{
"1" : "ग्रन्थसमाप्तिग्रन्थप्रचारादिप्रतिबन्धकदुरितप्रशमाय समुचितऋषित्रयनमस्काररूपं मङ्गलमाचरन् शिष्यशिक्षायै व्याख्यातृश्रोतॄणामनुषङ्गतो मङ्गलाय च निबध्नाति — मुनित्रयमिति । कारकविभक्तेर्बलवत्त्वाद् द्वितीया । परिभाव्येति । तच्छब्दस्य बुद्धिस्थपरामर्शकत्वात् प्राचामुक्तीस्तिरस्कृत्येत्यर्थः, मुनित्रयोक्तीर्विचार्येत्यर्थो वा । परिभावस्तिरस्क्रिया इति कोशात्तिरस्कारार्थकस्य धातोर्विचारार्थकत्वेऽपि न बाधकम् । धातूनामनेकार्थत्वात् । अत एव <<परौ भुवोऽवज्ञाने>> [[3.3.55]] इति सङ्गच्छते । एतेन स्वग्रन्थस्य प्राचीनग्रन्थैरगतार्थता समूलत्वञ्च ध्वनितम् । भाविनोऽपि बुद्ध्या विषयीकरणादियमिति निर्देशः । सिद्धान्तप्रकाशकत्वेनातिदुरूहग्रन्थान्तरेभ्यः सिद्धान्तज्ञाने जायमानस्य क्लेशरूपसन्तापस्य शामकत्वेन च कौमुदीसादृश्यम् । अनेन वैयाकरणसिद्धान्ता विषयाः, तज्ज्ञानं प्रयोजनं तज्जिज्ञासुरधिकारीत्यादि सूचितम् ॥\n अइउण् । एषां क्रमबोधकत्वेऽपि <<आदिरन्त्येन>> [[1.1.71]] इत्यनेनैकवाक्यतया वृत्तिपरिच्छेदकत्वेन संज्ञासूत्रत्वम् । क्रमस्य सञ्ज्ञाद्वारैवोपयोगात् । एकवाक्यता चादिरकारादिरन्त्येनेता तत्सदृशेन णकारादिना सहोच्चार्यमाण आद्यन्ताक्षिप्तानां सज्ञेति । <<स्वौजस्'>> [[4.1.2]] इत्यादीनामप्येतदेकवाक्यतया सुबादिसञ्ज्ञासूत्रत्वं स्वादि विधायकत्वञ्चेति बोध्यम् । एषु संहिताया अविवक्षया न संहिताकार्यम् । अनुकरणेन सौत्रत्वाच्च वर्णेभ्यो न विभक्त्युत्पत्तिः । कारप्रत्ययोऽपि न, बाहुलकात् । \nयत्तु — उपजीव्यविरोधात् सन्धिर्न । तथा हि अजादिसञ्ज्ञाग्रहकाले <<आद्गुण:>> [[6.1.87]] इत्यादीनामनिष्पत्त्या तदप्रवृत्तावविकृतरूपाकारादिषु गृहीताजादिपदशक्ति: पश्चादच्प्रत्याहारे ज्ञाते उपेन्द्र इवात्रापि तत्प्रवृत्तौ विरुद्ध्येत । न हि सन्धिकार्ये कृतेऽविकृतरूपश्रवणं भवति इति, तन्न । पुनरचपदस्यार्थान्तरे शक्त्यग्रहेण तद्विरोधाभावात् । न च सन्धौ सन्देहः । व्याख्यानतो निर्णयसम्भवात् ।\nननु चतुर्दशसूत्र्यामक्षरसमाम्नाय इति व्यवहारानुपपत्तिराम्नायसमाम्नाय शब्दयोवेंदे एव प्रसिद्धेरित्यत आह — माहेश्वराणीति । महेश्वरादागतानीत्यर्थः । महेश्वरप्रसादलब्धानीति फलितम् । एवञ्चैवमानुपूर्वीका श्रुतिरेवैषा | तत्प्रसादात्पाणिनिना लब्धा । श्रुतिमूलकत्वादस्यैव वेदाङ्गत्वम् । अत्र प्रमाणम् — येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तम्..... (पा.शि.५७) इति शिक्षावचनम् । लण्सूत्रे णकारविषयाचार्यप्रवृत्तिर्ज्ञापयति — व्याख्यानत इति इत्यादावाचार्यपदेन महेश्वरः । अनुबन्धाश्च महेश्वरकृता एवेत्यनुपदं स्फुटीभविष्यति । <<ञमङणनम्>> इत्यत्र मकारप्रत्याख्यानपरं भाष्यं तु किमदृष्टार्थमेव तदुच्चारणमुत दृष्टार्थमपीत्येवं विचारपरम् । सर्वत्र प्रत्याख्यानमेवम्परमेव । अन्यथाऽङ्गानामपि पारायणे धर्मश्रवणेन तत्र तत्र पाणिनिन्यासप्रत्याख्यानस्याप्यसङ्गति: स्यात् । तदुक्तम् <<इको यणचि>> [[6.1.77]] इति सूत्रे — सामर्थ्ययोगान्नहि किञ्चिदत्र पश्यामि शास्त्रे यदनर्थकं स्यात् इति । \nकिञ्चिद् दृष्टादृष्टार्थवत्, किञ्चिच्छुद्धादृष्टार्थवत्, सर्वथाऽनर्थकं न किञ्चिदिति तदर्थ: । वृद्धिसूत्रस्थे वर्णेनाप्यनर्थकेन न भवितव्यम् इति भाष्यग्रन्थेऽनर्थकत्वं बोध्यार्थराहित्यरूपमिति न निष्प्रयोजनत्वरूपानर्थक्येन तत्र तत्र प्रत्याख्यानपरभाष्यासङ्गतिः । अत एव सोऽयमक्षरसमाम्नायः पुष्पितः फलितश्चन्द्रतारकवत् प्रतिमण्डितो ब्रह्मराशि: इति भाष्यमुपादायोक्तं भर्तृहरिणा— यथैवेदमव्युच्छिन्नं चन्द्रतारकादि एवमस्याक्षरसमाम्नायस्य न कश्चिद् आधुनिकः कर्त्तास्ति एवमेव वेदपारम्पर्येण स्मर्यमाणःइति । आधुनिकः शरीरी । पुष्पितत्वं तन्मूलकशब्दशास्त्रद्वारेण । शब्दप्रयोगेण च फलितत्वम् । उक्तञ्चैतच्चतुर्दशसूत्रव्याख्यायां नन्दिकेश्वरकृतकाशिकायाम् —नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥अत्र सर्वत्र सूत्रेषु अन्त्यं वर्णचतुर्दशम् । धात्वर्थं समुपादिष्टं पाणिन्यादीष्टसिद्धये ॥ इति । धात्वर्थं धातुमूलकशब्दशास्त्रप्रवृत्त्यर्थम् । अत एव अनुबन्धकरणार्थश्च वर्णानामुपदेशः इत्युक्तं भाष्ये । अत्र करणशब्दप्रयोगेणानुबन्धानां सादित्वं सूचितम् । तत्करणञ्चोपदेशकर्तृकर्तृकमेव प्रत्यासत्तेः । तेन तद्व्यतिरिक्तस्य सर्वस्यानादित्वं सूचितम् । अत्र सनकायुद्धरणेच्छयाऽस्य ब्रह्मोपदेशरूपत्वं सूचितम् । तच्च श्रुतित्वाभावे न सङ्गच्छते । श्रोतव्यः श्रुतिवाक्येभ्यः इत्युक्तेः । ऋक्तन्त्रव्याकरणे शाकटायनोऽपि — इदमक्षरच्छन्दो वर्णशः समनुक्रान्तं — यथाऽऽचार्या ऊचुर्ब्रह्मा बृहस्पतये प्रोवाच बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्य ऋषयो ब्राह्मणेभ्यस्तं खल्विममक्षरसमाम्नायमित्याचक्षते, न भुक्त्वा न नक्तं प्रब्रूयाद् ब्रह्मराशिः इति । ब्रह्मराशिरित्यस्य ब्रह्मप्रतिपादको वर्णराशिरित्यर्थः । तत्त्वञ्च नन्दिकेश्वरकृतकाशिकायां स्पष्टम् । \nअत एव वृत्तिसमवायार्थो वर्णानामुपदेशः कर्त्तव्यः इति भाष्य उक्तम् । पाणिनेर्लाघवेन शास्त्रप्रवृत्तिफलको यः समवायो वर्णानां क्रमेण सन्निवेशस्तदर्थ इति तदर्थः । स चाणादिप्रत्याहारद्वारा शास्त्रप्रवृत्त्यर्थः । एवञ्चायमुपदेशः पाणिनेरन्यकृत इति स्पष्टमेवोक्तम् । मन्त्रोपदेश इतिवच्चात्रोपदेशपदप्रयोगः । अत एवास्य ज्ञाने सर्ववेदपारायणजं पुण्यं फलमिति भाष्य उक्तम् । व्याकरणमुपक्रम्य वेदानां वेदः इति छन्दोगश्रुतिरप्येतत्परैवेति दिक् । \nतत्प्रयोजनमाह — सञ्ज्ञार्थानीति । एतच्चोपपादितम् । सञ्ज्ञाप्रणयनञ्च लाघवेन शास्त्रप्रवृत्त्यर्थमिति बोध्यम् । सञ्ज्ञार्थत्वोपपत्तये आह — एषामिति ।\nअकारश्चेति । तेन रप्रत्याहारसिद्धिः । अनन्त्यत्वात्पृथगुक्तिः । इदं <<तुल्यास्य>> [[1.1.7]] सूत्रस्थकैयटानुरोधेन । \nपरे त्वस्यानुनासिकत्वे <<अतो ल्रान्तस्य>> [[7.2.2]] इति सूत्रे पाणिनिर्लकारं नोच्चारयेत् । प्रत्याहारेणैव निर्वाहात् । किञ्चास्येत्सञ्ज्ञकत्वे बहुषु यणपदघटितसूत्रेष्वर्द्धमात्रा लाघवानुरोधेन यप्रत्याहारेणैव व्यवहरेत् । \nकिञ्चानुबन्धानामच्प्रत्याहारे ग्रहणाभावे आचारादप्रधानत्वाल्लोपश्च बलवत्तरः इति भाष्योक्तस्य तृतीयहेतोरव्यापकत्वापत्तिः । तव लोपस्य बलवत्त्वेऽपि हत्प्रत्याहारसिद्धेः प्रागच्यदार्थनिष्पत्त्यभावेन <<उपदेशेऽज्>> [[1.3.2]] इत्यस्य वाक्यार्थाभावेन लणित्यकारस्येत्सञ्ज्ञालोपयोरभावेन प्रत्याहारेषु जातिग्रहणपक्षस्यैव भाष्यकृता सिद्धान्तितत्वेन हल्प्रत्याहारे लणित्यकारप्रवेशे मामाँस्त्रायस्व इत्यत्रानुनासिकपक्षेऽनुस्वारापत्तिर्दुर्वारा, सोऽस्ति इत्यादौ सुलोपाद्यापत्तिश्च । अत एव — प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न इत्यनेन प्रत्याहारे वर्णसमाम्नाये य एतेऽक्षु अज्बोधकसूत्रेषु प्रत्याहारार्था अनुबन्धाः क्रियन्ते तेषामज्ग्रहणेन ग्रहणं कस्मान्नेत्यर्थकेनाच्प्रत्याहारे शङ्का कृता, न हल्प्रत्याहारे । भाष्ये च <<अइउण्>> इत्यादिसूत्रचतुष्टयोपादानेनैवास्य प्रवृत्तिर्दर्शिता । तत्र प्राधान्यं प्रत्याहारेषु ग्रहणार्थत्वरूपं, हल्षु च तथोपदेशस्तेषाम्, अक्षु तु स्वराणामेव तथोपदेश इति प्राधान्यात् तेषामेव सञ्जित्वमिति भाष्ये स्पष्टम् । \nन च हशादिप्रत्याहारे टग्रहणस्यापत्तिरिति वाच्यम् । हकारादिषु पुनः पुनरकारोच्चारणे नोच्चारणार्थवर्णरहितहलां तद्द्घटितप्रत्याहारे ग्रहणाभावस्य वक्तुं शक्यत्वात् तद्विषयप्रयोगाणामनभिधानाच्च । तस्मादस्यानुनासिकत्वमप्रामाणिकम् । <<उरण् रपरः>> [[1.1.51]] इत्यत्र लग्रहणं कर्त्तव्यमेव । ऋऌवर्णयोः सावर्ण्यवदित्याहुः । \nननु <<हय>> इत्यादावकारोच्चारणेन तस्य हल्त्वप्रसङ्गोऽत आह — हकारादिष्विति । न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणमपि भवति इति <<उच्चैरुदात्तः>> [[1.2.29]] इति सूत्रस्थ भाष्यात् एषा ह्याचार्यस्य शैली लक्ष्यते, यत्तुल्यजातीयांस्तुल्यजातीयेषूपदिशति अचोऽक्षु हलो हलषु इति प्रत्याहारेऽनुबन्धानामित्यत्र भाष्याच्चेति भावः । स्यादेतत्; <<न विभक्तौ>> [[1.3.3]] इत्यादेः सार्थक्याय <<हलन्त्यम्>> [[1.3.3]] इत्यस्योपदेशेऽन्त्यं हल् इदित्यर्थस्यावश्यकत्वेन <<हलन्त्यम्>> [[1.3.3]], <<आदिरन्त्येन>> [[1.1.71]] इत्यनयोः परस्परापेक्षत्वेनाऽन्योन्याश्रयाल्लकारे इत्संज्ञामबोधयित्वा हलामित्सञ्ज्ञाबोधनं पाणिनेरयुक्तम् । न च <<हयवर>> इत्यादेरावृत्त्या <<शषसर्>> इत्यन्तं समुदायमुद्दिश्य <<हल्>> इत्यनेन हल्सञ्ज्ञाऽपि विधेयेति वाच्यम् । दशसूत्राऽऽवृत्तौ गौरवात् ।\nननु उपदेशे इदन्त्यम्, अच्, अनुनासिकः इति सूत्रत्रयमस्तु, अजित्यनन्त्यार्थम्, तृतीयेऽजित्यनुवृत्तिसामर्थ्यादच्चेदिद्भवति तर्ह्यनुनासिक एवेति नियमाश्रयणाद्रुप्रभृतौ न दोषः, योगविभागसामर्थ्याच्चानन्तरस्येति न्यायं बाधित्वा व्यवहितस्यापि तेन नियमः, <<मिदचोन्त्यात्>> [[1.1.47]] इति ज्ञापकाच्च न विपरीतनियमः, एवञ्च हल्ग्रहणमपि व्यर्थमन्योन्याश्रयश्च न । न च पाणिनिसूत्रभेदे पारायणादावदृष्टहानिः । तथा च तत्र तत्र भाष्यम् अपाणिनीयन्तु भवति — इति वाच्यम् । कल्प्यमानन्यासस्य लघुत्वेऽस्यादोषत्वात् । सूत्रभेदं तमुपाचरन्ति यत्र तदेवाऽन्यत् सूत्रं क्रियते भूयो वा, यदि तदेवोपसंहृत्य क्रियते नासौ सूत्रभेदः इति, <<अच उपसर्गात्तः>> [[7.4.47]] इति सूत्रभाष्यात् । नासौ सूत्रभेदः इत्यस्य दोषाय इति शेषः । सति सम्भवे दृष्टद्वारैवाङ्गानामदृष्टार्थत्वमिति तदाशयः । \nअत एव तत्र तत्र ज्ञापकपरसकलभाष्योच्छेदो नेति चेन्न । योगविभाग नियमज्ञापकाश्रयणेऽतिगौरवात् । न हि वर्णाभिव्यक्तिजनककण्ठाद्यभिघात गौरवमेवादर्त्तव्यं, न तु ज्ञानजनकमनोव्यापारगौरवमिति राजाज्ञाऽस्ति । न च सह आ समन्ताद् एति गच्छतीति सहेता मध्यमो वर्ण इत्यर्थ इति, अतो नान्योन्याश्रय इति वाच्यम् । अन्योन्याश्रयतत्परिहारादीन् वदता भाष्यकारेण 'कटी' 'वी' इत्यत्र प्रश्लिष्टात 'ईङ् गतौ' इत्यतश्च सहआङ्पूर्वात्तृजभावबोधनात् । किञ्च योगमर्यादया तत उक्तार्थालाभः । आ समन्तादित्यस्यानन्वितार्थत्वं व्यर्थत्वञ्च । रूढौ तु न मानम्, अतः सूत्रावृत्त्या तं परिहरति — हलन्त्यमिति । ",
"11003" : "अथ परिभाषाप्रकरणम् ॥ <<इको गुणवृद्धी>>। परिभाषेयं व्याख्यानात् । गुणवृद्धिशब्दाभ्यामिति । गुणवृद्धिग्रहणानुवृत्त्यैव सिद्धे पुनर्गुणवृद्धिग्रहणसामर्थ्यादिति भावः । अनुवर्तमानञ्च सञ्ज्ञिपरमेव स्यात् सञ्ज्ञाकरणेनान्यत्र सञ्ज्ञिपरत्वात्। यद्वा-तदप्यनुवर्त्य गुणो वृद्धिरिति योजनयैतल्लाभः । <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति सूत्रेऽनुवृत्त'पद'पदस्य सञ्ज्ञापरताया एव दृष्टत्वात् । <<ष्णान्ता षट्>> [[1.1.24]] इति सूत्रे सङ्ख्यापदस्य तदन्तत्वासम्भवादर्थपरतेति बोद्ध्यम् । लक्षणप्रतिपदोक्तपरिभाषया तु नात्र निर्वाहः । तत्र 'प्रतिपदोक्तस्ये'त्यस्य - साक्षादुच्चारितस्येति, साक्षात्तत्तच्छब्दानुवादेन विहितस्येति वाऽर्थात् । ध्वनितञ्चेदमत्रैव भाष्ये ।\nअस्याश्च विधेयसमर्पकगुणवृद्धिपदश्रुतिर्लिङ्गं, तदाह - विधीयेते इति । अत एव <<अतो गुणे>> [[6.1.897]], <<वृद्धिर्यस्य..>> [[1.1.73]] इत्यादौ न दोषः । एतेन — शब्दपरयोः पूर्वयोर्गुणवृद्धिपदयोरनुवृत्त्या यत्र ते पदे तत्रेदमुपतिष्ठते इत्यर्थेन <<त्यदानीनामः>> [[7.2.102]] इत्यादिव्यावृत्तौ सिद्धायामिह गुणवृद्धीति व्यर्थम् — इत्यपास्तम् ।\nएतन्मूलक एव विधौ परिभाषोपतिष्ठते नानुवादे इत्युद्घोषः । एवञ्च पदोपस्थापकपरिभाषाविषये विधीयते इत्यस्यैवाध्याहारो बोद्ध्यः । एवञ्च <<तस्मिन्निति निर्दिष्टे>> [[1.1.66]], <<षष्ठी स्थानेयोगा>> [[1.1.49]] इत्यादेरनुवादेऽपि प्रवृत्तिः । तेन <<प्रत्ययस्थात्कात्पूर्वस्य>> [[7.3.44]] <<उदात्तस्वरितयोर्यणः>> [[8.2.4]] इत्यादौ न दोषः । <<उदीचामातः स्थाने>> [[7.3.46]] इति स्थानेग्रहणन्तु स्पष्टार्थमेव। तत्र विधिवाक्ये प्रथमाया विधेयविभक्तित्वेन तदन्तस्य विधेयसमर्पकत्वनिर्णयः । अत एव गुणादिपदानामिक्पदोपस्थापनेन चरितार्थानामपि वाक्यार्थान्वयिता । तदर्थस्य तदनन्वयित्वे विधेयत्वाभावेन उपस्थापकत्वस्यैव भङ्गापत्तेः । इयञ्चैधितेत्यादौ व्यञ्जनानां गुणव्यावृत्त्यर्थं, 'भिन्नमि'त्यादौ निषेधप्रवृत्तये इग्लक्षणत्वसम्पत्त्यर्थञ्चेति दिक् ।",
"11008" : "<<मुखनासिकावचनोऽनुनासिकः>> । उच्यतेऽसौ वचनः, बाहुकात्कर्मणि ल्युट् । मुखसहिता नासिका इति विग्रहः । तया वचन इति - 'साधनं कृते'ति समासस्ताह- मुखसहितेत्यादि । मुखेति किम् ? यमानुस्वराणामेव प्रसज्येत, एवञ्चाङोऽनुनासिक इत्यनुस्वारः स्यात् । नासिकेति किम् ? शक्तेत्यादौ <<अनुदात्तोपदेश>> [[6.4.37]] इत्यादिना कलोपो मा भूत् । \nअष्टादशेति । यद्यपीदं न व्यक्तिपक्षे, व्यक्तीनामानन्त्यात्तथाप्यष्टादशधर्मवत्त्वमकारजातीयादेरित्यर्थः । ह्रस्वत्वादीनां तत्तत्समानाधिकरणोदात्तत्वानुनासिकत्वादीनाञ्च भेदमाश्रित्येदम्बोद्ध्यम् । एवमग्रेऽपि । \nऌवर्णस्येति । विवृतस्येत्यर्थः । तेन ऌति ऌ वा इति विधेयस्येषत्स्पृष्टस्य दीर्घत्वेऽपि न क्षतिः । दीर्घाभावादिति । अत एव तुल्यास्यसूत्रे भाष्ये ऌति सवर्णे इत्यनेन पक्षे द्विलकारकाभावे <<अकः सवर्णे>> [[6.1.101]] इति दीर्घत्वे होतॄकार इति ॠकारघटितप्रयोगः सङ्गच्छते । \nह्रस्वाभावादिति । इदम् <<एओङ्>> इत्यादौ भाष्ये स्पष्टम् । गानरोदनादौ चतुर्मात्रार्धमात्रादीनामुपलम्भेऽपि शास्त्रीयकार्ये उपयोगाभावाल्लोके प्रयोगेष्वप्रयोगाच्च नोक्ताः । अत एवानुदात्ततरस्यानुक्तिः । एकश्रुतेः स्वरान्तरत्वे इदमुपलक्षणं - तस्या लोकेऽपि सत्त्वात् ।",
