीर्घ इति । 'ढ्रलोपे' इत्यतस्तदनुवृत्तेरिति भावः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्यायाः पुत्र इति । विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च ।उपमानाच्चे॑तीत्त्वम् । कुमुदगन्धेरपत्यं स्त्रीत्यर्थे तस्यापत्यमित्यण् ।अणिञोरनार्षयो॑रिति तस्य ष्यङादेशः ।यस्येति चे॑तीकारलोपः । आदिवृद्धिः ।यङ्श्चाप् । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्र इति । षष्ठीसमासः । सुब्लुकिकौमुदगन्ध्या-पुत्र॑ इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः । तस्य, तदुत्तराऽऽकारस्य चसंप्रसारणाच्चे॑ति पूर्वरूपेण इकारेसंप्रसारणस्ये॑ति दीर्घे 'कौमुदगन्धीपुत्र' इति रूपमिति भावः । 'हलः' इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हलः संप्रसारमनिमित्तनिरूपिताङ्गावयवत्वाऽभावात् ।कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पतिरिति विग्रहः । पूर्ववत्प्रक्रिया ।इको ह्रस्वोऽङ्यो गालवस्ये॑ति पाक्षिकं ह्रस्वम#आशङ्क्याह — व्यवस्थितविभाषया ह्रस्वो नेति । अत्र तु व्याख्यानमेव शरणम् । स्यादेतत् । करीषं — गोमहिषादिषुरीषम्, करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री — कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं, तस्य दीर्घश्चेति स्थितिः । अत्र संप्रसारणं दुर्लभम् । ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य ष्यङन्तत्वाऽभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह — स्त्रीप्रत्यये चेति । ष्यः स्त्रियां विहितत्वात्स स्त्रीप्रत्ययः । ततश्चस्त्रीप्रत्यये चानुपसर्जने ने॑ति परभाषया तदादिनियमाऽभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यङन्त एवेति तत्र संप्रसारणे दीर्घे चपरमकारीषगन्धीपुत्र॑ इति रूपमिति भावः । इयं परिभाषाष्यङः संप्रसारण॑मिति प्रकृत सूत्रेभाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह — उपसर्जने त्विति । कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः,अत्यादयः॑इति समासे, उपसर्जनह्रस्वः । तस्य पुत्रोऽतिकारीषगन्ध्यपुत्रः । अत्रस्त्रीप्रत्यये तदादिनियमो ने॑ति निषेध#ओ न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः । ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव । अतस्तत्र तदादिनियमसत्त्वादतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः ।", "61014": "<<बन्धुनि बहुव्रीहौ>> - बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति । तत्र पत्युत्तरपदत्वाऽभावात्तत्पुरुषत्वाऽभावाच्च पूर्वेण न प्राप्तिः । मातञ्मातृकमातृषु वेति । वार्तिकमिदम् । मातच्, मातृक, मातृ-एषु परेषु ष्यङः संप्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति — कारीषगन्धीमातः, कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः । अदन्तमेतत् । मातृके उदाहरति — कारीषगन्धीमातृकः कारीषगन्ध्यामातृक इति ।नद्यृतश्चे॑ति कप् । मातृशब्दे उदाहरति — कारीषगन्धीमाता, कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं,नद्यृतश्चे॑ति नित्यविधानात्पाक्षिककप्च दुर्लभ इत्यत आह — अत एवेति । बहुव्रीहावेवेदमिति ।बन्धुनि बहुव्रीहौ इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः ।मात॑जिति चित्करणं स्वरार्थमित्याह — चित्त्वसामर्थ्यादिति ।", "61015": "<<वचिस्वपियजादिनां किति>> - यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य संप्रसारणे पूर्वरूपे च इयजतुरिति प्राप्ते — वचिस्वपि ।वचिस्वपी॑ति ति इका निर्देशः । सौत्रः संप्रसारणाऽभावः । आदिशब्दो यजिनैव संबध्यते, न तु वचिस्वपिब्याम्, तथा सति हि वच्यादेःस्वप्यादेर्यजादेश्चेत्यर्थः स्यात् । तथा सति पृथक्स्वपिग्रहणं व्यर्थं स्यात्, अदादिगणे लुग्विकरणे 'वच परिभाषणे' इत्यारभ्य षष्ठस्य 'ञि ष्वप् शये' इत्यस्य वच्यादिग्रहणेनैव सिद्धेः । तदाह — वचिस्वप्योर्यजादीनां चेति । ननु यज् अतुस् इति स्थिते द्वित्वात्परत्वात्संप्रसारणे कृतेविप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्क्याह — पुनः प्रसङ्गेति । ईजतुरिति । यज् अतुस् इति स्थिते संप्रसारणे पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः । एवं चाऽत्र किति लिटिवचिस्वपी॑ति सूत्रम्, अकिति लिटि तुलिटभ्यासस्ये॑ति सूत्रमिति स्थितिः । भारद्वाजनियमात्थलि वेट् । कृते द्वित्वेऽकित्त्वाद्वचिस्वपीत्यप्रवृत्तौलिटभ्यासस्ये॑त्यभ्यासयकारस्य संप्रसारणम् । तदाह — इयजिथ इयष्ठेति । अनिट्पक्षे व्रश्चादिना जस्य षत्वे ष्टुत्वेन थस्य ठः । ईजथुः ईज । इयाज — इयज, ईजिव ईजिम । ईजे इति ।असंयोगा॑दिति कित्त्वात्वचिस्वपी॑ति संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः । ईजाते ईजिरे क्रादिनियमादिट् । ईजिषे ईजाथे ईजिध्वे । ईजे ईजिवहे ईजिमहे । यष्टेति । तासि व्रश्चादिना जस्य षत्वे ष्टुत्वेन तकारस्य टः । यक्ष्यति यक्ष्यते इति । व्रश्चादिना जस्य षत्वेषढो॑रिति षस्य कत्वे सस्य षत्वमिति भावः । अयाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । जस्य षः, तस्य कः, सस्य ष इति भावः । अयष्टेति । अयज् स् त इति स्थितेझलो झलीति सलोपे, जस्य षः, ष्टुत्वेन तकारस्य ट इति भावः । अयक्षातामयक्षत । अयक्ष्यत्, अयक्ष्यत । डु वप् बीजसंताने इति । प्ररोहार्थं बीजानां क्षेत्रेषु प्रक्षेपणे इत्यर्थः । तदाह — क्षेत्रे विकिरणमिति । 'वपिः प्रकिरणार्थ' इतिसन्यङो॑रित्यत्र भाष्यम् । गर्भाधानं चेति ।अप्रमत्तारक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सु॑रित्यादौ तथा दर्शनादिति भावः । अयं छेदनेऽपीति । 'वर्तते' इति शेषः । केशान्वपतीति । छिनत्तीत्यर्थः । अनिडयम् । उवापेति ।लिटभ्यासस्ये॑त्यकित्यभ्यासस्य संप्रसारणमिति भावः । किति तुवचिस्वपी॑ति द्वित्वात्प्राक्संप्रसारणे कृते द्वित्वम् । ऊपतुः ऊपुः । उवपिथ — उवप्थ, ऊपथुः ऊप । उवाप — उवप ऊपिव ऊपिम । ऊपे इति । ऊपाते ऊपिरे । ऊपिषे ऊपाथे ऊपिध्वे । ऊपे ऊपिवहे ऊपिमहे । वप्तेति । वप्स्यति । वप्स्यते । वपतु वपताम् । अवपत् अवपत । वपेत् वपेत । उप्यादिति । आशिषि यासुटः कित्त्वात्वचिस्वपी॑ति संप्रसारणम् । वप्सीष्टेति । सीयुटि रूपम् । प्रण्यवाप्सीदिति । लुङि परस्मैपदे सिचि हलन्तलक्षणा वृद्धिः ।नेर्गदे॑ति णत्वम् । अवाप्तामवाप्सुः । अवप्तेति । आत्मनेपदे लुङिझलो झली॑ति सलोपः । अवप्साताम् । वह प्रापणे इति । अयमनिट् । वहति वहते । उवाहेति ।लिटभ्यासस्ये॑ति अकिति अभ्यासस्य संप्रसारणमिति भावः । कितिवचिस्वपी॑ति संप्रसारणे कृते द्वित्वम् । ऊहतुः ऊहुः । भारद्वाजनियमात्थलि वेट् । तदाह — उवहिथेति ।न शसददेति निषेधात्थलि च सेटी॑ति न भवति । अथ थलि अनिट्पक्षे आह — सहिवहोरोदवर्णस्येति । सहिवहोरवर्णस्य ओत्स्याड्ढ्रलोपे परत इत्यर्थः । 'ढ्रलोप' इति दीर्घं बाधित्वा ओत्त्वमिति भावः । उवोढेति । तासि ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं च । लृटि स्ये, हस्य ढः, तस्य कः,षत्वम् । तदाह — वक्ष्यति वक्ष्यते इति । वहतु वहताम् । अवहत् अवहत । वहेत् । वहेत । उह्रात् । अवाक्षीदिति । हलन्तलक्षणवृद्दौ ढकषाः प्राग्वत् । अवोढामिति ।झलो झली॑ति सलोपे ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं चेति भावः । अवाक्षुरिति । उसि सिचि वृद्धौ ढकषाः । अवाक्षीः अवोढमवोढ । अवाक्षमवाक्ष्व अवाक्ष्म । अवोढेति । लुङि आत्मनेपदे प्रथमपुरुषैकवचने अवह् स् त इति स्थिते सलोपः, ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं च । अवक्षातामिति । आतामि सिचि ढकषा इति भावः । अवक्षतेति । 'आत्मनेपदेष्वनतः' इत्यदादेशः । अवोढ्वमिति । अवक्षि अवक्ष्वहि अवक्ष्महि । अवक्ष्यत् अवक्ष्यत । इति वहत्यन्ताः स्वरितेतो गताः । वसधातुरनिट् । अकिति लिटि परेलिटभ्यासस्ये॑त्यभ्यासस्य संप्रसारणम् । तदाह — उवासेति । किति तुवचिस्वपी॑ति संप्रासरणे कृते द्वित्वादौ लिटि परेलिटभ्यासस्ये॑त्यभ्यासस्य #आदेशप्रत्ययावयवत्वाऽभावादप्राप्ते षत्वे-", "61016": "<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति- भृज्जतीनां ङिति च>> - ग्रहिज्या । चकारेणवचिसवपियजादीना॑मित्यतः कितीति समुच्चीयते ।ष्यङः संप्रसारण॑मित्यनुवर्तते ।तदाह — एषामित्यादि । अत्र परस्मैपदिग्रह्रादिसाहचर्यात् 'अय वय पय [गतौ]' इति पठितस्यात्मनेपदिनो वयेर्न ग्रहणम् । यजादित्वादेव वयेः संप्रसारणे सिद्धे अत्र वयग्रहणं स्पष्टार्थमिति भाष्ये स्पष्टम् [इति] यकारस्य प्राप्ते इति ।न संप्रसारणे संप्रसारण॑मिति लिङ्गादन्त्यस्य यणः पूर्वं संप्रसारणमिति विज्ञानाद्यकारस्य संप्रसारणे प्राप्ते सतीत्यर्थः ।", "61017": "<<लिट्यभ्यासस्योभयेषाम्>> - णलि द्वित्वादौ तु ययाज् अ इति स्थिते — लिटभ्यासस्योभयेषाम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।वचिस्वपियजादीना॑मिति सूत्रोपात्ताः,ग्रहिज्यावयी॑ति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते । तदाह — वच्यादीनां ग्रह्रादीनां चेति । अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः ।यज देवपूजेत्यारभ्यटु ओ इआ गतिवृद्ध्यो॑रित्येतत्पर्यन्ता यजादयः । तदुक्तम् — ॒यजिवपिर्वहिश्चैव वसिर्वेञ्व्येञ इत्यपि । ह्वेञ् वदिः आयतिश्चैव यजाद्याः स्युरिमे नव॑ । इति । तेष्वनन्तर्भावाद्वचिस्वप्योः पृथग्ग्रहणम् । ग्रह्रादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति । अभ्यासयकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपमिति भावः ।", "61018": "<<स्वापेश्चङि>> - स्वापेश्चङि । संप्रसारणमिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । असू षुपदिति । संप्रसारणं तदाश्रयं चकार्यं बलव॑दिति वचनात्कृते संप्रासरणेद्वित्वं पूर्वरूपं सन्वत्तवदीर्घौ षत्वमिति भावः ।", "61019": "", "61020": "", "61021": "", "61022": "<<स्फायः स्फी निष्ठायाम्>> - स्फायः स्फी । 'स्फायी वृद्धौ' अस्य स्फीभावः स्यान्निष्ठायां परत इत्यर्थः ।", "61023": "<<स्त्यः प्रपूर्वस्य>> - स्त्यः प्रपूर्वस्य ।स्त्यै॑इत्यस्य कृताऽऽत्वस्य 'स्त्य' इति षष्ठन्तम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमिति,स्फाय स्फी॑त्यतो निष्ठायामिति चानुवर्तते । तदाह — प्रादित्यादि । संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घे प्रस्ती- त इति स्थिते —", "61024": "<<द्रवमूर्तिस्पर्शयोः श्यः>> - द्रवमूर्ति । 'श्यैङ् गतौ' इत्यस्य कृतात्वस्य 'श्य' इति षष्ठी । द्रवमूर्तिश्च, स्पर्शश्चेति विग्रहः । मूर्तावित्यस्य विवरणं — काठिन्ये इति । संप्रसारणं स्यादिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च श्यैङः क्ते आत्त्वे संप्रसारमे पूर्वरूपे शि त इति स्थिते —", "61025": "<<प्रतेश्च>> - प्रतेश्च । द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदम् । प्रतिशीन इति । प्रतिगत इत्यर्थः । अत्र 'श्योऽस्पर्शे' इति नत्वम् ।", "61026": "<<विभाषाऽभ्यवपूर्वस्य>> - विभाषा । 'श्यैङ' इति शेषः । संप्रसारणं वा स्यादिति । शेषपूरणमिदम् । द्रवमूर्तिस्पर्शयोर्नित्यं संप्रसारणे प्राप्ते, ततोऽन्यत्राऽप्राप्ते विभाषेयम् । अभिश्यानं घृतमिति । अत्र द्रवमूर्तौ संप्रसारणविकल्पः । अवश्यानः अवशीनो वृश्चिक इति । अत्र द्रवमूर्तिस्पर्शाऽभावेऽपि संप्रसारणविकल्पः । समवश्यान इत्यत्रापि संप्रसारणविकल्पमाशङ्क्याऽऽह - व्यवस्थितेति ।", "61027": "<<शृतं पाके>> - शृतं पाके । 'श्रा पाके' घटादिः । तस्माद्धेतुमण्णिचि पुकि मित्त्वाद्ध्रस्वे श्रपि इति भवतीति स्थितिः । श्रातिश्रपयत्योरिति । अण्यन्तस्य, ण्यन्तस्य च श्राधोतरित्यर्थः । क्षीरहविषोरिति । एतच्च वार्तिकाल्लभ्यते । अण्यन्तं व्याचष्टे -स्वयमेव विक्लिन्नमिति । श्राधातुरण्यन्तः पाके वर्तते । पाकश्चाऽत्र विक्लित्तिरेव विवक्षिता, न तु तदनुकूलव्यापारोऽपि । तथा च श्राधातोर्विक्लपित्तावकर्मकत्वात्गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । तथा च क्षीरं विक्लित्त्याश्रय इत फलितम् । ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् 'श्रपी' त्यस्मात्कर्मणि क्तप्रत्यये फलितमाह - पक्वमिति । एतच्च भाष्यकैयटयोः स्पष्टम् ।क्षीराज्यहविषां शृत॑मित्यमरस्य तु प्रमाद एव,क्षीरहविषो॑रिति वार्तिकविरोधात् ।", "61028": "<<प्यायः पी>> - प्यायः पी । वा स्यान्निष्ठायामिति । शेषपूरणमिदम् ।विभाषाऽभ्यवपूर्वस्ये॑त्यतो विभाषेति,स्फायः स्फी॑त्यतो निष्ठायामिति चानुवर्तते इति भाव- । व्यवस्थतविभाषेति । अत्र व्याख्यानमेव शरणम् ।सोपसर्गस्य ने॑त्यादि भाष्ये स्पष्टम् ।", "61029": "<<लिड्यङोश्च>> - लिङ्यङोश्च । लिट् च यङ् चेति द्वन्द्वात्सप्तमी ।प्यायपी॑ति सूत्रमनुवर्तते । तदाह — लिटि यङि चेति । ननु प्यायेर्लिटि दित्वं बाधित्वा परत्वात्पीभावे द्वित्वेएरनेकाच॑इति यणि 'पिप्ये' इति रूपमिष्यते । तत्र द्वित्वं बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न संभवति,विप्रतिषेधे यद्वाधितं तद्बाधितमेवे॑ति न्यायादित आह — पुनः प्रसङ्गेति ।पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति परिभाषा । विप्रतिषेधे बाधितस्यापि पुनः प्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः ।", "61030": "<<विभाषा श्वेः>> - संप्रसारणमिति ।ष्यङ संप्रसारणमित्यतस्तदनुवृत्तेरिति भावः । लिटि यङि चेति ।लिङ्यङो॑रित्यनुवृत्तेरिति भावः । शुशावेति । णलि अभ्याससंप्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन संप्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः । अकित्त्वाद्वचिस्वपीत्यस्य नाऽत्र प्राप्तिः । तथा च लिटकित्स्वेकवचनेषु द्वित्वात्प्रागप्राप्तस्य संप्रसारणस्य विकल्पविधिः ।शुशुवतु॑रित्यादिद्विवचनबहुवचनेषु तु द्वित्वात्प्राग्वचिसवपीति प्राप्तस्य संप्रसारणसय विकलपविधिः । तथा च उभयत्र विभाषेयम् । यङंशे त्वप्राप्तविभाषैवेयम् — शोशूयते । शेआईयते । तत्र णलि एतत्संप्रसारणाऽभावपक्षेआईत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शुआआय इति प्राप्ते आह — आयतेर्लिटभ्यासलक्षणप्रतिषेध इति । लिटभ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथा चइआ॑इत्यभ्यासस्य संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — जृस्तन्भ्विति । तथा च अइआ अ त् इति स्थिते इयङि प्राप्ते —", "61031": "<<णौ च संश्चङोः>> - णौ च संश्चङोः । 'विभाषा ओ' रिति सूत्रमनुवर्तते ।ष्यङ संप्रसारण॑मिति चातदाह — सन्तपर इत्यादिना । नन्वन्तरङ्गत्वात्संप्रसारणात्पूर्वं वृद्ध्यायादेशयोः कृतयोः पश्चात्संप्रसारणे पूर्वरूपे अशीशवदिति स्यात्, अशूशवदिति न स्यादित्यत आह — संप्रसारण तदाश्रयं चेति । इदं वचनंलिटभ्यासस्ये॑ति सूत्रभाष्ये स्थितम् । एवं च अइआ इ अत् इत्यत्र वृद्ध्यायादेशाभ्यां प्रागेव वकारस्य संप्रसारणमुकार इति फलितम् । पूर्वरूपमिति । ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्ध्यावादेशयोरुपधाह्रस्वे सन्वत्त्वविषयत्वादभ्यासदीर्घे फलितमाह — अशूशवदिति । संप्रसारणाऽभावपक्षे अशिआयदित्यत्र अभ्यास्दीर्घमाशङ्क्य आह — अलघुत्वादिति । संयोगापरकत्वादिति भावः । अवपूर्वात्स्तम्भेण्र्यन्तादवष्टम्भयतीत्यादि ।अवाच्चालम्बनादविदूर्ययो॑रिति षत्वम् । चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते —", "61032": "<<ह्वः सम्प्रसारणमभ्यस्तस्य च>> - अभ्यस्त स्य च ।ह्वः संप्रसारण॑मित्यनुवर्तते । 'ह्व' इति कृतात्त्वस्य 'हवे' इत्यस्य षष्ठन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेञः संप्रसारणे कृते पूर्वखण्डस्याऽभ्यासस्यन संप्रसारणे संप्रसारण॑मिति निषेधः स्यादित्यत आह-अभ्यस्तीभविष्यत इति । ननु यद्यभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सतिविप्रतिषेधे यद्बाधितं तद्बाधित॑मिति न्यायाद्द्वित्वं न स्यादित्यत आह — ततो द्वित्वमिति । संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः । तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे 'हु' इत्यस्य द्वित्वेकुहोश्चु॑रिति चुत्वे तस्य जश्त्वेअचो ञ्णिती॑ति वृद्धौ अवादेशे परिनिष्ठितं रूपमाह — जुहावेति । जुहुवतुरिति । अतुसि आत्त्वे आल्लोपं बाधित्वा अन्तरङ्गत्वात्अभ्यस्तस्य चे॑त्यनेन संप्रसारणेवार्णादाङ्गं बलीयः॑ इत्यस्याऽनित्यतयाऽन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवङिति भावः । यद्यपि कितिवचिस्वपी॑ति संप्रसारणेऽपि सिद्धमिदम्, तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येत न्न्याय्यत्वादिहापि भवतीति बोध्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — जुहोथ जुहविथेति । जुहुवथुः जुहुव । जुहाव जुहव जुहुविव जुहुविम । क्रादिनियमादिट् । जुहुवे जुहुवाते जुहुविरे । जुहुविषे जुहुवाथे जुहुविढ्वे जुहुविध्वे । जुहुवे जुहुविवहे जुहुविमहे । ह्वातेति । तासि आत्त्वम् । ह्वास्यति ह्वास्यते । ह्वयतु ह्वयताम् । अह्वयत् अह्वयत । ह्वयेत् ह्वयेत । हूयादिति । आशीर्लिङि आत्त्वे यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ह्वासीष्टेति । आशीर्लिङि सीयुटि रूपम् । लुङि विशेषमाह —", "61033": "", "61034": "", "61035": "", "61036": "", "61037": "<<न सम्प्रसारणे सम्प्रसारणम्>> - न संप्रसारणे । इति यकारस्येति । सवर्णदीर्घनिष्पन्नस्य ऊकारस्य 'अचः परस्मिन्' इति स्थानिवत्त्वेन संप्रसारणतया यकारस्य संप्रसारणपरकत्वान्न संप्रसारणमिकार इत्यर्थ#ः । ननूकारद्वयस्थानिकस्य ऊकारस्य स्थानिवत्त्वे सति तस्य उकारद्वयात्मकतया प्रथमेन उकारेण व्यवधानात्संप्रसारणपरत्वाऽभावात्कथमिह निषेधः ।येन नाव्यवधान॑मिति न्यायस्य तु नायं विषयः, विव्याथेत्यादौव्यथो लिटी॑ति वकारस्याऽव्यवहितसंप्रसारणपरत्वे निषेधस्य चरितार्थत्वादिति चेन्मैवम् । एवं हि सतिन संप्रसारणे संप्रसारण॑मिति निषेधस्यव्यथो लिटी॑ति संप्रसारणमात्रविषयकत्वमापद्येत । एवंच सतिव्यथो यो लिटी॑ति यकारग्रहणेनैव सिद्धेन संप्रसारणे संप्रसारण॑मिति सूत्रमनर्थकमेव स्यात् । अतःआयुवे॑ति संप्रसारणनिषेधकत्वमस्यावश्यकमिति व्यवहितेऽपि संप्रसारणे परे 'यून' इत्यादौ निषेधो निर्बाधः,यूनस्ति॑रित्यादिनिर्देशाच्चेत्यलम् । ननु सकृत्प्रवृत्त्यैव युवन्शब्दे यवयोः संप्रसारणे जाते निषेधो व्यर्थः । निमित्तत्वानुपपत्तिश्च । यद्वा प्रथमं यकारस्य संप्रसारणमस्तु । तदानीं संप्रसारणपरत्वाऽभावेन निषेधाऽप्रवृत्तेः । अनन्तरं तु वकारस्यापि संप्रसारणमस्तु । तत्राह — अत एव ज्ञापकादिति । अन्यथा एतन्निषेधारम्भवैयथ्र्यापातादिति भावः । इत्यादिति । यूने । यूनः, २ । यूनोः । यूनि ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यते॑ इति ऋधातोर्वनिपि गुणे रपरत्वेऽर्वन्शब्दोऽओ योगरूढः ।", "61038": "<<लिटि वयो यः>> - लिटि वयो । संप्रसारणं नेति ।न संप्रसारणे संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः । तदाह — ऊयतुरिति ।", "61039": "<<वश्चास्यान्यतरस्याम् किति>> - वश्चास्या । 'लिटि वयो यः' इत्यनुवर्तते । तदाह — वयोयस्येत्यादि । उवयिथेति । अकित्त्वान्न वः । अजन्तत्वादकारवत्त्वाच्च थलि इड्विकल्पमाशङ्क्याह — वयेस्तासावभावात्थलि नित्यमिडिति । वयेर्लिटएव विहितत्वेन तासावभवात्अचस्तास्व॑दिति 'उपदेशेऽत्वतः' इति च इण्निषेधऽप्रसक्त्या क्रादिनयिमान्नित्यनिडित्यर्थः ।यस्तासावस्ति नित्याऽनिट् चे॑ति भाष्यम् । ऊयथुः- ऊवथुः ऊय-ऊव । उवाय, उवय, ऊयिव-ऊविव, ऊयिम — ऊविम । ननु वयेरञित्त्वात्कथमुभयपदत्वमित्यत आह — स्थानिवद्भावेनेति । ऊये ऊवे इति ।वश्चास्यान्यतरस्या॑मिति वत्वविकल्पः । वत्वाऽभावे 'लिटि वयो यः' इति यकारस्य संप्रसारणनिषेधः । वकारस्यग्रहिज्ये॑ति,वचिस्वपी॑ति वा संप्रसारणम् । ऊयाते ऊयिरे । ऊयिषे ऊयाथे [ऊयिढ्वे] ऊयिध्वे । ऊये उयिवहे ऊयिमहे । क्रादिनियमादिट् । एवम् ऊवाते ऊविरे इत्यादि । वयादेशाऽभावे इति । यजादित्वात्लिटभ्यासस्ये॑तिवचिस्वपी॑ति च संप्रसारणे प्राप्ते सती॑ति शेषः ।", "61040": "<<वेञः>> - वेञः । 'लिटि वयो यः' इत्यतो लिटीति,न संप्रसारणे संप्रसारण॑मित्यतो न संप्रसारणमिति चानुवर्तते ।तदाह — वेञो नेति । अत्र कितीति नानुवर्तते । तदाह — ववाविति । णलि संप्रसारणनिषेधे 'आदेच उपदेशे' इत्त्यात्वे 'आत औ णलः' इत्यौभावेवृद्धिरेची॑ति वृद्धौ रूपम् । ववतुरिति । 'आदेचः' इत्यात्त्वेआतो लोपः॑ । एवं ववुः । भारद्वाजनियमात्थलि वेट्, वेञस्तासावनिट्कत्वात् । तदाह — वविथ ववाथेति । इट्पक्षे अकित्त्वेऽपि इट्परत्वादाल्लोप इति भावः । ववथुः वव । ववौ वविव वविम । क्रादिनियमादिट् । ववे इति । ववाते वविरे । वविषे ववाथे [वविढ्वे] । वविध्वे । ववे वविवहे वविमहे । वातेति । लुटि तासि आत्त्वम् । वास्यति वास्यते । वयतु वयताम् । अवयत् अवयत । वयेत् वयेत । ऊयादिति । आशीर्लिङि यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्ग इति भावः । वासीष्टेति । आशीर्लिङि आत्मनेपदे, सीयुटि आत्त्वे रूपम् । वासीयास्ताम् । अवासीदिति । आत्त्वे कृते इट्पकौ । अवास् इ स् ईदिति स्थितेइट ईटी॑ति सिज्लोपः । अवासिष्टामित्यादि । आत्मनेपदे — अवास्त अवासातामित्यादि । अवास्यत् अवास्यत । व्येञ् संवरणे इति । ञित्त्वादुभयपदी । अनिट् । व्ययति व्ययते इति । शपि अयादेशः । णलादौ तु आत्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम् ।", "61041": "", "61042": "", "61043": "", "61044": "", "61045": "<<आदेच उपदेशेऽशिति>> - आदेच । एजन्तस्य धातोरिति ।लिटि धातो॑रित्यतो धातोरित्यनुवृत्तमेचा विशेष्यते, तदन्तविधिरिति बावः । न तु शितीति । श् चासौ इच्चेति कर्मधारयात्सप्तमी, प्रत्ययविशेषणत्वात्तदादिविधिः, इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । 'ल्यपि च'न व्यो लिटी॑त्यादिपूर्वोत्तरसूत्राणां प्रत्ययेष्वेव प्रवृत्त्या 'प्रत्यये' इति विशेष्यलाभः ।अशिती॑ति न पर्युदासः । तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः स्यात् । ततश्च 'सुग्ल' इत्यत्र ग्लैघाटोः 'आतश्चोपसर्गे' इति कप्रत्ययो न स्यात्, कप्रत्ययनिमित्तमात्त्वम्, आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् ।शिति ने॑ति प्रसज्यप्रतिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाऽभावात् प्रथमात्त्वे कृते कप्रत्ययः सूपपादः ।शिती॑ति बहुव्रीह्राश्रयणे ग्लैधातोर्भावे लिटिभावकर्मणो॑रिति तङि एशि आत्त्वे आतो लोपे 'जग्ले' इति न सिध्येत्, एशः शित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् । अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः । एवं च पर्युदासेऽपि न क्षतिः । इत्संज्ञकशकारादिभिन्नप्रत्यये विवक्षिते इत्याश्रयणेन 'सुग्ल' इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः । उपदेशे किम् । चेता, स्तोता । दातोः किम् । गोभ्याम् ।गमेर्डो॑रिति डोप्रत्ययोपदेशात् उपदेशे एच् तदन्तत्वाद्गो इत्यस्य प्राप्तिः । न च मेङादीनामुपदेशे एजन्तत्वाऽभावात्कथमात्त्वमिति न शङ्क्यम्, 'उदीचां माङः' इति निर्देशेननानुबन्धकृतमनेजन्तत्व॑मिति ज्ञापनादित्यास्तां तावत् ।", "61046": "<<न व्यो लिटि>> - तत्राह — न व्यो लिटि । 'व्ये' इत्यस्य कृतात्त्वस्य षष्ठन्तस्य 'व्य' इति निर्देशः । आत्त्वमिति । 'आदेच उपदेशे' इत्यत आदित्यनुवृत्तेरिति भावः । वृद्धिरिति । णलि व्ये अ इति स्थितेअचो ञ्णिती॑ति वृद्धिरित्यर्थः । तथा च व्यै-अ इति स्थितम् । ननु तत्र द्वित्वेलिटभ्यासस्ये॑त्यभ्यासे यकारस्य संप्रसारमे पूर्वरूपे उत्तरखण्डस्य आयादेशेविव्याये॑ति रूपं वक्ष्यति, तदयुक्तं, संप्रसारणात्प्राक् परत्वाद्धलादिशेषेण यकारस्य निवृत्तौ वकारस्य संप्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह — परमपीति । उभयेषामिति ।लिटभ्यासस्ये॑ति सूत्रेउभयेषा॑मिति ग्रहणसामर्थ्यादित्यर्थः । तदेवोपपादयति — अन्यथेति ।वचिस्वपियजादीना॑मित्यस्य,ग्रहिज्यावयिव्यधिविष्टिविचतिवृश्चतिपृच्छतिभृज्जतीना॑मित्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुन॒र्लिटभ्यासस्ये॑त्यत्रउभयेषां॑ग्रहणं पुनर्विधानार्थम् । तथा च वच्यादीनां ग्रह्रादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटीति द्विर्विधानं लब्धम् । तत्र द्वितीयं विधानं नियमार्थम् — ॒उभयेषामभ्यासस्य संप्रसारणमेव स्यान्नेतर॑दिति । तेनाभ्यासे एतत्संप्रसारणविषये कार्यान्तरनिवृत्तिः सिद्धेत्यर्थः । तथा च प्रकृतेऽभ्यासयकारस्य संप्रासरणे सिद्धं रूपमाह — विव्यतुः विव्युरिति ।वचिस्वपी॑ति संप्रसारणे द्वित्वे यणिति भावः । थलि भारद्वाजनियमादिड्विकल्पमाशङ्क्याह — इडत्त्यर्तीति । विव्ययिथेति । अकित्त्वादभ्यासस्य संप्रसारणमिति भावः । विव्यथुः विव्य । विव्याय विव्ययेति । अकित्त्वादभ्यासस्य संप्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः । विव्यिव विव्यिम । विव्ये इति । कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेवी॑त्यस्य द्वित्वे यणिति भावः । विव्याते विव्यिरे । विव्यिषे विव्याथे [विव्यिढ्वे] विव्यिध्वे । विव्ये विव्यिवहे विव्यिमहे । व्यातेति । तासि एकारस्य आत्त्वम् । व्यास्यति व्यास्यते । व्ययतु व्ययताम् । अव्ययत् अव्ययत । व्ययेत् व्ययेत । वीयादिति । आशीर्लिङि सीयुटि आत्त्वम् । अव्यासीदिति । लुङि सिचि आत्त्वे इट्सकोः सिज्लोपः । अव्यासिष्टामित्यादि । स्यत । ह्वेञ्धातुरनिट् । ञित्त्वादुभयपदी । शब्दे चेति । आकारणार्थःआगच्छे॑त्यादशब्दोऽत्र विवक्षितः । ह्वयति ह्वयते इति । शपि अयादेशः । णलादौ अकितिलिटभ्यासस्ये॑ति अभ्यासस्यैव संप्रसारणे प्राप्ते —", "61047": "", "61048": "<<क्रीङ्जीनां णौ>> - क्रीङ्जीनां णौ ।डु क्रीञ् द्रव्यविनिमये,इङ् अध्ययने॑, 'जि जये' एषां द्वन्द्वः । एच आत्त्वमिति । 'आदेच उपदेशे' इत्तस्तदनुवृत्तेरिति भावः । क्रापयति जापयतीति । आत्त्वे पुक् लुङि अचिक्रपत् अजीजपत् । अध्यापयतीति । इङ आत्त्वे पुकि रूपम् । अधि इ इ अ त् इति स्थिते ।", "61049": "", "61050": "<<मीनातिमिनोतिदीङां ल्यपि च>> - मीनातिमिनोति ।आदेच उपदेशेऽशिती॑त्यताअदित्यनुवर्तते । तदाह — एषामात्त्वं स्याल्ल्यपीति । चकारात् एचः, अशितीति परनिमित्तं समुच्चीयते । तत्रएचट इत्यनन्तरं 'निमित्ते' इति शेषः । एज्निमित्ते अशिति प्रत्यये च परे इति फलितम् । तदाह — अशित्येज्निमित्ते इति । 'इति समुच्चीयते' इति शेषः । लुङ्याह - अदास्तेति । इह आत्त्वे कृते घुत्वे सत्यपि स्थाध्वोरिच्चेति न भवति,स्थाध्वोरित्त्वे दीङः प्रतिषेधः॑ इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तकादिति भावः । धीङ् आधारे इति । आधारः — आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषणे इति । लीयते । लिल्ये ।लिल्यिषे । [लिल्यिढ्वे । लिल्यिध्वे] ।", "61051": "<<विभाषा लीयतेः>> - विभाषा लीयतेः । ननु लीयतेरिति श्यना निर्देशात् 'लीङ् श्लेषणे' इति स्नाविकरणस्य ग्रहणं न स्यादित्यत आह — यका निर्देश इति ।सार्वधातुके य॑गिति विहितयका लीयतेरिति निर्देशः । स च श्यन्श्नान्तसाधारणः,यक उभयत्रापि साधारण्यादिति भावः ।मीनातिमिनोती॑त्यतो ल्यपीति, 'आदेचः' इत्यत आदिति, एचेति चाऽनुवर्तते । तदाह — लीलीङोरित्यादिना । स्वादय ओदित इति । धातुपाठपठितं गणसूत्रमिदम् । 'षूङ् प्राणिप्रसवे' इत्यारभ्य व्रीङन्ता ओदित्कार्यभाज इत्यर्थः । निष्ठानत्वमिति ।ओदितश्चे॑त्यनेनेति भावः । प्रीङ् प्रीताविति । प्रीतिस्तुष्टिः ।मुत्प्रीतिः प्रमदो हर्षः॑ इत्यमरः । एवं सत्यकर्मकः । यथा — फलमूलादिना हरिः प्रीयते । ह्मष्यतीत्यर्थः ।यदा तु प्रीतिः तर्पणं, 'प्रीञ् तर्पणे' इति क्रैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्तः, तदा तु सकर्मकः । तदाह — सकर्मक इति । प्रीयते इति । तर्पयतीत्यर्थः । अथ चत्वारः परस्मैपदिन इति । 'दो अवखण्डने' इत्यन्ता इति भावः । शो तनूकरणे । अनिट् ।", "61052": "", "61053": "", "61054": "<<चिस्फुरोर्णौ>> - चिस्फुरोर्णौ । 'आदेच उपदेशे' इत्यत आदिति,विभाषा लीयते॑रित्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति — आत्त्वं वा स्यादिति । चिञो णिचि आत्त्वे चा इ इति स्थिते —", "61055": "<<प्रजने वीयतेः>> - प्रजन वीयतेः । 'आदेच उपदेशे' इत्यस्मादादेचेति,॒चिस्फुरो॑रित्तो णाविति, 'विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते । तदाह — अस्यैच इत्यादि ।वीयते॑रिति न स्यना निर्देशः,वी गतिप्रजनस्थानार्जनोपार्जनेषु॑ केचित् । वस्तुतस्तु व्येञो न ग्रहणं, तस्य प्रजनार्थकत्वाऽभावात् , तस्य णौशाच्छासे॑ति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाऽभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । गर्भं ग्राहयतीति । पुरोवातकाले गावो गर्भं गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू संवरणे' इत्यस्य गुणनिमित्तेऽजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति — ऊदुपधाया गोह इति । गूहयतीति । लघूपधगुणापवाद ऊत्त्वमिति भावः ।", "61056": "<<बिभेतेर्हेतुभये>> - बिभेतेर्हेतुभये । 'आदेच उपदेशे' इत्यत एचेति,आदिति चानुवर्तते । 'वभाषा लीयते' रित्यतो विभाषेति,चिस्फुरो॑रित्यतो णाविति च । हेतुभयं - प्रयोजकाद्भयम् । तदाह — बिभेतेरेच इत्यादिना ।", "61057": "<<नित्यं स्मयतेः>> - नित्यं स्मयतेः । 'आदेच उपदेशे' इत्यत एचेति, आदिति चानुवर्तते । चित्फुरो॑रित्यतो णाविति, 'बिभेतेर्हेतुभये' इत्यतो हेतुभये इति च । तत्र च भयग्रहणं स्मयस्याप्युपलक्षणम्, अत्र तु स्मय एव विवक्षितः, स्मयतेर्भीत्यर्थकत्वाऽसंभवात् । तदाह — स्मयतेरेच इत्यादि । 'विभाषा लीयते' रित्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ 'बिभेतेर्हेतुभये' इति,नित्यं स्मयते॑रिति च आत्त्वविधौ,भीस्म्योर्हेतुभये॑इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह — हेतोश्चेद्भयस्मयावित्युक्तेर्नेहेति । कुञ्चिकयैनमिति । केशबन्धविशएषः कुञ्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाऽभावादात्त्वं षुक् च नेति भावः । आक्षिपति — कथमिति । रघुवंशकारव्ये — तमार्यगृह्रं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्मापयन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः॥ इति श्लोके विस्मापयन्निति कथमित्याक्षेपः । प्रयोजकाद्भ्याऽभावेन आत्त्वपुगनुपपत्तेरिति भावः । ननु मनुष्यवागेव तत्र प्रयोजिककेत्यत आह — मनुष्येति । मनुष्यवाचेति तृतीयान्तगम्यकरणान्मनुष्यवागात्मकादेव हि तत्र स्मयः । ननु करणभूताऽपि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह — अन्यथेति । मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे 'भीस्म्योर्हेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव, किन्त्वात्त्वपुगाक्षेपो न युज्यते इत्यद्र्धाङ्गीकरेण परिहरति - सत्यमिति । विस्माययन्नित्येति । णौ आयादेशे स्मायीत्यस्माल्लटः शतरि शपि णेर्गुणे अयादेशे विस्माययन्नित्येव कालिदासो महाकविः प्रायुङ्क्त । 'विस्मापय' न्निति पकारपाठस्तु लेखप्रमादकृत इति भावः । यद्वेति । राजा दिलीपो विस्मयते । तं सिंहोच्चारिता मनुष्यवाक् प्रयोजयति — विस्मापयते मनुष्यवाक् राजानम् । अत्र मनुष्यवाक् प्रयोजककत्र्री । राजा तु प्रयोज्यकर्तेति स्थितिः । अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूलकत्वादात्त्वे पुक् । मूलेप्रयोज्यकत्र्री॑त्येव पाठः सुगमः । तां विस्मापयमानां प्रयोजककत्र्री मनुष्यवाचं प्रयोजयति सिंहः विस्मापयति । स्मापीति ण्यन्ताण्णौ प्रथमणेर्लोपे स्मापि इत्यस्माच्चतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयन्निति भवतीत्यप्रेत्य आह — तया सिंह इति । प्रयोजककर्तरि तृतीया । आत्मनेपदं भीस्मिप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः ।", "61058": "<<सृजिदृशोर्झल्यमकिति>> - इडभावपक्षे 'अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते — सृजिदृशोः । अम्-अकितीति च्छेदः । नित्यार्थमिदम् । दद्रष्ठेति । ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इट्पक्षे त्वाह — ददर्शिथेति । अझलादित्वादम् नेति भावः । द्रष्टेति । तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति । अमागमे शस्य षत्वेषढो॑रिति कत्वे सस्य ष इति भावः । पश्यतु । अपश्यत् । पश्येत् । आशीर्लिङि आह — दृश्यादिति । अझलादित्वादम् नेति भावः । लुङि विशेषमाह — इरित्त्वादङ् वेति । अत्र अङ्पक्षे गुणनिषेधे प्राप्ते —", "61059": "", "61060": "<<ये च तद्धिते (अचि शीर्षः)>> - ये च तद्धिते । शीर्षन्नादेश इति । शीर्षंश्छन्दसीत्यतस्तदनुवृत्तेरिति भावः । शीर्षण्य इति शिरसे हित इत्यर्थः । शरीरावयवत्वाद्यति शीर्षन्नादेशेये चाऽभावकर्मणो॑रिति प्रकृतिभावान्न टिलोपः । शिरस्यतीति । शिर आत्मन इच्छतीत्यर्थे 'सुप आत्मनः' इति क्यचि, 'नः क्ये' इति नियमात्पदत्वाऽभावान्न रुत्वम् ।वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितस्तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः । प्रसङ्गादाह — अचीति ।", "61061": "<<पद्दन्नोमाशृन्निशसन्यूषन्दोषन्यकञ्छकनुदन्नासञ्छस् प्रभृतिषु>> - अथ पादशब्दस्य शसादौ विशेषं दर्शयितुमाह — पद्दन्नो । पद्-दत्-नस्-मास्-ह्मद्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन्-इत्येषां समाहरद्वन्द्वः । शश्-द्वितीयाबहुवचनं प्रभृति=आदिः येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः ।अनुदात्तस्य चर्दुपधस्यान्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते । शसादिषु परेषु पदादय आदेशा वा स्युरित्यर्थः । पदाद्यादेशैश्च स्वानुरूपाः स्थानिन आक्षिप्यन्ते । तदाह — पदादन्तेत्यादिना । यथासङ्ख्यापरिभाषया, पादादीनां क्रमेण पदादय आदेशाः प्रत्येतव्याः । तत्प्रामादिकमिति । भ्रममूलकमित्यर्थः । 'हव्या जुहान आसनि' इति मन्त्रेआसन्यं प्राणमूचु॑रित्यादौ च आस्यार्थकत्वस्यैव दर्शनादिति भावः । दन्तशब्दस्य सुटि रामवत् । शसि पद्दन्निति ददादेशः । दत्-अस् इति स्थिते तकारस्य 'झलां जशोऽन्ते' इति पदान्ते विधीयमानं जश्त्वमाशङ्कितुं पदसंज्ञाविधायकं सूत्रं वक्ष्यति — ॒स्वादिष्वसर्वनामस्थान॑ इति ।", "61062": "", "61063": "", "61064": "<<धात्वादेः षः सः>> - दात्वादेः । 'ष' इति षष्ठन्तं । तदाह — धातोरादेः षस्य सः स्यादिति । षकारस्य सः स्यादित्यर्थ- । धातुग्रहणं किम् । षट् । अत्र धात्वादित्वाऽभावान्न सकारः । आदिग्रहणं किम् । लषति । न चैवमपि षकारीत्यतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम्,आदेच उपदेशेऽशिती॑त्यत उपदेश इत्यनुवृत्तेः । एवं च षडित्यादावप्युदेशग्रहणानुवृत्त्यैव व्यावृत्तिसिद्धेर्धातुग्रहणं भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वद स्वर्देत्येवं सकार एव उपदिश्यताम् । एवं च 'धात्वादेः षः सः' इत्यपि मास्त्विति चेन्मैवं, ण्यन्ताल्लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् । धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाऽभावेन षत्वाऽसंभवात् । नन्वेवं सति अनुस्वदत इत्यत्रादेशसकारत्वात्त्वापत्तिरित्यत आह — सात्पदाद्योरिति । सस्वद इति । लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । उर्देति । चकारादास्वादनेऽपीति केचित् ।", "61065": "<<णो नः>> - णो नः । 'ण' इति षष्ठन्तं । 'धात्वादेः षः सः' इत्यतोऽनुवर्तनादाह -धातोरादेरिति । तेन अणतीत्यादौ न नत्वम् । नः स्यादिति । नकारः स्यादित्यर्थः । नदतीति ।मेघादि॑रिति शेषः । 'णो नः' इति नत्वस्याऽनैमित्तकतया लिण्निमित्तादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ स्त एव, नेदतुरित्यादि । अथनृत्ननर्द्नन्दनक्क्नाट्नाथृनानृवर्ज णोपदेशाः॑ इति भाष्यं श्लोकार्धेन सङ्गृह्णाति — णोपदेशास्त्विति ।नर्द शब्दे॑ । 'नट अवस्यन्दने' चुरादिः । नाथृ नाधृ याञ्चादौ, द्वितीयचतुर्थान्तौ ।टु नदि समृद्धौ॑ ।नक्क नाशने॑ । नृ नये॑ ।नृती गात्रविक्षेपे॑ एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्ननकारादितयाणोपदेशाः प्रत्येतव्या इत्यर्थः ।नाटी॑ति ण्यन्तस्य प्रयोजनमाह — नाटेरिति । घटादिरिति ।नटनृत्ता॑विति घटादिपठित इत्यर्थः । तत्फलं घटादौ वक्ष्यते । मतान्तरमाह — तवर्गेति । तवर्गचतुर्थान्तनाधधातोर्नृनन्द्योश्च णोपदेशेषु पर्युदासाऽभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् ।", "61066": "<<लोपो व्योर्वलि>> - लोपो व्योर्वलि । 'व्'य् अनयोद्र्वन्द्वात् षष्ठीद्विवचनम् । तदाह — वकारयकारयोरिति । पुंवद्भाव इति ।स्त्रियाः पुंवदि॑त्यनेने॑ति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् ।", "61067": "<<वेरपृक्तस्य>> - वेरपृक्तस्य । लोपो व्योः॑ इत्यतो 'लोप' इत्यनुवर्तते । उत्सृष्टानुबन्धाः । सरक्वे क्विबादयोवे॑रित्यनेन गृह्यन्ते । इकार उच्चारणार्षथः, अपृक्तग्रहणात्, तदाह — अपृक्तस्य वस्येति । अपृक्तस्येति किम् । जागृविः । क्विनः कृत्संज्ञायाः प्रयोजनमाह — कृत्तद्धितेति ।", "61068": "<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> - हल्ङ्याब्भ्यो । हल् च ङीच आप् चेति द्वन्द्वः । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि ङ्यापोरेव दीर्घादिति विशेषणं, न तुहलः, असम्भवात् । एवं च दीर्घादिति द्वित्वे एकवचनमार्षम् । 'हल्ङ्याब्भ्य' इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया, प्रत्ययग्रहणपरिभा,या च तदन्तविधिः । ततश्च हलन्ताच्च दीर्घङ्याबन्ताच्च परमिति लब्धम् । 'सुतिसि' इति समाहारद्वन्द्वः । अपृक्तमिति हलिति च सामानाधिकरण्येनान्वेति । उकारे इकारे च लुप्ते परिशिष्टः सकारस्तकारश्च सुतिसि इत्यनेन विवक्षितः । ततश्च हलित्यनेन सामानाधिकरण्यं न विरुध्यते । 'लोपोः व्योः' इत्यतो लोप इत्यनुवर्तते । तच्चेह कर्मसाधनमाश्रीयते । लुप्यते इति लोपः । क्रमणि घञ् । तदाह — हलन्तात्परमित्यादिना । हल्ङ्याब्भ्यः किमिति । 'राम' इत्यादावदीर्घान्तत्वान्नदोष इति प्रश्नः । ग्रामणीरिति । ग्रमां नयतीति विग्रहः ।णीञ् प्रापणे॑ ।सत्सूद्विषे॑त्यादिना क्विप् ।अग्रग्रमाभ्यां नयतेर्णो वाच्यः॑ इति णत्वम् । हल्ङ्याबन्तत्वाऽभावान्न सुलोपः । दीर्घात्किमिति । ङ्यापोर्दीर्घत्वाऽव्यभिचारात्किमर्थं दीर्घत्वविशेषणमिति प्रश्नः । निष्कौशाम्बिः अतिखट्व इति । निष्क्रान्तः कौशाम्ब्याः, खट्वामतिक्रान्त इति विग्रहेनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासः । 'गोस्त्रियोः' इति ह्रस्वत्वम् । अत्र ह्रापोह्र्यस्वत्वान्न सुलोपः । अभैत्सीदिति । भिदेर्लुङि सिच् । अत्र तकारात्परस्य सकारस्य लोपो न, सुतिस्यन्यतमत्वाऽभावादित्यर्थः । ननु सिचस्सिरेवायमित्यत आह — तिपेति । तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात्सिचो ग्रहणं नेत्यर्थः । विभर्तीति । अत्र तीति समुदायस्य न हल्त्वम् । तकारस्तु यद्यपि तेरवयवो हल्, तथापि तस्य नाऽपृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्ते परिशिष्टः सकारस्त कारश्च सुतिसीत्यनेन गृह्रते, हल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव विभर्तीत्यत्र लोपाऽभावासिद्धेरपृक्तग्रहणस्य नेदं प्रत्युदाहरणम् । द्वितीयहल्ग्रहणस्य प्रयोजनं पृच्छति — हल् किमिति । बिभेदेति । भिदेर्लिट् तिप् णल् । णलोऽकारस्य हल्त्वाऽभावान्न लोपः । प्रथमहल् किमिति । राजन् स् इति स्थिते उपधादीर्घे संयोगान्तलोपेनैव राजेत्यादिसिद्धेरिति प्रश्नः । नन्विदं राजेति कथं प्रत्युदाहरणं, संयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह — नलोपादिर्न स्यादिति । संयोगान्तलोपे सति नलोपो न स्यादिति भावः ।अभिनोऽत्रे॑त्यत्र उत्वमादिशब्दार्थः । भिदेर्लङि सिप् ।इतश्चे ॑तीकरलोपः ।सिपि धातो रूर्वे॑ति रुत्वम् । सलोपः । अत्रअतोरोरप्लुता॑दित्युत्वं न स्यात् । कुत इत्यत आह — संयोगान्तलोपस्यासिद्धत्वादिति । हल्ङ्यादिलोपस्तु नासिद्धः, षष्ठप्रथमपादस्थत्वादिति भावः । अत्र क्वचित्पुस्तकेषुदीर्घात्किमित्यारभ्य संदर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् । सखेति । सुलोपे सति 'न लोपः' इति नकारलोपः । नचेहसु॑माश्रित्य अनङि कृते तन्नकारमाश्रित्य सोर्लोपो न संभवति, संनिपातपरिभाषाविरोधादिति वाच्#ं, 'स्वतन्त्रः कर्ता' इत्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्येसन्निपातपरिभाषाया अप्रवृत्तेरित्याहुः । हे सखे इति । 'अनङ् सौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनङभावे ह्वस्वस्य गुणेएङ्ह्रस्वा॑दिति सुलोपे रूपम् ।", "61069": "<<एङ्ह्रस्वात् सम्बुद्धेः>> - एङ्ह्रस्वात् ।एङ्ह्रस्वा॑दित्यङ्गविशेषणं, तदन्तविधिः । सुतिस्यपृक्तं हलित्यतो हलिति प्रथमान्तमनुवर्तते, तच्चाङ्गादित्यत्रान्वेति -अङ्गात् परं ह॑सिति ।लोपो व्यो॑रित्यतो 'लोप' इत्यनुवर्तते । तच्च हलित्यनेन सामानाधिकरण्येनान्वेति । लुप्यते इति लोपः । कर्मणि घञ् ।संबुद्धे॑रित्यवयवषष्ठी-हलित्यत्रान्वेति । ततस्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं यत् संबुद्ध्यवयवभूतंतल्लुप्यते इत्यर्थः फलति । तदाह — एङन्तादित्यादिना । ननु एङ्ह्रस्वादित्यस्याङ्गधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभः । तस्य वा किं प्रयोजनम् । एङो ह्रस्वाच्च परं संबुद्ध्यवयवभूतं हल्लुप्यत इत्येवास्तु । तत्राह-सम्बुद्ध्यक्षिप्तस्येत्यादि । संबुद्धेः प्रत्ययत्वात्तत्प्रकृतेरङ्गत्वमर्थाल्लब्धम् । तस्य च एङा ह्रस्वेन च विशेषितत्वात्तदन्तविधौ एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं हल्लुप्यत इत्यर्थलाभादिह लोपो नेत्यर्थः । इहेत्यस्य विशेष्यमाह-हे कतरत्कुलेतीति । कतरशब्दस्य नपुंसकत्वस्फोरणाय कुलशब्दः । कतरशब्दान्नपुंसकलिङ्गात्संबुद्धिः सुः ।अद्डादेशः । डकार इत् । डित्त्वसामर्थ्यादभत्वेऽपि टेरिति रेफादकारस्य लोपः 'वाऽवसान#ए' इति चर्त्वे कतरदिति रूपम् । यदि एङ्ह्रस्वादित्यत्राङ्गस्य विशेष्यत्वं न स्यात्, तदा कतरदित्यत्र तकारस्य हलो ह्रस्वादकारात् परत्वात्संबुद्ध्यवयवत्वाच्च लोपः प्रसज्येत । अङ्गस्य विशेष्यत्वे तु न दोषः । अत्र हि टिलोपानन्तरं कतरिति रेफान्तमङ्गम् । तत्तु न ह्रस्वान्तम् । यत्तु तन्नाङ्गम् । रेफादकारस्य सुस्थानिकाद्डादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात् । नन्विह हल्ग्रहणानुवृत्तिव्र्यर्था, एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्य संबुद्धेर्लोपः स्यादित्येव व्याख्यायाताम् । अस्तु वा हलनुवृत्तिः , तथापिएङन्ताद्ध्रस्वान्ताच्चाङ्गात्परा या संबुद्धिस्तदवयवो हल्लुप्यते॑ इति कुतो न व्याख्यायत इति चेत्, एवं सति हे ज्ञानाति न सिध्येत् । तदिदमजन्तनपुंसकलिङ्गाधिकारे ज्ञानशब्दाप्रक्रियावासरे मूल एव स्पष्टीभविष्यति । हे हरे हे विष्णो इति । हरिशब्दाद्विष्णुशब्दाच्च संबुद्धिः सुः । 'ह्रस्वस्य गुण' इति गुणः । हे हरेस्, हे विष्णोसिति स्थिते, ह्रस्वात्परत्वाऽभावात्सुलोपो न स्यादत एङ्ग्रहणमित्यर्थः । ननु गुणात्पूर्वं हे हरि स्, हे विष्णु सित्यस्यामेव दशायां ह्रस्वात्परत्वादेव सुलोपसंभवादेङ्ग्रग्रहणं व्यर्थमित्यत आह — अत्रेति । संबुद्धिलोपापेक्षयाऽयं गुणः परः, नित्यश्च, अकृतेऽपि संबुद्धिलोपे तत्प्रवृत्तेः, कृते ।ञपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्तेः, कृतेऽपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्ते, अतः संबुद्धिलोपात्प्रागेव ह्रस्वस्य गुणे कृते सति ह्रस्वात्परत्वा.ञभावात्सोर्लोपो न स्यात् । अत एङ्ग्रहणमित्यर्थः । अथ द्वितीया विभक्तिः । राम अमिति स्थिते, 'न विभक्तौ तुस्मा' इति मकारस्य नेत्त्वम् ।", "61070": "<<संहितायाम्>> - संहितायाम् । इत्यधिकृत्येति ।छे चेत्यादि विधीयते॑ इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम् ।", "61071": "<<ह्रस्वस्य पिति कृति तुक्>> - ह्रस्वस्य । स्पष्टमिति न व्याख्याताम् । इत्य इति । इणः क्यपि तुक् । उपेयमित्यत्र तुईङो दैवादिकाद्यत् । वृञो ग्रहणमिति । वार्तिकमिदम् । न वृङ इति । 'वृङ् संभक्तौ' इति ङितः क्रैयादिकस्य न ग्रहणमित्यर्थः । वार्या ऋत्विज इति । अवश्यं भजनीया इत्यर्थः । अत्र 'वृङ् संभक्तौ' इत्यस्माण्ण्यदित्यर्थः ।अवद्यपण्यवर्या॑दिति निपातनसिद्धो यत्तु न , अत्र निरोध्स्य नियमस्य विवक्षितत्वात् । ननुवदः सुपी॑त्यतोऽनुवृत्त्यैव सिद्धे क्यब्ग्रहणमिह व्यर्थम् । नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यं, चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रेष्वनुवृत्त्यभावादित्यत आह — परस्यापीति । 'ओरावश्यके' इति विहितस्येत्यर्थः । वेति काशिकेति । वा क्यप् । तदभावे हलन्तत्वाण्ण्यत् । भाष्ये त्वेतन्न दृश्यते इति भावः । शस्यं शंस्यमिति । क्यप्पक्षेअनिदिता॑मिति नलोपः । दुह्रमिति । क्यप्पक्षे कित्त्वान्न गुणः । अत्रशंसिदुहिगुहिभ्यो वे॑त्यस्य भाष्येऽदर्शनेऽपि शंसेण्र्यत्क्यपौ प्रामाणिकावित्याह — प्रशस्यस्येति । 'प्रशस्यस्य श्रः' इति निर्देशबलादच्छंसेः क्यप्सिद्धः ।ईडवन्दवृशंसदुहा ण्यतः॑ इत्याद्युदात्तत्वविधौ शंसेण्र्यदन्तत्वानुवादबलाण्ण्यत्सिद्धः । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः । उपसङ्ख्यानमिति । 'क्यप' इति शेषः । आज्यमितिन चाङ्पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः । पदकाराणामवग्रहाऽभावस्त्वप्रामाणिक एव, पदपाठस्याऽऽधुनिकत्वादिति भाष्ये स्पष्टम् । एवं चअस्मद्रियगित्यस्मद्रिय॑गित्यवग्रहोऽप्रामाणिक एव । अस्मद्रि - अक् इत्येवाऽवग्रहो युक्तः, अस्मच्छब्दस्य टेरद्रआदेशविधानादित्याद्यूह्रम् ।", "61072": "", "61073": "<<दीर्घात् पदान्ताद्वा>> - तदाह — दीर्घादित्यादिना ।उभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति छकारस्य तुगन्तावयवः स्यात् । ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे अभ्यासचर्त्वेगुणो यङ्लुको॑रिति अभ्यासगुणे, तङि, चे-छिद्यते इति स्थिते, छकारस्यान्त्यवयवे तुकि, तस्य चुत्वेन चकारे सति तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारोत्तरद्विचकारकमेव रूपं स्यात्, छकारो न श्रूयेतेत्यत आह — दीर्घस्यायं तुगिति । ततश्च छकारात्प्राग्दीर्घस्योपरि तुकि, जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति । छकारस्य खर्परकत्वाभावाच्चर्त्वं न भवतीति चकाराच्छकारश्रवणं निर्बाधम् । ननु दीर्घस्यायं तुगिति कुत इत्यत आह — सेनेति । उत्तरसूत्रे पदान्तदीर्घाच्छे तुग्विकल्पविधानादिदं सूत्पमुपदान्तविषयमित्यभिप्रेत्य उदाहरति-चेच्छिद्यत इति । (१४७) पदान्ताद्वा.६.१.७६ ।पदान्ताद्वा । 'तुक्' 'छे' 'दीर्घात्' इत्यनुवर्तते । तदाह — दीर्घात् पदान्तादित्यादिना । अयमपि तुग्दीर्घस्यैव नतु छस्य । उक्तज्ञापकात्॥इति बालमनोरमायां हल्सन्धिप्रकरणम् । अथ जुहोत्यादयः ।अथ श्लुविकरणा धातवो निरूप्यन्ते । हु दानाऽदनयोरिति । दाने अदने चेत्यर्थः । भाष्यमिति ।तृतीया च होश्छन्दसी॑ति सूत्रस्थ॑मिति शेषः । ननु यदि दानमिह प्रसिद्धं विवक्षितं तर्हिब्राआहृमाय गां ददाती॑त्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह — दानं चेह प्रक्षेप इति । नन्वेवमपि कूपे घटं प्रक्षिपति, आहवनीये जलं प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोगः स्यादित्यत आह — स चेति । सः = प्रक्षेपो, विधिबोधिते आधारे = आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः । कुत इत्यत आह - स्वभावादिति । अनादिसिद्धलोकव्यवहारादित्यर्थः । तथाच विधिबोधिते आधारे विधिबोधितस्य देवतायै त्यज्यमानसय् हविषः हुधातुर्वर्तते इति फलितम् । एतच्च पूर्वमीमांसायां तृतीयेसर्वप्रदानं हविषस्तदर्थत्वा॑दित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः ।", "61074": "<<आङ्माङोश्च>> - आङ्भाङोश्च । छे तुगित्यनुवर्तते । तदाह-एतयोरिति । आङ्भाङोरित्यर्थः । ननु दीर्घादित्येव सिद्धे किमर्थमिदमित्यत आह-विकल्पापवाद इति । आच्छादयति । माच्छिददिति । तुकि पूर्ववत्प्रक्रिया । दीर्घात् । छे तुगित्यनुवर्तते ।", "61075": "दीर्घात् ॥ छे तुगित्यनुवर्तते । तदाह । दीर्घात् छे परे तुक् स्यादित्यादिना ॥ 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति छकारस्य तुक् अन्तावयवस्स्यात्। ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे, अभ्यासचर्त्वे, गुणो यङ्लुकोरिति अभ्यासगुणे, तङि, चे छिद्यते इति स्थिते, छकारस्यान्त्यावयवे तुकि, तस्य चुत्वेन चकारे सति, तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारात् द्विचकारमेव रूपं स्यात्, छकारो न श्रूयेतेत्यत आह । दीर्घस्यायं तुगिति ॥ ततश्च छकारात् प्राक् दीर्घस्योपरि तुकि जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति। छकारस्य खर्परकत्वाभावाच्चर्त्वन्न भवतीति चकारात् छकारश्रवणं निर्बाधम् । ननु दीर्घस्यायन्तुगिति कुत इत्यत आह । सेनेति ॥ उत्तरसूत्रे पदान्तदीर्घात् छे तुग्विकल्पविधानादिदं सूत्रमपदान्तविषयमभिप्रेत्य उदाहरति। चेच्छिद्यत इति ॥", "61076": "", "61077": "<<इको यणचि>> - इको यणचि । 'इक' इति षष्ठी । अतःषष्ठी स्थानेयोगे॑ति परिभाषया स्थान इति लभ्यते । स्थानं प्रसङ्ग इत्युक्तम् । वर्णानां वर्णान्तराधिकरणत्वाऽसम्भवात्, अचीति सतिसप्तमी ।तस्मिन्निति निर्दिष्टे पूर्वस्ये॑ति परिभाषाया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते । एवं चाऽचि परत इत्यर्थलभ्यम् । संहितायामित्यधिकृतम् । ततश्चार्धमात्राधिककालव्यवधानाऽभावो लभ्यते । एवं च फलितमाह-इकः स्थान इत्यादिना । इदं च सूत्राक्षरानुसारिप्राचीनमतानसारेण ।संहिताया॑मिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरणे अचीति सप्तमीं तस्मिन्नित्यनेनाश्रित्य संहिताधिकारः प्रत्याख्यातः । इत्थं हि तत्र भाष्यम् -अयं योगः शक्योऽवक्तुम् । कथम् । अधिकरणं नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हत्यन्यदत उपश्लेषात् । इको यणचि अच्युपश्लिष्टस्येति । तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यती॑ति । उप=समीपे श्लेषः=संबन्धः-उपश्लेषः, तत्कृतमधिकरणमौवश्लेषिकं सामीपिकमिति यावत् । एवं चाऽच्समीपवर्तिन इक इति फलति । सामीप्यं च कालतो वर्णतश्च व्यवधानाऽभावः । एवं चाऽसंहितायामुक्तसामीप्याऽभावादेव यणभावसिद्धेः संहिताधिकारो न कर्तव्य इति भाष्यार्थः । एवं च तुल्यन्यायात्तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधिकरणे सप्तमी । ततश्चाऽचीत्यादिसप्तम्यन्तार्थेऽकारादावुच्चारिते सामीप्यसम्बन्धेन विद्यमानस्य पूर्वस्य कार्यं स्यादित्यर्थः । फलति । नत्वव्यवहितोच्चारिते इत्यव्यवहितत्वविशेषणमुच्चारिते देयम्, सामीपिकाधिकरणसप्तम्यैव तल्लाभात् । सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधानाऽभावात्मकत्वात् । एवं च तत्र नैरन्तर्यार्थं निग्र्रहणं न कर्तव्यम् । इदं चस्नुक्रमो॑रिति सूत्रे, 'तत्र च दीयते' इति सूत्रे च कैयटे सपष्टम् । अधिकरणत्रैविध्यं तु कारकाधिकारेआधारोऽधिकरण॑मित्यत्र स्पष्टीकरिष्यते । सुधी इति । ध्यै चिन्तायामिति धातोध्र्यायतेः सम्प्रसारणं चेति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे हलश्चेति दीर्घे च धीशब्दः । सुष्ठु ध्यायन्तीति सुधियः । सु=शोभना धीर्येषामिति वा सुधियः । सुधीभि रूपास्य इति विग्रहः ।कर्तृकरणे कृता बहुल॑मिति समासः ।सुपो धातुप्रातिपदिकयो॑रिति भिसो लुक् ।सुधी उपास्य इति स्थिते ईकारस्य यकार इत्यन्वयः । प्रत्याह#आरेषु तद्वाच्यवाच्येषु लक्षणा नाज्झलाविति सूत्रे प्रपञ्चिता । तत्स्फोरणाय ईकार उदाहृतः । ननु ईकारस्य वरलाः कुतो न स्युः, यण्त्वाऽविशेषांदित्यत आह-स्थानत आन्तर्यादिति । तालुस्थानकत्वसाम्यादीकारस्य स्थाने स्थानेऽन्तरतम इति यकार एव भवति; न तु वरलाः, भिन्नस्थानकत्वादित्यर्थः । अत एवयथासंख्यमनुदेशः समाना॑मिति सूत्रे भाष्यं-किमिहोदाहरणम् । इको यणचि । दध्यत्र । मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत्सिद्ध॑मिति । 'स्थानेऽन्तरतम' इति सूत्रभाष्ये तुकिमिहोदाहरणम् । इको यणचि । दध्यत्र नैतदस्ति । संख्यातानुदेशेनाप्येतत्सिद्ध॑मित्युक्तम् । यथासंख्यसूत्रेणेत्यर्थः । नन्विह यण्शब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्यन्ते, यणो भाव्यमानतया तेन सवर्णानां ग्रहणाऽभावात् । गुणानामभेदकत्वेऽपि यवलाः षट् रेफश्चेति सप्त गृह्यन्ते । इक्शब्देन तु षट्षष्टिर्गृह्रत इति विषमसंख्याकत्वात्कथमिह यथासंख्यसूत्रप्रवृत्तिरिति चेन्न, इक्त्वयण्त्वादिनाऽनुगतीकृतानां समत्वात् । ननु ऋलवर्णाभ्यां प्रत्येकं तिंरशदुपस्थितौ ऌवर्णानां रेफादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्ग इति न यथासंख्यसूत्रेण निर्वाह इति चेत्, शृणु-ऋत्वावच्छिन्नस्य रेफो भवति, लृत्त्वावच्छिन्नस्य लकारो भवतीति यथासंख्यसूत्राल्लभ्यते । ऋत्वजातिश्च न ऌवर्णेषु । लृत्वजातिश्च न ऋवर्णेषु । ऋऌवर्णयोः सावण्र्यविधिबलात्तु ऋत्वम् ऌकारे, लृत्वमृकारे च आरोप्यते कार्यार्थम् । एवं च वास्तवमृत्वं लृत्वं च आदायात्र यथासंख्यप्रवृत्तिर्निर्बाधेत्यास्तां तावत् ।", "61078": "<<एचोऽयवायावः>> - एचोऽयवायावः । अय्च अव्च आय्च आव्चेति विग्रहः । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासंख्यपरिभाषया एकारस्य अय्, ओकारस्य-अव्, ऐकारस्य-आय्, औकारस्य-आविति लभ्यते । तदाह — एचः क्रमादिति । यथासंख्यसूत्रभाष्यरीत्या त्वन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह 'इचोऽचि यणयवायाव' इत्येव सूत्रयितुमुचितम् ।", "61079": "<<वान्तो यि प्रत्यये>> - वान्तो यि प्रत्यये ।यि॑इति सप्तम्यन्तम् । तेन यकारादाविति लभ्यते ।यस्मिन्विधिस्तदादावल्ग्रहणे॑ इति वार्त्तिकात् । तत्र यस्मिन्निति सप्तम्यन्तं विवक्षितम् । अलिति वर्णपर्यायः । सप्तम्यन्ते वर्णग्रहणे यो विधिः स तद्वर्णादौ ज्ञेय इति तदर्थः । येन विधिरित्यस्यायमपवादः । वकारोऽन्ते यस्य स वान्तः । पूर्वसूत्रोपात्तोऽवादेश आवादेशश्च विवक्षितः । तौ च कयोर्भवत इत्याकाङ्क्षायामोदौतोरित्यर्थाल्लभ्यते, पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन कॢप्तत्वात् । तदाह — यकारादावित्यादिना । गव्यमिति । गो — य इति स्थिते ओकारस्याऽच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते । अस्ति चात्र यु इत्यस्य प्रत्ययत्वमित्याह — गोपयसोर्यदिति ।अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय॑ इति शेषः नाव्यमिति । नौ-य इति स्थिते औकारस्य अचपरकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह — गोपयसोर्यदिति ।अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय॑ इति शेषः । नाव्यमिति । नौ — य इति स्थिते औकारस्य अच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्ते वचनमिदम् । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह — नौवय इति । गव्यं नाव्यमित्यत्र लोपः शाकल्यस्येति हलि सर्वेषामिति च वकारस्य लोपो न भवति, तयोः पदान्तविषयत्वात्, इह च भत्वेन पदत्वबाधात् । गोर्यूतौ छन्दस्युपसंख्यानम् । छन्दसि=वेदे यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य स्थाने अविति वान्तादेसो भवतीति उपसंख्यानम्धिकवचनं कर्तव्यमिति सूत्रकारः शिक्ष्यते ।आ नो मित्रावरुणा घृतैर्गंव्यूतिमुक्षत॑मित्युदाहरणम् । गव्यूतिः=गोप्रचारभूमिः । गावो यूयन्ते मिश्र्यन्तेऽस्यामित्यधिकरणे युधातो क्तिनिति वेदभाष्ये भट्टभास्करः । अत्र यूतिशब्दस्य प्रत्ययत्वाऽभावात्तस्मिन् परतोवान्ते यि प्रत्यये॑ इत्यप्राप्तौ वचनमिदम् । अध्वपरिमाणे च मार्गपरिमाणविशेषे गम्येऽपि यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य अविति वान्तादेशस्य उपसङ्ख्यानं कर्तव्यमित्यर्थः । लोकेऽपि प्राप्त्यर्थमिदम् । यद्यपि पूर्ववार्तिकं वैदिकप्रक्रियायामेव उपन्यसनीयं, तथाप्यत्राऽनुवृत्तिबोधसौकर्यार्थमिह तदुपन्यासः । गव्यूतिरिति । यावति गोशब्दो यूयते मिश्र्यते श्रूयते तावानध्वा गव्यूति-क्रेशयुगम् ।गव्यूतिः स्त्री कोशयुग॑मित्यमरः । युधातोरधिकरणे क्तिन् । कथमिह युधातोदीर्घ इत्यत आह — ऊतियूतीति । निपातनादेव दीर्घ इति भावः । सिद्धप्रक्रियस्य निर्देशो निपातनम् । ननु गव्यं नाव्यमित्यत्र भत्वेन पदत्वबाधाल्लोपः शाकल्यस्येतिहलि सर्वेषा॑-मिति च वलोपाभावेऽपि गव्यूतिरित्यत्र लोपः स्यात्, अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादि-स्वादिप्रत्यत्वाऽभावेन तस्मिन् परतो भत्वाऽभावाच्चेत्यत आह — वान्त इत्यत्रेत्यादि । 'वान्तो यि प्रत्यय' इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे वकारः प्रश्लिष्यत इत्यन्वयः । तर्हि व् वान्त इति, व् छन्दसीति च वकारः कुतो न श्रूयत इत्यत आह-लोपो व्योरितिलोपेनेति । 'अन्तर्हित' इति शेषः । ननु प्रश्लेष#ए सति किमायातमित्यत आह — तेनेति ।वान्ते यी॑ति सूत्रे वकरात् प्राग्विति प्रश्लिष्यमाणं वान्तस्य विशेषणम् । विशेषणत्वाच्च तदन्तविधौ सति वकारान्त इति लभ्यते । तत्र वान्तस्य पुनर्वान्तत्ववचनसामर्थ्यात्च्छयमाणवकारवान् वान्त आदेशः स्यादिति लभ्यते । गोर्यूतावित्यत्र चेदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रूयमाणवकारवान् वान्तादेश इति लभ्यते । गोर्यूतावित्यत्र छकारात्प्राग्विति प्रश्लिष्यमाणमपि पूर्वसूत्रादनुवृत्तस्य वान्त #इत्यस्य विशेषणमिति तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्कतत्ववचनसामर्थ्याच्छयमाणवकारवानिति लभ्यत इत्यर्थः । नन्वेतावता गव्यूतिरित्यत्राऽवादेशे वकारस्य श्रूयमाणत्वलाभेऽपि लोपशङ्का न परिह्मतेत्यत आह — वकारो न लुप्यत इति यावदिति । वकारस्य श्रूयमाणत्ववचनं वकारो न लुप्यत इत्यर्थे पर्यवसन्नमित्यर्थः, अश्रवणस्यैव, लोपशब्दार्थत्वादिति बावः । यद्यपिवान्तो यी॑ति सूत्रे वकारप्रश्लेषस्य तदुदाहरणे गव्यं नाव्यमित्यत्र प्रयोजनं नास्ति, तत्र भत्वेन पदत्वस्य बाधेनोक्तलोपस्याऽप्राप्तेः । लव्यमित्यादौ स्वत #एव पदत्वाऽभावाल्लोपस्याऽप्राप्तिः । गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्तिः, ' न क्ये' इति नियमेन तत्र पदत्वाऽभावात् । तथापि गोर्यूताविति वार्तिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव । एवं च वार्तिक एवन तत्प्रश्लेष उचितः । एतस्मादेवाऽस्वरसाच्छकाराद्वेत्युक्तम् । वस्तुतस्तु वकार प्रश्लेषोऽनुपपन्नः, तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात् । न चलोपो व्यो॑रिति लोपात्तदश्रवणमिति वाच्यम्,वकारलोपस्य उदाहरणाऽभावाद्वकारग्रहणं न कर्तव्य॑मिति लोपो व्योरिति सूत्रस्थभाष्यविरोधात् । अतोऽत्र प्रश्लिष्टवकारस्य छान्दस एव लोपो वर्णनीयः । प्रक्रियाप्रकाशे तुसंज्ञापूर्वको विधिरनित्य॑ इति वचनाद्रव्यूतिरित्यत्र न वकारलोप इत्युक्तम् । अन्येत्विको गुणवृद्धी इति सूत्रे अतो लान्तस्येत्त्र लुप्तनिर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचिदस्ति वकारलोप इत्याहुः ।", "61080": "<<धातोस्तन्निमित्तस्यैव>> - ननु ओयते औयतेत्यत्रापि ओकारस्य औकारस्य च वान्तो यीति वान्तादेशः स्यादित्याशङ्क्य वान्तो यीति सूत्र नियमयति — धातोस्तन्निमित्तस्यैव । एचेति, वान्तो यि प्रत्यय इति चानुवर्तते । स यादिप्रत्ययो निमित्तं यस्य स तन्निमित्तः । यादिप्रत्यये परे धातोरेचो भवन् वान्तादेशो यादिप्रत्ययनिमित्तकस्यैव एचो भवति, नान्यस्येत्यर्थः । तदाह — यादौ प्रत्यय इत्यादिना । लव्यमिति । लूञ् छेदने । अचो यत् ।सार्वधातुकार्धधातुकयो॑रित्यूकारस्य गुण ओकारः । तस्य धात्ववयवत्वाद्यादिप्रत्ययानिमित्तकत्वाच्च वान्तादेशः । अवश्यलाव्यमिति । 'ओरावश्यके' इति लूञो ण्यत् ।अचो ञ्णिती॑त्यूकारस्य वृद्धिरौकारः ।अवश्य॑मित्यव्ययम् । मयूरव्यंसकादित्वात्समासः ।लुम्पेदवश्यमः कृत्ये॑इति मलोपः । अत्र औकारस्य धात्ववयवत्वाद्यादिप्रत्ययनिमित्तकत्वाच्च वान्तादेशः । ननु लव्यमवश्यलाव्यमित्यत्र वान्तो यीत्येव वान्तादेशः सिद्धः, अतस्तन्निमित्तस्यैवेति नियमार्थमिदं सूत्रमिति स्थितिः । तन्नियमविधेः किं प्रयोजनमिति पृच्छति — तन्निमित्तस्यैवेति किमिति । नियमस्य किं प्रयोजनमित्यर्थः । ओयते इति । वेञ् तन्तुसन्ताने । कर्मणि लट् बावकर्मणोरित्यात्मनेपदम् । यक् । वचिस्वपियजादीना॑मिति वकापरस्य संप्रसारणमुकारः पूर्वरूपम् ।अकृत्सार्वधातुकयो॑रित्युकारस्य दीर्घः । आङा सह उकारस्य आद्गुण इति गुण ओकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाऽभावान्न वान्तादेशः । नन्वत्र न धातुलोपसूत्रस्थभाष्यरीत्या आद्गुण इति गुणस्य ओकारस्य पदद्वयापेक्षत्वेन बहिरङ्गतया वान्तादेशे कर्तव्ये असिद्धत्वादोकाराऽभावान्न वान्तादेशप्रसक्तिरत्यस्वरसादाह — औयतेति । वैञः केवलात्कर्मणि तङ् । आत्मनेपदादि पूर्ववत् । आडजादीनामित्याट् । आटश्चेति वृद्धिरौकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाऽभावान्न वान्तादेशः । नात्र वृद्धेर्बहिरङ्गत्वं, पदद्वयापेक्षत्वाऽभावात् ।सिद्धे सत्यारम्भो नियमार्थः॑ इति न्यायेन नियमविधिसिद्धेः, तन्निमित्तस्यैवेत्येवकारस्तु विपरीतनियमव्यावृत्त्यर्थः । #एवकाराऽभावे हियादिप्रत्ययनिमित्तकस्य चेदेचो वान्तादेशस्तर्हि धातोरेवैच॑ इत्यपि नियमः प्रतीयेत । तथा च 'बाभ्रव्य' इत्यत्र वान्तादेशो न स्यात् । बभ्रोरपत्यं बाभ्रव्यः ।मधुबभ्र्वोब्र्राआहृणकौशिकयो॑रिति यञ् । 'ओर्गुण' इत्युकारस्य गुण ओकारः । तस्य यादिप्रत्ययनिमित्तकस्य धात्ववयवत्वाऽभावाद्वान्तादेशो न स्यात् । अत इष्टनिमावधारणार्थं तन्निमित्तस्यैवेत्येवकारः ।", "61081": "<<क्षय्यजय्यौ शक्यार्थे>> - क्षय्यजय्यौ शक्यार्थे । शक्यार्थे क्षय्यजय्यशब्दौ वाचकतया वर्तेते इत्यर्थः । ननु किमपि कार्यं विधेयमत्र न दृश्यते इत्यत आह — यान्तेति । प्रातिस्विकविधिं विंना सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशो निपातनम् । ततश्च शक्यार्थके यादौ प्रत्यये परेक्षि क्षये॒॑जि जये॑इति धातोरेचोऽयिति यान्तादेशः स्यादिति विधानमत्र फलति । शक्यार्थे क्षिज्योर्यान्त इति प्रातिस्विकविधौ गौरवादेवं निपातनमिति भावः । क्षय्यमिति ।कृत्या॑इत्यधिकारे क्षिधातोरचो यदिति यत्प्रत्ययः । स चशकि लिङ् चे॑ति शक्यार्थः । शक्यार्थे लिङ् स्याच्चात्कृत्या इति तदर्थः ।सार्वधातुकार्धधातुकयो॑रिति इकारस्य गुण एकारः । तस्या.ञच्परकत्वाऽभावादप्राप्तोऽयादेशोऽत्र निपात्यते । जय्यमित्यपि पूर्ववत् । शक्यार्थे किमिति । 'शक्यार्थे' इत्यस्य किं प्रयोजनमिति प्रश्नः । क्षेतुमित्यादि । क्षेतुं योग्यं क्षेयं पापम् । जेतुं योग्यं जेयं मन इत्यन्वयः ।अर्हे कृत्यतृचश्चे॑ति यत् । स च न शक्यार्थक इति नात्र यान्तादेश इत्यर्थः ।", "61082": "<<क्रय्यस्तदर्थे>> - क्रय्यस्तदर्थे । इदमपि यान्तादेशनिपातनार्थम् । तदर्थशब्दं व्याचष्टे - तस्मा इति । क्रय्यशब्दे यः क्रीञ्धातुर्यत्प्रत्ययप्रकृतिभूतस्तस्ययोऽर्थोऽभिधेयो द्रव्यविनिमयरूपः क्रयः स प्रकृत्यर्थस्तच्छब्देन विवक्षितः । तस्मै इदं तदर्थं=क्रयार्थं वस्तु । तथाच क्रयार्थे वस्तुनि गम्ये क्रीञ्धातोर्यादौ प्रत्यये परे इति फलति ।यान्तः क्रीञस्तदर्थ॑ इति विधौगौरवान्निपातनमाश्रितम् । क्रयार्थत्वं चात्र फलोपधायकं विवक्षितमित्याह — क्रेतार इत्यादि क्रय्यमित्यन्तम् । योग्यतामात्रग्रहणे तुतदर्थे॑इत्यव्यावर्तकं स्यादिति भावः । क्रीञः कर्मणि 'अचो यत्' इति यत् ।सार्वधातुके॑ति गुण एकारः । अत्रैकारस्याऽच्परकत्वाऽभावादनेनाऽयादेशविधिः । क्रेयमन्यदिति । गृहादौ भोजनाद्यर्थं संगृहीतं धान्यादीत्यर्थः ।अर्हे कृत्यतृचश्चेति॑यत् । अत्राऽयादेशो न भवति, फलोपधानस्य क्रयार्थत्वस्य तत्राऽभावादित्यर्थः ।", "61083": "", "61084": "<<एकः पूर्वपरयोः>> - तर्हि कुतोऽत्र यणावलादेशौ न भवत इत्यत आह — न पदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति । पदान्तभूतेकारौकारयोः स्थाने भवतोर्यणावादेशयोः पदचरमावयवतया तयो कर्तव्ययोः परनिमित्तकस्याऽजादेशस्या.ञल्लोपस्य स्थानिवत्त्वनिषेधादित्यर्थः । अथ एकादेशसन्धिं निरूपयितुमाह — एकः पूर्वपरयोः इत्यधिकृत्येति । पदद्वयात्मकमिदं सूत्रमुत्तरत्रानुवृत्त्यर्थं पठित्वा कतिपयसन्धयो विधास्यन्त इत्यर्थः ।", "61085": "<<अन्तादिवच्च>> - अथ तस्य रेफस्य पदान्ते विहितं विसर्गमाशङ्कितुं तस्य पदान्तत्वसाधनायाह-अन्तादिवच्च । एकः पूर्वपरयोरिति सूत्रमनुवर्तते । यथासंख्यपरिभाषया अन्तादिवदित्यस्य क्रमेणान्वयः । ततश्च पूर्वपरयोर्भवन्नेक आदेशः पूर्वस्यान्तवत्परस्यादिवदिति लभ्यते । यद्यपि एकादेशस्य द्वौ वर्णौ स्थानिनौ-पूर्वः परश्च, तयोश्च वर्णयोः प्रत्येकमेकत्वादखण्डत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्त्वकथनमसङ्गतम्, तथापि पूर्वपरवर्णयोर्भवन्नेकादेशः प्रथमस्थानिघटितसमुदायस्य पूर्वस्य योऽन्तः । प्रथमस्थानी तत्कार्यकारी भवति । द्वितीयस्थानिघटितसमुदायस्य उत्तरस्य य आदिर्द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षितः । तत्र पूर्वान्तवत्त्वे यताक्षीरपेण । क्षीरप-इनेति स्थिते 'आद्गुण' इत्येकादेश एकारः । तत्र पूर्वान्तवत्त्वेन पे इत्युत्तरपदस्य एकाच्त्वादेकाजुत्तरपदेण इति णत्वं भवति । अत्र एकादेशे स्थानिवत्सूत्रं तु न प्रवर्तते, एकदेशस्थानीभूतं पकारादकारमालम्ब्य पे इत्यस्य एकाजुत्तरपदत्वाश्रयेम प्रवर्तमानस्य णत्वस्य स्थान्यलाश्रयत्वात् । यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन णत्वविधिराश्रयति, पकारादकारं स्थान्यलं तु तद्विशेषणीभूताऽच्वेनाश्रयति, तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव, यथाकथञ्चित्स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात् । अन्यता प्रतिदीव्येत्यत्र क्त्वादेशं ल्यपं स्थानिगतवलाद्यर्थधातुकत्वेनाश्रित्येडागमेकर्तव्येऽनल्विधाविति निषेधानुपपत्तिः, तत्र वलः प्राधान्येनाश्रयणाऽभावात् । एतेन स्थानिवत्सूत्रेण गतार्थमिदं सूत्रमिति निरस्तम् । परादिवत्त्वे यथा-खट्वा । अत्र खट्वाशब्दादजाद्यतष्टाप् । सवर्णदीर्घः आकारः । तस्य परादिवत्त्वेन टाप्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः । इदमपि स्तानिवद्भावेन अनिर्वाह्रम् । हल्ङ्यादिलोपस्यात्र स्थान्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात् । नचैवं सति यजेर्लङि उत्तमपुरुषैकवचने इटि शपि आद्गुणे अडागमे अयजे इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्त्वेन इकारत्वात्तत्रेकारे परे सवर्णदीर्घः स्यादिति वाच्यम, इह हि अल्समुदायधर्मास एव प्रातिपदिकत्व-सुबन्तत्व-प्रत्ययत्वादयोऽतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्वह्रस्वत्वादयः । उक्तञ्च भाष्ये-॒न वा अताद्रूप्यातिदेशा॑दिति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवंजातीयकेषु सवर्णदीर्घादिकं न भवतीत्यर्थ इत्यलमतिविस्तरेण ।", "61086": "", "61087": "<<आद्गुणः>> - आद्गुणः । आदिति पञ्चमी नतु तपरकरणम् । एकः पूर्वपरयोरित्यधिकृतम् । तदाह-अवर्णादचीत्यादिना । उपेन्द्र इति । उप-इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोस्तथाविध एको गुण एकारः, आन्तरतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाह-रमेश इति । रमा-ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकारः । गङ्गोदकमिति । गङ्गा-उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्टस्थानकयोस्तथाविध एको गुण ओकारः । कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र अकार ऋकारश्चेति द्वौ स्थानिनौ । तयोरकार एकार ओकारश्चेति त्रयोऽपि गुणः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याऽविशेषात् ।", "61088": "<<वृद्धिरेचि>> - वृद्धिरेचि । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । एकऋ पूर्वपरयोरित्यधिकृतम् । तदाह — आदेचीत्यादिना । गुणापवाद इति । आद्गुण इति प्राप्तावेतदारम्भादिति भावः । कृष्णैकत्वमिति । कृष्णस्य-एकत्वमिति षष्ठीसमासः ।पूरणगणे॑ति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते । कृष्णेति सम्बुद्ध्यन्तं पृथक्पदमित्यन्ये । अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेशः । गङ्गा-ओघ इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकारः । एवं देवैआर्यं कृष्णौत्कण्ठमित्यत्रापि । वस्तुतस्तु सङ्ख्यादिशब्दा न गुणवचना इति त्रैव वक्ष्यामः ।", "61089": "<<एत्येधत्यूठ्सु>> - एत्येधत्यूठसु । एतिश्च एधतिश्च ऊठ्चेति विग्रहः । एतीति एधतीति चईक्श्तिपौ धातुनिर्देशे॑ इति श्तिपा निर्देशः । इण् गताविति, एध वृद्धाविति च धातू विवक्षितौ । एचीत्यनुवर्तते ।यस्मिन्विधि॑रिति तदादिग्रहणम् । एजादाविति लभ्यते । तच्च एत्येधत्योरेव विशेषणं, न तूठोऽसंभवात् ।एकः पूर्वपरयो॑रित्यधिकृतम् । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तदाह — अवर्णादित्यादिना । उपैतीति । इण्धातोर्लट् । तिप् शप् लुक् । 'सार्वधातुक' इति इकारस्य गुण एकारः । उप-एतीति स्थितेऽनेन वृद्धिः । उपैधत इति । एधधातोर्लट् । आत्मनेपदं तादेशः । शप् ।टित आत्मनेपदाना॑मित्येत्वम् । उप एधते इति स्थितेऽनेन वृद्धिः । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् ।वहश्चे॑ति ण्विः । 'वेरपृक्तस्ये' इति वलोपः । 'अत उपधाया' इति वृद्धिः । ततः शसिवसोः सम्प्रसारण॑मित्यतः संप्रसारणमित्यनुवृत्तौ 'वाह ऊठ्' इति संप्रसारण संज्ञकस्य ऊठःसम्प्रसारणाच्चे॑ति पूर्वरूपम् । प्रष्ठ ऊहिति स्थितेऽनेन वृद्धिरौकारः । नन्वत्र एत्येधतिग्रहणं व्यर्थम्, उपैति उपैधत इत्यत्र वृद्धिरैचीत्यनेनैव वृद्धिसंभवात् । ऊठग्रहणमपि व्यर्थं, वृद्धिरेचीत्य#एव सिद्धेः । वाह ऊठग्रहणानार्थक्यं, संप्रासरणेन कृतत्वात् । गुणस्तु प्रत्ययलक्षणत्वात् । एज्ग्रहणाद्वृद्धिः॑ इति वार्त्तिककृता तथैवोक्तत्वात् । ऊठ्ग्रहणं न कर्तव्यम् ।वाह॑इत्येव सूत्पमस्तु । भस्य वाहः संप्रसारणं स्यादिति संप्रसारणमेव विधीयतां, ततश्च वकारस्य उकारे संप्रसारणे पूर्वरूपे सति उहिति स्थिते प्रत्ययलक्षणमाश्रित्य ण्विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ठ-ओहिति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थः । तस्मादेत्येधत्यूठसु इति सूत्रं व्यर्थमित्यत आह — पररूपगुणापवाद इति । एत्येधत्योरेङि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमपवाद इत्यर्थः । यदि हि बाहः सम्प्रसारणमेव विधीयेत न तूठ्, तर्हि वस्य संप्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपधगुणो न भवति तस्मिन् कर्तव्ये बहिर्भूतशस्प्रत्ययापेक्षभसंज्ञापेक्षसंप्रसारणाश्रित पूर्वरूपस्य बहिरङ्गतयाऽत्राऽसिद्धत्वात् । तथाच गुणाऽभावे प्रष्ठ-उ-आहिति स्थिते पूर्वरूपे प्रष्ठ-उह् इति स्थिते 'आद्गुण' इति गुणे ओकारे 'प्रष्ठोह' इति स्यात् । संप्रसारणसंज्ञकस्य ऊठो विधौ तु प्रष्ठ ऊ आहिति स्थिते पूर्वरूपे लघूपधगुणस्याऽप्रसक्ततया ओकारस्याऽभावादूकारस्यैव सत्त्वाद्वृद्धिरेचीत्यस्याऽप्रसक्तेराद्गुण इति प्राप्ते एत्येधत्यूठ्स्विति वृद्धौ 'प्रष्ठौह' इति सिध्यतीत्यूठ्ग्रहणमावश्यकमिति वाहौउठ सूत्रे समुदाहृतवार्तिकं भाष्ये दूषितमित्यास्तां तावत् । उपेत इति । इण्धातोर्लट् तस् शप् लुक् ।सार्वधातुकमपि ॑दिति तसो ङित्त्वात्तास्मिन् परत इकारस्य न गुणः । अत्र इण्धातोरेजादित्वाऽभावात्तस्मिन्परतो न वृद्धिः । मा भवान्प्रेदिधदिति । एधधातोर्णिच् । लुङ् तिप् । 'नित्यं ङितः' इति इकारलोपः । 'णिश्रिद्रुरुआउभ्य' इति चङ् ।णौ चङ्युपधाया ह्रस्वः॑ ।चङी॑त्यजादेर्द्वितीयस्य धिशब्दस्य द्वित्वम् ।अभ्यासे चर्चे॑ति जश्त्वम् । 'न माङ्योग' इत्याडभावः । भवच्छब्दयोहगात्प्रथमपुरुषः । तच्च तिङन्ताधिकारे स्पष्टीभविष्यति । प्र-इदिधदिति स्थिते एत्येधतीति न वृद्धिः, एधधातोरेजादित्वाऽभावात् । तत्र एजादित्वविशेषणाऽभावे तु इहापि वृद्धिः स्यात् । न च णौ चङीत्येकारस्य ह्रस्वेन इकारे सति नायमेधधातुरिति वाच्यम्, एकदेशविकृतस्यानन्यत्वात् । अत्र माङं विहाय प्रेदिधदिति न प्रत्युदाहृतम् । तथा सति आडजादीनामित्याडागमे आटश्चेति वृद्धौ ऐदिधदिति स्यात् । तत्र एधतेरेजादित्वाद्वृद्धिरिष्टैव । भवच्छब्दस्तु चिन्त्यप्रयोजनः । ननु आ इहि, आद्गुणः, एहि, अव-एहीति स्थिते एकादेशस्य गुणस्य एकारस्य अन्तादिवच्चेति परादिवद्भावेन,आद्यन्तवदेकस्मि॑न्निति व्यपदेशिवद्भावेन च , च इण्धातोरेजादित्वात्तस्मिन् परेएङिपररूप॑मिति पररूपं बाधित्वा एत्येधत्यत्यूठ्स्विति वृद्धौअवैही॑ति इष्टं न स्यात् । न च ओमाङोश्चेति पररूपेण तन्निर्वाहः शङ्क्यः । एत्येधतीति वृद्धिर्हि यथा एङि पररूपमित्यस्यापवादस्तथा ओमाङित्यस्याप्यपवादः;येन नाप्राप्तिन्यायसाम्यादित्यत आह — पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायः । पूर्वपठिता अपवादा अव्यवहितानेवोत्तररान्विधीन्बाधन्ते न तु व्यवहितानित्यर्थः । प्रकृते च एत्येधत्यूठ्सु इत्युत्तरं कानिचित् सूत्राणि पठित्वाएङि पररूप॑मिति पठित्वा पुनः कतिपयसूत्राणि पठित्वा पुनः ओमाङोश्चेति पठितम् । ततश्चोक्तन्यायेनएत्येधती॑ति वृद्ध्याएङि पररूप॑मित्येव बाध्यते न त्वोमाङोश्चेति पररूपमपीति भावः । वस्तुतस्तु एत्येधतीति वृद्धिरोमाङोश्चात्यस्यापवाद एव न भवति, उपैतीत्यादावप्राप्तेऽपि तस्मिन्नेत्येधतीति वृद्धेरारम्भात् । अतः पुरस्तादपवादा॑ इति न्यायस्य नायं विषयः । ततस्च अव-एहीत्यत्र एत्येधतीति बाधित्वा परत्वादोमाङोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये — नाप्राप्ते एङि पररूपे एत्येधतीति बाधित्वा परत्वादोमाहोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये — ॒नाप्राप्ते एङि पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवादः । आङि पररूपे तु प्राप्ते चाऽप्राप्ते च आरभ्यमाणा वृद्धिर्नं तदपवाद॑ इति स्पष्टमेवोक्तम् । यत्तु भाष्ये पक्षान्तरमुक्तम् — ॒अथवा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्त इत्येवमेत्येधतीति वृद्धिरेङि पररूपमेव बाधते न त्वोमाङोश्चेति पररूपमपी॑ति । तत्तु एत्येधतीति वृद्धिरेङि पररूपमोमाङोश्चेति सूत्रद्वयापवादत्वाब्युपगमवादमात्रमाश्रित्य, बाध्यसामान्याचिन्तामाश्रित्य वेत्यलं बहुना । अक्षादूहिन्यामुपसंख्यानम् । आदिति अचीति वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रिति च ।ऊह वितर्के॑ । ऊहनमूहः, सोऽस्या अस्तीत्यूहिनी । अक्षशब्दादूहिनीशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । अक्षौहिणीति मत्वर्थीय इनिः । नान्तत्वान्ङीप् । अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षोहिणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । अक्ष — ऊहिनीति स्थिते गुण प्राप्तेऽनेन वार्तिकेन वृद्धिः ।स्वादीरेरिणोः । स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । स्वैर इति ईरगतौ । भावे घञ् । स्वेन च्छन्देन ईर इति विग्रहः ।कर्तृकरणे कृता बहुल॑मिति समासः । स्व — ईर इति स्थिते गुणेप्राप्तेऽनेन वार्तिकेन वृद्धिः । स्वेनेरितुमिति । स्वेनच्छन्देन ईरितुं संचरितुं शीलमस्येत्यर्थेसुप्यजाता॑विति णिनिः । स्वच्छन्दचारीत्यर्थः । उपपदसमासः । स्व — ईरिन्निति स्थिते गुणे प्राप्तेऽनेन वृद्धिः ।प्रादूहोढोढएषेष्येषु । प्रेत्युपसर्गात् 'ऊह' 'ऊढ' 'एष॒॑एष्य' एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रौह इति । ऊहवितर्के । भावे घञ् । गतिसमासः । प्र-ऊह इति स्थितेऽनेन वार्तिकेन वृद्धिः प्रौढ इति । बह प्रापणे । क्तः ।वचिस्वपी॑ति सम्प्रसारणम् । पूर्वरूपम् । 'हो ढ' इति ढत्वम् । झषस्तथोरिति धत्वम् । ष्टुत्वम् । 'ढो ढे लोपः' 'ढ्रलोप' इति दीर्घः । प्र-ऊढ इत,#इ स्थिते गुणे प्राप्तेऽनेन वृद्धिः । ननु प्रोढवानित्यत्रापि वहधातोः क्तवतुप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु प्र-ऊढवदिति स्थिते प्रादूहोढेति वृद्धि स्यात्, तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह — अर्थवदिति । अर्थवतः शब्दस्य ग्रहणसम्भवेऽनर्थकस्य शब्दस्य ग्रहणं न भवतीत्यर्थः । इयं परिभाषा॒स्वं रूप॑ मित्यत्र रूपग्रहणात्सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम् । तेनेति । अर्थवत एव ग्रहणनियमेनेत्यर्थः । क्तान्तमेवेति । क्तप्रत्ययस्तावदर्थवान्, भावकर्मणोस्तद्विधानात् । क्तवतुप्रत्ययस्तु कर्तरि विहितः । अतस्तदेकदेशस्य क्तस्यानर्थकत्वात्प्रादूहोढेत्यत्र ऊढग्रहणेन ग्रहणं न भवति, अतस्तस्मिन्, परे वृद्धिर्न भवति, किन्त#उ गुण एवेत्यर्थः । प्रौढिरिति । वहधातोः क्तिन् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । प्र-ऊढिरिति स्थिते गुणं बाधित्वाऽनेन वृद्दिः । इष-इच्छायामित्यादि । गणत्रयेऽपि ह्रस्वोपधा एव एते धातवः । तेषामिति निर्धारणे षष्ठी । तेषां मद्येऽन्यतमाद्व्वञि ण्यति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे । प्र एष प्र एष्य इति स्थिते एङि पररूपं बाधित्वाऽनेन वृद्धिः । #एतेन वृद्धिरेचीत्यनेन एवैषैष्यग्रहणयोर्गतार्थत्वं निरस्तम् । नन्वेवं सति प्रेष इति प्रेष्य इति च कथं प्रयोग इत्यत आह — यस्त्विति । तयोर्दीर्घोपधत्वेन लङूपधगुणाऽभावे ईष ईष्य इति च सिध्यति । तयोस्तु एतद्वार्तिके ग्रहणाऽभावात्तयोः परतो वृद्ध्यभावे 'आद्गुण' इति गुणे प्रेषः प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थः । एषशब्दसाहचर्यादेष्यशब्दोऽपि कृदन्त एव गृह्रते । तेन तिङन्ते ल्यबन्ते च न वृद्धिः । अग्नये प्रेष्य दूतम्, प्रेष्य गतः ।ऋते च तृतीयासमासे । तृतीया समासेऽकारादृतशब्दे परे पूर्वपरयोरचोर्वृद्धिः स्यादित्यर्थः । सुखेन ऋत इति विग्रहप्रदर्शनम् । ऋ गतौ । गत्यर्थाकर्मकेति कर्तरि क्तः । प्रकृत्यादित्वात्तृतीया । सुप्सुपेति समासः । सुख-ऋत इति स्थिते गुणे प्राप्तेऽनेन वृद्धिराकारः । रपरत्वे सुखार्त इति रूपम् । समसग्रहणस्योदाहृतविग्रहवाक्यमेव प्रत्युदाहरणं दर्शितप्रायमिति तृतीयेत्यंशस्य प्रयोजनं पृच्छति — तृतीयेति किमिति । परमर्त इति । परमश्चासौ ऋतश्चेति कर्मधारयः । आद्गुणः ।प्रवत्सतर पञ्चम्यर्थे षष्ठी ।प्र॒॑वत्सतर॒॑कम्बल॒॑वसन॒॑ऋण॑ 'दश' एतेषामृणशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रार्णामिति । प्रगतमृणमिति विग्रहे,प्रादयो गताद्यर्थे प्रथमये॑ति गतिसमासः । प्र-ऋणिमिति स्थिते गुणं बाधित्वाऽनेन वार्तिकेन वृद्धिराकारः । रपरत्वम् । वत्सतरः=शिशुवत्सः, तस्य ऋणमिति विग्रहः । वत्सतरमधिकृत्य वा तद्ग्रहणार्थं वा यदृणं गृह्रते तद्वत्सतरार्णम् । एवमग्रेऽपि द्रष्टव्यम् । आदिशब्देन कम्बलार्णं वसनार्णं दशामृणार्णमिति च गृह्रते । सर्वत्र षष्ठीसमासः । ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह-ऋणस्येति । देशनदीविशेषयोः कथं दशार्णशब्दप्रवृत्तिरित्यत आह — ऋणशब्द इति । तथा च दश ऋणानि दुर्गभूमयो यस्मिन् देशे स दशार्णो देशविशेषः । दशविधानि ऋणानि जलानि यस्यां नद्यां सा दशार्णेति विग्रहः ।", "61090": "<<आटश्च>> - टित्त्वादाद्यवयवः । बहुश्रेयसी आ ए इति स्थिते-आटश्चा ।इकोयणची॑त्यतः अचीति 'वृद्धिरेचि' इत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रिति चाधिकृतम् । तदाह-आटोऽचीत्यादिना । बहुश्रेयस्यै इति । 'बहुश्रेयसी आ ए' इति स्थितेआटश्चे॑ति वृद्धौ यणादेशे च रूपमिति भावः । यद्यपिवृद्धिरेची॑त्येव सिद्धं तथापि ऐक्षतेत्याद्यर्थ॒माटश्चे॑ति सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । बहुश्रेयस्या इति । ङसि ङसोर्बहुश्रेयसी आ अस् इति स्थितेआटश्चे॑ति वृद्धावाकारे यणि रूपमिति भावः । अत्रापि सवर्णदीर्घेण सिद्धम् । न्याय्यत्वादाटश्चेति वृद्धिः । नद्यन्तात्परत्वादिति । श्रेयसीशब्दस्य ईकारान्तनित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयत्वात् । सवर्णदीर्घे प्राप्ते- ।", "61091": "<<उपसर्गादृति धातौ>> - उपसर्गादृति । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गाविशेषणम्, अतस्तदन्तविधिः । अकारान्तादिति लभ्यते । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधिः । ऋकारादाविति लभ्यते । वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह — अवर्णान्तादित्यादिना । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात् । उपाच्र्छति प्राच्र्छतीति । उप ऋच्छतिं प्रऋच्छतीति स्थिते गुणे प्राप्तेऽनेन वृद्धी-रपरत्वम् ।", "61092": "<<वा सुप्यापिशलेः>> - न भवतीति । परोऽपि प्रकृतिभावः पुनर्विधानसामर्थ्याद्बाध्यत इत्यर्थः । वा सुपि । उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते । आद्गुण #इत्यतो वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह — अवर्णान्तादित्यादिना । सुब्धाताविति । सुबन्तप्रकृतकधातौ परत इत्यर्थः, सुबन्तस्य धातोरसंभवात् । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि तुस्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात्सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह — आपिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थः संमत इत्यादेर्लाभार्थमित्यर्थः । प्रार्षभीयतीति । ऋषभमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यच्॒सनाद्यन्ताः॑ इति धातुत्वम् ।सुपो धातुप्रातिपदिकयोः॑ इति सुपो लुक् ।क्यचि चे॑ति ईत्वम् । लट्, तिप्, शप् । पररूपम् । प्र ऋषभीयतीति स्थितेऽनेन वृद्धिराकारः । रपत्वम् । प्रर्षभीयतीति । वृद्ध्यभावपक्षे आद्गुणः, रपरत्वम् । सावण्र्यादिति । ऋऌवर्णयोरिति सावण्र्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थः । उपाल्कारीयतीति । ऌकारमात्मान इच्छतीत्यर्थे क्यजादि पूर्ववत् । लपरत्वं विशेषः । उपल्कारीयतीति । वृद्ध्वभावादत्र गुणः । लपरत्वम् । तपरत्वादिति । ऋतीति तपरकरणेन तत्कालस्यैव ग्रहणाद्दीर्घऋकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः । ऋकारीयतीति । ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृद्ध्यभावादत्र गुण एव ।", "61093": "<<ओतोऽम्शसोः>> - औतोऽम्शसोः । छेद इति । आ-ओत इति च्छेदः, व्याख्यानादिति भावः । 'ओत' इति तपरकरणम् । ओकारादित्यर्थः । अम्च शश्च अम्शसौ, तयोरिति विग्रहः । अवयवषष्ठन्तमेतत् ।इको यणची॑त्यतोऽचीत्यनुवर्तते । 'एकः पूर्वपरयोः' इत्यधिकृतम् । तदाह — ओकारादित्यादिना । शस इह सुबेव गृह्रते ननु बह्वल्पार्थादिति तद्धितः शंस्, अचीत्यनुवृत्तेः, तद्धितस्य च शसोऽजादित्वाऽसंभवात्, 'लशक्वतद्धिते' इत्यत्र तद्धितपर्युदासात् । ननु 'चिञ् चयने' लङ्, अडागमः, उत्तमपुरुषो मिप् ।तस्थस्थमिपा॑मिति तस्य अमादेशः । श्नुर्विकरणः ।सार्वधातुकार्घधातुकयोः॑ इति गुण ओकारः । अचिनो इति स्थितेऽवादेशे अचिनवमिति रूपम् । तत्र अचिनो अम् इति स्थिते अवादेशं बाधित्वा 'औतोऽम्शसोः' इत्यात्वे 'अचिताम्' इति स्यादित्यत आह — शसेति । गामिति । परापिअञ्चोणिती॑ति वृद्धिरिह न भवति, आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम् । नहि वृद्धिविषयादन्यत्राऽऽत्वस्य प्रवृत्तिरस्तीति तदाशयः । नच द्योशब्दादमि आत्वं सावकाशंगोतोणि॑दिति णित्त्वस्य तत्राऽभावे वृद्धेरप्रसक्तेरिति वाच्यम् । अस्मादेव भाष्यादोतोणिदिति णित्त्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धिविषयत्वादिति भावः । गा इति । असर्वनामस्थानत्वान्न णिद्वत्त्वम् । नापि वृद्धिः । 'औतोऽम्शसोः' इत्यात्वमिति भावः । टादावच्यावादेशं मत्वाह — गवा गवे इति । गोरिति ।ङसिङसोश्चे॑ति पूर्वरूपमिति भावः । इत्यादीति । गवोः गवाम् । गवि इत्यादिशब्दार्थः । द्योशब्दओकारान्तः स्त्रीलिङ्गः ।सुरलोको द्योदिवौ द्वे स्त्रिया॑मित्यमरः । सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंलिङ्गः । सुद्योस् इत्यादिसर्वनामस्थानेगोतो णि॑दित्यप्राप्ते ।ओतो णिदिति वाच्यं । गोत इति गकारमपनीय 'ओतो णित्' इति वाच्यमित्यर्थः । तत्र प्रमाणमनुपदमेवोक्तम् । नत्विदं वार्तिकम् । तत्र ओत इति तपरकरणम् । ओकारात् सर्वनामस्थानं णिदिति लभ्यते ।विहितेति । ओकारद्विहितं सर्वनामस्थानमित्येवमोत इत्येतद्विहिताविशेषणमाश्रयणीयमित्यर्थः । तेनेति । गोत इति गकारमपनीय ओत इति वचनेनेत्यर्थः । सुद्यामित्यादीति । गोशब्दवद्रूपाणीति भावः । हे भानो इति ।ओकारात्परं सर्वनामस्थानं णि॑दिति व्याख्याने तु भानुशब्दात्सम्बुद्धौ 'ह्रस्वस्य गुणः' इति गुणे ओकारे सति सोरोकारात् परत्वाण्णिद्वत्त्वे वृद्धौ औकारे एङः परत्वाऽभावात्सुलोपाऽभावे रुत्वविसर्गयोः हेभानौ॑रिति स्यात् । अतो विहितविशेषणमित्यर्थः । ननुएह्ह्रस्वात्सम्बुद्धेः॑ इत्यत्र-एङ्ग्रहणसामर्थ्यादेव हे भानो इत्यत्र णित्त्वं तत्प्रयुक्तवृद्धिश्च न भवति । अन्यथा 'एङ्ह्रस्वात्' इत्येव ब्राऊयात् । अतो विहितविशेषणमनर्थकमित्यस्वारस्यादाह — हे भानव इति । तत्रजसि चे॑ति गुणे भानो अस् इति स्थिते ओतः परत्वाणिद्वत्त्वे वृद्धौ आवादेशे 'भानावः' इति स्यात् । अतो विहितविशेषणमिति भावः । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया हे भानो हे भानव इत्यत्र णिद्वत्त्वाऽभावोपपत्तेर्विहितविशेषणत्वाश्रयणं व्यर्थमेव । उः शम्भुरिति । उरित्यस्य विवरणं शम्भुरिति । उः स्मृतो येनेति विग्रहे बहुव्रीहिः ।निष्ठ॑ति स्मृतशब्दस्य पूर्वनिपातः ।आद्गुणः॑ । स्मृतो इति रूपम् । ततः सुबुत्पत्तौ गोशब्दवद्रूपाणि । वस्तुतस्तुगोतो णि॑दिति सूत्रशेषतयाद्योश्च वृद्धिवक्तव्ये॑त्येव वार्तिकं भाष्ये दृश्यते । 'औतोऽम्शसोः' इत्यत्र ओतो णिदिति तु न दृश्यते । अतोऽन्यदोकारान्तं प्रातिपदिकं नास्तीत्याहुः । इत्योदन्ताः । अथैदन्ताः । रैशब्दो धनवाची । 'अर्थरैविभवा अपि' इत्यमरः ।", "61094": "<<एङि पररूपम्>> - एङि पररूपम् । उपसर्गादीति धाताविति चानुवर्तते । आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधिः ।यस्मिन्विधि॑रिति परिभाषया तदादिग्रहणम् ।एकः पूर्वपरयो॑रिति चाधिकृतम् । तदाह — अवर्णान्तादित्या दिना । एकादेश इति । पूर्वपरयो॑रिति शेषः । प्रेजत इति । एजृ दीर्तौ । प्र-एजते इति स्थिते वृद्धिरेचीति वृदिंध बाधित्वाऽनेन पररूपमेकारः । एजृ कम्पने इति तु परस्मैपदी । उपोषतीति । उष दाहे । लट् तिप् शप् । लघूपधगुणः । उष ओषतीति स्थिते वृदिंध बाधित्वाऽनेन ओकारः । ननु एकडो मेषः, तमात्मन इच्छति एडकीयति , उप एडकीयतीति स्थितेऽनेन नित्यमेव पररूपं स्यात्, इष्यते तु वृद्धिरपि — उपैडकीयति उपैडकीयतीति । तत्राह — इहेति ।एङि पररूप॑मित्यत्र वा सुपीत्यनुवर्तते । तच्च नैकवाक्यतया संबध्यते । तथा सति अवर्णान्तादुपसर्गादेङादौ सुब्धातौ परे पररूपमेकादेशो वा स्यादित्येवार्थः स्यात् । एवं सति प्रेजते उपोषतीत्यत्र नित्यं पररूपं न स्यात् । अतो वाक्यभेदेन व्याख्येयम् ।एङि पररूप॑मिति प्रथमं वाक्यम् । अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यादिति तदर्थः ।वा सुपी॑ति द्वितीयं वाक्यम् । तत्र एङि पररूपमित्यनुवर्तते । धातौ उपसर्गादित्यादि च । ततश्च उक्तपररूपविषये सुब्धातौ परे पररूपं वा स्यादिति लभ्यते । तदाह — तेनेति । उक्तरीत्या वाक्यभेदाश्रयणेन एङादौ सुब्धातौ पररूपं पाक्षिकं भवति, तदितरधातौ तु नित्यमित्यर्थः । एवे चानियोगे । नियोगशब्दं व्याचष्टे — नियोगोऽवधारणमिति । अवधारणम्न्ययोगव्यवच्छेदः । तदन्यस्मिन्नर्थे य एवशब्दस्तस्मिन्नकारात्परे पूर्वपरयोः पररूपमेकादेशः स्यादित्यर्थः । क्वेव भोक्ष्यस इति । अत्रेति न निश्चिनुम इत्यर्थः । क्व-एव इति स्थिते वृदिंध बाधित्वाऽनेन वार्तिकेन पररूपमेकारः । अनवकॢप्ताविति । अनवधारण इत्यर्थः । तवैवेति । नान्यस्येत्यर्थः । अत्रैवशब्दस्याऽवधारणार्थत्वान्न तस्मिन् परे पररूपम् । अथ क्वचिट्टेः पररूपं विधातुं टिसंज्ञामाह-अचोऽन्त्यादि टि । 'अच' इति निर्धारणे षष्ठी । जातावकवचनम् । अन्ते भवेऽन्त्यः, अन्त्य आदिर्यस्य तत्-अन्त्यादीति विग्रहः । फलितमाह-अचां मध्य इति । शकन्ध्वादिष्विति । शकन्ध्वादिषु विषये तत्सिद्ध्यर्थं पूर्वपरयोः पररूपं वक्तव्यमित्यर्थः । ततश्च शकादिशब्दानां टेरचि परे टेश्च परस्याचश्च स्थाने पररूपमेकादेश इत्यर्थाल्लभ्यते । आदित्यनुवृत्त#औ शकन्ध्वादिगणे सीमन्त इत्यादिकतिपयरूपाणामसिद्धेः । तदाह-तच्च टेरिति । शकन्ध्वादिगणं पठति — शकन्धुरित्यादिना । शकानां-देशविशेषाणाम्, अन्धुः=कूप इति विग्रहः । कर्क-अन्धुरिति स्थिते पररूपम् । कुलटेति । अट गतौ । पचाद्यच् । टाप् कुलानामटेति विग्रहः । भिक्षार्थं व्यभिचारार्थं वा या गृहानटति सा कुलटा । कुलान्यटतीति विग्रहे तु कर्मण्यणि टिड्ढाणञिति ङीप्स्यात् । कुल-अटेति स्थिते पररूपम् । सीमन्तः केशवेशे इति । गणान्तर्गतवार्तिकमेतत् । केशानां वेशः=सन्निवेशविशेषः । तस्मिन् गम्येसीमन्शब्दस्य टेः-॒अ॑नित्यस्य अन्तशब्दस्थावर्णस्य च स्थाने पररूपमित्यर्थः । आदित्यनुवृत्तौ तु इदं न सिध्येत् ।सीमान्तोऽन्य इति । ग्रामान्तप्रदेश इत्यर्थः । मनीषेति । मनस-ईषेति विग्रहः, । अत्रअ॑सिति टेरीकारस्य च स्थाने पररूपमीकारः । ईष गतौ । 'गुरोश्च हलः' इत्यप्रत्ययः । टाप् । बुद्धिर्मनीषा॑इत्यमरः । हलीषेति ।ईषा लाङ्गलदण्डः स्यादि॑त्यमरः । हलस्य ईषेति विग्रहः । 'करिकलभ' इतिवत्पुनरुक्तिः समाधेया । अत्र गुणे प्राप्ते पररूपम् । एवं लाङ्गलीषेत्यत्रापि । पतञ्जलिरिति । पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रहः । अत्रअ॑दिति टेरकारस्य च स्थाने पररूपमकारः । केचित्तु गोनर्दाख्यदेशे कस्यचिदृषेः सन्ध्योपालनसमयेऽञ्जलेर्निर्गत इत्यैतिह्रा दञ्जलेः पतन्निति विगृह्णन्तिव । मयूरव्यंसकादित्वात्समासः । सारङ्गः पशुपक्षिणोरिति । इदमपि गणान्तर्गतं वार्तिकम् । भाष्ये तु न दृश्यते ।सार॑शब्द उत्कृष्टे ।सारो बले स्थिरांशे च न्याय्ये क्लीबेऽम्बरे त्रिषु॑ इत्यमरः । साराणि अङ्गानि यस्येति विग्रहः । सार-अङ्ग इति स्थिते सवर्णदीर्घे प्राप्तेऽनेन पररूपम् ।चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॑ इत्यनरः । आकृतिगणोऽयमिति । आकृत्या= एवञ्जातीयकतया निर्णेतव्योऽयं गण इत्यर्थः । लोकप्रयोगानुसारेणैवंजातीयकाः शब्द#आ अस्मिन् गणे निवेशनीय इति यावत् । तत्फलमाह — मार्तण्ड इति । मृतमण्डं यस्य स मृतण्डः कश्चिदृषिः । मृत-अण्ड इति स्थिते सवर्णदीर्घं बाधित्वाऽनेन पररूपम् । ततेऽपत्येऽणि मार्तण्डः ।परामार्ताण्डमास्थ॑दिति सवर्णदीर्घस्तु च्छान्दसः । ओत्वोष्ठयोः । अवर्णादोतुशब्दे ओष्ठशब्दे च परे पूर्वपरयो रचोः स्थाने पररूपं वक्तव्यमित्यर्थः । स्थूलोतुरिति ।ओतुर्बिडालो मार्जारः॑ इत्यमरः । स्थूल — ओतुरिति स्थिते वृदिंध बाधित्वा पाक्षिकं पररूपम् । बिम्बोष्ठ इति । बिम्बफलवद्रक्तवर्णावोष्ठौ यस्येति विग्रहः ।", "61095": "<<ओमाङोश्च>> - ओमाङोश्च । ओम् च आङचेति विग्रहः । आदिति पररूपमिति चानुवरग्तते, एकः पूर्वपरयो॑रिति च । तदाह — ओमीत्यादिना । शिवार्योनम इति । अत्र वृदिंध बाधित्वा पररूपम् । शिवहीति । आःइहीति स्थिते गुणेएही॑ति रूपम् । ततः शिव-एहि इति स्थिते वृदिंध बाधित्वा पररूपमेकारः । नचशिव-अःइही॑ति स्थिते सवर्णदीर्घे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धेराङ्ग्रहणं व्यर्थमिति वाच्यं,धातूपसर्गयोः कार्यमन्तरङ्ग॑मिति न्यायेन प्रथमाद्गुण इति गुणे कृते शिव-एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात् । भाष्ये तु-आ ऋश्यात्, गुणः अश्र्यात्, अद्य-अश्र्यात्-अद्यश्र्यादित्यत्र सवर्णदीर्घनिवृत्त्यर्थमाद्ग्रहणमिति स्थितम् ।", "61096": "<<नाम्रेडितस्यान्त्यस्य तु वा (नित्यमाम्रेडिते डाचि)>> - तत्राह-नाम्रेडितस्य ।अव्यक्तानुकरणस्यात #इता॑वितिपररूप॑मितिएकः पूर्वपरयो॑रिति चानुवर्तते । आम्रेडितस्याव्यक्तानुकरणस्यावयवो योऽच्छब्दस्तस्येतिशब्दे परे पररूपं न स्यात् । अन्त्यस्य तु वा । तुरवधारणे । अच्छब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यान्नत्वकारस्यापीत्यर्थः । तदाह — आम्रेडीतस्य प्रागुक्तमित्यादिना । ननु पटत् पटदित्यत्र कथं द्वित्वमित्यत आह — डाचीति ।डाचि बहुलं द्वे भवत इति द्वित्व॑मित्यन्वयः । नन्वव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति डाचः कथमिह संभवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह — बहुलग्रहणादिति । वेत्यनुक्त्वा बहुलग्रहणमदिकविधानार्थं, बहूनर्थान् लाति गृह्णातीति तद्व्युत्पत्तेरिति भावः ।", "61097": "<<अतो गुणे>> - अथ राम असिति स्थिते 'अकः सवर्णे दीर्घ' इति सवर्णदीर्घस्यापवादं पररूपमाशह्कितुमाह-अतो गुणे । 'एङि पररूप' मित्यतः पररूपमित्यनुवर्तते ।उस्यपदान्ता॑दित्यतोऽपदान्तादित्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । 'अत' इति पञ्चमी । तदाह — अपदान्तादित्यादिना । इति प्राप्त इति । नच परत्वादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः । परत्वादिति । अतो गुणे॑ इत्यपेक्षयाप्रथमयोः पूर्वसवर्ण॑ इत्यस्य परत्वादित्यर्थः । ननु पररूपमिदमपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आह-अतो गुण इतीत्यादि । अनन्तरान् । अव्यवहितानित्यर्थः । उत्तरानिति । व्यवहितानित्यर्थः । 'अतो गुण' इत्युत्तरमव्यक्तानुकरणस्येत्यादि पठित्वा, 'अकःसवर्णे दीर्घः'प्रथमयोः पूर्वसवर्णः॑ इति पठितम् । ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्व्यवहितं पूर्वसवर्णदीर्घमपीति भावः । वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः । नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः । भवन्तीत्यादावप्राप्ते ।ञपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामा इति ।", "61098": "<<अव्यक्तानुकरणस्यात इतौ>> - अव्यक्तानुकरणस्य । पररूपमिति वर्तते । अव्यक्तः=अस्फुटवर्णविभागो वृक्षपतनादिजनितध्वनिः । तस्यानुकरणं=तत्प्रतिपादकस्तत्सदृशोऽपरिस्फुटवर्णविभागः शब्दः । तस्यावयवो यो ।ञच्छब्दस्तस्मादितिशब्दे परेऽच्छब्दस्य इकारस्य च स्थाने पररूपं स्यादित्यर्थः । अत्र इतिशब्दे यः प्रथम इकारस्तस्मिन्परे इति व्याख्येयम् । अन्यथा इतिशब्दस्य कृत्स्नस्यादेशप्रसङ्गात् । तदाह-धवनेरित्यादिना । अत्राऽलोऽन्त्यस्येति न भवति,नानर्थकेऽलोऽन्त्यविधि॑रिति निषेधात् । पटत्-इतीति प्रक्रियावाक्यप्रदर्शनम् । न तु पररूपाऽभावपक्षे रूपमिति भ्रमितव्यम्, अत्र पररूपस्य नित्यत्वात् । असंहितायां निर्देशो वा । पटितीति । उदाहरणमेतत् । 'वृक्षः पतित' इत्याद्यध्याहार्यम् । अत्राऽनेकाज्ग्रहणं कर्तव्यमिति वार्तिकमर्थतः सङ्गृह्णाति — एकाचो नेति । एकोऽच् यस्य स एकाच्, तथाभूतस्यानुकरणस्य उक्त पररूपं नेत्यर्थः । श्रदितीति । अत्र एकाच्त्वान्न पररूपम् । ननु पटत्पटत्-इतीत्यत्र पटत्पटेति रूपमिष्यते । तत्राव्यक्तानुकरणस्येति पररूपे पटत्पटितीत्येव स्यात् ।", "61099": "", "61100": "", "61101": "<<अकः सवर्णे दीर्घः>> - अकः सवर्णे । 'अक' इति पञ्चमी ।इको यणची॑त्यतोऽचीत्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह-अकः सवर्णेऽचीत्यादिना । दैत्यारिरिति । दैत्य-अरिरिति स्थिते द्वयोरकारयोरेको दीर्घ आकारः, स्थानसाम्यात् । श्री-ईश इति स्थिते ईकारयोरेक ईकारः । विष्णु-उदय इति स्थिते उकारयोरूकारः । त्राचीत्यनुवृत्तेः किं प्रयोजनमिति पृच्छति-अचि किमिति । कुमारी शेत इति ।अची॑त्यननुवृत्तावीकारस्य शकारस्य च तालुस्थानविवृतप्रयत्नसाम्येन सवर्णतया तयोर्दीर्घ ईकार एकादेशः स्यात् । तन्निवृत्त्यर्थमचीत्यनुवर्तनीयमिति भावः । ननु ईकारशकारयोः स्थानप्रयत्नसाम्येऽपि न सावण्र्यं,नाज्झला॑विति निषेर्थात् । अतः 'कुमारी शेते' इत्यत्र 'अकःसवर्ण' इत्यस्याऽप्रसक्तेरचीत्यनुवृत्तिव्र्यर्थैवेत्यत आह — नाज्झलावितीति । नाज्झलाविति सावण्र्यनिषेधो वार्णसमाम्नायिकानामेव, नतु दीर्घप्लुतानामपि,आदिरन्त्येन सहेते॑त्यनेन वार्णसमाम्नायिकानामेवाऽच्शब्दवाच्यत्वावगमात् । अत ईकारशकारयोः सावण्र्यसत्त्वात्कुमारी शेत इत्यत्रातिप्रसङ्गः स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थः । ननु वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अच्शब्दोपस्थितैरकारादिभिह्र्यस्वदीर्घप्लुतानामपि ग्रहणं भवति, अणुदित्सूत्रबलात् । अत ईकारशकारयोर्न सावण्र्यप्रसक्तिरित्यजनुवृत्तिव्र्यर्थैवेत्यत आह — ग्रहणकेति । अणुदित्सवर्णस्येति ग्रहणकसूत्रं हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रमिदं न लब्धात्मकं । तद्धि सवर्णपदघटितत्वात्सवर्णपदार्थावगमोत्तरमेव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्यत्रैव पर्यवसानं लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तं च — ॒प्रकल्प्यापवादविषयमुत्सर्गोऽभिनिविशते॑ इति । एवं चाऽणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकतया नाज्झलावित्यत्राऽज्ग्रहणेन दीर्घप्लुतानां ग्रहणाऽभावेन ईकारशकारयोः सावण्र्यनिषेधाऽभावेन सावण्र्यसत्त्वात्कुमारी शेत इत्यत्राऽकः सवर्ण इति प्राप्तौ तन्निवृत्त्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थः । तदेतन्नाज्झलाविति सावण्र्यनिषेधो यद्यपीति ग्रन्थव्याख्यावसरे प्रपञ्चितम् । अकोऽकि दीर्घ इत्येव सुवचमिति । एवंच सवर्णग्रहणं न कर्तव्यमिति लाघवम् । दध्युकार इत्यत्र तु यथासंख्याश्रयणान्नातिप्रसङ्गः । ततश्च अचीत्यनुवृत्तिरपि नाश्रयणीयेति भावः ।॒ऋति ऋ वा॑ इति वार्तिकमकः सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति — ऋति सवर्णे ऋ वा । अक इत्यनुवर्तते । एकः पूर्वपरयोरिति च । अकः सवर्णे ऋति परे पूर्वपरयोरृइत्येकादेशः स्यादित्यर्थः । होतृकार इति । होतृ-ऋकार इति स्थितेऽनेन द्वयोरृकारयोः स्थाने ऋकारविलक्षणो नृसिंहवद्द्व्यन्तरात्मा ऋकारो रेफद्वयवान् कश्चिद्वर्णो भवति । एतदभावपक्षे रूपं दर्शयति — होतृकार इति । 'अकः सवर्ण' इति दीर्घः ।लृति सवर्णे लृ वा । अकः सवर्णे लृति परे पूर्वपरयोर्लृ इत्येकादेशो वा स्यादित्यर्थः । होत्ऌकार इति । होतृ-ऌकार इति स्थिते ऋकारस्य ऌकारस्य च स्थाने नृसिंहपद्द्व्यन्तरात्मा ऌकारो द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति । उक्तद्व्यन्तरात्मकवर्णाऽभावपक्षे ऋकारस् ऌकारस्य च स्थानेऽकः सवर्ण इति दीर्घो भवन्नृऌवर्णयोरिति सावण्र्यादृकार एव भवति, ऌकारस्य दीर्घाऽभावादिति भावः । अत एव होतृ-ऌकार इत्यत्र सवर्णदीर्घपक्षे होतृकार इत्येवोदाहृतं भाष्ये । अथ 'ऋति ऋ वा'लृति लृ वे॑त्यत्र विधेयवर्णस्वरूपं विविनक्ति — उभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति । तदेवोपपादयति — आद्यस्य मध्य इति । एका मात्रेति । व्यञ्जनानामर्धमात्रतया एकैकस्य रेफस्य अर्धमात्रत्वादिति भावः । अभितोऽज्भक्तेरिति । 'अभित' इत्यनन्तरंरेफा॑विति शेषः ।अज्भक्ते॑रिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्टाच्च विद्यमानयोह्र्यस्वऋकारांशयोरन्या मात्रेत्यर्थः । द्वितीयस्य इति ।विधेयस्ये॑ति शेषः । शेषं प्राग्वदिति । लकारयोरेका मात्रा, तावभितो विद्यमानयोर्ऌकारांशयोरन्या मात्रेत्यर्थः । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयोः स्पष्टम् । एतेन दीर्घे प्राप्ते ह्रस्व ऋकारो ऌकारश्चात्र विधीयत इति प्राचीनग्रन्थः परास्तः । पाक्षिक इति । वैकल्पिक इत्यर्थः । प्रकृतिभाव इति । निर्विकारस्वरूपेणावस्थानमित्यर्थः । सन्ध्यभाव इति यावत् ।", "61102": "<<प्रथमयोः पूर्वसवर्णः>> - शिव उ अच्र्य इति स्थिते-प्रथमयोः । 'अकः सवर्णे' इत्यतोऽक इति, इको यणचीत्यतोऽचीति चानुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । प्रथमयोरित्यवयवषष्ठी । प्रथमाद्वितीये सुब्विभक्ती विवक्षिते । तदाह — अकः प्रथमेत्यादिना । इति प्राप्त इति । शिव — उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे आकारे प्राप्त इत्यर्थः ।", "61103": "<<तस्माच्छसो नः पुंसि>> - तस्माच्छसोनः ।प्रथमयोः पूर्वसवर्ण॑ इति पूर्वसूत्रकृतः संनिहितः पूर्वसवर्णदीर्घस्तस्मादित्यनेन परामृश्यते । दिक्शब्दयोगे पञ्चम्येषा । तेनपरस्ये॑त्यध्याहार्यम् । 'शस' इत्यवयवषष्ठी । स चावयवः परत्वेन विशेष्यते । स चावयवोऽर्थात् सकार एव, अन्यस्याऽसंभवात् । तदाह — [कृत]पूर्वेत्यादिना । कृतपूर्वेति किम् । दीर्घात्परस्य शसवयवस्येत्युक्तौ,एतान् गाः पश्ये॑त्यत्र गोशब्दात् शसःसस्यापि नत्वप्रसङ्गः । अतः [कृत] पूर्वसवर्णदीर्घादिति । 'गा' इत्यत्र च औतोम्शसोरित्याकार एकादेशः, न तु पूर्व सवर्णदीर्घ इति ततः परस्य न नत्वम् । शसः किम् । रामाः प्रकृते च नत्वे रामानिति रूपम् ।", "61104": "<<नादिचि>> - नादिचि । न-आदिति छेदः । आदिति पञ्चमी । पूर्वसवर्ण इत्यनुवर्तते । तदाह — अवर्णादिति । अनेन शिव — उ इत्यत्र पूर्वसवर्णदीर्घनिषेधः । आद्गुण इति । शिव उ इति स्थिते आद्गुणे इति गुणं बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मिन्निषिद्धे सति बाधके निवृत्ते गुणः पुनरुन्मिषति ।देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्मज्जन॑मिति न्यायस्तु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य उन्मेषोऽस्त्येव । प्रकृते च पूर्वसवर्णदीर्घेण गुणो न हतः । किन्तु हननोद्यम सजातीयं प्रसक्तिमात्रं पूर्वसवर्णदीर्घस्य स्थितम् । प्रसक्ते च तस्मिन्निषदे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैयटे स्पष्टम् ।अपवादे निषिद्दे उत्सर्गस्य स्थितिः॑ इति न्यायश्च एतन्मूलक एव । 'तौ सत्' 'भिद्योद्ध्यौ नदे' इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एङः पदान्तादतीति । शिवो-अच्र्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूपमोकारः । देवा अत्रेति । देवास्-अत्रेति स्थिते, सस्य रुः तस्य दीर्घादाकारात्परत्वादतः परत्वाऽभावादुत्वं न, — किन्तु 'भोभगो' इति यत्वे, लोपः शाकल्यस्ये॑ति [यकार]लोपः । आ आगन्तेति । आस्-आगन्तेति स्थिते सस्य रुः । तस्य ह्रस्वाकारपरकत्वाऽभावादुत्वं न, किन्तु — यत्वं, लोपश्च । एहीति । सुरुआओत३र् — अत्रेति स्थिते प्लुतात्परस्य रोरुत्वनिवृत्तये अप्लुतादिति पदमित्यर्थः । नन्वत्र रोरतः परत्वाभावादेव उत्वनिवृत्तिसिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह — प्लुतस्यासिद्धत्वादिति । उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परोऽयं रुः । अतस्तस्य उत्वे प्राप्ते तन्निवृत्त्यर्थमप्लुतादित्यावश्यकमित्यर्थः । नन्वप्लुतादित्युक्ते ।ञपि रोरुत्वमत्र दुर्वारम्, उत्वे कर्तव्ये प्लुतस्यासिद्धतया अप्लुतात्परत्वस्यापि सत्त्वादित्यत आह — प्लुतादितीति । विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वमिति । यदि उत्वे कर्तव्ये प्लुतस्यासिद्धत्वं, तर्हि अप्लुतादिति विशेषणं व्यर्थमेव स्यात् । दत्तेऽपि विशेषणे प्लुतस्यासिद्धतयाऽप्लुतात्परत्वस्यापि सत्त्वेन उत्लप्राप्तिदोषतादवस्थ्यात् । अतोऽप्लुतादिति विशेषणसामर्थ्यात्प्लुतस्य नाऽसिद्धत्वमिति विज्ञायते इत्यर्थः । नन्वेवमपि अप्लुतादिति व्यर्थं,प्लुतात् परस्य रोरत॑ इति तपरकरणादेव उत्वनिवृत्तिसिद्धेः । नच उत्वे कर्तव्ये प्लुतस्याऽसिद्धत्वादतः परत्वस्यापि सत्त्वादुत्वं स्यादिति वाच्यं; तपरकरणसामर्थ्यादेव प्लुतस्याऽसिद्धत्वाऽबावविज्ञानेन अतः परत्वाभावेनैव उत्वनिवृत्तेः सम्भवादित्यत आह — तपरकरणस्येति ।प्लुतस्यासिद्धत्वाऽभावसाधने॑ इति शेषः । कुत एतदत आह — दीर्घनिवृत्त्येति ।देवा-अत्रे॑त्यादौ दीर्घव्यावृत्त्या लब्धप्रयोजनकत्वादित्यर्थः । येन विना यदनुपपन्नं तत्तस्य गमकम् । यथा दिवा अभुञ्जानस्य पीनत्वं रात्रिभोजनं विना अनुपपद्यमानं रात्रिभोजनस्य गमकम् । प्रकृते तु प्लुतस्यासिद्धत्वेऽपि 'अत' इति तपरकरणंदेवा अत्रे॑त्यादौ दीर्घव्यावृत्तिरूपं प्रयोजनं लब्ध्वा उपपद्यमानं सत्कथं प्लुतस्यासिद्धत्वाऽभावं गमयितुं शक्नुयादिति भावः । तिष्ठतु पय आ३ग्निदत्तेति । अत्र पयस् इति स्थिते, सस्य रुः, तस्य प्लुतपरकत्वादुत्वं न । ननु दूराद्धूते चेति वाक्यस्य टेः प्लुतविधानात् कथमिह अग्निदत्तशब्दे आद्यवर्णस्य प्लुत इत्यत आह — गुरोरिति ।", "61105": "<<दीर्घाज्जसि च>> - दीर्घाज्जसि च । <<प्रथमयोः>>[[6.1.102]] इत्यतः 'पूर्वसवर्ण' इति <<नादिचि>>[[6.1.104]] इत्यतो नेति इचीति चानुवर्तते । तदाह दीर्घादित्यादिना । नन्विदं सूत्रं व्यर्थं, <<नादिचि>>[[6.1.104]] इत्येव सिद्धेरिति शङ्कते - यद्यपीहेति । ननु जसि विश्वपा-असिति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिदं सूत्रमावश्यकं, तत्र <<नादिचि>>[[6.1.104]] इत्यस्याप्रवृत्तेरित्यत आह - जसि त्विति । माऽस्तु पूर्वसवर्णदीर्घनिषेधः । पूर्वसवर्णदीर्घे सत्यपि जसि 'विश्वपाः' इति सिध्यति । तन्निषेधे सत्यपि <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति कृतेऽपि 'विश्वपाः' इत्येव रूपं सिध्यति । अतः किं तन्निषेधेनेत्यर्थः । परिहरति — तथापीति । इत्यादीति । आदिना लक्ष्म्यावित्यादिसङ्ग्रहः । तत्र <<नादिचि>>[[6.1.104]] इत्यस्याप्रसक्त्या तन्निषेध आवश्यक इति भावः । ननु <<दीर्घाज्जसि च>> इति सूत्रं यदि 'गौर्यौ' इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरीशब्दनिरूपणावसर एव तदुपन्यासो युक्त इत्यत आह - इहापीति । विश्वपावित्यत्र <<नादिचि>>[[6.1.104]] इत्यस्य <<दीर्घाज्जसि च>> इत्यस्य च प्राप्तौ परत्वेन <<दीर्घाज्जसि च>> इत्यस्यैवोपन्यासौचित्यादित्यर्थः । <<अमि पूर्वः>>[[6.1.107]] । विश्वपाम् ।", "61106": "", "61107": "<<अमि पूर्वः>> -अकः सवर्ण॑ इति बाधित्वा 'अतो गुण' इति पररूपं प्राप्तम्-तद्बाधित्वा॒प्रथमयो॑रिति पूर्वसवर्णदीर्घे प्राप्ते — अमिपूर्वः । 'अकः सवर्णे दीर्घ' इत्यतोऽक इति पञ्चम्यन्तमनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् ।इको यणची॑त्यतोऽचीत्यनुवर्तते । तदाह — अकोऽम्यचीति । अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः ।राम॑मिति मकारादकारस्य अमवयवाऽकारस्य च पूर्वरूपमकार एको भवति । अचीत्यनुवृत्तौअकोऽमि परे पूर्वपरयोः पूर्वरूपमेकादेशः स्या॑दिति लभ्यते । तथा सति अमो मकारसहितस्य पूर्वरूपं स्यात् । तन्मा भूदित्यजनुवृत्तिः । रामाविति । राम औडिति स्थिते हलन्त्यमिति टकारस्य इत्संज्ञायां लोपः औटष्टकारः सुडिति प्रत्याहारार्थः ।", "61108": "<<सम्प्रसारणाच्च>> - संप्रसारणमिति । तेन वाहो यो यण् वकारस्तस्य ऊडिति लभ्यते । संप्रसारणमित्यननुवृत्तौ 'अलोऽन्त्यस्य' इति हकारस्य स्यात् । तदनुवृत्तौ तु ऊठो यण्स्थानिकत्वूलाभान्नालोऽन्त्यस्येति भवति । विआ ऊ आह् असिति स्थिते- । संप्रसारणाच्च ।इको यणची॑त्यतोऽचीति 'अमि पूर्वः' इत्यतः पूर्व इति चानुवर्तते । 'एकः पूर्वपरयोः' इत्यधिकृतम् । तदाह — संप्रसारणादित्यादिना । विआ ऊह असिति स्थिते आद्गुणमाशङ्क्याह — एत्येधत्यूठ्स्विति ।अनेन गुणापवादो वृद्धि॑रिति शेषः । विआऔहः । विआऔहा । इत्यादीति । विआवाड्भ्याम् विआवाड्भिः । विआवाड्भ्यः । विआऔहे । विआऔहः । विआऔहः । विआऔहोः विआऔहाम् । विआवाट्त्सु विआवाट्सु । ननु वहश्चेति ण्विविधौ 'छन्दसि सहः' इत्यतश्छन्दसीति केचिदनुवर्तयन्ति । तन्मते विआआह्शब्दस्य लोके कथं प्रयोग इत्यत आह — छन्दस्येव ण्विरितिपक्षे णिजन्ताद्विजिति । विआं वाहयतीत्यर्थे वाह् इ इति ण्यन्तात्अन्येभ्योऽपि दृश्यते॑ इति विचिनेड्वशि कृती॑ति इडभावे णिलोपेऽपृक्तलोपे उपपदसमासे विआआह्शब्दो सोते प्रयोगार्हः । किन्तु तस्य ऊठ् न भवति,अचः परस्मि॑न्निति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽभावात् । वाहयतेः क्विपि विआवाह्शब्दस्य तूठ् निर्हाध एव,क्वौ लुप्त॑मिति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽनपायात् । अत एवविभाषा पूर्वाह्णापरह्णाभ्या॑मिति सूत्रे प्रष्ठौह आगतं प्रष्ठवाङ्रूपर्यमिति लौकिकविग्रहवाक्ये 'प्रष्ठौह' इति प्रयोगः सङ्गच्छते । क्वचित्पुस्तकेछन्दस्येव ण्विरिति प्रामाणिकाः॑ इति पठते । 'कव्यपुरीष' इत्याद्युत्तरसूत्रे तदनुवृत्तेरावश्यकत्वादिति तदाशयः । अनः=शकटं वहतीत्यर्थे अनसि वहेः क्विप्, अनसो डश्चेति सस्य डश्च ।वचिस्वपियजादीनां किती॑ति यजादित्वाद्वकारस्य सम्प्रसापरणमुकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । अनडुहिति रूपं । ततः सुबुत्पत्तिः ।", "61109": "<<एङः पदान्तादति>> - एङः पदान्तादति । 'अमि पूर्व' इत्यतः पूर्व इत्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृतं । तदाह — पदान्तादित्यादिना । हरे-अवेति स्थितेऽयादेशं बाधित्वा पूर्वरूपमेकारः । विष्णो-अवेत्यत्राऽवादेशं बाधित्वा पूर्वरूपमोकारः ।", "61110": "<<ङसिङसोश्च>> - ङसिङसोश्च ।एङः पदान्ता॑दित्यत 'एङ' इति,अती॑ति चानुवर्तते । 'अमि पूर्व' इत्यतः 'पूर्व' इत्यनुवर्तते । 'एकः पूर्वपरयोः' इत्यधिकृतं, तदाह — एङो ङसिङसोरिति । हरेरिति । पूर्वरूपे रुत्वविसर्गौ पञ्चम्येकवचनस्य षष्ठएकवचनस्य च रूपमेतत् । यद्यपि ङसिङसौ द्वौ, एङौ च द्वौ, तथापि न यथासङ्ख्यमिष्यते ।यथासङ्ख्यमनुदेशः समाना, स्वरितेने॑ति सूत्रच्छेदमभ्युपगम्य यत्र स्वरिततं प्रतिज्ञातं तत्रैव यथासङ्ख्याविज्ञानादिति यथासङ्ख्यसूत्रभाष्ये स्पष्टम् । 'अच्च घेः' 'उपसर्गे घोः किः' इत्यादिनिर्देशाच्च । हर्योरिति । षष्ठीद्विवचने यणादेशे रूपम् । हरीणामिति । 'ह्रस्वनद्यापः' इति नुट् ।नामी॑ति दीर्घः ।अट्कुप्वा॑ङिति णत्वम् ।", "61111": "<<ऋत उत्>> - ङसिङसोस्तृज्वत्त्वे क्रोष्टृ अस् इति स्थिते — ऋत उत् । 'एङः पदान्तादति'ङसि ङसोश्चे॑त्यतः-॒अती॑तिङसिङसो॑रिति चानुवर्तते ।ङसिङसो॑रित्यवयवषष्ठी,-॒अती॑त्यत्रान्वेति ।अङ्गस्ये॑त्यधिकृतम् 'ऋत' #इत्यनेन विशेष्यते, ततस्तदन्तविधिसत्दाह — ऋदन्तादित्यादिना । रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भावः । उदिति तपरकरणं द्विमात्रनिवृत्त्यर्थम् । न चभाव्यमानोऽसवर्णान्न गृह्णाती॑त्येव तन्निवृत्तिः सिध्यतीति वाच्यं, तस्याऽनित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात् । तदनित्यत्वं त्वनेनैव तपरकरणेन ज्ञाप्यते । ततश्चयवलपरे यवला वेति मकारस्याऽनुनासिका एव भवन्ती॑तिच्छ्वो॑रिति सूत्रे कैयटः । यत्तुतपरत्वं ढ्रलोपे इति दीर्घनिवृत्त्यर्थ॑मिति, तन्न । 'उरण्रपरः' इति सूत्रे 'ऊ,-रपरः' इति भाष्यप्रयोग विराधाता । सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः । नैरृतोरस्यभाव्यन्त सवितू रश्मयो यथा॑ इति रामायणप्रयोगविरोधाच्चेत्यलम् ।", "61112": "<<ख्यत्यात् परस्य>> - ख्यत्यात्परस्य ।खिखी॑-त्यनयोः, ति-ती॑त्यनयोश्च कृतयणादेशयोः 'ख्य' 'त्य' इति निर्देशः । यकारादकार उच्चारणार्थः ।एङः पदान्ता॑दित्यतोऽतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात्षष्ठन्ततया विपरिणम्यते ।ङसिङसोश्चे॑त्योङसिङसो॑रित्यनुवर्तते । अवयवषष्ठएषा । ततश्च 'ङसिङसोरवयवस्य अत' इति लभ्यते ।ऋत् उ॑दित्यत, उदित्यनुवर्तते । 'एकः पूर्वपरयोः' इति तु निवृत्तम्,पर॑ग्रहणसामर्थ्यात् । अन्यथाख्यत्या॑दिति पञ्चमीनिर्देशादेव सिद्धे किं तेन । तदाह — खितिशब्दाभ्यामित्यादिना । सख्युरिति । सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ ।", "61113": "<<अतो रोरप्लुतादप्लुते>> - शिवर् अच्र्य इति स्थिते — अतो रोः ।ऋत उ॑दित्यत उदित्यनुवर्तते । 'अत' इति पञ्चमी ।एङः पदान्तादती॑त्यतोऽतीत्यनुवर्तते । तदाह — अप्लुतादिति । नन्वत्र उत्वं बाधित्वाभोभगोअघोअपूर्वस्य योऽशि॑ इति यत्वं परत्वात्स्यात् । नच यत्वस्यासिद्धत्वादुत्वं निर्बाधमिति वाच्यं, कृते ।ञपि उत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वादत आह — यत्वस्यापवाद इति । यद्यपि भोभगोअघो इत्यंशे उत्वं नापवादः, तथाप्यपूर्वस्येत्यंशे उत्वमपवादः प्राप्त एव अपूर्वकस्य रोर्यत्वे अतो रोरित्यस्यारम्भादिति भावः । ननूत्वं प्रति रोरसिद्धत्वात् कथमुत्वं तस्येत्यत आह — उत्वं प्रतीति ।", "61114": "<<हशि च>> - हशि च ।अतो रोरप्लुता॑दिति पदत्रयमनुवर्तते ।ऋत उ॑दित्यतउ॑दिति च । तदाह-अप्लुतादिति । शिवो वन्द्य इति । शिवस् वन्द्य इति स्थिते सस्य रुः । तस्याऽत्परकत्वाभावात्पूर्वसूत्रेण उत्वं न प्राप्तमिति वचनमिदम् । ननु प्रातरत्र धातर्गच्छत्यत्र रेफस्य अतो रोरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह — रोरित्यनुकारेति । उकारोऽनुबन्ध इद्यस्य स उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र उत्वं न भवति । प्रातरिति हि रेफान्तमव्ययम् । न तत्र रेफ उकारानुबन्धवान् । धातृशब्दात् सम्बुद्धिः सुः,ऋतो ङि सर्वनामस्थानयोः॑ इति ऋकारस्य गुणोऽकारो रपरः, हल्ङ्यादिना सुलोपः । अत्रापि न रेफ उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः । अथ देवा इहेति रूपं दर्शयितुमाह — देवास् इह इति स्थिते रुत्वमिति ।", "61115": "", "61116": "", "61117": "", "61118": "", "61119": "", "61120": "", "61121": "", "61122": "<<सर्वत्र विभाषा गोः>> - सर्वत्र विभाषा । पदान्तादित्यनुवर्तते ।प्रकृत्यान्तः पाद॑मित्यतःप्रकृत्ये॑त्यनुवर्तते । प्रकृत्या=स्वभावेन निर्विकारस्वरूपेणाऽवतिष्ठते इत्यर्थः । 'यजुष्युर' इत्यतो यजुषीति निवृत्तं । तत्सूचनायसर्वत्रे॑त्युपात्तम् । तेन लोके वेदे चेति लभ्यते । तदाह — लोक इत्यादि । प्रकृतिभाव इति । स्वभावेनावस्थानमित्यर्थः । एवं च पूर्वरूपमवादेशश्च न । गो-अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽग्रमिति । अत्र एङ इत्यप्यनुवर्तते । ततश्चैकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्गः । हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैवैङो ग्रहणात् । प्रकृते च 'ह्रस्वस्य गुण' इत्योकारस्य लाक्षणिकत्वात् । गोरिति । गो असिति स्थिते गो इत्योकारस्य पदान्तत्वाऽभावान्न प्रकृतिभावः । नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्, अत एवङसिङसोश्चे॑ति तत्र पूर्वरूपारम्भात् ।", "61123": "<<अवङ् स्फोटायनस्य>> - अवङ् स्फोटायनस्य । अतीति निवृत्तमिति । 'एङः पदान्तादित्यत' इति शेषः, व्याख्यानादिति भावः । पदान्तादिति, गोरिति, अचीति चानुवर्तते । स्फोटायनस्य ऋषेर्मतेऽवङ् । अन्यस्य तु न । ततश्च विकल्पः सिद्धः । तदाह — अचि पर इत्यादिना ।ङिच्चे॑त्यन्तादेशः । गवाग्रमिति । गो-अग्रहमिति स्थिते गकारादोकारस्यावङ् । गव-अग्रमिति स्थिते सवर्णदीर्घः । न चाऽग्रशब्देऽकारमचं परत्वेनाश्रित्य प्रवृत्तोऽवङ् कथं तद्विघातकं सवर्णदीर्घं प्रवर्तयति, संनिपातपरिभाषाविरोधादिति वाच्यं, संनिपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्यमाणत्वात् । गवीति ।गो इ॑-इति स्थिते ओकारस्य पदान्तत्वविरहान्नावङ् । नापि पूर्वसूत्राभ्यां प्रकृतिभावपररूपे किन्त्ववादेशः । अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्येत् । व्यवस्तितेति । क्वचिद्भवतीत्यंश एव प्रवर्तते, क्वचित्तु न भवतीत्यंश एव, क्वचिदुभयमित्येवं लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा सर्वत्र विभाषा गोरित्यत्राश्रीयते । ततश्च गवाक्ष इत्यत्र नित्यमवङित्यर्थः । इदं च — ॒देवत्रातो॒॑गलो॒॑ग्राह॑इतयोगे च सद्विधिः॑ । मिथस्ते न विभाष्यन्ते 'गवाक्षः'संशितव्रतः॑॥ इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम् । गवाक्ष इति । गवां किरणानामक्षीवेति विग्रहः ।अक्ष्णोऽदर्शना॑दित्यच । पुंस्त्वं लोकात् ।वातायनं गवाक्षः स्यात् इत्यमरः ।", "61124": "<<इन्द्रे च (नित्यम्)>> - इन्द्रे च ।गोः॑,अवङ्,अची॑त्यनुवर्तते । तदाह — गोरिति । विकल्पनिवृत्त्यर्थः । गवेन्द्र इति । गो-इन्द्र इति स्थिते अवङ् । आद्गुणः ।*****समाप्तम्*****अथ अदादिप्रकरणम् ।", "61125": "<<प्लुतप्रगृह्या अचि नित्यम्>> - अथ प्रकृतिभाव इति । 'निरूप्यते' इति शेषः । प्लतुप्रगृह्राः । वक्ष्यन्त इति ।दूराद्धूते चे॑त्यादिना, ईदूदेदित्यादिना चेत्यर्थः । प्रकृत्येति । 'प्रकृत्यान्तः पाद' मित्यतदस्तदनुवृत्तेरिति भावः । प्रकृत्या स्वभावेनाऽवस्थिताः स्युरित्यर्थः । सन्धयो न भवन्तीति यावत् । एहि कृष्णा३ अत्रेति ।दूराद्धूते चे॑ति णकारादकारः प्लुतः । तस्य अकारे न सवर्णदीर्घः । हरी एताविति ।ईदूदे॑दिति रेफादीकारः प्रगृह्रः । तस्य यणादेशो न भवति । ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्याऽस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यग्रहणं किमर्थमिति पृच्छति-नित्यमिति किमिति । उत्तरमाह-हरी एताविति । नित्यग्रहणे सत्येव हरी एतावित्यादौप्लुतप्रगृह्रा अची॑ त्ययमेव केवलः प्रकृतिभावः स्यादित्यर्थः ।यथा॑शब्दो योग्यतायाम् । अयमेव प्रकृतिभावः प्राप्तुं योग्यः । स च नित्यग्रहणे सति प्राप्नुयादित्यर्थः । एवमग्रेऽप्येवंजातीयकेषु ।एव॑शब्दव्यवच्छेद्यं दर्शयति-इक इति ।इकोऽसवर्णे शाकल्यस्य ह्रस्वश्चे॑ति वक्ष्यमाणः ह्रस्वसमुच्चितः प्रकृतिभावो माभूत्=न भवेत् । माङि लुङ् । सर्वलकारापवादः । अकृते सति नित्यग्रहणे परत्वाच्छाकलह्रस्वसहितप्रकृतिभावः प्रसज्येत । नित्यग्रहणे कृते तु तत्सामर्थ्यादेव परमपि शाकलं ह्रस्वसमुच्चितप्रक-तिभावं 'प्लुतप्रगृह्रा' इति केवलः प्रकृतिभावो बाधत इत्यर्थः ।", "61126": "", "61127": "<<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> - भाष्यकारमतमाह — अत्र ह्रस्वेति । अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात् । नच विहितस्य ह्रस्वस्य यण्निवृत्त्यर्थः स इति वाच्यं, ह्रस्वविधिसामर्थ्यादेव यणो निवृत्तिसिद्धेः । अन्यथा यणमेव विदध्यात् । अतः प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः । चक्रि-अत्रेति ह्रस्वमनुच्चितप्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्र्यत्रेति रूपम् । नचात्र ककारस्यस्कोः संयोगाद्यो॑रिति लोपः शङ्क्यः,अचः परस्मि॑न्निति यणः स्थानिवत्त्वेनाऽच्त्वेन पदान्तसंयोगाऽभावात् । नचपूर्वत्रासिद्धे न स्थानिव॑दिति तन्निषेधः शङ्क्यः,तस्य दोषः संयोगादिलोपलत्वणत्वे॑ष्विति वचनात् । न समासे । वार्तिकमेतत् । समासे उक्तशाकलविधिर्न भवतीत्यर्थः । वाप्यआ इति । वाप्यामआ इति विग्रहः । शौण्डादेराकृतिगणत्वात्सुप्सुपेति वा समासः ।सिति च । सकार इद्यस्य स सित्, तस्मिन् परे उक्तः शाकलविधिर्न भवतीत्यर्थः । पार्ामिति । पर्शु=पार्ाआस्थि । पर्शूनां समूहः पार्ाम् ।पर्ाआ णस् वक्तव्यः॑ इति णस् । आदिवृद्धिः । यणादेशः । अत्र पार्शु-अ इति स्थिते उक्तः शाकलो विधिर्न भवति । ओर्गुणस्तु न, भस्यैव तद्विधानात्,सिति चे॑ति पदत्वेन भत्वबाधात् ।अचो ञ्णिती॑ति वृद्धिरपि न भवति, आदिवृद्ध्या तद्बाधात् । तथाच मूलकारो वक्ष्यति-॒आदिवृद्धिरन्त्योपधावृद्धी बाधते॑ इति । अत्र सिन्नित्यसमासयोः शाकलप्रतिषेधः॑ इति वार्तिकं, तदिह द्विधा विभज्य व्याख्यातम् । नचैव सति वोप्यआ इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिकत्वादिति वाच्यम्, भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात् ।", "61128": "<<ऋत्यकः>> - ऋत्यकः । 'अकः' इति षष्ठी ।शाकल्यस्य ह्रस्वश्चे॑त्यनुवर्तते । असवर्णं इति निवृत्त्म् ।एङः पदान्ता॑दित्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते । ततःपदान्तस्याऽक ऋति ह्रस्वो वा स्या॑दित्येकं वाक्यं सम्पद्यते । चकारात्प्रकृत्येत्यनुकृष्यते ।उक्तो ह्रस्वः प्रकृत्या अवतिष्ठते॑ इति द्वितीयं वाक्यं संपद्यते । तदाह — ऋति परेऽकः प्राग्वदिति । ब्राहृ ऋषिरिति । ब्राहृआ — ऋषिरिति स्थिते आकारस्य ह्रस्वः प्रकृतिभावश्च । ततश्चाद्गुण इति परपः अकारो न भवति । अत्रा.ञऽकारस्य इक्त्वाऽभावादिकोऽसवर्णे इत्यप्राप्ते इदं वचनम् । ब्राहृर्षिरिति । उक्तह्रस्वसमुच्चितप्रकृतिभावाऽभावपक्षे आद्गुण इति अकारः । रपरत्वम् ।ऋत्यस्ये॑त्येव तु न सूत्रितम् । होतृ-ऋकार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यरकत्वात् । पदान्ता इत्येवेति । पदान्तग्रहणमत्राप्यनुवर्तनीयमेवेत्यर्थः । आच्र्छदिति । ऋ गतौ । लङ् तिप् शप् । पाघ्राध्मेति ऋच्छादेशः ।इतश्चे॑ति इकारलोपः,आडजादीना॑मित्याडागमः, आटश्चेति वृद्धिः । आ ऋच्छदिति स्थिते आकारस्याऽकः पदान्तत्वाऽभावान्नोक्तः प्रकृतिभावः । न समास इति पूर्वसूत्रस्थं निषेधवार्तिकमिह न संबध्यत इत्याह — समासेऽपीति । सप्तऋषीणामिति ।दिक्संख्ये संज्ञाया॑मिति समासः । सप्तऋषीणासिति प्रकृतिभावपक्षे रूपं तदभावपक्षे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति ।", "61129": "<<अप्लुतवदुपस्थिते>> - तदाह — उपस्थितोऽनार्ष इति । अप्सुतवद्भावस्य प्रयोजनमाह — प्लुतकार्यं प्रकृतिभावमिति ।अप्लुतकार्यं यणादिकं करोती॑ति पाठान्तरम् । सुश्लोकं३ इतीति । तैत्तिरीये 'सुश्लोक३' इति प्लुतान्तो मन्त्रः पठितः । पदकालेऽवग्रहे तस्मात्परत इतिशब्दं पदकाराः पठन्ति । तत्रसुश्लोक३ इती॑ति स्थितेऽप्लुतवद्भावेन प्रकृतिभावाऽभावे सत्याद्गुणे सुश्लोकेतीति भवति । अत्रेतिशब्दः पदकारप्रक्षिप्तत्वादवैदिकः । तदेव 'सुश्लोकेति' इत्युदाहरणं भाष्ये स्थितम् । पदकारास्तुसुश्लोक३ इति सुश्लोक३ इती॑त्येव अवगृह्णन्ति । तदपि संहिताया अविवक्षितत्वान्निर्वाह्रम् । संहितायामेव यणादिसन्धिविधानात् । वत्किमिति ।अप्लुत्तव॑दित्यत्र वद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः । उत्तरमाह — अप्लुत इत्यादिना । वद्ग्रहणं विहायाऽप्लुत उपस्थित इत्युक्तेप्लुतस्य स्थानेऽप्लुत एव विधीयते । अतः प्लुत एव निवर्तेत । ततश्च अग्नी३ इतीत्यत्र सम्बोधनप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्र ईकारस्त्रिमात्रो न श्रूयते । वत्करणे तु प्लुतकार्यस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते न तु प्लुतस्यापीति नोक्तदोष इत्यर्थः ।", "61130": "<<ई३ चाक्रवर्मणस्य>> - ई३चाक्र । ई३ इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देशः । उपस्थित #इत्यस्वरितत्वान्निवृत्तम् ।अप्लुतव॑दित्यनुवर्तते ।इको यणची॑त्यतोऽचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकारोऽचि परेऽप्लुतवद्भवति, नत्वन्यमत इत्यर्थः । तदाह-प्लुतोऽचीत्यादि । चिनु हि३ इदमिति ।किं मया कर्तव्य॑मिति पृष्टस्यैदं प्रतिवचनम् ।चिन्वि॑ति लोडन्तम् ।उतश्च प्रत्यया॑दिति हेर्लुक् ।हीति त्वव्ययम् ।विभाषा पृष्टप्रतिवचने हेः॑ इति तस्य प्लुतः । चिन्वित्यतः प्राग्देवदत्ते॑त्यध्याहार्यम् ।इद॑मिति तु वाक्यान्तरस्थं, नतु चिन्वित्येतेनैकवाक्यतामापन्नम् । अन्यथावाक्यस्य टे॑रित्यधिकाराद्धिशब्दे इकारस्य प्लुतो न स्यात् । उभयत्रेति । इतिशब्दे परतो नित्यतया प्राप्ते, तदन्यत्राऽप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थः । विभाषाशब्दस्त्वव्ययमिति न ब्रामतिव्यं,न वेति विभाषाया॑मिति भाष्यप्रयोगात् । विभाष्यते विकल्प्यत इति विभाषा । 'गुरोश्च हल' इत्यप्रत्ययः । टाप् ।", "61131": "<<सुट् कात् पूर्वः (अडभ्यासव्यवायेऽपि)>> - सुट् कात्पूर्वः । षष्ठस्याद्यपादे इदं सूत्रम् ।संपरिभ्यां करोतौ भूषणे॑ 'समवाये च'उपात्प्रतियत्ने॑त्यारभ्यअनुदात्तं पदमेकवर्जमित्यतः प्रागिदमधिकृतं वेदितव्यमित्यर्थः । एवं च कात्पूर्व इत्युक्तेरभ्यासात्प्राङ्नं सुडिति भावः । नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट्, संस्करोतीत्यादौ अव्यहिते सुड्विधेश्चरितार्थत्वात् । किंच समस्करोदित्यत्राऽटा व्यवधानात्कथं सुट् । नह्रडागमः कृञ्भक्तःत्वात् । विकरणान्तस्यैवाङ्गत्वादित्यत आह — अडभ्याससव्यवायेऽपीत्युक्तमिति ।वार्तिक॑मिति शेषः । अटा अभ्यासेन च व्यवधानेऽपि संपर्यादिभ्यः परस्मात्कात्पूर्वः सुडित्यर्थः । इत्यादीति । सुडित्येवाधिकृतमस्तु, 'कात्पूर्वः' इतिअडभ्यासव्यवायेऽपी॑ति मास्त्वित्येवं भाष्ये प्रत्याख्यातमित्यर्थः । तदेवोपपादयितुं प्रतिजानीते — तथा हीति । पूर्वं धातुरुपसर्गेण युज्यते इति ।पश्चात्साधनेने॑ति शेषः । ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकं कार्यं पश्चादनुपतिष्यद्धातुप्रत्ययसंबन्धनिमित्तकात्कार्यादन्तरङ्गम्, प्रथमोपस्थितत्वात् । तदुक्तं भाष्ये — पूर्वं धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्ग॑ मिति । तदाह — अन्तरङ्गत्वात्सुट् । ततो द्वित्वमिति । तथा सुटि कृते 'स्कृ' इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे 'शर्पूर्वाः खयः' इति रेफसकारयोर्निवृत्तौ अभ्यासचुत्वे संचस्कारेति रूपसिद्धेः 'कात्पूर्वः' इति,अडभ्यासव्यवायेऽपी॑ति च न कर्तव्यमिति भावः । एवं समस्करोदित्यत्रापि विकरणान्ताऽङ्गभक्ताऽडागमापेक्षयाऽन्तरङ्गत्वात्प्रथमं सुड्भविष्यतीति कृत्वाअड्व्यवायेऽपी॑त्यंशो न कर्तव्य इत्यूह्रम् ।पूर्वं धातुरुपसर्गेणे॑त्याश्रयणे फलान्तरमप्याह — एवं चेति । उक्तरीत्या अन्तरङ्गत्वात्सुटि कृते संस्कृ इत्यस्माल्लिटोऽतुसिऋतश्च संयोगादेर्गुणः॑ इति गुणे संचरस्करतुरिति सिद्ध्यति ।पूर्वं धातुः साधनेन युज्यते॑ इत्याश्रयणे तु चक्रतुरिति परिनिष्ठितस्य समित्युपसर्गयोगात्संयोगादित्वाऽभावाद्गुणस्याऽसिद्धिरिति भावः । ननु संचस्करिव, संचस्करिथ इत्यत्र चकृसृवृभृ॑इतिऋतो भारद्वाजस्ये॑ति च इण्निषेधः स्यादित्यत आह — कृसृभृवृसूत्रे इत्यादि । नन्वाशीर्लिङि संस्क्रियादित्यत्रगुणोऽर्तिसंयोगाद्यो॑रिति गुणः कुतो नेत्यत आह — गुणोऽर्तीत्यादि । ननु तङि संस्कृषीष्ट इति लिङि, समस्कृत समस्कृत समस्कृषातामिति लुङि चऋतश्च संयोगादे॑रिति इट् कुतो नेत्यत आह-ऋतश्चेत्यादि ॥ इति बालमनोरमायाम् तनादयः॥अथ तत्पुरुषसमासप्रकरणम् । — — — — — — — — — —", "61132": "<<सम्परिभ्यां (॰पर्युपेभ्यः) करोतौ भूषणे>> - संपरिभ्याम् ।", "61133": "", "61134": "<<सोऽचि लोपे चेत् पादपूरणम्>> - सोऽचि । 'स' इति प्रथमैकवचनान्तस्वरूपपरं , ततः षष्टआ लुक् । एवञ्चसस्-शब्दस्येति लभ्यते । 'सुलोप' इत्यनुवर्तते । तदाह-सस् इत्यादिना । ***** इति बालमनोरमायां स्वादिसन्धिः ***** अथ स्वादयः ।अथ श्नुविकरणा धातवो निरूप्यन्ते । षुञ्धातुः षोपदेशः । अनिट् । इत आरभ्य ञित्त्वादुभयपदिनः । सुरासन्धानमिति । सुरोत्पादनमित्यर्थः ।", "61135": "", "61136": "", "61137": "", "61138": "<<समवाये च>> - समवाये च । कोरतेः सुट् स्यादिति । 'सुट् कात्पूर्वः' इत्यतो,नित्यं करोते॑रित्यतश्च तदनुवृत्तेरिति भावः ।", "61139": "<<उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु>> - प्रागुक्तयोरिति । भूषणसमवाययोरित्यर्थः । ननुसंपरिभ्या॑मिति सुट् पदद्वयोपेक्षत्वाद्बहिरङ्गः ।लिटि धातो॑रिति द्वित्वं तु प्रकृतिप्रत्ययमात्रोपेक्षत्वादन्तरङ्गम् । ततस्च संचस्कारेत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृतेऽभ्यासात्प्रागेव सुटि प्राप्ते —", "61140": "<<किरतौ लवने>> - किरतौ लवने । उपादिति । 'उपात्प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः । सुडागम इति । 'सुट कात्पूर्व' इत्यस्तदनुवृत्तेरिति भाव- । अडभ्यासव्यवायेऽपीति वार्तिकम् । 'सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम् ।", "61141": "<<हिंसायां प्रतेश्च>> - हिंसायां प्रतेश्च । चकारादुपादिति समुच्चीयते । तदाह - उपादिति । गृ निगरणे इति । निगरणं - भक्षणम् । सेट् ।", "61142": "<<अपाच्चतुष्पाच्छकुनिष्वालेखने>> - अपाच्चतुष्पात् । 'सुट्कात्पूर्वः' इत्यधिकृतम् । 'किरतौ लवने' इत्यतः किरतावित्यनुवर्तते । तदाह -अपात्किरतेः सुट् स्यादिति । चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् । आलेखनं = खननम् ।सुडपि हर्षादिष्वेवे॑ति - वार्तिकम् । अपस्किरते वृषो ह्मष्ट इति । हर्षाद्भूमिं लिखन् धूल्यादि विक्षिपतीत्यर्थः । कुक्कुटो भक्षार्थीति । 'अपस्किरते' इत्यनुषज्यते । आआ आश्रयार्थीति । 'अपस्किरते' इत्यनुषज्यते । अपकिरति कुसुममिति ।वृषादि॑रिति शेषः । ह्यियमाणो वृषादिः पादैः कुसुममवकिरतीत्यर्थः । अत्र हर्षाद्यभावान्नात्मनेपदम्, नापि सुट् । तदाह — इह तङ्सुटौ नेति । ननुअपस्किरते वृषो ह्मष्ट॑ इत्याद्युदादहरणत्रये यदि हर्षजीविकाकुलायकरणान्येव विवक्षितानि न त्वासेखनमपि, तदा तङेव स्यान्न तु सुडित्यत आह - हर्षादिमात्रेत्यादि । आलेखनाऽभावेऽपीत्यर्थः । नेष्यते इति ।करितेर्षर्षजीविके॑त्यात्मनेपदविधौ ससुक्टानामेव भाष्ये उदाहरणादिति भावः । भाष्यस्थान्युदाहरणान्यालेखनविषयाण्येव भविष्यन्तीत्यस्वरसं सूचयति - आहुरिति । गजोऽपकिरतीति । स्वभावाख्यानमत्रेति भावः । 'आङि नुप्रच्छ्यो' रिति वार्तिकम् । आनुते इति । सृगाल इति भाष्यम् । सृगाल उत्कण्ठ#आपूर्वकं शब्दं कोरतीत्यर्थ इति कैयटः । ननु 'शप आक्रोशे' इत्यस्य स्वरितेत्त्वादेव सिद्धे 'शप उपालम्भे' इत्यात्मनेपदविधिव्र्यर्थ इत्यत आह — आक्रेशार्थादिति । 'शप आक्रोशे' इति स्वरितेतः कर्तृगामिन्येव फले आत्मनेपदं प्राप्तम्, अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात्तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः । कृष्णाय शपते इति ।श्लाघह्नुङ्स्थाशपा॑ मिति संप्रदानत्वाच्चतुर्थी ।", "61143": "<<कुस्तुम्बुरूणि जातिः>> - अथ 'सुट् कात्पूर्वः' इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते-कुस्तुम्बुरूणि । अत्रेति । जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यत इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति । गुल्मविशेषे प्रसिद्धः । क्लीबत्वमतन्त्रमिति । अविवक्षितमित्यर्थः । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरूणीति । धान्याकजातिवाचकत्वाऽभावान्न सुडिति भावः । तदाह — कुत्सितानि तिन्दुकीफलानीत्यर्थ इति तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः ।", "61144": "<<अपरस्पराः क्रियासातत्ये>> - अपरस्पराः । स्पष्टम् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसंभवान्नञ्पूर्वकमुदाहरति — अगोष्पदानीति । गवां सञ्चारो यत्र नैव संभवति तत्रापि सुडिति भावः ।", "61145": "<<विष्किरः शकुनौ (विकरो) वा>> - विष्किरः । विकिरतीति विकारः । 'कृ विक्षेपे'इगुपधज्ञे॑ति कः । शकुनौ गम्ये सुड्वा, 'परिनिविभ्यः' इति षत्वम् ।नगौकोवाजिविकिरविविष्करपतत्रयः॑ इत्यमरः । वावचनेनैवेति । वृत्तिग्रन्थेविष्किरः शकुनौ विकिरो वे॑ति सूत्रपाठः । तत्र वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं विष्किरो विकिर इति शकुनावेवेति नियमार्थम् । अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः । भाष्ये हिविष्किरः शकुनौ वे॑ति सूत्रं पठित्वा वाग्रहणेन सुड्विकल्पः, नतु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम्, अन्यत्रापिविकिपरं वैआदेविक॑मित्यत्र दर्शनादिति भावः ।", "61146": "<<आस्पदं प्रतिष्ठायाम्>> - आस्पदं प्रतिष्ठायाम् । आत्मेति । आत्मयापनं=शरीरसंरक्षणं, तदर्थं यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः । आपदादापदमिति । आ पदादिति विग्रहे अव्ययीभावे आपदमिति भावतीत्यर्थः ।आपदापद॑मिति पाठे तु-आपदमित्यस्य आपदित्यर्थ इत्यर्थः ।", "61147": "<<आश्चर्यमनित्ये>> - आश्चर्यमनित्ये । अद्भुते गम्ये आङ्पूर्वकस्य चरेः सुट् । 'चरेराङि चाऽगुरौ' इति यत् । अनित्यग्रहणमपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्याह — अद्भुते सुडिति । तेन आश्चर्य नीला द्यौः, आश्चर्यमन्तरिक्षे यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसंग्रहः । अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यत इत्युक्ते तु एतन्न सिध्येत् ।", "61148": "<<वर्चस्केऽवस्करः>> - वर्चस्केऽवस्करः ।मूत्रं प्ररुआआव उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रिया॑मित्यमरः ।", "61149": "<<अपस्करो रथाङ्गम्>> - अपस्करो ।स्याद्रथाङ्गमपस्करः॑ इत्यमरः ।चक्रं रथाङ्गमि॑ति च ।", "61150": "<<कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः)>> - कारस्करो वृक्ष । कारं करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः ।", "61151": "", "61152": "<<प्रतिष्कशश्च कशेः>> - प्रतिष्कशश्च कशेः । कशेरिति कश इत्यत्रान्वेति । तथाच कशधातोर्निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः । कशेरेवेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । प्रतिगतः कशां प्रतिकश इत्यत्र गभिं प्रत्येव प्रतिरुपसर्गः, नतु कशिं प्रति,यत्क्रियायुक्ताः प्रादयः॑ इति नियमादित्यर्थः ।", "61153": "<<प्रस्कण्वहरिश्चन्द्रावृषी>> - प्रस्कण्वहरिश्चन्द्रावृषी । अमन्त्रार्थमिति । मन्त्रे तुह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे॑ इति पूर्वसूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते ।", "61154": "<<मस्करमस्करिणौ वेणुपरिव्राजकयोः>> - मस्करमस्करिणौ । यथासंख्यमन्वयः । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः, अन्यत्र तु मकरीत्येवेत्याहुः ।", "61155": "", "61156": "", "61157": "<<पारस्करप्रभृतीनि (च संज्ञायाम्)>> - पारस्करप्रभृतीनि च । परस्कर इति । पारं करोतीति विग्रहः । पूर्ववट्टः । किष्किन्धेति । किं=किमपि वानरसैन्यं धत्ते इति किष्किन्धा ।आतोऽनुपसर्गे कः॑ । टाप् । निपातनात् किमो द्वित्वम् । मलोपः सुट्, षत्वं च । रूढशब्दा एते कथञ्चिद्व्युत्पाद्यन्ते, एषामवयवार्तोन विचारणीयः । तद्वृहतोरिति । पारस्करादिगणसूत्रमेतत् । तच्छब्दे तकारस्याऽन्त्यस्याऽभावादाह — तात्पूर्वमिति । तलोपश्चेत्यत्र तकारात्पूर्वमित्यर्थः । तत् — चौर्यं-करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः । बृहस्पतिरिति । बृहती=वाक्, तस्याः पतिरिति विग्रहः । [॒कुक्कुठआदीनामण्डादिष्वि॑ति] पुंवत्त्वम्, तलोपः । सुट् ।वाग्धि बृहती, तस्या एष पतिः॑ इति च्छन्दोगब्राआहृणम् । प्रायस्य चित्तिचित्तयोरिति । गणसूत्रमिदम् । प्रायस्य चित्तिः चित्तं वेति विग्रहः ।प्रायं पापं विजानीयाच्चित्तं तस्य विशोधन॑मिति स्मृतिः । वनस्पतिरिति । वनस्य पतिरिति विग्रहः । आकृतिगणो ।ञयमिति । तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् । *****इति बालमनोरमायां समासाश्रयविधयः ।****** अथ वासुदेवदीक्षितकृता बालमनोरमा *स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् ।पाणिन्याद्या मुनयो यस्य च दयया मनोरथानभजन्॥ १॥अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये ।किंचास्तु पतञ्जलये भ्रात्रे विओआराय गुरवे च॥ २॥व्याख्याता बहुभिः प्रौढेरेषा सिद्धांन्तकौमुदी ।वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम्॥ ३॥मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च, अध्येतारश्च वृद्धियुक्ता यथा स्युः॑ इति वृद्धिसूत्रस्थभाष्यादिस्मृतिसिद्धकर्तव्यताकं ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थतांष विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकीर्षितं प्रतिजानीते — मुनित्रयमिति श्लोकेन ।इयं वैयाकरणसिद्धान्तकौमुदी विरच्यते॑ इत्यन्वयः ।इय॑मिति ग्रन्थरूपा वाक्यावलिर्विवक्षिता । भाविन्या अपि तस्या बुद्ध्या विषयीकरणादियमिति प्रत्यक्षवन्निर्देशः । व्याकरणमधीयते विदन्ति वा वैयाकरणाः, तेषां सिद्धान्ताः-एते शब्दाः साधव इति निश्चितार्थाः, तेषां कौमुदी चन्द्रिका । अत्यन्तसादृश्यात्ताद्रूप्यव्यपदेशः । चन्द्रिका-हि तमो निरस्यति, भावान् सुखं प्रकाशयति, दिन करकिरणसंपर्कजनितं संतापमपगमयति । एवमियमपि ग्रन्थरूपवाक्यावलिरज्ञानात्मकं तमो निरस्यति, मुनित्रयग्रन्थभावाननायासं प्रकाशयति, अतिविस्तृतदुरूहभाष्यकैयटादिमहाग्रन्थपरिशीलनजनितं चित्तसंतापं च शमयतीति अत्यन्तसादृश्याद्युज्यते चन्द्रिकातादात्म्याध्यवसायः । विरच्यते=क्रियते । वर्तमानसामीप्याद्वर्तमानव्यपदेशः । किं कृत्वेत्यत आह — मुनित्रयं नमस्कृत्येति । त्रयोऽवयवा अस्य समुदायस्य त्रयं । त्र्यवयवकसमुदायः ।संख्याया अवयवे तयप् इति तयप्तद्धितः ।द्वित्रिभ्यां तयस्यायज्वा॑ इति तयस्याऽयजादेशः । मुनीनां त्रयमिति षष्ठीसमासः । त्रयाणां मुनीनां समुदाय इति यावत् । यद्यपि मुनिशब्दस्य त्रिशब्दस्य चाऽभेदान्वये त्रिशब्दस्य मुनिशब्दसापेक्षत्वादसामर्थ्यात्तद्धितानुपपत्तिः, तथापि त्रयोऽवयवा अस्य समुदायस्य त्रयमिति प्रथमं व्युत्पाद्यम् । अत्र त्रिशब्दस्य मुनिशब्दमनपेक्ष्यैव समुदायेऽन्वयान्नास्त्यसामर्थ्यम् । ततो मुनीनां त्रयमिति मुनिशब्दः समुदायेऽन्वेति, तस्य प्रत्ययार्थतया प्रधानत्वात् । न तु मुनिशब्दस्य त्रयशब्दैकदेशभूतत्रिशब्देनाभेदान्वयः,पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन॑ इति न्यायात् । ततश्च मुनिशब्दत्रिशब्दयोः परस्परवार्तानभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात्संख्यायाः परिच्छेदकत्वस्वभावतया त्रित्वस्य परिच्छेद्यपर्यालोचनायां संनिहितपदान्तरोपस्थितत्वान्भुनय एव परिच्छेंद्यतया संबध्यन्ते -त्रयाणां मुनीनां समुदाय इति । सोऽयं पार्ष्ठिकान्वयोऽरुणाधिकरणन्यायविदां सुगम इत्यलं विस्तरेण । मुनित्रयमिति कर्मणि द्वितीया । 'नमः स्वस्ति' इति चतुर्थी तु न,कारकविभक्तेर्बलीयस्त्वस्य वक्ष्यमाणत्वात् । नमस्कृत्य । अजलिशिरः-संयोगादिव्यापारेण तोषयित्वेत्यर्थः । नमस्करोतेरजलिशिरः संयोगादिरूपव्यापारमात्रार्थकत्वेऽकर्मकत्वापत्त्या द्वितीयानुपपत्तेः । ननु प्राचीनेषु प्रक्रियाकौमुद्यादिग्रन्थेषु वैयाकरणसिद्धान्तानां सङ्ग्रहात्तैरेव ग्रन्तैश्चरितार्थत्वात् । किमनेन ग्रन्थेनेत्यत आह — तदुक्तीः परिभाव्य चेति । तस्य मुनित्रयस्य उक्तयः तदुक्तयः=सूत्रवार्तिकभाष्यात्मकग्रन्थरूपवाक्याबलयः । ताः परिभाव्य च=सम्यगालोच्य चेत्यर्थः । भूधातोः स्वार्थिकणिजन्ताद्रूपम् । चुरादौ हि 'भुवोऽवकल्कने' इत्यत्र ण्यन्तभूधातोश्चन्तनार्थकत्वमपि वक्ष्यते मूलकृतैव । नचअनादरः परिभवः परीभावस्तिरक्रिया॑ इति कोशविरोधः शङ्क्यः, कोशस्य अण्यन्तभूधातुविषयत्वात् । 'परौ भुवोऽवज्ञाने' इति सूत्रेण तिरस्कारार्थे वर्तमानादण्यन्तात्परिपूर्वकभूधातोर्भावे घञि परिभावशब्दस्य व्युत्पत्त्यवगमात् । एवं च तदुक्तीरिति तच्छब्दस्य बुद्धिस्थपरामर्शित्वात्प्राचां प्रक्रियाकौमुदीप्रसीदादिकृतामुक्तीस्तिरस्कृत्येत्यर्थ इति व्याख्यानं क्लिष्टत्वादुपेक्षितम् । अनेन स्वग्रन्थस्य मुनित्रयग्रन्थानुयायित्वं, प्राचीनप्रक्रियाकौमुद्यादिग्रन्थानां तद्विरुद्धत्वं च सूचितम् । तच्च प्रौढमनोरमायां स्वयमेव मूलकृता प्रपञ्चितमेव । वैयाकरणसिद्धान्तकौमुदीत्यन्वर्थसंज्ञया वैयाकरणसिद्धान्ताःप्रतिपाद्यत्वेन विषयाः । अनायासेन तदवगमः प्रयोजनम् । तस्य ग्रन्थस्य च जन्यजनकभावः संबन्धः । वैयकरणसिद्धान्तजिज्ञासुरधिकारीति सूचितम् । अथ वैयाकरणसिद्धान्तानिरूपयिष्यन्, व्याकरणशास्त्रस्य मूलभूतानि चतुर्दश सूत्राणि पठति — ऐउणित्यादिना । नन्विमानि सूत्राणि मुनित्रयग्रन्थबर्हिभूतत्वादप्रमाणमित्यत आह — इति माहेआराणि सूत्राणीति । मबेआरादागतानि माहेआराणि । 'तत आगतः' इत्यण् । महेआरादधिगतानीति यावत् । तदुक्तं पाणिनिशिष्टप्रणीतशिक्षयाम् — ॒येनाक्षरसमास्नायमधिगम्य महेआरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्यै पाणिनये नमः॥॑ इति । एतचतुर्दशसूत्रव्याख्यायां नन्दिकेआरकृतायां काशिकायामप्युक्तम् — ॒नृतावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम्॥॑ इति ।अत्र ननादेत्यन्तर्भावितण्यर्थो नदधातुः । ढक्कां नादयामासेत्यर्थः । नवपञ्चवारं=चतुर्दशकृत्वः । एतत्=शिवढक्कोत्थितं वर्णजालं, शिवसूत्रजालतया विमर्शे=जानामीत्यर्थः । आर्षस्तङ् । एवं च महेआरेण प्रोक्तानि माहेआराणीति निरस्तम् । एतेन माहेआरत्वादेतेषां सूत्राणां नाऽप्रामाण्यमित्युक्तं भवति । नन्वेवमपि अनर्थकवर्णराश्यात्मकानामेषां सूत्राणां वैयाकरणसिद्धान्तप्रकाशने उपयोगाऽभावादिह तदुपन्यासो व्यर्थ इत्यत आह — अणाअदिसंज्ञार्थानीति । अण् आदिर्यासां ताः अणादयः, अणादयश्च ताः संज्ञाश्च अणादिसंज्ञाः, ताः अर्थः प्रयोजनं येषां तानि — अणादिसंज्ञार्थानि । अनर्थकवर्णराशित्वेऽपि एषां सूत्राणां व्याकरणशास्त्रगतव्यवहारोपय ग्यणादिसंज्ञासु उपयोगान्नाऽऽनर्थक्यमिति भावः । कथमेषां सूत्राणामणादिसंज्ञार्थत्वमित्यत आह — एषामन्त्या इत इति । एषामुदाहृतसूत्राणामन्त्याः अन्ते भवा णकारादिवर्णाः इत्संज्ञकाः प्रत्येतव्या इत्यर्थः । लण्सूत्रे अकारश्चेति ।इत॑इत्यनुषज्यते । तच्च एकवचनान्ततया विपरिणम्यते । लण्सूत्रे लकारात्परोऽकारश्च इत्संज्ञकः प्रत्येतव्य इत्यर्थः । अनन्त्यत्वात्पृथक्प्रतिज्ञा । ननु लण्सूत्र एव अकारस्य इत्संज्ञकत्वे हयवरेत्यादौ पुनःपुनरकारोच्चारणस्य किं प्रयोजनमित्यत आह — हकारादिष्वकार उच्चारणार्थ इति । हकारादीनां सुखोच्चारणार्थं पुनः पुनरकारपाठ इत्यर्थः । अन्यता ह्य्व्रित्येवं क्लिष्टोच्चारणापत्तेरिति भावः । अथवा अचं विना हलामुच्चारणाऽभावात् पुनः पुनरकारपाठो हकाराद्युच्चारणार्थ इत्येव व्याख्येयम् । अत एव 'उच्चैरुदात्तः' इति सूत्रे भाष्यम् — ॒नान्तरेणाऽचं व्यञ्जनस्योच्चारणं भवति॑ इति । अत्र च इदमेव अकारस्य पुनः पुनरुच्चारणं ज्ञापकम् । एवं च 'वर्णात्कारः' इति कारप्रत्यये सति ककार इत्यादि (रूपाणि) । वागित्याद्यवसानेषु, वृक्ष इत्यादौ संयुक्त वर्णेषु च पदान्ते 'चोः कुः' इत्यादिविधिबलात्,हलोऽनन्तराः संयोगः॑ इत्यादिशास्त्रबलाच्च नायं नियम इत्यलम् । ननु चतुर्दशसूत्र्यां णकाराद्यन्तवर्णानामित्संज्ञा प्रतिज्ञाता — ॒एषामन्त्या इत॑ इति । तदनुपपन्नम् । तेषां हि 'हलन्त्यम्' इति सूत्रेण इत्संज्ञा वक्तव्या । तच्च सूत्रं हल्पदार्थावगमोत्तरमेव प्रवृत्तिमर्हति । हल्संज्ञा च हलिति सूत्रे लकारस्य इत्संज्ञायां सत्याम् 'आदिरन्त्येन सहेता' इति सूत्रेण वाच्या । हलिति सूत्रे लकारस्य इत्संज्ञा च 'हलन्त्यम्' इति सूत्रप्रवृत्तिः, 'हलन्त्यम्' इति सूत्रे हल्सूत्रे लकारस्य इत्संज्ञायाम् 'आदिरन्त्येन सहेता' इति हल्संज्ञासिद्धिरित्येवं 'हलन्त्यम्' 'आदिरन्त्येन' इत्यनयोः परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोधः । एवं च हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित्सूत्रेण इत्संज्ञामबोधयित्वा 'हलन्त्यम्' इति हलामित्संज्ञाबोधनं पाणिनेरयुक्तमित्याशङ्क्य हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्संज्ञां विधातुं 'हलन्त्यम्' इति सूत्रं द्विरावृत्य प्रथमसूत्रमुपक्षिपति — हलन्त्यम् ।", "61158": "", "61159": "", "61160": "", "61161": "", "61162": "", "61163": "", "61164": "", "61165": "", "61166": "", "61167": "", "61168": "", "61169": "", "61170": "", "61171": "", "61172": "", "61173": "", "61174": "", "61175": "", "61176": "", "61177": "", "61178": "", "61179": "", "61180": "", "61181": "", "61182": "", "61183": "", "61184": "", "61185": "", "61186": "", "61187": "", "61188": "", "61189": "", "61190": "", "61191": "", "61192": "", "61193": "", "61194": "", "61195": "", "61196": "", "61197": "", "61198": "", "61199": "", "61200": "", "61201": "", "61202": "", "61203": "", "61204": "", "61205": "", "61206": "", "61207": "", "61208": "", "61209": "", "61210": "", "61211": "", "61212": "", "61213": "", "61214": "", "61215": "", "61216": "", "61217": "", "61218": "", "61219": "", "61220": "", "61221": "", "61222": "", "61223": "", "62001": "", "62002": "", "62003": "", "62004": "", "62005": "", "62006": "", "62007": "", "62008": "", "62009": "", "62010": "", "62011": "", "62012": "", "62013": "", "62014": "", "62015": "", "62016": "", "62017": "", "62018": "", "62019": "", "62020": "", "62021": "", "62022": "", "62023": "", "62024": "", "62025": "", "62026": "", "62027": "", "62028": "", "62029": "", "62030": "", "62031": "", "62032": "", "62033": "", "62034": "", "62035": "", "62036": "", "62037": "", "62038": "", "62039": "", "62040": "", "62041": "", "62042": "", "62043": "", "62044": "", "62045": "", "62046": "", "62047": "", "62048": "", "62049": "", "62050": "", "62051": "", "62052": "", "62053": "", "62054": "", "62055": "", "62056": "", "62057": "", "62058": "", "62059": "", "62060": "", "62061": "", "62062": "", "62063": "", "62064": "", "62065": "", "62066": "", "62067": "", "62068": "", "62069": "", "62070": "", "62071": "", "62072": "", "62073": "", "62074": "", "62075": "", "62076": "", "62077": "", "62078": "", "62079": "", "62080": "", "62081": "", "62082": "", "62083": "", "62084": "", "62085": "", "62086": "", "62087": "", "62088": "", "62089": "", "62090": "", "62091": "", "62092": "", "62093": "", "62094": "", "62095": "", "62096": "", "62097": "", "62098": "", "62099": "", "62100": "", "62101": "", "62102": "", "62103": "", "62104": "", "62105": "", "62106": "", "62107": "", "62108": "", "62109": "", "62110": "", "62111": "", "62112": "", "62113": "", "62114": "", "62115": "", "62116": "", "62117": "", "62118": "", "62119": "", "62120": "", "62121": "", "62122": "", "62123": "", "62124": "", "62125": "", "62126": "", "62127": "<<चीरमुपमानम्>> - इकोऽसवर्णे । 'इक' इति षष्ठी ।एङः पदान्ता॑दित्यतःपदान्ता॑दित्यनुवर्तते । तच्च षष्ठन्ततया विपरिणम्यते ।अची॑ति चानुवर्तते । ततश्चपदान्तस्येकोऽसवर्णेऽचि परे ह्रस्वः स्या॑दित्येकं वाक्यम् । चकारात्प्रकृत्यान्तः पादमित्यतः प्रकृत्येत्यनुकृष्यते । ह्रस्व इति तत्रापि संबध्यते । ततश्चउक्तो ह्रस्वः प्रकृत्या स्वभावेन अवतिष्ठत॑ इति वाक्यान्तरं सम्पद्यते । फलितमाह — पदान्ता इक इत्यादिना । यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकोऽसवर्णेऽचि परे ह्रस्वः स्यादित्येव लभ्यते । तस्य ह्रस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्री-अत्रेति स्थिते ईकारस्य ह्रस्वे सति तस्य यणादेशे चक्र्यत्रेत्येव स्यात् । वक्रि-अत्रेति ह्रस्वसमुच्चितप्रकृतिभावविशिष्टं रूपं न स्यात् । इष्यते तदपि । अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य ह्मदयम् ।", "62128": "", "62129": "", "62130": "", "62131": "", "62132": "", "62133": "", "62134": "", "62135": "", "62136": "", "62137": "", "62138": "", "62139": "", "62140": "", "62141": "", "62142": "", "62143": "", "62144": "", "62145": "", "62146": "", "62147": "", "62148": "", "62149": "", "62150": "", "62151": "", "62152": "", "62153": "", "62154": "", "62155": "", "62156": "", "62157": "", "62158": "", "62159": "", "62160": "", "62161": "", "62162": "", "62163": "", "62164": "", "62165": "", "62166": "", "62167": "", "62168": "", "62169": "", "62170": "", "62171": "", "62172": "", "62173": "", "62174": "", "62175": "", "62176": "", "62177": "", "62178": "", "62179": "", "62180": "", "62181": "", "62182": "", "62183": "", "62184": "", "62185": "", "62186": "", "62187": "", "62188": "", "62189": "", "62190": "", "62191": "", "62192": "", "62193": "", "62194": "", "62195": "", "62196": "", "62197": "", "62198": "", "62199": "", "63001": "<<अलुगुत्तरपदे>> - अथाऽलुक्समासो निरूप्यते — अलुगुत्तरपदे । नाऽयं विधिः, 'राजपुरुष' इत्यादावतिप्रसङ्गात्,पञ्चम्याः स्तोकादिभ्यः॑ इत्याद्यारम्भाच्च । किंतु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तमनुवृत्तिरित्याह-अलुगधिकारः प्रागानङ इति । 'आनङृतः' इत्यतः प्रागित्यर्थः । उत्तरपदेति । षष्ठस्य तृतीये पादे अद्यमिदं सूत्रम् । #इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः । अत्रोतत्रपदादिकारनियमे भाष्येमेव प्रमाणम् ।", "63002": "<<पञ्चम्याः स्तोकादिभ्यः>> - पञ्चम्याः स्तोकादिभ्यः । एभ्य इति । स्तोकादिभ्यः परा या पञ्चमी तस्या 'सुपो धातु' इति लुङ् न स्यादित्यर्थः । उत्तरपदे इति । उत्तरशब्दः समासचरमावयवे रूढः, 'पदे' इत्येव सिद्धे उत्तरग्रहणात् । स्तोकान्मुक्त इति । एवमल्पान्मुक्तः ।स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेने॑ति समासः । अत्र पञ्चम्या अलुक् । एवमिति । आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः । अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः । निःस्तोक इति ।निरादयः क्रान्ताद्यर्थे पञ्चम्ये॑ति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाऽभावात्पञ्चम्या अलुक् न । 'स्तोकान्मुक्तः' इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात्स्तोकान्मुक्त इति विशेषणयोगाऽभावश्च । किंच स्तोकान्मुक्तस्यापत्यं स्तौकामुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोकान्मुक्तौ, स्तोकान्मुक्ता इति द्विबहवचनान्तैर्न समासः, अनभिधानादिति भाष्ये स्पष्टम् । ब्राआहृणाच्छंसिन उपसङ्ख्यानमिति ।पञ्चम्या अलु॑गिति शेषः । ननु ब्राआहृणानि शंसतीत्यर्थे कथं पञ्चमी । विधायकवाक्यानि हि ब्राआहृणशब्देनोच्यन्ते,कर्मचोदना ब्राआहृणानि॑ इति कल्पसूत्रात्,शेषे ब्राआहृणशब्दः॑ इति मन्त्रभिन्नवेदभागे ब्राआह्णशब्दस्य जैमिनिना सङ्केतितत्वाच्च । एतादृशब्राआहृणभागस्य न क्लापि शंसनं विहितम्ऋचः शंसति निविदः शंसती॑ति श्रुतिष्वित्यत आह — ब्राआहृणे इति । शस्त्राणीति । ऋचा निविदां च सङ्घः शस्त्रम् । उपचारादिति । लक्षणयेत्यर्थः । द्वितीयार्थे इति । पञ्चम्या अलुगुपसङ्ख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः ।", "63003": "<<ओजःसहोऽम्भस्तमसः तृतीयायाः>> - ओजस् ।ओजस्,सहस्,अम्भस्,तमस्-एषां समाहारद्वन्द्वः । एभ्य परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृतमिति ।कर्तृकरणे कृता बहुल॑मिति समासः । 'ओजो दीप्तौ बले' इत्यमरः । इत्यादीति ।सहसाकृतम्, 'अम्भसाकृतम्'तमसावृत्तम् । तमोवृत्तमिति तु असाध्वेव । शेषषष्ठआ वा समासः । अञ्जस उपसङ्ख्यानमिति । अञ्जश्शब्दात्तृतीयाया अलुक उपसङ्ख्यानमित्यर्थः । अञ्जसाकृतमिति । अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात् । तदाह -आर्जवेनेति । पुंसानुजः ।तृतीयाया अलुकि साधु॑रिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति ।जनुर्जननजन्मानी॑त्यमरः जनुषा=जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह — जात्यन्ध इति । ब्राआहृण्यादिजातितुल्याऽन्ध्वानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् ।", "63004": "<<मनसः संज्ञायाम्>> - मनसः संज्ञायां । मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । मनसागुप्तेति । कस्याश्चित्संज्ञेयम् । असंज्ञायां तु-मनोगुप्ता ।", "63005": "<<आज्ञायिनि च>> - आज्ञायिनि च । मनस इत्येवेति । अनुवर्तत एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्यादाज्ञायिनि परे इत्यर्थः । असंज्ञार्थमिदम् । ज्ञातुमिति । प्रेरयितुमित्यर्थः । मनसाज्ञायीति । 'सुप्यजातौ' इति णिनिः ।आतो युक्चिण्कृतो॑रिति युक् । अत्र सूत्रभाष्येआत्मनश्च पूरणे उपसङ्ख्यान॑मिति वार्तिकं पठितम् ।", "63006": "", "63007": "<<वैयाकरणाख्यायां चतुर्थ्याः परस्य च>> - परस्य च । वैयकरणाख्यायां परशब्दस्यापि चतुथ्र्या अलुगित्यर्थः ।", "63008": "", "63009": "<<हलदन्तात् सप्तम्याः संज्ञायाम्>> - हलदन्तात् । त्वचिसार इति । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ।वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॑ इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति — युधिष्ठिर इति । अत्रअजिरशिशिसस्थिरे॑त्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः ।", "63010": "<<कारनाम्नि च प्राचां हलादौ>> - कारनाम्नि । यत्रकारनामेति । राजग्राह्रो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः । नियमार्थमिति ।प्राचां देशे हलादौ यदि भवति कारनाम्न्येव,॑कारनाम्नि हलादौ चेत्प्राचामेव,॑प्राचां कारनाम्नि चेद्धलादावेवे॑ति नियमत्रयार्थमित्यर्थः । अविकटोरण इति । अविशब्दासङ्घाते कटच् । उपणो मेषः । नद्यामिति । नद्युत्तारणे तात्कालिको दोहः-करः ।", "63011": "<<मध्याद्गुरौ>> - मध्याद्गुरौ । गुरुशब्दे परे मध्यशब्दात्सप्तम्या अलुक् स्यादित्यर्थः । असंज्ञार्थमिदम् । अन्ताच्चेति । सप्तम्या अलुक्स्याद्गुरौ परे इत्यर्थः ।", "63012": "<<अमूर्धमस्तकात् स्वाङ्गादकामे>> - अमूर्धमस्तकात् । मूर्धंमस्तकशब्दवर्जितात्स्वाङ्गवाचकात्सप्तम्या अलुक्स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः । अत्र संज्ञायामित्यनुवर्तते । अत एवह्मद्द्युभ्यां चे॑त्यत्र ह्मद्ग्रहणमर्थवत् । कण्ठेकाल इति । शिवस्य नाम । उरसिलोमेति । कस्यचिन्नाम । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ।", "63013": "<<बन्धे च विभाषा>> - बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे — हलदन्तादिति । बस्तेबन्ध इति । संज्ञायामिति सप्तमीत्तपुरुषोऽयम् । इह तत्पुरुष इति संबध्यते, 'बन्ध' इति घञन्तम्, अन्यत्र तुनेन्सिद्धे॑ति निषेध इति स्पष्ट भाष्ये ।", "63014": "<<तत्पुरुषे कृति बहुलम्>> - तत्पुरुषे कृति । तत्पुरुषे सप्तम्या बहुलमलुक्स्यात्कृदन्ते उत्तरपदे संज्ञायामित्यर्थः । स्तम्बेरम इति । तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती । कर्णेजप इति । कर्णे जपति=परदोषमुपांआआविष्करोतीति कर्णेजपः पिशुनः ।स्तम्बकर्णयो रमिजपो॑रित्यच् । उपपदसमासः । क्वचिन्नेति । बहुवग्रहणादिति भावः । कुरुचर इति । 'चरेष्टः' इत्यधिकरण उपपदेः चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदं, तथापि बहुलग्रहणादेव सिद्धेहलदन्ता॑दिति नानुवर्तनीयमिति भावः ।", "63015": "<<प्रावृट्शरत्कालदिवां जे>> - प्रावृट्शरत् । प्रावृट्, शरत्, काल, दिव्-एषां सम्या अलुक् स्याज्ज शब्दे परे संज्ञायामित्यर्थः । ननुहलदन्ता॑दित्येव सिद्धे किमर्थमिदमित्यत आह — पूर्वस्यैवायं प्रपञ्चेति । विस्तर इत्यर्थः ।", "63016": "<<विभाषा वर्षक्षरशरवरात्>> - विभाषा वर्ष । शेषपूरणेन सूत्रं व्याचष्टे — एभ्यस्सप्तम्या इति ।", "63017": "<<घकालतनेषु कालनाम्नः>> - घकालतनेषु । शेषपूरणेन सूत्रं व्याचष्टे — सप्तम्या इति । घेति घे परे उदाहरणसूचनमिदम् ।तरप्तमपौ घः॑ । पूर्वाह्णेतरे इति । अतिशायने सप्तम्यन्तात्तरप्तमपौ । अत एव तत्तद्विभक्त्यन्तात्तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्णेकाले इति । अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव । तनेति । उदाहरणसूचनमिदम् । पूर्वाह्णेतने इति ।विभाषा पूर्वाह्णापराह्णाभ्या॑मिति ठ्युठ्युलौ, तुट् च ।", "63018": "<<शयवासवासिष्वकालात्>> - शयवास । शय, वास, वासिन्-एतेषु परेषु कालभिन्नात्सप्तम्या अलुक् स्यादित्यर्थः । अपो योनि । योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात्सप्तम्या अलुक् स्यादित्यर्थः । अप्सव्य इति । दिगादित्वाद्यत् । 'ओर्गुणः'वान्तो यी॑त्यवादेशः । अप्सुमन्ताविति । 'अप्सु' इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तौ, आज्यभागाविति कर्मविशेषौ ।", "63019": "<<नेन्सिद्धबध्नातिषु>> - नेन्सिद्धबन्धानादिषु च । चक्रबद्ध इति ।साधनं कृते॑ति क्तान्तेन सप्तम्यन्तस्य समासः ।", "63020": "<<स्थे च भाषायाम्>> - स्थे च भाषायाम् ।अनन्तरस्ये॑ति न्यायात्तत्पुरुषे कृती॑त्यस्यैवायं निषेधः । अत एव 'अनेकमन्यपदार्थे' इति सूत्रभाष्येसप्तम्युपमानपूर्वपदस्ये॑ति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते । यदा तुअमूर्धंमस्तका॑दित्यस्याप्ययं निषेधः स्यात्तर्हि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात् ।", "63021": "<<षष्ठ्या आक्रोशे>> - षष्ठआ आक्रोशे । 'अलुगुत्तरपदे' इति शेषः । आक्रोशो-निन्दा । वाग्दिक् । वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठआ अलुक् स्यात्-युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति । अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पस्यन्तमनादृत्य हरतीत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी । आमुष्यायणेति । वार्तिकमिदम् । एते निपात्यन्ते । अमुष्येति । अमुष्याषत्यमित्यर्थेनडादिभ्यः फगि॑ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे 'आमुष्यायण' इति रूपमित्यर्थः । अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठआ अलुकि 'अमुष्यपुत्र' शब्दः । अमुष्यपुत्रस्य भाव इत्यर्थेद्वन्द्वमनोज्ञादिभ्यश्चे॑ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापिप्रत्ययस्था॑दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः । एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठआ अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् ।मूर्खः-अज्ञः ।दिवु क्रीडायाम् । देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोषप्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादितिअजेर्वी॑त्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठआ अलु॑गिति सेषः । संज्ञायामिति ।भाष्यम् ष शुनश्शेप इति । शुनः शेप इव शेपो यस्येति विग्रहः ।मेढ्रो मेहनशेपसी॑ । शेफशब्दोऽप्यस्ति, 'शेपाय स्वाहा' इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गूल इत्यपि । ऋषिविशेषणां संज्ञा एताः । दिवश्च दासे इति । वार्तिकम् ।षष्ठआ अलु॑गिति शेषः । दिवोदास इति कश्चिद्राजर्षिरयम् ।", "63022": "<<पुत्रेऽन्यतरस्याम्>> - पुत्रेऽन्यतरस्यां । निन्दायामिति । 'आक्रोशे' इत्यनुवृत्तिलभ्यमिदम् । स्पष्टं चेदम् 'आनङृतः' इत्यत्र भाष्ये ।", "63023": "<<ऋतो विद्यायोनिसम्बन्धेभ्यः>> - ऋतो विद्यमा । एकत्वे बहुवचनम् ।तदाह-विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तादिति । अलुक् स्यादिति ।उत्तरपदे परत॑इति शेषः ।विद्यासंबन्धवाचिनमुदाहरति — होतुरन्तेवासीति । ऋग्वेदविहितकर्मविशेषकर्ता होता । अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति । विद्यासंबन्धवाचिन उदाहरणान्तरमिदम् । अथ योनिसंबन्धवाचिनमुदाहरति — पितुरन्तेवासीति । पितुःपुत्र इति च । ननु 'होतृधनं' पितृधन॒मित्यत्राऽप्यलुक् स्यादित्यत आह — विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति ।विद्यायोनिसंबन्धेभ्यः॑ इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोग्र्रहणमित्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसंबन्ध्यान्यतरवाचित्वं विवक्षितमिति भावः ।होतृधनं॒॑पितृधन॑मित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाऽभावान्न षष्ठआ अलुगिति भावः । अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव 'होतुःपुत्र' इत्यादि सिद्धम् ।", "63024": "<<विभाषा स्वसृपत्योः>> - विभाषा स्वसृपत्योः । ऋदन्तादिति ।विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन॑ इति शेषः । ततश्चभोक्तृस्वसे॑त्यत्र नातिव्याप्तिः ।", "63025": "<<देवताद्वन्द्वे च>> - देवताद्वन्द्वे च । मित्रावरुणाविति । इह ऋदन्तत्वाऽभावात्पूर्वेणाऽप्राप्ते विधिरयम् । वायुशब्देति । वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः । ननु पूर्वसूत्राद्द्वन्द्वग्रहणेऽनुवर्तमाने पुनद्र्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः । एतदिति । एतत्=ब्राहृप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः । नापि लोके इति । प्रौढिवादमात्रमेवेदम्,वेदे ये सहनिर्वापनिर्दिष्टाः॑ इत्येव भाष्ये दर्शनात्, लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमेआरावित्यादावतिप्रसङ्गाच्च ।", "63026": "", "63027": "<<ईदग्नेः सोमवरुणयोः>> - ईदग्नेः । इत्येवेति । 'देवताद्वन्द्वे' इत्यनुवर्तत एवेत्यर्थः । सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्याद्देवताद्वन्द्वे इत्यर्थः । आनङोऽपवादः ।", "63028": "<<इद्वृद्धौ>> - आगेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ ।देवताद्वन्द्वे चे॑त्यानङ् । आद्गुणः । अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः ।साऽस्य देवते॑त्यण् । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाऽभावात् । 'इद्वृद्धौ' इति नेति भावः ।देवताद्वन्द्वे चे॑त्युभयपदवृद्धिमाशङ्क्याह — नेन्द्रस्येति । विष्णौ नेति । विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । आग्नावैष्णवमिति । अग्नि ष्च विष्णुश्च -अग्नाविष्णू ।देवताद्वन्द्वे चे॑त्यानङ् । अगनाविष्णू देवते अस्येत्यर्थेसाऽस्य देवते॑त्यण् । आग्नावैष्णवं हविः ।देवताद्वन्द्वे चे॑त्युभयपदवृद्धिः । इत्त्वाऽभावादान व ।", "63029": "<<दिवो द्यावा>> - दिवो द्यावा । शेषपूरणेन सूत्रं व्याचष्टे — देवताद्वन्द्वे इति । द्यावाभूमि इति । द्यौश्च भूमिश्चेति विग्रहः । द्यावाक्षामा रुक्मो अन्तर्विभाति॑ इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । द्यौश्च क्षामा चेति विग्रहः । क्षामाशब्दो भुमिपर्यायो वेदे । तत्र द्वन्द्वे दिवो द्यावादेशः । षष्ठआस्तुसुपां सुलुक्इति डादेशः,देवताद्वन्द्वे चे॑ति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम् ।", "63030": "<<दिवसश्च पृथिव्याम्>> - दिवसश्च पृथिव्यां । दिव इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः, स्वरितत्वादिति भावः । तर्हि चकारो व्यर्थ इत्यत आह — चादिति । तथा च दिव्शब्दस्य दिवसादेशो, द्यावादेशश्च स्यात्पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः । 'दिवस्पृथिव्याः' इत्यत्र सकारादकारस्याऽश्रवणाद्दिवसादेशस्य सकारान्तत्वावश्यंभावादादेश सकारादकारोच्चारणस्य किं प्रयोजनमित्यत आह — आदेशेऽकारोच्चारणमिति । सामर्थ्यात्ससजुषो रु॑रिति रुत्वं नेति भावः । ननुद्यावा चिदस्मै पृथिवी सन्नमेते॑ इत्यत्र दिव्शब्दपृथिवीशब्दयोः कथं द्वन्द्वः , कथं वा दिवो द्यावा देशः, उत्तरपदस्य 'चिदस्मै' इत्यनेन व्यवहितत्वादित्यत आह — छन्दसि दृष्टानुविधिरिति॥ भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः । यतादृष्टं तथा प्रक्रिया कल्पनीयेति भावः । पदकारा इति ।दिवस्पृथिव्यो॑रित्यवग्रहे विसर्गं पठन्तीत्यर्थः । 'पदकारा' इत्यनेन पदपाठस्याधुनिकत्वं सूचितम् । तथाच विसर्गपाठः प्रामादिक इति सूचितम्, अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात् । उषासोषसः । उषासासूर्यमिति । उषाश्च सूर्यश्चेति समाहारद्वन्द्वः । मातरपितरावुदीचाम् । उदीचां मते मातरपितराविति भवतीत्यर्थः । अत्र मातृशब्दस्याऽरङादेशो निपात्यते । मातापितराविति । अरङभावे 'आनङृतः' इत्यानङ् । द्वन्द्वाच्चुदष । समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । 'राजाहःसखिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । वाक्त्वचमिति । वाक्य त्वक्चेति समाहारद्वन्द्वः । कुत्वस्याऽसिद्धत्वाच्चवर्गान्तत्वाट्टच् ।एवं त्वक्रुआजमित्यत्रापि । त्वक्च रुआक्चेति विग्रहः । शमीदृषदमिति । शमी च दृषच्चेति विग्रहः । दकारान्तत्वाट्टच् । वाक्त्विषमिति । वाक्च त्विट् । चेति विग्रहः । षान्तत्वाट्टच्, जश्त्वस्याऽसिद्धत्वादिति भावः । छत्रोपानहमिति । छत्रं च उपानच्चेति विग्रहः । हान्तत्वाट्टच् । प्रावृट्शरदाविति । प्रावृट् च शरच्चेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः ।*****इति बालमनोरमायांद्वन्द्वसमासः*****अथ द्विरुक्तप्रक्रिया । — — — — — — —", "63031": "", "63032": "", "63033": "", "63034": "<<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> - स्त्रियाः पुंवत् ।भाषित पुंस्कादनू॑ङिति समस्तमेकपदं 'स्त्रिया' इति षष्ठन्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे — भाषितपुंस्कादिति । 'अनू' ङित्यस्य व्याख्यानम्-ऊङोऽभाव इति । अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा ।भाषितपुंस्का॑दिति दिग्योगे पञ्चमी । 'पर' इति प्रथमान्तमध्याहार्यम् । तथाच भाषितपुंस्कात् पराऽनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति पञ्चम्या सुक्प्रसङ्ग इत्यत आह — निपातनादिति । इदमुपलक्षणम् । निपातनादप्रथमान्तस्यापि बहुव्रीहिः, परशब्दलोपश्चेत्यपि बोध्यम् । यद्वा अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी । नन्वेवमपि 'स्त्रिया' इति षष्ठन्तस्यभाषितपुंस्कादनू॑ङिति यदि विशेषणं स्यात्तर्हि भाषितपुंस्कादनूङ॑ इति षष्ठी श्रूयेतेत्यत आह — षष्ठआश्च लुगिति ।निपातना॑दित्यनुषज्यते । भाषितः पुमान् येन तद्भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच् । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् ।तृतीयादिषु भाषितपुंस्क॑मित्यत्र व्याख्यातमेतत् । तदाह — तुल्ये प्रवृत्तिनिमित्ते इति । स्त्रीवाचकस्य शब्दस्येति । स्त्रीलिङ्गस्येत्यर्थः । 'स्त्रिया' इति षष्ठन्तं न स्त्रीप्रत्ययपरमिति भावः ।पुंव॑दिति रूपातिदेशः । पुंस इव पुंवदिति षष्ठन्ताद्वतिः । तदाह — पुंवाचकस्येव रूपमिति ।स्त्रिया॑मिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम् । तच्च 'अलुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वेति । तदाह — स्त्रीलिङ्गे उत्तरपदे इति ।अपूरणीप्रियादिइआ॑त्येतद्व्याचश्टे- न तु पूरण्यां प्रियादौ च परत इति । पूरणीति स्त्रीलिङ्गनिर्देशात्स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम् । तुल्ये प्रवृत्तिनिमित्ते इति कम् । कुटीभार्यः । अत्र पुंवत्त्वं न भवति, कुटीशब्दो घटे पुंलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात् ।स्त्रीप्रत्ययः पुंवत्स्या॑दित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य स पटुभार्य इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य 'अचः परस्मिन्' इति स्थानिवत्त्वादुकारस्य यण्स्यात् । ह्रस्व इति । चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति, चित्रगोशब्दे ओकारस्यगोस्त्रियो॑रित्युकारो ह्रस्व इत्यर्थः । ननु चित्रा गाव इति लोकिकसमासाभ्युपगमे सुपो लुकः प्राक् चित्रा अस इत्यत्र पूर्वसवर्णदीर्घे, गो अस् इत्यत्र पूर्वरूपे च एकादेशे कृते तस्य परादिवत्त्वेन असो लुकि चित्रशब्दे अकारो न श्रूयेत, चित्रगुरित्यत्र उकारश्च न श्रूयेत, पूर्वान्तवत्त्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाऽभावाल्लुक् न स्यादित्यत आह — चित्रा अस् इति । गोशब्दस्य स्त्रीलिङ्गत्वात्तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः ।प्रत्ययोत्तरपदयोश्चे॑ति सूत्रभाष्यरीत्याअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति न्यायात्प्रागेव पूर्वसवर्णदीर्घात्सुब्लुगिति भावः । चित्रगुरिति । बहुव्रीहौ ह्रस्वत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्य इति । रूपवती भार्या यस्येति विग्रहः । अत्र उपसर्जनह्रस्वः । 'रूपवती' शब्दस्य पुंवत्त्वम् । ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, 'सुप्सुपे' त्येकत्वस्य विवक्षतत्वादित्यत आह — अनेकोक्तेरिति । शेषग्रहणात्प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थसंज्ञाविज्ञानात्, ततश्चार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणाद्द्विबहूनां प्रथमान्तानां बहुव्रीहिरिति भाष्ये स्पष्टमिति भावः । अत्रेति । त्रिपदबहुव्रीहावित्यर्थः । चित्राजरतीगुः जरतीचित्रागुर्वेति । गां प्रतिचित्रात्वस्य जरतीत्वस्य च विशेषणत्वाऽविसेषादन्यतरस्यसप्तमीविशेषणे बहुव्रीहौ॑ इति पूर्वनिपात इति भावः । एवं दीर्घेति । दीर्घे तन्व्यौ जङ्घे यस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः पुंवत्त्वमाशह्ख्याह — त्रिपदे इति । उत्तरपदस्येति । समासचरमावयवपदस्य उत्तरपदत्वात्ततृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वं च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः । ननु तर्हि मद्यमपदस्य पुंवत्त्वं दुर्वारम्, उत्तरपदपरकत्वसत्त्वादित्यत आह — द्वितीयमपि न पुंवदिति । पूर्वपदत्वाभावादिति । उत्तरपदेन पूर्वपदमाक्षेपाल्लब्यते । समासप्रथमावयवपदमेव पूर्वपदम्, नतु मध्यमावयवपदमपीति भावः । ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आह — उत्तरपदशब्दो हीति । रूढ इति । वैयाकरणसमयसिद्ध इत्यर्थः । इति वदन्तीति । एवंप्रकारेण केचिद्वदन्तीत्यन्वयः । तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्ति पुंवत्त्वमिति युज्यते,उत्त्रपदपरकत्वाऽभावात् । मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यस्त्येव पुंवत्त्वम्, स्त्रिया पुंवदित्यत्र तु पूर्वपदस्याश्रवणात्, अनुवृत्त्यभावाच्च, किन्तु 'उत्तरपदे' इत्यनेन पूर्वपदस्य पुंवत्त्वमित्यर्थाद्गम्यत इति वक्तव्यम् । तदपि न सम्भवतीत्यत आह-नेह पूर्वपदमाक्षिप्यत इति । इह=॒स्त्रियाः पुंव॑दित्यत्र,उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिप्यते, नाऽर्थाद्गम्यत इत्यर्थः । कुत इत्यत आह — आनङृत इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः । तत्र चतुर्णा द्वन्द्वेहोतृपोतृनेष्टोद्गातारः॑ इत्युपान्त्यस्य नेष्टुरानङुदाहृतःसमर्थः पदविधि॑रित्यत्र भाष्ये । तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरूपान्त्यस्य पूर्वपदत्वाऽभावादानङ् नोपपद्येत । तस्मान्नावश्यमुत्तरपदे विहितं कार्यं पूर्वपदस्यैवेति नियम इत्यर्थः । तेनेति । पूर्वपदाऽनाक्षेपेणेत्यर्थः । उपान्त्यस्येति । अन्त्यस्य समीपमुपान्त्यम् । चरमावयवसमीपवर्तिनो मध्यमस्येत्यर्थः । पुंवदेवेति ।रूप॑मिति शेषः ।तदेव दर्शयति-चित्राजरद्गुरिति । अत्र चित्राशब्दस्य न पुंवत्त्वम्, मध्यमेन व्यवधानात्, उत्तरपदपरकत्वाऽभावाच्चेति भावः । इत्यादीति । जकतीचित्रगुः । तन्वीदीर्घजङ्घः । ननुआनङृतः॑इत्यत्रहोतृपोतृनेष्टोद्गातारः॑ इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः ।स्त्रियाः पुंव॑दिति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत आह — अत एवेति ।स्त्रियाः पुंव॑दित्यत्रापि पूर्वपदाऽनाक्षेपादित्यर्थः । द्वन्द्वगर्भेऽपी॑त्यनन्तरंबहुव्रीहा॑विति शेषः । भाष्यमिति । यद्यपि कृत्स्नभाष्यपरिशोधनायां चिंत्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापिचित्राजरद्गु॑रितीत्यनन्तरंप्रयाग॑मिति शेषः ।भाष्य॑मित्यस्य-॒पट्वीमृदुभार्य॑ इति प्रकृतसूत्रस्थभाष्यमित्यर्थः ।सूचयती॑ति शेषः ।स्त्रियाः पुंव॑दिति प्रकृतसूत्रभाष्ये पट्व्यौ मृद्व्यौ भार्ये यस्येति द्वन्द्वगर्ङबहुव्रीहौ पट्वीमृदुभार्यं इत्युदाहृतम् । तत्र पट्वीमृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्त्वे, द्वन्द्वस्य परवल्लिङ्गतानियमात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्त्वं, मध्यमपदेन व्यवधानादुत्तरपदपरकत्वाऽभावात् । मद्यमपदस्यानुत्तरपदत्वादसमानाधिकरणत्वाच्च न तस्मिन्परे पुंवत्त्वसंभवः । मृद्वीशब्दस्य तु केवलस्य भाषुतपुंस्कत्वादुत्तरपदपरकत्वाच्च पुंवत्त्वमिति तदाशयः ।स्त्रियाः पुंव॑दित्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाऽभावेन पुंवत्त्वाऽप्रवृत्तेः तदसङ्गतिः स्पष्टैव । ततश्च 'पट्वीमृदुभार्यं' इति भाष्यंचित्राजरद्गु॑रिति प्रयोगं गमयतीत्यर्थः । कर्मधारयेति । जरती चासौ चित्रा चेति कर्मधारयः ।पुंवत्कर्मधारये॑ति जरतीशब्दस्य पुंवत्त्वान्ङीपो निवृत्तिः । ततस्च जरच्चित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरच्चित्राशब्दस्यस्त्रियाः पुंव॑दिति पुंवत्त्वाट्टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति । जरती चासौ गौश्चेति कर्मधारयेगोरतद्धितलुकी॑ति टचि अवादेशेपुंवत्कर्मधारये॑ति जरतीशब्दस्य पुंवत्त्वे ङीपो निवृत्तौ टित्त्वान्ङीपि जरद्गवीशब्दः । ततश्चित्रा जरद्गवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौनद्यृतश्चे॑ति कपि चित्राशब्दस्यस्त्रियाः पुंव॑दिति पुंवत्त्वे 'चित्रजरद्गवीक' इति रूपमित्यर्थः । स्त्रियाः किमिति । षष्ठन्तस्य प्रश्नः । ग्रामणिदृष्टिरिति । ग्रामणीशब्दस्य नपुंसकत्वे 'ह्रस्वो नपुंसके' इति ह्रस्वे ग्रामणिशब्द इदन्तः । कुलशब्दो नपुंसकत्वस्फोरणार्थः । दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम् । ग्रामणि दृष्टिरस्येत्येव विग्रहः । 'स्त्रियाः' इत्यस्याऽभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकह्रस्वनिवृत्तौग्रामणीकुल॑मिति स्यादिति भावः । गङ्गाभार्य इति । अत्र गह्गाशब्दस्य नित्यस्त्रीलिङ्गतया बाषितपुंसकत्वाऽभावान्न पुंवत्त्वमिति भावः । वामोरूभार्य इति । वामौ=सुन्दरौ ऊरू यस्या इति बहुव्रीहिः ।संहितशफलक्षणबामादेश्चेत्यूङ् । तदन्तस्य पुंवत्त्वे ऊङो निवृत्तौ 'वामोरुभार्य' इति पूर्वपदमुदन्तमेव स्यादिति भावः । स्त्रियां किमिति । सप्तम्यन्तस्य प्रश्नः । कल्याणीप्रदान इति । अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वात्तस्मिन्परे पुंवत्त्वं नेति भावः । पूरण्यां त्विति ।पुंवत्त्वानिषेधोदाहरणे विशेषो वक्ष्यते॑ इति शेषः ।", "63035": "<<तसिलादिष्वाकृत्वसुचः>> - तसिलादिष्वाकृत्वसुचः ।स्त्रियाः पुंव॑दित्यनुवर्तते । 'आ कृत्वसुच' इत्याङ् अभिविध्यर्थकः, तमभिव्याप्येत्यर्थः । तदाह — तसिलादिषु कृत्वसुजन्तेष्विति ।पञ्चम्यास्तसि॑लित्यारभ्यसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु॑जित्येतत्पर्यन्तसूत्रविहितेष्वित्यर्थः । उत्तरपदपरकत्वाऽभावात्स्त्रियाः पुंवदित्यप्राप्तौ वचनमिदम् । ननु तिल्थ्यन्शसां कृत्वसुचः परत्रैव पाठात्तसिलादिष्वनन्तर्भावात्तेषु परेषु 'वकृतिः' 'अजथ्या' 'बहुशः' इत्यत्र पुंवत्त्वं न स्यादित्याव्याप्तिः ।ईषदसमाप्तौ कल्पब्देश्यदेशीयरः॑ इति देश्यस्य,षष्ठआ रूप्य चे॑ति रूप्यस्य च तसिलादिष्वन्तर्भावात्तयोः परतःपट्वीदेश्ये॑त्यत्र चशुभ्रारूप्ये॑त्यत्र च पुवत्त्वं स्यादित्यतिव्याप्तिरित्यत आह — परिगणनमिति । अव्याप्त्यतिव्याप्तीति । इष्टस्थले अप्रवृत्तिः — अव्याप्तिः । अनिष्टस्थले प्रवृत्तिः — अतिव्याप्तिः । परिगणनप्रकारमाह — त्रतसावित्यादिना । बह्वीषु बहुत्रेति । बह्णीष्वित्यर्थे बह्णीशब्दात् 'सप्तम्यास्त्र' लिति त्रलि पुंवत्त्वे ङीषो निवृत्तौ बहुत्रेति रूपमित्यर्थः । बहुत इति ।पञ्चम्यास्तसि॑लिति बह्णीशब्दात्तसिल्, पुवत्त्वान्ङीष#ओ निवृत्तिरिति भावः । दर्शनीयतरेति । अनयोरियमतिशयेन दर्शनीयेत्यर्थे दर्शनीययाशब्दात्द्विवचनविभज्योपपदे तर॑विति तरप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । दर्शनीयतमिति । आसामियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दात्अतिळायने तमविष्ठनौ॑ इति तमप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । ननु पट्वीशब्दात्तरपि तमपि च पट्वीतरा पट्वीतमेत्यत्रापि पुंवत्त्वे ङीषो निवृत्तौ पटुतरा पटुतमेति स्यादित्यत आह — घरूपेति । तथा च ह्रस्वेन पुंवत्त्वे बाधिते सति ङीषो निवृत्त्यभावे तस्य ह्रस्वे सति पट्वितरा पट्वितमेति रूपमित्यर्थः । पटुचरीति । पट्वीशब्दात्भूतपूर्वे चर॑डिति पुंवत्त्वे ङीषो निवृत्तिरिति भावः । पूर्वं पट्वीत्यर्थः । पटुजातीयेति । पट्वीशब्दात्प्रकारवचने जातीय॑रिति पुंवत्त्वे ङीषो निवृत्तिरिति भावः । पटुसदृशीत्यर्थः । दर्शनीयकल्पेति । 'ईषदसमाप्तौ' इति दर्शनीयाशब्दात्कल्पप् । पुंवत्त्वे ङीषो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयदेशीयेति । 'ईषदसमाप्तौ' इति दर्शनीयशब्दाद्देशीयर् । पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रशस्तत्वेन द्रष्टुं योरयेत्यर्थः । दर्शनीयपासेति । दर्शनीयाशपब्दाद्याप्ये पाशप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । कुत्सितत्वेन द्रष्टुमयोग्येत्यर्थः । बहुथेति । बह्वीशब्दात्प्रकारवचने थाल् । पुंवत्त्वे ङीषो निवृत्तिरिति भावः । बहुप्रकारेत्यर्थः । वृकतिरिति ।प्रशंसाया॑मित्यनुवृत्तौबृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसी॑ति वृकीशब्दाज्जातिलक्षणङीषन्तात्तिल् । पुंवत्त्वे ङीषो निवृत्तिरिति भावः । अजथ्येति ।तस्मै हित॑मित्यधिकारेअजाविभ्यां थ्य॑न्नित्यजाशब्दात्थ्यन् । पुंवत्त्वे टापो निवृत्तिरिति भावः । 'वृकतिरजथ्या' इत्यत्रजातेश्चे॑ति पुंवत्त्वनिषेधो न, परिगणनसामर्थ्यात् । शसीति । शसि परे बह्वुर्थकस्य अल्पार्थकस्य पुंवत्त्वं वक्तव्यमित्यर्थः ।त्रतसा॑वित्यादिपरिगणितेष्वनन्तर्भावाद्वचनमिदम् । बह्वीभ्य इति ।बह्वीभ्यो देहीत्यर्थेबह्वल्पार्थाच्छस्कारकादन्यतरस्या॑मिति बह्वीशब्दाच्छस् । पुंवत्त्वे ङीषो निवृत्तिरित भावः । संप्रदानकारकत्वस्फोरणायदेही॑ति शब्दः । अल्पश इति । अल्पाभ्यो देहीत्यर्थः । पुंवत्त्वे टापो निवृत्तिरिति भावः । त्वतलोरिति । त्वप्रत्यये तल्प्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्त्वं वक्तव्यमित्यर्थः । कत्र्रीत्वमिति । कत्र्रीशब्दस्य क्रियानिमित्तत्वान्न गुणवचनत्वमिति भावः ।आ कडारा॑दिति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति स्थितम् । प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम् ।वोतो गुणवचना॑दिति सूत्रभाष्यस्थंसत्त्वे निविशतेऽपैती॑त्यादि गुणलक्षणं तु नात्र प्रवर्तते । अत एवएक तद्धिते चे॑ति सूत्रभाष्ये एकस्या भाव एकत्वमित्यत्र एकशब्दस्य गुणवचनत्वाऽभावात्त्वतलोर्गुणवचनस्ये॑त्यप्राप्तं पुंवत्त्वमत्र विधीयत इत्युक्तं सङ्गच्छते ।सखीत्व॑मित्यादि तु असाध्वेवेति शब्देन्दुशेखरे विस्तरः । ननु कृतोऽर्थः=कृत्यं यया सा कृतार्थ, तस्या भावः कृतार्थतेत्यत्र कथं पुंवत्त्वम् । कृतार्थशब्दस्य समासत्वेन उक्तगुणवचनत्वाऽभावादित्यत आह — शरद इति ।दृढभक्ति॑रित्यत्रानुपदोक्तरीत्या कृतोऽर्थो येन तत्कृतार्थमिति सामान्याभिप्रायं कृतार्थशब्दं प्रथमतो व्युत्पाद्य तस्मादविवक्षितलिङ्गात्तल्प्रत्ययो व्युत्पाद्य इति भावः । भस्याऽढे इति । ढभिन्ने तद्धिते परे स्त्रियाः पुंवत्त्वे वक्तव्यमित्यर्थः । परिगणितेष्वनन्तर्भावाद्वचनम् । हास्तिकमिति । 'तस्य समूहः' इत्यधिकारेअचित्तहस्तिधेन॑रिति ठक् ।ठस्येकः॑ । पुंवत्त्वे सति नान्तलक्षणङीपो निवृत्तिः । 'नस्तद्धिते' इति टिलोप इति भावः । नच पुंवत्त्वाऽभावेऽपियस्येति चे॑ति ईकारलोपे टिलोपे चहास्तिक॑मिति सिद्धमिति वाच्यं,यस्ये॑ति लोपस्याभीयत्वेनासिद्धतया स्थानिवत्त्वेन च तद्धितपरकत्वाऽभावेन टिलोपाऽनापत्तेः ।