{ "11001": "आदैच्च वृद्धिसंज्ञः स्यात् ॥", "11002": "अदेङ् च गुणसंज्ञः स्यात् ॥", "11003": "गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥", "11004": "धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । हलि च <{SK354}> इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मुर्छा । मोमूर्च्छीति । मोमोर्ति । मोमूर्तः । मोमूर्छतीत्यादि । आर्धधातुक इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेः ॥", "11005": "गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥", "11006": "दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ॥", "11007": "अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥", "11008": "मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । ऌवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥", "11009": "ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा ।ऌतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् ॥ जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा - स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ॥", "11010": "आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥", "11011": "ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥", "11012": "अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ॥", "11013": "अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥", "11014": "एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् ओष्णम् ॥ \tईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ।\tएतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥", "11015": "ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥", "11016": "सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥", "11017": "उञ इतौ वा प्रागुक्तम् । उ इति । विति ॥", "11018": "उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥", "11019": "सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुक् <{SK3561}> इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावर्थान्तरोपसङ्क्रान्ते माभूत् । वाप्यामश्वो वाप्यश्वः ॥", "11020": "दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥", "11021": "एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥", "11022": "एतौ घसंज्ञौ स्तः ॥", "11023": "एते सङ्ख्यासंज्ञाः स्युः ॥", "11024": "षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यात् । षड्भ्यो लुक् <{SK261}> । पञ्च । पञ्च । सङ्ख्या किम् । विप्रुषः । पामानः । शतानि सहस्त्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । षट्चतुर्भ्यश्च <{SK338}>इति नुट् ॥", "11025": "डत्यन्ता सङ्ख्या षट्संज्ञा स्यात् ॥", "11026": "एतौ निष्ठासंज्ञौ स्तः ॥", "11027": "सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । द्वन्द्वे चेति ज्ञापकात् । तेन परमसर्वत्रेति त्रल् परमभवकानित्यत्राऽकच्च सिद्ध्यति ॥", "11028": "अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दिङ्नामान्यन्तराले इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै ॥", "11029": "बहुव्रीहौ चिकीर्षते सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथां लौकिके विग्रहवाक्ये इव त्राप्यकच् प्रवर्तेत । स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु त्वकत्पितृको मकत्पितृक इति रूपे इष्टापत्तिं कृत्वैतत्सूत्रं प्रत्याचख्यौ । यथोत्तरं मुनीनां प्रामाण्यम् ॥ (वार्तिकम्) ॥ महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ॥", "11030": "अत्र सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासाऽर्थवाक्येऽपि न । मासेन पूर्वाय ॥", "11031": "द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । नचैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥", "11032": "जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥", "11033": "एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयो प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः । शेषं सर्ववत् । (वार्तिकम्) ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्ग्रहणान्नेह । पटुजातीयाय ॥ निर्जरः ॥", "11034": "एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाऽभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥", "11035": "ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे । स्वाः । आत्मीया इत्यर्थः । आत्मन इति वा । ज्ञातिधनवाचिनस्तु स्वाः । ज्ञातयोऽर्था वा ॥", "11036": "बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥", "11037": "स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर्, अन्तर्, प्रातर्, पुनर्, सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत्, आरात्, पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, अवस्, समया, निकषा, स्वयम्, वृथा, नक्तम्, नञ्, हेतौ, इद्धा, अद्धा, सामि(गणसूत्रम् -) वत्, ब्राह्मणवत्, क्षत्रियवत्, सना, सनत्, सनात्, उपधा, तिरस्, अन्तरा, अन्तरेण, ज्योक्, कम्, शम्, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, मुधा, पुरा, मिथो, मिथस्, प्रायस्, मुहुस्, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, नमस्, हिरुक्, धिक्, अथ, अम्, आम्, प्रताम्, प्रशान्, प्रतान्, मा, माङ् । आकृतिगणोऽयम् । च, वा, ह, अह, एव, एवम्, नूनम्, शश्वत्, युगपत्, भूयस्, कूपत्, कुवित्, सूपत्स, कुवित्, नेत्, चेत्, चण्, कच्चित्, किंचित्, यत्र, नह, हन्त, माकिः, माकिम्, नकिः, आकिम्, माङ्, नञ्, यावत्, तावत्, त्वै, द्वै, रै, श्रौषट्, वौषट्, स्वाहा, स्वधा, तुम्, तथाहि, खलु, किल, अथो, अथ, सुष्ठु, स्म, आदह । (गणसूत्रम् -) उपसर्गविभक्तिस्वरप्रतिरूपकाश्च । अवदत्तम्, अहयुः, अस्तिक्षीरा । अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ, पशु, शुकम्, यथाकथाच, पाट्, प्याट्, अङ्ग, है, हे, भोः, अये, द्य, विषु, एकपदे, युत्, आतः । चादिरप्याकृतिगणः ॥", "11038": "यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः । तसिवती । नानाञाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ॥", "11039": "कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥", "11040": "एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः ॥", "11041": "अधिहरि ॥", "11042": "शि इत्येतदुक्तसंज्ञं स्यात् ॥", "11043": "सुट् प्रत्याहारः । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥", "11044": "निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥", "11045": "यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥", "11046": "टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥", "11047": "'अच' इति षष्ठ्यन्तम् । अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् ॥", "11048": "आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि । इह न पुंवत् । यदिगन्तं प्रद्यु इति तस्य भाषितपुंस्कत्वाऽभावात् । एवमग्रेऽपि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतस्याऽनन्यत्वात् रायो हलि इत्यात्वम् । प्रराभ्याम् । प्रराभिः । नुमिचिरेति नुट्यात्वे प्रराणामिति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुट्यात्वं न । नामि <{SK209}> इति दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने । इत्यादि ॥", "11049": "अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥", "11050": "प्रसङ्गे सति सदृशतम आदेशः स्यात् । [(परिभाषा - ) यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः] ॥", "11051": "ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् कृष्णर्द्धिरित्यत्राऽर् । तवल्कार इत्यत्राऽल् । अचो रहाभ्याम् द्वे <{SK51}> इति पक्षे द्वित्वम् ॥", "11052": "षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥", "11053": "अयमप्यन्त्यस्यैव स्यात् । सर्वस्य <{SK45}> इत्यस्यापवादः ॥", "11054": "परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्य <{SK42}> इत्यस्यापवादः ॥", "11055": "स्पष्टम् । अलोऽन्त्यसूत्रापवादः । अष्टाभ्य औश् <{SK372}> इत्यादौ आदेः परस्य इत्येतदपि परत्वादनेन बाध्यते ॥", "11056": "आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य अनचि च <{SK48}> इति द्वित्वनिषेधो न शङ्क्योऽनल्विधाविति तन्निषेधात् ॥", "11057": "अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिवद्भावे प्राप्ते ॥", "11058": "पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥", "11059": "द्वित्वनिमित्तेऽचिपरे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ॥", "11060": "प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥", "11061": "लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥", "11062": "प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते ॥", "11063": "लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतीभ्यः । कतीनाम् । कतिषु । अस्मद्युष्मत्षट्संज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः ॥", "11064": "अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् । (वार्तिकम्) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा । (वार्तिकम्) ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । साराङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मार्तण्डः । (वार्तिकम्) ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥", "11065": "अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात् ॥", "11066": "सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥", "11067": "पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥", "11068": "शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना ॥", "11069": "प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् । अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवम् ऌकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम् । नाज्झलौ <{SK13}> इति सावर्ण्यनिषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभिः इत्यत्र हो ढः <{SK324}> इति ढत्वं न भवति । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥", "11070": "तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात् । तेन अत् इत् उत् इत्यादयः षण्णां संज्ञा । ऋदिति द्वादशानाम् ॥", "11071": "अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् ॥ इति हल्संज्ञायाम् ॥ उपदेशेऽन्त्यं हलित्स्यात् ॥ उपदेश आद्योच्चारणम् ॥ ततः अण् अच् इत्यादिसंज्ञासिद्धौ ॥", "11072": "विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य । (वार्तिकम्) । (वार्तिकम्) ॥", "11073": "यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥", "11074": "वृद्धसंज्ञानि स्युः ॥", "11075": "एङ् यस्याचामादिर्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ् किम् । आहिच्छत्रः । कान्यकुब्जः । (वार्तिकम्) ॥ दैवदत्तः । देवदत्तीयः ॥", "12001": "गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥", "12002": "विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते ।{$ {!1290 ओलजी!} {!1291 ओलस्जी!} व्रीडायाम्$} । लजते । लेजे । लज्जते । ललज्जे ॥\tअथ परस्मैपदिनः ।{$ {!1292 ओव्रश्चू!} छेदने$} । ग्रहिज्या - <{SK2412}> । वृश्चति । वव्रश्च । वव्रश्चतुः । वव्रश्चिथ । वव्रष्ठ । लिट्यभ्यासस्य - <{SK2408}> इति संप्रसारणम् । रेफस्य ऋकारः । उरत् <{SK2244}> तस्य अचः परस्मिन् - <{SK50}> इति स्थानिवद्भावात् । न संप्रसारणे - <{SK363}> इति वस्योत्वं न । व्रश्चिता । व्रष्टा । व्रश्चिष्यति । व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत् । अव्राक्षीत् ।{$ {!1293 व्यच!} व्याजीकरणे$} । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् ॥ (वार्तिकम्) ॥ अनसीति पर्युदासेन कृन्मात्रविषयत्वात् ।{$ {!1294 उछि!} उञ्छे$} । उञ्छति ।{$ {!1295 उच्छी!} विवासे$} । उच्छति ।{$ {!1296 ऋच्छ!} गतीन्द्रियप्रलयमूर्तिभावेषु$} । ऋच्छत्यॄताम् <{SK2383}> इति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्छ । आनर्छतुः । ऋच्छिता ।{$ {!1297 मिच्छ!} उत्क्लेशे$} । उत्क्लेशः । पीडा । मिमिच्छा । अमिच्छीत् ।{$ {!1298 जर्ज!} {!1299 चर्च!} {!1300 झर्झ!} परिभाषणभर्त्सनयोः$} ।{$ {!1301 त्वच!} संवरणे$} । तत्वाच ।{$ {!1302 ऋच!} स्तुतौ$} । आनर्च ।{$ {!1303 उब्ज!} आर्जवे$} ।{$ {!1304 उज्झ!} उत्सर्गे$} ।{$ {!1305 लुभ!} विमोहने$} । विमोहनमाकुलीकरणम् । लुभति । लोभिता । लोब्धा । लोभिष्यति ।{$ {!1306 रिफ!} कत्थनयुद्धमनिन्दायहिंसादानेषु$} । रिफति । रिरेफ । रिहेत्येके । शिशुं न विप्रा मतिभी रिहन्ति ।{$ {!1307 तृप!} {!1308 तृम्फ!} तृप्तौ$} । आद्यः प्रथमान्तः । द्वितीयो द्वितायान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता ॥ स्पृशमृशेति सिज्विकल्पः पौषादिकस्यैव अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वात् अनिदिताम् - <{SK415}> इति नलोपे । (वार्तिकम्) ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृफ्यात् ।{$ {!1309 तुप!} {!1310 तुम्प!} {!1311 तुफ!} {!1312 तुम्फ!} हिंसायाम्$} । तुपति । तुम्पति । तुफति । तुम्फति ।{$ {!1313 दृप!} {!1314 दृम्फ!} उत्क्लेशे$} । प्रथमः प्रथमान्तः । द्वितायो द्वितायान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति ।{$ {!1315 ऋफ!} {!1316 ऋम्फ!} हिंसायाम्$} । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार ।{$ {!1317 गुफ!} {!1318 गुम्फ!} ग्रन्थे $}। गुफति । जुगोफ । गुम्फति । जुगुम्फ ।{$ {!1319 उभ!} {!1320 उम्भ!} पूरणे$} । उभति । उवोभ । उम्भति । उम्भांचकार ।{$ {!1321 शुभ!} {!1322 शुम्भ!} शोभार्थे$} । शुभति । शुम्भति ।{$ {!1323 दृभी!} ग्रन्थे$} । दृभति ।{$ {!1324 चृती!} हिंसाग्रन्थनयोः$} । चर्तिता । सेसिचि - <{SK2506}> इति वेट् । चर्तिष्यति । चर्त्स्यात् । अचर्तीत् ।{$ {!1325 विध!} विधाने$} । विधति । वेधिता ।{$ {!1326 जुड!} गतौ$} । तवर्गपञ्चमान्त इत्येके । जुडति । मरुतो जुनन्ति ।{$ {!1327 मृड!} सुखने$} । मडति । मर्डिता ।{$ {!1328 पृड!} च$} । पृडति ।{$ {!1329 पृण!} प्रीणने$} । पृणति । पपर्ण ।{$ {!1330 वृण!} च $}। वृणति ।{$ {!1331 मृण!} हिंसायाम्$} ।{$ {!1332 तुण!} कौटिल्ये$} । तुतोण ।{$ {!1333 पुण!} कर्मणि शुभे$} । पुणति ।{$ {!1334 मुण!} प्रतिज्ञाने$} ।{$ {!1335 कुण!} श्ब्दोपकरणयोः$} ।{$ {!1336 शुन!} गतौ$} ।{$ {!1337 द्रुण!} हिंसागतिकौटिल्येषु$} ।{$ {!1338 घुण!} {!1339 घूर्ण!} भ्रमणे$} ।{$ {!1340 षुर!} ऐश्वर्यदीप्त्योः$} । सुरति । सुषोर । आशिषि सूर्यात् ।{$ {!1341 कुर!} शब्दे$} । कुरति । कूर्यात् । अत्र न भकुर्छुरम् <{SK1629}> इति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः ।{$ {!1342 खुर!} छेदने$} ।{$ {!1343 मुर!} संवेष्टने$} ।{$ {!1344 क्षुर!} विलेखने$} ।{$ {!1345 घुर!} भीमार्थशब्दयोः$} ।{$ {!1346 पुर!} अग्रगमने$} ।{$ {!1347 वृहू!} उद्यमने$} । दन्त्योष्ठ्यादिः । पवर्गीयादिरित्यन्ये ।{$ {!1348 तृहू!} {!1349 स्तृहू!} {!1350 तृंहू!} हिंसार्थाः$} । तृहति । ततर्ह । स्तृहति । तस्तर्ह । स्तहिंता । स्तर्ढा । अतृंहीत् । अतार्ङ्गक्षीत् । अतार्ण्ढाम् ।{$ {!1351 इष!} इच्छायाम्$} । इषुगमि - <{SK2400}> इति छः । इच्छति । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् ।{$ {!1352 मिष!} स्पर्धायाम्$} । मिषति । मेषिता ।{$ {!1353 किल!} श्वैत्यक्रीडनयोः$} ।{$ {!1354 तिल!} स्नेहने$} ।{$ {!1355 चिल!} वसने$} ।{$ {!1356 चल!} विलसने$} ।{$ {!1357 इल!} स्वप्नक्षेपणयोः$} ।{$ {!1358 विल!} संवरणे$} । दन्त्योष्ठ्यादिः ।{$ {!1359 बिल!} भेदने$} । ओष्ठ्यादिः ।{$ {!1360 णिल!} गहने$} ।{$ {!1361 हिल!} भावकरणे$} ।{$ {!1362 शिल!} {!1363 षिल!} उञ्छे$} ।{$ {!1364 मिल!} श्लेषणे$} ।{$ {!1365 लिख!} अक्षरविन्यासे$} । लिलेख ।{$ {!1366 कुट!} कौटिल्ये$} । गाङ्कुटादिभ्यः - <{SK2461}> इति ङित्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता ।{$ {!1367 पुट!} संश्लेषणे$} ।{$ {!1368 कुच!} सङ्कोचने$} ।{$ {!1369 गुज!} शब्दे$} ।{$ {!1370 गुड!} रक्षायाम्$} ।{$ {!1371 डिप!} क्षेपे$} ।{$ {!1372 छुर!} छेदने$} । न भकुर्छुराम् <{SK1629}> इति न दीर्घः । छुर्यात् ।{$ {!1373 स्फुट!} विकसने$} । स्फुटति । पुस्फोट ।{$ {!1374 मुट!} आक्षेपमर्दनयोः$} ।{$ {!1375 त्रुट!} छेदने$} । वाभ्रास - <{SK2321}> इति श्यन्वा । त्रुट्यति । त्रुटति । तुत्रोट । त्रुडिता ।{$ {!1376 तुट!} कलहकर्मणि$} । तुटति । तुतोट । तुटिता ।{$ {!1377 चुट!} {!1378 छुट!} छेदने$} ।{$ {!1379 जुड!} बन्धने$} ।{$ {!1380 कड!} मदे$} ।{$ {!1381 लुट!} संश्लेषणे$} ।{$ {!1382 कृड!} घनत्वे$} । घनत्वं सान्द्रता । चकर्ड । कृडिता ।{$ {!1383 कुड!} बाल्ये$} ।{$ {!1384 पुड!} उत्सर्गे$} ।{$ {!1385 घुट!} प्रतिघाते$} ।{$ {!1386 तुड!} तोडने $}। तोडनं भेदः ।{$ {!1387 थुड!} {!1388 स्थुड!} संवरणे$} । थुडति । तुथोड । तुस्थोड । खुड छुड इत्येके ।{$ {!1389 स्फुर!} {!1390 स्फुल!} संचलने$} । स्फुर स्फुरणे । स्फुल संचलन इत्येके ॥", "12003": "इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुविता । ऊर्णविता । ऊर्णौतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥", "12004": "अपित्सार्वधातुकं ङिद्वत्स्यात् ॥", "12005": "असंयोगात्परोऽपिल्लिट्कित्स्यात् । क्ङिति च <{SK2217}> इति निषेधात् सार्वधातुकार्धातुकयोः <{SK2168}> इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥", "12006": "आभ्यां परोऽपिल्लिट् कित् स्यात् । समीधे दस्युहन्तमम् (समी॑धे दस्यु॒हन्त॑मम्) । पुत्र ईधे अथर्वणः (पु॒त्र ई॑धे॒ अथ॑र्वणः) । बभूव । इदं प्रत्याख्यातम् । । (वार्तिकम्) ॥", "12007": "एभ्यः सेट् क्त्वा कित् । मृडित्वा ।क्लिशः क्त्वा <{SK3049}> इति वेट् । क्लिशित्वा । क्लिष्ट्वा । उदित्वा । उषित्वा । रुदविद-<{SK2609}> इति कित्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥", "12008": "एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ॥", "12009": "इगन्ताज्झलादिः सन् कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावात् मीनातिमिनोति - <{SK2508}> इत्यात्वं न । अत एव सनि मीमा - <{SK2623}> इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ॥", "12010": "इक्समीपाद्धलः परो झलादि सन् कित्स्यात् । गुहू । जुघुक्षति । बिभित्सति । इकः किम् । यियक्षते । झल्किम् । विवर्धिषते । हल्ग्रहणं जातिपरम् । तृन्हू । तितृक्षति । तितृंहिषति ॥", "12011": "इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि । झलौ झलि-<{SK2281}> इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टिपे । तिष्टेपाते । तिष्टेपिरे ॥ तेपृ कम्पने च ।{$ {!366 ग्लेपृ!} दैन्ये$} । ग्लेपते ।{$ {!367 टुवेपृ!} कम्पने$} । वेपते ।{$ {!368 केपृ!} {!369 गेपृ!} {!370 ग्लेपृ!} च$} । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः ।{$ {!371 मेपृ!} {!372 रेपृ!} {!373 लेपृ!} गतौ$} ।{$ {!374 त्रपूष्!} लज्जायाम्$} । त्रपते ॥", "12012": "ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ । कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ॥", "12013": "गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्टा - संगंसीष्ट । समगत - समगंस्त । समृच्छिष्यते । अकर्मकाभ्यां किम् ? ग्रामं संगच्छति । (वार्तिकम्) ॥ वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ॥", "12014": "कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥", "12015": "सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥", "12016": "यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ॥", "12017": "अनयोरिदादेशः स्यात् सिच्च कित्स्यात्तङि । अदित । अदिथाः । अदिषि ।{$ {!963 श्यैङ्!} गतौ$} । श्यायते । शश्ये ।{$ {!964 प्यैङ्!} वृद्धौ$} । प्यायते । पप्ये । प्याता ।{$ {!965 त्रैङ्!} पालने$} । त्रायते । तत्रे ।{$ {!966 पूङ्!} पवने$} । पवते । पुपुवे । पविता ।{$ {!967 मूङ्!} बन्धने$} । मवते ।{$ {!968 डीङ्!} विहायसा गतौ $}। डयते । डयिता ।{$ {!969 तॄ!} प्लवनतरणयोः$} ॥", "12018": "सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥", "12019": "एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थः । शेश्यितः । शेश्यितवान् । (वार्तिकम्) ॥", "12020": "सेण्निष्ठाकिन्न स्यात् । मर्षितः । मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः ॥", "12021": "उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्युतितः । प्रद्योतितः । प्रमुदितः । प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट्किम् । क्रुष्टम् । (वार्तिकम्) ॥ नेह । गुध्यतेर्गुधितम् ॥", "12022": "पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधात् - <{SK3324}> इत्यत्र हि क्त्वैव संबध्यते ॥", "12023": "सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥", "12024": "सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥", "12025": "एभ्यः सेट् क्त्वा किद्वा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । रलो व्युपधात्-<{SK2617}> इति वा कित्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् । सेवित्वा । व्युपधात्किम् । वर्तित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा । वसतिक्षुधोरिट्-<{SK3046}> । उषित्वा । क्षुधित्वा । क्षोधित्वा । अञ्चेः पूजायाम् <{SK3047}> इति नित्यमिट् । अञ्चित्वा । गतौ तु । अक्त्वेत्यपि । लुभित्वा । लोभित्वा । लुभोऽविमोहने-<{SK3048}> इतीट् । विमोहने तु लुब्ध्वा ॥", "12026": "उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतिस्वाप्योः संप्रसारणम् <{SK2344}> । दिद्युतिषते । दिद्योतिषते । रुरुचिषते । रुरोचिषते । लिलिखिषति । रलः किम् । दिदेविषति । व्युपधात्किम् । विवर्तिषते । हलादेः किम् । एषिषिषति । इह नित्यमपि द्वित्वं गुणेन बाध्यते । उपधाकार्यं हि द्वित्वात्प्रबलम् । ओणेर्ऋदित्करणस्य सामान्यापेक्षाज्ञापकत्वत् ॥", "12027": "उश्च ऊश्च उ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥", "12028": "ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राच इति षष्ठ्यन्तं पदमुपतिष्ठते ॥", "12029": "ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥", "12030": "स्पष्टम् ॥ अ॒र्वाङ् ॥", "12031": "उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः स्यात् ॥", "12032": "ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । क्व१ वोऽश्वाः । रथानां न ये२राः ॥ श॒तच॑क्रं॒ यो॒॑3 ह्यः ॥ इत्यादिष्वनुदात्तः ॥ अ॒ग्निमी॑ळे इत्यादावुदात्तश्रुतिः ॥ स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥", "12033": "दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्यापवादः । आगच्छ भो माणवक ॥", "12034": "यज्ञक्रियायां मन्त्र एकश्रुतिः स्याज्जपादीन्वर्जयित्वा । अग्निर्मूधा (अ॒ग्निर्मू॒र्धा) । दिवः ककुत् (दि॒वः क॒कुत्) । यज्ञेति किम् । स्वनाध्यायकाले त्रैस्वर्यमेव । अजपेति किम् । ममाग्ने वर्चो विहवेष्वस्तु (ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु) । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश ओकाराः । गीतिषु सामाख्या ॥", "12035": "यज्ञकर्मणि वौषट्शब्द उच्चैसत्रां वा स्यादेकश्रुतिर्वा ॥", "12036": "छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृचानाम् । अन्येषामपि यथासंप्रदायं व्यवस्था ॥", "12037": "सुब्रह्मण्याख्ये निगदे यज्ञकर्मणि <{SK3663}> इति विभाषा छन्दसि <{SK3635}> इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो3म् ॥ (सुब्रह्मणि साधुरिति यत् । न च एकादेश उदात्तोनोदात्तः <{SK3658}> इति सिद्धे पुनरत्रेमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः ॥ (वार्तिकम्) ॥ तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गार्ग्यो यजते । ञित्त्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते । (वार्तिकम्) । (वार्तिकम्) ॥ चादन्तस्येन द्वावुदात्तौ । गार्ग्यस्य पिता यजते । (वार्तिकम्) ॥ स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते ॥", "12038": "अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवाब्रह्माण आगच्छत ॥", "12039": "स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुति स्यात् । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) ॥", "12040": "उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यादात्ततरः स्यात् । सरस्वति शुतुद्रि (सरस्वति॒ शुतु॑द्रि) । व्यचक्षयत्स्वः (व्य॑चक्षय॒त्स्वः॑) । तस्य परमाम्रेडितम् <{SK83}> ॥", "12041": "एकाऽल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥", "12042": "", "12043": "समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥", "12044": "विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः ॥", "12045": "धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥", "12046": "कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥", "12047": "क्लीबे प्रातिपदिकस्याऽजन्तस्य ह्रस्वः स्यात् । श्रीपम् । ज्ञानवत् । श्रीपाय । अत्र संनिपातपरिभाषया आतो धातोः <{SK240}> इत्याकारलोपो न ॥", "12048": "उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अव्ययीभावश्च <{SK451}> इत्यव्ययत्वम् ॥", "12049": "तद्धितलुकिसत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ॥ (वार्तिकम्) ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां लुक्तद्धितलुकि <{SK1408}> इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् । (वार्तिकम्) ॥ स्त्रियामित्येव । फल्गुनी । अषाढा । (वार्तिकम्) ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥", "12050": "गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥", "12051": "लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः ॥", "12052": "लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः । (वार्तिकम्) ॥ हरीतक्याः फलानि हरीतक्यः ॥ (वार्तिकम्) ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि । (वार्तिकम्) ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न, लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥", "12053": "युक्तवद्वचनं न कर्तव्यं संज्ञानां प्रमाणत्वात् ॥", "12054": "लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ॥", "12055": "यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥", "12056": "प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः, अर्थस्य लोकत एव सिद्धेः ॥", "12057": "अतीताया रात्रेः पश्चार्धेनागामिन्याः । पूर्वार्धेन य सहितोदिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादिपूर्वाचार्यैः परिभाषितं तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः ॥", "12058": "एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥", "12059": "एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूवः इति वा । (वार्तिकम्) ॥ पटुरहं ब्रवीमि ॥", "12060": "द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः ॥ पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः ॥ नक्षत्रे किम् । फल्गुन्यौ माणविके ॥", "12061": "द्वयोरेकवचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ॥", "12062": "प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥", "12063": "बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम् । विशाखानूराधाः । नक्षत्रेति किम् । तिष्यपुनर्वसवो माणवकाः ॥", "12064": "एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते । प्रथमयोः पूर्वसवर्णः <{SK164}> । नादिचि <{SK165}> वृद्धिरेचि <{SK72}> । रामौ ॥", "12065": "यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्यमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वृद्धः किम् । गर्गगार्ग्यायणौ । यूना किम् । गर्गगार्ग्यौ । तल्लक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गार्गवात्स्यायनौ ॥", "12066": "यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने यञञोश्च <{SK1108}> इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥", "12067": "स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ॥", "12068": "भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥", "12069": "अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ॥", "12070": "मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥", "12071": "श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वाशुरश्च श्वाशुरौ । श्वश्रूश्वाशुरौ वा ॥", "12072": "सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते ॥ स च देवदत्तश्च तौ । (वार्तिकम्) ॥ स च यश्च यौ । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । स च यश्च तौ । (वार्तिकम्) ॥ सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते । (वार्तिकम्) ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥", "12073": "एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रिया <{SK933}> इत्यस्यापवादः । गाव इमाः । ग्राम्येति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणाः । सङ्घेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे । (वार्तिकम्) ॥ अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद् द्वन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थान इत्यादौ समासान्तो न ॥", "13001": "क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥", "13002": "उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते ॥", "13003": "हल् (माहेश्वरसूत्रम् 14) इति सूत्रेऽन्त्यमित्स्यात् ॥", "13004": "विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्त्वम् ॥", "13005": "उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वान्नलोपो न । नन्द्यात् ।{$ {!68 चदि!} आह्लादे$} । चचन्द ।{$ {!69 त्रदि!} चेष्टायाम्$} । तत्रन्द ।{$ {!70 कदि!} {!71 क्रदि!} {!72 क्लदि!} आह्वाने रोदने च$} । चकन्द । चक्रन्द । चक्लन्द ।{$ {!73 क्लिदि!} परिदेवने$} । चिक्लिन्द ।{$ {!74 शुन्ध!} शुद्धौ$} । शुशुन्ध । नलोपः । शुध्यात् ॥\tअथ कवर्गीयान्ता अनुदात्तेतो द्विचात्वारिंशत् ॥{$ {!75 शीकृ!} सेचने $}। तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके ।{$ {!76 लोकृ!} दर्शने$} । लोकते । लुलोके ।{$ {!77 श्लोकृ!} संघाते$} । संघातो ग्रन्थः । स चेह ग्रथ्यमानस्य व्यापारो ग्रथितुर्वा । आद्ये अकर्मको द्वितीये सकर्मकः । श्लोकते ।{$ {!78 द्रेकृ!} {!79 ध्रेकृ!} शब्दोत्साहयोः$} । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके । दिध्रेके ।{$ {!80 रेकृ!} शङ्कायाम्$} । रेकते ।{$ {!81 सेकृ!} {!82 स्रेकृ!} {!83 स्रकि!} {!84 श्रकि!} {!85 श्लकि!} गतौ$} । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः । सिसेके ।{$ {!86 शकि!} शङ्कायाम्$} । शङ्कते । शशङ्के ।{$ {!87 अकि!} लक्षणे$} । अङ्कते । आनङ्के ।{$ {!88 वकि!} कौटिल्ये$} । वङ्कते ।{$ {!89 मकि!} मण्डने$} । मङ्कते ।{$ {!90 कक!} लौल्ये लौल्यं गर्वश्चापल्यं च$} । ककते । चकके ।{$ {!91 कुक!} {!92 वृक!} आदाने$} । कोकते । चुकुके । वर्कते । ववृके । (वार्तिकम्) ॥{$ {!93 चक!} तृप्तौ प्रतीघाते च$} । चकते । चेके ।{$ {!94 ककि!} {!95 वकि!} {!96 श्वकि!} {!97 त्रकि!} {!98 ढौकृ!} {!99 त्रौकृ!} {!100 ष्वष्क!} {!101 वस्क!} {!102 मस्क!} {!103 टिकृ!} {!104 टीकृ!} {!105 तिकृ!} {!106 तीकृ!} {!107 रघि!} {!108 लघि!} गत्यर्थाः$} । कङ्कते । डुढौके । तुत्रौके । (वार्तिकम्) ॥ ष्वष्कते । षष्वष्के । अत्र तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि ।{$ {!109 अघि!} {!110 वघि!} {!111 मघि!} गत्याक्षेपे$} । आक्षेपो निन्दा । गतौ गत्यारम्भे चेत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । मघि कैतवे च ।{$ {!112 राघृ!} {!113 लाघृ!} {!114 द्राघृ!} सामर्थ्ये $}। राघते । लाघते । ध्राघृ इत्यपि केचित् । द्राघृ आयामे च । आयामो दैर्घ्यम् । द्राघते ।{$ {!115 श्लाघृ!} कत्थने$} । श्लाघते ॥\tअथ परस्मैपदिनः पञ्चाशत् ॥{$ {!116 फक्क!} नीचैर्गतौ$} । नीचैर्गतिः मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क ।{$ {!117 तक!} हसने $}। तकति ।{$ {!118 तकि!} कृच्छ्रजीवने$} । तङ्कति ।{$ {!119 बुक्क!} भषणे$} । भषणं श्वरवः । बुक्कति ।{$ {!120 कख!} हसने$} । प्रनिकखति ।{$ {!121 ओखृ!} {!122 राखृ!} {!123 लाखृ!} {!124 द्राखृ!} {!125 ध्राखृ!} शोषणालमर्थयोः$} । ओखति । ओखांचकार ।{$ {!126 शाखृ!} {!127 श्लाखृ!} व्याप्तौ $}। शाखति ।{$ {!128 उख!} {!129 उखि!} {!130 वख!} {!131 वखि!} {!132 मख!} {!133 मखि!} {!134 णख!} {!135 णखि!} {!136 रख!} {!137 रखि!} {!138 लख!} {!139 लखि!} {!140 इख!} {!141 इखि!} {!142 ईखि!} {!143 वल्ग!} {!144 रगि!} {!145 लगि!} {!146 अगि!} {!147 वगि!} {!148 मगि!} {!149 तगि!} {!150 त्वगि!} {!151 श्रगि!} {!152 श्लगि!} {!153 इगि!} {!154 रिगि!} {!155 लिगि!} गत्यर्थाः$} । द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥", "13006": "प्रत्ययस्यादिः ष इत्स्यात् ॥", "13007": "प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ॥", "13008": "तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥", "13009": "तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ॥", "13010": "समसम्बन्धी विधिर्यथासङ्ख्यं स्यात् । कियूँह्यः । किंह्यः । किब्ँह्वलयति । किंह्वलयति । किल्ँह्लादयति । किंह्लादयति ॥", "13011": "स्वरितत्वयुक्तं शब्दस्वरुपमधिकृतं बोध्यम् ॥ [(परिभाषा - ) परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः] ॥ [(परिभाषा - ) असिद्धं बहिरङ्गमन्तरङ्गे] ॥ [(परिभाषा - ) अकृतव्यूहाः पाणिनीयाः] ॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥", "13012": "अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥", "13013": "बभूवे । अनुबभूवे ॥", "13014": "क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥ श्नसोरल्लोपः-<{SK2469}> । व्यतिस्ते । व्यतिषाते । व्यतिषते । तासस्त्योः -<{SK2191}> इति सलोपः । व्यतिसे । धि च -<{SK2241}> । व्यतिध्वे । ह एति -<{SK2250}> । व्यतिहे । व्यत्यसै । व्यतिषीत् । व्यत्यास्त । व्यतिराते । व्यतिराते । व्यतिराते । व्यतिभाते । व्यतिभाते । व्यतिभाते । व्यतिबभे ॥", "13015": "व्यतिगच्छन्ति । व्यतिघ्नन्ति । (वार्तिकम्) ॥ हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति ॥ (वार्तिकम्) ॥ संप्रहरन्ते राजानः ॥", "13016": "। (वार्तिकम्) ॥ इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥", "13017": "निविशते ॥", "13018": "अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते - विक्रीणीते - अवक्रीणीते ॥", "13019": "विजयते । पराजयते ॥", "13020": "आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेदं स्यात् । विद्यमादत्ते । अनास्येति किम् ? मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति । (वार्तिकम्) ॥ व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥", "13021": "चादाङः । अनुक्रीडते संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेन समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । तृतीयार्थे -<{SK549}> इत्यनोः कर्मप्रवचनीयत्वम् । (वार्तिकम्) ॥ संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥ (वार्तिकम्) ॥ ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः । (वार्तिकम्) ॥ धनुषि शिक्षते ॥ धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः । (वार्तिकम्) ॥ आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्त इत्यर्थः । कथं नाथसे किमु पतिं न भूभृतामिति । नाधसे इति पाठ्यम् । (वार्तिकम्) ॥ गतं प्रकारः । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम् ? मातुरनुहरति । (वार्तिकम्) ॥ हर्षादयो विषयाः ॥ तत्र हर्षो विक्षेपस्य कारणम् । इतरे फले ॥", "13022": "सन्तिष्ठते । स्थाघ्वोरिच्च -<{SK2389}> । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते । (वार्तिकम्) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥", "13023": "गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ॥", "13024": "मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? पीठादुत्तिष्ठति । (वार्तिकम्) ॥ नेह । ग्राच्छतमुत्तिष्ठति ॥", "13025": "आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् ? भर्तारमुपतिष्ठति यौवनेन । (वार्तिकम्) ॥ आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरूपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः । (वार्तिकम्) ॥ भिक्षुकः प्रभुमुपतिष्ठते - उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ॥", "13026": "उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥", "13027": "अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः । (वार्तिकम्) ॥ स्वमङ्गं स्वाङ्गं न तु अद्रवम्- इति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चेत्रौ मैत्रस्य पाणिमुत्तपति । सन्तापयीत्यर्थः ॥", "13028": "आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह परस्य शिर आहन्ति । कथं तर्हि आजघ्ने विषमविलोचनस्य वक्षः इति भारविः ॥ आहध्वं मा रघूत्तममिति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा ॥", "13029": "अकर्मकाभ्याम् इत्येव । संगच्छते ॥", "13030": "निह्वयते ॥", "13031": "कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ॥", "13032": "गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । भर्त्सयतीत्यर्थः । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥", "13033": "प्रसहनं क्षमाऽभिभवश्च । षह मर्षणेऽभिभवे चेति पाठात् । शत्रुमधिकुरुते । क्षमत इत्यर्थः । अभिभवतीति वा ॥", "13034": "स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ॥", "13035": "वेः कृञ इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ॥", "13036": "अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयनते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्तं इत्यर्थः ॥", "13037": "नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तिप्रसादस्य कर्तृगत्वात् स्वरितञित <{SK2158}> इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ॥", "13038": "वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ॥", "13039": "वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ॥", "13040": "आक्रमते सूर्यः । उदयत इत्यर्थः । (वार्तिकम्) ॥ नेह । आक्रामति धूमो हर्म्यतलात् ॥", "13041": "साधु विक्रमते वाजी । पादविहरणे किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥", "13042": "समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ॥", "13043": "क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥", "13044": "शतमपजीनीते । अपलपतीत्यर्थः ॥", "13045": "सर्पिषो जानीते । सर्पिषो उपायेन प्रवर्तते इत्यर्थः ॥", "13046": "शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्यान इति योगो विभजते । तत्सामर्थ्यात् अकर्मकाच्च <{SK2718}> इति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ॥", "13047": "उपसंभाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे । वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयत इत्यर्थः ॥", "13048": "मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह । संप्रवदन्ति खगाः ॥", "13049": "व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तावाचां किम् । अनुवदति । वीणा ॥", "13050": "विरूद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः ॥", "13051": "अवगिरते । कृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ॥", "13052": "शब्दं नित्यं संगिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् । संगिरति ग्रासम् ॥", "13053": "धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ॥", "13054": "रथेन संचरते ॥", "13055": "संपूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे सम इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ॥", "13056": "स्वकरणं स्वीकारः । भार्यामुपयच्छते ॥", "13057": "सन्नन्तानामेषां प्राग्वत् । धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ॥", "13058": "पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । [(परिभाषा - ) अनन्तरस्य] इति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । पूर्ववत्सनः <{SK2734}> इति तङ् । अकर्मकाच्च <{SK2718}> इति केवलाद्विधानात् ॥", "13059": "आभ्यां सन्नन्ताच्छ्रुव उक्तं स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रर्वचनीयात्स्यादेव । देवदत्तं प्रतिशुश्रूषते । शदेः शितः <{SK2362}> म्रियतेर्लुङलिङोश्च <{SK2538}> व्याख्यातम् ॥", "13060": "शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् ।{$ {!856 क्रुश!} आह्वाने रोदने च$} । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् ।{$ {!857 कुच!} संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु$} । कोचति । चुकोच ।{$ {!858 बुध!} अवगमने$} । बोधति । बोधिता । बोधिष्यति ।{$ {!859 रुह!} बीजजन्मनि प्रादुर्भावे च$} । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् ।{$ {!860 कस!} गतौ$} । अकासीत् । अकसीत् ॥ 7 ॥ वृत् । ग्वलादिगणः समाप्तः ॥\tअथ गूहत्यन्ताः स्वरितेतः ।{$ {!861 हिक्क!} अव्यक्ते शब्दे$} । हिक्कति । हिक्कते ।{$ {!862 अञ्चु!} गतौ याचने च$} । अञ्चिति । अञ्चते । अचु इत्येके । अचि इत्यपरे ।{$ {!863 टुयाचृ!} याचनायाम्$} । याचति । याचते ।{$ {!864 रेटृ!} परिभाषणे$} । रेटति । रेटते ।{$ {!865 चते!} {!866 चदे!} याचने$} । चचात । चेते । अञ्चातीत् । चचाद । चेदे । अचदीत् ।{$ {!867 प्रोथृ!} पर्याप्तौ $}। पुप्रोथ । पुप्रोथे ।{$ {!868 मिदृ!} {!869 मेदृ!} मेधाहिंसनयोः $}। मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति स्वामी । मिमेथ । धान्ताविति न्यासः ।{$ {!870 मेधृ!} सङ्गमे च$} । मेधति । मिमेध ।{$ {!871 णिदृ!} {!872 णेदृ!} कुत्सासन्निकर्षयोः$} । निनेद । निनिदतुः । निनिद । निनेदे ।{$ {!873 शृधु!} {!874 मृधु!} उन्दने$} । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते ।{$ {!875 बुधिर्!} बोधने$} । बोधति । बोधेते । इरित्वादाङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजन-<{SK2328}> इति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् ।{$ {!876 उबुन्दिर्!} निशामने$} । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् ।{$ {!877 वेणृ!} गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु$} । वेणति । वेणते । नान्तोप्ययम् ।{$ {!878 खनु!} अवदारणे$} । खनति । खनते ॥", "13061": "लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं स्वरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत ॥\tअथ परस्मैपदिनः सप्त ॥{$ {!1404 रि!} {!1405 पि!} गतौ$} । अन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता ।{$ {!1406 धि!} धारणे$} ।{$ {!1407 क्षि!} निवासगत्योः$} ।{$ {!1408 षू!} प्रेरणे$} । सुवति । सविता ।{$ {!1409 कॄ!} विक्षेपे$} । किरति । किरतः । चकार । चकरतुः । करिता । करीता । कीर्यात । अकारीत् ॥", "13062": "सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः <{SK2362}> <{SK2528}> इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य <{SK2240}> एधांचक्रे ॥", "13063": "आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् ॥ इह पूर्ववदित्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ॥", "13064": "प्रयुङ्क्ते । उपयुङ्क्ते । (वार्तिकम्) ॥ उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वंन्यञ्चि पात्राणि प्रयुनक्ति ॥", "13065": "संक्ष्णुते शस्त्रम् ॥", "13066": "ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ॥", "13067": "ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेत् ण्यन्तेनोच्येत अणौ यत्कर्मकारकं स चेण्णौकर्ता स्यान्नत्वनाध्याने । णिचश्च <{SK2564}> इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु विभाषोपपदेन <{SK2744}> इति विकल्पे अणावकर्मकात् <{SK2754}>ति परस्मैपदेच परत्वात्प्राप्ते पूर्वविप्रतिषेधेनेदमेवेष्यते । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथा हि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञाविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे । पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमण्णिच् । दर्शयन्ति भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्तयोर्द्वितीयचतुर्थ्योस्च तुल्योऽर्थः । तत्र तृतीयाकक्षायां न तङ् । क्रियासाम्येऽप्यणौ कर्मकारकस्य णौ कर्तुत्वाभावात् । चतुर्थ्यां तु तङ् । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च । एमारोहयते हस्तीत्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् । आरोहन्तीत्यर्थः । तत आरोहयते । न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्षा प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाण्णिच् । दर्शयति भवः । आरोहयति हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोरपि प्रेषणयोस्त्यागे । दर्शयते आरोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षेद्वितीयकक्षायां न तङ् । समानक्रियत्वाभावाण्णिजर्थस्याधिक्यात् । अनाध्याने किम् । स्मरति वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । भीस्म्योर्हेतुभये <{SK2594}> व्याख्यातम् ॥", "13068": "ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥", "13069": "प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । लियः संमाननशालिनीकरणयोश्च <{SK2592}> व्याख्यातम् ॥", "13070": "लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यारदकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वार्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥", "13071": "णेरित्येव । पदं मिथ्या कारयते । स्वरादिदुष्टमसकृदुच्चारयीत्यर्थः । मिथ्योपपदात्किम् । पदं सुष्ठु कारयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति । स्वरितञितः कर्त्रभिप्राये क्रियाफले <{SK2158}> । यजते । सुनुते । कर्त्रभिप्राये किम् । ऋत्विजो यजन्ति । सुन्वन्ति ॥", "13072": "स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥", "13073": "न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । णिचश्च <{SK2564}> कारयते ॥", "13074": "णिजन्तादात्मनेपदं स्यात् कर्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रि - <{SK2312}> इति चङ् । णौ चङि - <{SK2314}> इति ह्रस्वः । द्वित्वम् । हलादिः शेषः <{SK2179}> । दीर्घो लघोः <{SK2318}> इत्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत ।{$ {!1535 चिति!} स्मृत्याम्$} । चिन्तयति । अचिचिन्तत् । चिन्तेति । पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् । चिन्त्यते इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । अत एकहल् - <{SK2260}> इत्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतत्वात् विशेषापेक्षमित्यपरे । अत एव (गणसूत्रम् -) आधृषाद्वा इत्यस्य न वैयर्थ्यम् ।{$ {!1536 यत्रि!} संकोचे$} । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रितत्रिमत्रिषु ।{$ {!1537 स्फुडि!} परिहासे$} । स्फुण्डयति । इदित्करणात् । स्फुण्डति । स्फुटीति पाठान्तरम् । स्फुण्टयति ।{$ {!1538 लक्ष!} दर्शनाङ्कनयोः$} ।{$ {!1539 कुद्रि!} अनृतभाषणे$} । कुन्द्रयति ।{$ {!1540 लड!} उपसेवायाम्$} । लाडयति ।{$ {!1541 मिदि!} स्नेहने$} । मिन्दयति । मिन्दति ।{$ {!1542 ओलडि!} उत्क्षेपणे$} । ओलण्डयति । ओलण्डति । ओकार इदित्येके । लण्डयति । लण्डति । उकारादिरयमित्यन्ये । उलण्डयति ।{$ {!1543 जल!} अपवारणे$} । लज इत्येके ।{$ {!1544 पीड!} अवगाहने$} । पीडयति ॥", "13075": "अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ॥", "13076": "गां जानीते । अनुपसर्गात्किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोनुडजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरणामः ॥", "13077": "स्वरितञित <{SK2158}> इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । स्वं यज्ञं यजति यजते वा । स्वं कटं करोति कुरुते वा । स्वं पुत्रमपवदति अपवदते वा । स्वं यज्ञं कारयति कारयते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वां गां जानाति जानीते वा ॥", "13078": "आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥", "13079": "कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणा <{SK2766}> इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् <{SK2167}> इत्यतः शेषात् <{SK2159}> इत्यतश्च कर्तृग्रहणद्वयमुवर्त्य कर्तैव यः कर्ता नतु कर्मकर्ता तत्रेति व्याख्येयम् ॥", "13080": "क्षिपप्रेरणे । स्वरितेत् । अभिक्षिपति ॥", "13081": "प्रवहति ॥", "13082": "परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥", "13083": "विरमति ॥", "13084": "यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥", "13085": "उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥", "13086": "एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्च <{SK2564}> इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥", "13087": "निगारयति । आशयति । भोजयति । चलयति । कम्पयति । (वार्तिकम्) ॥ आदयते देवदत्तेन । गतिबुद्धि <{SK540}> इति कर्मत्वम् ॥ (वार्तिकम्) ॥ निगरणचलन <{SK2753}> इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषात् <{SK2159}> इत्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥", "13088": "ण्यान्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ॥", "13089": "एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते । (वार्तिकम्) ॥ धापयेते शिशुमेकं समीची । अकर्त्रभिप्राये शेषात् <{SK2159}> इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । भिक्षां वासयति । वा क्यषः <{SK2669}> । लोहितायति । लोहितायते । द्युद्भ्यो लुङि <{SK2345}> अद्युतत् । अद्योतिष्ट । वृद्भ्यः स्यसनोः <{SK2347}> । वर्त्सयति । वर्तिष्यते । विवृत्सति । विवर्तिषते । लुटि च कॢपः <{SK2341}> कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । चिकॢप्सति । चिकल्पिषते । चिकॢप्सते ॥ समाप्ता पदव्यवस्था ॥", "13090": "क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति लोहितायते । अत्राच्वेरित्यनुवृत्त्याऽभूततद्भावविषयत्वं लब्धम् । तच्च लोहितशब्दस्यैव विशेषणं न तु डाचोऽसंभवात् । नाप्यादिशब्दग्राह्याणाम् । तस्य प्रत्याख्यानात् । तथा च वार्तिकम् । (वार्तिकम्) ॥ न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते । कृभ्वस्तियोगं विनापीह डाच् । डाजन्तात् क्यषो विधानसामर्थ्यात् । यत्तुलोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्च्छानिद्राकृपाधूमाः करुणा नित्यचर्मणी ॥ 1 ॥ इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति । लोहिनीयते ॥", "13091": "द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट ।{$ {!742 श्विता!} वर्णे$} । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट ।{$ {!743 ञिमिदा!} स्नेहने$} । मेदते ॥", "13092": "वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥", "13093": "लुटि स्यसनोश्च कॢपेः परस्मैपदं वा स्यात् ॥", "14001": "इत ऊर्ध्वं कडाराः कर्मधारये इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च । तेन शसादावचि भसंज्ञैव न पदत्वम् । अतो जश्त्वं न । दतः । दता । जश्त्वम् । दद्भ्यामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि ॥", "14002": "तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धम् <{SK12}> इति रोरि <{SK173}> इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥", "14003": "ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । (वार्तिकम्) ॥ पूर्व स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥", "14004": "इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो नतु स्त्री । हे श्रीः । श्रिये । श्रियै । श्रियाः । श्रियः ॥", "14005": "इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् ॥ प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥", "14006": "इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । आण् नद्याः <{SK268}> । मत्यै । मतये । मत्याः । मत्याः । मतेः । मतेः । नदीत्वपक्षे औदिति ङेरौत्त्वे प्राप्ते ॥", "14007": "अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञं स्यात् । शेषः किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थमिति तत्वम् । ह्रस्वौ किम् । वातप्रम्ये । इदुतौ किम् । मात्रे ॥", "14008": "पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या । पत्ये । पत्युः । पत्युः । पत्यौ । शेषं हरिवत् । समासे तु भूपतिना । भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥", "14009": "षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् (क्षेत्र॑स्य पति॑ना व॒यम्) । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । सर्वे विधयश्छन्दसि वैकल्पिकाः । तेन बहुलं छन्दसि - <{SK3401}> इत्यादिरस्यैव प्रपज्ञः । यचि भम् <{SK231}> ॥ (वार्तिकम्) ॥ नभसा । तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः अङ्गिरस्वदङ्गिरः (अ॒ङ्गि॒र॒स्वद॑ङ्गिरः) । मनुष्वदग्ने (म॒नु॒ष्वद॑ग्ने) । जनेरुसिः <{उ272}> इति विहित उसिप्रत्ययो मनेरपि बाहुलकात् । (वार्तिकम्) ॥ वृषन् वर्षुकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्य <{SK198}> इति णत्वनिषेधोऽपि न । अल्लोपोनः <{SK234}> इत्यल्लोपो न । अनङ्गत्वात् ॥", "14010": "", "14011": "संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥", "14012": "दीर्घं च गुरुसंज्ञं स्यात् ॥", "14013": "यः प्रत्ययो यस्मात्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । भवामि भविष्यामीत्यादौ विकरणविशिष्यस्याऽङ्गसंज्ञार्थं तदादिग्रहणम् । विधिरिति किम् । स्त्री इयती । प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा माभूत् ॥", "14014": "सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥", "14015": "क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च <{SK1373}> । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च <{SK354}> । गीर्यति । पूर्यति । धातोरित्येव । नेह । दिवमिच्छति । दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङृतः <{SK1234}> । कर्त्रीयति । क्यच्व्योश्च <{SK2119}> । गार्गीयति । वाच्यति । अकृत्सार्व - <{SK2298}> इति दीर्घः । कवीयति । समिध्यति ॥", "14016": "सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥", "14017": "कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदसंज्ञं स्यात् ॥", "14018": "यकारादिष्वजादिषु च कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् ॥", "14019": "तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् <{SK435}> । विदुष्मान् । (वार्तिकम्) ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥", "14020": "एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥ (वार्तिकम्) ॥ स सुष्टुभा स ऋक्वता गणेन (स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑) । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु (नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु) । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः <{SK2230}> ॥", "14021": "बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । रामः ॥", "14022": "द्वित्वैकत्वयोरेते स्तः ॥", "14023": "इत्यधिकृत्य ॥", "14024": "अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥", "14025": "भयार्थानां त्राणार्थानां च प्रयोगे हेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्त्रायते । भयहेतुः किम् ? अरण्ये बिभेति त्रायते वा ॥", "14026": "पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । सोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः ॥", "14027": "प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ॥", "14028": "व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥", "14029": "नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति ॥", "14030": "जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥", "14031": "भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः ॥ (वार्तिकम्) ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः ॥ (वार्तिकम्) ॥ कस्मात्त्वं नद्याः ॥ (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) ॥ वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥", "14032": "दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ॥", "14033": "रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कर्त्री । प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि ॥", "14034": "एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा । ज्ञीप्स्यमानः किम् ? देवदत्ताय श्लाघते पथि ॥", "14035": "धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे ॥", "14036": "स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥", "14037": "क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति । असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥", "14038": "सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥", "14039": "एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥", "14040": "आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥", "14041": "आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ॥", "14042": "क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप् ग्रहणं किम् ? गङ्गायां घोषः ॥", "14043": "दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥", "14044": "नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः ॥ (वार्तिकम्) ॥ मुक्तये हरिं भजति ॥ (वार्तिकम्) ॥ भक्तिर्ज्ञानाय कल्पते सम्पद्यते जायत इत्यादि ॥ (वार्तिकम्) ॥ वाताय कपिला विद्युत् । (वार्तिकम्) ॥ ब्राह्मणाय हितम् ॥", "14045": "कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात् ॥", "14046": "अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥", "14047": "अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानम् <{SK580}> इति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनिवेशः ॥", "14048": "उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरि ॥ (वार्तिकम्) ॥ वने उपवसति ॥ \t ।उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु\tद्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते (वार्तिकम्) ॥उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥ (वार्तिकम्) ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । बुभुक्षितं न प्रतिभाति किञ्चित् ॥", "14049": "कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः न तु कर्तुः । तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥", "14050": "ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ॥", "14051": "अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ॥ दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥\t \tदुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं किम् ? माणवकस्य पितरं पन्थानं पृच्छति ॥ (वार्तिकम्) ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥", "14052": "गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ 1 ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ? गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः । (वार्तिकम्) ॥ नाययति वाहयति वा भारं भृत्येन ॥ (वार्तिकम्) ॥ वाहयति रथं वाहान् सूतः । (वार्तिकम्) ॥ आदयति खादयति वा अन्नं बटुना ॥ (वार्तिकम्) ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् ॥ (वार्तिकम्) ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः । (वार्तिकम्) ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ॥ (वार्तिकम्) ॥ शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥", "14053": "हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥ (वार्तिकम्) ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥", "14054": "क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥", "14055": "कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥", "14056": "इत्यधिकृत्य ॥", "14057": "अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥", "14058": "अद्रव्यार्थाः प्रादयस्तथा ॥", "14059": "", "14060": "प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः ॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः ॥", "14061": "एते क्रियायोगे गतिसंज्ञा स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । कारिकाशब्दस्योपसंख्यानम् ॥ कारिका क्रिया कारिकाकृत्य ॥", "14062": "खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥", "14063": "सत्कृत्य । असत्कृत्य ॥", "14064": "अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणम् - <{SK763}> इत्यादित्रिसूत्री स्वभावात्कृञ्विषया ॥", "14065": "अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥", "14066": "कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातऽभिलाषातिशये वर्तते । मनः शब्दोऽप्यत्रैव ॥", "14067": "पुरस्कृत्य ॥", "14068": "अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् ॥ अस्तंगत्य ॥", "14069": "अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥", "14070": "अदःकृत्य अदःकृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा ॥", "14071": "तिरोभूय ॥", "14072": "तिरस्कृत्य । तिर≍कृत्य । तिरः कृत्वा ॥", "14073": "एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्वाजेकृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ॥", "14074": "कृञि वा गतिसंज्ञानि स्युः । (वार्तिकम्) ॥ साक्षात्कृत्य । साक्षात्कृत्वा । लवणंकृत्य । लवणं कृत्वा । मान्तत्वं निपातनात् ॥", "14075": "उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥", "14076": "एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥", "14077": "कृञि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य ॥", "14078": "प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥", "14079": "जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि । (वार्तिकम्) ॥ प्रगत आचार्यः प्राचार्यः । (वार्तिकम्) ॥ अतिक्रान्तो मालामतिमालः । (वार्तिकम्) ॥ अवक्रुष्टः कोकिलया अवकोकिलः । (वार्तिकम्) ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः । (वार्तिकम्) ॥ निष्क्रान्तः कौशाम्ब्या निष्कशाम्बिः । (वार्तिकम्) ॥ वृक्षं प्रति ॥", "14080": "ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः ॥", "14081": "", "14082": "हरिभ्यां याह्योक आ (हरि॑भ्यां या॒ह्योक॒ आ) । आ मन्द्रैरिन्द्र हरिभिर्याहि(आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि) ॥", "14083": "इत्यधिकृत्य ॥", "14084": "लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥", "14085": "अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥", "14086": "हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥", "14087": "अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने उप हरिं सुराः ॥", "14088": "एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥", "14089": "आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥", "14090": "एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति, पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने, भक्तो विष्णुं प्रति, पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति, पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां, वृक्षंवृक्षं प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् ? परिषिञ्चति ॥", "14091": "भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् ? यदत्र ममाभिष्यात्तद्दीयताम् ॥", "14092": "एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ॥", "14093": "उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसञ्ज्ञाबाधात् गतिर्गतौ <{SK3977}> इति निघातो न ॥", "14094": "सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् ? सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ॥", "14095": "अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान् कृष्णः ॥", "14096": "एषु द्योत्येष्वपिरुक्तसञ्ज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा । धिद्गेवदत्तमपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च अपि स्तुहि । समुच्चये ॥", "14097": "स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥", "14098": "अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् तिङि चोदात्तवति <{SK3978}> इति निघातो न ॥ इति सप्तमी ॥", "14099": "लादेशाः परस्मैपदसंज्ञाः स्युः ॥", "14100": "तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥", "14101": "तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥", "14102": "लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥", "14103": "सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥", "14104": "सुप्तिङौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ॥", "14105": "तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥", "14106": "मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥", "14107": "तथाभूतेऽस्मद्युत्तमः स्यात् ॥", "14108": "मध्यमोत्तमयोरविषये प्रथमः स्यात् ।{$ {!1 भू!} सत्तायाम्$} ॥ कर्तृविवक्षायां भू तीति स्थिते ॥", "14109": "वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥", "14110": "वर्णानामभावोऽवसानसंज्ञः स्यात् ॥", "21001": "पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥", "21002": "सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवत्पाणी शुभस्तपती (द्रव॑त्पाणी॒ शुभ॑स्पती) । शुभ इति शुभेः क्विबन्तात्षष्ठ्यन्तस्य परशरीरानुप्रवेशे पाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघातः शङ्क्यः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मर्त भोजनम् (यत्ते॑ दिवो दुहितर्मर्त॒ भोज॑नम्) । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् । (वार्तिकम्) ॥ षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनह न । अयमग्ने जरिता (अ॒यम॑ग्ने जरि॒ता ) । एतेनाग्ने ब्रह्मणा (ए॒तेना॑ग्ने॒ ब्रह्म॑णा) । समर्थानुवृत्त्या वा सिद्धम् । (वार्तिकम्) ॥ आ ते पितर्मरुताम् (आ ते॑ पितर्मरुताम्) । प्रति त्वा दुहितर्दिवः (प्रति॑ त्वा दुहितर्दिवः) । (वार्तिकम्) ॥ उच्चारधीयान । (वार्तिकम्) ॥ उपाभ्यधीयान ॥", "21003": "कडाराः कर्मधारये <{SK751}> इत्यतः प्राक् समास इत्यधिक्रियते ॥", "21004": "सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । सुपा सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥", "21005": "अधिकारोऽयम् ॥", "21006": "अव्ययमिति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते । सोऽव्ययीभावः ॥", "21007": "असादृश्ये एव यथाशब्दः समस्यते । तेनेह न यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति वा यथार्थं इति वा प्राप्तं निषिध्यते ॥", "21008": "यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छ्लोकम् ॥", "21009": "शाकस्य लेशः शाकप्रति । मात्रार्थे किम् । वृक्षं वृक्षं प्रति विद्योतते विद्युत् ॥", "21010": "द्यूतव्यवहारे पराजय एवायं समासः । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि ॥", "21011": "अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानज्ञापकात् ॥", "21012": "अपविष्णु संसारः अप विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात् ॥", "21013": "एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः आ मुक्तेः । आबालं हरिभक्तिः आ बालेभ्यः ॥", "21014": "आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्रागवत् । अभ्यग्नि शलभाः पतन्ति अग्निमभि । प्रत्यग्नि अग्निं प्रति ॥", "21015": "यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ॥", "21016": "यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः ॥", "21017": "एतानि निपात्यन्ते । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः दोहनकालः । आयतीगवम् इत्यादि । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ॥", "21018": "पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय गङ्गापारात् । मध्ये गङ्गात् गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गायाः मध्यात् ॥", "21019": "वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम् ॥", "21020": "नदीभिः सह सङ्ख्या प्राग्वत् । (वार्तिकम्) ॥ सप्तगङ्गम् । द्वियमुनम् ॥", "21021": "अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥", "21022": "अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥", "21023": "द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥", "21024": "द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीत । (वार्तिकम्) ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥", "21025": "द्वितीया - <{SK686}> इति न संबद्ध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥", "21026": "खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥", "21027": "सामिकृतम् ॥", "21028": "क्तेनेत्येव । अनत्यन्तसंयोगार्थं वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥", "21029": "काला इत्येव । अक्तान्तार्थं वचनम् । मुहूर्तं सुखं मुहूर्तसुखम् ॥", "21030": "तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥", "21031": "तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे । माषोनं कार्षापणम् । माषविकलम् । वाक्कलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । मिश्रं चानुपसर्गमसन्धौ <{SK3888}> इत्यत्रानुपसर्गग्रहणात् । गुडसंमिश्रा धानाः । (वार्तिकम्) ॥ मासेनावरो मासावरः ॥", "21032": "कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्रागवत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः ॥ [(परिभाषा - ) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्] ॥ नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन दात्रेण लूनवानित्यादौ न । कृता किम् । काष्ठैः पचतितराम् ॥", "21033": "स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥", "21034": "संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥", "21035": "गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥", "21036": "चतुर्थ्यन्तार्थाय यत्तद्वाचिनाऽर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठी समासाः । (वार्तिकम्) ॥ द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥", "21037": "चोराद्भयं चोरभयम् । (वार्तिकम्) ॥ वृकभीतः । वृकभीतिः । वृकभीः ॥", "21038": "एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रसादात्पतितः ॥", "21039": "स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । पञ्चम्याः स्तोकादिभ्यः <{SK159}> इत्यलुक् ॥", "21040": "सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदात् <{SK2079}> इति खः । ईश्वराधीनः ॥", "21041": "एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः ॥", "21042": "ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाकः ॥", "21043": "सप्तम्यन्तं कृत्प्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयं ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाह्णेगेयं साम ॥", "21044": "सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः । हलदन्तात्सप्तम्या <{SK966}> इत्यलुक् ॥", "21045": "अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाह्णकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् । अह्नि दृष्टम् ॥", "21046": "तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्र भुक्तम् ॥", "21047": "सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥", "21048": "एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥", "21049": "विशेषणं विशेष्येण <{SK736}> इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य दिक्संख्ये संज्ञायाम् <{SK727}> इति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ॥", "21050": "समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥", "21051": "तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौर्वशालः । समासे कृते दिक्पूर्वपदादसंज्ञायां ञः <{SK1328}> इति ञः ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ॥ आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शाला शब्दे आकारः उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातॄणामपत्यं षाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते । (वार्तिकम्) ॥", "21052": "तद्धितार्थ - <{SK728}> इत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगोः स्यात् ॥", "21053": "कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥", "21054": "पूर्वसूत्रापवादः । पापनापितः । आणककुलालः ॥", "21055": "घन इव श्यामो घनयामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थं सूत्रम् ॥", "21056": "उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । सामान्यप्रयेगे किम् । पुरुषो व्याघ्र इव शूरः ॥", "21057": "भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न । रामो जामदग्न्यः ॥", "21058": "पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः । (वार्तिकम्) ॥ अपरश्चासावर्धश्च पश्चार्धः । कथमेकवीर इति । पूर्वकालैक - <{SK726}> इति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविष्यति ॥", "21059": "। (वार्तिकम्) ॥ अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ॥", "21060": "नञ्विशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् । (वार्तिकम्) ॥ शाकप्रियः पार्थिवः शकपार्थिवः । देवब्राह्मणः ॥", "21061": "सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ॥", "21062": "गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ॥", "21063": "कतरकठः । कतमकलापः । गोत्रं च चरणैः सहेति जातित्वम् ॥", "21064": "कुत्सितो राजा किंराजा । यो न रक्षति ॥", "21065": "", "21066": "एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गाः न तु विशेष्यनिध्नाः । जातिः किम् । कुमारी मतल्लिका ॥", "21067": "पूर्वनिपातनियमार्थं सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्समानाधिकरण्यम् ॥", "21068": "भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ॥", "21069": "समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ॥", "21070": "कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥", "21071": "चतुष्पाज्जातिवाचिनो गर्भिणी शब्देन सह प्राग्वत् । गोगर्भिणी । (वार्तिकम्) ॥ नेह । स्वस्तिमती गर्भिणी ॥", "21072": "एते निपात्यन्ते । मयूरो व्यंसको । मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक् च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्य सः अकिंचनः ॥ (गणसूत्रम् -) आख्यातमाख्यातेन क्रियासातत्ये ॥ अश्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृज्जता । खादतमोदता ॥ (गणसूत्रम् -) एहीडादयोऽन्यपदार्थे ॥ एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहिपचम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सा उद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः ॥ (गणसूत्रम् -) जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति ॥ जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताभिधीयत इत्यर्थः ॥ जहिजोडः । जहिस्तम्बः ॥ नास्ति कुतो भयं सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ॥", "22001": "अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्याविसाय - <{SK238}> इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु सर्वोप्येकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥", "22002": "समांसवाच्यर्ध शब्दो नित्यं क्लीबे स प्राग्वत् । (वार्तिकम्) ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्वी इत्यादि सिद्ध्यति । अर्धं पिपल्या अर्धपिप्पली । क्लीबे किम् । ग्राम्यार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ॥", "22003": "एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात् पूरणगुण - <{SK705}> इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥", "22004": "पक्षे द्वितीयाश्रिता - <{SK686}> इति समासः । प्राप्तो जीविकां प्राप्तजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः । इह सूत्रे द्वितीयया अ इति छित्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्न जीविका ॥", "22005": "परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्य यस्य सः इति विग्रहः । (वार्तिकम्) ॥ द्वे अहनी जातस्य यस्य स द्व्यह्नजातः । अह्नोऽह्न- <{SK790}> इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु न सङ्ख्यादेः समाहारे <{SK793}> इति निषेधः ॥", "22006": "नञ् सुपा सह समस्यते ॥", "22007": "ईषत्पिङ्गलः । (वार्तिकम्) ॥ ईषद्रक्तम् ॥", "22008": "राज्ञः पुरुषो राजपुरुषः ॥", "22009": "एभिः षष्ठ्यन्तं समस्यते । तृजकाभ्यां कर्तरि <{SK709}> इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः । (वार्तिकम्) ॥ तरबन्तं यद्गुणवाचि तेन सह समासस्तरप्प्रत्ययलोपश्च । न निर्धारणे <{SK704}> इति पूरणगुण <{SK705}> इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् । (वार्तिकम्) ॥ इध्मस्य व्रश्चनः इध्मव्रश्चनः ॥", "22010": "निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः । (वार्तिकम्) ॥ सर्पिषो ज्ञानम् ॥", "22011": "पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते । पूरणे । सतां षष्ठः । गुणे । काकस्य कार्ष्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेवमुदाहरणम् । अनित्योऽयं गुणेन निषेधः । तदाशिष्यं संज्ञाप्रमाणत्वात् <{SK1295}> इत्यादिनिर्देशात् । तेनार्थगौरवम् बुद्धिमान्द्यमित्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः । सत् । द्विजस्य कुर्वन्कुर्वाणो वा । किंकरः इत्यर्थः । अव्ययम् । ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः । तव्ये । ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् स्वरे भेदः । समानाधिकरणेन । तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु पोटायुवति <{SK744}> इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्बाधकः षष्ठीसमासः प्राप्तः । सोऽप्यनेन वार्यते ॥", "22012": "मतिबुद्धि - <{SK3089}> इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥", "22013": "क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥", "22014": "उभयप्राप्तौ कर्मणि <{SK624}> इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥", "22015": "कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । कर्तरि किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकत्वादिसमासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह इति । शेषषष्ठ्या समास इति कैयटः ॥", "22016": "कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥", "22017": "एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । संज्ञायाम् <{SK3286}> इति भावे ण्वुल् । जीविकायां । दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां तृजकाभ्यां कर्तरि <{SK709}> इति निषेधे प्राप्ते वचनम् ॥", "22018": "एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । गतिश्च <{SK23}> इत्यनुवर्तमाने ॥", "22019": "उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् । मा भवान् भूत् । माङि लुङ् <{SK1219}> इति सप्तमीनिर्देशान्माङुपपदम् । अतिङ्ग्रहणं ज्ञापयति सुपेत्येन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते । सुपेति च निवृत्तम् । तथा च [(परिभाषा - ) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः] इति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छपी ॥", "22020": "अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुंकारम् । नेह ॥ कालसमयवेलासु तुमुन् <{SK3179}> ॥ कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाऽग्रेप्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥", "22021": "उपदंशस्तृतीयायाम् <{SK3368}> इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥", "22022": "तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य । उच्चैः कृत्वा । अव्ययेऽयथाभिप्रेत - <{SK3381}> इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥", "22023": "अधिकारोऽयम् । द्वितीया श्रिता - <{SK683}> इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ॥", "22024": "अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य । (वार्तिकम्) ॥ प्रपतितपर्णः प्रपर्णः । (वार्तिकम्) ॥ अविद्यमानपुत्रः अपुत्रः । (वार्तिकम्) ॥ उच्चैर्मुखः ॥ (वार्तिकम्) ॥ सप्तम्यन्तमुपमानं च पूर्वपदं यस्य तस्य पदान्तरेण समास उत्तरपदलोपश्च भवतीत्यर्थः । कण्ठेस्थः कालो यस्य स कण्ठेकालः । उष्ट्रमुखमिव मुखं यस्य स उष्ट्रमुखः ॥ (वार्तिकम्) ॥ केशानां सङ्घातश्चूडा यस्य स केशचूडः । सुवर्णस्य विकारः अलङ्कारो यस्य स सुवर्णालङ्कारः ॥ (वार्तिकम्) ॥ अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ॥", "22025": "संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः । दाशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । बहुव्रीहौ संख्येये- <{SK851}> इति वक्ष्यमाणो डच् ॥", "22026": "दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्र्याश्च कौबेर्याश्चान्तरालं दिक् ॥", "22027": "सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । इच्समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठादव्ययीभावत्वमव्यत्वं च । अन्येषामपि दृश्यते <{SK3539}> दीर्घः । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥", "22028": "तुल्ययोगे वर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वत् ॥", "22029": "अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्वेति समुच्चये, भिक्षामट गां चानयेत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः ॥", "22030": "समासे उपसर्जनं प्राक्प्रयोज्यम् ॥", "22031": "एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्तः । (वार्तिकम्) ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृतिगणोऽयम् ॥", "22032": "द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ । (वार्तिकम्) ॥ हरिगुरुहराः । हरिहरगुरवः ॥", "22033": "इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः । (वार्तिकम्) ॥ इन्द्राग्नी ॥", "22034": "शिवकेशवौ । (वार्तिकम्) ॥ हेमन्ताशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ । (वार्तिकम्) ॥ कुशकाशम् । (वार्तिकम्) ॥ तापसपर्वतौ । (वार्तिकम्) ॥ ब्राह्मणक्षत्रियविट्शूद्राः । (वार्तिकम्) ॥ युधिष्ठिरार्जुनौ ॥", "22035": "सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । चित्रगुः । (वार्तिकम्) ॥ सर्वश्वेतः । द्विशुक्लः । (वार्तिकम्) ॥ द्व्यन्यः । (वार्तिकम्) ॥ द्वित्राः । द्वन्द्वेऽपि ॥ द्वादश । (वार्तिकम्) ॥ गुडप्रियः । प्रियगुडः । (वार्तिकम्) ॥ गडुकण्ठः । क्वचिन्न । वहेगडुः ॥", "22036": "निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । कृतकृत्यः । (वार्तिकम्) ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥", "22037": "आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् । (वार्तिकम्) ॥ अम्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः ॥", "22038": "कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ॥", "23001": "इत्यधिकृत्य ॥", "23002": "अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ् - हरिः सेव्यते । कृत् - लक्ष्म्या सेवितः । तद्धितः - शतेन क्रीतः शत्यः । समासः - प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा - विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ सांप्रतमित्यस्य हि युज्यत इत्यर्थः ॥", "23003": "जुहोतेः कर्मणि तृतीया स्याद्द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिप्रयोगदर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥", "23004": "आभ्यां योगे द्वितीया । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥", "23005": "इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ इति द्वितीया ॥", "23006": "अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः ॥", "23007": "शक्तिद्वयमध्ये यौ कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं द्व्यहे द्व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । तदस्मिन्नधिकम् <{SK1846}> इति यस्मादधिकम् <{SK645}> इति च सूत्रनिर्देशात् । लोके लोकाद्वा अधिको हरिः ॥", "23008": "एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूत <{SK552}> इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥", "23009": "अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । सप्तमी शौण्डैः <{SK717}> इति समासपक्षे तु रामाधीना । अषडक्ष <{SK2079}> इत्यादिना खः ॥", "23010": "एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परि हरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि । आमुक्तेः संसारः । आसकलात् ब्रह्म ॥", "23011": "अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ॥", "23012": "अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् ? मनसा हरिं व्रजति । अनध्वनीति किम् ? पन्थानं गच्छति । गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ इति चतुर्थी ॥", "23013": "विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः । (वार्तिकम्) ॥ पत्ये शेते । (वार्तिकम्) ॥ पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ॥", "23014": "क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि ॥", "23015": "भाववचनाश्च <{SK3180}> इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ॥", "23016": "एभिर्योगे चतुर्थी स्यात् । हरये नमः । [(परिभाषा - ) उपपदविभक्तेः कारकविभक्तिर्बलीयसी] ॥ नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रभ्वादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति <{SK1765}> स एषां ग्रामणीः <{SK1878}> इति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥", "23017": "प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वेऽहम् ॥ (वार्तिकम्) ॥ तेन न त्वां नावमन्नं वा मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव ॥", "23018": "अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली ॥ (वार्तिकम्) ॥ प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ॥", "23019": "सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धंसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धो यूना <{SK931}> इत्यादिनिर्देशात् ॥", "23020": "येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् ? अक्षि काणमस्य ॥", "23021": "कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥", "23022": "संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥", "23023": "हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका । अलं श्रमेण । साध्यं नास्तीत्यर्थः । साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः ॥ (वार्तिकम्) ॥ दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ॥ इति तृतीया ॥", "23024": "कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् ॥ शताद्बद्धः । अकर्तरि किम् ? शतेन बन्धितः ॥", "23025": "गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ॥", "23026": "हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥", "23027": "सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः । (वार्तिकम्) ॥ किं निमित्तं वसति । केन निमित्तेन । कस्मै निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनम् इत्यादि । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ॥", "23028": "ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्णं पतति । (वार्तिकम्) ॥ पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति ॥", "23029": "एतैर्योगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । तस्य परमाम्रेडितम् <{SK83}> इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि षष्ठ्यतसर्थ <{SK609}> इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । आच्, दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् । अपादाने पञ्चमी <{SK587}> इति सूत्रे कार्तिक्याः प्रभृतीति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । अपपरिबहिः <{SK666}> इति समासविधानाज्ज्ञापकाद्बहिर्योगे पञ्चमी । ग्रामाद्बहिः ॥", "23030": "एतद्योगे षष्ठी स्यात् । दिक्शब्द <{SK595}> इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ॥", "23031": "एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥", "23032": "एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तेते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥", "23033": "एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः ॥", "23034": "एतैर्योगे षष्ठी स्यात् पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद्वा ॥", "23035": "एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकमन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ इति पञ्चमी ॥", "23036": "अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । दूरान्तिकार्थेभ्यः <{SK605}> इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः ॥ (वार्तिकम्) ॥ अधीती व्याकरणे । अधीतमनेनेति विग्रहे इष्टादिभ्यश्च <{SK1888}> इति कर्तरीनिः ॥ (वार्तिकम्) ॥ साधुः कृष्णो मातरि । असाधुर्मातुले ॥ (वार्तिकम्) ॥ निमित्तमिह फलम् । योगः संयोगसमवायात्मकः । \tचर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ 1 ॥ (इति भाष्यम्) ।हेतौ तृतीयाऽत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् ? वेतनेन धान्यं लुनाति ॥", "23037": "यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः । (वार्तिकम्) ॥ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥", "23038": "अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥", "23039": "एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ॥", "23040": "आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । आसेवायां किम् ? आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥", "23041": "जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥", "23042": "विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ॥", "23043": "आभ्यां योगे सप्तमी स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् । (वार्तिकम्) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥", "23044": "आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥", "23045": "नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् ? पुष्ये शनिः ॥", "23046": "नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रे सङ्ख्यामात्रे च प्रथमा स्यात् । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तटः - तटी - तटम् । परिमाणमात्रे, द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं सङ्ख्या । एकः । द्वौ । बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ॥", "23047": "इह प्रथमा स्यात् । हे राम ॥ इति प्रथमा ॥", "23048": "संबोधने या प्रथमा तदन्तमामान्त्रितसंज्ञं स्यात् ॥", "23049": "संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥", "23050": "कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधोदकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥", "23051": "जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥", "23052": "एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनम्, ईशनं वा ॥", "23053": "कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने । एधोदकस्योपस्करणम् ॥", "23054": "भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा । (वार्तिकम्) ॥ रोगस्य चौरज्वरः चौरसन्तापो वा । रोगकर्तृकं चौरसंबन्धि ज्वरादिकमित्यर्थः ॥", "23055": "आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषीति किम् ? माणवकनाथनम् । तत्संबन्धिनी याच्ञेत्यर्थः ॥", "23056": "हिंसार्थनामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् ? धानापेषणम् ॥", "23057": "शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥", "23058": "द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥", "23059": "पूर्वयोगापवादः शतस्य शतं वा प्रतिदीव्यति ॥", "23060": "ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥", "23061": "देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥", "23062": "षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः । गोधाकालकादार्वाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः । (वार्तिकम्) ॥ या खर्वेण पिबति तस्यै खर्वः ॥", "23063": "इह छन्दसि बहुलं षष्ठी । घृतस्य घृतेन वा यजते ॥", "23064": "कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥", "23065": "कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्णः । (वार्तिकम्) ॥ नेताऽश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् ? तद्धिते माभूत् । कृतपूर्वी कटम् ॥", "23066": "उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन ॥ (वार्तिकम्) ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः । (वार्तिकम्) ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिर्हरेर्हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥", "23067": "वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोक <{SK627}> इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ॥", "23068": "क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा ॥", "23069": "एषां प्रयोगे षष्ठी न स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिदृक्षुः । अलंकरिष्णुर्वा । उक । दैत्यान् घातुको हरिः ॥ (वार्तिकम्) ॥ लक्ष्म्याः कामुको हरिः । अव्ययम् । जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति प्रत्याहारः शतृशानचाविति तृशब्दादारभ्यातृनो नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥ (वार्तिकम्) ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः ॥ शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ॥", "23070": "भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पावकोऽवतरति । व्रजं गामी । शतं दायी ॥", "23071": "षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् ? गेयो माणवकः साम्नाम् । भव्यगेय <{SK2894}> इति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते ॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥", "23072": "तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य नास्ति ॥", "23073": "एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि । आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शमर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ इति षष्ठी ॥", "24001": "द्विग्वर्थः समाहार एकवत्स्यात् । स नपुंसकम् <{SK821}> इति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥", "24002": "एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥", "24003": "चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे । (वार्तिकम्) ॥ उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥", "24004": "यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धर्चादी ॥", "24005": "अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥", "24006": "प्राणिवर्ज्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः । द्रव्यजातीयानामेव । नेह । रूपरसौ । गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदरामलकानि ॥", "24007": "ग्रामवर्ज्यनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्ध्यश्च इरावती च उद्ध्येरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् । शालूकिनी ग्रामः । जाम्बवशालूकिन्यौ ॥", "24008": "एषां समाहारे द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आ नकुलात्क्षुद्रजन्तवः ॥", "24009": "एषां प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकमित्यादौ परत्वात् विभाषा वृक्षमृग <{SK916}> इति प्राप्तं चकारेण बाध्यते ॥", "24010": "अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥", "24011": "यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ॥", "24012": "वृक्षादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा । वृक्षादौ विशेषाणामेव ग्रहणम् ॥ प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकबकम् । शुकबकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे । (वार्तिकम्) ॥ बदराणि चामलकानि च बदरामलकम् । जातिरप्राणिनाम् <{SK910}> इत्येकवद्भावः । नेह । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधावित्यादि । विभाषावृक्ष - <{SK916}> इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनाम् <{SK910}> इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते । मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एव इति नियमार्थ मृगाकृनिग्रहणम् । एवं पूर्वापरमधरोत्तरमित्यपि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् पूर्ववदश्ववडवौ <{SK813}> इति स्यात् ॥", "24013": "विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् । शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः चार्थे <{SK901}> इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ॥", "24014": "एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ॥", "24015": "द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥", "24016": "अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदाशं दन्तोष्ठम् । उपदश दन्तोष्ठाः ॥", "24017": "समाहारे द्विगुर्द्वन्द्वाश्च नपुंसकं स्यात् । परवल्लिङ्गपवादः । पञ्चगवम् । दन्तोष्ठम् । (वार्तिकम्) ॥ पञ्चमूली । (वार्तिकम्) ॥ पञ्चखट्वम् । पञ्चखट्वी । (वार्तिकम्) ॥ पञ्चतक्षी । पञ्चतक्षम् । (वार्तिकम्) ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । (वार्तिकम्) ॥ पुण्याहम् । सुदिनाहम् । (वार्तिकम्) ॥ संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्था विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः । (वार्तिकम्) ॥ मृदु पचति । प्रातः कमनीयम् ॥", "24018": "अयं नपुंसकं स्यात् ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य <{SK318}> । गोपायतीतीति गाः पातीति वा गोपाः । तस्मिन्नित्यधिगोपम् । समीपे । कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः ॥ (वार्तिकम्) ॥ अन्यारात् <{SK595}> इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिव्यृद्धिः । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा सम्प्रति न युज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इति हरि । विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः । ततः पश्चात्स्रंस्यते इति भाष्यप्रयोगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमित्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे ॥", "24019": "अधिकारोऽयम् ॥", "24020": "कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् । वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था ॥", "24021": "उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः ॥", "24022": "छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । विभाषासेना - <{SK828}> इति विकल्पस्यायमपवादः । इक्षुच्छायानिषादिन्यः इति तु आ समन्तान्निषादिन्य इत्याङ्श्लेषो बोध्यः ॥", "24023": "राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् । (वार्तिकम्) ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षः सभम् । पिशाचसभम् ॥", "24024": "सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । आशाला किम् । धर्मसभा । धर्माशालेत्यर्थः ॥", "24025": "एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छाम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । तत्पुरुषोऽनञ्कर्मधारय - <{SK822}> इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना ॥", "24026": "एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । (वार्तिकम्) ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥", "24027": "द्विवचनमतन्त्रम् । अश्ववडवौ । अश्ववडवान् । अश्ववडवैः ॥", "24028": "द्वन्द्वः पूर्ववल्लिङ्गः । हेमन्तश्च शिशिरं च हेमन्तशिशिरौ । अहोरात्रे । अदिप्रभृतिभ्यः शपः <{SK2423}> ॥", "24029": "एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वाह्णः । द्व्यहः ॥ संङ्ख्यापूर्वं रात्रं क्लीबम् ॥ लि. <{SK131}> द्विरात्रम् । त्रिरात्रम् । गणरात्रम् ॥", "24030": "तत्पुरुषः इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ॥", "24031": "अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्घर्चम् । ध्वजः । ध्वजम् । एवं तीर्थ, शरीर, मण्ड, पीयूष, देह, अङ्कुश, कलश इत्यादि ॥", "24032": "अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेशः स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥", "24033": "अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तास्मः ॥", "24034": "द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातु पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठ्सु । सुगण्ट्सु । सुगण्सु । क्विप् । अनुनासिकस्य क्विझलोः <{SK2666}>इति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु । सुगाण्ट्सु । सुगाण्सु । परत्वादुपधादीर्घः । हल्ङ्यादिलोपः । ततो नलोपः । राजा ॥", "24035": "इत्यधिकृत्य ॥", "24036": "ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्यात् ल्यपि तादौ किति च । इकार उच्चारणार्थः । धत्वम् । झरो झरि <{SK71}> । जग्धः । आदिकर्मणि क्तः कर्तरि च <{SK3053}> । प्रकृतः कटं सः । प्रकृतः कटस्तेन । निष्ठायामण्यदर्थे <{SK3014}> इति दीर्घः । क्षियो दीर्घात् <{SK3015}> इति णत्वम् । प्रक्षीणः सः ॥", "24037": "अदो घसॢ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत् ।{$ {!1012 हन!} हिंसागत्योः$} । प्रणिहन्ति ॥", "24038": "अदेर्घसॢ स्यात् घञि अपि च । प्रघसः । विघसः । उपसर्गे किम् । घासः ॥", "24039": "अदो घस्लादेशः स्यात् । घस्तान्नूनम् । लुङि मन्त्रे घस - <{SK3402}> इति च्लेर्लुक् । अडभावः । सग्धिश्च मे (सग्धि॑श्च मे) ॥", "24040": "अदो घसॢ वा स्याल्लिटि । जघास । गमहन - <{SK1263}> इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसि - <{SK2410}> इति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इडत्त्यर्ति - <{SK2384}> इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ॥", "24041": "वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥", "24042": "", "24043": "वधादेशोऽदन्तः । आर्धधातुके <{SK2300}> इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तत्वात् अतो लोपः <{SK2308}> । वध्यात् । वध्यास्ताम् । आर्धधातुके किम् । विध्यादौ हन्यात् । हन्तेः <{SK359}> इति णत्वम् । प्रहण्यात् । अल्लोपस्य स्थानिवत्त्वात् अतो हलादेः <{SK2284}> इति न वृद्धिः । अवधीत् ॥\tअथ चत्वारः स्वरितेतः ॥{$ {!1013 द्विष!} अप्रीतौ$} । द्वेष्टि-द्विष्टे । द्वेष्टा । द्वेक्ष्यति-द्वेक्ष्यते । द्वेष्टु-द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ॥", "24044": "हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥", "24045": "गातिस्था <{SK2223}> इति सिचो लुक् । अगात् । अगाताम् । अगुः ।{$ {!1046 इङ्!} अध्ययने$} । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ॥", "24046": "इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति ॥ (वार्तिकम्) ॥ अधिगमयति ।हनस्तोऽचिण्णलोः <{SK2574}> । हो हन्तेः - <{SK358}> इति कुत्वम् । घातयति । ईर्ष्ययति । (वार्तिकम्) ॥ तृतीयव्यञ्जनस्य तृतीयैकाचेति वार्थः । आद्ये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीयेतु अजादेर्द्वितीयस्य <{SK2176}> इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐर्ष्यियत् । ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादेः शेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ॥", "24047": "इणो गमिः स्यात्सनि ने तु बोधने । जिगमिषति । बोधने प्रतीषिषति ॥ (वार्तिकम्) ॥ अधिजिगमिषति । कर्मणि तङ् । परस्मैपदेषु इत्युक्तेर्नेट् । झलादौ सनि इति दीर्घः । जिगांस्यते । अधिजिगांस्यते अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः । जिगंस्यते । संजिगंसते ॥", "24048": "इङो गमिः स्यात्सनि । अधिजिगांसते ॥", "24049": "इङो गाङ् स्याल्लिटि लावस्थायां विवक्षते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यण् । पूर्वं धातुरुपर्गेणेति- दर्शनेन् तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । णेरध्ययने वृत्तम् <{SK3036}> इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् । तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयत् । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ॥", "24050": "इङो गाङ् वा स्यात् ॥", "24051": "सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अध्यजीगपत् । अध्यापिपत् ॥", "24052": "बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥", "24053": "उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूयात् । ङिच्च पिन्न इत्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । अस्यतिवक्ति <{SK2438}>इत्यङ् ॥", "24054": "", "24055": "अत्र भाष्ये खशादिरयमादेशः । असिद्धाकाण्डे । (वार्तिकम्) ॥ ञित्त्वात्पदद्वयम् । चख्यौ-चख्ये-चक्शौ-चक्शे ॥चयो द्वितीया - <{SK5023}> इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट । चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ॥", "24056": "अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा । (वार्तिकम्) ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्परत्वात् उपधायां च <{SK2265}> इति दीर्घ प्राप्ते अचः परस्मिन्-<{SK50}> इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-<{SK51}> इति निषेधः । (वार्तिकम्) ॥ थलि एकाचः <{SK2246}> इतीण्निषेधे प्राप्ते ॥", "24057": "अजेर्वी वा स्याद् यौ । प्रवयणम् । प्राजनम् ॥", "24058": "ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्र्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् ञितस्च परयोर्युवाभिधायिनोरणिञोर्लुक् स्यात् । कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहङः पिता । तत इञ् । कौहङिः पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः । वामरथाः । इति अणो लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणनिना प्रोक्तं पानिनीयम् । वृद्धाच्छः <{SK1337}> । इञश्च <{SK1333}> इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥", "24059": "एभ्यो युवप्रत्ययस्य लुक् । पीलाया वा-<{SK1121}> इत्यण्, तस्मात् अणो द्व्यचः <{SK1180}> इति फिञ्, तस्य लुक् । पैलः पिता पुत्रश्च । (गणसूत्रम् -) तद्राजाच्चाणः । द्व्यञ्मगध-<{SK1188}>इत्यण्णन्तादाङ्गशब्दात् अणो द्व्यचः-<{SK1180}> इति फिञो लुक् । आङ्गः पिता पुत्रश्च ॥", "24060": "गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात्, तच्चेद् गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । अत इञ् <{SK1095}>, ञञिञोश्च <{SK1103}> इति फक् । तस्य लुक् । पान्नागारिः पिता पुत्रश्च । प्राचाम् किम् । दाक्षिः पिता । दाक्षायणः पुत्रः ॥", "24061": "तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तः । तुल्वलः, तत इञि फक्, तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥", "24062": "बहुष्वर्थेषु तद्राजस्य लुक् स्यात्तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि कौरव्याः पशवः, तस्येव रघोः पाण्ड्याः इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । रघूणामन्वयं वक्ष्ये, निरूध्यमाना यदुभिः कथंचित् इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया ॥", "24063": "एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । मित्रयवः ॥", "24064": "गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । गर्गाः । वत्साः बिदाः । ऊर्वाः । तत्कृते इति किम् ? प्रियगार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे किम् ? द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः ॥", "24065": "एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥", "24066": "बह्वचः परो य इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः ॥", "24067": "एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैग्रवाः ॥", "24068": "एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च ।तिकादिभ्यः फिञ्-<{SK1178}> । तस्य लुक् । तिककितवाः ॥", "24069": "एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च । औपकायनाश्च लामकायनाश्च । नडादिभ्यः फक् <{SK1101}> । तस्यलुक् । उपकलमकाः - औपकायनलामकायनाः । भ्राष्ट्रककपिष्ठलाः - भ्राष्ट्रकिकापिष्ठलयः । उपकाः - औपकाः । लमकाः - लामकाः ॥", "24070": "एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासंख्यमगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥", "24071": "एतयोरवयवस्य सुपो लुक् स्यात् । भूतपूर्वे चरट् <{SK1999}> इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः । (वार्तिकम्) ॥ जीमूतस्येव ॥", "24072": "{$ {!1011 अद!} भक्षणे$} । द्वौ परस्मैपदिनौ ॥\nलुक्स्यात् । अत्ति । अत्तः । अदन्ति ॥", "24073": "वृत्रं हनति वृत्रहा । अहिः शयत उप पृक्पृथिव्याः (अहिः॑ शयत उप॒ पृक्पृ॑थि॒व्याः) । अत्र लुङ्ग । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः (त्राध्वं॑ नो दे॒वाः) । जुहोत्यादिभ्यः श्लुः <{SK2489}> ॥", "24074": "यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरि - <{SK2149}> इति परस्मैपदम् । अनुदात्तङित - <{SK2157}> इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्र अत्वसन्तस्य - <{SK425}> इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योपि न । अनुदात्तङित - <{SK2157}> । इत्यनुबन्धनिर्देशात् । तत्र च [(परिभाषा - ) श्तिपा शपा...] इति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यादादौ पाठाच्छपो लुक् ॥", "24075": "{$ {!1083 हु!} दानादनयोः $}। आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः ॥\nशपः श्लुः स्यात् ॥", "24076": "दाति प्रियाणिचिद्वसु (दाति॑ प्रि॒याणि॑चि॒द्वसु॑) । अन्यत्रापि । पूर्णां विवष्टि ॥", "24077": "एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्येते ॥", "24078": "एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः ॥", "24079": "अथ सप्त स्वरितेतः ।{$ {!1463 तनु!} विस्तारे$} । तनादिकृञ्भ्य उः <{SK2466}> । तनोति । तन्वः-तनुवः । तनुते । ततान । तेने । तनु । अतनीत्-अतानीत् ॥\nतनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट । अनुदात्तोपदेश - <{SK2428}> इत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः ।{$ {!1464 षणु!} दाने$} । सनोति । सनुते । ये विभाषा <{SK2319}> । सायात् । सन्यात् । जनसन - <{SK2504}>इत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः ।{$ {!1465 क्षणु!} हिंसायाम्$} । क्षणोति । क्षणुते । ह्मयन्त - <{SK2299}> इति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः ।{$ {!1466 क्षिणु!} च$} । उप्रत्ययनिमित्तो लघूपधगुणः । [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट ।{$ {!1467 ऋणु!} गतौ ऋणोति$} । अर्णोति । अर्णुतः । अर्ण्वन्ति । आनर्ण । आनृणे । अर्णितासे । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः ।{$ {!1468 तृणु!} अदने$} । तृणोति । तर्णोति । तृणुते ।{$ {!1469 घृणु!} दीप्तौ$} । जघर्ण । जघृणे ॥\tअथ द्वावनुदात्तेतौ ॥{$ {!1470 वनु!} याचने$} । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान ।{$ {!1471 मनु!} अवबोधने$} । मनुते । मेने ।{$ {!1472 डुकृञ्!} करणे$} । करोति । अत उत्सार्वधातुके <{SK2467}> कुरुतः । यण् । न भकुर्छुराम् <{SK1629}> इति न दीर्घः । कुर्वन्ति ॥", "24080": "एभ्यो लेर्लुक् स्यान्मन्त्रे । अक्षन्नमीमदन्त हि (अक्ष॒न्नमी॑मदन्त हि) । घस्लादेशस्य गमहन - <{SK2363}> इत्युपधालोपे शासिवसि - <{SK2410}> इति षः । माह्वर्मित्रस्य (माह्व॑र्मि॒त्रस्य॑) । धूर्तिः प्रणङ्मर्त्यस्य (धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य) ।नशेर्वा - <{SK431}> इति कुत्वम् । सुरुचो वेन आवः (सु॒रुचो॑ वे॒न आ॑वः) । मा न आधक् (मा न॒ आध॑क्) । आदित्याकारान्तग्रहणम् । आ प्राद्यावापृथिवी (आ प्रा॒द्यावा॑पृथि॒वी) । परावर्ग्भारभृद्यथा (परा॒वर्ग्भार॒भृद्य॑था) । अक्रन्नुषासः (अक्र॑न्नु॒षासः॑) । त्वे रयिं जागृवांसो अनुग्मन् (त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ग्मन्) । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्भ्रन्नजनिष्ट हि षः (न ता अ॑गृभ्भ्र॒न्नज॑निष्ट॒ हि षः) ॥", "24081": "आमः परस्य लेर्लुक् स्यात् ॥", "24082": "अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे । (वार्तिकम्) ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति(भाष्योक्ता) श्रुतिर्लिङ्गसङ्ख्याकारकाभावपरा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥", "24083": "अदन्तादव्ययीभावात्सुपो न लुक् किंतु तस्य पञ्चमीं विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियामित्यमरः ॥", "24084": "अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलम्भावः स्यात् । अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे । बहुलग्रहणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । विभक्तीत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः । विभक्तौ तावत् । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङि अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥", "24085": "डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥", "31001": "आपञ्चमपरिसमाप्तेः अधिकारः अयम् ॥", "31002": "अयमपि तथा ॥", "31003": "प्रत्ययः आद्युदात्तः एव स्यात् । अग्निः । कर्तव्यम् ॥", "31004": "पूर्वस्य अपवादः । यज्ञस्य । न यो युच्छति (न यो युच्छ॑ति) । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ॥", "31005": "", "31006": "सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) ॥ सनाद्यन्ता - <{SK2304}> इति धातुत्वम् ॥", "31007": "इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । सन्यतः <{SK2317}> । पठितुमिच्छति पिपठिषति । कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । लुङ्सनोर्घसॢ <{SK2427}> एकाच उपदेशे - <{SK2246}> इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिघत्सति ॥ ईर्ष्यतेस्तृतीयस्येति यिसनोर्द्वित्वम् । ईर्ष्यियिषति । ईर्ष्यिषिषति ॥", "31008": "इषिकर्मण एषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ॥", "31009": "उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । इह यस्य हलः <{SK2631}>इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥", "31010": "उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् । (वार्तिकम्) ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रसादे ॥", "31011": "उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः । स च व्यवस्थितः । (वार्तिकम्) ॥ कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । क्यङ् मानिनोश्च <{SK837}> । कुमारीवाचरति । कुमारायते । हरिणीवाचरति । हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्वाविव पट्वीमृदूयते ॥ न कोपधायाः <{SK838}> । पाचिकायते । (वार्तिकम्) ॥ वाग्रहणात्क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनानिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् । (वार्तिकम्) ॥ पूर्ववार्तिकं तु अनुबन्धासञ्जानार्थं, तत्र क्विबनूद्यते । प्रादिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । अतो गुणे <{SK191}> इति शपा सह पररूपम् । अ इवाचरति अति । अतः अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । अतो गुणे <{SK191}> । अत आदेः <{SK2248}> इति दीर्घः । णल् औ वृद्धिः । अतुसादिषु तु आतो लोप इटि च <{SK2372}> इत्यालोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालांचकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि कवीयात् । सिचिर्वृद्धिः - <{SK2297}> इत्यत्र धातौरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् । श्रीरिव । श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र गातिस्था <{SK2223}> इति, भुवो वुक् <{SK2174}> इति, भवतेरः <{SK2181}> इति च न भवन्ति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । द्रुरिव द्रवति । णिश्रि - <{SK2312}> इति चङ् न । अद्रावीत् ॥", "31012": "अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । अच्वेरिति पर्युदासबलादभूततद्भाव इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । सुमनस् । अस्य सलोपः । सुमनायते । चुरादौ संग्राम युद्धे इति पठ्यते तत्र संग्रामेति प्रातिपदिकम् । तस्मात्तत्करोतीति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते । युद्धे योऽयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते इति । तेन मनश्शब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं आ ऊढः ओढः स इवाचर्य ओढायित्वा । अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठं वार्तिकं तद्भाष्यं च प्रमाणम् । तथा हि । उस्योमाङ्क्ष्वाटः प्रतिषेधः ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् । औस्रीयत् । औङ्कारीयत् । औढीयत् । आटश्च <{SK269}> इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्टे स्थितम् ॥", "31013": "लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष् स्यात् ॥", "31014": "चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः । (वार्तिकम्) ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्वपदविग्रहः । सत्रायते । कक्षायते इत्यादि ॥", "31015": "रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनीयां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते । (वार्तिकम्) ॥ चर्वितस्याकृष्यपुनश्चर्वण इत्यर्थः । नेह कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः । तदश्नातीत्यर्थं इति कैयटः । वर्तुलं करोतीत्यर्थं इति न्यासकारहरदत्तौ । (वार्तिकम्) ॥ तपश्चरति तपस्यति ॥", "31016": "आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते । (वार्तिकम्) ॥ फेनायते ॥", "31017": "एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे तत्करोतीति णिजपीष्यत इति न्यासः । शब्दयति ॥ (वार्तिकम्) ॥ सुदिनायते ॥", "31018": "सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेवचेत्सुखादीनि स्युः । सुखं वेदयते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥", "31019": "करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥", "31020": "। (वार्तिकम्) ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते । (वार्तिकम्) ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशीकरोतीत्यर्थः । समवभाण्डत । (वार्तिकम्) ॥ संचीवरयते भिक्षुः । चीवराण्यर्जयति । परिधत्ते वेत्यर्थः ॥", "31021": "कॄञर्थे । मुण्डं करोति मुण्डयति । (वार्तिकम्) ॥ पयः शूद्रान्नं वा व्रतयति । (वार्तिकम्) ॥ संवस्त्रयति । (वार्तिकम्) । (वार्तिकम्) ॥ हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृह्णाति । कृतयति । तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः सत्यापपाश - <{SK2563}> इत्यत्रैव पठितुं युक्ताः । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धेः केषांचिद्ग्रहणं सापेक्षेभ्योऽपि णिजर्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् । सत्यस्य आपुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति । (वार्तिकम्) ॥ अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरूपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । उपसर्गात्सुनोति - <{SK2270}> इति षः । अभ्यषेणयत् । प्राक्सितात् - <{SK2276}> इति षः । अभिषिषेणयिषति । स्थादिष्वभ्यासेन च - <{SK2277}> इति षः । लोमान्यनुमार्ष्टि अनुलोमयति । त्वच संवरणे घः । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति । इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोपः । अपिप्रथत् । अपप्रथत् । मृदुम् म्रदयति । अम्म्रदत् । भृशं कृशं दृढम् । भ्रशयति । क्रशयति । द्रढयति । अबभ्रशत् । अचकशत् । अदद्रढत् । परिव्रढत् । ऊढिमाख्यत् द्वित्वम् । पूर्वत्रासिद्धीयमद्वित्वे इति त्वनित्यमित्युक्तम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडिढत् । ऊढमाख्यत् । औजढत् । औडढत् । ओः पुयण्जि - <{SK2577}> इति सूत्रे वर्गप्रत्याहारजग्रहो लिङ्गम् । द्वित्वे कार्ये णावच आदेशो नेति ऊनयतावुक्तम् । प्रकृत्यैकाच् <{SK2010}> । वृद्धिपुकौ । स्वापयति । त्वां मां वाऽऽचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिलोपः वृद्धिः पुक् । त्वादयति । मादयतीति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे कृते प्रकृत्यैकाच् <{SK2010}> इति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् । भाष्यस्य प्रोष्ठाद्युदाहरणविशेषेऽऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति । अस्मयति । श्वानमाचष्टे शावयति । नस्तद्धिते <{SK679}> इति टिलोपः । प्रकृतिभावस्तु न येन नाप्राप्तिन्यायेन टेः <{SK1786}> इत्यस्यैव बाधको हि सः । भत्वाकत्संप्रसारणम् । अन्ये तु । नस्तद्धिते <{SK679}> इति नेहातिदिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वात् । टेः <{SK1786}> इत्यस्यैव प्रवृत्तेः । तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे । विद्वयति । अङ्गवृत्तपरिभाषया संप्रसारणं नेत्येके । संप्रासारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाट्टिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीत्यपरे । उदञ्चामाचष्टे उदीचयति ॥ उदैचिचत् । प्रत्यञ्चम् । प्रतीचयति । प्रत्यचिचत् । इकोऽसवर्णे - <{SK91}> इति प्रकृतिभावपक्षे । प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति । समिअचिचत् । तिर्यञ्चामाष्टे तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेमनासिद्धत्वात्तिरसस्तिरिः । असिद्धवदत्र - <{SK2183}> इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अतः पुनष्टिलोपो न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाह्रस्वो न । अतितिरायत् । सध्र्यञ्चमाचष्टे साध्राययति । अससध्रायत् । विष्वद्यञ्चम् । अविविष्वद्रायत् । देवद्र्यञ्चम् देवद्राययति । अदिदेवद्रायत् । अदद्र्यञ्चम् । अददद्रायत् । अदमुयञ्चम् । अदमुआययति । आददमुआयत् । अमुमुयञ्चम् । अमुमुआययति । चङ् । आमुमुआययत् । भुवम् भावयति । अबीभवत् । भ्रुवमबुभ्रवत् । श्रियमशिश्रयत् । गामजूगवत् । रायमरीरयत् । नावमनूनवत् । स्वश्वम् स्वाशश्वत् । स्वः ॥ (वार्तिकम्) ॥ स्वयति । असस्वत् । असिस्वत् । बहून् भावयति । बहयतीत्यन्ये विन्मतोरिति लुक् । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा श्रययति । अशिश्रयत् । पयस्विनीत् । पयस्यति । इह टिलेपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलं स्थवयति । दूरं दवयति । कथं तर्हि दूरयत्यवनते विवस्वतीति । दूरमतति अयते वा दूरात् । दूरातं कूर्वतीत्यर्थः । युवानं यवयति कनयति । युवाल्पयोः - <{SK2019}> इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति । इह श्रज्यौ न । उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । वर्षयति । प्रियं प्रापयति । स्फिरं स्फापयति । उरुं वरयति । वारयति । बहुलं बंहयति । गुरुं गरयति । तृप्रं त्रापयति । दीर्घं द्राघयति । वृन्दारकं वृन्दयति ॥", "31022": "पौनः पुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन् द्योत्ये यङ् स्यात् ॥", "31023": "गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥", "31024": "एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥", "31025": "{$ {!1534 चुर!} स्तेये$} ॥\nएभ्यो णिच् स्यात् । चूर्णान्तेभ्यः । (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्त-<{SK2189}> इति गुणः । सनाद्यन्ताः - <{SK2304}> इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥", "31026": "प्रयोजकव्यापारेप्रेषणादौ वाच्ये धातोर्णिच् स्यात् । भवन्तं प्रेरयति भावयति । णिचश्च - <{SK2564}> इति कर्तृगे फले आत्मनेपदम् । भावयते । भावयांबभूव ॥", "31027": "एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे । धातुभ्यः किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः धातवः प्रातिपदिकानि च ।{$ {!1944 कण्डूञ्!} गात्रविघर्षणे$} । कण्डूयति । कण्डूयते ।{$ {!1945 मन्तु!} अपराधे$} । रोष इत्येके । मन्तूयति । चन्द्रस्तु ञितमाह । मन्तूयते ।{$ {!1946 वल्गु!} पूजामाधुर्ययोः$} । वल्गूयति ।{$ {!1947 असु!} उपतापे$} । असू । असूञ् । इत्येके । अस्यति । असूयति । असूयते ।{$ {!1948 लेट्!} {!1949 लोट्!} धौर्त्ये पूर्वभावे स्वप्ने च$} । दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता ।{$ {!1950 लेला!} दीप्तौ$} ।{$ {!1951 इरस्!} {!1952 इरज्!} {!1953 इरञ्!} ईर्ष्यायाम्$} ॥ इरस्यति । इरज्यति । हलि च <{SK354}> इति दीर्घः । ईर्यति । ईर्यते ।{$ {!1954 उषस्!} प्रभातीभावे$} ।{$ {!1955 वेद!} धौर्त्ये स्वप्ने च$} ।{$ {!1956 मेधा!} आशुग्रहणे$} ॥ मेधायति ।{$ {!1957 कुषुभ!} क्षेपे$} ॥ कुषुभ्यति ।{$ {!1958 मगध!} परिवेष्टने$} । नीचदास्य इत्यन्ये ॥{$ {!1959 तन्तस्!} {!1960 पम्पस्!} दुःखे$} ।{$ {!1961 सुख!} {!1962 दुःख!} तत्क्रियायाम्$} । सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः ।{$ {!1963 सपर!} पूजायाम्$} ।{$ {!1964 अरर!} आराकर्मणि {!1965 भिषजू!} चिकित्सायाम्$} ।{$ {!1966 भिष्णज्!} उपसेवायाम्$} ।{$ {!1967 इषुध!} शरधारणे$} ।{$ {!1968 चरण!} {!1969 वरण!} गतौ$} ।{$ {!1970 चुरण!} चौर्ये$} ।{$ {!1971 तुरण!} त्वरायाम्$} ।{$ {!1972 भुरण!} धारणपोपणयोः$} ।{$ {!1973 गद्गद!} वाक्स्खलने$} ।{$ {!1974 एला!} {!1975 केला!} {!1976 खेला!} विलासे$} ।{$ {!1977 इला!} इत्यन्ये$} ।{$ {!1978 लेखा!} स्खलने च$} । अदन्तोऽयमित्यन्ये । लेख्यति ।{$ {!1979 लिट!} अल्पकुत्सनयोः$} । लिट्यति ।{$ {!1980 लाट!} जीवने$} ।{$ {!1981 हृणीङ्!} रोषणे लज्जायां च$} ।{$ {!1982 महीङ्!} पूजायाम्$} । महीयते । पूजां लभत इत्यर्थः ।{$ {!1983 रेखा!} श्लाघासादनयोः$} ।{$ {!1984 द्रवस्!} परितापपरिचरणयोः$} ।{$ {!1985 तिरस्!} अन्तर्धौ$} ।{$ {!1986 अगद!} नीरोगत्वे$} ।{$ {!1987 उरस्!} बलार्थः$} । उरस्यति । बलवान् भवतीत्यर्थः ।{$ {!1988 तरण!} गतौ$} ।{$ {!1989 पयस्!} प्रसृतौ$} ।{$ {!1990 संभूयस्!} प्रभूतभावे$} ।{$ {!1991 अंबर!} {!1992 संवर!} संभरणे$} । आकृतिगणोऽयम् ॥", "31028": "एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्त-<{SK2189}> इति गुणः ॥", "31029": "ऋतिः सौत्रः तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां च इत्येके । सनाद्यन्ता - <{SK2304}> इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षयां तु । आयादय आर्धधातुके वा <{SK2305}> इतीयङभावे शेषात्कर्तरि - <{SK2259}> इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ॥ इति तिङन्तभ्वादिप्रकरणम् ॥", "31030": "स्वार्थे । ङित्त्वात्तङ् । कामयते ॥", "31031": "आर्धधातुकविवक्षायामायादयो वा स्युः ॥", "31032": "सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ॥", "31033": "लृ इति लृङ्लृटोर्ग्रहणम् । धातोः स्यतासी एतौ स्तो लृलुटोः परतः । शबाद्यपवादः ॥", "31034": "", "31035": "कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्त्र । (वार्तिकम्) ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽकाचेति वाच्यमित्यर्थः ॥", "31036": "इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि । आमो मकारस्य नेत्त्वम् । आस्कासोरामूविधानाज्ज्ञापकात् ॥", "31037": "दय अय आस् एभ्य आम् स्याल्लिटि । अयांचक्रे । अयेत । अयिषीष्ट ॥", "31038": "एभ्यो लिट्याम्वा स्यात् । ओषांचकार । उवोष । ऊषतुः । उवोषिथ ।{$ {!697 जिषु!} {!698 विषु!} {!699 मिषु!} सेचने $}। जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् ।{$ {!700 पुष!} पुष्टौ$} । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु पुष्येति श्यना निर्देसादयं नेट् । अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् ।{$ {!701 श्रिषु!} {!702 श्लिषु!} {!703 प्रुषु!} {!704 प्लुषु!} दाहे$} । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । अनिट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष ।{$ {!705 पृषु!} {!706 वृषु!} {!707 मृषु!} सेचने$} । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् ।{$ {!708 घृषु!} संघर्षे$} ।{$ {!709 हृषु!} अलीके$} ।{$ {!710 तुस!} {!711 ह्रस!} {!712 ह्लस!} {!713 रस!} शब्दे$} । तुतोस । जह्नास । जह्लास । ररास ।{$ {!714 लस!} श्लेषणक्रीडनयोः $}।{$ {!715 घसॢ!} अदने$} । अयं न सार्वत्रिकः । लिट्यन्यतरस्याम् <{SK2424}> इत्यादेर्घस्लादेशविधानात् । ततश्च यत्र लिङं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ॥", "31039": "एभ्योलिट्याम्वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् जुसि च <{SK2481}> इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् ।{$ {!1084 ञिभी!} भये$} । बिभेति ॥", "31040": "आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य <{SK2240}> इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन कृभ्वस्तियोगे <{SK2117}> इत्यतः कृञो द्वितीय - <{SK2129}> इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ॥", "31041": "वेत्तेर्लोट्याङ्गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इति शब्दात् ॥", "31042": "आद्येषु चतुर्षु लुङि आमक इत्यनुप्रयोगश्च । अभ्युत्सादयामकः । अभ्युदसीषददिति लोके । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामकः । अचैषीदित्यर्थे चिनोतेराम् द्विवचनं कुत्वं च । रमयामकः । अरीरमत् । पावयांक्रियात् । पाव्यादिति लोके । विदामक्रन् । अवेदिषुः ॥", "31043": "शबाद्यपवादः ॥", "31044": "इचावितौ ॥", "31045": "इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ॥", "31046": "(श्लिषः)स्मात्परस्यानिटश्च्लेः क्सः स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ॥(आलिङ्गने) श्लिषश्च्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां देवदत्तः । आलिङ्गन एवेति किम् । समश्लिषज्जतु काष्ठम् । अङ् । प्रत्यासत्ताविह श्लिषिः । कर्मणि अनालिङ्गने सिजेव न तु क्सः । एकवचने चिण् । अश्लेषि । अश्लिक्षाताम् । अश्लिक्षत । अश्लिष्ठाः । अश्लिढ्वम् ।{$ {!1187 शक!} विभाषितो मर्षणे$} । विभाषित इत्युभयपदीत्यर्थः । शक्यति । शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । अशकत् । अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिट्कारिकासु लृदित्पठितः । शकिता । शकिष्यति ।{$ {!1188 ष्विदा!} गात्रप्रक्षरणे$} । घर्मस्रुतावित्यर्थः । अयं ञीदिति न्यासकारादयः । नेति हरदत्तादयः । स्विद्यति । सिष्वेद । सिष्वेदिथ । स्वेत्ता । अस्विदत् ।{$ {!1189 क्रुध!} क्रोधे$} । क्रोद्धा । क्रोत्स्यति ।{$ {!1190 क्षुध!} बुभुक्षायाम्$} । क्षोद्धा । कथं क्षुधित्त इति । संपदादिक्विबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु वसतिक्षुधोः - <{SK3046}> इतीट् वक्ष्यते ।{$ {!1191 शुध!} शौचे$} । शुध्यति । शुशोध । शोद्धा ।{$ {!1192 षिधु!} संराद्धौ$} । ऊदित्पाठः । प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् ।{$ {!1193 रध!} हिंसासंराद्ध्योः$} । संरीद्धिर्निष्पत्तिः । रध्यति । रधिजभोरचि <{SK2302}> इति नुम् । ररन्धतुः ॥", "31047": "दृशश्च्लेः क्सो न । अद्राक्षीत् ।{$ {!989 दंश!} दशने$} । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एवनिपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । दंशसञ्ज - <{SK2396}> इति नलोपः । दशति । ददंशिथ । ददंष्ठ । दंष्टा । दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् ।{$ {!990 कृष!} विलेखने$} । विलेखनमाकर्षणम् । क्रष्टा । कर्ष्टा । क्रक्ष्यति । कर्क्ष्यति । (वार्तिकम्) ॥ अक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अकृक्षन् ।{$ {!991 दह!} भस्मीकरणे$} । देहिथ । ददग्ध । दग्धा । धक्ष्यति । अधाक्षीत् । अदाग्धाम् । अधाक्षुः ।{$ {!992 मिह!} सेचने$} । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति । अमिक्षत् ।{$ {!993 कित!} निवासेरोगापनयने च$} । चिकित्सति । संशये प्रायेण विपूर्वः । विचिकित्सा तु संशय इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति ।{$ {!994 दान!} खण्डने$} ।{$ {!995 शान!} तेजने$} । इतो वहत्यन्ताः स्वरितेतः ॥ दीदांसते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति ।{$ {!996 डुपचष्!} पाके$} । पचति । पचते । पेचिथ । पपक्थ । पेचे । पक्ता । पक्षीष्ट ।{$ {!997 षच!} समवाये$} । सचिति । सचते ।{$ {!998 भज!} सेवायाम्$} । भेजतुः । भेजुः । भेजिथ । बभक्थ । भक्ता । भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त ।{$ {!999 रञ्ज!} रागे$} । नलोपः । रजति । रजते । अराङ्क्षीत् । अरङ्क्तः ।{$ {!1000 शप!} आक्रोशे$} । आक्रोशो विरुद्धानुध्यानम् । शशाप । शेपे । अशाप्सीत् । अशप्त ।{$ {!1001 त्विष!} दीप्तौ$} । त्वेषति । त्वेषते । तित्विषे । त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत् । अत्विक्षाताम् ।{$ {!1002 यज!} देवपूजासङ्गतिकरणदानेषु$} । यजति । यजते ॥", "31048": "ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात्कर्त्रर्थे लुङि परे । काम् इ अ त इति स्थिते ॥", "31049": "आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । चङि <{SK2315}> इति द्वित्वम् । अदधत् । अदधताम् ॥", "31050": "च्लेश्चङ्वा । गृहानजूगुपतं युवम् (गृहा॒नजू॑गुपतं यु॒वम्) । अगौप्तमित्यर्थः ॥", "31051": "च्लेश्चङ् न । मा त्वायतो जरितुः काममूनयीः (मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः । मा त्वाग्निर्ध्वनयीत् (मा त्वा॒ग्निर्ध्व॑नयीत्) ॥", "31052": "एभ्यश्च्लेरङ् । अख्यत् । अख्यत । अक्शासीत् । अक्शास्त । (वार्तिकम्) ॥ समचक्षिष्टेत्यादि ॥\tअथ पृच्यन्ता अनुदात्तेतः- ॥{$ {!1018 ईर!} गतौ कम्पने च$} ॥ ईर्ते । ईरांचक्रे । ईरीता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ।{$ {!1019 ईड!} स्तुतौ$} । ईट्टे ॥", "31053": "एभ्यश्च्लेरङ् स्यात् ॥", "31054": "अतो लोपः <{SK2372}> । अह्वत् । अह्वताम् । अह्वन् । अह्वत् । अह्वास्त ॥\tअथ द्वौ परस्मैपदिनौ ॥{$ {!1009 वद!} व्यक्तायां वाचि $}। अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रज - <{SK2267}> इति वृद्धिः । अवादीत् ।{$ {!1010 टुओश्वि!} गतिवृद्ध्योः$} । श्वयति ॥", "31055": "श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ स्यात्परस्मैपदेषु । अघसत् ।{$ {!716 जर्ज!} {!717 चर्च!} {!718 झर्झ!} परिभाषणहिंसातर्जनेषु$} ।{$ {!719 पिसृ!} {!720 पेसृ!} गतौ$} । पिपिसतुः । पपेसतुः ।{$ {!721 हसे!} हसने$} । एदित्त्वान्न वृद्धिः । अहसीत् ।{$ {!722 णिश!} समाधौ$} । तालव्योष्मान्तः । प्रणेशति ।{$ {!723 मिश!} {!724 मश!} शब्दे रोषकृते च $}। तालव्योष्मान्तौ ।{$ {!725 शव!} गतौ$} । दन्तयोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् ।{$ {!726 शश!} प्लुतगतौ$} । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ ।{$ {!727 शसु!} हिंसायाम्$} । दन्त्योष्मान्तः । न शसदद - <{SK2263}> इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ ।{$ {!728 शंसु!} स्तुतौ$} । अयं दुर्गतावपीति दुर्गः । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् ।{$ {!729 चह!} परिकल्कने$} । कल्कनं शाठ्यम् । अचहीत् ।{$ {!730 मह!} पूजायाम्$} । अमहीत् ।{$ {!731 रह!} त्यागे$} ।{$ {!732 रहि!} गतौ$} । रंहति । रंह्यात् ।{$ {!733 दृह!} {!734 दृहि!} {!735 बृह!} {!736 बृहि!} वृद्धौ$} । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् । बृहिर् इत्येके । अबृहत् । अबर्हीत् ।{$ {!737 तुहिर्!} {!738 दुहिर्!} {!739 उहिर्!} अर्दने$} । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । माभवानुहत् । औहीत् ।{$ {!740 अर्ह!} पूजायाम्$} । आनर्ह ॥\tअथ कृपूपर्यान्ता अनुदात्तेतः ॥{$ {!741 द्युत!} दीप्तौ$} । द्योतते ॥", "31056": "एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात्सर्त्यर्ती जौहोत्यादिकावेवगृह्यते । तेन भ्वाद्योर्नाङ् । शीघ्रगतौ तु पाघ्राध्मा - <{SK2360}> इति धौरादेशः । धावति ।{$ {!936 ऋ!} गतिप्रापणयोः$} । ऋच्छति ॥", "31057": "इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् ।{$ {!41 श्च्युतिर्!} क्षरणे$} । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति ।{$ {!42 मन्थ!} विलोडने$} । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिषि <{SK2216}> इति कित्त्वात्अनिदिताम्-<{SK415}> इति नलोपः । मथ्यात् ।{$ {!43 कुथि!} {!44 पुथि!} {!45 लुथि!} {!46 मथि!} हिंसासंक्लेशनयोः$} । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् ।{$ {!47 षिध!} गत्याम्$} । सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः <{SK2123}> इति निषेधे प्राप्ते ॥", "31058": "एभ्यश्च्लेरङ् वा स्यात् । अम्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् ।{$ {!197 ग्रुचु!} {!198 ग्लुचु!} {!199 कुजु!} {!200 खुजु!} स्तेयकरणे$} । जुग्रोच । अग्रुचत् । अग्रोचत् । जुग्लोच । अग्लुचत् । अग्लोचीत् । अकोजीत् । अखोजीत् ।{$ {!201 ग्लुञ्चु!} {!202 षस्ज!} गतौ$} । अङ् । अग्लुचत् । अग्लुञ्चीत् । सस्य श्रुत्वेन शः, जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते(कुजि){$ {!203 गुजि!} अव्यक्ते शब्दे$} । गुञ्चति । गुञ्ज्यात् ।{$ {!204 अर्च!} पूजायाम्$} । आनर्च ।{$ {!205 म्लेच्छ!} अव्यक्ते शब्दे$} । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ ।{$ {!206 लच्छ!} {!207 लाच्छि!} लक्षणे$} । ललच्छ । ललाञ्छ ।{$ {!208 वाच्छि!} इच्छायाम्$} । वाञ्छति ।{$ {!209 आच्छि!} आयामे$} । आञ्छति । अत आदेः - <{SK1248}> इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थम् । तेन दीर्घाभावान्न नुट् । आञ्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ ।{$ {!210 ह्रीच्छ!} लज्जायाम्$} । जिह्रीच्छ ।{$ {!211 हुर्च्छा!} कौटिल्ये$} । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां च <{SK2265}> इति दार्घः । हूर्छति ।{$ {!212 मुर्च्छा!} मोहसमुच्छ्राययोः$} । मूर्छति ।{$ {!213 स्फुर्च्छा!} विस्तृतौ$} । स्फूर्च्छति ।{$ {!214 युच्छ!} प्रमादे$} । युच्छति ।{$ {!215 उच्छि!} उञ्छे$} । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । उञ्छति । उञ्छांचकार ।{$ {!216 उच्छी!} विवासे$} । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति ।{$ {!217 ध्रज!} {!218 ध्रजि!} {!219 धृज!} {!220 धृजि!} {!221 ध्वज!} {!222 ध्वजि!} गतौ$} । ध्रजति । ध्रञ्जति । धर्जति । धृञ्जति । ध्वजति । ध्वञ्जति ।{$ {!223 कूज!} अव्यक्ते शब्दे $}। चुकूज ।{$ {!224 अर्ज!} {!225 षर्ज!} अर्जने$} । अर्जति आनर्ज । सर्जति । ससर्ज ।{$ {!226 गर्ज!} शब्दे$} । गर्जति ।{$ {!227 तर्ज!} भर्त्सने$} । तर्जति ।{$ {!228 कर्ज!} व्यथने$} । चकर्ज ।{$ {!229 खर्ज!} पूजने च$} । चखर्ज ।{$ {!230 अज!} गतिक्षेपणयोः$} । अजति ॥", "31059": "च्लेरङ् वा । इदं तेभ्योऽकरं नमः (इ॒दं तेभ्यो॑ऽकरं॒ नमः॑) । अमरत् । अदरत् । यत्सानोः सानुमारुहत् (यत्सानोः॒ सानु॒मारु॑हत्) ॥", "31060": "पदश्च्लेश्चिण्स्यात्तशब्द परे । प्रणयपादि । अपत्साताम् । अपत्सत् ।{$ {!1170 खिद!} दैन्ये$} । खिद्यते । चिखिदे । खेत्ता । अखित्त ।{$ {!1171 विद!} सत्तायाम्$} । विद्यते । वेत्ता ।{$ {!1172 बुध!} अवगमने$} । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि । अबुद्ध । अभुत्साताम् ।{$ {!1173 युध!} संप्रहारे$} । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं युध्यतीति । युधमिच्छतीति क्यच् ॥ [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] इति वा ।{$ {!1174 अनो!} रुध कामे$} । अनुरुध्यते ।{$ {!1175 अण!} प्राणने$} । अण्यते । आणे । अणिता । अनेति दन्त्यान्तोऽमित्येके ।{$ {!1176 मन!} ज्ञाने$} । मन्यते । मेने । मन्ता ।{$ {!1177 युज!} समाधौ$} । समाधिश्चित्तवृत्तिनिरोधः । अकर्मकः । युज्यते । योक्ता ।{$ {!1178 सृज!} विसर्गे$} । अकर्मकः । संसृज्यते सरसिजैररुणांशुभिन्नैः । ससृजिषे । स्रष्टा । स्रक्ष्यते । लिङसिचौ - <{SK2300}> इति कित्त्वान्नगुणोनाप्यम् । सृक्षीष्ट । असृष्ट । असृक्षाताम् ।{$ {!1179 लिश!} अल्पीभावे$} । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत । अलिक्षाताम् ॥ \tअथागणान्ताः परस्मैपदिनः ॥{$ {!1180 राधो!} ऽकर्मकाद्वृद्धावेव $}। एवकारो भिन्नक्रमः । राधौऽकर्मकादेवश्यन् । उदाहरणमाह वृद्धाविति । यन्मह्यमपराध्यति । द्रुह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । राधो हिंसायाम् <{SK2532}> इत्येत्वाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात् । राद्धा । रात्स्यति । अयं स्वादिश्चुरादिश्च ।{$ {!1181 व्यध!} ताडने$} । ग्रहिज्या <{SK2412}> इति संप्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्यद्ध । विव्यधिथ । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् ।{$ {!1182 पुष!} पुष्टौ$} । पुष्यति । पपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादि <{SK2343}> इत्यङ् । अपुषत् ।{$ {!1183 शुष!} शोषणे$} । अशुषत् ।{$ {!1184 तुष!} प्रीतौ$} ।{$ {!1185 दुष!} वैकृत्ये$} ।{$ {!1186 श्लिष!} आलिङ्गने$} । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति ॥", "31061": "एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे ॥", "31062": "अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥", "31063": "अदोहि । पक्षे क्सः । लुग्वा - <{SK365}> इति पक्षे लुक् । अदुग्ध । अधुक्षत । उदुम्बरः फलं पच्यते । (वार्तिकम्) ॥ अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्य श्यन्वाच्य इत्यर्थः । (वार्तिकम्) ॥ सृज्यते स्रजं भक्तः । श्रद्धया निष्पादयतीत्यर्थः ॥ असर्जि । युज्यते ब्रह्मचारी योगम् । (वार्तिकम्) ॥ भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वाच्यमित्यर्थः । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ष्ट । गिरते । अगीर्ष्ट । आद्रियते । आदृत । किरीदिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियत्वम् ॥", "31064": "अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौर्गोपेन ॥", "31065": "तपश्चलेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मणि लुङ् । यद्वा पापेन पुंसा कर्त्रा अशोचीत्यर्थः । घुमास्था-<{SK2462}> इतीत्वम् । दीयते । धीयते । आदेचः-<{SK2370}> इत्यत्राशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः । एष आदिशित्त्वाभावान्न तस्मिन् आत्वम् । जग्ले ॥", "31066": "च्लेश्चिण् स्वाद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत । अभविष्यत । तिङोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम् । अन्वभविषाताम् । णिलोपः । भाव्यते । भावयांचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि इट एत्वे च कृते ह एतीति हत्वं न । तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादौ सार्वधातुके एव ह एति <{SK2250}> इति हत्वप्रवृत्तेरित्याहुः । भाविता । चिण्वदिट आभीयत्वेनासिद्धत्वाण्णिलोपः । पक्षे भावयिता । भाविष्यते । भावयिष्यते । भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट । भावयिषीष्ट । अभावि । अभाविषाताम् । अभावयिषाताम् । बुभूप्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यङ्लुगन्तात्तु । बोभूयते । बोभवांचक्रे । बोभाविता । बोभविता । अकृत्सार्व-<{SK2298}> इति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । अस्तावि । अस्ताविषाताम् । अस्तोषाताम् । गुणोर्ति <{SK2380}> इति गुणः । अर्यते । स्मर्यते । सस्मरे । परत्वान्नित्यत्वाच्च गुणे रपरे कृतेऽजन्तत्वाभावेऽप्युपदेशग्रहणाच्चिण्वदिट् । आरिता । अर्ता । स्मारिता । स्मर्ता । गुणोऽर्ति-<{SK2380}> इत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः । संस्क्रियते । अनिदिताम्-<{SK415}> इति नलोपः । स्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते । अयङ् यिक्ङिति <{SK2649}> । शय्यते ॥", "31067": "धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना, उत्पादना क्रिया सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां समानाधिकरण्याभावात्प्रथमपुरुषः । तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । किंत्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात् ॥ अनभिहिते कर्तरि तृतीया । त्वया मयाऽन्यैश्च भूयते । बभूवे ॥", "31068": "कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥", "31069": "{$ {!1107 दिवु!} क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु$} । झृषन्ताः परस्मैपदिनः ॥\nशपोऽपवादः । हलि च <{SK354}> इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यन्ति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् ।{$ {!1108 षिवु!} तन्तुसन्ताने$} । परिषीव्यति । परिषिषेव । न्यपेवीत् । न्यसेवीत् ।{$ {!1109 स्रिवु!} गतिशोषणयोः$} ।{$ {!1110 ष्ठिवु!} निरसने$} । केचिदिहेमं न पठन्ति ।{$ {!1111 ष्णुसु!} अदने$} । आदान इत्येके । अदर्शन इत्यपरे । स्नुस्यति । सुष्णोस ।{$ {!1112 ष्णसु!} निरसने$} । स्नस्यति । सस्नाम ।{$ {!1113 क्नसु!} ह्वरणदीप्त्योः$} । ह्वरणं कौटिल्यम् । चक्नास ।{$ {!1114 व्युष!} दाहे$} । वुव्योष ।{$ {!1115 प्लुष!} दाहे$} ।{$ {!1116 नृती!} गात्रविक्षेपे$} । नृत्यति । ननर्त ॥", "31070": "एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ॥", "31071": "", "31072": "श्यन्वा स्यात् । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति ।{$ {!1211 जसु!} मोक्षणे$} । जस्यति ।{$ {!1212 तसु!} उपक्षये$} ।{$ {!1213 दसु!} च$} । तस्यति । अतसत् । दस्यति । अदसत् ।{$ {!1214 वसु!} स्तम्भे$} । वस्यति । ववास । ववसतुः । न शसदद - <{SK2263}> इति निषेधः । बशादिरयमिति मते तु बेसतुः । बेसुः ।{$ {!1215 व्युष!} विभागे$} । अयं दाहे पठितः । अर्थभैदेन त्वर्ङ्गथं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्तोऽयं प्युस इत्यन्ये । अपकारो युस इत्यपरे ।{$ {!1216 प्लुष!} दाहे$} । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद् भ्वादिपाठेन गतार्थमिति सुवचम् ।{$ {!1217 बिस!} प्रेरणे$} । बिस्यति । अबिसत् ।{$ {!1218 कुस!} संश्लेषणे$} । अकुसत् ।{$ {!1219 बुस!} उत्सर्गे$} ।{$ {!1220 मुस!} खण्डने$} ।{$ {!1221 मसी!} परिणामे$} । परिणामे विकारः । समी इत्येके ।{$ {!1222 लुठ!} विलोडने$} ।{$ {!1223 उच!} समवाये$} । रउच्यति । उवोच । ऊचतुः । मा भवानुचत् ।{$ {!1224 भृशु!} {!1225 भ्रंशु!} अधः पतने$} । बभर्श । अभृशत् । अनिदिताम् - <{SK415}> इति नलोपः । भ्रश्यति । अभ्रशत् ।{$ {!1226 वृश!} वरणे$} । वृश्यति । अवृशत् ।{$ {!1227 कृश!} तनूकरणे$} । कृश्यति ।{$ {!1228 ञितृषा!} पिपासायाम्$} ।{$ {!1229 हृष!} तृष्टौ$} । श्यन्नङौ भौवादिकाद्विसेषः ।{$ {!1230 रुष!} {!1231 रिष!} हिंसायाम्$} । तीषसह - <{SK2340}> इति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा ।{$ {!1232 डिप!} क्षेपे$} ।{$ {!1233 कुप!} ग्रोदे$} ।{$ {!1234 गुप!} व्याकुलत्वे$} ।{$ {!1235 युप!} {!1236 रुप!} {!1237 लुप!} विमोहने$} । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः । सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् ।{$ {!1238 लुभ!} गार्ध्ये$} । गार्ध्यमाकाङ्क्षा । तीषसह - <{SK2340}> इति वेट् । लोभिता । लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् ॥ भ्वादेरवृक्तृतत्वाल्लोभतीत्यपीत्याहुः ।{$ {!1239 क्षुभ!} संचलने$} । क्षुभ्यति ।{$ {!1240 णभ!} {!1241 तुभ!} हिंसायाम्$} । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । क्त्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यनर्थः ।{$ {!1242 क्लिदू!} आर्द्रीभावे$} । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम । चिक्लिद्म । क्लेदिता । क्लेत्ता ।{$ {!1243 ञिमिदा!} स्नेहने$} । मिदेर्गुणः <{SK2346}> । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति माभूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः ।{$ {!1244 ञिक्ष्विदा!} स्नेहनमोचनयोः$} ।{$ {!1245 ऋधु!} वृद्धौ$} । आनर्ध । आर्धत् ।{$ {!1246 गृधु!} अभिकाङ्क्षायाम्$} । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् ॥ दिवादिस्तु भ्वादिवदाकृतिगणः । तेन क्षीयते । मृग्यतीत्यादिसिद्धिरित्याहुः ॥ इति दिवादयः ॥", "31073": "{$ {!1247 षुञ्!} अङिषवे$} । अभिषवः स्नपनं पीडनं स्नानं सुरासंधानं च । तत्र स्नानेऽकर्मकः ॥\nसुनोति । सुनुतः । हुश्नुवोः - <{SK2387}> इति यण् । सुन्वन्ति । सुन्वः । सुनुवः । सुन्वहे । सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् । स्तुसुधूञ्भ्यः - <{SK2385}> इतीट् । असावीत् । असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ॥", "31074": "श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये । शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । शृणोति । शृणुतः ॥", "31075": "अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रर्थे परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्तः । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ । आनष्ट । अक्षिता । अष्टा । अक्षिष्यति । स्कोः - <{SK380}> इति कलोपः । षढोः कः सि <{SK295}> । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । अक्ष्णोत् । आक्ष्णुवम् । अक्ष्णुयात् । अक्ष्यात् । ऊदित्वाद्वेट् । नेटि <{SK2268}> । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः ।{$ {!655 तक्षू!} {!656 त्वक्षू!} तनुकरणे$} ॥", "31076": "श्नुः स्याद्वाशब्विषये । तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ । ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः ।{$ {!657 उक्ष!} सेचने$} । उक्षांचकार ।{$ {!658 रक्ष!} पालने$} ।{$ {!659 णिक्ष!} चुम्बने$} । प्रणिक्षति ।{$ {!660 तृक्ष!} {!661 ष्ट्रक्ष!} {!662 णक्ष!} गतौ$} । तृक्षति । स्तृक्षति । नक्षति ।{$ {!663 वक्ष!} रोषे$} । संघात इत्येके ।{$ {!664 मृक्ष!} संघाते $}। म्रक्ष इत्येके ।{$ {!665 तक्ष!} त्वचने$} । त्वचनं संवरणं त्वचोग्रहणं च । पक्ष परिग्रह इत्येके ।{$ {!666 सूर्क्ष!} आदरे$} । सुसूर्क्ष । अनादर इति तु क्वाचित्कोऽपपाठः । अवज्ञावहेलनमसूर्क्षणमित्यमरः ।{$ {!667 काक्षि!} {!668 वाक्षि!} {!669 माक्षि!} काङ्क्षायाम्$} ।{$ {!670 द्राक्षि!} {!671 ध्राक्षि!} {!672 ध्वाक्षि!} घोरवासिते च$} ।{$ {!673 चूष!} पाने$} । चुचूष ।{$ {!674 तूष!} तुष्टौ$} ।{$ {!675 पूष!} वृद्धौ$} ।{$ {!676 मूष!} स्तेये$} ।{$ {!677 लूष!} {!678 रूष!} भूषायाम्$} ।{$ {!679 शूष!} प्रसवे$} । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः ॥{$ {!680 यूष!} हिंसायाम्$} ।{$ {!681 जूष!} च$} ।{$ {!682 भूष!} अलंकारे$} । भूषति ।{$ {!683 ऊष!} रुजायाम्$} । ऊषांचकार ।{$ {!684 ईष!} उञ्छे$} ।{$ {!685 कष!} {!686 खष!} {!687 शिष!} {!688 जष!} {!689 झष!} {!690 शष!} {!691 वष!} {!692 मष!} {!693 रुष!} {!694 रिष!} हिंसार्थाः$} । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठादिः । चकास । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥", "31077": "{$ {!1281 तुद!} व्यथने$} ॥ इतः षट् स्वरितेतः ॥\nतुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त ।{$ {!1282 णुद!} प्रेरणे$} । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता ।{$ {!1283 दिश!} अतिसर्जने$} । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् । अदिक्षत ।{$ {!1284 भ्रस्ज!} पाके$} । ग्रहिज्या - <{SK2412}> इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥", "31078": "{$ {!1438 रुधिर्!} आवरणे$} । नव स्वरितेत इरितश्च ॥\nशपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि ।श्नसोरल्लोपः <{SK2469}> । णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः । तस्यासिद्धत्वाण्णत्वं न न पदान्त - <{SK51}> इति सूत्रेणानुस्वारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रुणद्धु । रुन्धात् । रुन्धि । रुणधानि । रुणधै । अरुणत् । अरुन्धाम् । अरुणत् । अरुणः । अरुणधम् । अरुधत् । अरौत्सीत् । अरुद्ध ।{$ {!1439 भिदिर्!} विदारणे$} । भिनत्ति । भिन्ते । भेत्ता । भेत्स्यति । भेत्स्यते । अभिनत् । अभिन्ताम् । अभिनदम् । अभिन्त । अभिदत् । अभैत्सीत् । अभित्त ।{$ {!1440 छिदिर्!} द्वैधिकरणे$} । अच्छिदत् । अच्छैत्सीत् । अच्छित्त ।{$ {!1441 रिचिर्!} विरेचने$} । रिणक्ति । रिङ्क्ते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत् । अरैक्षीत् । अरिक्त ।{$ {!1442 विचिर्!} पृथग्भावे$} । विनक्ति । विङ्क्ते ।{$ {!1443 क्षुदिर्!} संपेषणे$} । क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त ।{$ {!1444 युजिर्!} योगे $}। योक्ता ।{$ {!1445 उच्छृदिर्!} दीप्तिदेवनयोः$} । छृणत्ति । छृन्ते । चच्छर्द । सेसिचि - <{SK2506}> इति वेट् । चच्छृदिषे । चच्छृत्से । छर्दिता । छर्दिष्यति । छर्त्स्यति । अच्छृदत् । अच्छर्दीत् । अच्छर्दिष्ट ।{$ {!1446 उतृदिर्!} हिंसानादरयोः$} । तृणत्तीत्यादि छृणत्तिवत् ।{$ {!1447 कृती!} वेष्टने$} । परस्मैपदी । कृणत्ति । आर्धधातुके तौदादिकवत् ।{$ {!1448 ञिइन्धी!} दीप्तौ$} ॥ त्रय आत्मनेपदिनः ॥", "31079": "तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेवसिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥", "31080": "अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः <{SK2308}> । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वति ॥", "31081": "{$ {!1473 डुक्रीञ्!} द्रव्यविनिमये$} ॥\nक्रीणाति । ई हल्यघः <{SK2497}> क्रीणीतः । ईत्वात्पूर्वं झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च । एवं झस्याद्भावः । ततः श्नाभ्यस्तयोः - <{SK2483}> इत्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणाते । चिक्राय । चिक्रियतुः । चिक्रियिथ । चिक्रेथ । चिक्रियिव । चिक्रियिषे । क्रेता । क्रेष्यति । क्रीतात् । क्रेषीष्ट । अक्रैषीत् । अक्रेष्ट ।{$ {!1474 प्रीञ्!} तर्पणे कान्तौ च$} । कान्तिः कामना । प्रीणाति । प्रीणीते ।{$ {!1475 श्रीञ्!} पाके$} ।{$ {!1476 मीञ्!} हिंसायाम्$} । हिनुमीना <{SK2530}> प्रमीणाति । प्रमीणीतः । मीनातिमिनोति <{SK2508}> इत्येज्विषये आत्वम् । ममौ । मिम्यतुः । ममिथ । ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ।{$ {!1477 षिञ्!} बन्धने$} । सिनाति । सिनीते । सिषाय । सिष्ये । सेता ।{$ {!1478 स्कुञ्!} आप्रवणे$} ॥", "31082": "चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्काव । चुस्कवे । स्कोता । अस्कौषीत् । अस्कोष्ट । स्तम्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति । विष्टभ्नाति । अवष्टभ्नोति । अवष्टभ्नाति । अवतष्टम्भ । जॄस्तम्भु-<{SK2291}> इत्यङ्वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ॥", "31083": "हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे स्तभ्नुहीत्यादि ।{$ {!1479 युञ्!} बन्धने $}। युनाति । युनीते । योता ।{$ {!1480 क्नूञ्!} शब्दे $}। क्नूनाति । क्नूनीते । क्नविता ।{$ {!1481 द्रूञ्!} हिंसायाम्$} । द्रूणाति । द्रूणीते ।{$ {!1482 पूञ्!} पवने$} ॥", "31084": "अपिशब्दाच्छानच् । (वार्तिकम्) । गृभाय जिह्वया मधु (गृ॒भा॒य जि॒ह्वया॒ मधु॑) । बधान देव सवितः (ब॒धान॑ देव सवितः) । अनिदितां - <{SK415}> इति बध्नातेर्नलोपः । गृभ्णामि ते (गृ॒भ्णामि॑ ते) । मध्वा जभार (मध्वा॑ ज॒भार॑) ॥", "31085": "विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्णस्य भेदति (आ॒ण्डा शुष्ण॑स्य॒ भेद॑ति) । भिनत्तीति प्राप्ते । जरसा मरते पतिः (ज॒रसा॒ मर॑ते॒ पतिः॑) । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु (इन्द्रो॑ व॒स्तेन॑ नेषतु) । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । इन्द्रेण युजा तरुषेम वृत्रम् (इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम्) । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः शप् सिप् चेति त्रयो विकरणाः ॥ सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ 1 ॥ धुरि दक्षिणायाः (धु॒रि दक्षि॑णायाः) । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय तक्षति (च॒षालं॒ ये अ॑श्वयूपाय॒ तक्ष॑ति) । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मिर्युध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते (मधो॑स्तृ॒प्ता इ॑वासते) । मधुन इति प्राप्ते । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः (अधा॒ स वी॒रैर्द॒शभि॒र्वियू॑याः) । वियूयीदिति प्राप्ते । कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लृट् । तमसो गा अदुक्षत् (तम॑सो॒ गा अ॑दुक्षत्) । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः (मित्र॑ व॒यं च॑ सू॒रयः॑) । मित्रा वयमिति प्राप्ते । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषये अच् । अवग्रहे विशेषः । यङो यशब्दादारभ्य लिङ्याशिष्यङ् - <{SK3434}> इति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥", "31086": "आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम् - <{SK2454}> । मन्त्रं वोचेमाग्नये (मन्त्रं॑ वोचेमा॒ग्नये॑) । (वार्तिकम्) ॥ पितरं च दृशेयं मातरं च (पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च) । अङि तु ऋदृशोऽङि - <{SK2406}> इति गुणः स्यात् ॥", "31087": "कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न । लकारवाच्य एव कर्ता कर्मवत् । व्यत्ययो बहुलं <{SK3433}> लिङ्याशिष्यङ् <{SK3434}> इति द्विलकारकाल्ल इत्यनुवृत्तेः । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः । अत एव कृत्यक्तखलार्थाः कर्मकर्तरि न भवन्ति । किं तु भावे एव । भेत्तव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्था क्रिया विक्लत्तिर्द्विधाभवनं च । सैवेदानीं कर्तृस्था न तु तत्तुल्या । सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति किम् । करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् । किंच । कर्तृस्थक्रियेभ्यो माभूत् । गच्छति ग्रामः । आरोहति हस्ती । अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्वेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र । न हि पक्वापक्वतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरूत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिद्ध्येत् । ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् । एतेन अनुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छ्यनि कृते ओलोपे च रूपसिद्धेः । ताच्छील्यादावयं चानश् न त्वात्मनेपदम् । (वार्तिकम्) ॥ अन्योन्यं स्पृशतः । अजा ग्रामं नयति । (वार्तिकम्) ॥", "31088": "कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । तपोऽनुतापे च <{SK2760}> इति चिण्निषेधात्सिच् । अतप्त । तपः कर्मः कस्येति किम् । उत्तपत सुवर्णं सुवर्णकारः । न दुहस्नुनमां यक्चिणौ <{SK2767}> । प्रस्नुते । प्रास्नाविष्ट । प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः ॥ यक्चिणोः प्रतिषेधे - । (वार्तिकम्) ॥ कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चिण्वदिट् तु स्यादेव । कारिष्यते । उच्छ्रायिष्यते । ब्रूते कथा । अवोचत ॥ भारद्वाजीयाः पठन्ति । (वार्तिकम्) ॥ पुच्छमुदस्यति । उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् । उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् । उत्पुच्छयते गौः । उदपुपुच्छत । यक्चिणोः प्रतिषेधाच्छप्चङौ । श्रन्थिग्रन्थ्योराधृषीयत्वाण्णिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्रैयादिकयोस्तु । श्रन्थीते ग्रन्थीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । वेः शब्दकर्मणः <{SK2707}> , अकर्मकाच्च <{SK2708}> इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे । विकुर्वते सैन्धवाः । व्यकारिष्ट । व्याकारिषाताम् । व्याकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ॥", "31089": "एषां कर्मकर्तरि यक्चिणौ न स्तः । दुहेरनेन यक एव निषेधः । चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥", "31090": "अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति कुष्यते पादः स्वयमेव । रज्यति रज्यते वस्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥", "31091": "आ तृतीयसमाप्तेरधिकारोऽयम् । तत्रोपपदं सप्तमीस्थम् <{SK781}> । कृदतिङ् <{SK374}> ॥", "31092": "सप्तम्यन्ते पदे कर्मणि - <{SK2913}> इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः ॥", "31093": "संनिहिते धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥", "31094": "परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥", "31095": "अधिकारोऽयं ण्वुलः प्राक् ॥", "31096": "धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थौ । एधितव्यम् । एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया । (वार्तिकम्) ॥ वसतीति वास्तव्यः । (वार्तिकम्) ॥ पचेलिमा माषाः । पक्तव्याः । भिदेलिमाः सरलाः भेत्तव्याः । कर्मणि प्रत्ययः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याह तद्भाष्यविरुद्धम् ॥", "31097": "अजन्ताद्धातोर्यत्स्यात् । चेयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यादिष्वेव यतोऽपि सुपठत्वात् ॥", "31098": "पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥", "31099": "शक्यम् । सह्यम् ॥", "31100": "गद्यम् । मद्यम् । चर्यम् । (वार्तिकम्) ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्माभूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव ॥ (वार्तिकम्) ॥ एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥", "31101": "वदेर्नञि उपपदे वदः सुप् - <{SK2854}> इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवद्यं पापम् । गर्ह्ये किम् । अनुद्यं गुरुनाम । तद्धि न गर्ह्यं वचनानर्हं च । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्याकन्या । वृत्यान्या ॥", "31102": "वहन्त्यनेनेति वह्यं शकटम् । करणं किम् । वाह्यम् । वोढव्यम् ॥", "31103": "ऋ गतौ । अस्माद्यत् । ण्यतोपवादः । अर्यः स्वामी वैश्यो वा । अनयोः किम् । आर्यो ब्रह्मणः । प्राप्तव्य इत्यर्थः ॥", "31104": "गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥", "31105": "नञ्पूर्वाज्जीर्यतेः कर्तरि यत् संगतं येद्विशेष्यम् । न जीर्यतीत्यजर्यम् । तेन संगतमार्येण रामाजर्यं कुरु द्रुतमिति भट्टिः । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् । अजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि ण्यदेव । अजार्यं संगतेन ॥", "31106": "उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्स्याच्चद्यत् अनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् । ब्रह्मवद्यम् । ब्रह्म वेदः तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्यके । उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् ॥", "31107": "क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥", "31108": "अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकाश्चान्तादेशः । ब्राह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥", "31109": "एभ्यः क्यप्स्यात् ॥", "31110": "वृत् । वृत्यम् । वृध् । वृध्यम् । कॢपिचृत्योस्तु । कल्प्यम् । चर्त्यम् । तपरकरणं किम् । कॄत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥", "31111": "चात्क्यप् । आद्गुणः <{SK69}> । खेयम् । इ चेति ह्रस्वः सुपठः ॥", "31112": "भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा । (वार्तिकम्) ॥ संभृत्याः । संभार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् । भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि संज्ञायां समज-<{SK3276}> इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरितार्थः । सत्यं । बिभर्तेर्भॄ इति दीर्घान्तात् क्रयादेर्वा ण्यत् । क्यप् तु भरतेरेव । तदनुबन्धकग्रहणे नातदनुबन्धकस्य इति परिभाषया ॥", "31113": "मृजेः क्यब्वा स्यात्पक्षे ण्यत् । मृज्यः ॥", "31114": "एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः । यद्वा लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रत्यधिकरणे क्यप् । निपातनाद्दीर्घः । राजसूयः । राजसूयम् । अर्धर्चादिः । सरत्याकाशे सूर्यः । कर्तरि क्यप् । निपातनादुत्वम् । यद्वा षू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयति । क्यपो रुट् । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिघ्नोऽयम् । उच्छ्रायसौन्दर्यगुणा मृषोद्याः । रोचते रुच्यः । गुपोरादेः कत्वं च संज्ञायाम् । सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्टे स्वयमेव पच्यन्ते कृष्टपच्याः । कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः । न व्यथते अव्यथ्यः ॥", "31115": "भिदेरुज्झेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥", "31116": "अधिकरणे क्यब्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥", "31117": "पूङ्नीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्कः । पिष्ट ओषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्यः इत्यर्थः । कृष्टसमीकरणार्थं स्थूलकाष्ठम् । अन्यत्तु विपव्यम् । विनेयम् । जेयम् ॥", "31118": "। (वार्तिकम्) ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥", "31119": "अवगृह्यम् । प्रगृह्यं पदम् । अस्वैरी परतन्त्रः । गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायाम् । ग्रामगृह्या सेना । ग्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्निर्देशात्पुंनपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥", "31120": "क्यप्स्यात् । कृत्यम् । वृष्यम् । पक्षे ॥", "31121": "पत्रं वाहनम् । युग्यो गौः । अत्र क्यप् कुत्वं च निपात्यते ॥", "31122": "अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रार्कावमावस्या । अमावास्या । ऋहलोर्ण्यत् <{SK2872}> । चजोः <{SK2863}> इति कुत्वम् । पाक्यम् । (वार्तिकम्) ॥ ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसर्ग्या रज्जुः । (वार्तिकम्) ॥ समवसर्ग्या ॥", "31123": "कृन्ततेर्निस्पूर्वात्क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्विपर्यासो निसः षत्वं च । निष्टर्क्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप् दीर्घश्च । स्पर्धन्ते वा उ देवहूये (स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॑) । प्र उत् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्स्तृञ्ध्वृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यण्ण्यतौ । खन्यः । खान्यः । यजेर्यः । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै (शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑) । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यं धरुणं वाज्यर्षति (आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति) । सीव्यतेः क्यप् षत्वं च । प्रतिषीव्यः । ब्रह्मणि वदेर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् च-<{SK2854}> इति क्यब्यतौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेर्ण्यत् आयादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् । (वार्तिकम्) ॥ उपचेयपृडमन्यत् ॥ मृड सुखने पृड चेत्यस्मादि गुपधलक्षणः कः ॥", "31124": "ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ष्यम् ॥", "31125": "उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये । लाव्यम् । पाव्यम् ॥", "31126": "षुञ् । आसाव्यम् । यु मिश्रणे । याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । चाम्यम् ॥", "31127": "आङ्पूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनियतश्च सततमप्रज्वलनात् । आनेयोऽन्यो घटादिः वैश्यकुलादेरानीतो दक्षिणाग्निश्च ॥", "31128": "संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वादरोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥", "31129": "मीयतेऽनेन पाय्यं मानम् । ण्यत् धात्वादेः पत्वं च । आतो युक् <{SK2761}> इति युक् । सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकायो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥", "31130": "कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥", "31131": "अग्निधारणार्थे स्थलविशेषे एते साधवः । अन्यत्र तु परिचेयम् । उपचेयम् । संवाह्यम् ॥", "31132": "चीयतेऽसौ चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च <{SK2817}> । त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लोटा बाधा माभूदिति पुनः कृत्यविधिः स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्नेति ज्ञापयति । तेन क्तल्युट्तुमुन्खलर्थेषु नेति सिद्धम् ।अर्हे कृत्यतृचश्च <{SK2822}> । स्तोतुमर्हः स्तुत्यः, स्तुतिकर्म । स्तोता, स्तुतिकर्ता । लिङा बाधा माभूदिति कृत्यतृचोर्विधिः ॥", "31133": "धातोरेतौ स्तः । कर्तरि कृत् <{SK2832}> इति कर्त्रर्थे । युवोरनाकौ <{SK1247}> । कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । कर्त्री । गाङ्कुटा - <{SK2461}> इति ङित्त्वम् । कुटिता । अञ्णिदित्युक्तेर्न ङित्त्वम् । कोटकः । विज इट् <{SK2536}> । विजिता । हनस्तोऽचिण्णलोः <{SK2574}> । घातकः । आतो युक् <{SK2761}> । दायकः । नोदात्तोपदेशस्य <{SK2763}> इति न वृद्धिः । शमकः । दमकः । अनिटस्तु नियामकः । जनिवध्योश्च <{SK2512}> । जनकः । वध हिंसायाम् । वधकः । रधिजभोरचि <{SK2302}> । रन्धकः । जम्भकः । नेट्यलिटि रधेः <{SK2516}> । रधिता । रद्धा । मस्जिनशोः <{SK2517}> इति नुम् । मङ्क्ता । नंष्टा । नशिता । रभेरशब्लिटोः <{SK2581}> । रम्भकः । रब्धा । लभेश्च <{SK2582}> । लम्भकः । लब्धा । तीषसह-<{SK2340}> इति वेट् । एषिता । एष्टा । सहिता । सोढा । दरिद्रातेरालोपः । दरिद्रिता । ण्वुलि न । दरिद्रायकः । कृत्यल्युट <{SK2841}> इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि ण्वुल् । (वार्तिकम्) ॥ प्रक्रन्ता ॥ कर्तरीति किम् । प्रक्रमितव्यम् । आत्मनेपदेति किम् । संक्रमिता । अनन्यभावे विषयशब्दः । तेन अनुपसर्गाद्वा <{SK2716}> इति विकल्पार्हस्य न निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । गमेरिट्-<{SK2401}>इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । संजिगमिषिता । एवं न वृद्भ्यश्चतुर्भ्यः <{SK2348}> । विवृत्सिता । यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः ॥", "31134": "नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयतीति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्ध्याभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे <{SK3489}> कर्मणि घटोऽठच् <{SK1836}> इति सूत्रयोः करोतेर्घटेश्चाच् प्रयोगात् । अच् प्रत्यये परे यङिलुग्विधानाच्च । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदट् । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेः । इगुपध - <{SK2897}> इति कः प्राप्तः । न्यङ्क्वादिषु पाठात् श्वापकोऽपि । यङोऽचि च <{SK2650}> इति लुक् । न धातुलोप - <{SK2656}> इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः । (वार्तिकम्) ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासह्रस्वो हलादिः शेषः <{SK2179}> च न । चराचरः । चलाचलः । पतापतः । वदावदः । (वार्तिकम्) ॥ घत्वमभ्यासस्य उत्तरस्य तु अभ्यासाच्च <{SK2430}> इति कुत्वम् । घनाघनः । (वार्तिकम्) ॥ पाटुपटः ॥ पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृति - <{SK1008}> इति वा मुम् । रात्रिंचरः । रात्रचरः ॥", "31135": "एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥", "31136": "कः स्यात् ।श्याद्व्यधा - <{SK2903}> इति णस्यापवादः । सुग्लः । प्रज्ञः ॥", "31137": "पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्त्वात् स्तनन्धयीति खशीव ङीप् प्राप्तः । खशोऽन्यत्र नेष्यत इति हरदत्तः । पश्यतीति पश्यः ॥ (वार्तिकम्) ॥ व्याघ्रादिभिः - <{SK735}> इति निर्देशात् ॥", "31138": "शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेदयः । उदेजयः । चेतयः । सातिः सुखार्थः । सौत्रो हेतुमण्ण्यन्तः । सातयः । वाऽसरूपन्यायेन क्विपि । सात् परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे चुरादिः । हेतुमण्ण्यन्तो वा । साहयः । अनुपसर्गात्किम् । प्रलिपः । (वार्तिकम्) ॥ निलिम्पा देवाः । (वार्तिकम्) ॥ गोविन्दः । अरविन्दम् ॥", "31139": "शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो णः । अनुपसर्गादित्येव । प्रदः । प्रधः ॥", "31140": "इति शब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुपसर्गादित्येव । उज्ज्वलः । (वार्तिकम्) ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यतानः ॥", "31141": "श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तात्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥", "31142": "णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धाद्दुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥", "31143": "णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् । भावः ॥", "31144": "गेहे कर्तरि ग्रहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्याद्गृहादाराः ॥", "31145": "क्रियाकौशलं शिल्पं तद्वति ष्वुन् स्यात् । (वार्तिकम्) ॥ नर्तकः । नर्तकी । खनकः । खनकी । (वार्तिकम्) ॥ रजकः । रजकी । भाष्यमते तु नृतिखनिभ्यामेव ष्वुन् । रञ्जेस्तु क्वुन्शिल्पिसंज्ञयोः <{उ190}> इति क्वुन् । टाप् । रजिका । पुंयोगे तु रजकी ॥", "31146": "गायतेस्थकन् स्यात् । शिल्पिनि कर्तरि । गाथकः ॥", "31147": "गायनः । टित्त्वाद्गायनी ॥", "31148": "हाको हाङश्च ण्युट् स्यात् व्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोति वा ॥", "31149": "समभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः ॥", "31150": "आशीर्विषयार्थवृत्तेर्धातोर्वुन् स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात् - नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्तिः ॥", "32001": "कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न । (वार्तिकम्) ॥ अणोऽपवादार्थं वार्तिकम् । मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा ॥ (वार्तिकम्) ॥ सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति ॥", "32002": "अण् स्यात् । कापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥", "32003": "आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः । पार्ष्णित्रम् । अनुपसर्गे किम् । गोसंदायः । (वार्तिकम्) ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे <{SK2898}> । आह्वः । प्रह्वः ॥", "32004": "सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विषमस्थः । ततः - स्थः ॥ सुपि तिष्ठतेः कः स्यात् । आरम्भसामर्थ्याद्भावे । आखूनामुत्थानमाखूत्थः ॥", "32005": "तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् । (वार्तिकम्) ॥ तुन्दं परिमार्ष्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः । सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः । (वार्तिकम्) ॥ मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीध्रः । कुध्रः । गिलतीति गिलः ॥", "32006": "दारूपाज्जानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सति न कः । गोसंप्रदायः ॥", "32007": "गोसंख्यः ॥", "32008": "अनुपसृष्टाभ्यामाभ्यां टक् स्यात्कर्मण्युपपदे । सामगः । सामगी । उपसर्गे तु सामसंगायः ॥ (वार्तिकम्) ॥ सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ॥", "32009": "अंशहरः । अनुद्यमने किम् । भारहारः । (वार्तिकम्) ॥ शक्तिग्रहः । लाङ्गलग्रहः । सूत्रे च धार्येऽर्थे ॥ सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव । सूत्रग्राहः ॥", "32010": "उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥", "32011": "पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥", "32012": "अर्हतेरच् स्यात्कर्मण्युपपदे । अणोपवादः । पूजार्हा ब्राह्मणी ॥", "32013": "। (वार्तिकम्) ॥ स्तम्बे रमते स्तम्बेरमो हस्ती । तत्पुरुषे कृति - <{SK972}> इति, 'हलदन्तात्' <{SK966}> इति वा ङेरलुक् । कर्णेजपः सूचकः ॥", "32014": "शम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञो हेत्वादिषु टो मा भूत् । शंकरा नाम परिव्राजिका तच्छीला ॥", "32015": "खे शेते खशयः । (वार्तिकम्) ॥ पार्श्वाभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरेण शेते उदरशयः । उत्तानादिषु कर्तृषु ॥ उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सः अवमूर्धा । अधोमुखः शेते इत्यर्थः । (वार्तिकम्) ॥ गिरौ शेते गिरिशः । लोके गिरिशयः । कथं तर्हि गिरिशमुपचचार प्रत्यहं सा सुकेशीति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ॥", "32016": "अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥", "32017": "भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पचादिषु चरडिति पाठात् ॥", "32018": "पुरस्सरः । अग्रतसरः । अग्रमग्रेणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्रे इति एदन्तत्वमपि निपात्यते । कथं तर्हि यूथं तदग्रसरगर्वितकृष्णसारमिति । बाहुलकादिति हरदत्तः ॥", "32019": "कर्तृवाचिनि पूर्वशब्दे उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ॥", "32020": "एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमि <{SK160}> इति सः । यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥", "32021": "एषु कृञष्टः स्याद् अहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । नित्यं समासेऽनुत्तरपदस्थस्य <{SK159}> इति षत्वम् । धनुष्करः । अरुष्करः । (वार्तिकम्) ॥ इति वार्तिकम् । किंकरा । यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वादच् । पुंयोगे ङीष् । किंकरी ॥", "32022": "कर्मशब्दे उपपदे करोतेष्टः स्यात् । कर्मकरो भृतकः । कर्मकारोऽन्यः ॥", "32023": "एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ॥", "32024": "। (वार्तिकम्) ॥ स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः किम् । स्तम्बकारः । शकृत्कारः ॥", "32025": "दृतिनाथयोरुपपदयोर्हृञ इन् स्यात्पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः । पशौ किम् । दृतिहारः । नाथहारः ॥", "32026": "फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥", "32027": "एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनिं त्वा क्षत्रवनिम् (ब्रह्मवनिं॑ त्वा क्षत्र॒वनि॑म्) । उत नो गोषणिं धियम् (उ॒त नो॑ गो॒षणिं॒ धि॒य॑म्) । ये पथां पथिरक्षयः (ये प॒थां प॑थि॒रक्ष॑यः) । चतुरक्षौ पथिरक्षी (च॒तु॒र॒क्षौ प॑थि॒रक्षी॑) । हविर्मथीनामभि (हवि॒र्मथी॑नाम॒भि) ॥", "32028": "ण्यन्तादेजेः खश् स्यात् ॥", "32029": "अत्र वार्तिकम् । (वार्तिकम्) ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥", "32030": "एतयोरुपपदयोः कर्मणोर्ध्माधेटोः खश् स्यात् ॥ यथासंख्यंनेष्यते ॥ नाडिन्धमः । नाडिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः । (वार्तिकम्) ॥ घटिन्धमः । घटिन्धय इत्यादि ॥ खारी परिमाणविशेषः । खरी गर्दभी ॥", "32031": "उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ॥", "32032": "वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदादित्वाच्छपो लुक् । खशो ङित्वान्न गुणः । अभ्रंलिहो वायुः ॥", "32033": "प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥", "32034": "मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥", "32035": "विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः ॥", "32036": "असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ॥", "32037": "एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात् न श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥", "32038": "प्रियंवदः । वशंवदः ॥ (वार्तिकम्) ॥ असंज्ञार्थमिदम् । मितङ्गमो हस्ती । (वार्तिकम्) । (वार्तिकम्) ॥ विहंगमः । विहङ्गः । भुजंगमः । भुजंगः ॥", "32039": "खच्स्यात् ॥", "32040": "वाक् शब्दे उपपदे यमेः खच् स्याद्व्रते गम्ये ॥", "32041": "पुरं दारयतीति पुरन्दरः । सर्वंसहः । सहिग्रहणमसंज्ञार्थम् ॥ (वार्तिकम्) ॥ बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ॥", "32042": "सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीङ्कषा वात्या ॥", "32043": "मेघङ्करः । भयंकरः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥", "32044": "एषु कृञोऽण् स्यात् । चात् खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ॥", "32045": "आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितंभवः ओदनः । आशितस्य भवनं आशितम्भवः ॥", "32046": "विश्वं बिभर्तीति विश्वम्भरः । विश्वंभरा । रथंतरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुंजयो हस्ती । युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः ॥", "32047": "सुतंगमः ॥", "32048": "संज्ञयामिति निवृत्तम् । एषु गमेर्डः स्यात् । डित्त्वासामर्थ्यादभस्यापि टेर्लोपः । अन्तं गच्छतीत्यन्तग इत्यादि । (वार्तिकम्) ॥ सर्वत्रगः । पन्नं पतितं गच्छतीति पन्नगः । पन्नमिति पद्यतेः क्तान्तं क्रियाविशेषणम् । उरसो लोपश्च ॥ उरसा गच्छतीत्युरगः । (वार्तिकम्) ॥ सुखेन गच्छत्यत्र सुगः । दुर्गः । (वार्तिकम्) ॥ ग्रामगः ॥ (वार्तिकम्) ॥ विहगः ॥", "32049": "शत्रुं वध्याच्छत्रुहः । आशिषि किम् । शत्रुघातः । (वार्तिकम्) ॥ दारुशब्दे उपपदे आङ्पूर्वाद्धन्तरेण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः । (वार्तिकम्) ॥ चार्वाघाटः । (वार्तिकम्) ॥ कर्मण्युपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः । वर्णान्संहन्तीति वर्णसङ्घाटः । पदसङ्घाटः । वर्णसङ्घातः । पदसङ्घातः ॥", "32050": "अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥", "32051": "कुमारघाती । शिरसः शीर्षभावो निपात्यते । शीर्षघाती ॥", "32052": "हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायाघ्नो ना । पतिघ्नी स्त्री ॥", "32053": "जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः प्रलम्बघ्नः । शत्रुघ्नः । कृतघ्न इत्यादि । मूलविभुजादित्वात्सिद्धम् ॥ चोरघातो नगरघातो हस्तीति तु बाहुलकादणि ॥", "32054": "हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटघ्नश्चोरः । कवाटेति पाठान्तरम् ॥", "32055": "हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः । (वार्तिकम्) ॥ राजनं हन्ति राजघः ॥", "32056": "एषु च्व्यर्थेष्वच्व्यन्तेषु कर्मसूपपदेषु कृञः ख्युन् स्यात् । आढ्यामाढ्यं कुर्वन्त्यनेन आढ्यकरणम् । अच्वौ किम् । आढ्यीकुर्वन्त्यनेन । प्रतिषेधसामर्थ्यात् इह ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ॥", "32057": "आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आड्यो भवतीति आढ्यंभविष्णु । आड्यंभावुकः । स्पृशोऽनुदके क्विन् <{SK432}> । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । ऋत्विद्गधृक्स्रद्गिगुष्णिगञ्चुयुजिक्रुञ्चां च <{SK373}> । व्याख्यातम् । त्यदादिषु दृशोऽनालोचने कञ्च <{SK429}> । (वार्तिकम्) ॥ सदृक् । सदृशः । अन्यादृक् । अन्यादृशः । (वार्तिकम्) ॥ तादृक्षः । सदृक्षः । अन्यादृक्षः ॥", "32058": "अनुदके सुप्युपपदे स्पृशेः क्विन्स्यात् । घृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् । स्पृक् । षडगकाः प्राग्वत् । ञिधृषा प्रागल्भ्ये । अस्मात् ऋत्विक् <{SK373}>आदिना क्विन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः । गः । कः । धृष्णोतीति दधृक् । दधृग् । दधृषौ । दधृषः । दधृग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः ॥ षड्भ्यो लुक् <{SK261}> । षट् । षड् । षड्भिः । षड्भ्यः 2 । षट्चतुर्भ्यश्च <{SK338}> इति नुट् । अनामिति पर्युदासान्न ष्टुत्वनिषेधः । यरोऽनुनासिक <{SK116}> इति विकल्पं बाधित्वा । (वार्तिकम्) ॥ इति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु । षट्सु । तदन्तविधिः । परमषट् । परमषण्णाम् । गौणत्वे तु-प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् ससजुषो रुः <{SK162}> इति रुत्वम् ॥", "32059": "एभ्यः क्विन्स्यात् । अलाक्षणिकमपि किंचित्कार्यं निपातनाल्लभ्यते । निरुपपदाद्युजेः क्विन् । कनावितौ ॥", "32060": "त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेर्धातोः कञ् स्याच्चात् क्विन् ॥", "32061": "एभ्यः क्विप्स्यादुपरसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि । (वार्तिकम्) ॥ अग्रणीः । ग्रामणीः ॥", "32062": "सुप्युपसर्गे चोपपदे भजेर्ण्विः स्यात् । अंशभाक् । प्रभाक् ॥", "32063": "सुप्युपपदे सहेर्ण्विः स्यात् । पृतनाषाट् ॥", "32064": "प्राग्वत् । दित्यवाट् (दि॒त्य॒वाट्) । योगविभाग उत्तरार्थः ॥", "32065": "एषु वहेर्ञ्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहनः ॥", "32066": "अग्निश्च हव्यवाहनः (अ॒ग्निश्च॑ हव्य॒वाह॑नः) । पादमध्ये तु वहश्च <{SK3410}> इति ण्विरेव । हव्यवाळग्निरजरः पिता नः (ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नः॑) ॥", "32067": "विड्वनोः - <{SK2982}> इत्यात्वम् । अब्जाः (अ॒ब्जाः) । गोजाः (गो॒जाः) । गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॒सि) । सनोतेरनः - <{SK3645}> इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् (इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुजत्) । आ दधिक्राः शवसा पञ्च कृष्टीः (आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः) । अग्रेगाः (अग्रे॒गाः) ॥", "32068": "विट् स्यात् । आममत्ति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥", "32069": "अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् आममांसभक्षकः । कथं तर्हि क्रव्यादोऽस्रप आशर इति । पक्वमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ॥", "32070": "कामदुघा ॥", "32071": "। (वार्तिकम्) ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस् वक्तव्य इत्यर्थः । श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । पुरो दाश्यते दीयते पुरोडाः ॥", "32072": "अवयाः । अवयाजौ । अवयाजः ॥", "32073": "उपे उपपदे यजेर्विच् । उपयट् ॥", "32074": "सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः । ब्रह्मभ्रूणवृत्रेषु क्विप् - <{SK2998}> ॥", "32075": "छन्दसीति निवृत्तम् । मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥", "32076": "अयमपि दृश्यते । सत्सूद्विष - <{SK2975}> इति त्वस्यैव प्रपञ्चः । उखास्रत् । पर्णध्वत् । वाहभ्रट् ॥", "32077": "चात् क्विप् । शंस्थः । शंस्थाः । शमि धातोः - <{SK2928}> इत्यचं बाधितुं सूत्रम् ॥", "32078": "अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । अजातौ किम् । ब्राह्मणानाममन्त्रयिता । ताच्छील्ये किम् । उष्णं भुङ्क्ते कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवीदिभिश्च तदेवानुसृतम् । तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् । अनुयायिवर्गः । पतत्यधो धाम विसारि । न वञ्चनीयाः प्रभवोऽनुजीविभिरित्यादौ । (वार्तिकम्) । (वार्तिकम्) ॥ अताच्छील्यार्थं वार्तिकद्वयम् । साधुकारी । ब्रह्मवादी ॥", "32079": "णिनिः स्यात् । उपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थं जात्यर्थं च सूत्रम् । कर्तरि किम् । अपूपानिव भक्षयति माषान् । उपमाने किम् । उष्ट्रः क्रोशति ॥", "32080": "णिनिः स्यात् । स्थण्डिलशायी ॥", "32081": "पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥", "32082": "सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ॥", "32083": "स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । खित्यनव्ययस्य <{SK2943}> । कालिंमन्या । अनव्ययस्य किम् । दिवामन्या ॥", "32084": "अधिकारोऽयम् । वर्तमाने लट् <{SK2151}> । इति यावत् ॥", "32085": "करणे उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । अग्निष्टोमयाजी ॥", "32086": "पितृव्यघाती । कर्मणीत्येतत् सहे च <{SK3006}> इति यावदधिक्रियते ॥", "32087": "एषु कर्मसूपपदेषु हन्तेर्भूते क्विप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । क्विप् च <{SK2983}> इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव हन्तेरेव भूते एव क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव क्विबेवेति द्विविधो नियम इति भाष्यम् ॥", "32088": "उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् । मातृहा । पितृहा । छन्दसि लिट् - <{SK3093}> । भूतसामान्ये । अहं द्यावापृथिवी आ ततान (अ॒हं द्यावा॑पृथि॒वी आ त॑तान) । लिटः कानज्वा - <{SK3094}> । क्वसुश्च <{SK3095}> । छन्दसि लिटः कानच्क्वसू वा स्तः । चक्राणा वृष्णि (च॒क्रा॒णा वृष्णि॑) । यो नो अग्ने अररिवाँ अघायुः (यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युः) । णेश्छन्दसि - <{SK3117}> । ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः (वी॒रुध॑ पारयि॒ष्णवः॑) । भुवश्च - <{SK3118}> । अस्मात्केवलात्प्राग्वत् । भविष्णुः । (वार्तिकम्) ॥ क्याच्छन्दसि - <{SK3150}> । उप्रत्ययः स्यात् । अघायुः । (वार्तिकम्) ॥ जवे याभिर्यूनः (ज॒वे याभि॒र्यूनः॑) । ऊर्वोर्मे जवः । देवस्य सवितुः सवे (दे॒वस्य॑ सवि॒तुः॒ स॒वे) ॥", "32089": "सौ कर्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न क्विप् । भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न क्विप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्रकृत् । भाष्यकृत् ॥", "32090": "सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥", "32091": "अग्निचित् ॥", "32092": "कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥", "32093": "कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् । (वार्तिकम्) ॥ सोमविक्रयी । घृतविक्रयी ॥", "32094": "कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥", "32095": "क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥", "32096": "कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ॥", "32097": "सरसिजम् । मन्दुरायां जातो मन्दुरजः । ङ्यापोः - <{SK1001}> इति ह्रस्वः ॥", "32098": "जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ॥", "32099": "प्रजा स्यात्सन्ततौ जने ॥", "32100": "अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥", "32101": "अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तेरेष्वपि क्वचित् । परितः खाता परिखा ॥", "32102": "भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेव - <{SK2833}> इति भावकर्मणोः क्तः कर्तरि कृत् <{SK2832}> इति कर्तरि क्तवतुः । उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ॥", "32103": "सुनोतेर्यजेश्चङ्वनिप्स्याद्भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ ॥", "32104": "भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णो जीर्णवान् ॥", "32105": "", "32106": "", "32107": "इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥", "32108": "सदादिभ्यो भूतसामान्ये भाषायां लिड्वा स्यात् तस्य च नित्यं क्वसुः । निषेदुषीमासनबन्धधीरः । अध्यूषुषस्तामभवञ्जनस्य । शुश्रुवान् ॥", "32109": "एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिड्वा तस्य नित्यं क्वसुः । इट् । उपेयिवान् । उपेयुषः स्वामपि मूर्तिमग्र्याम् । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नञ्पूर्वादश्नातेः क्वसुरिडभावश्च । धृतजयधृतेरनाशुष इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥", "32110": "भूतार्थवृत्तेर्धातोर्लुङ्स्यात् ॥", "32111": "अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥", "32112": "स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् । लङोऽपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसंभवात् ॥", "32113": "यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ॥", "32114": "उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि नयदि <{SK2774}> इति बाधित्वा परत्वाद्विकल्पः । परोक्षे लिट् <{SK2171}> चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥ (वार्तिकम्) ॥ कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम ॥", "32115": "भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥", "32116": "अनयोरुपपदयोर्लिङ्विषये लङ् स्यात् । इतिहाकरोच्चकार वा । शश्वदकरोच्चकार वा ॥", "32117": "प्रष्टव्यः प्रश्नः । आसन्नकाले पृच्छ्यमानेऽर्थे लिड्विषये लङ्लिटौ स्तः ॥ अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥", "32118": "लिटोऽपवादः । यजति स्म युधिष्ठरः ॥", "32119": "भूतानद्यतने लट् स्यात् स्मयोगे । एवं स्म पिता ब्रवीति ॥", "32120": "अनद्यतनपरोक्ष इति निवृत्तम् । भूते लट् स्यात् । अकार्षीः किम् । ननु करोमि भोः ॥", "32121": "अकार्षीः किम् । न करोमि नाकार्षम् । अहं तु करोमि । अहं न्वकार्षम् ॥", "32122": "अनद्यतग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् नतु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्सुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥", "32123": "वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥", "32124": "अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ॥", "32125": "हे पचन् । हे पचमान ॥", "32126": "क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं च । कृत्यचः <{SK2835}> । प्रपीयमाणः सोमः ॥", "32127": "तौ शतृशानचौ सत्संज्ञौ स्तः ॥", "32128": "वर्तमाने । पवमानः । यजमानः ॥", "32129": "एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणं । शत्रून्निघ्नानः ॥", "32130": "आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छ्रिणि किम् । कृच्छ्रेणाधीते । धारयति ॥", "32131": "द्विषन् शत्रुः ॥", "32132": "सर्वे सुन्वन्तः सर्वे यजमानाः सत्रिणः ॥", "32133": "अर्हन् ॥", "32134": "क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः ॥", "32135": "कर्ता कटान् ॥", "32136": "अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पतिष्णु । उत्पचिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः ॥", "32137": "वीरुधः पारयिष्णवः ॥", "32138": "छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णुः वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥", "32139": "छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थः ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्र्युकः किति <{SK2381}> इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥ (वार्तिकम्) ॥ दङ्क्ष्णवः पशवः ॥", "32140": "त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥", "32141": "उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शमिनीतरेत्यत्र गितश्च <{SK987}> इति ह्रस्वविकल्पः । न चैवं शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झन्तानामेव तद्विधानात् । नोदात्तोपदेशस्य - <{SK2763}> इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्षमी । क्लमी । प्रमादी । उत्पूर्वान्मदेः अलंकृञादिसूत्रेणेष्णुजुक्तो वासरूपविधिना घिनुणपि । उन्मादी । ताच्छीलिकेषु वासरूपविधिर्नास्तीति तु प्रायिकम् ॥", "32142": "घिनुण् स्यात् । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्यघाती ॥", "32143": "विकाषी । विलासी । विकत्थी । विस्रम्भी ॥", "32144": "चाद्वौ । अपलाषी । विलाषी ॥", "32145": "प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ॥", "32146": "पञ्चम्यर्थे प्रथमा । एभ्यो वुञ् स्यात् । निन्दकः । हिंसक इत्यादि । ण्वुला सिद्धे वुञ्वचनं ज्ञापकं तच्छीलादिषु वासपरूपन्यायेन तृजादयो नेति ॥", "32147": "आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥", "32148": "चलनार्थाच्छब्दार्थाच्च युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । अकर्मकात्किम् । पठिता विद्याम् ॥", "32149": "अकर्मकाद्युच् स्यात् । वर्तनः । वर्धनः । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥", "32150": "जु इति सौत्रो धातुर्गतौ वेगे च । जवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदिग्रहणं लषपतपत <{SK3134}> इत्युकञा बाधा माभूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ॥", "32151": "क्रोधनः । रोषणः । मण्डनः । भूषणः ॥", "32152": "यकारान्ताद्युच् न स्यात् । क्नूयिता । क्ष्मायिता ॥", "32153": "युच् न स्यात् । सूदिता । दीपिता । दीक्षिता । नमिकम्पि - <{SK3147}> इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति ताच्छीलिकेषु वासरूपविधिर्नास्तीति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज् न । कथं मधुसूदनः । नन्द्यादिः ॥", "32154": "लाषुकः । पातुक इत्यादि ॥", "32155": "जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥", "32156": "प्रजवी । प्रजविनौ । प्रजविनः ॥", "32157": "जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ॥", "32158": "आद्यास्त्रयश्चुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः । (वार्तिकम्) ॥ शयालुः ॥", "32159": "दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ॥", "32160": "सृमरः । घस्मरः । अद्मरः ॥", "32161": "भङ्गुरः । भासुरः । मेदुरः ॥", "32162": "विदुरः । भिदुरम् । छिदुरम् ॥", "32163": "इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥", "32164": "गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ॥", "32165": "जागर्तेरूकः स्यात् । जागरूकः ॥", "32166": "एभ्यो यङ्न्तेभ्यः ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशूकः ॥", "32167": "नम्रः । कम्प्रः । स्मेरः । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ॥", "32168": "चिकीर्षुः । आशंसुः । भिक्षुः ॥", "32169": "वेत्तेर्नुम् एषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दः । इच्छति इच्छुः ॥", "32170": "देवाञ्जिगाति सुम्नयुः ॥", "32171": "आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्वत् । पपिः सोमं ददिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । जघ्निर्वृत्रममित्रियम् । जज्ञिः । (वार्तिकम्) ॥ दधिः । चक्रिः । सस्रिः । जग्मिः । जज्ञिः । नेमिः । (वार्तिकम्) ॥ यङ्न्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते ॥", "32172": "स्वप्नक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥", "32173": "शरारुः । वन्दारुः ॥", "32174": "भीरुः । भीलुकः । (वार्तिकम्) ॥ भीरुकः ॥", "32175": "स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ॥", "32176": "यातेर्यङन्ताद्वरच् स्यात् । अतो लोपः <{SK2380}> । तस्य अचः परस्मिन् <{SK50}> इति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशे न स्थानिवत् तस्य यलोपं प्रति स्थानिवद्भावनिषेधात् लोपो व्योः - <{SK873}> इति यलोपः । अल्लोपस्य स्थानिवत्त्वामाश्रित्य आतो लोपे प्राप्ते । वरे लुप्तं न स्थानिवत् । यायावरः ॥", "32177": "विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । उर्क् । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः क्विप् । ग्रावस्तुत् ॥", "32178": "क्विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घः क्वचिदसंप्रसारणं क्वचिद्द्वे क्वचिद्ध्रस्वः । तथा च वार्तिकम् । (वार्तिकम्) ॥ किब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं सा श्रीः । (वार्तिकम्) ॥ दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् । (वार्तिकम्) ॥ जुहूः । दॄ भये । अस्य ह्रस्वश्च । दीर्यति ददृत् । (वार्तिकम्) ॥ धीः ॥", "32179": "मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥", "32180": "एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभूर्व्यापकः । प्रभुः स्वामी । संभुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् । (वार्तिकम्) ॥ मितं द्रवतीति मितद्रुः । शतद्रुः । शंभुः । अन्तर्भावितण्यर्थोऽत्र भवतिः ॥", "32181": "धेटो घाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥", "32182": "दावादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥", "32183": "पूङ्पूञोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ॥", "32184": "अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥", "32185": "पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् ॥", "32186": "पुव इत्रः स्यात् ऋषौ करणे देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् ॥ देवतायां त्वग्निः पवित्रं स मा पुनातु ॥", "32187": "ञिक्ष्विदा । क्ष्विण्णः । ञि इन्धी । इद्धः ॥", "32188": "मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः । शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥", "33001": "एते वर्तमाने सञ्ज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्चयाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥", "33002": "", "33003": "", "33004": "यावद्भुङ्क्ते । पुराभुङ्क्ते । निपातावेतौ निश्चयं द्योतयतः । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणीभूतया पूरा यास्यति ॥", "33005": "भविष्यति लड् वा स्यात् । कदा कर्हि वा भुङ्क्ते । भोक्ष्यते । भोक्ता वा ॥", "33006": "भविष्यति लड्वा स्यात् । कं कतरं कतमं वा भोजयसि भोजयिष्यसि भोजयितासि वा । लिप्सायां किम् । कः पाटलिपुत्रं गमिष्यति ॥", "33007": "लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्वा स्यात् । योऽन्नं ददाति दास्यति दाता वा स स्वर्गं याति यास्यति याता वा ॥", "33008": "लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्वा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लुड्लृटौ ॥", "33009": "ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्लटौ वा स्तः । मुरूर्तादुपरि उपाध्यायश्चेदागच्छेत् । आगच्छति । आगमिष्यति । आगन्ता वा । अथ त्वं छन्दोऽधीष्व ॥", "33010": "क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपेण तृजादयो न । पुनर्ण्वुलुक्तेः ॥", "33011": "भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥", "33012": "कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥", "33013": "भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्यः इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥", "33014": "व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं कारिष्यतः । करिष्यद्भक्तिः । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमासमानाधिकरणेऽपि क्वचित् । करिष्यतीति करिष्यन् ॥", "33015": "भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ॥", "33016": "भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः ॥", "33017": "सृ इति लुप्तविभक्तिकम् । सर्तेः स्थिरे कर्तरि घञ् स्यात् । सरति कालान्तरमति सारः । (वार्तिकम्) ॥ अतीसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्रसरतिः । रुधिराधिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । सारो बले स्थिरांशे च ॥", "33018": "सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् स्यात् । पाकः । पाकौ ॥", "33019": "कर्तृभिन्ने कारके घञ् स्यात् ॥", "33020": "घञ् । अजपोर्बाधनार्थमिदम् । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ । द्वौ कारौ । (वार्तिकम्) ॥ दारयन्तीति दाराः । जरयन्तीति जाराः ॥", "33021": "घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥ (वार्तिकम्) ॥ उपाध्याया । उपाध्यायी ॥ (वार्तिकम्) ॥ शृ इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥", "33022": "घञ् । संरावः । उपसर्गे किम् । रवः ॥", "33023": "संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । सन्द्रावः । सन्दावः ॥", "33024": "श्रायः । नायः । भावः । अनुपसर्गै किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राज्ञो नय इति । बाहुलकात् ॥", "33025": "विक्षावः । विश्रावः । वौ किम् । क्षवः । श्रवः ॥", "33026": "अवनायः अधो नयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥", "33027": "प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे इति किम् । द्रवः । स्तवः । स्रवः ॥", "33028": "निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलावः । निरभ्योः किम् । पवः । लवः ॥", "33029": "उद्गारः । निगारः । उन्योः किम् । गरः ॥", "33030": "कॄ इत्यस्माद्धान्यविषयादुन्न्योर्घञ् स्यात् । उत्कारो निकारो धान्यस्य । विक्षेप इत्यर्थः । धान्ये किम् । भिक्षोत्करः । पुष्पनिकरः ॥", "33031": "समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् । संस्तवः परिचयः ॥", "33032": "अयज्ञे इति छेदः यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥", "33033": "विपूर्वात् स्तृणातेर्घञ् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥", "33034": "स्त्र इत्यनुवर्तते । विष्टारपङ्क्तिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥", "33035": "उद्ग्राहः ॥", "33036": "मल्लस्य सङ्ग्राहः । मुष्टौ किम् । द्रव्यस्य सङ्ग्रहः ॥", "33037": "परिपूर्वान्नयतेर्निपूर्वादिणश्च घञ् स्यात् क्रमेण द्यूतेऽभ्रेषे च विषये । परिणायेन शारान् हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम् । परिणयो विवाहः । न्ययो नाशः ॥", "33038": "क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥", "33039": "तव विशायः । तव राजोपशायः । पर्याये किम् । विशयः संशयः । उपशयः समीपशयनम् ॥", "33040": "हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । हस्तादाने किम् । वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अस्तेये किम् । पुष्पप्रचयश्चौर्येण ॥", "33041": "एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ । आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनः पुना राशीकरणमित्यर्थः ॥", "33042": "चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घे किम् । ज्ञानकर्मसमुच्चयः ॥", "33043": "स्त्रीलिङ्गे भावे णच् ॥", "33044": "", "33045": "अव नि एतयोर्ग्रहेर्घञ् स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥", "33046": "पात्रप्रग्राहेण चरति भिक्षुः ॥", "33047": "उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ॥", "33048": "वृ इति लुप्त पञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा गौरितिवत् ॥", "33049": "उच्छ्रायः । उद्यावः । उत्पावः । उद्रावः । कथं पतनान्ताः समुच्छ्रया इति । बाहुलकात् ॥", "33050": "आरावः । आरवः । आप्लावः । आप्लवः ॥", "33051": "विभाषेति वर्तते । अवग्रहः । अवग्राहः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य ॥", "33052": "प्रे ग्रहेर्घञ् वा वणिजां सम्बन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रग्राहेण चरति । तुलाप्रग्रहेण वा ॥", "33053": "प्रग्रहः । प्रग्राहः ॥", "33054": "विभाषा प्र इत्येव । प्रावारः । प्रवरः ॥", "33055": "परिभावः । परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः ॥", "33056": "चयः । जयः ॥ (वार्तिकम्) ॥ भयम् । वर्षम् ॥", "33057": "ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥", "33058": "अप् स्यात् । घञचोरपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः ॥ (वार्तिकम्) ॥ वशः । रणः ॥ (वार्तिकम्) ॥ प्रस्थः । विघ्नः ॥ (वार्तिकम्) ॥ चक्रम् । चिक्लिदम् । चक्नसः ॥", "33059": "अप् स्यात् ॥", "33060": "नौ उपपदे अदेर्णः स्यादप् च । न्यादः । निघसः ॥", "33061": "अप् स्यात् । व्यधः । जपः । उपसर्गे तु । आव्याधः । उपजापः ॥", "33062": "अप् । पक्षे घञ् । स्वनः । स्वानः । हसः । हासः । अनुपसर्गे इत्येव । प्रस्वानः । प्रहासः ॥", "33063": "एषु अनुपसर्गे च यमेरप् वा । संयमः । संयामः । उपयमः । उपयामः । नियमः । नियामः । वियमः । वियामः । यमः । यामः ॥", "33064": "अप् वा स्यात् । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः । निस्वनः । निस्वानः ॥", "33065": "नावनुपसर्गे च वीणाविषयाच्च क्वणतेरप् वा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निक्वणः । निक्वाणः । क्वणः । क्वाणः । वीणायां तु । प्रक्वणः । प्रक्वाणः ॥", "33066": "अप् स्यात् । मूलकपणः । शाकपणः । व्यवहारार्थं मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः ॥", "33067": "धनमदः । उपसर्गे तु । उन्मादः ॥", "33068": "हर्षे किम् । प्रमादः । संमादः ॥", "33069": "संपूर्वोऽजिः समुदाये उत्पूर्वञ्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदजः क्षत्रियाणाम् ॥", "33070": "अक्षशब्देन देवनं लक्ष्यते । तत्र यत्पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते । अक्षस्य ग्लहः । व्यात्युक्षीमभिसरणग्लहामदीव्यन् । अक्षेषु किम् । पादस्य ग्रहः ॥", "33071": "प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि सञ्ज्ञायां-<{SK3296}> इति घः ॥", "33072": "निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रह्वायः ॥", "33073": "आहूयन्तेऽस्मिन्नित्याहवः । युद्धे किम् । आह्वायः ॥", "33074": "आङ्पूर्वस्य ह्वयतेः सम्प्रसारणमप् वृद्धिश्चोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥", "33075": "अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥", "33076": "अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः वधेन दस्युम् । चाद्घञ् । घातः ॥", "33077": "मूर्तिः काठिण्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवघनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥", "33078": "वाहीकग्रामविशेषस्य सञ्ज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥", "33079": "द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः । प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ॥", "33080": "अत्याधानमुपरि स्थापनम् । यस्मिन् काष्ठे अन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्घनः । अधिकरणेऽप् ॥", "33081": "अङ्गं शरीरावयवः । स चेह न सर्वः किन्तु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ॥", "33082": "एषु हन्तेः करणेऽप् स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्सञ्ज्ञायां <{SK857}> इति णत्वम् । सञ्ज्ञैषा कुठारस्य । द्रुर्वृक्षः ॥", "33083": "स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बघनः । करण इत्येव । स्तम्बघातः ॥", "33084": "परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥", "33085": "उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपघ्नः ॥", "33086": "संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायते इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुध्यर्थत्वाद्धन्तिर्ज्ञाने ॥", "33087": "समन्तान्मितं निमितम् । निर्विशेषं हन्यते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ॥", "33088": "अयं भाव एव स्वभावात् । क्त्रेर्मम्नित्यम् <{SK1570}> नित्यग्रहणात्क्त्रिर्मब्विषयः । अत एव क्यन्तेन विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् उप्त्रिमम् ॥", "33089": "अयमपि स्वभावाद् भाव एव । टुवेपृ । वेपथुः । श्वयथुः ॥", "33090": "यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । प्रश्नेचासन्नकाले <{SK2777}> इति ज्ञापकान्न सम्प्रसारणम् । ङित्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥", "33091": "स्वप्नः ॥", "33092": "प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः ॥", "33093": "कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ॥", "33094": "स्त्रीलिङ्गे भावादौ क्तिन् स्याद्घञोऽपवादः । अजपौ तु परत्वाद्बाधते । कृतिः । चितिः । स्तुतिः । स्फायी । स्फातिः । स्फीतिकाम इति तु प्रामादिकम् । क्तान्ताद्धात्वर्थे णिचि अच इरिति वा समाधेयम् ॥ (वार्तिकम्) ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेश्च । इष्टिः । स्तुतिः । (वार्तिकम्) ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । ह्लादः <{SK3073}> इति योगविभागात् क्तिनि ह्रस्वः । प्रह्लन्निः । ति च <{SK3037}> चूर्तिः । फुलति ॥ (वार्तिकम्) ॥ अपचितिः ॥ (वार्तिकम्) ॥ सम्पत् । विपत् ॥ क्तिन्नपीष्यते ॥ सम्पत्तिः । विपत्तिः ॥", "33095": "क्तिन् स्यादङोऽपवादः । प्रस्थितिः । उपस्थितिः । सङ्गीतिः । सम्पीतिः । पक्तिः । कथमवस्था संस्थेति । व्यवस्थायामिति ज्ञापकात् ॥", "33096": "वृषादिभ्यः क्तिन्स्यात्स चोदात्तः । वृष्टिं दिवः (वृ॒ष्टिं दि॒वः) । सुम्नमिष्टये (सु॒म्नमि॒ष्टये॑) । पचात्पक्तीरुत (पचा॑त्प॒क्तीरु॒त) । इयं ते नव्यसी मतिः (इ॒यं ते॒ नव्य॑सी म॒तिः) । वित्तिः । भूतिः (भू॒तिः) । अग्न आ याहि वीतये (अग्न॒ आ या॑हि वी॒तये॑) । रातौ स्यामो भयासः (रा॒तौ स्या॑मो॒ भया॑सः) ॥", "33097": "अवतेः ज्वरत्वर <{SK2654}> इत्यूठ । ऊतिः । स्वरार्थं वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यति <{SK3074}> इतीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसन <{SK2504}> इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तिः ॥", "33098": "व्रज्या । इज्या ॥", "33099": "समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः सञ्ज्ञायाम् ॥ (वार्तिकम्) ॥ समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्या । अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ॥", "33100": "कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥", "33101": "ईषेर्भावे शो यगभावश्च निपात्यते । इच्छा ॥ (वार्तिकम्) ॥ शो यक् च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । शे यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिर्दीर्घश्च । अटाट्या ॥ (वार्तिकम्) ॥ पक्षे शः । जागरा । जागर्या ॥", "33102": "प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥", "33103": "गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥ (वार्तिकम्) ॥ नेह । आप्तिः । तितुत्र-<{SK3163}> इति नेट् । दीप्तिः ॥ (वार्तिकम्) ॥ निगृहीतिः । निपठितिः ॥", "33104": "षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् । जॄष् । ऋदृशोऽङि गुणः <{SK2406}> । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा । मृजा ॥ (गणसूत्रम् -) क्रपेः सम्प्रसारणं च । कृपा ॥", "33105": "अङ् स्याद्युचोपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥", "33106": "अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा ॥ (वार्तिकम्) ॥ श्रद्धा । अन्तर्धा । उपसर्गे घोः किः <{SK3270}> इत्यनेन किः । अन्तर्धिः ॥", "33107": "अकारस्यापवादः । कारणा । हारणा । आसना । श्रन्थना ॥ (वार्तिकम्) ॥ घट्टना । वन्दना । वेदना ॥ (वार्तिकम्) ॥ अन्वेषणा ॥ (वार्तिकम्) ॥ पर्येषणा । परीष्टिः ॥", "33108": "प्रच्छर्दिका । प्रवाहिका । विचर्चिका । क्वचिन्न । शिरोर्तिः ॥ (वार्तिकम्) ॥ आसिका । शायिका ॥ (वार्तिकम्) ॥ पचिः । पचतिः ॥ (वार्तिकम्) ॥ निर्देशे इत्येव । अकारः । ककारः ॥ (वार्तिकम्) ॥ रेफः । मत्वर्थाच्छः ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥ (वार्तिकम्) ॥ आजिः । आतिः ॥ (वार्तिकम्) ॥ वापिः । वासिः । स्वरे भेदः ॥ (वार्तिकम्) ॥ कृषिः । गिरिः ॥", "33109": "अत्र धातोर्ण्वुल् । उद्दालकपुष्पभञ्जिका ॥", "33110": "परिप्रश्ने आख्याने च गम्ये इञ् स्याच्चात् ण्वुल् । विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृतिं वाकार्षी । सर्वां कारिं कारिकां क्रियां कृत्यां कृति वाऽकार्षम् । एवं गणिं गणिकां गणनाम् । पाचिं पाचिकां पचां पक्तिम् ॥", "33111": "पर्यायः परिपाटीक्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । उक्षुभक्षिका उपपादि ॥", "33112": "विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः । कृत्यल्युटो बहुलम् <{SK2841}> भावेऽकर्तरि च कारके सञ्ज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । नपुंसके भावे क्तः-<{SK3090}> ॥", "33113": "स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥", "33114": "क्लीबत्व विशिष्टे भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ॥", "33115": "हसितम् । हसनम् । योगविभागः उत्तरार्थः ॥", "33116": "येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । कर्तरीति किम् । गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता किं तु कर्म ॥", "33117": "ल्युट् स्यात् । इध्मप्रव्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राक्करणाधिकरणयोरित्यधिकारः ॥", "33118": "", "33119": "घान्ता निपात्यन्ते । हलश्च <{SK3300}> इति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । सञ्चरन्त्यनेन सञ्चरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥", "33120": "अवतारः कूपादेः । अवस्तारो जवनिका ॥", "33121": "हलन्ताद्घञ् स्यात् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥", "33122": "अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्यवन्ति संहरन्त्यनेनेति विग्रहः ॥ (वार्तिकम्) ॥", "33123": "उत्पूर्वादञ्चतेर्घञ् स्यात् न तूदके । घृतमुदच्यते उद्ध्रियतेऽस्मिन्निति घृतोदङ्कश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः ॥", "33124": "आनीयन्ते मत्स्यादयोऽनेनेत्यानायः । जालमिति किम् । आनयनः ॥", "33125": "चाद्घञ् । आखनः । आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भगः पदमित्यादि ॥ (वार्तिकम्) ॥ आखः । आखरः । आखनिकः । आखनिकवकः । एते खनित्रवचनाः ॥", "33126": "करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल् स्यात् । तयोरेव-<{SK2833}> इति भावे कर्मणि च । कृच्छ्रे । दुष्करः कटो भवता । अकृच्छ्रे । ईषत्करः । सुकरः ॥ (वार्तिकम्) ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ॥", "33127": "कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञोः खल् स्यात् । यथासङ्ख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये ईषदादयस्तु ततः प्राक् । (वार्तिकम्) ॥ खित्त्वान्मुम् । अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । स्वाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते ॥", "33128": "खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः । (वार्तिकम्) ॥ दुःशासनः । दुर्योधन इत्यादि ॥", "33129": "ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः । सूपसदनोऽग्निः ॥", "33130": "गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् (सु॒वे॒द॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम्) ॥", "33131": "समीपमेव सामीप्यम् । स्वार्थे ष्यञ् ।वर्तमाने लट् <{SK2151}> इत्यारभ्य उणादयो बहुलं <{SK3169}> इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा ॥", "33132": "वर्तमानसामीप्य इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीत् वर्षति वर्षिष्यति वा । धान्यमवाप्स्म वपामो वप्स्यामो वा । सामान्यातिदेशे विशेषानतिदेशः । तेन लङ्लिटौ न ॥", "33133": "क्षिप्रपर्याये उपपदे पूर्वविषये लृट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लृङ्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः ॥", "33134": "आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥", "33135": "क्रियायाः सातत्ये सामीप्ये च गम्ये लङ् लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित । सोमेनयाष्ट । येयममावस्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥", "33136": "भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः ॥", "33137": "पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसंबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहाण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्राध्येतास्महे ॥", "33138": "अवरस्मिन्वर्जं पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे । लिङ्निमित्ते लङ्क्रियातिपत्तौ <{SK2229}> भविष्यतीत्येव । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् ॥", "33139": "हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यतम् । अभविष्यन् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥", "33140": "पूर्वसूत्रं संपूर्णमनुवर्तते ॥", "33141": "वा आ उताप्योरिति छेदः । उताप्योः - <{SK2809}> इत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते । पूर्वसूत्रं तु उताप्योरित्यादौ प्रवर्तते इति विवेकः ॥", "33142": "आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामाधत्से गर्हितमेतत् ॥", "33143": "गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्मं त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लृङ् भूते वा । कथं नाम तत्रभवान् धर्ममत्यक्षत् । अत्याक्षीद्वा ॥", "33144": "गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥", "33145": "गर्हायामिति निवृत्तम् । अनवकॢप्तिरसंभावना । अमर्षोऽक्षमा । न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥", "33146": "अनवकॢप्त्यमर्षयोरित्येतत् गर्हायां च <{SK2806}> इति यावदनुवर्तते । किंकिलेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्थाः अस्तिभवतिविद्यतयः । लिङोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे । अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि । अत्र लृङ् न ॥", "33147": "। (वार्तिकम्) ॥ लृटोऽपवादः । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लृङ् प्राग्वत् ॥", "33148": "यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥", "33149": "अनवकॢप्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयेः । अन्याय्यं तत् ॥", "33150": "यच्च यत्र वा त्वं शूद्रं याजयेः । आश्चर्यमेतत् ॥", "33151": "यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात् । आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति । अयदौ किम् । आश्चर्यं यदि सोऽधीयीत ॥", "33152": "बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्यादघं हरिः । समर्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लृङ् ॥", "33153": "स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कच्चिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥", "33154": "अलमर्थोऽत्र प्रौढिः । संभावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते । संभावनेऽर्थे लिङ् स्यात्तच्चेत्संभावनमलमिति अलमि सिद्धाऽप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । सिद्धाप्रयोगे किम् । अलं कृष्णो हस्तिनं हनिष्यति ॥", "33155": "पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । संभावयामि भुञ्जीत भोक्ष्यते वा भवान् । अयदि किम् । संभावयामि यद्भुञ्जीथास्त्वम् ॥", "33156": "वा स्यात् कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति । (वार्तिकम्) ॥ नेह । हन्ताति पलायते ॥", "33157": "इच्छामि भुञ्जीत भुङ्क्तां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् । (वार्तिकम्) ॥ नेह । इच्छन् करोति ॥", "33158": "अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ॥", "33159": "समानकर्तृकेषु इच्छार्थेषूपपदेषु लिङ् । भुञ्जीयेतीच्छति ॥", "33160": "लिङ् स्यात्पक्षे लट् ॥ इच्छेत् । इच्छति । कामयेत । कामयते । विधिनिमन्त्रण - <{SK2208}>इति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रश्ने । किं भो वेदमधीयीय उत तर्कम् । प्रार्थने । भोजनं लभेय । एवं लोट् ॥", "33161": "एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥", "33162": "विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥", "33163": "प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवतायष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥", "33164": "प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूर्ध्वं यजेत यजतां वा । यष्टव्यम् ॥", "33165": "पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्वं मुहूर्ताद् यजतां स्म ॥", "33166": "स्म उपपदेऽधीष्टे लोट् स्यात् । त्वं स्म अध्यापय ॥", "33167": "पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥", "33168": "यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ॥", "33169": "चाल्लिङ् । त्वं कन्यां वहेः ॥", "33170": "अवश्यङ्कारि । शतंदायी ॥", "33171": "आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥", "33172": "शक्तौ लिङ् स्यात् चात्कृत्याः । त्वं भारं वहेः । माङि लुङ् <{SK2219}> मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥", "33173": "", "33174": "धातोः क्तिच् क्तश्च स्यादाशिषि सञ्ज्ञायाम् । तितुत्र-<{SK3163}> इति नेट् । भवतात् । भूतिः ॥", "33175": "सर्वलकारापवादः ॥", "33176": "स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥", "34001": "धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥", "34002": "पौनः पुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तस्तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ॥", "34003": "अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥", "34004": "आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ॥", "34005": "समुच्चये लोड्विधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्याथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः । (वार्तिकम्) ॥ याहियाहीति याति । पुनःपुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यातयातेति यूयं याथ । याहियाहीत्ययासीति । यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमितियूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ध्वमास्वादयध्वमित्यभ्यवहरध्वे । पक्षे हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकामास्वादयते । एतेन पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामहाङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिव इति व्याख्यातम् । अवस्कन्दन-वनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देस्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥", "34006": "धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् (दे॒वो दे॒वेभि॒राग॑मत्) । लोडर्थे लुङ् । इदं तेभ्योकरं नमः (इ॒दं तेभ्यो॑करं॒ नमः॑) । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार (अ॒द्या म॒मार॑) । अद्य म्रियत इत्यर्थः ॥", "34007": "विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥", "34008": "पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेज्जिह्मा यन्तौ नरकं पताम (नेज्जि॑ह्मा य॒न्तौ नरकं॒ प॑ताम) । हलः श्नः शानज्झौ - <{SK2557}> ॥", "34009": "से । वक्षे रायः । सेन् । ता वामेषे (ता वा॒मेषे॑) । असे । शरदो जीवसे धाः (श॒रदो॑ जी॒वसे॑ धाः) । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे (गवा॑मिव श्रि॒यसे॑) । अध्यै । अध्यैन् । जठरं पृणध्यै (ज॒ठरं॑ पृ॒णध्यै॑) । पक्षे आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै (आहु॒वध्यै॑) । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै (राध॑सः स॒ह मा॑द॒यध्यै॑) । शध्यैन् । वायवे पिबध्यै (वा॒यवे॒ पिब॑ध्यै) । तवै । दातवाउ (दात॒वाउ॑) । तवेङ् । सूतवे (सूत॑वे) । तवेन् । कर्तवे (कर्त॑वे) ॥", "34010": "एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः ॥", "34011": "द्रष्टुं विख्यातुमित्यर्थः ॥", "34012": "शक्नोतावुपपदे तुमर्थे एतौ स्तः । विभाजं नाशकत् । अपलुपं नाशकत् । विभक्तुमपलोप्तुमित्यर्थः ॥", "34013": "ईश्वरो विचरितोः । ईश्वरो विलिखः । विचरितुं विलेखितुमित्यर्थः ॥", "34014": "नम्लेच्छितवै । अवगाहे । दिदृक्षेण्यः (दि॒दृ॒क्षेण्यः) । भूर्यस्पष्ट कर्त्वम् (भूर्यस्प॑ष्ट॒ कर्त्व॑म्) ॥", "34015": "रिपुणा नावचक्षे (रि॒पुणा॒ नाव॒चक्षे॑) । अवख्यातव्यमित्यर्थः ॥", "34016": "आसंस्थातोः सीदन्ति । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । काममाविजनितोः संभवामः । इति श्रुतिः ॥", "34017": "भावलक्षणे इत्येव । पुरा क्रूरस्य विसृपो विरप्शिन् (पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विर॒प्शिन्) । पुरा जत्रुभ्य आतृदः (पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑) ॥ इति तृतीयोऽध्यायः ॥", "34018": "प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेन <{SK783}> इति नियमान्नोपपदसमासः । दो दद्धोः <{SK3077}> । अलं दत्त्वा । घुमास्था-<{SK2462}> । पीत्वा खलु । अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधयोः किम् । अलंकारः ॥", "34019": "व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ॥", "34020": "परेण पूर्वस्यावरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ॥", "34021": "समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । क्त्वा तु अव्ययकृतो भावे । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । स्नात्वा भुक्त्वा पीत्वा व्रजति । अनुदात्त-<{SK2428}> इत्यनुनासिकलोपः । विष्णुं नत्वा स्तौति । स्वरत्यादेः श्र्युकः किति <{SK2381}> इति नित्यमिडभावः पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा । धूत्वा ॥", "34022": "पौनः पुन्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । द्वित्वम् । स्मारं स्मारं नमति शिवम् । स्मृत्वा स्मृत्वा । पायं पायम् । भोजं भोजम् । श्रावं श्रावम् । चिण्णमुलोः <{SK2762}> इति णमुल्परे णौ वा दीर्घः । गमं गमम् । गामं गामम् । विभाषा चिण्णमुलोः <{SK2765}> इति नुम् वा । लम्भं लम्भम् । लाभं लाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भं प्रलम्भम् । जाग्रोऽविचिण्ण-<{SK2480}> इति गुणः । जागरं जागरम् । ण्यन्तस्याप्येवम् ॥", "34023": "यच्छब्दे उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत् । यदयं भुङ्क्ते ततः पठति । इह क्त्वाणमुलौ न । अनाकाङ्क्षे किम् । यदयं भुक्त्वा व्रजति ततोऽधीते ॥", "34024": "आभीक्ष्णे इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ वा स्तः । अग्रेभोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । पूर्वं भोजम् । पूर्वं भुक्त्वा । पक्षे लडादयः । अग्रे भुङ्क्ते ततो व्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे भोजं भोजं व्रजति । भुक्त्वा भुक्त्वा ॥", "34025": "कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे । चोरशब्दमुच्चार्येत्यर्थः ॥", "34026": "स्वाद्वर्थेषु कृञो णमुल् स्यादेककर्तृकयोः पूर्वकाले पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादीं स्वादीं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारम् । लवणङ्कारम् । सम्पन्नलवणशब्दौ स्वादुपर्यायौ । वासरूपेण क्त्वापि । स्वादुं कृत्वा भुङ्क्ते ॥", "34027": "एषु कृञो णमुल् स्यात् सिद्धः अप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । इत्थंभुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथा कृत्वा भुङ्क्ते ॥", "34028": "कृञः सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥", "34029": "कर्मण्युपपदे णमुल् स्यात् । कन्यादर्शं वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः ॥", "34030": "यावद्वेदं भुङ्क्ते । यावल्लभ्यते तावदित्यर्थः । यावज्जीवमधीते ॥", "34031": "कर्मणीत्येव । चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्ते ॥", "34032": "कर्मण्युपपदे पूरेर्णमुल् स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । अस्येति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥", "34033": "चेलार्थेषु कर्मसूपपदेषु क्नोपेर्णमुल् स्याद्वर्षप्रमाणे । चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपम् । वसनक्नोपम् ॥", "34034": "कर्मणीत्येव कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसम्बन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥", "34035": "एषु कर्मसु पिषेर्णमुल् । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥", "34036": "कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपलक्षणः कः । जीवन्तं गृण्हातीत्यर्थः ॥", "34037": "पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसम्बन्धे तु हिंसार्थानां च <{SK3369}> इति वक्ष्यते ॥", "34038": "स्न्यिह्यते येन तस्मिन् करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥", "34039": "हस्तार्थे करणे । हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥", "34040": "करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥", "34041": "चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ॥", "34042": "बध्नातेर्णमुल् सञ्ज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिका बन्धम् । बन्धाविशेषाणां सञ्ज्ञा एताः ॥", "34043": "जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ॥", "34044": "ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥", "34045": "चात्कर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ॥", "34046": "यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ॥", "34047": "इतः प्रभृति पूर्वकाल इति सम्बध्यते । तृतीयाप्रभृतीन्यन्यतरस्याम् <{SK784}> इति वा समासः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः सम्बन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थ्येन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ॥", "34048": "तृतीयान्ते उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थात् णमुल् स्यात् । दण्डोपघातं गाः कालयति । दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणामिति किम् । दण्डेन चोरमाहत्य गाः कालयति ॥", "34049": "उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् स्यात् । पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडम् । पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन व्रजे वा उपरोधम् । पाण्युपकर्षं धानाः संगृह्णाति । पाणावुपकर्षम् । पाणिनोपकर्षम् ॥", "34050": "तृतीयासप्तम्योर्धातोर्णमुल् स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ॥", "34051": "तृतीयासप्तम्योरित्येव । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति । द्व्यङ्गुलेन द्व्यङ्गुले वोत्कर्षम् ॥", "34052": "परीप्सा त्वरा । शय्योत्थायं धावति ॥", "34053": "परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥", "34054": "द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । भ्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्ध्रुवम् ॥", "34055": "सर्वतो विबाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल् स्यात् । उरः प्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयिन्त इत्यर्थः । उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् ॥", "34056": "द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो णमुल् स्याद्व्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन सम्बन्धो व्याप्तिः । क्रियायाः पौनः पुन्यमासेवा । नित्यविप्सयोः-<{SK2140}> इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसञ्ज्ञार्थमासेवायामिहपुनर्विधिः । गेहानुप्रवेशमास्ते । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ॥", "34057": "क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । द्व्यहात्यासं गाः पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥", "34058": "द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति ॥", "34059": "अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य नीचैः कथनम् । उच्चैःकृत्य । उच्चैः कृत्वा । उच्चैःकारमप्रियमाचष्टे । नीचैःकृत्य । नीचैःकृत्वा । नीचैःकारं प्रियं ब्रूते ॥", "34060": "तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यक्कृत्य तिर्यक्कृत्वा गतः । तिर्यक्कारं समाप्य गत इत्यर्थः । अपवर्गे किम् । तिर्यक्कृत्वा काष्ठं गतः ॥", "34061": "मुखतःकृत्य गतः । मुखतःकृत्वा । मुखतःकारम् । मुखतोभूय । मुखतो भूत्वा । मुखतो भावम् ॥", "34062": "नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः । अनाना नाना कृत्वा नानाकृत्य । नाना कृत्वा नानाकारम् । विनाकृत्य । विना कृत्वा । विनाकारम् । नानाभूय । नाना भूत्वा । नानाभावम् । अनेकं द्रव्यमेकं भूत्वा । एकधाभूय । एकधा भूत्वा । एकधाभावम् । एकधाकृत्य । एकधा कृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥", "34063": "तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः । तूष्णींभूय । तूष्णीं भूत्वा । तूष्णींभावम् ॥", "34064": "अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वग्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ॥ 1 ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोर्भवानीविश्वनाथयोः ॥ 2 ॥", "34065": "एषूपपदेषु धातोस्तुमुन् स्यात् । शक्नोति भोक्तुम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव सम्बध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ॥", "34066": "पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि । पर्याप्तिवचनेषु किम् । अलं भुक्त्वा । अलमर्थेषु किम् । पर्याप्तं भुङ्क्ते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥", "34067": "कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ॥", "34068": "एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकात्तु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्नामयम् । गेयं सामानेन वा इत्यादि । शकि लिङ् च <{SK2823}> । चात्कृत्याः । वोढुं वशक्यो वोढव्यः । वहनीयो वाह्यः । लिङा बाधा माभूदिति कृत्योक्तिः ॥ लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे कृत्याश्चेति सुत्यजम् । अर्हे कृत्यतृचोर्ग्रहणं च ॥", "34069": "लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥", "34070": "एतेन भावकर्मणोरेव स्युः ॥", "34071": "आदिकर्मणि यः क्तः स कर्तरि स्यात् चाद्भावकर्मणोः ॥", "34072": "एभ्यः कर्तरि क्तः स्यात् भावकर्मणोश्च । गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥", "34073": "एतौ सम्प्रदानकारके निपात्येते । दशन्ति तस्मै दाशः । गां हन्ति तस्मै गोघ्नोऽतिथिः ॥", "34074": "भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥", "34075": "सम्प्रदानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ॥", "34076": "एभ्योऽधिकरणे क्तः स्यात् चाद्याथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितामिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमिति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥", "34077": "अधिकारोऽयम् ॥", "34078": "एतेऽष्टादशलादेशाः स्युः ॥", "34079": "टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥", "34080": "टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे <{SK191}> । एधे । एधावहे । एधामहे ॥", "34081": "लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं, तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति स्थिते ॥", "34082": "लिटस्तिबादीनां नवानां णलादयोनव स्युः । भू अ इति स्थिते ॥", "34083": "वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः । इत्यादि । विवेद । विविदतुः । उषविद-<{SK2341}> इत्याम्पक्षे विदेत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ॥", "34084": "ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आकार उच्चारणार्थः । आह । आहतुः । आहुः ॥", "34085": "लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥", "34086": "लोट इकारस्य उः स्यात् । भवतु ॥", "34087": "लोटः सेर्हिः स्यात्सोऽपिच्च ॥", "34088": "हिरपिद्वा ॥", "34089": "लोटो मेर्निः स्यात् ॥", "34090": "लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥", "34091": "सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥", "34092": "लोडुत्तमस्याडागमः स्यात्, सः पिच्च । हिन्योरुत्वं न इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥", "34093": "लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ॥", "34094": "लेटः अट् आट् एतावागमौ स्तस्तौ च पितौ ॥ (वार्तिकम्) ॥ वृद्धिः । प्रण आयूंषि तारिषत् (प्रण॒ आयूं॑षि तारिषत्) । सुपेशसस्करति जोषिषद्धि (सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि) । आ साविषदर्शसानाय (आ सा॑विषदर्शसा॒नाय॒) । सिप इलोपस्य चाभावे । पाताति दिद्युत् (पाता॑ति दि॒द्युत्) । प्रियः सूर्ये प्रियो अग्ना भवाति (प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति) ॥", "34095": "लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते (सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते) । आतामित्याकारस्य ऐकारः । विधिसामार्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् (यो यजा॑ति॒ यजा॑त॒ इत्) ॥", "34096": "लेट एकारस्य ऐस्याद्वा आत ऐ - <{SK3429}> इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यान्तै । अन्यत्र किम् । सुप्रयसा मादयैते (सुप्र॒यसा॑ मा॒दयै॑ते) ॥", "34097": "लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥", "34098": "लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥", "34099": "सकारान्तस्यङिदुत्तमस्य नित्यं लोपः स्यात् । अलोऽन्त्यस्य -<{SK42}>इति सस्य लोपः । भवताम् । भवन्तु ॥", "34100": "ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥", "34101": "ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥", "34102": "सलोपः । एधेत । एधेयाताम् ॥", "34103": "लिङः परस्मैपदानां यासुडागमः स्यात्स चोदात्तो ङिच्च । ङित्त्वोक्तेर्ज्ञायते क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादेशस्य शानचः शित्त्वमपीह लिङ्गम् ॥", "34104": "आशिषि लिङो यासुट् कित्स्यात् । स्कोः - <{SK380}> इति सलोपः ॥", "34105": "लिहो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥", "34106": "लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि । आशीर्लिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट । एधिषायास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥", "34107": "लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ॥", "34108": "लिङो झेर्जुस् स्यात् ॥ ज इत् ॥", "34109": "सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ॥", "34110": "सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् । अभूः । अभूतम् । अभूत् । अभूवम् । अभूव । अभूम ॥", "34111": "आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः-अयान् । यायात् । यायाताम् । यायास्ताम् ।{$ {!1050 वा!} गतिगन्धनयोः$} । गन्धनं सूचनम् ।{$ {!1051 भा!} दीप्तौ$} ।{$ {!1052 ष्णा!} शौचे$} ।{$ {!1053 श्रा!} पाके $}।{$ {!1054 द्रा!} कुत्सायां गतौ$} ।{$ {!1055 प्सा!} भक्षणे $}।{$ {!1056 पा!} रक्षणे$} । पायास्ताम् । अपासीत् ।{$ {!1057 रा!} दाने$} ।{$ {!1058 ला!} आदाने$} । द्वावपि दाने इति चन्द्रः ।{$ {!1059 दाप्!} लवने$} । प्रणिदाति-प्रनिदाति । दायास्ताम् । अदासीत् ।{$ {!1060 ख्या!} प्रकथने$} । अयं सार्वधातुकमात्रविषयः ॥ (वार्तिकम्) ॥ तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः । स नेति ख्शाञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । संपूर्वस्य ख्यातेः प्रयोगो नेति न्यासकारः ।{$ {!1061 प्रा!} पूरणे$} ।{$ {!1062 मा!} माने$} । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विष इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । उदरं परिमाति मुष्टिना । नेर्गद-<{SK2285}> इत्यत्र नास्य ग्रहणम् । प्रणिमाति- प्रनिमाति ।{$ {!1063 वच!} परिभाषणे$} । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये ॥ झिपर इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् ।{$ {!1064 विद!} ज्ञाने$} ॥", "34112": "लङो झेर्जुस्वा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् ।{$ {!1014 दुह!} प्रपूरणे$} । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । धुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । लुग्वा दुह <{SK2365}> इति लुक्पक्षे तथास्ध्वंवहिषु लङ्वदपि ।{$ {!1015 दिह!} उपचये$} । उपचयो वृद्धिः । प्रणिदेग्धि ।{$ {!1016 लिह!} आस्वादने$} । लेढि । लीढः । लिहन्ति । लेक्षि-लीढे । लिक्षे । लीढ्वे । लेढु । लीढाम् । लेहानि । अलेट् । अलिक्षत । अलिक्षताम् । अलीढ । अलिक्षावहि ।{$ {!1017 चक्षिङ्!} व्यक्तायां वाचि$} । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । विचक्षणः प्रथयन् । नुम्तु न । अन्तेदितः इति व्याख्यानात् । ङकारस्तु [(परिभाषा - ) अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्] इति ज्ञापनार्थः । तेन स्फायन्निर्मोकसन्धीत्यादि सिध्यति । चष्टे । चक्षाते । आर्धधातुके <{SK2377}> इत्यधिकृत्य ॥", "34113": "तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥", "34114": "तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥", "34115": "लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ॥", "34116": "आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥", "34117": "धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा सुष्टुतयः (वर्ध॑न्तु त्वा सुष्टु॒तयः॑) । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । विशृण्विरे (विशृ॑ण्विरे) । सार्वधातुकत्वात् श्नुः शृभावश्च । हुश्नुवोः - <{SK2387}> इति यण् । आदृगमहनजनः किकिनौ लिट् च - <{SK3151}> । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड्वत् । बभ्रिर्वज्रम् (ब॒भ्रिर्वज्र॑म्) । पपिः सोमम् (प॒पिः सोम॑म्) । ददिर्गाः (द॒दिर्गाः) । जग्मिर्युवा (ज॒ग्मि॒र्युवा॑) । जघ्निर्वृत्रममित्रियम् (जघ्नि॑र्वृ॒त्रम॑मि॒त्रिय॑म्) । जज्ञिः । लिड्वद्भावादेव सिद्धे ऋच्छत्यॄताम् - <{SK2383}> इति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसि - <{SK3578}> इत्युत्वम् । ततुरिः । जगुरिः ॥", "41001": "ङ्यन्तात् आबन्तात् प्रातिपदिकात् चेति आपञ्चमपरिसमाप्तेः अधिकारः । <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इत्येव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् ङ्याब्भ्यां प्राक् मा भूत् इत्येवमर्थम् ॥", "41002": "ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटङपाश्चेतः ॥", "41003": "अधिकारोऽयम् । समर्थानामिति यावत् ॥", "41004": "अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजाद्युक्तिर्ङीषो ङीपश्च बाधनार्था । अजा । अतः - खट्वा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । द्विगोः <{SK479}> इति ङीप् । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता ।एषु वयसि प्रथमे <{SK478}> इति ङीप् प्राप्तः ॥ (वार्तिकम्) ॥ संफला । भस्त्रफला । ङ्यापोः <{SK1001}> इति ह्रस्वः । (वार्तिकम्) ॥ सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा ॥ (वार्तिकम्) ॥ पुंयोगे तु शूद्री । अमहत्पूर्वा किम् ? महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा । कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥ (वार्तिकम्) ॥ अमूला । ऋन्नेभ्यो ङीप् <{SK306}> ॥ कर्त्री । दण्डिनी ॥", "41005": "ऋदन्तेभ्यो नान्तेभ्यस्च स्त्रियां ङीप्स्यात् । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रयः । वधूर्गौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि हा पितः क्वासि हे सुभ्रु इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । दृन्करेति यणा उवङो बाधनात् नेयङुवङ <{SK303}> इति निषेधो न । हे पुनर्भु । पुनर्भ्वम् । पुनर्भ्वौ । पुनर्भ्वः ॥", "41006": "उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शप्श्यनोः <{SK446}> इति नुम् । उगिदचाम् <{SK361}> इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । अनिदिताम् <{SK415}> इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ॥", "41007": "वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । [(परिभाषा - ) प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्] । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी । (वार्तिकम्) ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । विड्वनोः <{SK2982}> इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥ (वार्तिकम्) ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥", "41008": "पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रतिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥", "41009": "ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । न षट्स्वस्रादिभ्यः <{SK308}> ॥ पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षट् <{SK369}> इति षट्संज्ञां प्रति न लोपः सुप्स्वर <{SK353}> इति नलोपस्यासिद्धत्वात् न षट्स्वस्रादिभ्यः <{SK308}> इति न टाप् ॥", "41010": "षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः ॥ स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ अप्तृन् <{SK277}> इति दीर्घः । स्वसा । स्वसारौ । स्वसारः । माता पितृवत् । शसि मातॄः । द्यौर्गोवत् । राः पुंवत् । नौर्ग्लौवत् ॥ इत्यौदन्ताः ॥", "41011": "मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥", "41012": "अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥", "41013": "सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ ॥", "41014": "अधिकारोऽयं यूनस्तिः <{SK531}> इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥", "41015": "अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन [(परिभाषा - ) लाश्रयमनुबन्धकार्यं नादेशानाम्] इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ [(परिभाषा - ) ताच्छीलिके णेऽपि] ॥ चौरी । (वार्तिकम्) ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥", "41016": "यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥", "41017": "यञन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥", "41018": "लौहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥", "41019": "आभ्यां ष्फः स्यात् । टाप्ङीषोरपवादः । कुर्वादिभ्यो ण्यः <{SK1175}> । कौरव्यायणी । ढक् च मण्डूकात् <{SK1122}> इत्यण् । माण्डूकायनी । (वार्तिकम्) ॥ आसुरायणी ॥", "41020": "प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी । (वार्तिकम्) ॥ वधूटी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ । अतः किम् ? शिशुः । कन्याया न । कन्यायाः कनीन च <{SK1119}> इति निर्देशात् ॥", "41021": "अदन्तात् द्विगोर्ङीप् स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥", "41022": "अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । अध्यर्ध <{SK1693}> इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥", "41023": "क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसच् <{SK1838}> इति विहितस्य मात्रचः । (वार्तिकम्) ॥ इति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥", "41024": "प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीप् वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥", "41025": "ऊधोन्ताद्बहुव्रीहेर्ङीष् स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ । (वार्तिकम्) ॥ इत्युपसङ्ख्यानात् ॥", "41026": "ङीषोऽपवादः । द्व्यूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ॥", "41027": "सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥ (वार्तिकम्) । (वार्तिकम्) ॥ त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । त्रिहायना चतुर्हायना शाला ॥", "41028": "अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् स्यात् । पक्षे डाब्निषेधौ । बहुराज्ञी । बहुराज्ञौ । बहुराजे । बहुराजानौ ॥", "41029": "अन्नन्ताद्बहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ॥", "41030": "एभ्यो नवभ्यो नित्यं ङीप् स्यात्सञ्ज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । मामकी । भागधेयी । पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ॥", "41031": "रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती (रात्री॒ व्य॑ख्यदाय॒ती) । लोके तु (ग.)कृदिकारादिति ङीष्यन्तोदात्तः ॥", "41032": "एतयोः स्त्रियां नुक् स्यात् ॥ ऋन्नेभ्यो ङीप् <{SK306}> गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते । तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्ति सामानाधिकरण्याभावाद- प्राप्तो मतुप् निपात्यते । पतिवत्नीत्यत्र तु वत्वं निपात्यते । अन्तर्वत्नी । पतिवत्नी । प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥", "41033": "पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् ॥", "41034": "पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किन्तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी । दृढपतिः । वृषलपत्नी । वृषलपतिः । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि क्विप् । अस्मिंश्च पक्षे । पत्नियौ । पत्नियः । इतीयङ्विषये विशेषः । सपूर्वस्य किम् ? गवां पतिः स्त्री ॥", "41035": "पूर्वविकल्पापवादः । समानस्य सभावोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥", "41036": "। (वार्तिकम्) ॥ पूतक्रतोः स्त्री पूतक्रतायी । यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ॥", "41037": "एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु दीर्घमध्यः ॥", "41038": "मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां सन्नियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥", "41039": "वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानाम् (फि <{SK33}>) इति फिट्सूत्रेणाद्युदात्तः । त्र्येण्या च शलल्येति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ? श्वेता । घृतादीनां च (फि <{SK21}>) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री ॥ (वार्तिकम्) ॥ पिशङ्गी । पिशङ्गा ॥ (वार्तिकम्) ॥ असिता । पलिता ॥ (वार्तिकम्) ॥ असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥", "41040": "तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात् स्त्रियां ङीष् स्यात् । कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च बह्वचो गुरुः (फि <{SK42}>) इति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् ? कृष्णा । कपिला ॥", "41041": "षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी ॥ (वार्तिकम्) ॥ अनडुही ॥ अनड्वाही । (गणसूत्रम् -) पिप्पल्यादयश्च ॥ आकृतिगणोऽयम् ॥", "41042": "एभ्य एकादशभ्यः प्रातिपदिकेभ्यः क्रमात् वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदी । उत्सादित्वादञन्तत्वे टिड्ढा <{SK470}> इति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् । कुण्डान्या । कुडि दाहे । गुरोश्च हलः <{SK3280}> इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो ङीष् विधीयते नतु नियम्यते । गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः ॥ (वार्तिकम्) ॥ इत्यन् । अनाच्छादनेऽपि न सर्वत्र किंतु । (वार्तिकम्) ॥ नीली । (वार्तिकम्) ॥ नीली गौः । (वार्तिकम्) ॥ नीली । नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या । कबरी केशानां संनिवेशश्चेत् । कबराऽन्या । चित्रेत्यर्थः ॥", "41043": "शोणी । शोणा ॥", "41044": "उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी । मृदुः । उतः किम् ? शुचिः । गुणेति किम् ? आखुः । (वार्तिकम्) ॥ खरुः पतिंवरा कन्या । पाण्डुः ॥", "41045": "एभ्यो वा ङीष् स्यात् । बह्वी । बहुः । (गणसूत्रम् -) कृदिकारादक्तिनः ॥ रात्रिः । रात्री । (गणसूत्रम् -) सर्वतोऽक्तिन्नर्थादित्येके ॥ शकटिः । शकटी । अक्तिन्नर्थात्किम् ? अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थं पद्धतिशब्दो गणे पठ्यते । हिमकाषिहतिषु च <{SK992}> इति पद्भावः । पद्धतिः । पद्धती ॥", "41046": "बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा (ब॒ह्वीषु॒ हि त्वा) । नित्यग्रहणमुत्तरार्थम् ॥", "41047": "ङीष् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसंभ्य <{SK3160}> इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः । (वार्तिकम्) ॥ ङीषो लित्त्वामानुक् चागमः । लित्स्वरः । रथीरभून्मुद्गलानी (र॒थीर॑भून्मुद्ग॒लानी॑) ॥", "41048": "या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् । गोपस्य स्त्री गोपी । (वार्तिकम्) ॥ गोपालिका । अश्वपालिका । (वार्तिकम्) ॥ सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? सूरी कुन्ती । मानुषीयम् ॥", "41049": "एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी ॥ (वार्तिकम्) ॥ महद्धिमं हिमानी । महदरण्यमरण्यानी ॥ (वार्तिकम्) ॥ दुष्टो यवो यवानी ॥ (वार्तिकम्) ॥ यवनानां लिपिर्यवनानी । (वार्तिकम्) ॥ मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी ॥ (वार्तिकम्) ॥ उपाध्यायी । उपाध्याया । (गणसूत्रम् -) आचार्यादणत्वं च ॥ आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री ॥ (वार्तिकम्) ॥ अर्याणी । अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी । क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति कर्मण्यण् <{SK2913}> ॥", "41050": "क्रीतान्ताददन्तात्करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥", "41051": "करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः अल्पाख्यायां किम् ?चन्दनलिप्ताङ्गना ॥", "41052": "बहुव्रीहेः क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् ॥ (वार्तिकम्) ॥ तेन बहुनञ्सुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता । (वार्तिकम्) ॥ दन्तजाता । (वार्तिकम्) ॥ पाणिगृहीतान्या ॥", "41053": "पूर्वेण नित्यं प्राप्ते विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् ? वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ॥", "41054": "असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी । अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनात् किम् ? शिखा । स्वाङ्गं त्रिधा ॥ अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् ॥ सुस्वेदा द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् ॥ (वार्तिकम्) ॥ सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥ (वार्तिकम्) ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥", "41055": "एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ॥ (वृ) अङ्गगात्रकण्ठेभ्यो वक्तव्यम् ॥ स्वङ्गी । स्वङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि । (वार्तिकम्) ॥ सुपुच्छी । सुपुच्छा ॥ (वार्तिकम्) ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि । (वार्तिकम्) ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥", "41056": "क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥", "41057": "सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥", "41058": "ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥", "41059": "संयोगोपधत्वादप्राप्ते ङीष् विधीयते । आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥", "41060": "दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥", "41061": "वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च मे दित्यौही च मे ॥", "41062": "इति शब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधेनवो धुनयन्तामशिश्वीः ॥", "41063": "जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । (वार्तिकम्) ॥ अनुगतसंस्थानव्यङ्ग्येत्यर्थः । तटी ॥ (वार्तिकम्) ॥ सकृदाख्यातनिर्ग्राह्या ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् ? शुक्ला । सकृदित्यादि किम् ? देवदत्ता । (वार्तिकम्) ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची । ब्राह्मणीत्यत्र तु शार्ङ्गरवादिपाठात् ङीना ङीष् बाध्यते । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया । (वार्तिकम्) ॥ हयी । गवयी । मुकयी । हलस्तद्धितस्य <{SK472}> इति यलोपः । मनुषी । (वार्तिकम्) ॥ मत्सी ॥", "41064": "पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥", "41065": "ङीष् स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं औदमेयी । मनुष्येति किम् ? तित्तिरिः ॥", "41066": "उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ॥ कुरुनादिभ्यो ण्यः <{SK1190}> ॥ तस्य स्त्रियामवन्ति <{SK1195}> इत्यादिना लुक् । अयोपधात् किम् ? अध्वर्युः ॥ (वार्तिकम्) । (वार्तिकम्) ॥ अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि नोङ्धात्वोः <{SK3721}>इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥", "41067": "स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायां किम् ? वृत्तबाहुः ॥", "41068": "पङ्गूः । (वार्तिकम्) ॥ चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः ॥", "41069": "उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥", "41070": "अनौपम्यार्थं सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः । (वार्तिकम्) ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥", "41071": "उङ् स्यात् । कद्रूश्च वै कमण्डलूः । (वार्तिकम्) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् <{SK1324}> । (वार्तिकम्) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥", "41072": "कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥", "41073": "शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । बैदी । जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । (गणसूत्रम् -) नृनरयोर्वृद्धिश्चेति गणसूत्रम् । नारी ॥", "41074": "यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ञ्यङ्ष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या । (वार्तिकम्) ॥ पौतिमाष्या ॥", "41075": "अस्माच्चाप् स्यात् । यञश्च <{SK471}> इति ङीषोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥", "41076": "आपञ्चमसमाप्तेरधिकारोऽयम् ॥", "41077": "युवन् शब्दात्तिप्रत्ययः स्यात् स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् ङीपि बोध्यम् ॥", "41078": "त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम्, गौत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूवोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् ॥ [(परिभाषा - ) निर्दिश्यमानस्यादेशा भवन्ति] इत्यणिञोरेव । षङावितौ । यङश्चाप् -<{SK528}> कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् ? वासिष्ठी । वैश्वामित्री । गुरुपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गौत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥", "41079": "गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थं आरम्भः । पौणिक्या । भौणिक्या ॥", "41080": "स्त्रियां ष्यङ् प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिञर्थश्चारम्भः । क्रौड्या । व्याड्या । (गणसूत्रम् -) सूत युवत्याम् । सूत्या । (गणसूत्रम् -) भोज क्षत्रिये । भोज्या ॥", "41081": "एभ्यश्चतुर्भ्यः ष्यङ्वा । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे इतो मनुष्य-<{SK520}> इति ङीष् । दैवयज्ञ्या - दैवयज्ञी । इत्यादि ॥", "41082": "इदं पदत्रयमधिक्रियते । प्राद्गिश- इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसन्धिकार्यत्वमिति यावत् ॥", "41083": "तेन दीव्यति <{SK1550}> इत्यतः प्रागणधिक्रियते ॥", "41084": "एभ्योण् स्यात् प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्याऽपवादः ॥", "41085": "दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः ॥ दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । इति काशिकायाम् ॥ याम्यः ॥ (वार्तिकम्) ॥ पार्थिवा । पार्थिवी ॥ (वार्तिकम्) ॥ दैव्यम् । दैवम् ॥ (वार्तिकम्) ॥ बाह्यः ॥ (वार्तिकम्) ॥ बाहीकः ॥ (वार्तिकम्) ॥ अश्वत्थामः । पृषोदरादित्वात्सस्य तः ॥ (वार्तिकम्) ॥ अश्वत्थामा । (वार्तिकम्) ॥ बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषुकिम् ? औडुलोमिः ॥ (वार्तिकम्) ॥ गव्यम् । अजादिप्रसङ्गे किम् ? । गोभ्यो हेतुभ्यः आगतं गोरूप्यम् ॥ गोमयम् ॥", "41086": "औत्सः ॥ (वार्तिकम्) ॥ अग्नेरपत्यादि आग्नेयम् । कालेयम् ॥", "41087": "धान्यानां भवने <{SK1802}> इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न, स्त्री पुंवच्च <{SK932}> इति ज्ञापकात् । स्त्रीवत् । पुंवत् ॥", "41088": "द्विगोर्निमित्तः यः तद्धितः अजादिः अनपत्यार्थः प्राग्दीव्यतीयः, तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तमिति किम्? । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् ? पञ्चगर्गरूप्यम् । अनपत्ये किम् ? द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥", "41089": "अजादौ प्राग्दीव्यतीये विवक्षते गोत्रप्रत्ययस्यालुक् स्यात् । गर्गाणां छात्राः । वृद्धाच्छः <{SK1337}> ॥", "41090": "प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः, वक्ष्यमाणः फिन्, ततो यून्यण्, ग्लौचुकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ॥", "41091": "यूनि लुक्-<{SK1083}> इति नित्ये लुकि प्राप्ते विकल्पार्थे सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्यायनीयाः । यस्कस्यापत्यं यास्कः, शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । अणो द्व्यचः-<{SK1180}> इति फिञ् । तस्य छात्राः यास्कीयाः-यास्कायनीयाः ॥", "41092": "षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यम् औपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ॥ । (वार्तिकम्) ॥(श्लो.वा.) \tयोगविभागस्तु भानोरपत्यं भानवः । कृतसन्धेःकिम् ? सौत्थितिः । अकृतव्यूहपरिभाषया सावुत्थितिःमाभूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात्किम् ? अपत्यवाचकात् षष्ठ्यर्थे माभूत् । वाग्रहणाद्वाक्यमपि । दैवयज्ञि -<{SK1209}> इति सूत्रादन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान् ङीष् । औपगवा । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ॥", "41093": "गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यं औपगवः । गार्ग्यः । नाडायनः ॥ गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ 1 ॥ \tअपत्यं पितुरेव स्यात्ततः प्राचामपीति च । \tमतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥ 2 ॥पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ् स्यात् । चतुर्थे त्वाजीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात्, चतुर्थे फक् इति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यमम् ॥", "41094": "यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥", "41095": "अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ॥", "41096": "बाहविः । औडुलोमिः । आकृतिगणोऽयम् ॥", "41097": "चादिञ् । सुधातुरपत्यं सौधातकिः । (वार्तिकम्) ॥", "41098": "", "41099": "गोत्रे इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥", "41100": "एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥", "41101": "गोत्रे यौ यञिञौ तदन्तात् फक् स्यात् । अनाति इत्युक्तेः आपत्यस्य-<{SK1082}>इति यलोपो न, गार्ग्यायणः । दाक्षायणः ॥", "41102": "गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्रायणश्चेत् । दार्भिरन्यः ॥", "41103": "एभ्यो गोत्रे फग्वा । द्रौणायनः- द्रौणिः । पार्वतायनः- पार्वतिः । जैवन्तायनः- जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ॥", "41104": "एभ्योऽञ् गोत्रे, ये त्वत्रानृषयः पुत्रादयस्तेभ्योऽनन्तरे । सूत्रे स्वार्थे ष्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः । दौहित्रः ॥", "41105": "गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥", "41106": "गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥", "41107": "गोत्रे यञ्स्यात् । काप्यः । बौध्यः । आङ्गरसे किम् ? कापेयः । बौधिः ॥", "41108": "आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥", "41109": "वतण्डाच्च-<{SK1111}> इति विहितस्य लुक् स्यात् स्त्रियाम् । शार्ङ्गरवादित्वान् ङीन् । वतण्डी । अनाङ्गिरसे तु वातण्ड्यायनी । लोहितादित्वात् ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ॥", "41110": "गोत्रे । आश्वायनः ॥ (गणसूत्रम् -) पुंसि जाते ॥ पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् ? जाताया अपत्यं जातेयः ॥", "41111": "गोत्रे फञ् । भार्गयणस्त्रैकर्तः । भार्गिरन्यः ॥", "41112": "गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥", "41113": "अवृद्धेभ्यो नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धेभ्यः किम् ? वासवदत्तेयः । नदी इत्यादि किम् ? वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः ॥", "41114": "ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । अनिरुद्धः । शौरि इति तु बाह्वादित्वादिञ् । कुरुभ्यः, नाकुलः । साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥", "41115": "संख्यादिपूर्वस्य मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥", "41116": "ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥", "41117": "अपत्येऽण् वैकर्णो वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौङ्गिरन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु 'शुङ्गाः' इत्याबन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम् । शौङ्गेयः ॥", "41118": "तन्नामिकाणां बाधित्वाद्व्यच-<{SK1124}> इति ढकि प्राप्ते पक्षेण्विधीयते । पीलाया अपत्यं पैलः-पैलेयः ॥", "41119": "चादण् । पक्षे इञ् । माण्डूकेयः । माण्डूकः । माण्डूकिः ॥", "41120": "स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥", "41121": "द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थः इत्यत्र तु तस्येदम् <{SK1500}> इत्यण् ॥", "41122": "इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात् न त्विञन्तात् । दौलेयः । नैधेयः ॥", "41123": "ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ॥", "41124": "अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्ये वैकर्णिः । कौषीतकिः ॥", "41125": "चाड्ढक् । भ्रौवेयः ॥", "41126": "एषामिनङादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥", "41127": "इनङ्मात्रं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः - कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थं कुलान्यटति तस्याः क्षुद्राभ्यो वा <{SK1137}> इति पक्षे ढ्रक् । कौलटेरः ॥", "41128": "। (वार्तिकम्) ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः । (वार्तिकम्) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥", "41129": "गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥", "41130": "गौधारः । रका सिद्धे आकारोच्चारणमन्यते विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ॥", "41131": "अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ्रक् । पक्षे ढक् । काणेरः - काणेयः । दासेरः - दासेयः ॥", "41132": "अणोऽपवादः । पैतृष्वस्त्रीयः ॥", "41133": "पितृष्वसुरन्त्यलोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ॥", "41134": "पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ॥", "41135": "", "41136": "एभ्यो ढञ्स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥", "41137": "। (वार्तिकम्) ॥", "41138": "क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥", "41139": "कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः ॥", "41140": "कुलात् इत्येव । पक्षे खः । कुल्यः - कौलेयकः - कुलीनः । पदग्रहणं किम् ? बहुकुल्यः - बीहुकुलेयकः - बहुकुलीनः ॥", "41141": "अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः - माहाकुलीनः - महाकुलीनः ॥", "41142": "पूर्ववत्पक्षे खः । दौष्कुलेयः - दुष्कुलीनः ॥", "41143": "स्वस्त्रीयः ॥", "41144": "चाच्छः । अणोऽपवादः । भ्रातृव्यः - भ्रात्रीयः ॥", "41145": "भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥", "41146": "", "41147": "गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । यस्य-<{SK311}> इति लोपः । आपत्यस्य-<{SK1082}> इति यलोपः ॥", "41148": "सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः - भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥", "41149": "फिञन्तासौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्यात् फिञ् । तस्यापत्यं यामुन्दायनीयः - यामुन्दायनीकः । कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्यणो ण्यक्षत्रिया-<{SK1276}> इति लुक् । सौवीर- इति किम् ? तैकायनिः ॥", "41150": "सौवीरेषु । नेह यथासंख्यम् । अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः - फाण्टाहृतायनिः । मैमतः - मैमतायनिः ॥", "41151": "अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः ॥ (गणसूत्रम् -) सम्राजः क्षत्रिये ॥ साम्राज्यः । साम्राजोऽन्यः ॥", "41152": "एभ्यो ण्यः । एति संज्ञायाम्-<{SK1023}> इति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात्तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥", "41153": "हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिञेव । नापितायनिः । (वार्तिकम्) ॥ षपूर्व-<{SK1160}> इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ॥", "41154": "तैकायनिः ॥", "41155": "अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः । (वार्तिकम्) ॥ छाग्यायनिः । वार्ष्यायणिः ॥", "41156": "अपत्ये फिञ् । इञोऽपवादः । कार्त्रायणिः । अणः इति किम् ? दाक्षायणः । द्व्यचः किम् ? औपगविः ॥ (वार्तिकम्) ॥ त्यादायनिः - त्यादः ॥", "41157": "आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥", "41158": "अपत्ये फिञ्वा स्यात् । वाकिनस्यापत्यं वाकिनकायनिः - वाकिनिः ॥", "41159": "अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रकायणिः- गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥", "41160": "ग्लुचुकायनिः ॥", "41161": "समुदायार्थो जातिः । मानुषः - मनुष्यः ॥", "41162": "अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥", "41163": "वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव न गोत्रसंज्ञम् ॥", "41164": "ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् ॥", "41165": "भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम्, द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं गार्यायणः-गार्यो वा । स्थविर इति किम् ? स्थानवयोन्यूने गार्ग्य एव । जीवतीति किम् ? मृते मृतो वा गार्ग्य एव । (वार्तिकम्) ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्र भवान्गार्ग्यायणः । पूजा- इति किम् । गार्ग्यः ॥ (वार्तिकम्) ॥ गार्ग्यो जाल्मः । कुत्सिते किम् । गार्ग्यायणः ॥", "41166": "", "41167": "", "41168": "जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । दाण्डिनायन-<{SK1145}> इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ ॥ (वार्तिकम्) ॥ तद्राजमाचक्षामस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् ॥ पञ्चालानां राजा पाञ्चालः । (वार्तिकम्) ॥ पौरवः । (वार्तिकम्) ॥ पाण्ड्यः ॥", "41169": "आभ्यामपत्येऽञ् । वृद्धेत्-<{SK1189}> इति ञ्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥", "41170": "अञोऽपवादः । द्व्यच् । आङ्गः । वाङ्गः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥", "41171": "वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥", "41172": "कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेःइत्यादौ तु शैषिकोऽण् ॥", "41173": "साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥", "41174": "अञादय एतत्संज्ञाः स्युः ॥", "41175": "अस्मात्तद्राजस्य लुक्स्यात् । कम्बोजः । कम्बोजौ ॥ (वार्तिकम्) ॥ चोलः । शकः । द्व्यज्लक्षणस्यणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणञौ-<{SK1473}> इत्यण् ॥", "41176": "तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ॥", "41177": "तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुतौ इति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥", "41178": "एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मागधी । एत् प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे ङीष् । युधा शुक्रा आभ्यां द्व्यचः-<{SK1124}> इति ढक् । ततः स्वार्थे पर्श्वादियौधेयादिभ्योऽणञौ-<{SK2070}> इत्यञ् । शार्ङ्गरवाद्यञ -<{SK527}> इति ङीन् । अतश्च-<{SK1196}> इति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ॥", "42001": "रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिकम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ॥", "42002": "लाक्षिकः । रौचनिकः । (वार्तिकम्) ॥ शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः । (वार्तिकम्) ॥ नील्या रक्तं नीलम् । (वार्तिकम्) ॥ पीतकम् । (वार्तिकम्) ॥ हारिद्रम् । माहारजनम् ॥", "42003": "पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥", "42004": "पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता पौर्णमासी पौषीति । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः-<{SK1225}>इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अतएव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥", "42005": "विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥", "42006": "नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥", "42007": "तेनेत्येव । वसिष्ठेन दृष्टं साम । (वार्तिकम्) ॥ उशनसा दृष्टमौशनम् ॥ औशनसम् ॥", "42008": "कलिना दृष्टं कालेयं साम ॥", "42009": "वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥ 1 ॥ इति भाष्यम् ॥", "42010": "वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते तेनेह न । छात्रैः परिवृतो रथः ॥", "42011": "पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥", "42012": "द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥", "42013": "कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥", "42014": "शराव उद्धृतः शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ॥", "42015": "तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥", "42016": "सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृताभ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टकपालः पुरोडाशः ॥", "42017": "अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तस्यां संस्कृतं उख्यम् ॥", "42018": "दध्नि संस्कृतं दाधिकम् ॥", "42019": "ठक् स्यात्पक्षेऽण् ॥", "42020": "अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव यवाग्वामपि भवति । क्षैरेयी ॥", "42021": "इतिशब्दात्संज्ञायामिति लभ्यते । पौषी । पौर्णमासी अस्मिन् पौषो मासः ॥", "42022": "अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायाम्-<{SK857}> इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वत्थिक ॥", "42023": "एभ्यष्ठग्वा । पक्षेऽण् । फाल्गुनिकः । फाल्गुनो मासः । श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ॥", "42024": "इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । 'आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे । (वार्तिकम्) ॥", "42025": "कसब्दस्य इदादेशः स्याकत्प्रत्ययसन्नियोगेन । यस्य-<{SK311}> इति लोपतेपरत्वादादिवृद्धिः । को ब्राह्मादेवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ॥", "42026": "शुक्रियम् ॥", "42027": "अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥", "42028": "योगविभागो यथासंख्यनिवृत्त्यर्थः अपोनप्त्रीयम् । अपान्नप्त्रीयम् । (वार्तिकम्) ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्यात्द्विगोर्लुगनपत्ये <{SK1080}> इति न लुक् ॥", "42029": "चाच्छः । महेन्द्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् ॥", "42030": "सौम्यम् । टित्वान्ङीप् । सौमी ऋक् ॥", "42031": "वायव्यम् । ऋतव्यम् ॥", "42032": "चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । शूनासीर्यम् ॥", "42033": "आग्नेयम् ॥", "42034": "मासिकम् । प्रावृषेण्यम् ॥", "42035": "माहाराजिकम् । प्रौष्ठपदिकम् ॥", "42036": "एते निपात्यन्ते । (वार्तिकम्) ॥ पितुर्भ्राता पितृव्यः । (वार्तिकम्) ॥ मातुर्भ्राता मातुलः । (वार्तिकम्) ॥ मातुः पिता मातामहः । पितुः पिता पितामहः । (वार्तिकम्) ॥ मातामही । पितामही ॥ (वार्तिकम्) ॥ सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम् । अविमरीसम् । (वार्तिकम्) ॥ तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः । (वार्तिकम्) ॥ तिल्पिञ्जः ॥", "42037": "काकानां समूहः काकम् । बाकम् ॥", "42038": "भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥", "42039": "एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥", "42040": "चाद्वुञ् । कैदार्यम् । कैदारकम् ॥ (वार्तिकम्) ॥ गाणिक्यम् ॥", "42041": "चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥", "42042": "ब्राह्मण्यम् । माणव्यम् । वाडव्यम् । (वार्तिकम्) ॥ पृष्ठ्यम् ॥", "42043": "ग्रामता । जनता । बन्धुता । (वार्तिकम्) ॥ गजता । सहायता । (वार्तिकम्) ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डिकादित्वादञ् । अह्नष्टखोरेव <{SK789}> इति नियमाट्टिलोपो न । (वार्तिकम्) ॥", "42044": "कापोतम् । मायूरम् ॥", "42045": "अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥", "42046": "काठकम् । छान्दोग्यम् ॥", "42047": "साक्तुकम् । हास्तिकम् । धैनुकम् ॥", "42048": "पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥", "42049": "पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥", "42050": "खल्या । गव्या । रथ्या ॥", "42051": "खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या । (वार्तिकम्) ॥ डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम् ॥", "42052": "षष्ठ्यन्तादमादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ॥", "42053": "राजन्यकः ॥", "42054": "भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥", "42055": "अण् । पङ्क्तिरादिरस्येति पाङ्क्तः प्रगाथः । (वार्तिकम्) ॥ त्रिष्टुबेव त्रैष्टुभम् ॥", "42056": "सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽ स्य संग्रामस्य भारतः ॥", "42057": "दण्डः प्रहसणमस्यां क्रीडायां दाण्डा । मौष्टा ॥", "42058": "घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । घञ इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥", "42059": "व्याकरणमधीते वेद वा वैयाकरणः ॥", "42060": "क्रतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वद्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषस्तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा । औक्थिकः । (वार्तिकम्) ॥ न्यायम्, नैयायिकः । वृत्तिम्, वार्तिकः । लोकायतम्, लौकायतिकः इत्यादि । (वार्तिकम्) ॥ सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः । (वार्तिकम्) ॥ वायसविद्यिकः । गौलक्षणकः । आश्वलक्षणिकः । पाराशरकल्पिकः । (वार्तिकम्) ॥ आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः । (वार्तिकम्) ॥ यवक्रीतमधिकृत्य कृतामाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । अधिकृत्य कृते ग्रन्थे <{SK1467}> इत्यर्थे वृद्धाच्छः <{SK1337}> । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः । (वार्तिकम्) ॥ सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवार्तिकः । द्विगोर्लुक् <{SK1080}> इति लुक् । द्वितन्त्रः । (वार्तिकम्) ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी ॥", "42061": "क्रमकः । क्रम, पद, शिक्षा, मीमांसा, क्रमादिः ॥", "42062": "तदधते तद्वेद <{SK1269}>इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥", "42063": "वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायन -<{SK1145}> इति सूत्रे निपातनाट्टिलोपो न ॥", "42064": "प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घञर्थे कविधानमिति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ॥", "42065": "सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥", "42066": "छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अद्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्य कठचरकात् -<{SK1487}> इति लुक् । ततोऽण्, तस्य प्रोक्ताल्लुक् <{SK1274}> ॥", "42067": "उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः ॥", "42068": "कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥", "42069": "शिबीनां निवासो देशः शैबः ॥", "42070": "विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति ॥", "42071": "अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥", "42072": "बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ नाऽण् । सैध्रकावतम् । बह्वजिति किम् । आहिमतम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं माभूत् ॥", "42073": "अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥", "42074": "विपाश उत्तरे कूले ये कूपास्तेष्वञ् । अबह्वजर्थ आरम्भः । दत्तेन निर्वृत्तो दात्तः कूपः । उदक् किम् । दक्षिणतः कूपेष्वणेव ॥", "42075": "कूपेष्विति निवृत्तम् । सङ्कलेन निर्वृत्तं साङ्कलम् । पौष्कलम् ॥", "42076": "स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे, वैधूमाग्नी । प्राचि, माकन्दी ॥", "42077": "अञोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्मु, वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ॥", "42078": "रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥", "42079": "अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् ॥", "42080": "एभ्यः सप्तदशभ्यः सप्तदश क्रमात्स्युस्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ् । अरीहणेन निर्वृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् । कार्शाश्वीयम् । ऋस्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी । अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्यो ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । (गणसूत्रम् -) पथः पन्थ च ॥ पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ् सौतङ्गमिः । प्रगद्यादिभ्यो ञ्यः । प्रगदिन्, प्रागद्यः । वराहादिभ्यः कक् । वारीहकः । कुमुदादिभ्यष्ठक् । कौमुदीकः ॥", "42081": "जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥", "42082": "अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥", "42083": "अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥", "42084": "शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥", "42085": "चातुरर्थिकः । इक्षुमती ॥", "42086": "मतुप् स्याच्चातुरर्थिकः । अनद्यर्थ आरम्भः । मधुमान् ॥", "42087": "कुमुद्वान् । नड्वान् । वेतस्वान् । आद्ययोः झयः <{SK1898}> इति अन्त्ये मादुपधायाः - <{SK1897}> इति वक्ष्यमाणेन वः । (वार्तिकम्) ॥ महिष्मान्नाम देशः ॥", "42088": "नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥", "42089": "शिखावलम् ॥", "42090": "उत्करीयः ॥", "42091": "नडकीयम् । (गणसूत्रम् -) क्रुञ्चा ह्रस्वत्वं च ॥ क्रुञ्चकीयः ॥ (गणसूत्रम् -) तक्षन्नलोपश्च ॥ तक्षकीयः ॥", "42092": "अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदिपिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यत आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेषे <{SK1312}> इति लक्षणं चाधिकारश्च । तस्य विकारः <{SK1514}> इत्यतः प्राक् शेषाधिकारः ॥", "42093": "आभ्यां क्रमाद्घखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः । (वार्तिकम्) ॥ अवारीणः । पारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥", "42094": "ग्राम्यः । ग्रामीणः ॥", "42095": "कुत्सितास्त्रयः कत्त्रयः । तत्र जातादिः कात्त्रेयकः । नाकरेयकः । ग्रामादित्यनुवृत्तेः ग्रामेयकः ॥", "42096": "कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । ग्रैवोऽन्यः ॥", "42097": "नादेयम् । माहेयम् । वाराणसेयम् ॥", "42098": "दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥", "42099": "कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ॥", "42100": "चात् ष्फक् । राङ्कवो गौः । राङ्कवायणः । अमनुष्य इति किम् । राङ्कवको मनुष्यः ॥", "42101": "दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥", "42102": "कान्थिकः ॥", "42103": "वर्णुर्नदस्तस्य समीपदेशो वर्णुः, तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥", "42104": "। (वार्तिकम्) ॥ अमाऽन्तिकसहार्थयोः । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः । (वार्तिकम्) ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः । (वार्तिकम्) ॥ नित्यः । (वार्तिकम्) ॥", "42105": "एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥", "42106": "यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्माभूत् । बाहुरूप्यम् ॥", "42107": "अणोपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।प्राचां ग्रामनगरणाम् <{SK1400}> इत्युत्तरपदवृद्धिः ॥", "42108": "दिक्पूर्वपदादित्येव । दिशोऽमद्राणाम् <{SK1399}> इति मद्रपर्युदासादादिवृद्धिः । पौर्वमद्रः । आपरमद्रः ॥", "42109": "अञ् स्यात् । शैवपुरम् ॥", "42110": "माहिकिप्रस्थः । पालदः । नैलीनकः ॥", "42111": "एभ्यो गौत्रप्रत्ययान्तेभ्योऽण् स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वाः ॥", "42112": "गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं नतु लौकिकम् । तेनेह न । पाणिनीयम् ॥", "42113": "इञश्च <{SK1333}> इत्यणोऽपवादः । प्राष्ठीयाः । काशीयाः । भरतानां प्राच्यात्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥", "42114": "शालीयः । मालीयः । तदीयः ॥", "42115": "वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥", "42116": "इकार उच्चारणार्थः । काशिकी । काशिका । वैदिकी । वैदिका ॥ (गणसूत्रम् -) आपदादिपूर्वपदात्कालान्तात् ॥ आपदादिराकृतिगणः । आपत्कालिकी । आपत्कालिका ॥", "42117": "वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥", "42118": "एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ वा स्तः । सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥", "42119": "उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । केऽणः <{SK834}> इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥", "42120": "प्राद्गेशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥", "42121": "धन्वाविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छण् -<{SK1292}> आदिसूत्रेण ण्यान्तौ । साङ्काश्यका । काम्पिल्यकः ॥", "42122": "एतदन्ताद्वृद्धादेशवाचिनो वुञ् स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राद्गेशे तूत्तरेण सिद्धम् ॥", "42123": "रोपधादीकारान्ताच्च प्राद्गेशवाचिनो वृद्धाद्वुञ् स्यात् ॥ पाटलिपुत्रः । ईतः, काकन्दकः ॥", "42124": "जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥", "42125": "अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे माभूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः ॥", "42126": "देशवाचिनो वृद्धादवृद्धाच्च वुञ् स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः ॥", "42127": "देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः ॥", "42128": "नगरशब्दाद्वुञ् स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् । नागरा ब्राह्मणाः ॥", "42129": "वुञ् ॥ अरण्याण्ण इत्यास्यापवदः ॥ (वार्तिकम्) ॥ आरण्यकः पन्थाः, अध्यायो, न्यायो, विहारो, मनुष्यो, हस्ती वा । (वार्तिकम्) ॥ आरण्यकाः आरण्या वा गोमयाः ॥", "42130": "वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥", "42131": "जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥", "42132": "माहिषिकः ॥", "42133": "देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥", "42134": "कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । कच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥", "42135": "साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिर्व्रजति ॥", "42136": "साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वाको गौः । साल्विका यवागूः । साल्वमन्यत् ॥", "42137": "देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥", "42138": "छः स्यात् । गहीयः ॥ (गणसूत्रम् -) मुखपार्श्वतसोर्लोपश्च ॥ मुखतीयम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् ॥ (गणसूत्रम् -) कुग्जनस्य परस्य च ॥ जनकीयम् । परकीयम् ॥ (गणसूत्रम् -) देवस्य च ॥ देवकीयम् ॥ (गणसूत्रम् -) स्वस्य च ॥ स्वकीयम् ॥ (गणसूत्रम् -) वेणुकादिभ्यश्छण्वाच्यः ॥ वैणुकीयम् । वैत्रकीयम् ॥ औत्तरपदकीयम् ॥", "42139": "प्राद्गेशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ॥", "42140": "वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयम् ॥", "42141": "अक इक एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः ॥", "42142": "कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः स्यात् । ठञ् ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिहृदीयम् ॥", "42143": "पर्वतीयः ॥", "42144": "मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् । पर्वतीयानि पार्वतीनि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥", "42145": "भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥", "43001": "चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः ॥", "43002": "युष्मदस्मादोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्मकीनः । यौष्माकः । आस्माकः ॥", "43003": "एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥", "43004": "अर्ध्यः ॥", "43005": "परार्ध्यम् । अवरार्थम् । अधमार्ध्यम् । उत्तमार्ध्यम् ॥", "43006": "चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् ॥", "43007": "ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादञ्ठञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वास्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठञ् ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते यतोऽप्यनुकर्षः संभाव्येत ॥", "43008": "मध्यमः ॥", "43009": "मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥", "43010": "समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥", "43011": "कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि-शार्वरस्य तमसो निषिद्धये-इति कालिदासः, अनुदितौषसराग -इति भारविः, समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः । तत्र जातः <{SK1393}> इति यावत्कालाधिकारः ॥", "43012": "ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥", "43013": "शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥", "43014": "वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् ॥", "43015": "श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥", "43016": "संधिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्ममासी, प्रतिपत् ॥ (गणसूत्रम् -) संवत्सरात्फलपर्वणोः ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥", "43017": "प्रावृषेण्यः ॥", "43018": "वर्षासु साधु वार्षिकं वासः । कालात्साधुपुष्प्यत्पच्यमानेषु <{SK1418}> इति साध्वर्थे ॥", "43019": "वर्षाभ्यष्ठकोऽपवादः । स्वरे भेदः । वार्षिकम् ॥", "43020": "ठञ् स्यात् छन्दसि । वासन्तिकम् ॥", "43021": "छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः । शौनकादिभ्यछन्दसि <{SK1486}> णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥", "43022": "हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण् । हैमनम् । हैमन्तम् ॥", "43023": "सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । अनद्यतने <{SK2185}>इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् । (वार्तिकम्) ॥ चिरत्नम् । परुत्नम् । परारित्नम् । (वार्तिकम्) ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥ (वार्तिकम्) ॥ अन्तिमम् ॥", "43024": "आभ्यां ट्युट्युलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । घकालतनेषु -<{SK975}>इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्णिकम् । आपराह्णिकम् ॥", "43025": "सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ॥", "43026": "एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥", "43027": "ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥", "43028": "पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥", "43029": "पथि जातः पन्थकः ॥", "43030": "अमावास्यकः । आमावास्यः ॥", "43031": "अमावास्यः ॥", "43032": "सिन्धुकः ॥ कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥", "43033": "क्रमात् स्तः । सैन्धवः । आपकारः ॥", "43034": "एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥", "43035": "एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । विभाषा सेना -<{SK828}> इति नपुंसकत्वे ह्रस्वत्वम् ॥", "43036": "एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः इत्यादि । (वार्तिकम्) ॥ शातभिषः । शातभिषजः । शतभिषक् ॥", "43037": "जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥", "43038": "तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ॥", "43039": "तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः ॥", "43040": "औपजानुकः । औपकर्णिकः । औपनीविकः ॥", "43041": "स्रुघ्ने संभवति स्रौघ्नः ॥", "43042": "कौशेयं वस्त्रम् ॥", "43043": "हेमन्ते साधुर्हैमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ॥", "43044": "हेमन्ते उप्यन्ते हैमन्ता यवाः ॥", "43045": "ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥", "43046": "पक्षे ऋत्वण् । ग्रैष्मकम् । ग्रैष्मम् । वासन्तकम् । वासन्तम् ॥", "43047": "कालादित्येव । मासे देयमृणं मासिकम् ॥", "43048": "यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥", "43049": "ग्रीष्मे देयमृणं ग्रैष्मकम् । आवसरसमकम् ॥", "43050": "चाद्वुञ् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥", "43051": "कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥", "43052": "कालादित्येव । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः । नैशिकः ॥", "43053": "स्रुघ्ने भवः स्रौघ्नः ॥ राष्ट्रियः ॥", "43054": "दिश्यम् । वर्ग्यम् ॥", "43055": "दन्त्यम् । कर्ण्यम् ॥", "43056": "दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥", "43057": "चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥", "43058": "गम्भीरे भवं गाम्भीर्यम् ॥ (वार्तिकम्) ॥ पाञ्चजन्यः ॥", "43059": "परिमुखं भवं पारिमुख्यम् । (वार्तिकम्) ॥ नेह । औपकूलः ॥", "43060": "अव्ययीभावादित्येव । वेश्मनि इति अन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् ॥ (वार्तिकम्) ॥ अध्यात्मं भवमाध्यात्मिकम् ॥", "43061": "ठञ् स्यात् । अव्ययीभावादित्येव । पारिग्रामिकः । आनुग्रामिकः ॥", "43062": "जिह्वामूलीयम् । अङ्गुलीयम् ॥", "43063": "कवर्गीयम् ॥", "43064": "पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ॥", "43065": "कर्णिका । ललाटिका ॥", "43066": "सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥", "43067": "षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥", "43068": "सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥", "43069": "ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा । वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥", "43070": "पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततष्ठन् । पौरोडाशिकः ॥", "43071": "छन्दस्यः । छान्दसः ॥", "43072": "द्व्यच् । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि ॥", "43073": "ठञादेरपवादः । आर्गयनः । औपनिषदः । वैयाकरणः ॥", "43074": "स्रुघ्नादागतः स्रौघ्नः ॥", "43075": "शुल्काशालाया आगतः शौल्कशालिकः ॥", "43076": "आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥", "43077": "औपाध्यायकः । पैतामहकः ॥", "43078": "वुञोऽपवादः । पैतृकम् । भ्रातृकम् ॥", "43079": "चाट्ठञ् । रीङ् ऋतः- <{SK1234}> । यस्य-<{SK311}>इति लोपः । पित्र्यम् । पैतृकम् ॥", "43080": "बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥", "43081": "समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥", "43082": "सममयम् । विषममयम् । देवदत्तमयम् ॥", "43083": "तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥", "43084": "विदूरात्प्रभवति वैदूर्यो मणिः ॥", "43085": "स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ॥", "43086": "तदित्येव । स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ॥", "43087": "तदित्येव । शारीरकमधिकृत्य कृते ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥", "43088": "शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥", "43089": "स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥", "43090": "स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । यत्र स्वयं वसति स निवासः । यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥", "43091": "पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः । पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः ॥", "43092": "शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥", "43093": "सिन्ध्वादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥", "43094": "तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ॥", "43095": "सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य स्रौघ्नः ॥", "43096": "आपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात्किम् । दैवदत्तः । अदेशात्किम् । स्रौघ्नः । अकालात्किम् । ग्रैष्मः ॥", "43097": "माहाराजिकः ॥", "43098": "वासुदेवकः । अर्जुनकः ॥", "43099": "अणोऽपवादः । परत्वाद्वृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः ॥", "43100": "जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । जनपदतदवध्योश्च <{SK1348}> इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गाजनपदो भक्तिरस्याङ्गकः । अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् । पौरवो राजा भक्तिरस्य पौरवीयः ॥", "43101": "पाणिनिना प्रोक्तं पाणिनीयम् ॥", "43102": "छन्दोब्राह्मणानि -<{SK1278}> इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥", "43103": "काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥", "43104": "कलाप्यन्तेवासिभ्यः, हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥", "43105": "तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः । अणि आपत्यस्य -<{SK1082}> इति यलोपः ॥", "43106": "छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥", "43107": "कलापिना प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ॥", "43108": "कलापिना प्रोक्तमधीयते कालापाः । (वार्तिकम्) ॥", "43109": "छगलिना प्रोक्तमधीयते छागलेयिनः ॥", "43110": "पाराशर्येंण प्रोक्त भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥", "43111": "भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥", "43112": "सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥", "43113": "स्वरादिपाठादव्ययत्वम् पीलुमूलेन एकदिक् पीलुमूलतः ॥", "43114": "चात्तसिः । अणोऽपवादः । उरसा एतदिक् उरस्यः । उरस्तः ॥", "43115": "तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥", "43116": "वररुचिना कृतो वाररुचो ग्रन्थः ॥", "43117": "तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ॥", "43118": "तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ॥", "43119": "तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥", "43120": "उपगोरिदमौपगवम् । (वार्तिकम्) ॥ संवोढुः स्वं सांवहित्रम् । (वार्तिकम्) ॥ अग्निमिन्धे अग्नीत्, तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः । (वार्तिकम्) ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥", "43121": "रथ्यं चक्रम् ॥", "43122": "पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥", "43123": "अञ् । (वार्तिकम्) ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् पारिषदम् ॥", "43124": "हालिकम् । सैरिकम् ॥", "43125": "काकोलूकिका । कुत्सिकुशिकिका । (वार्तिकम्) ॥ दैवासुरम् ॥", "43126": "औपगवकम् । (वार्तिकम्) ॥ काठकम् ॥", "43127": "। (वार्तिकम्) ॥ अञ्, बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्, गार्गः । गार्गम् । इञ्, दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥", "43128": "अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥", "43129": "छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् । (वार्तिकम्) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥", "43130": "दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षा दण्डमाणवाः शिष्या वा ॥", "43131": "तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥", "43132": "कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गौत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हास्तिपादस्यायं हास्तिपदः ॥", "43133": "अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ॥", "43134": " (वार्तिकम्) ॥ अश्मने विकारः आश्मः । भास्मनः । मार्तिकः ॥", "43135": "चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥", "43136": "बैल्वम् ॥", "43137": "अण् । अञोऽपवादः । तर्कु, तार्कवम् । तैत्तिडीकम् ॥", "43138": "आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥", "43139": "दैवदारवम् । भाद्रदारवम् ॥", "43140": "दाघित्थम् । कापित्थम् ॥", "43141": "पालाशम् । कारीरम् ॥", "43142": "शामीलं भस्म । षित्वान्ङीष् । शामीली स्रुक् ॥", "43143": "प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥", "43144": "आम्रमयम् । शरमयम् । (वार्तिकम्) ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । तस्येदम् <{SK1500}> इत्यण्णन्तात्स्वार्थे ष्यञ् ॥", "43145": "गोः पुरीषं गोमयम् ॥", "43146": "मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदं <{SK1500}>इत्यण् ॥", "43147": "पिष्टादित्येव । पिष्टस्य विकारविशेषः पिष्टकः । पूपोऽपूपः पिष्टकः स्यात् ॥", "43148": "मयट् स्यात् । बिल्वाद्यणोऽपवादः । ब्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥", "43149": "तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥", "43150": "विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥", "43151": "उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । सभाया यः - <{SK1657}> ॥", "43152": "अञ्मयटोरपवादः । (गणसूत्रम् -) तालाद्धनुषि ॥ तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् ॥", "43153": "अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥", "43154": "शौकम् । बाकम् । राजतम् ॥", "43155": "ञिद्योविकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । ञितः किम् । बैल्वमयम् ॥", "43156": "प्राग्वहतेष्ठक् <{SK1548}> इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥", "43157": "प्राण्यञोऽपवादः । औष्ट्रकः ॥", "43158": "औमम् । औमकम् । ओर्णम् । और्णकम् वुञभावे यथाक्रममणञौ ॥", "43159": "ऐणेयम् । एणस्य तु ऐणम् ॥", "43160": "गव्यम् । पयस्यम् ॥", "43161": "द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥", "43162": "द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥", "43163": "विकारावयवप्रत्ययस्य लुक् स्यात् । फले । आमलक्याः फलमामलकम् ॥", "43164": "विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥", "43165": "जम्बूशब्दात्फलेण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक् जम्बु ॥", "43166": "जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि यक्तवत् <{SK1294}> जम्ब्वाः फलं जम्बूः । (वार्तिकम्) ॥ व्रीहयः । मुद्गाः । (वार्तिकम्) ॥ मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटालानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्क्वचिल्लुक् । अशोकम् । करवीरम् ॥", "43167": "एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ॥", "43168": "कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥", "44001": "'तद्वहति' इत्यतः प्राक्ठगधिक्रियते । (वार्तिकम्) ॥ मा शब्दं कार्षीः इति यः आह सः 'माशब्दिकः' ॥", "44002": "अक्षैर्दीव्यति आक्षिकः । अभ्र्या खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥", "44003": "दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥", "44004": "ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥", "44005": "उडुपेन तरति औडुपिकः ॥", "44006": "गौपुच्छिकः ॥", "44007": "नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥", "44008": "तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥", "44009": "आकर्षो निकाषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ॥", "44010": "पर्पेण चरति । पर्पिकः पर्पिकी । येन पीठेन पङ्गवश्चरन्ति न पर्पः । अश्विकः । रथिकः ॥", "44011": "चात् ष्ठन् ॥", "44012": "वेतनेन जीवति वैतनिकः । धानुष्कः ॥", "44013": "वस्नेन मुल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥", "44014": "चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥", "44015": "उत्सङ्गेन हरत्यौत्सङ्गिकः ॥", "44016": "भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् । भस्त्रिकी ॥", "44017": "विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥", "44018": "कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥", "44019": "अक्षद्युतेन निर्वृत्तमाक्षद्यूतिकं वैरम् ॥", "44020": "त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पक्त्रिमम् । (वार्तिकम्) ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥", "44021": "अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥", "44022": "दध्ना संसृष्टं दाधिकम् ॥", "44023": "चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥", "44024": "लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥", "44025": "मौद्ग ओदनः ॥", "44026": "ठक् । दध्ना उपसिक्तं दाधिकम् ॥", "44027": "ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥", "44028": "द्वितायान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥", "44029": "परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥", "44030": "द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः । (वार्तिकम्) ॥ वार्धुषिकः ॥", "44031": "गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दशचेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥", "44032": "बदराण्युञ्छति बादरिकः ॥", "44033": "समाजं रक्षति सामाजिकः ॥", "44034": "शब्दं करोति शाब्दिकः । दार्दुरिकः ॥", "44035": "। (वार्तिकम्) ॥ मत्स्यपर्यायेषु मीनस्यैव (भाष्येष्टिः) ॥ पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुनिकः । मार्गिकः । हारिणितः । सारङ्गिकः ॥", "44036": "अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥", "44037": "दण्डाकारो माथः पन्थाः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥", "44038": "अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥", "44039": "पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥", "44040": "एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥", "44041": "धार्मिकः । (वार्तिकम्) ॥ आधर्मिकः ॥", "44042": "प्रतिपथमेति प्रातिपथिकः ॥", "44043": "सामवायिकः । सामूहिकः ॥", "44044": "परिषदं समवैति पारिषद्यः ॥", "44045": "ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥", "44046": "ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिकोभिक्षुः ॥", "44047": "आपणस्य धर्म्यमापणिकम् ॥", "44048": "महिष्या धर्म्यं माहिषम् । याजमानम् ॥", "44049": "यातुर्धर्म्यं यात्रम् । (वार्तिकम्) ॥ नरस्य धर्म्या नारी । (वार्तिकम्) ॥ विशसितुर्धर्म्यं वैशस्त्रम् । (वार्तिकम्) ॥ विभाजयितुर्धर्म्यं वैभाजित्रम् ॥", "44050": "षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥", "44051": "अपूपाः पण्यमस्य आपूपिकः ॥", "44052": "लावणिकः ॥", "44053": "किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥", "44054": "ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥", "44055": "मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥", "44056": "मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥", "44057": "तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥", "44058": "पारश्वधिकः ॥", "44059": "शाक्तीकः । याष्टीकः ॥", "44060": "तदस्येत्येव । अस्तिपरलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य न नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥", "44061": "अपूपभक्षणं शीलमस्य आपूपिकः ॥", "44062": "गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥", "44063": "प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥", "44064": "प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः ॥", "44065": "अपूपभक्षणं हितमस्मै आपूपिकः ॥", "44066": "अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ॥", "44067": "श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । मांसौदनग्रहणं संधातविगृहीतार्थम् । मांसौदनिकः । मांसिकः । ओदनिकः ॥", "44068": "पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥", "44069": "आकरे नियुक्त आकरिकः ॥", "44070": "देवागारे नियुक्तो देवागारिकः ॥", "44071": "निषिद्धदेशकालवाचकाट्ठक् स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः ॥", "44072": "तत्रेत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥", "44073": "नैकटिको भिक्षुः ॥", "44074": "आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी ॥ (वार्तिकम्) ॥ आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ 1 ॥ षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ ठकोऽवधिः समाप्तः ॥", "44075": "तस्मै हितम् <{SK1665}> इत्यतः प्राक् यदधिक्रियते ॥", "44076": "रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥", "44077": "हलि च <{SK354}> इति दीर्घे प्राप्ते ॥", "44078": "सर्वधरां वहतीति सर्वधुरीणः ॥", "44079": "एकधुरां वहति एकधुरीणः । एकधुरः ॥", "44080": "शकटं वहति शाकटो गौः ॥", "44081": "हलं वहति हालिकः । सैरिकः ॥", "44082": "जनी वधूः तां वहति प्रापयति जन्या ॥", "44083": "द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः ॥", "44084": "तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥", "44085": "अन्नं लब्धा आन्नः ॥", "44086": "वश्यः परेच्छानुचारी ॥", "44087": "पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥", "44088": "आबर्हणमाबर्ह उत्पाटनं तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः ॥", "44089": "धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते संज्ञायाम् । धेनुष्या बन्धके स्थिता ॥", "44090": "गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्निः ॥", "44091": "नावा तार्यं नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया संमितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ॥", "44092": "धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ॥", "44093": "छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥", "44094": "चाद्यत् । उरसा निर्मितः पुत्रः औरसः । उरस्यः ॥", "44095": "हृद्यो देशः । हृदस्य हृल्लेख-<{SK988}> इति हृदादेशः ॥", "44096": "हृदयशब्दात् षठ्यन्ताद्बन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्रः ॥", "44097": "मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्पो हल्यः ॥", "44098": "अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । येचाभावकर्मणोः <{SK1154}> इति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥", "44099": "प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः ॥", "44100": "भक्ते साधवो भाक्ताः शालयः ॥", "44101": "पारिपद्यः । परिषद इति योगविभागाण्णोऽपि । परिषदः । पर्षद इति पाठः । पार्षदः ॥", "44102": "कथायां साधुः काथिकः ॥", "44103": "गुडे साधुर्गौडिक इक्षुः । साक्तुका यवाः ॥", "44104": "पथि साधुः पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ॥", "44105": "सभ्यः ॥", "44106": "सभेयो युवा ॥", "44107": "साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥", "44108": "समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥", "44109": "सोदर्यः । अर्थः प्राग्वत् ॥", "44110": "सप्तम्यन्ताद्भवार्थे यत् । मेघ्याय च विद्युत्याय च (मे॒घ्या॑य च विद्यु॒त्या॑य च) । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः (सोम॑स्येव मौजव॒तस्य॑ भ॒क्षः) । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः ॥", "44111": "तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥", "44112": "भवे । वैशन्तीभ्यः स्वाहा (वै॒श॒न्तीभ्यः॒ स्वाहा॑) । हैमवतीभ्यः स्वाहा (है॒म॒व॒तीभ्यः॒ स्वाहा॑) ॥", "44113": "पक्षे यत् । ड्यड्ड्ययोस्तु स्वरे भेदः । स्रोतसि भवः स्रोत्याः । स्रोतस्यः ॥", "44114": "अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जघत्नुः (यो नः॒ सनु॑त्य उ॒त वा॑ जघ॒त्नुः) । नुतिर्नुतम् । नपुंसके भावे क्तः -<{SK3090}> । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसि <{SK1012}> इति सः । ततो भवार्थे यन् । यतोऽपवादः ॥", "44115": "भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥", "44116": "अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥", "44117": "चाद्यत् । अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥", "44118": "समुद्रिया अप्सुरसो मनीषिणम् (स॒मु॒द्रिया॑ अप्सु॒रसो॑ मनी॒षिण॑म्) । नानदतो अभ्रियस्येव (नान॑दतो अ॒भ्रिय॑स्येव॒) । घोषाः॑ ॥", "44119": "प्राग्घिताद्यत् <{SK1626}> इत्येव । बर्हिष्येषु निधिषु प्रियेषु (ब॒र्हि॒ष्येषु॑ नि॒धिषु॑ प्रि॒येषु॑) ॥", "44120": "भार्गोऽशः । दूत्यम् ॥", "44121": "या ते अग्ने रक्षस्या तनूः (या ते॑ अग्ने रक्ष॒स्या॑ त॒नूः) ॥", "44122": "प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥", "44123": "असुर्यं देवोभिर्धायि विश्वम् ॥", "44124": "आसुरी माया ॥", "44125": "वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः । ऋतव्याः ॥", "44126": "आश्विनीरुप दधाति ॥", "44127": "तद्वानासामिति सूत्रं सर्वमनुवर्तते । मातोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोर्लुक्च वयः शब्दवन्मन्त्रोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ॥", "44128": "नभोऽभ्रम् । तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तनूः ॥", "44129": "माधवः । मधव्यः ॥", "44130": "ओजस्यमहः । ओजसीनं वा ॥", "44131": "यथासंख्यं नेष्यते । वेशो बलं तदेव भगः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः ॥", "44132": "योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥", "44133": "गम्भीरेभिः पथिभिः पूर्विणेभिः (ग॒म्भी॒रेभिः॑ प॒थिभिः॑ पूर्वि॒णेभिः) । ये ते पन्थाः सवितः पूर्व्यासः (ये ते॒ पन्थाः॑ सवितः पूर्व्यासः॑) ॥", "44134": "यस्येदमप्यं हविः (यस्ये॒दमप्यं॑ ह॒विः) ॥", "44135": "सहस्त्रियासो अपां नोर्मयः (स॒ह॒स्त्रिया॑सो अ॒पां नोर्मयः॑) । सहस्रेण तुल्या इत्यर्थः ॥", "44136": "सहस्रशब्दान्मत्वर्थे घः स्यात् । सहस्रमस्यास्तीति सहस्रियः ॥", "44137": "सोम्यो ब्राह्मणः । यज्ञार्ह इत्यर्थः ॥", "44138": "सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु (सो॒म्यं मधु॑) । सोममयमित्यर्थः ॥", "44139": "मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमयः इत्यर्थः ॥", "44140": "चान्मयडर्थे यत् । वसव्यः । । (वार्तिकम्) ॥ छन्दः शब्दातदक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः । आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशाक्षरश्छान्दस्यः ॥", "44141": "स्वार्थे । नक्षत्रियेभ्यः स्वाहा (न॒क्ष॒त्रिये॑भ्यः॒ स्वाहा॒) ॥", "44142": "स्वार्थे । सविता नः सुवतुसर्वतातिम् (स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिम्) । प्रदक्षिणिद्देवतातिमुराणः (प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः) ॥", "44143": "करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददादुषे (याभिः॒ शन्ता॑ती॒ भव॑थो द॒दा॒दुषे॑) । अथो अरिष्टतातये (अथो॑ अरि॒ष्टता॑तये ॥", "44144": "शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥", "51001": "तेन क्रीतम् <{SK1702}> इत्यतः प्राक् छोऽधिक्रियते ॥", "51002": "प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । (गणसूत्रम् -) नाभि नभं च ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । (गणसूत्रम् -) शुनः संप्रसारणं वा च दीर्घत्वम् । शून्यम् । शुन्यम् । (गणसूत्रम् -) ऊधसो नङ् च । ऊधन्यः ॥", "51003": "यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥", "51004": "आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्याम्तण्डुलाः । पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥", "51005": "वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥", "51006": "दन्त्यम् । कण्ठ्यम् । (वार्तिकम्) ॥ नस्यम् । नाभ्यम् ॥", "51007": "खलाय हितं खल्यम् । यव्यम् । माप्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥", "51008": "अजथ्यायूथिः । अविथ्या ॥", "51009": "", "51010": "। (वार्तिकम्) ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥ (वार्तिकम्) ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । तस्येदम्-<{SK1500}>इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । प्राणिरजतादिभ्योऽञ् <{SK1532}> इत्यञि प्राप्ते समुहैऽप्यणि प्राप्ते । एकाकिनोऽपि परितः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ॥", "51011": "माणवाय हितं माणवीनम् । चारकीणम् ॥", "51012": "विकृतिवाचाकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गरेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ॥", "51013": "छादिषेयाणि तृणानि । बालेयास्तण्डुलाः । (वार्तिकम्) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥", "51014": "छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ॥ औपानह्यं चर्म ॥", "51015": "चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् । वर्ध्र्यै इदं वार्ध्रं चर्म । वारत्रं चर्म ॥", "51016": "प्राकार आसामिष्टकानां स्यात्प्रकारीया इष्टकाः । प्रासादीयं दारु । प्रकारोऽस्मिन् स्यात् प्राकारीयो देशः । इति शब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ॥", "51017": "परिखेयी भूमिः ॥ छयतोः पूर्णोऽवधिः ॥", "51018": "तेन तुल्यम् <{SK1778}> इति वर्तिं वक्ष्यति ततः प्राक्ठञधिक्रियते ॥", "51019": "तदर्हति <{SK1728}> इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥", "51020": "आर्हादित्येतत् तेन क्रीतम् <{SK1702}> इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥", "51021": "शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्नभिद्यते, तेन ठन्यतौ न । किं तु कनेव । असमासे इत्येव । द्विशतेन क्रीतं द्विशतकम् ॥", "51022": "संख्यायाः कन्स्यादार्हीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः । चात्वारिंत्कः ॥", "51023": "वत्वान्तात्कन इड्वा स्यात् । तावतिकः । तावत्कः ॥", "51024": "योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां तु ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशतिकः ॥", "51025": "टो ङीबर्थः । इकार उच्चरणार्थः । कंसिकः । कंसिकी । (वार्तिकम्) ॥ अर्धिकः । अर्धिकी । (वार्तिकम्) । (वार्तिकम्) ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥", "51026": "शौर्पम् । शौर्पिकम् ॥", "51027": "एभ्योऽण् स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ॥", "51028": "अध्यर्धपूर्वाद्द्विगोश्च परस्यार्हीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु पाञ्चाकलापिकम् ॥", "51029": "लुग्वा स्यात् । अध्यर्धकार्षाणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । औपसंख्यानिकस्यटिठनो लुक् । पक्षेऽध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । द्विसहस्रम् । द्विसाहस्रम् ॥", "51030": "लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्-त्रिनैष्किकम् । (वार्तिकम्) ॥ बहुनिष्कम् । बहुनैष्किकम् ॥", "51031": "द्वित्रिबहुपूर्वाद्विस्तादार्हीयस्य लुग्वा स्यात् । द्विबिस्तम् । द्विबैस्तिकमित्यादि ॥", "51032": "अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥", "51033": "अध्यर्धखारीकम् । द्विखारीकम् । (वार्तिकम्) ॥ खारीकम् ॥", "51034": "अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पत् <{SK414}> इति न । यस्य-<{SK311}> इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे <{SK991}> इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥", "51035": "यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥", "51036": "शाणात्इत्येव । चाद्यत् । तेन त्रैरूप्यम् । परिमाणान्तस्यासंज्ञाशाणयोः <{SK1683}> इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्वीशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थास्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥", "51037": "ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ॥", "51038": "संयोगः संबन्धः । उत्पातः - शुभाशुभसूचकः । शतिकः-शत्यो वा धनपतिसंयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः । (वार्तिकम्) ॥ वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् । (वार्तिकम्) ॥ सान्निपातिकम् ॥", "51039": "गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचः । धन्यः । यशस्यः । स्वर्ग्यः । गोद्व्यचः किम् । विजयस्य वैजयिकः । असंख्या इत्यादि किम् । पञ्चानां पञकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि- आश्विकम् । आस्मिकम् । (वार्तिकम्) ॥ ब्रह्मवर्चस्यम् ॥", "51040": "चाद्यत् । पुत्रीयः । पुत्र्यः ॥", "51041": "सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पद्यते ॥", "51042": "", "51043": "सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥", "51044": "तत्र विदितः इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥", "51045": "उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥", "51046": "पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ॥", "51047": "वृद्धिर्दीयत इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्कमुपदा वा दीयते पञ्चकः । शतिकः-शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा । (वार्तिकम्) ॥ पञ्चास्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । सममब्राह्मणे दानमितिवदधिकरणत्वविवक्षा वा ॥", "51048": "यथाक्रम ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः । तृतीयकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥", "51049": "चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते भाग्यं-भागिकं शतम् । भाग्या भगिका विंशतिः ॥", "51050": "वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्यः इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥", "51051": "यथासंख्यं स्तः । वस्त्रं हरति वहत्यावहति वा वस्त्रिकः । द्रव्यकः ॥", "51052": "प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः । (वार्तिकम्) ॥ चाट्ठञ् । द्रोणं पचतीति द्रौणी-द्रौणिकी ॥", "51053": "पक्षे ठञ् । आढकं संभवति अवहरति पचति वा आढकीना-आढकिकी । अचितीना । आचितिकी । पात्रीणा पात्रीकी ॥", "51054": "आढकाचितपात्रात् इत्येव । आढकाद्यन्ताद्द्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्य अध्यर्ध-<{SK1693}> इति लुक् । षित्वान्ङीष् । द्व्याढकिकी । द्व्याढकीना । द्विगोः-<{SK479}> इति ङीप् । द्व्याढकी । द्व्याचितिकी । द्व्याचितीना । अपरिमाण-<{SK470}> इति ङीब्निषेधात् । द्व्याचिता । द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥", "51055": "कुलिजान्ताद्द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात्ष्ठंश्च । लुगभावे ठञः श्रवणम् । द्विकुलिजी-द्वैकुलिजिकी-द्विकुलिजीना-द्विकुलिजिकी ॥", "51056": "अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥", "51057": "प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥", "51058": "पूर्वसूत्रमनुवर्तते । तत्र । (वार्तिकम्) ॥ यद्वा द्व्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः ॥ पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रेऽष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृधगुपात्तम् । पञ्चकमध्ययनम् । (वार्तिकम्) ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥", "51059": "एते रूढिशब्दा निपात्यन्ते ॥", "51060": "पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥", "51061": "तदस्य परिमाणम् - <{SK1723}> इति वर्ग इति च । सप्त साप्तानि असृजत् (सप्त॑ सा॒प्तानि॑ असृजत् ॥ (वार्तिकम्) ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनोमासाः । (वार्तिकम्) ॥ विंशिनोऽङ्गिरसः । (वार्तिकम्) ॥ त्वाववतः पुरूवसो (त्वाव॑वतः पुरूवसो) । न त्वावाँ अन्यः (न त्वावाँ॑ अ॒न्यः) । यज्ञं विप्रस्य मावतः (यज्ञं विप्र॑स्य मा॑वतः) ॥", "51062": "त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ॥", "51063": "लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रर्हति श्वैतच्छत्रिकः ॥", "51064": "नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढत्वात् । (गणसूत्रम् -) विराग विरङ्गं च । विरागं नित्यमर्हति । वैरागिकः । वैरङ्गिकः ॥", "51065": "शीरश्च्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः । यट्ठकोः संनियोगेन शिरसः शीर्षभावो निपात्यते ॥", "51066": "एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥", "51067": "प्रातिपदिकमात्रात्तदर्तहतीति यत् । सादन्यं विदर्थ्यम् (सा॒द॒न्यं॑ विद॒र्थ्य॑म्) ॥", "51068": "चाद्यत्तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥", "51069": "चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात्खच् । कडंकरं माषमुद्रादिकाष्ठमर्हतीति कडंकरीयो गौः । कडंकर्यः । दक्षिणामर्हतीति दक्षिणीयः-दक्षिण्यः ॥", "51070": "स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः । पाकयोग्याः इत्यर्थः ॥", "51071": "यथासंख्यं स्तः । यज्ञमृत्विजं वार्हति यज्ञियः । आर्त्विजीनो यजमानः ॥ (वार्तिकम्) ॥ यज्ञियो देशः । आर्त्विजीन ऋत्विक् ॥ इति आर्हीयाणां ठगादीनां द्वादशानां गतोऽवधिः ॥", "51072": "पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः, तं वर्तयत् तौरायणिको यजमानः । चान्द्रायणिकः ॥", "51073": "संशयविषयीभूतोऽर्थः सांशयिकः ॥", "51074": "यौजनिकः । (वार्तिकम्) ॥ क्रोशशतं गच्छति क्रौशशतिकः । (वार्तिकम्) ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥", "51075": "षो ङीषर्थः । पन्थानं गच्छति पथिकः पथिकी ॥", "51076": "पन्थानं नित्यं गच्छति पान्थः । पान्थी ॥", "51077": "उत्तरपथेनाहृतं औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः । (वार्तिकम्) ॥ वारिपथिकम् ॥", "51078": "व्युष्टादिभ्योऽण् <{SK1761}> इत्यतः प्रागधिकारोऽयम् ॥", "51079": "अह्ना निर्वृत्तमाह्निकम् ॥", "51080": "अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतः कालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥", "51081": "मासं भूतो मास्यः । मासीनः ॥", "51082": "मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥", "51083": "वयसीत्येव । यबप्यनुवर्तते । चाट्ठञ् । षण्मास्यः । षाण्मासिकः ॥", "51084": "चाण्ण्यत् । षण्मासिको व्याधिः षाण्मास्यः ॥", "51085": "समामधीष्टो भृतो भूतो भावी वा समीनः ॥", "51086": "समायाः ख इत्येव । तेन परिजय्य - <{SK1757}> इत्यतः प्राङ्निर्वृत्तादिषु पञ्चस्वर्थेषु प्रत्ययाः । द्विसमीनः । द्वैसमिकः ॥", "51087": "द्विगोरित्येव । द्विरात्रीणः । द्वैरात्रिकः । द्व्यहीनः । द्वैयह्निकः । समासान्तविधेरनित्यत्वान्न टच् । द्विसंवलत्सरीणः ॥", "51088": "वर्षशब्दान्ताद्द्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवर्षः ॥", "51089": "वर्षशब्दान्ताद्द्विगोः प्रत्ययस्य नित्यं लुक् स्यात् चेतने प्रत्ययार्थे । द्विवर्षो दारकः ॥", "51090": "बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥", "51091": "निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥", "51092": "चाच्छः । संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः । परिवत्सरीयः ॥", "51093": "मासेन परिजय्यो जेतुं शक्यो मासिको व्याधिः । मासेन लभ्यं कार्यं सुकरं वा मासिकम् ॥", "51094": "द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् । (वार्तिकम्) ॥ महानाम्न्यो नाम विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढ इति पुंवद्भावान्माहानामिक इत्याह । (वार्तिकम्) ॥ तत्र भव इत्यर्थे ॥ चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि । (वार्तिकम्) ॥ चतुर्षु मासेषु भवति चातुर्मासी आषाढी । अण्णन्तत्वान्ङीप् ॥", "51095": "द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥", "51096": "प्रावृषि दीयते कार्यं वा प्रावृषेण्यम् । शारदम् ॥ ठञधिकारे कालाधिकारस्य पूर्णोऽवधिः ॥", "51097": "व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट, तीर्थ, संग्राम, प्रवास इत्यादि । (वार्तिकम्) ॥ अग्निपदे दीयते कार्यं वाग्निपदम् । पैलुमूलम् ॥", "51098": "यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च यथासंख्यं णयतौ स्तः । अर्थाभ्यां तु यथासंख्यं नेष्यते ॥ यथाकथाच दीयते कार्यं वा याथाकथाचम् । अनादरेण देयं कार्यं वेत्यर्थः । हस्तेन दीयते कार्यं वा हस्त्यम् ॥", "51099": "ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभत इत्यर्थः ॥", "51100": "कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥", "51101": "संतापाय प्रभवति सांतापिकः । सांग्रामिकः ॥", "51102": "चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥", "51103": "कर्मणे प्रभवति कार्मुकम् ॥", "51104": "समयः प्राप्तोऽस्य सामयिकम् ॥", "51105": "ऋतुः प्राप्तोऽस्य आर्तवम् ॥ (वार्तिकम्) ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥", "51106": "ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । भाग ऋत्वियः ॥", "51107": "कालः प्राप्तोऽस्य काल्यं शीतम् ॥", "51108": "कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥", "51109": "तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥", "51110": "आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः । (वार्तिकम्) ॥ चूडी, चौडम् । श्रद्धा, श्राद्धम् ॥", "51111": "अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ॥", "51112": "व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥", "51113": "एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चारैः ॥", "51114": "समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याऽऽकाल आदेशः । आशुविनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा । (वार्तिकम्) ॥ आकालिका विद्युत् ॥ ठञः पूर्णोऽवधिः ॥", "51115": "ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥", "51116": "मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥", "51117": "विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुर्तते । तनेह न । राजानमर्हति छत्रम् ॥", "51118": "धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । यदुद्वतो निवतः (यदु॒द्वतो॑ नि॒वतः॑) । उद्गतान्निर्गातादित्यर्थः ॥", "51119": "प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबं (लि <{SK120}>) तलन्तं स्त्रियाम्(लि<{SK17}>) ॥", "51120": "ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रियो भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥", "51121": "इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भाव आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥", "51122": "वावचनमणादिसमावेशार्थम् ॥", "51123": "चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् । (वार्तिकम्) ॥ द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ॥", "51124": "चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् । (वार्तिकम्) ॥ अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥", "51125": "नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमप केचिदिच्छन्ति ॥", "51126": "सख्युर्भावः क्रम वा सख्यम् । दूतवणिग्भ्यां च ॥ दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः स्वभावातस्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ॥", "51127": "कापेयम् । ज्ञातेयम् ॥", "51128": "सैनापत्यम् । पौरोहित्यम् ॥ (गणसूत्रम् -) राजाऽसे ॥ राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्यवात्ष्यञ् । आधिराज्यम् ॥", "51129": "प्राणभृज्जाति, आश्वम् । औष्ट्रम् । वयोवचने, कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥", "51130": "द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् । (वार्तिकम्) ॥ श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥", "51131": "शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्ष्यञ् ॥", "51132": "रामणीयकम् । आभिधानीयकम् । (वार्तिकम्) ॥ साहाय्यम् । साहायकम् ॥", "51133": "शैष्योपाध्यायिका । मानोज्ञकम् ॥", "51134": "अत्याकारोऽधिक्षेपः तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः ॥", "51135": "होत्राशब्द ऋत्विग्वाची स्त्रीलिङ्गः । वहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा आच्छावाकीयम् । मैत्रावरुणीयम् ॥", "51136": "होत्रावाचिनो ब्रह्मशब्दस्य स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेतिवाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ॥", "52001": "भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥", "52002": "व्रैहेयम् । शालेयम् ॥", "52003": "यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥", "52004": "यत् वा स्यात् पक्षे खञ् । तिल्यम् । तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥", "52005": "असमार्थ्येऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥", "52006": "मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥", "52007": "सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः ॥", "52008": "पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥", "52009": "अनुरायामे सादृश्ये च । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः तं नेय आयानयीनः शारः ॥", "52010": "परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥", "52011": "अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥", "52012": "यलोपोऽवशिष्टविभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना गौः । समांसमीना ना यैव प्रतिवर्षं प्रनूयते । (वार्तिकम्) ॥ समांसमां विजायते । समायां समायां वा ॥", "52013": "अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥", "52014": "आङ् पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥", "52015": "अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ॥", "52016": "अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ये चाभावकर्मणोः <{SK1154}> । आत्माध्वानौ खे <{SK1671}> इति सूत्राभ्यां प्रकृतिभावः ॥", "52017": "चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥", "52018": "गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥", "52019": "एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥", "52020": "शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥", "52021": "व्रातेन शरीरायासेन जीवति नतु बुद्धिवैभवेन न व्रातीनः ॥", "52022": "सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥", "52023": "ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥", "52024": "पीलूनां पाकः पालुकुणः । कर्णस्य मूलं कर्णजाहम् ॥", "52025": "मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥", "52026": "यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥", "52027": "असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना ॥", "52028": "कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥", "52029": "सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् । (वार्तिकम्) ॥ अलाबूनां रजः अलाबूकटम् । तिलकटम् । (वार्तिकम्) ॥ गवां गोगोष्ठम् । (वार्तिकम्) ॥ अवीनां सङ्घातोऽविकटः । (वार्तिकम्) ॥ अविपटः । (वार्तिकम्) ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् । (वार्तिकम्) ॥ अश्वषङ्गवम् । (वार्तिकम्) ॥ तिलतैलम् । सर्षपतैलम् । (वार्तिकम्) ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥", "52030": "चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥", "52031": "अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥", "52032": "निबिडम् । निबिरीसम् ॥", "52033": "नेरित्येव । नासिकाया नतेऽभिधेये इनच् पिटचौ प्रत्ययौ प्रकृतेश्चिकचि इत्यादेशौ च । (वार्तिकम्) ॥ चिकिनम् ॥ चिपिटम् । चिक्कम् । (वार्तिकम्) ॥ क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः । (वार्तिकम्) ॥ चुल्लः ॥", "52034": "संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ॥", "52035": "घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥", "52036": "तारकाः संजाता अस्य तारकितं नभः । आकृतिगणोऽयम् ॥", "52037": "तदस्येत्यनुवर्तते । उरू प्रमाणमस्य ऊरूद्वयसम् । ऊरूदघ्नम् । ऊरुमात्रम् । प्रामाणे लः ॥ शमः । दिष्टिः । वितस्तिः । (वार्तिकम्) ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् । (वार्तिकम्) ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् । (वार्तिकम्) ॥ तावदेव तावद्द्वयसम् ॥ तावन्मात्रम् ॥", "52038": "पुरूषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम् ॥", "52039": "यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥", "52040": "आभ्यां वतुप्स्याद्वस्य च घः । कियान् । ईयान् ॥", "52041": "चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥", "52042": "पञ्चावयवा अस्य पञ्चतयं दारु ॥", "52043": "द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥", "52044": "उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥", "52045": "एकादश अधिका अस्मिन्नेकादशम् । (वार्तिकम्) ॥ नेह । एकादश अधिका अस्यां विंशतौ । (वार्तिकम्) ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥", "52046": "डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥", "52047": "भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥", "52048": "एकादशानां पूरण एकादशः ॥", "52049": "डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥", "52050": "नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - <{SK1889}> । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् (अ॒प॒त्यं प॑रिपन्थिनम्) । मात्वा परिपरिणौ विदन् (मात्वा॒ परि॒परि॑णौ विदन्) ॥", "52051": "एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यतएव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः । (वार्तिकम्) ॥ तुरीयः । तुर्यः ॥", "52052": "डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यतएव डट् । बहुतिथ इत्यादि ॥", "52053": "डटीत्येव । यावतिथः ॥", "52054": "डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥", "52055": "तृतीयः ॥", "52056": "एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविशतितमः । एकविशः ॥", "52057": "शतस्य पूरणः शततमः । एकशततमः । मासादेरतएव डट् । मासतमः ॥", "52058": "षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य - <{SK1856}> इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥", "52059": "मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सुक्तम् । वारवन्तीयं साम ॥", "52060": "मत्वर्थस्य छस्य । अतएव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥", "52061": "मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥", "52062": "मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥", "52063": "वुन् स्यात् । पथि कुशलः पथिकः ॥", "52064": "आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निकषोपलः ॥", "52065": "काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥", "52066": "केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ॥", "52067": "अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥", "52068": "कन् स्वर्यते नतु ठक् । सस्यशब्दो गुणवाची नतु धान्यवाची । शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥", "52069": "हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥", "52070": "तन्त्रकः । पटः । प्रत्यग्र इत्यर्थः ॥", "52071": "आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥", "52072": "करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥", "52073": "अध्यारूढशब्दात्कन् उत्तरपदलोपश्च ॥", "52074": "अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥", "52075": "अनृजुरुपायः पार्श्वं तेनान्विच्छति पार्श्वकः ॥", "52076": "तीक्ष्ण उपायोऽयः शूलं तेनान्विच्छति आयःशूलिकः - साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः ॥", "52077": "कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः । (वार्तिकम्) ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ॥", "52078": "देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥", "52079": "शृङ्खलकः करभः ॥", "52080": "उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः ॥", "52081": "कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥", "52082": "प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी । (वार्तिकम्) ॥ वटकिनी ॥", "52083": "कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥", "52084": "श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥", "52085": "श्राद्धी । श्राद्धिकः ॥", "52086": "पूर्वं कृतमनेन पूर्वी ॥", "52087": "कृतपूर्वी ॥", "52088": "इष्टमनेन इष्टी । अधीती ॥", "52089": "लोके तु परिपन्थिशब्दो न न्याय्यः ॥", "52090": "अनुपदमन्वेष्टा अनुपदी गवाम् ॥", "52091": "साक्षाद्रष्टा साक्षी ॥", "52092": "क्षेत्रियो व्याधिः शरीरान्तरे चिकित्स्यः । अप्रतीकार्यं इत्यर्थः ॥", "52093": "इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः प्रकारार्थः । इन्द्रेण दुर्जमिन्द्रियम् ॥", "52094": "गावोऽस्यास्मिन्वा सन्ति गोमान् । (वार्तिकम्) ॥ संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥", "52095": "मतुप् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थं वचनम् । रस, रुप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह । (गणसूत्रम् -) गुणात् ॥ (गणसूत्रम् -) एकाचः ॥ स्ववान् । गुणग्रहणं रसादीनां विशेषणम् ॥", "52096": "चूडालः । चूडवान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥ (वार्तिकम्) ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ स्वरितो वानुदात्ते पदादौ <{SK3659}> इति स्वरितबाधनार्थश्चकारः ॥", "52097": "लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥ (गणसूत्रम् -) वातदन्तबलललाटानामूङ् च ॥ वातूलः ॥", "52098": "आभ्यां लज्वा स्याद्यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥", "52099": "चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥", "52100": "लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः ॥ (गणसूत्रम् -) अङ्गात्कल्याणे । अङ्गना ॥ (गणसूत्रम् -) लक्ष्म्या अच्च । लक्ष्मणः । (वार्तिकम्) ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥", "52101": "प्राज्ञो व्याकरणे । प्राज्ञा । श्राद्धः । आर्चः । (वार्तिकम्) ॥ वार्तः ॥", "52102": "विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥", "52103": "योगविभाग उत्तरार्थः । तापसः । साहस्रः । (वार्तिकम्) ॥ ज्यौत्स्नः । तामिस्रः ॥", "52104": "सैकतो घटः ॥ शार्करः ॥", "52105": "चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः । सिकतिलः । सैकतः । सिकतावान् । एवं शर्करा इत्यादि ॥", "52106": "उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥", "52107": "ऊषरः । सुषिरः । मुष्कोऽण्डः, मुष्करः । मधु माधुर्यम्, मधुरः । (वार्तिकम्) ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः । (वार्तिकम्) ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डुरशब्दस्तु अव्युत्पन्न एव । (वार्तिकम्) ॥ कच्छुरः ॥", "52108": "द्युमः । द्रुमः ॥", "52109": "प्रकृतेनमान्यतरस्यां ग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् । (वार्तिकम्) ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः । (वार्तिकम्) ॥ अर्णवः ॥", "52110": "ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥", "52111": "काण्डीरः । आण्डीरः ॥", "52112": "रजस्वला स्त्री । कृषीवलः । वले <{SK1040}> इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदितिपाठान्तरम् । पर्षद्वलम् । (वार्तिकम्) ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । वले <{SK1040}> इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥", "52113": "दन्तवलो हस्ती । शिखावलः केकी ॥", "52114": "मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमदन्त्रम् । तमिस्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभूदिति विनिरपि । ऊर्जस्वी । उर्जस्वलः । ऊर्जोऽसुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः ॥", "52115": "दण्डी । दण्डिकः ॥", "52116": "व्रीही । व्रीहीकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि । (वार्तिकम्) ॥ यवखदादिभ्य इकः ॥ अन्येभ्य उभयम् ॥", "52117": "चादिनि ठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ (गणसूत्रम् -) स्वाङ्गाद्विवृद्धौ । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य कर्णिलः । कर्णी । कर्णिकः । कर्णवान् ॥", "52118": "एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥", "52119": "निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥", "52120": "आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहतेति किम् । रूपवान् । (वार्तिकम्) ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥", "52121": "यशस्वी । यशस्वान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी । (वार्तिकम्) ॥ आमयावी । (वार्तिकम्) ॥ शृङ्गारकः । वृन्दारकः । (वार्तिकम्) ॥ फलिनः । बर्हिणः । (वार्तिकम्) ॥ इनिठनौ मतुप् च । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् । (वार्तिकम्) ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः । (वार्तिकम्) ॥ हिमं न सहते हिमेलुः । (वार्तिकम्) ॥ वलं न सहते बलूलः । (वार्तिकम्) ॥ वातं न सहते वातस्य समूहो वा वातूलः । (वार्तिकम्) ॥ पर्वतः । मरुत्तः ॥", "52122": "मत्वर्थे विनिः स्यात् ॥ (वार्तिकम्) ॥ इति दीर्घः । मंहिष्टमुभयाविनम् (मंहि॑ष्ठसुभया॒विन॑म्) । शुनमष्ट्राव्यचरत् (शु॒नम॑ष्ट्रा॒व्य॑चरत्) ॥ (वार्तिकम्) ॥ ई ॥ रथीरभूत् (र॒थीर॑भूत्) ॥ सुमङ्गलीरियं वधूः (सु॒म॒ङ्ग॒लीरि॒यं व॒धूः) । मघवानमीमहे (म॒घवा॑नमीमहे) ॥", "52123": "सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहिअहंशुभमोः - <{SK1946}>इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥", "52124": "वाग्ग्मी ॥", "52125": "। (वार्तिकम्) ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥", "52126": "ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥", "52127": "अर्शास्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥", "52128": "द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापोरोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः । प्राण्यङ्गान्न ॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबधनार्थम् ॥", "52129": "चादिनिः । वतकी । अतीसारकी । रोगे चायमिष्यते ॥ नेह, वातवती गुहा । (वार्तिकम्) ॥ पिशाचकी ॥", "52130": "पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥", "52131": "इनिर्मत्वर्थे । सुखी । दुःखी ॥ (गणसूत्रम् -) मालाक्षेपे ॥ माली ॥", "52132": "धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥", "52133": "हस्ती । जातौ किम् । हस्तवान्पुरुषः ॥", "52134": "वर्णी ॥", "52135": "पूष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी । (वार्तिकम्) ॥ बाहुबली । ऊरुबली । (वार्तिकम्) ॥ सर्वधनी । सर्वबीजी ॥ (वार्तिकम्) ॥ अर्थी । संनिहिते तु अर्थवान् । (वार्तिकम्) ॥ धान्यार्थी ॥ हिरण्यार्थी ॥", "52136": "बलवान् बली । उत्साहवान् । उत्साही ॥", "52137": "मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी । संज्ञायां किम् । सोमवान् ॥", "52138": "कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्थसोः सकारः पदत्वार्थः । कंबः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनीसिकौ वयौ ॥", "52139": "वृद्धानाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि ॥", "52140": "अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥", "53001": "दिक्शब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥ अथ स्वार्थिका प्रत्ययाः । समर्थानामिति प्रथमादिति च निवृत्तम् । वेति त्वनुवर्तत एव ॥", "53002": "किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥", "53003": "प्राद्गिशीये परे ॥", "53004": "इदं शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च प्राद्गिशीये परे । इशोऽपवादः ॥", "53005": "योगविभागः कर्तव्यः । एतदः एतेतौ स्तो रथोः । अन् एतद इत्येव । अनेकाल्त्वात्सर्वादेशः । नलोपः प्रातिपदिकान्तस्य <{SK236}> ॥", "53006": "प्राद्गिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥", "53007": "पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥", "53008": "किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् ॥", "53009": "आभ्यां तसिल् स्यात् । (वार्तिकम्) ॥ परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥", "53010": "कुत्र । यत्र । तत्र । बहुत्र ॥", "53011": "त्रलोऽपवादः इशादेशः । इह ॥", "53012": "वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥", "53013": "कुह स्थः कुह जग्मथुः ॥", "53014": "पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । (वार्तिकम्) ॥ सभवान् । ततोभवान् । तत्रभवान् । तंभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् । एवं दीर्घायुः । देवानांप्रियः । आयुष्मान् ॥", "53015": "सप्तम्यन्तेभ्य एभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा । यदा । तदा काले किम् । सर्वत्र देशे ॥", "53016": "सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे ॥", "53017": "इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् । इश् । यस्य <{SK311}> इति लोपः । अधुना ॥", "53018": "इदानीम् ॥", "53019": "तदा । तदानीम् ॥ (वार्तिकम्) ॥", "53020": "इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् (इ॒दा हि व॒ उप॑स्तुतिम्) । तर्हि ॥", "53021": "कर्हि । कदा । यर्हि । यदा । तर्हि । तदा । एतस्मिन्काले एतर्हि ॥", "53022": "एते निपात्यन्ते । (वार्तिकम्) ॥ समानेऽहनि सद्यः । (वार्तिकम्) ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि । (वार्तिकम्) ॥ अस्मिन्संवत्सरे ऐषमः । (वार्तिकम्) ॥ परस्मिन्नहनि परेद्यवि । (वार्तिकम्) ॥ अस्निन्नहनि अद्य । (वार्तिकम्) ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्वोरुभयेद्युः । (वार्तिकम्) ॥ उभयद्युः ॥", "53023": "प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ॥", "53024": "थालोऽपवादः । (वार्तिकम्) ॥ अनेन एतेन वा प्रकरेण इत्थम् ॥", "53025": "केन प्रकारेण कथम् ॥", "53026": "किमस्था स्याद्धेतौ प्रकारे च । कथा ग्रामं न पृच्छसि (क॒था ग्रामं॒ न पृ॑च्छसि) । कथा दाशेम (क॒था दा॑शेम) ॥", "53027": "सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिद्गेशकालवृत्तिभ्यः स्वार्थेऽस्तीतिः प्रत्ययः स्यात् ॥", "53028": "अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥", "53029": "परतः । अवरतः । परस्तात् । अवरस्तात् ॥", "53030": "अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥लुक्तद्धितलुकि <{SK1408}> ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥", "53031": "अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥", "53032": "अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥", "53033": "अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा । तुश्छन्दसि <{SK2007}> तृजन्तात्तृन्नन्ताच्च इष्ठन्नीयसुनौ स्तः । आसुतिं करिष्ठाः (आसुतिं करि॑ष्ठः) । दोहीयसी धेनुः ॥", "53034": "उत्तरात् । अधरात् । दक्षिणात् ॥", "53035": "उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवर्त्य दिक्शब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् ॥ अपरेण ग्रामम् ॥", "53036": "अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥", "53037": "दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥", "53038": "उत्तराहि । उत्तरा ॥", "53039": "एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात्तद्योगे चैषां क्रमात्पुर्, अध्, अव्, इत्यादेशाः स्युः ॥", "53040": "अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥", "53041": "अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति च <{SK1976}> इति ज्ञापकादसिरस्तातिं न बाधते ॥", "53042": "क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥", "53043": "द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं पञ्चधा कुरु ॥", "53044": "ऐकध्यम् । एकधा ॥", "53045": "आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा । (वार्तिकम्) ॥ पथि द्वैधानि तृणानि ॥", "53046": "द्वेधा । त्रेधा ॥", "53047": "कुत्सितो भिषक् भिषक्पाशः ॥", "53048": "द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः । (वार्तिकम्) ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः । (वार्तिकम्) ॥ द्वितीया । तृतीया । विद्येत्येव ॥", "53049": "पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । अष्टमः ॥", "53050": "चादन् । षष्ठो भागः । षाष्ठः । षष्ठः । आष्टमः । अष्टमः ॥", "53051": "षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । ञस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति ॥", "53052": "चात्कन्लुकौ । एकः । एकाकी । एककः ॥", "53053": "आढ्यो भूतपूर्वः । आढ्यचरः ॥", "53054": "षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः । कृष्णरूप्यः कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥", "53055": "अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः । आढ्यतमः । लघुतमो लघिष्ठः ॥", "53056": "तिङन्तादतिशयेर्थे द्योत्ये तमप् स्यात् ॥", "53057": "द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेनलघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥", "53058": "इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥", "53059": "तृन्तृजन्तादिष्ठन्नीयसुनौ स्तः ॥", "53060": "अस्य श्रादेशः स्यादजाद्योः ॥", "53061": "प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥", "53062": "ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥", "53063": "अजाद्योः । नेदिष्ठः । नेदीयान् । साधिष्ठः । साधीयान् ॥", "53064": "एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः । कंनीयान् । पक्षे यविष्ठः । अल्पिष्ठः । इत्यादि ॥", "53065": "विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥", "53066": "सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ॥", "53067": "ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥", "53068": "ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव नतु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥", "53069": "प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः पटुजातीयः ॥", "53070": "इवे प्रतिकृतौ <{SK2051}> इत्यतः प्राक् काधिकारः ॥", "53071": "तिङश्च <{SK2002}> इत्यनुवर्तते ॥", "53072": "कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥", "53073": "कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके । (वार्तिकम्) । (वार्तिकम्) ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका । (वार्तिकम्) ॥ मित्त्वादन्तादचः परः । तूष्णीकामास्ते ॥ (वार्तिकम्) ॥ तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥", "53074": "कुत्सितोऽश्वोऽश्वकः ॥", "53075": "कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ॥", "53076": "पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥", "53077": "सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥", "53078": "पूर्वसूत्रद्वयविषये ॥", "53079": "तत्रैव ॥", "53080": "उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥", "53081": "मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः । (वार्तिकम्) ॥ अनुकम्पितः कहोडः । कहिकः । । (वार्तिकम्) ॥ वागाशीर्दत्तः वाचिकः । कथं षडङ्गुलिदत्तः षडिक इति । (वार्तिकम्) ॥", "53082": "अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥", "53083": "अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्ये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्ग्रहणमुको द्वितीयत्वे कविधानार्थम् ॥ वायुकः । पितृकः । (वार्तिकम्) ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । (वार्तिकम्) ॥ देवदत्तकः । देवकः । (वार्तिकम्) ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः । (वार्तिकम्) ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा । भामा । सत्या ॥ (वार्तिकम्) ॥ भानुलः । (वार्तिकम्) ॥ सवित्रियः । सवितृलः । (वार्तिकम्) ॥ 1 ॥ ल इति लोपसंज्ञा प्राचाम् ॥", "53084": "एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । सेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥", "53085": "अल्पं तैलं तैलकम् ॥", "53086": "ह्रस्वो वृक्षो वृक्षकः ॥", "53087": "ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ॥", "53088": "ह्रस्वः कुटी कुटीरः । शमीरः । शुण्डारः ॥", "53089": "ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥", "53090": "आयुधविशैषः कासूः । ह्रस्वा सा कासूतरी गोणीतरी ॥", "53091": "वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥", "53092": "अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषाया कः । यः । सः ॥", "53093": "बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः । (वार्तिकम्) ॥ कतरः ॥", "53094": "डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥", "53095": "व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सिते तु कुत्सिते <{SK2029}> इत्यस्य ॥", "53096": "कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥", "53097": "इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥", "53098": "संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥", "53099": "जीविकार्थं यदविक्रीयमाणं तस्मिवन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥", "53100": "कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥", "53101": "इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥", "53102": "शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके । शैलेयम् ॥", "53103": "शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥", "53104": "द्वव्यमयं ब्राह्मणः ॥", "53105": "कुशाग्रमिव कुशाग्रीया बुद्धिः ॥", "53106": "इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशस्चौरसमागम इति समासार्थः ॥ तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥", "53107": "शर्करेव शार्करम् ॥", "53108": "अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥", "53109": "एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥", "53110": "कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥", "53111": "इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा (तं प्र॒त्नथा॑ पूर्वथा॑ वि॒श्वथे॒मथा॑) ॥", "53112": "इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ञ्यः स्यात् । लौहितध्वज्यः । व्रातच्फञोरस्त्रियाम् <{SK1100}> । व्राते । कापोतपाक्यः । च्फञ् । कौञ्जायन्यः । ब्राध्नायन्यः ॥", "53113": "व्रातवाचिभ्यश्च्फञन्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी, गोत्रत्वेन जातित्वान्ङिष् । अनन्तरापत्ये- कौञ्जिः ॥", "53114": "वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥", "53115": "आयुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः । आयुधेति किम् । जातिशब्दान्मा भूत् ॥", "53116": "दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥ क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥ 1 ॥ दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः । कौण्डोपरथीयः । दाण्डकीयः ॥", "53117": "आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥", "53118": "अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शलावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः ॥", "53119": "पूगाञ्यः - <{SK2066}> इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥", "54001": "लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । पादः पत् <{SK414}> । तद्धितार्थ <{SK728}> इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् ॥ द्विशतिकाम् । (वार्तिकम्) ॥ द्विमोदकिकाम् ॥", "54002": "वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम् । व्यवसृजति ददातीत्यर्थः ॥", "54003": "जातीयरोऽपवादः । स्थूलकः । अणुकः । (वार्तिकम्) ॥ चञ्चत्कः । बृहत्कः ॥ (गणसूत्रम् -) सुराया अहौ । सुरावर्णोऽहिः सुरकः ॥", "54004": "छिन्नकम् । भिन्नकम् । अभिन्नकम् ॥", "54005": "सामिपर्याये उपपदे क्तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् ॥", "54006": "कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः ॥", "54007": "स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् ॥ अन्येऽपि केचित्स्वार्थिकाः प्रत्यया नित्यमिष्यते । तमबादयः प्राक्कनः । ञ्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्चेति भाष्यम् ॥", "54008": "अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः स्याद्वा स्वार्थे । प्राक्, प्राचीनम् । प्रत्यक्, प्रतीचीनम् । अवाक्, अवाचीनम् । निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । अर्वन्तमञ्चतीति अर्वाक् अर्वाचीनम् । अदिक्स्त्रियां किम् । प्राची दिक् । उदीची दिक् । दिग्ग्रहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं ग्रामादाम्राः ॥", "54009": "ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ॥", "54010": "सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥", "54011": "किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥", "54012": "किमेत्तिङव्ययघादित्येव । प्रतं नयं प्रतरम् (प्रतं न॑यं प्रत॒रम्) ॥", "54013": "अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥", "54014": "", "54015": "इनण्यनपत्ये <{SK1245}> । सांराविणं वर्तते ॥", "54016": "अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः ॥", "54017": "अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥", "54018": "कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य <{SK280}> । चतुः ॥", "54019": "सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्य <{SK54}> इति सुचो लोपः न तु हल्ङ्याप् - <{SK252}> इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥", "54020": "अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥", "54021": "प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ॥", "54022": "सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥", "54023": "अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥", "54024": "तदर्थ एव तादर्थ्यम् । स्वार्थे ष्यञ् । अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम् ॥", "54025": "पादार्थमुदकं पाद्यम् । अर्घ्यम् । (वार्तिकम्) ॥ नूत्नम् । नूतनम् । नवीनम् । (वार्तिकम्) ॥ चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् । (वार्तिकम्) ॥ भागधेयम् । रूपधेयम् । नामधेयम् । (वार्तिकम्) । आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥", "54026": "तादर्थ्ये इत्येव । अतिथय इदमातिथ्यम् ॥", "54027": "देव एव देवता ॥", "54028": "अविरेवाविकः ॥", "54029": "याव एव यावकः । मणिकः ॥", "54030": "लोहित एव मणिर्लोहितकः ॥", "54031": "लोहितकः कोपेन । लोहिताल्लिङ्गबाधनं वा ॥ लोहितिका लोहिनिका कोपेन ॥", "54032": "लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥ (वार्तिकम्) ॥ लोहितिका लोहिनिका शाटी ॥", "54033": "वर्णे चानित्ये <{SK2099}> रक्ते <{SK2100}> इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥", "54034": "विनय एव वैनयिकः । सामयिकः ॥ (गणसूत्रम् -) उपायो ह्रस्वत्वं च ॥ औपयिकः ॥", "54035": "संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् ॥", "54036": "कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥", "54037": "स्वार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥", "54038": "प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥", "54039": "मृदेव मृत्तिका ॥", "54040": "रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना । उत्तरसूत्रेऽन्यतरस्यांग्रहणान्नित्योऽयम् ॥", "54041": "स्वार्थे । यो नों दुरेवो वृकतिः (यो नों॑ दु॒रेवो॑ वृ॒कतिः) । ज्येष्ठतातिं बहिर्षदम् (ज्ये॒ष्ठता॑तिं बर्हि॒षद॑म्) ॥", "54042": "बहूनि ददाति बहुशः । अल्पानि अल्पशः । (वार्तिकम्) ॥ नेह । बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥", "54043": "द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनात्किम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादित्येव । द्वयोर्द्वयोः स्वामी ॥", "54044": "प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति । (वार्तिकम्) ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥", "54045": "अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति ॥", "54046": "अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यनतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥", "54047": "हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥", "54048": "षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥", "54049": "रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरुः । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति ॥", "54050": "। (वार्तिकम्) ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥", "54051": "एषां लोपः स्यात् च्विश्च । अरूकरोति । उन्मनीस्यात् । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति । विराजीकरोति ॥", "54052": "च्विविषये सातिर्वा स्यात्साकल्ये ॥", "54053": "संपदाकृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलाभवति लवणम् । एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥", "54054": "सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ॥", "54055": "तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्रा करोति । विप्रत्रा संपद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥", "54056": "एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोक्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥", "54057": "द्व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृभ्वस्तिभिर्योगे । (वार्तिकम्) । (वार्तिकम्) ॥ डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररुपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥", "54058": "द्वितायादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥", "54059": "कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥", "54060": "कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥", "54061": "सपत्र्त्राकरोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्र्त्राकरोति । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करेति भूतलम् ॥", "54062": "निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥", "54063": "सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥", "54064": "दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥", "54065": "शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥", "54066": "सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥", "54067": "मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥ (वार्तिकम्) ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥", "54068": "इत्यधिकृत्य ॥", "54069": "पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥ (वार्तिकम्) ॥ नेह परमराजः । पूजनात् किम् । गामतिक्रन्तोऽतिगवः । बहुव्रीहौ सक्थ्यक्ष्णोः - <{SK852}> इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । स्वक्षः ॥", "54070": "क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ताः न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः ॥", "54071": "समासान्तो न । अराजा । असखा । तत्पुरुषात् किम् । धुरं शकटम् ॥", "54072": "नञ्पूर्वात्पथो वा समासान्तः । अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः । अपथं वर्तते ॥", "54073": "संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् । उपदशाः । अबहुगणात् किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः । (वार्तिकम्) ॥ निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः ॥", "54074": "अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्योऽन्तावयवः स्यात् अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । अनृचबह्वृचावध्येतर्येव । नेह - अनुक्साम । बह्वृक् सूक्तम् । विष्णोः पूः विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥", "54075": "एतत्पूर्वात्सामलोमान्तात्समासादच् स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । (वार्तिकम्) ॥ कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः । (वार्तिकम्) ॥ पञ्चनदम् । सप्तगोदावरम् । अजिति योगविभागादन्यत्रापि । पद्मनाभः ॥", "54076": "अचक्षुः पर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥", "54077": "एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विचतुरः । सुचतुरः । (वार्तिकम्) ॥ त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादा द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगावम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाट्टिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा वा नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । द्व्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥", "54078": "अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । (वार्तिकम्) ॥ पल्यवर्चसम् । राजवर्चसम् ॥", "54079": "अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अन्धं तमः अन्धतमसम् ॥", "54080": "वसुशब्दः प्रशस्तवाची ततः ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वः श्रेयसं ते भूयात् ॥", "54081": "अनुरहसम् । अवरहसम् । तप्तरहसम् ॥", "54082": "उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥", "54083": "एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । यस्य चायामः <{SK670}> इति समासः ॥", "54084": "अच्प्रत्यष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम् । द्विस्तावती त्रिस्तावती रज्जुः ॥", "54085": "प्रगतोऽध्वानं प्राध्वो रथः ॥", "54086": "संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥", "54087": "एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः । (वार्तिकम्) ॥ अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयोः रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥", "54088": "सर्वादिभ्यः परस्याहन्शब्दस्याह्नादेशः स्यात्समासान्ते परे ॥", "54089": "समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥", "54090": "आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥", "54091": "एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥", "54092": "गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥", "54093": "टच् स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥", "54094": "टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥", "54095": "ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥", "54096": "अतिश्वो वराहः । अतिश्वी सेना ॥", "54097": "अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा ॥", "54098": "चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥", "54099": "नौशब्दान्ताद्द्विगोष्टच् स्यान्न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतः द्विनावरूप्यः । द्विगोर्लुगनपत्ये <{SK1080}> इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नौभिः क्रीतः पञ्चनौः ॥", "54100": "अर्धान्नावष्टच् स्यात् । नावोऽर्धम् । अर्धनावम् । क्लीबत्वं लोकात् ॥", "54101": "द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि ॥", "54102": "टज्वा स्याद् द्विगौ । द्व्यञ्जलम् । द्व्यञ्जलि । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः ॥", "54103": "तत्पुरूषाट्टच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥", "54104": "ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥", "54105": "आभ्यां ब्रह्मणो वा टच् स्यात् तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः । कुब्रह्मा ॥", "54106": "चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च त्वक्च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्शरदौ ॥", "54107": "शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद् । कियत् । (गणसूत्रम् -) जरायाः जरस् च । उपजरसम् । (गणसूत्रम् -) प्रतिपरसमनुभ्योऽक्ष्णः ॥ यस्येति च <{SK311}> ॥ प्रत्यक्षम् । अक्ष्णः परमिति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभावः । परोक्षे लिट् <{SK2171}> इति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्श आद्यचि । समक्षम् । अन्वक्षम् ॥", "54108": "अन्नन्तादव्ययीभावाट्टच् स्यात् ॥", "54109": "अन्नन्तं यत्क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म ॥", "54110": "वा टच् स्यात् । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि ॥", "54111": "झयन्तादव्ययीभावाट्टज्वा । उपसमिधम् । उपसमित् ॥", "54112": "गिर्यन्तादव्ययीभावाट्टच् वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् । उपगिरि ॥", "54113": "व्यत्ययेन षष्ठी । स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । स्वाङ्गात् किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनात् <{SK644}> इत्यच् ॥", "54114": "अङ्गुल्यन्ताद्बहुव्रीहेः षच् स्याद्दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्टमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे तत्पुरुषस्याङ्गुलेः - <{SK789}> इत्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः ॥", "54115": "आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः । (वार्तिकम्) ॥ मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥", "54116": "पूरणार्थप्रत्ययान्तं यस्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः ॥ (वार्तिकम्) ॥ रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ॥", "54117": "आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥", "54118": "नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् ॥", "54119": "प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति तद्भङ्क्त्वा भाष्यकार आह ॥", "54120": "एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्त्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठपदः ॥", "54121": "अच् स्यात् । अहलः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् । शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥", "54122": "नञ्दुः सुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥", "54123": "बहुप्रजा निर्ऋतिमाविवेश (ब॒हु॒प्र॒जा निर्ऋ॑ति॒मावि॑वेश) ॥", "54124": "केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलात् किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ माभूत् । स्वशब्दो हीह न केवलं पूर्वपदम् किंतु मध्यमत्वादापेक्षिकम् । संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहव्रीहिः । एवं च परमस्वधर्मेत्यपि साध्वेव । निवृत्तिधर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽऽक्षिप्यते ॥", "54125": "जम्भेति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । स्वादिभ्यः किम् । पतितजम्भः ॥", "54126": "दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥", "54127": "कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥", "54128": "तादर्थ्ये चतुर्थ्येषा । एषां सिद्ध्यर्थमिच् प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ॥", "54129": "आभ्यां परयोर्जानुशब्दयोर्ज्ञुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥", "54130": "ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥", "54131": "ऊधोन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाब् ङीब् निषेधेषु प्राप्तेषु ॥", "54132": "धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । शार्ङ्गधन्वा ॥", "54133": "शतधन्वा । शतधनुः ॥", "54134": "जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥", "54135": "एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः । (वार्तिकम्) ॥ एकान्तः एकदेश इव अविभागेन लक्ष्यमाणः इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥", "54136": "सूपस्य गन्धो लोशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः इति विश्वः ॥", "54137": "पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥", "54138": "हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः ॥", "54139": "कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् <{SK414}> ॥ कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः ॥", "54140": "पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥", "54141": "संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षड् दन्ता अस्य षोडन् । सुदन् । सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तः ॥", "54142": "दन्तस्य दतृशब्दः स्याद्बहुव्रीहौ । उभयतोदतः प्रतिगृह्णाति ॥", "54143": "एभ्यो दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायां किम् । समदन्ती ॥", "54144": "दन्तस्य दतृ वा बहुव्रीहौ । श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥", "54145": "एभ्यो दन्तस्य दतृ वा । कुड्मलाग्रदन् । कुड्मलाग्रदन्तः ॥", "54146": "अजातककुत् । पूर्णककुत् ॥", "54147": "त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥", "54148": "लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥", "54149": "पूर्णकाकुत् । पूर्णकाकुदः ॥", "54150": "सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥", "54151": "व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौ, लक्ष्मीरिति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु शेषाद्विभाषा <{SK811}> इति विकल्पेन कप् । द्विपुमान् । द्विपुंस्कः ॥ (गणसूत्रम् -) अर्थान्नञः ॥ अनर्थकम् । नञः किम् । अपार्थम् । अपार्थकम् ॥", "54152": "बहुदण्डिका नगरी ॥ [(परिभाषा - ) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेनापि तदन्तविधिं प्रयोजयन्ति] ॥ बहुवाग्ग्मिका । स्त्रियां किम् । बहुदण्डी । बहुदण्डिको ग्रामः ॥", "54153": "नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप्स्यात् । पुंवद्भावः ॥", "54154": "अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् । महायशस्कः । महायशाः । अनुक्तेत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम् । उपबहवः । उत्तरपूर्वा । सुपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥", "54155": "शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वदेवः ॥", "54156": "ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । गोस्त्रियोः - <{SK656}> इति ह्रस्वे प्राप्ते । (वार्तिकम्) ॥ बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसिः ॥", "54157": "पूजितेऽर्थे यो भ्रातुशब्दस्तदन्तान्न कप् स्यात् । प्रशस्तो भ्राता यस्य प्रास्तभ्राता । न पूजनात् <{SK954}> इति निषेधस्तु बहुव्रीहौ सक्थ्यक्ष्णोः- <{SK852}> इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः ॥", "54158": "ऋदन्ताद्बहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥", "54159": "स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न । स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥", "54160": "कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गताप्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः, नवः इत्यर्थः ॥", "61001": "", "61002": "इत्यधिकृत्य ॥", "61003": "अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । [(परिभाषा - ) पूर्वत्रासिद्धीयमद्विर्वचने] इति त्वनित्यम् । उभौ साभ्यासस्य <{SK2606}> इति लिङ्गात् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥", "61004": "अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥", "61005": "षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥", "61006": "षड्धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्ङित्त्वेऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् । गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि ॥", "61007": "तुजादिराकृतिगणः ॥ प्रभरा तूतुजानः (प्रभ॑रा॒ तूतु॑जानः) । सूर्ये मामहानम् (सूर्ये॑ मामहा॒नम्) । दाधार यः पृथिवीम् (दा॒धार॒ यः पृ॑थि॒वीम्) । स तूताव (स तू॑ताव) ॥", "61008": "लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥", "61009": "सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतोदानशानौ च स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरे त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बाभत्सते ।{$ {!974 रभ!} राभस्ये$} । आरभते । आरेभे । रब्धा । रप्स्यते ।{$ {!975 डुलभष्!} प्राप्तौ$} । लभते ।{$ {!976 स्वञ्ज!} परिष्वङ्गे$} ॥", "61010": "धातोर्द्वे स्तः । जुहोति । जुहुतः । अदभ्यस्तात् <{SK2479}> इत्यत् । हुश्नुवोः - <{SK2387}> इति यण् । जुह्वति ॥", "61011": "चङि परे अनभ्यासधात्वयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ॥", "61012": "एते क्वस्वन्ता निपात्यन्ते । मीढ्वस्तोकाय तनयाय (मीढ्व॑स्तो॒का॒य तन॑याय) । (वार्तिकम्) ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः (यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः) । इणः क्वनिप् ॥", "61013": "ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ॥", "61014": "बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया । (वार्तिकम्) ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः नद्युतश्च <{SK833}> इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ॥", "61015": "वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात्किति । पुनः प्रसङ्गविज्ञानाद्द्वित्वम् । ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट ।{$ {!1003 डुवप्!} बीजसन्ताने$} । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप । ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत् । अवप्त ।{$ {!1004 वह!} प्राणणे$} । उवाह उवहिथ । सहिवहोरोदवर्णस्य <{SK2357}> उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षात् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढ्वम् ।{$ {!1005 वस!} निवासे$} । परस्मैपदी । वसति । उवास ॥", "61016": "एषां किति ङिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥", "61017": "वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥", "61018": "ण्यन्तस्य स्वापेश्चङि संप्रसारणं स्यात् । असूषुपत् ॥", "61019": "संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ॥", "61020": "वावश्यते ॥", "61021": "चेकीयते ॥", "61022": "स्फीतः ॥", "61023": "प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥", "61024": "द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥", "61025": "प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम् । प्रतिशीनः ॥", "61026": "श्यः संप्रसारणं वा स्यात् । अभिश्यानं घृतम् । अभिशीनम् । अवश्यानोऽवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवश्यानः ॥", "61027": "श्रातिश्रपयत्योः क्ते शृभावो निपात्यते । क्षीरहविषोः पाके । शृतं क्षीरम् । स्वयमेव विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविर्भ्यामन्यत्तु श्राणं श्रपितं वा ॥", "61028": "वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं सुखम् । अन्यत्र प्यानः पीनः स्वेदः ॥ (वार्तिकम्) ॥ प्रप्यानः ॥ (वार्तिकम्) ॥ आपीनोन्धुः । आपीनमूधः ॥", "61029": "लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात्पीशब्दस्यद्वित्वम् । एरनेकाचः -<{SK272}> इति यण् । पिप्ये । पिप्याते । पिप्यरे ॥", "61030": "श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः । (वार्तिकम्) ॥ तेन लिट्याभ्यासस्य - <{SK2408}> इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । जॄस्तम्भु - <{SK2291}> इत्यङ् वा ॥", "61031": "सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । [(परिभाषा - ) संप्रसारणं तदाश्रयं च कार्यं बलवद्] इति वचनात् संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥", "61032": "सन्परे चङ्परे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥", "61033": "अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ॥", "61034": "ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये (इन्द्र॒माहु॑व ऊ॒तये॑) । (वार्तिकम्) ॥ ऋच्शब्दे परेत्रेः संप्रसारणुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम । त्र्यृचानि । (वार्तिकम्) ॥ रेवान् । रयिमान्पुष्टिबर्धनः (रयि॒मान्पु॑ष्टि॒बर्ध॑नः) ॥", "61035": "न्यंन्यं चिक्युर्न निचिक्युरन्यम् (न्यं1न्यं चि॒क्युर्न निचि॑क्युर॒न्यम्) । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अग्निं ज्योतिर्निचाय्य (अ॒ग्निं ज्योति॒र्नि॒चाय्य॑) ॥", "61036": "एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेयाम् (इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेयाम्) । स्पर्धेर्लङि आथाम् । अर्कमानृचुः (अ॒र्कमा॑नृ॒चुः) । वसून्यानृहुः । अर्चेरर्हेश्च लिट्युसि । चिच्युषे (चि॒च्युषे॑) । च्युङो लिटि थासि । यस्तित्याज (यस्ति॒त्याज॑) । त्यजेर्णलि । श्रातास्त इन्द्र सोमाः (श्रा॒तास्त॑ इन्द्र॒ सोमाः॑) । श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे (आ॒शीरं॑ दु॒हे) । मध्यत आशीर्तः (म॒ध्य॒त आशी॑र्तः) । श्रीञ् एव क्विपि निष्ठायां च ॥", "61037": "संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अतएव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥", "61038": "वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥", "61039": "वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्तवात्तङ् । ऊये । ऊवे । वयादेशाभावे ॥", "61040": "वेञो न संप्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ । ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् ।{$ {!1007 व्येञ्!} संवरणे$} । व्ययति ॥", "61041": "वेञो ल्यपि सम्प्रसारणं न स्यात् । प्रवाय ॥", "61042": "प्रज्याय ॥", "61043": "उपव्याय ॥", "61044": "परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात्हल-<{SK2559}> इति दीर्घः । परिवीय । परिव्याय । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ॥", "61045": "उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥", "61046": "व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । इडत्त्यर्ति -<{SK2384}> इति नित्यमिट् । विव्ययिथ । विव्याय । विव्यच । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ।{$ {!1008 ह्वेञ्!} स्पर्धायां शब्दे च$} ॥", "61047": "अनयोरेच आत्वं स्याद्घञि । स्फारः । स्फालः । उपसर्गस्य घञि-<{SK1044}> इति दीर्घः । परीहारः । इकः काशे <{SK1045}> काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः ।नोदात्तोपदेश <{SK2763}> इति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥", "61048": "एषामेच आत्वं स्याण्णौ । क्रापयति । अध्यापयति । जापयति ॥", "61049": "ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ॥", "61050": "एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः ।{$ {!1135 डीङ्!} विहायसा गतौ$} । डीयते । डिड्ये ।{$ {!1136 धीङ्!} आधारे$} । धीयते । दिध्ये । धेता ।{$ {!1137 मीङ्!} हिंसायाम्$} । हिंसात्र प्राणवियोगः । मीयते ।{$ {!1138 रीङ्!} श्रवणे$} । रीयते ।{$ {!1139 लीङ्!} श्लेषणे$} ॥", "61051": "लीयतेरिति यका निर्देशो न तु श्यना ॥ लीलीङोरात्वं वा स्यादेज्विषये ल्यपि च । लेता । लाता । लेष्यते । लास्येत । एज्विषये किम् । लीयते । लिल्ये ।{$ {!1140 व्रीङ्!} वृणोत्यर्थे$} । व्रीयते । विव्रिये । (गणसूत्रम् -) स्वादय ओदितः । तत्फलं तु निष्टानत्वम् ।{$ {!1141 पीङ्!} पाने$} । पीयते ।{$ {!1142 माङ्!} माने$} । मायते । ममे ।{$ {!1143 ईङ्!} गतौ$} । ईयते । अयांचक्रे ।{$ {!1144 प्रीङ्!} प्रीतौ$} । सकर्मकः । प्रीयते । पिप्रिये ॥\tअथ परस्मैपदिनश्चत्वारः ।{$ {!1145 शो!} तनूकरणे$} ॥", "61052": "खिद दैन्ये । असेयैच आद्वा स्यात् । चिखाद । चिखेदेत्यर्थः ॥", "61053": "गुरी उद्यमने इत्यस्यैचो वा आत्स्याण्णमुलि । अस्यपगोरं युध्यन्ते अस्यपगारम् ॥", "61054": "आत्वं वा स्यात् ॥", "61055": "अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । ऊदुपधाया गोहः <{SK2364}> । गूहयति ॥", "61056": "बिभेतेरेच आत्वं च स्यात्प्रयोजकाद्भयं चेत् ॥", "61057": "स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकर्त्री विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥", "61058": "अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥", "61059": "उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति । सर्प्स्यति । असृपत् ।{$ {!984 यम!} उपरमे$} । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् ।{$ {!985 तप!} संतापे$} । तप्ता । अताप्सीत् ॥", "61060": "शिरःशब्दस्य शीर्षन् स्यात् । शीर्ष्णः शीर्ष्णोजगतः (शी॒र्ष्णः शी॑र्ष्णो॒जग॑तः) ॥", "61061": "यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति । (वार्तिकम्) ॥ शीर्षण्याः शिरस्या वा केशाः । (वार्तिकम्) ॥ अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥", "61062": "", "61063": "पाद, दन्त, नासिका, मास, हृदय, निशा, असृज्, यूष, दोष, यकृत्, शकृत्, उदक, आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः । पादम् । पादौ । पदः । पादान् । पदा । पादेन इत्यादि ॥", "61064": "धातोरादेः षस्य सः स्यात् । सात्पदाद्योः <{SK2123}> इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे ।{$ {!20 उर्द!} माने क्रीडायां च$} ॥", "61065": "धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः । इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥", "61066": "वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः ॥", "61067": "अपृक्तस्य वेर्लोपः स्यात् । कृत्तद्धित <{SK179}> इति प्रातिपदिकत्वात्स्वादयः ॥", "61068": "हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते । हल्ङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखट्वः । सुतिसीति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल्किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥", "61069": "एङन्ताद्ध्रस्वान्ताच्चङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एङ्ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ॥", "61070": "लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) । (वार्तिकम्) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥", "61071": "इत्यः । स्तुत्यः । शास इदङ्हलोः <{SK2486}> । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः । (वार्तिकम्) ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः <{SK2009}> ईडवन्दवृशंसदुहां ण्यतः <{SK3702}>इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् । आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदिताम् - <{SK415}> इति नलोपः । आज्यम् ॥", "61072": "इत्यधिकृत्य ॥", "61073": "ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाज्जशत्वेन दः । ततश्चर्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वेन जः । तस्य चर्त्वेन चः । चुत्वस्यासिद्धत्वात् चोः कु <{SK378}>रिति कुत्वं न । स्वच्छाया । शिवच्छाया ॥", "61074": "एतयोश्छे परे तुक्स्यात् । पदान्ताद्वे <{SK149}>ति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥", "61075": "दीर्घाच्छे परे तुक्स्यात् । दीर्घस्यायं तुक् न तु छस्य । सेनासुराच्छाया <{SK828}> इति ज्ञापकात् । चेच्छिद्यते ॥", "61076": "दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया । लक्ष्मीछाया ॥", "61077": "इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्यः इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्यः इति जाते ॥", "61078": "एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥", "61079": "यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यत् <{SK1538}> इति यत् । नावा तार्यं नाव्यम् ।नौवयोधर्म <{SK1643}> इत्यादिना यत् ॥ (वार्तिकम्) ।अध्वपरिमाणे च (वार्तिकम्) <{SK3544}> ॥ गव्यूतिः । ऊतियूति <{SK3274}> इत्यादिना यूतिशब्दो निपातितः । वान्तः इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वलि <{SK873}> इति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥", "61080": "यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्यम् । अवश्यलाव्यम् । तन्निमित्तस्यैवेति किम् । ओयते । औयत ॥", "61081": "यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । शक्यार्थे किम् । क्षेतुं योग्यं क्षेयं पापम् । जेतुं योग्यं जेयं मनः ॥", "61082": "तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ॥", "61083": "बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् । भेयम् । प्रवेयम् । (वार्तिकम्) ॥ हृदे भवा हृदय्या आपः । भवे छन्दसि यत् ॥", "61084": "इत्यधिकृत्य ॥", "61085": "योऽयमेकादेशः सः पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥", "61086": "षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् । कोऽसिचत् । इह षत्वं न । अधीत्य । प्रेत्य । ह्रस्वस्य-<{SK2858}> इति तुक् ॥", "61087": "अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥", "61088": "आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ॥", "61089": "अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भवान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः एङि पररूपम् <{SK78}> इत्यस्यैव बाधिका न तु ओमाङोश्च <{SK80}> इत्यस्य । तेनावैहीति वृद्धिरसाधुरेव । (वार्तिकम्) ॥ अक्षौहिणी सेना । (वार्तिकम्) ॥ स्वेनेरितुं शीलमस्येति स्वैरी । लिङ्गविशिष्टपरिभाषया स्वैरिणी । (वार्तिकम्) ॥ प्रौहः । प्रौढः । [(परिभाषा - ) अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्] । व्रश्चे <{SK294}>इति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् ॥ तेन ऊढग्रहणेन क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः । इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये क्र्यादिः । एषां घञि ण्यति च एषः एष्यः इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥ (वार्तिकम्) ॥ सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः ॥ (वार्तिकम्) ॥ प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥", "61090": "आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ॥", "61091": "अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ॥", "61092": "अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिरेकादेशः वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् ऌवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥", "61093": "आ ओत इति छेदः । ओकारादम्शसोरचि परे आकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् । गावौ । गाः । गवा । गवे । गोः । गोः । इत्यादि ॥ (वार्तिकम्) ॥ विहितविशेषणं च । तेन सुद्यौः । सुद्यावौ । सुद्यावः इत्यादि । ओकारान्ताद्विहितं सर्वनामस्थानमिति व्याख्यानान्नेह । हे भानो । हे भानवः । उः शम्भुः स्मृतो येन सः स्मृतौः । स्मृतावौ । स्मृतावः । स्मृताम् । स्मृतावौ । स्मृताः । इत्यादि । इत्योदन्ताः ॥", "61094": "आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वासुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन एङादौ सुब्धातौ वा । उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥ (वार्तिकम्) ॥ नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवकॢप्तावेवशब्दः । अनियोगे किम् । तवैव ॥", "61095": "ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि । शिवेहि ॥", "61096": "अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्चअतो येयः <{SK2212}> इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥", "61097": "अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे <{SK191}> इति हि [(परिभाषा - ) पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्] इति न्यायेन अकः सवर्णे <{SK85}> इत्यस्यैवापवादो नतु प्रथमयो <{SK154}>रित्यस्यापि । रामाः ॥", "61098": "ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् । पटत् इति पटिति । (वार्तिकम्) ॥ श्रदिति ॥", "61099": "आम्रेडितस्य प्रागुक्तं न स्यादन्त्यस्य तु तकारमात्रस्य वा स्यात् ॥ (वार्तिकम्) ॥", "61100": "", "61101": "अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ अकोऽकि दीर्घ इत्येव सुवचम् । (वार्तिकम्) ॥ होतृकारः । होतॄकारः ॥ (वार्तिकम्) ॥ होत्ऌकारः । होतॄकारः । पक्षे ऋकारः सावर्ण्यात् । ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि ऋत्यकः <{SK92}> इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥", "61102": "अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥", "61103": "पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य नः स्यात्पुंसि ॥", "61104": "अवर्णादिचिपरे न पूर्वसवर्णदीर्घः । आद्गुणः <{SK69}> । एङः पदान्तादति <{SK86}> । शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्व आगन्ता । अप्लुतात्किम् । एहि सुस्रोत3 अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ3ग्निदत्त । गुरोरनृत <{SK97}> इति प्लुतः ॥", "61105": "दीर्घाज्जसि इचि च परे प्रथमयोः पूर्वसवर्णदीर्घो न स्यात् । वृद्धिः । विश्वपौ । सवर्णदीर्घः । विश्वपाः । यद्यपीह औङि <<नादिचि ६.१.१०४>><{SK165}> इत्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति तथापि गौर्यौ गौर्य इत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्यम् ॥", "61106": "दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः (मानु॑षीरीळते॒ विशः॑) । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च शम्यं च । सूर्मं सुषिरामिव (सू॒र्मं॑ सुषि॒रामि॑व) । संप्रसारणाच्च <{SK330}> इति पूर्वरूपमपि वा । इज्यमानः । यज्यमानः ॥", "61107": "अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥", "61108": "संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् । एत्येधत्यूठ्सु <{SK73}> । विश्वौहः । विश्वौहेत्यादि । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥", "61109": "पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥", "61110": "एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हर्योः । हरीणाम् ॥", "61111": "ऋदन्तान्ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥", "61112": "खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥", "61113": "अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । भोभगोअघो <{SK167}> इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥", "61114": "अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥", "61115": "ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् (उ॒प॒प्र॒यन्तो॑ अध्व॒रम्) । सुजाते अश्वसूनृते (सुजा॑ते अश्व॑सूनृते) । अन्तःपादं किम् । एतास एतेऽर्चन्ति (ए॒तास॑ ए॒तेऽर्च॑न्ति) । अव्यपरे किम् । तेऽवदन् (ते॑ऽवदन्) ॥", "61116": "एषु व्यपरेऽप्यति एङ् प्रकृत्या । वसुभिर्नो अव्यात् (वसु॑भिर्नो अव्यात्) । मिमहो अवद्यात् (मि॑महो अ॒व॒द्यात्) । मा शिवासो अवक्रमुः (मा शि॑वासो॒ अव॑क्रमुः) । ते नो अव्रत (ते नो॑ अव्रत) । शतधारो अयं मणिः (श॒तधा॑रो अ॒यं म॒णिः) । ते नो अवन्तु (ते नो॑ अवन्तु) । कुशिकासो अवस्यवः (कुशि॒कासो॑ अव॒स्यवः॑) । यद्यपि बह्वृचैस्तेनोऽवन्तु, रथतूः, सोऽयमगात्, तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥", "61117": "उरःशब्द एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् (उ॒रो अ॒न्तरि॑क्षम्) । यजुषि पादाभावादनन्तः पादार्थ वचनम् ॥", "61118": "यजुषि अति प्रकृत्या । आपो अस्मान्मातरः (आपो॑ अ॒स्मान्मा॒तरः॑) । जुषाणो अग्निराज्यस्य (जु॒षा॒णो अ॒ग्निराज्य॒स्य) । वृष्णो अंशुभ्याम् (वृष्णो॒ अंशु॑भ्याम्) । वर्षिष्ठे अधि नाके (वर्षि॑ष्ठे॒ अधि॒ नाके॑) । अम्बे अम्बाले अम्बिके । अस्मादेव वचनात् अम्बार्थ - <{SK267}> इति ह्रस्वो न ॥", "61119": "अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥", "61120": "कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अग्निः (अ॒यं सो अ॒ग्निः) । अयं सो अध्वरः (अ॒यं सो अ॑ध्व॒रः) । अनुदात्ते किम् । अथोऽग्रे रुद्रे । अग्रशब्द आद्युदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥", "61121": "अनुदात्ते अकारदौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुंद्रेभ्यो अवपथाः (त्रीरुं॒द्रेभ्यो॑ अवपथाः) । वपेस्थासि लङि तिङ्ङतिङः - <{SK3935}> इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुद्रेभ्योऽवपथाः (यद्रुद्रेभ्यो॑ऽवपथाः) । निपातैर्यद्यदि - <{SK3937}> इति निघातो न ॥", "61122": "लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥", "61123": "अतीति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । पदान्ते किम् । गवि । व्यवस्थितविभाषया गवाक्षः ॥", "61124": "गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥", "61125": "प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि परे नित्यं प्रकृत्या स्युः । एहि कृष्ण 3 अत्र गौश्चरति । हरी एतौ । नित्यम् इति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यात् इकोऽसवर्णे <{SK91}> इति ह्रस्वसमुच्चितो माभूत् ॥", "61126": "आङोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या । अभ्र आँ अपः (अ॒भ्र आँ अ॒पः) । गभीर आँ उग्रपुत्रे (गभी॒र आँ उ॒ग्रपु॑त्रे) । (वार्तिकम्) ॥ ईषाअक्षो हिरण्यः । ज्या इयम् (ज्या इ॒यम्) । पूषा अविष्टु (पू॒षा अ॒विष्टु) ॥", "61127": "पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् । चक्रि अत्र । चक्र्यत्र । पदान्ताः इति किम् । गौर्यौ । (वार्तिकम्) ॥ वाप्यश्वः । (वार्तिकम्) ॥ पार्श्वम् ॥", "61128": "ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ताः इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् - सप्तर्षीणाम् ॥", "61129": "उपस्थितोऽनार्ष इति शब्दः तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्यं यणादिकं करोतीत्यर्थः । सुश्लोकेति । वत्किम् । अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणंन स्यात् । अग्नी3 इति ॥", "61130": "ई3 प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही3 इति । चिनुहीति । चिनुही3 इदम् । चिनु हीदम् । उभयत्रविभाषेयम् ॥", "61131": "दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः ॥", "61132": "अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असःशिवः । हलि किम् । एषोऽत्र ॥", "61133": "स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः (ए॒ष स्य भा॒नुः) ॥", "61134": "सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । सेमामविड्ढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छ्लोकपादोऽपीत्यपरे । सैष दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एव मुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् <{SK3526}> इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥", "61135": "अडभ्यासव्यवायेऽपीत्युक्तम् । संचस्कार । कात्पूर्व इत्यादि भाष्ये प्रत्याख्यातम् । तथाहि । पूर्वं धातुरूपसर्गेण युज्यते । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं च ऋतश्च संयोगादेर्गुणः <{SK2389}> संचस्करतुः । कृसृभृ - <{SK2293}> इति सूत्रे ऋतो भारद्वाजस्य <{SK2296}> इति सूत्रे च । (वार्तिकम्) ॥ तेन ससुट्कात्परस्येट् । संचस्करिथ । संचस्करिव । गुणोर्ति - <{SK2380}> इति सूत्रे नित्यं छन्दसि <{SK3587}> इति सूत्रान्नित्यमत्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात्सुटि गुणो न । संस्क्रियात् । ऋतश्च संयोगादेः - <{SK2526}> इति लिङ्सिचोर्नेट् । एकाच उपदेशे <{SK2276}> इति सूत्रादुपदेश इत्यनुवर्त्य उपदेशे यः संयोगादिरिति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ॥", "61136": "", "61137": "", "61138": "संपरिपूर्वस्यकरोतेः सुट् स्याद्भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षाः <{SK1217}> इति ज्ञापकात् । परिनिविभ्यः <{SK2275}> इति षः । परिष्करोति ॥ सिवादीनां वा - ॥ पर्यष्कार्षीत् । पर्यस्कार्षीत् ॥", "61139": "उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥", "61140": "उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति ॥ (वार्तिकम्) ॥ उपास्किरत् । उपचस्कार ॥", "61141": "उपात्प्रेतश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति ।{$ {!1410 गॄ!} निगरणे$} ॥", "61142": "अपात्किरतेः सुट् स्यात् । (वार्तिकम्) ॥ अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयर्थी च । हर्षादिषु इति किम् । अपकिरति कुसुमम् । इह तङ्सुटौ न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावे नेष्यते इत्याहुः । गजोऽपकिरति । (वार्तिकम्) ॥ आनुते । आपृच्छते । (वार्तिकम्) ॥ आक्रोशार्थात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ॥", "61143": "अत्र सुण्निपात्यते । कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥", "61144": "सुण्निपात्यते । अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥", "61145": "सुट् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥", "61146": "आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् ॥", "61147": "अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् । आचर्यं कर्मं शोभनम् ॥", "61148": "कुत्सितं वर्चो वर्चस्कम्, अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम् । अवकरः ॥", "61149": "अपकरोऽन्यः ॥", "61150": "पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥", "61151": "ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे । हरिश्चन्द्रो मरुद्गणः (हरि॑श्चन्द्रो म॒रुद्ग॑णः) । सुश्चन्द्र दस्म (सुश्च॑न्द्र दस्म) ॥", "61152": "कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशे किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥", "61153": "हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥", "61154": "मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥", "61155": "ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् ॥", "61156": "कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥", "61157": "एतानि ससुट्कानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा । (वार्तिकम्) ॥ तात्पूर्वं चर्त्वेन दकारोऽपि बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः । । (वार्तिकम्) ॥ प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥", "61158": "परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । अत्र सनाद्यन्ताः - <{SK2304}> इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् । (वार्तिकम्) ॥ तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्त्रेति किम् । यज्ञं यज्ञम्भिवृधे गृणीतः (य॒ज्ञं य॑ज्ञम॒भिवृ॒धे गृ॑णी॒तः) । अत्र सति शिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ॥", "61159": "कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः । पाकः ॥", "61160": "अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे (वै॒श्वा॒न॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे) । अन्यत्र योगेयोगे तवस्तरम् (योगे॑योगे त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य तवस्तरम् (गावः॒ सोम॑स्य त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य प्रथमस्य भक्षः (गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः) । उत्तमशश्वत्तमावपि । उदुत्तमं वरुण (उदु॑त्त॒मं व॑रुण) । शश्वत्तममीलते (श॒श्व॒त्त॒ममी॑लते) ॥", "61161": "यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् (दे॒वीं वाच॑म्) । अत्र ङीबुदात्तः ॥", "61162": "अन्त उदात्तः स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । असि सत्यः (असि॑ स॒त्यः) ॥", "61163": "अन्त उदात्तः स्यात् । (वार्तिकम्) ॥ चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे (नभ॑न्तामन्य॒के स॑मे) । यके सरस्वतीमनु (य॒के सर॑स्वती॒मनु॑) । तकत्सुते (त॒कत्सुते॑) ॥", "61164": "चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे ञित्स्वरबाधनार्थमिदम् । कौञ्जायनाः ॥", "61165": "कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ॥", "61166": "अन्त उदात्तः । तिस्रोद्यावः सवितुः (ति॒स्रोद्यावः॑ सवि॒तुः) ॥", "61167": "चतुरोन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र-<{SK299}> इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य । चतेरुरन् । नित्त्वादाद्युदात्तता ॥", "61168": "साविति सप्तमीबहुवचनम् । तत्र य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता । वाचा विरूपः (वा॒चा वि॑रूपः) । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य माभूत् । राज्ञो नु ते (राज्ञो॒ नु ते॑) । एकाचः किम् । विधते राजनि त्वे (विध॒ते राज॑नि॒ त्वे) । तृतीयादिः किम् । न ददर्श वाचम् (न द॑दर्श॒ वाच॑म्) ॥", "61169": "नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् परमवाचा ॥", "61170": "अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः (इन्द्रो॑ दधी॒चः) । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहूनू (प्र॒ती॒चो बा॒हूनू) ॥", "61171": "एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा । (वार्तिकम्) ॥ इह मा भूत् । अक्षद्युवा (अक्ष॒द्युवा॑) । अक्षद्युवे । इदम् । एभिर्नृभिर्नृतमः (ए॒भिर्नृभि॒र्नृत॑मः) । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तेः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ <{SK350}> इति सूत्रेणानुदात्तस्य अशो विधानात् । प्रते बभू (प्रते॑ ब॒भ्रू) । मभ्यां गा अनु (माभ्यां॒ गा अनु॑) । पद्दन्नोमास्हृन्निश् <{SK228}> इति षट् पदादयः । पद्भ्यां भूमिः (प॒द्भ्यां भूमिः॑) । दद्भिर्न जिह्वा (द॒द्भिर्न जि॒ह्वा) । अहरहर्जायते मासिमासि (अह॑रहर्जायते मा॒सिमा॑सि) । मनश्चिन्महेहृद आ (मन॑श्चिन्मेहृ॒द आ) । अप् । अपां फेनेन (अ॒पां॒ फेने॑न) । पुम् । अभ्रातेव पुंसः (अ॒भ्रा॒तेव॑ पुं॒सः) । रै । राया वयम् (रा॒या व॒यम्) । रायोधर्ता विवस्वतः (रा॒योध॒र्ता वि॒वस्व॑तः) । दिव् । उपतत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दिवेदि॑वे) ॥", "61172": "शसादिर्विभक्तिरुदात्ता । अष्टाभिर्दशभिः ॥", "61173": "अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । अच्छा रवं प्रथमा जानती (अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती) । कृण्वते । अन्तोदात्तात्किम् । दधती । अभ्यस्तानामादिः <{SK3673}> इत्याद्युदात्तः । अनुमः किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुः लसार्वधातुक <{SK3730}> इति निघातः ॥", "61174": "उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ॥", "61175": "अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृशिनः सुभ्वे (सेत्पृश्निः॑ सु॒भ्वे॑) ॥", "61176": "ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दि माँउदनिमाँइयर्ति (यो अ॑ब्दि॒माँउ॑दनि॒माँइय॑र्ति) । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः) । अन्तोदात्तात्किम् । मात्वा विदषुमान् (मात्वा॑ विद॒दिषु॑मान्) । स्वरविधौ व्यञ्जनविद्यमानवदित्येतदत्र न । णरुत्वानिन्द्र (म॒रुत्वा॑निन्द्र) । नियुत्वान्वायवा गहि (नि॒युत्वा॑न्वाय॒वा ग॑हि) ॥ रेशब्दाच्च ॥ रेवाँइद्रेवतः (रे॒वाँइद्रे॒वतः॒) ॥", "61177": "मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् (चेत॑न्ती सुमती॒नाम्) ॥", "61178": "ङ्याः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् (दे॒व॒से॒नाना॑मभिभञ्जती॒नाम्) । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु (जय॑न्तीनां म॒रुतो॑ यन्तु) ॥", "61179": "एभ्यो हलादिर्विभक्तिरुदात्ता । आषङ्भिर्हूयमानः (आष॒ड्भिर्हू॒यमा॑नः) । त्रिभिष्ट्वं देव (त्रिभिष्ट्वं दे॑व) ॥", "61180": "षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यात् । अध्वर्युभिः पञ्चभिः (अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑) । नवभिर्वाजैर्नवती (न॒वभि॑र्वाजै॑र्नव॒ती) । च (च॑) । सप्तम्भोजायमानः (स॒प्तम्भो॒जाय॑मानः) । आदशभिर्विवस्वतः (आद॒शभि॑र्वि॒वस्व॑तः) । उपोत्तमं किम् । आषड्भिर्हूयमानः (आष॒ड्भिर्हू॒यमानः) । विश्वैर्दवैस्त्रिभिः (विश्वैर्दे॒वैस्त्रि॒भिः॑) । झलि किम् । नवानां नवतीनाम् (न॒वा॒नां न॑वती॒नाम्) ॥", "61181": "उक्तविषये ॥", "61182": "एभ्यः प्रागुक्तं न । गवां शता (गवां॑ श॒ता) । गोभ्यो गातुम् (गोभ्यो॑ गा॒तुम्) । शुनश्चिच्छेपम् (शुन॑श्चि॒च्छेप॑म्) । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युन्नम् (तेभ्यो॑ द्यु॒न्नम्) । तेषां पाहि श्रुधी हवम् (तेषां॑ पाहि श्रु॒धी हव॑म्) ॥", "61183": "दिवः परा झलादिर्विभक्तिर्नोदात्ता । द्युभिरक्तुभिः (द्युभि॑र॒क्तुभिः॑) । झलिति किम् । उपत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दि॒वेदि॑वे) ॥", "61184": "नुः परा झलादिर्विभक्तिर्वोदात्ता । नभिर्येमानः (नृभि॑र्येमा॒नः) ॥", "61185": "निगदव्याख्यातम् । क्वनूनम् (क्व॑नू॒नम्) ॥", "61186": "अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः (अ॒भिच॑ष्टे॒ अनृ॑तेभिः) । अदुपदेशात् । पुरुभुजा चनस्यतम् (पुरु॑भुजा चन॒स्यत॑म्) । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं स्वे दमे (वर्ध॑मानं॒ स्वे दमे॑) । तास्यादिभ्यः किम् । अभि वृधे गृणीतः (अ॒भि वृ॒धे गृ॑णी॒तः) । उपदेशग्रहणान्नेह । हतो वत्राण्यार्या (ह॒तो वृत्राण्यार्या॑) । लग्रहणं किम् । कितीह पचमानाः । सार्वधातुकं किम् । शिश्ये । अन्ह्विङोः किम् । ह्नुते । यदधीते । (वार्तिकम्) ॥ इन्धे राजा (इ॒न्धे राजा॑) । एतच्च अनुदात्तस्य च यत्र-<{SK3651}> इति सूत्रे भाष्ये स्थितम् ॥", "61187": "सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना (या॒सि॒ष्टं व॒र्तिर॑श्विना) ॥", "61188": "स्वपादीनां हिंसेश्चानिठ्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्तता । क्ङित्येवेष्यते । नेह स्वपानि । हिनसानि ॥", "61189": "अनिठ्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु (ये दद॑ति प्रि॒या वसु॑) । परत्वाच्चित्स्वरमयं बाधते । दधाना इन्द्रे दधाना इन्द्रे ॥", "61190": "अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दधासि रत्नं द्रविणं च दाशुषे (दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषे॑) ॥", "61191": "सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा (सर्वे॑ नन्दन्ति य॒शसा॑) ॥", "61192": "भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति (यो॑ऽग्निहो॒त्रं जु॒होति॑) । मत्तु नः परिज्मा (म॒मत्तु॑ नः॒ परि॑ज्मा) । माता यद्वीरं दधनत् (मा॒ता यद्वी॒रं द॒धनत्) । जागर्षित्वम् ॥", "61193": "प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ॥", "61194": "अभ्यस्तानामादिरुदात्तो वा णमुलि परे लोलूयंलोलूयम् । पक्षे लित्स्वरः ॥", "61195": "उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ॥", "61196": "सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् । यदा नैते त्रयस्तदा लिति <{SK3676}> इति प्रत्ययात्पूर्वमुदात्तं स्यात् । लुलविथ । अत्र चत्वारोऽपि पर्यायेणोदात्ताः ॥", "61197": "ञिदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या (यस्मि॒न्विश्वा॑नि॒ पौंस्या॑) । पुंसः कर्मणि ब्राह्मणादित्वात् ष्यञ् । सुते दधिष्व नश्चनः (सु॒ते द॑धिष्व न॒श्चनः॑) । चायतेरसुन् । चायेरन्ने ह्रस्वश्च <{उ639}> इति चकारादसुनो नुडागमश्च ॥", "61198": "आमन्त्रित स्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः (अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॑) ॥", "61199": "आदिरुदात्तः स्यात् । अयं पन्थाः (अ॒यं पन्थाः॑) सर्वनामस्थाने किम् । ज्योतिष्मः पथो रक्ष (ज्योति॑ष्मतः प॒थो र॑क्ष) । उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् ॥", "61200": "तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्षसे दातवा उ (हर्षसे॒ दात॒वा उ॑) ॥", "61201": "आद्युदात्तः स्यात् । स्वे क्षये शुचिव्रत (स्वे क्षये॑ शुचिव्रत) ॥", "61202": "करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्वः ॥", "61203": "आदिरुदात्तः । आकृतिगणोऽयम् । वाजेभिर्वाजिनीवती (वाजे॑भिर्वा॒जिनी॑वती) । इन्द्रं वाणीः (इन्द्रं(आ) वाणीः॑) ॥", "61204": "उपमान शब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा । कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्स्वरविधौ प्रत्ययलक्षणं नेति । संज्ञायां किम् । अग्निर्माणवकः । उपमानं किम् । जैत्रः ॥", "61205": "निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । द्व्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ॥", "61206": "एतावाद्युदात्तौ स्तः । असंज्ञार्थमिदम् । अत सं न शुष्कम् (अत॒ सं न शुष्क॑म् ) ॥", "61207": "कर्तृवाची आशितशब्द आद्युदात्तः । कृषन्नित्फाल आशितम् (कृ॒षन्नित्फाल॒ आशि॑तम्) ॥", "61208": "रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्टा च द्व्यजनात् <{SK3693}> इति नित्यमाद्युदात्तत्वं पूर्वविप्रतिषेधेन ॥", "61209": "आद्युदात्ते वा स्तः ॥", "61210": "एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः (जुष्टो॒ दमू॑नाः) । षळर आहुरर्पितम् (षळ॑र आहु॒रर्पि॑तम्) । इत्यादेः पूर्वेणैव सिद्धेः । छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षर्ष्टिर्न च लाचलासः (अ॒र्पि॒ताः ष॒र्ष्टिर्न च॑लाच॒लासः॑) । इत्यत्रान्तोदात्तदर्शनाच्च ॥", "61211": "आदिरुदात्तः स्यात् । नहिषस्तव नो मम ॥", "61212": "तुभ्यं हिन्वानः (तुभ्यं॑ हिन्वा॒नः) । मद्यं वातः पवताम् (मद्यं॒ वातः॑पवताम्) ॥", "61213": "यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो नावं विना । यञ्जन्त्यस्य काम्या (यु॒ञ्जन्त्य॑स्य काम्या॑) । कमेर्णिङन्तादचो यत् । झ्र्अनावः किम् । नवतिं नाव्यानाम् (न॒व॒तिं ना॒व्याना॑म्) ।ट", "61214": "एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत (ईड्यो॒ नूत॑नैरु॒त) । आजुह्वान ईड्यो (आ॒जुह्वा॑न॒ ईड्यो॒) । श्रेष्ठं नो धेहिवार्यम् (श्रेष्ठं नो धेहि॒ वार्यम्) । उक्थमिन्द्राय शंस्यम् (उक्थमिन्द्रा॑य॒ शंस्य॑म्) ॥", "61215": "आदिरुदात्तो वा । इन्थानो अग्निम् (इन्धा॑नो अ॒ग्निम्) ॥", "61216": "आदिरुदात्तो वा । आद्यास्त्रयो घञन्ताः । त्रयः पचाद्यजन्ताः ॥", "61217": "रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । यदाहवनीये ॥", "61218": "चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ॥ इति धातुस्वराः ॥", "61219": "मतोः पूर्वमाकार उदात्तः स्त्रीनाम्नि । उदुम्बरावती । शरावती ॥", "61220": "अवतीशब्दस्यान्त उदात्तः । वेत्रवती । ङीपः पित्त्वादनुदात्तत्वं प्राप्तम् ॥", "61221": "ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ॥", "61222": "लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः (दे॒व॒द्रीचीं॑ नयत देव॒यन्तः॑) । (वार्तिकम्) ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ॥", "61223": "अन्तः उदात्तः स्यात् । यज्ञश्रियम् (य॒ज्ञ॒श्रिय॑म्) ॥", "62001": "उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः (स॒त्यश्चि॒त्रश्र॑वस्तमः) । उदात्तेत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ॥", "62002": "सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । कृत्यतुल्याख्या अजात्या <{SK749}> इति तत्पुरुषः । किरिणा काणः किरिकाणः । पतयन्मन्दयत्सखम् (प॒त॒यन्म॑न्द॒यत्स॑खम्) । मन्दयति मादके इन्द्रे । सखेति सप्तमीतत्पुरुषः । शस्त्रीश्यामा । (वार्तिकम्) ॥ अयज्ञो वा एषः । परिगणनं किम् । स्नात्वाकालकः । मुहूर्तसुखम् । भोज्येष्णम् ॥", "62003": "वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्पमाषः । कृष्णशब्दो नक्प्रत्ययान्तः लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः अनेते किम् । कृष्णैतः ॥", "62004": "एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्गवे दीयते तावदित्यर्थः । अरित्रशब्दः इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमात्रं न पुनरायाम एव । प्रमाणे किम् । परमगाधम् ॥", "62005": "तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः । दायाद्यं किम् । परमदायादः ॥", "62006": "प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् । मूत्रकृच्छ्रम् ॥", "62007": "व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घञन्तः थाथ-<{SK3878}> आदिस्वरेणान्तोदात्तः । अपदेशे किम् । विष्णुपदम् ॥", "62008": "निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीपन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ॥", "62009": "ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्यास्वपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजेरसुम्च <{उ15}> इत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् । उत्तमशारदम् ॥", "62010": "एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्मात् वैशम्पायनान्तेवासिभ्यश्च <{SK1484}> इति णिनेः कठचरकाल्लुक् <{SK1487}> इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ॥", "62011": "अनयोः पूर्वं प्रकृत्या । पितृसदृशः । सादृश्ये किम् । परमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ॥", "62012": "द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्तसमाः प्रमाणमस्य । (वार्तिकम्) ॥ इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ॥", "62013": "वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् । परमवाणिजः ॥", "62014": "मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हलः <{SK3280}> इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनि शब्द आद्युदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आद्युदात्तो नित्त्वात् । नपुंसके किम् । कुड्यच्छाया ॥", "62015": "एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् । परमसुखम् ॥", "62016": "प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । प्रीतौ किम् । राजसुखम् ॥", "62017": "स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा । गोस्वामी । स्वं किम् । परमस्वामी ॥", "62018": "दमूना गृहपतिर्दमे (दमू॑ना गृ॒हप॑ति॒र्दमे॑) ॥", "62019": "पतिशब्दे परे ऐश्वर्याचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्यपतिः । चित्पतिः । दिधिषूपतिः ॥", "62020": "उक्तविषये । भुवनपतिः भूसूधूभ्रस्जिभ्यः <{उ238}> इति क्युन्नन्तो भुवनशब्दः ॥", "62021": "अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ॥", "62022": "आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ॥", "62023": "एषु पूर्वं प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ॥", "62024": "विस्पष्टकटुकम् । विस्पष्टशब्दो गतिरनन्तरः <{SK3783}> इत्याद्युदात्तः । विस्पष्टेति किम् । परमलवणम् । गुणेति किम् । विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र व्यक्त । संपन्न । पण्डित । कुशल । चपल । निपुण ॥", "62025": "श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदे प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम् । गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ॥", "62026": "कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः ॥", "62027": "कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ॥", "62028": "पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आद्युदात्तत्वाभावे कुमारश्च <{SK3760}> इत्येव भवति ॥", "62029": "एषु परेषु पूर्वं प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारत्निः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः ॥ (वार्तिकम्) ॥ इत्यधिकारे । (वार्तिकम्) ॥ पञ्चकपालः । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । (फिट्)न्रः संख्यायाः इति पञ्चञ्छब्द आद्युदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरत्निः ॥", "62030": "बहुशब्दस्तथा वा । बह्वरत्निः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सति उदात्तस्वरितयोः <{SK3657}> इति भवति ॥", "62031": "एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ॥", "62032": "अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यान्तः । आतपशुष्कः । भ्राष्ट्रपक्वः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्णसिद्धः । कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते ॥", "62033": "एते प्रकृत्या वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्तं वृष्टो देवः । प्रतिपूर्वाह्णम् । उपपूर्वाह्णम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्यमानार्थत्वात् । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । वर्ज्येति किम् । अग्निं प्रति । प्रत्यग्नि ॥", "62034": "राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्यं युवा भैमायनः । अन्धकवृष्मय एते न तु राजन्याः । राजन्यग्रहमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपञ्चालाः ॥", "62035": "संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आद्युदात्तो निपात्यते ॥", "62036": "आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ । आचार्येति किम् । छान्दसवैयाकरणाः । अन्तेवासीति किम् । आपिशलपाणिनीये शास्त्रे ॥", "62037": "एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमण्डूकेयौ ॥", "62038": "महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्णः । महागृष्टिः । महेष्वासः । महाहैलिहिलः । महच्छब्दोऽन्तोदात्तः । सन्महत्-<{SK740}>इति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो व्रीहिर्महह्व्रीहिः ॥", "62039": "चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ॥", "62040": "उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि उष्ट्रशब्द आद्युदात्तः ॥", "62041": "गोसादः । गोसादिः । गोसारथिः ॥", "62042": "एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या । कुरूणां गार्हपतं कुरुगार्हपतम् । उप्रत्ययान्तः । कुरुः । (वार्तिकम्) ॥ वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः ।रिक्ते विभाषा <{SK3696}> इति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वाल्लच् । कपिलकादित्वाल्लत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वा इत्यण्णन्तः । पण्यशब्दो यदन्तत्वादाद्युदात्तः । (वार्तिकम्) ॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव प्रतिपदोक्ते समासे कृत्याः <{SK2831}> इत्येष स्वरो विहितः । दास्या भारो दासीभारः । देवहूतिः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः ॥ स राये स पुरंध्याम् (स रा॒ये स पुरं॑ध्याम्) । पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे च <{SK3271}> इति किप्रत्ययः । अलुक् छान्दसः । (फिट्)नब्विषयस्य इत्याद्युदात्तः पुरशब्दः ॥", "62043": "चतुर्थ्यन्तार्थाययत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारू यूपदारू ॥", "62044": "अर्थे परे चतुर्थ्यन्तं प्रकृत्या देवार्थम् ॥", "62045": "क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ॥", "62046": "क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् ॥", "62047": "समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् ॥ नेह सुखप्राप्तः । थाथ-<{SK3878}> इत्यस्यापवादोऽयम् ॥", "62048": "कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । त्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ॥", "62049": "कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । थाथ-<{SK3878}> इत्यस्यापवादः । पुरोहितम् । अनन्तरः किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव । दूरादागतः ॥", "62050": "तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गति प्रकृत्या । अग्नेरायो नृतमस्य प्रभूतौ (अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ) । सङ्गतिं गोः (सङ्ग॑तिं॒ गोः) । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः अतौ किम् । आगन्तुः ॥", "62051": "तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपच्चैतदुभयं स्यात् । अन्वेतवा उ (अन्वे॑त॒वा उ॑) । कृत्स्वरापवादः ॥", "62052": "अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । ये पराञ्चस्तान् (ये परा॑ञ्चस्तान्) । अनिगन्त इति किम् । प्रत्यञ्चो यन्तु (प्र॒त्यञ्चो॑ यन्तु) । कृत्स्वरात्परत्वादयमेव । जहि वृष्ण्यानि कृणुही पराचः (ज॒हि वृष्ण्या॒नि कृणु॒ही परा॑चः) । वप्रत्यये किम् । उदञ्चनम् ॥", "62053": "वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या । नयङ्ङुत्तानः (न्य॑ङ्ङुत्ता॒नः) । उदात्तस्वरितयोर्यण् इति अञ्चतेरकारः स्वरितः । अध्यङ् ॥", "62054": "ईषत्कडारः । ईषदित्ययमन्तोदात्तः । ईषद्भेद इत्यादौ कृत्स्वर एव ॥", "62055": "सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्णं तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ॥", "62056": "प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ॥", "62057": "वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥", "62058": "आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ॥", "62059": "ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ॥", "62060": "षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या । राजप्रत्येनाः । षष्ठी किम् । अन्यत्र न ॥", "62061": "क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या । नित्यप्रहसितः । कालाः <{SK690}> इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । नित्यार्थे किम् । मुहूर्तप्रहसितः ॥", "62062": "वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आद्युदात्तः । ग्रामः किम् । परमनापितः । शिल्पिनि किम् । ग्रामरथ्या ॥", "62063": "शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ॥", "62064": "अधिकारोऽयम् ॥", "62065": "सम्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे । देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायाम् <{SK721}> इत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्म्ये इति किम् । स्तम्बेरमः । कर्मकरवर्द्धितकः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेम बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ॥", "62066": "युक्तवाचिनि समासे पूर्वमाद्युदात्तम् । गोबल्लवः । कर्तव्ये तत्परो युक्तः ॥", "62067": "गवाध्यक्षः ॥", "62068": "पापनापितः । पापाणके-<{SK733}> इति प्रतिपदोक्तस्यैव ग्रहणात् । षष्ठीसमासे न ॥", "62069": "भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्रण्यधीयन्ते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ॥", "62070": "मद्यविशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । अङ्गानि किम् । परममैरेयः । मैरेये किम् । पुष्पासवः ॥", "62071": "भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्ताख्याः किम् । समाशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ॥", "62072": "धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सन्निवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् । परमसिंहः ॥", "62073": "दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडा-<{SK711}> इति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ॥", "62074": "प्राद्गेश वाचिना या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायाम् <{SK3286}> इति ण्वुल् । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ॥", "62075": "अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्रधारः । नियुक्ते किम् । काण्डलावः ॥", "62076": "शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमाद्युदात्तं स चेदण कृञः परो न भवति । तन्तुवायः । शिल्पिनि किम् । काण्डलावः । अकृञः किम् । कुम्भकारः ॥", "62077": "अण्णन्ते परे । तन्तुवायो नाम कृमिः । अकृञ इत्येव । रथकारो नाम ब्राह्मणः ॥", "62078": "गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थो योगः । गो इति किम् । वत्सपालः । पाले इति किम् । गोरक्षः ॥", "62079": "पुष्पहारी ॥", "62080": "उपमानवाचि पूर्वपदं णिन्यन्ते परे आद्युदात्तम् । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् । वृकवञ्ची । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोच्चारी ॥", "62081": "आद्युदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता ॥", "62082": "कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ॥", "62083": "बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि ॥", "62084": "ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥", "62085": "दाक्षिघोषः । दाक्षिकटः । दाक्षिहृदः ॥", "62086": "छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसके <{SK3857}> इत्येतस्मात्पूर्वप्रतिषेधेनायमेव स्वरः । छात्रिशालम् ॥", "62087": "प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात् । इन्द्र प्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अकेति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ॥", "62088": "वृद्धार्थमिदम् । मालाप्रस्थः ॥", "62089": "नगरे परे महन्नवन्वर्जितं पूर्वमाद्युदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ॥", "62090": "अर्मे परे द्व्यच् त्र्यच् पूर्वमवर्णान्तमाद्युदात्तम् । गुप्तार्मम् । कुक्कुटार्मम् । अवर्णं किम् । बृहदर्मम् । द्व्यच् त्र्यच् किम् । कपिञ्जलार्मम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ॥", "62091": "अर्मे परे नैतान्याद्युदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् । (वार्तिकम्) ॥ दिवोदासाय दाशुषे (दिवो॑दासाय दा॒शुषे॑) ॥", "62092": "अधिकारोऽयम् । प्रागुत्तरपदादिग्रहणात् ॥", "62093": "सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्वंकिम् । परमश्वेतः आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकार्त्स्न्ये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्त्स्न्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ॥", "62094": "एतयोः परतः पूर्वमन्तोतरत्तम् । अञ्जनागिरिः । मौण्डिनिकायः । संज्ञायां किम् । परमगिरिः । ब्राह्मणनिकायः ॥", "62095": "पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः । तच्च वय इह गृह्यते न कुमारत्वमेव । वयसि किम् । परमकुमारी ॥", "62096": "अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । स्वरे कृतेऽत्र एकादेशः । स्वरितो वानुदात्तेपदादौ <{SK3659}> इति पक्षे स्वरितः । अकेवले किम् । शीतोदकम् ॥", "62097": "द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्रः । द्विगौ किम् । अत्रिरात्रः । क्रतौकिम् । बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः ॥", "62098": "सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्त्रीसभम् । सभायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । राजसभा प्रतिपदोक्तनपुंसकग्रहणान्नेह । रमणीयसभम् । ब्राह्मणकुलम् ॥", "62099": "देवदत्तपुरम् । नान्दीपुरम् । प्राचां किम् । शिवपुरम् ॥", "62100": "पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् । इहापि तथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ॥", "62101": "पुरे परे नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाड्ढक् ॥", "62102": "एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालबिलम् । कुसूलादि किम् । सर्पबिलम् । बिलेति किम् । कुसूलस्वामी ॥", "62103": "दिक्शब्दा अन्तोदात्त भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपद । पूर्वपञ्चालाः । आख्याने । पूर्वयातम् । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ॥", "62104": "आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ॥", "62105": "उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ॥", "62106": "बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा विश्वदेवः (वि॒श्वक॑र्मा वि॒श्वदे॑वः) । आविश्वदेवं सत्पतिम् (आवि॒श्वदे॑वं॒ सत्प॑तिम्) । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः (विश्व॑देवः) । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ॥", "62107": "संज्ञायामिति वर्तते वृकोदरः । हर्यश्वः । महेषुः ॥", "62108": "उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदरः इत्यत्र नञ्सुभ्याम् <{SK3906}> इति भवति विप्रतिषेधेन ॥", "62109": "बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ । गार्गीबन्धुः । नदी किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनि किम् । गार्गीप्रियः ॥", "62110": "निष्ठान्तं पूर्वपदमन्तोदात्तं वा । प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । उपसर्गपूर्वं किम् । शुष्कमुखः ॥", "62111": "उत्तरपदाधिकार आपादान्तम् । आद्यधिकारस्तु प्रकृत्या भगालम् <{SK3871}> इत्यवधिकः ॥", "62112": "वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् । श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ॥", "62113": "कर्ण आद्युदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ॥", "62114": "संज्ञौ पम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ॥", "62115": "शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ॥", "62116": "नञः परा एते आद्युदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् (श्रवो॑ दे॒वेष्व॑मृतम्) । नञः किम् । ब्राह्मणमित्रः । जेति किम् । अशत्रुः ॥", "62117": "सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । नञ्सुभ्यम् <{SK3906}> त्यिस्यापवादः । सुकर्माणः सुयुजः (सु॒कर्मा॑णः सु॒युजः॑) । स नो वक्षदनिमानः सुवह्मा (स नो॑ वक्षदनिमा॒नः सुब्रह्मा॑) । शिवा पशुभ्यः सुमनाः सुवर्चाः (शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑) । सुपेशससकरति (सु॒पेश॑सस्करति) । सोः किम् । कृतकर्मा मनसी किम् । सुराजा (सु॒राजा॑) । अलोमोषसी किम् सुलोमा । सूषाः कपि तु परत्वा कपि पूर्वम् <{SK3907}> इति भवति । सुकर्मकः सुस्रोतस्यः ॥", "62118": "सोः परे आद्युदात्ताः स्युः । साम्राज्याय सुक्रतुः (साम्रा॒ज्याय सु॒क्रतुः॑) । सुप्रतीकः (सु॒प्रती॑कः) । सुहव्यः (सु॒हव्यः॑) । सुप्रतुर्तिनेहसम् (सु॒प्रतू॑र्तिने॒हस॑म्) ॥", "62119": "यदाय्दुयाद्तं द्व्यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् । अधास्वश्वाः (अधा॒स्वश्वाः॑) । सुरँथा आतिथिग्वे (सु॒रँथा॑ आतिथि॒ग्वे) । नित्स्वरेणाश्वरथावाद्युदात्तौ । आद्युदात्तं किम् । या सुबाहुः (या सु॑बा॒हुः) । द्व्यच् किम् । सुगुरसत्सु हिरण्यः (सु॒गुर॑सत्सु हिर॒ण्यः) । हिरण्यशब्दस्त्र्यच् ॥", "62120": "सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरे रयिणा (सु॒वीरे(स्वः र॒यिणा॑) । सुवीर्यस्य गोमतः (सु॒वीर्य॑स्य॒ गोमतः॑) । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र यतोऽनावः <{SK3701}> इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ॥", "62121": "उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । कूलादिग्रहणं किम् । उपकुम्भम् । अव्ययीभावे किम् । परमकूलम् ॥", "62122": "द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ॥", "62123": "शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गेउत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् नपुंसके किम् । ब्राह्मणशाला ॥", "62124": "तत्पुरुषे नपुंसकलिङ्गे कन्था शब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् । आह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्या ॥", "62125": "कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहमकन्थम् । मन्दुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ॥", "62126": "चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नागरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा व्याघ्रादित्वात्समासः । गर्हायां किम् परमचेलम् ॥", "62127": "वस्त्रं चीरमिव वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् ॥", "62128": "घृतपललम् । घृतसूपः । घृतशाकम् । भक्ष्येण मिश्रीकरणम् <{SK697}> इति समासः । मिश्रे किम् । परमपललम् ॥", "62129": "आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् ॥", "62130": "कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमाद्युदात्तम् । ब्राह्मण राज्यम् । अकेति किम् । परमराज्यम् । (वार्तिकम्) ॥ कुराज्यम् ॥", "62131": "अर्जुनवर्ग्यः वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्गादिर्दिगाद्यन्तर्गणः ॥", "62132": "पुम्शब्देभ्यः । परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहितपुत्रः । पुत्रः किम् । कौनटिमातुलः । पुम्ब्यः किम् । दाक्षीपुत्रः ॥", "62133": "एभ्यः पुत्रो नाद्युदात्तः । आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुः पुत्रः । संयुक्ताः संबन्धिनः । श्यालपुत्रः । ज्ञातयो मातापितृसंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुष्पुत्रः ॥", "62134": "एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् । मत्स्यचूर्णम् ॥", "62135": "अप्राणिषष्ठ्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ॥", "62136": "कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये । वनं किम् । मृत्कुण्डम् ॥", "62137": "भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या । कुम्भीभगालम् । कुम्भीनदालम् । कुम्भीपालम् । मध्योदात्ता एते । प्रकृत्येत्यधिकृतमन्तः <{SK3877}> इति यावत् ॥", "62138": "शितेः परं नित्याबह्वच्कं प्रकृत्या । शितिपादः । शित्यंसः । पादशब्दो वृषादित्वादाद्युदात्तः । अंसशब्दः प्रत्ययस्य नित्त्वात् । शितेः किम् । दर्शनीयपादः । अभसत्किम् । शितिभसत् । शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादोऽयं योगः ॥", "62139": "एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे । प्रकारकः । प्रहरणम् । शोणा धृष्णू नृवाहसा (शोणा॑ धृ॒ष्णू नृ॒वाह॑सा) । इध्मप्रव्रश्चनः । उपपदात् । उच्चैःकारम् । ईषत्करः । गतीति किम् । देवस्य कारकः । शेषलक्षणा षष्ठी । कृद्ग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादम्स्वरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये ॥", "62140": "एषु पूर्वोत्तरपदे युगपत्प्रकृत्या । वनस्पतिं वनआ (वन॒स्पतिं॒ वन॒आ) । बृहस्पतिं यः (बृह॒स्पतिं॒ यः) । बृहच्छब्दोऽत्राद्युदात्तो निपात्यते । हर्षया शचीपतिम् (ह॒र्ष॒या॒ शची॒पति॑म्) । शार्ङ्गरवादित्वादाद्युदात्तः शचीशब्दः । शचीभिर्न इति दर्शनात् । तनूनपादुच्यते (तनू॒नपा॑दुच्यते) । नराशंसं वाजिनम् (नरा॒शंसं॑ वा॒जिन॑म्) । निपातनाद्दीर्घः । शुनःशेपम् (शुनः॒शेप॑म्) ॥", "62141": "उङे युगपत्प्रकृत्या स्तः । आ य इन्द्रावरुणौ (आ य इन्द्रा॒वरु॒णौ) । इन्द्राबृहस्पती वयम् (इन्द्रा॒बृह॒स्पती॑ व॒यम्) । देवता किम् । प्लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ॥", "62142": "पृथिव्यादिवर्जितेऽनुदात्तावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः (इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णः) । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् (द्यावा॑पृथि॒वी ज॒नय॑न्) । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमा॑रुद्रौ । रोदेर्णिलुक्चेति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ (इन्द्रा॑पूषणौ) । श्वन्नुक्षन् पूषन् इति पूषा अन्तोदात्तो निपात्यते । सुकामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ॥", "62143": "अधिकारोऽयम् ॥", "62144": "थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥", "62145": "सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य (ऋ॒तस्य योनौ॑ सुकृ॒तस्य॑) । शशप्लुतः ॥", "62146": "गतिकारकोपपदात् क्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ॥", "62147": "एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रबृद्धः । प्रयुतः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ॥", "62148": "संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । कारकात्किम् । संभूतो रामायणः । दत्तश्रुतयोः किम् । देवपालितः । अस्मान्नियमादत्र संज्ञायामन-<{SK3880}> इति न तृतीया कर्मणि-<{SK3782}> इति तु भवति । एव किम् । कारकावधारणं यथा स्यात् दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्तः उदात्तो भवति । संश्रुतः । आशिषि किम् । देवैः खाता देवखाता । आशिष्येवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न शङ्खविशेषस्य संज्ञेयम् । तृतीया कर्मणि-<{SK3782}> इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ॥", "62149": "इत्थम्भूते कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि-<{SK3782}> इत्यस्यापवादः ॥", "62150": "कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् । हस्तादायः । भेति किम् । दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ॥", "62151": "कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च निति-<{SK3784}> इति स्वरः ॥", "62152": "अन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् ॥", "62153": "माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहममिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ॥", "62154": "पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिर्भिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गं किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ॥", "62155": "संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवैष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति । असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेदे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ॥", "62156": "ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ॥", "62157": "अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् । अपचः । पक्तुं न शक्तः । अविलिखः अशक्तौ किम् । अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ॥", "62158": "नञः परावच्कावन्तोदात्तावाक्रोशे । अपचो जाल्मः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । अविक्षिपः ॥", "62159": "नञः परमन्तोदात्तं संज्ञायामाक्रोशे । अदेवदत्तः ॥", "62160": "नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ (गणसूत्रम् -) राजाह्नोश्छन्दसि ॥ अराजा । अनाहः । भाषायां नञः स्वर एव ॥", "62161": "तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ॥", "62162": "एभ्योऽनयोरन्त उदात्तः । इदं प्रथमं यस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीया-<{SK692}> इति योगविभागात्समासः । इदमेतत्तद्भ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथमो येषां ते इदंप्रथमः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहावित्यधिकारो वनं समासे-<{SK3912}> इत्यतः प्राग्बोध्यः ॥", "62163": "बहुव्रीहावन्तोदात्तः । द्विस्तनी । चतुःस्तना । संख्यायाः किम् । दर्शनीयस्तना । स्तनः किम् । द्विशिराः ॥", "62164": "द्विस्तनां करोति ॥", "62165": "देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः । (वार्तिकम्) ॥ विश्वामित्र ऋषिः ॥", "62166": "व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्त्रं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यस्वभाव इत्यर्थः ॥", "62167": "गौरमुखः । स्वाङ्गं किम् । दीर्घमुखा शाला ॥", "62168": "उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ॥", "62169": "निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे निष्ठोपसर्ग-<{SK3844}> इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति । उपमानम् । सिंहमुखः ॥", "62170": "सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छन्नः । अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ॥", "62171": "जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ॥", "62172": "बहुव्रीहावुत्तरपदमन्तोदात्तम् । अव्रीहिः । सुमाषः ॥", "62173": "नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ॥", "62174": "ह्रस्वान्त उत्तरपदे समासे वान्त्यात्पूर्वमुदात्तं कपि नञ्सुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । ह्रस्वान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ॥", "62175": "उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः ॥", "62176": "अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुमा रज्जुः । बह्वक्षरं पदं । बह्वध्यायः । गुणादिराकृतिगणः । अवयवाः किम् । बहुगुमो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ॥", "62177": "प्रपृष्टः । प्रललाटः । ध्रुवमेकरूपम् । उपसर्गात्किम् । दर्शनीयपृष्ठः । स्वाङ्गं किम् । प्रशाखो वृक्षः । ध्रुवं किम् । उद्बाहुः । अपर्शु किम् । विपर्शुः ॥", "62178": "समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे (तस्येदि॑मे प्रव॒णे) ॥", "62179": "अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ॥", "62180": "।उपसर्गादन्तः शब्दोऽन्तोदात्तः । पर्यन्तः समन्तः ॥", "62181": "न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरे यणि च कृते उदात्तस्वरितयोर्यणः-<{SK3657}> इति स्वरितः ॥", "62182": "परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ॥", "62183": "प्रगृहम् । अस्वाङ्गं किम् । प्रपदम् ॥", "62184": "अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥", "62185": "अभिमुखम् । उपसर्गात्स्वाङ्गम्-<{SK3911}> इति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं चेदम् । अभिमुखा शाला ॥", "62186": "अपमुखम् । योगविभाग उत्तरार्थः ॥", "62187": "अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वनः-<{SK953}> इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे उपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम अपनाम । स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ॥", "62188": "अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ॥", "62189": "अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । अप्रेति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ॥", "62190": "अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्ट पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ॥", "62191": "अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदगायत्री । अकृत्पदे किम् । अतिकारः । (वार्तिकम्) ॥ इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥", "62192": "निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ॥", "62193": "प्रतेः परेंऽश्वादयोऽन्तोदात्ताः । प्रतिगतोंऽशुः प्रत्यंशुः प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ॥", "62194": "उपात्परं यत् द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ॥", "62195": "सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा । असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ॥", "62196": "तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः एरच्-<{SK3231}> उत्पुच्छस्तदा थाथादिस्वरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम् । उदस्तं पुच्छं येन स उत्पच्छः ॥", "62197": "आभ्यां परेश्वेश्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्चरथाय (द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य) । त्रिपादूर्ध्वः (त्रि॒पादू॒र्ध्वः) । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् (त्रि॒मू॒र्धानं॑ स॒प्तरश्मिम्) । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ॥", "62198": "गौरसक्थः । श्लक्ष्णसक्थः । आक्रान्तात्किम् । चक्रसक्थः । समासान्तस्य पचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ॥", "62199": "छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमालभेत । अत्र वार्तिकम् । (वार्तिकम्) ॥ पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः ॥ इति परादिः । तुविजाता उरुक्षया (तु॒वि॒जा॒ता उ॑रु॒क्षया॑) । परान्तः । नि येन मुष्टिहत्यया (नि येन॑ मुष्टिह॒त्यया॑) । यस्त्रिचक्रः (यस्त्रि॑च॒क्रः) । पूर्वान्तः । विश्वायुर्धेहि (वि॒श्वायु॑र्धेहि) ॥ इति समासस्वराः ॥", "63001": "अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥", "63002": "एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तररपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः । (वार्तिकम्) ॥ ब्राह्मणे विहितानि शस्त्राणि उपचारात् ब्राह्मणानि तानि शंसतीति ब्राह्मणच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥", "63003": "ओजसाकृतमित्यादि । (वार्तिकम्) ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः । (वार्तिकम्) ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥", "63004": "मनसागुप्ता ॥", "63005": "मनस इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥", "63006": "आत्मनस्तृतीयाया अलुक्स्यात् ॥ (वार्तिकम्) ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वामात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥", "63007": "आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषाः । तादर्थ्ये चतुर्थेषा । चतुर्थीति योगविभागात्समासः ॥", "63008": "परस्मैपदम् । परस्मैभाषाः ॥", "63009": "हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥", "63010": "प्रचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव, प्राचामेव, हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥", "63011": "मध्येगुरुः । (वार्तिकम्) ॥ अन्तेगुरुः ॥", "63012": "कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकात् किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥", "63013": "हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः हस्तबन्धः हलदन्तेति किम् । गुप्तिबन्धः ॥", "63014": "स्तम्बेरमः । कर्णेजपः । क्वचिन्न । कुरुचरः ॥", "63015": "प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥", "63016": "एभ्यः सप्तम्या अलुक् जे । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः । शरजः । वरेजः । वरजः ॥", "63017": "सप्तम्या विभाषाऽलुक् स्यात् । घे । पूर्वाह्णेतरे । पूर्वाह्णतरे । पूर्वाह्णेतमे । पूर्वाह्णतमे । काले । पूर्वाह्णेकाले । पूर्वाह्णकाले । तने । पूर्वाह्णेतने । पूर्वाह्णतने ॥", "63018": "खेशयः । खशयः । ग्रामेवासः । ग्रामवासः । ग्रामेवासी । ग्रामवासी । हलदन्तात् इत्येव । भूमिशयः । (वार्तिकम्) ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥", "63019": "इन्नन्तादिषु सप्तम्या अलुङ्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः ॥", "63020": "सप्तम्या अलुङ्न । समस्थः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥", "63021": "चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् । (वार्तिकम्) ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः । (वार्तिकम्) ॥ आमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका । (वार्तिकम्) ॥ अन्यत्र देवप्रियः । (वार्तिकम्) ॥ शुनः शेपः । शुनः पुच्छः । शुनोलाङ्गूलः । (वार्तिकम्) ॥ दिवोदासः ॥", "63022": "षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः ॥", "63023": "विद्यासंबन्धयोनिसंम्बन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः । (वार्तिकम्) ॥ नेह । होतृधनम् ॥", "63024": "ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥", "63025": "विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । पुत्रेन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः । पितापुत्रौ ॥", "63026": "इहोत्तरपदे परे आनङ् । मित्रावरुणौ । (वार्तिकम्) ॥ अग्निवायू । वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥", "63027": "देवताद्वन्द्वे इत्येव ॥", "63028": "वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्निवरुणौ देवते अस्य आग्निवारुणम् । देवताद्वन्द्वे च <{SK1239}> इत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङमीत्त्वं च बाधित्वा इत् । वृद्धौ किम् । आग्नेन्द्रः । नेन्द्रस्य परस्य <{SK1240}> इत्युत्तरपदवृद्धिप्रतिषेधः । (वार्तिकम्) ॥ आग्नावैष्णवम् ॥", "63029": "देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामा ॥", "63030": "दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ । छन्दसि दृष्टानुविधिः ॥ द्यावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिमित्यत्र पदकारा विसर्गं पठन्ति ॥", "63031": "उषस्शब्दस्योषादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥", "63032": "मातरपितरौ । उदीचां किम् । मातापितरौ ॥", "63033": "द्वन्द्वे निपातः । आ मा गन्तां पितरा मातरा च (आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॑ च) । चाद्विपरीतमपि । न मातरा पितरा नू चिदिष्टौ (न मा॒तारा॑ पि॒तरा॒ न चि॑दि॒ष्टौ) । समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु <{SK1012}> समानस्य सः स्यान्मूर्धादिभिन्ने उत्तरपदे । सगर्भ्यः । (वार्तिकम्) ॥ विष्वद्गेवयोरद्र्यदेशः । विश्वाची च घृताची च (वि॒श्वाची॑ च घृ॒ताची॑च) । देवद्रीची नयत देवयन्तः (देव॒द्रीची॑ नयत देव॒यन्तः॑) । कद्रीची (क॒द्रीची॑) ॥", "63034": "भाषितपुंस्कादनूङ् ऊङोऽभावो यस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोः - <{SK656}> इति ह्रस्वः । चित्रा गावो यस्येति लौकिकविग्रहे । चित्रा अस् गो अस् इत्यलौकिकविग्रहे । चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः । जरतीचित्रगुर्वा । एवं दीर्घातन्वीजङ्घः । तन्वीदीर्घाजङ्घः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते । आनङ् ऋतः - <{SK921}> इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरद्गुरित्यादिः । अत एव चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुः इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । स्त्रियाः किम् । ग्रमाणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् किम् । गङ्गाभार्यः । अनूङ् किम् । वामोरूभार्यः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता । स्त्रियां किम् । कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु ॥", "63035": "तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्यप्त्यतिव्याप्तिपरिहाराय । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) ॥ बह्वीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । घरूप - <{SK985}> इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पट्वितरा । पट्वितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । र्दानीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या । (वार्तिकम्) ॥ बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः । (वार्तिकम्) ॥ शुक्लाया भावः शुक्लत्वम् । शुक्लता । गुणवचनस्य किम् । कर्त्र्या भावः कर्त्रीत्वम् । शरदः कृतार्थता इत्यादौ तु सामान्ये नपुंसकम् । (वार्तिकम्) ॥ हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । स्त्रीभ्यो ढक् <{SK1123}> इति ढोऽत्र गृह्यते । अग्नेर्ढक् <{SK1236}> इति ढकि तु पुंवदेव । अग्नायी देवताऽस्य स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपत्नशब्दाच्छार्ङ्गरवादित्वात् ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः । स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययोः शिवाद्यण् । सपत्न्या अपत्यं सापत्नः । तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव न त्वण् । शिवादौ रूढयोरेव ग्रहणात् । सापत्यः । (वार्तिकम्) ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः । एतद्वार्तिकं एकतद्धिते च <{SK1000}> इति सूत्रं च न कर्तव्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इति भाष्यकारेषट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वप्रियः इत्यादि । पूर्वस्यैवेदम् । भस्त्रैषाजाज्ञाद्वा - <{SK466}> इति लिङ्गात् । तेनाकचि एकशेषवृत्तौ च न । सर्विका । सर्वाः । (वार्तिकम्) ॥ कुक्कुट्या अण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशावः ॥", "63036": "एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः ॥", "63037": "कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥ (वार्तिकम्) ॥ नेह । पाका भार्या यस्य स पाकभार्यः ॥", "63038": "अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ॥", "63039": "वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । स्त्रौघ्नीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम् । मध्यमभार्यः । तद्धितस्य किम् । काण्डलावभार्यः । वृद्धिशब्देन किम् । तावद्भार्यः । रक्ते तु काषायी कन्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ॥", "63040": "स्वाङ्गाद्य ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । स्वाङ्गात्किम् । पटुभार्यः । ईतः किम् । अकेशभार्यः । (वार्तिकम्) ॥ सुकेशमानिनी ॥", "63041": "जातेः परो यः स्त्रीप्रत्यस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढे <{SK3928}> इति तु भवत्येव ॥", "63042": "कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्ंिमस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री । दत्तभार्या । पञ्चमभार्या । स्त्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं । पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्री पुंसलक्षणा । इभयुवतिः । अग्निस्तोकः । उदश्चित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा । वेहत् गर्भघातिनी । गोवेहत् । बष्कयणी तरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ॥", "63043": "भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्रह्मणिब्रुवा । ब्रह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः कुत्सितानि कुत्सनैः <{SK732}> इति समासः । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥", "63044": "अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा । (वार्तिकम्) ॥ लक्ष्मीतरा ॥", "63045": "उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । ह्रस्वाभावपक्षे तु तसिलादिषु- <{SK836}> इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥", "63046": "महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः । महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः सन्महत् <{SK740}> इति समासोऽत्र ग्रहीष्यते इति चेत्, महाबाहुर्न स्यात् । तस्मात् [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य] इति परिभाषा नेह प्रवर्तते । समानाधिकरणग्रहणसामर्थ्यात् । आदिति योगविभागादात्वम् । प्रागेकादशभ्यः <{SK1995}> इति निर्देशाद्वा । एकादश । महतीशब्दस्य पुंवत्कर्मधारय <{SK746}> इति पुंवद्भावे कृते आत्त्वम् । महाजातीया । (वार्तिकम्) ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः । (वार्तिकम्) ॥ अष्टाकपालः । (वार्तिकम्) ॥ गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्त्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । अच्प्रत्यन्वव <{SK943}> इत्यत्राजिति योगविभागाद्बहुव्रीहावप्यच् । अष्टानां गवां समाहारः अष्टगवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा ॥", "63047": "आत्स्यात् । द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्व्यशीतिः । (वार्तिकम्) ॥ नेह । द्विशतम् । द्विसहस्त्रम् ॥", "63048": "त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्त्रम् ॥", "63049": "द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥", "63050": "हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । ह्रल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेखग्रहणमेव ज्ञापकम् [(परिभाषा - ) उत्तरपदाधिकारे तदन्तविधिर्नास्ति] इति ॥", "63051": "ह्रच्छोकः । हृदशोकः । सौहार्द्यम् । सौहृदय्यम् । हृद्रोगः । हृदयरोगः । हृदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥", "63052": "एषुत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे च <{SK570}> इतीण् प्रत्ययः । अजेर्व्याभावो निपातनात् । पदगः । पदोपहतः ॥", "63053": "पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादार्घाभ्यां च <{SK1093}> इति यत् । (वार्तिकम्) ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥", "63054": "पद्धिमम् । पत्काषी । पद्धतिः ॥", "63055": "ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति ॥", "63056": "पादस्य पत् । पद्घोषः । पादघोषः । पन्मिश्र । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ \t । (वार्तिकम्) ॥ पन्निष्कः । पादनिष्कः ॥", "63057": "उदमेघः । (वार्तिकम्) ॥ क्षीरोदः ॥", "63058": "उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥", "63059": "उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः ॥", "63060": "उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥", "63061": "इगन्तस्याङ्यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः । (वार्तिकम्) ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः । (वार्तिकम्) ॥ भ्रुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भ्रूकुटिः । अकारोऽनेन विधीयत इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ॥", "63062": "एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ॥", "63063": "रेवतिपुत्रः । अजक्षीरम् ॥", "63064": "त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥", "63065": "इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥", "63066": "खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यात् । ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धंजहा माषाः । शर्धोऽपानशब्दः तं जहतीति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥", "63067": "अरुषोद्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादि । जनमेजयतीति जनमेजयः । (वार्तिकम्) ॥ वातमजा मृगाः ॥", "63068": "इजन्तादेकाचोऽम् स्यात्स च स्वाद्यम्वत्खिदन्ते परे । औतोऽम्शसोः <{SK285}> । गांमन्यः । वाम्शसोः <{SK302}> । स्त्रियंमन्यः । स्त्रींमन्यः । नृ । नरंमन्यः । भुवंमन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनात् श्रीशब्दस्य ह्रस्वो मुममोरभावश्च ॥", "63069": "वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । व्रते किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥", "63070": "मुम् स्यात् । सत्यङ्कारः । अगदङ्कारः । (वार्तिकम्) ॥ अस्तुङ्कारः । (वार्तिकम्) ॥ धेनुम्भव्या । (वार्तिकम्) ॥ लोकम्पृणः । पुणः इति मूलविभुजादित्वात्कः । (वार्तिकम्) ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः । (वार्तिकम्) ॥ भ्राष्टमिन्धः । अग्निमिन्धः । (वार्तिकम्) ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः । (वार्तिकम्) ॥ तिमिङ्गिलगिलः । (वार्तिकम्) ॥ उष्णङ्करणम् । भद्रङ्करणम् ॥", "63071": "श्येन तिल एतयोर्मुमागमः स्यात् ञप्रत्ययपरे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता स्वधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ॥", "63072": "रात्रिञ्चरः । रात्रिचरः । रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु अरुर्द्विषत्- <{SK2942}> इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ॥", "63073": "नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणः, अब्राह्मणः ॥", "63074": "लुप्तनकारन्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । अर्थाभावे अव्ययीभावेन सहायं विकल्पते । रक्षोहागमलघ्वसंदेहाः प्रयोजनम् इति, । (वार्तिकम्) ॥ तेनानुपलब्धिरविवादोऽविघ्नमित्यादि सिद्धम् । (वार्तिकम्) ॥ अपचसि त्वं जाल्म ॥ नैकधेत्यादौ तु न शब्देन सह सूपा <{SK649}> इति समासः ॥", "63075": "पाद् शत्रन्तः । वेदाः इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुलमस्य नकुलम् । न खमस्य नखम् । नस्त्रीपुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षरतेः क्षीयतेर्वा क्षत्रमिति निपात्यते । न क्रामतीति नक्रः । क्रमेर्डः । न अकस्मिन्निति नाकः ॥", "63076": "एकादिर्नञ्प्रकृत्या स्यादेकस्य च अदुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह तृतीयेति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन नविंशतिः एकान्नविंशतिः । एकाद्नविंशतिः । एकोनविंशतिरित्यर्थः । (वार्तिकम्) ॥ षोडन् । षोडश । षोढा । षड्धा ॥", "63077": "नग इत्यत्र नञ्प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिषु इति किम् । अगो वृषलः शीतेन । नित्यं क्रीडा <{SK711}> इत्यतो नित्यमित्यनुवर्तमाने ॥", "63078": "उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥", "63079": "अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ॥", "63080": "अनुमेये द्वितीये सहस्य सः स्यात् । सराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥", "63081": "सहस्य सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वाह्णम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥", "63082": "बहुव्रीह्यवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकर्मकः । सलोमकः ॥", "63083": "सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय । (वार्तिकम्) ॥ सगवे । सवत्साय । सहलाय ॥", "63084": "समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्र भव इत्यर्थे सगर्भसयूथसनुताद्यत् <{SK3401}> अमूर्धादिषु किम् । समानमूर्धा । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधर्म्यं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽप्यस्ति । सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥", "63085": "एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि ॥", "63086": "ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानत्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः, तदध्ययनार्थं व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । समानः सः सब्रह्मचारी ॥", "63087": "तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः, एकगुरुकः । समानतीर्थेवासी <{SK1658}> इति यप्रत्ययः ॥", "63088": "यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः ॥", "63089": "सदृक् । सदृशः । (वार्तिकम्) ॥ सदृक्षः । वतुरुत्तरार्थः ॥", "63090": "दृग्दृशवतुषु इदम् ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वक्ष्यते । दृक्षे च ॥ ईदृक्षः । कीदृक्षः । आ सर्वनाम्नः <{SK430}> । दृक्षे च ॥ तादृक् । तदृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूदृक्षः ॥", "63091": "सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । कुत्वस्याऽसिद्धत्वात् व्रश्च <{SK294}> इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयेत नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । दिगादिभ्यो यत् <{SK1429}> इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । व्रश्च <{SK294}> इति षत्वम् । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः । विशम् ॥", "63092": "अनयोः सर्वनाम्नश्च टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अदद्रि-अञ्चेति स्थिते यण् ॥", "63093": "वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥", "63094": "अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि ॥", "63095": "वप्रत्ययान्तेऽञ्चतौ परे । सध्र्यङ् ॥", "63096": "सहस्य सधादेशः स्यात् । इन्द्र चास्मिन्सधमादे (इन्द्र॑ चा॒स्मिन्स॑ध॒मादे॑) । सोमः सधस्थम् (सोमः॑ स॒धस्थ॑म्) ॥", "63097": "अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । स्वपी । (वार्तिकम्) ॥ प्रेपम् । परेपरम् । प्रापम् । परापम् ॥", "63098": "अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधुरक्षः । सखिपथः । रम्यपथो देशः ॥", "63099": "अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठीत्यादि किम् । अन्यस्यान्येन वाशीः अन्याशीः । (वार्तिकम्) ॥ अन्यस्य कारकः, अन्यत्कारः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः ॥", "63100": "अन्यदर्थः । अन्यार्थः ॥", "63101": "अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा । (वार्तिकम्) ॥ कुत्सितास्त्रयः कत्त्रयः ॥", "63102": "कद्रथः । कद्वदः ॥", "63103": "कत्तृणम् ॥", "63104": "कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ॥", "63105": "ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥", "63106": "कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥", "63107": "उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥", "63108": "पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ॥", "63109": "पृषोदरप्रकाराणि शिष्टैर्यथोच्चरितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः उत्तरपदादेश्च लत्वम् ॥ भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् । (वार्तिकम्) ॥ दक्षिणतारम् । दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम् । (वार्तिकम्) ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । आतश्च <{SK2898}> इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः, सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥", "63110": "सङ्ख्यादिपूर्वस्याह्नस्याऽहनादेशो वा स्यान् ङौ । द्व्यह्नि । द्व्यहनि । द्व्यह्ने । विगतमहर्व्यह्नः । व्यह्नि । व्यहनि । व्यह्ने । अह्नः सायः सायाह्नः । सायाह्नि । सायाहनि । सायाह्ने । इत्यदन्ताः ॥ विश्वपाः ॥", "63111": "ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥", "63112": "अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥", "63113": "सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुग्रः पृतनासु साह्ला (म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साह्ला॑) । अचोर्मध्यस्थस्य डस्य ळः ढस्य ह्लाश्च प्रातिशाख्ये विहितः । आहहि । द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ह्लाकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति ॥", "63114": "अधिकारोऽयम् ॥", "63115": "कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम् । शोभनकर्णः । अविष्टादीनां किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥", "63116": "क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । क्वौ इति किम् । परिणहनम् । विभाषा पुरुषे <{SK1032}> इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ॥", "63117": "कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ॥", "63118": "वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥", "63119": "अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥", "63120": "शरावती ॥", "63121": "इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलुवहम् । (वार्तिकम्) ॥ दारुवहम् ॥", "63122": "उपसर्गस्य बहुलं दीर्घः स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥", "63123": "इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः ॥", "63124": "इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । खरिच <{SK121}> इति चर्त्वमाश्रयात्सिद्धम् । नीत्तम् । सूत्तम् । घुमास्था <{SK2462}> इतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । जनसन - <{SK2504}> इत्यात्वम् । जातम् । सातम् । खातम् ॥", "63125": "उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः ॥", "63126": "अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी (अ॒ष्टाप॑दी) ॥", "63127": "एकचितीकः ॥", "63128": "विश्वशब्दस्य दीर्घः स्याद्वसौ राट्शब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् । विश्वाराट् । विश्वाराड् । विश्वराजौ । विश्वराजः । विश्वाराड्भ्यामित्यादि ॥", "63129": "विश्वानरः ॥", "63130": "विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः । (वार्तिकम्) ॥ श्वादन्तः इत्यादि ॥", "63131": "दीर्घः स्यान्मन्त्रे । अश्वावतीं सोमावतीम् (अ॒श्वा॒व॒तीं सो॑माव॒तीम्) । इन्द्रियावान्मदिन्तमः (इ॒न्द्रि॒यावा॑न्म॒दिन्त॑मः ) । विश्वकर्मणा विश्वदेव्यावता (वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता) ॥", "63132": "दीर्घः स्यान्मत्रे । यदोषधीभ्यः (यदोष॑धीभ्यः) । अदधात्योषधीषु (अ॒द॒धा॒त्योष॑धीषु) ॥", "63133": "दीर्घः स्यात् । आ तू न इन्द्र (आ तू न॑ इन्द्र) । नू मर्तः (नू मर्तः॑) । उत वा घा स्यालात् (उ॒त वा॑ घा स्या॒लात्) । मक्षू गोमन्तमीमहे (म॒क्षू गोम॑न्तमीमहे) । भरता जातवेदसम् (भर॑ता जातवे॑दसम्) । तङिति थादेशस्य ङित्वपक्षे ग्रहणम् । तेनेह न । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । कूमनाः (कूम॑नाः) । अत्रा ते भद्रा (अत्रा॑ ते भ॑द्रा) । यत्रा नश्चका (यत्रा॑ नश्च॒का) । उरूष्याणः (उरू॒ष्याणः॑) ॥", "63134": "ऋचि दीर्घ इत्येव । अभीषुणः सखीनाम् (अ॒भीषुणः॒ सखी॑नाम्) । सुञः <{SK3644}> इति षः । नश्च धातुस्थोरुषभ्यः <{SK3649}> इति णः ॥", "63135": "मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् (वि॒द्मा हि च॒क्रा ज॒रस॑म्) ॥", "63136": "एवा हि ते (ए॒वा हि ते॒) ॥", "63137": "अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः (पूरु॑षः) । दण्डादण्डि ॥", "63138": "लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । अचेति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहा इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे अदस्-अञ्च् इति स्थिते ॥", "63139": "सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । [(परिभाषा - ) स्त्रीप्रत्यये चानुपसर्जनेन] इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारीषगन्ध्यापुत्रः ॥", "64001": "इत्यधिकृत्य ॥", "64002": "अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घे कृते प्वादीनां ह्रस्वः <{SK2258}> । जिनाति । जिज्यौ । जिज्यतुः ।{$ {!1500 री!} गतिरेषणयोः$} । रेषणं वृकशब्दः ।{$ {!1501 ली!} श्लेषणे$} । विभाषा लीयतेः <{SK1509}> इत्येज्विषये आत्वं वा । ललौ । लिलाय । लाता । लेता ।{$ {!1502 व्ली!} वरणे$} । व्लिनाति ।{$ {!1503 प्ली!} गतौ$} । वृत् । ल्वादयो वृत्ताः । प्वादयोऽपीत्येके ।{$ {!1504 व्री!} वरणे$} ।{$ {!1505 भ्री!} भये$} । भरण इत्येते ।{$ {!1506 क्षीष्!} हिंसायाम्$} । एषां त्रयाणां ह्रस्वः । केषांचिन्मते तु न ।{$ {!1507 ज्ञा!} अवबोधने$} । ज्ञाजनोर्जा <{SK2511}> जानाति । दीर्घनिर्देशसामर्थ्यान्न ह्रस्वः । {$ {!1508 बन्ध!} बन्धने$} । बध्नाति । बबन्धिथ । बन्धा । बन्धारौ । भन्त्स्यति । बधान । अभान्सीत् । पूर्वत्रासिद्धम् <{SK12}> इति भष्भावात्पूर्वं झलो झलि <{SK2281}> इति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न । प्रत्ययलक्षणं प्रतिसिज्लोपस्यासिद्धत्वात् । अबान्धाम् । अभान्त्सुः ।{$ {!1509 वृङ्!} संभक्तौ$} । वृणीते । वव्रे । ववृषे । ववृढ्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत ।{$ {!1510 श्रन्थ!} विमोचनप्रतिहर्षयोः$} ॥ इतः परस्मैपदिनः ॥ श्रन्थाति । । (वार्तिकम्) ॥ श्रेथतुः । श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु । शश्राथ शश्रथेति माधवः । तत्र मूलं मृग्यम् । {$ {!1511 मन्थ!} विलोडने$} ।{$ {!1512 श्रन्थ!} {!1513 ग्रन्थ!} सन्दर्भे$} । अर्थभेदाच्छ्रन्धेः पुनः पाठः । रूपं तूक्तम् ।{$ {!1514 कुन्थ!} संश्लेषणे$} । संक्लेशे इत्येके । कुथ्नाति । चुकुन्थ । कुथेति दुर्गः । चुकोथ ।{$ {!1515 मृद!} क्षोदे$} । मृद्नाति । मृदान ।{$ {!1516 मृड!} च$} । अयं सुखेऽपि । ष्टुत्वम् । मृड्णाति ।{$ {!1517 गुध!} रोषे$} । गुध्नाति ।{$ {!1518 कुष!} निष्कर्षे$} । कुष्णाति । कोषिता ॥", "64003": "नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चे <{SK202}>ति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामि <{SK209}>इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥", "64004": "एतयोर्नामि दीर्घो न स्यात् । तिसृणाम् । तिसृषु । स्त्रियामिति त्रिचतुरोर्विशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः मतिवत् । आमि तु प्रियत्रयाणामिति विशेषः । प्रियास्तिस्त्रो यस्य स इति विग्रहे तु प्रियतिसा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । स्वोर्लुका <{SK319}> लुप्त्तवेन प्रत्ययलक्षणाभावन्न तिस्रादेशः । न लुमता <{SK263}> इति निषेधस्यानित्यत्वापक्षे प्रियतिसृ । (वार्तिकम्) ॥ प्रियतिसृणी । प्रियतिसॄणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पात्पर्यायेण नुम्रभावौ । प्रियतिस्रा । प्रियतिसृणा । इत्यादि । द्वेरत्वे सत्याप् । द्वे 2 । द्वाभ्याम् 3 । द्व्योः 2 । गौरी । गौर्यौ । गौर्यः । नदीकार्यम् । हे गौरि । गौर्यै इत्यादि । एवं वाणीनद्यादयः । [(परिभाषा - ) प्रातिपदिकग्रहणे लिङ्विशिष्टस्यापि] ग्रहणादनङि णिद्वद्भावे च प्राप्ते । (वार्तिकम्) ॥ सखी । सख्यौ । सख्यः । इत्यादि गौरीवत् । अङ्यन्तत्वान्न सुलोपः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतन्त्र्यादयः ॥ स्त्री । हे स्त्रि ॥", "64005": "नामि दीर्घो वा । धाता धातॄणाम् (धा॒ता धा॑तॄ॒णाम्) इति बह्वृचाः । तैत्तिरीयास्तु ह्रस्वमेव पठन्ति ॥", "64006": "नृ इत्येतस्य नामि वा दीर्घः स्यात् । नॄणाम् । नृणाम् । इति ऋदन्ताः ॥\t कॄ तॄ अनयोरनुकरणे [(परिभाषा - ) प्रकृतिवदनुकरणम्] इति वैकल्पिकातिदेशादित्त्वे रपरत्वम् । कीः । किरौः । किरः । तीः । तिरौ । तिरः । इत्यादि गीर्वत् । इत्त्वाऽभावपक्षे तु ऋदुशन सू <{SK276}>इति ऋतो ङी <{SK275}>ति च तपरकरणादनङ्गुणौ न । कॄः । क्रौ । क्रः । कॄम् । क्रौ । कॄन् । क्रा । क्रे इत्यादि । इत्यॄदन्ताः ॥\t गम्लृ शक्लृ अनयोरनुकरणेऽनङ् । गमा । शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गमॄन् । गम्ला । गम्ले । ङसिङसोस्तु ऋत उ <{SK279}>दित्युत्त्वे लपरत्वे संयोगान्तस्य लोपः । गमुल् । शकुलित्यादि । इति लृदन्ताः ॥\t सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः । इत्येदन्ताः ॥", "64007": "नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुङ्नुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥", "64008": "नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे ॥", "64009": "षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् (ऋभु॒क्षाण॑म्) । ऋभुक्षणम् (ऋभु॒क्षण॑म्) । निगमे किम् । तक्षा । तक्षाणौ ॥", "64010": "सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि । अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाज्जरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम् । अजरम् । अजरसी । अजरे । अजरांसि । अजराणि । शेषं पुंवत् । पद्दन्न <{SK228}> इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्गा । उदभ्यामित्यादि । आसानि । आस्ना । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये मांस्पचन्या उखाया इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । पद्दन्न <{SK228}> इत्यत्र हि छन्दसीत्यनुवर्तितं वृत्तौ तथापि अपोभि <{SK442}> इत्यत्र मासश्छन्दसीति वार्तिके छन्दोग्रहणसामर्थ्याल्लोकेऽपि क्वचिदिति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् ॥", "64011": "अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव ॥ तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव । समर्थ <{SK647}> सूत्रे उद्गातार इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥", "64012": "एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते ॥", "64013": "इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । एकाजुत्तरपदे <{SK307}> इति णत्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ॥", "64014": "अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वावचनसामर्थ्यादादौ दीर्घः । ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानिवाचरतीति वा क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । उगिदचाम् <{SK36}> इति सूत्रेऽज्ग्रहणं नियमार्थं । धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति । तेन स्नत् ध्वत् इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि ॥ भातेर्डवतुः <{SK36}>3 । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य त्वत्वन्त्वाभावान्न दीर्घः । भवतीति भवन् ॥", "64015": "अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिवदेवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतो लोपाच्चक इति रूपमाह । स्व इव स्वति । सस्वौ । सस्व । यत्तु स्वामी स्वांचकरेति तदनाकरमेव ॥", "64016": "अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । सन्लिटोर्जेः <{SK2331}> जिगीषति । विभाषा चेः <{SK2525}> चिकीषति । चिचीषति । जिघांसति ॥", "64017": "अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति । तितंसति । तितनिषति । (वार्तिकम्) ॥ श्वा मुमूर्षति । कूलं पिपतिषति ॥", "64018": "क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्च <{SK3050}> इति वेट् । पवित्वा । पूत्वा ॥", "64019": "सतुक्कस्य छस्य वस्य च क्रमाच्छ ऊठ् एतावादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति । खौनाति । चखाव खविता । शानचः परत्वादूठि कृते हलन्तात्वाभावान्न शानच् । खौनीहि{$ {!1532 हेठ!} च$} । ष्टुत्वम् । हिठ्णाति ।{$ {!1533 ग्रह!} उपादाने$} । स्वरितेत् । ग्रहिज्या - <{SK2412}> । गृह्णाति । गृह्णीते ॥", "64020": "ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । णमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥", "64021": "रेफात्परयोश्छ्वोर्लोपः स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ॥", "64022": "इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते । (वार्तिकम्) ॥ बभूव । बभूवतु । बभूवुः ॥", "64023": "श्नमः परस्य नस्य लोपः स्यात् । श्नसोरल्लोपः । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः ।{$ {!1449 खिद!} दैन्ये खिन्ते$} । खेत्ता ।{$ {!1450 विद!} विचारणे$} । विन्ते । वेत्ता ।\tअथ परस्मैपदिनः ।{$ {!1451 शिष्लृ!} विशेषणे$} । शिनष्टि । शिंष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । जश्त्वम् । ष्टुत्वं । झरो झरि -<{SK71}>इति वा डलोपः । अनुस्वारपरसवर्णौ । शिण्ढि । शिण्ड्ढि । शिनषाणि । अशिनट् । लृदित्वादङ् । अशिषत् ।{$ {!1452 पिषॢ!} संचूर्णने$} । शिषिवत् । पिनष्टि ।{$ {!1453 भञ्जो!} आमर्दने$} । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता ।{$ {!1454 भुज!} पालनाभ्यवहारयोः$} । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ।{$ {!1455 तृह!} {!1456 हिसि!} हिंसायाम्$} ॥", "64024": "हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । उगिदचाम् <{SK361}>इति नुम् । संयोगान्तस्य लोपः <{SK54}> । नुमो नकारस्य क्विन्प्रत्ययस्य कुः <{SK377}> इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णो । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥", "64025": "", "64026": "एषां शपि नलोपः । स्वजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः । सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि <{SK2361}> इति सूत्रे । (वार्तिकम्) ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात् - <{SK2276}> इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा <{SK2359}> इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति -<{SK2270}> इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त । पर्यस्वङ्क्त ।{$ {!977 हद!} पुरीषोत्सर्गे$} । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥\tअथ परस्मैपदिनः ॥{$ {!978 ञिष्विदा!} अव्यक्तेशब्दे$} ।{$ {!979 स्कन्दिर्!} गतिशोषणयोः$} । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥", "64027": "रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । सञ्ज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं भावे अकर्तरि च कारके-<{SK3188}> इति कृत्यल्युटो बहुलं-<{SK2841}> इति यावत् द्वयमप्यनुवर्तते ॥", "64028": "स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥", "64029": "अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥", "64030": "पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न । प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्क्षु । प्राङ्षु । एवं पूजार्थे प्रत्याङ्ङादयः । क्रुञ्च कौटिल्याल्पीभावयोः । अस्य ऋत्विग् <{SK373}>आदिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुङ्भ्यामित्यादि ॥ चोः कुः <{SK378}> ॥ पयोमुक् । पयोमुग् । पयोमुचौ । पयोमुचः । व्रश्च <{SK294}> इति षत्वम् । स्कोः <{SK380}> इति सलोपः । जश्त्वचर्त्वे । सुवृट् । सुवृड् । सुवृश्चौ । सुवृश्चः । सुवृश्चा । सुवृट्सु । सुवृट्त्सु ॥ वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च (उणादिः-2.084) एते निपात्यन्ते शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् । सान्तमहत <{SK317}> इति दीर्घः । मह्यते पूज्यते इति महान् । महान्तौ । महान्तः । महतः । महता । महद्भ्यामित्यादि ॥", "64031": "एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्त्वादिड्वा । स्यन्त्वा । स्यन्दित्वा ॥", "64032": "जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे । भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोः-<{SK2517}> इति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्च <{SK2514}> इतीट् । पक्षे नशित्वा ॥ (वार्तिकम्) ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे अक्त्वा । अङ्क्त्वा । जनसन-<{SK2504}> इत्यात्वम् । खात्वा । खनित्वा । द्यतिस्यति-<{SK3074}> इतीट् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातोर्हिः <{SK3076}> । हित्वा ॥", "64033": "नलोपो वा स्यात् । अभाजि । अभञ्जि ॥", "64034": "शास उपधाया इत्स्यादङि हलादौ क्ङिति च । शासिवसि-<{SK2410}> इति षः । शिष्टः । शासति । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतुः ॥", "64035": "शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् । सर्तिशास्ति-<{SK2382}> इत्यङ् । अशिषत् । अशासिष्यत् ॥\t ।{$ {!1076 दीधीङ्!} दीप्तिदेवनयोः $}। एतदादयः पञ्चधातवश्छान्दसाः दीधीते । एरनेकाचः-<{SK272}> इति यण् । दीध्याते ॥", "64036": "हौ परे । आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ॥", "64037": "अनुनासिक-इति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनुतोनोत्यादयः । हतः । घ्नन्ति ॥", "64038": "अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा नान्तनिटां वनादीनां च नित्यम् । आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । अदो जग्धिः-<{SK3080}> । [(परिभाषा - ) अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते] ॥ जग्धिविधौ ल्यब्ग्रहणात् । तेन । हित्वदत्त्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रधाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छ्य । प्रदीव्य । प्रपठ्य ॥", "64039": "अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥", "64040": "अनुनासिकलोपः स्यात् । अङ्गत् । (वार्तिकम्) ॥ परीतत् । संयत् । सुनुत् । (वार्तिकम्) ॥ लोपश्च ॥ अग्रेगूः । अग्रेभ्रूः ॥", "64041": "अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥", "64042": "एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् ।{$ {!1106 गा!} स्तुतौ$} । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ॥", "64043": "जनसनखनामात्वं वा स्याद्यादौ क्ङिति । सायात् । सन्यात् ।{$ {!465 अम!} गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन संग्रहः$} । अमति । आम ।{$ {!466 द्रम!} {!467 हम्म!} {!468 मीमृ!} गतौ$} । द्रमति । दद्राम । ह्म्यन्त -<{SK2288}> इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीत । मिमीम । अयं शब्दे च ।{$ {!469 चमु!} {!470 छमु!} {!471 जमु!} {!472 झमु!} अदने$} ॥", "64044": "आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये विभाषा <{SK2391}> । जायते । जन्यते ॥", "64045": "सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥", "64046": "इत्यधिकृत्य ॥", "64047": "भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्तवादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ । बभर्ष्ठ । बभर्जे । रमभावे । बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । स्कोः - <{SK380}> इति सलोपः । व्रश्च - <{SK294}> इति षः । बभ्रष्ठ । बभ्रज्जे । भ्रष्टा । भर्ष्टा । भ्रक्ष्यति । भर्क्ष्यति । (वार्तिकम्) ॥ भृज्ज्यात् । भृज्ज्यास्ताम् । भर्क्षीष्ट । भ्रक्षीष्ट । अभार्क्षीत् । अभ्राक्षीत् । अभर्ष्ट । अभ्रष्ट ।{$ {!1285 क्षिप!} प्रेरणे$} । क्षिपति । क्षिपते । क्षेप्ता । अक्षैप्सीत् । अक्षिप्त ।{$ {!1286 कृष!} विलेखने$} । कृषति । कृषते । क्रष्टा । कर्ष्टा । कृष्यात् । कृक्षीष्ट ॥ स्पृशमृशकृषेति सिज्वा । पक्षे क्सः । सिचि अम्वा । अक्राक्षीत् । अकार्क्षीत् । अकृक्षत् । तङि लिङ्सिचौ - <{SK2300}> इति कित्त्वादम्न । अकृष्ट । अकृक्षाताम् । अकृक्षत । अकृक्षाताम् । अकृक्षन्त ।{$ {!1287 ऋषी!} गतौ$} । परस्मैपदी । ऋषति । आनर्ष ।{$ {!1288 जुषी!} प्रीतिसेवनयोः$} ॥ आत्मनेपदिनश्चत्वारः । जुषते ।{$ {!1289 ओविजी!} भयचलनयोः$} । प्रायेणायमुत्पूर्वः । उद्विजते ॥", "64048": "आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोनपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्वाद्वेट् । जुगोपिथ । जुगोप्थ । गोपायिता । गोपिता । गोप्ता । गोपाय्यात् । गुप्यात् । अगोपायीत् । अगोपीत् । अगौप्सीत् ।{$ {!396 धूप!} संतापे$} । धूपायति । धूपायांचकार । दुधूप । धूपायितासि । धूपितासि ।{$ {!397 जप!} {!398 जल्प!} व्यक्तायां वाचि$} । जप मानसे च ।{$ {!399 चप!} सान्त्वने$} ।{$ {!400 षप!} समवाये $}। समवायः संबन्धः सम्यगवबोधो वा । सपति ।{$ {!401 रप!} {!402 लप!} व्यक्तायां वाचि$} ।{$ {!403 चुप!} मन्दायां गतौ$} । चोपति । चुचोप । चोपिता ।{$ {!404 तुप!} {!405 तुम्प!} {!406 त्रुप!} {!407 त्रुम्प!} {!408 तुफ!} {!409 तुम्फ!} {!410 त्रुफ!} {!411 त्रुम्फ!} हिंसार्थाः$} । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्त्वान्नलोपो न । किदाशिषि <{SK2216}> इति कित्वान्नलोपः । तुप्यात् । (गणसूत्रम् -) प्रात्तुम्पतौ गवि कर्तरि इति पारस्करादिगणे पाठात्सुट् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्येसरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितायान्ताः । अष्टावप्युकारवन्तः ।{$ {!412 पर्प!} {!413 रफ!} {!414 रफि!} {!415 अर्ब!} {!416 पर्ब!} {!417 लर्ब!} {!418 बर्ब!} {!419 मर्ब!} {!420 कर्ब!} {!421 खर्ब!} {!422 गर्ब!} {!423 शर्ब!} {!424 षर्ब!} {!425 चर्ब!} गतौ$} । आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति ।{$ {!426 कुबि!} आच्छादने$} । कुम्बति ।{$ {!427 लुबि!} {!428 तुबि!} अर्दने$} । लुम्बति । तुम्बति ।{$ {!429 चुबि!} वक्रसंयोगे$} । चुम्बति ।{$ {!430 षृभु!} {!431 षृम्भु!} हिंसार्थौ $}। सर्भति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । षिभु । षिम्भु इत्येके । सेभति । सिम्भति ।{$ {!432 शुभ!} {!433 शुम्भ!} भाषणे$} । भासने इत्येके । हिंसायामित्यन्ये ॥\tअथानुनासिकान्ताः ॥ तत्र कम्यन्ता अनुतात्तेतो दश ॥{$ {!434 घिणि!} {!435 घुणि!} {!436 घृणि!} ग्रहणे$} । नुम् । ष्टुत्वम् । घिण्णते । जिघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे ।{$ {!437 घुण!} {!438 घूर्ण!} भ्रमणे$} । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ ।{$ {!439 पण!} व्यवहारे स्तुतौ च$} ।{$ {!440 पन!} च$} । स्तुतावित्येव संबध्यते । पृथङ्निर्देशात् । पनिसाहचर्यात्पणेरपिस्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थात्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायांचकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पनायति । पनायांचकार । पेने ।{$ {!441 भाम!} क्रोधे$} । भामते । बभामे ।{$ {!442 क्षमूष्!} सहने$} । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षन्ध्वे । चक्षमिवहे ॥", "64049": "यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके । आदेः परस्य <{SK44}> । अतो लोपः <{SK2308}> । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ॥", "64050": "हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य <{SK44}> । अतो लोपः <{SK2308}> । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥ (वार्तिकम्) ॥ किमिच्छति । इदमिच्छति । स्वरिच्छति ॥", "64051": "अनिडादावार्धधातुकेपरे णेर्लोपः स्यात् । परत्वात् एरनेकाचः -<{SK272}> इति यणि प्राप्ते ॥ (वार्तिकम्) ॥ णिलेपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । अटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥", "64052": "णेर्लोपः स्यात् । भावितः । भावितवान् । श्वीदितः - <{SK3039}> इति नेट् । संप्रसारणम् । शूनः । दीप्तः । गुहू, गूढः । वनु, वतः । तनु, ततः । पतेः सनि वेट्कत्वादिडभावे प्राप्ते द्वितीयाश्रित - <{SK686}> इति सूत्रे वेट्कत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । यस्य विभाषा <{SK3025}> इत्यत्रैकाच इत्येव । दरिद्रतः ॥", "64053": "इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता (यो नः॑ पि॒ता ज॑नि॒ता) ॥", "64054": "शमयितेत्यर्थः ॥", "64055": "आमन्त आलु आय्य इत्रु इष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयांचक्रे । आयादय आर्धाधातुके वा <{SK2305}> । चक्रमे । कामयिता । कमिता । कामयिष्यते । कमिष्यते ॥", "64056": "लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । सम्प्रधार्य ॥", "64057": "आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि । प्रापय्य । प्राप्य ॥", "64058": "ल्यपीत्यनुवर्तते । वियूय । विप्लूय । आडजादीनाम् <{SK2254}> ॥", "64059": "क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ॥", "64060": "ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥", "64061": "क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षितायुर्वा । क्षीणोऽयं तपस्वी । क्षितो वा ॥", "64062": "उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट् चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न । इहार्धधातुक इत्यधिकृतं सीयुटो विशेषणं नेतरेषामव्यभिचारात् । चिण्वद्भावाद्वृद्धिः । भाविता । भविता । भाविष्यते । भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट । भविषीष्ट ॥", "64063": "दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् । (वार्तिकम्) ॥ दिदीये ॥", "64064": "अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेचि <{SK2243}> इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ । दधाथ । दधिव । धाता ॥", "64065": "यति परे आत ईत्स्यात् । गुणः । देयम् । ग्लेयम् ॥ (वार्तिकम्) ॥ तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्च <{SK2512}> इति नेषेधात् । (वार्तिकम्) ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥", "64066": "एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट-अध्यैष्ट । अध्यगीष्यत- अध्यैष्यत ।{$ {!1047 इक्!} स्मरणे$} । अयमप्यधिपर्वः । अधीगर्थदयेशाम्-<{SK613}> इति लिङ्गात् । अन्यथा हीगर्थेत्येव ब्रूयात् ॥ (वार्तिकम्) ॥ अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथाच भट्टिः-ससीतयो राघवयोरधीयन्इति ।{$ {!1048 वी!} गतिव्याप्तिप्रजनकान्त्यसनखादनेषु$} । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्वनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्रेकारोऽपि धात्वन्तरं प्रश्लिष्यत । एति । ईतः । इयन्ति । ईयात् । ऐषीत् ।{$ {!1049 या!} प्रापणे$} । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ॥", "64067": "घुसंज्ञानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥", "64068": "घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि । ग्लायात् । ग्लेयात् । अग्लासीत् । म्लायति ।{$ {!905 द्यै!} न्यक्करणे$} । न्यक्करणं तिरस्कारः ।{$ {!906 द्रै!} स्वप्ने$} ।{$ {!907 ध्रै!} तृप्तौ$} ।{$ {!908 ध्यै!} चिन्तायाम्$} ।{$ {!909 रै!} शब्दे$} ।{$ {!910 स्त्यै!} {!911 ष्ट्यै!} शब्दसंघातयोः$} । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासति । अतिष्ट्यपदित्यत्रषत्वम् ।{$ {!912 खै!} खदने$} ।{$ {!913 क्षै!} {!914 जै!} {!915 षै!} क्षये$} । क्षायति । जजौ । ससौ । साता । घुमास्था <{SK2462}> इत्यत्र विभाषा घ्राधेट् - <{SK2376}> इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य । तेन एत्वसिज्लुकौ न । सायात् । असासीत् ।{$ {!916 कै!} {!917 गै!} शब्दे$} । गैयात् । अगासीत् ।{$ {!918 शै!} {!919 श्रै!} पाके$} ।{$ {!920 पै!} {!921 ओवै!} शोषणे$} । पायात् । अपासीत् । घुमास्था - <{SK2462}> इतीत्वं तदपवाद एर्लिङि <{SK2374}> इत्येत्वं गातिस्था <{SK2223}> इति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् ।{$ {!922 ष्टै!} वेष्टने$} । स्तायति ।{$ {!923 ष्णै!} वेष्टने$} । शोभायां चेत्येके । शौच इत्यन्ये । स्नायति ।{$ {!924 दैप्!} शोधने$} । दायति । अघुत्वादेत्वसिज्लुकौ न । दायात् । अदासीत् ।{$ {!925 पा!} पाने$} । पाघ्राध्मा - <{SK2360}> इति पिबादेशः । तस्यादन्तत्वान्नोपधागुणः । पिबति । पेयात् । अपात् ।{$ {!926 घ्रा!} गन्धोपादाने$} । जिघ्रति । घ्रायात् । घ्रेयात् । अघ्रासीत् । अघ्रात् ।{$ {!927 ध्मा!} शब्दाग्निसंयोगयोः$} । धमति ।{$ {!928 ष्ठा!} गतिनिवृत्तौ$} । तिष्ठति । स्थादिष्वभ्यासेन - <{SK2277}> इति षत्वम् । अधितष्ठौ । उपसर्गात् - <{SK2270}> इति षत्वम् । अधिष्ठाता । स्थेयात् ।{$ {!929 म्ना!} अभ्यासे$} । मनति ।{$ {!930 दाण्!} दाने$} । प्रणियच्छति । देयात् । अदात् ।{$ {!931 ह्वृ!} कौटिल्ये$} । ह्वरति ॥", "64069": "ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । मीनातिमिनो-<{SK2508}> इत्यात्वम् । प्रमाय । निमाय । उपदाय । विभाषा लीयतेः <{SK2509}> । विलाय । विलीय । णिलोपः । उत्तार्य । विचार्य ॥", "64070": "मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचां ग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ॥", "64071": "एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥", "64072": "अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । आटश्च <{SK269}> । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥", "64073": "अनजादीनामित्यर्थः । आनट् (आन॑ट्) । आवः (आ॑वः) । न माङ्योगे <{SK2228}> ॥", "64074": "अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ॥", "64075": "अडाटो न स्तो माङ्योगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय (जनि(स्वा)ष्ठा उ॒ग्रः सह॑से तु॒राय॑) । मा वः क्षेत्रे परबीजान्यवाप्सुः (मा वः॒ क्षेत्रे॑ परबी॒जान्यवा॑प्सुः) ॥", "64076": "प्रथमं दध्र आपः (प्रथ॒मं द॑ध्र॒ आपः॑) । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावस्तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ॥", "64077": "श्नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे । ङिच्चेत्यन्तादेशः । आन्तरतम्यादेरियङ् ओरुवङ् । इतीयङि प्राप्ते ॥", "64078": "अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । उवोख । सन्निपातपरिभाषया इजादेः -<{SK2237}> इत्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वादि पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे ततो दीर्घः । [(परिभाषा - ) वार्णादाङ्गं बलीयः] इति न्यायात् परत्वाच्च । उङ्खति । ववखतु-वङ्खति मेखतुः ॥ त्वगि कम्पने च ।{$ {!156 युगि!} {!157 जुगि!} {!158 बुगि!} वर्जने$} । युङ्गति ।{$ {!159 घघ!} हसने$} । घघति । जघाघ ।{$ {!160 मघि!} मण्डने$} । मङ्घति ।{$ {!161 शिघि!} आघ्राणे$} । शिङ्घति ॥\tअथ चवर्गीयान्ताः ॥ तत्रानुदात्तेत एकविंशतिः ॥{$ {!162 वर्च!} दीप्तौ$} । वर्चते ।{$ {!163 षच!} सेचने सेवने च$} । सचते । सेचे । सचिता ।{$ {!164 लोचृ!} दर्शने$} । लोचते । लुलोचे ।{$ {!165 शच!} व्यक्तायां वाचि$} । शेचे ।{$ {!166 श्वच!} {!167 श्वचि!} गतौ$} । श्वचते । श्वञ्चते ।{$ {!168 कच!} बन्धने$} । कचते ।{$ {!169 कचि!} {!170 काचि!} दीप्तिबन्धनयोः $}। चकञ्चे । चकाञ्चे ।{$ {!171 मच!} {!172 मुचि!} कल्कने$} । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये । मेचे । मुमुञ्चे ।{$ {!173 मचि!} धारणोच्छ्रायपूजनेषु$} । ममञ्चे ।{$ {!174 पचि!} व्यक्तीकरणे$} ॥ पञ्चते ।{$ {!175 ष्टुच!} प्रसादे$} । स्तोचते । तुष्टुचे ।{$ {!176 ऋज!} गतिस्थानार्जनोपार्जनेषु$} । अर्जते । नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे ।{$ {!177 ऋजि!} {!178 भृजी!} भर्जने$} । ऋञ्जते । उपसर्गादृति -<{SK74}> इति वृद्धिः । प्रार्ञ्जते । ऋञ्जाञ्जक्रे । आर्ञ्जिष्ट । भर्जते । बभृज्जे । अभर्जिष्ट ।{$ {!179 एजृ!} {!180 भ्रेजृ!} {!181 भ्राजृ!} दीप्तौ$} । एजांचक्रे ।{$ {!182 ईज!} गतिकुत्सनयोः$} । ईजांचक्रे ॥\tअथ द्विसप्ततिर्व्रज्यान्ताः परस्मैपदिनः ॥{$ {!183 शुच!} शोके$} । शोचति ।{$ {!184 कुच!} शब्दे तारे$} । कोचति ।{$ {!185 कुञ्च!} {!186 क्रुञ्च!} कौटिल्याल्पीभावयोः$} । अनिदिताम् -<{SK415}> इति नलोपः । कुच्यात् । क्रुच्यात् ।{$ {!187 लुञ्च!} अपनयने$} । लुच्यात् ।{$ {!188 अञ्चु!} गतिपूजनयोः$} । अच्यात् । गतौ नलोपः । पूजायां तु अञ्च्यात् ।{$ {!189 वञ्चु!} {!190 चञ्चु!} {!191 तञ्चु!} {!192 त्वञ्चु!} {!193 म्रुञ्चु!} {!194 म्लुञ्चु!} {!195 म्रुचु!} {!196 म्लुचु!} गत्यर्थाः$} । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्लुञ्चीत् ॥", "64079": "स्त्रीशब्दस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥", "64080": "अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । स्त्रियाः । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु ॥ स्त्रियमतिक्रान्तोऽतिस्त्रिः । अतिस्त्रियौ ॥ गुणनाभावौत्त्वनुड्भिः परत्वात्पुंसि बाध्यते ॥ क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥जसि च <{SK241}> ॥ अतिस्त्रियः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रयः । वाम्शसोः <{SK302}> । अतिस्त्रियम् । अतिस्त्रिम् । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा । घेर्ङिति <{SK245}> ॥ अतिस्त्रये । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रियः । अतिस्त्रियः । अतिस्त्रीणाम् । अच्च घेः । अतिस्त्रौ ॥ ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । ङेप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रये । अतिस्त्रिणः । अतिस्त्रिणः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रिणोः । अतिस्त्रिणोः । अतिस्त्रियोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । ङिति ह्रस्वश्चे <{SK296}>ति ह्रस्वान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयङुवङ्स्थानावित्यस्यैव पर्युदासः । तत्संबद्धस्यैवानुवृत्तेर्दीर्घस्यायं निषेधो नतु ह्रस्वस्य । अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः । अतिस्त्रियाः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ ॥ श्रीः । श्रियौ । श्रियः ॥", "64081": "अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥", "64082": "धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण्स्यादजादौ प्रत्यये परे । इति यण् । कुमार्यौ कुमार्यः । हे कुमारि । अमि शसि च । कुमार्यम् । कुमार्यः । कुमार्यै । कुमार्याः 2 । कुमारीणाम् । कुमार्याम् । प्रधीः । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव यण् । उन्न्यौ । उन्न्यः । हे उन्नीः । उन्न्यम् । ङेराम् । उन्न्याम् । एवं ग्रामणीः । अनेकाचः किम् । नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । नियः । ङेराम् । नियाम् । असंयोगपूर्वस्य किम् । सुश्रियौ । यवक्रियौ ॥ (वार्तिकम्) ॥ शुद्धधियौ । परमधियौ । कथं तर्हि दुर्धियो वृश्चिकभियेत्यादि । उच्यते । दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसंबन्धिनी भीर्वृश्चिकभीरित्युत्तरपदलोपो वा ॥", "64083": "धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण् स्यादजादौ सुपि ॥ (वार्तिकम्) ॥ खलप्वौ । खलप्व इत्यादि । एवं सुल्वादयः । अनेकाचः किम् । लूः लुवौ । लुवः । धात्ववयवेति किम् । उल्लूः । उल्ल्वौ । उल्ल्वः । असंयोगपूर्वस्य किम् । कटप्रुवौ । कटप्रुवः । गतीत्यादि किम् । परमलुवौ । सुपि किम् । लुलुवतुः । स्वभूः । न भूसुधियोः <{SK273}> । स्वभुवौ । स्वभुवः । एवं स्वयम्भूः ॥", "64084": "अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ । वर्षाभ्वः । दृम्भतीति दृम्भूः । अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषू <{SK93}>रित्युणादिसूत्रेण व्युत्पादितः । दृम्भ्वौ । दृम्भ्वः । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेषं हूहूवत् । दृन्निति नान्ते हिंसार्थेऽव्यये भुवः क्विप् । दृन्भूः । (वार्तिकम्) ॥ दृन्भ्वौ । दृन्भ्व इत्यादि खलपूवत् । करभ्वौ । करभ्वः । दीर्घपाठे तु कर एव कारः । स्वार्थिकः प्रज्ञाद्यण् । कारभ्वौ । कारभ्वः । पुनर्भूर्यौगिकः पुंसि । पुनर्भ्वावित्यादि । दृग्भूकाराभूशब्दौ स्वयम्भूवत् ॥ इत्यूदन्ताः ॥\t धाता । हे धातः । धातारौ । धातारः । (वार्तिकम्) ॥ धातॄणामित्यादि । एवं नप्त्रादयः । उद्गातारौ । पिता व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्नदीर्घः । पितरौ । पितरः । पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः ॥ ना । नरौ । नरः । हे नः ॥", "64085": "एतयोर्यण्न स्यादचि सुपि । सुधियौ । सुधियः इत्यादि ॥ सखायमिच्छति सखीयति । ततः क्विप् । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते ॥ (वार्तिकम्) ॥ एकदेशविकृतस्यानन्यतयाऽनङ्णित्त्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात्सख्युरसंबुद्धा <{SK253}>विति प्रवर्त्तते । सखायम् । सखायौ । शसि यण् । सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छतीति सुतीः । सख्यौ । सुख्यौ । सुत्यौ । ख्यत्या <{SK255}>दिति दीर्घस्यापि ग्रहणादुकारः । सख्युः । सुख्युः । सुत्युः । लूनमिच्छतीति लूनीः । क्षाममिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां ङसिङसोर्यण् । नत्वमत्वयोरसिद्धत्वात् ख्यत्या <{SK255}>दित्युत्वम् । लून्युः । क्षाम्युः । प्रस्तीम्युः । शुष्कीयतेः क्विप् । शुष्कीः । इयङ् । शुष्कियौ । शुष्कियः । ङसिङसोः । शुष्किय इत्यादि । इतीदन्ताः ॥\tशम्भुर्हरिवत् । एवं विष्णुवायुभान्वादयः ॥", "64086": "भूसुधियोर्यण् स्यादियङुवङौ च । वनेषु चित्रं विभ्य (वने(स्ल)षु चि॒त्रं वि॒भ्य॑) । विभुवं वा । सुध्यो3 नव्य मग्ने (सु॒ध्यो॒3॒॑ नव्य॑ मग्ने) । सुधियो वा । (वार्तिकम्) ॥ तन्वं पुषेम (त॒न्वं॑ पुषेम) । तनुवं वा । त्र्य॑म्बकम् (त्र्य॑म्बकम्) । त्रियम्बकम् ॥", "64087": "जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् ।{$ {!943 ध्रु!} स्थैर्ये$} । ध्रवति । अयं कुटादौ गत्यर्थोऽपि ।{$ {!944 दु!} {!945 द्रु!} गतौ$} । दुदोथ । दुदविथ । दुदविव । दुद्रोथ । दुद्रुव । णिश्रि - <{SK2312}> इति चङ् । अदुद्रुवत् ।{$ {!946 जि!} {!947 ज्रि!} अभिभवे$} । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये सकर्मकः । शत्रून् जयति । द्वितीये त्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । विपराभ्यां जे-<{SK2685}> इति तङ् । पराजेरसोढः <{SK589}> इत्यपादानत्वम् ॥\tअथ डीङन्ता ङितः ॥{$ {!948 ष्मिङ्!} ईषद्धसने$} । स्मयते । सिष्मिये । सिष्मियिढ्वे । सिष्मियिध्वे ।{$ {!949 गुङ्!} अव्यक्ते शब्दे$} । गवते । जुगुवे ।{$ {!950 गाङ्!} गतौ$} । गाते । गाते । गाते । इट एत्वे कृते वृद्धिः । गै । लङ इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । गाङ्कुटादिभ्यः - <{SK2461}> इति सूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य । तेनाङित्त्वात् घुमास्था - <{SK2462}> इतात्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादयः । फले तु न भेदाः ।{$ {!951 कुङ्!} {!952 घुङ्!} {!953 उङ्!} {!954 ङुङ्!} शब्दे$} । अन्ये तु उङ् कुङ् खुङ् गुङ् घुङ् ङुङ् इत्याहुः । कवते । चुकुवे । घवते । अवते । उवे । [(परिभाषा - ) वार्णादाङ्गं बलीयम्] इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । ञुङुवे । ङोता ।{$ {!955 च्युङ्!} {!956 ज्युङ्!} {!957 प्रुङ्!} {!958 प्लुङ्!} गतौ $} । क्लुङ् इत्येके ।{$ {!959 रुङ्!} गतिरेषणयोः $}। रेषणं हिंसा । रुरुवे । रवितासे ।{$ {!960 धृङ्!} अवबन्धने$} । धरते । दध्रे ।{$ {!961 मेङ्!} प्रणिदाने$} । प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । नेर्गद - <{SK2285}> इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्कृतैरपि ग्रहणस्येष्टत्वात् ।{$ {!962 देङ्!} रक्षणे$} । दयते ॥", "64088": "भुवो वुगागमः स्यात् लुङ्लिटोरचि । नित्यत्वाद्वुग्गुणवृद्धी बाधते ॥", "64089": "गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते । ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥", "64090": "दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥", "64091": "विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ मितां ह्रस्वः ॥ भ्वादौ चुरादौ च मित उक्ताः । घटयति । जनीजॄष् । जनयति । जरयति । जृणातेस्तु । जारयति । (वार्तिकम्) ॥ मृगरमणमाखेटकम् । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः । रमणादन्यत्र तु रञ्जयति मृगांस्तृणादानेन । चुरादिषु ज्ञपादिश्चिञ् । चिस्फुरोर्णौ <{SK2569}> चपयति । चययतीत्युक्तम् । चिनोतेस्तु । चापयति । चाययति । स्फारयति । स्फोरयति । अपुस्फुरत् । अपुस्फरत् ॥", "64092": "मितामुपधायाह्रस्वः स्याण्णौ परे । ज्ञपयति ।{$ {!1626 यम!} परिवेषणे$} । चान्मित् । पिरवेषणमिह वेष्टनम् । न तु भोजनानापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः ।{$ {!1627 चह!} परिकल्कने$} । चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तात्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचचहत् । चप इत्येके । चपयति ।{$ {!1628 रह!} त्यागे इत्येके$} । अरीरहत् । कथादेस्तु अररहत् ।{$ {!1629 बल!} प्राणने$} । बलयति ।{$ {!1630 चिञ्!} चयने$} ॥", "64093": "चिण् परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो मितां ह्रस्वः-<{SK2568}> एव तु न विकल्पितः । ण्यन्ताण्णौ ह्रस्वविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं मास्तु इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताच्चिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तात्वाभावे शस्यते मुनिना ॥", "64094": "खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥", "64095": "ह्रस्वः स्यात् । प्रह्लन्नः ॥", "64096": "द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । आकुर्वन्त्यस्मिन् आकरः ॥", "64097": "एषु छादेर्ह्रस्वः स्यात् । तनुच्छत् । अनुनासिकस्य क्वि -<{SK2666}> इति दीर्घः । मो नो धातोः <{SK341}> । प्रतान् । प्रशान् । च्छ्वोः -<{SK2561}> इत्यूठ् । अक्षद्यूः । ज्वरत्वरः -<{SK2654}> इत्यूठ् । जूः । जूरौ । जूरः । तूः । स्रूः । ऊः । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्वः । राल्लोपः <{SK2655}> । मूर्छा, मूः । मुरौ । मुरः । धुर्वी, धूः ॥", "64098": "एषामुपधाया लोपः स्यादजादौ क्ङिति न त्वङि । चख्नतुः । ये विभाषा - <{SK2319}> । खायात् । खन्यात् ।{$ {!879 चीवृ!} आदानसंवरणयोः$} । चिचीव । चिचीवे ।{$ {!880 चायृ!} पूजानिशामनयोः$} ।{$ {!881 व्यय!} गतौ$} । अव्ययीत् ।{$ {!882 दाशृ!} दाने$} । ददाश । ददाशे ।{$ {!883 भेषृ!} भये$} । गतावित्येके । भेषति । भेषते ।{$ {!884 भ्रेषृ!} {!885 भ्लेषृ!} गतौ$} ।{$ {!886 अस!} गतिदीप्त्यादानेषु$} । असति । असते । आस । आसे । अयं षान्तोऽपि ।{$ {!887 स्पश!} बाधनस्पर्शनयोः$} । स्पर्शनं ग्रन्थनम् । स्पशति । स्पशते ।{$ {!888 लष!} कान्तौ$} । वा भ्राश -<{SK2321}> इति श्यन्वा । लष्यति । लषति । लेषे ।{$ {!889 चष!} भक्षणे$} ।{$ {!890 छष!} हिंसायाम्$} । चच्छषतुः । चच्छषे ।{$ {!891 झष!} आदानसंवरणयोः$} ।{$ {!892 भ्रक्ष!} {!893 भ्लक्ष!} अदने$} । भक्ष इति मैत्रेयः ।{$ {!894 दासृ!} दाने $}।{$ {!895 माहृ!} माने$} ।{$ {!896 गुहू!} संवरणे$} ॥", "64099": "एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ॥", "64100": "सग्धिश्च मे (सग्धि॑श्च मे) । बब्धां ते हरी धानाः (ब॒ब्धां ते॒ हरी॑ धा॒नाः) । हुझलूभ्यो हेर्धिः <{SK2425}> ॥", "64101": "होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धिः । अत्तात् । अदानि ॥", "64102": "श्रुधी हवम् (श्रु॒धी हव॑म्) । शृणुधी गिरः (शृणुधी॒ गिरः॑) । रायस्पूर्धि (रा॒यस्पू॑र्धि) । उरुणस्कृधि (उ॒रुण॑स्कृधि) ॥", "64103": "हेर्धिः स्यात् । रारन्धि (रा॒र॒न्धि) । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । अस्मे प्रयन्धि (अ॒स्मे प्रय॑न्धि) । युयोधि जातवेदः (यु॒योधि॑ जातवेदः) । यमेः शपो लुक् । यौतेः शपः श्लुः ॥", "64104": "चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट ।{$ {!489 तायृ!} सन्तानपालनयोः$} । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट ।{$ {!490 शल!} चलनसंवरणयोः$} ।{$ {!491 वल!} {!492 वल्ल!} संवरणे संचरणे च$} । ववले । ववल्ले ।{$ {!493 मल!} {!494 मल्ल!} धारणे$} । मेले । ममल्ले ।{$ {!495 भल!} {!496 भल्ल!} परिभाषणहिंसादानेषु$} । बभले । बभल्ले ।{$ {!497 कल!} शब्दसंख्यानयोः$} । कलते । चकले ।{$ {!498 कल्ल!} अव्यक्ते शब्दे$} । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च ।{$ {!499 तेवृ!} {!500 देवृ!} {!501 षेवृ!} {!502 गेवृ!} {!503 ग्लेवृ!} {!504 पेवृ!} {!505 मेवृ!} {!506 म्लेवृ!} सेवने$} । परिनिविभ्यः - <{SK2275}> इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके ।{$ {!507 रेवृ!} प्लवगतौ$} । प्लवगतिः प्लुतगतिः रेवते ॥\tअथावत्यन्ताः परस्मैपदिनः ॥{$ {!508 मव्य!} बन्धने$} । ममव्य ।{$ {!509 सूर्क्ष्य!} {!510 ईर्क्ष्य!} {!511 ईर्ष्य!} ईर्ष्यार्थाः$} ।{$ {!512 हय!} गतौ$} । अहयीत् । यान्तात्वान्नवृद्धिः ।{$ {!513 शुच्य!} अभिषवे$} । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके ।{$ {!514 हर्य!} गतिकान्त्योः $}। जहर्य{$ {!515 अल!} भूषणपर्याप्तिवारणेषु$} । अलति । आल ॥", "64105": "अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥", "64106": "असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्यहेर्लुक् स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वति । इत्यादि ।{$ {!595 रिवि!} {!596 रवि!} {!597 धवि!} गत्यर्थाः$} । रिण्वति । रण्वति । धन्वति ।{$ {!598 कृवि!} हिंसाकरणयोश्च $}। चकाराद्गतौ । कृणोतीत्यादि धिनोतिवत् । अयं स्वादौ च ।{$ {!599 मव!} बन्धने$} । मवति । मेवतुः । मेवुः । अमवीत् । अमावीत् ।{$ {!600 अव!} रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवप्त्यालिङ्गनहिंसादानभागवृद्धिषु$} । अवति । आव । मा भवानवीत् ।{$ {!601 धावु!} गतिशुद्ध्योः$} । स्वरितेत् । धावति । धावते । दधाव । दधावे ॥\tअथोष्मान्ता आत्मनेपदिनः ।{$ {!602 धुक्ष!} {!603 धिक्ष!} संदीपनक्लेशनजीवनेषु $}। धुक्षते । दुधुक्षे । धिक्षते । दिधिक्षे ।{$ {!604 वृक्ष!} वरणे$} । वृक्षते ववृक्षे ।{$ {!605 शिक्ष!} विद्योपादाने$} । शिक्षते ।{$ {!606 भिक्ष!} भिक्षायामलाभे लाभे च$} । भिक्षते ।{$ {!607 क्लेश!} अव्यक्तायां वाचि$} । बाधन इति दुर्गः । क्लेशते चिक्लेशे ।{$ {!608 दक्ष!} वृद्धौ शीघ्रार्थे च$} । दक्षते । ददक्षे ।{$ {!609 दीक्ष!} मौण्ड्येज्योपनयननियमव्रतादेशेषु $}। दीक्षते । दिदीक्षे ।{$ {!610 ईक्ष!} दर्शने$} । ईक्षांचक्रे ।{$ {!611 ईष!} गतिहिंसादर्शनेषु$} । ईषांचक्रे ।{$ {!612 भाष!} व्यक्तायां वाचि$} । भाषते ।{$ {!613 वर्ष!} स्नेहने$} । दन्त्योष्ठ्यादिः । ववर्षे ।{$ {!614 गेषृ!} अन्विच्छायाम्$} । ग्लेषृ इत्येके । अन्विच्छा अन्वेषणम् । जिगेषे ।{$ {!615 पेषृ!} प्रयत्ने पेषते$} ।{$ {!616 जेषृ!} {!617 णेषृ!} {!618 एषृ!} {!619 प्रेषृ!} गतौ$} । जेषते । नेषते । एषांचक्रे । पिप्रेषे ।{$ {!620 रेषृ!} {!621 हेषृ!} {!622 ह्रेषृ!} अव्यक्ते शब्दे$} । आद्यो वृकशब्दे । ततो द्वावश्वशब्दे । रेषते । हेषते । ह्रेषते ।{$ {!623 कासृ!} शब्दकुत्सायाम्$} । कासांचक्रे ।{$ {!624 भासृ!} दीप्तौ$} । बभासे ।{$ {!625 णासृ!} {!626 रासृ!} शब्दे$} । नासते । प्रणासते ।{$ {!627 णस!} कौटिल्ये$} । नसते ।{$ {!628 भ्यस!} भये$} । भ्यसते । बभ्यसे ।{$ {!629 आङः!} शसि इच्छायाम्$} । आशंसते । आशशंसे ।{$ {!630 ग्रसु!} {!631 ग्लसु!} अदने$} । जग्रसे । जग्लसे ।{$ {!632 ईह!} चेष्टायाम्$} । ईहांचक्रे ।{$ {!633 वहि!} {!634 महि!} वृद्धौ$} । बंहते । बबंहे । मंहते ।{$ {!635 अहि!} गतौ$} । अंहते । आनंहे ।{$ {!636 गर्ह!} {!637 गल्ह!} कुत्सायाम्$} । जगर्हे । जगल्हे ।{$ {!638 बर्ह!} {!639 बल्ह!} प्राधान्ये$} । ओष्ठ्यादी ।{$ {!640 वर्ह!} {!641 वल्ह!} परिभाषणहिंसाच्छादनेषु$} । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः ।{$ {!642 प्लिह!} गतौ$} । पिप्लिहे ।{$ {!643 वेहृ!} {!644 जेहृ!} {!645 बाहृ!} प्रयत्ने$} । आद्यो दन्त्योष्ठ्यादिः । अन्त्यः केवलेष्ठ्यादी इत्यपरे । जेहतिर्गत्यर्थोऽपि । बबाहे ।{$ {!646 द्राहृ!} निद्राक्षये$} । निक्षेपे इत्येके ।{$ {!647 काशृ!} दीप्तौ$} । चकाशे ।{$ {!648 ऊह!} वितर्के$} । ऊहांचक्रे ।{$ {!649 गाहू!} विलोडने$} । गाहते । जगाहे । जगाहिषे । जघाक्षे । जगाहिढ्वे । जगाहिध्वे । जघाढ्वे । गाहिता ॥", "64107": "असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः । धिन्मः । धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ॥", "64108": "करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥", "64109": "कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् ।तनादिभ्यः -<{SK2547}> इति लुकोऽभावे ह्रस्वादङ्गात् <{SK2369}> इति सिचो लोपः । अकृत । अकृथाः ॥", "64110": "उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्ङिति । उदिति तपरसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्च-<{SK2334}>इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादूत्त्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्त-<{SK2226}> इति झेर्जुस् । अविदुः ॥", "64111": "श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः । सन्ति । तासस्त्योः-<{SK2191}> इति सलोपः । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । आर्धधातुके <{SK2432}> इत्यधिकृत्य ॥", "64112": "अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । अनेकाच्त्वादाम् । दरिद्रांचकार । आत औ णलः <{SK2371}> इत्यत्र ओ इत्येव सिद्ध औकारविधानं दरिद्रातेरालोपे कृते श्रवाणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥ (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम् । अदरिद्रुः । दरिद्रियात् । दरिद्र्यात् । अदिरिद्रीत् । इट्सकौ । अदरिद्रासीत् ।{$ {!1074 चकासृ!} दीप्तौ$} । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धिच <{SK2249}> इति सलोपः सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥", "64113": "श्नाभ्यस्तयोरातईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । श्नाभ्यस्तयोः - <{SK2483}> इत्यालोपः । मिमाते । मिमते । प्रण्यमास्त ।{$ {!1089 ओहाङ्!} गतौ $}। जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते ।{$ {!1090 ओहाक्!} त्यागे$} । परस्मैपदी । जहाति ॥", "64114": "दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रतः ॥", "64115": "इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता ।{$ {!1085 ह्री!} लज्जायाम्$} । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय ।{$ {!1086 पॄ!} पालनपूरणयोः$} ॥", "64116": "इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥", "64117": "जहातैर्हौ परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः ॥", "64118": "जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । एर्लिङि <{SK2374}> । हेयात् । अहासीत् ।{$ {!1091 डुदाञ्!} दाने$} । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । घ्वसोः -<{SK2471}> इत्येत्वाभ्यासलोपौ । देहि । अददात् । अदत्ताम् । अददुः । दद्यात् । देयात् । अदात् । अदाताम् । अदुः । अदित ।{$ {!1092 डुधाञ्!} धारणपोषणयोः $}। दानेऽप्येके । प्रणिदधाति ॥", "64119": "घोरस्तेश्चैत्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्वास्यासिद्धत्वाद्धेर्धिः । श्नसोरल्लोपः-<{SK2469}>इत्यल्लोपः । एधि । तातङ्पक्षे एत्वं न । परेण तातङा बाधात् । [(परिभाषा - ) सकृद्गताविति न्यायात्] । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच-<{SK2225}>इतीट् । आसीत् । श्नसो-<{SK2469}> इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ॥", "64120": "लिण्न्मित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥", "64121": "प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते । शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । अतः किम् । दिदिवतुः । तपरः किम् । ररासे । एकेत्यादि किम् । तत्सरतुः । अनादेशादेः किम् । चकणतुः ॥ लिटा आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे ।{$ {!9 स्कुदि!} आप्रवणे$} । आप्रवणमुत्प्लवनमुद्धरणं च ॥", "64122": "एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्वादिड्वा । त्रपिता । त्रप्ता । त्रपिषीष्ठ । त्रप्सीष्ट ।{$ {!375 कपि!} चलने$} । कम्पते । चकम्पे ।{$ {!376 रबि!} {!377 लबि!} {!378 अबि!} शब्दे$} । ररम्बे । ललम्बे । आनम्बे ।{$ {!379 लबि!} अवस्रंसने च$} ।{$ {!380 कबृ!} वर्णे$} । चकबे ।{$ {!381 क्लीबृ!} अधार्ष्ट्ये$} । चिक्लीबे ।{$ {!382 क्षीबृ!} मदे$} । क्षीबते ।{$ {!383 शीभृ!} कत्थने$} । शीभते ।{$ {!384 चीभृ!} च$} ।{$ {!385 रेभृ!} शब्दे$} । रिरेभे । अभिरभी क्वचित्पठ्यते । अम्भते । रम्भते ।{$ {!386 ष्टभि!} {!387 स्कभि!} प्रतिबन्धे$} । स्तम्भते । उत्तम्भते । उदः स्थास्तम्भोः-<{SK118}> इति पूर्वसवर्णः । विस्तम्भते । स्तन्भेः-<{SK2272}> इति षत्वं तु न भवति । श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तु उदः स्थास्तम्भोः-<{SK118}> इति पवर्गीयोपधपाठः, स्तन्भेः <{SK2272}> इति तवर्गीयोपधपाठश्चेति । माधवः । केचिदस्य टकार औपदेशिक इत्याहुः । तन्मते, ष्टम्भते । टष्टम्भे ।{$ {!388 जभि!} {!389 जृभि!} गात्रविनामे$} ॥", "64123": "एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । रेधुः । रेधिथ । राद्धा । साध्नोति । साद्धा । असात्सीत् । असाद्धाम् ॥\tअथ द्वावनुदात्तेतौ ॥{$ {!1264 अशू!} व्याप्तौ संघाते च$} । अश्नुते ॥", "64124": "एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः । बभ्रमतुः । अभ्रमीत् ।{$ {!851 क्षर!} संचलने$} । अक्षारीत् ॥\tअथ द्वावनुदात्तेतौ ।{$ {!852 षह!} मर्षणे$} । परिनिविभ्यः - <{SK2275}> इति षत्वम् । परिषहते । सेहे । सहिता । तीषसह - <{SK2340}> इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥", "64125": "एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फयतीत्येव ।{$ {!822 राजृ!} दीप्तौ$} । स्वरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे । अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् ।{$ {!823 टुभ्राजृ!} {!824 टुभ्राशृ!} {!825 टुभ्लाशृ!} दीप्तौ$} । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रहणम् । भ्रेजे । बभ्राजे । वा भ्राश -<{SK2321}> इति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्राशे । भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ ।{$ {!826 स्यमु!} {!827 स्वन!} {!828 ध्वन!} शब्दे$} । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । स्वेनतुः । सस्वनतुः । अस्वानीत् । अस्वनीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च स्वनः - <{SK2274}> इति षत्वम् । फणादयो गताः । दध्वनतुः ।{$ {!829 षम!} {!830 ष्टम!} अवैकल्ये$} । ससाम । तस्ताम ।{$ {!831 ज्वल!} दीप्तौ$} । अतो ल्रान्तस्य <{SK2330}> अज्वालीत् ।{$ {!832 चल!} कम्पने$} ।{$ {!833 जल!} घातने$} । घातनं तैक्ष्ण्यम् ।{$ {!834 टल!} {!835 ट्वल!} वैक्लव्ये$} ।{$ {!836 ष्ठल!} स्थाने$} ।{$ {!837 हल!} विलेखने$} ।{$ {!838 णल!} गन्धे$} । बन्धन इत्येके ।{$ {!839 पल!} गतौ$} । पलति ।{$ {!840 बल!} प्राणने धान्यवारोधने च$} । बलति । बेलतुः । बेलुः ।{$ {!841 पुल!} महत्त्वे$} । पोलति ।{$ {!842 कुल!} संस्त्याने बन्धुषु च $}। संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल ।{$ {!843 शल!} {!844 हुल!} {!845 पत्लृ!} गतौ$} । शशाल । जुहोल । पपात । पेततुः । पतिता ॥", "64126": "शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे ।{$ {!18 ष्वद!} {!19 स्वर्द!} आस्वादने$} । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥", "64127": "नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्थान्न तु सौ । उगित्त्वान्नुम् । अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वद्भ्यामित्यादि ॥ अनञः किम् । अनर्वा । यज्ववत् ॥", "64128": "मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥", "64129": "अधिकारोऽयम् ॥", "64130": "पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपद्भ्यामित्यादि ॥ अग्निं मन्थतीत्यग्निमत् । अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमद्भ्यामित्यादि । ऋत्विग् <{SK373}> इत्यादिसूत्रेणाञ्चेः सुप्युपपदे क्विन् ॥", "64131": "वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुस्रुं <{SK334}>इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । [(परिभाषा - ) अकृतव्यूहा] इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । सान्तमहतः <{SK317}> इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वाद्भ्याम् । एवं स्रत् ॥", "64132": "भस्य वाहः संप्रसारणमूठ् स्यात् ॥", "64133": "अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च <{SK330}> । आद्गुणः <{SK69}> । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥", "64134": "अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपः स्यात् ॥", "64135": "षपूर्वो योऽन्तस्य हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षुपूर्व इति किम् ? साम्नोऽपत्यं सामनः । अणि किम् ? ताक्षण्यः ॥", "64136": "अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपो वा स्यात् ङिश्योः परयोः । यूष्णि । यूषणि । पक्षे रामवत् । पद्दन्न <{SK228}> इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथाच । औङः श्यामपि दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाहृतः । तेन पदद्भिश्चरणोऽस्त्रियाम्, स्वान्तं ह्रन्मानसं मन इति सङ्गच्छते । आसन्यं प्राणमूचुरिति च । आस्ये भव आसन्यः । दोष्शब्दस्य नपुंसकत्वमप्यत एव भाष्यात् । तेन दक्षिणं दोर्निशाचर इति सङ्गच्छते । भुजबाहू प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि । दोषं तस्य तथाविधस्य भजत इति । द्वयोरह्नोर्भवो द्व्यह्नः ॥", "64137": "वकारमकारान्तसंयोगात्परस्याऽनोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ॥", "64138": "लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥", "64139": "उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भायामित्यादि ॥", "64140": "आकारान्तो यो धातुस्तदन्तस्य भस्याऽङ्गस्य लोपः स्यात् । <<अलोऽन्त्यस्य>> <{SK42}> । विश्वपः । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः । धातोः किम् । हाहान् । टा सवर्णदीर्घः । हाहा । ङे वृद्धिः । हाहै । ङसिङसोर्दीर्घः । हाहाः । ओसि वृद्धिः । हाहौः । ङौ आद्गुणः । हाहे । शेषं विश्वपावत् । आत इति योगाविभागादधातोरप्याकारलोपः क्वचित् । क्त्त्वः । श्नः ॥ इत्यादन्ताः ॥\t हरिः । <<प्रथमयोः पूर्वसवर्णः>> <{SK164}> हरी ॥", "64141": "आत्मन्शब्दस्यादेर्लोपः स्यादाङि । त्मना देवेषु (त्मना॑ दे॒वेषु॑) ॥", "64142": "विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । दिरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः ॥", "64143": "डिति परे भस्य टेर्लोपः स्यात् । वाऽवसाने ॥ कतरत् । कतरद् । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेर्लुप्तत्वात् प्रथमयोः <{SK164}> इति पूर्वसवर्णदीर्घः एङ्ह्रस्वात् <{SK193}> इति संबुद्धिलोपश्च न च भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् ॥ कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव । (वार्तिकम्) ॥ एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् ॥", "64144": "नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् ॥", "64145": "टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । तमधीष्टः - <{SK1744}> इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ रात्र्यहः संवत्सराच् <{SK1751}> इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ॥", "64146": "उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति ज्ञापयितुम् । तेन स्वायम्भुवमित्यादि सिद्धम् । सरूपे इति किम् । हलेन मूसलेन ॥", "64147": "कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥", "64148": "भस्येवर्णाऽवर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते ॥ (वार्तिकम्) ॥ ज्ञाने ॥", "64149": "अङ्गस्योपधाया यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः । (वार्तिकम्) । (वार्तिकम्) । (वार्तिकम्) ॥ मत्सी । (वार्तिकम्) ॥ इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष् । दंष्ट्रा ॥", "64150": "हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी । (वार्तिकम्) ॥ द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥", "64151": "हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् ? गर्गेभ्यो हितं गार्गीयम् । अचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् ॥", "64152": "हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥", "64153": "नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छस्य लुक् तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीयाः । वैत्रकाः । छस्य किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्माभूत् । अन्यथा [(परिभाषा - ) संनियोगशिष्टानाम्] इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ॥", "64154": "तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥", "64155": "भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । मार्दवम् ॥", "64156": "एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥", "64157": "प्रयादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृत्वादित्वादिमनिच् । प्रेमेत्यादि ॥", "64158": "बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥", "64159": "बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥", "64160": "आदेः परस्य <{SK44}> । ज्यायान् ॥", "64161": "हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ॥", "64162": "ऋजुशब्दस्य ऋतः स्थाने रः स्याद्वा इष्ठेमेयस्सु । त्वं रजिष्टमनुनेषु (त्वं रजि॑ष्ट॒मनु॑नेषु) । ऋजिष्ठं वा ॥", "64163": "इष्ठातिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥", "64164": "अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन नस्तद्धिते <{SK679}> इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥", "64165": "एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यूनि इञ् पाणिनिः ॥", "64166": "इन्प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ॥", "64167": "अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ? राज्ञः कर्म भावे वा राज्यम् ॥", "64168": "यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥", "64169": "एतौ खेप्रकत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेष्यते ॥ षष्ठीतत्पुरुषाद्बहुव्रीहेश्च छ एव । विश्वजनीयम् । (वार्तिकम्) ॥ पञ्चजनीनम् । (वार्तिकम्) ॥ सार्वजनिकः । सर्वजनीनः । (वार्तिकम्) ॥ माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः । (गणसूत्रम् -) आचार्यादणत्वं च ॥ आचार्यभोगीनः ॥", "64170": "मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः । (वार्तिकम्) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥", "64171": "योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्येजातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्राह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् ? ब्राह्मी औषधिः ॥", "64172": "कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते <{SK679}> इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥", "64173": "अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् ? उक्ष्णोऽपत्यमौक्ष्णः ॥", "64174": "एतानि निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयौ ॥", "64175": "ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् वास्त्वं च । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । माध्वीर्नः सन्त्वोषधीः (माध्वी॑र्नः स॒न्त्वोष॑धीः) । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन (हिर॒ण्यये॑न सवि॒ता रथे॑न) ॥", "71001": "यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य च - <{SK1082}> इति यलोपे प्राप्ते । (वार्तिकम्) ॥ राजन्यकम् । मानुष्यकम् ॥ (वार्तिकम्) ॥ वार्धकम् ॥", "71002": "प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे षिद्गौरा <{SK498}> इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥", "71003": "प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे <{SK191}> । भवन्ति । भवसि । भवथः । भवथ ॥", "71004": "झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्त-<{SK2226}> इति झेर्जुस् । अजक्षुः । अयमन्तः स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः ॥\t ।{$ {!1072 जागृ!} निद्राक्षते$} । जागर्ति । जागृतः । जाग्रति । उषविद-<{SK2341}> इत्याम्वा । जागरांचकार । जजागार ॥", "71005": "अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् ॥इणः षीध्वंलुङलिटां धोऽङ्गात् <{SK2247}> ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यते इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडशरूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् ॥ प्रसङ्गादनुदात्ताः संगृह्यन्ते - ऊदॄदन्तैर्यौति, रु, क्ष्णु, शीङ्, स्नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ॥ वृङ्, वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ 1 ॥ शक्लृ, पच्, मुच्, रिच्, वच्, विच्, सिच्, प्रच्छि, त्यज्, निजिर्, भजः ॥ भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज, सृजः ॥ 2 ॥ अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यति, र्विनद्, ॥ शद्, सदी, स्विद्यति, स्कन्दि, हदी, क्रुध्, क्षुधि, बुध्यती ॥ 3 ॥ बन्धिर्, युधि, रुधी, राधिर्, व्यध्, शुधः, साधि, सिद्ध्यती ॥ मन्य, हन्नाप्, क्षिप्, छुपि, तप्, तिप, स्तृप्यति, दृप्यती ॥ 4 ॥ लिप्, लुप्, वप्, शप्, स्वप्, सृपि, यभ्, रभ्, लभ्, गम्, नम्, यमो, रमिः ॥ क्रुशिर्, दंशि, दिशी, दृशी, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृशः, कृषिः ॥ 5 ॥ त्विष्, तुष्, द्विष्, दुष्, पुष्य, पिष्, विष्, शिष्, शुष्, श्लिष्यतयो, घसिः ॥ वसति, र्दह्, दिहि, दुहो, नह्, मिह्, रुह्, लिह्, वहिस्तथा ॥ 6 ॥ अनुदात्ता हलन्तेषु धातवो द्वधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥ 7 ॥ तृप्, दृपी, तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च । स्विद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः श्यना ॥ 8 ॥ वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर्, विजिर्, शक्लृ, इति सानुबन्धा अमी तथा ॥ 9 ॥ विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ॥ व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥ 10 ॥ रञ्जि, मस्जी, अदि, पदी, तुद्, क्षुद्, शुषि, पुषी, शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥ 11 ॥{$ {!3 स्पर्ध!} संघर्षे$} । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥", "71006": "शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥\tअथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी ।{$ {!1033 यु!} मिश्रणेऽमिश्रणे च$} ॥", "71007": "वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संपृच्छते । संस्वरते । (वार्तिकम्) ॥ अर्तीति द्वयोर्ग्रहणम् । अड्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु - मा समरत । मा समरेताम् । मा समरन्त - समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा, इति कथयद्भ्य इति ॥ अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ॥ \tधातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात् । \tप्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ 1 ॥ वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्नयः यः संशृणुते स किं प्रभुः । (वार्तिकम्) ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहति ॥", "71008": "शीङो रुट् <{SK2442}> ।रुडागमः स्यात् । लोपस्त आत्मनेपदेषु <{SK3563}> इति पक्षे तलोपः । धेनवो दुह्रे (धे॒नवो॑ दुह्रे) । लोपाभावे । घृतं दुहर्ते (घृ॒तं दु॑हर्ते) । अदृश्रमस्य (अदृ॑श्रमस्य) । अतो भिस ऐस् <{SK203}> ॥", "71009": "अकारान्तादङ्गाद्भिस ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामैः ॥", "71010": "अग्निर्देवेभिः (अ॒ग्निर्दे॒वेभिः॑) ॥", "71011": "अककारयोरिमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् ङेः स्मै पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु ॥ ककारयोगे तु अयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ॥", "71012": "अकारान्तादङ्गाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् । रामेण ॥", "71013": "अतोऽङ्गात्परस्य ङे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुस्वात् सुपि चेति दीर्घः । [(परिभाषा - ) संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य] इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे <{SK2670}> इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥", "71014": "अतः सर्वनाम्नो ङे इत्यस्य स्मै स्यात् । सर्वस्मै ॥", "71015": "अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः । सर्वस्मात् ॥", "71016": "एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादीनामपि । शेषं सर्ववत् । एकशब्दः सङ्ख्यायां नित्यैकवचनान्तः ॥", "71017": "अदन्तत्सर्वनाम्नः परस्य जसः शी स्यात् । अनेकाल्त्वात्सर्वादेशः । नचाऽर्वणस्तृ इत्यादाविव [(परिभाषा - )नानुबन्धकृतमनेकाल्त्वम् इति वाच्यम्] । सर्वादेशत्वात्प्रागित्संज्ञायां एवाऽभावात् । सर्वे ॥", "71018": "आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥", "71019": "क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥", "71020": "क्लीबादनयोः शिः स्यात् ॥", "71021": "कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । अष्टनो दीर्घात् <{SK3718}> इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाऽभावे राजवत् । शसि प्रियाष्ट्नः । इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्टा इत्यादि । जश्शसोरनुमीयमानमात्त्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्नो हलादावेव वैकल्पिकमात्त्वम् । प्रियाष्टाभ्याम् 3 । प्रियाष्टाभिः । प्रियाष्टाभ्यः 2 । प्रियाष्टासु ॥ प्रियाष्ट्नो राजवत्सर्गं हाहावञ्चापरं हलि । भष्भावः । जशत्वचर्त्वे । भुत् । भुद् । बुधौ । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुद्भ्याम् । भुद्भ्याम् । भुत्सु ॥", "71022": "षड्भ्यः परयोर्जश्शसोर्लुक्स्यात् ॥", "71023": "क्लीबादङ्गात्स्वमोर्लुक् स्यात् । वारि ॥", "71024": "अतोऽङ्गात् क्लीबात्स्वमोरम् स्यात् । अमि पूर्वः <{SK194}> । ज्ञानम् । एङ्ह्रस्वात् <{SK193}> इति हल्मात्रलोपः । हे ज्ञान ॥", "71025": "एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥", "71026": "स्वमोरदड् न । वार्त्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् । समासेऽनञ्पूर्वे क्त्वो ल्यप् <{SK3332}> ॥", "71027": "स्पष्टम् । तव । मम । युवयोः । आवयोः ॥", "71028": "युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात् ॥", "71029": "नेत्यविभक्तिकम् । युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात् । अमोपवादः । आदेः परस्य <{SK44}> । संयोगान्तस्य लोपः <{SK54}> । युष्मान् । अस्मान् ॥", "71030": "भ्यसो भ्यमभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ॥", "71031": "आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥", "71032": "आभ्यां पञ्चम्येकवचनस्य अत्स्यात् । त्वत् । मत् । ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥", "71033": "आभ्यां परस्य साम आकम् स्यात् । भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥ समस्यमाने द्व्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसङ्ख्यश्येत्स्तो युवावौ त्वमावपि ॥ 1 ॥ सुजस्ङेङस्सु परत आदेशाः स्युः सदैव ते । त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥ 2 ॥ एते परत्वाद्बाधन्ते युवावौ विषये स्वके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः ॥ 3 ॥ द्व्येकसङ्ख्यः समासार्थो बह्वर्थे युष्मदस्मदी । तयोरद्व्येकतार्थत्वान्न युवावौ त्वमौ न च ॥ 4 ॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् 2 । अतिमाम् 2 । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिङ्यसोः । अतित्वत् 2 । अतिमत् 2 । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु ॥ युवामावां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुवाम् 3 । अत्यावाम् 3 । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् 3 । अत्यावाभ्याम् 3 । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् 2 । अत्यावत् 2 । ओसि । अतियुवयोः 2 । अत्यावयोः 2 । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वेति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुष्माम् 3 । अत्यस्माम् 3 । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् 3 । अत्यस्माभ्याम् 3 । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् 2 । अत्यस्मत् 2 । ओसि । अतियुष्मयोः 2 । अत्यस्मयोः 2 । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥", "71034": "आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ॥", "71035": "आशिषि तुह्योस्तातङ् वा स्यात् । अनेकाल्त्वात्सर्वादेशः । यद्यपि ङिच्च-<{SK43}> इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥", "71036": "वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥", "71037": "अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पर्युदसाश्रयणान्नेह । परमकृत्वा ॥", "71038": "यजमानं परिधापयित्वा ॥", "71039": "ऋजवः सन्तु पन्थाः पन्थान (ऋ॒जवः॑ सन्तु॒ पन्थाः॑ पन्थान) इति प्राप्ते सुः । परमे व्योमन् (पर॒मे व्यो॑मन्) । व्योमनि इति प्राप्ते ङेर्लुक् । धीती मती सुष्टुती (धी॒ती म॒ती सु॑ष्टु॒ती) । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घ । या सुरथा रथीतमोभा देवा दिविस्पृशा (या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑) । अश्विना (अ॒श्विना॒) । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताह्ब्रह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा (या दे॒व वि॒द्म ता त्वा॑) । यमिति प्राप्ते न युष्मे वाजबन्धवः (न यु॒ष्मे वा॑जबन्धवः) । अस्मे इन्द्राबृहस्पती (अ॒स्मे इ॑न्द्राबृहस्पती) । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा॑ पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा व्यवस्थावदङ् । आङो ड्या । साधुया (साधु॒या) । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल् । (वार्तिकम्) ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया (सु॒क्षे॒त्रि॒या) । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् (दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम्) । ङेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् । (वार्तिकम्) ॥ प्र बाहवा सिसृतम् (प्र बा॒हवा॑ सिसृतम्) । बाहुनेति प्राप्ते आङादेशः । घेर्ङिति-<{SK245}> इति गुणः । स्वप्नया । स्वप्नेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया (स नः॒ सिन्धु॑मिव ना॒वया॑) । नावेति प्राप्ते अयार् । रित्स्वरः ॥", "71040": "मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । अस्तिसिचः-<{SK2225}> इतीट् । वंधीं वृत्रम् (वंधीं॑ वृ॒त्रम्) । अवधिषमिति प्राप्ते ॥", "71041": "छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मेति किम् । उत्सं दुहन्ति (उत्सं॑ दुहन्ति) ॥", "71042": "अन्तरेवोष्माणं वारय ध्वात् । वारयध्वमिति प्राप्ते ॥", "71043": "एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः (यज॑ध्वैनं प्रियमेधाः) । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ॥", "71044": "मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते सूर्यं चक्षुर्गमयतात् (कृणुतेति प्राप्ते सूर्यं॒ चक्षु॑र्गमयतात्) । गमयतेति प्राप्ते ॥", "71045": "तस्येत्येव । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । शृणुतेति प्राप्ते तप् । सुनोतन पचन ब्रह्मवाहसे दधस्तन द्रविणं चित्रमस्मे (सुनोतन पचन ब्रह्मवाहसे दधस्त॒न द्रवि॑णं चि॒त्रम॒स्मे) । तनप् । मरुतस्तज्जुजुष्टन (म॒रुत॒स्तज्जु॑जुष्टन) । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवदेवासो मरुतो यतिष्ठन (विश्वेदेवासो मरुतो॒ यति॒ष्ठन॑) । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छान्सो डतिः अस्तेस्तस्य थनादेशः ॥", "71046": "मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकार रूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि (नमो॒ भर॑न्त॒ एम॑सि ) । त्वमस्माकं तव स्मसि (त्वम॒स्माकं॒ तव॑ स्मसि) । इमः स्मः इति प्राप्ते ॥", "71047": "दिवं सुपर्णो गत्वाय (दिवं॑ सुप॒र्णो ग॒त्वाय॑) ॥", "71048": "क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ॥", "71049": "आदिशब्दः प्रकारार्थः । आकारस्य ईकारो निपात्यते । स्विन्नः स्नात्वी मलादिव (स्वि॒न्नः स्ना॒त्वी मला॑दिव) । पीत्वी सोमस्य वावृधे (पी॒त्वी सोम॑स्य वावृधे) । स्नात्वा पीत्वेति प्राप्ते ॥", "71050": "अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः (दे॒वासः॑) । ब्राह्मणासः (ब्रा॒ह्म॒णासः॑) ॥", "71051": "एषां क्यचि असुगागमः स्यात् । (वार्तिकम्) ॥ अश्वस्यति वडवा । वृषस्यति गौः ॥ (वार्तिकम्) ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः । (वार्तिकम्) ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्यवस्यति ॥", "71052": "अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात् । एत्वषत्वे सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च पञ्चत्रिंशत् । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व नेम, सम, सिम ॥ (गणसूत्रम् -) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । (गणसूत्रम् -) स्वमज्ञातिधनाख्यायाम् । (गणसूत्रम् -) अन्तरं बर्हिर्योगोपसंव्यानयोः । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् - इति । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अतएव नित्यं द्विवचनान्तः । तस्येहपाठस्तूभकावित्यकजर्थः । नच कप्रत्ययेनेष्टसिद्धिः । द्विवचनपरत्वाऽभावेनोभयत उभयत्रेत्यादाविवाऽयच्प्रसङ्गात् । तदुक्तम् । (वार्तिकम्) ॥ अन्यत्रेति द्विवचनपरत्वाऽभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया प्रथमचरमे <{SK226}>ति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये । डतरडतमौ प्रत्ययौ । [(परिभाषा - ) प्रत्ययग्रहणे तदन्ता ग्रह्याः] । यद्यपि [(परिभाषा - ) संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्ति] सुप्तिङन्त <{SK29}>मिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाऽभावात् । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद्द्विबहुविषये निर्धारणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा । त्वत्व इति द्वावप्यदन्तावन्यपर्यायौ । एक उदात्तोऽपरोऽनुदात्त इत्येके । एकस्तान्त इत्यपरे । नेम इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । यथासङ्ख्यमनुदेशः समानामिति ज्ञापकात् । (वार्तिकम्) ॥ अन्तरायां पुरि ॥", "71053": "त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥", "71054": "ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥", "71055": "षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् । द्वित्वम् । चतुर्ण्णाम् । चतुर्ण्णाम ॥", "71056": "आमो नुट् श्रीणामुदारो धरुणो रयीणाम् (श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्) । सूतग्रामणीनाम् ॥", "71057": "विद्मा हि त्वा गोपतिं शूर गोनाम् (वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म्) । पादान्ते किम् । गवां शता पृक्षयामेषु (गवां॑ श॒ता पृ॒क्षयामेषु) । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् (वि॒राजं॒ गोप॑तिं॒ गवा॑म्) ॥", "71058": "स्कुन्दते । चुस्कुन्दे ।{$ {!10 श्विदि!} श्वैत्ये$} । अकर्मकः । श्विन्दते । शिश्विन्दे ।{$ {!11 वदि!} अभिवादनस्तुत्योः$} । वन्दते । ववन्दे ।{$ {!12 भदि!} कल्याणे सुखे च$} । भन्दते । बभन्दे ।{$ {!13 मदि!} स्तुतिमोदमदस्वप्नकान्तिगतिषु$} । मन्दते । ममन्दे ।{$ {!14 स्पदि!} किंचिच्चलने$} । स्पन्दते । पस्पन्दे ।{$ {!15 क्लिदि!} परिदेवने$} । शोक इत्यर्थः । सकर्मकः । क्लिन्दते जैत्रम् । चिक्लिन्दे ।{$ {!16 मुद!} हर्षे$} । मोदते ।{$ {!17 दद!} दाने$} । ददते ॥", "71059": "नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् ।{$ {!1431 लुपॢ!} छेदने$} । लुम्पति । लुम्पते । अलुपत् । अलुप्त ।{$ {!1432 विदॢ!} लाभे$} । विन्दति । विन्दते । विवेद । विविदे । व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता । भाष्यादिमतेऽनिट्कः । वेत्ता । परिवेत्ता । परिर्वर्जने । ज्येष्ठं परित्यज्य दारानग्नींश्च लब्धवानित्यर्थः । तृन्तृचौ ।{$ {!1433 लिप!} उपदेहे$} । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । लिपिसिचि - <{SK2418}> इत्यङ् । तङि तु वा । अलिपत् । अलिपत । अलिप्त ।{$ {!1434 षिच!} क्षरणे$} । सिञ्चति । सिञ्चते । असिचत् । असिचत । असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषेच ॥\tअथ त्रयः परस्मैपदिनः ॥{$ {!1435 कृती!} छेदने$} । कृन्तति । चकर्त । कर्तिता । कर्तिष्यति । कर्त्स्यति । अकर्तीत् ।{$ {!1436 खिद!} परिघाते$} । खिन्दति । चिखेद । खेत्ता । अयं दैन्ये दिवादौ रुधादौ च ।{$ {!1437 पिश!} अवयवे$} । पिंशति । पेशिता । अयं दीपनायामपि । त्वष्टा रूपाणि पिंशतु । वृत् । मुचादयो वृत्ताः तुदादयश्च ॥", "71060": "नुम् स्यात् । ननष्ट । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥", "71061": "एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । जम्भिष्ट । जृम्भते । जजृम्भे ।{$ {!390 शल्भ!} कत्थने$} । शशल्भे ।{$ {!391 वल्भ!} भोजने$} । दन्त्योष्ठ्यादिः । ववल्भे ।{$ {!392 गल्भ!} धाष्टर्थे$} । गल्भते ।{$ {!393 श्रम्भु!} प्रमादे$} । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते ।{$ {!394 ष्टुभु!} स्तम्भे$} । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥\tअथ परस्मौपदिनः ॥{$ {!395 गुपू!} रक्षणे$} ॥", "71062": "निड्वर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । अङि नुम् । अनिदिताम् - <{SK415}> इति नलोपः । अरधत् ।{$ {!1194 णश!} अदर्शने$} । नश्यति । ननाश । नेशतुः । नेशिथ ॥", "71063": "रभेर्नुम् स्यादचि न तु शब्लिटोः ॥", "71064": "अररम्भत् । अललम्भत् । हेरचङि - <{SK2531}> इति सूत्रे अचङीत्युक्तेः कुत्वं न । अजीहयत् । अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् <{SK2566}> । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ॥", "71065": "आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधात्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥", "71066": "उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥", "71067": "उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् । लाभः ॥", "71068": "उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुम्न स्यात् खल्घञोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ॥", "71069": "लभेर्नुमागमो वा स्यात् । अलम्भि । अलाभि । व्यवस्थितविकल्पत्वात्प्रादेर्नित्यं नुम् । प्रालम्भि । द्विकर्मकाणां तु । गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः । गौर्दुह्यते पयः । अजा ग्रामं नीयते । ह्रियते । कृष्यते । उह्यते । बोध्यते माणवकं धर्मः । माणवके धर्ममिति वा । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते । मासो मासं वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः ॥", "71070": "अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्याऽसिद्धत्वं न भवति बहुलग्रहणात् । तथाच श्वन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे ॥ हविर्जक्षिति निःशङ्कोः मखेषु मघवानसाविति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे । मघवा । (वार्तिकम्) ॥ अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥", "71071": "युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तस्य लोपः <{SK54}> ॥", "71072": "झलन्तस्याऽजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः ॥", "71073": "इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमता <{SK263}> इति निषेधस्याऽनित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे! । हे वारि । आङो ना <{SK244}> ॥ वारिणा । घेर्ङिति <{SK245}> इति गुणे प्राप्ते । (वार्तिकम्) ॥ वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । नामी <{SK209}> इति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ॥", "71074": "प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये । अनादिने । इत्यादि । शेषं वारिवत् ॥ पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न पुंवत् । प्रवृत्तिनिमित्तभेदात् ॥", "71075": "एषामनङ् स्याट्टादावचि स चोदात्तः । अल्लोपोऽनः <{SK234}> ॥ दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नोः । दध्नि । दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षि । तदन्तस्याऽप्यनङ् । अतिदध्ना ॥ सुधि । सुधिनी । सुधिनि । हे सुधे । हे सुधि । सुधिया । सुधिना । प्रध्या । प्रधिना ॥ मधु । मधुनी । मधूनि । हे मधो । हे मधु । एवमम्ब्वादयः ॥ सानुशब्दस्य स्नुर्वा । स्नूनि । सानूनि । प्रियक्रोष्टु । प्रियक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा । प्रियक्रोष्टुना । प्रियक्रोष्ट्रे । प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । नुमचिरेति नुट् । प्रियक्रोष्टूनाम् ॥ सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् । सुल्वा । सुलुना । धातृ । धातृणी । धातॄणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकर्त्रादयः ॥", "71076": "अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः (इन्द्रो॑ दधी॒चो अ॒स्थभिः॑) ॥", "71077": "अस्थ्यादीनामित्येव । अक्षीभ्यां ते नासिकाभ्याम् (अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्याम्) ॥", "71078": "अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥", "71079": "अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥", "71080": "अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छीनद्योः परतः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । पचत् ॥", "71081": "शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । स्वप् । स्वब् । स्वपी । नित्यात्परादपि नुमः प्राक् अप्तृन् <{SK277}>इति दीर्घः । प्रतिपदोक्तत्वात् । स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । स्वपा । अपो भि <{SK442}> ॥ स्वद्भ्याम् । स्वद्भिः । अर्तिपॄवपि इत्यादिना धनेरुस् । रुत्वम् । धनुः । धनुषी । सान्त <{SK317}> इति दीर्घः । नुम्विसर्जनियेति षत्वम् । धनूंषि । धनूषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः क्विप् । र्वोः <{SK433}> इति दीर्घः । पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीर्भ्यामित्यादि । पयः । पयसी । पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥", "71082": "अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः । नुम्विधिसामर्थ्यात् वसुस्रंसु <{SK334}> इति दत्वं न । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न । अनड्वान् ॥", "71083": "एषां नुम् स्यात्सौ । कीदृङ्ङिन्द्रः (की॒दृङ्ङिन्द्रः॑) । स्ववान् (स्ववा॑न्) । स्वतवान् (स्वत॑वान्) । उदोष्ठ्यपूर्वस्य - <{SK2494}> ॥", "71084": "दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावात् हल्ङ्याप् <{SK252}> इति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥", "71085": "एषामाकारोऽन्तादेशः स्यात्सौ परे । आ-आदिति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥", "71086": "पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥", "71087": "पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्थाः । पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ॥", "71088": "भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाट्टिलोपः । सुपथी । सुमथी । नगरी । अनृभुक्षी सेना । आत्वं नपुंसकेन भवति न लुमता <{SK263}> इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् ॥ (वार्तिकम्) ॥ हे सुपथिन् । सुपथि । नलोपः सुप्स्वर <{SK353}> इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् सुपन्थानि । पुनरपि । सुपथि । सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ॥", "71089": "सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । बहुपुंसी इत्यत्र उगितश्च <{SK455}> इति ङीबर्थं कृतेन पूञो डुम्सुन् इति प्रत्ययस्योगित्त्वेनैव नुम्सिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ऋदुशन <{SK276}> इत्यनङ् । उशना । उशनसौ । उशनसः । (वार्तिकम्) ॥ हे उशनन् । हे उशन । हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घः । सुष्ठु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं ग्रसते पिण्डग्रः । पिण्डग्लः । ग्रसु ग्लसु अदने ॥", "71090": "गोशब्दात्परं सर्वनामस्थानं णिद्वत् स्यात् । गौः । गावौ । गावः ॥", "71091": "उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥", "71092": "सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात् ॥", "71093": "सख्युरङ्गस्याऽनङादेशः स्यादसंबुद्धौ सौ परे । ङिच्च <{SK43}> इत्यन्तादेशः ॥", "71094": "ऋदन्तानामुशनसादीनां चाऽनङ् स्यादसंबुद्धौ सौ परे ॥", "71095": "क्रोष्टुशब्दस्तृजन्तेन तुल्यं वर्तते असंबुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ॥", "71096": "स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥", "71097": "अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥", "71098": "अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥", "71099": "चतुरनडुहोरम् स्यात्संबुद्धौ । आमोऽपवादः । हे अनड्वन् । अनड्वाहौ । अनड्वाहः । अनडुहा ॥", "71100": "ॠदन्तस्य धातोरङ्गस्य इत्स्यात् ॥ (वार्तिकम्) ॥ तरति । ऋच्छत्यॄताम् <{SK2383}>इतिगुणः । तॄफल - <{SK2301}>इत्येत्वम् । तेरतुः । तेरुः ॥", "71101": "धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । उपधायां च <{SK2265}> इति दीर्घः । कीर्तयति । उर्ऋत् <{SK2567}> । अचीकृतत् । अचिकार्तत् ।{$ {!1655 वर्ध!} छेदनपूरणयोः$} ।{$ {!1656 कुबि!} आच्छादने$} । कुम्बयति । कुम्बति । कुभि इत्येके ।{$ {!1657 लुबि!} {!1658 तुबि!} अदर्शने$} । अर्दन इत्येके ।{$ {!1659 ह्लप!} व्यक्तायां वाचि$} । क्लप इत्येके ।{$ {!1660 चुटि!} छेदने$} ।{$ {!1661 इल!} प्रेरणे$} । एलयति । ऐलिलत् ।{$ {!1662 म्रक्ष!} म्लेच्छने$} ।{$ {!1663 म्लेच्छ!} अव्यक्तायां वाचि$} ।{$ {!1664 ब्रूस!} {!1665 बर्ह!} हिंसायाम्$} । केचिदिह गर्ज गर्द शब्दे, गर्ध अभिकाङ्क्षायामिति पठन्ति ।{$ {!1666 गुर्द!} पूर्वनिकेतने$} ।{$ {!1667 जसि!} रक्षणे$} । मोक्षण इति केचित् । जंसयति । जंसति ।{$ {!1668 ईड!} स्तुतौ$} ।{$ {!1669 जसु!} हिंसायाम्$} ।{$ {!1670 पिडि!} संघाते$} ।{$ {!1671 रुष!} रोषे$} । रुट इत्येके ।{$ {!1672 डिप!} क्षेपे$} ।{$ {!1673 ष्टुप!} समुच्छ्राये$} ॥ \tआ कुस्मादात्मनेपदिनः । कुस्मनाम्नो वेति वक्ष्यते तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् ।{$ {!1674 चित!} संचेतने$} । चेतयते । अचीचितत ।{$ {!1675 दशि!} दंशने$} । दंशयते । अददंशत । इदित्त्वाण्णिजभावे । दंशति । आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः । नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् ।{$ {!1676 दसि!} दर्शनदंशनयोः$} । दंसयते । दंसति । दसेत्यप्येके ।{$ {!1677 डप!} {!1678 डिप!} संघाते$} ।{$ {!1679 तत्रि!} कुटुम्बधारणे$} । तन्त्रयते । चान्द्रास्तु धातुद्वयमिति कृत्वा कुटुम्बयते इत्युदाहरन्ति ।{$ {!1680 मत्रि!} गुप्तपरिभाषणे$} ।{$ {!1681 स्पश!} ग्रहणसंश्लेषणयोः$} ।{$ {!1682 तर्ज!} {!1683 भर्त्स!} तर्जने$} ।{$ {!1684 बस्त!} {!1685 गन्ध!} अर्दने$} । बस्तयते । गन्धयते ।{$ {!1686 विष्क!} हिंसायाम्$} । हिष्केत्येके ।{$ {!1687 निष्क!} परिमाणे$} ।{$ {!1688 लल!} ईप्सायाम्$} ।{$ {!1689 कूण!} सङ्कोचे$} ।{$ {!1690 तूण!} पूरणे$} ।{$ {!1691 भ्रूण!} आशाविशङ्कयोः$} ।{$ {!1692 शठ!} श्लाघायाम्$} ।{$ {!1693 यक्ष!} पूजायाम्$} ।{$ {!1694 स्यम!} वितर्के$} ।{$ {!1695 गूर!} उद्यमने$} ।{$ {!1696 शम!} {!1697 लक्ष!} आलोचने$} । नान्ये मित इति मित्त्वनिषेधः । शामयते ।{$ {!1698 कुत्स!} अवक्षेपणे$} ।{$ {!1699 त्रुट!} छेदने$} । कुट इत्येके ।{$ {!1700 गल!} स्नवणे$} ।{$ {!1701 भल!} आभण्डने$} ।{$ {!1702 कूट!} आप्रदाने$} । अवसादने इत्येके ।{$ {!1703 कुट्ट!} प्रतापे$} ।{$ {!1704 वञ्चु!} प्रलम्भने$} ।{$ {!1705 वृष!} शक्तिबन्धने$} । शक्तिबन्धनं प्रजननसामर्थ्यं शक्तिबन्धश्च । वर्षयते ।{$ {!1706 मद!} तृप्तियोगे$} । मादयते ।{$ {!1707 दिवु!} परिकूजने$} ।{$ {!1708 गृ!} विज्ञाने$} । गारयते ।{$ {!1709 विद!} चेतनाख्याननिवासेषु $}। वेदयते । विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ।{$ {!1710 मान!} स्तम्भे$} । मानयते ।{$ {!1711 यु!} जुगुप्सायाम्$} । यावयते । (गणसूत्रम् -){$ {!1712 कुस्म!} नाम्नोवा$} । कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थो णिच् । इत्याकुस्मीयाः ॥\t{$ {!1713 चर्च!} अध्ययने$} ।{$ {!1714 बुक्क!} भषणे$} ।{$ {!1715 शब्द!} उपसर्गादाविष्कारे च$} । चाद्भषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः । अनुपसर्गाच्च । आविष्कारे इत्येव । शब्दयति ।{$ {!1716 कण!} निमीलने$} । काणयति । णौ चङ्युपाधाया ह्रस्वः <{SK1324}> ॥ (वार्तिकम्) ॥ अचीकणत् । अचकाणत् ।{$ {!1717 जभि!} नाशने$} । जम्भयति । जम्भति ।{$ {!1718 षूद!} क्षरणे$} । सूदयति । असूषुदत् ।{$ {!1719 जसु!} ताडने$} । जासयति । जसति ।{$ {!1720 पश!} बन्धने$} । पासयति ।{$ {!1721 अम!} रोगे$} । आमयति । नान्ये मित इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ न कम्यमिचमामिति निषेधः । आमयति ।{$ {!1722 चट!} {!1723 स्फुट!} भेदने$} । विकासे शशपोः स्फुटति स्फोटते इत्युक्तम् ।{$ {!1724 घट!} सङ्घाते$} । घाटयति हन्त्यर्थाश्च (गणसूत्रम् -) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्ते इत्यर्थः ।{$ {!1725 दिवु!} मर्दने$} । उदित्त्वादेवतीत्यपि ।{$ {!1726 अर्ज!} प्रतियत्ने$} । अयमर्थान्तरेऽपि । द्रव्यमर्जयति ।{$ {!1727 घुषिर्!} विशब्दने$} । घोषयति । घुषिरवि शब्दने <{SK3063}> इति सूत्रेऽविशब्देन इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्वादङ्वा । अघुषत् । अघोषीत् । ण्यन्तस्य तु अजूघुषत् ।{$ {!1728 आङः!} क्रन्द सातत्ये$} । भौवादिकः क्रन्दधातुराह्वानाद्यर्थे उक्तः स एवाङ्पूर्वो णिचं लभते । सातत्ये । आक्रन्दयति । अन्ये तु आङ्पूर्वो घुषिः क्रन्दसातत्ये इत्याहुः । आघोषयति ।{$ {!1729 लस!} शिल्पयोगे$} ।{$ {!1730 तसि!} {!1731 भूष!} अलंकरणे$} । अवतंसयति । अवतंसति । भूषयति ।{$ {!1732 अर्ह!} पूजायाम्$} ।{$ {!1733 ज्ञा!} नियोगे$} । आज्ञापयति ।{$ {!1734 भज!} विश्राणने$} ।{$ {!1735 शृधु!} प्रहसने$} । अशशर्धत् । अशीशृधत् ।{$ {!1736 यत!} निकारोपस्कारयोः$} ।{$ {!1737 रक!} {!1738 लग!} आस्वादने$} । रघ इत्येके । रग इत्यन्ये ।{$ {!1739 अञ्चु!} निशेषणे$} । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् ।{$ {!1740 लिगि!} चित्रीकरणे$} । लिङ्गयति । लिङ्गति ।{$ {!1741 मुद!} संसर्गे$} । मोदयति सक्तून् घृतेन ।{$ {!1742 त्रस!} धारणे$} । ग्रहण इत्येके । वारण इत्यन्ये ।{$ {!1743 उध्रस!} उञ्छे$} । उकारो धात्ववयव इत्येके । नेत्यन्ये । ध्रासयति । ध्रसति । उध्रासयति ।{$ {!1744 मुच!} प्रमोचने मोदने च$} ।{$ {!1745 वस!} स्नेहच्छेदापहरणेषु $}।{$ {!1746 चर!} संशये$} ।{$ {!1747 च्यु!} सहने$} । हसने चेत्येके । च्यावयति । च्युसेत्येके । च्योसयति ।{$ {!1748 भुवो!} ऽवकल्कने$} । अवकल्कनं मिश्रीकरणमित्येके । चिन्तनमित्यन्ये । भावयति ।{$ {!1749 कृपेश्च!} (अवकल्कने) $}। कल्पयति ॥\t(गणसूत्रम् -) आ स्वदः सकर्मकात् ॥ स्वदिमभिव्याप्य संभवत्कर्मभ्य एव णिच् ।{$ {!1750 ग्रस!} ग्रहणे$} । ग्रासयति फलम् ।{$ {!1751 पुष!} धारणे$} । पोषयत्याभरणम् ।{$ {!1752 दल!} विदारणे$} । दालयति ।{$ {!1753 पट!} {!1754 पुट!} {!1755 लुट!} {!1756 तुजि!} {!1757 मिजि!} {!1758 पिजि!} {!1759 लुजि!} {!1760 भजि!} {!1761 लघि!} {!1762 त्रसि!} {!1763 पिसि!} {!1764 कुसि!} {!1765 दशि!} {!1766 कुशि!} {!1767 घट!} {!1768 घटि!} {!1769 बृहि!} {!1770 बर्ह!} {!1771 वल्ह!} {!1772 गुप!} {!1773 धूप!} {!1774 विच्छ!} {!1775 चीव!} {!1776 पुथ!} {!1777 लोकृ!} {!1778 लोचृ!} {!1779 णद!} {!1780 कुप!} {!1781 तर्क!} {!1782 वृतु!} {!1783 वृधु!} भाषार्थाः$} । पाटयति । पोटयति । लोटयति । तुञ्जयति । पिञ्जति । एवं परेषाम् । घाटयति । घण्टयति ॥", "71102": "अङ्गावयवौष्ठ्यपूर्वो य ॠत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि च <{SK354}> इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ॠच्छात्यॄताम् <{SK2383}>ल इति गुणे प्राप्ते ॥", "71103": "ततुरिः (ततु॑रिः) । जगुरिः पराचैः (जगु॑रिः परा॒चैः) ॥", "72001": "इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदपरे सिचि । अवैषीत् । आजीत् । अवेष्यत् । आजिष्यत् ।{$ {!231 तेज!} पालने$} । तेजति ।{$ {!232 खज!} मन्थे$} । खजति ।{$ {!233 खजि!} गतिवैकल्ये$} । खञ्जति ।{$ {!234 एजृ!} कम्पने$} । एजांचकार ।{$ {!235 टुओस्फूर्जा!} वज्रनिर्घोषे$} । स्फूर्जति । पुस्फूर्ज ।{$ {!236 क्षि!} क्षये$} । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ । चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ॥", "72002": "ल्रेति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि <{SK2268}> इति निषेधस्याअतो हलादेः - <{SK2284}> इति विकल्पस्य चापवादः । मा भवानालीत् । अयं स्वरितेदित्येके । तन्मते, अलते इत्याद्यपि ।{$ {!516 ञिफला!} विशरणे$} । तॄफल - <{SK2301}> इत्येत्वम् । फेलतुः । फेलुः । अफालीत् ।{$ {!517 मील!} {!518 श्मील!} {!519 स्मील!} {!520 क्ष्मील!} निमेषणे$} । निमेषणं संकोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः ।{$ {!521 पील!} प्रतिष्टम्भे $}। प्रतिष्टम्भो रोधनम् ।{$ {!522 णील!} वर्णे$} ।{$ {!523 शील!} समाधौ$} । शीलति ।{$ {!524 कील!} बन्धने {!525 कूल!} आवरणे $}।{$ {!526 शूल!} रुजायां संघोषे च$} ।{$ {!527 तूल!} निष्कर्षे$} । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निः सारणम् । तुतूल ।{$ {!528 पूल!} संघाते$} ।{$ {!529 मूल!} प्रतिष्ठायाम्$} ।{$ {!530 फल!} निष्पत्तौ $}। फेलतुः । फेलुः ।{$ {!531 चुल्ल!} भावकरणे$} । भावकरणमभिप्रायाविष्कारः ।{$ {!532 फुल्ल!} विकसने$} ।{$ {!533 चिल्ल!} शैथिल्ये भावकरणे च$} ।{$ {!534 तिल!} गतौ$} । तेलति । तिल्ल इत्येके । तिल्लति ।{$ {!535 वेलृ!} {!536 चेलृ!} {!537 केलृ!} {!538 खेलृ!} {!539 क्ष्वेलृ!} {!540 वेल्ल!} चलने $}। पञ्च ऋदितः । षष्ठो लोपधः ।{$ {!541 पेलृ!} {!542 फेलृ!} {!543 शेलृ!} गतौ$} । षेलृ इत्येके ।{$ {!544 स्खल!} संचलने$} । चस्काल । अस्खालीत् ।{$ {!545 खल!} संचये$} ।{$ {!546 गल!} अदने$} । गलति । अगालीत् ।{$ {!547 षल!} गतौ$} । सलति ।{$ {!548 दल!} विशरणे$} ।{$ {!549 श्वल!} {!550 श्वल्ल!} आशुगमने$} । शश्वाल । अश्वालीत् । अश्वल्लीत् ।{$ {!551 खोलृ!} {!552 खोर्ऋ!} गतिप्रतिघाते$} । खोलति । खोरति ।{$ {!553 धोर्ऋ!} गतिचातुर्ये$} । धोरति ।{$ {!554 त्सर!} छद्मगतौ$} । तत्सार । अत्सारीत् ।{$ {!555 क्मर!} हूर्च्छने$} । चक्मार ।{$ {!556 अभ्र!} {!557 वभ्र!} {!558 मभ्र!} {!559 चर!} गत्यर्थाः$} । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्नवृद्धिः ।{$ {!560 ष्ठिवु!} निरसने $}। ष्ठिवुक्लमु - <{SK2320}>इति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि च <{SK354}> इति दीर्घः । ष्ठीव्यात् ।{$ {!561 जि!} जये$} । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥", "72003": "वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥", "72004": "इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम् । अतिषुः ।{$ {!39 चिती!} संज्ञाने$} । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः ।{$ {!40 च्युतिर्!} आसेचने$} । सेचनमार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च । (वार्तिकम्) ॥ च्योतति । चुच्योत ॥", "72005": "हमयान्तस्य क्षणादेर्ण्यन्त्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् ।{$ {!295 अट!} {!296 पट!} गतौ $}। आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः ।{$ {!297 रट!} परिभाषणे$} । रराट ।{$ {!298 लट!} बाल्ये$} । ललाट ।{$ {!299 शट!} रुजाविशरणगत्यवसादनेषु$} । शशाट ।{$ {!300 वट!} वेष्टने$} । ववाट । ववटतुः । ववटुः । ववटिथ ।{$ {!301 किट!} {!302 खिट!} त्रासे $}। केटति । खेटति ।{$ {!303 शिट!} {!304 षिट!} अनादरे $}। शेटति । शिशेट । सेटति सिषेट ।{$ {!305 जट!} {!306 झट!} संघाते $}।{$ {!307 भट!} भृतौ$} ।{$ {!308 तट!} उच्छ्राये$} ।{$ {!309 खट!} काङ्क्षायां {!310 णट!} नृत्तौ$} ।{$ {!311 पिट!} शब्दसंघातयोः$} ।{$ {!312 हट!} दीप्तौ$} ।{$ {!313 षट!} अवयवे$} ।{$ {!314 लुट!} विलोडने$} । डान्तोऽयमित्येके ।{$ {!315 चिट!} परप्रेष्ये$} ।{$ {!316 विट!} शब्दे$} ।{$ {!317 बिट!} आक्रोशे$} । बशादिः । हिटेत्येके{$ {!318 इट!} {!319 किट!} {!320 कटी!} गतौ$} । एटति । केटति । कटति । ईकारः श्वीदितो निष्ठायाम् <{SK3039}> इतीण्निषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः । इययिथ । इयेथ । इयाय । इयय । दीर्घस्यतु इजादेश्च-<{SK2237}> इत्यामि अयांचकारेत्याद्युदाहरन्ति ।{$ {!321 मडि!} भूषायाम्$} ।{$ {!322 कुडि!} वैकल्ये$} । कुण्डति । कुण्डत इति तु दाहे गतम् ।{$ {!323 मुड!} {!324 प्रुड!} मर्दने$} ।{$ {!325 चुडि!} अल्पीभावे$} ।{$ {!326 मुडि!} खण्डने$} । मुण्डति । पुडि चेत्येके । पुण्डति{$ {!327 रुटि!} {!328 लुटि!} स्तेये$} । रुण्टति । लुण्टति । रुठि लुठि इत्येके । रुडि लुडि इत्यपरे{$ {!329 स्फुटिर्!} विशरणे$} । इरित्वादङ्वा । अस्फुटत् । अस्फोटीत् । स्फुटि इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति ।{$ {!330 पठ!} व्यक्तायां वाचि$} । पेठतुः । पेठिथ । अपठीत् । अपाठीत् ।{$ {!331 वठ!} स्थौल्ये$} । ववठतुः । ववठिथ ।{$ {!332 मठ!} मदनिवासयोः$} ।{$ {!333 कठ!} कृच्छ्रजीवे$} ।{$ {!334 रट!} परिभाषणे$} । रठेत्येके ।{$ {!335 हठ!} प्लुतिशठत्वयोः$} । बलात्कार इत्येके । हठति । जहाठ ।{$ {!336 रुठ!} {!337 लुठ!} {!338 उठ!} उपघाते$} । ओठति । ऊठेत्येके । ऊठति । ऊठांचकार ।{$ {!339 पिठ!} हिंसासंक्लेशनयोः$} ।{$ {!340 शठ!} कैतवे च$} ।{$ {!341 शुठ!} प्रतिघाते$} । शोठति । शुठीति स्वामी । शुण्ठति ।{$ {!342 कुठि!} च$} । कुण्ठति ।{$ {!343 लुठि!} आलस्ये प्रतिघाते च$} ।{$ {!344 शुठि!} शोषणे$} ।{$ {!345 रुठि!} {!346 लुठि!} गतौ$} ।{$ {!347 चुड्ड!} भावकरणे$} । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड ।{$ {!348 अड्ड!} अभियोगे$} । अड्डति । आनड्ड ।{$ {!349 कड्ड!} कार्कश्ये$} । कड्डति । चुड्डादयस्रयो दोपधाः । तेन क्विपि, चुत् । अत् । कत् । इत्यादि ।{$ {!350 क्रीडृ!} विहारे$} । चिक्रीड ।{$ {!351 तुडृ!} तोडने$} । तोडति । तुतोड । तूड इत्येके ।{$ {!352 हुडृ!} {!353 हूडृ!} {!354 होडृ!} गतौ$} । हुड्यात् । हूड्यात् । होड्यात् ।{$ {!355 रौडृ!} अनादरे$} ।{$ {!356 रोडृ!} {!357 लोडृ!} उन्मादे$} ।{$ {!358 अड!} उद्यमे$} । अडति । आड । आडतुः । आडुः ।{$ {!359 लड!} विलासे$} । लडति । लडयोर्लळयोश्चैकत्वस्मरणाल्ललतीति स्वम्यादयः ।{$ {!360 कड!} मदे$} । कडति । कडि इत्येके । कण्डति ।{$ {!361 गडि!} वदनैकदेशे $}। गण्डति । इति टवर्गीयान्ताः ॥\tअथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् ।{$ {!362 तिपृ!} {!363 तेपृ!} {!364 ष्टिपृ!} {!365 ष्टेपृ!} क्षरणार्थाः$} । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ॥", "72006": "इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्रणविष्टाम् । और्णाविषुः । और्णवीत् ।{$ {!1040 द्यु!} अभिगमने$} । द्यौति । द्योता ।{$ {!1041 षु!} प्रसवैश्वर्ययोः$} । प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् ।{$ {!1042 कु!} शब्दे$} । कोता ।{$ {!1043 ष्टुञ्!} स्तुतौ$} । स्तौति । स्तवीति । स्तुतः । स्तुवीतः । स्तुते । स्तुवीते । स्तुसुधूञ्भ्यः - <{SK2385}> इतीट् । अस्तावीत् । प्राक्सितात् - <{SK2276}> इति षत्वम् । अभ्यष्टौत् । सिवादीनां वा <{SK2359}> । पर्यष्टौत् । प्रयस्तौत् ।{$ {!1044 ब्रूञ्!} व्याक्तायां वाचि$} ॥", "72007": "हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् ।{$ {!51 बद!} स्थैर्ये$} । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् ।{$ {!52 गद!} व्यक्तायां वाचि$} । गदति ॥", "72008": "वशादेः कृत इण्न स्यात् । शॄ । सुशर्मा । प्रातरित्वा ॥", "72009": "एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । नद्ध्री ॥", "72010": "उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे इत्युभयान्वयि । एकाचेति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि - [(परिभाषा - ) श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि] ॥ 1 ॥ इति । एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥", "72011": "श्रिय एकाच उगन्ताच परयोर्गित्कितोरिण्न स्यात् । परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सस्वरिव । सस्वरिम । परत्वात् ऋद्धनो - <{SK2366}> इति नित्यमिटि । स्वरिष्यति । स्वर्यात् । अस्वरीत् । अस्वरिष्टाम् । अस्वार्षीत् । अस्वर्ष्टाम् ।{$ {!933 स्मृ!} चिन्तायाम्$} ।{$ {!934 ह्वृ!} संवरणे$} ।{$ {!935 सृ!} गतौ$} । क्रादित्वान्नेट् । ससर्थ । ससृव । रिङ् । स्नियात् । असार्षीत् । असार्ष्टाम् ॥", "72012": "ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात् । ग्रहिज्या - <{SK2412}> इति संप्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः । जिघृक्षति । सुषुप्सति ॥", "72013": "एभ्यो लिट इण्न स्यात् । क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ॥", "72014": "श्वयतेरीदितश्च निष्ठाया इण्न । उन्नः । उत्तः । त्राणः । त्रातः । घ्राणः । घ्रातः । ह्रीणः । ह्रीतः ॥", "72015": "यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । उदितो वा <{SK3328}> इति क्त्वायां वेट्त्वादिह नेट् । समक्नः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वात् व्रश्च - <{SK294}> इति षत्वे प्राप्ते । (वार्तिकम्) ॥ वृक्णः । वृक्णवान् ॥", "72016": "आकारेतो निष्ठाया इण्न स्यात् ॥", "72017": "भावे आदिकर्मणि चादितो निष्ठाया इड्वा स्यात् । प्रस्वेदितश्चैत्रः । प्रस्वेदितं तेन । ञिष्विदेति भ्वादिरत्र गृह्यते । ञीद्भिः साहचर्यात् । स्विद्यतेस्तु स्विदित इत्येव । ञिमिदा । ञिक्ष्विदा । दिवादी भ्वादी च । प्रमेदितः । प्रमेदितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधर्षितवान् । प्रधर्षितं तेन । सेट् किम् । प्रस्विन्नः । प्रस्विन्नं तेनेत्यादि ॥", "72018": "क्षुब्धादीन्यष्टावनिट्कानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम् । निष्ठानत्वमपि निपातनात् । म्लिष्टविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभृ अनयोरुपधाया इत्वमपि निपात्यते । फाण्टमनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । बाहितम् ॥", "72019": "एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥", "72020": "स्थूले बलवति न निपात्यते । दृह दृहि वृद्धौ । क्तस्येडभावः तस्य ढत्वम् । हस्य लोपः । इदितो नलोपश्च । दृहितः । दृंहितोऽन्यः ॥", "72021": "वृह वृहि वृद्धौ । निपातनं प्राग्वत् । परिवृहितः । परिवृंहितोऽन्यः ॥", "72022": "कषो निष्ठाय इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्तात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥", "72023": "घुषिर्निष्ठायामनिट् स्यात् । घुष्टा रज्जुः । अविशब्दने किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥", "72024": "एतत्पूर्वादर्देर्निष्ठाया इण्न स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥", "72025": "अभ्यर्णम् । नातिदूरं नासन्नं वा । अभ्यर्दितमन्यत् ॥", "72026": "ण्यन्ताद्वृत्तेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिताः रज्जुः ॥", "72027": "एते णिचि निष्ठान्ता वा निपात्यते । पक्षे । दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञपितः ॥", "72028": "एभ्यो निष्ठाया इड्वा । रुषितः । रुष्टः । आन्तः । अमितः । तूर्णः । त्वरितः । अस्याऽऽत्त्वे फलं मन्दम् । संघुष्टः । संघुषितः । आस्वान्तः । आस्वनितः ॥", "72029": "हृषेर्निष्ठाया इड्वा स्यात् लोमसु विषये । हृष्टं हृषितं लोम । (वार्तिकम्) ॥ हृषो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥", "72030": "चायतेर्निपातोऽयं वा । अपचितः । अपचायितः ॥", "72031": "ह्ररेर्निष्ठाया ह्रु आदेशः स्यात् । अह्रुतमसि हविर्धानम् ॥", "72032": "पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते । अपह्वृताः सनुयाम वाजम् (अप॑ह्वृताः सनुयाम॒ वाज॑म्) ॥", "72033": "इड्गुणौ निपात्येते । मा नः सोमो ह्वरितः (मा नः॒ सोमो॑ ह्वरितः) ॥", "72034": "अष्टादश निपात्यन्ते । तत्र ग्रसु स्कम्भु स्तम्भु एषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इण्निपात्यते । युवं शचीभिर्ग्रसिताममुञ्चतम् (यु॒वं शची॑भिर्ग्रसि॒ताममुञ्चतम्) । विष्कभिते अजरे (विष्क॑भिते अ॒जरे॑) । येन स्वः स्तभितम् (येन॒ स्वः॑ स्तभि॒तम्) । सत्येनोत्तभिता भूमिः (स॒त्येनोत्त॑भिता॒ भूमिः॑) । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ । आभ्यां क्तस्येडभावः । चत्तो इतश्चत्तामुतः (च॒त्तो इ॒तश्च॒त्तामुतः॑) । त्रिधा ह श्यावमश्विना विकस्तम् (त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्तम्) । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचनं विकस्ता इति । तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता (एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ता) । ग्रावग्राभ उत शंस्ता (ग्रा॒व॒ग्रा॒भ उ॒त शंस्ता॑) । प्रशास्ता पोता (प्र॒शा॒स्ता पोता॑) । तरतेर्वृङ्वृञोश्च तृच उट् उट् एतावागमौ निपात्येते । तरुतारं रथानाम् (त॒रु॒तारं॒ रथा॑नाम्) । तरूतारम् । वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु (वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु) । अत्र ङीबन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः । ततो ङीपा गतार्थत्वात् उज्ज्वलादिभ्यश्चतुर्भ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ । क्षर संचलने । टुवम उद्गिरणे । अम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति । तत्र क्षमूष् सहने इति धातुर्बोध्यः । भाषायां तु ग्रस्तस्कब्धोस्तब्धोत्तब्धचतितविकसिताः । विशसिता । शंसिता । शासिता । तरीता । तरिता । वरीता । वरिता । उज्जवलति । क्षरति । पाठान्तरे, क्षमति । वमति । अमति । बभूथाऽततन्थजगृभ्मववर्थेति निगमे <{SK2527}> विद्मा तमुत्सु यत आवभूथ (वि॒द्मा तमुत्सु॒ यत॑ आव॒भूथ॑) । येनान्तरिक्षमुर्वाततन्थ (येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑) । जगृभ्मा ते दक्षिणामिन्द्र हस्तम् (ज॒गृभ्मा ते॒ दक्षि॑णामिन्द्र॒ हस्त॑म्) । त्वं ज्योतिपा वितमो ववर्थ (त्वं ज्योति॑पा॒ वितमो॑ ववर्थ) । भाषायां तु बभूविथ । आतेनिथ । जहृहिम । ववरिथेति ॥", "72035": "वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥", "72036": "अत्रैवेट् । अक्रमीत् ।