"11009" : "<<तुल्यास्यप्रयत्नं सवर्णम्>> । तुल्यावास्यप्रयत्नौ यस्येत्यर्थः । आस्ये भवमास्यं, व्याख्यानात् । तच्च - वर्णोपयोगित्वात्स्थानमेव, प्रयत्नस्य पृथगुपादानात् । प्रकृष्टो यत्नः - आभ्यन्तरः । तस्य वर्णोत्पत्त्यव्यवहितप्राग्भावित्वरूपप्रकर्षत्वात् । जनकत्वं षष्ठ्यर्थः । तत्तत्कार्यगतभेदं स्थानेष्वारोप्य भेदघटिततुल्यत्वस्य निर्वाहः । वस्तुतः सादृश्यं न भेदघटितम् इति भाष्यसम्मतमिति न कश्चिद्दोषः । स्पष्टञ्चेदं भाष्ये । तदाह - ताल्वादीति । शिक्षायाङ्कण्ठादीनाङ्कण्ठत्वादिनैव स्थानतोक्त्या तद्रूपेणैवाऽऽस्यशब्देन ग्रहणमिति तद्भागभेदमादाय नोदात्तादिषु सावर्ण्यभङ्ग इति बोद्ध्यम् । यस्यैतद्द्वयं येन यदीयेनैतद्द्वयेन तुल्यमित्यर्थः ।\nयजुष्येकेषाम् इति निर्देशाद्यावदास्यभवतुल्यत्वं ग्राह्यम्। अत एवैचो: सावर्ण्यमाशङ्क्य— नैतौ तुल्यस्थानौ इति भाष्ये समाहितम् । अत एव वलयोर्न सावर्ण्यम् । तेन तद्वानासाम् इत्यादौ <<तोर्लि>> [[8.4.60]] इति न । अत एव प्रयत्नशब्देन यत्नमात्रग्रहणम् इति पक्षे यत्किञ्चित्प्रयत्नभेदे यत्किञ्चित्प्रयत्नैक्यमादाय सवर्णसञ्ज्ञेत्यर्थो <<झरो झरि सवर्णे>> [[8.4.65]] इति सवर्णग्रहणेन ज्ञापकेन साधितो भाष्ये । तेन स्थानांशे यावत्स्थानसाम्ये इत्येव स्वारसिकोऽर्थ इति प्रतीयते ।\nन च यावदास्यभवतुल्यत्वविवक्षणे प्रयत्नग्रहणं व्यर्थम्, प्रयत्नस्याप्यास्यभवत्वादिति वाच्यं, ह्रस्वदीर्घयोः सावर्ण्यानापत्तेः, तयोर्जनकानामास्यभवानां वायुसंयोगानामतुल्यत्वात् । तस्मादास्यभवानाङ्कण्ठादीनामेव ग्रहणमिति बोधनाय तत्सार्थक्यात् ।\nआस्येति किम् ? तर्प्ता। <<झरो झरि सवर्णे>> [[8.4.65]] इति लोपो मा भूत्। प्रयत्नेति किम् ? वाक्श्चोतति। प्रेति किम् ? शचयोः श्वासाघोषविवाराख्यबाह्यप्रयत्नसाम्येन तत्रैव दोषात् । \nकस्य किं स्थानमित्याशङ्कायामाह- अकुहेति । यद्यपि सर्ववर्णोच्चारणे कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽपि तथा, अकारादीनामुच्चारणे तु नेति भावः कचयोस्तु न सावर्ण्यम्, यावत्स्थानसाम्याभावात्, भिन्नस्थानकथनवैयर्थ्यापत्तेश्च । अत्र कण्ठपदं कण्ठस्थानतत्समीपजिह्वामूलस्थानोभयपरं, तेन कण्ठ्यावहौ, जिह्वामूले तु कुः प्रोक्तः इति शिक्षया न विरोधः । जिह्वामूलीयपदस्य च- वर्णविशेषे रूढिरिति न व्यवहारातिप्रसङ्गः । अत एवायोगवाहेषु जिह्वामूलीयगणनं भाष्ये ।\nतत्तद्वर्णोत्पत्तेः प्राक्तत्तत्स्थानादौ जिह्वास्पर्शाद्यनुभवेन तत्तद्वर्णानां तत्तत् स्थानत्वनिर्णयेऽप्यकुहेत्यादिकथनं साधारणधर्मबोधनायानुवादकं, न त्वेतदेव कण्ठादिस्थानविधायकमिति भ्रमितव्यम् । विसर्जनीयपदेनात्र साहचर्यादकाराश्रयस्य ग्रहणम् । अत एव अयोगवाहा विज्ञेया आश्रयस्थानभागिनः इति शिक्षया न विरोध: । दन्ता इति । दन्तसंयुक्तदेशा इत्यर्थः । अतो भग्नदन्तस्याप्युच्चारणं भवत्येव । उश्च पश्च मायेते अनेन, तत्र भव इति योगेनोपध्मानीयस्यौष्ठ्य त्वमित्याह - उपपेति। रूढत्वाच्च न व्यवहारातिप्रसङ्गः । नासिका चेति । चेन स्वस्ववर्गानुकूलं ताल्वादि गृह्यते। अत एवैषां प्रातिशाख्ये नासिकायां भव इत्यर्थकनासिक्यशब्देन व्यवहारः ।\nयत्तु - अनुस्वारयमानां च नासिकास्थानमिष्यते । (पा.शि. २२) इति शिक्षोक्तेरेषां नासिकाकरणम् । किञ्च - स्थानत्वे कङयो: सावर्ण्यानापत्तिः, यावत्स्थानैक्याभावात् । यत्किञ्चित्स्थानैक्येन तत्त्वे तु - ञमामपि परस्परं सावर्ण्यापत्तिरिति, तन्न । कण्ठादीनामपि करणत्वस्यैव अस्यन्त्यनेन वर्णान् इति भाष्यात्प्रतीतेः । स्थानत्वव्यवहारस्तु वर्णाभिव्यक्तिजनकताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वाऽऽरोपेण तत्तत्स्थानजिह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादौ, तत्सम्बन्धजनकप्रयत्नविशेषे स्पृष्टतादौ च करणत्वव्यवहारः । वर्णाभिव्यक्त्यनन्तरभावी सावर्ण्यानुपयुक्त आन्तरतम्यपरीक्षोपयुक्तश्च कण्ठविवरादिनिष्ठविकासादेरास्यबहिर्देशावच्छिन्नकार्यस्य जनको यत्नो गुणशब्देनोच्यते । अकारादिनिष्ठानुनासिक्यस्य भेदकत्वाद्गुणस्येत्यादौ गुणत्वेन व्यवहारस्तु कण्ठाद्यवच्छिन्नवायुसंयोगेनोत्पन्नेषु नासावच्छिन्नवायुसंयोगेन तद्रूपधर्मोत्पत्त्या । एवञ्च नासिकायास्तत्र गुणजनकत्वादनुनासिकाकारादीनां नासिकास्थानं नोक्तं मूले ।\nएकोऽयमात्मोदकन्नाम गुणभेदादन्यत्वं तस्य भवति, अन्यदिदं शीतमन्यदिदमुष्णम् इति दृष्टान्तपरभाष्येण तथैव प्रतीतेः । आत्माऽत्र द्रव्यम् । उदात्तत्वादीनां गुणत्वव्यवहारस्तु सावर्ण्यानुपयुक्तत्वाऽऽन्तरतम्यपरीक्षोपयोगित्वरूपसादृश्येनेति बोद्ध्यम् । ङादीनान्तु तद्गुणरहितस्वरूपानुपलम्भेन उभयावच्छेदेन वायुसंयोगोत्तरमेव स्वरूपोत्पत्त्या विनिगमनाविरहेणोभयोः स्थानत्वम् । अनुस्वारयमानाञ्चे इति शिक्षायां चेन ङादीनामपि सङ्ग्रह इति युक्तम् । अत एव कण्ठ्योऽकार इत्याद्युक्त्वा नासिक्यान्नासिक्ययमानुस्वारानिति स्थानान् इत्युक्तं प्रातिशाख्ये। नासिक्या:- ङञणनमा इति तद्व्याख्यातारः ।\n कङयो: सावर्ण्यन्तु भवत्येव । इति वार्तिके — किमास्योपादाने प्रयोजनम् इति प्रश्ने प्रयत्नविशेषणमास्योपादानम् इत्युक्त्वा— तद्व्यावर्त्यत्वेन बाह्यप्रयत्नान् प्रदर्श्य — यथा तृतीयास्तथा पञ्चमा आनुनासिक्यमेषामधिको गुण इति भाष्येण तस्य बाह्यप्रयत्नत्वोक्त्याऽत्र सूत्रे नासिकाया आस्यशब्देन, तत्रत्यप्रयत्नस्य च प्रयत्नशब्देनाग्रहणबोधनात् । नासिका आस्यबाह्या इति वदतां मते तद्ग्रहणाभावाच्च । अत एव बाह्यप्रयत्नानुपक्रम्य — अमोऽनुनासिका न ह्रौ नादिनो हझषः स्मृताः । ईषन्नादा यणश्चैव श्वासिनस्तु खफादयः ॥ ईषच्छ्वासांश्चरो विद्यात् … (पा.शि. ३९, ४०) इत्युक्तं शिक्षायाम् । नादेति संवारघोषयोरुपलक्षणं श्वासेति विवाराघोषयोः । ह्रावित्युपलक्षणम् — ऐच: सर्वस्य प्लुतलृकारस्य च अनुनासिकस्यादर्शनादित्यलम् ।\nएदैतोरित्यादौ लोकानुभवसिद्धार्थानुवादके तपरशास्त्राप्रवृत्त्या प्लुतानामपि तत्स्थानत्वं बोध्यम् । तथा च पाणिनीयशिक्षा — कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसाः स्मृताः ॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठ्यातालव्यावो औ कण्ठोष्ठजौ स्मृतौ ॥ (पा.शि. 18), अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ (पा.शि. 13), हकारं पञ्चमैर्युक्तमन्तः स्थाभिश्च संयुतम् । उरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ (पा.शि. 16) इति ।\nयत्तु — दन्तोष्ठादि, समुदितं स्थानम् इति तन्न। शिक्षायां दन्त्योष्ठ्यः कण्ठ्यतालव्यौइत्यादौ <<तत्र भव>> [[4.3.53]] इत्यधिकारविहितयतः प्रत्येकमनुत्पत्त्यापत्तेः । दन्तोष्ठ्यम् इत्यादि त्वसङ्गतमेव, स्वाङ्गसमुदायस्य स्वाङ्गत्वाभाववच्छरीरावयवसमुदायस्य शरीरावयवत्वाभावात् । एतेन — दन्तोष्ठरूपमतिरिक्तं स्थानम् इत्यपास्तम् । अष्टौ स्थानानि इति प्रतिज्ञाविरोधाच्चेति दिक् ।\nसूत्रे प्रशब्देन विलक्षणार्थबोधेऽपि लोके यत्नप्रयत्नयोः पर्यायतेति ध्वनयन्नाह - प्रयत्नो द्विधेति । क्वचिद्यत्न इत्येव पाठः । चतुर्धेति । यत्तु — स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम् । तेभ्योऽपिविवृतावेङौ ताभ्यामैचौ तथैव च ॥ (पा.शि.21) इति शिक्षावाक्याद्विवृततरविवृततमयोः प्रतीत्या <<नाज्झलौ>> [[1.1.10]] इति सूत्रभाष्यादूष्मणामीषद्विवृतत्वस्य च प्रतीत्या चतुर्धेत्यसङ्गतमिति, तन्न । <<नाज्झलौ>> [[1.1.10]] इति सूत्रेण विवृतत्वव्याप्यानामेषां सवर्णसञ्ज्ञानुपयुक्तत्वबोधनमित्याशयात् । भाष्यमते तु सन्तु सप्त प्रयत्नाः । एवञ्चैदैतोरोदौतोश्च न सावर्ण्यप्रसक्तिः, प्रयत्नभेदादिति योद्ध्यम् । <<नाज्झलौ>> [[1.1.10]] इति सूत्रमपि प्रयत्नभेदप्राप्तसावर्ण्याभावानुवादकं सत्तस्यैव बोधकम् । अत एव भाष्ये तन्न वक्तव्यमिति नोक्तम् ।\n स्पृष्टादीनामाभ्यन्तरत्वं त्वोष्ठप्रभृतिकाकलकपर्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां स्पर्शेषत्स्पर्शदूरावस्थानसमीपावस्थानरूपाभ्यन्तरकार्यकारित्वाद्वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च । तत्र कस्यचिदुच्चारणे सम्यक्स्पर्शः कस्यचिदीषदिति शिक्षाकारोक्तिमनुभवञ्चानुसृत्य विवेक्तव्यम् । प्रयतनम् इति नपुंसके भावे ल्युट् । प्रयत्नम् इत्यपपाठः, नङन्तस्य पुंस्त्वात्। तथा च शिक्षा — स्वराणामृष्मणाञ्च इत्याद्यनन्तरम् — अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्ताः (पा.शि. 38) इति ।\nअचोऽस्पृष्टाः — स्पर्शाभावरूपविवृतत्ववन्तः 'यणस्त्वीषदि' त्यनेन- तेषामीषत्स्पृष्टत्वमीषद्विवृतत्वञ्च बोधितम् । नेम इत्यर्धे । तेन शलामीषद्विवृतत्वं यणपेक्षयाऽधिकविवृतत्वञ्चेति बोद्ध्यम् । अत्र शिक्षोक्तव्याप्यधर्मवतां व्यापकधर्ममादाय न सावर्ण्यमिति यणां चवर्गादिभिर्न सावर्ण्यम् । तेनाञ्चित इत्यादौ न यादिः परसवर्णः ।\nविवृतमेवेति । प्रक्रियादशायां विवृतत्वम्प्रतिज्ञेयमित्यर्थः । तेन दण्डाढकादो दीर्घसिद्धि । अन्यथा संवृतस्य ह्रस्वाकारस्य विवृतेन दीर्घेण सावर्ण्याभावात्स न स्यादिति भावः दीर्घाकारस्य विवृततरत्वन्तु पाणिनिशिक्षायामनुक्तत्वान्नैतच्छा स्त्रप्रक्रियोपयोगीति दिक् । तस्य प्रयोगे संवृतत्वे मानमाह - <<अ अ>> [[8.4.68]] । ",
"11046" : "<<आद्यन्तौ टकितौ>> । यद्यप्यत्र मिलितस्य नैकत्रान्वय इति द्वन्द्वो न प्राप्नोति तथापि समूहयोरन्वयबोधोत्तरं <<यथासङ्ख्यम्…>> [[1.3.10]] इति सूत्रारम्भसामर्थ्यात्पुनः प्रत्येकान्वयः । लोके त्वेवंरीत्या प्रयोगोऽसाधुरेवेति भाष्ये स्पष्टम् । अत्रैव यथासङ्ख्यसूत्रोपन्यासो युक्तः । द्वन्द्वान्ते श्रूयमाणस्येच्छब्दस्य प्रत्येकं सम्बन्धः । पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यायमपवादः । प्रत्ययपरत्वन्तु परत्वादमुं बाधते। तेन चरेष्टादयः परा एव भवन्ति । अत एव यत्रैतदभावे स्थानषष्ठीसम्भावना तत्रैवेदं प्रवर्तते; तदाह - यस्योक्ताविति। आद्यन्ताक्षिप्तोऽवयवी यच्छब्दार्थः । यथासङ्ख्यसिद्धमर्थमाह - क्रमादिति। इतौ इति किम् ? टुक् पर्यायेणाद्यन्तयोर्मा भूत् ।",
"11047": "<<मिदचोऽन्त्यात्परः>> । अयं बाध्यसामान्यचिन्तया स्थानेयोगत्वप्रत्ययपरत्वयोरपवादः । 'तृणह' इति निर्देशात् । निर्धारणे इति । यस्य समुदायस्य मिद्विहितस्तस्याचां मध्ये इत्यर्थः । सौत्रमेकवचनमिति भावः । तस्यैवेति । यस्य विहितस्तस्यैवेत्यर्थः । अत एव समुदायभक्तो नोत्सहतेऽवयवस्येगन्ततां विहन्तुम् इति भाष्यं सङ्गच्छते। अन्तावयव इति । पूर्वसूत्रात्समस्तमप्यन्तपदमेकदेशे स्वरितत्वप्रतिज्ञाबलादनुवर्तते इति भावः । 'मुञ्चती'त्यादिविषये तु फलाभावादयोग्यत्वाच्चान्तावयव इत्यंशाप्रवृत्तिः ।",
"11049": "परिभाषाणामनियमे नियमकारिणीत्वादाह - अनिर्धारितेति । तेन <<ऊदुपधाया गोह:>> [[6.4.89]] इत्यत्र स्थानेयोगत्वं न, उपधापदसन्निधानेनावयवषष्ठीत्वनिर्णयात् । स्थानेयोगेत्यस्य स्थानपदार्थनिरूपितसम्बन्धार्थिकेत्यर्थः । स्थानेन योगो यस्या इति विग्रहे निपातनात् साधुत्वस्य भाष्ये उक्तत्वात् अस्तेरनन्तरे इत्यादेरपि अनन्तरादिनिरूपितसम्बन्धे इत्येवार्थः । षष्ठीमात्रोच्चारणे स्थानपदाद्यध्याहार इत्यन्यत्र विस्तरः ।\nप्रसङ्ग इति । दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इत्यादौ तथा दर्शनात् । भावे ल्युट् स्थानशब्दे । प्रसङ्गश्च सति सम्भवेऽर्थवत एव, अर्थप्रत्यायनार्थं शब्दप्रयोगात् । <<इको यणचि>> [[6.1.77]] इत्यादेरच्परेकारघटितशब्दस्यार्थबोधनाय प्रसङ्गे तत्परयकारघटितः प्रयोक्तव्य इत्यर्थः । <<एरुः>> [[3.4.86]] इत्यादेश्च तेस्तुरिति, अतो न शब्दनित्यताहानिः ।\n किञ्चेकारबुद्धिप्रसङ्गे यकारबुद्धिरित्यर्थः अत एव <<अचः परस्मिन्..>> [[1.1.57]] इत्यादि सङ्गच्छते। स्पष्टञ्चेदं <<दाधा घ्वदाप्>> [[1.1.20]] इति सूत्र- <<स्थानिवत्…>> [[1.1.56]]-सूत्रयोर्भाष्ये ।",
"11050": "<<स्थानेऽन्तरतमः>> [[1.1.500]] । षष्ठीत्यनुवृत्त्या यत्र स्थानषष्ठी तत्रेदमुपतिष्ठते इति विद्ध्येकवाक्यतयैवास्य नियामकत्वम्, न तु विहितानां नियमः । 'भुक्तवन्तम्' इति न्यायविरोधात् । फलितमाह प्रसङ्गे इति । सदृशतम इति । अर्थात्प्राप्यमाणानां मध्ये एव । अत एव गङ्गोदकम् इत्यादौ त्रिमात्रो न । तमप् किम् ? वाग्घरिः इत्यादौ महाप्राणत्वसाम्येन जायमानः पूर्वसवर्णो वर्गद्वितीयो मा भूत् । किन्तु नादवान् महाप्राणश्चतुर्थो घ एव यथा स्यादिति । स्थानेऽन्तरतमे इति सप्तम्यन्तपाठस्तु दीर्घेषु यणसिद्ध्या दुष्ट इति भाष्ये स्पष्टम् ।\n यत्रानेकेति । स्थानेग्रहणे एकदेशानुवृत्त्याऽनुवर्त्तमाने पुनः स्थानेग्रहणं तृतीयया विपरिणामेन वाक्यभेदमाश्रित्य प्रसङ्गे सति सम्भवे स्थानत एवान्तरतम इत्यर्थमिति भावः । स्थानत इति । स्थानेनेत्यर्थः । तत्र स्थानतः - <<इको यणचि>> [[6.1.77]] इति । अर्थतः - <<तृज्वत्क्रोष्टुः>> [[7.1.95]] इति । इह क्रोष्टुशब्दस्थाने पक्तृशब्दो नादेशः । गुणतस्तु — वाग्घरिः इत्यादौ । प्रमाणतः — <<अदसोऽसे…>> [[8.2.80]] इत्यादौ ।",
"11052" : "<<अलोऽन्त्यस्य>> [[1.1.52]] । षष्ठी स्थाने इत्यनुवर्त्तते; तदाह - षष्ठी इत्यादि । स्थाने विधीयमानः स्थानषष्ठीनिर्दिष्टान्त्यस्येत्यर्थः । स्थान इत्यादि किम्? इट् तृच ऋकारात्पूर्वो मा भूदिति । अन्त्यस्येति साहचर्यादल इति षष्ठ्यन्तम्, अन्त्यस्याल इत्यर्थः । अल इति किम्? पदस्येति विधीयमानं <<वसुस्रंसु>> [[8.2.72]] इति दत्वं स्वनडुद्ध्याम् इत्यादावन्त्यस्य पदस्य मा भूत् । स्थाने विधीयमान इति प्रत्यासत्तिलब्धम् । एवञ्चाल एवेति अन्त्यस्यैवेति नियमद्वयमत्र । अल्समुदायबोधकपदोत्तरं स्थानषष्ठी अस्या लिङ्गम् । अत एव <<इतोऽत्>> [[7.1.86]] इत्यादौ नास्याः प्रवृत्तिः । पथ्यादी नामित्यस्यावयवषष्ठीत्वात्, इत इत्यस्याल्समुदायोत्तरत्वाभावाच्च ।",
"11053" : "<<ङिच्च>> [[1.1.53]] । अनेकालर्थमिदम् । आदेरिति । आदेरल इत्यर्थः । तेन द्वीपम् इत्यादौ पान्तसमुदायस्य नेत्वम् । अत्र परस्येत्यावर्त्तते । तेन परबोधकशब्देन यत्र परस्य स्थाने विधानं तत्रैवेदम् । तेन <<नित्यं ङितः>> [[3.4.99]] इत्यादौ न दोषः । तत्र विकरणव्यवधाने प्रवृत्तये <<धातो:>> [[3.1.91]] इत्यस्य विहितविशेषणत्वात् ।",