ठक्छसोश्चे॑ति पुंवत्त्वादेव सिद्धिस्त्वनाशङ्क्या ,-छसः साहचर्येण 'भवतष्ठक्छसौ' इति ठक एव तत्र ग्रहणात् । रौहिणेय इति ।वर्णादनुदात्ता॑दिति रोहितशब्दान्ङीप्, तकारस्य नकारश्च । रोहिण्या अपत्यमित्यर्थेस्त्रीभ्यो ढक् । एयादेशः ।भस्ये॑ति पुंवत्त्वे ङीब्नकारयोः निवृत्तिः स्यादिति भावः । गृह्रत इति । व्याख्यानादिति भावः । अग्नायीति । अग्नेः स्त्री अग्नायी ।वृषाकप्यग्नी॑ति ङीष् । अग्नेरिकारस्यैकारादेशः, अग्नायी देवताऽस्येत्यर्थेऽग्नेर्ढगिति ढक्, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । ततो ढस्य एयादेशः । पुंवत्त्वे सति ङीबैत्वनिवृत्तौ अग्नि-एय इति स्थिते 'यस्येति च' इति इकारलोपे आदिवृद्धौ आग्नेय इति रूपम् । पुंवत्त्वनिषेधे तु 'आग्नायेय' इति स्यादिति भावः । वस्तुतस्तु अग्नित्वं पुंसि प्रवृत्तिनिमित्तं, स्त्रियां तु अग्निसंबन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्त्वमिति बोध्यम् । सपत्नीशब्दस्त्रिधेतिव्युत्पादनभेदा॑दिति शेषः । शत्रुपर्यायादिति ।रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुह्र्मदः॑ इति कोशादिति भावः । अयं भाषितपुंस्कः । विवाहनिबन्धनमिति । विवाहजनितसंस्कारविशेषणिमित्तकमित्यर्थः ।पतित्वं सप्तमे पदे॑ इत्यादिस्मरणादिति भावः ।आश्रित्ये॑त्यनन्तरं 'प्रवृत्त' इति शेषः । समानः पतिर्यस्या इति बहुव्रीहिः ।नित्यं सप्त्न्यादिषु॑ इति निपातनात्सभावः, ङीप् नत्वं च । नित्यस्त्रीलिङ्ग इति । अन्यपदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावादिविधानादिति भावः । 'पतिर्नाम घवः' इति कोशादिति भावः । आद्ययोरिति । शत्रुपर्यायं सपत्नशब्दं विवाहनिबन्धनं पतिशब्दं चाश्रित्य प्रवृत्तयोः सपत्नीशब्दयोरित्यर्थः । सापत्न इति । सपत्न्या अपत्यमित्यर्थेतस्यापत्य॑मित्यणं बाधित्वास्त्रीभ्यो ढ॑गिति ढकि प्राप्तेशिवादिभ्योऽ॑णित्यपि आद्यस्य सप्तनीशब्दस्य भाषितपुंस्कतया पुंवत्त्वे ङीनो निवृत्तौ 'सापत्न' इति रूपम् । न तु नकारस्यापि निवृत्तिः, शत्रुपर्यायसपत्नशब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्त्रीत्वनिमित्तकत्वाऽभावात्, द्वितीयस्य तु सपत्नशब्दस्य ङीब्नत्वाभ्यामुत्पन्नस्य शिवाद्यणि कृते भाषितपुंस्कत्वाऽभावान्न पुंवत्त्वं, किंतु ङीपोयस्येति चे॑ति लोपे 'सापत्न' इति रूपम् । सति तु पुंवत्त्वे ङीब्नकारयोर्निवृत्तौ 'सापत' इति स्यात् । तृतीयात्त्विति । स्वामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात्सपत्नीशब्दात्पत्युत्तरपदलक्षणे ण्य एवेत्यन्वयः । सपत्न्या अपत्यमित्यर्थेतस्यापत्य॑मित्यणं बाधित्वादित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इति ण्य एवेत्यन्वयः । ननु सप्तनीशब्दो न पत्युत्तरपद इत्यत आह — लिङ्गविशिष्टपरिभाषयेति । एवशब्दस्य व्यावर्त्त्यमाह — न त्वणिति । ननु ण्यप्रत्ययस्यापि शिवाद्यण् अपवाद इत्यत आह — शिवादौ रूढयोरेवेति । सपत्नशब्दः शत्रौ केवलरूढः । विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु योगरूढः, विवाहकर्तरि पाति रक्षतीति योगस्यापि सत्त्वात् । स्वामिपर्यायं तु पतिशब्दमाश्रित्य प्रवृत्तः केवलयोगिकः । शिवादौ रूढयोरेव ग्रहणं, न तु केवलयौगिकस्य , योगाद्रूढेर्बलवत्त्वादिति भावः । ततः किमित्यत आह — सापत्य इति । स्वामिपर्यायपतिशब्दघटितसप्तनीशब्दस्य भाषितपुंस्कत्वात्पुंवत्त्वे सति ङीब्नत्वयोर्निवृत्तौयस्येति चे॑तीरकारलोपः । सापत्य इति रूपमित्यर्थः । ठक्छसोश्चेति । वार्तिकमेतत् । एतयोः परतः पुंवत्त्वं वक्तव्य॑मिति शेषः । अभत्वादप्राप्तौ वचनम् । भावत्काः भवदीया इति ।तस्येद॑मित्यधिकारे 'भवतष्ठक्छसौ' इति भवतीशब्दाट्ठक्छसौ, लिङ्गविशिष्टस्यापि ग्रहणात् । तत्र ठकि इकादेशात्प्राक् ठावस्थायामेव पुंवत्त्वे इकादेशं बाधित्वाइसुसुक्तान्ता॑दिति कादेशे 'भावत्क' इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम्, इकादेशे कृते हि मथधितं पण्यमस्य माथितिक इत्यत्रेव अल्विधितया स्थानिवत्त्वाऽभावेन संनिपातपरिभाषया वा कादेशाऽनापत्तेः । अतष्ठग्ग्रहणम् । भवतीशब्दाच्छसि तुसिति चे॑ति पदत्वेन भत्वस्य बाधात् 'भस्याऽढे तद्धिते' इति पुंवत्त्वे कृते इकस्य स्थानित्त्वेन ठक्त्वात्इसुसुक्तान्ता॑दिति कादेशे 'भावत्क' इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम्, इकादेशे कृते हि मथितं पण्यमस्य माथितिक इत्यत्रेव अल्विधितया स्थानिवत्त्वाऽभावेन संनिपातपरिभाषया वा कादेशाऽनापत्तेः । अतष्ठग्ग्रहणम् । भवतीशब्दाच्छसि तुसिति चे॑ति पदत्वेन भत्वस्य बाधात् 'भस्याऽढे' इत्यप्राप्ते पुंवत्त्वेऽनेन पुंवत्त्वम् । एतदिति ।ठक्छसोश्चे॑ति वार्तिकमित्यर्थः । एक तद्धिते चेति । एकशब्दस्य तद्धिते उत्तरपदे च परे ह्रस्वः स्यादिति तदर्थः । एकस्या भावः एकत्वम्, एकता । एकस्याः शाटी एकशाटी । वृत्तिमात्र इति । कृत्तद्धितादयो वृत्तयः । मात्रशब्दः कार्त्स्न्ये ।स्त्रियाः पुंव॑दित्यादिसूत्रगतनिमित्ताऽभावेऽपि भवति । बाष्यकारेष्ठएति । भाष्यकारवचनेनेति यावत् । इदंचदक्षिणात्तराभ्या॑मिति सूत्रे भाष्ये स्पष्टम् । गतार्थत्वादिति । निवृत्तप्रयोजनकत्वादिति भावः । एतत्प्रयोजनस्य 'सर्वनाम्नः' इति वचनेनैव सिद्धत्वादिति यावत् ।सर्वनाम्नो वृत्तिमात्रे॑ इत्यस्य तद्दितवृत्तौ उदाहरति — सर्वमय इति । सर्वस्या आगत इत्यर्थः । 'तत आगतः' इत्यधिकारेमयट् चे॑ति मयट् । 'सर्वनाम्नः' इति पुंवत्त्वम् । चिन्मयमित्यादिवदत्यन्तस्वार्थिको वा मयट् । अथ सनाद्यन्तधातुवृत्तावुदाहरति — सर्वकाम्यतीति । सर्वामात्मन इच्छतीत्यर्थेकाम्यच्चे॑ति सर्वाशब्दात्काम्यच् । 'सर्वनाम्नः' इति पुंवत्त्वम् । 'सनाद्यन्ताः' इति धातुत्वाल्लडादि । मयट्काम्यचोस्त्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तसिलादिष्विति पुंवत्त्वमत्र न स्यादिति भावः । तद्धितवृत्तौ उदाहरणान्तरमाह — सर्वकभार्य इति । समासवृत्तिरेवैषा । सर्वप्रिय इति । सर्वा प्रिया यस्येति विग्रहः । समासवृत्तिरियम् । प्रियादिपर्युदासो 'रूपवतीप्रिय' इत्यादौ उपयुज्यत इति भावः । वस्तुतस्तु एकशब्दे अकच्प्रत्ययेप्रत्ययस्था॑दितीत्त्वे एकिका, तस्या भावः — एकिकत्वम् । अत्र पुंवत्त्वे टाप इत्वस्य च निवृत्तौ एककत्वमिति स्यात् । इकारो न श्रूयेत । इत्वनिमित्तस्य टापो निवृत्तत्वात्, पाचिकाशब्दाज्जातीयरि पाचकजातीयेतिवत् । ह्रस्वे सति स्थानिवत्त्वेन टापः सत्त्वात्प्राप्तजीविकवदित्वश्रवममिति फलभेदसत्त्वात्एक तद्धिते चे॑ति गतार्थमित्याहुः । ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात्पुंवत्त्वं स्यादित्यत आह — पूर्वस्यैवेदमिति । वृत्तिप्रविष्टाऽनेकभागानां मध्ये किञ्चिदपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति ।भस्त्रैषे॑ति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कात्पूर्वस्य इत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति ।भस्त्रैषे॑ति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कात्पूर्वस्य इत्त्वविधानम्, अन्यथा निर्विषयं स्यात् । तद्धितवृत्तौ तयोः सर्वनामतया पुंवत्त्वनियमादिति भावः । अकचि तद्धितवृत्तावुद#आहरति — सर्विकेति । सर्वाशब्दात्साकच्काट्टापिप्रत्ययस्थादि॑तीत्त्वे पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यादिति भावः । एकशेषवृत्तावुदाहरति-सर्वा इति । टाबन्तस्य प्रथमाबहुवचनमिदम् । पुंवत्त्वे टापो निवृत्तिः स्यादिति भावः । कुक्कुटआदीनामण्डादिष्विति ।पुंवत्त्वं वक्तव्य॑मिति शेषः । असमानाधिकरणार्थमिदमिति सूचयन् षष्ठीसमासमुदाहरति — कुक्कुटाण्डमिति । पुंवत्त्वेन जातिलक्षणङीषो निवृत्तिरिति भावः । एवमग्रेऽपि । मृगक्षीरमिति । मृग्याः क्षीरमिति विग्रहः । काकशाव इति । काक्याः शाव इति विग्रहः ।पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः॑ इत्यमरः ।", "63036": "<<क्यङ्मानिनोश्च>> - क्यङ्मानिनोश्च । एतयोरिति । क्यङि मानिनि च उत्तरपदे परत इत्यर्थः । एनोवेति । एता-चित्रवर्णा ।चित्रं किर्मीरकल्माषशबलैताश्च कर्बु॒रे॑ इत्यमरः । एतशब्दः ओतपर्याय इति याज्ञिकाः ।वर्णादनुदात्ते॑ति ङीब्नकारश्च । 'उपमानादाचारे' इत्यनुवर्तमानेकर्तुः क्यङ् सलोपश्चे॑ति एनीशब्दात्क्यङि पुंवत्त्वे ङीब्नत्वयोर्निवृत्तौ,अकृत्सार्वधातुकयो॑रिति दीर्घे 'एतायते' इति रूपमिति भावः । श्येनीवेति । श्येतशब्दः ओतपर्यायः ।शुक्लशुभ्रसुचिओतविशदश्येतपाण्डुराः॑ इत्यमरः । क्यङादि पूर्ववत् । ननुस्त्रियाः पुंव॑दित्येव मानिनीत्यनुत्तरपदे परतः पुंवत्त्वसिद्धेर्मानिन्ग्रहणं किमर्थमित्याशङ्क्य मानिन्ग्रहणमसमानाधिकरणार्थमस्त्रीलिङ्गार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति — स्वभिन्नामिति । दर्शनीयमानिनीति ।दर्शनीया॑मिति द्वितीयान्ते उपपदेषुप्यजातौ णिनि॑रित्यनुवृत्तौ 'मन' इति ण्निप्रत्ययः । उपपदसमासः, सुब्लुक् । असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ 'ऋन्नेभ्यः' इति ङीपि दर्शनीयमानिनीति रूपम् । या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाःस्त्रियाः पुंव॑दित्येव पुंवत्त्वं सिद्धमिति ध्वनयितुं — ॒स्वभिन्ना॑मित्युक्तम् । एकस्या एवं दर्शनीयाया मनधात्वर्थं प्रति कर्मत्वकर्तृत्वसंभवेऽपबि वास्तवाऽभेदेन मानिनीशब्दसमानाधिकरण्यसत्त्वादिति भावः । अथाऽस्त्रीलिङ्गे उत्तरपदे उदाहरति — दर्शनीयामिति । स्त्रियामित्यनन्तरमात्मानमिति शेषः आत्मानं यो दर्शनीयां स्त्रियं मन्यते स दर्शनीयमानी चैत्र इत्यन्वयः । अत्र उत्तरपदवाच्यस्य मानिनो वस्तुतो दर्शनीयस्त्रीभेदेऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुंलिङ्गत्वात्तस्मिन् परे पुंवत्त्वं न प्राप्तमित्यनेन तद्विधिरिति भावः ।", "63037": "<<न कोपधायाः>> - न कोपधायाः । पाचिकाभार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल् । अकादेशटाबित्त्वानि । पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका । 'अत इनिठनौ' इति ठन् ।ठस्येकः॑ । टाप् । पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायते इति । मद्राख्ये देशविशेषे भवा मद्रिका ।मद्रवृज्योः कन् । टाप् । इत्त्वम् । मद्रिकेवाटचरतीत्यर्थः ।क्यह्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति । मद्रिकां मन्यत इत्यर्थेमनश्चे॑ति णिनिः । उपपदसमासः । इहापिक्यङ्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वर्योर्निवृत्तिः स्यात् । तद्धितवुग्रहणमिति ।न तद्धितवुकोपधायाः॑ इति सूत्रं पठनीयमिति यावत् । तद्धितसंबन्धी वुसंबन्धी च यः ककारस्तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति ।तद्धितकोपधोदाहरण् । पचिकाभार्य इति तु वुसबन्धिकोपधोदाहरणम् । तद्धितबुग्रहणस्य प्रयोजनमाह — नेहेति । पाकेति ।अर्भकपृथुकपाका वयसी॑त्युणादिषु कप्रत्ययान्तो निपातितः । अयं तद्धितस्य वुप्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः ।", "63038": "<<संज्ञापूरण्योश्च>> - ननु दत्ताशब्दस्य संज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वाऽभावात्स्त्रियाः पुंव॑दित्यस्य प्रसक्तेरेवाऽभावात्क तन्निषेधेनेत्यत आह — दानक्रियानिमित्त इति । दत्तशब्दोऽयं डित्थादिशब्दवन्न, किंतु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च संज्ञाभूतः प्रवृत्तः, अतस्तस्य भाषिपुंस्कत्वात्पुंवत्त्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्याः पुंवत्त्वनिषेधमुदाहरति — पञ्चमीभार्य इति । पञ्चमी भार्या यस्येति विग्रहः । अत्रस्त्रियाः पुंव॑दिति प्राप्तं निषिध्यते । पञ्चमीपाशेति । निन्दिता पञ्चमीत्यर्थः ।याप्ये पाशप् । अत्र तसिलादिषु॑ इति प्राप्तं पुंवत्वं निषिध्यते ।", "63039": "<<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> - वृद्धिनिमित्तस्य च । वृद्धेर्निमित्तं हेतुरिति विग्रहः । रक्तं च विकारश्चेति समाहारद्वन्द्वः । तता नञ्तत्पुरुषः । रक्तविकारभिन्नेऽर्थे विद्यमानस्येत्यर्थः । वृद्धिशब्देन विहितैव वृद्धिरिह विवक्षिता, व्याख्यानात् । तदाह — वृद्धिशब्देनेत्यादिना । तदन्तेति । प्रत्ययग्रहणपरिभाषालभ्यम् । रुआऔग्घ्नीति । रुआउग्घ्नो देशः । 'तत्र भव' इत्यण् । 'यस्येति च' इत्यकारलोपः । णित्त्वादादिवृद्धिःटिड्ढाण॑ञिति ङीप् । रुआऔघ्नी भार्या यस्येति विग्रहः । 'स्त्रियाः पुंवत्' इति प्राप्तमिह निषिध्यते । माथुरीयते माथुरीमानिनीति । मथुरायां भवा माथुरी, 'तत्र भवः' इत्यण् । 'यस्येति च' इत्यकारलोपः, आदिवृद्धिः,टिड्ढे॑ति ङीप् । माथछुरीवाचरतीत्यर्थेकर्तुः क्य॑ङिति क्यङ् । 'सनाद्यन्ताः' इति धातुत्वाल्लडादि । माथुरीयते । माथुरीं मन्यते माथुरीमानिनी । 'मनः' इति णिनिः । उपधावृद्धिः । उपपदसमासः । सुब्लुक् । नान्तत्वान्ङीप् । इहोभयत्रापिक्यङ्भानिनोश्चे॑ति प्राप्तं पुंवत्त्वं निषिध्यते । मध्यमभार्य इति । मध्ये भवा मद्यमा । 'मध्यान्मः' इति मः । म ध्यमा भार्या यस्येति विग्रहः । स्त्रियाः पुंव॑दिति पुंत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाऽभावान्न पुंवत्त्वनिषेधः । काण्डलाभार्य इति । काण्डं लुनातीति काण्डलावी । 'कर्मण्यण्' इत्यण्प्रत्ययः कृत् । 'अचो ञ्णिति' इति वृद्धिः, आवादेशः, उपपदसमासः, टिड्ढाण॑ञिति ङीष् । काण्डलावी भार्या यस्येति विग्रहः । पुंवत्त्वान्ङीपो निवृत्तिः । अत्राऽणः कृत्त्वात्तद्धितत्वाऽभावान्न पुंवत्त्वनिषेधः । तावद्भार्य इति । तत् परिमाणमस्यास्तावती ।यत्तदेतेभ्यः परिमाणे वतुप् इति तच्छब्दाद्वतुप् तद्धितः, 'आ सर्वनाम्नः' इत्याकारः, उगित्त्वान्ङीप् । तावती भार्या यस्येति विग्रहः । पुंवत्त्वान्ङीपो निवृत्तिः, 'आ सर्वनाम्नः' इत्याकारात्मिकां वृद्धि प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाऽभावात्तन्निमित्तवतुबन्तस्य न पुंवत्त्वनिषेधः । रक्ते त्विति । रक्तेऽर्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । काषायीति । कषायो गौरिको धातुविशेषः । तेन रक्ता काषायी ।तेन रक्तं रागा॑दित्यणियस्येति चे॑ति लोपः, आदिवृद्धिः,टिड्ढाण॑ञिति काषायकन्थ इति । पुंवत्त्वे ङीपो निवृत्तिः । अत्राऽणस्तद्धितस्य रक्तार्थकत्वान्न पुंवत्त्वनिषेधः । विकारे त्विति । विकारार्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । हैमीति । हेम्नो विकारभूतेत्यर्थः ।अनुदात्तादेश्चे॑त्यञ्, टलोपः, आदिवृद्धि,टिड्ढे॑ति ङीप् । हैमीचि रूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्त्वे ङीपो निवृत्तिः । अत्राऽञस्तद्धितस्य विकारार्थकत्वान्न पुंवत्त्वनिषेधः । स्यादेतत् । व्याकरणमदीते वेत्ति वा स्त्री वैयाकरणी,तदधीते तद्वेदे॑त्यण् तद्धितः ।यस्येति चे॑त्यकारलोपः । अणो णित्त्वात्तन्निमित्तिकाया यकाराकारस्य पर्जन्यबल्लक्षणप्रवृत्त्या प्राप्ताया वृद्धेःन य्वाभ्या॑मिति निषेधः । यकारात्प्रागैकारागमश्च,टिड्ढाण॑ञिति ङीप् । वैयाकरणी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ 'वैयाकरणभार्य' इति रूपम् । तथा स्वस्वस्यापत्यं स्त्री ।अत इञ्इति इञोऽपवादः शिबाद्यण्,यस्येति चे॑ति लोपः । प्रथमवकारात्परस्य अकारस्यादिवृद्धेर्न य्वाभ्यामिति निषेधः । प्रथमबकारात्प्रागौकारागमश्च,टिड्ढे॑ति ङीप् । सौवआई भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ 'सौवआभार्य' इति रूपमिति स्थितिः । अत्रोभयत्रापि आदिवृद्धेःन य्वाभ्या॑मिति निषेधेऽपि अणस्तस्य णित्त्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्वनिषेधो दुर्वार इत्यत आह — वृदिंध प्रति फलोपधानाऽभावादिति । प्रतीत्यनन्तरंनिमित्तस्य तद्धितस्ये॑ति शेषः । अणो वृद्धिनिमित्तस्य यत् फलं=वृद्धिस्तेन उपधानं=तात्कालिकसाहित्यं, तदभावादित्यर्थः ।वृद्धेस्तद्धितस्ये॑त्येतावत्युक्तेऽपि निमित्तत्वसंबन्धे वृद्धेरिति षष्ठीमाश्रित्यवृद्धिनिमित्ततद्धितस्ये॑त्यर्थलाभे सति निमित्तग्रहणात् फलोपहितनिमित्तत्वं विवक्षितमिति विज्ञायत इति बावः । यद्यप्यैजागमसिद्धवृदिंध प्रति अण्प्रत्ययः फलोपिहतमेव निमित्तन्तथापि वृद्धिशब्देन विहितां वृदिंध प्रति फलोपहितं निमित्तं न भवत्येवेति न दोषः । वृद्धिशब्देन विहितैव वृद्धिरिग गृह्रत इत्यत्रापि इदमेव निमित्तग्रहणं लिङ्गम् । अन्यथा एजागमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात्तन्निमित्तग्रहणं निष्फलं स्यात् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः ।", "63040": "<<स्वाङ्गाच्चेतोऽमानिनि>> - स्वाङ्गाच्चेतः । 'ईत' इति च्छेदः । तदाह — ॒स्वाङ्गाद्य ईकार इति । सुकेशीभार्य इति ।सु=शोभनाः केशा यस्यः सा सुकेशी ।स्वाङ्गाच्चोपसर्जनात् इति ङीष् ।स्त्रियाः पुंव॑दिति प्राप्तस्य निषेधः । पटुभार्य इति । पट्वी भार्या यस्येति विग्रहः । पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्त्वनिषेधः ।किंतु पुवत्त्वेवोतो गुणवचना॑दिति ङीषो निवृत्तिरिति भावः । अकेशभार्य इति । अविद्यमानाः केशा यस्याः सा अकेशा ।नञोऽस्त्यर्थाना॑मिति बहुव्रीहिः, विद्यमानशब्दस्य लोपश्च । स्वाङ्गत्वेऽपि न ङीष्,सहनञ्विद्यमाने॑ति निषेधात् । अतष्टावेव । अकेशा भार्या यस्येति विग्रहः । स्वाङ्गत्वेऽपि ईकाराऽभावान्न पुंवत्त्वनिषेधः । किंतु पुंवत्त्वे टापो निवृत्तिरिति भावः । अमानिनीति ।स्वाङ्गच्चे॑ति निषेधो मानिन्शब्देपरतो न भवतीति वक्तव्यमित्यर्थः । सुकेशमानिनीति । सुकेर्शीमन्यत इत्यर्थेमनश्चे॑ति णिनि, उपधावृद्धिः, उपपदसमासः, सुब्लुक्, पुंवत्त्वे ङीषो निवृत्तिरिति भावः ।", "63041": "<<जातेश्च>> - जातेश्च । 'ईत' इति अस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्याह — जातेः परोः यः स्त्रीप्रत्यय इति । शूद्राभार्य इति ।शूद्रा चामहत्पूर्वे॑ति जातिलक्षणङीषोऽपवादष्टाप् । पुंवत्त्वनिषेधान्न टापो निवृत्तिः । ब्राआहृणीभार्य इति । पुंवत्त्वनिषेदान्न शाङ्र्गरवादिङीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिकमित्यत्रअचित्तहस्ती॑ति ठकि हस्तिनीशब्दस्य 'भस्याऽढे' इति कथं पुंवत्त्वंजातेश्चे॑ति निषेधादित्यत आह — सौत्रस्यैवायं निषेध इति । सूत्रविहितस्येत्यर्थः । 'भस्याऽढे' इति तु वार्तिकमिति भावः । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् ।", "63042": "<<पुंवत् कर्मधारयजातीयदेशीयेषु>> - पुंवत्कर्मधारय ।स्त्रियाः पुंवद्भाषितपुंस्कादनू॑ङिति वर्तते । एकापि सप्तमी विषयभेदाद्भिद्यते । कर्मधारयांशेऽधिकरणसप्तमी । जातीयदेशीयविषये परसप्तमी । तदाह — कर्मधारये इति ।तथाभूत॑मित्यनन्तरंस्त्रीवाचक॑मिति शेषः ।भाषितपुंस्कादनू॑ङित्येतत् 'स्त्रियाः पुंवत्' इति सूत्रे स्फुटीकरिष्यते । ननु कर्मधारयेस्त्रियाः पुंव॑दित्यनेन सिद्धं पुंवत्त्वं, जातीयदेशीययोस्तुतसिलादिष्वाकृत्वसुचः॑ इत्यनेन सिद्धमित्यत आह — पूरणीप्रियादिष्वप्राप्त इति । अपूरणीप्रियादिष्विति पर्युदासादिति भावः । महानवमीति । महती चासौ नवमी चेति विग्रहः ।सन्महदि॑त्यादिना समासः । नवानां पूरणी नवमी ।तस्य पूरणे डट्॒नान्तादसंख्यादेर्मट् । टित्त्वान्ङीप् । अत्र नवमीशब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्' इति पुंवत्त्वमप्राप्तमनेन विधीयते । कृते पुंवत्त्वे 'आन्महतः' इत्यात्त्वमिति भावः । कृष्णचतुर्दशीति । चतुर्दशानां पूरणी-चतुर्दशी । डट । 'नस्तद्धिते' इति टिलोपः । टित्त्वान्ङीप् । कृष्णा चासौ चतुर्दशी चेति विग्रहः । महाप्रियेति । महती चासौ प्रिया चेति कर्मधारयः । अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयत इति भावः । ॒पुंवत्कर्मधारय॑ इत्यस्य प्रयोजनान्तरमाह — तथा कोपधादेरिति । 'न कोरधायाः' 'संज्ञीपूरण्योश्च'वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे॑ 'स्वाङ्गाच्चेतः'जातेश्चे॑ति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति । कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति । पाचिका चासौ स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः' इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या पञ्चमभार्येति दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः । अत्रसंज्ञापूरण्योश्चे॑ति प्रतिषेधः प्राप्तः । रुआऔग्घ्नभार्येति । रुआऔग्घ्नी चासौ भार्या चेति कर्मधारयः । अत्रवृद्धिनिमित्तस्य चे॑ति प्रतिषेधः प्राप्तः । सुकेशभार्येति । सुकेसी चासौ भार्या चेति कर्मधारयः । अत्र 'स्वाङ्गाच्चेत' इति निषेधः प्राप्तः । ब्राआहृणभार्येति । ब्राआहृणी चासौ भार्या चेति कर्मधारयः । अत्रजातेश्चे॑ति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति — एवं पाचकजातीया पाचकदेशीयेति । 'प्रकारवचने' इति जातीयर् । 'ईषदसमाप्तौ' इति दैशीयर् । उभयत्रापि 'तसिलादिषु' इति पुंवत्त्वस्य 'न कोपधायाः' इति निषेधः । प्राप्तः । इत्यादीति । दत्तजातीया, दत्तदेशीया । पञ्चमजातीया, पञ्चमदेशीया । रुआऔघ्नजातीया, रुआऔघ्नदेशीया । सुकेशजातीया, सुकेषदेशीया । ब्राआहृणजातीया, ब्राआहृणदेशीया । तदेवं पुंवत्कर्मधारये॑ति सूत्रं निरूप्यपोटायुवती॑ति सूत्रस्य क्रमेणोदाहरणान्याह — इभपोटेति । पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणेति । कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिरिति । युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्त्वम् । अग्निस्तोक इति । स्तोकः= अल्पः, स चासौ अग्निश्चेति विग्रहः । उदइआत्कतिपयमिति । 'तक्रं ह्रुदइआत्' इत्यमरः । कतिपयं च तदुदइआच्चेति कर्मधारयः । गृष्टिः सकृत्प्रसूतेति । कोशवाक्यमिदम् । गोगृष्टिरिति । गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतेति । कोशवाक्यमिदम् । गोवशेति । वशा चासौ गौश्चेति विग्रहः बेहद्नर्भघातिनीति । कोशवाक्यमिदम् । गोवेहदिति । वेहच्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति । 'चिरसूता बष्कयणी' इत्यमरः ।तरुणवत्से॑त्यपपाठः । गोबष्कयणीति । बष्कयणी चासौ गौश्चेति विग्रहः । कठप्रवक्तेति । प्रवक्ता=अध्यापकः, स चासौ कठश्चेति विग्रहः । कठाध्यापक इति । अध्यापकश्चासौ कठश्चेति विग्रहः । कठधूर्त इति । धूर्तश्चासौ कठश्चेति विग्रहः ।धूर्तोऽक्षदेव॑त्यमरः विट इत्यन्ये । नचकुत्सितानि कुत्सनैः॑ इत्यनेन सिद्धिः शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः । न हि कठत्वं कुत्सितदम् ।", "63043": "<<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> - अथ समासाश्रयविधिर्निरूप्यते — घरूप । 'उत्तरपदे' इत्यधिकृतं चेलडादिष्वन्वेति, नतु घरूपकल्पेषु , घशब्दवाच्यतरप्तमपोः रूपप्कल्पपोश्च प्रत्ययत्वात् । नच तदन्तग्रहणे सति तेषूत्तरपदत्वं संभवतीति वाच्यं,ह्मदयस्य हल्लेखे॑त्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभाव इति भाष्ये उक्तत्वात् ।स्त्रियाः पुंव॑दित्यतो भाषित पुंस्कादित्यनुत्तम् । ङ्य इतितदन्तग्रहणं, केवस्यानेकाच्त्वाऽभावात् । तदाह -भाषितपुंस्काद्यो ङीति । एतदर्तमेवस्त्रियाः पुंव॑दित्यत्र बाशितपुंस्कादिति पञ्चम्यन्तमुपात्तं ष तत्रभाषितपुंस्काद्यो ङीति । एतदर्थमेवस्त्रियाः पुंव॑दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं । तत्रभाषितपुंस्काद्यो ङीति । एतदर्थमेवस्त्रियाः पुंव॑दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं । तत्र 'भाषितपुंस्काया' इति षष्ठन्तोपादाने तु इह तदनुवत्तिर्न स्यात्, असंभवात् । नहि ङीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति । नच तत्रापि नार्थवत्स्यात्, अनूङिति पर्युदासात्स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाऽभावादिति वाच्यम्, तत्र स्त्रिया॑इत्यस्वरितत्वात्स्त्रीप्रत्ययग्रहणं नेत्य#उक्तत्वात् । ब्राआहृणितरा ब्राआहृणितमेति । अतिशायने तरप्तमपौ । नचतसिलादिष्वि॑ति पुंवत्त्वेन ङीफो निवृत्तिः सङ्ख्याः,जातेश्चे॑ति निषेधात् । ब्राआहृणिरूपेतिप्रशंसायां रूपप् । ब्राआहृणिकल्पेति ।ईषदसमाप्तौ॑इति कल्पप् । ब्राआहृणिचेलीति । 'चिल वसने' तस्मादचि चेलडिति पचादौ पठितम् । टित्त्वान्ङीप् । इत्यादीति । ब्राआहृणिमता । ब्राआहृणिहता । ब्राऊञ इति । ब्राऊञ्धातोरचि कृतेब्राउवो वचि॑रिति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यत इत्यर्थः । चेलडादीनीति । समासवृत्तिविषये चेलङ् ब्राउवगोत्रहता इत्युत्तरपदानि कुत्सनवाचीनीति कृत्वाकुत्सितानि कुत्सनै॑रिति कर्मधारय इत्यर्थः । आमलकोतरेति । आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वाद्भाशितपुंस्कत्वाऽभावेन न ह्रस्व इति भावः । ननुन पदान्ते॑ति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात्कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह — कुवलीतरेति । बृक्षनिषेशे नित्यस्त्रीलिङ्गोऽयमिति भावः । अमरस्तुकर्कन्धूर्बदरी कोली घोण्टा 'कुबलफनिले' इति नपुंसकत्वमाह ।", "63044": "<<नद्याः शेषस्यान्यतरस्याम्>> - नद्याः शेषस्या । उक्तादन्यः शेषः । 'ङ्यन्तस्यानेकाच' इति पूर्वसूत्रे स्थितं, तदन्यत्वं च अनेकाचो ङ्यन्तत्वाऽभावे ङ्यन्तस्यानेकाच्त्वाभावेऽपि संभवति । तदाह — अङ्यन्तनद्या ङ्यन्तस्यैकाचश्चेति । 'ऊङुतः' इति ब्राहृबन्धुशब्द ऊङन्तः । भाषितपुंस्कस्येति तु नैहानुवर्तत इत्यबिप्रेत्योदाहरति — स्त्रितरेति । कृन्नाद्या नेति । कृदन्ता या नदी तस्या ह्रस्वो नेतिवाच्यमित्यर्थः । लक्ष्मीतरेति । 'लक्षेर्मुट् च' इति औणादिके ईप्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः ।", "63045": "<<उगितश्च>> - उगितश्च । विदुषितरेति ।विदेः शतुर्वसुरिति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाच्त्वान्नद्याः शेषत्वस्याऽप्राप्तेरिदमिति भावः । विद्वत्तरेति । पुंवत्त्वे ङीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुर्वारत्वादित्यर्थः ।विद्वच्छ्रेयसो पुंवत्त्वं न वक्तव्य॑मिति वृत्तिः । परन्तु वचनमिदं भाष्याऽदृष्टत्वादुपेक्ष्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मताभिप्रायकम् ।", "63046": "<<आन्महतः समानाधिकरणजातीययोः>> - अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन्विशेषमाह — आन्महतः । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थमिदं सूत्रम् । 'उत्तरपदे' इत्यनुवृत्तंसमानाधिकरणपदेऽन्वेति, न तु जातीये इति, तस्य प्रत्ययत्वात् । तदाह — महत आत्त्वमित्यादिना । महाब्राहृ इति । महांश्चासौ ब्राहृआ चेति विग्रहः ।सन्मह॑दित्यादिना समासः । आत्त्वम् । सवर्णदीर्घः ।कुमहद्भ्या॑मिति टच् । टिलोपःपरवल्लिङ्ग॑मिति पुंस्त्वम् । महाब्राहृएति । टजभावे आत्वे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन्समानाधिकरणे पुनरुदाहरति — महादेव इति । जातीये उदाहरति — महाजातीय इति । महत्सदृश इत्यर्थः ।प्रकारवचने जातीयर् । आत्त्वं सवर्णदीर्घः । समानाधिकरणे किमिति ।आन्महतो जातीये चे॑त्येवास्तु, चकारादुत्तरपदसमुच्चये सति महतद आत्त्वं स्यादुत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः, किं समानाधिकरणेनेति प्रश्नः । महत्सेवेति । अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थं समानाधिकरणग्रहणमिति भावः । ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्टानुच्चार्य सामान्यशास्त्रत एव निर्बर्तितत्वात् ।सन्मह॑दित्ययं समासस्तु सन्महदादिशब्दं समस्यमान#ं विशिष्योच्चार्या विहितत्वात्प्रतिपदोक्तः । ततश्च लक्षणप्रतिपदोक्तपरिभाषयाआन्महतो जातीये चे॑त्यत्रसन्मह॑दिति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससंभवाद्व्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते — लाक्षणिकमित्यादिना । परिहरति — महाबाहुर्न स्यादिति । महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात्प्रतिपदोक्त्वाऽभावात्तदुत्तरपदे परे आत्त्वं न स्यादतः समानाधिकरणग्रहणमित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेर्दुर्वारत्वान्महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह — तस्मादिति । तच्छब्दार्थमाह — समानाधिकरणग्रहणसामर्थ्यादिति । एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थं समानाधिकरणग्रहणमिति भावः । नच सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्त्वम् । आत्त्वविधेः पदाङ्गाधिकारस्थत्वाऽभावेन तदन्तविध्यभावादिति वाच्यम्, उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात् ।परममहत्वपिरमाणवा॑नित्यत्र तु महतः परिमाणं महत्परिमाणं, परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति द#इक् । ननु 'आन्महतः' इत्यत्र महत एव ग्रहणात् 'द्व्यष्टनः' इत्युत्तरसूत्रे द्व्यष्टनोरेव ग्रहणादेकादशेत्यत्र कथमात्त्वमित्यत आह — योगविभागादात्त्वमिति । योगविभागस्य भाष्याऽदृष्टत्वादाह — निर्देशाद्वेति । एकादशेति । एकश्चदश चेति द्वन्द्वः । एकाधिका दशेति वा । 'आन्महत' इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयप्र्रत्यये परे महताजातीयेति स्यादित्यत आह — महतीशब्दस्येति । नच परत्वात्पुंवत्त्वं बाधित्वा आत्वं स्यादिति वाच्यम्, 'आन्महतः' इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङ्याप्सूत्रे भाष्ये उक्तत्वादिति भावः । महदात्त्वे इति । 'घास' 'कर'विशिष्ट॑-एषु परतो महत आत्त्वं पुंवत्त्वं च वक्तव्यमित्यर्थः । ननु 'आन्महतः' इत्यात्त्वेपुंवत्कर्मधारये॑ति पुंवत्त्वे च सिद्धे किमर्थमिदमित्यत आह — असामानाधिकरण्यार्थमिति । महाकर इति । महतो महत्या वा कर इत्यर्थः । महाविशिष्ट इति । महतो महत्या वा विशिष्टः । अधिक इत्यर्थः । अष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति । अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः । 'सस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । आत्त्वं । सवर्णदीर्घः ।गवि च युक्ते । वार्तिकमिदम् । तत्सूचयितुमाह — वक्तव्यमित्यर्थ इति । अष्टागवं शकटमिति । अष्टौ गावो यस्येति बहुव्रीहिः । आत्त्वं, सवर्णदीर्घः । अष्टभिर्गोभिर्युक्तमित्यर्थः । ननुगोरतद्धितलुकी॑ति टज्विधेस्तत्पुरुषमात्रविषयत्वादष्टागविमिति कथमित्यत आह — अच्प्रत्ययन्ववेत्यत्रेति । तत्पुरुषत्वेऽष्टगवशब्दष्टजन्त एवेत्याह — अष्टानामिति । तथा च समाहारद्विगोस्तत्पुरुषत्वागोरतद्धितलुकी॑ति टच्सुलभ इत्यर्थः । नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाऽभावात्, कतं वा आत्त्वमित्य आह — तद्युक्तत्वादिति । समाहाद्लिगुरूपतत्पुरुषाट्टचि व्युत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य आत्त्वमित्यर्थः ।", "63047": "<<त्रेस्त्रयः>> - त्रेस्त्रयः । सन्धिवेलादिषु त्रयोदशीति पाठात्सकारान्तोऽयमादेश इत्याह — त्रयस्स्यादिति । पूर्व विषये इति । प्राक्शतात्सङ्ख्याशब्दे उत्तरपदे परतो, न तु बहुव्रीह्रशीत्योरित्यर्थः । त्रयोदशेति । त्रयश्च दश चेति, त्र्यधिका दशेति वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम्, उत्वम्, आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति । त्रिरावृत्ता दशेत्यर्थः ।बहुव्रीहौ सह्ख्येये डच् इति डच् । नन्वत्र त्रिरित्यस्यसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कुत्वसुच्द्वित्रिचतुभ्र्यः सुच् इति सुजन्तत्वात्समासेऽपि सुचः श्रवणापत्तिरित्यत आह — सुजर्थे बहुव्रीहिरिति । सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्रसङ्ख्ययाव्यये॑ति बहुव्रीहिर्न तु सुजन्तस्येत्यर्थः । त्र्यशीतिरिति । त्रयश्चाऽशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाऽशीतिरिति वा । त्रिशतमिति । त्र्यश्च शतं चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाऽसीतिरिति वा । त्रिशतमिति । त्रयश्च शतं चेति समाहारद्वन्द्वः, त्र्यधिकं शतिमिति वा । एवं त्रिसहरुआमित्यपि ।", "63048": "", "63049": "<<विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्>> - विभाषा चत्वारिंशत् । व्यवहितस्यापिद्व्यष्टनो॑रित्यस्य सम्बन्धाय — सर्वेषामिति । द्व्यष्टनोस्त्रेश्चेत्यर्थः । तदाह — द्व्यष्टनोस्त्रेश्चेति ।", "63050": "<<हृदयस्य हृल्लेखयदण्लासेषु>> - ह्मदयस्य । लेख, यत्, अम्, लास-एषु परेषु ह्मदयस्य ह्मदादेश इत्यर्थः । ह्मदयं लिखतीति ह्मल्लेखः ।कर्मण्यण् । ह्मद्यमिति । 'ह्मदयस्य प्रियः' इति यत्प्रत्ययः । हार्दमिति ।तस्येद॑मित्यण्, ह्मदादेशः । हल्लास इति । घञन्तोऽयमिति भावः । लेखेत्यणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राञ्चः । व्याक्यानादिति तत्त्वम् । तर्हि लेखग्रहणमेव व्यर्थम्, अमैवे सिद्धेरित्यत आह — ज्ञापकमिति । ज्ञाप्यांशमाह — उत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पब्ग्रहणे तदन्तविध्यभावः ।", "63051": "<<वा शोकष्यञ्रोगेषु>> - वा शोक । सौहाद्र्यमिति । ब्राआहृणादित्वाद्भावे ष्यञिह्मद्भगसिन्द्वन्ते॑ इत्युभयपदवृद्धिः । सौह्मदय्यमिति । भावे ष्यञि ह्मच्छब्दत्वाऽभावादादिवृद्धौयस्येति चे॑ति लोपे रूपमिति भावः ।", "63052": "<<पादस्य पदाज्यातिगोपहतेषु>> - पादस्य पद ।पदे॑ति लुप्तप्रथमाकं पृथक्पदम् । एष्विति । आजि, आति, ग, उपहत-इत्येतेष्वित्यर्थः । अदन्त इति । उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादितिभावः । अजतीति ।अज गतिक्षेपणयोः॑ । पदातिरिति । पादाभ्यामततीति विग्रहः । 'अत गतौ' अज्यतिभ्यामिति । पादे उपपदे अजधातोरतधातोश्च इण्स्यादिति तदर्थः ।अजी॑त्यस्यअजेव्र्यघञपो॑रिति वीभावमाशङ्क्याह — अजेव्र्यभावो निपातनादिति । आजीति निर्देशादित्यर्थः । पदग इति । पादाभ्यां गच्छतीत्यर्थः ।गमश्च॑,अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॑ इति सूत्रस्थेनअन्येभ्योऽपि दृश्यते॑ इति वार्तिकेन गमधातोर्ङः । तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः । दकारान्तादेशे तु 'पद्ग' इति स्यात् । पदोपहत इति । पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्तादेशे 'पदुपहत' इति स्यात् ।", "63053": "<<पद् यत्यतदर्थे>> - पद्यत्य । पद — यति — अतदर्थे इति च्छेदः । पद्या इति । विध्यत्यधनुषेति यत्प्रत्ययः । पाद्यमिति ।पादार्घाभ्यां चे॑ति तादर्थ्ये यत्प्रत्ययः । इके चरताविति । चरत्यर्थे विहितस्य ष्ठनो य इकादेशः, तस्मिन्परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः ।", "63054": "<<हिमकाषिहतिषु च>> - हिमकाषि । एषु परेषु पादस्य पत्स्यादित्यर्थः । पद्धिममिति । पादस्य हिममिति विग्रहः । पत्काषीति । पादौ पादाभ्यां वा कषतीत्यर्थः । 'सुप्यजातौ' इति णिनिः । पद्धतिरिति । हन्यते इति हतिः । कर्मणि क्तिन् । पादाभ्यां हतिरिति विग्रहः ।कर्तृकरणे कृते॑ति समासः ।", "63055": "<<ऋचः शे>> - ऋचः शे । शस्य शस्प्रत्ययैकदेशस्यानुकरणात्सप्तमीत्यभिप्रेत्योदारति — पच्छ इति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति पादशब्दाच्छस् । तद्दितश्चासर्वविभक्ति॑रित्यव्ययत्वम्, नत्विह लोमादिशस्य ग्रहणं, लोमादौ पादशब्दस्य पाठाऽभावात् । पादशः कार्षापणं ददातीति । कार्षापणाख्यापरिमाणविशेषं सुवरह्णादिकं पादं पदां ददातीत्यर्थः ।", "63056": "<<वा घोषमिश्रशब्देषु>> - वा घोष । शेषपूरणेन सूत्रं व्याचष्टे-पादस्य पदिति । निष्के चेति ।पादस्य प॑दिति शेषः ।", "63057": "<<उदकस्योदः संज्ञायाम्>> - उदकस्योदः । उदकशब्दस्य 'उद' इत्यादेशः स्यादुत्तरपदे संज्ञायामित्यर्थः । उदमेघ इति । उदकपूर्णमेघसादृश्यात्कस्यचिदियं संज्ञा । उत्तरपदस्य चेति । उत्तरपदस्य उदकशब्दस्य उदैत्यादेशः स्यात्संज्ञायामित्यर्थः । क्षीरोद इति । क्षीरमुदकस्थानीयं यस्येति विग्रहः । 'क्षीरोदं सरः' इति त्वसाध्वे, असंज्ञात्वात् ।", "63058": "<<पेषंवासवाहनधिषु च>> - पेषंवास ।पेष॑मिति णमुलन्तमव्ययम् । तस्मन्वासवाहनधिषु च परत उदकशब्दस्य उदः स्यादित्यर्थः । असंज्ञार्थं वचनम् । उदपेषं पिनष्टीति । उदकेन पिनष्टीत्यर्थः । 'स्नेहने पिषः' इति णमुल् । कषादिषु यताविध्यनुप्रयोगः । उदवास इति । उदकस्य वास इति विग्रहः । उदवाहन इति । करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति उदकंधीयतेऽस्मिन्निति विग्रहः ।कर्मण्यधिकरणे चे॑ति किप्रत्ययः । असंज्ञात्वास्फोरणाय 'घट' इति विशेष्यम् । समुद्रे त्विति । तत्र उदधिशब्दस्य संज्ञात्वेन 'उदकस्योदः' इति पूर्वसूत्रेण सिद्धमित्यर्थः ।", "63059": "<<एकहलादौ पूरयितव्येऽन्यतरस्याम्>> - एकहलादौ । हस्त्वस्य एकैकवर्मधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं=पूरणार्हं कुम्भादि । असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यर्थः ।", "63060": "<<मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च>> - मन्थौदन ।उदकस्य उदादेशो वे॑ति शेषः । अपूरयितव्यार्थं वचनम् । उदमन्थ उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः । भर्जितयवपिष्टानि-सक्तवः । उदौदन उदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसक्तवः, उदकसक्तवः । उदबिन्दवः, उदकबिन्दवः । उदवज्रः, उदकवज्रः । उदभारः, उदकभारः । उदहारः, उदकहारः । उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः । वीवधस्तु जलाद्याहरणयोग्य उभयतःशिक्यः स्कन्तबाह्रः काष्ठविशेषः ।", "63061": "<<इको ह्रस्वोऽङ्यो गालवस्य>> - इको ह्रस्वो । अङ्य इति च्छेदः । ग्रामणीपत्र इति । कर्मधारयः, षष्ठीसमासो वा । नीधातोरीकारोऽयं, नतु ङीप्प्रत्यय इति भावः । ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह — अन्यतरस्यामित्यनुवृत्तेरिति । इयङुवङ्भाविनामिति । तदर्हाणामित्यर्थः । श्रीमदः भ्रूभङ्ग इति । श्रीभ्रूशब्दौ अजादिप्रत्यये परे इयङुवङ्र्हाविति भावः । शुक्लीभाव इति । अभूततद्भावे च्विप्रत्यये 'अस्य च्वौ' इति ईत्त्वम् । 'च्वौ' इति दीर्घः । ऊर्यादिच्विडाचश्चे॑ति निपातत्वादव्ययत्वमिति भावः । अभ्रूकुंसादीनामिति । भ्रूशब्दस्य उवङ्भावितया ह्रस्वनिषेधो यः प्राप्तः स नेत्यर्थः । अकारोऽनेनेति ।अ भ्रूकुंसादीना॑मिति वार्तिके 'अ' इति लुप्तप्रथमाकं पृथक्पदम् । तथा च भ्रूकुंसादीनामवयवो यो भ्रूशब्दस्तस्य अकारोऽन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः । भ्रुवा कुंसो भाषणमिति । तत्तदर्थज्ञापनमित्यर्थः ।भ्रुकुंसश्च भ्रुकुंसश्च भ्रूकुसश्चेति नर्तकः॑ इत्यमरः,भ्रकुटिर्भ्रुंकुटिर्भ्रूकुटिः स्त्रियामि॑ति च ।", "63062": "<<एक तद्धिते च>> - एक तद्धिते च । एकेति लुप्तषष्ठीकम् । तदाह — एकशब्दस्येति ।स्त्रीप्रत्ययान्तस्ये॑ति शेषः, अन्यथा ह्रस्वविधिवैयथ्र्यात् । उत्तरपदे चेति । चकारात्तदनुकर्ष इति भावः । एकरूप्यमिति ।हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॑ । एकक्षीरमिति । एकश्याः क्षीरमिति विग्रहः ।", "63063": "<<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> - ङ्यापोः ।उत्तरपदे ह्रस्वः स्या॑दिति शेषः । रेवतिपुत्र इति । कस्यचित्संज्ञेयम् । अथ छन्दस्युदाहरति — अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः ।परमं वा एतत्पयो यदजक्षीर॑मिति तैत्तिरीये ।", "63064": "<<त्वे च>> - त्वे च । शेषपूरणेन सूत्रं व्याचष्टे — त्वप्रत्यये ङ्यापोर्वा ह्रस्व इति । अजत्वं रोहिणित्वमिति । संज्ञात्वाऽभावाच्छन्दस्येवाऽयमिति वृत्तिः । अनुत्तरपदार्थं वचनम् ।", "63065": "<<इष्टकेषीकामालानां चिततूलभारिषु>> - इष्टकेषीका । उत्तरपदे इत्यधिकृतम् । तल्लब्धं पूर्वपदमिष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यपदेशिवद्भावात्तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात्पदाङ्गधिकारे तस्य तदन्तस्य चे॑ति वचनेन वा तेषां ग्रहणम् । 'इको ह्रस्वः' इत्यतो ह्रस्व इत्यनुवर्तते । तदाह — इष्टकादीनां तदन्तानां चेति । इष्टकचितमिति । इष्टकादिभिश्चितमिति विग्रहः ।कर्तृकरणे कृते॑ति समासः । तदन्तविधेः प्रयोजनमाह — पक्वेष्टकचितमिति । इषीकातूलमिति । इषीकायास्तूलमिति विग्रहः । तूलमग्रं । शष्पमित्यन्ये । मुञ्जेषीततूलमिति । मुञ्जेषीकायास्तूलमिति विग्रहः । मालभारीति । 'सुप्यजातौ' इति णिनिः । [सूत्रे]हारिष्विति पाठान्तरम् ।", "63066": "<<खित्यनव्ययस्य>> - खित्यनव्ययस्य । ह्रस्वः स्यादिति ।इको ह्रस्वोऽङ्यो गालवस्य॑ इत्यतस्तदनुवृत्तेरिति भावः । अत्र ह्रस्वश्रुत्या अच इत्युपस्थितं द्रष्टव्यम् । ततो मुमिति । पूर्वं ह्रस्वे कृते ततो मुमित्यर्थः । पूर्वं मुमि कृते तु अजन्तत्वाऽभावाद्ध्रस्वो न स्यादिति भावः । शर्धञ्जहा माषा इति । भाष्ये तु 'मृगा' इति पाठः । शर्द्धः अपानद्वारे स्थितः शब्द इति माधवादयः । अन्तर्भावितेति । तथा च शद्र्ध हापयन्तीति विग्रहः फलितः । भाष्ये तुवातशुनी॑इति वार्तिके गर्धे॑ष्विति पठितम् ।", "63067": "<<अरुर्द्विषदजन्तस्य मुम्>> - अरुर्द्विषत् । अरुस्, द्वि,त्, अजन्त एषां समाहारद्वन्द्वात् षष्ठी । 'अलुगुत्तरपदे' इत्यधिकारादुत्तरपदे इति लभ्यते । 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् । कितः प्रत्ययत्वात्तदन्तविधिः । तदाह — खिदन्ते उत्तरपदे इति । जनमेजय इति । जनान् एजयतीति विग्रहः । खशः शित्त्वात्सार्वधातुकत्वं ।शप्, गुणायादेशौ, पररूपम्,सुपो लुकि, मुम् । वातशुनीति । वार्तिकमिदम् । वात, शुनी, तिल, शर्ध एषां द्वन्द्वात्सप्तमी । अज, धेट्, तुद्, जहाति एषां द्वन्द्वात्पञ्चमी । यथासङ्ख्यमन्वयः । वातमजा इति । वातमजन्तीति विग्रहः । सुपो लुकि मुम् । अथ शुनीं धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनी धय इति स्थिते आह —", "63068": "<<इच एकाचोऽम्प्रत्ययवच्च>> - इच एकाचः । एकाच अमिति छेदः । अम् च अम् चेत्येकशेषः । एकं विदेयसमर्पकम् ।इच एकाचो॑ऽमिति प्रथमं वाक्यम् । इच इत्येकाचेति च पञ्चमी । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारादाक्षिप्तं पूर्वपदमिचा विशेष्यते । तदन्तविधिः । तदाह — इज्नतादेकाचोऽम्स्यादिति । मुमोऽपवादः । द्वितीयमम्पदंप्रत्ययव॑दित्येकदेशेन प्रत्ययेन समानाधिकरमं संबध्यते । असामत्र्येऽपि वतिप्रत्यय आर्षः ।अम्प्रत्ययव॑दिति द्वितीयं वाक्यं संपद्यते । स्वादिप्रत्ययेषु यद्द्वितीयैकवचनं तदेवाऽत्र अमिति विवक्ष्यते, व्याख्यानात् । तदाह — स च स्वाद्यम्वदिति । एतत्सर्वं भाष्ये स्पष्टम् । खिदन्ते पर इति । खिदन्ते उत्तरपदे परत इत्यर्थः ।खित्यनव्ययस्ये॑त्यतः खितीत्यनुवर्तते इति भावः ।अम्प्रत्ययव॑दित्यतिदेशसय् प्रयोजनमाह — औतोम्शसोरिति । गाम्मन्य इति । गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन्, सुपो लुक्, गोशप्दादम्,अम्प्रत्ययव॑दित्यस्य प्रयोजनान्तरमाह — वाऽम्शसोरिति । स्त्रियम्मन्य इति । स्त्रियमात्मानं मन्यते इत्यर्थे मनेः खशि श्यन् । सुपो लुक् । स्त्रीशब्दात् 'वाऽम्शसोः' इति इयङ्विकल्पः । अत्र यकारादकारस्य श्रवणार्थमम्विधिः । मुमि तु अकारो न श्रुयेत । स्तरीम्मन्य इति । इयङभावपक्षेअमि पूर्वः॑ ।अम्प्रत्ययव॑दित्यस्य प्रयोजनान्तरमाह — नृ - नरम्मन्य इति ।नृ॑इत्यविभक्तिकम्, उदाहरणे नृशब्दस्य समावेशसूचनार्थम् । नरमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक्, नृशब्दादम् ।अम्प्रत्ययव॑दित्यतिदेशात्ऋतोऽङी॑ति गुणः । अत्राऽपि रेफादकारश्रवणार्थोऽम्विदिः । मुमि त्वकारो न श्रूयेत ।अम्प्रत्यव॑दित्यस्य प्रोजनान्तरमाह — भुवम्मन्य इति । भुवमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक् । भूशब्दादम्,अम्प्रत्ययव॑दित्यतिदेशात् 'अचि श्नुधातु' इत्युवङ् । अतिदेशाऽभावे तु उवङ् न स्यात्, तस्याऽजादिप्रत्यये विधानात् । श्रिमन्यमिति । मनेः खश् । श्यन् । अत्र मननक्रियां प्रति कुलत्वेन रूपेण कुलं कर्तृ, तस्यैव कुलस्य अध्यारोपतिश्रीत्वेन रूपेण कर्मत्वं चेति स्थितिः । एवं च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम् । यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पर्वलिङ्गत्यागः । यथा प्रकृते श्रीशब्दः । यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः, यथागङ्गायां घोष॑इत्यादावितिपुंयोगादाख्याया॑मिति सूत्रे , प्रकृतसूत्रे च भाष्यैयटयोर्मर्यादा स्थिता । एवं चकालिम्मन्यं कुल॑मित्यत्र कालीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् ।श्रिमन्यं कुल॑मित्यत्र तु प्रयोगाऽनुसाराच्श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागान्नपुंसकलिङ्गत्वमेवाश्रीयते । ततश्च श्रीशब्दस्याऽत्र नपुंसकत्वात्खित्यनव्ययस्ये॑ति बहिरङ्गं ह्रस्वं बाधित्वाह्रस्वो नपुंसके प्रातिपदिकस्ये॑ति ह्रस्व एव न्याय्यः । मुमपवादे 'इच एकाचः' इत्यमि कृते तस्यस्वमोर्नपुंसका॑दित लुक् । तथा चश्रिमन्यं कुल॑मिति सिद्धम् । नच गाम्मन्य इत्यादावपिसुपो धातुप्रातिपदिकयो॑रिति लुक् स्यादिति वाच्यम्, 'इच एकाचः' इत्यमः 'सुपो धातु' इति लुगपवादत्वात् ।स्वमोर्नपुंसका॑दिति लुकस्तु नायमम्विधिर्बाधकः, मध्येऽपवादन्यायादिति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । तदाह — भाष्यकारेत्यादि । 'ह्रस्वो नपुंसके' इत्यनेने॑ति शेषः । मुममोरभावश्चेति । मुमपवादस्य अमःस्वमोर्नपुंसका॑दिति लुकि सति तयोः प्रयोगाऽभावः फलतीत्यर्थः ।", "63069": "<<वाचंयमपुरंदरौ च>> - वाचं यमपुरन्दरौ च । वाक्पुरोरिति । वाच्यं यच्छतीति, पुरं दारयतीति च विग्रहे यमेर्दारेश्च खच् । सुपो लुकि वाच् यम, दार इति स्थिते वाक्पुरोरमन्तत्वं निपात्यते इत्यर्थ- । 'अरुर्द्विषजन्तस्य' इति मुमस्तु न प्रसक्तिः ।", "63070": "<<कारे सत्यागदस्य>> - कारे सत्यागदस्य । शेषपूरणेन सूत्रंव्याचष्टे-मुम्स्यादिति ।अरुर्द्विष॑दित्यतस्तदनुवृत्तेरिति भावः । सत्यस्य अगदस्य च कारे परे मुम्स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । सत्यङ्कार इति । भावे घञ् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगजङ्कार इति । गदो-रोगः, तस्याऽभावऋ-अगदः । अर्थाभावे अव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तेः । अगदस्य कार इत्यर्थः । अस्तोश्चेति ।कारे मु॑मिति शेषः । अस्तुङ्कार इति । अस्त्विति तिङन्तप्रतिरूपकमव्ययमभ्युपगमे वर्तते । धेनोरिति । 'मुम्वक्तव्य' इति शेषः । धेनुभव्येति । नवप्रसवात्प्रागियमुक्तिः । भविष्यन्ती धेनुरित्यर्थः ।भव्यदेये॑ति कर्तरि निपातनात्कृत्यप्रत्ययः । धेनुश्चासौ भव्याचेति विग्रहः । मयूरव्यंसकादित्वाद्भव्याशब्दस्य परनिपातः । लोकस्य पृणे इति । 'मुम्वक्तव्य' इति शेषः । ननु लोकं पृणतीति विग्रहे कर्मण्यणि लधूपधगुणे रपरत्वे 'पर्ण' इति स्यादित्यत आह — मूलाविभुजादित्वात्क इति ।इत्येऽनभ्याशस्येति । 'मुम्वक्तव्य' इति शेषः । अनभ्याशमित्य इति । अभ्याशः — समीपम्, अनभ्याशं-दूरं । द्वितीयान्तमिदम् । इण्धातोः प्रापणार्थकात्एतिस्तुशा॑सित्यादिना क्यप्,गम्यादीनामुपङ्ख्यान॑मिति द्वितीयासमासः । सुब्लुकि मुम् । दूरं प्रापयितव्यः, नतु समीपमित्यर्थं मनसि निधायाह — दूरतः परिहर्तव्य इति । भ्राष्ट्राग्न्योरिन्धे इति । 'मुम्वक्तव्य' इति शेषः । भ्राष्ट्रमिन्ध इति । भ्राष्ट्रं-धानादिभर्जनार्गं पात्रम्, तत् इन्द्धे=तापयतीति भ्राष्ट्रमिन्धः । कर्मण्यणि उपपदसमासः । सुब्लुकि, मुम् । अग्निमिन्झ इति । अग्न प्रज्वलयतीत्यर्थः । गिलेऽगिलेस्येति ।अगिलस्ये॑ति च्छेदः । गिले परे गिलभिन्नस्य मुम्वाच्य इत्यर्थः । तिमिङ्गिल इति ।गृ निगरणे॑ । तिमिः — मत्स्यविशेषः । तं गिलतीति मूलविभुजादित्वात्कः । 'ॠत इद्धातोः' इति रपरत्वेअचि विभाषे॑ति लत्वम्, उपपदसमासः । सुब्लुकि मुम् । गिलगिल इति । अयमपि मत्स्य विशेषः । गिलगिले चेति । अगिलस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिलगिल इति । गिलं गिलतीति । गिलगिलः, तिमीनां गिलगिल इति विग्रहः । संबन्धसामान्ये षष्ठी । तिमिषु गिलगिल इति निर्धारणसप्तमी वा ।संज्ञाया॑मिति सप्तमीसमासः । उष्णभद्रयोः करणे इति । मुम्वाच्य इत्यर्थः । उष्णङ्करणं, भद्रङ्करणमिति षष्ठीसमासः ।", "63071": "<<श्येनतिलस्य पाते ञे>> - श्येनतिलस्य । मुमागम इति । 'अरुर्द्विष' दित्यतस्तदनुवृत्तेरिति भावः । ञप्रत्यये इति । ञप्रत्यये परे यः पातशब्दस्तस्मिन्नित्यर्थः । उत्तरपदे इति । 'अलुगुत्तरपदे' इत्यतस्तदधिकारादिति भावः । श्येनपात इति । पतनं पातः । भावे घञ् । श्यैनंपातेति । श्येनपातशब्दाद्धञन्ताञ्ञः । यद्यपि पातशब्द एव घञन्तस्तथापि कृद्ग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम् । श्येनस्य पात इति कृद्योगषष्ठआ समासः । तथाच श्येनपातशब्दस्यादिवृद्धिः । तैलंपाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्ग पित्र्यक्रियायां वर्तते, 'नमः स्वधायै' इत्यादिदर्शनात् ।स्वधे॑त्यनेन क्रीडायामिति नानुवर्तते इति सूचितम् । तदस्यामिति प्रकृते पुनरस्यामिति ग्रहणात् ।", "63072": "<<रात्रेः कृति विभाषा>> - रात्रेः कृति । अस्य उत्तरपदाधिकारस्थत्वेनप्रत्ययग्रहणे तदन्तग्रहण॑मिति तु इह न भवति । कृतः धातुप्रकृतिकत्वेन रात्रेः कृतोऽसंभवात्तदन्तविधिरित्यभिप्रेत्य आह — कृदन्ते परे इति । रात्रेर्मुम्वा स्यादित्यर्थः । रात्रिञ्चरः, रात्रिचर इति । सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमटः रात्र्यट इति । सुप्युपपदे मूलविभुजादित्वात्कः । उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमटः रात्र्यट इति । सुप्युपपदे मूलविभुजादित्वात्कः । उपपदसमासः । सुब्लुक् पक्षे मुम् । ननु ननु 'रात्रिम्मन्यः' इत्यत्रापि मुम्विकल्पः स्यादित्यत आह — अखिदर्थमिति । खिति त्विति । खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेनअरुर्द्विषदजन्तस्ये॑ति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः । रातिरम्मन्य इति ।आत्ममाने खश्चे॑ति खश् । खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यआत्ममाने खश्चे॑ति खश् ।खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यं मुमिति भावः ।", "63073": "<<नलोपः नञः>> - न लोपो नञः । नेति लुप्तषष्ठीकं पदं । तदाह — नञो नस्येति । उत्तरपदे इति । 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः ।नञोऽ॑शिति सिद्धे लोपवचनम्-॒अकब्राआहृण॑ इति साकचङ्कार्थमित्याहुः । अब्राआहृण इति । अत्रारोपितत्वं नञर्थः । आरोपितत्वं च ब्राआहृणत्वद्वारा ब्राआहृणे अन्वेति । आरोपितब्राआहृणत्ववानिति बोधः । अर्थाद्ब्राआहृणभिन्न इति पर्यवस्यति । केचित्तु नञ् भिन्नवाची, ब्राआहृणाद्भिन्न इत्यर्थ इत्याहुः । तदयुक्तं, ब्राआहृणाद्भिन्न इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः । तथाचउत्तरपदार्थप्रधानस्तत्पुरुष॑ इति भाष्योद्धोषो विरुध्येत । किंच-अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्यं शीभावस्मायादिकं न स्यात्, तच्छब्दार्थस्य नञर्थं प्रति विशेषणत्वेऽप्रधानत्वात्,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इत्युक्तेः । तथा 'अस' इत्यादौतदोः सः सावनन्त्ययोः॑ इति सर्वाद्यन्तर्गतत्यदादिकार्यं सत्वं च न स्यात् ।अनेक॑मित्यत्र एकवचनानुपपत्तिश्च । एकभिन्नस्य एकत्वाऽसंभवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः तथा सति 'अनेकमन्यपदार्थे' इति नोपपद्येत । 'एतत्तदोः सुलोपः' इत्यत्र अनञ्समासग्रहणं चात्र लिङ्गम् । तद्धिअसः शिवः॑, 'अनेषः शिव' इत्यादौ सुलोपाऽभावार्थम् । तद्भिन्न एतद्भिन्न इत्यर्थे तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ हल्ङ्यादिलोपस्य दुर्वारत्वात्तद्वैयथ्र्यं स्पष्टमेव । तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नञर्थ इति युक्तम् । विसत्रस्तु प्रौढमनोरयायां शब्दरत्ने मञ्जूषायां च ज्ञेयः । प्राचीनास्तुतत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।॑ इति पठित्वा-अब्राआहृणः, अपापम् , अनआः, अनुदरा कन्या, अपशवो वा अन्ये गोअओभ्यः, अधर्मं इत्युदाजहः । तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः ।", "63074": "<<तस्मान्नुडचि>> - तस्मान्नुडचि । तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते । उत्तरपद इत्यनुवृत्तमचीत्यनेन विशेष्यते । तदादिविधिः ।उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा॑दिति परिभाषया सप्तमी षष्ठी प्रकल्पयति । तदाह — लुप्तनकारादिति । अनआ इति । समासे सति नञो नकारस्य लोपे तत्परिशिष्टाऽकारस्य नुट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयव इति भावः । नुक्तु न कृतः, ङमुट्प्रसङ्गात् । ननुउत्तरे कर्मण्यविघ्नमस्तु॑ इत्यादौ विघ्नानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लिङ्गत्वेऽविघ्न इति स्यात् । नच अर्थाभावेऽव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निरमक्षिकमित्यादौ सावकाशतया परत्वात्तत्पुरुषस्यैव प्रसङ्गादित्यत आह — अर्थाऽभावे इति । रक्षेति । पस्पशाह्निकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्चलघु च असन्देहश्चेति द्वन्द्वः ।परवल्लिङ्ग॑मिति पुंस्त्वम् । अत्र सन्देहाऽभाव इत्यर्थेऽसन्देहशब्दस्य असन्देहा इति प्रयोगात्तत्पुरुषो विज्ञायते । अव्ययीभावेरक्षोहागमलघ्वसन्देह॑मिति स्यात् । अद्रुतायामसंहितमिति ।परः सन्निकर्षः संहिते॑सूत्रे पठितमिदं वार्तिकम् । अद्रुतायां वृत्तौ स#ंहिताऽभाव इत्यर्थः । अत्र अव्ययीभावे सति असंहितमिति प्रयोगादव्ययीभावेऽपि अर्थाऽभावो नञा गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात् । ततश्च नञा गम्येऽभावे तत्पुरुषाऽव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति । अनुपलब्धिरित्यत्र,अविवाद इत्यत्र च तत्पुरुषः, अविघ्नमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः । शब्देन्दुशेखरे त्वन्यथा प्रपञ्चितम् । नञो नलोपस्तिङि क्षेपे इति । 'न लोपो नञः' इति सूत्रस्थवार्तिकमिदम् । नञो नकारस्य लोपः स्यात्तिङि परे निन्दायामिति वक्तव्यमित्यर्थः । अपचसि त्वं जाल्मेति । कुत्सितं पचसीत्यर्थः । अत्र अ इति भिन्नं पदं तिङन्तेन समासाऽभावात् । वार्तिकमिदं प्रसङ्गादुपन्यस्तम् । नञ्समानार्थकेन 'अ' इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव । केचित्तु अस्मादेव वार्तिकादव्ययेषु 'अ' इत्यस्य पाठोऽप्रामाणिक इत्याहुः । ननु नैकधेत्यत्रापि नञ्समासे 'न लोपो नञः' इति नकारस्य लोपेतस्मान्नुडची॑ति नुटि अनेकधेत्येव स्यादित्यत आह — नैकधेत्यादौ त्विति । एतदर्थमेवन॑ञिति सूत्रे, 'न लोपो नञः' इति सूत्रे च ञकारानुबन्दग्रहणमिति भावः ।", "63075": "<<नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनख- नपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या>> - नभ्राण्नपात् । सुगमम् । अनुवर्तमान इति ।समासविधयो वक्ष्यन्ते॑ इति शेषः ।", "63076": "<<एकादिश्चैकस्य चादुक्>> - एकादिश्च । 'नलोपो नञः' इत्यतो 'नञ' इति षष्ठन्तमनुवर्तते । तच्चप्रथमया विपरिणम्यते । 'नभ्राण्नपात्' इत्यतः प्रकृत्येत्यनुवर्तते । तदाह — एकादिर्नञ्प्रकृत्येति । एक आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति । आदु॑गितिअदु॑गिति वा च्छेदः । नञो विंशत्येति । न विंशतिरिति विग्रहे नञ्समासे सति 'नवंशति' शब्दस्यैकशब्देन तृतीयान्तेन सह एकेन नवंशितिरिति विग्रहे समास इत्यन्वयः । ननु तत्कृतत्वाद्यभावात्कथमिह तृतीयासमास इत्यत आह — योगविभागादिति । अनुनासिकविकल्प इति । तृतीयासमासे कृते सुब्लुकि एक नविंशतिरिति स्थिते 'न लोपो नञः' इति प्राप्तस्य नकारलोपस्य प्रकृतिभान्निवृत्तौ एकशब्दस्याऽऽदुगागमः, तत्र ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद्-नविंशतिरिति स्थिते 'यरोऽनुनासिके' इति दकारस्य पक्षेऽनुनासिकनकार इत्यर्थः । अदुगागमपक्षेऽपि पररूपं तु अकारोच्चारमसामर्थ्यान्न भवति । एकेन न विंशतिरिति । विग्रहवाक्यम् । एकेन हेतुना विंशतिर्न भवतीत्यर्थः । एकान्नविंशतिः, एकाद्नविंशतिरिति । अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति ।पर्यवस्यती॑ति शेषः । एकेन ऊनेति विग्रहः ।पूर्वसदृशे॑ति समासः । सा चासौ विंशतिश्च ।", "63077": "", "63078": "<<सहस्य सः संज्ञायाम्>> - सहस्य सः । उत्तरपदे इति । शेषपूरणेनोक्तमिदम् । सहेत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः ।वोपसर्जनस्ये॑त्यस्यापवादः । सपलाशमिति ।तेन सहे॑ति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति ।सबे चे॑ति क्वनिप् । असंज्ञात्वान्न सभावः ।", "63079": "<<ग्रन्थान्ताधिके च>> - ग्रन्थान्ताधिके च । ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः । अनयोरर्थयोरिति ।विद्यमानस्ये॑ति शेषः । समुहूर्तमिति । मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्त्रमधीत इत्यर्थः । अन्तवचनेऽव्ययीभावः ।अव्ययीभावे चाऽकाले॑ इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति । द्रोणपरिमाणादधिकेत्यर्थः । मयूरव्यंसकादित्वात्सहशब्दस्याधिकवाचिनः समासः, सभावश्च ।", "63080": "<<द्वितीये चानुपाख्ये>> - द्वितीये चानुपाख्ये । अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यं=प्रत्यक्षम् । तदन्यदनुपाख्यम् । अनुमेयमिति यावत् । तदाह — अनुमेय इति । सहायवाचिन्युत्तरपदे परत इत्यर्थः । सराक्षसीकेति ।तेन सहे॑ति बहुव्रीहिः ।नद्यृतश्चे॑ति कप् । अनुमेयराक्षसीसहिता निशेत्यर्थः । तदाह — राक्षसी साक्षादिति ।", "63081": "<<अव्ययीभावे चाकाले>> - अव्ययीभावे । सहस्य सः स्यादिति ।सहस्य सः संज्ञाया॑मित्यतस्तदनुवृत्तेरिति भावः । न तु काले इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्णमिति । समीपादौ अव्ययीभावः । सूत्रे सादृस्येति स्वार्थे ष्यञ् । तद्ध्वनयन्नाह — सदृशः सख्या ससखीति ।सहे॑त्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाऽव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणीभूतसादृश्येऽप्राप्त्या तद्ग्रहणमिति भावः । क्षत्राणां संपत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र संपत्तौ वर्तत इति भावः । संपत्तिसमृद्धिशब्दयोः पौनरूक्त्यं परिहरति-ऋद्धेरिति । धनधान्यादेस्त्यिर्थः । अनुरूप इति । अनुरूपः=योग्यः, आत्मभावः=स्वभावः । स्वोचितं कर्मेति यावत् । तृणमपीति ।परऽवरयोगे चे॑ति क्त्वा । पराऽवरत्वं बौद्धमेव । सहशब्दोऽत्राऽपरिवर्जने वर्तते, न तु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत्र आह — साकल्येनेत्यर्थ इति । पात्रे परिविष्टं सकलं भक्षयतीति यावत् । न त्वत्रेति । तृणभक्षणस्याऽप्रसक्तेरिति भावः । अन्ते इति । 'उदाहरणं वक्ष्यते' इति शेषः । सूत्रेऽन्तशब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमित्यादि । अग्निशब्देनाऽग्निचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनाऽन्तावयवेन सहितं ग्रन्थमिति विग्रहः । अग्निग्रन्थपर्यन्तमिति बहुव्रीहिः ।ग्रन्थ॑मित्यन्यपदार्थाध्याहारः । अधीत इति तु समासप्रविष्टम् । अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः । अत्र कृत्स्नस्यानध्येतव्यत्वादग्निग्रन्थपर्यन्ताध्ययने तत्कार्त्स्न्यानवगमात्साकल्यात्पृथगुक्तिः ।", "63082": "<<वोपसर्जनस्य>> - वोपसर्जनस्य । 'उत्तरपदे' इत्यधिकृतम् ।सहस्य सः संज्ञाया॑मित्यतः 'सहस्य स' इत्यनुवर्तते । उपसर्जनमस्यास्तीत्युपसर्जनः, मत्वर्थे अर्शाअद्यच् । उत्तरपदाक्षिप्तसमासो विशेष्यम् । उपसर्जवनतः समासस्येत्यर्थः । यद्यपि सर्वेषामपि समासानां कश्चिदवयव उपसर्जनमेव, तथापि सामर्थ्यादुपसर्जनसर्वावयवकस्येति लभ्यते । तथाच उपसर्जनस्येत्यनेन बहुव्रीहेरिति लब्धम् । अवयवषष्ठएषा । तदाह — बहुव्रीहेरवयवस्येत्यादिना । बहुव्रीहेरिति किम् । सहयुध्वा ।राजनि युधि कृञः,सहे चे॑ति क्वनिप् । उपपदसमासः । अबहुव्रीह्रवयवस्य सहस्य सत्वं न । सुपुत्र इति । सभावे रूपम् । पुत्रेण युगपदागत इत्यर्थः । प्रायिकमिति । इतिशब्दादिदं लभ्यते ।विभाषा सपूर्वस्ये॑त्यादिनिर्देशाच्चेति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । अत्र तुल्ययोगाऽभावेऽपि सहस्य सः ।", "63083": "<<प्रकृत्याऽऽशिष्यगोवत्सहलेषु>> - प्रकृत्याशिषि ।सहस्य सः संज्ञाया॑मित्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह — सहशब्द इति । प्रकृत्येति । स्वभावेन स्थितः स्यादित्यर्थः । सभावो नेति यावत् । स्वस्तीति ।भूया॑दिति शेषः । सहपुत्रायेति ।तेन सहे॑ति समासे कृते, आसीर्योगान्न सभावः । एवं-सहामात्यायेति । अगोवत्सेति । गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः । सगवे इति ।राज्ञे स्वस्ती॑ती शेषः ।", "63084": "<<समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु>> - समानस्य । नतु मूर्धादिष्विति । मूर्धन्, प्रभृति, उदर्क — एषु परेषु नेत्यर्थः । सगभ्र्य इति । समाने गर्भे भव इत्यर्थः । सयूथ्य इति । समाने यूथे भव इत्यर्थः । सनुत्य इति । समाने नुते भव इत्यर्थः । सर्वत्र 'तद्धितार्थ' इति समासे समानस्य सभावः । समानमूर्धेति । समानो मूर्धा यस्येति विग्रहः । समानप्रभऋतय इति । समानः प्रभृतिराद्यवयवो येषामिति विग्रहः । समानोदर्का इति । समान उदर्को येषामिति विग्रहः । तैत्तिरीयेसजूरृतुभिः, सजूर्विधाभिः, सजूर्वसुभिः, सजूरुदैः, सजूरादित्यैः, सजूर्विऔर्देवैः, सजूर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैआआनरायाइआनाध्वर्यु सादयतामिह त्वा॑ इति मन्त्राः संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रेषु सजूरृतुभिः, सजूर्विधाभिरित्ययमाद्यवयवः, सजूर्देवैर्वयोनाधैरित्यन्तावयवश्च समानः, सजूर्वसुभिरित्यादिपञ्चानामेकैकस्य क्रमेणैकैकस्मिन्मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह-योगो विभज्यत इति । तथा चसमानस्य सः स्या॑दिति वाक्यान्तरं संपद्यते । तत्र छन्दसीत्यभावाल्लोकेऽपि क्वचिद्भवतीति लभ्यत इति भावः ।सपक्ष इति । समानः पक्षो यस्येति विग्रहः । साधम्र्यमिति । समानो धर्मो यस्य स सधर्मा । समानस्य सभावः । तस्य भावः साधम्र्यम् । ब्राआहृणादित्वात्ष्यञ् । सजातीयमिति । समाना जातिर्यस्येति विग्रहः । समानस्य सभावः ।जात्यान्ताच्छ बन्धुनी॑ति च्छः । इत्यादीति । 'सग्राम' इत्यादिसङ्ग्रहः । योगविभागस्य भाष्याऽदृष्टत्वाद्युक्त्यन्तरमाह — अथवेति । तेनेति । तेन=सदृशब्देन बहुव्रीहिरित्यन्वयः । तथा च वोपसर्जनस्ये॑ति सहस्य सभाव इति भावः । ननु तर्हिं समानः पक्षो यस्येति कथं विग्रहः । सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह — अस्वपद इति । वृत्तावेव सहशब्दः सदृशवचन इति भावः ।", "63085": "", "63086": "<<चरणे ब्रह्मचारिणि>> - चरणे ब्राहृचारिणि । समानस्येति स इति चानुवर्तते । 'उत्तरपदे' इत्यधिकृतम् । तदाह — ब्राहृचारिण्युत्तरपदे समानस्य सः स्यादिति । 'चरणे' इति सप्तमी समानस्येत्यत्राऽन्वेति । चरणे विद्यमानस्येत्यर्थः । फलितमाह — चरणे समानत्वेन गम्यमाने इति । तत्र चरणपदं व्याचष्टे — चरणः शाखेति । वैदिकप्रसिद्धिरेवात्र मूलम् । ब्राहृचारिपदं निर्वक्तुमाह — ब्राहृ वेद इति ।वेदस्तत्त्वं तपो ब्राहृए॑त्यमरः । तच्चरणार्थमिति । तस्य=वेदस्य, चरणम्ध्ययनं तच्चरणं, व्रतमपि ब्राहृशब्देन विवक्षितमित्यर्थः । गौण्या वृत्त्ये॑ति शेषः । तच्चरतीति । तद्व्रतं चरति=अनुतिष्ठतीत्यर्थे ब्राहृचारिशब्द इत्यर्थः । 'सुप्यजातौ' इति णिनिः । समानस्य स इति ।समानो ब्राहृचारी॑ति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सतिसब्राहृचारी॑ति रूपमित्यर्थः । समानत्वं च वेदद्वारा बोध्यम् । तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः । भाष्ये तु समाने ब्राहृणि व्रतं चरतीत्यर्थे चरेर्णिनिव्र्रतशब्दस्य लोपश्चाऽत्र निपात्यत इत्युक्तम् ।", "63087": "<<तीर्थे ये>> - तीर्थे ये । यशब्दादकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमद्याहार्यम् ।यस्मिन् विधि॑रिति तदादिविधिः । तदाह — यादौ प्रत्यये इति । नाऽत्रयप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते,समानतीत्थे वासी॑ति समानतीर्थशब्दात्कृतसमासादेव वासीति तद्धितार्थे यप्रत्ययविधानात् । स च यप्रत्ययोऽन्तरङ्गे सभावे कृते एव भवति ।समर्थानां प्रथमाद्वे॑ति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात्कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात् । अतो युप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत आह — विवक्षिते इति । सतीथ्र्य इति । समाने तीर्थे वासीत्यर्थः । अत्र सामीप्ये सप्तमी । समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ, तदाह — एकगुरुक इति । तद्धितार्थे समासप्रवृत्तयो तद्धितं दर्शयति — समानेति ।निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ॑ इत्यमरः ।", "63088": "<<विभाषोदरे>> - विभाषोदरे । उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः । इत्येवेति । अनुवर्तत एवेत्यर्थः ।", "63089": "<<दृग्दृशवतुषु>> - दृग्दृषवतुषु । 'समानस्य स' इति शेषः । सदृक् सदृश इति । समानो दृश्यते इत्यर्थेसमानाऽन्ययोश्चे॑ति दृशेः क्विन्, कञ् च ।दृक्षेचेति ।समानस्य सत्व॑मिति शेषः । सदृक्ष इति । क्सोऽपि इति दृशेः क्सः । वतुरुत्तरार्थ इति । यत्तदेतेभ्यः परिमाणे वतुपः समानशब्दादसंभवादिति भावः ।", "63090": "<<इदङ्किमोरीश्की>> - इदंकिमोरीश्की । 'ईश्'की॑ति द्वे पदे । ईदृक् ईदृश इति । 'इदमिव दृश्यते' इत्यर्थे त्यदादिषु दृशेः क्विन्कञौ । ईशः शित्त्वं सर्वादेशत्वाय । वक्ष्यत इति । तद्धितप्रकरणे इयानित्युदाहरणं वक्ष्यत इत्यर्थः । दृक्षे चेति । इदंकिमोरीश्की वक्तव्यौ॑ इति शेषः ।आ सर्वनाम्न इति । 'आ' इति लुप्तप्रथमाकम् । तादृक् तादृश इति । तदिव दृश्यत इत्यर्थे 'त्यदादिषु दृशः' इति क्विन्कञौ । तदो दकारस्य आत्वे सवर्णदीर्घः । तावानिति । तत्परिमाणमस्येति विग्रहे यत्तदेतेभ्य॑ इतिं वतुप् । तादृक्ष इति । तदिव दृश्यते इति विग्रहः । अमूदृगित्यत्र प्रक्रियां दर्शयति — दीर्घ इति । अदस आत्त्वे कृते सवर्णदीर्घः । तत ऊत्त्वमत्वे इत्यर्थः ।अः से॑रिति व्याख्यानेऽपि अकारेम आकारस्यापि ग्रहणादूत्त्वमत्वे ।", "63091": "<<आ सर्वनाम्नः>> - आ सर्वनाम्नः । 'आ' इत्यविभक्तिकनिर्देशः । 'दृग्दृशवतुषु' इति सूत्रमनुवर्तत । तदाह — सर्वनाम्न इति । अन्तादेश इति । अलोऽन्त्यपरिभाषालभ्यमिदम् । दकारस्य आत्वे सवर्णदीर्घः । तादृश् इति रूपम् । ततः सुबुत्पत्तिः । कुत्वस्येति । तादृश् स् इति स्थिते हल्ङ्यादिलोपे,क्विन्प्रत्ययस्य कु॑किति कुत्वस्याऽसिद्धत्वात् ।व्रश्चे॑ति ष इत्यर्थः । तस्येति ।व्रश्चे॑ति संपन्नस्य षकारस्येत्यर्थः । तस्य कुत्वेनेति । डकारस्यक्विन्प्रत्ययस्य कु॑रिति कुत्वेन गकार इत्यर्थः । तस्य चर्त्वेनेति । गकारस्य 'वावसाने' इति चर्त्वविकल्प इत्यर्थः । तादृगिति । स इव दृश्यत इति न विग्रहः,कर्तरि कृत्इति कर्तर्येव क्विन्विधानात् । किंतु कर्मकर्तरि क्विन् । स इवायं पश्यति । ज्ञानविषयो भतीत्यर्थः ।दृशेरत्र ज्ञानविषयत्वापत्तिमात्रवृत्तित्वादज्ञानार्थता॑ इति 'त्यदादिषु दृशेः' इति सूत्रे भाष्ये स्पष्टम् । रूढशब्द एवायमित्यन्ये । अथात्र कैयटादिमतं दूषयति — षत्वापवादत्वादिति । यद्यपि दधृगञ्चुयुजिक्रुञ्चुषु अप्राप्ते ।ञपि व्रश्चादिषत्वेक्वन्प्रत्ययस्य कुः॑ इति कुत्वमारभ्यते । तथापि क्विपैव सिद्धेस्पृशोऽनुदके क्विन्,त्यदादिषु दृशोऽनालोचने कञ् चे॑ति क्विन्विधानंक्विन्प्रत्ययस्य कु॑रिति कुत्वार्थं क्रियमाणं घृतस्पृक्, तादृगित्यादिषु अप्रवृत्तौ निरवकाशमेव स्यात् । अतस्तद्विषये कुत्वस्य फलतः षत्वापवादत्वमिति भावः । क्विन्विधानंक्विन्प्रत्ययस्य कुः॑ इति कुत्वार्थमेवेति 'स्पृशोऽनुदके' इति सूत्रे भाष्ये स्पष्टम् । अनवकाशत्वादेव च षकारविषये कुत्वस्य नाऽसिद्धत्वमपि । अन्यथास्पृशोऽनुदके क्वि॑नित्यादिना स्पृशादेः क्विन्विधिवैयथ्र्यात् । उक्तं चपूर्वत्रासिद्ध॑मित्यत्र भाष्ये — ॒अपवादो वचनप्रमाण्या॑दिति । खकार इतीति । अघोषमहाप्राणसाम्यादिति भावः । ख एवेति । #आतदृक्, तादृगिति रूपद्वयमिष्टम् । शकारस्य कुत्वेन खकारे सति तस्य 'वावसाने' इति चर्त्वपक्षे तादृगिति रूपसिद्धावपि चर्त्वाऽभावपक्षे तादृखित्येव स्यात्, ताद-गिता गकारो न श्रूयेतेत्यर्थः । नन्वस्तु शकारस्य खकारस्तथापि तस्य चर्त्वाभावपक्षे जश्त्वेन गकारो निर्बाध इत्यात आह — जश्त्वं प्रतीति । जश्त्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पन्नखकारस्याऽसिद्धतया झलोऽभावेन जश्त्वाऽसंभवादित्यर्थः । अथ कैयटादिमते उक्तदोषं निरस्यति-दिगादिभ्यो यदितीति । 'विश प्रवेशने' क्विप्, विशिति रूपम् । तस्य विशेषमाह — व्रश्चेति षत्वमिति । विश् सिति स्थिते हङ्यादिलोपेव्रश्चे॑ति शकारस्य षकार इत्यर्थः । जश्त्वचर्त्वे इति । षस्य जश्त्वेन डः । 'वाऽवसाने' इति तस्य चर्त्वेन पक्षे ट इत्यर्थः । विड्भ्याम् । विट्त्सु विट्सु । 'णश अदर्शने' क्विप् । नश् इति रूपम् । ततः सुबुत्पत्तिः । सोर्हल्ङ्यादिलोपे व्रश्चादिना नित्यं षत्वे प्राप्ते- ।", "63092": "", "63093": "<<समः समि>> - समः समि ।समी॑ति लुप्तप्रथमाकम् । 'अञ्चतावप्रत्यये' इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्रे व्याचष्टे — अप्रत्ययेति । समीचेति । 'अचः' इति लोपे 'चौ' इति दीर्घः ।", "63094": "<<तिरसस्तिर्यलोपे>> - तिरसस्तिर्यलोपे । 'तिरि' इति लुप्तप्रथमाकम् । '॒अञ्चतावप्रत्यये' इत्यनुवर्तते । न विद्यते 'अचः' इत्यल्लोपो यस्य सअलोपः॑, तस्मिन्निति विग्रहः । तदाह — अलुप्तेत्यादिना । तिर्यङिति । तिरः-अञ्चतीति विग्रहे क्विन्नादि । तिरसस्तिर्यादेशे यण् । तिरश्चेति । शसादावचि 'अचः' इत्यल्लोपसत्त्वान्नतिर्यादेशः । सस्य श्चुत्वेन श इति भावः ।", "63095": "<<सहस्य सध्रिः>> - सहस्य सध्रिः ।सहस्य सध्रिः स्यादप्रत्ययान्तेऽञ्चतौ परे इति व्याख्यानं सुगमत्वादुपेक्षितम् । सध्र्यङिति । सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत् । सहस्य सध्र्यादेशे यण् ।", "63096": "<<सध मादस्थयोश्छन्दसि>> - विष्वग्देवयोश्च । 'अद्रि' इति लुप्तप्रथमाकम् । अनयोरिति । विष्वग्देवशब्दयोरित्यर्थः । सर्वनाम्न इति । चकारेण 'आ सर्वनाम्नः' इत्यतस्तदनुकर्षादिति भावः । अप्रत्ययान्ते इति । सूत्रे अप्रत्यय इत्यत्र नित्यमश्रूयमाणत्वादविद्यमानः प्रत्ययः क्विबादिर्यस्मादिति बहुव्रीह्राश्रयणादिति भावः । प्रकृते अदसष्टेरद्रआदेशमुदाहृत्य दर्शयति — अदद्रि अञ्चिति स्थिते इति । अद्रआदेशोऽयमनिदितामिति नलोपे कृते प्रवर्तते, नलोपस्य परत्वादिति बोध्यम् । यणिति ।रेफादिकारस्ये॑ति शेषः । अदद्रचित्यतः सुबुत्पत्तिः । अदसो । अदसः, असेः, दात्, उ, दः, म इति च्छेदः । 'अदस' इत्यवयवषष्ठन्तम् ।असे॑रिति तद्विशेषणम् । न विद्यते सिर्यस्य स असिः तस्येति विग्रहः । इकार उच्चारणार्थः । दादिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् ।", "63097": "<<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> - द्व्यन्तरुप । कृतसमासान्तस्येति । अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर् उपसर्ग-एतेभ्य इत्यर्थः । अपस्येति । अकारप्रत्ययान्तस्याऽप्शब्दस्येत्यर्थः । ईत्स्यादिति ।आदेः परस्ये॑ति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गता इति । द्वयोः पार्सयोर्गता आपो यस्मिन्निति विग्रहः । व्यधिकरणपदो बहुव्रीहिः । अकारप्रत्ययः,ईत्त्वं, सवर्णदीर्घश्च । अन्तरीपमिति । अन्तर्गता आपो यस्मिन्निति विग्रहः । प्तीपमिति । प्रतिकूला आपो यस्मिन्निति विग्रहः । उपसर्गात्परत्वादीत्त्वम् । समीपमिति । सङ्गता आपो यस्मिन्निति विग्रहः । उपसर्गात्परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति । श्रुतिरेषा । अत्र उपसर्गात्परत्वाऽभावादीत्त्वं नेति भावः । देवा इज्यन्ते यस्मिन्निति देवयजनं यज्ञभूमिः । 'समाप' इति पुंस्त्वं छान्दसम् । भाष्ये तुसमाप ईत्त्वं ने॑त्युक्त्वा समापं नाम देवयजनमित्युदाहृतम् । तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः,समीपसमृद्धी॑ति निर्देशात्,समीप॑मिति भाष्ये उदाहरणाच्च । स्वविति । शोभना आपो यस्येति विग्रहः ।न पूजना॑दिति समासान्तनिषेधः । अकृतसमासान्तत्वादीत्त्वं न । स्वपी इति । प्रथम#आद्विवचनमिदम् । अवर्णान्ताद्वेति । अवर्णान्तादुपसर्गात्परस्याऽपस्य ईत्त्वं वा वक्तव्यमित्यर्थः । प्रेपं प्रापमिति । प्रगता आपो यस्येति विग्रहः । परेपं परापमिति । परागता आपो यस्येति विग्रहः ।", "63098": "<<ऊदनोर्देशे>> - ऊदनोर्देशे । ईत्त्वस्याऽपवादः । ऊत्स्यादिति ।आदेः परस्ये॑ति ज्ञेयम् । अनूपो देश इति । अनुकूला आपो यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च । 'अनूप' इत्यत्र ऊपोऽवग्रहणार्थं दीर्घोच्चारणमिति भाष्यम् । बह्वृचास्तुअनूपो गोमान्रित्यत्र नावगृह्णन्ति । तदेव 'ऋक्पूः' इति सूत्रगतोऽप्शब्दः प्रपञ्चितः । अथ धूर्शब्दान्तस्योदाहरति — राजधुरेति । राज्ञो धूरिति विग्रहः । धूर्शब्दोऽत्र राज्ये लाक्षणिकः । अकारप्रत्ययः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । टाप् । अक्षे त्विति । अक्षसंबन्धिनी या धूस्तदन्तादकारप्रत्ययो न । अक्षधूरिति । अक्षो नाम रथावयवदण्डविशेषः, यदग्रयोश्चक्रे आसज्येते तस्याक्षस्याग्रं धूः । अनेनअक्षे समासार्थे धुरो नाऽकारप्रत्ययः॑ इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति । दृढा धूर्यस्येति विग्रहः । एतेनाऽक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवंऋक्पू॑रिति सूत्रं धूःशब्दः प्रपञ्चितः । अथ पथिन्शब्दस्योदाहरति — सखिपथाविति । सखा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । 'नस्तद्धिते' इति टिलोपः । 'सखिपथ' इति पाठे तु सख्युः पन्था इति तत्पुरुषः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः ।", "63099": "<<अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु>> - अषठतृतीयास्थस्य । अषष्ठआमतृतीयायां च परतस्तिष्ठतीति अषष्ठतृतीयास्थः, तस्य । अषष्ठीतृतीयान्तस्येत्यर्थः ।अषष्ठीतृतीयास्थस्ये॑त्येव सिद्धे नञ्द्वयोपादानं स्पष्टार्थंम् । आशीरादिष्विति । आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ-इत्येतेषु इत्यर्थः । दुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । अन्यदाशीरित्यादयः कर्मधारयाः । नायं निषेध इति ।अषष्ठतृतीयास्थस्ये॑ति निषेधः कारकच्छयोर्नास्तीत्यर्थः । भाष्योक्तमिदम् ।", "63100": "<<अर्थे विभाषा>> - अर्थे विभाषा ।अन्यस्य दु॑गिति शेषः ।", "63101": "<<कोः कत् तत्पुरुषेऽचि>> - कोः कत्तत्पुरुषेऽचि ।क॑दिति च्छेदः । शेषपूरणेन सूत्रं व्याचष्टे — अजादावुत्तरपदे इति । कदआः कदन्नमिति ।कुगती॑ति समासः । कूष्ट्रो राजेति । कुत्सित उष्ट्रो यस्येति बहुव्रीहित्वान्न कदादेशः । त्रौ चेति । त्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थः । उत्तरपदस्याऽजादित्वाऽभावाद्वचनम् ।", "63102": "<<रथवदयोश्च>> - रथवदयोश्च । 'कोः कत्तत्पुरुषे' इति शेषः । कद्रथः कद्वद इति ।कुगती॑ति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः ।", "63103": "<<तृणे च जातौ>> - तृणे च जातौ । तृणशब्दे कोः कत्स्याज्जातौ वाच्यायाम् । कत्तृणमिति । तृणजातिविशेषोऽयम् ।अस्त्री कुशं कुथो दर्भः पवित्रमथः कत्तृण॑मित्यमरः ।", "63104": "<<का पथ्यक्षयोः>> - का पथ्यक्षयोः । पथिन्, अक्ष — अनयोः परतः कोः 'का' इत्यादेशः स्यादित्यर्थः । कापथमिति । कुत्सितः पन्था इति विग्रहः ।कुगती॑ति समासः ।ऋक्पू॑रित्यप्रत्ययः ।पथः सङ्ख्याव्ययादे॑रिति नपुंसकत्वम् । 'कापथ' इति पाठे तु बहुव्रीहिः । काऽक्षशब्दे समासं दर्शयति — अक्षशब्देन तत्पुरुष इति । कुत्सितमक्षमिन्द्रियमिति विग्रहेकुगती॑ति समास इत्यर्थः । अक्षिशब्देनेति । कुत्सिते अक्षिणी यस्येति विग्रहेबहुव्रीहौ सक्थ्यक्ष्णो॑रिति षजित्यर्थः ।", "63105": "<<ईषदर्थे>> - ईषदर्थे । ईषदर्थे विद्यमानस्य कोः 'का' इत्यादेशः स्यादित्यर्थः । काजलमिति । ईषत् — जलमिति विग्रहेकुगतीति समासः । नित्यसमासत्वादस्वपदविग्रहप्रदर्शनम् । कुत्सित अम्लः काम्ल इत्यत्रकोः कत्तत्पुरुषेऽची॑ति कदादेशमाशङ्ख्याह — अजादावपीति ।", "63106": "<<विभाषा पुरुषे>> - विभाषा पुरुषे । 'कोः का इत्यादेश' इति शेषः । अप्राप्तविभाषेति ननु कोरीषदर्थकत्वे सति 'ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्पसंभव इत्यत आह — ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तं, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् ।", "63107": "<<कवं चोष्णे>> - कवं चोष्णे । कवं का च वेति । विभाषेत्यनुवृत्तेरिति भावः । उभयाऽभावे कदादेशः । तथा च रूपत्रयम् । तदाह — कोष्णं कवोष्णं कदुष्णमिति ।", "63108": "<<पथि च च्छन्दसि>> - इत्यकारलोपे प्र च् अस् इति स्थिते — चौ । अन्चुधातोरुकारान्तस्य लुप्तनकाराऽकारस्य चाविति सप्तम्यन्तम् । 'ढ्रलोपे' इत्यतःपूर्वस्य दीर्घोऽणः॑ इत्यनुवर्तते । तदाह — लुप्तेति । प्राचेति । यद्यपि 'अचः' इत्यल्लोपस्य 'चौ' इति दीर्घस्य चाऽभावेऽपि सवर्णदीर्घेण 'प्राच' इति सिध्यति, तथापि 'प्रतीचः' इत्याद्यर्थं सूत्रम् । प्राग्भ्यामिति । प्राच्-भ्याम् इति स्थिते 'चोः कुः' इति कुत्वं,क्विन्प्रत्ययस्य कुः॑ इति कुत्वस्याऽसिद्धत्वात् । इत्यादीति । प्राग्भिः । प्राचे । प्राचः २ । प्राचोः २ । प्राक्षु । प्रत्यङ्ङिति । प्रतिपूर्वादञ्चेः क्विन्, यण्, 'अनिदिताम्' इति नलोपः, सुबुत्पत्तिः ।उगिदचा॑मिति नुम्, हल्ङ्यादिना सुलोपः, चकारस्य संयोगान्तलोपः, नुमो नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकार इति भावः । प्रत्यञ्चाविति । प्रत्यच्-औ इति स्थितेउगिदचा॑मिति नुमि तन्नकारस्य अनुस्वारे तस्य परसवर्णो ञकार इति भावः । एवं प्रत्यञ्चः । प्रत्यञ्चम्, प्रत्यञ्चौ ।ननु प्रति-अन्च् इति स्थिते अन्तरङ्गत्वाद्यणि कृतेअनिदिता॑मिति नलोपे प्रत्यच् इत्यस्माच्छसि असर्वनामस्थानत्वात्उगिदचा॑मिति नुमभावे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घो न भवति, पूर्वस्याऽणोभावात्, ततश्च प्रत्य्चेति स्यादित्यत आह — अचेति लोपस्येत्यादि । 'अचः' इति लोपेन यण्निमित्तस्याऽकारस्य विनाशोन्मुखत्वादिह यण्न भवति । ततश्च प्रति अच् अस् इति स्थिते 'अचः' इत्यकारलोपे सति 'चौ' इति इकारस्य दीर्घे 'प्रतीच' इति रूपां निर्बाधम् । एतदर्थमेव 'अचः' इति 'चौ' इति चारब्धम् ।प्राचः पश्ये॑त्यत्र अल्लोपदीर्घयोरभावेऽपि सवर्णदीर्घेणैव रूपसिद्धेः । भाष्ये तु 'चौ' इत्यारम्भसामर्थ्यादेवात्र यण् नेति समाहितम् । न चप्राचः पश्ये॑त्यादौ सावकाशत्वमिति वाच्यं, सवर्णदीर्घेणैव निर्वाहात् ।वार्णादाङ्गं बलीयः॑ इति परिभाषया 'अचः' इत्यल्लोपे सति सवर्णदीर्घाऽसिद्धेरित्यन्यत्र विस्तरः । अद्स् अञ्च् इति स्थिते इति । क्विनि उपपदसमासे सुब्लुकि च सति अदस् अञ्च् इति स्थिते 'अनिदिताम्' इति नलोपे कृते अदस् अच् इति स्थिते सतीत्यर्थः ।", "63109": "<<पृषोदरादीनि यथोपदिष्टम्>> - पृषोदरादीनि । आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्याऽदर्शनाद्यथोपदिष्टपदस्य वैयथ्र्याच्च । किंतु प्रकारवाची । तदाह — पृषोदरप्रकाराणीति । प्रकारः-सादृश्यं, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्त्राऽगृहीतानीति यावत् । उपपूर्वको दिशिरुच्चारणार्थः । भावे क्तः । उपदिष्टमुपदेशः — उच्चारणं, तदनतिक्रम्य यथोपदिष्टम् । पदार्थानतिवृत्तावव्ययीभावः । शिष्टैरित्यध्याहार्यम् । तथा च फलितमाह — शिष्टैर्यथोच्चारितानीति । शिष्टास्तु शब्दतत्त्वसाक्षात्कारवन्तो योगिन इति । भाष्यकौयटयोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे 'आद्गुणः' इति भावः । पूर्वपदस्येति । 'वारिवाहक' शब्दे वारिशब्दस्य पूर्वपदस्य बकारः सर्वादेशः । वाहकशब्द उत्तरपदं, तदादेर्वकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमाद्धंस इति । हसधातोः पचाद्यचि अनुस्वारागमे 'हंस' इति रूपमित्यर्थः । हनधातोरचि सगागमेनश्चाऽपदान्तस्ये॑त्यनुस्वार इत्यन्ये । सिंहो वर्णविपर्ययादिति ।हिसि हिंसाया॑मित्यतः पचाद्यचि इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । हकारस्य सकारः, सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिहंयोरुणादौ व्युत्पत्तिरुक्ता तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः । गूढोत्मा वर्णविकृतेरिति । गूढ आत्मा यस्येति बहुव्रीहावुत्तरपदादेराकारस्य उकारे आद्गुणे रूपमिति भावः । वर्णनाशात्पृषोदरमिति । पृषत्-उजरमित्यत्र तकारलोपे सति आद्गुणे पृषोदरमिति भवतीत्यर्थः । दिक्छब्देभ्यस्तीरस्येति । वार्तिकमिदम् । दुरो दाशेति । इदमपि वार्तिकम् । दुरित्यस्य दाश, नाश, दभ, ध्य — इत्येतेषु परेषु इत्वम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यमित्यर्थऋ दूडाश इति । दुर् — दाश इति स्थिते रेफस्य उत्त्वे सवर्णदीर्घः । दाशेर्दकारस्य ष्टुत्वेन डकारः । दूणाश इति । दुर्-नाश इति स्थिते रेफस्य उत्व सवर्णदीर्घः । नाशेर्नकारस्य ष्टुत्वेन णत्वम् । दूडभ इति । दुर्-दभ इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः । दभेर्दकारस्य ष्टुत्वेन डकारः । खल्त्रिभ्य इति । 'दाशृ दाने' 'णश अदर्शने' ण्यन्तः,दभ हिंसाया॑मिति त्रिभ्यो धातुभ्यः 'ईषद्दुस्सुषु' इति खल्प्रत्यय इत्यर्थः । ननु क्ङित्परकत्वाऽभावात्कथमिहअनिदिता॑मिति नलोप इत्यत आह — दम्भेर्नलोपो निपात्यत इति । दूढ इति । दुर्ध्य इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्चेति । 'ध्यै चिन्तायाम्' 'आतश्चोपसर्गे' इति कप्रत्यये आदेच उपदेशे॑ इति आत्त्वेआतो लोप इटि चे॑त्याल्लोपे ध्यशब्द इत्यर्थः । सदेरिति । सद्धातोरधिकरणेऽर्थे डटि ङित्त्वसामर्थ्यादस्यापि टेर्लोपे स इति रूपम् । ब्राउवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रावच्छब्दस्य 'बृ' इत्यादेशे बृसशब्दात्टिड्ढे॑ति ङीपि बृसीति रूपमिति भावः । 'दिक्छब्देभ्य' इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनीत्यस्यैव प्रपञ्चः । आकृतिगणो ।ञयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमना इत्यादिसङ्ग्रहः ।", "63110": "<<संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ>> - ङौ विशेषमाह — सङ्ख्याविसाय । सङ्ख्या च विश्च सायश्च सङ्ख्याविसायाः । ते पूर्वे यस्मादिति विग्रह इत्यभिप्रेत्याह — सङ्ख्येत्यादिना । सङ्ख्यापूर्वमुदाहरति — द्व्यह्नि द्व्यहनीति । अल्लोपे तदभावे च रूपम् । व्द्यह्ने इति । अहन्नादेशाऽभावे रूपम् । एवं विपूर्वमुदाहरति-विगतमिति ।प्रादयो गताद्यर्थे प्रथमये॑ति समासः । पूर्ववदह्नादेशः । सायपूर्वमुदाहरति-अहः साय इत्यादिना । अत एव ज्ञापकादेकदेशिसमासः । विआपा इति । आबन्तत्वाऽभावान्न सुलोपः । एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे आब्ग्रहणमिति भावः । विआं पाति=रक्षतीत्यर्थे 'आतोऽनुपसर्गे कः' इति प्राप्ते वाऽसरूपन्यायेनआतो मनिन्क्वनिब्वनिपश्चे॑ति चकाराद्विच् । यद्यपि तत्रविदुपेश्छन्दसी॑त्यतश्छन्दसीत्यनुवर्तते तथापि वेदेऽनेन क्विच्, लोके तुअन्येभ्योऽपि दृश्यते॑ इति विच् । अन्ये तुक्विप्चे॑ति सूत्रेण क्विपमाहुः ।घुमास्थे॑तीत्त्वं तु न,वकारे ईत्त्वप्रतिषेधः॑ इति वार्तिकात् । क्वनिपि 'पावान' इत्येतदर्थं तस्यावश्यकत्वात् । क्विपस्त्वादन्तेभ्यो भाष्यानुक्तक्विब्भ्योऽनभिधानमेवेति शब्देन्दुशेखरे स्पष्टम् । अत एव भाष्येपावान॑इत्य्तर वनिपा रूपसिद्धिमाश्रित्यईत्त्वमवकारादाविति वक्तव्य॑मिति वार्तिकं प्रत्याख्यातम् । ततश्च 'विआपाः' इत्यत्र विजेव । विआपा-औ इति स्थितेप्रथमयोः पूर्वसवर्णः॑ इति प्राप्ते- ।", "63111": "<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> - ढ्रलोपे । ढच् रेफश्च ढ्रौ, तौ लोपयतीति-ढ्रलोपः । ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमासः । ढलोपनिमित्तं रेफलोपनिमित्तञ्च विवक्षितम् । तच्च ढकाररेफात्मकमेव, ढो ढे लोपः, रो रीति तयोरेव ढ्रलोपनिमित्तत्वात् । तथाच ढलोपनिमित्ते ढकारे, रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घ इत्यर्थः फलति । तदाह — ढरेफाविति ।ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ॑ इति तु न व्याख्यातं, तथा सति चयनीयमित्यनीयप्र्रत्ययान्ते 'तस्य लोप' इति रेफलोपे यकारादकारस्य, चकार चचारेत्यादौ अभ्यासे अकारस्य च हलादिशेषेण रेफलोपे दीर्घापत्तेः । पुना रमत इति । 'पुनर्-रमते' इति स्थिते 'रो री' ति रेफलोपः । तन्निमित्ते रेफे परे नकारादकारस्य दीर्घः । हरी रम्य इति । हरिस् — रम्य इति स्थिते रुत्वे रेफलोपे चाऽनेन दीर्घः । शम्भू राजत इति । शम्बुस्-राजते इति स्थिते रुत्वे रेफलोपेऽनेन दीर्घः । त्रयाणामुदाहरणात्पूर्वेणैव णकारेणात्राण् गृह्रत इति सूचितम् । तृढो वृढ इति । अत्र ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणम् । ऋकारश्चात्र अण्ग्रहणे न गृह्रते । पूर्वेणैव णकारेण प्रत्याहाराश्रयणात्, अन्यथा दीर्घश्रुत्या 'अच' इत्युपस्थितौ किमण्ग्रहणेनेति भावः । ननु तृढो वृढ इत्यत्र ढ्रलोपस्यैवाऽभावाद्दीर्घाऽप्रसक्तेरण्ग्रहणं व्यर्थमित्याशङ्क्य तत्र ढलोपं दर्शयितुमाह — तृहू हिंसायाम् । वृहू उद्यमन इति । आभ्यां क्तप्रत्यये 'हो ढः' इति ढत्वे 'झषस्तथोः' इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढो ढे लोप इति पूर्वस्य ढकारस्य लोपे, तृढो वृढ इति रूपे । अत्र ढलोपनिमित्ते ढकारे परे ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणमिति भावः । ननुतस्मिन्निति निर्दिष्टे पूर्वस्य॑त्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह — पूर्वग्रहणमिति । 'ढ्रलोप' इति सूत्रस्य 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढ्रलोपनिभित्तभूतढरेफयोः परतः पूर्वपदस्थत्वाभावाच्च । इष्यते च लीढो गुढ इति । अतः पूर्वग्रहणम् । कृते तु पूर्वग्रहणे तत्सामर्थ्यादनुत्तरपदस्थयोरपि ढरेफयोः परतोऽपूर्वपदस्थस्यापि पूर्वस्या.ञणो दीर्घः सिध्यतीत्यर्थः । तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घा इत्यत्रापि दीर्घो न स्यात् ।गृधु अभिकाङ्क्षायाम् । यङ्लुक्, द्वित्वम्, हलादिः शेषः, अब्यासस्य रुक्, कुहोश्चुः, जश्त्वम् , लङ् सिप्, शप्, लुक्, लघूपधगुणः, रपरत्वम्, इतश्चेति इकारलोपः, हल्ङ्यादिना सुलोपः, जर्गर्ध् इति स्थिते 'एकाचो बश' इति गकारस्य भष्भावो घकारः, जश्त्वं दकारः, दश्चेति रुः, अडागमः, अजर्घर् र् इति स्थिते रो रीति रेफलोपः, ढ्रलोप इति दीर्घः, विसर्गः । अजर्घा इति रूपम् । अत्रापि रेफलोपनिमित्तरेफस्य उत्तरपदस्थत्वाभावात्तस्मिन् परतोऽकारस्य दीर्घो न स्यात् । अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम् । यद्यपि ढ्रलोपे इत्यत्र ढलोपनिमित्तढकारविषये उत्तरपद इत्यस्यानुवृत्तिसंभवादेव न सम्भवति, तथापि 'अजर्घा' इत्यत्र रेफलोपनिमित्तरेफविषये उत्तरपद इत्यस्यानुवृत्तिनिवृत्तये पूर्वग्रहणम् । तदनुवृत्तौ हि नीरक्तम्, दूरक्तमित्यादावेव स्यात् । 'अजर्घा' इत्यत्र न स्यात् । पुना रमत इत्यादावसमासे ।ञपि न स्यात् । उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम् । ननु मनोरथ इत्यत्र मनस्-रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्यहशि चे॑त्युत्वं रो री॑ति लोपश्चेत्युभयं प्रसक्तं, तत्र कतरद्बाध्यमित्यत्र निर्धारयति — मनस् रथ इत्यत्रेति । मनस्-रथैत्यत्र रुत्वे कृते, हशि चेत्युत्वे, रो रीति रेफलोपे च प्राप्ते उत्वमेवेत्यन्वयः ।", "63112": "<<सहिवहोरोदवर्णस्य>> - सहिवहोः । ढलोपे इति । 'ढ्रलोप' इत्यतस्तदनुवृत्तेरिति भावः । 'रलोप' इति तु नानुवर्तते, असंभवात् । तथा चसकारादकारस्य ओत्वे सोढेति रूपम् ।परिसोढे॑त्यत्र 'परिनिविभ्य' इति षत्वे प्राप्ते —", "63113": "", "63114": "<<संहितायाम्>> - संहितायाम् । सुगमम् ।", "63115": "<<कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्न- छिन्नछिद्रस्रुवस्वस्तिकस्य>> - कर्णै लक्षणस्य । दीर्घविधिः, 'ढ्रलोपे' इत्यतस्तदनुवृत्तेः । यत्पशूनां स्वामिविशेषसंबन्धज्ञानार्थं दात्रशूलचक्राद्याकारचिन्हं क्रियते तल्लक्षणशब्देन विवक्षितम् । तेन 'लम्बकर्ण' इत्यादौ नातिप्रसङ्गः । द्विगुणाकर्ण इति । द्विगुणरेखौ कर्णौ यस्येति विग्रहः । 'अष्टकर्ण' इत्यादेरष्टसङ्ख्यालिपिचिह्नकर्ण इति वा ।", "63116": "<<नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ>> - नहिवृति । उपानदिति । 'णह बन्धने' 'णो नः' सम्पदादित्वात्कर्मणि क्विप् । उपनह्रते इत्युपानत् । पूर्वपदस्य दीर्घः ।नहो धः॑ । निवर्तते इति नीवृत् । 'वृतु वर्तने' कर्तरि क्विप्, दीर्घः । प्रवर्षतीति प्रावृट् ।वृषु सेचने॑क्विप् । दीर्घः ।नहो धः॑ । निवर्तते इति नीवृत् । 'वृतु वर्तने' कर्तरि क्विप्, दीर्घः । प्रवर्षतीति प्रावृट् । 'वृषु सेचने' क्विप् । दीर्घः । मर्माणि विध्यतदीति मर्मावित् । क्विप् ।ग्रहिज्ये॑ति संप्रसारणम् । उपपदसमासः, सुब्लुक्, नलोपः, दीर्घः । निरोचते इचि नीरुक्,रुच दीप्तौ॑क्विप्, दीर्घः । ऋति सहते इति ऋतीषट् ।षह मर्षणे॑क्विप् । दीर्घः,हो ढः॑, 'सात्पदाद्योः' इति षत्वनिषेधे प्राप्तेपूर्वपदा॑दिति षत्वमिति हरदत्तः । सुषामादित्वादित्यपरे । परितनोतीति परीतत् । 'तनु विस्तारे' क्विप्, 'गमः क्वौ' इत्यत्र गमादीनामित्युपसङ्ख्यानादनुनासिकलोपः । तुक्, दीर्घः । अथ पटुरुक्, तिग्मरुगित्यादौ दीर्घमाशङ्क्याह विभाषेति । पटुरुगिति । पटु रोचत इति विग्रहः । उभयत्र कर्तरि क्विप् । पूर्वपदयोर्गतिकारकान्यतरत्वाऽभावान्न दीर्घः । व्यवस्थिविभाषाश्रयणे व्याख्यानमेव शरणम् ।", "63117": "<<वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्>> - वनगिर्योः । वनगिर्योरिति सप्तमी । कोटरश्च किंशुलुकश्च कोटरकिशुलुकौ, तावादी येषामिति विग्रहः । कोटरादीनांकिंशुलुकादीनां चेति लभ्यते । यथासङ्ख्यमन्वयः । तदाह — कोटरादीनामित्यादिना ।पुरगावण॑मित्युदाहरणानि वक्ष्यन्ते ।", "63118": "<<वले>> - वसे । कृषीवल इति । कृषिरस्यास्तीति विग्रहेरजःकृष्यासुती॑त्यादिना वलच् ।", "63119": "<<मतौ बह्वचोऽनजिरादीनाम्>> - मतौ । मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः । अमरावतीति । इन्द्रनगर्याः संज्ञेयम् । अमरा अस्यां सन्तीति विग्रहः ।मादुपधायाश्चे॑ति,संज्ञाया॑मिति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः ।", "63120": "<<शरादीनां च>> - शरादीनां च । मतौ दीर्घः संज्ञाया॑मिति शेषः । अबह्वच्कत्वात्पूर्वेण न प्राप्तिः । शरावतीति । शरा अस्यां सन्तीति विग्रहः । नदीविशेषस्य नाम ।", "63121": "<<इकः वहे अपीलोः>> - इको वहेऽपीलोः ।अपीलो॑रिति च्छेदः । इगन्तस्येति ।पूर्वपदस्ये॑ति शेषः ।", "63122": "<<उपसर्गस्य घञ्यमनुष्ये बहुलम्>> - उपसर्गस्य । परीपाक इति । पचेर्भावे घञ्, उपधावृद्धिः ।चजोः कु घिण्ण्यतो॑रिति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः ।हलश्चे॑त्यधिकरणे घञ् । दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारो द्वारम्, तत्स्थत्वान्मनुष्ये गौणः ।", "63123": "<<इकः काशे>> - इकः काशे । नीकाश इति । पचाद्यजन्तत्वात्पूर्वेण न प्राप्तिः ।", "63124": "<<दस्ति>> - दस्ति । 'इकः काशे' इत्यत इक इति,उपसर्गस्य घञ्यमनुष्ये॑ इत्यत उपसर्गस्येति , 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते । तदादिविधिः । द इति षष्ठी ति इत्यत्रान्वेति । तथा च दाधातोरादेशो यस्तकारस्तदादौ उत्तरपदे इति लभ्यते । तदाह — इगन्तत्यादि । ननु नि दात त इति स्थिते 'अच उपसर्गात्तःर' इति दकारादाकास्य तकारे दकारस्यखरि चे॑ति चर्त्वे प्रकृतसूत्रेण उपसर्गस्य दीर्घे नीत्त्मिति रूपं वक्ष्यति, तदयुक्तम्, दीर्घे कर्तव्ये चत्त्र्वस्याऽसिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाऽभावादित्यत आह — चत्त्र्वमाश्रयात्सिद्धमिति । दादेशतकारमाश्रित्य विधियमाने दीर्घे चर्त्वं नाऽसिद्धं, चर्त्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थ- । सूत्तमिति तु चिन्त्यम्,गतिश्चे॑ति सूत्रभाष्यवार्तिकयोः सुदत्तमित्यत्र 'अच उपसर्गात्तः' इति तत्वे कर्तव्ये सोरुपसर्गत्वं नेति प्रपञ्चितम् । अथ धेङ्गापाधुतभ्यः क्ते आह — घुमास्थेति । धीतमिति । 'दधातेर्हिः' इत्यत्र श्लुविकरणग्रहणान्न हिभावः ।", "63125": "<<अष्टनः संज्ञायाम्>> - अष्टनः संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे — उत्तरपदे दीर्घ इति । अष्टापदमिति । संज्ञात्वमन्वेषणीयम् ।", "63126": "", "63127": "<<चितेः कपि>> - चितेः कपि । 'दीर्घ' इति शेषः । एकचितीक इति ।अग्न्याख्यस्थण्डिलविशेष॑ इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः ।", "63128": "<<विश्वस्य वसुराटोः>> - तस्य विशेषमाह — विआस्य वसु । 'ढ्रलोपे' इत्यतोदीर्घ इत्यनुवर्तते । तदाह — विआशब्दस्येति । विआवस्विति ।वसुग्र्रहेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ॑ इति कोशः ।विआआवसु॑रित्युदाहरणं प्रासङ्गिकम् । 'आदित्याविआवसवः' इत्यमरप्रयोगे तु न दीर्घः,नरे संज्ञाया॑मित्यतः संज्ञाग्राहणापकर्षात् । ननु राट्शब्दस्य कृतचर्त्वस्य निर्देशाज्जश्त्वे सति दीर्घो न स्यादित्यत आह — राडिति अविवक्षितमिति । व्याख्यानादिति भावः । विआआराट् विआआराडिति ।व्रश्चे॑ति षत्वम् । जश्त्वचर्त्वे । चर्त्वनिर्देशस्य पदान्तोपलक्षणत्वाज्जश्त्वपक्षेऽपि दीर्घः द्यपि त्रैपादिकंव्रश्चे॑ति षत्वंचोः कु॑रिति कुत्वात्परम्, तथापि चवर्गान्तव्रश्चादिविषये षत्वमपवादत्वान्नासिद्धम्,अपवादो वचनप्रामाण्यात् इति विआराजाविति । अपदान्तत्वान्न दीर्घ इति भावः ।भ्रस्ज पाके॑क्विप् । 'ग्राहिज्या' इति संप्रसारणं रेफस्य ऋकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । भृस्ज्शब्दः । ततः सुबुत्पत्तिः ।", "63129": "<<नरे संज्ञायाम्>> - नरे संज्ञायाम् । 'विश्वस्य दीर्घ' इति शेषः ।विश्वस्य वसुराटोरिति पूर्वसूत्राद्विश्वस्येत्यनुवर्तते ।", "63130": "<<मित्रे चर्षौ>> - मित्रे चर्षौ । मित्रशब्दे परे विआस्य दीर्घः स्यादृषौ वाच्ये इत्यर्थः । शुनो दन्तेति । आन्शब्दस्य दन्तादिषु परतो दीर्घ इत्यर्थः । आआदन्त इति । शुनो दन्त इति विग्रहः । आआदंष्ट्रा । षष्ठीसमासः ।दीर्घान्त एव दंष्ट्रशब्दो वार्तिके पठत इति केचित् । ह्रस्वान्त इत्यन्ये । आआदंष्ट्रः । बहुव्रीहिरयम् । आआकर्णः, आआकुन्दः, आआवराहः, आआपुच्छं, आआपदः ।आपुच्छमवनामित॑मित्यसाध्वेव ।", "63131": "", "63132": "", "63133": "", "63134": "", "63135": "", "63136": "", "63137": "<<अन्येषामपि दृश्यते>> - अन्येषामपि दृश्यते । अनुवर्तते इति । ढ्रलोपे इत्यत॑ इति शेषः ।नहिवृतिवृषी॑त्यादिपूर्वसूत्रोक्तादन्येषामपि दीर्घो दृश्यत इत्यर्थः । अतिप्रसङ्गमाशङ्क्याह — कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घ इति ।बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ॑ इत्यर्थः । तेनतुराषा॑डित्यादौ दीर्गो निर्बाधः । दृशिग्रहणादयमर्थो लभ्यते । वक्ष्यत इति ।इच्कर्मव्यतिहारे इति सूत्रेणे॑ति शेषः । तिष्ठधुप्रभृतिष्विति । वृत्तिग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र 'अव्ययीभावः' इत्यनुवृत्तेरिति भावः । अव्ययत्वमिति ।अव्ययीभावश्चे इत्यनेने॑ति शेषः । 'अव्ययादाप्सुपः' इति सुब्लुक् तत्फलमिति भावः । गृहीत्वेति ।परस्पर॑मिति शेषः । न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकर्तृकत्वात्समानकर्तृकत्वाऽभावात्कथमिह क्त्वाप्रत्यय इति वाच्यं, गृहीत्वेत्यनन्तरंस्थितयो॑रित्यद्याहारात् । ततश्च अस्य केशेषु केशेष्वित्यनयोग्र्रहणाद्यन्तर्भावेन वृत्तिघटकयोः समासे सति सुब्लुक् । पूर्वपदस्य दीर्घः । इच्समासान्तः ।यस्येति चे॑त्यकारलोपः । अव्ययत्वात्सुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकसेषापवादोऽयं बहुव्रीहिसमासः, अप्रथमान्तार्थश्च, दण्डैश्चेति । अस्य डण्डैः सः, तस्य दण्डैरयमित्येव परस्परं प्रह्मत्य स्तितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः । दण्डादण्डीति । दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोः समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच्, 'यस्येति च' इति अकारलोपः । अव्ययत्वात्सुब्लुक् । भुष्टीमुष्टीति । अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमित्येवं परस्परं प्रह्मत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । मुष्टआ मुष्टआ इत्यनयोः समासे सति सुब्लुगादि पूर्ववत् ।मुष्टामुष्टी॑ति पूर्वपदान्तस्य आत्वमपाणिनीयमेव ।ओर्गुणः । ओरित्युकारात्षष्ठएकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । 'नस्तद्धिते' इत्यनुवर्तते । तदाह — उवर्णान्तस्येति । बाहूबाहवीति । बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । समासः, सुब्लुक्, पूर्वपदस्य दीर्घः , इच् ।यस्येति चे॑ति बाधित्वा ओर्गुणः, अवादेशः । अव्ययत्वात्सुपो लुक् । ननु गुण उकारस्थाने भवन् स्थासाम्यादोकार एव भवति, ततश्च लाघवात्ओरो॑रित्येव सिद्धे 'गुण' इति गुरुनिर्देशो व्यर्थं इत्यत आह — ओरोदिति । नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यं, विधेयसमर्पबकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् । नचओ॑दिति तपरस्तत्कालस्य संज्ञेति वाच्यं, विधायमानत्वादेव तत्कालत्वसिद्ध्या तकारस्य उच्चारणार्थत्वात् । स्वायम्भुवमिति । स्वयम्भुवोऽपत्यमित्यर्थे अण्, स्वायंभुवः । संज्ञापूर्वकत्वेनानित्यत्वादोर्गुणाऽभावे उवङ्, आदिवृद्धिरिति भावः ।स्वायम्भुव॑मिति पाठे तस्येदमित्यण् । हलेन मुसलेनेति । अत्र असरूपत्वाद्धलामुसलीति न भवतीति भावः ।", "63138": "", "63139": "", "64001": "", "64002": "<<हलः>> - दिग्योगे पञ्चम्येषा । हलः परस्येति लभ्यते ।संप्रसारणस्ये॑ति सूत्रमनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्त्त्यते । एकमवयवषष्ठन्तं हल इत्यत्रान्वेति । अङ्गावयवाद्धल इति लभ्यते । द्वितीयं तु स्थानषष्ठन्तं संप्रसारणेन विशेष्यते । तदन्तविधिः । 'ढ्रलोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह — अङ्गावयवादित्यादिना । उदाहरणं तु — वीतः, शूनः, जीनः । हल इति किम् । उतः उतवान् । अङ्गावयवात् किम् । निरुतम् । तदन्ताङ्गस्येति किम् । विध्यति । एषामिति । व्रीभ्रीक्षीषामित्यर्थः । ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः । ज्ञा अवबोधने । शिति जादेशं स्मारयति — ज्ञाजनोर्जेति । दीर्घनिर्देशे॑ति । प्वादित्वेऽपि आकारोच्चारणसामर्थ्यान्न ह्रस्व इति भावः । बन्ध बन्धने । अनिट् । नोपधः । बन्धातीति ।अनिदिता॑मिति नलोप इति भावः । भारद्वाजनियमात्थलि वेडिति मत्वाऽऽह — बबन्धिथ बबन्द्धेति । अकित्त्वान्नलोपो न । अनिट्पक्षे तुझषस्तथो॑रिति थस्य धः । बन्धेति । तासि.झषस्तथो॑रिति तकारस्य धः । भन्त्स्यतीति । 'एकाचः' इति बस्य भष् । धस्य चर्त्वेन तः । बधानेति । 'हलः श्नः शानज्झौ' इति शानच् । अभान्त्सीदिति । हलन्तलक्षणावृद्धिः । भष्भावः । अबान्द्धामित्यत्र सकारपरकत्वाद्भष्भावमाशङ्क्याह — पूर्वत्रत्यादि । ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्भष् दुर्वार इत्यत आह — प्रत्ययलक्षणेनेति । अबान्द्धामिति ।झषस्तथो॑रिति तस्य धः । श्रन्थ विमोचने । श्रन्थिग्रन्थीत्यादिनेति ।श्रन्थिग्रन्थिदम्भिस्वञ्जीना लिटः कित्त्वं वे॑ति व्याकरणान्तरेणेत्यर्थः । अस्मिन्नपि पक्षे इति ।पितामपीदं कित्त्व॑मिति सुधाकरमतेऽपि प्रथमपुरुषणलि — शश्राथ । उत्तमपुरुषणलि तु शश्राय शश्रयेति माधव आहेत्यर्थः । तत्र मूलमिति ।कित्त्वपक्षे एत्त्वाभ्यालोपा॑वित्यारभ्य 'माधव' इत्यन्तसंदर्भे मूलं नास्तीत्यर्थः । संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकाऽदर्शनाच्चेति भावः । कुष निष्कर्षे ।", "64003": "<<नृ च>> - नृच । 'नृ' इति लुप्तषष्ठीकम् ।नामी॑ति सूत्रमनुवर्तते । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते ।छन्दस्युभयथे॑त्यत उभयथेत्यनुवर्तते । तदाह — नृ #इत्येतस्येत्यादिना । नृणां नृणामिति ।ऋवर्णान्नस्ये॑ति णत्वम् । ङौऋतो ङी॑ति गुणो रपरत्वम् । नरि न्रोः नृषु । इत्यृदन्ताः । अथ ऋदन्ता निरूप्यन्ते — कृ इत्यादिना । कृ तृ इत्यनयोकनुकरणे इत्त्वे रपरत्वे इत्यन्वयः । 'कृ विक्षेपे'तृ प्लवनतरणयोः॑ । कृ तृ इत्याभ्यां शब्दाभ्यामनुकरणे क्रियमाणेऽनुकरणभूताभ्यां ताभ्यां धातुपाठपठितौ कृ तृ इत्येतौ विवक्षितौ । अत एवानुकरणस्य अनुकार्यमर्थः । अनुकार्यं च अनुकरणाद्भिन्नमिति 'मतौ छः' इति सूत्रभाष्ये स्थितम् । आनुपूर्वीव्यत्यये ।ञपि वाचकसादृश्यादर्थोपस्थापकत्वमिति अत्र कैयटे,प्राग्दीव्यतोऽ॑णित्यत्र भाष्ये च स्पष्टमेतत् । ततश्चाऽनुकार्याभ्यां कृ तृ इत्याभ्यां अनुकरणभूतयोः कृ तृ इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः । नन्वनुकरणभूतयोरनुकार्यशब्दस्वरूपवाचकत्वात्कियावाचकत्वाऽभावेन धातुत्वाऽभावात्ऋत इद्धातो॑रिति कथमित्वम् । न चप्रकृतिवदनुकरण॑मिति वचनादनुकरणभूतयोर्धातुत्वमिति वाच्यम्, एवं सति अधातुरिति धातुप्रयुदासात्प्रातिपदिकत्वानुपपत्तेरित्यत आह — प्रकृतिवदनुकरणमितीति ।यत्तदेतेभ्यः परिमाणे धात्वनुकरणे विभक्तिनिर्देशाच्चप्रकृतिवदनुकरण॑मिति पाक्षिकम् । ततश्चात्रातिदेशभावमादाय धातुत्वात् 'ऋत इद्धातोः' इतीत्त्वम् । अतिदेशाऽभावमादाय धातुत्वाऽभावात्प्रातिपदिकत्वात्सुबुत्पत्तिश्च न विरुध्यत इति भावः ।कीरिति । कृधातुरित्यर्थः । ॠकारस्य इत्त्वे रपरत्वे 'र्वोरुपधायाः' इति दीर्घः । सोर्हल्ङ्यादिलोपः, विसर्गश्च । किराविति । अपदान्तत्वात् 'र्वोः' इति न दीर्घः । तीरिति । तृधातुरित्यर्थः । गीर्वदिति । गीर्शब्दवद्रूपाणीत्यर्थः । किरम् । किरौ किरः । किरा । कीभ्र्याम् । कीर्भिः । किरे । किरः । किरोः । कीर्षु । भ्यामादौस्वादिष्वसर्वनामस्थाने॑ इति पदत्वाद्दीर्घः । इत्वाऽभावेति ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यत्वादनुकरणस्य धातुत्वाऽभावात् 'ॠत इद्धातोः' इति इत्त्वाऽभावे सतीत्यर्थः । अनङ्गुणौ नेति । 'ऋत उ' दित्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम् । अत एव 'ग्रो यङी' त्यादिनिर्देशाः सङ्गच्छन्ते । कृरिति । रृधातुरित्यर्थः । क्रौः क्र इत्यादौ यण् । इत्यादिति । क्रः । क्रः क्रोः क्राम् । क्रि इत्यृदन्ताः ।अत लृदन्ताः । गम्लृ इति । गम्लृ गतौ॑ 'शक्लृ शक्तौ' अजन्तौ धातू । अनङिति ।ऋदुशनसित्यनेने॑ति शेषः । ऋऌवर्णयोः सावण्र्यादिति भावः । गुणविषये त्विति । ङौ सर्वनामस्थाने च ऋतो ङीति गुणोऽकारः, लपर इत्यर्थः । 'उरण्रपरः' इत्यत्र रप्रत्याहारग्रहणादिति भावः । गमृनिति । ऋत ऌवर्णस्य दीर्घाऽभावाद्दृवर्ण एव । पूर्वसवर्णदीर्घे नत्वमिति भावः । ङसिङसोस्त्विति । गम्लृ अस् इति स्थिते उत्, लपरः । गमुल् स् इति स्थितेसंयोगान्तस्य लोपः॑ । गमुल् इति रूपम् । इत्यादीति । गम्लृभ्याम् । गम्लृभिः । गम्लृभ्यः । गम्लृभ्यः । आमि तु गमृणाम् । गमलि गम्लोः गम्लृषु । वस्तुतस्तु 'उरण्रपरः' इत्यत्राऽजिति वक्तव्ये अण्ग्रहणसामर्थ्दाण्पूर्वेणैवेत्युक्तं भाष्ये । यदि ऌकारस्य यण् लकारः स्यात्तर्हि लपरत्वार्थं परेणाण्ग्रहणस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मादेवंजातीयकानां प्रयोगो न भाष्यसंमत इत्याहुः । इति लृदन्ताः । अथ एदन्ताः । इनेति । अः=विष्णुः तस्यापत्यम् इः=कामः । अत इञ् । 'यस्येति च' इत्यकारलोपः । इनासहेत्यर्थेतेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सत्वम् ।आद्गुणः॑ । से इति रूपम् । ततः सुः, रुत्वविसर्गौ । सेः । एवं स्मृतेः । स्मृतः इः=कामो येनेति विग्रहेअनेकमन्यपदार्थे॑इति बहुव्रीहिः । नच एकादेशस्य पूर्वान्तत्वात्से इत्यस्याऽव्ययत्वात् 'अव्ययादाप्सुपः' इति लुक् शङ्क्यः, अव्ययमिति महासंज्ञया लिङ्गाद्यनन्वितार्थकस्यैव अव्ययत्वात् । अजादावयादेशं मत्वाह — सयौ सय इति । 'एह्यह्रस्वात्' इति संबुद्धिलोपः । हे से । नन्वेवं सति हे हरे इत्यत्र संबुद्धिलोपो न स्यात् । संबुद्धि परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य संबुद्धिविघातकं सुलोपं प्रति संनिपातपरिभाषया निमित्तत्वाऽयोगात् । नचैवं सत्येङ्ग्रहणवैयथ्र्यं शङ्क्यं, हे से इत्यत्र चरितार्थत्वादिति चेत्, शृणु — हे हरे इत्यत्र संबुद्धिरूपस्य स्वोपजीव्यगुणविघात्यत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमाश्रित्य संबुद्धिसत्त्वात्, तेन च गुणस्य निर्बाधत्वात् । केचित्तुगुणात्संबुद्धे रित्यनुक्त्वाएङ्ह्रस्वा॑दित्युक्तेः संनिपातपरिभाषां बादित्वापि संबुद्धिलोपः प्रवर्तत इत्याहुः । नच जसि सय इति कथम् । अन्तर्वर्तिविभक्त्या 'से' इत्यस्य पदत्वेनाऽयादेशं बाधित्वाएङः पदान्ता॑दिति पूर्वरूपापत्तेरिति वाच्यम्,उत्तरपदत्वे चापदादिविधौ॑ इति प्रतिषेधात् । उत्तरपदस्य तद्धटितस्य वा पदत्वे कर्तव्येऽन्तर्बर्तिविभक्तेः प्रत्ययलक्षणं नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुकरणं वा अस्तु । तत्र जसि अयादेशस्य निर्बाधत्वात् । इत्येदन्ताः । अथ ओदन्ताः । गो स् इति स्थिते ।", "64004": "<<न तिसृचतसृ>> - तिसृ-नामिति स्थितेनामी॑ति दीर्घे प्राप्ते-न तिसृचतसृ । 'तिसृचतसृ' इति लुप्तषष्ठीकं पदम् । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते ।नामी॑ति सूत्रं चानुवर्तते । तदाह — तिसृ इत्यादिना । तिसृणामिति । ऋवर्णान्नस्ये॑ति णत्वम् । ननु 'अचि र' इति रत्वम्ऋत उदि॑त्युत्त्वस्य कथमपवादः स्यात्, उत्त्वस्य ङसिङसोरेव प्राप्तेः, त्रिचतुर्शब्दयोश्च नित्यं बहुवचनान्तत्वेन ङसिङसोरभावादिति चेन्न, 'प्रियतिरुआ' इत्यादिबहुव्रीहौ तत्सत्त्वात् । तच्चानुपदमेव वक्ष्यते । ननु प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिरिति बहुव्रीहावपि तिरुआआदेशः कुतो न स्यादित्यत आहस्त्रियामित्यादि । प्रियत्रिशब्दो हि स्त्रीलिङ्गो नतु त्रिशब्दः । स्त्रियामिति । त्रिचतुरोर्विशेषणं, नतु तदन्तयोः, प्रमाणाऽभावात् । न चाङ्गत्वात्तदन्तलाभः इति वाच्यम्, एवमपि त्रिचतुरोरेव प्रत्यक्षश्रुतत्वेन स्त्रियामित्यस्य तद्विशेषणताया एवोचितत्वादिति भावः ।ङिति ह्रस्वश्चे॑ति नदीत्वविकल्पं मत्वाह — मतिशब्दवदिति । आमि त्विति । षष्ठीबहुवचने 'त्रेस्त्रयः' इति त्रयादेशस्य आङ्गत्वेन तदन्तेऽपि प्रवृत्तेरिति भावः । एवं च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे प्रियत्रिशब्दे पुंनपुंसकलिङ्गत्रिशब्दगर्भबहुव्रीहावतिव्याप्तिः स्यादिति त्रिचतुरोरेव स्त्रियामिति विशेषणमिति स्थितम् । अथ स्त्रीलिङ्गत्रिशब्दगर्भबहुव्रीहावव्याप्तिनिरासार्थमपि स्त्रियामिति त्रिचतुरोरेव विशेषणं, न तु तदन्तयोरिति मत्वाह — प्रियस्तिरुआ इत्यादि । प्रियतिसेति । समासे सत्यन्तर्वर्तिविभक्तेर्लुका लुप्तत्बात्तिरुआआदेशनिवृत्तौ प्रियत्रिशब्दात्सुः । अत्र प्रियत्रिशब्दस्य पुंलिङ्गत्वेऽपि त्रिशब्दस्य स्त्रीलिङ्गत्वात्तिरुआआदेशः ।ऋदुशन॑सित्यनङ् ।सर्वनामस्थाने चे॑ति दीर्घः । नलोपः । स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे त्वत्राऽव्याप्तिः स्यादिति भावः ।ननु त्रिचतुरन्ताङ्गविशेषणत्वेऽपि नात्राऽव्याप्तिः, प्रियास्तिरुआओ यस्येति विग्रहवाक्ये प्रवृत्तस्य तिरुआआदेशस्य समासेऽप्यनुवृत्तिसंभवादिति चैन्मैवं, लौकिकवाक्यं हि परिनिष्ठितत्वात्समासस्य न प्रकृतिः, किन्त्वलौकिकमेव प्रक्रियावाक्यम् । ततश्च प्रिया अस् त्रिअसित्यलौकिकप्रक्रियावाक्ये समासप्रवृत्तौअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति परिभाषया तिरुआआदेशं बाधित्वं विभक्तिलुकि प्रियत्रिशब्दात्समासात्सुबुत्पत्तौ त्रिचतुरोरित्यस्यङ्गत्वात्तदन्तविधावपिनिर्दिश्यमानस्यादेशा भवन्ती॑ति परिभाषया त्रिशब्दस्य तिरुआआदेशः । स च स्तिरायमित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे सति न स्यात्, प्रियत्रिशब्दस्याङ्गस्य पुंलिङ्गत्वात् । सति चात्र तिरुआआदेशेनद्यृतश्चे॑ति कप्तु न । स हि समासान्तत्वात्समासवदलौकिकविग्रहवाक्ये प्रवृत्तिमर्हति । तदानीं च उत्तरपदस्य त्रिशब्दस्य ऋदन्तत्वाऽभावान्न कप् । अन्तर्वर्तिविभक्तेर्लुका लुप्तत्वेन प्रत्ययलक्षणाऽभावाच्च जस्निमित्तकतिरुआआदेशस्याऽभावात् । नचाऽकृते समासान्ते कपि प्रियात्रिशब्दात्सुबुत्पत्तौ तिरुआआदेशे सति कप् शङ्क्यः । अकृते कपि समासान्ते समासत्वस्यैव#आऽनिष्पत्त्या ततः सुबुत्पत्तेरसंभवादित्यास्तां तावत् । प्रियतिरुआआविति । गुणं बाधित्वा रत्वम् । प्रयतिरुआ इति । जसि पूर्वसवर्णदीर्घं बाधित्वा रत्वम् । प्रियतिरुआमिति । अमि पूर्वरूपं गुणं च बाधित्वा रत्वम् ।गुणदीर्घोत्त्वानामपवादः॑ इति पूर्वरूपास्याप्युपलक्षणम् । इत्यादीति । प्रियतिरुआऔ । प्रियतिरुआः । प्रियतिरुआआ । प्रियतिरुओ । ङसिङसोः-प्रियतिरुआ इत्येव, 'ऋत उत्' इत्युत्त्वं बाधित्वा रत्वम् । प्रियतिस्रोः । आमि त्रयादेशं बाधित्वा परत्वात्तिरुआआदेशे सति रत्वं बाधित्वानुमचिरे॑ति नुट् । प्रियतिसृणाम् । प्रियतिरुआः ।ऋतो ङी॑ति गुणाऽपवादो रत्वम् । प्रियतिस्रोः । ननु प्रियास्तिरुआओ यस्य तत्कुलं प्रियत्रीति कथम् । त्रिशब्दस्य स्त्रीलिङ्गत्वेन तिसृभावप्राप्तेरित्यत आह — स्वमोर्लुकेति ।स्वमोर्नपुंसका॑दिति स्वमोर्लुका लुप्तत्वेनन लुमते॑ति प्रत्ययलक्षणाऽभावाद्विभक्तिपरकत्वाऽभावान्न तिसृभाव इत्यर्थः । अनित्यत्वादिति ।न लुमते॑त्यस्याऽनित्यत्वम् 'इकोऽचि विभक्तौ' इत्यज्ग्रहणादिति नपुंसकाधिकारे वक्ष्यते । अजादिविभक्तौ 'नपुंसकस्य झलचः' इति नुमपेक्षया परत्वा 'दचि र ऋतः' इति रत्वमाशङ्क्याह — कत्वादिति ल्यब्लोपे पञ्चमी । पूर्वविप्रतिषेधेन रत्वं बाधित्वा नुमित्यर्थः । प्रियतिसृणी इति । रत्वं बाधित्वा नुमि णत्वम् । प्रियतिसृणीति । जश्शसोश्शिः । रत्वं बाधित्वा नुम् । शेः सर्वनामस्तानत्वान्नान्तलक्षणदीर्घः, णत्वम् ।प्रत्ययोत्तरपदयोश्चे॑ति सूत्रे प्रियतिसृणी, प्रियतिसृणीति भाष्योदाहरणात्पूर्वविप्रतिषेधमाश्रित्य नुमा रत्वबाध इति बोध्यम् । प्रियतिसृणेति । टायां पुंवत्त्वाऽभावपक्षे नुमि रूपम् । प्रिततिरुओति । पुंवत्त्वे नुमभावाद्रत्वम् । इत्यादिति । आदिना प्रियतिरुओ, प्रियतिसृणे इत्यादि बोध्यम् । द्वेरत्वे इति । द्विशब्दाद्विभक्तौ सत्यां त्यदाद्यत्वे 'अजाद्यतः' इति टाबित्यर्थः । द्वे इत्यादि । टापि सति सवर्णदीर्घे द्वाशब्दस्य रमावद्रूपाणीति भावः । इति इदन्ताः ।अथ ईदन्ताः । गौरीति गौरशब्दाद्गौरादिलक्षणङीषि 'यस्येति च' इत्यकारलोपे गौरीशब्दः । तस्मात्सुः, हल्ङ्यादिलोप इति भावः । गौर्याविति ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यणिति भावः । गौर्य इति ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यणिति भावः । नदीकार्यमिति ।अम्बार्थनद्योह्र्यस्वः॑आण्नद्याः॑ ।ह्रस्वनद्यापो नुट् 'ङेराम्नीभ्यः' इति विहितमित्यर्थः । 'यू स्त्र्याख्यौ' इति नदीत्वम् । बहुश्रेयसीवत् । एवं वाणीनद्यादय इति । 'वण शब्दे' वण्यते शब्द्यते इति वाणी ।इञ्वपादिभ्यः॑ति इञ् । 'कृदिकारादक्तिनः' इति ङीष् । 'नदट्' इति पचादौ पठिताट्टित्त्वान्ङीप् । आदिना कत्री दण्डिनीत्यादिसङ्ग्रहः ।सख्यशिआईति भाषाया॑ मिति सखिशब्दात्ङीषियस्येति चे॑तीकारलोपे सखीशब्दः ।तस्य 'अनङ् सौ' इत्यनङं 'सख्युरसम्बुद्धौ' इति णिद्वत्त्वं चाशङ्कते — प्रातिपदिकेति ।विभक्तौ लिङ्गविशिष्टाग्रहणम् । 'युवोरनाकौ' इत्यत्रङ्याप्प्रातिपदिकात् इत्यत्र च भाष्ये इयं परिभाषा पठिता । विभक्तिनिमित्तके कार्ये कर्तव्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं नास्तीत्यर्थः । तथा च अनङ् णिद्वत्त्वं च न भवतीति भावः । सखीति । ङ्यन्तत्वात्सुलोपः । सख्यैत्यादीति । गौरीवदेव रूपाणित्यर्थः ।लक्षेर्मुट् चे॑ति लक्षधातोरीप्रत्यये मुडागमे लक्ष्मीशब्दः । तस्य विशेषमाह-अङ्यन्तत्वादिति । 'कृदिकारादक्तिनः' इति ङीषि तु सुलोपो भवत्येव । शेषं गौरीवत् । स्त्रीति ।स्त्यै शब्दसंघातयोः॑ । स्त्यायतः सङ्गते भवतोऽयस्यां शुक्रशोणिते इति स्त्री । स्त्यायतेः ड्रट् । डटावितौ । ङित्त्वसामर्थ्यादभस्यापि टेर्लोपः । लोपोव्यो॑रिति यलोपः । टित्त्वान्ङीप् । हल्ङ्यादिलोप इति भावः । हे स्त्रि इति । अम्बार्थेति ह्रस्वः । स्त्री औ इति स्थितेऽधात्विकारत्वात् 'अचि श्नुधातु' इति इयङ्यप्राप्ते- ।", "64005": "", "64006": "", "64007": "<<नोपधायाः>> - पञ्चन् आम् इति स्थितेषट्चतुभ्र्यश्चे॑ति नुटि नलोपे तस्याऽसिद्धत्वात् 'नामि' इति दीर्घेऽप्राप्ते आह — नोपधायाः ।ने॑ति सुप्षष्ठीकम्, अङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते, 'नामि' इति सूत्रं च । तदाह — नान्तस्येत्यादिना । नलोप इति । नलोपस्याऽसिद्धत्वात्प्रथमं दीर्घे ततो नलोप इत्यर्थः । परमेति । परमाश्च ते पञ्च चेति विग्रहः । 'षड्भ्यो लुक्' इत्यस्यषट्चतुभ्र्यश्चे॑त्यस्य चाङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । प्रियाः पञ्च यस्येति बहुव्रीहिः । प्रियपञ्चन्शब्दो विशेष्यनिघ्नः त्रिलिङ्गः । तस्य पुंस्त्वे विशेषमाह — गौणत्वे त्विति ।षड्भ्यो लु॑गितिषट्चतुभ्र्यश्चे॑ति च बहुवचननिर्देशेन षट्चतुरर्थप्राधान्यावगमादिति भावः । प्रयिपञ्चेति । सुटि हलादौ च राजवत् । शसादावचि तु 'अल्लोपोऽनः' इत्यकारलोप नस्य श्चुत्वेन ञकारः । चकारे तु परेऽनुस्वारस्य परसवर्णे ञकारः स्थित एव । तथाच ञकारद्वयमध्ये चकारः । अष्टन्शब्दो नित्यं बहुवचनान्तः ।", "64008": "<<सर्वनामस्थाने चासम्बुद्धौ>> - न भूसुधियोः । 'इणो य' णित्यतो यणिति,ओः सुपी॑त्यतः सुपीति,इको यणची॑त्यतोऽचीति चानुवर्तते । तदाह — एतयोरित्यादिना । एतयोरिति-सूत्रोक्तभूसुधियोः परामर्शः । अचीति । अजादावित्यर्थः । यणि प्रतिषिध्दे इयङमभिप्रेत्य आह — सुधियाविति । आदिना अजादिसर्वसङ्ग्रहः । प्रधीवद्रूपाणि । इयङेव विशेषः । अचीति वस्तुस्थितिः । अनजादौ यणः प्रसक्त्यभावात् । सुपीति किम् । सुधीभिरूपास्यः सुध्युपास्यः । वस्तुतस्तु सूपीति नानुवर्तनीयम् । 'एरनेकाचः' इति यणो ह्यत्र न प्रसक्तिः, तस्य अजादिप्रत्यये विधानादुपास्यशब्दस्य च प्रत्ययत्वाऽभावात् ।इको यणची॑ति तु भवत्येव, 'अनन्तरस्य' इति न्यायेनएरनेकाचः॑,ओः सुपी॑ति च विहतयण एव प्रतिषेधात् । सुधिया उपास्यः सुध्युपास्य इत्यत्र त्वन्तर्वर्तिनीं विभक्तिमाश्रित्य 'एरनेकाचः' इति यणो 'न भूसुधियोः' इति प्रतिषेधेऽपि 'उपास्यः' इत्यचमाश्रित्यइको यणची॑ति यण् भवत्येव,अनन्तरस्ये॑ति न्यायेन तस्याऽत्र प्रतिषेधाऽभावादित्यलम् । सखीयतीति । 'सुप आत्मनः' इति सखिशब्दात्क्यचि कृतेअकृत्सार्वधातुकयो॑रिति दीर्घेसखीयती॑ति रूपम् । ततः क्विबिति । तस्मात्=सखीयशब्दात् 'सनाद्यन्ताः' इति दातुसंज्ञकात्क्विप्चे॑ति सूत्रेण क्विबित्यर्थः । अल्लोपयलोपाविति । 'अतोः लोपः' इति यकारादकारस्य लोपः,लोपो व्यो॑रिति यलोप इत्यर्थः । यलोपे कर्तव्येऽल्लोपस्तु न स्थानिवत्,न पदान्ते॑ति यलोपे स्थानिवत्त्वनिषेधात् । स्थानिवत्त्वादिति ।अचः परस्मिन्नित्यनेने॑ति शेषः । यणि प्राप्ते इति ।खकारादीकारस्यइको यणचीत्यनेने॑ति शेषः । न चान्तर्वर्तिसुपा पदान्तत्वा॑न्न पदान्ते॑ति निषेधः शङ्क्यः, 'नः क्ये' इति क्यचि नान्तस्यैव पदत्वात् । क्वौ लुप्तिमिति । 'न पदान्त' सूत्रेक्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान॑मिति वार्तिकेक्विलु॑गित्यंशस्यायमनुवादः । तत्रलु॑गिति लोपो विवक्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे क्तः । क्विप्प्रत्ययपरको लोपो न स्थानिवदित्यर्थः । ततस्च खकारादीकारस्याऽच्परकत्वाऽभावान्न यणिति भावः । यद्यपिन पदान्ते॑ति सूत्रेक्वौ लुप्तं न स्थानिव॑दिति निराकृत्य,क्वौ विधिं प्रति न स्थानिव॑दित्येव स्वीकृतं तथापि गोमत्यतेः क्विपि गोमानिति भाष्यात्क्वौ लुप्तं न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशेखरे स्थितम् । ततस्च सखायमिच्छतीत्यर्थे सखीति ईदन्तं रूपं स्थितम् । ततः सुबुत्पत्तिः । अनङ्णित्वे इति । 'अनङ् सौ' 'सख्युरसम्बुद्धौ' इत्युभाभ्या॑मिति शेषः । इदन्तसखिशब्दस्य विधीयमाने अनङ्णित्त्वे कथं सखीशब्दस्य ईदन्तस्य भवेतामित्यत आह — एकदेशेति । हे सखीरिति । अङ्यन्तत्वान्न सुलोपः । स्त्रीत्वाऽभावान्नदीत्वाऽभावान्नदीकार्यं न भवति । यणि प्राप्ते इति ।एरनेकाचः इत्यनेने॑ति शेषः । शसि यणिति । पूर्वसवर्णदीर्घापवादो यण् । कृतपूर्वसवर्णदीर्घत्वाऽभावान्नत्वं नेति भावः । सख्या । सख्ये । सख्युः । सख्योः । सख्यौ । सह खेनेति । खमाकाशं खकारो वा ।तेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सभावः । तमिच्छतीति । सखमात्मन इच्छतीत्यर्थे 'सुप आत्मनः' इति क्यच् ।क्यचि चे॑तीत्वं, 'सनाद्यन्ताः' इति धातुत्वात्क्विपि अल्लोपयलोपयोः सखीशब्दः । एवं सुखीशब्दः, सुतीशब्दश्च । सखीरिति । अङ्यन्तत्वान्न सुलोपः । सख्यावित्यादि । अजादौ 'एरनेकाचः' इति यणिति भावः । सख्यम् । सख्यः सख्या । सख्ये ।दीर्घस्यापीति । एतदर्थमेव तत्र कृतयणा निर्देश इति भावः । सख्याम् । सख्यि । सुखीसुतीशब्दयोरप्येवम् । लूनीरिति ।लूञ् छेदने॑क्तः । 'त्वादिभ्यः' इति नत्वम् । क्यचि ईत्वम् । अङ्यन्त्रत्वान्न सुलोपः । 'क्षै क्षये' क्तः ।आदेच उपदेशेऽशिती॑त्यात्त्वम् । 'क्षायोः मः' इति मत्वम् । क्यजादि पूर्ववत् । प्रस्तीमीरिति ।स्त्यै ष्टए शब्दसङ्घातयोः । क्तः । 'आदेचः' इत्यात्त्वम् ।प्रस्त्यो ।ञन्यतरस्या॑मिति मः ।स्त्यः प्रपूर्वस्ये॑ति सम्प्रसारणम् ।सम्प्रसारणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घः । क्यजादि पूर्ववत् सखी सुतीत्यादिवद्रूपाणि । ङसिङसोर्यणिति । 'एरनेकाचः' इत्यनेने॑ति शेषः ।असिद्धत्वा॑दित्यनन्तरंत्यात्परत्वा॑दिति शेषः । शुष्कीयतेरिति ।इक्शितपौ धातुनिर्देशे॑ इति श्तिपा निर्देशोऽयम् । शुषधातोः क्तः । शुष्कः । 'शुषः कः' इति कत्वम् । शुष्कमात्मन इच्छतीत्यर्थे क्यजन्ताच्छुष्कीयधातोः क्विपि शुष्कीरिति रूपमित्यर्थः । अङ्यन्तत्वान्न सुलोपः । सखी सुतीत्यादिशब्दवच्छुष्कीशब्दः । शुष्कियावित्यादि । संयोगुपूर्वत्वान्न यण्, किं तु इयङिति विशेष इतीति भावः । ङसिङसोः शुष्किय इति । न च कत्वस्याऽसिद्धत्वात्ख्यत्यात्परत्नादुत्त्वं शङ्क्यम्, #इयङादेशे सति कृतयणादेशत्वाऽभावादिति भावः । इति ईदन्ताः । शम्भुर्हरिवदिति । तत्र पूर्वसवर्णदीर्घ ऊकारः, गुणस्तु ओकारः, अवित्यादयो विशेषास्त्वान्तरतदम्यात्सङ्गता इति भावः ।क्रुश आह्वाने, रोदने चे॑ति धातोःसितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् इति तुन्प्रत्ययेव्रश्चे॑ति शस्य षकारे, ष्टुत्वेन टकारे च क्रोष्टुशब्दः । क्रुशधातो कर्तरि तृचि तु क्रोष्टृशब्दः । द्वावपि सृगालवाचिनो ।", "64009": "", "64010": "<<सान्तमहतः संयोगस्य>> - सान्त महतः ।सर्वनामस्थाने चासंबुद्धौ इति, 'नोपधाया' इति चानुवर्तते ।ने॑ति लुप्तषष्ठीकं पदम् ।ढ्रलोपे पूर्वस्ये॑त्यतो 'दीर्घ' इत्यनुवर्तते । नकारस्य उपधाया दीर्घ इति लभ्यते ।संयोगस्ये॑त्यवयवषष्ठन्तं नकारेऽन्वेति ।सान्ते॑ति षष्ठन्तं पृथक्पदम् । आर्ष षष्ठआ लुक् । सान्तस्येति लभ्यते । तच्च संयोगेऽभेदेनान्वेति-सान्तो यः संयोग इति । अत एवाऽसामर्थ्यान्महच्छब्देन तस्य न समासः । 'महत' इत्यप्यवयवषष्ठन्तम् । तच्च नकारेऽन्वेति । तदाह-सान्त-संयोगस्येत्यादिना । अजरांसीति । दीर्घे सतिनश्चपदान्तस्ये॑त्यनुस्वारः । अत्र उपधाया इति पूर्वत्वमात्रोपलक्षणं, पारिभाषिकोपधात्वस्याऽसंभवात् । अथ द्वितीयैकवचने रूपं दर्शयितुमाह — अमि लुक इति । अजर अमिति स्थितेस्वमोर्नपुंसका॑दिति सुक् प्राप्तः, तं बाधित्वा तदपवादोऽतोमित्यम्भावः प्राप्तः, तं बाधित्वाविप्रतिषेधे पर॑मिति परत्वाज्जरस् । अजरसमिति । वस्तुस्थितिकथनमेतत् । ननु लुगपवादस्याऽम्भावस्य जरसादेशेन बाधितत्वात्अपवादे निषिध्दे पुनरुत्सर्गस्य स्थिति॑रिति न्यायेनाऽमो लुक्कुतो न स्यादित्यत आह — तत इति ।ततो न लु॑गित्यन्वयः । जरसादेशानन्तरममो लुङ्न भवतीत्यर्थः । कुत इत्यत आह — संनिपातेति । अम्संनिपातमाश्रित्य प्रवृत्तस्य जरसस्तल्लुकि निमित्तत्वाऽभावादिति भावः । शेषं पुंवत् । अजरसा-अजरेण । अजरसे-अजराय । अजरसः-अजरात् । अजरसः-अजरस्य । अजरसोःअजरयोः । अजरसि-अजरे । ह्मदयोदकास्यशब्दाः सुटि ज्ञानवत् । शसादौ विशेषमाह — पद्दन्निति । ह्मन्दीति । ह्मदयशब्दाच्छसः शिभावे ह्मदादेशे 'नपुंसकस्य झलचः' इति ऋकारात् परतो नुमिनश्चपदान्तस्ये॑त्यनुस्वारे तस्य परसवर्णे नकारे रूपम् । इत्यादीति । ह्मदे । ह्मदः । ह्मदः । ह्मदोः । ह्मदाम् । ह्मदि । ह्मदोः । ह्मत्सु । ह्मदभावपक्षे ज्ञानवत् । उदकशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह — उदानीति । शसः शिभावे उदन्नादेशेसर्वनामस्थाने चे॑ति दीर्घः । 'अल्लोपोऽन' इति तु न, शेः सर्वनामस्थानत्वात् । उद्नेति । उदक-आ इति स्थिते उदन्नादेशे अल्लोपः । उदभ्यामिति । उदन्नादेशेन लोपः प्रातिपदिकान्तस्ये॑ति नलोपः,स्वादिष्वसर्वनामस्थाने॑ इति पदत्वात् । इत्यादीति । उद्गे । उद्गः । उद्गः । उद्गोः । उदनि — उद्गि । उद्गोः । उदन्नभावपक्षे ज्ञानवत् । आस्यशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह — आसानीत्यादि । उदन्नादेशवद्रूपाणि । इत्यादीति । आस्ने । आस्नः । आस्नः । आस्नोः । आस्नि-आसनि । आस्नोः । आससु । आसन्न-भावपक्षे ज्ञानवत् । मांसशब्दोऽपि सुटि ज्ञानवत् ।मांसपृतनासानूना॑मिति शसादौ 'मांस' आदेशः । अत्र नकारस्यनश्चापदान्तस्ये॑ति कृतानुस्वारस्य निर्देशः । अत एवाह — मान्भ्यामिति । मांस्ादेशे सकारस्य संयोगान्तलोपे सति निमित्ताऽपायादनुस्वारनिवृत्तौ रूपम् । संयोगान्तलोपस्याऽसिद्धत्वान्न लोपो न । अथ सुठपि ह्मदाद्यादेशं साधयितुमाह — वस्तुतस्त्विति । इत्युक्तमिति । 'ककुद्दोषणी' इति भाष्यप्रयोगात्प्रभृतिग्रहणस्य प्रकारार्थत्वमजन्तपुंलिङ्गाधिकारे स्वयमुक्तमित्यर्थः । ननु प्रभृतिग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षायां प्रथमैकवचने ह्मदिति प्रयोगोऽनुपपन्नः, सोर्लुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात्, तदनित्यत्वाश्रयणे च मानाऽभावादित्यत आह-एत एवेति । मांस्पचन्या इति । पच्यते अस्यामुखायामिति पचनी । अधिकरणे ल्युट्, अनादेशः । टित्त्वात् ङीप् । मांसस्य पचनीति षष्ठीसमासः । अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावे प्रत्ययपरत्वाऽभावात् मांसादेशो न स्यात् । अतो ह्मदाद्यादेशविधौन लुमते॑ति निषेधस्याऽनित्यत्वमाश्रीयत इत्यर्थः । ननु 'मांस्पचन्या' इत्यत्र अन्तर्वर्तिनं ङसं लुप्तमाश्रित्य मांसित्यस्यास्ति पदत्वम्,सुप्तिङ्न्त॑मिति पदसंज्ञायाः प्रकृतिप्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाऽभावेनाऽत्रन लुमते॑ति निषेधस्याऽप्रवृत्तेः । अन्यथा 'राजपुरुष' इत्यत्र कथं नलोपः । ततश्चात्र संयोगान्तलोपो दुर्वार इत्यत्र आह — भत्वात्संयोगान्तलोपो नेति । ननु यजादिस्वादिप्रत्यये परे विधीयमानाया भसंज्ञायाः केवलाङ्गधर्मत्वात्तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात्कथमिह भसंज्ञेत्यत आह — अयस्मयादित्वेनेति । मांसादेशस्याऽयस्मयादिगणपठितत्वात्अयस्मयादीनि छन्दसी॑नि भत्वमित्यर्थः । ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेपः । परिहरति — तथापीति । 'पद्दन्नो' इति सूत्रे छन्दोग्रहणानुवृत्तावपि लोकेऽपि क्वचिदित्यन्वयः । कुतो लोकेऽपि प्रयोग इत्यत आह — अपो भीत्यादीति ।अपो भी॑ति सूत्रम् । अपस्तकारः स्याद्भादौ प्रत्ययपरे इत्यर्थः । तत्रास्ति वार्तिकं — ॒मासश्छन्दसी॑ति । मासित्यस्य तकारः स्याद्भादिप्रत्यये परे छन्दसीति तदर्थः । ऋग्वेदे 'माद्भिः शरद्भिः' इत्यादिमन्त्रमुदाहरणम् । यदिपद्दन्नि॑ति छन्दोमात्रविषयं स्यात्तदा मासित्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वान्मासश्छन्दसीति सस्य तकारविधौ छन्दौग्रहणं व्यर्थं स्यात् । अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्यापद्दन्नि॑त्यस्य लोकेऽपि प्रवृत्तिमनुमत्य पदाद्यादेशाः प्रयोक्तुं योग्या इत्यर्थः । इत्यदन्ताः ।", "64011": "<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄ- प्रशास्तॄणाम्>> - अप्तृन् । 'नोपधायाः' इत्यत 'उपधाया' इत्यनुवर्तते ।सर्वनामस्थाने चासंबुद्धौ॑ इति चकारवर्जमनुवर्तते । तदाह — अबादीनामिति । अत्र अष्टाध्यायां तावत् 'तृन्' इति सूत्रेण, 'ण्वुल्तृचौ' इति सूत्रेण च कर्तरि तृन्तृचौ विहितौ । तथा उणादिषुतृन्तृचौ शंसिक्षादादिभ्यः संज्ञायां चाऽनिटौ॑ 'बहुलमन्यत्रापि' इति सूत्राभ्यां तृन्तृचो विधाय,नप्तृनेष्ट्टत्वष्ट्टहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ॑ इति सूत्रेण नप्त्रादयो निपातिताः । ततश्च संज्ञाशब्दास्तृन्तृजन्ता औणादिका इति स्थितिः । तत्र तृजन्तत्वादेव सिद्धे नप्तार्दिग्रहणं व्यर्थमित्यत आह — नप्त्रादिग्रहणमिति । नियमशरीरमाह — उणादीति । तेनेति । औणादिकेषु नप्त्रादिसप्तानामेव तृन्तृजन्तानां दीर्घ इति नियमेव तदितरेषां पितृभ्रात्रादीनां न दीर्घ इति भावः । नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यं, तस्यापि संज्ञाशब्दस्य शंसिक्षदादिगणप्रविष्टत्वेन ओणादिकत्वात् । अत्र मूले 'व्युत्पत्तिपक्षे' इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्तानां तृन्तृजन्तत्वाऽभावादप्राप्तौ नप्त्रादिग्रहणमर्थवत् । तदितरपितृमात्रादिशब्दानां तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाऽभावादेव न दीर्घ इति सूचितम् । नन्वेवं सति उद्गातृशब्दस्यापि संज्ञाशब्दस्य शंसिक्षदादित्वेन औणादिकत्वात्तस्य च नुप्त्रादिसप्तस्वनन्तर्भावात्कथं दीर्घ इत्यत आह — उद्गातृशब्दस्येति । 'ण्वुल्तृचौ' इति सूत्रस्थ भाष्ये तु 'अप्तृ' इत्येवास्तु, तृन्तृचोग्र्रहणं मास्त्विति प्रपञ्चितम् ।तृ॑न्निति भाष्ये तु तृन्विधौऋच्विक्षु चानुपसर्गस्ये॑ति वक्तव्यम् । होता । पोता । अनुपसर्गस्य किम् । प्रशास्ता । प्रतिहर्ता । औणादिकतृजन्त एवायम् ।नयतेस्तृन् वक्तव्यः षुक्च॑ । नेष्टा ।त्विषेर्देवतायां तृन् वक्तव्यः । अकारश्चोपधाया अनिट्त्वं च॑ । त्वष्टा ।क्षदेश्च युक्ते तृन् वक्तव्यः॑ । क्षत्ता । इत्येवं होतृपोतृनेष्टृत्वष्टृक्षत्तृशब्दास्तृन्नन्ता व्युत्पादिताः । तन्मते तु तेषां पञ्चानामिहग्रहणं प्रपञ्चार्थम् । नप्तृप्रशास्तृग्रहणमेवोक्तनियमार्थमित्यन्यत्र विस्तरः । क्रोष्टेति । क्रोष्टन् स् #इति स्थिते एकदेशाविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घः । हल्ङ्यादिना सुलोपः । नलोपः । यद्यपिसर्वनामस्थाने चे॑त्येवात्र दीर्घः सिध्यति तथापि परत्वादप्तृन्नित्येव दीर्घो न्याय्यः । क्रोष्टाराविति । क्रोष्टु-औ इति स्थिते तृज्वद्भावः । क्रोष्टु-आ इति स्थिते ।", "64012": "<<इन्हन्पूषार्यम्णां शौ>> - सौ विशेषमाह — इन्हन् । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते । 'नोपधायाः' इत्यत 'उपधाया' इति । तदाह — एषामिति । इन् हन् पूषन् अर्यमन्नित्यन्तानामित्यर्थः । अङ्गविशेषणत्वेन तदन्तविधिः ।सर्वनामस्थाने चे॑ति सिद्धे नियमार्थमित्याह — शावेवेति । नान्यत्रेति । शेरन्यत्रेत्यर्थः । इति निषेधे प्राप्त इति । वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात्सौ परतः 'सर्वनामस्थाने' इति दीर्घेऽप्राप्ते सतीत्यर्थः ।", "64013": "<<सौ च>> - सौ च । पूर्वसूत्रमनुवर्तते । तत्र यदनुवृत्तं तच्च । तदाह — इन्नादीनामिति । असम्बुद्धाविति ।सर्वनामस्थाने चे॑त्यतस्तदनुवृत्तेरिति भावः ।इन्हन्पूषे॑त्यस्यायमपवादः । हे वृत्रहन्निति ।असम्बुदधा॑वित्यनुवृत्तेर्न दीर्घः । भिन्नपदत्वादाह — एकाजिति । वृत्रहणावित्यादि । शावेवेति नियमान्न दीर्घः । शसादावचि अल्लोपे कृते- ।", "64014": "<<अत्वसन्तस्य चाधातोः>> - धीमत् स् इति स्थिते — आत्वसन्तस्य । 'अतु' इति लुप्तषष्ठीकं पृथक्पदम् । अङ्गविशेषणत्वात्तदन्तविधिः । अधातोरित्यसन्तविशेषणम् । 'नोपधाया' इत्यत उपधाया इत्यनुवर्तते । अत्वन्तस्य धातुभिन्नाऽसन्तस्य च उपधाया इति लभ्यते ।सर्वनामस्थाने चासंबुद्धौ॑ इत्यतोऽसंबुद्धावितिसौ चे॑त्यतः साविति 'ढ्रलोपे' इत्यतो 'दीर्घ' इति चानुवर्तते । तदाह — अत्वन्तस्येत्यादिना । ननु कृते अकृते च दीर्घे प्रवृत्त्यर्हस्य नुमो नित्यत्वात्परत्वाच्च मकाराऽकारान्नुमि कृते अत्वन्तत्वाऽभावात्कथमिह दीर्घ इत्यत आह — परमिति । वचनसामर्थ्यादिति । अन्यथा निरवकाशत्वापत्तिरिति भावः । ततो नुमिति । दीर्घे कृते नुमित्यर्थः ।विप्रतिषेधे यद्बाधितं तद्बाधित॑मिति त्वनित्यम्,पुनः प्रसङ्गविज्ञानात्सिद्ध॑मित्युक्तेरिति भावः ।धीमानिति । दीर्घे नुमि हल्ङ्यादिलोपे संयोगान्तलोपे रूपमिति भावः । हे धीमन्निति ।असंबुद्धौ॑इत्युक्तेर्नं दीर्घ इति भावः । महद्वदिति । असर्वनामस्थानतया शसादौ नुमभावादिति भावः ।अत्वसो॑रिति वक्तव्येऽन्तग्रहणन्तु अत्वन्तमात्रग्रहणार्थम् । अन्यथोपदेशे ये अत्वन्तास्त एव गृह्रेरन्न तु मतुबादयः । नह्रेते उपदेशेऽत्वन्ता इत्याहुः । नन्वधातोरित्येतदसन्तस्येव अत्वन्तस्यापि विशेषणं कुतो नेत्यत आह — धातोरपीति । अत्वन्तस्य धातुत्वेऽपि दीर्घार्थम् । अधातोरित्येतस्य अत्वन्तविशेषणत्वं नाश्रितमित्यर्थः । ननु धातुपाठेऽत्वन्तधातुरप्रसिद्ध इत्यत आह — गोमन्तमिति ।आचरति वे॑त्यनन्तरम् 'इत्यर्थे' इति शेषः । गोमन्तमिच्छतीत्यर्थे 'सुप आत्मनः क्य' मिति क्यचि 'नः क्ये' इति नियमात्पदत्वाऽभावाज्जश्त्वाऽभावे गोमत्यशब्दात् 'सनाद्यन्ताः' इति धातुत्वात्कर्तरि क्विपि 'यस्य हलः' 'अतो लोपः' इति यलोपाऽलोपयोर्गोमच्छब्दात्सुबुत्पत्तिः । गोमानिवाचरतीत्यर्थे तुसर्वाप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः॑ इति क्विपि 'सनाद्यन्ताः' इति धातुत्वात्कथमस्यउगिदचा॑मिति नुमागमः, अधातोरेव उगितो नुम्विधानादित्याशङ्क्य आह — उगिदचाम#इति सूत्रे इति ।उगितः सर्वनामस्थाने॑ इत्येतावदेव सूत्रमस्तु, अञ्चतेरुगित्त्वादेव सिद्धेः । तोऽज्ग्रहणमतिरिच्यमानं नियमार्थमित्यर्थः । नियमशरीरमाह — धातोश्चेदिति । धातोश्चेदुगितः कार्यं स्यात्तर्हि अञ्चतेरेव नतु धात्वन्तरस्येति नियमार्थ॑मिति पूर्वेणान्वयः । नियमस्य फलमाह — तेनेति ।रुआन्सु ध्वन्सु गतौ॑ इत्युगितौ धातू । ताभ्यां क्विपिअनिदितां हल उपधायाः॑ इति नलोपे सुबुत्पत्तौ सोर्हल्ङ्यादिलोपेवसुरुआंसुध्वंस्वनडुहां दः॑ इति दत्वे रुआत् ध्वत् इति रूपमिष्टम् ।उगितः सर्वनामस्थाने॑ इत्युक्ते त्वत्रापि नुम् स्यात् । कृते त्वज्ग्रहणे उक्तनियमलाभादत्र नुम् न भवतीत्यर्थः । तह्र्रेतावतैव सिद्धेऽधातोरिति किमर्थमित्यत आह — अधातोरिति त्विति । अधातुः पूर्वं भूतः अधातुभूतपूर्वः । पूर्वमधातुभूतस्यापि नुमर्थमधातोरित्येतदित्यर्थः । ततस्चउगिदचां सर्वनामस्थाने॑ इत्येकं वाक्यम् । तत्र अधातोरित्यभावेऽपि अज्ग्रहणादधातोरुगित इति लाभादधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यादित्यर्थः ।अधातो॑रित्यपरं वाक्यम् । उक्तोनुमागमोऽधातुभूतपूर्वस्यापि भवतीत्यर्थः । प्रकृते च क्यजाचारक्विबुत्पत्त्यनन्तरं धातुत्वे सत्यपि क्यजाद्युत्पत्तेः पूर्वमदातुत्वसत्त्वान्नुम्निर्बाध इत्यर्थः । एतत्सर्वम्उगिदचा॑मिति सूत्रे भाष्ये स्पष्टम् । अत्र क्यच्पक्षे दीर्घे नुमि च कर्तव्येऽल्लोपो न स्थानिवत्, दीर्घविधौ तन्निषेधात्,क्वौ लुप्तं न स्थानिव॑दित्युक्तेश्च । अथ भवच्छब्दे विशेषमाह — भातेर्डवतुरिति । उणादिसूत्रमेतत् । भाधातोर्डवतुः स्यादित्यर्थः । डकार इत् । उकार उच्चारणार्थः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । 'भवत्' इति रूपम् । भवानिति । भवच्छब्दात्सुः ।अत्वसन्तस्ये॑त दीर्घः ।उगिदचा॑मिति नुम्, हल्ङ्यादिलोपः, संयोगान्तलोपश्चेति भावः । शत्रन्तस्य त्विति । 'लटः शतृशानचौ' इति भूधातोर्लटः शत्रादेशः । शकार इत्, ऋकार इत्, शप्, गुणः, अवादेशः , पररूपम्, भवत् इति रूपम् । तस्य तु अत्वन्तत्वाऽभावादत्वसन्तस्येति दीर्घो न भवति । तत्र उकारानुबन्धग्रहणादित्यर्थः । भवन्निति । सौ नुमि हल्ङ्यादिलोपे संयोगान्तलोपः । भवन्तावित्यादि तु पूर्ववदेवेति भावः । दाञ्धातोर्लटः शत्रादेशे शप् ।जुहोत्यादिभ्यः श्लुः॑ 'श्लौ' इति द्वित्वम्, अभ्यासह्रस्वः, 'श्नाभ्यस्तयोरातः' इत्याल्लोपः । दददिति रूपम् । ततः सुबुत्पत्तिः ।", "64015": "<<अनुनासिकस्य क्विझलोः क्ङिति>> - अनुनासिकस्य । अङ्स्येत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः ।नोपधायाःट इत्यत उपधाया इति, 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादिना । इदामतीति ।हलन्तेभ्य आचारक्विप् नास्ती॑ति 'ह्रस्वनद्यापः' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति । पथिन्शब्दात्क्विपिअनुनासिकस्ये॑ति इकारस्य दीर्घः । इदं तु माधवानुरोधेन । क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम्,इन्ह॑न्निति नियमेन दीर्घाऽप्राप्तेः । न च नियमस्य अन्तरङ्गत्वात्अनुनासिकस्येटत्युपधादीर्घापत्तेरित्याहुः । देवतीतीति । दिव्शब्दादाचारक्विबन्ताच्छपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वात्दिव उ॑दित्युत्त्वं नेति भावः । अत्र ऊठीति । दिव्शब्दात् क्विपिच्छ्वो॑रिति वकारस्य ऊठि कृते लघूपधगुणं बाधित्व परत्वादिकारस्य यणि द्यूशब्दाच्छपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः । चकाविति । कशब्दात्क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे 'आत औ णलः' इत्यौत्त्वे वृद्धिरेकादेश इति भावः । माधवस्त्विति । चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृदिंध बादित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक अ इति रूपमित्यर्थः । नचैवं सति अ इवाचरति अति, औ, अतुरित्यत्रापि लिटिअत आदे॑रिति दीर्घं बाधित्वा अतो लोपः स्यादिति वच्यं,ण्यल्लोपा॑विति पूर्वविप्रतिषेधलभ्योऽतो लोपः संनिहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, ननुअत आदे॑रिति दीर्घमपि,अनन्तरस्ये॑ति न्यायादिति माधवाशय इत्याहुः । तदनाकरमेवेति । अनेकाच्त्वाऽभावादिति भावः । वस्तुतस्तुप्रत्ययग्रहणमपनीये॑त्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् ।", "64016": "<<अज्झनगमां सनि>> - अज्झनगमां सनि । अच्, हन्, गम् — एषां द्वन्द्वः । 'नोपधायाः' इत्यत उपधाया इत्यनुवृत्तं हनगमोरन्वेति, न त्वजन्ते, असंभवात् । अङ्गस्येत्यधिकृतम् । अचस्तद्विशेषणत्वात्तदन्तविधिः । गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् ।ढ्रलोपे पूर्वस्ये॑त्यतो दीर्घ इत्यनुवर्तते । तदाह — अजन्तानामित्यादिना । झलादौ सनीति ।च्छ्वोः शू॑डिति सूत्रभाष्येअज्झनगमा॑मित्यत्र सनं झला विशेषयिष्याम् इत्युक्तेरिति भावः । अथ जिधातोरभ्यासात्परस्य कुत्वविधिं स्मारयति — सन्लिटोर्जेरिति । जिगीषतीति । जिगीषतीति । जेर्दीर्घे अभ्यासात्परस्य कुत्वम् । अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति — विभाषा चेरिति । चिकीषति- चिचीषतीति । अजन्तत्वाद्दीर्घः । जिघांसतीति । हनेः सनिअज्झने॑त्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य, दीर्घश्रुत्याअचट इत्युपस्थितेः । द्वित्वम् ।अभ्यासाच्चे॑ति कुत्वम् ।नश्चे॑त्यनुस्वारः ।", "64017": "<<तनोतेर्विभाषा>> - तनोतेर्विभाषा । उपधाया दीर्घ इति । 'नोपधायायाः' इत्यतो 'ढ्रलोपे' इत्यतश्च तदनुवृत्तेरिति भावः । झलादौ सनीति ।अज्झने॑त्यतस्तदनुवर्तते । तत्र झलादाविति भाष्ये स्थितमिति भावः । आशङ्कायामिति । आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः । आआ मुमूर्षतीति । शङ्कितमरणो भवतीत्यर्थः । कूलं पिपतिषतीति । शङ्कितपतनं भवतीत्यर्थः ।तनिपती॑ति इट्पक्षे रूपम् । पतेःसनि इडभावपक्षे त्वाह —", "64018": "", "64019": "<<च्छ्वोः शूडनुनासिके च>> - च्छ्वोः शूडनुनासिके च । च्छ् व् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम् । छकारात्प्राक्तुकः श्चुत्वेन चकारस्य निर्देशः । 'शूठ' इति छेदः । श् ऊठ् अनयोः समाहारद्वन्द्वात्प्रथमा । चकारेण क्विझलोः क्ङितीत्यनुवर्तते । तदाह — सतुक्कस्येत्यादि । यथा विश्नः प्रश्नः । विच्छधातोः प्रच्छधातोश्च औणादिके नङ्प्रत्यये अन्तरङ्गत्वात्छे चे॑ति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः । वकारस्य ऊठमुदाहरति — खौनातीति । खव् ना तीति स्थिते वकारस्य ऊठ, ठकार इत् 'एत्येधत्यूठ्सु' इति वृद्धिरिति भावः । खौनीतः खौनन्तीत्यादि । खव् ना हि इति स्थितेहलः श्नश्शानज्झौ॑इतिशानजादेशमाशङ्क्याअह — शानचः परत्वादिति । हेठ चेति । हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः । ग्रह उपादाने इति । अदुपधः । स्वरितेत्त्वादुभयपदी । किति ङिति च संप्रसारणं स्मारयति — ग्रहिज्येति । गृह्णाति गृह्णीते इति । श्नाप्रत्ययस्य ङित्त्वाद्रेफस्य संप्रसारणे पूर्वरूपमिति भावः । णलि द्वित्वे कृतेलिटभ्यासस्ये॑ति संप्रसारणे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासचुत्वे उपधावृद्धिः । जग्राह.अतुसादौ क्ङति परत्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वित्वादि । जगृहतुः जगृहुः । जग्रहिथ । जगृहुथुः जगृह । जग्राह-जग्रह जगृहिव जगृहिम । जगृहे जगृहाते जगृहिरे । जगृहिषे जगृहाथे जगृहिढ्वे-जगृहिध्वे । जगृहे जगृहिवहे जगृहिमहे ।", "64020": "", "64021": "", "64022": "<<असिद्धवदत्राभात्>> - तथा च प्रकृतेऽभ्यासस्य बकारे सति बभूव् अ इति स्थितेअचि श्नुधात्वि॑त्युवङादेशमाशङ्कितुमाह — असिद्धवदत्रा । षष्ठस्य चतुर्थपादे इदं सूत्रं 'श्नान्नलोप' इति सूत्रात्पूर्वं पठितम् । आ भादित्यभिविधावाङ् । भस्येत्यधिकारमभिव्याप्येत्यर्थः । भाधिकारश्च आ पादपरिसमाप्तेरिति सिद्धान्तः । तथा च आ पादपरिसमाप्तेरिति लभ्यते ।विहितं कार्य॑मिति शेषः । किमारभ्येत्याकाङ्क्षायामुपस्थित्वादस्मादेव सूत्रादूध्र्वमिति लभ्यते । ततश्चा 'श्नान्नलोप' इत्यारभ्या पादसमाप्तेर्विहितं यदाभीयं कार्यं तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्तवद्भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र 'श्नान्नलोप' इत्यादौ प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्येऽसिद्धमिति लभ्यते । एवं च 'श्नान्नलोप' इत्यादि तत्तदाभीयं कार्यं 'श्नान्नलोप' इत्याद्याभीये कार्ये कर्तव्येऽसिद्धवदित्यर्थः पर्यवस्यति । अत्रेत्यनेन निमित्तसप्तम्यन्तेन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात्समानाश्रये कार्ये कर्तव्ये सती॑ति लभ्यते । एतत्सर्वं भाष्ये स्थितम् । तदाह — इत ऊध्र्वमित्यादिना । तस्मिन्निति । आभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहरणम् । अत्रध्वसोरेद्धावभ्यासलोपश्चे॑त्यस्तेरेत्वस्यशाहा॑विति शास्तेः शाभावस्य चाभीयत्वेनाऽसिद्धत्वात्हुझल्भ्यो हेर्धि॑रिति हेर्धित्वमाभीयं प्रवर्तते । तथाजङ्घही॑त्याद्यप्युदाहरणम् । हन धातोर्यङ्लुगन्ताल्लोण्मध्यमपुरषैकवचने सिपो हिभावेअनुदात्तोपदेशे॑ति नलोपस्याभीयस्यासिद्धत्वादतो हेरित्याभीयोलुङ् न भवति । समानाश्रय इति किम् । 'पपुष' इत्यत्र पाधातोर्लिटः क्वसौलिटि धातो॑रिति द्वित्वेऽभ्यासह्रस्वे क्वस्वन्ताद्द्वितीयाबहुवचने सि वसोः संप्रसारणमाभीयम् ।आतो लोप इटि चे॑त्याल्लोपे आभीये कर्तव्ये असिद्धं न भञ्जेश्चिणि, रञ्जेर्घञि च कृते,भञ्जेश्च चिणि॑,घञि च भावकरणयो॑रिति नलोपस्याभीयस्याऽनाभीयायामुपधावृद्धौ कर्तव्यायां नाऽसिद्धत्वात् । आभादित्यभिविधिः किम् । भाधिकारात् प्रागित्युक्ते भूयानित्यत्रबहोर्लोपो भूच बहो॑रिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वं न स्यात्, भस्येति सूत्रादूध्र्वभावित्यादित्यलम् । इति वुकोऽसिद्धत्वादिति । वुक आभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्येऽसिद्धतया ऊकारस्योवङि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः । वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः । वुग्युटावुवडणोरिति । यथासङ्ख्यमन्वयः । बभूवेति । णलो णित्त्वं तु जगादेत्यादौ वृद्ध्यर्थम् । बभूवतुरिति । तसोऽतुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवुरिति । जेरुसादेशे वुगादि पूर्ववत् ।", "64023": "<<श्नान्नलोपः>> - श्नान्नलोपः । श्नसोरल्लोप इति । तताच इन्ध् ते इति स्थितेझषस्तथो॑रिति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्टितमाह - इन्द्धे इति । यद्यपिअनिदिता॑मित्येवात्र नलोपः सिध्यति, तथापि अनक्तीत्याद्यर्थं सूत्रमिहापि न्याय्त्वादुपन्यस्तमिति बोध्यम् । इन्धते । इन्द्ध्वे । इन्द्धाम् । इन्तस्व.इन्द्ध्वम् । इनधै इति । श्नमि उत्तमस्य इट एत्वे आटि वृद्धौ इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन ङित्त्वाऽबावात् 'श्नसोरल्लोपः' इत्यभावे रुपमिति भावः । अत्र नलोपार्थमपि श्नान् लोप इत्यावश्यकम्, आटः पित्त्वेन ङित्त्वाऽभावात्अनिदिता॑मित्यस्याऽप्रवृत्तेः । इनधावहै । लह्राह - ऐन्द्धेति । ऐन्द्धा इति ।झषस्तथो॑रिति थस्य धः । इन्धीत । लुहि - ऐन्धिष्ट । शिष्लृ ।अनिट् । शिशेषिथेति । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट् । शिनष् हीति स्थिते अल्लोपे शिन्ष् हि इति स्थिते आह — हेर्धिरित । शिन् ष् धीति स्थिते आह — जश्त्वमिति ।झलां जश् झशी॑ति षस्यड इति भावः । ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं, क्रमस्तु न विवक्षितः । झर इति । जश्त्वसंपन्नस्य डस्य लोपविकल्प इत्यर्थः । अनुस्वारपरसवर्णाविति । नकारस्यनश्चे॑त्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः ।न पदान्ते॑ति निषेधान्नाऽल्लोपः स्थानिवत् । ढस्य लोपपक्षे उदाहरति — शिण्ढीति । ढस्य लोपाऽभावे उदाहरति - शिण्ड्ढीति । वस्तुतस्तु सानुस्वार एव पाठ उचितः,दीर्घादाचार्याणा॑मित्युत्तरम्अनुस्वारस्य ययि परसवर्णः॑ 'वा पदान्तस्य' 'तोर्लि'उदः स्थास्तम्भोः पूर्वस्य॑ 'झयो होऽन्यतरस्यां'शश्छोऽरटी॑ति षट्सूत्रपाठोत्तरं 'झलां जश् झशि' 'अभ्यासे चर्च' 'खरि च' 'वाऽवसाने'अणोऽप्रगृह्रस्यानुनासिकः॑ इति पञ्चसूत्रीपाठ इति भाष्यसंमताऽष्टाध्यायीपाठे परसवर्णदृष्टआझलां जश् झशी॑त्यस्यझरो झरी॑त्यस्य चाऽसिद्धत्वेन यय्परत्वाऽभावे परसवर्णाऽप्राप्तेरिति शब्देन्दुशेखरे स्थितम् ।शिंष्टात् । शिंष्टम् शिंष्ट । शिनषाणीति । आटः पित्त्वेन ङित्तवाऽभावात्श्नसो॑रित्यल्लोप नेति भावः । अशिनडिति । लङस्तिपो हल्ङ्यादिलोपे षस्य जश्त्वमिति बावः । अशिंष्टाम् । अशिंषन् । अशिनट् । अशिष्टम् । अशिंष्ट । अशिनषमशिंष्व अशिंष्म । भञ्जो । भनक्तीति । श्नमि भ न न् ज् तीति स्थिते 'श्नान्न लोपः' इति नलोप इति भावः । भङ्क्तः भञ्जन्तीत्याद्यूह्रम् । भारद्वाजनियमात्थलि वेडिति मत्वाह — वबञ्जिथ बङङ्क्थेति । भङ्क्तेति । अनिडिति भावः । भुज पालनेति । 'भुजोऽनवने' इति तङ् वक्ष्यते । भुङ्क्ते भुञ्जाते इत्यादि.तृह हिसि.आद्य ऋदुपधः । सेट् । श्नमि कृते तृणह् तीति स्थिते —", "64024": "<<अनिदितां हल उपधायाः क्ङिति>> - प्र-अन्च् इति स्थिते — अनिदिताम् ।अङ्गस्ये॑त्यधिकृतं बहुवचनेन विपरिणम्यते । हल इति तद्विशेषणम् । तदन्तविधिः ।अनिदिता॑मित्यपि तद्विशेषणम् । इत्=ह्रस्व इकारः, इत्ित्संक्षको येषां तानि इदिन्ति, न इदिन्ति, अनिदिन्ति, तेषामिति विग्रहः । अवयवषष्ठन्तमेततदुपधाया इत्यत्रान्वेति । 'उपधाया' इत्यप्यवयवषष्ठन्तम् । तश्च 'श्नान्न लोपः' इत्यतो नेत्यनुवृत्ते लुप्तषष्ठीके अन्वेति । क् च ङ् च क्ङौ, तौ इतौ यस्येति विग्रहः । तदाह — हलन्तानामित्यादिना । इति चकारात्पूर्वस्य नकारस्य लोपः । प्र अच् प्राच् इति स्थितम् । तस्मात्सुबुत्पत्तिः । सुटि विशेषमाह — उगिदचामिति नुमिति । सौ विशेषमाह — संयोगान्तस्य लोप इति ।हल्ङ्यादिना सुलोपे सती॑ति शेषः । कुत्वेन ङकार इति । नासिकास्थानसाम्यादिति भावः । अनुस्वारपरसवर्णाविति । प्राच् औ इति स्थिते-अचः । अच इत्यन्चुधातोःअनिदिता॑मिति लुप्तनकारस्यानुस्वार ।अनुस्वारस्य यी॑ति तस्य परसवर्णो ञकारः । नस्य श्चुत्वं तु न भवति, अनुस्वारं प्रति तस्याऽसिद्धत्वादित्यर्थः ।", "64025": "<<दन्शसञ्जस्वञ्जां शपि>> - दंशसञ्ज । रञ्जेश्च । व्याख्यासौकर्याय सूत्रद्वयमुपात्तम् । नलोप इति । नकारस्य लोप इत्यर्थः, 'श्नान्नलोपः' इत्यतस्तदनुवृत्तेरिति । परिष्वजते इति । 'परिनिविभ्यः' इति षत्वमिति भावः । संयोगात्परत्वाल्लिटः कित्त्वेऽप्राप्ते आह — श्रन्थीति । व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्रमित्याह — दभतुरिति । 'अत एकहल्मध्ये' इति सूत्रभाष्येदेभतु॑रित्युदाहृतम् ।सदेः परस्य लिटी॑ति सूत्रभाष्येसस्वजे॑इत्युदाहृतम् । ततश्च एकदेशानुमत्याश्रन्थिग्रन्थी॑त्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थं भाष्यानुमतमिति विज्ञायत इत्यर्थः । सदेरिति ।सदेः परस्य लिटी॑ति षत्वनिषेधसूत्रे स्वञ्जेरपि ग्रहणमित्यर्थः । ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वं न स्यादिति लब्धम् । तदाह — अतोऽभ्यासात्परस्येति । परिषस्वजे परिषस्वञ्जे इति ।परस्ये॑त्युक्तेरुत्तरखण्डस्यैव षत्वनिषेधो न त्वभ्यासस्य । कित्त्वपक्षे नलोपः । सस्वञ्जाते । सस्वजाते । सस्वजिरे । क्रादिनियमादिडित्याह — सस्वजिषे सस्वञ्जिषे इति । सस्वञ्जाथे — सस्वजाथे । सस्वञ्जिध्वे — सस्वजिध्वे । सस्वञ्जे — सस्वजे ।सस्वञ्जिवहे — सस्वजिवहे । सस्वञ्जिमहे — सस्वजिमहे । स्वङ्क्तेति । स्वञ्ज् — ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसंपन्नञकारस्य निवृत्तौ नकारस्याऽनुस्वारे तस्य परसवर्णेन ङकारे गकारस्य चर्त्वे रूपम् । एवमग्रेऽपि । स्वजेतेति ।दंशसञ्जे॑ति शपि नलोप इति भावः । ननुप्रत्यष्वह्क्ते॑त्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाऽभावात् कथम्उपसर्गात्सुनोती॑ति षत्वमित्यत आह — प्राक् सितादिति.परिनिविभ्यस्त्विति ।परस्य स्वञ्जे॑रिति शेषः । ननु परिनिविभ्यः परस्यापि स्वञ्जेःपरिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जा॑मिति नित्यमेव षत्वमुचितं,प्राक्सिता॑दिति सूत्रविषयत्वादित्यत आह — तदर्थमेवेत्यादि । परिनिवीति । नित्यषत्वविधौ स्वञ्जिरप्युपात्तः । ततःउपसर्गात्सुनोती॑त्येव तस्य षत्वे सिद्धे पुनरुपादानंसिवादीनां वाऽड्व्यवायेऽपी॑त्युत्तरसूत्रे षत्वविधौ अनुवृत्त्यर्थमेव संपद्यते । परिनिविभ्यः परस्य स्वञ्जेःसिवादीनां वे॑ति षत्वविकल्पार्थं पूर्वसूत्रेपरिनिविभ्यः सेवे॑त्यत्र स्वञ्जिग्रहणमिति पर्यवस्यतीत्यर्थः । हद । अनिडयम् । क्रादिनियमादिट् — जहदिषे । जहदिध्वे । जहदिवहे जहदिमहे । हत्तेति । लुटि तासि दस्य चर्त्वम् । अहत्तेति ।झलो झली॑ति सिज्लोपः । गुपादयोऽष्टानुदात्तेतो गताः । अथ परस्मैपदिन इति । 'कित निवासे' इत्यन्ता॑ इति शेषः । ञि ष्विदेति । ञिराकारश्च इत् । सेट् ।स्वेदति । सिष्वेद स्विष्विदतुः । स्वेदेत् । स्विद्यात् । अस्वेदीत् । अस्वेदिष्यत् । स्कन्दिरिरित् । अनिट् । भारद्वाजनियमात्थलि वेडित्याह — चस्कन्दिथ चस्कन्त्थेति । अनिट्पक्षे चस्कन्द् थ इति स्थितेखरि चे॑ति दकारस्य तकारः । चस्कन्दिव चस्कन्दिम । स्कन्त्तेति । लुटि तासि चर्त्वेन दस्य तः । स्कन्त्स्यतीति । स्ये दस्य चर्त्वम् । स्कदन्तु । अस्कन्दत् । स्कन्देत् । आशीर्लिङि विशेषमाह — नलोप इति । इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः । अस्कददिति । लुङि अङि सति ङित्त्वान्नलोप इति भावः । अङभावे आह — अस्कान्त्सीदिति । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षूधातौ । अतोऽत्र वृद्धौ दस्य चर्त्वेन त । अस्कान्त्तामिति । हलन्तलक्षणवृद्धौझलो झली॑ति सिज्लोपे दस्य चर्त्वम् । अस्कान्त्सुरिति । उसि सिचि वृद्धौ दस्य चर्त्वम् । अस्कान्त्सीः अस्कान्त्तमस्कान्त्त । अस्कान्त्समस्कान्त्स्व । अस्कान्त्स्म ।", "64026": "", "64027": "", "64028": "", "64029": "", "64030": "<<नाञ्चेः पूजायाम्>> - पूजार्थादञ्चुधातोः क्विनिअनिदिता॑मिति नलोपे प्राप्ते — नाऽञ्चेः ।अनिदिता॑मिति सूत्रात् 'उपधायाः'क्ङिती॑त्यनुवर्तते । 'श्नान्न लोपः' इत्यतो 'नलोप' इत्यनुवर्तते ।ने॑ति लुप्तषष्ठीकम् । तदाह — पूजार्थस्येत्यादिना । पूजाया गम्यत्वे सतीत्यर्थः, न त्वत्राञ्चुधातोः पूजार्थत्वमेवेह विवक्षितम् । अत एवअञ्चितं गच्छती॑त्यत्र नलोपो न । अञ्चतेरत्र समाधानमर्थः । समाहितो भूत्वा गच्छतीति गम्यते । समाधानं च अव्याकुलत्वम्, अव्याकुलं गच्छतीत्यर्थः । अव्याकुलगमने च पूजा गम्यते, नत्वञ्चतेरेव सोऽर्थ इति 'अञ्चोनपादाने' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । प्राङिति । प्रपूर्वादञ्चतेः क्विन् । प्रकर्षेण पूजनमञ्चेरर्थः । नलोपाऽभावे प्राञ्च इत्यतः सुबुत्पत्तिः । हल्ङ्यादिलोपः, संयोगान्तलोपः, ततोऽनुस्वारपरसवर्णनिवृत्तौ नकारस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वेन ङकार इति भावः । प्राञ्चाविति । स्वाभाविकनकारस्य अनुस्वारपरसवर्णाविति भावः । अलुप्तेति ।उगिदचा॑मित्यत्र नलोपिनोऽञ्चेतेरेव ग्रहणान्नुम्न । ततश्च नकारद्वयश्रवणं न शङ्क्यमिति भावः । नलोपाऽभावादिति । शसादावचि 'अचः' इति लोपो न भवति । सुप्तनकारस्यैवाऽञ्चतेस्तत्र ग्रहणादिति भावः । प्राञ्चेति । प्र अञ्च् अस् इति स्थिते सवर्णदीर्घे रूपमिति भावः ।नाञ्चेः पूजाया॑मित्यनारम्भे सुटि नुमैव रूपसिद्धावपि शसादावचि नकारश्रवणं न स्यात्,अनिदिता॑मिति लोपप्रसङ्गात् । असर्वनामस्थानतयाउगिदचा॑मिति नुमश्चाऽप्रसक्तेरिति बोध्यम् । प्राङ्भ्यामिति । 'स्वादिषु' इति पदत्वाच्चकारस्य संयोगान्तलोपेऽनुस्वारपरसवर्णनिवृत्तौ नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकार इति भावः । इत्यादीति । प्राङ्भिः । प्राञ्चे, प्राङ्भ्याम्, प्राङ्भ्यः । प्राञ्चः, प्राञ्चोः, प्राञ्चाम् । प्राञ्चि, प्राञ्चोः । प्राङ्ख्ष्विति । 'ङ्णोः कुक्टुक्' इति वा कुक् । 'चयो द्वितीयाः' इति पक्षे खश्च बोध्यः । एवमिति । सुटि पूर्ववदेव रूपाणि । शसादावचि-प्रत्ययः । प्रत्यञ्चा । प्रत्यङ्भ्याम् । अमुमुयञ्चः । अमुमुयङ्भ्याम् । उदञ्चः । उदङ्भ्यामित्यादि ज्ञेयम् । क्रुञ्च कौटिल्येति । नलोपाभावोऽपीति ।अनिदिता॑मिति नलोपाऽभावः, निरुपपदात्क्विन्नपि निपात्यत इत्यर्थः । सति तु नलोपे नकारो न श्रूयेत ।उगिदचा॑मिति नुमः सर्वनामस्थानेऽप्यप्रवृत्तेः । वस्तुतस्तु स्वाभाविकञोपधस्यैव धातुपाठे निर्द#एशान्नलोपस्याऽत्र प्रसक्तिरेव नास्ति । अत एव 'परेश्च घाङ्कयोः' इति सूत्रे भाष्येक्रुञ्चे॑त्यत्र चकारे परे 'चो कुः' इति कुत्वमाशङ्क्य ऋत्विगित्यादि सूत्रे क्रुञ्चेति निपातनात्कुत्वं नेत्युक्तं सङ्गच्छते । यदि तु नस्यानुस्वारपरसवर्णाभ्यां ञकारो निर्दिश्येत, तर्हि तस्य 'चो कुः' इति कुत्वप्रसक्तिरेव नास्तीति तदसङ्गतिः स्यात्, कुत्वे कर्तव्ये परसवर्णस्याऽसिद्धत्वादित्यास्तां तावत् । नोपधत्वमभ्युपेत्य आह — क्रुङिति । हल्ङ्यादिलोपे संयोगान्तलोपे नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वम् । क्रुङ्भ्यामिति । संयोगान्तलोपे नकारस्य कुत्वं ङकारः । अत्र प्रथमैकवचने भ्यामादावपि कुत्वं निपातनादेव न भवति, चवर्गपञ्चमञकार एव सर्वत्रेति 'परेश्च घाङ्कयोः' इति सूत्रभाष्यकैयटस्वरसः । पयोमुगिति ।मुच्लृ मोक्षणे॑क्विप् । सुपूर्वात् 'ओ व्रस्चू छेदने' इति धातोः क्विपिग्राहिज्ये॑ति सम्प्रसारणे सुवृश्च्शब्दः । तस्य विशेषमाह-षत्वमिति । हल्ङ्यादिना सुलोपे कृते चकारस्य षत्वमित्यर्थः । सलोप इति । धातुपाठे व्रस्चू इति सस्य श्चुत्वे कृते 'व्रश्चू' इति निर्देशः । तत्र श्चुत्वस्याऽसिद्धत्वात् 'स्कोः' इति सकारस्य लोप इत्यर्थः । 'वावसाने' इति चर्त्वे षस्य टः । तदभावे जश्त्वेन ड इत्यर्थः । सुवृट्त्स्विति । चर्त्वस्याऽसिद्धत्वात्पूर्वंडः सी॑ति वा धुट् । ततस्चर्त्वमिति भावः । इति चान्ताः । अथ तान्ताः । अछ महच्छब्दे विशेषं वक्तुमाह — वर्तमाने । उणादिसूत्रमेतत् । निपात्यन्ते इति । तत्र 'पृषु सेचने' 'बृह वृद्धौ' अनयोर्गुणाऽभावः, महेः कर्मणि अतिप्रत्ययः,गमेर्जगादेशश्चेति विशेषः । शतृवदिति । शतृप्रत्ययान्तवदित्यर्थः । उगित्त्वादिति । शतृवद्भावेन सुटि उगित्त्वान्नुमित्यर्थः । सान्तेति । सुटि महन्त स् औ इत्यादिस्थितौ नकारात्पूर्वस्य अकारस्य दीर्घ इत्यर्थः । मह्रते इति । कर्तरि कृत् इति कत्र्रर्थं बाधित्वा निपातनात् 'मह पूजायाम्' इति धातोः कर्मणि अतिप्रत्यय इति भावः । महानिति । नुमि दीर्घे सुलोपे संयोगान्तलोप इति भावः । महान्ताविति । नुमि दीर्घे अनुस्वारपरसवर्णाविति भावः । हे महन्निति । असंबुद्धावित्यनुवृत्तेः 'सान्तमहतः' इति दीर्घो नेति भावः । महत इति । असर्वनामस्थानत्वाच्छसादौ न दीर्घः । धीरस्यास्तीत्यर्थे धीशब्दान्मतुप्, पकार इत्, उकार उच्चारणार्थः । तद्धितान्तत्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः ।", "64031": "", "64032": "", "64033": "<<भञ्जेश्च चिणि>> - भञ्जेश्च चिणि । 'श्नान्नलोपः' इत्यतो नेति अभाजीति । नलोपपक्षे उपधावृद्धिः ।", "64034": "<<शास इदङ्हलोः>> - शास इदङ्हलोः । 'अनिदितां हलः' इत्यत उपधायाः क्ङिति इत्यनुवर्तते । तदा — शास उपधाया इति । शासतीति । जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । 'आशास्ते' इत्यत्र तु नेत्त्वम्, अडओग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति । शशासिथ । शासिता । शासिष्यति । शास् हि इति स्थिते आह -", "64035": "<<शा हौ>> - शा हौ । 'शा' इति लुप्तप्रथमाकम् ।शास इदङित्यतः शास इत्यनुवर्तते । तदाह — शास्तेरिति । इत्त्वापवारदः । ननु शासेः शाभावे सति झल्परत्वाऽभावात्कतं हेर्धिरित्यत आह — तस्याभीयत्वेनेति । यद्यपिधि चे॑ति सलोपे शाधीति सिद्धम्, तथापि सलोपस्याऽसिद्धत्वात्शास इ॑दिति इत्त्वं स्यात् । तन्निवृत्तये शाविधानमित्याहुः । लङ्याह — अशादिति । 'तिप्यनस्ते' रिति दत्वे चर्त्वविकल्प इति भावः । अशासुरिति । अभ्यस्तत्वाज्जुसिति भावः । अशाः अशादिति ।सिपि धातो॑रिति रुत्वदत्वविकल्प इति भावः । अशिष्टमशिष्ट । अशासमशिष्व अशिष्म । शिष्यादिति ।शास इत् इति इत्त्वेशासिवसी॑ति ष इति भावः । अशिषदिति । अङि इत्त्वमिति भावः । दीधीङ्धातुरीकारान्तः । ङित्त्वादात्मनेपदी । एतदादयः पञ्चेति । इदं च माधवानुरोधेन । तत्त्वं त्वग्रे वक्ष्यते । जक्षित्यादित्वादभ्यस्तत्वाज्झस्य अदादेशः । दीध्यते । दीधीषे दीध्याथे दीधीध्वे । लट इडादेशे आह —", "64036": "<<हन्तेर्जः>> - हन्तेर्जः ।शा हौ इत्यतो हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — हौ परे इति । कृते जादेशेअतो हे॑रिति हेर्लुकमाशङ्क्य आह — आभीयतयेति । जहीति । हतात् हतम् । हत । हनानीति । आटः पित्त्वेन हित्त्वाऽभावान्नोपधालोप इति भावः । अहन्निति । लङस्तिपिइतश्चे॑ति इकारलोपेसंयोगान्तस्ये॑ति तकारलोपः । न्याय्यत्वाद्धल्ङ्यादिलोपो वा । अहनमिति । अहन्व । अहन्म । झलादिपरकत्वाऽभावान्नोपधादीर्घः । विधिलिङि हन्यात् हन्यताम् इत्यादि । आशीर्लिङि वधादेशं वक्ष्यन्नाह-", "64037": "<<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति>> - अनुदात्तोपदेश ।ऊदृदन्तै॑रित्यादिभिः सङ्गृहीता अनुदात्तोपदेशाः, वनतिभौवादिकः, तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते । एतेषामनुनासिकस्य लोपः स्याज्झलादौ क्ङितीति प्रतीयमानार्थः । एवं सतिमुक्त॑मित्यादौ मुचादीनामपि मकारादिलोपः स्यात् । तत्राह — अनुनासिक इति लुप्तषष्ठीकं पदमिति । एवमप्युक्ताऽतिप्रसङ्गतादवस्थ्यादाह — वनतीतरेषां विशेषणमिति । अनुदात्तोपदेशानां तनोत्यादीनां चेत्यर्थः । तथा च विशेषणत्वात्तदन्तविधावनुनासिकान्तानामनुदात्तोपदेशानां तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः । तदाह — अनुनासिकान्तानामित्यादिना । वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम्, अव्यभिचारादिति भावः । अत्रानुदात्तोपदेशाननुनासिकान्तान्दर्शयति -यमिरमीति । अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः । अथ तनोतीत्यादीननुनासिकान्तान्दर्शयति — तनुक्,णुक्षिण्विति । 'मनु' इत्यन्तं समाहारद्वन्द्वात्प्रथमैकवचनम् । एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः । 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः । तत्रकरोतिरनुनासिकान्तात्वाऽभावादिह न गृह्रते,जनसनखनां सन्झलो॑रिति सनोतेरात्त्वस्य वक्ष्यमाणत्वात्सोऽप्यत्र न गृहीतः । 'वनु याचने' इति तनादौ पठितम् । तस्य उविकरणतया, उदित्त्वेन वनतिग्रहणेनाऽग्रहणात्तनादौ पठितस्यापि पृथग्ग्रहणम् । तत्र तानादिकस्य वनेरुदित्त्वात्उदितो वे॑ति क्त्वायामिड्विकल्पात्यस्य विभाषे॑ति निष्ठायामिडभावे वतः वतवानित्युदाहरणम् । वनतेस्तु भौवादिकस्य उदित्त्वाऽभावान्निष्ठायां सेट्कतवेऽपि क्तिनि वतिरित्युदाहरणम्, तत्रतितुव्रतथसिसुसरकसेषु चे॑ति इण्निषेधादित्यलम् । हत इति । तसि अनुदात्तोपदेशानुनासिकान्तत्वान्नकारलोपः, 'सार्वधातुकमपि' दिति तसो ङित्त्वात् । घ्नन्तीति । अजादिङित्परकत्वात्गमहने॑त्युपधालोपे 'हो हन्ते' रिति कुत्वेन हस्य घः । हसि हथः हथ ।", "64038": "", "64039": "", "64040": "<<गमः क्वौ>> - अनुनासिकलोपः स्यादिति शेषपूरणमिदम् ।अनुदात्तोपदेशेटत्यतस्तदनुवृत्तेरिति भावः । झलादिप्रत्ययपरकत्वाऽभावादनुदात्तोपदेशेत्यप्राप्तौ वचनम् । अङ्गगमदिति । अङ्गाख्यं देशं गच्छतीति विग्रहः । क्विपि मकारलोपे तुक् । एवं वह्गगत् । कलिङ्गगदित्यादि । गमादीनामिति । 'क्वावनुनासिकलोप' इति शेषः । पुरीतदिति । पुरिः = ह्मदयाख्यो मांसखण्डविशेषः,तं तनोत = आच्छादयतीति विग्रहः । ह्मदयकमलाच्छादको मेदोविशेषः ।पुरीतता हि ह्मदयमाच्छाद्यते॑ इति श्रुति॑रिति कर्किभाष्यम् । तनेः क्विपि नकालोपे तुक् ।नहि वृत्तिवृषी॑ति पूर्वपदस्य दीर्घः । संयदिति । यमेः क्विप् । मलोपे तुक् । सुनदिति । नमेः क्विपि मलोपे तुक् । ऊ चेति । गमादीनामुपधाया ऊभावश्चेति वक्तव्यमित्यर्थः । लोपश्चेति.चकारादनुनासिकलोपः समुच्चीयते इति भावः । अग्रेगूरिति । अग्रे गच्छतीति विग्रहः । गमेरकास्य ऊभावः, मलोपश्च ।तत्पुरुषे कृति बहुल॑मित्यलुक् । अग्रेभ्रूरिति । भ्रमेरकारस्य ऊभावः, मलोपश्च ।", "64041": "<<विड्वनोरनुनासिकस्यात्>> - विड्वनोरनुनासिकस्याऽऽत् । विड्वनोरिति सप्तमी । अनुनासिकस्य — आदिति छेदः । विजावेति । जनेर्वनिप् । जनेर्नकारस्य आकारः । सवर्णदीर्घः । अवावेति । ओणेर्वनिप् । णकारस्य आकारः । अवादेशः । विजिति । 'उदाह्यियते' इति शेषः । रोट् रेडिति ।रुष, रिष हिंसायाम् विच् ।वेरपृक्तस्ये॑ति वलोपः । सुगण्णिति । गमएर्विच् ।", "64042": "<<जनसनखनां सञ्झलोः>> - जनसन.॒विडवनो॑रितय्त आदित्यनुव्रतते । तदाह — एषामाकारोऽन्तादेश इति । सन् झल् इत्यनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । सनि झलि चेति लभ्यते ।अनुदात्तोपदेशे॑त्यतो झलिक्ङितीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते । तदादिविधिः । झलादौ सनीति लभ्यते । क्ङितीत्यनुवृत्तं त्वेत्सूत्रस्थेन झला विशेष्यते । तदादिविधिः । झलादौ क्ङितीति लभ्यते । तथाच झलादौ सनीति, झलादौ क्ङितीति च परनिमित्तद्वयं लब्धम् । तदाह — झलादौ सनि झलादौ क्ङिति चेति । सन्विशेषणं झलादाविति किम् । जिजनिषति । सिसनिषति । चिखनिषति । अथ क्ङितोर्झल्विशेषमस्य प्रयोजनमाह — जज्ञतीति । जनन् अतीति स्थिते अतेर्ङित्त्वेऽपि झलादित्वाऽभावादात्त्वाऽभावेगमहने॑त्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावःजनसनखनां स॑नित्याश्रित्य योगविभागेन उक्तार्थसिदिंध चाश्रित्य झ्लग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये । जजंसीति ।नश्चे॑त्यनुस्वारः । जजाथः जजाथ । जजन्मि जजन्वः जजन्मः । जजानेति । जज्ञतुः । सेडयम् । जजनिथ जज्ञथुः ।जज्ञिव । जनिता । जनिष्यति । जजन्तु — जजातात् । जजाहि । जजनानि । अजजमजजाताम् । अजज्ञुः । अजजनमजजन्व । विधिलिङिये विभाषे॑ति मत्वाह — जजायात् जंजन्यादिति । अजनीत् — अजानीत् ।अजनिष्यत् । गा स्तुतौ । देवान् जिगातीति ।भृञामि॑दित्यत्रबहुलं छन्दसी॑ति वचनादभ्यासस्येत्त्वमिति भावः । जिगीत इति ।ई हल्यघो॑रिति ईत्त्वम् । जिगतीति । अभ्यस्तत्वाददादेशेश्नाभ्यस्तयो॑रित्याल्लोपः । जिगासि जिगीथः जिगीथ । जिगामि जिगीवः । जगौ जगतुः । जगिव । गाता । गास्यति । जिगातु — जिगीतात् जिगीताम् जिगतु । जिगीहि । जिगानि । अजिगात् अजिगीतामजिगुः । अजिगाः । अजिगामजिगीव जिगीयात् । आशिषि — गेयात् । अगासीत् । अगास्यत् । इति जुहोत्यादयः ।॥ इति बालमनोरमायाम् जुहोत्यादयः॥अथ तिङन्ते कण्ड्वादयः ।", "64043": "<<ये विभाषा>> - आशीर्लिङि विशेषमाह — ये विभाषा ।जनसनखनां सञ्झलो॑रित्यतो जनसनखनाभित्यनुवर्तते । अनुदात्तोपदेशेत्यतः क्ङितीति । 'ये' इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविदिः ।विड्वनोरनुनासिकस्या॑दित्यत आदित्यनुवर्तते । तदाह — जनसनखनामित्यादिना । सायादिति । नकारस्य आत्वे सवर्णदीर्घः । द्रम हम्म । आद्योऽदुपधः । न वृद्धिरिति ।अद्रमी॑दित्यत्र हलन्तलक्षणायां वृद्धौनेटी॑ति निषिद्धायां ,ह्म्यन्ते॑त्यतोऽतो हलादेरिति वृद्धिर्नेत्यर्थः । जहम्मेति । अभ्यासचुत्वेन हस्य झः । तस्यअभ्यासे चर्चे॑त्यनेन जः । मिमीमेति । मीमृधातोर्णलि द्वित्वे अभ्यासह्रस्वः । अयं शब्दे चेति । मीमृधातुरित्यर्थः ।", "64044": "<<तनोतेर्यकि>> - तनोतेर्यकि ।विड्वनोरित्यत आदिति,ये विभाषे॑त्यतो विभाषेति चानुवर्तते । तदाह — आकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते तन्यते इति । कर्मणि लकारः ।", "64045": "", "64046": "", "64047": "<<भ्रस्जो रोपधयोः रमन्यतरस्याम्>> - भ्रस्जो रोपधयोः । 'भ्रस्ज' इत्यवयवषष्ठी ।रोपधयो॑रिति स्थानषष्टी । रश्च उपधा च तयोरिति विग्रहः । रेफादकार उच्चारणार्थः । रेफस्य उपधायाश्च स्थाने इति लभ्यते । 'आर्धधातुके' इत्यधिकृतम् । तदाह — भ्रस्जो रेफस्येत्यादिना । रमि मकार इति । अकार उच्चारणार्थःतदाह — मित्त्वादन्त्यादचः पर इति । तथा च रेफाऽकारादुपरि सकारात् प्राक् रेफ आगम इति फलितत् । भ्र र् स् ज् अ इति स्थितम् । ननु रम आगमत्वेरोपधयो॑रिति कथं स्थानषष्ठीनिर्देश इत्यत आह — स्थानेति । स्थानं — प्रसङ्गः । रेफस्य उपधायाश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफः प्रयोज्यः । भकारादुपरि रेफो जकारात्प्राक्सकारश्च न प्रयोज्याविति लब्धम् । तथा च तयोर्निवृत्तिः फलितेति भावः । एवं च भर्ज् अ इति स्थिते द्वित्वादौ रूपमाह - बभर्जेति.अतुसादावपि संयोगात्परत्वात्कित्त्वाऽभावात्ग्रहिज्ये॑ति संप्रसारणं न भवति । भारद्वाजनियमात्थलि वेडितिमत्वाऽऽह - बभर्जिथ बभर्ष्ठेति । इडभावपक्षे बर्भज् थ इति स्थिते 'व्रश्च' इति जस्य षः । ष्टुत्वेन थस्य ठ इति भावः । बभर्जिव । लिटस्तङ्याह - बभर्जे इति । बभर्जाते इत्यादि सुगमम् । रमभावे आह — बभ्रज्जेति । णलि भ्रस्ज् अ इति स्थिते द्वित्वे हलादिशेषे अभ्यासजश्त्वे बभ्रस्ज् अ इति स्थिते सस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारैति भावः ।लिटभ्यासस्ये॑ति संप्रासरणस्य न प्रसक्तिः, अभ्यासे हलादिशेषेण रेफाऽभावात् । बभ्रज्जतुरिति । संयोगात्परत्वादकित्त्वात्ग्रहिज्ये॑ति न संप्रसारणमिति भावः । बभ्रज्जिथेति । थलिभारद्वाजनियमादिट्पक्षे रमभावपक्षे लिटस्तह्राह — बभ्रज्जेति । बभ्रज्जाते । बभ्रज्जिषे । इत्यादि सुगमम् । भ्रष्टेति । रमभावपक्षे रूपम् । भर्ष्टेति । रमागमे भर्ज् ता इति स्थिते जस्य 'व्रश्च' इति षः, ष्टुत्वेन तकारस्यट इति भावः । एवं — भ्रक्ष्यति भक्ष्र्यतीति ।षढो॑रिति कत्वे सस्य षत्वमिति विशेषः । भृज्जतु ।अभृज्जत् । भृज्जेत् । ननु आशीर्लिङि भ्रस्ज् यादिति स्थिते यासुटः कित्त्वात्ग्रहिज्ये॑ति संप्रसारणे पूर्वरूपे सकारस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारे भृज्ज्यादिति रूपं वक्ष्यति । तदयुक्तम् । संप्रसारणं बाधित्वा परत्वाद्रमागमे कृते भज्र्यादिति प्रसङ्गादित्यत आह — क्ङिति रमागममिति । आशीर्लिङस्तङि सीयुटि रमागमपक्षे आह — भर्क्षीष्टेति । रमभावे तु अकित्त्वात्संप्रसारणाऽभवादाह - भ्रक्षीष्टेति । लुङि परस्मैपदे रमागमविकल्पं मत्वाह - अभार्क्षीत् अभ्राक्षीदिति । आत्मनेपदे सिचि रमागमविकल्पं मत्वाह - अभष्र्ट - अभ्रष्टेति ।झलो झली॑ति सिज्लोपः । क्षिप प्रेरणे इति । अनिट् । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमात्थलि नित्यमिट् ।चिक्षेपिथ । एवं कृषधातुरपि.चकर्षिथ । लुटि तासिअनुदात्तस्य चर्दुपधस्ये॑त्यमागमविकल्पः । अमागमाऽभावे गुणे रपरत्वम् । तदाह - क्रष्टा कर्ष्टेति । आशीर्लिङि परस्मैपदे आह — कृष्यादिति । कित्त्वाज्झलादित्वाऽभावाच्च अमागमो गुणश्च नेति भावः । आशीर्लिङस्तङ्याह - कृक्षीष्टेति । 'लिङ्सिचौ' इति कित्त्वादमागमो गुणश्च नेतिभावः । लुङि परस्मैपदे आह - स्पृशमृशेति सिज्वेति । पक्षे इति । सिजभावपक्षे 'शलः' इति क्स इत्यर्थः । सिचि अम्वेति । सिच्पक्षे 'अनुदात्तस्य चे' त्यमागमविकल्प इत्यर्थः । क्से तु कित्त्वादमागमो नेति भावः । अक्राक्षीदिति.सिचि अमागमे रूपम् । अकार्क्षीदिति । सिचि अमभावपक्षे हलन्तलक्षणा वृद्धिरिति भावः । क्सादेशपक्षे आह — अकृक्षदिति । कित्त्वादभागमो गुणश्च ज्ञेयम् । अकृष्टेति । 'झलो झली' ति सिज्लोप इति भावः । अकृक्षदिति । कित्त्वादभागमो गुणश्चे नेति भावः । तङीति । तङि सिच्पक्षे अकृष् स् त इतिस्थिते 'लिङ्सिचौ' इतिकित्त्वादम्नेत्यर्थः । गुणोऽपि नेति ज्ञेयम् । अकृष्टेति ।झलो झलीटति सिज्लोप इति भावः । अकृक्षतेति । सिज्पक्षे अनतः परत्वाददादेश इति भावः । क्सादेशपक्षे आह — अकृक्षतेति । कित्त्वादम्नेति भावः । अकृक्षन्तेति । क्सादेशपक्षे अ कृक्ष झ इति स्थिते अच्परकत्वाऽभावात्क्सस्याची॑त्यकारलोपाऽभावादतः परत्वाददादेशाऽभावे अन्तादेश इति भावः । ऋषी गताविति । सेट् । आनर्षिथ आनर्षिव । अर्षिता । आर्षीत् । ओ विजी भयेति । सेट् । उद्विजितेत्यादौ लघूपधगुणे प्राप्ते -", "64048": "<<अतो लोपः>> - अतो लोपः ।अनुदात्तोपदेशवनती॑त्यत उपदेशग्रहणमनुवर्तते । आर्धधातुक इत्यधिकृतम् । तदिह आवर्तते । एकमुपदेशे अन्वेति । द्वितीयं तु लोपे परनिमित्तम् । तदाह — आर्धधातुकोपदेश इतत्यादिना । आर्धधातुकोपदेश इति किम् । अय पय गतौ, आभ्यां क्विपि,लोपो व्यो॑रिति लोपे,ह्रस्वस्य पिती॑ति तुकि, अपृक्तलोपे अत् पत् इतीष्टे । अत्र यलोपे सति अतो लोपो न भवति, आर्धधातुकोपदेशकाले धातोर्यकारान्तत्वात् । 'आर्धधातुकोपदेश' इत्यत्र आर्धधातुकग्रहणाऽभावेचिकीर्षित॑मित्यत्र अल्लोपो न स्यात्, सन उपदेशकाले नकारान्तत्वात् । आर्धधातुकग्रहणे तु न दोषः, अनुबन्धविनिर्मुक्तात्सन्प्रत्ययादेव क्तप्रत्ययस्य आर्धधातुकस्योत्पत्तेः । आर्धधातुके पर इति किम् । कथयति । चुरादावदन्तोऽयम् । अत्र उपधावृद्धिर्न भवति,अचः परस्मि॑न्नित्यल्लोपस्य स्थानिवत्त्वात् । आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परनिमित्तकत्वाऽभावात्स्थानिवत्त्वं न स्यात् । तथा च प्रकृते गोपाय — आमिति स्थिते अतो लोपे गोपायामिति सिध्यति । यद्यपि सवर्णदीर्घेणाप्येतत्सिद्धं, तथापि न्याय्यत्वादतो लोप उपन्यस्तः । आयप्रत्ययाऽभावपक्षे आह — जुगोपेति । पित्त्वेन कित्त्वाऽभावाल्लघूपधगुणः । जुगुपतुरिति । कित्त्वान्न गुणः । ऊदित्त्वाद्वेडिति ।थलादा॑विति शेषः । जुगुपिव — जुगुप्व । जुगुप्म । क्रादिनियमस्तु नञ्प्राप्तस्यैवाऽभावस्य, नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् । गोपायितेति । लुटि आयप्रत्ययपक्षे नित्यमिट् । आयप्रत्ययाऽभावपक्षे इड्विकल्पः । ऊदित्त्वस्य केवले चरितार्थत्वात् । तदाह — गोपिता गोप्तेति । गोपायिष्यति गोपिष्यति गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । आशीर्लिङ आयप्रत्ययपक्षे आह — अगोपायीदिति । आयप्रत्ययाऽभावपक्षे इटि रूपमाह - अगोपीदिति ।इट ईटी॑ति सिज्लोपः ।नेटी॑ति हलन्तलक्षवृद्धेर्निषेधः । इडभावे तु इटः परत्वाऽभावान्न सिल्जोल इत्याह — अगौप्सीदिति ।वदव्रजे॑ति वृद्धिः । अगोपायिष्यत् अगोपिष्यत् अगोप्स्यत् । धूप संताप इति ।गूपूधूपे॑त्यायः । आर्धधातुके तद्विकल्पः । षप समवाय इति । षोपदेशोऽयम् । चुप मन्दायामिति । चवर्गप्रथमादिरयम् । चवर्गद्वितीयादिस्त्वनिट्कः । तुप तुम्पेति । अष्टावप्युदुपधाः, तृतीयचतुर्थौ सप्तमाष्टमौ च रेफवन्त इति मूले स्पष्टीभविष्यति ।तुतुम्पतु॑रित्यत्र नलोपमाशङ्क्याह — संयोगादिति । आशीर्लिङि विशेषमाह — किदाशिषीति । प्रात्तुम्पताविति । श्तिपा निर्देशोऽयम् । प्रात् — प्रेत्युपसर्गात् — तुम्पधातौ परे सुट् स्याद्गवि कर्तरि सतीत्यर्थः । तुपधातोः सुट् आद्यवयवः । सुड्विधावस्मिन् तुम्पताविति श्तिपा निर्देशस्य प्रयोजनमाह — यङ्लुकि नेति ।शपाऽनुबन्धेने॑त्युक्तेरिति भावः । षृभु षृम्भु इति । ऋदुपधौ षोपदेशौ । सृभ्यादिति । आशीर्लिङि अनिदित्त्वान्नलोपः । षिभु षिम्भु इत्येक इति । आद्य इदुपधो, द्वितीयो मोपधः । शुभ शुम्भेति । द्वितीयस्य आशीर्लिङि अनिदित्त्वान्नलोपः । इतिगुपू॑इत्यादयः पवर्गीयान्ताः परस्मैपदिनो गताः । कम्यन्ता इति । 'कमु कान्तौ' इत्येतत्पर्यन्ता इत्यर्थः । घुण घूर्णेति । द्वितीयस्य दीर्घपाटः स्पष्टार्थः,उपधायां चे॑त्येव दीर्घसिद्धेः । केचित्तु घुर्णेति ह्रस्वमेव पठन्ति । स्तुतावित्येवेति । न तु व्यवहार इत्येवकारार्थः । पृथङ्निर्देशादिति । अन्यथापण पन व्यवहारे स्तुतौ चे॑त्येव निर्दिशेदिति भावः । यद्यपि पृथङ्निर्देशो यथासङ्ख्यनिवृत्त्यर्थ इत्यपि वक्तुं शक्यं, तथापि संप्रदायानुरोधादेवमुक्तम् । पनिसाहचर्यादिति । पनधातुः स्तुतावेव वर्तते, तत्साहचर्याद्गुपूधूपविच्छेत्यत्र पणधातुरपिस्तुत्यर्थक एव गृह्रते, न तु व्यवहारार्थकः । अतः स्तुतार्वव पणधातोरायप्रत्ययो न तु व्यवहारे इत्यर्थः । क्रेतव्यद्रव्यस्य मूल्यनिर्धारणाय प्रश्नप्रतिवचनात्मको व्यवहारः । ननु स्तुतौ पणायतीति रूपं वक्ष्यमाणमनुपपन्नं, पणधातोरनुदात्तेत्त्वेनात्मनेपदापत्तेः । न च आयप्रत्ययान्तस्यानुदात्तेत्वं नेति शङ्क्यं, पणधातौ श्रुतस्यानुदात्तेत्त्वस्य 'आनर्थक्यात्तदङ्ग' न्यायेन आयप्रत्ययान्तेऽन्वयोपपत्तेरित्यत आह -स्तुताविति । अनुबन्धस्य अनुदात्तात्मकस्य इतः, — याअर्धधातुकविषये कदाचिदायप्रत्ययविनिर्मुक्ते चरितार्थत्वादायप्रत्ययान्तादात्मनेपदं नेत्यर्थः । एवं च तुल्यन्यायत्वादेकाच उपदेश इति निषेधोऽपि नेति सूचितम् । क्षमष् सहन इति ।षद्भदादिभ्योऽ॑ङित्यर्थं षित्त्वम् । ऊदित्त्वादिड्विकल्पं मत्वाह — चक्षमिषे चक्षंस इति । इडभावपक्षेअनुनासिकस्य क्विझलो॑रिति दीर्घस्तु न भवति, क्विसाहचर्येण तिङ्भिन्नस्यैव झलादेस्तत्र ग्रहणात् । वहिमह्रोरिडभावपक्षे विशेषमाह — म्वोश्च ।मो नो धातो॑रित्यनुवर्तते । तदाह — मान्तस्येति । णत्वमिति । षात्परत्वादट्कुप्वाङिति नकारस्य णत्वमित्यर्थः । कमु कान्ताविति ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थमुदित्त्वम् । कान्तिशब्दस्य प्रभापरत्वभ्रमं व#आरयति — कान्तिरच्छेति ।स्वर्गकाम॑इत्यादौ कमेरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः ।कामोऽभिलाषस्तर्षश्चे॑ त्यमरः ।", "64049": "", "64050": "<<क्यस्य विभाषा>> - क्यस्य विभाषा । 'यस्य हलः' इत्यतो हल इति पञ्चम्य्नतमनुवर्तते । 'आर्धधातुके' इत्यधिकृतम् । तदाह — हलः परयोः क्यच्क्यङोरिति । क्यष् तु नात्र गृह्रते,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्तदभावात् । अन्तलोपमाशङ्क्याह — आदेः परस्येति । तथा च मिध् अ इता इति स्थिते आह — अतो लोप इति । तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्क्याह — तस्य स्थानिवत्त्वादिति । क्यच्सूत्रेमान्ताव्ययेभ्यः प्रतिषेधः॑ इति वार्तिकम् । मान्तेभ्योऽव्ययेभ्यश्च प्रतिषेध इत्यर्थे पुत्रमात्मन इच्छति पुत्रीयतीत्यत्र न स्यात्, पुत्राविच्छतीत्यादेव स्यात् । मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् । अतस्तद्वार्तिकं विवृण्वन्नाह — मान्तप्रकृतिकेति ।", "64051": "<<णेरनिटि>> - णेरनिटि । आर्धधातुक इत्यधिकृतम् । 'अतो लोप' इत्यस्माल्लोप इत्यनुवर्तते ।अनिटी॑त्यस्य आर्धधातुकविशेषणत्वात्तदादिविधिः ।तदाह — अनिडादाविति । तथा च णिलोपे काम त इति स्थिते — परत्वादिति । 'एरनेकाच' इत्यस्यणेरनिटी॑त्यपेक्षया परत्वाण्णिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः । कृते तु यणि लोपे दुर्लभः, णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम्, यण्स्थानिनमिकारमलं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याऽल्विधित्वेन तत्र स्तानिवत्त्वाऽसंभवात् । स्पष्टा चेयं रीतिर्भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । ण्यल्लोपाविति । णिलोप इयङ्यण्गुणवृद्धिदीर्घेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथाच पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत्, आटिटत्, कारणा, कारकः,कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयडण्गुणवृद्धिदीर्घाणामवस्यं प्राप्ेतर्णिलोपस्य निरवकाशत्वादेव इयङादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम्, सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयादित्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकासत्वादित्यत आह — णिलोपस्य त्विति । पच्धातोर्णिचि उपधावृद्धौ पाचीति ण्यन्तात्स्त्रियां क्ति॑न्निति क्तिनि,तितुत्रतथसिसुसकरसकेषु चे॑तीण्निषेधे,णेरनिटी॑ति णिलोपे, कुत्वे पाक्तिरिति स्थितिः ।क्तिजन्त॑मिति पाठे तुक्तिच्क्तौ च संज्ञाया॑ मिति क्तिज्बोध्यः ।पाक्ति॑रिति कस्यचित्संज्ञा । अत्र इयङादीनामप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तन्निवृत्त्यर्थं वार्तिकमिदमारम्भणीयमिति भावः । वार्तिकं व्यर्थमेवेत्याह — वस्तुस्त्विति । आर्धधातुकमात्रमिति । कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथा च अततक्षदित्यादौ परानपि इयङादीन् णिलोपोऽपवादत्वाद्बाधते । परापेक्षयाऽपवादस्य प्रबलत्वात् । परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् । कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततस्च अनिटीति वचनसामर्थ्यादिनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवं च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोपैति, — अस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयङादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमित भावः । अपवाद एवायमिति । णिलोप इत्यर्थः । अतो लोपस्तु 'चिकीर्षक' इत्यत्र वृदिंध,चिकीष्र्या॑दित्यत्रअकृत्सार्वधातुकयो॑रिति दीर्घं च बाधित्वा पूर्वविप्रतिषेधाद्भवति । नह्रतो लोपोवृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्दिदीर्घयोरप्राप्तयोरप्यतो लोपस्यारम्भादित्यलम् । इयङिति । उदाहरणसूचनमिदम् । अततक्षिदिति । तक्षदातोण्र्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वक्तवादेरनेकाचेति यणभावे इयङि प्राप्ते पूर्वविप्रतिषेधाण्णिलोपे हलादिशेषेऽडागमेऽततक्षदिति रूपम् । यणिति । उदाहरणसूचनम् । आटिटदिति । अटधातोण्र्यन्तादाटीत्यस्माल्लुङि तिपि इकारलोपे चङि 'टी' त्यस्य द्वित्वे 'एरनेकाच' इति यणं बाधितवा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम् । गुण इति । उदाहरणसूचनम् । कारणेति ।स्त्रिया॑मत्यधिकारे कृञ्धातोण्र्यन्तात्कारीत्यस्माण्ण्वुलि अकादेशे वृदिंध बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् । दीर्घ इति । उदाहरणसूचनम् । कार्यत इति । कृञ्धातोर्ण्न्तात्कारीत्यस्मात्कर्मण लटि यकिअकृत्सार्वधातुकयो॑रिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः । तथा च प्रकृते काम् इ अ त इत्यत्र 'एरनेकाच' ति यणं बाधित्वा णिलोपे काम त इति स्थितम् ।", "64052": "<<निष्ठायां सेटि>> - निष्ठायां सेटि । णेर्लोपः स्यादिति । सेषपूरणमिदम् ।णेरनिटी॑त्यतो णेरिति, 'आतो लोपः' इत्स्माल्लोप इति चानुवर्तते इति भावः । 'अनिटी' ति निषेधादप्राप्ते आरम्भः ।टु ओ इआ गतिवृद्ध्योः॑ अस्मात् क्ते आह श्वीदित इति नेडिति । संप्रसारणमिति । यजादित्वादिति भावः । संप्रासरणे सति पूर्वरूपे 'हलः' इति दीर्घेओदितश्चे॑ति निष्ठानत्वे रूपमाह — शून इति । यद्यपि मूलेओदितश्चे॑त्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः । अत्र अलविधित्वेऽपि 'हल' इत्यारम्भसामाथ्र्यादेव पूर्वरूपस्य संप्रसारणत्वम् । न च नित्यत्वात्संप्रसारणपूर्वरूपयोःश्र्युकः कितीत॑त्येव निषेधसिद्धेः इआग्रहमं व्यर्थमिति वाच्यम्,श्र्युकः किती॑त्यत्र 'एकाच उपदेशे' इत्यत उपदेशे इत्यनुवृत्तेः । तथा च उपेदशे उगन्तत्वाऽभावान्निषेधाऽप्राप्तौ इआग्रहणम् । अत एवस्तीर्त्वे॑त्यादौ उपदेशे उगन्तत्वमादाय इण्निषेधसिद्धिरित्यलम् । ईदित उदाहरति — दीप्तैति । 'दीपी दीप्तौ' दिवादिः । ईदित्त्वान्नेट् । गूढ इति । ऊदित्त्वेन वेट्कत्वात्यस्य विभाषे॑ति नेट् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । वनु वतः । तनु तत इति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति नेट् ।अनुदात्तोपदेशे॑ति नकालोपः । पतेः सनीति । 'पत्लृ गतौ' अस्यतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति सनि वेटक्त्वात्यस्य विभाषे॑ति निष्ठायामिण्निषेधे प्राप्ते इत्यर्तः । 'पतित' शब्दे इटं साधयितुं युक्त्यन्तरमिति वक्तव्यम्, तत्तु न संभवति । एषांसेऽसिचि कृतचृतछृदतृदनृतः॑ इति सकारादौ वेट्कतयायस्य विभाषे॑त्येव निष्ठायां नित्यमिण्निषेधासिद्धेः । ततश्च एषामीदित्करणात्यस्य विभाषे॑ति इण्निषेधस्य अनित्यत्वं विज्ञायते । एवं च कृतादीनांयस्य विभाषे॑ति इण्निषेधस्याऽभावसंभावनायां 'श्वीदितः' इण्निषेधार्थमीदित्त्वमर्थवत् ।तथा च पतितशब्देयस्य विभाषे॑त्यनित्यत्वान्न भवतीत्यर्थः । तेनेति ।यस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनेनेत्यर्थः । धावितमिति । 'स्वरतिसूती' धूञो वेट्कत्वेऽपियस्य विभाषे॑ति निष्ठायामिण्निषेधः स्यादित्यत आह — यस्य विभाषेत्यत्रेति ।", "64053": "", "64054": "<<शमिता यज्ञे>> - तथाच अगुणवचनादपि कर्तृशब्दादिष्ठन्प्रत्यये 'कर्तृ-इष्ठ' इति स्थिते 'इष्ठेमेयस्सु' इति विहिते टिलोपे प्राप्ते — तुरिष्ठेयमेयःसु । 'तृ' इत्यस्यतु॑रिति षष्ठएकवचनम् । एष्विति । इष्ठन्, इमन्, इयस् इत्येतिष्वित्यर्थः । अयं लोपः सामर्थ्यात्सर्वादेशः, अन्त्यस्य ऋकारस्यटे॑रित्येव सिद्धेः । करिष्ठ इति । अयमनयोरति शयेन कर्तेत्यर्थः । दोहीयसी धेनुरिति । इयमनयोरतिशयेन दोग्ध्रीत्यर्थः । इष्ठनि 'भस्याढे' इति पुंवत्त्वे ङीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताऽभावात्दादे॑रिति घत्वस्य निवृत्तौ उगित्त्वात् ङीपिदोहियसी॑ति रूपम् ।