अथ रेवत्यन्ता अनुदात्तेतः ॥{$ {!474 अय!} {!475 वय!} {!476 पय!} {!477 मय!} {!478 चय!} {!479 तय!} {!480 णय!} गतौ$} । अयते ॥", "72037": "एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्नतु लिटि । ग्रहीता । लिटि तु जग्रहिथ । गृह्यात् । ग्रहीषीष्ट । ह्म्यन्त - <{SK2299}> इति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत ॥", "72038": "वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि । तरीता । तरिता । अलिटीति किम् । तेरिथ । हलि च <{SK354}> इति दीर्घः । तीर्यात् ॥", "72039": "वॄतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट । वृषीष्ट । अवारीत् । अवरिष्ट । अवरीष्ट । अवृत ।{$ {!1255 धुञ्!} कम्पने$} । धुनोति । धुनुते । अधौषीत् । अधोष्यत् । दीर्घान्तोऽप्ययम् । धूनोति । धूनुते । स्वरतिसूति - <{SK2279}> इति वेट् । दुधविथ । दुधोथ । किति लिटि तु श्र्युकः - <{SK2389}> इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिट् । दुधुविव । स्तुसुधूञ्भ्यः - <{SK2385}> इति नित्यमिट् । अधावीत् । अधविष्ट । अधोष्ट ॥\tअथ परस्मैपदिनः ॥{$ {!1256 टुदु!} उपतापे$} । दुनोति ।{$ {!1257 हि!} गतौ वृद्धौ च$} ॥", "72040": "अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ॥\tअथाष्टावनुदात्तेतः ॥{$ {!970 गुप!} गोपने$} ।{$ {!971 तिज!} निशाने$} ।{$ {!972 मान!} पूजायाम्$} ।{$ {!973 बध!} बन्धने$} ॥", "72041": "वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । तितरिषति । तितरीषति । तितीर्षति । विवरिषति । विवरीषति । वुवूर्षति । वृङ् । वुवूर्षते । विवरिषते । दुध्वूर्षति ॥", "72042": "वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि ॥", "72043": "ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वा स्यात्तङि । स्तरिषीष्ट । स्तृषीष्ट । अस्तरिष्ट । अस्तृत ।{$ {!1253 कृञ्!} हिंसायाम्$} । कृणोति । कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत ।{$ {!1254 वृञ्!} वरणे$} ॥", "72044": "स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥", "72045": "रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ-ररद्ध । ररन्धिव-रेध्व ॥", "72046": "निरः परात्कुषोवलादेरार्धधातुकस्य इड्वा स्यात् । निष्कोषिता । निष्कोष्टा । निरकोषीत् । निरकुक्षत् ।{$ {!1519 क्षुभ!} संचलने$} । क्षुभ्नादिषु च <{SK792}> क्षुभ्नाति । क्षुभ्नीतः । क्षोभिता । क्षुभान ।{$ {!1520 णभ!} {!1521 तुभ!} हिंसायाम्$} । नभ्नाति । तुभ्नाति । नभते तोभते इति शपि । नभ्यति तुभ्यतीति श्यनि ।{$ {!1522 क्लिशू!} विबाधने$} । शादिति श्चुत्वनिषेधः । क्लिश्नाति । क्लेशिता । क्लेष्टा । अक्लेशीत् । अक्लिक्षत् ।{$ {!1523 अश!} भोजने$} । अश्नाति । आश ।{$ {!1524 उध्रस!} उञ्छे$} । उकार इत् । ध्रस्नाति । उकारो धात्ववयव इत्येके । उध्रसांचकार ।{$ {!1525 इष!} आभीक्ष्ण्ये$} । पौनः पुन्यं भृशार्थो वा आभीक्ष्ण्यम् । इष्णाति । तीषसह - <{SK2340}> इत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषेर्ग्रहणं नतु इष्यतीष्णात्योरित्याहुः । एषिता । वस्तुतस्तु इष्णातेरपि इड्विकल्प उचितः । तथा च वार्तिकम् ॥ (वार्तिकम्) ॥{$ {!1526 विष!} विप्रयोगे$} । विष्णाति । वेष्टा ।{$ {!1527 प्रुष!} {!1528 प्लुष!} स्नेहनसेवनपूरणेषु$} । प्रुष्णाति । प्लुष्णाति ।{$ {!1529 पुष!} पुष्टौ$} । पोषिता ।{$ {!1530 मुष!} स्तेये$} । मोषिता ।{$ {!1531 खच!} भूतप्रादुर्भावे$} । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्ञाति । वान्तोऽयमित्येके ॥", "72047": "निरः कुषो निष्ठाया इट् स्यात् । यस्य विभाषा <{SK3025}> इति निषेधे प्राप्ते पुनर्विधिः । निष्कुषितः ॥", "72048": "इच्छत्यादेः परस्य तादेरार्धधातुकस्योड्वा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति ।{$ {!695 भष!} भर्त्सने$} । इक्ष भर्त्सनं श्वरवः । भषति । बभाष ।{$ {!696 उष!} दाहे $}। ओषति ॥", "72049": "इवान्तेभ्य ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे हलन्ताच्च <{SK2613}> इति कित्वम् । छ्वोः - <{SK2561}> इति वस्य ऊठ् । यण् द्वित्वम् । दुद्यूषति । दिदेविषति । स्तौतिण्योरेव - <{SK2627}> इति वक्ष्यमाणनियमान्न षः । सुस्यूषति । सिसेविषति ॥", "72050": "इड्वा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिशू विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशितः । क्लिष्टः ॥", "72051": "पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥", "72052": "आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥", "72053": "पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात् । अञ्चितः । गतौ तु अक्तः ॥", "72054": "लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्नतु गार्ध्ये । लुभितः । गार्ध्ये तु लुब्धः ॥", "72055": "आभ्यां परस्य क्त्वा इट् स्यात् । जरीत्वा । जरित्वा । व्रश्चित्वा ॥", "72056": "उदितः परस्य क्त्वा इड्वा । शमित्वा । अनुनासिक्स्य क्वि <{SK2666}> इति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥", "72057": "एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा स्यात् । नर्तिष्यति । नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् ।{$ {!1117 त्रसी!} उद्वेगे$} । वा भ्राश - <{SK2321}> इति श्यन्वा । त्रस्यति । त्रसति । त्रेसतुः । तत्रसतुः ।{$ {!1118 कुथ!} पूतीभावे$} । पूतीभावो दौर्गन्ध्यम् ।{$ {!1119 पुथ!} हिंसायाम्$} ।{$ {!1120 गुध!} परिवेष्टने$} ।{$ {!1121 क्षिप!} प्रेरणे$} । क्षिप्यति । क्षेप्ता ।{$ {!1122 पुष्प!} विकसने$} । पुष्प्यति । पुपुष्प ।{$ {!1123 तिम!} {!1124 ष्टिम!} {!1125 ष्टीम!} आर्द्रीभावे$} । तिम्यति । स्तिम्यति । स्तीम्यति ।{$ {!1126 व्रीड!} चोदने लज्जायां च$} । व्रीड्यति ।{$ {!1127 इष!} गतौ$} । इष्यति ।{$ {!1128 षह!} {!1129 षुह!} चक्यर्थे$} । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति ।{$ {!1130 जॄष्!} {!1131 झॄष्!} वयोहानौ$} । जीर्यति । जजरतुः । जेरतुः । जरिता । जरीता । जीर्येत । जीर्यात् । जॄस्तम्भु - <{SK2291}> इत्यङ्वा । ऋदृशोङि गुणः <{SK2406}> । अजरत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् ।{$ {!1132 षूङ्!} प्राणिप्रसवे$} । सूयते । सुषुवे । स्वरितिसूति - <{SK2279}> इति विकल्पं बाधित्वा श्र्युकः किति <{SK2381}> इति निषेधे प्राप्ते । क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता ।{$ {!1133 दूङ्!} परितापे$} । दूयते ।{$ {!1134 दीङ्!} क्षये$} । दीयते ॥", "72058": "गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥", "72059": "एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत ।{$ {!759 वृधु!} वृद्धौ$} ।{$ {!760 शृधु!} शब्दकुत्सायाम्$} । इमौ वृतिवत् ।{$ {!761 स्यन्दू!} प्रस्रवणे$} । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोः <{SK2347}> इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् न वृद्भ्यः <{SK2348}> इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङि-<{SK2347}> इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्सताम् । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥", "72060": "कॢपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट । कॢप्सीष्ट । अकॢपत् । अकल्पिष्ट । अकॢप्त । अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिर्वृतादिश्चोत्यर्थः ॥\tअथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च ।{$ {!763 घट!} चेष्टायाम्$} । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां ह्रस्वः-<{SK2568}> इति चिण्णमुलोर्दीर्घोऽन्यतरस्याम् <{SK2762}> इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्घाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः ।{$ {!764 व्यथ!} भयसंचलनयोः$} । व्यथते ॥", "72061": "उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् ॥", "72062": "उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥", "72063": "तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥ अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् । ऋदन्त ईदृङ् नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥ 1 ॥ न च स्तुद्रुस्रुश्रुवामपि थलि विकल्पः शङ्कयः । अचस्तास्वत् - <{SK2294}> इति उपदेशेऽत्वतः <{SK2295}> इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । [(परिभाषा - ) अनन्तरस्य] इति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति । अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ॥", "72064": "एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता ॥", "72065": "आभ्यां थल इड्वा ॥", "72066": "अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् ।{$ {!937 गृ!} {!938 घृ!} सेचने$} । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् ।{$ {!939 ध्वृ!} हूर्छने {!940 स्रु!} गतौ$} । सुस्रोथ । सुस्रुव । स्रुयात् । णिश्रि - <{SK2312}> इति चङ् । लघूपधगुणादन्तारङ्घत्वादुवङ् । असुस्रुवत् ।{$ {!941 षु!} प्रसवैश्वर्ययोः$} । प्रसवोऽभ्यनुज्ञानम् । सुषोथ । सुषविथ । सुषुविव । सोता ॥", "72067": "कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच् । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥", "72068": "एभ्यो वसोरिड्वा । जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेर्ग्रहणम् । वेत्तेस्तु विविद्वान् । नेड्वशि कृति <{SK2981}> इतीण्निषेधः ॥ (वार्तिकम्) ॥ ददृशिवान् । ददृश्वान् ॥", "72069": "सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा क्वसोरिट् एत्वाभ्यासलोपाभावश्च निपात्यते ॥ (अञ्जित्वाग्ने सनिंससनिवांसम्) । (वार्तिकम्) ॥ हिरण्यवर्णाः शुचयः पावकाः (हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः ) ॥", "72070": "ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ॥", "72071": "अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् ।{$ {!1459 तञ्चू!} सङ्कोचने$} । तनक्ति । तङ्क्ता । तञ्चिता ।{$ {!1460 ओविजी!} भयचलनयोः$} । विनक्ति । विङ्क्तः । विज इट् <{SK2536}> इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् ।{$ {!1461 वृजी!} वर्जने$} । वृणक्ति । वर्जिता ।{$ {!1462 पृची!} संपर्के$} । पृणक्ति । पपर्च ॥", "72072": "एभ्यः सिच इट् स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव ग्रहणममिति पक्षे असौषीत् ।{$ {!942 श्रु!} श्रवणे$} ॥", "72073": "एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः ।{$ {!903 ग्लै!} {!904 म्लै!} हर्षक्षये$} । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ । जग्लाथ ॥", "72074": "स्मि पूङ् ऋ अञ्जू अश् एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषति । इह रिस्शब्दस्य द्वित्वम् । इस् इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् द्विर्वचनेऽचि - <{SK2243}> इति न प्रवर्तते । अञ्जिजिषति । अशिशिषते । उभौ साभ्यासस्य <{SK2606}> । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । पूर्वत्रासिद्धीयमद्विर्वचने इति चछाभ्यां सहितस्येटो द्वित्वम् । हलादिः शेषः <{SK2179}> । उचिच्छिषति । निमित्तापाये नैमित्तिकस्याप्यपायः इति त्वनित्यम् । च्छ्वोः - <{SK2561}> इति सतुग्ग्रहणाज्ज्ञापकात् । प्रकृतिप्रत्यापत्तिवचनाद्वा । णौ च संश्चङोः - <{SK2579}> इति सूत्राभ्यामिङो गाङ् श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति । अध्यापिपयिषति । शिश्वाययिषति । शुशावयिषति । ह्वः संप्रसारणम् <{SK2586}> जुहावयिषति । णौ द्वित्वात्प्रागच आदेशो नेत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षाययिषति । ओः पुयण्ज्यपरे <{SK2577}> । पिपावयिषति । बिभावयिषति । जिजायिषति । पुयण्जि किम् । नुनावयिषति । अपरे किम् । बुभूषति । स्रवति - <{SK2578}> इतीत्वं वा । सिस्रावयिषति । सुस्रावयिषतीत्यादि । अपर इत्येव । शुश्रूषते ॥", "72075": "कॄ गॄ दृङ् धृङ् प्रच्छ् एभ्यः सन इट् स्यात् ॥ पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति । अत्रेटो दीर्घो नेष्टः ॥ दिदरिषते । दिधरिषते । कथमुद्दिधीर्षुरिति । भौवादिकयोर्धृङ्धृञोरिति गृहाण ॥", "72076": "रुद् स्वप्रन श्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ॥", "72077": "", "72078": "ईशीड्जनां से ध्वे शब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागोवैचित्र्यार्थः । ईडिषे । ईडिध्वे ॥ [(परिभाषा - ) एकदेशविकृतस्यानन्यत्वात्] । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्ढ्वम् ।{$ {!1020 ईश!} ऐश्वर्ये$} । ईष्टे । ईशिषे । ईशिध्वे ।{$ {!1021 आस!} उपवेशने$} । आस्ते । दयायासश्च <{SK2325}> । आसांचक्रे । आस्स्व । आध्वम् । आसिष्ट ।{$ {!1022 आङः!} शासु इच्छायाम्$} । आशास्ते । आशासाते । आङ्पूर्वत्वं । प्रायिकम् । तेन नमोवाकं प्रशास्महे इति सिद्धम् ।{$ {!1023 वस!} आच्छादने$} । वस्ते । वस्से । वध्वे । ववसे । वसिता ।{$ {!1024 कसि!} गतिशासनयोः$} । कंस्ते । कंसाते । कंसते । अयमनिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे ।{$ {!1025 णिसि!} चुम्बने$} । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम ।{$ {!1026 णिजि!} शुद्धौ$} । निङ्क्ते । निङ्क्षे । निञ्जिता ।{$ {!1027 शिजि!} अव्यक्ते शब्दे$} । शिङ्क्ते ।{$ {!1028 पिजि!} वर्णे$} । संपर्चन इत्येके । उभयत्रेत्यन्ये । अवयवे इत्यपरे । अव्यक्ते शब्दे इतीतरे । पिङ्क्ते । पृजीत्येके । पृङ्क्त ।{$ {!1029 वृजी!} वर्जने$} । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । इदित् इत्यन्ये । वृङ्क्ते ।{$ {!1030 पृची!} संपर्चने$} । पृक्ते ।\t{$ {!1031 षूङ्!} प्राणिगर्भविमोचने$} । सूते । सुषुवे । सुषुविषे । सोता । सविता । भूसुवोः-<{SK2224}> इति गुणनिषेधः सुवै । सविषीष्ट । सोषीष्ट । असविष्ट । असोष्ट ।{$ {!1032 शीङ्!} स्वप्ने$} ॥", "72079": "सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥", "72080": "अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥", "72081": "अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥", "72082": "अङ्गस्यातो मुगागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् ब्राह्मणः । (वार्तिकम्) ॥ मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । माङि लुङ् <{SK2219}> इति प्राप्ते एतद्वचनसामर्थ्यालुक् ॥", "72083": "आसः परस्यानस्य ईत्स्यात् । आदेः परस्य <{SK44}> । आसीनः ॥", "72084": "अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥", "72085": "रैशब्दस्याऽऽकारोऽन्तादेशः स्याद्धलि विभक्तौ । अचि आयादेशः । राः । रायौ । रायः । रायम् । रायौ । रायः । राया । राभ्यामित्यादि । इत्यैदन्ताः ।\t ग्लौः । ग्लावौ । ग्लावः । ग्लावम् । ग्लावौ । ग्लावः । इत्यादि । औतोऽम्शसोरितीह न प्रवर्तते । ऐऔजिति सूत्रेण ओदौतोः सावर्ण्याऽभावज्ञापनात् । इत्यौदन्ताः ॥", "72086": "अनयोराकारः स्यादनादेशे हलादौ परे । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥", "72087": "युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ॥", "72088": "इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं वस्त्राणि । युवाम् । आवाम् । मपर्यन्तस्य किम् । साकच्कस्य माभूत् । युवकाम् । आवकाम् । त्वया मयेत्यत्र त्व्या म्येति माभूत् । युवकाभ्यामावकाभ्यामिति च न सिद्ध्येत् ॥", "72089": "अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥", "72090": "आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् । अतो गुणे <{SK191}> अमि पूर्वः <{SK194}> ॥ त्वम् । अहम् । ननु त्वं स्त्री अहं स्त्री इत्यत्र त्व अमह अम् इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । सच परोऽप्यन्तरङ्गे अतो गुणे <{SK191}> कृते प्रवर्तते । तेनादन्तत्वाऽभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥", "72091": "इत्यधिकृत्य ॥", "72092": "द्वियोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥", "72093": "स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । [(परिभाषा - ) अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्] - इति न भवति । ङेप्रथमयोः <{SK382}> इत्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियत इति व्याख्यानाद्वा ॥", "72094": "युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥", "72095": "अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । शेषे लोपः <{SK385}> । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥", "72096": "अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥", "72097": "एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥", "72098": "मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥", "72099": "स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः ॥", "72100": "तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः । तिस्रः । आमि नुमचिरेति नुट् ॥", "72101": "जराशब्दस्य जरस् वा स्यादजादौ विभक्तौ । [(परिभाषा - ) पदाङ्गाधिकारे तस्य च तदन्तस्य च] । अनेकाल्त्वात्सर्वादेशे प्राप्ते । [(परिभाषा - ) निर्दिश्यमानस्यादेशा भवन्ति] । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ । निर्जरसः । इनादीन्बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः । पक्षे हलादौ च रामवत् । वृत्तिकृता तु पूर्वविप्रतिषेधेन इनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसेन निर्जरसादिति रूपे न तु निर्जरसा निर्जरस इति केचिदित्युक्तम् । तथा भिसि निर्जरसैरिति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठ्येकवचने निर्जरस्येत्येव रूपं स्वीकृतम् । एतच्च भाष्यविरुद्धम् ॥", "72102": "एषामकारोऽन्तादेशः स्याद्विभक्तौ ॥ (वार्तिकम्) ॥ द्वौ 2 । द्वाभ्याम् 3 । द्वयोः 2 । द्विपर्यन्तानां किम् । भवान् । भवन्तौ । भवन्तः । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वी । द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वावित्यादि ॥ औडुलोमिः । औडुलोमी । बहुवचने तु उडुलोमाः । (वार्तिकम्) ॥ बाह्वादीञोऽपवादः । औडुलोमिम् । औडुलोमी । उडुलोमान् ॥ इतीदन्ताः ॥\tवातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित् । वातं प्रमिमीते वातप्रमीः । दीर्घज्जसि च । वातप्रम्यौ । वातप्रम्यः । हे वातप्रमीः । अमि पूर्वः <{SK194}> । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् 3 । वातप्रम्ये । वातप्रम्यः 2 । वातप्रम्योः 2 । वातप्रम्याम् । दीर्घत्वान्न नुट् । ङौ तु सवर्णदीर्घः । वातप्रमी । वातप्रमीषु । एवं ययीपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । यापोः किद्द्वे च उ. <{SK439}>इति ईप्रत्ययः । क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रम्यः । वातप्रम्यि । एरनेकाचः <{SK272}> इति वक्ष्यमाणो यण् प्रधीवत् । बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घङ्यन्तत्वात् हल्ङ्याब् <{SK252}>इति सुलोपः ॥", "72103": "किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ । के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥", "72104": "किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥", "72105": "किमः क्वादेशः स्यादति । क्व । कुत्र ॥", "72106": "त्यदादीनं तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । नच तकारोच्चारणसामर्थान्नेति वाच्यम् । अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः । यौ । ये । एषः । एतौ । एते । अन्वादेशे तु । एनम् । एनौ । एनान् । एनेन । एनयोः 2 ॥", "72107": "अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः सौ <{SK381}> इति दस्य सः । असौ ॥ (वार्तिकम्) ॥ प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । अदसोऽसेः <{SK419}> इति मत्वोत्वे । अमू । जसः शी <{SK214}> । आद् गुणः <{SK69}> ॥", "72108": "इदमो मस्य मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥", "72109": "इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥", "72110": "इदमो दस्य यः स्यात्सौ ॥ इदमो मः <{SK343}> इयम् । त्यदाद्यत्वं टाप् ।दश्च <{SK345}> इति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया ॥ हलि लोपः <{SK347}> । आभ्याम् 3 । आभिः । अस्यै । अस्याः 2 । अनयोः 2 । आसाम् । अस्याम् । आसु । अन्वादेशे तु । एनाम् । एने । एनाः । एनया । एनयोः 2 । ऋत्विक् <{SK373}> आदिना सृजेः क्विन् अमागमश्च निपातितः । स्रक् । स्रग् । स्रजौ । स्रजः । स्रग्भ्याम् । स्रक्षु । त्यदाद्यत्वं टाप् । स्या । त्ये । त्याः । एवं तद् यद् एतद् । वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु । अप् शब्दो नित्यं बहुवचनान्तः । अप्तृन् <{SK277}> इति दीर्घः । आपः । अपः ॥", "72111": "इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । त्यदाद्यत्वं पररूपत्वं च ॥", "72112": "अककारस्येदम इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥", "72113": "अककारस्येदम इदो लोपः स्यादापि हलादौ ॥ (वार्तिकम्) ॥", "72114": "मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे । (वार्तिकम्) ॥ व्रश्च <{SK294}> इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमाटर् । अमार्जम् । अमार्जीत्-अमार्क्षीत् ।{$ {!1067 रुदिर्!} अश्रुविमोचने$} ॥", "72115": "ञिति णिति च प्रत्यये परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥", "72116": "उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ॥", "72117": "ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥", "72118": "किति तद्धिते च तथा । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव ॥", "73001": "एषां पञ्चानां वृद्धिप्राप्तावदेरच आत् स्यात् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दाविकाकूलाः शालयः । शिंशपाया विकारः शांशपश्चमसः । पलाशादिभ्यो वा <{SK1521}> त्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥", "73002": "एषां यकारादेरियादेशः स्यात् । ञिति णिति किति च तद्धिते परे । इति यादेशे प्राप्ते ॥", "73003": "पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः । इत्यादि ॥", "73004": "द्वार, स्वर्, व्यल्कश, स्वस्ति, स्वर, स्फ्यकृत्, स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥", "73005": "अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् ॥", "73006": "अत्र ऐच् न स्यात् । व्यावक्रोशी । व्यावहासी ॥", "73007": "ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्याहरेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् । (वार्तिकम्) ॥ प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । (वार्तिकम्) ॥ सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः । गच्छतौ परदारादिभ्यः ॥ पारदारिकः । गौरुतल्पिकः ॥", "73008": "ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्टिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ ॥ (वार्तिकम्) ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥", "73009": "श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥", "73010": "भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥", "73011": "मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥", "73012": "उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योः - <{SK1348}> इति वुञ् । (वार्तिकम्) ॥", "73013": "दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥", "73014": "दिशः परेषां नगरवाचिनां ग्रामवाचिनामङ्गनामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । नगरे, पूर्वपाटलिपुत्रकः ॥", "73015": "संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥", "73016": "उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिको मनुष्यः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । परिमाणान्तस्यासंज्ञाशाणयोः <{SK1683}> द्वौ कुडवौ परिमाणमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञैषा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥", "73017": "उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । असंज्ञा इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तदस्य परिमाणम् <{SK1723}> इति ठञ् । असमासग्रहणं ज्ञापकं भवति इत्यतः प्राक् तदन्तविधिरिति । तेन सुगव्यम्-यवापूप्यमित्यादि ॥ इत ऊर्ध्वं तु । (वार्तिकम्) ॥ पारायणिकः । द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते शूर्पादञ् <{SK1691}> माभूत् किंतु ठञ् । द्विशौर्पिकम् ॥", "73018": "प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भाद्रपादः ॥", "73019": "हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्ञिति णिति किति च । सुहृदोपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥", "73020": "एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ॥", "73021": "अत्र पूर्वेत्तरपदयोराद्यचो वृद्धिः स्यात् ञिति णिति किति च परे । आग्निमारुतम् ॥", "73022": "परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्राग्नः ॥", "73023": "दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात्किम् । आग्निवारुणीमनड्वाहीमालभेत । (वार्तिकम्) ॥ नावयज्ञिकः कालः । पाकयज्ञिकः । (वार्तिकम्) ॥ पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥", "73024": "प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । प्राचां किम् । मनगरमुदक्षु तत्र भवो मानगरः ॥", "73025": "जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले भवं कौरुजङ्गलजम् । वैस्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥", "73026": "अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा ञिति णिति किति च । अर्धद्रोणेन क्रीतमार्धद्रौणिकम् । अर्धद्रौणिकम् ॥", "73027": "अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् । आर्धकौडबिकम् । तपरः किम् । अर्धखार्यां भवा अर्धखारी । आर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्य- <{SK840}> इति पुंवद्भावनिषेधो न स्यात् ॥", "73028": "प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥", "73029": "ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥", "73030": "नञः परेषां शुच्यादिपञ्चानामादेरचोवृद्धिः पूर्वपदस्य सु वा ञितादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् ॥ आनैपुणम् । अनैपुणम् ॥", "73031": "नञः परयोरेतयोः पूर्वेत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आ पादसमाप्तेर्भावकर्माधिकारः । (वार्तिकम्) ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाङ्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः । (वार्तिकम्) । स एव सार्ववैद्यः ॥ (गणसूत्रम् -) चतुर्वेदस्योभयपदवृद्धिश्च ॥ चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥", "73032": "हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णिल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाट्द्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः । कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । (गणसूत्रम् -) कर्तृकरणाद्धात्वर्थे ॥ कर्तुव्यापारार्थंयत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति असयति ।{$ {!1916 वल्क!} दर्शने$} ।{$ {!1917 चित्र!} चित्रीकरणे$} । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति ।{$ {!1918 अंस!} समाघाते$} ।{$ {!1919 वट!} विभाजने$} ।{$ {!1920 लज!} प्रकाशने$} ॥ वटि लजि इत्येके । वण्टयति । लञ्जयति । अदन्तेषु पाठबवलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञ्जापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि ।{$ {!1921 मिश्र!} सम्पर्के$} ।{$ {!1922 संग्राम!} युद्धे$} । अयमनुदात्तेत अकारप्रश्लेषात् । अससंग्रामत ।{$ {!1923 स्तोम!} श्लाघायाम्$} । अतुस्तोमत् ।{$ {!1924 छिद्र!} कर्णभेदने$} । करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये ।{$ {!1925 अन्ध!} दृष्ट्युपघाते$} । उपसंहार इत्यन्ये । आन्दधत् ।{$ {!1926 दण्ड!} दण्डनिपातने$} ।{$ {!1927 अङ्क!} पदे लक्षणे च$} । आञ्चकत् ।{$ {!1928 अङ्ग!} च$} । आञ्जगत् ।{$ {!1929 सुख!} {!1930 दुःख!} तत्क्रियायाम्$} ।{$ {!1931 रस!} आस्वादनस्नेहनयोः$} ।{$ {!1932 व्यय!} वित्तसमुत्सर्गे$} । अवव्ययत् ।{$ {!1933 रूप!} रूपक्रियायाम्$} । रूपस्य दर्शनं करणं वा रूपक्रिया ।{$ {!1934 छेद!} द्वैधीकरणे$} । अचिच्छेदत् ।{$ {!1935 छद!} अपवारण इत्येके$} । छदयति ।{$ {!1936 लाभ!} प्रेरणे$} ।{$ {!1937 व्रण!} गात्रविचूर्णने$} ।{$ {!1938 वर्ण!} वर्णक्रियाविस्तारगुणवचनेषु$} । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः । बहुलमेतन्निदर्शनम् । अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकमन्येऽपि बोध्याः ॥ तद्यथा ।{$ {!1939 पर्ण!} हरितभावे$} । अपपर्णत् ।{$ {!1940 विष्क!} दर्शने$} ।{$ {!1941 क्षिप!} प्रेरणे$} ।{$ {!1942 वस!} निवासे$} ।{$ {!1943 तुत्थ!} आवरणे$} ॥ एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अवधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो बहुलमित्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थेणिच् । रामो राज्यमचीकरत् इति यथेत्याहुः । चुरादिभ्यो एव बहुलं णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ (गणसूत्रम् -) णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ (गणसूत्रम् -) श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ श्वेताश्वादीनां चतुर्णामश्वादयोलुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वतादीनां तेनातिक्रामति वा श्वेतयति । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः, तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ (गणसूत्रम् -) पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु ॥ मास्तु पृच्छभाण्ड-<{SK2676}> इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥", "73033": "आदन्तानां युगागमः स्याच्चिणि ञिति णिति कृति च । दायिता । दाता । दायिषीष्ट । दासीष्ट । अदायि । अदायिषाताम् । स्थाघ्वोरिच्च <{SK2389}> । अदिषाताम् । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । इत्यते । अचिण्णलोः <{SK2574}> इत्युक्तेर्हनस्तो न । हो हन्तेः-<{SK358}> इति कुत्वम् । घानिता । हन्ता । धानिष्यते । हनिष्यते । आशीर्लिङि वधादेशस्यापवादश्चिण्वद्भावः । आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशः । अवधि । अवधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति वाच्यम् । अङ्गस्य <{SK200}> इत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटि-<{SK2562}> इत्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिष्यते । ग्रहीष्यते । ग्राहिषीष्ट । ग्रहिषीष्ट । अग्राहि । अग्राहिषातम् । अग्रहीषाताम् । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्त्वादम्न । अदृक्षाताम् । गिरतेर्लुङि ध्वमि चतुरधिकं शतम् । तथा हि चिण्वदिटो दीर्घो नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि वॄतो वा <{SK2391}> इति वा दीर्घः । अगरीध्वम् । अगरिध्वम् । एषां त्रायाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । लिङ्सिचोः <{SK2528}> इति विकल्पत्वादिडभावे उश्च <{SK2368}> इति कित्त्वम् । रपरत्वं हलि च <{SK354}> इति दीर्घः । इणः षीध्वं-<{SK2247}> इति नित्यं ढत्वम् । अशीढ्र्वम् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह संकलने उक्ता संख्येति ॥ इङ् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इत्याष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्ण्यन्तात्कर्मणि लः । यक् । णिलोपः । शभ्यते मोहो मुकुन्देन ॥", "73034": "उपाधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्य किम् । अवादि । अनाचमेः किम् । आचामि । (वार्तिकम्) ॥ चिणि आयादयः -<{SK2305}> इति णिङभावे । अकामि । णिङ्णिचोरप्येवम् । अवामि । वध हिंसायाम् । हलन्तः । जनिवध्योः <{SK2512}> इति न वृद्धिः । अवधि । जाग्रोऽविचिण्णल्ङित्सु <{SK2480}> इत्युक्तेर्न गुणः । अजागारि ॥", "73035": "अनयोरुपधायावृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि । अजनिष्ठ ।{$ {!1150 दीपी!} दीप्तौ$} । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट ।{$ {!1151 पूरी!} आप्यायने$} । पूर्यते । अपूरि । अपूरिष्ट ।{$ {!1152 तूरी!} गतित्वरणहिंसनयोः$} । तूर्यते ।{$ {!1153 धूरी!} {!1154 गूरी!} हिंसागत्योः$} । धूर्यते । दुधूरे । गूर्यते । जुगूरे ।{$ {!1155 घूरी!} {!1156 जूरी!} हिंसावयोहान्योः$} ।{$ {!1157 शूरी!} हिंसास्तम्भनयोः$} ।{$ {!1158 चूरी!} दाहे$} ।{$ {!1159 तप!} ऐश्वर्ये वा$} । अयं धातुरैश्वर्ये वा तङ्श्यनौ लभते । अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधारोराद्यवयवमिच्छन्ति । तप्यते । तप्ता । तप्स्यते । पतेति व्यत्यासेन पाठान्तरम् । द्युतद्यामा नियुतः पत्यमानः ।{$ {!1160 वृतु!} वरणे$} । वृत्यते । पक्षान्तरे वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति भट्टिः ।{$ {!1161 क्लिश!} उपतापे$} । क्लिश्यते । क्लिशिता ।{$ {!1162 काशृ!} दीप्तौ$} । काश्यते ।{$ {!1163 वाशृ!} शब्दे$} । वाश्यते । ववाशे ॥\t अथ पञ्च स्वरितेतः ।{$ {!1164 मृष!} तितिक्षायाम्$} । मृष्यति । मृष्यते । ममर्ष । ममृषे ।{$ {!1165 ईशुचिर्!} पूतीभावे$} । पूतीभावः क्लेदः । शुच्यति । शुच्यते । शुशोच । शुशुचे । अशुचत् । अशोचीत् । अशोचिष्ट ।{$ {!1166 णह!} बन्धने$} । नह्यति । नह्यति । ननाह । ननद्ध । नेहिथ । नेहे । नद्धा । नत्स्यति । अनात्सीत् ।{$ {!1167 रञ्ज!} रागे$} । रज्यति । रज्यते ।{$ {!1168 शप!} आक्रोशे$} । शप्यति । श्प्यते ॥\t अथैकादशानुदात्तेताः ॥{$ {!1169 पद!} गतौ $}। पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ॥", "73036": "चपयति । चययति । ञित्करणसामर्थ्यादस्य णिज्विकल्पः । चयति । चयते । प्रणिचयति । प्रनिचयति । (गणसूत्रम् -) नान्ये मितोऽहेतौ । अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न ।{$ {!1631 घट्ट!} चलने$} ।{$ {!1632 मुस्त!} संघाते$} ।{$ {!1633 खट्ट!} संवरणे$} ।{$ {!1634 षट्ट!} {!1635 स्फिट्ट!} {!1636 चुबि!} हिंसायाम्$} ।{$ {!1637 पुल!} सङ्घाते$} । पूर्ण इत्येके । पुण इत्यन्ये ।{$ {!1638 पुंस!} अभिवर्धने$} ।{$ {!1639 टकि!} बन्धने$} । टङ्कयति । टङ्कति ।{$ {!1640 धूस!} कान्तिकरणे$} । धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यपरे ।{$ {!1641 कीट!} वर्णे$} ।{$ {!1642 चूर्ण!} संकोचने$} ।{$ {!1643 पूज!} पूजायाम्$} ।{$ {!1644 अर्क!} स्तवने$} । तपन इत्येके ।{$ {!1645 शुठ!} आलस्ये$} ।{$ {!1646 शुठि!} शोषणे$} । शुण्ठयति । शुण्ठति ।{$ {!1647 जुड!} प्रेरणे$} ।{$ {!1648 गज!} {!1649 मार्ज!} शब्दार्थौ$} । गाजयति । मार्जयति ।{$ {!1650 मर्च!} च$} । मर्चयति ।{$ {!1651 घृ!} प्रस्रवणे$} । स्रावण इत्येके ।{$ {!1652 पचि!} विस्तारवचने$} । पञ्चयति । पञ्चति । पञ्चते इति व्यक्तार्थस्य शपि गतम् ।{$ {!1653 तिज!} निशाने$} । तेजयति ।{$ {!1654 कॄत!} संशब्दने$} ॥", "73037": "णौ परे । पुकोऽपवादः । शाययति । ह्वाययति ॥", "73038": "वातेर्जुक्स्याण्णौ कम्पार्थे । वाजयति । कम्पे किम् । केशान्वापयति । विभाषा लीयतेः <{SK2509}> ॥", "73039": "लीयतेर्लातेश्च क्रमान्नुग्लुकावगमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति । (वार्तिकम्) ॥", "73040": "भी ई इतीकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक् स्यात् णौ हेतुभये । भीषयते ॥", "73041": "णौ । स्फावयति ॥", "73042": "शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु । गाः शादयति गोविन्दः । गमयतीत्यर्थः ॥", "73043": "णौ । रोपयति । रोहयति ॥", "73044": "प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः स्यादापि परे स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । कात्किम् ? नन्दना । पूर्वस्य किम् ? परस्य माभूत् । कटुका । तपरः किम् ? राका । आपि किम् ? कारकः । (वार्तिकम्) ॥ मामिका । नरान् कायतीति नरिका । (वार्तिकम्) ॥ दाक्षिणात्यिका । इहत्यिका ॥", "73045": "यत्तद्दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् । (वार्तिकम्) ॥ अधित्यका । उपत्यका ॥ (वार्तिकम्) ॥ जीवका । भवका ॥ (वार्तिकम्) ॥ देवदत्तिका । देवका ॥ (वार्तिकम्) ॥ क्षिपका । ध्रुवका । कन्यका । चटका ॥ (वार्तिकम्) ॥ अन्यत्र तारिका ॥ (वार्तिकम्) ॥ अन्यत्र वर्णिका ॥ (वार्तिकम्) ॥ उदीचां तु वर्तिका ॥ (वार्तिकम्) ॥ अष्टिकान्या । (वार्तिकम्) ॥ इह वा अ इति छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका । सूतिकेत्यादि ॥", "73046": "यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । केऽणः <{SK834}> इति ह्रस्वः । आर्यका । आर्यिका । चटकका । चटकिका । आतः किम् ? सांकाश्ये भवा सांकाश्यिका । यकेति किम् ? अश्विका । स्त्रीप्रत्ययेति किम् ? शुभं यातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका ॥ (वार्तिकम्) ॥ सुनयिका । सुपाकिका ॥", "73047": "स्वेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्याऽसुप इति प्रतिषेधात् । अनेषका । परमैषका । अद्वके । परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि आतः स्थाने इत्यनुवृत्तं स्वशब्दस्यातो विशेषणम् । नतु द्वैषयोरसंभवात् । नाप्यन्येषामव्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्युदाहरणम् । एवं चात्मीयायां स्विका परमस्विकेति नित्यमेवेत्वम् । निर्भस्त्रका । निर्भस्त्रिका । एषका । एषिका । कृतषत्वनिर्देशान्नेह विकल्पः । एतिके । एतिकाः । अजका । अजिका । ज्ञका । ज्ञिका । द्वके । द्विके । निःस्वका । निःस्विका ॥", "73048": "एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका । गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा अखट्विका । शैषिके कपि तु विकल्प एव ॥", "73049": "पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । गङ्गिका । उक्तपुंस्कात्तु शुभ्रिका ॥", "73050": "अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥", "73051": "इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आसिषाचरति आशिषिकः । उषा चरति औषिकः । (वार्तिकम्) ॥ दोर्भ्यां चरित दौष्कः ॥", "73052": "चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे ॥ (वार्तिकम्) ॥ तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः <{SK2473}> ॥", "73053": "कुत्वं स्यात् । न्यङ्कुः । <<नावञ्चेः>> (उणादिः 1.17) इत्युप्रत्ययः ॥", "73054": "ञिति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥", "73055": "अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । ऋद्धनोः - <{SK2366}> इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥", "73056": "अभ्यासात्परस्य हिनोर्हस्य कुत्वं स्यान्न तु चङि । जिघाय ।{$ {!1258 पृ!} प्रीतौ$} । पृणोति । पर्ता ।{$ {!1259 स्पृ!} प्रीतिपालनयोः$} । प्रीतिचलनयोरित्यन्ये । चलनं जीवनमिति स्वामी । स्पृणोति । पस्पार । स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयश्छान्दसा इत्याहुः ।{$ {!1260 आप्लृ!} व्याप्तौ$} । आप्नोति । आप्नुतः । आप्नुवन्ति । आप्नुवः । आप । आप्ता । आप्नुहि । लृदित्त्वादङ् । आपत् ।{$ {!1261 शकॢ!} शक्तौ$} । अशकत् ।{$ {!1262 राध!} {!1263 साध!} संसिद्धौ$} । राध्नोति ॥", "73057": "जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिगाय । जिगय । जिग्यिव । जिग्यिम । जेता । जीयात् । अजैषीत् ।{$ {!562 जीव!} प्राणधारणे $}। जिजीव ।{$ {!563 पीव!} {!564 मीव!} {!565 तीव!} {!566 णीव!} स्थौल्ये$} । पिपीव । मिमीव । तितीव । निनीव ।{$ {!567 क्षिवु!} {!568 क्षेवु!} निरसने {!569 उर्वी!} {!570 तुर्वी!} {!571 थुर्वी!} {!572 दुर्वी!} {!573 धुर्वी!} हिंसार्थाः$} । ऊर्वांचकार । उपधायां च <{SK2265}> इति दीर्घः । तुतूर्व ।{$ {!574 गुर्वी!} उद्यमने$} । गूर्वति । जुगूर्व ।{$ {!575 मुर्वी!} बन्धने$} ।{$ {!576 पुर्व!} {!577 पर्व!} {!578 मर्व!} पूरणे$} ।{$ {!579 चर्व!} अदने$} ।{$ {!580 भर्व!} हिंसायाम्$} ।{$ {!581 कर्व!} {!582 खर्व!} {!583 गर्व!} दर्पे$} ।{$ {!584 अर्व!} {!585 शर्व!} {!586 षर्व!} हिंसायाम्$} । आनर्व । शर्वति । सर्वति ।{$ {!587 इवि!} व्याप्तौ$} । इन्वति । इन्वांचकार ।{$ {!588 पिवि!} {!589 मिवि!} {!590 णिवि!} सेचने$} । तृतीयो मूर्धन्योष्मादिरित्येके । सेवन इति तरङ्गिण्याम् । पिन्वति । पिपिन्व ।{$ {!591 हिवि!} {!592 दिवि!}$} ।{$ {!593 धिवि!} {!594 जिवि!} प्राणनार्थाः$} । हिन्वति । दिन्वति ॥", "73058": "अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च । प्रणिचिकाय । चिचाय । चिक्ये । चिच्ये । अचैषीत् । अचेष्ट ।{$ {!1252 स्तृञ्!} आच्छादने$} । स्तृणोति । स्तृणुते । गुणोर्ति - <{SK2380}> इति गुणः । स्तर्यात् ॥", "73059": "क्वादेर्धातोश्चजोः कुत्वं न । गर्ज्यम् । वार्तिककारस्तु चजोः-<{SK2863}> इति सूत्रे निष्ठायामनिट इति पूरयित्वा न क्वादेः <{SK2875}> इत्यादि प्रत्याचख्यौ । तेन अर्जितर्जिप्रभृतीनां न कुत्वम् । निष्ठायां सेट्त्वात् । ग्रुचुग्लुञ्चुप्रभृतीनां तु क्वादित्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तं तथापि यथोत्तरं मुनीनां प्रामाण्यम् ॥", "73060": "न कुत्वम् । समाजः । परिव्राजः ॥", "73061": "एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्च <{SK3300}> इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्गः ॥", "73062": "एतौ निपातौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । यज्ञाङ्गे किम् । प्रयागः । अनुयागः ॥", "73063": "कुत्वं न । वञ्च्यम् । गतौ किम् । वङ्क्यं काष्ठम् । कुटिलाकृतमित्यर्थः ॥", "73064": "उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषलौ । इगुपधलक्षणः कः । घञा सिद्धेऽन्तोदात्तार्थमिदम् ॥", "73065": "कुत्वं न । अवश्यपाच्यम् ॥", "73066": "ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । ऋच् । अर्च्यम् । ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् । (वार्तिकम्) ॥ त्याज्यम् । त्यजिपूज्योश्चेति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यम् । भाष्यानुक्तत्वात् । (वार्तिकम्) ॥", "73067": "वाच्यम् । शब्दाख्यायां तु वाक्यम् ॥", "73068": "प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यो भृत्यः ॥", "73069": "भोग्यमन्यत् ॥ (वार्तिकम्) ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ॥", "73070": "दधद्रत्नानि दाशुषे (दध॒द्रत्ना॑नि दा॒शुषे॑) । सोमो ददद्गन्धर्वाय (सोमो॑ ददद्गन्ध॒र्वाय॑) । यदग्निरग्नय ददात् (यद॒ग्निर॒ग्नय॑ ददात्) ॥", "73071": "लोपः स्यात् । श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषा घ्राधेट् - <{SK2376}> इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् ।{$ {!1146 छो!} छदने$} । छयति ।{$ {!1147 षो!} ऽन्तकर्मणि$} । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ ।{$ {!1148 दो!} अवखण्डने$} । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ॥\tअथात्मनेपदिनः पञ्चदश ॥{$ {!1149 जनी!} प्रदुर्भावे$} ॥", "73072": "अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-<{SK42}> । अघृक्षाताम् । अघृक्षन्त ।{$ {!651 ग्लह!} च$} । ग्लहते ।{$ {!652 घुषि!} कान्तिकरणे $}। घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं पठन्ति ॥\tअथार्हत्यन्ताः परस्मैपदिनः ।{$ {!653 घुषिर्!} अविशब्दने$} । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषीत् ।{$ {!654 अक्षू!} व्याप्तौ$} ॥", "73073": "एषां क्सस्य लुग्वा स्याद्दन्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचि <{SK2337}> इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि । अघुक्षावहि । अघुक्षामहि ।\tअथाजन्ता उभयपदिनः ।{$ {!897 श्रिञ्!} सेवायाम्$} । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रि-<{SK2312}> इतिचङ् । अशिश्रियत् ।{$ {!898 भृञ्!} भरणे$} । भरति । बभार । बभ्रतुः । बभर्थ । बभृव । बभृषे । भर्तार ॥", "73074": "शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् ।{$ {!1202 तमु!} काङ्क्षायाम्$} । ताम्यति । तमिता । अतमत् ।{$ {!1203 दमु!} उपशमे$} । उपशम इति ण्यन्तस्य । तेन सकर्मकोऽयम् । न तु शमिवदकर्मकः । अदमत् ।{$ {!1204 श्रमु!} तपसि खेदे च$} । श्राम्यति । अश्रमत् ।{$ {!1205 भ्रमु!} अनवस्थाने$} । वा भ्राश - <{SK2321}> इति श्यन्वा । तत्र कृते शमामष्टानाम् - <{SK2519}> इति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् ।{$ {!1206 क्षमू!} सहने$} । क्षाम्यति । चक्षमिथ । चक्षन्थ । चक्षमिव । चक्षण्व । चक्षमिम । चक्षण्म । क्षमिता । क्षन्ता । अयमवित् । भ्वादिस्तु षित् । अषितः क्षाम्यति क्षान्तिः क्षमूषः क्षमते क्षमा ।{$ {!1207 क्लमु!} ग्लानौ$} । क्लाम्यति । क्लामति । शपीव श्यन्यपि ष्ठिवुक्लमु - <{SK2320}> इत्येव दीर्घे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् ।{$ {!1208 मदी!} हर्षे$} । माद्यति । अमदत् । शमादयोऽष्टौ गताः ॥\t ।{$ {!1209 असु!} क्षेपणे$} । अस्यति । आस । असिता ॥", "73075": "एषामचो दीर्घः स्याच्छिति । (वार्तिकम्) ॥ आचामति । आङि किम् । चमति । विचमति । अचमीत् । जिमिं केचित्पठन्ति । जेमति ।{$ {!473 क्रमु!} पादविक्षेपे$} ॥", "73076": "क्रमेर्दीर्घः स्यात्परस्मैपदपरे शिति । क्राम्यति । क्रामति । चक्राम । क्राम्यतु । क्रामतु ॥", "73077": "एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता ॥", "73078": "पादीनां पिबादयः स्युरित्संज्ञकसकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लृदित्वादङ् । असदत् । सदिरप्रतेः <{SK2271}> । निषीदति । न्यषीदत् ॥", "73079": "अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जज्ञाते । जज्ञिरे । जनिता । जनिष्यते । दीपजन - <{SK2328}> इति वा चिण् ॥", "73080": "शिति परे । पुनाति । पुनीते । पविता ।{$ {!1483 लूञ्!} छेदने$} । लुनाति । लुनीते ।{$ {!1484 स्तॄञ्!} आच्छादने स्तृणाति$} । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता । स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि । स्तीर्यात् । लिङ्सिचोः <{SK2528}> इति वेट् न लिङि <{SK2529}> वॄत इटो लिङि दीर्घो न स्यात् । स्तरिषीष्ट । उश्च <{SK2368}> इति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मैपदेषु <{SK2392}> इति न दीर्घः । अस्तारीत् । अस्तारिष्टाम् । अस्तरिष्ट । अस्तरीष्ट । अस्तीर्ष्ट ।{$ {!1485 कॄञ्!} हिंसायाम्$} । कृणाति । कृणीते । चकार । चकरे ।{$ {!1486 वॄञ्!} वरणे$} । वृणाति । वृणीते । ववार । ववरे । वरिता । वरीता । आशिषि उदेष्ठ्यपूर्वस्य <{SK2494}> वूर्यात् । वरिषीष्ट । वूर्षीष्ट अवारीत् । अवारिष्टाम् । अवरिष्ट । अवरीष्ट । अवूर्ष्ट ।{$ {!1487 धूञ्!} कम्पने$} । धुनाति । धुनीते । दुधविथ । दुधोथ । दुधुविव । धोता । धविता । स्तुसुधूञ्भ्यः - <{SK2385}> इतीट् । अधावीत् । अधविष्ट । अधोष्ट ॥\tअथ बध्नात्यन्ताः परस्मैपदिनः ।{$ {!1488 शॄ!} हिंसायाम्$} । शॄदॄप्रां ह्रस्वो वा <{SK2495}> इति ह्रस्वपक्षे यण् । अन्यदा ऋच्छत्यॄताम् <{SK2383}> इति गुणः । शश्रतुः । शशरतुः श्र्युकः किति <{SK2381}> इति निषेधस्य क्रादिनियमेन बाधः । शशरिव । शश्रिव । शरिता । शरीता । शृणीहि । शीर्यात् । अशारिष्टाम् ।{$ {!1489 पॄ!} पालनपूरणयोः $}। पप्रतुः । पपरतुः । आशिषि । पूर्यात् ।{$ {!1490 वॄ!} वरणे$} । भरण इत्येके ।{$ {!1491 भॄ!} भर्त्सने$} । भरणेप्येके ।{$ {!1492 मॄ!} हिंसायाम्$} । मृणाति । ममार ।{$ {!1493 दॄ!} विदारणे$} । ददरतुः । दद्रतुः ।{$ {!1494 जॄ!} वयोहानौ$} । झॄ इत्येके । धॄ इत्यन्ये ।{$ {!1495 नॄ!} नये$} ।{$ {!1496 कॄ!} हिंसायाम्$} ।{$ {!1497 ॠ!} गतौ$} । ऋणाति । अरांचकार । अरिता । अरीता । अर्णात् । अर्णीताम् । ईर्यात् । आरीत् । आरिष्टाम् ।{$ {!1498 गॄ!} शब्दे$} ।{$ {!1499 ज्या!} वयोहानौ$} । ग्रहिज्या <{SK2412}> ॥", "73081": "शिति ह्रस्वः । प्रमिणन्ति व्रतानि (प्रमि॑णन्ति व्र॒तानि॑) । लोके प्रमीणन्ति । अस्तिसिचोऽपृक्ते <{SK2225}> ॥", "73082": "मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नाभावेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट ।{$ {!744 ञिष्विदा!} स्नेहनमोचनयोः$} । मोहनयोरित्येके । स्वेदते । सिष्विदे । अस्विदत् । अस्वेदिष्ट । ञिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट ।{$ {!745 रुच!} दीप्तावभिप्रीतौ च$} । रोचते सूर्यः । हरये । रोचते भक्तिः । अरुचत् । अरोचिष्ट ।{$ {!746 घुट!} परिवर्तने$} । घोटते । जुघुटे । अघुटत् । अघोटिष्ट ।{$ {!747 रुट!} {!748 लुट!} {!749 लुठ!} प्रतिघाते अरुटत्$} । अरोटिष्ट ।{$ {!750 शुभ!} दीप्तौ$} ।{$ {!751 क्षुभ!} संचलने$} ।{$ {!752 णभ!} {!753 तुभ!} हिंसायाम्$} । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी क्र्यादी च ।{$ {!754 स्रंसु!} {!755 ध्वंसु!} {!756 भ्रंसु!} अवस्रंसने$} । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अस्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधः पतन इति दिवादौ ।{$ {!757 स्रम्भु!} विश्वासे$} । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः ।{$ {!758 वृतु!} वर्तने$} । वर्तते ॥", "73083": "अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तालक्षणा प्राप्ता, नेटि <{SK2268}> इति निषिद्धा, ततः अतो हलादेः- <{SK2284}> इति बाधित्वा अतो ल्रान्तस्य <{SK2330}> इति प्राप्ता, ह्म्यन्त-<{SK2299}> इति निषिध्यते ॥ तदाहुः - गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यण्पूर्वाः प्राप्तयो नवेति । ।{$ {!1073 दरिद्रा!} दुर्गतौ$} । दरिद्राति ॥", "73084": "अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ॥", "73085": "जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ॥", "73086": "पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥", "73087": "लघूपधगुणो न स्यात । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त ।{$ {!1094 विजिर्!} पृथग्भावे$} । वेवेक्ति । वेविक्ते । विवेजिथ । अत्र विज इट् <{SK2536}> इति ङित्वं न । ओविजी इत्यस्यै तत्र ग्रहणात् । णिजिविजी रुधादावपि ।{$ {!1095 विष्लृ!} व्याप्तौ$} । वेवेष्टि । वेविष्टे । लृदित्त्वादङ् । अविषत् । तङि क्सः । अजादौ क्सस्याचि <{SK2337}> इति अल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ॥\tअथ आगणान्ताः परस्मैपदिनश्छान्दसाश्च ॥{$ {!1096 घृ!} क्षरणदीप्त्योः$} । जिघर्म्यग्रिं हविषा घृतेन । भृञामित् <{SK2496}>, बहुलं छन्दसि <{SK3598}> इति इत्वम् ।{$ {!1097 हृ!} प्रसह्यकरणे$} । अयं स्रुवो अभिजिहर्ति होमान् ।{$ {!1098 ऋ!} {!1099 सृ!} गतौ$} । बहुलं छन्दसि <{SK3598}> इत्येव सिद्धे अर्तिपिपर्त्योश्च <{SK2493}> इतीत्वविधानादयं भाषायामपि । अभ्यासस्यासवर्णे <{SK2290}> इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः । इडत्त्यर्ति - <{SK2384}> इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति ।{$ {!1100 भस!} भर्त्सनदीप्त्योः$} । बभस्ति । घसिभसोर्हलिच <{SK3550}> इत्युपधालोपः । झलो झलि <{SK2281}> इति सलोपः । बब्धः । बप्सति ।{$ {!1101 कि!} ज्ञाने$} । चिकेति ।{$ {!1102 तुर!} त्वरणे$} । तुतोर्ति । तुतूर्तः । तुतुरति ।{$ {!1103 धिष!} शब्दे$} । दिधेष्टि । दिधिष्टः ।{$ {!1104 धन!} धान्ये$} । दधन्ति । दधन्तः । दधनति ।{$ {!1105 जन!} जनने$} । जजन्ति ॥", "73088": "भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥", "73089": "लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्न इति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् ।{$ {!1034 रु!} शब्दे$} ॥", "73090": "वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति । ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । उर्णुवाते । ऊर्णुवते । (वार्तिकम्) ॥", "73091": "ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । ङिच्च पिन्न इति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट । ऊर्णुविषीष्ट । और्णवीत् । और्णुविष्टाम् ॥", "73092": "तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता ।{$ {!1457 उन्दी!} क्लेदने$} । उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् ।{$ {!1458 अञ्जू!} व्यक्तिम्रक्षणकान्तिगतिषु $}। अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । आनङ्क्थ । अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् ॥", "73093": "ब्रुवः परस्य हलादेः पित ईट् स्यात् । आत्थ इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ॥", "73094": "यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड्वा स्यात् । भुसुवोः - <{SK2224}> इति गुणनिषेधो यङ्लुकि भाषायां न । बोभूतु तेतिक्ते <{SK3596}> इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुकि अप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम् । [(परिभाषा - ) प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात्] । द्विः प्रयोगो द्विर्वचनं षाष्ठम् इति सिद्धान्तात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । गातिस्था - <{SK2223}> इति सिचो लुक् । यङो वा - <{SK2651}> इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्रुक् । अबोभूवुः । अबोभविष्यदित्यादि । पास्पर्धीति । पास्पर्धि । पास्पर्धः । पास्पर्धति । पास्पर्त्सि । हुझल्भ्यो हेर्धिः <{SK2425}> । पास्पर्धि । लङ् । अपास्पतर् । अपास्पदर् । सिपि दश्च <{SK2468}> इति रुत्वपक्षे रो रि <{SK173}> । अपास्पाः । जागाद्धि । जाधात्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघाः । नाथृ । नानात्ति । नानात्तः । दध । दादद्धिः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदाधत् । लुङि । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति । मोमोत्ति । मोमोदांचकार । मोमोदिता । अमोमुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदीः । अमोमोः । अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति । चोकूर्दीति । लङ् तिप् । अचोकूतर् । अचोकूर्दीत् । सिप्पक्षे । अचोकूः । अचोखूः । अजोगूः । वनीवञ्चीति । वनीवङ्क्ति । वनीवक्तः । वनीवचति । अवनीवञ्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । अनुदात्तोपदेश - <{SK2428}> इत्यनुनासिकलोपः । जङ्गन्तः । जङ्ग्मति । म्वोश्च <{SK2309}> । जङ्गन्मि । जङ्गन्वः । एकाज्ग्रहणेनोक्तत्वान्नेण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि ॥मो नो धातोः <{SK341}> अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । ह्म्यन्त - <{SK2299}> इति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्युङ्लुक् । अभ्यासाच्च <{SK2430}> इति कुत्वं यद्यपि हो हन्तेः <{SK358}> इत्यतो हन्तेरित्यनुवर्त्य विहितं, तथापि यङ्लुकि भवत्येवेति न्यासकारः । [(परिभाषा - ) श्तिपा शपा...] इति निषेधस्तवनित्यः गुणो यङ्लुकोः <{SK2630}> इति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जङ्घ्नति । जङ्घनिता । श्तिपा निर्देशाज्जादेशो न । जङ्घहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आशिषि तु । वध्यात् । अवधीत् । अवधिष्टामित्यादि । वधादेशस्य द्वित्वं तु न भवति । स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आङ्पूर्वात्तु आङो यमहनः <{SK2695}> इत्यात्मनेपदम् । आजङ्घते इत्यादि । उत्परस्य - <{SK2637}> इति तपरत्वान्न गुणः । हलि च <{SK354}> इति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्ति । चञ्चूर्तः । चञ्चुरति । अचञ्चूरीत् । अचञ्चूः । चङ्खनीति । चङ्खन्ति । जनसन - <{SK2504}> इत्यात्वम् । चङ्खातः । गमहन - <{SK2363}> इत्युपधालोपः । चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्खनीत् । अचङ्खन् । अचङ्खाताम् । अचङ्ख्नुः । ये विभाषा <{SK2319}> । चङ्खायात् । चङ्खन्यात् । अचङ्खनीत् । अचङ्खानीत् । उतो वृद्धिः <{SK2443}> इत्यत्र नाभ्यस्तस्येत्यनुवृत्तेरुतोवृद्धिर्न । योयोति । योयवीति । अयोयवीत् । अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति । नोनोति । जाहेति । जाहाति । ई हल्यघोः <{SK2497}> । जाहीतः । इह जहातेश्च <{SK2498}> आच हौ <{SK2499}> लोपो यि <{SK2500}> घुमास्था - <{SK2462}> एर्लिङि - <{SK2374}> इत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि । जाहेषि । जाहीथः । जाहीथ । जाहीति । अजाहेत् । अजाहात् । अजाहीताम् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् स्वपिस्यमि - <{SK2645}> इत्युत्वं न । रुदादिभ्यः - <{SK2464}> इति गणनिर्दिष्टत्वादिण्न । सास्वपीति । सास्वप्ति । सास्वप्तः । सास्वपति । असास्वपीत् । असास्वप् । सास्वप्यात् । आशिषि तु वचिस्वपि - <{SK2409}> इत्युत्वम् । सासुप्यात् । असास्वापीत् । असास्वपीत् ॥", "73095": "एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । नाभ्यस्तस्य -<{SK2403}> इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति । रौति । रुवीतः । रुतः । हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि रूयात् । विध्यादौ तु रुयात् । रूवीयात् । अरावीत् । अरविष्यत् । तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति । तौति । तुवीतः । तुतः । तोता । तोष्यति ।{$ {!1035 णु!} स्तुतौ$} । नौति । नविता ।{$ {!1036 टुक्षु!} शब्दे$} । क्षौति क्षविता ।{$ {!1037 क्ष्णु!} तेजने$} । क्ष्णौति । क्ष्णविता ।{$ {!1038 ष्णु!} प्रस्रवणे$} । स्नौति । सुष्णाव । स्नविता । स्नुयात् । स्नूयात् ।{$ {!1039 ऊर्णुञ्!} आच्छादने$} ॥", "73096": "सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥", "73097": "सर्वमा इदम् (सर्व॑मा इ॒दम्) । आसीदिति प्राप्ते ॥ (अस्तेर्लङ् तिप्ईडभाव अपृक्तत्वाद्धल्ङ्यादिलोपः । रुत्वविसर्गौ । संहितायां तु भोभगो <{SK167}> इति यत्वम् । लोपः शाकल्यस्य <{SK67}> इति यलोपः । गोभिरक्षाः (गोभि॒रक्षाः॑) । सिच इडभावश्छान्दसः । अट् । शेषं पूर्ववत् । ह्रस्वस्य गुणः <{SK242}> । जसि च <{SK241}> । (वार्तिकम्) ॥ अधा शतकत्वो यूयम् (अधा॑ शतकत्वो यू॒यम्) । शतकतवः । पश्वेनृभ्यो यथा गवे (पश्वे॒नृभ्यो॒ यथा॒ गवे॑) । पशवे ॥ ठनाभ्यस्तस्याचि <{SK2503}> इति निषेधे । (वार्तिकम्) ॥ अनुषग्जुजोपत् (अनु॒षग्जुजो॑पत्) ॥", "73098": "हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ॥", "73099": "अरोदीत्-अरोदत् । अरूदिताम् । अरुदन् । अरोदीः-अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्याममडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् । अरुदत् । अरोदीत् ।{$ {!1068 ञिष्वप्!} शये$} । स्वपिति । स्वपितः । सुष्वाप । सुषुपतुः । सुषुपुः । सुष्वपिथ-सुष्वप्थ ॥", "73100": "अदः परस्यापृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ॥", "73101": "अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । युष्मद्युपपदे <{SK2162}> इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः । प्रहासे किम् । यथार्थकथने माभूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥", "73102": "यञादौ सुपि परेऽतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥", "73103": "झलादौ बहुवचने सुपि परेऽतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ॥", "73104": "ओसि परेऽतोऽङ्गस्यैकारः स्यात् । रामयोः ॥", "73105": "आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥", "73106": "आप एकारः स्यात्संबुद्धौ । एङ्ह्रस्वात् <{SK193}>इति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः । स्त्रीत्वान्नत्वाऽभावः ॥", "73107": "अम्बार्थानां नद्यन्तानां च ह्रस्वः स्यात्संबुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ॥", "73108": "ह्रस्वस्य गुणः स्यात्संबुद्धौ ।एङ्ह्रस्वा <{SK193}>दिति संबुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् ॥", "73109": "ह्रस्वान्तस्याऽङ्गस्य गुणः स्याज्जसि परे । हरयः ॥", "73110": "ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ॥", "73111": "घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्वी । घेर्ङिती <{SK245}>ति गुणे कृते ॥", "73112": "नद्यन्तात्परेषां ङितामाडागमः स्यात् ॥", "73113": "आपः परस्य ङिद्वचनस्य याडागमः स्यात् । वृद्धिरेचि <{SK72}> । रमायै । सवर्णदीर्घः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥", "73114": "आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः । सर्वस्यै । सर्वस्याः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् आमि सर्वानाम्नः <{SK217}> इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादय आबन्ताः ॥", "73115": "आभ्यां ङितः स्याड्वा स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसङ्ख्यानात् । द्वितीयस्यै । द्वितीयायै । द्वितीयस्याः । द्वितीयायाः । द्वितीयस्याम् । द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । अम्बार्थनद्योर्ह्रस्वः <{SK267}> । हे अम्ब । हे अक्क । हे अल्ल ॥ (वार्तिकम्) ॥ हे अम्बाडे । हे अम्बाले । अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य जरसी इति केचिदाहुस्तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य औङ् आपः <{SK287}> । आङि चापः <{SK289}> । याडापः <{SK290}> । ह्रस्वनद्यापः <{SK208}> । ङेराम् <{SK270}> । इति पञ्चापि विधयः प्राप्ताः । एवं नस्निश्पृत्सु । तथाप्यनल्विधावित्युक्तेर्न भवन्ति । आ-आबिति प्रश्लिष्य आकाररूपस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं हल्ङ्यादिसूत्रेऽपि आ आप् ङी ई इति प्रश्लेषादतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेदीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याड्विधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । पदन्न इति नासिकया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ॥", "73116": "नद्यन्तादाबन्तान्नीशब्दाच्च ङेराम् स्यात् । इह परत्वादाटा नुड्बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । हल्ङ्याब् <{SK252}> इति सुलोपः ॥", "73117": "नदीसंज्ञकाभ्यामिदुद्भ्यां परस्य ङेराम् स्यात् । पक्षे अच्च घेः <{SK247}> । मत्याम् । मतौ । एवं श्रुतिस्मृत्यादयः ॥", "73118": "इदुद्भ्यां परस्य ङेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् ॥ शोभनः सखा सुसखा । सुसखायौ । सुसखायः । अनङ्णिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावात् असखि <{SK243}>इति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यात् <{SK255}>इत्युत्त्वं न । सुसखेः । सुसखावित्यादि । एवमतिशयितः सखा अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि । गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहाऽनङ्णित्त्वे न भवतः । गोस्त्रियो <{SK656}>रिति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् । [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात्] ॥", "73119": "इदुद्भ्यामुत्तरस्य ङेरौत्स्याद् घेरन्तादेशश्चाकारः । हरौ । हर्योः । हरिषु । एवं श्रीपत्यग्निरविकव्यादयः ॥", "73120": "घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासञ्ज्ञा प्राचाम् । हरिणा । अस्त्रियां किम् । मत्या ॥", "74001": "चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥", "74002": "णिच्यग्लोपिनः शास्तेर्ऋदितां च उपधाया ह्रस्वो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वाद्वर्तति । वर्धति ।{$ {!1784 रुट!} {!1785 लजि!} {!1786 अजि!} {!1787 दसि!} {!1788 भृशि!} {!1789 रुशि!} {!1790 शीक!} {!1791 रुसि!} {!1792 नट!} {!1793 पुटि!} {!1794 जि!} {!1795 चि!} {!1796 रघि!} {!1797 लघि!} {!1798 अहि!} {!1799 रहि!} {!1800 महि!} भाषार्थाः$} ।{$ {!1801 लडि!} {!1802 तड!} {!1803 नल!} भाषार्थाः$} ।{$ {!1804 पूरी!} आप्ययने$} । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा । पूरयति । पूरति ।{$ {!1805 रुज!} हिंसायाम्$} ।{$ {!1806 ष्वद!} आस्वादने$} । स्वाद इत्येके । असिष्वदत् । दीर्घस्य त्वषोपदेसत्वात् । असिस्वदत् । इत्यास्वदीयाः ॥\t(गणसूत्रम् -) आ धृषाद्वा । इत उर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य ।{$ {!1807 युज!} {!1808 पृच!} संयमने$} । योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् ।{$ {!1809 अर्च!} पूजायाम्$} ।{$ {!1810 षह!} मर्षणे$} । साहयति । स एवातं नागः सहति कलभेभ्यः परिभवम् ।{$ {!1811 ईर!} क्षेपे$} ।{$ {!1812 ली!} द्रवीकरणे$} । लापयति । लयति । लेता ।{$ {!1813 वृजी!} वर्जने$} । वर्जयति । वर्जति ।{$ {!1814 वृञ्!} आवरणे$} । वारयति । वरति । वरते । वरिता । वरीता ।{$ {!1815 जॄ!} वयोहानौ$} । जारयति । जरति । जरिता । जरीता ।{$ {!1816 ज्रि!} च $}। ज्राययति । ज्रयति । ज्रेता ।{$ {!1817 रिच!} वियोजनंपर्चनयोः$} । रेचयति । रेचति । रेक्ता ।{$ {!1818 शिष!} असर्वोपयोगे$} । शेषयति । शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये ।{$ {!1819 तप!} दाहे$} । तापयति । तपति । तप्ता ।{$ {!1820 तृप!} तृप्तौ$} । संदीपन इत्येके । तर्पयति । तर्पति । तर्पिता ।{$ {!1821 छृदी!} सन्दीपने$} ॥ छर्दयति । छर्दति । छर्दिता । छर्दिष्यति । सेसिचि - <{SK250}> इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । चृप छृप तृप दृप संदीपन इत्येके । चर्पयति । छर्पयति ।{$ {!1822 दृभी!} भये$} । दर्भयति । दर्भति । दर्भिता ।{$ {!1823 दृभ!} संदर्भे$} ॥ अयं तुदादावीदित् ।{$ {!1824 श्रथ!} मोक्षणे$} । हिंसायां इत्येके ।{$ {!1825 मी!} गतौ$} । माययति-मयति । मेता ।{$ {!1826 ग्रन्थ!} बन्धने$} । ग्रन्थयति-ग्रन्थति ।{$ {!1827 शीक!} आमर्षणे$} ।{$ {!1828 चीक!} च$} ।{$ {!1829 अर्द!} हिंसायाम्$} । स्वरितेत् । अर्दयति । अर्दति । अर्दते ।{$ {!1830 हिसि!} हिंसायाम्$} । हिंसयति । हिंसति । हिनस्तीति श्नमि गतम् ।{$ {!1831 अर्ह!} पूजायाम्$} ।{$ {!1832 आङः!} षद पद्यर्थे$} । आसादयति । आसीदति । पाघ्रा - <{SK2360}> इति सीदादेशः । आसत्ता । आसात्सीत् ।{$ {!1833 शुन्ध!} शौचकर्मणि$} । शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् ।{$ {!1834 छद!} अपवारणे$} । स्वरितेत् ।{$ {!1835 जुष!} परितर्कणे$} । परितर्कणमूहो हिंसा वा । परितर्पण इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति । जोषति । प्रीतिसेवनयोर्जुषते इति तुदादौ ।{$ {!1836 धूञ्!} कम्पने$} । णावित्यधिकृत्य । (वार्तिकम्) ॥ धूनयति । धवति । धवते । केचित्तु धूञ्प्रीणोरिति पठित्वा प्रीणातिसाहचर्याद्धुनातेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च । स्वादौ क्र्यादौ तुदादौ च । स्वादौ ह्रस्वश्च । तथा च कविरहस्ये ॥ धूनोतिचम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तिम् ॥ वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ।{$ {!1837 प्रीञ्!} तर्पणे$} ॥ प्रीणयति । धूञ्प्रीणोरिति हरदत्तोक्तपाठे तु । प्राययति । प्रयति । प्रयते ।{$ {!1838 श्रन्थ!} {!1839 ग्रन्थ!} सन्दर्भे$} ।{$ {!1840 आप्लृ!} लम्भने$} । आपयति । आपिपत् । आपति । आप्ता । आपत् । स्वरितेदयमित्येके । आपते ।{$ {!1841 तनु!} श्रद्धोपकरणयोः$} ॥ उपसर्गाच्च दैर्घ्ये ॥ तानयति । वितानयति । तनति । वितनति । चन श्रद्धोपहननयोरित्येके । चानयति । चनति ।{$ {!1842 वद!} संदेशवचने$} ॥ वादयति । स्वरितेत् । वदति । वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् ।{$ {!1843 वच!} परिभाषणे$} । वाचयति । वचति । वक्ता । अवाक्षीत् ।{$ {!1844 मान!} पूजायाम्$} । मानयति । मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे मानयते । इत्याकुस्मीयाः । मन्यते इति दिवादौ । मनुते इति तनादौ च ।{$ {!1845 भू!} प्राप्तावात्मनेपदी $}। भावयते । भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति ।{$ {!1846 गर्ह!} विनिन्दने$} ।{$ {!1847 मार्ग!} अन्वेषणे$} ।{$ {!1848 कठि!} शोके$} । उत्पर्वोऽयमुत्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः ।{$ {!1849 मृजू!} शौचालंकारयोः$} । मार्जयति । मार्जति । मार्जिता । मार्ष्टा ।{$ {!1850 मृष!} तितिक्षायाम्$} । स्वरितेत् । मर्षयति । मर्षति । मर्षते । मृष्यति मृष्यते इति दिवादौ । सेचने शपि मर्षति ।{$ {!1851 धृष!} प्रहसने$} । धर्षयति । धर्षति । इत्याधृषीयाः ॥ \tअथादन्ताः ॥{$ {!1852 कथ!} वाक्यप्रबन्धे$} । अल्लोपस्य स्थानिवद्भावान्नवृद्धिः । कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् ।{$ {!1853 वर!} ईप्सायाम्$} । वरयति । वारयतीति गतम् ।{$ {!1854 गण!} संख्याने$} । गणयति ॥", "74003": "एषामुपाधाया ह्रस्वो वा स्याच्चङ्परे णौ । अपीपिडत् । अपिपीडत् ।{$ {!1545 नट!} अवस्कन्दने$} । अवस्कन्दनं नाट्यम् ।{$ {!1546 श्रथ!} प्रयत्ने$} । प्रस्थान इत्येके ।{$ {!1547 बध!} संयमने$} । बाधयति । बन्धेति चान्द्रः ।{$ {!1548 पॄ!} पूरणे$} । पारयति । दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गम् । तद्धि सेट्कत्वाय । एवं च पृणातिपिपर्तिभ्यां परितेत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम् ।{$ {!1549 ऊर्ज!} बलप्राणनयोः$} ।{$ {!1550 पक्ष!} परिग्रहे$} ।{$ {!1551 वर्ण!} {!1552 चूर्ण!} प्रेरणे$} । (गणसूत्रम् -) वर्ण वर्णन इत्येके ।{$ {!1553 प्रथ!} प्रख्याने$} । प्राथयति । नान्ये मितोऽहेताविति वक्ष्यमाणत्वान्नास्य मित्त्वम् ॥", "74004": "पिबतेरुपधाया लोपः स्यादभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत् । अर्तिह्री - <{SK2570}> इति पुक् । अर्पयति । ह्रेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मापयति । स्थापयति ॥", "74005": "उपधाया इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ॥", "74006": "अजिघ्रिपत् । अजिघ्रपत् । उर्ऋत् <{SK2567}> । अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अवर्तत् । अमीमृजत् । अममार्जत् । (वार्तिकम्) ॥ पुकोऽपवादः । पालयति ॥", "74007": "उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ । इररारामपवादाः । अपीपृथत् । अपपर्थत् । पथ इत्येके । पाथयति ।{$ {!1555 षम्ब!} सम्बन्धने$} । सम्बयति- अससम्बत् ।{$ {!1556 शम्ब!} च$} । अशशम्बत् । साम्ब इत्येके ।{$ {!1557 भक्ष!} अदने$} ।{$ {!1558 कुट्ट!} छेदनभर्त्सनयोः$} । पूरण इत्येके । कुट्टयति ।{$ {!1559 पुट्ट!} {!1560 चुट्ट!} अल्पीभावे$} ।{$ {!1561 अट्ट!} {!1562 षुट्ट!} अनादरे$} । अट्टयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वात् नन्द्राः - <{SK2246}> इति निषेधः । आट्टिटत् ।{$ {!1563 लुण्ठ!} स्तेये$} । लुण्ठति । लुण्ठतीति । लुठि स्तेये इति भौवादिकस्य ।{$ {!1564 शठ!} {!1565 श्वठ!} असंस्कारगत्योः$} । श्वठि इत्येके ।{$ {!1566 तुजि!} {!1567 पिजि!} हिंसाबलादाननिकेतनेषु $}। तुञ्जयति । पिञ्जयति । इदित्करणात्तुञ्जति । पिञ्जति । तुज पिजेति केचित् । लजि लुजि इत्येके ।{$ {!1568 पिस!} गतौ$} । पेसयति । पेसतीति तु शपि गतम् ।{$ {!1569 षान्त्व!} सामप्रयोगे$} ।{$ {!1570 श्वल्क!} {!1571 वल्क!} परिभाषणे$} ।{$ {!1572 ष्णिह!} स्नहने$} । स्फिट इत्येके ।{$ {!1573 स्मिट!} अनादरे$} । अषोपदेशत्वान्न षः । असिस्मिटत् । ष्मिङ् अनादर इत्येके । ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् । स्माययते ।{$ {!1574 श्लिष!} श्लेषणे$} ।{$ {!1575 पथि!} गतौ$} । पन्थयति । पन्थति ।{$ {!1576 पिच्छ!} कुट्टने$} ।{$ {!1577 छदि!} संवरणे$} । छन्दयति । छन्दति ।{$ {!1578 श्रण!} दाने$} । प्रायेणायं विपूर्वः । विश्राणयति ।{$ {!1579 तड!} आघाते$} । ताडयति ।{$ {!1580 खड!} {!1581 खडि!} {!1582 कडि!} भेदने$} । खाडयति । खण्डयति । खण्डति । कण्डयति । कण्डति ।{$ {!1583 कुडि!} रक्षणे$} ।{$ {!1584 गुडि!} वेष्टने$} । रक्षण इत्येके । कुठि इत्यन्ये । अवकुण्ठयति अकुण्ठति । गुठि इत्यपरे ।{$ {!1585 खुडि!} खण्डने$} ।{$ {!1586 वटि!} विभाजने$} । वडि इत्येके ।{$ {!1587 मडि!} भूषायां हर्षे च$} ।{$ {!1588 भडि!} कल्याणे$} ।{$ {!1589 छर्द!} वमने$} ।{$ {!1590 पुस्त!} {!1591 बुस्त!} आदरानादरयोः$} ।{$ {!1592 चुद!} संचोदने {!1593 नक्क!} {!1594 धक्क!} नाशने$} । णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति ।{$ {!1595 चक्क!} {!1596 चुक्क!} व्यथने$} ।{$ {!1597 क्षल!} शौचकर्मणि$} ।{$ {!1598 तल!} प्रतिष्ठायाम्$} ।{$ {!1599 तुल!} उन्माने$} । तोलयति । लोलयामास । अतूतुलत् । कथं तुलयति तुलना इत्यादि । तुलोपमाभ्याम् - <{SK630}> इति निपातनादङन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् ।{$ {!1600 दुल!} उत्क्षेपणे$} । दोलयति । दोलयामास । अदूदुलत् ।{$ {!1601 पुल!} महत्त्वे$} ।{$ {!1602 चुल!} समुच्छ्राये$} ।{$ {!1603 मूल!} रोहणे$} ।{$ {!1604 कल!} {!1605 बिल!} क्षेपे$} । कालयति ।{$ {!1606 बिल!} भेदने$} ।{$ {!1607 तिल!} स्नेहने$} ।{$ {!1608 चल!} भृतौ$} ।{$ {!1609 पाल!} रक्षणे$} ।{$ {!1610 लूष!} हिंसायाम्$} ।{$ {!1611 शुल्ब!} माने$} ।{$ {!1612 शूर्प!} च$} ।{$ {!1613 चुट!} छेदने$} ।{$ {!1614 मुट!} संचूर्णने$} ।{$ {!1615 पडि!} {!1616 पसि!} नाशने$} । पण्डयति । पण्डति । पंसयति । पंसति ।{$ {!1617 व्रज!} {!1618 मार्ग!} संस्कारगत्योः$} ।{$ {!1619 शुल्क!} अतिस्पर्शने$} ।{$ {!1620 चपि!} गत्याम्$} । चम्पयति । चम्पति ।{$ {!1621 क्षपि!} क्षान्त्याम्$} । क्षम्पयति । क्षम्पति ।{$ {!1622 छजि!} कृच्छ्रजीवने$} ।{$ {!1623 श्वर्त!} गत्याम्$} ।{$ {!1624 श्वभ्र!} च$} ।{$ {!1625 ज्ञप!} मिच्च $}। अयं ज्ञाने ज्ञापने च वर्तते ॥", "74008": "छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधत् ॥", "74009": "दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥", "74010": "ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदंपरत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । ह्वर्ता । ऋद्धनोः स्ये <{SK2366}> ह्वरिष्यति ॥", "74011": "तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ॥", "74012": "एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः । पपरतुः । पपरुः । परिता । परीता । अपिपः । अपिपूर्ताम् । अपिपरूः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । ह्रस्वान्तोऽयमिति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि प्रियात् । अपार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतमित्यादौ छान्दसत्त्वं शरणम् ।{$ {!1087 डुभृञ्!} धारणपोषणयोः$} ॥", "74013": "के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते ॥", "74014": "कपि परे अणो ह्रस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकतृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । अबला । तनया । सामान्ये नपुंसकम् ॥ दृढं भक्तिर्यस्य स दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ॥", "74015": "कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः । बहुमालकः । कबभावे तु बहुमालः ॥", "74016": "ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥", "74017": "अहि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे अस्यतिवक्ति - <{SK2438}> इति वचनं तङर्थम् । तङ् तु उपसर्गादस्यत्यूह्योरिति वक्ष्यते । पर्यास्थत ।{$ {!1210 यसु!} प्रयत्ने$} ॥", "74018": "श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । विभाषा धेट्श्व्योः <{SK2375}> इति चङ् । इयङ् । अशिश्वियत् । ह्म्यन्त - <{SK2299}> इति न वृद्धिः । अश्वयीत् ॥ वृत् । यजादयो वृत्ताः । भ्वादिस्तवाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥ इति तिङन्ते भ्वादयः ॥", "74019": "अङि परे । अपप्तत् ।नेर्गद - <{SK2285}> इति णत्वम् । प्रण्यपप्तत् ।{$ {!846 क्वथे!} निष्पाके$} । क्वथिति । चक्वाथ । अक्वथीत् ।{$ {!847 पथे!} गतौ$} । अपथीत् ।{$ {!848 मथे!} विलोडने$} । मेथतुः । अमथीत् ।{$ {!849 टुवम!} उद्गिरणे$} । इहैव निपातनादॄत इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्यादेत्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् ।{$ {!850 भ्रमु!} चलने$} । वा भ्राश - <{SK2321}> इति श्यन्वा । भ्रम्यति । भ्रमति । भ्राम्यतीति तु दिवादेर्वक्ष्यते ॥", "74020": "अङि परे । अवोचत् । अवोचत ॥\tअथ शास्यान्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी ।{$ {!1045 इण्!} गतौ$} । एति । इतः ॥", "74021": "क्ङिति च- <{SK2217}> इत्यस्यापवादः । शेते । शयाते ॥", "74022": "शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ॥", "74023": "यादौ क्ङिति । ब्रह्म समुह्यात् । अग्रिं समुह्य ॥", "74024": "उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥", "74025": "अजन्ताङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् ।{$ {!237 क्षीज!} अव्यक्तेशब्दे$} । कूजिना सहायं पठितुं युक्तः । चिक्षीज ।{$ {!238 लज!} {!239 लजि!} भर्जने$} ।{$ {!240 लाज!} {!241 लाजि!} भर्त्सने च $}।{$ {!242 जज!} {!243 जजि!} युद्धे$} ।{$ {!244 तुज!} हिंसायाम्$} । तोजति । तुतोज ।{$ {!245 तुजि!} पालने$} ।{$ {!246 गज!} {!247 गजि!} {!248 गृज!} {!249 गृजि!} {!250 मुज!} {!251 मुजि!} शब्दार्थाः$} । गज मदने च ।{$ {!252 वज!} {!253 व्रज!} गतौ$} । वदव्रज - <{SK2267}> इति वृद्धिः । अव्राजीत् । \tअथ टवर्गीयान्ताः शाङ्यन्ता अनुदात्तेतः षट्त्रिंशत् ॥{$ {!254 अट्ट!} अतिक्रमणहिंसयोः$} । दोपधोऽयम् । तोपध इत्येके । अट्टते । आनट्टे ।{$ {!255 वेष्ट!} वेष्टने$} । विवेष्ट ।{$ {!256 चेष्ट!} चेष्टायाम्$} । अचेष्टिष्ट ।{$ {!257 गोष्ट!} {!258 लोष्ट!} संघाते$} । जुगोष्टे । लुलोष्टे ।{$ {!259 घट्ट!} चलने$} । जघट्टे ।{$ {!260 स्फुट!} {!261 अठि!} गतौ$} । अण्ठते । आनण्ठे ।{$ {!262 वठि!} एकचर्यायाम्$} । ववण्ठे ।{$ {!263 मठि!} {!264 कठि!} शोके$} । शोक इह आध्यानम् । मण्ठते । कण्ठते ।{$ {!265 मुठि!} पालने$} । मुण्ठते ।{$ {!266 हेठ!} विबाधायाम्$} । जिहेठे ।{$ {!267 एठ!} च$} । एठांचक्रे ।{$ {!268 हिडि!} गत्यनादरयोः$} । हिण्डते । जिहिण्डे ।{$ {!269 हुडि!} संघाते$} । जुहुण्डे ।{$ {!270 कुडि!} दाहे$} । चुकुण्डे ।{$ {!271 वडि!} विभजने$} ।{$ {!272 मडि!} च$} । ववण्डे ।{$ {!273 भडि!} परिभाषणे$} । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे ।{$ {!274 पिडि!} संघाते$} । पिपिण्डे ।{$ {!275 मुडि!} मार्जने$} । मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते ।{$ {!276 तुडि!} तोडने$} । तोडनं दारणं हिंसनं च । तुण्डते ।{$ {!277 हुडि!} वरणे$} । वरणं स्वीकारः । हरण इत्येके । हुण्डते ।{$ {!278 चडि!} कोपे$} । चण्डते ।{$ {!279 शडि!} रुजायां संघाते च$} । शण्डते ।{$ {!280 तडि!} ताडने$} । तण्डते ।{$ {!281 पडि!} गतौ$} । पण्डते ।{$ {!282 कडि!} मदे$} । कण्डते ।{$ {!283 खडि!} मन्थे$} ।{$ {!284 हेडृ!} {!285 होडृ!} अनादरे$} । जिहेडे । जुहोडे ।{$ {!286 बाडृ!} आप्लाव्ये $}। बशादिः । आप्लाव्यमाप्लवः । बाडते ।{$ {!287 द्राडृ!} {!288 ध्राडृ!} विशरणे$} । द्राडते । ध्राडते ।{$ {!289 शाडृ!} श्लाघायाम्$} । शाडते ॥\tअथ आ टवर्गीयान्तसमाप्तेः परस्मैपदिनः ॥{$ {!290 शौटृ!} गर्वे$} । शौटति । शुशौट ।{$ {!291 यौटृ!} बन्धे$} । यौटति ।{$ {!292 म्लेटृ!} {!293 म्रेडृ!} उन्मादे$} । द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेडति । म्रेडति ।{$ {!294 कटे!} वर्षावरणयोः$} । चटे इत्येके । चकाट । सिचि अतो हलादेर्लघोः <{SK2284}> इति वृद्धौ प्राप्तायाम् ॥", "74026": "च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । स्वस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । स्वस्तीस्यादित्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु । रीङृतः <{SK1234}> । मात्रीकरोति ॥", "74027": "अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् ॥यस्येति च <{SK311}> । पित्र्यम् । उषस्यम् ॥", "74028": "शे यकि यादावार्धाधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ॥", "74029": "अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वर्षीत् । अह्वार्ष्टाम् ।{$ {!932 स्वृ!} शब्दौपतापयोः$} । स्वरतिसूति - <{SK2279}> इति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु ॥", "74030": "अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि । यकारपररेफस्य न द्वित्वनिषेधः । अरार्यते इति भाष्योदाहरणात् । अरारिता । अशाशिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्तवान्नोपधागुणः । बेभिदिता ॥", "74031": "जेघ्रीयते । देध्मीयते ॥", "74032": "अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपः । च्व्यन्तात्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् । (वार्तिकम्) ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्च अव्ययीभावश्च <{SK451}> इति सूत्रे भाष्ये उक्तम् ॥", "74033": "अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये <{SK63}> । गव्यति । नाव्यति । लोपः शाकल्यस्य <{SK67}> इति तु न । अपदान्तत्वात् । तथा हि ॥", "74034": "क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ॥", "74035": "पुत्रभिन्नस्यादन्तस्य क्यचि ईत्वदीर्घौ न । मित्रयुः । क्याच्छन्दसि <{SK3150}> इति उः । अपुत्रस्य किम् । पुत्रीयन्तः सुदानवः (पु॒त्रीयन्तः॑ सु॒दान॑वः) ॥ अपुत्रादीनामिति वाच्यम् ॥ जनीयन्तोन्वग्रवः (ज॒नी॒यन्तोन्वग्र॑वः) । जनमिच्छन्त इत्यर्थः ॥", "74036": "एते क्यचि निपात्यन्ते । भाषायां तु उप्रत्ययाभावात् दुष्टीयति । द्रविणीयति । वृषीयति । रिष्टीयति ॥", "74037": "अश्व अघ एतयो क्यचि आत्स्याच्छन्दसी । अश्वायन्तो मघवन् (अ॒श्वा॒यन्तो॑ मघवन्) । मात्वा वृका अघायवः । न च्छन्दसि-<{SK3588}> इति निषेधो नेत्वमात्रस्य किं तु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् ॥", "74038": "अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् । देवायन्तो यजमानाः । सुम्नायन्तो हावमहे (सु॒म्ना॒यन्तो॑ हवामहे) । इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः । तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति । स चेन्मन्त्रो यजुषि कठशाखायां दृष्टः । यजुषीति किम् । देवाञ्जिगाति सुम्नयुः (दे॒वाञ्जि॑गाति सुम्न॒युः) । बह्वृचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः ॥", "74039": "एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः (सपूर्व॑या नि॒विदा॑ क॒व्यता॒योः) । अध्वर्युं वा मधुपाणिम् । दमयन्तं पृतन्युम् (द॒मय॑न्तं पृत॒न्युम्) । दधातेर्हि <{SK3076}> । जहातेश्च क्त्वि <{SK3331}> ॥", "74040": "एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ॥", "74041": "शितः । शातः । छितः । छातः । व्यवस्थितविभाषात्वाद्व्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ॥", "74042": "तादौ किति । अभिहितम् । निहितम् ॥", "74043": "हित्वा । हाङस्तु । हात्वा । अदो जग्धिः-<{SK3080}> । जग्ध्वा ॥", "74044": "हित्वा शरीरम् । हीत्वा वा ॥", "74045": "सु वसु नेम एतत्पूर्वस्य दधाते क्तप्रत्यये इत्वं निपात्यते । गर्भं माता सुधितं वक्षणासु (गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॑सु) । वसुधितमग्नौ । नेमधिता न पौंस्या (ने॒मधि॑ता॒ न पौंस्या॑) । क्तिन्यपि दृश्यते । उत श्वेतं वसुधितिं निरेके (उ॒त श्वे॒तं वसु॑धितिं निरे॒के) । धिष्ववज्रं दक्षिण इन्द्र हस्ते (धि॒ष्ववज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॑) । धत्स्वेति प्राप्ते । सुरेता रेतो धिषीय । आशीर्लिङि इट् । इटोऽत् <{SK2257}> । धीसीयेति प्राप्ते । अपोभि <{SK442}> । (वार्तिकम्) ॥ माद्भिः । शरद्भिः (श॒रद्भिः॑) । (वार्तिकम्) ॥ स्ववद्भिः (स्वव॒द्भिः) । समुषद्भिरजायथाः (समु॒षद्भि॑रजायथाः) । मिथुनेऽसिः । वसेः उषः किदिति प्राग्व्याख्यातम् । व कवतेर्यङि <{SK2641}> ॥", "74046": "घुसंज्ञकस्य दा इत्यस्य दथ् स्यात्तादौ किति । चर्त्वम् । दत्तः । घोः किम् । दातः । तान्तो वायमादेशः न चैवं विदत्तमित्यादावुपसर्गस्य दस्ति <{SK3079}> इति दीर्घापत्तिः । तकारादौ तद्विधानात् । दान्तो वा धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे झषस्तथोः - <{SK2280}> इति धत्वं शङ्क्यम् । सन्निपातपरिभाषाविरोधात् ॥", "74047": "अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यात्तादौ किति । चर्त्वम् । प्रत्तः । अवत्तः । अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमवुदत्तं च निदत्तमिति चेष्यते ॥ चशब्दाद्यथाप्राप्तम् ॥", "74048": "अपस्तकारः स्याद्भादौ प्रत्यये परे । अद्भिः । अद्भ्यः 2 । अपाम् । अप्सु । दिक् । दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु । त्यदादिषु <{SK429}> इति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक् । दृग् । दृशौ । दृशः । त्विट् । त्विड् । त्विषौ । त्विषः । त्विड्भ्याम् । त्विट्त्सु । सह जुषते इति सजूः । सजुषौ । सजुषः । सजूर्भ्याम् । सजूष्षु । सजूःषु । षत्वस्यासिद्धत्वाद्रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । असौ । त्यदाद्यत्वं टाप् । औङः शी । उत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः 2 । अमुयोः 2 । अमूषाम् । अमुष्याम् । अमूषु ॥", "74049": "सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ॥", "74050": "तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥", "74051": "रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥", "74052": "तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे । एधितास्महे ॥ एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥", "74053": "एतयोरन्त्यस्य लोपः स्याद्यकार इवर्णे च परे । इति लोपं बाधित्वा नित्यात्वाट्टेरेत्वम् । दीध्ये । दीधीवैवीटाम् <{SK2190}> इति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते ।{$ {!1077 वेवीङ्!} वेतिना तुल्ये$} । वीगतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ॥\tअथ त्रयः परस्मैपदिनः ॥{$ {!1078 षस!} {!1079 षस्ति!} स्वप्ने$} । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि । पूर्वत्रासिद्धम् <{SK12}> इति सलेपस्यासिद्धत्वात् अतो हेः <{SK2202}> इति लुक् न । असत् । असस्ताम् । असः । असत् । सस्यात् । असासीत् । अससीत् । सन्ति । इदित्वान्नुमि कृते संस्तः इति स्थिते स्कोः-<{SK380}> इति सलोपे झरो झरि सवर्णे <{SK71}> इति तकारस्य वा लोपः । सन्तः । संस्तन्ति । बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य स्कोः-<{SK380}> इति लोपाभावात् । संस्ति । संस्तः इत्येके ।{$ {!1080 वश!} कान्तौ$} । कान्तिरिच्छा । वष्टि । उष्टः । उशन्ति । वक्षि । उष्टः । उवाश । ऊशतुः । वशिता । वष्टु । उष्टात् । उड्ढि । अवट् । अवड् । औष्टाम् । औशन् । अवशम् । उश्याताम् । उश्यास्ताम् ।{$ {!1081 चर्करीतं!} च (गणसूत्रम् -) $}॥ यङ्लुगन्तमदादौ बोध्यम् ॥{$ {!1082 ह्नुङ्!} अपनयने$} । ह्नुते । जुह्नुवे । ह्नुवीत । ह्नोषीष्ट । अह्नोष्ट । इत्यदादयः ॥", "74054": "एषामच इस् स्यात्सादौ सनि । अभ्यासलोपः । स्कोः - <{SK380}> इति सलोपः । पित्सति । दिदरिद्रिषति । दिदरिद्रासति । डुमिञ् मीञ् आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरुपत्वाविशेषादिस् । सः सि - <{SK2342}> इति तः । मित्सति । दोदाणोः । दित्सति । देङ् । दित्सते । दाञ् । दित्सति । दित्सते । धेट् । धित्सति । धाञ् । धित्सति । धित्सते । रिप्सते । लिप्सते । शकि । शिक्षति । शक मर्षण इति दिवादिः । स्वरितेत् । शिक्षति । शिक्षते । पित्सते । (वार्तिकम्) ॥ रित्सति । हिंसायां किम् । आरिरात्सति ॥", "74055": "एषामच ईत्स्यात्सादौ सनि ॥", "74056": "दम्भेरच इत्स्यादीच्च सादौ सनि । अभ्यासलोपः । हलन्ताच्च <{SK2613}> इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् । तेन सनः कित्त्वान्नलोपः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । उदोष्ठ्यपूर्वस्य <{SK2494}> । सुस्वूर्षति । सिस्वरिषति । युयूषति । यियविषति । ऊर्णुनूषति । ऊर्णुनुविषति । ऊर्णुनविषति । न च परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम् । द्विर्वचनेचि <{SK2343}> इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशमनिषेधाद्वा । न च सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् ॥ [(परिभाषा - ) कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते न त्वननुभवन्नपि] ॥ न चेह सन् द्वित्वमनुभवति । बुभूर्षति । बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञकः पकारान्तश्चौरादिकश्च । इडभावे इको झल् <{SK2612}> इति कित्त्वान्न गुणः । अज्झन - <{SK2614}> इति दीर्घः परत्वाण्णिलोपेन बाध्यते । आप्ज्ञप् - <{SK2619}> इति ईत् । ज्ञीप्सति । जिज्ञपयिषति । अमितस्तु । जिज्ञापयिषति । जनसन - <{SK2504}> इत्यात्वम् । सिषासति । सिसनिषति । (वार्तिकम्) ॥", "74057": "सादौ सनि । अभ्यासलोपः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्य किम् । मुमुक्षति वत्सं कृष्णः ।न वृद्भ्यश्चतुर्भ्यः <{SK2348}> । विवृत्सति । तङि तु । विवर्तिषते । सेऽसिचि - <{SK2506}> इति वेट् । निनर्तिषति । निनृत्सति ॥", "74058": "सनिमीमा - <{SK2623}> इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चर्त्वम् । ईर्त्सति । अर्दिधिषति । बिभ्रज्जिषति । बिभर्जिषति । बिभ्रक्षति । बिभर्क्षति ॥", "74059": "अभ्यासस्याचो ह्रस्वः स्यात् ॥", "74060": "अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥", "74061": "अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेषः <{SK2179}> इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत ।{$ {!4 गाधृ!} प्रतिष्ठालिप्सयोर्ग्रन्थे च$} । गाधते । जगाधे ।{$ {!5 बाधृ!} लोडने$} । लोडनं प्रतिघातः । बाधते ।{$ {!6 नाथृ!} {!7 नाधृ!} याच्ञोपतापैस्वर्याशीःषु$} । (वार्तिकम्) ॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते ।{$ {!8 दध!} धारणे$} । दधते ॥", "74062": "अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥", "74063": "कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥", "74064": "यङि अभ्यासस्य चुत्वं न । करीकृष्यते ॥", "74065": "एतेष्टादश निपात्यन्ते । आद्यास्त्रयो धृङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां गुणो लभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दर (अल॑र्षि युध्म खजकृत्पुरन्दर) । सिपा निर्देशो न तन्त्रम् । अलर्ति दक्ष उत (अल॑र्ति॒ दक्ष॑ उ॒त) । फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते । अन्वापनीफणत् (अन्वा॒पनी॑फणत्) । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षत्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः । क्रन्देर्लुङिच्लेरङ्द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिक्रदज्जनुपम् (कनि॑क्रदज्ज॒नुप॑म्) । अक्रन्दीदित्यर्थः । बिभर्तेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु (वि यो भरि॑भ्र॒दोष॑धीषु) । ध्वरतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य विगागमो धातोर्ऋकारलोपश्च । दविध्वतो रश्मयः सूर्यस्य (दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य) । द्युतेरभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च । दविद्युतद्दीद्यच्छोशुचानः (दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः) । तरतेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेर्लिटि णल् अभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च । वक्ष्यन्ती वेदागनीगन्ति कर्णम् (वक्ष्यन्ती॒ वेदाग॑नीगन्ति कर्ण॑म्) ॥", "74066": "अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः <{SK2179}> प्रत्यये किम् । वव्रश्च ॥", "74067": "अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता ॥", "74068": "व्यथोऽभ्यासस्य संप्रसारणं स्याल्लिटि । हलादिः शेषापवादः । थस्य हलादिः- शेषेण निवृत्तिः । विव्यथे ।{$ {!765 प्रथ!} प्रख्याने$} । पप्रथे ।{$ {!766 प्रस!} विस्तारे$} । पप्रसे ।{$ {!767 म्रद!} मर्दने$} ।{$ {!768 स्खद!} स्खदने$} । स्खदनं विद्रावणम् ।{$ {!769 क्षजि!} गतिदानयोः$} । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोः <{SK2762}> इति दीर्घविकल्पः । अक्षञ्जि । अक्षाञ्जि । क्षञ्जं-क्षञ्जम् । क्षाञ्जंक्षाञ्जम् ।{$ {!770 दक्ष!} गतिहिंसनयोः$} । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः ।{$ {!771 क्रप!} कृपायां गतौ$} ।{$ {!772 कदि!} {!773 क्रदि!} {!774 क्लदि!} वैक्लव्ये$} । वैकल्य इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रद क्लदेति चानिदिताविति मैत्रेयः । कदिक्रदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषूक्तानां पुनरिह पाठो मित्तवार्थ आत्मनेपदार्थश्च ।{$ {!775 ञित्वरा!} संभ्रमे$} । (गणसूत्रम् -) घटादयः षितः । षित्वादङ् कृत्सुवक्ष्यते ॥\tअथ फणन्ताः परस्मैपदिनः ।{$ {!776 ज्वर!} रोगे$} । ज्वरति । जज्वार ।{$ {!777 गड!} सेचने$} । गडति । जगाड ।{$ {!778 हेड!} वेष्टने$} । हेडृ अनादर इत्यात्मनेपदिषु गतः स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि । अहीडि । अनादरे तु हेडयति ।{$ {!779 वट!} {!780 भट!} परिभाषणे$} । वट वेष्टने भट भृताविति पठितयोः परिभाषणे मित्त्वार्थोऽनुवादः ।{$ {!781 णट!} नृत्तौ$} । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्वं पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्यं नृत्तंचार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये । णोपदेशापर्युदासवाक्ये भाष्यकृता नाटीति दीर्घपाठाद् घटादिर्णोपदेश एव ।{$ {!782 ष्टक!} प्रतीघाते$} । स्तकति ।{$ {!783 चक!} तृप्तौ$} । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् ।{$ {!784 कखे!} हसने$} । एदित्त्वान्न वृद्धिः । अकखीत् ।{$ {!785 रगे!} शङ्कायाम्$} ।{$ {!786 लगे!} सङ्गे$} ।{$ {!787 ह्रगे!} {!788 ह्लगे!} {!789 षगे!} {!790 ष्टगे!} संवरणे$} ।{$ {!791 कगे!} नोच्यते$} । अस्यायमर्थ इति विशिष्य नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये ।{$ {!792 अक!} {!793 अग!} कुटिलायां गतौ$} ।{$ {!794 कण!} {!795 रण!} गतौ$} । चकाण । रराण ।{$ {!796 चण!} {!797 शण!} {!798 श्रण!} दाने च$} । शण गतावित्यन्ये ।{$ {!799 श्रथ!} {!800 श्लथ!} {!801 क्रथ!} {!802 क्लथ!} हिंसार्थाः$} । जासिनिप्रहण - <{SK617}> इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते । क्राथयति । मित्त्वं तु निपातनात्परत्वात् चिण्णमुलोः - <{SK2762}> इति दीर्घे चरितार्थम् । अक्रथि । अक्राथि । क्रथंक्रथम् । क्राथंक्राथम् ।{$ {!803 वन!} हिंसायाम् $}। वनु च नोच्यते । वनु इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते ।{$ {!804 ज्वल!} दीप्तौ$} । णप्रत्ययार्थं पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति ।{$ {!805 ह्वल!} {!806 ह्मल!} चलने$} । प्रह्वलयति । प्रह्मलयति ।{$ {!807 स्मृ!} आध्याने$} । चिन्तायां पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवादः । आध्यानमुकण्ठापूर्वकं स्मरणम् ।{$ {!808 दॄ!} भये$} । दॄ विदारणे इति क्रादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्घटादौ अत्स्मृदॄत्वर - <{SK2566}> इति सूत्रे च दॄ इति दीर्घस्थाने ह्रस्वं पठन्ति । तन्नेति माधवः ।{$ {!809 नॄ!} नये$} । क्र्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति ।{$ {!810 श्रा!} पाके$} । श्रै इति क-कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । [(परिभाषा - ) लुग्विकरणयोरलुग्विकरणस्य] । [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्] इति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः ॥{$ {!811 ज्ञा!} मारणतोषणनिशामनेषु$} । निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये । निशानेष्विति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच्चेति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं विज्ञापना भर्तृषु सिद्धिमेतीति । तज्ज्ञापयत्याचार्य इति च । शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोग इति चौरादिकस्य । धातूनामनेकार्थत्वात् । निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः ।{$ {!812 चलिः!} कम्पने$} । चल कम्पने इत ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः ।{$ {!813 छदिर्!} ऊर्जने$} । छद अपवारण इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति, प्राणीभवति, अपवारयति वेत्यर्थः ।{$ {!814 लडिः!} जिह्वोन्मथने$} । लड विलास इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् ।{$ {!815 मदी!} हर्षग्लेपनयोः $}। ग्लेपनं दैन्यम् । दैवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयीत्यर्थः ।{$ {!816 ध्वन!} शब्दे$} । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोजः । दलि-वलि-स्खलि-रणि-ध्वनि-त्रपि-क्षपयश्चेति पपाठ । तत्र ध्वनिरणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने । त्रपूष् लज्जायामिति गताः । तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षै क्षये इति वक्ष्यमाणस्यकृतात्वस्य पुका निर्देशः । क्षपयति ।{$ {!817 स्वन!} अवतेसने$} । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । (गणसूत्रम् -) घटादयो मितः । मित्संज्ञा इत्यर्थः । (गणसूत्रम् -) जनीजॄष्न्कसुरञ्जोऽमन्ताश्च । मित इत्यनुवर्तते । जॄषिति षित्त्वनिर्देशाज्जीर्यतेर्ग्रहणम् । जृणातेस्तु जारयति । केचित्तु जनी जॄ ष्णसु इति पठित्वाष्णसु निरसने इति रदैवादिकमुदाहरन्ति । (गणसूत्रम् -) ज्वलह्वलह्मलनमामनुपसर्गाद्वा । एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति । ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति । उन्नामयतीति । घञन्तात्तत्करोतीति णौ । कथं संक्रामयतीति । मितां ह्रस्वः <{SK2568}> इति सूत्रे वा चित्तविरागे <{SK2605}> इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वत्तिकृत् । एतेन राजो विश्रामयन् राज्ञाम्, धुर्यान्विश्रामयेति स इत्यादि व्याख्यातम् । (गणसूत्रम् -) ग्लास्नावनुवमां च । अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । (गणसूत्रम् -) न कम्यमिचमाम् । अमन्तात्वात्प्राप्तं मित्तवमेषां न स्यात् । कामयते । आमयति । चामयति ।{$ {!818 शमो!} दर्शने (गणसूत्रम् -) $}। शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु प्रणयिनो निशमय्य वधूः कथाः । कथं तर्हि निशामय तदुत्पत्तिं विस्तराद्गदतो ममेति । शम आलोचन इति चौरादिकस्य । धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः शाम्यतिवत् ।{$ {!819 यमो!} ऽपरिवेषणे (गणसूत्रम् -) $}। यच्छतिर्तभोजनातोऽन्यत्र मिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । प्रयवसितं नियमयन्नित्यादि तु नियमवच्चब्दात्तत्करोतीति णौ बोध्यम् । (गणसूत्रम् -){$ {!820 स्खदिरवपरिभ्यां!} च $}। मिन्नेत्येव । अवस्खादयति । परिस्खादयति । अपावपरिभ्य इति न्यासकारः । स्वामी तु न कमी ति नञमुत्तरत्रिसूत्र्यामननुवर्त्य शम अदर्शने इति चिच्छेद । यमस्त्वपरिवेषणे मित्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव । उपसृष्टस्य स्खदेश्चेदवादिपूर्वस्येति नियमात्प्रस्खादयतीत्याह । तस्मात् सूत्रद्वये उदाररणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् ।{$ {!821 फण!} गतौ$} । नेति निवृत्तमसंभवात् । निषेधात्पूर्वमसौ । न पठितः । फणादिकार्यानुरोधात् ॥", "74069": "इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । इतात् । इहि । अयानि । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥", "74070": "अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवाद । एधामास । एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥", "74071": "द्विहलोधातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात् । आनर्द । आर्दीत् ।{$ {!56 नर्द!} {!57 गर्द!} शब्दे$} । णोपदेस्तवाभावान्न णः । प्रनर्दति । गर्दति । जगर्द ।