"11055" : "<<अनेकाल् शित् सर्वस्य>> [[1.1.55]] । शित उदाहरणम् <<इदम् इश्>> [[5.3.3]] । ननु शकारोच्चारणसामर्थ्याद् भूतपूर्वानेकाल्त्वमादाय सर्वादेशत्वे सिद्धे शिदिति व्यर्थम् । किञ्च सानुबन्धकनिर्देशे यथा नालः स्थानित्वं <<भोभगो..>> [[8.3.17]]इति सूत्रे भाष्ये उक्तम्, तथाऽऽदेशत्वमपि सूत्रोपात्तस्यैवेति तद्व्यर्थम् । विधौ निर्दिष्टो योऽनेकाल्स सर्वस्येति सूत्रार्थः । उद्देश्यत्वविधेयत्वाख्यविषयतया बोधविषयता तु अनुबन्धविनिर्मुक्तस्येति न <<अणुदित्>> [[1.1.69]] सूत्रभाष्यविरोधः । <<ध्वसोः…>> [[6.4.119]] इति लोपस्य <<लोपो यि…>> [6.4.118]] इति प्रकृते पुनर्लोपग्रहणसामर्थ्यात्सर्वा देशत्वसिद्धिः । अनुबन्धानामेकान्तत्वमेव न्याय्यमित्युक्तमिति चेन्न, <<नानुबन्धकृतमनेकाल्त्वम्>> इति ज्ञापनेन चारितार्थ्यात् ।\nतेन <<दिव औत्>> [[7.1.84]] इत्यादिना न सर्वादिशत्वम् । अस्य च यथेत्सञ्ज्ञा तथा वक्ष्यते । नानेकाल् शित् इति तु नोक्तम् । अनन्तरस्य इति न्यायेन <<आदेः परस्य>> [[1.1.54]] इत्यस्यैव निषेधापत्तेः । परत्वादिति । <<आदेः परस्य>> [[1.1.54]] इत्यस्यावकाशः । <<द्व्यन्तरुपसर्गेभ्यो>> [[6.3.97]] — द्वीपम् । शित्सर्वस्य — <<इदम इश्>> [[5.3.3]] । एवम् <<अतो भिसः>> [[7.1.9]] इत्यादिविषये <<अनेकाल्>> [[1.1.55]] इत्यनेन <<आदेः परस्य>> [[1.1.54]] इति परत्वाद् बाध्यते । एतेन — <<ङिच्च>> [[1.1.5]] इत्यत्र ङिदेवानेकालन्त्यस्य इति नियमेन सिद्धेऽनेकाग्रहणं व्यर्थम् इत्यपास्तम् ।",
"11066": "<<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] । अत्र तस्मिन् इति उत्तरत्र तस्मात् इति सप्तम्यन्तपदपञ्चम्यन्तपदार्थकः स्वतन्त्रस्य सर्वनाम्नो निर्देशो व्याख्यानात्, बहु लक्ष्यसंस्कारानुरोधाच्च । न तु तत्तत्पदपरम् । अन्यथा <<तस्मिन्नणि च>> [[4.3.2]], <<तस्मान्नुडचि>> [[6.3.74]], <<तस्माच्छसो न>> [[6.1.103]] इत्यत्रैव प्रवर्त्तेयाताम् । सप्तमी तु सप्तम्यन्तानामेव तच्छब्दार्थत्वमिति बोधनाय, निर्दिष्टे इत्यनेन सामानाधिकरण्याय च । इति शब्दः पुनस्तस्य तदर्थपरत्वं बोधयति । निःशब्दो नैरन्तर्ये दिशिरुच्चारणे । एवञ्च सप्तम्यन्तार्थेऽव्यवहितोच्चारिते उपश्लिष्टस्य पूर्वस्य कार्यमिति वाच्योऽर्थः । एवञ्चैतत्परिभाषाद्वयोपस्थितौ सप्तम्यन्तपदस्य पञ्चम्यन्तपदस्य चार्थो लिङ्गम् ।\nअत्र सूत्रे उपश्लिष्टपदाध्याहारेण निर्दिष्टे इति औपश्लेषिकेऽधिकरणे सप्तम्येवोचिता, <<उपपदविभक्तेः..>> इति न्यायात् । न तु सतिसप्तमीति <<तत्र च दीयते>> [[5.1.96]] इति सूत्रे कैयटे स्पष्टम् । <<स्नुक्रमोः..>> [[7.2.36]] इति सूत्रे च कैयट आह- तस्मिन्निति परिभाषायां सत्यां सत्सप्तम्या श्रयणमशक्यम् इति । उपश्लेषः समीपवृत्तित्वं तच्च वर्णयोबद्धं द्रष्टव्यम्। एवं <<इको यणचि>> [[6.1.77]] इत्यादावपीयमेवेति <<संहितायाम्>> [[6.1.72]] इति सूत्रे भाष्ये । तत्रोपश्लेषः पूर्वस्येव परस्याव्यवहितस्येव व्यवहितस्य चेति पूर्वस्यै वेति नियमार्थमिदमव्यवहितस्यैवेति च । अत एव लक्ष्यानुसारात् क्वचित्सतीत्यध्याहारात् सत्सप्तम्याश्रयणे नास्याः प्रवृत्तिरिति <<श्नान्नलोप>> [[6.4.23]] इत्यत्र भाष्ये उक्तम् । अत एव <<कर्तृकर्मणोः कृति>> [[2.3.65]] इत्यत्र नास्याः प्रवृत्तिः, कृति सति प्रत्यासत्त्या तत्प्रकृत्यर्थः कर्तृकर्मणोः षष्ठीति तदर्थात् ।",
"11067" : "<<तस्मादित्युत्तरस्य>> [[1.1.67]] इति सूत्रे निर्दिष्टे इति निर्दिष्टादित्यर्थकं विभक्तिविपरिणामात् सा चोत्तरस्येति दिग्योगलक्षणा इति दिग्योगलक्षणपञ्च म्यामेव तत्प्रवृत्तिः <<उद:स्था…>> [[8.4.61]] इत्यादौ च उद इति दिग्योगलक्षणा पञ्चमी । तत्रानियतदिक्शब्दाध्याहारे प्रसक्ते परशब्दस्यैवाध्याहार इति तस्मात् इत्यनेन नियम्यते । अव्यवहितोच्चारितात्पञ्चम्यन्तात्परस्येति तदर्थः । तत्फलितमाह — सप्तमीनिर्देशेनेत्यादि । यदि तु अर्धमात्राधिककालेन वर्णान्तरेण वा व्यवधाने उपश्लेष एव नेत्युच्यते तदा निर्दिष्टपदं संहिताधिकारश्च विफल इति <<संहितायाम्>> [[6.1.72]] इति सूत्रे भाष्ये स्पष्टम् । अवग्रहे च सम्प्रदाय एव शरणमिति आनङादिविषये आदेशोत्तरमेवावग्रहोऽन्यत्र ततः प्राक् । अकृतव्यूहपरिभाषा त्वनित्या, नास्त्येव वा। न लक्षणेन पदकारा अनुवर्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् इति भाष्येण तदनुरोधेन शास्त्रासङ्कोचस्य शास्त्रकरणाभावस्य च स्पष्टमुक्तत्वाच्च ।\nएतेन संहिताधिकारस्तद्बहिर्भूतानामर्धमात्राधिककालव्यवाये प्रवृत्तिज्ञापनार्थ:, तेन 'अग्नाविष्णू' इत्यादाववग्रहे आनङादिसिद्धिरित्यपास्तम् । <<प्रत्ययः>> [[3.1.1]], <<परश्च>> [[3.1.2]] इत्यादौ तूत्तरांशविकला <<तस्मात्…>> [[1.1.67]] इति परिभाषा प्रवर्त्तते । तेन न प्रत्यया व्यवहिताः । अत्र एव <<छन्दसि परेऽपि>> [[1.4.81]], <<व्यवहिताश्च>> [[1.4.82]] इति सूत्रं सार्थकम् । आगमविधावपि <<आने मुक्>>[[7.2.82]] इत्यादौ <<तस्मिन्…>> [[1.1.66]] इति परिभाषया पूर्वसम्बन्धित्वनिर्णयः । अत एवात्र पूर्वस्येत्यादि न स्थानषष्ठी । तत्तद्विधिभिरेव सम्बन्धस्य निर्णीतत्वेन <<षष्ठी स्थानेयोगा>> [[.1.149]] इत्यस्याप्रवृत्तेः । <<गाङ्कुटादिभ्यः>> [[1.2.1]] इत्यादावपि षष्ठ्यंशविकलैतत्परिभाषाप्रवृत्तिर्बोद्ध्या । परिभाषाणां नियमत्वन्तु यदि परि भाषासूत्रं न स्यात्तदा व्यवहितादावपि प्रवृत्तिः स्यादित्येतावतेति दिक् । ",
"11071": "आदिरन्त्येन । आदिरिति किम् ? अन्त्यशब्देन पूर्वेषामाक्षेपादिगादिप्रत्याहारेऽकारादिग्रहणं मा भूदिति । एवमादिशब्देन परेषामाक्षेपादिणादिप्रत्याहारेषु आदीनां ग्रहणं मा भूदिति — अन्त्येनति । आदिः-अन्त्येनेत्युभयोपादाने तु न दोष: । लोके अयमादिरन्त्यो वेत्युक्तेऽवशिष्टमपि किञ्चिदस्तीति नियमेन प्रतीतेः । परस्मिन्सति यस्मात्पूर्वो नास्ति स आदिः, पूर्वस्मिन्सति यस्मात्परो नास्ति सोऽन्त्य इति - अकारादिग्रहणे - इकारणकारादीनामाद्यन्तत्वस्यैवानापत्तेः । अत्राद्यन्ताभ्यामवयवत्वेन बोधकाभ्यां स्वघटितः समुदाय आक्षिप्तः सञ्ज्ञी, तस्य चैकत्र लक्ष्ये प्रयोगाभावात्प्रत्येकं सञ्ज्ञित्वम् । अन्त्यस्य तु न तत्कार्यं, तस्येत्सञ्ज्ञालोपाभ्यामपहारात् । एतत् फलितकथनमेव भाष्ये मूले च- स्वस्य च रूपस्येति । स्वमित्यनुवृत्तिपरत्वेन व्याख्यानन्तु हेयमेव, अनुवृत्तौ फलाभावात् । इतेति किम् ? <<ञमङणनम्>> इति णकारादिभिः प्रत्याहारो मा भूदिति । 'सह'ग्रहणाच्च समुदाय एव सञ्ज्ञेति समुदायादेवेक इत्यादौ विभक्त्युत्पत्तिर्नादिमात्रात् । न चान्त्यस्येत्सञ्ज्ञालोपाभ्यामपहारात् <<आदिरन्त्येन>> [[1.1.71]] इत्यसङ्गतं, सूत्रेष्वित्सञ्ज्ञायामपीगादिशब्देषु तदभावात्, 'अन्त्येने'त्यस्येदन्त्यसदृशे नेत्यर्थात्, व्यक्तिपक्षे एवमेवौचित्यात्, सादृश्यमूलिकैव चात्र तत्त्वप्रत्यभिज्ञेत्याहुः । <<अचि श्नुधातु>> [[6.4.77]] इति सूत्रे 'इण' इत्येव सिद्धे 'य्वोरि'ति निर्देशादिण्परेणैवेति लणसूत्रे भाष्ये स्पष्टम् । \n<<हलन्त्यम्>> [[1.3.3]] । अत्र पदद्वयं, समासेऽन्त्यशब्दस्य पूर्वनिपातापत्तेः । कर्मधारययोग्य पदानां समासाभावस्य सूत्रकारशैलीसिद्धत्वाच्च । यद्यपि सर्वोऽपि हल् तं तं समुदायं प्रत्यन्त्यो भवति तथाप्यन्त्यपदोपदेशपदाभ्यां प्रत्यासत्त्याऽज्ञातस्वस्वरूपज्ञाप कोच्चारणविषयसमुदायं प्रत्यन्त्य इह गृह्यते । अत एव - मकारेत्सञ्ज्ञापरित्राणार्थ: स्थमोरुकारश्चरितार्थः । समुदायोपदेश एव सर्वत्र ऋषितात्पर्येणाऽवयवानां नान्तरीयकतया तेषामज्ञातस्वस्वरूपज्ञापकत्वाभावात् । \nउपदेशेऽन्त्यमिति । तत्र विद्यमानमन्त्यमित्यर्थः तेन <<अइउण्>> इत्यादौ णादीनां हप्रत्याहारसिद्ध्युत्तरं तत्सिद्धिः, अन्यत्र त्वन्तरङ्गत्वात्प्राय उच्चारणेनाभिव्यक्तस्य तदव्यवधानेनैवेत्सञ्ज्ञा, पदार्थोपस्थितिरनुबन्धविनिर्मुक्तस्यैव, 'उपदेशोत्तरकाला इत्सङ्गे'ति <<नाज्झलौ>> [[1.1.10]] इति सूत्रभाष्यात् । 'धुडि'त्यादौ सानुबन्धाद्विभक्तिस्तु तेनैवानुयन्धविनिर्मुक्तोपस्थितेस्तस्यैवार्थवत्त्वात्सुलभा, इत्सञ्ज्ञाकार्यं तु यत्र सञ्ज्ञा तत्रानर्थक्यात्तदुपस्थाप्य एव । स्पष्टञ्चेदं <<तित्स्वरितम्>> [[6.1.185]] इत्यत्र कैयटे। वैयाकरणे चित्स्वरस्तु न, तस्येच्चकारसदृशत्वेऽपि तत्त्वाभावात् । विभक्त्यादिसञ्ज्ञापि- सूत्रान्तर्गतानामेवेति-तत्रैव न विभक्तावित्यादीनां प्रवृत्तिः, अत एव <<इदम इश्>> [[5.3.3]] इत्यादावण्त्वात्सवर्णग्रहणं प्राप्तमप्रत्यय इत्यनेन निषिद्ध्यते इति भाष्योक्तं सङ्गच्छते । यतु <<अनेकाल्>> [[1.1.55]] सूत्रे इशि शिद्ग्रहणाभावेऽपि शित्करणादेव सर्वादेशत्वम्इति भाष्ये उक्तं, तस्येत्सञ्ज्ञकशकारकरणाभूतपूर्वानेकाल्त्वमादाय सर्वादेशत्वमित्यर्थ इति न तद्विरोधः ।\nअत्र केचित् — अनुबन्धा अनेकान्ताः = अनवयवाः, यो ह्येकान्तः स कदाचित् तत्रोपलभ्यत एव, अयन्तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात् <<हलन्त्यम्>> [[1.3.3]] इत्यत्रान्त्यशब्दः परसमीपबोधकः, <<चुटू>> [[1.3.7]] इत्यादावादिशब्दः पूर्वसमीपबोधकः, <<अनेकाल्शित्>> [[1.1.55]] इत्यादौ समीपे समीप्यमूलकावयवत्वारोपेण बहुव्रीहिः, स्पष्टञ्चेदम् <<उपदेशेऽज्>> [[1.3.2]] इति सूत्रे भाष्ये, <<मपर्यन्तस्य>> [[7.2.91]] इति सूत्रे कैयटे च । तेन डा-णलादाविशादौ च न दोषः, अत एव <<उपदेशेऽज्>> [[1.3.2]] इति सूत्रे उपदेशग्रहणं चरितार्थम् । तद्धि 'अभ्र आँ अटित' इत्यादा 'वादितश्चे'तीट्प्रतिषेधाभावाय, अनेकान्तत्वे हि तत्प्राप्ति: इत्याहुः ।\nपरे तु — एकान्ता एव, शास्त्रे तत्रोपलंम्भादन्यत्रानुपलम्भाच्च । अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते, नैवमयम् । किञ्चानवयवत्वे ण-श-कप्रत्ययादौ णादेरित्त्वानापत्तिः, प्रत्ययादित्वाभावात् । एवमन्त्यत्वा भावादिशादेः शस्येत्त्वानापत्तिः । उक्तार्थलाक्षणिकत्वे तु लक्षणैव दोषः । किञ्च दघ्नचश्चकारवैयर्थ्यापत्त्याऽवयवत्वमेव न्याय्यम् । अत एव <<वुञ्छण्कठज्>> [[4.2.80]] इति सूत्रविहितके णित्त्वप्रयुक्तवृद्धिर्न । <<तस्य लोपः>> [[1.3.9]] इति भाष्ये- एकान्तत्वमेव - न्याय्यम् इत्युक्तेश्च । <<उपदेशेऽज्>> [[1.3.2]] इति सूत्रे उपदेशग्रहणन्तु स्पष्टार्थमेव इत्याहुः ।\nसर्वत्रानुबन्धसहितनिर्देशे विधौ- <<गुप्तिज्किद्भ्य>> [[3.1.5]] इत्यादौ नकारेत्सञ्जकः सो भवति इत्यादिक्रमेण बोधः । अनुवादे <<सन्यत>> [[7.4.79]] इत्यादौ च - नकारेत्सञ्जके सशब्दे परे - इत्यादिक्रमेण बोध: । स्पष्टञ्चेदं निष्ठासञ्ज्ञासूत्रे ([[1.1.26]]) भाष्ये । अत एवाऽऽटश्चेत्या देर्नासङ्गतिः । अन्यथा यत्राऽऽट् सूत्रे, तत्र नाच्परो, नेष्यते च तत्र वृद्धिः । यत्र प्रयोगे इष्यते वृद्धिस्तत्र नाऽऽडिति तदसङ्गतिः स्पष्टैव । अन्त्यङ्किम् ? वाचालः । हल्किम् ? चिरिणोतीत्यादौ धातोरन्त्यस्य मा भूत् ।\nआद्योच्चारणमिति । आद्यमुच्चारणमित्यर्थः । भावे घञिति भावः । तच्च प्रत्यासत्त्यैतच्छास्त्रप्रवर्त्तकाचार्याणामेव । आद्यत्वञ्चाज्ञातस्वस्वरूपज्ञापकत्वम् । उपस्याऽऽद्यर्थत्वाद्दिशेरुच्चारणक्रियत्वात् । अत एव <<एकाच उपदेशे>> [[7.2.10]] इति सूत्रे कैयटेनोक्तमित्सञ्ज्ञाविधौ उच्चारणवचने उपदिशिर्गृह्यत इति । आदेच इति सूत्रेऽपि येषां स्वरूपज्ञापनायापूर्वमुच्चारणं तेषामेवोपदेशव्यवहार इति । तत्र सूत्रे भाष्येऽपि, उद्देश्च प्रातिपदिकानां नोपदेश इति । प्रकृतसूत्रे भाष्येऽपि प्रत्यक्षमाख्यानमुपदेश इत्युक्तम् । तस्य चोक्त एवार्थः । \n परे तु - उपदेश इति किमर्थम् ? 'अभ्र आँ अपः' । कः पुनरुद्देशोपदेशयोर्विशेषः ? इति भाष्ये उक्तम् । यदि प्रत्यक्षमाख्यानमुपदेशो गुणैः प्रापणमुद्देशस्तर्हि <<लृटः सद्वा>> [[3.3.94]], <<निष्ठा>> [[3.2.102]] इति विहितानां शतृशानच्क्तक्तवतूनामवयवस्येत्सञ्ज्ञानापत्तिः । तथा 'राजसूयसूर्य', 'चित्याग्निचित्ये'त्यादिनिपातनानुमितक्यबादीनां पादेरित्त्वानापत्तिः । <<वदः सुपि>> [[3.1.106]] इत्यत्रोच्चारितस्तु नैतत्सम्बन्धी । अत एव <<तस्यापत्यम्>> [[4.1.92]] <<अत इञ्>> [[4.1.95]] इति न्यासेऽन्यशब्दसम्बद्धापत्यार्थस्यानुक्तरूपशेषत्वमुक्तमाकरे । तस्मादत्र सूत्रे उपदेशशब्देनोद्देशस्यापि ग्रहणं वक्तव्यम् । एवम् 'अभ्र आँ अपः' इत्यादावपि प्राप्नोतीति तेषां सङ्ग्रहोऽस्य व्यावृत्तिर्येन भवति स विशेषः कः ? इति प्रश्नः । तत्सङ्ग्रहार्थमेव लोकव्यवहारेणापि तयोः सङ्कीर्णत्वमुपपाद्यैतद्व्यावृत्तये तत्सङ्ग्रहाय च - उपदेशनेऽजनुनासिक इति वक्तव्यं, किं पुनरुपदेशनम् ? शास्त्रम् - इत्युक्तं वार्तिककृता । तत्र शास्त्रपदेन प्रयोगशासनकरणभूता धातुप्रातिपदिकप्रत्ययनिपातागमादेशा हलन्त्यसूत्रे ([[1.3.3]]) व्यवसितपदार्थत्वेन भाष्ये उक्ता गृह्यन्ते । एवञ्च तत्सङ्ग्रहः 'अभ्र आँ' इत्येतद्व्यावृत्तिश्च सिद्धा । तस्य च वार्तिकस्य बाहुलकात्करणे घञा प्रत्याख्यानं भगवता कृतम् । \nकिञ्च हलन्त्यसूत्रे ([[1.3.3]]) भावघञन्तोपदेशपदानुवृत्तौ - भवतष्ठक्छसौ [[4.2.115]] इत्यादिविहितेष्वित्सञ्ज्ञानापत्तिः, परस्य सत्त्वेन कादेरन्त्यत्वाभावात् । यदि तूपदेशे प्रत्ययत्वादिविशिष्टान्त्य इदित्यर्थः, इत्युच्यते तदोपदेश इति व्यर्थम्, अन्त्यपदसामर्थ्येनैव तल्लाभात् । अत एवात्र सूत्रे उपदेशग्रहणस्यानुबन्धा अनेकान्ता इत्यस्थितपक्षेऽभ्र आँ अटित इति प्रयोजनमुक्तं, न तूत्तरार्थमित्युक्तम् । न च कारणसाधनोपदेशशब्दानुवृत्त्या सिद्धे हलन्त्यसूत्रे ([[1.3.3]]) व्यवसितान्त्यमिति वक्तव्यं, के पुनर्व्यवसिताः ? - धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः इति वार्तिकाद्यनुत्थानमिति वाच्यं, समुदायद्वाराऽवयवस्याप्युपदेशकरणत्वात्तदन्त्यस्यापि लोपापत्तिरित्याशयात् । भाष्यकृता चान्त्यग्रहणसामर्थ्येन प्रत्याख्यातम् । \nतत्रानुबन्धविशिष्टानां धातुत्वादि तु धातुत्वादियोग्यघटितत्वाद्बोध्यम् । निपातानां द्योतकत्वेन 'ब्राह्मणवसिष्ठ'न्यायेन च पृथग्ग्रहणम् । व्यवसितञ्च - धातुत्वादिना परिच्छिन्नत्वाद् इति कैयटः । एवञ्चोदश्विदादिप्रातिपदिकान्त्यस्यापि लोपः प्राप्नोतीति इति वार्तिककृतोक्तम् । कुम्भकार इत्यादावपवादविषयपरिहारेणोत्सर्गप्रवृत्तेः पूर्वं प्रातिपदिकत्वे णादिलोपो न स्यादिति - 'अकृदि'ति । तच्च 'फलाभावान्नेत्सञ्ज्ञे'त्यादिना भाष्ये प्रत्याख्यातम् । अत्राद्योच्चारणार्थकोपदेशपदानुवृत्तौ त्वस्य वार्तिकस्यानुत्थानमेव स्यात् । उद्देशश्च प्रातिपदिकानां नोपदेश इति <<आदेच>> [[6.1.45]] इति सूत्रभाष्ये उक्तेः । एतद्भाष्यैकवाक्यतया पस्पशाह्निकान्तस्थे अग्रहणप्रातिपदिकानामुपदेशः कर्तव्यो — मञ्चको मञ्जक इति मा भूद् इति भाष्ये उपदेशशब्दो ग्रहणं कर्तव्यमित्यर्थकः । तच्चानुवादरूपमेव सन्देहनिवर्तकमिति बोद्ध्यम् । \nनन्वेवं <<तस्मिन्निति निर्दिष्टे>> [[1.1.66]] इति सूत्रे - षष्ठीप्रकल्पकत्वं तस्ये'ति पक्षे <<गुप्तिज्किद्भ्यः>> [[3.1.5]] इत्यादावपि षष्ठीप्रक्लृत्यापत्तिः, न च सनः सनेवादेशो भविष्यतीति बाधकाभाव इति वाच्यम्, <<उपदेशे इत्युच्यमाना इत्सञ्ज्ञा न प्रकल्पेत - इत्युक्तं भाष्ये, तद्विरुद्ध्येतात्रोपदेशपदाननुवृत्ताविति चेन्न, तस्यैकदेश्युक्तित्वेनासाधकत्वात् । तथा हि - तत्र <<ङमो ह्रस्वादचि>> [[8.3.32]] इत्यादौ - यत्र सप्तमी पञ्चमी चेत्युभयं निर्दिश्यते तत्र - किं पूर्वस्य कार्यमथ परस्येति सन्देहे - परत्वानवकाशत्वाभ्यां पञ्चमीनिर्देशो बलवान् इति सिद्धान्तिनोक्तम् ।