पुगन्ते॑ति गुणस्तु न निवर्तते, लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् ।", "64055": "<<अयामन्ताल्वाय्येत्न्विष्णुषु>> - अयामन्ता । अयति छेदः ।णेरनिटी॑त्यतो णेरित्यनुवर्तते । तदाह — णेरयादेशः स्यादिति । तथा च कामयामित्यमन्तं स्थितम् । ततःकृञ्चानुप्रयुज्यते॑ इत्यनुप्रयोगाल्लिडिति मत्वाह — कामयांचक्र इति । णिङ आयादिष्वन्तर्भावाल्लिडादावाद्धधातुके तद्विकल्पमुक्तं स्मारयति - आयादय इति । चकम इति । सेट्कोऽयम् । चकमिषे । चकमिध्वे ।चकमिवहे । चकमिमहे । कामयियेति । लुटि णिङपक्षे तासि इटि वृद्धौ गुणेऽयादेशे रूपम् । कामयताम् । अकामय.कामयेत । कामयिषीष्ट — कमिषीष्ट ।", "64056": "", "64057": "", "64058": "", "64059": "", "64060": "<<निष्ठायामण्यदर्थे>> - निष्ठायामण्यदर्थे । ण्यदर्तो भावकर्मणी इति ।ऋहलो॑रिति ण्यतः कृत्यसंज्ञकस्यतयोरेवे॑ति भावकर्मणोरेव प्रवृत्तेरिति भावः । ततोऽन्यत्रेति । कर्तरीत्यर्थः । क्तवताविति फलितम् । क्षियो दीर्घः स्यादिति । क्षिय इति पूर्वसूत्रमनुवर्तते,युप्लुवोर्दीर्घश्छन्दसी॑त्यतो दीर्घ इति चेति भावः ।", "64061": "<<वाऽऽक्रोशदैन्ययोः>> - वाऽऽक्रोशदैन्ययो- । अण्यदर्थ इत्यनुवर्तते ।ण्यदर्थो भावकर्मणी॑इत्युक्तम् । आक्रोशे उदाहरति — क्षीणायुर्भवेति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । दैन्ये उदाहरति — क्षीणोऽयं तपस्वीति । कृश इत्यर्थः ।", "64062": "<<स्यसिच्सीयुट्तासिषु भावकर्मणोर्- उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च>> - स्यसिच् । अच् हन ग्रह दृश् एषां द्वन्द्वात्षष्ठी । उपदेश इत्च एव विशेषणम्, नेतरेषाम्, अव्यभिचारात् । तदाह - उपदेशे योऽजिति । 'अ' जित्यस्यं उपदेशान्वयित्वेऽपि सौत्रः समासः ।अ॑जिति लुप्तषष्ठीकं वा ।चिण्व॑दिति सप्तम्यन्ताद्वनतिः,स्यसिच्सीयुट्तासिष्वि॑त्युपमेयतः सप्तमीदर्शनात् । तदाह — चिणीवेति । अङ्गकार्यमिति । अङ्गस्येत्यधिकृतत्वादिति भावः ।भावकर्मवाचिषु स्यादिष्वि॑ ति नार्थः,सीयुटो लिङागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाऽभावात् । नापिभावकर्मवाचिनि प्रत्यये परे ये स्यादयस्तेष्वि॑त्यर्थः, स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसंभवेऽपि सीयुटस्तदसंभवात् । सीयुडागमविशिष्टस्यैव लिङो भावकर्मवाचितया केवलसीयुटो न भावकर्मवाचिप्रत्ययपरकत्वमस्ति । अतो विषयसप्तमीति मत्वाऽऽह — स्यादीनामिडागमश्चेति । अत्र अज्झनग्रहदृशां, स्यादीनां च न यथासङ्ख्यं, व्याख्यानात् ।स्यादिषु परेषु अङ्गस्य इ॑ डिति नार्थः,आर्धधातुकस्येड्वलादे॑ रित्यत्र 'आर्धधातुके' इति योगं विभज्ययावानिट् स आर्धधातुकस्यैवे॑ति भाष्ये उक्तत्वात् । चिणि यदङ्गाधिकारविहितं कार्यं तस्यैवात्रातिदेशो, न तु चिणि दृष्टमात्रस्य । तेन 'घानिष्यते' इत्यत्रहनो वध लिङि, लुङि चे॑ति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदिश्यते, तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाऽभावात् । तथा आयिष्यते इत्यत्र इणो गादेशो न । 'अध्यायिष्यते' इत्यत्र इङो गाङादेशो न , द्वैतीयीकत्वात् । चिण्वत्त्वाऽभावे अयमिण्नेत्याह — अयमिडिति । सेट्कस्य वलादित्वलक्षण इट् तु स्यादेवेति भावः । ननु भूयेतेति विधिलिङि चिम्वत्वम् इट् च स्यातामित्यत आह — इहार्धधातुके इति । नेतरेषामिति । स्यसिच्तासीनां न विशेषणमित्यर्थः । अव्यभिचारादिति । स्यसिच्तासीनां सर्वत्राऽऽर्धधातुकत्वनियमादिति भावः । अत्र वार्तिकम् — चिण्वद्वृद्धिर्युक्च हन्तेश्च घ्तवं दीर्घश्चोक्तो यो मितां वा चिणीति । इट्वाऽसिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती॥॑ इति । स्यसिच्सीयुडिति सूत्रस्य वृद्ध्यादि प्रयोजनमित्यर्थः । तत्र वृदिंध दर्शयति — चिण्वद्भावाद्वृद्धिरिति । लुटि भू ता इति स्थिते चिण्वत्त्वात्अचोऽञ्णिती॑ति वृद्धिरित्यर्थः । इडागमश्चेत्यपि बोध्यम् । तत्फलं तु वक्ष्यते । तथा दाधातोर्लुटि 'आतो युक् चिण्कृतो' रिति युक् । तथा लृटि 'घानिष्यते' इत्यत्रहोहन्तेर्ञ्णिन्नेषु॑ इति घत्वम् । शमेर्हेतुमण्ण्य्नताल्लुटि — शामिता शमितेत्यत्रचिण्णमुलो॑रिति वा दीर्घः । तथा अनेनैवाऽत्र इटि कृते तस्य आभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपः । तथा 'भाविष्यते' इत्यत्र भू-स्य इति स्थिते परमपि वलादिलक्षणं इटं बाधित्वा नित्यत्वादनेन इट्, वल्निमित्ते इटि कृतेऽकृते च चिण्वदिटः प्रवृत्त्या कृताऽकृतप्रसङ्गित्वात् । वलादिलक्षणस्त्विण्न नित्यः, चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षमस्य इटोऽप्रवृत्तेः । नित्यश्चायमित्यस्यचिण्वदि॑डिति शेषः ।वल्निमित्त इत्यनन्तरम्इडनित्य इत शेषः । अनित्यत्वे हेतुः — विघातीति । चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः । एवं च सेट्कत्वेऽप्यनेनैव इट् । एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम् । तदाह — भवितेति । चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः ।", "64063": "<<दीङो युडचि क्ङिति>> - दीङो युडचि । 'आर्धधातुके' इत्यधिकृतमचा विशेष्यते । तदादिविधिः । 'दीङ' इति पञ्चमी । सप्तमी षष्ठर्थे ।तदाह — दीङः परस्येत्यादिना । दिदी ए इति स्थिते परत्वात् 'एरनेकाचः' इति यणि प्राप्ते नित्यत्वाद्युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः । तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह -वुग्युटाविति ।", "64064": "<<आतो लोप इटि च>> - दधा — अतुसिति स्थिते — आतो लोपः । 'आर्धधातुके' इत्यधिकृतम् ।दीङो यु॑डित्यतोऽचि क्ङितीति चानुवर्तते । अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः । क्ङिति अजाद्यार्धधातुके इटि च आतो लोप इति लभ्यते । फलितमाह — अजाद्योरिति । इट आर्धधातुकत्वं तु तदवयवत्वाद्बोद्ध्यम् । क्ङितीति च इटो न विशेषणम्, इड्ग्रहणसामर्थ्यात् । इडित्यनेन उत्तमपुरुषैकवचनम्, इडागमश्च गृह्रते । अजाद्योः किम् । ग्लैधातोः कर्मणि लटि यकि — ग्लायते । आर्धधातुकयोः किम् । यान्ति वान्ति । दधौ इत्यत्र तु क्ङित्त्वाऽभावान्नाल्लोपः । सति तस्मिन् औत्वं न स्यात् । ननु धा — अतुसिति स्थिते द्वित्वात्पर्तवादाल्लोपे सति एकाच्त्वाऽभावाद्द्वित्वं न स्यादित्याशङ्क्य परहरति — द्वित्वादित्यादिना । धेट्धातुरनिट् । भारद्वाजनियमात्थलि वेडित्याह — दधिथ दधाथेति । इट्पक्षे आल्लोपः । दधथुः । दध । दधौ इति सिद्धवत्कृत्याह — दधिवेति । वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः । एवं दधिमेत्यपि ज्ञेयम् । धातेति । लुटि आत्त्वे तासादीति भावः । धास्यति । धयतु । अधयत् । धयेत् ।", "64065": "<<ईद्यति>> - इद्यति । आत इति ।आतो लोप इटि चे॑त्यतस्तदनुवृत्तेरिति भावः । गुण इति । दाधातोःअचोय॑दिति यति अत ईत्त्वेसार्वधातुकार्धधातुकयो॑रिति गुण इति भावः । ग्लेयमिति । 'ग्लै हर्षक्षये' इति धातोर्यति 'आदेचः' इत्यात्त्वे ईत्त्वे गुण इति भावः । तकिशसीति । तकि,शसि , चति , यति, जनी प्रादुर्भावे॑ इति धातवः । अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः । सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः । ननुअर्हे कृत्यतृचश्चे॑त्यर्हेऽपि जनेण्र्यताऽपि जन्यमिति रूपसिद्धेर्जनिग्रहणं व्यर्थमित्यत आह — स्वरार्थ इति । 'यतोऽनावः' इत्याद्युदात्तार्थ इत्यर्थः । ननु ण्यति उपधावृद्धिः स्यादतस्तदभावार्थमिह जनेर्यद्विधिस्त्वित्याशङ्क्य निराकरोति — न च वृद्धिप्रसङ्ग इति । कुत इत्यत आह — जनिवध्योरिति । हनो वेति । हनधातोर्यद्वा स्यात्,प्रकृतेर्वधादेशश्चेत्यर्थः । पक्षे इति । यदभावपक्षे इत्यर्थः । घात्य इति । ण्यतिहनस्तोऽचिण्णलो॑रिति नस्य तः । कुत्वम् । उपधावृद्धिः । वधादेशस्तु यत्संनियोगशिष्टत्वान्नेति भावः ।", "64066": "<<घुमास्थागापाजहातिसां हलि>> - घुमसाथा । 'षो अन्तकर्मणि' इत्यस्य कृतात्वस्य निर्देशः । घु मा स्था गा पा जहाति साएषां द्वन्द्वात्षष्ठी । 'आर्धधातुके' इत्यधिकृतम् । 'आतो लोप इटि चे' त्यत आत इतिईद्यती॑त्यत ईदिति,अनुदात्तोपदेशे॑त्यतः क्ङिति — इति चानुवर्तते । तदाह — एषामित्यादिना । अध्यगीष्टेति । अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचः षत्वे तकारस्य ष्टुत्वेन ट इति भावः । 'गातिस्थे' तिन सिज्लोपः, परस्मैपदाऽभावात् । अध्यगीषातामध्यगीषत । अध्यगीष्टाः अध्यगीढ्वम् । अध्यगीषि अध्यगीष्वहि अध्यगीष्महि । गाङभावपक्षे आह — अध्यैष्टेति । अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः । अध्यैषातामध्यैषत । अध्यैष्ठाः अध्यैषाथामध्यैढ्वम् ।धि चे॑ति सलोपः । अध्यैषि अध्यैष्वहि अध्यैष्महि । लृडआह — अध्यगीष्यतेति ।विभाषा लुङ्लृङो॑रिति गाङादेशे स्ये तस्य 'गाङ्कुटादिभ्यः' इति ङित्त्वेघुमास्थे॑ति ईत्त्वे अटि यणि षत्वमिति भावः । अध्यगीष्येतामित्यादि । गाङभावपक्षे आह — अध्यैष्यतेति । अध्यैष्येतामित्यादि । इक्स्मरणे । अयमपीति । इङ्धातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः । ननु धातुपाठे इङमधिकृत्य 'नित्यमधिपूर्व' इति वचनात्, भूवादिसूत्रभाष्याच्च इङो नित्यमधिपूर्वकत्वं युक्तम्, अस्य तु तथात्वे किं प्रमाणमित्यत आह — अधीगर्थेति । तत्र हि अधीगर्थेत्यनेन स्मरणार्थदातुर्विवक्षितः । इग्धातोरधिपूर्वकत्वाऽभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात्तत्र अधीति व्यर्थं स्यात् । अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायत इत्यर्थः । इण्वदिक इति । षष्ठन्ताद्वतिः । इणो यत् कार्यम् 'इणो यणि' त्यादि, तदिको भवतीत्यर्थः । अध्येति, अधीत इति सिद्धवत्कृत्य आह — अधियन्तीति । अन्तादेशे इयङपवादः ।इणो य॑णिति यणिति भावः । अध्येषि अधीथः अधीथ । अध्येमि अधीवः अधीमः । अधीयाय । अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थितेइणो य॑णिति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्यदीर्घ इणः किती॑ति दीर्घे सवर्णदीर्घे — अधीयतुः अधीयुः । अधीययिथ — अथीयेथ अधीयथुः अधीय । अधीयाय — अधीयय अधीयिव अधीयिम । अध्येता । अध्येष्यति । अध्येतु- अधीतात् अधीतामधियन्तु । अधीहि — अधीतात् अधीतमधीत । अध्ययानि अध्ययाव अध्ययाम । अध्यैत् अध्यैतामध्यायन् । अध्यैः अध्यैतमध्यैत । अध्यायमध्यैव अध्यैम । इति सिद्धवत्कृत्य लुङ्याह — अध्यगादिति । इण्वत्त्वात्इणो गा लुङी॑ति गादेशे 'गातिस्थे' तिसिचो लुका लुप्तत्वात्घुमास्थे॑ति ईत्त्वं न । अध्यगाताम् । अध्यगामध्यगाव । अध्यैष्यत् । केचित्त्विति । 'आर्धधातुके' इत्यधिकारेइणो गा लुङी॑ति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणमुपस्थितत्वादिति भावः । तन्मते यण् नेति ।इणो य॑णित्यस् आर्धधातुकाधिकारस्थत्वाऽभावान्नातिदेश इत्यर्थः । तेन झोऽन्तादेशे इयङि सवर्णदीर्घे अधीयन्तीत्याद्यूह्रम् । राघवयोरधीयन्निति ।अधीगर्थे॑ति षष्ठी । राघवौ स्मरन्नित्यर्थः । अधिपूर्वादिग्धातोर्लटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घे अधीयदिति शत्रन्तात्सुबुत्पत्तौ सौ रूपम् । वी गतीति ।अजेव्र्यघञपो॑रिति सूत्रभाष्यरीत्या अस्य आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् । वियन्तीति । एकाच्त्वाद्यणभावादियङिति भावः । लोटि वेतु — वीतात् वीताम् वियन्तु । इति सिद्धवत्कृत्याह — वीहीति । हेरपित्त्वेन ङित्त्वान्न गुण इति भावः । वीतात् वीतम् वीत । वयानि वयाव वयाम । लडआह — अवेदिति । अवियन्निति । वी — अन्निति स्थिते परत्वादडागमात् प्रागियङि कृते अडागम इति भावः । मतान्तरमाह — अडागमे सतीति ।लावस्थायाम॑डिति पक्षे इयङं बाधित्वा अनेकाच्त्वाद्यणि अव्यन्निति केचिदाहुरित्यर्थः । केचिदित्यस्वरसं सूचयति । तद्बीजं तुकृतेऽप्यटि यणि कर्तव्ये आभीयतया अटोऽसिद्धत्वादनेकाच्त्वाऽभावाद्यणभावादियङेवोचित इति शब्देन्दुशेखरे विस्तरः । अत्रेति । वी-ई इति सवर्णदीर्घे॑ वी गती॑ति निर्देश इति भावः । ईयादिति । विधिलिङि आशीर्लिङि च रूपमिदं समानम् । 'स्को' रिति सलोपः । तत्र विधिलिङि ईयातामित्यादि, आशिषितु ईयास्तामित्यादी॑ति विशेषः । ऐषीदिति । सिचि वृद्धिः । या प्रापणे इति । ननु गच्छतीत्यर्थे यातीति कथमित्यत आह — प्रापणमिह गतिरिति । णिजर्थस्त्वविवक्षित इति भावः । प्राणियातीति ।नेर्गदे॑ति णत्वम् । ययौ । याता । यास्यति । यातु । अयात् अयाताम् ।", "64067": "<<एर्लिङि>> - एर्लिङि ।ए॑रिति प्रथमान्तम् ।आर्धधातुके॑इत्यधिकृतम् ।घुमास्थागापाजहातिसा॑मित्यनुवर्तते । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहवचनम् । तदाह — घुसंज्ञानां मास्थादीनामिति । किति लिङिति ।दीङो यु॑डित्यतः कितीत्यनुवृत्तेरिति भावः । ङितीति नानुवर्तते, लिङार्धधातुकस्य ङित्त्वाऽसंभावात् ।", "64068": "<<वाऽन्यस्य संयोगादेः>> - आशीर्लिङि आत्त्वे कृते ग्ला-यात्-इति स्थिते — वाऽन्यस्य । आर्धधातुक इत्यधिकृतम् ।एर्लिङी॑त्यनुवर्तते ।ए॑रिति प्रथमान्तम् ।आतो लोप इटि चे॑त्यत 'आत' इत्यनुवर्तते । कस्मादन्यस्येत्यपेक्षायां घुमास्थागापाजहातिसां हली॑ति प्रकृतत्वात्तेभ्योऽन्यस्येति लभ्यते । तदाह — घुमास्थादेरित्यादिना । कतीति ।दीङो युडचि क्ङिती॑त्यतस्तदनुवृत्तेरिति भावः । ङितीति तु नानुवर्तते, लिङार्धधातुकस्य ङित्त्वाऽसंभवात् । अग्लासीदिति ।यमरमे॑त्यादन्तत्वात्सगिटौ । अग्लासिष्टामग्लासिषुरित्यादि । अग्लास्यत् । म्लायतीति । ग्लैधातोरिव रूपाणीति भावः । द्यै न्यक्करणे ।यकारमध्योऽयम् । इत आरभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि । 'रै शब्दे' इत्यादीनां त्वसंयोगादीनामाशीर्लिङिवाऽन्यस्य संयोगादे॑रित्येत्त्वं न भवति, [तेन] रायादित्यादि रूपमिति विशेषः । स्त्यै ष्टऐ इति । षोपदेशेषु स्त्यादातोः पर्युदासाद्यो न षोपदेशः । द्वितीयस्तु षोपदेशः । तकारस्य ष्टुत्वसंपन्नटकारनिर्देशः । सत्वे कृते इति ।धात्वादे॑रिति षस्य सकारे सति निमित्ताऽपायात् ष्टुत्वनिवृत्तिरिति भावः । तिष्टआसतीति । ष्टऐधातोः कृतसत्वात्सनि आत्त्वे स्त्या स इति सन्नन्ताल्लटि तिपि सपिसन्यङो॑रिति द्वित्वे 'शर्पूर्वाः खयः' इति सकारयकारनिवृत्तौ 'तास्त्यासति' इति स्थिते अभ्यासह्रस्वे 'सन्यतः' इति इत्वे सकारस्य इणः परत्वादादेशसकारत्वाच्च षत्वेतिष्टआसती॑ति रूपम् । स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाऽभावात्षत्वं न स्यादिति भावः । अतिष्टपदिति । ष्टऐधातोः कृतसत्वाण्णौ आत्त्वे॒अतिह्यी॑ ति पुकि स्त्यापि इति ण्यन्ताल्लुङि अडागमे तिपि 'इतश्च' इति इकारलोपेणिश्रिद्रुरुआउभ्यः॑ इति च्लेश्चङिणेरनिटी॑ति णिलोपे 'णौ चङ्युपधायाः' इति ह्रस्वे 'चङि' इति स्त्यबित्यस्य द्वित्वेशपूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्यां 'सन्यतः' इति इत्वे, इणः परत्वादादेशसकारत्वाच्च सस्य षत्वे, तस्य ष्टुत्वे अतिष्ठपदितिरूपम् । स्वाभाविकसकारत्वेत्वादेशसकारत्वाऽभावात्षत्वं न स्यादिति भावः । जजौ ससाविति । जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः । ननुएर्लिङी॑त्यत्रघुमास्थागापाजहातिसा॑मित्यनुवृत्त्या सैधातोराशीर्लिङिसाया॑दित्यत्र एत्त्वं स्यत् । तथा लुङि सगिटोः — असासात् असासिष्टामित्येव इष्यते । तत्रविभाषा घ्राधेट्शाच्छासः॑ इति स#इचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह — घुमास्थेत्यत्रेत्यादि । स्यतेरिति । 'षो अन्तकर्मणि' इति श्यन्विकरणस्येत्यर्थः । अत्र व्याख्यानमेव शरणम् ।विभाषा घ्राधेडि॑त्यत्र श्यन्विकरणाभ्यां साहचर्याच्च । पै ओ वै । पायति । वायति ।ओदितश्चे॑ति निष्ठानत्वार्थमोदित्त्वम् । ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्रघुमास्थागापाजहातिसां हली॑ति ईत्त्वं स्यात् । तथा आशीर्लिङि पायादित्यत्रएर्लिङी॑त्येत्वं स्यात्, तत्रापिघुमास्थागापाजहातिसा॑मित्यनुवृत्तेः, तथा लुङिअपासी॑दित्यत्रगातिस्थे॑ति सिचो लुकियमरमे॑ति इटोऽभावात्तत्संनियोगशिष्टः सगपि न स्यादित्यत आह — — घुमास्थेतीत्त्वमित्यादिना । पारूपस्येति । उदाहृतसूत्रत्रये लक्षणप्रतिपदोक्तपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोग्र्रहणं, नतु पैधातोः कृतात्वस्येति भावः । एवं च प्रकृते पैधातोराशीर्लिङि पायादित्येव रूपम् । लुङि सगिटोः अपासीत्, अपासिष्टामित्येव रूपम् । ष्ट इति । षोपदेशोऽयम् । कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह — स्तायतीति । ष्णैधातुरपि षोपदेशः कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह — स्नायतीति । दैप् । अघुत्वादिति । घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तेरिति भावः । पा पाने । पिबादेश इति । 'शिद्विषय' इति शेषः । तस्येति । पिबादेशस्य अदन्तत्वान्न लघूपधगुण इति भाष्ये स्पष्टम् । अनिडयम् । पपौ पपतुः पपुः । भारद्वाजनियमात्थलि वेट् — पपिथ-पपाथ पपथुः पप । पपौ पपिव पपिम । क्रादिनियमादिट् । पाता । पास्यति । पिबतु । अपिबत् । पिबेत् । आशीर्लिङि 'एर्लिङ' इत्येत्त्वमभिप्रेत्याह — पेयादिति ।गातिस्थे॑ति सिचो लुगित्यभिप्रेत्याह — आपादिति । अपातामपुः । अपाः अपातमपात । अपामपाव अपाम । अपास्यत् । घ्रा ।पाघ्राध्मे॑ति शिद्विषये जिघ्रादेशः । तदाह — जिघ्रतीति । अनिडयम् । जघ्रौ जघ्रतुः जघ्रुः । भारद्वाजनियमात्थलि वेट् — जघ्रिथ जघ्राथ जघ्रथुः जघ्र । जघ्रौ जघ्रिव जघ्रिम । क्रादिनियमादिट् । घ्राता घ्रास्यति । जिघ्रतु । अजिघ्रत् । जिघ्रेत् । आशीर्लङिवाऽन्यस्य संयोगादे॑ रित्येत्त्वविकल्पं मत्वा आह - घ्रायात् घ्रेयादिति ।विभाषा घ्राधे॑डिति सिचो वा लुक् । लुगभावपक्षे आदन्तत्वात्सगिटौ । तदाह — अघ्रात् अघ्रासीदिति । ध्माधातुरनिट् ।पाघ्राध्मे॑ति शिद्विषये धमादेशः । तदाह — धमतीति । दध्मौ दध्मतुः दध्मुः । दध्मिथ — दध्माथ, दध्मथुः दध्म । दध्मौ दध्मिव दध्मिम । ध्माता.ध्मास्यति । धमतु । अधमत् । धमेत् । ध्मायात् — ध्मेयात् । अध्मासीत् । अध्मास्यत् । ष्ठाधातुः षोपदेशः कृतष्टुत्वनिर्देशः । शिद्विषयेपाग्रे॑ति तिष्ठादेशः । तदाह — तिष्ठतीति । तस्थौ । अधितष्ठावित्यत्र इण्कवर्गाभ्यां परत्वाऽभावेऽपि षत्वमाह — स्थादिष्विति । तस्थतुः तस्थुः । तस्थिथ — तस्थाथ, तस्थथुः तस्थ । तस्थौ तस्थिव तस्थिम । स्थाता । अधिष्ठातेत्यत्रसात्पदाद्यो॑रिति षत्वनिषेधमाशङ्क्याह — उपसर्गादिति षत्वमिति । स्थास्यति । तिष्ठतु । अतिष्ठत् । तिष्ठेत् । आशीर्लिङि संयोगादित्वेऽपि घुमास्थादेरन्यत्वाऽभावादेत्त्वविकल्पो न, किंतुएर्लिङी॑ति नित्यमेव एत्त्वम् । तदाह — स्थेयादिति ।गातिस्थे॑ति सिचो लुक् । अस्थात् । अस्थास्यत् । म्ना इति । अयमप्यनिट् ।पाध्रे॑ति शिद्विषये मनादेशः । तदाह — मनतीति । मम्नौ मम्नतुः मम्नुः । मम्निथ — मम्नाथ मम्नथुः मम्न.मम्नौ मम्निव मम्निम । म्नाता । म्नास्यति । मनतु । अमनत् । मनेत् । म्नायात् — म्नेयात् । अम्नासीत् । अम्नास्यत् । दाण् दाने । अयमप्यनिट् । 'पाघ्रे' ति शिद्विषयेय यच्छादेशः । प्रणियच्छतीति ।नेर्गदे॑ति णत्वम् । ददौ ददतुः ददुः । ददिथ-ददाथ ददथुः दद । ददौ ददिव ददिम । दाता । दास्यति । यच्छतु । अयच्छत् । यच्छेत् । आशीर्लिङिएर्लिङी॑त्येत्त्वं मत्वा आह — देयादिति ।गातिस्थे॑ति सिचो लुकं मत्वा आह — अदादिति । ह्व्ट कौटिल्ये । अयमप्यनिट् । ह्वरतीति । शपि गुणे रपरत्वम् ।", "64069": "", "64070": "", "64071": "<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> - लुङ्लङ्लृङ्क्ष्वु । अङ्गस्येत्यधिकृतम् । तादह — एषु परेषु अङ्गस्येति । अन्तरङ्गत्वान्नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणेऽवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः ।लावस्थायामेवाऽडागम॑ इति तु पक्षान्तरं भाष्ये स्थितम् ।", "64072": "<<आडजादीनाम्>> - अथ एधधातोर्लङि लुङ्लङ्लृङ्क्ष्वडुदात्त इत्यडागमे वृदिंध बाधित्वा परत्वादतो गुण इति पररूपे प्राप्ते — आडजादीनां । लुङादिष्विति । 'लुङ्लङ्लृङ्क्ष्वि' त्यनुवृत्तेरिति भावः । अटोऽपवाद इति । अटि सति पररूपं स्यादिति भावः ।आटश्चेत्यनन्तरंवृद्धि॑रिति शेषः । यद्यपि वृद्धिरेचीति वा वृद्धौ इदं सिध्यति तथापि ऐक्षतेत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति । लङस्तादेशे शपि आडागमे आटश्चेति वृद्धिः । लङादेशानां टिदादेशत्वाऽभावादेत्वं न भवति ।आडजादीना॑मिति सूत्रं भाष्ये प्रत्याख्यातम् । ऐधेतामिति । आतामि शपि आटि वृद्धिः । 'आतो ङित' इत्याकारस्य #इय् । आद्गुणः । आटो वृद्धिः । ऐधावहि ऐधमहीति । वहिमह्योः शप्, आट्, वृद्धिः । इति लङ्प्रक्रिया ।", "64073": "", "64074": "", "64075": "", "64076": "", "64077": "<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> - कुमारी-औ इति स्थितेइको यणची॑ति यणपवादमियङमाशङ्कितुमाह — अचि श्नु । इस्च उश्च यू, तयोः — य्वोः=इवर्णोवर्णयोरित्यर्थः । श्नुश्च धातुस्च भ्रूश्चेति द्वन्द्वः । प्रत्ययग्रहणपरिभाषया श्नुप्रत्ययान्तं विवक्षितं ।य्वो॑रिति धातोरेव विशेषणं, ततस्तदन्तविधिः । श्नुभ्रुवोस्तु नित्यमुवर्णान्तत्वान्न तद्विशेषणम् । इवर्णान्तत्वं तु असंभवान्न तद्विशेषणम् ।संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थव॑दिति न्यायात् ।अङ्गस्ये॑त्यधिकृतं ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणं । तदादिविधिः । तदाह — श्नुप्रत्ययान्तस्येत्यादिना । य्वोः किम् चक्रतुः । अचीति किम् । आप्नुयात् । इयङ् उवङित्यनयोरनेकाल्त्वात्सर्वादेशत्वमाशङ्क्य आह — ङिच्चेत्यन्तादेश इति । नचश्नुधातुभ्रुवामिवर्णोवर्णयोः॑ इत्येवं व्याख्यायतां ङित्त्वं च न क्रियतामिति वाच्यम्, एवं सतिक्षिपती॑त्यादावतिव्याप्तेः । नचाऽजादिप्रत्यये परत इत्यनेन तन्निरासः शङ्क्यः, अङ्गाक्षिप्तप्रत्ययपरकत्वस्याङ्गविशेषणताया एवोचितत्वादित्यलम् । आन्तरतम्यादिति । तालुस्थानकस्य इवर्णस्य तादृश एव इयङ् । ओष्ठस्थानकस्य उवर्णस्य तादृश एवोवङित्यर्थः । इतीयङि प्राप्ते इति ।कुमारी औ इत्यादा॑विति शेषः ।", "64078": "<<अभ्यासस्यासवर्णे>> - लिटि णलः पित्त्वेन कित्तवाऽभावात्प्राप्तस्यापि लघूपधगुणस्य 'द्विर्वचनेऽचीति' निषिद्धतया गुरुमत्त्वाऽभावादामभावे सति पूर्वं द्वित्वे कृते हलादिशेषे पश्चात् 'वार्णादाङ्गं बलीय' इति परिभाषाया अन्तरङ्गमपि सवर्णदीर्गं बाधित्वा लघूपधगुणे कृते उ ओख अ इति स्थिते, उवर्णस्य यणि प्राप्ते — अभ्यासस्य । 'अचि श्नुधात्वि' त्यतोऽचीति, य्वोरियङुवङाविति चानुवर्तते । इश्च उश्च यू, तयोरिति विग्रहः । अभ्यासविशेषणमिदं ! तदन्तविधिः । तदाह — इवर्णोवर्णान्तरस्येति । ङित्त्वादन्तादेशौ । उवोखेति ।अचि श्नुधात्वि॑त्यस्य तु नात्र प्राप्तिः, अजादौ प्रत्यये परत एव तत्प्रवृत्तेः, अभ्यासस्य अङ्गत्वाऽभावाच्च । ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादित्यत आह — संनिपातेति । णलि परे विहितगुणसंपन्नामिजदिगुरुमत्त्वमाश्रित्य आमं गुणो न प्रवर्तयति, आमि सति धातोर्णल्परकत्वव्याघातादिति भावः । ऊखतुरिति । अपित्त्वेन कित्त्वाल्लघूपधगुणाऽभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्याससस्याऽसवर्ण इति इयङभावे सवर्णदीर्घे रूपमिति भावः । ननुऊखतु॑रित्यत्र ऊकारस्य सवर्णदीर्घसंपन्नस्य एकादेशतया पूर्वान्तत्वेनाऽभ्याससंबन्धित्वात् 'ह्रस्व' इत्यभ्यासस्याऽचो विधीयमानो ह्रस्वः प्राप्नोतीत्याशङ्कते — इहेति । अथ परहरति — न भवतीति । कुत इत्यत आह — सकृत्प्रवृत्तत्वादिति । तदेवोपपादयति — आङ्गत्वादिति.उ-उखतुरिति स्थिते पर्जन्यवल्लक्षणप्रवृत्त्या अभ्यासह्रस्वे सवर्णदीर्घेऊखतु॑रिति स्थितिः । तत्र ऊकारस्य पुनरभ्यासह्रस्वो न भवति ।लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायादित्यर्थः । ननु वर्णमात्रापेक्षत्वेनाऽन्तरङ्गतया प्रथमं सवर्णदीर्घ एव स्यादिति ह्रस्वस्य प्रथमं प्रवृत्तिर्दुरुपपादेत्यत आह — वार्णादिति । तथा चानया परिभाषया बहिरङ्गोऽपि ह्रस्व एव प्रथमं प्रवर्तत इति भावः । परत्वाच्चेति । नन्विदमनुपपन्नम्, उक्तरीत्या अन्तरङ्गं सवर्णदीर्घं प्रति ह्रस्वस्य परत्वकथनाऽनौचित्यादिति चेन्न, परत्वादित्यस्य परकालप्राप्तकत्वादित्यर्थात् । अभ्यासविकारेषु परस्परं बाध्यबाधकभावाऽभावेन युगपदेव हलादिशेषे ह्रस्वे च कृते पश्चात्प्रवर्तमानस्य सवर्णदीर्घस्य पूर्व पूर्वमन्तरङ्गं, परं परं बहिरङ्ग॑मिति न्यायेन बहिरङ्गत्वादित्यलम् । उङ्खतीति । इदित्त्वान्नुम् । ववाखेति । वखधातोर्णलि उपधावृद्धिः । ववखतुरिति । वादित्वादेत्त्वाभ्यासलोपौ न । वङ्खतीति । वखिधातोरिदित्त्वान्नुम् । ववङ्ख । मेखतुरिति । एत्त्वाभ्यासलोपौ । [मङ्खतीति । मखिधातोरिदित्त्वाभ्यासलोपौ न । ममङ्खेति । संयुक्तहल्मद्यस्थत्वादेत्वाभ्यासलोपौ न । नखति नङ्खतीति । 'णो नः' इति नत्वम् । रखतीति । णलि तु उपधावृद्धिः । रराख । अतुसादावेत्वाभ्यासलोपौ — रेखतुरित्यादि । रङ्खतीति । इदित्त्वान्नुम् । ररङ्ख । एखतीति । इखधातोः शपि लघूपधगुणः । इयेख । ईखतुः । इङ्खतीति । इदित्त्वान्नुम् । इङ्खांचकार । ईङ्खतीति । अलधूपधत्वान्न गुणः । ईङ्खाचकार । वल्गतीति । लिटि ववल्ग ववल्गतुः । रङ्गतीति लङ्गतीति । ररङ्गतुः । अङ्गतीति । लिटि — आनङ्ग । वङ्गतीति । लिटि — ववङ्ग ववङ्गतुः । मङ्गतीति । लिटि — ममङ्ग ममङ्गतुः । तङ्गतीति । लिटि — ततङ्ग ततङ्गतुः । त्वङ्गतीति । लिटि तत्वङ्ग तत्वङ्गतुः । श्रङ्गतीति । लिटि — शश्रङ्ग शश्रङ्गतुः । श्लङ्गतीति । लिटि — शश्लङ्ग शश्लङ्गतुः । इङ्गतीति । लिटि इङ्गांचकार । रिङ्गतीति । लिटि — रिरिङ्ग रिरङ्गतुः । लिङ्गतीति । अथखान्तेषु रिखादिचतुर्णां मतान्तरसिद्धानामुदाहरणमाह — रेखतीति । शपि लघूपधगुणः । रिरेख रिरिखतुः । त्रखतीति । लिटि — तत्राख तत्रखतुः । त्रिङ्खतीति । लिटि — तित्रिङ्ख त्रित्रङ्खतुः । शिङ्खतीति । लिटि शिशिङ्ख शिशिङ्खतुः । त्वगि कम्पने चेति । चाद्गतौ । त्वङ्गति तत्वङ्ग । युगीति । त्रयोऽपि इदितः । युङ्गति बुङ्गति जुङ्गति । घघ हसने इति । घघति । णलि उपधावृद्धिः । जघाघ जघघतुः । लिण्निमित्तादेशादित्वादेत्त्वाभ्यासलोपौ न । मघि मण्डन इति । इदित्त्वान्नुमित्याह — मङ्घतीति । ममङ्घ ममङ्घतुः । शिघि आघ्राण इति । शिङ्घति शिशिङ्घ । फक्कादयः पञ्चाशद्गताः । वर्च दीप्ताविति । दीप्तिः- प्रकाशः । षच सेचन इति । अच्परकसादित्वात् षोपदेशोऽयम् । स्वरितेत्सु 'षच समवाये' इति वक्ष्यते । सेचेति । सत्वस्य लिण्निमित्तत्वाऽभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ । दम्भः शाठं चेति । परविरुआम्भार्थ धर्माद्याचरणं दम्भः — कापटआऽपरपर्यायः ।कपटोऽस्त्री व्याजदम्भोपधयःर॑ इत्यमरः । शाठं कुटिलीभावः ।निकृतस्त्वनृजुः शठः॑ इत्यमरः । पचि व्यक्तीकरम इति । 'पचि विस्तारे' इति चुरादौ वक्ष्यते ।पचे॑त्येके । ष्टुच प्रसाद इति । ष्टुत्वसंपन्नष्टकारः । ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् । स्तोचत इति । षस्य सत्वे सति ष्टुत्वं निवर्तत इति भावः । तुष्टुचे इति । 'सर्पूर्वाः खयः' इति तकारशेषः । आदेशसकारत्वात् षत्वम् । ऋज गतीति । अर्जनं -संपादनम् । उपार्जनं — सेवनम् ।ऊर्जनेष्वि॑त्यन्ये । अर्जत इति । शपि लघूपधगुणः । रपरत्वम् । नुड्विधाविति । वार्तिकमिदम् । आनृज इति । लिटोऽसंयोगादिति कित्त्वाद्गुणाऽभावे द्वित्वे उदरत्वे रपरत्वे हलादिः शेषे अत आदेरिति दीर्घे नुडिति भावः । ऋजी भृजी इति.ऋदुपधौ द्वौ । आद्य इदित् । द्वितीयस्य ईदित्त्वात्श्वीदितो निष्ठाया॑मिति नेट् । इदित्त्वान्नुम् । अनुस्वारपरसवर्णौ । ऋञ्जांचक्र इति । नुमि सतिसंयोगे गुर्वि॑ति ऋकारस्य गुरुत्वादिजादेश्चेत्याम् । ऋञ्जिता । ऋञ्जिष्यते । ऋञ्जताम् । आर्ञ्जत । ऋञ्जेत । ऋञ्जिषीष्ट । अथ लुङि रूपं दर्शयति — आर्ञ्जिष्यत । भर्जत इति । शपिलघूपधगुणः । रपत्वम् । बभृजे । भर्जिता । भर्जिष्यते । भर्जताम् । अभर्जत । भर्जेत । भर्जिषीष्ट । लुङि रूपमाह — अभर्जिष्टेति । लुङस्तादेशः । च्लिः सिच् । इट् । गुणः । रपरत्वम् । अडागमः । षत्वं । ष्टुत्वम् । लृङि — अभर्जिष्यत । एजृ भ्रेजृ भ्राजृ इति । आद्ययोरृदित्वंनाग्लोपी॑त्यर्थम् । तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति । ऋदित्त्वस्य न किञ्चित्फलमस्ति । न चनाग्लोपी॑ति चङ्परे णौ उपधाह्रस्वः फलं भवितुमर्हति,भ्राजभासे॑त्यादिना तत्र उपधाह्रस्वविकल्पस्य वक्ष्यमाणत्वात् । ईज गतीति । अलघूपधत्वान्न गुणः । ईजते । ईजांचक्र इति । इजादेश्चेत्याम् । वर्चादय एकविंशतिर्वृत्ताः । द्विसप्ततिरिति । 'चवर्गीयान्ता' इति शेषः । शुच शोक इति । स्मृत्वा क्लेशः — शोकः । शोचतीति । वियुक्तं पित्रादिकं स्मृत्वा क्लिश्नातीत्यर्थः । कुच शब्द इति । शब्दनं शब्दः । चुकोच चुकुचतुः । अकोचीत् । कुञ्च क्रुञ्चेति । उभावपि चवर्गपञ्चमोपधौ । कुञ्चतौ अनुस्वारपरसवर्णसंपन्नस्य नकार्थानिकञकारस्य धातुपाठे निर्देशः । धातुपाठे॒नकारजावनुस्वारपञ्चमौ॑ इत्यभियुक्तवादात् । तदाह — अनिदितामिति । अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्त्वेन आशीर्लिङिअनिदिता॑मिति नलोपे कुच्यादिति रूपमतित्यर्थः । लिटि तु चुकुञ्च चुकुञ्चतुरित्यादौ पित्त्वेन संयोगात्परत्वेन च कित्त्वाऽभावान्नलोपो न भवति । क्रुञ्चधातुस्तु स्वाभाविकञकारोपध एव, न त्वनुसारपरसवर्णसंपन्नञकारोपध इतिपरेश्च घाङ्कयो॑रिति सूत्रे भाष्यकैयटयोः स्थितम् । अतस्तस्याशीर्लिङिअनिदिता॑मिति नलोपः । तदाह — लुच्यादिति । एवमञ्चुधातोरपि द्रष्टव्यम् । पूजायां त्विति ।नाञ्चेः पूजाया॑मिति निषेधादिति भावः । वञ्चु चञ्चु तञ्चु इति । आद्याः षट् नोपधाः । अनुस्वारपरसवर्णाभ्यां ञकारनिर्देशः । तथा च तेषामाशीर्लिङिअनिदिता॑मिति नलोपः । तदाह — वच्याद#इति । लुङि अम्रुञ्चीत् । अम्लुञ्चीदिति नोपधयो रूपम् । सिज्लोपः ।", "64079": "<<स्त्रियाः>> - स्त्रियाः । अचि श्नुधात्वित्यतोऽचीति इयङिति चानुवर्तते । तदाह — स्त्रीशब्दस्येत्यादिना । स्त्रियौ स्त्रिय इति । औजसोः रूपम् । अमि शसि च स्त्रियां स्त्रिय इति नित्यमियङि प्राप्ते ।", "64080": "<<वाऽम्शसोः>> - वाऽम्शसोः । वा-अम्शसोः इति च्छेदः । स्त्रिया इति इयङिति चानुवर्तते । तदाह — अमिशसि चेत्यादिना । स्त्रियमिति । इयङि रूपम् । स्त्रीमिति । इयङभावे-अमि पूर्वः । स्त्रियाविति । औटि रूपम् । स्त्रियः स्त्रीरिति । शसि 'वाम्शसोः' इति इयङि तदभावे च रूपम् । स्त्रियेति । इयङ् । स्त्रियै इति । 'आण्नद्या' इत्याट्, वृद्धिः, इयङ् । स्त्रिया इति । ङसिङसोराट्, वृद्धिः, इयङ् । स्त्रिया इति । ओसि इयङ् । परत्वान्नुडिति । आमि 'स्त्रियाः' इति इयङं बाधित्वा परत्वान्नुट् । स्त्रीणामिति । कृते नुटि अजादिविभक्त्यभावान्नेयङ् । स्त्रियामिति । ङेराम् इयङ् । अथ प्रसङ्गात्पुंसि नपुंसके च स्त्रीशब्दस्य विशेषं दर्शयति — स्त्रियमतिक्रान्तोऽतिस्त्रिरिति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः ।गोस्त्रियो॑रिति ह्रस्वत्वम् । दीर्घङ्यन्तत्वाऽभावादीकाररूपङ्यन्तत्वाऽभावाद्वा हल्ङ्यादिलोपो न भवति । अतिस्त्रियाविति । 'स्त्रियाः' इत्यस्याङ्गत्वात्तदन्तेऽपि एकदेशविकृतन्यायेन प्रवृत्तेरियङिति भावः ।अथ जस्, टा, ङे, ङसि, ङस्, आम्, ङीत्येषु अति स्त्रीशब्दस्य इयङ् नेत्येतत् श्लोकेन सङ्गृह्णाति — गुणनाभावेत्यादिना । पुंसि गुणनाभावौत्त्वनुङ्भिः, क्लीबे नुमा च परत्वात् स्त्रीशब्दस्य इयङ् बाध्यते-इत्यवधार्यतामित्यन्वयः । जसि चेति घेर्ङितीति च गुणः,आङो नाऽस्त्रिया॑मिति नात्वम्, 'अच्च घेः' इत्यौत्त्वम्, 'ह्रस्वनद्यापः' इति नुट्, 'इकोऽचि विभक्तौ' इति नुम् , एतेषामियङपेक्षया परत्वादित्यर्थः ।जसि चे॑त्यनन्तरम् 'इति गुण' इति शेषः । अतिस्त्रय इति । इयङं बाधित्वा गुणेऽयादेशे रूपम् । हे अतिस्त्रे इति । 'ह्रस्वस्य गुणः' इति गुणेएङ्ह्रस्वा॑दिति सम्बुद्धिलोपः । 'वाम्शसोः' इति इयङ् । अतिस्त्रीनिति । इयङ्भावे पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् । टा-अतिस्त्रिणा । इयङं बाधित्वा परत्वात्आङो नाऽस्त्रिया॑मिति नात्वम् । भ्यामादिष्वविकृतम् । ङे अतिस्त्रये । इयङं बाधित्वा परत्वात्घेर्ङिती॑ति गुणेऽयादेशः । ङसिङसोः-अतिस्त्रेः । परत्वात्घेर्ङिती॑ति गुणेङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रियोः । इयङ् । आमि इयङं । बाधित्वा परत्वान्नुटि नामीति दीर्घे णत्वम् — अति-स्त्रीणाम् । इयङं बाधित्वा परत्वात्अच्च घेः॑ । अतिस्त्रौ अतिस्त्रियोः अतिस्त्रिषु ।अथ पुंसि पूर्वश्लोकसिद्धमेवार्थं बालबोधाय लघुतरोपायेन संगृह्णाति — ओस्यौकारे चेत्यादिना । उपसर्जनत्वदशायां पुंसि विद्यमानस्य स्त्रीशब्दस्य अचि य इयादेशः 'स्त्रियाः' इति सूत्रविहितः स ओसि षष्ठीसप्तमीद्विवचने, औकारे च प्रथमाद्वितीयाद्विवचने च नित्यं स्यात् । अम्शसोस्तु विभाषया=विकल्पेन स्यात् । उक्तचतुर्भ्योऽन्यत्र तु अचि सर्वत्र इयादेशः स्यादिति योजना । क्लीवे तु नुमिति । 'इयङं बाधते' इति शेषः । अतिस्त्रि इति । स्त्रियमतिक्रान्तं कुलम्-अतिस्त्रि । 'स्वमोर्नपुंसकात्' इति सुलुक् । अतिस्त्रिणी इति । अतिस्त्रि-औ इति स्थितेनपुंसकाच्चे॑त्यौङः शीभावः । इयङं बाधित्वा परत्वात् 'इकोऽचि विभक्तौ' इति नुम् । असर्वनामस्थानत्वान्न दीर्घः । णत्वम् । अतिस्त्रीणीति ।जश्शसोः शिः॑ । स्त्रिया॑ इति इयङं जसि चेति गुणं च बाधित्वा नुम् ।शि सर्वनामस्थान॑मिति सर्वनामस्थानत्वाद्दीर्घः । णत्वम् । टा-अतिस्त्रिणा । इयङं नुम् च बाधित्वा नाभावः । ङेप्रभृतावजादाविति । ङे, ङसि,ङस्, आम्, ङि, ओस्-इत्येतेषुतृतीयादिषु भाषिते॑ति पुंवद्भावस्य वक्ष्यमाणत्वात्पुंवद्भावपक्षे पुंलिङ्गातिस्त्रिशब्दवद्रूपम् । पुंवत्त्वा ।भावपक्षे नुमि वारिवद्रूपमित्यर्थः । टायां तु पुंवत्त्वे तदभावे च नात्वे रूपे विशेषाऽभावान्ङेप्रभृतावित्युक्तम् । तिस्त्रये इति । पुंवत्त्वेघेर्ङिती॑ति गुणोऽयादेशः । अतिस्त्रिणे इति । पुंवत्त्वाऽभावे नुमि रूपम् । इहोभयत्रापि गुणेन नुमा च इयङ् बाध्यते । अतिस्त्रेरिति । ङसिङसोः पुंवत्त्वपक्षेघेर्ङिती॑ति गुणेङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रिण इति । ङसिङसोः पुंवत्त्वाऽभावपक्षे नुमि रूपम् । इहाप्युभयत्र गुणनुम्भ्यामियङ् बाध्यते । अतिस्त्रियोः अतिस्त्रिणोरिति । पुंवत्त्वाऽभावे नुम् । पुंवत्त्वे इयङ् । इत्यादीति । आमि पुंवत्त्वे तदभावे च इयङं बाधित्वा नुडेव, नतु नुम्,नुमचिरे॑ति वचनात् ।नामी॑ति दीर्घः । अतिस्त्रीणाम् । अतिस्त्रौ-अतिस्त्रिणि । अतिस्त्रियोः -अतिस्त्रिणोः । तदेवमुपसर्जनस्त्रीशब्दस्य पुंनपुंसकविषये रूपाणि प्रदश्र्य प्रकृतमनुसरतिस्त्रियां त्विति । स्त्रियमतिक्रान्तेति विग्रहे 'अत्यादयः' इति समासे 'गोस्त्रियोः' इति ह्रस्वत्वे सति अतिस्त्रिशब्दः । तस्य प्रायेण उदाहृतपुंलिङ्गाऽतिस्त्रिशब्दपद्रूपाणीत्यर्थः । शसि अतिस्त्रीरिति । 'वाम्शसोः' इति इयङभावे पूर्वसवर्णदीर्घे सत्यपि स्त्रीलिङ्गत्वात् 'तस्माच्छसः' इति नत्वं नेति । भावः । अतिस्त्रियेति । स्त्रीलिङ्गत्वान्नात्वाऽभावे इयङ् । ह्रस्वान्तत्वेति ।ङिति ह्रस्वश्चे॑त्यत्रइयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वास्तः॑ इति प्रथमं वाक्यं ।ह्रस्वाविवर्णोवर्णौ स्त्रिया नदीसंज्ञौ वा स्तः॑ इति द्वितीयं वाक्यम् । तत्र द्वितीयवाक्यादतिस्त्रिशब्दस्य ङित्सु नदीत्वविकल्प इत्यर्थः । ननुनेयङुवङ्स्थानावस्त्री॑त्यतोऽस्त्रीत्यस्यानुवृत्तेः कथमिह नदीत्वविकल्पैत्यत आह — अस्त्री इति त्विति ।इयङुवङ्स्थाना॑वित्यादिप्रथमवाक्यविहितनदीत्वस्यैवास्त्रीति पर्युदासो नतुह्रस्वा॑वित्यादिद्वितीयवाक्यविहितनदीत्वस्यापीत्यर्थः । कुत इत्यत आह — तत्संबद्धस्यैवानुवृत्तेरिति ।", "64081": "<<इणो यण्>> - इणो यण् ।अचि श्नुधातु॑इत्यतोऽचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाऽङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — अजादौ प्रत्यये परे इति । इयङोऽपवाद इति । इयङि प्राप्ते एव तदारम्भादिति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । यथा — अयनम् । आयकः । यन्तीति । एषि इथः इथ । एमि इवः इमः । इयायेति । द्वित्वे सति उत्तरखण्डवृद्धावायादेशे 'अभ्यासस्याऽसवर्णे' इतीयङ् । अतुसि तु द्वित्वे कित्त्वाद्गुणाऽभावे इ इ अतुस् इति स्थितेइणो य॑णित्युत्तरखण्डस्य यणि इ-यतुरिति स्थिते -", "64082": "<<एरनेकाचोऽसंयोगपूर्वस्य>> - एरनेकाचः ।इणो य॑णित्यतो यणित्यनुवर्तते । एरिति षष्ठन्तम् । इवरस्येत्यर्थः । पूर्वसूत्रे श्नुधातुभ्रुवामिति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृत्य षष्ठन्तमनुवर्तते नतु श्नुभ्रुवावपि । तत्र इवर्णाऽभावात् । धातोरित्यनुवृत्तं चावर्तते । एकमवयवषष्ठन्तम्, अन्यत्स्थानषष्ठन्तम् । एरिति च धातोरिति षष्ठन्तस्य विशेषणं, ततः-तदन्तविधिः । इवर्णान्तधातोरित्यर्थः । अवयवषष्ठन्तं धातोरित्येतत्-॒असंयोगपूर्वस्ये॑त्यत्र संयोगांशेऽन्वेति । धात्ववयवसंयोगः पूर्वा यस्मात्स धात्ववयवसंयोगपूर्वः, तद्भिन्नः=असंयोगपूर्वः , तस्येति इवर्णविशेषणम् ।अङ्गस्ये॑त्यधिकृतं स्थानषष्ठयन्तधातुना विशेष्यते, तदन्तविधिः । अनेकोऽच् यस्य तस्य अनेकाच इत्यङ्गान्वयि ।अचि श्नुधातुभ्रावा॑मित्यतोऽचीत्यनुवर्तते । तच्चाङ्गाक्षिप्तस्य प्रत्ययस्य विशेषणं तदादिविधिः । तदाह-धात्ववयवेत्यादिना । हरिं हरीनित्यादौ यण्निवृत्त्यर्थंधातो॑रित्यङ्गविशेषणम् । अन्यथा प्रध्यमित्यादाविव पूर्वरूपादीन्बाधित्वा यण् स्यात् । धात्ववयवेति संयोगाविशेषणस्य तु प्रयोजनम् । उन्नीशब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति ।अनेकाचोऽसंयोगा॑दित्येव सुवचम् । य्वोरित्यनुवर्तते ।धात्ववयवसंयोगात्परौ न भवतो यौ इवर्णोवर्णौ तदन्तस्ये॑त्यर्थलाभः ।ओः सुपी॑ति तु नियमार्थः-॒उवर्णस्य सुप्येव य॑णिति । ततश्च लुलुवतुरित्यादौ त्वतिप्रसङ्गाऽभाव इत्यलम् । इति यणिति । कुमार्यौ, कुमार्य इत्यत्र 'एरनेकाचः' इति इयङपवादो यणित्यर्थः । नन्वन्तर्वर्तिसुपा अमाक्यजन्तस्य कुमारीशब्दस्य पदत्वात् 'इकोऽसवर्णे' इति प्रकृतिभावः स्यात् । अल्लोपस्य स्थानिवद्भावेऽपि तमाश्रित्यैव स दुर्वार #इति चेन्मैवम् — ॒नः क्ये॑ इति क्यचि नान्तस्यैव पदत्वनियमात् । अमि शसि चेति । अमि पूर्वरूपं शसि पूर्वसवर्णदीर्घं च बाधित्वा इयङि प्राप्ते तदपवादे 'एरनेकाचः' इति यणि, अमि कुमार्यं, शसि कुमार्य इति रूपम् । 'तस्माच्छसः' इति नत्वं तु न, कृतपूर्वसवर्णदीर्घात्परत्वाऽभावात् । तथाच बहुश्रेयसीशब्दापेक्षया अम्शसोरेव रूपे विशेष इति भावः । प्रधीरिति । प्रध्यायतीति प्रधीः ।ध्यायतेः संप्रसारणं चे॑ति क्विप् । यकारस्य संप्रसारणमिकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घः । कृदन्तत्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः । अजादौ सर्वत्र 'एरनेकाचः' इति यणेव । अस्त्रीत्वान्नदीकार्यं न । हे प्रधीः प्रध्यौ प्रध्यः । प्रध्यं प्रध्यः । प्रध्या । प्रध्ये । प्रध्योः । प्रध्यि । प्रकृष्टा दीर्यस्य स इति विग्रहे तु दीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति नदीत्वान्नदीकार्यम् । अङ्यन्तत्वान्न सुलोपः । प्रधीः । शेषमुदाहृतक्विबन्तकुमारी शब्दवत् । हे प्रधि । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यौ । प्रध्यः । प्रध्या । प्रध्यै । प्रध्या २ । प्रधीनाम् । प्रध्याम् । उन्नीरिति ।सत्सूद्विषे॑त्यादिना उत्पूर्वान्नीधातोः क्विप् । सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः । अजादौ तु प्रत्यये परे 'एरनेकाचः' इति यण् । नन्वत्र इवर्णस्य संयोगपूर्वकत्वात्कथमत्र यणित्यत आह — धातुनेति । धात्वयवसंयोगपूर्वस्यैव यण् पर्युदस्यते । नचाऽत्र संयोगो धात्ववयव इति भावः । हे उन्नीरिति । अस्त्रीत्वादनदीत्वादम्बार्थेत्यादिना नदीकार्यं नेति भावः । उन्न्यमिति । पूर्वरूपापवादो यणितिभावः । हे उन्नीरिति । अस्त्रीत्वादनदीत्वादम्बार्थेत्यादिना नदीकार्यं नेति भावः । उन्न्यमिति । पूर्वरूपापवादो यणिति भावः । शसादौ-उन्न्यः । उन्न्या । उन्न्ये । उन्न्यः । उन्न्योः । ङेरामिति । नदीत्वाऽभावेऽपि 'ङेराम्' इति सूत्रे नीशब्दस्य पृथग्ग्रहणादाम् । आङ्गत्वेन नीशपब्दान्तादपि भवतीति भावः । एवं ग्रामणीरिति । ग्रामं नयति=नियच्छतीति ग्रामणीः ।अग्रग्रमाभ्यां नयतेर्णो वाच्यः॑ इति णत्वम् । अनेकाचः किमिति.॒एरनेकाचः इत्यत्रे॑ति शेषः । नीरिति । नीधातोः केवलात्पूर्ववत्क्विप् । अनेकाच्त्वाऽभावान्न यण् । किंतुअचि श्नुधात्वि॑ति इयङ् । एतावदेव उन्नीशब्दादस्य वैलक्षण्यमिति भावः । सुश्रियाविति । 'श्रिञ् सेवायाम् ।' 'क्विब्वची' इत्यादिना क्विप् । प्रकृतेदीर्घश्च । सु श्रयतीति, शोभना श्रीरस्येति वा सुश्रीः । ततोऽजादिप्रत्यये यण् न भवति । इवर्णस्य धात्वयवसंयोगपूर्वकत्वादिति भावः । यवक्रियाविति । यवान् क्रीणातीति यवक्रीः । क्रीञ्धातोः क्विपि रूपम् । अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यणिति भावः ।॒एरनेकाचः॑ इति सूत्रेगतिकारकपूर्वस्यैवेष्यते॑ इति वार्तिकं पठितं, तत्तात्परय्तः सङ्गृह्णाति — गतिकारकेतरेति । यथाश्रुते तूदाहृतक्विबन्तकुमारीशब्दे यण् न स्यात् । शुद्धधियाविति । शुद्धा धीर्यस्येति विग्रहः । अत्र शुद्धशब्दस्य गतिकारकेतरत्वात्तत्पूर्वकस्य न यणिति भावः । शुद्धं ब्राहृ ध्यायतीति विग्रहे तु स्यादेव यण् — शुद्धध्यौ इत्यादि । कथं तर्हीति । यदि गतिकारकेतरपूर्वस्यैव यण् पर्युदस्यते, गतिकारकपूर्वस्य त्ववश्यं यण्, तदा दुर्धियः वृश्चिकमिय इत्यादि कथमित्यन्वयः । आदिना दुर्धियौ वृश्चिकभियौ इत्यादिसङ्ग्रहः । दुःस्थिता धीर्येषामिति विग्रहः ।प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहिः । पूर्वपदे उत्तरखण्डस्य लोपश्च । वृश्चिकाद्भोरिति विग्रहः । अत्र दुरो गतित्वाद्वृश्चिकस्या.ञपादनत्वाच्च गतिकारकपूर्वत्वात्पर्युदासाऽभावे सतीयङपवादोऽत्र यण् दुर्वार इत्याक्षेपः । उच्यते । इति । 'परिहार' इति शेषः । गतित्वमेव नास्तीति ।उपसर्गाः क्रियायोगे॑गतिश्चे॑ति प्रादीनां क्रियान्वये गत्युपसर्गसंज्ञे विहिते । धीशब्दश्च बुद्धिगुणवाची, न तु क्रियावाची । अतो न तं प्रति दुरो गतित्वमिति गतिपूर्वकत्वाऽभावान्नात्र यण्, किंतु इयङेवेत्यर्थः । ननु लुप्तस्य स्थिताशब्दस् क्रियाप्रवृत्तिनिमित्तकत्वात्तं प्रति दुरो गतित्वमस्त्येवेत्यत आह — यत्क्रियेति । यया क्रियया युक्ताः प्रादयस्तं प्रत्येव=तद्वाचकशब्दे प्रत्येव गत्युपसर्गसंज्ञका इत्यर्थः । नचैवमप्यत्र स्थिताशब्दं लुप्तं प्रति प्रवृत्तं दुरो गतित्वमादाय दुर्धोशब्दस्य गतिपूर्वकत्वम्स्त्येवेति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तत्क्रियावाचकं प्रत्येव गत्युपसर्गत्वम् । तथाविधिक्रियावाचकस्यैव च गत्युपसर्गकार्यमित्यर्थस्य विवक्षितत्वात् । 'यत्क्रियायुक्ताः' इति प्रत्यासत्तिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्याऽपादानत्वं नेह विवक्षितत्वात् । 'यत्क्रियायुक्ताः' इति च प्रत्यासत्तिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्याऽपादानत्वं नेह विवक्षितमित्यन्वयः । कुत #इत्यत आह — बुद्धिकृतमिति । आरोपितमित्यर्थः । अपादानत्वं हि विश्लेषावधित्वम् । नह्यत्र वृक्षात्पर्णं पततीत्यत्र पर्णविश्लेषे वृक्षस्यैव भयविश्लेषे वृश्चिकस्याऽवधित्वमस्ति, वृक्षे पर्णवद्भयस्य वृश्चिके संश्लेषाऽभावात्, विश्लेषस्य संश्लेषपूर्वकत्वात् । उक्तं च भाष्ये — ॒विवक्षितः कारकाणि भवन्ती॑ति । प्रकृते च वृश्चिकेऽपादानत्वारोपस्य वक्रधीनत्वादिह च तदनारोपात्सम्बन्धमात्रविक्षया षष्ठीमाश्रित्यवृश्चिकस्य भी॑रिति षष्ठीसमासे वृश्चिकभीशब्दस्य व्युत्पत्तिराश्रीयते । ततश्च कारकेतरपूर्वकत्वान्नात्र यणिति भावः । नच वृश्चिकाद्भीरित्यादौ बुद्धिकृतमेवापादानत्वमादाय पञ्चम्युपपत्तेःभीत्रार्थाना॑मिति व्यर्थमिति वाच्यं, तस्य सूत्रस्य भाष्ये प्रत्याख्यातत्वेन इष्टापत्तेरित्यलम् । परिहारान्तरमाह-वृश्चिकसम्बन्धिनीति । उत्तरपदेति । वृश्चिकसम्बन्थिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोपः शाकपार्थिवादित्वादित्यर्थः । सुष्ठु ध्यायतीति सु=शोभना धीर्यस्येति वा विग्रहे सुधीशब्दः । अत्र अजादौ परे 'एरनेकाचः' इति यणि प्राप्ते- ।", "64083": "<<ओः सुपि>> - ओः सुपि । 'एरनेकाचः' इति सूत्रं, एरितिवर्जमनुवर्तते । 'अचि श्नुधातु' इत्यतोऽचीत्यनुवृत्तं । तेन सुपीति विशेष्यते । तदादिविधिः । 'इणो य' णित्यतो यणित्यनुवर्तते । तदाह — धात्ववयवेत्यादिना । गतिकारकेति । इदमपि वार्तिकमत्रानुवर्तते इति भावः । खलप्वौ खलप्व इति । कारकपूर्वकत्वादिह यणिति भावः । हे खलपूः । खलप्वम् खलप्वौ खलप्वः । खलप्वा । खलप्वे । खलप्वः । खलप्वः खलप्वोः । खलप्वि । इह अजादौ 'एरनेकाचः' इतिओः सुपी॑ति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः । एवं सुल्वादय इति । सुष्ठु लुनातीति सुलूः । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलूरित्यादिसङ्ग्रहः । कटप्ररिति ।प्रुगतौ॑ ।क्विब्वची॑त्यादिना क्विप्, उकारस्य दीर्घश्च । परमलुवाविति । परमश्चासौ लूश्चेति विग्रहः । गतिकारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति । अतुसि लुलू इत्यस्याऽनेकाच्त्वेऽपि सुप्परकत्वाऽभावान्न यणिति भावः । स्वभूरिति । स्वस्माद्भवतीति क्विप् । कारकपूर्वकत्वाद्यणि प्राप्ते आह-न भूसुधियोरिति । वर्षासु भवति वर्षाभूः । वर्षर्तावुत्पन्न इत्यर्थः । वर्षशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः ।वर्षाभूर्ददुरे पुमान् इति यादवः ।न भूसुधियो॑रिति निषेधे प्राप्ते- ।", "64084": "<<वर्षाभ्वश्च>> - वर्षाभ्वश्च ।ओः सुपी॑त्यनुवर्तते ।अचि श्नुधात्वि॑त्यतोऽचीति च, 'इणो य' णित्यतो यणिति चानुवर्तते । तदाह — अस्येति । वर्षाभूशब्दस्येत्यर्थः । दृभतीति ।दृभी ग्रन्थे॑ । तुदादिः । शविकरणस्यसार्वधातुकमपि॑दिति ङित्त्वान्न गुणः । निपातित इति । कूप्रत्ययो नुम्चेह निपात्यते इत्यर्थः ।नश्चापदान्तस्ये॑त्यनुस्वारः,अनुस्वारस्य ययी॑ति तस्य परसवर्णो मकारः । अत्र च ऊकारो न धात्ववयवः । अत उवङ्,ओः सुपी॑ति यण्च न । किंतुइको यणची॑त्येव यण् । स च 'अमि पूर्वः' इत्यनेन बाध्यत इत्याशयेनाह — दृम्भूमिति । शसिदीर्घाज्जसि चे॑ति निषेधाऽप्रवृत्त्या पूर्वसवर्णदीर्घेणइको यणची॑ति यण् बाध्यत इत्यभिप्रेत्याह — दृम्भूनिति । दृम्भ्वा । दृम्भवे । दृम्भ्वः । दृम्भ्वः दृम्भ्वोः । दृम्भ्वाम् । इह तुदृन्कारे॑ति यण्न भवति, भूशब्दस्यार्थवत एव तत्र ग्रहणात् । इह च भूशब्दस्याऽनर्थकत्वात् ।दृ न्निति नान्तमव्ययं हिंसायां वर्तते । तस्मिन्नुपपदे भूधातोः क्विबित्यर्थः । दृन्-हिंसां, भवते=प्राप्नोतीति विग्रहः । दृन्भूरिति । तरुविशेषः । सर्पविशेष इत्यन्ये । स्वाभाविक एवात्र नकारः । तस्य पदान्तत्वा॑न्नश्चापदान्तस्ये॑ति नानुस्वारः । अत एव न परसवर्णः । ॒न भूसुधियो॑रिति निषेधे प्राप्ते — दृन्करपुनः । दृन्भ्वमिति । यणा पूर्वरूपं बाध्यत इति भावः । दृन्भ्व इति । शसि यणा पूर्वसवर्णदीर्घो बाध्यत इति भावः । करात् करे वा भवतीति करभूः, दृन्भूवदित्यभिप्रेत्याह — करभ्वं करभ्व इति ।दृन्करे॑त्युदाहृतवार्तिके दीर्घमध्यकारशब्दपाठ इति मतान्तरं । तत्राह — दीर्घेति । स्वार्थिक इति । स्वस्याः प्रकृतेरर्थः स्वार्थः, तत्र भवः स्वार्थिकः । अध्यात्मादित्वाठ्ठञ् । प्रज्ञाद्यणिति ।प्रज्ञादिभ्योऽणि॑ति प्रज्ञादिभ्यः स्वार्थेऽण्विधानादिति भावः । दीर्घपाठे करपूर्वस्य उवडेव । ह्रस्वपाठे करपूर्वस्य यणेवेति विवेकः । पुनर्भवतीति पुनर्भूः । ननुपुनर्भूर्दिधिषूरूढा॑ इति कोशात्पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात्स्त्रीलिङ्गाधिकार एव तन्निरूपणं युक्तमित्यत आह — पुनर्भूर्योगिकः पुंसीति । पुनर्भवतीति क्रियानिमित्तस्य पुनर्भूशब्दस्य पुंलिङ्गत्वमप्यस्तीत्यर्थः । दृग्भू इति । दृशो भवतीति दृग्भूः । कारायां भवतीति काराभूः । कारा=बन्धनालयः । स्वयंभूवदिति । तत्रन भूसुधियो॑रिति यणः प्रतिषेधात्, प्रतिप्रसवाऽभावाच्चेति भावः । इत्यूदन्ताः । अथ ऋदन्ताः । धातेति ।डुधाञ् धारणपोषणयोः॑ तत्र तृन् तज्वा स्यात् । क्रोष्टुशब्दवदनङ्दीर्घ सुलोपनलोपाः । हे धातरिति ।ऋदुशनसि॑त्यत्रासंबुद्धावित्यनुवृत्तेर्नानङ् ।ऋतो ङी॑ति गुणोऽकारः, रपरत्वं, हल्ङ्यादिलोपः, विसर्गः । 'अप्तृन्' इति दीर्घस्तु न, असंबुद्धावित्यनुवृत्तेः । धाताराविति । ङिसर्वनामस्थानयोःऋतो ङी॑ति गुणोऽकारः । रपरत्वम्, 'अप्तृन्' इति दीर्घश्च । धातारः । धातारम् । धातारौ । शसि पूर्वसवर्णदीर्घ ॠकारः, नत्वम् । धातृन् । टा-यण् । धात्रा । ङे-यण् । धात्रे । ङसिङसोः-ऋत उत्, रपरत्वम्, सलोपः, विसर्गः-धातुः । धातुः । धात्रोः धात्रोः । आमि 'ह्रस्वनद्यापः' इति नुट् ।नामी॑ति दीर्घः । नकारस्य रेफषकाराभ्यां परत्वाऽभावादप्राप्ते णत्वे । ऋवर्णान्नस्य । ऋवर्णात्परस्येत्यर्थः । इदं तु वार्तिकं णत्वविधायकसूत्राणां सर्वेषां शेषभूतम् । ङौऋतो ङी॑ति गुणोऽकारः, रपरत्वम् । धातरि । धातृषु । नच दातृशब्दस्य हिरण्यगर्भसंज्ञाशब्दादौणादिकशंसिक्षदादितृन्तृजन्तत्वादिह कथमप्तृन्निति दीर्घः,औणादिकतृन्तृजन्तेषु नप्त्रादिसप्तानामेव दीर्घ इति नियमादिति वाच्य, धाञ्धातोः शंसिक्षदादित्वकल्पनायां प्रमाणाऽभावेन धातृशब्दस्यौणादिकत्वाऽभावादिति भावः । एवं नप्त्रादय इति । नप्तृनेष्टुत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृशब्दा धातृशब्दवदित्यर्थः । उद्गातृशब्दस्य औणादिकतृन्तृजन्तस्य नप्त्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्गातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्तंप्राक् । तदेतत्समारयति-उद्गाताराविति । पितेति । धातृवदनङादि । सर्वनामस्थाने तुऋतो ङी॑ति गुणोऽकारः, रपरत्वम् । 'अप्तृन्' इति दीर्घस्तु नेत्याह — व्युत्पत्तीति । पातीति पिता । तृच्प्रत्ययः, इट् आकारलोपश्चेति व्युत्पत्तिर्बोध्या । अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावाद्दीर्घशङ्कैव नास्तीति भावः । पितरौ पितरः । पितरम् पितरौ पितृनित्यादि धातृवत् । एवं जामातृभ्रात्रादय इति । उणादिषुनप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ॑ इति सूत्रे पितृजामातृभ्रातृशब्दाः व्युत्पादिताः । तत्र पितृशब्दस्य व्युत्पत्तिरुक्ता । भ्राजेस्तृनि तृचि वा जलोपः । भ्राता । जायां मातीति जामाता । तृन्प्रत्ययः । तृज्वा यालोपश्च । अनयोरप्यौणादिकयोर्नप्त्रादिष्वनन्तर्भावान्न दीर्घ इत्यर्थः । आदिना मन्तृ हन्तृ इत्यनयोग्र्रहणं, तयोरुणादिषुतृन्तृचौ शंसिक्षदादिभ्यः॑ इति प्रकरणे बहुलमन्यत्रापि इत्यत्र उदाहृतत्वात् । नेति । नृशब्दो मनुष्यवाची । तस्मात्सुः ।ऋदुशन॑सित्यनङ् ।अप्तृ॑न्निति सूत्रेऽनन्तर्भावा॒त्सर्वनामस्थाने चे॑ति नान्तत्वप्रयुक्तो दीर्घः । हल्ङ्यादिलोपः । नलोपः ना इति रूपम् । नरा नर इति ।ऋतो ङी॑ति गुणो रपरः । अप्तृन्नाद्यनन्तर्भावान्नान्तत्वाऽभावाच्च न दीर्घः । हे न इति ।ऋतो ङी॑ति गुणो रपरः । हल्ङ्यादिलोपो विसर्गश्च । नरम् । नरौ । शसि पूर्वसवर्णदीर्घो ॠकारः, नत्वम्, नृन् । टादावचि यणि रेफः । न्रा । न्रे । ङसिङसोः ऋत् उत्, रपरः, सलोपः, विसर्गश्च । नुः । नुः । न्रोः । आमि नुट्,नामी॑ति नित्यं दीर्घे प्राप्ते- ।", "64085": "", "64086": "", "64087": "<<हुश्नुवोः सार्वधातुके>> - शृणु-अन्तीति स्थिते अन्तेर्ङित्त्वात् श्नोर्गुणनिषेधे सति उवङि प्राप्ते — हुश्नुवोः । श्नोः प्रत्ययत्वात्तदन्तग्रहणम् ।इणो यणि॑त्यतो यणित्यनुवर्तते, 'अचि श्नु' इत्यतोऽचीति । तस्य सार्वधातुकविशेषणत्वात्तदादिविधिः । 'एरनेकाचः' इतिसूत्रमेरितिवर्जमनुवर्तते ।ओः सुपी॑त्यत ओरिति च षष्ठन्तम् । तदाह — जुहोतेरित्यादिना । असंयोगपूर्वस्येति तु उकारस्य विशेषणं न तु श्नुविशेषणम्, तेन आप्नुवन्तीत्यत्र यण् न । हुश्नुश्वोः किम् । योयुवति । अत्र युधातोर्यङ्लुकि 'अदभ्यस्ता' दिति झेरदादेशे योयु-अतीति स्थिते अनेकाजङ्गावयवस्य असंयोगपूर्वस्य उकारस्य यण् न भवति । अत्र भाष्ये 'बहुलं छन्दसी' इत्यनुवृत्तौ यङोऽचि चे॑ति विहितस्य यङ्लुकश्छान्दसत्वात्छन्दस्युभयथे॑त्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेर्हुश्नुग्रहणं भाषायमपि क्वचिद्यङ्लुकं ज्ञापयतीत्युक्तम् । तथा च भाषायामपि अनेकाचोऽसंयोगपूर्वकोकारान्ताद्योयुवतीत्यादौ यङ्लुक्सिद्धेस्तत्र यङाभाअवार्थं हुश्नुग्रहणमिति फलति । ज्ञापकस्य सामान्यपेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि यङ्लुक् सिध्यति । एतदेवाभिप्रेत्य भाष्ये — हुशनुग्रहणं ज्ञापयति — ॒भाषायामपि यङ्लुक् भवती॑ ,किमेतस्य ज्ञापने प्रयोजनं, बेभिदीति चेच्छिदीतीत्येतत्सिद्धं भवती॑त्युक्तम् । अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुक् आभ्यामेव भवति, न त्वन्यत्रेत्याहुः । भिदिच्छिद्योग्र्रहणं प्रदर्शनमात्रमित्यन्ये । शृण्वन्तीति । शृणुथः । शृणुतेत्यपि ज्ञेयम् ।लोपश्चाऽस्यान्यतरस्यां म्वो॑रित्यभिप्रेत्याह — शृण्व इत्यादि.शुश्राव शुश्रुवतुः शुश्रुवुः । थलि वमयोश्च क्रादित्वान्नित्यमिण्निषेधः । तदाह — शुश्रोथ । शुश्रुवेति । शुश्रुवेति । शुश्रुमेत्यपि ज्ञेयम् । श्रोता । श्रोष्यति । शृणोतु — शृणुतात् शृणुताम् । शृण्वन्तु ।उतश्च प्रत्ययादसंयोगपूर्वा॑दिति हेर्लुकं मत्वा आह — शृण्विति । शृणुतात् शृणुतम् शृणुत । शृणवानीति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः । ध्रु स्थैर्ये इति । अनिट् । ध्रवति । दुध्राव दुध्रुवतुः दुध्रुवुः । भारद्वाजनियमात्थल वेट् । दुध्रविथ — दुध्रोथ दुध्रुवथुः धुध्रुव । दुध्राव-दुध्रव दुध्रुविव दुध्रुविम । क्रादिनियमादिट् । ध्रोता । ध्रोष्यति । ध्रवतु । अध्रवत् । ध्रवेत् । ध्रूयात् । अध्रौषीत् । अध्रोष्यत् । दु द्रु गताविति । अनिटौ । दवति । द्रवति । दुदाव दुदुवतुः दुदुवुः । द#उद्राव दुद्रुवतुः दुद्रुवुः । अस्य भारद्वाजनियमात्थलि वेडित्याह — दुदोध दुदविथेति । दुदुवथुः दुदुव । दुदाव — दुदव । वमयोः क्रादिनियमादिडित्याह — दुदुविवेति । द्वितीयस्य क्रादित्वात्थलि नित्यं नेट् । तदाह — दुद्रोथेति । दुद्रुवथुः दुद्रुव । दुद्राव- दुद्रव । वमयोः क्रादित्वानेट् । तदाह — दुद्रुवेति । दोता । द्रोता । दोष्यति । द्रोष्यति । दवतु । द्रवतु । अदवत् । अद्रवत् । दवेत् । द्रवेत् । दूयात् । द्रूयात् । अदौषीत् । चङिति । द्रुधातोरिति भावः । न्यूनीकरणमिति । नीचीकरणमित्यर्थः । न्यूनीभवनमिति । क्षीणबलीभवनमित्यर्थः । शत्रूञ्जयतीति । नीचीकरोतीत्यर्थः । ननु जिधातोः परस्मैपदित्वात्पराजयत इतिकथमात्मनेपदमित्यत आह — विपराभ्यामिति । ननु पराजयस्य अध्ययनेन संश्लेषविश्लेषयोरभावात्कथं पराजयं प्रत्ध्ययनस्याऽपादानत्वमित्यत आह — पराजेरिति । जयति । लिटिसँल्लिटोर्जे॑रिति कुत्वम् । जिगाय जिग्यतुः । जिग्युः । भारद्वाजनियमात्थलि वेट् । जिगयिथ-जिगेथ जिग्यथुः । जिग्य । जिगाय-जिगय । वमयोः क्रादिनियमादिट् । जिग्यिव जिग्यिम । जेता । जेष्यति । जयतु । अजयत् । जयेत् । जीयात् । अजैषीत् । अजैष्टामजैषुः । अजैषीः अजैष्टमजैष्ट । अजैषमजैष्व अजैष्म । अजेष्यत् । इति धेडादयोऽजन्ताः परस्मैपदिनः । अथ डीङन्ता ङित इति । 'डीङ् विहायसा गतौ' इत्येतत्पर्यन्ता ङित्त्वादात्मनेपदिन इत्यर्थः ।ष्मिङ् ईषद्धसने॑ । षोपदेशोऽयम् । स्मयते इति ।धात्वादे॑रिति षश्य सः । सिष्मिये इति । कित्त्वाद्गुणाऽभावे इयङ् । आदेशसकारत्वादुत्तरखण्डे सस्य षः । सिष्मियातेसिष्मियिरे । क्रादिनियमादिट् । सिष्मियिषे । सिष्मियाथे । 'विभाषेटः' इति मत्वा आह — सिष्मियिढ्वे सिष्मियिध्वे इति । स्मेता । स्मेष्यते । स्मयताम् । अस्मयत । स्मयेत । स्मेषीष्ट । अस्मेष्ट । अस्मेष्यत । गुङ्धातुरनिट् । गुण ओकारः, अवादेश इति विशेषः । गाङ्धातुरनिट् । गाते इति । लटस्तादेशे शपि सवर्णदीर्घे टेरेत्त्वमिति भावः । आतामि तथैव रूपमाह — गाते इति । गा-अ-आतामिति स्थिते परत्वात्सवर्णदीर्घे अतः परस्य दीर्घाऽकारस्याऽभावात् 'आतो ङितः' इति इय् न भवति । झावपि तथैव रूपमाह — गाते इति । शपा सह आकारस्य सवर्णदीर्घे 'आत्मनेपदेष्वनतः' इतिझेरदादेशे टेरेत्वमिति भावः । गासे गाथे गाध्वे । लट उत्तमपुरुषैकवचने विशेषमाह — इट इति । गा अ इ इति स्थिते सवर्णदीर्घे सति इट एत्वे कृतेवृद्धिरेची॑ति वृद्धौ 'गै' इति रूपमित्यर्थः । गावहे गामहे । लिटि अजादौ आल्लोपः । जगे जगाते जगिरे । क्रादिनियमादिट् । जगिषे जगाथे जगिध्वे । जगे जगिवहे जगिमहे । गाता । गास्यते । गाताम् गाताम् । गाताम् । गास्व गाथाम् गाध्वम् । गै गावहै गामहै । अगात अगातामगात । अगाथाः आगाथामगाध्वम् । लङ इटीति । अ गा अ इ इति स्थिते टिदादेशत्वाऽभावादेत्त्वाऽभावे सवर्णदीर्घे आद्गुणे 'अगे' इति रूपमित्यर्थः । अगावहि अगामहि । गेतेति । लिङस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्घे सीयुटि सलोपे यलोपे आद्गुण इति भावः । गेयातामिति । गा अ आतामिति स्थिते सवर्णदीर्घे सीयुटि सलोपे आद्गुण इतिभावः । गेरन्निति । झस्य रन्भावे गा अ रन्निति स्थिते सवर्णदीर्घे सीयुटि सलोपे आद्गुण इतिभावः । गेथाः गेयाथाम् गेध्वम्, गेय गेवहि गेमहि । आशीर्लिङि आह — गासिष्टेति । गासीयास्तात् गासीरन् । गासीष्ठाः गासीयास्थाम् गासीध्वम् । गासीय गासीवहि गासीमहि । ननु गासीष्टेत्यादौगाङ्कुटादिभ्योऽञ्णिन्ङिदि॑ति ञ्णिद्भिन्नप्रत्ययस्य ङित्त्वविधानेन सीयुडागमविशिष्टप्रत्ययस्य ङित्त्वात्घुमास्थागापाजहातिसां हली॑ति हलादौ क्ङिति विहितमीत्त्वं स्यादित्यत आह — गाङ्कुटादिभ्य इति सूत्रे इति । 'इङ' इत्यनुवृत्तौगाङ्लिटी॑ति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे ग्रहणं, न तवस्य गाधातोरित्यर्थः । एतच्च अगासातामगासत् । अगास्थाः अगासाथामगाध्वम् । अगासि अगास्वहि । अगास्महि । अगास्यत । आदादिकोऽयमिति । ततश्चअदिप्रभृतिभ्यः शपः॑ इति शपो लुगिति भावः । फले तु न भेद इति । शपो लुकि सति गाते इत्याद्येव रूपम्, तस्मिन्नसत्यपि गा अते इत्यादौ सवर्णदीर्घे सति तदेव रूपमिति न रूपभेद इत्यर्थः । कुङ् घुङ् उङ् ङुङ् शब्दे इति । चत्वारोऽपि ङितः । आद्यद्वितीचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः । तृतीयस्तु केवल उवर्णः । अन्ये त्विति । आद्यः केवलोवर्णो ङित् । इतरे तु पञ्च क्रमेण कवर्गाद्याः । तत्र कुङ्धातोरुदाहरति — कवते इति । लिटि अजादौ कित्त्वाद्गुणाऽभावे उवङ् । तदाह — चुकुवे इति । चुकुवाते चुकुविरे क्रादिनियमादिट् । चुकुविषे चुकुवाथे चुकुविध्वे । चुकुवे चुकुविवहे चुकुविमहे । कोता । कोष्यते । कवताम् । अकवत । कवेत । कोषीष्ट । अकोष्ट । अकोष्यत । एवं खवते इत्यादि । उङ्धातोराह — अवते इति । ऊवे इति । उ उ ए इति स्थिते द्वितीयस्य उवर्णसुवङि कृते सवर्णदीर्घे इति भावः । ननु उवङो बहिर्भूतप्रत्ययाऽपेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घे कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह — वार्णादिति । ऊबाते ऊविरे ।क्रादनियमादिट्- ऊविषे ऊवाथे ऊविध्वे । ऊवे ऊविवहे ऊविमहे । रूपमुक्तम् । संप्रति लिटि रूपमाह — ञुङुवे इति ।कुहोश्चु॑रिति ङकारस्य स्थानिनश्चर्भवन् स्थानसाम्यस्य पञ्चस्वभावादाभ्यान्तरप्रत्यत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणामनुनासिक्यसाम्याञ्ञकारः । प्रथमतृतीयौ तु न भवतः, आनुनासिक्याऽभावात् । च्युङादयोऽप्युवर्णान्ता अनिटः कुङ्धातुवज्ज्ञेयाः । रुङ् गतीति । सेट्कोऽयम् ।ऊद्द्टदन्तैर्यौतिरुक्ष्णु॑ इत्यनिट्सु पर्युदासात् । तदाह — रवितासे इति । धृङ्धातुरनिट् । दध्रे इति । कित्त्वाद्गुणनिषेधे ऋकारस्य यण् । दध्राते दध्रिरे । क्रादिनियमादिट् । दध्रिषे दध्राथे दध्रिध्वे । दध्रे दध्रिवहे दध्रिमहे । धर्ता । लृटि स्येऋदनो॑रिति इटि — धरिष्यते । धरताम् ।अधरत । धरेत । आशीर्लिङि सीयुटिउश्चे॑ति कित्त्वान्न गुणः । धृषीष्ट ।ह्रस्वादङ्गा॑दिति सिचो लुक् । अधृत अधृषातामधृषत । अधरिष्यत । मेङ् प्रणिदाने णत्वमिति । प्रणिदानशब्दे, 'प्रणिमयते' इत्यत्र चनेर्गदे॑ति णत्वमित्यर्थः । ननु 'प्रणिमयते' इत्यत्र णत्वमिदं न संभवति, शिद्विषये आत्वाऽभावेन मारूपाऽभावात् । तथा प्रणिमानशब्देऽपि णत्वं न संभवति, ततर्मेङः कृतात्वस्य लाक्षणिकमारूपत्वात् ।गामादाग्रहणेष्वविशेषः॑ इत्याश्रित्य मेङोऽपि कृतात्वस्य णत्वविधौ ग्रहणे तु मीनातिमनोत्योरात्त्वे प्रनिमाता प्रनिमास्ति इत्यत्रापि नेर्णत्वापत्तिरित्यत आह — तत्रेति । तत्र =नेर्गदे॑ति णत्वविधौ ।घुमे॑त्यस्य स्थानेघुप्रकृतिमा॑ङिति पठित्वा तत्र प्रकृतशब्दस्य घुमाङप्रकृतिपरत्वमाश्रित्य घौ, माङ्धातौ, घुमाप्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्ङितो मेङ्धातोः कृतात्वस्यापि ग्रहणस्य भाष्यकृताऽभ्युपगतत्वादित्यर्थः । एवं च 'प्रणिमयते' इत्यत्र नाऽव्याप्तिः, मेङः कृतात्वमाप्रकृतित्वे सति ङित्त्वात् । नापि मीनातमिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्तिः, मारूपस्य ङित्त्वाऽभावादिति भावः । एतच्च घुसंज्ञासूत्रे भाष्ये स्थितम् । ममे ममाते ममिरे । क्रादिनियमादिट् । ममिषे ममाथे ममिध्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मयताम् । अमयत । मयेत । मासीष्ट । अमास्त । अमास्यत । देङ्धातुमेङ्वत् ।", "64088": "<<भुवो वुग्लुङ्लिटोः>> - भुवो वुक् । अचीति ।अचि श्नुधात्वि॑त्यतस्तदनुवृत्तेरिति भावः । अचीति किम् । अभूत् । ननु णलि परत्वाद्वुकं बाधित्वाअचो ञ्णिती॑ति वृद्धिः स्यात्, बभूविथेत्यत्र तुसार्वधातुकार्धधातुकयो॑रिति गुणः स्यादित्यत आह — नित्यत्वादिति । कृतयोरपि गुणवृद्ध्योरेकदेशविकृतन्यायद्वुक् प्रवर्तते, अकृतयोरपि प्रवर्तते । ततश्चकृताऽकृतप्रसङ्गी यो विधिः स नित्य॑ इति न्यायेन वुङ् नित्यः सन् गुणवृद्धी बाधत इत्यर्थः । वुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः ।", "64089": "<<ऊदुपधाया गोहः>> - ऊदुपधायाः ।गोह॑इति कृतलघूपधगुणस्य गुहेर्निर्देशः । ततश्च गुणविषय एवेदं भवति । अचिश्नुधात्वित्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषमत्वात्तदादिविधिः । तदाह — गुह उपधाया इत्यादिना । गुणहेताविति । गुणं प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः जुगुहुः । जुगुहे जुगुहाते जुगुहिरे । जुगूहिथ । जुगोढ । ढत्वधत्वष्टुत्वढलोपाः । जुगुहथुः जुगुह । जुगुहिषे — जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे जुगुहिध्वे — जुगुढ्वे । जुगूह । जुगुहिव-जुगुह्व जुगुहिम — जुगुहृ । जुगुहे । जुगुवहिहे — जुगुह्वहे । जुगुहिमहे-जुगुहृहे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह — गूहितेति । इडभावे अजादप्रत्ययाऽभावादूत्त्वाऽभावे गुणे ढत्वधत्वष्टुत्वलोपेषु रूपमाह — गोढेति । लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह — गूहिष्यतीति । इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह — घोक्ष्यतीति । गूहिष्यते, घोक्ष्यते इत्यप्युदाहार्यम् । गूहतु । गूहताम् । अगूहत् । अगूह । गूहेदिति ।गूहेते॑त्यपि ज्ञेयम् । गुह्रादिति । आशीर्लिङि अजादिप्रत्ययाऽभावादूत्त्वं न । कित्त्वान्न गुणः । लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह — अगूहीदिति । अगूहिष्टामगूहिषुरित्यादि । इडभावे क्स इति । इगुपधशलन्तत्वादिति भावः । अघुक्षदिति । ढत्वभष्भावकत्वषत्वानि । अधुक्षतामघुक्षन्नित्यादि ।", "64090": "<<दोषो णौ>> - दोषो णौ । 'ऊदुपधाया' इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ।णा॑विति शेषः । दूषयतीति । लघूपधगुणापवाद ऊत् ।दुषो णा॑वित्येव सुवचम् ।", "64091": "<<वा चित्तविरागे>> - वा चित्तविरागे । ऊदुपधाया इति, दोषो णाविति चानुवर्तते । चित्तविरागे दुष उपधाया ऊद्वा स्याण्णाविति फलितम् । विरागपदस्य विवरणम् - अप्रीततेति । इच्छाविरह इत्यर्थः । चित्तमिति । चित्तं दुष्यति । स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्तं भवति । तत्प्रयोजयति काम इत्यर्थः । मितां ह्रस्व इति । णौ मितामुपधाया ह्रस्व इति प्राग्व्याख्यातमपि स्मारयति । जनीजषिति । इदमपि व्याख्यातं स्मार्यते । जृणातेस्त्विति । श्नाविकरणस्य अषित्त्वान्न मित्त्वमिति भावः । रञ्जेर्णाविति । णेः कित्त्वाऽभावानिदितामित्यप्राप्तौ वचनम् ।मृगरमणटपदस्य विवरणम् — आखेटकमिति । मृगयेत्यर्थः । रजयति मृगानिति ।रञ्ज रागेट शब्विकरणः ।रञ्जेश्चे॑ति शपि नलोपः । 'रजन्ति मृगाः' ग्राह्रा भवन्ति । तान् मृगान् तादृग्व्यापारविषयान् करोति मृगवधासक्तो राजादिरित्यर्थः । अत्र नकारलोपः । रञ्जयति मृगांस्तृमदानेनेति । घातको मृगान् रक्षणाय तृणसमर्पणेन बन्धनस्थानगान् करोतीत्यर्थः । चुरादिष्विति । चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति.तस्मात्स्वार्थणिचि कृतेचिस्फुरो॑रित्यात्वपक्षे पुकि मित्तवादुपधाह्रस्वे चपयतीति रूपम् । आत्त्वाऽभावे तु वृद्धावायादेशे मित्त्वाद्ध्रस्वे चययतीति रूपमुक्तं चुरादावित्यर्थः । चिनोतेस्त्विति । श्नुविकरणस्य चिञ्धातोर्हेतुमण्णौ 'चिस्फुरो' रित्यात्त्वे पुकि मित्त्वाऽभावाद्ध्रस्वाऽभावे चाययतीति रूपमित्यर्थः । स्फारयति — स्फोरयतीति ।चिस्फुरोरित्यात्त्वविकल्पः । अपुस्फरत् — अपुस्फुरदिति । स्फुर् इ अ त् इति द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतयास्फु॑रित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णावित्युत्तरखण्डे आत्त्वविकल्पः । आत्त्वपक्षे उपधाह्रस्व इति भावः ।", "64092": "<<मितां ह्रस्वः>> - मितां ह्रस्वः । 'ऊदुपधाया गोहः' इत्यत उपधाया इति, 'दोषो णौ' इत्यतो णाविति चानुवर्तते । तदाह — मितामुपधाया इत्यादिना । ज्ञपयतीति । णिचि उपधावृद्धौ ह्रस्व इति भावः । यम च परिवेषणे । चान्मिदिति । 'इति अनुकृष्यते' इति शेषः । यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक्चेत्यर्थः । मित्संज्ञक इति वा । परिवेषणामिह वेष्टनमिति ।पिरवेषस्तु परिधि॑रिति कोशादिति भावः । न तु भोजनमिति । भुजेर्हेतुमण्ण्यन्तात्स्त्रियामित्यधिकारेण्यासश्रन्थो युच् । क्लीबत्वं लोकात् ।भोजने॑त्येव क्वचित्पाठः । भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः । भोजनायां यमेर्हुतमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः । परिवेष्टत इत्यर्थ इति । अनेन इह परिविषेरण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् । नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्विधिव्र्यर्थ इति वाच्यं,न कम्यमिचमा॑मिति मित्तवप्रतिषेधप्रकरणस्थे 'यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रेऽपरिवेषणे इति पर्युदासेन भोजनेतोऽन्यत्र वेष्टनेऽर्थे मित्तवनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात् । 'यमोऽपरिवेषणे' इत्यत्र परिवेषण शब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात् । अत एवयमिर्भोजनातोऽन्यत्र न मि॑दिति व्याख्यातं मूलकृता । भोजनायां तु 'यमोऽपरिवेषणे' इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाऽभावादम्नतत्वादेव मित्त्वप्राप्तेरिह चुरादौ पिरवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तां तावत् । चह परिकल्पने इति । इत आरभ्य 'चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते । अतस्तेषां मित्त्वण्णिचि ह्रस्वः । तदाह - चहयतीति । नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह — कथादाविति ।कथादयोऽदन्ता॑इति वक्ष्यते । तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यबावे मित्त्वाद्ध्रस्वे च न विशेषः । तथापि अदन्ताच्चङि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावेअचचह॑दिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति । 'चह परिकल्पने' इत्यस्य स्थानेचपे॑त्येके पठन्तीत्यर्थः । 'रह त्यागे इत्येके' इत्यपि तथैव व्याख्येयम् । एवं च ज्ञपादिषु पञ्चसु चहधातुश्चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चम इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वाज्ज्ञपादिपञ्चकत्वस्य न विरोधः ।रह त्यागे॑इत्यस्यापि कथादिपाठफलमाह — कथादेस्तु अररहदिति । अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः । बल प्राणने ।चे॑त्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्ध्रस्वं मत्वाह — बलयतीति ।", "64093": "<<चिण्णमुलोर्दीर्घोऽन्यतरस्याम्>> - चिण्णमुलोः । 'दोषो णौ' इत्यतो णाविति, 'ऊदुपधाया गोहः' इत्यस्मादुपधाया इति, 'मितां ह्रस्वः' इत्यतो मितामिति चानुवर्तते । तदाह — चिण्परे इत्यादिना । नन्विह दीर्घ ग्रहणं व्यर्थं,चिण्णमुलोरन्यतरस्या॑मित्येतावतैव 'मितां ह्रस्वः' इति पूर्वसूत्रादनुवृत्तस्य ह्रस्वस्यविकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह — प्रकृत इत्यादि । कुत इत्यत आह — ण्यन्ताण्णाविति । शमदातोण्र्यन्ताण्णौ पूर्वणेर्लोपे लुटि तासि ण्यन्तस्याऽजन्तत्वाच्चिण्वदिटि तस्याऽऽभीयत्वेनाऽसिद्धतया 'अनिटी' ति निषेधाऽभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । ह्रस्वविकल्पस्य विधौ तु ह्रस्वविकल्पो न स्यात्, प्रथमणिलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाऽभावादित्यर्थः । दीर्घविकल्पविधौ तु न दोष इत्याह — दीर्घविधाविति । दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात्, अतोऽत्र दीर्घविकल्पः सिध्यति । ह्रस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारं, तत्र स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । भाष्ये त्विति । न पदान्तसूत्रभाष्ये तुपूर्वत्रासिद्धे न स्थानिवदि॑त्येव सिद्धत्वान्न पदान्तसूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । 'सुद्ध्युपास्य' इत्यत्रअनचि चे॑ति द्विर्वचनस्य, शिण्ढीत्यत्रनश्चे॑त्यनुस्वारस्य,अनुस्वारस्य ययी॑ति परसवर्णस्य च, प्रतिदीब्न इत्यत्रहलि चे॑ति दीर्घस्य, सग्धिरित्यत्रझलां जश् झशी॑ति जश्त्वस्य, जक्षतुरित्यत्रखरि चे॑ति चर्त्वस्य च पूर्वत्राऽसिद्धीयत्वादित्यर्थः । ननु ण्यन्ताण्णौचिण्णमुलो॑रिति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम्, 'चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाऽभावात् । ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घाऽनापत्तिः । एवं च तत्र दीर्गे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यातमित्यताअह — णावितीति ।चिण्णमुलो॑रिति दीर्घविधौ चिण्परे णमुल्परे च 'णौ' इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । चिण्णमुल्परकणित्वजातौ परत इति लभ्यते । णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इतिन पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः । शामिता शमितेति । शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्गविकल्पः । शमियितेति । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति । शमधातोर्यङि शंशम्येत्येतस्माद्धेतुमण्णौ 'यस्य हलः' इति यकारलोपे अतो लोपे शंशमीत्यस्मात्कर्मलकारे णिलोपे 'शंशम्यते' इति रूपमित्यर्थः । शंशामिता शंशमितेति ।चिण्मुलो॑रिति दीर्घविकल्पः । शंशमयितेति । चिण्वत्त्वाऽबावे वलादिलक्,णे इटि रूपम् । भाष्यमते त्विति ।न पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थः । यङन्तादिति ।ण्यन्ता॑दिति शेषः । यङन्ताण्णिचि यलोपे अल्लोपे च कृतेशंशमी॑त्यस्माल्लुटि तासि चिण्वदिटि कृते तस्याऽसिद्धत्वाण्णिलोपेशंशमिते॑त्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाऽबावात्चिण्णमुलो॑रिति दीर्घो नास्ति, भाष्यमतेन पदान्त॑सूत्रे दीर्घग्रहणाऽभावेन स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे ल इति भावः ।", "64094": "<<खचि ह्रस्वः>> - खचि ह्रस्वः । 'दोषो णौ' इत्यतो णाविति, 'उदुपधायाः' इत्यत 'उपधाया' इति चानुवर्तते । तदाह — खच्परे णाविति । खशि प्रकृते खचो विधिरिह ह्रस्वार्थोऽणिलोपार्थश्च । खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात् । न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवं चगमेः सुपी॑ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः ।", "64095": "<<ह्लादो निष्ठायाम्>> - ह्लादो निष्ठायाम् । ह्रस्वः स्यादिति । सेषपूरणमिदम् । 'खचि ह्रस्वः' इत्यतस्तदनुवृत्तेरिति भावः । प्रह्लन्न इति ।ह्लादी सुखे॑ । क्तः । 'श्वीदितः' इति नेट् ।रदाभ्यांट मिति नत्वम् ।", "64096": "", "64097": "<<इस्मन्त्रन्क्विषु च>> - इस्मन्त्रन् । इस्, मन्, त्रन्, क्वि एषां चतुर्णां द्वन्द्वः ।छादेर्घेद्व्युपसर्गेस्य॑त्यतश्छादेरिति, 'खचि ह्रस्वः' इत्यतो ह्रस्व इति चानुवर्तते । तदाह — एषु छादेरिति । अर्थादाकारस्येति गम्यते, अलोन्त्यपरिभाषामाश्रित्य इकारस्य ह्रस्वविदौ प्रयोजनाऽभावात् । एवं च 'ऊदुपधायाः' इत्यत उपधाया इति नानुवर्तनीयम्, ण्यन्तस्य छादेर्दकारोपधत्वात् ।इस्- छदिः । मन्- छद्म । त्रन् - छत्रम् । क्वौ उदाहरति — तनुच्छदिति । तनुं छादयतीति विग्रहः । अथ तनेः शमेश्च क्विपि विशेषमाह — अनुनासिकस्येति ।अक्षद्यू॑रित्यत्र आह — च्छ्वोरिति । योरेकस्मिन् ऊठिजूरिति रूपम् । एवं त्वरेः तूरिति रूपम् । रिउआवेः क्विपि इकारवकारयोरूठि रुआऊरिति रूपम् । अवधातोः क्विपि अकारवकारयोरूठि ऊरिति रूपम् । वृद्धिरिति । जनानवतीति विग्रहे, अवेः क्विपि, अकारवकारयोरूठि , जन ऊ इति स्थिते आद्गुणं बाधित्वा 'एत्येध्त्यूठ्सु' इति वृद्धिरौकारादेश इत्यर्थः । मूरिति । मवेः क्विपि, अकारवकारयोरूठ् । सुम्बो सुम्व इति । अनेकाच्त्वाद्गतिपूर्वत्वाच्च यणिति भावः । रादिति । मुर्छाधातोः क्विपि 'राल्लोपः' इति चकारस्य लोपे सुलोपेर्वो॑रिति दीर्घे सुलोपेर्वो॑रिति दीर्घे धूरिति रूपमिति भावः ।", "64098": "<<गमहनजनखनघसां लोपः क्ङित्यनङि>> - गमहन । उपधाया इति । 'ऊदुपधायाः' इत्यतस्तदनुवृत्तेरिति भावः । अजादाविति ।अचि श्नुधात्वि॑त्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ त भावः । क्ङितीत्युक्तेश्चखानेत्यत्र नोपधालोपः । अनङीति किम् । अगमत् । चख्ने चख्नाते इत्यादि । व्यय । अयं वित्तत्यागेऽपि, अर्थनिर्देशस्योपलक्षणत्वात् । अव्ययीदिति ।ह्म्यन्ते॑ति न वृद्धिः । चष भक्षण इति । चचाष चेषतुः । छष हिंसायामिति । वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपो न । तदाह — चच्छषतुरिति । गुहू । उदुपधोऽयम् । ऊदित् ।", "64099": "", "64100": "", "64101": "<<हुझल्भ्यो हेर्धिः>> - हुझल्भ्यो हेर्धिः । झलन्तेभ्य इति । अङ्गविशेषणत्वात्तदन्तविधिरिति भावः । अनेकाल्त्वात्सर्वादेशः ।रुदिही॑त्यत्र तु न , निर्दिश्यमानहेरिडा व्यवहितत्त्वात्, इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् । अत्तादिति । धित्वात्परत्वात्तातङ् । तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वं,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायात् । अत्तमत्त । अदानीति ।आडुत्तमस्ये॑त्याडागमः । एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः । अदाव अदाम । लहि आद् त् इति स्थिते —", "64102": "", "64103": "<<अङितश्च>> - शसि विशेषमाह — पादः पत् । भस्य अङ्गस्येति चाधिकृतं पशसि विशेषमाह — पादः पत् । भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते । तदन्तविधिः । तदाह — पाच्छब्दान्तमिति । पाच्छब्दस्येति । पाच्छब्दान्तस्य विधीयमानो ।ञपि पदादेशःनिर्दिश्यमानस्यादेशा भवन्ती॑ति पाच्छब्दस्यैव सर्वादेशो भवति, न तु तदन्तस्येति भावः । इत्यादीति । सुपदे । सुपदः । सुपदः । सुपदोः २ । सुपदि । इति दान्ताः । अथथान्ताः । अग्निमदिति । 'मन्थ विलोडने' इति भ्वादौ । 'मन्थ विलोडने' इति क्यादौ । उभाभ्यामपि क्विपिअनिदिता॑मिनि नलोपे अग्निमथिति रूपम् । ततः सुबुत्पत्तिः । सौ जश्त्वचर्त्वे इति भावः । भ्यामादौ जश्त्वेन थस्य दः । अग्निमद्भ्यामित्यादि । सुपिखरि चे॑ति चर्त्वम्, अग्निमत्सु । 'मथे विलोडने' इत्यस्याप्येतदेव रूपम् ।मथिहिंसासंक्लेशनयोः॑ इति इदितस्तु नलोपाऽभावात् अग्निमन् अग्निमन्थावित्यादि । इति थान्ताः । अथ चान्ताः । ऋत्विगित्यादिसूत्रेणेति । प्र-अञ्चतीत्यर्थे 'अञ्चु गतिपूजनयोः' इति गत्यर्थकाद्धातोर्नोपधात्क्विन्नित्यर्थः । पूजार्थस्य त्वग्रे वक्ष्यते । क्विनिहलन्त्य॑मिति नकार इत् । इकार उच्चारणार्थः । 'लशक्वतद्धिते' इति ककार इत् ।वेरपृक्तस्ये॑ति वकारलोपः ।", "64104": "<<चिणो लुक्>> - चिणो लुक् । 'चिण' इति पञ्चमी । तदाह — चिणः परस्येति । चिणः परश्च अर्थात्तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह् — अप्यायिष्टेति रूपम् । शल चलने इत्यारभ्य तेवृ इत्यतः प्राग्लान्ताः । तेवृ इत्यारभ्य रेवत्यान्ता वकारान्ताः । षेवृदातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्रसात्पदाद्यो॑रिति निषेधे प्राप्ते आह — परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात्षत्वमिति भावः । अयं सोपदेशोऽपीति । षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह — प्लवगतिः- प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । 'अव रक्षणे' इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अलभूषणेत्यतः प्राग्यकारान्ताः । अल भूषणेत्यारभ्य खोरृ प्रतीघाते इत्यतः प्राग्लकारान्ताः ।", "64105": "<<अतो हेः>> - अतो हेः । 'अत' इति पञ्चमी । हेरिति षष्ठी ।चिणो लु॑गित्यतो लुगित्यनुवर्तते । तदाह — अतः परस्येति । भवेति । हिविधानं तु स्तुहीत्याद्यर्थमिति भावः । भवतादिति । आशिषि लोटः सिपि तस्यसेह्र्रपिच्चे॑ति हिभावे शपि गुणावादेशयोः 'अतो हे' रिति लुकं परत्वाद्बाधित्वातुह्रो॑रिति पक्षे तातङिति भावः । भवतमिति । थसि शपि गुणेऽवादेशे चभव थस् इति स्थिते॒लोटो लङ्व॑दिति लङ्वत्त्वात्तस्थस्थमिपामितिथसस्तमादेशे रूपम् । एवं भवतेति । थस्य तादेश इति विशेषः ।", "64106": "<<उतश्च प्रत्ययादसंयोगपूर्वात्>> - उतश्च ।हेर्लुक्स्यादिति ।चिणो लु॑गित्यतो॒ऽतो हे॑तित्यतश्च तदनुवृत्तेरिति भावः । लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेर्निभावमाडुत्तमस्येत्याडागमं च बाधित्वा परत्वादुकारस्यलोपश्चास्यान्यतस्या॑मिति लोपमाशङ्क्याह — नित्यत्वादित्यादि । निभावस्याप्युपलक्षणम् । उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयोः कृतयोरुकारलोपस्याऽप्रसक्तौ आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुणेऽवादेशे च धिनवानीति रूपमिति भावः । अधिनोत् । धिनुयात् । धिन्व्यात् । अधिन्वीत् । अधिन्विष्यत् । कृणोतीत्यादीति । धिविव्दरूपाणीति भावः । अयं स्वादौ चेति । कृविरित्यर्थः । अव रक्षणेति । स्वाम्यर्थः- ऐआर्यम् । मा भवानवीदिति ।नेटी॑ति न वृद्धिः । मव्यादयोऽवत्यन्ताः पर्समैपदिनो गताः । धावु गतीति । उदिदयम् । स्वरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदम्, अन्यथा परस्मैपदमित भावः । अथोष्मान्ता इति । तत्र 'धुक्षे' त्यारभ्य कासृधातोः प्राक् षकारान्ताः । तत्र क्लेशधातुरेकः शकारान्तः । दीक्षमौण्डएति । णेषृधातुर्णोपदेशः । कासृधातुमारभ्य ईहधातोः सकारान्ताः । कासांचक्र इति । कास्प्रत्ययादित्याम् । णासृधातुर्णसधातुश्च णोपदेशः । आङ शसीति । आङः परः शसिधातुरिच्छायामित्यर्थः । ईहेत्यारभ्य काशृधातुवर्जं घुषि कान्तीत्यतः प्राक् — हकारान्ताः । काशृधातुस्तु शकारान्तः । प्लिहहधातुरदुपधः । ऊह वितर्के इति । युक्त्या अर्थनिर्णयो वितर्कः ।अनुक्तमप्यूहति पण्डितो जनः॑ इत्यत्र तु अनुदात्तेत्त्वलक्षणात्मनेपदमनित्यमिति बोध्यम् । गाह्धातुरूदित्त्वाद्वेट् । तदाह — जगाहिषे जघाक्षे इति । इडभावे जगाह् से इति स्थितेहो ढः॑, 'एकाच' इति भष्भावेन गस्य घः,षढो॑रिति ढस्य कः, सस्य षः । जगाहिढ्वे जगाहिध्वे इति । इट्पक्षे 'विभाषेटः' इति ढत्वविकल्पः । इडभावे त्वाह — जघाढ्व इति । जगाह्ध्वे इति स्थिते हस्य ढः, धस्य ष्टुत्वेन ढः, गस्य भष् घकारः । पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः । ढलोपसूत्रं त्विहैव पठितुं युक्तम् । गाहितेति । इट्पक्षे रूपम् ।", "64107": "<<लोपश्चास्यान्यतरस्यां म्वोः>> - लोपश्च ।उतश्च प्रत्ययादेसंयोगपूर्वा॑दिति पूर्वसूत्रोक्त उकारोऽस्येत्यनेन परामृश्यते । प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते । असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणं । तदन्तविधिः । तदाह — असंयोगेति । प्रत्ययोकारैति । प्रत्ययसंबन्धी उकार इत्यर्थः । 'प्रत्यय — उकार' इति व्याख्याने तु सनुनुवः सुनुम इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युमः । असंयोगपूर्वादिति किम् । शक्नुवः शक्नुमः । धिन्वः धिनुव इति । अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह — मिपि त्विति । दिदिन्व । धिन्विता । धिन्विष्यति । धिनोतु ।", "64108": "", "64109": "", "64110": "<<अत उत् सार्वधातुके>> - अत उत् । उप्रत्ययान्तस्येति ।उतश्च प्रत्यया॑दित्यतस्तदनुवृत्तेरिति भावः । अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्क्य आह -तपरेति । इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदाङ्कुरुतामिति । विदाङ्कुर्वन्त्वित्यपि ज्ञेयम् ।न भकुर्छुरा॑मिति निषेधात्हलि चे॑ति दीर्घो न । हेर्लुगिति । तर्हि सार्वधातुकाऽभावात्कथमुत्त्वमित्यत आह — आभीयत्वेनेति । विदांकुर्विति । विदांकुरुतात् विदांकुरुतम् विदांकुरुत । विदांकरवाणीति । आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुण इति भावः । विदांकरवाव विदांकरवाम । लडआह -अवेदिति । हल्ङ्यादिना सिपो लोपे विशेषमाह -", "64111": "<<श्नसोरल्लोपः>> - श्नसोरल्लोपः ।अ॑दिति लुप्तष्ठीकं पदम् । श्न अस् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम् । शकन्ध्वादित्वात् पररूपम् । श्नेति श्नम्प्रत्ययैकदेशनिर्देशः । 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवर्तते,गगमहने॑त्यतः क्ङितीति । तदाह — श्नस्येत्यादिना ।", "64112": "<<श्नाऽभ्यस्तयोरातः>> - श्नभ्यस्तयोरातः ।गमहने॑त्यतो लोपः क्ङितीत्यनुवर्तते ।अत उ॑दित्यतः सार्वधातुके इति । तदाह — अनयोरिति । स्नाप्रत्ययस्य, अभ्यस्तस्य चेत्यर्थः । दरिद्रतीति । जक्षित्यादित्वादभ्यस्तत्वात्अदभ्यास्ता॑दिति झस्य अदादेशे आकारलोपः । दरिद्रासि दरिद्रिथः । दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । लिटआह — अनेकाच्त्वादामिति । इदं चकास्प्रत्यया॑दिति सूत्रभाष्ये स्पष्टम् । दरिद्रांचकारेति । आमि सवर्णदीर्घः । कैयटमतमाह — आत इति । 'आत औ णलःर' इत्त्र प्रथमातिक्रमे कारणाऽभावादोकार एव विधातुमुचितः । वृद्धौ स्तयां तावतैव ययौ इत्यादिसिद्धेः । तस्मादौकराविधानं दरिद्राधातोर्णलिदरिद्रातेरार्धधातुके लोपो वक्तव्यः॑ इत्याल्लोपे 'ददरिद्रौ' इत्यौकारश्रवणार्थं संपद्यते । ओकारविधाने तु आल्लोपे सति वृद्धेसंभवाद्दरिद्रातेर्लिटि आम्नेति विज्ञायते । आमि सति णल एवाऽप्रसक्तेरित्यर्थः । इदं चवस्वेकाजाद्धसा॑मिति सूत्रभाष्ये द्वनितं, कैयटेन स्पष्टीकृतम् । तन्निर्मूलमेवेति । ददरिद्र । ददरिद्रौ ददरिद्रिव ददरिद्रिम । आर्धधातुके विवक्षिते इति ।आतो लोप इटि॑चे त्याल्लोपो दरिद्रातेर्भवन् क्ङिति अक्ङिति च अजादावाद्र्धातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः । आल्लोपे कृते पचाद्यच् सिध्यति । आर्धधातुके परे आल्लोपप्रवृत्तौ तुश्याद्वद्यधे॑त्यादन्तलक्षमो णप्रत्ययः स्यात् । ततश्च कृते णप्रत्यये आल्लोपं बाधित्वाआतो युक् चिण्कृतोरिति युकि 'दरिद्राय' इति स्यात् । आर्धधातुके विवक्षिते ततः प्रागेव आल्लोपे तु कृते आदन्तत्वाऽभावाण्णप्रत्ययाऽभावे पचाद्यच्प्रत्ययो निर्बाधः । तदिदं भाष्ये स्पष्टम् । लुङि वेति । लुङि आल्लोपो वा वक्तव्य इत्यर्थः ।अद्यतन्यां वेति वक्तव्य॑मिति वार्तिकार्थसङ्ग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थकविहितलुङ्विभक्तिर्विवक्षिता, भाष्ये तस्या एवोदाहरमात् । सनि ण्वुलि ल्युटि च नेति । एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः । ण्वुलि यथा — दरिद्रायकः । आतो युक् । ल्युटि यथा — दरिद्राणः । अनादेशे कृते आल्लोपाऽभावात्सवर्णदीर्घः । सनि यथा — दिदरिद्रासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्याऽयं निषेधः । तेनतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति दरिद्रातेः सन इट्पक्षेआतो लोप इटि चे॑त्याल्लोपो भवत्येव - दिदरिद्रिषति । तासि इटि उदाहृतव#आर्तिकेन आल्लोपः । 'आतो लोप इटिचे' त्यस्य संभवेऽपि न्यायत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । दरिद्रातु — दरिद्रितात् दरिद्रिताम् दरिद्रतु । दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम । लडआह - अदरिद्रादिति । इत्त्वं मत्वा आह — अदरिद्रितामिति । अदरिद्रुरिति । जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः । अदरिद्राः अदरिद्रितमदरिद्रित ।अदरिद्रामदरिद्रव अदरिद्रिम । दरिद्रियादिति । विधिलिङि सार्वधातुकत्वादित्त्वमिति भावः । आशीर्लङ्याह — दरिद्रआदिति । आतो लोप इति भावः । लुङि आतो लोपपक्षे आह — अदरिद्रीदिति । अदरिद्रिष्टामित्यादि । आल्लोपाऽभावपक्षे त्वाह — इट्सकाविति । अदरिद्रिष्यत् । चकासृ दीप्ताविति । ऋदित् । सेट् । चकास्ति चकास्त इतिसिद्धवत्कृत्याह — झस्य अदिति । जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः । चकासतीति । चकास्सि चकास्थः चकास्थ । चकास्मि चकास्वः चकास्मः । चकासांचकारेति । अनेकाच्त्वादामिति भावः । चकासिता.चकासिष्यति । चकास्तु [चकास्तात्] चिकास्ताम् चकासतु । हेर्धिभावे चकास् धि इति स्थितेधिचे॑ति सलोप इति सिद्धन्तः । तत्र मतान्तरमाह -सिच एवेत्येके इति ।धिचे॑ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः ।धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन॑मिति वार्तिकादिति तदाशयः । अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः । तदाह — चकाद्धीति । 'एके' इत्यस्वरसोद्भावनम् ।तद्बीजं तुधिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः ।तदाह — चकाधीत्येव भाष्यमिति । चकास्तात् चटकास्तम् चकास्त । चकासानि चकासाव चकासाम । लङि अ चकास् त् इति स्थिते —", "64113": "<<ई हल्यघोः>> - ई हल्यघोः । 'ई' इति लुप्तप्रथमाकम् । 'श्नाब्यस्तयोरातः' इत्यनुवर्तते ।गमहने॑त्यतः क्ङितीति, 'अत उत्सार्वधातुके' इत्तः सार्वधातुके इत्यतः सार्वधातुके इति चानुवर्तते । तदाह — श्नाभ्यस्तयोरित्यादिना । आल्लोप इति ।अजादौ क्ङिति सार्वधातुके॑ इति शेषः । मिमते इति । अभ्यस्तत्वाददादेशः । मिमीषे मिमाथे मिमीध्वे । मिमे मिमीवहे मिमीमहे । ममे ममाते ममिरे । ममिषे ममाथे ममिद्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मिमीताम् मिमाताम् मिमतात् । मिमीष्व मिमाथाम् मिमीध्वम् । मिमै मिमावहै मिमामहै । अमिमीत अमिमाताममिमत । अमिमीथाः अमिमाताममिमीध्वम् । अमिमि अमिमीवहि अमिमीमहि । मिमीत मिमीयाताम् मिमीरन् । मिमीथाः । मिमीयाथाम् मिमीध्वम् । मिमीय मिमीवहि मिमीमहि । मासीष्ट । अमास्त अमासाताममासत । अमास्थाः अमासाथाममाध्वम् । अमासि अमास्वहि अमास्महि । अमास्यत । ओ हाङ्गातविति । अनिट् । ओकारः ककारश्च इत् । जहातीति । श्लौ द्वित्वे अभ्यासचुत्वमिति भावः । तसादौ 'श्नाभ्यस्तयोरातः' इति नित्यमीत्त्वे प्राप्ते —", "64114": "<<इद्दरिद्रस्य>> - इद्दरिद्रस्य । सौत्रो ह्रस्वः ।गमहने॑त्यतः क्ङितीत्यनुवर्तते ।ई हल्यघो॑रित्ते हलीति,अत उदि॑त्यतः सार्वधातुके इति । तदाह — दरिद्रातेरिति ।श्नाभ्यस्तयो॑रित्याल्लोपाऽपवादः । अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारः । दरिद्रित इति ।सार्वधातकमपि॑दितितसो ङित्त्वादाकारस्य इकारः ।", "64115": "<<भियोऽन्यतरस्याम्>> - भियोऽन्यतरस्याम् ।इद्दरिद्रस्ये॑त्यत इदिति,गमहने॑त्यतः क्ङितीति,ई हल्यघो॑रित्यतो हलीति,अत उ॑दित्यतः सार्वधातुके इति चानवर्तते इत्यभिप्रेत्य शेषं पूरयति — इकारः स्यादित्यादिना । बिभ्यतीति ।अदभ्यस्ता॑दित्यत् । बिभयामिति ।भीह्यीभृहुवां स्लुवच्चे॑ति श्लुवत्त्वाद्द्वित्वादीति भावः । बिभायेति । बिभ्यतुः । बिभयिथ — बिभेथ । बिभ्यिव बिभ्यिम । बेतति । भेष्यति । बिभेतु — बिभितात् — बिभीतात् बिभिताम् बिभीताम् — बिभ्यतु । बिभिहि — बिभीहि — बिभितात् — बिभीतात्, बिभीतम् — बिभीतम्, बिभित — बिभीत । बिभयानि बिभयाव बिभयाम । अबिभेत्, अबिभिताम् — अबिभीताम्, अबिभयुः । अबिभेः, अबिभितम् — अबिभीतम्, अबिभित-अबिभीत । अबिभयमबिभिव — अबिभीव अबिभम — अबिभीम । बिभियात् — बिभीयादित्यादि । आशीर्लिङ [भीयात्] भीयास्ताम् । अभैषीत् । अभेष्यत् । हृी लज्जायामिति । अनिट् । जिहियतीति ।अदभ्यस्ता॑दित्यत् । इयङ् । जिह्ययामिति । जिह्ययामिति । ह्येता । ह्येष्यति । जिह्येतु — जिह्यीतात् । जिह्यीहि । जिह्ययाणि । अजिह्येत् । जिह्यीयात् । ह्यीयात् । अह्रैषीत् । अह्येष्यत् । पृधातुः सेट् । लटस्तिपि शपः स्लौ द्वित्वे पृ पृ इति स्थिते —", "64116": "<<जहातेश्च>> - जहातेश्च ।इद्दरिद्रस्ये॑त्यत इदिति,भियोऽन्यतरस्या॑मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति — इत्स्याद्वेति । जहतीति । अब्यस्तत्वाददादेशेश्नाब्यस्तयो॑रित्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ — जहाथ जहथुः दजह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम् — जहीताम् जहतु ।", "64117": "", "64118": "<<लोपो यि>> - लोपो यि ।जहातेश्चे॑त्यतो जहातेरिति, 'श्नभ्यस्तयोरातःर' इत्यत आत इति, 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते ।यी॑ति सप्तम्यन्तं सार्वधातुकविशेषणम् । तदादिविधिः । तदाह — जहातेरित्यादिना ।जहातेश्चे॑त्यस्यापवादः । आशीर्लिङ्याह — एर्लिङीति । अहासीदिति ।यमरमे॑ति सगिटौ । अहास्यत् । डु दाञ् । उभयपदी । अनिट् । प्रणिददातीति ।नेर्गदे॑ति णत्वम् । दत्त इति । ददा तस् इति स्थितेअघो॑रिति पर्युदासादीत्त्वाऽभावेश्नाभ्यस्तयो॑रित्याल्लोपः । ददतीति । अभ्यस्तत्वाददादेशेश्नाभ्यस्तयो॑रित्याल्लोप इति भावः । ददासि दत्थः दत्थ । ददामि दद्वः दद्मः । दत्ते इति । ददाते ददते । दत्से ददाथे दद्ध्वे । ददे दद्वहे दद्महे । ददौ इति । ददतुः दधुः । ददिथ — दधाथ ददथुः दद । ददौ ददिव ददिम । ददे ददाते ददिरे । ददिषे ददाथे ददिध्वे । ददे ददिवहे ददिमहे । दाता । दास्यति दास्यते । ददातु — दत्तात् दत्ताम् ददतु । इति सिद्ध्वत्कृत्य देहि इत्यत्र आह - घ्वसोरिति । दत्तात् दत्तम् दत्त । ददानि ददाव ददाम । दत्ताम् ददाताम् ददताम् । दत्स्व ददाथाम् दद्ध्वम् । ददै ददावहै ददामहै । लङ्याह - अददादिति । अददुरिति । अददुरिति । अभ्यस्तत्वाज्जुस् । अददाः अदत्तम् । अदत्त । अददामदद्व अदद्म । विधिलिङ्याह — दद्यादिति । स्नाभ्यस्तयो॑रित्याल्लोपः । आशीर्लिङि तुएर्लिङी॑त्येत्त्वमभिप्रेत्य आह — देयादिति । दासीष्ट । लुङ्याह - अदादिति ।गातिस्थे॑ति सिचो लुगिति भावः । अदाः अदातमदात । अदामदाव अदाम । लुङ्यात्मनेपदे आह — अदितेति । अदा स् त इति स्थितेस्थाध्वोरिच्चे॑ति दाधातोरन्त्यस्य इकारः । सिचः कित्त्वं च । कित्त्वान्न गुणः ।ह्रस्वादङ्गा॑दिति सिचो लोप इति भावः । अदिषातामदिषत । अदिथाः अदिषाथामदिढ्वम् । अदिषि अदिष्विहि अदिष्महि । अदास्यत् अदास्यत् । डु धाञ् । ञित्त्वादुभयपदी । अनिट् । प्रणिदधातीति ।नेर्गदे॑ति णत्वम् । तसि श्लौ द्वित्वे अभ्यासजश्त्वे\tश्नाभ्यस्तयो॑रित्याल्लोपे दध् तस् इति स्थिते —", "64119": "", "64120": "<<अत एकहल्मध्येऽनादेशादेर्लिटि>> - तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते । अत एकहलमध्ये । आदेश आदिर्यस्येति बहुव्रीहिः । अङ्गस्येत्यधिकृतमन्यपदार्थः । लिटीति निमित्तसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति । लिटि परे निमित्ते य आदेशः स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते । अङ्गस्येत्यवयवषष्ठी । तथा च तथाविधाङ्गावयवस्याऽत इति लभ्यते । एकशब्दोऽसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । एकौ असंयुक्तौ हलौ एकहलौ, तयोर्मध्यः,तत्रेति विग्रहः । 'अत' इत्स्यैव विशेषणमिदम् ।द्वसोरेद्धा॑वित्यत एदिति, अभ्यासलोप इति चानुवर्तते ।गमहने॑त्यतः कितीत्यनुवर्तते, न तु ङितीति, लिङादेशानां ङित्त्वाऽसंभवात् । लिटीत्येत्वविधौ परनिमित्तं च । आवृत्त्या उभयार्थलाभः । तदाह - लिण्निमित्तेत्यादिना ।", "64121": "<<थलि च सेटि>> - थलि च । प्रागुक्तमिति । एकहल्मध्य इति यत्प्रागुक्तम् — एत्वादि, तत्सेटिथलि च स्यादित्यर्थः । थलः कित्त्वाऽभावात्पूर्वसूत्रेणाऽप्राप्तौ वचनम् । ननु देधे पेततुरित्यादौअभ्यासे चर्चे॑ति जशां चरां च जशि चरि च लिण्निमित्तादेशादित्वात्कथमेत्वाभ्यासलोपावित्यत आह — — आदेशश्चहेति । इह = 'अत एकहल्मध्ये' इति सूत्रे, आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः । तथा च तथाविधादेशादेरेव एत्त्वाभ्यासलोपौ न भवतः, स्थानिसरूपादेशास्तु न पर्युदास इत्यर्थः । शसिदद्योरिति ।न शसददवादिगुणाना॑मिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते । यदीह यथाकतंचिदादेशादेः पर्युदासः स्यात्तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयोरभावसिद्धौन शसददवे॑ति तत्प्रतिषेधोऽनर्थकः स्यात् । अतो वैरूप्यसंपादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः । तेनेति । स्थानिसरूपादेशादेः पर्युदासाऽभावादित्यनेनेत्यर्थः । सत्स्वपीति । देधे पेततुरित्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः । देधे इति । दध् दध् ए इति स्थिते दकारादकारस्य एत्त्वेऽभ्यासलोपे च रूपम् ।असंयोगाल्लिट्क॑दिति कित्त्वमिह बोध्यम् । देधिर इति । देधिषे देधाथे देधिध्वे । देधे देधिवहे देधिमहे इति रूपाणि संभवन्तीति भावः । दिदिवतुरिति । दिव्धातोरतुसि द्वित्त्वे हलोर्मध्येऽतोभावादेत्त्वाभ्यासलोपौ नेति भावः । तत्परः किमिति । 'अत' इति तपरकरणं किमर्थमित्यर्थ- । ररासे इति । 'रासृ शब्दे' भ्वादिरात्मनेपदी । अत्र हल्मध्यस्थस्येति किमर्थमित्यर्थः । तत्सरतुरिति ।त्सर च्छद्मगतौ॑ । लिटोऽतुसि द्वित्वे अभ्यासाऽकारस्य नाऽसंयुक्तहल्मध्यस्थत्वमिति भावः । चकणतुरिति । 'कण शब्दे' लिटोऽतुसि द्वित्वे कुहोश्चुरिति ककारस्य चुत्वेन चकारः । तथा च वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपौ नेति भावः । अथलिण्निमित्तादेशादिक॑मित्यत्र लिण्निमित्तेत्यस्य प्रयोजनमाह — लिटेति । नेमिथेति ।णमु प्रह्वत्वे शब्दे च॑ । 'णो नः' इति नत्वम् । थलि इटि द्वित्वे नत्वसंपन्ननकारादेशादित्वेऽपि नत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ निर्बाधाविति भावः । सेहे इति ।षह मर्षणे॑ । 'धात्वादेः षः सः' इति सत्वे लिटि द्वित्वे सत्वसंपन्नसकारादेशादित्वेऽपि सत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वविरहादेत्त्वाभ्यासलोपा निर्बाधाविति भावः । दधिता । दधिष्यते । दधताम् । अदधत । दधेत । दधिषीष्ट । अदधिष्ट । अदधिष्यत । स्कुदीति । उत्प्लवनमुत्प्लुत्य गमनम् ।", "64122": "<<तॄफलभजत्रपश्च>> - संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपयोरप्राप्तावाह — तृफल । 'अत एकहल्मध्ये' इत्यतोऽत इति लिटीति चानवर्तते ।ध्वसो॑रित्यत एदिति, अभ्यासलोपश्चेति च,गमहने॑त्यस्मात्कितीति,थलि च सेटी॑ति सूत्रं च । तदाह — एषामिति । गुणशब्देन भाविताऽकारवत्त्वाद्वरूपादेशादित्वादेकहल्मध्यस्थत्वाऽभावाच्चाऽप्राप्ते विधिरियम् । आन्ब इति । द्विहल्त्वान्नुट् । ष्टभि स्कभीति । आद्यः षोपदेशः,ष्टुत्वेन तकारस्य टकारनिर्देशेन दन्त्यपरकसादित्वात् । ततः षस्य सत्वे ष्टुत्वस्य निवृत्तिः । तदाह -स्तम्भत् इति । नुम्यनुस्वार इति । इदित्त्वान्नुमिनश्चापदान्तस्ये॑ति तस्यानुस्वारः ।नुस्वारस्य ययी॑ति तस्य परसवर्णौ मकारः ।ष्टम्भे॑त्येव पाठे तु प्रतिपदोक्तत्वात्उदः स्थे॑त्यत्राऽस्यैव ग्रहणं स्यादिति भावः । पूर्वसवर्ण इति । सकारस्य थकारः । तस्यखरि चे॑ति चर्त्वे तकार इत्यर्थः । अत्र यद्वक्तव्यं तदुदः स्थास्तम्भोरित्यत्र हल्सन्धौ प्रपञ्चितम् । विस्तम्भत इति ।सात्पदाद्यो॑रिति षत्वनिषेध इति भावः । नन्वेवमपिस्तम्भे॑रिति षत्वं कुतो न स्यादित्यत आह - स्तम्भेरिति षत्वं तु नेति । कुत इत्यत आह — श्नविधाविति ।स्तन्भुस्तुन्बुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्चे॑ति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तस्य षत्वविधौ ग्रहणादित्यर्थः । नन्वेवं सतिउदः स्थास्तम्भो॑रिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह — तद्बीजं त्विति । षत्वविधौ सौत्रस्यैव ग्रहणं, पूर्वसवर्णविधौ तु तदन्यस्यापीत्यत्र प्रमाणमित्यर्थः । ननु पूर्वसवर्णविधौ मोपधस्य, षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह — इति माधव इति । पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः । लिटि 'शपूर्वाः खयः' इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्त्या तकारः शिष्यते । तस्तम्भे । टकार औपदेशिक इति । स्वाभाविक एव टकारो नतु ष्टुत्वसंपन्न इत्यर्थः । तन्मते इति । तथा च षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणेऽपि षकारो निर्बाध इति भावः । टष्टम्भ इति । 'शर्पूर्वा' इतिटकार एव शिष्यत इति भावः । जभी जृभि गात्रविनाम इति । गात्रस्य विनामः = वक्रभावः । आद्य इदित् । द्वितीय इदित् । आद्यस्य इदित्त्वंश्वीदितो निष्ठाया॑मिति इण्निषेधार्थम् ।", "64123": "<<राधो हिंसायाम्>> - राधो हिंसायां ।ध्वसो॑रित्यत एदिति, अभ्यासलोप इति चानुवर्तते ।गमहने॑त्यतः कितीति, 'अत एकहल्मध्ये' इत्यतो लिटीति,थलि च सेटी॑ति सूत्रं चानुवर्तते । तदाह — एत्त्वेत्यादिना । अपरेधतुरिति । उपसर्गवशादिह हिंसायां वृत्तिः । अन्यत्र रराधतुः । थल्यपि क्रादिनियमान्निट् । 'उपदेशेऽत्वतः' इत्यत्र तपरकरणादिह नेण्निषेधः । तदाह -रेधिथेति । राद्धेति । 'झषस्तथोः' इति धः ।अशू व्याप्ताविति । ऊदित्तवाद्वेट् । अश्नुते इति । अश्नुवते ।संयोगपूर्वकत्वात्हुश्नुवो॑रिति न यण् ।", "64124": "<<वा जॄभ्रमुत्रसाम्>> - वा जृभ्रसु । 'अत एकहल्मध्ये' इत्यतो लिटीति,थलि च सेटी॑ति चानुवर्तते । 'ध्वसोरेद्धौ' इत्यत एदिति,गमहने॑त्यतः कितीति च । तदाह — एषामिति । अभ्रमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । अक्षारीदिति ।अतो ल्रान्तस्ये॑ति वृद्धिः । षह । अपराधे सत्यपि कोपाऽनाविष्करणं मर्षमम् । इडभावे इति । सह् — ता इति स्थिते 'हो ढः' इति ढत्वं,झषस्तथो॑रिति तकारस्य धत्वम् । धस्य ष्टुत्वेन ढः । 'ढो ढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः । स ढा इति स्थितम् ।", "64125": "", "64126": "<<न शसददवादिगुणानाम्>> - न शसदद । शस दद वादि गुण — एषां द्वन्द्वः । अवयवषष्ठी । गुणशब्देन विहित एव गुणोऽत्र गुणशब्देन विहितत्वाऽभावान्नायं निषेधः । पृधातोः पपरतुरिति तु गुणस्योदाहरणम्, गुणशब्देन विहितो योऽर् तदवयवत्वादकारस्येति बोध्यम् । ददद इति । ददेर्लिटस्तादेशस्य एशि द्वित्वे 'अत एकहल्मध्ये' इति प्राप्तावेत्तवाभ्यासलोपौ न भवतः । ष्वद स्वर्देति । आस्वादनम् — अनुभवः । प्रीतिविषयीभावात्मिका रुचिर्वा । तदाह — अयमिति । प्रत्येकाभिप्रायमेकवचनम् ।", "64127": "<<अर्वणस्त्रसावनञः>> - तस्य सौ राजवद्रूपं मत्वाह — अर्वा । हे अर्वन्निति । अर्वणस्त्रासावनञः । तृ-असौ इति छेदः । न विद्यते नञ् यस्येति बहुव्रीहिः । अङ्गस्येत्यधिकृतमर्वणा विशेष्यते । तदाह — नञा रहितस्येत्यादिना । ऋकार इत् ।अलोऽन्त्यस्ये॑ति नस्य तः । उगित्त्वान्नुमिति ।उगिदचा॑मित्यनेनेति भावः । अर्वन्ताविति । नुमो नस्यनश्चापदान्तस्ये॑ति अनुस्वारः, परसवर्ण इति भावः । शसादावचि असर्वनामस्थानत्वान्नुम् नेति मत्वाह-अर्वत इति । अर्वद्भ्यामिति । 'स्वादिषु' इति पदत्वाज्जश्त्वमिति भावः । इत्यादीति । अर्वद्भिः । अर्वते । अर्वद्भ्यः । अर्वतः अर्वतोः अर्वताम् । अर्वति । अर्वत्सु । अनञः किमिति । 'अनञः' इत्यस्य किं प्रयोजनमित्यर्थः । अनर्वा यज्ववदिति । अनर्वन्शब्दो यज्ववदित्यर्थः । शसादावचिन संयोगाद्वमन्ता॑दित्यल्लोपो नेति बावः । पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ताः ।", "64128": "<<मघवा बहुलम्>> - ॒आन्नुक्षन्पूषन्प्लीहनक्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघव॑न्नित्युणादिसूत्रेण निष्पन्ने तस्मिन्मघवन्शब्दे विशेषमाह — मघवा बहुलम् । 'अर्वणस्त्रासौ' इत्यतः 'तृ' इत्यनुवर्तते । तच्च लुप्तप्रथमाकम् ।मघवे॑ति तु षष्ठर्थे प्रथमा । तदाह — मघवन्शब्देस्येत्यादिना । ऋ इदिति ।उपदेशेऽजनुनासिक इत् इति ऋकार इत्संज्ञक इत्यर्थः । 'ऋ' इत्यविभक्तिको निर्देशः प्रक्रियासमये न दुष्यति । अलोऽन्त्यस्येति नकारस्य तकारः । सर्वादेशस्तु न,नानुबन्धकृतमनेकाल्त्वमि॑ति वचनात् । मघवत् स् इति स्थिते- ।", "64129": "", "64130": "", "64131": "<<वसोः सम्प्रसारणम्>> - शसादावचि विशेषमाह — वसोः संप्रसारणं । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणं भस्येत्यधिकृतं । तदाह — वस्वन्तस्येति । पूर्वेति । शसि वकारस्य उत्वे विदु अस् इति स्थिते,संप्रसारणाच्चे॑ति पूर्वरूपे, विदुस् इति स्थिते, प्रत्ययावयवत्वात्सस्य षत्वमित्यर्थः । 'षत्वतुकोरसिद्ध' इति पूर्वरूपस्याऽसिद्धत्वं न शङ्क्यं, पदान्तपदाद्योरेकादेश एव तत्प्रवृत्तेः । सुपि दत्वे चर्त्वम् । विद्वत्सु । सेदिवानिति ।षद्वलृ विशरणगत्यवसादनेषु॑धात्वादेः षः सः॑,भाषायां सदवसश्रुवः॑ इति लिटः क्वसुः, उकावितौ, 'लिटि धातोः' इति द्वित्वं, हलादिशेषः, 'अत एकहल्मध्ये' #इत्येत्त्वाभ्यासलोपौ,वस्वेकाञाद्धसा॑मिति इट् । सेदिवस्शब्दः । ततः सुः, उगित्त्वान्नुम्, 'सान्तमहतः' इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । सान्तवस्वन्तत्वाऽभावान्न दत्वमिति भावः । सेदिवांसाविति । नुमि 'सान्तमहतः' इति दीर्घः । ननु उक्तरीत्या निषपन्नात्सेदिवस्शब्दाच्छसिवसोः संप्रसारण॑मिति वकारस्य उत्वे पूर्वरूपे इकारस्य यणि 'सेद्युषः' इति स्यात् । ततश्च 'सेदुषः' इति वक्ष्यमाणं रूपमयुक्तम् । नच शसि भविष्यति भविष्यत्संप्रसारणरूपकार्यं पर्यालोच्य पूर्वमेव इट् न प्रवर्तते, पदावधिकान्वाख्यानाभ्युपगमादिति वाच्यम्, एवमपि बहिर्भूतयजाद्यसर्वनामस्थानस्वादिप्रत्ययनिमित्तकभसंज्ञापेक्षतया संप्रसारणस्याङ्गस्य बहिरङ्गत्वेन इडागमस्यैवान्तरङ्गत्वात्प्रथमं प्रवृत्तेः, परादन्तरङ्गस्य बलवत्त्वादित्यत आह — अन्तरङ्गोऽपीति । अकृतेति । भविष्यता संप्रसारणेन बलादित्वस्य विनाशोन्मुखत्वादिति भावः । वस्तुतस्तु प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु, तथापि वकारस्य संप्रसारणे उत्वे कृते, यणि सत्यपि संप्रसारणस्य बहिरङ्गत्वेनाऽसिद्धत्वात् 'लोपो व्योः' इति लोपे 'सेदुष' इति रूपं सिद्धम् । नचनाजानन्तर्ये बहिष्ट्वप्रकॢप्ति॑रिति निषेधः शङ्क्यः, उत्तरकालप्रवृत्तिकेऽजानन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह च उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किंच कृते इटि संप्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ 'सेदुष' इति निर्बाधं ।निमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति न्यायात् । किंच पदावधिकान्वाख्यानेऽपि सेद्वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीर्घोपस्थितिकत्वात्प्रथमं संप्रसारणे वलादित्वाऽभावादिटः प्राप्तिरेव नास्तीति 'सेदुषः' इति निर्बाधमित्याहुः । इत्यादीति । सुपि — सेदिबत्सु । 'हिसिं हिंसायाम्' इदित्त्वान्नुम्, सुपूर्वात्क्विप्, इदित्त्वान्नलोपो न,नश्चे॑त्यनुस्वारः, सुहुंस्शब्दात्सोर्लोपः, सकारस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । नापिसर्वनामस्थाने चे॑ति दीर्घः । निमित्तापायादनुस्वारनिवृत्तिः । सुहिन् इति सौ रूपं वक्ष्यति । तत्र 'सान्तमहतः' इति दीर्घमाशङ्क्य आह — सान्तेति । सुहिन्भ्यामिति । 'स्वादिषु' इति पदान्तत्वात्सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तिरिति भावः । सुबिन्स्विति । संयोगान्लोपेऽनुस्वारनिवृत्तिः । सुपः सकारमाश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति । ध्वंसु अवरुआंसने कृतानुस्वारनिर्देशः । क्विप्, अनुस्वारस्याऽसिद्धत्वात् ' अनिदिताम्' इति नलोपः । सोर्लोपः । 'वसुरुआंसु' इति दत्वम् । 'वाऽसाने' इति चर्त्वविकल्प इति भावः । एवमिति । 'रुआंसु अवरुआंसने' क्विबादि पूर्ववदिति भावः । 'पूञ्पवने' अस्मात् 'पूञो डुम्सुन्' इति उणादिसूत्रेण डुम्सुन्प्रत्ययः । डकारो नकार उकारश्च इत् । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । पुंस्शब्दात्सुबुत्पत्तिः ।", "64132": "<<वाह ऊठ्>> - वाह ऊठ् ।भस्ये॑त्यधिकृतम् । 'वसोः संप्रसारण' मित्यतःसंप्रसारण॑मित्यनुवर्तते । तच्च ऊडित्यनेनान्वेति । तदाह-भस्येत्यादिना ।", "64133": "<<श्वयुवमघोनामतद्धिते>> - शसादावचि मघवन् अस् इत्यादि स्थिते 'अल्लोपोऽनः' इति प्राप्ते-आयुवमघोनाम् । आआ च, युवा च, मघवा चेति द्वन्द्वः ।वसोः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।भस्ये॑त्यधिकृतम् । 'अल्लोपोऽनः' इत्यतोऽन इत्यपकृष्यते । तच्च आयुवमघोनां प्रत्येकं विशेषणं, तदन्तविधिः । फलितमाह — अन्नन्तानामित्यादि ।इग्यणः संप्रसारणम् इति वकारस्य संप्रसारणमुकारः । मथ उ अन् इति स्थिते पूर्वरूपमुक्तं स्मारयति — संप्रसारणाच्चेति । णघ उ न् इति स्थिते गुणं स्मारयति — आद्गुण इति । अन्नन्तानां किमिति । आयुवमघोनामन्नन्तत्वाऽव्यभिचारात्किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य त्रादेशपक्षेऽपि एकदेशविकृतस्यानन्यतयाऽन्नन्तत्वसत्त्वादिति प्रश्नः । मघवत इति । त्रादेशपक्षे मघवन्शब्दे संप्रसारणनिवृत्त्यर्थमन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तत्वमस्त्येव, तथापि विशेषणसामर्थ्यात् श्रूयमाणनकारान्तस्यैव संप्रसारणमित्याहुः । स्त्रियां मघवतीति । मघवतः स्त्री मघवती, पुंयोगेन स्त्रियां वृत्तौउगितश्चे॑ति ङीप् । अत्राप्यन्नन्तत्वविशेषणान्न संप्रसारणमिति भावः । अत्रउगिदचा॑मिति नुम् तु न, ङ#ईपा व्यवधानेन तान्तस्य उगितः सर्वनामस्थानपरकत्वाऽभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते, विभक्तौ लिङ्गविशिष्टाऽग्रहणमित्युक्तेरिति भावः । माघवनमिति । 'साऽस्य देवता' इति मघवन्शब्दादणि आदिवृद्धिः । अत्राऽणस्तद्धितत्वात्तस्मिन् परे न संप्रसारणमिति भावः । मघवभ्यामिति । भ्यामादौ हलि नलोप इति भावः । इत्यादीति । मघोने । मघोनः २ । मघोनोः । मघोनाम् । मघोनि । आन्शब्दः प्रायेण राजवत् । शसादावचिआउयुवे॑ति संप्रसारणं वकारस्य उकारः । शु अन् इति स्थितेसंप्रसारणाच्चे॑ति पूर्वरूपमिति मत्वाह-शुनः शुनेति । इत्यादीति । शुने । शुनः २ । शुनोः । शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह-युवन्शब्द इति । युवन् अस् इत्यादिस्थितेआयुवे॑ति वकारस्य संप्रसारणे उकारे यु उ अन् इति स्थितेसंप्रसारणांच्चे॑ति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घे यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि संप्रसारणे प्राप्त इत्यर्थः । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यस्य तु नायं विषयः, कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा संस्कर्तेत्यादौअनचि चे॑त्यादेरसकृत्प्रवृत्त्यनुपपत्तेरितिभावः ।", "64134": "<<अल्लोपोऽनः>> - शसादावचि नुमभावात्प्र-अच् अस् इति स्थिते-अचः । अच इत्यन्चुधातोःअनिदिता॑मिति लुप्तनकारस्य षष्ठन्तम् । भस्येत्यधिकृतम् । 'अल्लोपो नः' इत्यतोऽल्लोप इत्यनुवर्तते । तदाह — लुप्तेति ।", "64135": "<<षपूर्वहन्धृतराज्ञामणि>> - ननु प्रकृतिभावादल्लोपो न स्यादत आह — षपूर्वहन् । 'अल्लोपोऽनः' इत्यनुवर्तते ।भस्ये॑त्यधिकृतं, तदाह — षपूर्व इति । ताक्ष्ण इति ।तक्ष्णोऽण उपसङ्ख्यान॑मिति कारिलक्षणण्यस्यापवादोऽण् । ताक्षण्य इति ।सेनान्तलक्षणकारिभ्यश्च॑ इति ण्यः ।", "64136": "<<विभाषा ङिश्योः>> - विभाषा ङिश्योः । 'अल्लोपोऽन' इत्यनुवर्तते ।अङ्गस्ये॑तिभस्ये॑ति चाधिकृतं ।भस्ये॑त्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वे पूर्ववदनो लभ्यते । तदाह — अङ्गावयव इति । ङिश्योरिति । ङिश्च शी चेति विग्रहः ।नपुंसकाच्चे॑ति विहित एवाऽत्र शी गृह्रते, नतु जश्शसोश्शिः, तस्मिन् परे भत्वाऽसम्भवात् । पक्षे इति । यूषन्नादेशाऽभावपक्षे इत्यर्थः । अथ क्वचिच्छसादिभ्योऽन्यत्रापि पदाद्यादेशं साधायितुमाह — पद्दन्न इतीति । प्रकारेति । प्रकारः सादृश्यम् । तच्च प्रत्ययत्वेन बोध्यम् । प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाणं दर्शयति — अत एवेति । प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थः ।ककुद्दोषणी याचते महादेवः॑ इत्येवं भाष्ये औङादेशभूतशीभावे परत उदाहृतो दोषन्नादेशोऽत एव सङ्गच्छते इत्यन्वयः । तेनेति । प्रकारार्थकप्रभृतिग्रहणेनेत्यर्थः ।पदङ्घ्रि॑रित्यत्रप॑दिति प्रथमैकवचनम्,स्वान्तं ह्म॑दित्यत्र ह्मदिति च सङ्गच्छत इत्यर्थः । आदिना निशादिसङ्ग्रहः । आसन्यं प्राणमिति । आसन्यं प्राणमूचुरिति चाऽत एव सङ्गच्छते इत्यन्वयः । आसनशब्दस्य आसन्नादेश इति भ्रमं वारयति — आस्ये भव इति । प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भावः ।शरीरावयवाच्चे॑त्यास्यशब्दाद्भवार्थे यत्प्रत्यये आसन्नादेशः । 'ये चाऽभावाकर्मणोः' इति प्रकृतिभावा॑न्नस्तद्धिते॑ इति टिलोपो न । प्रभृतिग्रहणस्य प्रकारार्थत्वाऽभावे त्विहाऽऽसन्नादेशो न स्यात्, यत्प्रत्ययस्य । शसादिषु सुप्स्वनन्तर्भावादिति भावः । ननु 'दोषणी' इति भाष्ये नपुंसकप्रयोगोऽनुपपन्नः,दोषं तस्य तथाविधस्ये॑त्यादौ पुंस्त्वस्यैव प्रयोगदर्शनादित्यत आह — दोष्शब्दस्य द्वितीयैकवचनं दोरिति । पुंस्त्वे दोषमिति स्यादिति भावः । ननु भाष्यानुसाराद्दोष्शब्दस्य नपुंसकत्वमेव स्यादित्यत आह — भुजेति ।भुजबाहू प्रवेष्टो दो॑रिति कोशात्पुंस्त्वमपीत्यर्थः । नन्वयं कोशो दोष्शब्दस्य नपुंसकत्वेऽप्युपपन्न इत्यत आह-साहचर्यादिति । पुंलिङ्गभुजादिशब्दसाहचर्यादित्यर्थः ।साहचर्याच्च कुत्रचि॑दिति कोशे परिभाषितत्वादिति भावः । दोष्शब्दस्य पुंस्त्वसाधने फलं दर्शयति — दोषं तस्येति ।दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुण॑मिति श्रीहर्षः । दोषं हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीम्, अतिशयं च गृह्णन्नित्यन्वयः । अत्र दोषमिति दोष्शब्दस्य पुंलिङ्गद्वितीयैकवचनम् । अत्रसु प्रभृतिष्वि॑ति वाच्येशस्प्रबृतिष्वि॑ति वचनात्सुपि क्वचिदेव पदाद्यादेशा इति गम्यते । द्वयोरह्नोरिति । 'तद्धितार्थ' इति समासः ।कालाठ्ठ॑ञिति ठञ् । 'द्विगोर्लुगनपत्ये' इति लुक् ।राजाहः सखिभ्यष्ट॑जिति टच् । 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः । रामशब्दवद्रूपाणि ।", "64137": "<<न संयोगाद्वमान्तात्>> - शसि अल्लोपे प्राप्ते — न संयोगाद्वमन्तात् । वश्च मूच वमौ, तावन्तौ यस्येति विग्रहः । 'अल्लोपोऽन' इत्यनुवर्तते । तदाह — वकारेत्यादिना । अन्तग्रहणं स्पष्टार्थं, वमयोः संयोगविशेषणत्वादेव तदन्तलाभात् । इत्यादीति । यज्वने । यज्वनः २ । यज्वनोः २ । भ्यामादौ हलि राजवदित्यर्थः । मान्तसंयोगस्योदाहरणमाह — ब्राहृण इति । शसादावचि नाऽल्लोपः । शेषं राजवदिति भावः ।वेदस्तत्त्वं तपो ब्राहृ, ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । वृत्रो नाम असुरः, तं हतवानित्यर्थे ब्राहृभ्रूणवृत्रेषु क्विप् । कपावितौ । अपृक्तलोपः । उपपदसमासः । 'सुपो धातु' इत्यमो लुक्, वृत्रहन्शब्दः । तस्मात्सुबुत्पत्तिः ।", "64138": "<<टेः>> - डकार इत् । कतर अदिति स्थिते — टेः । 'अल्लोपोऽन' इत्यस्माल्लोप इतिति विंशतेर्ङिती॑त्यतो डितीति चानुवर्तते । भस्येत्यधिकृतं । तदाह-डितीत्यादिना । कतर अदित्यत्र रेफादकारस्य लोपः । चर्त्वविकल्पं स्मारयति-वावसाने इति । ननु पररूपेणकतर॑दिति सिद्धेरद्डो डित्करणस्य किं प्रयोजनमित्यत आह — टेर्लुप्तत्वादिति । टेर्लुप्तत्वात्पूर्वसवर्णदीर्घो न भवतीत्यन्वयः । डित्त्वाऽभावेटे॑रिति लोपस्याऽप्राप्त्या पररूपं बाधित्वा पूर्वसवर्णदीर्घः प्रसज्येतेति भावः ।ननु पूर्वसवर्णदीर्घाऽभावाय दकार एवादेशः क्रियतामित्यत आह-एङ्ह्रस्वादित्यादि । सोर्दकारादेशे सति तस्य स्थानिवत्त्वेन संबुद्धित्वाद्ध्रस्वान्तादङ्गात्परत्वाच्च लोपः प्रसज्येत । अद्डादेशे तु टिलोपे सति कतरित्यङ्गं,न तद्ध्रस्वान्तम् । यत्तु ह्रस्वान्तं 'कतर' इति न तदङ्गं, रेफादकारस्य प्रत्ययावयवत्वेन तदन्तस्य प्रत्ययपरकत्वाऽभावेन अङ्गत्वाऽभावात् । अतष्टिलोपप्रवृत्तयेऽद्डादेशविधिरिति भावः । पुनस्तद्वदिति । प्रथमावद्द्वितीयेत्यर्थः । शेषं पुंवदिति । सर्ववदित्यर्थः । अन्यतमशब्दस्य त्विति । तस्याऽव्युत्पन्नप्रातिपतिकत्वेन डतमप्रत्ययान्तत्वाऽभावेन तत्राद्डादेशो नेत्यर्थः ।एकाच्च प्राचा॑मिति डतरजन्तादेकतरशब्दात्स्वमोरद्डादेशे प्राप्ते आह-एकतरादिति । एकतरशब्दात्परयोः स्वमोरद्डादेशप्रतिषेधो वक्तव्य इत्यर्थः । अविद्यमाना जरा यस्य कुलस्येति विग्रहेनञोऽस्त्यर्थना॑मिति बहुव्रीहौ विद्यमानपदलोपेगोस्त्रियो॑रिति ह्रस्वत्वेऽजरशब्दः । तस्य प्रक्रियां दर्शयति — सोरिति । सोरमादेशे कृतेऽजरमित्यन्वयः । जरसादेशमाशङ्क्याह — संनिपातेति । अदन्तसंनिपाताश्रयस्य अमोऽदन्तत्वविघातकजरसादेशं प्रति निमित्तत्वाऽयोगादिति भावः । अजरसी इति ।नपुंसकाच्चे॑ति शीभावे जरसादेशे रूपम् । अजरे इति । जरसादेशाऽभावे रूपम् । जसि रूपं दर्शयितुमाह — परत्वादिति । अजर-सिति स्थिते 'जश्शसोः शिः' इति शिभावात् परत्वाज्जरसि कृते ततः शिभावे झलन्तत्वान्नुमित्यर्थ इति केचित् । तदेतत्जराया जरसि॑ति सूत्रे अजरांसीत्यत्रनुम्जरसोः प्राप्तयोर्विप्रतिषेधेन जरसि॑ति भाष्यविरुद्धत्वादुपेक्ष्यम् । शिभावात्पूर्वमेव परत्वाज्जरसः प्रवृत्तौ हि तदा जसः सर्वनामस्थानत्वाऽभावेन नुम एवाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव । पूर्वविप्रतिषेधमाश्रित्य जरसः पूर्वमेव शिभावे तु तद्भाष्यं सङ्गच्छते । एवञ्च जरसः पूर्वमेव शिभावे कृते तस्य सर्वनामस्थानत्वात्तस्मिन् परे नुम्जरसोः प्राप्तयोः नुमपेक्षया परत्वाज्जरस् । ततो झलन्तलक्षणो नुमित्येव व्याख्येयम् । यदि हि जरसादेशात्प्रागेव अजन्तलक्षणो नुम् स्यात्, तदा 'अजरन् इ' इति स्थितेनिर्दिश्यमानस्यादेशा भवन्ती॑ति न्यायेन 'जर' इत्यस्य जरसि कृते अजरस् न इति स्थिते सान्यसंयोगाऽभावात् 'सान्त महतः' इति वक्ष्यमाणदीर्घो न स्यादित्यादि शब्देन्दुशेखरे निर्जरशब्दनिरूपणे, अत्र च प्रपञ्चितम् । उभयथापि अजरन् स् इ इति स्थिते नान्तत्वाऽभावात्सर्वनामस्थाने चे॑ति दीर्घे अप्राप्ते ।", "64139": "<<उद ईत्>> - शसादौ 'अचः' इति लोपे प्राप्ते — उद ईत् । 'अचः' इति सूत्रमनुवर्तते, 'अल्लोप' इत्यतः 'अत्' इति च ।भस्ये॑त्यधिकृतं, तदाह — उच्छब्दादित्यादिना । समञ्चतीति विग्रहे क्विन्नादि ।", "64140": "<<आतो धातोः>> - औटि - विश्वपौ । शसि विश्वपा असिति स्थिते पूर्वसवर्णदीर्घे प्राप्ते - <<आतो धातोः>> । अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात इति षष्ठ्यन्तेन विशेष्यते । तेन तदन्तविधिः । <<अल्लोपोऽनः>>[[6.4.134]] इत्यतो 'लोप' इत्यनुवर्तते । तदाह — आकारान्तो य इति । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति शेषः । विश्वपाभ्यामिति । अभत्वादाल्लोपो नेति भावः । इत्यादीति । विश्वपाभिः । विश्वपे । विश्वपः । विश्वपोः । विश्वपाम् । विश्वपि । विश्वपोः विश्वपासु । एवं शङ्खध्मादय इति । शङ्खेन शङ्खं वा धमतीति शङ्खध्माः । ध्मा शब्दाग्निसंयोगयोः । पूर्ववत् विच् क्विब्वा । आदिना सोमपादिसङ्ग्रहः । सोमं पिबतीति सोमपाः । कीलालं पिबतीति कीलालपाः । वारिपर्यायेषु पयः कीलालममृतमित्यमरः । मधु पिबतीति मधुपा इत्यादि । धातोः किमिति । 'आतोऽनापः' इत्येव सूत्र्यतां, तावतैव रमा इत्याद्याबन्तेषु लोपव्यावृत्तेरिति प्रश्नः । हाहानिति । पूर्वसवर्णदीर्घे <<तस्माच्छसः>>[[6.1.103]] इति नत्वम् । 'हाहा' इति गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमेतत् ।हाहाहूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् इत्यमरः । सुटि विश्वपावत् । शसि हाहा-अस् इत्यत्रापि 'आतोऽनापः' इत्याल्लोपः स्यात्, अतो धातुग्रहणमित्यर्थः । टा सवर्णदीर्घ इति । 'टा' इत्यविभक्तिनिर्देशः प्रक्रियादशायां न दुष्यति । तृतीयैकवचने सवर्णदीर्घ इत्यर्थः । एवमग्रेऽपि योज्यम् । ङे वृद्धिरिति । हाहा-ए इति स्थिते <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धिरित्यर्थः । ङसिङसोरिति । हाहा-असित्यत्र सवर्णदीर्घ इत्यर्थः । ओसि वृद्धिरिति । हाहा ओस् इत्यत्र <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धिरित्यर्थः । ङौ आद्गुण इति । 'हाहा इ' इत्यत्र <<आद्गुण>>[[6.1.87]] इति गुण एकार इत्यर्थः । क्त्वा, श्ना इति प्रत्ययौ आकारान्तौ विश्वपावत् । नन्वधातुत्वात्कथमिह आल्लोप इत्यत आह — आत इति योगेति । <<आतो धातोः>> इत्यत्र 'आत' इति विभज्यते । आकारान्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः । तेन 'क्त्वः' 'श्नः' इति शसि रूपं सिध्यति । धातोरिति योगान्तरम् । आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः । आबन्तव्यावृत्त्यर्थं स हाहादिव्यावृत्त्यर्थं चेदम् । 'आत' इति योगविभागस्तु क्त्वः श्न इत्यादौ क्वचिदाल्लोपार्थः । ननु मालेवाचरिति मालाः । आचारक्विबन्तात्कर्तरि क्विप् । सुबुत्पत्तिः । अत्र कृतेऽपि धातुग्रहणे शसादावाल्लोपो दुर्वारः, <<सनाद्यन्ताः>>[[3.1.32]] इति धातुत्वादादन्तत्वाच्च । नच इति वार्तिकादाबन्तेषु नाल्लोप इति शङ्क्यम्, उक्तरीत्या योगविभागमभ्युपगम्य 'अनाप' इति वार्तिकस्य भाष्ये प्रत्याख्यातत्वादिति चेन्मैवम्, एतद्वार्तिकभाष्यप्रमाण्यादेव आबन्तेभ्य आचारक्विबभावबोधनादिति शब्देन्दुशेखरे प्रपञ्चितम् । हरिरिति । हरिशब्दात्सुः । रुत्वविसर्गौ । नच विसर्जनीयस्य अकारादुपरि उपसङ्ख्यानेनाच्त्वात्तस्मिन् परतो रेफादिकारस्य यणादेशः शङ्क्यः, यणादेशे कर्तव्ये विसर्जनीयस्यासिद्धत्वात् । प्रथमयोरिति । हरि-औ इति स्थितेऽनेन पूर्वसवर्णदीर्घे सति हरी इति रूपमित्यर्थः । जसि हरि अस् इति स्थिते पूर्वसवर्णदीर्घे प्राप्ते —", "64141": "", "64142": "<<ति विंशतेर्डिति>> - आसन्नशब्दस्य विंशतिशब्देन षष्ठन्तेन समासे डचि कृतेटे॑रितीकारमात्रस्य लोपे प्राप्ते आह — ति विंशतेर्डिति । तीति लुप्तषष्ठीकम् ।भस्ये॑त्यधिकृतम् । 'अल्लोपोऽनः' इत्यनुवर्तते । तदाह — विंशतेर्भस्येति । अलोऽन्त्यस्ये॑ति न भवति,नानर्थकेऽलोऽन्त्यविधि॑रित्युक्तेः । आसन्नविंशा इति । विंशतिसङ्क्याऽऽसन्नसङ्क्यावन्त इत्यर्थः । डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा 'अतो गुणे' इति पररूपे, आसन्नविंशशब्दोऽदन्तः ।उत्तरपदत्वे चापदादिविधौ प्रतिषेधः॑ इति प्रत्ययलक्षणाऽभावेनाऽपदत्वात् । अथाऽदूरशब्दस्योदाहरति — अदूरतिंरशा इति । तिंरशतोऽदूरा इति विग्रहः । तिंरशत्सङ्ख्याया अदूरसङ्ख्यावन्त इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति — अदिकचत्वारिंशा इति । चत्वारिंशतोऽधिका इति विग्रहः । चत्वारिंशत्सङ्ख्याया अधिकसङ्ख्यावन्त #इत्यर्थः । डचि टिलोपः । सङ्ख्यावाचकशब्दस्य सङ्ख्यावाचकशब्देन समासमुदाहरति — द्वित्रा इति ।वाऽर्थे बहुव्रीहिः । द्वित्यन्यतरा इत्यर्थः । डचि टिलोपः । ननुद्वित्रा आनीयन्ता॑मित्युक्ते कदाचिद्द्वावानयति, तदा कथं बहुवचनमिति चेत्, अत्र भाष्येअनिश्चये बहुवचनं प्रयोक्तव्य॑मिति वचनात् समाहितम् । तथाकार्यान्वये विकल्पः शब्दात्तु नियमेन कोटिद्वयोपस्थिति । तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया । अतः शब्दान्नियमेन पञ्चानामुपस्थिति॑रित्यपि समाहितम् । नच वाऽर्थप्राधान्यात् 'अनेकमन्यपदार्थे' इत्येवाऽत्र सिद्धमिति वाच्यं,शेषाद्विभाषे॑ति कबभावार्थकत्वात् । स हि कप् 'अनेकमन्यपदार्थे' इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम् । अथ सङ्ख्यायाः सङ्ख्यया समासे उदाहरणान्तरमाह — द्विदशा इति । शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसङ्ख्याकदशत्ववन्त इत्यर्थः । फलितमाह — विंशतिरित्यर्थ इति ।", "64143": "", "64144": "<<नस्तद्धिते>> - नस्तद्धिते । 'न' इति षष्ठन्तम् । तेन भस्येत्यधिकृतं विशेष्यते, तदन्तविधिः । टेरिति सूत्रमनुवर्तते । 'अल्लोपोऽनः' इत्यस्माल्लोप इति च । तदाह-नान्तस्येत्यादि । उपराजमिति । राज्ञः समीपमित्यर्थः । समीप्ये उपेत्यस्याव्ययीभावः । 'अनश्च' इति टच्, सुब्लुक्, टिलोपः । उपराजशब्दाद्यथायथं सुप्, अम्भावः । टजन्तस्यैवाव्ययीभावसमासत्वाट्टचि परे अव्ययानां भमात्रे टिलोपाऽप्रवृत्तेः 'नस्तद्धिते' इत्यारम्भः । अध्यात्ममिति । आत्मनीत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । शेषं पूर्ववत् ।", "64145": "<<अह्नष्टखोरेव>> - अह्नष्टखोः । शेषपूरणेन सूत्रे व्याचष्टे — टिलोपः स्यादिति । टेरित्यनुवर्तते, 'अल्लोपोऽनः' इत्यस्यमाल्लोप इति चेति भावः । 'नस्तद्धिते' इत्येव सिद्धे नियमार्थमिदमित्या — नान्यत्रेति । एवकारस्तुअह्न एव टखो॑रिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम् । अह्ना निवृत्तमाह्निकम् । 'कालाट्ठञ' इत्यधिकारेतेन निवृत्त॑मिति ठञ् । टिलोपाऽभावादल्लोपः । टप्रत्यये उदाहरति — उत्तमाह इति । उत्तमं च तदहश्चेति विशेषणसमासः ।राजाहःसखिभ्यष्ट॑जिति टच् ।अह्नष्टखोरेवे॑ति टच् । अह्नष्टखोरेवे॑ति प्रकृतसूत्रेण टिलोपः,रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । खे उदाहरति — द्वे अहनी भृत इति । अत्यन्तसंयोगे द्वितीया । भृतः=परिक्रीत इत्यर्थः । 'द्व्यहीन' इत्यत्र प्रक्रियां दर्शयति — तद्धितार्थे द्विगुरिति । कोऽत्र तद्धित इत्यत आह — तमधीष्ट इत्यादि । तथाच द्व्यहन्शब्दात्खस्य ईनादेशेअह्नष्टखोरेवे॑ति टिलोपे 'द्व्यहीन' इति रूपमित्यर्थः । नन्वत्र 'अह्नोऽह्न एतेभ्यः' इत्याह्नादेशः कुतो न स्यात् । नच खे टिलोपविधिसामर्थ्यान्नाह्नादेश इति वाच्यम्, 'अहीन' इत्यत्र खे टिलोपविधेश्चरितार्थत्वादिति चेन्न, समासान्ते पर एव#आह्नादेशविधानात्, प्रकृते तु समासान्तविधेरनित्यत्वात् 'राजाहःसखिभ्यः' इति न टच् । यद्यपि 'उत्तमाहः' इत्यत्र, 'द्व्यहीन' इत्यत्र च 'नस्तद्धिते' इत्येव टिलोपः सिद्धस्तथापि आह्निकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननुमद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया 'राजाहःसखिभ्यः' इति टच् स्यादित्याशङ्ख्याह-लिङ्गेति । अनित्यत्वादिति । समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेतिङ्याप्प्रातिपदिकात् इत्यत्र भाष्ये उक्तत्वादिति भावः । मद्रराज्ञीति । नच टचि सत्यपियस्येति चे॑तीकारलोपे मद्रराज्ञशब्दात् टित्त्वान्ङीपि मद्रराज्ञीति निर्बाधमिति वाच्यं, टचि हि सति 'भस्याऽढे तद्धिते' इति पुंवत्त्वे टिलोपेमद्रराज्ञी॑ति स्यादिति भावः ।", "64146": "", "64147": "<<ढे लोपोऽकद्र्वाः>> - ढे लोपोऽकद्र्वाः । भस्येत्यधिकृतम् 'ओर्गुणः' इत्यत ओरिति षष्ठन्तेनानुवृत्तेनविशेष्यते । तदन्तविधिः । तदाह — कद्रूभिन्नस्येति ।अलोऽन्त्यस्ये॑त्यन्त्यलोपः । ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि #एयादेशे आदिवृद्धावुकारलोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याऽचेतनस्य कथमपत्ययोगः, तत्राह — कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एवकमण्डलुपदे आदधीते॑ति बह्वृचब्राआहृणं सङ्गच्छत इति भावः ।", "64148": "<<यस्येति च>> - यस्येति च । यस्य-ईतीति छेदः । इश्च अश्चतयोः समाहारो यं, तस्य [यस्य]=इवर्णस्य अवर्णस्य चेत्यर्थः ।भस्ये॑त्यधिकृतम् । 'नस्तद्धिते' इत्यतस्तद्धिते इत्यनुवर्तते । तदाह — भस्येत्यादिना । इत्यकारलोपे प्राप्ते इति ।सुडनपुंसकस्ये॑ति पर्युदासेन शीभावस्याऽसर्वनामस्थानतया तस्मिन्परतो भत्वादिति भावः ।औङ श्यामिति । औङो यः श्यादेशस्तस्मिन् परतोयस्येति चे॑ति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम् । 'औङ्' इति तु व्यर्थमेव । 'सर्वे' इत्यादौजसः शी॑त्यस्य भादिकारेणैव व्यावृत्तिसिद्धेः । ज्ञाने इति । ज्ञान ई इति स्थिते आद्गुण इति भावः ।", "64149": "<<सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः>> - मत्स्यशब्दाद्गौरादित्वान्ङीषि विशेष दर्शयितुमाह — सूर्यतिष्टागस्त्य । 'ढे लोपोऽकद्र्वाः' इत्यतो 'लोप' इत्यनुवर्तते । 'य' इति षष्ठी,अङ्गस्येत्यधिकृतमवयवषष्ठन्तं, तच्च उपदायामन्वेति । अङ्गस्य उपधाभूतो यो यकारस्तस्य लोपः स्यादिति लभ्यते ।सूर्यतिष्यागस्त्यमत्स्याना॑मित्यप्यवयवषष्ठन्तं यकारेऽन्वेति, न त्वह्गविशेषणं तदाह-अङ्गस्येत्यादिना । मत्स्यस्य ङ्यामिति । तेनेह न, मत्स्यस्येदं मात्स्यम् ।सूर्यागस्त्ययोश्छे चेति । सूरीयः । सूरी । अगस्तीयः । अगस्ती नेह — सौर्यम् । आगस्त्यम् ।तिष्येति ।नक्षत्रेण युक्तः कालः॑,सन्धिवेलाद्यृतुनक्षत्रेऽभ्योणि॑ति च विहिते नक्षत्रसबन्धिनि अणि परतस्तिष्यपुष्ययोर्यलोप इत्यर्थः । तत्र तिष्यस्य यलोपो नियम्यते । पुष्यस्य त्वप्राप्तो विधीयते । तिष्येण युक्तः पूर्णमासः, तिष्ये भवो वा तैषः । एवं पौषः । नेह — तिष्यस्य पुष्यस्य वाऽयं तैष्यः, पौष्यः । मत्सीति । मत्स्यशब्दाद्गौरादिङीषि यलोपः,यस्येति चे॑त्यकारलोपः । ननुपितृव्यमातुलमातामहपितामहाः॑ इति सूत्रे मातुः पिता पितुः पितेति विग्रहे मातृपितृभ्यां डामहचि टिलोपे मातामहपितामहशब्दौ निपातितौ । तत्र मातुर्माता पितुर्मातेति विग्रहे डामहचः षित्वं विहितं-॒मातरि षिच्चे॑ति ततश्चाषित्त्वविधानादेव ङीष्सिद्धेर्गौरादिषु मातामहीशब्दपाठौ न कर्तव्यः । नचमातरि षिच्चे॑ति न क्रियतामिति वाच्यं, पितामहीत्यत्र ङीषर्थं तस्यावश्यकत्वादित्यत आह — मातरीति । दंष्ट्रेति । दंशेःदाभ्यनीशसे॑ति करणे ष्ट्रन । अत्र षित्त्वे सत्यपि न ङीषिति भावः ।सूर्यादीनामङ्गानामुपधाभूतस्य यकारस्य लोप॑ इति तु न व्याख्यातं, तथा सतिसौरी बलाके॑ति न सिध्येत् । सूर्येणैकदिक् इत्यर्थेतेनैदि॑गित्यणि तदन्तान्ङीप्यणन्तमङ्गं, नतु सूर्यशब्द इति तदसिद्धिः । वचनं तु सूरी कुन्तीत्यत्र चरितार्थमित्यन्यत्र विस्तरः ।", "64150": "<<हलस्तद्धितस्य>> - हलस्तद्धितस्य । 'हल' इति दिग्योगे पञ्चमी ।परस्ये॑त्यध्याहार्यम् ।यस्येति चे॑ति सूत्रादीतीत्यनुवर्तते,सूर्यतिष्यागस्त्ये॑त्यतः 'उपधाया' इति षष्ठन्तं च, 'ढे लोपोऽकद्र्वाः' इत्यतो 'लोप' इति च । तदाह — हलः परस्येत्यादिना । अकारलोपात्प्रागेव यकारलोपो न संभवति, अकारे सति यकारस्य ईकारपरकत्वाऽभावात् । ननु कृतेऽकारलोपे खतं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्क्यं, यलोपविधौ तन्निषेधादिति चेन्न, यलोपे कर्तव्येऽल्लोपस्याभीयत्वेनाऽसिद्धतया यकारस्य उपधात्वसंभवात् । उपधाग्रहणाननुवृत्तौ त्वल्लोपस्याऽसिद्धत्वाद्यकारस्य ईकारपरकत्वाऽभावाल्लोपो न स्यात् । यदा तु सूत्रारम्भसामर्थ्यादेवाकारव्यवधाने ।ञपि यकारस्य लोपः सम्भवतीत्युच्यते, तदोपधाग्रहणानुवृत्तिर्मास्तु । गार्गीति । इहगोत्रं च चरणैः सहे॑ति जातित्वेऽपिजातेरस्त्रीविषया॑दिति न ङीष्, योपधत्वात् । अनपत्याधिकारेति ।तस्यापत्य॑मित्यपत्याधिकारविहितभिन्नयञन्तान्न ङीबिति वक्तव्यमित्यर्थः । द्वैप्येति । द्वीपे भवेति विग्रहेद्वीपादनुसमुद्र यञि॑ति यञ् । आदिवृद्धिः ।यस्येति च॑ । टापि सवर्णदीर्घः । अस्य यञोऽपत्याधिकारविहितत्वाऽबावान्न ङीबिति भावः । नन्वपत्यान्न ङीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासादधिकारग्रहणं किमर्थमित्यत आह-अधिकारग्रहणादिति ।इह ने॑ति शेषः । देवस्यापत्यमिति विग्रहे 'देवाद्यञञौ' इति यञ्, आदिवृद्धिः,यस्येति च॑ । दैव्यशब्दाट्टाप्, सवर्णदीर्घः, दैव्येति रूपम् ।अनपत्यान्न ङी]बित्युक्ते त्वस्य यञ आपत्यत्वान्ङीब्निषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधः स्यादेव, अस्य यञ आपत्यत्वे ।ञपितस्यापत्य॑मित्यधिकारबहिर्भूतत्वात् । तदेतदुपपादयति — देवादिति । 'देवाद्यञञौ' इति तुतस्यापत्य॑मित्यदिकारात्प्रागेवप्राग्दीव्यतो॑णित्यधिकारपठितः । स चाऽपत्यादिविकारान्तार्थेषु साधारणत्वादपत्यार्थकोऽपि भवति, न त्वपत्याधिकारपठित इत्यर्थः । यद्यपियञश्चे॑ति सूत्रेआपत्यग्रहणं कर्तव्य॑मित्येव भाष्ये दृश्यते, तथापि तत्र आपत्यपदमपत्याधिकारविहितपरमिति मनोरमायां शब्दरत्ने च प्रपञ्चितम् ।", "64151": "<<आपत्यस्य च तद्धितेऽनाति>> - तथाच गाग्र्य-ईय इति स्थितेयस्येति चे॑ति यञोऽकारस्य लोपे गाग्र्य-ईय इति स्थिते परिशिष्टस्य यञो यकारस्य लोपमाह — आपत्यस्य च ।अनाती॑ति च्छेदः । 'ढे लोपोऽकद्व्राः' इत्यतो लोप इत्यनुवर्तते ।सूर्यतिष्ये॑त्यतो 'य' इति षष्ठन्तमनुवर्तते ।हलस्तद्धितस्येत्यतो हल इति पञ्चम्यन्तमनुवर्तते । तदाह — हलः परस्यापत्ययकारस्येति । अपत्यार्थकयकारस्येत्यर्थः । यञो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोपस्याभीयत्वेऽपि नाऽसिद्धत्वम्, आरम्भसामर्थ्यात् ।हलस्तद्धितस्ये॑ति यलोपस्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति । गर्गीयमिति ।तस्मै हित॑मिति गाग्र्यशब्दाच्छः । तस्य प्राग्दीव्यतीयत्वाऽभावात् तस्मिन्परेयञञोश्चे॑ति यञो लुग्भवत्येवेति नादिवृद्दिरिति भावः । गर्गरूप्यमिति । 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । तस्य प्राग्दीव्यतीयत्वेप्यजादित्वाऽभावात्तस्मिन्परे यञोऽलुङ्न । यदि तुअजादौ प्राग्दीव्यतीये परे॑ इति व्याख्यायेत, तर्हि गाग्र्यशब्दाच्छे तस्य ईयादेशे कृतेऽलुग्विधिः प्रवर्तेत, नतु ततः प्राक् । एवंच छप्रवृत्तेः प्रागेव यञि अलुग्विधेः प्रवृत्तौ, यञन्तस्य वृद्धत्वाच्छो निर्बाधः । यलोपविधौ — आपत्यस्येति किम् । गार्ग्ये । गाग्र्ययोः । अनातीति किम् गाग्र्यायणः ।", "64152": "<<क्यच्व्योश्च>> - गार्गीभवतीति वक्ष्यन्नाह — क्यच्व्योश्च । 'अल्लोपोऽनः' इत्यस्माल्लोप इति,हलस्तद्धितस्ये॑त्यस्माद्धल इति , 'सूर्यतिष्ये' त्यतो य इति,आपत्यस्य चे॑त्यस्मादापत्यस्येति चानुवर्तते । तदाह — हलः परस्येति । गार्गीभवतीति । आगाग्र्यो गार्ग्यः संपद्यमानो भवतीत्यर्थः । यञन्ताच्च्वौ यकारस्य लोपः । वेर्लोपः । यकारस्य तुआपत्यस्य चे॑ति लोपो न सम्भवति, ईकारेण व्यवधानात् ।हलस्तद्धितस्ये॑त्यपि न सम्भवति, तस्य ईति अर्थवत्येव विधानात् । अतो वचनमिति भावः ।", "64153": "<<बिल्वकादिभ्यश्छस्य लुक्>> - बिल्वरादिभ्यः । षाष्ठमिदं सूत्रम् । बिल्वकादीति-नडाद्यन्तर्गबिल्वादीनां कृतकुगागमानां निर्देशः । ककारादकार उच्चारणार्थः । तद्धिते इति ।आपत्यस्य च तद्धिते॑ इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति ।नडादीनां कुक्चे॑ति छः । प्रकृते कुक्च । बैल्वका इति । बिल्वकीयशब्दाद्भवार्थे अण् । तस्मिन्परे छस्य लुगिति भावः । वेत्रकीया इति । वैत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृते कुक्चेति भावः । वैत्रका इति । वेत्रकीयायां भवा इत्यर्थः । वेत्रकीया शब्दादणि छस्य लुगिति भावः । छस्य किमिति । एभ्यः परस्य छस्यैव संभव इति प्रश्नः । संनियोगेति ।संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्ति॑रिति न्यायेनेत्यर्थः । 'ढे लोपोऽकद्र्वाः' इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आह — लुग्ग्रहणं सर्वलोपार्थमिति । प्रत्ययाऽदर्शनस्यैव लुक्शब्दार्थत्वात्कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः । लोपविधौ तु नैवं लभ्यते इत्याह — लोपो हीति । लोपविधौसूर्यतिष्ये॑त्यतो 'य उपधायाः' इत्यनुवृत्तौ बिल्वादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यो यकारस्तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात् । 'यः उपधायाः' इत्यननुवृत्तौ तुआदेः परस्ये॑ति ईकारस्यैव लोपः स्यादिति भावः । द्यकारमात्रस्य लोपः स्यात् । 'य उपधायाः' इत्यनननुवृत्तौ तुआदेः परस्ये॑ति ईकारस्यैव लोपः स्यादिति भावः । *****इति बालमनोरमायाम् चातुरर्थिकाः ।*****तिङन्ते चुरादयःअथ स्वार्थिकणिजन्ताश्चुरादिधातवो निरूप्यन्ते । चुर स्तेये इति । रेफादकार उच्चारणार्थः, न त्वित्संज्ञकः, प्रयोजनाऽभावात्, 'णिचश्च' ति पदव्यवस्थाया वक्ष्यमामत्वाच्च । एवमग्रेऽपि ।", "64154": "", "64155": "<<टेः>> - टेः । 'इष्ठेमेयस्सु' इत्यनुवर्तते । 'अल्लोपोऽनः' इत्यतो लोप इति च । तदाह — टेर्लोपः स्यादिष्ठेमेयस्स्विति । प्रथिमेति । पृथुशब्दादिमनिच् । चकार इत् । नकारादकार उच्चारणार्थः । ऋकारस्य रः, उकारस्य गुणं बाधित्वा टेर्लोपः । पार्थवमिति । इमनिजभावेइगन्ताच्च लघुपूर्वा॑दित्यण् । म्रदिमेति । मृदुशब्दादिमनिचि ऋकारस्य रः । 'टेः' इति टिलोपश्च । मार्दवमिति ।इगन्ताच्चे॑त्यण् ।", "64156": "<<स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः>> - स्थूलदूर । एषामिति । स्थूल, दूर, युवन् ह्रस्व, क्षिप्र, क्षुद्र इत्येतेषामित्यर्थः । यणादीति । यण् — आदिर्यस्येति विग्रहः ।पर॑मितियणादी॑त्यस्य विशेषणम् । परभूतंयणादीत्यर्थः । लुप्यत इति । 'अल्लोपोऽनः' इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घञन्तमाश्रीयत इत्यर्थः । भावसाधनत्वे परमित्यनेन सामानाधिकरण्याऽसंभवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्ठादिष्विति । 'तुरिष्ठेमेयस्सु' इत्यतस्तदनुवृत्तेरिति । भावः । स्थविष्ठ इति । स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण ओकारः । अवादेश इति भावः । ओर्गुणस्तु न प्रवर्तते, यणादिलोपस्याऽऽभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः । यविष्ठ इति । युवन्शब्दादिष्ठनिव॑न्नित्यस्य लोपे गुणे अवादेशः ।पर॑मित्यनुक्तौ 'यु' इत्यस्यापि यणादेर्लोपः स्यात् । ह्यसिष्ठ इति । ह्रस्वशब्दादिष्ठनि 'व' इत्यस्य लोपः ।पर॑मित्यनुक्तावत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयसिति । स्थवीयान्, दवीयान्, यवीयान्, ह्यसीयान्, क्षेपीयान्, क्षोदीयान् । इमनिजनुवृत्तेः प्रयोजनमाह — ह्रस्वक्षिप्रेति ।", "64157": "<<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घ- वृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> - प्रियस्थिर । प्रियादीनामिचि । प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ,बृन्दारक एषां दशानामित्यर्थः । प्रादय इति । प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्रप्, द्राघि, बृन्द एते दशेत्यर्थः । इष्ठादिष्विति । इष्ठेमेयस्स्वित्यर्थः । 'तुरिष्ठेमेयः सु' इत्यतस्तदनुवृत्तेरिति भवः । प्रेष्ठ इति । प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः । आभीयत्वेनाऽसिद्धत्वादकारोच्चारणसामर्थ्याच्च न टिलोपः । स्थेष्ठ इति । स्थिरशब्दादिष्ठनि प्रकृतेः स्थादेशः । प्रकृतिभावान्न टिलोपः । स्फेष्ठ इति । स्फिरशब्दस्य इष्ठनि स्फादेशः । वरिष्ठ इति । उरुशब्दादिष्ठनि 'वर्' आदेशः । बंहिष्ठ इति । बहुलशब्दस्य 'बहिं' इत्यादेशः । इकार उच्चारणार्थः । अन्यथा आभीयत्वेनाऽसिद्धत्वादुच्चारणसामर्थ्याद्वा इकारस्य लोपो न स्यात् । गरिष्ठ इति । गुरुशब्दस्य इष्ठनि 'गर्' आदेशः । वर्षिष्ठ इति । वृद्धशब्दस्य इष्ठनि वर्षिरादेशः । बंहिवदिकार उच्चारणार्थः । त्रपिष्ठ इति । तृप्रशब्दस्य इष्ठनि 'त्रप्' आदेशोऽदुपधः । तृपधातोस्तृप्त्यर्थकादौकादौणादिके रकि तृप्रशब्दः । द्राधिष्ठ इति । दीर्घशब्दस्य इष्ठनि 'त्रप्' आदेशोऽदुपधः । तृपधातोस्तृप्त्यर्थकादौणादिके रकि तृप्रशब्दः । द्राधिष्ठ इति । दीर्घशब्दस्य इष्ठनि द्राधिरादेशः । बंहिवदिकार उच्चारणार्थः । वृन्दिष्ठ इति । वृन्दारकशब्दस्य इष्ठनि बृन्द आदेशः । अकार उच्चारणार्थः । एवमीयसुन्निति ।प्रेयान्, स्थेयान्, स्फेयान्, वरीयान्, बंहीयान्, गरीयान्, वर्षीयान्, त्रपीयान्, द्राधीयान्, वृन्दीयान् । अत्र इमनिजनुवृत्तेः प्रयोजनमाह — प्रियोरुबहुलेति । इत्यादीति । वरिमा, बंहिमा, गरिमा, द्राधिमा ।", "64158": "<<बहोर्लोपो भू च बहोः>> - बहोर्लोपः । 'भू' इति लुप्तप्रथमाकम् । इष्ठेयमेयस्स्वित्यनुवृत्तम् । तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः । तदाह — बहोः परयोरिति ।आदेः परस्ये॑ति प्रत्ययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात्पृथ्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादैरिकारस्य लोपश्च भूयानिति । अयमनयोरतिशयेन बहुरित्यर्थः । वैपुल्यवाचकाद्बहुशब्दादीयसुनि प्रकृतेर्भभावः, प्रत्ययादेरिकारस्य लोपश्च । भूभावस्याभीयत्वेना.ञसिद्धत्वादोर्गुणो न भवति ।", "64159": "<<इष्ठस्य यिट् च>> - इष्ठस्य यिट् च । लोपः स्यादिति ।आदेः परस्ये॑ति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते यिडागमः । ट इत् । टित्त्वात्प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम् ।", "64160": "<<ज्यादादीयसः>> - ज्यादादीयसः । ज्यात् — आदितिच्छेदः । ज्यात् परस्य ईयस आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह — आदेः परस्येति ।", "64161": "<<र ऋतो हलादेर्लघोः>> - र ऋतो । र इति प्रथमान्तम् । इष्ठेमेयस्स्विति । शेषपूरणम् । 'तुरिष्ठेमेयस्सु' इत्यस्तदनुवृत्तेरिति । भावः । अङ्गस्येत्यधिकृतं हलादेरङ्गस्य लघोरृकारस्य र इति । रेपाकारसङ्गात आदेशः स्यादिष्ठनि इमनिचि ईयसि च परे इत्यर्थः ।", "64162": "", "64163": "<<प्रकृत्यैकाच्>> - प्रकृत्यैकाच् । एकोऽच् यस्येति बहुव्रीहिः । इष्ठादिष्विति । 'तुरि,ठेमेयःसु' इत्यत तदनुवृत्तेरिति भावः । 'अल्लोपोऽनः,'नस्तद्धिते॒॑यस्येति च,॑टे॑रित्यादेरेतत्प्रकरणस्थलसोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम् । श्रेष्ठः । श्रेयानिति । अयमनयोरतिशयेन प्रशस्त इत्यर्थः ।", "64164": "<<इनण्यनपत्ये>> - इनण्यनपत्ये । इन्-अमीति छेदः प्रकृत्येति ।प्रकृत्यैका॑जित्यतस्तदनुवृत्तेरिति भावः । टिलोपो नेति । अञि तु प्रकृतिभावाऽप्रवृत्तेष्टिलोपः स्यादिति भावः । यौवनमिति ।कनिन्युवृषितक्षी॑त्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियांयूनस्ति॑रिति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सतिशिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याऽढे' इति पुंवत्त्वे ति प्रत्ययस्य निवृत्तौ 'अन्' इति प्रकृतिभावाट्टिलोपाऽभावेयौवन॑मिति रूपम् । अञि तु प्रकृतिभावस्याऽप्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु 'भस्याऽढे तद्धिते' इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तादित्वाऽभावादञभावे 'तस्य समूहः' इत्यणि प्रकृतिभावाट्टिलोपाऽभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः । तत उगिल्लक्षङीपः पुवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः ।", "64165": "<<गाथिविदथिकेशिगणिपणिनश्च>> - गाथिविदथि । 'इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — एतेऽणि प्रकृत्या स्युरिति । गाथिन्, विदथिन्, केशिन्, गणिन्, पणिन्-एते इत्यर्थः । अपत्येऽप्यणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्ये इति । मूलप्रकृतिपणी । तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दाद्गोत्राऽणन्तादत इञि पाणिनिरिति रूपमित्यर्थः । पाणिन शब्दस्य अनन्तरापत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीये गोत्रापत्ये इञ्न संभवति, 'एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थाऽपत्ये यूनि पाणिनशब्दादनन्तरापत्यप्रत्ययान्तादिञ्संभवति,गोत्राद्यून्यस्त्रिया॑मिति यून्यपत्ये गोत्रप्रत्ययान्तादेवाऽपत्यप्रत्ययनियमात् । अतो गोत्राऽण्प्रत्ययान्तात्पाणिनशब्दाद्यूनि इञ्प्रत्यय इत्युक्तमिति बोध्यम् ।", "64166": "<<संयोगादिश्च>> - संयोगादिश्च । इन् प्रकृत्येति । 'इनण्यनपत्ये' इत्यतःप्रकृत्यैका॑जित्यतश्च तदनुवृत्तेरिति भावः । चाक्रिण इति । 'इण्यपत्ये' इत्यत्रानपत्ये इति पर्युदासादप्राप्तिः ।", "64167": "<<अन्>> - अन् । 'इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — अणीति । राज्यमिति ।गुणवचनब्राआहृणादिभ्यः॑ इति ष्यञ् । टिलोपः ।", "64168": "<<ये चाभावकर्मणोः>> - ये चाभा । अनिति पूर्वसूतद्रमनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति । अङ्गाधिकारलब्धप्रत्ययो यकारेण विशिष्यते । तदादिविधिः । तदाह-यादाविति । राजन्य इति ।क्षत्रियात्क्षात्रयायां स्वभार्यायामुत्पन्नो राजन्य॑ इति धर्मशास्त्रेषु प्रसिद्धम् । यत्प्रत्यये प्रकृतिभावान्न टिलोपः । शूद्रादाविति क्षत्रियाच्छूद्रायां वा तदन्यस्यां वा अनूढायामुत्पन्न इत्यर्थः । राजन इति । अणि रूपम् । तत्र 'नस्तद्धिते' इति टिलोपे प्राप्ते — ।", "64169": "<<आत्माध्वानौ खे>> - तत्र टिलोपे प्राप्ते — आत्माध्वानौ खे । प्रकृत्या स्त इति ।प्रकृत्यैक॑जित्यस्तदनुवृत्तेरिति बावः । कर्मधारयादेवेति ।विआजनशब्दा॑दिति शेषः । त्र व्याख्यानमेव शरणम् । विआजनीयमिति । विआस्य जनो विआजनः=साधारमो वैद्यादिः । विआओ जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । ब्राआहृणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा रथकारजातिश्चेत्येते पञ्चजनां । तेभ्यो हितमिति विग्रहः । सर्वजनाट्ठञ्खश्चेति । 'वक्तव्य' इति शेषः ।समानाधिकरणादिति वक्तव्य॑मिति वार्तिकं भाष्ये स्थितम् । महाजनाट्ठञिति । 'वक्तव्य' इति शेषः । विआजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपदस्योदाहरति — मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाऽभावो वाच्य इत्यर्थः । नच असमानपदस्थत्वादेवात्र मत्वास्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इति वाच्यं, मातृभोगीणादौ णत्वज्ञापनार्थत्वात् ।", "64170": "<<न मपूर्वोऽपत्येऽवर्मणः>> - न मपूर्वो ।ञपत्येऽवर्मणः । भाद्रसाम इति । भद्रसाम्नो ।ञपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौत्वन इति । सुत्वनोऽपत्यमिति विग्रहः । मपूर्वत्वाऽभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः । अण आपत्यत्वाऽभावात्प्रकृतिभावः । वा हितनाम्न इति । 'न मपूर्वः' इति प्रतिषेध॑इति शेषः ।", "64171": "<<ब्राह्मोअजातौ>> - ब्राआहृओ जातौ । ब्राहृन्शब्दादपत्ये अणि 'न मपूर्वोऽपत्ये' इति प्रकृतिभावनिषेधो जातावेवेत्यर्थः फलति । तथा सति ब्राहृणो ।ञपत्यं ब्राआहृणैति जातिविशेषे न सिध्येत्,न मपूर्वः॑ इति प्रकृतिभावनिषेधे सति 'नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किंच ब्राहृआ देवता अस्य ब्राआहृं हविरिति न सिध्येत्, 'न मपूर्वं' इति प्रकृतिभावनिषेधस्य जातावेवेति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपाऽसंभवात् । अत आह — योगविभाग इति । 'ब्राआहृ' इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतोऽनपत्येऽणीत्यनुवर्तते । तदाह — ब्राआहृ इति निपात्यते अनपत्ये ।ञणीति । तथाच ब्राहृन्शब्दादनपत्येऽणि अनिति प्रकृतिबावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति — ब्राआहृं हविरिति । ब्राहृआ देवता अस्येति विग्रहः ।सास्य देवते॑त्यण् । ततो जाताविति । ततो=॒ब्राआहृ॑ इति सूत्रात्पृथगेव, जाताविति सूत्रं कर्तव्यमित्यर्थः । इहन मपूर्वोऽपत्येऽवर्मणः॑ इति सूत्रादपत्ये इति,प्रकृत्यैका॑जित्यतः प्रकृत्येति चानुवर्तते । तदाह — अपत्ये जाताविति । ब्राआहृण इति । ब्राहृणः सकाशात्सजातीयायां भार्यायामुत्पन्न इत्यर्थः । योगविभागस्त्वयं भाष्ये स्पष्टः ।", "64172": "<<कार्मस्ताच्छील्ये>> - कार्मस्ताच्छील्ये । तच्छीसं यस्य स तच्छीलः, तस्य भावस्ताच्छील्यम् । तस्मिन्वाच्ये 'कार्म' इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह — टिलोपो निपात्यत इति ।णो ।ञपो॑त्यनन्तरम्इति ज्ञापनार्थमिद॑मिति शेषः । अत्र टिलोपविधिर्हि 'अन्' इति प्रकृतिभावनिवृत्त्यर्थः । ततश्च अणि विहतस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादण्कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये ङीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मणा इति ।तस्येद॑मित्यणि 'कार्मस्ताच्छील्ये' इत्यस्याऽप्रवृत्त्या 'अन्' इति प्रकतिभावान्न टिलोप इति भावः ।", "64173": "<<औक्षमनपत्ये>> - औक्षम् । शेषपूरणेन सूत्रं व्याचष्टे-अणि टिलोपो निपात्य इति । 'अन्' इति प्रकृतिभावापवाद इति भावः । औक्षमिति । टिलोपे रूपम् । औक्ष्ण इति । अपत्येऽणि टिलोपाऽभावेऽल्लोप इति भावः ।", "64174": "<<दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेय- वाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि>> - दाण्डिनायन । एतानि निपात्यन्ते इति । दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः, हास्तिनायनः । नडादित्वात्फक् । निपातनाट्टिलोपो न । अथर्वणा प्रोक्तो ग्रन्थ उपचारादथर्वा । तमधीते आथर्वणिकः । वसन्तादित्वाट्ठक् । निपातनान्न टिलोपः । जिहृआसिनोऽपत्यं जैहृआशिनेयः । शुभ्रादित्वाड्ढक् । निपातनान्न टिलोपः । वाशिनोऽपत्यं वाशिनायनिः ।उदीचां वृद्धा॑दिति फिञ् । निपातनान्न टिलोपः । भ्रूणहन्, धीवन्-एतयोर्भावे ष्यञ् । नकारस्य तकारश्च निपात्यते । नचहनस्तोऽचिण्णलो॑रित्यनेनैव तकारः सिद्व इति शङ्क्यं,धातोः कार्यमुच्यमानं तत्प्रत्यये भवती॑ति परिभाषया 'हनस्तः' इति तत्वस्य दातुविहितप्रत्यये पर एव प्रवृत्तेः । इदमेव तकारनिपातनमस्यां परिभाषायां ज्ञापकमितिमृजेर्वृद्धि॑रित्यत्र भाष्ये स्पष्टम् । तेन वात्र्रघ्नमित्यत्र तत्वं न । सरय्वां भवं सारवम् — उदकम् । अणि यू इत्यस्य व इत्यादेशो निपात्यते । इक्ष्वाकोरपत्यमैक्ष्वाकः । जनपदशब्दात्क्षत्रियादञ् । उकारलोपो निपात्यते । बहुत्वे तु तद्राजत्वाल्लुक् । इक्ष्वाकवः । इक्ष्वाकुषु जनपदेषु भवोऽप्यैक्ष्वाकः । कोपधादण् । उकारलोपश्च । सूत्रे ऐक्ष्वाकेत्यत्र अञणन्तयोर्ग्रहणम् । बहुत्वे तद्राजत्वादञो लुक् । अणस्तु नेति विशेषः । हिरण्यस्य विकारो हिरण्मयः । मयटि णकाराद्यकाराकारयोर्लोपः । इति युलोप इति । मित्रयु-एय इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः । मैत्रेयीतिटिड्ढाण॑ञिति ङीप् ।", "64175": "", "71001": "<<युवोरनाकौ>> - युवोरनाकौ । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह — यु वु एतयोरिति । 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् । ऊर्णायुः । ग्लुचुकायनीनामिति ।प्राचामवृद्धा॑दिति ग्लुचुकशब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष्, समूहे वुञ् । अकादेशः । आदिवृद्धिः ।यस्येति चे॑तीकारलोपः । औक्षकमिति । उक्ष्णां समूह इति विग्रहः । वुञ् । अकादेशः । टिलोपः । आदिवृद्धिः । उष्ट्राणां समूह इति विग्रहः । औष्ट्रकम् । उरभ्राः-मेषाः, तेषां समूहः, ओरभ्रकम् । राजकम्-राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्यशब्दाद्वुञि अकादेशे 'आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः ।प्रकृत्याऽके इति । अके परे राजन्य, मनुष्य, युवन्-#एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद्वुञ् । प्रकृतिभावान्न टिलोपः ।वृद्धाच्चेति । वृद्धशब्दस्वरूपमेव गृह्रते, नतुवृद्धिर्यस्याचामादि॑रिति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह — वाद्र्धकमिति । वृद्धानां समूह इति विग्रहः ।", "71002": "<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> - आयनेयीनीयियः । आयन्, एय्, ईन्, ईय्, एषां द्वन्द्वात्प्रथमाबहुवचनम् । फ, ढ, ख, छ, घ्-एषां द्वन्द्वात्षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासङ्ख्यपरिभाषया क्रमेणान्वयः । तदाह — प्रत्ययादिभूतानामित्यादिना । आयनो नस्य इत्त्वेनित्वस्वरोपयोगेऽपि नेत्त्वं, फिनो नित्करणाज्ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एयादिषु च यस्य नेत्त्वं, ङीषः प्राप्त्यभावात्कौरव्यशब्दाट्टाप्, माण्डूबात्तु ङीषिति भावः । यद्यपीहटाङ्ङीपो॑रिति पाठः प्रायेण दृश्यते प्रयोजनाऽभावात् । ननु ष्फस्य तद्धितसंज्ञा किमर्थेत्यत आह — तद्धितान्तत्वादिति । ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह — वक्ष्यमाणो ङीषिति ।षिद्गौरादिभ्यश्चे॑त्यत्र प्रातिपदिकादित्यनुवृत्तं, ततश्च ष्फान्तस्य प्रातिपदिकत्वाऽभावे ङीष् न स्यादिति भावः । ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वादुक्तार्थानामप्रयोग इति न्यायादत्र कथं ङीषित्यत आह — षित्त्वसामथ्र्यादिति । ष्फेण द्योतितेऽपि स्त्रीत्वे षित्करणसामथ्र्यान्ङीषित्यर्थः । गाग्र्यायणीति । गर्गस्यापत्यं स्त्रीति विग्रहः । गर्गादियञन्ताद्गाग्र्यशब्दात्ष्फः, षकार इत्, फकारस्य आयन्नादेशः,यस्येति चे॑ति यकारादकारस्य लोपः,हलस्तद्धितस्ये॑ति तु न भवति, ईतीत्यनुवृत्तेः ।आपत्यस्य चे॑त्यपि न, अनातीति निषेधात् । षित्त्वान्ङीष् । णत्वमिति भावः ।", "71003": "<<झोऽन्तः>> - झः अन्त इति च्छेदः । 'झ' इति षष्ठन्तम् । आदेशे तकारादकार उच्चारणार्थः ।आयनेयी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते, न त्वादिग्रहणमपि, अस्वरितत्वात् । अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठन्तमाश्रीयते । तदाह — प्रत्ययावयवस्येति । झस्य । झकारस्येत्यर्थः । अन्तादेशः स्यादिति । 'अन्त्' इत्ययमादेशः स्यादित्यर्थः । प्रत्ययावयवस्येति किम् । उज्झिता । अत्र धात्ववयवस्य झकारस्य न भवति । आदिग्रहणानुवृत्तौ तु 'शयान्तै' इति न सिध्यति । अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाऽभावादिति भाष्ये स्पष्टम् । एवं च 'भव-झी' त्यत्र झकारस्य अन्त् इत्यादेशे, भव-अन्तीति स्थिते, 'अतो गुण' इति द्वयोरकारयोः सवर्णदीर्गापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाऽकारोच्चारणं तु लुगविकरणे द्विषन्तीत्यादौ अकारश्रवणार्थम् । भवसीति । मध्यमपुरुषैकवचने सिपि शपि गुणेऽवादेशे रूपम् । भवथ इति । मध्यमपुरुषद्विवचने थसि शपि गुणेऽवादेशे रुत्वविसर्गयोश्च रूपम् । 'न विभक्तौ तुस्मा' इति सस्य नेत्त्वम् । भवथेति । मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम् ।", "71004": "<<अदभ्यस्तात्>> - अदभ्यस्तात् । झस्येति । 'झोऽन्त' इत्यतस्तदनुवृत्तेरिति भावः । जक्षतीति । 'जक्षित्यादयः ष' डित्यभ्यस्तसंज्ञेति भावः । लङस्तिपि ईडटोः — अजक्षीत् अजक्षदिति सिद्धवत्कृत्य आह — सिजभ्यस्तेति । अदादेशापवादो जुस् । अन्तः स्थादिरिति । तालव्याऽन्तः स्थादिरित्यर्थः । बभ्रामेति ।जक्षन्क्रीडन् रममाणः॑ इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृ धातुरृकारान्तः । सेट् । जागर्तीति । तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । जागृत इति । ङित्त्वान्न गुणः । जाग्रतीति ।जक्षित्यादयः ष॑डित्यभ्यस्तसंज्ञायाम्अदभ्यस्ता॑दिति जेरदादेशः । ङित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि जागृथः जागृथ । जागर्मि जागृवः जागृमः । लिटिकास्यनेका॑जिति नित्यमामि प्राप्ते आह — उषविदेत्याम् वेति । जागरामिति । आमि ऋकारस्य गुणो रपरत्वं चेति भावः । आमभावे आह — जगागारेति । अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते -", "71005": "<<आत्मनेपदेष्वनतः>> - अथ झस्य आदेर्झकारस्य झोऽन्त इत्यन्तादेशे प्राप्ते — आत्मनेपदेषु । 'झोऽन्त' इत्यतो झ इति षष्ठन्तमनुवर्तते ।आत्मनेपदेष्वि॑ति षष्ठर्थे सप्तमी । आत्मनेपदावयवस्य झकारस्येति लभ्यते । 'अदभ्यस्ता' दित्यतोऽदित्यनुवर्तते । न अत् अनत् । तस्मादिति विग्रहः । तदाह — अनकारादित्यादना । ऐधिषतेति । झावयवझकारस्य अदित्यादेशः । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् । ऐधिष्ठा इति । थास् च्लिः । सिच् इट् । आट् । वृद्धिः । षत्वं । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । ऐधिषाथामिति । आथाम् । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् । अथ ध्वमो धस्य ठत्वं स्मारयति — इणः षीध्वमिति । ऐधिढ्वमिति । ध्वम् । च्लिः । सिच् । इट् आट् वृद्धिः । धि चेति सस्य लोपः ।इणः षीध्व॑मिति धकारस्य ढत्वम् । इटो लुप्तसिज्भक्ततया सिजन्ताङ्गान्तर्भूतत्वेन इडन्तस्य इण्णन्ताऽङ्गत्वदिति भावः । इड्भिन्न एवेति । उत्तरसूत्रे 'विभाषेट' इत्यत्र इड्ग्रहणात्पूर्वसूत्रे इणः षीध्वमित्यत्र इड्भिन्न एव इण् गृह्रत इति केचिदाहुः । तन्मते तु प्रकृते इटः परत्वाद्धकारस्य ढत्वाऽभावे ऐधिध्वमित्येव रूपमित्यर्थः । इदं तु मतान्तरं भाष्याऽनारूढमिति सूचयितुंतु॑शब्दः । ढधयोरिति । मतभेदमाश्रित्येदम् । ढत्वाऽभावपक्षे धकारस्य अनचि चेति द्वित्वविकल्पाद्द्विधमेकधमिति रूपद्वयम् । एवं ढत्वे द्विढम्, एकढ॑मिति रूपद्वयम् । रूपचतुष्टयेऽपियणो मयो द्वे वाच्ये॑ इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादेकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति । तथा च अष्टौ रूपाणि संपन्नानि । मकारस् द्वितवविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश (१६) रूपाणि संपन्नानीत्यर्थः । ऐधिषीति । लुङ इडादेशः । च्लिः । सिच् । इडागमः । आट् । वृद्धिः । वहिमह्रोस्तु च्लेः सिचि इडागमेआटि वृद्धौ ऐधिष्वहि ऐधिष्महीति रूपे । इति लुङ्प्रक्रिया । ऐधिष्यतेति । लृङस्तादेशः । स्यः । इट् ।आट् । वृद्धिः । षत्वम् । ऐधिष्येतामिति । आतां स्यः । इट् । आकारस्य इय् । आद्गुणः यलोपः । आट् वृद्धिः । षत्वम् । ऐधिष्यन्तेति । झावयवझकारस्यान्तादेशः । स्यः । इट् आट् वृद्धिः । षत्वम् । ऐधिष्यता इति । थास् । स्यः । इट् आट् । वृद्धिः । रुतविसर्गौ । ऐधिष्येथामिति । आथाम् । स्यः । इट् । आकारस्य इय् । आद्गुणः । यलोपः । आट् । वृद्धिः । षत्वम् ।ऐधिष्यध्वमिति । ध्वम् । स्यः । इट् । आट् । वृद्धिः । ऐधिष्य इति । इडादेशः । स्यः । इडागमः । षत्वम् । आद्गुणः । वहिमह्रोस्तु स्यः । इट् । अतो दीर्घः । आट् । वृद्धिः । षत्वम् । ऐधिष्यावहि ऐधिष्यामहि इति रूपे । नन्वेधधातोरनुदात्तेत्कत्वादेकाच उपदेशेऽनुदात्तादितीण्निषेधः कुतो न स्यादित्यत आह — उदात्तत्वादिति । एध धातुर्यद्यपि अनुदात्तेत्तथापि अनुदात्तस्याऽतो लोपे सति परिशिष्टो धातुर्नानुदात्त इति भावः । ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह — प्रसङ्गादिति.स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । पाणिनिपठितानामनुदात्तधातूनां तदानीन्तनशिष्यपरम्परया आनुनासिक्यवदिदानीं ज्ञनं संभवतीति भावः । ऊदृदन्तैरिति । अजन्तेषु धातुषु ऊदन्तैः ॠदन्तैस्च धातुभिर्विना, यु रु क्ष्णु शीङ् स्नु नु क्षु इआ ङीङ् श्रि — एतैश्च धातुभिर्विना, वृङ् वृञ् — आभ्यां च विना, अन्ये एकाचोऽजन्तधातवो निहिताः = अनुदात्ताः स्मृताः । पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थः । अथ हलन्तेषु अनुदात्तान्धातून् परिगणयति — शक्लृ पच् मुचिति । शक्लृ पच् मुच् रिच् वच् विच् सिच् प्रच्छि त्यज् निजिर्भज् — एषां द्वन्द्वः । तत्र कान्तेषु शक्लृ इत्येकः । ऌकार इत् । भाष्ये तु अनुबन्धरहितः पाठो दृश्यते । चान्तेषु पच् मुच् रिच् वच् विच् सिच् इति षट् । अत्र डुपचष् इत्यस्यैव ग्रहणं,प्रसिद्धत्वात्, न तु पचि व्यक्तीकरणे इत्यस्येत्याहुः । मुच्लृ मोक्षणे इत्यस्यैव ग्रहणं, न तु मुचि कल्कन इति भौवादिकस्य । अविशएषात्सर्वस्यत्यन्ये । छान्तेषु प्रच्छ् एकः । प्रच्छीतीकार उच्चारणार्थः । णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते । भुञ्ज भुजित्यादि सृज इत्यन्तमेकं पदम् । जान्तेषु — त्यज् निज् भज् भञ्ज् भुज् भ्रस्ज मस्ज् यज् युज् रुज् रञ्ज् सृज् इति पञ्जदश । अद् क्षुदित्यादि नुद इत्यन्तमेकं पदम् । तत्र तुदेरिकार उच्चारणार्थः । पद्यभिदित्येकं पदम् । समाहारद्वन्द्वः ।पद्येति श्यना निर्देशः । विद्यतिरिति श्यना निर्देशः । विनदिति श्नमा निर्देशः ।शद्-सदीत्यादि बुध्यतीत्यन्तमेकं पदम् । समाहारद्वन्द्वः ।सदि स्कन्दि हदि क्षुधि इति इका निर्देशः ।स्विद्यति — बुध्यतीति श्तिपा श्यन्विकरणयोर्निदेशः । ततश्च दान्तेषु-अद् क्षुद् खिद् छिद् तुद् नुद् पद् (श्यन्विकरणः), भिद् विद् (श्यन्विकरणः), विद् (श्नम्विकरणः),शद् सद् स्विद्(श्यन्विकरणः), स्कन्द् हद् इति पञ्चदश । बन्धिरिति इका निर्देशः । युधि-रुधी इत्येकं पदम् । इका निर्देशः । 'राधिंव्यधशुधः' इत्येकं पदम् । राधीति इका निर्देशः । साधिसिध्यती इति द्वन्द्वः । साधीति इका निर्देशः । ततश्च धान्तेषु — क्रुध् क्षुध् (श्यन्विकरणः),बन्ध् युध् रुध् राध् व्यध् शुध् साध् सिध् (श्यन्विक्रणः) — इत्येकादश । मन्येत्यादि तिप इत्यन्तमेकं पदम् । मन्येति श्यना निर्देशः । छुपीति इका निर्देशः ।तृप्यतिदृप्यती॑इति द्वन्द्वः । श्यना निर्देशः । लिबित्यादि यम इत्यन्तमेकं पदम् । सृपीति इका निर्देशः । रमिरिति भिन्नं पदम् । इका निर्देशः । तथा च नान्तेषु मन् हन्निति द्वौ । मनिः श्यन्विकरणः ।पान्तेषु — आप् क्षिप् छुप् तप् तिप् तृप् दृप् लिप् लुप् वप् शप् खप् सृप् इति त्रयोदश । भान्तेषु — यभ् रभ् लभ् इति त्रयः । मान्तेषु — गम् नम् यम् रम् इति चत्वारः । क्रुशिरित्यादि स्पृश इत्यन्तमेकं पमद् । दृशिरितिच इरित् । कृशि दिशि दंशीति इका निर्देशः । तथा च शान्तेषु क्रुश् दंश् दृश् दिश् मृश् रिश् रुश् लिश् विश् स्पृश् इत्येते दश । कृषिरितिपृथक्पदम् । इका निर्देशः । त्विषित्यादि श्लिष्यतय इत्यन्तमेकं पदम् । पुष्येति श्यना निर्देशः । श्लिष्यतीति श्यन्विकरणस्य श्तिपा निर्देशः । तथा च षान्तेषु कृष् त्विष् तुष् द्विष् दुष् (श्यन्विकरणः), पिष् विष् शिष् शुष् श्लिष् (श्यन्विकरणः)-इत्येकादश । घसिरिति पृथक्पदम् । इका निर्देशः । वसतिरिति पृथक्पदं । श्तिपा निर्देशः । सान्तेषु घस् वस् इति द्वौ । दह्दिहिदुह इति द्वन्द्वः । दिहीति इका निर्देशः । नह मिह रुह् लिह् इति समाहारद्वन्द्वः । वहिरिति पृथक्पदम् । इका निर्देशः । तथेति चकारपर्यायः । हान्तेषु — दह् दिह् दुह् नह् मिह रुह् लिह् वह् इत्यष्टौ । द्व्यधिकं शतमिति । भाष्ये मृषेः षान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः । अथ पान्तेषु द्वयोः श्यना निर्देशस्य फलमाह — तुदादाविति । यौ तृप्दृपी तुदादौ चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थितौ तौ अनुदात्तेभ्यो वारयितुं श्यना निर्देशोऽभ्युपगत इत्यर्थः । अत एवशे मुचादीना॑मिति सूत्रभाष्ये तृपतो दृपित इत्युदाहृतं सङ्गच्छत इति भावः । किं चेति । अन्यदपि वक्ष्यत इत्यर्थः । अन्यनिवृत्तय इति । विकरणान्तरनिवृत्तय इत्यर्थः । तच्चाग्रे तत्तदाद्र्धदातुकनिरूपणे स्पष्टीभविष्यति । अमी तथेति । उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । अमी तथेति । उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । विन्दितिरिति । 'विद्लृ लाभे' इति तौदाद#इकः । चान्द्रदौर्गादिव्याकरणसम्मतः । भाष्येऽपि दृश्यत इति । विन्दतिविनत्तिविद्यतीति तत्र पाठादिति भावः । एनमिति । विन्दतिमित्यर्थः । नेह पेठुरिति । तथापि भाष्यप्रामाण्यादस्याऽनिट्कत्वमिति भावः । 'रञ्जिमस्जी' इत्येकं पदम् । नुद् क्षुध् इति पृथक्कृते पदे । 'शुषिपुषी' इत्येकं पदम् । शिषिरित्यनन्तरम् 'इत्येते' इति शेषः । नवेहेति । नव धातवो भाष्यानुक्ता अपि इहानुदात्तेषु परिगणिता इत्यर्थः । कुत इत्यत आह — व्याघ्रभूत्यादिसम्मतेरिति । भाष्ये त्वेभ्यो नवभ्योऽन्येषां परिगणनं नवानामप्येषामुपलक्षणमिति भावः ।तेन रक्तं रागात्,तदस्मिन्नन्नं प्रायेण॑,क्तोऽकृतमितप्रतिपन्नाः॑शुष्कधृष्टौ॑, क्तेन नञ्विशिष्टेने॑त्यादिसौत्रप्रयोगाः, नुन्नः मग्नः पुष्टः मङ्क्ता मङ्क्तव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् । [इत्यनिट्कारिकाः] । स्पर्ध सङ्घर्षे इति । 'वर्तते' इति शेषः । पराभिभवेति । परस्याभिभवः पराजयः । तद्विषयकेच्छेत्यर्थः । नन्वत्रेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोः सकर्मकत्वद्देवदत्तो यज्ञदत्तं स्पर्धयतीत्यादौगतिबुद्धिप्रत्यवसानार्थशब्दकर्माऽकर्मकाणा॑मित्यकर्मककार्यं कथमित्यत आह — धात्वर्थेनोपसङ्ग्रहादिति ।धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्व॑मितिसुप आत्मनः क्य॑जिति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः । नचैवं सति पदव्यवस्थायां 'स्पर्धायामाङ' इत्यत्रकृष्णश्चाणूरमाह्वयते,स्पर्धत इत्यर्थ॑ इति मूलग्रन्थविरोध इति वाच्यं, तत्र स्पर्धेरभिवपूर्वकाह्वाने वृत्तेरित्यलम् । स्पर्धत इति ।कत्थन्ता षट्त्रशदनुदात्ते॑ इत्युक्तेरात्मनेपदम् । एधदातुवल्लटि रूपाणीति भावः । धातोरिजादित्वाऽभावादिजादेश्चेति लिटआम्न । अत एवा नानुप्रयोगोऽपि ।", "71006": "<<शीङो रुट्>> - शीङो रुट् । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते । 'अदभ्यस्ता' दित्यतोऽदित्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — शीङः परस्येति । रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति ।षीध्वंलुङ्लिटा॑मित्युक्तेर्न ढः । शिश्ये इति । शिश्यिषे । शिश्यिढ्वे — शिश्यिध्वे । शयितेति । शयिष्यते । शेताम् शयाताम् शेरताम् । सेष्व शयाथाम् शेध्वम् । शयै शयावहै शयामहै । अशेत अशयातामशेरत । अशेथाः अशयाथाम् ।अशेध्वम् । अशयि अशेवहि अशेमहि । शयीत । शयिषीष्ट । अशयिष्टेति । अशयिष्यतेत्यपि ज्ञेयम् । स्तौत्यन्ता इति ।ष्टुञ् स्तुता॑वित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति । ञित्त्वादिति भावः । यु मिश्रणेऽमिश्रणे चेति । अमिश्रणं पृथग्भावः । सेडयम् ।", "71007": "<<वेत्तेर्विभाषा>> - वेत्तेर्विभाषा । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यत आदित्यनुवृत्तं षष्ठ्या विपरिणम्यते ।शीङो रु॑डित्यतो रुडिति च । तदाह — वेत्तेः परस्येत्यादिना । अर्तिश्रुदृशिभ्य इति ।संपूर्वेभ्यस्त॑ङिति शेषः । द्वयोरिति । भौवादिकस्य, इयर्तेश्चेत्यर्थः । अङ्विधौ त्विति ।सर्तिशास्त्यर्तिभ्यश्च॑ इत्यत्रेत्यर्थः । मा समृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।ह्रस्वादङ्गा॑दिति सिचो लोपः । माङ्योगे मा समृतेत्यादि । माङ्योगाऽभावे तु समार्तेत्यादि इत्येवं भौवादिकस्य ऋधातो रूपमित्यर्थः । माङ्योगादाडभावः । अथ माङ्योगाऽभावे आडागमे उदाहरति — समार्तेति । समा ऋ स् त इति स्थितेउश्चे॑ति कित्त्वाद्गुणनिषेधे 'आटश्च' इति वृदिंध बाधित्वा परत्वात्ह्रस्वादङ्गा॑दिति सिचो लोपेआटश्चे॑ति ऋकारस्य वृद्धौ रपरत्वे रूपम् । न च सिज्लोपस्याऽसिद्धत्वात् आटश्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपस्याऽप्रवृत्त्या समार्ष्टेत्येवोचितमिति वाच्यम्,सिज्लोप एकादेशे सिद्धो वाच्यः॑ इति वचनेन पूर्वं सिज्लोपे पश्चादाटश्चेति वृद्धेः प्रवृत्तिसंभवादित्यलम् । इयर्तेस्त्विति । श्लुविकरणऋधातोरित्यर्थः । मा समरतेति । सर्तिश#आस्त्यर्ति॑ इत्यङ्, तत्र इयर्तेग्र्रहणादिति भावः । 'ऋदृशोऽङि' इति गुणः । समारतेति । 'आटश्च' इति वृद्धिः । इति चेति । इयर्ते रूपमत्यन्वयः । तदेवमर्तिश्रुदृशिभ्य इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्रुदातोरुदाहरति — संशृणुते इति । दृशेरुदाहरति - संपश्यते इति । अकर्मकादित्येवेति ।समो गम्यृच्छिभ्या॑मित्यत्र अक्रमकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसंख्यातवार्तिकेऽस्मंस्तदनुवृत्तेर्युक्तत्वादिति भावः । अत एवेति ।प्रमादिक इत्याहु॑रित्यत्रान्वयः, सकर्मकत्वेनात्मनेपदाऽसंभवादिति भावः । अध्याहारो वेति ।इति कथयद्भ्यट इत्यध्याहारो वेत्यन्वयः । तथा च रक्षांसीति कथयद्भ्यः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवोऽकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । धातोरिति । धातोरर्थान्तरे वृत्तेरिति, धात्वर्थेनोपसंग्रहादिति, प्रसिद्धेरिति, अविवक्षात इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । 'कर्मण' इति तु द्वितीयादिषु वाक्येष्वन्वेति । वहति भारमिति । प्रापयतीत्यर्थः । अत्र सकर्मकत्वमिति भावः । अस्याऽर्थान्तरे क्वचिदकर्मकत्वमुदाहरति — नदी वहतीति । स्यन्दते इति । प्ररुआवतीत्यर्थः । धात्वर्थोपसङ्ग्रहे उदाहरति — जीवतीति । नृत्यतीति । जीवेः प्राणधारणमर्थः । नृतेस्त्वङ्गविक्षेपः । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति 'सुप आत्मनः' इति सूत्रे भाष्ये स्पष्टम् । मेघो वर्षतीति । वर्षकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न य इति । हितात्पुरुषाद्यो न संशृणुते = स्वरहितं न मन्यते स किंप्रभुः, कुत्सित इत्यर्थः । अत्र स्वहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवं चास्मिन्नकर्मकाधिकारे हनिगम्यादीनां सतोऽपि कर्मणोऽविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् । अकर्मकत्वनिर्णयोऽयं 'लः कर्मणि' इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्रोर्वेति ।आत्मनेपद॑मिति शेषः । निवृत्तमिति । सोपसर्गयोरस्यत्यूह्योः सकर्मकत्वनियमादिति भावः ।", "71008": "", "71009": "<<अतो भिस ऐस्>> - अतो भिस ऐस् । 'अत' इति पञ्चमी ।अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । 'अत' इति च तस्य विशेषणम् । विशेषणत्वाच्च त्तदन्तविधिः । तदाह — अकारान्तादिति । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम् । नच अतो गुण इति पररूपं शङ्क्यम्, एकारोच्चारणसामर्थ्यादेव तदसम्भवात् । अन्यथा इसमेव विदध्यात् । तथापि एदैतोर्द्विमात्रत्वाऽविशेषात्प्रक्रियालाघवाच्च ऐसो विधिः । अलोऽन्त्यस्येत्यन्तादेशमाशङ्क्याह-अनेकाल्त्वादिति । अथ चतुर्थीविभक्तिः । तत्र ङे इति ङकारस्य लशक्वेतीत्संज्ञायां लोपः । तदुच्चारणं तु घेर्ङितीत्याद्यर्थम् । राम-ए इति स्थिते ।", "71010": "", "71011": "", "71012": "<<टाङसिङसामिनात्स्याः>> - टाङसिङसाम् ।अङ्गस्ये॑त्यधिकृतं पञ्चम्या, विपरिणम्यते । 'अतो भिस' इत्यस्मात् 'अत' इति पञ्चम्यन्तमनुवृत्तमङ्गस्य विशेषणम् । तदन्तविधिः । तदाह — अकारान्तादङ्गादिति ।परेषा॑मिति शेषः ।क्रमा॑दिति यथासङ्ख्यसूत्रलब्धम् । टादीनामिति । टा-ङसि-ङसामित्यर्थः । इनादय इति । 'इन-आत्-स्य' एते इत्यर्थः । राम-इनेति स्थिते आद्गुणः । णत्वमिति ।अटकुप्वा॑ङिति नकारस्य णकार इत्यर्थः । राम-भ्याम् इति स्थितेन विभक्ता॑विति मस्य नेत्त्वम् ।", "71013": "<<ङेर्यः>> - ङेर्यः ।हे॑रित्येकारान्तात् षष्ठएकवचनम्, नतु ङि इति सप्तम्येकवचनं, व्याख्यानात् । 'अतो भिस' इत्यतोऽत इति पञ्चम्यन्तमनुवर्तते । तेन चअङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते । तदाह — अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः ।सुपि चे॑ति दीर्घं मत्वा आह — रामायेति । ननु यादेशस्य सुप्त्वाऽभावात्तस्मिन् परतः कथं सुपि चेति दीर्घ इत्यत आह — इहेति । नन्वत्र दीर्घो यञादित्वेन सुप्त्वेन च यादेशं परनिमित्तीकृत्य प्रवर्तते । सच यञंशेऽलाश्रयः । तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भावः , अनल्विधाविति तन्निषेधादिति चेत्, सत्यम् — इह दीर्घस्य यञादिसुबाश्रयतयाऽऽदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावे सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वा.ञभावात् ।अकृत्सार्वधातुकयोदीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयोर्दीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयो॑रिति पर्युदासबलेन तस्याऽसुप्येव प्रवृत्तेरित्याहुः । स्यादेतत् ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑त्यस्ति परिभाषा । संनिपातः=संश्लेषः, लक्षणं=निमित्तं यस्य सः संनिपातलक्षणः । विधि -कार्यम् । तद्विघातस्य । तं=संनिपातं विहन्तीति तद्विघातः । 'कर्मण्यण्' इति कर्मण्युपपदे कर्तर्यण् ।हनस्तोऽचिण्णलो॑रिति तकारः ।हो हन्ते॑रिति कुत्वम् । संनिपातविघातकस्य न निमित्तमित्यर्थः । उपजीवकमुपजीव्यस्य विघातकं न भवतीति यावत् । प्रकृते चाऽदन्तसंबन्धमाश्रित्य प्रवृत्तो यादेशोऽदन्तसम्बन्धविघातकस्य दीर्घस्य कथं निमित्तं स्यादित्याशङ्क्य परिहरति — संनिपातलक्षण इत्यादिना । तृतीयाद्विवचनवद्दीर्घं सिद्धवत्कृत्याह-रामाभ्यामिति ।", "71014": "<<सर्वनाम्नः स्मै>> - सर्वशब्दाच्चतुर्थ्येकवचने 'ङेर्यः' इति प्राप्ते — सर्वनाम्नः स्मै । 'अतो भिस' इत्यस्मादत इत्यनुवरत्ते । 'ङेर्य' इत्यतोङे॑रिति च । तदाह — अतः सर्वेत्यादिना ।", "71015": "<<ङसिङ्योः स्मात्स्मिनौ>> - सर्वशब्दात्पञ्चम्येकवचने टाङसिङसामिति प्राप्ते-ङसिङ्योः । ङसिश्च ङिश्चेति द्वन्द्वः । 'अतो भिस' इत्यस्मादत इति, 'सर्वनाम्नः स्मै' इत्यतः 'सर्वनाम्न' इति चानुवर्तते, तदाह — अतः सर्वेति । एतयोरिति । ङसिङ्योरित्यर्थः । एताविति । स्मात्स्मिनावित्यर्थः । स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्न विभक्ताविति तकारस्य नेत्त्वमिति मत्वाह — सर्वस्मादिति ।", "71016": "<<पूर्वादिभ्यो नवभ्यो वा>> - पूर्वादिभ्यो ।ङसिङ्योः स्मात्स्मिना॑वित्यनुवर्तते इत्याह — एभ्य इति । पूर्वपरेत्यादित्रिसूत्रीनिर्दिष्टाः पूर्वादय इति विवक्षिताः । त्यदादयो हलन्ताधिकारे व्याख्यास्यन्ते । एकशब्दः सङ्ख्यायामिति । अर्थान्तरे तु द्विवचने बहुवचने अपि स्तः ।एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे सङ्क्यायां च प्रयुज्यते । इति कोशः । स्यादेतत् — ॒त्वत्कपितृकः॒॑मत्कपितृकः॑ इति बहुव्रीहिः । त्वकं पिता यस्य, अहकं पिता यस्येति लोकिकविग्रहवाक्यम् । लौकिकत्वं — प्रयोगार्हत्वम् । युष्मदस्मदोरज्ञाताद्यर्थेअव्ययसर्वनाम्ना॑मित्यकचि — युष्मकद् स् इति स्थिते, 'ङे प्रथमयोः' इत्यमि,त्वाहौ सौ॑ इति त्वादेशेऽहादेशे च सति, 'शेषे लोपः' इति लोपे, 'अतो गुणे' अमि पूर्वे च त्वकम्, अहकमिति रूपम् । युष्मद् स्, पितृ स्, अस्मद्स्, पितृ स् — इत्यलौकिकं विग्रहवाक्यम् । प्रयोगानर्हत्वम् — अलौकिकत्वमिति स्थितिः । तत्र त्वत्कपितृको मत्कपितृक इति बहुव्रीहिदशायां कप्रत्ययो न संभवति, युष्मदस्मदोः सर्वनामत्वेनाऽकच्प्रसङ्गात् ।", "71017": "<<जसः शी>> - युष्मदस्मदोः षष्ठी । षष्ठआदिविशिष्योरिति । षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः । षष्ठआदिविशिष्टयोरिति यावत् । षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति,पदस्ये॑त्यधिकारविरोधात् । पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम् । न हि षष्ठआदिविभक्तिषु परतः पत्वमस्ति । भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात् । स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते ।", "71018": "<<औङ आपः>> - अथ रमा औ इति स्थिते — ओङ आपः ।आप इति पञ्चमी । प्रत्ययग्रहणपरिभाषया आबन्तं विवक्षितम् ।अङ्गस्ये॑त्यदिकृतं पञ्चम्या विपरिणम्यते । 'औङः' इति षष्ठी ।जसः शी॑त्यतःशीत्यनुवर्तते । तदाह — आबन्तादिति । औङ्शब्दस्याऽप्रसिद्धार्थत्वादाह — औङितीति । संज्ञेति ।प्राचां शास्त्रे स्थिते॑ति शेषः । रमे इति । 'रमा औ' इति स्थिते शीभावे तस्य स्थानिवत्त्वेन प्रत्ययत्वा॒ल्लशक्वतद्धिते॑ इति शस्येत्संज्ञायां लोपे 'आद्गुणः' इति एकारः ।यस्येति चे॑ति लोपस्तु न, अभत्वात् । जसि (अकः सवर्णे) इति सवर्णदीर्घं मत्वाह — रमा इति । पूर्वसवर्णदीर्घस्तु न, न भवति,दीर्घाज्जसि चे॑ति निषेधात् । हे रमा स् इति स्थिते ।", "71019": "<<नपुंसकाच्च>> - नपुंसकाच्च । 'जसः सी' त्यत्रःशी॑ति 'औङ आपः' इत्यतःऔङि॑ति चानुवर्तते, तदाह — क्लीबादिति । ओङित्यौकारविभक्तेः संज्ञेत्युक्तम् । ज्ञानं ई इति स्थिते ।", "71020": "<<जस्शसोः शिः>> - बहुवचनस्य वस्नसौ । उक्तविधयोरिति । षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः ।", "71021": "<<अष्टाभ्य औश्>> - अष्टाभ्य औश् । 'जश्शसोः शिः' इत्यतो जश्शसोरित्यनुवर्तते । अष्टाभ्य इति पञ्चमी ।तस्मादित्युत्तरस्ये॑त्युपतिष्ठते । 'अष्टा' इत्याकारान्तशब्दो विवक्षितः । तदाह — कृताकारादित्यादिना । नकारस्याऽऽत्वे कृते सति योऽष्टाशब्दास्तस्मादित्यर्थः । शित्त्वात्सर्वादेशः ।आदेः परस्ये॑ति तु नात्र प्रवर्तते,अनेकाल्शि॑दिति परेण तस्या बाधात् । औशादेशोऽयंषड्भ्यो लु॑गित्यस्यापिबादः । ननु जश्शसोः परतोऽष्टन्शब्दस्यात्वं नास्त्येव, 'अष्टन आ विभक्तौ' इति आत्वविधौ हलीत्यपकर्षस्य उक्तत्वात् । ततश्च जश्शसोरौइआधौ 'कृताकारादष्टन' इत्यनुपपन्नम् । तत्राह-अष्टभ्य इति वक्तव्य इत्यादि । भ्यसि अष्टभ्यः, अष्टाभ्य इति रूपद्वये सत्यपि औइआधौ लाघवादष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः । ननु 'अष्टन आ विभक्तौ' इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानादष्टाभ्य इत्येव निर्देष्टव्यं, प्रामाणिकगौरवस्याऽदोषत्वात् । ततश्च औइआधौ 'अष्टाभ्य' इति निर्देशो जश्शसोरष्टनः कथमात्वं ज्ञापयेदित्यत आह — वैकल्पिकं चेदमिति । ज्ञापकादिति ।अष्टनो दीर्घा॑दिति सूत्रे दीर्घान्तादष्टन्शब्दात्पराऽसर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थः । अष्टाभिविंकर्षयतीत्यत्र भकारादिकार उदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति शिष्टमनुदात्तम् । दीर्घादिति विशेषणादष्टभिरित्यत्र आत्वाऽभावस्थले भिस उदात्तत्वं न भवति, किंतु मध्योदात्तत्वमेव,झल्युपोत्तम॑मित्यस्य प्रवृत्तेः । षट्चतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे विद्यमानमुपोत्तममुदात्तं स्यादिति तदर्थः । यदि तु अष्टन आत्वं नित्यं स्यात्तर्हि अष्टभिरिति ह्रस्वान्तव्यावृत्तये क्रियमाणं दीर्घग्रहणमनर्थकं स्यात्, व्यावर्त्त्याऽभावात् । आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावर्त्त्यस्य सत्त्वाद्दीर्घग्रहणमर्थवत् । अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थः । अष्टाविति । अष्टन्शब्दाज्जश्शसोरौश् । शित्त्वात्सर्वादेशः । 'अष्टाभ्य' इति निर्देशान्नकारस्यात्वं, सवर्णदीर्घः, वृद्धिरिति भावः । परमाष्टाविति ।अष्टाभ्य औ॑शित्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थः । अष्टाभिरिति । हलादौ आत्वे सवर्णदीर्घः । अष्टानामिति । आदौ नुटि कृते सति हलादित्वादात्वम् । नच नान्तत्वप्रयुक्तषट्संज्ञकशब्दसन्निपातमुपजीव्य प्रव#ऋत्तस्य नुटस्तद्विघातकमात्वं प्रति कथं निमित्तत्वमिति वाच्यं, नहि षट्सन्निपातेन जातस्य नुट आत्वेऽपि तद्विघातकत्वं, कृतात्वेऽपि स्थानिवत्त्वेन षट्त्वसत्त्वात्शमामष्टानां दीर्घः श्यनी॑त्यादिनिर्देशेनाऽत्र सन्निपातपरिभाषाया अनित्यत्वाश्रयणाच्चेति भावः । आत्वाऽभावे इति ।अष्टनो दीर्घा॑दिति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भावः । यद्यपिअष्टनो दीर्घा॑दिति सूत्रे शसादिविभक्तिषु परतः स्वरविधायके दीर्घग्रहणं शसादिष्वेवात्वविकल्पं ज्ञापयितुं शक्नोति नतु जसि, तथापि ज्ञापकस्य सामान्यापेक्षत्वाज्जास्यप्यात्वविकल्प इति भावः । प्रिया अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्टनिघ्न एकद्विबहुवचनान्तः । तत्र विशेषमाह — गौणत्वे त्विति । अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थः । आत्वाऽभावे इति ।अष्टनो दीर्घा॑दिति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भावः । राजवदिति ।प्रायेणे॑ति शेषः । प्रियाष्टा प्रियाष्टानौ प्रियाष्टानः । प्रियाष्टानम्, प्रियाष्टानौ । शशि प्रियाष्ट इति । 'अल्लोपोऽनः' इत्यकारलोपः । ननु कृतेऽल्लोपे नकारस्य ष्टुत्वेन णत्वं कुतो न स्यादित्यत आह — इहेति । इहाऽल्लोपस्य स्थानिवद्भावान्न ष्टुत्वमित्यन्वयः । अल्लोपस्य स्थानिवत्त्वे सति अकारव्यवहितत्वान्न ष्टुत्वमिति बावः । ननु स्थानिनि सति यत्कार्यं तदेवादेशेऽतिदेश्यते । स्थानिनि सति यत्कार्यं न भवति तदादेशे न भवति इत्येवं कार्याऽभावस्तु नातिदिश्यते । अन्यता 'नायक' इत्यादौ आयाद्यभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम् । तस्मादल्लोपस्य स्थानिवत्त्वान्न ष्टुत्वमित्यनुपपन्नम् । 'अचः परस्मिन्' इति सूत्रं तु यद्यपि स्थानिनि सति यत्कार्यं न भवति तदादेशेऽपि न भवतीत्येवं कार्याऽभावस्यातिदेशकं तथापि न तस्यात्र प्रवृत्तिरस्ति । स्थानिभूतादच#ः पूर्वस्यैव विधौ तत्प्रवृत्तेः । इह च स्थानिभूतादचः परस्यैव ष्टुत्वप्रवृत्तेरित्यत आह — पूर्वस्मादपि विधाविति । स्थानिभूतादचः पूर्वस्मात्परस्यापि विधौ स्थानिवत्त्वाभ्युपगमादित्यर्थः । नचपूर्वत्रासिद्धीये न स्थानिव॑दिति निषेधः शङ्क्यः, 'तस्य दोषः' इत्यत्र णत्वग्रहणं मास्त्वि॑त्युक्तं । तद्रीत्याप्याह — बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वेति । अल्लोपोऽङ्गसंज्ञासंज्ञापेक्षत्वाद्बहिरङ्गः । ष्टुत्वं तु तदपेक्षयाल्पापेक्षत्वादन्तरङ्गम् । तस्मिन् कर्तव्ये बहिरङ्गस्याऽल्लोपस्यासिद्धत्वादकारव्यवहितत्वान्न ष्टुत्वमित्यर्थः । ननु यथोद्देशपक्षेअसिद्धं बहिरङ्ग॑मिति षाष्ठीं परिभाषां प्रति ष्टुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावेन परिभाषा अप्रवृत्तेः कथमिहाऽल्लोपस्याऽसिद्धत्वमित्यत आह — कार्यकालपक्षे इति । लक्ष्यानुरोधादिह यथोद्देशपक्षो नाश्रीयते इत्यन्यत्र विस्तरः । अथ प्रियाष्टन्शब्दस्यात्वपक्षे विशेषमाह-जश्शसोरिति ।अष्टाभ्य औ॑शिति जश्शसोरौशादेशविधौ कृतात्वनिर्देशाज्ज्ञाप्यमानमात्वमष्टन्शब्दस्य प्राधान्ये सत्येव भवति, न तूपसर्जनत्वेऽपि, 'अष्टाभ्य' इति बहुवचननिर्देशात् । अन्यथा 'हाह' इति पञ्चम्यन्तवत् 'अष्ट औश्' इति निर्दिशेदिति 'ष्णान्ता षट्' इति सूत्रे भाष्ये स्पष्टम् । ततः किमित्यत आह — तेनेति । अष्टन्शब्दस्य गौणताया जश्शसोर्विषये आत्वाऽभावेनेत्यर्थः । हलादावेवेति । 'अष्टन आ विभक्तौ' इत्यत्र 'अष्टन' इत्येकवचननिर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाऽभावादिति भावः ।गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः॑ इत्यपि नात्र प्रवर्तते, तथा सतिअष्टाभ्य औ॑रित्यत्र बहुवचनवैयथ्र्यादिति बोध्यम् । हलादावेवेत्येवकारेण जश्शसोरप्यात्वस्य पक्षेऽपि व्यावृत्तिरूर्तैवानूद्यते । औङादौ तु हलादित्वाऽभावादेव आत्वस्य न प्रसक्तिः । प्रियाष्टा इति । सौ हलि 'अष्टन आ विभक्तौ' इत्यात्वे रुत्वविसर्गाविति भावः । षड्भ्यो लुक् इति 'षट्चतुभ्र्य' इति च गौणतायां न प्रवर्तत इति च प्रागुक्तं न विस्मर्तव्यम् । तथा च अजादौ सर्वत्र राजवदेव रूपाणि, हलादिषु पक्षे सर्वं रूपम् । हलादिषु विभक्तिषु तु हाहाशब्दवदन्यच्च रूपम् । चकाराद्राजवदपि । तदित्थमत्र रूपाणि-प्रियाष्टाः-प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टानः । प्रियाष्टानम् । प्रियाष्टानौ । प्रियाष्ट्नः । प्रियाष्ट्नः प्रियाष्टाभ्याम् — प्रियाष्टभ्याम्, प्र#इयाष्टाभ्यः — प्रियाष्टभ्यः । प्रियाष्ट्नः प्रियाष्ट्नोः प्रियाष्ट्नाम् । प्रियाष्ट्नि प्रियाष्टनि, प्रियाष्ट्नोः प्रियाष्टासु — प्रियाष्टसु । वस्तुतस्तु 'ष्णान्त षट्' इति सूत्रे भाष्ये 'अष्टन आ विभक्तौ' इत्यत्रहली॑त्यपकर्षमुक्त्वाप्रियाष्टौ प्रियाष्टा इति न सिध्यति, प्रियष्टानौ प्रियष्टान इत्येव प्राप्नोती॑ति शङ्कितेयथालक्षणमप्रयुक्ते॑ इति समाहितम् ।