{$ {!58 तर्द!} हिंसायाम्$} । तर्दति ।{$ {!59 कर्द!} कुत्सिते शब्दे$} । कुत्सिते कौक्षे । कर्दति ।{$ {!60 खर्द!} दन्दशूके$} । दंशहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति । चखर्द ।{$ {!61 अति!} {!62 अदि!} बन्धने$} । अन्तति । आनन्त । अन्दति । आनन्द ।{$ {!63 इदि!} परमैश्वर्ये$} । इन्दति । इन्दांचकार ।{$ {!64 बिदि!} अवयवे$} । पवर्गतृतीयादिः । बिन्दति । अवयवं करोतीत्यर्थः । भिदीति पाठान्तरम् ।{$ {!65 गडि!} वदनैकदेशे $}। गण्डति । अन्तत्यादयः पञ्चैते न तिङ्विषया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति ।{$ {!66 णिदि!} कुत्सायाम्$} । निन्दति । प्रणिन्दति ।{$ {!67 टुनदि!} समृद्धौ$} ॥", "74072": "दीर्घादभ्यासावर्णात्परस्य नुट् स्यात् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अश्नुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् ।{$ {!1265 ष्टिघ!} आस्कन्दने$} । स्तिघ्नुते । तिष्टिघे । स्तेघिता ॥\tअथ आगणन्तात्परस्मैपदिनः ॥{$ {!1266 तिक!} {!1267 तिग!} गतौ च$} । चादास्कन्दने । तिक्नोति । तिग्नोति ।{$ {!1268 षघ!} हिंसायाम्$} । सघ्नोति ।{$ {!1269 ञिधृषा!} प्रागल्भ्ये$} । धृष्णोति । दधर्ष । धर्षिता ।{$ {!1270 दम्भु!} दम्भने$} । दम्भनं दम्भः । दभ्नोति । ददम्भ । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । अनिदिताम् - <{SK415}> इति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्वाभ्यासलोपयोरप्राप्तौ । (वार्तिकम्) ॥ देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु । देभ । देभिथ । देभेति रूपान्तरं बोध्यम् । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् ।{$ {!1271 ऋधु!} वृद्धौ$} । तृप प्रीणन इत्येके ॥ क्षुभ्नादित्वाण्णत्वं न । तृप्नोति । (गणसूत्रम् -) छन्दसि । आगणन्तादधिकारोऽयम् ।{$ {!1272 अह!} व्याप्तौ$} । अह्नोति ।{$ {!1273 दघ!} घातने पालने च$} । दघ्नोति ।{$ {!1274 चमु!} भक्षणे$} । चम्नोति ।{$ {!1275 रि!} {!1276 क्षि!} {!1277 चिरि!} {!1278 जिरि!} {!1279 दाश!} {!1280 दृ!} हिंसायाम्$} । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । नतद्यशः शस्त्रभृतां क्षिणोति । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । वृत् ॥", "74073": "भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥", "74074": "सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते । गृष्टिः ससूव स्थविरम् (गृ॒ष्टिः स॑सूव स्थवि॑रम्) । सुपुवे इति भाषायाम् ॥", "74075": "णिज्विज्विषामभ्यासस्य गुणः स्यात श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्ध ॥", "74076": "भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावाद् द्वित्वेत्वे । बिभरामास बभार । बभर्थ । बभृव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् । अबिभरुः । बिभृयात् । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत ।{$ {!1088 माङ्!} माने शब्दे च$} ॥", "74077": "अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ ॥", "74078": "अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि (पूर्णां विव॑ष्टि) । वशेरेतद्रूपम् ॥", "74079": "अभ्यासस्यात इकारः स्यात्सनि ॥", "74080": "सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् । मूङ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ॥", "74081": "एषामभ्यासोकारस्येत्वं वा स्यात्सन्यवर्णपरे धात्वपक्षे परे । असिस्रवत् । असुस्रवत् । नाग्लेपि - <{SK2572}> इति ह्रस्वनिषेधः । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे । अचचकासत् । अग्लोपीति नुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । णौचङि - <{SK2314}> इति ह्रस्वः । दीर्घो लघोः <{SK2318}> । न चाग्लोपित्वाद्द्वयोरप्यसंभवः, ण्याकृतिनिर्देशात् । अचूचुरत् ॥", "74082": "अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ताः - <{SK2304}> इति धातुत्वाल्लडादयः । ङिदसन्तात्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिः - <{SK2453}> इत्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ्गेति भाष्यम् । पौनः पुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥ (वार्तिकम्) ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकात्त्त्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ॥", "74083": "अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ॥", "74084": "एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥", "74085": "अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुकानुस्वारो लक्ष्यत इत्युक्तम् । यँय्यम्यते । यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । भाम क्रोधे । बाभाम्यते । ये विभाषा <{SK2319}> । जाजायते । जञ्जन्यते । (वार्तिकम्) ॥ जेघ्नीयते । हिंसायां किम् । जङ्घन्यते ॥", "74086": "एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः । गर्हितं जपति । जञ्जप्यते इत्यादि ॥", "74087": "अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । नुगित्यनेनानुस्वारो लक्ष्यते ॥ (वार्तिकम्) ॥ वा पदान्तस्य <{SK125}> इति यथा स्यात् ॥", "74088": "चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । हलि च <{SK354}> इति दीर्घः । चञ्चूर्यते । चंचूर्यते । पम्फुल्यते । पंफुल्यते ॥", "74089": "चरफलोपत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् । उत्फुल्लसंफुल्लयोरुपसंख्यानम् ॥", "74090": "ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते । क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीकॢप्यते । (वार्तिकम्) ॥ वरीवृश्च्यते । परीपृच्छ्यते ॥", "74091": "ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि ॥", "74092": "ऋदन्ताद्धातोरपि तथा । वर्वृतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः 3 । वर्वृतति 3 । वर्वर्तामास 3 । वर्वर्तिता । गणनिर्दिष्टत्वात् न वृद्भ्यश्चतुर्भ्यः <{SK2348}> इति न । वर्वर्तिष्यति 3 । अवर्वृर्तीत् 3 । अवर्वतर् 3 । सिपि दश्च <{SK2468}> इति रुत्वपक्षे रो रि <{SK173}> । अवर्वाः 3 । गणनिर्दिष्टत्वादङ् न । अवर्वर्तीत् । चर्करीति 3 । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कृतः 3 । चर्क्रति 3 । चर्करांचकार 3 । चर्करिता 3 । अचर्करीत् । अचर्कः 3 । चर्कृयात् 3 । आशिषि रिङ् । चर्क्रियात् 3 । अचर्कारीत् 3 । ऋतश्च <{SK2653}> इति तपरत्वान्नेह । कॄ विक्षेपे । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङलुकि द्वित्वेऽभ्यासस्योरदत्वं रपरत्वम् । हलादिः शेषः <{SK2179}> । रुक् । रिग्रीकोस्तु अभ्यासस्यासवर्णे <{SK2290}> इति इयङ् । अरर्ति । अरियर्ति । अरियर्ति । अररीति । अरियरीति । अर्ऋतः । अरियृतः । झि अत् । यण् । रुको रोरि <{SK1731}> इति लोपः । न च तस्मिन् कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धीये तन्निषेधात् । आरति । अरिय्रति । लिङि श्तिपा निर्देशात् गुणोऽर्ति - <{SK2380}> इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात् । अरिय्रियात् । अरारीत् । आरियारीत् । गृहू ग्रहणे । जर्गृहीति 3 । जर्गर्ढि 3 । जर्गृढः 3 । जर्गृहति 3 । अजर्घटर् 3 । गृह्णातेस्तु । जाग्रहीति । जाग्राढि ॥ तसादौ ङिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्नरुगादयः । जागृढः । जागृहति । जाग्रहीषि । जाघ्रक्षि । लुटि । जाग्रहिता । ग्रहोऽलिटि <{SK2562}> इति दीर्घस्तु न । तत्रैकाच इत्यनुवृत्तेः । माधवस्तु दीर्घमाह तद्भाष्यविरुद्धम् । गृधु अभिकाङ्क्षायाम् । जर्गृधीति 3 । जर्गर्द्धि 3 । जर्गृद्धः 3 । जर्गृधति 3 । जर्गृधीषि 3 । जर्घर्त्सि 3 । अजर्गृधीत् 3 । ईडभावे गुणः । हल्ङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घतर् 3 । अजर्गृद्धाम् 3 । सिपि दश्च <{SK2668}> इति पक्षे रुत्वम् । अजर्घाः 3 । अजर्गर्धीत् 3 । अजर्गर्धिष्टाम् 3 । पाप्रच्छीति । पाप्रष्टि । तसादौ ग्रहिज्या - <{SK2412}> इति संप्रसारणं न भवति । श्तिपा निर्देशात्. च्छ्वोः शूड् - <{SK2561}> इति शः । व्रश्च - <{SK294}> इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः । यकारवकारान्तानां तूठ्भाविनां यङ्लुङ् नास्तीति च्छ्वोः - <{SK2561}> इति सूत्रे भाष्ये ध्वनितम् । कैयटेन च स्पष्टीकृतम् । इदं च्छ्वोः - <{SK2561}> इति यत्रोठ् तद्विषयकम् । ज्वरत्वर - <{SK2564}> इत्यूठ्भाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं माधवादिसंमतं च । मव्य बन्धने । अयं यान्त ऊठ्भावी । तेवृ देवृ देवने इत्यादयो वान्ताः । हय गतौ । जाहयीति । जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । वलि लोपे यञादौ दीर्घः । जाहामि । जाहावः । जाहामः । हर्य गतिकान्त्योः । जाहर्यीति । जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । मव बन्धने ॥", "74093": "चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्त्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥", "74094": "लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥ णिङभावपक्षे । (वार्तिकम्) ॥ णेरभावान्न दीर्धसन्वद्भावौ । अचक्रमत ॥ संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ॥ तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥ 1 ॥ चकास्त्यर्थापत्यूपर्णोत्यादौ नाङ्गं द्विरुच्यते ॥ किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ 2 ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ॥ ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ 3 ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया । णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ 4 ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥ 5 ॥\tअथ क्रम्यन्तास्रिंशत्परस्मैपदिनः ॥{$ {!444 अण!} {!445 रण!} {!446 वण!} {!447 भण!} {!448 मण!} {!449 कण!} {!450 क्वण!} {!451 व्रण!} {!452 भ्रण!} {!453 ध्वण!} शब्दार्थाः$} । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । धणिरपि कैश्चित्पठ्यते । धणति ।{$ {!454 ओणृ!} अपनयने$} । ओणति । ओणांचकार ।{$ {!455 शोणृ!} वर्णगत्योः$} । शोणति । शुशोण ।{$ {!456 श्रोणृ!} संघाते$} । श्रोणति ।{$ {!457 श्लोणृ!} च$} । शोणादयस्त्रयोऽमी तालव्योष्मादयः ।{$ {!458 पैणृ!} गतिप्रेरणश्लेषणेषु $}। प्रैणृ इति क्वचित्पठ्यते । पिपैण ।{$ {!459 ध्रण!} शब्दे $}। उपदेशे नान्तोऽयम् । रषाभ्याम् - <{SK235}> इति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दंध्रन्ति । बणेत्यपि केचित् । बेणतुः । बेणिथ ।{$ {!460 कनी!} दीप्तिकान्तिगतिषु चकान$} ।{$ {!461 ष्टन!} {!462 वन!} शब्दे$} । स्तनति । वनति ।{$ {!463 वन!} {!464 षण!} संभक्तौ$} । वनेरर्थभेदात्पुनः पाठः सनति । ससान । सेनतुः ॥", "74095": "एषामभ्यासस्य अकारोऽन्तादेशः स्याच्चङ्परे णौ । इत्वापवादः । अपप्रथत् ।{$ {!1554 पृथ!} प्रक्षेपे$} । पर्थयति ॥", "74096": "अभ्यासस्यात्वं वा स्याच्चङ्परे णौ । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । भ्राजभास-<{SK2565}> इत्यादिनावोपधाह्रस्वः । अबिभ्रजत् । अबभ्राजत् । (वार्तिकम्) ॥ ण्यन्ताः कणरणभणश्रणलुपहेठाः काण्यादयः षड्भाष्ये उक्ताः । ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिका न्यासे । वाणिलोठी अप्यन्यत्र । इत्थं द्वादश । अचीकणत् । अचकाणत् ॥", "74097": "गणेरभ्यासस्य ई स्याच्चाच्चङ्परे णौ । अजीगणत् । अजगणत् ।{$ {!1855 शठ!} {!1856 श्वठ!} सम्यगवभाषणे$} ।{$ {!1857 पठ!} {!1858 वठ!} ग्रन्थे$} ।{$ {!1859 रह!} त्यागे$} । अररहत् ।{$ {!1860 स्तन!} {!1861 गदी!} देवशब्दे$} । स्तनयति । गदयति अजगदत् ।{$ {!1862 पत!} गतौ वा$} । वा णिजन्तः । वाऽदन्त इत्येके । आद्ये । पतयति । पतति । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् ।{$ {!1863 पष!} अनुपसर्गात्$} । गतावित्येव । पषयति ।{$ {!1864 स्वर!} आक्षेपे$} । स्वरयति ।{$ {!1865 रच!} प्रतियत्ने$} । रचयति ।{$ {!1866 कल!} गतौ संख्याने च$} ।{$ {!1867 चह!} परिकल्कने$} । परिकल्कनं दम्भः शाठ्यं च ।{$ {!1868 मह!} पूजायाम्$} । महयति । महतीति शपि गतम् ।{$ {!1869 सार!} {!1870 कृप!} {!1871 श्रथ!} दौर्बल्ये$} । सारयति । कृपयति । श्रथयति ।{$ {!1872 स्पृह!} ईप्सायाम्$} ।{$ {!1873 भाम!} क्रोधे$} । अबभामत् ।{$ {!1874 सूच!} पैशून्ये$} ॥ सूचयति । अषोपदेशत्वान्न षः । असूसुचत् ।{$ {!1875 खेट!} भक्षणे$} ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ।{$ {!1876 क्षोट!} क्षये$} ।{$ {!1877 गोम!} उपलेपने$} । अजुगोमत् ।{$ {!1878 कुमार!} क्रीडायाम्$} । अचुकुमारत् ।{$ {!1879 शील!} उपधारणे$} । उपधारणमभ्यासः ।{$ {!1880 साम!} सान्त्वप्रयोगे$} । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् ।{$ {!1881 वेल!} कालोपदेशे$} । वेलयति । काल इति पृथग्धातुरित्येके । कालयति ।{$ {!1882 पल्पूल!} लवनपवनयोः$} ।{$ {!1883 वात!} सुखसेवनयोः$} । वातयति । अववातत् ।{$ {!1884 गवेष!} मार्गणे$} । अजगवेषत् ।{$ {!1885 वास!} उपसेवायाम् $}।{$ {!1886 निवास!} आच्छादने$} । अनिनिवासत् ।{$ {!1887 भाज!} पृथक्कर्मणि$} ।{$ {!1888 सभाज!} प्रीतिदर्शनयोः$} । प्रीतिसेवनयोरित्यन्ये । सभाजयति ।{$ {!1889 ऊन!} परिहाणे$} । ऊनयति । ओः पुयण्जि <{SK2577}> इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहोलिङ्गं णिच्यच आदेशो न स्याद्द्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं तत उत्तरखण्डेऽल्लोपः । औननत् । माभवानूननत् ।{$ {!1890 ध्वन!} शब्दे$} । अदध्वनत् ।{$ {!1891 कूट!} परितापे$} । परिदाहे इत्यन्ये ।{$ {!1892 सङ्केत!} {!1893 ग्राम!} {!1894 कुण!} {!1895 गुण!} चामन्त्रणे$} । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् - केत श्रावणे निमन्त्रणे च । केतयति । अभिकेतयति । कुण गुण चामन्त्रणे । चकारात्केतेति ।{$ {!1896 कूण!} सङ्कोचने इति$} ।{$ {!1897 स्तेन!} चौर्ये$} ॥ अतिस्तेनत् ॥\tआ गर्वादात्मनेपदिनः ॥{$ {!1898 पद!} गतौ$} । पदयते । अपपदत ।{$ {!1899 गृह!} ग्रहणे$} । गृहयते ।{$ {!1900 मृग!} अन्वेषणे$} । मृगयते । मृग्यतीति कण्ड्वादिः ।{$ {!1901 कुह!} विस्मापने$} ।{$ {!1902 शूर!} {!1903 वीर!} विक्रान्तौ$} ।{$ {!1904 स्थूल!} परिबृंहणे$} । स्थूलयते । अतुस्थूलत ।{$ {!1905 अर्थ!} उपायाच्ञायाम्$} । अर्थयते । आर्तथत ।{$ {!1906 सत्र!} सन्तानक्रियायाम्$} । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते ।{$ {!1907 गर्व!} माने$} ॥ गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । धातेरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ॥ \t{$ {!1908 सूत्र!} वेष्टने$} । सूत्रयति । असुसूत्रत् ।{$ {!1909 मूत्र!} प्रस्रवणे$} । मूत्रयति । मूत्रति ।{$ {!1910 रूक्ष!} पारुष्ये$} ।{$ {!1911 पार!} {!1912 तीर!} कर्मसमाप्तौ$} । अपपारत् । अतितीरत् ।{$ {!1913 पुट!} संसर्गे$} । पुटयति ।{$ {!1914 धेक!} दर्शन इत्येके$} । अदिधेकत् ।{$ {!1915 कत्र!} शैथिल्ये$} । कत्रयति । कत्रति । कर्तेत्यप्येके । कर्तयति । कर्तति ॥ (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप-विन्मतुब्लोप-यणादिलोपप्रस्थ-स्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङि - <{SK2314}> इत्यत्र भाष्ये तु वृद्धेर्लोपो बलीयानिति स्थितम् । अपपटत् । (गणसूत्रम् -) तत्करोति तदाचष्टे ॥ पूर्वस्य प्रपञ्चः । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविक्षितः ॥ (गणसूत्रम् -) तेनातिक्रामति । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ (गणसूत्रम् -) धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् । (वार्तिकम्) ॥ कंसवधामाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते ॥", "81001": "इत्यधिकृत्य ॥", "81002": "द्विरुक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ॥", "81003": "द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवे दिवे (दि॒वे दि॑वे) ॥ इति साधारणस्वराः ॥", "81004": "आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा । वीप्सायाम् । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ॥", "81005": "परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहृत्येत्यर्थः ॥ (वार्तिकम्) ॥ परि वङ्गेभ्यः ॥", "81006": "एषां द्वे स्तः पादपूरणे । प्रपायमग्निः । संसमिद्युवसे (संसमिद्यु॑वसे) । उपोप मे परामृश (उपो॑प मे परा॑मृश) । किं नोदुदु हर्पसे (किं नोदु॑दु हर्पसे) ॥", "81007": "उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तात्समीपे देशे इत्यर्थः ॥", "81008": "असूयायाम् । सुन्दर सुन्दर वृथा ते सौन्दर्यम् । सम्मतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि । कुत्सने, धानुष्क धानुष्क वृथा ते धनुः, भर्त्सने चोर चोर घातयिष्यामि त्वाम् ॥", "81009": "द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहौ' <{SK222}> इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ॥", "81010": "पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह पुंवद्भावः ॥", "81011": "इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम् ॥ (वार्तिकम्) ॥", "81012": "सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । कर्मधारयवदुत्तरेषु- <{SK2146}> इत्यधिकारात् । तेन पूर्वभागस्य पुंवद्भावः 'समासस्य' <{SK3734}> इत्यन्तोदातत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः ॥ (वार्तिकम्) ॥ मूले मूले स्थूलः ॥ (वार्तिकम्) ॥ सर्प सर्व, बुध्यस्व बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वार्तिकम्) लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' <{SK2140}> इति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समु्चित्य द्योतकतां लब्धुं वा ॥ (वार्तिकम्) ॥ बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य तु नित्यम् ॥ (वार्तिकम्) । अन्योऽन्यं विप्रा नमन्ति अन्योऽन्यौ । अन्योऽन्यान् । अन्योऽन्येन कृतम् । अन्योऽन्यस्मै दत्तमित्यादि । 'अन्योऽन्येषां पुष्करैरामृशन्तः' इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि ॥ (वार्तिकम्) ॥ अन्योन्याम्-अन्योन्यम् । परस्पराम्-परस्परम् । इतरेतराम्-इतरेतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः । अत्र केचित् । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामादेशमाहुः । दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्त्रयम्॥ तथाहि । अन्योऽन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्तः । न च । (वार्तिकम्) ॥ इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । न च द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः प्रैक्षत कातराक्षी सा सा' इत्यादावतिप्रसङ्गात् । 'अन्योऽन्यमितरेतरम्' इत्यत्र च 'अद्ड्डतरादिभ्यः-' <{SK315}> इत्यद्ड् प्राप्तः । 'अन्योऽन्यसंसक्तमहस्त्रियामम्' 'अन्योऽन्याश्रयः', 'परस्पराक्षिसादृश्यम्' 'अपरस्परैः' इत्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणम् 'स्त्रियाम्' <{SK453}> इति सूत्रे 'अन्योऽन्यसंश्रयं त्वेतद्' इति भाष्यं चात्र प्रमाणमिति ॥", "81013": "प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥", "81014": "यथास्वम् इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ॥", "81015": "द्विशब्दस्य द्विर्वचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापि मर्यादीकृत्य । व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि पयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वमिष्यते ॥", "81016": "", "81017": "", "81018": "इत्यधिकृत्य ॥", "81019": "पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तपाष्टस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) । अपादादौ किम् । शुतुद्रि स्तोमम् (शुतु॑द्रि॒ स्तोम॑म्) । आमन्त्रितं पूर्वमविद्यमानवत् <{SK412}> । अग्न॒ इन्द्र॑ । अत्रेन्द्रादीनां निघातो न । पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् । नामन्त्रिते समानाधिकरणे सामान्यवचनम् <{SK413}> समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । अग्ने तेजस्विन् (अग्ने॑ तेजस्विन्) । अग्ने त्रातः (अग्ने॑ त्रातः) । सामान्यवचनं किम् । पर्यायेषु मा भूत् । अघ्न्ये देवि सरस्वति (अघ्न्ये॑ देवि सरस्वति) ॥", "81020": "पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥", "81021": "उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः । वान्नावोरपवादः ॥", "81022": "उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥", "81023": "द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मा पीह दत्तात्ते मेपि शर्म सः । स्वामी ते मेपि स हरिः पातुवामपि नौ विभुः ॥ 1 ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ 2 ॥ पदात्परयोः किम् । वाक्यादौ माभूत् । त्वां पातु । मां पातु । अपादादौ किम् ॥ वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदाऽवतु ॥ स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति ॥ (वार्तिकम्) । (वार्तिकम्) ॥ तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति । (वार्तिकम्) ॥ अन्वादेसे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥", "81024": "चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे स्वामी ॥", "81025": "अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्युः । चेतसा त्वा समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु-भक्तस्त्वा पश्यति चक्षुषा ॥", "81026": "विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मेति वा ॥", "81027": "तिङन्तात्पदाद्गोत्रादीन्यनुदात्तान्येतयोः । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । गोत्रादीनि किम् । पचति पापम् । कुत्सेति किम् । खनति गोत्रम् । समेत्य कूपम् ॥", "81028": "अतिङन्तात्पदात्परं तिङन्तं निहन्यते । अग्निमीळे (अ॒ग्निमी॑ळे) ॥", "81029": "लुडन्तं न निहन्यते । श्वःकर्ता । श्वःकर्तारौ ॥", "81030": "एतैर्निपातैर्युक्तं न निहन्यते । यदग्ने स्यामहं त्वम् (यद॑ग्ने॒ स्याम॒हं त्वम्) । युवा यदीकृथः (युवा॒ यदी॑कृ॒थः) । कुविदङ्ग आसन् (कु॒विद॒ङ्ग आस॑न्) । अचित्तिभिश्चकृमा कच्चित् (अचि॑त्तिभिश्चकृ॒मा कच्चि॑त्) । पुत्रासो यत्र पितरो भवन्ति (पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति) ॥", "81031": "नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वैतस्मिंल्लोके दक्षिणमिच्छन्ति ॥", "81032": "सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । प्रश्ने किम् । सत्यमिद्वा उ तंयमिन्द्रं स्तवाम (स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम) ॥", "81033": "अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । अप्रातिलोम्ये किम् । अङ्ग कूजसि वृषल । इदानीं ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ॥", "81034": "हियुक्तं तिङन्तं नानुदात्तम् । आहि ष्मा याति (आहि ष्मा॒ याति॑) । आ हि रुहंतम् (आ हि रु॒हंत॑म्) ॥", "81035": "हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं युनाति । तिङन्तद्वयमपि न निहन्यते ॥", "81036": "आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् (यथा॑चि॒त्कण्व॒माव॑तम्) ॥", "81037": "यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ॥", "81038": "पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रत्पचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ॥", "81039": "एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह धामनु पुनर्गर्भत्वमेरिरे (आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रिरे) ॥", "81040": "एतद्योगे नानुदात्तं पूजायाम् । अहो देवदत्तः पचति शोभनम् ॥", "81041": "अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ॥", "81042": "पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् । अधीष्व माणवक पुराविद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः परीप्सायां किम् । न तेनस्म पुराधीयते । चिरातीतेऽत्र पुरा ॥", "81043": "नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अन्विति किम् । आकर्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ॥", "81044": "क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् । किं द्विजः । पचत्याहोस्विद्गच्छति । क्रियेति किम् । साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्गं किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । किं द्विजोन पचति ॥", "81045": "किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ॥", "81046": "एहि मन्ये इत्यनेन युक्तं लृडन्तं क्रीडायाम् । एहि मन्ये भक्तं भोक्ष्यसे नहि भोक्ष्यसे भुक्तं तत्त्वतिथिभिः । प्रहासे किम् । एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठु मन्यसे । गत्यर्थलोटा लृट्-<{SK3958}> इत्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । एहि मन्यसे ओदनं भोक्ष्ये ॥", "81047": "अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्वं किम् । कटं जातु करिष्यसि ॥", "81048": "अविद्यमानपूर्वं चिदुत्तं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ॥", "81049": "आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुङ्क्ते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुङ्क्ते ॥", "81050": "आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ॥", "81051": "गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तं यत्रैव कारके लोट् तत्रैव लृडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यस्येनम् । उह्यन्तां देवदत्तेन शालयो रामेण बोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् । लृट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते ॥", "81052": "लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुङ्क्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ॥", "81053": "लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्गं किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ॥", "81054": "हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । निपात्रैर्यद्यदि <{SK3967}> इति निघातप्रतिषेधः । अनुत्तमं किम् । हन्त प्रभुञ्जावहै ॥", "81055": "आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त3 । एकान्तरं किम् । आम् प्रपचसि देवदत्त3 । आमन्त्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ॥", "81056": "तिङन्तं नानुदात्तम् । उदसृजो यदङ्गिरः (उ॒दसृ॑जो॒ यद॑ङ्गिरः) । उशन्ति हि (उ॒शन्ति॒ हि) । आख्यास्यामि तु ते । निपातैर्यत्-<{SK3937}>इति हिच <{SK3941}> इति तुपश्य-<{SK3946}> इति च सिद्धे नियमार्थमिदम् । एतैरेव परभूतैर्योगे नान्यैरिति । जाये स्वारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति ॥", "81057": "एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रपचति चन ॥", "81058": "चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । अगतेरित्येव । देवः प्रपचति च । प्रखादति च । प्रथमस्य चवायोगे <{SK3966}> इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव ॥", "81059": "चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातितीमहे (इ॒तो वा॑ सा॒तिमीम॑हे) । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ॥", "81060": "हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं हरथेन याति 3 उपाध्यायं पदातिं गमयति3 । क्षियाशीः-<{SK3623}> इति प्लुतः ॥", "81061": "अहयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता नानाप्रयोगे नियोगेक्षियायां च । त्वमह ग्रामं गच्छ । क्षियायाम् । स्वयमहरथेन याति3 उपाध्ययं पदातिं नयति ॥", "81062": "च अह एतयोर्लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता देव एव ग्रामं गच्छतु । देव एवारण्यं गच्छतु । ग्रामरण्यं च गच्छत्वित्यर्थः । देव एवं ग्रामं गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थं । इहाहलोपः । स च केवलार्थः । अवधारणं किम् । देव क्वेव भोक्ष्यसे । न क्विचिदित्यर्थः । अनवकॢप्तावेव ॥", "81063": "चवाहाहैवानां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता । चलोपे । इन्द्रवाजेषु नोऽव (इन्द्र॒वाजे॑षु नोऽव) । शुक्ला व्रीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजेत । यवैर्यजेत ॥", "81064": "अहर्वै देवानामासीत् । अयं वाव हस्त आसीत् ॥", "81065": "आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति (तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्ति॑) । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ॥", "81066": "यत्र पदे यच्छब्दस्ततः परं तिङन्तं नानुदात्तम् । यो भुङ्क्ते यदद्यङ्वायुर्वाति । अत्र व्यवहिते कार्यमिष्यते ॥", "81067": "पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः । (वार्तिकम्) ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी निर्देशेऽपि नानन्तर्यमाश्रीयत इति ॥", "81068": "पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । तिङ्ङतिङः <{SK3935}> इति निघातस्य निपातैर्यत्-<{SK3937}> इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते । (वार्तिकम्) ॥ नेह । यत्काष्ठां शुक्लीकरोति ॥", "81069": "कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् । प्रपचति शोभनम् । सुपि किम् पचतिक्लिश्नाति । अगोत्रादौ किम् । पचति गोत्रम् ॥ क्रियाकुत्सन इति वाच्यम् ॥ कर्तुः कुत्सने मा भूत् । पचति । पूतिर्देवदत्तः । (वार्तिकम्) ॥ तेनायं चकारानुबन्धत्वादन्तोदात्तः । (वार्तिकम्) ॥ पचन्ति पूति ॥", "81070": "अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभर्याहि मयूररोमभिः (आम॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः) ॥", "81071": "गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदात्तवति किम् । प्रपचति ॥ इति तिङन्तस्वराः ॥\tअथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते- 'अग्निमीळे' इति प्रथमर्क् । तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष..' (फिट् १) इत्यनोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम्सुप्त्वादनुदात्तः । अमि पूर्वः <{SK194}> इत्येकादेशस्तु एकादेश उदात्तेन <{SK3658}> इत्युदात्तः । ईळे । तिङ्ङततिङः <{SK3135}> इति निघातः । संहितायां तु उदात्तादनुदात्तस्य <{SK3660}> इतीकारः स्वरितः । स्वरितात्संहितायाम् <{SK3668}> इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्-' <{SK1975}> इत्यसिप्रत्ययस्वरात् । हितशब्दोऽपि धाञो निष्ठायाम् दधातेर्हिः <{SK3076}> इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः । पुरोऽव्ययम् <{SK768}> इति गतिसंज्ञायां कुगति- <{SK761}> इति समासे समासान्तोदत्ते तत्पुरुषे तुल्यार्थ- <{SK3736}> इत्यव्ययपूर्वपदप्रकृतिस्वरे गतिकारकोपपदात्कृत् <{SK3873}> इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते गतिरनन्तरः <{SK3783}> इति पूर्वपदप्रकृतिस्वरः । पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तस्वरितपरस्य सन्नतरः <{SK3669}> इत्यनुदात्ततरः । यज्ञस्य । नडः प्रत्ययस्वरः । विभक्तेः सुप्त्वादनुदात्तत्वे स्वरितत्वम् । देवम् । पचाद्यच् । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो नब्विषयस्य (फिट् २६) इत्याद्युदात्तः । रत्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः । तमपः पित्त्वादनुदत्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम् ।\t । इति स्वरप्रकरणम् ।\t\tइत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् ।\t\tतदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥", "81072": "स्पष्टम् । अग्ने॒ तव॒ … । देवास्मान्पाहि । अग्ने॒ नय॑ । अग्न॒ इन्द्र॒ वरु॑ण॒ …। इह युष्मदस्मदोरादेशस्तिङन्तनिघात आमन्त्रितनिघातश्च न । सर्वादा रक्ष देव नः इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवं इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः ॥", "81073": "विशेष्यं समानाधिकरणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालो नः पाहि । अग्ने तेजस्विन् । विभाषितं विशेषवचने <{SK3655}> अत्र भाष्यम् -बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परेविद्यमानवद्वा । यूयं प्रभवः । देवाः शरण्याः । युष्मान् भजे । देवाः शरण्याः । वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥", "81074": "अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । द्वेवीः पलुर्वीरुरु नः कृणोत (द्वेवीः॑ पलुर्वीरु॒रु नः॑ कृणोत) । अत्र देवीनां विशेषणं षडिति । देवाशरण्याः । इह द्वितीयस्य निघातो वैकल्पिकः ॥", "82001": "अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ॥ खयां यमाः खयः ≍क≍पौ विसर्गः शर एव च । एते श्वसानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥ \tवर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्क्नीः । चख्ख्नतुः । अग्ग्निः । घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । ≍क≍पावितीति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः ॥ (वार्तिकम्) ॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्ऌकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते ॥", "82002": "सुब्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि ॥ प्रतिदीव्यतीति प्रतिदिवा । प्रतिदिवानौ । प्रतिदिवानः । अस्य भविषयेऽल्लोपे कृते ॥", "82003": "नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् 3 । अमीभिः । अमुष्मै । अमीभ्यः 2 । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु ॥", "82004": "उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ॥", "82005": "उदात्तेन सहैकादेश उदात्तः स्यात् । वोऽश्वाः । क्वावरं भरुतः (क्वाव॑रं भरुतः) ॥", "82006": "अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी1दं ज्योतिर्हृदये (वी॑1॒दं॒ ज्योति॒र्हृद॑ये) । अस्य श्लोको दिवीयते (अस्य श्लोको॑ दि॒वीय॑ते) । व्यवस्थितविभाषात्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तात्-<{SK86}> इति पूर्वरूपे स्वरित एव । तेऽवदनम् (ते॑ऽवदनम्) । सो 3 यमागात् (सो॒ 3॒॑ यमागा॑त्) । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे क्षैपाभिनिहतेषु चेति ॥", "82007": "नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्याऽसिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ॥", "82008": "नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । सुपां सुलुक्इति ङेर्लुक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् ॥ (वार्तिकम्) ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ । अल्लोपोऽनः <{SK234}> । श्चुत्वम् । न चाऽल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नाऽपि बहिरङ्गतयाऽसिद्ध । यथोद्देशपक्षे षाष्ठीं परिभाषां प्रति श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः । जञोर्ज्ञः । राज्ञः । राज्ञा ॥", "82009": "मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥", "82010": "झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥", "82011": "मतोर्मस्य वः स्यात् । अहीवती । मुनीवती ।शरादीनां च <{SK1042}> इति दीर्घः ॥", "82012": "एते षट् संज्ञायां निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ॥", "82013": "उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥", "82014": "राजन्वती भूः । राजवानन्यत्र ॥", "82015": "इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय (हरि॑वते॒ हर्य॑श्वाय) । गीर्वान् ॥", "82016": "अन्नन्तान्मतोर्नुट् स्या । अक्षण्वन्तः कर्णवन्तः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः) । अस्थन्वन्तं यदनस्था (अ॒स्थ॒न्वन्तं॒ यद॑न॒स्था) ॥", "82017": "नान्तात्परस्य घस्य नुट् । सुपथिन्तरः । (वार्तिकम्) ॥ भूरिदावत्तरो जनः (भू॒रि॒दाव॑त्तरो जनः॑) । (वार्तिकम्) ॥ रथीतरः (र॒थीत॑रः) । रथीतमं रथीनाम् (र॒थीत॑मं र॒थीना॑म्) ॥", "82018": "कृप उ इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेरृकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकॢपे । चकॢपिषे । चकॢप्से इत्यादि स्यन्दिवत् ॥", "82019": "अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निस्दुसोरुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु । निलयते । दुलयते । प्रत्यय इति त्विणो रूपम् । अथ कथमुदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् । ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये ।{$ {!481 दय!} दानगतिरक्षणहिंसादानेषु$} । आदानं ग्रहणम् । दयांचक्रे ।{$ {!482 रय!} गतौ $}।{$ {!483 ऊयी!} तन्तुसन्ताने$} । ऊयांचक्रे ।{$ {!484 पूयी!} विशरणे दुर्गन्धे च$} । पूयते । पुपूये ।{$ {!485 क्नूयी!} शब्दे उन्दे च$} । चुक्नूये ।{$ {!486 क्ष्मायी!} विधूनने$} । चक्ष्माये ।{$ {!487 स्फायी!} {!488 ओप्यायी!} वृद्धौ$} । स्फायते । पस्फाये । प्यायते ॥", "82020": "गिरते रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति । जेगिल्यते । घुमास्था - <{SK2462}> इतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः <{SK2420}> । शोशूयते । शेश्वीयते । यङि च <{SK2623}> । सास्मर्यते । रीङृतः <{SK1234}> । चेक्रीयते । सुट् । संचेस्क्रीयते ॥", "82021": "गिरते रेफस्य लत्वं वा स्यादजादौ । गिरति । गिलति । जगार । जगाल । जगरिथ । जगलिथ । गरिता । गरीता । गलिता । गलीता ।{$ {!1411 दृङ्!} आदरे$} । आद्रियते । आद्रियेते । आदद्रे । आदद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आदृत । आदृषाताम् ।{$ {!1412 धृङ्!} अवस्थाने$} । ध्रियते ॥\tअथ परस्मैपदिनः षोडश ॥{$ {!1413 प्रच्छ!} ज्ञीप्सायाम्$} । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ । पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः ।{$ {!1414 सृज!} विसर्गे$} । विभाषा सृजिदृशोः <{SK2404}> ससर्जिथ । सस्रष्ठ । स्रष्टा । स्रक्ष्यति । सृजिदृशोर्झल्यमकिति <{SK2405}> इत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् ।{$ {!1415 टुमस्जो!} शुद्धौ$} । मज्जति । ममज्ज । मस्जिनशोर्झलि <{SK2517}> इति नुम् । (वार्तिकम्) ॥ संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः ।{$ {!1416 रुजो!} भङ्गे$} । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् ।{$ {!1417 भुजो!} कौटिल्ये$} । रुजिवत् ।{$ {!1418 छुप!} स्पर्शे$} । छोप्तां । अच्छौप्सीत् ।{$ {!1419 रुश!} {!1420 रिश!} हिंसायाम्$} । तालव्यन्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति ।{$ {!1421 लिश!} गतौ$} । अलिक्षत् ।{$ {!1422 स्पृश!} संस्पर्शने$} । स्प्रष्टा । स्पर्ष्टा । स्प्रक्ष्यति । स्पर्क्ष्यति । अस्प्राक्षीत् । अस्पार्क्षीत् । अस्पृक्षत् ।{$ {!1423 विच्छ!} गतौ$} । गुपूधूप - <{SK2303}> इत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ ।{$ {!1424 विश!} प्रवेशने$} । विशति । वेष्टा ।{$ {!1425 मृश!} आमर्शने$} । आमर्शनं स्पर्शः । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् ।{$ {!1426 णुद!} प्रेरणे$} । कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः ।{$ {!1427 षद्लृ!} विशरणगत्यवपसादनेषु$} । सीदतीत्यादि भौवादिकवत् । इह पाठोनुम्विकल्पार्थः । सीदति । सीदन्ती । ज्वालादौ पाठस्तु णार्थः । सादः । स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः ।{$ {!1428 शदॢ!} शातने$} । स्वरार्थ एव पुनः पाठः । शता तु नास्ति । शदेः शितः - <{SK2362}> इत्यात्मनेपदोक्तेः ॥\tअथ षट् स्वरितेतः ॥{$ {!1429 मिल!} सङ्गमे$} । मिल संश्लेषणे इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः । मिलति । मिलते । मिमेल । मिमिले ।{$ {!1430 मुच्लृ!} मोक्षणे$} ॥", "82022": "परे रेफस्य लो वा स्याद्घशब्दे अङ्कशब्दे च । पलिघः । परिघः । पर्यङ्कः । पल्यङ्कः । इह तरप्तमपौ घः <{SK2003}> इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ॥", "82023": "संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥ (वार्तिकम्) । (वार्तिकम्) ॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ॥", "82024": "रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रेफस्य विसर्गः । क्रोष्टुः । आमि परत्वात्तृज्वद्भावे प्राप्ते । (वार्तिकम्) ॥ क्रोष्टूनाम् । क्रोष्टरि । क्रोष्ट्रोः । पक्षे हलादौ च शम्भुवत् ॥ इत्युदन्ताः ॥\t हूहूः । हूह्वौ । हूह्वः । हूहूम् । हूह्वौ । हूहूनित्यादि । अतिचमूशब्दे तु नदीकार्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचम्वाः । अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥", "82025": "धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥", "82026": "झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टाम् । इत्यादि ।{$ {!49 खादृ!} भक्षणे$} । ऋकार इत् । खादति । चखाद ।{$ {!50 खद!} स्थैर्ये हिंसायां च$} । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥", "82027": "सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् ।{$ {!899 हृञ्!} हरणे$} । हरणं प्रापणं स्वीकारः स्तेयं नासनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति ।{$ {!900 धृञ्!} धारणे$} । धरति । अधार्षीत् । अधृत ।{$ {!901 णीञ्!} प्रापणे$} । निनयिथ । निनेथ । निन्यिषे ॥\tअथाजन्ताः परस्मैपदिनः ॥{$ {!902 धेट्!} पाने$} । धयति ॥", "82028": "इटः परस्य सस्य लोपः स्यादीटि परे । (वार्तिकम्) ॥ आतीत् । आतिष्टाम् । आतिषुः ॥", "82029": "पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । भृज्जौ । भृज्जः । ऋत्विग् <{SK373}> इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । रात्सस्य <{SK280}> इति नियमान्न संयोगान्तलोपः । उर्क् । उर्ग् । ऊर्जौ । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥", "82030": "चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । इति कुत्वम् । क्विन्प्रत्ययस्य <{SK377}> इति कुत्वस्याऽसिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । युज समाधौ दैवाहिक आत्मनेपदी । संयोगान्तलोपः । खन् । खञ्जौ । खञ्जः । इत्यादि । व्रश्च <{SK294}> इति षत्वम् । जश्त्वचर्त्वे । राट् । राड् । राजौ । राजः । राट्सु । राट्त्सु । एवं विभ्राट् । देवेट् । देवेजौ । देवेजः ॥ विश्वसृट् । विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति फणादिरेव गृह्यते । यस्तु एजृभ्रेजृभ्राजृदीप्ताविति तस्य कुत्वमेव । विभ्राक् । विभ्राग् । विभ्राग्भ्यामित्यादि । परौ व्रजेः षः पदान्ते <{उ217}> । परावुपपदे व्रजेः क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिव्राजौ । परिव्राजः ॥", "82031": "हस्य ढः स्याज्झलि पदान्ते च । हल्ङ्याब् <{SK252}> इति सुलोपः । पदान्तत्वाद्धस्य ढः । जश्त्वचर्त्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥", "82032": "उपदेशे दादेर्धातोर्हस्य घः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्विपि दामलिट् । अत्र माभूत् ॥", "82033": "एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ॥ विश्ववाट् । विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम् । विश्ववाहौ ॥", "82034": "नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपानहौ । उपानहः । उपानद्भ्याम् । उपानत्सु । उत्पूर्वात् ष्णिह प्रीतावित्स्मात् ऋत्विक् <{SK373}>आदिना क्विन् । निपातनाद्दलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक् । उष्णिग् । उष्णिहौ । उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । द्युषु । गीः । गिरौ । गिरः । एवं पूः । चतुरश्चतस्रादेशः । चतस्रः 2 । चतसृणाम् । किमः कादेशे टाप् । का । के । काः । सर्ववत् ॥", "82035": "झलि परे । चर्त्वम् । आत्थ । आहथुः ॥", "82036": "व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निड्भिः । सुपि डः सीति पक्षे धुट् । चर्त्त्वम् । तस्यासिद्धत्वाच्चयो द्वितीया इति टतयोष्ठथौ न । न पदान्ताट्टोः इति ष्टुत्वं न । निट्त्सु । निट्सु ॥", "82037": "धातोरवयवो य एकाज्झषन्तस्तदवयवस्य बशः स्थाने भष् स्यात्सकारे ध्वशब्दे पदान्ते च । एकाचो धातोरिति सामानाधिकरण्येनाऽन्वये तु इह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः क्विप् । णिलोपः । गर्धप् । झलीति निवृत्तं स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भावः । जश्त्वचर्त्वे । धुक् । धुग् । दुहौ । दुहः । षत्वचर्त्वे । धुक्षु ॥", "82038": "द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथयोः स्ध्वोश्च परतः । वचनसामर्थ्यादालोपो न स्थानिवदिति वामनमाधवौ । वस्तुतस्तु पूर्वत्रासिद्धीये न स्थानिवत् । धत्तः । दधति । धत्थः । दध्वः । धत्ते । धत्से । धद्ध्वे । धेहि । अधित ॥\tअथ त्रयः स्वरितेतः ॥{$ {!1093 णिजिर्!} शौचपोषणयोः$} ॥", "82039": "पदान्तेझलां जशः स्युः । पटत्पटदिति ॥", "82040": "झषः परयोस्तथयोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा । सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥", "82041": "षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्च <{SK294}>आदिसूत्रे दादेर्धातोः <{SK325}> इति सूत्राद्धातोरित्यनुवर्तयन्ति । तन्मते जश्त्वेन जकारे । निज्भ्याम् । निज्भिः । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । चोः कुः <{SK378}>इति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् ॥ (वार्तिकम्) ॥ पृतः । पृता । पृद्भ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न । मत्या ॥", "82042": "रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शॄ । ऋत इत् <{SK2390}> । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ॥", "82043": "निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः । म्लानः ॥", "82044": "एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या । ग्रहिज्या -<{SK2412}> । जीनः ॥ (वार्तिकम्) ॥ दु गतौ दूनः । टुदु उपताप इत्ययं तु न गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः । (वार्तिकम्) ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् । (वार्तिकम्) ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥", "82045": "भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । (गणसूत्रम् -) स्वादय ओदितः इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङ पाठमर्थ्यान्नेट् । उड्डीनः ॥", "82046": "दीर्घात् क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । श्र्युकः किति <{SK2381}> । श्रितः । श्रितवान् । भूतः । भूतवान् । क्षुतः । (वार्तिकम्) ॥ तेन एकाच्त्वान्नेट् । ऊर्णुतः । नुतः । वृतः ॥", "82047": "श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हलः - <{SK2559}> इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥", "82048": "अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने ॥", "82049": "दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । द्यूनः । विजिगीषायां तु द्यूतम् ॥", "82050": "अवाते इति छेदः । निर्पूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः ॥", "82051": "निष्ठात इत्येव । शुष्कः ॥", "82052": "पक्वः ॥", "82053": "क्षामः ॥", "82054": "निष्ठातस्य मो वा स्यात् । प्रस्तीमः । प्रस्तीतः । प्रात्किम् । स्त्यानः ॥", "82055": "ञिफाला । फुल्लः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिष्यते । फुल्लवान् । क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः । तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते । क्षीबो मत्तः । कृशस्तनुः । उल्लाघो नीरोगः । अनुपसर्गात्किम् ॥", "82056": "एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विदविचारणे रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥", "82057": "एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः । राल्लोपः <{SK2655}> । मूर्तः । मत्तः ॥", "82058": "विन्दतेर्निष्ठातस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्न । विभाषा गमहन -<{SK3099}> इति क्वसौ वेट्त्वादिह नेट् ॥", "82059": "भिन्नमन्यत् ॥", "82060": "ऋधातोः क्ते तकारस्य नत्वं निपात्यते अधमर्णव्यवहारे । ऋतमन्यत् ॥", "82061": "सदेर्नञ्पूर्वान्निपूर्वाच्च निष्ठायां नत्वाभावो निपात्यते । नसत्तमञ्जसा । निपत्तमस्य चरतः । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः, तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गुरी इत्यस्य ॥", "82062": "क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनाऽनुनासिको ङकारः । युङ् । नश्चापदान्तस्येति नुमोऽनुस्वारः । परसवर्णः । तस्याऽसिद्धत्वात् चोः कुः <{SK378}> इति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युग्भ्यामित्यादि । असमासे किम् ॥", "82063": "नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामित्यादि ॥", "82064": "धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥", "82065": "मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त ।{$ {!443 कमु!} कान्तौ$} । कान्तिरिच्छा ॥", "82066": "पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥", "82067": "एते संबुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥", "82068": "अहन्नित्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते । अहन्नित्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रुत्वरत्वे । दीर्घाण्यहानि यस्मिन् स दीर्घाहा निदाघः । इह हल्ङ्यादिलोपे प्रत्ययलक्षणेनाऽसुपीति निषेधाद्रत्वाभावे रुः । तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निदाघः । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डीनि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । सृजिदृशोः <{SK2405}> इति सूत्रे रज्जुसृड्भ्यामिति भाष्यप्रयोगात् । यद्वा व्रश्च <{SK294}>इति सूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । स्रग्ऋत्विक्शब्दयोस्तु निपातनादेव कुत्वम् । असृक्शब्दस्तु अस्यतेरौणादिके ऋच्प्रत्यये बोध्यः । असृक् । असृग् । असृजी । असृञ्जि । पद्दन्न <{SK228}> इति वा असन् । असानि । असृजा । अस्ना । असृग्भ्याम् । असभ्यामित्यादि । उर्क् । उर्ग् । ऊर्जि । ऊन्र्जि । नरजानां संयोगः । (वार्तिकम्) । (वार्तिकम्) ॥ बहूर्जि । बहूर्ञ्जि वा कुलानि ॥ त्यत् । त्यद् । त्ये । त्यानि । तत् । तद् । ते । तानि । यत् । यद् । ये । यानि । एतत् । एतद् । एते । एतानि । अन्वादेशे तु एनत् । बोभिद्यतेः क्विप् । बेभित् । बेभिद् । बेभिदी । शावल्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि चेच्छिदि ॥ गवाक्छब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः । असन्ध्यवङपूर्वरूपैर्नवाधिकशतं मतम् ॥ 1 ॥ स्वम्सुप्सु नव षड् भादौ षट्के स्युस्त्रीणि जश्शसोः । चत्वारि शेषे दशके रूपाणीति विभावय ॥ 2 ॥ तथाहि । गामञ्चतीति विग्रहे ऋत्विक् <{SK373}> आदिना क्विन् । गतौ नलोपः । अवङ् स्फोटायनस्य <{SK88}> इत्यवङ् । गवाक् । गवाग् । सर्वत्र विभाषा <{SK87}> इति प्रकृतिभावे गोअक् । गोअग् । पूर्वरूपे । गोऽक् । गोऽग् । पूजायां नस्य कुत्वेन ङः । गवाङ् । गोअङ् । गोऽङ् । अम्यपि एतान्येव नव । औङः शी । भत्वात् अचः <{SK416}> इत्यल्लोपः । गोची । पूजायां तु गवाञ्ची । गोअञ्ची । गोऽञ्ची ॥ जश्शसोः शिः <{SK312}> ॥ शेः सर्वनामस्थानत्वान्नुम् । गवाञ्चि । गोअञ्चि । गोऽञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा । गवाञ्चा । गोअञ्चा । गोऽञ्चा । गवाग्भ्याम् । गोअग्भ्याम् । गोऽग्भ्याम् । गवाङ्भ्याम् । गोअङ्भ्याम् । इत्यादि ॥ सुपि तु ङान्तानां पक्षेङ्णोः कुग् <{SK130}> इति कुक् । गवाङ्क्षु । गवाङ्षु । गवाक्षु । गोअक्षु । गोक्षु । न चेह । चयो द्वितीया इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्क्यम् । चर्त्वस्यासिद्धत्वात् । कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाऽभावे पक्षे द्वितीयादेशात्रीणि रूपाणि वर्द्धन्त एव ॥ ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् । रूपान्यश्वाक्षिभूतानि <{SK527}> भवन्तीति मनीषिभिः ॥ 1 ॥ तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती । यकृन्ति । पद्दन् <{SK228}> इति वा यकन् । यकानि । यक्ना । यकृता । शकृत् । शकृती । शकृन्ति । शकानि । शक्ना । शकृता । ददत् । ददती ॥", "82069": "अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् । (वार्तिकम्) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् । (वार्तिकम्) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥", "82070": "रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अवएव । अवरेव ॥", "82071": "भुव इति (भुव॒ इति॑) । भवरिति (भुव॒रिति॑) ॥", "82072": "सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते । अनडुद्भ्यामित्यादि । सान्तेति किम् । विद्वान् । पदान्ते इति किम् । स्रस्तम् । ध्वस्तम् ॥", "82073": "पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात्-अचकाद् । अचकासुः ॥", "82074": "पदान्तस्य धातोः सस्य रूः स्याद्वा । पक्षे जश्त्वेन दः । अचकाः । अचकात् ।{$ {!1075 शासु!} अनुशिष्टौ$} । शास्ति ॥", "82075": "धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा । अवेः-अवेत् ।{$ {!1065 अस!} भुवि$} । अस्ति ॥", "82076": "रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । वा शरि <{SK151}> इति वा विसर्जनीयः ॥", "82077": "रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥", "82078": "धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते । उर्दांचक्रे ।{$ {!21 कुर्द!} {!22 खुर्द!} {!23 गुर्द!} {!24 गुद!} क्रीडायामेव$} । कूर्दते । चुकूर्दे । गूर्दते । गोदते । जुगुदे ।{$ {!25 षूद!} क्षरणे$} । सूदते । सुषूदे ॥ - सेक्, सृप, सृ, स्तृ, सृज्, स्तॄ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः ष्वष्क्, स्विद्, स्वद, स्वञ्ज, स्वप्, स्मिङः ॥ 1 ॥ दन्त्यः केवलदन्त्यो नतु तन्तोष्ठजोऽपि, ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् ।{$ {!26 ह्राद!} अव्यक्ते शब्दे$} । ह्रादते । जह्रादे ।{$ {!27 ह्लादी!} सुखे च$} । चादव्यक्ते शब्दे । ह्लादते ।{$ {!28 स्वाद!} आस्वादने $}। स्वादते ।{$ {!29 पर्द!} कुत्सिते शब्दे$} । गुदरवे इत्यर्थः । पर्दते ।{$ {!30 यती!} प्रयत्ने$} । यतते । येते ।{$ {!31 युतृ!} {!32 जुतृ!} भासने$} । योतते । युयुते । जोतते । जुजुते ।{$ {!33 विथृ!} {!34 वेथृ!} याचने$} । विविथे । विवेथे ।{$ {!35 श्रथि!} शैथिल्ये$} । श्रन्थते ।{$ {!36 ग्रथि!} कौटिल्ये$} । ग्रन्थते ।{$ {!37 कत्थ!} श्लाघायाम्$} । कत्थते । एधादयोऽनुदात्तेतो गताः ॥\tअथाष्टत्रिशंत्तवर्गीयान्ताः परस्मैपदिनः ॥{$ {!38 अत!} सातत्यगमने$} । अतति । अत आदेः <{SK2248}> आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥", "82079": "भस्य कुर्च्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्यः । धौरेयः ॥", "82080": "अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य च मः । उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्ध्रस्वव्यञ्जनयोर्ह्रस्वो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयञ्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यामित्यादि । मुत्वस्याऽसिद्धत्वान्न यण् । [(परिभाषा - ) अन्त्यबाधेऽन्त्यसदेशस्य] इति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य स्थाने यस्य सोऽसिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे अदद्यङ् । उक्तं च -अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येकऽसेर्हि दृश्यते । इति ॥ विष्वद्गेवयोः किम् । अश्वाची । अञ्चतौ किम् । विष्वग्युक् । अप्रत्यये किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति अन्यत्र धातुग्रहणे तदादिविधिरिति । तेनाऽयस्कारः । अतः कृकमि <{SK160}> इति सः । उदङ् । उदञ्चौ । उदञ्चः । शसादावचि ॥", "82081": "अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धम् <{SK12}>इति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥", "82082": "इत्यधिकृत्य ॥", "82083": "अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् स चोदात्तः । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्त3 । (वार्तिकम्) ॥ अभिवादये गार्ग्यहम् । भो आयुष्मती भव गार्गि ॥ नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि । (वार्तिकम्) ॥ आयुष्मानेधि भोः3 । आयुष्मानेधीन्द्रवर्म3न् । आयुष्मानेधीन्द्रपालित3 ॥", "82084": "दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त3 ॥", "82085": "एतयोः प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे3 राम । राम है3 ॥", "82086": "दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे3 वदत्त । देवद3त्त । देवदत्त3 । गुरोः किम् । वकारात्परस्याकारस्य मा भूत् । अनृतः किम् । कृष्ण3 । एकैकग्रहणं पर्यायार्थम् । इह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥", "82087": "ओंशब्दस्य प्लुतः स्यादारम्भे । ओ3मग्निमीळे पुरोहितम् (ओ3म॒ग्निमी॑ळे पु॒रोहि॑तम्) । अभ्यादाने किम् । ओमित्येकाक्षरम् ॥", "82088": "ये3यजामहे । यज्ञेति किम् । ये यजामहे ॥", "82089": "यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिवन्तो3म् (अ॒पां रेतां॑सि जिवन्तो3म्) । टेः किम् । हलन्ते अन्त्यस्य माभूत् ॥", "82090": "ये याज्या मन्त्रास्तेषामन्त्यस्य टे प्लुतो यज्ञकर्मणि । जिह्वामगग्ने चकृषे हव्यवाहा3म् (जि॒ह्वाम॑ग्ने चकृषे हव्यवाहा3म्) । अन्तः किम् । याज्यानामृचां वाक्यसमुदाय रूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेत्यते ॥", "82091": "एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू3हि । अग्नये गोमयानि प्रे3ष्य । अस्तु श्रौ3षट् । सोमस्याग्ने वीही वौ3षट् । अग्निमा3वह ॥", "82092": "अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ3श्रा3वय ॥", "82093": "प्लुतः अकार्षीः कटम् । अकार्षं हि3 । अकार्षं हि । पृष्टेति किम् कटं करिष्यति हि । हेः किम् । कटं करोति ननु ॥", "82094": "अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ3 । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ॥", "82095": "दस्यो3दस्यो3घातयिष्यामि त्वाम् । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर3 चौर3 ॥", "82096": "अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज3 इदानीं ज्ञास्यसिजाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ॥", "82097": "वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा3इ । न होतव्य3मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ॥", "82098": "विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु3 रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ॥", "82099": "वाक्यस्य टे प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि3 । नित्यः शब्दो भवितुमर्हति 3 । दत्त किमात्थ3 ॥", "82100": "अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत 3 इ । पट 3 उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक3 ॥", "82101": "वाक्यस्य टेरनुदात्तः प्लुतः अग्निचिद्भाया3त् अग्निरिव भायात् । उपमार्थे किम् । कथंचिदाहुः प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ॥", "82102": "टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी 3 त् (उ॒परि॑स्विदासी 3 त्) । अधः स्विदासी 3 त् (अ॒धः स्वि॑दा॒सी 3 त्) इत्यत्र तु विचार्यमाणानाम् <{SK3616}> इत्युदात्तः प्लुतः ॥", "82103": "स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । अभिरूपक3 अभिरूपकरिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक 3 अभिरूपक शोभनोऽसि । कोपे । अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक 3 शाक्तीकरिक्ता ते शक्तिः ॥", "82104": "आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यादाचारभेदे । स्वयं ह रथेन याति 3 उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्रंश्च लप्सीष्ट 3 धनं च तात । व्यापारणे । कटं कुरु 3 ग्रामं गच्छ । आकाङ्क्षं किम् । दीर्घायुरसि अग्नीदग्नीन्विहर ॥", "82105": "अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुतः एतयोः । अगमः 3पूर्वा 3 न् ग्रामा 3 न् । सर्वपदानामयम् । आख्याने । अगम3 म् पूर्वा 3 न् ग्रामा 3 न् ॥", "82106": "दूराद्धूतादिषु प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते । ऐ 3 तिकायन । औ 3 पगव । चतुर्मात्रावत्र ऐचौ संपद्येते ॥", "82107": "अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः । (वार्तिकम्) ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने । (वार्तिकम्) ॥ अग्न 3 इ पत्नी वः ॥", "82108": "इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न 3 याशा । पट 3 वाशा । अग्न 3 यिन्द्रम् । पट 3 वुदकम् । अचि किम् । अग्ना 3 इ वरुणौ । संहितायां किम् । अग्न 3 इ इन्द्रः । संहितायामित्यध्यायसमाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्मदीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वात् उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य <{SK3657}> इत्यस्य बाधनार्थो वा ॥", "83001": "रु इत्यविभक्तिको निर्देशः । मत्वन्तस्य वस्वन्तस्य च रुः स्यात् । अलोऽन्त्यस्य <{SK42}> इति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् (इन्द्र॑ मरुत्व इ॒ह पा॑हि सोम॑म्) । हरिवो मेदिनं त्वा (हरिवो मे॒दिनं॑ त्वा) । छन्दसीरः <{SK3600}> इति वत्वम् ॥", "83002": "अत्र रुप्रकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥", "83003": "अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महाँ इन्द्रः (म॒हाँ इन्द्रः॑) । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ॥", "83004": "अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । खरवसानयोर्विसर्जनीयः <{SK76}> ॥", "83005": "समो रुः स्यात् सुटि । अलोऽन्त्यस्य <{SK42}> ॥", "83006": "अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे अप्रत्ययस्ये <{SK155}>ति षत्वपर्युदासात् क पयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुंकानामिति सः । पुँस्कोकिलः । पुंस्कोकिलः । पुँस्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि किम् । पुंदासः ॥ (वार्तिकम्) ॥ पुंख्यानम् ॥", "83007": "अम्परे छवि नकारान्तस्य पदस्य रुः स्यान्न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्चुत्वम् । शार्ङ्गिँश्छिन्धि । शार्ङ्गिंश्छिन्धि । चक्रिँस्त्रायस्व । चक्रिंस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥", "83008": "अम्परे छवि नकारस्य रुर्वा । पशून्तांश्चक्रे (प॒शून्तांश्च॑क्रे) ॥", "83009": "दीर्घान्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् । देवां अच्छा सुमती (दे॒वां अच्छा॑ सुम॒ती) । महां इन्द्रो य ओजसा (म॒हां इन्द्रो॒ य ओज॑सा) । उभयथेत्यनुवृत्तेर्नेह । आदित्यान्याचिषामहे (आ॒दित्यान्या॑चिषामहे) ॥", "83010": "नॄनित्यस्य रुः स्याद्वा पकारे परे ॥", "83011": "रुर्वा । भवस्तस्य स्वतवाँ पायुरग्ने (भुव॒स्तस्य॒ स्वत॑वाँ पा॒युर॑ग्ने) ॥", "83012": "कान्नकारस्य रुः स्यादाम्रेडिते परे । संपुंकानामिति सः । यद्वा ॥", "83013": "ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यन्ते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् । अघाक्षि ।{$ {!650 गृहू!} गर्हणे$} । गर्हते । जगृहे । (वार्तिकम्) ॥ जगृहिषे । जघृक्षे । जघृढ्वे । गर्हिता । गर्ढा । गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥", "83014": "रेफस्य रेफे परे लोपः स्यात् ॥", "83015": "खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्क्षु <{SK3630}> कर्तरि चर्षिदेवतयो <{SK3167}>रित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यकः <{SK92}> इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥", "83016": "सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्वित्वे प्राप्ते ॥", "83017": "एतत्पूर्वस्य रोर्यादेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य <{SK67}> । देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । नह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ॥", "83018": "पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥", "83019": "अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ पूर्वत्रासिद्धम् <{SK12}> इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः । हर एहि । हरयेहि । विष्ण इह । विष्णविह । श्रिया उद्यतः । श्रियायुद्यतः । गुरा उत्कः । गुरावुत्कः ॥ कानि सन्ति कौ स्तः इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्ते <{SK51}> इति सूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ॥", "83020": "ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्ग्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥", "83021": "अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि पदे । स उ एकाग्निः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते तर्ह्युत्तरार्थं पदग्रहणम् ॥", "83022": "भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥", "83023": "मान्तस्य पदस्यानुस्वारः स्याद्धलि ॥ अलोऽन्त्यस्य <{SK42}> हरिं वन्दे । पदस्येति किम् । गम्यते ॥", "83024": "नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यशांसि । आक्रंस्यते । झलि किम् ? मन्यते ॥", "83025": "क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥", "83026": "मपरे हकारे परे मस्य म एव स्याद्वा । ह्नल ह्वल चलने । किम् ह्मलयति । किं ह्नलयति । (वार्तिकम्) ॥", "83027": "नपरे हकारे मस्य नः स्याद्वा । किन्ह्नुते । किंह्नुते ॥", "83028": "ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाज्जश्त्वं न । (वार्तिकम्) ॥ प्राङ्ख्षष्ठः । प्राङ्क्षष्ठः । प्राङ्षष्ठः । सुगण्ठ्षष्ठः । सुगण्टषष्ठः । सुगण्षष्ठः ॥", "83029": "डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥", "83030": "नकारान्तात्सस्य धुड्वा । सन्त्सः । सन्सः ॥", "83031": "पदान्तस्य नस्य शे परे तुग्वा स्यात् । शश्छोऽटी <{SK120}>ति छत्वविकल्पः । पक्षे झरो झरी 7ति चलोपः । सञ्छंभुः । सञ्च्छंभुः । सञ्चशंभुः । सञ्शंभुः ॥\tञछौ ञचछा ञचशा ञशाविति चतुष्टयम् ।\t रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥", "83032": "ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याऽचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥", "83033": "मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वत्वस्यासिद्धत्वान्नानुस्वारः ॥", "83034": "खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरी <{SK151}>ति पाक्षिके विसर्गे प्राप्ते - (वार्तिकम्) ॥ संस्स्कर्ता, सँस्स्कर्ता ॥ समो वा लोपमेके इति भाष्यम् । लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयम् । द्विसकारं तूक्तमेव । तत्र अनचि च <{SK48}> इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वारविसर्गजिह्वामूलीयोपध्यमानीययमानामकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेनानुस्वारस्याप्यच्त्वात् । अनुनासिकवतां त्रयाणां । (वार्तिकम्) ॥ इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति चतुष्पञ्चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरशतम् ॥", "83035": "शर्परे खरि विसर्जनीयस्य विसर्जनीयः न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं सत्वं जिह्वामूलीयश्च न ॥", "83036": "शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते । (वार्तिकम्) ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः क पौ च <{SK142}> ॥ क करोति । कः करोति । क खनति । कः खनति । क पचति । कः पचति । क फलति । कः फलति ॥", "83037": "कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्त इति न्यायेन विसर्जनीयस्य स <{SK138}> इत्यस्यापवादोऽयम् । न तु शर्परे विसर्जनीय <{SK150}> इत्यस्य । तेन वासः क्षौममित्यादौ विसर्ग एव । नॄँ≍ पाहि । नॄं≍ पाहि । नॄँःपाहि । नॄंःपाहि । नॄन्पाहि ॥", "83038": "विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥ (वार्तिकम्) ॥ पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति । (वार्तिकम्) ॥ प्रातः कल्पम् । (वार्तिकम्) ॥ नेह । गीः काम्यति ॥", "83039": "इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥", "83040": "गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम् <{SK768}> इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः॥", "83041": "इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति ॥ (वार्तिकम्) ॥ कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न । मातुः कृपा । (वार्तिकम्) ॥ मुहुः कामा ॥", "83042": "तिरसो विसर्गस्य सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥", "83043": "कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यादि । कृत्वोऽर्थे किम् । चतुष्कपालः ॥", "83044": "एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिःकरोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । सामर्थ्ये किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥", "83045": "इसुसोर्विसर्गस्यानुत्तरपदस्थस्य समासे नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालकम् । अनुत्तरपदस्थस्येति किम् । परमसर्पिः कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥", "83046": "अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । स्वःकामः । समासे किम् । यशःकरोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥", "83047": "एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधःपदम् । शिरःपदम् । अनुत्तरपदस्थस्येत्येव । परमशिरःपदम् । (वार्तिकम्) ॥ भास्करः ॥", "83048": "एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः । ≍क≍पयोरपवादः । इति सः । काँस्कान् । कांस्कान् । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ॥", "83049": "विसर्गस्य सो वा स्यात् कुप्वोः प्रशब्दमाम्रेडितं च वर्जयित्वा । अग्ने त्रातर्ऋतस्कविः (अग्ने त्रातर्ऋ॒तस्क॒विः) । गिरिर्न विश्वतस्पृथुः (गि॒रिर्न वि॒श्वत॑स्पृ॒थुः) । नेह । वसुनः पूर्व्यस्पतिः (वसु॑नः पू॒र्व्यस्पतिः॑) । अप्रेत्यादि किम् । अग्निः प्रविद्वान् । परुषः परुषः (परु॑षः परुषः) ॥", "83050": "विसर्गस्य सः स्यात् । प्रदिवो अपस्कः (प्र॒दिवो॒ अप॒स्कः) । यथा नो वस्यसस्करत् (यथा॑ नो॒ वस्य॑स॒स्कर॑त्) । सुपेशसस्करति (सु॒पेश॑सस्करति॒) । उरुणस्कृधि (उ॒रुण॑स्कृधि) । सोमं न चारु मघवत्सु नस्कृतम् (सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम्) । अनदितेरिति किम् । यथा नो अदितिः करत् (यथा॑ नो॒ अदि॑तिः॒ कर॑त्) ॥", "83051": "पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे परतः । दिवस्परि प्रथमं जज्ञे (दि॒वस्परि॑ प्रथमं ज॑ज्ञे) । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः (दि॒वस्पृ॑थि॒व्याः पर्योजः॑) ॥", "83052": "पञ्चम्या इत्येव । सूर्यो नो दिवस्पातु (सूर्यो॑ नो दि॒वस्पा॑तु) ॥", "83053": "वाचस्पतिं विश्वकर्माणम् (वा॒चस्पतिं॑ वि॒श्वक॑र्माणम्) । दिवस्पुत्राय सूर्याय (दि॒वस्पु॑त्राय सूर्या॑य) । दिवस्पृष्ठं भनभन्दमानः (दि॒वस्पृ॒ष्ठं भन्द॑मानः) । तमसस्पारमस्य (तम॑सस्पा॒रम॒स्य) । परिवीत इळस्पदे (परि॑वीत इ॒ळस्प॒दे) । दिवस्पयो दिधिषाणाः (दि॒वस्पयो॒ दिधि॑षाणाः) । रायस्पोषं यजमानेषु (रा॒यस्पोषं॒ यज॑मानेषु) ॥", "83054": "पतिपुत्रादिषु परेषु । इलायास्पुत्रः (इळा॑यास्पुत्रः) । इळायाः पुत्रः । इळायास्पदे (इळा॑यास्प॒दे) । इळायाः पदे । निसस्तपतावनासेवने <{SK2403}> निसः सकारस्य मूर्धन्यः स्यात् । निष्टप्तं रक्षो निष्टप्ता अरातयः (निष्ट॑प्तं रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः) । अनासेवने किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ॥", "83055": "आ पादपरिसमाप्तेरधिकारोऽयम् ॥", "83056": "साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि । तुरं सहत इत्यर्थे छन्दसि सहः <{SK3409}> इति ण्विः । लोके तु साहयतेः क्विप् । अन्येषामपि <{SK539}> इति पूर्वपदस्य दीर्घः ॥", "83057": "इत्यधिकृत्य ॥", "83058": "एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीष्षु । पिपठीःषु । प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्स्व । निंस्से । नुङ्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमिति व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अतएव न शर्ग्रहणेन गतार्थता । रात्सस्य <{SK339}> इति सलोपे विसर्गः । चिकीः । चिकीर्षौ । चिकीर्षः । रोः सुपि <{SK339}> इति नियमान्न विसर्गः । चिकीर्षु ॥ दमर्डोसिः <{SK227}> ॥ डित्त्वसामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्रुत्वविसर्गौ । दोः । दोषौ । दोषः । पद्दन <{SK228}> इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । विश प्रवेशने । सन्नन्तात् क्विप् । संयोगान्तलोपः । व्रश्च <{SK294}> इति षः । जश्त्वचर्त्वे । विविट् । विविड् । विविक्षौ । विविक्षः । स्कोः <{SK380}> इति कलोपः । तट् । तड् । तक्षौ । तक्षः । गोरट् । गोरड् । गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु स्को <{SK380}> इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् ॥ (वार्तिकम्) ॥ - इति तु इह नास्ति ॥ (वार्तिकम्) ॥ तस्मात्संयोगान्तलोप एव । तक् तग् । गोरक् । गोरग् । संयोगान्तलोपः । पिपक् । पिपग् । एवं विवक् । दिधक् । पिस गतौ । सुष्ठु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीर्भ्याम् । सुपीःषु । सुपीष्षु । एवं सुतूः । तुस खण्डने । विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । विद्वांसम् । विद्वांसौ ॥", "83059": "सहेः साडः सः <{SK335}> इति सूत्रात्स इति षष्ठ्यन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्याऽपदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । इण्कोः किम् । रामस्य । आदेशप्रत्यययोः किम् । सुपीः । सुपिसौ । सुपिसः । अपदान्तस्य किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ॥", "83060": "इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता । सः स्यार्धधातुके <{SK2342}> सस्य तः स्यात्सादावार्धधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् ।{$ {!1006 वेञ्!} तन्तुसन्ताने$} । वयति । वयते ॥", "83061": "अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य षः स्यात्षभूते सनि नान्यस्य । तुष्टूषति । द्युतिस्वाप्योः - <{SK2344}> इत्युत्वम् । सुष्वापयिषति । सिषाधयिषति । स्तौतिण्योः किम् । सिसिक्षति । उपसर्गात्तु स्थादिष्वभ्यासेन च -<{SK2277}> इति षत्वम् । परिषिषिक्षचि । षणि किम् । तिष्ठासति । सुषुप्सति । अभ्यासादित्युक्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ॥", "83062": "अभ्यासेणः परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे । सिस्वेदयिषति । सिस्वादयिषति । सिसाहयिषति । स्थादिष्वभ्यासेनेति नियमान्नेह । अभिसुसूषति । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न नसिष्यते ॥ (भाष्यं) । शैषिकाच्छैषिकः सरूपो न, तेन शालीये भव इति वाक्यमेव । न तु छान्ताच्छः । सरूपः किम् । अहिच्छत्रे भव आहिच्छत्रः । आहिच्छत्रे भव आहिच्छत्रीयः । अण्णन्ताच्छः । तथा मत्वर्थात्सपरूपः स न । धनवानस्यास्ति । इह मतुबन्तान्मतुप् न । विरूपस्तु स्यादेव । दण्डिमती शाला । सरूप इत्यनुषज्यते । अर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तात्सन्न । स्वार्थसन्नन्तात्तु स्यादेव । जुगुप्सिषते । मीमांसिषते ॥", "83063": "सेवसित <{SK2275}> इत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥", "83064": "प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥", "83065": "उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥", "83066": "प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥", "83067": "स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥", "83068": "अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥", "83069": "व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥", "83070": "परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥", "83071": "परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत ।{$ {!853 रमु!} क्रीडायाम्$} । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ॥\tअथ कसन्ताः परस्मैपदिनः ।{$ {!854 षद्लृ!} विशसणगत्यवसादनेषु$} ॥", "83072": "एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते अनुस्यन्दते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदकेअनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् ।{$ {!762 कृपू!} सामर्थ्ये$} ॥", "83073": "षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥", "83074": "अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परस्कन्दति । परिष्कण्णः । पिरस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्मित्यभ्युपगमात् । पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्वं साधनेनेति मतान्तरे तु न णत्वम् ।{$ {!980 यभ!} मैथुने$} । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् ।{$ {!981 णम!} प्रह्वत्वे शब्दे च$} । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् ।{$ {!982 गम्लृ!} {!983 सृप्लृ!} गतौ$} ॥", "83075": "पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । प्राच्येति किम् । परिष्कन्दः । परिस्कन्दः ।परेश्च <{SK2399}> इति विकल्पः । स्तम्भेः <{SK2272}> इति षत्वे प्राप्ते ॥", "83076": "षत्वं वा स्यात् । निःष्फुस्फुरति । निःस्फुरति । स्फर इत्यकारोपधं केचित्पठन्ति । पस्फार ।{$ {!1391 स्फुड!} {!1392 चुड!} {!1393 व्रुड!} संवरणे$} ।{$ {!1394 क्रुड!} {!1395 भृड!} निमज्जन इत्येके$} ।{$ {!1396 गुरी!} उद्यमने$} । अनुदात्तेत् । गुरते । जुगुरे । गुरिता ।{$ {!1397 णू!} स्तवने$} । दीर्घान्तः । परिणूतगुणोदयः ॥ इतश्चत्वारः परस्मैपदिनः ॥ नुवति । अनुवीत् ।{$ {!1398 धू!} विधूनने$} । धुवति ।{$ {!1399 गु!} पुरीषोत्सर्गे$} । जुगुविथ । जुगुथ । गुता । गुष्यति । अगुषीत् । ह्रस्वादङात् <{SK2369}> । अगूताम् । अगुषुः ।{$ {!1400 ध्रु!} गतिस्थैर्ययोः$} । ध्रुव इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रूव्यात् । अध्रुवीत् । अध्रुविष्टाम् ।{$ {!1401 कुङ्!} शब्दे$} । दीर्घान्त इति कैयटादयः । कुविता । अकुविष्ट । ह्रस्वान्त इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः ।{$ {!1402 पृङ्!} व्यायामे$} । प्रायेण व्याङ्पूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् ।{$ {!1403 मृङ्!} प्राणत्यागे$} ॥", "83077": "वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति । विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ॥", "83078": "इण्णन्तादङ्गत्परेषां षीध्वंलुङलिटां धस्य मूर्धन्यः स्यात् । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे । एधांचकृमहे । अन्यथा हि क्रश्चानुप्रयुज्यत इति कृभ्विति वा ब्रूयात् ॥", "83079": "इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम् । अयिषीध्वम् । आयिष्ट । आयिढ्वम् । आयिध्वम् ॥", "83080": "अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥", "83081": "भीरुशब्दात् स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु । भीरोः स्थानम् ॥", "83082": "अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ॥", "83083": "आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्यातिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥", "83084": "आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ॥", "83085": "आभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःस्वसा । मातुःष्वसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥", "83086": "अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसञ्ज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥", "83087": "उसर्गेऽणः प्रादुसश्च परस्यास्तेः सस्य षः स्यारद्यकासेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुः षन्ति । यच्परः किम् । अभिस्तः ।{$ {!1066 मृजू!} शुद्धौ$} ॥", "83088": "एभ्यः सुप्यादेः सस्य षः स्यात् । पूर्वं धातुरुपसर्गेण युज्यते । किति लिटि परत्वात्संप्रसारणे षत्वे च कृते द्वित्वम् । [(परिभाषा - ) पूर्वत्रासिद्धीयमद्विर्वचने] । सुषुषुपतुः । सुषुषुपुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यसिद्धत्वात्ततः पूर्वं हलादिः शेषः <{SK2179}> । नित्यत्वाच्च् । ततः सुपिरूपाभावान्न षः । सुसुष्वाप । सुस्वप्ता । अस्वपीत् । अस्वपत् । स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् ।{$ {!1069 श्वस!} प्राणने$} । श्वसिति । श्वसिता । अश्वसीत्-अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । ह्म्यन्तक्षण -<{SK2299}> इति न वृद्धिः । अश्वसीत् ।{$ {!1070 अन!} च$} । अनिति । आन । अनिता । आनीत् । आनत् ॥", "83089": "आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः । शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपि <{SK2916}> इति कः ॥", "83090": "प्रतेः स्नातेः षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥", "83091": "कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् । कपीनां स्थलं कपिस्थलम् ॥", "83092": "प्रतिष्ठत इति प्रष्ठो गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥", "83093": "अनयोर्विपूर्वस्य स्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । वृक्षे किम् । वाक्यस्य विस्तरः ॥", "83094": "विपूर्वात्स्तृणातेर्घञन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि । इति षत्वम् ॥", "83095": "आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायाम् <{SK721}>इति सप्तमीसमासः । (वार्तिकम्) ॥ हृदिस्पृक् । दिविस्पृक् ॥", "83096": "एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥", "83097": "स्थ इति कप्रत्ययान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । त्रिष्ठः । इत ऊर्ध्वं कर्मणि सुपीति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य संबन्धः ॥", "83098": "सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः ॥", "83099": "सस्य मूर्धन्यः । हरिषेणः । एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात् किम् । विष्वक्सेनः । इण्कोरित्येव । सर्वसेनः ॥", "83100": "एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः । रोहिणीसेनः । अगकारात्किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ॥", "83101": "ह्रस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः । (वार्तिकम्) ॥ आरण्याः सुमनसः । (वार्तिकम्) ॥ दूरेत्यः । उत्तरादाहञ् ॥ औत्तराहः ॥", "83102": "षः स्यात् । आसेवनं पौनः पुन्यं ततोऽस्यस्मिन्विषये । निष्टपति ।{$ {!986 त्यज!} हानौ$} । तत्यजिथ । तस्यक्थ । त्यक्ता । अत्याक्षीत् ।{$ {!987 षञ्ज!} सङ्गे$} । दंशसञ्जस्वञ्जां शपि <{SK2396}> इति नलोपः । सजति । सङ्क्ता ।{$ {!988 दृशिर्!} प्रेक्षणे$} । पश्यति ॥", "83103": "पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । त्रिभिष्ट्वं देव सवितः (त्रि॒भिष्ट्वं दे॑व सवितः) । तेभिष्ट्वा (तेभि॑ष्ट्वा) । आभिष्टे (आभिष्टे॑) । अप्स्वग्ने सधिष्टव (अ॒प्स्व॑ग्ने सधि॒ष्टव॑) । अग्निष्टद्विश्वम् (अ॒ग्निष्टद्विश्व॑म्) । द्यावा पृथिवी निष्टतक्षुः (द्यावा॑ पृथि॒वी नि॑ष्टत॒क्षुः) । अन्तः पादं किम् । तदग्निस्तदर्यमा (तद॒ग्निस्तद॑र्य॒मा) । यन्म आत्मनो मिन्दाभूदग्निस्तत्पनराहार्जातवेदा विचर्षणिः (यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा विच॑र्षणिः) । अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः ॥", "83104": "युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ॥", "83105": "नृभिष्टुतस्य । नृभिःस्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥", "83106": "पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्नी दिविष्ठः (यदि॑न्द्राग्नी दि॒विष्ठः) । युवं हि स्थः स्वर्पती (यु॒वं हि स्थः स्व॑र्पती) ॥", "83107": "पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । ऊर्ध्व ऊषुणः (ऊ॒र्ध्व ऊषुणः॑) । अभीषुणः (अ॒भीषुणः॑) ॥", "83108": "गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॑सि) । अनः किम् । गोसनिः ॥", "83109": "पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ॥", "83110": "रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात् । पूर्वपदात् <{SK3643}> इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसि- <{SK2410}> इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । अवश्रं मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसे रक् । मुस्रम् उदश्रु ॥", "83111": "सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्त्स्ये किम् । एकदेशेन शुक्लीभवति पटः ॥", "83112": "सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥", "83113": "गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति ।{$ {!48 षिधू!} शास्त्रे माङ्गल्ये च$} । शास्त्रं शासनम् ॥", "83114": "अत्र षत्वं न स्यात् ॥", "83115": "सोढ्ररूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥", "83116": "उपसर्गस्थान्निममित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रस्वोऽद्वित्वात्प्रागेव । ओणेर्ऋदित्करणाल्लिङ्गात् । मा भवानिदिधित् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्राः - <{SK2446}> इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः । भुजन्युब्जौ पाण्युपतापयोः <{SK2877}> इति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्राः <{SK2446}> इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥", "83117": "स्ये सनि च परे सुञः षो न स्यात् । विसोष्यति ।{$ {!1248 षिञ्!} बन्धने$} । सिनोति । विसिनोति । सिषाय । सिष्ये ।{$ {!1249 शिञ्!} निशाने$} । तालव्यादिः । शेता ।{$ {!1250 डुमिञ्!} प्रक्षेपणे$} । मीनातिमिनोति - <{SK2508}> इत्यात्वम् । ममौ । ममिथ । ममाथ । मिम्ये । माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ।{$ {!1251 चिञ्!} चयने$} । प्रणिचिनोति ॥", "83118": "सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः ।{$ {!855 शद्लृ!} शातने$} । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ॥", "83119": "सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ॥", "84001": "एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे त्वड्व्यवाय इत्येवात्र णत्वम् ॥ (वार्तिकम्) । (वार्तिकम्) ॥", "84002": "अट्कवर्गपवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवमिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपी <{SK1057}>ति निषेधं बाधितुमाङ्ग्रहणम् । नुङ्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाऽकर्तुं शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥", "84003": "पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य द्रुणसः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । अणृगयनादिभ्यः <{SK1452}>इति निपातनाण्णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः । (वार्तिकम्) ॥ खुरणाः । खरणाः । पक्षे अजपीष्यते ॥ खुरणसः । खरणसः ॥", "84004": "वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥", "84005": "एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ॥", "84006": "एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरीषवनम् । (वार्तिकम्) ॥ नेह । देवदारुवनम् । (वार्तिकम्) ॥ इरिकावनम् । मिरिकावनम् ॥", "84007": "अदन्तपूर्वपदस्थाद्रेफात्परस्यऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः ॥ कालाट्ठज्ञ् <{SK1381}> ॥ द्विगोर्लुगनपत्य <{SK1080}> इति ठञो लुक् । द्व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । द्वयह्ना । द्व्यह्नप्रियः । अत्यह्नः ॥", "84008": "आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ॥", "84009": "पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥", "84010": "पानस्येत्येव । क्षीरपाणम् । क्षीरपानम् । (वार्तिकम्) ॥ गिरिणदी । गिरिनदी । चक्रणितम्बा । चक्रनितम्बा ॥", "84011": "पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि । (वार्तिकम्) ॥ नेह । गर्गाणां भगिनी गर्गभगिनी । अतएव नुङ्ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य । किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुङ्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुभ्नादित्वान्न । (वार्तिकम्) ॥ रम्ययूना । परिपक्वानि । एकाजुत्तरपदे णः <{SK307}> । नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ॥", "84012": "एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाऽभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । स्वयम्भूः पुंवत् ॥", "84013": "कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥", "84014": "उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदिति ।{$ {!55 अर्द!} गतौ याचने च$} । अत आदेः <{SK2248}> ॥", "84015": "उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥", "84016": "उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । (वार्तिकम्) ॥ दुःस्थितिः । दुर्भवानि । (वार्तिकम्) ॥ अन्तर्धा ॥ अन्तर्धिः । अन्तर्भवाणि ॥", "84017": "उसर्गस्थान्निमित्तात्परस्य नेर्णः स्यात् गदादिषु । प्रणिगदति । जगाद ।{$ {!53 रद!} विलेखने$} । विलेखनं भेदनम् । रराद । रेदतुः ।{$ {!54 णद!} अव्यक्ते शब्दे$} ॥", "84018": "उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ 1 ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च - उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ 1 ॥ इति ।{$ {!2 एध!} वृद्धौ $}। कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥", "84019": "उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति ।{$ {!1071 जक्ष!} भक्षहसनयोः$} । जक्षिति । जक्षितः ॥", "84020": "पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् । शास इत् - <{SK2486}> इतीत्वम् । मित्राणि शास्ति मित्रशीः । (वार्तिकम्) ॥ आशीः इत्वोत्वे । गीः । पूः ॥", "84021": "साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ॥", "84022": "(हन्तेः)उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं नान्यस्य । प्रहण्यात् ॥ (अत्पूर्वस्य) हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यात् [(परिभाषा - ) अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा] इति न्यायं बाधित्वा एकाजुत्तरपदे <{SK307}> इति णत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना । इत्यादि । यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङिन्यशस्विन्नर्यमन्पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि इन्हन्नित्यत्र ग्रहणं भवत्येव । [(परिभाषा - ) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति] इति वचनात् । अर्यम्णि । अर्यमणि । पूष्णि । पूषणि ॥", "84023": "उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । हो हन्तेः -<{SK358}> इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ॥", "84024": "अन्तः शब्दाद्धन्तेर्नस्य णः स्यात् । अन्तर्हणनम् । देशे तु अन्तर्हननो देशः । अत्पूर्वस्येत्येव । अन्तर्घ्नन्ति । तपरः किम् । अन्तरघानि ॥", "84025": "अयनस्य णोऽन्तः शब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥", "84026": "ऋकारान्तादवग्रहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ॥", "84027": "धातुस्थात् । अग्ने रक्षा णः (अग्ने॒ रक्षा॑ णः) । शिक्षा णो अस्मिन् (शिक्षा॑ णो अ॒स्मिन्) । उरु णस्कृधि (उ॒रु ण॑स्कृधि) । अभीषु णः (अ॒भीषु णः॑) । मो षु णः (मो षु णः॑) ॥ इत्यष्टमोऽध्यायः ॥", "84028": "उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः । (वार्तिकम्) ॥ विगता नासिकाऽस्य विग्रः । (वार्तिकम्) ॥ विख्यः । कथं तर्हि विनसा हतबान्धवेति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ॥", "84029": "उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमग्नः । (वार्तिकम्) ॥ अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ॥", "84030": "उपसर्गास्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तस्थस्य नस्य णो वा स्यात् । प्रयापणीयम् । प्रयापनीयम् । विहितविशेषणं किम् । यकाव्यवधानेऽपि यथा स्यात् । प्रयाप्यमाणं पश्य । णत्वे दुर उपसर्गत्वं नेत्युक्तम् । दुर्यानम् । दुर्यापनम् ॥", "84031": "हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् । प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् ॥", "84032": "सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तस्थस्यैव । प्रेङ्खणीयम् । इजादेः किम् । मगि सर्पणे । प्रमङ्गनीयम् । नुङ्ग्रहणमनुस्वारोपलक्षणार्थम् । अट्कुप्वाङ्- <{SK197}> इति सूत्रेऽप्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव । प्रोम्भणम् ॥", "84033": "एषां नस्य णो वा स्यात् कृति परे । प्रणिंसितव्यम् । प्रनिंसितव्यम् ॥", "84034": "एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् ॥ (वार्तिकम्) ॥ पूङस्तु प्रपवणीयः सोमः । (वार्तिकम्) ॥ प्रभापनीयम् ॥ (वार्तिकम्) ॥ णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥", "84035": "नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥", "84036": "णत्वं न स्यात् । प्रणंष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्ष्यति । नशिष्यति ।{$ {!1195 तृप!} प्रीणने$} । प्रीणनं तृप्तिस्तर्पणा च । नाग्निस्तृप्यति काष्ठानाम् । पितॄनतार्प्सीदिति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ । तत्रप्थ । ततर्प्थ । तर्पिता । तर्प्ता । त्रप्ता ॥ स्पृशमृशकृषेति सिज्वा । अतार्प्सीत् । अत्राप्सीत् । अतर्पीत् । अतृपत् ।{$ {!1196 दृप!} हर्षमोहनयोः$} । मोहनं गर्वः । दृष्यतीत्यादि । रधादित्वादिमौ वेट्कावमर्थमनुदात्तता ।{$ {!1197 द्रुह!} जिघांसायाम्$} । वा द्रुहमुह - <{SK327}> इति वा घः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । द्रोहिष्यति । ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् ।{$ {!1198 मुह!} वैचित्ये$} । वेचित्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोग्धा । मोढा । मोहिता । मोहिष्यति । मोक्ष्यति । अमुहत् ।{$ {!1199 ष्णुह!} उद्गिरणे$} । स्नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुह्व । स्नोहिता । स्नोग्धा । स्नोढा । स्नोहिष्यति । स्नोक्ष्यति । अस्नुहत् ।{$ {!1200 ष्णिह!} प्रीतौ$} । स्निह्यति । सिष्णेह । वृत् । रधादयः समाप्ताः । पुषादधस्तु आ गणान्तादिति सिद्धान्तः ।{$ {!1201 शमु!} उपशमे$} ॥", "84037": "पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥", "84038": "पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन । (वार्तिकम्) ॥ आर्द्रगोमयेण । शुष्कगोमयेण ॥", "84039": "एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । प्रातिपदिकान्त - <{SK1055}> इति णत्ववारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । अदन्तादिति तपकरणान्नेह । परगतमहः पराह्नः ॥", "84040": "सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥", "84041": "स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥", "84042": "अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥ (वार्तिकम्) ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥", "84043": "तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः । झलां जशोऽन्ते <{SK84}> । वागीशः । चिद्रूपम् ॥", "84044": "शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥", "84045": "यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥", "84046": "अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्य्यनुभवः । नह्य्यस्ति ॥", "84047": "अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् ॥", "84048": "पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् । तत्वकथने द्विर्वचनं भवत्येव । पुत्त्रादिनी सर्पिणी । (वार्तिकम्) ॥ पुत्रपुत्रादिनी त्वमसि पापे ॥ (वार्तिकम्) ॥ पुत्रहती । पुत्त्रहती । पुत्रजग्धी । पुत्त्रजग्धी ॥", "84049": "अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुण्नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । कमलं कमलां वाचक्षणः कमल् । कमलौ । कमलः । षत्वं कमल्षु ॥", "84050": "त्र्यादिषु वर्णेषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः । इन्द्रः । राष्ष्ट्रम् । राष्ट्रम् ॥", "84051": "द्वित्वं न । अर्कः । ब्रह्मा ॥", "84052": "द्वित्वं न । दात्रम् । पात्रम् ॥", "84053": "स्पष्टम् । इति धकारस्य दकारः ॥", "84054": "अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥", "84055": "खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः । (वार्तिकम्) ॥ तच्श्लोकेन । तच्छलोकेन । अमि किम् । वाक् श्च्योतति ॥", "84056": "अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे खरि चे <{SK121}>ति चर्त्त्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अतएव सः सीति तादेश आरम्भ्यते ॥", "84057": "अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अग्नी ॥", "84058": "स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥", "84059": "पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वंकरोषि । सय्ँयन्ता । संयन्ता । सव्ँवत्सरः । संवत्सरः । यल्ँलोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥", "84060": "तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाँल्लिखति । नकारस्याऽनुनासिको लकारः ॥", "84061": "उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् ॥ आदेः परस्य <{SK44}> । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य सस्य तादृश एव थकारः । तस्य झरो झरि <{SK71}> इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि च <{SK121}> इति चर्त्त्वम् । चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् ॥", "84062": "झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थं एवादेशः । वाग्घरिः । वाग्हरिः ॥", "84063": "पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥", "84064": "हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासङ्ख्यविज्ञानान्नेह । माहात्म्यम् ॥", "84065": "हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णर्धिः । कृष्णर्द्धिः । कृष्णर्द्द्धिः । यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य तु अनचि च <{SK48}> इति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥ द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥", "84066": "उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् । अग्निमीळे (अ॒ग्निमी॑ळे) । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः (तमी॑शा॒नासः॑) ॥", "84067": "उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् । गार्ग्यादिमते तु स्यादेव । प्रय आरुः (प्र य आ॒रुः) । वोश्वाः क्वा 1 भीशवः (वोश्वाः क्वा॑ 1॒ भीश॑वः) ॥", "84068": "इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं सम्पूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथा च सूत्रम् ॥" }