\nतत एकदेशिना - यथार्थं वा षष्ठीनिर्देशः कर्तव्य इति समाधानान्तरमुक्तम् । यथाविषयं प्रागुक्तेषु कार्यिणः निर्देष्टव्याः इति तदर्थः । तेषु सप्तमीनिर्देशस्य क्वचित्पूर्वस्य क्वचिदुत्तरत्राऽऽवश्यकत्वेनोभयनिर्देशे गौरवेणैवैकदेश्युक्तिः । \nततः परेणैकदेशिना — षष्ठीपदानुवृत्त्या तस्मिन्नित्यादेरेव षष्ठीप्रकल्पकत्वमाश्रित्य यथार्थं वा षष्ठी इत्येकदेश्युक्तिः प्रत्याख्याता । षष्ठीपदानुवृत्तौ गौरवादुभयोः प्रकल्पकत्ववारणाय परत्वानवकांशत्वयोरेकः पूर्वपरयोरिति पूर्वपरग्रहणस्य युगपत्प्रकल्पत्वाभावे ज्ञापकस्य चावश्यकत्वाच्चेयमप्येकदेश्युक्तिः । ततः पूर्वेणैकदेशिना तत्पक्षे गुप्तिजित्यादौ ([[3.1.5]]) दोषः शङ्कितः । ततः षष्ठीप्रक्लृप्तिवादिनैकदेशिनोक्तम् - स्यादेष दोषो यदीत्सञ्ज्ञा आदेशं प्रतीक्षेत । तत्र खलु कृतायामित्सञ्ज्ञायां लोपे च कृते आदेशो भविष्यति, 'उपदेश' इति हीत्सञ्ज्ञोच्यते — इति । एवञ्च त्वदुक्तिर्व्याहतेत्याशयः ।\nतदग्रे उपदेशपदाननुवृत्तिमभिप्रेत्य - अथवा नानुत्पन्ने सनि प्रक्लृप्त्या भवितव्यम्, यदा चोत्पन्नः सन् तदा कृतसामर्थ्या पञ्चमीति प्रक्लृप्तिर्न भविष्यति इति समाधानान्तरं कृतम् । तत्र परत्वविशिष्टस्य सन उत्पादने पञ्चम्या उपक्षयात्प्रवृत्त्यन्तराभावान्नास्ति तस्याः प्रकल्पकत्वमिति तदर्थं कैयट आह । एवञ्च प्रकृतसूत्रस्थस्य सूत्रार्थप्रतिपिपादयिषया प्रवृत्तस्य भाष्यवार्तिकस्यैकदेश्युक्ततद्भाष्यबलेन प्रौढिवादत्वकल्पनं नोचितम्, लक्ष्यासिद्धेश्च । <<अइउण्>> इत्यादीनामपि क्रमबोधकत्वेनार्थवत्त्वात् प्रातिपदिकत्वम् । चित्रङश्चोः कुरित्यादेरपि([[8.2.30]]) प्रातिपदिकत्वम् । लोपश्चेत्यत्रापि शकारस्य स्वरूपेणार्थवत्त्वात्प्रातिपदिकत्वम् । अनुबन्धानामेकान्तत्वे तु 'लोपो यी'त्यतो ([[6.4.118]]) लोपग्रहणेऽनुवर्तमाने पुनर्लोपग्रहणात्सर्वादेशत्वं बोद्ध्यम् । <<एकाच उपदेश>> [[7.2.10]] इत्यत्रत्यः कैयटोऽपि चिन्त्य एव । अन्योऽपि तज्जातीयश्चिन्त्य एव । <<एकाच उपदेश>> [[7.2.10]], <<आदेच उपदेशे>> [[6.1.45]] इत्यादौ तु भावसाधन एवेति सुधियो विभावयन्त्वित्याहुः ॥",
"12027": "ऊकालोऽच् । कुक्कुटरुते उकारे एकद्वित्रिमात्रत्वप्रसिद्धेरकारादयो नोक्ताः । 'ऊ' इति एकद्वित्रिमात्राणां क्रमेण प्रश्लेषनिर्देशो व्याख्यानात् । तेन स्वोच्चारणकालसदृशो लक्ष्यते । स कालो यस्येति बहुव्रीहिः, तत्फलितमाह - उश्च ऊश्च ऊ३श्चेति ।\nननु उकालो ह्रस्व इति वाक्येऽण्त्वात्सवर्णग्रहणे द्वित्रिमात्रयोरपि ह्रस्वसञ्ज्ञायां प्रदाय, प्रलूयेत्यादौ <<ह्रस्वस्य>> [[6.1.71]] इति तुक् स्यादिति चेन्न । 'ऊ अजि'त्येवाज्ग्रहणसामर्थ्यादूसदृशोऽजित्यर्थे सादृश्यस्य व्याख्यानात्कालकृतस्यैव ग्रहणमिति सिद्धे अधिकं कालग्रहणम् - उच्चारितसम्बन्धिकालसदृशकालस्यैव सञ्ज्ञा, न तु तेन गृहीतसम्बन्धिकालसदृशकाल्स्यापि इत्यर्थेनादोषात् । तदुक्तं भाष्ये - यावत्तपरकरणं तावदत्र कालग्रहणम् - इति ।\nन चाजिति वर्णग्रहणे जातिग्रहणस्य दुर्वारत्वात्तितउच्छत्रमित्यत्र दीर्घात्पदान्ताद्वेति तुगापत्तिरिति वाच्यं, ज्ञापकसिद्धत्वेन तस्यासार्वत्रिकत्वात् । अन्तरङ्गत्वेन ह्रस्वत्वनिमित्तनित्यतुक एव प्राप्तेश्च । अज्ग्रहणं प्रतक्ष्येत्यादौ ह्रस्वस्येति तुग्व्यावृत्त्यर्थम् ।",
"12028": "प्लुतशब्दैरिति । <<ऊकाल..>> [[1.2.27]] इति सूत्राद्ध्रस्वदीर्घप्लुत इति अजिति चानुवर्तते। ह्रस्वेत्यादिपदञ्च तृतीयया विपरिणतमिति भावः । तेन <<दिव उत्>> [[6.1.131]] , <<अष्टन आ विभक्तौ>> [[7.2.84]] इत्यादावेतदनुपस्थितिः । शेषं प्राग्वत् ।",
"12029" : "<<उच्चैरुदात्तः>> । नात्र श्रुतिकृतमुच्चैस्त्वमुपांशुप्रयोगेऽव्याप्तेः । श्रुतिप्रकर्षस्याऽव्यवस्थितत्वाच्च । किन्तु स्थानकृतम् । 'उच्चैरि'त्यधिकरणशक्तिप्रधानम् । अधिकरणत्वञ्चोच्चारणं प्रति । तच्च ताल्वादीनां सभागत्वे एवेत्याशयेनाह — ताल्वादीति । इदं प्राचामनुरोधेन । वर्णसमाम्नायेऽकारस्य प्राथम्यात्कण्ठादीति वक्तुमुचितम्, एवमन्यत्रापि बोद्ध्यम् । प्रयत्नप्रेरितो वायुर्यदोर्ध्वभागे प्रतिहतोऽचं व्यञ्जयति तदा स उदात्त इति भावः । अजिति । 'ऊकाल' इत्यतस्तदनुवर्तते । उदात्तत्वादीनामज्धर्मताया एव लोकप्रसिद्धत्वेन हल्स्वरप्राप्तौ व्यञ्जनस्याविद्यमानत्वाच्चेदं स्वरूपकथनपरं बोद्ध्यम् ।\nआये इति । यच्छब्दः <<फिषोऽन्त>> (फिट्-१.१) इत्यन्तोदात्तः, जस्सुप्त्वादनुदात्तः, <<एकादेश उदात्तेन>> [[8.2.5]] इत्येकार उदात्तः ।",
"12030" : "अर्वाङिति । अभिमुखवाच्यव्युत्पन्नं <<फिषोऽन्त>> (फिट्-१.१)इत्यन्तोदात्तम् । आद्यस्य शेषनिघातेनाऽनुदात्तत्वम् । अर्वन्तमञ्चतीत्यर्थे कृदुत्तरपदप्रकृतिस्वरेण वाऽन्तोदात्तत्वम् ।",
"12031": "एकस्मिन्नच्युदात्तानुदात्तयोर्धर्मिणोर्मेलनविरोधादाह — वर्णधर्माविति । बाहुलकादधिकरणे घञ् । अर्श आद्यजित्यन्ये ([[5.2.127]]) । इयं त्रिसूत्री स्पष्टार्था, लोकवेदयोरुदात्तादिव्यवहारस्य प्रसिद्धत्वात् ।",
"12032": "ह्रस्वग्रहणमिति । ह्रस्वपदघटितग्रहणमित्यर्थः । अतन्त्रमिति । स्वशास्त्रसङ्केतितरूपेणाबोधकमित्यर्थः । किन्त्वर्धमात्रारूपार्थबोधकमिति भावः । एवञ्च — दीर्घादिष्वप्यर्धमात्रैवोदात्ता । इत आरभ्य नवसूत्र्या <<अ अ>> [[8.4.68]] इत्यतः प्रागुत्कर्षेणास्य त्रिपाद्यामपि प्रवृत्तिः । सर्वञ्चेदं भाष्ये स्पष्टम् । अर्धमुदात्तम्इति वृत्तिस्तु — सत्या सत्यभामेतिवद् व्याख्येया । उत्तरार्धमित्यस्य चार्धमात्रातोऽवशिष्ट उत्तरो भाग इत्यर्थः । वेदे तु यथाप्रयोगं प्रातिशाख्यादस्माच्च व्यवस्था ।\nतस्य चेति । अनुदात्तस्येत्यर्थः । उदात्तेति । उदात्तस्वरितयोः परत्वे सतीत्यर्थः । तयोः परत्वञ्चोपस्थितानुदात्तोपेक्षयैव । अन्यत्र — उदात्तस्वरितयोः परत्वाभावे । प्रातिशाख्ये इति । लोके त्वनुदात्त एवेति भावः ।\nह्रस्वस्वरितमुदाहरति — क्वेति । <<किमोऽत्>> ([[5.3.12]]) इत्यतः , <<क्वाति>> [[7.2.105]] इति कादेशे <<तित्स्वरितम्>> [[6.1.185]] इति स्वरितः । दीर्घं तमुदाहरति — रथानामिति । येऽरा इति । <<स्वरितो वाऽनुदात्ते पदादौ>> [[8.2.6]] इत्येकारः स्वरितः । <<नोदात्तस्वरितोदयम्>> [[8.4.67]] इति निषेधस्तु - <<उदात्तादनुदात्तस्य स्वरित>> [[8.4.66]] इत्यस्यैवानन्तरस्येति न्यायात् । स्वरितपरमुदाहरति — शतचक्रमिति । अहेरित्यर्थेऽह्यः । वृत्रस्येत्यर्थः । इति वचनाद् गुणाभावः । <<उदात्तस्वरितयो:>> [[8.2.4]] इति स्वरितः । <<उदात्तयणो हल्पूर्वाद्>> [[6.1.174]] इति तु न, छान्दसत्वात् । यच्छब्दः <<फिषोऽन्त>> (फिट्-१.१) इत्यन्तोदात्तस्तदेकादेशश्च वा स्वरितः । स इति । उदात्तादिह्रस्वादिसञ्ज्ञक इत्यर्थः ।",
"13002": "ननु शास्त्रेऽनुनासिकोच्चारणाभावात्तत्त्वज्ञानं दुर्लभमत आह — प्रतिज्ञेति । प्रतिज्ञाविषयानुनासिक्यवन्त इत्यर्थः । पाणिनीया इत्यस्य पाणिनिप्रभृतिप्रोक्ता वर्णा इत्यर्थः । प्रतिज्ञा चायमेवमिति कथनं, वर्णानां तत्त्वज्ञापको व्यवहारश्च, ताभ्यां तज्ज्ञानं सुलभमिति भावः । प्रतिज्ञातारश्च प्रत्यासत्त्यैतच्छास्त्रकर्तार एवेति दिक् ।\nनिर्देशादिति । तेषां तत्र ग्रहणे हि नासिकादौ यणापत्तिरिति भावः । न चेत्त्वविधिसामर्थ्याद्यणभावः सिद्धः । तस्यापि प्रत्याहारेष्वनुबन्धाग्रहणज्ञापनद्वारैव यणभावकल्पकत्वौचित्यात् । साक्षाच्छास्त्रबाधककल्पनापेक्षयाऽस्यार्थस्यौचित्यात् । निर्देशादित्यस्य - तन्मूलभूतेत्त्वविधानसामर्थ्यादित्यर्थ इति तात्पर्यम् । आदिना - तृषिमृषिकृषेरेकः पूर्वेत्यादिसङ्ग्रहः । \nननु इति वार्तिके प्रत्याहारशब्दस्य वर्णसमाम्नाये प्रसिद्धेः प्रत्याहारेष्वितामित्यनुपपन्नमत आह — आदिरन्त्येनेतीति । वार्तिके तादर्थ्यात्ताच्छब्द्यमिति भावः ।",
"13003": "भाष्येऽप्यन्योन्याश्रयमाशङ्कय — हलन्त्यमित्सञ्ज्ञं भवति, लकारश्चेद्भवतीति वक्तव्यमि इत्युक्त्वा — एकशेषनिर्देशाद्वा सिद्धम्, हल् च हल् च हल्— हलन्त्यमित् इत्युक्तम् । तस्यायं भावः— कृतैकशेषेण हल्पदेन सम्बन्धसामान्यषष्ठ्या — समासोऽन्त्यशब्दस्य च द्वन्द्वान्ते श्रूयमाणस्येवोभयत्रान्वयः, एवञ्च हल्सूत्रान्त्यं हल्रूपान्त्यञ्चेति बोध:, अन्त्ये— 'राहोः शिर' इतिवत्षष्ठी इति । अत्रोच्चारयितुरेकशेषनिर्देशो बोद्धस्त्वावृत्त्या बोधः । हसमीपो लकार इत्, हल्रूपान्त्यञ्च इति कैयटोक्तव्याख्यायान्तु— हल् इत्सञ्जं भवति, हलन्त्यञ्चेद इति वदेदूह्यम् ।\nनन्वेवमपि <<न विभक्तौ>> [[1.3.4]] इति विभक्तिपदबोद्ध्यसुप्तिङ्बोधो <<हलन्त्यम्>> [[1.3.3]] इति वाक्यार्थबोधोत्तरं, तद्बोधश्चापवादवाक्यार्थबोधोत्तरमित्यन्योन्याश्रयस्तदवस्थ एवेति चेन्न, अपवादवाक्यार्थबोधात्पूर्वं पदपदार्थोपस्थितावुत्सर्गवाक्यार्थबोधे प्रतिबन्धकाभावात् । न ह्यभावज्ञाने प्रतियोगिज्ञानस्येव प्रतियोगिज्ञानेऽभावज्ञानस्य कारणता कस्यापि सम्मता, प्रतियोगिज्ञानं विना निषेधवाक्यार्थासम्भवाच्च । \nपूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः इत्यस्य त्वयं भाव: — लक्षणैकचक्षुष्कस्य उद्देश्यतावच्छेदकावच्छिन्ने सर्वत्रोत्सर्ग कृतसंस्कार बुद्धावुत्सर्गापवादयोर्विषयव्यवस्थानापत्त्या— भुक्तवन्तम्प्रति मा भुक्था इति वाक्यस्येव अपवादशास्त्रवैयर्थ्यापत्त्या चापवादशास्त्रपर्यालोचनेन तद्विषयलक्ष्यसंस्कारं निर्णीय तदविषयं तत्तल्लक्ष्यं तत्तद्विषयवाक्योपप्लवद्वारोत्सर्गेण संस्करोति, अन्यथा विकल्पापत्ति: — इति । \nयद्यपि भुक्तवन्तं प्रति इति न्यायो लुगादिना जातनिवृत्ते र्व्यभिचरितस्तथापि तत्राप्यनुत्पत्तिरेवेति न दोषः, न्यायानङ्गीकारेऽपि विकल्पापत्ते: सत्त्वाच्च। अभिनिविशन्ते इत्यस्य — बुद्ध्यारूढा भवन्तीत्यर्थः । लक्ष्यैकचक्षुष्कस्तु — तत्तच्छास्त्रपर्यालोचनं विनापि अपवादविषयं परित्यज्योत्सर्गेण लक्ष्यसंस्कारञ्जा नीते, तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्तेः । तदुक्तम्— प्रकल्प्य चापवादविषयं तत उत्सर्गः प्रवर्तते इति । प्रकल्प्य = परित्यज्य । \nयत्तु — प्रकल्प्य च इत्यस्यायमर्थः यथा <<न सम्प्रसारणे>> [[6.1.37]] इति वचनात्परस्य यणः पूर्वं सम्प्रसारणं, पूर्वस्य तु तन्निमित्तः प्रतिषेधः इति — अभ्यस्तसञ्ज्ञासूत्रे कैयटः, तन्न; <<न सम्प्रसारणे>> [[6.1.37]] इति सूत्रस्थभाष्यविरोधात् । तत्र हि एतदेव ज्ञापयति परस्य — न पूर्वस्येति, यद्वा सम्प्रसारणाश्रयस्य प्रतिषेधः इत्याद्युक्तम् । न हि न्यायेन सिद्धे एवमुक्तिरुचिता, तस्मान्न्यायस्य मदुक्त एव विषय इति बोद्ध्यम् । यदपि — अपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थः इति, तदपि न उक्तयुक्तेः । <<न विभक्तौ तुस्माः>> [[1.3.4]] इति शास्त्रस्थतुस्मपदार्थज्ञानमात्रेण पादीनामेव तद्विषयत्वाभावबुद्ध्या तेषु हलन्त्यसूत्रप्रवृत्त्या सुप्तिङ्रूपविभक्तिपदार्थज्ञानं सुलभमिति दिक् । अत्राप्युपदेश इति सम्बद्ध्यते, तद्बललभ्यार्थमाह — सूत्रे इति ।",