नैव वा लक्षणमप्रयुक्ते प्रवर्तते, प्रयुक्तानामेवान्वाख्यानात् इति कैयटः । एवं च एषामनभिधानमेवोचितम् । अत एवअष्टाभ्य औ॑शिति सूत्रे भाष्येअष्टन आत्वमिह वैकल्पिकं यदयमात्वभूतस्य ग्रहणं करोति-अष्टाभ्य इति । अन्यथा अष्टन इत्येव ब्राऊयात् इत्युक्तम् । प्रियाष्टन्शब्दस्य लोके प्रयोगसत्त्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मात्प्रियाष्टन्शब्दप्रयोगविचारः सर्वोऽप्यभित्तिचित्रायित इति शब्देन्दुशेखरे प्रपञ्चितम् । इति नान्ताः । अथ धान्ताः ।बुध अवगमने॑कर्तरि क्विप् । बुध् इति धकारान्तः शब्दः । ततः सुबुत्पत्तिः । सौ विशेषमाह — भष्भाव इति । हल्भ्यादिना सुलोपे सति प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा, पदान्तत्वाद्वा 'एकाचो बशः' इति बकारस्य भष=भकार इत्यर्थः । झश्त्व चर्त्वे इति । 'वाऽवसाने' इति चर्त्वविकल्प इति भावः । भ्यामादौ 'स्वादिषु' इति पदत्वाद्भष्, जश्त्वम् । भुद्भ्याम् । भुद्भिः । भुद्भ्यः । भुत्सु इति धान्ताः ।", "71022": "<<षड्भ्यो लुक्>> - षड्भ्यो लुक् । जस्शसोरित्यनुवर्तते । तदाह — षड्भ्यः परयोरित्यादिना ।", "71023": "<<स्वमोर्नपुंसकात्>> - अथ वारिशब्दप्रक्रियां दर्शियितुमाह — स्वमोर्नपुंसकात् । 'षड्भ्यो लुक्' इत्यतो लुगित्यनुवर्तते । इत्याह — क्लीवादित्यादिना । वारीति । सोरमश्च लुकि रूपम् । नचआदेः परस्ये॑त्यमोऽकारस्यैव लुक् स्यान्न तु मकारस्यापीति शङ्क्यं, प्रत्ययस्य लोप एव हि लुगित्युच्यते । अम् इति समुदाय एवेह प्रत्ययो नतु तदेकदेशभूतमकारमात्रम् । अतो लुगमः सर्वादेश एव भवति ।", "71024": "<<अतोऽम्>> - ज्ञानशब्दात्सुःस्वमोर्नपुंसका॑दिति तस्य लुकि प्राप्ते — अतोऽम् । 'अत' इति पञ्चमी ।अङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणम्यते, 'अत' इत्यनेन विशेष्यते । तेन तदन्तविधिः ।स्वमोर्नपुंसका॑दित्यनुवर्तते । तदाह — अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः । ज्ञानमिति । सोरमि कृते अमि पूर्वरूपमिति भावः । अमोऽम्विधानं तुस्वमोर्नपुंसका॑दिति लुङ्निवृत्त्यर्थम् । ननु 'अतो-म्' इत्येवच्छेदोऽस्तु । सोर्मकारादेशे ज्ञानमिति सिद्धेः । अमि चआदेः परस्ये॑त्यकारस्य मकारेऽन्त्यस्य मकारस्य संयोगान्तलोपेनैव ज्ञानमिति सिद्धेरिति चेत्, मैवम्-एवं सति ज्ञानमित्यत्रसुपि चे॑ति दीर्घापत्तेः । न च अदन्तसंनिपातमाश्रित्य प्रवृत्तस्य मादेशस्य तद्विघातकदीर्घनिमित्तत्वं न संभवति, संनिपातपरिभाषाविरोधादिति वाच्यं,सुपि चे॑ति दीर्घे कर्तव्ये संनिपातपरिभाषाया अप्रवृत्तेरित्युक्तत्वादित्यलम् ।हे ज्ञानेति । हे ज्ञानस् इति स्थिते सोरमि कृते पूर्वरूपेएङ्ह्रस्वा॑दिति मकारलोपे हे ज्ञानेति रूपम् । नन्वेङ्ह्रस्वादित्यत्र संबुद्ध्याक्षिप्तस्य संबुद्धयैवान्वय उचितः, ततश्च एङन्ताध्यस्वान्ताच्चाङ्गात् परा या संबुद्धिस्तदवयवस्य हलो लोप इति लभ्यते । ततश्च प्रकृते पूर्वरूपे कृते तस्य पूर्वान्तत्वाश्रयणे ज्ञानेत्यदन्तमङ्गम् । ततः परा संबुद्धिर्नास्ति, मकारमात्रस्याऽसंबुद्धित्वात्, सुस्थानिकस्याम एव संबुद्धित्वात्, अद्र्धविकारेण एकदेशविकृतन्यायानवताराच्च । न च पूर्वरूपात्प्राक्एङ्ह्रस्वा॑दित्यस्य प्रवृत्तिः किं न स्यादिति वाच्यं, परत्वात्पूर्वरूपस्यैव पूर्वं प्रवृत्तेः । न च पूर्वान्तत्वात्पूर्वरूपस्याऽङ्गन्तर्भावाज्ज्ञानेत्यदन्तमङ्गम्, परादित्वाच्च अम् इत्यस्य संबुद्धित्वं चेत्याश्रित्य तदवयवहलो मकारमात्रस्यएङ्ह्रस्वा॑दिति लोपो निर्बाध इति वाच्यम्,उभयत आश्रयणे नान्तादिव॑दिति निषेधादित्यत आह — एङ्ह्रस्वादिति हल्मात्रलोप इति । पूर्वरूपे कृते संबुद्धेर्मकारमात्रं यत् परिशिष्टं तस्यएङ्ह्रस्वा॑दिति लोप इत्यर्थः । लक्ष्यानुरोधात्संबुद्ध्याक्षिप्तमङ्गं संबुद्धौ नान्वेति, किंतु संब#उद्ध्यवयवहल्येवान्वेति । ततश्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परो यः संबुद्ध्यवयवहल् तस्य लोप इति लभ्यते । प्रकृते च पूर्वरूपे कृतेऽपि ह्रस्वान्तादङ्गात्परत्वं संबुद्ध्यवयवस्य मकारमात्रस्य अस्त्येवेति तस्यएह्ह्रस्वा॑दिति लोपो निर्बाध इत्यन्यत्र विस्तरः ।", "71025": "<<अद्ड् डतरादिभ्यः पञ्चभ्यः>> - अद्ड्डतरादिभ्यः । 'अद्ड्-डतरादिभ्य' इति छेदः । दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत इति कैयटः । डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः । अत्र डक्त्रडतमौ प्रत्ययौ । अतस्तदन्तग्रहणं ।स्वमोर्नपुंसका॑दिति सूत्रमनुवर्तते तदाह — एभ्य इत्यादिना ।", "71026": "", "71027": "<<युष्मदस्मद्भ्यां ङसोऽश्>> - युष्मदस्माद्भ्यां ङसोऽश् । स्पष्टमिति । युष्मदस्मद्भ्यां परस्य ङसोऽश् स्यादिति सुगममित्यर्थः । सित्त्वात्सर्वादेशः । तव ममेति । युष्मद् अस्, अस्मद् असितिस्थिते मपर्यन्तस्य तवममादेशयोः कृतयोरशादेशे दकारात्पूर्वयोरकारयोः पररूपेऽदो लोपः । अन्त्यलोपपक्षे दकारलोपः, त्रयाणामकाराणां पररूपमिति भावः । युवयोः आवयोरिति । युष्मद् ओस्, अस्मद् ओस् इति स्थिते मपर्यन्तस्य युवावादेशयोःयोऽची॑ति दस्य यत्वे पररूपमिति भावः ।", "71028": "<<ङे प्रथमयोरम्>> - अथ युष्मदस्मच्छब्दयो प्रक्रियां दर्शयति — ङे प्रथमयोरम् ।युष्मदस्मद्भ्यां ङसोऽश् इत्यतोयुष्मदस्मद्भ्या॑मित्यनुवर्तते । परशब्दोऽध्याहर्तव्यः । 'ङे' इति लुप्तषष्ठीकं पृथक्पदम् । प्रथमयो॑रिति प्रतमाद्वितीयाविभक्त्योर्लाक्षणिकमिति भाष्यं । तदाह युष्मदस्मद्भ्यामित्यादिना । सोरमादेशे कृते 'न विभक्तौ' इति मस्य नेत्त्वम् । युष्मद् अम्, अस्मद् अम् इति स्थितम् । अधिकृत्येति ।कार्याणि वक्ष्यन्ते॑ इति शेषः ।", "71029": "<<शसो न>> - अथ शसि विशेषमाह — शसो न । 'ङे प्रथमयोः' इत्यतोऽमित्यनुवर्तते । युष्मदस्मद्भ्यामिति च । युष्मदस्मद्भ्यां परस्य शसोऽम् न स्यादिति लभ्यते । तथाच अमभावेद्वितीयायां चे॑त्यात्वे पूर्वसवर्णदीर्घेतस्माच्छस नः पुंसी॑ति नत्वे युष्मानिति यद्यपि पुंसि रूपं सिध्यति तथापि युष्मान् ब्राआहृणैइः पश्य, अस्मान्ब्राआहृणीः पश्य, युष्मान् ब्राआहृणकुलानि पस्य, असमान् ब्राआहृणकुलानि पस्येति स्त्रीनपुंसकयोर्न सिध्येत । अतो नेदं सूत्रं शसोऽम्निषेधपरं, किं तु शसो नकारोऽत्र विदीयते इत्यभिप्रेत्य — तर्हि 'शसो न' इति प्रथमा कुतो न श्रूयते इत्याशङ्क्यच आह — नेत्यविभक्तिकमिति । लुप्तप्रथमाविभक्तिकमित्यर्थः । ततस्च फलितमाह — युष्मदस्मद्भ्यामित्यादिना । अमोऽपवाद इति । 'ङे प्रथमयोः' इति प्राप्ते एव नत्वविधेस्तदपवादता । युष्मद् अस्, अस्मद् अस् इति स्थितेद्वितीयायां चे॑त्यात्वेऽनेन शसो नकारः । स चअलोऽन्त्यस्ये॑ति नान्त्यस्येत्याह — आदेः परस्येति । संयोगान्तस्येति । अकारस्य नकारे कृते सकारस्य लोप इति भावः । यद्यपि शसोऽमि कृतेऽपि अकारस्य नकारे मकारस्य संयोगान्तलोपे युष्मान् अस्मानिति सिध्यति, तथापिसत्यपि सम्भवे बाधनं भवती॑ति न्यायान्नत्वस्य अमपवादत्वमाश्रितम् । किंच अमि कृते 'ङे प्रथमयोः' इत्यत्र मकारान्तरप्रश्लेषपक्षे अकारस्य नकारे मकारस्य संयोगान्तलोपो न स्यादित्यलम् । अथ तृतीया । युष्मद् आ अस्मद् आ इति स्थिते- ।", "71030": "<<भ्यसः भ्यम्>> - भ्यसोभ्यम् । भ्यमभ्यमिति वा छेदः । तदाद-भ्यस इति ।युष्मदस्मद्भ्यां परस्ये॑ति शेषः,युष्मदस्मद्भ्यां ङसोऽश् इत्यतस्तदनुवृत्तेः । ननु ब्यमादेशपक्षे 'शेषे लोपः' इत्यदो लोपे युष्मभ्यमस्मभ्यमिति मकारादकारो न श्रूयेतेत्यत आह — आद्य इति । लक्ष्यानुरोधादिहाऽन्त्यलोपपक्ष एवाश्रयणीयः । नन्वन्त्यलोपपक्षे दकारस्य लोपे सति 'बहुवचने झल्येत्' इत्येत्त्वं स्यादित्यत आह — तत्राङ्गवृत्तेति ।अङ्गवृत्तेः पुनर्वृत्तावविधि॑रिति परिभाषयेत्यर्थः । अङ्गेवृत्तं वर्तनं यस्य तत्-अङ्गवृत्तं, तस्मिन् कार्ये प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये अविधिः=विदिर्नास्तीत्यर्थः । प्रकृते च शेषलोपे अङ्गकार्ये प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्त्वं न भवतीति भावः । अभ्यम् त्विति । अब्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थः । तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाऽभावात्तस्मिन् परे एत्त्वं न । किन्तु पररूपे सति युष्मभ्यमस्मभ्यम् इति सिध्यति । टिलोपपक्षे तु अङ्गस्य अदन्तत्वाऽभावादपि एत्त्वं न ।", "71031": "<<पञ्चम्या अत्>> - पञ्चम्या अत् ।युष्मदस्मद्भ्यां ङसोऽ॒शित्यतो॑ युष्मदस्मद्भ्यामित्यनुवर्तते ।भ्यसोऽभ्य॑मित्यतो 'भ्यस' इति । तदाह-आभ्यामिति । युष्मदस्मद्भ्यामित्यर्थः । युष्मत् अस्मदिति । युष्मद् भ्यस्, अस्मद् भ्यसिति स्थिते भ्यसोऽदादेशः । शेषलोपश्च ।", "71032": "<<एकवचनस्य च>> - अथ पञ्चमी । एकवचनस्य च ।युष्मदस्यद्भ्यां ङसोऽश् इत्यतोयुष्मदस्मद्भ्या॑मित्यनुवर्तते, 'पञ्चम्या अत्' इति च, तदाह-आभ्यामिति । युष्मस्मद्भ्यामित्यर्थः । अनेकाल्त्वात्सर्वादेशः । 'न विभक्तौ' इति तस्य नेत्त्वम् । त्वत् मदिति । युष्मद् अस्, अस्मद् अस् इति स्थिते त्वमादेशयोः कृतयोः ङसेरदादेशे सति पररूपे 'शेषे लोपः' इति टिलोपः । अन्त्यलोपपक्षे दकारलोपे सति त्रायाणामकाराणां पररूपमिति भावः । सुवचमिति । लाघवादिति भावः ।", "71033": "<<साम आकम्>> - साम आकम् । आभ्यामिति ।युष्मदस्मद्भ्यां ङसो॑शित्यतस्तदनुवृत्तेरिति भावः । साम इति । सकारेण सहित आम्-साम्, तस्येत्यर्थः, ससुट्कस्य आम इति यावत् । ननु युष्मद् आम्, अस्मद् आमिति स्थिते अवर्णात्परत्वाऽभावात्सुटो न प्रसक्तिः । नच 'शेषे लोपः' इति तस्य लोपे कृते ।ञवर्णात्परत्वमस्तीति वाच्यम्, आकमादेशात्प्रागनादेशतया शेषेलोपस्यैवात्राऽप्रसक्तेः ससुट्कनिर्देशोऽनुपपन्नो व्यर्थश्चेत्यत आह — भाविन इति । भविष्यत इत्यर्थः । यदि तु 'आम आकम्' इत्येवोच्येत, तर्हि आम आकमादेशे कृते दकारस्य शेषेलोपे सति स्थानिवत्त्वेन आकमादेशस्य आम्त्वात्तस्य चाऽवर्णात्परत्वात्सुडागमः स्यात् । तत एत्वषत्वयोर्युष्मेषाकम्, अस्मेषाकमिति स्यादतः ससुट्कनिर्देशः । यद्यपि आकमादेशप्रवृत्तकाले सुटो न प्रसक्तिस्तथापि आकमादेशोत्तरं दकारलोपे कृते स्थानिवत्त्वेन यः सुट भविष्यति, तस्यापि स्थानषष्ठआ स्वीकरणान्निवृत्तिर्भवति । अन्यता ससुट्कनिर्देशवैयथ्र्यादिति भावः । यदि तु शेषस्य लोप एवाश्रीयते, तदा कृतेऽप्याकमादेशेऽदो लोपेऽवर्णात्परत्वाऽभावादेव सुटः प्रसक्त्यभावलात्ससुट् कनिर्देशो मास्तु । युष्माकमस्माकमिति । आकमादेशे कृतेऽदो लोपे रूपम् । दकारलोपे तु सवर्णदीर्घः । एतदर्थमेव दीर्घोच्चारणम् । अन्यता पररूपापत्तेः । न चाऽकारोच्चारणसामर्थ्यादेव पररूपनिरास इति वाच्यं,क॑मादेशे प्राप्तबहुवचने झल्ये॑दित्येत्त्वनिवृत्त्या चरितार्थत्वादित्यलम् । त्वयि मयीति । युष्मद् इ, अस्मद् इ इति स्थिते मपर्यन्तस्य त्वमादेशयोर्योऽची॑ति दस्य यत्वे पररूपे रूपमिति भावः । युवयोः #आवयोरिति । प्राग्वत् । युष्मासु अस्मास्विति । युष्मदस्मदोरनादेशे॑ इति दकारस्य आत्वे सवर्णदीर्घ इति भावः । 'त्वमावेकवचने' इत्यत्र 'युवावौ द्विवचने' इत्यत्र च एकवचनद्विवचनशब्दौ यौगिकौ, नतु प्रत्ययपराविति स्थितम् । तत्फलं श्लोकचतुष्टयेन सङ्गृह्णाति — समस्यमाने इति । तत्र प्रथमश्लोकेचे॑दित्यनन्तरम्अपी॑त्यध्याहार्यम् । यदि समस्यमाने युष्मदस्मदी द्व्येकत्ववाचिनी तदा समासार्थोऽन्यसङ्ख्यश्चेदपि युवावौ त्वमावपि स्त इत्यन्वयः । त्वां मां वा अतिक्रान्तः; अतिक्रान्तौ, अतिक्रान्ता इति, युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे-॒अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासं लभमाने युष्मदस्मदी द्वित्वैकत्वान्यतरविशिष्टार्थवाचिनी यदा तदा समासार्थः मुख्यविशेष्यभूतोऽन्यसङ्ख्यश्चेदपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि भवतः, युवावादेशविधौ द्विवचनशब्दस्य, त्वमादेशविधौ एकवचनशब्दस्य च यौगिकत्वाश्रयणात् । एकवचने प्रत्यये परतस्त्वमादेशौ, द्विवचने प्रत्यये परतो युवावादेशौ इत्यर्थाश्रयणे तु त्वां मां वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे अतियुष्मद्शब्दे अत्यस्मच्छब्दे च युष्मदस्मदोर्द्विवचने बहुवचने च प्रत्यये परे त्वमै न स्याताम् । तथा युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिः स्यादित्यर्थः । ननु युष्मद्समदोद्व्र्यर्थकत्वे युवावौ, एकार्थकत्वे तु त्वमौ इति किं सार्वत्रिकम् ।नेत्याह — सुजस्ङेङस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्धे त्वाहावित्यादि तत्तत्सूत्रप्रतीकग्रहणम् ।इती॑त्यनन्तरं 'ये' इत्यध्याहार्यम् ।त्वाहौ सौ॑,यूयवयौ जसि॑,तुभ्यमह्रौ ङयि॑,तवममौ ङसी॑ति सुजस्ङेङस्सु ये आदेशा विहितास्ते अतियुष्मदत्यस्मच्छब्दाभ्यामेकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थः । ननु तत्रापि द्व्यर्थकत्वे युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह-एतीति । तृतीयश्लोके पूर्वाद्र्धमेकं वाक्यम् ।एते=त्वाहादयः, स्वके=स्वीये विषये सुजसादौ, युवाबौ बाधन्ते । कुतः । परत्वात् । युवावापेक्षया एतेषां परत्वादित्यर्थः । नन्वस्त्वेवं त्वाहादिभिर्युवाबयोर्बाधः, त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह — त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्वं पूर्वविप्रतिषेधः । 'सुप्सुपा' इति समासः । तृतीयान्तात्तसिः । विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भावः ।प्रत्ययोत्तरण्दयोश्च॑ इति सूत्रभाष्ये तु 'त्वमावेकवचने' इति सूत्रे 'शेष' इत्यनुवत्र्यसुजस्ङेङस्भिन्नविभक्तिषु॑ इति व्याख्यातम् ।तदेवंत्वमावेकवचने॑, 'युवावौ द्विवचने' इत्यत्र एकद्विवचन्शब्दयोर्यौगिकत्वाश्रयणस्याऽव्याप्तिपरिहारार्रथत्वमुक्त्वाऽतिव्याप्तिपरिहारार्थत्वमाह-द्व्यकसङ्ख्य इति । चतुर्थश्लोकेऽस्मिन् 'यदा'तदे॑त्यध्याहार्यम् । यदा युष्मान् अस्मान्वा अतिक्रान्तौ अतिक्रान्ता इति विग्रहे समासे सति द्वित्वैकत्वविशिष्टः समासार्थः=समासस्य मुख्यविशेष्यभूतः, युष्मदस्मदी तु बह्वर्थके, तदा युवावौ त्वमौ च न स्तः, तयोः युष्मदस्मदोर्द्वित्वैकत्वविशेष्टार्थकत्वाऽभावात् । युवावविधौ त्वमविधौ च युष्मदस्मदोर्द्वित्वैकत्वविशिष्टवाचित्वे सत्येव प्रवृत्तेराश्रयणात् । द्विवचने एकवचने च प्रत्यये परत इत्यर्थाश्रयणे तत्राऽतिव्याप्तिः स्यादित्यर्थः । अत्रप्रत्ययोत्तरपदयोश्चे॑ति सूत्रे भाष्येत्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहण॑मिति वार्तिकव्याख्यावसरे 'युवावौ द्विवचने' 'त्वमावेकवचने' इत्यत्र द्विवचनैकवचनशब्दयोर्यौगिकत्वाश्रयणमुपक्षिप्य युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहान् प्रदश्र्य, त्वा मां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहान् प्रदश्र्य, अतियुष्मदत्यस्मच्छब्दयो सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाहृत्य प्रदर्शितौ । सुजसङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येत एवादेशा उदाहृताः । तदिदं श्लोकचतुष्टयेन संगृहीतम् । तदिदानीं तत्प्रपञ्चनपरभाष्यानुसारेणोदाहृत्य प्रदर्शयति-त्वा मां वा अतिक्रान्त इत्यादिना । अतिक्रान्तौ अतिक्रान्ता इति च विग्रहयोरुपलक्षणमिदम् । 'विग्रहे' इत्यनन्तरं 'रूपाणि वक्ष्यन्ते' इति शेषः । सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावे भवतः । अवशिष्टप्रक्रियास्तु केवलयुष्मदस्मद्वज्ज्ञेयाः । सुजस्ङेङस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्रौ, तवममौ इत्येते एवादेशाः पूर्वप्रतिषेधात्त्वमौ बाधित्वा भवन्ति । ततश्च सुजस्ङेङस्सु केवलयुष्मदस्मद्वदेनव रूपाणीति निष्कर्षः । अतित्वाकमतिमाकमिति । ननुसामः आक॑मिति ससुट्कनिर्देशाद्यत्र आमः सुट्संभवस्तत्रैवाकम्, नचात्र सुट् संभाव्यते, इह युष्मदस्मदोरुपसर्जनत्वे सर्वनामत्वाऽभावात् । सुटः सर्वनाम्नः परस्यामो विहितत्वादिति चेत्, मैवम्-ससुट्कत्वस्य संभावनामात्रविषयत्वात् । एवंच सुट् यत्र संभविष्यति तत्र सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । यत्र तु सुट् न संभवति, तत्र केवलस्य आमः सुट् । अत्र चप्रत्ययोत्तरपदयोश्चे॑ति सूत्रेऽतित्वाकमतिमाकमिति भाष्ये तदुदाहरणं प्रमाणमित्यास्तां तावत् । तदेवमुपसर्जनयोः युष्मद्समदोरेकार्थवाचित्वं उदाहरणान्युक्त्वा द्व्यर्थवाचित्वे उदाहरति — युवामावां वा अतिक्रान्त इति । अतिक्रान्तौ अतिक्रान्ता इति विग्रहयोरुपलक्षणम् । अत्र युष्मदस्मदोद्वर्य्र्थृत्तित्वात्सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावावेव भवतः । अवसिष्टास्तु प्रक्रियाः केवलयुष्मदस्मद्वज्ज्ञेयाः । सुजस्ङेङस्सु केवलयुष्मदस्मद्वदेव रूपाणिति निष्कर्षः । अथ युष्मदस्मदोरुपसर्जनयोर्बह्वर्थवाचित्वे उदाहरणान्याह — युष्मान् अस्मान्वेति । युष्मानस्मान्वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहेष्वित्यर्थः ।द्वयेकसङ्ख्यः समासार्थः॑ इति चतुर्थश्लोकस्योदाहरणान्येतानि । अत्र युष्मस्स्मदोरेकद्व्यर्थवाचित्वाऽभावात्सुजस्ङेङस्भ्योऽन्यत्र मपर्यन्तस्य क्वापि न त्वमौ, नापि युवावौ । 'ङे प्रथमयोः' इत्याद्यास्तु भवन्त्येव । सुजस्ङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येते भवन्त्येव । तेषामेकद्व्यर्थविशेषणिबन्धनत्वाऽभावात् । प्राग्वदिति । केवलयुष्मस्मद्वदित्यर्थः । इत्यधिकृत्येति । 'विधयो वक्ष्यते' इति शेषः । अष्टमस्य प्रथमे पादे इमानि सूत्राणि पठितानि । तत्रपदस्ये॑टत्येतत्अपदान्तस्य मूर्धन्यः॑ इत्यतः प्रागधिक्रियते । 'पदात्' इत्येतत्तुकृत्सने च सुप्यगोत्रादौ॑ इत्यतः प्रागदिक्रियते ।अनुदात्तं सर्वमपादादौ॑ इति पदत्रयं तु आ पादसमाप्तेरधिक्रियते इति भाष्यादिषु स्पष्टम् ।", "71034": "<<आत औ णलः>> - तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते — आत औ । 'औ' इति लुप्तप्रथमाकम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरीणम्यते । 'आत' इति तद्विशेषणम् । तदन्तविधिः । तदाह — आदन्ताद्धातोरिति । णल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथा च णल औत्वे वृद्धौ रूपमाह — दधाविति ।", "71035": "<<तुह्योस्तातङाशिष्यन्यतरस्याम्>> - अथाऽऽशिषि लोटो विशेषमाह -तुह्रोस्तातङ् । तुश्च हिश्च तुही, तयोरिति विग्रहः । तातङि ङकार इत् । अकार उच्चारणार्थः । तादित्यादेशः शिष्यते । ननु किमस्य अनेकाल्त्वात्सर्वादेशता,उत ङित्त्वादन्तादेशतेत्यत आह — अनेकाल्त्वात्सर्वादेश इति । ननुङिच्चे॑त्यस्य सर्वादेशापवादतयाऽनङादेरिव तातङोऽप्यन्त्यादेशत्वमेवोचतमित्याशङ्कते — यद्यपीति । परिहरति — तथापीति । परेण बाध्यत इति । तातङादेशेङिच्चे॑त्ययं विधिःअनेकाल्शित्सर्वस्ये॑ति परेण बाध्यत इत्यर्थः । ननुपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय॑ इति परापेक्षया अपवादस्य प्रबलत्वान्ङिच्चेत्यन्तादेशत्वमेव तातङि युक्तमित्यत आह — मन्थरं प्रवृत्त इति ।ङिच्चेति विधि॑रिति शेषः । तातङ्विषये ङिच्चेति विधिर्मन्थरं प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः । कुतो मन्दप्रवृत्तिकत्वमित्यत आह — अनन्यार्थेत्यादिना । अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते तदनन्यार्थम् । तथाविधं ङित्त्वं येषां तेषु अनङादिषु ङिच्चेति विधिश्चरितार्थः — लब्धप्रयोजनक-इति कृत्वा मन्दं प्रवृत्त इत्यर्थः । तातङो ङित्त्वं तु अन्तादेशत्वापेक्षयाऽनन्यार्थं नेत्याह — सम्भवत्प्रयोजनङकारे इति । सम्भवन्ति प्रयोजनानि अन्तानि यस्य स सम्भवत्प्रयोजनः, तथाविधो ङकारो यस्य तथाविधे तातङीत्यर्थ- । कथं सम्भवत्प्रयोजनकत्वमित्यत आह — गुणवृद्धिप्रतिषेध-सम्प्रसारणाद्यर्थतयेति । द्विष्टादित्यादौ लघूपधादिगुणनिषेधः । स्तुतात्,युतादित्यादा॑वुतो वृद्धिर्लुक हली॑ति विहिताया वृद्धेर्निषेधः । 'वश कान्तौ' उष्टादित्यत्रग्रहिज्यावयी॑ति सम्प्रसारणम् । आदिना ब्राऊतादित्यत्रब्राउव ई॑डितीटोऽभावस्य सङ्ग्रहः । ननु तातङ्विषये ङिच्चेति विधिर्मन्दं प्रवर्तताम्, अथापिपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय॑ इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन ङिच्चेत्यनेन बाध एवोचित इत्यत आह — इहेति । इह = तातङ्विषये अनेकाल्शित्सर्वस्येति सामान्यशास्त्रस्य, ङिच्चेति विशेषशास्त्रस्य च समबलत्वात्सामान्यशास्त्रं विशेषशास्त्रेम न बाध्यत इत्यर्थः । अयं भावः — अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् । प्रकृते च ङिच्चेति विधिरनङादिङित्तवमन्तादेशत्वैकप्रयोजनकं प्रयोजनान्तरविरहेण निरवकाशत्वाज्झटिति परिगृह्णन्तकृतार्थतामनुभवन्, तातङो ङित्त्वं प्रयोजनान्तरसत्त्वेन सावकाशत्वादुपेक्षत इति । तदुक्तं भाष्ये — ङित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातङ्सर्वादेश॑ इति । अधिकास्तु विस्तरभिया विरम्यते । भवतादिति । आशिषि लोटस्तिपि शपि गुणे अवादेशे उकारे तोस्तातङ्सर्वादेशः । ङकार इत् । द्वितीयतकारादकार उच्चारणार्थः ।", "71036": "<<विदेः शतुर्वसुः>> - विदेः शतुर्वसुः । वेत्तेरिति । 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम्, शतुः परस्मैपदत्वात्, विद्यतेर्विन्त्तेश्चात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी, तथापि तस्य ग्रहणं,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑त्युक्तेरिति भावः । वा स्यादिति ।तुह्रोस्तात॑ङ्ङित्यतस्तदनुवृत्तेरिति भावः । विदुषीति । उगित्त्वान्ङीप्, वनसोः संप्रसारणं, पूर्वरूपम्, षत्वम् ।", "71037": "", "71038": "", "71039": "", "71040": "", "71041": "", "71042": "", "71043": "", "71044": "", "71045": "", "71046": "", "71047": "", "71048": "", "71049": "", "71050": "", "71051": "<<अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि>> - अआक्षीर क्यचि ।परे असु॑गिति शेषपूरणम्,आज्जसेरसु॑गित्यतस्तदनुवृत्तेरिति भावः । असुकि ककार इत्ुकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । अआवृषयोरिति - वार्तिकम् । अआस्यति वडवेति । मैथुनार्थमआमिच्छतीत्यर्थः । वृषस्यति गौरिति । मैथुनार्थं वृषमिच्छतीत्यर्थः ।वृषस्यन्ती तु कामुकी॑ति कोशस्तु अआवृषरूपप्रकृत्यर्थपरित्यागेव मैथुनेच्छामात्रे लाक्षणिकः । क्षीरलवणयोरिति - वार्तिकम् । 'असु ' गिति शेषः । लालसा - उत्कटेच्छा । सर्वप्रातिपदिकानामिति । इदमपि वार्तिकम् । लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । नचानेनैव वार्तिकेन सिद्धेक्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयो॑रिति वार्तिकं कात्यायनीयं,सर्वप्रातिपदिकाना॑मिति तु मतान्तरमित्यदोषात् । एतच्च भाष्येअपर आहे॑त्यनेन ध्वनितम् ।", "71052": "<<आमि सर्वनाम्नः सुट्>> - सर्व-आम् इति स्थिते 'ह्रस्वनद्यापः' इति नुटि प्राप्ते- । आमि सर्वनाम्नः । 'अज्जसेरसुक्' इत्यतोऽनुवृत्तेन आदिति पञ्चम्यन्तेनअङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः,परस्ये॑त्यध्याहार्यम् ।उभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति न्यायेनतस्मादित्युत्तरस्ये॑ति परिभाषयाआमी॑ति सप्तम्यन्तं षष्टन्तमापद्यते । 'सर्वनाम्न' इति तु विहितविशेषणम् । ततश्च अवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यादित्यर्थः । सम्पद्यते । तदाह — अवर्णान्तादित्यादिना ।अवर्णान्ता॑दित्यनन्तरम्अङ्गा॑दिति शेषः ।अवर्णान्तात्सर्वनाम्नो विहितस्याम॑ इति व्याख्याने तु येषां तेषामित्यादौ सुडागमो न स्यात् । तत्र आमो दकारान्ताद्विहितत्वात् ।सर्वनाम्नः परस्ये॑ति तु न व्याख्यातम् । तथा सति वर्णाश्रमेतराणामित्यसिद्धेरित्यग्रे मूल एव स्पष्टीभविष्यति । एत्वषत्वे इति ।बहुवचनेझल्ये॑दित्येत्वम् । संनिपातपरिभाषा त्वत्र न प्रवर्तते इति बहुवचने झल्येदित्यत्रेक्तम् । 'आदेशप्रत्यययोः' इति षत्वं सुटो ।ञपि, तदागमास्तद्ग्रहणेन गृह्यन्ते॑ इति प्रत्ययावयवत्वादिति भावः । सर्वेषामिति । नन्वामीति सप्तमीनिर्देशसामर्थ्यात्तस्मादित्युत्तरस्येति न प्रवर्तते । ततश्च आमि परे प्रकृतेरेव सुडागमो युक्त इति चेन्न, सप्तमीनिर्देशस्य 'त्रेस्त्रयः' इत्युत्तरार्थमावश्यकत्वादिति भावः । सप्तकेम्यवचनस्य ङसिङ्योरिति स्मिन्नादेशं सिद्धवत्कृत्याह — सर्वस्मिन्निति । शेषमिति । शिष्यते इति शेषं । कर्मणि घञ् ।घञजबन्ताः पुंसी॑-ति तु प्रायिकमिति भावः । एवमिति । सर्वशब्दवदित्यर्थः । नच सर्वशब्दस्य बहुत्वव्यापकसर्वत्वात्मकधर्मविशेषप्रवृत्तिनिमित्तकत्वाद्बहुवचनमेव न्याय्यमिति वाच्यं, सर्वशब्दो हि बह्ववयवारब्धसमुदाये वर्तते । तत्र यदाऽनुद्भूतावयवः समुदायो विवक्षितस्तदा भवत्येकवचनम् । यथा-सर्वो लोक इति । अनुद्भूतत्वम्विवक्षितसंख्याकत्वम् । यदात्वनुद्भूतावयवकौ समुदायौ तदा द्विवचनम् । यथा सर्वौ व्यूहाविति । यदा तूद्भूतावयवसमुदायस्तदा बहुवचनम् । यथा सर्वे जना इतचि । अथ के ते सर्वादयः शब्दाः कति च ते इत्यत्राह — सर्वादयश्च पञ्चतिंरशदिति । पञ्च च तिंरशच्चेति द्वन्द्वः, पञ्चाधिका तिंरशदिति शाकपार्थिवादित्वात्तत्पुरुषो वा ।सङ्ख्यायास्तत्पुरुषस्योपसङ्ख्यानां॑मिति डच्तु समासान्तो न भवति ।अन्यत्राधिकलोपा॑द#इत्युक्तेः ।पूर्वपरावरेति — गणान्तर्गतं सूत्रम् ।व्यवस्थायामसंज्ञायां च पूर्वादीनि सप्त सर्वादिगणप्रविष्टानि वेदितव्यानी॑त्यर्थः । सर्वनामसंज्ञा तुसर्वादीनि सर्वनामानी॑त्येव सिध्यति । ॒स्वमज्ञाती॑तिअन्तरं बहि॑रिति च गणसूत्रद्वयमेवमेव योज्यम् । व्यवस्थादिशब्दा अग्ने मूल एव व्याख्यास्यन्ते । इतिशब्दः — सर्वादिगणसमाप्ति-द्योतनार्थः । तत्र विआशब्दोऽपि सर्वशब्दवदेव । उभशब्दे तु विशेषमाह — तत्रेति । सर्वादिषु मध्य इत्यर्थः । अत एवेति । द्वित्विशिष्टवाचकत्वादेवेत्यर्थः । नित्यमिति । सर्वदा द्विवचनान्त एव नत्वेकवचनबहुवचने इति यावत् । तेन टाबादि न निवार्यते । नन्वेवं सति 'जसः शीः' 'सर्वनाम्नः स्मै'ङसिङ्योः स्मात्स्मिनौ॑आमिसर्वनाम्नः सुट् इत्युक्तानां सर्वनामकार्याणां द्विवचनेऽभावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इत्यत आह — तस्येहेति । तस्य=उभशब्दस्य, इह=सर्वादिगणे, पाठस्तु उभकावित्यत्रअव्ययसर्वनाम्नामकच्प्राक्टेः॑ इत्यकच्प्रत्ययार्थ इत्यर्थः । ननु मास्तूभशब्दस्य सर्वादिगणे पाठो, मास्तु च सर्वनामता, मास्तु च तत्प्रयुक्तोऽकच् । उभशब्दात्स्वार्थिके कप्रत्यये सत्यपि उभकाविति रूपसिद्धेः । न च काकचोः स्वरभेदः शह्क्यः । 'तद्धितस्य' इति प्रत्ययस्वरेण वा, 'चितः सप्रकृतेः' इति चित्स्वरेण वाऽन्तोदात्तत्वे विशेषाऽभावात् । उक्तं च भाष्ये — ॒काकचोः॑ को विशेषः ॑ इति । तत्राह — नचेति । कप्रत्ययेन उभकावितीष्टरूपसिद्धिर्नचेत्यन्वयः । कुत इत्यत आह — द्विवचनेति । द्विवचनपरत्वाऽभावे उभशब्दादयच् विहितः । अकचि तु सतितन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति न्यायेन उभशब्देनोभकशब्दोऽपि गृह्रते । तस्य च॒उभक-औ इत्यस्यां दशायां द्विवचनपरत्वादयच्प्रत्ययो न भवति । कप्रत्यये तु सति तस्य उभशब्दात्परतो विहितत्वेन तन्मध्यपतितन्याया.ञप्रवृत्त्या उभकशब्दस्योभशब्देन ग्रहणाऽभावादुभशब्दस्य कप्रत्ययव्यवधानेन द्विवचनपरकत्वाऽभावादयचि उभयकौ इति स्यात् । यथा 'उभयत'उभयत्रे॑त्यत्र द्विवचनपरकत्वाऽभावादयच्प्रत्ययो ।ञस्ति तद्व दित्यर्थः । द्विवचने सति अयच्प्रत्ययो नेति यदभिहितं तत्उभयोऽन्यत्रे॑ति वदता वार्तिककृता उक्तमित्यर्थः । अन्यत्रेत्येततद्व्याचष्टे-अन्यत्र द्विवचनपरत्वाभावे इति । उदाहृतवार्तिके अन्यत्रेत्यनेन द्विवचनादन्यस्मिन् परे इत्यर्थो विवक्षितः,अन्याभावो द्विवचनटाब्विषयत्वा॑दिति पूर्ववार्तिके द्विवचनस्यैव प्रस्तुतत्वादिति भावः । टाब्ग्रहणं तु तत्राविवक्षितमिति कैयटादिषु स्पष्टम् । ततश्च सर्वनामतानिमित्तकाऽकजर्थ उभशब्दस्य सर्वादिषु पाठ इति स्थितम् । अत्र यद्वक्तव्यं तत्तद्धितप्रक्रियायाम्उभादुदात्तो नित्य॑मित्यत्र वक्ष्यते । अथोभयशब्दे विशेषमाह — उभयशब्दस्येति । उभौ अवयवौ यस्यावयविनः स उभयो मणैः । 'उभादुदात्तः' इत्ययच् । अवयववृत्तेः सङ्ख्यावाचिन उभशब्दादवयविन्यर्थेऽयच्प्रत्ययः स्या॑दिति तदर्थः । व्द्यवयवारब्धो मणिरित्यर्थः । मणेरवयविन एकत्वादुभय इत्येकवचनं उभयश्च उभयश्च उभयश्चेत्येवं द्व्यवयवारब्धद्विमणिविवक्षायामुभयौ मणी इति द्विवचनं तु न भवति,उभयोऽन्यत्रे॑त्युदाहृतवार्तिके उभयशब्दस्य द्विवचनान्तादन्यत्रैव प्रयोगविध्यवगमात् । नच तत्र वार्तिके स्वार्थिकायजन्तस्यैवोभयशब्दस्य ग्रहणं, स्वार्थिकायजन्तोभशब्दोपक्रमेणैव तद्वार्तिकप्रवृत्तेरिति वाच्यम्, एतद्वार्तिकव्याख्यावसरेउभयो मणिः॑, 'उभये देवमनुष्याः' इति भाष्ये उदाहृतत्वेन तयप्समानार्थकायजन्तस्यापि तत्र ग्रहणावगमात् । एतदेवाभिप्रेत्यतद्धितश्चासर्वविभक्ति॑रित्यव्ययत्वमुभयशब्दस्य द्विवचनाभावेनाऽसर्वविभक्तित्वेऽपि न भवति,तसिलादयः प्राक्पाशपः॑,शस्प्रभृतयः प्राक् समासान्तेभ्य,॑अम्, 'आम्'कृत्वोऽर्थाः॑, 'तसिवती,' नानाञा॑विति परिगणितत्वादिति कैयटेनोक्तम् । तदाह — कैयट इति । एवंच — उभयः उभये । उभयम्, उभयान् । उभयेन, उभयैः । उभयस्मै, उभयेभ्यः । उभयस्मात्, उभयेभ्यः । उभयस्य, उभयेषाम् । उभयस्मिन्ुभयेषु इत्येव रूपाणि । नतूभयावित्यादिद्विवचनान्तप्रयोग इति सिद्धं भवति । हरदत्त इत्यस्वरसोद्भावनम् । तद्बीजं तूभयोऽन्यत्रेति प्रागुक्तवार्तिकभाष्यविरोध एवेत्यन्यत्र विस्तरः । उभयशब्दाज्जसि सर्वादीनीति नित्यां सर्वनामसंज्ञां बाधित्वा परत्वात्प्रथमचरमतयाल्पार्धकतिपयनेमाश्च॑ इति सर्वनामसंज्ञाविकल्पप्राप्तिमाशङ्क्य परिहरति — तस्मादित्यादिना । तस्मात्ुभेयशब्दात्, जसि सति प्रथमचरमेति विकल्पे प्राप्ते नित्यैव संज्ञा भवतीत्यर्थः ।सर्वादीनीत्यनेने॑ति शेषः । ननु प्रथमचरमादिष्वनन्तर्भावात्कथमुभयशब्दस्य तयप्प्रत्ययान्तत्वमित्यत आह — अयजादेशस्य स्थानिवद्भावेनेति । 'उभादुदात्त' इति सूत्रे सङ्ख्याया अवयवे तयप् इति उभशब्दाद्विहितस्य तयपोऽयजादेशः, तयब्ग्रहणमननुवर्त्त्य अयच् स्वतन्त्रः प्रत्ययो वे॑ति पक्षद्वयं भाष्ये स्थितम् । तत्र प्रथमपक्षाभिप्रायेणात्र सर्वनामसंज्ञाविकल्पशङ्का बोध्या । ननु प्रथमचरमेति वकल्पस्य परत्वात्कथमिहसर्वादीनी॑तिनित्यैव संज्ञेत्यत आह-अन्तरङ्गत्वादिति । तदेवोपपादयत#इ — विभक्तिनिरपेक्षत्वेनेति ।प्रथमचरमे॑ति जसि विकल्पविधिर्जसपेक्षत्वेन विभक्त्यपेक्षत्वाद्बहिरङ्गः ।सर्वादीनी॑ति नित्यसंज्ञाविधिस्तु तदनपेक्षत्वादन्तरङ्गः,अल्पापेक्षमन्तरङ्ग॑मिति न्यायात् । अतोऽत्र परमपिप्रथमचरमे॑ति विकल्पं बाधित्वासर्वादीनी॑ति नित्यैव संज्ञा भवति, परादन्तरङ्गस्य बलीयस्त्वादिति भावः । तथा च शीभावो नित्य इत्याह-उभये इति । ननु डतरडतमशब्दयोः क्वापि प्रयोगादर्शनात्किमर्थस्तयोः पाठ इत्यत आह-डतरडतमौ प्रत्ययाविति ।किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् ।वा बहूनां जातिपरिप्रश्ने डतमच् ।एकाच्च प्राचा॑मिति तद्धिताधिकारविहितौ डतरडतमौ प्रत्ययौ, 'प्रत्ययः' इत्यधिकृत्य तद्विधेः । अतः प्रत्ययग्रहणपरिभाषया डतरग्रहणेन कतरादिशब्दानां, च ग्रहणमिति भावः । शङ्कते — यद्यपीति । सुप्तिङन्तमिति । यदि संज्ञाविधावपि प्रत्ययग्रहणपरिभाषा प्रवर्तेत, तर्हिसुप्तिङ् पद॑मित्येव सूत्र्येत, प्रत्ययग्रहणपरिभाषयैव सुप्तिङन्तमित्यर्थलाभात् । अतः संज्ञाविधौ प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति विज्ञायते । एवंच प्रकृते सर्वनामसंज्ञाविधौ डतरडतमग्रहणे प्रत्ययग्रहणपरिभाषानुपस्थानात्कथं तदन्तग्रहणमित्याक्षेपः । परिहरति — तथापीति । अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावेऽपीह सर्वनामसंज्ञाविधौ डतरडतमग्रहणे तदन्तग्रहणस्त्येवेत्यर्थः । कुत इत्यत आह — केवलयोरिति ।न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलः प्रत्ययः॑ इति न्यायेन केवलप्रत्यययोर्डतरडतमयोः प्रयोगानर्हत्वेन तयोः सर्वनामसंज्ञायां फलाऽभावादित्यर्थः । तस्माड्डतरडतमग्रहणेनात्र कतरकतमादिशब्दानां ग्रहणमिति स्थितम् । ननु डतरग्रहणेनैव सिद्धे सर्वादिगणे ।ञन्यतरशब्दपाठो व्यर्थः । अन्यतमशब्दस्यापि डतमप्रत्ययान्तत्वात्सर्वनामत्वापत्तिश्चेत्यत आह — अन्यतरान्यतमशब्दावव्युत्पन्नाविति । डित्थादिशब्दवत्प्रकृतिप्रत्ययविभागविहीनावित्यर्थः । किंयत्तदेकेभ्य एव डतरडतमविधानादिति भावः । नन्वेवं सत्यन्यतरान्यतमशब्दाभ्यां द्वबहुनिर्धारणावगमः कथमित्यत आह — स्वभावादिति । एवंचान्यतमशब्दस्य न सर्वनामत्वमित्याह — तत्रेति । एतयोर्मध्ये इत्यर्थः । अन्यतरशब्दस्य तु डतरडतमविधानादिति भावः । नन्वेवं सत्यन्यतरान्यतमशब्दाभ्यां द्विबहुनिर्धारणावगमः कथमित्यत आह — स्वभावादिति । एवंचान्यतमशब्दस्य न सर्वनामत्वमित्याह — तत्रेति । एतयोर्मध्ये इत्यर्थः । अन्यतरशब्दस्य तु डतरप्रत्ययान्तत्वाऽभावेऽपि सर्वादिगणे पाठादेव सर्वनामत्वमित्युक्तप्रायम् । अत 'त्व'त्वे॑त्येकप्रातिपदिकभ्रमं वारयन् अप्रसिद्धार्थत्वाद्व्याचष्टे — त्व त्व इति द्वावप्यदन्तावन्यपर्यायाविति । अन्यशब्दसमानार्थकावित्यर्थः । द्वयोरप्यदन्तत्वे ।ञन्यतरपाठवैयथ्र्यं परिहरति-एक इति । इत्येके इति । इति कतिपये वृत्तिकृदादयो मन्यन्त इत्यर्थः । 'एतं त्वं मन्ये' इत्युदात्तत्वस्य 'उत त्वः पश्यन्' इत्यादावनुदात्तत्वस्य च ऋग्वेदे दर्शनादिति भावः । एकस्तान्त इति । संहितापाठेत्व॑दिति च्छेदमाश्रित्य प्रथमस्तकारान्तः, द्वितीयोऽदन्त इत्यपरे मन्यन्त इत्यर्थः । अन्यथा एकश्रुत्या वा स्वरविनिर्मुक्त वा सकृदेव पठेत्, तावतैव द्वयोरपि लाभात्,त्वत्त्वसमसिमेत्यनुच्चानी॑ति फिटसूत्राच्च ।स्तरीरु त्वद्भवति, सूत उ त्वत् इति ऋग्व्याख्यावसरे वेदभाष्येत्व॑दिति सर्वादिपठितोऽनुदात्तोऽयमन्यपर्यायः॑ इत्युक्तत्वाच्च ।त्वदधरमधुरमधूनि पिबन्त॑मिति जयदेवप्रयोगाच्च । तत्र हि त्वच्छब्दो ।ञन्यपर्यायः । त्वतोऽधर इति विग्लरहः । अन्यस्या अधर इत्यर्थः । नतु तवाधर इति विवक्षितं,पश्यति दिशि दिशि रहसि भवन्तम् इति पूर्ववाक्येनाऽन्वयानुपपत्तेः । नेम इत्यर्धे इति । 'वर्तते' इति शेषः ।प्र नेमस्मिन् ददृशे सोमो अन्तः॑ इत्यृचि तथा दर्शनादिति भावः । सम इति । सर्व शब्दसमानार्थक एव समशब्दः सर्वादिगणे पठित इत्यर्थः । तुल्यपर्यायस्त्विति । तुल्यशब्दसमानार्थक इत्यर्थः । ज्ञापकादिति । अन्यथा तत्र समेषामिति निर्दिशेदिति भावः । ननु अष्टाध्यायीपठितेअन्तरं बहिर्योगोपसंव्यानयोः॑ इति जसि सर्वनामसंज्ञाविकल्पविधायके सूत्रेअपुरीत वक्तव्य॑मिति वार्तिकपाठो भाष्ये दृश्यते । एवंचान्तराः पुर्य इत्यत्र जसि सर्वनामसंज्ञानिषेधेऽपि,अन्तरायां पुरी॑त्यत्र तन्निषेधा.ञबावादन्यतरस्यामिति स्यादित्यत आह — गणसूत्र इति । यद्यपीदं वार्तिकं जसि विकल्पविधिप्रकरणे पठितं तथाप्यन्तरं बहिरितिगणसूत्रस्यैवायं शेषो, नत्वष्टाध्यायीपठितस्या.ञन्तरं बहिरित्यस्य जसि विधायकस्य शेषः,जसश्शी॑त्यत्र अत इत्यनुवृत्त्या टाबन्तात्तत्प्राप्तिविरहात् । ततश्च पुर्यां विशेष्यभूतायामन्तरशब्दः सर्वादिगणे पाठं न लभते इत्येतद्वार्तिकार्थः पर्यवस्यति । एवञ्चजसोऽन्यत्रापि अन्तरशब्दस्य पुर्यां विशेष्यभूतायां सर्वनामत्वं नेति लभ्यते । अतोऽन्तरायां पुरीत्यादौ सर्वनामकार्यं स्याडादि न भवतीत्यभिप्रेत्योदाहरति — अन्तरायां पुरीति । यद्यप्यन्तरशब्द एव सर्वादिगणे पठितो, नतु टाबन्तः । तथापि लिङ्गविशिष्ट परिभाषया वा, एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वनामत्वप्राप्तिर्बोध्या । 'सिम' शब्दस्तुसिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः॑ इति कोशे प्रसिद्धः ।", "71053": "<<त्रेस्त्रयः>> - त्रेस्त्रयः । 'आमि सर्वनाम्नः' इत्यतआमी॑त्यनुवर्तते । तदाह — त्रिशब्दस्येति । अनेकाल्त्वात्सर्वादेशः । नुट् दीर्घश्च । तदाह — त्रयाणामिति । 'त्रेरयङ्' इति तु नोक्तम्, अयङ् अनङित्यादिवन्ङकारात्पूर्वस्याऽकारस्योच्चारणार्थत्वाशङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् । 'पदाङ्गाधिकारे' इति परिभाषयात्रे॑रिति तदन्तग्रहणमित्यभिप्रेत्योदाहरति — परमत्रयाणामिति । परमाश्च ते त्रयश्चेति विग्रहः । प्रियास्त्रयो यस्येति प्रियत्रिशब्दो बहुव्रीहिः । तस्यान्यपदार्थप्रधानत्वादेकद्वि बहुवचनानि सन्ति । अतो हरिवत्तस्य रूपाणि ।तत्र त्रयादेशमाशह्क्याह — गौणत्वे त्विति । त्रिशब्दस्योपसर्जनत्वे 'त्रेस्त्रयः' इति न भवतीति केचिदाहुरित्यर्थः ।गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः॑ इति न्यायादिति भावः । वस्तुतस्त्विति ।प्रियत्रयाणा॑मित्येव रूपं वस्तुत्वेन ज्ञेयमित्यर्थः । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एव प्रवृत्तेः । अत एवोपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव चप्रियतिसे॑त्यादौ त्रिरुआआदयो भाष्ये उदाहृताः सङगच्छन्त इत्यन्यत्र विस्तरः ।अथ द्विशब्दे विशेषमाह — द्विशब्द इति । तस्य द्वित्वनियतत्वादिति भावः ।", "71054": "<<ह्रस्वनद्यापो नुट्>> - तदाह — ह्रस्वान्तादित्यादिना 'आम्' अत्र षष्ठीबहुवचनमेव, नतुङेरा॑मित्यादिविहितमिति भाष्ये स्पष्टम् । नुटि टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः ।", "71055": "<<षट्चतुर्भ्यश्च>> - षट्चतुभ्र्यश्च । षट्चतुभ्र्य इति पञ्चमी । 'आमि सर्वनाम्नः' इत्यत आमीत्यनुवृत्तं षष्ठ्या विपरिणम्यते । षडिति षट्संज्ञकं गृह्रते । नतु षट्शब्दः,कृत्रिमाकृत्रिमयो॑रिति न्यायात् । तदाह षट्संज्ञकेभ्य इत्यादिना । नुटि टकार इत्, उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । णत्वमिति ।रषाभ्या॑मित्यनेने॑ति शेषः । द्वित्वमिति ।अचो रहाभ्या॑मिति णकारस्ये॑ति शेषः । द्वित्वस्याऽसिद्धत्वात्पूर्वं णत्वे कृते ततो णस्य द्वित्वम् । नचपूर्वत्रासिद्धमद्विर्वचने॑ इनि निषेधः शङ्क्यः, द्वित्वे कर्तव्ये अन्यदसिद्धं नेति हि तदर्थः । न तु द्वित्वस्याऽप्यसिद्धत्वं नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भावः । चतुर् सु इति स्थिते रेफस्य विसर्गे प्राप्ते- ।", "71056": "", "71057": "", "71058": "<<इदितो नुम् धातोः>> - इदितः । इत् = ह्रस्व इकारः, इत् = इत्संज्ञको यस्य स इदित्, तस्येति विग्रहः । इत्संकेदनतधातोरित्यर्थः । तेन चक्षिङादौ न दोषः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । स्कुन्दत इति ।नश्चापदान्तस्ये॑त्यनुस्वारः परसवर्णः । चुस्कुन्द इति । लिटि द्वित्वे 'शर्पूर्वाः खयः' इत्यभ्यासे ककारः शिष्यते ।कुहोश्चु॑रिति तस्य कुत्वेन चकारः । इआदीति । औत्यं — औत्यकरणम् । अकर्मक इति । औत्यस्य धात्वर्थेनोपसङ्ग्रहादिति भावः । ततश्चआन्दयति देवदत्तं यज्ञदत्त॑ इत्यादौगतिबुद्धिप्रत्यवसाने॑त्यादिनाऽकर्मककार्यं द्वितीया भवति । ओतीभवनं वा औत्यम् । इआन्दत इति । ओतीभवतीत्यर्थः । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । तत्कारणभूतो व्यापारः — प्रणामादिरभिवादनम् । वन्दत इति । इदित्त्वान्नुम् । भदीति । कल्याणं — शुभक्रिया । सुखं — सुखीभावः । भन्दत इति । इदित्त्वान्नुम् बभन्द इति । अभ्यासे भकारस्य जश्भावेन बकारः । मदीति । मोदः — सन्तोषः । मदः — गर्वः । मन्दत इति । इदित्त्वान्नुम् । ममन्द इति । नुमि सति संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ नेति भावः । स्पदीति । अकर्मकः । स्पन्दत इति । इदित्त्वान्नुम् । पस्पन्द इति । 'शर्पूर्वाः खयः' इत्यभ्यासे पकारः शिष्यते । क्लिदीति । परिदेवनशब्दं व्याचष्टे — शोक इति । स्मृत्वा क्लेशः — शोकः । तदाह — सकर्मक इति । क्लिन्दते चैत्रमिति । अतीतं चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः । इदित्त्वान्नुम् । चिक्लिन्द इति । अभ्यासे ककारस्य चुत्वेन चकार इति भावः । मुदेति । हर्षः — तुष्टिः । मोदत इति । शपि लघूपधगुणः । मुमुद इति ।असंयोगल्लिट्कि॑दिति कित्वान्न गुणः । ददेति । न ममेति त्यागो दानं, न तु द्रव्यत्यागः । तथा सति धात्वर्थौपसङ्ग्रहादकर्मकत्वापत्तेः ।", "71059": "<<शे मुचादीनाम्>> - अचि विभाषा ।ग्रो यङी॑त्यतो ग्र इत्यनुवर्तते । 'कृपो रो लः' इत्यतो रो ल इति । तदाह — गिरतेरिति । अजादाविति ।धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेतिमृजेर्वृद्धि॑रिति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति । ह्रस्वान्तोऽयम् ।उश्चे॑ति कित्त्वान्न गुणः । आदृतेति ।ह्रस्वादङ्गा॑दिति सलोपः । प्रच्छ ज्ञीप्सायामिति । ज्ञातुमिच्छा - ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात्परत्वेन कित्त्वाऽभावान्न संप्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति म्तवाह — पप्रच्छिथ पप्रष्ठेति । इडभावपक्षे व्रश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति । सूत्रे सतुक्कस्य छस्य ग्रहणात् । किरादयो वृत्ता इति । नचैवं सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहणं व्यर्थं, किरादीनां पञ्चत्वादिति वाच्यं, स्यरुदादिभ्यः सार्वधातुके॑ इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट् । सृजति.ससर्ज । ससृजतुः । अजन्ताऽकारवत्त्वाऽभावेऽपिविभाषा सृजिदृशो॑रिति थलि वेडिति मत्वाह — ससर्जिथ सरुआष्ठेति । इडभावेव्रश्चे॑तिजस्यषः, थस्य ष्टुत्वेन ठः, पित्त्वेनाऽकित्त्वात्सृजिदृशो॑रित्यमागम इति भावः । ससृजिव । टु मस्जो । मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममङ्क्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थेति स्तितेस्को॑रिति सकारलोपे ममज् थ इतिस्थिते जस्य कुत्वेन गकारे,मस्जिनशो॑रिति नुमि, तस्यानुस्वारे, तस्य परसवर्णो ङकारः, गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात्परत्र नुमि सत्यपि इदं सिध्यति, तथापिअन्त्यात्पूर्वो नु॑मित्यस्य॑ 'मग्न' इत्यादौ नलोपः फलम् । अन्यथा उपधात्वाऽभावान्नस्य लोपो न स्यादिति भावः । एवं - मङ्क्तेति । मङक्ष्यतीत्यत्र तु सस्य षत्वं विशेषः । 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः ।अनुदात्तस्य चर्दुपधस्ये॑त्यम्विकल्पं मत्वाह - स्प्रष्टा स्पर्ष्टेति । णुद प्रेरणे । णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'सद्लृ शातने' इत्यन्ता अनिटः । तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्यमेवेट् । मृशेः 'अनुदात्तस्य चे' त्यम्विकल्पः । तदाह - अम्राक्षीत् - अमर्क्षीदिति ।स्पृशमृशे॑ति सिज्वेति भावः । सिजभावेशल इगुपधा॑दिति क्सं मत्वाह — अमृक्षदिति । णुदधातुर्णोपदेशः । ननु तनादिगण एवाऽस्मिन्स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह - कत्र्रभिप्रायेऽपीति । षद्लृधातोर्भ्वादौ पठितादेव सीदतीत्यादिसिद्धेरिह पाठो व्यर्थ इत्यत आह - इह पाठ इति । सीदन्तीति । शविकरणाच्छत्रन्तान्ङीपिआच्छीनद्यो॑रिति नुम्विकल्पार्थ इह पाठ इत्यर्थ- । भ्वादावेव पाठे तुशप्श्यनोर्नित्य॑मिति नित्यो नुम् स्यादिति भावः ।तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह - ज्वलादाविति । 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाहृत्य दर्शयति - साद इति । उभयत्र पाठस्य फलान्तरमाह - स्वरार्थश्चेति । तदेव विशदयति - शबनुदात्तैति ।अनुदात्तौ सुप्पितौ॑ इति पित्स्वरेणेति भावः । शस्तूदात्त इति । 'प्रत्ययः'आद्युदात्तश्चे॑त्यनेनेति भावः । ननु 'शद्लृ शातने' इत्स्य भ्वादौ पाटादेव सिद्धे इह पाठो व्यर्थ इत्यत आह - स्वार्थ एवेति । प्रागुक्तपित्त्वाऽपित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । मुच्लृ मोक्षणे ।", "71060": "<<मस्जिनशोर्झलि>> - नुम् स्यादिति ।इदितो नु॑मित्यतस्तदनुवृत्तेरिति बावः । ननंष्ठेति । व्रश्चादिषत्वम् । ष्टुत्वम् । प्रणश्यतीति ।उपसर्गादसमासे॑इति णत्वम् ।", "71061": "<<रधिजभोरचि>> - रधिजभोः ।रध हिंसाया॑मिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — एतयोरिति । अनिदित्त्वान्नुम्विधिः । जम्भत इति । शपि नुम् ।जम्भिते॑त्यादाविटि अच्परकत्वान्नुम् । अचि किम् । रद्धा । जब्धम् । श्रम्भु इति । अकारमध्यः । ष्टुभु स्तम्भ इति । ष्टुत्वेन तकारस्य टः । षोपदेशोऽयम् । विष्टोभत इति ।उपसर्गात्सुनोती॑ति षत्वम् । व्यष्टोभिष्टेति ।प्राक्सितादड्व्यवायेऽपी॑ति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः । गुपू रक्,ण इति । ऊदिदयम् ।", "71062": "<<नेट्यलिटि रधेः>> - नेटलिटि रधेः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — लिड्वर्जे इटीति । अङित्विति । पुषाद्यङि कृते सतीत्यर्थः । अरधदिति ।मो अहं द्विषतेऽरधम् ।॑ णश अदर्शने इति । णोपदेशोऽयं सेट् ।रधादिभ्यश्चे॑ति वट् । तत्र इट्पक्षे आह — नेशिथेति ।थलि च सेटी॑त्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे ननश्- थ इति स्थिते —", "71063": "<<रभेरशब्लिटोः>> - रभेरशब्लिटोः ।इदितो नुम्धातोरित्यतो नुमिति ।रधिजभोरची॑त्यतोऽचीति चानुवर्तते । तदाह — रभेर्नुमित्यादि ।", "71064": "<<लभेश्च>> - लभेश्च । लभेरपि नुम् स्यादचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः । अररम्भदिति । नुमि कृते संयोगपरत्वेन अकारस्य लघुत्वाऽभावान्न सन्वत्त्वमिति भावः ।हि गतौ वृद्धौ चे॑त्यस्माच्चङिअजीहय॑दित्यत्रहेरचङी॑ति हकारस्य कुत्वं नेत्याह — हेरचङीति ।अत्स्मृदृत्वरे॑ति सूत्रं चुरादौ 'प्रथ प्रख्याने' इति धातौ व्याख्यातम् । असस्मरदिति । अत्र 'सन्यतः' इतीत्त्वे प्राप्ते अत्त्वम् । अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक् । संयोगपरत्वेन लघुत्वाऽभावान्नाऽभ्यासदीर्घः । अददरदिति । 'दृ विदारणे' इत्यस्य रूपम् । अत्रापि 'सन्यतः' इत्यस्यापवादोऽयम् । दीर्घमाशङ्क्याह — तपरत्वसामर्थ्यादिति । अतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् ।", "71065": "<<आङो यि>> - आङो यि ।इदितो नुम् धातो॑रित्यतो नुमिति,लभेश्चे॑त्यतो लभेरिति चाऽनुवर्तते । तदाह — आङः परस्येति । विवक्षिते इति । 'यी' इति विषयसप्तमीति भाष्ये स्पष्टम् । 'विवक्षिते' इत्यस्य प्रयोजनमाह — नुमि कृते इति । यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाऽभावाद्यत्प्रत्ययस्याऽप्रवृत्तेण्र्यदेवेत्यर्थः ।यति परे नु॑मित्यर्थे तु अदुपधत्वाद्यदेव स्यान्नतु ण्यदिति भावः । आलम्भ्यो गौरिति । यद्यपि यण्ण्यतोर्न रूपभेदस्तथापि ण्यति कृतेतित्स्वरित॑मिति स्वरितत्वम्, यति तु 'यतोऽनावः' इत्याद्युदात्तत्वमिति स्वरभेदः फलम् ।", "71066": "<<उपात् प्रशंसायाम्>> - उपात्प्रशंसायाम् । उपात्परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः । उपलम्भ्यः साधुरिति । समीपे प्राप्य इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृते अदुपधत्वाऽभावाण्ण्यदेव । स्वरे विशेषः पूर्ववत् ।", "71067": "", "71068": "", "71069": "<<विभाषा चिण्णमुलोः>> - विभाषा चिण्णमुलोः ।लभेश्चे॑त्यतो लभेरिति,इदतो नु॑मित्यतो नुमिति चानुवर्तते इति मत्वा शेषं पूरयति — लभेर्नुमागमो वेति । ननु प्रालम्भि उपालम्भीत्यादौ उपसर्गपूर्वस्यापि लभेर्नुम्विकल्पः स्यादित्यत आह — व्यवस्थितेति । प्रादेरुपसर्गात्परस्य लभेर्नित्यं नुम्, अनुपसर्गात्परस्ये॑ति वार्तिकात्, भाष्ये 'उपसर्गात् खल्घञो' रित्यतौपसर्गादितिन सुदुभ्र्या॑मित्यतो नेति चानुवर्त्त्य उपसर्गात्परस्य लभेःविभाषा चिण्णमुलो॑रिति नेति व्याख्यातम् । एतेन प्रपूर्वस्य लभेर्नित्यं नुमिति व्याख्यानं परास्तम् ।लः कर्मणी॑ति लकाराविहिताः, तथातयोरेवे कृत्यक्तखलर्थाः॑ इति कर्मणि कृत्यादिप्रत्यया वक्ष्यन्ते । ते तावद्द्वकर्मकधातुषु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह — द्विकर्मकाणां त्विति ।कर्मप्रत्ययव्यवस्था वक्ष्यतेट इति शेषः । तां व्यवस्थां साद्र्धश्लोकेन दर्शयति — गौणे कर्मणीत्यादिना । दुह्राच्पच्दण्ड्रुधिप्रच्छिचिब्राऊशासुजिमथ्मुषां गौणे कर्मणि लादयो मता इत्यन्वयः ।अकथितं चे॑ति सूत्रेण यस्य कर्मसंज्ञा तद्गौणं कर्मेति बोध्यम् । प्रधाने इति । नीह्मकृष्वहां प्रधाने कर्मणि लादयो मता इत्यन्वयः ।अकथितं चे॑ति सूत्रादन्येन यस्य कर्मसंज्ञा तत्प्रधां कर्मेति बोध्यम् । अथगतिबुद्धी॑ति सूत्रेण ये द्विकर्मकास्तेषु व्यवस्तामाह — बुद्धीति । बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणां च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वयः । इहगतिबुद्धी॑त्यनेन यस्य कर्मसंज्ञा तद्गौणं कर्म । तदितरत्तु प्रधानं कर्म । प्रयोज्येति । अन्येषां = गत्यर्थानामकर्मकाणांह्मक्रो॑रिति सूत्रोपात्तह्मकृञोश्च प्रयोज्यकर्मणि लादयो मता इत्यन्वयः । अयं साद्र्धश्लोकःअकथितं चे॑ति सूत्रस्थवार्तिकभाष्यसङ्ग्रह इति बोध्यम् । गौर्दुह्रते पय इति ।गोपेने॑ति शेषः । अत्र गोरप्रधानकर्मत्वात्तस्मिन् कर्मणि लकारः । तिङाऽभिहितत्वाद्गोः प्रथमा । प्रधानकर्मत्वात्पय इति द्वितीयान्तं, तस्य तिङाऽनभिहितत्वात् । बलिर्याच्यते वसुधाम् । अविनीतो विनयं याच्यते । तण्डुला ओदनं पच्यन्ते । गर्गाः शतं दण्डन्ते । व्रजो रुध्यते गाम् । माणवकः पन्थानं पृच्छ्यते । वृक्षोऽवचीयते फलानि । माणवको धर्ममुच्यते, शिष्यते वा । शंत जीयते देवदत्तः । सुधां क्षीरोदधिर्मथ्यते । देवदत्तः शतं मुष्यते । एतेषु गौणकर्मण लकारः । अथप्रधाने नीह्मकृष्वहा॑मित्यत्रोदाहरति — अजा ग्रामं नीयते इत्यादि । प्रतिक्रियमजा ग्राममित्यन्वेति । उह्रत इत्यत्र वहतेर्यजादित्वात्संप्रसारणम् । अत्र अजायां प्रधानकर्मणि लकारः, ग्रामस्याऽनभिहितत्वाद्द्वितीया । बुद्ध्यर्थस्योदाहरति — बोध्यते माणवकं धर्मः, माणवको धर्ममिति वेति ।गुरुणे॑ति शेषः । अत्र माणवके गौणकर्मणि, धर्मे वा प्रधानकर्मणि ण्यन्ताल्लकारः । भक्षार्थस्य तु अश्यन्ते देवा अमृतं हरिणा, अश्यतेऽमृतं देवानिति वा उदाहार्यम् । शब्दकर्मस्य तु वेदोऽध्याप्यते विधैं हरिणा, वेदमध्याप्यते विधिरिति वेत्युदाहार्यम् । यदुक्तंगत्यर्थानामकर्मकाणां ह्मकृञोश्चेत्येतेषां प्रयोज्यकर्मणि लकार॑ इति । तत्र गत्यर्थस्योदाहरति — देवदत्तो ग्रामं गम्यते इति ।यज्ञदत्तेने॑ति शेषः । अत्र प्रयोज्यकर्मणि देवदत्ते गमेण्र्यन्ताल्लः । ननु अकर्मकाणां ण्यन्तानां प्रयोज्यकर्मण्येव लादय इति वयवस्था व्यर्था । तत्र प्रयोज्यं विना अन्यस्य कर्मण्योऽभावादित्याशङ्क्यअकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्य॑मिति वार्तिकेन अकर्मकधातू#आनमपि देशकालादिकर्मत्वेन ण्यन्तानां तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति व्यवस्था प्रयोजनवतीत्यभिप्रेत्य 'मासमास्यते माणवक' इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लो, न तु मासे कर्मणीत्युदाहरिष्यते । एवं तर्हि अण्यन्तेष्कर्मकेषुमासमास्यते देवदत्तेने॑ति भावे लकारो न स्यात्,सकर्मकेभ्यः कर्मणि कर्तरि च ल॑ इति नियमात् ।मास आस्यते देवदत्तेने॑त्येव कर्मणि लकारः स्यादित्याशङ्क्य आह — अकर्मकाणामित्यादि.ये अकर्मकाःकर्तुरीप्सिततमं कर्म॑,तथायुक्तं चानीप्सित॑मिति सूत्रसिद्धकर्मरहिताःआस उपवेशने॑, 'वृतु वर्तने' इत्यादयः, तेषाम्अकर्मकधातुभिर्योगे॑ इति वार्तिकसिद्धकर्मणां कर्मणि भावे च लकार इष्यते इत्र्थः । न चेदं वार्तिकमिति भ्रमितव्यं, भाष्ये अदर्शनात् । किंतु न्यायमूलकमेव, अकर्मधातुभिर्योगे देशकालादीनां कर्मसंज्ञाविकल्पस्य भाष्याद्यभिमतत्वात् । यथा चैतत्तथा कारकाधिकारेअकर्मकधातुभिर्योगे॑ इति वचनव्याख्यावसरे अवोचाम । तदाह — मासो मासं वा आस्यते देवदत्तेनेति । अत्र मासस्य कर्मत्वपक्षे कर्मणि लकारः, मासस्याऽभिहितत्वात्प्रथमा । मासस्य कर्मत्वाऽभावपक्षे तु भावे लकारः । मास इति सप्तमी । मासमिति त्वपपाठः । अथ प्रकृतनुमसरति — णिजन्तात्त्विति । आसधातो प्रकृतिसिद्धकर्मरहितत्वेन अकर्मकाण्णौ मासस्य कर्मत्वपक्षेऽपि प्रयोज्यकर्मण्येव लकार इत्यर्थः । मासमास्यते माणवक इति । ण्यन्तात्प्रयोज्यकर्मणि माणवके लः । मासस्याऽनभिहितत्वाद्द्वितीया । ह्मकोस्तु हार्यते वा भृत्यः कटं देवदत्तेन । इति भावकर्मप्रक्रिया ।अथ भावकर्मार्थाः । — — — — — -", "71070": "<<उगिदचां सर्वनामस्थानेऽधातोः>> - उगिदचाम् ।अधातो॑रितिच्छेदः । उक् इत् येषां ते उगितः । 'अच्' इति च लुप्तनकारस्य 'अञ्चु गतिपूजनयोः' इति धातोग्र्रहणम् । अधातोरित्युगिद्विशेषणम् । न त्वञ्चतेः, असंभवात् ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — अधातोरुगित इत्यादिना । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । अजिति अच्प्रत्याहारो न गृह्रते, व्याख्यानात्, 'नपुंसकस्य झलचः' इत्यज्ग्रहणाच्च । अन्यथाउगिदचा॑मित्येव सिद्धे तद्वैयथ्र्यात् । वृद्धिर्गुण इत्यादिनिर्देशाच्च । अधातोरित्येतत्तु अग्रे गोमच्छब्दनिरूपणावसरे मूल एव व्याख्यास्यते । तत्प्रयोजनं च तत्रैव वक्ष्यते । उपधादीर्घ इति । मघवन् त् स् इति स्थिते हल्ङ्यादिना सुलोपे संयोगान्तलोपे च सतिसर्वनामस्थाने चे॑ति दीर्घ इत्यर्थः । नन्विह दीर्घे कर्तव्ये संयोगान्तलोपपस्याऽसिद्धत्वान्नान्तत्वाऽभावात् पचन्नित्यादाविव दीर्घो न संभवतीत्यत आह-दीर्घे कर्तव्य इति । बहुलग्रहणादिति ।क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्यलोके विज्ञेयमेतद्बहुलग्रहेतु॥॑ इति स्थितिः । अत्र दीर्घे कर्तव्ये संयोगान्तलोपस्य न#आसिद्धत्वम् । पचन्नित्यादौ त्वसिद्धत्वमेवेति बहुलग्रहणाल्लभ्यत इत्यर्थः । ननु त्रादेशपक्षे मघवन्नित्येवास्तु, बहुलग्रहणाल्लभ्यत इत्यर्थः । ननु त्रादेशपक्षे मघवन्नित्येवास्तु, बहुलग्रहणेन संयोगान्तलोपस्यासिद्धत्वाऽभावकल्पनायां प्रमाणाऽभावात् । वेदे तु यज्ञेन मघवानित्यादौ दीर्घश्छान्दसो भविष्यतीत्यत आह-तथा चेति । त्रादेशपक्षे संयोगान्तलोपस्याऽसिद्धत्वाभावमब्युपगम्यैवेत्यर्थः । निपातनादिति । कनि प्रत्ययस्य,अवुगागमस्य, घत्वस्य इति त्रयाणां निपातनादित्यर्थः । तथा च नान्तो मघवन्शब्दः सिध्यतीति भावः । मघशब्दादिति । धनपर्यायादित्यर्थः । मघो धनमस्यास्तीत्यर्थे मतुपि॑मादुपधायाश्चे॑ति वत्वे तान्तो मघवच्छब्दः सिद्ध इति भावः । भाषायामपीति । लोके छन्दसि च इत्यर्थः । शब्दद्वयेति । मघवन्शब्दो मघवच्छब्दश्चेति शब्दद्वयंमघवा बहुल॑मित्यस्य फलम् । तस्य सिद्धिमाश्रित्येत्यर्थः । आकर इति । 'केशाद्वः' इति सूत्रे कैयटग्रन्थ इत्यर्थः । तत्र ह्रेवमुक्तं॑-॒मघवा बहुल॑मित्येतन्न कर्तव्यम् ।आन्नुक्ष॑न्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वस्य सिद्धत्वा॑दिति । त्रादेशपक्षे संयोगान्तलोपस्याऽसिद्धत्वाद्दीर्घाऽभावाश्रयणे मघवन्निति रूपम् । मतुपि तुअत्वसन्तस्ये॑ति दीर्घे मघवानिति रूपमिति रूपभेदापत्त्या तदसङ्गतिः स्पष्टैवेति भावः । वस्तुतस्तु कन्यन्तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्, मतुपि तुह्रस्वनुड्भ्यां मतु॑विति मतुबुदात्तत्वस्य न गोआ॑न्निति प्रतिषेधे सति पित्त्वादनुदात्तत्वे घकारादकारस्य फिट्स्वरेण उदात्तत्वमिति फलभेदात् कैयटग्रन्थश्चिन्त्य एव । मघवानिति दीर्घः शिष्टसंमतश्चेत्याह — हविरिति । मखेषु यज्ञेषु निश्शङ्कः असौ मघवान् हविर्जक्षिति=भक्षयतीत्यर्थः । मघवन्तावित्यादि । सुटि त्रादेशो नुम्चेति भावः । शसादौ त्रादेशो, नतु नुम्, अरुआवनामस्थानत्वादित्यभिप्रेत्याह — मघवत इति । मघवद्भ्यामित्यादि । त्रादेशे 'स्वादिषु' इति पदत्वाज्जश्त्वम् । सुपि त्रादेशे जश्त्वे चर्त्वे मघवत्सु । तृत्वाऽभावे मघवेति । नान्तात्सौ राजवद्रूपमिति भावः । ननुमघवा बहुल॑मिति सूत्रेअर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत् इति वार्तिकभाष्यकैयटेषु मघवन्शब्दस्य छन्दोमात्र विषयत्वावगमात्कथं तस्य लोके प्रयोग इत्यत आह — छन्दसीवनिपावित्यादि ।तदस्यास्त्यस्मिन्निति मतु वित्यधिकारेकेशाद्वोऽन्यतरस्या॑मिति सूत्रे॒छन्दसीवनिपौ चे॑ति वार्तिकम् । छन्दसि ईवनिपौ च वक्तव्यौ, वश्च मतुप्च ।रथीरभून्मुद्घलानी गविष्टौ, सुमङ्गलीरियं वधूः, ऋतवानं मघवानमीमहे॑ इति तत्र भाष्यम् । तत्र वनिप्प्रत्ययान्ते मघवन्शब्दे प्रत्ययस्वरेण वकारादकार उदात्तः । मघशब्दः फिट्स्वरेणान्तोदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति शिष्टस्वरेण मकारादकारो, वकारादकारश्चानुदात्तः ।उदात्तादनुदात्तस्य स्वरितः॑ इति वकारादकारः स्वरितः । तथाच मघवन्निति रूपं मध्योक्षतं संपद्यते । एतादृशमघवन्शब्दविषयकं छान्दसत्वाभिधानम् । कन्यन्ते तु मघवन्शब्दे वकारादकारः प्रत्ययस्वरेणोदात्तः । शिष्टस्वरेण मकारादकारो घकारादकारश्चाऽनुदात्तौ । तथा च मघवन्निति रूपमन्तोदात्तमिति स्थितिः । एतादृशमघवन्शब्दस्तु लोकवेदसाधारणः, तस्य छन्दोमात्रविषयत्वे प्रमाणाऽभावात् । किं चवनो र चे॑ति सूत्रे भाष्यं-॒मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिक॑मिति । अयमपि मघवन्शब्दः फिट्स्वरेणान्तोदात्तो लोकवेदसाधारण एव, छन्दोमात्रविषयत्वे प्रमाणाऽभावादिति भावः । शब्दरत्ने तुन शिष्टं छान्दसं हि तत् इत्युदाहृतभाष्यवार्तिकयोः सामान्यप्रवृत्तयोर्मध्योदात्तमात्रविषयसङ्कोचे प्रमाण#ं न किञ्चिदस्ति । कविप्रयोगाणां तुत तस्थिवांसंनगरोपकण्ठे॑ इत्यादिविषये बहुशः प्रमाददर्शनात्तेषामपि नार्षवचनसङ्कोचकता । अतो मघवन्शब्दस्य सर्वस्यापि लोकेऽसाधुत्वमेवेति प्रपञ्चितम् । सुटि राजवदिति । तृत्वाऽभावपक्षे नान्तत्वाद्दीर्घ इति भावः ।", "71071": "<<युजेरसमासे>> - औङः श्याम् 'आच्छीनद्योः' इति विकल्पे प्राप्त — शप्श्यनोर्नित्यम् । 'आच्छीनद्योर्नुम्' इत्यनुवर्तते । 'नाभ्यस्ताच्छतुः' इत्यतः शतुरित्यनुवर्तते । अवयव इति चाध्याह्यियते । तदाह — शप्श्यनोरादित्यादिना । पचन्ती इति । औङः श्यां नुमि रूपम् । पचन्तीति । जश्शसोः शौ सर्वनामस्थानत्वान्नुमि रूपम् । दीव्यदिति । दिवुधातोर्लटः शतरि श्यन् ।हलि चे॑ति दीर्घः दीव्यच्छब्दात्स्वमोर्लुगिति भावः । दीव्यन्ती इति । औङः श्यां नुमि रूपम् । 'शप्श्यनोः' इति नित्यं नुमिति भावः । दीव्यन्तीति । जश्शसोः शौ सर्वनामस्थानत्वान्नुमिति भावः । इति तान्ताः । अथ पान्ताः । स्वबिति । सु=शोभनाः आपो यस्मिन् सरसीति बहुव्रीहिः । 'ऋक्पूरब्धूः' इति समासान्तस्तु न भवति, ' न पूजनात्' इति निषेधात् ।द्व्यन्तरुपसर्गेभ्योऽप ई॑दिति न भवति, तत्र 'अप' इति कृतसमासान्तग्रहणात् । स्वप्शब्दात्स्वमोर्लुगिति भावः । स्वपी इति । औङः श्यां रूपम् । असर्वनामस्थानत्वान्न नुमिति भावः । दीव्यन्तीति । जश्शसोः शौ सर्वनामस्थानत्वान्नुमिति भावः । इति तान्ताः । अथ पान्ताः । स्वबिति । सु=शोभनाः आपो यस्मिन् सरसीति बहुव्रीहिः । 'ऋक्पूरब्धूः' इति समासान्तस्त#उ न भवति, 'न पूजनात्' इति निषेधात् ।द्व्यन्तरूपसर्गेभ्योऽप ई॑दिति न भवति, तत्र 'अप' इति कृतसमासान्तग्रहणात् । स्वप्शब्दात्स्वमोर्लुगिति भावः । स्वपी इति । औङः श्यां रूपम् । असर्वनामस्थानत्वान्न नुमिति भावः । दीव्यन्तीति । जश्शसोः शौ स्वप् इ इति स्थिते, अप्तृन् इति दीर्घे, झलन्तलक्षङणनुमि, अनुस्वारे, परसवर्णे, स्वाम्पीति वक्ष्यते । तत्र 'अप्तृन्' इति दीर्घं बाधित्वा परत्वान्नित्यत्वाच्च नुमि कृते ।ञकारस्य उपधात्वाऽभावात्कथं दीर्घ इत्यत आह — नित्यादित्यादि । प्रतिपदोक्तत्वादिति । 'अपतृन्' इति दीर्घस्य अप्शब्दमुच्चार्य विहितत्वादित्यर्थः । ननु निरवकाशत्वं प्रतिपदोक्तत्वमितिछदिरुपधिबलेर्ढ॑ञिति सूत्रेशेषाद्विभाषे॑ति सूत्रे च भाष्ये स्थितम् । 'अप्तृन्' इति दीर्घस्तु न निरवकाशः, 'आप' इत्यत्र सावकाशत्वात् । अतोऽत्र नित्यत्वात्परत्वाच्चा पूर्वं नुमागमे कथं दीर्घ इत्याशङ्क्य इष्टापत्त्या परिहरति — निरवकाशत्वमित्यादि । स्वम्पीति । दीर्घं बाधित्वा नुमि अनुस्वारपरसवर्णाविति भावः ।केचित्तु 'अपतृन्' इति दीर्घस्य निरवकाशत्वरूपप्रतिपदोक्तत्वाऽभावेऽपि प्रतिपदविधित्वेन शीघ्रोपस्थितिकतया प्रथमं प्रवृत्तौस्वाम्पो॑त्येव युक्तमित्याहुः । इति पान्ताः । अथ षान्ताः । धनुश्शब्दं व्युत्पादयति — धनेरिति । 'जनेरुसिः' इत्यत उसिरित्यनुवर्तमानेअर्तिपृवपियजितनिधनितपिभ्यो नित् इत्यौणादिकसूत्रेण 'धन धान्ये' इत्यस्माद्धातोरुस्प्रत्यय इत्यर्थः । प्रत्ययावयत्वात्सस्य षत्वे धनुष्शब्दः । तस्मात्स्वमोर्लुक् । तत्र षकारस्य कथं रुत्वमित्यत आह-षत्वस्येति । धनुरिति । 'र्वोरुपधायाः' इति दीर्घस्तु न, रेफान्तस्याधातुत्वात् । धनूंषीति ।नस्चे॑त्यनुस्वारः । एवं चक्षुर्हविरादय इति । 'चक्षेश्शिच्च' इत्युसिः । शित्त्वेन सार्वधातुकत्वात् ख्शाञादेशो न 'अर्चिशुचिहुसृपि' इत्यादिना हुधातोरिस्,सार्वधातुकार्धधातुकयोः॑ इति गुणः, अवादेशः । आदिना सर्पिरादयो ग्राह्राः । पिपठिषतेः क्विबिति ।पठ व्यक्तायां वाचि॑ सन्, इट् द्वित्वं, हलादि शेषः , अभ्यासाऽकारस्य इत्त्वं, प्रत्ययावयवत्वात् षत्वं, 'सनाद्यन्ताः' इति धातुत्वम् । पिपठिष इत्यस्मात् क्विप् अतो लोपः, पिपठिष् इत्यस्मात् स्वमोर्लुक्, षत्वस्याऽसिद्धत्वाद्रुत्वम् । एतावत्सिद्धवत्कृत्य आह — र्वोरिति दीर्घे इति । पिपठिषी इति । औङः श्यां रूपम् । सौ विशेषमाह-अल्ल#ओपस्येति । बेभिच्छब्दनिरूपणे व्याख्यातमेतदनुपदमेव प्राक् । इति षान्तां । अथ सान्ताः । पय इति ।पयः क्षीरं पयोऽम्बु चे॑त्यमरः । पयांसीति । शौ नुम् ।सान्ते॑ति दीर्घः, अनुस्वार इति भावः । पयोभ्यामिति । रुत्वे,हशि चे॑त्युत्त्वे, गुण इति भावः ।सुपुमिति । सु=शोभनः पुमान् यस्य गृहस्येति बहुव्रीहौ, सुपुंस्शब्दात्स्वमोर्लुक्, संयोगान्तलोपः । संपुंसी इति । औङः श्यां रूपम् । सुपुमांसीति । शेःसर्वनामस्थानत्वात् 'पुसोऽसुङ्' इत्यसुङ् । सुपुम्स् इ इति स्थिते, झलन्तलक्षणनुमि, 'सान्तमहतः' इति दीर्घः ,नश्चे॑त्यनुस्वारश्चेति भावः । अद इति । अदस्शब्दात् स्वमोर्लुक्, रुत्वविसर्गौ, सान्तत्वान्न मुत्वम्, लुका लुप्तत्वात्त्यदाद्यत्वं नेति भावः । औङादावाह — विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । उत्वमत्वे इति ।पूर्वत्रासिद्धिमि॑ति विभक्तिकार्योत्तरमुत्वमत्वे इत्यर्थः । अमू इति । औङः शी, त्यदाद्यत्वं, पररूपं, गुणः, ऊत्वमत्वे इति भावः । अमूनीति । ञ्जश्शसोश्शिः, त्यदाद्यत्वं, पररूपम् । अजन्तत्वात् नुम्, उपधादीर्घः, ऊत्वमत्वे इति भावः । इति सान्ताः ।इति बालमनोरमायां हलन्ता नपुंसकलिङ्गाः । — — — — — — — — — — — — — — -अथ हल्सन्धिप्रकरणम् ।", "71072": "<<नपुंसकस्य झलचः>> - नपुंसकस्य । झल्व अच्चेति समाहारद्वन्द्वः । तेन च अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः ।इदितो नु॑मित्यतो नुमित्यनुवर्तते । तदाह — झलन्तस्येत्यादिना । मित्त्वादन्त्यादचः परः । उपधादीर्घ इति । ज्ञानन् इ इति स्थितेसर्वनामस्थाने चे॑ति दीर्घ इत्यर्थः । पुनस्तद्वदिति । अमौट्शस्सु ज्ञानं ज्ञाने ज्ञानानि इति क्रमेण रूपाणीत्यर्थः । शेषं रामवदिति । शिष्यत इति शेषम् । कर्मणि घञ् ।घञजबन्ताः पुंसी॑ति तु प्रायिकमिति भावः ।", "71073": "<<इकोऽचि विभक्तौ>> - इकोऽचि । 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते । 'नपुंसकस्य झलचः' इत्यतोनपुंसकस्ये॑त्यनुवर्तते,अङ्गस्ये॑त्यदिकृतमिका विशेष्यते, ततस्तदन्तविधिः, तदाह — इगन्तस्येत्यादिना । अचि विभक्ताविति । अजादौ विभक्तावित्यर्थः ।इकोऽचि सुपी॑त्येव सुवचम् । विभक्तौ किम् मधु=मद्यं, तस्येदं माधवम् । अणि परे नुमि टिलोपेमाध॑मिति स्यात् । वारिणी इति । वारि-औ इति स्थिते शीभावे नुमिअट्कुप्वाङिति णत्वे रूपम् । वारीणीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे णत्वे रूपम् । हे वारि सु इत्यत्र सोर्लुकि प्रक्रियां दर्शयति — पक्ष इति । 'ह्रस्वस्य गुण' इति सम्बुद्धिनिमित्तको गुणः कदाचिद्भवतीत्यर्थः । नन्विह सम्बुद्धेर्लुका लुप्तवान्न लुमतेति प्रत्ययलक्षणनिषेधात्कथं गुण इत्यत आह-न लुमतेतिनिषेधस्यानित्य्त्वादिति । अत्र च 'इकोऽचि विभाक्तौ' इत्यत्राज्ग्रहणं ज्ञापकम् । हलादिषु भ्यामादिषु सत्यपि नुमिन लोपः प्रातिपदिकान्तस्ये॑ति तस्य लोपसम्भवादचीति व्यर्थम् । न च सम्बुद्धिव्यावृत्त्यर्थमज्ग्रहणं, तुत्र नुमि सतिन ङिसम्बुद्धयो॑रिति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यं, सम्बुद्धेर्लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः । प्राप्तेरेवाऽभावात् ।न लुमते॑ति निषेधस्याऽनित्यत्वे तु सम्बुद्धौ प्रत्ययलक्षणेन प्राप्तं नुमं वारयितुमज्ग्रहणमर्थवदिति भवत्यज्ग्रहणंन लुमते॑त्यस्यानित्यत्वे लिङ्गमित्याहुः । अत एवइकोऽची॑ति सूत्रे हे त्रपो इति, एङ्ह्रस्वादिति सूत्रे हे त्रपु इति च भाष्यं सङ्गच्छते । आङो नेति । रूपे विशेषाऽभावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भावः । ङसिङसोर्विशेषमाह-घेरिति । नुमं बाधित्वा परत्वाद्गुणे प्राप्त इत्यर्थः ।वृद्ध्यौत्त्वेति । वार्तिकम् । वृद्ध्यादीनां क्रमेण-गावौ हरौ क्रोष्ट्रा हरये इत्यवकाशः । नुमोऽवकाशो वारीणि इति । अतिसखीनीत्यत्र जश्शसोः 'सख्युरसम्बुद्धौ' इति णित्त्वाद्वृद्धिः परत्वान्नुमं बाधित्वा प्राप्ता । वारिणीत्यत्र ङौ तु 'अच्च घेः' इत्यौत्त्वं प्राप्तम् । प्रियक्रोष्टूनीत्यत्र जश्शसोस्तृज्वत्त्वं प्राप्तम् । वारिशब्दान्ङ्यादौ गुणः प्राप्तः । अत्र पूर्वविप्रतिषेधान्नुमेवेत्यर्थः । वारिणे इति । ङयि गुणं बाधित्वा नुमि णत्वे रूपम् । वारिण इति । ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारिणोरिति । ओसि यणं बाधित्वा नुमि णत्वे रूपम् । वारिण इति । ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारिणोरिति । ओसि यणं बाधित्वा नुमि णत्वे रूपम् । वारि-आमित्यत्र परत्वान्नुटं बाधित्वा नुमि प्राप्त आह — नुमचिरेति । नुडिति । नुम्नुटोः को विशेष इत्यत आह-नामीति दीर्घ इति । नुमि तु सति तस्याङ्गभक्तत्वा॑न्नामी॑ति दीर्घो न स्यादिति भावः । वारिणीति । ङौ 'अच्च घेः' इत्यौत्त्वं परमपि बाधित्वावृद्ध्यौत्त्वे॑ति पूर्वविप्रतिषेधान्नुम् । न विद्यते आदिः= उत्पत्तिः यस्य सः अनादिः=ईआरः । अनादिः अविद्या । अनाद#इ ब्राहृ । त्रिलिङ्गोऽयं विशेष्यनिघ्नः । तस्य नपुंसकत्वे प्रथमाद्वितीययोर्वारिवद्रूपाणि ।", "71074": "<<तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य>> - टादिषु अचिविशेषमाह — तृतीयादिषु । भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत्-भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच् । शब्दस्वरूपं विशेष्यम् । पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् ।इकोऽचि विभक्तौ इत्यतइकोऽची॑ति 'नपुंसकस्य झलचः' इत्यतोनपुंसकस्ये॑ति चानुवर्तते । षष्ठी च प्रथमया विपरिणम्यते । तदाह-प्रवृत्तिनिमित्तैक्य इत्यादिना । पुंवद्वेति । गालवग्रहणादिति भावः । अचीति । अजादावित्यर्थः । पुंवत्त्वे ह्रस्वनुमोरभावः फलति । घटपटादिशब्दास्तावद्घटत्वपटत्वादिरूपेणैव तत्तद्व्यकिंत प्रत्याययन्ति, ननु द्रव्यत्वपृथिबीत्वादिरूपेणेति निर्विवादम् । ततश्च यद्विशेषणं पुरस्कृत्य घटादिशब्दास्तत्तद्व्यक्तिषु प्रयुज्यन्ते तद्विशेषणं प्रवृत्तिनिमित्तमित्युच्यते । वाच्यतावच्छेदकमिति यावत् । एवंच नपुंसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छेदकं तच्छब्दस्वरूपं भाषितपुंस्कशब्देन विवक्षितम् । अनादिशब्दश्च उत्पत्त्यभावात्मकमनादित्वं पुरस्कृत्य स्त्रीपुंनपुंसकतत्तद्व्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमित्तैक्ये भाषुतपुंस्कता । अतस्तस्य टादावचि पुंवत्त्वविकल्प इत्यभिप्रेत्योदाहरति — अनादये अदादिने इति । पुंवत्त्वे नुमोऽप्रवृत्तेधेर्ङिती॑ति गुणः । पुंवत्त्वाऽभावे तु नुमिति भावः । इत्यादीति । अनादेः-अनादिनः । अनाद्योः-अनादिनोः । आमि तु अनादीनामित्येव । शेषं वारिवदिति । प्रथमाद्वितीययोभ्र्यामादौ हलि च वारिवदित्यर्थः ।प्रवृत्तिनिमित्तैक्य॑ इत्यस्य प्रयोजनं दर्शयितुमाह — पीलुर्वृक्ष इति । यदा वृक्षविशेषः पीलुशब्दवाच्यस्तदा पुंलिङ्गः पीलुशब्दः, यदा पीलुजन्यफलं पीलुशब्दवाच्यं तदा नपुंसकलिङ्गोऽयम् । 'फले लुक्' इत्यणो लुक् । अत्र फले वाच्ये पुंवत्त्वं नेत्यर्थः । कुत इत्यत आह-प्रवृत्तिनिमित्तभेदादिति । वृक्षत्वव्याप्यजातिविशेषात्मकं पीलुत्वं वृक्षविशेषे वाच्ये प्रवृत्तिनिमित्तम् । फलविशेषे तु वाच्ये फलत्वव्याप्यजातिविशेषात्मकं पीलुत्वं प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्तभेदादित्यर्थः । तदुक्तम् — ॒पीलुर्वृक्षः फलं पीलु पीलुने नतु पीलवे । वृक्षे निमित्तं पीलुत्वं, तज्जत्वं तत्फले पुनः ।॑ इति ।", "71075": "<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> - अस्थि, दधि, सक्थि, आक्षि एतेषां प्रथमाद्वितीययोर्वारिवद्रूपाणि । टादावचि विशेषमाह — अस्थिदधि । तृतीयादिष्विति, अचीति चानुवर्तते । तदाह — एषामित्यादिना । नुमोऽपवादः । अनङि हकार इत्, अकार उच्चारणार्थः । ङित्त्वादन्तादेशः । दधनि दध्नि इति । 'विभाषा ङिश्योः' इत्याल्लोपविकल्प इति भावः । तदन्तस्यापीति । आङ्गत्वादिति भावः । अतिदध्नेति । दधि अतिक्रान्तं कुलमतिदधि । अत्रापि नपुंसकस्येति संबध्यते । ततश्च धाञः 'आदृगमहन' इति किप्रत्यये दधिशब्दस्य पुंस्त्वे दधिनेत्येव । नपुंसकस्येति श्रूयमाणमस्थ्यादिभिरेवान्वेति । तेनातिदध्ना ब्राआहृणेनेत्यादि सिद्धम् । इति इदन्ताः ।अथ ईदन्ताः । सु ध्यायतीति, सु=शोभना धीर्यस्येति॑वा विग्रहे सुधीशब्दस्य 'ह्रस्वो नपुंसके' इति ह्रस्वत्वे वारिवद्रूपाणीत्याह — सुधि सुधिनी इत्यादि । परत्वान्नुमा इयङ् बाध्यत इति भावः । सुधिया सुधिनेति । सुध्यातृत्वस्य शोभनज्ञानवत्त्वस्य वा प्रवृत्तिनिमित्तस्य पुंसि नपुंसके च एकत्वात्पुंवत्त्वविकल्पः । एवं प्रधीशब्दः । तत्रनभूसुधियो॑रिति निषेधाऽभावादेरनेकाचेति यण् । इति ईदन्ताः । अथ उदन्ताः । मध्विति ।\tमधु मद्ये पुष्परसे॑मधुर्वसन्ते चैत्रे च॑ इति कोशान्मधुशब्दस्य पुंनपुंसकयोः मद्यत्ववसन्तत्वादिरूपप्रवृत्तिनिमित्तभेदान्न पुंवत्त्वविकल्पः । भृद्वीकाविकारवाचिनो मधुशब्दस्य तु नित्यनपुंसकत्वान्न पुंवत्त्वमिति विवेकः । सानुशब्दस्य स्नुर्वेति । 'पद्दन्' इति सूत्रेमांसपृतनासानूनां मांस्पृत्स्नबो वाच्याः॑ इति वार्तिका॑दिति शेषः । स्नूनि सानूनीति — शसि रूपं, शसादावेव स्नुविधेः । प्रभृतिग्रहणस्य प्रकारार्थत्वे सुठपि स्नुर्भवति । अस्य चस्नुः प्रस्थः सानुरस्त्रिया॑मिति पुंनपुंसकत्वाद्भाषितपुंस्कत्वादस्त्येव पुंवत्त्वविकल्पः । प्रियक्रोष्टु प्रियक्रोष्टुनी इति । प्रियक्रोष्टा यस्येति विग्रहः । असर्वनामस्थानत्वान्न तृज्वत्वम् । अथ जश्शसोः शिभावे सति सर्वनामस्थानत्वान्नुमं बाधित्वा परत्बात्तृज्वत्त्वे प्राप्ते आह — तृज्वद्भावादिति ।वृद्ध्यौत्त्वे॑ति वार्तिकादिति भावः । प्रियक्रोष्टूनीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे रूपम् । नच नित्यत्वादेव नुम् सिद्धेः किं पूर्वविप्रतिषेधेनेति वाच्यं, नित्यत्वान्नुमि कृतेऽपि 'यदागमाः' इति न्यायेन 'तृज्वत्क्रोष्टुः' इत्यस्य नुम्विशिष्टस्य ग्रहणापत्तौ पुनस्तृज्वत्त्वापत्तेः । पूर्वविप्रतिषेधमाश्रित्य तृज्वत्त्वं बाधित्वा नुमि कृते तु न पुनस्तृज्वत्त्वम्,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायादित्यलम् । पुंवत्पक्षे इति । तत्रापि तृज्वत्त्वपक्ष इत्यर्थः । प्रियक्रोष्ट्रेति । पुंवत्त्वे तृज्वत्त्वे च सति रूपम् । अनपुंसकत्वान्न नुम् । प्रयिक्रोष्टुनेति । पुंवत्त्वे, तदभावे च तृज्वत्त्वाऽभावे रूपम् । पुंवत्वाऽभावपक्षेऽपि नुमं बाधित्वा परत्वान्नात्वमेव । प्रियक्रोष्ट्रे इति । पुंवत्त्वे तृज्वत्त्वे यण् । अनपुंसकत्वान्न नुम् । प्रियक्रोष्टवे इति । पुंवत्त्वे तृज्वत्त्वाऽभावे रूपम् । अन्यत्रेति । पुंवत्त्वाऽभावपक्ष इत्यर्थः । प्रियक्रोष्टुनेति । पुंवत्त्वतृज्वत्त्वयोरभावे रूपम् । तथा ङयि त्रीणि रूपाणि । एवं ङसिङसोः । प्रियक्रोष्टुः प्रियक्रोष्टोः प्रियक्रोष्टुनः । प्रियक्रोष्ट्रोः-प्रियक्रोष्ट्वोः-प्रियक्रोष्टुनि । भ्यामादौ हलि मधुवत् । इत्युदन्ताः । अथ ऊदन्ताः । सुल्विति । सुष्ठु लुनातीति क्विप् । 'ह्रस्वो नपुंसके' इति ह्रस्वः । सुलुनी इति ।ओः सुपी॑ति यणं बाधित्वा परत्वान्नुम् । सुल्वेति । शोभनलवनकर्तृत्वं प्रवृत्तिनिमित्तमेकमिति पुंवत्त्वविकल्पः । पुंवत्त्वे ह्रस्वाऽभावेनाऽघित्वान्नाभावो न । नुमभावश्च ।ओः सुपी॑ति यण् । पुंवत्त्वाऽभावपक्षे तु यणं बाधित्वा नुम् । ङेप्रभृतिषु तु पुंवत्त्वाऽभावेवृद्ध्यौत्वे॑ति पूर्वविप्रतिषेधेन नुमि सुलुने इति , पुंवत्त्वे तु 'सुल्वे' इत्यादि रूपद्वयम् । इत्यूदन्ताः । अथ ऋदन्ताः । धातृ इति । दधातीति धातृ । 'न लुमता' इति निषेधादनङ् न । धातृणी इति ।इकोऽची॑ति नुमिऋवर्णान्नस्ये॑ति णत्वम् । धातृणीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे णत्वम् ।न लुमते॑ति निषेधस्याऽनित्यत्वात्संबुद्धिनिमित्तको ह्रस्वस्य पक्षे गुण इत्याह-हे धातः हे धातृ इति । धारणकर्तृत्वरूपप्रवृत्तिनिमित्तैक्याट्टादावचि पुंवत्त्वविकल्प इत्याह — धात्रा-धातृणेति । धात्रे-धातृणे । धातुः-धातृणः । धात्रोः-धातृणोः ।नुमचिते॑ति नुट् । धातृणाम् । धातरि-दातृणि । इत्यृन्ताः ।", "71076": "", "71077": "", "71078": "<<नाभ्यस्ताच्छतुः>> - नाभ्यस्ताच्छतुः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — अभ्यस्तादित्यादिना । दददिति । ददत्शब्दात्सुः । हल्ङ्यादिलोपः ।नाभ्यस्ता॑दिति निषेधात् 'उगिदचाम्' इति नुम् न । अत्वन्तत्वाऽभावाच्च न दीर्घ इति भावः ।जक्ष भक्षहसरनयोः॑,जागृ निद्राक्षये॑,दरिद्रा दुर्गतौ॑,चकासृ दीप्तौ॑, 'शासु अनुशिष्टौ'दीधीङ् दीप्तिदेवनयोः॑,वेवीङ् वेतिना तुल्ये॑ इति सप्त धातवोऽदादौ पठिता सुग्विकरणाः । तेभ्यो लटः शत्रादेशे शब्लुकिं सुबुत्पत्तौ 'नाभ्यस्ताच्छतुः' इति निषेध इष्यते ।", "71079": "<<वा नपुंसकस्य>> - शौ 'नाभ्यस्तच्छतुः' इति नित्यं नुम्निषेधे प्राप्ते — वा नपुंसकस्य । 'नाभ्यस्ताच्छतुः' इति सूत्रं नञ्वर्जमनुवर्तते । नपुंसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी । 'इदितो नुम्धातोः' इत्यतो नुमितिउगिदचा॑मित्यतः 'सर्वनामस्थाने' इति च अनुवर्तते । तदाह — अभ्यस्तादित्यादिना । ददन्तीति । नुमि अनुस्वारपरसवर्णौ । तुददिति । 'तद व्यथने' अस्माच्छतृप्रत्यये 'तुदादिभ्यश्शः' इति शः शपोऽपवादः, 'अतो गुणे' इति शतुरकारेण पररूपे तुदच्छब्दः, तस्मात्स्वमोर्लुक्, प्रत्ययलक्षणविरहादसर्वनामस्थानत्वाच्च न नुम्, जश्त्वचर्त्वे इति भावः ।", "71080": "<<आच्छीनद्योर्नुम्>> - तुदच्छब्दादौङः श्याम्, असर्वनामस्थात्वान्नुमि अप्राप्ते — आच्छीनद्योर्नुम् । 'नाभ्यस्तात्' इत्यतः शतुरिति, 'वा नपुंसकस्य' इत्यतो वेति चानुवर्तते । आदिति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते, तच्च आदित्यनेन विशेष्यते , तदन्तविधिः । 'परस्ये' त्यध्याह्यियते ।सथु॑रित्यनन्तरमवयवस्येत्यध्याह्यियते, तेन च अह्गस्येति षष्ठन्तं विशेष्यते, तदन्तविधिः । अङ्गस्येत्यस्य आवृत्तिर्बोध्या । तदाह — अवर्णान्तादित्यादिना ।इदितो नुमि॑त्यतोऽनुवृत्त्यैव सिद्धे नुङ्ग्रहणं स्पष्टार्थम् । तुदन्तीतुदती इति । औङः श्यां, नुमि, तदभावे च रूपम् । शविकरणे कृते शतुरकारेण पररूपे एकादेशे सति तुद इत्यवर्णान्तमङ्गम्, तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । ततश्च तुददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः ।अवर्णान्तादङ्गत्वात् । ततश्च तददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः ।अवर्णान्तादङ्गात्परो यः शतृप्रत्ययः॑ इत्याश्रयणे त्वत्र नुम् न स्यात् । शविकरणाऽकारस्य शतुरकारस्य च एकादेशे कृते तस्य पूर्वान्तत्वे शतुरवर्णान्तादङ्गात्परत्वा ।भावात्, परादित्वे अवर्णान्ताङ्गाऽभावात्, उभयत आश्रयणे च अन्तादिवत्त्वनिषेधादित्यलम् । तुदन्तीति । जश्शसोश्शिः, सर्वनामस्थानत्वान्नुमिति भावः । भादिति । 'भादीप्तौ' लुग्विकरणः । लटः शतरि कृते सवर्णदीर्घे भादिति रूपम् । तस्मात् स्वमोर्लुक्, जश्त्वचर्त्वे इति भावः । भान्तीभाती इति । 'औङः शी'आच्छीनद्यो॑रिति वानुमिति भावः । भान्तीति । जश्शसोः शिः, सर्वनामस्थानत्वान्नुमिति भावः । पचदिति । पच्धातोर्लटः शतरि शप्, अतो गुणे॑ इति पररूपम् । पचदित्यस्मात्स्वमोर्लुगिति भावः ।", "71081": "", "71082": "<<सावनडुहः>> - सावनडुहः । अस्येति । अनुडुह्शब्दस्येत्यर्थः । नुम् स्यादिति ।आच्छीनद्योर्नुं॑मित्यतो नुमित्यनुवृत्तेरिति भावः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । अनड्वान् ह् स् इति स्थितम् । ननु आम्नुमौ एतौ मित्त्वादन्त्यादच उकारात्परौ प्राप्तौ । तत्र 'चतुरनडुहोः' इत्याम् सर्वनामस्थाननिमित्तकः सामान्यविहितः । 'सावनडुहः' इति नुम् तु सर्वनामस्थानविशेषे सौ विहितत्वाद्विशेषविहितः । स च निरवकाशत्वात्सामान्यविहितमामं बाधेत, सोरन्यत्राऽऽम्बिधेश्चरितार्थत्वात् । तथा च 'अनडुन्' इति स्यात् । 'अनड्वान्' इति न स्यात् । किंच सम्बुद्धौ हे अनडुह् सिति स्थिते 'अम् सम्बुद्धौ' इत्यमागम आमपवादोऽनुपदमेव वक्ष्यते । तत्र 'सावनडुहः' इति नुमपि प्राप्तः, सच सम्बुद्धावसम्बुद्धौ च विहितत्वात्सामान्यविहितः । 'अम्सम्बुद्धौ' इत्यम् तु सम्बुद्धावेव विहितत्वाद्विशेषविहितः । सच निरवकाशत्वात्सामान्यं नुमं बाधेत, असम्बुद्धौ सौ नुम्विधेश्चरितार्थत्वात् । ततश्च हे अनड्वन्निति न स्यात् । 'हो ढः' इति ढत्वे हे अनड्वट् इति स्यादित्याशङ्क्याह — आदित्यधिकारादित्यादि, नुम्न बाध्यत इत्यन्तम् । 'सावनडुहः' इति नुम्विधौ तावत् 'आच्छीनद्योः' इत्यत आदिति पञ्चम्यन्तमनुवर्तते । अतोऽनडुहोऽवर्णात् परो नुमिति लाभाद्विशेषविहितेनापि 'सावनडुह' इति नुमाचतुरनडुहो॑रिति सामान्यविहित आम्न बाध्यते, अवर्णात्परत्वेन विधीयमानं नुमं प्रति आम उपजीव्यत्वात्, उपजीव्योपजीवकयोर्विरोधाऽभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसम्भवात् । तथा 'अम्संबुद्धौ' इत्यमा च विशेषविहिभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसंभवादित्यर्थः । ननु 'सावनहुडः' इति नुम्विधौ आदित्यनु वर्ततां नाम, तथापि आमुपजीवकत्वं नुमो न लभ्यते, अनडुहि नुमो नकाराऽकारात्परत्वेऽपि आदित्यनुवृत्तेरविरोधादिति चेत्, मैवं-॒सावनडुहः॑ इति नुम्विधौ मित्त्वादन्त्यादच इत्युपस्थितम् । तत्र च आदित्यनुवृत्तमन्वेति । ततस्चानडुहि योऽन्त्यरूपोऽवर्णः तस्मात्परो नुमिति लभ्यते । नकाराकारस्तु नैवंविध इत्यामुपजीवकत्वं नुमो निर्बाधमेव । एवं संबुद्धौ अमुपजीवकत्वमपि ज्ञेयम् । क्वचित्पुस्तकेआमा च नुम् न बाध्यते॑ इति पठते । तत्रेयं योजना — ननुबह्वनड्वांहि कुलानी॑त्यत्र 'नपुंसकस्य झलचः' इति नुमपेक्षया परत्वादाम् स्यात् । कृते त्वामि पुनर्नुम्न भवति,विप्रतिषेषेन यद्बाधितं तद्बाधितमेवे॑ति न्यायादित्यत आह — ॒आमा च नुम्न बाध्यत॑ इति ।पुनः प्रसङ्गविज्ञानात्सिद्धम् इति क्वचिद्विप्रतिषेधेन बाधितस्य पुनरुन्मेषादामि कृतेऽपि 'नपुंसकस्य झलचः' इति नुम्निर्बाध इति भावः । सोर्लोप इति ।अनड्ववान् ह् स् इत्यत्र हल्ङ्यादिने॑ति शेषः । ननु कृते सुलोपे हकारस्य संयोगान्तलोपे नुमो नकारस्य पदान्तत्वात्वसुरुआंसुध्वंस्वनडुहां दः॑ इति दत्वं कुतो न स्यादित्यत आह — नुम्विधीति । यदि ह्यत्र नुमो नस्य दत्वं स्यात्तर्हि अनड्वाहित्यत्र नुमभावेऽपि हस्य दत्वेनैव अनड्वादिति सिद्धेर्नुम्विधिरनर्थकः स्यात् । अतो नुमो नस्य दत्वं नेति विज्ञायत इति भावः ।", "71083": "", "71084": "<<दिव औत्>> - दिव औत् । 'सावनडुहः' इत्यतः 'सौ' इत्यनुवर्तते । 'दिव' इति षष्ठन्तम् । 'दिवेर्ङिविः' इत्यौणादिकमव्युत्पन्नं वा प्रातिपदिकं गृह्रते, नतु 'दिवुक्रीडादौ' इति धातुः,निरनुबन्धग्रहणे न सानुबन्धकस्ये॑ति न्यायात् । तदाह — दिविति प्रातिपदिकस्येति । औदिति तकार उच्चारणार्थो नत्वादेशे तकारः श्रूयते । एवं चानेकाल्त्वप्रयुक्तं सर्वादेशत्वं न । तकारस्य इत्संज्ञा तु न, फलाऽभावात् । तित्स्वरितस्य तु नात्र सम्भवः,तितिप्रत्ययग्रहण॑मिति वार्तिकात् । ननु सुदिव् सित्यत्र वकारस्यौत्त्वे इकारस्य यणि औकारस्य स्थानिवत्त्वेन हल्त्वाद्धल्ङ्यादिना सुलोपः स्यादित्यत आह्म — अल्विधित्वेनेति । औकारादेशस्थानिभूताद्वकारात्मकहलः परत्वमाश्रित्य प्रवर्तमानस्य सुलोपस्याऽल्विधित्वादिति भावः । सुद्यौरिति । आङ्गत्वात्तदन्तस्याप्यौत्त्वे यण् । रुत्वविसर्गौ । सुदिवाविति । अजादिषु सुदिव्शब्दोऽविकृत एवेति भावः ।", "71085": "<<पथिमथ्यृभुक्षामात्>> - तेषु विशेषमाह — पथिमथ्यृभुक्षामात् । पन्थाश्च, मन्थाश्च ऋभुक्षाश्च, पथिमथ्यृभुक्षाणः, तेषामिति विग्रहः । 'सावनडुहः' इत्यतःसा॑वित्यनुवर्तते । आदिति तपरकरणम् । आकार एव विधेयः । तदाह — एषामित्यादिना ।अलोऽन्त्यस्ये॑ति नकारस्य आकारः । ननु नकारस्य आन्तरतम्यादनुनासिक एव आकारः प्राप्नोति । नच निरनुनासिकस्यैवाकारस्योच्चारणाच्छुद्ध एव आकार इति वाच्यं, गुणानामभेदकत्वाद्भेदकत्वेऽपि तपरकरणेन अनुनासिकस्याप्याकारस्य ग्रहणात्, व्यक्तिपक्षे तपरसूत्रस्य अनण्सु दीर्घप्लुतेषु विध्यर्थत्वात् । नच ग्रहणकसूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याऽण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकास्स्येहानण्त्वाद्विधीयमानत्वाच्च न तत्काल इति वाच्यं, तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहणस्य चानुवृत्तौ मानाऽभावादित्यत आह — आ आदिति सवर्णदीर्घेणाकारान्तरं प्रश्लिष्यते । ततश्चाननुनासिकरूप आकारो भवतीति लभ्यते । नच सर्वादेशत्वं शङ्क्यम् । नह्यत्र वर्णद्वयं विधीयते, विशेषणविशेष्यबावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भावः । भाष्ये तु अनुनासिकविधेः संमतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव 'उञः, ऊ#ँ' इत्यत्रेव उच्चार्य विधानसंभवात्तदनुच्चारणाच्छुद एव आकार इह विधेय इत्युक्तम् । तपरकरणं तु उच्चारणार्थमेव । वस्तुतस्तुभाव्यमानेन सवर्णानां ग्रहणं ने॑ति परिभाषयैव अनुनासिकाकारनिराससंभवादाकारप्रश्लेषक्लेशो व्यर्थः ।भाव्यमानोऽण् सवर्णान्न गृह्णाती॑ति पाठस्तु प्रामादिकः, 'ज्यादादीयसः' इति सूत्रे आदिति तपरनिर्देशेनेयं परिभाषा ज्ञाप्यते-॒भाव्यमानेन सवर्णानां ग्रहणं ने॑त्यवे भाष्ये पाठात्, अणुदित्सूत्रभाष्येऽप्यण्ग्रहणरहिताया एवास्याः परिभाषायाः पाठदर्शनाच्चेत्यास्तां तावत् । नकारस्य आत्त्वे पथि आ स् इति स्थिते ।", "71086": "<<इतोऽत् सर्वनामस्थाने>> - इतोऽत् । पथिमथ्यृभुक्षाम् इत्यनुवर्तते । 'इत' इति तपरकरणं स्पाष्टार्थं , पथ्यादिषु त्रिषु दीर्घप्लुतयोरसंभवात् । भाव्यमानत्वादेव सवर्णाऽग्रहकत्वे सिद्धे अदिति तपरकरणमपि स्पाष्टार्थमेव । तदाह — पथ्यादेरित्यादिना । पथ आ स् इति स्थिते ।", "71087": "<<थो न्थः>> - थो न्थः । थः न्थ इति च्छेदः । थ इति षष्ठी । आदेशेऽकार उच्चारणार्थः । पथिमथिग्रहणमनुवर्तते । ऋभुक्षिग्रहणं निवृत्तं, तत्र थकाराऽभावात् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः सर्वनामस्थानग्रहणमनुवर्तते । तदाह — पथिमथोरित्यादिना । पन्था इति । नकारस्य आत्त्वे इकारस्य अत्त्वे थकारस्य न्थादेशे पन्थ आ स् इति स्थिते सवर्णदीर्घे रुत्वविसर्गाविति भावः । पन्थानाविति । पथिन् औ इति स्थिते सावित्युक्तेर्नात्त्वम् 'इतोऽत्' इति इकारस्याऽत्त्वे थकारस्य न्थादेशेसर्वनामस्थाने चे॑ति दीर्घे रूपमिति भावः ।", "71088": "<<भस्य {टे}र्लोपः>> - एवं पन्थानः । पन्थानम् पन्थानौ । शसादावचि विशेषमाह — भस्य टेर्लोपः । पथ्यादेरिति । पथिमत्यृभुक्षामित्यनुवर्तत इति भावः । पथः पथेति । पथिन् अस् पथिन् आ इति स्थिते इनो लोपे रूपद्वयमिति भावः । पथिभ्यामिति । नलोपे रूपम् । इत्यादीति । पथिभिः । पथे । पथिभ्यः । पथः पथोः पथाम् । पथि, पथोः पथिषु । एवं मन्था ऋभुक्षा इति । मन्थदण्डवाची मथिन्शब्दः । तस्य आत्त्वम्, अत्त्वं , न्थादेशः, टिलोपश्च । मन्थाः मन्थानौ मन्थानः । मन्थानम् मन्थानौ मथः । मथा मथिभ्याम् । मथे । मथः मथोः मेथाम् । मथि । मथिषु । ऋभुक्षिन्शब्दस्तु इन्द्रवाची । तत्र 'थो न्थः' इतिवर्जमात्त्वादि भवति । षात्परत्वाण्णत्वं च । ऋभुक्षाः ऋभुक्षाणौ इत्यादि । यत्तु अत्र पन्थानमात्मन इच्छति पथीयति ।सुप आत्मनः क्यच्, 'नः क्ये' इति पदत्वान्नलोपःआकृत्सार्वधातुकयोः॑ इति दीर्घः । 'सनाद्यन्ताः' इति धातुत्वम् । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात्पथिमथी॑त्यात्त्वं,थो न्थः॑ । ततः संयोगपूर्वत्वान्न यण् । किन्त्वियङेव । पन्थियौ । 'भस्य टेक्लोपः' पथ इत्यादि प्रौढमनोरमातत्त्वबोधिन्यादावुक्तम् । तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायाऽनुनासिकस्यैव उच्चारणे कार्ये तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम् । पथीयते क्विपि हि ईकारस्य शुद्धाकारार्थं अनुनासिकानुच्चारणस्यावश्यकत्वे तदसङ्गति स्पष्टैव । तस्मात्पथीयतेः क्वपोऽनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम् ।प्रसङ्गादाह — स्त्रियामिति । सु=शोभनः पन्था अस्या इति बहुव्रीहिः । 'ऋन्नेभ्यः' इति ङीप् । 'भस्य टेर्लोपः' इति इनो लोपः । सुपथीति रूपम् । ऋक्पूः॑इत्यप्तु न,न पूजनादिति निषेधात् । न चैवमपि 'न पूजनात्' इति निषेधस्य षचः प्रागेव प्रवृत्तेर्वक्ष्यमाणत्वात्इनः स्त्रिया॑मिति कब्दुर्वार एवेति वाच्यम्, 'युवोरनाकौ' इत्यत्र सुपथीति भाष्यप्रयोगेण तस्या अनित्यत्वज्ञापनात् । नच लिङ्गविशिष्टपरिभाषयापथिमथी॑त्यात्त्वं थो न्थश्च कुतो नेति वाच्यं, विभक्तौ लिङ्गविशिष्टाऽग्रहणात् । सुमथी इति । सु=शोभनो मन्था यस्या इति विग्रहः । ङीबादि पूर्ववत् । अनृभुक्षी सेनेति । अविद्यमानः ऋभुक्षा यस्या इति विग्रहः ।नञोऽस्त्यर्थाना॑मिति समासः । ऋभुक्षाः=स्वामी । अथ सु=शोभनः पन्था अस्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुंसकात् 'स्वमोर्नपुंसकात्' इति सोर्लुकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्त्वात्पथिमथी॑त्यात्त्वमाशङ्क्याह — आत्त्वं नपुंसके इति । सम्बुद्धाविति । यद्यपि भाष्ये नपुंसकानामित्येव पठितं तथापि हे चर्मन् हे चर्मेति भाष्ये सम्बुद्धावेव उदाहृतत्वात्तन्मात्रविषयत्वमस्येति भावः । सम्बुद्धेर्लुका लुप्त्वात्संबुद्धिपरत्वाऽभावात् 'न ङिसम्बुद्ध्योः' इति निषेधाऽप्रवृत्तेर्नित्यं नलोपप्राप्तौ विकल्पार्थोऽयमारम्भः । ननु नलोपपक्षे 'ह्रस्वस्य गुणः' इति सम्बुद्धौ परतो गुणे कर्तव्ये नन लुमते॑ति निषेधस्याऽनित्यत्वाद्धे वारे हे वारि इतिवद्गुणविकल्पः स्यादित्यत आह — नलोपः सुबिति । द्विवचने इति । सुपथिन्शब्दादौङः शीभावे सति असर्वनामस्थानत्वेन भत्वात् 'भस्य टेर्लोपः' इति इनो लोपे सुपथीति रूपमित्यर्थः । शाविति । सुपथिन्शब्दाज्जश्शसोः शिभावे सति तस्य सर्वनामस्थानत्वात् 'इतोऽत्' इत्यत्त्वे, 'थो न्थः' इति थस्य न्थादेशे नान्तत्वाद्दीर्घे सुपन्थानि इति रूपमित्यर्थः ।", "71089": "<<पुंसोऽसुङ्>> - तत्र सुटि विशेषमाह — पुंसोऽसुङ् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — सर्वनामस्थाने इति ।पुंसोऽसुङ् स्यात्सर्वनामस्थाने॑ इति फलितम् । ननु तत्पुरुषात्परमपुंस्शब्दात्सुटि असुङादेशात्प्रागेवसमासस्ये॑त्यन्तोदात्तत्वं पकारादुकारस्य स्यात् । सर्वनामस्थानोत्पत्तेः प्रागेव समासस्वरस्याऽन्तरङ्गत्वात्प्राप्तेः । इष्यते तु असुङि कृते परमपुमस् इत्यत्र मकारादकारस्य । अत आह — विवक्षिते इति । 'पुंसोऽसुङ्' इत्यत्र सर्वनामस्थान इति न परसप्तमी, किंतु 'विवक्षिते' इत्यध्याह्मत्य सर्वनामस्थाने प्रयोक्तुमिष्टे सति ततः प्रागेव असुङित्यर्थ आश्रीयते । एवं च सर्वनामस्थानोत्पत्तेः प्रागेव असुङि कृतेसमासस्ये॑त्यन्तोदात्तत्वं, परमपुमस् इत्यत्र मकारादकारस्य भवतीति न दोष इति भावः । नच परसप्तमीपक्षेऽपि सर्वनामस्थानोत्पत्तेः प्रागन्तरङ्गेऽपि समासस्वरः पकारादुकारस्य अकृतवव्यूहपरिभाषया न भवति, असुङि कृते पकारादुकारस्य समासान्ततायाः प्रनङ्क्ष्यत्त्वादिति वाच्यम्, विविक्षित इत्यर्थाश्रयणेनैव सिद्धे अकृतव्यूहपरिभाषाया अस्वीकार्यत्वादिति भावः । अत्रअसुङि उकार इत् उदित्कार्यार्थ॑ इति प्राचीनमतं दूषयितुमाह — उच्चारणार्थ इति । न त्वित्संज्ञकः । प्रयोजनाऽभावादिति भावः । ननूदित्कार्यमस्ति प्रयोजनमित्यत आह — उगित्त्वेनैवेति । ननु विनिगमनाविरह इत्यत आह-ङीबर्थमिति । बहवः पुमांसो यस्यामिति बहुव्रीहौ सुब्लुकि निमित्ताऽपायादसुङो निवृत्तौ बहुपुंस्शब्दादुगित्त्वान्ङीपि बहुपुंसीशब्दः । अत्र ङीपोऽसर्वनामस्थानत्वात्तस्मिन्विवक्षिते असुङः प्राप्तिरेव नास्ति । डुम्सुन उगित्त्वादेव ङीप् वक्तव्यः । तदर्थं डुम्सुन उगित्त्वमावश्यकं । तेनैव नुमोऽपि सिद्धत्वादसुङ उकार उच्चारणार्थ इति भावः । यद्यप्युणादिषु 'पात्तेर्डुम्सुन्' इति वक्ष्यते, तथापि पाठान्तरमिदं द्रष्टव्यम् । 'स्त्रियाम्' इति सूत्रभाष्यकैयटयोस्तु सूत्रेः सस्य पः, ऊकारस्य ह्रस्वः, म्सुन्प्रत्यय इत्युक्तम् । पुमानिति । डुंसुन् इति कृतानुस्वानिर्देशः । ततश्च पुंस्शब्दात्सौ विवक्षिते असुङ् । ङकार इत्, उकार उच्चारणार्थः ।ङिचेचे॑त्यन्तादेशः । निमित्ताऽपायादनुस्वारनिवृत्तौ पुम्स्शब्दात् सुः, उगित्त्वान्नुम्, 'सान्तमहतः' इति दीर्घः, सोर्लोपः सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो नेति भाव#ः । पुमांसाविति । असुङि पुमस् औ इति स्थिते नुमिसान्ते॑ति दीर्घः ।नश्चे॑ति नुमोऽनुस्वार इति भावः । पुंसः पुंसेति । शसादावसर्वनामस्थानत्वादसुङभावे रूपम् । यय्परत्वाऽभावान्न परसवर्ण इति भावः । पुम्भ्यामिति । सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तौ भकारमाश्रित्य पुनरनुस्वारे परसवर्णे रूपमिति भावः । इत्यादीति । पुंसे । पुंसः, पुंसोः । पुंसीति । अत्र यय्परत्वाऽभावान्न परसवर्णः । नुम्स्थानिकानुस्वारस्यैवोपलक्षणात्नुम्विसर्जनीये॑ति षत्वं नेति भावः । 'वश क्रान्तौ' अस्मात् 'वशेः कनसिः' इति कनसि प्रत्ययः । ककार इत् । इकार उच्चारणार्थः , ङित्त्वादन्तादेशः । उशनन्स् इति स्थिते उपधादीर्घः, हल्ङ्यादिना सुलोपः, नलोपः । उशना इति रूपमिति भवः । यद्यपि वशधातुश्चान्दस इति लुग्विकरणे वक्ष्यते, तथापि तत्प्रायिकम्, 'वष्टि वागुरिः' इत्यादिनिर्देशात्, 'उशना भार्गवः कविः' इति कोशाच्च ।अस्य संबुद्धाविति । एतच्च वृत्तौ पठितम् । वशधातौ माधवस्तुसंबोधने तूशनसरिउआरूपं सान्तं तथा नान्तमथाप्यदन्त॑मिति श्लोपवार्तिकमित्याह । भाष्याऽदृष्टत्वादिदमप्रामाणिकमेवेति प्रामाणिकाः । हे उशनन्निति । अनङि नलोपाऽभावे रूपम् । हे उशनेति । अनङि नलोपे रूपम् । हे उशन इति । अनङभावे रूपम् । उशनोभ्यामिति । सस्य रुत्वेहशि चे॑त्युत्त्वेआद्गुणः॑ । उशनःसु-उशनस्सु । अनेहेति ।नञि हन एह चे॑ति नञि उपपदे हनधातोरसुन्, प्रकृतेरेहादेशश्च, उपपदसमासः, 'नलोपो नञः,' 'तस्मान्नुडचि' अनेहस्शब्दः । ततः सुः, अनङ्, सुलोपः, उपधादीर्घः, नलोप इति भावः । हे अनेहः । अनेहोभ्यामित्यादि । वेधा इति ।विधञौ वेध च॑ । विपूर्वाद्धाञ्धातोरसुन्प्रकृतेर्धादेशश्च । असुनि उकार उच्चारणार्थः । उगित्वाऽभावन्न नुम्, ततः सुः, असन्तत्वाद्दीर्घः, सुलोपः, रुत्वविसर्गाविति भावः ।वस आच्छादने॑लुग्विकरणः । सुपूर्वादस्मात्क्विप्, सुवस्शब्दः । ततः सुः, हल्ङ्यादिलोपः, रुत्वविसर्गौ, 'सुव' इति रूपं वक्ष्यति । अत्रअत्वसन्तस्ये॑ति दीर्घमाशङ्क्य आह — दीर्घ इति । नच सुवस्शब्दस्य असन्तत्वादधातुत्वाच्च दीर्घो दुर्वार इति वाच्यम्, धात्ववयवभिन्नोयोऽस्तदन्तस्य दीर्घ इत्याश्रयणात् । सुवोभ्यामित्यादि । 'वस निवासे' इति भौवादिकस्य तु नेदं रूपं, तस्य यजादित्वेन संप्रसारणप्रसङ्गात् । पिण्डग्रस्शब्दः सुवस्शब्दवत् ।", "71090": "<<गोतो णित्>> - गोतो णित् । 'गोत' इति तपरकरणम् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यतः 'सर्वनामस्थाने' इत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह — घोशब्दादित्यादिना । णिद्वत्स्यादिति । णिति परे यत्कार्यं तत्कार्यकारीत्यर्थः । गौरिति । णिद्वत्त्वेअचो ञ्णिती॑ति वृद्धिरौकारः । रुत्वविसर्गाविति भावः । गावौ गाव इति । णिद्वत्त्वे वृद्धिरावादेशश्चेति भावः । हे गौः । वृद्धौ एङः परत्वाऽभावान्नसंबुद्धिलोपः । अमि गो अम् इति स्थिते णिद्वत्त्वाद्वृद्धो प्राप्तायाम्- ।", "71091": "<<णलुत्तमो वा>> - णलुत्तमः । णित्स्यादिति ।गोतो णि॑त्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्त्वे उपधावृद्धिः । तदभावे न ।", "71092": "<<सख्युरसम्बुद्धौ>> - सखि-औ इति स्थिते णित्कार्यं वृदिंध वक्ष्यन् णिद्वद्भावं दर्शयति-सख्युरसम्बुद्धो ।सख्यु॑रिति दिग्योगे पञ्चमी ।अङ्स्ये॑त्यधिकृतं पञ्चम्या विपरिणम्यते । 'पर' मित्यध्याहार्यम् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यनुवर्तते ।असम्बुद्धा॑वित्यभेदेनान्वेति ।गोतो णि॑दित्यतोणि॑दिति प्रथमान्तमनुवृत्तम् । तत्सामानाधिकारण्यादसम्बुद्धा॑विति सर्वनामस्थाने॑इति च सप्तमी प्रथमा कल्प्यते । तदाह-सख्युरङ्गादित्यादिना । णिद्वदिति । णित्कार्यकृत्स्यादित्यर्थः । णिच्छब्दस्तत्कार्यातिदेशार्थ इति भावः ।", "71093": "<<अनङ् सौ>> - अनङ् सौ । 'सख्युरसम्बुद्धौ' इत्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतं । तदाह — सख्युरङ्गस्येत्यादिना । 'सौ' इति प्रथमैकवचनम्, नतु सप्तमीबहुवचनम्,असम्बुद्धा॑विति पर्युदासात् । अनङि ङकार इत् । नकारादकार उच्चारणार्थः । अनेकाल्त्वात्सर्वादेशत्वमाशह्क्याह — ङिच्चेति ।", "71094": "<<ऋदुशनस्पुरुदंशोऽनेहसां च>> - ऋदुशनस् । 'सख्युरसंबुद्धौ' इत्यतोऽसंबुद्धाविति 'अनङ सौ' इत्यतोऽनङिति चानुवर्तते,अङ्गस्ये॑त्यधिकृतमृदादिभिर्विशेष्यते । तदाह — ऋदन्तानामिति । उशनसादिष्वपि तदन्तविधिर्बोध्यः । अनङि ङकार इत् । नकारादकार उच्चारणार्थः ।ङिच्चे॑त्यन्तादेशः । क्रोष्टन् स् इति स्थिते ।", "71095": "<<तृज्वत् क्रोष्टुः>> - तयोरविशेषेण सर्वत्र प्रयोगे प्राप्ते विशेषं दर्शयितुमाह — तृज्वत्क्रोष्टुः । प्रत्ययग्रहणपरिभाषया 'तृच्' इति तृजन्तं गृह्रते ।तेन तुल्य॑मिति तृतीयान्ताद्वतिः ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इति 'सख्युरसंबुद्धौ' इत्यतो॒ऽसंबुद्धाविति॑ चानुवर्तते । तदाह — क्रोष्टुस्तृजन्तेनेत्यादिना ।कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः । व्यपदेशश्च सप्तैतानतिदेशान् प्रचक्षते॑ । इति व्यतिदेशाः सप्त, तत्र प्राधान्यादिह तृजन्तरूपमेव अतिदिश्यते, तच्च न 'कर्तृ' 'भर्तृ' इत्यादि तृजन्तं रूपं, किंतु 'क्रोष्टु' इत्येव तृजन्तरूपमतिदिश्यते । क्रुशधातोरुपस्थितत्वात्, अर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह — क्रोष्टुशब्दस्य स्थाने इति । निमित्तादीनामुदाहरणानि तु तत्र तत्र प्रधर्शयिष्यामः । क्रोष्टृ स् इति स्थिते ।", "71096": "<<स्त्रियां च>> - अथ क्रोष्टुशब्दस्य स्त्रियां विशेषमाह — स्त्रियां च । 'तृज्वत्क्रोष्टुः' इत्यनुवर्तते । रूपातिदेशोऽयमित्युक्तम् । तदाह — स्त्रीवाचीत्यादिना । तथाच स्त्रियामुदन्तः क्रोष्टुशब्दो नास्त्येव । किन्तु क्रोष्टृ इति ऋदन्त एवेति फलितम् ।", "71097": "<<विभाषा तृतीयाऽऽदिष्वचि>> - विभाषा तृतीया ।तृज्वत्क्रोष्टु॑रित्यनुवर्तते ।अची॑ति तृतीयादिविभक्तिविशेषणं, तदादिविधिस्तदाह — अजादिष्विति । क्रोष्ट्रेति । तृज्वद्भावे क्रोष्टृ-आ इति स्थिते ऋकारस्य यण् रेफः । एवं क्रोष्ट्रे इति । तृज्वद्भावाऽभावपक्षे-क्रोष्टुना क्रोष्टवे-शम्भुवत् ।", "71098": "<<चतुरनडुहोरामुदात्तः>> - अनडुह् स् इति स्थिते । चतुरनडुहोः । अनयोरिति । चतुरनडुहोरित्यर्थः । सर्वनामस्थान इति ।इतोऽत्सर्वनामस्थाने॑ इत्यतः स् इति स्थिते- ।", "71099": "<<अम् सम्बुद्धौ>> - ननु अनड्वान् ह् सित्यत्र सुलोपे संयोगान्तलोपे च कृते नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपः किं न स्यात् । नच नुम्विधिसामर्थ्यान्नात्र नलोप इति वाच्यं, नलोपाऽभावस्थले संबुद्धौहे अनड्व॑नित्यत्र नुग्विधेश्चारितार्थत्वात् । तत्र न ङसंबुद्ध्यो॑रिति नलोपप्रतिषेधादित्यत आह-समयोगान्तेति । हकारलोपस्याऽसिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाऽभावात्पदान्तत्वाऽभावाच्च नलोपो नेत्यर्थः । अनड्वानिति । अनुडुह् सिति स्थिते, आम् यण्, नुम्, सुलोपः, संयोगान्तलोपश्च । अथ संबुद्धौ हे अनडुह् सिति स्थिते चतुरनडुहोरित्यामागमे प्राप्ते — अम्संबुद्धौ । 'चतुरनडुहोः' इत्यनुवर्तते । तदाह — चतुरनडुहोरिति । अमो मकार इत् । मित्त्वादन्त्यादचः परः । हे अनड्विन्निति । अम्, यण्, नुम्, सुलोपः, संयोगान्तलोपश्च । अनड्वाहाविति । सर्वनामस्थानत्वादाम् । नुम् तु न, तस्य सावेव विधानात् । अनडुह इति । शसादावचि अविकृत एवानडुहशब्द इति भावः ।", "71100": "<<ॠत इद्धातोः>> - ऋत इद्धातोः । 'ॠत' इतिधातोर्विशेषणम् । तदन्तविधिः । अङ्गस्येत्यधिकृतम् । तदाह — ॠदन्तस्येति । धातोः किम् । मातृणाम् । तथा च तरति, पिपर्ति, ततार पपारेत्यादौ ॠकारस्य शपि तिपि णलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वादित्त्वमुत्त्वं च स्यादिति शङ्का प्राप्ता । तां परिहर्तुमाह - इत्त्वोत्त्वाभ्यामिति । ल्यब्लोपे पञ्चमीद्विवचनम् ।ॠत इद्धातो॑रिति इत्त्वम्, 'उदोष्ठपूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात्स्यातामिति भावः । तरतीति । णलि ततार । अतुसादौ ददवादिगुणाना॑मिति निषेधमाशङ्क्याह — तृफलेति । तेरतुः तेरुरिति । तेरिथ तेरथुः तेर । ततार — ततर तेरिव तेरिम ।", "71101": "<<उपधायाश्च>> - उपधायाश्च ।ऋत इद्धातो॑रित्यनुवर्तते । तदाह — धातोरित्यादिना । चङिउरृ॑दित्युपधाया ऋत्त्वपक्षे आह — अचीकृतदिति । उपधाया ऋत्त्वे कृदित्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वेदीर्घो लघो॑रिति दीर्घं इति भावः । ऋत्त्वाऽभावपक्षे आह — अचिकीर्तदिति । ॠत इत्त्वे रपरत्वे 'उपधायां च' इति दीर्घे कीर्दित्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे चुत्वमिति भावः । लघुपरकत्वाऽभावेन सन्वद्भावविषयत्वाऽभावान्नाऽभ्यासदीर्घः ।आकुस्मा॑दित्यत्र आङभिविधाविति मत्वाह — तमभिव्याप्येति । ननुणिचश्चे॑ति सिद्धे आत्मनेपदविधानं व्यर्थमित्यत आह - अकर्तृगामीति । ननु 'दशि दंशने' णिजभावेदंशती॑ति कथम् । आकुस्मीयत्वेन णिजभावेऽपि तङो दुर्वारत्वादित्यत आह — आकुस्मीयमिति ।दंशसञ्जस्वञ्जां शपी॑ति नलोपमाशङ्क्य आह — नलोपे सञ्जीति । स्पश ग्रहणेति । अपस्पशत ।अत्स्मृदृत्वरे॑ति अभ्यासस्य अत्त्वम् — इत्त्वापवादः । गूर उद्यमने । अयं दीर्घोपधः । गूरयते । तदादौ तु 'गुरी उद्यमने' इति ह्रस्वोपधः । दिवदौ तुधूरी, गूरी हिंसागत्यो॑रिति दीर्घोपध एवेति केचित् । ह्रस्वोपध इत्यन्ये । विदधातोरर्थभेदे विकरणभेदं सङ्गृह्णाति — सत्ताया#ं विद्यतेइत्यादिश्लोकेन । कुस्म नाम्नो वा । गणसूत्रम् ।कुस्मे॑ति पृथक्पदमविभक्तिकम् ।तदाह — कुस्म इति धातुरिति ।कुत्सितस्मयने वर्तते॑ इति शेषपूरणं, व्याख्यानादिति भावः । णादिति भावः । अचुकुस्मतेति । उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः ।नाम्नो गृह्रते, प्रत्यासत्त्या । तथा चकुस्मेति धातोः, कुस्मेतिप्रातिपदिकाद्वा णिजिति फलितम् । तत्रधातोर्णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकाण्णिचि विशेषमाह — ततिति । तस्मात् = प्रातिपदिकादित्यर्थः । धात्वर्थे इति । करोतीत्यर्थे, आचष्टे इत्यर्थे वेत्यर्थः । नच 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकाण्णिच् सिद्ध इति वाच्यम्,आकुस्मादात्मनेपदिनः॑ इत्यात्मनेपदनियमार्थत्वात् । इत्याकुस्मीयाः । शब्द उपसर्गादिति । उपसर्गात्परः शब्दधातुराविष्कारे वर्तते इत्यर्थः । अनुपसर्गाच्चेति । अनुपसर्गात्परोऽपि शब्दधातुर्णिचं लभते इत्यर्थः ।आविष्कारे॑इत्यस्यैवानुवृत्त्यर्थं पृथगुक्तिः ।शब्द आविष्कारे चे॑त्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात् । तदाह — आविष्कारे इत्येवेति । काण्यादीनामिति । इदं वार्तिकं भ्राजभासभाषे॑ति सूत्रे भाष्ये पठितम् ।काणिराणिश्रणिभणिहेठिलोपयः षट्काण्यादयः॑ इत भाष्यम् । अचीकणदिति । ह्रस्वत्वपक्षे लघुपरकत्वादभ्यासस्य सन्वत्त्वमिति भावः । शशपोरिति । शविकरणे, शब्विकरणे चेत्यर्थः । हन्त्यर्थाश्चेति । गणसूत्रमिदम् । हन हिंसागत्योरिति हनधातोर्हिंसा गमनं चार्थः । एतदर्थका ये धातवो भ्वादिषु नवसु गणेषु पठितास्ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः । ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् । तदाह — नवगण्यामित्यादि । दिवु मर्दने । उदित्तवादिति । उदित्करणम् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थम् । द्यूत्वा देवित्वा । इडभावे ऊठ् । इटि तु — न क्त्वा से॑डिति कित्तवनिषेधाद्गुण इति स्थितिः । अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन क्त्वयामिड्विकल्पस्य अप्रसक्तेरुदित्करमं व्यर्थं सज्ज्ञापयति अस्य दिवुधातोर्णिज्विकल्प इतीति भावः । घुषिर्विशब्दने । विशब्दनं = शब्देन स्वाभिप्रायाविष्करणं, प्रतिज्ञानं च । भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः । घोषयतीति । शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थः, प्रतिजानीते इति वा । लिङ्गादिति । इण्निषेधप्रकरणे 'घुषिर् अविशब्दने' इति सूत्रम् । अविशब्दनार्थकाद्धुषधातोर्निष्ठआमिण्न स्यादित्यर्थः । यथा — ॒घुष्टा रज्जुः॑ । प्रसारितेत्यर्थः । अविशब्दने इति किम् । अवघुषितं वाक्यम् । प्रतिज्ञातमित्यर्थः । अत्र विशब्दनार्थकत्वान्नेण्निषेध इति स्थितिः । तत्र विशब्दनार्थकस्य घुषदातोश्चौरादिकत्वेन ण्यन्तत्वनियमाण्णिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेतीण्निषेधे विशब्दनपर्युदासो व्यर्थः सन् चौरादिकस्याऽस्य विशब्दनार्थकस्य घुषेर्णिचो विकल्पं गमयति । एवं चअवघुषितं वाक्य॑मित्यत्र चौरदिकघुषेर्विशब्दनार्थकस्य निष्ठायामिण्निषेधो नेति भाष्ये स्पष्टम् । इरित्त्वादङ् वेति ।णिजभावपक्षे॑इति शेषः । ननु इरित्त्वादेव णिजविकल्पे सिद्धे 'घुषिरविशब्दने' इति इण्निषेधसूत्रे 'अविशब्दने' इति पर्युदासास्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन्न, अत एव भाष्यादिरित्त्वाऽभावविज्ञानात् । एवं च 'घुषिर्विशब्दने' इत्यत्रघुषी॑रित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् ।इरित्त्वादङ्वे॑ति मूलं तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तां तावत् । आङः क्रन्द सातत्ये इति । आङः परः क्रन्ददातुराह्वानसातत्येऽर्थे णिचं लभते इत्यर्थः । यद्वाआह॑इत्यनन्तरं 'घुषि' रित्यनुवर्तते । 'क्रन्दसातत्ये' इत्यर्थन#इर्देशः । तदाह — अन्ये त्विति । लस शिल्पयोगे इति । कौशले इत्यर्थः । तसि भूषेति । अत्र तसिः प्रायेण अवपूर्वः । तदाह — अवतंसयतीति । ज्ञा नियोगे इति । आङ्पूर्वः । तदाह — आज्ञापयतीति । आदन्तत्वात्पुक् । अजिज्ञपत् । यत निकारेति । तालव्याऽन्तः स्थादिः । यत्नो वा प्रैषो वा - निकारः । यातयति । अयीयतत् । अञ्च विशेषण इति । व्यावर्तने इत्यर्थः । उदित्त्वमिति ।उदितो वेटत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः । ण्यन्तात्तु णिचा व्यवधानादिड्विकल्पस्य न प्रसक्तिरिति भावः । नन्वस्यनित्यण्यन्तत्वादण्यन्तत्वमसिद्धमित्यत आह — अत एवेति । च्यु सहने इति । च्यावयति । अचुच्यवत् । भुवोऽवकल्कने इति । अवकल्कनवृत्तेर्भूधातोर्णिच् स्यादित्यर्थः । कृपेश्चेति । अवकल्कनवृत्तेः कृपेर्णिच् स्यादित्यर्थः । कल्पयतीति । 'कृपो रो लः' इति लत्वम् । आ स्वदः सकर्मकादिति । आङभिविधौ । तदाह — स्वदिमभिव्याप्येति । तत्र 'ष्वद आस्वादने' इत्यस्य अकर्मकत्वादाह — संभवत्कर्मभ्य इति । इत आरभ्य आस्वदीयाः सकर्मकाः । स्वदिस्त्वकर्मकः । पट पुटेति । एकतिंरशद्धातवः । आद्यास्त्रयष्टान्ताः । आद्यद्वितीयौ पवर्गं प्रथमादी । चतुर्थाद्या एकादशैदितः । त्रिसिपिसी इदुपधौ इत्येके । अदुपधावित्यन्ये । षोडशसप्तदशाविदितौ । अलुलोकत् अलुलोचदित्यत्र उपधाह्रस्वे प्राप्ते —", "71102": "<<उदोष्ठ्यपूर्वस्य>> - उदोष्ठ ।ऋत इद्धातो॑रित्त ऋत इत्यनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयवषष्ठन्तमोष्टयस्य विशेषणम् । अपरं तु ऋता विशेष्यते । तदन्तविधिः । तदाह — अङ्गावयववौष्ठएत्यादिना । अङ्गावयवेति किम् । समीर्णः । 'ऋ गतौ' क्र्यादिः । तस्मात्संपूर्वात् क्तप्रत्यये\tश्र्युकः किती॑तीण्निषेधेऋत इद्धातो॑रिति इत्त्वे रपरत्वेहलि चे॑ति दीर्घेरदाभ्या॑मिति निष्टानत्वे तस्य णत्वे समीर्ण ति रूपम् । तत्र मकारात्मकौष्टपूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात् ।अङ्गावयवे॑त्युक्तौ तु मकारस्य ओष्ठस्य अङ्गावयवत्वाऽभावादुत्त्वं न भवति । तथा च प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता । तां परिहरति — गुणवृद्धी इति । इममिति । उत्त्वविधिमित्यर्थः । पिपर्तीति । उत्त्वात्परकत्वाद्गुण इति भावः । पिपृ तस् इति स्थिते आह -उत्त्वमिति । ङित्त्वेन गुणाऽभावादुदोष्ठएत्युत्त्वमिति भावः । पिपुरतीति । अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाऽऽभावादुत्त्वमिति भावः । पिपर्षि पिपूर्थ । पिपर्मि पिपूर्वः । पिपूर्मः । लिटि णल्याह — पपारेति । उत्त्वात्परत्वाद्वृद्धिरिति भावः ।अर्तिपिपत्र्योश्चे॑त्यभ्यासस्य नेत्त्वम्, तत्र श्लावित्यनुवृत्तेः । प्राप्ते इति । गुणे नित्यं प्राप्ते इत्यर्थः ।", "71103": "", "72001": "<<सिचि वृद्धिः परस्मैपदेषु>> - अथ लुङि सिचि वीभावेसार्वधातुकार्धधातुकयो॑रिति गुणे प्राप्ते — सिचि वृद्धिः । इगन्तस्येति । वृद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणं, तदन्तविधिरिति भावः । एवं च अकोषीत्यादौ व्यञ्जनस्य न वृद्धिः । अवैषीदिति । लुङिस्तिप् । इकारलोपः । सिचि वीभावः । 'एकाच' इति इण्निषेधः । वृद्धिः । अडागमः । षत्वम् । आजीदिति । सिज्लोपः ।वदव्रजे॑ति हलन्तलक्षणायां वृद्धौनेटी॑ति निषिद्धायामाडागमेआटश्चे॑ति वृद्धिः । लृङि अवेष्यत् आजिष्यत् । तेज पालन इत्यादि । स्पष्टम् । एजृ कम्पन इति । दीप्तौ त्वात्मनेपदी गतः । टु ओ स्फूर्जेति । 'आदिर्ञिटुडव' इति टुरित्, उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् ।ट्वितोऽथु॑जित्थथुच्,आदितश्चे॑ति निष्ठानत्वम्,ओदितश्चे॑ति निष्ठायामिण्निषेधश्च । तत्फलानि ।उपधायां चे॑ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः । तेन हुर्छतीत्यादौ न दीर्घ इत्याहुः । स्फूर्जतीति । लिटि — पुस्फूर्ज, अस्फूर्जीत् । क्षि क्षय इति । क्षयो — नाशः । अन्तर्भावितण्यर्थ इति । नाशनार्थक इत्यर्थः । अजन्तेष्वेवास्य पाठो युक्तः । क्षयतीति । नश्यतीत्यर्थः,नाशयतीति वा । शपि गुणेऽयादेशः । चिक्षायेति । णलि वृद्धिः । आयादेशः । चिक्षियतुरिति ।असंयोगा॑दिति कित्त्वान् गुणः । इयङ् । चिक्षयिथ — चिक्षेथेति । पित्त्वेन कित्त्वाऽभावाद्गुणः । अजन्तत्वात्तासौ नित्याऽनिट्त्वाच्च भारद्वाजनियमात्थलि वेट् । इट्पक्षेऽयादेशः । चिक्षियथुः । चिक्षिय । चिक्षाय चिक्षय । वस्मसोस्तु क्रादिनियमान्नित्मिट् । तदाह -चिक्षियिव चिक्षियिमेति । क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् ।", "72002": "<<अतो ल्रान्तस्य>> - अतो ल्रान्तस्य ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवृत्तम् । अङ्गस्येत्यधिकृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धेऽन्तग्रहणं व्यर्थम् । तत्राह - ल्रेति लुप्तषष्ठीकमिति । ल्र अन्तस्य इति छेदः । ल् च रश्चेति समाहारद्वन्द्वात्षष्ठएकवचनं लुप्तम् । ल्रस्यान्तस्येति सामानाधिकरण्येनान्वयः । 'अत' इति व्यधिकरणषष्ठन्तम् — अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथा च अतः समीपवर्तिनो ल्रस्येति लभ्यते । ल्रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः । ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । 'अत' इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति तदाह — अतः समीपावित्यादिना । अतः समीप इति किम् । अखोरीत् । अमीलीत् । ल्रान्तस्येति किम् । मा भवनातीति । अतो वृद्धिरुत्युक्ता अतः समीपावित्यनुक्तौ तु अवभ्रीत् अआल्लीदित्यत्रातिपव्याप्तिः । अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः । न चात्र अतो भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः, आलीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यं, सिचि परे यदङ्गं तदकारस्य वृद्धिरित्यर्थाश्रयणेऽतिव्याप्तवारणार्थत्वात् । ञि फलेति । विशरणं — शिथिलीभावः । 'आदिर्ञिटुडवःर' इति ञिरित् । 'ञीतः क्तः' इति प्रयोजनम् ।आदितश्चे॑ति तीण्निषेधार्थमादित्त्वम् । लिण्निमित्तादेशादित्वादप्राप्ते आह -तृफलेति । मील श्मीलेति । निमेषणं — नेत्रसंकोचः । संकोचेति पाठेऽप्ययमेवार्थः । णील वर्ण इति । वर्णक्रियायामित्यर्थः । फल निष्पत्ताविति । ञि फलेति पूर्वं पठितम् । अनुबन्धभेदात्पुनः पाठः । खोलृ खोरृ इति । द्वितीयो रेफान्त ऋदित् । इत आरभ्यष्ठिवेः प्राग्रेफान्ताः । धोरृगतिचातुर्य इति । अआगतिविशेष इत्यर्थः । रेपान्तोऽयम्, ऋदित् । त्सर छद्मगताविति । कपटगतावित्यर्थः । क्मर हूर्छन इति । कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति । इदुपधः, उदित् । इत आरभ्य ऊष्मान्तेभ्यः प्राग्वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह -ष्विनुक्लम्वितीति । ल्युटि तु शित्परकत्वाऽभावाद्धीर्घऽभावे लघूपधगुणः । 'ष्ठीवन' मिति तु पृषोदरादित्वात्समाधेयम् । अस्येति । ष्ठिनुधातोर्द्वितीयो वर्णस्थकार इत्यर्थः । कृतष्टुत्वस्य निर्देश इति भावः । षोपदेशोऽयं, केवलदन्त्यथकारपरकसादित्वात् । षोपदेशत्वेऽपि न सत्वम्, 'सुब्धातुष्ठिवु' ति निषेधात् । लिटि तु 'शर्पूर्वाः खयःर' इति षकारवकारयोर्निवृत्त्या ष्टुत्वनिवृत्तौ रूपमाह — तिष्ठेवेति । ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति । जिधातुरनिट्कः । सँल्लिटोर्जेः ।अभ्यासाच्चे॑ति सूत्रादभ्यासादित्यनुवर्तते ।चजोः कुघिण्यतो॑रित्यस्मात्कु इति च ।संल्लिटो॑रिति निमित्तसप्तमी अभ्यासे अन्वेति । तदाह - संल्लिण्निमित्तो योऽभ्यास इत्यादि ।सनि लिटि च अभ्यासात् परस्य कुत्व॑मिति व्याख्याने तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात् । अतःसंल्लिण्निमित्तो योऽभ्यास॑ इति व्याख्येयमिति माधवः । जिगायेति । णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः । जिग्यतुरिति । कित्त्वाद्गुणाऽभावः । लिटि 'एकाच' इति इण्निषेधं बाधित्वा क्रादिनियमादिटि प्राप्ते,थलिअचस्तास्व॑दिति तन्निषेधस्य भारद्वाजनियमाद्विकल्पः । तदाह — जिगयिथ जिगेथेति । जिग्यथुः । जिग्य ।णलुत्तमो वे॑ति मत्वा आह — जिगाय जिगयेति । क्रादिनियमादिटं मत्वा आह — जिग्यिव जिग्यिमेति । जेतेति । जेष्यति । जयतु ।अजयत् । आशीर्लिङिअकृत्सार्वधातुकयो॑रिति दीर्घ मत्वा आह — जीयादिति । अजैषीदिति ।सिचि वृद्धि॑रिति वृद्धिरिति भावः । अजेष्यते । षर्वधातुः षोपदेशः । इविधातोरिदित्त्वान्नुम् । तदाह — इन्वतीति । इन्वांचकारेति । नुमि इजादिगुरुमत्त्वादमिति भाव- । पिवि मिवीत्यादय इदितः ।", "72003": "<<वदव्रजहलन्तस्याचः>> - अत्र वृद्धिमाशङ्कितुमाह— वदव्रज। वद व्रज हलन्त एषां समाहाद्वन्द्वात् षष्ठ्येकवचनम्। अङ्गस्येत्यधिकृतम्। सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते। तदाह— वदेरित्यादिना। हलन्तत्वादेव सिद्धे वदव्रजग्रहणं तु अवादीदव्राजीदित्यत्र अतो हलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम्।", "72004": "<<नेटि>> - नेटि - नेटि। प्रागुक्तं नेति। ‘वदव्रजहलन्तस्याच’ इत्युक्तं नेत्यर्थः। तत्र वदव्रजयोर्विशिष्य विधानाद्धलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम्। हलन्तलक्षणा वृद्धिस्तु अधाक्षीदित्यादावनिडादौ सिचि चरितार्था। नन्वातीदित्यातौ अकारस्य वृद्धौ सत्यामसत्यां च आटा एकादेशे सति रूपे विशेषाऽभावात् किं तन्निषेधेनेत्याशङ्क्याह— मा भवानतीदिति। माङ्योगे आडभावे सति वृद्धिनिषेधः सफल इति भावः। चितीति। ईदित्त्वं ‘श्वीदितो निष्ठाया’मिति इण्निषेधार्थम्। चेततीति। शपि लघूपधगुणः। चिचेतेति। तिबादेशणलः पित्त्वेन असंयोगादिति कित्त्वस्याऽप्रवृत्तेर्न गुणनिषेधः। चिचिततुरित्यादौ तु कित्त्वान्न गुणः। अचेतीदिति। ‘इट ईटी’ति सलोपः। अचेतिष्टामिति। अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः। नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः। च्युतिरिति। अत्र इकारस्य रेफस्य च प्रत्येकमित्संज्ञायामिदित्त्वान्नुमि प्राप्ते आह— इर इत्संज्ञेति। तथा च इरिति समुदायस्य इत्संज्ञकत्वादिदित्त्वाऽभावान्न नुमिति भावः। च्योततीति। लघूपधगुणः। चुच्योतेति। णलः पित्त्वेन कित्त्वाऽभावान्न गुणनिषेध इति भावः। चुच्युततुरित्यादौ तु कित्त्वान्न गुणः। लुङि च्लेः सिचि प्राप्ते।", "72005": "<<ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्>> - ह्रन्त । ह्रन्त क्षम आस जागृ इआ एदित् — एषां द्वन्द्वात्षष्ठी । ह् म् य् इत्येते वर्णा येषामन्तेते ह्रन्ताः । तदाह — हमयान्तस्येति । क्षणादेरिति । आदिना आस जागृ इत्यनयोग्र्रहणम् । ण्यन्तस्येति । प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः । आयतेरिति । इआधातोरित्यर्थः । एदित इति । एत् इद्यस्येति विग्रहः । वृद्धिर्न स्यादिति ।सिचि वृद्धि॑रित्यतो,नेटी॑त्यतश्च तदनुवृत्तेरिति भावः । इडादौ सिचीति ।सिचि वृद्धि॑रित्यतः सिचीति,नेटी॑त्यत इटीति चानुवर्तत इति भावः । अकटीदिति । एदित्वान्न वृद्धिः । अट पटेति ।अत आदे॑रिति दीर्घं मत्वाह - आटेति । पेटतुरिति । एत्त्वाभ्यासलोपौ । वटवेष्टने । ववटतुरिति ।न शसददवादिगुणाना॑मिति निषेधः । ववटिथेति । अत्रथलि च सेटी॑ति प्राप्तस्यन शसददे॑ति निषेधः । किट खिट त्रास इति । यद्यपि 'इट किट कटी गता' विति अग्रे किटधातुः पठते, तथाप्यर्थ भेदात्पुनरिह पाठः । खिट त्रासे,किट गतौ चेति पठितुं युक्तम् । शिट षिटेति । आद्यस्तालव्यादिः । द्वितीयस्तु षोपदेशः । जट झटेति । आद्यस्य अवैरूप्यापादकादेशादित्वादेत्त्वाऽभ्यासलोपौ । द्वितीयस्य तु न । जेटतुः जझटतुः । णट नृत्ताविति । णोपदेशेः । चुरादारेव नाटेः पर्युदासादयं णोपदेश एव । प्रणटति । इट किट कटी गताविति ।कटे वर्षाऽवरणयो॑रिति कटिः पूर्वमेदित्पठितः । इह ईदित्पठते । एदित्त्वाऽभावात् ह्रन्तेति वृद्धिनिषेधो न भवति । अकटीत् अकाटीत् । ननु तर्हि कटेत्येव कुतो न पठत इत्यत आह — ईकार इति । केचित्त्विति । कटि इति ह्रस्वान्तपाठं मत्वा इदित्त्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः । अन्ये त्विति । उदाहरन्तीत्यन्वयः । प्रश्लिष्येति । कटीत्यनन्तरम् इ ई इति धातुद्वयं सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः । अयतीति । इधातोर्लटि शपि गुणेऽयादेशः । इयायेति । णलि द्वित्वे वृद्धौ आयादेशे 'अभ्यासस्याऽसवर्णे' इति इयङ् । इयुतिरिति । इकारोऽत्र ह्रस्वः । तथाहि — इ-अतुसिति स्थिते कित्त्वाऽद्गुणाऽभावेद्विर्वचनेऽची॑ति निषेधाद्यणभावे 'इ' इत्यस्य द्वित्वे इ इ अ — तुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयङभावे सति 'वार्णादाङ्गं बलीय' इति सवर्णदीर्घं बाधित्वा 'एरनेकाच' इत्युत्तरखण्डस्य यणिइयतु॑रिति रूपम् । इधातोर्भारद्वाजनियमात्थलि वेट् । तत्र इट्पक्षे रूपमाह — इययिथेति । थलि द्वित्वे इटि पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्य इयङ् । न चाऽचः परस्मिन्निति गुणस्य स्थानिवत्त्वेनाऽसवर्णपरत्वाऽभावात्कथमभ्यासस्य इयङिति वाच्यम्, असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाऽप्रसक्तेः । एवं णलि इयायेत्यत्रापि वृद्धेर्न स्थानिवत्त्वम् । थलि इडभावपक्षे रूपमाह — इयेथेति । थलि द्वित्वे गुणेऽभ्यासस्येयङ् । अथुसि इयथुः । इयेति । थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य 'एरनेकाच' इति यणि रूपम् ।णलुत्तमो वे॑ति णित्त्वपक्षे आह-इयायेति । द्वित्वे पित्त्वेन कित्त्वाऽभावाद्वृद्धावायादेशेऽभ्यासस्य इयङ् । णित्त्वाभावे आह — इययेति । द्वित्त्वे पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्येयङ् । वसि मसि च क्रादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य 'एरनेकाच' इति यणि इयिव इयिमेति रूपम् । एता एष्यति अयतु आयत् अयेत् । आशीर्लिङि तुअकृत्सार्वधातुकयो॑रिति दीर्घः । ईयात् । सिचि वृद्धिः । ऐषीत् । ऐष्यत् । दीर्घस्य त्विति । दीर्घस्य ईधातोरित्यर्थः । तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत् । लिटि विशेषमाह — अयाञ्चकारेति । ईधातोरामि गुणे अयादेशः, अनुप्रयोगश्च । कुडि वैकल्य इति । वैकल्यमविवेक इत्याहुः । अपूर्णभावो वा । मुड प्रुड मर्दन इत्यादि । स्पष्टम् । पठधातोर्लिटि अतुसादौ किति एत्वाभ्यासलोपौ । तदाह - पेठतुरिति । पेठिथेति । पित्त्वेन अकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलौपौ । अपठीत् अपाठीदिति ।अतो हलादेर्लघो॑रिति वृद्धिविकल्पः । वठ स्थौल्य इति । स्थौल्यं — स्थूलीभवनम् ।न शसददवादिगुणाना॑मित्येत्वाभ्यासलोपनिषेध इति मत्वाह — ववठतुः । ववठिथेति । दोपधा इति । ष्टुत्वेन डोपधनिर्देश इति भावः । चुदिति । चुड्डधातोः क्विपि हल्ङ्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ 'वावसाने' इति चर्त्त्वे चुदिति रूपम् । अदिति । अड्डधातोः क्विपि पूर्ववद्रूपम् । कदिति । कड्डधातोः क्विपि रूपम् । इत्यादीति । आदिना जश्त्वेन चुदित्यादिसङ्ग्रहः । एकत्वस्मरणादिति ।शिक्षादा॑विति शेषः । गडडि वदनेति । तवर्गान्तेषु गडीति गतम् । परस्मैपदिनः शौटु गर्व इत्यादयो गताः । तिपृ इति । प्रथमतृतीयाविदुपधौ । द्वितीयचतुर्थौ एदुपधौ । तृतीयचतुर्थौ षोपदेशौ च,तकारस्य ष्टुत्वेन टकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् । आद्य इति । तिपृधातुरित्यर्थः । भाष्यादावनुदात्तोपदेशेष्वस्य पाठादिति भावः । बभ्रामेति । भाष्यविरुद्धत्वादिति भावः । आद्यस्योदाहरति — तेपत इति । शपि लघूपधगुणः । तितिप इति ।असंयोगा॑दिति कित्त्वान्न गुणः । अथ तितिपिष इत्यत्र 'एकाच उपदेश' इति निषेधमाशङ्क्याह - क्रादिनियमादिति । तेप्स्यत इति । लोडादौ तु तेपतामा, अतेपत, तेपेत । अथाशीर्लिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति । तत्र लघूपधगुणे प्राप्ते — ।", "72006": "<<ऊर्णोतेर्विभाषा>> - ऊर्णोतेर्विभाषा ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवर्तते,नेटी॑त्यत इटीति च । तदाह — इडादाविति । आत्मनेपदे तु लुङि और्णविष्ट और्णुविष्ट । और्णविष्यत् — और्णुविष्यत् । और्णविष्यत — और्णुविष्यत । द्यु इति । अनिट् । द्यौतीति । उतो वृद्धिः । सार्वधातुके लिटि च युधातुवत् । द्योतेति । द्योष्यति । अद्यौषीत् । षु प्रसव इति । षोपेशोऽयम् । अनिट् । सौतीत्यादि द्युदातुवत् । एवं कु शब्दे इतय्पि । ष्टुञ् स्तुताविति । उभयपदी अनिट् । 'तुरुस्तुशम्ययः' इति ईड्विकल्पम्, ईडभावपक्षे तु उतो वृदिंध च मत्वा आह — स्तौति स्तवीतीति । स्तुवन्ति । स्तौषि — स्तवीषि, स्तुथः — स्तुवीथः, स्तुथ-स्तुवीथ । स्तौमि-स्तवीमि, स्तुवःस्तुवीमः । स्तुमः । स्तुवीमः । आत्मनेपदे लटि ईड्विकल्पं मत्वा आह — स्तुते । स्तुवीते इति । स्तुवाते स्तुवते । स्तुषे — स्तुवीषे स्तुवाथे स्तुध्वे-स्तुवीद्वे ।स्तुवे स्तुवहे — स्तुवीवहे स्तुमहे — स्तुवीमहे । लिटि — तुष्टाव तुष्टुवतुः तुष्टुवुः । क्रादित्वात्थल्यपि नेड्भवति । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव — तुष्टव । तुष्टुव तुष्टुम । तुष्टुवे इत्यादि । स्तोता । स्तोष्यति स्तोष्यते । स्तौतु — स्तुवीतु, स्तुतात् — स्तुवीतात्, स्तुताम् — स्तुवीताम्, स्तुवन्तु । स्तुहि — स्तुवीहि, स्तुतात् — स्तुवीतात्, स्तुतम्-स्तुवीतम्, स्तुत-स्तुवीत । स्तवानि स्तवाव स्तवाम । स्तुताम् — स्तुवीताम्, स्तुवाताम्, स्तुवताम् । स्तुष्व — स्तुवीष्व स्तुवाथाम् स्तुध्वम् — स्तुवीध्वम् । स्तवै स्तवावहै स्तवावहै । लङि — अस्तौत्-अस्तवीत् अस्तुताम् — अस्तुवीतामस्तुवन् । अस्तौः — अस्तवीः, अस्तुतम् — अस्तुवीतम्, अस्तुत — अस्तुवीत । अस्तवम्, अस्तुव-अस्तुवीव, अस्तुम-अस्तुवीम । अस्तुत — अस्तुवीत अस्तुवातामित्यादि । विधिलिङि स्तुयात् — स्तुवीयादित्यादि । आत्मनेपदे स्तोषीष्टेत्यदि । लुङि सिचि इडभावे प्राप्ते आह — स्तुसुधूञ्भ्य इति । तथा चइट ईटी॑ति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति । अस्ताविष्टामित्यादि । 'स्तुसुधूञ्भ्यः' इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इण्न । अस्तोष्ट अस्तोषातामित्यादि ।", "72007": "<<अतो हलादेर्लघोः>> - अतो हलादेः ।सिचि वृद्धिः परस्मैपदेष्वि॑त्यनुवर्तते ।नेटी॑त्यस्मादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषेति च । तदाह — हलादेरिति । हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहणं स्पष्टार्थं, हलः परस्येत्येव सिद्धेः । अखादीत् अखदीदिति । वृद्धौ तदभावे च इट ईटीति सिज्लोपः । अखादिष्टाम्, अखदिष्टामित्यादि । बदेति । स्थैर्यं — स्थिरीभवनम् । पवर्गीयादिरिति । पवर्गतृतीयादिरित्यर्थः । नतु दन्त्योष्ठआदिरिति भाव- । बबादेति । 'अत उपाधायाः' इति वृद्धिः । बेदतुरिति । अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाऽभावादेत्त्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु पित्त्वेन कित्त्वाऽभावादेत्त्वाभ्यासलोपौ न । बेदिथेति । अकित्त्वेपिथलि च सेटी॑त्येत्वाभ्यासलोपौ । बेदथुः बेद । अथ उत्तमपुरुषणलिणलुत्तमो वे॑ति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याह — बबाद बबदेति । बेदिव बेदिम । अबादीत् अबदीदिति ।अतो हलादे॑रिति वृद्धिविकल्पः । गदेति । व्यक्तवाक् — मनुष्यकृतशब्दप्रयोगः । जगादेति । चुत्वजश्त्वे । उपधावृद्धिः । वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न । जगदतुः चगदुरित्यादि ।", "72008": "<<नेड् वशि कृति>> - नेड्वशि कृति । षष्ठर्थे सप्तम्यौ । वशा कृद्विशेष्यते । तदादिविधिः । तदा — वशादेरिति । सुशर्मेति । शृधातोर्मनिन् । प्रातरित्वेति । इण्धातोः क्वनिप् ।", "72009": "<<तितुत्रतथसिसुसरकसेषु च>> - तितुत्रत । ति, तु, त्र, त,थ, सि, सु, सर, क , स एषां दशानां द्वन्द्वः । अत्रसरे॑त्येकम् । ति, — तन्तिः ।स्त्रिया॑मिति क्तिन् । तु- सक्तुः ।तनिगमी॑त्यादिनातु॑प्रत्ययः । त्र, — शस्त्रम्, पत्रम् ।दाम्नी॑ति त्रप्रत्ययः । त, — हस्तः । औणादिकस्तप्रत्ययः । क्तप्रत्यये तु हसितमित्येव । थ — कुष्टम् । औणादिकः क्थप्रत्ययः । सि — कुक्षिः । कुषेरौणादिकः क्सिप्रत्ययः । सु — इक्षुः । इषेरौणादिकः क्सुप्रत्ययः । सर — अक्षरम् । अशेः सरन् । कृ शल्कः । शलेः कः । स — वत्सः ।वदेः सः॑ । मेढ्रमिति । 'मिह सेचने' त्रः । ढत्वध्तवष्टुत्वलोपाः । दंष्ट्रेति । दंशधातोस्त्रः । क्ङित्प्रत्ययाऽभावान्नलोपो न । सूत्रे दशेति शपा नर्देशात्दंशसञ्जे॑ति नलोपः । केचित्तु देशेत्यकार उच्चारणार्थः । नलोपनिर्देशात्क्वचिदन्यस्मिन्नपि प्रत्यये अक्ङित्यपि नलोप इति 'दशन दन्ताः' इत्याहुः । नद्ध्रीति । नह्रते अनयेति विग्रहः । चर्मरज्जुः । 'नह बन्धने' त्रः । 'नहो धः'झषस्तथो॑रिति तस्य धः । षित्त्वाङीष् ।", "72010": "<<एकाच उपदेशेऽनुदात्तात्>> - अथ लिटि थासः सेभावे 'कृ' इत्यस्य द्वित्वादौ एधां च कृ से इति स्थितेआर्धधातुकस्येड्वलादे॑रितीडागमे प्राप्ते -एकाच उपदेशे । 'ऋत इद्धातो' रित्यतो धातुरित्यनुवर्तते ।नेड्वशि कृती॑त्यतो नेति च । तदाह — उपदेशे यो धातुरेकाजिति । #एकोऽच् यस्येति बहुव्रीहिः । आर्धधातुकस्येति । यद्यपीदं न श्रुतं, नाप्यनुवृत्तलभ्यं, तथाप्यार्थिकमिदम्, आर्धधातुकस्यैवेटः प्राप्तेः । वृत्तिग्रन्थे तु आर्धधातुकस्येति नोपात्तम् । नन्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेशे इत्येतदेकाच इत्यत्रान्वेति तदा कर्तु मित्यत्र इण्निषेधो न स्यात्, कृञ्धातोरूदृदन्तैरित्यादिनाऽनुदात्तत्वस्य वक्ष्यमामत्वेऽपि तुमुन्प्रत्यये कृतेञ्नत्यादिर्नित्य॑मित्याद्युदात्तत्वात् । यदि तूपदेशे इत्येतदनुदात्तादित्यनेनान्वेति तदा यद्यपि नायं दोषः, कृते तुमुन्प्रत्यये उदात्तत्वेऽपि दातूपदेशकालेऽनुदात्तत्वेन तत्र इण्निषेधस्य निर्बाधत्वात्तथापि एधांचकृषे इत्यादाविण्निषेधो न स्यात्, द्वित्वे कृतेऽकाच्त्वादित्यत आह — उपदेश इत्युभयान्वयीति । 'उपदेश' इत्येतत्एका॑जित्यत्र, 'अनुदात्ता' दित्यत्र चान्वेति, मध्यममिन्यायादिति भावः । ननूदृदन्तैरित्यादिना परिगणितानामनुदात्तोपदेशधातूनामेकाच्त्वाऽव्यभिचारादेकाज्ग्रहणं मास्तु, उपदेशेऽनुदात्तादित्येवास्तु, #एतावतैव कर्तुं चकृष इत्यादाविण्निषेधसिद्धेरिति पृच्छति — एकाचः किमिति । यङ्लुग्व्यावृत्तिरिति । यङ्लुकि चर्करितेत्यादौ इण्निषेधव्यावृत्तये एकाज्ग्रहममित्यर्थः । ननु कृतेऽप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः, श्तिपा शपेत्यादेरुदाहरणानि यङ्लुङ्निरूपणे स्पष्टीभविष्यन्ति । नन्विह एकाज्ग्रहणाद्यङ्लुकीण्निषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यङ्लुकि व्यावृत्तिः प्राचीनाचार्यसंमताऽपि पाणिनेरसंमतैवेत्यत आह — एतच्चेति । एतत् = श्तपा शपेति श्लोकसिद्धं सर्वमपि, इह = सूत्रे ,एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः । ननु 'हनो वध लिङि'लुङि चे॑ति आह — अच इत्येकत्वेत्यादि व्यावर्त्त्यत इत्यन्तम् ।एकाच उपदेशेऽनुदात्ता॑दित्यत्र हि एकग्रहणमपनीयाऽच इत्युक्तेऽपि एकाऽच्कादिति लभ्यते, एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाऽभावात् । न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत,नत्वेकाच्कादिति बहुव्रीह्रर्थ इति वाच्यम्, अनुदात्तोपदेशेपरिगणने शकॢपचिमुच्यादीनां परिगणनसामर्थ्येन 'अच' इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात् । तदेवमच इत्यनेनैव एकाच्कादिति सिद्धे यदेकग्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कस्मश्चदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुव्र्यावत्र्यत इत्यर्थ- । तेनेति । उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन, हन्त्युपदेशे — हनिति स्थान्युपदेशे — एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण्निषेधो नेत्यर्थ- । कुत इत्यत आह — आदेशोपदेश इति ।अवधी॑दित्यत्र 'अतो हलादेर्लघो' रिति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्तताया भाष्ये उक्तत्वादिति भावः । ननु के तेऽनुदात्ता धातव इत्यत आह — अनुदात्तास्त्वनुपदमेवेति । पदस्य पश्चादनुपदम् । पदमात्रे अतीते सतीत्यर्थः । अनन्तरमेवेति यावत् । एधांचकृषे इति । इडभावे प्रत्ययावयवत्वात्षत्वम् । एधांचक्राथे इति । लिट आथामादेशः । टेरेत्वंद्वित्वादि पूर्ववत् । लिटो धवमष्टेरेत्वे द्वित्वादौ एधाचकृ — ध्वे इति स्थिते ।", "72011": "<<श्र्युकः किति>> - अत्र इण्निषेधं शङ्कितुमाह — श्र्युकः क्किति । श्रिश्च उक् चेति समाहारद्वन्द्वात् षष्ठी । उक् प्रत्याहारः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतमुका विशेष्यते । तदन्तविधिः ।एकाच उपदेशे॑इत्यत इत्यनुवृत्तमिगन्तेऽन्वेति ।नेड्वशि कृती॑त्यतो नेडिति । क्कितीति सप्तमी षष्ठर्थे । गच् कच् क्कौ, तौ इतौ यस्येति विग्रहः । गकारस्य चर्त्वेन निर्देशः । तदाह — श्रिञ एकाच इत्यादिना । गकारप्रश्लेषः किम् । भूष्णुः ।ग्लाजिस्थश्चग्स्नु॑रिति चकाराद्भूधातोर्ग्स्नुः । तस्य गित्त्वादिण्न । कित्त्वे तु स्थास्नुरित्यत्रघुमास्थे॑ति ईत् स्यात् । इण्न स्यादित्यनन्तरम् — अनेन निषेधे प्राप्ते इत्यन्वयः । नन्वियं शङ्का न युज्यते,श्रयुकः क्किती॑ति निषेधं बाधित्वा परत्वात्स्वरतिसूती॑ति विकल्पस्य प्राप्तेरित्यत आह — परमपीत्यादि, सामर्थ्यादित्यन्तम् । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात्परमपि स्वरत्यादिविकल्पं बाधित्वा अनेन निषेधे प्राप्ते इत्यन्वयः ।आर्धधातुकस्ये॑डित्यादिविधिकाण्डात्प्रागेवनेड्वशि कृती॑त्यादि प्रतिषेधकाण्डारम्भसामर्थ्याद॒त्स्वरती॑ति विकल्पोऽप्यनेन बाध्यते इत्यर्थः । परमपीत्यादिः, प्राप्ते इत्यन्तः शङ्काग्रन्थः । परिहरति — क्रादिनियमान्नित्यमिडिति । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एवेत्युक्तत्वादिति भावः । लुटि — स्वरिता स्वर्ता । लृटि स्येस्वरती॑तिविकल्पं निरस्यति — परत्वादिति । स्वरतु । अस्वरत् । स्वरेत् । स्वर्यादिति । आशीर्लिङिगुणोऽर्तिसंयोगाद्यो॑रिति गुणः । अस्वारीदिति ।स्वरती॑तीट्पक्षे वृद्धिरिति भावः । अस्वार्षीदिति । इडभावेसिचि वृद्धि॑रिति वृद्धिरिति भावः । स्मृचिन्तायामिति । अयमप्यनिट् । स्मरति । लिटिऋतश्चे॑ति कित्यपि गुणः । णलि तु गुणे उपधावृद्धिः । सस्मार सस्मरतुः सस्मरुः । ऋदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इटस्थलि नित्यनिषेधः । सस्मर्थ सस्मरथुः सस्मर । सस्मार — सस्मर सस्मरिव सस्मरिम । स्मर्ता । लृटि स्येऋद्धनो॑रितीट् — स्मरिष्यति । स्मरतु । अस्मरत् । स्मरेत् । आशीर्लिङगुणोऽर्ती॑ति गुणः — स्मर्यात् । लुङि सिचि वृद्धौ रपरत्वम् — अस्मार्षीत् । अस्मरष्यत् । द्वृ संवरणे इति.अयमपि स्मृधातुवत् । [अस्यैव द्वारमित्यादि] । सृ गताविति । ऋदन्तोऽयमनिट् । सरति । लिटि संयोगादित्वाऽभावादृतश्चेति गुणो न । ससार सरुआतुः । क्रादत्वान्नेडिति । सृधातोः क्राद#इस्थत्वादिति भावः । ससर्थेति । क्रादित्वात्थल्यपि नित्यं निषेध इति भावः । सरुआथुः सरुआ ।ससार ससार ससृव ससृम । इत्यपि ज्ञेयम् । सर्ता । लृटिऋद्धनो॑रितीट् — सरिष्यति । सरतु । असरत् । सरेत् । आशीर्लिङि संयोगादित्वाऽभावात्गुणोऽर्ती॑ति न गुणः । किंतु 'रिङ् शयग्लिङ्क्षु' इति रिङित्याह — रिङिति । रिउआयादिति । रीङि प्रकृतेरिङ्विधिसामर्थ्यान्न दीर्घ इति भावः । असार्षीदिति । सिचि वृद्धौ रपरत्वम् ।", "72012": "<<सनि ग्रहगुहोश्च>> - सनि ग्रहगुहोश्च । चकारात्श्र्युकः किती॑त्यत उक इत्यनुकृष्यते, न तु श्रयतिः, तस्यसनीवन्तर्धे॑ति विकल्पस्य वक्ष्यमाणत्वात् ।नेड्वशि कृती॑त्यतो नेडिति स इति स्थिते सनः कित्त्वात्ग्रहीज्ये॑ति रेफस्य संप्रसारणमृकार इत्यर्थः । ननु गृह् स इति स्थिते हस्य ढत्वे भष्भावापेक्षया परत्वात्कत्वे सस्य षत्वे च कृते झषन्तत्वाऽभावे कथं भष्भाव इत्यत आह — सनः षत्वस्येति । कत्वस्याऽसिद्धत्वादित्येव सुचवचम् । जिघृक्षतीति । गृह् स इति स्थिते हकारादिणः परस्य षत्वं परत्वात् प्राप्तं, तस्याऽसिद्धत्वात् हस्य ढत्वे भष्भावः, ततः कत्वे कात्परस्य षत्वमिति क्रम इतिभावः । गुहेः जुघुक्षतीत्युदाहार्यम् । उगन्तात् - - बुभूषति । अत्रश्र्युकः किती॑त्यनेन तु न सिध्यति, तत्र कित एव निषेधात् । परत्वादिडागमेइको झ॑लित्यस्याऽप्राप्तेः । स्पष्टं चेदं शब्देन्दुशेखरे । सुषुप्सतीति । सनः कित्त्वात्वचिस्वपी॑ति संप्रसारणं, लघूपधगुणाऽभावश्च ।", "72013": "<<कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि>> - कृसृ । कृ सृ भृ वृ स्तु द्रु रुआउ श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी । लिटीति षष्ठर्थे सप्तमी । 'नेड्वशि कृती' त्यतो नेति इडिति चानुवर्तते । तदाह — एभ्य इति । ननुएकाच उपेदशेऽनुदात्ता॑दिति, 'श्र्युकः किति' इति च सिद्धे किमर्थमिदं सूत्रमित्यत आह -क्रादीनामिति । कृ सृ भृ वृ इत्येतेषामित्यर्थः । नियमस्वरूपमाह - प्रकृत्याश्रय इत्यादि । कृ सृ भृ इत्येषां त्रयाणामनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोःश्र्युकः किती॑ति पत्र्ययाश्रयो निषेधः, तदुभयमपि यदि लिटि स्यात्तर्हि कृसृभृवृ इत्येभ्य एव परस्य लिटो भवति, नतु तदन्येभ्यः परस्येत्यर्थः । तेन बिभिदिव बिभिदिमेत्यादौ 'एकाच उपदेशे' इति निषेधः, बभूविव बभूविमेत्यादौश्र्युकः किती॑ति निषेधश्च न भवति । अथ स्तुद्रुरुआउश्रुवां ग्रहणस्य प्रयोजनमाह — — तत इति ।अन्येषा॑मिति शेषः । चतुर्णामिति ।ग्रहम॑मिति शेषः । ततः = तेभ्यः कृसृभृवृ इत्येभ्यः — अन्येषां स्तुद्रुरुआउश्रुवां ग्रहणं थलि तुष्टोथ दुद्रोथ सुरुआओथ शुश्रोथ इत्यत्रऋतो भारद्वाजस्ये॑ति वक्ष्यमामेनऋदन्तस्यैव थलि नेट् अन्यस्य तु स्यादेवे॑ति नियमेन प्र#आप्तस्य इटो निषेधार्थम्, तथा तुष्टुव तुष्टुमेत्यादौ 'कृसृभृवृ' इत्युक्तेनक्रादिभ्य एव परस्य लिट इण्निषेधः, अन्येभ्यस्तु परस्य इट् स्यादेवे॑ति नियमेन प्राप्तस्य इटो निषेदार्थं चेत्यर्थः । तदेवमजेस्थलि वीभावे 'एकाचः' इति निषेधाऽभावादिडागमो निर्बाध इति स्थितम् ।", "72014": "<<श्वीदितो निष्ठायाम्>> - श्वीदितो निष्ठायाम् । इआ, ईदित् अनयोः समाहारद्वन्द्वात्पञ्चमी ।नेड्वशी॑त्यतो नेडित्यनिवर्तते । तदाह -आयतेरिति ।", "72015": "<<यस्य विभाषा>> - यस्य विभाषा । यस्येति । यस्मादित्यर्थः । निष्ठाया इण्न स्यादिति । 'श्वीदितः' इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तत इति भावः । नन्वञ्चेर्नित्यं सेट्कत्वात् कथं तस्य क्वचिद्वेट्कत्वमित्यत आह — उदितो वेति । समन्क इति । सङ्गत इत्यर्थः । संपूर्वादञ्चुधातोः क्तः ।आर्धधातुकस्ये॑डिति प्राप्तस्य इटो निषेधः ।अनिदिता॑मिति नलोप- । चस्य कुत्वम् । उदक्तमुदकं कूपादिति । उद्धृतमित्यर्थः । अत्राऽपादानसमभिव्याहारसत्त्वान्नत्वं नेति भावः । 'ओ व्रश्चू छेदने' सस्य श्चुत्वेन निर्देशः, अस्मात्क्तः,ग्रहिज्ये॑ति संप्रसारणम्, ऊदित्त्वेन वेट्कत्वादिहयस्य विभाषे॑ति नेट्, चस्य कुत्वेन कः,ओदिश्चे॑ति निष्ठानत्वं, तस्याऽसिद्धत्वेन झल्परत्वात्स्को॑रिति सलोपः णत्वम् । वृक्ण इति रूपमिति स्थितिः । तत्र नत्वस्याऽसिद्धत्वेन झल्परत्वात्व्रश्चे॑ति षत्वं स्यादित्यत आह — निष्ठादेशः षत्वेति । तथा च 'व्रश्चभ्रस्जे' ति षत्वे कर्तव्ये नत्वस्याऽसिद्धत्वाऽभावेन झल्परकत्वाऽभावान्न षत्वमित्यर्थः । स्वरप्रत्ययेड्विधिषूदाहरणानि भाष्ये स्पष्टानि ।", "72016": "<<आदितश्च>> - आदितश्च । निष्ठाया इण्न स्यादिति । 'श्वीदितः' इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तते इति भावः । ति च । 'चरफलोश्चे' ति सूत्रानुवृतिंत मत्वाह — चरलोरिति । अत उत्स्यादिति । 'उत्परस्याऽतः' इत्यतस्तदनुवृत्तेरिति भावः । कितीति ।दीर्घ इणः किती॑त्यतो मण्डूकप्लुप्त्या तदनुवर्तते इति भावः । वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला, निष्पला च, तयोः सेट्कत्वेन निष्ठां विना तकारादिप्रत्ययाऽभावात् । कथं तर्हीति । प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वाऽसंभवादिति भावः । समाधत्ते — फुल्लेति । ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यताअह — सूत्रं त्विति । उत्फुल्लसंफुल्ल्योरिति ।निष्ठातस्य लत्वनिपातन॑मिति शेषः । सोपसर्गार्थं वचनम् ।", "72017": "<<विभाषा भावादिकर्मणोः>> - विभाषा भावादिकर्मणोः । आदितो निष्ठाया इड्वेति ।आदितश्चे॑त्यत आदित इति, 'श्वीदितः' इत्यतो निष्ठाग्रहणं ,नेड्वशी॑त्यतो नेति चानुवर्तते इति भावः । निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते । प्रस्वेदितश्चैत्र इति । चैत्रकर्तृका आरभ्यमाणप्रस्वेदनक्रियेत्यर्थः । ञीद्भिरिति । ञिरिद्येषां ते ञीतः, तैर्मिदिप्रभृतिभिरिति तदर्थः । स विषयः कित्त्वप्रतिषेधस्येति बोध्यम् । स्विद्यतेस्त्विति ।ञि ष्विदा गात्रप्रक्षरणे॑ इति दैवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः । स्विदित इति ।विभाषा भावे॑ति पक्षे इट् । कित्त्वनिषेधविधौ स्विद्यतेग्र्रहणाऽभावात्कित्त्वान्न गुण- । अत्र स्विदादीनाम्आदितश्चेति इट् प्रतिषिध्यते । भावादिकर्मणोस्तु पक्षे इट् ।", "72018": "<<क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु>> - क्षुब्धस्वान्त । क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम् । मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश एषामष्टानां द्वन्द्वात्सप्तमी । यथासङ्ख्यमन्वयः । समुदायेनेति । मन्थादिष्वेते रूढाः । अवयवार्थाऽभिनिवेशो न कर्तव्य इत्याह- द्रव्यद्रव्येति । अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या । मन्थनदण्डश्चेति ।वैशाखमन्थमन्थानमन्थानोमन्थदण्डके॑ इत्यमरः । क्षुब्ध इति । 'क्षुभ संचलने' अस्मात् क्तः, इडभावो निपात्यते ।झषस्तथो॑रिति धः , जश्त्वम् । स्वान्तमिति । स्वनधातोः क्तः,अनुनासिकस्य क्वी॑ति दीर्घः । निपातनान्नेट् ।स्वान्तं ह्मन्मानसं मनः॑ इत्यमरः । ध्वान्तं तम इति ध्वनेः क्तः ।अनुनासिकस्य क्वी॑ति दीर्घः ।अन्धकारोऽस्त्रियां ध्वान्तं तमिरुआं तिमिरं तमः॑ इत्यमरः । लग्नं सक्तमिति । संबद्धमित्यर्थः । लगेः क्तः, इडभावः । ततर् रदाभ्यां परतवाऽभावात्कतं निष्ठानत्वमित्यत आह — निपातनादिति । म्लिष्टमविस्पष्टमिति । इडभावेव्रश्चे॑त षः । तकारस्य ष्टुत्वेन टः ।अथ म्लिष्टमविस्पष्ट॑मित्यमरः । विरब्धः स्वर इति । स्वरविशेष इत्यर्थः । 'रेभृ शब्दे' अस्मात् क्तः, इडभावे 'झषस्तथोर्धोऽध' इति धः । उभयत्र धातुस्वरूपं प्रदर्शयन्नाह — म्लेछ रेभृ अनयोरिति । इत्त्वमपीति । इडभावश्चेत्यर्थः । फाण्टमिति । फणेः क्तः, इडभावः, निष्ठातस्य टत्वं च निपात्यते । तस्याऽसिद्धत्वात्अनुनासिकस्ये॑ति दीर्घः ।अनायासकृतं फाण्ट॑मित्यमरः । वृत्तिकृन्मतमाह — कषायविशेष इति.॒यदशृतमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीपषदुष्णं तत्फाम्टमित्युच्यते॑ इति वृत्तौ स्थितम् । वेदभाष्ये आहेति ।तद्वै नवनीतं भवति । घृतं वै देवानां फाण्टं मननुष्याणा॑मिति शतपथब्राआहृणव्याख्यावसरे आहेत्यर्थः । बाढं भृशमिति । 'बाह्म प्रयत्ने' अस्मात् क्तः, इडभावः, ढत्वधत्वष्टुत्वढलोपाः । अन्यत्र त्विति । मन्थादेर्वाच्यत्वाऽभाव इत्यर्थः ।", "72019": "<<धृषिशसी वैयात्ये>> - धृषिशसी । वियातः = अविनीतः, तस्य भावो वैयात्यम् । तत्रञि धृषा प्रागल्भ्ये॑ इत्यस्य आदित्तवादेवेण्निषेधः सिद्धः,शसु हिंसाया॑मित्यस्य तुउदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑तीण्निषेधः सिद्धः, अतो नियमार्थमित्याह — अविनय एवेति । धृष्टो विशस्त इति । अविनीत इत्यर्थः । अन्यत्रेति । वैयात्याऽभावे इत्यर्थः । धर्षित इति । बालात्कृत इत्यर्थः । विससित इति । हिंसित इत्यर्थः । अत्र वैयात्याऽभावादिण्निषेधो नेति भावः । ननु धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु, ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपिआदितश्चे॑तीण्निषेद एव स्यादित्यत आह — भावादिकर्मणोस्त्विति । नास्तीति । अनभिधानादिति भावः । तत्र वृद्धसंमतिमाह — अत एवेति । भावकर्मणोर्धृषेरनभिधानादेवेत्यर्थः । अन्यथा धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः । चिन्त्यमिति । धृषेरादित्त्वं हि नवैयात्ये आदित्त्वलक्षणेण्निषेधार्थं , 'धृषिशसी वैयात्ये' इत्येव सिद्धेः, नापि वैयात्यादन्यत्र आदित्त्वलक्षणेण्निषेधार्थम्, धृषेर्वैयात्य एव इष्निषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाऽभावात् । नापि धृषेर्वैयात्ये भावादिकर्मणोर्विषयेविभाषा भावादिकर्मणो॑रिति इड्विकल्पार्थं, भावादिकर्णोर्वैयात्ये धृषेरनभिधानात् । तस्माद्धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः । माध्वस्त्विति । अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाऽभावादिति भावः । तत्र अवैयात्ये भावे उदाहरति — धृष्टं धर्षितमिति । आदिकर्मण्युदाहरति — प्रधृष्टओः प्रधर्षित इति ।", "72020": "<<दृढः स्थूलबलयोः>> - दृढः स्थूलबलयोः । बलशब्द अर्शाअद्यजन्तो बलवत्परः । तदाह — बलवति चेति । तस्येति । निष्ठातकारस्य ढत्वं निपात्यते इत्यर्थः । हस्य लोप इति । 'निपात्यते' इति शेषः । इदित इति । अनिदितस्तु नलोपः सिद्ध एवेति भावः । ननु हस्य ढत्वे कृते 'झषस्तथोर्धोऽधः' इति तकारस्य ध्तवे तस्य ष्टुत्वेन 'ढो ढे' इति ढलोपे दृढ इति सिद्धम्, ततश्च इडभाव एव नपात्यतां , न तु हकारलोपो ढत्वं चेति चेत् । मैवम् । तथाहि सति द्रढीयानित्यादौ ढलोपस्याऽसिद्धत्वेन ऋकारस्य संयोगपरकत्वम्, अस्य हलोपस्य साप्तमिकत्वेन असिद्धत्वाऽभावादिति भाष्ये स्पष्टम् ।", "72021": "<<प्रभौ परिवृढः>> - प्रभौ परिबृढः । प्राग्वदिति । तकारढत्वसय् हलोपस्य चेत्यर्थः ।", "72022": "<<कृच्छ्रगहनयोः कषः>> - कृच्छ्रगहनयोः । कृच्छ्रशब्दो दुःखे, तत्कारणे च वर्तते । कष्टं दुःखं, तत्कारणं चेति ।स्यात्कष्टं कृच्छ्रमाभील॑मित्यमरकोशवाक्यम् । दुःखकारणे उदाहरति — कष्टो मोह इति । गहने उदाहरति — कष्टं शास्त्रमिति । गहनशब्दं विवृणोति — दुरवगाहमिति ।", "72023": "<<घुषिरविशब्दने>> - घुषिरविशब्दने । घुष्टा रज्जुरिति । उत्पादितेत्यर्थः । आयामितेति वा । शब्देन अभिप्रायप्रकाशनं विशब्दनम् । तदाह — शब्देनेति ।", "72024": "", "72025": "<<अभेश्चाविदूर्ये>> - अभेश्चाविदूर्ये । अविदूरस्य भाव आविदूर्यम् । तस्मिन् गम्ये अभेः परोऽर्दिरनिट्क इत्यर्थः । सामीप्य इत्येव तु नोक्तम्, अनतिदूरस्य असङ्ग्रहापत्तेः । तत्सूचयन्नाह — नातिदूरमिति ।", "72026": "<<णेरध्ययने वृत्तम्>> - णेरध्ययने । णिलुक् चेति । णिलोपे तु लघूपधगुणः स्यादिति भावः । अधीयमान इति । सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः ।", "72027": "<<वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः>> - वा दान्त ।णेरध्ययने वृत्त॑मित्यतो णेरित्यनुवर्तते । 'दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते ।अनुनासिकस्ये॑ति दीर्घः । णिलोपस्तु न स्थानिवत्, निपातनाद्दीर्घविधौ तन्निषेधाच्च । दान्तः । शान्तः । 'पूरी आप्यायने' ण्यन्तात्क्तः, इडभावो निपात्यते, णिलोपः । रात्परत्वान्नत्वं, णत्वं । पूर्णः । एतेनन ध्याख्यापृमूर्च्छी॑त्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम्, पूरीधातोण्र्यन्तात्पूर्णरूपार्थत्वात् । 'दसु उपक्षये' ण्यन्तात् इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । 'स्पश बाधने' ण्यन्तात् क्तः, इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । स्पष्टम् ।छद अपवारणे॑ । ण्यन्तात्क्तः । इडभावो वृद्ध्यभावश्च निपात्यते । णिलोपः ।रदाभ्या॑मिति नत्वं, — छन्नः ।ज्ञप मिच्चे॑ति चुरादिण्यन्तात् क्तः । इडभावो णिलोप इति कैयटः । ज्ञप्तः । पक्ष इति । निपातनाऽभावपक्ष इत्यर्थः । दमितः शमित इति । अमन्तत्वेन मित्त्वाद्ध्रस्वः । ज्ञापत इति । अचौरादिकस्य रूपम् । चौरादिकस्य तु ज्ञपित इत्येव ।", "72028": "<<रुष्यमत्वरसंघुषास्वनाम्>> - रुष्यमत्वर । रुषि, अम,त्वर, संघुष् , आस्वन् — एषां द्वन्द्वः । णेरिति निवृत्तम् । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । वा स्यादिति । 'वा दान्ते' त्यतस्तदनुवृत्तेरिति भावः । रुष्टः रुषित इति ।तीषसहे॑ति रुषो वेट्कत्वात्यस्य विभाषे॑ति निषेधे प्राप्ते विकल्पोऽयम् । आन्तः अमित इति । 'अम गत्यादिषु' क्तः । इडभावपक्षेअनुनासिकस्ये॑ति दीर्घः । तूर्णः त्वरित इति । 'ञि त्वरा संभ्रमे' क्तः, इडभावपक्षेज्वरत्वरे॑त्यूठ् ।रदाभ्या॑मिति नत्वम् । णत्वम् ।आदितश्चे॑ति नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम् । आदित्त्वस्य तु फलमात्मनेपदमात्रं । तदाह — अस्य आदित्वे फलं मन्दमिति । तथा च 'एध वृद्धौ' इत्यादिवद्ध्रस्वानुबन्धत्वमेव न्याय्यमिति भावः । संघुष्टः संघुषित इति । 'घुषिरविशब्दने' इति घुषेः संपूर्वस्य नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम् । आस्वान्तः आस्वनित इति । आङ्पूर्वात् स्वनेः क्तः । इडभावपक्षेअनुनासिकस्ये॑ति दीर्घः ।क्षुब्धस्वान्ते॑ति निपातनं तु आङ्पूर्वस्य स्वनेर्न भवति, परत्वादस्यैव विकल्पस्य प्राप्तेरित्याहुः ।न वे॑ति सूत्रभाष्ये तुसङ्घुषाऽऽस्वनोर्विषये उभयत्र विभाषे॑त्युक्तम् ।", "72029": "<<हृषेर्लोमसु>> - ह्मषेर्लोमसु । लोमसु कर्तृष्विति बोध्यम् । इदं चअजर्य॑मिति सूत्रे भाष्ये स्पष्टम् । ह्मष्टं ह्मषितं लोमेति ।गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । रोमाञ्चितभूतमित्यर्थः । विस्मितप्रतिघातयोश्चेति । वार्तिकमिदम् ।ह्मषेर्निष्ठाया इड्वे॑ति शेषः । उदित्त्वादिति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति निष्ठायां नेडित्यर्थः । तथा अलीकेऽर्थे ह्मष्ट इत्येव । मृषोक्तवानित्यर्थः । इडिति । 'ह्मष तुष्टौ' इति धातोः क्ते इडेव भवतीत्यर्थः । ह्मषितः । तुष्ट इत्यर्थः । विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः । तत्र लोमसु, विस्मितप्रतिघातयोश्च 'ह्मषु अलीके' इत्यस्मात् ।यस्य विभाषेटति नित्यमिण्निषेधे प्राप्ते विभाषेयम् । 'ह्मष तुष्टौ' इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषेति विवेकः ।", "72030": "<<अपचितश्च>> - अपचितश्च ।अपपूर्वस्य चिञो ण्यन्तस्य निष्ठायां चिभावो निपात्यते॑ इति भाष्यं । तदाह — चायेर्निपातोऽयमिति ।", "72031": "", "72032": "", "72033": "<<सोमे ह्वरितः>> - वा द्रुहः ।दादे॑रित्यतो घ इत्यनुवर्तते । झलीति पदस्येति अन्ते #इति पूर्ववदनुवर्तते । तदाह — एषामिति । द्रुहादीनां चतुर्णामित्यर्थः । ध्रुक् — ध्रुगिति । घत्वपक्षे भष्भावे चर्त्वविकल्प इति भावः । ध्रुट् ध्रुडिति । घत्वाऽभावपक्षे 'हो ढः' इति ढत्वे भष्भावे चर्त्वविकल्पः । अत्र भष्भावार्थमेव 'हो ढः' इति सूत्रे ढ एव विहित, नतु डः । तथा सति झषन्तत्वाऽभावाद्भष्भावो न स्यात् । अचि सुपि दुर्हमित्यादि । ध्रुग्भ्यामिति । घत्वपक्षे भष्भावः । ध्रुड्भ्यामिति । घत्वाऽभावपक्षे ढत्वे जश्त्वे रूपम् । एवं भिसि भ्यसि च रूपद्वयम् । द्रुहः । द्रुहः । द्रुहोः द्रुहाम् । ध्रुक्ष्विति । घत्वे भष्भावे 'आदेशप्रत्यययोः' इति षत्वेखरि चे॑ति चर्त्वम् । ध्रुट्त्स्विति । घत्वाऽभावपक्षे ढत्वे भष्भावे ढस्य जश्तेव धुटि चर्त्वे डस्य चर्त्वम् । चर्त्वस्याऽसिद्धत्वा॒च्चयो द्वितीयाः॑ इति तकारस्य थो न भवति । न पदान्ता॑दिति ष्टुत्वं न । ध्रुट्स्विति । धुडभावे रूपम् । हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चर्त्वेन टः । एवमिति ।भष्भाववर्ज॑मिति शेषः । विआं वहतीत्यर्थभजोण्वि॑रित्यतो ण्विरित्यनुवृत्तौवहश्चे॑ति ण्विः । णकार इत् । वेर्लोपः । 'अत उपधायाः' इति वृद्धिः । उपपदसमासः । विआवाहितिं रूपम् । ततस्सोर्हल्ङ्याबिति लोपे हो ढः॑ इति ढत्वे 'वाऽसाने' इति चर्त्वविकल्पे-विआवाट् विआआड्, विआआहौ, विआवाहः ।", "72034": "", "72035": "<<आर्धधातुकस्येड् वलादेः>> - सिपस्थलि बभू थ इति स्थिते — आर्धधातुस्येट् ।नेड्वशि कृती॑त्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं न कार्यमितिनेड्वशी॑ति सूत्रभाष्ये प्रत्याख्यातम् । आर्धधातुकस्येति किम् । जुगुप्सति । अत्र 'गुप्तिज्किद्भ्य' इति सनो धातोरित्यधिकृत्य विहितत्वाऽभावान्नार्धधातुकत्वम् । बभूविथेति । सिपस्थलि तस्य इडागमे वुगादि पूर्ववत् । बभूवथुरिति । थसोऽथुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवेति । मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इतिपरस्मैपदानां णलतु॑सित्यत्रोक्तम् । वुगादि पूर्ववत् । बभूवेति । मिपो णलि वुगादि पूर्ववत् । बभूविवेति । वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत् । नचात्रश्र्युकः किती॑तीडागमनिषेधः शङ्क्यः,कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति क्रादिनियमादिटसिद्धेः । बभूविमेति । मसो मादेशे इडागमे वुगादि पूर्ववत् । इति लिट्प्रक्रिया ।", "72036": "<<स्नुक्रमोरनात्मनेपदनिमित्ते>> - स्नुक्रमोः । पञ्चम्यर्थे षष्ठी । आत्मनेपदनिमित्तस्याऽभावः — अनात्मनेपदनिमित्तम् । अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यत इत्युक्तेः समासः । आत्मनेपदनिमित्ताऽभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः । स्नुक्रमोरनुदात्तोपदेशानन्तर्भावदिटि सिद्धे वचनमिदं नियमार्थमित्याह — अत्रैवेडिति । एवं च भावकर्मलकारेषु इण्न भवति । उपस्नोष्यते जलेन । बावलकारोऽयम् । उपक्रस्यते । कर्मणि लुट् । स्यः ।प्रस्नुत॑मित्यत्र तु श्र्युकः कितीति निषेधान्नेट्,आर्धधातुकस्येड्वलादे॑रितीड्विधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् ।स्नुक्रमोरनात्मनेपदे॑ इति तु न सूत्रितम्, आत्मनेपदभिन्ने परस्मैपदे परे इत्यर्थे चिक्रमिषिष्यतीत्यसिद्देः, स्येन व्यवधानात् । आत्मनेपदे परे नेडित्र्थे तु प्रचिक्रंसिष्यत इत्यसिद्धिः, अतो निमित्तग्रहणमित्यलम् । अक्रमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । इति क्रम्यन्ताः परस्मैपदिनो गातः । रेवत्यन्ता इति ।रेवृ प्लवगता॑वित्येतत्पर्यन्ता इत्यर्थः । अयपयेत्यारभ्य शल चलने इत्यतः प्राग यकारान्ताः ।", "72037": "<<ग्रहोऽलिटि दीर्घः>> - ग्रहोऽलिटि दीर्घः ।ग्रहट इति दिग्योगे पञ्चमी । 'आर्धधातुकस्येट्' इत्यत इडित्यनुवृत्तं षष्ठन्तं विपरिणम्यते,एकाच उपदेशेऽनुदात्ता॑ दित्यत एकाचेति च । तदाह — एकाच इत्यादि । एकाचः किम । यङ्लुकि माभूत् । जाग्रहिता । विहितस्येति किम् । ग्रहितम् । णिलोपे कृते ग्रहधातोः परत्वेऽपि विहतत्वाऽभावादिटो न दीर्घः । न च णिलोपस्य स्थानिवत्त्वान्न ग्रहधातोः पर इडिति वाच्यं, दीर्घकित्त्वात्संप्रसारणमिति भावः । लिङस्तङ्याह — ग्रहीषीष्टेति । 'ग्रहोऽलिटी' ति दीर्घः ।न लिङी॑ति इटो दीर्घनिषेधस्तु न, तत्रवृतट इत्यनुवृत्तेः । अग्रहीष्टामिति ।ग्रहोऽलिटी॑ति दीर्घः । अग्रहीषुः । अग्रहीरित्यादि । लुङस्तङ्याह — अग्रहीष्टेति ।ग्रहोऽलिटी॑ति दीर्घः । अग्रहीषतेति । अग्रहीष्ठा इत्यादि सुगमम् । इति क्र्यादयः ।॥ इति बालमनोरमायाम् क्र्यादयः॥अथ तिङन्ते लकारार्थप्रक्रिया ।अथ लकारार्थप्रक्रिया निरूप्यते ।", "72038": "<<वॄतो वा>> - वृतो वा । वृ ॠत् इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृ इति वृङ्वृञोग्र्रहणम् ।आर्धधातुकस्ये॑डित्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते ।ग्रहोऽलिटि दीर्घ इत्यनुवर्तते । तदाह — वृङ्वृञ्भ्यामित्यादि । तरिता तरीतेति । इटो दीर्घविकल्पः ।गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति । आशीर्लिङि कित्त्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे 'हलि चे' ति दीर्घे, तीर्यादिति रूपमित्यर्थः । अतारीत् अतारिष्टामित्यादौ 'वृतो वा' इति दीर्घे प्राप्ते — सिचि च । अत्रेति । परस्मैपदपरके सिचि वृङ्वृञ्भ्यामृद्नताच्च परस्य इटो दीर्घो नेत्यर्थः ।न लिङी॑त्यतो नेत्यनुवर्तते । अतारिष्टामिति । अतारिषुः । अतारिषमतारिष्व अतारिष्म.अतरिष्यत् । गुप गोपने इति । गोपनं — रक्षणम् । तिज निशाने इति । निशानं — तीक्ष्णीकरणम् । मान पूजायाम् । बध बन्धने इति । एते चत्वारोऽनुदात्तेत इति स्थितिः ।", "72039": "<<न लिङि>> - न लिङि ।वृतो वेत्यतो 'वृत' इत्यनुवर्तते । लिङीति षष्ठर्थे सप्तमी ।आर्धधातुकस्ये॑डित्यत इडित्यनुवृतं षष्ठ्या विपरिणम्यते ।ग्रहोऽलिटी॑त्यतो दीर्घ इत्यनुवर्तते । तदाह - वृत इति । वृङ्वृञ्भ्यामृकारान्ताच्चेत्यर्थः । विरषीष्टेति । इट्पक्षेवृतो वे॑ति प्राप्तो दीर्घो न भवति । वृषीष्टेति । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः । अवारीदिति । लुङि परस्मैपदे सिचि वृद्धिः । अवारिष्टामवारिषुः ।सिचि च परस्मैपदेषु॑ इति निषेधादिहवृतो वे॑ति न दीर्घः । लुङस्तङि सिचिलिङ्सिचो॑रिति इट्पक्षेवृतो वे॑ति दीर्घविकल्पं मत्वा आह - अवरिष्ट अवरीष्टेति । अवृतेति । इडभावपक्षेह्रस्वादङ्गा॑दिति सिचो लोपः । धुञ् कम्पन इति । ह्रस्वान्तोऽयमनिट् । षुञ इव रूपाणि । दीर्गान्तोऽप्ययमित्यादि । व्यक्तम् । अथ परस्मपैदिन इति ।राध साध संसिद्धा॑वित्येतत्पर्यन्ता इत्यर्थ । 'टु दु उपतापे' इत्यारभ्य 'स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो ह्रस्वान्ताः । हि गताविति ।प्रहिणोती॑त्यत्र भिन्नपदत्वाण्ण्तवेऽप्राप्ते आह —", "72040": "", "72041": "<<इट् सनि वा>> - इट् सनि वा ।वतो वे॑त्यतो 'वृत' इत्यनुवर्तते इति मत्वाह — वृङ्वृञ्भ्यामित्यादि ।सनि ग्रहगुहोश्चे॑त्यस्यापवादः । चिकीर्षतीत्यादौअज्झने॑ति दीर्घ कृते सनि नेदं प्रवर्तते, 'एकाच उपदेशे' इत्यत उपदेशे इत्यनुवर्त्त्य उपदेशे ऋकारान्तादिति व्याख्यानात् । तितरिषति — तितरीषतीति । तृधातोः सनि लटिवृतो वे॑ति दीर्घः । इडभावे त्वाह- तितीर्षतीति ।इको झ॑लिति कित्त्वाद्गुणाऽभावेतृ इत्यस्य ऋकारस्य इत्त्वे रपरत्वेहलि चे॑ति दीर्घ इति भावः । विवरिषतीति । वृञ्धातोः सनि इटिवृतो वे॑ति दीर्गविकल्पः । इडभावे त्वाह — वुवूर्पतीति । उदोष्ठए॑त्युत्वे रपरत्वेहलि चे॑ति दीर्घः । वुवूर्षते इति । ङित्त्वादात्मनेपदेम् । दुर्ध्वूर्षतीति ।द्वृ कौटिल्ये॒॑अज्झने॑ति दीर्घः ।उदोष्ठए त्युत्वे,हलि चे॑ति दीर्घ इति भावः ।", "72042": "<<लिङ्सिचोरात्मनेपदेषु>> - ॒इट् सनि वा॑ इत्यत इड्वेत्यनुवर्तते ।वृतो वे॑त्यतो 'वृत' इति । तदाह — वृङ्वृञ्भ्यामित्यादिना ।", "72043": "<<ऋतश्च संयोगादेः>> - ऋतश्च संयोगादेः ।लिङ्सिचोरात्मनेपदेषु॑ इत्यनुवर्तते ।इट् सनि वे॑त्त इड्वेति । तदाह — ऋदन्तादित्यादिना । लुङि परस्मैपदे — अस्तार्षीत् लुङस्तङि त्वाह - अस्तरिष्ट अस्तृतेति ।ऋतश्च संयोगादे॑रिति इट्पक्षे गुणः । इडभावपक्षे तुह्रस्वादङ्गा॑दिति सिचो लोपः । कृञ् हिंसायाम् । चकर्थेति । 'कृसृभृवृ' इति थल्यपि नित्यमिण्निषेधः । चकृव । क्रियादिति.आशीर्लिङि 'रिङ् शयग्लिङ्क्षु' इति रिङ् । कृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुणः । अकार्षीदिति.सिचि वृद्धि । रपरत्वम् । अकृतेति ।ह्रस्वादङ्गा॑दिति सिचो लोपः । वृञ् वरणे ।सेट् । ववार । वव्रतुः । वव्रुः ।", "72044": "<<स्वरतिसूतिसूयतिधूञूदितो वा>> - तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते — स्वरति ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते । स्वरति सूति सूयति धूञ् ऊदित् — एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं । फलितमाह — स्वरत्यादेरिति । स्वरतीति स्वृधातोः शपा निर्देशः । सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः । एवंच षू प्रेरण इति तौदादिकस्य न ग्रहणम् । 'धूञ् कम्पने' स्वादिः क्र्यादिश्च । ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य न ग्रहणम् ।इट्सनि वे॑त्यतो वेत्यनुव्रतमाने वाग्रहणंलिङ्सिचोरात्मनेपदेष्वि॑ति सूत्रयोर्विकल्पनिवृत्त्यर्थमिति भाष्यम् । एवं च थलि इडाभावपक्षे द्वित्वादौ सिसेध् — थ इति स्थिते ।", "72045": "<<रधादिभ्यश्च>> - रधादिभ्यश्च ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते,स्वरतिसूती॑त्यतो वेति चेत्यभिप्रेत्य शेषं पूरयति — वलाद्यार्धधातुकस्य वेडिति ।आर्धधातुकस्ये॑ति नित्ये प्राप्ते विकल्पोऽयम् । लुटि तासि इटिरधिजभोरची॑ति नुमि प्राप्ते —", "72046": "<<निरः कुषः>> - निरः कुषः ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते ।स्वरतिसूती॑त्यतो वेति च । तदाह — निरः परादिति । निरकुक्षदिति । इडभावपक्षे 'शल' इति क्स इति भावः । अश भोजने । आशेति । द्विहल्त्वाऽभावान्न नुडिति भावः । इष आभीक्ष्ण्ये । तासितीषसहे॑तीड्विकल्पमाशङ्क्याह — तीषसहेत्यत्रेति । सहेति शपा निर्देशबलेन भौवादिक एव सहधातुरत्र निर्दिष्टः । तत्साहचर्यात्तौदादिकस्यैव इषेग्र्रहणम्, अकारविकरणसामान्यादिति भावः । इषेस्तकारे श्यन्प्रत्ययादिति । श्यन् प्रत्ययो यस्मादिति बहुव्रीहिः । श्यन्विकरणपठितादिषेस्तकारे परेतीषसहे॑ति विधिर्नेत्यर्थः । इष्णातेस्तकारे इड्विकल्पः फलित इति भावः । प्रूष प्लुषेति । आद्यो दीर्घोपधः । पुष्ट पुष्टौ । पोषितेति । अनिट्सु श्यन्विकरणस्यैव पुषेग्र्रहणादयं सेडिति भावः ।पुषादिद्युतादी॑त्यत्र श्यन्विकरमपुषादेरेव ग्रहणादङ् न । खच भूताप्रादुर्भावे । अतिक्रान्तोत्पत्तिरिति । दशममासादौ उत्पत्तियोग्यस्य एकादशादिमासादिषूत्पत्तिरित्यर्थः । खच्ञातीति । नस्य श्चुत्वेन ञ इति भावः । वान्तोऽयमिति ।खव भूतप्रादुर्भावे॑ इत्येवं दन्त्योष्ठआन्तमेके पठन्तीत्यर्थः ।", "72047": "<<इण्निष्ठायाम्>> - इण्निष्ठायाम् । 'निरः कुषः' इति सूत्रमनुवर्तते । तदाह — निर इति । ननुआर्धधातुकस्ये॑डित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह — यस्येति । कुषधातोस्तृजादौ 'निरः कुषः' इति पूर्वसूत्रेण वेट्कत्वात्यस्य विभाषे॑ति प्राप्तस्येण्निषेधस्य बाधनार्थं पुनरिह विधानमित्यर्थः । इडित्यनुवर्तमाने पुनरिड्ग्रहणं तुस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्तये ।", "72048": "<<तीषसहलुभरुषरिषः>> - सह लुभ रुष रिष एषां द्वन्द्वात्पञ्चम्येकवचनम् । तदाह -इच्छत्यादेरिति । इच्छतीति इषेः श्तिपा निर्देशः । इषधातुर्विवक्षितः । 'इषु इच्छायां' तुदादिः शविकरणः । 'इष गतौ' दिवादिः श्यन्विकरणः । 'इष आभीक्ष्ण्ये' क्र्यादिः श्नाविकरणः । तत्रइषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः॑ इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता रोष्टेति । इडभावे ष्टत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पं मत्वा आह — रेषिता रेष्टेति । उष दाह इति । सेट्कोऽयम् । उखधातुवत् रूपाणि ।", "72049": "<<सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्>> - सनीवन्तर्ध । सनि इवन्तेति च्छेतः । इवन्त, ऋध, भ्रस्ज, दन्भु, श्रि, स्वृ, यु, ऊर्णु, भर , ज्ञपि , सन्, — एषां द्वन्द्वः । इव् अन्ते येषां ते इवन्ताः ।स्वरती॑त्यतो वेति,इण्निष्ठाया॑मित्यत इडिति चानुवर्तते । तदाह — इवन्तेब्य इत्यादि । वन्तस्य दिव्धातोरुदाहरिष्यन्नाह — इडभावे इति । वस्येति । वकारस्येत्यर्थः । यणिति ।कारादिकारस्ये॑ति शेषः । द्वित्वमिति ।द्यु इत्यस्ये॑ति शेषः । दुद्यूषतीति ।अज्झने॑ति दीर्घः । इट्पक्षे आह — दिदेविषतीति । अझलादित्वान्न सनः कित्त्वम्, अतो नोठ्, किन्तु लघूपधगुण इति भावः । इवन्तस्योदाहरणान्तरं सिवुधातोः सुस्यूषतीति वक्ष्यते । तत्र द्वितीयस्य षत्वमाशङ्क्य आह — स्तौतिण्योरिति । सुस्युषतीति । सिवुधातोः सनि इडभावे दुद्यूषतीतिवद्रूपम् । इट्पक्षे आह — सिसेविषतीति । ऋध्धातोः सनि ईत्र्सतीति रूपं वक्ष्यन्नाह —", "72050": "<<क्लिशः क्त्वानिष्ठयोः>> - क्लिशः क्त्वानिष्ठयोः ।इड्वा स्या॑दिति शेषः ।स्वरति सूती॑त्यतो वेत्यनुवृत्तेरिति भावः । नित्यं प्राप्त इति ।आर्धधातुकस्येड्वलादे॑रित्यनेनेति भावः । विकल्पे सिद्ध इति । ऊदित्त्वादिति भावः । निष्ठायां निषेधे प्राप्ते इति ।यस्य विभाषे॑त्यनेनेति भावः ।", "72051": "<<पूङश्च>> - पूङश्च । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वनिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । इड्वेति ।स्वरतिसूती॑त्यतो वाग्रहणस्य ,इण्निष्ठाया॑मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः । 'श्र्युकः' इति निषेधे प्राप्ते विकल्पोऽयम् ।", "72052": "<<वसतिक्षुधोरिट्>> - वसतिक्षुधोरिट् । पञ्चम्यर्थे षष्टी । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वानिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । इडित्यनुवर्तमाने पुनरिड्ग्रहणस्यस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः । 'एकाच उपदेश' इति इण्निषेधबाधनार्थमिदं सूत्रम् । उषित इति । यजादित्वात्संप्रसारणम्,शासिवसिघसीनां चे॑ति षः ।", "72053": "<<अञ्चेः पूजायाम्>> - अञ्चेः पूजायाम् ।उदितो वे॑ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तुयस्य विभाषे॑ति निषेधे प्राप्ते वचनम् । अञ्चित इति ।नाऽञ्चेः पूजाया॑मिति नलोपनिषेधः ।", "72054": "<<लुभो विमोचने>> - लुभो विमोहने । 'लुभ' इति पञ्चमी । 'लुभ विमोहने' तुदादिः ।विमोहनं व्याकुलीकरण॑मिति वृत्तिः । 'लुभ गाध्र्ये' दिवादिः । अत्र तौदादिकस्यैव ग्रहणं, तस्यैव विमोहनार्थकत्वात् । नतु दैवादिकस्य, तस्य गाध्र्यार्थकत्वात् । तदाह — न तु गाध्र्ये इति ।तीषसहे॑ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तुयस्य विभाषे॑ति निषेधे प्राप्ते वचनम् । लुभित इति । विमोहित इत्यर्थः । गाध्र्ये तु लुब्ध इति । अभिकाङ्क्षवानित्यर्थः ।मतिबुद्धिपूजार्थेभ्यश्चे॑ति कर्तरि क्तः ।", "72055": "", "72056": "", "72057": "<<सेऽसिचि कृतचृतच्छृदतृदनृतः>> - सेऽसिचि । से- असिचीति छेदः । सप्तमी षष्ठर्थे । कृत चृत छृत तृद नृत् एषां समाहारद्वन्द्वात्पञ्चमी ।उदितो वे॑त्यतो वेति, आर्धधातुकस्येडिति चानुवर्तते । तदाह — एभ्य इत्यादिना । नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम् । अनर्तीदिति ।सेऽसिची॑त्युक्तेर्नित्यमिडिति भावः । त्रसी उद्वेगे ।वा जृभ्रमुत्रसा॑मित्येत्त्वाभ्यासविकल्पौ मत्वाह — त्रेसतुः तत्रसतुरिति । कुथ पूतीभावे इति । पवित्रीभवने इत्यर्थः, दुर्गन्धकरणे इति वा ।पूतिगन्धस्तु दुर्गन्धः॑ इत्यमरः । तिम ष्टिम ष्टीमेति । द्वितीयतृतीयौ षोपदेशौ । द्वितीय इदुपधः । तृतीयस्तु ईदुपधः । षह षुहेति । षोपदेशौ । चकार्थस्तृप्तिरिति । यद्पिचक तृप्तौ प्रतिघाते चे॑त्युक्तं तथापि तृप्तिरेवेह विवक्षिता, व्याख्यानात् । षुहेः 'नपुंसके भावे क्तः' इति क्तप्रत्यये सुहितशब्दः । सुहितस्तृप्तिरितिपूरणगुणे॑ति सूत्रे कैयटः । जृष् झृष् ।सेट्कौ । जीर्यतीति ।ऋत इद्धातो॑रिति इत्त्वेहलि चे॑ति दीर्घ इति भावः । अतुसादौऋच्छत्यृता॑मिति गुणे रपरत्वेवा जृभ्रमुत्रसा॑मित्येत्त्वाभ्यासलोपविकल्प इति भावः । जजरिथ ।॒वृतो वे॑ति मत्वाह — जरिता जरीतेति । षूङ् । प्रसवः — उत्पादनम् । षोपदेशोऽयम् । विकल्पमिति ।परमपी॑ति शेषः । निषेधे प्राप्ते इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः । दूङ् परितापे इति । पीडने, पीडितीभवने वेत्यर्थः । आद्ये सकर्मकः । द्वितीये अकर्मकः । दीङ् क्षये इति । क्षयो — ह्रस्वो, नाशो वा ।", "72058": "<<गमेरिट् परस्मैपदेषु>> - गमेरिट् ।गमे॑रिति पञ्चमी ।सेऽसिची॑त्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते । तदादिविधिः । तदाह — गमेः परस्येत्यादिना ।परस्मैपदेष्वि॑त्यस्य आत्मनेपदाऽभावे इत्यर्थः । एवं चसंजिगमिषिते॑ति तृचि इट् सिध्यति । गमिष्यतीति । गच्छतु अगच्छत् । गच्छेत् । गम्यात् । लुङि विशेषमाह — लृदित्त्वादङिति ।गमहने॑ति उपधालोपो नेत्याह — अनङीति पर्युदासादिति । अगमदिति । लृङि — अगमिष्यत् । सर्पतीति । शपि ऋकारस्य लघूपधगुणः । रपरत्वम् । ससर्पेति । ससृपतुः । ससृपुः । थलि क्रादिनियमान्नित्यमिट् । अजन्तत्वाऽभावादकारवत्त्वाऽभावावच्च नेड्विकल्पः । ससर्पिथ ससृपथुः । ससृप.ससर्प ससृपिव ससृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते — अनुदात्तस्य च ।सृजिदृशो॑रित्यतो झल्यमकितीति, 'आदेच' इत्यत उपदेशे इति चानुवर्तते । तदाह — उपदेशेऽनुदात्त इत्यादिना । मित्त्वादन्त्यादचः परः । उपदेशे किम् । क्तप्रत्यये — सृप्तः । रुआप्तेति । सृप्धातोर्लुटि तासि अमागमे ऋकारस्य यणिति भावः । सर्प्तेति । अमभावेलघूपधगुणे रपरत्वमिति भावः । एवं रुआप्स्यति सर्प्स्यतीति । सर्पतु । असर्पत् । सर्पेत् । सृप्यात् । असृपदिति । लृदित्त्वाच्च्लेरङि सति ङित्त्वान्न ग#उण इति भावः । अरुआप्स्यत् । असर्प्स्यत् । यम उपरमे इति । उपरमो विरमणम् । अनिडयम् । यच्छतीति ।इषुगमियमा॑मिति शपि छः । ययाम येमतुः येमुः । थलि भारद्वाजनियमादिट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । तदाह- येमिथ । ययन्थेति । इडभावे रूपम् । येमथुः येम । ययाम । ययम । येमिव । येमिम । क्रादिनियमादिट् । यन्तेति । यंस्यति । यच्छतु । अयच्छत् । यच्छेत् । यम्यात् । अयंसीदिति ।यमरमे॑ति इट्सकौ ।इट ईटी॑ति सिज्लोपः ।नेटी॑ति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयंस्यत् । तप संतापे इति । अनिडयम् । तपति । तताप तेपतुः तेपुः । तेपिथ ततप्थ तेपथुः तेप । तताप ततप तेपिव तेपिम । तप्तेति । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ । शेषपूरणेन सूत्रं व्याचष्टे — षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । निसः सकारस्य षः स्यात्तपधातौ परत इति यावत् । 'अनासेवने' इत्येतद्व्याख्यास्यन्नासेवनशब्दं व्याचष्टे - पौनः पुन्यमिति ।आसेवन॑शब्देन सह नञ्समास इत्यभिप्रेत्याह — ततोऽन्यस्मिन्विषये इति । आदेशत्वाऽभावात्पदान्तत्वाच्च अप्राप्ते वचनम् । निष्टपतीति । निष्कृष्य तपतीत्यर्थः । निसः सस्य षत्वे तकास्य ष्टुत्वेन टः । आसेवने तु न षत्वम् । त्यज हानाविति । हानिरुत्सर्गः । अयमनिट् । त्यजति । तत्याज तत्यजतुः तत्यजुः । संयुक्तहल्मध्यस्थतवादेत्त्वाऽभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेट् । तदाह — तत्यजिथ तत्यक्थेति । इडभावेचोः कु॑रिति भावः । त्युक्तेति । त्यक्ष्यति । त्यजतु । अत्यजत् । त्यजेत् । त्यज्यात् । अत्याक्षीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अत्यक्ष्यत् । षञ्ज सङ्गे इति । षोपदेशोऽयमनिट्, नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाऽभावात्तस्मिन्परेअनिदिता॑मिति नलोपाऽप्रवृत्तेरराह — दंशसञ्जेति नलोप इति । अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः । सजतीति । लिटि तु ससञ्ज । अतुसादौ तु अकित्त्वान्न नलोपः । ससञ्जतुः ससञ्जुः । थलि भारद्वाजनियमाद्वेट् । ससञ्जिथ — ससङ्क्थ । इडभावे जस्य कुत्वेन गकारे तस्य चर्त्वे सति अनुस्वारपरसवर्णसंपन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परेऽनुस्वारस्य परसवर्णौ ङकारः । ससञ्जथुः ससञ्ज । ससञ्ज । ससञ्जिव ससञ्जिम.क्रादिनियमादिट् । सङ्क्तेति । तासि जस्य कुत्वेन गकारे तस्य चर्त्वे सति ञस्य निवृत्तौ नस्य ङकार इति भावः । सङक्ष्यति । सजत् । असजत् । सजेत् । सज्यात् । असाङक्षीत् । हलन्तत्वाद्वृद्धिः । असङ्क्ष्यत् । दृशिर्प्रेक्षणे इति । इरित् । अनिट् च । पश्यतीति । शितिप्राघ्राध्मे॑ति पश्यादेश इति भावः । ददर्श ददृशतुः ददृशुः । थलि तु क्रादिनियमान्नित्यमिट् प्राप्तः । अजन्ताऽकारवत्त्वाऽभावात्अचस्तास्वदिति, 'उपदेशेऽत्त्वतः' इति निषेधस्य चाऽप्राप्तेः । ऋदन्तत्वाऽभावेन भारद्वाजनियमाऽप्रसक्तेः ।", "72059": "<<न वृद्भ्यश्चतुर्भ्यः>> - न वृद्भ्यः । सेऽसिचीति सूत्रात्से इति, आर्धधातुकस्येडिति चानुवर्तते । एभ्यः सकारादेरिति । तङानयोरभावे इति ।गमेरि॑डित्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तङानयोरभावो लक्ष्यते, व्याख्यानादिति भावः । तेनजिगमिषिते॑त्यत्र गमेःसन्नन्तात्तृचि इट् सिध्यति, वृतेः सन्नन्ताद्धेर्लुकि विवृत्सेत्यत्र इण्निषेधश्च सिध्यति । वत्स्र्यतीति । लृटि स्यः ।वृद्भ्यः स्यसनो॑रिति परस्मैपदविकल्पः । 'न वृद्भ्यः' इति इण्निषेधः । गुणः । रपरत्वम् । परस्मैपदाऽभावे त्वाह — वर्तिष्यते इति । 'तङानयोरभावे' इत्युक्तेः 'न वृद्भ्यः' ति इण्निषेधो न । अवर्तिष्टेति । परस्मैपदस्याङश्चाऽभावे रूपम् । अवत्स्र्यदिति । लृङि स्यः ।वृद्भ्यः स्यसनो॑इति इण्निषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ऋदुपधौ । तत्रापि 'द्युद्भ्यो लुङि' इति परस्मैपदपक्षे द्युतादिलक्षणोऽङ् । लृट्लृङो 'वृद्भ्यः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्भ्यः' इति इण्निषेधश्च । तदाह — इमौ वृतुदिति । वत्स्र्यति — वर्धिष्यते । अवृधत् — अवर्धिष्ट । अवत्स्र्यत् — अवर्धिष्यत । शत्स्र्यति — शर्धिष्यते । अशृधत् — अशर्धिष्ट । अशत्स्र्यत्-अशर्धिष्यत । स्यन्दू धातुः ऊदित्, नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः । सस्यन्दिषे सस्य्नत्से इति । इडभावे दस्य चर्त्वेन तः । सस्यन्दिद्ध्वे सस्यन्द्ध्वे इति । इडभावे धकारात् प्राग् दकारः । खर्परकत्वाऽभावान्न चर्त्वम् । स्यान्दितास्यन्तेति । इडभावे दस्य चर्त्वम् । ननु लृटि स्ये सतिवृद्भ्यः स्यसनो॑रिति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पं बाधित्वान वृद्भ्यश्चतुभ्र्यः॑ इति इण्निषेधे स्यन्त्स्यतीत्येव रूपमिष्यते, नतु स्यन्दिष्यत इति । तदयुक्तम्, अन्तरङ्गतया ऊदिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात्, सकारादिविशेषापेक्षतया तङानाभावनिमित्तापेक्षया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्यशङ्क्य निराकरोति — वृदभ्य इति ।वृद्भ्यः स्यसनो॑रिति परस्मैपदेकृते अन्तरङ्गमपि विकल्पं बाधित्वा 'न वृद्भ्य' इति निषेध इत्यन्वयः । कुत इत्यत आह — चतुग्र्रहमसामर्थ्यादिति । यदि ह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्यान्नतुन वृद्भ्यश्चतुभ्र्यः॑ इति निषेधस्तर्हि 'चतुभ्र्यः' इति व्यर्थं स्यात् । न च कृपूव्यावृत्तिस्तत्फलमिति शङ्क्यं, 'तासि च कॢपः' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिण्निषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । तथा च चतुग्र्रहणं चतुर्णामपि सर्वत्र इण्निषेधार्थमिति भावः । भाष्ये तुनिषेधाश्च बलीयांसः॑ इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य 'न वृद्भ्यः' इति निषेधेन बाधसिद्धेश्चतुग्र्रहणं प्रत्याख्यातम् । तथा च लृटि परस्मपैदपक्षे तु ऊदित्त्वादिड्विकल्पं बाधित्वा 'न वृद्भ्यः' इति नित्यमिण्निषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिड्विकल्पं मत्वाह — स्यन्दिष्यते स्यन्त्स्यते इति । इडभावे दस्य चर्त्वम् । आसीर्लिङि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह — स्यान्दिषीष्ट स्यन्त्सीष्टेति । 'न वृद्भ्यः' इति निषेधस्त न, तङानयोरभाव एव तत्प्रवृत्तेरिति भावः । लुङि विशेषमाह — द्युद्भ्यो लुङीत्यादिना । अङिति । 'द्युतादिलक्षणे' इति शेषः । नलोप इति ।अनिदितामित्यनेने॑ति शेषः । आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह — अस्यन्दिष्ट अस्यन्त्तेति । तत्र इडभावपक्षे अस्यन्द् स् त इति स्थिते 'झलो झली' ति सलोपे दस्य चर्त्वम् । न चाऽपित्त्वेन ङित्त्वात्अनिदिता॑मिति नलोपः शङ्क्यः, सिज्लोपस्याऽसिद्धत्वेनाऽनुपधात्वादिति भावः । अस्यन्त्सातामस्यन्त्सतेति । अस्यन्त्थाः, अस्यन्त्साथाम् । अस्यन्द्ध्वम् । अस्यनन्त्सि अस्यन्त्स्वहि अस्यन्त्स्महि । अस्यन्त्स्यत् — अस्यन्त्स्यत -अस्यन्दिष्यत ।", "72060": "<<तासि च कॢपः>> - तासि च । चकारात्सकाराद्याद्र्धदातुकं गृह्रते ।सेऽसिचि कृत॑इत्यतः 'से' इति,आर्धधातुकस्ये॑त्यत आर्धधातुकस्येडिति चानुवर्तते ।न वृद्भ्यश्चतुर्थ इत्यतो नेति च,गमेरि॑डित्यतः परस्मैपदमिति च । तदाह — कॢपेः परस्येत्यादिना.कल्प्तासीति । 'लुटि च कॢप' इति परस्मपैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢपः' इति इण्निषेधे गुण रपरत्वे लत्वे रूपम् । परस्मपैदाऽभावपक्षे तु ऊदिल्लक्षममिड्विविकल्पं मत्वा आह — कल्पितासे कल्प्तासे इति । लृटि तु 'लुटि च कॢपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢपः' इति इण्निषेधं मत्वा आह — कल्प्स्यतीति । परस्मपैदाऽभावे तु ऊदित्त्वादिडविकल्पं मत्वा आह — कल्पिष्यते कल्प्स्यत इति । कल्पताम् । अकल्प । कल्पेत । आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिषीष्टेति, कॢप्सीष्टेति च । इडभावेलिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । अकॢपदिति ।द्युद्भ्यो लुङी॑ति परस्मैपदपक्षे द्युतादिलक्षणे अङि सति ङित्त्वान्न गुणः । अङभावे तु ऊदिलक्षणमिड्विकल्पं मत्वा आह — अकल्पिष्टेति, अकॢप्तेति च । अकल्प्स्यदिति । लृङि स्ये 'लुटि च कॢप' इत#इ परस्मैपदपक्षे ऊदिलक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢप' इति इण्निषेध इति भावः । परस्पैपदाऽभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिष्यत अकल्प्स्यतेति । वृदिति । वृत्तेः समाप्त्य्रथकात्कर्तरि क्विप् । तदाह — वृत्त इति । 'गत्यर्थाकर्मके' ति कर्तरि क्तः । वृत्तशब्दस्य विवरणं - सम्पूर्ण इति । द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ता इति । 'ञि त्वरा संभ्रमे' इत्यन्ता इत्यर्थः । षितश्चेति । षित्संज्ञका इत्यर्थः । षित्कार्यभाज इति वा ।ञि त्वरा संभ्रमे इत्युक्त्वाघटादयः षितः॑इति वक्ष्यमाणत्वादिति भावः । षित्फलं तु त्विति । मित्त्वफलं तु 'मितां ह्रस्वः' इति णौ ह्रस्वः॑ इति णौ ह्रस्वः, 'चिण्णमुलोर्दीर्घः' इति दीर्घश्च वक्ष्यते ।धातुपाठे अर्थनिर्देश उपलक्षण॑मित्युक्तम् । ततश्चार्थान्तरवृत्तेरपि घटदातोर्घटादिकार्यं भवत्येव । तदाह — घटयति विघटयतीति । संश्लेषयति विश्लेषयतीत्यर्थः । णौ ह्रस्वोदाहरणमिदम् । अघटि अघाटीति । चिण्युदाहरणम् । घाटंघाटम्, घटंघटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् ।नित्यवीप्सयो॑रिति द्विर्वचनम् । ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वं तदा 'उद्घाटनं' 'प्रविघाटियते' त्यत्र विकासनार्थकस्यापि घटधातोर्णौ मित्त्वाद्ध्रस्वः स्यादित्याक्षिपति — कथं तर्हीति । शृण्विति ।समाधानमिति शेषः । चौरादिकस्येति । चुरादौ 'घट सङ्घाते' इति पठितम् । तदिदं घाटादिकाद्धटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाऽभावाद्ध्रस्वाऽभावे 'उद्घटनं'प्रविघाटयिते॑ति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनामिह धातूनामिह घटादिगणे पाठो घटादिगणनिर्दिष्टएवार्थे मित्त्वार्थोऽनुवाद एव,नतु धातुभेदः । अन्यथा घाटादिकत्वं, गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः । ये तु धातवो घटादिगण एव पठिता न तु गणान्तरे, ते,#आमन्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु 'घट सङ्घाते' इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थोऽनुवाद इति लब्धम् । एवं चविघटयती॑त्यादावर्थान्तरवृत्तौ ण्यन्तस्य कथं मित्त्वमित्याशङ्क्य निराकरोति -नचेति । तस्यैव — चौरादिकस्यैव, घटधातोश्चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह — नान्ये मितोऽहेताविति । चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच्च' 'यम च परिवेषणे' 'चह परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' 'चिञ् चयने' इति पञ्चधातून् पठित्वा 'नान्ये मितोऽहेतौ' इति पठितम् । तत्र 'चह परिकल्कने' इत्यस्य स्थानेचपे॑ति केचित्पठन्ति । तथाच पञ्चत्वस्य न विरोधः । एषु पञ्चस्वपि मिदित्यनुवर्तते ।अहेता॑विति च्छेदः । कस्मादन्ये इत्यपेक्षायां संनिहितत्वाज्ज्ञापादिपञ्चभ्य इति लभ्यते । हेतुशब्देनहेतुमति चे॑ति सूत्रविहितो णिज्लभ्यते । तद्भिन्नो णिच् स्वार्थिकोऽहेतुः । तदाह - अहेतौ स्वर्थे णिचीति । ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः । ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयस्ते मितो नेति फलितम् । एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाऽभावात्\tघट चेष्टाया॑मिति निर्देशश्चौरादिकस्य 'घट सङ्घाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते, किंतु इहैव घटादिगणेघट चेष्टाया॑मित्यपूर्वोऽयं धातुः । तस्य चाऽर्थान्तरवृत्तावपि मित्त्वमस्त्येवेतिविघटयती॑त्यादौ मित्तवाद्ध्रर्वो निर्बाध इति भ#आवः ।", "72061": "<<अचस्तास्वत् थल्यनिटो नित्यम्>> - अत तस्य थलीडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यस्तदुपयोगत्वेन सूत्रद्वयमुपन्यस्यति -अचस्तास्वत् । अधातोस्थलोऽभावाद्धातोरिति लभ्यते । 'अच ' इति तद्विशेषणम् । तदन्तविधिः । 'उपदेशेऽत्वत' इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इतिऋतो भारद्वाजस्ये॑ति सूत्रभाष्ये स्थितम् । उपदेशे अजन्तादित्यन्वयः । 'अनिट' इति बहुव्रीहेः पञ्चमी । नित्यमिड्विहीनादित्यन्वयः । 'तासि च कॢप' इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट इत्यन्वयः । थलीति षष्ठर्थे सप्तमी ।गमेरिट् परस्मैपदेष्वि॑त्यत इडिति,न वृद्भ्यश्चतुभ्र्य॑ इत्यतो नेति चानुवर्तते ।तास्व॑दिति सप्तम्यान्तद्वतिः । तदाह — उपदेशे योऽजन्त इत्यादि, इण्न स्यादित्यन्तम् ।तास्व॑ — दिति सेषः । यथा तासि नेट् तथा थल्यपि नेडित्यर्थः । चिचेथ जुहोथेत्याद्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । अजन्तात्किम् । बिभेदिथ । उपदेश इति किम् । 'ह्मञ्' जहर्थ । इह गुणे रपरत्वेऽजन्तत्वाऽभावादिण्निषेधो न स्यादित्युपदेशग्रहणम् । नित्यग्रहणं किम् । 'स्वृ गतौ' सस्वरिथ ।स्वरितसूती॑ति तासौ विकल्पितेट्कत्वान्न निषेधः । तासौ किम् । लूत्वा लुलविथ । थलः किम् ।पपिव पिम । इह तासीत्यनुव#ऋत्त्यैव सिद्धेःतास्व॑दिति नातीवोपयुज्यत इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्निषेधार्थ तास्वदित्यावश्यकम् । तेनलिटन्यतरस्या॑मित्यदो घस्लृभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादति — अद भक्षम इति धातौ मूल एव वक्ष्यते ।यस्तासावस्ति अनिट् चे॑ति भाष्यम् । एव वेञो वयादेशेऽपि न निषेध ति बोध्यम् ।", "72062": "<<उपदेशेऽत्वतः>> - उपदेशेऽत्वतः । 'अत्वत' इति च्छेदः । अत् = ह्रस्वाकारः, सोऽस्याऽस्तीति अत्वान् । 'तसौ मत्वर्थ' इति भत्वान्न जश्त्वम् । अचेति वर्जं पूर्वसूत्रं, तत्र यदनुवृत्तं तदप्यनुवर्तते । तदाह — उपदेशेऽकारवत इति ।शक्लृ शशक्थ, 'पच्' पपक्थेत्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । उपदेशे किम् ।कृष विलेखने॑ । चकर्षिथ । अत्वत इति किम् । बिभेदिथ । तपरः किम् । रराधिथ । तासौ किम् । जग्रहिथजिघृक्षती॑त्यत्रसनि ग्रहगुहोश्चे॑ति सनि नित्यमनिट् , न तु तासौ । नित्येति किम् ।अञ्ज॑, आनञ्जथ ।ऊदित्त्वात्तासौ वे॑डिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम्, स्नुक्रमो॑रिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात् ।", "72063": "<<ऋतो भारद्वाजस्य>> - ऋतो भा । तासौ नित्यमनिट इति, थलीति, नेति, इडिति चानुवर्तते । भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितं । ह्मञ्धृञादौअचस्तास्व॑दित्येव सिद्धम् । अतो नियमार्थमिदमित्याह — ऋदन्तादेवेति । अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः । तदाह — अन्यस्य स्यादेवेति । ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः । तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेण्निवृत्तिरति भारद्वाजमते फलतीति न वैयथ्र्यमिति भावः । तथा च अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट्,मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत ति च तत्र नेडति विकल्पः फलतीति भावः । तद्यथा — पपिथ-पपाथ । पेचिथ- पपक्थ । अयमत्रेति । कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति,अचस्तास्वत्थल्यनिटो नित्य॑मिति, 'उपदेशेऽत्वत' इति,ऋतो भारद्वाजस्ये॑ति च सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः । अजन्त इति । यो धातुः ऋदन्तभिन्नाऽजन्तो ह्रस्वाकारवान् वा तासौ नित्याऽनिट् नित्याऽनिडित्यर्थः ।