"13011" : "<<स्वरितेनाधिकारः>> [[1.3.11]] । इत्थम्भूतलक्षणे तृतीया । स्वरितत्वज्ञाप्योऽधिकारो विनियोग इत्यर्थः । स्वरितत्वञ्चेदं दोषविशेषरूपमज्झल्साधारणं स्व रूपमधिक्रियमाणपदघटकाज्निष्ठं वा । तच्चानुनासिक्यवत्प्रतिज्ञागम्यम् । विनियोगश्च प्रायेणोत्तरत्रोपस्थितिः, क्वचित्पूर्वत्रापि । कियद् दूरमधिकार इत्यत्रासति गमके व्याख्यानमेव शरणम् ।\n किञ्च स्वरितेनाधिकारगतिः । तेन <<गोस्त्रियो>> [[1.2.48]] इत्यादौ ख्यधिकारस्थप्रत्ययग्रहणमित्याद्याकरादवसेयम् एतेन - व्याख्यानादेव निवृत्तिवदनुवृत्तिरपि भविष्यति, आकाङ्क्षायान्तु सत्यामश्रुतकल्पनाया अन्या व्यत्वाच्छ्रुतापेक्षणस्य न्याय्यत्वाच्च किं सूत्रेण इत्यपास्तम् । स्पष्टं चेदं भाष्ये ।\nपरनित्येति । परं विप्रतिषेधसूत्राद् बलवत् । नित्यं कृताकृतप्रसङ्गि, तद्विपरीत मनित्यम् । तत्राक्लृप्ताभावकस्या भावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनं युक्तमिति तस्य बलवत्त्वे बीजम् । अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येऽन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । तदीयनिमित्तसमुदायाद्बहिर्भूताङ्गकं बहिरङ्गम् । तस्य बलवत्त्वे बीजमाह असिद्धमिति । इयञ्च <<वाह ऊठ्>> [[6.2.132]] इति सूत्रेण ज्ञापिता ।\nयद्यपि प्रत्यङ्गवर्त्ती लोको दृश्यते । मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीर कार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम् इति न्यायमूलकत्वमस्या <<अचः परस्मिन्..>> [[1.1.57]] इति भाष्ये उक्तं, तथापि तेन न्यायेन युगपत्प्राप्तिविषयतैव स्यात् । ज्ञापकेन तु सर्वविषयता बोध्यते इति <<वाह ऊठ्>> [[6.2.132]] इति सूत्रे कैयटे स्पष्टम्। अन्यथा वाहः सम्प्रसारणे पूर्वरूपे च कृते प्रयाश्रये गुणे <<वृद्धिरेचि>> [[6.9.88]] इति वृद्धौ प्रष्ठौह इत्यादिसिद्धावूठ्विधानं व्यर्थं स्यात् । नाजानन्तर्यपरिभाषा तु नास्त्येवेति न अयजे इन्द्रम् इत्यादौ दोष इति परिभाषेन्दुशेखरे विस्तरः । अपवादस्तु वचनप्रामाण्याद् बलवान् । अकृतेति । न कृतो विशिष्ट ऊहस्तकों निमित्तविनाशेऽपि कार्यस्थितिरूपः, यथा दण्डविनाशेऽपि घटस्थितिः, स यैस्ते इत्यर्थस्तदाह - निमित्तमित्यादि । तत्प्रयुक्तं कार्यजातमपि न कुर्वन्ति नोच्चारयन्तीत्यर्थ इति कैयटादयः ।\nअन्ये तु - व्यूहोऽन्तरङ्गशास्त्रं बहिरङ्गापोहनरूपत्वात् तन्निमित्तविनाशं दृष्ट्वा पूर्वमपि न कुर्वन्ति इत्यर्थ इत्याहुः । इयं परिभाषा निष्फला निर्मूलेति परिभाषेन्दुशेखरे निरूपितम् । इति परिभाषाप्रकरणम् ।",
"84068" : "प्रयत्नभेदाद्दीर्घाभावः । अत्रोद्देश्ये सवर्णग्रहणं जातिनिर्देशो वा न, व्याख्यानात् ।",
"82001" : "अधिकारत्वे फलमाह - त्रिपाद्यामपीति । अन्यथा गोधुङ्मान् इत्यत्र घत्वजश्त्वानुनासिकेषु भष्भावानापत्तिरिति भावः । वस्तुतो घत्वे कृते <<झय:>> [[8.2.10]] इति वत्वापत्तिर्दोषः । न च ततः परत्वाज्जश्त्वानुनासिकत्वयोस्तदप्राप्तिरिति वाच्यं, <<विप्रतिषेधे परम्>> [[1.4.2]] इत्यस्य यथोद्देशत्वेन त्रिपाद्यामप्रवृत्तेः <<पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य>> इत्यनेन तस्या यथोद्देशत्वस्यैव बोधनात् । अन्यथा परस्यासिद्धत्वेऽपि विप्रतिषेधसूत्रस्य सिद्धत्वात् परिभाषान्तराणामिवास्या अपि कार्यकालपक्षे तेनाकर्षणापत्तेः अत एव भाष्ये वत्वमेवापादितम् ।\nअधिकारत्वादेव इत्यादि चरितार्थम् । एवञ्च यत्रानुवृत्तिस्तस्यासिद्धत्वम् । पूर्वत्वञ्च क्वचित्सपादसप्ताध्याय्याः, क्वचित्सूत्रान्तरसहितायाः । तत्रायमर्थः— <<हो ढः>> [[8.2.31]] इत्यादावस्योपस्थितौ वाक्यभेदेनान्वयः — हस्य ढो भवति, इदञ्च शास्त्रं पूर्वत्रासिद्धम् इति । अत एव <<न मु ने>> [[8.2.3]] इत्यादिभिस्तन्निषेध उपपद्यते। <<पूर्वत्र>> [[8.2.1]] इति सङ्ग्राहकमेव शृङ्गग्राहिकयैव तु तत्तच्छास्त्रं प्रति तस्यासिद्धत्वं प्रतिपाद्यते। तेनापवादस्य यं प्रत्यपवादत्वं तत्रासिद्धत्वाभावेऽप्यन्यत्रासिद्धत्वं भवत्येव । असिद्धमिति । सिद्धं = निष्पन्नं प्रवृत्तम् । सिद्धश्च प्रत्ययविधौ इत्यादौ तथा दर्शनात् । तद्भिन्नम् - असिद्धमनिष्पन्नमप्रवृत्तम् । यद्यपि लोकेऽनाहार्य ज्ञानस्यैव प्रवर्तकत्वं निवर्तकत्वञ्च दृष्टं, तथापीह शास्त्रप्रामाण्यादाहार्यारोपोऽपि शास्त्रप्रवृत्तावप्रवृत्तौ च नियामक इति बोद्ध्यम् ।\nअत्र कार्यासिद्धत्वेऽमू इत्याद्यसिद्धिः । अद अ औ इति स्थिते परत्वान्मुत्वे तस्य सपादसप्ताध्यायीस्थकार्यदृष्ट्याऽसिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेनाकाराभावेन पररूपाद्यनापत्तिः अतिदेशस्याऽऽरोपरूपत्वान्निरधिष्ठानारोपासम्भवेन कार्यप्रवृत्तेरत्र पक्षे आवश्यकत्वात् । शास्त्रासिद्धत्वे तु यत्राप्यन्तरङ्गत्वात् त्रैपादिकं प्रवृत्तं तत्रापि तत्तच्छास्त्रे एवाभावारोपेण तन्निवृत्तिबुद्धेरभावः, आदेशबुद्ध्यभावो लक्ष्ये जातत्वबुद्ध्यभावश्च। जायमानं कार्यन्त्वादेशे एव स्थानिबुद्ध्या प्रवर्तते । न हि रजतभ्रमप्रयुक्ता प्रवृत्तिः शुक्ति न गोचरयतीति न दोषः। यत्र तु सहप्रसङ्गस्तत्राप्रवृत्तिरेव, अभावारोपात् ।\nन च पूर्वत्र न इत्येव सूत्रमस्त्विति वाच्यम्, पूर्वशास्त्रप्राप्तौ निषेध इत्यर्थे <<नलोपः सुप्>> [[8.2.2]] इति सूत्रासङ्गतिः, तद्धि नियमार्थम्, त्वद्रीत्या राजन्- अश्व इत्यस्यां दशायाङ्कस्यापि पूर्वशास्त्रस्याप्राप्त्यैतन्निषेधाप्रवृत्तौ नलोपे जाते भुक्तवन्तमिति न्यायेनैतदप्रवृत्तौ राजाश्वे दीर्घसिद्ध्या नियमानुपयोगात् । राजभ्याम् इत्यादावपि दीर्घापत्तेश्च । पूर्वशास्त्रविषयसम्भावनायाम् इत्यर्थे राजभ्यामित्यादौ नलोपे सुब्विधि-दीर्घविषयसम्भावनया सर्वथा नलोपानापत्तेरिति दिक् ।\nबाह्यप्रयत्न इति । काकलकाधस्ताद्गलविवरविकास-सङ्कोच - श्वासोत्पत्ति ध्वनिविशेष रूपनाद-तद्विशेषरूपघोषाल्पघोष-प्राणाल्पत्वमहत्त्वरूपकार्यकरत्वमेषाम् । तथाहि - आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ (पा.शि. 6), सोदीर्णो मूर्ध्यभिहतो वक्त्रमापद्य मारुतः । वर्णान् जनयते … (पा.शि. 9) इति शिक्षायामुक्तम् ।\nआत्मा = अन्तःकरणं, संस्काररूपेण स्वगतानर्थान् बुद्ध्या= स्ववृत्त्या, समेत्य = एकबुद्धिविषयान्कृत्वा तद्बोधनेच्छया मनो युक्तं करोति, तदिच्छावन्मनः कायाग्निञ्जाठरमग्निमभिहन्ति, सः = कायाग्निः, सोदीर्णः = स मारुतः उदीर्णः ऊर्ध्व प्रेरित इत्यादिस्तदर्थः । एवञ्च शब्दप्रयोगेच्छयोत्पन्नयनाभिहताग्निना नाभिप्रदेशात्प्रेरितो वायुर्वेगान्मूर्धपर्यन्तङ्गत्वा प्रतिनिवृत्तो वक्त्रं प्राप्य उक्तयत्नसहायेन तत्तस्थानेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तत्स्थानान्याहत्य वर्णानभिव्यनक्ति। ततो यत्नविशेषेण गलविवरविकासादीन्करोति । तत्र ये तत्तत्स्थानाभिघातका यत्नास्ते आस्यान्तर्गततत्तत्कार्यकारित्वादाभ्यन्तरा इत्युच्यन्ते। गलविवरविकासादिकराश्चास्यबहिर्भूतदेशे कार्यकरत्वाद्बाह्या इति ।\nमात्राकालिकत्वादिरूपह्रस्वत्वादिकन्तु वाव्वल्पत्वमहत्त्वकृतमिति - नाभि प्रदेशात्प्रेरकयल एव कश्चिद्विलक्षणोऽल्पं वायुं प्रेरयति कश्चिदधिकमिति तस्य वायुप्रेरणारूपङ्कार्यमास्यबाह्यदेशमिति तदपि बाह्यमेव ।\nअत एव <<अइउण्>> सूत्रे सवर्णसूत्रेऽग्रहणम् इत्युक्तम् भाष्ये । ह्रस्वत्वादिजनकयलस्यास्यविशेषणेन यद्यपि- एक एव यत्नः सर्वकार्यजनको वर्णनाशकश्च इति <<परः सन्निकर्ष>> [[1.4.109]] इति सूत्रे भाष्ये उक्तं, तथापि तत्तत्कार्येणोपाधिना एकस्मिन्नपि भेदमारोप्य तथा व्यवहार इति बोद्ध्यम् । उदात्तादिजनकयत्नस्याभ्यन्तरकार्यकरत्वेऽपि - उदात्तादिशब्दैर्विना बोधितानां तेषाम्- अनङुदात्त इत्यनेनाविवक्षाबोधनात्सवर्णसञ्ज्ञानुपयुक्तत्वान्तरतम्यपरीक्षोपयुक्तत्वरूपसादृश्ये न बाह्येषु गणनम् । इदं ह्रस्वत्वादेरानुनासिक्यस्य चोपलक्षणम् ।\nशर इति । शषसाः । अनुप्रदानं बाह्यप्रयत्नः । विवृण्वते इति । तदभिव्यक्त्युत्तर जायमाने कण्ठविवरविकासे तेषां कर्तृत्वविवक्षा बोध्या । विवार एषां प्रयत्न इति भावः । अन्ये त्विति। वर्गतृतीयचतुर्थपञ्चमाः, तद्यमाः, हकारानुस्वारौ, यरलवा इत्यर्थः । नादभागिन: तत्प्रयत्नकाः । यद्यपि खयादिषु घोषाघोषान्यतरप्रयत्नमात्रेणापि प्रक्रियांशनिर्वाहस्तथापि शिक्षानुरोधेनान्येषामुक्तिः । अल्पासवः- अल्पप्राणाः, यत एतदुच्चारणोत्तरं प्राणानामल्पत्वमिव भवति । वर्गेष्विति । विद्यमानानामिति शेषः । चतुर्णामिति । निर्धारणे षष्ठी, अन्यतमादिति शेषः । पूर्वसदृश इति । सादृश्यं यत्नकृतम् । अत एवायोगवाहेषु यमानां गणनं भाष्ये, चत्वारश्च यमाः स्मृताः इति पाणिनिशिक्षा च सङ्गच्छते । अयञ्च वेदे एव; तदाह - प्रातिशाख्ये इति ।\nअन्येषामिति । अचाम्, उक्तान्यहलाञ्चेत्यर्थः । यरलवाश्चेति । चेनाचामपि ग्रहणम् । <<सुपां सुलुग्>> [[7.1.39]] इति सूत्रे इकारस्यान्तर्यतो दकार इति भाष्यात्- घोषसंवारनादाल्पप्राणत्वमचाम् । अन्यथा तदौ पर्यायेण स्याताम्, अल्पप्राणत्वानङ्गीकारे दधौ पर्यायेण स्याताम् । अचां घोषत्वं <<परः सन्निकर्ष>> [[1.4.109]] इति सूत्रे भाष्येऽपि स्पष्टम् । अन्ये इति । द्वितीयचतुर्थ्यौ, तद्यमौ, शषसहाः, अयोगवाहाश्चेत्यर्थः । जिह्वामूलीययमादीनां स्थानबाह्यप्रयत्नकथनन्तु स्वरूपनिर्णयाय, न तु सावर्ण्यान्तरतम्यपरीक्षादावुपयोगीति बोद्ध्यम् । अनुपयुक्ता इति । तुल्यास्यसूत्रे प्रशब्दग्रहणात् । उपयुक्तत्वे हि श-छयोरपि सावर्ण्यं स्यादिति भावः । आन्तरतम्यपरीक्षा च- 'घोषवत' इत्यादिना तत्र तत्र स्फुटीभविष्यति।\nस्पर्शा:- तत्पदव्यवहार्याः । तिष्ठन्तीति तदर्थः । अन्तस्थाशब्द आदन्तः। स्पर्शोष्मणोरन्तर्मध्ये तिष्ठन्तीति तदर्थः । ऊष्माण इति । ऊष्मा वायुस्तत्प्रधाना इत्यर्थः । एवं सोष्माण इत्यस्य वायुना सह वर्तन्त इत्यर्थ इति प्रातिशाख्यभाष्ये स्पष्टम् । यद्यपि वर्गद्वितीयचतुर्थयोरपि <<स्थानेऽन्तरतम:>> [[1.1.50]] सूत्रभाष्यादूष्मत्वं, तथापि विवृतमूष्मणामित्यत्रैत एव गृह्यन्ते । अन्यथा कण्ठ्यादीनां सावर्ण्यानापत्तौ <<नाज्झलौ>> [[1.1.10]] इत्यादिनिर्देशासङ्गतिरिति भावः । अचः स्वरा इति । उदानादिभिः स्वयमेव राजन्त इति व्युत्पत्तेः । तद्धर्मत्वादुदात्तादयोऽपि स्वरा इत्युच्यन्ते । कपाभ्यामिति- खफयोरप्युपलक्षणम् । अं अः इत्युपलक्षणमिकारादेरपि। तदाह — अचः पराविति ।\nऋऌवर्णयोरिति । आ च ऌवर्णश्चेति विग्रहः, <<ऋत्यक>> [[6.1.128]] इति प्रकृतिभावः । एतदर्थमेव वर्णोपदेशे ऌकारपाठः, अन्यथा तस्यासत्त्वशङ्कयाऽस्य वचनस्यैवाशक्यत्वं स्यात् । ध्वनितञ्चेदम् <<एओङ्>> इति सूत्रशेषे भाष्ये । तत्र हि सँय्यन्ता इत्यादौ <<हलोऽनन्तरा>> [[1.1.7]] इति सूत्रे- प्रत्याहारघटकेष्वपि ग्रहणकशास्त्रप्रवृत्त्या मात्राकालिकस्य यद्वयादेरणुदित्सूत्रेण यादिग्रहणेन ग्रहणाद्विव्यञ्जनाश्रयो विधिर्न प्राप्नोति इत्याशङ्क्य मात्रिकव्यञ्जनानुपदेशादनुपदिष्टस्यासत्त्वादसत्प्रतिपत्तेरशक्यत्वान्नाणुदित्सूत्रेण तद्ग्रहणमित्युक्तम् ।\nन च कॢ3प्तशिखेत्यादावनृत इति निषेधात् प्लुतानापत्तिः, ऋलृवर्णयोः पृथगनुबन्धत्वकरणेन क्वचित्परस्पराग्राहकत्वकल्पनेनादोषात् ।\nअकारहकारयोरिति । एकारस्य तालव्यत्वमोकारस्यौष्ठ्यत्वमिति मते एकारशकारादीनामप्युपलक्षणमिदम् । एतेन <<नाज्झलौ>> [[1.1.10]] इत्येव सूत्रयितुमुचितमित्यपास्तम् । <<हशि च>> [[6.1.114]] इत्येव सिद्धे <<अतोरोर>> [[6.1.113]] इत्याकारे व्यावृत्त्यर्थम् । ",
"11010" : "सूत्रे द्विवचनोपपत्तये मध्यमपदलोपिसमासं दर्शयति-आकारसहित इति । अत एव 'वेलास्वि'ति निर्देश उपपद्यते । समाहारद्वन्द्वे तु टच्प्रसङ्गः, अज्झलिति समाहारद्वन्द्वं कृत्वा आपदेन द्वन्द्वे तु अज्भिरप्याकारस्य सावर्ण्यं न स्यादिति भावः । अत एव भाष्ये प्रयत्नभेदेनैषां सावर्ण्याभावः साधितः । एतेषु परेष्विति । इदमुपलक्षणम्- 'एतेषु विद्यमानस्ये'त्यपि बोद्ध्यम्, तेन हकारादीनामकारादिषु परतो दीर्घादिसङ्ग्रहः । अच्त्वं स्यादिति । अच्पदबोद्ध्यत्वं स्यादित्यर्थः । इदं प्रत्याहारघटकेष्वपि ग्राहकशास्त्रप्रवृत्तिः इति मते व्यक्तिपक्षे च बोध्यम् ।",
"11069" : "<<अणुदित्सवर्णस्य चाप्रत्ययः>> । अणमुद्दिश्य सवर्णबोधकताऽत्र विधीयते। सवर्णस्येत्यस्य बोधक इति शेषः । आदेशादौ सवर्णग्रहणवारणायाह-प्रतीयते इति ।\nपरे तु— प्रत्ययग्रहणमेकदेशानुमत्या <<भाव्यमानेन सवर्णानां ग्रहणं न>> इति परिभाषां ज्ञापयतीति युक्तम् । प्रत्ययपदस्य तदर्थत्वन्तु न युक्तं - वार्तिककृता टित्किन्मित्सूपसङ्ख्यानोक्तेः । भाष्यकृता च अप्रत्ययग्रहणमेतत्परिभाषाज्ञापकमित्युक्तम् । ज्यादादीयसः [[6.4.160]] इति सूत्रे भाष्ये ध्वनितमिदम् । तत्र हि किमर्थमादित्युच्यते? ज्याद इत्येवोच्यतां, का रूपसिद्धि ? आन्तर्यतो दीर्घस्य दीर्घो भविष्यति, एवन्तर्हीदमेव ज्ञापयति भवत्येषा परिभाषा - <<भाव्यमानेन>> इत्यादि । त्वदुक्तव्याख्याने हि पूर्वपक्षसिद्धान्तयोरुभयोरपि निर्दलत्वापत्तिः । जातिपक्षेऽप्यनयैव परिभाषया सवर्णग्रहणं वारणीयं, व्यक्तिपक्षे गुणा भेदकत्वप्राप्तञ्च वारणीयम् तेन घटवादित्यादौ नानुनासिको वकारः। एतेन अजुदिदित्येव सिद्धेऽण्ग्रहणेन यण्सु गुणभेदकत्वं ज्ञाप्यते' इति परास्तम् — इत्याहुः \nननु <<चोः>> [[8.2.30]] इत्यादावनुवादे कथमुदित्त्वमिति चेन्न, व्याकरणान्तरे एषामुदित्सञ्जकत्वेनादोषात् । उपदेशशब्दस्य करणसाधनत्वेन शास्त्रपरत्वे तस्यापि शास्त्रत्वेनेत्त्वप्रवृत्तेः सुलभत्वाच्च । चो भिन्नक्रम इत्याह- उदिच्चेति । यद्यपि समुदाय-सवर्णिनोऽप्रसिद्धास्तथापि तदवयव-चादिसवर्णा एवात्र तत्सवर्णा बोद्ध्याः । ह्रस्वाकारादेरपि काल-पुरुषाद्यपाधिभेदेन स्थानेषु भेदमारोप्य तुल्यस्थानत्वं सूपपादम्।\nअत्रेति । ग्राहकसूत्र एवेत्यर्थः । व्याख्यानादिति भावः । <<उपसर्गादृति>> [[6.1.91]] इत्यादितपरकरणादिति तु न युक्तम्, ऌकारग्रहणेन चारितार्थ्यात् । एवमिणपि-परेणैव, <<अचि श्नु>> [[6.4.77]] इति सूत्रे- इण इत्येव सिद्धे य्वोः इति गुरुनिर्देशाद्व्याख्यानाच्चेति लण्सूत्रे भाष्ये स्पष्टम् । नन्वेवम् - <<अस्य च्वौ>> [[7.4.32]] इत्यादौ सवर्णग्रहणं न प्राप्नोति, अण्ग्रहणेन वर्णसमाम्नायस्थानामेव ग्रहणेन- णकारादिचिह्नेन प्रत्याहारे तत्प्रत्यभिज्ञानेन तत्रत्याद्यवर्णोपस्थितेषु- उच्चारिताभेदेन गृहीतेषु सूत्रस्य चारितार्थ्येन, व्यक्तिपक्षे तत्रत्यात्रत्यव्यक्त्योर्भेदेन, प्रकृते प्रत्याहारघटकद्वितीयवर्णादौ चोच्चारितस्यैव ग्राहकत्वादप्रवृत्तेरिति चेन्न, जातिपक्षाश्रयणेनादोषात् । अत एवानेकतकारादीनां झल्त्वादिसिद्धिः ।\nसूत्रेऽग्रहणं च न कार्यम् । इत्यनेन समानजातित्वस्यैवातिदेशेन <<उपसर्गादृति>> [[6.1.91]] इत्यादौ न दोषः, एतद्व्यतिरिक्तसवर्णे समानजातित्वसत्त्वात् । पृथगनुबन्धकरणाच्च न ऋदिलॢदित्प्रयुक्तकार्यसङ्करः । अत्र पक्षे <<अइउण्>> सूत्रशेषोक्तभाष्यरीत्या तपरसूत्रस्य जातिग्रहणप्राप्तसवर्णग्रहणनियामकत्ववदप्रत्यय इत्यस्य योगविभागेन- तत्प्राप्तसवर्णग्रहणनिषेधकत्वात्- <<त्यदादीनामः>> [[7.2.102]] इत्यादौ विधेये न दोषः । एवं गुणाभेदकत्वप्राप्तसवर्णग्रहणनिषेधकत्वमप्यस्य योद्ध्यम् । अत एव 'घटवदि'त्यादौ मतोर्मस्य नानुनासिको वकारः ।\nसामर्थ्यादिति । <<एचोऽयवायावः>> [[6.1.78]] इत्यादौ स्थानेऽन्तरतमसूत्रेणैव ([[1.1.50]]) निर्वाह इति वक्ष्यते। <<न य्वाभ्याम्>> [[7.3.3]] इत्यत्र ऐऔ स्वरूपेण पाठ्यौ, <<वृद्धिरादैच्>> [[1.1.1]] इत्यत्राप्येङित्येव पाठ्यं, तत्र गुणसूत्रे च परस्परसवर्णसञ्ज्ञावादिमते चतुर्णां ग्रहणसत्त्वात् । अत्रैतत्सूत्रवैयर्थ्योपन्यासेन तन्मूलकस्य गुणवृद्धिसञ्ज्ञाविधौ प्रत्याहारद्वयग्रहणवैयर्थ्यस्य, <<प्लुतावैच>> [[8.2.106]], <<एचोऽप्रगृह्यस्ये>> [[8.2.107]] इत्यत्र तद्ग्रहणवैयर्थ्यस्य च सङ्ग्रहो बोध्यः । प्रयत्नभेदेनाप्यसावर्ण्यमेतयोः प्रागुक्तं न विस्मर्त्तव्यम् ।\nयद्यपीति । इदं व्यक्तिपक्षे- वर्णानामुपदेशस्तावदुपदेशोत्तरकाले सञ्ज्ञा, तदुत्तरकालमादिरन्त्येनेति प्रत्याहारस्तदुत्तरकाला सवर्णसञ्ज्ञा, तदुत्तरकालमणुदिदिति एतेन सर्वेण समुदितेन वाक्येनान्यत्र सवर्णानाङ्ग्रहणं भवति, न चात्रेकार: शकारं गृह्णाति इति <<नाज्झलौ>> [[1.1.100]] इति सूत्रभाष्योक्तवाक्यापरिसमाप्तिन्यायादित्यर्थः । अयं भाव:- <<आदिरन्त्येन>> [[1.1.71]] इति प्रत्याहारसिद्धौ <<नाज्झलौ>> [[1.1.10]] इत्येतद्वाक्यार्थबोधे सति निर्णीतैतद्विषयपरिहारेण सवर्णसञ्ज्ञाबोध्यनिश्चये अणुदित्सूत्रेण [[1.1.69]] तावतां ग्रहणं बोधनीयम् । अन्यथा बाधकसम्भावनया तुल्यास्यसूत्रजशक्तिग्रहेऽप्रामाण्यसन्देहे नाणुदिच्छास्त्रजबोधानापत्ति: - न चैतद्वाक्यार्थयोधात्प्राक् तन्निश्चय - इति ।\n<<हो ढ>> [[8.2.31]] इति । हकारेणाऽऽकारग्रहणे सति यद्यप्राप्नोति तस्य सर्वस्याप्युपलक्षणमिदम् । ननु यण्सवर्णिनामप्रसिद्धेरज्यहणेनैव सिद्धेऽण्ग्रहणं व्यर्थमत आह- यवला इति । ञमोऽनुनासिका न ह्रौ (पा.शि. 39) इति शिक्षोक्तेर्यण इति नोक्तम् । तेन सँय्यन्तेत्यादौ परसवर्णनिष्पन्नानुनासिकयवलानाम् <<अनचि च>> [[8.4.47]] ईति द्वित्वं सिद्ध्यति। <<हलो यमाम्>> [[8.4.64]] इति लोपस्तु वैकल्पिकः । अत्रेदं बोद्ध्यम्- व्यक्तिः पदार्थों गुणा भेदका इत्यभिमानेनात्र सूत्रेऽण्ग्रहणमिति ।",
"11070" : "<<अतो भिस>> [[7.1.9]] इत्यादौ तपरकरणात् <<सहिवहो>>[[6.3.112]] इति सूत्रस्थवर्णग्रहणाद्व्याख्यानाच्च तपरपदे बहुव्रीहिपञ्चमीतत्पुरुषावित्याह - तः पर इत्यादिना। वर्णग्रहणे तु तत्सामर्थ्यादत्वावच्छिन्नसर्ववर्णग्रहणयोधनेन तपरसूत्राप्रवृत्तिः । आद्योदाहरणम्- <<अतो भिस>> [[7.1.9]] इति, अन्त्योदाहरणं- <<वृद्धिरादैच्>> [[1.1.1]] इति । यद्यप्यत्र सञ्ज्ञा तात्परा, न च तत्समकालस्तत्सवर्णो वा प्रसिद्धस्तथापि तपरकरणाद्भाष्यप्रामाण्याच्च तात्परशब्दबोद्ध्यो वर्णः स्वसमकालग्राहक इत्यर्थेनाऽदोषः । इदञ्च विद्ध्यर्थमेव, अण्ग्रहणाननुवृत्तेः गुणानां भेदकतयाऽनणि विधित्वेऽपि <<वृद्धिरादैच्>> [[1.1.1]] इत्यादावाकारांशे सावकाशेनानेन <<अतो भिस>> [[7.1.9]] इत्यादौ परत्वेन <<अणुदित्>> [[1.1.69]] सूत्रबाध: । सङ्ख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्टतयेह विरोधस्य सत्त्वात् । गुणानामभेदकत्वे त्वनवकाशत्वाद्बाध इति बोद्ध्यम् । अत्रावध्यवधिमतोः साजात्येन वर्णस्यैव सञ्ज्ञात्वेऽपि विशिष्टाद्विभक्त्युत्पत्तिः सौत्रत्वाद्बोध्या। तत्कालस्येत्यस्य तदुच्चारणकालसमकालस्येत्यर्थस्तदाह - समकालस्यैवेति । एवकारो न्यायसिद्ध बाध्यबाधकभावस्यानुवादक इति भावः । जातिपक्षे तु नियमार्थमेव सवर्णग्रहणानुवृत्तेः एवं गुणानामभेदकत्वमिति- <<वृद्धिरादैच्>> [[1.1.1]] इति सूत्रभाष्यसम्मत सिद्धान्तपक्षेऽपि नियमार्थमेव ।\nइदम् <<आद्गुणः>> [[6.1.87]] इत्यादौ विभक्तितकारे न प्रवर्तते, <<उपसर्गादृति>> [[6.1.91]] इति तपरकरणात् । <<ॠदोरप्>> [[3.3.57]] इत्यादौ दकार एवेति न दोषः । स च पञ्चमीसमासाभावे तकार इवोच्चारणार्थो, मुखसुखार्थो वा । तपरसूत्रे दकारप्रश्लेषपक्षे तु धकारादिस्थानिको दकारो बोध्यः ।",
"11001" : "<<वृद्धिरादैच्>> । वृद्धिः, आत्, ऐजिति पदत्रयमिति- न समासान्तादिप्रवृत्तिशङ्का । तपरकरणमसन्देहार्थतया पूर्वार्थम्, प्रकृतसूत्रे भाष्येऽत्र शास्त्रे गुणानामभेदकत्वं ज्ञापकादाश्रित्य सवर्णग्रहणार्थत्वाभावस्योक्तत्वात् । कृष्णौत्कण्ठ्यं, गङ्गौघ इत्यादौ त्रिमात्रव्यावृत्तये परार्थमपि वृद्धिशब्दोऽत्र पदपरोऽर्थपरत्वासम्भवात् । आदैचो वृद्धिपदाऽभिन्ना इति वाक्यार्थः, पदपदार्थयोस्तादात्म्यस्याङ्गीकारात् रामेति द्व्यक्षरं नाम मानभङ्ग पिनाकिनः इत्यादौ तयोरभेदप्रतीतेरनुभव सिद्धत्वादित्यन्यत्र विस्तरः ।\nवृद्धिशब्दस्य सञ्ज्ञात्वन्तु व्याख्यानात् । विधेयत्वेऽपि तस्य पूर्वपाठो मङ्गलार्थः । <<अपृक्त एकाल्>> [[1.2.41]] इत्यादौ तथा करणं विधेयस्य प्रथमं प्रयोगेऽसाधुत्वभ्रमनिवारणायेति भाष्ये स्पष्टम् । सर्वशब्दानां सर्वार्थवाचकत्वेऽपि वाचकत्वस्य गृहीतस्यैव बोधजनकतया सञ्ज्ञासूत्राणामज्ञातशक्तिज्ञापकतया विधित्वम्। किञ्च सर्वे सर्वार्थाः इत्यभ्युपगमो योगिदृष्ट्या नास्मदृष्ट्या, सर्वशब्दानामर्थानाञ्च विशिष्य ज्ञानाभावात् सामान्यतस्तथा ज्ञानञ्च न बोधोपयोगि शास्त्रन्त्वस्मदाद्देशेनैव प्रवृत्तमिति योद्ध्यम् तत्रैव सङ्केत ग्राहकशास्त्रकरणं स्वेच्छयैवेत्येषां 'यदृच्छा' शब्दत्वेन व्यवहारः, 'स्वेच्छया सञ्ज्ञाः क्रियन्त' इति च । एतदुपदेशरूपसङ्केतात्प्राक् तत्र सञ्ज्ञात्वाग्रहेण तासामनित्यत्वव्यवहारः ।\nअत एव तत्तत्सञ्ज्ञाकरणज्ञानरूपप्रकरणादन्यार्थाग्रहणरूपनियमः कृत्रिमा कृत्रिम न्यायमूलतयोक्तः सङ्ख्यासूत्रे भाष्ये। आर्थिकमेवामुं नियममादाय सञ्ज्ञासूत्रेषु नियमत्वव्यवहारो- व्यवहाराय नियमः क्वचिदित्यादिना कृतः । सञ्ज्ञाया: सञ्ज्ञिनि वाचकताबोधकत्वेऽपि तदनुत्पादकत्वान्न शब्दार्थ सम्बन्धनित्यताहानिः । आसाञ्च शिष्टप्रयुक्तत्वात्साधुत्वमित्यन्यत्र विस्तरः ।\nकार्यकालपक्षे <<मृजेर्वृद्धि>> [[7.2.114]] इत्यादौ वृद्धिपदार्थजिज्ञासायां <<वृद्धिरादैच्>> [[1.1.1]] इत्युपस्थित्या तदर्थबोधरूपे शक्तिग्रहे वृत्ते विधिवाक्यार्थबोधः । अत एव <<ष्यङ: सम्प्रसारणम्>> [[6.1.13]] इति सूत्रे भाष्ये- <<कार्यकालं सञ्ज्ञापरिभाषम्>>, भस्येत्युपस्थितमिदं भवति- <<यचि भम्>> [[1.4.18]] इति इत्युक्तम् । <<ईदूदेद्>> [[1.1.11]] इति सूत्रे भाष्येऽपि- <<कार्यकालं सञ्ज्ञापरिभाषम्>>, प्रगृह्य: प्रकृत्येत्युपस्थितमिदं भवति <<ईदूदेद् द्विवचनं प्रगृह्यम्>> [[1.1.11]] इति। <<निष्ठा>> [[3.2.102]] इति सूत्रे कैयटोऽपि- निष्ठेत्युक्ते सञ्ज्ञावाक्यं - <<क्तक्तवतू निष्ठा>> [[1.1.26]] इति स्मर्यते इत्याह । अत्र पक्षे एकत्र शक्तिग्रहे वृत्तेऽपि तत्प्रदेशस्थस्यैव तत्रार्थे शक्तिरिति सम्भावनया प्रदेशान्तरस्थे बोधो न स्यादिति सर्वप्रदेशेषु तत्तत्पदशक्तिग्रहपूर्वकं विधिवाक्यार्थबोधः। यथोद्देशे तु एकदैव शक्तिग्रहात्सर्वत्र बोध इति विशेषः। एतेन- कार्यकालपक्षे तपरत्वं स्पष्टार्थमेव, आदैच्पदार्थस्य विधेयत्वेन सवर्णग्रहणाप्रसक्तेः । यत्र वृद्धिपदं तत्रादैजित्युपतिष्ठते इति क्रमेण सञ्ज्ञासूत्राणामर्थात् इत्यपास्तमित्यन्यत्र विस्तरः । अत्रातद्भावितानामपि आदैचां ग्रहणं, तेन शालीयादिसिद्धिः ।",
"13001" : "<<भूवादयो धातवः>> । क्रियावाचिनः किम् ? विकल्पार्थकवाशब्दस्य निपातस्य धातुत्वेऽप्रातिपदिकत्वात्सुबभावे पदत्वानापत्तेः तदुक्तौ तु न दोषः। वार्थस्य विकल्पस्य भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावात् । अस्त्याद्यर्थस्यापि तत्त्वं भूतभविष्यत्कालसम्बन्धात् । भ्वादयः किम् ? 'आणवयति' 'वट्टयती'त्यादीनां धातुत्वे शास्त्रविषयतया साधुत्वापत्तेः । सूत्रशेषे भाष्ये स्फुटमेतत् । स्तम्भ्वादीनामुदित्त्वेन धात्वधिकारविहितकार्योद्देश्यत्वादिना स्थितपाठभ्रंशानुमानान्न तेषु दोषः ।",
"14056" : "<<प्राग्रीश्वरान्निपाताः>> । <<अधिरीश्वरे>> [[1.4.97]] इत्यभिव्याप्य प्राङ्निपाता इत्यधिकारः । प्राङ्निपाता: सन्तो गत्यादिसञ्ज्ञका इत्यर्थः । तेन ताभिः समावेशः, <<अधिरीश्वरे>> [[1.4.97]], <<विभाषा कृञि>> [[1.4.98]] इत्यत्र निपातपदसम्बन्धश्च सिद्धः । एषां द्योतकत्वं वाचकत्वञ्च यथाकार्यं, यथाप्रयोगं बोद्ध्यमित्यन्यत्र विस्तरः ।",
"14057" : "असत्त्वे इति पर्युदासो लाघवादित्याह अद्रव्य इति । विशेष्यतया द्रव्यभिन्नार्था इत्यर्थः । तेन क्रियाविशिष्टद्रव्यवाचिनां विप्रादिघटकप्रादीनां न । चादयः किम् ? स्वरादिपठितानामसत्त्ववृत्तित्वे आद्युदात्तत्वं मा भूदिति ।",
"14059" : "<<उपसर्गाः क्रियायोगे>> । योगग्रहणं- यदर्थे प्रादीनामन्वयस्तं प्रत्येवोपसर्गत्वादि इत्यर्थबोधनाय । तेन 'विगता: सेचका अस्माद्विसेचको ग्रामः' इत्यादी षत्वं न ।",
"14060" : "गतिश्चेति । 'च' उपसर्गसञ्ज्ञासमावेशार्थः । तेन 'प्रतिप्रणीतमि'त्यादौ गतित्वात् <<गतिरनन्तरः>> [[6.2.49]] इति स्वरः, उपसर्गत्वाण्णत्वञ्च सिद्ध्यति ।\n प्रादयः इति योगविभागस्तु क्रियायोगाभावेऽपि निपातत्वाय । एतत्सिद्धमेवोपसर्गप्रतिरूपकस्य निपातत्वमुक्तं चाद्यन्तर्गणसूत्रेणेति दिक् ।\n'प्रपरे'त्यादावनुकार्यानुकरणयोरभेदविवक्षया सुबनुत्पत्ति: । निस्दुसिति । अत्रेदं बोद्ध्यम्- सान्तग्रहणे रान्तस्याग्रहणमेव, यत्र तु रुत्वमसिद्धं तत्र रान्तग्रहणेऽपि न सान्तग्रहणं, तद्दृष्ट्या रुत्वस्यासिद्धत्वात् । \nयत्र तु रुत्वस्य सिद्धत्वं, यथा- षत्वणत्वयोः - तद्विषयोपसर्गत्वप्रतिषेधपरे- इति वार्तिके कृतरेफसान्तस्यापि ग्रहणम् । षत्वणत्वयोरित्यस्य तद्विधायकशास्त्रयोरित्यर्थात् । अत एव सुषामादिषु दुःष्ठुशब्दपाठ: सार्थकः, स 'अपदुःसुषुस्थ: कुः' इति दुस्-पूर्वकस्थाधातोः कुप्रत्यये साधुः । अन्यथा दुस्पूर्वकात्कुप्रत्यये <<उपसर्गाद्>> [[8.4.14]] इत्येव षत्वे सिद्धे तद्वैयर्थ्यं स्पष्टमेव । न चास्य रूढत्वेनावयवार्थाभावादुपसर्गत्वाभावः, अत्यन्तरूढेषु प्रतिष्ठानिष्ठादिषु षत्वानापत्तेः । अर्थवत्त्वारोपेण चेत्- प्रकृतेऽपि । दुस: पाठस्तु 'दुरयते' इत्यादौ रुत्वासिद्ध्या लत्वाभावार्थ इति दिक् ।",
"11044" : "<<न वेति विभाषा>> । इतिर्लोकिऽर्थपदार्थकस्य शब्दपदार्थकत्वकृत्। यथा 'गवित्ययमाहे'त्यादावनुकरणे। इह तु <<स्वं रूपम्>> [[1.1.68]] इति परिभाषणाच्छव्दपदार्थकस्यार्थपदार्थकत्वकृत् । क्वचिदितेर्न पदार्थविपर्यासकत्वं यथाऽनुवादवाक्ये । स च नवाशब्दाभ्यां प्रत्येकं सम्बध्यते, व्याख्यानात् । तेन नवाशब्दयोरर्थौ सञ्ज्ञिनौ । <<स्वं रूपम्>> [[1.1.68]] इत्यस्य प्रत्याख्याने त्वितिशब्दो व्यर्थ एव, अर्थे कार्यस्याबाधात् । तयोरेव सञ्ज्ञित्वे तु <<विभाषा श्वे:>> [[6.1.30]] इत्यादौ नवाशब्दावादेशौ स्याताम्। प्राप्तविभाषासु नास्योपयोगः, तासां पक्षे निवृत्तिमात्रफलकत्वात् । अप्राप्तविभाषास्वपि न, तासां पक्षे विधिमात्रार्थत्वात्। अप्राप्तत्वेन निषेधासम्भवाच्च, तस्मादुभयत्र विभाषार्थमिदम् । <<विभाषा श्वे:>> [[6.1.30]] इत्यादौ एतदभावे यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव विकल्पः स्यात्, कित्सु तु नित्यमेव सम्प्रसारणं स्यात् । निषेधमुखेन प्रवृत्तौ कित्स्वेव प्रवर्तेत न पित्सु । उभयथा प्रवृत्तिस्तु- वैरूप्याद्वाक्यभेदापत्तेश्चाशक्या। सञ्ज्ञाकरणे तु श्रुतक्रमानुरोधात्पूर्वं कित्सु निषेधस्ततः किदकिद्रूपे सर्वस्मिन् लिटि ऐकरूप्यं प्रापिते सति 'पक्षे भवती'त्येकरूपेण विधिमुखेनैव विकल्पः ।\nभाष्यकृतस्तु- एवं हि <<हृक्रोरन्यतरस्याम्>> [[1.4.53]] इत्यादावनुपपत्तिर्विभाषापदाभावात् । इतिशब्दस्य विभाषेत्यत्रापि ([[1.1.44]]) सम्बन्याद्विभाषापदार्थः सञ्ज्ञा इति तु न युक्तम्, अर्थे सञ्ज्ञात्वस्यादृष्टत्वात् । अर्थाक्षिप्तशब्दमात्रं सञ्ज्ञेत्यपि न युक्तम्, एकस्यार्थस्य - समानफलकानेकसञ्ज्ञाकरणस्य अनाकृतिः सञ्ज्ञा इति वृद्धिसञ्ज्ञासूत्रस्थभाष्येण तिरस्कारात्। तस्मात्तत्र लक्ष्यानुसारेणैवोभयमुखेन प्रवृत्तिर्वाच्येति- विभाषापदघटितेऽपि तथैवास्तु, किं सूत्रेणेति- जातिव्यक्तिपक्षयोरुभयोरपि सूत्रं प्रत्याचख्युः ।",
"11068" : "स्वं रूपं स्वरूपमित्यस्य बोद्ध्यमिति शेषो व्याख्यानात्तदाह सञ्ज्ञीति । राज्ञो यत् ([[4.1.137]]) इत्यादौ लौकिकव्युत्पत्त्योपस्थितार्थस्य प्रत्ययेन पौवपर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासम्भवाच्च तदर्थकशब्दमात्रग्रहणापत्तौ नियमार्थं सूत्रम् । \nतत्र स्वशब्द आत्मीयत्वेनार्थमाह - रूपशब्देन शब्दस्वरूपम्, एतदुभयं सञ्ज्ञीत्यर्थः । तत्रार्थो न विशेष्यः, उक्तयुक्तेः, किन्तु शब्दविशेषणम् । एवञ्च — अर्थविशिष्टः शब्दः सञ्ज्ञी इत्यर्थवद्ग्रहणपरिभाषा सिद्धा । अत्र चार्थः — कल्पितान्वयव्यतिरेककल्पितः, प्रकृतिप्रत्ययादिबोध्यः शास्त्रीयोऽपि । स च मुख्यः प्रसिद्धश्चेति — गौणमुख्यन्यायः, अभिव्यक्तपदार्था ये इति न्यायश्च सिद्धः। अत एवेयं विशिष्टरूपोपादान एव, इदं सूत्रञ्च । तत्रैवार्थोपस्थितेस्तत्रैवानियमप्रसक्तेश्च, न तु वर्णग्रहणे इत्याकरे स्पष्टम् । <<दाधाघु>> [[1.1.20]] इत्यस्य <<ई हल्यघो:>> [[6.4.113]] इत्यादौ चारितार्थ्येन <<उपसर्गे घोः>> [[3.3.92]] इत्यादौ स्वरूपमित्यनेन परत्वाद्बाधशङ्कावारणार्थम् — अशब्दसञ्ज्ञेति । नात्र षष्ठीतत्पुरुषः, कर्मसञ्ज्ञादेरर्थसञ्ज्ञात्वेन निषेधाप्रवृत्तौ <<कर्मण्यण्>> [[3.2.1]] इत्यादौ स्वरूपग्रहणापत्तेः, किन्तु सप्तमीतत्पुरुषः । शब्दपदेन च शब्दशास्त्रं तदाह शब्दशास्त्रे इति ।\nभाष्ये तु अर्थे कार्यस्य बाधेऽप्युपस्थितत्वात् 'राज्ञ' इत्यादौ तज्जन्यबोधे प्रकारतया भासमानस्य राजन्-शब्दस्यैव ग्रहणं भविष्यतीति व्यर्थं सूत्रम् । उपस्थितार्थत्यागे मानाभावेन तस्य विशेषणतयाऽन्वयसम्भवेन चार्थवत्परिभाषापि सिद्धा । लक्ष्यानुसारात् तत्तत्संज्ञाकरणज्ञानरूपप्रकरणाच्च षान्तसंख्यावाचकषष्शब्दस्य षट्सञ्ज्ञाकरणेन शब्दशास्त्रीयसञ्ज्ञायां स्वरूपाग्रहणज्ञापनाच्च <<उपसर्गे घोः>> [[3.3.92]] इत्यादावदोषेणाशब्दसञ्ज्ञेत्यपि व्यर्थमित्युक्तम् । अत एव जनपदापत्यपशुदेवतादिशब्देषु न दोषः । अत एव वृक्षादिषु विशेषाणां ग्रहणं <<स्वे पुष>> [[3.4.40]] इत्यत्र पर्यायाणां विशेषाणां स्वरूपस्य च ग्रहणम्, <<सभाराजा>> [[2.4.23]]) इत्यत्र पर्यायाणामेव ग्रहणम्, <<पक्षिमत्स्यमृगान्हन्ति>> [[4.4.35]] इत्यादौ मृगपक्षिणोः पर्यायाणां विशेषाणां स्वरूपस्य च ग्रहणम्, मत्स्यपदेन स्वरूपस्य विशेषाणां मीनरूपपर्यायस्य च ग्रहणं सिद्ध्यति । अन्यथा तदर्थं यत्नः कर्त्तव्यः । <<परेश्च घाङ्कयोः>> [[8.2.22]] इत्यत्र घशब्देन स्वरूपग्रहणं <<नदीपौर्णमासि>> [[5.4.110]] इत्यत्र नदीपदेन च स्वरूपग्रहणं सिद्ध्यति । लक्ष्यानुसारिव्याख्यानेन च मम सर्वेष्टसिद्धिः । ज्ञापकपक्षेऽपि ज्ञापकसिद्धस्यासार्वत्रिकत्वान्न दोषः । अत एव भगवता ज्ञापकेन सिद्धं वचनं प्रत्याख्यातमिति दिक् ।",