अचस्तास्व॑दिति पाणिनिमतेऋतो भारद्वाजस्ये॑ति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः । क्राद्यन्य इति । क्राद्यष्टभ्योऽन्यो धातुर्लिटि नित्यं सेडित्यर्थः । क्राद्यष्टभ्य एव परस्य लिटि नेडिति कृसृभृवृ इति सूत्रेण नियमितत्वादिति भावः । नन्वत्र क्राद्यन्य इत्युक्त्या क्रादीनामष्टानां लिटि नित्यानिट्कत्ववगतं तदनुपपन्नं, स्तुद्रुरुआउश्रुवामृदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमतेऽप्रवृत्त्या इड्विकल्पस्य दुर्वारत्वात् । नचैवं सति कृसृभृवृ इति सूत्रे स्तुद्रुरुआउश्रुग्रहणमनर्थकमिति वाच्यं, तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्त्या चरितार्थत्वादित्याशङ्क्य निराकरोति — न चेति । कुत इत्यत आह — अचस्तास्वदिति । ऋदन्तादेव परस्य थल इण्निषेधः, अनृदन्तात्परस्य तु थल इण्निषेधो नेति भारद्वाजीयं मतम् । अयं च इण्निषेधस्य निषेधः 'अचस्त्वास्व' दिति 'उपदेशेऽत्वत' इतिच सूत्रद्वयप्राप्तस्यैव इण्निषेधस्य पक्षे निवर्तको न तुक्रादिसूत्रप्राप्तस्य इट् प्रतिषेधस्यापीत्यर्थः । कुत इत्यत आह — अनन्तरस्येति ।अचस्तास्व॑दिति 'उपदेशेऽत्वत' इतिऋतो भारद्वाजस्ये॑तिच सूत्रक्रमः । कृसृभृवृ इति सूत्रं तु ततः प्राग्बहुव्यवहितमिति भावः । किंच 'नेड्वशि कृती' त्यादिप्रतिषेधकाण्डोत्तरम्आर्धधातुकस्येड्वलादे॑ रिति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रुस्रुश्रुवामिण्निषेधो भारद्वाजनियमं बाधत इति 'नेड्वशि कृती' त्यत्र ,वस्वेकाजाद्धसा॑मित्यत्र च भाष्ये स्पष्टम् । ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्याऽनिट्त्त्वाच्च इड्विकल्प इति सिद्धं । तदाह -विवयिथ विवेथेति । सिबादेशस्य थलः पित्त्वादसंयोगादिति कित्त्वाऽभावाद्गुणः । इट्पक्षेऽयादेशः । आजिथेति ।वलादावार्धधातुके वेष्यते इति वीभावाऽभावपक्षे अजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट् । द्वित्वम् । हलादिः शेषः ।अत आदे॑रिति दीर्घः । विव्यथुरिति । अथुसि वीभावे द्वित्वे अभ्यासह्रस्वे असंयोगादिति कित्त्वाद्गुणाऽभावे इयङपवादे 'एरनेकाच' इति यणि रूपम् । विव्येति । थस्य अकारे वीभावादि । विवाय विवयेति ।णलुत्तमो वे॑ति णित्त्वविकल्पाद्वृद्धिविकल्पः । विव्यिव विव्यिमेति ।क्राद्यन्यो लिटि सेड्भवे॑दिति नित्यमिटि यण् । वेता अजितेति । लुटि तासि वीभावविकल्पः । वेष्यति अजिष्यतीति । लृटि स्ये वीभावविकल्पः । वीयादिति । आशीर्लिङादेशस्य आर्धधातुकत्वाद्वीभावः ।", "72064": "<<बभूथाततन्थजगृम्भववर्थेति निगमे>> - निगमो- वेदः । तदाह — एषां वेदे इति । ननु 'कृसृभृवृ' इतिनिषेधादेव थलि ववर्थेति सिद्धे किमर्थं ववर्थग्रहणमित्यत आह — तेन भाषायां थलीडिति । निगमे एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः । व्रवे व्रवाते । ववृषे । 'वृतो वा' इति मत्वाह — वरितावरीतेति ।", "72065": "<<विभाषा सृजिदृशोः>> - तत्राह — विभाषा सृजि । पञ्चम्यर्थे षष्ठी ।गमेरिडित्यतत इडिति,चस्तास्व दित्यतस्थलीति चानुवर्तते । तदाह — आभ्यामिति ।", "72066": "<<इडत्त्यर्तिव्ययतीनाम्>> - थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दिति ऋदन्तत्वाद्भारद्वाजमतेऽपि निषेधे प्राप्ते — इडत्त्यर्ति । पञ्चम्यर्थे षष्ठी ।अचस्तास्व॑दित्यत स्थलीत्यनुवर्तते ।विभाषा सृजिदृशो॑रिति पूर्वसूत्रद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते । तदाह — अद् ऋ इत्यादिना ।आर्धधातुकस्ये॑डित्यनुवृत्तौ पुनरिड्ग्रहणं तुन वृद्ब्यश्चतुभ्र्यः॑ इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः । आरिथेति । आरथुः । आरः । आर आरिव आरिम । क्रादिनियमादिट् । अरिष्यतीति ।ऋद्धनो॑रिति इट् । ऋच्छतु । आच्र्छत् । अर्यादिति ।गुणोऽर्ती॑ति गुणे रपरत्वमिति भावः । आर्षीदिति । सिचि वृद्धिः ।सर्तिशास्त्यर्तिभ्यश्चे॑ति अङ् तु न, ततर्भौवादिकस्य ऋधातोर्न ग्रहममित्यनुपदमेवोक्तेरिति भावः । आरिष्यत् । 'ऋद्धनोः स्ये' इति इट् । गृ घृ । अनिटौ । गरतीति । जगार । असंयोगादित्वात्ऋतश्चे॑ति गुणो न । जग्रतुः जग्रुः । क्रादिनियमेन इटि प्राप्तेअचस्तास्व॑दिति नेट् । ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । तदाह — जगर्थेति । जग्रथुः जग्र । जगार — जगर.जग्रिवेति । क्रादिनियमादिट् । जग्रिम । गर्ता । गरिष्यति ।ऋद्धनो॑रितीट् । गरतु । अगरत् । गरेत् । रिङिति । आशीर्लिङि असंयोगादित्वात्गुण#ओऽर्ती॑ति गुणाऽभावे 'रिङ् शयग्लिङ्क्षु' इति रिङित्यर्थः । ग्रियादिति । रीङि प्रकृते रिङ्विधेर्न दीर्घः । अगार्षीदिति । सिचि वृद्धौ रपरत्वम् । अगार्ष्टाम् । अगरिष्यत् ।ऋद्धनोः॑इति इट् । घृधातोस्तु भौवादिकस्य घृतं घर्मः घृणा इत्यत्रैव प्रयोगो नान्यत्रेतितृज्वत्क्रोष्टु॑रिति सूत्रे भाष्ये स्पष्टम् । ध्वृ इति । हूच्र्छनं कुटिलीभवनम् । ध्वरति । दध्वार ।ऋतश्चे॑ति गुणः । दध्वरतुः दध्वरुः । थलिअचस्तास्व॑दिति क्रादिनियमप्राप्त इण्न । ऋदन्तत्वाच्च भारद्वाजमतेऽपि नेट् । दध्वर्थ दध्वरथुः दध्वर । दध्वार-दध्वर दध्वरिव दध्वरिम । क्रादिनियमादिट् । ध्वर्ता ।ऋद्धनो॑रिति इट् — ध्वरिष्यति । ध्वरतु ।अध्वरत् । ध्वरेत् । आशीर्लिङिगुणोऽर्ती॑ति गुणः । ध्वर्यात् । अध्वार्षीत् । अध्वरिष्यत् । रुआउ गतौ । अनिट् । रुआवति । सुरुआआव-सुरुआव । सुरुआउवेति । क्रादित्वान्नेट् । सुरुआउमेत्यपि ज्ञेयम् । रुआओता । रुआओष्यति । रुआवतु अरुआवत । रुआवेत् । रुआऊयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — णिश्रीति चङिति ।चङी॑ति द्वित्वमित्यपि द्रष्टव्यम् । ननु असुरुआ अ त् इति स्थिते रेफादुत्तरस्य उकारस्यसार्वधातुकार्धधातुकयो॑रिति गुणस्य चङ्निमित्तस्य ङित्त्वान्निषेधेऽपि उवङपेक्षया परत्वात्तिपं निमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह लघूपधगुणादन्तरङ्गत्वादुवङिति । बहिर्भूततिबपेक्षत्वनाल्लघूपधगुणो बहिरङ्गः । अन्तर्गतचङपेक्षत्वादुवङन्तरङ्गः । अतौवङेव भवति । परादन्तरङ्गस्य बलवत्त्वादिति भावः । असुरुआउवदिति । अरुआओष्यत् । षु प्रसवेति । अत्र प्रसवशब्दस्य गर्भमोचनपरत्वभ्रमं वारयति — प्रसवोऽभ्यनुज्ञानमिति ।ॐ प्रणयेति ब्राहृआ प्रसौती॑त्यादौ तथा दर्शनादिति भावः । षोपदेशोऽयम् । शपि उवङं बाधित्वा परत्वात्सार्वधातुकयोरिति गुणः । सवति । सुषाव । अतुसादौ कित्त्वाद्गुणाऽभावे उवङ् । सुषुवतुः सुषुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — सुषविथ सुषोथेति । अकित्त्वाद्गुण इति भावः । सुषुवथुः सुषुव । सुषाव-सुषव.वमयोस्तु क्रादिनियमान्नित्यमिट् । तदाह — सुषुविवेति । कित्त्वाद्गुणाऽभावे उवङ् । सोतेति । सोष्यति । सवतु । असवत् । सवेत् । सूयात् ।", "72067": "<<वस्वेकाजाद्घसाम्>> - वस्वे । 'वसु' इत्यविभक्तिको निर्देशः । तथा च व्याख्यास्यति — वसोरिति । नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह — कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्य्नते तेषामित्यर्थः ।नेड्वशि कृती॑ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह — नान्येषामिति । आदिवानिति । अद भक्षणे । द्वित्वहलादिसेषाऽभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्यमेकाजेवेति इट् । आरिवानिति । 'ऋ गतौ'ऋच्छत्यृता॑मिति गुणे कृते पूर्वत्कृतेषु अयमेकाच् । दादिवानिति । डु दाञ् दाने । कृते द्वित्वे नाऽयमेकाच् । इण्निमित्तश्चाऽऽतो लोपो नाऽसति तस्मिन् भवतीति अनेकाजर्थमाद्ग्रहणम् । जक्षिवानिति ।लिटन्यतरस्या॑मित्यदेर्घस्लादेशः । द्वित्वे कृते नायमेकाजिति घसिग्रहणम् ।", "72068": "", "72069": "", "72070": "<<ऋद्धनोः स्ये>> - लृटि स्ये इण्निषेधे प्राप्ते — ऋद्धनोः । ऋत् हन् अनयोद्र्वन्द्वात्पञ्चम्यर्ते षष्ठी ।स्ये॑षष्ठर्थे सप्तमी ।आर्धधातुस्ये॑डित्यत इडित्यनुवर्तते । तदाह — ऋत इत्यादिना । 'एकाच' इतीणनिषेधस्यापवादः । भरिष्यतीति । भरिष्यते । भरतु भरताम् । अभरत् अभरत । भरेत् भरेत ।", "72071": "<<अञ्जेः सिचि>> - अञ्जेः सिचि । 'इडत्त्यर्ती' त्यत इडित्यनुवर्तते । ऊदित्तवादेव सिद्धे नित्यार्थमिदम् । तदाह — अञ्जेरित्यादिना । तञ्चू सङ्कोचने । नोपधः कृतपरसवर्णनिर्देशः । अञ्जूवद्रूपाणि यथायोग्यमूह्रानि । ओ विजीति । ओकार इत् । अनिट्सु इरितो ग्रहणादयं सेट् । रुधादयः ॥ इति बालमनोरमायाम् रुधादयः॥अथ समासान्तप्रकरणम् । — — — — — — — -", "72072": "<<स्तुसुधूञ्भ्यः परस्मैपदेषु>> - लुङि असौषीदिति प्राप्ते — स्तुसुधूञ्भ्यः ।इडत्त्यर्ती॑त्यत इडित्यनुवर्तते ।अञ्जेः सिची॑त्यतः सिचीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — एभ्यः सिचेति । असावीदिति । सिचि वृद्दौइट ईटी॑ति सिज्लोपः । पूर्वोत्तराभ्यामिति । स्तुञ्धूञ्भ्यामिभ्यर्थः । सुनोतिरिति । 'षुञ् अभिषवे' इति श्नुविकरणस्येत्यर्थः । असौषीदिति । इडभावेसिचि वृद्धि॑रिति भावः । असोष्यत् । श्रु श्रवणे इति । उदन्तोऽयमनिट् ।", "72073": "<<यमरमनमातां सक् च>> - सिचो लुगभावपक्षे आह — यमरम । यम, रम, नम, आत्-एषां द्वन्द्वात्षष्ठीबहुवचनम् ।आ॑दित्यनेन आदन्तं गृह्रते । तदाह — एषां सगिति । सकि ककार इत् । अकार उच्चारणार्थः । कित्त्वादन्तावयवः । चकारेणइडत्त्यर्ती॑त्यत इडिति, 'स्तुसुधूञ्भ्यः' इत्यतः परस्मैपदेष्विति चानुकृष्यते ।अञ्जेः सिची॑त्यतः सिचीति च ।तच्च षष्ठ्या विपरिणम्यते । तदाह — सिच इट् चेति । अधासीदिति । धातोः सगागमः । सिच इट्, ईट् । 'इट ईटि' इति सिज्लोपः । अधासिष्टामिति । अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः ।सस्य षत्वे तकारस्य ष्टुत्वेन टः । आथासिषुरिति । अधासीः अधासिष्टमधासिष्ट । अधासिषमधासिष्व अधासिष्म । यद्यपि अधासीदित्यत्र सगिटोर्विधिव्र्यर्थ एव, तथापि अधासिष्टामित्याद्यर्थमातः सगिड्विधानम् । यमादीनं तु अयंसीदित्यादौ हलन्तलक्षणवृद्धेरभावार्थम्, अयंसिष्टामित्याद्यर्थं च ।तदेतत्तत्तद्धातुषु स्पष्टीभविष्यति । अधास्यत् । ग्लै म्लै । धातुक्षय इति । बलक्षय इत्यर्थः । अनिटाविमौ । ग्लायतीति । शपि आयादेशः । शिद्विषयत्वादात्त्वं न । जग्लाविति । णलि आत्त्वे 'आत णौ णल' इति औभावे वृद्धिरिति बावः । अतुसादौ द्वित्वे कृते आतो लोपः । जग्लतुः जग्लुः । भारद्वाजनियमात्थलि वेडित्याह — जग्लिथ जग्लाथेति । इट्पक्षे आल्लोपः । जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् ।", "72074": "<<स्मिपूङ्रञ्ज्वशां सनि>> - ॒इडत्त्यर्ती॑त्यतस्तदनुवृत्तेरिति भावः । पूञस्तु पुपूषतीत्येव ।सनि ग्रहे॑तीण्निषेधात् । सिस्मयिषते इति ।स्तौतिण्योरेवे॑ति नियमान्न षः । पिपविषते इति । पूङ्धातोः पू इत्स्य द्वित्वेओः पुयण्जी॑ति इत्त्वम् ।अरिरिषतीति । ऋधातोः सनि इटि रूपम् । रिरशब्दस्येति । गुणे रपरत्वेअजादेर्द्वितीयस्ये॑ति रिस् इत्यस्य द्वित्वमित्यर्थः । ननुद्विर्वचनेऽची॑ति निषेधाद्गुणाऽसंभवात् रिस् इत्यस्य कथं द्वित्वमित्यत आह — न प्रवर्तते इति । कुत इत्यत आह — कार्यिणो निमित्तत्वाऽयोगादिति ।न हि कार्यी निमित्ततया आश्रीयते॑ इति निषेधादिडादेः सनो द्वित्वरूपकार्यिणो न द्वित्वनिमित्तत्वमिति भावः । ननु इडागमः सन्भक्तः, ततश्च इस् इत्यस्य द्वित्वेऽपि समुदायस्य इस इत्यस्य द्वित्वकार्यित्वाऽभावाद्द्वित्वनिमित्यत आह — इसितीति । इस् इति सनोऽवयवो द्वित्वबागितिकृत्वा अवयवद्वारा इस इति समुदायस्य कार्यित्वमिति भावः । अञ्जिजिषतीति । अञ्जेः सनि इटि 'न न्द्राः' इति नकारस्य निषेधात् जिसित्यस्य द्वित्वम् । ऊदित्तवादिड्विकल्पे प्राप्ते नित्यमिट् । अशिशिषते इति । 'अशू व्याप्तौ' ऊदित्त्वादिड्विकल्पे प्राप्ते नित्यमिट् । 'अश भोजने' इति क्र्यादिस्तु नित्यं सेडेव । उच्छेरिति ।उच्छी विवासे॑ । अत्र 'छे च' इति तुगित्यर्थः । श्चुत्वमिति । 'तुक' इति शेषः । ननु उच्छ् इस इति स्थिते श्चुत्वस्याऽसिद्धत्वात्तकारसहितस्यद्वित्वे अभ्यासे तकारः श्रूयेतेत्यत आह — पूर्वत्रेत्यादि । हलादि शेषः इति । च्छिस् द्वित्वे हलादिशेषादभ्यासे छकारसकारयोर्निवृत्तौ तुकश्चकार इकारश्च शिष्यते इत्यर्थः । तदाह- - उचिच्छिषतीति । उत्तरखण्डे छकारे परे इकारस्य तुकश्चुत्वेन चकारः । ननु च्छिस् इत्यस्य द्वित्वे हलादिशेषात्पूर्वखण्डे छकारसकारयोर्निवृत्तौनिमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति न्यायेन तुकोऽपि निवृत्तेस्तदादेशचकारस्य कथमभ्यासे श्रवणमित्यत आह — निमित्तापाये इति । कथमनित्यत्वमित्यत आह — च्छ्वोरिति । पृष्टः पृष्टवानित्यादौ प्रच्छेः छकारस्यच्छ्वो॑रिति शकारे व्रश्चादिना शस्य षत्वे तुक्ककारस्य श्रवणप्राप्तौ तन्निवृत्त्यर्थं सतुक्कग्रहणम् । तत्र चकारस्य शकारे सति निमित्ताऽभावादेव तुकोऽपि निवृत्तिसिद्धेः सतुक्कग्रहणं व्यर्थमापद्यमानम् 'निमित्तापाये' इत्यस्याऽनित्यतां ज्ञापयतीत्यर्थः । प्रकृतिप्रत्यापत्तिवचनाद्वेति । 'हनश्च वधः' इति हनधातोरप्प्रत्यये प्रकृतेर्वधादेशे वधशब्दः । कंसवधमाचष्टे कंसं घातयतीत्यादौआख्यानात्कृतस्तदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्ति॑रित्यप्प्रत्ययस्य लुकि प्रकृतेर्वधादेशनिवृत्तिर्विहिता । तत्र कृतो लुकि निमित्ताऽपायादेव वधाद्यादेशनिवृत्तिसिद्धेः प्रकृतिप्रत्यापत्तिवचनं व्यर्थमापद्यमानं 'निमित्तापाये' इत्यस्य अनित्यतां ज्ञापयतीत्यर्थः । यद्यप्यत्र वधशब्दे अप्प्रत्ययो वधादेशश्च युगपद्विहितो, नतु प्रत्यये परे, तथापि संनियोगशिष्टत्वात् प्रत्ययस्य निमित्तत्वं पर्यवसानगत्येति बोध्यम् । वस्तुतस्तु पुष्ययोगं जानाति पुष्येण योजयतीत्येतत्साधकेपुष्ययोगे ज्ञी॑ति वचने भाष्योक्तप्रकृतिप्रत्यापत्तिरित्यनुवृत्तिरिह ज्ञापिका । तत्र हिचजो॑रिति घिति परतः कुत्वम् । अन्यथा कृल्लुकि निमित्ताऽपायपरिभाषयैव कुत्वनिवृत्तौ किं प्रकृतिप्रत्यापत्त्यनुवृत्त्येति शब्देन्दुशेखरे विस्तरः । अथ 'इङ् अध्ययने'टु ओ इआ गतिवृद्ध्योः॑ इत्याभ्यां ण्यन्ताभ्यां सनि विशेषमाह — णौ चेति ।णौ च संश्चङो॑रिति सूत्रं द्वितीयस्य चतुर्थे पादे, षष्ठस्य प्रथमे पादे च स्थितम् ।सन्परे चङ्परे च णौ इङो गाङ् वे॑ति प्रथमस्यार्थः ।सन्परे चङ्परे च णौ आयतेः संप्रसारणं वे॑त#इ द्वितीयस्यार्थः । प्रथमसूत्रेण इङो गाङ्, द्वितीयसूत्रेण आयतेः सम्प्रसारणमित्युभयमपि पाक्षिकं भवतीत्यर्थः । अधिजिगापयिषतीति । इङो णौ विवक्षिते गाङि पुकि गापीत्यस्मात्सनि रूपम् ।णौ च संश्चङो॑रिति गाङ्विधौ विषयसप्तमीति प्रागेवोक्तम् । गाङभावे आह — अध्यापिपयिषतीति ।क्रीङ्जीनां णौ॑इत्यात्त्वे पुक् । शिआआयतयिषतीति । इआधातोर्णौ वृद्धावायादेशे आआयि इत्यस्मात्सनि संप्रसारणाऽभावे रूपम् । संप्रसारणपक्षे आह — शुशावयिषतीति । ण्यन्तात्सनि इटि इआ इ इस इति स्तितेसंप्रसारणं तदाश्रयं च कार्यं बलव॑दिति वचनात्प्रथमं संप्रसारणं संप्रसारणं पूर्वरूपम् । 'शु' इत्स्य द्वित्वे उत्तरखण्डे उकारस्य वृद्ध्यादेशौ, णिचो गुणाऽयादेशाविति भावः । ननु परत्वाद्द्वित्वात् प्रागेव उकारस्य वृद्ध्यावादेशयोः कृतयोर्हावित्यस्य द्वित्वे अभ्यासस्याऽत इत्त्वे इकार एव श्रूयेतेत्यत आह- णौ द्वित्वादिति । पुस्फारयिषतीति । स्फुरतेः ण्यन्तात्सनि इटि 'चिस्फुरोर्णौ' इत्यस्मात् प्रागेव स्फुरित्यस्य द्वित्वम्, द्वित्वे कार्ये णावच आदेशस्य निषेधात् ।ओ, पुयण्जी॑ति इत्त्वं तु न, फकारस्य सकारेण व्यवहिततया पवर्गपरत्वाऽभात् । चुक्षावयिषतीति । क्षुधातोर्ण्नय्तात्सनि इटिक्षु॑इत्यस्य द्वित्वम् । परिनिष्ठिते रूपे अवर्णपरत्वेन णावच आदेशस्य निषेधादिति भावः । ओः पुयणिति । हेतुमण्णिच्प्रक्रियायामिदं व्याख्यातमपि स्मार्यते । पिपावयिषतीत्यादि । पू, भू, यू, रु, लू, जु एभ्यो ण्य्नतेभ्यः सनि इटि द्वित्वे कार्येणावच आदेशनिषेधात् उवर्णान्तानामेव द्वित्वे अभ्यासोवर्णस्य इत्त्वमिति भावः । जुः सौत्रो धातुः,जुचङ्क्रम्ये॑त्यत्रोक्तः । अथरुआवति शृणोती॑ति सूत्रं हेतुमण्णिच्प्रक्रियायां व्याख्यातं स्मारयति — रुआवतीतीत्त्वं वेति । शुश्रूषते इति ।ज्ञाश्रुस्मृदृशां सनः॑इत्यात्मनेपदम् । स्तौतिण्योरेव ।षणी॑ति कृतषत्वस्य सनो ग्रहणम् ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम्,इण्को॑रिति च । तत्र कुग्रहमं निवर्तते, असंभवात् । णिग्रहणेन तदन्तग्रहणम् । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते । तदाह — अभ्यासेण इत्यादि । षभूते इति । षकारं प्राप्ते सनीत्यर्थः । नान्यत्रेति । अभ्यासेणः परस्यचेत्सस्य षत्वं तर्हि स्तौतिण्यन्तयोरेवेत्यर्थः । न चआदेशप्रत्यययो॑रित्येव सिद्धे आरम्भसामर्थ्यादेव नियमलाभादेवकारो व्यर्थ इति शङ्क्यं, षण्येवेति नियमनिरसनार्थत्वात् ।षण्येव#ए॑ति नियमे सति तुष्टावेत्यत्र षत्वाऽनापत्तेः । स्तौतेरुदाहरति — तुष्टूषतीति ।अज्झने॑ति दीर्घः । ण्यन्तस्योदाहरिष्यन्नाह — द्युतीति । उत्त्वमिति । वकारस्य संप्रसारणमुकार इत्यर्थः । सुष्वापयिषतीति । स्वपेर्णौ उपधावृद्धौस्वापि इत्यस्मात्सनि इटि वकारस्य संप्रसारमे सुप् इत्यस्य द्वित्व णेर्गुणे अयादेशे सनः षत्वे अभ्यासेणः परस्य षत्वमिति भावः । सिषाधयिषतीति । त्रापि ण्यन्तत्वादभ्यासेणः परस्य षत्वमिति भावः । सिसिक्षतीति । सेक्तुमिच्छतीत्यर्थः । सिच्धातोः सन् ।हलन्ताच्चे॑ति कित्त्वान्न लघूपधगुणः ।अभ्यासेणः परस्य सस्य चेत् षत्वं, तर्हि स्तौतिण्योरेवे॑ति नियमान्न ष इति भावः । ननु परिषिषिक्षतीत्यत्र अभ्यासेणः परस्यसस्य कथं षत्वं,स्तौतिण्योरेवे॑ति नियमात्,स्थादिष्वभ्यासेन चे॑ति षत्वस्याप्यनेन नियमेन निवृत्तेरित्यत आह — उपसर्गादत्विति ।स्तौतिण्योरेवे॑ति नियमेन मद्येऽपवादन्यायबलात् 'आदेशप्रत्यययोः' इति षत्वमेव बाध्यत इति भावः । षणि किमिति । कृतषत्वनिर्देशः किमर्थ इति प्रश्नः । तिष्ठासतीति ।धात्वादे॑रिति षस्य सत्वे स्था इत्स्य द्वित्वे अभ्यासह्रस्वे इत्त्वेआदेशप्रत्यययो॑रिति ष्टवम् ।कृतषत्वे सन्येवायं नियमः, अत्र तु सनः ष्टवाऽभावेन नियमाऽप्रवृत्तेः षत्वं निर्बाधमिति भावः । सुषुप्सतीति । स्वप्धातोः सनि॒रुदविदमुषग्रहिस्वपी॑ति कित्त्वात्वचिस्वपी॑ति संप्रसारमे कृते द्वित्वम् । कित्त्वान्न लघूपधगुणः । इहापिस्तौतिण्योरेवे॑ति नियमो न भवति, सनः षत्वाऽभावादिति भावः । ननुषणि इणः परस्य सस्य चेत्षत्वं तर्हि स्तौतिण्योरेवे॑त्येतावदेवास्तु, अभ्यासादिति किमर्थमित्यत आह — अभ्यासादित्युक्तेर्नेहेति । प्रतीषिषतीति । इण्धातोः सनिजादेर्द्वितीयस्ये॑ति स इत्यस्य द्वित्वे अभ्यासेत्त्वम् । इह षभूते सनि 'इण् गतौ' इति धातोः परस्य सस्य षत्वं भवत्येव, अभ्यासेण परत्वे सत्येव नियमप्रवृत्तेरिति भावः । अधीषिषतीत्यप्येवम् ।", "72075": "<<किरश्च पञ्चभ्यः>> - किरश्च पञ्चभ्यः । किर इति पञ्चमी । किरादिभ्य इति विवक्षितम् । तुदादौकृ विक्षेपे॑,गृ निगरणे॑,दृङ् आदरणे॑,धृङ् अवस्थाने॑,प्रच्छ ज्ञीप्साया॑मिति स्थिताः । तदाह — कृ गृ इत्यादिना । सन इडिति ।स्मिपूङ्ञ्जवशां सनी॑त्यतः,इडत्त्यर्ती॑त्यतश्च तदनुवृत्तेरिति भावः । किरतिगिरत्योःइट्सनि वे॑ति विकल्पे, अन्येषां च 'एकाच' इति निषेधे प्राप्तेऽयमिड्विधिः । शब्देन्दुशेखरे तुसनि ग्रहेटति 'एकाच' इति च निषेधे प्राप्ते वचनमित्युक्तम् । पिपृच्छषतीति । सनः कित्त्वात्ग्रहिज्ये॑ति संप्रसारणम् । चिकरिषतीति ।अचि विभाषे॑ति लत्वविकल्प इति भावः ।इट् सनि वे॑त्यस्यायमपवादः । चिकरिषति, जिगरिषतीत्यत्रवृतो वे॑ति दीर्घमाशङ्क्याह — अत्रेटो दीर्घो नेष्ट इति । वार्तिकमिदं वृत्तौ स्थितम् । भाष्ये तु न दृश्यते । दिदरिषते दिधरिषते इति । दृङो धृङश्च सनि इटि रूपम् । 'पूर्ववत्सनः' इत्यात्मनेपदम् । कथमिति ।उद्दिधीर्षुटरिति कथमित्यन्वयः । किरादित्वेन इट्प्रसङ्गादिति भावः । भौवादिकयोरिति ।धृङ् अवस्थानेट, 'धृञ् धारणे' इत्यनयोर्भौवादिकयोः सनि किरादित्वाऽभावेअज्झनगमां सनी॑ति दीर्घेऋत इद्धातो॑रिति इत्त्वे, रपरत्वे,हलि चे॑ति दीर्घे, षत्वे, उद्दिधीर्ष इत्स्मात्, 'सनाशंसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण- जानीहीति शङ्ककं प्रत्युत्तरम् ।", "72076": "<<रुदादिभ्यः सार्वधतुके>> - रुदादिभ्यः । इड्वलादेरित्यनुवृतिंत मत्वाह — वलादेरिति । रुदित इति । ङित्त्वान्न गुणः । रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुरोद रुरुदतुः । [रुरुदुः] रुरोदिथ । [रुरुदथुः । रुरुद । रुरोद] ।रुरुदिव रुरुदिम । रोदिता । रोदिष्यति । रोदितु — रुदितात् रुदिताम् रुदन्तु । रुदि हि इति स्थिते 'हुझल्भ्यः' इति धित्वमाशङ्क्य आह — हौ परत्वादिति । रुदिहीति । हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः । रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम ।", "72077": "<<ईशः से>> - ईशः से ।", "72078": "<<ईडजनोर्ध्वे च>> - ईडजनोर्ध्वे च ।इडत्यर्ती॑त्यत इडिति, 'रुदादिभ्यः' इत्यतः सार्वदातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वयं व्याख्याने तु ईशो ध्वेशब्दे परे न स्यात्, ईडजनोः सशब्दे परे न स्यादिति भावः । ननु तर्हिईशीडजनां सेध्वयो॑रित्येकमेव सूत्रं कुतोन कृतमित्यत आह — योगविभागो वैचित्र्यार्थं इति । 'से' इत्यस्य उत्तरत्रानुवृत्तिः, 'ध्वे' इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थ इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति । इडे ईड्वहे ईड्महे । लिटि तु ईडाचक्रे इत्यादि । ईडिता । ईडिष्यते । ईडाम् । नतु ईडिष्वेत्यत्र कथमिट्, सेशब्दाऽभावात् । तत्राह — एकदेशेति । एकदेशविकृतत्वात्खशब्दस्य इटि ईडिध्व इति रूपमित्यर्थः । ननु तर्हि ईड्ढ्वमित्यत्र कथं नेट्, ध्वस्वरूपापेक्षयाध्व॑मित्यस्य एकदेशविकृतत्वादित्यत आह — विकृतीति । प्रकृतिग्रहणे तदेकदेशविकृतस्य ग्रहणम्, न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेग्र्रहणम् ।पुरुषमानये॑त्युक्ते हि अन्धोऽनन्धो वा पुरु, आनीयते । 'अन्धमानये' त्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथा च ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । इडै ईडावहै ईडामहै । ऐड ऐडाताम् ऐडत । ऐडाः ऐडाथाम् ऐड्ढ्वम् । ऐडि ऐड्वहि ऐड्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः । आस उपवेशने । आस्ते इति । आध्यमिति ।धि चे॑त सलोपः । आसै आसावहै आसामहै । आस्त, आसाताम्, आसत । आस्थाः, आसाथाम्, आध्वम् । आसि आस्वहि, आस्महि । आसीत् आसीयाताम् । आसिषीष्ट आसिषीयास्ताम् । आसिष्टेति । आसिषातामित्यादि । आसिष्यत । आङः शासु । आङः परः शासधातुरिच्छायामित्यर्थः । नमोवाकमिति । वचेर्घञि वाकः । नमश्शब्दस्य वचनं कुर्महे इत्यर्थः । धातूनामनेकार्थत्वात् । आसिवद्रूपाणि । वस आच्छादने इति । परिधाने इत्यर्थः । वध्वे इति ।धि चे॑ति सलोपः । ववसे इति । वादित्वादेत्त्वाभ्यासलोपौ नेति भावः । वसितेति । अनिट्सु शब्विकरणस्यैव वसेग्र्रहणमिति भावः । वसिष्यते । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । कसि सि गतीति । वसधातुवत् । इदित्त्वान्नुमिति विशेषः । तालव्यान्त इति । तालव्योष्मान्त इत्यर्थः । कष्टे इति ।व्रश्चे॑ति शस्य षः, ष्टुत्वम् । कक्षे इति । शस्य षः, षस्यषढो॑रिति कः, षत्वम् । कड्वे इति । शस्य षः, तस्य जश्त्वेन डः, धस्य ष्टुत्वेन ढः । णिसि चुम्बने इति । णोपदेशोऽयम् । नुमिनश्चे॑त्यनुस्वारः । निंस्ते इत्यादि । निंस्से इति । नुमोऽनुस्वारः । थासः सेभावः । दन्त्यान्तोऽयमिति । दन्त्योष्मान्तोऽयमित्यर्थः । बभ्रामेति ।नुम्विसर्जनीयशव्र्यवायेऽपी॑ति सूत्रे वृत्त्यादौ दन्त्योष्मान्तत्वोक्तेरिति भावः । णिजि शुद्धाविति । णोपदेशोऽयम् । अनिट्सु इरितएव ग्रहणादयं सेट् । निङ्क्ते इति । नुमि निन्ज् ते इति स्थिते जस्य कुत्वेन गः, तस्य चर्त्वेन कः, नस्य अनुस्वारे परसवर्णो ङकारः । निञ्जाते । निङ्क्षे निञ्जाथे निङ्ग्ध्वे । निञ्जे निञ्ज्वहे निञ्ज्महे । लिटि संयोगात्परत्वात्कित्त्वाऽभावान्नलोपो न । निनिञ्जे निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निङ्क्ताम् । अनिङ्क्तः । निञ्जीत । निञ्जिषीष्ट । अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति । ऋदुपधोऽयम् । वृजीधातुरृदुपध ईदित्, अतो नुम् नेति भावः । पृची संपर्चने इति । ऋदुपधोऽयम् । पपृचे इत्यादि । ईरादयः पृच्यन्ता अनुदात्तेतो गताः । षूङ्धातुः षोपदेशः,सेट् । ङित्त्वात्तङ् । सूते इति । सुवाते सुवते ।सूषे सुवाथे सूध्वे । सुवे सूवहे सूमहे । सुषुविषे इति ।स्वरती॑तीड्विकल्पं बाधित्वाश्र्युकः किती॑ति निषेधे प्राप्ते, क्रादिनियमान्नित्यमिट् ।स्वरतिसूती॑ति इड्विकल्पं मत्वा आह — सोता सवितेति । तिङस्तासा व्यवधानात्भूसुवो॑रिति न गुणनिषेध इति भावः । सोष्यते सविष्यते । सूताम् । सुवाताम् । सुवताम् । सूष्व सूध्वम् । आटः पित्त्वाद्गुणे प्राप्ते आह — भूसुवोरिति । सुवै इति । सुवावहै सुवामहै । असूत । सुवीत । सविषीष्ट सोषीष्ट इत्यादि स्पष्टम् । शीङ् स्वप्ने । सेट् । ङित्त्वात्तङ् ।", "72079": "<<लिङः सलोपोऽनन्त्यस्य>> - लिङः स । सेति लुप्तषष्ठीकं पदम् ।रुदादिभ्यः सार्वधातुके॑ इत्यतः सार्वधातुक इत्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — सार्वधातुकलिङ इति । सकाद्वयस्यापीति । अविशेषात्सकारद्वयस्यापि युगल्लोपः प्रवर्तते,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति तु पर्यायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः । यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिध्यति, तथापि भवेयुरित्याद्यर्थं सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह — सुटः श्रवणं त्वाशीर्लिङीति । भूयास्तमित्यादौ । लिङाशिषीत्याद्र्धदातुकत्वेन तत्र सकारलोपस्याऽप्रसक्तेरिति भावः ।व्यञ्जनपरस्यैकस्याऽनेकस्य वोच्चारणे विशेषाऽभाव॑ इति भाष्यादाह — स्फुटतरं त्विति । तत्रापि = आशिषि लिङ्यपि, एधिषीष्टेत्यादावात्मनेपदे स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः । तत्र यासुटोऽभावेन, सलोपाऽभावेन च सुट एव सकारस्य पृथक् स्पष्टं श्रवणसम्भवादिति भावः ।", "72080": "<<अतो येयः>> - तथा च भव या त् इति स्थिते — अतो येयः । 'या' इति लुप्तषष्ठीकं पदम् । 'अत इति' पञ्चमी । परस्येत्यध्याहार्यम् । 'इय' इत्यत्राऽकार उच्चारणार्थः । 'रुदादिभ्य' इत्यस्मात् 'सार्वधातुक' इत्यनुवृत्तमवयवषष्ठआ विपरिणम्यते । तदाह — अतः परस्येत्यादिना । भव इय् त् इति स्थितम् । गुण इति ।आद्गुण इत्येनेने॑ति शेषः । भवेय् त् इति स्थितम् । यलोप इति ।लोपो व्योरित्यनेने॑ति शेषः । भवेदिति.यलोपात्प्राग्घल्ङ्यादिलोपः संयोगान्तलोपश्च न शङ्क्यः, अन्तरङ्गत्वेन यलोपस्य पूर्वं प्रवृत्तेः, संयोगान्तलोपस्य त्रैपादिकत्वेनाऽसिद्धत्वाच्चेति भावः । सार्वधातुके किमिति । 'रुदादिभ्य' इत्यतः सार्वधातुक इत्यनुवृत्तिलभ्यं । सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीर्लिङि आर्धधातुकेऽतः परत्वाऽभावादेव इयादेशाऽभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिव्र्यर्थेत्याशयः । चिकीष्र्यादिति । कृञ्धातोः सन्नन्तादाशीर्लिङि तिबादौ चिकीर्ष — यादिति स्थिते 'अतो लोप' इत्यकारलोपे चिकीष्र्यादिति रूपम् । तत्र 'अतो येय' इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्ष — यादिति स्थिते 'अतो येय' इति इयादेशे आद्गुणे यलोपे चिकीर्षेदिति स्यात् । सार्वधातुकग्रहणानुवृत्तो तु न दोषः, आशीर्लिङादेशस्य तिङो लिङाशिषीत्यार्धधातुकताया वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिङि चिकीर्ष -यादिति स्थिते नित्यत्वादतो लोप इत्यकारलोपे सति अतः परत्वाऽभावादेव 'आतो येय' इत्यस्याऽप्रवृत्तेस्तत्र सार्वधातुकग्रहणानुवृत्तिव्र्यर्थैवेत्यत आह — मध्येऽपवादन्यायेन ह्रतो लोप एव बाध्येनेति । षष्ठस्य चतुर्थपादे अतो लोप इति सूत्रं, सप्तमस्य द्वितीयपादे अतो येय इति सूत्रं, सप्तमस्य चतुर्थपादे तु अतो दीर्घो यञीति सूत्रमिति स्थितिः । तत्र आशीर्लिङ आर्धधातुके चिकीर्ष — यादित्यत्राऽल्लोपप्राप्त्या, विधिलिङि तु भव यादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति,मद्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरा॑निति न्यायेनातो लोप एव बाधमर्हति न तु अतो दीर्घ इत्यर्थः । एवं चार्धधातुके भव — यादिति स्थिते इयादेशं परत्वाद्बाधित्वाअतो दीर्घो यञी॑ति यञादौ सार्वधातुके परे अतो विधीयमानो दीर्घः स्यात् । ततश्च अतः परत्वाऽभावादियादेशो न स्यादित्यव्याप्तिः स्यादित्यर्थः । न च इयादेशस्य निरवकाशत्वाद्दीर्घबाधकत्वं शङ्क्यम् । चिकीष्र्यादित्यार्धधातुके दीर्घप्राप्त्ययोगे इयादेशस्य सावकाशत्वादिति भावः । भवेतामिति । तसस्तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या इत्यस्य इयादेशे आद्गुणे यलोपः ।", "72081": "<<आतो ङितः>> - आतो ङितः । ङित इत्यवयवषष्ठी । 'अतो येय' इत्यस्मादत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह — अतः परस्येति । 'ङिता॑मित्यनन्तरम्'अवयवस्ये॑ति शेषः । एधेते इति । एध — आतो इति स्थिते, आकारस्य इञ्, '#आद्गुणः' अन्तादेशे, पररूपे, टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेसे कृतेटित आत्मनेपदाना॑मित्येत्वे प्राप्ते —", "72082": "<<आने मुक्>> - आने मुक् ।अङ्गस्ये॑त्यधिकृतम् 'अतो येयः' इति पूर्वसूत्रादनुवृत्तेन षष्ठआ विपरिणतेन अता विशेष्यते । तदन्तविधिः । तदाह — अदन्तस्येति । मुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः । अनुवर्तमाने इति ।वर्तमाने ल॑डिति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठआ विपरिमाणेन उक्तार्थलाभे सतीत्यर्थः । अधिकेति । सूत्राक्षराऽनारूढस्यापि अर्थस्य लाभार्थमित्यर्थः । सन् ब्राआहृण इति । 'अस भुवि' शतृप्रत्यये शपो लुक्, श्नसोरल्लोपः । माङीति । माङि प्रयुज्यमाने आक्रोशे गम्ये लटः शतृशानचाविति वक्तव्यमित्यर्थः । मा जीवन्निति । न जीवत्ययम् । अनुपकारित्वान्मृतप्राय इत्यर्थः । 'मा पचमान' इत्यप्युदाहार्यम् । 'लटः शतृशानचौ' इत्येव सिद्धेः किमर्थमिदमित्यत आह — माङि लुङितीति ।", "72083": "<<ईदासः>> - ईदासः । आस इति पञ्चमी । आनस्येति ।आने मु॑गित्यतस्तदनुवृत्तेरिति भावः ।", "72084": "<<अष्टन आ विभक्तौ>> - तस्य विशेषमाह — अष्टन आ विभक्तौ ।रायो हली॑त्यो हलीत्यपकृष्यते । तच्च विभक्तेर्विशेषणं, तदादिविधिः । तदाह — अष्टन आत्वमित्यादिना । ग्रहणकसूत्रेऽग्रहणेन वार्णसमाम्नायिकानामेव ग्रहणादाकारस्याऽनण्त्वाद्भाव्यमानत्वाच्च शुद्ध एव नकारस्य आकारः ।", "72085": "<<रायो हलि>> - तस्य हलादिविभक्तिषु विशेषं दर्शयति — रायो हलि । 'राय' इति 'रै' शब्दस्य षष्ठयन्तम् । 'अष्टन आ विभक्तौ' इत्यत 'आ' इति विभक्ता॑विति चानुवर्तते ।हलीत्यनेन विभक्ताविति विशेष्यते, ततस्तदादिविधिः । तदाह — रैशब्दस्येति । हल्ग्रहणादचि आत्वं न, किं तु आयादेश एवैत्यत आह — अचीति । राः आत्वे रुत्वविसर्गौ । अचि आयादेशमुदांहरंति — रायो राय इति । इत्यादिति । राभिः । राये राभ्याम् राभ्यः । राय राभ्याम् राभ्यः । रायः रायोः रायाम् । रायि रायोः रासु । रैशब्दः छान्दस इति भाष्यम् । क्यजन्त एव छान्दस इति पक्षान्तरम् । इत्यैदन्ताः ।अथ औदन्ताः । ग्लौशब्दश्चन्द्रवाची ।ग्लौर्मृगाङ्कः क्लानिधिः॑ इत्यमरः । तस्य हलादौ न कश्चिद्विकारः । अचि तु आवादेश इति मत्त्वाह — मलौर्ग्लावौ ग्लाव इति । ग्लावम्, ग्लावौ, ग्लावः । ग्लावा, ग्लौभ्याम्, ग्लौभिः । ग्लावे, ग्लौभ्याम्, ग्लौभ्यः । ग्लावः, ग्लौभ्याम्, ग्लौभ्यः । ग्लावः, ग्लावोः, ग्लावाम् । ग्लावि,ग्लावोः,ग्लौषु ।ननु 'औतोऽम्शसोः' इत्यत्र ओद्ग्रहणेन सावण्र्यादौकारस्यापि ग्रहणादम्शसोर्ग्लौशब्दस्याऽऽत्वं कुतो न स्यादित्यत आह — औतोऽम्शसोरितीह न प्रवर्तत इति । ऐऔजित्यादिग्रन्थस्तु संज्ञाप्रकरणे व्याख्यातः । एवं जनानवतीति जनौः । क्विप् । ज्वरत्वरेत्यूठ । एत्येधतीति वृद्धिः । जनावौ । जनाव इत्यादि । इत्यौदन्ताः॥*****इति बालमनोरमायामजन्ताः पुंलिङ्गाः**********अथ अजन्तस्त्रीलिङ्ग प्रकरणम्*****रमेति । रमते इति रमा । 'रमि क्रीडायाम्' पचाद्यचिअजाद्यतष्टाप् । प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपिङ्याप्प्रातिपदिका॑दिति ङ्यापोः पृथग्ग्रहणात्, लिङ्गविशिष्टपरिभाषया वा स्वादयः ।हल्ङ्या॑बिति सुलोपः ।", "72086": "<<युष्मदस्मदोरनादेशे>> - युष्मदस्मदोरनादेशे । 'अष्टन आ विभक्तौ' इत्यत आ इति विभक्ताविति चानुवर्तते ।रायो हली॑त्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम् । तदादिविधिः । तदाह-अनयोरिति । युष्मदस्मदोरन्त्यस्येत्यर्थः । वस्तुतस्तु हलीति नानुवर्तनीयम् । 'योऽचि' इत्यजादौ यत्वविधानेन परिशेषादेव तत्सिद्धेः । युवाभ्यामावाभ्यामिति । युष्मद् भ्याम्, अस्मद् भ्यामिति स्थिते युवावादेशयोर्दकारस्य आत्वे सवर्णदीर्घ इति भावः । त्र हलीत्यनुवृत्तौयोऽची॑त्यज्ग्रहणं मास्तु । हलादावात्वस्य विशेषविहितत्वादेव यत्वनिवृत्तिसिद्धेरिति भाष्ये स्पष्टम् । युष्माभिः अस्माभिरिति ।युष्मदस्मदोरनादेशे॑ इत्यात्वे सवर्णदीर्घ इति भावः । अथ चतुर्थी । युष्मद् ए, अस्मद् ए इति स्थितौ 'त्वमावेकवचने' इति प्राप्ते- ।", "72087": "<<द्वितीयायां च>> - त्व अद् अम्, म अद् अम् इति स्थिते- । द्वितीयायां च । शेषपूरणेन सूत्रं व्याचष्टे — युष्मदस्मदोरिति ।युष्मदस्मदोरनादेशे॑ इत्यतस्तदनुवृत्तेरिति भावः । आकार इति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । तथाच द्वितीयाविभक्तौ परतो युष्मदस्मदोराकारः स्यादिति फलति ।अलोऽन्त्यस्ये॑ति दकारस्य भवति । त्व अ आ अम्, म अ आ अमिति स्थिते पररूपे, सवर्णदीर्घे, अमि पूर्वरूपे च परिनिष्ठितं रूपमाह — त्वां मामिति । युवाम् । आवामिति । पूर्ववत् ।द्वितीयायां चे॑त्यात्वमिति विशेषः । प्रथमायाश्चे॑त्यस्याऽत्राप्रवृत्तेः ।", "72088": "<<प्रथमायाश्च द्विवचने भाषायाम्>> - युव-अद्, आव-अदिति स्थिते 'शेषे लोपः' इति प्राप्ते — प्रथमायाश्च द्विवचने । 'अष्टन आ विभक्तौ' इत्यत आग्रहणमनुवर्तते ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरिति च । तदाह — इहेति । भाषायां प्रथमाद्विवचने परे इत्यर्थः । बाषायामित्यस्य तु लोकिकव्यवहारे इत्यर्थः । युवाम् । आवामिति । युव अद् अम्, आव् अद् अम् इत्यत्र दकारस्य आत्वे पूर्वयोरकारयोः पररूपे ततः सवर्णदीर्घे 'अमि पूर्वः' इति भावः । औङीत्येव सुवचमिति । द्वितीयाद्विचनेऽप्यात्वस्य इष्टत्वादिति भावः । युवं वस्त्राणीति । युष्मद्-औ इति स्थिते मपर्यन्तस्य युवादेशे सति शेषलोपे रूपम् । मपर्यन्तस्य किमिति । युष्मदस्मदोः समस्तयोरेव युवावादेशयोः कृतयोरपि आत्वे पूर्वरूपे च युवामावामिति सिद्धेरिति प्रश्नः । साकच्कस्येति ।अव्यवसर्वनाम्ना॑मिति टेः प्रागकचियुष्मकद्-औ अस्मकद्-औ इति स्थितेङे प्रथमयो॑रित्यमि 'युवावौ द्विवचने' इति समस्तयोः साकच्कयोस्तन्मधय्पतितन्यायेन युवावादेशयोःप्रथमायाश्चे॑ति दकारस्य आत्वे अमि पूर्वे च युवामावामित्येव स्यात्, ककारो न श्रूयेत, तो मपर्यन्तस्येति वचनमित्यर्थः । ननु समुदायादेशत्वेऽपिओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकचि युवकामावकामिति सिध्यत्येव, अत्र साकच्कयोर्युवावादेशाप्रसक्तेरित्यस्वरसादाह — त्वया मयेति । यदि मपर्यन्तस्येति न स्यात्तदा 'त्वमावेकवचने' इति त्वमादेशौ समस्तयोः स्याताम् । ततश्च तृतीयैकवचने युष्मद् आ, अस्मद् आ इति स्थिते समस्तयोः स्थाने त्वमादेशयोः त्व-आ, म-आ इति स्थिते 'योऽचि' इत्यकारस्य यत्वे त्व्या म्या इति स्यात् । अतोमपर्यन्तस्ये॑ति वचनम् । सति तस्मिन्मपर्यन्तस्य त्वमादेशयोः कृतयोः-त्व अद् आ, म अद् आ इति स्थिते अकारयो पररूपे दकारस्य यत्वे च त्वया मया इति सिध्यतीत्यर्थः । ननुयोऽची॑ति सूत्रस्थाने 'अच्ये' इति सूत्रमस्तु । अजादिविभक्तौ युष्मदस्मदोरन्त्यस्य एकारः स्यादिति तदर्थः । तथाच त्वमयोः समस्तादेशत्वेऽपि तदन्त्यस्याकारस्य एत्त्वे अयादेशे च कृते त्वया मयेति सिध्यतीत्यस्वसादाह — युवकाभ्यामावकाभ्यामिति च न सिध्येदिति । 'असति मपर्यन्तवचने' इति शेषः ।ओकारसकारे॑त्यादिवचनेन भ्यामि टेः प्रागकचि तन्मध्यपतितन्यायेन साकच्कयोः स्थाने युवावादेशयोः युवाभ्यावावाभ्यामित्येव स्यात् । ककारो न श्रूयेत । युष्मकद् अस्मकद् इत्यत्र मपर्यन्तस्यैव युवावादेशयोस्तुयुष्मदस्मदोरनादेशे॑ इत्यात्वे युवकाभ्यामावकाभ्यामिति निर्बाधमित्यर्थः ।", "72089": "<<योऽचि>> - योऽचि ।युष्मदस्मदोरनादेशे॑ इत्यनुवर्तते । 'अष्टन आ विभक्तौ' इत्यतोविभक्ता॑विति चानुवर्तते ।अची॑ति विभक्तिविशेषणं । तदादि विधिस्तदाह — अनयोरिति । युष्मदस्मदोरन्त्यस्येत्यर्थः । अचि किम् , युवाभ्याम् । अनादेशे किम् , त्वत्, मत् । 'पञ्चम्या अत्' इत्यदादेशे सति न यत्वम् ।युष्मद् आ, अस्मद् आ इत्यत्र 'त्वमावेकवचने' इति मपर्यन्तस्य त्वमादेशयोर्दकारस्य यत्वे पररूपे च रूपमिति भावः ।", "72090": "<<शेषे लोपः>> - शेषे लोपः । 'अष्टन आ विभक्तौ' इत्यत आविभक्तौ॑ इत्यनुवर्तते । विभक्तावित्यनुवृत्तं 'शेषे' इत्यनेनान्वेति ।युष्मदस्मदोरनादेशे॑,द्वितीयायां च॑,प्रतमायाश्च द्विवचने भाषायां॑,योऽची॑त्यात्वयत्वयोः प्रागुक्तत्वात्तद्विषयातिरिक्तविभक्तिरिह 'शेष' शब्दार्थः ।युष्मदस्मदो॑रिति चानुवृत्तन्तदाह-आत्वयत्वेति । अन्त्यस्येति । अलोऽन्त्यपरिभाषालभ्यम् । शेषग्रहणमिह विभक्तिविशेषणं स्पष्टार्थमेव, विशेषविहिताभ्यामात्वयत्वाभ्यां स्वविषये बाधसंभवादिति प्रकृतसूत्रे,युष्मदस्मद्भ्यां ङ्सोऽश् इति सूत्रे च भाष्यकैयटयोः स्पष्टम् । अतो गुणे इति । पूर्वयोरकारयोः पररूपमिति बावः । त्व अम्, अह अम् इत्यत्र पूर्वसवर्णदीर्घमाशङ्कमाह-अमि पूर्व इति । अत्र शङ्कतेनन्विति ।ननु च स्याद्विरोधोक्तौ॑ इत्यमरः । शङ्कायामिति यावत् । अन्तरङ्गत्वादिति । 'अजाद्यतः' इति टापः परनिमित्तानपेक्षतया पररूपादन्तरङ्गत्वं बोध्यम् । अर्धाङ्गीकारेण परिहरति — सत्यमिति । पररूपादन्तरङ्गष्टावित्यङ्गीक्रियते । इह प्रवृत्तिस्तु तस्य नाङ्गीक्रियते इत्यर्थः । अलिङ्गे युष्मदस्मदी इति ।साम आक॑मिति सूत्रे भाष्ये पठितमेतत् ।युष्मदस्मदी॑इत#इ शब्दस्वरूपपरत्वान्नपुंसके । शब्दस्वरूपपरत्वादेव चत्यदादीनि सर्वैर्नित्य॑मित्येकशेषोऽपि न, अत एव भाष्यप्रयोगात् । तेनेति । अलिङ्गत्वेनेत्यर्थः । ननु 'ङे प्रथमयोः' इति सूत्रे भाष्ये पुंसि युष्मानस्मानित्यत्रतस्माच्छसो न पुंसी॑ति नत्वस्य सिद्धत्वात्शसो ने॑ति नत्वविधिवैयथ्र्यमाशङ्क्य स्त्रियां नपुंसके च युष्मान्ब्राआहृणीः पश्य, अस्मान्ब्राआहृणीः पश्य, युष्मान्ब्राआहृणकुलानि पश्य, असमान्ब्राआहृणकुलानि पश्ये॑त्यत्र नत्वार्थंशसो ने॑ति नत्वाविधानमित्यादि स्थितम् । किंच स्वमोर्नपुंसकादित्यधिकारेनेतराच्छन्दसी॑ति सूत्रेनपुंसकादेशेब्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेने॑ति वार्तिकतद्भाष्ययोः शिशीलुङ्नुम्भिर्नपुंसकविहितैस्त्वाहादियुष्मदस्मदादेशानां विप्रतिषेध उपन्यस्तः । अतो युष्मदस्मदोरलिङ्गत्वमनुपपन्नम् ।साम आम॑मिति सूत्रेअलिङ्गे युष्मदस्मदी॑ इति भाष्यं तु पुंस्त्रीनपुंसकलिङ्गपदान्तरसमभिव्याहारं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इत्येवंपरमिति तत्रैव भाष्ये स्पष्टम् । एवंच युष्मदस्मदोः स्त्रीलिङ्गसत्त्वाट्टाब्दुर्वार इत्यस्वरसादाह-यद्वेति । अधिकरणत्वविवक्षयेति ।विवक्षातः कारकाणि भवती॑ति वक्ष्यमाणत्वादिति भावः । यदि हि शेषे इति विभक्ति विशेषणं स्यात्तर्हि व्यर्थमेव स्यात्, आत्वयत्वाभ्यां विशेषविहिताभ्यां स्वविषये लोपस्य बाधसंभवात् । अतः शेषस्य स्थाने इत्यर्थ आस्थेयः । ततः किमित्यत आह-तेनेति । शेषस्य स्थाने इत्यर्थाश्रयणेनेत्यर्थः । मपर्यन्तादिति । मपर्यन्तस्येत्यपकृष्टं पञ्चम्यन्ततया विपरिणम्यत इति भावः । एतच्च 'त्यदादीनामः' इति सूत्रेटिलोपष्टाबभावार्थः कर्तव्य इति स स्मृतः । अथवा शेषसप्तम्या शेषे लोपो विधीयते ।॑ इति वार्तिकतद्भाष्ययोः स्पष्टम् । नच मपर्यन्तस्य त्व इति अह इति चादेशे कृते शिष्टस्य अदित्यस्य मपर्यन्तात्परत्वं नास्तीति वाच्यं, त्वाहादेशयोः कृतयोरदो लोपप्रवृत्तिवेलायां मपर्यन्ताच्छेषत्वाऽभावेऽपि त्वाहादेशप्रवृत्तेः पूर्वकालिकमपर्यन्ताच्छेषस्य अद्शब्दस्य लोपस्तथापि त्व अद् अम्, अह अद् अम् इति स्थिते पररूपापेक्षया परत्वाददो लोपे अदन्तत्वाट्टाब्दुर्वार इत्यत आह-स चेति । शेषे लोप इत्यर्थः । अन्तरङ्गे इति । 'अतो गुणे' इत्यस्य बहिर्भूतविभक्त्यपेक्षलोपापेक्षयाऽन्तरङ्गत्वं बोध्यम् । अदन्तत्वाभावादिति । त्व अद् , अह अद् इत्यत्र पररूपे सति त्वद् अहद् इति स्थिते अदो लोपे त्व् अह् इत्यनयोरदन्तत्वाऽभावान्न टाबित्यर्थः । परमत्वमिति । 'ङे प्रथमयोः' इत्यादीनामाङ्गत्वात्तदन्तविधिरिति भावः । अतित्वमिति ।ङे प्रथमयो॑रित्यादीनां गौणेऽप्रवृत्तौ मानाऽभावादिति भावः ।", "72091": "", "72092": "<<युवावौ द्विवचने>> - ॒युष्मद्-औ, अस्मद्-औ, इति स्थितेङे प्रथमयो॑रित्यमि कृते युष्मद्-अम्, अस्मद्-अम् इति स्थिते-युवावौ द्विवचने ।युष्मदस्मदोरनादेशे॑ इत्ययो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यदिकृतम् । उक्तिर्वचनम् । द्वयोर्वचनं द्विवचनम् । तत्र समर्थयोरित्यर्थः । द्वित्वविशिष्टार्थवाचिनोरिति यावत् । नतु द्विवचनसंज्ञके प्रत्यये परे इत्यर्थः, वचनग्रहणसामर्थ्यात् । अन्यथा 'द्वित्वे' इत्येव ब्राऊयात् । 'अष्टन आ विभक्तौ' इत्यते विभक्तावित्यस्यानुवृत्तौ सत्यां द्वित्वे या विभक्तिस्तस्यां परत इत्यर्थलाभात् । तदाह — द्वयोरुक्तावित्यादिना । द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभविष्यति ।", "72093": "<<यूयवयौ जसि>> - ॒ङे प्रथमयो॑रिति जसोऽमि कृते विशेषमाह — यूववयौ जसि । स्पष्टमिति । युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ२ स्तौ जसि परत इति सुगममित्यर्थः । यूय अद् अम्, वय अद् अम् इति स्थिते पररूपे 'शेषे लोपः' इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठितं रूपमाह — यूयं वयमिति । परमयूयमिति.यूयवयविधेराङ्गत्वात्तदन्तविधिरिति भावः । अतियूयमिति । गौणत्वेऽपि तदप्रवृत्तौ मानाऽभावादिति भावः । अत्र शीभावमाशङ्क्य परिहरति-इहेति । इहशेषे लोप इत्यन्त्यलोप॑ इति पक्षे दकारस्य लोपे सति अवर्णान्तात्सर्वनाम्नः परत्वाज्जसः शीभावः । प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह-अङ्गकार्ये इति अङ्गादिकारविहिते कार्ये कृते सति पुनरङ्गाधिकारविहितं कार्यं न भवतीत्यर्थः । तेन त्वमित्यत्र पररूपे कृते 'अमि पूर्वः' इत्यस्य नानुपपत्तिः । 'ज्यादादीयसः' इति सूत्रेज्ञाजनोर्जे॑ति सूत्रे चअङ्गवृत्ते पुनर्वृत्तावविधि॑रिति परिभाषा स्थिता । सा चाऽत्रार्थत उपनिबद्धा । नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृतेसुपि चे॑ति दीर्घो न स्यादिति वाच्यं,द्वयोरेकस्ये॑त्यादिनिर्देशेन तदनित्यत्वज्ञापनात् । प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वाद#आङ्गः शीभावो न भवतीति भावः । ननु 'अङ्गकार्ये' इति परिभाषा नात्र प्रवर्तते । शीभावस्य अङ्गाधिकारविहितत्वेऽपि अङ्गाधिकरणकत्वाऽभावात्अह्गवृत्ते पुनर्वृत्तावविधिः॑ इति परिभाषास्वारस्येन तथैव प्रतीतेः । अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह — ङे प्रतमयोरिति ।ङे प्रथमयोर॑मित्यत्र अम् म् इति मकारान्तरं प्रश्लिष्यते । अम् च म् चेति द्वन्द्वः । अन्त्यो मकारः संयोगान्तलोपेन लुप्तः । प्रश्लिष्टश्च मकारोऽमो विशेषणं, तदन्तविधिः मकारान्तोऽम् स्यादिति लभ्यते । मकारान्तस्य अमः पुनर्मान्तत्वविधानादम् मान्त एव भवति नतु तस्य विकारो भवतीति लभ्यते । अतो न शीभाव इत्यर्थः । वस्तुतस्तु मकारान्तरप्रश्लेषो बाष्येऽदर्शनादुपेक्ष्यः । संनिपातपरिभाषयैवाऽत्र शीभावो न भवति । दकारस्य शेषलोपो हि आत्वयत्वनिमित्तेतरात्मकशेषविभक्त्यात्मकस्य अमो युष्मदस्मदोश्च संनिपातमाश्रित्य प्रवृत्तः । ततः शीभावे तु आद्गुणे यूये वये इति स्यात् । तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसंनिपातभङ्गः । परादित्वे तु युष्मदस्मत्संनिपातविरोध इत्यलम् ।", "72094": "<<त्वाहौ सौ>> - त्वाहौ सौ । त्वश्च अहश्च त्वाहौ । मपर्यन्तस्येत्यधिकृतम् । युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । तदाह — युष्मदस्मदोरित्यादिना । त्व अद् अम्, अह अद् अम् इति स्थितम् । यद्यप्यत्र 'त्वमावेकवचने' #इत्येव युष्मच्छब्दस्य त्वादेशः सिद्धतस्तथापि युष्मानतिक्रान्तोऽतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्त्वविधानम् । नहि 'तत्र त्वमावेकवचने' इत्यस्य प्रवृत्तिरिति, अत्र युष्मच्छब्दस्य बुहुत्वविशिष्टे वृत्तेः । एकवचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची, नतु एकवचनसंज्ञकप्रत्ययवाचीत्यनुपदमेव वक्ष्यते ।", "72095": "<<तुभ्यमह्यौ ङयि>> - तुभ्यमह्रौ ङयि । 'ङे' इत्यस्य सप्तम्येकवचने ङयीति ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह — अनयोरिति । युष्मदस्मदोरित्यर्थः । अमादेश इति ।ङे प्रथमयोरित्यनेने॑ति शेषः । शेषे लोप इति । अदो दस्य वा लोप इत्यर्थः । 'अमि पूर्वः' इति मत्वाह — तुभ्यं मह्रमिति । परमतुभ्यमिति । तुभ्यमहृविध्योराङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । अतितुभ्यमिति । गौणत्वे तदप्रवृत्तौ मानाऽभावादिति भावः । युवाभ्यामावाभ्यामिति । तृतीयाद्विवचनवदिति भावः ।", "72096": "<<तवममौ ङसि>> - अथ षष्ठी । तवममौ ङसि ।युष्मदस्मदोरनादेशे॑ इत्यतोयुष्मदस्मदो॑रित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतं । तदाह-अनयोरिति । युष्मदस्मदोरित्यर्थः । 'त्वमावेकवचने' इत्यस्यापवादः ।", "72097": "<<त्वमावेकवचने>> - अथ द्वितीयैकवचनस्याऽमोङे प्रथमयो॑रित्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते — त्वमावेकवचने ।युष्मदस्मदोरनादेशे॑ इत्यतोयुष्मदस्मदो॑रित्यनुवर्तते ।मपर्यन्तस्ये॑त्यधिकृतम् । एकवचनशब्दो यौगिक एव, वचनग्रहणसामर्थ्यात् । तदाह — एकस्येत्यादिना ।", "72098": "<<प्रत्ययोत्तरपदयोश्च>> - प्रत्ययोत्तरपदयोश्च । साप्तमिकमिदम् । 'त्वमावेकवचने' इत्यनुवर्तते ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतं । तदाह — मपर्यन्तयोरित्यादि । त्वदीयः मदीय इति । छे सुब्लुकि तवममयोर्निवृत्तौ मपर्यन्तयोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाऽभावान्न शेषे लोपः । उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्र इत्युदाहरणम् ।", "72099": "<<त्रिचतुरोः स्त्रियां तिसृचतसृ>> - त्रिचतुरोः । एतयोरेताविति । त्रिचतुरोस्तिसृ चतसृ इत्येतावित्यर्थः । विभक्ताविति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । जश्शसोः-तिसृ अस् इति स्थिते ।", "72100": "<<अचि र ऋतः>> - अचि र ऋतः । पूर्वसूत्रात्तिसृचतसृ इत्यनुवर्तते । तच्चेह लुप्तषष्ठीकमाश्रीयते । तदाह-तिसृ इत्यादिना । ननुइको यणची॑त्येव सिद्धमित्यत आह-गुणदीर्घोत्त्वानामपवाद इति ।ऋतो ङी॑ति गुणस्य,प्रथमयो॑रिति पूर्वसवर्णदीर्घस्य,ऋत उ॑दित्त्युत्त्वस्य च रत्वमपवाद इत्यर्थः । तिरुआ इति । जश्शसोः रूपम् । तत्र जसिऋतो ङी॑ति गुणस्य रत्वमपवादः । शसि तु 'प्रथमयोः' इति पूर्वसवर्णदीर्घस्य रत्वमपवादः । आमीति । तिसृ-आम् इति स्थिते नुटं बाधित्वा 'अचि र ऋतः' इति रत्वे तिरुआआमिति प्राप्तेनुमचिरतृज्वद्भावगुणेभ्यो नुट् पूर्वविप्रतिषेधेने॑ति रत्वं बाधित्वा नुडित्यर्थः ।", "72101": "<<जराया जरसन्यतरस्याम्>> - अस्य निर्जरशब्दस्य विशेषं दर्शयितुमाह — जरायाः । 'अष्टन आ विभक्तौ' इत्यतोविभक्ता॑वित्यनुवृत्तम्, 'अचि र ऋतः' इत्यतोऽनुवृत्तेनअची॑त्यनेन विशेष्यते ।यस्मिन् विधि॑रिति तदादिविधिः । तदाह — जराशब्दस्येत्यादिना । ननु जराशब्दस्य विधीयमानो जरसादेशः कथं निर्जरशब्दस्य भवेदित्यत आह — पदेति । पदाधिकारे अङ्गाधिकारे च यस्य यद्विहितं तत्तस्य, तदन्तस्य च भवतीत्यर्थः । जरसादेशश्चाऽयमङ्गाधिकारस्थत्वाज्जराशब्दस्य, तदन्तस्य च भवति, जरसावित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्वं बोध्यम् । यद्यपि 'जराया' इत्यस्याऽङ्गविशेषणत्वादेव तदन्तविधिः सिद्धः, तथापियेन विधि॑रित्यस्य प्रपञ्चभूतेयं परिभाषेत्यदोषः । अत एव पदमङ्गं च विशेष्यं, विशेषणेन च तदन्तविधि॑रिति प्रौढमनोरमायामुक्तम् । ननु जराशब्दान्तस्य विधीयमानो जरसादेशो निर्जरशब्दस्य कृत्स्नस्य स्यात्, अनेकाल्त्वादित्याक्षिप्य समाधत्ते — अनोकाल्त्वादिति । निर्दिश्यमानस्येति । प्रत्यक्षनिर्दिशय्मानस्यैवेत्यर्थः । अनया परिभाषया जराशब्दस्यैव जरस् । जराशब्द एव ह्यत्र स्थानी प्रत्यक्षनिर्दिष्टः । जराशब्दान्तस्य तु निर्द्देशस्तदन्तविधिलभ्यत्वादानुमानिक इति भावः । इयञ्च परिभाषाषष्ठी स्थानेयोगे॑ति सूत्रसिद्धार्थकथनपरेति तत्रैव भाष्ये स्पष्टम् । ननु निर्जरशब्दस्य जराशब्दान्तत्वाऽभावात्कथमिह जरसादेश इत्यत आह — एकदेशेति ।छिन्नेऽपि पुच्छे आआ औव, न चाआओ नच गर्दभ॑ इति न्यायादिति भावः । निर्जरसा । निर्जरस इति । प्रथमाद्वितीययोर्द्विवचने बहुवचने च रूपम् । अमिनिर्जरस॑मित्युदाहार्यम् । ननु तृतीयैकवचने पञ्चम्येकवचने च्, निर्जर-आ, निर्जर-अस् इति स्थिते इनाऽऽतोः कृतयोर्जरसादेशे निर्जरसिन निर्जरसादिति प्राप्तं, तथा चतुर्थ्येकवचने षष्ठएकवचने च-निर्जर ए, निर्जर अस्-इति स्थिते, यादेशे, स्यादेशे च सत्यजादिविभक्त्यभावाज्जरसादेशाऽभावे निर्जराय निर्जरस्येति प्राप्तं, तत्राह — इनादीनिति । इन-य-आत्-स्येत्यादेशान्-नुटं च परत्वाद्बाधित्वा जरसादेशः । ततस्च अदन्तत्वाऽभावादिनादयो न भवतीत्यर्थः । निर्जरसेति । तृतीयैकवचनम् । निर्जसरे इति — चतुर्थ्येकवचनम् । निर्जरस इति — पञ्चम्येकवचने षष्ठएकवचने च रूपम् । निर्जरसोः, निर्जरसां, निर्जरसीत्यप्युदाहार्यम् । पक्ष इति । जरसादेशाऽभावपक्ष इत्यर्थः । हलादौ चेति । भिस ऐसादेशे 'निर्जरै' रित्येव रूपं न तु जरसादेशे निर्जरसैरिति । अदन्तमङ्गमाश्रित्य प्रवृत्तस्यैसः संनिपातपरिभाषया तद्विघातकजरसादेशनिमित्तत्वाऽयोगात् ।अत वृत्तिकुदुत्प्रेक्षितं मतान्तरं दूषयितुमनुवदति — वृत्तिकृता त्वित्यादिना ।पूर्वविप्रतिषेधेनेत्यादि केचि॑दित्यन्तो वृत्तिग्रन्थः । वृत्तिकृता तु इनातोः कृतयोर्जरसि कृते निर्जरसादिति रूपं, न तु निर्जरस इति केचिदित्युक्तमित्यन्वयः । ननु इनादेशमादादेशं च परत्वाद्बाधित्वा जरसि कृते ।ञदन्तत्वाऽभावात्कथमिनातौ स्यातामित्यत आह — पूर्वविप्रतिषेधेनेति । विप्रतिषेधे पूर्वस्य प्रवृत्तिर्यत्र बोध्यते तत् पूर्वप्रतिषेधं=॒विप्रतिषेधे परं कार्य॑मिति सूत्रं तेनेत्यर्थः । तत्र परशब्दस्येष्टवाचित्वमाश्रित्य विप्रतिषेधे क्वचित्पूर्वस्य कार्यस्य प्रवृत्त्यभ्युपगमेनेति यावत्॥ नन्विनातोः कृतयोः कतं जरसादेशः, संनिपातपरिभाषाविरोधादित्यत आह — संनिपातपरिभाषाया इति । तथेति । भिस ऐसादेशे जरसादेशाऽभावपक्षे निर्जरैरिति रूपम् । संनिपातपरिभाषाया अन्त्यत्वाज्जरसि कृते तु निर्जरसैरिति रूपान्तरमुक्तमित्यर्थः । तदनुसारिभिति । निर्जरसिनेत्यादि रूपं यैरुक्तं तदनुसारिभिरित्यर्थः । निर्जरस्येत्येवेति । पूर्वविप्रतिषेधेन स्यादेशे कृतेऽजादिविभक्त्यभावान्न जरस् । इनातोः पूर्वविप्रतिषेधे आश्रिते सति एकसूत्रोपात्तत्वात्स्यादेशविषयेऽपि पूर्वविप्रतिषेध आश्रयितुमुचितः । अतो निर्जरस्येत्येकमेव रूपं,न तु 'निर्जरस' इत्यपीति भावः ।एतच्चेति । वृत्तिकृदुत्प्रेक्षितं केषांचिन्मतं, तदनुसारिमतं चेत्यर्थः । भाष्यविरुद्धमिति ।टाङसिङसामिनात्स्याः॑ इत्यत्र नादेश एव विधेयः, इकारोच्चारणं मास्तु । तथा अदादेश एव विधेयो नतु दीर्घ आदिति । रामेणेत्यत्र एकारस्तु योगविभागाद्भवति, तथाहि 'बहुवचने झल्येत्' 'ओसि च' 'आङि चापः'संबुद्धौ चे॑ति सूत्रक्रमः । तत्र आङीति योगविभागः क्रियते । अत एकारः स्यादङि । रामेण ।आपः संबुद्धौ चे॑ति सूत्रक्रमः । तत्र आङीति योगविभागः क्रियते । अत एकारः स्यादाङि । रामेण ।आपः संबुद्धौ चे॑त्यन्यो योगः । एकारः स्यात्सम्बुद्धौ आङि ओसि च । हे रमे रमया रमयोः । ङसेरदादेशे अकारोच्चारणसामर्थ्यात् 'अतो गुणे' इति न पररूपमित्यादि टाङसिङसामिति सूत्रे भाष्ये स्थितम् । निर्जरसिन निर्जरसादिति रूपसत्त्वे एतद्भाष्याऽसङ्गति स्पष्टैव । अत्र इकारस्य आकारस्य च श्रवणाय इनादेशे इकारोच्चारणावश्यकत्वात् । किंचगोनर्दीयस्त्वाह-अतिजरैरित्येव भवितव्यं संनिपातपरिभाषया॑ इतिजराया जरसन्यतरस्या॑मिति सूत्रे भाष्ये स्थितम् । निर्जरसैरिति रूपाभ्युपगमे #एतदसङ्गतिः स्पष्टैव । अतः पूर्वविप्रतिषेधेनेत्यादि मतान्तरमशुद्धमित्यर्थः ।", "72102": "<<त्यदादीनामः>> - द्वि-औ इति स्थिते- । त्यदादीनामः ।अष्टन आ विभक्ता॑वित्यतो विभक्तावित्यनुवर्तते । एषामिति । त्यदादीनामित्यर्थः । त्यदादिर्येषामिति विग्रहः । 'अन्तादेशः' इत्यलोऽन्त्यपरिभाषालभ्यः । विभक्तौ किम् । तत्फलम् ।स्वमोर्नपुंसका॑दिति लुकि अत्वं न । द्विपर्यन्तानामिति । सर्वादिगणे ये त्यदादयः पठितास्तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्येच्छत्यर्थः । द्विशब्दस्य द्विवचनेषु परतोऽत्वे कृते रामशब्दवद्रूपाणीत्याह-द्वावित्यादि । द्विपर्यन्तानामिति किमिति । युष्मदस्मदोरात्वयवत्वयलोपैर्बाधात्, किमः कादेशविधानाच्च तेषां त्यदादिष्वन्तर्भावेऽपि न दोष इति प्रश्नः । भवान् भवन्ताविति । भवत्-सिति स्थितेउगिदचा॑मिति नुमि हल्ङ्यादिलोपे संयोगान्तलोपेअत्वसन्तस्य चे॑ति दीर्घेभवा॑निति रूपम् । द्विपर्यन्ताना॑मित्यभावे तु भवत्-सिति स्थिते तकारस्य त्वे कृते 'अतो गुणे' इति पररूपेउगिदचा मिति नुमि 'सर्वनामस्थाने' इति दीर्घे सुलोपे नलोपे 'भवा' इति स्यात् । तथा॒भवत्-औ॑ इति स्थिते पूर्ववत्तकारस्याऽत्वे नुमि दीर्घे चभवाना॑विति स्यादिति भावः । अथ यदुक्तंसंज्ञो पसर्जनीभूतानां सर्वादिगणकार्यमन्तर्गणकार्यं च न भवती॑ति तत्स्मारयति — संज्ञायामित्यादिना । द्विर्नामेति ।नामे॑त्यव्ययं प्रसिद्धौ ।द्वि॑रिति प्रसिद्धः कश्चिदित्यर्थः । अत्र च संज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति, एकद्वित्र्यादिष्वपि द्विसंज्ञकत्वसंभवादित्यभिप्रेत्य आह — द्विः द्वी द्वय इति । अतिद्विरिति । 'अत्यादयः' इति समासः । परमद्वाविति । कर्मधारयोऽयम् । संज्ञोपसर्जनत्वाभावादिहाऽत्वं भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भावः । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा । तस्यापत्यमौडुलोभिः ।बाह्वादिभ्यश्चे॑ति इञ् । 'नस्तद्धिते' इति टिलोपः । आदिवृद्धि अस्य एकवचनद्विवचनयोः सर्वत्र हरिवद्रूपम् । तदाह औडुलोमिरौड्डलोमी इति । बहुवचने तूडुलोमा इति । ननु तथा रूपं कथं, बाह्वादिगणस्थत्वेन इञः प्रसङ्गादित्यत आह — लोम्नोऽपत्येषु । लोमन्शब्दाद्बहुष्वपत्येषु विवक्षितेष्वकारः प्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीञ इति । बाह्वादिगणाद्विहितस्य इञोऽपवाद इत्यर्थः । 'उडुलोमन्-अ' इति स्थिते 'नस्तद्धिते' इति टिलोपः । ञ्णित्त्वाऽभावात्कित्त्वाऽभावाच्च नादिवृद्धिः ।उडुलोम॑शब्दोऽकारान्तः । तस्य सर्वत्र बहुवचनेषु रामवद्रूपमिति भावः । इति इदन्तप्रकरणम् । अथेदानीमीकारान्ता निरूप्यन्ते । तत्र वातप्रमीशब्दो द्विधा ।माङ्भाने॑इति धातोरीप्रत्ययान्तः क्विबन्तश्च । तत्र प्रथमं व्युत्पादयति — वातप्रमीरित्यादिना ।कि॑दित्यनन्तरं 'निपात्यते' इति शेषः । वातमिति वातमित्युपपदे कर्तरि माङ्धातोरीप्रत्यये कित्त्वात्आतो लोप इटि चे॑त्यल्लोपेउपपदमतिङि॑ति समासे तस्मात्सुबुत्पत्तौवातप्रमी॑रिति प्रथमैकवचनम् । अङ्यन्तत्वान्न सुलोपः । एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे ङीब्ग्रहणमिति भावः । दीर्घादिति । वातप्रमी-औ इति स्थितेदीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घे निषिद्धेइको यणची॑ति यणि वातप्रम्याविति रूपमित्यर्थः । हे वातप्रमीरिति । दीर्घान्तत्वात् । 'ह्रस्वस्य गुणः' इति न । अमीति । वातप्रमी — अम् इति स्थिते 'अमि पूर्वः' इति पूर्वरूपेवातप्रमी॑मिति रूपमित्यर्थः । 'एरनेकाचः' इति यण्तु न, ईप्रत्ययान्तस्य धातुत्वाऽभावात् । वातप्रमीनिति । पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् । वातप्रम्येति । अघित्वात् 'आङो नाऽस्त्रिया' मिति नाभावस्याऽभावे यण् । वातप्रम्ये इति अघित्वान्हेङसिङस्सुघेर्ङिती॑ति गुणो न । वातप्रम्यामिति । आमि यणादेशे रूपम् । दीर्घत्वान्न नुट्, 'ह्रस्वनद्यापः' इति ह्रस्वग्रहणादिति भावः । ङौ त्विति । 'वातप्रमी — इ' इति स्थिते परत्वाद्यणादेशं बाधित्वा सवर्णदीर्घेवातप्रमी॑ति रूपम् । अघित्वादिदुदन्तत्वाऽभावाच्च अच्च घे॑रिति,औ॑दिति च न भवति । वस्तुतस्तुईदूतौ च सप्तम्यर्थे॑ इति सूत्रेसप्तम्यन्तमीदूदन्तं लोके नास्ति । अतःसोमो गौरी अधिश्रितः॑ 'मामकी तनू' इति वेद एव तदुदाहरण॑मिति भाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयत इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति ।पापोः किद्द्वोषेचे॑त्यौणादिकसूत्रम् । याधातोः, पाधातोश्च ईप्रत्ययः स्यात्, सच कित् । प्रकृतिभूतयोस्तयोर्द्वित्वं चेत्यर्थः । कित्त्वादातो लोप इटि चेत्याल्लोपः । अभ्यासह्रस्वः । क्विबन्तवातेति । 'माङ् माने' इत्यस्मात्कर्तरि क्विपिघुमास्थे॑तीत्त्वेवातप्रमी॑शब्द इति केचित् । तन्न, 'ईत्त्वमवकारादौ' इति वार्तिकविरोधात् ।मीञ् हिंसाया॑मिति मीधातोः क्विपि तुवातप्रमी॑शब्दो निर्बाधः । वक्ष्यमाणो यणिति । अमिपूर्वरूपं, शसि पूर्वसवर्णदीर्घः, ङौ सवर्णदीर्घं च बाधित्वा परत्वात् 'एरनेकाचः' इति यण्, ईकारान्तधातुत्वादिति भावः । प्रधीवदिति । प्रकृष्टं ध्यायतीति प्रधीः ।ध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणमिकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घः । अस्य च ईकारान्तधातुत्वादमि ङसि ङौ च 'एरनेकाचः' इति यणादेशः । बह्वय इति ।बह्वादिभ्यश्चे॑ति ङीष् । श्रेयस्य इति । अतिप्रशस्ता इत्यर्थः ।द्विवचनविभज्योपपदे॑ इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः ।उगितश्चे॑ति ङीप् । बहुश्रेयसीति ।स्त्रियाः पुंव॑दिति पुंवत्त्वम् ।गोस्त्रियोरि॑ति ह्रस्ववस्तु न,ईयसोबह#उव्रीहेर्नेति वाच्य॑मिति तन्निषेधात् । बहुश्रेयसी-सिति स्थिते प्रक्रियां दर्शयति — दीर्घङ्यन्तत्वादिति । ननु श्रेयसीशब्द एव ङ्यन्तः, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । नचस्त्रीप्रत्यये न तदादिनियमः॑ इति निषेधान्नेह तदादिनियम इति वाच्यम्, अनुपसर्जन एव स्त्रीप्रत्यये हि न तदादिनियम इति प्रतिषेधः । इह तूपसर्जनन्वात्तदादिनियमोऽस्त्येवेति चेत्, अस्तु श्रेयसीशब्दस्यैव ङ्यन्तत्वम्, नतु बहुश्रेयसीशब्दस्य । तथापि हल्ङ्यादिलोपोऽत्र निर्बाधः । सोङ्र्यन्तात् श्रेयसीशब्दात्परत्वस्याऽनपायात् । नहि॒हल्ङ्याब्भ्य॑ इति विहितविशेषणं, प्रमाणाऽभावात् । या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात् । नहि॒हल्ङ्याब्भ्य॑इति विहितविशेषणं, प्रमाणाऽभावात् । या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात्, यत्त्त्किमिति हलन्तेभ्यः सुबुत्पत्तौ त्यदाद्यत्वे सत्येव टापः प्रवृत्तेः । नच तत्र हलन्ताद्विहितत्वेन निर्वाहः शङ्क्यः, यः सः क इत्यादावतिव्याप्तेः, कर्ता सखेत्यादावव्याप्तेश्चेत्यास्तां तावत् ।दीर्घाज्झसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्यौ । बह#उश्रेयस्यः ।", "72103": "<<किमः कः>> - तस्य विशेषमाह-किमः कः । विभक्ताविति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । ननु 'इमः' इत्येव सूत्र्यतां । 'त्यदादीनाम' इत्यनुवृत्तौ त्यदादीनामिमोऽकारः स्यादित्यर्थलाभात् ।द्विपर्यन्ताना॑मिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात् । एवं च किंशब्दे 'इम्' इत्यस्य स्थाने अकारे सति 'क' इत्यदन्तत्वं सिध्यति । नचअलोऽन्त्यस्ये॑ति किंशब्दे इमोमकारस्यैव अकारः स्यात् । ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम्,नानर्थकेऽलोन्त्यविधिः॑ इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे सति 'क' इत्यस्य सिद्धेरित्यत आह-अकच्सहितस्येति । त्यदादेरिमोऽकारविधौअव्ययसर्वनाम्ना॑मिति किंशब्दस्य अकचि कृते ककिमिति स्थिते इमोऽकारे कृते 'कक' इति रूपं स्यात् । 'किमः कः' इत्युक्तौ तु साकच्कस्यापि किंशब्दस्यतन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति न्यायेन किंशब्दत्वात्तस्य कादेशे सति 'क' इत्येव रूपं सिध्यतीति भावः । अत्र त्यदादीनामित्यनुवर्त्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम् । अतः सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एवं च विभक्त्युत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि । मारुते वेधसि ब्राध्ने पुंसि कः, कं शिरोऽम्बुनोः॑ इत्यमरः । तत्र कशब्दस्य किंशब्दत्वाऽभावान्न सर्वनामत्वम् । वेधसि तु किंशब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयं 'कस्येत्' इति सूत्रे भाष्ये स्थितम् । कायं हविरित्यत्र यदि किमः कादेशो, यदि वा शब्दान्तरम्, उभयथापिकस्मा अनुब्राऊही॑ति भवितव्यम् । सर्वस्य सर्वनामसंज्ञा । सर्वश्च प्रजापतिः । प्रजापतिश्च कः । अपर आह — उभयथापि कायानुब्राऊहीत्येव संज्ञैषा तत्रभवत इति ।", "72104": "<<कु तिहोः>> - कुतिहोः । 'कु' इति लुप्तप्रथमाकम् । 'किमः कः' इत्यस्मात् 'किमः' इत्यनुवर्तते । 'अष्टन आ' इत्यतोविभक्ता॑विति । तिश्च ह् च तयोरिति द्वन्द्वः । इकार उच्चारणार्थः । ताभ्यां विभक्तिर्विशेष्यते । तदादिविधिः । तदाह — किमः कुः स्यादित्यादिना । कुत इति । किंशब्दात् पञ्चम्यन्तात्तसिल् । सुब्लुक् । किमः कुभावः ।तसिलादयः प्राक्पाशपः॑ इत्युक्तेरव्ययत्वम् । वेत्यनुवृत्तेः फलमाह — कस्मादिति ।तिहो॑रित्युक्तेरत्र न कुभावः । सर्वनाम्न उदाहरति — यत इति । यच्छब्दात्पञ्चम्यन्तात्सुब्लुक्, तसिलो विभक्तित्वात्तस्मिन्परे त्यदाद्यत्वं पररूपम् । एवं तच्छब्दात्तत इति रूपम् । पक्षे तस्मादिति भवति । अत इति । एतच्छब्दात्पञ्चन्तात्तसिल् । सुब्लुक् । एतदोऽन् । सर्वादेशः । नलोपः । पक्षेएतस्मा॑दिति भवति । इत इति । इदंशब्दात्पञ्चम्यन्तात्तसिल् । सुब्लुक् ।इदम इश् । पक्षे अस्मादिति भवति । अमुत इति । अदस्शब्दात्पञ्चम्यन्तात्तसिल्, उत्वमत्वे च । पक्षेअमुष्मा॑दिति भवति । बहुत इति । पक्षे 'बहुभ्य' इति भवति । द्व्यादेस्त्विति । सर्वनामत्वात्प्राप्तस्तसिल्-द्व्यादिपर्युदासान्नेत्यर्थः ।", "72105": "<<क्वाति>> - क्वाऽति । क्व — अतीति छेदः ।क्वे॑ति लुप्तप्रथमाकं । 'किमः कः' इत्यतः किम इत्यनुवर्तते । तदाह — किमः क्वेति । किंशब्दात्सप्तम्यन्तादत्प्रत्ययः, तकार इत्, किमः क्वादेश इति भावः । कुत्रेति । अत्प्रत्ययाऽभावपक्षे त्रलिकु तिहो॑रिति कुभावे रूपम् । केचित्तुकिमोऽ॑दित्यत्र उत्तरसूत्राद्वाग्रहणाऽपकर्षे प्रमाणाऽभावात्रलं बाधित्वा नित्य एव अत्प्रत्ययः,कुत्रे॑ति त्वपशब्द एवेत्याहुः ।", "72106": "<<तदोः सः सावनन्त्ययोः>> - तदोः सः सौ । त्यदादीनामिति । 'त्यदादीनामः' इत्यतस्तदनुवृत्तेरिति भावः । तकारदकारयोरिति । सूत्रे तश्च द्चेति विग्रहः । तकारादकार उच्चारणार्थ इति भावः । सः स्यादिति । आदेशेऽपि अकार उच्चारणार्थः । त्यौ इति । सावित्युक्तेर्न सत्वमिति भावः । त्ये इति । सर्वनामत्वाज्जसः शीभाव इति भावः । स्मायादीमप्युपलक्षणमिदम् । त्यं त्यौ त्यान् । त्येन त्याभ्यां त्यैः । त्यस्मै त्याभ्यां त्येभ्यः २ । त्यस्मात् । त्ययोः २ । त्येषां । त्यस्मिन् त्येषु । एवं तद्शब्दः । परमस इति । अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भावः । ननु युष्मच्छब्दस्यापि त्यदादित्वात्तस्य प्रथमैकवचने त्वमित्यत्र 'तदोः सः सौ' इति सत्वं कुतो न स्यादित्यत आह — द्विपर्यन्तेति । 'त्यदादीनामः' इत्यत्र पठितंद्विपर्यन्तानामेवेष्यते॑ इति वार्तिकं 'तदोः सः सौ' इत्यत्राप्यनुवर्तते एवेत्यर्थः । ततः किमित्यत आह — नेहेति । इहशब्दविवक्षितमाह — त्वमिति । युष्मच्छब्दस्य द्विशब्दादुपर्येव सर्वादिगणे पाठादिति भावः । ननु 'त्वाहौ सौ' इति तकारोच्चारणसामर्थ्यादेव त्वमित्यत्र सत्वं न भवति, अन्यथा 'स्वाहौ सौ' इत्येव ब्राऊयात् । अतो द्विपर्यन्तानामित्यनुवृत्तिरिह व्यर्थेत्याशङ्क्य निराकरोति - न चेति । तकारोच्चारणसामर्थ्यादिह सत्वं नेति न वाच्यमित्यन्वयः । अतित्वमिति ।द्विपर्यन्ताना॑मित्यननुवृत्तौत्व॑मित्यत्रापि सत्वं स्यात् । न च 'त्वाहौ सौ' इति तकारोच्चारणानर्थक्यं, त्वामतिक्रान्तोऽतित्वमिति गौणे युष्मच्छब्दस्य त्वादेशे त्वाहाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थः । नच अतित्वमित्यत्रापि सत्वप्रवृत्तेर्दुर्वारत्वात्त्वाहाविति तकारोच्चारणानर्थक्यं दुर्वारमिति वाच्यम्, सत्वस्य सर्वाद्यन्तर्गणकार्यत्वेन गौणे तस्याऽप्रवृत्तेः । अत एवाह-संज्ञायामिति । त्यदिति । कस्यचिन्नामेदम् । अतित्यदिति । त्यमतिक्रान्त इति विग्रहः । य इति । यच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्वशब्दवद्रूपाणि । तकाराऽभावान्न सत्वम् । एष इति । एतच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि । सौ तु तकारस्य सत्वमिति विशेषः । अन्वादेशे त्विति ।द्वितीयाटौस्स्वेनः॑ इत्यस्य एतच्छब्देऽपि प्रवृत्तेरिति भावः ।", "72107": "<<अदस औ सुलोपश्च>> - अदस्शब्दात्सौ त्यदाद्यत्वे प्राप्ते-अदस औ ।अदस इति षष्ठी । 'औ' इत्यविभक्तिकनिर्देशः । 'तदोः सः सौ' इत्यतःसा वित्यनुवर्तते । तदाह — अदस इति । 'अन्तादेश' इत्यलोन्त्यपरिभाषालभ्यम् । सकारस्य औत्त्वे कृते हलः परत्वाऽभावाद्धल्ङ्यादिलोपेऽप्राप्ते सुलोपविधिः । दस्य स इति । मुत्वापवाद इति भावः । असौ इति । अदस्स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दस्य सत्वे च रूपम् ।अतअव्ययसर्वनाम्ना मित्यकचि अदकस्शब्दात्सो विशेषमाह — औत्वप्रतिषेध इति ।अदस औ सुलोपश्चे॑त्यत्र अदस्शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेदो वक्तव्यः । 'तदोः सः सौ' इति दकारस्य सकारे कृते तस्मात्सकारात्परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थः । ततश्च अदकस्स् इति स्थिते, औत्वाऽभावे, दसय् सत्वे सति, सकारातपरस्य अकारस्य उत्वे सति, त्यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे असुक इति रूपम् । औत्वप्रतिषेधाभावपक्षे अदकस्स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूपं वक्ष्यति । तत्र औत्वप्रतिषेधाऽभावपक्षे औत्वे कृते सकारादकारस्य उत्वविकल्पः कुतो न स्यादित्यत आह — प्रतिषेधेति ।सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः॑ इति न्यायादिति भावः । 'अमुकः' 'अमुकशर्मा' इत्यादि त्वसाध्वेवेत्याहुः । केचित्तु अदस्शब्दपर्यायोऽमुकशब्दोऽव्युत्पन्न इत्याहुः । अदस् औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । पररूपमपि बोध्यम् । मत्वोत्वे इति । 'अदौ' इत्यत्र दात्परस्य औकारस्य दीर्घ ऊकारः, दस्य मत्वं चेत्यर्थः । जसि त्यदाद्यत्वं पररूपं च सिद्धवत्कृत्य आह — जसःशीति । आद्गुणे अदे इति स्थितम् ।", "72108": "<<इदमो मः>> - अथ इदंशब्दे विशेषमाह — इदमो मः । साविति । 'तदोः सः सौ' इत्यतस्तदनुवृत्तेरिति भावः ।अलोऽन्त्यस्ये॑त्यन्त्यस्य मस्य मः । ननु मस्य मविधिव्र्यर्थ इत्यत आह — त्यदाद्यत्वापवाद इति ।", "72109": "<<दश्च>> - दश्च । 'इदमो मः' इत्यनुवर्तते । 'द' इति षष्ठी । इदमो दकारस्येति । लभ्यते । 'अष्टन आ विभक्तौ' इत्यतोऽतिव्यवहितमपि विभक्तावित्येतन्मण्डूकप्लुत्याऽनुवर्तते । 'तदोः सः सौ' इत्यतः साविति तु संनिहितमपि नानुवर्तते, सौ इदमो दस्याऽभावात्, 'यः सौ' इत्युत्तरसूत्रे सौग्रहणाच्च । तदाह-इदमो दस्येत्यादिना । तथाच इम-औ इति स्थिते रामवद्रूपाणीत्याह — इमावित्यादि । त्यदादेः संबोधनं नास्तीति । प्रचुरप्रयोगाऽदर्शनादिति भावः । नन्वेवं सति 'तदोः सः सो' इति सूत्रे 'हे स' इति भाष्यविरोध इत्यत आह-उत्सर्ग इति प्रायिकमित्यर्थः ।", "72110": "<<यः सौ>> - अथ इदम्शब्दस्य स्त्रीत्वे विशेषमाह-यः सौ । 'इदमो मः' इत्यत 'इदम' इत्यनुवर्तते, 'दश्चे॑त्यतोद' इति च षष्ठन्तमनुवर्तते । तदाह — इदमो दस्येति । पुंसि तु नेदं प्रवर्तते,इदोऽय्पुंसी॑ति विशिष्य विधेः । नापि क्लीबे, तस्य सोर्लुका लुप्तत्वात् । ततश्च परिशेषात्स्तिरायमेवेदम् । इयमिति । इदम् स् इति स्थिते, दकारस्य यत्वे, इयम् स् इति स्थिते, त्यदाद्यत्वं बाधित्वा 'इदमो मः' इति मकारस्य मकारे कृते, हल्ङ्यादिना सुलोप इति भावः । इदम्-औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । त्यदाद्यत्वे सति पररूपे, अदन्तत्वाट्टापिदश्चे॑ति दकारस्य मत्वे, इमा-औ इति स्थिते, 'औङ आपः' इति शीभावे, आद्गुणे 'इमे' इति रूपम् । इमा इति । जसि त्यदाद्यत्वं, पररूपम्, टाप्,दश्चे॑ति मः, पूर्वसवर्णदीर्घ इति भावः । अत्र विभक्तौ सत्यां त्यदाद्यत्वं, पररूपं, टाप् च सर्वत्र भवन्तीति बोध्यम् । 'इमाः' इत्यत्र इमा-अस् इति स्थिते पूर्वसवर्णदीर्घः ।जसः शी॑ति तु न, टापि कृतेऽदन्तात्परत्वाऽभावात् । इमामिति । अत्पररूपटाब्मत्वेषु कृतेषु 'अमि पूर्वः' इति भावः । इमे इति । औटि औवत् । इमा इति । अत्वपररूपटाब्मत्वेषु पूर्वसवर्णदीर्घः । स्त्रीत्वान्नत्वाऽभाव इति भावः । अनयेति । इदम्-आ इति स्थिते, अत्वं, पररूपम्, टाप्, 'अनाप्यकः' इति इदित्यस्य अनादेशः । अन्-आ इति स्थिते, 'आङि चापः' इत्येत्त्वे, अयादेश इति भावः । टाप्रभृत्यजादौ सर्वत्र अनादेश इति बोध्यम् । हलि लोप इति । भ्यामादौ हलि इदित्यस्य लोप इत्यर्थः । आभ्यामिति । इदम्-भ्यामिति स्थिते इदो लोपे, अत्वे, पररूपे, टापि च रूपमिति भावः । आभिरित्यप्येवम् । अस्यै इति । इदम् ए इति स्थिते, अत्वपररूपटाप्सु, स्याडागमे, ह्रस्वत्वे, इदो लोप इति भावः । 'अस्याः' इत्यप्येवम् । अनयोरिति । इदम् ओस् इति स्थिते, इदम इदोऽनादेशे, अत्वपररूपटाप्सु, 'आहि चापः' इत्येत्वे अयादेश इति भावः । आसामिति । इदम आम् इति स्थिते, अतद्वपररूपटाप्सु, सुटि, इदो लोप इति भावः । अस्यामिति । इदम् इ इति स्थिते, अत्वपररूपटाप्सु, ङेरामि, स्याडागमे, ह्रस्वत्वे, इदो लोप इति भावः । आस्विति । इदम्-सु इति स्थिते, अत्वपररूपटाप्सु, ङेरामि, स्याडागमे, ह्रस्वत्वे, इदो लोप इति भावः । आस्विति । इदम्-सु इति स्थिते, अत्वपररूपटाप्सु, अत्वपररूपटाप्सु, इदो लोप इति भावः । अन्वादेशे त्विति ।द्वितीयाटौस्स्वेनः॑ इत्येन#आदेशे, टापि रमावद्रूपाणि इति भावः । इति मान्ताः । अथ जान्ताः । रुआज्शब्दं व्युत्पादयति — ऋत्विगिति । 'सृज विसर्गे' अस्मात्क्विन्, ऋकारात्परोऽमागमः, मकार इत्, ऋकारस्य यण् रेफः । रुआज्शब्दः स्त्रीलिङ्गः ।माल्यं मालारुआजौ मूध्न, इत्यमरः । रुआक्-रुआगिति । क्विन्प्रत्ययस्य कुः॑ इति कुत्वं, जश्त्वचर्त्त्वे इति भावः । इति जान्ताः । अथ दान्ताः । त्यद्शब्दस्य प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । विभक्तौ, अत्वे, पररूपे, टापि 'त्या' इति रूपम् । सर्वत्र ततः सर्वावद्रूपाणि । सौ तु 'तदोः सः सौ' इति तकारस्य सकार इति विशेषः । एवमिति । तद् यद् एतद् एतेभ्यो विभक्तौ अत्वपररूपटाप्सु सर्वावद्रूपाणि । तच्छब्दस्य तु तकारस्य सत्वम् । एतच्छब्दस्य तु तकारस्य सत्वे 'आदेशप्रत्यययोः' इति षत्वमिति विशेषः । इति दान्ताः ।अथ चान्ताः । वागिति । वचेःक्विब्वची॑त्यादिना क्विप्स दीर्घश्च,वचिस्वपी॑ति सम्प्रसारणाऽभावश्च । वाचिति रूपम् ।सुलोपः, चोः कुः, जश्त्वचर्त्वे इति भावः । इति चान्ताः । अथ पान्ताः । अप्शब्द इति ।अप्सुमनस्समासिकतावर्षाणां बहुत्वं चे॑ति स्त्र्यधिकारे लिङ्गानुशासनसूत्रान्नित्यं बहुवचनान्तत्वं स्त्रीत्वं चेत्यर्थः । दीर्घ इति ।जसी॑ति शेषः । अप इति । 'अप्तृन्' इत्यत्रसर्वनामस्थाने चासम्बुद्धौ॑ इत्यनुवृत्तेः शसि न दीर्घ इति भावः ।", "72111": "<<इदोऽय् पुंसि>> - ॒इदम् स् इति स्थिते — इदोऽय्पुंसि । 'इद' इति स्थानषष्ठी । 'इदम' इत्यनुवर्तते । अवयवषष्ठएषा । 'यः सौ' इत्यतः सावित्यनुवर्तते । तदाद-इदम इति । इदम्शब्दस्यावयवो य इद्, तस्येत्यर्थः । अयम् स् इति स्थिते — सोर्लोप इति ।हल्ङ्यादिने॑ति शेषः । अयमिति । सुलोपे प्रत्ययलक्षणमाश्रित्य मकारस्याऽनुस्वारस्तु न, मकारविधिसामर्थ्यात् । अन्यथा अनुस्वारमेव विदध्यात् ।वर्णाश्रये नास्ति प्रत्ययलक्षण॑मिति निषेधाच्च । अथ औजसादिषु विशेषमाह — त्यदाद्यत्वमिति । इदम्-औ इति स्थिते ॒त्यदादीनाम॑ इति मस्य अकार इत्यर्थः । पररूपत्वमिति । इद अ औ इति स्थिते 'अतो गुणे' इति अकारयोरेकं परूरूपमकार इत्यर्थः । इद-औ इति स्थिते ।", "72112": "<<अनाप्यकः>> - टादावचि विशेषमाह-अनाप्यकः । अन्,-आपि,-अक इति च्छेदः । न विद्यते क् यस्य सः अक्, तस्य-अकः । ककाररहितस्येत्यर्थः । 'इदमो मः' इत्यत 'इदम' इति, इदोऽय्पुंसी॑त्यत 'इद' इति चानुवर्तते ।अष्टन आ विभक्तौ इत्यतो विभक्ताविति । तदाह — अककारस्येत्यादिना । आपीत्यनेन टाप्डाप्चापां ग्रहणं नेत्याह-आबित्यादिना । 'टा' इत्याकारमारभ्येत्यर्थः । विभक्तावित्यनुवृत्तिसामर्थ्यान्न टाबादिग्रहणमिति भावः । अनेनेति । इदमा इति स्थिते त्यदाद्यत्वं पररूपत्वम् । इदोऽनादेशः । अन-आ इति स्थिते इनादेशे गुण इति भावः ।", "72113": "<<हलि लोपः>> - भ्यामादौ त्यदाद्यत्वे पररूपे च कृते 'अनाप्यकः' इति प्राप्ते-हलि लोपः । 'आप्यक' इति पूर्व सूत्रादनुवर्तते । 'इदमो मः' इत्यत 'इदम' इतिइदोऽय् पुंसी॑त्यत 'इद' इति 'अष्टनः' इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणं । तदादिविधिः । तदाह-अककारस्येत्यादिना । अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्क्याह — नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम्शब्दे इदित्यस्यानर्थकत्वात्तदन्तस्येति न लभ्यते । ततश्च इदित्यस्य कृत्स्नस्यैव लोप इति भावः । अनभ्यासविकार इत्यनुक्तौ विभर्तीत्यादौमृञामित्, अर्तिपिपत्र्योश्चे॑तीत्त्वं कृत्स्नस्याभ्यासस्य स्यात् । द्वित्वे सति समुदायस्यैवार्थवत्त्वात् । 'हलि लोप' इत्यत्र लोपग्रहणपनीय 'हल्य' शित्येव सूत्रयितुमुचितम्, शित्त्वादिदः कृत्स्नस्याकारे पररूपेसुपि चे॑ति दीर्ङे आभ्यामित्यादिसिद्धेः ।", "72114": "<<मृजेर्वृद्धिः>> - मृजेर्वृद्धिः । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितम् । मृजेरित्यवयवषष्ठी । तदाह — मृजेरिको वृद्धिः स्यादिति ।धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान॑मिति परिभाषामभिप्रेत्य आह — धातुप्रत्यये परे इति । धातोर्विहिते प्रत्यये इत्यर्थः । तेन परिमृङ्भ्यामित्यत्र न वृद्धिरिति भावः । गुणापवादोऽयम् । क्ङित्यजादौ वेष्यते ।मृजेर्वृद्धि॑रिति शेषः । 'इको गुणवृद्धी' इति सूत्रभाष्ये इदं पठितम् । व्रश्चेति ष इति । मृज्-तीति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः । मृष्ट इति । ङित्त्वान्न वृद्धिर्नापि गुण इति भावः । मृजन्ति मार्जन्तीति ।क्ङित्यजादा॑विति वृद्धिविकल्प इति भावः । मार्षि मृष्ठः मृष्ठ । मार्ज्मि मृज्वः मृज्मः । ममार्जेति । णलिमृजेर्वृद्धि॑रिति अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह — ममार्जतुः ममृजतुरिति । ममार्जुः ममृजुरित्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्पं मृजेर्वृदिंध च मत्वा आह — ममार्जिथ ममार्ष्ठेति । इडभावे जस्य व्रश्चेति षः । थस्य ष्टुत्वेन ठ इति भावः । ममार्जथुः — ममृजथुः, ममार्ज — ममृज । ममार्ज, ममार्जिव-ममृजिव-मम#ऋज्व, ममार्जिम-ममृजिम- ममृज्म । लुटआह - मार्जिता मार्ष्टेति । ऊदित्त्वदिटि, तदभावे चमृजेर्वृद्धि॑रिति भावः । मार्जिष्यति — माक्ष्र्यति । मार्ष्टु — मृष्टात्, मृष्टाम्, मार्जन्तु — मृज्नतु । मृड्ढीति । हेरपित्त्वेन ङित्त्वान् वृद्धिः । व्रश्चादिना जस्य षः । हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वे ढः । मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । लङ्याह — अमार्डिति । तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे व्रश्चादिना जस्य षः, तस्य जश्त्वचर्त्वे इति भावः । अमृष्टाममार्जन्- अमृजन् । अमार्ट् अमृष्टममृष्टं । अमार्जमिति । अमृज्व अमृज्म । मृज्यात् । मृज्याताम् । मृज्यात् । मृज्यास्ताम् । अमार्जीत् अमार्क्षीदिति । ऊदित्त्वादिड्विकल्प इति भावः । इट्पक्षे अमार्जिष्टाममार्जिषुरित्यादि सुगमम् । इडभावे आमार्ष्टाममार्क्षुः । अमार्क्षीः । अमाष्र्टममाष्र्ट । अमाक्र्षममार्क्ष्व अमार्क्ष्म । अमार्जिष्यत — अमाक्ष्र्यत् । रुधिर्धातुरितित् । सेट् ।", "72115": "<<अचो ञ्णिति>> - अचोञ्णिति । ञ् च ण् चञ्णौ, तौ इतौ यस्य तत् ञ्णित् । 'मृजेः' इत्यतोवृद्धि॑रित्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतमचा विशेष्यते । ततस्तदन्तविधिः । तदाह-अजन्तस्येत्यादिना । स्थानसाम्यादिकारस्य वृद्धिरैकारः । तस्य आयादेश इत्यभिप्रेत्याह-सखायाविति । एवं-सखायः । सखायं सखायौ । सखीनिति शसि हरिवद्रूपम् । असर्वनामस्थानत्वाण्णित्त्वाऽभावान्न वृद्धिः । घिसंज्ञाऽभावादिति ।शेषो घ्यसखी॑त्यत्र असखीति पर्युदासादिति भावः । न तत्कार्यमिति । घिप्रयुक्तकार्यं नेत्यर्थः । सख्येति । सखि-आ इति स्थिते घित्वाऽभावादाङो नाऽस्त्रियामिति नाभावाऽभावे यणि रूपम् । सख्ये इति । सखि-ए इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि रूपम् । ङसिङसोः-सखि अस् इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि सख्यस् इति स्थिते ।", "72116": "<<अत उपधायाः>> - णलि अजन्तत्वाऽभावादचो ञ्णितीति वृद्धेरप्राप्तौ — अत उपधायाः । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतस्तदनुवृत्तेरिति भावः । चखादेति । एत्वाभ्यासलोपौ तु नात्र भवतः, पित्त्वेऽकित्त्वात्, आदेशादित्वात्, तदपेक्षया वृद्धेः परत्वाच्च ।", "72117": "<<तद्धितेष्वचामादेः>> - तद्धितेष्वचामादेः ।अचोञ्णिती॑त्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति च ।अचा॑मिति निर्धारणषष्ठी । तदाह — ञितीति ।", "72118": "<<किति च>> - किति च । तथेति । अचामादेरचो वृद्धिरित्यर्थः । इदं सूत्रं प्रकृतानुपय्कुत्मपि व्याख्यासोकर्यायेहोपन्यस्तम् । अपत्यादीति । आदिना समूहाद्यर्थसङ्ग्रहः । आआपतमिति । अआपतेरणि आदिवृद्धौयस्येति चे॑तीकारलोपः । गाणपतमिति । अआपत्यादिषु गणपतिशब्दः पठित इति भावः । गाणपत्य इति । गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः । प्रामादिकमेवेति । प्रमादादायातमित्यर्थः । गणपतिक्षेत्रपत्यादीनामआपत्यादिगणे पाठस्य वृत्तौ दर्शना पदादिति । पतिरुत्तरपदं यस्य तस्मादिति विग्रहः । प्राग्दीव्यतीयेष्वर्थेष्विति । 'प्राग्दीव्यत' इत्यनुवृत्तेरिति बावः । अणोऽपवादैति । विशेषविहितत्वादिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः । दितेण्र्यप्रत्ययः । 'चुटू' इति णकार इत्, आदिवृद्धिः,यस्येति चे॑तीकारलोपः । अदितेः, आदित्यस्य वेति ।अपत्यादी॑ति शेषः । आदित्य इति । जाताद्यर्थे ण्ये आदिवृद्धौयस्येति चे॑ति लोपे 'आदित्य' इति रूपम् । आदित्यशब्दाण्ण्ये आदिवृद्धौयस्येति चे॑ति लोपे 'यणो मयः' इति पूर्वकारस्य द्वित्वे सतिहलो यमा॑मित्याद्ययकारस्य लोपे द्वियकारं रूपम् । द्वित्वाऽभावे लोपे चाऽसति द्वियकारमेव । असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम् । अनपत्यात्वात्,आपत्यस्य चे॑ति यलोपो न । अदितेरपत्ये ण्ये, आदित्यशब्दात्पुनरपत्ये ण्येआपत्यस्य चे॑ति यलोपः प्राजापत्य इति । पत्युत्तरपदात् प्रजापतिशब्दाण्ण्ये आदिवृद्धौयस्येति चे॑ति लोपः । 'दैतेया' इति त्वसाध्वेव । साधुत्वश्रद्धाजाडए तु पृषोदरादित्वात्समाधेयम् । कासिकायामिति । बाष्ये त्विदं न दृश्यत इति भावः । याम्य इति । यमस्यापत्यादीतिविग्रहः । पृथिव्या ञाऽञाविति । ञश्च, अञ् च वक्तव्यावित्यर्थः । पार्तिवेति । पृथिव्या अपत्यादीति विग्रहः । ञप्रत्यये 'चुटू' इति ञकार इत्, आदिवृद्धिः,॒यस्येति चे॑ति लोपः । स्त्रियामदन्तत्वाट्टाप् । पार्थिवीति । अञिटिड्ढाण॑ञिति ङीप् । ञप्रत्ययस्यैव विधौ ङीब् न स्यात् । अञ एव विधौ टाब् न स्यात् । तस्मादुभयविधिः । #एतत्सूचनायः स्त्रीलिङ्गोदाहरणमिति बोध्यम् । देवादिति । देवशब्दाद्यञ्, अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः । दैव्यं दैवमिति ।देवस्यापत्यादी॑ति विग्रहः । यञि अञि च आदिवृद्धौयस्येति चे॑ति लोपः । बहिष इति ।बहि॑सिति सकारान्तमव्ययम् । तस्मात्प्राग्दीव्यतीयेष्वर्थेषु यञ्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाह्र इति । बहिर्भव इत्यादि विग्रहः । यञि टिलोपे आदिवृद्धिः ।अव्ययानां भमात्रे टिलोप॑ इत्यस्याऽनित्यत्वज्ञापनार्थमिह टिलोपविधानम् । तेन आराद्भव आरातीय इत्यादि सिध्यति ।ईकक् चेति । बहिष ईकक् च स्यात्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाहीक इति । बहिष ईककि टिलोपेकिति चे॑त्यादिवृद्धिः । स्थाम्न इति । स्थामन्शब्दादकारप्रत्ययः । प्राग्दीव्यतीयेष्वर्तेषु वाच्य इत्यर्थः । अणोऽपवादः । अआत्थाम इति । अआस्येव स्थामा=स्थितिर्यस्येति विग्रहः । अआत्थाम्नोऽपत्यं, तत्र जात इत्यादिर्विग्रहः । प्रत्ययविधित्वेऽपि भाष्ये उदाहरणात्तदन्तविधिः । अआस्थामन्शब्दादकारप्रत्यये 'नस्तद्धिते' इति टिलोपः । अणि तु आदि वृद्धिः स्यात् । ननूदः परत्वाऽभावात्कथमिह सकारस्य थकार इत्यत आह — पृषोदकादित्वादिति । भवार्थे तु लुग्वाच्य इति ।अकारप्रत्ययस्ये॑ति शेषः ।लोम्न इति । लोमन्शब्दाद्बहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीञ इति । बाह्वादित्वप्रयुक्तस्य इञोऽपवाद इत्यर्थः । उडुलोमा इति । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा, तस्यापत्यमिति विग्रहः लोम्नोऽपत्ययोगाऽसंभवात्प्रत्ययविधित्वेऽपि तदन्तविधिः । अकारप्रत्यये सति 'नस्यतद्धिते' इति टिलोपः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । अत्रापत्यबहुत्वाऽभावादकारप्रत्ययो न । किंतु बाह्वादित्वादिञि टिलोप इति भावः । सर्वत्र गोरिति । लोम्नोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थंसर्वत्र॑ग्रहणम् । अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु गोशब्दादजादिप्रत्ययप्रसङ्गे सति यत्प्रत्ययो वाच्य इत्यर्थः । गव्यमिति । गवि भवं, गोरागतमित्यादि विग्रहः । अणपवादो यत् । गोरूप्यं गोमयमिति ।हेतुमनुष्येभ्योऽन्यतरस्या॑मिति रूप्य इत्यर्थः ।मयड्वैतयो॑रिति रूप्यमयटौ । हलादित्वान्नैतयोर्यत्प्रत्ययो बाधक इति भावः ।", "73001": "<<देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्>> - देविका । आदिवृद्धि प्रकरणे इदं सूत्रम् । षामिति । देविका, शिंशपा, दित्यवाहू, दीर्घसत्र क्षेयस् इत्येषामित्यर्थः । वृद्धिप्राप्ताविति । आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरच आकारः स्यादित्यर्थः । दाविकमिति । देविका नाम नदी, तस्यां भवमित्यर्थः । दाविकाकूला इति । उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरसणम्, अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः । शांशप इति । इकारस्य आकारः, अञिवृद्धिः, शिशपाशब्दस्य पलाशादौ पाठात् पाक्षिको ।ञञ् । तदभावेऽणित्यर्थः । दात्यौहमिति । दित्यवाह्शब्दात्तस्येद॑मित्यणि 'वाह ऊठ्' इति संप्रसारणं, पूर्वरूपम् । 'एत्येधत्यूठसु' इति वृद्धिः । इकारस्य आदिवृद्ध्यपवाद आकारः । दीर्घसूत्रमिति ।तस्येद॑मित्यण्, आदेरीकारस्य आकारः । श्रायसमिति । तत्र भव इत्यणि एकारस्य आकारः ।", "73002": "<<केकयमित्त्रयुप्रलयानां यादेरियः>> - केकयमित्रयु ।तद्धितेष्वचामादे॑रित्यतस्तद्दितग्रहणमनुवर्तते । 'अचो ञ्णिति'किति चे॑त्यतो ञ्णितीति, कितीति च । तदाह — एषामिति । आदेशे यकारादकार उच्चारणार्थः । केकयस्यापत्यं स्त्री कैकेयी । 'जनपदशब्दात्' इत्यञ् । मैत्रेयिकया श्लाघते । मित्रयोर्भाव इत्यर्थेगोत्रचरणा॑दिति वुञ् । प्रलयादागतं प्रालेयम् । ण् । अत्र सर्वत्र यादेरियादेश इत्युदाहरणानि । प्राप्ते इति । मित्रयोरपत्ये ढञि एयादेशे मित्रयु-एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति आद्गुणे मैत्रेयेय इति प्राप्ते सतीत्यर्थः ।", "73003": "<<न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्>> - न य्वाभ्यां । य्च वश्च य्वाविति विग्रहः । वकारादकार उच्चारणार्थं । तदाह — यकारवकाराभ्यामिति ।परस्ये॑त्यध्याहारलभ्यम् । न वृद्धिरिति ।मृजेर्व-द्धि॑रित्यतस्तदनुवृत्तेरिति भावः । 'तु' शब्दो विशेषप्रदर्शनार्थ इत्याह — किंत्विति । ताभ्यामिति । यकारवकाराभ्यामित्यर्थः । पूर्वाविति । पूर्वावयवावित्यर्थः । तेन आगमत्वं लभ्यते । तदाह — ऐचावागमाविति । ऐच् — प्रत्याहारः । यथासङ्ख्यं यकारात्पूर्व ऐकारः, वकारात्पूर्व औकारः । वैयासकिरिति । वेदान्व्यस्यति=विवधमस्यति — शाखाभेदेन विभजतीति वेदव्यासः । कर्मण्यण् । अत्र नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः । प्रकृतेरकडादेशः । अत्र यकारः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति, किंतु यकारात्पूर्व ऐकार आगमः । वैयसकिरिति रूपम् । स्वआस्यापत्यं सौवइआरित्यत्र वकारात्परस्य न वृद्धिः, किन्तु ततः पूर्व औकारः । नच ऐचो वृद्द्यापवादत्वादेव वृद्ध्यभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यं, यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धेर्निषेधस्तत्रैव ऐजागमाविति विषयनिर्देशार्थत्वात् । तेन दाध्यइआरित्यादौ न । वृद्धिनिषेधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धेरेव । तेन द्वे अशीती भृतो 'द्व्याशीतिक' इत्यत्रसङ्ख्यायाः संवत्सरसङ्ख्यस्य च॑ इत्युत्तरपदवृद्धिर्भवत्येव । वरुडादयो जातिविशेषाः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः ।", "73004": "", "73005": "<<न्यग्रोधस्य च केवलस्य>> - न्यग्रोधस्य च ।न य्वाभ्या॑मित्युत्तरसूत्रमिदम् । अस्येति केवलस्य न्यग्रोधस्येत्यर्थः । केवलत्वं पदान्तरविहीनत्वं । न्यक् रोहितीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपिनय्वाभ्या॑मित्येव सिद्धं, यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमार्थं सूत्रम् । अव्युत्पत्तिपक्षे तु यकारस्य अपदान्तत्वाद्विध्यर्थमेव । केवलस्य किम् । न्याग्रोधमूलाः शालयः ।", "73006": "", "73007": "<<स्वागतादीनां च>> - स्वागतादिगणे-स्वागत, स्वध्वर इति पठितं, तत्र विशेषमाह — स्वागतादीनां च ।न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच॑ इति प्रकरणे 'न कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति । शेषपूरणमिदम् ।न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच॑ इति प्राप्त ऐज्न स्यादित्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्याहेत्यर्थः । अथ स्वागतादिगणशेषमुदाहरति — स्वङ्गस्येति । व्याङ्गिरिति । व्यङ्गस्यापत्यमिति विग्रहः । व्यडस्येति । न विद्यते डो यस्य स अडः, विगतोऽडो व्यडः । स्वापतेयमिति ।पथ्यतिथिवसतिस्वपतेर्ढञ् । द्वारादित्वादैच् प्राप्तो निषिध्यते । आहाविति । आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः । तदिति पूर्ववार्तिकादनुवर्तते । आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्ठग्वाच्य इत्यर्थः । पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति ।त॑दित्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यष्ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति । 'सुखशयनशब्द' इति शेषः । ततश्चअनुशतिकादीनां चे॑ति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः । गच्छताविति । तदित्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यष्ठगित्यर्थः । पारदारिक इति । परदारान्गच्छतीत्यर्थः । गौरुतल्पिक इति । गुरुतल्पं गच्छतीत्यर्थः । गुरुतल्पो=गुरुस्त्री ।", "73008": "<<श्वादेरिञि>> - आआदेरिञि । 'न कर्मव्यतिहारे' इत्यतो नेत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । आन्शब्द आदिर्यस्येति विग्रहः । आन्शब्दपूर्वपदस्याङ्गस्य इञि परे नैजागम इत्यर्थः । आआमस्त्रिरिति ।अत इञ् । आआदंष्ट्रिरिति ।आदंष्ट्रस्याऽपत्यमित्यर्थः । ननु आन्शब्द एव द्वारादौ पठते नतु आभस्त्रशभ्दः । ततश्च तस्य द्वारादित्वाऽभावादैजागमप्रसक्तिरेव नेत्यत आह — तदादिविधाविति । द्वारादिगणे आन्शब्दस्य पाटेऽपि अस्मादेव प्रतिषेधात् आन्शब्दपूर्वकस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः । तत्फलं तु आवहनस्येदं शौववहानं नाम नगरम् ।ननु प्रकृते आआगणिके इञभवात्कथमयं निषेध इत्यत आह — इकारादाविति वाच्यमिति । इञीति परित्यज्य इकारादाविति वाच्यमित्यर्थः । इढि तु व्यपदेशित्त्वेन इकारादित्वम् । आआगणिक इति ठञि आदिवृद्धिः । आगणिक इति । ष्ठनि रूपम् । आआगणिकीति । ठञन्तात्टिड्ढाण॑ञिति ङीप् । आगणिकीति । षित्त्वान्ङीष् ।", "73009": "<<पदान्तस्यान्यतरस्याम्>> - प्रसङ्गादाह — पदान्तस्यान्यतरस्याम् ।आआदेरिञी॑त्यस्यमादुत्तरं सूत्रमिदम् । पदं-पदशब्दोऽन्तो यस्येति विग्रहः । तदाह — पदशब्दान्तस्येति ऐज्वेति । निषेधविकल्पे सति विधिविकल्पः । फलित इति भावः । आआपदस्येति । शुनः पदमिव पदं यस्येति विग्रहः ।शुनो दन्तदंष्ट्रे॑त्यादिना दीर्घः । शौवापदमिति ।तस्येद॑मित्यण् । 'वृद्धाच्छः' इति तु न , अनभिधानादित्याहुः । अन्ये तु आपुच्छवद्दीर्घाऽभावे अणमाहुः ।", "73010": "<<उत्तरपदस्य>> - नञः शुचीआरः । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम् । आशौचम् - आशौचमिति । अशुचेरागतमित्यर्थः । 'तत आगत' इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः । उक्त्रपदस्य तु नित्या आदिवृद्धिः । एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः । आनैआर्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ् ।", "73011": "<<अवयवादृतोः>> - अवयवादृतोः । पूर्वपदादिति ।परस्ये॑ति शेषः । ऋतुवाचिन इति ।उत्तरपदस्ये॑ति सेषः । पूर्ववार्षिक इति । ऋतिविशेषे वर्णशब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तः । वर्षाणां पूर्वं-पूर्ववर्षाः, तत्र जात इत्यर्थः । पूर्वापराधरोत्तर॑मित्येकदेशिसमासः । अपरहैमन इति । हेमन्तस्यापरम्-अपरहेमन्तः । तत्र जातादिरित्यर्थः । एकदेशिसमासः । अपरहैमन इति । हेमन्तस्यापरम् — अपरहेमन्तः । तत्र जातादिरित्यर्थः । एकदेशिसमासः ।सर्वत्राण्च तलोपश्चे॑त्यण्, तलोपश्च, उत्तरपदादिवृद्धिः । पूर्वासु वर्षास्विति । 'तद्धितार्थ' इति समासः । आदिवृद्धिरेव, न तु उत्तरपदादि वृद्धिः, पूर्वपदस्य अवयववृत्तित्वाऽभावात् । ननु कथमिहवर्षाभ्यष्ठ॑गिति ठक्, प्रत्ययविधौ तदन्तविधिप्रतिषेधात्, तत्राह — ऋतोरिति । अवयववाचकानां शब्दानामुपरि स्थिताट्टतुवाचकाद्वृद्धिनिमित्तकप्रत्ययविधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेनयेन विधि॑रिति सूत्रभाष्यस्थितवचनेन पूर्वत्र=पूर्वमुदाहृते उदाहरणे तदन्तविधिरित्यर्थः । तथाच पूर्ववार्षिक इत्यत्र 'पूर्वहैमन' इत्यत्र चोदाहरणेवर्षाभ्यष्ठ॑गिति ठक्,सर्वत्राण् च तलोपश्चे॑त्यण्तलोपौ च सिध्यन्ति । इह तु नेति । प्रत्युदाहरणे तु तदन्तविधिर्नास्ति । पूर्वासु वर्षास्विति सामानाधिकरण्येन पूर्वशब्दस्य अवयववृत्तित्वाऽभावादित्यर्थः । ततश्च प्रत्युदाहरणे 'पौर्ववार्षिक' इत्यत्रकालाट्ठञि॑ति ठञेव, नतु ठक् । स्वरे विशेषः । पौर्वहेमन्तिक इत्यत्रापि ठञेवेति भावः ।", "73012": "<<सुसर्वार्धाज्जनपदस्य>> - सुसर्वार्धाज्जनपदस्य । सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति ।जवपदतदवध्यो॑रित्यनुवृत्तौअवृद्धादपि बहुवचनविषया॑दिति वुञित्यर्थः । ननुअनृद्धादपी॑ति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह — सुसर्वेति । सु, सर्व अर्ध, दिक्शब्द -एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेनयेन विधि॑रिति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः ।", "73013": "<<दिशोऽमद्राणाम्>> - दिशोऽमद्राणाम् ।अमद्राणा॑मिति च्छेदः । दिग्वाचकादिति ।परस्ये॑ति शेषः । जनपदवाचिन इति । मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिरिति ।आदे॑रिति शेषः । पौर्वपञ्चाल इति । अत्र पूर्वशब्दः कालवाचीति भावः । पौर्वमद्र इति ।मद्रेभ्योऽञि॑त्यञ् । ननुसुसर्वार्धदिशो जनपदस्याऽमद्राणा॑मित्येकसूत्रमेवास्त्वित्यत आह — योगविभाग उत्तरार्थ इति ।प्राचां ग्रामनगराणा॑मित्युत्तरसूत्रे दिश एव संबन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसज्येतेति इहार्थोऽपीत्येके ।", "73014": "<<प्राचां ग्रामनगराणाम्>> - प्राचां ग्रामनगराणां । दिश इति । दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेर्वृद्धिः स्यादित्यर्थः । पूर्वेषु कामशम्यामिति.॒दिक्संख्ये संज्ञायाम् इति समासः । अण् ष संज्ञात्वात् ।दिक्पूर्वपदा॑दिति ञ न । समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः । नगरे इति । उदाहरणसूचनम् । पूर्वपाटलिपुत्रक इति ।पूर्वापरप्रथमे॑ति समासः ।अवृद्धादपी॑ति वुञ् । यद्यपि पाटलिपुत्रशब्दे उत्तरपदे आदिर्वृद्धिरेव । तथापि पूर्वपदस्य वृद्धिनिवृत्ति फलम् ।", "73015": "<<संख्यायाः संवत्सरसंख्यस्य च>> - ठञि त्वादिवृद्धौ प्राप्तायां — संख्यायाः संवत्सर । आदिवृद्धिप्रकरणेउत्तरपदस्ये॑त्यधिकारे इदं सूत्रम् । संवत्सरश्चसङ्ख्या चेति समाहारद्वन्द्वात् षष्ठी । संख्याया उत्तरपदस्येति । संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरग्रहणं व्यर्थं, संवत्सरस्य द्वादशमासपरिमाणतयापरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्येव सिद्धेरित्यत आह — परिमाणान्तस्येत्येवेति ।", "73016": "<<वर्षस्याभविष्यति>> - ठञि आदिवृद्धौ प्राप्तायां — वर्षस्याभविष्यति । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे — उत्तरपदस्य वृद्धिः स्यादिति । अभविष्यति यो ञिदादिः, तस्मिन्परे इत्यर्थः । निर्वृत्तादिषु पञ्चस्वर्थेषु भविष्यदर्थं वर्जयित्वा तदितरेषु चतुष्र्वर्थेषु यस्तद्धितस्तस्मिन्परे इति यावत् । द्विवार्षिक इति ।व्याधि॑रिति । शेषः । चित्तवति नित्यलुको वक्ष्यमाणत्वात् । नन्वेवं सति द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिक इत्यत्र कथमुत्तरपदवृद्धिः, भविष्यत्त्वस्य प्रतीतेरित्याशङ्क्याह — अधीष्टभृतयोरभविष्यतीति प्रतिषेधो नेति । कुत इत्यत आह — गम्यते हि तत्र भविष्यत्तेति । अध्येषणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्दशक्त्या गम्यते । तद्धितप्रत्ययेन च तथाविधाऽध्येषणभरणकर्मीभूतौ प्रतीयेते । एवंविधाऽध्येषणभरणविशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः । एवंच तत्रापि भविष्यदर्थकतद्धितपरकत्वाऽभावात्स्यादेवोत्तरपदवृद्धिरित्यर्थः । द्विवार्षिको मनुष्य इति ।चित्तवति नित्य॑मिति वक्ष्यमाणस्तु नित्यलुङ्ग भवति, चित्तवतीत्येवारम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः । केचित्तुद्विवार्षिकः — अमनुष्य॑ इति छिन्दन्ति ।", "73017": "<<परिमाणान्तस्यासंज्ञाशाणयोः>> - परिमाणान्तस्या । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे — उत्तरपदवृद्धिः स्यादिति । उत्तरपदस्य आदेरचो वृद्धि स्यादित्यर्थः । ञिदादाविति । ञिति णिति किति चेत्यर्थः । परमनैष्किक इति । परमनिष्केण क्रीत इत्यर्थः । समासत्वाट्ठगभावे औत्सर्गिकष्ठञ् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाट्ठकोऽप्रसक्तेरसमासग्रहणं व्यर्थम् । न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्,ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधात् । निष्कादीनां च विशिष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह — असमासग्रहममिति । सुगव्यमिति । सु=शोभना गौः-सुगौः,न पूजना॑दिति निषेधात्गोरतद्धितलुकी॑ति न टच् । 'उगवादिभ्यः' इति गोशब्दान्ताद्यत् । यवापूप्यमिति ।विभाषहविरपूपादिभ्यः॑ इत्यपूपान्तत्वाद्यत् । नन्वसमासग्रहणाड्ज्ञापकादिति ऊध्र्वमिति तदन्तविधिः किं न स्यात् । ततश्चपरमपारायणं वर्तयती॑त्यत्रापिपारायणतुरायणचान्द्रायणं वर्तयती॑ति ठञ् स्यादित्यत आह — इत ऊध्र्वं त्विति । वार्तिकमिदम् । नन्वेवमपि द्विशूर्पशब्दान्तादपिशूर्पादञन्यतरस्या॑मित्यञ् स्यादित्यत आद — तच्चाऽलुकीति । इत ऊध्र्वं संख्यापूर्वपदानां तदन्तग्रहणमिति यदुक्तं तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशूर्पमिति । तद्धितार्थ॑ इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः । अतः सङ्ख्यापूर्वपदाच्छूर्पान्तादस्मात्शूर्पादञन्यतरस्या॑मिति प्राप्तस्य अञष्ठञो वाअध्यर्धे॑ति लुक् । द्विशूर्पशब्दो लुगन्तः । ततश्च तस्मात् क्रीतेऽर्थेशूर्पादञि॑ति न भवति, लुकि सति तदन्तग्रहणाऽभावादित्यर्थः । द्विशौर्पिकमिति ।तेन क्रीत॑मिति ठञिपरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्यनुत्तरपदवृद्धिः । अस्य ठञो लुक्तु न भवति, तस्य द्विगुनिमित्तत्वाऽभावात् ।", "73018": "<<जे प्रोष्ठपदानाम्>> - जे प्रोष्ठपदानामादिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । तदाह — प्रोष्ठपदानामिति । जशब्देन जातार्थप्रत्ययो विवक्षितः । तदाह — जातार्थे इति ।प्रोष्ठपदाना॑मिति बहुवचनस्य प्रयोजनमाह बहुवचनेति । भद्रपाद इति । भद्रपदासु जात इत्यर्थः ।", "73019": "<<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> - ह्मद्भग । ह्मदाद्यन्त इति । ह्मत्, भग, सिन्धु-एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते । तदाह — पूर्वोत्तरपदयोरिति । सौहार्द इति । अणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः । सौभागिनेय इति । कल्याण्यादित्वाड्ढकि इनङि उबयपदादिवृद्धिरिति भावः । एतत्प्रसह्गादेव इदं सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्गात्रादित्वाद्भावे अञ् । उत्तरपदादिवृद्ध्यभावश्छान्दसः । सिन्धव इति । अआआ इत्यर्थः ।", "73020": "<<अनुशतिकादीनां च>> - अनुशतिकादीनां च । आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम् । तदाह — एषामिति । आधिदैविकमिति । देवेष्वित्यधिदेवम्, तत्र भवमित्यर्थः । ठञि उभयपद वृद्धिः । आधिभोतिकमिति । भूतेष्वधिभूतम् । तत्र भवमित्यर्थः । ऐहलौकिकमिति । इह लोके भवमित्यर्थः । पारलौकिकमिति । परलोके भवमित्यर्थः । सर्वत्र ठञि उभयपदवृद्धिः ।", "73021": "<<देवताद्वन्द्वे च>> - वृत्तः 'साऽस्य देवता' इत्यधिकारः । अथ प्रासङ्गिकं -देवताद्वन्द्वे चमृजेर्वृद्धि॑रित्यतो वृद्धिरित्यनुवर्तते ।अचो ञ्णिती॑त्यतो ञ्णितीति,किति चे॑ति सूत्रं चानुवर्तते ।तद्धितेष्वचामादे॑रित्यतोऽचामादेरिति,ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य चे॑त्यतः पूर्वपदस्येति,उत्तरपदस्य चे॑ति सूत्रं चानुवर्तते । तदाह — अत्रेत्यादिना । आग्निमारुतमिति । अग्निश्च मरुच्च अग्नामरुतौ ।देवताद्वन्द्वे चे॑त्यानङ् । अग्नामरुतौ देवता अस्य आग्निमारुतम् । अणि अनेन उभयपदादिवृद्धिः अलौकिके विग्रहवाक्ये एव आनङं बाधित्वा 'इद्वृद्धौ' इति इत्त्वम् ।", "73022": "<<नेन्द्रस्य परस्य>> - नेन्द्रस्य परस्य ।देवताद्वन्द्वे चेट॑त्युक्ता उभयपदवृद्धिरुत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति ।चरु॑रिति शेषः । तैत्तिरीये सौमेन्द्रं श्यामाकं चरुमिति छान्दसम् ।", "73023": "<<दीर्घाच्च वरुणस्य>> - दीर्घाच्च वरुणस्य । ऐन्द्रावरुणमिति । इन्द्रावरुणौ देवता अस्येति विग्रहे द्वन्द्वः । आनङ् । इन्द्परावरुमशब्दादणि दीर्घाकारात्परत्वाद्वरुणस्य नादिवृद्धिः । आग्निवारुणमिति । 'इद्वृद्धौ' इत्यग्नेरानङं बाधित्वा इत्त्वे कृते दीर्घातत्परत्वा.ञभावान्निषेधाऽभावेसति 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः इतिप्रसङ्गिकम् ।अथ प्रकृतम् । तदस्मिन्निति ।महाराजप्रोष्ठपदाट्ठ॑ञिति सूत्रे वार्तिकमिदम् । 'तदस्मिन्वर्तते' इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यष्ठञ उपसङ्ख्यानमित्यर्थः । नावयज्ञिकः काल इति । नवयज्ञो नूतनधान्यद्रव्यको यज्ञः-आग्रयणाख्याः, स यस्मिन्काले वर्तते स नावयज्ञिकः । आग्रयणकाल इति यावत् । पाकयज्ञिक इति । पाकयज्ञः-औपासनाग्निसाध्यः-पार्वणस्थालीपाकादिः स यस्मिन्काले वर्तते स पाकयज्ञिकः । पूर्वमासादिति । 'तदस्मिन्वर्तते' इत्यर्थे पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः । पूर्णो मासोऽस्यामिति । मासः-चन्द्रमाः, पूर्णश्चासौ मासश्च पूर्णमासः=पूर्वणचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । अणिटिड्ढाणञि॑ति ङीप् । यद्यपि पूर्वणो माः-चन्द्रः-पूर्वमाः । तस्येयमित्यर्थेतस्येद॑मित्यणि पौर्णमासीति सिद्धम् । तथापि ईदृश एवार्थे अयं साधुरिति भावः ।", "73024": "<<प्राचां नगरान्ते>> - प्राचां नगरान्ते । अङ्गस्येत्यधिकृतं 'नगरान्ते' इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । उत्तरपदस्येत्यधिकृतम् ।ह्मद्भगसिन्ध्वन्ते॑ इति सूत्रात्पूर्वपदस्येत्यनुवर्तते । तदयमर्थः । प्राचां यन्नगरं तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च अचामादेरचो वृद्धिः स्याञ् ञिति णिति किति च तद्धिते इति । सुहृनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वान्तावधिः । मद्रनगरमुदक्ष्विति । उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्तीत्यर्थः ।", "73025": "<<जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्>> - जङ्गलदेनु । जङ्गलाद्यन्तस्याङ्गस्येति । जङ्गल, धेनु वलज इत्यन्तस्येत्यर्थः । कुरुजङ्गले इति ।भव॑मिति शेषः । कुरुजङ्गलादिशब्दा देशविशेषेषु ।", "73026": "<<अर्धात् परिमाणस्य पूर्वस्य तु वा>> - अर्धात्परिमाणस्य ।परिमाणान्तस्ये॑त्यस्मादुत्तरमिदं सूत्रम् । अर्धद्रौणिकम्-आर्धद्रौणिकमिति । द्रोणशब्दस्य निष्कादित्वेऽपि असमासग्रहणान्न ठक् । किंतु ठञेव ।", "73027": "<<नातः परस्य>> - नातः परस्य । परिमाणाऽकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरचस्तु वृद्धिर्वेत्यर्थः । आर्धकौडविकमिति । अर्धकुडबेन क्रीतमित्यर्थः ।तेन क्रीत॑मिति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचोरकारत्वाऽभावान्न वृद्धिनिषेधः । किन्तुअर्धात्परिमाणस्य॑त्युत्तरपदवृद्धिरिति भावः । तपरः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाऽभावाद्ध्रस्वस्येति सिद्धमिति प्रश्नः । अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य वृद्ध्यभावपक्षे वृदिंध प्रति फलोपहितनिमित्तत्वाऽभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृदिंध प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्वनिषेधः । परिमाणान्तस्येत्यारभ्या एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् ।", "73028": "<<प्रवाहणस्य ढे>> - प्रवाहणस्य । उत्तरपदस्येत्यधिकृतम् ।तद्धितेष्वचामादे॑रित्यतोऽचामादेरित्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,अर्धात्परिमाणस्य पूर्वस्य तु वे॑त्यतः पूर्वस्य वेतिच । तदाह — प्रवाहणशब्दस्येति । प्रावाहणेयः प्रवाहणेनय इति । शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलं तु 'प्रवाहणेयीभार्य' इत्यत्रवृद्धिनिमित्तस्य चे॑ति पुंवत्त्वप्रतिषेध एव ।", "73029": "", "73030": "", "73031": "<<यथातथयथापुरयोः पर्यायेण>> - तयोः ष्यञि आदिवृद्धौ विशेषमाह — यथातथायथापुरयोः । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम् ।नञः शुची॑त्यतो नञ इत्यनुवर्तते । तदाह — नञः परयोरेतयोरिति । यथातथा यथापुर इत्यनयोरित्यर्थः । पर्यायेणेति । कदाचित्पूर्वपदस्य, कदाचिदुत्तरपदस्येत्यर्थः । आयथातथ्यमिति । यथातथेति निपातनात्ष्यञि पूर्वपदस्यादिवृद्धिः । अयाथातथ्यमिति । उत्तरपदस्यादिवृद्धिः । आयथापुर्यमिति । यथापुरशब्दात्ष्यञि पूर्वपदस्यादिवृद्धिः । अयाथापुर्यमिति । उत्तरपदस्यादिवृद्धिः । आ पदासमाप्तेरिति । अत्र व्याख्यानमेव शरणम् । चतुर्वर्णादीनामिति । चतुर्वर्णादीभ्यः स्वार्थे ष्यञ उपसङ्ख्यानमित्यर्थः । सर्ववेदा इति । 'पूर्वकाल' इति समासः । लुगिति ।अध्येतृप्रत्ययस्ये॑ति शेषः । स एव सार्ववैद्य इति । सर्ववेदशब्दात्स्वार्थे ष्यञिति भावः । चतुर्वेदस्येति । वार्तिकमिदम् ।ष्य॑ञिति शेषः । चतुर्वेद इति । 'तद्धितार्थ' इति द्विगुः । ततोऽध्येतृप्रत्ययस्याऽणोद्विगोर्लुगनपत्ये॑[ इति लुक् । चतुर्विद्यस्येतीति ।चतुर्वेदस्योभयपदवृद्धिश्चे॑ति वार्तिके चतुर्वेदस्येत्यस्य स्थाने चतुर्विद्यस्येति केचित्पठिन्तीत्यर्थः । चतरुआओ विद्या अधीते इत्यर्थे 'तद्धितार्थ' इति द्विगौविद्यालक्षणकल्पान्ताच्चे॑ति ठकि 'द्विगोर्लुगनपत्ये' इति तस्य लुकि चतुर्विद्यशब्दात्स्वार्थे ष्यञि उभयपदवृद्धौ 'चातुर्वैद्य' इति रूपमिति भावः ।", "73032": "<<हनस्तोऽचिण्णलोः>> - हनस्तोऽचिण्णलोः । 'हन' इति षष्ठी । 'त' इत्यत्राऽकार उच्चारणार्थः । तदाह - हन्तेस्तकार इति । 'अन्तादेश' इत्यलोऽन्त्यपरिभाषया सिद्धम् । ञिति णिति चेति ।अचो ञ्णिती॑त्यतस्तदनुवृत्तेरिति भावः । तथा च हनो नकारस्य तत्वेहो हन्ते॑रिति कुत्वेन हस्य घकारेघाती॑ति ण्यनतं फलितम् ।ततो लटिघाततयी॑ति रूपं स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्तितम् । 'आक्यानात्कृतः' इति वार्तिकस्थंप्रकृतिवच्च कारक॑मित्यंशं शङ्कोत्तरत्वेन योजयिष्यञ्छङ्कामवतारयति — नन्विति । कंसवशिष्टस्येति ।कंसवध॑शब्दस्यैवेत्यर्थः । तस्मादेव णिचो विधानादिति भावः । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह — ततस्चेति । कंसवधशब्दस्याऽङ्गत्वादड्द्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् ।कं॑सित्यस्यद्विर्वचनं स्यात् । इष्यते तु 'कंसमजीघत' दित्येवं हनधातोरेवोभयमित्यर्थः । किं चेति । केंसं घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह — धातोरिति । दातोर्हनित्यादितत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये = धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वात्र्रघ्नमित्यत्रहनस्तोऽचिण्णलो॑रिति कुत्वं,हनस्तोऽचिण्णलोटरिति सूत्रे भाष्ये स्पष्टम् । तथा च प्रकृतेकंसं घातयती॑त्यत्रहो हन्ते॑रिति कुत्वं , 'हनस्तोऽचिण्णलो' रिति तत्वं च न स्याताम्, अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाऽभावदित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपोऽपि बोध्यः, तत्परिहारस्यापि वक्ष्यमाणत्वात् ।तामिमां शह्कामद्र्धाङ्गीकारेण परिहरति - सत्यमिति । कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते, दोषापादनं तु नाङ्गीक्रियत इत्यर्थः । प्रकृतिवच्चेतीति । 'आख्यानात्कृतः' इति वार्तिकेप्रकृतिवच्चे॑ति चकारो भिन्नक्रमः ।प्रकृतिव॑दित्यनन्तरपठितश्चकारः कारकमित्यस्मादूध्र्वं निवेशनीय इति भावः । तदेवाभिनीय दर्शयति - कारकं चेति । चकारोऽयमनुक्तसङ्ग्रहार्थ इत्याह — चात्कार्यमिति । 'समुच्चीयते' इति शेषः । तथा च कारकं कार्यं च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देन हेतुमण्णिचः प्रकृतिर्विवक्षिता, व्याख्यानात् । प्रकृताविव प्रकृतिवत् । सप्तम्यन्ताद्वतिः । तदाह — प्रकृतेर्हन्यादेर्हेतुमण्णाविति ।प्रयुज्यमाने सती॑ति शेषः । 'कारक' मित्यस्य विवरण#ं — द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः । हन्ति कंसं कृष्णः, तं प्रेरयतीत्यर्थे कंस घातयति, कंसमजीघतदित्यादौ हेतुमण्ण्यन्ते प्रयुज्यमाने यद्द्वितीयादिकारकविभक्यन्तं यच्च कार्यं कुत्वतत्वाऽड्द्वित्वादि तत्सर्वंम् 'आख्यानात्कृत' इत्यस्योदाहरणे कंसवधमाचष्टे कंसं घातयति, कंसवधमाचष्टे कंसमजीघतदित्यादावपि भवतीति फलितम् । तत्रकारक॑मित्यनेन कंसात्षष्ठी निरस्ता, उदाहृतहेतुमण्ण्यन्तस्थले कृद्योगाऽभावेन कर्मणि द्वितीयाया एव सत्त्वात् ।कार्य॑मित्यनेन तु कंसस्य अड्द्वित्वनिरासश्चेति बोध्यम् । आख्यानशब्दश्च कथंचिद्वृत्तानुवादपरो, न तु भारतादिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानामागमयतीत्यादि सिध्यति ।द्वितीयान्त॑मित्यत्र द्वितीयाग्रहममुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्यतीति भाष्ये स्पष्टम् । कर्तृकरणाद्धात्वर्थे । इदमपि गणसूत्रम्,प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । कर्तुः करणं - कर्तृकरणं, न तु कर्ता च करणं चेति द्वन्द्वः, व्याख्यानात् । तदाह — कर्तुव्र्यापारार्थमिति । अभिमतफलोत्पादनार्थमित्यर्थः । साधकतममिति यावत् । नन्वेवं सति 'करणाद्धात्वर्थे' इत्येव सिद्धे कर्तृग्रहणं व्यर्थमित्यत आह — न तु चक्षुरादिमात्रमिति । कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात्करणादिति शब्देन गम्येत । अतः कर्तृग्रहणमित्याहुः । वस्तुतस्तुसाधकतमं करण॑मिति देवदत्तयती॑ति कर्तुरुदाजह्युः । कदाचिद्दर्शने इति । चित्रेत्यनुवर्तते । तदाह — चित्र इत्ययमिति । कदाचिद्दर्शने इत्यस्य विवरणम् — अद्भुतदर्शने इति ।चित्र चित्रीकरणकदाचिद्दर्शनयो॑रित्येव सुवचम् । वटि लजि इत्येके अदन्तेष्विति । अदन्तेषु पाठबलात् बण्ड लज्जेति कदाचिददन्तत्वमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाऽभावादतो लोपं बाधित्वाअचो ञ्णिती॑ति वृद्धौअर्तिह्यी॑ति पुगित्यर्थः । फलितमाह — वण्टापयतीति । शाकटायनस्त्विति । ऋषिविशेषोऽयम् । सङ्ग्राम युद्धे । गणसूत्रमिदम् । युद्धवाचि सङ्ग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभते इत्यर्थः । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — अनुदात्तेदिति । एतदात्मनेपदार्थमिति भावः । ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात्कथमनुदात्तेत्वमित्यत आह — अकारप्रश्लेषादिति । सङ्ग्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः । अससङ्ग्रामतेति । लुङि चङि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात्ततः प्रागडिति भावः । एतच्चभृशादिसूत्रे कैयटे स्पष्टम् । अग्लोपित्वान्नोपधाह्रस्वः । सुखदुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः । सुख दुःखेति प्रातिपदिकाभ्यां तत्करोतीत्यर्थे णिच् स्यादिति यावत् ।प्रातिपदिकाद्धात्वर्थेट इत्येव आभ्यां णिजित्याहुः । बहुलमेतन्निदर्शनम् । गणसूत्रमिदम् । एतेषां कथादीनामदन्तानां निदर्शनं = पाठ इत्यर्थः । तदाह — अदन्तेति । बहुलग्रहणस्य फलमाह — बाहुलकादिति । अपपर्णदिति । अग्लोपित्वान्न सन्वत्त्वमिति भावः । क्षिप प्रेरणे । क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुणः । एवमग्रेऽपि । वसनिवासे । वसयति । अदन्तत्वान्नोपधावृद्धि ।आन्दोलयती॑त्यादावदन्तत्वेन अग्लोपित्त्वान्नोपधाह्रस्वः । तदेवंबहुलमेतन्निदर्शन॑मित्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह — अन्ये त्विति । भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्रा- जुप्रभृतयः, लौकिकाः प्रेङ्खोलादयः, वैदिका — तद्रक्षांसि रात्रिभिरसुभ्न मित्यादौ सुभादयश्च सङ्गृहीता भवन्तीत्यर्थः । मतान्तरमाह — अपरे त्विति । चुरादिभिन्ना उदाहृता ये नव गणास्तेभ्योऽपि णिज्बहुलग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह — चुरादिभ्य एवेति । वस्तुतस्तु भूवादिसूत्रे 'पाठेन धातुसंज्ञे' ति भाष्यप्रतीकमुपादाय -स पाठो नोपलक्षणार्थः । किंतु इयत्ताप्रतिपादनार्थ इति कैयट आह — एवं चबहुलमेतन्निदर्शन॑मिति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । णिङ्ङ्गान्निरसने इति । गणसूत्रम् । स्पष्टम् । ङित्त्वान्नित्यमात्मनेपदम् । ओताआआआतर । इदमपि गणसूत्रम् । ओताआआदीनामिति । ओताआ, अआतर, गालोडित, आह्वरक — एषामित्यर्थः । अआआदय इति । ओताऽआशब्देअआ॑शब्दः, अआतरशब्दे 'तर' शब्दः, गालोडितशब्द 'इत' शब्दः, आह्वरकशब्देक॑शब्दश्च लुप्यन्ते इत्यर्थः । णिङ् चेति । चकारलभ्यमिदम् । धात्वर्थे इति ।प्रातिपदिकाचित्त्विति । 'ओताओ' त्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिङमित्यर्थः । णिच्णिङोः फलभेदं दर्शयति — तन्मते इति । धात्वर्थे इत्येव सिद्धमिति । धातुपाठं रचयितुर्भीमसेनस्य वाकय्मिदमित्याहुः ।प्रातिपदिकाद्धात्वर्थे॑ इति णिचि सिद्धेपुच्छभाण्डचीवराण्णि॑ङिति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थंपुच्छभाण्डे॑ति णिङ्विधिरावश्यक इत्यत आह — णिजन्तादेव बहुलवचनादिति बहुलवचनादिति ।बहुलमेतन्निदर्शन॑मिति बहुलग्रहणादित्यर्थः । ननुपुच्छादिषु धात्वर्थ इत्येव णि॑जित्येव सिद्ध सिद्धशब्दो व्यर्थ इत्यत आह — सिद्धशब्द इति । धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थः । पस्पशाह्निकभाष्ये हिसिद्धे शब्दार्थसम्बन्धे॑ इति वार्तिकग्रन्थस्याऽऽदिमवार्तिकव्याख्यावसरेसिद्धशब्दोपादनं मङ्गलार्थ॑मित्युक्तम् ।मङ्गलादीनि मङ्गलमद्यानि मङ्गलान्तानि च शस्त्राणि प्रथन्ते॑ इति बूवादिसूत्रस्थभाष्याद्ग्रन्थान्तेऽपि मङ्गलस्य कर्तव्यतासिद्धिः । चुरादयः ।॥ इति बालमनोरमायाम् चुरादयः॥अथ दिवादयः ।अथ श्यन्विकरणा धातवो निरूप्यन्ते — । दीवु क्रीडेति । उदिदयम् । तेन क्त्वायामिड्विकल्पः, निष्ठायां च नेट् । झृषन्ता इति । जृष् झृष् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थः ।", "73033": "<<आतो युक् चिण्कृतोः>> - आतोयुक् । अङ्गस्येत्यत्यधिकृतमाता विशेषितं, तदन्तविधिः ।अचो ञ्णिती॑त्यो ञ्णितीत्यनुवृत्तं कृतएव विशेषणं, नतु चिणः, तस्य णित्त्वाऽव्यभिचारात् । तदाह — आदन्तानामित्यादि । दायितेति.चिण्वदिट्पक्षे युक् । अदायिषातामिति ।स्थाध्वोरिच्चे॑त्येतद्बाधित्वा परत्वाच्चिम्वदिटि कृतेघुमास्थे॑तीत्त्वं न, अजादित्वात्त्वं न, अजादित्वात् । पुनःस्थाध्वोरिच्चे॑रिति तु न भवति, अझलादित्वात् । तत्र हिइको झ॑लिति सूत्रझलित्यनुवृत्तं । तथा च झलादिरेव सिच् किदिति लाभादिडादिः सिज्न कित्, तत्संनियोगादित्त्वमपि न भवतीत्याहुः । वस्तुतस्तु सत्यपि तस्मिन्नाऽत्र काचित् क्षतिः । सिचः कित्तवेऽप्यनिग्लक्षणया वृद्ध्या रूपसिद्धेरिति दिक् । अथ हनधातोः कर्मलकारे आह — हन्यते इति । अचिण्णलोरिति । लुटि चिण्वदिटि वृद्धौहनस्तोऽचिण्णलो॑रिति हनो नकारस्य तकारो न भवति, चिण्ववत्त्वादित्यर्थः । कुत्वमिति । तस्यणिति विहितस्याऽत्र चिण्वत्त्वात्प्राप्तिरिति भावः । घानिष्यते इति ।ऋद्धनो॑रिति बाधित्वा नित्यत्वाच्चिण्वदिट ।ऋद्धनो॑रिति तु चिण्वदिटि कृते न भवतीत्यनित्यं, तत्र वलीत्यनुवृत्तेरिति भावः । नन्वाशीर्लिङि घानिषीष्टेत्यत्र हन् सीष्ट इत#इ स्थिते परमपि चिण्वत्त्वं बाधित्वा वधादेशः प्राप्नोति, आर्धधातुके विवक्षिते विहितत्वेन वधादेशस्याऽन्तरङ्गत्वादित्यत आह — आशीर्लिङीत्यादि । नु घानितेत्यादौ अप्राप्तेऽपि वधादेशे आरम्भात्कथं वधादेशस्य चिण्वद्भावोऽपवादः स्यादित्यत आह — आर्धधातुके सीयुटीति ।स्यसिच्सीयु॑डिति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके, सीयुटि, अजन्तस्य तासौ, इत्यजन्तस्य चत्वारि वाक्यानि । एवं हनग्रहदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः । तत्र हन आर्धधातुके सीयुटिचिण्वदिड्विधिर्निरवकाशत्वाद्वधादेशापवादः, अप्राप्त एव वधादेशे आरम्भात् । वधादेशस्तु न चिण्वदिटोऽपवादः, तस्य वध्यादित्यत्रकर्तरि लिङि चरितार्थत्वादिति भावः । पक्षे इति । चिण्वत्त्वाऽभावपक्षे ।हनो वध लिङी॑ति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षम इडिति वाच्यम्, 'एकाच उपदेशे' इत्यत्र 'अच' इत्येकत्वसामर्थ्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम्, 'एकाच उपदेशे' इत्यत्र 'अच' इत्येकत्ववसामर्थ्यादेकत्वे सिद्धे पुनरकेग्रहणबलेनय उपदेशे एकाजेव नतु कदाप्यनेका॑जिति लभ्यते । तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः । आदेशोपदेशे अनेकाच्त्वादित्युक्तं प्राक् । लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घः ।\tआत्मनेपदेष्वन्यतरस्या॑मिति वधादेशाऽभावः । अघानिषातामिति । चिण्वदिटि वधादेशाऽभावपक्षे रूपम् ।अहसातामिति । चिण्वदिडभावपक्षेहनः सि॑जिति कित्त्वादनुदात्तोपदेशेत्यनुनासिकलोपः । पक्षे अवधीति ।आत्मनेपदेष्वन्यतस्या॑मिति वधादेशपक्षे इत्यर्थः अवधिषातामिति ।आत्मनेपदेष्वन्यतस्या॑मिति वधादेशस्यापि पाक्षिकतयाऽप्राप्तेपि वधादेशे चिण्वत्त्वस्यारम्भन्नापवादत्वमिति भावः । ननु चिणि वधादेशस्य दृष्टत्वात्स्यादिषु चिण्वत्त्वाद्वधादेशः स्यादित्याशङ्क्य परिहरति — न चेत्यादिना । आङ्गस्यैवेति । वधादेशस्तु द्वैतीयीकः, न त्वङ्गाधिकारस्थ इति भावः । अथ 'ग्रह उपादाने' इत्यस्माददुपधात्कर्मलकारे उदाहरति — गृह्रते इति ।ग्रहिज्ये॑ति संप्रसारणम् । अथ लुटि तासि चिण्वदिटिग्रहोऽलिटी॑ति दीर्घमाशङ्क्याह — चिण्वदिटो न दीर्घत्वमिति । कुत इत्यत आह — प्रकृतस्येति । वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैवग्रहोऽलिटी॑ति दीर्घविधौ ग्रहणं नतु चिण्वदिट इति भाष्ये स्पष्टम् । अथ दृशेः कर्मलकारे उदाहरति — दृश्यते इति । लिटि- ददृशे । लुटि तासि चिण्वदिट्पक्षे — दर्शिता । चिण्वत्त्वाऽबावेसृजिदृशो॑रित्यम् । द्रष्टा.दर्शिष्यते । द्रक्ष्यते । दर्शिषीष्ट । चिण्वदिडभावे तुलिङ्सिचावात्मनेपदेषु॑ इति सिचः कित्त्वात्सृजिदृशो॑रित्यम्न । नापि लघूपधगुणः । दृक्षीष्ट । अदर्शीति.चिणि लघूपधगुणः । अदर्शिषातामिति । चिण्वदिटि रूपम् । चिण्वत्त्वाऽभावे त्वाह — सिचः कित्त्वादम्नेति ।लिङ्सिचावात्मनेपदेषु॑ इति सिचः कित्त्वात्सृजिदृशो॑रित्यम्न भवति, अकितीति पर्युदासादित्यर्थः । अथ गृधातोः कर्मलकारे यकि ऋत इत्त्वेहलि चे॑ति दीर्घे — गीर्यते । जगरे । लुटि तासि चिण्वत्त्वपक्षे — गारिता । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि गुणे रपरत्वे — गरिता गरीता ।वृतो वे॑ति वा दीर्घः । गारिष्यते गरिष्यते गरीष्यते । गीर्यताम् । अगीर्यत । गीर्येत । गारिषीष्ट । चिण्वत्त्वाऽभावपक्षे तुलिङ्सिचोरात्मनेपदेषु॑ इति इड्विकल्पः । इडभावपक्षेउश्चे॑ति कित्त्वम् । इत्त्वम् । रपरत्वम् ।हलि चे॑ति दीर्घः । षत्वम् । गीर्षीष्ट । इट्पक्षे तु — गारिषीष्ट । लुङि — अगारि । अगारिषाताम् । अगीर्षाताम्- अगरिषातामिति सिद्धवत्कृत्य आह — लुङि ध्वमि चतुरधिकं शतमिति ।रूपाणी॑ति शेषः । तदेवोपपादयति — तथाहिति । अगारिध्वमिति । गृ स् ध्वम् इति स्थिते चिण्वदिटि वृद्धौ रपरत्वेधिचे॑ति सलोपे रूपमिति भावः । द्वितीये त्विटीति । चिण्वदिडभावपपक्षे वलादितलक्षणे सिच इटि ऋकारस्य गुणे रपत्वेधि चे॑ति सलोपे 'वतो वा' इति दीर्घविकल्पे अगरिध्वम्, अगरीध्वमिति रूपद्वयमित्यर्थः । एषामिति । एषां त्रयाणां मध्ये एकैकस्मिन् रेफस्यअचि विभाषे॑ति लत्वम् । 'विभाषेटः' इति वा धस्य ढत्वम् । तथा धस्य,तदादेशढस्य,वस्य, मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः तत्र धढयोर्मस्य चअनचि चे॑ति द्वित्वविकल्पः । वकारस्य तु 'मय' इति पञ्चमीमाश्रित्य 'यणो मयः' इति द्वित्वविकल्पैति विवेकः । यद्यपि धढयोर्वस्य मसय् च द्वित्वचतुष्टयमिति वक्तुमुचितं, तथापि ढस्य धस्थानिकतया धढयोरेकत्वमभिप्रेत्यद्वित्वत्रय॑मित्युक्तिः । इत्थमिति । एवं च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीणीति षट् (६) । एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट्, द्विधानि च षडिति द्वादश (१२) । तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट्, द्विढानि च षडिति द्वादश (१२) । उभयेषामपि द्वादशानां मेलने चतुर्विंशतिः । (२४) । एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विंशति, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिंशत् । (४८) । एषु मस्यद्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत्,द्विमान्यष्टाचत्वारिंशदिति (९६) षण्णवतिरित्यर्थः । लिङ्सिचोरितीति । चिण्वदिडभावपक्षे वलादिलक्षणस्य इटोलिङ्सिचोरिति विकल्पितत्वात्तदभावपक्षे 'उश्चे' ति सिचः कित्त्वाद्गुणाऽभावे ऋत इत्त्वे रपरत्वेहलि चे॑तिदीर्गे रेफादिणः परत्वात्इणः षीध्व॑मिति नित्यं ढत्वे अर्गीढ्वमिति रूपमित्यर्थः । ढवमानामिति । ढस्यअचो रहाभ्या॑मिति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे । तयोर्वस्य 'यणो मयः' इति द्वित्वविकल्पे एकवे द्वे , द्विवे द्वे इति चत्वारि (४) । एषु चतुर्षु मस्यअनचि चे॑ति द्वित्वविकल्पे एकमानि चत्वारि, द्विमानि चत्वारीत्यष्टौ (८) रूपाणीत्यर्थः । षण्णवत्येति । उक्तषण्णवत्या अष्टानां मेलने सति या सङ्ख्या सिध्यति सा चतुरुत्तरशतसङ्क्या (१०४) उक्तेति ज्ञेयमित्यर्थः । उक्तप्रक्रियां श्लोकेन सङ्गृह्णाति — इट्दीर्घ इत्यादिना । वलादिलक्,ण इट्,वृतो वे॑ति दीर्घः । अजन्तलक्षणश्चिण्वदिट्,अचि विभाषे॑ति लत्वं, 'विभाषेट' इति वा ढत्वं, धढवमानां द्वित्वत्रिकमित्यष्टानां विकल्पाच्चतुरधिकं शतं रूपाणीत्यर्थः ।शमय्ते मोहो मुकुन्देने॑त्यत्र प्रक्रियां दर्शयति — हेतुमण्ण्यन्तादिति । शमधातोर्हेतुमण्णौ उपधावृद्धौ मन्तत्वेन मित्त्वाद्ध्रस्वे शमीत्यस्मात्कर्मणि लः, नतु भावे, हेतुमण्ण्यन्तस्य सकर्मकत्वनियमादिति भावः । यगिति । तङि कृतेसार्वधातुके य॑गित्यनेन॑ति शेषः । णिलोप इति ।णेरनिटीत्यनेने॑ति शेषः । लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्त्वान्नित्यमुपधाह्रस्वे प्राप्ते -", "73034": "<<नोदात्तोपदेशस्य मान्तस्यानाचमेः>> - नोदात्तोपदेशस्य ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति, 'अत उपधायाः' इत्यत उपधाया इति,अचो ञ्णिती॑त्यतो ञ्णितीति, 'आतो युक्' इत्यततश्चिण्णकृतोरिति चानुवर्तते । तत्र णितीति कृतएव विशेषणं, न तु चिणः, अव्यभिचारात् । तदाह — उपधाया इत्यादिना । अनुदात्तोपदेशाः - सङ्गृहीताः । ततोऽन्यः सर्वोऽपि धातुरुदात्तोपदेशः । आङ्पूर्वश्चमिराचमिः, तद्वर्जस्येत्यर्थः । अशमि अदमीति । शमधातोर्दमधातोश्च लुङि चिणि 'अत उपधायाः' इति वृद्धिर्न । अगामीति । गमेरनुदात्तोपदेशत्वादिति भावः । अवादीति । वदधातुर्न मान्त इति भावः । आचामीति ।अनाचमे॑रित्युक्तेरिह नोपधावृद्धिनिषेधः । अनाचमिकमिवमीनामिति । आचामिकमिवमिवर्जानामित्यर्थः । एवं च कमिवम्योरपि न निषेध इति फलितम् । ननु कर्मेर्णिङन्तत्वात्केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह — चिण्यायादय इति । णिङणिचोरप्येवमिति । णिङन्ताण्णिजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववद्रूपं शिष्यते इत्यर्थः । ननुजनिवध्योश्चे॑ति वधेरुपधावृद्धिनिषेधो व्यर्थः, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्ध्यभावसिद्धेरित्याशङ्क्य वधर्धात्वन्तरं हलन्तमेवजनिवध्योश्चे॑त्यत्र गृह्रत इत्यभ#इप्रेत्य आह - वध हिंसायां हलन्त इति ।", "73035": "<<जनिवध्योश्च>> - जनीवध्योश्च । 'अत उपधायाः' इत्यत उपधाया इति,मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,नोदात्तोपदेशस्ये॑त्यतो नेति,आतो यु॑गित्यतश्चिणकृतोरिति,अचो ञ्णिती॑त्यतो ञ्णितीति चानुवर्तते । तदाह — अनयोरिति । दीपीधातुरीदित् ।॒दीपजने॑ति च्लेश्चिण्विकल्पं मत्वाह -अदीपि अदीपिष्टेति । पूरीधातुरपि ईदित् ।दीपजने॑ति चिण्विकल्पं मत्वाह — अपूरि अपूरिष्टेति.तूरी इत्यादयोऽपि 'चूरी दाहे' इत्यन्ता ईदित एव.तप ऐआर्ये वेति ।श्यन् आत्मनेपदं चे॑ति शेषः । उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति — श्यनं तङं चेति । अन्यदा त्विति । ऐआर्यादन्यार्थे वृत्तिदशायामित्यर्थः । केचित्त्विति । 'तप ऐआर्ये' 'वावृतु वरणे' इति धातुपाठे स्थितम् । तत्र 'वावृतु वरणे' इत्येवं वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः । एवं च 'तप ऐआर्ये' इत्येव स्थितम् । अस्मिन्पक्षेतपधातोर्नित्यमेव श्यन् तङ् चेति भावः । तप्यते इति । ईष्टे इत्यर्थः । प्रथमपक्षे ऐआर्ये तपतीत्यपि भवति । पत इतीति । तपधातोस्तकारपकारयोः क्रमव्यत्यासेन 'पत ऐआर्ये वा' इति पाठान्तरमित्यर्थः । एवं व्यत्यासेन पाठे प्रयोगं दर्शयति — द्युतद्यामा नियुत इति । प्रवायुमच्छा बृतीत्यृच एकदेशोऽयम् । 'पत्यमान' इत्यस्य ईशान इत्यर्थः । अत्र लटः शानजात्मनेपदं श्यन् च । पक्षान्तरे इति । 'वावृतु' इति पाठपक्षे इत्यर्थः । वावृत्यते इति । वृणोतीत्यर्थः । अपेक्षते इति यावत् । वावृतुधातोः प्रयोगं दर्शयति — ततोवावृत्यमानेति । अपेक्षमाणेत्यर्थः ।न्यविवक्षतेति.॒नेर्विशः ॑ इत्यात्मनेपदम् ।शल इगुपधा॑दिति क्सः । अथ पञ्च स्वरितेत इति । 'शप आक्रोसे' इत्यन्ता इत्यर्थः । शुच्यतीति । क्लिन्नं भवतीत्यर्थः । अशुचदिति । इरित्त्वादङिति भावः । णह बन्धने इति । णोपदेशोऽयम् । अनिट् । ननाहेति । नेहतुः । भारद्वाजनियमात्थलि वेडिति मत्वाह — नेहिथ ननद्धेति । इट्पक्षेथलि चे सेटी॑त्येत्त्वाभ्यासलोपौ । इडभावे तु 'नहो धः' इति हस्य ध इति भावः । रञ्ज रागे । अनिट् । रज्यतीति ।अनिदिता॑मिति नलोप इति भावः । ररञ्ज ररञ्जतुः । ररञ्जिथ- ररङ्क्थ । ररञ्जिव । रङ्क्ता इत्यादि । अथैकादशेति । 'लिश अल्पीभावे' इत्यन्ता इत्यर्थः । पद गतौ । अनिट् ।", "73036": "<<अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> - अर्ति ह्यी व्ली री क्नूयी क्ष्मायी आत् एषां द्वन्द्वात्षष्ठी । 'पुक् णौ' इति छेदः । तदाह — एषां पुक्स्याण्णौ इति । पुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः । चाप् इ इति स्थिते चेत्यनुवर्त्त्य मित्त्वस्याऽनुकर्षणेन मित्त्वाद्ध्रस्वेचपी॑त्यस्मात्तिबादौ परिनिष्ठितमाह — चपयतीति । आत्त्वाऽभावपक्षे त्वाह — चययतीति । चेर्णिचि वृद्धौ आयादेशे मित्त्वादुपधाह्रस्व इति भावः । ननु चिञ्धातोरिह ञित्करणं व्यर्थम्, ण्यन्ताण्णिचश्चेत्येव उभयपदसिद्धेः । चौरादिकस्याऽस्य नित्यं ण्यन्तत्वेन चयति चयते इति केवलस्याऽण्यन्तस्य शशशृङ्गायमाणत्वदित्यताअह — ञित्करणसामर्थ्यादिति । एवं च णिजभावपक्षे उभयपदार्थमिह ञित्करणमर्थवदिति भावः । 'शेषे विभाषाऽकखादौ' इति णत्वनविकल्पं मत्वा आह — प्रणिचयति प्रनिचयतीति । 'नान्ये मितोऽहेतौ' इति । चुरादिगणसूत्रम् । अहेताबिति च्छेदः । किमपेक्षया अन्ये इत्याकाङ्क्षायां मितः प्राक् पठितज्ञपादिचिञन्तेभ्य इति लभ्यते । तदाह — अहेतौ स्वार्थं णिचीत्यादिना । अहेतावित्यस्य व्याख्यानं — स्वार्थे णिचीति । तेनेति । ज्ञपादिचिञन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधेनेत्यर्थः । शमादीनामिति । 'शम आलोचने'अम रोगे॑इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थः । अमन्तत्वेति ।जनीजृष्क्नसुरञ्जौऽमन्ताश्चे॑त्यमन्तत्वनिमित्तकमित्यर्थ- । कृत संशब्दने ।", "73037": "<<शाच्छासाह्वाव्यावेपां युक्>> - शाच्छासा ।शो तनूकरणे,छो छेदने॑,षो अन्तकर्मणिट,ह्वेञ् स्पर्धायां शब्दे च॑,व्येञ् संवरणे॑, एषां कृतात्त्वनिर्देशः । 'वेञ् तन्तुसंताने'पा पाने भ्वादिः । एषां द्वन्द्वात्षष्ठीबहुवचनात् । णौ परे इति । शे,फूरणमिदम् । आदन्तलक्षणपुकोऽपवादः । युकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तागमः । अत्रलुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्य ग्रहण॑मिति वचनात् 'पा रक्षणे' इति न गृह्रते । तस्यतु पालयतीति रूपमनुपदमेव वक्ष्यति । शाययतीति । लुङि अशीशयत् । छाययतीति । अचिच्छयत् । साययतीति । असीषयत् । ह्वाययतीति । लुङि तु विशेषो वक्ष्यते । व्याययतीति । अविव्ययत् । वाययति । अवीवयत् । पाययति । लुङि तु विशेषो वक्ष्यते ।", "73038": "<<वो विधूनने जुक्>> - वो विधूनने । 'ओ वै शोषणे' इति धातोः कृतात्त्वस्य 'व' इति षष्ठन्तम् । 'अर्तह्यी' त्यतो णावित्यनुवर्तते । तदाह — वातेरित्यादि । पुकोऽपवादो जुक् ।केशान्वापयतीति । सुगन्धीकरोतीत्यर्थः । अत्र वैधातोः पुगेव । वाधातोस्त्विह न ग्रहणं, लुगविकरणत्वात् । केचित्तु वातेरेवाऽत्र ग्रहणं, न तु वेञो, नापि वै इत्यस्य, लाक्षणिकत्वात्, सानुबन्धकत्वाच्चेत्याहुः । आत्त्वविधायकसूत्रं स्मारयति - विभाषा लीयतेरिति । लीलीङोरात्त्वं वा स्यादेज्वि,ये ल्यि चेति व्याख्यातं प्राक् श्यन्विकरणे । तत्र लीयतेरिति यका निर्देशो, नतु श्यना । तेन 'ली श्लेषणे' इति श्नाविकरणस्य, 'लीङ्श्लेषणे' इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्तं न विस्मर्तव्यम् ।", "73039": "<<लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने>> - लीलोः । ली ला इत्यनयोः षष्ठीद्विवचनम् । णाविति । अर्तिह्यी॑त्यतस्तदनुवृत्तेरिति भावः । स्नेहस्य = तैलस्य, निपातनं = द्रावणं, स्नेहनिपातनम् । तदाह — स्नेहद्रवे इति । आत्त्वाऽभावपक्षे आह — विलीनयतीति । लीलीङोरीकारान्तयोर्नुकि रूपम् । द्रवीकरोतीत्यर्थः । लीलीङोरात्त्वनुगभावपक्षे आह — विलाययतीति । लुगागमाऽभावे रूपम् । नु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक्स्यादित्यत आह — ली ई इति । लोहं विलापयतीति । नुग्लुकोरभावादात्त्वपक्षे पुक् । आत्वाऽभावे तु वृद्ध्यायादेशाविति नित्यमात्त्वं वक्तव्यमित्यर्थः ।", "73040": "<<भियो हेतुभये षुक्>> - भियो हेतुभये षुक् । भी ई ति । द्वयोः सवर्णदीर्घे भीशब्दात् षष्ठीति भावः । इदं च स्थानिवत्सूत्रे भाष्ये स्पष्टम् । ईकारप्रश्लेषलब्धमाह — ईकारान्तस्येति । तेन आत्त्वपक्षे न षुगिति फलितम् । णाविति । 'अर्तिह्यी' त्यतस्तदनुवृत्तेरिति भावः ।", "73041": "<<स्फायो वः>> - स्फायो वः । णाविति शेषपूरणम् ।अर्तिह्यी॑त्यतस्तदनुवृत्तेरिति भावः ।", "73042": "<<शदेरगतौ तः>> - शदेरगतौ तः ।अर्तिह्यी॑त्यतो णावित्यनुवृतिंत मत्वाह — शदेर्णाविति । तोऽन्तादेश इति । तकार इत्यर्थः । अकार उच्चारणार्थः ।", "73043": "<<रुहः पोऽन्यतरस्याम्>> - रुहः पो । णावितिशेषपूरणम् ।", "73044": "<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> - प्रत्ययस्थात् । ककारादिति । क् इति वर्णादित्यर्थः । अकार उच्चारणार्थः । 'वर्णात्कारः' इत्युक्तेः । एवंच सूत्रे कादित्यत्राऽकार उच्चारणार्थ इति सूचितम् । स आबिति । इत्त्वविधौ यः परनिमित्तत्वेनोपात्तः स आबित्यर्थः । सुपः परो न चेदिति । सूत्रे 'असुपः' इति पञ्चम्यन्तम्, असमर्थसमासः । आपि सुपः परस्मिन्सति इत्त्वं न भवतीत्यर्थो विवक्षित इति भावः । सर्विकेति । सर्वशब्दाट्टापि सवर्णदीर्घे सर्वाशब्दः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्सर्वनामकार्यम् । ततश्च अव्ययसर्वनाम्ना॑मिति टेः प्रागकच् । तत्र ककारादकार उच्चारणार्थः । चकार इत् । अक् इति ककारान्तः प्रत्ययष्टेः प्राग्भवति । सर्वकाशब्देऽस्मिन्ककारात्पूर्वस्य अत इत्त्वे सर्विकेति रूपम् । ननु ककारात्पूर्वस्य अकारस्य कथमित्त्वम्, ककारेण व्यवहिततया आप्परकत्वाऽभावादिति चेत्, न,येन नाव्यवधान॑मिति न्यायेन तद्व्यवधानस्य अबाधकत्वात् । कारिकेति । कृञो ण्वुल्, अकादेशःअचो ञ्णिती॑ति ऋकारस्य वृद्धिः, रपरत्वं कारकशब्दाट्टाप्, सवर्णदीर्घः, कात्पूर्वस्य रेफादकारस्य इत्त्वम् । कादिति सङ्घातग्रहणे तु एतिका इति न सिध्यति । एतच्छब्दे टेः प्रागकचि एतकच्छब्दाज्जसि, त्यदाद्यत्वे, पररूपे, अदन्तत्वाट्टापि, कात्पूर्वस्य इत्त्वे एतिका इति रूपम् । अत्राऽकचि अकारस्य उच्चारणार्थतया प्रत्ययस्थकशब्दाऽभावादित्त्वं न स्यात्, ककारादुत्तराऽडवर्णस्याऽकजनवयवत्वात् । न चाऽकचि अकारस्य नोच्चारणार्थत्वमिति शङ्क्यम्, एवं सति निरित्यव्यये अकचि नकिरिति न स्यात् । अतः कादित्यनेन कककारादित्येव विवक्षितम् । यका सकेत्यत्र 'न यासयोः' इतीत्त्वनिषेधाल्लिङ्गाच्च । अन्यथा तत्र प्रत्ययस्थककाराऽभावेन इत्त्वस्याऽप्राप्तेः किं तन्निषेधेनेत्यलम् ।नौकेति । नौशब्दात्स्वार्थिकः कः, टाप् । अत्र ककारात्पूर्वस्य औकारस्य इत्त्वनिवृत्त्यर्थमत इति वचनम् । शकेति । 'शक्लृ शक्तौ' पचाद्यच्, टाप् । अत्र ककारस्य प्रत्ययस्थत्वाऽभावान्न ततः पूर्वस्य इत्त्वम् । बहुपरिव्राजकेति । परिपूर्वाद्व्रजेर्ण्वुल् । बहवः परिव्राजका यस्यामिति बहुव्रीहिः । सुपो लुकि बहुपरिव्राजकशब्दाट्टाप् । अत्राऽकारस्य कात्पूर्वस्य इत्त्वं न, प्रत्ययलक्षणेन आपः सुबपेक्षया परत्वात् ।न लुमते॑ति निषेधस्तु न, तस्य लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव प्रवृत्तेः । इत्त्वं तु टाप्यनाङ्गकार्यमिति नात्र तन्निषेधः । यदि तु 'असुपः' इति पर्युदासाअश्रीयते, तर्हि 'बहुपरिव्राजक' इति समुदायस्य सुब्भिन्नत्वादापस्ततः परत्वादित्त्वं दुर्वारं स्यादिति भावः । राकेति ।कृदाधारार्चिकलिभ्यः कः॑ इति राधातोरौणादिकः कप्रत्ययः ।उणादयो बहुल॑मिति बहुलग्रहणात् 'केऽणः' इति ह्रस्वो न, ककारस्य च नेत्वम् । टाप् । स्त्रीत्वं लोकात् ।कलाहीने सानुमतिः पूर्णे राका निशाकरे॑ इत्यमरः । अत्र ककारात् पूर्वस्य दीर्घाकारत्वान्नेत्त्वमिति भावः ।मामकेति । मामकनरकशब्दयोः कात्पूर्वस्य इत्त्वं वक्तव्यमित्यर्थः । मामिकेति । ममेयमिति विग्रहेयुष्मदस्मदोरन्यतरस्यां खञ्चे॑त्यणि, 'तवकममकावेकवचने' इति ममकादेसे, आदिवृद्धिः, टाप्, 'टिड्ढाणञ्' इत्यादिना ङीप्तु न,केवकमामके॑त्यादिना संज्ञाच्छन्दसोरेव मामकशब्दान्ङीब्नियमात् । ततस्चात्र ककारस्य प्रत्ययस्थत्वाऽबावात्प्रत्ययस्था॑दित्यप्राप्तौ वचनमिदम् । नरानिति । कैशब्दे 'आदेच उपदेशे' इत्यात्त्वे, 'आतोऽनुपसर्गे कः' इति कप्रत्ययेआतो लोप इटि चे॑ति आलोपः, उपपदसमासः, सुपो लुक्, टाप् । अत्रापि ककारस्य प्रत्ययस्थत्वाऽभावात् ।॒प्रत्ययस्था॑दित्यप्राप्तौ वचनम् । त्यक्त्यपोश्चेति । त्यगन्ते त्यबन्ते च प्रत्ययस्थात्कात्पूर्वस्याऽकारस्य इत्त्वं वक्तव्यमित्यर्थः । 'उदीचामातः स्थाने' इति विकल्पस्यापवादः । दाक्षिणात्यिकेति । दक्षिणस्या दिशि अदूरे इति विग्रहे 'दक्षिणादाच्' इत्याच्,तद्धितश्चासर्वविभक्तिः॑ इत्यव्ययत्वम् । दक्षिणाशब्दाद्भवाद्यर्थेदक्षिणापश्चात्पुरसस्त्यक् इति त्यक्,किति चे॑त्यादिवृद्धिः, दाक्षिणात्यशब्दाट्टाप् । ततः स्वार्थिकः कः, 'केऽणः' इति टारो ह्रस्वः, पुनष्टाप्, इत्त्वम#इति भावः ।दक्षिणस्यां दिशि भवे॑ति विग्रहे दक्षिणाशब्दाट्टाबन्तादेव त्यकन् इति मतं तु प्रौढमनोकमायां दूषितम् । इहत्यिकेति ।अव्ययात्य॑बिति त्यप्, टाप्, स्वार्थिकः कः, 'केऽणः' इति ह्रस्वः, पुनः टाप् ।", "73045": "<<न यासयोः>> - न यासयोः । नात्र कृतटापोः प्रतमान्तयोर्निर्देशः । यत्त दोरित्येव विवक्षितमिति बाष्ये स्पष्टम् ।प्रत्ययस्था॑दित्यतोऽत इति इदिति चानुवर्तते । तदाह — यत्तदोरिति । यका सकेति ।अव्ययसर्वनाम्ना॑मिति यत्तच्छब्दयोष्टेः प्रागकचि सौ त्यदाद्यत्वं, पररूपं, टाप्, हल्ङ्यादिना सुलोपः । तच्छब्दे 'तदोः सः सौ' इति तकारस्य सकारः । उभयत्रापिप्रत्ययस्था॑दिति प्राप्तमित्त्वमत्र सूत्रे निषिध्यते । अथन यासयो॑रित्यस्य प्रथमान्तानुकरणत्वे किं बाधकमित्यत आह — यकां तकामिति ।त्यकनश्च निषेध इति । त्यकन्प्रत्ययान्तस्यापिप्रत्ययस्था॑दितीत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । उपत्यका अधित्यकेति ।उपाधिभ्यां त्यकन्नासन्नारूढयोः॑ इति त्यकन्, टाप्, सोर्हल्ङ्यादिलोपः ।उपत्यकाद्रेरासन्ना भूमिरूध्र्वमधित्यका॑ इत्यमरः । ननु त्यकन्विधौ अकारस्य उच्चारणसामर्थ्यादेव इत्त्वं न भवति, अन्यथा त्यिकनमेव विदध्यात्, अतः किं तन्निषेधेनेति चेत्, मैवम् — ॒पञ्चोपत्यको ग्राम॑ इत्यत्र अकारश्रवणार्थत्वादित्यलम् ।आशिषीति । आशिषि यो बुन् तस्य योऽयमकादेशः, तदकारस्यप्रत्ययस्था॑दितीत्त्वं नेति वक्तव्यमित्यर्थः । जीवका भवकेति । जीवतात्, भवतादित्यर्थः । जीवधातोः भूधातौश्चआशिषि चे॑ति वुन्, 'युवोरनाकौ' इति तस्य अकादेशः,सार्वधातुकार्धधातुकयोः॑ इति भूधातोरूकारस्य गुणेऽवादेशश्च । उत्तरपदेति । उत्तरपदलोपेऽपीत्त्वं नेति वक्तव्यमित्यर्थः । देवकेति । देवदत्तशब्दाट्टाप् । देवदत्तिकेति तु दत्तपदस्य लोपाभिव्यक्तये उपन्यस्तम् । क्षिपकादीनां चेति । क्षिपकादिशब्दानामित्त्वं नेति वक्तव्यमित्यर्थः । क्षिपकादिगणं पठति — क्षिपकेति ।क्षिप प्रेरणे॑ । इगुपधाज्ञाप्रीकिरः कः॑ । कित्त्वान्न लघूपधगुणः, क्षिपाशब्दात्स्वार्थे कः, 'केऽणः' इति ह्रस्वः, पुनष्टाप् । ध्रुवकेति । 'ध्रुव स्थैर्ये' कुटादिः, क्षिपकेतिवद्रूपम् । यद्वा 'ध्र स्थैर्ये' पचाद्यच्, 'गाङ्कुटादिभ्यः' इति ङित्त्वान्न गुणः, उवङ् । ध्रुवशब्दाट्टाप् । ततः स्वार्थिकः कः 'केऽणः' इति ह्रस्वः । पुनष्टाप् । कन्यकेति । कन्याशब्दात्कः, 'केऽणः' इति ह्रस्वः, पुनष्टाप् । चटकेति ।चट भेदेन । पचाद्यच्, टाप् । स्वार्थे कः, 'केऽणः' इति ह्रस्वः पुनष्टाप् । क्षिपकादिराकृतिगणः । तेन अलका इष्टका इत्यादि । तारका ज्योतिषीति । वार्तिकमिदम् । ज्योतिषि वाच्ये तारकेति भवति । इत्त्वं न भवतीति यावत् । 'तृ प्लवनसंतरणयोः' ण्वुल्, अकादेशः ऋकारस्य वृद्धिः, रपरत्वं, टाप् । ज्योतिरित्यनेन नक्षत्रम्, अक्ष्णः कनीनिका च विवक्षिते ।नक्षत्रमृक्षं भं तारा तारकापि॑ इति,तारकाक्ष्णः कनीनिका॑ इति चामरः । अन्यत्रेति । ज्योतिषोऽन्यत्र वाच्ये तारिकेत्येव भवतीत्यर्थः ।वर्णका तान्तव इति । इदमपि वार्तिकम् । तान्तवे गम्ये वर्णकेति भवति । इत्त्वं नेत्यर्थः । तन्तूनां विकारस्तान्तवम् ।ओरञ॑ । वर्णकेति प्रावरणविशेषः ।वर्ण वर्णक्रियाविस्तारगुणवचनेषु॑ चुरादिः । ण्यन्ताण्ण्वुल्, अकादेशः, णिलोपः, टाप् । अन्यत्रेति । तान्तवादन्यत्र वर्णकेति इत्त्वमित्यर्थः । वर्णिका-स्तोत्रीत्यर्थः । वर्णिकेति ग्रन्थविशेषस्य संज्ञा वा ।वर्तका शकुनौ प्राचामिति । इदमपि वार्तिकम् । शकुनिः पक्षी, तत्र गम्ये प्राचां मते वर्तकेति भवति, इत्त्वं न भवतीत्यर्थः । प्राचाङ्ग्रहणस्य प्रयोजनमाह — उदीचां त्विति । उदीचां मते तु शकुनौ गम्ये वार्तिकेतीत्त्वं भवतीत्यर्थः । वर्तयतेर्ण्वुल्, अकादेशः, णिलोपः, स्वार्थे कः, टाप् ।कोयष्टिकष्टिट्टिभका वर्तको वर्तिकादयः॑ इत्यमरः । शकुनेरन्यत्र तु नित्यमेवेत्त्वम् । अष्टका पितृदेवत्ये इति । इदमपि वार्तिकम् । पितरश्च ता देवताश्च पितृदेवताः । तदर्थं पितृदेवत्यम् ।देवतान्तात्तादर्थ्ये य॑दिति यत् । पित्रर्थे कर्मणि वाच्ये अष्टकेति भवति । 'अश भोजने' इत्यस्मात्इष्यशिभ्यां तक॑न्निति तकन् प्रत्ययः,व्रश्चा॑दिना शस्य षः, तकारस्य ष्टुत्वेन टः, अष्टकशब्दाट्टाप् । अष्टिकान्येति । अष्टाबध्यायाः परिमाणमस्या अष्टिका पाणिनीयाष्टाध्यायी,सङ्ख्यायाः अतिशदन्तायाः कन् इति सूत्रेण अष्टौ इति सुबन्तात्कन्प्रत्ययः, सुबन्तात्तद्धितोत्पत्तेः सिद्धान्तयिष्यमाणत्वात् । ततस्तद्धितान्तत्वेन प्रातिपदिकत्वात्सुपो धातुप्रातिपदिकयोः॑ इति जसो लुकि निमित्तापायादष्टन आत्वनिवृत्तौ, अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वान्नकारलोपे, अष्टशब्दाट्टापिप्रत्ययस्था॑दितीत्त्वं भवत्येव । न चान्तर्वर्तिसुपः परत्वं टापः शङ्क्यं, ककारेण व्यवधानात् । असुप इत्यस्यबहुपरिव्राजका नगरी॑त्यत्राऽव्यवहिते सुपः परे टापि चरितार्थत्वात् । अतएवक्षिपकादीनां ने॑ति निषेधोऽर्थवान् । अन्यथा क्षिपाशब्दात्सुबन्तात्स्वार्थिके कप्रत्यये सुपो लुकि अन्तर्वर्तिनीं विभक्तिमाश्रित्य टापः सुबपेक्षया परत्वादसुपैति निषेधसिद्धेः किं तेनेत्यलम् ।॒वा सूतकापुत्रिकाबृन्दारकाणा॑मिति वार्तिकमर्थतः पठति — सूतकेति । अत्र पुत्रिकाशब्द इकारमध्यो नत्वकारमध्यः, स्त्रियां पुत्रशब्दस्य शाङ्र्गरवादित्वेन ङीनन्तत्वादिति कैयटः । अत्रेत्त्वविकल्पभ्रमं वारयति — इह वा अ इति । सवर्मदीर्घे सति वा इति निर्देश इति भावः । अत्र अ इति लुप्तप्रथमाकं, कात्पूर्वस्येत्यनुवर्तते, अत इति निवृत्तम्, पुत्रिकाशब्दे अतोऽभावात् । तदाह — कात्पूर्वस्येति । नन्वत्र इत्त्वविकल्प एव कुतोन विधीयत इत्यत आह — तेनेति । अत्वविधानेनेत्यर्थः । पुत्रशब्दाच्चाङ्र्गरवादित्वान्ङीनि स्वार्थिके कप्रत्यये 'केऽणः' इति ह्रस्वे, टापि, पुत्रिकाशब्दः ।अत्र इकारस्य इत्त्वविकल्पविधौ पुत्रिका पुत्रीकेति इन्मध्य ईन्मध्यश्च स्यात् । अत्वविधौ तु पुत्रका पुत्रिकेत्यकारमध्यः इकारमध्यश्च भवतीति भावः । ननु सूतकाशब्देवृन्दारकाशब्दे च कात्पूर्वस्याऽकारस्य अकारविधिः किमर्थमित्यताअह — अन्यत्रेति । सूतकाशब्दे वृन्दारकाशब्दे चप्रत्ययस्था॑दिति नित्यमित्त्वे प्राप्ते तद्विकल्पार्थमित्यर्थः ।षूञ्प्राणिगर्भविमोचने॑ । धात्वर्थेनोपसङ्ग्रहादकर्मकः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः, टाप्, स्वार्थिकः क#ः, केऽणः॑ इति ह्रस्वः, पुनष्टाप् । अत्राकारस्य अत्त्वाऽभावपक्षेप्रत्ययस्था॑दितीत्वम् । वृन्दमस्यास्तीति मत्वर्थेशृङ्गबृन्दाभ्यामारक॑न्नित्यारकन्प्रत्ययः । अमरेण तावद्देवतावाची बृन्दारकशब्दःअमरा निर्जरा देवाः॑ इत्यादिना पुंलिङ्गेष्वनुक्रान्तः । रूपिवाची मुख्यवाची च त्रिलिङ्गः । 'त्रिषूत्तरे' इत्युपक्रम्यबृन्दरकौ रूपमुख्यौ॑ इत्यमरः । स्त्रियां टाप् । अत्राप्यकारस्य अत्त्वाभावपक्षे इत्त्वम् ।", "73046": "<<उदीचामातः स्थाने यकपूर्वायाः>> - उदीचामातः । 'प्रत्ययस्थात्' इति सूत्रमनुवर्तते । यश्च कश्च यकौ, तौ पूर्वौ यस्या इति विग्रहः । यकेति वर्णग्रहणम्, अकारावुच्चारणार्थौ । 'यकपूर्वाया' इत्येतदात इत्यस्य विशेषणम् । तेन अर्थगतं स्त्रीत्वमाकारे आरोप्य 'यकपूर्वाया' इति स्त्रीलिङ्गनिर्देशः । तेन आकारस्य स्त्रीवाचकत्वं लभ्यते । तदाह — यकपूर्वस्येत्यादिना । उदीचांग्रहणं विकल्पार्थमेव नतु देशतो व्यवस्थार्थमिति 'न वेति विभाषा' इति सूत्रे बाष्ये स्पष्टम् । नच 'षष्ठी स्थानेयोगा' इत्येव सिद्धेरिह स्थानेग्रहणं व्यर्थमिति वाच्यम्, अनुवादे परिभाषाणामनुपस्थितेः । तत्र च इदमेव स्थानेग्रहणं ज्ञापकम् । अत एववृद्धिर्यस्याचामादिस्तद्वृद्ध॑मित्यत्र यस्यादिर्वृद्धिरित्यनुवादे इक्परिभाषा न प्रवर्तते । तत्प्रवृत्तौ तु शालाशब्दस्य वृद्धसंज्ञा न स्यात्, शकारादाकारस्य इक्श्तानिकत्वाऽभावात् । ततस्च शालीय इति 'वृद्धाच्छः' इति छो न स्यात्, 'औपगवीय' इत्यादावेव स्यादित्यलम् । केऽण इति ह्रस्व इति । आर्याशब्दात्स्वार्थिके कप्रत्यये यकाराकारस्य 'केऽणः' इति ह्रस्व इत्यर्थः । पुनष्टापि आर्यकाशब्दः । तत्र यकारादकारस्य आकारस्थानिकत्वादित्त्वविकल्पः ।प्रत्ययस्था॑दिति नित्यस्येत्त्वस्यापवादः । तदाह — आर्यका-आर्यिकेति । यकारपूर्वस्य उदाहरणमिदम् । अथ ककारपूर्वस्य उदाहरति — चटकका चटकिकेति । चटकाशब्दात्स्वार्थे कः, 'केऽणः' इति ह्रस्वः, पुनष्टाप्, इत्त्वविकल्प इति भावः । साङ्खाश्यिकेति । सङ्काशेन निर्वृत्तं नगरं साङ्काश्यम् ।वृञ्छणकठ॑जित्यादिना सङ्काशिद्भ्यो ण्यः, आदिवृद्धिः,यस्येति चे॑त्यकारलोपः । साङ्काश्यशब्दाद्भवार्थेधन्वयोपधाद्वुञ् । अकादेशःयस्येति चे॑त्यकारलोपः, टाप्,प्रत्ययस्था॑दिति नित्यमित्त्वम् । इह यकारादकारस्य आकारस्थानिकत्वाऽभावादित्त्वविकल्पो न भवतीति भावः । ननु स्त्रीबोधकस्य अत इद्वा स्यादित्येवास्तु, आत इति मास्तु । साङ्काश्यकाशब्दे यकारादकारस्य वुञादेशावयवत्वेन स्त्रीबोधकत्वाभाऽदिति चेत्, तह्र्रात् इति स्पष्टार्थमित्याहुः । अइआकेति । अआआशब्दात्कः, 'केऽणः' इति ह्रस्वः, पुनष्टाप्, अआकाशब्दः । अत्र अकारस्य आकारस्थानिकत्वेऽपि यकपूर्वकत्वा.ञभावादित्त्वविकल्पो न, किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमिति भावः । स्त्रीप्रत्यय इति किमिति । 'यकपूर्वाया' इति स्त्रीलिङ्गनिर्देशलब्धं स्त्रीप्रत्ययस्येति किमर्थमिति प्रश्नः । शुभंयिकेति ।शुभ॑मिति मान्तमव्ययम् । तस्मिन्नुपपदे 'या प्रापणे' इति धातोःअन्येभ्योऽपि दृश्यते॑ इति विच् । शुभंयाशब्दात्स्वार्थे कः । 'केऽणः' इति ह्रस्वः, टाप्, शुभंयकाशब्दः । अत्र यकारादकारस्य धात्ववयवस्य स्त्रीवाचकत्वाऽभावादित्त्वविकल्पो न, किन्तु 'प्रत्ययस्थात्' इति नित्यमेवेत्त्वमिति भावः ।॒यक पूर्वे धात्वन्तप्रतिषेधः॑ इति वार्तिकमर्थतः संगृह्णाति — धात्वन्तयकोस्तु नित्यमिति । यश्च कश्चेति विग्रहः । धात्वन्तयकारककारयोरुपरि विद्यमानस्य अकारस्य नित्यमित्त्वम्, न तु विकल्प इत्यर्थः । सुनयिकेति । णीञ्धातोः पचाद्यच् ।सार्वधातुकार्धधातुकयो॑रिति गुणेऽयादेशे नयशब्दः । सु=शोभनो नयो यस्याः सा सुनया । ततः स्वार्थे कः, 'केऽणः' इति ह्रस्वः । पुनष्टाप्, सुनयकाशब्दः । अत्र यकारस्य धात्वन्तत्वात्ततः परस्याऽकारस्य नेत्वविकल्पः, किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमिति भावः ।", "73047": "<<भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि>> - भस्त्रैषा । यकपूर्वत्वाऽभावात्उदीचा॑मित्यप्राप्तौ वचनमिदम् । स्वेत्यन्तमिति । भस्त्रा, एषा, अजा, ज्ञा, द्वा, स्वा एषां षण्णां द्वन्द्वः । ततः षष्ठआ आर्षो लुक् ।भस्त्रैषाजाज्ञाद्वास्वाना॑मिति विवक्षितमिति भावः । एषामिति । भस्त्रादीनामित्यर्थः ।अत इद्वेति । पूर्वसूत्रादुदीचाङ्ग्रहणस्यप्रत्ययस्था॑गिति सूत्रादिदित्यस्य चानुवृत्तेरिति भावः । नन्वाङ्गत्वात्तदन्तविधौ भस्त्रादिशब्दान्तानामिति लभ्यते, व्यपदेशिवत्त्वेन केवलानामपि लभ्यते । एवं च नञ्पूर्वाणां तद्भिन्नपूर्वामां केवलानां च सिद्धे नञ्पूर्वाणामपीति व्यर्थमिस्यत आह — तदन्तविधिनैवेति । ननु तदन्तविधिना भस्त्रादिशब्दानां नञ्पूर्वाणामनञ्पूर्वाणां च प्राप्तौ, नञ्पूर्वाणामेवेति नियमार्थं नञ्पूर्वग्रहणम् । तथा सति केवलानां भस्त्रादिशब्दानां ग्रहणव्यावृत्तिः स्यादित्यपिशब्द इति व्याख्यातुमुचितमिति चेन्न, एवं सति निर्भस्त्रिकेत्याद्यसिद्धेः । तस्मान्नञ्पूर्वाणामिति स्पष्टार्थमेवेति भाष्ये स्पष्टम् । ननु भस्त्राशब्दस्य नित्यस्त्रीलिङ्गतयाअभाषितपुंस्काच्चे॑त्युत्तरसूत्रेणैव इत्वविकल्पसिद्धेरिह भस्त्राग्रहणं व्यर्थमित्यत आह — भस्त्राग्रहणमुपसर्जनार्थमिति ।निर्भस्त्रिके त्युपसर्जनत्वे त्रिलिङ्गतया भाषितपुंस्कत्वेन तत्रअभाषितपुंस्काच्चे॑त्यस्य अप्रवृत्तेरिति भावः । अन्यस्य त्विति । उपसर्जनादन्यस्य भस्त्रशब्दस्य तु भस्त्रिका परमभस्त्रिकेत्यत्र नित्यस्त्रीलिङ्गतयाअभाषितपुंस्काच्चे॑त्युत्तरसूत्रेणैव पाक्षिकमित्त्वं सिद्धम् । अतो 'भस्त्रैषा' इत्यत्र भस्त्राग्रहणं तदर्थं न भवतीत्यर्थः । नन्वनेषका, परमैषका, अद्वके, परमद्वके इत्यत्रापि पाक्षिकमेतदित्त्वं स्यादित्यत आह — एषा द्वेति । एषा द्वा एतयोस्तु पूर्वपदसहितयोरिदं पाक्षिकमित्त्वं नेत्यर्थः । कुत इत्यत आह — अन्तर्वर्तिनीमिति । 'इदाप्यसुपः' इत्यनुवर्तते । इह तु टाप् सुपः पर इति भावः । ननु टाबत्र सुपः परो न भवति । तथाहि — एतच्छब्दस्य टेः प्राक् 'अव्ययसर्वनाम्नाम्' इत्यकचि, एतकच्छब्दात्सौ 'तदोः सः सौ' इति तकारस्य सत्वे, 'आदेशप्रत्यययोः' इति षत्वे, त्यदाद्यत्वे, पररूपे, स्त्रियाभादन्तत्वाट्टापि, सवर्णदीर्घे, हल्ङ्यादिलोपे, एषकेति रूपम् । ततो न एषकेति विग्रहे नञ्चच्पुरुषे कृते, 'नलोपो नञः' इति नञो नकारस्य लोपे,तस्मान्नुडची॑ति नुटि, अनेषकेति रूपम् । तथा परमा एषकेति कर्मधारये, परमैषकेति रूपम् । अत्र सौ परे प्रवृत्तत्यदाद्यत्वसिद्धमदन्तत्वामाश्रित्य प्रवृत्तष्टाप्कथं सुपः परः स्यात् । नच नञ्तत्पुरुषे सोः सामासिके लुकि सति, सत्वत्यदाद्यत्वटाब्निवृत्तौ, समासात्पुनः सौ, सत्वत्यदाद्यत्वटाप्सु कृतेषु, भल्ङ्यादिलोपे, अनेषकेत्यत्र समासात्प्राक् प्रवृत्तात्सुपः पर एव टाबिति वाच्यं, सामासिकलुगपेक्षया हल्ङ्यादिलोपस्यैवान्तरङ्गत्वात्प्रवृत्तेः । ततश्च लुप्तेषपि सौ प्रत्ययलक्षणसत्त्वेन निमित्तानपायात्पूर्वप्रवृत्तसत्वत्यदाद्यत्वटापां निवृत्तिर्नास्ति । सच टाप्न सुपः पर इति चेत्, अत्र ब्राऊमः अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाध्ते॑ इति परिभाषयासुपो धातुप्रातिपदिकयोः॑ इति सुब्लुग्विषयेऽन्तरङ्गोऽपि हल्ङ्यादिलोपो न प्रवर्तते । अतो राजकुमारीत्यादौ श्रूयमाणे एव सुपि समासः प्रवर्तते । एवंच गोमान् प्रियो यस्य स गोमत्प्रिय इत्यत्र गोमच्छब्दात्सोर्लुका लुप्तत्वादुगितचामिति नुमुपधादीर्घादिकं नेतिप्रत्ययोत्तरपदयोश्चे॑ति सूत्रभाष्ये स्थितम् ।कृत्तद्धिते॑ति सूत्रे प्रौढमनोरमायां परिष्कृतमेतत् । एवंच नञ् सु ए तरद् सु इति स्थिते, नञ्तत्पुरुषे कृते,अन्तरह्गानपी॑ति न्याय#एन त्यदाद्यत्वप्रवृत्तेः प्रागेव सामासिकलुकि, अनेतकच्छब्दात् समासात्पुनः सौ, सत्वे, त्यदाद्यत्वे, पररूपे, टापि, सवर्णदीर्घे, सोर्हल्ङ्यादिलोपे, अनेषकेति भवति । अत्र सवर्णदीर्घप्रवृत्तेः प्राक्समासात्पूर्वोत्पन्नसुपः पर एव टाब्भवतीत्यास्तां तावत् । अद्वके इति । न सु द्वकि औ इति स्थिते, नञ्तत्पुरुषेअन्तरङ्गानपी॑ति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेव समासे औङो लुकि कृते, अद्वकिशब्दात्समासात्पुनरौङि, त्यदाद्यत्वे, पररूपे, टापि, औङश्शीभावे, आद्गुणे, अद्वके इति भवति । अत्रापि समासात्पूर्वोत्पन्नादौङः सुपः पर एव टाबिति भावः । एवं परमद्वके इत्यत्रापि ।स्यादेतत् — आत्मात्मीयज्ञातिधनवाची स्वशब्दः । तत्र ज्ञातावात्मनि च पुंलिङ्ग एव, आत्मीये तु विशेष्यनिघ्नः स्त्रीलिङ्गः । धने तु पुंनपुंसकलिङ्गः,स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने॑ इति कोशात् । यदा तु स्त्रीव्यक्तिविशेषस्य स्वशब्दः संज्ञा तदापि स्त्रीलिङ्गः । तत्रस्वमज्ञातिधनाख्याया॑मित्युक्तेः ज्ञातिधनवाचित्वे सर्वनामत्वं नास्ति । आत्मात्मीयवाचिन एव सर्वनामता, साप्यनुपसर्जनस्यैव भवति,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इत्युक्तेरिति स्थितिः । तत्रात्मीयायां वाच्यायां सर्वनामत्वादकचि, टापि,प्रत्ययस्था॑दिति नित्यमित्त्वे, स्विकेत्येवष्यते । तत्तु न युज्यते । 'भस्त्रैषा' इत्यादिना इत्त्वविकल्पस्य दुर्वारत्वात् । नचात्र अकजकारस्य आत्स्थानिकत्वाभावान्नायमित्त्वविकल्प इति वाच्यम्,एषामत इद्वा स्या॑दिति विवरणवाक्ये आतः स्थाने इत्यनुवृत्तेरदर्शनादित्यत आह — स्वशब्दग्रहणं संज्ञोपसर्जनार्थमिति । स्वशब्दस्य संज्ञाभूतस्य सर्वनामत्वाऽभावादकजभावे, स्त्रियां टापि, सौ कृते,स्वार्थिककप्रत्यये, उक्तरीत्या अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते॑ इति परिभाषया हल्ङ्यादिल#ओपं बाधित्वा प्रातिपदिकावयवत्वात्सोर्लुकि, केऽणः॑ इति ह्रस्वेः कप्रत्ययान्तात्पुनष्टापि, स्वकाशब्दः । निर्गता स्वस्या इति विग्रहेनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑ इति समासे सुब्लुकिं, 'गोस्त्रियोः' इति ह्रस्वे, टापि, सुपि, स्वार्थिके कप्रत्यये,केऽणः॑इति ह्रस्वे, पुनष्टापि, निःस्वकाशब्दः । एतद्द्वयमेव 'भस्त्रैषा' इति स्वशब्दस्य उदाहरणम् । आत्मीयायां तु स्वशब्दो न संज्ञाभूतः, नाप्युपसर्जनीभूत इति नोदाहरणमित्यर्थः । कुत इत्यत आह — इह हीति । इह 'भस्त्रैषा' इति सूत्रेउदीचा॑मिति पूर्वसूत्रादातः स्थाने इत्यनुवृत्तं, तच्च स्वशब्दस्यैव अतो विशेषणम् । एवं चस्वशब्दस्य आत्स्थानिकस्य अत इद्वा स्या॑दिति लभ्यते । एतद्विशेषविवक्षयैवएषामत इद्वा स्या॑दिति विवरणवाक्ये 'आतः स्थाने' इत्यस्यानुवृत्तिर्न प्रदर्शितेति भावः । नतु द्वैषयोरिति । द्वा एषा इत्येतयोस्तु विषये आतः स्थान इति न संबध्यत इत्यर्थः । कुत इत्यत आह — असंभवादिति । एषा द्वेति सर्वाद्यन्तर्गणत्वदादित्वप्रयुक्तसत्वात्वनिर्देशेन सर्वनामत्वावश्यकत्वादकच् । तदकारस्य आत्स्थानिकत्वस्याऽप्रसक्तेरित्यर्थः । नाप्यन्येषामिति । भस्त्राजाज्ञाशब्दानामपि आतः स्थान इति विशेषणं नेत्यर्थः । कुत इत्यत आह — अव्यभिचारादिति । भस्त्राऽजाज्ञाशब्दानां सर्वनामत्वाऽभावेनाकजनर्हतया कप्रत्ययान्ततया तेषु 'केऽणः' इति ह्रस्व संपन्नस्य अत आत्स्थानिकत्वनियमेन तद्विशेषणवैयथ्र्यादित्यर्थः । नन्वातः स्थाने इत्यनुवृत्तं स्वशब्दस्य अतो विशेषणमस्तु, तावता आत्मीयायां स्विका इत्यत्र इत्त्वविकल्पशङ्कायाः किमायातमित्यत आह — स्वशब्दस्त्विति । अनुपसर्जनात्मीयवाची स्वशब्दस्तु सर्वनामत्वादकजर्हः । अतस्तदकारस्य आत्स्थानिकत्वाऽभावान्न प्रकृतसूत्रेणेत्त्वविकल्पशङ्का, किं तुप्रत्ययस्था॑दिति नित्यमेव इत्वमित्यर्थः । ननु स्वशब्दस्य आत्मात्मीयज्ञातिधनवाचिन आत्मीयायामुदाहरणत्वाभावेऽपि आत्मज्ञातिधनवाचिनस्तस्य उदाहरणत्वसंभवात्स्वशब्दग्रहणं संज्ञोपसर्जनार्थमित्यनुपपन्नमित्यत आह — अर्थान्तरे तु न स्त्रीति । आत्मज्ञातिधनेषु स्वशब्दो न स्त्रीलिङ्गः । उदाहृतकोशरीत्या आत्मज्ञातिवाचिनः स्वशब्दस्य नित्यपुंलिङ्गत्वाद्धनवाचिनस्तस्य पुंनपुंसकलिङ्गत्वाच्चेत्यर्थः । तथा च 'टापि परे' इत्यस्याऽभावान्नोदाहरणत्वप्रसक्तिः ।प्रत्ययस्था॑दित्यत आपीत्यनुवृत्तेरिति भावः । इदमुपलक्षणम्, आत्मनि वाच्ये स्वशब्दस्य सर्वनामत्वेन अकजर्हतया तदकारस्य आत्स्थानिकत्वाऽभावाच्चेत्यपि द्रष्टव्यम् । ननु संज्ञोपसप्जनीभूतस्यापि स्वशब्दस्य कथमुदाहरणत्वम्, तस्याप्यकचि तदकारस्य आत्स्थानिकत्वाऽभावादित्यत आह — संज्ञोपसर्जनीभतस्त्विति । संज्ञोपसर्जनीभूतस्य स्वशब्दस्य असर्वनामतया अकजनर्हत्वेन स्वाशब्दात्सुबन्तात्स्वार्थिके कप्रत्यये, सुब्लुकि पुनष्टापि, 'केऽणः' इति ह्रस्वापन्नस्याऽत आत्स्थानिकतया भवत्युदाहरणत्वमित्यर्थः । नचान्तर्वर्तिसुपः परष्टाबिति शङ्क्यं, केन व्यवधानादिति भावः । तदेवं 'भस्त्रैषा' इत्यत्र 'आतः स्थाने' इत्यनुवृत्तस्य स्वशब्देऽन्वयलाभात्स्वशब्दावयवस्य आत्स्थानिकस्य अत इद्वा स्यादिति लब्धम्, तस्य प्रयोजनमाह — एवं चेति । उक्तरीत्या स्वशब्दे आत्स्थानिकस्यैवाऽत इत्त्वविकल्पलाभादात्मीयायां स्वशब्दस्य सर्वनामत्वादकचि तदकारस्य आत्स्थानिकत्वाऽभावादित्त्वविकल्पाऽप्रवृत्तौप्रत्ययस्था॑दिति नित्यमेवेत्त्वमित्यर्थः । तदेवं प्रत्युदाहणान्युक्त्वा उदाहरणान्याह — निर्भस्त्रकेत्यादि । भस्त्राया निष्क्रान्तेति विग्रहेनिरदयः क्रान्ताद्यर्थे॑ इति समासे, 'गोस्त्रियोः' इति ह्रस्वत्वे, पुनष्टापि, समासात्सौ, कप्रत्यये, 'केऽणः' इति ह्रस्वे, निर्भस्त्रकशब्दात्पुनष्टापि, सवर्णदीर्घे, निर्भस्त्रकाशब्दः । तत्रप्रत्ययस्था॑दिति नित्यमित्त्वे प्राप्तेऽनेनेत्त्वविकल्पे निर्भस्त्रिका निर्भस्त्रकेति रूपद्वयम् । केन व्यवधानान्न सुपः परष्टाबिति भावः । एषका एषिकेति । अकचि एतकच्छब्दात्सुः । 'तदोः सः सौ' इति सत्वं, षत्वं, त्यदाद्यत्वं, पररूपं, टाप् । 'प्रत्ययस्थात्' इति नित्यमित्त्वं बाधित्वा इत्त्वविकल्प इति भावः । नन्वकचि एतकच्छब्दात्स्त्रियामौजसादिषु एतिके एतिका इत्यादौ नित्यमित्त्वमिष्यते । तद्बाधित्वाऽनेन इत्त्वविकल्पः स्यादित्य आह — कृतषत्वेति ।भस्त्रैतज्ज्ञास्वा॑ इति वक्तव्ये एषेति कृतषत्वनिर्देशादौजसादिषु षत्वाऽभावान्नेत्त्वविकल्प इत्यर्थः । अजका अजिकेति । अजाशब्दात्कः, ह्रस्वः, पुनष्टाप्, सवर्मदीर्घः, इत्त्वविकल्पः । ज्ञका ज्ञिकेति । ज्ञाधातोःइगुपधज्ञाप्रीकिरः कः॑ इति कः,आतो लोप इटि चे॑त्याल्लोपः । स्त्रियामदन्तत्वाट्टाप्, सवर्णदीर्घः । ज्ञाशब्दात्सुबन्तात्कः, सुब्लुक्, 'केऽणः' इति ह्रस्वः, पुनष्टाप्, सवर्णदीर्घः, इत्त्वविकल्प, औङश्शी, आद्गुणः ।निःस्वका नि#ःस्विकेति । स्वस्याः निष्क्रान्तेति विग्रहः । 'निरादयः' इति समासः । उपसर्जह्रस्वः, टपा, सुपि कः, सुब्लुक्, कप्रत्ययान्तात्पुनष्टापि सवर्णदीर्घः, इत्त्वविकल्प इति भावः ।", "73048": "<<अभाषितपुंस्काच्च>> - अभाषितपुंस्काच्च । 'उदीचामातः स्थाने' इत्यनुवर्तते, अत इदिति च । अभाषितः पुमान्येनेति विग्रहः । विहितस्येत्यध्याहार्यम् । तदाह — एतस्मादिति । अभाषितपुंस्कादित्यर्थः । अयकपूर्वार्थं वचनम् । गङ्गका । गङ्गिकेति । गङ्गाशब्दात्कः । 'केऽणः' इति ह्रस्वः, इत्त्वविकल्पः । विहितविशेषणस्य फलमाह — बहुव्रीहिरिति । अविद्यमाना खट्वा यस्या इति विग्रहेनञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहौ कृते, विद्यमानपदलोपे, नञो नलोपे 'शेषाद्विभाषा' इति कबभावपक्षे, 'गोस्त्रियोः' इति ह्रस्वे, अखट्वशब्दाट्टापि, सुपि अज्ञातादौ के, सुब्लुकि, 'केऽणः' इति ह्रस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतः स्थाने अतोऽभावान्नेत्त्वविकल्पः । किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमित्यर्थः ।अभाषितपुंस्कात्परस्ये॑ति व्याख्याने तु तादृशखट्वशब्दात्परस्य आतः स्थाने अतः सत्त्वादित्त्वविकल्पः स्यादिति भावः । शैषिके कपि त्विति । न स् खट्वा स् इत्यवस्थायां कपि सुब्लुक् । प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात्नञोऽस्त्यर्थाना॑मिति बहुव्रीहिसमासः । 'समासान्त' इत्यन्वर्थसंज्ञाबलात्कबन्तस्यैव समासत्वम् । ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्रातिपदिकत्वाऽभावात् 'गोस्त्रियोः' इति ह्रस्वो न भवति । नापि 'केऽणः' इति ह्रस्वः,न कपी॑ति निषेधात् । किंतुआपोऽन्यतरस्या॑मिति ह्रस्वविकल्पः । तत्र खट्वाशब्दाद्विहितस्य कपः प्राग्वर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वेन तत्स्थानिकह्रस्वाकारस्यायमित्त्वविकल्पो भवत्येवेत्यर्थः ।आपोऽन्यतरस्या॑मिति ह्रस्वाऽभावपक्षे तु अखट्लाकेत्येव बोध्यम् ।", "73049": "<<आदाचार्याणाम्>> - आदाचार्याणां । पूर्वसूत्रविषय इति । अभाषितपुंस्काद्विहितस्यातः स्थाने अत इत्यर्थः । शुभ्रिकेति । शुभ्रशब्दो विशेष्यनिघ्नोऽनियतलिङ्गः । ततः स्त्रियां टापि शुभ्राशब्दात्कः । 'केऽणः' इति ह्रस्वः, पुनष्टाप् । अत्र कात्पूर्ववर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वाऽभावात्तत्स्थानिकस्याऽतो नेत्वविकल्पः । किं तुप्रत्ययस्था॑दिति नित्यमित्वमित्यर्थः । अनुपसर्जनादित्यधिकारस्य उत्तरावधिमाह — यूनस्तिरित्यभिव्याप्येति । 'यूनस्तिः' इत्यत्राप्ययमधिकारो नतु ततः प्रागित्यर्थः । अत्र च व्याख्यानमेव शरणम् । अत्र यद्वक्तव्यं तत् 'यूनस्तिः' इत्यत्र वक्ष्यते । ननु बहवः कुरुचरा यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा इत्यादिषु उपसर्जनेषुकुरुचरनदादिशब्देभ्यःटिड्ढाणञि॑त्यादिना विधीयमानानां ङीबादिप्रत्ययानां प्रसक्तिरेव नास्ति, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह — अयमेवेति । अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीत्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्फलं तुवनो र चे॑त्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम् । ननु स्त्रीप्रत्ययेषु तदन्तविध्यभावेऽपि नद इवाचरति नदा स्त्रीत्यादिषु आचारक्विबन्तप्रकृतिककर्तृक्विबन्तेषु ङीबादिनिवृत्तये अनुपसर्जनाधिकारस्यावस्यकत्वात्कथं तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापकतेति चेत्, न, अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्विबन्तप्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम् ।", "73050": "<<ठस्येकः>> - ठस्येकः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । तदाह — अङ्गात्परस्य ठस्येति । ठकारस्येत्यर्थः । रैवतिक इति । रेवत्या अपत्यमिति विग्रहः । ठकि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इकोऽदन्त आदेशः । अङ्गात्किम् । कर्मण इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अङ्गसंबन्धिठस्येति व्याख्याने कर्मठ इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इकादेशमासङ्ख्य अङ्गसंज्ञानिमित्तं यष्ठकारस्तस्ये को भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्यय इकति विज्ञायते ।ठस्येति सङ्घातग्रहण॑मित्यपि भाष्ये स्थितम् । अस्मिन्पक्षे ठकि अकार उच्चारणार्थो न भवति, सङघात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम् ।", "73051": "<<इसुसुक्तान्तात् कः>> - इसुसुक्तान्तात्कः । इसुसुक्ता अन्ता यस्येति विग्रहः । तकारादकार उच्चारणार्थः । ठस्य कः स्यादिति । ठकि ककार इत् । अकार उच्चारणार्थः, ठकारस्य शिष्यस्य ककार आदेश इति 'ठस्येकः' इत्यत्रोक्तम् ।आयती॑त्यस्य विवरणम् — वर्धते इति ।टु ओ इआ गतिवृद्ध्योः॑ इति धातुरिह वृद्धयर्थक इति भावः । उदइआदिति । क्विपि तुक् ।उदकस्योदः संज्ञाया॑मित्युदादेशः ।तक्रं हृदुइआन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्, इत्यमरः । प्रतिपदोक्तयोरिति । इत्त्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्कः, धानुष्क इति । आशिषिक इति ।चरती॑ति ठक् । शासुधातो क्विपि 'आशासः क्वौ' इत्युपधाया इत्त्वम् । उषा चरति औषिक इति । वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्त्य", "73052": "<<चजोः कु घिण्ण्यतोः>> - चजोः कु । 'कु' इत्यविभक्तिको निर्देशः । चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न,तेन रक्तं रागा॑दित घञि जस्य कुत्वनिर्देशात् ।", "73053": "", "73054": "<<हो हन्तेर्ञ्णिन्नेषु>> - हो हन्तेः । 'हः' इति स्थानषष्ठी,हन्ते॑रित्यवयवषष्ठी । ञ् च ण् च ञ्णौ । तौ इतौ ययोस्तौ ञ्णितौ । इच्छब्दः प्रत्येकं सम्बध्यते । ञ्णितौ च नश्च ञ्णिन्नाः, तेष्विति विग्रहः । अङ्गाधिकारात्प्रत्ययत्वं ञ्णितोर्लभ्यते ।चजोः कु घिण्यतो॑रित्यतः कुग्रहणमनुवर्तते । तदाह — ञितीत्यादिना ।हन्ते॑रिति श्तिपा निर्देशः । हन्धातोरित्यर्थः । प्रकृते हकारस्य नकारपरत्वात्कुत्वम् । तत्र घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थो घकारः । वृत्रघ्नः वृत्रघ्ना इत्यादि सिद्धम् ।", "73055": "<<अभ्यासाच्च>> - अभ्यासाच्च ।हो हन्ते॑रित्यनुवर्तते ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणं च । तदाह — अभ्यासात्परस्येत्यादिना । जघनिथ जघन्थेति । इडभावे नस्याऽनुस्वारपरसवर्णौ । जघ्नथुः । जघ्न । जघान — जघन, जघ्निव जघ्निम । लृटि स्ये इण्निषेधमाशङ्क्याह — ऋद्धनोरिति । हन् हि इति स्थिते 'हुझल्भ्यः' इति धित्वे प्राप्ते — ।", "73056": "<<हेरचङि>> - हेरचङि । 'चजोः' इति सूत्रात्कुग्रहणमनुवर्तते ।अभ्यासाच्चे॑त्यतोऽभ्यासादिति ।हो हन्ते॑रित्यतो ह इति षष्ठन्तमनुवर्तते । तदाह — अभ्यासात्परस्येति । जिघायेति । जिघ्यतुः । जिघयिथ — जिघेथ । जिघ्यिव । आप्लृ व्याप्तौ । अनिट् । आप्नुवन्तीति । संयोगपूर्वकत्वादेवउतश्च प्रत्यया॑दिति हेर्न लुक् । शक्लृ शक्ताविति । शक्नोति । शशाक । शेकतुः । शशक्थः शेकिथ । शेकिव.शक्ता । शक्ष्यति । अशकदिति । लृदित्त्वादङ् । राध साध संसिद्धौ । अनिटौ । दीर्घाकारवत्त्वात्अत एकह॑लिकत्यप्राप्तावाह —", "73057": "", "73058": "<<विभाषा चेः>> - विभाषा चेः ।चजोः कुघिम्ण्यतो॑रित्यतः कुग्रहणमनुवर्तते ।अभ्यासाच्चे॑त्यतोऽभ्यासादिति,सन्लिटोर्जे॑रित्यतः संन्लिटोरिति च । तदाह — अभ्यासादित्यादिना । स्तृञ् आच्छादने इति । अनिट् । लिटि तस्तार । अतुसादौऋतश्च संयोगादेर्गुणः॑ इति गुणः । वृद्धिविषयेऽपि परत्वादस्य प्रवृत्तिः । तस्तरतुः । ऋदन्तत्वात्थल्यपि नित्यंनेट् । तस्तर्थ.तस्तरिव । तस्तरे तस्तराते तस्तरिते । तस्तरिषे । तस्तरिवहे । स्तर्ता ।ऋद्धनोः स्ये॑ ।स्तरिष्यति । आशीर्लिङि परस्मैपदे यासुटः कित्त्वाद्गुणनिषेधे प्राप्ते आह — गुणोर्तीति गुण इति । तङि आशीर्लिङि स्तृ- षीष्ट इति स्थिते -", "73059": "<<न क्वादेः>> - न क्वादेः । कुः आदिर्यस्येति विग्रहः । 'चजो कुः' इत्यनुवर्तते । तदाह — क्वादेरिति । कवर्गादेरित्यर्थः । वार्तिककारस्त्वित ।चजोः कु घिण्ण्यतोः॑ इति सूत्रे 'निष्ठायामनिटः' इति पूरितम् । तथा च निष्ठायां योऽनिट् तद्धात्ववयवयोश्चजोः कुः॑ स्याद्धिति ण्यति चेत्यर्थः फलति । तथान क्वादे॑रिति सूत्रम्अजिव्रज्योश्चे॑ति सूत्रंयजयाचरुचप्रवचर्चश्चे॑त्यत्र याचरुचग्रहणं च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः । किं तत इत्यत आह — तेनेति । सूत्रमते अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात्, 'न क्वादेः' इति निषेधस्य तत्राऽप्रवृत्तेरिति भावः । तदेवं सूत्रमतेऽतिव्याप्तिमुक्त्वा अव्याप्तिमाह — ग्रुचुरग्लुञ्चुप्रभृतीनामिति । तेषां कवर्गादित्वे ।ञपि ण्यति ग्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव, वार्तिकमतेन क्वादे॑रिति निषेधस्य प्रत्यख्यातत्वात्, सूत्रमते तुन क्वादे॑रिति निषेधात्ग्रोक्य॑मित्यादौ कुत्वमिष्टं स्यादित्यव्याप्तिरित भावः । नन्विदं वार्तिकं विपरीतफलमपि संमतत्वाद्ग्राह्रमेव, विरोधे विकल्पसय् वक्तुं शक्यत्वादिति शङ्कते — सूत्रमते तु यद्यपीति । परिहरति — तथापीति । यथोत्तरमिति । अयं वैयकारणसमयः ।", "73060": "<<अजिवृज्योश्च>> - अजिव्रजय्श्चेत्यादि स्पष्टम् ।", "73061": "", "73062": "", "73063": "<<वञ्चेर्गतौ>> - वञ्चेर्गतौ । कुत्वं नेति । शेषपूरणमिदम् ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणस्य,न क्वादे॑रित्यतो नेत्यस्य चाऽनुवृत्तेरिति भावः ।", "73064": "", "73065": "<<ण्य आवश्यके>> - ण्य आवश्यके । कुत्वं नेति । शेषपूरणमिदम् । आवश्यकेऽर्थे यो ण्यस्तस्मिन् परेचजोः कु घिण्ण्यतो॑रिति कुत्वं नेत्यर्थः ।", "73066": "<<यजयाचरुचप्रवचर्चश्च>> - यजयाच । ण्ये कुत्वं नेति । शेषपूरणमिदम् । यज, या, रुच, प्रवच, ऋच् एषां द्वन्द्वात् षष्ठी । एषां ण्ये परेचजोः कु घिण्ण्यतो॑रिति कुत्वं नेत्यर्थः । ननु अच्र्यमित्यत् र कथं ण्यत्,ऋदुपधाच्चाऽकॢपिचृते॑रिति ऋदुपधत्वलक्षस्य ण्यदपवादत्वादित्यत आह — ऋदुपधत्वेऽपीति । त्यजिपूज्योश्चेति ।ण्ये कुत्वं ने॑ति शेषः ।", "73067": "<<वचोऽशब्दसंज्ञायाम्>> - वचोऽशब्दसंज्ञायाम् । वचधातोर्ण्ये कुत्वं न, शब्दसंज्ञां वर्जयित्वेत्यर्थः । वाच्यमिति । वस्त्विति शेषः ।अशब्दसंज्ञायामित्यस्य प्रयोजनमाह — शब्दाख्यायां तु वाक्यमिति ।एकतिङ् वाक्य॑मिति संज्ञाशब्दोऽयमिति भावः ।प्रवाच्य॑मित्यत्र तु ग्रन्थविशेषसंज्ञात्वेऽपि नायं कुत्वनिषेधस्य निषेधः,यजयाचे॑त्यत्र प्रवचेति विशिष्योपादनात्, असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात् । एतदभिप्रायेणैवप्रवाच्यं ग्रन्थविशेष॑ इत्युक्तं प्राक् ।", "73068": "<<प्रयोज्यनियोज्यौ शक्यार्थे>> - प्रयोज्यनियोज्यौ । शक्यार्थे ण्ये क्वुत्वाऽभावो निपात्यते ।शकि लिङ् चे॑ति कृत्यानां शक्यार्थेऽपि विहितत्वाण्ण्यदन्तस्य शक्यार्थकत्वमपि ।", "73069": "<<भोज्यं भक्ष्ये>> - भोज्यं भक्ष्ये । भक्ष्ये गम्ये ण्ये भुजेः कुत्वाऽभावो निपात्यते । इति प्रासङ्गिकम् । अथ प्रकृतम् — लपिदभिभ्यां चेति । वार्तिकमिदम्ऋहलोण्र्य॑दिति सूत्रस्थम् । 'पोरदुपधा' दिति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः ।", "73070": "", "73071": "<<ओतः श्यनि>> - ओतः श्यनि ।घोर्लोपो लेटि वे॑त्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लोपः स्यादिति । शशाविति । 'आदेच' इत्यात्त्वे णल औत्त्वमिति भावः । शशतुरिति । शशिथ — शशाथ । शशिव.शास्यतीति । श्यतु । अश्यत् । श्येत् । शायात् । लुङि सिचि विशेषमाह — विभाषा घ्रेति । सिचो लुक्पक्षे आह — अशादिति । 'आतःर' इति जुसिति मत्वा आह — अशुरिति । सिचो लुगभावे सगिटौ मत्वा आह — अशासीदिति । छोदातुरपि शोधातुवत् । षो अन्तकर्मणीति । समापने विनाशने वेत्यर्थः । शोधातुवद्रूपाणि । षोपदेशोऽयम् । स्यतीति ।ओतः श्यनी॑ति लोपः । अभिष्यतीति ।उपसर्गा॑दिति षत्वम् । अभ्यष्यदिति ।प्राक्सिता॑दिति षत्वम् । अभिससाविति ।स्थादिष्वि॑ति नियमान्न षः । दो अवखण्डने । प्रणिदातेति ।नेर्गदे॑ति णत्म् । देयादिति । आशीर्लिङिएर्लिङी॑त्येत्त्वम् । अदादिति ।गातिस्थे॑ति सिचो लुक् । अथात्मनेपदिन इति । 'वाशृ शब्दे' इत्यन्ता इत्यर्थः । जनी प्रादुर्भावे इति ।श्वीदितो निष्ठाया॑मित्याद्यर्थमीदित्त्वम् ।", "73072": "<<क्सस्याचि>> - अघृक्ष — आतामिति स्थिते 'आतो ङितः' इति इयादेशे प्राप्ते -क्सस्य । अचीत्यऽस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । 'घोर्लोपो लेटि वे' त्यतो लोप इत्यनुवर्तते । तदाह — अजादावित्यादिना । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति भावः । वस्तुतस्तुलुग्वा दुहदिहे॑त्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति चदादिविधिः । तेन दृसेः क्सप्रत्यये 'तादृक्षा' इत्यादौ नायं लोपः ।अजादौ तङी॑त्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति । अघृक्ष — आतामिति स्थिते क्साऽकारस्य लोपे अतः परत्वाऽभावात् 'आतो ङितः' इति इय् नेति भावः । अघृक्षन्तेति । झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाऽभावादतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न । कृते तु झोऽन्तादेशे क्सस्याकारलोपः पररूपं वा । ग्लह चेति । ग्ल्हधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति । उदुपधोऽयम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । यय्परकत्वाऽभावान्न परसवर्णः । तदाह — घुषत इति । सेक्टोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गताः । अथार्हत्यन्ताः परस्मैपदिन इति । 'ऊष्मान्ता' इति शेषः । तत्र तुस ह्यसेत्यतः प्राक् षान्ताः । घुषिरिति.इर् इत् । प्रतिज्ञानमिति ।वेदाः प्रमाण॑मित्याद्यभ्युपगम इत्यर्थः । ततोऽन्यस्मिन्निति । विशब्दनात् अन्यत् — अविशब्दनं, तस्मिन्नित्यर्थः । इरित्त्वादङ् वेति ।इरितो वेत्यनेने॑ति शेषः । अघुषदिति । अङो ङित्त्वान्न लघूपधगुणः । अघोषीदिति । अङभावपक्षे लघूपधगुणेइट ईटी॑ति सिज्लोपः । हलन्तलक्षणवृद्धेःनेटी॑ति निषेधः । अक्ष्धातुरूदित्त्वाद्वेट्कः ।", "73073": "<<लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये>> - लुङस्तङि विशेषमाह — लुग्वा दुह । दन्त्ये तङीति । दन्त्यादौ तङीत्यर्थः । प्रत्ययाऽदर्शनत्वात्सर्वादेशोऽयं लुक् । अगूढेति । अगुह् त इति स्थिते प्रक्रियां दर्शयति — ढत्वधत्वष्टुत्वढलोपदीर्घा इति । अघुक्षतेति । क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः । अघुक्षातामिति । च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाऽभावादूत्त्वाऽभावेढत्वभष्भावकत्वषत्वेषु कृतेषुक्सस्याची॑त्यन्तलोपे अतः परत्वाभावादातो ङित इति न भवतीति भावः । अघुक्षन्तेति । झस्य अजादित्वाऽभावात्तस्मिन्परे क्सस्य अन्त्यलोपाऽभावादतः परत्वाऽभावादात्मनेपदेष्वत इत्यदादेशो न भवति । कृते तु झोऽन्तादेशे क्सस्याऽन्तलोप इति भावः । अघुक्षथाः काघुक्षाथामघुक्षध्वम् । अघुक्षि । इति रूपाणि सिद्धवत्कृत्याह — अगुह्वहीति । दन्त्यादिप्रत्ययपरत्वत्क्सस्य लुङि अजादिप्रत्ययाऽभावादूत्त्वाऽभावे रूपम् । अघुक्षावहीति । क्स्लुगभावे ढत्वभष्भावकत्वषत्वानि, अतो दीर्घश्च । अघुक्षामहीति.दन्त्यादिप्रत्ययपरत्वाऽभावान्न क्सलुक् । इतिगूहत्यन्ताः स्वरितेतः । उभयपदिन इति । ञित्त्वादिति भावः । श्रिञ्धातुः सेट् । शिश्रियतुरिति । कित्त्वान्न गुणः । इयङ् शिश्रियुः । शिश्रयिथ शिश्रियथुः शिश्रिय । शिश्राय — शिश्रय, शिश्रियिव शिश्रियिम । शिश्रिये शिश्रियाते शिश्रियिरे । शिश्रयिषे शिश्रयाथे शिश्रियिढ्वे — शिश्रियिध्वे । शिश्रियेशिश्रियिवहे शिश्रयिमहे । श्रयितेति । श्रयिष्यति श्रयिष्यते । श्रयतु श्रयताम् । अश्रयत् अश्रयत । श्रयेत् । श्रीयात् । श्रयिषीष्ट । लुङि विशेषमाह — णिश्रीति । अशश्रियदिति ।चङी॑ति द्वित्वम् । अशिश्रियत । अश्रयिष्यत् अश्रयिष्यत । भृञ् धातुरनिट् । भरतीति । भरते इत्यपि ज्ञेयम् । बभ्रतुरिति । कित्त्वान्न गुणः । यण् । बभ्रुः । थलादौ 'एकाचः' इति नेट्, कृसृभृवृस्तुद्रुरुआउश्रुषु लिटपि तन्निषेधस्य प्रवृत्तेः । थलिअचस्तास्व॑दिति निषेधाच्च, ऋदन्तेषु भारद्वाजमतेऽपि थलि निषेधाच्च । तदाह — बभर्थेति । बभ्रथुः बभ्र । बभार-बभर । इति सिद्धवत्कृत्याह — बभृवेति । बभृम । बभ्रे बभ्राते बभ्रिरे । इति सिद्धवत्कृत्याह — बभृषे इति । बभ्राथे बभृढ्वे । बभ्रे बभृवहे बभृमहे ।", "73074": "<<शमामष्टानां दीर्घः श्यनि>> - शमामष्टानाम् । स्पष्टम् । बहुवचनाच्छमादिग्रहणम् । तदाह — शमादीनामिति ।शमस्तमुर्दमुरथ श्रमुभ्र्रमुरपि क्षमुः । क्लमुर्मदी चेत्येतेऽष्टौ शमादय इति स्थितिः ।॑ दमु उपशमे इति । ननु 'शमु यमु उपशमे' इत्येव पठितुं युक्तमित्यत आह — उपशम इति ण्यन्तस्येति । शमधातोर्हेतुमण्ण्यन्ताद्धञिनोदात्तोपदेशस्ये॑ति वृद्ध्यभाव इत्यर्थः । ततः किमित्यत आह — तेनेति । ततश्च् दाम्यतीत्यस्य शमयतीत्यर्थः । शेषं भ्वादिवदिति । आर्धधातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः । क्षमु सहने । ऊदित्त्वात्थलि वमादौ च इड्विकल्पः । तदाह - चक्षमितेत्यादि । षित्त्वाऽषित्त्वयोः फलभेदं श्लोकार्द्धेन संगृह्णाति — अषित इति । अषितः क्षाम्यतेः — श्यन्विकरणपठितस्य क्षमधातोः क्तिनि क्षानतिरिति रूपम् । अषित्त्वात् 'षिद्भिदादिभ्यः' इत्यङ्नाक्,मूषस्तु भौवादिकात् षित आत्मनेपदे शपि क्षपि परे इव श्यनि परेऽपि दीर्घसिद्धेः । न चष्ठिवुक्लमुचमांशिती॑त्यत्रैव क्लमुग्रहणं त्यज्यतामितिवाच्यं, शपि दीर्घार्थं तस्यावश्यकत्वादित्यशङ्क्य परिहरति — शपीव श्यन्यपीत्यादि, घिनुणर्थ इत्यन्तम् ।शमित्यष्टाभ्यो घिनु॑णिति विधानादिति भावः । शमादय इति । 'शमु उपशमे' इत्यारभ्य 'मदी हर्षे' इत्यन्ता अष्टौ शमादयो वृत्ता इत्यर्थः । असु क्षेपणे ।", "73075": "<<ष्ठिवुक्लम्याचमां शिति>> - ष्ठिवुक्लम्वाच ।शमामष्टानां दीर्घः श्यनी॑त्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या अच इत्युपस्थितम् । तदाह — — एषामचो दीर्घ इति । ष्टिवु क्लमु आचम् एषां द्वन्द्वः । आचमित्यनेन आङपूर्वकस्य चमेग्र्रहणम् । अचमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । क्रमु पादेति । उदित्त्वमुदितो वेति विकल्पार्थम् ।", "73076": "<<क्रमः परस्मैपदेषु>> - क्रमः । दीर्घः स्यादिति ।शमामष्टाना॑मित्यतस्तदनुवृत्तेरिति भावः । शितीति ।ष्ठिवुक्लम्वाचमा॑मित्यतस्तदनुवृत्तेरिति भावः । क्रामत्विति । मध्यमपुरुषैकवचने क्रमेत्यत्र तुक्रमः परस्मैपदेष्वि॑ति दीर्घो भवत्येव । नच दीर्घस्याङ्गाधिकारस्थत्वान्नलुममेति निषेधः शङ्क्यः, लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव तस्य प्रवृत्तेः । शिति परतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यं, किंतु शिति परे अङ्गस्य कार्यमिति बोध्यम् ।", "73077": "<<इषुगमियमां छः>> - इषुगमि । शितीति ।ष्ठिवुक्लमुचमा॑मित्यतस्तदनुवृत्तेरिति भावः । उदिन्निर्देशात्तौदादिकस्य इषेग्र्रहणम् । अत्राऽचीत्यनिवर्त्त्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम् । एवं चात्र सूत्रे, तुदादौ च उदित्पाठोऽनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति । शपि मकारस्य छकारः । जग्मतुरिति ।गमहने॑त्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट् । तदाह — जगमिथ जगन्थेति । जग्मथुः जग्म । जगाम — जगम जग्मिव जग्मिम । क्रादिनियमादिट् ।", "73078": "<<पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः>> - लटि शपि सद् अ तीति स्थिते -पाघ्राध्मा । पा घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति शद् सद् एषां द्वन्द्वात् षष्ठीबहुवचनम् । पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद एषां द्वन्द्वात् प्रथमाबहुवचनम् । यथासङ्ख्यमादेशाः ।ष्ठिवुक्लमु॑इत्यतः शितीत्यनुवर्तते । श् चासौ इच्चेति कर्मधारयः ।अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । तदाह — इत्संज्ञकेति । ससादेरिति । इत्संज्ञकशकारादिप्रत्ययाऽभावान्न सीदादेशः । श् इत् यस्य स शित् । शितीति बहुव्रीह्राश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे 'पपे' इत्यत्रापि पिबादेशः स्यादिति बोध्यम् । थलि क्रादिनियमप्राप्तस्य इटः 'उपदेशेऽत्त्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे 'थलि च सेटी' त्येत्त्वाभ्यासलोपौ । तदाह — सेदिथ ससत्थेति । सेदिव सेदिम । क्रादिनियमादिट् । न्यषीददिति ।प्राक्सितादड्व्यवायेऽपि॑ति षत्वम् ।", "73079": "<<ज्ञाजनोर्जा>> - ज्ञाजनोर्जा । शितीति ।ष्ठिवुक्लमुचमा॑मित्यतस्तदनुवृत्तेरिति भावः । जायते इति । ज्ञाधातोस्तुश्नविकरणत्वाज्जानातीत्युदाहरणम् । उभयत्रापि जादेशस्य ह्रस्वान्तत्वेअङ्गकार्ये कृते पुनर्नाङ्गकार्य॑मिति परिभाषया 'अतो दीर्घो यञी' त्यप्रप्तर्जार्देशस्य दीर्घान्तत्वमाश्रितम् । जज्ञे इति ।गमहने॑त्युपधालोपे नस्य श्चुत्वेन ञः । जायेत ।जनिषीष्ट । लुङि अजन् त इति स्थिते आह — दीपेति । वा चिणिति ।च्ले॑रिति शेषः । अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् —", "73080": "<<प्वादीनां ह्रस्वः>> - प्वादीनां ह्रस्वः। ष्ठिवुक्लमुचमाम् इत्यतः शितीत्यनुवर्तत इत्यभिप्रेत्य शेषं पूरयति– शिति परे इति। पवितेति। ऊकारान्तत्वात् सेड् इति भावः। स्तॄञ् आच्छादने। सेट्। तस्तरतुरिति। कित्त्वेऽपि ‘ऋच्छत्यॄताम्’ इति गुणः। स्तरिता स्तरीतेति। ‘वॄतो वा’ इति दीर्घविकल्पः। आशिषि स्तीर्याद् इति। ‘ॠत इद्धातो’रिति इत्त्वे रपरत्वे ‘हलि चे’ति दीर्घः। स्तॄ षीष्ट इति स्थिते आह– लिङ्सिचोरिति वेड् इति। ‘वॄतो वा’ इति दीर्घविकल्पनिषेधसूत्रं स्मारयति– न लिङीति। वॄत इटो दीर्घो नेत्यर्थः। इडभावपक्षे स्तॄषीष्टेत्यत्र गुणम् आशङ्क्याह– उश्चेति कित्त्वम् इति। लुङि परस्मैपदे सिचि अस्तारिष्टाम् इत्यत्र ‘वॄतो वे’ति इटो दीर्घविकल्पे प्राप्ते आह– सिचि चेति। अस्तरीष्ट अस्तरिष्टेति। ‘वृतो वे’ति दीर्घः। अस्तीर्ष्टेति। ‘लिङ्सिचो’रिति इडभावपक्षे ॠत इत्त्वे ‘हलि चे’ति दीर्घ इति भावः। कॄञ् हिंसायाम्। चकरे इति। ‘ऋच्छत्यॄताम्’ इति गुणः। वॄञ् वरणे इति। आशिषीति। वॄ यात् इति स्थिते ‘उदोष्ठपूर्वस्ये’ति ॠकारस्य उत्त्वम् इत्यर्थः, तत्र दन्त्योष्ठपूर्वस्यापि ग्रहणाद् इति भावः। ॠत उत्त्वे रपरत्वे ‘हलि चे’ति दीर्घ इति बोद्ध्यम्। वरिषीष्ट वूर्षीष्टेति। ‘लिङ्सिचो’रिति वेट्। इडभावे ‘उश्चे’ति कित्त्वाद् गुणाभावे उत्त्वे रपरत्वे ‘हलि चे’ति दीर्घ इति भावः। अवारिष्टाम् इति। ‘सिचि चे’ति इटो न दीर्घ इति भावः। अवरिष्ट अवरीष्टेति। ‘वॄतो वा’ इति सिच इटो दीर्घविकल्प इति भावः। दुधविथ, दुधोथेति। ‘स्वरतिसूतिसूयतिधूञूदित’ इति वेडिति भावः। शॄ हिंसायाम्। सेट्। णलि– शशार। शॄ अतुस् इत्यत्र कित्त्वेऽपि ‘ऋच्छत्यॄताम्’ इति नित्ये गुणे प्राप्ते आह– शॄदॄप्राम् इति। गुणाऽपवादे पाक्षिके ह्रस्वे कृते ॠकारस्य यणि रेफ इत्यर्थः। शशरिथ। पॄधातुरपि शॄधातुवत्। आशिषि पूर्यादिति। ‘उदोष्ठ्यपूर्वस्ये’त्युत्वम् इति भावः। दॄ विदारणे। ‘शॄदॄप्राम्’ इति ह्रस्वविकल्पं मत्वाह– ददरतुः दद्रतुरिति। ॠ गतौ। अरांचकारेति। व्यपदेशिवत्त्वेन गुरुमत्त्वाद् आम्। लङ्याह– आर्णादिति। ज्या वयोहानौ। अनिट्। ज्या ना तीति स्थिते ‘ग्रहिज्ये’ति सम्प्रसारणे पूर्वरूपे च जिनातीति स्थिते–", "73081": "", "73082": "<<मिदेर्गुणः>> - ॒मिमिदे॑ इत्यत्र लिटःअसंयोगा॑दिति कित्त्वेऽपि गुणं शङ्कितुमाह — मिदेर्गुणः ।