"11072" : "<<येन विधिस्तदन्तस्य>> । येनेति करणे तृतीया विधिरिति भावे किः । कर्मात्र विधेयम्, कर्त्ता चाचार्य: प्रसिद्धत्वाल्लभ्यत एव । यत्तु करणं कर्त्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणमिति लब्धमिति, तन्न । सुब्विभक्तौ न लक्षणेत्यस्य सर्वसम्मतत्वात् । किं बहुना, येषां प्रत्ययानामन्येषां वा शब्दानामर्थे विधानं कृतं शास्त्रेण तेषामन्यत्रार्थे तदर्थे चान्येषां लक्षणयाऽपि साधुत्वाभावस्य <<प्रत्ययः>> [[3.1.1]] <<पुंयोगात्>> [[4.1.48]] इत्यादिभाष्यतो लाभात् । करणस्य व्यापारवत्त्वनियमादन्येषाञ्च व्यापाराभावाद्विशेषणमेवात्र करण तृतीयान्तेनोच्यते । तस्य चेतरव्यावृत्तिकरणमेव व्यापारः; तदुक्तं भाष्ये— येनेति करणे एषा तृतीयाऽन्येन चान्यस्य विधिर्भवति । यथा चैत्रस्य सङ्ग्रामं हस्त्यश्वादिभिर्विधत्ते । एवम् <<अचो यत्>> [[3.1.97]] इति अचा धातोर्यतं विधत्ते इति । अन्येन चान्यस्येत्यनेन यस्य कार्यं यस्मिन् परतश्च तयोरकरणत्वं दर्शितम् । अन्यस्येत्यन्यस्मिन्नित्य स्याप्युपलक्षणम् । तत्र शब्दोपस्थितविशेष्यस्य तादृशं विशेषणमेव तदन्तग्राहकम् । क्वचित्सति गमकेऽतादृशं शब्दरूपं विशेष्यमादायापि तदन्तविधिः । तच्चान्तरङ्गत्वात्समानाधिकरणमेव । तत्र तदन्तविधौ सति तथा विशेषणत्वयोग्यताऽप्येतत्प्रवृत्तौ निमित्तम् । अत एव <<इन्हन्>> [[6.4.12]] इत्यादौ इनंशे तदन्तविधिः । न हि 'इनङ्ग'मित्यन्वयो भवति । तदन्तस्येत्यस्य तदन्तशब्दस्येत्यर्थः । नन्वेवम् <<एरच्>> [[3.6.56]] इति 'अय' इत्यत्र न स्यादत आह— स्वस्य चेति । स्वमित्यनुवृत्तं षष्ठ्या विपरिणम्यत इति भावः । स्वं रूपमित्यस्य प्रत्याख्याने तु तस्य तदन्तस्य तु चेति पाठ्यमिति बोद्ध्यम् ।\n समासप्रेति । विशेषणविशेष्यभावव्यत्यासे तात्पर्यग्राहकमिदम् । एवञ्च <<द्वितीया श्रित>> [[2.1.24]] इत्यादौ श्रितादयोऽधिकारप्राप्तसमर्थैरित्यस्य विशेष्य भूता इति न तदन्तविधिः | तस्य तत्प्रकृतिके लक्षणया सुपेत्यनेनान्वयः । तेन कृष्णं परमश्रित इत्यत्र न समासः । <<नडादिभ्यः फक्>> [[4.1.99]] इत्यादावपि नडादि विशेष्यं, प्रातिपदिकं विशेषणमिति सौत्रनाडिरित्यत्र न फक् ।\nउगिदिति । तेन 'अतिभवती' इत्यत्रोगितश्चेति ङीप्, दाक्षिरित्यत्र <<अत इञ्>> [[4.1.95]] च सिद्धः । एवञ्चोक्तनिषेधः प्रत्ययांशे गृह्यमाणप्रातिपदिक विषये, प्रत्ययविधिविषयेण <<गृह्यमाणप्रातिपदिकेन तदन्तविधिर्नास्ति>> इत्यनेनैक वाक्यत्वलाभात् । <<उगिद्वर्ण>> इति त्वेकदेशानुवाद इति बोध्यम् । अत एव <<वनो र च>> [[4.1.7]] इत्यादौ <<प्रत्ययग्रहणे तदन्तग्रहणम्>> इत्यस्य नायं निषेध इति दिक् ।",
"14110" : "<<विरामोऽवसानम्>> ।शब्दानुशासनप्रस्तावादाह वर्णानामिति । उच्चारणाभाव इत्यर्थः । स च व्याख्यानात्किञ्चिद्वर्णोच्चारणानन्तरकालिक एव गृह्यते । प्रदेशाः <<वावसाने>> [[8.4.56]] । अभावस्यापि बुद्धिकृतं पौर्वापर्यं वर्णवत् । ",
"14109" : "परशब्दो नान्यार्थोऽन्यत्वस्याव्यभिचरितत्वादत आह — अतिशयित इति । स्व भावसिद्धार्धमात्रातिरिक्तकालव्यवायेन रहितः । तेन तद्व्यवायेन वाक्योच्चारणे सञ्ज्ञा न । सन्निकर्षश्च प्रायः परेण, क्वचित्पूर्वेणापि । अत एवावसानकार्याणां संहिताधिकारे पाठः । न चावसानसञ्ज्ञया परसत्त्वे सावकाशायाः संहितासञ्ज्ञाया: <<सत्यपि सम्भवे बाधनं भवति>> इति न्यायेन विषयभेदेऽपि बाध: स्यादिति तद सङ्गतिरेवेति वाच्यम् । तदधिकारे तेषां पाठेनाऽऽकडारसूत्रस्य स्वशास्त्रीयसंज्ञा मात्रविषयत्वकल्पनात् । एते तु न तथा, लोकेऽपि सत्त्वात् । तदुक्तं वार्त्तिककृता इति । न चावसानकार्येषु संहिताधिकारासम्बन्ध एवास्तु, अग्रे च मण्डूकप्लुतिरस्त्विति वाच्यम् । सत्यामुपपत्तौ मण्डूकानुवृत्तेरयुक्तत्वात् । ध्वनितञ्चेदं <<विसर्जनीयस्य सः>> [[8.3.34]] इति सूत्रे भाष्ये । सन्निकर्षः सामीप्यम् ।",
"14014" : "<<सुप्तिङन्तं पदम्>> । सुबिति सुपः पकारेण प्रत्याहारो व्याख्यानात् । यद्यपि <<प्रत्ययग्रहणे तदन्तग्रहणम्>> इत्युक्तेः शब्दरूपं विशेष्यमादाय तदन्तग्रहणं सिद्धम् । प्रत्ययेन स्वप्रकृत्यवयवकसमुदायस्याक्षेपात्तद्विशेषणत्वेन तदन्तविधिरिति न युक्तम् । 'इयान्' इत्यादौ तस्य तादृशसमुदायेन व्यभिचारेणाक्षेपासम्भवात् । आक्षिप्तस्य शाब्देऽनन्वयाच्च । तथापि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभाव ज्ञापनार्थमन्तग्रहणम् । तेन घसञ्ज्ञा तरप्तमपोरेव न तदन्तस्य । तेन गौरी ब्राह्मणितरा इत्यत्र न ह्रस्वः । एतन्निषेधसामर्थ्यादेव प्रदेशेष्वपि न तदन्तविधिः ।\nन च ज्ञापितेऽपि व्यर्थम्, पदप्रदेशे प्रत्ययग्रहणे तदन्तग्रहणेनैव सिद्धेरिति वाच्यम् । पदत्वस्य प्रकृतिसाधारणतया पदग्रहणे प्रत्ययग्रहणस्यैवाभावात् । यस्यात्प्रत्यय विधिरित्याद्यनुवृत्तेः पदसमुदायस्य न पदत्वम् । 'इयान्' इत्यादौ यस्मात्प्रत्ययविधिस्तदादितद्धितान्तत्वं व्यपदेशिवद्भावेन बोद्ध्यम् । तेनाशास्त्रीयस्याप्येकाच्त्वादेरतिदेशात् । विशिष्टनिष्ठव्यवहारनिमित्त कार्याणि असहायेऽपि कर्त्तव्यानीति तदर्थात् । अत एवेयन्मात्रमित्यादौ वत्त्वन्तात्स्वार्थे इति मात्रसिद्धिः । 'हरिषु' इत्यादौ सोऽस्तु नैवं पदत्वम् <<हलि सर्वेषाम्>> [[8.3.22]] इति निर्देशेन ससहाये तदप्रवृत्तेः । निजौ चत्वार एकाचः इति भाष्यन्त्वभ्युपेत्यवादेन । ध्वनितञ्चेदम् <<आदेच उपदेशे>> [[6.1.45]], <<तास्यनुदात्तेत्>> [[6.1.86]] इत्यादौ भाष्ये । तत्र हि — 'ढौकते' इत्यौकारस्य 'हत' इत्यादावकारस्यैजन्तोपदेशत्वमकारान्तोपदेशत्वं व्यपदेशिवद्भावेनाऽऽशङ्क्य <<अर्थवता व्यपदेशिवद्भाव>> इत्युक्तम् । यो वर्णोऽर्थवांस्तेन व्यपदेशिवद्भावः । वर्णस्यार्थवत्त्वञ्च 'इयाय' इत्यादावसहाये एव, न तु प्रकृते इति तदर्थः । एवञ्चैकस्मिन्नित्यस्यार्थवतेत्यनेनोक्त इति दिक् ।",
"11007" : "<<हलोऽनन्तरा: संयोगः>> । गर्गाः शतं दण्ड्यन्ताम् इत्यत्र समुदाये शतदण्डनवदत्र समुदायस्यैव संज्ञा, न प्रत्येकम् । अनन्तरा इत्युक्तेश्च । तस्य विशेषणताया एवौचित्यात् ।\nयत्तु संयुज्यन्ते वर्णा यत्र इत्यन्वर्थसञ्ज्ञाबलात् न प्रत्येकं संज्ञा इति तन्न । घटपटौ संयुज्यते यत्र इत्यादौ संयुज्यमानपदार्थातिरिक्त स्यैवान्यपदार्थतया प्रतीतेर्व्युत्पन्नत्वेन तदतिरिक्ततद्घटितपदवाक्यरूपसमुदायस्य संज्ञापत्तावनिष्टापत्तेः। महासंज्ञा तु प्राचामनुरोधादेव । तेन 'सुदृषद्धाति' इत्यत्र संयोगान्तलोपो नेत्यन्यत्र विस्तरः ।\n'हल' इति बहुवचनं सौत्रम् । यद्वा — हलौ च हलश्चेत्येकशेषः । <<स्वरितात् संहितायाम्>> [[1.2.39]] इति सूत्रे अनुदात्तानामिति पदे तथैकशेषस्य भाष्ये करणात् । तेन द्वयोरपीति 'शिक्षा' इत्यादौ <<गुरोश्च हल:>> [[3.3.103]] इत्यप्रत्ययः सिद्ध्यति । यत्रापि बहवः श्लिष्टास्तत्रापि द्वयोर्द्वयोरेव न बहूनाम्, झलि परे संयोगादिलोप विधानात् । बहूनामपीति चिन्त्यमेव फलाभावात् । तत्र तत्राङ्गपदधात्ववयवसंयोग स्यैवाश्रयणेन तादृशस्य च त्रयाणां संयोगस्याभावादिति भाष्ये स्पष्टम् । आनन्तर्यं व्यवधानाभावो व्यवधानञ्च विजातीयेनैवेत्याशयेनाह— अभिरिति । अत्र कुत्वं न्याय्यम् । अत एव हयवरट्सूत्रे 'अचोऽक्षु' इति भाष्यप्रयोगे कुत्वं दृश्यते । स्वरैरव्यवहिता इति तूचिता वृत्तिः । हलः किम् ? 'तितउदेव' । अत्र <<गुरो:>> [[8.2.86]] इति प्लुतः स्यात् । अनन्तराः किम्? द्रप्सम् । अत्र सकारमकारयोः संयोगत्वे <<स्को:>> [[8.2.29]] इति लोप: स्यात् ।",
"14011" : "<<संयोगे गुरु>>। भेत्ता इत्यादौ गुणस्तु क्नो: कित्त्वसामर्थ्येन भूतपूर्वलघूपधग्रहणाद् बोध्यः ।",
"14012" : "इति सञ्ज्ञेति । प्रथमाध्यायस्थानां सन्धिकार्योपयोगिनीनां सञ्ज्ञानां प्रकरणमिति समाप्तमित्यर्थः । तेनाऽऽम्रेडित - प्रगृह्य- भसञ्ज्ञा लोपसंज्ञाद्यनुपन्यासेऽपि न क्षति । <<अ अ>> [[8.4.68]] इत्याद्युपन्यासस्तु प्रासङ्गिकः ॥ इति लघुशब्देन्दुशेखरे संज्ञाप्रकरणम् ॥",
"11051": "उरण् । \"उ: स्थाने\" इति <<षष्ठी स्थानेयोगा>> [[१.१.४९]] इति परिभाषया लब्धम्, <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>> [[८.२.४]] इतिवत् । <<स्थानेऽन्तरतमः>> [[१.१.५०]] इत्यतः स्थानेग्रहणमनुर्त्तते, तस्य लक्षणया प्रसङ्गावस्थायामित्यर्थस्तदाह - रपरः सन्नेवेति । रपर इत्यवयववाचिना परशब्देन षष्ठ्यर्थे बहुव्रीहिः, तेनास्यावयवत्वात् \"यदागमा\" (<< यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते >> <{PB११}>) इति न्यायेन विशिष्टस्य गुणवृद्धित्वेन ऋकारस्य गुणवृद्धी अरारावेव इति नियमोपपत्तिः । अत एव <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[८.२.४२]] इति सूत्रे <<थलि च सेटि>> [[६.४.१२१]] इति सूत्रे च भाष्ये गुणो भवति वृद्धिर्भवतीति रेफशिरा गुणवृद्धिसञ्ज्ञकोऽभिनिर्वर्त्तते इत्युक्तम् । उ: स्थानेऽण् प्रसज्यमान एव रपरो भवति, पूर्वभक्तश्च रेफ इत्यर्थ इति कैयटः । अवयवत्वं वाचनिकमेव तत्सादृश्यबोधनपर्यवसायि । अन्यथा वर्णस्य वर्णान्तरावयवत्वं <<हलन्ताच्च>> [[१.२.१०]] इति सूत्रभाष्योक्तरीत्याऽसङ्गतं स्यात् । पञ्चम्यर्थे बहुव्रीहिणाऽनवयवत्वे तु गुणवृद्धिशब्देनाकारादेरेव रेफपरस्यैतदेकवाक्यतया विधानं स्यात् । गुणत्वादिकन्त्वकारादिनिष्ठमेव स्यात् इत्युक्तनियमानुपपत्तिः । अत एव वव्रे इत्यादौ <<हलादिः शेषः>> [[७.४.६०]] सिद्धिः अभ्यासावयवस्यैवानादेस्तेन निवृत्तेः । एतेनाणमनूद्य रपरत्वं विधीयते इति परास्तम् । उक्तनियमानुपपत्तेः । अत्र पक्षे क्व रपरत्वं क्व लपरत्वमिति व्यवस्थाऽनुपपत्तिस्तु न । रेफवत्स्थानिकस्य रेफपरत्वं, लकारवत्स्थानिकस्य लपरत्वमिति व्यवस्थासम्भवात् । तत्रान्तरतम्यादिति । स्थानत इति भावः । रेफादिद्वाराऽऽदेशस्यापि मूर्धादिस्थानत्वात् । तत्र तत्राऽऽदेशानेव रलपरांश्चोच्चार्येदं सूत्रं न कार्यमिति तु न वाच्यम् । <<आप्ज्ञप्यृधामीत्>> [[७.४.५५]], <<भृञामित्>> [[७.४.७६]] इत्यादौ दोषापत्तेः । अत्राण् पूर्वेणैव प्रशास्तॄणाम् इति निर्देशात् । वस्तुतो रप्रत्याहाराभावेन रपर इत्यस्य स्थान र्लपर इति पठनीयमिति लपरत्वं वक्ष्यामि इति तुल्यास्यसूत्रभाष्याल्लभ्यते ॥",
"11056": "स्थान्यादेशयोर्भेदात् स्वं रूपम् (<<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[१.१.६८]]) इत्युक्तश्च तत्स्थानापन्नस्तद्धर्मं लभते, यथा गुरोः स्थाने शिष्यो याज्यकुलानि गत्वाऽग्रासनादीनि लभते इति लोकन्यायेन स्थानिकार्यमादेशे न स्यादतः स्थानिवत्सूत्रम् । न तु स्थान्यलेति । प्रत्यासत्तिन्यायलब्धमिदम् । आदेशस्य स्थानिभूतो योऽल् तत्स्थानिसम्बन्धी च योऽल् तद्वृत्तिधर्माश्रये नेत्यर्थः । अत एव रेफस्थानिकविसर्गस्य रुशब्दत्वं न स्थानिवत्त्वेनेति <<भोभगोअघोअपूर्वस्य योऽशि>> [[८.३.१७]] इत्यत्र भाष्ये स्पष्टम् । ऋधातोर्द्वित्वेऽभ्यासस्य <<उरत्>> [[७.४.६६]] अत्त्वेऽरित्यस्य <<हलादिः शेषः>> [[७.४.६०]] तु अरित्यस्य पुनः <<पूर्वोऽभ्यासः>> [[६.१.४]] इत्यनेनाभ्यासत्वात् । तस्यापि द्विरुक्तधातुपूर्वभागत्वात् । प्रक्रियाज्ञानवतां तथा ज्ञानस्य सुलभत्वात् । अत एव धिन्वन्ति इत्यादाविण् न । उकारवृत्त्यार्धधातुकत्वस्य वकारेऽनतिदेशात् । यत्त्वत्रेण्निवृत्तये स्वविधावपि स्थानिवत्त्वम् अपरविधौ इति न्यासेन साधितं भाष्ये, सा त्वेकदेश्युक्तिः । असिद्धवत्सूत्रेण सिद्धस्य आयन् आसन् इत्यादेस्तत्फलत्वेनोपन्यासात् । अस्यापि इति वार्त्तिके पञ्चमीसमासेन सिद्धे कैयटेनोक्तत्वाच्च । प्रदीव्य इत्यादौ च वलादिलक्षण इण्न । स्थान्यलित्युक्तेः बभूविव इत्यादौ वलादिलक्षणेट्सिद्धिः । न हि तत्र वलादित्वं स्थानितो लभ्यम्; किन्तु स्वाश्रयमेव । यन्निमित्तवैकल्यप्रयुक्तोपदेशाप्रवृत्तावतिदेशो मृग्यते तस्य निमित्तस्य स्थान्यलसाधारणधर्मत्व एव निषेधप्रवृत्तेः । प्रकृते चाऽऽर्धधातुकत्ववैकल्यप्रयुक्ताऽप्राप्तिर्न तत्स्थान्यलसाधारणं, यच्च तादृशवल्त्वघटितं वलादित्वं न तद्वैकल्यप्रयुक्ताऽप्राप्तिरिति बोद्ध्यम् । प्रत्यासत्त्या च शास्त्रीयकार्ये एव स्थानिवत्त्वम् । तेन नायक-सिद्धिः । प्राधान्यात्कार्यातिदेशोऽयम् । शास्त्रातिदेशस्तु कार्यातिदेशादभिन्नरूपः । तस्यापि कार्यफलकत्वादिति तृज्वत्सूत्रे कैयटः । भाष्येऽपि तत्राऽङ्गशास्त्रातिदेशात्सिद्धमाङ्गं यत्कार्यं तदतिदिश्यते इत्युक्त्या तयोरभिन्नरूपत्वं सूचितम् । तत्रानपेक्षितार्थसन्निधानस्तत्तन्निमित्तरूपकार्यव्यवहार एवानेन । कार्यं तु स्वशास्त्रेणैवेति । अत एव रामाय इत्यादौ स्थानिवत्त्वेन सुप्त्वात् <<सुपि च>> [[७.३.