मिदे॑रित्यवयवषष्ठी । गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते,ष्ठिवुक्लमुचमां शिति॑ इत्यतः शितीत्यनुवर्तते । श् चासाविच्चेति कर्मधारयः । तेन च अधिकृताऽङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधिः । इत्संज्ञशकारादौ प्रत्यये परे इति लभ्यते । तदाह — मिदेरित्यादिना । दैवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम् । श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाऽभावार्थमित्संज्ञकशाकारादाविति व्याख्येयमित्यभिप्रेत्याह — एश आदिशित्त्वाभावादिति । ञिष्विदेति । षोपदेशोऽयम् । अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीतौ चेति । अभिप्रीतिः- प्रीतिविषयीभवनम् । दीप्तौ उदाहरत — रोचते सूर्य इति । प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति — हरये रोचते भक्तिरिति । भक्तिर्हर्याश्रितप्रीतिविषयो भवतीत्यर्थः ।रुच्यर्थाना॑मिति संप्रदानत्वाच्चतुर्थी । क्षुभ संचलने इति । क्षोभते । क्षुभ्यतीति दिवादौ । क्षुभ्नातीति क्र्यादौ । णभधातुर्णोपदेश नभते । आद्योऽभावे चेति । चात्संचलनेऽपि । तत्र अभावार्थकस्य प्रयोगं दर्शयति — नभन्तामन्यके समे इति । मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्य आह — मा भूवन्नन्यके सर्वे इति ।नभन्ता॑मित्यस्य विवरणं — भा भूवन्निति । न भवन्तीत्यर्थः ।समे॑इत्यस्य विवरणं — सर्वे इति । निरुक्तमिति । वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । रुआंसु ध्वंसु भ्रंसु इति । त्रयो नोपधा इति भावः । नारुआसदिति । 'नारुआंस' दित्यपपाठः । नचाऽरुआंसदिति लङो रूपमिति भ्रमितव्यं, तत्र परस्मैपदाऽसंभवात् । रुआम्भुदातुरकारमध्यः । वृतु वर्तने इति । उदित् ऋदुपधः सेट्कः । वर्तते इति । शपि गुणे रपरत्वम् । ववृते इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम् । लुटि — वर्तिता ।", "73083": "<<जुसि च>> - जुसि च । अङ्गस्येत्यधिकृतम् । 'मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः ।क्सस्याची॑इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः । तदाह — अजादावित्यादिना । अजगरुरिति । अजागः अजागृतमजागृत । अजागरमजागृव अजागृम । विधिलिङि यासुटो ङित्त्वान्न गुणः । जागृयात् जागृयताम् । जागृयुरिति ।जुसि चे॑त्यत्र अजादावित्युक्तेर्न गुण इति भावः । जागृधातोर्लुङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति — जागृ इसित्यत्रेति । तत्र कृते इति ।जाग्रोऽविचिण्ण॑लिति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति । 'वृद्धा' इति शेषः । अजागरिष्टामजागरिषुरित्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः = धनहीनीभवनम् । दारिद्रातीति । धनहीनीभवतीत्यर्थः ।", "73084": "<<सार्वधातुकार्धधातुकयोः>> - भू-अ-ति-इति स्थिते — सार्वधातुकाद्र्ध । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितेन अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । 'मिदेर्गुण' इत्यस्माद्गुण इत्यनुवर्तते । तदाह — अनयोरित्यादिना । तथा च ऊकारस्य गुण ओकारः । अवादेश इति ।ओकारस्येटति शेषः । तथा च परिनिष्ठितं रूपमाह — भवतीति । भवत इति । कर्तृद्वित्वविवक्षायां भूधातोर्लस्तसादेशे च कृते — झोऽन्तः ।", "73085": "<<जाग्रोऽविचिण्णल्ङित्सु>> - जाग्रोऽवि । 'जाग्र' इति षष्ठी । 'मिदेर्गुणः' इत्यतो गुण इत्यनुवर्तते । तदाह — जागर्तेर्गुणः स्यादिति ।अविचिण्णल्ङित्स्वि॑ति च्छेदः । वि चिण् णल् हित् एषां द्वन्देव नञ्समासः । तदाह — विचिण्णल्ङिद्भ्योऽन्यस्मिन्निति । चिण्णल्पर्युदासाद्वृद्धिविषयेऽप्यस्य प्रवृत्तिः । ङित्पर्युदासाद्गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः । तदाह — वृद्धिविषये चेति । जजागतुरिति । अत्र कित्त्वेऽपि गुणः । जजागरुः । जजागरिथ जजागरथुः जजगार । जजागार — जजागर, जजागरिव जजागरिम । विचिण्णल्ङित्सु तु न गुणः । वि — जागृविः । चिण् — अजागारि । णल् — जजागार । ङित् — जागृतः । वृद्धिविषये यथा ण्वुलि — जागरकः । प्रतिषेधविषये यथा — जजागरतुः । कित्त्वेऽपि गुण इत्याद्यूह्रम् ।जागरिता । जागरिष्यति । जागर्तु — जागृतात् जागृताम् जाग्रतु । जागृहि — जागृतात् जागृतम् जागृत । जागराणि जागराव जागराम । लङ्याह — अजागरति । तिपि इकारलोपे हल्ङ्यादिना तकारलोपे रेफस्य विसर्ग इति भावः । अभ्यस्तत्वाल्लङो जेरदादेशे प्राप्ते आह — अब्यस्तत्वाज्जुसिति ।सिजब्यस्तविदिभ्यश्चे॑त्यनेनेति भावः । जक्षित्यादित्वादभ्यस्तत्वम् । अजागृ उस् इति स्थितेसार्वधातुकमपि॑दिति ङित्त्वादविचिण्णल्ङित्स्विति पर्यादासादप्राप्ते गुणे आह —", "73086": "<<पुगन्तलघूपधस्य च>> - तथा च भावित् — आ इति स्थिते — पुगन्तलघु । 'मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतमवयवषष्ठन्तमाश्रीयते । पुगन्तलघूपधस्येति तद्विशेषणम् । पुक् अन्तो यस्य तत् पुगन्तं । लघ्वी उपधा यस्य तल्लघूपधं । पुगन्तं च लघूपधं चेति समाहारद्वन्द्वात् षष्ठी । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितं स्थानषष्ठन्तमाश्रीयते । तदाह — पुगन्तस्येत्यादिना । अङ्गस्येक इति । अङ्गावयवस्येत्यर्थः । द्वेष्टि द्वेष्टत्याद्युदाहरणम् । नन्वत्राऽङ्गावयवस्येकस्तदुपरितनहला व्यवधानात्सार्वधातुकपरत्वाऽभावात्कथमिह इको गुण इत्यत आह — येन नेति । येन = स्थान्युत्तरवर्णेन परनिमित्तस्य , नाऽव्यवधानं = व्यवधानमवर्जनीयमिति यावत्, तेन = वर्णेन व्यवहितेऽपि परनिमित्तं कार्यं भवतीत्यर्थः । कुत इत्यत आह — वचनप्रामाण्यादिति । तथाविधवर्णव्यवधानेऽपि कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः । लघूपधस्य हीको गुणो विधियते, उपधात्वं चाऽन्त्यादलः पूर्वस्यैव भवति । ततश्चेक उपर्यन्त्यस्य वर्णस्याऽभावे इक उपधात्वाऽभावाल्लघूपधस्याऽङ्गस्य गुणविधानं निर्विषयमेव स्यादतस्तद्व्यवधानं सोढव्यमिति भावः । ननु व्यवहितस्यापीको गुणप्रवृत्त्यभ्युपगमे भिनत्ति छिनत्तीत्यादौ इकारस्यापि गुणः स्यादित्यत आह -तेनेति । अवर्जनीयव्यवधनास्यैवाश्रयमेनेत्यर्थः । उपधात्वस्यैकमेव वर्णमुपरितनमादाय सम्भवादनेकवर्णव्यवधानं नादर्तव्यमिति भावः । गुणे प्राप्त इति । भवित् - आ इति स्थिते डाभावसंपन्नस्याऽऽकारस्य स्थानिवत्त्वेन सार्वधातुकतया तस्मिन् परे भविदित्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः । न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाऽङ्गं, न तु भवित् इति विकरणविशिष्टमिति वाच्यम्, अङ्गसंज्ञासूत्रे तदादिग्रहणेन विकरणविशिष्टस्याऽप्यङ्गत्वात् ।", "73087": "<<नाभ्यस्तस्याचि पिति सार्वधातुके>> - नाभ्यस्स्याचि । 'मिदेर्गुणः' इत्यतो गुण इति,पुगन्ते॑त्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लघूपधगुणो न स्यादिति । नेनिजानीति । नेनिजाव नेनिजाम । नेनिक्ताम् नेनिजाताम् नेनिजताम् । नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् । नेनिजै नेनिजावहै । नेनिजामहै । लङि परस्मैपदे आह — अनेनेगिति । अनेनिजुरिति । अभ्यस्तत्वाज्जुसिति भावः । अनेनेक् अनेनिक्तमनेनिक्त । अनेनिजम् ।नाभ्यस्तस्ये॑ति न गुणः । अनेनिज्व अनेनिज्म । निक्षीष्ट । लुङ्याह — अनिजदिति । इरित्त्वादङिति भावः । अनिक्तेति ।झलो झली॑ति सिज्लोपः । अनिक्षातामित्यादि । विजिरपि णिजिर्वत् । अत्रेति । थलि इट्पक्षेविज इ॑डिति विहितं ङित्त्वं नेत्यर्थः । अतो न गुणनिषेध इति भावः । ओ विजी इत्यस्यैवेति । व्याख्यानादिति भावः । रुधादावपीति । ततश्चरुधादिभ्यः श्न॑मिति श्नम्विकरणावपि ताविति भावः । विष्लृ व्याप्तौ इति । लृदित्, उभयपदी, अनिट् । णिजेरिव रूपाणि । वेवेष्टीति । ष्टुत्वेन तकास्य टः । सिपिषढो॑रिति षस्य कत्वम् । वेवेक्षि वेविष्ठः । वेविष्ठ । वेविड्ढि । अविषदिति । लृदित्त्वादङिति भावः । तङि क्स इति ।शल इगुपधा॑दित्यनेनेति भावः । आ गणान्तादिति । जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः । घृधातुरनिट् । तिपि श्लौ द्वित्वेऽभ्यासकार्ये गुणे रपरत्वे जघर्ति । जघृतः जघ्रति ।जघम्र्यग्न हविषा घृतेन॑ इति बह्वृचमन्त्रपाठः ।जघम्र्यग्न मनसा घृतेने॑ति तैत्तिरीयपाठः । अत्रेत्त्वमभ्यासस्य आह — भृञामिदिति । ननु तत्र त्रयाणामेव ग्रहणमित्यत आह- बहुलमिति । इत्त्वं छान्दसमिति भावः । जघार जघ्रतुः । जघ्रुः । जघर्थ जघ्रथुः जघ्र । जघार — जघर । जघ्रिव । घरिष्यति । जघर्तु — जघृतात् । जघ्रतु । जघृहि । जघराणि । अजघः अजघृतामजघरुः । अजघरमजघृव । जघृयात् । घ्रियात् । अघार्षीत् । अघरिष्यत् । ह्म इति । घृधातुवद्रूपाणि । अयं रुआउवो अभिजिहर्ति होमानिति । रुआउवे साद्यमाने याजमानो मन्त्रः । अत्रापि अभ्यासस्य इत्त्वं चान्दसमिति भावः । ऋ सृ गताविति । इमावनिटौ । तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित्प्रयोगं समर्थयति — बहुलमिति । 'भृञामित्' 'अर्तिपिपत्र्योश्च'बहुलं छन्दसी॑ति सूत्रस्थितिः । तत्रबहुलं छन्दसी॑त्येव ऋधातोरित्त्वसिद्धेःअर्तिपिपत्र्योश्चेटत्यर्तिग्रहणाल्लोकेऽपि ऋधातोः श्लुविकरणस्य प्रयोगो विज्ञायत इत्यर्थः । एतच्चाऽत्रैव सूत्रे भाष्ये स्पष्टम् । अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोःअर्तिपिपर्त्योश्चे॑त्यत्र ग्रहणम्, पिपर्तिसाहचर्याच्च, श्लवित्यस्य अभ्यासग्रहमस्य चानुवृत्तेश्चेत्यलम् । अभ्यासस्यासवर्णे इति । शपः श्लौ ऋ-तीतिस्थिते द्वित्वे उरदत्त्वं बाधित्वाअर्तिपिपत्र्योश्चे॑त्यभ्यासऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् तीति स्थितेअभ्यासस्याऽसवर्णे॑इतीयङि इयतीति रूपमित्यर्थः । इयृत इति । पूर्ववदेव द्वित्वादि । तसोऽपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः । इय्रतीति । पर्ववदेव द्वित्वादि । अभ्यस्तत्वाददादेशः । ङित्त्वान्न गुणः । उत्तरखण्डस्य ऋकारस्य यण् रेफ इति भावः । इयर्षि इयृथः । इयर्मि इयृवः इयृमः । लिटआह - आरेति । आरिव । आरिम । अर्तेति । अनिट्त्वादिति भावः । अरिष्यतीति । 'ऋद्धनोः स्ये' इतीडिति भावः । इयर्तु इयृतात् इयृताम् इय्रतु । इयृहि — इयृतात् इयृतम् इयृतैयराणीति । आटः पित्त्वेनाऽङित्त्वान्न गुणनिषेध इति भावः । इयराव । इयराम । लङ्याह — ऐय इति । श्लौ ऋ त् इति स्थिते द्वित्वेऽभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्डस्य गुणे रपरत्वे च हल्ङ्यादिलोपे रेफस्य विसर्गे इय इति स्तिते आटि वृद्धौ #ऐय इति रूपमिति भावः । न चलावस्थायाम॑डिति पक्षे आट#इ वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घे हल्ङ्यादिलोपे रेफस्य विसर्गे ऐयरुरिति । ऐयः ऐयृतम् ऐयृत ।ऐयरम् ऐयृव ऐयृम । विधिलिङ्याह — इयृयादिति । यासुटो ङित्त्वाद्गुणनिषेध इति भावः । इयृयातामित्यादि । आशीर्लिङ्याह - अर्यादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घः प्राप्तः । तं बाधित्वा 'रिङ् शयग्लिङक्षु' इति रिङ् प्राप्तः । तं बाधित्वागुणोऽर्तिसंयोगाद्यो॑रिति गुण इति भावः । लुङ्याह — आरदिति ।सर्तिशास्त्यर्तिभ्यश्चे॑त्यङिऋदृशोऽङी॑ति गुण इति भावः । आरिष्यत् । तदेवमृधातुं निरूप्य सृधातुं निरूपयति — ससर्तीति । ससृतः सरुआतीत्यादि सुगमम् । ससार । ससर्थ । ससृव । सर्ता । सरिष्यति । ससर्तु । अससः अससृतामससरुः । रिउआयात् । असरत् । भस भत्र्सनेति । अयं सेट् । बभस्तीति । श्लौ भस् तीति स्थिते द्वित्वेऽभ्यासजश्त्वमिति भावः । बभस् तस् इति स्थिते आह — घसिभसोरिति ।घसिभसोर्हलि चे॑त्यस्यायमर्थः — छन्दसि अनयोरुपधाया लोपः स्याद्धलादावजादौ च क्ङिति परे इति । तथा च बभस् तसित्यत्र उपधालोपेझलो झली॑ति सकारलोपे तकारस्यझषस्तथो॑रिति धत्वे भकारस्य जश्त्वमिति भावः । बप्सतीति । अभ्यस्तत्वाददादेशे बभस् अतीति स्थितेघसिभसो॑रित्युपधालोपे भकारस्य चर्त्वमिति भावः । बभस्सि बब्धः बब्ध । बभस्मि बप्स्वः बप्स्मः । बभास बप्सतुः बप्सः । बभसिथ बप्सथुः बप्स । बभास बभस बप्सिव बप्सिम । भसिता । भसिष्यति । बभस्तु — बब्धात् बब्धाम् बप्सतु । बब्धि — बब्धात् बब्धम् बब्ध । बभसानि बभसाव बभसाम । अबभः अबब्धामबप्सुः । अबभः अबब्धमबब्ध । अबप्समबप्स्व । अबप्स्म । बप्स्यात् । भस्यात् । अभासीत्-अभसीत् । अभसिष्यत् । कि ज्ञाने । चिकेतीति । किधास्तोस्तिपि श्लौ द्वित्वे अभ्यासचुत्वे उत्तरखण्डस्य गुण इतिभावः । चिकितः चिक्यति । चिकेषि चिकिथः चिकिथ । चिकेमि चिकिवः । चिकिमः । चिकाय चिक्यतुः ।चिक्युः । चिकयिथ — चिकेथ । चिक्यिव । केता । केष्यति । चिकेतु — चिकितात् चिकिताम् चिक्यतु । चिकिहि । चिकयानि । अचिकेत् अचिकितामचिकयुः । अचिकेः । अचिकयमचिकिव । चिकियात् । कीयात् । अकैषीत् । अकेष्यत् । तुर त्वरणे इति । तुतूर्त इति ।हलि चे॑ति दीर्घः । तुतोर्षि तूतूर्थः तुतूर्थ । तुतोर्मि तुतूर्वः । तुतोर । तुतुरतुः तुतोरिथ । तुतुरिव । तोरिता । तोरिष्यति । तुतोर्तु — तुतूर्ताम् तुतुरतु । तुतूर्हि । तुतुराणि । अतुतोः अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतुरम् ।अतुतूरव । तुतूर्यात् । तूर्यात् । अतोरीत् । अतोतुतुराणि । अतुतोः अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतुरम् । अतुतूर्व । तुतूर्यात् ।तूर्यात् । अतोतीत् । अतोरिष्यत् । धिष शब्दे । सेट् । दिधेष्टीति । श्लौ द्वित्वादौ लघुपधगुणे तकारस्य ष्टुत्वमिति भावः । दिधिषति.दिधेक्षि दिधिष्ठः । दिधेष्मि दिधिष्वः । दिधेष दिधिषतुः । दिधेषिथ । दिधिषिव । धेषिता । धेषिष्यति । दिधेष्टु — दिधिष्टात् । दिधिषतु । दिधिड्ढि । दिधिषाणि । अदिधेट् अदिधिष्टामदिधिषुः । अदिधिषमदिधिष्व । दिधिष्यात् । धिष्यात् । अधेषीत् । अदेषिष्यत् । धन धान्ये इति । धान्याऽर्जने इत्यर्थः । दधन्त इति । क्षमूष् सहने इति धातोश्चक्षंसे इतिवदनुनासिकस्य क्वीति न दीर्घः । दधंसि दधन्थः । दधन्मि दधन्वः दधन्मः । दधान दधनतुः । दधनिथ । दधनिव । धनिता । धनिष्यतु । दधन्तु — दधन्तात् दधन्ताम् दधनतु ।दधंहि.दधनानि । अदधन् अदधन्तामदधनुः । अद्धन् अदधन्तमदधन्त ।अदधनमदधन्व अदधन्म । दधन्यात् । धन्यात् । अधानीत् अधनीत् । अधनिष्यत् । जन जनने इति । उत्पत्तौ कर्मकः । उत्पादने सकर्मकः ।", "73088": "<<भूसुवोस्तिङि>> - भूसुवोस्तिङि । 'मिदेर्गुण' इत्यतो 'गुण' इति,नाभ्यास्तस्याचि पिती॑त्यतो नेति सार्वधातुक इति चानुवर्तते । तदाह — एतयोरिति । भू सू इत्यनयोरित्यर्थः । इहषूङ् प्राणिगर्भविमोचने॑ इतिलुग्विकरणस्यैव ग्रहणं, न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि, तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशह्कितुमाह —", "73089": "<<उतो वृद्धिर्लुकि हलि>> - उतो वृद्धिर्लुकि हलि ।नाभ्यस्याचि पिति सार्वधातुके॑ इति अचिवर्जमनुवर्तते । लुकीति विषयसप्तमी, दर्शनाऽभावस्य लुकः परत्वाऽसंभवात् ।तदाह — लुग्विषय इत्यादिना । यौतीति । गुणं बाधित्वा वृद्धिः । युत इति । अपित्त्वान्न वृद्धिः । युवन्तीति । अपित्त्वाद्वृद्ध्यभावे ङित्त्वाद्गुणाऽभावे उवङिति भावः । यौषि युथः युथ । यौमि युवः युमः । युयावेति । युयुवतुः युयुवुः । युयविथ युयुवथुः युयुव । युयाव-युयव युयुविव युयुविम । यवितेति । उवङं बाधित्वा परत्वाद्गुण- । यविष्यति । यौतु युतात् युताम् युवन्तु । हौ अपित्त्वान्न वृद्धिः । युहि — युतात् युतम् युत । आटि पित्त्वेऽपि हलादित्वाऽभावान्न वृद्धिः । पित्त्वेन ङित्त्वाऽभावाद्गुणः । यवानि यवाव यवाम । अयौत् अयुतामयुवन् । अयौः अयुतमयुत । अयवमयुव अयुम । विधिलिङ्याह — युयादिति । अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह - इह उतो वृद्धिर्नेति । कुत इत्यत आह — भाष्ये इति । व्याख्यानादिति । 'हलः श्नः शानज्झौ' इति सूत्रव्याख्यावसरे वचनादित्यर्थः । ननु यासुडागमसहितस्य तिपः पित्त्वात्पिच्च ङिन्ने॑त्युक्तवचनेनयासुट् परस्मैपदेषु॑ इति ङित्त्वस्याऽप्यभावात्क्ङिति चे॑त#इ गुणनिषेधाऽभावाद्गुणः स्यादित्यत आह — विशेषविहितेनेत्यादि, बाधादित्यन्तम् ।यासुट् परस्मैपदेषु॑ इति विशेषविहितेन यासुटो ङित्त्वेन तत्सहितस्य तिपोङिच्च पिन्ने॑ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाधान्ङित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः । आशीर्लिङ्याह — यूयादिति । आर्धधातुकत्वान्न वृद्धिः ।अकृत्सार्वधातुकयो॑रिति दीर्घः । यूयास्तामित्यादि । लुङ्याह — अयावीदिति । सिचि वृद्धिः ।इट ईटी॑ति सिज्लोपः । अयाविष्टामित्यादि । अयविष्यत् ।", "73090": "<<ऊर्णोतेर्विभाषा>> - ऊर्णोतेर्विभाषा ।उतो वृद्धि॑रित्यतो वृद्धिरिति, हलीति चानुवर्तते ।नाभ्यस्तस्ये॑त्यतः 'पिति सार्वधातुके' इति च । इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — वृद्धिः स्यादित्यादिना । लिटिइजादे॑रिति,कास्यनेका॑जिति च आमि प्राप्ते आह — ऊर्णोतेराम् नेति । ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाऽभावादिति भावः । णलि ऊर्णु अ इति स्थितेअजादेर्द्वितीयस्ये॑तिर्नु॑इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते — —", "73091": "<<गुणोऽपृक्ते>> - गुणोऽपृक्ते ।ऊर्णोतेविभाषे॑त्यत ऊर्णोतेरिति,नाभ्यस्तस्ये॑त्यतः पिति सार्वधातुके इति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । तदाह — ऊर्णोतेरित्यादि । वृद्ध्यपवाद इति ।ऊर्णोतेर्विभाषे॑ति वृद्धिविकल्पस्यापवाद इत्यर्थः । ऊर्णुयादित्यत्रविभाषोर्णो॑रिति वृद्धिविकल्पमाशङ्क्याह — इह वृद्धिर्नेति । भाष्यादिति । तथा च यासुटो ङित्त्वेन पित्त्वाऽभावान्न वृद्धिविकल्प इति भावः । नचैवं सति गुणनिषेधोऽपि न स्यादिति शङ्क्यं, विशेषविहितेन यासुटो ङित्त्वेनङिच्च पिन्ने॑ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाध इति 'यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः । परस्मैपदे आशीर्लिङ्याह — ऊर्णूयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घः । ऊर्णूयास्तामित्यादि । आत्मनेपदे लिडआह — ऊर्णविषीष्ट ऊर्णुविषीष्टेति ।विभाषोर्णो॑रिति ङित्त्वविकल्प इति भावः । लुङि परस्मैपदे और्णु — ईदिति स्थितेविभाषोर्णो॑रिति ङित्त्वपक्षे गुणाऽभावे उवङि रूपमाह — और्णुवीदिति । ङित्त्वाऽभावपक्षे गुणे नित्यं प्राप्ते ।", "73092": "<<तृणह इम्>> - तृणह इम् । 'तृणह' इति षष्ठी । कृतश्नमस्तृहधातोर्निर्देशः । र॒नाभ्यस्तस्ये॑त्यतः पितीति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । फलितमाह - तृहः श्नमि कृते इति । मित्तवादन्त्यादचः परः । 'श्नमि कृते' इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन श्नम्बाध्येत,सत्यपि संभवे बाधनं भवती॑ति नयायात् । अन्यथाब्राआहृणेभ्यो ददि दीयतां, तक्रं कौण्डिन्याये॑त्यत्र तक्रेण दधि न बाध्येत, श्नमा शप्च न बाध्येत, देशभेदेन उभयसंभवादिति भावऋ । तृणेढीति । तृणह् तस् इति इमागमे आद्गुणे तृणेह् ति स्थिते ढत्वधत्वष्टुत्वढलोपा इति भावः । तृण्ढ इति । तसि श्नमि कृते, तृणह् तस् इति स्थिते , तसोऽपित्त्वादिमागमाऽभावेश्नसो॑रित्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः । तृंहन्ति । तृणेक्षि तृण्ढः तृण्ढ । तृणेहिऋ तृंह्वः तृंह्मः । ततर्हेति.ततृहतुः । ततर्हिथ । ततृहिव । तर्हितेति । सेडिति भावः । तर्हिष्यति । तृणेढु - तृण्ढात् तृण्ढाम् तृंहन्तु । तृण्ढि - तृण्ड्ढि - तृण्ढात् तृण्ढम् तृण्ढ । तृणहानि तृणहाव तृणहाम । अतृणेडिति । लङ स्तिपि श्नमि इम् हल्ङ्यादिलोपः ढत्वजश्त्वे इति भावः । अतृण्ढामतंहन् । अतृणेट् अतृण्ढमतृण्ढ । अतृणहमतृंह्व अतृंह्म । तृंह्रात् । तृह्रात् । अतर्हीत् । अतर्हिष्यत् । हिसिधातोरुदाहरति - हिनस्तीति । इह श्नमि इदित्त्वान्नुमि च कृते 'श्नान्न लोपःर' इति नुमो लोप इति भावः । हिंस्तः हिंसन्ति । हिनस्सि हिंस्थः हिंस्थ । हिनस्मि हिंस्वः हिंस्मः । जिहिंसेति । किति इदित्तवान्नलोपो न । जिहिंसतुः । जिहिंसिथ । हिंसितेति । सेडिति भावः । हिंसिष्यति । हिनस्तु हिंस्ताम् । हौ श्नमि नुमि कृते 'श्नान्नलोपः' इतिनुमो लोपे हेरपित्त्वेन ङित्त्वात्श्नसो॑रित्यल्लोपेधिचे॑ति सलोपे, हिन्धीति रूपम् । हिंस्तात् । हिनसानि । अहिनत् अहिस्तामहिंसन् । सिपि रुर्वा - अहिनः अहिनत्, अहिंस्तम् । अहिनसमहिंस्व । हिंस्यात् हिंस्याताम् । आशीर्लिङ श्नमभावान्नुमेव । इदित्त्वान्नलोपो न । हिंस्यादित्येव । हिंस्यास्ताम् । अहिंसीत् । अहिंसिष्यत् । उन्दी क्लेदने । उन्दन्तीति । उनत्सि उन्त्थः । उनद्मि उन्द्वः । उन्दामिति । इजादेश्चेत्याम् । उन्दिता । उन्दिष्यति । उनत्तु - उन्त्तात् । उन्द्धि । उनदानि । लह्राह - औनदिति । औत्त्वाद्वेट् । अनक्तीति । श्नमि कृते परसवर्णस्याऽसिद्धत्वात् 'श्नान्न लोपः' इति नकारलोपे जस्य कुत्वेन गः, तस्य चर्त्वेन क इत भावः । अङक्त इति । नलोपे अल्लोपे जस्य कुत्वेन गः । गस्य चर्त्वेन कः । श्नमो नस्य परसवर्णो ङ इति भावः । अञ्जन्तीति । नलोपाऽल्लोपौ । श्नमो नस्य परसवर्णो ञ इति भावः । अनक्षि अङ्क्थः । अनज्मि अञ्ज्वः । अङ्ग्धीति । हौ श्नमि धिभावे नलोपाऽल्लोपौ । जस्य कुत्वेन गकारः । नस्य परसवर्णो ङकार इति भावः । अनजानीति । श्नान्नलोपः । आटः पित्त्वादल्लोपो न । लह्राह - आनगिति । आङ्क्ताम् । आञ्जन् । अञ्ज्यात् । अज्यात् ।", "73093": "<<ब्रुव ईट्>> - सन्वल्लघुनि । 'अनग्लोपे' इति च्छेदः । बहुव्रीहिरिति । चङ् परो यस्मादिति विग्रह इति भावः । कर्मदारयमाश्रित्य चङि परे इति नार्थः, परग्रहणवैयथ्र्यात् । ननु बहुव्रीह्राश्रयणेऽपिअत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवृत्तौ चङपरके लघुनि परेऽभ्यासः सन्वदित्यर्थो लभ्यते । तथा सति अण्यन्तेभ्यः श्रिद्रुरुआउभ्यश्चङि द्वित्वे अशिश्रियत् अदुद्रुवत् असुरुआउवदित्यत्रापि सन्वत्त्वं स्यात् । ततश्चदीर्घो लघो॑रिति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत आह — अन्यपदार्थो णिरिति । तथा च चङ्परे णौ इति लभ्यते । अशिश्रियादित्यादौ च णेरभावान्न सन्वत्त्वमिति भावः । स चाङ्गस्येति चेति । बहुव्रीहिगम्यो णिः, अङ्गस्येत्यावृत्तौ एकं चङ्परे इत्यत्रान्वेति । निमित्तनिमित्तभावे षष्ठी । तथा च अङ्गसंज्ञानिमित्तभूते चङपरके वर्णे परे इति लभ्यते । चङ्परकश्च वर्णोऽर्थाण्णेरिकार एव, न तु श्रिद्रुरुआउवामन्त्यवर्णः, तस्य अप्रत्ययत्वेन अङ्गसंज्ञाप्रापकत्वाऽभावात् । एतदर्थमेव अङ्गस्येत्स्य निमित्तषष्ठन्ततामाश्रित्य चङ्पर इत्यनेनान्वयोऽभ्युपगतः । चङ्पर इत्येतावतैव तु णाविति न लभ्यते, श्रिद्रुरुआउषु व्यभिचारात् । द्वितीयं त्वङ्गस्येत्येतत् अभ्यासस्येत्यनुवृत्तेन अन्वेति ।सन्व॑दिति सप्तम्यन्ताद्वतः । तदाह — अङ्गसंज्ञानिमित्तमित्यादिना । अथवेति । अस्मिन्व्याख्याने 'चङ्परे' इत्येतदङ्गस्येत्यत्रान्वेति, न तु लघुनि । अङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभः । लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति । तदाह — चङ्परे णौ यदङ्गमित्यादिना । प्राग्वदिति । सनीव कार्यं स्याण्णावग्लोपेऽसतीत्यर्थः । अत्र प्रथमपक्ष एव भाष्यसंमतः, 'अजजागर' इत्यत्र चङ्परे णौ यल्लघु, तदभ्यासव्यवहितमिति न सन्वत्त्व॑मिति भाष्योक्तेः । एवं च प्रथमपक्षे उन्देण्र्यन्ताच्चङि द्वित्वे उन्दिदि अ त् इत्यत्र अभ्यासोत्तरखण्डे चङ्परे णौ लघोरभावेनाऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वाऽभावान्नाऽभ्यासदीर्घः । द्वितीयपक्षे तु चङ्परे णौ यदङ्गम् — 'उन्दिद्' इत्येतत् , — तदीयोऽभ्यासश्चङमादाय,लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः । एवं च प्रकृते क कम त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् ।", "73094": "", "73095": "<<तुरुस्तुशम्यमः सार्वधातुके>> - तुरुस्तु । तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात्पञ्चम्येकवचम् ।उतो वृद्धि॑रित्यतो हलीति,भूसुवो॑रित्यतस्तिङीति,ब्राउव ई॑डित्यत ईडिति,यङो वे॑त्यतो वेति चानुवर्तते । तदाह - एभ्य इत्यादिना । नाभ्यस्तस्येति ।नाभ्यस्तस्याऽचि पिति सार्वधातुके इत्यतः सार्वधातुके इत्यनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणं पितीत्यस्याऽनुवृत्तिर्मा भूदित्येतदर्थमित्यर्थः । रवीतिति । ईट्पक्षे हलादित्वाऽभावादुतो वृद्धिर्नेति भावः । रौतीति । ईडभावेउतो वृद्धि॑रिति भावः । रुवीतः रुत इति । अपित्त्वेऽपि ईड्विकल्प इति भावः । रुवन्तीति । अन्तादेशे कृते हलादित्वाऽभावादीडभावे उवङिति भावः । शाम्यतीति । श्यनस्तिङ्त्वाऽभावादीण्नेति भावः । आशिषि रूयादिति । आर्धधातुकत्वादीडभावेअकृत्सार्वधातुकयो॑रिति दीर्घः । विध्यादौ त्विति । आदिना निमन्त्रणादिसङ्ग्रहः । रुयात् रुवीयादिति । हलादिसार्वधातुकत्वादीड्विकल्प इति भावः । ईडभावपक्षे हलादौ पिति सार्वधातुकेउतो वृद्धि॑रिति बोध्यम् । ननु धातुपाठे तुधातोरदर्शनाद्धातुत्वाऽभावात्कथं ततः सार्वधातुकस्य ईड्विधिरित्यत आह — तु इति सौत्रो धातुरिति । गतिवृद्धिहिंसास्विति । अत्र व्याख्यानमेव शरमम् । ननु शपा व्यवदानादस्य सार्वधातुकपरत्वं कथमित्यत आह — अयं च लुग्विकरण इति स्मरन्तीति । अव्यवहिततिङ ईड्विधानमेवाऽत्र बीजम् । शम्यमोस्तुशमीध्वमभ्यमीती॑ति वेदे शपो लुकि बोध्यम् । अयमनिट् । हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह -तोतेति । णु स्तुताविति । णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नु धातवः सेट । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । सुष्णाव इति । षोपदेशोऽयमिति भावः । ऊर्णुञ्धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्यं प्राप्तौ —", "73096": "<<अस्तिसिचोऽपृक्ते>> - अस्तिसिचोऽपृक्ते । अस्तिश्च सिच्चेति समाहारद्वन्द्वात्पञ्चमी ।ब्राउव ई॑डित्यत ईडित्यनुवर्तते ।तस्मादित्युत्तरस्ये॑ति परिभाषया 'अस्तिसिचः' इति पञ्चमी अपृक्तस्येति षष्ठी प्रकल्पयति । ततश्च अस्तेः सिचश्च परस्याऽपृक्तस्य ईडागमः स्यादिति प्राचीना व्याचक्षते । तथा सति लुङि अस्तेर्भूभावे अभूदिति न स्यात्, स्थानिवत्त्वेन अस्तितया तत्राऽपृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा अगात् अस्थात् अपादित्यादावपिगातिस्थे॑ति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमः स्यादतः प्रकारान्तरेण व्याचष्टे — सिच्च अश्चेत्यादिना । ननु सिचस्शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्वप्रसङ्ग इत्यत आह — सौत्रं भत्वमिति । तथ च भत्वेन पदत्वस्य बाधान्न कुत्वमिति भावः । ननु सिचस्शब्दे असित्यनेनैवास्तेर्लाभादस्तिग्रहणं किमर्थमित्यत आह — अस्तीत्यव्ययेन कर्मधारय इति । अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम् । तेन सिचस्शब्दस्य कर्मधारय इत्यर्थः । तथा चअस्तिसिच॑सित्येक पदमिति स्थितम् । सौत्रो लुगिति ।सुपां सुलुगित्यनेनेटति शेषः । तथा च अस्तिसिचेति पदाल्लब्धार्थमाह — विद्यमानादित्यादि । हल इति ।उतो वृद्धिर्लुकि हली॑स्यतोऽनुवृत्तस्य हलीत्यस्य षष्ठआ विपरिणाम इति भावः । इतीण्नेहेति । अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह — लुप्तत्वादिति । विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्ये नेति भावः । एवं च अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम् । ऐधिषीति । एधधातोर्लुङि उत्तमपुरुषैकचवनम् इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्वाऽभावादिडागमो नेति भावः । ऐधिष्टेति । एध धातोर्लुङि प्रथमपुरुषैकवचनम् । अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाऽभावेनाऽपृक्तत्वाऽभावादीडागमो नेति भावः । अभूतामिति । लुङस्तसि तस्य तामादेशः । च्लिः । सिच् । अट् । गुणनिषेधः ।", "73097": "", "73098": "<<रुदश्च पञ्चभ्यः>> - रुदश्च । 'नाभ्यस्तस्य' त्तः पिति सार्वधातुके इति,उतो वृद्धि॑रित्यतो हलीति, 'गुणोऽपृक्ते' इत्यतोऽपृक्ते इति,ब्राउव ई॑डित्यत ईडिति चानुवर्तते । 'रुद' इति पञ्चमी । 'रुदादिभ्य' इति विवक्षितमित्यभिप्रेत्य सूत्रशेषं पूरयति — हलादेरित्यादिना ।", "73099": "<<अड्गार्ग्यगालवयोः>> - अड्गाग्र्यगालयवयोः । अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमः स्यादिति स्पष्टोऽर्थः । अरोदीरिति.अरुदितमरुदितेत्यपि ज्ञेयम् । अरोदमिति । अरुदिव अरुदिम इत्यपि ज्ञेयम् । ननु लिङस्तिपि यासुटंबाधित्वा परत्वात्अड्गाग्र्यगालवयो॑रिति, 'रुदश्च पञ्चभ्यः' इति च अडीटौ स्यातामित्यत आह — प्रकृतिप्रत्ययेति । हलादिपित्सार्वधातुकाऽपृक्ताऽपेक्ष्टवाच्चेत्यपि ज्ञेयम् । लुङिइरितो॑वेत्यङ्पक्षे आह — अरुदिदिति । अङभावपक्षे त्वाह — अरोदीदिति । 'अस्तिसिचः' इति ईट् । 'रुदश्च पञ्चभ्य' इति तु नेह प्रवर्तते, सिचा व्यवहितत्वात् । ञि ष्वप् शये इति । षोपदेशोऽयम् । आर्धधातुके अनिट् । स्वपितीति । 'रुदादिभ्यः' इति इट् । स्वपित इति । स्वपन्ति । स्वपिषि स्वपिथः स्वपिथ । स्वपिमि स्वपिवः स्वपिमः । सुष्वापेति । द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वमिति भावः । सुषुपतुरिति ।वचिस्वपी॑ति संप्रसारणे कृते द्वित्वादीति भावः । सुषुपुरित्यपि ज्ञेयम् । सुष्वपिथ सुष्वप्थेति । भारद्वाजनियमात्थलि वेडिति भावः । सुषुपथुः सुषुप । सुष्वाप — सुष्वप सुषुपिव सुषुपिम । सुविनिर्दुभ्र्यः । कृतस#ंप्रसारणस्य स्वप्धातोः सुपीत्यनेन ग्रहणम् । सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्रते । समेत्यनेनाऽपि समशब्दस्य ग्रहणम् । षष्ठर्थे प्रथमा । 'सहेः साडः स' इत्यत स इति षष्ठन्तमनुवर्तते । मूर्धन्य इत्यधिकृतम् । तदाह -एभ्यः सुप्यादेरिति । सुषुप्तिः, सुषूतिः, सुषम इत्युदाहरणानि । अत्र कृतसंप्रसारमस्य स्वप्धातोग्र्रहमात्सुखप्र इत्यत्र न षत्वमिति भाष्यम् । नन्वेषं सति सुषुषुपतुरित्यत्र सुपूर्वस्य स्वपधातोः कथं षत्वम् । कृतसंप्रसारमस्य हि स्वपधातोः षत्वम् । तत्र यदि स्वप् अतुस् इति स्थिते पूर्वं द्वित्वे कृते पश्चात्वचिस्वपी॑ति संप्रासरणं तदा हलादिशेषे उत्तरखण्डस्यैववचिस्वपी॑ति संप्रसारणं, न त्वभ्यासस्य । अतुसः कित उत्तरखण्डव्यवहितत्वात्,न संप्रसारमए संप्रसारण॑मिति निषेधाच्च । ततश्च सु ससुप् अतुसित्यत्र पूर्वखण्डस्य कृतसंप्रसारणत्वाऽभावात् कथं षत्वम् । उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाऽभावात्कथमनेन षत्वम्, इण्कवर्गाभ्यां इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् । तत्तु न युज्यते ।पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे॑ति परिभाषया सु इत्युपसर्गसंबन्धस्य द्वित्वात्प्रागप्रवृत्तेः । तथा च कृतसंप्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैवआदेशप्रत्ययो॑रिति षत्वं स्यान्नतु पूर्वखण्डस्य,सात्पदाद्यो॑रिति निषेधात् । कृते हलादिशेषे सु इति पूर्वखण्डस्य सुब्राऊपत्वाऽभावेन 'सुविनिर्दुभ्र्यः' इत्यस्याऽप्यप्रवृत्तिः । न च एकदेशविकृतस्याननयत्वं शङ्क्यम्, एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहमपरिभाषया षत्वस्य तत्राऽप्राप्तेः । तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्क्याह — पूर्वं धातुरित्यादिना । लक्ष्यानुरोधादिहपूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेने॑त्याश्रीयते । ततश्च द्वित्वात्परागेव परत्वात्संप्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुबित्यस्य कृतषत्वस्य कतं द्वित्वं , द्वित्वे कत्र्वये षत्वस्याऽसिद्धत्वादित्यत आह — पूर्वत्रासिद्धीयमिति । ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे ष्टवं श्रूयेतेत्यत आह — पिति त्विति । पिति णलि कित्त्वाऽभावात्वचिस्वपी॑त्यस्याऽप्रवृत्तौ कृते द्वित्वेलिच्यभ्यासस्ये॑ति पूर्वखण्डस्य संप्रसारणम् । सु सुप् स्वप् अ इति स्थिते 'सुविनिर्दुर्भ्यःर' इति षत्वस्याऽसिद्धत्वात् हलादिशेष इत्यर्थः । नित्यत्वाच्चेति । कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः । तत इति । हलादिभावान्न ष इति द्रष्टव्यम् । स्वप्ता । स्वप्स्यति । स्वपितु-स्वपितात् स्वपिताम् स्वपन्तु । स्वपिहि-स्वपितात् स्वपितम् स्वपित । स्वपानि स्वपाव स्वपाम । लडआह — सुप्यादिति ।वचिस्वपी॑ति संप्रसारणमिति भावः । 'सुविनिर्दुभ्यः' इति षत्वं मत्वाह — सुषुप्यादिति । असवाप्सीदिति । अनिट्कत्वान्न सिज्लोप इति भावः । आस प्राणने इति । वलाद्यार्धधातुके सेडयम् । सार्वधातुके तु वलादौ 'रुदादिभ्यः' इति इट् । लङस्तिपिरुदश्चे॑ति ईटम्,अड्गार्ग्ये॑त्यटं च मत्वा आह — अआसीत् अआसदिति । विध्याशीर्लिङो आस्यादिति सिद्धवत्कृत्य आह — आस्याताम् । आस्यास्तामिति । अन चेति । अनधातुरपि प्राणने वर्तते इत्यर्थः । सेडयम् । सार्वधातुकेऽपि वलादौ 'रुदादिभ्यः' इति इट् । लङि ईडटौ मत्वा आह — आनीत् आनदिति ।", "73100": "<<अदः सर्वेषाम्>> - अदः सर्वेषाम् । 'अद' इति पञ्चमी ।तस्मादित्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्ते' इत्यतः 'अपृक्ते' इति, 'तुरुस्तुशम्यमः' इत्यतः 'सार्वधातुके' इति चानुवर्तते । सप्तमीद्वयं च षष्ठ्या विपरिणम्यते ।अह् गाग्र्यगालवयो॑रित्तोऽडित्यनुवर्तते ।गाग्र्यगालवयो॑रित्स्यानुवृत्तिनिवृत्तयेसर्वेषा॑मिति । तदाह — अदः परस्येत्यादिना । टित्त्वादाद्यवयः । तदाह — आददिति । आत्तामिति । अपृक्तग्रहणान्नाऽडागम इति भावः । विधिलिङि रूपमाह — अद्यादिति । शपो लुकि अतः परत्वाऽभावात् 'अतो येयः' इति नेति भावः ।मिपः अमि यासुटि सलोपे सवर्णदीर्घे -अद्याम् । अद्याव अद्याम । आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह — अद्यास्तामिति । लुङि अद् स् त् इति स्थिते —", "73101": "<<अतो दीर्घो यञि>> - उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भव-मि इति स्थिते -अतो दीर्घो यञि ।अङ्गस्ये॑त्यधिकृतमता विशेष्यते । तदन्तविधिः । 'तुरुस्तुशम्यम' इत्यतः सार्वधातुक इत्यनुवृत्तं यञा विशेष्यते । तदादिविधिः । तदाह — अदन्तस्येत्यादिना । भवामीति । न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाऽङ्गं , न तु भवेति विकरणान्तमिति वाच्यं,यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्ग॑मित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावः भवाम इति । लस्य वसि मसि च शपि गुणेऽवादेशे अतोदीर्घे रुत्वे विसर्गे च रूपे । 'न विभक्ता' विति सस्य नेत्त्वम् । अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह — स भवतीत्यादि ।अथ प्रहासे चे॑ति सूत्रस्योदाहरति — एहीति । सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् । भो जामातः ! एहि = आगच्छ, 'ओदनं भोक्ष्ये' इति त्वं मन्यसे, नैतद्युक्तमित्यर्थः । कुतैत्यत आह — भुक्तः सोऽतिथिभिरिति । स ओदनोऽतिथिभिर्भिक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः । मन्येतस्तु मध्यमपुरुषे प्राप्ते उत्तमः पुरुषः । #एतम् एत चेति । हे जामातरौ ! आगच्छतम्, 'ओदनं भोक्ष्यावह#ए' इति मन्येथे इति, भो जामातरः ! 'ओदनं भोक्ष्यामहे' इति मन्यध्वे इति चार्थः । अत्रोभयत्रापि भुजेरुत्तमे प्राप्ते मध्यमः । मन्यतेस्तु मध्यमे प्राप्ते उत्तमः, द्वित्वबहुत्वयोरेकवचनं व्याचष्टे — मन्यस इत्यादिना । अनुवर्तत इति ।प्रहासे चेति सूत्रे॑ इति शेषः । एतु भवानिति । युष्मद्भवतोः पर्यायत्वाऽभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट्प्रक्रिया ।", "73102": "<<जसि च>> - जसि च । 'ह्रस्वस्य गुणः' इत्यनुवर्तते ।अह्गस्ये॑त्यधिकृतं ह्रस्वेन विशेष्यते । तेन तदन्तविधिः । तदाह — ह्रस्वान्तस्येत्यादिना । हरय इति । अलोऽन्त्यपरिभाषयाऽन्त्यस्य गुणः । इकारस्य तालुस्थानसाम्यादेकारः । अयादेशः । रुत्वविसर्गाविति भावः ।", "73103": "<<बहुवचने झल्येत्>> - भ्यसि न विभक्ताविति सस्य नेत्त्वम् । सुपि चेति दीर्घे प्राप्ते — बहुवचने झल्येत् ।अतो दीर्घो यञी॑त्यतःसुपि चे॑त्यतश्च 'अत' इतिसुपी॑ति चानुवर्तते ।झली॑त्यनेनसुपी॑ति विशेष्यते ।यस्मिन् विधि॑रिति तदादिविधिस्तदाह — झलादाविति । अतोऽङ्गस्येति । अदन्तस्याङ्गस्येत्यर्थः । एत्वे सति रुत्वविसर्गौ सिद्धवत्कृत्याह — रामेभ्य इति । राम इति । अयोगवाहानामकारोपरि शर्षु चोपसंख्यातत्वेन विसर्गस्य झल्त्वात्स्थानिवद्भावेन सुप्त्वाच्च तस्मिन् परत एत्वं प्राप्तं, रुत्वविसर्गयोरसिद्धत्वेऽपि राम — सिति दशायां झलादिसुप्परत्वात् । अतो बहुवचनग्रहणमित्यर्थः । रामस्येति । बहुवचनग्रहणस्य प्रयोजनान्तरम् । षष्ठएकवचनस्य ङसः स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात्स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थं बहुवचनग्रहणमित्यर्थः । संनिपातपरिभाषा तुसर्वेषा॑मिति निर्देशादेत्वविधौ न प्रवर्तत इत्याहुः । झलि किमिति ।उतो वृद्धिर्लुकि हलीत्यतो हली॑त्यनुवर्त्त्य हलादौ बहुवचने सुपि एत्वमित्येव व्याख्यातु शक्यते । तावतैव 'रामा' इत्याद्यजादिबहुवचने एत्वनिरासादिति प्रश्नः । रामाणामिति ।हलादौ बह#उवचने सुपि एत्व॑मित्युक्तौ रामाणामित्यत्राप्येत्वं स्यात् । तन्निवृत्त्यर्थं झल्ग्रहणमित्यर्थः । यद्यप्यत्र संनिपातपरिभाषया ह्रस्वान्ताङ्गसंनिपातमुपजीव्य प्रवृत्त्स्य नुटस्तद्विघातकमेत्वं प्रति निमित्तत्वाऽसंभवादेव एत्वं न भविष्यति, तथापि झल्ग्रहणमेत्वे संनिपात परिभाषाया अप्रववृत्तिज्ञापनार्थम् । तेनहलि सर्वेषा॑मिति निर्देशात्सर्वशब्दे एत्वसिद्धावपि विओषामित्यादावेप्यत्वं भवति । पचध्वमिति । ध्वमो झलादिबहुवचनत्वेऽपि सुप्त्वाऽभावान्न तस्मिन् परत एत्वमित्यर्थः । नचबहुवचने झली॑गित्योवास्तु । कित्त्वादन्तावयवे आद्गुणे च 'रामेभ्य' इत्यादिसिद्धेरिति वाच्यम्, एवं सतिओसि चे॑त्युत्तरसूत्रेऽपि इगागमविधौ ज्ञानयोरित्यत्रइकोऽचि विभक्ता॑विति नुमापत्तेः । अथ पञ्चमीविभक्तिः । तत्रउपदेशेऽजनुनासिक इ॑दिति ङसेरिकार इत् । तस्य लोपः । ङकारस्तु लशक्विति इत् । तस्य लोपः । ङकारस्तु लशक्विति इत् । तस्य लोपः । तदुभयोच्चारणं तु 'ङसिङ्योः'घेर्ङिती॑त्याद्यर्थम् ।टाङसिङसा॑मिति आत् । सवर्णदीर्घः । जश्त्वमिति । 'झलां जशो ।ञन्ते' इति नित्यतया जश्त्वं प्राप्तम् । तदपवादश्चर्त्वविकल्प आरभ्यत इत्यर्थः ।", "73104": "", "73105": "<<आङि चापः>> - आङि चापः ।ओसि चे॑त्यनुवर्तते, 'आप' इति षष्ठी,-॒अङ्गस्ये॑त्यदिकृतं तदन्तविधिः ।बहुवचने झल्ये॑दित्यत एदित्यनुवर्तते । तदाह — आङि ओसि चेत्यादिना ।आङिति टासंज्ञां प्राचा॑मित्युक्तम् । अलोऽन्त्यस्य एत्वेऽयादेश इत्याह-रमयेति । रमाभिरिति । 'अतो भिसः' इति तपरकरणाअदैस्न । रमा-ए इति स्थिते- ।", "73106": "<<सम्बुद्धौ च>> - संबुद्धौ च ।बहुवचने झल्ये॑दित्यत एदिति, 'आङि चापः' इत्यत 'आप' इति चानुवर्तते । तदाह-आप इत्यादिना । आबन्तस्येत्यर्थः ।अलोऽन्त्यस्य॑ । हे रमे स् इति स्थिते प्रक्रियां दर्शयति — एङ्ह्रस्वादिति । हल्ङ्यादिलोपस्तु न, परत्वात्प्रतिपदोक्तत्वाच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः,एङ्ह्रस्वा॑दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः । रमामिति । 'अमि पूर्वः' इति पूर्वरूपम् । औङः शीभावे आद्गुणं मत्वाह — रमे इति । स्त्रीत्वादिति । शसि रमा-असिति स्थिते पूर्वसवर्णदीर्घे सति कृतपूर्वसवर्णदीर्घात्परत्वेऽपि 'तस्माच्छसः' इति नत्वं स्त्रीलिङ्गत्वान्न भवतीत्यर्थः । रमा-आ इति स्थिते ।", "73107": "<<अम्बाऽर्थनद्योर्ह्रस्वः>> - अम्बार्थानामिति । अम्बापर्यायाणामित्यर्थः नद्यन्तानामिति । अङ्गाधिकारस्थत्वात्तदन्तविधिः । तुल्यन्यायत्वादम्बार्थानामित्यत्रापि तदन्तविधिर्बोध्यः । सम्बुद्धाविति ।सम्बुद्धौ चे॑त्यतस्तदनुवृत्तेरिति भावः । अम्बागौर्यादिशब्देषु ह्रस्वत्वं तु व्यपदेशिवद्भावेन तदन्तत्वाज्ज्ञेयम् । हे बहुश्रेयसि इति । ह्रस्वे सतिएङ्ह्रस्वा॑दिति सम्बुद्धिलोपः । ह्रस्वे गुणस्तु न, प्रक्रियालाघवायअम्बार्थनद्योह्र्यस्वः॑ इत्यनुक्त्वाअम्बार्थनद्योर्गुणः॑ इति वाच्ये ह्रस्वविधिसामर्थ्यादिति स्पष्टं भाष्ये । बहुश्रेयस्यौ । बहुश्रेयस्यः ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यण् ।अमि पूर्वः॑ । बहुश्रेयसीम् । बहुश्रेयस्यौ । बहुश्रेयसीनिति । पूर्वसवर्णदीर्घ सति 'तस्माच्छसः' इति नत्वमिति भावः । बहुश्रेयस्या । अघित्वान्नाभावो न, किन्तु यणादेशः । बहुश्रेयसीभ्याम् । बहुश्रेयसीभिः । बहुश्रेयसी-ए इति स्थिते घित्वाऽभावान्न तत्कार्यम् । यणि बहुश्रेयस्ये इति प्राप्ते- ।", "73108": "<<ह्रस्वस्य गुणः>> - हे हरि स् इति स्थिते ह्रस्वस्य गुणः ।सम्बुद्धौ चे॑त्यतः सम्बुद्धावित्यनुवर्तते । तदाह — ह्रस्वस्येत्यादिना । अनेन रेफादिकारस्य गुण एकारः । सम्बुद्धिलोप इति । एङः परत्वादिति भावः । नत्वत्र ह्रस्वात्परत्वमस्ति, परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्रस्वात्परत्वाऽभावात् । हरिमिति । अमि पूर्वरूपे रूपम् । हरीनिति । पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् ।", "73109": "", "73110": "<<ऋतो ङिसर्वनामस्थानयोः>> - ऋतो ङि । 'ह्रस्वस्य गुणः' इत्यतो॒गुण॑ इत्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतम् 'ऋत' इत्यनेन विशेष्यते, ततस्तदन्तविधिस्तदाह — ङाविति ।", "73111": "<<घेर्ङिति>> - घेर्ङिति ।सुपि चे॑त्यतःसुपी॑तिह्रस्वस्ये॑त्यतो 'गुण' इति चानुवर्तते । तदाह-घिसंज्ञकस्येत्यादिना । यणोऽपवादः । हरये इति । गुणे यादेशः । सुपि किं पट्वीति ।वोतो गुणवचना॑दिति ङीष् । तस्य ङित्त्वेऽपि सुप्त्वाऽभावात्तस्मिन् परतो न गुण इत्यर्थः । नचघेङी॑त्येव सूत्र्यताम्, इद्ग्रहणं न कर्तव्यम्,यस्मिन् विधि॑रिति परिभाषया ङकारादौ सुपीत्यर्थलाभादिति वाच्यम्, एवं सति 'आण्नद्याः' इत्यत्रापि ङीत्येवानुवृत्तौ ङकारादेराम आङ्विधीयेत । ततश्चमत्या॑मित्यत्र आण्न स्यात् । आमो ङादित्वाऽभावात् । नच स्थानिवद्भावेन ङादित्वं शङ्क्यम् । अल्विधित्वात् । स्थानिनो ङेर्ङकारस्य इत्संज्ञालोपाभ्यामपह्मतत्वेन आम्स्थान्यल्त्वाऽभावात्, अनुबन्धानामनेकान्तत्वात् । एकान्तत्वपक्षे ।ञपि अल्ग्रहणेन अनुबन्धस्य ग्रहणं न भवति,अनेकाल्शित्सर्वस्ये॑त्यत्र शिद्ग्रहणाज्ज्ञापकात् । अन्यथा 'इदम इ' शित्यादिशितां शकारेणानुबन्धेन सहानेकाल्त्वादेव सिद्धे किं तेन । अतएव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एवसेह्र्रपिच्चे॑त्यत्र अपिदित्यर्थवत् । अन्यथा पित्कार्यस्याऽल्विध#इत्वात्तत्र स्थानिवद्भावस्यैवाऽप्रसक्त्या हेः पित्त्वस्यैवाऽप्रसक्तौ किं तन्निषेधेन । तदिदं स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपञ्चितम् । गुणे कृते इति ।ङसिङसो॑रिति शेषः । हरे-अस् इति स्थितेऽपदान्तत्वात्एङः पदान्ता॑दिति पूर्वरूपे अप्राप्ते, अयादेशे प्राप्ते — ।", "73112": "<<आण्नद्याः>> - आण्नद्याः ।अङ्गस्ये॑-त्यधिकृतं पञ्चम्या विपरिणम्यते ।नद्या॑इति पञ्चम्यन्तेन विशेष्यते, तदन्तविधिः ।घेर्ङिती॑त्यतोङिती॑त्यनुवृत्तं षष्ठ्या विपरिणम्यते, तदाह-नद्यन्तादित्यादिना ।", "73113": "<<याडापः>> - यडापः । 'आप' इति पञ्चमी ।धेर्ङिती॑त्यतो डितीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — आपः परस्येत्यादिना । टित्त्वादाद्यवयवः । वृद्धिरेचीति । या-ए इति स्थिते आकारस्य एकारस्य च स्थाने ऐकार एकादेश इति भावः । सवर्णेति । ङसिङसोः रमा अस् इति स्थिते याडागमे 'अकः सवर्णे दीर्घः' इति सवर्णदीर्घ इति भावः ।य॑डित्येव सुवचम् । 'अतो गुणे' इति पररूपं तु न, अकारोच्चारणसामर्थ्यात् । रमयोरिति । 'आङि चापः' इत्यात्त्वेऽयादेश इति भावः । रमाणामिति । 'ह्रस्वनद्यापः' इत्यत्राऽऽब्ग्रहणन्नुटि पर्जन्यवल्लक्षणप्रवृत्त्यानामी॑ति दीर्घे 'अट्कुप्वा' ङिति णत्वमिति भावः । रमायामिति । 'रमा-इ' इति स्थितेङेराम्नद्याम्नीभ्यः॑ इत्यामादेशे याडागमे सवर्णदीर्घ इति भावः । 'न विभक्तौ' इति मस्य नेत्त्वम् । सर्वशब्दाट्टापि सर्वाशब्दः । सोऽपि प्राये रमावत् । ङित्सु 'याडापः' इति प्राप्ते- ।", "73114": "<<सर्वनाम्नः स्याड्ढ्रस्वश्च>> - सर्वनाम्नः स्याड् । 'याडापः' इत्यत 'आप' इति पञ्चम्यन्तमनुवृत्तं, तेन 'सर्वनाम्न' इत्येतद्विशेष्यते । तदन्तविधिः ।घेर्ङिती॑त्यतो ङितीत्यनुवृत्तं षष्ठआ विपरिणम्यते । ततश्चआबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्या॑दित्यर्थः । टित्त्वादाद्यवयवः ।ह्रस्वश्चे॑ति वाक्यान्तरम् । 'आप' इत्यनुवृत्तमावर्तते । षष्ठन्ततया च विपरिणम्यते । तच्च 'ह्रस्व' इत्यत्रान्वेति ।आप स्थाने ह्रस्वो भवती॑ति तदर्थः । तदाह — आबन्तादिति । याटोऽपवाद इति । येन नाप्राप्तिन्यायादिति भावः । सर्वस्यै इति । सर्वा-ए इति स्थिते स्याट् । वकारोत्तराकारस्य ह्रस्वः, वृद्धिरिति भावः । सर्वस्या इति । ङसिङसोः सर्वा-अस इति स्थिते-स्याट्, आपो ह्रस्वः, सवर्णदीर्घ इति भावः । नन्वाबन्तस्य सर्वाशब्दस्य सर्वादिगणे पाठाऽभावात्कथं सर्वनामत्वमित्यत आह — एकादेश-स्येति । वकारादकारस्य आपश्च योऽयमेकादेशः सवर्णदीर्घः, तस्येत्यर्थः । नन्वेकादेशनिष्पन्नस्य आकारस्य पूर्वान्तत्वे आप्त्वाव्याघातादाबन्तत्वं व्याहतम् । न च परादिवत्त्वेन आबन्तत्वमपीति वाच्यम्, उभयत आश्रयणे नान्तादिवदिति निषेधादिति चेत्, सत्यम्-लिङ्गविशिष्टपरिभाषयाऽऽबन्तस्य सर्वनामत्वम् । आबन्तत्वं तु परादिवद्भावेनेत्याहुः । सर्वस्यामिति । ङौ सर्वा-इ इति स्थितेङेरा॑मित्याम् । सुटं बाधित्वा परत्वात्स्याट्, ह्रस्वश्च । सकृद्गतिन्यायान्न पुनः सुट् । एवमिति । सर्वादिगणपठिताविआआदय आबन्तत्वं प्राप्ताः सर्वाशब्दवदित्यर्थः । उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमुत्तरपूर्वा । 'दिङ्नामन्यन्तराले' इति बहुव्रीहिविशेषोऽयम् ।", "73115": "<<विभाषा द्वितीयातृतीयाभ्याम्>> - विभाषा ।घेर्ङिती॑त्यतो ङितीत्युनुवृत्तं षष्ठआ विपरिणम्यते । 'याडापः' इत्यत आप इति, 'सर्वनाम्नः स्याट्' इत्यतःस्या॑ङिति, 'ह्रस्व' इति चानुवर्तते । तदाह — आभ्यामित्यादिना । इदमिति ।विभाषा द्वितीयातृतीयाभ्या॑मिति सूत्रं न कर्तव्यमित्यर्थः । कुत इत्यत आह — तीयस्येति । विभाषाप्रकरणे तीयप्रत्ययान्तस्य ङित्सु सर्वनामत्वोपसङ्ख्यानादित्यर्थः । नच तीयस्य ङित्सूपसङ्ख्यानमेव त्यज्यतामिति वाच्यं, पुंनपुंसकार्थं तस्यावश्यकत्वात् । अम्बार्थेति । व्याख्यातमिदं पुंसीदन्ताधिकारे । तत्र नदीविषये उदाह्यतम्, अम्बार्थानुदाहरति-हे अम्बेत्यादि । शेषं रमावत् । अत्र भाष्येडलकवतीनां प्रतिषेधो वक्तव्यः । हे अम्बाडे । हे अम्बाले । हे अम्बिके । तदिदं वार्तिकं न कर्तव्यमित्युक्त्वाद्व्यच्कस्यैवाम्बार्थस्य ह्रस्व॑ इति स्थितम् । यथाश्रुतवार्तिके तु हे अल्लेत्यत्राऽव्याप्तिः स्यादिति तदाशयः । तदत्र फलितमाह — असंयुक्ता इति । द्व्यच्कानामम्बार्थानां ह्रस्व इत्यस्याङ्गत्वात्तदन्तविधिः । अतो जगदम्बेत्यत्र द्व्यच्काम्बान्तत्वाद्भवति ह्रस्वः । जरेति ।जृष् वयोहानौ॑ । 'षिद्भिदादिभ्यः' इत्यङ ।ऋदृशोऽङी॑ति गुणः, रपरत्वम् । अदन्तत्वाट्टाप्, सुः, हल्ङ्यादिना सुलोप इति भावः । जरसाविति । जराया जरसन्यतरस्या॑मिति अजादौ जरसादेश इति भावः । ननु शीभावे कृते सति आबन्तसन्निपातमुपजीव्य प्रवृत्तस्य तस्य सन्निपातपरिभाषया आबन्तत्वविधातकजरसादेशनिमित्तत्वाऽसम्भवेन जरसादेशाऽभावे आद्गुणे 'जरे' इत्येव स्यादित्यत आह — शोभावादिति । जरसि कृते तु आबभावान्न शीभाव इति भावः । जरसः । जरसं जरसौ जरसः । टा-जरसा । न चात्र जरा आ इति स्थिते जरसादेशं बाधित्वा परत्वात् 'आङि चापः' इत्येत्त्वेऽयादेशे जरयेत्येव युक्तमिति वाच्यम्, एकदेशविकृतन्यायेन कृतेऽप्येत्येव प्रवृत्तस्य जरसादेशस्य नित्यतया तस्याव प्रवृत्तेः, परान्नित्यस्य बलवत्त्वात्, आपः परस्य ङितः सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् । ङसिङसोः-जरसाः । अत्रापि पूर्ववद्याट् न । जरसोः । एत्त्वं बाधित्वा नित्यत्वाज्जरम् । आमि-जरसाम् । नन्वामि नुटि कृत#ए अजादिविभक्त्यभावात्कथं जरसादेश इत्यत आह — आमि नुट इति । ङौ जरसि । परमपि ङे रामं याटं च नित्य्त्वादन्तरङ्गत्वाच्च क्रमेण बाधित्वा जरस् । पक्षे हलादौ च रमावदिति । जरसादेशाऽभावपक्षे हलादावपि रमावदित्यर्थः । मतान्तरं दूषयितुमनुवदति-इह पूर्वेत्यादिना । इह=जराशब्दे जरा औ इति स्थिते शीभावमाश्रित्य जरसी इति केचिदाहुरित्यन्वयः । आश्रित्येत्यनन्तरं-॒जरसादेशे कृते॑ इति शेषः । ननु शीभावं बाधित्वा परत्वाज्जरसादेश एव युक्त इत्यत आह — पूर्वविप्रतिषेधेनेति ।विप्रतिषेधे पर॑मित्यत्र परशब्दस्येष्टवाचितामाश्रित्य क्वचित्पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थः । नन्वाबन्तसंनिपातमुपजीव्य प्रवृत्तस्य शीभावस्य संनिपातपरिभाषया आबन्तसंनिपातविघातकजरसादेशनिमित्तत्वं न सम्भवतीत्यत आह — संनिपातपरिभाषाया अनित्यतां चेति । तन्निर्मूलमिति । पूर्वविप्रतिषेधाश्रयणस्य भाष्यापरिगणितेष्वप्रवृत्तेः संनिपातपरिभाषायाः सर्वत्रानित्यत्वाश्रयणे प्रमाणाऽभावाच्चेति भावः । स्यादेतत् । जरसौ, जरसामित्यत्र 'औङ आपः' 'ह्रस्वनद्यापो नु' डित्यपेक्षया परत्वादस्तु जरसादेशः । अस्तु च ङेङसिङस्सु जरसे जरस इत्यत्र याटमन्तरङ्गत्वात् बाधित्वा जरसादेशः, अस्तु च ङौ जरसीत्यत्र नित्यत्वादाममन्तरङ्गत्वाद्याटं च बाधित्वा जरसादेशः । तथापि तस्य=जरसादेशस्य स्थानिवत्त्वेन आबन्तत्वात्तमाश्रित्य एत्त्वशीभावयाड्नुडागमाः कुतो न स्युः । किञ्चाऽनेनैव न्यायेन नासिकाशब्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाड्नुडागमान् बाधित्वा जरसादेशः । तथापि तस्य=जरसादेशस्य स्थानिवत्त्वेन आबन्तत्वात्तमाश्रित्य एत्त्वशीभावयाड्नुडागमा प्रसज्येरन्निति शङ्कते — यद्यपीत्यादिना । परिहरति — तथापीति । स्थानीभूताबन्ताश्रयविधय एते एत्त्वादिविधयः, अतस्तेषु कर्तव्येषु जरसाद्यादेशानां स्थानिवत्त्वं न सम्भवति, अनल्विधाविति तन्निषेधात् । ततश्च जरसाद्यादेशानामाबन्तत्वाऽलाभादेत्त्वादिविधियो न भवन्तीत्यर्थः । नन्वल्त्वव्याप्याऽकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरल्विधिः, नतु यथाकथञ्चिदलाश्रयविधिरपि, रामायेत्यत्रसुपि चे॑ति दीर्घाऽभावप्रसङ्गात् । तत्र हि दीर्घो यञादिसुपि परतो विधीयते । यादेशस्य च सुप्त्वं स्थानिवत्त्वलभ्यम् । यादेशस्य च एकारोऽल् स्थानी । ततश्च दीर्घस्य स्वनिमित्तभूतसुप्त्वांशे तदाश्रयत्वादनल्विधाविति निषेधाद्दीर्घे कर्तव्ये यादेशस्य स्थानिवत्त्वाऽभावेन सुप्त्वाऽभावत्तस्मिन् परतो दीर्घो न स्यात् । अल्त्वब्याप्याऽकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरल्विधिरित्याश्रयणे तु न दोषः । दीर्घो हि यादेशस्थानिभूतमेकारमेकारत्वेन नाश्रयति । किंतु सुप्त्वेनैव । सुप्त्वं चाल्त्वव्याप्यं न भवति, भ्यामादावपि सत्त्वात् । ततश्च दीर्घस्यानल्विधात्वात्तस्मिन् कर्तव्ये यादेशस्य स्थानिवत्त्वेन सुप्त्वसंभवाद्दीर्घो निर्बाधः । प्रकृते च एत्त्वादिविधयो जरसादेशस्थानीभूताबन्तत्वपुरस्कारेण संभवत्प्रवृत्तिकाः । आप्त्वं च समुदास्य धर्मः, नत्वाकारमात्रस्या । ततश्च एत्त्वादिविधीनामनल्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वेनाबन्तत्वं दुर्वारमित्याशङ्क्याह — आ आबित्यादिना । 'आङि चापः' इत्यादिषु सवर्णदीर्घेण आ आबिति प्रश्लिष्य आकाररूपाबन्ताश्रयणेन एत्त्वादयो विधीयन्ते । ततश्च ते आकारत्वरूपेणाप्यापमाश्रयन्तीति तेषामल्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वादाबन्तत्वं न संभवति । ततश्च एत्त्वादिविधयोऽत्र न भवन्तीत्यर्थः । प्रसङ्गादाह — एवमिति । यथा 'आङि चापः' इत्यादिषु आ-आबिति प्रश्लेषः, एवं 'हल्ङ्याब्भ्यां' इत्यत्र ङी ई, आ आबिति सवर्णदीर्घेण प्रश्लेषाद्दीर्घग्रहणं प्रत्याख्येयमित्यन्वयः । ननु तत्र दीर्घग्रहणाऽभावे — ॒अतिखट्वः॑निष्कौशाम्बि॑रित्यत्रापि सुलोपः स्यात् । तथाहि खट्वाशब्दष्टाबन्तः खट्वामतिक्रान्तोऽतिखट्वः ।अत्यादयः क्रान्ताद्यर्थे ॑ इति समासः । कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी ।तेन निर्वृत्त मित्यण् ।टिड्ढाण॑ञिति ङीप् । निष्क्रान्तः कौशाम्ब्याः-निष्कौशाम्बिः ।निरादयः क्रान्ताद्यर्थे पञ्चम्या॑ इति समासः । उभयत्रापिगोस्त्रियो॑रिति आपो ङीपश्च ह्रस्वः, ततः सुबुत्पत्तिरिति स्थितिः । अत्र स्थानिवत्त्वेनाऽऽकाररूपाबन्तत्वस्य ईकाररूपव्यन्तत्वस्य चानपायात्सोर्हल्ङ्यादिलोपे प्राप्ते तन्निवृत्त्यर्थं दीर्घग्रहणमावश्यकमेवेत्यत आह — अतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेरिति । अयमाशयः-ङी ई, आ आबिति प्रश्लेषे सति आत्वरूपेण ईत्वरूपेण च ङ्यापावाश्रित्य सुलोपप्रवृत्तिर्वक्तव्या । ईत्वात्वयोश्च अल्त्वव्याप्यधर्मत्वात्तत्पुरस्कारेण प्रवर्तमानवलोपविधेरल्विधित्वान्न स्थानिवत्त्वेन ङ्याबन्तत्वमस्तीति न सुलोप इति । एवञ्च दीर्घग्रहणप्रयोजनस्य प्रश्लेषेणैव सिद्धत्वाद्धल्ङ्यादिसूत्रे दीर्घग्रहणं न कर्तव्यमित्यन्यत्र विस्तरः । स्यादेतत् । 'याडापः' इत्यत्रआ-आ॑बिति प्रश्लेषे सत्यपि अतिखट्वायेत्यत्र याड् दुर्वारः । खट्वामतिक्रान्तोऽतिखट्वः । 'अत्यादयः' इति समासेगोस्त्रियो॑रिति ह्रस्वत्वे रूपम् । ततो ङेर्यादेशेसुपि चे॑ति दीर्घे अतिखट्वायेति रूपम् । तत्र 'याडापः' इति याट् स्यात् । दीर्घे सति स्थानिवत्त्वेनाऽऽकाररूपाप्त्वस्य सत्त्वात् । नचाकारत्वस्य अल्त्वव्याप्यधर्मत्वात्तत्पुरस्कारेण प्रवर्तमानयाड्विधेरल्विधित्वान्न दीर्घस्य स्थानिवत्त्वेनाऽऽकारत्वावच्छिन्नाप्त्वमिति वाच्यं, याड्विविधिर्हि आकाररूपाऽऽबाश्रयः । तत्र आकाररूपत्वं दीर्घस्य स्वत एव सिद्धमिति न तत्स्थानिवत्त्वलभ्यम् । किन्तु आप्त्वमेव स्थानिवत्त्वलभ्यम् । आप्त्वं च समुदायधर्म एव । नत्वल्त्वव्याप्यधर्मः । तेन रूपेण स्थान्यलाश्रयत्वेऽपि अल्विधित्वाऽभावाद्याड्विधौ स्थानिवत्त्वं दुर्वारमिति शङ्कामुद्भाव्यपरिहरति-न चेति । एवमपीति । 'याडाप#ः' इत्यत्राऽऽकारप्रश्लेषे सत्यपीत्यर्थः ।स्वाश्रयमिति । स्वः आकार आश्रयो यस्याकारत्वस्य तत्स्वाश्रयम् । स्तवस्सिद्धमिति यावत् । एवमपीत्यारभ्य याट् स्यादित्यन्तः संदर्भः शङ्कापरः । इति च न वाच्यमित्यन्वयः । कुत इत्यत आह — आबन्तं यदङ्गमिति । 'याडपः' इत्यत्र हि आब्ग्रहणेन प्रत्ययग्रहणपरिभाषया आबन्तं गृह्रते । अङ्गस्येति तद्विशेषणं भवति । ततश्चाबन्तादङ्गात्परस्य ङितो याड्विधीयते । यस्माच्छब्दाद्यः प्रत्ययो विहितस्तादृशप्रकृतिभूतशब्दरूपाद्यवयवकस्य तत्प्रत्ययरूपान्तावयवकस्य समुदायस्य ग्रहणमिति परभाषार्थः । प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायस्य ग्रहणमिति पर्यवसन्नार्थः । प्रकृते चातिखट्वायेत्यत्र खट्वशब्दाददन्ताट्टाब्विधानात्खट्वेत्येव टाबन्तम् । तत्तु ङितं विभकिंत प्रति नाङ्गम्, अतिखट्वशब्दादेव ङितो विधानात् । यत्त्वमङ्गनतिखट्वेति, न तट्टाबन्तमतः स्थानिवत्त्वेन आप्त्वे सत्यपि न याडिति भावः । ननुष्यङः सम्प्रसारण॑मित्यत्र भाष्येस्त्रीप्रत्यये चानुपसर्जने ने॑त्युपसर्जनादन्यत्रैव तदादिनियमनिषेधस्योक्ततया तदन्ते गृहीते तेनाङ्गस्य विशेषणादाबन्तान्तं यदङ्गमित्यर्थादतिखट्वायेत्यत्र स दोषस्तदवस्थ इति वाच्यम्, अङ्गस्य विशेषणत्वाश्रयणात् । अत एवङ्याब्ग्रहणे अदीर्घ आदेशो न स्थानिव॑दिति वार्तिककारमतं ह्रस्वे फलाऽभावेन स्थानिवद्भावाऽप्रसक्त्या कथं तत्स्थानिके दीर्घे तल्लाभ इति भाष्यकारेण दूषितम् । अथ नासिकाशब्दे विशेषमाह — पद्दन्निति । शसि-नसः । टा-नसा । नोभ्यामित्यादीति । नस् — भ्यामित्यत्र 'स्वादिषु' इति पदत्वे 'ससजुषो रुः' इति रुत्वेहशि चे॑त्युत्वे गुणे नोभ्यां नोभिरित्यादि रूपमित्यर्थः । नस्सु । पक्षे इति । शसादौ नशादेशाऽभावपक्षे इत्यर्थः । अथ निशाशब्दे विशेषं दर्शयति-निशाया निशिति ।शसादौ 'पद्दन्नो' इत्यनेने॑ति शेषः । निश्-भ्यामिति स्थिते ।", "73116": "<<ङेराम्नद्याम्नीभ्यः>> - ङेराम्नद्याम्नीभ्यः । आङ्गत्वात्प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह — नद्यन्तादित्यादिना ।ङे॑रिति सप्तम्येकवचनं, व्याख्यानात् । नन्वामि कृते 'ह्रस्वनद्यापः' इति नुटि 'यदागमाः' इति न्यायेन नामोऽप्याङ्ग्रहणेन ग्रहणात् 'आण्नद्या' इति आडागमः स्यादित्याशङ्क्य आह — इह परत्वादिति । न च कृतेऽप्याडागमे नुट् किं न स्यादिति वाच्यं, विप्रतिषेधेन यद्बाधितं तद्बाधितमेवे॑ति न्यायादिति भावः । शेषमीप्रत्ययान्तेति । वातप्रमीशब्दस्यापि इवर्णान्तधातुत्वाऽभावेन अमि शसि ङौ च 'एरनेकाचः' इति यणः प्रात्प्यभावादिति भावः । लक्षेर्मुट् चे॑ति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः । लक्ष्मीमतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्रस्वः । अङ्यन्तत्वादिति । औणादिकप्रत्ययान्तत्वादिति बावः । शेषं बहुश्रेयसीवदिति ।प्रथमलिङ्गग्रहणं चे॑ति नदीत्वादिति भावः । अथ धातुत्वमापन्ने कुमारीशब्दे पुंलिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाह-कुमारीमिच्छन्नित्यादिना । क्यजन्तादिति । कुमारीमात्मन इच्छतीत्यर्थेसुपः आत्मनः क्य॑जिति क्यच् । कचावितौ । 'सन#आद्यन्ता' इति क्यजन्तस्य धातुत्वात्तदवयवसुपोऽमःसुपो धातुप्रातिपदिकयो॑रिति लुक् । ततः क्विप् चे॑ति कर्तरि क्विप् । कपावितौ । इकार उच्चारणार्थः ।अतो लोपः,॒॑लोपो व्योः॑ इति यलोपः । वेरपृक्तस्ये॑ति वलोपः ।कुमारी॑ति रूपम् । आचारक्विबन्तादिति । कुमारीवाचरतीत्यर्थेसर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः॑ इति क्विप् । कपावितौ ।वेरपृक्तस्ये॑ति वलोपः । 'सनाद्यन्ताः' इति धातुत्वात्कर्तरि क्विप् । तस्य च पूर्वत्कृत्स्नलोपः ।कुमारीति॑रूपम् । नच क्विबर्थं प्रति कुमारीशब्दस्य उपसर्जनत्वात् 'गोस्त्रियोः' इति ह्रस्वः शङ्क्यः,गोस्त्रियो॑रित्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात्, कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात् । हल्ङ्याबिति सुलोप इति । नच क्यजन्ते कथं सोर्लोपः, पूर्वस्माद्विधावल्लोपस्यस्थानिवद्भावादिति वाच्यं,क्वौ लुप्तं न स्थानिव॑दिति निषेधादिति भावः ।", "73117": "<<इदुद्भ्याम्>> - इदुद्भ्याम् । 'ङेराम्' इति सूत्रान्नदीग्रहणं ङेरामिति चानुवर्तते । तदाह — नदीसंज्ञकाभ्यामित्यादिना । पक्षे इति । नदीत्वाऽभावपक्षे 'अच्च घेः' इत्यत्वसंनियोगशिष्टमौत्वमित्यर्थः । मत्यां मताविति । नदीत्वे तदभावे च रूपम् । मत्यामित्यत्र संनिपातपरिभाषाया अनित्यत्वाद्यण् । एवं श्रुत्यादय इति । आदिना स्मृत्यादिसग्रहः ।", "73118": "", "73119": "<<औदच्च घेः>> - ॒हरि इ॑ इति स्थितेघेर्ङिती॑ति गुणे प्राप्ते — अच्च घेः । ङेरामि॑त्यतोङे॑रित्यनुवर्तते ।इदुद्भ्या॑मितिऔ॑दिति च सूत्रमनुवर्तते । तदाह — इदुद्भ्यामिति । अन्तादेश इति । अलोऽन्त्यपरिभाषालभ्यमेतत् । वृद्धिरिति । हर-औ इति स्थिते वृद्धिरेची॑ति वृद्धौ, हरौ इति रूपमित्यर्थः । हरिष्विति ।आदेशप्रत्यययो॑रिति षत्वम् । अथ सखिशब्दात्सुः । सखि-स् इति स्थिते ।", "73120": "<<आङो नाऽस्त्रियाम्>> - आङो । घेः परस्येति । 'अच्च घेः' इत्यतो घिग्रहणानुवृत्तेरिति भावः । हरिणेति । नादेशेअट्कुप्वा॑ङिति णत्वम् । नन्वाङो विहितो नाभावः कथं टा इत्यस्य स्यादित्यत आह — आङितीति । प्राचामाचार्याणां शास्त्रे संञ्ज्ञैषेत्यर्थः । मत्येति ।स्त्रियां क्ति॑निति क्तिन्नन्तमतिशब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भावः । हरिभ्याम् । हरिभिः । हरि-ए इति स्थिते ।", "74001": "<<णौ चङ्युपधाया ह्रस्वः>> - णौ चङि । अङ्गाधिकारादाह — यदङ्गमिति । उपधायाः किम् । अचकाङ्क्षत् । चङि किम् । कारयति । णौ किम् ।चह्रुपधाया ह्रस्व॑इत्युच्यमाने अदीदपदित्यत्र दाधातोण्र्यन्ताल्लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्रस्वे सति पुङ्न स्यात् । णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाऽभावान् ह्रस्वः ।द्विर्वचनेऽची॑ति निषेधस्तु न शङ्क्यः, द्वित्वनिमित्तचङ उपधया व्यवहितत्वात् । तथा च प्रकृते कम त इति स्थितम् । चङि ।एकाचो द्वे प्रथमस्ये॑तिअजादेर्द्वितीयस्ये॑ति चाधिकृतम् ।लिटि धातोरनभ्यासस्ये॑ति सूत्रं लिटीति वर्जमनुवर्तते । तदाह — चङि पर इत्यादिना । तथा च कमित्यस्य द्वित्वे हलादिशेषे क कम त इति स्थितम् ।", "74002": "<<नाग्लोपिशास्वृदिताम्>> - नाग्लोपि । 'णौ चङ्युपदायाः' इत्यनुवर्तते । णावित्यावर्तते । एकमग्लोपिन इत्यत्रान्वेति, द्वितीयं तु निषेधे परनिमित्तं । तदाह — णिच्यग्लोपन इत्यादि । अलुलोकदिति । ऋदित्त्वाऽन्नाग्लोपीति निषेधेन उपधाह्रस्वाऽभावे सति लघुपरकत्वाऽभावान्नाऽभ्यासदीर्घ इति भावः । उदितत्वादिति । 'वृतु वृधु' इत्युदितत्वम्उदितो वे॑त्यण्यन्तात् क्त्वायामिड्विकल्पार्थम् । ण्यन्तात्तु णिचा व्यवधानान्नेड्विकल्पप्रसक्तिः, अतो णिज्विकल्पो विज्ञायते इति भावः । पूरी आप्यायने । इण्निषेधायेति । अण्यन्तात्क्त्वायामिण्निषेधार्थमीदित्त्वम् । ण्यन्तात्तु णिचा व्यवधानादप्रसक्तेः । अतो णिज्विकल्पो विज्ञायते इत्यर्थः । स्वदधातुः षोपदेशः । तदाह - असिष्वददिति । आदेशसकारत्वात्षः । अभ्यासेऽकारस्य संयोगपरकत्वेन गुरुत्वान्नाऽभ्यासदीर्घः ।दीर्घस्य त्विति.दीर्घमध्यस्य त्वित्यर्थः । अषोपदेशत्वादिति । ह्रस्वमध्यस्यैव स्वदेः षोपदेशेषु पररिगणनादिति भावः । इत्यास्वदीयाः । आ धृषाद्वेति । गणसूत्रम् । विभाषितणिचेति । विकल्पितणिच्काः प्रत्येतव्या इत्यर्थः । आङभिव्याप्ताविति मत्वा आह - धृषधातुमभिव्याप्येति । णिजभावपक्षे आह — अयौक्षीदिति । अर्च पूजायामिति । अयमनुदात्तेदिति शाकटायनः । अर्चयते । अर्चते । अस्य भ्वादौ पाठोऽनार्षः, अनेनैव सिद्धेः । न च परस्मैपदार्थं भ्वादावर्चेः पाठ इति वाच्यम्, भ्वादौ तस्याप्यात्मनेपदीयतायाः शाकटायनसंमतत्वेन माधवोक्तेः । एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिकएवेत्याहुः । ली द्रवीकरणे । लाययतीति । लीलोरिति नुक्तु न, लासाहचर्याद्धेतुमण्णावेवाऽस्य प्रवृत्तेः । लेतेति ।विभाषा लीयते॑रित्यात्त्वं तु न, तत्र श्नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् । वृञ् आवरणे । वरिता - वरीतेति ।वृतो वे॑ति दीर्घः । आशीर्लिङि - व्रियात् । आत्मनेपदे तुलिङिसचो॑रितिवेट् । वृषीष्ट — वरिषीष्ट । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः ।न लिङी॑ति इटो न दीर्घः । अवृत । ज्रि चेति । ह्रस्वान्तोऽयम् । रिच वियोजनेइति । अनिडयम् । ततश्च णिजभावपक्षे नेट् । तदाह — रेक्तेति । शिष असर्वेति । अयमप्यनिट् । तदाह — शेष्टेति । अशिक्षदिति ।शल इगुपधा॑दिति क्सः । अयं विपूर्वोऽतिशये इति । 'वर्तते' इति शेषः । अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते । तृप तृप्ताविति । अनिट्सु श्यना निर्देशादयं सेट् । तदाह — तर्पितेति । छृदी संदीपने इति । ईदित्त्वं निष्ठायामिण्निषेधार्थम् । धुवति स्फुटितेति । शविकरणस्य रूपम् । शस्य ङित्त्वाद्गुणाऽभावे उवङ् । प्रीञ् तर्पणे । प्रीणयतीति ।धूञ्प्रीञो॑रिति वार्तिकान्नुगिति भावः । हरदत्तेति । अनेन भाष्याऽसंमतत्वं सूचितम् । उपसर्गाच्चेति । दैघ्र्ये तूपसर्गादनुपसर्गाच्च परस्तनुधातुराधृषीयो वेदितव्य इत्यर्थः । श्रद्धोपकरमयोस्त्वनुपसर्गादेवेति भावः । वच परिभाषणे । अवाक्षीदिति ।अस्यातिवक्ती॑ति लुका निर्देशादङ्नेति भावः ।वचिस्वपी॑ति संप्रसारणम्- उच्यात् । इत्याधृषीयाः । अथाऽदन्ता इति । 'वक्ष्यन्ते' इति शेषः । अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः । तत्र कथदातोर्णिचि अतोलोपे 'कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति । तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह - अल्लोपस्य स्थानिवद्भावादिति ।अचः परस्मि॑न्नित्यनेनेति भावः । अत्रेदमवधेयं — स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः । अन्यथा 'नायक' इत्यत्र ईकार स्थानिकस्य ऐकारस्य आयादेशानापत्तेः । ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् ।अचः परस्मि॑न्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् । अतोऽत्र थकारादकारे सति प्रसक्तस्य उपधावृद्ध्यभावस्याऽशास्त्रीयत्वेऽप्यतिदेश इतीति सिद्धम् । लुङि चङि 'अचकथ' दित्यत्र सन्वत्त्वमाशङ्क्याह — अग्लोपित्वादिति । सन्वत्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वं नापेक्षत इति पृथगुक्तिः । एवं वरादौ सर्वत्र ज्ञेयम् । गण सङ्ख्याने । चङि अल्लोपस्य स्थानिवत्त्वाद्दीर्घसन्वद्भावयोरभावेअजगण॑दित्येव प्राप्ते आह —", "74003": "<<भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्>> - भ्राजभास ।णौ चङ्युपधाया ह्रस्वः॑ इत्यनुवर्तते । तदाह - एषामिति । नित्ये उपधाह्रस्वे प्राप्ते विकल्पोऽयम् । ह्रस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्य आह — अपीपिडदिति । अत्र उत्तरखण्डे ह्रस्वः, पूर्वखण्डे तु दीर्घः । ह्रस्वाऽभावपक्षे तु लघुपरकत्वाऽभावात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घ इति मत्वाह — अपीपीडदिति । अत्र उत्तरखण्डे दीर्घः । पूर्वखण्डे ह्रस्वः । नट अवस्पन्दने । इति । अवस्पन्दनं नाटम् । नाटयति । अनीनटत् । श्रथ प्रयत्ने । श्राथयति । अशिश्रथत् । सन्वत्त्वविधौ नेकहल्व्यवधनेऽपि लघुपरत्वं न विरुध्यते, अत्स्मृदृत्वरे॑ति ईत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात् । अन्यथा अपप्रथदित्यादौ अनेकहल्व्यवधानाल्लघुपरत्वाऽभावादेव इत्त्वाऽप्रसक्त्या किं तेन । पृ पूरणे । ननु ह्रस्वात् एवायं धातुर्निर्दिश्यतां, तावतैव पारयतीत्यादि सिद्धेः । न च णिजभावपक्षे परिता परिष्यतीत्यत्र इडर्थं दीर्गोच्चारणम्, ऋदन्तत्वे अनिट्कत्वप्रसिङ्गादिति वाच्यं, चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्त आह - दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गमिति ।पृधातो॑रिति शेषः । णिचः पाक्षिकतवे तु परित#एत्यादौ पर्तेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः । ननु ह्रस्वान्तत्वेऽपि परितेत्यादौ इट् कुतो न स्यादित्यत आह- तद्धि सेट्कत्वायेति । हि = यतः, तत् = दीर्घोच्चारणं परितेत्यादौ सेट्कत्वार्थम् ऋदन्तत्वे तु इण्न स्यात्,ऊदृदन्तै॑रित्यनिट्कारिकासु ॠदन्तस्य पर्युदासेन ऋदन्तस्याऽनिट्कत्वावगमादिति भावः । ननु पृधातोर्णिचः पाक्षिकत्वज्ञापनस्य किं फलम् । श्नाविकरमश्नुविकरणपठिताभ्यामेव पृधातुभ्यां परितेत्यादिसिद्धेरित्यत आह — एवं चेति । उक्तरीत्या पृधातोर्णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः । [पारयति] परतीति ।उदोष्ठपूर्वस्ये॑त्युत्वं तु न भवति, पराभ्यां गुणवृद्धिभ्यां बाधादिति भावः । ऊर्ज बलेति ।सन्वल्लघूनी॑ति सूत्रं द्वेधा व्यख्यातं प्राक् । तत्र चङि 'न न्द्राः' इति निषेधात्, 'जि' इति णिजन्तस्य द्वित्वे उत्तरखण्डे चङ्परे णौ लघोरभावात्प्रथमव्याख्यानेऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घः, और्जिजत् । द्वितीयव्याख्याने तु चङ्परे णौ यदङ्गम् ऊर्ज इत्येतत्, तदीयस्याभ्यासस्य चङमादाय वा णिचं लुप्तमादाय वा लघुपरकत्वाभ्यासस्य दीर्घः, और्जीजत् । एवमेव एवंजातीयकेषु द्रष्टव्यम् । प्रथ प्रख्याने । प्राथयतीति । णिचि उपधावृद्धिरिति भावः । नन्वस्य घाटादिकत्वेन मित्त्वाद्ध्रस्वः स्यादित्यत आह — नान्ये इति । ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः । घाटादिकस्य तु मित्त्वाद्धेतुमण्णिचिप्रथयती॑त्येव भवति । न च चौरादिकस्यैव मित्त्वार्थं घटादावनुवादः किं न स्यादिति वाच्यं, 'नान्ये मितोऽहेतौ' इति निषेधादित्यलम् ।", "74004": "<<लोपः पिबतेरीच्चाभ्यासस्य>> - लोपः पिबतेः । चङ्परे णाविति । 'णौ चङ्युपधायाः' इत्यतस्तदनुवृत्तेरिति भावः । अपीप्यदिति ।नानर्थकेऽलोऽन्त्यविधि॑रित्स्य अनभ्यासविकार इति निषेधादभ्यासाऽन्त्यस्य ईत्त्वम् । इह उपधालोपे कृतेऽग्लोपित्वादलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधिः । अर्तिहीति पुगिति । 'क्रमेणोदाह्यियते' इति शेषः । अर्पयतीति । ऋधातोरुदाहरणम् । वृदिंध बाधित्वा नित्यत्वात् पुक् । गुणः । ह्येपयतीति ।ह्यी लज्जाया॑मित्यस्य रूपम् । व्लेपयतीति । 'व्ली विशरणे' इत्यस्य रूपम् । रेपयतीति । 'री क्षये' इत्यस्योदाहरणम् । 'क्नूयी शब्दे' इत्यस्य क्नोपयतीत्युदाहरिष्यन्नाह — यलोप इति । क्नूयीधातोर्णौ पुकिलोपो व्यो॑रिति यलोप इत्यर्थः । ततः क्नूप् इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद्गुणः । क्ष्मापयतीति । 'क्ष्मायी विधूनने' अस्माण्णौ पुकि यलोपः । आदन्तस्योदाहरति — स्थापयतीति । लुङि चङि अतिष्ठप् अ त् इति स्थिते —", "74005": "<<तिष्ठतेरित्>> - तिष्ठतेरित् । 'णौ चङ्युपधायाः' इत्यनुवर्तते । तदाह — उपधाया इति ।", "74006": "<<जिघ्रतेर्वा>> - जिघ्रतेर्वा । घ्राधातोरुपधाया इद्वा स्याच्चङ्परे णावित्यर्थः । अजिघ्रप् अ त् इति स्थिते उपधाया विकल्पः । उरृदिति । धातोरुपधाया ऋकारस्य ऋद्वा चङ्परे णाविति व्याख्यातं चुरादौ । अचीकृतदिति.कृत् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वादित्त्वे तस्यदीर्गे रूपम् । अचिकीर्तदिति । कृत् इ अ त् इति स्थिते 'उरृ' दित्युपधाया ऋत्वाऽभावपक्षेउपधायाश्चे॑ति इत्त्वे रपरत्वे 'किर्न्' इत्यस्य द्वित्वे उत्तरखण्डेउपधायां चे॑ति दीर्घे रूपम् । अवीवृतदिति ।वृतु वर्तने॑ । णिचि लघूपधगुणं बाधित्वाउरृत् । चङिवृत्इत्यस्य द्वित्वे उरदत्वे सन्वत्तवादित्त्वं दीर्घश्चेति भावः । अववर्तदिति । ऋत्त्वाऽभावपक्षे वृद्धित्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाऽभावान्न सन्वत्तवदीर्घौ । अमीमृजदिति । उपधाया ऋत्त्वपक्षे रूपम् । अममार्जिदिति । उपधाया ऋत्तवाऽभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डेमृजेर्वृद्धि॑रिति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाऽभावान्न सन्वत्त्वम् । पातर्णौ लुगिति । लुगागम इत्यर्थः । पुकोऽपवाद इति । आदन्तलक्षणपुकोऽपवादैत्यर्थः ।यद्यपि 'पाल रक्षणे' इति धातोरेव सिद्धं,तथापि पुको निवृत्तिः फलम् ।", "74007": "<<उरृत्>> - उरृत् । 'ऋ' इत्स्यउ॑रिति षष्ठन्तं रूपम् ।णौ चङ्युपधायाः॑इत्यनुवर्तते ।जिघ्रतेर्वे॑त्यतो वेति । तदाह — उपधाया इति । ननु ऋकारस्य ऋकारविधिव्र्यर्थ इत्यत आह — इररारामपवाद इति । 'कृत संशब्दने'अचीकृत॑दिदित्यादौउपधायाश्चे॑ति इत्त्वे रपरत्वे इर्प्राप्तः,अमीमृज॑दित्यत्र तुमृजेर्वृद्धि॑रित्यार्प्राप्तः, प्रकृतपृथधातौ तु चङि णिलोपे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर्प्राप्तः, तेषामपवाद इत्यर्थः । अपीपृथदिति । णिचमाश्रित्य प्राप्तं गुणं बाधित्वा ऋकारे, द्वित्वे, उरदत्त्वे, हलादिशेष सन्वत्त्वादित्वे, दीर्गे, रूपमिति भावः । अपपर्थदिति । ऋत्वाऽभावपक्षेद्वर्वचनेऽची॑ति निषेधाद्गुणात्प्राक् द्वित्वे उरदत्वे हलादिशेषे ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यतर्लघुपरकत्वाऽभावेन सन्वत्त्वविरहादित्त्वदीर्घौ नेति भावः । अट्ट षुट्ट अनादरे । अयं दोपध इति । अट्टधातुरित्यर्थः । दकारस्य ष्टुत्वचर्त्वाभ्यां निर्देशैति भावः । दोपधत्वस्य प्रयोजनमाह — ष्टुत्वस्येति । तथाच दकारं विहाय 'टि' इत्यस्य द्वित्व अद् टिटत् इति स्थिते दस्य ष्टुत्वे चत्व चआट्टिट॑दिति रूपमिष्टं सिद्ध्यति । स्वाभाविकटोपधत्वे तु 'न न्द्रा' इति निषेधाऽभावाट्टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषेणाऽभ्यासे प्रथमटकारस्य अनिवृत्तौ आटिट्टदिति अनिष्टं रूपं स्यादिति भावः । ष्मिङ् अनादरे । ननु णिचश्चेत्यात्मनेपदसिद्धेः किमर्थं ङित्करणमित्यताअह - णिजन्तात्तङिति । तङेवेत्यर्थः । अकत्र्रभिप्रायेऽपि फले णिजन्तादात्मेपदार्थं ङित्करणमिति यावत् । ननु कृतेऽपि ङित्करणे णिजन्तस्य ङित्त्वाऽभावात्कथमुक्तप्रयोजनलाभ इत्यत आह — अवयवेऽचरितार्थत्वादिति । ण्यन्तावयवे ष्मिङ्धातौ ङित्त्वं व्यर्थं, तस्य णिचं विना प्रयोगाऽभावात् । ततश्चाऽवयवे श्रुतं ङित्त्वं ण्यन्तादेव कार्यं साधयतीत्यर्थः । स्माययते इति । णिचि वृद्धौ आयादेशे स्मायीति ण्यन्ताल्लटस्तिपि शपि गुणाऽयादेशाविति भावः । असिष्मयत । तुल उन्माने । कथमिति । लघूपधगुणप्रसङ्गादिति भावः । तुलनेति ।ण्यासश्रन्थो यु॑जिति भावः । समाधत्ते — अतुलोपमाभ्यामिति । आदन्तस्येति । तुलधातोण्र्यन्तात्पचाद्यचि निपातनाद्गुणाऽभावे स्त्रीत्वे तुलाशब्द आदन्तः ।ततस्तत्करोति तदाचष्टे॑ इतिणिचि इष्ठवत्त्वाट्टिलोपे तुलीति ण्यनताल्लटस्तिपि युचि चचुलयती॑तितुलने॑ति च रूपम् । अकारलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वान्न गुण इति भावः । व्रज मार्गेति । व्राजयति । मार्गयति । यद्वा — मार्गेति न धात्वन्तरम् । व्रजधातुर्मार्गसंस्कारे गतौ चेत्यर्थः । ज्ञप मिच्चेति । ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः । मित्त्वकार्यभागिति वा । धातुपाठेऽर्थनिर्देशाऽभावादाह — अयमिति ।प्रच्छ ज्ञीप्साया॑मित्यत्र ज्ञाने,श्लाघङ्नुङ्स्थाशपां ज्ञीप्स्यमानः॑ इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः ।", "74008": "", "74009": "<<दयतेर्दिगि लिटि>> - दयतेर्दिगि ।दिगी॑ति लुप्तप्रथमाकम् ।देङ्धातोर्दिगीत्यादेशः स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदग्ये इत्यादि स्यादित्यत आह — दिग्यादेशेनेति । एतच्च स्पष्टम् । वृत्तिरिति । भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे दिग्याथे दिग्यिध्वे । दिग्ये दिग्यिवहे दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट ।", "74010": "<<ऋतश्च संयोगादेर्गुणः>> - ऋतश्च । लिटीति ।दयतेर्दिगि लिटी॑त्यतस्तदनुवृत्तेरिति भावः । ननु तिप्सिप्मिप्सु सार्वधातुकार्धधातुकयोरित्येव गुणे सिद्धे किमर्थमिदमित्यत आह — किदर्थमपीदमिति । अतुसादिकिदर्थं णलाद्यकिदर्थं चेत्यर्थः । ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वाण्णलिअचो ञ्णिती॑ति वृद्धिप्रसङ्गात्कथं णल्ययं गुण इत्यत आह — परत्वाण्णल्यपि भवतीति ।अचो ञ्णिती॑ति वृद्ध्यपेक्षया अस्य गुणस्य परत्वादित्यर्थः । तर्हिजह्वारे॑ति कथमित्यत आह — उपधावृद्धिरिति ।अत उपधाया इत्यनेने॑ति शेषः । जह्वर्थेति । क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दिति,ऋतो भारद्वाजस्ये॑ति च निषेधादत भावः । जह्वरथुः जह्वर । जह्वार-जह्वर जह्वरिम । क्रादिनियमादिट् । ह्वरतु । अह्वरत् । ह्वरेत् ।", "74011": "<<ऋच्छत्यॄताम्>> - ननु ऋ अतुस् इति स्थिते द्वित्वे उदरत्त्वे रपरत्वे हलादिशेषेअत आदे॑रिति दीर्घे आ ऋ अतुस् इति स्थितेअसंयोगा॑दिति कित्त्वादुत्तरखण्डस्य गुणाऽभावे यणं बाधित्वा परत्वाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह — ऋच्छत्यृताम् ।दयतेर्दिगि लिटी॑त्यतो लिटीति,॒ ऋतश्च संयोगादेर्गुण॑ इत्यतो गुण इति चानुवर्तते । ऋच्छति ऋ ऋत् एषां द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ऋकारप्रश्लेषो गम्यते । प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्रते, ऋवर्णान्तधातुग्रहणेऋतश्च संयोगादेर्गुणः॑ इत्यस्य वैयथ्र्यात् ।ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु॑ इति तौदादिकस्यऋच्छती॑त श्तिपा निर्देशः । भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धेः । तदाह — तौदादिकस्येत्यादिना । किदर्थमपीदं सूत्रं परतवादकित्यपि भवति । णलि प्राग्वदिति । 'ह्व कौटिल्ये' इत्यत्र उक्त्या रीत्या कित्सु चरितार्थोऽप्ययं गुणःअचो ञ्णिती॑ति वृद्ध्यपेक्षया परत्वाण्णल्यपि भवति, ततो रपरत्वे उपधावृद्धिरित्यर्थः । आरेति । ऋधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः । आरतुरिति । पूर्ववद्द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्तेऋच्छत्यृता॑मिति गुणे रपरत्वे सवर्णदीर्घ इति भावः । आरुरित्यप्येवम् ।", "74012": "<<शृदॄप्रां ह्रस्वो वा>> - शृदृप्राम् । शृ दृ पृ एषां द्वन्द्वः । लिटीति ।दयतेर्दिगि लिटीटत्यतस्तदनुवृत्तेरिति भावः । यद्यपि पूर्वसूत्रेषु क्वापि कितीति न दृष्टं तथापि अस्यऋच्छत्यृता॑मिति गुणाऽपवादत्वाद्गुणस्य च तस्य किदर्थत्वात्कितीत्युक्तम् । पप्रतुरिति । पपृ अतुस् इति स्थिते ऋकारस्य ह्रस्वे तस्य यणिति भावः । गुणपक्षे आह -पपरतुरिति । गुण एव तु न विकल्पितः, गुणाऽभावेवार्णादाङ्गं बलीयः॑ इति यणं बाधित्वाउदोष्ठए॑त्युत्त्वप्रसङ्गात् । पपरिथ पप्रथुः — पपरथुः पप्रपपर । पपार पपर पप्रिव पपरिव । 'वृतो वा' इति दीर्घविकल्पं मत्वा आह -परिता परितेति । परिष्यति — परीष्यति । पिपर्तु — पिपूर्तात् पिपूर्ताम् पिपुरतु । पिपूर्हि — पिपूर्तात् पिपूर्तम् पिपूर्त । पिपराणि पिपराव पिपराम । लङ्याह — अपिपरिति । अपि पृ त् इति स्थिते गुणे रपरत्वे हल्ङ्यादिना तकारलोपे रेफस्य विसर्गः । अपिपरुरिति । अभ्यस्तत्वात् जुस् । कृतेजुसि चे॑ति गुणे रपरत्वम् । अपिपः अपिपूर्तमपिपूर्त । अपिपरमपिपूर्व अपिपूर्म । केचिदिति । अन्ये आचार्या इत्यर्थः । ह्रस्वान्तत्वपक्षेउदोष्ठए॑त्युत्त्वं नेति मत्वा आह -पिपृत इति । ह्रस्वान्तस्य अनिट्त्वाल्लुडादौ पर्तेत्यादि । पिपृहि । अपार्षीदिति । ह्रस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः । नन्वाचार्यान्तरसंमतं ह्रस्वान्तत्वं कुतोऽस्माभिरादर्तव्यमित्यत आह — पाणिनीयेति । पाणिनिसंमतदीर्घान्तत्वस्यैवाश्रयणेतं रोदसी पिपृत॑मित्यादौउदोष्ठ॑त्युत्त्वापत्त्या॑ऋकारस्य ह्रस्वस्य श्रवणाऽनापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादत्यर्थः । डुभृञिति । अनिडयम् । ञित्त्वादुभयपदी । श्लौ सति द्वित्वनादौ बिभर्तीत्यादि स्थितम् ।", "74013": "<<केऽणः>> - केऽणः । ह्रस्वः स्यादिति ।शृदृप्रा॑मित्यतस्तदनुवृत्तेरिति भावः ।", "74014": "<<न कपि>> - न कपि । अणो ह्रस्व इति.॒केऽणः॑ इत्यतः,शृदृप्रा॑मित्यतश्च तदनुवृत्तेरिति भावः । ननुकल्याणपञ्चमीकः पक्ष॑ इत्यत्र पञ्चदशाहोरात्रात्मके पक्षेऽन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात्प्राधान्यं दुर्वारमित्यत आह — अत्र तिरोहितेति । रात्रे तत्प्रवेशाऽभावादप्राधान्यमिति भावः । भाष्ये एवमुदाहरणेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति — बहुकर्तृक इति । बहवः कर्तरो यस्येति विग्रहः । तदेवमपूरणीप्रियादिषित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति — अप्रियादिषु किमिति । कल्याणीप्रिय इति । कल्याणी प्रिया यस्येति विग्रहः । प्रियादिगणं पठति — प्रिया मनोज्ञेत्यादि । ननु भक्तिशब्दस्य प्रियादिषु पाठे दृढा भक्तिर्यस्य स दृढभक्तिरित्यत्र कथं पुंवत्त्वमित्यत आह — सामान्ये नपुंसकमिति ।आश्रित्ये॑ति शेषः । दृढमिति । पदसंस्कारपक्षे सामान्यपरतच्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः, ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वं नापैति, लिङ्गविशेषस्याऽविवक्षितत्वात्,वेदाः प्रमाण॑मितिवत् । अत्र चार्थे पस्फशाह्निकभाष्येशक्यं चानेन आमांसादिभिरपि क्षुत्प्रतिहन्तु॑मिति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह — स्त्रीत्वविवक्षायां त्विति । वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेर्नियमादिति भावः ।", "74015": "<<आपोऽन्यतरस्याम्>> - आपोऽन्यतरस्याम् । कपीति ।न कपी॑त्यतस्तदनुवृत्तेरिति भावः । आबन्तस्येति । प्रत्ययग्रहणपरिभाषया लब्धमिदम् । ह्रस्वो वेति ।शृद्दृप्रां ह्रस्वो वा॑ इत्यतस्तदनुवृत्तेरिति भावः ।न कपी॑ति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुवमालाक इति । बह्व्यो माला यस्येति विग्रहः । ह्रस्वपक्षे 'बहुलमालक' इति भावति । कपो वौकल्पिकत्वात् पक्षे बहुमालः । सर्वत्रस्त्रियाःपुंवदि॑ति पुंवत्त्वम् ।", "74016": "<<ऋदृशोऽङि गुणः>> - ऋदृशोऽङि । 'ऋ' इत्यङ्गविशेषणत्वात्तदन्तविधिः । तदाह — ऋवर्णान्तानामिति । अङभावे इति । अङभावपक्षे 'शल इगुपधा' दिति क्सादेशे प्राप्ते सतीत्यर्थः ।", "74017": "<<अस्यतेस्थुक्>> - अस्यतेस्थुक् । शेषं पूरयति — अङि परे इति ।ऋदृशोऽङी॑त्यतस्तदनुवृत्तेरिति भावः । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादस्धातोरन्तत्यावयवः । ननु पुषादित्वादेवाऽस्यतेश्च्लेरङि सिद्धेअस्यतिवक्तिख्यातिब्योऽङित्यत्राऽस्यतिग्रहणं व्यर्थमित्याशङ्क्य निराकरोति — अस्य पुषादित्वादित । तङर्थमिति ।पर्यास्थते॑त्यत्र आत्मनेपदेऽङर्थमस्यतिवक्तीत्यत्र अस्यतिग्रहणमित्यर्थः, पुषाद्यङः परस्मैपदमात्रविषयतया आत्मनपदे अप्रसक्तेरिति भावः । नन्वस्यतेः केवलपरस्मैपदित्वादात्मनपदं दुर्लभमित्यत आह — तङ् तु उपसर्गादिति वक्ष्यते इति ।पदव्यवस्थाया॑मिति शेषः । यसु प्रयत्ने ।", "74018": "<<श्वयतेरः>> - आयतेरः । आयतेः — अ इति च्छेदः । आयतेरिति श्तिपा निर्देशः । इआधातोरित्यर्थः ।अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारस्येति लभ्यते । 'ऋदृशोऽङो' इत्यतोऽङीत्यनुवर्तते । तदाह — आयतेरिकारस्येति । अआ अ त् इति स्थिते सवर्णदीर्घमाशङ्क्याह — पररूपमिति । आर्धधातुकोपदेशे अदन्तत्वाऽभावान्न अल्लोपः । अआन्निति । अआः अआतमआत । अआमआआव अआआम । अङभावपक्षे त्वाह — विभाषेति । इयङिति ।चङी॑ति द्वित्वमित्यपि ज्ञेयम् । तदाह — अशिइआयदिति । अङश्चङश्चाऽभावे तु अइआ ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्यामायादेशे अआआयीदित प्राप्ते आह — ह्म्यन्तेति न वृद्धिरिति । इआग्रहणादिति भावः । न चनेटी॑त्येव सिचि अइआ ईत् इति स्तिते सिचि वृद्ध्यपेक्षया परत्वादन्तरङ्गत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाऽभावेन सिचि वृद्ध्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेःह्म्यन्ते॑त्यत्र इआग्रहणं व्यर्तमिति व्याच्यम्, अनवकाशतया अपवादत्वेन गुणं बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम् । वृदित्यस्य व्याख्यानम् — यजादयो वृत्ता इति । ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह — भ्वादिस्त्वाकृतिगण इति । चुलुम्पतीति । चुलुम्पधातुर्लोपार्थकः, तस्यापि भ्वादिगणे पाठाच्छब्विकरणत्वमिति भावः । इति भ्वादय इति । नचैवं सति 'अद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्वं क्थमिति शङ्क्यं, शब्विकरणा भ्वादयः समाप्ता इत्यर्थात् । इति बालमनोरमायां भ्वादयः ।अथ चातुरर्थिक प्रकरणम् । — — — — — — — — -", "74019": "", "74020": "<<वच उम्>> - वच उम् । शेषपूरणेन सूत्रं व्याचष्टे - अङि परे इति ।ऋदृशोऽङी त्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्यादचः परः । आद्गुणः । तदाह — अवोचदिति । अवक्ष्यत् अवक्ष्यत । इङ् त्विति । 'इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण्गताविति ।इणो य॑णित्यादौ विशेषणार्थो णकारः । एतीति । शपो लुकि तिपः पित्त्वेन ङित्त्वाऽभावाद्गुणः । इत इति । अपित्त्वेन ङित्त्वान्न गुणः । इ — अन्तीत्यत्र ङित्त्वाद्गुणाऽभावे इयङि प्राप्ते -", "74021": "<<शीङः सार्वधातुके गुणः>> - शीङः सार्वधातुके । स्पष्टम् ।सार्वधातुकार्धधातुकयो॑रित्येव सिद्धे किमर्थमिदमित्यत आह — क्ङिति चेत्यस्यापवाद इति । झस्य अदादेशे सति शे-अते इति स्थिते —", "74022": "", "74023": "<<उपसर्गाद्ध्रस्व ऊहतेः>> - उपसर्गाद्ध्रस्व ऊहतेः । 'यादौ क्ङिति' इति शेषपूरणम् । 'अयडि क्ङिति' इत्यतस्तदनुवृत्तेरिति भावः । ब्राहृ समुह्रादिति । ऊह वितर्के । सम्यग्विचारयेदित्यर्थः । अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य ह्रस्वः । अग्न समुह्रेति । परितः संमृज्येत्यर्थः । क्त्वादेशस्य ल्यपः कित्त्वमिति भावः ।", "74024": "<<एतेर्लिङि>> - एतेर्लिङि ।उपसर्गाद्ध्रस्व ऊहते॑रित्यत 'उपसर्गाद्ध्रस्व' इति ,केऽणः॑इत्यतोऽण इति,अयङ्यि क्ङिती॑त्यतः कितीति चानुवर्तते । तदाह — उपसर्गात्परस्येत्यादि । इह आर्धधातुके इति प्रामादिकं, पूर्वसूत्रेषु तदभावादनुवृत्तेरसंभवात्, किति लङीत्येव सिद्धेश्च । ङितीति तु नानुवर्तते, इण आर्धधातुकलिङो ङित्त्वाऽभावात् । नन्वमीयादित्यत्रापि ह्रस्वः स्यादित्यत आह — उभयत इति । अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिणधातुत्वं न सम्भवति, परादिवत्त्वेन इण्धातुत्वाश्रयणे तु न उपसर्गात्परत्वम्, उपसर्गैकदेशस्य इकारस्य ईकारात्मना सत्त्वेन 'अभ्' इत्यस्य उपसर्गत्वाऽभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न संभवति, पूर्वपरशब्दाभ्यामन्तादिशब्दाभ्यां च विरोधस्य पुरः स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसंभवादित्यर्थः । इदं च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च 'अभ्' इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वदीकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यं, लक्ष्यानुसारेण क्वचिदेकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः । सम#एयादिति । आ-इयात् एयात् । समेयादित्यत्र एकारस्य अनण्त्वान्न ह्रस्वः । ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित्समीया॑दिति प्रयोगः कथमित्याशङ्क्याह — समीयादिति प्रयोगस्तु भौवादिकस्येति । 'इट किट कटी गतौ' इति प्रश्लिष्टस्य इधातोराशीर्लिङिअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घो बोध्य इति भावः । लुङि विशेषमाह —", "74025": "<<अकृत्सार्वधातुकयोर्दीर्घः>> - आशीर्लिङि विशेषमाह — अकृत्सार्व । अङ्गस्येत्यधिकृतम् ।अयडि क्ङिती॑त्यतो यीतिसप्तम्यन्तमनुवृत्तमङ्गाक्षिप्तप्रत्ययविशेषणं, तदादिविधिः । दीर्घश्रुत्या 'अच' इत्युपस्थितमङ्गविशेषणं । तदन्तविधिः ।तदाह — अजन्तस्येत्यादिना । अकृत्सार्वधातुकयोरिति किम् । प्रकृत्य । तुकं बाधित्वा परत्वाद्दीर्घो न । चिनुयात् । सार्वधातुकत्वान्न दीर्घः । क्षीजेति । ईदुपधः । कूजिनेति ।कूज अव्यक्ते शब्दे॑ इत्यनुपदमेव पठितं, तत्रैवकुज क्षीज अव्यक्ते शब्दे॑ इति पठितुं युक्तमित्यर्थः, अर्थैक्यादिति भावः । लज लजि । भत्र्सन इति क्वचित्पाठः ।भत्र्सनं त्वपवादगी॑रित्यमरः । द्वितीय इदित् । आशीर्लिङि — लञ्ज्यात् । लाज लाजि । भर्जन इति क्वचित्पाठः । आदुपधौ । द्वितीय इदित् । जज जजीत्यादि । स्पष्टम् । वज व्रजेति । आद्यस्य असंयुक्तहल्मद्यस्थाऽकारवत्त्वेऽपिन शसददवादिगुणाना॑मित्येत्त्वाभ्यासलोपौ नेत्याह — ववजतुरिति । अवाजीत् । अवजीत् । द्वितीयस्य तु संयुक्तहल्मध्यस्थाऽकारवत्त्वादेवैत्त्वाऽभ्यासलोपयोर्न प्रसक्तिः ।अव्राजी॑दित्यत्रअतो हलादे॑रिति वृद्धिविकल्पमाशङ्क्याह - वदव्रजेति वृद्धिरिति । हलन्तत्वादेव सिद्धे व्रजग्रहणस्यअतो हलादे॑रिति विकल्पनिरासार्थत्वनादिति भावः । शुचादयो द्विसप्ततिर्वृत्ताः । शाड्रन्ता इति ।शाडृ श्याघाया॑मित्यन्ता इत्यर्थः । 'शाडन्ता' इति क्वचित्पाठः । अट्टेति । तवर्गतृतीयोपधोऽयम् । चर्त्वष्टुत्वाभ्यां टोपधनिर्देशः । तदाह — दोपधोऽयमिति । तथा च अट्टधातोः सनि इटि अट्टिस् इति स्थिते ष्टुत्वचर्त्वयोरसिद्धत्वादजादेर्द्वितीयस्येति प्रवर्तमानं द्वित्वंन न्द्राः संयोगादय॑ इति दकारं विहाय टिस् इत्यस्य भवति । ततो हलादिशेषे दकारस्य ष्टुत्वचर्त्वयोः 'अट्टिटिषते' इतीष्टं सिध्यति । स्वाभावकमूर्धन्योपधत्वे 'न न्द्रा' इति निषेधाऽभावाट्टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ अटिट्टिषते इत्यनिष्टं प्रसज्येतेति भावः । तोपध इत्यन्य इति । ष्टुत्वेन टोपधनिर्देश इति भावः । अस्मिन्पक्षे सनि द्वित्वे कर्तव्ये ष्टुत्वस्याऽसिद्धत्वेऽपि 'न न्द्रा' इति निषेधाऽभावात्तकारविशिष्टस्य त्टिस् इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्त्या अतिट्टिषते इति रूपमिति भाव- । आनट्टे इति । इह 'न न्द्रा' इति निषेधो न, तत्र द्वितीयस्यैकाच इत्यनुवृत्तेः । घट्ट चलन इति । अयं चुरादावपि । स्फुट विकसन इति । अयं कुटादावपि । अठि गताव#इति । लिटि नुमि द्वित्वे हलादिशेषेअत आदे॑रिति दीर्घेतस्मान्नुड् द्विहल॑ इति नुडिति मत्वाह — आनण्ठ इति । वठि एकचर्यायामिति । असहायचर्यायमित्यर्थः । मडि चेति । विभाजन इत्यनुषज्यते ।मडि भूषाया॑मिति परस्मैपदेषु वक्ष्यते । शाडृ श्लाघायमिति । डलयोरैक्याच्छालत इति काश्यपः । इत्यट्टादयः षट्तिंरशद्गताः । अथ टवर्गीयान्ता [गडन्ता] इति ।गडि वदनैकदेशे॑इत्यन्ता इत्यर्थः । म्लेट्ट म्रेड्ट इति । एदुपधौ । द्वितीयो डान्त इति । टवर्गतृतीयान्त इत्यर्थः । ननु टान्तेष्वस्य कथं पाठः चुड्ड भावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठित्वं युक्तत्वादित्यत आह — टान्तमध्ये इति । नाथतिवदि त । 'एध वृद्धा' वित्यारभ्यानुक्रान्तेषु तवर्गचतुर्थान्तेषु यथानाथृ नाधृ याच्ञे॑ति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठः, तद्वदित्यर्थः । कटे इति । कण्ठआदिः । चटे इति । तालव्यादिः । आद्यस्य लिटि अभ्यासस्य चुत्वमित्याह — चकाटेति । चकटतुः । द्वितीयस्य चेटतुः । वैरूप्यापादकाऽऽदेशादित्वाऽभावादेत्त्वाभ्यासलोपौ । प्राप्तायामिति । हलन्तलक्षणाया नित्यवृद्धेर्नेटीति निषेधात्अतो हलादे॑रिति वैकल्पिकवृद्धौ प्राप्तायामित्यर्थः ।", "74026": "<<च्वौ च>> - अथशुचीभवती॑तिवक्ष्यन्नाह — च्वौ च । दीर्घः स्यादिति ।अकृत्सार्वधातुकयो॑रित्यतस्तदनुवृत्तेरिति भावः । अव्ययस्येति । अव्ययस्यच्वौ चे॑ति दीर्घो नेत्यर्थः । तेन स्वस्तिस्यादित्यत्र च्वौ न दीर्घ इति भावः । तन्निरमूलमिति । भाष्यावदृष्टत्वादिति भावः । तर्हिस्वस्ति स्या॑दिति न स्यात्, दीर्घप्रसङ्गादित्यत आह — स्वस्ति स्यादिति त्विति । ननु महाविभाषया दीर्घाऽभावे स्वस्ति स्यादिति सिद्धावपि, कदाचित्स्वस्ती स्यादिति दीर्घो दुर्वार इति शङ्कते — स्वस्तीस्यादित्यपि पक्षे स्यादिति । इष्टापत्तिरित्याह — अस्त्विति ।दीर्घतदभावाभ्यां रूपद्वय॑मिति शेषः । प्रामाणिकत्वादुभयमप्यादर्तव्यमिति । भावः । ननु शिष्टानङ्गीकारात्कथं दीर्घपाठादर इत्यत आह-यदि नेष्यते इत्यादि । मातृशब्दाच्च्विप्रत्यये विशेषमाह — रीङृत #इति ।", "74027": "<<रीङ् ऋतः>> - रीङृतः । अङ्गस्येत्यधिकृतम् ऋता विशेष्यते । तदन्तविधिः ।अयङ् यि क्ङिती॑त्यतो यीत्यनुवर्तते ।अकृत्सार्वधातुकयो॑रित्यतोऽकृत्सार्वधातुकयोरिति,च्वौ चे॑ति सूत्रं च, तदाह — अकृदित्यादिना । पित्र्यमिति । पितरो देवता अस्येति विग्रहः । यति पितृशब्दस्य रीङ् ।ङिच्चे॑त्यन्तादेशः ।यस्येति चेति ईकारलोपः । क्यचि पित्रीयतीत्यादौअङ्गकार्ये कृते पुनर्नाङ्गकार्य॑मिति वचनात्अकृत्सार्वदातुकयो॑रिति दीर्घे अप्राप्ते ईकारोच्चारणम् । उषस्यमिति । उषः देवता अस्येति विग्रहः । भत्वेन पदत्वाऽभावात्सकारस्य न रुत्वादि । द्यावापृथिवी । द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध-एतेभ्यः-छो यच्च स्यादित्यर्थः । अणः, पत्युत्तरपदण्यस्य चापवादः ।", "74028": "<<रिङ् शयग्लिङ्क्षु>> - आशीर्लिङि परस्मैपदे भृ यादिति स्थिते — रिङ् शय । श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् ।अयङ्यि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विशेषणम् । तदादिविधिः । शे तु यीति नान्वेति, असंभवात् । नापि यकि, अव्यभिचारात् । अत एव कृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणं । तदाह — शे यकीत्यादिना । ऋत इति । 'रीङृत' इत्यतस्तदनुवृत्तेरिति भावः । अङ्गस्येधिकृतम् । 'ऋत' इति तद्विशेषणं । तदन्तविधिः । ऋदन्तस्याऽङ्गस्येति लभ्यते । आदेशे ङकार इत् । ङित्त्वादन्तादेशः । निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चारणम्, इङागमेनैव सिद्धे रेफोच्चारमं च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाररणमयुक्तम्, कृते रिङिअकृत्सार्वधातुकयो॑रिति दीर्घप्रसङ्गादित्यत आहरीङि प्रकृते इति । कृते रिङि यदि दीर्घः स्यात्तर्हि रिङ्विधिव्र्यर्थः स्यात्, 'रीङृत' इत्येव सिद्धेः । अतो रिङि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति । भ्रियास्तमित्यादि सुगमम् ।", "74029": "<<गुणोऽर्तिसंयोगाद्योः>> - आशीर्लिङि ह्वृ यादिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते — गुणोऽर्ति । भौवादिको जौहोत्यादिकश्च ऋधातुरर्तीत्यनेन गृह्रते । लुका निर्देशस्तु न विवक्षितः । अङ्गस्येत्यधिकृतम् । 'रीङृतः' इत्यत ऋत इत्यनुवर्तते । तच्च अङ्गविशेषणं, तदन्तविधिः । ऋदन्तस्याङ्गस्येति लभ्यते । संयोगाद्योरित्यपि तद्विशेषणम् ।अकृत्सार्वधातुकयो॑रित्यतोऽसार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते । 'रिङ् शयग्लिङ्क्षु' इत्यतो यकि लिङीति च लभ्यते ।अयडि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधिः । तदाह — अर्तेरित्यादिना । तथ् च ह्वृ-यात् इतिस्थिते गुणे रपरत्वे रूपमाह — ह्वर्यादिति । अह्वार्षीदिति । सिचि वृद्धिः । रपरत्वं । षत्वम् । अह्वरिष्यत् । स्वृ इति । अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुणः । णलि तु कृते गुणे रपत्वे उपधावृद्धिः । सस्वार सस्वरतुः सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दित,ऋतो भारद्वाजस्ये॑ति च नित्यनिषेधे प्राप्ते आह — स्वरतिसूतीति वेडिति । सस्वरिथ सस्वर्थेति । सस्वरथुः सस्वर । सस्वार-सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति । क्रादनियमान्नित्यमिडित्यन्वयः ।", "74030": "", "74031": "", "74032": "<<अस्य च्वौ>> - अस्य च्वौ । ईत्स्यादिति ।ई ध्राध्मो॑रित्यतस्तनुवृत्तेरिति भावः । वेर्लोप इति ।वैरपृक्तस्ये॑त्यनेन॑ति शेषः । च्व्यन्तत्वादव्ययत्वमिति ।ऊर्यादिच्विडाचश्चेति॑निपातत्वात्स्वरादिनिपातमित्यव्ययत्वमित्यर्थः ।तद्धितश्चासर्वविभक्ति॑रित्यत्रशस्प्रभृतयः प्राक्समासान्तेभ्यः॑ इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित् । कृञ्योगे उदाहरति — कृष्ण इति । वस्तुतोऽकृष्णः सन्वेषादिना कृष्णभावे प्राप्नोतीत्यर्थः । तं करोतीति । अकृष्णं कृष्णरूपेण संपद्यमानं करोतीत्यर्थः । कृष्णीकरोतीति । अत्र वस्तुतोऽकृष्णो नटः प्रकृतिभूतः । स तावत्कृष्णभावं विकारं प्राप्नुवन्सम्पद्यमानत्वात्सम्पद्यकर्तां भवतीति तत्राऽभेदारोपमवलम्ब्य वर्तमानो विकारभूतकृष्णवाचकः शब्दः । तस्माच्च्विप्रत्ययः । चकार इत्, उकार उच्चारणार्थः । तस्मिन्परे अकारस्य ईत्त्वम् ।वेरपृक्तस्ये॑ति वकारलोपः ।कृष्णी॑ति ईकारान्तमव्ययम् । ब्राहृईभवतीति । अब्राहृ ब्राहृ संपद्यमानं भवतीत्यर्थः । ब्राहृन्शब्दाच्च्विः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः । ईत्वमिति भावः । अत्यन्तस्वार्थिकानामेव प्रातिपदिकादुत्पत्तिर्नतु सुबन्तादिति न#इयमः । अतो न च्वेः प्रातिपदिकादुत्पत्तिः,किंतु सुबन्तादेवेति बोध्यम् । अत एव अगौर्गोः समपद्यत गोऽभवदित्यत्र च्व्यन्तस्य गोशब्दस्यएङः पदान्ता॑दिति पररूपमुदाहृतं भाष्ये सङ्गच्छत इत्यलम् । गङ्गी स्यादिति । अगङ्गा गङ्गात्वेन संपद्यमाना स्यादित्यर्थः । 'अस्य च्वौ' इति ईत्त्वम् । दोषाभूतमहरिति । दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते । इह तु रात्रिरित्यर्थः वर्तते । अदोषाभूतमहो बहुलमेघावरणान्धकाराद्दोषाभूतमित्यर्थः । दिवाभूतारात्रिरिति । दिवेत्याकारान्तमव्ययमहनीत्यर्थे इह तु अहरित्यर्थे वर्तते । चन्द्रिकातिशयवशादहर्भूतेत्यर्थः । ननुअव्ययस्य च्वावीत्त्वं ने॑ति वार्तिकम् 'अस्य च्वौ' इति सूत्रभाष्ये न दृश्यत इत्यत आह — एतच्चेति ।", "74033": "<<क्यचि च>> - क्यचि च । 'अस्य च्वौ' इत्यतोऽस्येत्यनुवर्तते ।ई घ्राध्मो॑रित्यत ईग्रहणं चेति मत्वा शेषं पूरयति — अस्येति । अकारस्येत्यर्थः । पुत्रीयतीति । क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीयमिच्छतीत्यत्र पुत्रशब्दान्न क्यच् । गव्यतीति । गामात्मन इच्छतीत्यर्थः । नाव्यतीति । नावमात्मन इच्छतीत्यर्थः । अपदान्तत्वादिति ।लोपः शाकल्यस्ये॑त्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह — तथा हीति । यथा पदत्वं न भवति तथोच्यते इत्यर्थः ।", "74034": "<<अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु>> - अशनायोदन्य । अशनाय, उदन्य, धनाय इत्येषां द्वन्द्वः । क्यजन्ता इति । एते त्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थः । भोक्तुमिच्छा बुभुक्षा । पातुमिच्छा पिपासा । गर्द्धः अभिकाङ्क्षा । अशनायतीति । अश्यते यत्तदशनम् = अन्नं, तद्भोक्तुमिच्छतीत्यर्थः ।क्यचि चे॑ति ईत्त्वाऽभावो निपात्यते ।अकृत्सार्वे॑ति दीर्घः । उदन्यतीति । उदकं पातुमिच्छतीत्यर्थः । उदकशब्दस्य उदन्नादेशो निपात्यते, नलोपाऽबावश्च । धनायतीति । जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः ।क्यचि चे॑ति ईत्त्वाऽभावो निपात्यते । अशनीयतीति । अशनम् = अन्नं, तत्सङ्ग्रहीतुमिच्छति वैआदेवाद्यर्थमित्यर्थः । उदकीयतीति । सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः । धनीयतीति । दरिद्रः सन् जीवनाय धनमिच्छतीत्यर्थः ।", "74035": "", "74036": "", "74037": "", "74038": "", "74039": "", "74040": "<<द्यतिस्यतिमास्थामित्ति किति>> - द्यतिस्यति । एषां चतुर्णां द्वन्द्वात्षष्ठी । 'दो अवखण्डने' इत्यस्य द्यतीति निर्देशः ।षो अन्तकर्मणी॑त्यस्य तु स्यतीति निर्देशः । इत्-ति- कितीति च्छेदः । ईत्त्वेति ।घुमास्थे॑ति ईत्त्वस्य,दो दद्धो॑रिति दद्भावस्य च यथासंभवमपवाद इत्यर्थः । दोधातोरुदाहरति — दित इति । मा माङ् मेङिति ।गामादाग्रहणेष्वविशेषः॑ इति वचनादिति भावः ।", "74041": "<<शाछोरन्यतरस्याम्>> - शाच्छोः । शो तनूकरणे॑ 'छो छेदने' अनयोः कृतात्वयोर्निर्देशः । अनयोरिकारोऽन्तादेशो वा स्यात्तादौ कितीत्यर्थः । व्यवस्थितेति । एतच्च भाष्ये स्पष्टम् ।", "74042": "<<दधातेर्हिः>> - दधातेर्हिः । तादौ कितीति । शेषपूरणमिदम् ।द्यतीस्तयती॑त्यतस्तदनुवृत्तेरिति भावः । दो दद्धोः 'द' इति षष्ठन्तम् । तदाह — दा इत्स्येति । 'दथ्' इति च्छेदः । तदाह — दथ् स्यादिति । तवर्गद्वितीयान्तोऽयमादेशः । तादौ कितीति ।ति किती॑त्यनुवृत्तेरिति भावः । चर्त्वमि#इत ।खरि चे॑ति थकारस्य तकार इत्यर्थः । दात इति । दाप्दैपो रूपम् ।अदा॑वित्युक्तेर्घुत्वाऽभावान्न दद्भावः । तान्तो वेति । तवर्गप्रथमान्त इत्यर्थः । नन्वेवं सति 'विदत्त ' मित्यादौदस्ती॑त्युपसर्गस्य दीर्घत्वापत्तिः । तत्र हि 'द' इति षष्ठी सप्तम्यर्थे । इगन्तोपसर्गस्य दीर्घः स्यात्तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्क्य नराकरोति — न चैवमिति । आदेशस्य तवर्गप्रथमान्त्वे सतीत्यर्थः । तकारादाविति ।दस्ती॑त्यत्र द इति षष्ठी तीत्यत्रान्वेति । तथा च इगन्तोपसर्गस्य दीर्घः स्याद्दादेशतकारादावुत्तरपदे इत्यर्थः । उत्तरपदाधिकारात् । ततश्च उत्तरपदस्याऽत्र तकारादित्वाऽभावान्न दीर्घ इति भावः । दान्तो वा धान्तो वेति । तवर्गतृतीयान्तो वा, चतुर्थान्तो वा अयमादेश इत्यर्थः । न चेति । दान्तत्वे निष्ठानत्वं, धान्तत्वेझषस्तथो॑रिति धत्वं च न शङ्क्यमित्यन्वयः । संनिपातेति । दान्तादेशस्य, धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वाऽसंभवादिति भावः ।", "74043": "", "74044": "", "74045": "", "74046": "", "74047": "<<अच उपसर्गात्तः>> - अच उपसर्गात्तः । त इत्यत्राऽकार उच्चारणार्थः । 'अच' इत्यावर्तते, एकमुपसर्गविशेषणं, द्वितीयं तु स्थानिसमर्पकं । तदाह — अजन्तादिति । घोरिति । घोरवयवस्येत्यर्थः । तः स्यादिति । तकारः स्यादित्यर्थः । ददादेशापवादः । चत्त्र्वमिति । प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चर्त्वेन तकार इत्यर्थः । अवदत्तं विदत्तं चेति । भाष्यस्थश्लोकोऽयम् । अत्र आदिकर्मणीत्येतत् प्रदत्तमित्यत्रैव संबध्यते । नाऽयम् 'अच उपसर्गात्तः' इत्यस्याऽपवाद इति भ्रमितव्यमित्याह — चशब्दाद्यथाप्राप्तमिति । तथा चाऽवदत्तादिशब्देषु ददादेशोऽपि कदाचिल्लभ्यते इत्यर्थः । अत एव प्रकृतसूत्रभाष्ये 'अच उपसर्गात्तःर' इत्यस्यावकासः — प्रत्तमवत्तमिति सङ्गच्छते इति भावः ।", "74048": "<<अपो भि>> - अपो भि । 'अच उपसर्गात्तः' इत्यस्मात्त इत्यनुवर्तते । अङ्गाधिकारस्थमिदम् । ततश्च अङ्गाभिक्षिप्तप्रत्ययो भीति सप्तम्यन्तेन विशेष्यते, तदादिविधिः । तदाह — अपस्तकार इत्यादिना । प्रत्यये किम् , अब्भक्षः । अद्भिरिति । पकारस्य तकारे जश्त्वमिति भावः । इति पान्ताः । अथ शान्ताः । दिगिति । 'दिश अतिसर्जने' ऋत्विगादिना क्विन्, सुलोपः, व्रश्चे ति षः, तस्य जश्त्वेन डः, तस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वेन गः, तस्य चर्त्वविकल्प इति भावः । दृश्यन्ते अर्था अनयेति विग्रहे संपदादित्वाद्दृशेः क्विप् । ततः सुलोपः,व्रश्चे॑ति षत्वमाशङ्क्याह — त्यदादिष्विति । अन्यत्रापीति । त्यदाद्युपपदाऽभावेऽपीत्यर्थः । क्विन् प्रत्ययो यस्माद्विहित इति बहुव्रीह्राश्रयणादिति भावः । दृगिति । षडगकाः प्राग्वत् । इति शान्ताः । अथ पान्ताः । त्विडिति । 'त्विष दीप्तौ' क्विप्, सुलोपः, जशष्ट्वचर्त्वे इति भावः । सजूरिति ।जुषी प्रातिसेवनयोः॑ क्विप्,सहस्य सः संज्ञायाम् इति वा 'ससजुषो' इति निपातनाद्वा सहस्य सभावः, सुलोपः, 'ससजुषो रुः' इति षस्य रुत्वं, 'र्वोरुपधायाः' इति दीर्घः ।आङः शासु इच्छायाम् क्विप्,अशासः क्वावुपसङ्ख्यानम् इत्युपदाया इत्त्वं,शासिवसिघसीनां चे॑ति सस्य षः, आशिष्शब्दात्सोर्लोपः । एतावत्सिद्धवत्कृत्य आह — षत्वस्येति । आशीरिति । षस्य रुत्वे कृते 'र्वोरुपधायाः' इति दीर्घ इति भावः । इति षान्ताः । अथ सान्ताः । असाविति । अदश्शब्दस्य स्त्रियामपि पुंवदेव सौ रूपमित्यर्थः । अदस् औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमित्यादिना । अत्वे, पररूपे, टापि, औङः शीभावे, आद्गुणे, अदे इति स्थिते,-एकारस्य दीर्घत्वादूत्वं दस्य मत्वं चेत्यर्थः । विभक्तौ सत्यामत्वं, पररूपं, टाबित्येतत्सर्वत्र ज्ञेयम् । अमूरिति । जसि अत्वपररूपटाप्सु, पूर्वसवर्णदीर्घे, ऊत्वमत्वे । टापि सति अदन्तत्वाऽभावाज्जसः शीभावो न । एकाराभावान्नेत्त्वम् । अमूमिति । पुंवत् । उत्वं विशेषः । अमू इति । औटि औवत् । अमूरिति । शसि जसीव रूपम् । स्त्रीत्वान्नत्वाऽभावः । अमुयेति । अदस् आ इति स्थिते, अत्वपररूपटाप्सु, 'आङि चापः' इत्येत्त्वे , अयादेशे, उत्वमत्वे इति भावः । अमूभ्यामिति । अत्वपररूपटाप्सु, ऊत्वमत्वे इति भावः । एवममूभिरिति । अमुष्यै इति । अदस-ए इति स्थिते अत्वपररूपटाप्सु, स्याड्ढ्रस्वौ, उत्वमत्वे, षत्वमिति भावः । 'अमूभ्यः' इत्यपि भ्याम्वत् । टापि अदन्तत्वाऽभावादेत्त्वं न । अमुष्या इति । ङसिङसोर्वेवत् । रुत्वविसर्गौ तु विशेषः । अमुयोरिति । ओसि अत्वपररूपटाप्सु, 'आङि चापः' इत्येत्त्वे, अयादेशे, मुत्वमिति भावः । अमूषामिति । आमि, अत्वपररूपटाप्सु, ङेरामि, स्याड्ढ्रस्वौ, मुत्वमिति भावः । अमूष्विति । सुपि अत्पररूप टाप्सु ऊत्वमत्वे, षत्वमिति भावः । इति सान्ताः । ***** इति स्त्रीलिङ्गप्रकरणम् ********** अथ नपुंसकलिङ्गप्रकरणम् *****अथ हान्ताः । सु शोभना अनड्वाहो यस्य कुलस्येति बहुव्रीहौ स्वनडुहशब्दान्नपुंसकलिङ्गात्सुबुत्पत्तिः । ननु तत्र सौ परतः 'चतुरनडुहोः' इत्याम्, 'अम् संबुद्धौ' इत्यम्, 'सावनडुहः' इति नुम् च स्यात् । हल्ङ्यादिना सुलोपेऽपि प्रत्ययलक्षणसत्त्वादित्यत आह — स्वमोर्लुगिति । परत्वाद्धल्ङ्यादिलोपं बाधित्वास्वमोर्नपुंसरा॑दिति लुक् । ततश्च लुका लुप्तत्वेन प्रत्ययलक्षणाऽभावादामादि न भवतीति भावः । दत्वमिति । 'वसुरुआंसु' इत्यनेने॑ति शेषः । दत्वविधेः पदाधिकारस्थत्वेन तदन्तेऽपि प्रवृत्तेरिति भावः । नच तत्रापि नन लुमते॑ति निषेधः शङ्क्यः, दत्वस्य सुबन्तत्वरूपपदत्वनिमित्तकतयाऽऽङ्गकार्यत्वाऽभावादित्याहुः । स्वनडुदिति । दत्वे चर्त्वविकल्पः । 'उरःप्रभृतिभ्यः क' विति तु न शङ्क्यं, तत्र गणेऽनड्वानित्येकवचनस्यैव पाठादिति बहुव्रीह्रधिकारे मूल एव वक्ष्यते । स्वनडुही इति ।नपुंसकाच्चे॑त्यौङः शीभावः । स्वनड्वांहीति ।जश्शशोः शि॑रिति शिभावे, तस्य सर्वनामस्थानत्वाच्चतुरनडुहोरित्यामि 'नपुंसकस्य झलच' इति नुमिनश्चे॑त्यनुस्वार इति भावः । अत्र यद्वक्तव्यं तत्पुंलिङ्गनिरूपणे उक्तम् । इति हान्ताः । अथ वान्ताः । विमला द्यौः=आकाशं यस्य अह्न इति बहुव्रीहौ , सुब्लुकि विमलदिव्शब्दात्सोर्लुक् । येतावत्सिद्धवत्कृत्य आह — दिव उदिति । अहर्विमलद्यु इति । वस्य उत्वे इकारस्य यणिति भावः । अहग्र्रहणं नपुंसकत्वसूचनार्थम् । ननु विमलदिव औ इति स्थितेनपुंसकाच्चे॑ति शीभावे विमलदिवी इति रूपं वक्ष्यति, तदयुक्तं, 'दिव उत्' इत्युत्त्वप्रसङ्गात् । नच विमलदिवी इति समुदायस्यैव सुबन्ततया पदत्वान्न वकारस्य दिव्शब्दरूपपदान्तत्वमिति वाच्यं, 'सुपो धातु' इति लुप्तां दिव्शब्दोत्तरां विभकिंत प्रत्ययलक्षणेनाश्रित्य दिवित्यस्य पदत्वात् । नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यं, पदसंज्ञायाः सुबन्तधर्मतयाऽङ्गधर्मत्वाऽभावेन तत्रन लुमते॑ति निषेदाऽप्रवृत्तेः । अन्यथा राज्ञः पुरुषो राजपुरुष इत्यादौ पूर्वभागे नलोपादिकं न स्यादित्याशङ्क्य आह — अन्तर्वर्तिनीमित्यादि ।उत्तरपदत्वे चेति । समासे उत्तरखण्डस्य पदसंज्ञायां कर्तव्यायामन्तर्वर्तिविभक्तिलोपे प्रत्ययलक्षणप्रतिषेधो वक्तव्यः, पदादिविधिं वर्जयित्वेत्यर्थः । वार्तिकमेतत् । विमलदिवी इति । औङि रूपम् । विमलदिवीति । शसि सति 'जश्शसो शिः' इति शिभावे रूपसिद्धिः । अझलन्तत्वान्न नुम् । दधिसेचाविति । सिञ्चतेः क्विप् । दध्नः सेचौ दधिसेचौ । समासे पूर्वोत्तरपदावयवसुपोर्लुकि समासात्पुनः सुबुत्पत्तिरिति स्थितिः । तत्र उत्तरखण्डादुत्तरा विभकिंत लुप्तां प्रत्ययलक्षणेनाश्रित्य सेचित्यस्य पदत्वेन तत्सकारस्य पदादितया 'सात्पदाद्योः' इति षत्वनिषेध इष्टः ।उत्तरपदत्वे प्रत्ययलक्षणप्रतिषेधः, इत्येतावत्येवोक्ते तु सेचित्युत्तरखण्डस्य पदसंज्ञायां कर्तव्यायांप्रत्ययलक्षणप्रतिषेधः स्यात् । तथाच सेचित्यस्य सुबन्तत्वाऽभावेनाऽपदतया तत्सकारस्य पदादित्वाऽभावेन षत्वनिषेधो न स्यादतोऽपदादिविधावित्युक्तम् । षत्वनिषेधस्य पदादिविधितया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधाऽभावेन प्रत्ययलक्षणमाश्रित्य सेचित्यस्य पदत्वात्तत्सकार्सयसात्पदाद्यो॑रिति षत्वनिषेधो निरर्बाधः । ननु सेचित्युत्तरखण्डस्य पदत्वे चकारस्य कुत्वं स्यादित्यत आह — चकारस्य कुत्वं तु नेति । कुत्वे कर्तव्ये तु सेचित्यस्य पदत्वं नास्त्येव, कुत्वस्य पदान्तविधित्वेन पदादिविधिभिन्नतया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधसत्त्वेन पदत्वाऽभावादिति भावः । ननु दधि सिञ्चत इति सोपपदाद्विचि #उपपदसमासे षत्वं दुर्वारं,गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्र सुबुत्पत्ते॑रिति वक्ष्यमाणत्वेन सेचित्यस्याऽन्तर्वर्तिसुबभावेनाऽपदान्ततया 'सात्पदाद्योः' इति निषेधस्य तत्राऽप्रवृत्तेरिति चेत्, त्र सोपपदात्सिचेर्विचोऽनभिधानमिति भाव इति कैयटः समाहितवान् । पदादादिः पदादिरिति पक्षे तु उपपदसमासेऽपि षत्वं सुपरिहरम् । नचैवमपि परमश्चासौ दण्डी च परमदण्डी, स प्रियो यस्य सः 'परमदण्डिप्रय' इत्यत्राऽवान्तरतत्पुरुषस्योत्तरखण्डे नलोपानुपपत्तिः,उत्तरपदत्वे चे॑ति प्रत्ययलक्षणप्रतिषेधेन तस्य पदत्वाऽभावादिति वाच्यं, मध्यपदत्वानाक्रान्तस्यैव उत्तरखण्डस्य विवक्षितत्वादित्यास्तां तावत् । इति वान्ताः । अथ रान्ताः । वारिति । वार्शब्दो रेपान्तो नपुंसकलिङ्गः ।आपः स्त्री भूम्नि वार्वारी॑त्यमरः । वार्शब्दात्स्वमोर्लुक्, रेफस्य विसर्ग इति भावः । चत्वारीति । चतुर्शब्दो नित्यं बहुवचनान्तः, तस्य जश्शसोश्शिः, तस्य सर्वनामस्थानत्वा॑च्चतुरनडुहो॑रिति प्रकृतेराम् । स च मि वादन्त्यादच उकारात्परः, उकारस्य यण्, अझलन्तत्वान्न नुमिति भावः । इति रेफान्ताः । अथ मान्ताः । किम्शब्दात्स्वमोर्लुकि प्रत्ययल७णमाश्रित्य विभक्तिपरकत्वात्कादेशमाशङ्क्य आह — न लुमतेति । सोरमश्चान्यत्र कादेशे सर्वशब्दवद्रूपाणीत्याह — के कानीति । इदमिति । स्वमोर्लुकि रूपम् । 'इदमो मः'दश्चे॑त्यादिविधयो न भवन्ति,न लुमते॑ति निषेधादिति भावः । इमे इति । औङि अत्वं, पररूपम्, 'दश्चे॑ति दस्य मः'नपुंसकाच्चे॑ति शीभावः, गुण इति भावः । इमानीति । 'जश्शसोश्शिः' अत्वंस पररूपंदश्चे॑ति मः, 'नपुंसकस्य झलचः' इति नुम्,सर्वनामस्थाने चे॑ति दीर्घ इति भावः ।एनद्वक्तव्य इति । 'इदमेतदोः' इति शेषः । इदं च अम्येव भवति । तथाच भाष्येएनदिति नपुंसकैकवचने वक्तव्य॑मिति पठित्वाकुण्डमानय प्रक्षालयैनत् इत्युदाहृतम् । औट्शसोष्टायामोसि चद्वितीयाटोस्स्वेनः॑ इत्येनादेश #एव इति मत्वाऽऽह — एने इत्यादि । वस्तुतस्तुद्वितीयाटौस्स्वेनत् इत्येव सूत्र्यताम् । नपुंसकेऽमो लुकि एनदिति सिध्यति । एनम्, एनौ, एनान्, एनेन, एनयोरिति तु त्यदाद्यत्वेन सिद्धमिति भाष्ये स्थितम् । परमार्थतस्तु नपुंसकैकवचनेऽमि एनदादेशः । एनम्, एनौ इत्याद्यर्थंद्वितीयाटौस्स्वेनः॑ इत्यत्र एनादेशो विधातव्यः । येन नाप्राप्तिन्यायेन एनदादेशस्य त्यदाद्यत्वापवादत्वेन त्यदाद्यत्वाऽसंभवादिति शब्देन्दुशेखरे स्थितं भाष्यप्रदीपोद्द्योते प्रपञ्चितं च । इति मान्ताः । अथ नान्ताः । ब्राहृएति । वेदादौ वाच्ये ब्राहृन्शब्दो नपुंसकलिङ्गः ।वेदस्तत्त्वं तपो ब्राहृआ ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । स्वमोर्लुकि नलोप इति भावः । ब्राहणी इति । औङः शी,अट्कुप्वा॑ङिति णत्वम् । 'विभाषा ङिश्योः' इत्यल्लोपस्तु न,न संयोगाद्वमन्ता॑दिति निषेधादिति भावः । ब्राहृआणीति ।जश्शसोः शिः॑, तस्य सर्वनामस्थानत्वान्नान्तलक्षणो दीर्घः । हे ब्राहृन्निति ।संबुद्धौ नपुंसकाना॑मिति नलोपविकल्प इति भावः । अथ अहन्शब्दात्स्वमोर्लुकि 'अहन्' इति रुत्वे प्राप्ते आह — रोऽसुपीति । लुका लुप्तत्वेन प्रत्ययलक्षणाऽभावादिति भावः । अहर्भातीति । अत्र रुत्वे तु हशि चेत्युत्त्वे गुणे अहो भातीति स्यात् । रेफविधौ तस्य उत्त्वं न, रोरित्युकारानुबन्धग्रहणादिति भावः । अहानीति । जश्शसोः शिः, सर्वनामस्थानत्वादुपधादीर्घः । अल्लोपस्तु न, सर्वनामस्थानत्वादिति भावः ।टादावचि अल्लोपः, अह्ना, अह्ने इत्यादि । भ्यामादौ हलि विशेषमाह-अहन् । 'ससजुषो रुः' इत्यतो रुरित्यनुवर्तते, 'स्कोः संयोगाद्योः' इत्यतोऽन्ते #इति च । पदस्येत्यधिंकृतम् । 'अहन्' इति लुप्तषष्ठीकम् । तदाह — अहन्नित्यस्येत्यादिना । अहोभ्यामिति । नकारस्य रुत्वे,हशि चे॑त्युत्त्वे, गुण इति भावः । ननु अहः, अहोभ्यामित्यत्र रत्वरुत्वयोरसिद्धत्वान्नलोपः स्यात् । नच रत्वरुत्वे नलोपापवादाविति वाच्यं, 'न ङिसम्बुद्ध्योः' इति नलोपनिषेधस्थले हे अहरित्यत्र, दीर्घाणि अहानि यस्मिन् स दीर्घाहाः, हे दीर्घाहो निदाघ इत्यत्र च नलोपेऽसत्यपि रत्वरुत्वयोरारम्भादित्याशङ्क्य निराकरोति — इहेति । एकेनेति । आवृत्तयोः प्रथमेन 'अहन्' इति सूत्रेण-॒पदान्ते अहन्नित्येव स्यात्, न तु नलोप॑ इत्यर्थकेनेत्यर्थः । द्वितीयेनेति ।अङन्नित्यस्य रुः स्यात् पदान्ते॑ इत्यर्थकेनेत्यर्थः । एवं चअह्नो नलोपप्रतिषेधः॑ इति वार्तिकं न कर्तव्यमिति भावः ।टादावचि अल्लोपः, अहना, अह्ने इत्यादि । भ्यामादौ हलि विशेषमाह-अहन् । 'ससजुषो रुः' इत्यतो रुरित्यनुवर्तते, 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इति च । पदस्येत्यधिंकृतम् । 'अहन्' इति लुप्तषष्ठीकम् । तदाह — अहन्नित्यस्येत्यादिना । अहोभ्यामिति । नकारस्य रुत्वे,हशि चे॑त्युत्त्वे, गुण इति भावः । ननु अहः, अहोभ्यामित्यत्र रत्वरुत्वयोरारम्भादित्याशङ्क्य निराकरोति — इहेति । एकेनेति । आवृत्तयोः प्रथमेन 'अहन्' इति सूत्रेण-॒पदान्ते अहन्नित्येव स्यात्, न तु नलोप॑ इत्यर्थकेनेत्यर्थः । द्वितीयेनेति ।अहन्नित्यस्य रुः स्यात् पदान्ते॑ इत्यर्थकेनेत्यर्थः । एवं चअह्नो नलोपप्रतिषेधः॑ इति वार्तिकं न कर्तव्यमिति भावः । पदान्तस्यापीति । अहन्शब्दान्तस्यापि रत्वरुत्वे भवतः, पदाधिकारस्थत्वादिति भावः ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधस्तु प्रत्ययविधिमात्रविषय इतिअसमासे निष्कादिभ्यः॑ इति सूत्रे भाष्यकैयटयोः स्पष्टम् । तदन्ते रुत्वप्रवृतिंत दर्शयति — दीर्घाहा निदाघ इति । दीर्घाहन्शब्दात्पुंलिङ्गात्सौ परत्वादुपधादीर्घे कृते हल्ङ्यादिना सुलोपः । 'अहन्' इति रुत्वे, भोभगो॑ इत्यपूर्वत्वाद्यत्वेहलि सर्वेषा॑मिति यलोपे, रूपमिति भावः । ननु सुलोपे कृतेरोऽसुपी॑ति रत्वे तस्य यत्वं न भवति, यत्वविधौ रोरित्युकारानुबन्धग्रहणात् । तथाच दीर्घाहार्निदाघ इत्येव युक्तमित्यत आह — इह हल्ङ्यादीत्यादि । ननु नान्तलक्षणदीर्घस्य परत्वेऽपि अकृतव्यूहपरिभाषया हल्ङ्यादिलोपात्प्राक्प्रवृत्तिर्न, सम्भवति, रुत्वेन नकारस्य विनाशोन्मुखत्वादित्यत आह — तस्यासिद्धत्वादिति । प्रवृत्तस्य रुत्वस्याऽसिद्धत्वान्नान्तलक्षणो दीर्घो निर्बाध इति भावः । वस्तुतस्तु अकृतव्यूहपरिभाषाया निर्मूलत्वादिह हल्ङ्या#इलोपात्पूर्वमेव परत्वादुपधादीर्घ इत्येवोचितमित्यलम् । सम्बुद्धौ त्विति । सोरत्र हल्ङ्यादिलोपात्प्रत्ययलक्षणमाश्रित्य असम्बुद्धौ इति प्रवृत्तेरुपधादीर्घाऽभावे रुत्वे,हशि चे॑त्युत्त्वे, आद्गुणे, हे दीर्धाहो निदाघ इति रूपमित्यर्थः । अत्र रोऽसुपी॑ति रत्वविधेस्तदन्तेऽपि प्रवृत्तौ फलं तु नपुंसके दीर्घाहर्निदाघजालमित्यादि बोध्यम् । दण्डीति । दण्डोऽस्यास्तीत्यर्थे 'अत' इनिठनौ, इति इनिः । दण्डिन्शब्दात्स्वमोर्लुक्, नस्य लोप इति भावः । दण्डिनो इति । औङ्श्सी । अरुआवनामस्थानत्वादिनहन्निति नियमाच्च न दीर्घ इति भावः । दण्डीनीत#इ । 'जश्शसोः शि' 'इन्हन्' इति दीर्घ इति भावः । रुआग्वीति ।असमायामेधारुआजो विनिः॑ इति रुआग्शब्दान्मत्वार्थीयो विनिः । रुआज् इत्यस्य अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वाज्जस्य कुत्वं । रुआग्विन्शब्दात्सुबुत्पत्तिः । दण्डिवद्रूपाणि । अत्र इनोऽनर्थकत्वेऽपि 'इन्हन्' इत्यत्र ग्रहणं भवत्येव, 'अनिनस्मन्' इति वचनादिति बोध्यम् । वाग्ग्मीति ।वाचो ग्मिनि॑रिति ग्मिनिः । तद्धितत्वान्न गकार इत्, चकारस्य जश्त्वं कुत्वम् । वाग्ग्मिशब्दात्सुबुत्पत्तिः, रुआग्विवद्रूपाणि । बहवो वृत्रहणो यस्मिन् मन्वन्तरे इति बहुव्रीहौ बहुवृत्रहन्शभ्दात्स्वमोर्लुकि, नलोपे, बहुवृत्रहेति रूपम् । औङः श्याम्, अल्लोपे, 'हो हन्तेः' इति कुत्वे, 'बहुवृत्रघ्नी' इति रूपम् । 'अत्पूर्वस्य' इति नियमान्न णत्वम् । एतावत्सिद्धवत्कृत्य जश्शसोराह — बहुवृत्रहाणीति । शेः सर्वनामस्थानत्वेन तस्मिन्परेऽल्लोपाऽभावात् 'इन्हन्' इत्युपधादीर्घे 'एकाजुत्तरपदे णः' इति णत्वमिति भावः । बहुपूषाणीति । बहवः पूषणो यस्मिन्निति बहुव्रीहिः । बहुपूष, बहुपूष्णी । रषाभ्यामिति णत्वम् । जश्शसोस्तु शिः, शौ दीर्घः,अट्कुप्वा॑ङिति णत्वम् । बह्वर्यमाणीति । बहवोऽर्यमाणो यस्मिन्निति बहुव्रीहिः । तदेतदर्थतः सङ्गृह्णाति — बहूर्जीति । बहूर्ज्शब्दे अन्त्यादच ऊकारादुपरि नुमः प्रतिषेधो वक्तव्यः, किंतु अन्त्याद्वर्णात्पूर्वो नुम्वा स्यादित्यर्थः । बहूर्जीति । जश्शसोर्नुमभावे रूपम् । बहूर्ञ्जीति । जकारात्पूर्वं रेफादुपरि नुमि कृते, श्चुत्वस्याऽसिद्धत्वा॒न्नश्चे॑ति तस्यानुस्वारे, तस्य परसवर्णे ञकारे रूपं बोध्यम् । अत्र 'बहूर्जि प्रतिषेध' इति प्रथमवार्तिकं न कर्तव्यं, 'नपुंसकस्य झलचः' इति सूत्रस्य अचः परो यो झल्तदन्तस्य क्लीबस्य नुम्स्यादिति व्याख्याने सति नुम एवात्राऽप्रसक्तेः । न चैवं सति वनानीत्यादावव्याप्तिः शङ्क्या, 'इकोऽचि विभक्तौ' इत्यतोऽचीत्यनुवर्त्त्य अजन्तस्य क्लीबस्य सर्वनामस्थाने परे नुम्स्यादिति वाक्यान्तराश्रणादिति भाष्ये स्थितम् । एवं च ऊर्क्छब्दे शौ 'नरजाना संयोगः' इति मूलं भाष्यविरुद्धत्वादुपेक्ष्यमेव, तत्र अचः परस्य झलोऽभावेन नुमोऽप्रसक्तेः । इति जान्ताः । अथ दान्ताः । त्यदिति । त्यद्, तद्, यद्, एतद्, एषां स्वमोर्लुका लुप्तत्वात्त्यदाद्यत्वं, पररूपं 'तदोः सः सौ' इति सत्वं च न भवति । इतरत्र तु सर्वत्र त्यदाद्यत्वे । पररूपे च अदन्तवद्रूपाणि, सर्वनामकार्यं चेति बोध्यम् । अन्वादेशे त्वेनदिति । अन्वादेशे नपुंसकैकवचने तद्विधानादिति भावः । औङि जश्शसोश्च-एने, एनानि । बेभिद्यतेरिति । श्तिपा निर्देशोऽयम् । बेभिद्य इति यङन्ताद्धातोरित्यर्थः । 'भिदिर्विदारणे' अस्माद्याङिसन्यङो॑रिति द्वित्वे हलादिः शेषे,अब्यासे चर्चे॑त्यब्यासभकारस्य जश्त्वेन वकारे,गुणो यङ्लुको॑रिति गुणे,बेभिद्ये॑ति रूपम् । तस्मात् 'सनाद्यन्ताः' इति धातुत्वात्क्विप्, अतो लोपः, 'यस्य हलः' इति यलोपः । बेभिच्छब्दात्स्वमोर्लुक्, जश्त्वचर्त्वे बेभिदिति रूपमिति भावः । बेभिदी । इति औङः श्यां रूपम् । जश्शसोश्शौ झलन्तलक्षणनुममाशङ्क्य आह — शाविति । स्थानिवत्त्वादिति । 'अचः परस्मिन्' इत्यनेने॑ति शेषः । न चात्र अल्लोपस्थानिभूतादचः पूर्वो दकार एव न त्विकारः तस्य दकारेण व्यवधानात्, तथाच तस्य नुम्विधिः स्थानिभूतादचः पूर्वस्य विधिर्नेति वाच्यम्, 'अचः परस्मिन्' इत्यत्र व्यवहितपूर्वस्यापि ग्रहणस्योक्तत्वात् ।क्वौ लुप्तं न स्थानिव॑दिति तु न सार्वत्रिकमितिदीधीवेवीटा॑मित्यत्र कैयटे स्पष्टम् । नन्वल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणनुमोऽभावेऽप्यजन्तलक्षणो नुम्दुर्वार इत्यत आह — अजन्तलक्षणस्तु नुम्नेति । कुत इत्यत आह — स्वविधौ स्थानिवत्त्वाभावादिति । अल्लोपस्य स्थानिवत्त्वमाश्रित्य मित्त्वादन्त्यादचः परः प्रवर्तमानो हि मुम्दकारोपरितनस्य अकारोपलक्षितदेशस्योपरि प्रवृत्तिमर्हति, तथाच लोपस्थानिभूतस्य स्वस्यैवात्र नुम्विधिः तस्मिन्कर्तव्येऽल्लोपस्य स्थानिवत्त्वं न संभवति, स्थान्यपेक्षया पूर्वस्यैव विधौ 'अचः परस्मिन्' इत्यस्य प्रवृत्तेः । स्थानिवत्सूत्रमपि स्थानिभूतस्य स्वस्य कार्यविधौ न प्रवर्तते, अनल्विधाविति निषेधादित्यर्थः ।अचः परस्मि॑न्निति सूत्रे पूर्वविधावित्यपनीयअपरविधाविति वक्तव्यं स्वविधौ स्थानिवत्त्वार्थ॑मिति वार्तिकं तु भाष्ये प्रत्याख्यातमित्यदोषः । इति दान्ताः । अथ चान्ताः । जायन्ते नव सौ, तथामि च नव, भ्यांभिस्भ्यसां सङ्ग्रमे षट्सङ्ख्यानि, नवैव सुप्यथ जसि त्रीण्येव, तद्वच्छसि । चत्वार्यन्यवचस्सु कस्य विबुधाः । शब्दस्य रूपाणि तज्जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः ।॑ इति प्राचीनस्य कस्यचित्प्रश्नस्य श्लोकद्वयेन उत्तरमाह — गवाक्छब्दस्येति । र्चागतिभेदत इति । 'अनिदिताम्' इत्यञ्चेर्गतौ नकारस्य लोपः, पूजायां तु 'नाञ्चेः पूजायाम्' इति निषेधान्नस्य लोपो नेत्येव गतिपूजात्मकार्यभेदनिबन्धननलोपतदभावाभ्यामिति यावत् ।इति प्राचीनस्य कस्यचित्प्रश्नस्य श्लोकद्वयेन उत्तरमाह — गवाक्छब्दस्येति । अर्चागतिभेदत इति । 'अनोदिताम्' इत्यञ्चेर्गतौ नकारस्य लोपः, पूजायां तु 'नाञ्चेः पूजायाम्' इति निषेधस्य लोपो नेत्येवं गतिपूजात्मकार्यभेदानिबन्धननलोपतदभावाभ्यामिति यावत् ।असन्धी॑ति प्रकृतिभावो विवक्षितः ।असन्ध्यवङ्पूर्वरूपै॑रित्यनन्तरं चब्दोऽध्याहर्तव्यः । शतमित्यनन्तरमितिशब्दश्च । तथा च गत्यर्थ पूजार्थभेदनिबन्धननवोपतदभावाभ्याम्, असन्ध्यवङ्पूर्वरूपैश्च गवाक्छब्दस्य रूपाणै नवाधिकशतमिति मतं=संमतमित्यर्थः । एतेनविंशत्याद्याः सदैकत्वे सङ्ख्यास्सघ्श्येयसङ्ख्ययोः॑ इति कोशाच्छतशब्दस्य सङ्ख्यापरत्वेगवाक्छब्दस्य रूपाणा॑मिति भाव्यं, सङ्ख्येयपरत्वे तुमत॑मित्येकवचनानुपपत्तिरिति निरस्तम् । सङ्ख्येपरत्वमाश्रित्य इतिशब्दमध्याह्मत्य नवाधिकशतं रूपाणीति मतमित्यर्थाश्रयणात् । यद्वा शतशब्दस्य सङ्ख्येयपरत्वेऽपि शतमित्येकत्वाभिप्रायं मतमित्येकवचनमित्यदोषः । नवाधिकशतमित्येतत्प्रपञ्चयति — स्वम्सुप्सु नवेति ।प्रत्येक॑मिति शेषः ।रूपाणी॑ति सर्वत्रान्वेति । षड्भादाविति । भिसि भ्यांत्रये, भ्यस्द्वये च प्रत्येकं षडित्यर्थः । त्रीण#इ जश्शसोरिति । 'प्रत्येक' मिति शेषः । चत्वारि शेषे दशके इति ।प्रत्येक॑मिति शेषः । स्वम्सुप्सु नवेत्येतदुपपादयति — तथाहीति । गामञ्चतीति । गां गच्छति पूजयति वेत्यर्थः । क्विनि उपपदसमासे सुब्लुकि गो अञ्चेति स्थिते । प्रक्रियां दर्शयति — गतौ नलोप इति । गत्यर्थकत्वेअनिदिता॑मिति नस्य लोप इत्यर्थः । गवाक्-गवागिति । गो अच् स्, गो अच् अम् इति स्थिते,स्वमोर्लुकि, अक्लीबस्येति पर्युदासात्सर्वनामास्थानत्वाऽभावेनउगिदचा॑मिति नुमभावे, ओकारस्याऽवङादेशे सवर्णदीर्घे, जश्त्वचर्त्त्वे इति भावः । सर्वत्रेति । अवङादेशस्य वैकल्पिकत्वात्तदभावपक्षेसर्वत्र विभाषे॑ति प्रकृतिभावात्एङः पदान्तादती॑ति पूर्वरूपस्याऽप्यभावे सतीत्यर्थः । पूर्वरूपे इति । अवङः, प्रकृतिभावस्य चाऽभावेएङः पदान्ता॑दिति पूर्वरूपे सतीत्यर्थः । तदेवं गत्यर्थकत्वे षड्(६) रूपाणि । पूजायामिति ।नाञ्चेः पूजाया॑मिति नवोपाऽभावाद्गो अञ्चित्यस्मात्स्वमोर्लुकि, चकारस्यासंयोगान्तलोपे, नकारस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वेन ङकारः । ततोऽवङि, प्रकृतिभावे, पूर्वरूपे च , त्रीणि(३) रूपाणीति भावः । पूर्वोदाहृतषडपसङ्कलनया सौ नव (९) रूपाणि । औङः शीति । गत्यर्थकत्वे नलोपे औङश्शीभावे च सति अक्लीबस्येति पर्युदासादसर्वनामस्थानतया भत्वात् 'अचः' इत्यल्लोपे 'गोची' इत्येकमेव(१) रूपम्, अकारस्य लुप्तत्वेन अवङाद्यसंभवात् । पूजायां त्विति । अलुप्तनकारत्वात् 'अचः' इत्यल्लोपो नेति भावः । तथाच औङि त्रीणि(३) रूपाणि । पूर्वादाहृतैकरूपसङ्कलनया प्रत्येकं चत्वारि(४) रूपाणि । शेः सर्वनामेति । गत्यर्थकत्वे नलोपे सति, शौउगिदचा॑मिति नुमि, तस्यनश्चे॑त्यनुस्वारः, परसवर्ण इति भावः । पूजार्थकत्वे त्वलुप्तनकारत्वान्नुम्न । किंतु स्वाभाविकनकारस्य अनुस्वारः परसवर्ण इति भावः । गतिपूजनयोः शौ अविशिष्टान्येव त्रीणि रूपाणीत्याह — त्रीण्येवेति । गोचेति । गत्यर्थत्वे लुप्तनकारत्वात् 'अचः' इत्यल्लोपे एकमेव(१) रूपमिति भावः । पूजार्थत्वे तु अलुप्तनकारत्वात् 'अचः' इत्यल्लोपाऽभावे अवङि, प्रकृतिभावे, पूर्वरूपे च त्रीणि(३), रूपाणीत्याह-गवाञ्च-गोअञ्चा-गोऽञ्चेति । भ्यामि गत्यर्थकत्वे नलोपे सति चस्य जश्त्वे कुत्वेऽवङसन्धिपूर्वरूपैस्त्रीणि (३) रूपाणि । पूजार्थत्वे तु नलोपाऽभावाच्चकारस्य संयोगान्तलोपे नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकारे अवङसन्धिपूर्वरूपैस्त्रीणि(३) रूपाणीत्यभिप्रेत्याह — गवाग्भ्यामित्यादिना । इत्यादीति । गवाग्भिः गोअग्भिः गोऽग्भि । गवाङ्भिः गोअङ्भिः गोऽङ्भिः । गोचे गवाञ्चे गोअञ्चे गोऽञ्चे । भ्यामि, भ्यसि च, प्राग्वत्षडपाणि । ङसौ — गोचः-गवाञ्चः-गोअञ्चः-गोऽञ्चः । गोचोः-गवाञ्चोः-गोअञ्चोः-गोऽञ्चोः । गोचाम् गवाञ्चां, गोअञ्चाम् गोऽञ्चाम् । गोचि गवाञ्चि-गोअञ्चि-गोऽञ्चि । ओसि प्राग्वत् । सुपि त्विति । पूजार्थकत्वे नलोपनिषेधाच्चकारस्य संयोगान्तलोपे नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकारः । ततश्च अवङ्संधिपूर्वरूपैस्त्रायाणां रूपाणां ङकारान्तानां कुगागम इत्यर्थः । कुगभावे तु गवाङ्षु-गोअङ्षु-गोऽङ्ष्विति त्रीणि(३) रूपाणि सुगमत्वान्नोक्तानि । गतौ तु नलोपे सति चस्य कुत्वेन ककारे अवङसन्धिपूर्वरूपैस्त्रीणि(३) रूपाणि दर्शयति — गवाक्षु इत्यादि । तथाच सुपि नव(९) रूपाणि । नन्वेषां मध्ये ककारवत्सु षड्रूपेषु 'चयो द्वितीयाः' इति ककारस्य खकारपक्षे षडपाणि(६) सखकाराण्यधिकानि स्युरित्याशङ्क्य निराकरोति — नचेहेति । चर्त्वस्येति । गतौनलोपे सति, चकारस्य कुत्वे, तस्य जश्त्वेन गकारे, तस्यखरि चे॑ति चर्त्वेन ककारे, गवाक्षु-गोअक्षु-गोऽक्ष्विति त्रीणि रूपाणीति स्थिति#ः । तत्र 'चयो द्वितीयाः' इति शास्त्रदृष्टआ चर्त्वशास्त्रस्याऽसिद्धत्वात्ककारो नास्त्येव, किन्तु गकार एवास्ति, तस्य चय्त्वाऽभावात् 'चयो द्वितीयाः' इति न भवतीत्यर्थः । तथाच गतौ त्रयाणामधिक्यं निरस्तम् । पूजायां तु कुक्पक्षे गवाङ्क्षु-गोअङ्क्षु-गोऽङ्क्षु इति त्रिषु ककारस्य द्वितीये सति खकारवतां त्रयाणामाधिक्यमिष्टमेवेत्याह — कुक्पक्षे त्विति । नचैवं सति नवाधिकशतिमिति । विरोधः शङ्क्यः,नवाधिकशत॑मिति सूत्रकारस्य मतमित्यर्थात् ।ऊह्रमेषामिति । प्रदर्शितानां द्वादशाधिकशत(११२) रूपाणामित्यर्थः । अआआक्षिभूतानीति । सप्तविंशत्यधिकपञ्चशतानीत्यर्थः(५२७) अआशब्दो हि सप्तत्वसङ्ख्यावच्छिन्नलक्षकः,सप्ताआआ हरितः सूर्यस्य॑ इति दर्शनात् । अक्षिशब्दस्तु द्वित्वसङ्ख्यावच्छिन्नलक्षकः, मनुष्यादिषु प्रायेणाऽक्ष्णोर्द्वित्वात् । भूतशब्दस्तु पञ्चत्वसङ्ख्यावच्छिन्नलक्षकः, पृथिव्यप्तेजोवाय्वाकाशानां भूतशब्दवाच्यानां पञ्चत्वात् । तत्राशब्देन प्रथमनिर्दिष्टेन सप्तत्वसङ्ख्यैव विवक्षिता । अक्षिशब्देन तु द्वितीयानिर्दिष्टेन सूचितया द्वित्व सङ्ख्यया दशकद्वयात्मिकाविंशतिसङ्ख्या विवक्षिता । भूतशब्देन तु तृतीयनिर्दिष्टेन सूचितया पञ्चत्वसङ्ख्यया पञ्चशतं लक्ष्यते । उक्तंच ज्यौतिषेणएकदशशतसहस्नायुतलक्षप्रयुतकोटयः क्रमशः । अर्युदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् । जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः ।॑ इति । अत्र अआशब्दसूचितां सप्तत्वसङ्ख्यामादौ लिखित्वा तदुत्तरतोऽक्षिशब्दसूचिता द्वित्वसङ्ख्या लेख्या । तदुत्तरतस्तु भूतशब्दसूचिता पञ्चत्वसङ्ख्या लेख्या ।अङ्कानां वामतो गति॑रिति वचनादित्यादि गणकसंप्रदायप्रवर्तकलील#आवत्यादिग्रन्थतो ज्ञेयम् । तथाच सप्त च विंशतिश्च पञ्चशतानि(५२७) च रूपाणि भवन्तीति मनीषिभिरूह्रमित्यर्थः । तथाहि सौ नवानां रूपाणामन्त्यवर्णस्यअनचि चे॑ति द्वित्वे तदभावे च अष्टादश(१८) रूपाणि । प्रथामाद्विवचने चतुर्णां मध्ये पूजार्थानां त्रयाणां मकारस्यअनचि चे॑ति द्वित्वे तदभावे च षड्रूपाणि ।अणोऽप्रगृह्रस्ये॑ति तु न, प्रगृह्रत्वात् । गतौ त्वेकमेव । सङ्कलनया सप्त(७) । जसि तु त्रयाणां ञकारस्य द्वित्वे तदभावे च षड्रूपाणि (६)षण्णमेषामन्त्यस्य इकारस्यअणोऽप्रगृह्रस्ये॑त्यनुनासिकपक्षे षट्, (६) अनुनासिकत्वाभावपक्षे तु षट् स्थितान्येव, संकलनया जसि द्वादश(१२) । तथाच प्रथमयां विभक्तौ सप्ततिंरशत्(३७) । एवं द्वितीयायां विभक्तावपि सप्ततिंरशत्(३७) । तृतीयैकवचने तु चतुर्णां मध्ये पूजार्थानां त्रयाणां ञकारद्वित्वे तदभावे च षडपाणि, गतौ त्वेकमेव । सङ्कलनया चतुर्दश(१४) । भ्यामि तु षण्णां मध्ये गतौ गकारस्य पूजायां ङकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव । सङ्कनया द्वादश(१२) । एषु यकारस्य 'यणो मयः' इति द्वित्वे द्वादश(१२), मय इति पञ्चमी यण इति षष्ठीत्याश्रयणात् । यकारद्वित्वाऽभावे त#उ द्वादश स्थितान्येव । सङ्कलनया चतुर्विशंतिः (२४) । एषु मकारस्य द्वित्वे चतुर्विशतिः, (२४) तदभावे चतुर्विंशति स्थितान्येव । संकलनया भ्यामि अष्टाचत्वारिंशत् (४८) । भिसि तु षण्णां गतौ गकारस्य पूजायां डकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव, सङ्कलनया द्वादश(१२) । एषु विर्गस्य द्वित्वे द्वादश(१२) । अयोगवाहानामटसु शर्षु चोपसङ्ख्यातत्वेन विसर्गस्य यत्र्वात् । तस्य तु द्वित्वाऽभावे द्वादश स्थितान्येव, संकलनया भिसि चतुर्विशतिः (२४) । तथाच तृतीयाविभक्तौ षडशीतिः (८६) । चतुर्थ्येकवचने चतुर्णां मध्ये पूजार्थानां त्रयाणां ञकारद्वित्वे तदभावे च षट्(६) । गतौ त्वेकमेव(१) । सङ्कलनया ङयि सप्त(७) । एकारस्य अनण्त्वान्नानुनासिकः । भ्यामि तु प्राग्वदेव अष्टाचत्वारिशत्(४८) । भ्यसि तु षण्णां मध्ये गतिपूजनयोः प्रत्येकं त्रयाणां गङयोर्द्वित्वे षट्(६) । तदभावे तु षट्(६) स्तितान्येव । सङ्कलनया द्वादश(१२) । एषुयकारस्य 'यणो मयः' इति द्वित्वे द्वादश, तदभावे तु चतुर्विंशतिः स्थितान्येव, संकलनया भ्यसि अष्टाचत्वारिंशत्(४८) । तथा च चतुर्थ्यां विभक्तौ त्र्यधिकं शतम् (१०३) । ङसौ तु पूजायां त्रयाणां रूपाणां ञकारद्वित्वे तदभावे च षट्, गतौ त्वेकं स्थितमेव, सङ्कलनया सप्त(७) । एषु विसर्गाद्वित्वे सप्त, तदभावे तु सप्त स्थितान्येव, सङ्कलनया ङसौ चतुर्दश(१४) । भ्यामि भ्यसि च प्रागवत्प्रत्येकं अष्टाचत्वारिंशत्(४८) । तथाच पञ्चम्यां विभक्तौ दशाधिकं शतम् (११०) । ङसि तु ङसिवच्चतुर्दश(१४) । ओसि तु चतुर्णां मध्ये पूजायां त्रयाणां ञकारस्य द्वित्वे तदभावे च षट्, गतौ त्वेकं, सङ्कलनया सप्त(७) । एषु विसर्गस्य द्वित्वे तदभावे च चतुर्दश(१४) । आमि तु चतुर्णां मध्ये पूजायां त्रयाणां त्रिषु ञकारस्य द्वित्वे षट्, गतौ त्वेकं, सङ्कलनया सप्त(७) । एषु मकारस्य द्वित्वे तदभावे च चतुर्दश(१४) । तथाच षष्ठआं द्विचत्वारिंशत् (४२) । ङौ पूजायां त्रयाणां ञकारस्य द्वित्वे तदभावे षट्, गतावेकं संकलनया सप्त(७) । एषु अन्त्यस्य इकारस्य अनुनासिकत्वे तदभावे च चतुर्दश(१४) । ओसि प्राग्वच्चतुर्दश । सुपि तु द्वादशानां मध्ये पूजायां कुगभावपक्षे डकारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, सङ्कलनया द्वादश(१२) । एषां द्वादशानां 'खयः शरः' इति षकारद्वित्वे द्वादश, तदभावे तु द्वादश स्थितान्येवस सङ्कलनया चतुर्विशतिः(२४) । कुगभावे तु षट्(६) स्थितान्येव, सङ्कलनया पूजायां तिंरशत् (३०) । गतौ तु त्रयाणां ककारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, षण्णामेषां 'खयः शरः' इति षकारद्वित्वे षट्, तदभावे तु षट् स्थितान्येव । सङ्कलनया द्वादश (१२) । तथाच सङ्कलनया गतौ पूजायां च द्विचत्वारिंशत्(४२) । एषामन्त्यस्यानुनासिकत्वे तदभावे च सुपि चतुरशीतिः(८४) । एवं च सु अष्टादश(१८) । औ-सप्त(७) । जस्-द्वादश(१२) । आहत्य प्रथमायां सप्ततिंरशत्(३७) । टा चतुर्दश(१४) । भ्याम्-अष्टाच-त्वारिंशत्(४८) । भिस्-चतुर्विंशतिः(२४) । आहत्य तृतीयायां षडशीतिः(८६) । ङे-सप्त(७) भ्यामष्टाचत्वारिंशत्(४८) । भ्यस् अष्टाचत्वारिंशत्(४८) । आहत्य चतुर्थ्यां त्र्यधिकं शतम् (१०३) । ङसि चतुर्दश(१४) । भ्याम्-अष्टाचत्वारिंशत्(४८)भ्यस्-अष्टाचत्वारिंशत्(४८) । आहत्य पञ्चम्यां दशाधिकं शतं (११०) । ङस्चतुर्दश(१४) । ओस्चतुर्दश(१४) । आम् चतुर्दश(१४) । आहत्या षष्ठआं द्वाचत्वारिंशत्(४२) । ङि-चतुर्दश(१४) । आहत्य षष्ठआंद्वाचत्वारिंशत् (४२) । ङ्-चतुर्दश(१४) । ओस्वतुर्दश(१४) । सुप्चतुरशीतिः(८४) । आहत्य सप्तम्यां द्वादशाधिकं शतम्(११२) । ततश्च सङ्कलनया पञ्चशतानि च, विंशतिश्च, सप्त च (५२७) रूपाणि । इति गवाक्छब्दप्रक्रिया । तिर्यगिति । तिरः अञ्चतीति विग्रहे ऋत्विगादिना क्विन् । गतौअनिदिता॑मिति नलोपः । तिरस्-अच् इत्यस्मात्सुबुत्पत्तिः, स्वमोर्लुक्, प्रत्ययलक्षणविरहहादसर्वनामस्थानत्वाच्च न नुम् । अभत्वात् 'अचः' इत्यल्लोपो न । तिरसस्तिर्यादेशः, यण्,क्विन्प्रत्ययस्ये॑ति कुत्वस्या.ञसिद्धत्वाच्चकारस्यचोः कुः॑रिति कुत्वम्, जश्त्वचर्त्वे इति भावः । तिरश्ची इति । तिरस् अच् औ इति स्थिते औङः श्यां भत्वात् 'अचः' इत्यल्लोपः । 'अलोपे' इत्युक्तेर्न तिर्यादेशः । सस्य श्चुत्वेन श इति भावः । तिर्यञ्चीति । तिरस् अच् इत्यस्माज्जसि जश्शसोः शिः, सर्वनामस्थानत्वान्नुम्, अनुस्वारपरसवर्णौ, तिरसस्तिरिः, यण् । अभत्वात्, 'अचः' इत्यल्लोपो नेति भावः । तिर्यङिति । स्वमोर्लुकि अभत्वादलुप्तनकारत्वात् 'अचः' इत्यल्लोपाऽभावात्तिर्यादेशः, चकारस्य संयोगान्तलोपः, नस्य कुत्वेन ङकार इति भावः । तुर्यञ्ची इति । औङः श्यां रूपम् । अलुप्तनकारत्वादच इत्यल्लोऽपाभावात्तिरिः । तिर्यञ्चीति । जश्शसोः शिः । शेषं पुंवत् । इति चान्ताः । अथ तान्ताः । यकृदिति । मांसपिण्डविशेषो यकृन्नाम याज्ञिकप्रसिद्धः । स्वमोर्लुक्, जश्त्वचर्त्वे इति भावः । यकृती इति । औङ्श्शी । यकृन्तीति । जश्शसोः शिः, झलन्तत्वान्नुम्, अनुस्वारपरसवर्णाविति भावः । शसादौ विशेषमाह — पद्दन्निति वा यकन्निति । यकानीति । शसश्शिः, यकन्नादेशः सर्वनामस्थानत्वान्नान्तयकन्नभावे यकृद्भ्यामित्यादि । शकृदिति । शकृच्छब्दो विष्ठावाची यकृद्वत् । ददत् ददती इति । शतृप्रत्यययान्तोऽयं ददच्छब्दः पुंलिङ्गनिरूपणे व्युत्पादितः । तस्य स्वमोर्लुक् । औङश्शी । नुम्तु न, असर्वनामस्थानत्वात् 'नाभ्यस्ताच्छतुः' इति निषेधाच्च ।", "74049": "<<सः स्यार्द्धधातुके>> - सः सि । 'सः' इति छेदः । 'स' इति षष्ठन्तम् । सीति सप्तम्यन्तमार्धधातुकविशेषणं । तदादिविधिः । 'अच उपसर्गात्तः' इत्यतस्त इत्यनुवर्तते । अकार उच्चारणार्थः । तदाह — सस्य तः स्यादिति । आदेशे अकारस्य उच्चारणार्थत्वत्तकारः स्यादित्यर्थः ।", "74050": "<<तासस्त्योर्लोपः>> - तदाह — तासस्त्योः । 'सः स्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्त्राप्यूह्रम् ।", "74051": "<<रि च>> - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्याऽसंभवात् ।", "74052": "<<ह एति>> - अथ लुट इडादेशे एत्वे तासि इटि एधितास्, ए इति स्थिते — ह एति । 'ह' इति प्रथमान्तम् । अकार उच्चारणार्थः । सः स्यार्धधातुक इत्यतः स इति, तासस्त्योर्लोप #इत्यतस्तासस्त्योरिति चानुवर्तते । तदाह — तासस्त्योरिति । तासः सस्य हकारे 'एधिताहे' इति रूपम् । एधितास्वहे इति । लुटो वहिभावः । टेरेत्वं । तास् । इट् । एवम् — एधितास्महे इति । तत्र महिभावो विशेषः । इति लुट्प्रक्रिया । एधिष्यत इति । लृटस्तादेशे टेरेत्वम् ।स्यतासी॑इति शबपवादः स्यः ।इट् । प्रत्ययावयवत्वात्षत्वम् । एधिष्येते इति । आताम् । टेरेत्वं । स्यः । इट् । 'आतो ङित' इत्याकारस्य इय् । लोपो व्योरिति यलोपः । आद्गुणः । षत्वम् । एधिष्यन्त इति । झस्य टेरेत्वं । झकारस्य अन्तादेशः । स्यः ।इट् । पररूपं । षत्वम् । थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि । तत्र थासः से ।स्यः । इट् । षत्वम् । एधिष्यसे इति रूपम् । एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् । ध्वम एत्वे स्यः । इट् । षत्वम् । एधिष्यद्वे इति रूपम् । इट एत्वे स्यः । इडागमः । षत्वम् । अतोगुण इति पररूपम् । एधिष्ये इति रूपम् । वहिमह्रोष्टेरेत्वम् । स्यः । इट् । अतो दीर्घः । एधिष्यावहे एधिष्यामहे इति रूपे । इति लृट्प्रक्रिया ।", "74053": "<<यीवर्णयोर्दीधीवेव्योः>> - यीवर्णयोर्दीधीवेव्योः । यिश्च इवर्णश्चेति द्वन्द्वात्सप्तमी । 'यि' इत्यत्र इकार उच्चारणार्थः ।तासस्त्यो॑रित्यतो लोप इत्यनुवर्तते ।अलोऽन्त्यस्ये॑त्यन्त्यस्य॑ लोपः । तदाह - एतयोरित्यादि । 'आदीध्यगतः'आवेव्य गतः॑ । अत्र ल्यपि ईकारस्य लोपः । इवर्णे उदाहरणं वक्ष्यते । इति लोपमिति । लट इडादेशे दीधी इ इत्यत्रयीवर्णयो॑रिति इवर्णपरत्वात्प्राप्तं लोपं परमपि बाधित्वा नित्यत्वाट्टेरित्त्वमित्यर्थः । कृते अकृते च लोपे प्रवृत्तेरेत्त्वं नित्यम् । तस्मिन्कृते यीवर्णपरकत्वाऽभावान्न लोप इति भावः । गुणनिषेध इति । दीधी — आमिति स्थितेसार्वधातुकार्धधातुकयो॑रिति प्राप्तस्य निषेध इत्यर्थः । दीधितेति । इटि कृते इवर्णपरकत्वादीकारस्य लोप इति भावः । दीधीताम् दीध्याताम् दीध्यताम् । दीधीष्व दीध्याथाम् । दीधीध्वम् । दीध्यै दीध्यावहैदीध्यामहै । अदीधीत अदीध्यातामदीध्यत । अदीधीथाः अदीध्याथामदीधीद्वम् । अदीधि दीधीवहि अदीधीमहि । दीधीत् दीधीयाताम् । दीधिषीष्ट दीधिषीयास्ताम् । दीधिषीरन् । अदीधिष्ट । अदीधिष्यत । वस्तुतस्तु छन्दसि दृष्टानुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् । वेवीङ वेतिना तुल्ये इति । दीधीवद्रूपाणि । इति जक्षित्यादयः ।षस षस्ति स्वप्ने इति । षोपदेशावेतौ । द्वितीय इदित् । तत्र षसधातोरुदाहरति — सस्तीति । ससन्तीति । अनभ्यस्तत्वादन्तादेश एवेति भावः । एत्त्वाभ्यासलोपौ मत्वा आह — सेसतुरिति । सेसुः । ससिथ सेसथुः सेस । ससास — ससस सेसव सेसिम । ससिता । ससिष्यति । सस्तु — सस्तात् सस्ताम् ससन्तु । सस् हि इति स्थिते हेर्धिभावे 'धि चे' ति सलोपं मत्वाह — सधीति । तत्रधि इत्यस्य स्थानिवत्त्वेन हित्वात्अतो हे॑रिति लुकमाशङ्क्याह - पूर्वत्रेति । सस्तात् सस्तम् सस्त । ससानि ससाव ससाम । लङ्याह — असदिति । असस् त इति स्थिते हल्ङ्यादिना तकारलोपेतिप्यनस्ते॑रिति सस्य दत्वमिति भावः । असस्तामिति । अससन्नित्यपि ज्ञेयम् । लङः सिपि तु असस् स् इति स्थिते हल्ङ्यादिना तकारलोपेतिप्यनस्ते॑रिति सस्य दत्वमिति भावः । असस्तामिति । अससन्नित्यपि ज्ञेयम् । लङः सिपि तु असस् स् इति स्थितेसिपि धातो॑रिति रुर्वा । पक्षे दः । हल्ङ्यादिलोपः । तदाह — असः असदिति । असस्तमसस्त । अससमसस्व असस्म । लिङ्याह — सस्यादिति । सस्याताम् । सस्यास्तामित्यादि । लुङ्याह — असासीदिति ।अतो हलादे॑रिति वृद्धिविकल्प इति भावः । अससिष्यत् । अत षस्तिधातोरुदाहरति — सन्तीति । इद#इत्त्वान्नुम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारे संस् त् तीति स्थिते,स्को॑रिति सलोपे,परसवर्णे,झरो झरी॑ति प्रथममतकारस्य लोपविकल्पे , एकतं द्वितं वा रूपमिति भावः । संस्तन्तीति । अनभ्यस्तत्वादन्तादेश एवेति भावः । सिपि संस्त् सि इति स्थितेस्को॑रिति सलोपे अनुस्वारस्य परसवर्णो नकारः । सवर्णपरत्वाऽभावात्झरो झरी॑ति तकारलोपे न । सन्त्सि सन्थः सन्थ । संस्त्मि संस्त्वः संस्त्मः । ससंस्त ससंस्ततुः । ससंस्तिथ । ससंस्तिव ससंस्तिम । संस्तिष्यति । सन्तु — सन्तात् सन्ताम् संस्तन्तु । संस्त् हि इति स्थिते हेर्धिभावेस्को॑रिति सलोपे परसवर्णे सन्त् धि इति स्थितेझरो झरी॑ति तकारस्य लोपः । सन्धि । लोपाऽभावे तकारस्य जश्त्वे सन्द्धि — सन्तात् सन्तम् सन्त । संस्तानि संस्ताव संस्ताम । लङस्तिपि असंस्त् त् इति स्थिते हल्ङ्यादिलोपे संयोगादिलोपे संयोगान्तस्य लोपे — असन् । असन्तामसंस्तन् । असन् असन्तमसन्त । असंस्तमसंस्त्व असंस्त्म । संस्त्यात् । असंस्तीत् । असंस्तिष्यत् । मतान्तरमाह -बहूनामिति । इत्याश्रित्येति । तथा च प्रकृते लटस्तिपि संस्त् तीति स्थिते झलि परे अनुस्वारसकारतकाराणां त्रयाणां समवायात् स् त् इत्यनयोः संयोगसंज्ञाविरहात्स्को॑रिति लोपाऽभावात् संस्तीत्याद्यूह्रमित्यर्थः । वश कान्ताविति । कान्तिरिच्छा । सेट् । वष्टीति ।व्रश्चे॑ति शसय् षत्वे तकारस्य ष्टुत्वेन टः । उष्ट इति । ङिति 'ग्रहिज्या' इति संप्रसारणे रूपमिति बावः । उवाशेति । लिटि अकितिलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । ऊशतुरिति । परत्वाद्ग्रहिज्येति संप्रसारणे कृते द्वित्वे हलादिशेषे सवर्णदीर्घ इति भावः । उवशिथ ऊशथुः ऊश । उवाश — उवश ऊशिव ऊशिम । वशितेति । अनेन सेट्त्वं द्योतितम् । वशिष्यति । उष्टामिति । उशन्त्वत्यपि ज्ञेयम् । उड्ढीति । वश् हि इति स्थिते धिबावे अपित्त्वेन ङित्त्वाद्ग्रहिज्येति संप्रसारणे शस्य षत्वे धस्य ष्टुत्वेन ढकारे षस्य जश्त्वेन ड इति भावः । वशानि वशाव वशाम । लङ्याह — अवडिति । हल्ङ्यादिलोपे शस्य षः, षस्य डः, तस्य चर्त्वविकल्प इति भावः । औशन्निति । अवट् औष्टम् औष्ट । अवशमिति । पित्त्वान्न संप्रसारणमिति भावः । औआ औश्म । वध्याशीर्लिङो उश्यादिति सिद्धवत्कृत्य आह — उश्यातामुश्यास्तामिति । अवशीत् अव्राशीत् । अवशिष्यत् । तदेवं दीधीह् वेवीङ् षस षस्ति वश एते पञ्च धातवस्छान्दसा एवेति माधवादयः । तत्रदीधीवेवीटा॑मिति सूत्रेदीधीवेव्योश्छन्दोविषयत्वा॑दिति भाष्यम् । 'जक्षित्यादयः ष' डिति सूत्रेषसिवशी छानदसा॑विति भाष्यम् । एतद्भाष्यादेव षस्तिधातोर्नाऽत्र पाठ इति प्रतीयते । अत एव 'षस शास्ति स्वप्ने' इति पाठमभ्युपगमस्य स्तिपा निर्देशेन शास एवाथभेदात्पुनः पाठ इति कैयट आह । अत्र वशधातोरपि छान्दसत्ववचनं प्रायिकम्,वष्टि भागुरिरल्लोपंजयाय सेनान्यमुशन्ति देवाः॑ इत्यादिप्रयोगदर्शनादित्यास्तां तावत् । चर्करीतं चेति । धातुपाठे गणसूत्रमिदम् ।चर्करीत॑मिति यङ्लुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा । तदाह — यङ्लुगन्तमदादाविति । तेन यङ्लुगन्ताच्छबेव विकरणः, तस्य लुक्, न तु श्यनादि विकरणान्तरम् । 'परस्मपैदिन' इत्युपक्रमाद्यङ्लुगन्तस्य परस्मैपदित्वमेव । ह्नुङ् अपनयने इति । अनिडयम् । ह्नुते इति । ह्नुवाते ह्नुवते इत्यादि । जुह्नुवे इति । जुह्नुवाते जुह्नुविरे । क्रादिनियमादिट् । जुह्नुविषे । जुह्नुविवहे । ह्नोता । ह्नोष्यते । ह्नुताम् । ह्नुष्व । ह्नवै ह्नवावहै । अह्नुत । इति सिद्धवत्कृत्य विधिलिङ्याह — ह्नुवीतेति आशीर्लिङ्याह — ह्नोषीष्टेति । लुह्राह — अह्नोष्टेति । इति बालमनोरमायां लुग्विकरणम् ।", "74054": "<<सनि मीमाघुरभलभशकपतपदामच इस्>> - सनि मीमा । सादौ सनीति । 'सः सि' इत्यतः सीत्यनिवृत्तेरिति भावः । अभ्यासलोप इति । 'अत्र लोपः' इत्यनेनेति भावः । पिस्त् स इति स्थिते आह — स्कोरिति । दरिद्रातेः सनितनिपती॑ति इड्विकल्पमुदाहरति — दिदरिद्रिषति । दिदरिद्रासतीति । डु मिञिति ।डु मिञ् प्रक्षेपणे॑ स्वादिः, 'मीञ् हिंसायाम्' क्र्यादिः, आभ्यां सन्नित्यर्थः ।सनि मीमे॑त्यतर्मीग्रहणेन एतयोरुभयोग्र्रहणमिति भावः । ननु मीति दीर्घश्रवणात् डु मिञ् इत्यस्य ह्रस्वान्तस्य कथं ग्रहणमित्यत आह — कृतदीर्घस्येति । डु मिञ्धातोः सनिअज्झने॑ति कृतदीर्घस्य, तथामीञ् हिंसाया॑मिति स्वतः सिद्धदीर्घस्य च मीरूपाऽविशेषादुभयोरपि ग्रहणमित्यर्थः । सः सीति । उभयोरपि धात्वोः मी स इति स्थितेसनि मीमे॑ति इसादेशे द्वित्वे 'अत्र लोपः' इत्यभ्यासलोपेसः सी॑ति सस्य तकार इत्यर्थः । मित्सति मित्सते इति । प्रकृतेर्ञित्त्वात् 'पूर्ववत्सनःर' इति उभयपदित्वम् । माङ्मेङोरिति । मेङः सनि 'आदेचः' सनि आत्त्वे कृते मारूपत्वाऽविशेषात्सनि मीमे॑त्यत्र उभयोरपि ग्रहणमिति भावः । दोदोणोरिति । 'दो अवखण्डने' इतिधातोः सनि आत्त्वे कृते दारूपाऽविशेषाद्धुत्वादुभयोग्र्रहणमिति भावः । दित्सतीति ।हलन्ताच्चे॑ति कित्तवान्नोपधागुणः । देङिति । तस्यापि कृतात्त्वस्य घुत्वात्सनि मीमे॑त्यत्र ग्रहणमिति भावः । रिप्सते इति । रभधातोः रूपम् । लिप्सते इति । लभधातो रूपम् । पित्सतीति । पत्लृधातो रूपम् । पदधातोः पित्सते इति रूपम् । सनि इस् वाच्य इति ।आकारस्ये॑ति शेषः ।ष रित्सतीति । सनि इसादेशः । 'अत्र लोपः' इत्यभ्यासलोपः ।", "74055": "<<आप्ज्ञप्यृधामीत्>> - आप्ज्ञप्यृधामीत् । सादौ सनीति ।सनि मीमाघुरभे॑त्यतः सनीति, अचेति चानुवर्तते ।सः स्यार्धधातुके॑ इत्तः सीत्यनुवृत्तं सनो विशेषणम् । तदादिविधिरिति भावः ।", "74056": "<<दम्भ इच्च>> - दम्भ इच्च ।सनि मीमे॑त्यतः सनीति, अचेति चानुवर्तते । चकारात्आप्ज्ञप्यृधा॑मिति सूत्रादीदिति समुच्चीयते ।सः सी॑त्त सीत्यनुवृत्तं सनो विशेषणं, तदादिविधिः । तदाह — दम्भेरच इत्यादि । अभ्यासलोप इति । 'अत्र लोपः' इत्यनेने॑ति शेषः । दिम्भ् स इति स्थिते इक्समीपादनुस्वारादव्यवहितपरत्वाऽभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुपपादयति — हलन्ताच्चेत्यत्रेति । हल्ग्रहणं हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिरपरिमिति प्रागुक्तमित्यर्थः । ततः किमित्यत आह — तेनेति । धिप्सतीति ।सनीवन्ते॑ति इडभावे इत्त्वे रूपम् । धीप्सतीति । इडभावे इत्त्वे च रूपम् । दिदम्भिषतीति । इट्पक्षे सनो झलादित्वाऽभावादकित्त्वान्नलोपो नेति भावः । शिश्रीषतीति ।सनीवन्ते॑ति इडभावेअज्जने॑ति दीर्घः । सनः कित्तवान्न गुणः । इट्पक्षे आह — शिश्रयिषतीति । अझलादित्वान्न कित्त्वं, नाप्यज्झनेति दीर्घः । स्वृधातोः सनि ऋकारस्य उत्त्वविधिं स्मारयति — उदोष्ठएति । सुस्वूर्षतीति ।सनीवन्ते॑ति इडभावे ऋकारस्यअज्झने॑ति दीर्घे कृते उत्त्वे रपरत्वेउपधायां चे॑ति दीर्घ इति भावः । सिस्वरिषतीति । 'स्वृ\t' इत्स्य द्वित्वे उदरत्वे इत्तवमिति भाव- । युयूषतीति ।सनीवन्ते॑ति इडभावेअज्झने॑ति दीर्घः । यियविषतीति । इट्पक्षेद्विर्वचनेऽची॑ति गुणनिषेधात्यु॑इत्यस्य द्वित्वम् ।ओः पुयण्जी॑तीत्त्वमिति भावः । ऊर्णुनूषतीति ।सनीवन्ते॑ति इडभावपक्षे 'न न्द्रा' इति रेफं वर्जयित्वा नुस् इत्यस्य द्वित्वेअज्झने॑ति दीर्घः ।इको झलि॑ति सनः कित्त्वान्न गुणः । इट्पक्षे तुविभाषणोर्णो॑रिति सनो ङित्त्वविकल्पं मत्वाह -ऊर्णुनुविषति । ऊर्णुनविषतीति । ङित्त्वपक्षे गुणाऽभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवङ् । ङित्त्वाऽभावपक्षेनु॑इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः । उभयत्राप्यभ्यासे उवर्णः श्रूयते । ननु ङित्त्वाऽभावपक्षे ऊर्णुं इस इति स्थिते द्वित्वात्, प्रागेव परत्वाद्गुणे अवादेशे च कृते नव्शब्दस्य द्वित्वेऽभ्यासस्याऽत इत्त्वे ऊर्णिनविषतीति अभ्यासे इकार एव श्रूयेत, नतु उकार इत्याशङ्क्य निराकरोति — द्विर्वचनेऽचीति । अस्मिन् सूत्रेस्थानिव॑दित्यनुवत्र्य रूपातिदेशं चाश्रित्य द्वित्वनिमित्ते अचि परे योऽजादेशः स द्वित्वे कर्तव्ये स्थानिरूपं प्रतिपद्यते इत्येकोऽर्थः ।न पदान्ते॑त्यतो नेत्यनुवर्त्त्य द्वित्वनिमित्ते अचि योऽजादेशः स न स्याद्द्वित्वे कर्तव्ये इत्यन्योऽर्थः । तत्र प्रथमव्याख्याने तु कृतस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्यानु॑इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते । द्वितीव्याख्यानेऽपि द्वित्वात् प्राग्गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः । ननु ऊर्णु इस इति सन्नन्तस्य द्वित्वरूपकार्यभाक्त्वेन तदन्तर्गतसय् इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम्,नहि कार्यी निमित्ततया आश्रीयते॑ इत्युक्तेः । तथा च द्वित्वे कर्तव्ये द्वित्वनिमित्ताऽच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यते इत्याशङ्क्य निराकरोति — न च सन्नन्तस्येति । कार्यमनुभवन्निति । अत्र व्याख्यानमेव शरणम् । न चेह सन्निति । कितं नुशब्द इत्यर्थः । बुभूर्षतीति ।सनीवन्ते॑ति इडभावपक्षे भृ स इति स्थितेअज्झने॑ति दीर्घेउदोष्ठपूर्वस्ये॑त्युत्त्वे रपरत्वे उत्तरखण्डस्यहलि चे॑ति दीर्घः । सनः कित्त्वान्न गुण इति भावः । इट्पक्षे आह — बिभरिषतीति । भृ इस इति स्थिते द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः । ज्ञपिः पुगन्तो भित्संज्ञक इति ।सनीवन्ते॑ति सूत्रे गृह्रते॑ इति शेषः ।मारणतोषणनिशामनेषु ज्ञे॑ति घटादौ ।ततो हेतुमण्णौ पुकि घटादित्वेन मित्त्वादुपधाह्रस्वे ज्ञपीति ण्नय्तो गृह्रत इत्यर्थः । पकारान्तश्चौरादिकश्चेति ।ज्ञप मिच्चे॑ति यः स्वतः परकारान्तः पठितश्चुरादौ, न तु पुगन्तः, सोऽपिसनीवन्ते॑ति सूत्रे गृह्रते इत्यर्थः । इडभावे इति । उभयविधादपि ण्यन्ताज्ज्ञपीत्यस्मात्सनि इडभावपक्षे णेः परसय् सनः 'इको झल्' इति कित्त्वाण्णेर्गुणो नेत्यर्थः । परत्वादिति । णेर्लोपे सति अचोऽभावान्न दीर्घ इति भावः । तथा च 'ज्ञी' बित्यस्य द्वित्वे हलादिशेषे 'अत्र लोपःर' इत्यभ्यासलोपे परिनिष्ठितमाह — ज्ञीप्सतीति । इट्पक्षे आह — जिज्ञपयिषतीति । सनधातोः सनि आह — जनसनेत्यात्त्वमिति ।नकारस्ये॑ति शेषः । सिषासतीति । आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य ह्रस्वे अत इत्त्वे षत्वे रूपम् । नचस्तौतिण्योरेवे॑ति नियमान्न ष इति शङ्क्यं, सनः षत्वे सत्येव तत्प्रवृत्तेः । इट्पक्षे त्वाह — सिसनिषतीति । अत्रजनसने॑त्यात्त्वं तु न, सनो झलादित्वाऽभावात् ।स्तौतिण्योरेवे॑ति निमयान्न ष इति भावः । तनिपतीति । प्राप्तविभाषेयम् ।", "74057": "<<मुचोऽकर्मकस्य गुणो वा>> - मुचोऽकर्मकस्य । सादौ सनीति । शेषपूरणमिदम् ।सः सी॑त्यतः सीत्,सनि मीमे॑त्यतः सनीति चानुवृत्तेरिति भावः ।हलन्ताच्चे॑ति कित्तवाद्गुणनिषेधे प्राप्ते वचनम् । अभ्यासलोप इति । 'अत्र लोपः' इत्यनेने॑ति शेषः । मोक्षते इति । 'अत्र लोपः' इत्यभ्यासलोपः । तङि त्विति । 'न वृद्भ्यः' इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तत्वादिति भावः । निनृत्सतीति । इडभावपक्षेहलन्ताच्चे॑ति कित्त्वान्न गुणः ।", "74058": "<<अत्र लोपोऽभ्यासस्य>> - अत्र लोपोऽभ्यासस्य ।सनि मीमे॑तिआप्ज्ञप्यृधामी॑दितिदम्भ इच्चे॑ति ,मुचोऽकर्मकस्य गुणो वे॑ति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते । तदाह — सनि मीमेत्यारभ्यते । सूत्रचतुष्टकार्ये कृते सतीत्यर्थः । ईप्सतीति । आप् धातोः सनि आकारस्य इत्त्वेअजादेर्द्वितीयस्ये॑ति प्स इत्यस्य द्वित्वेऽभ्यासलोप इति भावः । रपरत्वमिति । ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः । चर्त्वमिति । ईर्ध् स इति स्थिते धस्य चर्त्वे 'न न्द्राः' इति रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति, 'त्स' इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः ।पूर्वत्राऽसिद्धीयमद्वित्वे॑ इति वचनाच्चर्त्वे कृते द्वित्वमिति बोध्यम् । इट्पक्षे आह — अर्दिधिषतीति । सनः सादित्वाऽभावादीत्त्वाऽभावे गुणे रपरत्वे अर्ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः । भ्रस्ज्धातोः सन इटिभ्रस्जो रोपधयो॑रिति रमागमाऽभावे आह — बिभ्रज्जिषतीति । सस्य श्चुत्वेन शः, शस्य जश्त्वेन जः । क्ङिदभावात्ग्रहिज्ये॑ति संप्रसारणं न । बिभर्जिषतीति । इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि साकरात्प्राग्रेफागमे भकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज् इस इति स्थिते भर्ज् इत्यस्य द्वित्वं हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् । तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम् । बिभ्रक्षतीति । इडभावे रमागमाऽभावे च रूपम् । जस्य कुत्वं सस्य षः । बिभक्र्षतीति । इडभावे रमागमे च रूपम् । तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे ।", "74059": "<<ह्रस्वः>> - भू भूव् अ इति स्थिते — ह्रस्वः ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । ह्रस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम् । तदाह — अभ्यासस्याऽचेति । भु भूव् अ इति स्थितम् । यद्यपि 'भवतेर' इति वक्ष्यमाणाऽकारविधिनैव सिद्धमिदं तथापि लुलावेत्याद्यर्थमावश्यकमिदमत्रैव न्याय्यत्वादुपन्यस्तम् ।", "74060": "<<हलादिः शेषः>> - हलादिः शेषः ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येत्यनुवर्तते । शिष्यत इति शेषः, कर्मणि घञ् । शिषधातुरितरनिवृत्तिपूर्वकाविस्थितौ । तदाह — अभ्यासस्येत्यादिना । इति वलोप इति । भूव् भूव् इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः ।", "74061": "<<शर्पूर्वाः खयः>> - किन्तु लिटस्तादेशेलिटस्तझयो॑रिति तस्यैशिलिटि धातो॑रिति द्वित्वे 'हलादिः शेषः' इत्यभ्यासे प्रथमहल्व्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते — शूर्पर्वाः । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । 'शर्पूर्वाः' इत्यत्र शर्पूर्वो येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शर्न शिष्यते । शिष्यन्त इति । 'हलादिः शेषः' इत्यतः शेष इत्यनुवृत्तं कर्मणि घञन्तं बहुवचनान्ततया विपरिणम्यत इति भावः । तथा च प्रकृते अभ्यासे खय् पकारः शिष्यते ।न न्द्राः संयोगादय॑ इति रेफस्य द्वित्वनिषेधो न शङ्क्यः, द्वितीयैकाजवयवस्यैव तन्निषेधात् । तदाह — पस्पर्ध इति । नच व्रवश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यं, हलादिः शेष इत्यतो हि आदिरित्यप्यनुरवर्तते । शव्र्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः । पस्पर्धाते, पस्पर्धिरे, पस्पर्धिषे पस्पर्धाथे, पस्पधिंध्वे , पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि । स्पर्धितेति । लुटि एध धातुवद्रूपाणि सुगमानीति भावः । स्पर्धिष्यत इति । लृटि एधदातुवद्रूपाणीति भावः । स्पर्धतामिति । लोटि एधवद्रूपाणीति भावः । अस्पर्धतेति । लङि एधिवद्रूपाणीति भावः । हलादित्वादडेव न त्वाडिति विशेषः । स्पर्धेतेति । विधिलिङि एधिवद्रूपाणि । अडागमः, न त्वाडिति विशेषः । अस्पर्धिष्यतेति । लृङि एधिवद्रूपाणि । अस्पर्धिष्टेति । लुङि एधिवद्रूपाणि । अडागमः, न त्वाडिति विशेषः । अस्पर्धिष्यतेति । लृङि एधिवद्रूपाणि । अडागमो विशेषः, न त्वाट् । गाधृ प्रतिष्ठेति । चतुर्थान्तो धातुः । ऋकारोनाग्लोपिशास्वृदिता॑मिति निषेधार्थः । अजगाधत् प्रतिष्ठा — आधारे स्थितिः । ग्रन्थः — ग्रन्थनं, रचनम् । जगाधे इति । लिटि द्वित्वादि । अभ्यासस्य ह्रस्वः । चुत्वम् । बाधृ इति । प्रतिघातः — पीडनम् । नाथृनाधृ इति । द्वितीयचतुर्थान्तौ धातू । उपतापः — ज्वरप्रयुक्ता पीडा । आशीः — आशासनम् । द्वितीयान्तस्य नाथृधातोर्विशेषमाह — आशिषि नाथ इति । अत्र 'नाथ' इति षष्ठी । 'अनुदात्तङित' इत्यत आत्मनेपदमित्यनुवर्तते । अनुदात्तेत्वादेव सिद्धे नियमार्थमिदं वार्तिकं तदाह — अस्याशिष्येवेति । आशासनार्थवृत्तेरेव नाथधातोरात्मनेपदम् । याच्ञाद्यर्थवृत्तेषुशेषात्कर्तरी॑ति परस्पैपदमेवेत्यर्थः । नाथत इति । आशास्ते इत्यर्थ- । अन्यत्रेति । याच्ञाद्यर्थे विद्यमानस्येत्यर्थः । अथ चतुर्थान्तस्य नाधधातोरुदाहरति — नाधते इति । दधेति । चतुर्थान्तोऽयम् ।", "74062": "<<कुहोश्चुः>> - एवं च — कृ कृ ए इति स्थिते — कुहोश्चुः । कु ह् इत्यनयोद्र्वन्द्वात्षष्ठीद्विचवनम् ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — अभ्यासेति । यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्त्वात्, चवर्गीयाणां पञ्चत्वान्न यथासङ्ख्यं, नापि स्थानत आन्तर्यं, कण्ठतालुस्थानभेदात् । आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तत्, अतो बाह्रप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवर्गीयस्य पर्थम एव चवर्गीयो भवति, अघोषआआसविवाराऽल्पप्राणप्रयत्नसाम्यात्, न तु द्वितीयः, महाप्राणत्वात् । नापि तृतीय पञ्चमौ, घोषसंवारनादप्रयत्नत्वात् । नापि चतुर्थः,घोषसंवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोषआआसविवाराऽप्रामप्रयत्नत्वात्, न तु प्रथमः, अल्पप्राणत्वात् । नापि तृतीयपञ्चमौ, घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थःष घोषसंवारनादप्रयत्नत्वात् । तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि, महाप्रामप्रयत्नत्वाच्च । नापि चतुर्थः महाप्राणत्वात् । नापि पञ्चमः, घोषसंवारनादाल्प्राणसाम्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः, अघोषविवारआआसप्रयत्नत्वात् । नापि तृतीयपञ्चमौ, अल्पप्राणत्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाञ्ञकार एव । हकारस्य तु घोषसंवारनादमहाप्राणवतस्तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः । तदाह — एधांचक्र इति । एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थ- । एधांचक्राते इति । कृञो लिट आतामि टेरेत्वम् ।द्वर्वचनेऽची॑ति यणि निषिद्धे 'कृ' इत्यस्य द्वित्वे उरदत्वम् । हलादिः शेषः । चर्त्वम् । यण् । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याऽचो द्वित्वनिमित्तत्वाऽभावात्कथमिहद्वर्वचनेऽची॑ति यण्निषेध इति वाच्यं, साक्षाद्वा, समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधांचक्रिर इति । झस्य इरेच् । कृ इत्यस्य द्वित्वादि पूर्ववत् ।", "74063": "", "74064": "", "74065": "", "74066": "<<उरत्>> - उरत् । उः — अदिति छेदः ।ऋ॑इत्यस्य उरिति षष्ठएकवचनम् ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतं । तद्वशात्प्रत्यये परत इति लभ्यते । प्रत्यये परत एव अङ्गसंज्ञाविधानात् । तदाह — अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति । अभ्यासऋवर्णादेशस्याऽकारस्योरण्रपर इति रपरत्वमित्यर्थः । तथा च कर् कृ ए इति स्थिते । हलादिः शेष इति । रेफस्य निवृत्तिरिति भावः । प्रत्यये किमिति । अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात्प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति । 'ओ व्रश्चू च्छेदने' , लिटि णल् द्वित्वं । लिटभ्यासस्येत्यभ्यासरेफस्य सम्प्रसारणमृकारः । उरत् । रपरत्वम् । हलादिः । शेषः । वव्रश्चेति रूपम् । अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नोऽकारस्तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन्परे वकारस्यन सम्प्रसारणे सम्प्रसारण॑मिति निषेधान्न सम्प्रसारममिति स्थितिः । उरदित्यत्र 'प्रत्यये परत' इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः सम्प्रसारणत्वाऽभावात्तस्मिन् परतोन सम्प्रसारणे सम्प्रसारण॑मिति निषेधो न स्यादिति भावः ।", "74067": "<<द्युतिस्वाप्योः सम्प्रसारणम्>> - द्युतिस्वाप्योः । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । दिद्युते इति । द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेनद्युतिस्वाप्यो॑रिति संप्रासरणे,संप्रसारणाच्चे॑ति उकारस्य पूर्वरूपे रूपम् ।", "74068": "<<व्यथो लिटि>> - व्यथधातुर्द्वितीयान्तः । व्यथो लिटि । 'अत्र लोपःर' इत्यतोऽभ्यासस्येति,द्युतिस्वाप्यो॑रत्यतः संप्रसारणमिति चानुवर्तते । तदाह — व्यथोऽभ्यासस्येत्यादिना । हलादिशेषापवाद इति । व्यथ् व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपं बाधित्वा संप्रसारणमित्यर्थः । तथा च यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् । वकारस्य तु न संप्रसारणं,न संप्रसारणे संप्रसारण॑मिति निषेधात् । ननु संप्रसारणेन हलादिशेषबाधे थकारस्यापि निवृत्तिर्न स्यादित्यत आह — थस्येति । यकारलोपस्य बाधं विना संप्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाऽभावादिति भावः । मृद मर्दने इति । ऋदुपधोऽयम् । मर्दते । ममृदे । क्षिजधातुरिदित् । क्षञ्जते । चक्षञ्जे । नु घटादिगणेऽस्य पाठो व्यर्थः, क्षञ्जयतीत्यत्र णौ नुमि कृते अकारस्यानुपधात्वेन उपधादीर्घस्याऽप्रसक्त्या 'मितां ह्रस्वः' इत्यस्याऽप्रवृत्तावपि विशेषाऽभावादनुपधात्वेन 'मितां ह्रस्व' इत्यस्य प्रसक्त्यभावाच्च । अत एव अक्षञ्जि क्षञ्जं क्षञ्जिमित्यत्रापिचिण्णमुलो॑रिति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह — मित्त्वसामर्थ्यादिति । दक्ष गतीति । ननुदक्ष वृद्धौ शीघ्रार्थे चे॑त्यनुदात्तेत्सु पाठादेव सिद्धे किमर्थमिह पाठः , अर्थनिर्देशस्योपलक्षणत्वादेव गतिहिंसार्थकत्वस्यापि संभवादित्यत आह — वृद्धिशैघ्र्ययोरिति । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोर्दीर्घविकल्पः । अदक्षिः अदाक्षि । दक्षंदक्षम्, दाक्षंदाक्षम् । क्रप कृपायां गताविति । अदुपधोऽयम् । कृपायां गतौ चेत्यर्थः । कदि क्रदि क्लदि इति नन्दिमते । क्षीरस्वामिमते च त्रय एव धातवः । मैत्रेयमते चत्वार इति बोध्यम् । तत्र इदितां त्रयाणां पौनरुक्त्यं परिहरति — कदिक्रदिक्लदिनामित्यादिना । ञित्वरेति । ञिरित् । 'ञीतः क्तः' इति क्तः प्रयोजन् । आदित्त्वं तुआदितश्चे॑ति निष्ठायामिण्निषेधार्थम् । वस्तुतस्तु आदित्त्वं व्यर्थं, ह्रस्वेऽप्यात्नेपदसिद्धेःरुष्यमत्वरसङ्घषास्वना॑मिति निष्ठायामिड्विकल्पसिद्धेश्च । घटादयः षित इति । 'त्वरत्यन्ता' इति शेषः । घटादिषु त्रयोदशानुदात्तेतो गताः । 'द्युत दीप्तौ' इत्यतः प्राग्घटादिसमाप्तिरिति वक्ष्यते । अथ फणान्ता इति । 'फण गता' वित्येतत्पर्यन्ता इत्यर्थः । ज्वर रोगे इति । णौ ज्वरयति । चिणि तु अज्वरि — अज्वारि । णमुलि तु — ज्वरंज्वरं ज्वारंज्वारम् । एवमग्रेऽपि ज्ञेयम् । हेड वेष्टन इति । डकारादकार उच्चारणार्थः । ततश्चनाग्लोपिशास्वृदिता॑मिति निषेधो न भवति । स एवेति । हेडृधातुरेव ऋकारानुबन्धमुत्सृज्य वेष्टनरूपेऽर्थविशेषे मित्त्वार्थमनूद्यते इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । नन्वात्मनेपदिन एवाऽत्रानुवादे परस्मैपदं न स्यादित्यत आह -परस्मैपदिभ्य इति । यदि त्वात्नेपदमिष्टं तर्हि घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठएतेति भावः । हेडतीति । वेष्टते इत्यर्थः । हिडयतीति । वेष्टयतीत्यर्थः ।हेतुमती॑ति णिचि 'मितां ह्रस्वः' इति ह्रस्व इति भावः । अडिहि अहीडीति ।चिण्णमुलो॑रिति दीर्घविकल्पः । हेडयतीति । वेष्टनरूपाऽर्थ एव मित्त्वान्न ह्रस्व इति भावः । 'वट परिभाषणे' इति नाऽपूर्वो धातुरित्याह — वट वेष्टने इत्यादि । अनुवाद इति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । 'णट नृत्तौ' इत्यस्य पौनरुत्तयमाक्षिपति — इत्थमेवेति ।टवर्गान्तेष्विटति शेषः । तथा च उभयोरप्यर्थैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परिहारस्याऽसंभवात्पौनरुक्त्यमेवेति भावः । परिहर्तुमुपक्षिपति — तत्रायं विवेक इति । तत्र = तयोर्धात्वोः, अयं = वक्ष्यमाणः, विवेकः = अर्थभेदः, प्रत्येतव्य इत्यर्थः । पूर्वं पठतस्येति । टवर्गान्तेषु पठितस्येत्यर्थः । यत्कारिष्विति । यस्य कर्तृषु नटव्यवहारस्तन्नाटं पूर्वं पठितस्यनटधातोरर्थ इत्यर्थः । किं तन्नाटमित्यत्राह — वाक्यर्थेति । घटादौ त्विति । यस्य कर्तृषु नर्तकव्यपदेशस्तन्नृत्यं, नृत्तं च घटादौ पठितस्य नटेरर्थः इत्यर्थः । नृत्यनृत्तयोः को भेद इत्यत आह — पदार्थेति । एवंच टवर्गान्तेषु पठितस्य घटादगतस्य चाऽर्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यते । धात्वन्तरत्वे तु भित्त्वतदभावयोर्विकल्पः स्यादिति भावः । अथ नटधातोरस्य णोपदेशपर्युदासभ्रमं वारयति — णोपदेशेति ।अनर्द्नाटी॑त्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन 'नट अवस्पन्दने' इति चौरादिकस्यैव ग्रहणादयं णोपदेश एवेत्यर्थः । ष्टकधातुः षोपदेशः । कृतष्टुत्वस्य निर्देशः । स्तकतीति । 'धात्वादे' रिति षस्य सत्वे ष्टुत्वनिवृत्तिः । चक तृप्तौ । तृप्तीति ।चक तृप्तौ प्रतीघाते चे॑त्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्राऽनुवाद इत्यर्थः । एवं च धात्वन्तरत्वाऽभावान्न मित्त्वततदभावविकल्पः । ननु आत्मनेपदिषु पठितस्यात्रानुवादादात्मनेपदं स्यादित्यत आह — आत्नेपदिष्विति । षगे ष्टगे इति । षोपदेशौ । ष्टगे इति कृतष्टुत्वनिर्देशः । कगे नोच्यत इति । ननु यदि न कोऽपि क्रियाविशेषोऽस्यार्थस्तर्हि कथमयं धातुरित्यत आह — क्रियासामान्यार्थवाचित्वादिति । धातुपाठपठितस्य क्रियाविशेषार्थकत्वाऽभावे सति क्रियासामान्यवाचित्वं परिशेषलभ्यमिति भावः । अनेकेति ।कलिः कामधेनु॑रिति न्यायेन कलधातुवदपरमितार्थकत्वमिति भावः । श्रथ क्नथ क्रथ क्लथ इति । चत्वारोऽपि द्वितीयान्ताः । आद्यतृतीयौ रेफमध्यौ । द्वितीयो नकारमध्यः । चतुर्थस्तु लकारमध्यः । आद्यस्तु शकारादिः । इतरे ककारादयः । ननु क्रथधातोर्घटादित्वेन मित्त्वाण्णौ उपधावृद्धिसंपन्नस्य अकारस्य 'मितां ह्रस्व' ति ह्रस्वत्वे क्रथयतीति स्यान्नतु क्राथयतीति । तत्राह — जासिनीति ।जासिनिप्रहणनाटकाथपिषां हिंसाया॑मिति षष्ठीविधौ णौ मित्वेऽपि क्राथेति वृद्धिर्निपात्यत इत्यर्थः । नन्वेवं सति घटादौ क्रथधातोः पाठो व्यर्थ इत्यत आह — मित्त्वं त्विति । चिण्णमुलोर्दीर्घपक्षे चरितार्थमित्यन्वयः । ननु तत्रापि क्राथेति निपातनाद्वृद्धिरित्यत आह — निपातनात्परत्वादिति ।क्राथे॑ति निपातनापेक्षयाचिण्णमुलो॑रित्यस्य परत्वादित्यर्थः । यद्यपि 'मितां ह्रस्वः' इत्यपि परन्तथापि पुरस्तादपवादन्यायेन क्राथेतिवृद्धिनिपातनं 'मितां ह्रस्वः' इत्यस्यैवाऽव्यवहितस्य बाधकं, नतुचिण्णमुलो॑रित्यस्यापि, तस्य व्यवहितत्वादिति बोध्यम् । अक्रथि — अक्राथीति । क्रथेण्र्यन्ताच्चिणि दीर्घविकल्पः । क्रथंक्रथं क्राथंक्राथमिति । णमुलि दीर्गविकल्पः । वन चेति । चकारो हिंसानुकर्षकः । तदाह -हिंसायामितीति । वन शब्दे, वन संभक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवादः । वनति । णौ तु — वनयति । णमुलि तु वनंवनं वानंवानम् । वनु च नोच्यते इति । 'कगे नोच्यते' इति वद्व्याख्येयम् । नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोनुवाद इति सिद्धान्तात्तनादौ 'वनु याचने' इति पठितस्य अनुदात्तेतोऽनुवादात्क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम्, उप्रत्ययश्च स्यादित्यत आह — अपूर्व एवायमिति । उदित्करणेति । यदि तानादिकस्यैव अत्रानुवादः स्यात्तर्हि तनादिगणे 'वनु' ति कृतेन उदित्करणेनैवउदितो वे॑त्याद्युदित्कार्यस्य सिद्धेरिह गणे पुनरुदित्करणमनर्थकं स्यात् । अतस्तानादिकस्य नात्रानुवादः, किं त्वपूर्व एवायं वनुधातुः । तथाचवनती॑ति परस्मैपदं, शब्विकरणं चेत्याह — तेन क्रियासामान्ये वनतीत्यादीति । आदिना वनतः वन्नतीत्यादिसङ्ग्रहः । प्रवनयतीति । घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्ध्रस्वः । वक्ष्यत इति ।ग्लास्नावनुवमां चे॑त्यनेने॑ति शेषः । तानादिकात्तु वनु याचने इत्यस्माण्णिचि उपधादीर्घेवानयती॑त्येव भवति । ज्वल दीप्तौ । मप्रत्ययार्थमिति ।ज्वलितिकसन्तेभ्यो णः॑ इति णप्रत्ययार्थं ज्वलादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः । ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ ह्रस्वं प्रयोजनमाह — प्रज्वलयतीति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति बोध्यम् । स्मृ आध्याने । चिन्तायामिति ।स्मृ चिन्ताया॑मिति पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवाद इत्यर्थः । चिन्ताया आद्यानमन्यदिति दर्शयितुमाह — आध्यानमुत्कण्ठेति । दृ भये इति । अस्य दृणातीति रूपं,न तु शप् । तदाह — मित्वार्थोऽनुवाद इति ।भयेऽर्थे मित्त्वार्थ॑मिति शेषः । अर्थनिर्देशस्य उपलक्षणत्वाद्भये वृत्तिः । तथाच ऋयादित्वात् श्नविकरण एवायमिति भावः । मित्त्वप्रयोजनं दर्शयति — दरयतीति । भीषयतीत्यर्थः । दारयतीति । भेदयतीत्यर्थः । धात्वन्तरमेवेति । नतु क्रयादेरनुवाद इत्यर्थः । अस्मिन्मते भौवादिकत्वाच्छबेवेत्याह — दरतीत्यादीति । सूत्रे चेति ।अत्स्मृद्दृत्वरप्रथम्दस्तृस्पशा॑मित अत्वविधावित्यर्थः । ह्रस्वं पठन्तीति । तन्मते क्र्यादेरनुवादप्रसिक्तिरेव नास्तीति भावः । तन्नेतीति । यदि ह्रयं घटादौ ह्रस्वान्तः, क्र्यादौ तु दीर्घान्तो भवेत्तर्हिशृदृप्रां ह्रस्वो वे॑त्यत्र दृग्रहणमनर्थकं स्यात् । ह्रस्वदीर्घान्तधातुभ्यामेव तत्फलसिद्धेरिति भावः । नृ नये इति । नयः — नयनम् । क्र्यादिष्विति । 'नृ नये' इत्येव क्र्यादिषु पठते । तत्रार्थनिर्देशो न विवक्षितः । क्र्यादिषु पठिष्यमाणस्य नृधातोर्नयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । तथा च श्नविकरण एवायम् । नृणातेर्धातत्वन्तरत्वाऽभावान्न मित्त्वतदभावौ । अपि तु नित्यमेव मित्त्वम् । श्रा पाके इति । नन्वत्र भ्वादौ पठमानाच्छ्रायतेः, उत्तरत्र अदादौ पठिष्यमाणाच्च श्रान्तेरन्य एव यदि कश्चन स्वतन्त्रो धातुर्घटादौ निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूपसंपत्त्या लुग्विकरणस्थेन 'श्रा पाके' इत्यनेन पौनरुक्त्यमित्यत आह — श्रै इतीति । अग्रे भ्वादिगणे 'श्रै पाके' इति पठिष्यते, तस्य कृतात्वस्यानुकरणमित्यन्वयः । तथाच तस्यैव श्रैधातोरनेकार्थकतया पाके वृत्तस्य मित्त्वार्थमत्रानिवादाच्छपि श्रायतीत्यादि रूपम् । एतच्च 'शृतं पाके' इति सूत्रे भाष्येकैयटयोः स्थितम् । एवं चसति संभवेऽन्यत्र पठितनामिह मित्त्वार्थोऽनुवाद॑ इति सिद्धान्तादग्रे भ्वादौ 'श्रै पाके' इत्यस्य पौनरक्त्यं न शङ्क्यम् । नन्वेवं सति 'श्रै पाके' इत्येवात्र कुतो न पठितमित्यत आह — श्रा इत्यादादकस्य चेति । ननु लाक्षणिकत्वात् ' श्रै पाके' इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यत इत्यत आह — लुग्विकरणेत्यादि, परिभाषाब्यामित्यन्तम् । परिभाषाभ्यामुभयोरनुकरणमित्यन्वयः ।स्वरतिसूयती॑ति सूत्रे 'सू' इति पठितेऽपि द्वयोग्र्रहणे सिद्धे सूतिसूयत्योः पृथग्ग्रहणंलुग्विकरणे॑ति परिभाषां ज्ञापयतीत्याहुः । प्रतिपदोक्तपरिभाषा तु न्यायसिद्धेत्युक्तमेव । श्रपयतीति । श्रैधातोर्णिचि 'आदेच उपदेशे' इत्यात्वेअर्तिह्यी॑ति पुकिमितां ह्रस्वः॑ । श्राधातोस्तु स्वत एवाऽऽदन्तत्वाण्णिचि पुकि ह्रस्वः । पाकादन्यत्रेति । अर्थनिर्देशस्योपलक्षणत्वादिति भावः । मारणति । मारणे तोषणे निशामने च ज्ञाधातुर्वर्तत इत्यर्थः । अक्षतस्य मारमे संपूर्वकस्यैव ज्ञाधातोः प्रयोगः । चाक्षुषज्ञानमिति । निपूर्वकाच्छम आलोचने इत्यस्माच्चौरादिकण्यन्ताल्ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः । ज्ञापनमात्रमिति । उपसर्गवशादिह ज्ञापने वृत्तिः, चाक्षुषत्वं च ज्ञानस्य यन विवक्षतमिति भावः । निशानेष्विति ।मराणतोषणनिशामनेषु ज्ञे॑ति पाठान्तरमित्यर्थः । ननु ज्ञाधातोरस्माल्लडादौ शपिज्ञाजनोर्जे॑ति जादेशे जाति जात इत्यादि स्यादित्यत आह — एष्वेवेति । 'ज्ञा अवबोधने' इति श्नविकरणस्यैव मारणादिष्वर्थेषु णौ मित्त्वार्थमिहानुवादात् श्नविकरण एवायमिति भावः । जानातेर्मित्त्वफलं तु णौ ह्रस्वः — पशुं संज्ञपयति॑ । अक्षतं मारयतीत्यर्थः ।हरिं ज्ञपयति॑ । संतोषयीत्यर्थः ।रूपं ज्ञपयति॑ । माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः ।शरं ज्ञपयति॑ । तीक्ष्णीकरोतीत्यर्थः । ननु माधवमते बोधयतीत्यर्थे ज्ञपयतीति कथं मित्त्वम्, तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह -ज्ञप मिच्चेति चुरादाविति । एवं च चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति ह्रस्वः सङ्गच्छते इति भावः । शृण्विति ।उत्तर॑मिति शेषः । मित्त्वाऽभावादिति ।ह्रस्वो ने॑ति शेषः ।विज्ञापने॑त्यत्रतज्ज्ञापयती॑त्यत्र च अचाक्षुषमेवाऽऽत्मज्ञानं विवक्षितमिति भावः । ननुज्ञापनमात्रे मित्त्व॑मिति मतेविज्ञापने॑त्यत्रतज्ज्ञापयती॑त्यत्र च मित्त्वं दुर्वारमित्यत आह -ज्ञापनमात्रे इति । चौरादिकस्येति ।विज्ञापनेति ज्ञापयतीति च रूप॑मिति शेषः । 'नान्ये मितोऽहेतौ' इति निषेधान्न तस्य मित्त्वमिति भावः । ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह — धातूनामिति । न कापीति ।विज्ञापने॑त्यत्र,ज्ञापयती॑त्यत्र च ज्ञापनार्थवृत्तित्वाज्ज्ञापनस्य च मारणतोषणतीक्ष्णीकरणान्यत्वान्न तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः । एवं च माधवमते बोधने ज्ञाधातोज्र्ञापयतीत्युपधादीर्घः । ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्रस्व इति रूपद्वयमपि साध्विति स्थितम् । कम्पने चलिरिति । इका निर्देशोऽयम् । चलधातुः कम्पने मिदित्यर्थः । ज्वलादिरिति । तस्य चलेः कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः । शीलं चालयीति । अत्र कम्पनार्थकत्वाऽभावान्न मित्त्वमिति भावः । तदाह — अन्यथा करोतीत्यर्थ इति । धातूनामनेकर्थत्वादिति भावः । छदिरूर्जने इति । इका निर्देशोऽयम् । छदधातुरूर्चजने मिदित्यर्थः । ऊर्जनं — बलवत्करणं, प्राणनं वा,ऊर्ज बलप्राणनयो॑रित्युक्तेः । अन्यत्र पठितस्यात्रार्थविशेषे णौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः । छदधातुस्त्वयं चुराद्यन्तर्गणे युजादौ पठितः । तस्याऽत्रानुवादो व्यर्थः,नान्ये मितोऽहेता॑वित ज्ञापादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्त्वनिषेधादित्यत आह — छद अपवारणे इति । चुराद्यन्तर्गणयुजादिपठितस्य 'आ धृषाद्धे' ति स्वार्थिकणिजभावपक्षे ऊर्जनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । [हेतुमण्णिचीतियावत्] । स्वार्थिकणिचि सत्येव 'नान्ये मित' इति निषेधप्रवृत्तिरिति भावः । नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिरित्यत आह — अनेकार्थत्वादिति । नु स्वार्थणिजभावे सति मित्त्वं किमर्थमित्यत आह — छदयतीति । अत्र हेतुमण्णिचि ह्रस्वः । 'नान्ये मित' इति निषेधस्तु हेतुमण्णिचि नेति भावः । अन्यत्रेति । ऊर्जनादन्यत्र अपवारणे इत्यर्थ- । स्वार्थे णिचि त्विति । 'नान्ये मितः' इति निषेधस्य तत्र प्रवृत्तेरिति भावः । जिह्वोन्मथने लडिरिति । इका निर्देशोऽयम् । लडधातुर्जिह्वोन्मथने मिदित्यर्थः । लडेति । 'लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । एवं च धातुभेदाऽभावात्सर्वथैव मित्त्वकार्यं भवति । गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । लडयति जिह्वामिति । रसनां रसान् ज्ञापयतीत्यर्थः ।गतिबुद्धी॑ति द्विकर्मकोऽयम् । लडयति जिह्वयेति । देवदत्तो रसान् जानाति, तज्जिह्वया ज्ञापयतीत्यर्थः । तद्व्यापार इति । शब्दप्रयोगादिजह्वाव्यापार इत्यर्थः । समाहारेति । जिह्वा च उन्मथनं चेति समाहारद्वन्द्वः । जिह्वाव्यापारे उदाहरति — लडयति शत्रुमिति । 'गेहेशूर' इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः ।उन्मथनं लोडन॑मित्यभिप्रेत्योदाहरति — लडयति दधीति । विलोडयतीत्यर्थः । अन्यत्रेति । जिह्वोन्मथनादन्यत्रेत्यर्थः । लाडयति पुत्रमिति । क्रीरडयतीत्यर्थः । ग्लेपनं दैन्यमिति । दीनीभवनमित्यर्थः । ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह — दैवादिकस्येति । तथा च श्यन्विकरण एवाऽयमिति भावः । ध्वन शब्दे इति । पूर्वमनुनासिकान्तेषुअण रणे॑त्यत्र ध्वणधातुर्मूर्धन्यान्तः पठितः, अयं तु दन्त्यान्त इति भेदः । भावीति । ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः । धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः । ध्वनयति घण्टामिति । शब्दायमानां करोतीत्यर्थः । अन्यत्रेति अस्पष्टोच्चारणात्मके शब्दने इत्यर्थः । अत्रेति ।घटादा॑वित्यर्थः । तत्रेति । दलिवल्यादिष्वित्यर्थः । उदाहृताविति ।घटादा॑विति शेषः । तत्र ध्वनिरनुपदमेवोदाह#ऋतः ।रणिस्तुकण रण गता॑वित्यत्रेति बोध्यम् । भोजमते प्रागनयोःपाठो नेति न पौनरुक्त्यम् । गता इति । भ्वादौ पठिता इत्यर्थः ।इह मित्त्वार्थमनूद्यन्ते॑ इति शेषः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । ननु क्षपेरत्र पाठान्मित्त्वे णौ ह्रस्वेक्षपयती॑ति वक्ष्यति । अस्त्वेवम्, तथापि 'क्षै क्षये' इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात्, क्षैधातोः क्षपीत्यनुवादाऽसंभवात् । तत्राह - क्षै इत्यादि । णौ आत्वे पुकि मित्त्वाद्ध्रस्वे सति क्षपीति क्षै इत्यस्यानुवादसंभव इति भावः । स्वन अवतंसने इति । अवतंसनम् -अलङ्कृतिः । पठिष्यमाणस्येति । घटादिगणादूध्र्वं 'स्वन शब्दे' इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णौ मित्त्वार्थोषऽत्रानुवाद इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । घटादयो मित इति । गणसूत्रम् । ननु घटादिषु मकारानुबन्दाऽदर्शनात्कथं मितस्ते स्युरित्यत आह — मित्संज्ञका इति । मित्कार्यभाज इत्यर्थः । जनीजृषिति । गणसूत्रम् । जनी जृष् क्नसु रञ्ज् एषां द्वन्द्वात्प्रथमाबहुवचनम् । अमन्ते येषां ते अमन्ताः — क्रिमिगम्यादयः । एते अघटादित्वेऽपि मित इत्यर्थः । जीर्यतेरिति । 'जृष् वयौहानौ' इति श्यन्विकरणस्येत्यर्थः । जृणातेस्त्वति । 'जृ वयोहानौ' इति श्नविकरणस्य षित्त्वाऽभावेनात्र ग्रहणाऽभावान्न मित्त्वमिति भावः । उदाहरन्ति । तन्मते जृणातेरप मित्त्वमिति भावः । ज्वलह्वलेत्यपि गणसूत्रम् । प्राप्तविभाषेयमिति । ज्वहह्वलहृलां घटादित्वान्नमेर्मान्तत्वाच्च मित्त्वस्य प्राप्तेरिति भावः । उपसृष्टे त्विति । सोपसर्गे त्वित्यर्थः । कथं तर्हीति । रानुपसर्गादिति विशेषणे सति ज्वलेर्नमेश्च णौ मित्त्वविकल्पाऽभावाज्जनीजृषिति मित्त्वाद्ध्रस्वो नित्यः स्यादित्याक्षेपः । समाधत्ते — घञन्तादिति । तत्करोतीति णावित्यनन्तरंसमाधेय॑मिति शेषः । प्रज्वलनं प्रज्वालः । उन्नमनमुन्नामः । भावे घञ् । उपधावृद्धिः । प्रज्वालं करोतीति, उन्नामं करोतीति चार्थे 'तत्करोति तदाचष्टे' इति णिचिणाविष्ठव॑दितीष्ठवत्त्वाट्टिलोपे सति तस्य स्थानिवत्त्वान्मित्त्वप्रयुक्तह्रस्वाऽभावे प्रज्वालि उन्नामीत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूपं इति भावः । ननु संपूर्वात्क्रमेर्णौ संक्रामयतीति रूपमिष्यते, तत्र अमन्तत्वेन मित्त्वाद्ध्रस्वप्रसङ्गः । नच क्रमणं क्राम इति घञन्तात्ततत्करोतीति णावुक्तरीत्या ह्रस्वाऽभाव इति कृत्वा समाधानं संभवति, क्रमेर्घञि हिनोदात्तोपदेशस्ये॑ति वृद्धिप्रतिषेधे सति 'क्रम' इत्येव भवति, नतु 'क्राम' इति कृत्वा उक्तसमाधानाऽसंभवादित्यप्रेत्याक्षिपति - कथमिति । समाधत्ते — मितामिति । 'मितां ह्रस्वः' इति सूत्रे वेत्यनुवर्त्त्य मित्त्वाऽभावे संक्रामयतीति रूपमित्यन्वयः । ननु कदाचिद्ध्रस्वो दुर्वार इत्यत आह — व्यवस्थितेति । तथा चात्र ह्रस्वाऽभाव एवाश्रीयत इति भावः । वृत्तिकृदिति । भाष्ये तु नैतत् दृश्यते इति भावः । एतेनेति । व्यवस्थितविभाषाश्रयणेनेत्यर्थः ।ग्लास्नावनुवमां चे॑ त्यपि गणसूत्रम् । प्रथमार्थे षष्ठी । अनुपसर्गादिति, मित इति, वेति चानुवर्तते । फलितमाह — अनुपसर्गादिति । आद्ययोरिति । ग्ला स्ना इत्यनयोरघटादित्वादप्राप्ते मित्त्वे, इतरयोर्वनुवमोः प्राप्ते मित्त्वे विभाषेत्यर्थः । तत्र वनेः 'वनु च नोच्यते' इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् ।न कम्यमिचमा॑मिति 'शमो दर्शने' इति च गणसूत्रम् । दर्शनं — चाक्षुषज्ञानम् । 'शम उपशमे' इति दैवादिकः श्यन्विकरणः एवात्र गृह्रते नतु 'शम आलोचने' इति चौरादिकः, 'नान्ये मितोऽहेतौ' इति तस्य मित्त्वनिषेधात् । तद#आह — शाम्यतिरिति । निशामयति रूपमिति । पश्यतीत्यर्थः । उपशमार्थकस्यापि अनेकार्थत्वाद्दर्शने वृत्तिः । अन्यत्रेति । दर्शनादन्यत्रेत्यर्थः । निशमय्येति । श्रावयित्वेत्यर्थः । शमेण्र्यन्तात् क्त्वो ल्यपि कृतेल्यपि लघुपूर्वा॑दिति णेरयादेशः । कथमिति । तर्हि — तर्हि — दर्शनार्थकस्यैव शमेर्मित्त्वनिषेधे सति, 'शृणु' इत्यर्थे मित्त्वाद्ध्रस्वप्रसङ्गन्निशामयेति कथमित्याक्षेपः । समाधत्ते - चौरादिकस्येति ।निशामयेति रूप॑मिति शेषः ।नान्ये मितोऽहेता॑विति तस्य मित्त्वनिषेधान्न ह्रस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात्कथं श्रवणे वृत्तिरित्यत आह — धातूनामिति । साम्यतिवदिति । श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शन वृत्तिस्तद्वदित्यर्थः । 'यमऽपरिवेषणे' इत्यपि गणसूत्रम् । भोजनपात्रे ओदनाऽपूपादिभोज्यद्रव्याणां स्थापवनं परिवेषणम् । तदाह — भोजनातोऽन्यत्रेति । भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः । आयामयतीति । अत्राऽपरिवेषणे वृत्तेर्न मित्त्वमिति भावः । तदाह — द्राघयतीति । दीर्घीकरोतीत्यर्थः । व्यापारयतीति । प्रवर्तयतीत्यर्थः । यमयति ब्राआहृणानिति । परिवेषमार्थकत्वान्मत्त्वमिति भावः । तदाह — भोजयतीति । भुञ्जते ब्राआह्मणाः, तान्परिवेषणेन प्रवर्तयतीत्यर्थः । ननुपर्यवसितं नियमय॑न्नित्यत्र अपरिवेषणार्थकतया मित्त्वाऽभावात्कथं ह्रस्व इत्यत आह — पर्यवसितमित्यादि । नियमनं नियमः ।यमः समुपनिविषुचे॑ति भावेऽप्प्रत्ययः । तस्मान्मतुप् । नियमवच्छब्दात्तकरोतीति णिचिवन्मतोर्लु॑गिति मतुपो लुकि ण्यन्ताल्लटश्शतरिगुणाऽयमादेशयोर्नियमयच्छब्द इति भावः । वस्तुतस्तु मतुपो लुकि टिलोपस्याऽप्राप्त्याअचो ञ्णिती॑ति वृद्धौ पुगागमापत्तिः । ततश्च नियमवदित्यर्थकादर्शाअद्यजन्तान्नियमशब्दात्तत्करोती॑ति णिचि इष्ठवत्त्वाट्टिलोपे तस्य स्थानिवत्त्वादुपधावृद्ध्यभावेनियमय॑न्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् । स्खदिरवपरिभ्यां चेत्यपि गणसूत्रम् । स्खदिरिति इका निर्देशः । अव परि-आभ्यां परः स्खदधातुर्मिन्नेत्यर्थः । स्खद स्खदने इति घटादौ पाठान्मित्त्वप्राप्तिः । परिस्खादयतीति । अषोपदेशत्वेन आदेशसकारत्रापि मित्त्वाऽभावान्न ह्रस्वः । स्वामी त्विति । 'न कम्मिचमा' मित्यत्र श्रुतो नञ् 'शमो दर्शने' 'यमोऽपरिवेषणे'स्खदिरवपरिभ्यां चे॑ति त्रिषु सूत्रेषु नानुवर्तते । शमः — अदर्सने इति च्छेदः । शमधातुर्दर्शने मित्स्यादित्यर्थः । अमन्तत्वादेव सिद्ध#ए नियमार्थमिदम् ।अदर्शन एव शमधातुर्मित्स्यान्नतु दर्शने॑ इति स्वाभिमतम् । इदं च पर्यवसानगत्या पूर्वमतान्नाऽतिरिच्यते । यमस्त्विति । यमदातोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः । अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्भिन्न तु परिवेषण इति फलति । एवं च द्राघयति व्यापारयति वेत्यर्थे मित्तवाद्ध्रस्वेआयमयती॑त्येव रूपम् । परिवेषणे तु मित्त्वाऽभावाद्ध्रस्वाऽभावेयामयति ब्राआहृणा॑निति भवतीति पूर्वमताद्विपरीतं फलति । एवं चपर्यवसितं नियमय॑न्नित्यत्र यमेरपरवेषणार्थत्वान्मित्त्वे ह्रस्वो निर्बाधः । तदाह — तन्मते इति । स्खदेर्घटादित्वादेव मित्त्वसिद्धेःस्खदिरवपरिभ्यां चे॑ति सूत्रमपि नियमार्थम् ।सोपसर्गस्य चेत्स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूपसर्गान्तरा॑दिति । एवं च प्रस्खादयतीत्यत्र मित्त्वाऽभावान्न ह्रस्वः । अवस्खदयति परिस्खदयतीत्यत्र तु मित्त्वाद्ध्रस्व इति फलति । तदाह — उपसृष्टस्येति । सोपसर्गस्येत्यर्थः । पूर्वमते तु अवपरिभ्यां परस्य मित्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः । प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाऽभावेन मित्त्वनिषेधाऽभावाद्ध्रस्व इति विपरीतम् । तस्मादिति ।यमोऽपरिवेषणे॑,स्खदिरवपरिभ्यां चे॑ति सूत्रद्वये उक्तरीत्या मित्त्वनियमविध्याश्रयणादुदाहरणप्रत्युदाहरणयोरुक्तरीत्या व्यत्यासः फलित इत्यर्थः । उपेक्ष्यमिति ।न पादम्या॑ङिति सूत्रव्याख्यावसरेयमोऽपरिवेषणे इति मित्त्वं प्रतिषिध्यत॑ इति वृत्तिन्यासयोरुक्तत्वादिति भावः । केच्चित्तु स्वामिमते 'पर्यवसितं नियमय' न्नित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः । फण गताविति । ननु घटादित्वेऽपि नायं मित्, इतः प्राक् 'स्वन अवतंसने' इत्युत्तरमेव 'घटादयो मित' इत्युक्तेः । अतः कथमत्र निषेधः । तत्राह — नेति निवृत्तमिति । प्राप्त विना मित्त्वस्य निषेधाऽसंभवादिह नेति नानुवर्तते, किंतु मिदित्येवानुवर्तते इत्यर्थः । ननु फम गतावित्यत्र मिन्नेति यदि नानुवर्तते । 'घ्वसोः' इत्यत एदिति, 'गमहने' त्यतः कितीति,वा जृभ्रमुत्रसा॑मित्यतो वेति च । तदाह — एषामिति । फणादीनामित्यर्थः । फणामिति बहुवचनात्तदादिलाभः । 'फण गतौ' इत्यत्र मिदित्येवानुवर्तते, नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह — फणयतीति । वृदिति — कर्तरि क्विबन्तम् । वृतुधातुरिह समाप्त्यर्थकः । तदाह — घटादिः समाप्त इति । फणेः प्रागेवेति । एवं सति फणेरघटादित्वान्न मित्त्वमित#इ भावः । तदाह — तन्मते फणयतीत्येवेति । इति घटादयः । राजृ दीप्ताविति । इत आरभ्य षण्णामेत्त्वाऽभ्यासलोपौ फणादित्वात्पक्षे भवतः । तदाह — रेजतुरित्यादि । ननुफमां च सप्ताना॑मित्यत्र अत इत्यनुवृत्तेः कथमिह एत्त्वाभ्यासलोपावित्यत आह — अत इत्यनुवृत्तावपिति । अत इति नानुवर्तते । तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्याद्राजृधातोराकारस्याप्येत्त्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः । 'अत' इति राजादिधातौ न संबध्यते, असंभवादिति यावत् । टु भ्राजृ इत्यादि । टुरित् 'ट्वितोऽथुच्' इत्येतदर्थः । अनुदात्तेत इति । 'एते त्रय' इति शेषः । ननु पूर्वं चवर्गान्तेष्वनुदात्तेत्सु भ्राजतेः पठात्पुनरपि तस्येह पाठः किमर्थ इत्यत आह — भ्राजतेरिति । तर्हिएजृ भ्रेजृ भ्राजृ दीप्तौ॑ इति भ्राजेः पूर्वं पाठो व्यर्थ इत्यत आह — पूर्वं पाठस्त्विति । षत्वाऽभावार्थ इति । 'व्रश्चभ्रस्जे' ति षत्वविधौ भ्राजेग्र्रहणाऽभावार्थ इत्यर्थः । ननु पूर्वं पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत आह — तत्र हीति । षत्वविधौ हीत्यर्थः । एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह — भ्रेजे बभ्राजे इति । द्वावपीमाविति । द्वितीयतृतीयावित्यर्थः । ननु 'विष्वणती' इत्यत्र कथं षत्वं केवलदन्त्याऽजन्तसादित्वाऽभावेनाऽषोपदेशतया आदेशसकारत्वाऽभावात् । अवष्वणतीत्यत्र इण्कवर्गाभ्यां परत्वाऽभावान्न षत्वस्य प्रसक्तिः ।सात्पदाद्यो॑रिति निषेधाच्चेत्यत आह — वेश्च स्वन इतीति । तत्र चकारेणअवाच्चे॑त्यपि लभ्यत इति भावः । फणादयो गता इति ।ध्वनतेः प्रा॑गिति शेषः । ततश्च ध्वनेर्न फणादिकार्यमिति भावः । तदाह — दध्वनतुरिति । षम ष्टमेति । षोपदेशौ ।तस्तामेति । सत्वे सति ष्टुत्वनिवृत्तिरिति भावः । तैक्ष्ण्यमिति । तीक्ष्णीभवनमित्यर्थः । टल ट्वल । वैक्लव्यं — भयादिजनितो व्यग्रीभावः । णल । णोपदेशोऽयम् । गन्धः - गन्धक्रिया । तद्व्यापार इति बन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः । पत्लृधातुस्तवर्गप्रथमान्तः सेट्कः । लुङि लृदित्त्वाच्च्लेरङि कृते अपत् अ त् इति स्थिते — पतः पुम् । शेषपूरणेन सूत्रं व्याचष्टे — अङि परे इति ।ऋदृशोऽङी॑इत्यतस्तदनुवृत्तेरिति भावः । पतेः पुम् स्यादङि परे इति फलितम् । पुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । तदाह — अपप्तदिति । क्वथे । जलक्षीरघृतादीनां पादमुदित् । तेनउदितो वे॑ति क्त्वायामिड्विकल्पो न । 'गृ निगरणे' इति दीर्घान्तोऽयम् । नन्वस्माद्धातोर्ल्युटि 'ऋत इद्धातोः' इति इत्त्वं बाधित्वा परत्वात् 'सार्वधातुके' इति गुणे सति 'उद्गरण' इत्येव निर्देशो युज्यत इत्यत आह — इहैवेति । 'उद्गिरणे' इत्यर्थनिर्देशः पाणिनीय इति सुधाकरो मन्यते । भ्रमु चलने इति । वक्रमार्गसंचारे इत्यर्थः । अयथार्थज्ञानेऽप्ययम् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थमुदित्त्वम् ।", "74069": "<<दीर्घ इणः किति>> - दीर्घ इणः । 'अत्र लोपः' इत्यतोऽभ्यासस्येति,व्यथो लिटीत्यतो लिटीति चानुवर्तते । तदाह — इणोऽभ्यासस्येति । ईयतुरिति । भारद्वाजनियमातॢ वडिति मत्वा आह — इययिथ इयेथेति । इयथुः ईय । इयाय इयय ईयिव ईयिम । एता । एष्यति । एतु — इतात् इताम् यन्तु । इहि — इतात् इतम् इत । अयानि अयाव अयाम । ऐदिति लङि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः । आयन्निति । झेरन्तादेसे इकारलोपे इ — अन् इति स्थितेइणो य॑णिति यणि कृते तस्याभीयत्वेनाऽसिद्धत्वादाडिति भावः । ऐः ऐतम् ऐत । आयम् ऐव ऐम । विधिलिङ्याह — इयादिति । इयाताम् । इयुरित्यादि । आशीर्लिङ्याह — ईयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ईयास्तामित्यादि ।", "74070": "<<अतः आदेः>> - ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधामस् अ इति स्थिते द्वित्वे हलादिः शेषे अ अस् इति स्थिते सवर्णदीर्घं बाधित्वा अतो गुण इति पररूपे प्राप्ते — अत आदेः । 'अत्र लोप' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'दीर्घ इण' इत्यतो दीर्घ इतीति च । तदाह — अभ्यासस्येति । अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् 'अ इवाचरति अती' त्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते । एधामासेति । नचाऽत्रानुप्युज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्क्यं, तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाऽभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति । एधामासुः । एधामासिथ । एधामासथुः । एधामास । एधामासिव । एधामासिम । इति लिट्प्रक्रिया । एधितेति । लुटस्तादेशे एध्-त इति स्थिते शबपवादस्तस् । लुटः प्रथमस्येति डा । टिलोपः । एधितेति रूपम् । दीधीवेवीटामिति लघूपधगुणो न । एधिताराविति । लुट आताम् । तास् इट् । आतामित्यस्य रौभावः । रि चेति सलोपः । एधितार इति । झस्य रस् । तास् । इट् । रि चेतिसलोपः । रुत्वविसर्गौ । एधितास इति । थासः से । तास् इट् । तासस्त्योरिति सलोपः । एधितासाथे इति । आथाम् टेरेत्वं ।तास् । इट् ।", "74071": "<<तस्मान्नुड् द्विहलः>> - लिटि णलि द्वित्वे हलादिशेषे अत आदेरित्यभ्यासाकारस्य दीर्घे आ अर्देति स्थिते — तस्मान्नुट् । द्वौ हलौ यस्य तस्येति विग्रहः । तच्छब्देनअत आदे॑रिति कृतदीर्घः परामृश्यते । तदाह -दीर्घीभूतादिति । टकार इत् । उच्चारणार्थः । टित्त्वादाद्यवयवः । तदाह — आनर्देति । आर्दीदिति ।इट ईटी॑ति सिज्लोपः । नर्देत्यादि स्पष्टम् । कर्देति । कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह — कौक्ष इति । कुक्षिभवे इत्यर्थः । खर्देति । दन्दशूकः — दंशनस्वभावः सर्पः । 'दन्दशूको बिलेशयः' इत्यमरः । ननु सर्पस्य क्रियात्वाऽभावात्कथं धात्वर्थत्वमित्यत आह — दंशनेति । अति अदीति । इदित्त्वान्नुम् । तदाह — अन्ततीति । आनन्तेति ।अत आदे॑रिति दीर्घः ।तस्मान्नुड् द्विहलः॑ इति नुट् । एवम्-अन्दति । आनन्देति । नुट् । आन्दीत् । इदीति । परमैआर्यम् = परमेआरीभवनम् । इन्दतीति । इदित्त्वान्नुम् । इन्दांचकारेति ।इजादेश्चे॑त्याम् । बिदीति । इदित्त्वान्नुमित्याह — बिन्दतीति । नन्ववयवस्य अक्रियारूपत्वातक्थं धात्वर्थमित्यत आह — अवयवं करोतीत्यर्थ इति । अबिन्दीत् । अबिन्दिष्टामित्यादि । पाटान्तमिति । पवर्गीयचतुर्थादिरित्यर्थः । गडीति । वदनैकदेश इति । तत्क्रियायामित्यर्थः । गण्डति । अगण्डीत् । अन्तत्यादय इति । अति अदि बन्धने, इदि परमैआर्ये, बिदि अवयवे, गडि वदनैकदेशे इति पञ्च धातवस्तिङ्प्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः । अन्य इति । काश्यपादन्ये मुनयस्तिङमपि एभ्य् इच्छन्तीत्यर्थः । णिदीति । इदित्त्वान्नुम् । णोपदेशत्वाण्णस्य नत्वम् । तदाह — निन्दतीति । प्रणिन्दतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् । टु नदीति । समृद्धिः — प्रजापआआदिसम्पत्तिः ।", "74072": "<<अश्नोतेश्च>> - अश्नोतेश्च ।अत्र लोपःट इत्यतो अभ्यासस्येत्यनुवर्तते,तस्मान्नु॑डिति च । तच्छब्देनअत आदे॑रिति कृतदीर्घोऽकारः परामृश्यते । तदाह — दीर्घादिति । आनशे इति । आनिशिषे आनक्षे । आनशिवहे - आनआहे । अष्टेति । व्रश्चादिना शस्य षत्वे ष्टुत्वम् । विधिलिङ्याह — अश्नुवीतेति । आशीर्लिङि ऊदित्त्वादिड्विकल्पं मत्वाह — — अक्षीष्ट अशिषीष्टेति । लुङि सिच इट्पक्षे आह — आशिष्टेति । अनिट्पक्षेझलो झली॑ति सिचो लोपं मत्वाह - आष्टेति । ष्टिघ धातुः षोपदेशः । सेट् । आ गणान्तादिति । स्वादिगणसमाप्तिपर्यन्तमित्यर्थः । इत्युक्तमिति । भ्वादाविति भावः । कित्त्वपक्षे आह - अनिदितामिति नलोप इति । नन्वनिदितामिति नलोपे सति 'अत एकहल्मध्ये' इत्येत्त्वसिद्धेःदम्भेश्चे॑ति व्यर्थमित्यत आह — तस्याभीयत्वादिति । नलोपस्येत्यर्थः । दभ्यादिति । आशीर्लिङिअनिदिता॑मिति नलोपः । छन्दसीति । गणसूत्रमिदम् । तद्व्याचष्टे - आ गणान्तादिति । रि क्षि इति । रि क्षि चिरि जिरि दाश दृ इति षट् धातवः । आद्यद्वितीयवेकारक्षरौ । तदाह — रिणोति । क्षिणोतीति । अयं भाषायामपीति । क्षिधातुरित्यर्थः । तत्र प्रयोगं दर्शयति — न तद्यश इति । वृदिति । स्वादयो वृत्ता इत्यर्थः । इति स्वादयः ।॥ इति बालमनोरमायाम् स्वादयः॥अथ स्वार्थिकाः । — — — — -", "74073": "<<भवतेरः>> - भवतेरः । भवतेः- अ इति छेदः । भवतेरिति निर्देशः । भूधातोरित्यर्थः ।इक्श्तिपौ धातुनिर्देशे॑ इत्युक्तेः ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येनुव्रतते । 'व्यथो लिटि' इत्यस्माल्लिटीति । भूधातोरभ्यासस्य भवन्नकारः 'अलोऽन्त्यस्ये' त्यन्त्यस्योकारस्य भवति । तदाह - अभ्यासोकारस्येति ।नानर्थकेऽलोन्त्यविधि॑रिति तु नेह प्रवर्तते, 'अनभ्यासविकारे' इत्युक्तेः ।", "74074": "", "74075": "", "74076": "<<भृञामित्>> - भृञामित् । भृञामिति बहवचनाद्भृञादीनामिति लभ्यते । 'अत्र लोपः' इत्यतोऽभ्यासस्येति,निजां त्रयाणां गुणः श्लौ॑ इत्यतस्त्रयाणां श्लाविति चानवर्तते । तदाह — भृञ् माङित्यादिना । बिभ्रतीति । अभ्यस्तत्वाददादेशे यण् । बिभर्षि बिभृथः बिभृथ । बिभर्मि बिभृवः बिभृमः । बिभृते बिभ्राते बिभ्रते । बिभृषे बिभ्राथे । इति सिद्धवत्कृत्य आह — बिभृध्वे इति । बिभ्रे बिभृवहे बिभृमहे । श्लुवद्भावादिति ।भीह्यीभृहुवा॑मित्यनेनेति भावः । बिभरामासेति । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो नेति भावः । बभारेति । श्लावित्यनुवृत्तेर्भृञामिदिति नेत्त्वम् । बभ्रतुः बभ्रुरित्यपि ज्ञेयम् ।कृसृभृवृ॑इति लिटि इण्निषेधः । थल्यपिअचस्तास्व॑दिति नित्यमिण्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि निषेधात् । तदाह - बभर्थेति । बभ्रथुः बभ्र । बभार — बभर इति सिद्धवत्कृत्य आह - बभृवेति । क्रादित्वादिण्निषेध इति भावः । बभ्रे बभ्राते बभ्रिरे । बभृषे बभ्राथे बभृढ्वे । बभ्रे बभृवहे बभृमहे । भर्ता । भरिष्यति । भरिष्यते । बिभर्तु — बिभृतात् बिभृताम् बिभ्रतु । इति सिद्धवत्कृत्य आह — बिभृहीति । हेरपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः । बिभृतात् बिभृतम् बिभृतेति सिद्धवत्कृत्य आह - बिभराणीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः । बिभराव बिभराम । लङ्याह — अबिभरिति । अबिभृ त् इति स्थिते गुणे रपरत्वे हलङ्यादिलोपे रेफस्य विसर्ग इति भावः । अबिभरुरिति । अभ्यस्तत्वात् झेर्जुस् ।जुसि चे॑ति गुण- । अबिभः अबिभृतमबिभृत । अबिभरमबिभृव अबिभृम । अबभृत अबिभ्रातामबिभ्रत । अबिभृथाः अबिभ्राथामबिभृध्वम् । अबिभ्रि अबिभृवहि अबिभृमहि । आशीर्लिङ्याह - भ्रियादिति । 'रिङ्शयग्लिङ्क्षु' इति रिङ् । आत्मनेपदे आसीर्लिङ्याह - भृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुणः । अभार्षीदिति । अनिट्त्त्वान्न सिज्लोपः । सिचि वृद्धिः । रपरत्वमिति भावः । अभार्ष्टामित्यादि । आत्मनेपदे लुङ्याह — अभृतेति ।ह्रस्वादङ्गा॑दिति सिचो लोपः । अभृषातामित्यादि । माङ् माने इति । अनिट् । ङित्त्वादात्मनेपदी । श्लौ द्वित्वेभृञामि॑दिति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते —", "74077": "<<अर्तिपिपर्त्योश्च>> - अर्तिपिपत्र्योश्च । 'अत्र लोपः' इत्यस्मादभ्यासस्येति,भृञामि॑दित्यस्मात् इदिति,निजां त्रयाणा॑मित्यतः श्लाविति चानुवर्ततते इत्यभिप्रेत्य शेषं पूरयति - अभ्यासस्येत्यादिना । तथाच अभ्यासे ऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति । तत्र उत्तरखण्डे ऋकारस्य उत्वं शङ्कितुमाह —", "74078": "", "74079": "<<सन्यतः>> - सन्यतः ।सनि-अत इति च्छेदः । 'अत्र लोप' इत्यतोऽभ्यासस्येत्यनुवर्तते ।भृञामि॑दित्यस्मादिदिति । तदाह — अभ्यासस्येति । कि कम त इति स्थितम् ।", "74080": "<<ओः पुयण्ज्यपरे>> - ओः पुयण् । 'उ॑ इत्यस्यओ' रिति षष्ठी ।पुयण्जी॑ति छेदः । पुश्च यण् च ज् चेति समाहारद्वन्द्वात्सप्तमी । अः परो यस्मादिति बहुव्रीहिः । 'सन्यतः' इत्यस्मात्सनित्यनुवर्तते । अङ्गस्येत्यधिकृतम् । 'अत्र लोपः' इत्यस्मादभ्यासस्येति, भृञामिदित्यस्मादिदिति चानुवर्तते । तदाह — सनि परे इत्यादिना । अबीभवदिति । भू इ अत् इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद्वृद्ध्यावादेशाभ्यां प्रागेवभू॑इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्रस्वेऽभ्यासेऽकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या सन्वत्त्वादनेने इत्त्वे दीर्घ इति भावः । अपीपवदिति । पूङ्धातो रूपम् । मूङित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः । अयीयवदिति । युधातो रूपम् । अरीरवदिति । रुधातो रूपम् । अलीलवदिति । लूञ्धातो रूपम् । अजीजवदिति । जुः सौत्रो दातुर्जुचङ्क्रम्येत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशयोः कृतयोरुपधाह्रस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाऽभावात्सन्वत्त्वाऽप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न, आरम्भसामर्थ्यादेव स्थानिवत्त्वाऽप्रवृत्तेरिल्यम् ।", "74081": "<<स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा>> - रुआवतिशृणोति । अपर इत्यनुवर्तते, न तु पुयण्जीति, पवर्गजकारयोरसंभवात्,रुआवत्यादौ यणः सत्त्वेऽप्यव्यभिचारात् । तदाह — अवर्णपरे धात्वक्षरे इति । अक्षरशब्दो वर्णपरः । असिरुआवत् असुरुआवदिति । द्विहल्व्यधानेन लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः । अशिश्रवत् अशुश्रवत् ।अदिद्रवत् अदुद्रवत् । अपिप्रवत् अपुप्रवत् । अपिप्लवत् अपुप्लवत् । अचिच्यवत् ।अचुच्यवत् । अथ सासुधतोरशशादित्यत्राह — नाग्लोपीति । अडुढौकदिति । ढौकृ गतावित्यस्य ऋदित्त्वादिति भावः । अचीचकासदिति । चकासृ दीप्तौ । ऋदित्त्वान्नोपधाह्रस्वः ।चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर॑ इति पक्षे सन्वत्त्वम्, अभ्यासदीर्घश्चेति भावः । मतान्ते त्विति ।अङ्गं यत्र द्विरुच्यते॑ इति मते॑ चङ् परेणौ यल्लघु तत्परो योऽङगस्य अभ्यास॑ इति मते चेत्यर्थः । आग्लोपीतीति । अग्लोपिन उपधाह्रस्वनिषेधे मा भवानूननदिति उदाहृतम् । अतितिरायदित्याद्युदाहणान्तरं सुब्धातुरनिरूपणे वक्ष्यते इत्यर्थः । ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणेचोरि इति रूपम्,तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सतिचोरिट इत्येव हेतुण्ण्यन्तम् । तसमाल्लटि तिपि शपि गुणे अयादेशेचोरयती॑त्येव रूपम#इष्यते । तन्नोपपद्यते, हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वाद्वृद्धावायादेशे चोराय् इ इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह — ण्यन्ताण्णिचीति । ण्यन्ताण्णिचि वृदिंध बाधित्वा णिलोपैत्यन्वयः । कुत इत्यत आह — पूर्वविप्रतिषेधादिति ।ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेने॑ति वार्तिकेनेति भावः । अपवादत्वाद्वेति । 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः । अथ ण्यन्ताण्णौ ततो हेतुमण्णेर्लोपे चुरित्यस्य द्वित्वे सन्वद्भावविषयत्वाह — दीर्घो लघोरिति । तथा च अचूचुरदिति सिद्धम् । ननु उपदाह्रस्वोऽभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितं, तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न संभवति, तस्य द्वितीयणिचा व्यवहितत्वेन चङ्परकत्वाऽभावात् । नापि द्वितीयणिचमादायतदुभयसंभवः, द्वितीयणिच्प्रकृतेः प्रथमसंभवो न शङ्क्य इत्यर्थः । कुत इत्यत आह — ण्याकृतिनिर्देशादिति ।चङ्परे णा॑वित्यत्र णावित्यस्य चङ्परकमित्वजात्याश्रयैकाऽनेकणिज्व्यक्तिपरकत्वं विवक्षितम् । तथा च णिद्वयस्य चङ्परकत्वाऽभावेऽपि णित्वस्य चङ्परकत्वमस्तीति ह्रस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः । अत्र जातिन#इर्देशोऽयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् ।टु ओ इआ गतिवृद्धयोः॑ अस्माद्धेतुमण्णौ वृद्ध्यायादेशयोः आआयीत्यस्माल्लडादौ आआययतीति रूपम् । लुङि चङि अइआ इ अ त् इति स्थिते विशेषमाह —", "74082": "", "74083": "", "74084": "", "74085": "", "74086": "", "74087": "", "74088": "", "74089": "", "74090": "", "74091": "", "74092": "", "74093": "", "74094": "<<दीर्घो लघोः>> - दीर्घोः लघो ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । अभ्यासस्य लघोर्दीर्घ इति । अभ्यासावयवस्य लघोरित्यर्थः ।सन्वल्लघुनि चङ्परे॑ इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते । तच्च प्रग्वदेवद्वेधा व्याख्येयम् । तथा च फलितमाह — सन्वद्भावविषय इति । 'सन्यत' इत्यत्र तपरत्वं स्पष्टार्थमिति 'दीर्घोऽकित' इति सूत्रे भाष्ये स्पष्टम् । तथाच कि कम तेत्यत्र अभ्यासेकारस्य दीर्घेऽभ्यासचुत्वेऽडागमे परिनिष्ठितं रूपमाह — अचीकमतेति । अत्र लघोर्णिपरत्वं येन नाव्यवधानन्यायाद्बोध्यम् । णिङभावपक्षे त्विति ।आयादय आर्धधातुके वे॑ति णिङो वैकल्पिकत्वादिति भावः । कमेश्च्लेश्चङ् वक्तव्य इति । अण्यन्तत्वादप्राप्तौ वचनम् । णेरभावादिति । णिङभावपक्षे कमिधातोरनुदात्तेत्त्वात्तङि प्रथमपुरुषैकवचने न भवति, तत्र लघुनि चङ्परेऽनग्लोप इत्यनुवत्र्य चङ्परे णावेव तद्विधानोक्तेः । अत एव सन्वत्त्वाऽभावात्सन्यत इत्यभ्यासाऽसकारस्य इत्त्वं च न भवतीत्यर्थः ।दीर्घो लघो॑रिति दीर्घविधौ सन्वत्त्वं न निमित्तं, किंतु लघुनि चङ्पर इत्यस्य तत्रानुवृत्त्या सन्वद्भावविषये तत्प्रवृत्तिः । अतो दीर्घसन्वद्भावाविति पृथगुक्तिः । अत पञ्चभिः श्लोकै#ः सन्वद्भावसूत्रं,दीर्घो लघो॑रिति सूत्रं च विशदयति — संज्ञाया इत्यादिना । अस्मिन् शास्त्रेकार्यकालं संज्ञापरिभाष॑मित्येकः पक्षः ।कार्यकाल॑मित्यस्य कार्यप्रदेशकमित्यर्थः । अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः ।यथोद्देशं संज्ञापरिभाष॑मिति पक्षान्तरम् । उद्देशाः — संज्ञापरिभाषाशास्त्राम्नानप्रदेशाः, तान् अनतिक्रम्य यथोद्देशम् । संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वं स्वमर्तं समर्पयतीति यावत् । अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषायां तदर्तस्यैवोपस्थितिर्न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः ।सन्वल्लघुनी॑ति सूत्रे,दीर्घो लघो॑रिति सूत्रे च अङ्गस्येति अभ्यासस्येति चानुवृत्तम् । तत्र कार्यकालपक्षे 'पूर्वोऽभ्यास' इति सूत्रं संनिहितम् । ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वोऽभ्याससंज्ञः, स सन्वद्भवतीति फलितम् । तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी, न त्ववयवषष्ठी,कारकषष्ठआ बलवत्त्वात् । अङ्गं च प्रत्यये परतः कृत्स्नमेव प्ररकृतिरूपं, न तु तदेकदेशः । ततश्च कृत्स्नमङ्ग#ं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैवदीर्घो लघो॑रिति दीर्घः,सन्वल्लघुनी॑ति सन्वद्भावश्च भवति । एवं च अङगस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः, तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः । अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः, तत्र एकस्यैव एकाचोऽङ्गैकदेशस्य द्विरुक्तेरिति माधवोमन्यत इति प्रथमश्लोकस्यार्थः ।नानेकाक्ष्वि॑त्युक्तं विशदयति — — चकास्तीति श्लोकेन ।चकासृ दीप्तौ॑ । अर्थमाचष्टे इत्यर्थे णिचिअर्थवेदयो॑रिति प्रकृतेरापुगागमे अर्थापिधातुः ।ऊर्णुञ् आच्छादने॑ ।एते त्रयोऽनेकाच्का धातवः । आदिना 'जागृ निद्राक्षये' इत्यादिसंग्रहः । एभ्यो ण्नय्तेभ्यश्चङि अङ्गं कृत्स्नं न द्विरुच्यते, किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते, तस्मादनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात् । किंच अजजागरदित्यत्र सन्वत्त्वमाशङ्क्यणिपरकलघोर्गकाराकारस्य 'जा' इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्व॑मिति समाहितं भाष्ये । तदेतदनेकाच्काङ्गेषु सन्वत्त्वस्याऽप्रवृत्तौ विरुध्येत, कृत्स्नस्याङ्गस्य द्विरुक्तभावादेव तत्र सन्वत्त्वस्याऽप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालम्ब्य#आह — वस्तुत इति ।अङ्गस्ये॑त्यवयवषष्टी । अङ्गावयवस्याभ्याससस्येति लभ्यते । ततश्च ऊर्णुञि ण्यन्ते चङि 'नु' इत्येकदेशस्य द्वित्वेऽपि 'और्णूनुव' दित्यत्रदीर्घो लघो॑रित्यभ्यासलघुर्दीर्घीभवति । सन्वत्त्वं तु प्रयोजनाऽभावादुपेक्षितम्, अभ्यासे अकाराऽभावेन 'सन्यत' इत्यस्याऽसंभवात् । अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिथातोश्चङि णिलोपे उपधाह्रस्वे थप् इत्यस्य द्वित्वेऽपिअर्तीथप॑दित्यत्र सन्वद्भावात् 'सन्यत' इत्यभ्यासस्य इत्त्वम्, अभ्यासदीर्घश्चेति द्वयं भवतीति जानीम इति तृतीयश्लोकार्थः । 'अङ्गस्यावयव' इति पक्षेऽपि चकास्तौ विशेषमाह - चकास्तौ त्विति । चतुर्थश्लोकोऽयम् । अवस्था — वस्तुस्थितिः । व्यवस्थया । पक्षद्वयेनेति यावत् । 'चङ्परे' इत्यनेन अन्यपदार्थतया लब्धस्य णवित्यस्य संनिहितं लघुनीत्येतद्विशेष्यम् । तथा च 'चङ्परे णौ यल्लघु' इति प्रतमव्याख्यानं फलितम् । अङ्गमेव वा णेर्विशेष्यम् । तथा चचङ्परे णौ यदङ्ग॑मिति द्वितीयं व्याख्यानं फलितम् । इति व्यवस्थया = पक्षद्वयेन सन्वत्त्वं दीर्घश्चेत्युभयमिदं चकासृधातौ ण्यन्ते णिलोपे द्वित्वे अचचकासदित्यत्र न स्यात्, स्याच्चेत्यन्वयः । तत्रचङ्परे णौ यल्लघ्वि॑ति व्याख्यानेसति नैव उभयं स्यात्, चङ्परस्य णेः कास् इत्यनेन व्यवहितत्वात् । अचीकमतेत्यादौ त्वेकव्यवधानं येन नाव्यवधनानन्यायात्सोढव्यमेव ।चङ्परे णौ यदङ्ग॑मिति व्याख्याने तु अचीचकासदित्यत्र उभयं स्यादेव, अङ्गस्य णिपरकत्वसत्त्वादिति बोध्यम् । ननु चङ्परे णौ यल्लध्विति, चङ्परे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह — व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति ।आदर्तव्यते॑ति शेषः । ननु णौ इत्यवृत्तिमभ्युपगमस्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह — णेरग्लोपेऽपीति । अगितामिति । 'कमुकान्ता' वित्यादिनामपीत्यर्थः । सिद्धय इति । दीर्घसन्वत्त्वसिद्ध्यर्थमित्यर्थः । अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः । इति घिणिप्रभृतयः कम्यन्ता दश गताः । क्रम्यन्ता इति । 'क्रमु पादविक्षेपे' इत्येतत्पर्यन्ता इत्यर्थः । 'अनुनासिकान्ता' इति शेषः । अण रणेति । ऋदित्त्वंनाग्लोपी॑ति निषेधार्थम् । ध्रण शब्द इति । अदुपधोऽयम् । उपदेश इति । धातूपदेशे नकारान्तोऽयम् । अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः । तर्हि णकारस्य कथं श्रवणमित्यत आह — रषाभ्यामिति णत्वमिति । ननु स्वाभाविक एव णकार इत्यस्तु, किं नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह — णोपदेशेति । नकारस्थानिकणोपदेशस्य 'नश्चे' त्यनुस्वारात्मककं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः । दन्ध्रन्तीति । ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषेनुगतोऽनुनासिकान्तस्ये॑ त्यब्यासस्य नुकि उत्तरखण्डे णकारएव श्रूयेतेति परसवर्णे तस्याऽसिद्धत्वाण्णत्वाऽभावे नकारस्यैव श्रवणम् । स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेतेति भावः । बणेत्यपीति । पवर्गतृतीयादिरित भावः ।कन दीप्ती॑त्यारभ्य अम गत्यादिष्वित्यतः प्राक्तवर्गपञ्चमान्ताः । ष्टन वनेति । आद्यः षोपदेशः । ष्टुत्वसंपन्नष्टकारः । तदाह -स्तनतीति । वन षणेति । द्वितीयः षोपदेशः । ननु 'ष्टन वन शब्दे' इति वनेः पठितस्य पुनः व्यर्थ इत्यत आह — अर्थभेदादिति । वनेः शब्दे संभक्तौ च वृत्तिरिष्टा । ष्टनेस्तु शब्द एव वृत्तिरिष्टा । तत्रष्टन वन शब्दे संभक्तौ चे॑त्युक्तौ ष्टनेरपि संभक्तौ वृत्तिः स्यात् । 'ष्टन शब्दे' इत्युक्त्वावन संभक्तौ चे॑ति पाठे तु गौरवमिति भावः ।", "74095": "<<अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम्>> - अत्स्मृ । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । चङ्परे णाविति ।सन्वल्लघुनीत्यततश्चङ्परे इत्यनुवर्तते । चङ् परो यस्मादिति बहुव्रीहिः । अन्यपदार्थस्त्वर्ताण्णिरेवेति भावः । इत्त्वेति । 'सन्यतः' इति इत्त्वस्यापवाद इत्यर्थः । अपप्रथदिति । अत्र अत्त्वविधानादेव सन्वत्त्वविधावनेकहल्व्यवधानेऽपि लघुपरकत्वमिति विज्ञायते । अन्यथा येन नाव्यवधानन्यायादेकहल्व्यवधानस्यैवाश्रयादत्र सन्वत्त्वविरहादेव इत्त्वाऽप्रवृत्त्या किं तेन । संयोगे परे गुरुत्वान्नाऽभ्यासदीर्घः । पृथ प्रक्षेपे । ऋदुपधः । पर्थयतीति । णिचि लघूपधगुणः । रपरत्वम् ।", "74096": "<<विभाषा वेष्टिचेष्ट्योः>> - विभाषा वेष्टिचेष्ट्योः । 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'अत्स्मृदृत्वरे' त्यतोऽदिति,सन्वल्लघुनी॑इत्यतश्चङ्परे इति । चङ् परो यस्मादिति बहुव्रीहिः । णावित्यार्थिकम् । तदाह — अभ्यासस्याऽत्त्वमिति । अबिभ्रजदिति । उपधाह्रस्वपक्षे लघुपरत्वात्सन्वत्त्वादभ्यासस्य इत्त्वम् ।दीर्घो लघो॑रिति तु न, संयोगापरत्वादलघुत्वात् । काण्यादीनां वेति ।णौ चङ्युपधाया इति ह्रस्व॑ इति शेषः । ण्यन्ताः कणरणेति । 'कण निमीलने'रण शब्दे॑, 'भण शब्दे'श्रण दाने॑,लुप छेदने॑,हेठ विबाधाया॑मिति षट् धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः । ह्वायीति ।ह्वेञ् स्पर्धायां शब्दे च॑ । आत्त्वे युकि च निर्देशः । 'वण शब्दे' दन्त्योष्ठआदिः,लुठ प्रतिघाते॑टवर्गद्वितीयोपधः,लप व्यक्तायां वाचि॑ति चत्वारो ण्यन्ता भाष्योक्तेभ्योऽधिका न्यासग्रन्थे पठिता इत्यर्थः । चाणिलोटी इति । 'चण दाने' तालव्यादिः । 'लुट स्तेये' टवर्गप्रथमान्तो भ्वादिः । चुरादौ भाषार्थकोऽपि । एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र क्वचिद्ग्रन्थे पठितावित्यर्थः । इत्थं द्वादशेति । अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः । अचीकणदिति । उपधाह्रस्वपक्षे लघुपरत्वात्सन्वत्त्वदीर्घौ च । अचकाणदिति । उपधाह्रस्वाऽभावपक्षे रूपम् । अरीरणत्- अरराणत् । अबीभणत्- अबभाणत् ।अशिश्रणत्- अशश्राणत् । अलूलुपत्-अलुलोपत् । अजीहिठत्-अजिहेठत् । अजूहवत्-अजुहावत् । अवीवणत्- अववाणत् । अलूलुठत् - अलुलोठत् । अलीलपत- अललापत् । अचीचमत्- अचचाणत् । अलूलुटत्- अलुलोटत् ।", "74097": "<<ई च गणः>> - ई च गणः । 'सन्वल्लघुनी' त्यतश्चङ्परे इति,अत्र लोपे॑त्यतोऽभ्यासस्येति चानुवर्तते । तदाह - गणेरभ्यासस्येति ।अत्स्मृदृत्वरे॑ति पूर्वसूत्रादद्ग्रहणं चकारादनुकृष्यते । तदाह — चाददिति । स्तनगदी देवशब्दे इति । पर्जन्यगर्जने इत्यर्थः । स्तनश्च गदिश्चेति द्वन्द्वः । गदीति इका निर्देशः । गदेत्यकारान्तदिकि अल्लोपे गदीति निर्देशः । एवं च प्राकरणिकमदन्तत्वं न व्याहन्यते । पत गतौ वेति । गतावर्थे पतधातुर्णिचं वा लभत इत्यर्थः । तदाह — वा णिजन्त इति । आधृषीयत्वाऽभावाद्विकल्पविधिः । यद्वा वाशब्दस्य अदन्तत्व एवाऽन्वयः । णिच् तु नित्य एव । तदाह — वा अदन्त इत्येके इति । प्रथमपक्षे तु अदन्तत्वमेव । तदाह — आद्ये पतयतीति । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पतांचकारेति । णिजभावेऽप्यदन्तत्वात्कास्यनेकाजित्यामिति भावः । चङि — अपपतत् । अग्लोपित्वान्न दीर्घसन्वत्त्वे । द्वितीये पातयतीति । तकारादकारस्युच्चारणार्थत्वादुपदावृद्धिरिति बावः । अपीपतदिति । अग्लोपित्वाऽभावाद्दीर्घसन्वत्त्वे इति भावः । कृपयतीति । अदन्तस्य त्वस्य धात्वन्तरत्वात् 'कृपो रो लः' इति न भवति । स्पृह ईप्सायाम् । आप्तुमिच्छा- ईप्सा । अबभामदिति । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । सूच पैशुन्ये । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । खेट भक्षणे । तृतीयान्त इति । टवर्गतृतीयान्त इत्यर्थः । साम सान्त्वप्रयोगे । सान्त्वप्रयोगः = अकटुभाषणम् । अससामदिति । अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । ननु 'साम सान्त्वने' इति कथादेः प्राक् चुरादौ पाठो व्यर्थः, अनेनैव सिद्धेरित्यत आह — सामसान्त्वने इत्यतीतस्य तु असीषमदिति । पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया उपधाह्रस्वे, दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपिसाम सान्त्वप्रयोगे॑ इत्येव प्राक् चुरादौ पठितम्,ततापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः । गवेष मार्गणम् - अन्वेषणम् । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । तदाह - अजगवेषदिति । निवास आच्छादने । अनिनिवासत् । ऊन परिहाणे । परिहाणम् - न्यूनीभावः । ऊनयतीति । णावतो लोप इति भावः । ननु लुङि चङि ऊन इ अ त् इति स्थिते णिलोपेचङी॑त्यजादेर्द्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाऽभावादभ्यासे इत्त्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूपं वक्ष्यति, तदनुपपन्नं, द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसङ्गात् । न च द्वित्वे कार्ये अतो लोपस्यद्विर्वचनेऽची॑ति निषेधः शङ्क्यः, अल्लोपपययोरपरयो॑रित्येव वक्तव्ये 'पु' इति पवर्गस्य,य॑णिति प्रत्याहारस्य , जकारस्य च ग्रहणं लिङ्मित्यन्वयः । कुत्र लिङ्गमित्यत आह — णिचीत्यादि । द्वित्वे कार्ये णिज्निमित्तकोऽच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः ।तथाहि - 'ओः पुयण्ज्यपरे' इति सूत्रम् ।सनि परे यदङ्गं तदवयवाऽभ्यासोवर्णस्य इकारः स्यादवर्णपरकेषु पवर्गयण्जकारेषु परत॑ इति तद । 'पुङ्' पिपवायिषति,भू॑बिभावयिषति,यु॑- यियावयिषति,रु॑- रिरावयिषति,लूञ्- लिलावयिषति,जु॑- जिजवयिषतीत्युदाहरणानि । अत्र द्वित्वं प्रत्यनिमित्ते णिचिद्विर्वचनेऽची॑ति निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः कृतयोरभ्यासेष्वाकारस्य ह्रस्वे सति 'सन्यतः' इत्येव इत्त्वसिद्धेः पवर्गयण्प्रत्याहारजकारग्रहणं व्यर्थम् । पकारयकारग्रहणं तु न व्यर्थं, पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या 'सन्यतः' इति इत्त्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूङ्धातोर्युधातोश्च अण्यन्तात्सनि अब्यासे इत्त्वार्थं तदावश्यकत्वात् । तत्र हि — इको झ॑ल#इति सनः कित्त्वात् 'श्र्युकः किति' इति प्राप्तमिण्निषेधं बाधित्वा,स्मिपूङ्रञ्ज्वशां सनी॑ति,सनीवन्तद्र्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसना॑मिति च सूत्राभ्यामिटि कृते इडादेः सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततयाद्विर्वचनेऽची॑ति गुणावाऽदेशयोर्निषेधे सति 'पू' 'यु' इत्यनयोर्द्वित्वे अभ्यासे अकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या तत् इत्त्वार्थंपययो॑रित्यावश्यकम् । वर्गप्रत्याहारजकारग्रहणंतु द्वित्वे कार्ये णावच आदेशो ने॑त्यनाश्रयणे व्यर्थमेव । तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुपते सतिचङी॑ति द्वित्वे कार्ये प्रत्ययलक्षममाश्रित्य णिचि गुणाऽवादेशयोः प्रतिषेधे सति उवर्णान्तानां द्वित्व अभ्यासे अकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतो द्वित्वे कार्ये णावच आदेशो नेति विज्ञायत इत्यर्थः । ननु 'कृत संशब्दने' अस्मात् णौउपधायाश्चे॑ति दीर्घे अचिकीर्तदिति रूपमिष्यते । तन्न युज्यते । द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृदित्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्डे, ऋत इत्त्वे, रपरत्वे, उपधादीर्घे, अचकीर्तदित्यापत्तेरित्यत आह — यत्र द्विरुक्तावित्यादि । यत्र धातौ चङि द्विर्वचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्ये णावच आदेशो नेत्ययं निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याऽचोभावादाद्योऽजिति व्यर्थमेव, तथापि स्पष्टार्थं तदित्याहुः । नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र किमवर्णो द्वित्वप्रवृत्तिवेलायां विवक्षितः, उत परिनिष्ठिते रूपे विवक्षितः , नाद्यः, क्षुधातोण्र्यन्तात्सनि चुक्षावयिषतीत्यत्र 'क्षु' इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाऽभावेन वृद्ध्यावादेशयोर्निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः क्षावित्यस्य द्वित्वे चिक्षावयिषतीत्यापत्तेः । न द्वितीयः, ऊन इ अ त् इति स्थिते सतिने॑त्यस्य द्वित्वेऽभ्यासोत्तरखण्डेऽल्लोपे सत्यवर्णाऽभावेन णावल्लोपस्य निषेधाऽप्रवृत्या द्वित्वात् प्रागेव परत्वादतो लोपे सति 'नी' त्यस्य द्वित्वे औननदित्यापत्तेरित्यत आह — प्रक्रियायां परिनिष्ठिते रूपे वेति । न त्वमुकत्रैवेत्याग्रह इति भावः । सजातीये पुयण्जामभ्यासोत्तरखण्डेऽवर्णपरत्वनियमादिति भावः । सिद्धमिति । प्रक्रियायां परिनिष्ठिते वा उत्तरखण्डे अवर्णाऽभावादृत इत्त्वस्य न निषेध इति भावः । एवं चचुक्षावयिषती॑त्यत्र 'क्षु' इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डेऽवर्णाऽभावेऽपि परिनिष्ठिते रूपे तत्सत्त्वाण्णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः । औननदित्यत्रापि णौ भवत्येवाऽल्लोपस्य निषेध इत्याह — प्रकृते त्विति । औननदित्यत्रेत्यर्थः । नशब्दस्येति । अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डेऽवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव द्वित्वं, न तु निशब्दस्येति भावः । तत इति । नशब्दस्य द्वित्वाऽनन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्तमेव ऊनधातोरदन्तत्वं स्थितम् । फलान्तरं सूचयन्नाह — मा भवानूननदिति । अग्लोपित्वान्नोपधाह्रस्व इति भावः । पाठान्तरमिति । 'केत श्रावणे' इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति । 'समुच्चीयते' इतिशेषः । सङ्कोचने इतीति । इतिशब्दः पाठान्तरसमाप्तौ । स्तेन चौर्ये । अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह — अतिस्तेनदिति । गृह ग्रहणे । ऋदुपधोऽयम् । गृहयते इति । अल्ल#ओपस्य स्थानिवत्त्वान्न गुण इति भावः । लुङि - अजगृहत । अग्लोपित्वान्न सन्वत्तवम् । मृग अन्वेषणे । मृगयते इति । इहाऽप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । 'मार्ग् अन्वेषणे' इत्याधृषीयस्य तु मार्गयति,मार्गतीति च गतम् । अर्थ उपयाच्ञायाम् । अर्थयते इति । अर्थ इ इति स्थिते अतो लोपः, न तुअचो ञ्णिती॑ति वृद्धि,वृद्धेर्लोपो बलीया॑ निति न्यायात् ।अर्थवेदयो॑रित्यापुक्तु न, तत्र प्रातिपदिकस्य ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः, अदन्तत्वे फलाऽभावात् । नच सन्वत्त्वनिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्क्यं, लघुपरकत्वाऽभावादेव तदप्रसक्तेः । नाऽप्यल्लोपस्य स्थानिवद्भावादुपधावृद्धिनिवृत्त्यर्थमदन्तत्वमिति, शङ्क्यं, गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह- - अद्नतत्वसामर्थ्याण्णिज्विकल्प इति । ननु 'गर्वते' इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कतं तस्य विकल्पज्ञापकतेत्यत आह — धातोरन्त उदात्त इति । तेन 'गर्वते' इत्यत्र वकारादकारौदात्तः फलति । अदन्तत्वाऽभावे तु गकारादकार उदात्तः स्यादिति भावः । लिटआम् चेति । 'गर्वाचक्रे' इतय्त्र 'कास्यनेकाचः' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः । अन्यथा अनेकाच्त्वाऽभावादाम्न स्यादिति भावः । एवमग्रेऽपीति । 'मूत्र प्ररुआवणे' इत्यादावित्यर्थः । इत्यागवर्वीयाः । सूत्र वेष्टने । अनेकाच्त्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः । कत्र शैथिल्ये । कर्त इत्यपीति । अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वाह — कर्तयति कर्ततीति । प्रातिपदिकाद्धात्वर्थे । चुरादिगमसूत्रमिदम् ।इष्ठ॑वदिति सप्तम्यन्ताद्वतिः । तेन भुवमाचष्टे भावयीत्यत्रइष्ठस्य यिट् चे॑ति यिडागमो न भवति । तदाह — इष्ठे यथेति । अत्रधात्वर्थे इत्यनेन करणमाख्यानं दर्शनं वचनं श्रवणमित्यादि गृह्रते । पुंवद्भावेति । अतिशयेन पट्वी पटिष्ठेत्यत्र 'भस्याऽढे' इति पुंवत्त्वम् । 'द्रढिष्ठ' इत्यत्रर ऋतो हलादेर्लघो॑रिति रभावः । अतिशयेन साधुः साधिष्ठ इत्यत्र टिलोपः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यत्र मतुपो लुक्ऽतिशयेन स्थूलः स्थविष्ठ इत्यादौस्थूलदूरयुवे॑त्यादिना यणादिलोपः, पूर्वस्य च गुणः । अतिशयेन प्रियः प्रेष्ठ इत्यादौप्रियस्थिरे॑त्यादिना प्रस्थाद्यादेशः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्र भत्वान्न कुत्वम् । एते इष्ठे इव णावपि परतः स्युरित्यर्थः । पटयतीति । पटुमाचष्टे इत्याद्यर्थे णिच् । इष्ठवत्त्वाट्टेरिति टिलोप इति भावः । ननु उकारस्य टेर्लोपे सति अग्लोपित्वात्सन्वत्त्वं न स्यादित्यत आह - परत्वादद्वृद्धौ सत्यां टिलोप इति ।अचो ञ्णितीत॑ति उकारस्य वृद्धौ कृतायामेकारस्य टेर्लोपः । अकृतायां तु वृद्धावुकारस्य टेर्लोपः । ततश्चशब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायेन टिलोपोऽनित्यः । वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साऽप्यनित्या । एवंच वृद्धिटोलोपयोरुभयोर्मध्ये परत्वादुकारस्य वृद्धिरौकारः । तस्याऽवादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोपैत्यर्थः । एवं च अनग्लोपित्वात्सन्वत्त्वमिति मत्वाऽऽह - अपीपटदिति । एतच्चमुण्डमिश्रे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । स्थितमिति । तथा च वृद्धेः प्रागुकारस्य लोपेऽग्लोपित्वान्न सन्वत्त्वमित्यर्थः । भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु — वृद्धेर्लोपो बलीया॑नितिणौ चङी॑ति सूत्रभाष्यमेव प्रमाणं ।मुण्डमिश्रे॑ति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् । अत्र पुंवद्भावादिकमुदाह्यियते — एनीमाचष्टे एतयति । पुंवद्भावान्ङीब्नकारयोर्निवृत्तिः । दृढमाचष्टे द्रढयति । 'र ऋतः' इति रभावः । रुआग्विणमाचष्टे रुआजयति ।विन्मतो॑रिति विनो लुक् । गोमन्तमाचष्टे गवयति । मतुपो लुक् । अङ्गवृत्तपरिभाषया न वृद्धिः । स्थूलमाचष्टे स्थवयतीत्यादिषु यणादिलोपः । प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयतीत्यादिषु प्रस्थस्फाद्यादेशाः । अत्र वृद्धिर्भवत्येव,द्वयो॑रिति निर्देशेन अङ्गवृत्तपरिभाषया अनित्यत्वाश्रयणात् । रुआग्विणमाचष्टे रुआजयति । सुबन्ताद्विहितस्य विनो लुक्यन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तं कुत्वं भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति, तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच् स्यादित्यर्थः । आचारक्विबिव प्रातिपदिकादेवेदम् । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — पूर्वस्यैव प्रपञ्चेति । ननु करोति आचष्टे इति वर्तमानानिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह — करोत्यचष्टे इत्यादि । लडर्थ इत्युपलक्षणम् । तेन भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनातिक्रामति । इदमपि गणसूत्रम् ।प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । वाचाऽतिक्रामति वाचयति इत्यत्र कुत्वं तु न शङ्क्यम्, असुबन्तादेव प्रातिपदिकात्प्रत्ययोत्पत्तेः । धातुरूपं चेति । इदमपि गणसूत्रम् । णिच्प्रकृतिरिति, प्रतिपद्यते #इति चाध्याह्मत्य वयाचष्टे — णिच्प्रकृतिर्धातुरूपं प्रतिपद्यत इति । ननु प्रातिपदिकाद्धात्वर्थे णिज् भवति, णिच्प्रकृतिर्धातुरूपं च प्रतिपद्यते इति प्रतीयमानार्थश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजदातुरादेशः स्यादित्यत आह — वशब्दोऽनुक्तसमुच्चयार्थ इति । किमनुक्तं समुच्चीयते इत्यत आह — तथा च वार्तिकमिति । आख्यानात्कृत इति.॒हेतुमति चे॑ति सूत्रे इदं वार्तिकं स्थितम् । आख्यानं — वृत्तकथाप्रबन्धः । तद्वाचिनः कृदन्तात्कंसवधादिशब्दात्तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक्, तस्यैव कृतो या प्रकृतिर्हनादिधातुरूपा, तस्याः प्रत्यापत्तिः = आदेशादिविकारपरित्यागेन स्वरूपेणाऽवस्थानं भवतीत्यर्थः ।प्रकृतिवच्च कारकटमित्यशस्तु मूल एव व्याख्यास्यते । कंसवधमाचष्टे कंसं घातयतीत्युदाहरणम् । हननं वधः । 'हनश्च वधःर' इति भावे हनधातोरप्प्रत्ययः प्रकृतेर्वधादेशश्च । कंसस्य वधः कंसवधः । तदन्वाख्यानपरवाक्यसन्दर्भो विवक्ष#इतः । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुक् , प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः । तथा च फलितं दर्शयति — इह कंसं हन् इ इति स्थिते इति ।", "81001": "<<सर्वस्य द्वे>> - अथ द्विरुक्तप्रकरणम् । सर्वस्य द्वे । इत्यधिकृत्येति ।द्विर्वचनवधयोऽनुक्रंस्यन्ते॑ इति शेषः ।", "81002": "<<तस्य परमाम्रेडितम्>> - अभियुक्ताश्चाहुः — ॒क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु ।॑ इति । ननु किमाम्रेडितं नाम , तत्राह — तस्य परमाम्रेडितम् । 'सर्वस्य द्वे' इत्यनन्तरमिदं सूत्रं पठते । ततश्चतस्ये॑त्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात्षष्ठी । तदाह — द्विरुक्तस्येत्यादिना । पटत्पटेतीति । पटत् पटत् इतीति स्थिते तकारस्येकारस्य च पररूपमिकारः । ततश्च आद्गुणः ।", "81003": "", "81004": "<<नित्यवीप्सयोः>> - नित्यवीप्सयोः । नित्यशब्देन नित्यत्वं विवक्षितम् । तश्च आभीण्यमिति भाष्यम् । व्याप्तुमिच्छा वीप्सा=व्याप्तिप्रतिपादनेच्छा । सा च प्रयोक्तृधर्मः । व्याप्तिरेव तु शाब्दबोधविषय इति भाष्यस्वरसः । तथा चनित्यव्याप्त्या॑रित्येव सुवचनम् । व्याप्तिश्च कात्स्र्यन्येन संबन्धः, उपसर्गबलात् । पदस्येत्यधिकरिष्यमाणमिहापकृष्यते ।सर्वस्ये॑ति स्थानषष्ठी । 'द्वे' इति त्वादेशसमर्पकम् । तस्य च 'शब्दरूपे' इति विशेष्यमर्थाल्लभ्यते, शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतोऽतश्चान्तरतमे पदे इति स्थानेऽन्तरतमपरिभाषया लभ्यते । ततश्च पौनःपुन्ये कार्त्स्न्ये च गम्ये कृत्स्नावयवविशिष्टस्य पदस्याऽर्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम् । तदभिप्रेत्याह — आभीक्ष्ण्ये वीप्साया च द्योत्ये इति । द्योत्यं च द्योत्या च द्योत्यम् । तस्मिन्नित्यर्थः ।नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या॑मिति नपुंसकैकशेषः । एकत्वं च नित्यवीप्से च प्रकृतिगम्ये । द्विर्वचनं तु द्योतकम् । सत्यपि प्रकृतेर्द्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । द्विर्वचनं स्यादिति । द्वे पदे आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतः सिद्धम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात्सुबन्तत्वम् । तेनअपचन्नपचन्नि॑त्यत्र ङमुट्,वृक्षान्वृक्षा॑नित्यत्रपदान्तस्ये॑ति णत्वनिषेधः, 'अग्रेऽग्रे' इत्यत्रएङः पदान्ता॑दिति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति ।पुनःपुन॑रिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वाद्भावे ष्यञि, भवे ठञि च पौनः पुन्यम्, पौनःपुनिक इति च सिध्यति । 'द्वे उच्चारणे स्त' इत्याश्रयणे तु सर्वं पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकस्यैव द्विरुच्चार्यमाणस्य पुनःपुनरित्यादेशत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्त्या सुबन्तत्वविरहात्तद्दितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत् । आभीक्ष्ण्यं तिङन्तेष्विति । आक्षीक्ष्ण्यं-पौनः पुन्यम् । तच्चैह प्रधानभूतक्रियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीतिप्रशंसायां रूप॑विति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्त्वातुमुन्नादिषु क्रियाप्राधान्यम्, 'अव्ययकृतो भावे' इत्युक्तेः तथा च तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विर्वचनं नान्यत्रेत्यर्थः । तथैवोदाहरति — पचति पचति भुक्त्वा भुक्त्वेति । वीप्सायामिति । 'उदाह्यियते' इति शेषः । वृक्षं वृक्षमिति । कृत्स्नं वृक्षमित्यर्थः । अत्र प्रकृततद्वाटिकागतवृक्षकार्त्स्न्यंगम्यते, जगतीतलस्थितकृत्स्नवृक्षसेचनस्याऽशक्यत्वात् । सर्वशब्दस्य कार्त्स्न्यवाचित्वेऽपि न द्वित्वमित्यनुपदमेव 'यथास्वे' इत्यत्र वक्ष्यते । वृक्षं-वृक्षमित्यत्र कार्त्स्न्यावगमेऽपि प्रत्येकनिषठमेकत्वमेव भासते, नतु बहुत्वम्, अतो न बहुवचनम्,एकैकस्य प्राचा॑मिति लिङ्गाच्च ।सर्वस्ये॑त्यभावे वृक्षाभ्यामित्यादौ 'स्वादिषु' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विर्वचनं स्यात् । कृते तु सर्वग्रहणे पदावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान्न दोषः । पदस्येति किम् । वाक्यस्य मा भूत् ।", "81005": "<<परेर्वर्जने>> - परेर्वर्जने । वर्जने वर्तमानस्य परीत्यस्य द्वे स्त इत्यर्थः । परि परि वङ्गेभ्यो वृष्ट इति । 'पर्जन्य' इति शेषः । 'अपपरी वर्जने' इति परिः कर्मप्रवचनीयः ।पञ्चम्यपाङ्परिभि॑रिति पञ्चमी । 'परि हरेः संसारः' इत्यत्र तुपरेरसमासे इति वक्तव्य॑मिति वार्तिकान्नद्विर्वचनम् ।", "81006": "", "81007": "<<उपर्यध्यधसः सामीप्ये>> - उपर्यध्यधसः । उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्ये इत्यर्थः । सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तुकालत इति ज्ञेयम् ।", "81008": "<<वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु>> - वाक्यादेः । 'द्वे स्त' इति शेषः । यद्यपि कोपाद्भत्र्सनम्, असूयया कुत्सनं, तथापि विनापि कोपाऽसूये भत्र्सनकुत्सनयोः शिष्यादौ संभवात्पृथग्ग्रहणमिति भाष्ये स्पष्टम् । सुन्दरेति । सोन्दर्यमसहमानस्येदं वाक्यम् । देवेति । तव वन्दनं सम्मतिमित्यर्थः । दुर्विनीतेति । क्रोधाविष्टस्य वाक्यम् । ज्ञास्यसीति ।दुर्विनयस्य फल॑मिति शेषः । धानुष्केति । युद्धाऽसमर्थं प्रति निन्देयम् । चोरेति । चोरं प्रति अवाच्यवादोऽयम् ।", "81009": "<<एकं बहुव्रीहिवत्>> - एकं बहुव्रीहिवत् । द्विरुक्त इति । द्विर्वचनं प्राप्त इत्यर्थः । एतच्च प्रकरणाल्लभ्यते,वीप्सामात्रविषयमिद॑मिति भाष्याच्च । तेनेति । बहुव्रीहिवत्त्वेन सुब्लोपपुंवद्भावौ सिध्यत इत्यर्थः । तत्र सुब्लोपमुदाहरति-एकैकमिति । इहेति ।एकैक॑मित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात्सुबित्यन्वयः । ननुयत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैवे॑ति नियमेन समुदायस्य प्रातिपदिकत्वाऽभावात्कथमिह सुपो लुक्, कथं वा समुदायात्सुबित्यत आह — बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति । एतच्चसुपोर्लुकी॑त्यत्र,समुदायात्सु॑बित्यत्र च मध्यमणिन्यायेनान्वेति । अथ पुंवत्त्वेऽप्युदाहरति — एकैकयाऽऽहुत्येति ।एकये॑त्यस्य द्विर्वचने सति एकया — एकयेति स्थिते,बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम् । बहुव्रीहिवत्त्वाऽभावे तु इह समुदायस्य प्रातिपदिकत्वा.ञभावात्सुपोर्लुक्, पूर्वखण्डस्य पुंवत्त्वं च न स्यात्, उत्तरपदपरकत्वाऽभावात्, समासचरमावयवस्यैव उत्तरपदत्वादिति भावः ।एक#ऐका॑मित्यत्र उत्तरखण्डस्यसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वं बहुव्रीहिवत्त्वे सत्यपि न प्रवृत्तिमर्हति, पूर्वस्यैवेदं 'भस्त्रैषाद्वे' ति लिङ्गादित्युक्तत्वादिति । बोध्यम् । ननु सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह — इह पूर्वभागे इति । अवग्रहे इति । समस्तपदस्य द्विधा करणे पूर्वखण्डोऽवग्रहः ।तस्य पूर्वोऽवग्रहः॑ इति प्रातिशाख्यम् । 'एकैकयेत्येक-एकया' इतीष्यते पूर्वखण्डस्य पुवत्त्वम् । बहुव्रीहिवत्त्वाऽभावे तु एकैकयेत्येका-एकयेति स्यादिति भावः । तैत्तिरीयास्तु 'एकैकयेत्येका एकया' इत्येवाऽवगृह्णन्ति ।एकं समासव॑दित्येव सिद्धे बहुव्रीहिग्रहणंबहुव्रीहौ प्रकृत्यापूर्वपद॑मिति स्वरार्थम् । ननु बहुव्रीहिवत्त्वे सति 'न बहिव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्यैदेहीत्यादौ कथं सर्वनामकार्यमित्यर्थ आह — न बहुव्रीहावित्यत्रेति ।विभाषा दिक्समासे बहुव्रीहौ॑ इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे न बहुव्रीहौ॑ इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतो बहुव्रीहिवदित्यतिदिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः । तदाह — त#एनेति । तदेवं प्राचीनोक्तं परिहारमुक्त्वा सिद्धान्तिमतेनाह — वस्तुतस्त्विति । एतदिति । 'न बहुव्रीहौ' इति सूत्रमित्यर्थः । एवं च बहुव्रीहावपि सर्वंनामत्वस्य भाष्यसंमततया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः । सूत्रमतेऽपीति ।उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधेसिद्धे ' नबहुव्रीहौ' इति बहुव्रीह्रर्थके अलौकिकविग्रहवाक्ये एव समासात्प्राक्सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम् । तस्मादिह बहुव्रीह्रतिदेशप्रयुक्तसर्वनामकार्याऽभावशङ्कैव नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि सुपोर्लुकि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात्समैभाव इति भावः ।", "81010": "<<आबाधे च>> - आबाधे च । आबाधः=पीडा । तदाह — पीडायामिति । गतगत इति । 'प्रिया विना काल' इति शेषः । आबाधं दर्शयितुमाह — विरहादिति । स्त्रीवियोगादित्यर्थः । बहुव्रीहिवद्भावादिति । 'गत' इत्यस्य द्विर्वचने सति बहुव्रीहिवत्त्वात्समुदायस्य प्रातिपदिकत्वेन सुपोर्लुकि समुदायात्सुबुत्पत्तिरित्यर्थः । गतगतेति ।ग्रिये॑ति शेषः । इयमपि स्त्रीविरहात्पीडमानस्यौक्तिः । एकस्या एव गमनकर्त्र्या द्विः कथनात्समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमितिस्त्रियाः पुंव॑दिति पुंवत्त्वम्, बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात् । तदाह — इह पुंवद्भाव इति ।", "81011": "<<कर्मधारयवत् उत्तरेषु>> - कर्मधारयवदुत्तरेषु ।कार्यं स्या॑दिति शेषः । कर्मधारयवत्त्वस्य फलमाह — प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमेकवचनम् । अन्तोदात्तत्वानीति ।अनुदात्तं चे॑त्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः ।", "81012": "<<प्रकारे गुणवचनस्य>> - प्रकारे गुणवचनस्य । प्रकारशब्दः सादृश्ये वर्तते, व्याख्यानादित्यभिप्रेत्याह — सादृश्ये द्योत्य इति । गुणवचनशब्देनआकडारा॑दिति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्रन्त इतिवोतो गुणवचना॑दित्यादौ प्रपञ्चितमिदम् । तेनेति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति ।पुंवकर्मधारये॑त्यनेने॑ति शेषः । पटुपट्वीति । पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात्पुवत्कर्मधारये॑ति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपिस्त्रियाः पुंव॑दिति पुंवत्त्वादिदं सिद्धं, तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थंकर्मधारयव॑दिति वचनमिति भावः । पटुपटुरिति ।वोतो गुणवचना॑दिति ङीषभावे पुंसि च द्विर्वचने रूपम् । पटुसदृश इति । 'इत्यर्थ' इति शेषः । फलितमाह — ईषत्पटिरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति — गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसदृशमित्यर्थः । ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूर्व्ये इति । अत्र वार्तिकेकर्मधारयव॑दिति\tन सम्बध्यते, तदुदाहरणे भाष्ये सुब्लोपाऽदर्शनादित्यभिप्रेत्योदाहरति — मूलेमूले इति । पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति । यावत् । संभ्रमेणेति । वार्तिकमिदम् । संभ्रमः=भयादिकृता त्वरा, तेन प्रवृत्तौ गम्यमानायां यथेष्टम्िच्छानुसारेण अनेकधाशब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेकधेत्युक्तेद्र्वे इति निवर्तते ।यथेष्ट॑मित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः । बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः । एतच्च भाष्ये स्पष्टम् । अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात् ।क्रियासमभिहारे चेति । वार्तिकमिदम् । 'द्वे स्त' इति शेषः । पौनःपुन्यं भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम् ।क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमो॑रिति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति — लुनीहिलुनीहीत्येवायं लुनातीति । 'लूञ् छेदने' अस्मात्क्रियासमभिहारे लोट्, लोटो हिस्वौ॑ इति लोट् । तस्य हीत्यादेशः । श्नाविकरणः ।लुनीही॑त्यस्य अनेन द्विर्वचनम् ।यथाविध्यनुप्रयोगः पूर्वस्मि॑न्नित्यनुप्रयोगः । तस्माल्लडादयः । अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः । एककर्तृकं लवनमनुप्रयोगस्याऽर्थः । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयतीत्यादि मूल एव लकारार्थप्रक्रियायां स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः । नित्येति ।नित्यवीप्सयो॑रिति पौनः पुन्ये द्विर्वचने सिद्धेऽपि भृशार्थे द्विर्वचनार्थमिदं वार्तिकमित्यर्थः । नन्बस्य भृशार्थ एव द्विर्वचनफलकत्वेभृशे चे॑त्येव सिद्धे 'क्रियासमभिहारे' इति व्यर्थमित्यत आह — पौनःपुन्येऽपीति । लुनीहि — लुनीहीत्यत्र पौनः पुन्ये लोटो द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा — पौनःपुन्येऽपीति । लुनीहि — लुनीहीत्यत्र पौनःपुन्ये द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोद्विर्वचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च 'धातोरेकाचः' इति पौनः पुन्ये यङन्ते 'पापच्यते' इत्यादौ न द्विर्वचनमित्यन्यत्र विस्तरः । कर्मव्यतिहारे इति । क्रिया विनिमयः=कर्मव्यतिहारः, तस्मिन्गम्ये सर्वनाम्नो द्वे स्तः । ते च द्विरुक्ते पदे बहुलं समासवदित्यर्थः । अत्रबहुल॑मिति समासवदित्यत्रैवान्वेति । द्विर्वचनं तु नित्यमेव । अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम्, इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समासवत्त्वरहितमेव, इतरशब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते । तथापरस्परोपपदाच्चे॑ति वार्तिकप्रयोगात्परशब्दस्यापि समासवत्त्वाऽभावो गम्यत इति भावः । एवंच क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यद्विर्वचनम् । द्विरुक्तयोस्तु समासवत्त्वं बहुलम् । इतरशब्दस्य तु तदुभयमपि नित्यम् । एतत्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं द्वित्वं बहुलग्रहणादिति स्थितिः । असमासवद्भावे इति । इदमन्यपरशब्दयोरेव, इतरशब्दस्य समावत्त्वस्यैवोक्तत्वात् । सुपः सुरिति । सु॑बिति प्रत्याहारः । सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्र विषयमिति केचित् । तदेतद्भाष्यविरुद्धं, भाष्ये द्वितीयादिविभक्तेरूदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तीरुदाहरति — अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यमन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः । प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतन्न कविसंमतमित्याह — अन्योन्येषामित्यादि, माघ इत्यन्तम् ।परस्पर॑मित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्क्य आह — कस्कादित्वादित्यादि । इतरेतरमिति । इतरः इतरावित्यादीनां द्वित्वे समासवत्त्वात्, सुपोर्लुकि समुदायात्पुनः सुबुत्पत्तिरिति भावः । स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोर्विद्यमानानामन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेरामित्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि । अन्योन्याम्, अन्योन्यं वा इमे ब्राआहृण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राआहृण्यौ कुले वा भोजयतः । इतरेतराम्, इतरेतरं वा इमे ब्राआहृण्यौ कुले वा भोजयत इत्यन्वयः । तत्रअन्या॑मित्यस्य द्वित्वे 'दलद्वये टाबभाव' इति वक्ष्यमाणतया पुंवत्त्वाट्टापो निवृत्तौ समासवत्त्वाऽभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वेअतो रोरप्लुता॑दित्युत्त्वे आद्गुणे उत्तरपदस्थविभक्तेरनेन आम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तु पुंवत्तद्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंलिङ्गवदेव अन्योन्यमिति रूपम् । इयं ब्राआहृणी अन्यां ब्राआहृणीं भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राआहृण्यौ भोजयत इत्यर्थः । इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अन्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः । अत्राऽन्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तुक्लीबे चाद्ड्विरहः स्वमो॑रिति वक्ष्यमाणतया पुंवत्त्वादद्डादेशाऽभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलद्वयेऽपि पुंवत्त्वाट्टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम् । आण्भावविरहे तु द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वे तु परमित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्पमिति रूपम् । आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाटापो निवृत्तौ उत्तरपदस्थविभक्तेराम्भावे समासवत्त्वात्पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम् । आम्भावविरहे तु इतरेतरमिति रूपम् । नपुंसकस्य तु इतरच्छब्स्य द्वित्वे पुंवत्त्वादद्डादेशविरहे पूर्वपदस्थविभक्तेर्लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम् । अत्र भाष्यादौ द्वितीयाविभक्त्यन्तस्योदाहरणादितरविभक्तिषु आम्भावो न भवतीति प्राचीनमतमाह — अत्र केचितदिति । तेनेति । द्वितीयेतरविभक्तिषु आम्भावविरहेणेत्यर्थः । पुंवदेवेति । आम्भावविरहे सति बहुमग्रहणात्पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात्प्रथमैकवचस्य इदं पुंवदेव रूपमित्यर्थः । सिद्धान्तमाह — अन्ये त्विति । दिङ्मात्रत्वादिति । दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । द्वलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्रयम्॥अथाऽत्र बहुलग्रहणानुवृत्तेः प्रयोजनकथनपरप्राचीनश्लोकमाह — दलद्वये इति । स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्जयोः पुंवत्त्वाट्टाब्निवृत्तिरित्यर्थः । यद्यपि 'इतरेतर' मित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धस्तथाप्युत्तरखण्डे टाबभावार्थं बाहुलकाश्रयणमिति भावः । क्लीबे इति ।अन्योन्य॑मित्यादावद्डादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथाहीति । यथेदं स्पष्टं भवति, तथा उदाहृत्य प्रदश्र्यत इत्यर्थः । ननु पूर्वदलेसर्वनाम्नो वृत्तिमात्र॑ इति पुंवत्त्वस्याऽत्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह — अन्यपरयोरिति ।समासवच्च बहुल॑मिति समासवत्त्वमितरशब्दमात्रविषयं, न त्वन्यपरहशब्दविषयमिति प्रागुक्तमित्यर्थः । ननु मास्तु समासवत्त्वं, तथापिसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वं दुर्वारम्, द्विर्वचनस्य वृत्तित्वादित्याशङ्क्य निराकरोति — नच द्विर्वचनमेव वृत्तिरिति ।कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः॑ इति परिगणनादिति भावः । द्विर्वचनस्य वृत्त्यन्तर्भ#आवे बाधकमाह — यां या मिति । द्विर्वचनस्य वृत्त्यन्तर्भावेयांयां प्रियः प्रैक्षत कातराक्षी सासा ह्यिया नम्रमुखी बभूवे॑त्यत्र श्लोके यांयामित्यत्र सासेत्यत्र चसर्वनाम्नो वृत्तिमात्रे॑ इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः । क्लीबे चाद्ड्विरहः॑ इत्यस्योदाहरति — अन्योन्यमिति । ननुसमासे सोरलुक् चे॑ति कथम्, अन्यपरशब्दयोः समासवत्त्वाऽभावादित्याशङ्क्य कृत्तद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति — अन्योन्यसंस,क्तमिति । अन्योऽन्येन संसक्तमिति तृतीयासमासः । अहश्च त्रियामा चेति समाहारद्वन्द्वः । अहश्च रात्रिश्च अन्योन्येन संयुर्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः । परस्पराक्षिसादृश्यमिति । अक्ष्णा सादृस्यमक्षिसादृश्यम् । परस्परस्याऽक्षिरसादृश्यमिति विग्रहः । अपरस्परैरिति । न परस्परे अपरस्परे,तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य सोर्लुक् प्राप्त इत्यर्थः । सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत्समाधेयमित्यत्र किं प्रमाणमित्यत आह — प्रकृतवार्तिकेति ।स्त्रीनपुंसकयो॑रिति प्रकृतवार्तिकेअन्योन्यमिमे ब्राआहृण्य॑विति, 'इतरेतरमिमे कुले' इति चोदाहरणात्दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमो॑रिति विज्ञायते ।स्त्रिया॑मिति सूत्रेअन्योन्यसंश्रयं त्वेत॑दिति बाष्यप्रयोगात्समासे सोरलुगिति विज्ञायत इत्यर्थः ।", "81013": "<<अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्>> - अकृच्छ्रे । कृच्छ्रं-कष्टम् । अकृच्छ्रम्-अनायासः । तस्मिन्वर्तमानयोः प्रिय सुख इत्यनयोद्र्वे वा स्तः । कर्मधारयवद्भावादिति ।कर्मधारयवदुत्तरेषु॑ इत्यधिकारादिति भावः ।समासवच्च बहुल॑मित्यतः समासवदित्यनुवृत्तिस्तु न शङ्क्या, तस्य वार्तिकस्थत्वात्, एवं चप्रियेणे॑त्यस्यसुखेने॑त्यस्य च द्वित्वे सति कर्मधारयवत्त्वात्सुपोस्तृतीयैकवचनयोर्लुकि पुनः समुदायात्तृतीयैकवचनमिति फलितम् ।", "81014": "<<यथास्वे यथायथम्>> - यथास्वे यथायथम् । वीप्सायामिति । कार्त्स्न्येसंबन्धो वीप्सेत्युक्तम् । स्वशब्दार्थगतकार्त्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाऽव्ययीभाव इत्यर्थः । कृत्स्न श्चासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची । इह तु आत्मात्मीयवाच्येव गृह्रते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रहवाक्यस्य फलितमर्थमाह — द्वे इति । 'स्त' इति शेषः । निपातनादिति भावः । न चनित्यवीप्सयो॑रित्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्क्यम्, द्वित्वविषयस्य शब्दस्य लक्षणया कार्त्स्न्यविशिष्टे वृत्तावेव वीप्सायां द्विर्वचनविधानात् । अन्यथा 'सर्वो घटः' इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्लीबत्वमिति ।यथा-यथा इति समुदायस्ये॑ति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृत्तद्वित्वस्य नपुंसकह्रस्वत्वं च फलितम् । यथायथं ज्ञातेति । अत्रज्ञाते॑ति तृन्नन्तम् ।तद्योगेन लोके॑ति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तुयथायथस्य ज्ञाते॑त्येव ।", "81015": "<<द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण- यज्ञपात्रप्रयोगाभिव्यक्तिषु>> - द्वन्द्वं रहस्य । पूर्वपदस्येति । द्वौ द्वाविति द्वित्वे कर्मधारयत्त्वात्सुब्लुकि समुदायात्पुनः सुपि पूर्वपदावयवस्य इकारस्यअ॑मिति मकारान्तादेश इत्यर्थः । अत्वमिति । उत्तरपदस्य अकारोऽन्तादेश इत्यर्थः । न च त्यदाद्यत्वमुत्तरपदान्तस्य सिद्धमिति वाच्यं, संज्ञात्वात्तदप्राप्तेरित्याहुः । नपुंसकत्वं चेति । चकारोऽनुक्तसमुच्चये । कृत्तद्वित्वस्य नपुंसकत्वं द्विवचनाऽभावश्चेत्यर्थः । आचतुरं हीति । आङभिविधौ ।आङ्भर्यादे॑त्यव्ययीभावः । शरत्प्रभृतित्वाट्टच् । चतुर्थान्तमिति फलितोऽर्थः । पशवः स्वप्रभृति चतुर्थपर्यन्तं द्वन्द्वं मिथुनीयन्तीत्यन्वयः । मिथनशब्देन मैथुनं विवक्षितम् । मिथुनस्य कर्म मैथुनम् । तदिच्छतीत्यर्थे 'सुप आत्मनः' इति क्यच् । फलितमर्थमाह — मिथुन गच्छतीति । मिथुनत्वं प्राप्नोतीत्यर्थः । मिथुनायन्ते इति क्यङ्पाठस्तु प्रामादिकः मर्यादीकृत्येति । स्वप्रभृति चतुरोऽभिव्याप्येत्यर्थः । अत्यन्तसहचरितत्वेन लोकविज्ञानमभिव्यक्तिरिति भाष्याल्लभ्यते । तदाह — सहचर्येणेत्यर्थ इति । अत्रद्वन्द्वं न्यञ्ची॑त्यत्र वीप्सायां द्वित्वम्, अन्यत्र स्वार्थे इति बोध्यम् । अन्यत्रापीति । 'द्वन्द्व#आनि सहते' इत्यादावित्यर्थः । शीतमुष्णं च एकं द्वन्द्वम् । सुखं दुःखं चापरम् । क्षुत्तृष्णाचान्यत् । इह स्वार्थे द्वन्द्वः । अम्भावादि पूर्ववत् । 'चार्थे द्वन्द्वः' इति निपातनादन्यत्रापीति सिद्धम् ।**** इति द्विरुक्तप्रकरणम् ।****इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्यश्रीशाहजी तुक्वोजी भोसल॑ चोलमहीमिहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्यणा पञ्चपुरुषीपोष्येण, बाल्य एव तद्दयानिर्वर्तितताऽपरिमिताग्निविजृम्भितवाजपेयसर्वपृष्ठाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिर्मुखेन, पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविओआवाजपेययाजितो लब्धविद्यावैशद्येन, अध्वरमीमांसाकुतूहलवृत्तिनिर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण, बौधायनापस्तम्बसत्याषाढभावद्वाजकात्यायनाआलायनद्राह्रायणादिकल्पसूत्रतद्भाष्यपारीणमहादेवववाजपेययाजिसुतेन, अन्नुपूर्णाम्बागर्भजातेन, वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पूर्वार्धम् ।****************************अथ एकशेषप्रकरणम्*****अथैकशेषो निरूप्यते । तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणमारभते — अथैकशेष इति । 'निरूप्यते' इति शेषः । तत्रैकशेषसूत्राणि व्याचिख्यासुः पूर्वं व्याख्यातमपि सूत्रं सन्दर्भशुद्धये आह — सरूपाणामिति । तदुदाहरणमपि स्मारयति — रामौ रामा इति । विरुपाणामिति ।सरूपाणा॑मित्यनेन सूत्रेणार्थ भेदेऽपि शब्दैकरूप्ये एकशेष उक्तः, एकार्थकत्वे विरूपाणामप्येकशेषो वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थैक्यादन्यतरः शिष्यत इति भावः ।", "81016": "", "81017": "", "81018": "", "81019": "", "81020": "", "81021": "", "81022": "", "81023": "<<त्वामौ द्वितीयायाः>> - त्वामौ द्वितीयायाः । त्वाश्च माश्चेति विग्रहः । एकवचनस्येत्यनुवर्तते । तदाह-द्वितीयेत्यादिना ।अथ विभक्तिक्रमकॢप्तद्वितीयाचतुर्थीषष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरति-श्रीश इत्यादि ।तत्रश्रीशस्त्वावतु मापीहे॑ति प्रथमः पादः । श्रिया ईशः==पतिः — विष्णुः, त्वा मा अपि पातु इत्यन्वयः । अत्र त्वां, मामिति द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ । दत्तात्ते मेऽपि शर्म स इति । स श्रीशः ते मेऽपि शर्म सुखं दत्तादित्यन्वयः । 'डु दाञ् दाने' आशिषि लोटि दत्तादिति रूपम् ।दद्या॑दिति क्वचित्पाठः । अत्र तुभ्यं मह्रमिति चतुर्थ्येकवचनान्तयोस्ते मे इत्यादेशौ । स्वामी ते मेऽपि स हरिरिति । अत्र तव मम इति षष्ठएकवचनान्तयोस्ते मे आदेशौ । पातु वामपि नौ विभुरिति । विभुः=सर्वव्यापको वां नौ अपि पातु इत्यन्वयः । अत्र युवामावाम् इति द्वितीयाद्विवचनयोर्वां नौ इत्यादेशौ । सुखं वां नौ ददात्वीश इति । 'नौ' इत्यनन्तरमपिशब्दोऽध्याहार्यः । अत् युवाभ्यामावाभ्याम् इति चतुर्थीद्विवचनान्तयोर्वांनावौ । पतिर्वामपि नौ हरिरिति । अत्र युवयोरावयोरिति षष्ठीद्विवचनान्तयोर्वांनावौ । सोऽव्याद्वो न इति । सः=हरि वः नः अपि अव्यात्=रक्षतादित्यर्थः । अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोर्वस्नसौ । शिवं वो नो दद्यादिति । शिवमिति शुभमुच्यते । 'न' इत्यनन्तरम्अपी॑त्यध्याहार्यम् । अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोर्वस्नसौ । सेव्योऽत्र वः स न इति । स हरिः वः नः-अपि सेव्यः=भजनीयः इत्यर्थः ।कृत्यानां कर्तरि वा॑ इति षष्ठी । अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोर्वस्नसौ । त्वां पातु मां पात्विति । अत्र युष्मदस्मोः पदात्परत्वाऽभावात्त्वामौ द्वितीयायाः॑ इति न भवतीत्यर्थः । अद्यप्यत्र अस्मच्छब्दस्य पात्विति पदात्परत्वमस्ति, तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः । संवेद्योऽस्मानिति । अत्राऽस्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः । यद्यप्यनुष्टुप्छन्दस्कोऽयं श्लोकः, तत्र एकैकः पाटोऽष्टाक्षर इति स्थितिः । तत्र सन्ध्यभावेअस्मान्कृष्णः सर्वदाऽवतु #इत्यस्य नवाक्षरत्वान्न पादत्वम् । कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्व व्याघातः । 'संवेद्य' इत्यस्य पदत्वाऽभावादस्मदः पदात्परत्वाऽभावश्च । पूर्वान्तत्वे तुस्मा॑नित्यस्य पादादिस्थितस्य नास्मच्छब्दरूपता, तथापि 'संवेद्यो' इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्पदत्वम् ।स्मानित्यस्य तु एकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम् । वस्स्तुतस्तु ओकारस्य पूर्वान्तत्वात्संवेद्यो इत्यस्य पदत्वम्, स्मानित्यादेरष्टाक्षरत्वं च । परादित्वाच्चास्मच्छब्दरूपता ।उभयत आश्रयणे नान्तादिव॑दिति तु नास्तीतीण्धातौ निरूपयिष्यामः । केचित्तुअपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदावतु॑ इति प्रत्युदाहरन्ति । तन्नि, युष्मानित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः । अस्मानित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात् । ननुयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयान्तयोः॑ इत्येव सूत्र्यतां, कि स्थग्रहणेन । स्थग्रहणे ।ञपि कथञ्चित्तस्यैवार्थस्य लामादित्यत आह — हासीरिति गम्यते । ततश्च षष्ठीचतुर्थीद्वितीयास्तिष्ठतः=न परित्यजत इति व्युत्पत्तिर्विवक्षिता । षष्ठआदिविभक्तीरपरित्यजतोरित्यर्थः । अलुप्तषष्ठआदिविभक्तिविशिष्ठयोरिति फलतीति भावः । इति युष्मत्पुत्र इति । पदात्परत्वं सम्पादयितुम् 'इति' शब्दः । युवयोर्युष्माकं वा पुत्रः, आवयोरस्माकं वा पुत्र इति विग्रहः । अत्र विभक्तेर्लुका लुप्तत्वात्श्रूयमाणविभक्तिकत्वाऽभावान्नादेशप्रवृत्तिः । तव पुत्रो मम पुत्र इति विग्रहस्तु न,प्रत्ययोत्तरपदयोश्चे॑ति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात् । समानवाक्ये #इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः । निघातशब्दोऽनुदात्तवाची । एकतिङिति । तिङित्यनेन तिङन्तं विवक्षितम् । एकस्तिङ् यस्येति विग्रहः । इदं च वाक्यलक्षणमेतच्चास्त्रोपयोग्येव । तेनपश्य मृगो धावती॑त्यादौ नाऽव्याप्तिरिति समर्थसूत्रे भाष्पे स्पष्टम् । ओदनमिति.॒ओदनं पचे॑त्येकं वाक्यम् ।तव भविष्यती॑त्यपरं वाक्यम् । ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात्पदात्परत्वाऽभावान्नादेश इति भावः । शालीनामिति । व्रीहीणामित्यर्थः । प्रकृतिविकारभावे षष्ठी ।एते वांनावादय इति । इदंच 'सपूर्वायाः' इति सूत्रे भाष्ये स्थितम् । धातेति । महादेवं प्रति वचनमेतत्अन्वादेशे तु नित्य॑मित्यस्योदाहरणमाह — तस्यमै ते नम इत्येवेति । अत्रयोऽग्निर्हव्यवाट् य इन्द्रो वज्रबाहुः॑ इत्यादिपूर्ववाक्यं द्रष्टव्यम् । एवंच किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं बोधयितुं पुनरूपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः ।", "81024": "<<न चवाहाहैवयुक्ते>> - न चवाहा । च इत्यव्ययं समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति खेदे, एव इत्यवधारणे, एतेषां द्वन्द्वः युक्त इति भावे क्तः । तदाह — चादिपञ्चकयोगे इति । पञ्चानामन्यतमेन योगे इत्यर्थः । एते इति । वांनावादय इत्यर्थः ।युष्मदस्मदोः षष्ठी॑त्यादिसूत्रेभ्यस्तत्तदनुवृत्तेरिति भावः । इत्यादीति ।कृष्णो मम हा प्रसीदति॑ । अद्भुतमिदमित्यर्थः ।कृष्णो ममाऽह न प्रसीदति ॑ । अहेति खेदे । कृष्णो ममैव सेव्यः । ननु ' न चवाहाहैवैः' इत्येवास्तु, मास्तु युक्तग्रहणम् । 'वृद्धो यूना' इत्यादिवत्तृतीययैव तल्लाभादित्यत आह — युक्तग्रहणादिति । अत्र चाद्यर्थैः समुच्चयादिभिर्युष्मदस्मदर्थोः साक्षादन्वयस्तत्रैवायं निषेध इत्यर्थः । हरो हरिश्चेति । अत्र 'च' शब्दस्य हरिहरियोः साक्षादन्वयः । समुच्चितयोर्हरिहरियोः स्वामीत्यत्रान्वयः ।स्वामी॑त्यस्य मे इत्यनेनान्वयः । ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाऽभावान्मेआदेशस्य निषेधो नेति भावः ।", "81025": "<<पश्यार्थैश्चानालोचने>> - पश्यार्थैश्चानालोचने । दर्शनं पश्यः । 'दृशिर्प्रेक्षणे' इत्यस्मादत एव निपातनाद्भावे शप्रत्ययः ।पाघ्रे॑ति पश्यादेशः । पश्यः=दर्शनमर्थो येषां ते पश्यार्थाः, तैरिति विग्रहः । आलोचनं=चाक्षुषं ज्ञानं, तद्भिन्नमनालोचनम्, तत्र विद्यमानैः । दर्शनार्थकैरित्यर्थः । पश्येति दृशिना ज्ञानसामान्यं विवक्षितम्, अनालोचने इति चाक्षुषपर्युदासात् । तदाह — अचाश्रुषेत्यादिना । चेतसेति । देवेत्यध्याहार्यम् । हे देव मनसा त्वां चिन्तयतीत्यर्थः । परम्परेति ।न चवाहे॑त्यत्र युक्तग्रहणसामर्थ्यात्साक्षात्संबन्धविवक्षा युक्ता । इह तु तद्विवक्षायां मानाऽभावात्परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थः । भक्तस्तवेति । देवेत्यध्याहार्यम् । इह तवेत्यस्य रूपेणान्वयो न तु साक्षाद्भ्यायतिनेति भावः । 'अनालोचने' इत्यस्य प्रयोजनमाह — आलोचना त्विति ।", "81026": "<<सपूर्वायाः प्रथमाया विभाषा>> - सपूर्वायाः । वां-नावाद्यादेशा अनन्वादेशे पाक्षिकाः, अन्वादेशे तु नित्या इत्युक्तम् । अन्वादेशेऽपि क्वचिद्विकल्पार्थमिदम् । सहशब्दोऽत्र 'सलोमक' #इत्यादिवद्विद्यमानवाची । वीद्यमानं पूर्वं यस्य इति विग्रहः,तेन सहेति तुल्ययोगे॑ इति सहस्य समासः । तुस्ययोगवचनं प्रायिकमिति वक्ष्यमाणत्वात् ।प्रथमे॑त्यनेन तदन्तं गृह्रते । तदाह — विद्यमानेत्यादिना । परयोरित्यनन्तरंयुष्मदस्मदो॑रिति शेषः । भक्तस्त्वमिति ।देवदत्ते॑त्यद्याहार्यम् । हे देवदत्त त्वमपि भक्तः, अहमपि भक्त इत्यन्वयः । तेनेति । भक्तत्वेनेत्यर्थः । त्रायते इति पालयतीत्यर्थः । अत् पूर्ववाक्योपात्तयुष्मदस्मदर्थयोरिह पुनरूपादानादन्वादेशोऽयम् । अत्र 'तेने' त्येतत् पूर्वं विद्यमानं पदं, ततः परंहरि॑रिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्पः । तथा 'त्रायते' इत्येतत्पूर्वं विद्यमानं पदम्, ततः परं 'सः' इति प्रतमान्तम्, ततः परस्याऽस्मच्छब्दस्यान्वादेशेऽपि मादेशविक्लपः । 'त्रायत' इत्येतन्मध्यमणिन्यायेनोभयत्र संबध्यते । तेने निमित्तनिमित्तिनोः समानवाक्यस्थत्वं, स इत्यस्य विद्यमानपूर्वत्वं च बोध्यम् ।", "81027": "", "81028": "", "81029": "", "81030": "", "81031": "", "81032": "", "81033": "", "81034": "", "81035": "", "81036": "", "81037": "", "81038": "", "81039": "", "81040": "", "81041": "", "81042": "", "81043": "", "81044": "", "81045": "", "81046": "", "81047": "", "81048": "", "81049": "", "81050": "", "81051": "", "81052": "", "81053": "", "81054": "", "81055": "", "81056": "", "81057": "", "81058": "", "81059": "", "81060": "", "81061": "", "81062": "", "81063": "", "81064": "", "81065": "", "81066": "", "81067": "", "81068": "", "81069": "", "81070": "", "81071": "", "81072": "<<आमन्त्रितं पूर्वमविद्यमानवत्>> - आमन्त्रितं पूर्वम् । स्पष्टमिति । अनुवर्तनीयपदान्तराऽभावादिति भावः ।अग्ने तेवेति ।अग्ने तव श्रवो वयः॑ इत्यृचि 'अग्ने' इत्यविद्यमानवत् । देवास्मानित्यत्र देवशब्दोऽविद्यमानवत् ।अग्ने नये॑त्यृचि 'अग्ने' इत्यविद्यमानवत् ।अग्न इन्द्र वरुणे॑त्यृचि 'अग्ने' इत्यविद्यमानवदिति भावः । ततः किमित्यत आह-इहेति । अग्ने तवेत्यत्र देवाऽस्मानित्यत्र च युष्मदस्मदोः ते-नसावादेशौ न भवतः, तव समानित्यनयोः पदात्परत्वाऽभावात्पादादौ स्थितत्वाच्चा ।अग्ने नये॑त्यत्रनये॑ति तिङन्तस्य 'तिङ्ङ्तिङः' इत्यनुदात्तत्वं न भवति अतिङन्तात्पदात्परं तिङन्तं निहन्यते इति हि तदर्थः । इह च 'अग्ने' इत्यतिङन्तस्याऽविद्यमानवत्त्वादतिङन्तात्परत्वाऽभावान्नानुदात्तत्वम् । अग्न इन्द्र वरुणेत्यत्र तुआमन्त्रितस्य चे॑ति सर्वानुदात्तत्वं न भवति, पदात्परमामन्त्रितं निहन्यते इति हि तदर्थः । इह च अग्नेशब्दस्याऽविद्यमानवत्त्वेन पदात्परत्वाऽभावादिन्द्रशब्दस्य नानुदात्तत्वम् । एवं वरुणशब्दस्यापि नानुदात्तत्वं, ततः प्राचीनयोरग्ने इन्द्र इत्यनयोरविद्यमानत्वात् । ननुसर्वदा रक्ष देव नः॑ इत्यत्र कथं नसादेशः, देवेत्यस्याऽविद्यमानबत्त्वादित्यत आह — सर्वदेति ।लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि॒॑प्रतापरूद्र!ते ख्याति॑रित्यादौ तु 'ते' इति विभक्ति प्रतिरूपकमव्ययं, तत्र आमन्त्रितस्याऽविद्यमानवत्त्वाद्युष्मच्छभ्दस्य पादादिस्थत्वात् । एवमिति ।इदं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमँ परुष्णिया॑ इति मन्त्रे सर्वेषां निघात इत्यन्वयः ।आमन्त्रितस्य चे॑त्यनुदात्तत्वमित्यर्थः । सर्वशब्दं विशिनष्टि — यमुने इत्यादिभ्यप्राचीनानामिति । इति आदिर्येशामिति विग्रहः । आदिना सरस्वतिशुतुद्रीत्यनयोग्र्रहणम् । तद्गुणसंविज्ञानो बहुव्रीहिः । 'यमुने' 'सरस्वति' 'शुतुद्रि' इत्येतेषु एकैकस्मात्प्राचीनानां 'गङ्गे' 'यमुने' 'सरस्वति' इत्येषां सर्वेषां निघात इत्यर्थः । शुतुद्रिशब्दस्य त्वनुदात्तत्वं नेत्यविवादं, तस्य द्वितीयपादादिस्थत्वात् ।आमन्त्रितस्य चे॑त्यत्रपदस्य,पदात्,अनुदात्तं सर्वमपादादौ॑ इत्यनुवृत्तेः॑ 'इमं मे' इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्ते । ननु 'गङ्गे' इत्यस्यानुदात्तत्वमुचितं, तस्य मे इति पदात्परत्वात्, यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोर्गङ्गे यमुन#ए इत्यनयोरविद्यमानवत्त्वे पदात्परत्वाऽभावादित्यत आह — आमन्त्रि[नाम]विद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्येति । आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम् । एवंच 'इत्यादिभ्य' इतिसर्वेषा॑मिति च बहुवचनमनुपपन्नमित्यपास्तम् । क्वचित् पुस्तकेषुयमुने इत्यादिप्राचीनाऽऽमन्त्रिताऽविद्यमानवद्भावेऽपी॑ति पाठो दृश्यते । तत्र आदिना सरस्वतीत्येतदुच्यते । यमुने सरस्वतीत्याभ्यचां प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव । अयं च निघातः पदकाले स्पष्टं श्रूयते ।", "81073": "<<नामन्त्रिते समानाधिकरणे (सामान्यवचनम्)>> - नामन्त्रिते । आमन्त्रितमविद्यमानवदित्यनुवर्तते ।॒सामान्यवचन॑मित्यनेन विशेष्यसमर्पकः शब्दो विवक्षितः । विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात् । तेन च विशेषणमाक्षिप्यते । समानाधिकरणे इति तत्रान्वेति । समानमधिकरणं यस्येति विग्रहः । समानशब्द एकत्वपरः । विशेष्यबोधकशब्देन अभेदसंसर्गेण एकार्थवृत्तित्वं विवक्षितमित्याशयेनाह-विशेष्यमित्यादिना । हरे दयालो इति । अत्र 'दयालो' इति समानाधिकरणविशेषणे परे हरिशब्दो नाऽविद्यमानवत् । ततश्च 'दयालो' इत्यस्याऽविद्यमानवत्त्वेऽपि 'हरे' इति पदात्परत्वान्नसादेश इति भावः । अग्ने तेजस्विन्निति । इह तेजस्वि॑न्निति विशेषणे परे 'अग्ने' इत्यस्य अविद्यमानवत्त्वाऽभावात्पदात्परत्वात्तेजस्विन्नित्यस्य निघात इति भावः ।", "81074": "<<सामान्यवचनं विभाषितं विशेषवचने (बहुवचनम्)>> - सु=शोभनौ पादौ यस्येति बहुव्रीहौसंख्यासुपूर्वस्ये॑ति पादशब्दान्त्यलोपे सुपाच्छब्दः । तस्य सुटि रूपाण्याह — सुपादित्यादिना ।", "82001": "<<पूर्वत्रासिद्धम्>> - तथाविधं सूत्रमाह-पूर्वत्रासिद्धम् । पाणिनिप्रणीता अष्टाध्यायी । तत्र अष्टमाध्याये द्वितीयपादस्येदमादिमं सूत्रम् । इतः प्राक्तनं कृत्स्नं सूत्रजालंसपादसप्ताध्यायी॑ति व्यवह्यियते । उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवह्यियत इति स्थितिः । तत्र यदीदं सूत्रं स्वतन्त्रविधिः स्यात्, तदा इतः पूर्वस्मिन् शास्त्रे प्रवर्तमाने उपरितनं शास्त्रमसिद्धं स्यादित्यर्थो लभ्येत । ततश्च सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धेति पर्यवस्येत् । एवं सति त्रिपाद्यामपि पूर्वं शास्त्रं प्रति परं शास्त्रमसिद्धमित्यर्थो न लभ्येत । तथा सति किमु उक्तं किम्वुक्तमित्यत्र 'मोऽनुस्वारः' इति शास्त्रं त्रैपादिकं प्रति 'मय उञो वो वा' इति वत्वशास्त्रं त्रैपादिकं नासिद्धं स्यादित्यत आह-अधि-कारोऽयमिति । अधिक्रियते उपरितनसूत्रजालशेषत्वेन पठत इत्यधिकारः । कर्मणि घञ् । 'घञजबन्ताः पुंसि' इति पुंस्त्वम्॥ अयमिति तदपेक्षया पुंलिङ्गनिर्देशः । इदं सूत्रमुपरितनसूत्रेष्वनुवृत्त्यर्थमेव, न तु स्वतन्त्रविधिरिति यावत् । 'मय उञो वो वा' इति सूत्रे पूर्वत्रासिद्धमित्यनुवर्तते । ततश्चमयः परस्य वकारो वो वा स्यात् । इदं श#आस्त्रं पूर्वत्रासिद्ध॑मिति तदेकवाक्यं संपद्यते । तत्र च अनुवृत्तपूर्वशब्देनैतः प्राक्तनं त्रिपादीस्थं सपादसप्ताध्यायीस्थं च कृत्स्नं सूत्रजालं विवक्षितमिति 'मोऽनुस्वारः' इति त्रैपादिकं शास्त्रं प्रति 'मय उञो वो वा' इति शास्त्रस्याऽसिद्धत्वं निर्बाधमित्याह-तेनेति । अदिकारत्वेनेत्यर्थः । परं शास्त्रमसिद्धमिति । असिद्धत्वं चाऽत्र नात्यन्ताऽसत्त्वम् । किंतु पूर्वशास्त्रदृष्ठएत्यनुपदेमेवोक्तम् ।परं शास्त्र॑मित्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तं कार्यासिद्धत्वमप्रामाणिकमिति ध्वनितम् । कार्याऽसिद्धत्वं पूर्वपक्षयित्वा शास्त्रासिद्धत्वस्यैवात्र सूत्रे, 'असिद्धवदत्राभात्' दिति सूत्रे च भाष्ये सिद्धान्तितत्वात् । शास्त्रसिद्धत्वकार्याऽसिद्धत्वयोः फलभेदस्तु शब्देन्दुशेखरे व्यक्तः । अस्माभिश्च स्वादिसन्धौ 'मनोरथ' इत्यत्र मूलव्याख्यावसरे , हलन्तशब्दाधिकारे च अदःशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते । तदेवम् 'अ अ' इति संवृतविधेः स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वात् प्रक्रियादसायामवर्णस्य ह्रस्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव संवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठ#इतदशायां संवृतविधिः क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते, तथापि परिनिष्ठिते संवृतविंधिबलात्संवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कल्प्यम्, विवृतसंवृतयोरुच्चारणभेदो वा कल्प्य इत्यलं बहुना । अथ बाह्रप्रयत्नान् प्रपञ्चयति — बाह्रप्रयत्नस्त्विति । प्रशब्दोऽत्र चिन्त्यः, प्रशब्दबलेन आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यताया तुल्यास्यसूत्रे उक्तत्वात्, यत्नो द्विधेत्युपक्रमाच्च । अविवक्षितार्थो वाऽत्र प्रशब्दः । उदात्तानुदात्तस्वरितशब्दा धर्मपराः । कस्य को बाह्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थां श्लोकद्वयेन संगृह्णाति — खयामिति । 'यम' शब्दो व्याख्यास्यते । आआसोऽनुप्रदानो येषां ते आआसानुप्रदानाः=आआसाख्यबाह्रयत्नवन्तः । विवृण्वते कण्ठमिति । विवार एषां यत्न इति भावः । संवृताः=संवाराख्ययत्नवन्तः । नादभागिनः=नादाख्ययत्नभाजः । अयुग्मा वर्गयमगा इति । कादिपञ्चकं टादिपञ्चकं तादिपञ्चकं पादिपञ्चकमिति पञ्च वर्गाः । वर्गगता यमगताश्च अयुग्माः=प्रथमतृतीयपञ्चमवर्णा इत्यर्थः । अल्पासवः=अल्पप्राणाः ।अथ श्लोकद्वयं व्याख्यास्यन् यमशब्दं तावत्सामान्यतो व्याचष्टे — वर्गेष्वित्यादिना ।आद्यानां चतुर्णा॑मिति निर्धारणे षष्ठी ।एकैकस्मा॑दित्यव्याहार्यम् । तेन 'अन्यारादितरर्ते' इति परशब्दयोगे पञ्चमीप्रसङ्गादाद्यानां चतुर्णामिति षष्ठनुपपन्नेति निरस्तम् । यमो नामेति । नामशब्द इतिपर्यायः । तदयमर्थः — कादिचादिटादितादिपादिपञ्चकात्मकेषु वर्णेषु एकैकस्य वर्गस्य आद्यानां चतुर्णां मध्ये एकैकस्मात्पञ्चमे वर्णे परे मध्ये पूर्ववर्णसदृशो वर्णो यम इति प्रातिशाख्ये प्रसिद्ध इति । अथ यमानुदाहृत्य दर्शयति — पलिक्क्नीत्यादिना तत्सदृशा एव यमा इत्यन्तेन । एवं वर्गान्तरयमानामप्युदाहरणं याच्च्ञेत्यादि द्रष्टव्यम् । तदेवं यमशब्दं सामान्यतो व्याख्याय श्लोकद्वयं व्याचष्टे — तत्रेत्यादिना । तत्र 'खय' इत्यस्य व्याख्या — वर्गाणां प्रथमद्वितीयाः खय इति । 'खयां यमा' इत्यस्य विवरणं — तथा तेषामेव यमा इति । 'क पौ' इत्यस्य विवरणं — जिह्वामूलीयोपध्यमानीयाविति । विसर्गशब्दः प्रसिद्धत्वात् स णवोपात्तः । 'शर' इत्यस्य विवरणं — शषसा इति ।एते आआसानुप्रदाना अघोषाश्च विवृण्वते कण्ठ॑मित्येतद्व्याचष्टे-एतेषां विवारः आआसोऽघोषश्चेति ।अन्ये तु घोषाः स्युः संवृता नादभागिन॑ इत्येतद्व्याचष्टे-अन्येषां तु संवारो नादो घोषश्चेति । 'अयुग्मा वर्गयमगा' इत्येतद्व्याचष्टे — वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमाविति । पञ्चमानां यमाऽभावादिति बावः ।यणश्चाल्पासवः स्मृता॑ इत्येतद्व्याचष्टे — यरलवाश्चाल्पप्राणा #इति । ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम् । अतो न्यूनतेत्याशङ्क्य तदपि परिशेषादुक्तप्रायमित्याह — अन्ये महाप्राणा इति । वर्गाणां द्वितीयचतुर्थाः शलश्च महाप्राणाः ॑ इति । नन्विह बाह्रयत्नप्रपञ्चनं व्यर्थं, तुल्यास्यसूत्रे प्रयत्नशब्दस्य आभ्यन्तरयत्नमात्रपरत्वादित्याशङ्कते — बाह्रप्रयत्नाश्चेति ।यद्यपी॑ति समुदायः शङ्काद्योतकः । परिहरति-तथापीति । सवर्णसंज्ञाप्रस्तावे बाह्रयत्नानामुपयोगाभावेऽपि 'स्थानेऽन्तरतमः' इति वक्ष्यमाणान्तरतम्य्विचारे तेषामुपयोगसत्त्वान्न वैयर्थ्यम् । इह तत्प्रपञ्चनं तुल्यास्यसूत्रे आभ्यन्तरत्वविशेषणव्यावर्त्त्यत्वेनोपस्थितत्वात्प्रासङ्गिकमिति भावः । उदात्तादित्रयस्य तु अज्धर्मत्वस्य प्रसिद्धत्वादिह न तद्व्यवस्थोक्ता । अथ स्पृष्टं प्रयतनं स्पर्शानामित्यादिसंदर्भे उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे-कादञ इत्यादिना । क आदिर्येषां तेकादयः॑ । मः अवसाने येषां तेमावसानः॑ । इदं च लोकप्रसिद्धपाठपेक्षम् । इति स्थानयत्नविवेक इति । स्थानयत्निविवेचनं समाप्तमित्यर्थः । स्थानप्रयत्नेति प्रशब्दपाठस्तु चिन्त्यः, अविवक्षितार्थो वाप्र॑शब्द । ऋऌवर्णयोर्मूर्धदन्तात्मकभिन्नस्थानकत्वात्सवर्णसंज्ञायामप्राप्तायाम्ऋकारऌकारयोः सवर्णविधिः॑ इति तद्विधायकं वार्तिकमर्थतः संगृह्र पठति-ऋऌवर्णयोर्मिथः । आ च आ च रलौ । ऋशब्दस्य च 'आ' इति प्रथमैकवचनम् । ऋ लृ औ इति स्थिते ऌकारस्यऋतो ङि सर्वनामस्थानयोः॑ इति गुणः, अकारः,उरण्परः॑इति लपरत्वम्, ञकारस्य यणादेशो रेफः । रलौ च तौ वर्णौ च ऋऌवर्णौ । तयोर्मिथः परस्परं सावण्र्यं=सवर्णत्वं वक्तव्यं, तुल्यास्यसूत्रेण तदलाभादिति सूत्रकारः शिक्ष्यते (वार्तिककृता) । उक्तामुक्तदुरुक्तचिन्तनात्मकं हि वार्तिकम् । अकारहकारयोरिति । उभयोः कण्ठस्थानविवृतप्रयत्नसाम्यात्सावण्र्यं प्राप्तम् । अकारस्य कवर्गेण तु न सावण्र्यप्रसक्तिः, कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात् । विसर्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णसंज्ञा, प्रयोजनाऽभावात् । ततश्च अकारस्य हकारेण सावण्र्यं परिशिष्टत इति भावः । इकारशकारयोरिति । तालुस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । इकारस्य चवर्गेण यकारेण च न सावण्र्यप्रसक्तिः,इकारस्य विवृतत्वात् , चवर्गस्य स्पृष्टत्वात्, यकारस्य ईषत्स्पृष्टत्वाच्च । अत इकारस्य शकारेण सावण्र्यं परिशिष्यत इति भावः । ऋकारषकारयोरिति । मूर्धस्थानविवृतयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । ऋकारस्य टवर्गेण रेफेण च न सावण्र्यप्रसक्तिः ऋकारस्य विवृतत्वात्, टवर्गस्य स्पृष्टत्वात् , रेफस्यैइषत्स्पृष्ट्वाच्च । अत ऋकारषकारयोः सावण्र्यं परिशिष्टत इति भावः । ऌकारसकारयोरिति । दन्तस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । ऌकारस्य तवर्गेण लकारेण च न सावण्र्यप्रसक्तिः, ऌकारस्य विवृतत्वात्, तवर्गस्य स्पृष्टत्वात्, लकारस्य ईषत्सपृष्टत्वाच्च । अतः ऌकारस्य सकारेण सावण्र्यं परिशिष्यते ।", "82002": "<<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>> - नच नलोपस्याऽसिद्धत्वादिह दीर्घ ऐस् एत्त्वं च नेति वाच्यं, नलोपविषयेपूर्वत्राऽसिद्ध॑मित्यस्य प्रवृत्तौ राजाआओ दण्डश्च इत्यादावपि नलोपस्याऽसिद्धत्वात्सवर्णदीर्घ यणाद्यनापत्तेरित्यत आह — नलोपः सुप् । नस्य लोपो नलोपः । विधिशब्दो भावसाधनः, विधानं विधिः । सुप्च स्वरश्च संज्ञा च तुक्च तेषां विधय इति सम्बन्धसामान्यषष्ठआ समासः ।कृती॑ति तु तुकैव सम्बध्यते, अन्यत्राऽसम्भवात्तदाह — सुब्विधावित्यादिना । सुपो विधिः सुब्विधिः । सम्बन्धसामान्यं विवक्षितम् । सुबाश्रयविधाविति यावत् । स्वरस्य विधिः । कर्मणः शेषत्वविवक्षया षष्ठी । स्वरे विधेये इति यावत् । एवं संज्ञाविधावित्यपि कर्मणः शेषत्वविवक्षया षष्ठी । संज्ञायां विधेयायामिति यावत् । कृति परतो यस्तुक् तस्य विधिः कृतितुग्विधिः । इहापि कर्मणः शेषत्वविवक्षया षष्ठी । कृति परे यस्तुक् । तस्मिन् विधेये इति यावत् ।पूर्वत्रासिद्ध॑मित्येव सिद्धेऽन्यनिवृत्तिफलकनियमार्थमेतदित्याह — नान्यत्रेति ।अन्यत्रे॑त्येतदुदाहृत्य दर्शयति-राजाआ इत्यादाविति । आदिना दण्डयआ इत्यादिसङ्ग्रहः । अत्र सवर्णदीर्घयणादिविधीनां सुब्विध्यटाद्यनन्तर्भावात्तेषु कर्तव्येषु नलोपस्याऽसिद्धत्वाऽभावे सति नकारलोपस्य सत्त्वात्सवर्णदीर्घादिकं निर्बाधमिति भावः । प्रकृते-राजाभ्यां राजभ्य इत्यत्र दीर्घादिन भवत्येवेत्याह — इत्यसिद्धत्वादिति । सुपि परतो दीर्घविधिः, भिसः ऐस्विधिः, भ्यसि एत्त्वविधिश्च सुबाश्रयविधय इति तेषु कर्तव्येषु परिसङ्ख्याविधिलभ्याऽसिद्धत्वनिषेधाऽभावे सतिपूर्वत्रासिद्ध॑मिति नलोपस्याऽसिद्धत्वान्नदीर्घादिकमित्यर्थः । वस्तुतस्त्वन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम् । अत एवपञ्च पञ्चनखा भक्ष्याः॑ इत्यत्र पञ्चानां पञ्चनखप्राणिनां भक्षणनियमे तदितरेषां पञ्चनखानां भक्षणप्रतिषेधो गम्यते इति पस्पशाह्निकभाष्ये प्रपञ्चितम् । तदाह-इत्यसिद्धत्वादिति । ननु दण्डिष्वित्यत्र नलोपे कृत इणः परत्वात्सस्य षत्वमिति स्थितिः । तत्र षत्वविधेः सुबाश्रयविधित्वात्तत्र कर्तव्ये नलोपस्याऽसिद्धत्वात्कथं षत्वमिति चेत्, मैवं — न हि षत्वविधि सुब्विधिः । सुप्त्वं तद्व्याप्यधर्मं वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुब्विधिरिह विवक्षितः । नच षत्वविधिस्तथा । अतस्तत्र नलोपस्य सिद्धत्वमस्त्येवेति षत्वं निर्बाधम् । अस्तु वा षत्वविधिरपि सुब्बिधिस्तथापि तस्मिन् कर्तव्ये नलोपस्याऽसिद्धत्वं न भवत्येव । तदसिद्धत्वंहि किंपूर्वत्रासिद्ध॑मित्यनेनापाद्यते, उतनलोपः सुप्स्वरे॑त्यनेनैव । न तावदाद्यः, नलोपविधेः षत्वविध्यपेक्षया पूर्वत्वेन तस्य षत्वे कर्तव्येऽसिद्धत्वाऽसंभवात् । न द्वितीयः,नलोपः सुप्स्वरे॑त्यनेन हिराजभ्या॑मित्यादौ नलोपस्याऽसिद्धत्वमपूर्वं न विधीयते, किंतुपूर्वत्रासिद्ध॑मित्यनेन प्राप्तमेव नियमार्थं पुनर्विधीयते 'राजाआ' इत्यादौ सुप्स्वरसंज्ञातुग्बिधिभिन्नसवर्णदीर्घादिविधिसिद्धये । दण्डिष्वित्यत्र तु नलोपस्याऽसिद्धत्वंपूर्वत्रासिद्ध॑मित्यनेन प्राप्तं न भवतीति तस्यनलोपः सुप्स्वरे॑ति सूत्रविषयत्वं न सम्भवति । अन्यथा सुब्विधावित्यनेन दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपाऽसिद्धत्वमपूर्वं विधीयेत । राजभ्या॑मित्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थं विधीयत इति विधिवैरूप्यमापद्येत, तस्माद्दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावान्नलोपस्य सत्त्वादिणः परत्वाऽनपायात्षत्वं निर्बाधमिति शब्देन्दुशेखरे प्रपञ्चितम् । प्रकृतमनुसरामः । स्वरविधौ यथा-पञ्चार्मम् । अत्र नलोपस्याऽसिद्धत्वादकारान्तत्वाऽभावात्अर्मेचावर्णं द्व्यच्ञ्य॑जिति पूर्वपदाद्युदात्तत्वं न भवति । संज्ञाविधौ यथा-दण्डिदत्तौ दत्तदण्डिनौ । अत्रद्वन्द्वे धी॑ति पूर्वनिपातनियमो न भवति, घिसंज्ञाविधौ नलोपस्याऽसिद्धत्वेन इदन्तत्वविरहात् । कृतितुग्विधौ यथा-वृत्रहभ्याम् वृत्रहभिः । अत्रब्राहृभ्रूणवृत्रेषु क्वि॑बिति विहितं क्विपमाश्रित्यह्रस्वस्य पिति कृति तुगि॑ति न तुक्, नलोपस्याऽसिद्धत्वेन ह्रस्वस्य नकारव्यवहितत्वात् । कृतीति विशेषणाच्छे चे॑ति तुग्विधौ नलोपस्य नाऽसिद्धत्वम् । ततश्च वृत्रहच्छत्रम् । इह स्यादेवछे चे॑ति तुक् । भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्त्वेऽपि संनिपातपरिभाषयाह्रस्वस्य पिती॑ति तुक् न भविष्यतीति तुग्विधिग्रहणं प्रत्याख्यातम् । 'स्वादिषु' इति पदत्वद्वारा भ्याम्संनिपातमिमित्तको नलोपस्तद्विघातकं न प्रवर्तयतीत्याशयः ।ननुवृत्रहधन॑मित्यत्र तुग्व्यावृत्त्यर्थं तुग्विधिग्रहणमावश्यकं, तत्र नलोपस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य प्रवृत्तं पदत्वमादाय प्रवृत्तस्य नलोपस्य संनिपातनिमित्तकत्वाऽभावादिति चेन्न, तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येनतादृशसंनिपाताऽनिमित्तकनलोपविषयाणांवृत्रहझन॑मित्यादीनामनिधानकल्पनादित्यास्तां तावत् । राज्ञि-राजनीति । 'विभाषा ङिश्योः' इत्यल्लोपविकल्प इति भावः । प्रतिदिवेति ।दिवु क्रीडादौ॑ । तस्मात्कनिन्युवृषितक्षी॑त्युणादिसूत्रेण कनिन्प्रत्ययः । कनावितौ । इकार उच्चारणार्थः । प्रतिदिवन्शब्दात्सुबुत्पत्तिः ।सर्वनामस्थाने चे॑ति दीर्घः । हल्ङ्यादिना सुलोपे 'प्रतिदिवा' इति रूपम् । सुटि राजवत् । अस्येति । प्रतिदवन्शब्दस्य शसादावचि अल्लोपोऽन इत्यल्लोपे सतीत्यर्थः ।", "82003": "<<न मु ने>> - ननु कृतेऽपि प्रथमं मुत्वे नाभावो न संभवति, तस्मिन् कर्तव्ये मुत्वस्याऽसिद्धतया घेः परत्वाऽभावादित्यत आह — नमुने इति । असिद्धमित्यनुवर्तते । म् च उश्चेति समाहारद्वन्द्वः । 'ने' इति ना इत्यस्य सप्तम्येकवचनम् । विषयसप्तमी सत्सप्तमी च एषा । तथाचनाभावे कर्तव्ये कृते चे॑ति लभ्यते । तदाह-नाभावे इत्यादिना । प्रकृते च नाभावे कर्तव्ये मुत्वस्याऽसिद्धत्वाभावाद्धेः परत्वान्नाभावो निर्बाधः । यदि तु नाभावे कर्तव्ये मुभावो नासिद्ध इत्येवाश्रीयते, तर्हि प्रकृते नाभावे कृते 'सुपि च' इति दीर्घः प्रसज्येत । दीर्घे कर्तव्ये मुत्वस्याऽसिद्धतयाऽकारस्य सत्त्वात् । अतःकृतेऽपी॑त्याश्रितम् । ततश्च प्रकृते नाभावे कृतेऽपि दीर्घे कर्तव्ये मत्वस्याऽसिद्धत्वाभावादकाराऽभावात् न दीर्घ इति भावः । अमूभ्यामिति । त्यदाद्यत्वे, पररूपे, 'सुपि च' इति दीर्घे, दस्य मत्वम्, आकारस्य ऊत्त्वमिति भावः । अमीभिरिति । त्यदाद्यत्वं, पररूपं, 'नेदमदसोरकोः' इति ऐस्निषेधः, 'बहुवचने झल्येत्' इत्येत्वम्, 'एत ईद्बहुवचने' इति ईत्त्वमत्वे इति भावः । अमुष्मै इति । त्यदाद्यत्वं, पररूपं, ङेः स्मै, उत्त्वमत्वे, षत्वमिति भावः । अमीभ्य इति । त्यदाद्यत्वं, पररूपं 'बहुवचने झल्येत्' इत्येत्वम्, ईत्त्वमत्वे इति भावः । अमुष्मादिति । त्यदाद्यत्वं, पररूपं, ङसेः स्मात्, उत्वमत्वे, षत्वमिति भावः । अमुष्येति । त्यदाद्यत्वं, पररूपं, ङसः स्यादेशः, उत्वमत्वे, षत्वमिति भावः । अमुयोरिति ओसि त्यदाद्यत्वं, पररूपम्,ओसि चे॑त्येत्त्वम्, अयादेशः, उत्वमत्वे इति भावः । अमीषामिति । आमि त्यदाद्यत्वं, पररूपं,ङेः स्मिन्नादेशः, उत्वमत्वे, षत्वमिति भावः । अमीष्विति । सुपि त्यदाद्यत्वं, पररूपम्, एत्त्वम्, ईत्त्वमत्वे, षत्वमिति भावः । इति सान्ताः ।***** इति हलन्ताः पुंलिङ्गाः ********** अथ हलन्तस्त्रीलिङ्गप्रकरणम् *****", "82004": "", "82005": "", "82006": "", "82007": "<<नलोपः प्रातिपदिकान्तस्य>> - न लोपः । 'न' इति स्थानषष्ठन्तं पृथक्पदम् । आर्षः षष्टआ लुक् । नकारस्य लोपः स्यादित्यर्थः । अन्तस्येति नकारस्य विशेषणम् । अत एव च नस्य विशेषणसापेक्षत्वाल्लोपशब्देन समासो न भवति, असामर्थ्यात् । कस्यान्त इत्यपेक्षायां पदस्येत्यधिकृतमवयवष्ठन्तमन्वेति - पदस्य योऽयमन्तावयवस्तस्य नकारस्य लोप इति । कीदृशं पदमित्यपेक्षायां प्रातिपदिकेति लुप्तषष्ठन्तमन्वेति । प्रातिपदिकसंज्ञकं यत् पदं तस्य योऽयमन्तावयवो नकारस्तस्यः लोपः स्यादिति । अत एव प्रातिपदिकान्तस्येति न समस्तमेकं पदम् । तस्य पदशब्देनान्वितत्वेनाऽन्तशब्देनाऽसामर्थ्यात् । तदाह-नेति प्रातिपदिकेति च लुप्तेति । तदन्तस्येति । तस्य पदस्य अन्तावयवो यो नककारस्तस्येत्यर्थः । प्रातिपदिकग्रहणं किम् । अहन् । तिङन्तस्य न भवति । पदग्रहणं किम् । अहन् । तिङन्तस्य न भवति । पदग्रहणं किम् । राजानौ । ननु नलोपे सति यूषभ्यामित्यत्रसुपि चे॑दीर्घः स्यात् । यूषभिरित्यत्रअतो भिस ऐ॑सिति ऐसादेशः स्यात् । 'यूषभ्य' इत्यत्रबहुवचने झल्ये॑दित्येत्वं स्यादित्यत आह-नलोपस्यासिद्धत्वादिति । इत्यादीति । यूष्णे यूष्णः । यूष्णोः यूष्णामिति आदिशब्दार्थः । य#ऊषन्-ङि इति स्तिते अल्लोपोऽन इति नित्येऽल्लोपे प्राप्ते- ।", "82008": "<<न ङिसम्बुद्ध्योः>> - हे राजन् स् इति स्थिते हल्ङ्यादिना सुलोपे सति नकारस्य पदान्तत्वात्प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते — न ङिसंबुद्ध्योः ।न लोपः प्रातपदिकान्तस्ये॑त्यतो 'न लोप' इत्यनुवर्तते । तत्र 'ने' ति लुप्तषष्ठीकन्तदाह — नस्येत्यादिना । हे राजन्निति ।सर्वनामस्थाने चे॑ति दीर्घस्तु न,असंबुद्धा॑वित्युक्तेः । नन्वत्र ङिग्रहणं व्यर्थं, राजनीत्यत्र भत्वात्पदत्वाऽभावान्नलोपस्याऽप्रसक्तेरित्यत आह — ङौ तु छन्दसीति । छन्दस्येवेत्यर्थः । ननु छन्दस्यपि ङौ परतो भत्वात्पदत्वाऽभावात्कथं नकारस्य लोपप्रसङ्गो येन तन्निषेधोऽर्थवान् स्यादित्यत आह — सुपामिति । ननु 'परमे व्योमन्' इत्यादौ ङेर्लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावात्कथं तत्रन ङिसंबुद्ध्यो॑रित्यस्य प्रवृत्तिरित्यत आह — निषेधसामर्थ्यादिति । छन्दस्यपि ङिलुकि प्रत्ययलक्षणाऽभावे सतिन ङिसबुद्ध्यो॑रित्यप्रवृत्तौ तद्वैयथ्र्यादिति भावः ।ननु यदि छन्दसि 'परमे व्योमन्' इत्यादौ ङेर्लुका लुप्तत्वेऽपि प्रत्ययलक्षणमाश्रित्यन ङिसंबुद्ध्यो॑रित्यस्य प्रवृत्तिरभ्युपगम्यते, तर्हि चर्मणि तिला अस्य चर्मतिलः, ब्राहृणि निष्ठा अस्य ब्राहृनिष्ठ इत्यत्रापि समासे ङिलुकः प्रत्ययलक्षणमाश्रित्यन ङिसंबुद्ध्यो॑रिति नकारस्य लोपनिषेधः स्यादित्यत आह — ङावुत्तरपदे इति । उत्तरपदे परतो यो ङिस्तस्मिन् परेन ङिसंबुद्ध्यो॑रिति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः । एवं च 'चर्मतिलः' इत्यत्रउत्तरपदे परतो न ङिसंबुद्ध्यो॑रिति प्रतिषेधाभावान्नकारस्य लोपो निर्बाध इति भावः । भाष्ये तु छन्दसि 'परमे व्योमन्' इत्यत्रअयस्मयादीनि छन्दसी॑ति भत्वात् पदत्वाऽभावान्नकारलोपस्याऽप्रसक्तेर्ङौ प्रतिषेधो न कर्तव्य इति ङिग्रहणं प्रत्याख्यातम् । न चराजन्यती॑त्यत्र लोके राजनीवाचरतीत्यर्थेअधिकरणाच्चे॑ति क्यचिसनाद्यन्ताः इति धात्ववयवत्वात्सुपो धातुप्रातिपदिकयोरिति ङेर्लुकिराजन्ये॑त्यस्मात्तिपिराजन्यती॑त्यत्राप्यन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य नकारस्य लोपप्राप्तौ तन्निषेधार्थं ङिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्यमनुपपन्नमिति वाच्यम्, एतद्भाष्यप्राम#आण्यादे राजनीवाचरतीत्यर्थेअधिकारणाच्चे॑ति क्यचोऽनभिधानाभ्युपगमादित्यलम् । राजानमित्यादौ सुटिसर्वनामस्थाने चे॑ति दीर्घः । शसि विशेषमाह — अल्लोपोऽन इति । अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थः । राजन् अस् इति स्थिते- । श्चुत्वमिति । ततश्च नकारस्य ञकारे 'राज्ञ' इति सिद्धम् । ननु 'अचः परस्मिन्' इत्यल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्त्वात्कथमिह श्चुत्वमित्यत आह — नचाल्लोपः स्थानिवदिति । कुत इत्यत आह — पूर्वत्रेति । 'पूर्वत्रासिद्धे' इति श्चुत्वे कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः ।नन्वल्लोपो भसंज्ञापेक्षो बहिर्भूतस्वादिप्रत्ययापेक्षो बहिरङ्गः, श्चुत्वं तु श्चुयोगमात्रापेक्षत्वादन्तरङ्गम् । ततश्चअसिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषया श्चुत्वे कर्तव्ये बहिरङ्गस्याऽल्लोपस्याऽसिद्धत्वादकारेण व्यवधानात्कथमिह श्चुत्वमित्यत आह — नापीति । यथोद्देशेति ।यथोद्देशं संज्ञापरिभाष॑मित्येकः पक्षः । उद्देशाः=उत्पत्तिप्रदेशाः, ताननतिक्रम्य यथोद्देशम् । यत्र प्रदेशे संज्ञापरिभाषयोरुत्पत्तिस्तत्रैव ते स्थिते प्रतिविधि व्याप्रियेते इत्यर्थः ।असिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषेयं षष्ठाध्याये 'वाह ऊठ' इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम् । ततश्च इयं षाष्ठी परिभाषा त्रैपादिके श्चुत्वे कर्तव्येऽन्तरङ्गे ।ञपि न प्रवर्तते,तां प्रति श्चुत्वस्याऽन्तरङ्गस्याऽसिद्धतया तद्दृष्ठआ श्चुत्वस्यैवाऽभावेन तद्विषये तस्याः परिभाषायाः प्रवृत्त्यसंभवात् । तथा च श्चुत्वे कर्तव्ये बहिरङ्गस्याप्यल्लोपस्याऽसिद्धत्वाऽभावादिह श्चुत्वं निर्बाधमिति भावः ।कार्यकालं संज्ञापरिभाष॑मित्यप्यस्ति पक्षान्तरम् । प्रतिविधिप्रदेशं प्राप्य संज्ञापरिभाषे व्याप्रियेते इत्यर्थः । अस्मिन् पक्षे यद्यपि श्चुत्वमन्तरङ्गं पुरस्कृत्यअसिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषाऽत्र प्रवृत्तिमर्हति, तथापि लक्ष्यानुरोधात्कार्यकालपक्षो नेहाश्रीयत इत्यलम् । जञयोगे तादृशध्वनेर्लोकवेदसिद्धत्वादिति भावः । नत्विदं वर्णान्तरम्, शिक्षादावदर्शनात् । अतएतज्ज्ञान॑मिति श्चुत्वसिद्धिरित्याहुः । राज्ञः राज्ञति । शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन ञकार इति बावः । ननु राजन्-भ्यामिति स्थिते 'स्वादिषु' इति पदत्वात्कृते नलोपेसुपि चे॑ति दीर्घः प्राप्नोति । तथा राजन्-भिस् इति स्थिते नलोपे, 'अतो भिसः' इत्यैस् प्राप्नोति । तथा राजन्-भ्यस् इति स्थिते नलोपे 'बहुवचने झल्येत्' इत्येत्त्वं प्राप्नोति ।", "82009": "<<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> - मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । मू च अश्चेति समाहारद्वनद्वात्पञ्चम्येकवचनम् । मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः । णवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोर्मस्य वः स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकारात्मिका अकारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः । फलितमाह — मवर्णेत्यादिना । मान्तादुदाहरति — किंवानिति । किमस्यास्मिन्वाऽस्तीति विग्रहः । एवमग्रेऽपि । अकारान्तादुदाहरति — ज्ञानवानिति । अत्र तपरकरणाऽभावादाकारस्यापि ग्रहणमिति मत्वाग — विद्यावानिति । मोपधादुदाहरति — लक्ष्मीवानिति । अदुपदादुदाहरति — यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — लक्ष्मीवानिति । अदुपधादुदाहरति-यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — भास्वानिति ।", "82010": "<<झयः>> - अथविद्युत्वा॑नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह — झयः । अपदान्तत्वादिति । तसौ मत्वर्थे॑ इति भत्वेन पदत्वबाधादिति भावः ।", "82011": "", "82012": "<<आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती>> - आसन्दीवत् । समाहारद्वन्द्वे ह्रस्वत्वम् । निपात्यन्त इति । आसन्दीभावादिकमेवात्र निपात्यते, वत्वं तु संज्ञायामिति सिद्धम् । कक्ष्यायाः सम्प्रसारणमिति । 'निपात्यते' इति शेषः । 'न सम्प्रसारणे' इति सूत्रभाष्ये तुकक्ष्यायाः संज्ञायां मतौ सम्प्रसारणं वक्तव्य॑मित्यारब्धम् । अतोऽत्र सूत्रे कक्षीवच्छब्दपाठोऽनार्ष इत्याहुः ।", "82013": "<<उदन्वानुदधौ च>> - उदन्वानुदधौ च । उदधौ संज्ञायां चेति । वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात् ।", "82014": "<<राजन्वान् सौराज्ये>> - राजन्वान् सौराज्ये । सु=शोभनोराजा यस्य देशस्य स सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नर्थे राजन्शब्दान्मतुपि 'मादुपधायाः' इति वत्वं सिद्धम् । नलोपाऽभावो निपात्यते ।", "82015": "", "82016": "", "82017": "", "82018": "<<कृपो रो लः>> - तङि प्रथमपुरुषैकवचनस्य टेरेत्त्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते — कृपो रो लः । 'कृप' इति लुप्तविभक्तिकम् । षष्ठएकवचने उदिति ऋकरास्य रूपम् । अवयवषष्ठी । कृप उरिति स्थिते आद्गुणे कृपोरिति भवति । 'र' इति षष्ठन्तम् । कृपोर् रः इति स्थितेरो री॑ति रेफलोपे 'कृपो रः' इति भवति । 'ल' इति प्रथमान्तम् । अकार उच्चारणार्थः । तदाह - कृप उः [रः ल] इति च्छेद इति । एतच्च ऋऌक्सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तेत्यत आह — लुप्तषष्ठीकमिति । पकारादकार उच्चारणार्थः । कृप्धातोरिति लभ्यते । तच्चावर्तते इति । कृप रः लः इति पदत्रयमावर्तत इत्यर्थः । तथा च वाक्यद्वयं संपद्यते — 'कृप रः लः' इत्येकं वाक्यम् । तदाह — कृपो यो रेफस्तस्य लः स्यादिति । तथा च 'कल्पते' इति भवति । 'कृप उः रः लः' इति द्वितीयं वाक्यम् । तत्र कृपेत्वयवषष्ठन्तमुरित्यत्रान्वेति । उरित्यवयवषष्ठन्तं रेफे अन्वेति । तथाच कृप्धातोरवयवो य ऋकारस्तस्य यो रेफस्तस्य लकारः स्यादिति लभ्यते । तत्र ऋकारादवयवत्वं रेफस्य न संभवतीति रेपशब्दो रेफसदृशे ऋकारांशे लाक्षणिकः । ल इत्यपि लकारसदृशे ऌकारांशे लाक्षणिकः । तदाह — कृपेरृकारस्यावयव इत्याद#इना । एवं च लिटि चकृप् ए इतिस्थिते कित्त्वाद्गुणाऽबावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति 'चकॢपे' इति रूपम् । 'कृपः रः लः' इति च्छेदमभ्युपगम्य कृपधातो रेफस्य लकार इति व्याख्याने तु 'चकॢपे' इति न सिध्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह — कल्पते चकॢपे इति । ऊदित्त्वादिड्विकल्पं मत्वा आह — चकॢपिषे चकॢप्से इति । स्यन्दिवदिति । चकॢपाथे चकॢपिध्वे — चक्लृब्ध्वे । चकॢपे चकॢपिवहे, चकॢपिमहे- चकॢप्महे ।", "82019": "<<उपसर्गस्यायतौ>> - उपसर्गस्याऽयतौ । अयताविति श्तिपा निर्देशः । 'कृपो रो ल' इत्यतो रो ल इत्यनुवर्तते । तदाह — अयतिपरस्येत्यादिना । प्लायत इति । प्र इत्युपसर्गः । प्लायत इति । परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह -निस्दुसोरिति । तर्हि निलयते दुलयत इति कथमित्यत आह — निर्दुरोस्त्विति । एतदर्थमेव प्रादिषु रेफान्तयोश्च निर्देश इति भावः । तर्हि 'प्रत्यय' इत्यत्रापि प्रतेरयतिपरत्वाद्रस्य लत्वं स्यादित्यत आह - प्रत्यय इति त्विति । प्रतिपूर्वकादिण्धातोरतच्प्रत्यये 'प्रत्यय' इति रूपम् । अयतिपरत्वाऽभावान्न लत्वमित्यर्थः । अयधातुमादय 'प्लत्यय' इति न, अनभिधानादिति कैयटः । कथमुदयतीति । उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्त्वेन लटः शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति ।इधातो॑रिति शेषः । तस्य अनुदात्तेत्त्वाऽबावाच्छतृप्रत्ययो निर्बाध इति भावः । ज्ञापकादिति ।चक्षिङ् धातोरिकारस्याऽनुदात्ततया अनुदात्तेत्त्वादेवात्मनेपदसिद्धौ ङित्करणमनुदात्तेत्त्वप्रयुक्तात्मनेपदस्याऽनित्यतां ज्ञापयति । तस्याऽनित्यत्वे तु नित्यात्मनेपदार्थं ङित्करणमर्थवदिति भावः । इदं तु भाष्ये न दृश्यते । वादित्वादिति वयधातोर्लिटि वादित्वादेत्वाभ्यासलोपयोरभावे सति 'ववये' इति रूपमित्यर्थः । णयधातुर्णोपदेश इति मत्वा आह — प्रणयत इति ।उपसर्गादसमासेऽपी॑ति णत्वमिति भावः । दयांचक्र इति ।दयायासश्चे॑त्याम् । ऊयांचक्र इति । इजादित्वादाम् । उन्दने चेति । क्लेदने चेत्यर्थः । स्फायी ओप्यायीति । ओदित्त्वम्ओदितश्चे॑ति निष्ठानत्वार्थम् । ईदित्त्वं तुश्वीदितो निष्ठाया॑मितीण्निषेधार्थम् ।", "82020": "", "82021": "<<अचि विभाषा>> - अचि विभाषा ।ग्रो यङी॑त्यतो ग्र इत्यनुवर्तते । 'कृपो रो लः' इत्यतो रो ल इति । तदाह — गिरतेरिति । अजादाविति ।धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेतिमृजेर्वृद्धि॑रिति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति । ह्रस्वान्तोऽयम् ।उश्चे॑ति कित्त्वान्न गुणः । आदृतेति ।ह्रस्वादङ्गा॑दिति सलोपः । प्रच्छ ज्ञीप्सायामिति । ज्ञातुमिच्छा - ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात्परत्वेन कित्त्वाऽभावान्न संप्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति म्तवाह — पप्रच्छिथ पप्रष्ठेति । इडभावपक्षे व्रश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति । सूत्रे सतुक्कस्य छस्य ग्रहणात् । किरादयो वृत्ता इति । नचैवं सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहणं व्यर्थं, किरादीनां पञ्चत्वादिति वाच्यं, स्यरुदादिभ्यः सार्वधातुके॑ इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट् । सृजति.ससर्ज । ससृजतुः । अजन्ताऽकारवत्त्वाऽभावेऽपिविभाषा सृजिदृशो॑रिति थलि वेडिति मत्वाह — ससर्जिथ सरुआष्ठेति । इडभावेव्रश्चे॑तिजस्यषः, थस्य ष्टुत्वेन ठः, पित्त्वेनाऽकित्त्वात्सृजिदृशो॑रित्यमागम इति भावः । ससृजिव । टु मस्जो । मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममङ्क्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थेति स्तितेस्को॑रिति सकारलोपे ममज् थ इतिस्थिते जस्य कुत्वेन गकारे,मस्जिनशो॑रिति नुमि, तस्यानुस्वारे, तस्य परसवर्णो ङकारः, गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात्परत्र नुमि सत्यपि इदं सिध्यति, तथापिअन्त्यात्पूर्वो नु॑मित्यस्य॑ 'मग्न' इत्यादौ नलोपः फलम् । अन्यथा उपधात्वाऽभावान्नस्य लोपो न स्यादिति भावः । एवं - मङ्क्तेति । मङक्ष्यतीत्यत्र तु सस्य षत्वं विशेषः । 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः ।अनुदात्तस्य चर्दुपधस्ये॑त्यम्विकल्पं मत्वाह - स्प्रष्टा स्पर्ष्टेति । णुद प्रेरणे । णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'सद्लृ शातने' इत्यन्ता अनिटः । तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्यमेवेट् । मृशेः 'अनुदात्तस्य चे' त्यम्विकल्पः । तदाह - अम्राक्षीत् - अमर्क्षीदिति ।स्पृशमृशे॑ति सिज्वेति भावः । सिजभावेशल इगुपधा॑दिति क्सं मत्वाह — अमृक्षदिति । णुदधातुर्णोपदेशः । ननु तनादिगण एवाऽस्मिन्स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह - कत्र्रभिप्रायेऽपीति । षद्लृधातोर्भ्वादौ पठितादेव सीदतीत्यादिसिद्धेरिह पाठो व्यर्थ इत्यत आह - इह पाठ इति । सीदन्तीति । शविकरणाच्छत्रन्तान्ङीपिआच्छीनद्यो॑रिति नुम्विकल्पार्थ इह पाठ इत्यर्थ- । भ्वादावेव पाठे तुशप्श्यनोर्नित्य॑मिति नित्यो नुम् स्यादिति भावः ।तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह - ज्वलादाविति । 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाहृत्य दर्शयति - साद इति । उभयत्र पाठस्य फलान्तरमाह - स्वरार्थश्चेति । तदेव विशदयति - शबनुदात्तैति ।अनुदात्तौ सुप्पितौ॑ इति पित्स्वरेणेति भावः । शस्तूदात्त इति । 'प्रत्ययः'आद्युदात्तश्चे॑त्यनेनेति भावः । ननु 'शद्लृ शातने' इत्स्य भ्वादौ पाटादेव सिद्धे इह पाठो व्यर्थ इत्यत आह - स्वार्थ एवेति । प्रागुक्तपित्त्वाऽपित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । मुच्लृ मोक्षणे ।", "82022": "", "82023": "<<संयोगान्तस्य लोपः>> - तदाह — प्रसक्तस्येति । तत्र श्रवणाऽभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्य किम् दधीत्यादौ क्विपोऽश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य ह्रस्वस्य पिति कृतीति तुग्मा भूत् । संयोगान्तस्य लोपः । पदस्येत्यधिकृतम् । संयोगोऽन्तो यस्येति विग्रहः । संयोगान्तस्य पदस्य लोप इत्यन्वयः । न च कृत्स्नपदस्य लोपः किन्त्वलोऽन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह — संयोगान्तमित्यादिना । अत्र अन्तग्रहणं स्पष्टार्थमेव । संयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु संयोगावन्तौ यस्येति विग्रहलाभार्थमन्तग्रहणम् । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वस्यतकारस्य लोपः स्यादिति, तन्न, संयोगसंज्ञाया व्यासज्यवृत्तित्वात्, प्रत्येकवृत्तित्वमब्युपगम्या.ञन्तग्रहणप्रयोजनवर्णनस्य व्यर्थत्वादिति शब्दरत्ने विस्तरः ।इति यलोप इति । सुध् य इति यकारस्याऽनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेध आरभ्यते । यणः प्रतिषेधो वाच्यः । यणः संयोगान्तलोपप्रतिषेधो वक्तव्य इत्यर्थः ।अनेन वार्तिकेन यकारस्य संयोगान्तलोपो न भवती॑ति शेषः । इदं वार्तिकमाकरे प्रत्याख्यातम् । अथात्र यकारस्याऽचः परत्वाऽभावादच्परकत्वाच्चाऽनचि चेति द्वित्वाऽप्राप्तौ द्वित्वविधिमाह — यणो मयो द्वे वाच्ये । अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वयः । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यणः परस्य मयो द्वित्वमिति लभ्यते । प्रकृते च यकारो न यणः परो नापि मय् । अतः कथमनेन वार्तिकेन तस्य द्वित्वमित्यत आह — मय इतीति । 'पक्षे' इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचि तम् । विनिगमनाविरहादिति भावः । अत्रापि वार्तिके 'यरोऽनुनासिक' इत्यतो 'वा' ग्रहणमनुवर्तते । ततश्च फलितमाह — तदिहेति ।त॑दित्यव्यम् । इयता संदर्भेण यत्प्रपञ्चितं तेन इह=सुध् यित्यत्र यकारधकारयोर्द्वित्वविकल्पाच्चात्वारि रूपाणि सम्पद्यन्ते इत्यर्थः । एकधमेकयमिति । एको धकारो यस्य तदेकधम् । एवमेकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाऽभावे एकधकारमेकयकारं च प्रथमं रूपमित्यर्थः । द्विधं द्वियमिति । द्वो धाकारौ यस्य द्विधम् । एवं द्वयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वे द्वियकारं द्विधाकारं च द्वितीयं रूपमित्यर्थः । द्विधमेकयमिति । धकारस्य द्वित्वे यकारस्य द्वित्वाऽभावे द्विधमेकयं च तृतीयं रूपमित्यर्थः । एकधं द्वियमिति । धकारस्य द्वित्वाऽभावे यकारस्य द्वित्वे एकधं द्वियं च चतुर्थं रूपमित्यर्थः । सुद्ध्युपास्य इति । इहन भूसुधियो॑रिति निषेधस्तु न भवति, तस्याऽजादौ सुपि विधानात् । 'इकोऽसवर्ण' इत्यपि न,न समासे इति तन्निषेधात् । मद्ध्वरिरिति । मधुर्नाम असुरविशेषः तस्यारिश्शत्रुः — मद्ध्वरिः । हरिरित्यर्थः । अत्र धकारादुकारस्य स्थानत आन्तर्याद्यथासंख्यपरिभाषया वा वकारः । न चात्र वकारस्य द०न्तस्थानाधिक्यान्न स्थानसाम्यमिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादेरेकाराद्यनापत्तेः । धात्रंश इति । अत्र तकारस्यैव द्वित्वं न तु रेफस्येत्यनुपदमेव अचोरहाब्यामित्यत्र वक्ष्यते । लाकृतिरिति । ऌवर्णस्य आकृतिरिव आकृतिर्यस्येति विग्रहः । अत्र आकारे परे ऌवर्णस्य दन्तस्थानसाम्याल्लकारः । न च दन्तस्थानसाम्यात्प्रथमातिक्रमे कारणाऽभावाच्च तस्य वकार एवास्तु । आन्तरतम्ये यत्कचित्स्थानसाम्यस्य प्रयोजकताया मध्ध्वरिरित्यत्रोक्तत्वादिति वाच्यम्, त्र हि चत्वारो यणो यवरला विधेयाः । तत्र वकारविधिरुकारे ओष्ठस्थानसाम्यान्निस्सपत्नः सावकाशः, तत्र लकारस्य दन्तरूपस्थानभेदादप्राप्तेः । लाकृतिरित्यत्र ऌवर्णे तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रतिषेधमाश्रित्य लकारविधिः परत्वादपवादत्वाच्च वकारविधिं बाधते । यदि हि प्रथमातिक्रमे कारणाऽबावादत्रापि वकार एव स्यात्तर्हि लकारविधिर्निरवकाश एव स्यात् । अतोऽत्र ऌवर्णस्य लकार एवेत्यास्तां तावत् ।", "82024": "<<रात् सस्य>> - क्रोष्टुर् स् इति स्थिते-रात्सस्य । 'संयोगान्तस्य लोप' इत्येव सिद्धे नियमार्थमिदमित्याह — सस्यैवेति । तेन ऊर्गित्यादौ न संयोगान्तलोपः । रेफस्य विसर्ग इति ।खरवसानयो॑रिति विसर्ग इत्यर्थः । परत्वादिति । परत्वान्नुटं बाधित्वा तृज्वत्त्वे कृते ततो नुटिनामी॑ति दीर्घे णत्वे कृते क्रोष्टृणामिति स्यादित्यर्थः । नच नुट् नित्य इति वाच्यं, तृज्वत्त्वे कृते संनिपातपरिभाषया नुटो दुर्लभत्वात् ।नुमचिरेति ।अचिरे॑त्यनुकरणम् । 'अचि र' इति विहितो रेफो विवक्षितः । प्रकृतिवदनुकरणं भवतीति त्वनित्यम् । ततश्चअचि-रे॑त्यस्य समासप्रवेशेऽपि न लुक् । क्रोष्टनामिति । तृज्वत्त्वं बाधित्वा नुटि कृतेनामी॑ति दीर्घे रूपम् । क्रोष्टरीति । तृज्वत्त्वे क्रोष्टु-इ इति स्थितेऋतो ङी॑ति गुणे रपरत्वे रूपम् । क्रोष्ट्रोरिति । तृज्वत्त्वे ऋकारस्य यण् रेफः । पक्षे इति । तृतीयादिष्वजादिषु तृज्वत्त्वाऽभावपक्षे इत्यर्थः । ननुतृज्वत्क्रोष्टुः,॒॑स्त्रियां च॑,विभाषा तृतीयादिष्वची॑ति त्रिसूत्री व्यर्था । सृगालवाचिनोःक्रोष्टृक्रोष्टु शब्दयोः स्वतन्त्रयोः सत्त्वादिति चेत्, शृणु-॒सर्वनामस्थाने स्त्रियां च ऋदन्तस्यैव क्रोष्टृशब्दस्य प्रयोगः । तृतीयादिष्वजादिषु तूभयस्य, शसि हलादिषु च उदन्तस्यैवे॑ति नियमार्था त्रिसूत्रीति । इति उदन्ताः । अथ ऊदन्ताः । हूहूरिति । गन्धर्वविशेषवाच्यव्युत्पन्नं प्रातिपदिकमेतत् । हूह्वा हूह्व इत्यादि । दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधः ।इको यणची॑ति यणि रूपम् । हे हूहूः । हूहूम् हूह्वौ हूहून् हूह्वा । हूह्वे । हूह्वः । हूह्वोः । हूह्वाम् । हूह्वि । अतिचमूशब्दे त्विति । चमूमतिक्रान्तोऽतिचमूः ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । स्त्रीप्रत्ययान्तत्वाऽभावाद्गोस्त्रियो॑रिति ह्रस्वो न भवति । नदीकार्यमिति ।प्रथमलिङ्गग्रहणं चे॑ति वचनादिति भावः । खलपूरिति । खलं पुनातीति क्विप् । खलपू-औ, खलपू-अस् इति स्थितेअचि श्नुधात्वि॑त्युवङि प्राप्ते ।", "82025": "<<हो ढः>> - अथ हकारान्ताः । तत्र वर्णसमाम्नायक्रममनुसृत्य हकारान्तमादौ निरूपयितुमाह — हो ढः । 'ह' इति षष्ठन्तम् । झलो झलीत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम् ।स्कोः संयोगाद्योरन्ते चे॑त्यतोऽन्ते इत्यनुवर्तते । तदाह — हस्येति । झलीति । झलि परतः पूर्वस्य हकारस्य, पदान्ते विद्यमानस्य हकारस्य वेत्यर्थः । नच डकार एव कुतो न विहित इति वाच्यं,वा द्रुहे॑त्यत्र वक्ष्यमाणत्वात् । पदान्तत्वादिति । सुलोपे सति प्रत्ययलक्षणमाश्रित्य झल्परत्वाच्चेत्यपि बोध्यम् । लिडिति ।लिह आस्वादने॑क्विष् । हल्ङ्यादिना सुलोपः । हस्य ढत्वे 'वावसाने' इति चर्त्वविकल्प इति भावः । लिड्भ्यामिति । स्वादिष्वसर्वनामस्थाने॑ इति पदत्वाज्झलां जशोऽन्ते॑ इति जश्त्वमिति भावः । इत्यादीति । लिड्भिः । लिड्भ्यः । लिहे । लिहः । लिहः लिहो लिहाम् । लिट्त्सु इति । लिह्-सु इति स्थिते हस्य ढः । तस्य जश्त्वेन डः ।खरि चे॑ति चर्त्वस्याऽसिद्धत्वात्ततः प्रागेवडः सी॑ति धुट् । ततो डस्य चर्त्वेन टः । धुटश्चर्त्वसंपन्नस्य तकारस्याऽसिद्धत्वा॑च्चयो द्वितीयाः॑ इति न भवति ।न पदान्ता॑दिति तकारस्य ष्टुत्वं न । लिट्सु इति । धुडभावे रूपम् । हस्य ढः । तस्य जश्त्वेन डः । तस्य चर्त्वेन टः । तस्याऽसिद्धत्वा च्चयो द्वितीयाः॑ इति न । 'न पदान्तात्' इति सस्य न ष्टुत्वमिति भावः ।", "82026": "<<झलो झलि>> - असैध् स् तामिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपेऽप्राप्ते — झलो झलि । झल इति पञ्चमी । संयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येति चानुवर्तते । तदाह — झलः परस्येत्यादि । असैद्धामिति । असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् । पक्ष इति । इट्पक्षे इत्यर्थः । असेधीदिति । इट ईटीति सलोपः । नेटीति वृद्धिप्रतिषेधः । लघूपधगुणः । खादृ इति । अत्र ऋदित्वंनाग्लोपी॑त्याद्यर्थमित्यभिप्रेत्याह — ऋकार इदिति । खदेति । स्थैर्यं — स्थिरीभवनम् ।", "82027": "<<ह्रस्वादङ्गात्>> - तङि तु अभृ स् त इति स्थिते -ह्रस्वादङ्गात् । ह्रस्वान्तादित्यर्थः । सिचेति भाष्यम् ।झलो झली॑त्यतो झलीति, 'संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — सिचो लोपः स्याज्झलीति । ह्रस्वात्किम् । अच्योष्ट । अङ्गात्किम् । अलाविष्टाम् । सिचः किम् । द्विष्टराम् । द्विष्टमाम् । सुजन्तात्तरप्ततमौ । अभृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।झली॑त्युक्तेरभृषातामभृषतेत्यत्र न सिज्लोपः । अनतः परत्वाज्झस्य अदादेशः । अभृथाः अभृषाथामभृढ्वम् । अभृषि अभृष्वहि अभृष्महि । ह्मधातुरनिट् । हरणं चतुर्विधमित्याह — प्रापणमित्यादि । तद्यथा — भारं हरति । प्रापयतीत्यर्थः । अशं हरति । स्वीकरोतीत्यर्थः । परत्वं हरति । चोरयतीत्यर्थः । पापं हरति हरते वा । नाशयतीत्यर्थः । जहार जह्यतुः जह्युः । 'एकाचः' इतीण्निषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्तेअचस्तास्व॑दिति तन्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि इण्निषेध एव । तदाह — जहर्थेति । जह्यथुः जह्य । जहार — जहर । इति सिद्धवत्कृत्याह -जह्यिवेति । क्रादिनियमादिट् । जह्यिम । जह्यिषे । क्रादिनियमादिट् । जह्याथे जह्यिढ्वे — जह्यिध्वे । जह्य#ए जह्यिवहे जह्यिमहे । लुडादिषु भृञ इव रूपाणि । धृञ्धातुरनिट् । ह्मञ इव रूपाणि । णीञ्धातुरनिट् । णोपदेशः । नयति नयते । निनाय निन्यतुः निन्युः । क्रादिनियमाल्लिटि इट् । थलि तु 'अचस्तास्व' दितीण्निषेधस्य भारद्वाजनियमादिड्विकल्प इत्यभिप्रेत्याह — निनयिथ निनेथेति । निन्यिषे निन्याथे निन्यिढ्वे — निन्यिध्वे । निन्ये निन्यिवहे निन्यिमहे । नेता । नेष्यति नेष्यते । नयतु नयताम् । अनयत् अनयत । नयेत् नयेत । नीयात् नेषीष्ट । अनैषीत् अनेष्ट । अनेष्यत् अनेष्यत । इत्यजन्ता उभयपदिनो गताः । परस्मैपदिन इति ।जि ज्र अभिभवे इत्येत्पर्यन्ता॑ इति शेषः । धेट् पाने इति ।स्तनन्धयी॑त्यादौ ङीबर्थं टित्त्वम्, अवयवे टित्त्वस्यव्यर्थतया समुदायार्थत्वादिति हरदत्तः ।", "82028": "<<इट ईटि>> - इट ईटि । 'इट' इति पञ्चमी । रात्सस्येत्यतः सस्येति, संयोगान्तस्येत्यतो लोप इति चानुवर्तते । तदाह — इटः परस्येति । एवं च आति स् ई त् इति स्थिते सकारस्यलोपे आति ईत् — इति स्थिते सवर्णदीर्घे आतीदिति रूपं वक्ष्यति । तत्र सलोपस्याऽसिद्धत्वात्कथं सवर्णदीर्घं इत्यत आह — सिज्लोप एकादेशे सिद्धो वक्तव्य इति । आतिष्टामिति । लुङस्तस् । तस्य ताम् । च्लेः सिच् । तस्य इटि आचि वृद्धौ षत्वम् । अपृक्तत्वाऽभावेन ईडभावात्सलोपो न । आतिषुरिति । लुङो झिः । च्लेः सिच् । जुस् इट् आट् वृद्धिः । षत्वं रुत्वविसर्गौ । आतीः आतिष्टमातिष्ट । आतिषमातिष्व आतिष्म ।", "82029": "<<स्कोः संयोगाद्योरन्ते च>> - तत्र विशेषमाह — स्कोः संयोगाद्योः ।पदस्ये॑त्यधिकृतम् । चकारात्झलो झली॑त्यतोझली॑त्यनुवर्तते । पदस्यान्ते इति झलीति च संयोगेत्यनेन संबध्यते ।संयोगे॑ति लुप्तषष्ठीकं पृथक्पदम् । स् च क् च स्कौ, तयोरिति विग्रहः 'संयोगान्तस्य लोपः' इत्यतो 'लोप' इत्यनुवर्तते । तदाह — पदन्ते इत्यादिना । अत्र काष्ठशक् स्थातेत्यत्र झल्परसंयोगादित्वात्ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थं वार्तिकं पठितं-झलीत्यपहायसङीति वक्तव्य॑मिति । सनः सकारमारभ्य आमहिङो ङकारेण प्रत्याहारः । तदिदं वार्तिकं बाष्ये प्रत्याख्यातं-॒काष्ठशगेव नास्तिकुतः काष्ठशक् स्थाते॑ ति । ककारान्तेब्यो नास्ति क्विप्, अनभिधानादित्याशयः । नच पृथक्स्थातेत्यत्र ककारस्य लोपनिवृत्तयेसङी॑ति वार्तिकमावश्यकमिति वाच्यं, तत्प्रत्याख्यानपरभाष्यप्रमाण्यादेवंजातीयकसंयोगादिलोपप्राप्तियोग्योदाहरणानामप्रयोगावगमादिति शब्देन्दुशेखरे स्पष्टम् । भृट्-भृडिति । भृस्ज् स् इति स्थिते हल्ङ्यादिलोपेस्को॑रिति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचर्त्वे इति भावः । यद्यपि जकारस्य संयोगान्तलोपेऽपि सकारस्यव्रश्चे॑ति षत्वे जश्त्वचर्त्वयोर्भृट्-भृड् इति सिध्यति तथापि न्याय्यत्वादिह संयोगादिलोप एव भवति । सस्येति । भृस्ज-औ इत्यादावचि पदान्तझल्परसंयोगादित्वाऽभावान्न संयोगादिलोपः ।झलां जस् झशी॑ति जश्त्वस्या.ञसिद्धत्वात्सकारस्य श्चुत्वमिति भावः । तस्येति । शकारस्येत्यर्थः । तालुस्थानकत्वात्शकारस्य जकारः । नच जश्त्वस्यासिद्धत्वात्शकारस्य व्रश्चेति षत्वं शङ्क्यं, षत्वं प्रति श्चुत्वस्याऽसिद्धत्वात् । ब्यामादौ तु 'स्वादिषु' इति पदत्वात्संयोगादिलोपः । व्रश्चेति षत्वं, जश्त्वं च । भृड्भ्यमित्यादि । ऋत्विगित्यादिनेति । 'ऋ गतौ' औणादिकस्तुः । ऋतुः=गमनं, प्रापति, दक्षिणाद्रव्यलाभो विवक्षितः । तस्मिन्निमित्ते यजन्ति=यज्ञियव्यापारं कुर्वन्तीत्यर्थे ऋतावुपपदे यजधातोः क्विन् ।वचिस्वपी॑ति यकारस्य संप्रसारणमिकारः । पूर्वरूपम् । यणादेशश्च । ऋत्विजिति रूपम् । ततः सोर्हल्ङ्यादिलोपः । एतावत्सिद्धवत्कृत्याह — क्विन्नन्तत्वात्कुत्वमिति.॒क्विन्प्रत्ययस्येत्यनेने॑ति शेषः । एतदर्थमेव क्विन्विधानमिति भावः । नच क्विपि 'चोः कुः' इति कुत्वेनैवैतत्सिध्यतीति वाच्यं, चोः कुरिति कुत्वं हिव्रश्चे॑ति षत्वेनाऽपवादत्वाद्बाध्येत ।क्विन्प्रत्ययस्ये॑ति कुत्वं तु क्विन्विधिसामर्थ्यादेव न बाध्यते । यष्टेत्यादौ षविधेश्चरितार्थत्वादिति भावः । ऊर्क ऊर्गिति ।ऊर्ज बलप्राणनयोः॑चुरादिण्यन्तात्भ्राजभासे॑त्यादिना क्विप्, णिलोपः । ऊर्जिति रूपम् । ततः सोर्हल्ङ्यादिलोपः । 'चोः कुः' इति जस्य कुत्वं गकारः । 'वाऽवसाने' इति चर्त्वविकल्पः । नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्त्वं शङ्क्यं , पदान्तविधौ तन्निषेधात्, पूर्वत्रासिद्धीये न स्थानिव॑दिति वचनाच्च । इति जान्ताः । अथ दकारान्ता निरूप्यन्ते । त्यद्शब्दस्तद्शब्दपर्यायः । तस्य विशेषमाह — त्यदाद्यत्वं पररूपत्वमिति । सर्वत्र विभक्तावुत्पन्नायां 'त्यदादीनाम' इति दकारस्यान्त्यस्य अकारः, 'अतो गुणे' इति पररूपं चेत्यर्थः । तथश्चाऽदन्तवद्रूपाणीति भावः । त्य स् इति स्थिते ।", "82030": "<<चोः कुः>> - युक्षु । 'असमासे' इत्यस्य व्यावर्त्त्यं सुयुज्शब्दं कथयिष्यंस्तत्र विशेषमाह — चोः कुः ।झलो झली॑त्यतोझली॑त्यनुवर्तते ।पदस्ये त्यधिकृतम् । 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते, तदाह-चवर्गस्येति । ननु 'चोः' इत्यत्र उकारस्य उपदेशाऽभावादित्त्वाऽभावेन उदित्त्वाऽभावात्कथमिह सवर्णग्रहणमिति चेन्न, चोरित्युकारान्तग्रहणसामर्थ्यादेव तत्र उकारस्य इत्त्वाभ्यनुज्ञानात् । अन्यथा 'चः कुः' इत्येव ब्राऊयादिति । कुत्वमिति । सुयुज्शब्दे जकारस्य कुत्वं गकारः, घोषसंवारनादाल्पप्राणसाम्याद्यथासंख्यसूत्राच्चेति भावः । नन्विहक्विन्प्रत्ययस्ये॑त्येव कुत्वं कुतो न स्यात् । यद्यपि सुपूर्वाद्युजेःसत्सूदिषे॑त्यादिना क्विपि उपपदसमासे सुयुज्शब्दो न क्विन्नन्तोऽयम् । निरुपपदाद्युजेः क्विन्निति अनुपदेमेवोक्तत्वात् । तथापि क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणात्संप्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आह — क्विन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति । तथा चात्रचोः कु॑रित्येव न्याय्यमिति भावः । सुयुक्सुयुगिति । 'वाऽवसाने' इति चर्त्वविकल्पः । ननु युगित्यपि रूपमिष्टं कथं सिध्येत्, क्विनि नुम#इ युङित्येवापत्तेः । नचऋत्वि॑गित्यादिसूत्रे 'युजेरसमासे' इति सूत्रे च युजीति इकारावेशिष्टस्यैव निर्देशात् 'युज समाधौ' इति दैवादिकस्य अकारान्तस्याऽग्रहणात्ततःक्विप् चे॑ति क्विपि नुमबावे कुत्वे युगिति सिध्यतीति वाच्यम्,इक्श्तिपौ धातुनिर्देशे॑ इति इक्प्रत्ययान्तत्वस्य उभयत्रापि संभवेन उभाभ्यां क्विनि नुमि युङित्येवापत्तेरित्यत आह — युजेरिति । 'युजेरसमासे' इति सूत्रे युजीति ऋत्विगादिसूत्रे युजीति च धातुपाठे 'युजिर्योगे' इतीकारविशिष्टो यः पठितस्तस्यैव रेफशिरस्कतया ग्रहणं, नत्विका निर्देशः, व्याख्यानादित्यर्थः । ततः किमित्यत आह — तेनेति । 'खजि गतिवैक्लव्ये' क्विप्, इदित्त्वान्नुम् ।नश्चापदान्तस्ये॑त्यनुस्वारः, परसवर्णो ञकारः । खञ्ज्शब्दः तस्य विशेषमाहसंयोगान्तेति । हल्ङ्यादिना सुलोपे जकारस्य संयोगान्तलोपः । ततो निमित्तापायादनुस्वारपरसवर्णयोर्निवृत्तिः । खन्निति रूपमित्यर्थः ।अनिदिता॑मिति नलोपस्तु न, इदित्त्वात् । 'राजृ दीप्तौ' इत्यस्मात्क्विपि राज्शब्दः । तस्य विशेषमाह — व्रश्चेति । हल्ङ्यादिना सुलोपेव्रश्चे॑ति षत्वम् । जश्त्वेन डकारः । 'वाऽवसाने' इति चर्त्वविकल्पः । भ्यामादौ 'स्वादिषु' इति पदत्वात् षत्वं जश्त्वं च । राड्भ्यामित्यादि ।ङः सि धु॑डिति विकल्पं मत्वाह — राट्त्सु, राट्स्विति । एवं विभ्राडिति । राज्शब्दवत्षत्वादीत्यर्थः ।टु भ्राजृ दीप्तौ॑क्विप् । विशिष्ट भ्राजते इति विभ्राट् । देवान् यजतीति देवेट् । देवान् यजतीति विग्रहे क्विपि यजादित्वा॑द्वचिस्व॑पीति संप्रसारणम् ।अद्गुणः॑ । विआसृडिति ।सृज विसर्गे॑क्विपिव्रश्चे॑ति षत्वादि । ननु क्विबन्तेऽपि देवेज्शब्दे विआसृज्शब्देच क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणादृत्विक्शब्दवत्कुत्वं कुतो न स्यादित्यत आह — इहेति ।सृजिदृशो॑रिति सूत्रे काम्यच्सूत्रे च विआसृज्भ्यामिति उपयट्काम्यतीति च भाष्यप्रयोगात्क्विन्प्रत्ययस्ये॑ति कुत्वं नेत्यर्थः । परिमृडिति । 'मृजू शुद्धौ' क्विप् ।क्ङिति चे॑ति निषेधात्मृजेर्वृद्धि॑रिति न भवति ।व्रश्चे॑ति षत्वम् । परिमार्ष्टीति परिमृट् । अथ विभ्रागिति औणादिकसूत्रमेतत् ।क्विब्वचिप्रच्छी॑त्यादिपूर्वसूत्रात्क्विबिति दीर्घ इति चानुवर्तते । 'पदान्त' इति 'ष' इत्येनेनैव संबध्यते, नतु क्विब्दीर्घाभ्यामपि, व्याख्यानात् । तदाह — परावुपपदे इत्यादिना । षत्वं चेति । 'चोः कुः' इत्यस्यापवाद इति भावः । विआस्मिन् राजते इत्यर्थेसत्सूद्विषे॑त्यादिना क्विपि उपपदसमासे विआराज्शब्दाः ।", "82031": "<<नहो धः>> - अथ हान्ताः । 'णह बन्धने'णो नः॑ । उपनह्रते इति विग्रहे उपपूर्वात्संपदादित्वात्कर्मणि क्विप् ।नहिवृती॑त्यादिना पूर्वपदस्य दीर्घः । उपानह्शब्दः स्त्रीलिङ्गः — पादुकावाची । 'पादूरुपानत्स्त्री' इत्यमरः । नहो धः । 'हो ढः' इत्यतो 'ह' इत्यनुवर्तते ।पदस्ये॑त्यधिकृतम् ।स्कोः संयोगे॑त्यतोऽन्ते इत्यनुवर्तते ।झलो झली॑त्यतोझली॑त्यनुवर्तते । तदाह — नहो हस्येत्यादिना । 'हो ढः' इति ढत्वापवादः । उपानदिति । उपानह्शब्दात्सोर्हल्ङ्यादिलोपः, हस्य धः, जश्त्वचर्त्वे इति भावः । अत्र दकार एव तु न विहितः, तथा सतिनद्ध॑मित्यत्ररदाभ्या॑मिति नत्वप्रसङ्गादित्यलम् । उपानद्भ्यामिति । हस्य धत्वे जश्त्वमिति भावः । उपानत्स्विति । धत्वेखरि चे॑ति चर्त्वमिति भावः । उष्णिहशब्दश्छन्दोविशेषवाची स्त्रीलिङ्गः । तुं व्युत्पादयितुमाह — ष्णिह प्रीतावित्यादिना । दलोपषत्वे इति । उदो दकारस्य लोपः, सस्य षत्वं च निपात्यत इत्यर्थः । न च 'धात्वादेः षः सः' इति कृतसकारस्य 'आदेशप्रत्यययोः' इत्येव षत्वे सिद्धे किं तन्नि पातनेन इति वाच्यं, सात्पदाद्यो॑रिति निषेधबाधनार्थं षत्वनिपातनस्यावश्यकत्वात् । न च उष्णिह्शब्दात्समासात्सुबुत्पत्तेः पूर्वं स्निहित्येतन्न पदम् । नितरां सकारस्य पदादित्वमिति वाच्यं,पदादादि॑रिति पक्षे षत्वनिषेधप्रसक्तेरित्याहुः । हस्य घ इति । घोषनादसंवारमहाप्राणसाम्यादिति भावः । नचक्विन्प्रत्ययस्ये॑ति कुत्वस्याऽसिद्धत्वाद्धो ढ इति ढत्वमेवोचितमिति वाच्यं,षत्वापवादः कुत्व॑मिति कैयटादिमते तुल्यन्यायतया षत्वस्येव ढत्वस्यापि कुत्वेन बाधात् । जश्त्वचर्त्वे इति । नच जश्त्वे कर्तव्येक्विन्प्रत्ययस्य कु॑रिति कुत्वस्याऽसिद्धत्वं शङ्क्यम्, 'उष्णिगञ्चु' इति निर्देशेन जश्त्वे कर्तव्ये कुत्वस्याऽसिद्धत्वाऽभावज्ञापनात् । वस्तुतस्तुक्विन्प्रत्ययस्य कु॑रिति कुत्वं षत्वापवादो न भवती॑ति मूलकारमते तुल्यन्यायाड्ढत्वस्यापि नापवादः । ततश्च तद्रीत्या ढडगका इति बोध्यम् । इति हान्ताः । अथ वान्ताः । द्यौरिति । दिव्शब्दः स्त्रीलिङ्गः ।द्यौदिवौ द्वे स्त्रिया॑मित्यमरः । तस्मात्सुः,दिव औ॑दिति वकारस्य औकारः, इकारस्य यण्, रुत्वविसर्गौ । सुलोपस्य औत्त्वस्थानिभूतवकाराश्रयत्वेनाल्विधित्वात्स्थानिवत्त्वाभावान्न हल्ङ्यादिलोप इति भावः । द्युभ्यामिति । भ्यामादौ हलिदिव उदि॑त्युत्त्वमिति भावः । इति वान्ताः । अथ रान्ताः । गीरिति ।गृ निगरणे॑क्विप् ,ॠत इद्दातो॑रितीत्त्वं रपरत्वं, गिर्शब्दात्सुबुत्पत्तिः, सोर्लोपः, र्लोरुपधायाः॑ इति दीर्घः, रेफस्य विसर्ग इति भावः । भ्यामादौ तु हलि 'र्वोः' इति दीर्घः, गीभ्र्यामित्यादि । गीर्षु । एवं पूरिति । गीर्वदित्यर्थः । 'पृ पालनपूरणयोः' क्विप्,उदोष्ठपूर्वस्ये॑त्युत्त्वं, रपरत्वम् । पुर्शब्दात्सोर्लोपः,र्वो॑रिति दीर्घः, रेफस्य विसर्ग इति भावः । चतरुआआदेश इति । जश्शसोः स्त्रीलिङ्गस्य चतुर्शब्दस्यत्रिचतुरोः स्त्रिया॑मित्यनेनेति भावः । चतरुआ इति । परत्वा॒च्चतुरनडुहो॑रित्यमानं बाधित्वा चतसृभावे यण् । चतसृभावे कृते आम्तु न,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायादिति स्थानिवत्सूत्रे भाष्ये स्पष्टम् । चतसृणामिति । 'न तिसृचतसृ' इति दीर्घनिषेधः । इति रान्ताः । अथ मान्ताः । किम इति । किम्शब्दात्स्त्रीलिङ्गाद्विभक्तौ 'किमः कः' इति प्रकृतेः कादेशे कृतेऽदन्तात्वाट्टाबित्यर्थः । सर्वावदिति । सर्वाशब्दवदित्यर्थः ।सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः॑ इति न, शब्दस्वरूपपरस्य गौणतया कदाऽपि सर्वनामत्वाऽभावादिति भावः ।", "82032": "<<दादेर्धातोर्घः>> - दुह्धातोः क्विन्तात्सुलोपे दुहित्यत्र ढत्वे प्राप्ते ढत्वं क्वचिदपवदति — दादेर्धातोः । 'हो ढः' इत्यतो 'ह' इति षष्ठन्तमनुवर्तते ।झली॑तिपदस्ये॑ति, 'अन्ते' इति च पूर्ववदनुवर्तते ।धातो॑रिप्यावर्तते । एकं धातुग्रहणमवयवषष्ठन्तं हकारेऽन्वेति-॒धातोरवयवस्य हस्ये॑ति ।दादे॑रित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति । दाअदिर्यस्येति बहुव्रीहिः,धातो॑रिति द्वितीयं धातुग्रहणं तु धातोरुपदेशकालं लक्षयति । ततश्च फलितमाह — उपदेशे इत्यादिना । धातूपदेशकाले यो दकारादिर्धातुस्तदवयवस्य हस्येत्यर्थः । आवृत्तधातुग्रहणलब्धोपदेशग्रहणस्य फलं पृच्छति — उपदेशे किमिति । अधोगिति । 'दुह प्रपूरणे' लङ्, अडागमः, तिप्, शप्, तस्य लुक्, लघूपधगुणः, हल्ङ्यादिना तिपो लोपः, 'दादेः' इति हस्य घः । 'एकाचो वशः' इति भष्भावेन दकारस्य धकारः । 'वाऽवसाने' इतचि चर्त्वजश्त्वे इति भावः । यथा स्यादिति । यथेति प्राप्तियोग्यतायाम् । घत्वमत्र प्राप्तियोग्यं, तच्च उपदेशग्रहणे सत्येव स्यादित्यर्थः । घत्वप्रवृत्तिवेलायां दुहधातोर्दकारादित्वं नास्ति, कृतेऽडागमेतदागमास्तद्ग्रहणेन गृह्यन्ते॑ इत्यकारादित्वात् । अतोऽत्र घत्वं न स्यादित्यव्याप्तिः स्यात् । उपदेशग्रहणे तु नायं दोषः, घत्वप्रवृत्तिवेलायां दुहेरत्र दकारादित्वाऽभावेऽपि धातूपदेशकाले दादित्वादिति भावः । तदेवमव्याप्तिपरिहारफलमुक्त्वाऽतिव्याप्तिपरिहारफलमाह — दामेति । ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्दः ।लिह आस्वादने॑दाम लेढीति दामलिट् । तमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यजि॑ति क्यचि 'सनाद्यन्ताः' इति धातुत्वात्तिपि शपि दामलिह्रतीति रूपम् । ततः क्विपीति । क्यजन्तात्कर्तरि क्वपि अल्लोपे यलोपे च दामलिह्शब्दात्सोर्लोपे 'होढः' इति ढत्वेवावसाने॑इति चर्त्वविकल्पे दामलिट्-दामलिडिति रूपमित्यर्थः । अत्र मा भूदिति । माङि लुङ् । सर्वलकारापवादः । अत्र घत्वं न भवेदित्येतदर्थमप्युपदेशग्रहणम् । कृते तु तस्मिन् घत्वमत्र न भवति । धातूपदेशे दामलिहिति सुब्दातो पाठाऽभावादिति भावः । तथा च प्रकृतोदाहरणे सौ-दुघिति स्थिते- ।", "82033": "", "82034": "", "82035": "<<आहस्थः>> - आहस्थः । 'आह' इति षष्ठन्तम् । 'झलो झलि' इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — झलि परे इति । आह् इत्यस्य थकारः स्याज्झलीति फलितम् ।अलोऽन्त्यस्ये॑त्यन्त्यस्य भवति । चत्त्र्वमति । आथ् — थेति स्थिते प्रथमथकारस्यखरि चे॑ति चर्त्वे आत्थेति रूपमित्यर्थः । आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चर्त्वे आट्त्थ इति स्यादिति बोध्यम् । पञ्चानं णलाद्यभावपक्षे आह — —", "82036": "<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> - ब्राश्चभ्रस्ज । व्रश्चादयः सप्त धातवः । छशौ वर्णौ, ताभ्यां शब्दरूपविशेष्यमादाय तदन्तविधिः ।झलो झली॑त्यतोझली॑त्यनुवर्तते ।पदस्ये॑त्यधिकृतम् ।स्कोःसंयोगाद्योरन्ते चे॑त्यतोऽन्ते इत्यनुवर्तते । तदाह — व्रश्चादीनामिति । अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम् । षस्य जश्त्वेनेति । प्रकृतसूत्रेण शस्य षत्वे तस्य षकारस्य 'स्वादिषु' इति पदत्वाज्झलाञ्जशोऽन्ते॑ इति जश्त्वेन स्थानसाम्याड्डकारे निड्भ्यामित्यादि रूपमित्यर्थः । सुपीति । निश्-सु इति स्थितेव्रश्चे॑ति षत्वे तस्य जश्त्वेन डकारे 'ङसि धुट्' इति कदाचिद्धुडागमः । चर्त्वमिति ।डधयो॑रिति शेषः । स्थानसाम्याड्डस्य टः, धस्य तः । तस्येति । चर्त्वस्येत्यर्थः । ठथौ नेति । धुडभावपक्षे टस्य ठो न, धुट्पक्षे तस्य थो नेत्यर्थः । 'नादिन्याक्रोशे' इति सूत्रस्थभाष्ये 'चयो द्वितीया' इत्यस्य पाठदर्शनात्तदपेक्षया चर्त्वस्य परत्वम् । अथ तकारस्य ष्टुत्वेन टकारमाशङ्क्य आह — न पदान्तादिति । 'स्वादिषु' इति पदत्वं बोध्यम् । निट्त्सु इति । धुट्पक्षे रूपम् । तदभावपक्षे तु निट्सु ।", "82037": "<<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> - एकाचो वशो । स् च् ध्व् च स्ध्वौ, तयोरिति विग्रहः । '॒बश' इति स्थानषष्ठी । एकाच॑ इत्यवयवषष्ठी । एकोऽच् यस्येति विग्रहः । झषन्तस्येत्यस्य शब्दस्येति विशेष्यम् । एकाच्कस्य झषन्तशब्देनान्वेति । पदस्येत्यधिकृतं 'स्कोः संयोगाद्योः' इत्यतोऽन्ते चेत्यनुवर्तते । तदाह — धातोरवयव इत्यादिना । ननु संभवति सामानाधिकरण्ये वैयधिकरण्याश्रयणस्या.ञन्याय्यत्वादेकाच् झषन्तो यो धातुस्तदवयवस्य बश इत्येवान्वय उचित इत्यत आह — एकाचो धातोरित्यादि । गर्दभयतीति । 'तत्करोति तदाचष्टे' इति णिजन्तस्य 'सनाद्यन्ताः' इति दातुत्वात्तिबादि । ततः क्विबिति । गर्दभि इति ण्यन्तात्कर्तरि क्विबित्यर्थः । कपावितौ । वेर्लोपः । णिलोप इति ।णेरनिटीत्यनेने॑ति शेषः । गर्धबिति । गर्दभित्यस्मात्सुः । हल्ङ्यादिलोपः । 'एकाचो बशः' इति दस्य धः । 'वावसाने' इति चर्त्वम् ।एकाचो धातोर्झषन्तस्ये॑त्यन्वये गर्दभित्यस्य सुब्धातोरनेकाच्त्वाद्दकारस्य भष्भावो न स्यात् । धात्ववयवस्य झषन्तस्येत्यन्वये तु दभिति एकाचो झषन्तस्य धात्वयवत्वात्तदवयवस्य दस्य भष्भावो निर्बाध इति भावः । अत्र प्राचीनैर्झलीत्यनुवर्तितम् । तदयुक्तमित्याह — झलीति निवृत्तमिति । स#आमथ्र्यादिति ।झली॑त्यनुवृत्तौ तद्वैयथ्र्यादिति भावः । ननु झलीत्यस्यानुवृत्तिरेवास्तु । स्ध्वोरित्येव न क्रियतामित्यत आह — तेनेति । झलीत्यननुवर्तनेनेत्यर्थः । दुग्घमिति । दुहेः क्तः । कित्त्वान्न सघूपधगुणः ।दादेः॑ति हस्य धः । 'झषस्तथोर्धोऽधः' इति तकारस्य धः ।झलां जश् झशी॑ति घस्य गः । दुग्धमिति रूपम् । दोग्धेति । दुहेस्तृच् । लघूपधगुणः । 'दादेः' इति हस्य घः । 'झषस्तथोः' इति तकारस्य धः । 'ऋदुशनस्' इत्यनङ् । 'सर्वनामस्थाने च' इति दीर्घः । हल्ङ्यादिलोपः । ' न लोपः' इति नकारलोपः, 'दोग्धा' इति रूपम् । झलीत्यनुवृत्तौ इहोभयत्रापि घत्वे कृते भष्भावः स्यादिति भावः । ननु दुहेः क्विबन्तात्सोर्लोपे॒दादेः॑ इति घत्वे कृते दुघिति झषन्तमेकाच्कम् । तस्य धातुत्वाद्धात्ववयवत्वाऽभावात्कथमिह दकारस्य भष्भावेन धकारः स्यादित्यत आह — व्यपदेशिद्भावेनेति । विशिष्टोऽपदेशो व्यपदेशः=मुख्यव्यवहारः, सोऽस्यास्तीति व्यपदेशी, तेन तुल्यं व्यपदेशिवत् । धातावेव धात्वयवयत्वव्यवहारो गौणः, 'राहोश्शिरः' इत्यादिवदिति भावः । इदं चआद्यन्तवदेकस्मि॑न्निति सूत्रे भाष्ये स्पष्टम् । धुक्दुगिति । क्विपः प्राक् प्रवृत्ताया धातुसंज्ञाया अनपायात् 'दादेः' इति धत्वे कृते झषन्तत्वाद्भष्भावे चर्त्वविकल्प इति भावः । दुहौ दुहः । दुहम् दुहौ दुहः । दुहा । भ्यामादौ 'दादेः' इति घत्वे कृते स्वादिष्विति पदत्वात् पदान्तत्वप्रयुक्तो भष्भावः । 'झलां जशो ।ञन्ते' इति जश्त्वम् । धुग्भिः । दुहे धुग्भ्याम् धुग्भ्यः । दुहः दुहोः दुहाम् । दुह् सु इति स्थिते प्रक्रियां दर्शयति — षत्वेति । घत्वे कृते भष्भावे 'झलां जशोऽन्ते' इति जश्त्वेन गकारः । तस्यखरि चे॑ति चर्त्वस्याऽसिद्धत्वात् 'आदेशप्रत्यययोः' इति षत्वे कृते चर्त्वे धुक्षु इति रूपमिति भावः ।द्रुह जिघांसायाम्, 'मुह वैचित्त्ये' 'ष्णुह उद्गिरणे' 'ष्णिह प्रीतौ' एभ्यः क्विबन्तेभ्यः सोर्लोपे द्रुहेर्दादित्वाड्ढत्वं बाधित्वा नित्यं घत्वे प्राप्ते इतरेषामदादित्वादप्राप्ते घत्वे इदमारभ्यते ।", "82038": "<<दधस्तथोश्च>> - दधस्तथोश्च । धाधातोः कृतद्वित्वस्य दधा इत्यस्य 'दधः' इति षष्ठन्तम् । 'एकाचो बशः' इत्यतो झषन्तस्य बशो भष् इत्यनुवर्तते । त थ् अनयोद्र्वन्द्वात् सप्तमीद्विवचनम् । तकारादकार उच्चारणार्थः । तकारथकारयोरिति लभ्यते । चकारात्स्ध्वोरिति समुच्चीयते । सकारे ध्वशब्दे चेति लभ्यते । तदाह — द्विरुक्तस्येत्यादिना । तथा च अभ्यासे दकारस्य धकारः, तकारपरकत्वात् । ननुश्नाभ्यस्तयो॑रित्याल्लोपः । धत्थधत्त इति । धस्य चर्त्वेन त इति भावः । दधतीति ।अदभ्यस्ता॑दित्यदादेशेश्नाभ्यस्तयो॑रित्याल्लोपः । धत्थ इति । थकारपरकत्वाद्भष् । धत्थ । दधामि । दध्व इति । परनिमित्ताऽभावान्न भष् । दध्मः । धत्ते इति । दधाते दधते । धत्से इति । सकारपरकत्वाद्भषिति भावः । दधाथे । धद्ध्वे इति । दध् ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः । दधे दध्वहे दध्महे । दधौ । दधे । धाता । धास्यति धास्यते । दधातु — धत्तात् दधतु । धेहीति ।ध्वसो॑रित्येत्त्वाभ्यासलोपाविति बावः । धत्तात् धत्तम् धत्त । दधानि दधाव दधाम । धत्ताम् दधाताम् दधताम् । धत्स्व दधाथाम् धद्ध्वम् । दधै दधावहै दधामहै । अदधात् अदधात् अधत्त । दध्यात् दधीत । धेयात् धासीष्ट । अधात् । अधितेति ।स्थाध्वोरिच्चे॑ति इत्त्व#एह्रस्वादङ्गा॑दिति सिचो लोप इति भावः । अधास्यत् अधास्यत । णिजिर्धातुः । अनिडयं णोपदेशः । इरित् । इकारस्य प्रत्येकमित्त्वाऽभावान्न नुम् । इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदं भवत्येव । तस्मादयमप्युभयुपदी । एवं विजिरपि ज्ञेयः । निजां त्रयाणाम् । निजां त्रयाणाम् । निजामिति बहुवचनात्तदादीनां ग्रहणम् । 'अत्र लोपः' इत्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — णिजिरित्यादिना । नेनेक्तीति । श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चोः कुत्वमिति भावः । अभ्यस्तत्वाददादेशं मत्वा आह — नेनिजतीति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्मि नेनिज्मः । नेनिक्ते नेनिजाते नेनिजते । नेनिक्षे नेनिजाथे नेनिध्वे । नेनिजे नेनिजवहे नेनिज्महे । निनेज निनिजतुः निनिजुः । निनेजिथ निनिजथुः निनिज । निनेज निनिजिव निनिजिम । निनिजे निनिजाते निनिजिरे । निनिजिषे निनिजाथे निनिजिध्वे । निनिजे निनिजिवहे निनिजिमहे । नेक्ता । नेक्ष्यति । नेनेक्तु नेनिक्तात् नेनिक्ताम् नेनिजतु । नेनिग्धीति । अपित्त्वेन ङित्त्वान्न गुणः । हेर्धिः । नेनिक्तात् नेनिक्तम् नेनिक्त । 'आडुत्तमस्य' इति पित्त्वेन अङित्त्वाल्लघूपधगुमे प्राप्ते", "82039": "<<झलां जशोऽन्ते>> - अथ पररूपाऽभावपक्षे पटत्पटत्-इतीत्यत्र तकारस्य दकारं विधत्ते-झलां जशोन्ते । पदस्येत्यधिकृतं । तदाह — पदान्त इति । पटत्पटदितीति । स्थानसाम्यात्तकारस्य दकारो जशिति भावः । अत्राच्छब्दस्य पररूपनिषेधाऽभावे तकारमात्रस्य पररूपैकादेशविकल्पविधौ तस्य पररूपाभावपक्षेऽच्छब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम् ।", "82040": "<<झषस्तथोर्धोऽधः>> - झषस्तथोः । झष इति पञ्चमी । तश्च थ् चेति द्वन्द्वः । तकारादकार उच्चारणार्थः । तकारथकायोरिति लभ्यते । 'धः' इति प्रथमैकवचनम् । अकार उच्चारणार्थः । धकार इति लभ्यते । 'अध' इति षष्ठन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह — झषः परयोरिति । जश्त्वमिति । सिसेध् ध इति स्थितेझलां जस् झशी॑ति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः । सिषिदिव — सिषिध्व । सिषिधिम — सिषिध्म । क्रादिनियमस्तु नेड्वशीति प्रक्रमाननञ्प्रापितस्यैवाऽभावस्य निवर्तको, नतु विभाषादप्रापितस्यापि, अनन्तरस्येति न्यायात् । इट्पक्षे आह — सिषेधिथेति । सेद्धेति । लृट् तास् इडभावः । डा टिलोपः गुणः । धत्वं जश्त्वम् । सेद्धार इत्यादि । सेधितेति । इट्पक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लृटि स्यः । इड्विकल्पः । असैत्सीदिति । लुङस्तिप् । इकारलोपः । च्लिः । सिच् । इडभावः । 'अस्तिसिचः' इति ईट् । वदव्रजेति वृद्धिः । धकारस्य चर्त्वम् ।", "82041": "<<षढोः कः सि>> - तत्र धुडभावपक्षे निश्-सु इति स्थितेव्रश्चे॑ति षत्वे तस्य षकारस्य जश्त्वात्प्राक् ककारमाशङ्कितुमाह — षढोः कः सि । षश्च ढश्चेति द्वन्द्वः ।सी॑ति सप्तमी । तदाह — षस्येत्यादिना । इति तु न भवतीति । षकारस्य ककारो न भवतीत्यर्थः । जश्त्वं प्रत्यसिद्धत्वादिति । 'झलाञ्जशोऽन्ते' इत्यपक्षयाषढोः कः सी॑त्यस्य परत्वादिति भावः । शसादिषु निशादेशाऽभावपक्षे सुटि च रमावत् । व्रश्चादिसूत्रे मतान्तरमाह-केचित्त्विति । 'एकाचो वशः' इत्युत्तरसूत्रे धातोरित्यस्यानुवृत्त्या मध्येऽपि तदनुवृत्तेरौचित्यादिति भावः । अनुवृत्तं च धातोरित्येतच्छशयोरेव विशेषणम्, व्रश्चादिषु धातुत्वाऽव्यभिचारात् । जश्त्वेनेति । निश्म्यामित्यादौ निशित्यस्य धातुत्वाऽभावात्षत्वाऽभावे 'झलाजशोऽन्ते' इति जश्त्वेन शकारस्य स्थानसाम्याज्जकार इत्यर्थः । निज्भ्यामित्यत्र कुत्वमाशङ्क्याह — कुत्वं तु नेति । जश्त्वस्यासिद्धत्वादिति ।कुत्वं प्रती॑ति शेषः । निच्शु इति । निश्सु इति स्थिते शस्य जश्त्वेन जः, तस्य श्चुत्वेन शः, जस्य चर्त्वेन चः, शस्य छत्वविकल्पः ।मासपृतना । मांस, पृतना, सानु इत्येतेषां मांस्, पृत्, स्नु इत्यादेशा वाच्या इत्यर्थः । 'पद्दन्नो' इति सूत्रे वार्तिकमेतत् । अत एवाह — शसादौ वेति ।पद्दन्नि॑ति सूत्रस्य विकल्पेन प्रवृत्तेरिति भावः । मांससानुशब्दयोरस्त्रीलिङ्गत्वात्पृतनाशब्दस्यैव शसादौ पृदादेशमुदाहरति — पृत इति । पक्षे इति । पृदादेशाऽभावपक्षे इत्यर्थः । गोपा विआपावदिति । आबन्तत्वाऽभावान्न सुलोप इत्यर्थः । इत्यादन्ताः । अथ इदन्ताः । प्रायेणेति । प्रायशब्दो बहुलपर्यायः । 'प्रायोभूम्नि' इत्यमरः । इह तु ईषदूनत्वे वर्तते । प्रकृत्यादित्वात्तृतीया । मतिशब्द ईषदूनहरिशब्दवत्प्रत्येतव्य इत्यर्थः । शसि विशेषमाह — स्त्रीत्वान्नत्वाभाव इति ।तस्माच्छसो नः पुंसी॑तिनत्वस्य पुंस्त्वे विधानादिति भावः । तृतीयैकवचने घित्वान्नाभावमाशङ्क्याह — नात्वं नेति ।आङो नाऽस्त्रिया॑मिति नात्वविधावस्त्रियामिति पर्युदासादिति भावः ।", "82042": "<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> - रदाभ्यां । रदाभ्यामित्यकारावुच्चारणाऽर्थौ । तदाह — रेफदकाराभ्यामिति । निष्ठायाः - त्- निष्ठात्, तस्य निष्ठात इति विग्रहः । तदाह — निष्ठातस्येति । निष्ठातकारस्येत्यर्थः । नः स्यादिति । नकारः स्यादित्यर्थः । सूत्रे 'न' इति प्रथमान्तम् । अकार उच्चारणार्थः । दकारसय्चेतिनकार॑इत्यनुषज्यते । सूत्रे 'द' इति षष्ठन्तमिति भावः । चरितमुदितमित्यत्र तु नत्वं न, निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाऽभावात् । रेफात्परस्योदाहरति — श इति । शृ धातोः क्तप्रत्ययसूचनमिदम् ।ननु कृतस्यापत्यं कार्तिः । अत इञ् , आदिवृद्धिः, रपरत्वम् । अत्रनिष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह — बहिरङ्गत्वेनेति । दात्परस्योदाहरति — छिन्नः भिन्न इति । अत्र निष्टातकारस्य, धात्वन्तदकारस्यच नत्वमिति भावः ।", "82043": "<<संयोगादेरातो धातोर्यण्वतः>> - संयोगादेः । निष्टातस्य नः स्यादति । शेषपूरणमिदम् । द्राण इति ।द्रा कुत्सायां गतौ॑अस्मात् क्तः, तनत्वम्, णत्वम् । ग्लान इति । 'ग्लै हर्षक्षये' 'आदेचः' इत्यात्त्वे नत्वम् । ल्वादिभ्य एकविंशतेरिति । क्र्यादिषु प्वादयो द्वाविंशति, तेषु आद्यं पूञं विहाय ल्वादिभ्य एकविंशतेरित्यर्थः । ज्येति । धातुसूचनम् । ग्रहिज्येति । संप्रसारणसूचनम् । जीन इति । ज्या- त इति स्थितेसंयोगादे॑रिति निष्टानत्वस्याऽसिद्धत्वात्ततः प्रागेव संप्रसारणे पूर्वरूपे च कृते आतः परत्वाऽभावात् 'संयोगादेरातः' इति नत्वस्याऽप्राप्तावनेन नत्वम् । दुग्वार्दीर्घश्चेति । वार्तिकमिदम् । दु गु आभ्यां परस्य निष्ठातस्य नत्वं प्रकृतेर्दीर्घश्च इत्यर्थः । 'मृदुतया दुतया' इति माघकाव्ये दुतशब्दं साधयितुमाह — टु दु उपतापे इत्यादि । गून इति । गुधातोः क्ते दीर्घः । पूञो विनाशे इति । वार्तिकमिदम् । विनाशार्थात् पूञः परस्य निष्ठातस्य नत्वमित्यर्थः । सिनोतेरिति । वार्तिकमिदम् । कर्मैव कर्ता कर्मकर्ता, ग्रासः कर्म कर्ता यस्यस ग्रासकर्मकर्तृकः, तस्मात् 'षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः ।", "82044": "", "82045": "<<ओदितश्च>> - ओदितश्च । ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः । भुग्न इति । नत्वस्याऽसिद्धत्वाज्जस्य पूर्वं कुत्वम् । ततो नत्वम् । उच्छून इति । उत्पूर्वात् 'टु ओ इआ' इति धातोः क्तः, यजादित्वात्संप्रसारणम्, पूर्वरूपम्, 'श्वीदितः' इति नेट्, 'हल' इति दीर्घः, निष्ठानत्वम् । प्रहीण इति ।घुमास्थे॑तीत्त्वं, नत्वं, 'कृत्यचः' इति णत्वम् । स्वादय इति । 'षूङ् प्राणिप्रसवे' इत्याद्या नव धातव ओदित इति दिवादिगणे उक्तमित्यर्थः । सून इति । षूङः क्तः, नत्वं ।श्र्युकः किती॑तीण्निषेधः । दून इति । 'दूङ् परितापे' अस्मात् क्तः, स्वादित्वेन ओदित्त्वान्नत्वम् । ननु 'डीङ् विहायसा गतौ' इत्यस्य उड्डीन इति कथं रूपं, सेट्कत्वादुगन्तत्वाऽभावेनश्र्युकः किती॑ति निषेधस्याऽप्रवृत्तेरित्यत आह — ओदन्मध्ये डीङः पाठसामर्थ्यान्नेडिति । इटि सति निष्ठातस्य ओदितो डीङः परत्वाऽभावान्नत्वाऽप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः ।", "82046": "<<क्षियो दीर्घात्>> - क्षियो दीर्घात् । दीर्घादितिक्षियो विशेषमं । तदाह — दीर्घात्क्षिय इति । दीर्घान्तादित्यर्थः । निष्ठातस्य न इति ।रदाभ्या॑मित्यतस्तदनुवृत्तेरिति भावः । क्षीणवानिति । क्षिधातोः कर्तरि क्तवतुः, 'निष्ठायामण्यदर्थे' इति दीर्घः, तकारस्य नत्वम्, षात्परत्वाण्णः । क्षितः कामो मयेति । क्षपित इत्यर्थः । 'क्षि क्षये' इत्यस्मादन्तर्भावितण्यर्थात्कर्मणि क्तः । भावे तु क्षितं कामेनेत्युदाहार्यम् । अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते क्ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः । दीर्घान्तत्वाऽभावात्क्षियो दीर्घा॑दिति नत्वं न । श्र्युकः कितीति । 'श्रित' इत्यादौ इण्निषेधस्मारकमिदम् । क्षुतैति । 'टु क्षु शब्दे' अस्मात्क्तः । ननु ऊर्णुत इति कथम्, अनेकाच्कत्वेनश्र्युक॑इति निषेधस्याऽप्रवृत्तेरित्यत आह — ऊर्णोतेर्नुवदिति । वार्तिकमिदम् ।", "82047": "<<श्योऽस्पर्शे>> - श्योऽस्पर्शे । श्यः- अस्पर्शे इति छेदः । दीर्घ इति । नत्वात्प्रागेव 'हल' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात् । शीनं घृतमिति । घनीभूतमित्यर्थः । धातूनामनेकार्थत्वात् । यद्यपि घृतेऽप्यनुष्णस्पर्शोऽस्त्येव, तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भावः । अस्पर्शे किमिति । श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः । शीतं जलमिति । शीतस्पर्शवदित्यर्थः । अत्रद्रवमूर्ती॑ति संप्रसारणमेव न तु निष्ठानत्वमित्यर्थः । एवं चद्रवमूर्तिस्पर्शयो॑रित्स्य स्पर्शे इदमुदाहरणम् । 'श्योऽस्पर्शे' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् । सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते । तत्र गुणभूते विशेष्यनिघ्नः । शीता आपः, शीतं जलमित्यादि । यदा तु स्पर्सविशेषो गुणः प्राधान्येन विवक्षितस्तदा क्लीबत्वमेव ।शीतं गुणे॑इत्यमरः । #एसंप्रसारणविधौ पृच्छति — द्रमूर्तिस्पर्शयोः किमिति । संश्यान इति । अत्र स्पर्शस्याऽप्रतीतेर्न संप्रसारणम् । नत्वं तु भवत्येवेति भावः ।", "82048": "<<अञ्चोऽनपादाने>> - अञ्चोऽनपादाने । न त्वपादाने इति । अपादानसमभिहव्याहारे असतीत्यर्थः ।", "82049": "<<दिवोऽविजिगीषायाम्>> - दिवो ।अविजिगीषाया॑मिति च्छेदः । द्यून इति । स्तुत इत्यर्थः ।च्छ्वो॑रित्यूठ् । विजिगीषायां तु द्यूतमिति । द्यूतस्य विजिगीषया प्रवृत्तेरिति भाव- ।", "82050": "<<निर्वाणोऽवाते>> - निर्वाणोऽवाते । कर्ता नेति । निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च । तस्मिन् धात्वर्थे यदिवायुः कर्ता तदा नत्वं नेत्यर्थः । वनिर्वाणोऽग्निर्मुनिर्वेति । नष्ट, उपरत इति क्रमेणार्थः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृत्वान्नत्वं नेति भावः ।निर्वाणो दीपो वातेने॑त्यत्र तु वातस्य करणत्वे विवक्षितत्वात्कर्तृत्वाऽभावान्नत्वं निर्वाह्रम् । भावे तु निर्वातं वातेन ।", "82051": "<<शुषः कः>> - शुषः कः । निष्ठात इति । शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् ।", "82052": "<<पचो वः>> - पचो वः । पचेः परस्य निष्टातस्य वः स्यादित्यर्थः । पक्व इति । वत्वस्याऽसिद्धत्वात्कुत्वम् ।", "82053": "<<क्षायो मः>> - क्षायो मः । 'क्षै क्षये' इत्यस्मात् परस्य निष्ठातस्य मः स्यादित्यर्थः । क्षाम इति । 'आदेचः' इत्यात्वम् ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । क्षीण इत्यर्थः । अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः ।", "82054": "<<प्रस्त्योऽन्यतरस्याम्>> - प्रस्त्योऽन्यतरस्याम् । 'प्रस्त्य' इति पञ्चमी । प्रपूर्वात्स्यैधातोरित्यर्थः । 'निष्ठातस्य म' इति शेषः । प्रस्तीम इति । सङ्गीभूत इत्यर्थः ।", "82055": "<<अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः>> - अनुपसर्गात् । एते निपात्यन्ते, उपसर्गात्परा न चेदित्यर्थः । लत्वमिति ।आदितश्चे॑ति इडभावः,ति चे॑त्युत्त्वं च सिद्धमिति भावः । 'फल निष्पत्तौ' इत्यस्य तु नाऽत्र ग्रहणम्, इडभावस्याऽपि निपात्यत्वापत्तेः । ननु क्तवतुप्रत्यये फुल्लवानिति कथं, क्तवतुप्रत्यये क्तस्याऽनर्थकत्वेन फुल्लशब्देनाऽग्रहणादित्यत आह — क्तवत्वेकदेशस्यापीति । क्षीबादिष्विति । क्षीबकृशोल्लाघेष्वित्यर्थः । क्तप्रत्ययस्यैवेति । नतु क्तवत्वेकदेशस्यापीत्यर्थः । अनर्थकत्वादित भावः । तस्येति । तलोपस्येत्यर्थः । क्षीबो मत्त इति । क्षीबेः क्तः, तलोपः, इडभावश्च । अत्र मत्तादिरेवार्थः, निपातनबलात् । अनुपसर्गात्किमिति । अत्र 'प्रफुल्त' इति प्रत्युदाहरणं विवक्षंस्तत्र विशेषमाह —", "82056": "<<नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्>> - नुदविदोन्द । ह्यीधातोरप्राप्ते, इतरेभ्यो नित्यं प्राप्ते न्तवविकल्पोऽयम् । रौधादिक इति । 'विद विचारणे' इत्ययमित्यर्थः । वेत्तेस्त्विति । 'विद ज्ञाने' इत्यस्येत्यर्थः । अयं सेट्, अनिट्केष्वनन्तर्भावात् । तदाह — विदित इति । अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वं नेति भावः । विद्यतेर्विन्न इति ।विद सत्ताया॑मित्ययमनिट् ।रदाभ्या॑मिति नित्यं नत्वमिति भावः । उन्दीति । उदाहरणसूचनम् ।", "82057": "<<न ध्याख्यापॄमूर्छिमदाम्>> - न ध्याख्या । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । ध्यात इति । ध्यैधातोः क्तः । 'आदेचः' इत्यात्वम् । अत्र 'संयोगादेरातः' इति प्राप्तं नत्वं न । ख्यात इति । ख्याञादेशपक्षे यण्वत्त्वात् 'संयोगादेरातः' इति प्राप्तं नत्वं न । ख्यादेशस्य शस्य यत्वे तु यस् णत्वप्रकरणगतस्याऽसिद्धत्वाद्यण्वत्त्वाऽभावात् 'संयोगादेरातः' इति नत्वस्य न प्रसक्तिः । स्वतः सिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नाऽस्त्येवेति ख्याग्रहणं व्यर्थमेव । पूर्त इति । पृधातोः क्तः ।श्र्युकः किती॑ति नेट् ।उदोष्ठपूर्वस्ये॑ति उत्त्वं,रपरत्वम् । इहरदाभ्या॑मिति प्राप्तं नत्वं न । मुर्छाधातोः क्ते आह — राल्लोप इति । छस्य लोप इति भावः । मूर्त इति ।आदितश्चे॑ति नेट् । छलोपेरदाभ्या॑मिति प्राप्तं नत्वं न ।हलि चे॑ति दीर्घः । मत्त इति । 'मदी हर्षग्लेपनयोः' अस्मात् क्तः । 'श्वीदितः' इति नेट् । अत्ररदाभ्या॑मिति प्राप्तं नत्वं न ।", "82058": "<<वित्तो भोगप्रत्यययोः>> - वित्तो भोग । भुज्यत इति भोगः — भोग्यम् । प्रतीयते इति प्रत्ययः — प्रख्यातः । अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् । तदाह — विदन्तेरिति । निपातोयमिति । 'नुदविदोन्दे' ति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः । तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः । प्रतीते इति । प्रख्याते इत्यर्थः । वित्तः पुरुष इति । प्रख्यात इत्यर्थः । विन्न इति । लब्धश्चोरादिरित्यर्थः । अत्रयस्य विभाषे॑ति इण्निषेदमुपपादयति — विभाषा गमेति । 'एकाच' इति निषेधाच्चेत्यपि बोध्यम् ।", "82059": "<<भित्तं शकलम्>> - भित्तं शकलम् । शकले वाच्ये भिदेः क्तस्य नत्वाऽभावो निपात्यते । शकलत्वजातिविशिष्टेऽवयवार्थमनपेक्ष्य रूढोऽयम् । ततश्च भित्तशकलयोः पर्यायत्वान्न सहप्रयोगः । भिदिक्रियाविवक्षायां तुभित्तं भिन्न॑मिति भवतीति भाष्ये स्पष्टम् ।", "82060": "<<ऋणमाधमर्ण्ये>> - ऋणमाधमण्र्ये । अधमर्णस्य कर्म - आधमण्र्यम् । आधमण्र्यव्यवहारे इति । स च अन्यदीयं द्रवयं गृहीतमियता कालेन इयत्या वृद्ध्या प्रतिदीयते इति संविद्रूपः, तस्मिन्विषये इत्यर्थः । ऋतमन्यदिति । सत्यमित्यर्थः ।", "82061": "", "82062": "<<क्विन्प्रत्ययस्य कुः>> - क्विन्प्रत्ययस्य कुः ।पदस्ये॑त्यधिकृतम् । 'झलाञ्जशोऽन्ते' इत्यतेऽन्त इत्यनुवर्तते । क्विन् प्रत्ययो यस्मात् स क्विन्प्रत्ययः, तस्येति बहुव्रीहिः । क्विन्नन्तस्येति तु नार्थः, तथासतिक्विनः कु॑रित्येव ब्राऊयात्, प्रत्ययग्रहणपरिभाषाया क्विन्नन्तस्येत्यर्थलाभात् । तदाह — क्विन्प्रत्ययो यस्मादित्यादिना । बहुव्रीहेः प्रयोजनं तु घृतस्पृश्शब्दानिरूपणे मूल एव वक्ष्यते । कुरिति कवर्गो गृह्रते, उदित्त्वात् । अणिदित्सूत्रे 'अप्रत्यय' इत्येतदणैव संबध्यते, नतूदिता, उदित्करणसामर्थ्यात् । तेन कुरिति विधायमानोपि सवर्णग्राहकः । ननु नकारस्य कुत्वे कखगघङा पञ्चापि पर्यायेण प्राप्नुयुः, स्थानत आन्तर्यस्य पञ्चस्वप्यभावात्, स्पृष्टप्रयत्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्, घोषसंवारनादवता अल्पप्राणवता च नकारेण गकारस्यापि आन्तर्यसत्त्वात् । अत आह — नस्येति । नासिकास्थानत आन्तर्यादिति भावः । युङिति । 'युजिर्योगे ।' रूधादिः । युनक्तीति युङ् । नुमि कृते तदीयनकारस्य 'चोः कुः' इति कुत्वं न प्रानोतीतिक्वन्प्रत्ययस्ये॑त्यारम्भः । अथ औजसादिषु विशेषमाह — नश्चेति । नुम इति । 'युजेरसमासे' इति विहितस्ये॑ति शेषः । परसवर्ण इति ।अनुस्वारस्य ययी॑ति परसवर्णो ञकारो, नासिकास्तथानत आन्तर्यादिति भावः । तेन युञ्जावित्यादि सिद्धम् । नन्विह ञकारस्य झलि जकारे परेचोः कु॑रिति कुत्वं कुतो न स्यादित्यात आह — तस्येति । परसवर्णस्येत्यर्थः । युग्भ्यामिति । 'स्वादिषु' इति पदत्वाज्जकारस्य गकार इति भावः ।", "82063": "<<नशेर्वा>> - नशेर्वा ।क्विन्प्रत्ययस्य कुः॑ इत्यतः कुरित्यनुवर्तते, 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इति च ।पदस्ये॑त्यदिकृतं । तदाह — नशेरित्यादि । 'अन्तादेश' इत्यलोऽन्त्यसूत्रलभ्यम् । पक्षेव्रश्चे॑चि षत्वम् । नक् नगिति । कुत्वपक्षे जश्त्वचर्त्वाभ्यां रूपे । नट् नडिति । षत्वपक्षे जश्त्वचर्त्वाभ्यां रूपे । नग्भ्यां नढ्भ्यामिति । कुत्वपक्षे जश्त्वेन गकारः । षत्वपक्षे तु जश्त्वेन डकारः ।मस्जिनशोर्झली॑ति नुम् तु न, धातोर्विहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात् ।", "82064": "<<मो नो धातोः>> - अथ मकारान्ताः । अथ प्रपूर्वात्शमुधातोः क्विपिअनुनासिकस्य क्वझलोः क्ङिति॑ इति दीर्घे सति निष्पन्ने प्रशाम्शब्दो विशेषमाह — मो नो धातोः । 'म' इति षष्ठन्तंधातो॑रित्यस्य विशेषणं, ततस्तदन्तविधिः । पदस्येत्यधिकृतं, 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते । तदाह-मान्तस्येत्यादिना ।अलो ।ञन्त्यस्ये॑ति मकारस्य भवति । तत्र सोर्हल्ङ्यादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपमाशङ्क्याह — नत्वस्येति । प्रशानिति । स्वरादिपाठेऽप्यस्य नाव्ययत्वं, सत्त्ववाचित्वात् । असत्त्ववाचित्वे तु स्वरादिपाठाद्वययत्वमेवेति भावः । प्रशान्भ्यामिति । भ्यामादो हलिस्वादिष्वसर्वनामस्थाने॑ इति पदत्वान्नत्वमिति भावः । इत्यादीति । प्रशान्भिः । प्रशामे । प्रशान्भ्यः । प्रशामः । प्रशामः । प्रशामोः । प्रशामाम् । प्रशामि प्रशान्त्सु-प्रशान्सु ।नश्चेति॑धृड्विकल्पः । अथ कायतेर्ङिमिरिति निष्पन्नः किम्शब्दः प्रष्टव्ये वर्तते ।", "82065": "", "82066": "<<ससजुषो रुः>> - ससजुषो रुः । ससजुषो रु रिति छेदः ।रो रि॑इति रेफलोपः । सश्च सजूश्च ससजुषौ, तयोरिति विग्रहः । रुविधौ उकार इत् । तत्फलं त्वनुपदमेव वक्ष्यते । 'स' इति सकारो विविक्षितः । अकार उच्चारणार्थः । पदस्येत्यधिकृतं सकारेण सजुष्शह्देन च विशेष्यते । ततस्त दन्तविधिः । सकारान्तं सजुष्शब्दान्तं च यत् पदं तस्य रुः स्यादित्यर्थः । सचअलोऽन्त्ये॑त्यन्त्यस्य भवति । तत्फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्य चेति । सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततश्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततस्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत्पद॑मिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः । न च सजूरित्यत्राव्याप्तिः शङ्क्या, व्यपदेशिवद्भावेन तदन्तत्वात् ।व्यपदेशिवद्भावो ।ञप्रातिपदिकेन॑ इतिग्रहणवता प्रातिपदिकेन तदन्तविधिर्न॑ इति च पारिभाषाद्वयंप्रत्ययग्रहणे यस्मा॑दितिविषयं, नतु येन विधिरितिविषयमितिअसमासे निष्कादिभ्यः॑ इति सूत्रे भाष्ये स्पष्टम् । ननु शिवसिति सकारस्य 'झलाञ्जशोन्ते' इति जश्त्वेन दकारः स्यात्, जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह — जश्त्वापवाद इति । तथा च रुत्वस्य निरवकाशत्वान्नासिदधत्वमिति भावः । तदुक्तं भाष्येपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ,अपवादो वचनप्रामाण्यादि॑ति च ।", "82067": "", "82068": "<<हलि च>> - हलि च ।र्वोरुपधाया दीर्घ इकः॑ इत्यनुवर्तते । 'सिपि धातोः' इत्यतो धातोरिति च । तच्च र्वोरित्यनेन विशेष्यते । तदन्तविधिः । तदाह-रेफवान्तस्येत्यादिना । रेफान्तस्य-जीर्यतीत्युदाहरणम् । अपदान्तत्वात् 'र्वोरुपधायाः' इत्यप्राप्ते विधिः । प्रकृते च प्रतिदिव् न् अस् इति स्थिते नकारे हलि परे वान्तस्य दिव्धातोरूपधाया इकारस्य दीर्घ इति भावः । ननुअचः परस्मि॑न्नित्यल्लोपस्य स्थानिवत्त्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्याशङ्क्य परिहरति — नचेति । कुत इत्यत आह — दीर्घविधौ तन्निषेधादिति ।न पदान्ते॑ति सूत्रेण दीर्घवधौ स्थानिवत्त्वनिषेधादित्यर्थः । नन्वेवमपि भसंज्ञापेक्षस्याऽल्लोपस्य बहिर्भूतप्रत्ययापेक्षत्वेन बहिरङ्गतया तस्याऽन्तरङ्गे दीर्घे कर्तव्येऽसिद्धत्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्यत आह-बहिरङ्गेति । यथोद्देशपक्षे षाष्ठीं परिबाषां प्रति श्चुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावे परिभाषाया अप्रवृत्तेरिति राजन्शब्दोक्तन्यायेन दीर्घस्याऽसिद्धतया तद्विषयेअसिद्धं बहिरङ्ग॑मिति परिभाषा न प्रवर्तते इति भावः । प्रतिदीव्न इति ।न भकुर्छुरा॑मिति निषेधस्तु वान्तस्याऽभत्वान्नेति भावः । इत्यादीति । प्रतिदिव्ने । प्रतिदीव्नः २ । प्रतिदीव्नोः २ । भ्यामादौ हलि राजवदित्यर्थः । यज्वन्शब्दः सुटि राजवदित्याह — यज्वेति ।", "82069": "<<रोऽसुपि>> - रोऽसुपि । रः-असुपीति छेदः । 'अहन्' इति सूत्रमनुवर्तते, तच्च लुप्तषष्ठीकं पदन्तदाह-अह्न इति । नतु सुपीति । पर्युदासाश्रयणे तुनञिवयुक्त॑न्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थः स्यात्, ततश्च अहर्वानित्यादावेव स्यान्न त्वहर्भातीत्यादावेव स्यान्न त्वहर्भातीत्यादावपि, अतः प्रसज्यप्रतिषेध इहाश्रितः । ननु अह इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धत्वात्किमर्थमिदमित्यत आह — रोरपवाद इति । अहरहरिति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अहन्-अहन् इति स्थिते रत्वम् ।न लुमते॑ति निषेधात्सुप्परकत्वाऽभावः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुहशि चे॑त्युत्वं स्यात् । अहोभ्यामिति ।अहन्-भ्या॑मिति स्थिते नकारस्य सुप्परकत्वान्न रेफः । अत्रेति । 'अह' न्निति रुत्वेहशि चे॑त्युत्वे आद्गुणः ।रूपरात्रि ।अहन्शब्दस्ये॑ति शेषः ।रोऽसुपी॑ति रत्वस्याऽयमपवादः । अहोरूपमिति.अह्नो रूपमिति विग्रहः ।अहन्-रूप॑मिति स्तिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति ।अहन्-रात्रि॑रिति स्थिते, रुत्वम्, उत्वम्ाद्गुणः । रत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्वे,अहस्सर्वैकदेशे॑त्यादिना समासान्ते अचि,यस्येति चे॑ति लोपे, अहन्-रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे आद्गुणे,रात्राह्नाहाः पुंसी॑ति पुंस्त्वे, 'अहोरात्र' इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथं रुत्वम् , ततश्चरोऽसुपी॑ति रत्वे उत्वं न स्यादित्यत आह-एकदेशेति । अहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं = सामविशेषः ।अहरादीनाम् । ननुअहरादीना॑-मिति रेफविसिष्टस्योपादानाद्रेफस्य रेफविधानं व्यर्थमित्यत आह-विसर्गापवाद इति । अहर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि 'र्वोरुपधाया' इति दीर्घः । पक्षे इति । रत्वाऽभावपक्षे विसर्गस्यकुप्वो॑रिति उपध्मानीयविसर्गौ ।इदुदुपधस्ये॑ति षत्वं तु तपरकरणान्नेति भावः ।", "82070": "", "82071": "", "82072": "<<वसुस्रंसुध्वंस्वनडुहां दः>> - भ्यामादौ हलि विशेषमाह — वसुरुआंसु । वसुः प्रत्ययः, तेन तदन्तं गृह्रते ।रुआंसु ध्वंसु अवरुआंसने॑ इति धातू । 'ससजुषो रुः' इत्यतः 'स' इति लुप्तष,ठीकमनुवृत्तम् । तेन च वसुर्विशेष्यते । तदन्तविधिः । सान्तत्वं रुआंसुध्वंस्वोर्न विशेषणम्, अव्यभिचारात् । नाप्यनडुहः, असंभवात् । पदस्येत्यधिकृतं बहुवचनान्तत्वेन विपरिणम्यते ।अलोऽन्त्यस्ये॑ति तदन्तस्य भवति । फलितमाह — सान्तेत्यादिना । यथासंभवं रुत्वढत्वयोरपवादः । अनडुद्भ्यामिति ।स्वादिष्वसर्वनामस्थाने॑ इति पदत्वादिति भावः । इत्यादीति । अनडुद्भिः । अनडुद्भ्यः २ । अनडुहे । अनडुहः । अनडुहः अनडुहोः अनजुहाम् । दत्वेखरि चे॑ति चर्त्वम् । अनडुत्सु । सान्तेति किमिति । वसोरपि सान्तत्त्वाऽव्यभिचारात्प्रश्नः । विद्वानिति । विद्वस् स् इति स्थितेअतवसन्तस्ये॑ति दीर्घेउगिदचा॑रिति नुमि सुलोपे संयोगान्तलोपे च रूपम् । अत्र वसोः सकारान्तत्वाऽभावान्न दत्वमिति भावः । रुआस्तं ध्वस्तमिति । क्तप्रत्ययान्तम् । अत्र पदान्तत्वाऽभावान्न दत्वम् । विद्वांसौ अनड्वाहावित्याद्यप प्रत्युदाहार्यम् ।", "82073": "<<तिप्यनस्तेः>> - र्वोरुपधायाः । र्च, व् च र्वौ, तयोरिति विग्रहः । 'सिपि धातो रुर्वा' इत्यतो धातोरित्यनुवर्तते । र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः ।पदस्ये॑त्यधिकृतम् । 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते । तदाह — रेफेत्यादिना । पिपठीरिति । ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः । पिपठीभ्र्यामिति । 'स्वादिषु' इति पदत्वात् 'र्वोरुपधायाः' इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः । सुपि विशेषमाह — वा शरीति । पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वंवा शरी॑ति विकल्पेन विसर्जनीयः । तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः । तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् 'आदेशप्रत्यययोः' इति षत्वे अप्राप्ते- ।", "82074": "<<सिपि धातो रुर्वा>> - सिपि धातोः । पदस्येत्यधिकृतम् । 'झलां जशोऽन्ते' इत्यतोऽन्ते इत्यनुवृत्तम् ।ससजुषो॑रित्यतः स इति लुप्तषष्ठीकमनुवर्तते ।तदाह — पदान्तस्येति । पक्षे इति । 'वसुरुआंस्वि' त्यतस्तदनुवृत्तेरिति भावः । सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासधातुरुदित् । सेट् ।", "82075": "", "82076": "", "82077": "", "82078": "<<उपधायां च>> - उपधायां च । सिपि धातोरिति, 'र्वोरुपाधाया' इत्यतो र्वोरिक इति,हलि चे॑त्यतो हलीति चानुवर्तते ।उपधयो॑रित्यर्थे उपधायामित्यार्षम् । तदाह — धातोरित्यादि । ऊर्दत इति । अत्र धातोः रेफवान्तत्वाऽभावात् 'र्वोरुपधायाः' इत्यस्यहलि चे॑त्यस्य चाऽप्राप्तौउपाधायां चे॑त्यारम्भः । धातोरित्यभावे पदाधिकारस्थत्वात्पदस्य उपधाभूतयोरित्यर्थः स्यात् । ततश्च क्विबन्ते ऊर्दित्यत्रैव स्यात्, ऊर्दत इत्यादौ न स्यात् । रेफवकारयोः किम् । पुष्प्यति । हल्परयोः किम् । चिरिणोति । इकः किं । नर्दति । ऊर्दांचक्र इति । इजादित्वादाम् ।कृञ्चानुप्रयुज्यते॑ इत्यनुप्रयोगः । कुर्देति । गुदेत्यपि पृथग्धातुः ।क्रीडायामेवे॑त्यर्थनिर्देशः । एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति । कूर्दत इति ।उपधायां चे॑ति दीर्घः । चुकूर्द इति ।कुहोश्चु॑रिति चुत्वम् । खूर्दत इति ।उपधायां चे॑ति दीर्घः । एवं गूर्दते इति । गोदत इति । शपि लघूपधगुणः । जुगुद इति ।असंयोगा॑दिति कित्त्वान्न गुणः । षूदेति । क्षरणं — प्ररुआवणम् । सूदत इति । प्ररुआवतीत्यर्थः ।धात्वादे॑रिति षस्य सः । अलघूपधत्वान् गुणः । सुषूद इति ।धात्वादे॑रिति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात्षत्वम् । यदि धातुपाठे सकारस्यैव पाठस्तर्हि इहादेशसकात्वाऽभावात् षत्वं न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात्षत्वं सूपपादमिति भावः । ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपेदेशान् पठति — सेगिति श्लोकेन ।दन्त्याजन्तषादय एकाचः षोपदेशाः स्यु॑रित्यन्वयः । दन्त्यश्च अच्च दन्त्याचौ, तौ अन्तौ = अव्यवहितपरौ यस्य स दन्त्याऽजन्तः, तथाविधः षः = षकार आदिर्येषां ते — दन्त्याजन्तषादयः । दन्त्यपरकोऽच्परकश्च यः षकारस्तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिनोपदिष्टाः प्रत्येतव्या इत्यर्थः । 'सादय' इति पाठेऽप्येवमेव व्याख्येयम् ।अज्दन्त्यपराः षादयः षोपदेशाः॑ इति भाष्यम् । षूद क्षरणे इत्यादयोऽच्परकषोपदेशाः ।ष्ठा गतिनिवृत्ता॑वित्यादयस्तु दन्त्यपरकषोपदेशाः । दन्त्याजन्तेति किम् । स्कुदि आप्रवणे । चुस्कुन्दे । अत्र सकारो न दन्त्यपरको, नाप्यच्परकः । एकाचः किम् । सोसूत्र्यते ।सूत्र वेष्टने॑, चुरादिरजन्तोऽनेकाच् । यद्यप्येकाचेति भाष्ये न दृश्यते, तथापि यङ्विधौ सोसूच्यत इति भाष्यं तत्र मानमिति बोध्यम् । एवं च 'साध-संसिद्धौ' इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननुसेकृ गतौ॑, 'सृप्लृ गतौ' ,सृ गतौ॑, 'सृज विसर्गे' एते चत्वारोऽच्परकसादयः । स्तृञ् आच्छादने॑ ऋदन्तः श्नुविकरणः, ।स्तृञ् आच्छादने ऋदन्तः श्नविकरणः, स्त्यै शब्दसङ्घातयोः॑ । एते त्रयो दन्त्यपरकसादयः । एषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्वं विशेषणमाह - सेक् सृप् सृ स्तृ सृज् स्तृम्त्यान्ये इति । स्त्यै धातोः कृतात्वस्य निर्द्देशः श्लोके समावेशार्थः, स्त्यै इत्यैकारान्तस्य निर्देशे 'स्त्यार्यन्य' इत्येकस्याक्षरस्याधिक्यापत्तेः । नन्वेवमपि ष्वष्क् गतौ, ञिष्विदा गात्रप्ररुआवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिङीषद्धसने — इत्येतेषु सकारस्य दन्त्यपरकत्वाऽभावादच्परकत्वाऽभावाच्च षोपदेशेष्वसङ्ग्रह स्यादित्यव्याप्तिमाशङ्क्य तानपि संङ्गृह्णाति — ष्वक् स्विद् स्वद् स्वप् स्मिङ इति ।अपी॑ति शेष- । ननुस्वृ शब्दोपतापयो॑रित्यादीनामपि दन्त्यवकारपरकत्वात्षोपदेशत्वं स्यादित्यत आह — दन्त्यः केवलदन्त्य इति । कुत इत्यत आह — ष्वष्कादीनांमिति । अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः । यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिनुष्वष्कतीनां सत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भावः । हादेति । रेफवानयम् । अव्यक्तशब्दः - अमनुष्यवाक ।जहाद इति । अभ्यासस्य ह्रस्वः । चुत्वम् । ह्लादीति । लकारवानयम् ।स्वीदितो निष्ठाया॑मितीण्निषेधार्थमीत्वम् । स्वादेति केवलदन्त्यपरकत्वाऽभावान्नायं षोपदेशः । असिस्वदत् । पदेति । गुदरव इत्यर्थः । यतीति । ईदित्त्वमिण्निषेधार्थम् । येते इति । 'अत एकहल्मध्ये' इत्येत्वाभ्यासलोपौ । युतृ जुतृ इति । ऋदित्त्वम्नाग्लोपिशास्वृदिता॑मित्याद्यर्थम् । योतत इति । शपि लघूपधगुणः । युयुत इति ।असंयोगा॑दिति कित्त्वान्न गुणः । विथृ वेथृ इति । द्वितीयान्तविमौ । ननु 'विथृ' इत्येवास्तु, लघूपधगुणे सति घेथत इत्यस्याऽविशिष्टत्वादित्यत आह — विविते विवेथे इति । वेथृधातोर्विवेथे इति रूपम् । विथृधातोस्तु असंयोगादिति कित्त्वाद्गुणाऽभावे विविथ इति रूपमिति भावपः । श्रथीति । द्वितीयान्तः । शैथिल्यं — रुआंसनम् । श्रन्थते इति । इदित्त्वान्नुम् । ग्रथीति । द्वितीयान्तः । काटिल्यं — वक्रीभवनम् । ग्रन्थत इति । इदित्त्वान्नुम् । कत्थेति । अविद्यमानगुणज्ञापनं श्लाघा । अथाष्टातिंरशदिति । अष्टौ च तिंरशदिति द्वन्द्वः । अष्टाधिका तिंरशदिति वा ।द्व्यष्टनः सङ्खाया॑मित्यात्वम् ।अष्ट तिंरश॑दिति पाठे तु अष्टेति पृथक्पदम् । परस्मैपदिन इति । अनुदात्तस्वरितङ्ञित्त्वाऽभावात्शेषात्कर्तरी॑ति परस्मैपदिन एवेति भाव- । अतेति । सातत्यगमनं — संततगमनम् । लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह — अत आदेरिति ।इति दीर्घ॑इति शेषः । तथा च अभ्यासाऽकारस्य दीर्गे सति सवर्णदीर्घः । तदाह-आतेति । अकारस्य हल्मध्यस्थत्वऽभावादेत्वाभ्यासलोपौ न । लुङिति । अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे 'अस्तिसिचोऽपृक्त' इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः ।", "82079": "<<न भकुर्छुराम्>> - न भकुर्छुराम् । 'र्वोरुपधायाः' इत्यत 'उपधाया' इति दीर्घ इति चानुवर्तते । तदाह — भस्येत्यादिना ।धूर्वहे धुर्यधौरेयधुरीणाः॑ इत्यमरः ।", "82080": "<<अदसोऽसेर्दादु दो मः>> - तदाह — अदसोऽसान्तस्येति । असेः किम् । अदस्यति । दात् किम् । अमुया । अत्रअलोऽन्त्यस्ये॑ति यकारस्य न भवति । ननु उदूताविति कथम्, उ इत्यस्यैव श्रवणादित्यत आह — उ इतीति । उश्च ऊश्च तयोः समाहार इति विग्रहे द्वन्द्वे सति, सुब्लुकि, सवर्णदीर्घेस नपुंसक॑मिति नपुंसकत्वेह्रस्वो नपुंसके प्रातिपदिकस्ये॑ति ह्रस्वत्वे, समाहास्यैकत्वादेकवचननस्य सोःस्वमोर्नपुंसका॑दिति लुकि उ इति रूपमित्यर्थः । आन्तरतम्यादिति । अर्धमात्रस्य व्यञ्जनस्य ईषत्सदृशो मात्रिको ह्रस्व उकारः । ह्रस्वस्य तु मात्रिकस्य मात्रिकत्वसादृश्यादुकारो ह्रस्वः, दीर्घस्य तु द्विमात्रत्वसादृश्याद्द्विमात्र ऊकार इत्यर्थः । अमुमुयङिति । अदद्रच् स् इति स्थितेउगिदचा॑मिति नुमि, हल्ङ्यादिलोपे, चकारस्य संयोगान्तलोपे, नुमो नकारस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वे, अदद्रङिति स्थिते, प्रथमदकारस्य मत्वे, तदुत्तरस्याऽकारस्य उत्वे, द्वितीयदकारस्य मत्वे, तदुत्तरस्य रेफस्य उत्वे च कृते, अमुमुयङिति रूपमिति भावः । प्रक्रियाक्रमस्तु सूत्रपौर्वापर्यज्ञानवतां सुगमः । अमुमुयञ्चाविति । प्राञ्चावितिवद्रूपम् । उत्वमत्वे पूर्ववत् । अमुमु इ अच् औ इति स्थिते यणिति विशेषः । अमुमुईचेति । अमुमु इ अच् अस् इति स्थितेअन्तरङ्गोऽपि यण् 'अचः' इति लोपविषये न प्रवर्तते॑ इत्युक्तरीत्या अकृते यणि 'अचः' इत्यकारलोपे 'चौ' इतीकारस्यदीर्घ इति भावः । अमुमुयग्भ्यामिति । 'चोः कुः' इति कुत्वमिति विशेषः । इकारे परे मकारादुकारस्य यणमाशङ्क्य आह — मुत्वस्यासिद्धत्वादिति । अमुमुईचे । अमुमुईचः २ । अमुमुईचौः २ । अमुमुयक्षु । मतान्तरमाह — अन्त्यबाधे इति । अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य कार्याऽभावे सति अन्त्यसमीपवर्तिनः कार्यं भवतीत्यर्थः । प्रकृते च अदस इति नावयवषष्ठी, किन्तु स्थानषष्ठी । ततश्चअलोऽन्त्यस्ये॑त्युपतिष्ठते । असान्तस्य अदसोऽन्त्यस्य दात्परस्य उत्वं दस्य च म इति फलितम् । अदसश्चान्त्यवर्णः सकारो दात्परो न भवति, अद्रआदेशे कृते तु इकारोऽन्तः, सोऽपि दात्परो न भवति । ततश्च अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशबाधे सति अन्त्यसमीपवर्तिन एव दात्परस्य उत्वं, दस्य च मः, नतु ततः प्राचीनयोरपि दकारतदुत्तरवर्णयोर्मुत्वमित्यर्थः । नन्वेवं सति 'णो नः' इति धात्वादेर्णकारस्य विहितं नत्वं नेता इत्यत्रैव स्यान्नमतीत्यत्र न स्यादिति चेत्, मैवम्-अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यसदेशानन्त्यसदेशयोर्युगपत्प्राप्तौ अन्त्यसदेशस्यैव भवतीति परिभाषार्थ इतिष्यङः संप्रसारण॑मिति सूत्रे बाष्ये स्पष्टं प्रपञ्चितत्वात् । यद्यपिष्यङः सम्प्रसारण॑मिति सूत्रे प्रकृतसूत्रे चअनन्त्यविकारे अन्त्यसदेशस्ये॑ति परिभाषा पठिता तथापि सैवाऽत्रार्थतः सङ्गृहीता । अन्त्यस्य विकारः-आदेशः अन्त्यविकारः । अन्त्यविकारस्याऽभावः अनन्त्यविकारः ।अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यते॑ इति वक्ष्यमाणत्वात्तत्पुरुषः । अव्ययीभावपक्षे तुतृतीयासप्तम्योर्बहुल॑मित्यम्भावाऽभावः । अलो ।ञन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशाऽभावे सतीति यावत् । अदमुयङिति । अत्र पूर्वस्य दकारस्य तदुत्तराऽकारस्य च न मुत्वमिति विशेषः । मतान्तरमाह — अः सेः सकारस्येति । सेरित्यस्य विवरणं — सकारस्येति ।असे॑रिति नायं नञ्तत्पुरुषः, किंतु अः सेर्यस्य स-असिः, त्सय असेरिति विग्रहः । सेरिति स्थानषष्ठी, इकार उच्चारणार्थः,सकारस्थानकाऽकारवत इत्यर्थः । अदस्शब्दस्य त्यदाद्यत्वे कृते सकारस्थानकाऽकारवत्त्वम् । अतस्त्यदाद्यत्ववत एवादस्शब्दस्य मुत्वं नान्यस्येति फलितम् । अतोऽद्रआदेशे सति सकारस्थानकाऽकारवत्त्वाऽभावान्न मुत्वमित्यर्थः ।तदिदं पक्षत्रयमपि भाष्यसंमतमित्याह — उक्तं चेति । अदसष्टेरद्रेर्विधौ सति अदद्रचित्यत्र प्रथमद्वितीययोर्दकारयोः पृथङ्मत्वे, तदुत्तरयोः अवर्णरेफयोरुत्वं च युगपदेव । लत्ववत् । चलीकॢप्यते इत्यत्र चरीकृप्यते इति स्थिते रेफऋकारयोर्यथा 'कृपो रो लः' इति लत्वं, तथा केचिदिच्छन्ति । हि-यतोऽसेः सकारस्थानकाकारवत एव मुत्वं दृश्यते=अः सेः यस्येति बहुव्रीहिणा प्रतीयत इति योजना । विष्वग्देवयोः किमिति । विष्वग्देवयोश्चेति किमर्थमित्यर्थः । अआआचीति । अत्र विष्वग्देवयोः सर्वनाम्नश्चाऽभावान्नाद्रआदेश इति भावः । विष्वग्देवयोश्चेति किमर्थमित्यर्थः । अआआचीति । अत्र विष्वग्देवयोः सर्वनाम्नश्चाऽभावान्नाद्यादेश इति भावः । विष्वगञ्चनमिति । अत्र 'अन' इति ल्युडादेशस्य श्रूयमाणतया अञ्चेरप्रत्ययान्तत्वं नेति भावः । ननु उत्तरपदाधिकारादञ्चुरूपे उत्तरपदे इत्यर्थाद्विष्वगञ्चनमित्यत्र आद्रआदेशस्याऽप्रसक्तेः किमप्रत्ययग्रहणेनेत्यत आह — अप्रत्ययग्रहणमिति । तेनेति । अन्यथाअतः कृकमी॑त्यत्र 'नित्यं समासे' इत्यतोऽनुवृत्तसमासग्रहणेन उत्तरपदाक्षेपात्कृधातुरूपे उत्तरपदे इत्यर्थलाभादयस्कृदित्यत्रैव सत्वं स्यात्, अयस्कार इत्यत्र न स्यादित्यर्थः । उदङिति । उत् अञ्चतीति विग्रहे क्विन्नादिरिति भावः ।", "82081": "<<एत ईद्बहुवचने>> - तत्र दकारादेकारस्य ऊत्त्वे प्राप्ते एत ईत् ।अदसोऽसेर्दादु दो मः॑ इत्यस्मात्अदसो दा॑दिति 'दो मः' इति चानुवर्तते । तदाह-अदस इत्यादिना । बह्वर्थोक्ताविति । सूत्रे बहुवचनशब्दो यौगिकः । पारिभाषिकस्य ग्रहणे तु अमीभिरित्यादिसिद्धावपि अमी इति न सिध्येत्, 'अदे' इत्येकारस्य बहुवचनतया तत्परकत्वाऽभावादिति भावः । ननु औजसादिषु त्यदाद्यत्वे पररूपे च उत्त्वमत्वयोः कृतयोरमुऔ अमुअः इत्यादि स्यात् । मुत्वस्याऽसिद्धत्वान्नयणित्याशङ्क्य आह — पूर्वत्रेति । विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । यदि तु पूर्वत्रासिद्ध मित्यत्रकार्याप्रवृत्तेरावश्यकतया परत्वात्रैपादिके मुत्वे कृते सति उत्वस्थानिनोऽकारस्यापहारे सति, पश्चान्मुत्वेऽभावप्रतियोगित्वारोपेऽपिदेवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनरुन्मज्जन॑मिति न्यायेन स्थानिभूतस्य दकारादकारस्याऽभावाद्वृद्धिगुणादि न स्यात् । शास्त्राऽसिद्धत्वपक्षे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्तच्छास्त्र एवाऽभावारोपसम्भवात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्दौ सत्यांविप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । तदुक्तंपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति । ततश्च स्थानिनोऽकारस्य निवृत्त्यभावाद्वृद्धिगुणादिप्रवृत्तिर्निर्बाधा । एतच्चपूर्वत्रासिद्ध॑मित्यत्र 'अचः परस्मिन्' इत्यत्र 'षत्वतुकोरसिद्धः' इत्यत्र च भाष्ये स्पष्टम् । प्रपञ्चितं च शब्देन्दुशेखरे शब्दरत्ने च इत्यास्तां तावत् । अमुमिति । अदस् अम् इति स्थिते त्यदाद्यत्वं, पररूपम्, अमि पूर्वः, उत्वमत्वे इति भावः । अमू इति । द्वितीयाद्विवचनं प्रथमाद्विववचनवत् । अमूनिति । शसि, त्यदाद्यत्वं, पररूपं, पूर्वसवर्णदीर्घः, नत्वम्, उत्वमत्वे इति भावः । तृतीयैकवचने अदस् आ इति स्थिते त्यदाद्यत्वं, पररूपम्, उत्वमत्वे च सिद्धवत्कृत्याह — नाभाव इति ।शेषो घ्यसखी॑ति घिसंज्ञायाम्आङो नाऽस्त्रिया॑मिति नाभाव इत्यर्थः । ननुपूर्वत्रासिद्ध॑मिति विभक्तिकार्यं प्राक्पश्चादुत्वमुत्वे इति प्रागुक्तम् । सम्प्रति तु मुत्वे कृते घिसंज्ञायां नाभाव इत्युच्यते । तदिदं पूर्वाऽपरविरुद्धमिति चेत्सत्यम् । यद्विभक्तिकार्यं प्रति मुत्वं निमित्तं न भवति, तदेव विभक्तिकार्यं प्राक् भवति, न त्वन्यदिति विवक्षितम् । इह च नाभावं प्रति मुत्वं निमित्तमिति प्रथमं मुत्वप्रवृत्तेरविरोधः, 'न मु ने' इत्यारम्भसामर्थ्यादित्यलम् ।", "82082": "<<वाक्यस्य टेः प्लुत उदात्तः>> - अथ प्लुतप्रगृह्रा इति सूत्राकाङ्क्षितप्लुतप्रगृह्रयोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते — वाक्यस्य टेः ।पदस्ये॑त्यधिकृतम् । वाक्यस्य टेः पदावयवस्य प्लुतो भवति, सच उदात्तो भवतीत्यर्थः । अत्र पदस्येत्यनुवृत्तिर्नश्छव्यप्रशानित्याद्युत्तरार्था, इहानुवृत्तिविच्छेदे उत्तरत्रानुवृत्तेरसंभवात् । वाक्यस्येत्यभावे पदस्य टेरित्युक्ते यावन्ति वाक्ये पदानि तावतां टेः प्लुतः प्रसज्येत ।वाक्यस्ये॑त्युक्ते तु वाक्यस्य टिरन्त्यस्यैव पदस्य संभवतीति न दोषः । टिग्रहणाभावे प्लुतश्रुत्याऽचश्चेति परिभाषयाऽच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात्तदन्तविधावजन्तस्य वाक्यस्येत्यर्थे सत्यलोऽन्त्यपरिभाषया वाक्यान्तस्याचः प्लुत इति पर्यवसानाद्व्रामं गच्छाग्निचि ३ दित्यादिहलन्तवाक्येषु प्लुतो न स्यात् । टिग्रहणे तु तत्सामर्थ्यादेव टिनाऽचो विशेषणाट्टेरवयवस्याचः प्लुत इत्यर्थो लभ्यत इति न दोष इति भाष्ये स्पष्टम् । इत्यधिकृत्येति ।प्लुतविधय आरभ्यन्ते॑ इति शेषः ।", "82083": "<<प्रत्यभिवादेअशूद्रे>> - प्रत्यभिवादेऽशूद्रे ।वाक्यस्य टेःप्लुत उदात्त॑ इत्यधिकृतम् । अशूद्र इति च्छेदः । न शूद्रः अशूद्रः=द्विजातिः । तद्विषयः प्रत्यभिवादः=विधिवदभिवादयमानं प्रति विधिवदाशीर्वचनम् । भावे घञ् । अस्मिन् प्रत्यभिवादे विषये यद्वाक्यं तस्य टेः प्लुतः स्यात्स चोदात्त इत्यर्थः । अभिवादविधिमाह — आपस्तम्बः-॒दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राआहृणोऽभिवादयीत, उरःसमं राजन्यः, मध्यसमं वैश्यः, नीचैः शूद्रः । 'प्राञ्जलि' इति ।तिष्ठन्ताप्रातरभिवादमभिवादयीतासावहं भोः॑ इति च । 'असा' विति स्वनामनिर्देशोऽभिमतः । 'देवदत्तोऽहं भो' इति ब्राउवन् अभिवादम्ाशीर्वचनम् । अभिवदायीत=वक्तव्यत्वेन विज्ञापयेत् । ततश्च यथा वर्णं दक्षिणं वाहुं प्रसार्यअभिवादये देवदत्तोऽहं भोः॑ इति ब्राऊयादित्यर्थः । अयमभिवादनप्रकारः । प्रत्यभिवादनप्रकारस्तु मनुना दर्शितः-आयुष्मान् भव सौम्येति विप्रो वाच्योऽभिवादने । अकांरश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥॑ इति । अत्र नाम्नो ।ञन्ते इति वचनादायुष्मान् भव सौम्येत्यनन्तरमबिवादयमानस्य नाम संबुद्ध्यन्तं प्रयोक्तव्यमिति स्मृत्यन्तरसिद्धमनुगृहीतं भवति । अस्य नाम्नोऽन्ते अक#आरश्चा वाच्यः=प्रयोज्यः । तस्मादकारात्पूर्वाक्षरः=पूर्वोऽच् प्लुतः प्रयोक्तव्य इत्यर्थः । एवंचआयुष्मान् भव सौम्य देवदत्त३ अ॑ इति प्रत्यभिवादवाक्यं संपन्नमिति स्थितिः ।अभिवादये देवदत्तोऽहट॑मिति अभिवादवाक्यप्रदर्शनम् । भो इत्यस्याप्युपलक्षणम् । आयुष्मान् भव देवदत्त ३ इति प्रत्यभिवादवाक्यप्रदर्शनम् । 'अभिवादये' इत्यस्य अबिवादमाशीर्वचनं वक्तव्यत्वेन विज्ञापयामीत्यर्थः । भवेत्यनन्तरं सौम्यशब्दस्य देवदत्त इत्यनन्तरमकारस्याप्युपलक्षणम् । अत्र देवदत्तशब्दे तकारादकारस्य प्लुतः । आयुष्मत्त्वस्य विधेयत्वात्संबोधनविभक्त्यभावः । अत्र प्रत्यभिवादवाक्ये शर्मान्तं ब्राआहृणस्येत्यादि न भवति, एचोऽप्रगृह्रस्येति सूत्रे शर्मादिशब्दं विना केवलस्य नाम्नो भाष्ये उदाहरणात्, उक्तमन्वादिस्मृतिविरोधाच्च ।अशूद्र इति किम् ॒कुशल्यसि तुषजक॑ इति भाष्यम् । एवंच शूद्रविषये आयुष्मान् भवेति न प्रयोक्तव्यमिति गम्यते ।अशूद्रस्त्र्यसूयकेष्विति वक्तव्य॑मिति वार्तिकम् । शूद्रविषय एव प्लुतप्रतिषेधो न भवति, किंतु शूद्रवत्स्त्रीविषये असूयकविषयेऽपि प्लुतप्रतिषेधो भवतीति वक्तव्यमित्यर्थः ।तत्र शूद्रविषये उदाहृतम् । स्त्रीविषये वार्तिकं विभज्यार्थतः संगृह्णाति — स्त्रियां नेति । स्त्रीविषयकप्रत्यभिवादवाक्ये उक्तो विधिर्न भवतीत्यर्थः ।अभिवादये गाग्र्यह॑मिति अभिवादनवाक्ययोर्नाम्नो गोत्रस्य च विकल्पः । तदाह-नाम गोत्रं वेति । अत्र नामशब्देनद्वादशेऽहनि पिता नाम कुर्या॑दिति विहितं नामैव गृह्रते । अत एवआयुष्मान्भव दण्डि॑न्नित्यादौ प्लुतो नेति भाष्ये स्पष्टम् ।नाम गोत्रं वे॑ति परिगणनस्य प्रयोजमाह — नेहेति । आयुष्मानेधीति । अस्तेस्सिप् हिः । ध्वसोरित्येत्वं, हेर्धिः ।श्नसोरल्लोपः॑ । अत्र धकारादिकारस्य न प्लुतः, अनामत्वादगोत्रत्वाच्च । भोराजन्यविशाम् । भोस्शब्दस्य राजन्यवैश्यवाचकनाम्नोश्च टेः प्लुतो वा स्यादिति वक्तव्यमित्यर्थः । भोस्शब्दस्याऽप्राप्ते इतरयोस्तु नामत्वात्प्राप्ते विभाषेयम् । तत्र भोस्शब्दे यथा-आयुष्मनेधि बोः ३ । देवदत्त भोः॑ इति भाष्यम् । अत #एव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तरं भोश्शब्दस्य भवशब्देन एधिशब्दस्य च प्रयोगाविकल्पो गम्यते । राजन्ते यथा-आयुष्मानेधि इन्द्रवर्म३न्, इन्द्रवर्मन् । वैश्ये यथा-आयुष्मनेधि इन्द्रपालित३, इन्द्रपालित इति भाष्यम् । अत एव भाष्यात् प्रत्यभिवादवाक्ये शर्मान्तं ब्राआहृणस्य वर्मान्तं क्षत्रियस्य पालितान्तं वैश्यस्येति विधयोऽपि प्रवर्तन्त इति गम्यते । उक्तभाष्यमन्वादिस्मृतिविरोधाद्विकल्पः । अत्र भाष्ये अपर आहेत्युक्त्या प्रत्यभिवादे सर्वस्यैव नाम्नो भोश्शब्द आदेशो वक्तव्य इति पठित्वा आयुष्मानेधि भो इत्येतावदेव सर्वत्र प्रत्यभिवादवाक्यमित्युक्तम् ।", "82084": "<<दूराद्धूते च>> - दूराद्धूते च । यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारितं बोध्यमानो न शृणोति किं त्वधिकं प्रयत्नमपेक्षते तद्दूरम् । हूतमाह्वानं । भावे क्तः । तच्च सम्बोधनमिह विवक्षितम् ।वाक्यस्य टेः प्लुत उदात्त॑ इत्यधिकृतम् । तदाह-दूरात्सम्बोधन इत्यादिना । यदि तु आह्वानमेवात्रं विवक्षितं स्यात्तर्हि एहि देवदत्तेत्यादावाह्वानवाचकपदे सत्येव स्यात् । सम्बोधनपरत्वे तु तदन्यत्रापि भवतीत्यभि प्रेत्योदाहरति — सक्तूनिति ।", "82085": "<<हैहेप्रयोगे हैहयोः>> - हैहेप्रयोगे । है हे इत्यव्यये सम्बोधनद्योतके । तयोः प्रयोगे हैहयोः प्लुतः स्यादित्यर्थः । पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमिति व्याचष्टे — हैहयोरेवेति । हैहयोरेवेति नियमार्थमिति बावः । पाहि है३ राम, पाहि हे३ रामेत्यत्र हैहयोरेव प्लुतो न तु गुररोनृत इत्यन्त्यस्यापीत्येतद्धैहयोरित्यनेन लभ्यत इति यावत् । प्रयोगग्रहणाभावे वाक्यस्य टेरित्यधिकाराद्राम है३ राम हे३ इत्यत्रैव स्यादतःप्रयोग॑ग्रहणम् । ततश्चाऽनन्त्ययोरपि तयोः प्लुतो भवति ।", "82086": "<<गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्>> - गुरोरनृतः ।दूराद्धूते चे॑त्यनुवर्तते ।वाक्यस्य टेः प्लुत उदात्त॑ इत्यधिकृतं । दूरात्सम्बोधने यद्वाक्यं तत्र सम्बोध्यमानवाचकं यत्पदं तदवयवस्य ऋकारभिन्नस्याऽनन्त्यस्य गुरोः प्लुतः स्यात्, अन्त्यस्य तु गुरोरगुरोश्च स्यादित्यर्थः । टेरपिना समुच्चयात् । तदाह — दूरादित्यादिना । दे३वदत्तेत्यादिषु सर्वत्रएही॑ति शब्दः प्राग्ध्याहर्तव्यः । अन्यथाएकतिङ् वाक्य॑मिति वाक्यत्वानुपपत्तेः । पर्यायार्थमिति । अन्यथा सर्वेषां गुरूणां युगपत् प्लुतः स्यादिति भावः । इह प्राचामिति ।गुरोरनृतोऽनन्त्यस्याप्येकैकस्ये॑त्येकं वाक्यं,प्राचा॑मित्यन्यत् । तत्र 'प्लुत' इत्येवानुवर्तते । प्राचां मते प्लुतः स्यान्नान्यमते इति फलति । ततः किमित्यत आह-तेनेति । एवं चसर्वः प्लुतः साहसमनिच्छता विभाषा वक्तव्य॑ इति वार्तिकं न कर्तव्यमिति भावः । प्लुतशास्त्रत्यागात्मकं साहसमनिच्छतेत्यर्थः । प्लुतशास्त्रेषु श्रद्धाजाडं विहायेति यावत् । अप्लुतवत् ।किमिदमुपस्थितं नाम अनार्षमितिकरण॑मिति भाष्यम् । अवैदिक इतिशब्द इत्यर्थः । 'प्लुत' इत्यध्याहार्यम् । अवैदिके इतिशब्दे परे प्लुतोऽप्लुतवत्स्यादिति फलति ।", "82087": "", "82088": "", "82089": "", "82090": "", "82091": "", "82092": "", "82093": "", "82094": "", "82095": "", "82096": "", "82097": "", "82098": "", "82099": "", "82100": "", "82101": "", "82102": "", "82103": "", "82104": "", "82105": "", "82106": "", "82107": "", "82108": "", "83001": "", "83002": "<<अत्रानुनासिकः पूर्वस्य तु वा>> - अत्रानुनासिक ।मतुवसौ रु सम्बुद्धौ॑ इति रुत्वविध्यनन्तरमिदं पठितम् । अतोऽत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते । पूर्वत्वं च 'रु' इत्यपेक्षया ज्ञेयम्, प्रकृत्वात् । तदाह — अत्रेति । उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धेवा॑ग्रहणं स्पष्टार्थम् ।परस्य नित्यं रुत्वं, पूर्वस्य तु अनुनासिकविकल्प॑ इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पाष्टार्थ एव । इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्तमिति प्रौढमनोरमायां मूलकृतैव उक्तम् । अनेन सूत्रेण 'सर्' इत्यत्र सकारादकारोऽनुनासिकः । सँर्स्कर्तेति स्थिते ।", "83003": "", "83004": "<<अनुनासिकात् परोऽनुस्वारः>> - अनुनासिकात् ।अनुनासिका॑दिति ल्यब्लोपे पञ्चमी ।विहाये॑ति गम्यम् । पूर्वस्येत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यते । पूर्वत्वं च रुत्वकृतरेफापेक्षया । परत्वं च रोर्यः पूर्ववर्णस्तदपेक्षया, तदाह — अनुनासिकं विहायेति । अनुनासिकाऽभावपक्षे इत्यर्थः । आगमत्वं परशब्दलभ्यम् । ततश्च सकारादकारस्य अनुनासिकाऽभावपक्षे अकारात्परोऽनुस्वारागमः । संर्स्कर्ता । अथ रेफस्य विसर्गविधिं स्मारयति-खरवसानयोरिति ।", "83005": "<<समः सुटि>> - समः सुटि । 'सम' इति षष्टन्तम् ।मतुवसो रु सम्बुद्धौ॑ इत्यतः रुग्रहणमनुवर्तते । तदाह-समो रुरिति । 'रु' इत्युकार इत् । अलोऽन्त्यस्येति । 'उपतिष्ठते' इति शेषः । सम्पूर्वात्करोतेस्तृचिसम्परिभ्या करोतौ भूषणे॑ इति सुडागमे सम्-स्कर्तेति स्थिते मस्य रुत्वम् । सर्-स्कर्तेति स्थिते ।", "83006": "<<पुमः खय्यम्परे>> - पुमः । 'रु' ग्रहणमनुवर्तते । अम् परो यस्मादिति विग्रहः । तदाह-अम्परे खयीति । 'पुमान्-कोकिल' इति कर्मधारयेसुपो धातुप्रातिपदिकयो॑रिति सुब्लुकि 'संयोगान्तस्य लोप' इति सकारलोपे पुम्-कोकिल इति स्थिते मस्य रुत्वम्, अनुनासिकानुस्वारविकल्पः, विसर्गः,संपुंकाना॑मिति सः । ननु 'विसर्जनीयस्य स' इत्येव सिद्धेसंपुंकाना॑मित्यत्रपु॑ग्रहणं व्यर्थमित्यत आह । व्युत्पत्तीत्यादि । ᳵकᳶपयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः । 'विसर्जनीयस्य स' इति सत्वापवादं कुप्वो ᳵकᳵ चेति विधिं बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आह — अप्रत्ययस्येति षत्वपर्युदासादिति । पूञो डुम्सुन्नित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वाद्विसर्गस्येति भावः । ननूणादयोऽव्युत्पन्नानि प्रातिपदिकानीत्यायनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्ति नास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम् । तत्र व्युत्पत्तिपक्षे पुंस्शब्दस्य डुम्सुन्प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्याऽप्रत्ययस्येति पर्युदासेनेदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः । अतस्तत्र कुप्वोरिति विधिं बाधितुंसंपुंकाना॑मिति पुंग्रहणमित्यर्थः । अव्युत्पत्तीति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाऽभावपक्षेऽप्रत्ययस्येति पर्युदासस्यात्राऽप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुंसंपुकाना॑मिति पुंग्रहणमित्यर्थः । 'पुँस्कोकिल' इत्यनुनासिकपक्षे रूपम् । 'पुंस्कोकिल' इत्यनुस्वारपक्षे रूपम् । 'पुंस्कोकिल' इत्यनुस्वारपक्षे रूपम् । ननु चक्षिङ् व्यक्तायां वाचि॑अस्मात् ल्युट्, अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो मस्य रुत्वं स्यादित्यत आह — ख्याञादेशे नेति । भाष्ये 'चक्षिङः ख्शा' ञिति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरंख्शाञश्शस्य यो वे॑ति पठितमिति वक्ष्यते । एवंच यत्वस्याऽसिद्धतया खकारस्याऽम्परकत्वाऽभावात्पुनः खयी॑ति रुत्वं नेत्यर्थः । पुंख्यानमिति । 'मोऽनुस्वारः'वा पदान्तस्ये॑ति परसवर्णविकल्पः । नचवर्जने प्रतिषेधः, असनयोश्चे॑त्यनादेशे परे प्रतिषेधात्कथमत्र ख्याञादेश इति वाच्यं, ख्शाञादेशप्रयोजनपरवार्तिके पुंख्यानमित्यादिप्रयोगात्तदुपपत्तेः ।", "83007": "<<नश्छव्यप्रशान्>> - नश्छव्यप्रशान् । 'न' इति षष्ठन्तं पदस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । 'अम्परे' इत्यनुवर्तते, 'रु' इति च । तदाह-अम्पर इत्यादिना ।अप्रशा॑निति षष्ठर्थे प्रथमा । तदाह-न त्विति । विसर्ग इति । 'शाङ्ग-छिन्धि'चक्रिन्-त्रायस्वे॑ति स्थिते नकारस्यानेन रुत्वम् । अनुनासिकानुस्वारविकल्पः । ततो विसर्गः, सत्वं, सस्य श्चुत्वेन शकार इत्यर्थः । शार्ङिंश्छिन्धीति । अनुनासिकपक्षे रूपम् । शार्ङिंश्चिन्धीति । अनुस्वारपक्षे रूपम् ।चक्रिंस्त्रायस्वे॑त्यनुनासिकपक्षे । अनुस्वारपक्षे तुचकिंरस्त्रायस्वे॑ति । त्रैङ् पालने । ङित्त्वादात्मनेपदी ।त्राही॑ति प्राचीनग्रन्थस्तु प्रामादिकः । त्रायत इति त्राः, त्रा इवाचरती त्रातीत्याचारक्विबन्ताल्लोट् परस्मैपदमिति वा कथञ्चत्समाधेयम् । प्रशानिति । प्रपूर्वाच्छाभ्यतेः क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घः ।मो नो धातो॑रिति मस्य नः । तस्यासिद्धत्वान्नलोपो न ।", "83008": "", "83009": "", "83010": "<<नॄन् पे>> - नृन्पे । 'नृन्' इति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रौ लुक् । नलोपाऽभावोऽपि सौत्र एव । 'मतुवसो रु' इत्यतो 'रु' इत्यनुवर्तते ।उभयथर्क्ष्वि॑त्यतंउभयथे॑त्यनुवर्तते । कदाचिद्भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाह-नृनित्यस्येत्यादिना ।अलोऽन्त्यस्य॑ । नृन्-पाहीति स्थिते नस्य रुत्वम् । अनुनासिकानुस्वारविकल्पः॑ ।", "83011": "", "83012": "<<कानाम्रेडिते>> - कानाम्रेडिते ।का॑निति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते । 'रु' इत्यनुवर्तते, तदाह — कान्नकारस्येत्यादिना । संपुंसानामिति । 'कान्' इत्यस्य वीप्सायां द्विर्वचने कान्-कान् इति स्थिते प्रथमनकारस्य रुत्वेऽनुनासिकानुस्वारविकल्पः । रेफस्य विसर्गः । तस्य 'विसर्जनीयस्य स' इति सत्वं बाधित्वाकुप्वो॑रिति प्राप्तौसंपुंकाना॑मिति सत्वमित्यर्थः । वस्तुतस्तुसंपुंकाना॑मिति वार्तिके कानिति निष्फलमित्याह — यद्वेति ।", "83013": "<<ढो ढे लोपः>> - इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथोर्धोऽधः' इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे, गाढ् — ढा इति स्थिते — इडभावे तु गाह् ता इति स्थिते ढो ढे । 'ढः' इति षष्ठन्तम् । तदाह — ढस्येति । ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे 'गाढा' इति रूपम् । ढलोपे ष्टुत्वस्याऽसिद्धत्वं तु न, तथा सति ढलोपविधिवैयथ्र्यात् । घाक्ष्यते इति । इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः । अगाहिष्टेति । सिच इट्, सस्य षः, तकारस्य ष्टुत्वेन टः । इडभावे त्वाह — अगाढेति । अगाह् स् त इति स्थिते सिच इडभावेझलो झली॑ति लोपः । ढत्वधत्वष्टुत्वढलोपः । सलोपात्पूर्वं भष्भावस्तु न, भष्भावस्याऽसिद्धतयाझलो झली॑ति सलोपस्य पूर्वं प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावादिति भावः । अधाक्षातामिति । इडभावपक्षे ढघकषाः । अघाक्षतेति । पूर्ववत् । अगाढा इति । थास् सिच् । इडभावे सलोपः । ढत्वधत्वष्टुत्वढलोपाः । अघाढ्वमिति । ध्वमि इडभावपक्षे सलोपः । ढत्वघत्वष्टुत्वढलोपाः । ध्ममाश्रित्य ढलोपात्पूर्वं भष्भावः । अघाक्षीति । इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भाव- । अघाक्ष्वहि । अघाक्ष्महि । अगाहिष्यत अघाक्ष्यत । गृहूधातुरूदित् ऋदुपधः । गर्हते इति । लटस्तिपि शपि लघूपधगुणे रपरत्वम् । जगृहे इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावः । न च कित्त्वात् परत्वाद्गुणः शङ्क्यः ,ऋदुपधेभ्यो लिट कित्त्वं गुणात्पूर्वप्रतिषेधेने॑ति वार्तिकादिति भावः । ऊदित्त्वादिड्विकल्पं मत्वा आह — जगृहिषे जघृक्षे इति । अभ्यासे उरदत्वं, हलादिः शेषः, जश्त्वम्, इट्, षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह — जघृढ्वे इति । हस्य ढः, भष्भावष्टुत्वढलोपाः । गर्ढेति । इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वलोपाः । घक्ष्र्यते इति । गुणः, रपरत्वं, हस्य ढः, भष्भावः, ढस्य कः षत्वम् । अगर्हिष्टेति । सिच इटि गुणे रपरत्वे षत्वे रूपम् ।", "83014": "<<रो रि>> - रो रि । 'र' इति षष्ठी । 'ढो ढ लोप' इत्यतो 'लोप' इत्यनुवर्तते, तदाह-रेफस्येति । पुनर्-रमते इति स्थिते रेफस्य लोपः ।", "83015": "<<खरवसानयोर्विसर्जनीयः>> - इति रेफस्येति । उपाच्र्छतीत्यत्र आरित्येकादेशस्य पूर्वन्तवत्त्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्ते इत्युत्तरेणान्वयः । कथं विसर्गप्राप्तिरित्यत आह — खरवसानयोः ।रो री॑त्यतो र इति षष्ठन्तमनुवर्तते । तच्च पदस्येत्यधिकृतस्य विशेषणम् । येन विधिरिति रेफान्तस्येति लभ्यते । खरि अवसाने च परतो रेफान्तस्य पदस्य विसर्जनीयः स्यादित्यर्थः । अलोऽन्त्यस्येत्यन्त्यस्य भवति । अभावरूपस्य चावसानस्य बुद्धिकृतं परत्वम् । फलितमाह — खर्यवसाने चेति । पदान्त इति ।विद्यमानस्ये॑ति शेषः । यदि तु अन्त्यवर्णस्य अवसानसंज्ञा तदा अवसानं इत्यत्र योजना विरामोऽवसानमित्यत्रोक्ता । इति विसर्ग इति । उपाच्र्छतीत्यादवनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः । अन्तवदिति । अन्तवत्त्वेन पदान्तत्वं प्राप्तस्य रेफस्य विसर्गो न भवतीत्यर्थः । कुत इत्यत आह — उभयथर्क्ष्विति । अन्यथा तत्रापि विसर्गनिर्देशः स्यादिति भावः । नन्वत्र धाताविति व्यर्थम् , उपसर्गग्रहणादेव धातावित्यस्य सिद्धेः, क्रियायोगे सत्येव उपसर्गसंज्ञाविधानात् । नच उपगत ऋकार उपर्कार इत्यत्र क्रियायोगस्य सत्त्वादुपसर्गत्वाच्च वृद्धिप्राप्तौ तन्निवृत्त्यर्थमिह धातुग्रहणमिति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति परिभाषया गम्यमानगमनक्रियां प्रत्येव उपसर्गत्वात्, प्रकृते च ऋकारादिनिमित्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशङ्क्याह — उपसर्गेणैवेत्यादिना । उपसर्गग्रहणेनैव धातोराक्षेपे= अन्यथानुपपत्तिरूपार्तापत्तितो लाभे सति, पुनर्धाताविति वचनं पुनर्विधानार्थमित्यन्वयः । कथं पुनर्विधानलाभ इत्यत आह — योगविभागेनेति । योगशब्दः सूत्रशब्दपर्यायः । उपसर्गादृतीति धाताविति च सूत्रं विभज्यते । तत्र उपसर्गादृतीति पूर्वसूत्रे धातावित्यर्थाल्लभ्यमादाय उक्तार्थलाभः । धातावित्युत्तरसूत्रेऽपि उपसर्गादृतीति पूर्वसूत्रमनुवर्त्तंते । तथाच पूर्वसूत्रसमानार्थकमेतत्सूत्रं संपद्यत इति पुनर्विधानलाभ इत्यर्थः । किमर्थमिदं पुनर्विधानमित्यत आह-तेनेति । पुनर्विधानेनेत्यर्थः ।", "83016": "<<रोः सुपि>> - रोः सुपि ।खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप् ।खरवसानयो॑रित्येव सिद्धे नियमार्थ एवैष विधिरित्याह — रोरेवेति । विपरीतनियमस्तु न,हलोऽनन्तराः संयोगः॑ इति निर्देशात् । षत्वमिति ।आदेश प्रत्यययो॑रित्यनेने॑ति शेषः । रेफस्य इण्त्वेन ततः परत्वादिति भावः । षस्य द्वित्व इति ।अचो रहाभ्या॑मित्यनेने॑ति शेषः ।", "83017": "<<भोभगोऽघोऽपूर्वस्य योऽशि>> - भोभगो ।रोस्सुपी॑त्यतोरो॑रि त्यनुवर्तते । भो भगो अघो अ इत्येषां द्वन्द्वः । एतो पूर्वे यस्मादिति बहुव्रीहिः । पूर्वशब्दश्च प्रत्येकं संबध्यते — भोपूर्वकस्य भगोपूर्वकस्य अघोपूर्वकस्य अकारपूर्वकस्य च रोरिति । तदाह — एतत्पूर्वकस्येति । अत्र सूत्रे भगो अघो इत्यत्र, अघो अपूर्वस्येत्यत्र च एङः पदान्तादतीति पूर्वरूपमाशङ्क्याह — असन्धिरिति । सन्ध्यभावः सूत्रप्रयुक्त इत्यर्थः ।कृतलब्धे॑त्यण् । देवाय् इह इति स्थिते सस्य रुः । तस्य अश्परकत्वाभावाद्यत्वं न । किन्तु विसर्गः ।विसर्जनीयस्य सः॑ । नन्विह अश्ग्रहणं व्यर्थम् । नच देवार् — सन्तीति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तदिति वाच्यं यत्वस्याऽसिद्धतया विसर्गे सति सत्वे देवास्सन्तीति सिद्धेरिति शङ्कते — यद्यपीति । परिहरति-तथापीति । अस्तु यत्वस्यासिद्धत्वाद्रेफस्य विसर्गः, तथापि तस्य स्थानिवद्भावेन रुत्वाद्यत्वं दुर्वारम् । अतोऽश्ग्रहणमावश्यकमिति भावः । ननु यत्वविधौ विसर्गस्य स्थानिवद्भावेन कथं रुत्वम् । अनल्विधाविति निषेधात् । विसर्गस्थानिभूतं रेफमाश्रित्य प्रवर्तमानस्य यत्वविधेः स्थान्यलाश्रयत्वादित्यत आह — न ह्रमल्विधिरिति । कुत इत्यत आह — रोरिति समुदायरूपाश्रयणादिति । यद्यपि यत्वविधिर्विसर्गस्थानिभूतं रेफमाश्रयति, तथापि नाऽल्विधिः । ह्रस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविधी रुत्वेनैव रेफमाश्रयति नतु रेफत्वेन, तथा सति प्रातरत्रेत्यादावतिव्याप्तेः । रुत्वं च रेफोकारसमुदायधर्मो न तु रेफमात्रवृत्ति । अतो यत्वविधिर्विसर्गस्थानिभूतं न रेफं वर्णमात्रवृत्तिधर्मपुरस्कारेणाश्रयतीति नाल्विधिः । अतो यत्वे कर्तव्ये विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । अतोऽशीति परनिमित्तमाश्रितमिति भावः । निपाता इति । चादेराकृतिगणत्वादिति भावः । रोर्यत्वे कृत इति ।भोभगोअघो इत्यनेने॑ति शेषः । 'भोय्-अच्युत' इति स्थितेलोपश्शाकल्यस्ये॑ति न भवति, यकारस्य अपूर्वकत्वाऽभावात् ।", "83018": "", "83019": "<<लोपः शाकल्यस्य>> - हरे एहि, विष्णो इह, श्रियै उद्यतः, गुरौ उत्क इत्यत्र एचां क्रमेण अयवायावादेशेषु कृतेषु यकारवकारयोर्वैकल्पिकं लोपं विधत्ते — लोपः शाकल्यस्य । 'भो भगो' इत्यतोऽपूर्वस्येति, अशीति चानुवर्तते ।व्योर्लघुप्रयत्ने॑त्यतो व्योरित्यनुवर्तते । वकारयकारयोरित्यर्थः । अपूर्वस्येति च व्योरित्यस्य विशेषणम् । अवर्णः पूर्वो यस्मात्स अपूर्वः । अपूर्वस्य वस्य यस्य चेति प्रत्येकमन्वयाभिप्रायमेकवचनम् । पदस्येत्यधिकृतमवर्णपूर्वकाभ्यां यकारवकाराभ्यां विशेष्यते । विशेषणत्वाच्च व्योरिति तदन्तता लभ्यते । ततश्चाऽवर्णपूर्वो यो वकारो यकारश्च, तदन्तपदस्य लोपः स्यादशि परत इत्यर्थः । अलो ।ञन्त्यपरिभाषया तादृशपदान्तस्येति लभ्यते । शाकल्यग्रहणान्मतान्तरे न भवतीति गम्यते । ततश्च फलितमाह — अवर्णपूर्वयोरित्यादिना ।व्यो॑रित्यनुवृत्तवपि वर्णसमाम्नाये यकारस्य प्राथम्याद्यवयोरित्युक्तम् । न च शाकल्यवंश्यानामेव पुरुषाणामेतल्लोपानुसरणं नान्येषामिति पुरुषभेदेन व्यवस्थार्थमेव शाकल्यग्रहणं कुतो न स्यादिति वाच्यम्,न वेति विभाषे॑ति सूत्रभाष्येआचार्यदेशशीलने च तद्विषयते॑ति प्रस्तुत्यइको ह्रस्वोऽङ्यो गालवस्य ॑प्राचामवृद्ध#आ॑दित्यादौ गालवाद्याचार्यग्रहणं, प्राचामुदीचामित्यादिदेशविशेषग्रहणं च अविशेषेण विकल्पार्थमेव, नतु तत्तद्वंश्यतत्तद्देशभेदेन प्रयोगव्यवस्थार्थमिति सिद्धान्तितत्वात् । ननु हरे एहीत्यत्र अयादेशे यकारस्य लोपे सतिओमाङोश्चे॑ति पररूपं स्यात् । विष्णो-इह,श्रियै-उद्यतः, गुरौ-उत्क इत्यत्र अवायावादेशेषु वकारयकालोपे आद्गुण #इति गुणः स्यादित्यत आह — पूर्वत्रेति । वकारयकारयोर्लोपस्याऽसिद्धत्वेन ताभ्यां व्यवहिततया.ञच्परकत्वाऽभावादाशङ्कितोऽच्सन्धिर्न भवतीत्यर्थः । तदेवमिक्सन्धिरेच्सन्धिश्च निरूपितः । तदुभयत्रातिप्रसङ्गमाशङ्क्य समाधत्ते — कानीत्यादिना ।यद्यपि, तथापी॑त्यध्याहार्यम् । कानि सन्ति, कौ स्त इत्यत्र यद्यपि यणावादेशो प्राप्तौ तथापि न भवत इत्यन्वयः । नन्वत्र इकारौकारयोः सकारपरकत्वादच्परकत्वाऽभावात् कथं यणावोः प्राप्तिरित्यत आह — अस्तेरल्लोपस्य स्थानिवद्भावेनेति । अस्धातोरादादिकाल्लटिप्रथमपुरुषबहुवचनेसन्ती॑ति रूपम् । प्रथमपुरुषद्विवचने तु 'स्त' इति रूपम् । उभयत्रापि 'श्नसोरल्लोपः' इति धात्वादेरकारस्य लोप इति स्थितिः । तत्राऽल्लोपस्य स्थानिवत्त्वेनाऽच्त्वादिकारौकारयोरच्परकत्लाद्यणावादेशौ प्राप्नुत इत्यर्थः । न च स्थानिवदादेशो ऽनल्विधाविति स्थानिवद्भावोऽत्र न सम्भवति । अल्लोपस्य स्थानिभूतो योऽकारस्तं परं निमित्तत्वेनाश्रित्य प्रवर्तमानयोर्यणावादेशविध्योः स्थान्यलाश्रयत्वादिति वाच्यम्,अचः परस्मिन् पूर्वविधौ॑ इति स्थानिवद्भावोपपत्तेः । अल्लोपस्य क्ङिति परे विधीयमानस्य परनिमित्तकाजादेशतया तत्स्थानीभूतादकारात्पूर्वत्वेन दृष्टयोरिकारोकारयोर्यणावादेशविधौअचः परस्मि॑न्निति प्रवृत्तेरिति भावः ।", "83020": "<<ओतो गार्ग्यस्य>> - अतो गाग्र्यस्य । 'ओत' इति पञ्चमी ।व्यो॑रित्यतो यग्रहणमनुवर्तते, नतु वकारोऽपि, ओतः परस्य तस्याऽसंभवात् । 'पदस्ये' त्यधिकृतं यकारेण विशेष्यते, ततस्तदन्तविधिः । तेन ओकारात्परो यो यकारस्तदन्तस्य पदस्येति चार्थो लभ्यते । अलोऽन्त्यपरिभाषया च पदान्तस्य यकारस्येति फलितम् । 'भोभगो' इत्यतोऽशीत्यनुवर्तते ।लोपश्शाकल्यस्ये॑त्यतो 'लोप' इत्यनुवर्तते । सच पूर्वविगितलघुप्रयत्नस्य न भवति, विधानसामर्थ्यात्, तदाह — ओकारादिति । ननु लोपस्य कथं नित्यत्वं,गाग्र्य॑ग्रहणादित्यत आह — गाग्र्यग्रहणमिति । व्याख्यानादिति भावः । भो अच्युतेति । अलघुप्रयत्नपक्षे यकारस्य नित्यं लोपः । लघुप्रयत्नपक्षे-भोयज्युतेति । अत्र लघुप्रयत्नस्य विधिसामर्थ्यान्न लोपः । तोयमिति । अत्र यकारस्य पदान्तत्वाभावादोतो गाग्र्यस्येति न भवति । अनेनाऽत्र 'भोभगो' इति नानुवर्तते इति सूचितम् ।", "83021": "<<उञि च पदे>> - उञि च पदे । अपूर्वस्येति, पदस्येति, व्योरिति लोप इति चानुवर्तते । तदाह — अवर्णेति । स उ एकाग्निरिति । 'उ' इति निपातः । सस् उ इति स्थिते सस्य रुः, भोभगो इत्यपूर्वत्वाद्यत्वम् । लोपश्शाकल्यस्येति विकल्पनिवृत्त्यर्थमिदम् । वकारोदाहरणं तुअसा उ एकाग्नि॑रिति वृत्तिः । पदे किमिति । उञः पदत्वाऽव्यभिचारात्पदे इति तद्विशेषणस्य किं प्रयोजनमिति प्रश्नः । तन्त्रयुतमिति । तन्त्रे-उतमिति विग्रहः । अयादेशः । अत्र यकारस्य लोपनिवृत्त्यर्थं पदग्रहणमिति भावः । नन्वत्र उञ्परकत्वाऽभावादेव लोपनिवृत्तिसम्भवात्पदग्रहणं व्यर्थमेवेत्यत आह — वेञ, इति । 'वेञ् तन्तुसन्ताने' इत्यतः क्तप्रत्यये, 'वचिस्वपियजादीनाम्' इति वकारस्य संप्रसारणे उकारे, पूर्वरूपे, उतमिति रूपम् । अत्र उञ्परकत्वे ।ञपि तस्य उञः पदत्वाऽभावात्तस्मिन् परे यस्य लोपो न भवतीत्यर्थः । ननु स उ एकाग्निरित्यत्र उञ् प्रतिपदोक्तः, चादौ पठितत्वात् । उतमित्यत्र तु उञ् लाक्षणिकः , संप्रसारणादिविधिनिष्पन्नत्वात् । ततश्चलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहण॑मिति परिभाषया चादिपठितस्यैव उञोऽत्र ग्रहणं भविष्यति । नतु उतमित्यत्र उञोऽपि । अतः पदग्रहणं व्यर्थमेवेत्यत आह-यदीति । उत्ररार्थमिति । ङमो ह्रस्वादचीत्यर्थमित्यर्थः । एतच्चात्रैव भाष्ये स्पष्टम् ।", "83022": "<<हलि सर्वेषाम्>> - हलि सर्वेषाम् ।भोभगोअघोअपूर्वस्ये॑त्यनुवर्तते ।व्योर्लघुप्रयत्ने॑त्यतो यकारग्रहणमनुवर्तते । तदाह — भोभगो इति । लघ्वलघूच्चारणस्येति । ओकारात् परस्य यस्य लघुप्रयत्नतरस्यैवानेन लोपः । अलघुप्रयत्नतरस्य त्वोकारात् परस्य यस्य ओतो गाग्र्यस्येत्येव सिद्धम् । अपूर्वकस्य तु यस्य लघ्वलघूच्चारणस्येति विवेकः । यकारस्येति । वकारस्त्वत्र नानुवर्तते । भोभगोअघोअपूर्वस्य वकारस्याऽभावादिति वृत्तिः । 'अव्यपर' इति निर्देशादिति तदाशयः । वृक्षं वातीति वृक्षवाः; तचामष्टे वृक्षव्, ण्यन्तात् क्विप्, इष्ठवद्भावाट्टिलोपः । णेरनिढीति णिलोपः, वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः, अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् हसतीति तु अस्मादेव भाष्यादसाधुरित्याहुः । सर्वेषां मतेनेति । सर्वाचार्यसंमतत्वादयं लोपो नित्य इति फलितम् । अत्र यदिविभाषा भवद्भगवदघवतामोच्चावस्ये॑ति वार्तिकेनमातुवसो रु सम्बुद्धौ॑ इत्यत्र पठितेनएषामन्तस्य संबुद्ध#औ रुत्वं वा स्यात्, अवेत्यंशस्य ओकारश्चे॑त्यर्थकेन निष्पन्ना भोरादिशब्दा एव गृह्रेरन् तर्हि पुंलिङ्गैकवचनमात्रे भो हरेइत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुंसकयोश्च भो हरिहरौ, भो देवाः, भो लक्ष्मिः, बो विद्वद्वृन्देत्यादौ लोपो न सिध्येत् । अतो भोस् इत्यादिनिपातानामप्यत्र ग्रहणमित्यभिप्रेत्योदाहरति — भो देवा इत्यादि । देवा म्या इति । नचात्र यकारस्य लोपो व्योरित्येव लोपः सिद्ध इति वाच्यम्, लोपो व्योरिति लोपं प्रति यत्वस्याऽसिद्धवात् ।", "83023": "<<मोऽनुस्वारः>> - मोऽनुस्वारः । पदस्येत्यधिकृतम् । म इति षष्ठन्तं पदस्य विशेषणं । तदन्तविधिः । हलि सर्वेषामित्यतो हलीत्यनुवर्तते । तदाह-मान्तस्येत्यादिना । अलोन्त्यस्येति । उपतिष्ठत इति शेषः । ततस्च मान्तस्य पदस्य योऽन्त्योऽल् तस्येत्यर्थः । पदान्तस्य मस्येति फलितम् । हरिं वन्द इति । हरिम्-वन्द इति स्थिते मस्यानुस्वारः । गम्यत इति । गम्लृ गतौ । कर्मणि लट् । 'भावकर्मणोः' इत्यात्मनेपदे यक् । अत्र मस्य पदान्तत्वाभावान्नानुस्वारः ।", "83024": "", "83025": "<<मो राजि समः क्वौ>> - मो राजि । म इति प्रथमान्तम् । मोऽनुस्वार इत्यतो म इति स्थानष्टन्तमनवर्तते । सम इत्यवयवषष्ठी । प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्प्रत्ययान्तलाभः । तदाह — क्विबन्त इत्यादिना । म एवेति । न त्वनुस्वार इत्यर्थः । मस्य मविधानमनुस्वारनिवृत्त्यर्थमिति भावः । सम्राडिति । राजृ दीप्तौ सम्पूर्वात्सत्सूद्विषद्रुहेत्यादिना क्विप् । व्रश्चेति षत्वम् । जश्त्वेन डत्वम् । चर्त्वम् । अत्र मोऽस्वारो न भवति । हे मपरे वा । 'मोऽनुस्वार' इत्यतो 'म' इति षष्ठन्तमनुवर्तते ।मोराजी॑त्यतो 'म' इति प्रथमान्तमनुवर्तते । मः परो यस्मादिति च विग्रहः । तदाह — मपरे इति । हृलयतीति ण्यन्ताल्लट् ।ज्वलह्लसहृलनमामनुपसर्गाद्वा॑ इति मित्त्वण्णौ मितां ह्रस्वः । यवलपरे इति । यवलाः परा यस्मादिति विग्रहः । यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थः ।", "83026": "", "83027": "<<नपरे नः>> - नपरे नः । 'हे' इति 'वे॑-तिम' इति चानुवर्तते । नः परो यस्मादिति विग्रहः । तदाह — नपरे इति । किन्ह्नुते इति । 'ह्नुङ्-अपनयने' मस्य नत्वे रूपम् । तदभावे मोऽनुस्वारः ।", "83028": "<<ङ्णोः कुक्टुक् शरि>> - ङ्णोः ।हे मपरे वे॑त्यतो वेत्यनुवर्तते । कुक् च टुक् चेति समाहारद्वन्द्वः । आगमाविति । एतच्च आद्यन्तौ टकिता॑विति लभ्यम् । यतासङ्ख्यपरिभाषया च ङकारस्य कुक्, णकारस्य टुक् । उभयत्र ककार इत्ष उकार उच्चारणार्थः ।प्राङ् षष्ठः सुगण् षष्ठः॑ इति स्थिते, यथाक्रमङ्कुकिटुकि च तयोः पूर्वावयवत्वेन पदान्तत्वाज्जश्त्वमाशङ्क्याह — कुक्टुकोरिति । चयो द्वितीया इति ।पौष्करसादिशब्दस्य चयो द्वितीया॑ इत्यर्थभ्रमं वारयति — पौश्करसादिराचार्य इति । तथाच विकल्पः फलतीति भावः । प्राङ्क् षष्ठ इति कुकि रूपम् । 'चयो द्वितीया' इति पक्षे प्राङ् ख् षष्ठ इति रूपम् । नचात्र खकारस्य खरि चेति चर्त्वं खकारारम्भविधिसामर्थ्यात् । 'चयो द्वितीया' इति 'नादिन्याक्रोश' इति सूत्रभाष्यपठितमिदम् । 'प्राङ् षष्ठ' इति कुगभावे रूपम् । एवं टुक्यपि सुगण्टषष्ठ इत्यादि ।", "83029": "<<डः सि धुट्>> - ङः सि धुट् । 'ड' इति पञ्चमी । ततश्च तस्मादित्युत्तरस्येति परिभाषयासी॑ति सप्तमी षष्ठी सम्पद्यते-डात्परस्य सस्येति ।हे मपरे वे॑त्यतो वेत्यनुवर्तते । तदाह — डात्परस्येत्यादिना ।तस्मिन्निति निर्दिष्टे॑ इति नेह भवति,उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा॑दिति न्यायात् । धुट् चतुर्थधकारनिर्देशः । टकार इत् । उकार उच्चारणार्थः । थुडिति द्वितीयविधौ तत्सामर्थ्याच्चत्वं न स्यात् । अन्यथा तकारमेव विदध्यात् । चतुर्थविधेस्तु न तत्सामर्थ्यम्, प्रथमविधौ तस्य चयो द्वितीया इत्यापत्तौ तन्निवृत्त्या चरितार्थत्वात् । षट् सन्त इति । षषिति षकारस्य जश्त्वेन डः, षड्-सन्त इति स्थिते चर्त्वस्यासिद्धत्वाड्डात्परत्वात्सस्य धुट् आद्यवयवः । तस्य चर्त्वेन तकारः । 'चयो द्वितीया' इति तु नेह, चर्त्वस्यासिद्धत्वात् । ततो लक्ष्यभेदाड्डस्य चर्त्वेन टः ।", "83030": "<<नश्च>> - नश्च । 'सि धुट्' इति,वे॑ति चानुवर्तते । न इति पञ्चमी । तस्मादित्युत्तरस्येति परिभाषया सीति षष्ठी सम्पद्यते । तदाह-नकारान्तात्परस्येति । सन्त्स इति । धुटि धस्य चर्त्वम् ।", "83031": "<<शि तुक्>> - शि तुक् । पूर्वसूत्रात् 'न' इति पञ्चम्यन्तमनुवृत्तमिह षष्ठन्तमाश्रीयते, शब्दाधिकाराश्रयणात् । पदस्ये॑त्यधिकृतम् । अवयवषष्ठन्तमाश्रीयते ।हे मपरे वे॑त्यतोवे॑त्यनुवृत्तं । तदाह-पदान्तस्येति ।नान्तस्य पदस्ये॑त्युचितम् । उकार उच्चारणार्थः ।सन् शम्भु॑रिति स्थिते नकारस्यान्तावयवस्तुक् । ननु तुग्ग्रहणं व्यर्थं, डः सि धुडित्यतो धुडेवानुवर्त्त्य नकारात्परस्य शस्य विधीयतां । खरि चेति चर्त्वे सन्त्शम्भुरित्यस्य सिद्धेरित्यत आह — शश्छोऽटीति छत्वविकल्प इति ।शकारस्ये॑ति शेषः । धुटो विधौ तु तस्य परादित्वात्पदान्तत्वाऽभावाच्छत्वं न स्यात्, छत्वविधेः पदादिकारस्थत्वेन पदान्ताज्झयः परस्यैव शश्य तत्प्रवृत्तेर्भाष्ये सिद्धान्तितत्वात् । अन्यथा विसृपो विरफ्शिन्नित्यांदावपि शस्य छत्वापत्तेः । पक्ष #इति । कदाचिज्झरो झरीति तुकस्तकारस्य श्चुत्वमापन्नस्य लोप इत्यर्थः । सञ्छम्भुरिति । तकारस्य चुत्वमापन्नस्य लोपे सति नकारस्य श्चुत्वेन ञकारे रूपम् । सञ्च्छम्भुरिति । चुत्वमापन्नस्य तकारस्च लोपाभावे नकारस्य च श्चुत्वे ञकारे रूपम् । तुको जश्त्वं तु न, जश्त्वं प्रति तस्यासिद्धत्वात् । अत एव श्चुत्वोत्तरमपि जश्त्वं न । सञ्च्शम्भुरिति । शस्य छत्वाभावे तकारनकारयोश्चुत्वे च रूपम् । सञ्शम्भुरिति । तुकोऽभावे नकारस्य चुत्वे रूपम् । तदिदं रूपचतुष्टयमुक्तक्रमं श्लोकेन संगृह्णाति — ञछाविति । तुक्छत्वचलोपानां विकल्पनात्-ञछौ ञचछा ञचशा ञशाविति रूपाणां चतुष्टयमित्यन्वयः ।ङमो ह्रस्वात् । 'ङम्' प्रत्याहारः । 'ङम' इति पञ्चम्यन्तम् । तद्विशेषणत्वात् पदस्येत्यधिकृतं पञ्चम्यन्ततया विपरिणम्यते । 'ङम' इति चह्रस्वा॑दिति विशेषणसम्बन्धमनुभूय पदविशेषणत्वं भजत्तदन्तपरम् । 'ङम' इति पञ्चमी बलादचीति सप्तमी षष्ठर्थे । तदाह — ह्रस्वात्पर इति । ङमुडागम इति । टकार इत् । उकार उच्चारणार्थः । संज्ञायां कृतं टित्त्वमानर्थक्यात्तदङ्गन्यायात्संज्ञिभिः सम्बध्यते । ततश्च ङुट् णुट् नुडिति त्रय आगमाः फलिताः । टित्त्वादच आद्यवयवा यथासङ्ख्यं प्रवर्तन्ते ।हे मपरे वे॑ति वाग्रहणानुवृत्तिशङ्काव्युदासार्थं नित्यग्रहणम् । प्रत्यङ्ङात्मेति । प्रत्यङ्-आत्मा इति स्थिते आकारात्प्राक् ङुट् । सुगण्णीश इति । 'गण संख्याने' चुरादिः । ण्यन्ताद्विचि णिलोपः । नतु क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घप्रसङ्गात् । ङमुटि कर्तव्ये णिलोपस्तु न स्थानिवत्,पूर्वत्रासिद्धे न स्थानिव॑दित्युक्तेः । सुगण्-ईश इति स्थिते ईकारात्प्राक् णुट् । सन्नच्युत इति । सन्-अच्युत इति स्थिते अकारात्प्राक् नुट् । नच परमदण्डिनावित्यत्र परमदण्डिन्-औ इति स्थिते प्रत्ययलक्षणेनाऽन्तर्वतिर्विभक्त्या पदत्वान्नुट् स्यादिति वाच्यम्, 'उत्तरपदत्वे' चापदादिविधा॑विति प्रत्ययलक्षणप्रतिषेधात् । वस्तुतस्तु उत्तरपदत्वे चेति प्रत्ययलक्षणप्रतिषेधो यत्रोत्तरपदस्य कार्यित्वं तत्रैव प्रवर्तते । अन्यथापदव्यवायेऽपी॑ति निषेधोमाषकुम्भवानपेने॑त्यत्र न स्यात् । अतः परमदण्डिनौ इत्यत्र ङमुड्वारणाय 'उञि च वदे' इत्यतः पदे इत्यनुवत्र्याऽजादेः पदस्य ङमुडिति व्याख्येयमिति शब्देन्दुशेखरे प्रपञ्चितम् ।", "83032": "", "83033": "<<मय उञो वो वा>> - मय उञो वो वा । 'मय' इति पञ्चमी, 'उञ' इति षष्ठी । 'ङमो ह्रस्वादचि' इत्यतोऽचीत्युवर्तते, तदाह — मयः परस्येति । किम्वुक्तमिति ।किमु उक्त॑मिति स्थिते मकारोत्तरोकारस्य उञो 'निपात एकाच्' इति नित्यं प्रगृह्रत्वात्प्रकृतिभावाद्यणभावे प्राप्ते वत्ववचनमिदम् । ननु तर्हीको यणचीत्यनन्तरमेवमय उञो वे॑ति पठितव्यं, वग्रहणाऽभावेन लाघवात् । त्रिपाद्यां पाठे वग्रहणस्यापि कर्तव्यत्वेन गोरवादित्यत आह — वत्वस्येति । यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उञो यणादेशविकल्पो विधीयेत,तर्हि किम्वुक्तमित्यत्र 'मोऽनुस्वार' इति मकारस्य वकारे परेऽनुस्वारः स्यात् । त्रिपाद्यां वत्वविधौ तु तस्याऽसिद्धत्वान्नानुस्वारः । त्रिपाद्यामनुस्वारविध्यपेक्षया वत्वविधेः परत्वादिति भावः ।", "83034": "<<विसर्जनीयस्य सः>> - विसर्जनीयस्य सः ।खरवसानयो॑रित्यतो मण्डूकप्लुत्या खरीत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । केचित्तु विसर्गश्रवणात् खरीत्यार्थिकम्, अवसानस्य तु न संबन्धः, व्याख्यानादित्याहुः । तदाह — खरीति । 'विसर्जनीयस्य स' इति सिद्धेसंपुंकाना॑मिति पुनर्विधानं व्यर्थमित्यत आह — एतदपवादेनेति । पुनर्विधानंवा शरी॑ति पाक्षिकविसर्गबाधनार्थमिति भावः । संपुंकानामिति । सम् पुम्-कान्-एतेषां विसर्गस्य सकारो वक्तव्य इत्यर्थः ।अनेन वार्तिकेनात्र विसर्गस्य नित्यमेव सत्व॑मिति शेषः । सँस्स्कर्तेति । अनुनासिकपक्षे रूपम् । संस्स्कर्तेति । अनुस्वारपक्षे रूपम् । उभयत्रापि द्विसकारत्वमेव । समो वेति । समो मस्य सुटि लोपमेके आचार्या इच्छन्तीत्यर्थः । एकशब्दोऽन्यपर्यायः ।एके मुख्यान्यकेवलाः॑ इत्यमरः । लोपपक्षेप्यनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्याह — लोपस्यापीति ।अत्रानुनासिकः पूर्वस्य तु वे॑त्यत्र रोः पूर्वस्येत्युपलक्षणं रुप्रकरणविधेयस्य लोपस्यापि, अन्यथा रुप्रकरण इत्यर्थस्यअत्रे॑त्यस्य वैयथ्र्यात् । एवमनुनासिकात्परोऽस्वार इत्यत्र रोः पूर्वस्मादित्यपि । ततस्च समो मलोपस्यापि रुप्रकरणस्थतया लोपात्पूर्ववर्तिनोऽकारस्य कदाचिदनुनासिकः । तदभावपक्षेऽकारात्परोऽनुस्वारागम इत्येवमनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्यर्थः । द्विसकारं तूक्तमेवेति । 'रुत्वपक्षे' इति शेषः । ननु लोपपक्षे एवाऽनचि चेति सुटः सकारस्य द्वित्वेन द्विसकाररूपद्वयस्य सिद्धत्वात्समः सुटीति रुत्वविधानं व्यर्थमित्यत आह — तत्रेति । तत्र= द्विसकाररूपयोर्मध्ये, रुत्वे सति तत्स्थानिकसकारस्याऽनचि चेति द्वित्वपक्षे त्रिसकारमपि रूपद्वयमित्यर्थः । एतदर्थमेव रुत्वविधानमिति भावः । स्कोरिति लोपस्तु न, र#उत्वस्यासिद्धत्वात् । नच लोपपक्ष एव सुटः सकारस्याऽनचि चेति द्वित्वे प्रथमसकारस्य तेनैव सूत्रेण पुनर्द्वित्वे त्रिसकारमपि रूपद्वयं सिद्धमिति समो रुत्वविधिव्र्यर्थ एवेति वाच्यं,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायात् । ननु वर्णसमाम्नायेऽनुस्वारस्य पाठाऽभावादनच्त्वात्ततः । परस्य सकारस्य कथमनुस्वारपक्षे द्वित्वमित्यत आह-अनुस्वारविसर्गेति । एतच्च हयवरट्सूत्रे भाष्ये स्थितम् । अकारोपरीति । इकाराद्युपरि पाठे 'पयःसु' इत्यादौ इणः परस्य विहितमादेशप्रत्ययोरिति षत्वं स्यादिति भावः । कश्चित्तु 'इणः ष' इति षत्वं स्यादिति वदन् वभ्राम, तत्र विसर्गस्यैव षत्वविधेः । एवं चाऽनुनासिकपक्षे एकसकारं द्विसकारं त्रिसकारमिति त्रीणि रूपाणि । एवमनुस्वारपक्षेऽपि त्रीणि रूपाणीति स्थितम् । अनुनासिकवतामिति । अनुनासिकपक्षे एकद्वित्रिसकाराणां कद्वित्वे त्रीणि, तदभावे त्रीणीति षडित्यर्थः । ननु ककारस्याऽचः परत्वाऽभावात्कथमनचि चेति द्वित्वमित्यत आह — शरः खय इतीति । शरः परस्य खयोद्वे वा स्त इति वार्तिकार्थः । एवं चाऽनुनासिकपक्षे द्विककाराणि त्रीणि रूपाणि, एकककाराणि त्रीणिति षडपाणि स्थितानि । अनुस्वारपक्षे तु द्वादश रूपाणीत्याह-अनुस्वारवतामिति । अनुस्वारस्यापीत्यपिना ककारसंग्रहः । अनुस्वारपक्षे एकद्वित्रिसकाराणां रूपाणामनुस्वारस्य शर्षु पाठस्योपशङ्ख्यातत्वेन शत्र्वाद्द्वित्वविल्पे सति द्व्यनुस्वाराणि त्रीणि(३), एकानुस्वाराणि त्रीणि(३) इति षट्(६) । अथ षण्णामप्येषां 'शरः खय' इति ककारस्य द्वित्वविकल्पे सति द्विककाराणि षट्(६) एकककाराणि षट्-इत्यनुस्वारपक्षे द्वादश(१२) इत्यर्थः । एवं च अनुनासिकपक्षे षट्(६) अनुस्वारपक्षे द्वादश(१२) इत्यष्टादश(१८) रूपाणि । एषामिति । उक्तानामष्टादशानां रूपाणां तकारस्याऽचो रहाभ्यामिति द्वित्वविकल्पे सति प्रथमस्य तकारस्य 'यणो मय' इति पुनर्द्वित्वे एकैकस्य एकतं द्वितं त्रितमिति सङ्कलनया-एकतान्यष्टादय(१८), द्वितान्यष्टादश(१८), त्रितान्यष्टादश(१८) इति सङ्कलनया चतुरधिकपञ्चाशद्रूपाणि (५४) सम्पन्नानीत्यर्थः । अणोऽनुनासिकत्व इति । अणोऽप्रगृह्रस्यानुनानासिक इति तकारादाकारस्याऽनुनासिकत्वविकल्पे सत्यानुनासिक्ये चतुष्पञ्चाशत् (५४) । तदभावे चतुष्पञ्चाशत् (५४) इति सङ्कलनया अष्टाधिकं शतं(१०८) रूपाणि सम्पन्ननीत्यर्थः ।", "83035": "", "83036": "", "83037": "<<कुप्वोः क्ष्कक्ष्पौ च>> - ॒खरवसानयो॑रिति रेफस्य नित्यं विसर्गे प्राप्ते-कुप्वौ ᳵकᳶपौ च । 'कुप्वोः' इति छेदः । ओसस्सस्य रुत्वे तस्य खर्परत्वाद्विसर्गः, जिह्वामूलीयस्य शर्पूपसङ्ख्यातत्वेन खत्र्वात् । तस्य च विसर्गस्यखर्परे शरि वा विसर्गलोपो वक्तव्य॑ इति लोपः । अतः सूत्रे कुप्वोरिति विसर्गो न श्रूयते । 'विसर्जनीयस्य स' इत्यतो विसर्जनीयस्येत्यनुवर्तते । तदाह-कवर्गे इत्यादिना ।क्रमा॑दिति यथासंख्यसूत्रलभ्यम् । चाद्विसर्ग इति 'शर्परे विसर्जनीयः' इत्यतो 'विसर्जनीय' इत्यनुकृष्यत इत्यर्थः । चकारः पक्षे विसर्गसमुच्चयार्थ इति यावत् । अन्यथा जिह्वामूलीयोलपध्मानीयाभ्यां विसर्गस्य बाध एव स्यादिति भावः । एवं च प्रकृते पकारे परे विसर्गस्य सत्वं बाधित्वा कदाचिदुपध्मानीयः कदाचिद्विसर्गः । तयोरुच्चारणे भेदः । इहादेशयोः कपावुच्चारणार्थौ, न तु विधेयकोटिप्रविष्टौ । ननु कुप्वोरिति जिह्लामूलीयोपध्मानीयविसर्गविधना यथा विसर्जनीयस्य सत्वं बाध्यते, तथा 'शर्परे विसर्जनीय' इति केवलविसर्गविधिरपि बाध्येत । तथाच वासः क्षौममित्यत्रापि कुप्वोरिति कदाचिज्जिह्वामूलीयः कदाचिद्विसर्गश्च स्याताम् । इष्यते तु केलविसर्ग इत्यत आह — येन नाप्राप्तीति ।येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवादः॑ इति न्यायः । प्रापेति भावे क्तः । येनेति कर्तरि तृतीया । कर्तृकर्मणोरिति षष्ठी तु न भवति,न लोके॑ति निषेधात् । द्वौ नञावावश्यकत्वं द्योतयतः । यस्य विधेरवश्यं प्राप्तौ सत्यामित्यर्थः । अनेन न्यायेन कुप्वोरिति विधिः 'विसर्जनीयस्य स' इत्यस्यैपवादः । सत्वे प्राप्त एव तदारम्भात् । 'शर्परे विसर्जनीय' इत्यस्य तु कुप्वोरिति नापवादः ।कः करोती॑त्यादौ शर्परे खरीत्यप्राप्तेऽपि कुप्वोरित्यस्यारम्भादित्यर्थः । तेनेति ।वासः क्षौम॑मित्यादौ कुप्वोरिति विधिना शर्परे इत्यस्य बाधाऽभावेन शर्परे खरीति केवलविसर्ग एव भवतीत्यर्थ । नॄँᳶपाहिं, नॄंᳶपाहीत्युपध्मानीयपक्षे आनुनासिक्येऽनुस्वारे च सति रूपद्वयम् । नॄँःपाहि,नॄंःपाहीति विसर्गपक्षेऽनुनासिकानुस्वाराभ्यां रूपद्वयम् । नॄन्-पाहीति रुत्वाऽभावे रूपम् । तथाच पञ्च रूपाणि । सूत्रे 'पे' इत्यकार उच्चारणार्थः । तथाच नृन्रुनातीत्यादावपि पञ्च रूपाणि भवन्ति ।", "83038": "", "83039": "", "83040": "", "83041": "", "83042": "", "83043": "", "83044": "", "83045": "", "83046": "", "83047": "", "83048": "<<कस्कादिषु च>> - कस्कादिषु च ।इण इत्यनुवर्तते । तच्च पञ्चम्यन्तम् । 'विसर्जनीयस्य स' इत्यतो विसर्जनीयस्येत्यनुवर्तते । कस्कादिष्विति विषयसप्तमी । कस्कादिगणे इणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः । सोऽपदादावित्यतः स इति प्रथमान्तमनुवर्तते । कस्कादिष्वनिणः परस्य विसर्गस्य सत्वं स्यादित्यर्थः । तदेवं वाक्यद्वयं सम्पद्यते । कस्कादिषु तथाविधानामेव कृतषत्वसत्वानां निर्देशादयं विषयविभागः । ᳵकᳶपयोरपवाद इति । ᳵकᳶपयोरित्युपलक्षणं कुप्वोरिति विहितविसर्गस्यापि । अन्यस्य तु स इति । प्रकृते विसर्गस्य इणः परत्वाऽभावान्न षत्वं, किन्तु सत्वमित्यर्थः । काँस्कानिति । अनुनासिकपक्षे रूपम् । कांस्कानिति । अनुस्वारपक्षे रूपम् । अथ कस्कादिगणं पठति — कस्क इत्यादिना । वाप्सायां द्वित्वे पूर्वखण्डेऽकारात्परस्य विसर्गस्य सत्वम् । 'कः कोऽत्र भोः' इति प्रयोगे तु संहिताविरहात्सत्वाऽभावः,कस्कादिषु चे॑त्यस्यतयोय्र्यावाचि संहिताया॑मिति संहिताधिकारस्थात्वादित्याहुः । कोतस्कुत इति । वीप्सायां द्विर्वचने कुतः-कुत आगत इत्यर्थे तत आगत इत्यण् ।अव्ययानां भमात्रे टिलोपः॑ । अत व निपातना॒दव्ययात्यवि॑ति न । सर्पिष्कुण्डिकेति । अत्र इणः परत्वात्षत्वम् । एवं धुनिष्कपालं, चतुष्कपालमित्यत्रापि । ननु कस्कादिगणे कांस्कानित्यत्र सत्वसिद्धेः संपुङ्कानामित्यत्र कान्ग्रहणं न कर्तव्यमिति भावः ।", "83049": "", "83050": "", "83051": "", "83052": "", "83053": "", "83054": "", "83055": "<<अपदान्तस्य मूर्धन्यः>> - रामे — सु॑ इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य । मूर्धन्यः=मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम् । इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः ।", "83056": "<<सहेः साडः सः>> - अत तुरासाह्शब्दात्सोह्र्यल्ङ्यादिलोपे हस्य ढत्वे कृते विशेषमाह — सहे) साडः सः ।इक्श्तिपौ धातुनिर्देशे॑ इति 'षह मर्षणे' इति धातोरिक्प्रत्यये 'धात्वादेः षः सः' इति षस्य सत्वे सहिशब्दः । षह्धातोरित्यर्थः । साडिति कृतढत्वडत्ववृद्धेरनुकरणं । तदाह — साडपस्येति । मूर्धन्येति ।अपदान्तस्य मूर्धन्यः॑ इति तदधिकारादिति भावः । मूर्धनि भवः — मूर्धन्यः । मूर्धस्थानक इत्यर्थः । तुराषट् तुराषाडिति । सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्यः षकारः, विवृतप्रयत्नसाम्यात् । 'वाऽवासाने' इति चर्त्वपक्षेऽपि मूर्धन्यो भवत्येव, सूत्रे 'साड' इति कृतजश्त्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भावः । तुरासाहाविति । अपदान्तत्वान्न मूर्धन्य इति भावः । इत्यादीति । तुराषाड्भिः । तुराषाड्भ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः । तुराषाट्सु-तुराषाट्त्सु । अथ तुराषाट्शब्दं व्युत्पादयति — तुरं सहते इत्यर्थे छन्दसि सह इतीति । कर्मण्युपपदे सहेर्ण्विः स्याच्छन्दसीति तदर्थः । णकार इत्, उपदावृद्धिः, अपृक्तलोपः । ननु ण्विप्रत्ययस्य छन्दोविषयत्वेन तुरासाह्शब्दस्य कथं लोके प्रयोग इत्यत आह — लोके त्विति । सहेर्ण्यन्तात्क्विपि णिलोपेऽपृक्तलोपे च सति लोके प्रयोज्य इति भावः । ननुनहिवृत्तिवृषिव्यधिरुआआवसाहतनिषु क्वौ॑ इति हि सहौ क्विबन्ते पर एव पूर्वपदस्य विहितो दीर्घः कथमिह स्यादित्यत आह — अन्येषामपीति । सहेः किम् । डकारेण सहितः सडः=मृडादिशब्दः, स यस्य नाम सोषपि लक्षणया सडः । तस्यापत्यम् । [साडिः] । अत इञ् ।यस्येति चे॑त्यकारलोपः । आदिवृद्धिः । साडिरिति रूपम् । अत्र न मूर्धन्य इति भाष्ये स्थितम् । इति हन्ताः । अथ वकारान्ताः । दिव्शब्दः स्त्रीलिङ्गः ।द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बर॑मित्यमरः । सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंसि सुदिव स् इति स्थिते- ।", "83057": "<<इण्कोः>> - इण्कोः । इत्यधिकृत्येति । उत्तरत्रव विधिष्वनुवर्तत इति भावः । इण् च कुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वेत्वेकवचनमार्षम् । 'इ' णिति परणकारेण प्रत्याहारः । कुः=कवर्गः ।", "83058": "<<नुम्विसर्जनीयशर्व्यवायेऽपि>> - नुम्विसर्जनीय ।इण्को॑रिति , 'मूर्धन्यः' इति चानुवर्तते । तदाह — एतैः प्रत्येकमित्यादिना । अत्र प्रत्येकमेव नुमादिभिव्र्यवधानं विवक्षितं, न तु अटं कुप्वा॑ङितिवद्यथासंभवं व्यवधानमिति भाष्ये स्पष्टम् । ततश्च प्रकृते विसर्जनीयपक्षे तेन व्यवधानेऽपि षत्वमिति भावः । विसर्जनीयस्य सत्वपक्षे आह — ष्टुत्वेनेति । पिपठीस्-सु इति स्थिते प्रथमसकारेण शरा व्यवायमाश्रित्य ईकारादिणः परत्वाद्द्वितीयसकारस्य षत्वे सति पूर्वस्य सकारस्य ष्टुत्वेन षकारः, नतु 'आदेशप्रत्यययोः' इति षः, तत्र अपदान्तस्य इत्यनुवृत्तेरिति भावः । एवं चनुम्शर्व्यवायेऽपी॑त्येव सिद्धे विसर्जनीयग्रहणं व्यर्थमित्याहुः । अयोगवाहानां शष्र्वपि पाठादिह विसर्जनीयग्रहणं भाष्ये प्रत्याख्यातम् । निंस्स्वेति । 'णिसि चुम्बने' लुग्विकरणः । 'णो नः' इति णस्य नः, इदत्त्वान्नुम् । अनुदात्तेत्त्वादात्मनेपदम् । लोण्मध्यमपुरुषैकवचनं थास्, 'थासः से,'सवाभ्यां वामौ॑इत्येकारस्य वत्वम् । निन्स्स्व इति स्थितेनश्चापदान्तस्ये॑त्यनुस्वारे निंस्स्वेति रूपम् । अत्र यथासंभवं व्यवधानाश्रयणे तु नुम्स्थानिकानुस्वारेण सकारेण च व्यवहितस्य द्वितीयसकारस्य षत्वं स्यादतः प्रत्येकं व्यवधानमाश्रितमिति भावः । निंस्से इति । उक्तधातोर्लण्मध्यमपुरुषैकवचनं थास् । तस्य 'थासः से' इति सेआदेशः । 'निंस्से' इत्यत्रापि द्वितीयसकारस्य षत्वं न भवति, प्रत्येकमेव व्यवधानाश्रयणादिति भावः । 'हिसि हिंसायाम्' सुपूर्वादस्मात्, क्विप्, इदित्त्वान्नुम्, ततः सप्तमीबहुवचने सुहिन्स्सु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे 'सुहिन्सु' इति रूपम् । 'स्वादिषु' इति पदान्तत्वात् 'नश्चापदान्तस्य ' इत्यनुस्वारो न । किं च पुम्शब्दात् सप्तमीबहुवचने पुंस्सु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे पुंसु #इति रूपम् । तत्र सुहिन्सु इत्यत्र नुमा व्यवधानात्षत्वं स्यात् । नुङ्ग्रहणस्यानुस्वारोपलक्षणार्थत्वे पुंसु इत्यत्र षत्वं स्यादित्यत आह — नुङ्ग्रहणमिति । व्याख्यानादिति । प्रकृतसूत्रे, 'हयवरट्' सूत्रे च भाष्ये तथा व्याख्यानादित्यर्थः । नुङ्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमित्येतत्सूत्राक्षरानुगतमित्याह — अत एवेति । नुङ्ग्रहणस्य नुम्स्थानिकानुस्वारोपलक्षणार्थत्वादेव शग्र्रहणेनैव सिद्धत्वात्तद्ग्रहणमनर्थकं स्यात्, अनुस्वारस्य शष्र्वपि पाठादिति भावः । चिकीरिति । कृधातोः सनि 'इको झल्' इति कित्त्वादृकारस्य गुणाऽभावेअज्झनगमां सनी॑ति दीर्घः । ततः 'ऋ इद्धातोः' इति इत्त्वम्,हलि चे॑ति दीर्घः । ततःसन्यङो॑रिति द्वित्वम् । 'हलादिः शेषः'ह्रस्वः॑ । 'कुहोश्चुः' इत्यभ्यासकककारस्य चुत्वं, सस्य षत्वम् । चिकीर्ष इति रूपम् । 'सनाद्यन्ताः' इति धातुत्वात्ततः क्विप् ।अतो लोपः॑ । चिकीर्ष इत्यस्मात्षकारान्तात्सुबुत्पत्तौ सोर्हल्ङ्यादिलोपे चिकीर्ष इति स्थितम् । एतावत् सिद्धवत्कृत्यरात्सस्ये॑ति नियमात्षकारस्य संयोगन्तलोपाऽभावमाह्क्य आह — रात्सस्येति । षत्वस्याऽसिद्धत्वादिति भावः । एवं चिकीभ्र्यामित्याद्यूह्रम् । विसर्गमाशङ्क्य आह — रोः सुपीति । प्रकृते रपरत्वसम्पन्नस्य रस्य रुत्वाऽभावादिति भावः । दमेर्डोसिति । औणादिकमेतत्सूत्रम् । 'दमु उपशमे' इत्येतस्माद्धातोर्डोस्प्रत्ययः स्यादित्यर्थः । डकार इत् । डित्त्वसामर्थायादिति । 'टेः' इति भस्य विहितष्टिलोप इह भत्वाऽभावेऽपि डित्त्वसामर्थ्याद्भवतीत्यर्थः । सकारस्य प्रत्ययावयवत्वात्षत्वं, दोषिति षकारान्तं रूपम् । ततः सोर्हल्यङ्यादिलोपः । एतावत्सिद्धवत्कृत्य-आह — षत्वस्यासिद्धत्वादिति । षत्वस्याऽसिद्धत्वाद्रुत्वे सति विसर्गः । वा दोषन्निति ।शसादा॑विति शेषः । दोष्ण इति । शसि दोषन्नादेशे 'अल्लोपोऽनः' इत्यकारलोपेरषाभ्या॑मिति णत्वमिति भावः । दोःषु दोष्षु । विविक्षशब्दं व्युत्पादयति — विशोत । सन्नन्तादिति । वेष्टुमिच्छतीति विग्रहे विशेः सन् । 'हलन्ताच्च' इति सनः कित्त्वान्न लघूपधगुणः । 'सन्यङो' इति द्वित्वम् ।हलादि शेषः॑ । शकारस्य झल्परकत्वात्व्रश्चे॑ति षः ।षढो कः कः सी॑ति षस्य कः । प्रत्ययावयवत्वात्सस्य षत्वम् । 'सनाद्यन्ताः' इति धातुत्वत्क्विप् । 'अतो लोपः' विविक्ष् इति षकारान्तं रूपमित्यर्थः । कत्वस्येति । विविक्षित्यस्मात्सोर्हल्ङ्यादिलोपे षकारस्य संयोगान्तलोपः । 'स्कोः' इति ककारलोपस्तु न शङ्क्यः, संयोगादिलोपे कर्तव्येषढोः तः सी॑ति कत्वस्याऽसिद्धत्वादित्यर्थः । व्रश्चेति ष इति । संयोगान्तलोपे सति सकारस्य निमित्तस्य निवृत्त्या कत्वस्यापि निवृत्तौ, झल्परत्वनिवृत्त्या पूर्वप्रवृत्त्षत्वस्यापि निवृत्तौ, पदान्तत्वात्व्रश्चे॑ति शस्य ष इत्यर्थः । जश्त्वचर्त्वे इति । षस्य जश्त्वेन डः, तस्य चर्त्वविकल्प इत्यर्थः । सक्रोरिति । 'तक्षू तनूकरणे' अस्मात् क्विप् । ततस्सोर्हल्ङ्यादिलोपे 'स्कोः' इति कलोपे षस्य जश्त्वेन डः, तस्य चर्त्वविकल्प इत्यर्थः । तड्ङ्याम् । तट्त्सु-तट् सु । गोडिति । 'रक्ष पालने' इत्यस्मात् कर्मण्युपपदेऽणि प्राप्ते, वाऽसरूपन्यायेन क्विपि सुबुत्पत्तौ तक्ष्शब्दवद्रूपम् । तक्षिरक्षिभ्यामिति । इका निर्देशोऽयम् । तक्ष् रक्ष इति धातुभ्यांहेतुमति चे॑ति णिच, चकार इत् । 'चुटू' इति णकार इत् । ततः 'सनाद्यन्ताः' इति धातुत्वात् क्विपिणेरनिटी॑ति णिलोपे, क्विपि लुप्ते, तक्ष्, रक्षिति षकारान्ते रूपे । ततः सुलोपे सति संयोगान्तलोपापवादः 'स्कोः संयोगाद्योः' इति ककारस्य जश्त्वचर्त्वे इत्यभिप्रेत्य आह — तक्तग्, गोरक्गोरगिति । 'डु पचष् पाके' अस्मात् सनि 'सन्यङोः' इति द्वित्वम् ।हलादि शेषः॑ । 'सन्यतः' इत्यभ्यासाऽकारस्य इत्त्वम् । 'चोः कुः' इति चकारस्य कुत्वम् । प्रत्ययावयवत्वात्सस्य षः । पिपक्ष् इति रूपम् । ततः सोर्लोपः 'स्कोः' इति ककारस्य लोपमाशङ्क्य आह — कुत्वस्यासिद्धत्वादिति ।चकारस्थानिकस्ये॑ति शेषः । सति च षकारस्य संयोगान्तलोपे झल्परत्वनिवृत्त्या पूर्वप्रवृत्तककारस्य निवृत्तौ पदान्तत्वाकुत्वे जश्त्वचर्त्वे इत्यभिप्रेत्य आह — पिपक् पिपगिति । पिपक्षौ, पिपक्ष इत्यादि । एवं विवगिति । वक्तुमिच्छतीति विग्रहे 'वच परिभाषणे' इत्यस्माद्विवक्षशब्दवदित्यर्थः । दिधगिति । दग्धुमिच्छतीत्यर्थे 'दह भस्मीकरणे' इत्यस्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्त्वे, दिदह्स इति स्थिते 'दादेर्धातोर्घः' इति हस्य घत्वे 'एकाचो बशः' इति दकारस्य धत्वे दिधघ्स इति घकारस्य चर्त्वेन ककारे प्रत्ययावयवत्वात्सस्य षत्वे ततः क्विपि अतो लोपे दिधक्षिति रूपम् । तस्मात् सुबुत्पत्तौ सोर्लोपे चर्त्वस्याऽसिद्धत्वात् 'स्कोः' इत्यभावे षकारस्यसंयोगान्तलोपे खर्परत्वाऽभावात्पूर्वप्रवृत्तककारस्य निवृत्तौ पदान्तत्वाज्जशत्वचर्त्वे इति भावः । दिधक्षौ दिधक्ष इत्यादि इति । षान्ताः । अथ सान्ताः । सुपीरिति । 'वोरुपधाया' इति दीर्घः । एवं सुतूरिति । विद्वानिति । विद ज्ञाने । अदादिः लटः शत्रादेशे 'विदेः शतुर्वसु' शित्त्वात्सार्वधातुकत्वात् शप्, लुक् । 'सार्वधातुकमपित्' इति ङित्त्वान्न लधूपधगुणः । कृदन्तत्वात् प्रातिपदिकत्वं विद्वस्शब्दः । तस्मात्सुः, उगित्त्वान्नुम्, 'सान्तमहतः' इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो नेति भावः । सान्तत्वाऽभावात् 'वसुरुआंसु' इति दत्वं न । विद्वांसाविति । सुटि नुमि कृते 'सान्तमहतः' इति दीर्घः,नश्चे॑त्यनुस्वार इति भावः ।", "83059": "<<आदेशप्रत्यययोः>> - अथ षत्वविधायकं सूत्रमाह — आदेश । षष्ठन्तमिति । 'सहेः साडः सः' इति सूत्रे 'स्' इति निर्दिष्टमिति भावः । तच्चेह द्विवचनान्ततया विपरिणम्यआदेशप्रत्यययो॑रित्यत्र सम्बध्यते । ततश्चइण्कवर्गाभ्यां परयोरपदान्तयोरादेशात्मकप्रत्ययावयवात्मकयोः सकारयोर्मूर्धन्यः स्या॑दित्यर्थः । फलितमाह — इङ्कवर्गाभ्यामित्यादिना । प्रौढमनोरमायां तु आदेशप्रत्यययोरित्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका, आदेशविषये चाऽभेदार्थिका । तथाच आदेशस्य प्रत्ययावयवस्य च सकारस्येति लभ्यत इति प्रत्ययशब्दस्य लक्षणां विनोक्तम् । सहविवक्षाऽभावेऽपि सौत्रो द्वन्द्व इति च स्वीकृतम् । यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात् — ॒आदेशावयवस्य सस्य ष॑ इति, तर्हि 'तिरुआः'तिसृणा॑मित्यादौ दोषः । नचत्रिचतुरोः स्त्रिया॑मित्यत्रादेशे सकारोच्चारणसामर्थ्यान्न तत्र षत्वमिति वाच्यं, तिरुआ इत्यत्रन रपरसृपिसृजिस्पृशिस्पृहिसवनादीना॑मिति षत्वनिषेधेन चरितार्थत्वात् । विसम्विसमित्यादौ सकारस्याऽऽदेशावयवतया षत्वापत्तेश्च, नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपताया वक्ष्यमाणत्वात् ।प्रत्ययो यः सकारस्तस्ये॑ति व्याख्याने तु जिगीषुरित्यादाव#एव स्यात् । 'रामेषु' इत्यादौ न स्यात् । अतआदेशः प्रत्ययावयवश्च यः सकारस्तस्ये॑ति व्याख्यातम् । प्रत्ययावयवसक्षणायां चहलि सर्वेषां॑मिति निर्देशो लिङ्गम् । विवृताघोषस्येति । मूर्धन्यत्वम् ऋटुरषेष्वविशिष्टम् । विवृतत्वरूपाब्यन्तरप्रयत्नवतोऽघोषरूपबाह्रप्रयत्नवतश्च सकारस्य तदुभयात्मकः षकार एव भवतीत्यर्थः । टकारनिवारणायाद्यं विशेषणम् । ऋकारवारणाय द्वितीयम् । रामेष्विति । ननु सु इत्यस्य व्यपदेसिवद्भावेन सुबन्तत्वेन पदत्वात्सात्पदाद्यो॑रिति षत्वनिषेधः स्यादिति चेन्न,प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणा॑दित्यलम् । सुपिसाविति ।पिस गतौ॑क्विप् । धातुसकारोऽयं नत्वादेशो नापि प्रत्ययावयव इति भावः । अत सर्वादिशब्देषु सर्वनामकार्यं विधास्यन् सर्वनामसंज्ञामाह — सर्वादीनि । सर्वः आदिः=प्रथमावयवः येषां तानि सर्वादीनि । अत्र सर्वशब्दः स्वरूपपरः ।", "83060": "<<शासिवसिघसीनां च>> - - शासिवसि । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते ।इण्को॑रिति,अपदान्तस्य मूर्धन्यः॑ इति चाधिकृतम् । तदाह — इण्कवर्गाभ्यामिति । भारद्वाजनियमात्थलि वेडिति मत्वा आह — उवसिथ उवस्थेति । 'न शसददे' ति निषेधात्थलि च सेटी॑ति न भवति । ऊषथुः ऊष, उवास — उवस ऊषिव ऊषिम । क्रादिनियमादिट् । वस् स्य तीति स्थिते आह — सः स्यार्धधातुके इति । अनेन सकारस्य तकार इति भावः । वसतु । अवसत् । वसेत् । उष्यादिति । आशीर्लिङि यासुटः कित्त्वाद्वस्य संप्रसारणेसासिवसी॑ति षत्वमिति भावः । अवात्सीदिति । सिचि हलन्तलक्षणवृद्दौ सस्य तकारः । अवात्तामिति । अवस् स् तामिति स्थिते वृद्धौ 'झलो झली' ति सलोपे प्रत्ययलक्षममाश्रित्य सकाराद्याद्र्धदातुकपरत्वाद्धातुसकारस्य 'सः सि' इति तकारः । वस्तुतस्तु अवात्स्व अवास्म । अवत्स्यत् । वेञ्धातुरनिट् । ञित्त्वादुभयपदी । तन्तुसन्तानः — पटनिर्माणार्थं तन्तूनां तिर्यक्प्रसारमविशेषः । वयति वयते इति । शपि अयादेशः । वेञो वयिः । शेषपूरणेन सूत्रं व्याचष्टे — वा स्याल्लिटीति ।लिच्यन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति । इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः । उवायेति । णल#इ वयादेशे यजादित्वादकिति लिटि परेलिटभ्यासस्ये॑ति वकारस्य संप्रासरणे उपधावृद्धिरिति भावः । अत्र यकारस्य तु न संप्रसारणं,लिटि वयो यः॑इति तन्निषेधस्यानुपदमेव वक्ष्यमामत्वादिति भावः । यद्यपि णलि वयादेशाऽभावेऽपि द्वित्वे अभ्यासस्य संप्रसारमेअचो ञ्णिती॑ति वृद्धौ आयादेशे उवायेति सिध्यति, तथापि ऊयतुरित्याद्यर्थं वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे — अतुस् इति स्थिते वयादेशे कृते —", "83061": "", "83062": "<<सः स्विदिस्वदिसहीनां च>> - सः स्विदि । सः स्विदीति छेदः ।स्तौतिण्योरेव षण्यभ्यासा॑दिति सूत्रं स्तौतिवर्जमनुवर्तते । 'सहे साडः सः' इत्यतः स इति षष्ठन्तं च । तदाह — अभ्यासेण इति । सकारविधिर्नियमार्थ इत्याह — सस्य स एवेति । सुनोतेः सनिस्तौतिण्योरेवे॑ति नियमादुत्तरखण्डस्य षत्वाऽभावे अभिसुसूषतीत्यत्रउपसर्गात्सुनोती॑त्यभ्यासस्य षत्वमाशङ्क्याऽऽह — स्थादिष्वेवेति । शैषिकादिति । सन्विधायकसूत्रस्थमिदं वार्तिकम् । शैषिकात्सरूपः शैषिकः प्रत्ययो न । मतुबर्थीयात्सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः । शेषाधिकारे । विहितः शैषिकः । भवार्थे अधायात्मादित्वाठ्ठञ् । मतुबर्थे भवो — मतुबर्तीयः । गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः । 'अत इनिठनौ' इति ठन् । शालीये इति । शालायां भवः शालीयः ।वृद्धाच्छः॑ । शालीये भव इत्यर्थे शालीयशब्दात्पुनः छो नेत्यर्थः । आहिच्छत्रे भव इति । आहिच्छत्रशब्दो भवार्थे अणन्तः । ततो भवार्थे 'वृद्धाच्छः' इति छ एव भवति नतु पुनरणिति भावः । ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सन्नित्यत आह — सरूप इत्यनुषज्यते इति ।सन्नन्तान्न सनिष्यते॑ इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः । नन्वेवमपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह — अर्थद्वारेति । शब्दतो वैरूप्यस्याऽसंभवादर्थद्वारकमेव सारूप्यं विवक्षितमिति भावः । तेनेति । इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थः । स्वार्थेति । स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः । इति सन्नन्तप्रक्रिया ॥ इति बालमनोरमायाम् सन्नन्तप्रक्रिया॥अथ सर्वसमासशेषप्रकरणम् । — — — — — — — — — — अथ प्रसङ्गात्सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते — कृत्तद्धितेति । कृदन्ताः, तद्धितघटिताः, समासाः, एकशेषाः, सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः । वृत्तिसामान्यलक्षणमाह — परार्थाभिधानं वृत्तिरिति ।समर्थः पदविधि॑रिति सूत्रे भाष्ये स्थितमेतत् । अभिधानमिति करणे ल्युट् । सामान्ये नपुंसकम् । विग्रहवाक्यावयवपदार्थेभ्यः । परः=अन्यो योऽयं विशिष्टैकार्थः, तत्प्रतिपादिका वृत्तिरित्यर्थः । प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिरिति यावत् । समुदायशक्तिश्चसमर्थः पदविधि॑रिति परिभाषया लभ्या । तत्र समासतद्धितयोः पदविधित्वं स्पष्टमेव,सुप्सुपे॑त्यनुवर्त्त्य समासविधानात्, सुबन्तात्तद्धितोत्पत्तेः । वक्ष्यमाणत्वात् । कृतामपि केषाचित्कर्मण्य॑णिति उपपदनिमित्तकानां पदविधित्वमस्त्येव ।सुप आत्मनःक्य॑जित्यादीनामपि पदविधित्वमस्त्येव । एकशेषविधावपि द्वन्द्व इत्यनुवृत्तेद्र्वन्द्वविषये तद्विधानादेकार्थीभावोऽस्त्येवेति मञ्जूषादौ विस्तरः । वृत्त्यार्थवबोधकमिति । यद्यपि वृत्तावेव समुदायशक्त्याविशिष्टैकार्थप्रतिपातिपादकता, नतु वाक्ये इति समर्थसूत्रे भाष्ये प्रपञ्चितम्, तथापि समासवृत्तियोग्यविभक्त्यन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् । परिनिष्ठितत्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानर्ह इति । व्याकरमसंस्कृतत्वाऽभावादित्यर्थः ।यथे॑त्युदाहरणप्रदर्शने । राज्ञः पुरुष इति ।लौकिकविग्रहवाक्य॑मिति शेषः । राजन्-अस्-पुरुषृसु इति ।अलौकिकविग्रहवाक्य॑मिति शेषः । अविग्रहो नित्यसमास इति । सौकिकविग्रहवाक्यरहित इत्यर्थः । समासस्य नित्यत्वादिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदान्तरकृतविग्रहो वा नित्यसमास इत्यर्थः । संज्ञाविषयसमासे तु वाक्येन संज्ञानवगमेऽपि वृत्तिघटकपदज्ञापनाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्यत्ववादस्तु वाक्यस्य वृत्तिसमानार्थकत्वाऽभावाद्गौण इत्याहुः । चतुर्विध इति । अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वश्चेति चतुर्विध इत्यर्थः । प्रायोवाद इति ।प्राय॑सित्यव्ययं बाहुल्ये । बाहुल्याभिप्रायकश्च तस्य चातुर्विध्यप्रवाद इत्यर्थः । कुत इत्यत आह — अव्ययीभावेति । बहुर्भूतानामपीति ।समासाना॑मिति शेषः । प्रायोऽभिप्राय इति । बाहुल्यतात्पर्यक इत्यर्थः । सूपप्रतीति । इह द्वन्द्वे चे॑त्यनन्तरं श्रुतम्-॒अभावा॑दिति पदम्-अव्यीभावे इत्यनन्तरं, तत्पुरुषे इत्यनन्तरं, बहुव्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्रधानतया, उन्मतगङ्गं देशः, लोहितगङ्गं देश इत्यव्ययीभावेऽन्यपदार्थप्रधानतया पूर्वपदार्थप्राधान्याऽभावादित्यर्थः । अतिमालादौ तत्पुरुषे पूर्वपदार्थप्रधानतया उत्तरपदार्थप्राधान्याऽभावादित्यर्थः । 'द्वित्रा' इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थप्राधान्याऽभावादित्यर्थः ।दन्तोष्ठ॑मित्यादिद्वन्द्वे समाहारस्यैव प्रधानतया उभयपदार्थप्राधान्याऽभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति ।तत्पुरुषः समानाधिकरणः कर्मधारय॑ इत्युक्तेरिति भावः । तद्विशेषो द्विगुरिति । कर्मधारयविशेष इत्यर्थः ।सङ्ख्यापूर्वो द्विगुः॑ इत्यादिरिति भावः । अनेकपदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । 'अनेकमन्यपदार्थे' इति बहुव्रीहिगतस्यानेकग्रहणस्य द्वन्द्वविधावप्यनुवृत्तेरिति भावः । क्वचिदेवेति । 'द्व्यह्नजात' इत्यादावित्यर्थः । इत्युक्तमिति ।भाष्यादा॑विति शेषः । किंचेति-अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां-सुबन्तेन तिङन्तेन प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति । तिङन्तानां तिङन्तेन सुबन्तेन च समास इत्येवं षड्विधः समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्यादाहरणं वक्ष्यत इत्यर्थः । राजपुरुष इति । 'राज्ञ' इत्यस्य षष्ठन्तस्य 'पुरुष' इति सुबन्तेन समासः । तिङेति । सुपां तिङेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति ।सह सुपे॑त्यत्रसहे॑ति योगविभागात्परीति सुबन्तस्य तिङन्तेन समासः । नाम्नेति । सुपां प्रातिपदिकेन समासे उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति ।उपपदमति॑ङिति कुम्भस्येति षष्ठन्तस्य कारेति प्रातिपदिकेन समासः,गतिकारकोपपदानां कृद्भिः सह समास वचनं प्राक् सुबुत्पत्ते॑रित्युक्तेरिति भावः । धातुनेति । सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्रूरिति । क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च॑ इति वार्तिकेन 'प्रु गतौ' इति धातुना समासो निपातितः, नतु तिङन्तेनोपपदसमास इति भ्रमितव्यं, क्विब्विधाविह सप्तमीनिर्देशाऽभावेन उपपदत्वाऽभावात् । अथ सुपां धातुनोदाहरणान्तरमाह — अजरुआमिति ।नमिकम्पिस्म्यजसकमिहि#ंसदीपो रः॑ इति सूत्रे रप्रत्ययविधौ जस्धातुना सह नञ्समासो निपातितः । तिङां तिङेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात्तिङन्तस्य तिङन्तेन समासः । तिङा सुपेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । कृन्तविचक्षणेति । हे विचक्षण !कृन्त=छिन्द्धीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह-एही डादय इति । अत्र सुपां तिङेत्यनेनैव तिङां सुबन्तेनेत्यस्यापि ग्रहणात्समासस्य षड्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्म्, उभयत्रापि सुप्तिङ्घटितत्वाऽविशेषादित्याहुः । अन्ये तु सुपां तिङेत्यनेन सुबन्तपूर्वपदकतिङन्तोत्तरपदकसमासस्य ग्रहणम् । तिङां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तोत्तरपदकसमासस्य ग्रहणमित्याहुः । *****इति बालमनोरमायाम् सर्वसमासशेषः ।*****अथ शैषिकाः प्रकरणम् । — — — — — — — -", "83063": "", "83064": "<<स्थाऽऽदिष्वभ्यासेन चाभ्यासय>> - स्थादिषु । अभ्यासेनेति तृतीयान्तम् । प्राक्सितादित्यनुवर्तते । तदाह - प्राक्सितादिति ।उपसर्गात्सुनोती॑ति सूत्रे स्थाधातुमारभ्यपरिनिविभ्यः सेवसिते॑त्यत्र सितशब्दात्प्राग्ये धातव उपात्तास्तेषु दशस्वित्यर्थः । निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहत्वेन उपसर्गात्परत्वाऽभावादप्राप्तौ वचनम् । ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्यौपसर्गादत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह — एषामेवेति । अभ्यासस्थसकारस्य चेत्षत्वं तर्हि स्थादिदशानामेवेत्यर्थः । एवं चषू प्रेरणे॑, अभिसुसूषत । अत्राभ्यासस्य न षत्वम् । अभ्यासात्परस्य तु सस्य स्तौतिण्योरेवेति नियमान्न षत्वम् ।", "83065": "<<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय- सेधसिचसञ्जस्वञ्जाम्>> - उपसर्गात्सुनोति । उपसर्गस्तादिति । उपसर्गशब्द उपसर्गस्थे लाक्षणिक इतिभावः । निमित्तादिति । इण्रूपादित्यर्थ- ।इण्को॑रित्यधिकारेऽपि कोरिति नात्र संबध्यते, असंभवात् । सस्येति । 'सहेः साडः स' इत्यतः स इति षष्ठन्तमनुवर्तत इति भावः । षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । अत्र सुनोतीत्यादिः श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थ इति प्राञ्चः । स्पष्टार्थ इति प्रौढमनोरमायाम् । सेनयेति णिजन्तो नामधातुः । सेधतीति शपा निर्देशात्सिध्यतेर्न ग्रहणम् । अभिषुणोतीत्याद्युदाहरणम् । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यास ।", "83066": "<<सदिरप्रतेः>> - प्राक्सतादिति ।उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता॑ इति शेषः । तेषामिति । पञ्चदशानामित्यर्थः । न्यषेधदिति । अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम् । अभ्युषुणोदित्यप्युदाहार्यम् ।", "83067": "<<स्तम्भेः>> - स्तम्भेः । नकारोपधनिर्देशस्य प्रयोजनमाह — सौत्र्येति ।स्तन्भुस्तुन्भु॑इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । स हि प्रतिपदोक्तः । 'ष्टभि प्रतिबन्धे' इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् ।उदः स्थास्तम्भ्वो॑रिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणं, मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननुसदिस्तन्भ्योरप्रते॑रित्येकमेव सूत्रं कुतो न कृतमित्यत आह — योगविभाग उत्तरार्थ इति ।अवाच्चालम्बनाविदूर्ययो॑रित्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः । ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यस्वारस्यादाह — किंचेति । नानुवर्तत इति । स्तम्भेरित्यत्र अप्रतेरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः ।अप्रते॑रित्यस्य स्तन्भावनन्वयो वृद्धिप्रयोगानुगत इत्याह -बाहुप्रतिष्टम्भेति ।", "83068": "<<अवाच्चालम्बनाविदूर्ययोः>> - अवाच्च । आलम्बनं च आविदूर्यं चेति द्वन्द्वात्सप्तमीद्विवचनम् । एतोरिति । आलम्बनाविदूर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तम्भेरित्यन्वयः । अपूर्वविधिरयम्, इणः परत्वाऽभावादप्राप्तेः । आलम्बने — यथा — यष्टिवष्टभ्य तिष्ठतीति । आश्रित्येत्यर्थः । आविदूर्य — सामीप्यम् । अवष्टब्धा गौः । निरुद्धा सति समीपे आस्त उत्यर्थः ।", "83069": "<<वेश्च स्वनो भोजने>> - वेश्च । अवादित्यनुकर्षणार्थश्चकारः । तदाह — व्यवाभ्यामिति । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थ- । अट्कुप्वाङिति णत्वम् ।", "83070": "<<परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्>> - परिनिविभ्यः । सेवेत्यकार उच्चारणार्थः ।षेवृ सेवाया॑मिति धातोग्र्रहणम् । परिषेवते । निषेवते । विषेवते । सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् । अस्यैव धातोरेरजन्तो वा पचाद्यजन्तो वा सयशब्दः । विषितः । विषयः । षिवु तन्तुसन्ताने । परिषीव्यति । षह मर्षणे । परिषहते । सुट् आगमः । परिष्करोति । स्तुस्वञ्जो॑रुपसर्गात्सुनोती॑त्येव सिद्धेसिवादीनां वे॑ति विकल्पार्थं पुनर्वचनम् ।", "83071": "<<सिवादीनां वाऽड्व्यवायेऽपि>> - सिवादीनां । 'परिनिविभ्य' इति सूत्रादुत्तरमिदं सूत्रम् । तदाह — परिनिविभ्यः परेषामिति ।सिवुसहसुट्स्तुस्वञ्जा॑मिति शेषः । रमु इति । नाऽयमुदिदिति माधवः । केचित्तु उदितं मत्वाउदितो वे॑ति क्त्वायामिड्विकल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि क्रादिनियमादिट् । तदाह — रेमिषे इति । अथ कसन्ता इति । 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः । षद्लृधातुः षोपदेशोऽनिट्कश्च ।", "83072": "<<अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु>> - अनुविपर्यभिनि । एभ्य इति । अनु वि परि अभि नि इत्येतेभ्य इत्यर्थः । सस्येति । 'सहेः साडः सः ' इत्यतः स इति षष्ठन्तस्यानुवृत्तेरिति भावः । षो वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारादिति भावः । ननुमत्स्योदके अनुष्यन्देते॑ इत्यत्र कतं षत्वं, प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत आह — अप्राणिष्विति पर्युदासादिति ।प्राणिकर्तृकस्य ने॑ति न प्रतिषेधः, येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते । एवं च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वाऽनपायादिह षत्वं निर्बाधमिति भावः । कृपू सामर्थ्ये इति । सामर्थ्यं — कार्यक्षमीभवनम् । ऊदित्त्वाद्वेट्कोऽयम् । ऋदुपधः ।", "83073": "<<वेः स्कन्देरनिष्ठायाम्>> - वेः स्कन्दे । शेषपूरणेन सूत्रं व्याचष्टे — षत्वं वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात्सिवादीनां वे॑त्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्यादनिष्ठायां परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह — कृत्येवेदमिति । पर्युदासस्यअब्राहृणमानये॑त्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्त्ता विस्कन्त्तेति । तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् ।", "83074": "<<परेश्च>> - परेश्च । ननुविपरिभ्यां स्कन्देरनिष्ठाया॑मित्येव सिद्दे सूत्रभेदो व्यर्थ इत्यत आह — योगेति । षत्वपक्षे इति । परिष्कन्द् त इति स्थितेअनिदिता॑मितिरदाभ्या॑मिति निष्ठातकारस्य, तत्पूर्वदकारस्य ष्टुत्वेन णत्वे 'परिष्कण्ण' इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गं, निमित्तनिमित्तिनोरेकपदस्थत्वात्,षत्वं तुपरी॑त्युपसर्गात्मकपदान्तरस्थमिणं निमित्तीकृत्य प्रवर्तमानं बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्याऽसिद्धत्वात्षात्परत्वाऽभावात्कथं णत्वमित्याशङ्क्य निराकरोति — न चेति । पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्याऽसिद्धत्वं यत्प्रसक्तं तन्न शङ्क्यमित्यन्वयः । कुत इत्यत आह — धातूपसर्गयोरिति पूर्वं धातुरिति । [पूर्वं] धातुरुपसर्गेण सह युज्यते = सन्ध्यादिकार्यं लभते । पश्चात् = धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदं चसंप्रसारमाच्चे॑त्यादसूत्रभाष्ये स्पष्टम् । तदाह — भाष्यमिति । मतान्तरे त्विति ।पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेणे॑ति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ येभतुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह — येभिथेति । ययब्धेति । थलि इडभावपक्षे पित्त्वेनाऽकित्त्वादेत्त्वाऽभ्यासलोपाऽभावे ययम् थ इति स्थितेझषस्तथो॑रिति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः येभ । ययाभ — ययभ । क्रादनियमादिट् । येभिव । येभिम । यब्धेति । लुटि तासि तकारस्यझषस्तथो॑रिति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति । स्ये भस्य चर्त्वेन पः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति । हलन्तलक्षणावृद्धिरिति भावः । अयप्स्यत् । णम् प्रह्त्रत्वे इति । अनिडयं णोपदेशश्च । केचित्त्विमं धातुमुदितं पठन्ति । तत्तु प्रामादिकम् । तथा सतिउदितो वे॑ति क्त्वायामिड्विकल्पस्य 'यस्य विभाषा' इति निष्ठायामिड्विकल्पस्य चाऽऽपत्तेः । नमति । ननाम नेमतुः नेमुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलोपं मत्वा आह — नेमिथ ननन्थेति । इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाऽभावे रूपम् । नेमथुः नेम । ननाम — ननम, नेमिव नेनिम । क्रादिनियमादिट् । नन्त#एति । मस्यानुस्वारपरसवर्णौ । नंस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति ।यमरमे॑ति सगिति भावः । अनंस्यत् । गम्लृ सृप्लृ गताविति । अनिटौ । सृपिरषोपदेशः ।", "83075": "<<परिस्कन्दः प्राच्यभरतेषु>> - परिस्कन्दः प्राच्यभरतेषु ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारे इदं सूत्रम् । पूर्वेणेति ।परेश्चे॑ति पूर्वसूत्रम् । परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः । तेन षत्वविकल्पे प्राप्त प्राच्यभरतेषु षत्वाऽभावो निपात्यत इत्यर्थः । परिस्कन्द इति । परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः ।", "83076": "<<स्फुरतिस्फुलत्योर्निर्निविभ्यः>> - स्फरतिस्फुल्योः ।मूर्धन्य॑इत्यधिकृतम् ।सिवादीनां वे॑त्यतो वेत्यनुवर्तते । तदाह - षत्वं वा स्यादिति । णू स्तवने इति । णोपदेशः । परिणूतेति ।श्रयुकः किती॑ति नेट् । कुङ् शब्दे । दीर्घान्त इति । ततश्चायं सेट् । पृङ् व्यायामे इति । ह्रस्वान्तोऽयमनिट् ।॒ऋद्धनोः स्ये॑ इति इटं मत्वाऽऽह - व्यापरिष्यते इति । मृङ्धातुरनिट् ।", "83077": "", "83078": "<<इणः षीध्वंलुङ्लिटां धोऽङ्गात्>> - इणः षीध्वं । षीध्वं लुङ्लिट् एषां द्वन्द्वः । 'धः' इति षष्ठएकवचनम् । 'इण' इत्यङ्गविशेषणम् । तदन्तविधिः ।अपदान्तस्य मूर्धन्य॑ इत्यधिकृतं । तदाह — इणन्तादित्यादिना । धकारस्य ढकारो मूर्धन्यः, घोषसंवारनादमहाप्राणप्रयत्नसाम्यात् । तदाह — एधांचकृञढ्व इति । उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादौ कृते रूपमाह — एधांचक्रि इति । एधांचकृवह इति । लिटो वहिभावे एत्वे द्वित्वादि पूर्ववत् । एवं लोटि महिभावे द्वित्वादि पूर्ववत् । सर्वत्राऽसंयोगाल्लिट्कदिति कित्त्वाद्गुणाऽभावः । अथ भूधातोर्लिडन्तस्यानुप्रयोगे उदाहरति — एधांबभूवेति । एधाञ्चक्र इत्यनेन समानार्थकम्, अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् । नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वादस्तेर्भूरित्यार्धधातुके विहितो भूभावुः कुतो न स्यादित्यत आह — अनुप्रयोगेति । कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादस्धातोर्भूभावो नेत्यर्थः । तदेवोपपादयति — अन्यथेति । अनुप्रज्यमानस्याऽस्तेर्भूभावाभ्युपमे कृञ्चानुप्रयुज्यत इत्यनुप्रयोगविदौक्रस्चानुप्रयुज्यते॑ इति वा,कृभु चानुप्रयुज्यते॑ इति वा ब्राऊयात् । तावता एधांबभूवेति सिद्धेरित्यर्थः । यद्यपिकृ॑ञित्युतक्त्वौ लाघवमस्ति तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भाव । अत एवाऽत उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते ।", "83079": "<<विभाषेटः>> - विभाषेटः ।इणः षीध्वंलुङ्लिटा धः॑ इत्यनुवर्तते ।अपदान्तस्ये॑त्यतो मूर्धन्य इति च । तदाह — इणः परो य इडित्यादि । इणन्तादङ्गादित्यर्थः । अयिषीढ्वमिति । लुङो ध्वमि च्लेः सिचि आटि वृद्धौ सिच इटिधि चे॑ति सलोपः । ध्वम इवर्णान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः । अङ्गादिति । निवृत्तमिति केचित् ।", "83080": "<<समासेऽङ्गुलेः सङ्गः>> - समासेऽङ्गुलेः सङ्गः ।", "83081": "<<भीरोः स्थानम्>> - भीरोः स्थानम् ।", "83082": "<<अग्नेः स्तुत्स्तोमसोमाः>> - अग्ने स्तुत् । स्तुत्-स्तोम-सोम इति द्वन्द्वात् षष्ठर्थे प्रथमा । 'सहेः साडः सः' इत्यतः 'स' इति षष्ठएकवचनान्तमनुवर्तते । अग्नेरिति पञ्चमी । 'समासेऽङ्गुलेः' इत्यतः समासे इत्यनुवर्तते । तदाह — अग्नेः परेषामिति । षः स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यनुवृत्तेरिति भावः । 'सात्पदाद्योः' इति षत्वनिषेधापवादोऽयम् । अग्निष्टुदिति । क्रतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्रविशेषस्य, संस्थाविशेषस्य च नाम । अग्नीषोमाविति । अग्निश्च सोमश्चेति विग्रहः । ईत्त्वषत्वे । अग्नीवरुणाविति । अग्निश्च वरुणश्चेति विग्रहः । ईत्त्वम् । देवताद्वन्द्वे किम् । अग्निर्नाम कश्चित्, सोमो नाम कश्चित् । अग्निसोमौ अदेवताद्वन्द्वत्वादीत्त्वं न । अत एव च न षत्वम्,अग्नेर्दीर्घात् सोमस्य इष्यते॑इति वार्तिकात् । इद्वृद्धौ ।अग्ने॑रिति 'देवताद्वन्द्वे' इति चानुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदाऽसम्भवात् । तदाह — वृद्धिमतीति । इदिति तकार उच्चारणार्थः । प्रयोजनाऽभावान्नेत्संज्ञा । नापि तपरकरणं, विधीयमानत्वादेव सवर्माऽग्राहकत्वात् । अग्नामरुताविति.अग्निश्च मरुच्चेति विग्रहः ।देवताद्वन्द्वे चे॑त्यानङ् । आग्निमारुतं कर्मेति ।साऽस्य देवते॑त्यण् । तद्धितान्तप्रातिपदिकावयवत्वात्सुपो लुक् । अग्नोवरुणाविति ।ईदग्ने॑इतीत्त्वम् । आग्निवारुणमिति ।साऽस्य देवते॑त्यण् । ननुतद्धितेष्वचामादे॑रित्यादेरचो वृद्धिविधानात्कथमुत्तरपदस्याऽऽदिवृद्धिरित्यत आह — देवताद्वन्द्वेचेत्युभयपदवृद्धिरिति । नन्वग्नोरिकारस्य इकारविधिव्र्यर्थ इत्यत आह — आनङमीत्त्वं च बाधित्वेति ।आग्निमारुत॑मित्यत्रानङ्,आग्निवारुण॑मित्यत्र ईत्त्वस्य च बाधनार्थग्नोरिकारस्य पुनरिकारविधानमित्यर्थः । ननुसमर्थानां प्रथमाद्रे॑त्यत्र परिनिष्ठितात्तद्धितोत्पत्तिरिति वक्ष्यते । तथा च अग्नामरुतौ देवते अस्येति, अग्नीवरणौ देवते अस्येति च विग्रहे अग्नामरुच्छब्दादग्नीवरुणशब्दाच्च आनङीत्त्वाभ्यां परिनिष्ठिताद्देवताद्वन्द्वात्साऽस्य देवते॑त्यण्तद्धित उत्पद्यते । ततस्तन्निमित्तकोभयपदवृद्धिः । ततः 'इद्वृद्धौ' इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानङीत्त्वयोः कथम् 'इद्वृद्धौ' इत्यनेन बाधः , युगपत्प्रवृत्तावेव बाध्यवाधकभावाभ्युपगमात् । उक्तं च भाष्ये — ॒भुक्तवन्तं प्रति मा भुक्था इत्युक्ते किं तेन कृतं स्या॑दिति । अत आह — अलौकिके [विग्रह]वाक्ये इति । अग्नि मरुत् औ देवते अस्येति, अग्नि वरुण औ देवते अस्येति च तद्धिताऽलौकिकविग्रहवाक्ये आनङीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीमुत्तरपदस्य वृद्धिमत्त्वं नास्ति,तद्धिताऽभावात् , तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः ।", "83083": "<<ज्योतिरायुषः स्तोमः>> - ज्योतिरायुषः स्तोमः । अत्र त्रिसूत्र्याम्-अङ्गुलेः सङ्गः, भीरोः स्थानं, ज्योतिषः स्तोमः,आयुषःस्तोम इत्याद्यर्थे प्रत्यासत्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः । तद्ध्वनयन् प्रत्युदाहरति — अङ्गुलेः सङ्ग इत्यादि । नेहइण्को॑रित्यनुवर्तते, व्याख्यानात् ।", "83084": "<<मातृपितृभ्यां स्वसा>> - मातृपितृभ्यां स्वसा । स्वसुरिति । सूत्रे षष्ठर्थे प्रथमेति भावः । मातृष्वसा पितृष्वसेति । लुक्पक्षे नित्यमेव षत्वम् । आदेश प्रत्ययसकारत्वाऽभावादप्राप्ते षत्वविधिरयम् । षत्वविधौ समासग्रहमांनुवृत्तेः फलं दर्शयति — असमासे त्विति । वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः । *****इति बालमनोरमायामलुक्समासः*****अथ तद्धितेष्वपत्याधिकारप्रकरणम् । — — — — — — — — — — — —", "83085": "<<मातुःपितुर्भ्यामन्यतरस्याम्>> - पूर्वण नित्ये प्राप्ते विकल्पोऽयम् । अलुक्पक्षे विशेषमाह — मातुःपितुभ्र्यामन्यतरस्याम् ।मातृपितृभ्यामन्यतरस्याम् ।मातृपितृभ्यां स्वसे॑ति पूर्वसूत्रात्स्वसेत्यनुवर्तते । षष्ठर्थे प्रतमा । 'सहेः साडः सः' इति सूत्रात्स इति षष्टन्तं पदमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम् । तदाह — आभ्यामिति । 'मातुः'पितु॑रिति षष्ठन्ताभ्यामित्यर्थः । समासे इति ।समासेऽङ्गुलेः सङ्गः॑ इत्यतस्तदनुवृत्तेरिति भावः ।मातुःष्वसा॒॑पितुःष्वसे॑ति अलुकि षत्वे रूपम् ।मातुःस्वसा॒॑पितुःस्वसे॑त्यलुकि षत्वाभावे रूपम् । लुक्पक्षे त्विति । 'विशेषो वक्ष्यते' इति शेषः ।", "83086": "", "83087": "<<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> - उपसर्गप्रादुभ्र्याम् । उपसर्गः प्रादुस् अनयोद्र्वन्द्वः । इण्कोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण संबध्यते, न प्रादुसि, ततः परस्य अस्तेः सस्य इणः परत्वाऽसंभवात् । कोरित्यपि असंभवान्न संबध्यते । अस्तिरिति षष्ठर्थे प्रथमा । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते, मूर्धन्य इत्यधिकृतम् । य् अच् — अनयोद्र्वन्द्वः । यचौ परौ यस्मादिति विग्रहः । यकारे अचि च परे इति लभ्यते । तदाह — उपसर्गेण इति । उपसर्गेण इति । उपसर्गस्थादिण इत्यर्थः । परस्येति । अस्तेः सस्य विशेषणमिदम्,न त्वस्तेः, तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति — निष्यात् प्रादुष्ष्यादिति । प्रादुसिति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः । षान्तत्वे तुप्रादुभ्र्या॑मिति रुत्वनिर्देशो नोपपद्यते । अच्परकत्वने उदाहरति — निषन्ति प्रादुष्षन्तीति । मृजूष् शुद्धाविति । ऊदित्त्वमिड्विकल्पार्थम् ।षिद्भिदादिभ्यो॑ऽङित्यङर्थं षित्त्वम् । वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करममनार्षमित्याहुः ।", "83088": "", "83089": "<<निनदीभ्यां स्नातेः कौशले>> - निनदीभ्यां । सस्य षः स्यादिति । 'सहे साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते,अपदान्तस्य मूद्र्धन्यः॑ इत्यप्यधिकृतमिति भावः । निष्णात इति । कुशल इत्यर्थः । नदीष्ण इति । नद्यां कुशलं स्नातीति विग्रहः । सुपीति क इति । 'सुपि स्थः' इत्यत्रसुपी॑ति योगविभागात्क इत्यर्थः ।", "83090": "", "83091": "", "83092": "<<प्रष्ठोऽग्रगामिनि>> - प्रष्ठोऽग्रगामिनि । प्रपूर्वात्स्थाधातोः 'आतश्चोपसर्गे' इति कप्रत्यये आतो लोपे प्रस्थशब्दः । स च अग्रगामिनि वाच्ये कृतषत्वो निपात्यते । इण्कवर्गाभ्यां परत्वाऽभावात्षत्वस्य न प्राप्तिः । प्रतिष्ठत इति । अग्रे गच्छतीत्यर्थः, उपसर्गवशात् । प्रष्ठो गौरिति । अग्रगामीत्यर्थः । एवं प्रष्ठोऽआ इत्यादि ।", "83093": "", "83094": "", "83095": "<<गवियुधिभ्यां स्थिरः>> - तत्रआदोशप्रत्यययो॑रिति षत्वस्यसात्पदाद्यो॑रिति निषेधे प्राप्ते इदमारभ्यते — गवियुधिभ्यां स्थिरः । गवीसि युधीति च सप्तम्या अनुकरणम् । 'स्थिर' इति प्रथमा षष्ठर्थे । 'सहेः साडः सः' इत्यस्मात्स इति षष्ठन्तमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम् । तदाह — आभ्यामिति । ननुअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति परिभाषयाऽवादेशात्पूर्वमेव ङेर्लुकि प्रवृत्ते हलन्तत्वाऽभावात्कथमिहाऽलुगित्यत आह — अत्र गवीति । युधिष्ठिर इति । युध्धातोर्भावे क्विपि युध्शब्दात्सप्तम्येकवचनम् । हलन्तत्वादलुक्, षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तदेवं हलन्तादलुकं प्रापञ्च्य अदन्तादलुकमुदाहरति — अरण्येतिलका इति । ननु तिलकशब्दस्य शौण्डादिगणेऽभावात्कथं तेन सप्तमीसमास इत्यत आह — अत्र संज्ञायामिति । ह्मद्युभ्यां चेति । ह्मच्छब्दाद्दिव्शब्दाच्च सप्तम्या अलुग्वक्तव्य इत्यर्थः । असंज्ञार्थमिदम् । ह्मदिस्पृगिति ।पद्द॑न्निति ङौ ह्मदयस्य ह्मदादेशः । ह्मदयं स्पृशतीत्यर्थः । दिविस्पृगिति । दिवं स्पृशतीत्यर्थः । इहोभयत्रापि सप्तम्या अलुग्विधानबलादेव कर्माणि सप्तमीति भाष्यम् ।अमूर्धमस्तका॑दित्यनेन त्वलुङ्न सिध्यति, तत्र संज्ञायामित्यनुवृत्तेः ।", "83096": "", "83097": "<<अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जि- पुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः>> - अम्बाम्ब । अम्ब, आम्ब, गो, भूमि, सव्ये, अप, द्वि, त्रि, कुशे, कु , शङ्कु, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस्, दिवि, अग्नि — एषामष्टादशानां द्वन्द्वः । अम्बष्ठः, आम्बष्ठः, गोष्ठः,भूमिष्ठः । सव्येष्ठः । निपातनादलुक् । 'हलन्तात्सप्तम्याः' इति वा । अपष्ठः । एषु कतिपयेषुसात्पदाद्यो॑रिति निषेधः प्राप्तः । एवमग्रेऽपि । द्विष्ठ इति । द्वाभ्यां तिष्ठतीति विग्रहः । एवं त्रिष्ठः, कुशेष्ठः, कुष्ठः, शङ्कुष्ठ अङ्गुष्ठः मञ्जिष्ठः, पुञ्जिष्ठः । परमेष्ठः, निपातनादलुक्,हलदन्ता॑दिति वा । वर्षिष्ठः । दिविष्ठः । पूर्ववदलुक् । अग्निष्ठः । कप्रत्ययान्तस्येति । भूमिस्थितम् । इत ऊध्र्वमिति ।तुन्दशोकयो॑रित्यारभ्येत्यर्थः । सुपीत्यस्येति । नतु कर्मणीत्यस्य , असंभवादिति भावः ।", "83098": "<<सुषामादिषु च>> - सुषामादिषु च ।स्पष्टम्", "83099": "<<एति संज्ञायामगात्>> - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।", "83100": "<<नक्षत्राद्वा>> - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।", "83101": "<<ह्रस्वात् तादौ तद्धिते>> - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।", "83102": "<<निसस्तपतावनासेवने>> - नक्षत्राद्वा । स्पष्टम् ।", "83103": "<<युष्मत्तत्ततक्षुःष्वन्तःपादम्>> - ह्रस्वात्तादौ ।इण्को॑रित्यत इण्ग्रहणमनुवर्तते । 'सहेः साडः स' इत्यतः स इति षष्ठन्तमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इति च । तदाह — ह्रस्वादिण इति । निष्ट इति त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः ।अरण्याण्ण्य इति । 'वक्तव्य' इति शेषः । आरण्याः सुमनस इति ।स्तिरयः सुमनसः पुष्प॑मित्यमरः । अरण्ये भवा इत्यर्थे णप्रत्यये टापि 'आरण्या' इति रूपम् । अणि तु ङीप् स्यादिति भावः । दूरादेत्य इति । 'वक्तव्य' इति शेषः । दूरेत्य इति । दूरादागतः, दूरे भव इति वाऽर्थः । दूरादित्यव्ययादेत्यप्रत्ययेऽव्ययानां भमात्रे इति टिलोपः ।उत्तरादाहञिति । 'वाच्य' इति शेषः । औत्तराह इति । उत्तरस्मादागतः, उत्तरस्मिन् भव इति वाऽर्थः । औत्तर इति त्वसाधु ।", "83104": "", "83105": "", "83106": "", "83107": "", "83108": "", "83109": "", "83110": "", "83111": "", "83112": "", "83113": "<<सेधतेर्गतौ>> - सात्पदाद्योः । शेषपूरणेन सूत्रं व्याचष्टे — सस्य षत्वं न स्यादिति । सातेरवयवस्य, पदादेश्च सस्य षत्वं न स्यादित्यर्थः ।न रपरसृपी॑त्यतो नेति,अपदान्तस्ये॑त्यतो 'मूर्धन्य' इति चानुवर्तत इति भावः । पदादेरुदाहरति — दधि सिञ्चतीति । षिचिधातोः 'धात्वादेः षः सः' इति षस्य सः । तस्यआदेशप्रत्यययो॑रिति षत्वे प्राप्ते ।ञनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः ।अग्निसा॑दित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्तेऽनेन निषेधः । अग्नीभवतीति । च्विप्रत्ययेच्वौ चे ति दीर्घः । महाविभाषयेति ।समर्थाना॑मित्यतो वाग्रहणानुवृत्तेरित्यर्थः । माहाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्वेः समावेशार्थम् ।", "83114": "", "83115": "<<सोढः>> - सेधतेः । न षत्वमिति ।न रपरे॑त्यतो नेत्यनुवृत्तेरिति भावः । गङ्गां विसेधतीति । गच्छतीत्यर्थः । इहउपसर्गात्सुनोती॑ति षत्वं न भवति । अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायं निषेधः,न त्वादेशप्रत्ययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्ययोरिति षत्वं भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपतवात्कथं धात्वर्थत्वमित्यत आह -शास्त्रं शासनमिति । माङ्गल्यं तु — शुभकर्म । षिध गत्यामितिवदस्यापि रूपाणि ।", "83116": "", "83117": "<<सुनोतेः स्यसनोः>> - सोढः । 'सोढ' इति सहेरोवत्वसंपन्नस्य षष्ठन्तम् । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते ।न रपरे॑त्यतो नेति । 'मूर्धन्य' इत्यधिकृतम् । तदाह — सोढ्रूपस्येत्यादिना ।", "83118": "<<सदिष्वञ्जोः परस्य लिटि>> - स्तन्भुसिवु ।उपसर्गनिमित्तस्य प्रतिषेध॑ इति वार्तिकम् । न रपरसृपी॑त्यतो नेत्यनुवर्तते । 'सहे साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते । 'मूर्धन्य' इत्यधिकृतम् । तदाह — उपसर्गनिमित्त इत्यादि । स्तम्भुः सौत्रो धातुः ।षिवु ततन्तुसन्ताने॑ 'षह मर्षणे' पर्यसीषिवत् न्यसीषहदिति ।परिनिविभ्यः सेवे॑त्युपसर्गनिमित्तं षत्वं न । अभ्यासनिमित्तं तु षत्वं भवत्येव । आटिट्त आशिशदिति । आट् इ अ त्, आश् इ अ त् इति स्थितेणौ चङी॑त्युपधाह्रस्वात्प्रागन्तरङ्गत्वा॒चङी॑ति द्वित्वमाशङ्क्याह — बहिरङ्गोऽपीति । उपधाह्रस्वश्चङ्परण्यपेक्षत्वाद्बहिरङ्गः । द्वित्वं तु चङ्मात्रापेक्षत्वादन्तरङ्गम् । अथाऽपि द्वित्वात्प्रागेव उपधाह्रस्व इत्यर्थः । कुत इत्यत आह — ओणेरिति । 'ओणृ अपनयने' इति धातोः ऋदित्करणम् औणिणदित्यत्र\tनोग्लोपी॑ति उपधाह्रस्वप्रतिषेधार्थम् । यदि तु उपधाह्रस्वात्प्रागेव अन्तरङ्गत्वाद्द्वित्वं स्यात्तदा ओण् इ अ त् इत्यत्रअजादेर्द्वितीयस्ये॑ति णीत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चङ्परे णौ उपधात्वाऽभावादेव ह्रस्वस्याऽप्रसक्तत्वादृदित्करणं व्यर्थं स्यात् ।द्वित्वात्प्रागेव उपधाह्रस्व॑इत्यभ्युपगमे तु ओण् इ अ त् इत्यस्यामवस्थायां प्राप्तस्य ह्रस्वस्य निषेधार्थमृदित्करणमर्थवत् । अतोबहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात् प्रागेवे॑ति विज्ञायते इत्यर्थः । ननु आटिटत् आशिशदिति सिध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह — मा भवानिदिधदिति । एध् इ अ त् इति स्थिते पूर्वं द्वित्वप्रवृत्तौधी॑त्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात्, द्वित्वात्प्रागेव उपधाह्रस्वे तु इध् इ अ त् इति स्थितेधी॑त्यस्य द्वित्वे माङ्योगादाडभावे इदिधदिति इष्टं सिध्यतीत्यर्थः । ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वात् 'एत्येधत्यूठ्सु' इति वृद्धिः स्यादित्यत आह — एजादावेधताविति ।अवर्णादेजाद्योरेत्येधत्यो॑रिति व्याख्यातत्वादिति भावः । औन्दिददिति । उन्द् इ अ त् इति स्थितेदी॑त्यस्य द्वित्वमिति भावः । आड्डिडदिति । अड्डधातुर्दोपधः । ष्टुत्वसंपन्नो डकारः । अड्डि अ त् इति स्थिते ष्टुत्वस्याऽसिद्धत्वेन दकारात्परस्यडि॑इत्यस्य द्वित्वमिति भावः । आर्चिददिति । अर्च् इ अ त् इति स्थिते रेफात् परस्यची॑त्यस्य द्वित्वमिति भावः । उब्ज आर्जवे इति । ननु चङिब्जी॑त्यस्य द्वित्वे हलादिशेष#ए औबिब्जदिति रूपं स्यात् । औब्जिजदित्येव द्वित्वमिति भावः । तर्हि दकारः कुतो न श्रुयते इत्यत आह — भुजन्युब्जाविति । ननु द्वित्वात्प्रागन्तरङ्गत्वाद्दकारस्य बकारादेशे सति 'न न्द्रा' इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह — स चेति । ननु 'द्रु गतौ' द्रावयति, चङिद्रु॑इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोरुपधाह्रस्वेरुआवतिशृणोती॑त्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते । तन्नोपपद्यते । 'न न्द्राः' इति दकारस्य द्वित्वनिषेधादित्यत आह — अजादेरित्येवेति । 'न न्द्राः' इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः । 'आदिभूतादचः' इति व्याख्यातं प्राक् । ततश्च आदिभूतादचः परा नदरा द्विर्न भवन्तीति फलितम् । नेहेति । प्रकृते आदिभूतादचः परत्वाऽभावान्न दकारद्वित्वनिषेध इत्यर्थः ।अदिद्रप॑दिति पाठे द्राधातोर्णिचि पुकिद्रापी॑त्यस्माद्रूपम् । ननुलावस्थायाम॑डिति पक्षे अचः परत्वमस्त्येवेति चेन्न, 'न न्द्राः' इत्यत्रलिटि धातो॑रित्तो धातोरित्यनुवर्त्त्य धातुसंज्ञाकालिकादादेरचः परा नदरा द्विर्नेति व्याख्यानादित्याहुः ।", "83119": "<<निव्यभिभ्योऽड्व्यवाये वा छन्दसि>> - सुनोतेः स्यसनोः ।अपदान्तस्य मूर्धन्यःर॑ इत्यधिकृतम् ।न रपरे॑त्यतो नेत्यनुवर्तते । तादह — षो न स्यादिति । स्ये उदाहरति — विसोष्यतीति । अत्रउपसर्गात्सुनोती॑ति प्राप्तः षो न भवति । सनि तुअभिसुसू॑रित्युदाहरणम् । षुञः सनि द्वित्वे अभिसुसूसेति ससन्तात्क्विपि अतो लोपे अभिसुसूसित्यस्मात्सोर्हल्ङ्यादिलोपे सस्य रुत्वे 'र्वोरुपधायाः' इति दीर्घे रेफस्य विसर्गः । सुसूषतीति तु नोदाहरणं,स्तौतिण्योरेव षण्यभ्यासा॑दिति नियमादेव षत्वाऽभावसिद्धेरित्यलम् । षिञ् बन्धने इति । षोपदेशः, अनिट् च । षुञ इव रूपाणि । विसिनोतीति ।सात्पदाद्यो॑रिति षत्वनिषेधः ।उपसर्गात्सुनोती॑ति तु न षः, सुनोतत्यादिष्वनन्तर्भावादिति भावः । सिषायेति । णलि वृद्धावायादेशः । अतुसादौ 'एरनेकाचः' इति यण् । सिष्यतुरित्यादि । लटस्तङ्याह — सिष्ये इति । सिषि ए इति स्थिते 'एरनेकाच' इति यणिति भावः । सिष्याते सिष्यिरे इत्यादि । असैषीत् । षिञ् निशाने इति । षिञ्वत् । डु मिञ् प्रक्षेपणे इति । मिनोति । उपदेशे एजन्तत्वाऽभावादात्त्वे अप्राप्ते आह — मीनातिमिनोतीत्यात्त्वमिति ।एज्विषये अशिती॑ति शेषः । ममाविति । आत्त्वे कृते णल औत्वमिति भावः । अतुसादावेज्विषयत्वाऽभाव#आन्नात्त्वम् । 'एरनेकाचः' इतियण् । मिम्यतुः । मिम्युः । भारद्वाजनियमात्थलि वेडिति मत्वा आह — ममिथ ममाथेति । थलः पित्त्वेन अकित्त्वादेज्विषयत्वम् । इट्पक्षे 'आतो लोपः' इति भावः । मिम्यथुः मिम्य । ममौ मिम्यिव मिम्यिम । लिटस्तङ्याह — मिम्ये इति । एशः कित्त्वादेज्विषयत्वाऽभावाच्च नात्त्वमिति भावः । मिम्याते मिम्यिरे । मिम्यिषे मिम्याथे [मिम्यिढ्वे] मिम्यिध्वे ।मिम्ये मिम्यिवहे मिम्यिमहे । मातेति । एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः । मास्यि मास्यते । सार्वधातुकेषु षुञ्वत् । मीयादिति । आशीर्लिङि परस्मैपदे यासुटः कित्त्वादेज्विषयत्वाऽभावादात्त्वाऽभावेअकृत्सार्वधातुके॑ति दीर्घ इति भावः । अमासाताममासात इत्यादि । चिञ् चयने इति । चयनं = रचना । अनिट् । सार्वधातुके षुञ्वद्रूपाणि । प्रणिचिनोतीति ।\tनेर्गदे॑ति णत्वमिति भावः ।", "84001": "<<रषाभ्यां नो णः समानपदे>> - रषाभ्याम् । रषाभ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् । समानशब्द एकपर्यायः । यथा - समानग्रामा वयमिति । आधारसप्तमीबलात् विद्यमानाभ्यामिति लभ्यते । न इति षष्ठी । तदाह - एकपदस्थाभ्यामिति । एकत्वं चेहाखण्डत्वं विवक्षितं, पदे इत्येतावतैव सिद्धे समानग्रहणसामर्थ्यात् । अन्यथा रामनामेत्यादौ 'अट्कुप्वाङ्' इति णत्वापत्तिः । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्तेः । 'मातृभोगीणः' इत्यत्र णत्वं तु तद्धिताधिकारे वक्ष्यते । यूष्ण इति । शसि रूपम् । यूष्णेति । तृतीयैकवचनम् । नचाल्लोपस्य स्थानिवद्भावान्नकारस्य षात्परत्वं नेति शङ्क्यं,रषाभ्यामिति षात्परस्य हि नस्य णत्वे कर्तव्येऽल्लोपस्य स्थानिवद्भावो नापेक्षितः । किंतु णत्वाभावे तदपेक्षा । णत्वाभावश्चाशास्त्रीयत्वान्नातिदेश्यः । स्थानिनि सति यत्कार्यं भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येवं कार्याभावस्त्वशास्त्रीयत्वान्नातिदिश्यते इति स्थानिवत्सूत्रेऽवोचाम । यद्यप्यचः परस्मिन्नित्यत्राशास्त्रीयः कार्याभावोऽप्यतिदिश्यत इत्यभ्यधायि, तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरिति । स्थानिभूतादचः पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्तेः । इह चाल्लोपस्थानिभूतादकारात्परस्यैव णत्वविधानादिति भावः । नन्वचः परस्मिन्निति सूत्रे स्थानिभूतादचः पूर्वस्मात्परस्य विधावजादेशः स्थानिवदिति पक्षोऽपि भाष्ये स्थितः । एवञ्चात्र लोपादेशस्थानिभूतादकारात्पूर्वो यः षकारस्तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्षात्परत्वाऽभावात्कथं णत्वमित्यत आह — पूर्वस्मादिति । पक्षे त्वित्यादिनाऽस्य पक्षस्याऽनित्यत्वं सूचितम् । अत एव प्रविगणय्येति भाष्ये प्रयुक्तं सङ्गच्छते । चुरादौ 'गण सङ्ख्याने' इत्यदन्तो धातुः । णिच् । अतो लोपः । अल्लोपस्य स्थानिवद्भावात् <<अत उपधायाः>> [[7.2.116]] इति वृद्धिर्न । ण्यन्तात्क्त्वो ल्यपि णिलोपं बाधित्वा ,<<ल्यपि लघुपूर्वात्>> [[6.4.56]] इति णेरयादेशः । पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्य नित्यत्वे इह ल्यपि लघुपूर्वादिति णेरयादेशो न स्यात् । लोपस्थानिभूतादतः पूर्वस्मात्परस्य णेरयादेशविधावल्लोपस्य स्थानिवद्भावे सति अता व्यवहितत्वेन णेर्लघुपूर्वाण्णकारात्परत्वाऽभावात् । तस्मादचः परस्मिन्नित्यत्र पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्याऽनित्यत्वं विज्ञायते । एवं च गोशब्दात्संबुद्धौ ओतो णित्त्वे वृद्धौ हे गौरिति सिध्यति । अन्यथा औकारस्य स्थानिभूतादोकारात्पूर्वो यो गकारस्तस्मात्परस्याः सम्बुद्धेर्लोपविधौ स्थानिवद्भावे ओकारादेङः परत्वात्सम्बुद्धिलोपः स्यादिति शब्देन्दुशेखरे स्पष्टम् । अड्व्यवाये इत्येवेति । अट्कुप्वाङिति सूत्रेणैवेत्यर्थः । षादव्यवहितपरस्य नस्य णत्वविधावुदाहरणं तु — पुष्णातीत्यादि बोध्यम् । वस्तुतस्तु तत्रापि ष्टुत्वेनैव सिद्धे षग्रहणमुत्तरार्थमिति स्पष्टमाकरे । नन्वल्लोपस्य णत्वे कर्तव्ये कथं स्थानिवद्भावः, पूर्वत्रासिद्धे न स्थानिवदिति निषेधात् । णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह — पूर्वत्रेति । संयोगादिलोपे लत्वे च कर्तव्ये, तस्य=पूर्वत्रासिद्धे न स्थानिवदित्यस्य, दोषः=बाधः । अप्रवृत्तिरिति यावत् । सयोगादिलोपे यथा - चक्र्यत्र । इह 'अचः परस्मिन्' इति यणादेशस्य स्थानिवद्भावात्स्कोः संयोगाद्योरिति ककारलोपो न । लत्वे यथा - निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वात् <<अचि विभाषा>> [[8.2.21]] इति लत्वम् । णत्वे यथा - माषवपनी । वपतेर्ल्युट्, अनादेशः, उगित्त्वान्ङीप्, यस्येति च [[6.4.148]] इति नकारादकारस्य लोपः । इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावात् <<प्रातिपदिकान्तनुम्विभक्तिषु च>> [[8.4.11]] इति णत्वं न । यूषन्-भ्यामिति स्थिते ।", "84002": "<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> - अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह — अट्कुप्वाङ् ।रषाभ्यां नो णः समानपदे॑ इति पूर्वसूत्रमनुवर्तते । तत्र 'न' इति षष्ठन्तम् । तेन च सूत्रेण रषाभ्यामव्यवहितपरस्य णत्वं विहितम् । रामेणेत्यादौ अडादिव्यवधानेऽपि प्राप्त्यर्थमिदमारब्धम् । अट्-प्रत्याहार, कुः-कवर्गः, पुः-पवर्गः । अट्च कुश्च पुश्च आङ् च नुम्च तैव्र्यवधानम्, तस्मिन् सत्यपि रषाभ्यां परस्य नस्य णत्वं न स्यात् । अतोऽडादिभिव्र्यस्तैर्यथासम्भवं मिलितैश्च व्यवायेऽपीति व्याख्येयम् । एवंचक्षुभ्नादिषु चे॑ति णत्वनिषेधसूत्रे 'क्षुभ्न' शब्दपाठोऽर्थवान् ।सरूपाणा॑मित्यादिनिर्देशाश्च उपपन्ना भवन्ति । तदाह — अटकवर्गेत्यादिना । विवरणावसरे अट् कवर्गेत्याद्यविभक्तिकनिर्देशाश्च न दूष्यन्ते, भाष्ये तथा बहुलमुपलम्भात् । समानपद इति । एकपद इत्यर्थः । अखण्डमेव पदमिह विवक्षितम् । तेन रामनामेत्यादौ नातिप्रसङ्गः । 'मातृभोगीण' इत्यादौ णत्वोपपत्तिस्तु तद्धिताधिकारे वक्ष्यते । अङा व्यवाये पर्याणद्धमित्युदाहरणम् । इह आङ्गहणाऽभावे तु उपसर्गादसमासेऽपीत्यत्र तदनुवृत्त्या णत्वं न स्यात् । नन्वड्व्यवाय इत्येवात्र णत्वं भविष्यति , किमाङ्ग्रहणेनेत्यत आह — नुङ्ग्रहणमिति । नुङ्ग्रहणेन अनस्वारो लक्ष्यते । प्रयोगानुसारादित्यर्थः । एवं च नुङ्ग्रहणं प्रत्याख्येयमित्याह — तच्चेति । ननु नुङ्ग्रहणाऽभावे तल्लक्षितानुस्वारस्य कथं लाभ इत्यत आह — अयोगवाहानमिति । न विद्यते योगो येषां वर्णसमाम्नाये ते अयोगाः । अनुपदिष्टाः, उपदिष्टैरगृहीताश्चेत्यर्थः । वाहयन्ति प्रयोगं निर्वाहयन्तीति वाहाः, अयोगाश्च ते वाहाश्च अयोगवाहाः=अनुस्वारविसर्गादयः । अट्सूपदेशस्य=पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थः । स्पष्टं चैतद्धयवरट्सूत्रभाष्यवार्तिकयोः । उक्तं चात्रैव सूत्रे भाष्ये — ॒नार्थो नुङ्ग्रहणेन । अनुस्वारे कृते अड्व्यवाय इत्येवात्र णत्वं सिद्धम् इति । इति णत्वमिति । शसवयवस्य नकारस्य णकारे प्राप्ते इत्यर्थः ।", "84003": "<<पूर्वपदात् संज्ञायामगः>> - पूर्वपदात् ।रषाभ्या॑मित्यनेन लभ्दो रेफः प्रत्येकमन्वेति । तदाह — पूर्वपदस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । 'अग' इति फञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः । गकारात्परस्य नेति यावत् । तदाह — नतु गकारव्यवधाने इति । अनेनअट्कुप्वाङ्नुम्व्यवायेऽपि॑इत्यनुवृत्तिः । सूचिता । अन्यथाअग; इत्यस्य वैयथ्र्यं स्यात् ।खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष इवेत्यर्थः । द्रुणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति ।ऋवर्णा॑दिति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेम व्यवधानान्न भवतीति भावः । अत्रऋचामयन॑मिति विग्रहप्रदर्शनं चिन्त्यं, वाक्येन संज्ञानवगमात् । नच 'रघुनाथ' इत्यादौ संज्ञायां णत्वं शङ्क्यम्, णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एवभृञोऽसंज्ञायां॑मिति सूत्रभाष्येय एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति । किंतर्हि । प्रत्ययान्तेन चेत्संज्ञा गम्यते॑ इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहगुव्रीहौ संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनमच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खररूपा नासिका यस्येति विग्रहः । पक्षे 'खुरनासिक' इति 'खरनासिक' इति च न भवतीत्याह — पक्षेऽजपीष्यते इति । अच्प्रत्ययसहितो नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते ।", "84004": "<<वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः>> - तत्र णत्वविधिं दर्शयति — वनं पुरगा । वनमिति । षष्ठर्थे प्रथमा । इत्यभिप्रेत्याह-वनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, सारिका, कोटर, अग्रे इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः । 'रषाभ्याम्' इत्यतो 'णो नः' इत्यनुवृत्तेः । सूत्रे 'अग्रे' इति सप्तम्यन्तस्यानुकरणम् । नन्विह भिन्नपदत्वात्अट्कुप्वा॑ङिति णत्वस्याऽप्राप्तेरपूर्वविध्यर्थकत्वावश्यकत्वादेभ्य एवेति कथं नियमलाभ इत्यत आह — इह कोटरान्ता इति । इह=णत्वविधावुपात्ताः पुरगा मिश्रका सिध्रका सारिका कोटर इत्येवं पञ्च शब्दाः, एव वनगिर्योरिति दीर्घाविधौ कोटरादिशब्देन विवक्षिता इत्यर्थः । ततः किमित्यत आह — तेषामिति । णत्वविधौ तावत्पुरगादिशब्दाः पञ्च दीर्घान्ता एव निर्दिष्टाः । दीर्घस्तु तेषां संज्ञायामेववनगिर्योरिति॑विहितः । एवंच एतेषामसंज्ञायां दीर्घाऽभावात्संज्ञायामेववनं पुरगे॑ति णत्वविधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्यपूर्वपदात्संज्ञायामगः॑ इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः । अग्रेशब्दस्य त्विति । णत्वविधावग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्याऽसंज्ञायामगः॑ इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः । अग्रेशब्दस्य त्विति । णत्वविधावग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्याऽसंज्ञात्वादिति भावः । न च पुरगावणशब्दे गकारव्यवधानात्पूर्वपदात्संज्ञाया॑मित्यस्य प्राप्त्यसंभवादत्र अपूर्वणत्वविध्यर्थमेव पुरगाग्रहणमिति वाच्यम्, 'अग' इति हि पञ्चमी, गकारान्तात्पूर्वपदात्परस्य णत्वं नेति लभ्यते । पुरगाशब्दस्त्वयमाकारान्त एव, न तु गकारान्त इति, तत्र अग इति निषेधाऽप्राप्त्यापूर्वपदात्संज्ञाया॑मित्येव सिद्धे, पुरगाग्रहणमपि नियमार्थमेवेति भावः । पुरगावणमित्यादयो नकरविशेषाणां संज्ञाः । असिपत्रवनमिति । नरकविशेषोऽयम् । अत्र संज्ञात्वेऽपि पूर्वपदात्संज्ञाया॑मिति णत्वं न भवति, एभ्य एवेति नियमादिति भावः । अग्रेवणमिति । वनशब्दस्य षष्ठन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः । ननु तर्हिसुपो धात्वि॑ति सप्तम्या अपि सुक् स्यादित्यत आह — राजदन्तादिष्विति । अनेन वनशब्दस्य परनिपातोऽपिसूचितः । ननु सप्तम्यर्थप्राधान्यात्सप्तमी स्यादित्यत आह — प्रातिपदिकेति । सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाह — किंशुलुकागिरिरिति ।अञ्जनागिरि॑रित्यप्युदाहार्यम् ।", "84005": "<<प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिर- पियूक्षाभ्योऽसंज्ञायामपि>> - प्रनिरन्तः । एभ्य इति । प्र, निर्, अन्तर्, शर, इक्षु, प्लक्ष, आम्र, काष्र्य, खदिर, पीयूक्षा-इत्येतेभ्य इत्यर्थः । वनस्येति ।वनं पुरगे॑त्यतस्तदनुवृत्तेरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमासः । इहेति ।काष्र्यवण॑मित्यत्र षकारात्परत्वेन णत्वं, नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन कार्श्येति तालव्यशकारमध्यपाठोऽप्रामाणिक इति सूचितम् । तथा सति निमित्ताऽभावाण्णत्वाऽसंभवात्, अटकुप्वाङ्भिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वाऽसंभवात् । निर्वणम्, अन्तर्वणं, शरवणम्, इक्षुवणम्, प्लक्षवणम्, आम्रवणं, काष्र्यवणं, खदिरवणं, पीयूक्षावणम् ।", "84006": "<<विभाषौषधिवनस्पतिभ्यः>> - विभाषौषधि । वनस्य णत्वमिति । ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः । ओषधिभ्यः उदाहरति — दूर्वावणमिति ।ओषध्यः फलपाकान्ताः॑ इत्यमरः । अथ वनस्पतिभ्य उदाहरति — शिरीषवणमिति । यद्यपि यः पुष्पैर्विना फलति स एव उदुम्बरादिर्वनस्पतिः,वानस्पत्यः फलैः पुष्पात्रैरपुष्पाद्वनस्पति॑रित्युक्तेः । शिरीषवृक्षश्चायं पुष्पफलवानेन न वनस्पतिस्तथापि वनस्पतिशब्देनाऽत्र वृक्षसामान्यं विवक्षितम् । अत एवसुपि युक्तवद्व्यक्तिवचने॑ इति सूत्रे भाष्येशिरीषवण॑मित्यत्र शिरीषे वनस्पतित्वं व्यवह्मतमिति दिक् । द्व्यच्त्र्यज्भ्यामेवेति ।परस्य वनस्य णत्वं वाच्य॑मिति शेषः । देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः ।", "84007": "<<अह्नोऽदन्तात्>> - अह्नोऽदन्तात् ।पूर्वपदात्संज्ञायाम् इत्यतः पूर्वपदादित्यनुवृत्तमदन्तादित्यत्रान्वेति । 'रषाभ्यां नो णः' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह — अदन्तपूर्वेति ।\tतदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाह्ण इत्यत्र णत्वार्थं षादित्यपि बोध्यम् । समासान्ते परे इति किम् । द्वे अहनी भृतो द्व्यहीनः । अत्र समासान्तविधेरनित्यत्वाट्टज्भावेऽह्नादेशो न । सर्वाह्ण इति । सर्वमहरिति विग्रहेपूर्वकालैके॑ति समासे 'राजाहःसखिभ्यः' इति टच्, अह्नादेशः । णत्वं । 'रात्राह्नाहाः' इति पुंस्त्वम् । पूर्वाह्ण इति । समासादि सर्वाह्णवत् । सङ्ख्याताह्न इति । सङ्ख्यातमहरिति विग्रहः । विशेषणसमासः, टच् अह्नादेशः । निमित्ताऽभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । सङ्ख्यापूर्वस्य उदाहरति — द्वयोरह्नोरित्यादि । द्वयह्न इति । तद्धितार्थे द्विगुः । टच् । ततो भावार्थे ठञ्, तस्य लुक्, अह्नादेशः । प्रसङ्गादाह — स्त्रियामिति । द्व्यह्नेति । द्व्योरह्नोर्भवेत्यर्थः । ठञ् । लुक् च पूर्ववत् ।अपरिमाणविस्ते॑ति न ङीप् । टञ्निमित्तस्तु ङीब्नेत्यपरिमाणविस्तेत्यत्रोक्तम् । टचष्टित्वेऽप्युपसर्वनत्वाट्टिड्ढेति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवाऽत्रनास्ति ।रात्राह्नाहाः पुंसी॑त्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । सङ्ख्यापूर्वस्योदाहरणान्तरमाह-द्व्यह्नप्रिय इति । द्वे अहनी प्रिये यस्येति विग्रहः । तद्धितार्थ इत्युत्तरपदे द्विगुः । टच्, अह्नादेश इति भावः । अव्ययपूर्वस्योदाहरति — अत्यह्न इति । अहरतिक्रान्त इति विग्रहः । 'अत्यादय' इति समासः । टच् अह्नादेश इति भावः ।", "84008": "<<वाहनमाहितात्>> - वाहनमाहितात् । वाहने आधीयते वहनाय यत्, नतु स्वयमेवारोढुं शक्नोति तदाहितम् । तदाह — आरोप्येति । निमित्तादिति । रेफषकारान्यतरस्मादित्यर्थः । वाहननकारस्येति । वाहनस्य यो नकारस्तस्येत्यर्थः । अनेन सूत्रे वाहनमिति षष्ठर्थे प्रथमेति सूचितम् । इक्षुवाहणमिति ।इक्षवो हि वहनाय परैरारीप्यन्ते, नतु स्वयमेवारोढुं शक्नुवन्ती॑ति तेषामाहितत्वं बोध्यम् । आरोपितेश्रुयुक्तं शकटादिवाहनमिति यावत् । इन्द्रवाहनमिति । ननु वहेः करणे ल्युटि कथमुपधादीर्घः, ञ्णित्प्रत्ययपरकत्वाऽभावादित्यत आह — वहेर्ल्युटीति ।", "84009": "<<पानं देशे>> - पानं देशे ।पान॑मिति षष्ठर्थे प्रथमेत्यभिप्रेत्याह — पानस्येति । उशीनरा इति । देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावस्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह — पीयते इति ।", "84010": "<<वा भावकरणयोः>> - वा भावकरणयोः इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दस्तस्य उक्तविषये णो वा स्यादित्यर्थः । आदेशार्थं वचनम् । क्षीरपानं क्षीरपाणमिति । क्षीरस्य पानमिति विग्रहः । भावे करणे वा ल्युट् । पानक्रिया, पानपात्रं वेत्यर्थः । गिरिनद्यादीनामिति । पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्ख्यानमित्यर्थः । गिरेर्नदीति विग्रहः । चक्रनितम्बेति । चक्रमिव नितम्बो यस्याः सा इति विग्रहः ।", "84011": "<<प्रातिपदिकान्तनुम्विभक्तिषु च>> - प्रातिपदिकान्त । पूर्वपदस्थादिति ।पूर्वपदात्संज्ञाया॑मित्यतस्तदनुवृत्तेरिति भावः । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति ।वा भावकरणयो॑रित्यतस्तदनुवृत्तेरिति भावः । प्रातिपदिकान्ते इति । 'उदाहरणं वक्ष्यते' इति शेषः । माषवापिणाविति । माषान् वपेते इति विग्रहः ।बहुलमाक्षीक्ष्ण्ये॑ इति जातावपि सुप्युपपदे णिनिः । उपपदसमासः । वापिन्शब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात्तदन्तनस्य णत्वमिति भावः । नुमीति । 'उदाह्यियते' इति शेषः । व्रीहिवापाणीति ।कृषीवलकुलानी॑ति शेषः । व्रीहिन्वपन्ती॑ति विग्रहः । कर्मण्यण् । व्रीहिवापशब्दान्नपुंसकात् 'जश्शसोश्शिः' 'नपुंसकस्य झलचः' इति नुमिसर्वनामस्थाने चे॑ति दीर्घः । नुमो नस्य णत्वमिति भावः । विभक्ताविति । 'उदाह्यियते' इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वान्नस्य णत्वम् । इत्यादीति । णत्वाऽभावपक्षे माषवापिनौ, माषवापानि, माषवापेनेत्युदाहार्यमिंति भावः । ननु गर्गाणां भगिनी गर्गभगिनीत्यत्र ङीप्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वान्नकारस्य णत्वविकल्पः कुतो न स्यादित्यत आह — उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षिप्तम् । तच्च प्रातिपदिकस्यैव विशेषणं, नतु तदन्तस्य, नापि नुम्विभक्त्योः, असंभवादिति भावः । नेहेति । गर्गाणां भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदं, नतु तत्प्रातिपदिकं, प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणेन भगिनीशब्दस्य ग्रहणे ।ञपि तदन्तमीकार एव, नतु नकारः, अतो न तस्येदं पाक्षिकं णत्वमिति भावः । प्रातिपदिकस्योत्तरपदत्वविशेषणं सूत्रकारस्य संमतमित्याह — अत एवेति । प्रातिपदकस्य उत्तरपदत्वविशेषणादेव, सूत्रकारेण कृतं नुङ्ग्रहणमर्थवत्, अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह — अङ्गस्येति । 'नपुंसकस्य झलचः' इति नुम्विधावङ्गस्येत्यनुवृत्तम् । तथाच झलन्तस्याऽजन्तस्य चाऽङ्गस्य क्लीबस्य नुम् स्यात्सर्वनामस्थाने इत्यर्थो लभ्यते ।माषवापाणी॑त्यत्र तु सर्वनामस्थानं प्रति माषवापशब्दोऽङ्गम् । तस्य माषवापशब्दस्य विहितो नुमागमस्तदवयव एव भवति, नतु उत्तरपदभूतवापशब्दस्यैवाऽवयवः । तथाच उत्तरपदभूतप्रातिपदिकान्तत्वाऽभावात्प्रातिपदिकान्ते॑त्यनेन णत्वविकल्पस्याऽप्राप्तौ नुङ्ग्रहणम् । प्रातिपदिकस्य उत्तरपदत्वं विशेषणाऽभावे तु माषवापशब्दान्तावयवस्य नुमो माषवापेति प्रातिपदिकान्तावयवत्वस्य सत्त्वात्प्रातिपदिकान्ते॑त्येव सिद्धे नुङ्ग्रहणं व्यर्थं स्यादित्यर्थः । तदेव#ं प्रातिपदिकस्य उत्तरपदत्वविशेषणे नुङ्ग्रहणं लिङ्गमिति स्थितम् । वस्तुतस्तुं नेदं लिङ्गमित्याह — किंञ्चेति । किञ्चेति विशेषप्रदर्शने । 'हिवि प्रीणने' भ्वादिः, इदित्त्वात् नुम्, लटः शत्रादेशः ।माषवापाणी॑त्यत्र नुमो नस्य प्रातिपदिकान्तत्वेपि प्रहिण्बन्शब्दे नुमो नस्य प्रातिपदिकान्तत्वाऽभावात्प्रातिपपदिकान्ते॑त्यनेन णत्वविकल्पस्याऽप्राप्तेस्तदर्थं नुङ्ग्रहणमावश्यकम् । अत उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुङ्ग्रहणं लिङ्गं स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः । ननु माषवापिणावित्यत्रवापिन्नि॑ति प्रातिपदिकस्य कथमुत्तरपदत्वं,गतिकारकोपपदानां कृद्भिः सह समासवचन॑मिति सुबुत्पत्तेः प्रागेव समासप्रवृत्तेरिति चेत्, न उत्तरपदशब्दस्य समासचरमावयवे रूढत्वादित्यलम् । ननु 'इवि व्याप्तौ' इदित्त्वान्नुम् । ल्युटि अनादेशः । प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह — प्रेन्वनमिति । युवादेर्नेति । 'उक्तणत्वविकल्प' इति शेषः । वार्तिकमिदम् । रम्ययूनेति । रम्यश्चासौ युवा चेति विग्रहः । प्रातिपदिकान्तनकार त्वात्प्राप्तिः । परिपक्वानीति । इह नुमो नकारस्यप्रातिपदिकान्ते॑ति विकल्पं बाधित्वाकुमति चे॑ति नित्यं णत्वं प्राप्तम्, तदिह, युवादित्वान्निषिध्यते । एकाजुत्तरपदे णः । अजन्तस्त्रीलिङ्गे पुनर्भूशब्दनिरूपणे व्याख्यातमपि प्रकरणानुरोधात्स्मर्यते । नित्यमित्युक्तमिति ।आरम्भसामर्थ्यान्नित्यमिदं णत्व॑मिति तत्रैवोक्तमित्यर्थः । हरिमाणीति । मनेण्र्यन्तात्क्विप् चे॑ति क्विपिगतिकारकोपपदाना॑मिति सुबुत्पत्तेः प्राक् समासः । नान्तत्वान्ङीप् । अत्र॒मा॑निति प्रातिपदिकमुत्तरपदं तदन्तत्वान्नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति । 'उदाह्यियते' इति शेषः । क्षीरपाणीति । कर्मण्युपपदे पाधातोः 'आतोऽनुपसर्गे कः' इति कः,आतो लोप इटि चे॑त्याल्लोपः । क्षीरपशब्दाज्जश्शसोश्शिः । अजन्तलक्षणो नुम् । दीर्घः । तस्य नित्यं णत्वमम् । विभक्ताविति । 'उदाह्यियते' इति । शेषः । क्षीरपेणेति । विभक्तिस्थत्वान्न नित्यं णत्वम् । विभक्तावुदाहरणान्तरमाह — रम्यविणेति । विः=पक्षी, रम्यश्चासौ विश्च, तेनेति विग्रहः । नचात्रपदव्यवायेऽपी॑ति निषेधः शङ्क्यः । किमिह प्रत्ययलक्षणे अन्तर्वर्तिर्नीं विभक्तिमाश्रित्यसुप्तिङन्त॑मिति पदत्वमभिमतम्, उत तृतीयाविभक्तौ परतः 'स्वादिषु' इति पदत्वम् । नाद्यः ।उत्तरपदत्वे चापदादिविधौ॑ इति प्रत्ययलक्षमप्रतिषेधात् । न द्वितीयः । 'स्वादिषु' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, नतु विशब्दस्य , तृतीयाविभक्तेः समुदायादेव विधानात् । अत एवपुनर्भूणा॑मित्यत्र नामि भूशब्दमात्रस्य पदत्वाऽभावात् 'पदव्यवायेऽपि' इति निषेधाऽभावाण्णत्वमिति प्राञ्चः । अत्र यद्वक्तव्यं तत्पदत्वयवायेऽपीत्यत्रानुपदमेव वक्ष्यते ।", "84012": "<<एकाजुत्तरपदे णः>> - एकाजुत्तरपदे णः । समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एकोऽच्यस्मिन्तत्-एकाच्, तदुत्तरपदं यस्य स एकाजुत्तरपदः । तस्मिन्समासे इति बहुव्रीहिगर्भो बहुव्रीहिः । 'रषाभ्यां नो णः' इत्यनुवर्तते ।पूर्वपदात्संज्ञाया॑मित्यतः पूर्वपदादित्यनुवर्तते । पूर्वं पदं यस्य तत्पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्थाभ्यामिति लभ्यते ।प्रातिपदिकान्तनुम्विभक्तिषु चे॑त्यनुवर्तते ।विद्यमानस्ये॑ति शेषः । तदाह — एकाजुत्तरपदमित्यादिना । नन्विह णकारग्रहणं व्यर्थं, 'रषाभ्यां नो णः' इत्यत एव तदनुवृत्तिसिद्धेः । नचप्रातिपदिकान्तनुम्विभक्तिषु चे॑ति विकल्पनिवृत्त्यर्थं पुनर्णग्रहणमिति वाच्यम्, आरम्भ सामर्थ्यादेव नित्यत्वसिद्धेरित्यत आह — आरम्भेति । यणमिति ।दृन्करे॑ति यणमित्यर्थः । पुनर्भूणामिति । रेफस्यहशि चे॑त्युत्त्वं तु न, रोरेव तद्विधानात् । ङेराम्, पुनर्भ्वाम् । वर्षाभूशब्दे विशेषमाह — भेकेति ।बह्वादिभ्यश्चे॑ति ङीषो वैकल्पिकत्वान्ङीषभावे वर्षाभूशब्दः । स च भेकजातौ द्विलिङ्गः ।भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान् इति यादवः । दर्दुरो भेकः । एवं चलिङ्गान्तरानभिधायकत्वमि॑ति कैयटमते नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावे सतिअम्बार्थे॑ति ह्रस्वाऽभावे सति हे वर्षाभूरिति रूपमित्यर्थः । मतान्तरे त्विति ।पदान्तरं विनापि स्त्रियां वर्तमानत्व॑मिति वृत्तिकारादीनां मते तु वर्षाभूशब्दस्य भेकजातौ स्त्रीलिङ्गमात्रावगमात्कैयटमतेऽपि नित्यस्त्रीत्वं कुतो न स्यादित्यत आह — भेक्यामिति । यादवकोशानुसारादमरकोशे स्त्रीग्रहणमुपलक्षणमिति भावः । यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्वमस्तु । अजादौ 'एरनेकाचः' इति यणो 'न भूसुधियोः' इति निषेधे प्राप्तेवर्षाभ्वश्चे॑ति यणः प्रतिप्रसव उक्तः । तं स्मारयति-वर्षाभ्वश्चेति । स्वयम्भूः पुंविदिति । स्वयम्भूशब्दस्य चतुरानने रूढत्वात्तस्य यौगिकस्य पदान्तरं विना स्त्रियामवृत्तेर्न वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेकलिङ्गत्वान्न नित्यस्त्रीत्वमितिभावः । इत्यूदन्ताः । अथ ऋदन्ताः । 'सावसेरृन्' इति सौ उपपदे असधातोः ऋन्प्रत्यये स्वसृशब्दः, भगिनीवाची ।", "84013": "<<कुमति च>> - कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं मत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् ।", "84014": "<<उपसर्गादसमासेऽपि णोपदेशस्य>> - ननु णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते, नकार एवोपदिश्यतामित्याशङ्क्य तत्प्रयोजनमाह — उपसर्गात् ।रषाभ्यां नो णः॑इत्यधिकृतम् । तदाह — उपसर्गस्थादिति ।समासेऽङ्गुले सङ्गः॑इत्यतः समास इत्यनुवृत्तेरसमासे न स्यादित्यसमासग्रहणम् । तथा सतिप्रणाम॑इत्यादौ समासे न स्यादित्यपिग्रहणं । तदाह — समासेऽसमासेऽपीति । णस्योपदेशो यस्मिन्निति विग्रहः । प्रणदतीति । भिन्नपदत्वादप्राप्तिः । प्रणिनदतीति । नेर्ददेति णत्वम् । न चात्रउपसर्गादसमास॑इति धातुनकारस्य णत्वं शङ्क्यम्, अट्कुप्वाङ्भिन्नेन व्यवधानात् । अर्देति ।उपधायां चे॑त्यत्र इक इत्यनुवर्तनादर्दतीत्यादौ न दीर्घः ।", "84015": "<<हिनुमीना>> - हिनुमीना । हिनु मीना अनयोद्र्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक् । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति च । तदाह — उपसर्गस्थादिति ।", "84016": "<<आनि लोट्>> - आनि लोट् । लोडिति आनीति च लुप्तषष्ठीकं पदम् । 'रषाभ्यां नो ण' इत्यनुवर्तते,उपसर्गादसमासेऽपी॑त्यत उपसर्गादिति च । तदाह — उपसर्गस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः ।अट्कुप्वाङ्नुम्व्यवायेऽपी॑ति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः षत्वेति । षत्वणत्वयोः कर्तव्योर्दुर उपसर्गत्वप्रतिषेध इत्यर्थः । दुःस्थितिरिति । अत्रोपसर्गात्सुनोतीति षत्वं न भवति । दुर्भवानीति । अत्राऽऽनि लोडिति णत्वं न भवति । अन्तःशब्दस्येति । अङ्विधौ किविधौ णत्वे च कर्तव्ये अन्तरित्यस्य उपसर्गत्वमित्यर्थ- । प्रादित्वाऽभावादप्राप्ते वचनम् । अन्तर्धेति ।स्त्रिया॑मित्यधकारे धाधातोः 'आतश्चोपसर्गे' इत्यङ् । टाप् । अन्तर्धिरिति ।उपसर्गे घोः किः॑ । अन्तर्भवाणीति ।आनि लो॑डिति णत्वम् ।", "84017": "<<नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्साति- वपतिवहतिशाम्यतिचिनोतिदेग्धिषु च>> - नेर्गद ।रषाभ्यां नो मः॑इत्यनुवर्तते ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादिति च । तच् उपसर्गस्थे लाक्षणिकं । तदाह — उपसर्गस्थादिति । श्तिता शपा च निर्देशा यङ्लुग्निवृत्त्यर्था । प्रणिगदतीति । भिन्नपदस्थत्वादप्राप्तौ वचनम् । रदेति । णलि उपधावृद्धिमभिप्रेत्याह — ररादेति । रेदतुरित्यादि । अरादीत् अरदीत् । णदेति । अव्यक्तशब्दः — अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः ।", "84018": "<<शेषे विभाषाऽकखादावषान्त उपदेशे>> - शेषे विभाषा । अकखादाविति च्छेदः ।नेर्गदनदे॑ति पूर्वसूत्रोक्कतधातुभ्योऽन्यः शेषः । तदाह — गदनदादेरन्यस्मिन्निति । ननु णत्वप्रकरणं संहिताधिकारस्थं, ततश्चाऽविवक्षितायां संहितायामुपसर्गात्परत्वाऽभावाण्णत्वाऽभावः, विवक्षितायां तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह — इहोपसर्गाणामिति । उक्तमिति ।हरिणे॑ति शेषः । अत्र 'एकपदे' इत्येन अखण्डं पदं विवक्षितं, 'नित्यासमासे' इति लिङ्गात् । अखण्डत्वं च पदभिन्नोत्तरखण्डकत्वम् । अन्यथाराजीयती॑त्यादौ 'अतो गुणे' इति शपा पररूपमेकादेशः पक्षे न स्यात् । अर्थनिर्देशश्चेति । धातुपाठेभू सत्ताया॑मित्याद्यर्थनिर्देश इत्यर्थः । उपलक्षणमिति । प्रदर्सनमात्रमित्यर्थः । नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह — यागादिति । न चयागात्स्वर्गो भवती॑त्यादावुत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यं, प्रयोगप्राचुर्यसत्त्वात् । पाणिनिर्हि धातुपाठे धातुन् कांश्चिदर्थसहितान्कांश्चिदर्थरितान्पठतीति 'चुटू' इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गः शङ्क्यः,अनेकार्था अपि धातवो भवन्ती॑ति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः । सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः । एवं च 'सेधतेर्गता' विति सूत्रे गतावित्युपादानात्षिध गत्यामित्यर्थनिर्देशोऽपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवीत्यादौ उपसर्गा व्यर्था इत्यत आह — उपसर्गास्त्विति । उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेःउद्भवती॑त्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः । द्योतकत्वं वा तेषां किमर्थं स्वीकार्यमित्यत आह — प्रभवतीत्यादि । प्रभवतीत्यादि । प्रभवः — प्रकाशः उत्पत्तिः शक्तिर्वा । पराभवः — पराजयः । सम्भवः-सम्भावना । अनुभवः — उपभोगः । अभिभवः — हिंसा । उद्भवः — उत्पत्तिः । परिभवः — तिरस्कारः । उक्तं चेति ।हरिणे॑ति शेषः । प्रहारः — कशाद्याद्यातः । आहारो — भक्षणम् । संहारः — वधः । विहारः- क्रीडा । परिहारः- परित्यागः । इति भूधातुप्रक्रिया । एध वृद्धाविति । जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति षह्भावविकाराः । तत्र चतुर्थावस्था वृद्धिरुपचयः । कत्थ्यन्ता इति ।कत्थ श्लाघाया॑मित्यन्ता इत्यर्थः । अनुदात्तेत इति । ततस्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते —", "84019": "<<अनितेरन्तः>> - अन्तः ।अनिते॑रिति सूत्रमनुवर्तते, 'रषाभ्यां नो णः' इति च । अन्त इति षष्ठर्थे प्रथमा.पदस्याऽन्तो विवक्षितः ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । हे प्राणिति । प्रपूर्वादनेः क्विबन्तात्संबोधनैकवचनस्य हल्ङ्यादिलोपः, नस्य णः । नलोपस्तु न, 'न ङिसंबुद्ध्योः' इति निषेधात् । मित्रशीरिति । मित्राणि शास्तीति विग्रहः । शासः क्विप् । 'शास इदङ्हलोः' नित्युपधाया इत्त्वम्, 'र्वोरुपधायाः' इति दीर्घः । मित्रशिषावित्यादौ अपदान्त्तवान्न दीर्घः । आशासः क्वाविति ।आङः शासु इच्छाया॑मित्यात्मनेपदी । तस्य 'शास इदङ्हलोः' इति इत्त्वं तु न भवति, तत्र परस्मैपदिन एव शासेग्र्रहणात् । अन्यथा आशास्ते इत्यादावपि इत्त्वापत्तेः । अतआशासःर क्वा॑विति विधिः । इत्त्वोत्त्वे इति । गृ धातोः क्विपि, ऋत इत्त्वे,रपरत्वे, सोर्लोपे, 'र्वोरुपधायाः' इतिदीर्घे गीरिति रूपम् । पृधातोः क्विपि,उदोष्ठपूर्वस्ये॑ति ऋत उत्त्वे, रपरत्वे , सुलोपे, उपधादीर्घे पूरिति रूपमित्यर्थः ।", "84020": "", "84021": "<<उभौ साभ्यासस्य>> - उभौ साभ्यासस्य । अनितेरित्यनुवर्तते । 'अन प्राणने' इति धातोरित्यर्थः । 'रषाभ्यां नो णः' इत्यधिकृतम् ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तदाह — साभ्यासस्येत्यादिना । निमित्ते सतीति । उपसर्गस्थे रेफे सतीत्यर्थः । प्राणिणदिति । प्र अन् इ अ त् इति स्थिते 'अनिते' रिति णत्वस्याऽसिद्धत्वान्नीत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवदानाण्णत्वे अप्राप्ते उभयोर्नकारयोरनेन णत्वमित्यर्थः । न चपूर्वत्राऽसिद्धीयमद्विर्वचने॑ इति निषेधाद्द्वित्वे कर्तव्ये णत्वस्याऽसिद्धत्वविरहेण परत्वात्कृते णत्वे ततः पश्चाद्द्वित्वेप्राणिण॑दिति सिद्धमिति वाच्यम्, अत एवपूर्वत्राऽसिद्धीयमद्विर्वचने॑ इत्यस्याऽनित्यत्वविज्ञानात् ।तेनऊर्णुनावे॑त्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृतेऽभ्यासोत्तरखण्डे णत्वाऽबावसिद्धिरित्यन्यत्र विस्तरः ।", "84022": "<<हन्तेरत्पूर्वस्य>> - नन्विह कथं न णत्वं, भिन्नपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वस्य दुर्वारत्वात्, कृते ।ञप्यल्लोपे तस्य पूर्वस्माद्विधौ स्थानिवत्त्वादुत्तरपदस्य एकाच्त्वात्, स्थानिवत्त्वाऽभावेऽपिप्रातिपदिकान्ततुम्विभक्तिषु चे॑त्यस्यकुमति चे॑त्यस्य वा दुर्वारत्वादिति प्राप्ते तद्वारणार्थंहन्तेरत्पूर्वस्ये॑ति सूत्रं विभज्य व्याचष्टे हन्तेः । 'रषाभ्यां नो णः' इत्यनुवर्तते ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तात्स्थ्यात्ताच्छब्द्यम् । उपसर्गस्थादिति लभ्यते । तच्च रषयोः प्रत्येकमन्वेति । तदाह-उपसर्गस्थान्निमित्तादित्यादिना । निमित्तशब्देन रेफः षकारश्च विवक्षितः । प्रहण्यादिति । अत्र भिन्नपदस्थात्वादप्राप्ते णत्वे वचनम् । प्रकृतोपयुक्तमाह — अत्पूर्वस्य । हन्तेरित्यनुवर्तते । 'रषाभ्यां नो णः' इति च ।उपसर्गा॑दिति तु निवृत्तम् । हन्तेरत्पूर्वस्य नस्य णः स्यादिति लभ्यते । सिद्धे सत्यारम्भो नियमार्थस्तदाह — हन्तेरत्पूर्वस्यैवेत्यादिना । प्रघ्नन्तीति । हन्तेर्लट्, झिः, झोऽन्तः, शप्, लुक्गमहने॑त्युपधालोपः । 'हो हन्तेः' इति कुत्वम् । प्रघ्नतीति रूपम् । अत्र उपसर्गस्थरेफात्परत्वात् 'हन्तेः' इत्यनेन प्राप्तं णत्वम्अत्पूर्वस्ये॑ति नियमान्न भवति । 'वृत्रघ्न' इत्यत्र 'प्रातिपदिकान्ते' त्यादिणत्वं निवर्तते । ननुप्रातिपदिकान्तनुम्विभक्तिषु॑ च,एकाजुत्तरपदे णः॑,कुमति च॑,हन्तेरत्पूर्वस्ये॑ति सूत्रपाठक्रमः । ततश्चअनन्तरस्य विधि॑रिति न्यायेनअत्पूर्वस्ये॑ति नियमेनप्रघ्नन्ती॑त्यत्रहन्ते॑रित्यव्यवहितणत्वमेव निवर्तेत, नत्वन्यदित्यत आह — योगेति । यदिअत्पूर्वस्ये॑त्यनेन 'हन्तेः' इति णत्वमेव व्यावर्त्त्येत, तर्हिहन्तेरत्पूर्वस्ये॑त्येकमेव सूत्रं स्यात् । उपसर्गस्थान्निमित्तात्परस्य हन्तेरत्पूर्वस्य नस्य णत्वमित्येतावतैव प्रघ्नन्तीत्यत्र णत्वनिवृत्तिसम्भवात् । अतो योगविभागसामर्थ्याण्णत्वमात्रस्यायं नियम इति विज्ञायत इत्यर्थः । एकाजुत्तरेति । 'कुमति च' इत्यस्यप्रातिपदिकान्ते॑त्यस्य चोपलक्षणम् । अल्लोपस्य पूर्वस्मादपि विधौ स्थानिवश्त्त्वादेकाच्त्वमुत्तरपदस्य बोध्यम् । नचपूर्वत्रासिद्धे न स्थानिवत् इति वाच्यम्,तस्य दोषः समयोगादिलोपलत्वणत्वेषु॑ इत्युक्तेः । ननु वृत्रघ्न इत्यत्र 'हो हन्तेः' इति कथं कुत्वं, पूर्वस्य विधावल्लोपस्य स्थानिवत्त्वादित्यत आह — नकारे पर इति । माधवमतं दूषयितुमनुवदति — यत्त्विति । तुः पूर्ववैषम्ये । वैकल्पिकमिति ।प्रातिपदिकान्ते ति विहितमित्यर्थः । तद्भाष्येति ।कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः । किं प्रयोजनम् । वृत्रघ्नः सुग्घः प्राघानि ।हन्तेरत्पूर्वस्ये॑ति सूत्रे अत्पूर्वग्रहणं न कर्तव्यम् इति अट्कुप्वा॑ङिति सूत्रे भाष्यम् । अत्र णत्वप्रकरणे हादेशकुव्यवाये प्रतिषेधविज्ञानात्प्रातिपदिकान्ते॑ति णत्वमपि आदेशकुव्यवाये न भवतीति विज्ञायते । तद्विरोधान्माधवमतमुपेक्ष्यमित्यर्थः । एवमिति । वृत्रहन्शब्दवदित्यर्थः ।इन्हन्पूषार्यम्णां शौ॑,सौ चे ति दीर्घनियममात्रे दृष्टान्तो, न तु कुत्वादौ, असम्भवात् । शाङ्र्गमस्यास्तीत्यर्थे 'अत इनिठनौ' इति मत्वर्थीय इनिः । यशोऽस्यास्तीत्यर्थे 'अस्मायामेधारुआजः' इति विनिः । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । नन्वर्थवत्परिभाषया 'इन्हन्' इत्यत्रार्थवत एव इनो ग्रहणं, ततश्च विन्प्रत्यये इनोऽनर्थकत्वात्तस्य कथं ग्रहणमित्याशङ्क्य परिहरति — यशस्विन्नित्यादिना ।अनिनस्मन्निति । एतच्च 'येन विधिः' इति सूत्रे भाष्ये स्थितम् । राज्ञ॑ इत्यत्र अन् अर्थवान्, 'दाम्नः' इत्यत्र तु अनर्थकः ।शाङ्र्गी॑त्यत्र इन् अर्थवान्,यशस्वी॑त्यत्र तु अनर्थकः । 'सुपया' इत्यत्राऽस् अर्थवान्, 'सुरुआओता' इत्यत्र तु अनर्थकः । असन्तत्वाद्दीर्घः ।सुशर्मे॑त्यत्र मन् अर्थवान्,सुप्रथिमे॑त्यत्र त्वनर्थकः । 'मनः' इति न ङीप् । अर्यमन्शब्दे पूषन्शब्दे चाऽल्लोपे विशेष इत्याह-अर्यम्णीत्यादि । 'विभाषा ङिश्योः' इत्यल्लोपविकल्पः । शसादावचि तु नित्यमल्लोप उक्तप्राय इति भावः । मह्रते पूज्यत इत्यर्थे कनिप्रत्ययः । इकार उच्चारणार्थः । ककार इत् । अन्निति प्रत्ययः शिष्यते । धातोरवुगागमः । तत्र ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः, महधातोर्हस्य घश्चेति त्रयं निपात्यते ।", "84023": "<<वमोर्वा>> - वमोर्वा ।उपसर्गादसमासेऽपी॑त्यतः उपसर्गादित्यनुवर्तते । 'रषाभ्यां नो णः' इति सूत्रमनुवर्तते ।हन्तेरत्पूर्वस्ये॑त्यतोहन्ते॑रिति । तदाह - उपसर्गस्यान्निमित्तादिति । णलि जहानेति स्तिते आह — हो हन्तेरिति ।अभ्यासाच्चे॑त्यपेक्षयाऽस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जघ्नतुरिति ।गमहने॑त्युपधालोपेहो हन्ते॑रिति कुत्वम् । थलि भारद्वाजनियमादिड्विकल्पे जहनिथ जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाऽभावान्नकारपरत्वाऽभावाच्चहो हन्ते॑रिति कुत्वाऽप्राप्तौ ।", "84024": "<<अन्तरदेशे>> - नश्चापदान्तस्य झलि । चकारान्मस्येत्यनुकृष्यते, अनुस्वार इति च । तदाह — नस्येत्यादिना । यशांसीति । यशश्शब्दात् जस्, जस्शसोश्शिः । 'नपुंसकस्य झलचः' इति नुम् । 'सान्तमहत' इति दीर्घः । यशान्-सि इति स्थिते नकारस्य अनुस्वारः । आक्रंस्यत इति । क्रमु पादविक्षेपे । आङ्पूर्वात्कर्तरि लृट् । 'आङ उद्गमने' इति तङ्, स्यतासी लृलुटोरिति स्यः । स्नुक्रमोरिति नियमान्नेट् । आक्रम् स्य त इति स्थिते मस्य अपदान्तत्वात्पूर्वेणाप्राप्ते वचनम् । नम्यत इति । कर्मणि लट् तङ् यक् । अत्र मस्य झल्परकत्वाभावान्नानेनानुस्वारः । अपदान्तत्वाच्च न पूर्वेण ।", "84025": "", "84026": "", "84027": "<<उपसर्गादनोत्परः (उपसर्गाद् बहुलम्)>> - ॒अनोत्परः॑ इत्यपनीय तत्स्थानेबहुल॑मिति च कृत्वा भाष्यकार आहेत्यर्थः । तथाच फलितं सूत्रमाह — उपसर्गाद्बहुलं । निमित्तादिति । रेपाषकारात्मकादित्यर्थः । 'उपसर्गादनोत्परः' इति यथाश्रुते तु 'प्र णो नय' इत्यादावव्याप्तिः, 'प्र न #ः पूषा' इत्यादावतिव्याप्तिश्चेति भावः । प्रणस इति । प्रगता नासिका यस्येति विग्रहः ।उपसर्गाच्चे॑त्यच्, नासिकाया नस् ।उपसर्गाद्बहुल॑मिति णत्वमिति भावः । वेरिति । वेः परो यो नासिकाशब्दः स ग्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः, प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते, ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति — कथं तर्हीति । समाधत्ते — विगतयेति । विगता नासिका । प्रादिसमासः । अबहुव्रीहित्वान्न ग्रादेशः । किंतु टायांपाद्द॑न्निति नसादेशे विनसेति तृतीयान्तं रूपम् ।उपलक्षिते॑त्यध्याहार्यमिति भावः ।", "84028": "", "84029": "<<कृत्यचः>> - कृत्यचः । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादनोत्परः' इत्यत उपसर्गादिति च । उपसर्गस्थादिति विवक्षितम् ।कृती॑त्यनन्तरंविद्यमानस्ये॑ति शेषः । अचेति पञ्चमी । तदाह — उपसर्गस्थादिति । असमानपदत्वादप्राप्तौ वचनम् ।अट्कुप्वाङ्नुम् व्यवायेऽपी॑त्यनुवर्तते । तदाह - प्रयाणीयमिति । निर्विण्णस्येति । नस्यण इत्युपसङ्ख्यानमित्यर्थः । अचः परत्वाभावादिति । विदेः क्तप्रत्ययेरदाभ्या॑मिति दकारादुत्तरस्य तकारस्य पूर्वदस्य च नत्वे 'निर्विन् न ' इति स्थिते नकारस्य अचः परत्वाऽभावात् 'कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः । नकारेण व्यवदानाच्च णत्वस्याऽप्राप्तिर्बोध्या । पूर्वस्येति । नस्य णत्वे, ष्टुत्वेन णत्वमित्यर्थः ।तथा च द्विणकारकं रूपम् ।", "84030": "<<णेर्विभाषा>> - णेर्विभाषा । 'कृत्यचः' इत्यनुवर्तते । 'रषाभ्यां नो णः' इति च ।णे॑रिति कृतो विहितविशेषणमम् । तदाह — उपसर्गस्थादित्यादिना । प्रयापणीयमिति । याधतोर्णौ पुकि यापि इत्यस्माण्ण्यन्तादनीयरि णेर्लोपे अनेन णत्वविकल्पः । यकेति । यापि इत्स्माण्ण्यन्तात्कर्ममि लटः शानचिआने मु॑गिति मुगागमे यकि णिलोपे प्रयाप्यमाणशब्दे णत्वविकल्प इष्यते । णेः परो यः कृत्तत्स्थस्य णत्वविकल्प इत्युक्तौ तु कृतः शानचो यका व्यवहितत्वेन णिचः परत्वाऽभावात्तत्स्थस्य नस्यणत्वविकल्पो न स्यात् । तदर्थं णेरिति विहितविशेषणमाश्रित्यमित्यर्थः । भाष्ये तु ण्यन्तात्परो यः कृदित्यंशेऽप्यट्कुप्वाङ् नुमित्याद्यनुवर्त्त्य यकारव्यवधानेऽपि णत्वविकल्पः समर्थितः । णत्वे दुर इति । षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः॑ इत्यनेनेति भावः । ततश्च दुर उपसर्गत्वाऽभावात्ततः परे कृत्स्थनकारे सूत्रद्वयमपि न प्रवर्तते इत्यभिप्रेत्य उदाहरति — दुर्यानं दुर्यापनमिति । यातेण्र्यन्ताल्ल्युटि णिलोपे दुर्यापनमिति रूपम् ।", "84031": "<<हलश्च इजुपधात्>> - हलश्चेजुपधात् । हलन्तादिति नार्थः, इजुपधस्य हलन्तत्वाऽव्यभिचारात् । किंतु हलादेरितिविवक्षितम् । तदाह — हलादेरिजुपधादिति ।परस्ये॑ति शेषः । प्रोहणीयमित्यादिप्रत्युदाहरणे तु 'कृत्यच' इति नित्यमेव णत्वम् ।", "84032": "<<इजादेः सनुमः>> - इजादेः । 'णेर्विभाषा' इति निवृत्तम् । 'कृत्यच' इत्यनुवर्तते,हलश्चेजुपधा॑दित्यतो हल इति च । प्रकृतिविशेषणत्वात्तदन्तविधिः । तथा च सनुमो हलन्तादिजुपदात् परस्य कृन्नस्य णः स्यादिति लभ्यते । एवं च प्रेङ्खणीयमित्यादौ 'कृत्यचः' इत्येव सिद्धेरिदं नियमार्थमित्याह — सनुमश्चेदिति । कृत्स्थस्यैवेत्यनन्तरंणत्व॑मिति शेषः । प्रेङ्खणीयमिति । इखधातुरिदित्त्वात्सनुम् । 'इवि प्रीणने' इति धातोर्ल्युटि तस्याऽनादेशे प्रेन्वनमित्यत्रापि णत्वं स्यात्, सनुमोऽस्य इजादित्वाद्धलन्तत्वाच्चेत्यत आह — नुङ्ग्रहणमित्यादि । अनुस्वारश्च सर्व एव गृह्रते, न तु नुम्स्थानिक एव, अविशेषात् । तदाह — इह त्विति । प्रोम्भणमिति । इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुम्स्थानिकानुस्वारवानिति भावः ।", "84033": "<<वा निंसनिक्षनिन्दाम्>> - वा निंस ।कृत्यचः इत्यतः कृतीत्यनुवृत्तम् । अचेति च निवृत्तम् । तदाह — एषां नस्येति ।", "84034": "<<न भाभूपूकमिगमिप्यायीवेपाम्>> - न भाभू । प्रभानीयमिति । इह 'कृत्यचः' इति प्राप्तं णत्वं नेति भावः । णत्वप्रकरमोपरीति । इदंचक्षिङः ख्या॑ञिति सूत्रे भाष्ये स्पष्टम् । प्रख्यानीयमिति । इह यत्वस्याऽसिद्धतया शकारेण व्यवधानात् 'कृत्यचः' इति णत्वं नेति भावः ।", "84035": "", "84036": "<<नशेः षान्तस्य>> - नशे षान्तस्य ।रषाभ्या॑मित्यतो ण इति, 'न भाभूपू' इत्यतो नेति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति — णत्वं न स्यादिति । षान्तस्येति किम् । प्रणश्यति । भूतपूर्वेति । पूर्वं षकारस्य सत इदानीमादेशवशेन षान्तत्वाऽभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः । प्रनङ्क्ष्यतीति । अत्र षस्य कत्वे कृतेऽपि भूतपूर्वगत्या षान्तत्वान्न णत्वमिति भावः । तृप प्रीणने । तृप्तिस्तर्पणं चेति । आद्येऽकर्मकः । द्वितीये सकर्मकः । रधादित्वाद्वेडिति मत्वाह — ततर्पिथ ततर्प्थेति । तत्रप्थेति च ।अनुदात्तस्य चर्दुपधास्ये॑त्यमिति भावः । ततृपिव — ततृप्व.सिज्वेति । पक्षे पुषाद्याङिति भावः । रधादित्वादिड्विकल्पः । तत्र सिचि इट्पक्षे आह — अतर्पीदिति । इडभावपक्षे आह -अतार्प्सीदिति । रहलन्तलक्षणा वृद्धिरिति भावः ।अनुदात्तस्य चे॑त्यम्पक्षे आह -अत्राप्सीदिति । पुषाद्यङ्पक्षे आह — अतृपदिति । ङित्त्वान्न गुण इति भावः । दृप हर्षे इति । तृपधातुवत् । ननु रधादित्वादेव वेट्कत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह — रदादित्वादिमौ वेट्कावमर्थमनुदात्ततेति । द्रुह जिघांसायाम् । अनुदात्तत्वाऽभावेऽपि रदादित्वाद्वेट् । तत्र इडभावे आह — वा द्रुहमुहेति । ध्रोक्ष्यतीति ।वा द्रुहे॑ति घत्वपक्षे दकारस्य भषि घस्य चर्त्वे सस्य षत्वे रूपम् । ढत्वपक्षेऽपिषढो॑रिति कत्वे एतदेव रूपम् । तदाह — ढत्वघत्वयोस्तुल्यं रूपमिति । अद्रुहदिति । पुषादित्वादङिति भावः । मुहदातुरनुदात्तत्वाऽभावेऽपि रधादिद्वेट् ।मुमोहिथेति । इट्पक्षे रूपम् । अनिट्पक्षे तुवा द्रुहमुहे॑ति घत्वं मत्वाऽऽह — मुमोग्धेति । ढत्वपक्षे आह — मुमोढेति । मोक्ष्यतीति । घत्वढत्वयोस्तुल्यं रूपम् । ष्णुह ष्णिहेति । षोपदेशौ । तदाह - सुष्णोह सिष्णेहेति । थलादावनिट्पक्षेवा द्रुहे॑ति घत्वविकल्पः । पक्षे ढः । इतिरधादयः । आ गणान्तादिति । दिवादिगणसमाप्तिपर्यन्ताः पुषादय इत्यर्थः । सिद्धान्त इति । माधवादिभिस्तथाऽभ्युपगमादिति भावः । उपशमे इति । उपशमो — नाशः, इन्द्रियनिग्रहश्च ।", "84037": "<<पदान्तस्य>> - पदान्तस्य । 'रषाभ्यां नो ण' इत्यनुवर्तते ' न भाभूपू' इत्यतोने॑ति च, तदाह — पदान्तस्येति । अथ तृतीयाविभक्तिः । तत्र टा इति टकारस्य 'चुटू' इतीत्संज्ञायां लोपः । टकारोच्चारणं तु 'टाङसिङसां'द्वितीयाटौस्स्वि॑त्यादौ विशेषणार्थम् ।", "84038": "<<पदव्यवायेऽपि>> - पदव्यवायेऽपि । पदेन व्यवधाने इति ।पदेने॑त्यनन्तरंनिमित्तकार्यिणो॑रिति शेषः । न स्यादिति ।न भाभूपूकमिगमी॑त्यस्तदनुवृत्तेरिति भावः । माषुकम्भवापेनेति । माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानान्न णत्वम् । चतुरङ्गयोगेनेति । चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्गं=सैन्यम्, तेन योग इति विग्रहः । अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान्न णत्वम् । उभयत्रापि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वं बोध्यम् ।उत्तरपदे चाऽपदादिविधौ प्रतिषेधः॑ इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तेः । अत एवन लुमताङ्गस्ये॑त्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये । अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यभाक्त्त्वामस्तीति तस्य अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाऽभावात्कुत्वं न भवति । अत एव चकुमति चे॑ति सूत्रे भाष्ये माषाणां कुम्भो माषकुम्भः, बाषकुम्भस्य वापो माषकुम्भवापः । तेन माषकुम्भवापेनेत्यत्रपदव्यवायेऽपीति निषेधप्रवृत्तयेप्रातिपदिकान्ते॑ति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । नचैवं सति रम्यविणेत्यत्र 'वि' इत्युत्तरखण्डस्य कार्यभाक्त्वाऽभावात्उत्तरपदत्वे चाऽपदादिविधौ॑ इति प्रत्ययलक्षणनिषेधस्याऽप्रवृत्तौ अन्तर्वर्तिविभक्त्याश्रयणेनपदव्यवायेऽपी॑ति णत्वनिषेधः । एतेन पुनर्भूणामित्यत्रापि णत्वं निर्बाधम् ।अतद्धिते इति । अतद्धिते परे यत्पदं तेन व्यवधानेऽयं निषेधो, नतु तद्धितपरकपदेनेत्यर्थः । आद्र्रगोमयेणेति । गोः पुरीषं गोमयं । 'गोश्च पुरीषे' इति गोशब्दात् षष्ठन्तात् मयट् तद्धितः, तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । आद्र्रं गोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दो मयटि पदन्तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव, अस्मिन् प्रकरणे अटकुप्वाङ्नुम्व्यवायस्य अबाधकत्वात् । शुष्कगोमयेणेति । षात्परस्योदाहरणम् । भाष्ये तुपदान्तस्ये॑ति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् ।", "84039": "<<क्षुभ्नाऽऽदिषु च>> - क्षुभ्नादिषु च ।रषाभ्या॑मित्यतो 'ण' इति,न भाभूपूकमी॑त्यतोने॑ति चानुवर्तते । तदाह — एष्विति । दीर्घाह्नी प्रावृडिति । वर्षर्तौ प्रावृट्शब्दः स्त्रीलिङ्गः ।स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः॑ इत्यमरः । दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः ।अन उपधालोपिनोऽन्यतरस्या॑मिति ङीप् । 'अल्लोपोऽनः' इत्युपधालोपः ।अह्नोऽदन्ता॑दिति णत्वं तु क्षुभ्नादित्वान्नेति भावः । ननु क्षुभ्नादिषुदीर्घाह्नी॑त्यस्य पाठो व्यर्थः, 'अह्नोऽदन्तात्' इत्यत्र हिअर्ह्ने॑त्यदन्तात् षष्ठर्थे प्रथमा । अदन्तपूर्वपदस्थान्निमित्तात्परस्याऽह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाह्नीत्यत्र च ह्नादेशस्याप्रसक्त्याऽदन्तत्वाऽभावादेव णत्वस्याऽप्राप्तौ किं तन्नुवृत्त्यर्थेन क्षुभ्नादिपाठेनेत्यत आह — एवंचेति । एवं सति=दीर्घाह्नीशब्दस्य क्षुभ्नादिपाठे सति, एतदर्थम् — ॒अह्नोऽदन्ता॑दिति णत्वनिवृत्त्यर्थम्, अह्नेत्यस्य अदन्तत्वानुसरणं, षष्ठर्थे व्यत्ययेन प्रथमानुसरणं क्लेशावहं न कर्तव्यमित्यर्थः । क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः । ननु दीर्घाह्नीत्यस्य णत्वाऽभावय किं क्षुभ्नादिपाठो ।भ्युपगम्यतामुतअह्ने॑त्यस्याऽदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह — प्रातिपदिकान्तेति । अथअह्नोऽदन्ता॑दित्यत्र पूर्वपदविशेषणेऽदन्तादिति तपरत्वस्य प्रयोजनमाह — अदन्तादिति । पराह्न इति ।प्रादयो गताद्यर्थे॑ इति समासः, टच्, अव्ययात्परत्वादह्नादेशः परेति पूर्वपदस्याऽदन्तत्वाभावान्न णत्वमिति भावः ।", "84040": "<<स्तोः श्चुना श्चुः>> - स्तोः श्चुना श्चुः । स् च तुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वो वा, तथा सत्येकवचनमार्षम् । एवं 'श्चुना श्चु' रित्यत्रापि ।श्चुने॑ति सहार्थे तृतीया, 'योगे' इत्यध्याहार्यं । ततश्च सहशब्दयोगाऽभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते, अस्मादेव निर्देशात् । तदाह-सकारतवर्गयोरिति । अत्र स्थान्यादेशानां यथासङ्ख्यं भवति । ततस्च सकारस्य शकारस्तवर्गस्य चवर्गः । तत्रापि त-थ-द-ध-ने त्यादिक्रमस्याप्यनादिलोकसिद्धत्वात् ।श्चुनायोगे॑इत्यत्र न यथासंख्यमित्युत्तरसूत्रेवक्ष्यते, ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेण च यथासंभवं योगे श्चुत्वं भवति । रामश्शेते इति । रामस्-शेते इति स्थिते शकारेण योगात्सकारस्य शकारः ।श्चुना योग इत्यत्र न यथासङ्ख्य॑मित्यस्य प्रयोजनं दर्शयितुं सकारस्य चकारयोगेऽप्युदाहरति — रामश्चिनोतीति । रामस्-चिनोतीति स्थिते चवर्गयोगात्सकारस्य शकारः । 'श्चुना योग' इत्यत्रापि यथासङ्ख्याश्रयणे तु इह सकारस्य शकारयोगा.ञभावाच्छकारो नस्यादिति भावः । सच्चिदिति । सत्-चिदिति स्थिते श्चुत्वस्यासिद्धत्वाज्जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे,खरि चे॑ति चर्त्वेन तस्य चकारे च रूपम् । शाङ्गञ्जयेति । शाङ्गन्-जयेति स्थिते, चवर्गयोगान्नकारस्य श्चुत्वेन ञकारादेशः ।", "84041": "<<ष्टुना ष्टुः>> - ष्टुना ष्टुः ।स्तो॑रित्यनुवर्तते । तदाह-स्तोरिति । अत्रापि स्थान्यादेशानां यतासंख्यं, नतु॒ष्टुयोगे॑इत्यत्र । रामष्षष्ठ इति । रामस्-षष्ट इति स्थिते षकारयोगात्सस्य ष्टुत्वेन षः । अत्रापि 'ष्टुना योग' इत्यत्र न यथासंख्यमित्यस्य प्रयोजनं दर्शयितुं सकारस्य टवर्गयोगेऽपि उदाहरति — रामष्टीकते इति ।टीकृ गतौ॑ । तट्टीकेति । तस्य-टीकेति विग्रहः ।तद्टीके॑ति स्थिते टुत्वेन दस्य डत्वे चर्त्वम् । चक्रिण्ढोकसे इति । ढौकृ गतौ । चक्रिन् ढोकसे इति स्थिते टवर्गयोगान्नस्य टुत्वेन णत्वम् । न पदान्तात् ।अना॑मितितो॑रित्यस्य विशेषणं । ननु भिन्नविभक्तिकमेतत्कथं तद्विशेषणमित्यत आह — अनामिति लुप्तषष्ठीकमिति । नामवयवभिन्नस्येत्यर्थः । 'स्तोः'ष्टु॑रित्यनुवर्तते ।", "84042": "<<न पदान्ताट्टोरनाम्>> - तदाह — पदान्तादित्यादिना । ईट्टे इति । 'ईडस्तुतौ' आत्मनेपदी । ईड्-ते इति स्थिते, खरि चेति डस्य चर्त्वम्, ततः परस्य तकारस्य टुत्वम् । तस्य टवर्गात्परत्वेऽपिपदान्तात्परत्वाऽभावान्न टुत्वनिंषेधः । सर्पिष्टममिति । सर्पिष्-तममितित स्थितेस्वादिष्वसर्वनामस्थाने॑ इति, अन्तर्वर्तिनीं विभक्तिमाश्रित्य वा पदत्वात्षकारस्य पदान्तत्वात्ततः परस्य तकारस्य ष्टुत्वनिषेधो न भवति, पदान्ताट्टवर्गात्परत्वाऽभावात् । नच षकारस्य 'झलाञ्जशोऽन्ते' इति जश्त्वेन डकारे सति तकारस्य टोः परत्वात्ष्टुत्वनिषेधः स्यादेवेति वाच्यं,ह्रस्वात्तादौ तद्धिते॑ इति षत्वस्याऽसिद्धत्वेन जश्त्वाऽभावात् । इह 'आदेशप्रत्यययोरिति' षत्वं तु न भवति,अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात् । अनाम्नवति । ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरीशब्दावयवनकारस्यापि पर्युदासो वक्तव्यः इत्यर्थः । षण्णामिति । षष्-नामिति स्थितेस्वादिष्वसर्वनामस्थाने ॑ इति पदान्तत्वात् षस्य जश्त्वेन डकारेप्रत्यये भाषायां नित्य॑मिति तस्य णकारः । अत्र टवर्गयोगान्नकारस्य ष्टुत्वम् ।न पदान्ता॑दिति निषेधस्तु न,अना॑मिति पर्युदासात् । षण्-णगर्य इति — पृथक्पदे । न तु कर्मधारयः,दिक्संख्येसंज्ञाया॑मिति नियमात् । अत्रापिन पदान्ता॑दिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात् ।", "84043": "<<तोः षि>> - तेः षि । ष्टुरिति नेति चानुवर्तते । तदाह — तवर्गस्येति । सन्षष्ठ इति । अत्र नकारस्य षकारयोगात् टुत्वं प्राप्तं निषिध्यते । अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र ष्टुना योगे इत्यत्र यथासंख्यं नेति विज्ञायते । 'झलाञ्जशोऽन्ते' इत्यच्सन्धिनिरूपणे प्रसङ्गादुपन्यस्तम् । हल्सन्धिप्रस्तावे पुनस्तदुपन्यासः ।", "84044": "<<शात्>> - शात् । न पदान्तादिति पूर्वसूत्रात्ने॑त्यनुवर्तते ।स्तोःश्चुना श्चु॑रित्यतःतो॑रिति ,चु॑रिति चानुवर्तते । नतु सकारः शकारश्च ।शा॑दिति दिग्योगे पञ्चमी,परस्ये॑त्यध्याहार्यन्तदाह — शात्परस्येत्यादिना । विश्न इति । विच्छ गतौ ।यजयाचयतविच्छप्रच्छरक्षो नङ् इति नङ् । छ्वोःशूठ् इति छस्य शः । ङित्त्वान्न गुणः । अत्र शकारयोगात्तवर्गीयनकारस्य श्चुत्वेन ञकारे प्राप्ते निषेधः । पूर्वसूत्रे 'श्चुना योगे' इत्यत्रापि यथासङ्शख्याश्रयणे तु इह तवक्दीयस्य नकारस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थः स्यात् । एवंचाऽस्मादेव निषेधात्पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासंख्याश्रयणमिति विज्ञायते । प्रश्न इति ।प्रच्छ ज्ञीप्सायाम् । पूर्वन्नङादि । अत्रग्राहिज्ये॑ति संप्रसारणं न,प्रश्ने चासन्नकाले॑ इत्यादिनिर्देशात् । अत्र वर्गपञ्चमानां नासिकास्थानाधिक्ये ।ञपि तत्तद्वर्गीयैरस्ति सावण्र्यमिति तुल्यास्यसूत्रेऽवोचाम ।", "84045": "<<यरोऽनुनासिकेऽनुनासिको वा>> - यरोऽनुनासिके ।न पदान्ताट्टो॑रित्यतः पदान्तादित्यनुवर्तते, तच्च षष्ठन्ततया विपरिणम्यते, तदाह — यरः पदान्तस्येति ।एतन्मुरारि॑रिति कर्मधारयः । एतद्-मुरारिरिति स्थिते दस्य अनुनासिको नकारः, दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च । ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिको णकारः स्यात्, रेफसकारयोः स्पृष्टेत्स्पृष्टप्रयत्नभेदेऽपि मूर्घस्थानान्तर्यादित्यत आह — स्थानेति ।एतन्मुरारि॑रित्यादौ स्थानतः प्रयत्नतश्चान्तरतमे स्पर्शे चरितार्थः=लब्धप्रयोजनोऽयमनुनासिकविधिः स्थानमात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थः ।यूनि लब्धे तु युवतिर्जरठे रमते कथ॑मिति न्यायादिति भावः । प्रत्ययेभाषायाम् । वार्तिकमेतत् । भाष्य=लोकिकप्रयोगः । तत्र प्रयत्ने विद्यमाने अनुनासिके परतः प्रागुक्तोऽनुनासिको नित्यं भवतीत्यर्थः । तन्मात्रमिति । तत्-प्रमाणं यस्य तत्तन्मात्रं ।प्रमाणे द्वयसज्दध्नञ्मात्रचः॑ इति मात्रच्प्रत्ययः । चिन्मयमिति ।नित्यं वृद्धशारादिभ्यः॑ इत्यत्रनित्य॑मिति योगविभागात्ताद्रूप्ये मयट् । कथं तहीति । यदि प्रत्यये परे नित्यमनुनासिकः स्यात्तदामदोदग्राः ककुद्मन्त॑ इति कालिदासप्रयोगः कथमित्याक्षेपः । मतुपः प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकारावश्यम्भावादिति भावः । परिहरति — यवादीति । यवादिगणे कुद्मच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिकः । यदि तत्र दकारस्य नकार एव इष्टः स्यात्तर्हि नकारमेव लाघवान्निर्दिशेदिति भावः ।", "84046": "<<अचो रहाभ्यां द्वे>> - अचो रहाभ्यां द्वे । यरोऽनुनासिक इत्यतो यर इति षष्ठन्तं वेति चानुवर्तते । अचेति दिग्योगे पञ्चमी ।पराभ्या॑मिति शेषः । रहाभ्यामित्यपि पञ्चमी ।परस्ये॑ति शेषः । तदाह — अचः पराभ्यामित्यादिना । हय्र्यनुभव इति । हरेरनुभव इति विग्रहः । हरि-अनुभव इति स्थिते रेफादिकारस्य यण् । तस्य द्वित्वम् । अथ हकारात्परस्योदाहरति — न ह्य्यस्तीति । नहि — अस्तीति स्थिते हकारादिकारस्य यण् । तस्य द्वित्वम् । इहोभयत्र यकारस्य अचः परत्वाऽभावादच्परकत्वाच्च द्वित्वमप्राप्तं विधीयते । अत्राऽनचि चेति रेफहकारयोर्द्वित्वं न भवति । द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छतेन निमित्तभावेन तयोर्यर्शब्दबोधितकार्यभाक्त्वबाधात्,श्रुतानुमितयोः श्रुतं बलीय॑ इति न्यायात् । हर्य् य् अनुभवः, नह् य् य् अस्तीति स्थिते ।", "84047": "<<खरि च>> - केनेत्यत आह — खरि च ।झलाञ्जश्झशी॑त्यतो झलामिति ,अभ्यासे चर्चे॑त्यतश्चरिति चानुवर्तते । तदाह — खरि पर इत्यादिना । इति जकारस्येति । स्थानत आन्तंक्यादिति भावः । ततः छत्वं नतु प्रागुत्यपि बोध्यम् । छत्वस्य चुत्वचर्त्वे प्रत्यसिद्धत्वात् । हलो यमामिति सूत्रस्थभाष्यसंमतसूत्रक्रमे तु चुत्वेन जकारे कृते शस्य छत्वं ततो जकारस्य चर्त्वम् । नतु छत्वात् प्राक् चर्त्वम्, चर्त्वं प्रतिछत्वस्याऽसिद्धत्वात् । तच्छिव इति । स चासौ शिवश्चेति, तस्य शिव इति वा विग्रहः ।चोः कृ॑रिति कुत्वं तु न, श्चुत्वस्याऽसिद्धत्वात् । छत्वममीति ।शश्छोऽटी॑ति सूत्रेऽटीति विहाय अमीति वक्तव्यमित्यर्थः ।शश्छोऽमी॑ति सूत्रं पठनीयमिति यावत् । तच् श्लोकेनेति । स चासौ श्लोकश्च,तस्य श्लोक इति वा विग्रहः । लकारस्य अड्बहिर्भूतत्वात्तत्परकस्य शकारस्य सूत्रपाठतः छत्वे अप्राप्ते वार्तिकमिदम् । वाक्श्च्योततीति । अत्र तु कुत्वं भवत्येव, चकारस्य स्वाभाविकतया श्चुत्वनिष्पन्नत्वाऽभावेन असिद्धत्वाभावात् । अत्र चकारस्य अम्बर्हिर्भूतत्वात्तत्परकशकारस्यात्र न छत्वम् ।", "84048": "<<नादिन्याक्रोशे पुत्रस्य>> - नादिन्याक्रोशे । 'द्वे' इत्यनुवर्तते । 'यर' इति च । आक्रोशो निन्दा । आदिनीति ङ्यन्तं लुप्तसप्तमीकम् । आदिनीशब्दे परे पुत्रशब्दस्यावयवो यो यर् तकारस्तस्य न द्वित्वम्, आक्रोशे गम्ये इत्यर्थः । तदाह-पूत्रशब्दस्येत्यादिना । पुत्रशब्दस्यावयवस्येत्यर्थः । पुत्रादिनी त्वमसि पाषे इति । पुत्रानत्तुं शीलमस्याः पुत्रादिनी । 'सुप्यजातौ' इति णिनिः । 'ऋन्नेभ्य' इति ङीष् । हे पापे । त्वं पुत्रादिनीत्यन्वयः । पुत्रघातिनीत्यर्थः । ईदृशाक्रोशस्य प्रायेण स्त्रीष्वेव सम्भवात् सूत्रे आदिनीति ङ्यन्तमेव विवक्षितमिति हरदत्तः । माधवोऽप्येवम् । अत्र उकारात्परस्य तकारस्याऽनचि चेति प्राप्तं द्वित्वं निषिध्यते । रेफस्य तु न क्वापि द्वित्वप्रसक्तिरित्यनुपदमेव वक्ष्यते । आक्रोशे किमिति । आक्रोशे इत्यस्य किं प्रयोजनमित्यर्थः ।किं पृच्छायां जुगुप्सने॑ इत्यव्ययवर्गेऽमरः । एवमुत्तरत्राप्येवञ्जातीयकेषु द्रष्टव्यम् । तत्त्वकथन इति । यस्याः पुत्राः स्वयमेव म्रियन्ते तां प्रति पुत्रादिनीति वस्तुस्थितिकथने तु न द्वित्वनिषेधः, तत्र निन्दाया अप्रतीतेरित्यर्थः । तत्परे च । वार्तिकमेतत् । स आदिनीशब्दः परो यस्मात्स तत्परः । आदिनीशब्दपरके पुत्रशब्दे च परे पुत्रशब्दावयवस्य यरो न द्वित्वमित्यर्थः । पुत्रपुत्रादिनी त्वमिति । पुत्रस्य पुत्रानत्तीति विग्रहः । अत्र पूर्वस्य पुत्रशब्दस्य आदिनीशब्दः परो न भवति, द्वितीयपुत्रशब्देन व्यवधानात् । अतः पूर्वसूत्रेणाऽप्राप्ते द्वित्वनिषेधे इदमारब्धम् । वा हतजग्धयोः । हतशब्दे जग्धशब्दे च परे पुत्रशब्दावयवस्य यरो द्वित्वं वा स्यादित्यर्थः । पुत्रहतीति । तकारद्वित्वे रूपम् । पुत्रो हतो ययेति विग्रहः ।अस्वाङ्गपूर्वपदा॑दिति ङीषिति केचित् । वस्तुतस्तु जातिपूर्वादित्यस्य तत्रानुवृत्तेर्गौरादित्वान्ङीषिति युक्तम् । पुत्रघातसाहसस्य स्त्रीष्वेव सम्भवात्स्त्रीलिङ्गमेवोदाहृतम् । पुत्रहतीति । द्वित्वाऽभावे रूपम् । एवं पुत्रजग्धी पुत्रजग्धीति । अनचि चेति द्वित्वविकल्पे सिद्धे पुत्रशब्दस्य क्तान्ते चेद्धतजग्धयोरेव आक्रोश एवेति नियमार्थमिदं वार्तिकमित्याहुः ।", "84049": "", "84050": "<<त्रिप्रभृतिषु शाकटायनस्य>> - त्रिप्रभृतिषु शाकटायनस्य । त्रिचतुरादिषु हल्षु संयुक्तेषु #आद्यस्याऽचः परस्य यरो द्वित्वं शाकटायनमते । मतान्तरे तु नेत्यर्थः । इन्द्र इति नकारस्य द्वित्वविकल्पः । राष्ट्रमित्यत्र षकारस्य द्वित्वविकल्पः ।", "84051": "", "84052": "", "84053": "<<झलां जश् झशि>> - झलाञ्जश् झशि । स्पष्टमिति । झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम् । तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः । इति धकारस्येति । प्रथमधकारस्येत्यर्थः । दकार इति । स्थानत आन्तर्यादिति भावः ।", "84054": "<<अभ्यासे चर्च्च>> - भ भूव् अ इति स्थिते — अभ्यासे चर्च ।झलां जश् झशी॑त्यस्माज्झलामित्यनुवर्तते । चकारेण जश् समुच्चीयते । तदाह — अभ्यासे झलामित्यादिन । झलश्चतुर्विंशतिः । तत्र शषसाः — शरः । तेषामभ्यासे लोपो वक्ष्यते — 'शर्पूर्वाः खय' इति । हकारस्य त्वभ्यासे 'कुहोश्चु' रिति चुत्वं वक्ष्यते । एवं च झल्षु झयो विंशतिरिहाऽभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मध्ये कस्य चरः, कस्य जश इत्याशङ्कायामाह — झशां जश इति । वर्गाणां तृतीयचतुर्था झशः । तेषां जशः जबगडदा इत्यर्थः । यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । खयां चर इति । वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटकतपा इत्यर्थः । अत्रापि यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । तत्रापीति । तेष्वपि वर्ग्येषु प्रकृत्या = स्वभावेन जशामेव सतां प्कृत्या स्वभावेन जश एव सन्तस्तत्तद्वग्र्या आदेशाः स्युः । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वग्र्या आदेशाः स्युरित्यर्थः । पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यात् । झशां जशां च घोषसंवारनादप्रयत्नसाम्यम् । खयां चरां च आआसाऽघोषविवारप्रयत्नसाम्यम् । तत्तद्वग्र्याणां तत्तद्वग्र्या आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम् ।", "84055": "<<शरोऽचि>> - शरोऽचि ।अचो रहाभ्या॑मित्यतो 'द्वे' इति, 'नादिन्याक्रोशे' इत्यतो नेति चानुवर्तते । तदाह अचि पर इत्यादिना । तथाच 'चतुर्षु' इत्येकषकारमेव रूपम् । नच सत्यपि द्वित्वे 'झरो झरि सवर्णे' इति लोपादेव एतषकाररूपसिद्धेरिदं व्यर्थमिति वाच्यं, लोपस्य वैकल्पिकत्वादिति भावः । प्रियाश्चत्वारो यस्येति बहुव्रीहौ प्रियचतुर्शब्दो विशेष्यनिघ्न एकद्विबहुवचनान्तः । तस्य सौ रूपमाह — प्रियचत्वा इति । प्रियचतुर् स् इति स्थिते 'चतुरनडुहोः' इत्युकारादाम् । तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्तेः । तत उकारस्य यण् । हल्ङ्यादिलोपश्चेति भावः । हे प्रियचत्व इति । 'अम् संबुद्धौ' इत्यमिति भावः । प्रयिचत्वाराविति । सुटि सर्वनामस्थानत्वादाम् । प्रियचत्वारः । प्रियचत्वारम्, प्रयिचत्वारौ । शसादावाम् न । प्रियचतुरः । प्रियचतुरा प्रियचतुभ्र्याम् प्रियचतुर्भिः । प्रियचतुरे । प्रयिचतुरः २ । प्रियचतुरोः । आमिषट्चतुभ्र्यश्चे॑ति नुटमाशङ्क्याह — गौणत्वे त्विति ।षट्चतुभ्र्यश्चे॑ति बहुवचननिर्देशात्तदर्थप्राधान्य एव नुडिति भावः । प्रियचतुरि । प्रयिचतुर्षु । परमचतुर्ण्णामिति । कर्मधारयः । आङ्गत्वात्तदन्तादपि नुटिति भावः । इति रान्ता#ः । अथ लकारान्ताः । कमलमिति । कमलं=पद्मम् । कमला=लक्ष्मीः । कमलमाचष्टे इत्यर्थे कमलशब्दात्, कमलामाचष्टे इत्यर्थे कमलाशब्दा॒त्तत्करोति तदाचष्टे॑ इति णिचि 'सनाद्यन्ताः' इति धातुत्वात्तदवयवस्य सुपो लुकिणाविष्ठत्प्रातिपदिकस्ये॑ति इष्ठवत्त्वाट्टिलोपे कमव्-इ इत्यतः कर्तरि क्विपि णेरनिटीति णिलोपे अपृक्तलोपे च कमलिति रूपम् । ततः सोर्हल्ङ्यादिलोपे कमलिति रूपम् । कमलाविति । औजसादिषु न कोऽपि विकार इति भावः । कमलं कमलौ कमलः । कमला कमल्भ्यां कमल्भिः । कमले । कमल्भ्यः । कमलः । कमलः कमलोः कमलाम् । सुपि विशेषमाह — षत्वं कमल्ष्विति । लकारस्य इण्त्वादिति भावः । तोयमाचष्टे तोयित्यादियकारान्तास्तु न सन्त्येव, क्विपिलोपो व्योः इति यलोपस्य दुर्वारत्वा । णिलोपस्य स्थानिवत्त्वं तु न भवति, यलोपे तन्निषेधात् । वस्तुतस्तुन पदान्ता हलो यणः सन्ती॑ति लण्सूत्रस्थभाष्यादनभिधानमेवंजातीयकानामिति हरदत्तः । 'भोभगो' इति सूत्रेवृक्षव्करोती॑ति भाष्यं तु एकदेश्युक्तिरिति तदाशय इत्यलम् । इति लान्ताः ।", "84056": "<<वाऽवसाने>> - वाऽवसानेझलां जश्झशी॑त्यतोझला॑मितिअभ्यासे चर्चे॑त्यतश्चरिति चानुवर्तते । तदाह — अवसान इति । द्वित्वे रूपेति । तकारदकारयोरनचि चेति द्वित्वे, तदभावे च रूपचतुष्टयमित्यर्थः । तत्र चर्त्वपक्षे द्वतकारमेकतकारं च रूपम् । जश्त्वपक्षे द्विदकारं एकदकारं च । रामाभ्याम् । रामेभ्य इति । चतुर्थीवत्प्रक्रिया सुगमिति भावः । अथ षष्ठीविभक्तिः । ङसो ङकारस्य 'लशक्लतद्धित' इति इत्त्वं, लोपः । ङकारोच्चारणं तुङिति ह्रस्वश्चे॑त्याद्यर्थम् ।टाङसिङसा॑मिति स्यादेशं सिद्धवत्कृत्याह — रामस्येति । नन्विह सकारस्यानचि चेति द्वित्वे पूर्वसकारस्यखरि चे॑ति चर्त्वेन दन्तस्थानतो ।ञन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह — सस्य द्वित्वेति । स एवेति । सकार एवेत्यर्थः ।एव॑कारव्यावर्त्त्यमाह — नतु तकार इति । ननु दन्तस्थानतः आआसाघोषविवारात्मकबाह्रप्रयत्नश्चान्तर्यं तकारे ।ञप्यविशिष्टमित्यत आह — अल्पप्राणतयेति । सकारः स्थानी महाप्राणः । तकारस्तु अल्पप्राणः । अतो बाह्रप्रयत्नभेदात्तकारो न भवति । इदमुपलक्षणम्, आभ्यन्तरप्रयत्नभेदादपि सकारस्य तकारो भवतीति द्रष्टव्यम् । अत एवेति । 'वस निवासे' इत्यदिधातोर्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते यदि तु त्र खरि चेति सकारस्य तकारः स्यात्तर्हि तद्विधानमनर्थकं स्यादित्यर्थः ।", "84057": "<<अणोऽप्रगृह्यस्यानुनासिकः>> - अणोऽप्रगृह्रस्य । 'वा॒अवसाने' इत्यनुवर्तते । तदाह — अप्रगृह्रेत्यादिना । अत्र अण् पूर्वेणैव णकारेण, व्याख्यानात् । ततस्च 'कर्तृ' इत्यत्र नानुनासिकः । इत्यच्संधीति । अल्पाच्तरमिति, सिद्धमनच्त्वादिति, कथमनच्त्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवजातीयस्थलेषु असंदेहार्थं संध्यभावोऽभ्यनुज्ञातः । अतोऽत्र कुत्वश्चुत्वयोरभावेऽपि न दोषः । इति*बालमनोरमायामच्सन्धिः ।अत तिङन्ते प्रत्ययमाला ।अथ प्रत्ययमालां वक्ष्यन्नाह — कण्डूयतेः सन्निति । 'धातोः कर्मणः' इत्यनेनेति भावः । प्रथमस्यैकाचेति ।अजादेर्द्वितीयस्ये॑ति द्वितीयैकाचो द्वित्वे प्राप्ते इत्यपि ज्ञेयम् ।कण्ड्वादेस्तृतीयस्येति ।एकाचो द्वित्व॑मिति शेषः ।कण्ड्वादे॑रित्यनन्तरंयगन्तस्ये॑ति शेषः, केवलकण्ड्वादिषु तृतीयैकाचोऽभावात् । कण्डूयियिषतीति । कण्डूयेति यगन्तात्सनि इटि अतो लोपः । इस् इति तृतीयस्यैकाचो द्वित्वम् । असु उपतापे । कण्ड्वादिः । असूयियिषति । अजादेस्तृतीयस्य एकाचो द्वित्वम् । क्यजन्तात्सन्निति । 'उदाह्यियते' इति शेषः । यथेष्टं नामधातुषु — इत्पि वार्तिकम । नाम = प्रातिपदिकं, तद्धटितधातुष्वित्यर्थः । अजादेस्त्वाद्येतरस्येति । अजादेरित्यनुवृत्त्या आदिभूतादचः पेरषामेकाचां यतेष्टमित्यर्थलाभादिति भावः । नदराणामिति । तेषां मध्ये आदिभूतादचः परस्यैवेत्यर्थः । इन्द्रीयतेः सन्निति । इन्द्रशब्दात् क्यजन्तात्सन्नित्यर्थः । द्रीशब्दयिशब्दयोरिति । नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् । दकारस्य तु आदिभूतादचः परत्वाऽभावान्न द्वित्वनिषेध इति भावः । चिच्नद्रीयिषतीति । चन्द्रीयतेः सनि प्रथमस्यैकाचो द्वित्वम् । चन्द्रिद्रीयिषतीति । द्वितयीस्यैकाचो द्वित्वम् । प्रियमिति । प्रियमाख्यातुमिच्छतीत्यर्थे 'तत्करोति तदाचष्टे' इति ण्यन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्यप्रियस्थिरे॑ति प्रादेशे वृद्धौ पुकि णिचो गुणाऽयादेशयोः षत्वे प्रापयिषेत्येव सन्नन्तम् । प्रियमाचक्षाणं प्रेरयितुमिच्छतीत्यर्ते तु प्रापि इति ण्यन्तादुक्ताद्धेतुमण्णौतद्नतात्सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपेद्वितीयणिचो गुणाऽयादेशयोः प्रापयिषेत्येव सन्नन्तम् । तत्र यथेष्टं नामधातुष्वित्याद्यानां त्रयाणामेकाचामेकैकस्य द्वित्वेपिप्रापयिषती॑त्यादिरूपत्रयमित्यर्थः । उरुमिति । उरुमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दाचष्टे इत्यर्थे णिचिप्रियस्थिरे॑ति वरादशे उपधावृद्धौ वारि इति ण्यन्तात्सनि इटि णिचो गुणाऽयादेशयोः षत्वे वारयिषेति सन्नन्तम् । माधवमते वृद्ध्याङ्गीकाराद्वारीत्यस्माद्धेतुमण्ण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम् । तत्र यथेष्टं नामधातुषवित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादिरूपत्रयमित्यर्थः । बाढंसिसाधयिषतीति । बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् ।अन्तिकबाढयो॑रिति साधादेशः । तत्र सकारस्यादेशत्वाऽभावान्न षत्वम् । तदाह — षत्वं तु नास्तीति । बोभूयिषयिषतीत्यत्र प्रक्रियां दर्शयति — यङिति । 'भूधातो' रिति शेषः । द्वित्वे बोभूयेति स्थितम् । सन्निति । इटि अतो लोपे षत्वे बोभूयिषेति स्थितम् । ण्यन्तात्सन्निति । बोभूयिषेत्यस्माद्धेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम् । तस्मात् सनि इटि णिचो गुणाऽयादेशयोः षत्वे बोभूयिषयिषेति स्थितम् । ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् ।अनभ्यासस्ये॑त्युक्तेर्न पुनर्द्वित्वम् । अथ बोभूययिषयतीत्यत्र प्रक्रियां दर्शयति — यङिति ।भूधातो॑रिति शेषः । द्वित्वे बोभूयेति स्थितम् । णिजिति । बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम् । सन्नन्ताण्णिजिति । बोभूयि इत्यस्मात्सनि इटि णिचो गुणाऽयादेशयोः ष्टवे बोभूययिषेति स्थितम् । तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि गुणाऽयादेशयोर्बोभूययिषयतीति रूपं सिद्धम् । प्रत्ययमाला समाप्ता । अथ पूर्वकृदन्तप्रकरणम् ।", "84058": "<<अनुस्वारस्य ययि परसवर्णः>> - अनुस्वारस्य ययि । स्पष्टमिति । अनुवत्र्यपदान्तराभावादिति भावः । अङ्कित इति । अन्क पदे लक्षणे चेति चुरादौ नौपधः । नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित् । ण्यन्तात् क्तः, इट् । निष्ठायां सेटीति णिलोपः । अनुस्वारस्यानेन परसवर्णः । परनिमित्तमत्र ककारः, तत्सवर्णः कवर्गः । सोऽनुस्वारस्य भवन् नासिकारस्थानसाम्याङकार एव भवति । अञ्चित इति । अन्चु गतिपूजनयोः । नोपधः । तस्मात् । क्तः । अञ्चेः पूजायामिति इट् । नाञ्चेः पूजायामिति निषेधादनिदितामिति नलोपो न । अत्र नश्चापदान्तस्येत्यनुस्वारस्य परसवर्णो ञकारः । कुण्ठित इति । कुठि प्रतिघाते । इदित्त्वान्नुम् । क्त इट् । अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकारः । शान्त इति । शम उपशमे । क्तः । वा दान्तशान्तेत्यादिनिपातनान्नेट् । अनुनासिकस्य क्वीति दीर्घः । नश्चेति मस्यानुस्वारः । तस्यं परसवर्णो नकारः । गुम्फित इति । गुन्फ ग्रन्थे-द्वितीयान्तः चतुर्थान्तो वा, नोपधः । क्तः इट् ।नोपधात्थफान्ताद्वा॑ इत्यकित्त्वपक्षे नलोपो न । अत्र नश्चेत्यनुस्वारस्य परसवर्णो मकारः । ननु कृञ्धातोर्लट्, झिः, झोऽन्तः, तनादिकृञ्भ्य उः, गुणः, परत्वम् ।अत उत्स#आर्वधातुके॑ । उकारस्य यण् । न भकुर्छुरामिति निषेधात् र्वौरुपधाया इति दीर्घो न । कुर्वन्तीति रूपम् । अत्र नकारस्य नश्चापदान्तस्येत्यनुस्वारं बाधित्वा परत्वाद्रषाभ्यामिति णत्वं स्यात् । न च त्रिपाद्यां नश्चापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्यसिद्धत्वादनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम् । एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेर्दुर्वारत्वादित्यत आह — कुर्वन्तीत्यादि । रषाभ्यामित्यपेक्षया परसवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्याऽसिद्धत्वान्न णत्वमिति भावः ।", "84059": "<<वा पदान्तस्य>> - वा पदान्तस्य ।अनुस्वारस्य ययि परसवर्ण॑ इत्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । त्वङ्करोषीति । त्वम्-करोषीति । स्थिते मोऽनुस्वारः । परसवर्णो ङकारः । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति । सम्-यन्तेति स्थिते मोऽनुस्वारः । तस्य परनिमित्तभूतयकारसवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात् । तथाच सय्यँन्तेति रूपम् । एवं सं-वत्सर इति स्थिते अनुस्वारस्य परसवर्णोनुनासिको वकारः । सव्वँत्सर इति रूपम् । यं-लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः । यल्लोंकमिति रूपम् । परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः ।", "84060": "<<तोर्लि>> - तोर्लि ।अनुस्वारस्य ययी॑त्यतः 'परसवर्णः' इत्यनुवर्तते । तदाह — तवर्गस्येत्यादिना । तल्लय इति । तस्य-लय इति विग्रहः । तदा-लय इति स्थिते दस्य परसवर्णः=परनिमित्तभूतलकारसवर्णो भवति, स च लकार एव, अन्यस्य तत्सावण्र्याऽभावात् । अत्र नकारस्येति । विद्वान्-लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिनोऽनुनासिकस्य परसवर्णो लकारो भवन्नान्तर्यादनुनासिक एव लकारो भवतीत्यर्थः ।", "84061": "<<उदः स्थास्तम्भोः पूर्वस्य>> - उदः स्थास्तम्भोः ।अनुस्वारस्य ययि परसवर्णः॑ इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात् । 'उद' इति पञ्चमी । अतस्तस्मादित्युत्तरस्येति परिभाषयाउदःपरयो॑रिति लभ्यते । तदाह — उदः परयोरिति । पूर्वेति । पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह — आदेः परस्येति । अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः । उत्थानमिति ।ष्ठा गतिनिवृत्तौ॑ । भावे ल्युट् । उत्तम्भनमिति ।ष्टभि प्रतिष्टम्भे॑ भावे ल्युट् । 'स्तम्भु रोधने' इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः ।स्थास्तम्भो॑रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात् । ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव । दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु ऌकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः, ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः । ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् । आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात् । अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — अत्राऽघोषस्येति ।अघोषस्ये॑त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात् । स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान् । तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात् । नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात् । द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान् । अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः । एवं च उद्-स्थानमिति स्थिते दकारस्यखरि चे॑ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम् । एवं उत्थतम्भनमित्यत्रापि योज्यम् । तत्र द्वितकारमेकथकारं चेति विशेषः । तस्येति । सकारादेशस्य थकारस्येत्यर्थः । एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः । ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम् । प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह — लोपाभावेति । असिद्धत्वादिति ।खरि चे॑ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः । उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः । उक्तप्रक्रियाया उभयत्रापि साधारण्यात् । केचित्तु 'न मुने' इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः । तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तुदीर्घादाचार्याणा॑मित्युत्तरम् । अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरंझलाञ्जश् झशि॑, अभ्यासे चर्च॑,खरि च॑,वाऽवसाने॑,अणोऽप्रगृह्रास्यानुनासिकः॑, इति पञ्चसूत्रीपाठ इतिहलो यमा॑मिति सूत्रस्थभाष्यसंमतः सूत्रकमः । एवं चखरि चे॑ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् ।", "84062": "<<झयो होऽन्यतरस्याम्>> - झयो हः । झय इति पञ्चमी ।परस्ये॑त्यध्याहार्यम् । 'ह' इति । षष्ठी ।उदः स्थास्तम्भो॑रित्यतःपूर्वस्ये॑ति,अनुस्वारस्य ययी॑त्यतः 'सवर्ण' इति चानुवर्तते, तदाह — इयः परस्येत्यादिना ।वाग्घरि॑रित्युदाहरणम् । वाच्शब्दश्चकारान्तः, कुत्वं जश्त्वम् । वाग्-हरिरिति स्थिते हकारस्य पूर्वसवर्णविधौ गकारः पूर्वो निमित्तम्, तत्सवर्णाः कखगघङाः पञ्च । तेषां हकारेण स्थानिना स्थानत आन्तर्यमविशिष्टम् । आभ्यन्तरप्रयत्नसाम्यं तु पञ्चानामपि हकारेण स्थानिना न विद्यते, स्पृष्टविवृतप्रयत्नबेदात् । अतो बाह्रयत्नत आन्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — घोषवत इत्यादिना । स्थानीभूतो हकारो घोषनादसंवानमहाप्राणाख्ययत्नचतुष्टयवान्, तस्य क-ख-ग-घ-ङेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात् । द्वितीयः खकारोऽपि न भवति, तस्याऽघोषस्वासविवारयत्नकत्वात् । चतुर्थस्तु घकारो घोषनादसंवारमहाप्राणवान् । अतः स एव घकारो हकारस्य (स्थाने) भवतीत्यर्थः । ततश्च वाग्घरिरिति भवति । पूर्वसवर्णभावे तु वाग् हरिरिति रूपम् ।", "84063": "<<शश्छोऽटि>> - शश्छोऽटि । 'झय' इति पञ्चम्यन्तमनुवर्तते । 'श' इति षष्ठएकवचनम् । तदाह — झयः परस्येति । 'तद्-शिव' इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वयः ।", "84064": "<<हलो यमां यमि लोपः>> - उभयत्रापि प्रथमयकारस्य लोपविधिमाह — हलो यमां यमि लोपः ।झयो होऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते । तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते । यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात् । 'हल' इति दिग्योगे पञ्चमी ।परस्ये॑ति शेषः । तदाह-हलः परस्य यम इत्यादिना । अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपे संपद्यते । लोपाऽभावपक्षे तु द्वियकाररूपं संपद्यते । ननुहलो यमा॑मिति सूत्रमेतदर्थं नारम्भणीयम्, अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाऽभावे एकयकाररूपस्य च सिद्धेरित्याशङ्क्य नास्य सूत्रस्यात्र प्रयोजनमित्याह — इति लोपेति । तर्हि किमस्य सूत्रस्य फलमित्यत आह — लोपारम्भेति ।दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इत्यादित्यशब्दाच्छेषार्थण्यान्ताद्देवतार्थेण्यः । आदित्य — य इति स्थितेयस्येति चे॑ति यकारादकारस्य लोपे तकाराद्यकारस्याऽनेन सूत्रेण लोपः । तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा । अतः सूत्रारम्भो न विफल इति भावः । अत्रआपत्यस्य च तद्धितेऽनाती॑ति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाऽभावात् । अत्र त्वतत्सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः । नन्वेवमपि महात्मनो भाव इत्यर्थेगुणवचनब्राआहृणादिभ्यः॑ इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात्, यकाररूपयम्परकत्वाच्चेत्यत आह — यमामिति । यथासंख्यविज्ञानादिति । विज्ञायते अनेनेति विज्ञानं=सूत्रम् ।विज्ञानं शिल्पशास्त्रयोः॑ इत्यमरः । यथासंख्यसूत्रादित्यर्थः । तथाच मकारस्य मकारे परत एव लोपलाभाद्यकारे परे न लोप इत्यर्थः ।", "84065": "<<झरो झरि सवर्णे>> - झरो झरि सवर्णे ।झयोहोऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते ।हलो यमा॑मित्यतो 'हल' इति, 'लोप' इति चानुवर्तते । तदाह — हलः परस्येत्यादिना । तदिह रूपत्रयं संपन्नमित्याह-द्वित्वाभाव इत्यादिना । रेफात्परस्य ऋधिति धात्वन्तस्य धकारस्यअचो रहाभ्या॑मिति द्वित्वाऽभावे सतिझरो झरी॑ति लोपे च सति एकधकारं रूपमित्यर्थः । असतीति । 'द्वित्वाऽभावे' इत्यनुकृष्यते । तस्यैव ऋधेर्धकारस्य द्वित्वाऽभावे लोपे चा.ञसति द्विधकारं रूपम् । तथा तस्यैव ऋधेर्धकारस्य द्वित्वे लोपे च सति द्विधकारमेव रूपमित्यर्थः । सतीति । तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकारं रूपमित्यर्थः । यद्यपि द्विधपक्षे प्रथमधकारस्य त्रिधपक्षे मध्यमधकारस्य चझलाञ्जश् झशी॑ति जश्त्वेन दकारो भवति । तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्वं त्रिधत्वं चेति न दोषः । अथ तवल्कार इत्यत्राह यण इति । यणः परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्वं, लकारस्य त्वनचि चेति द्वित्वमित्यर्थः । तेनेति लकारककारयोर्द्वित्वविकल्पेनेत्यर्थः । द्वित्वं लस्यैवेति । लकारस्य द्वित्वे ककारस्य द्वित्वाऽभावे च सति द्विलकारमेकककारं च प्रथमं रूपमित्यर्थः । नोभयोरिति । लकारककारयोरुभयोरपि द्वित्वाऽभावे एकलकारमेकककारं तृतीयं रूपमित्यर्थः । उभयोरपीति । लककारयोरुभयोरपि द्वित्वे द्विलकारं द्विककारं चतुर्थं रूपमित्यर्थः । तवल्कारादिष्विति । आदिना ममल्कारादिङ्ग्रहः ।", "84066": "", "84067": "", "84068": "अ अ । व्याकरणशास्त्रस्येदमन्तिमं सूत्रं द्विपदम् । तत्र अ इति प्रथमं पदं विवृतपरं लुप्तषष्ठीकम् । द्वितीयं तु संवृतपरं लुप्तप्रथमाकम् । ततश्च शिक्षावचनसिद्धं स्वाभाविकं संवृतत्वं प्रच्याव्य वर्णसमाम्नाये विवृतत्वेनोपदिष्टस्य अवर्णस्य संवृतोऽवर्णो भवतीत्यर्थः । तदाह -विवृतमनूद्येति । विधीयत इति । प्रतिप्रसूयत इत्यर्थः । ननु प्रक्रियादशायामप्येतत्सूत्रं कुतो न प्रवर्तत इत्यत आह -अस्य चेति । अस्य = अ अ इति सूत्रस्य, स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रति असिद्धत्वादविद्यमानत्वात् प्रक्रियादशायां विवृतत्वमस्त्येवेत्यन्वयः । ननु प्रक्रियादशायां ह्रस्वावर्णस्य कथं स्वाभाविकात्संवृतत्वात्प्रच्यवः कथं वा विवृतत्वम् ?, तस्य आकादिधर्मत्वादित्यत आह-शास्त्रदृष्ट्येति । असिद्धत्वमिह न वास्तवात्यन्तासत्त्वं विवक्षितम् । किं तर्हि?, अविद्यमानत्वारोपात्मकमेव । एतावता न स्वाभाविकस्य संवृतत्वस्याऽवर्णात् प्रच्यवो, नापि विवृतत्वं तस्य वास्तवम्, प्रक्रियार्थं विवृतत्वस्यारोपादिति भावः । ननु 'अ अ' इति सूत्रस्य कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वे किं प्रमाणमित्यत आह-तथा च सूत्रमिति । चो ह्यर्थे । तथा = तेन प्रकारेण बोधकं सूत्रमस्ति हीत्यर्थः ।" }