१०२]] इति दीर्घः सङ्गच्छते । परिवी: इत्यादौ \"परत्वाद् दीर्घ\" इति च सङ्गच्छते । यद्वा किञ्चिन्निमित्तवैकल्येऽपि दीर्घादिकार्यमनेन क्रियते । तच्च कार्यं किम् ? इत्याकाङ्क्षायां तत्स्वरूपनिर्णयस्य विधिशास्त्रमूलकत्वेन तद्देशेनैव परशास्त्रविहितत्वरूपं परत्वं तेषां बोद्ध्यम् । एतदेवाभिप्रेत्य अतिदिश्यमानकार्याणामुपदेश एव देश इत्यभियुक्ताः । अत्राद्यपक्ष एव भाष्यसम्मतः । अत एव स्यान्यल्विधिप्रतिषेधे कुरुवधपिबां प्रतिषेधो वक्तव्य इत्येतदुपपादनावसरे स्थानिवद्भावादङ्गसंज्ञा स्वाश्रयं च लघूपधत्वादि तत्र लघूपधगुणादिः प्राप्नोति इत्यादिभाष्योक्तेरिति बोद्ध्यम् । एवं यन्निमित्तवैकल्यप्रयुक्तोपदेशाप्रवृत्तिस्तन्निमित्तातिरिक्तसर्वनिमित्तकत्वमतिदेशस्यापि । अत एवेष्ठवद्भावेनातिदिष्टभत्वस्य वर्णाश्रयत्वमित्यादिव्यवहारः । सर्वातिदेशेष्विदं तुल्यम् । यन्निमित्तवैकल्यप्रयुक्तोपदेशाप्रवृतिस्तन्निमित्तं शास्त्रीयमेव, प्रत्यासत्तेः । स्थानिवदित्युक्तेः सम्बन्धिशब्दमहिम्नैवाऽऽदेशलाभे आदेशग्रहणं श्रौतस्थान्यादेशभावस्यैव ग्रहणमिति शङ्कावारणद्वारा <<एरु:>> [[३.४.८६]] इत्यादौ शब्दानित्यत्ववारणाय सर्वे सर्वपदादेशा इति न्यायेन कल्प्यमानस्य तेस्तु: इत्यानुमानिकादेशस्य संग्रहार्थम् । तेन पचतु इत्यादेः पदत्वसिद्धिरिति भाष्ये स्पष्टम् । ननु तोस्तित्त्वमपि छिन्नपुच्छे शुनि श्वत्वव्यवहारवल्लोकन्यायेनैव सिद्धम् । तदुक्तं <<प्राग्दीव्यतोऽण्>> [[४.१.८३]] इति सूत्रे भाष्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानुकरणमिदम् इत्युक्त्वा – किमर्थं विकृतनिर्देशः ? एतदेव ज्ञापयत्याचार्यो भवत्येषा परिभाषा << एकदेशविकृतमनन्यवदिति >> <{PB३७}> । अत एवात्र विकारोऽप्यशास्त्रीयोऽपि । अत एव श्रायसशब्दादण्णन्ताद् द्विवचने श्रायसौ इत्यत्र वृद्धौ कृतायां सान्तस्योगित्त्वेनानेन न्यायेनाङ्गतया प्राप्तो नुम् पूर्वसम्बन्धिविधित्वेन <<अचः परस्मिन् पूर्वविधौ>> [[१.१.५७]] इति स्थानिवत्त्वेन वारितो <<अचः परस्मिन् पूर्वविधौ>> [[१.१.५७]] इति सूत्रे भाष्ये । एतन्न्यायानाश्रयणे त्वङ्गत्वमेव दुर्लभम् । अन्तादिवत्सूत्रे (<<अन्तादिवच्च>> [[६.१.८५]]) भाष्यकैयटयोरपि गुडोदकम् इत्यादावेकादेशे कृते दकशब्दस्यानेन न्यायेनोदकशब्दत्वमाश्रित्य <<उदकेऽकेवले>> [[६.२.९६]] इति पूर्वपदान्तोदात्तत्वमुक्तम् । शब्दानित्यत्वं तु रेखागवयन्यायेन समाधेयम् । अनन्यवदित्यस्यान्यवन्नेत्यर्थः । तत्रान्यसादृश्यनिषेधेऽन्यत्वाभावः सुतरामिति चेत्, न । अर्द्धस्यान्यत्वे जातिव्यञ्जकभूयोऽवयवदर्शनाभावेन तौ तित्त्वप्रतीतेर्न्यायेनानुपपादनात् । किञ्च तिङ्सञ्ज्ञायास्तिबादिसूत्रोपात्तपरिच्छिन्नपरिमाणनिष्ठतया परिच्छिन्नपरिमाणार्थवाचकशब्दानां न्यूनेऽधिके वा शास्त्रव्यापारं विनाऽप्रवृत्तेः \"येन विधिः\" (<<येन विधिस्तदन्तस्य>> [[१.१.७२]]) इति सूत्रेऽङ्गसंज्ञासूत्रे (<<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>> [[१.४.१३]]) च भाष्ये उक्ततया तदभावात् । न्यूनाधिकत्वञ्च वैरूप्यस्योपलक्षणम् । न च तण्डुलान् इत्यादौ स्थानिवद्भावेन प्रत्ययान्तत्वेऽपि स्वतः प्रत्ययान्तभिन्नत्वात्प्रातिपदिकत्वापत्तिरिति वाच्यम् । अतिदेशस्वभावेनातिदिश्यमानधर्मविरुद्धस्वाश्रयकार्याभावात् । अत एव जहि इत्यादौ जादेशस्यासिद्धत्त्वे स्वाश्रयो हेर्लुग्न । सिद्धत्वासिद्धत्वयोर्विरोधात् । असिद्धवत्सूत्रन्तु शाधि इत्यादौ स्थानिप्रयुक्तधिभावसम्पादनेन चरितार्थम् । न च अप्रत्ययः इत्यस्य पर्युदासत्वे शास्त्रीयकार्याभावात्स्थानिवत्त्वं दुर्लभमिति वाच्यम् । <<वेः स्कन्देरनिष्ठायाम्>> [[८.३.७३]] इति षत्वविधायके तिङन्तेषु षत्वाभावायाऽऽवश्यकेन न्याय्येन चानिष्ठायामिति पर्युदासेन वृत्त्यादिसम्मतेन पर्युदासलभ्याशास्त्रीयेऽपि शास्त्रतात्पर्यविषये शास्त्रीयवदतिदेशबोधनात् । विस्कन्नः इत्यादौ हि निष्ठानत्वस्य नित्यतया स्थानिवत्त्वेनैव निष्ठात्वस्य वक्तव्यत्वात् । तस्य प्रसज्यप्रतिषेधत्वे तु लक्ष्यानुसारिव्याख्यानादेवोक्तार्थसिद्धिरिति बोध्यम् । केचित्तु भाष्ये तत्स्थानापन्ने तद्धर्मलाभस्य तत्कार्यस्य च लोकन्यायेनैव सिद्धेरयमतिदेश: \"स्वं रूपम्\" (<<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[१.१.६८]]) इत्येतच्छास्त्रसत्त्वाद्धन्तेः कार्यं वधौ न स्यात् इत्युक्तम् । एवञ्च \"स्वं रूपम्\" इति शास्त्राविषये तेन सिद्धिरिति सूचितम् । एवञ्चाशास्त्रीयस्यापि धर्मस्यातिदेशो भवत्येव । अतिप्रसङ्गस्तु लक्ष्यानुसारेण क्वचिल्लोकन्यायानाश्रयणेन परिहरणीयो यदि प्राप्नोति । एवञ्च न कश्चिद्दोषः । <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[१.१.५८]] इति सूत्रे ब्राह्मणकण्डूतिः इत्युदाहरणाच्च क्वचित्तदनाश्रयणम् । तत्र हि कण्डूयतेः क्तिचि तस्य स्थानिवत्त्वादुवङि यणि वानादिष्टादचः पूर्वत्वे स्थानिद्वारके गृह्यमाणे ऊठ् न स्यादित्याहुः । अत एवार्थवत्सूत्रशेषे (<<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[१.२.४५]]) \"अप्रत्ययः\" इत्यस्य पर्युदासत्वमेवोक्तं भाष्ये । तत्र पक्षे च काण्डे इत्यत्र पूर्वान्तवद्भावेन प्रत्ययान्तभिन्नत्वाद्दोषः शङ्कितो न तु स्वाश्रयाप्रत्ययान्तत्वेन । <<क्षियो दीर्घात्>> [[८.२.४६]] इति सूत्रे भाष्येऽपि अतिदिश्यमानधर्मविरुद्धस्वाश्रयकार्याभाव इति स्फुटम् । तत्र हि \"क्षिय\" इत्यत्रेयङर्थं प्रकृतिवदतिदेशे स्वाद्यनुत्पत्तिमाशङ्क्य एवं तर्हि आतिदेशिकानां स्वाश्रयाणि न निवर्त्तन्ते इति समाधायातिदिश्यमानधर्मविरुद्धस्वाश्रयनिवृत्तेरावश्यकत्वाभिप्रायेण \"अथाप्येतन्न\" इत्याशङ्क्य \"निर्देशसामर्थ्याद्विभक्तिः\" इत्युक्तम् । असिद्धवत्सूत्रे (<<असिद्धवदत्राभात्>> [[६.४.२२]]) च कैयटे स्फुटमेतत् । यत्तु गाङ्कुटादिसूत्रे (<<गाङ्कुटादिभ्योऽञ्णिन्ङित्>> [[१.२.१]]) भाष्ये <<सृजिदृशोर्झल्यमकिति>> [[६.१.५८]] इत्यत्र \"अकिति\" इति पर्युदासात् सिसृक्षति इत्यत्र <<हलन्ताच्च>> [[१.२.१०]] इति कित्त्वातिदेशेऽपि अमागममाशङ्क्य प्रसज्यप्रतिषेधाश्रयणेन समाहितम्, तत्तु वार्त्तिक कृदुक्तमुपायान्तरं बोद्ध्यम् । अनल्विधौ इति विधिग्रहणादलाश्रये विधावित्यर्थात्, यत्र विधौ शब्दतः स्थानिस्थान्यवयवान्यतराल्वृत्तिधर्मवतः तेन, तस्मात्, तस्य, तस्मिन्, तदादेरित्यादिप्रकारेण विशेष्यतया विशेषतया वा अलाश्रयणं तत्र निषेधः । व्यूढोरस्केन, द्यौः, द्युभ्यां, क इष्टः, प्रपठ्य इत्युदाहरणानि । शब्दत इत्युक्तेः \"अग्रहीत्\" इत्यादौ <<इट ईटि>> [[८.२.२८]] इति सिद्ध्यति । दीर्घविधावत्र चेट इति समुदायाश्रयणात् । अन्यथा टस्यानुबन्धत्वादिकारस्यैवोभयत्राश्रयणमित्यल्विधित्वं स्यात् । अत्र सूत्रे विशेषातिदेशोऽपि । अन्यथा इडादेरपि क्त्वः सत्त्वात् वलादित्वस्य तद्विशेषधर्मत्वात् उपस्थितधर्मैस्तद्व्यापकधर्मैश्च विध्याकाङ्क्षापूरणे सति तदतिरिक्तविशेषग्रहणे मानाभाव इत्येतन्न्यामूलकेन सामान्यातिदेशे विशेषानतिदेशेन सिद्धौ विशेषणतयाऽलाश्रयणे निषेध इत्येतत्प्रतिपादकस्य \"अनल्\" इत्येव सिद्धे कृतस्य विधिग्रहणस्य वैयर्थ्यं स्यात् । हलादिक्ङिन्निमित्तकेत्त्वप्रतिषेधकात् <<न ल्यपि>> [[६.४.६९]] इति लिङ्गाच्च अनुबन्धकार्ये त्वनल्विधाविति निषेधो न, अनुबन्धानामनेकान्तत्वात् । एकान्तत्वेऽपि शिद्ग्रहणेन तेषामल्व्यवहाराभावज्ञापनात् । << नानुबन्धकृतमनेकाल्त्वम् >> <{PB६}> इति ज्ञापयति इति भाष्येऽल्त्वव्यवहाराभावबोधनद्वारेति शेषः । ध्वनितञ्चेदं <<क्ङिति च>> [[१.१.५]], <<गाङ् लिटि>> [[२.४.४९]], <<हलः श्नः शानज्झौ>> [[३.१.८३]] इति सूत्रेषु भाष्ये । तत्राद्ये यासुटो ङिद्वचनान्ङिदादेशा ङितो नेति ज्ञाप्यते इत्युक्तम् । द्वितीये गाङो ङित्त्वस्य सानुबन्धकादेशे इत्यकार्याभावज्ञापकतोक्ता, तिबाद्यादेशेषु पित्त्वासिद्ध्या दूषितं च ज्ञापकम् । अन्त्ये शानचः शित्त्वस्य सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वज्ञापकत्वमुक्तं, उक्तदूषणैरेव दूषितञ्च । अन्यथाऽनल्विधाविति निषेधेन तत्त्वाप्राप्त्या ज्ञापकत्वासङ्गतिः, तिबाद्यादेशेषु पित्त्वाद्यसिद्धिश्चेति बोद्ध्यम् ॥",
"11057": "अचः पर । आदेशग्रहणमनुवर्त्तते (<<स्थानिवदादेशोऽनल्विधौ>> [[१.१.५६]]) । तदनुरोधात् अच इति स्थानषष्ठी, परस्मिन्नित्यादेशविशेषणं तदाह - परनिमित्त इत्यादि । अच एवादेश इत्यर्थः । तेन मरुतमाचष्टे मारयति इत्यादौ वृद्धिः । अत्र सूत्रे प्रयोगे योऽच् तत् स्थानिक इत्यर्थः । न तु सूत्रे स्थानित्वेनोपात्ताच्स्थानिक इत्यर्थः । तेन णिलोपादेरनेन स्थानिवत्त्वं सिद्ध्यति । अत एव चङ्परनिर्ह्रासे ण्यन्तात् णिचि अवीवदत् इत्यादिसिद्ध्यर्थो निषेधः सार्थकः । अच इति किम् ? आगत्य । मलोपस्य स्थानिवत्त्वात् <<ह्रस्वस्य पिति कृति तुक्>> [[६.१.७१]] इति तुग्न स्यात् । परस्मिन्निति किम् ? युवजानिः । निङः स्थानिवत्त्वेन मलोपो न स्यादिति । पूर्वविधाविति किम् ? नैधेयः । निपूर्वाद्धाञः किप्रत्यये आतो लोपे तस्य स्थानिवद्भावात् त्र्यच्त्वव्यपदेशविरोधात्स्वाश्रयद्व्यच्त्वनिवृत्तौ ढगनापत्तेरिति दिक् । अत्र स्थानिनि सति यद्भवति तदादेशेऽपि भवति, स्थानिनि यन्न भवति तदादेशेऽपि नेति भावाभावयोरुभयोरप्यतिदेशः । तत्र भावोदाहरणं निगाल्यते इति । अन्त्योदाहरणं पटयति इत्यादि । स्थानिनिमित्तकं भवति आदेशनिमित्तकं नेति च तदर्थः । लघूपधत्वसम्पादनद्वारा लोपनिमित्तिका वृद्धिरित्याहुः । स्थानिभूतादच इति । सूत्रे श्रवणाद्व्याख्यानाच्च तस्यैव पूर्वत्वेऽवधित्वमिति भावः । \"पूर्वविधौ\" इत्यस्य पूर्वसम्बन्धिन्येव शास्त्रविधेये कर्त्तव्ये इत्यर्थः, तेन पूर्वपरयोर्विधौ न । तेन आरतुः इत्यादौ <<ऋच्छत्यॄताम्>> [[७.४.११]] इति गुणस्य सर्वणदीर्घे न स्थानिवत्त्वम् । वस्तुतोऽत्र पूर्वविधिशब्दे तन्त्रम् । एकस्योक्तोर्थः । द्वितीये भावे किः । सम्बन्धसामान्यषष्ठ्यन्तपूर्वशब्देन समासः । विधिर्भावः पूर्वसम्बन्धिभावे तत्स्थितौ स्थानिवदित्यर्थः । अत एव ऐनेय इत्यादौ <<यस्येति च>> [[६.४.१४८]] इति लोपे तस्य स्थानिवत्त्वात्सन्नियोगशिष्टन्यायप्राप्तनिवृत्तिप्रतिबन्धेन नकारस्थितिः । अत एव <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[१.१.५८]] सूत्रे पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र इति लुकि न स्थानिवत् इत्यस्योदाहरणं उक्तं भाष्ये । अन्यथा तत्र पूर्वत्वेन दृष्टस्य सम्बन्धिनः कस्यचित् विधेयस्याभावात्स्थानिवत्त्वाप्राप्तिरेवेति तदसङ्गतिः स्पष्टैव । प्रकृतसूत्रेऽपि भाष्ये कर्मसाधनस्य विधिशब्दस्योपादाने न सर्वमिष्टं संगृहीतमिति भावसाधनो विज्ञास्यते पूर्वस्य विधानं प्रति पूर्वस्य भावं प्रति स्थानिवत् इत्युक्तम् । तत्र भावसाधन इत्यस्य सोऽपीत्यर्थः । पूर्वत्वञ्च व्यवहिताव्यवहितसाधारणम् । अव्यवहितग्रहणे मानाभावात्स्वरे निषेधाच्च । तेन पटयति इति सिद्धम् । प्रकृते च द्वित्वनिषेधे स्थानिवत्त्वप्राप्तिः ॥",
"11058": "न पदान्त । अत्र द्विर्वचनसवर्णादिग्रहणं वतिघटितान्यातिदेशानां त्रिपाद्यामपि प्रवृत्तिबोधनार्थम् । तेन रामः इत्यादौ विसर्गादिसिद्धिः । अत्र विधिशब्दो भावसाधनः । पदान्तेत्यत्रान्तशब्दश्चरमावयववाची । कर्मषष्ठ्या समासः । तेन एषो यन् हसति इत्यादौ <<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> [[६.१.१३२]] इति सुलोपो न । इणः शतरि यन् इति रूपम् । तत्र यणः स्थानिवत्त्वात् । उत्वे च न स्थानिवत् । अनेन निषेधात् । स्पष्टञ्चेदं भाष्ये इति भाष्यप्रदीपोद्द्योते निरूपितम् । अत्र पदेऽन्त इति सप्तमीसमासो भाष्ये उक्तस्तेन प्रत्यासत्त्या पदे परतः चरमावयवे कार्ये कर्त्तव्ये परपदस्थाजादेशास्यैवानेन स्थानिवत्त्वनिषेध इति वेतस्वान् इत्यादौ न दोषः । न चैवमपि \"पूर्वत्रासिद्धीये न स्थानिवत्\" इति निषेधोऽत्र दुर्वारः । \"पदेऽन्त\" इत्यर्थेन तत्र स्थानिवत्त्वनिषेधव्यावृत्तिपरभाष्यप्रामाण्येन पूर्वत्रासिद्धे इत्यत्र पदचरमावयवविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणात् । अत एव महिष्मान् इत्यत्र जश्त्वं न । सूत्रे जश्पदेन <<झलां जश् झशि>> [[८.४.५३]] इत्य स्यैव ग्रहणं, चर्सन्निहितस्यैव ग्रहणौचित्यात् । कार्यकालपक्षेऽपि त्रिपाद्यामन्तरङ्गपरिभाषा न प्रवर्त्तत इति वक्ष्यते इति न तयाऽस्य सिद्धिः । गोचा इत्यादौ \"गतिकारकोपपदानाम्\" (<< गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः >> <{PB76}>) इत्यस्यानित्यत्वेन सुबुत्पत्त्यनन्तरमेव समासः । \"उत्तरपदत्वे च\" ( (वा० [[१.१.६३]])) इति प्रत्ययलक्षणप्रतिषेधश्च प्रत्यासत्त्योत्तरपदस्य कार्यित्वे एवेति न दोषः । पदे इति पदत्वयोग्योपलक्षणं वा । अत्रेदं भाष्यमपि मानम् । अत्र पदचरमावयवादिसाधकः प्रतिबन्धकश्च स्थानिवद्भावो निषिद्ध्यते, विनिगमनाविरहात् । एतत्सूत्रभाष्य <<कमेर्णिङ्>> [[३.१.३०]] इत्यादिसूत्रभाष्यैः पूर्वत्रासिद्धे न स्थानिवत् इत्यवष्टभ्य वरेयलोपस्वरदीर्घग्रहणवर्जं द्विर्वचनादि प्रत्याख्यातमिति लभ्यते । निषेध इति । द्विर्वचनग्रहणात \"पूर्वत्रासिद्धे\" इति निषेधाद्वेति भावः ॥",
"11060": "अदर्शनम् । स्थाने इति वर्त्तते, प्रसङ्गे सतीति तदर्थस्तदाह – प्रसक्तस्येति । शास्त्रतोऽर्थतो वेति भावः । अत्र दृशिर्ज्ञानसामान्ये । तत्र ज्ञानस्याऽवर्जनीयतया तत्सामग्र्यन्तर्गता उच्चारणकृता सत्ता निषिद्ध्यते । तत्र प्रत्ययलोपे शास्त्रतोऽर्थतश्च प्रसक्तोच्चारणस्य लोपविधानेन तस्य तस्मिन् विषयेऽनुत्पत्तेरेवान्वाख्यानं प्रत्ययलक्षणार्थमिति बोद्ध्यम् । अर्थस्यैषा सञ्ज्ञा व्याख्यानात् । यत्तु प्रसक्तस्येति किं ? ग्रामे तिष्ठति इत्यादौ \"ल्यब्लोप\" ( (वा० [[२.३.२८]])) इति पञ्चम्यापत्तेः। अस्ति चात्र ल्यपोऽदर्शनम् । शास्त्रतोऽर्थतश्च न तत्प्रसक्तिरिति न दोष इति । तन्न । तेन प्रत्यासत्त्या ल्यबन्तार्थकर्माधिकरणयोरेव पञ्चमीविधानेन तस्यात्राप्राप्तेः । तत्त्वे तु अस्त्येवार्थतो ल्यबन्तस्य प्रसक्तिः । तस्मात् त्रपु इत्यत्र क्विपोऽदर्शनसत्त्वेन प्रत्ययलक्षणेन तुगापत्तिर्दोषः । कृत्प्रत्ययेन प्रकृत्याक्षेपस्तु न । अत्रैव प्रकृतिं विनाऽतिदेशतः प्रत्ययज्ञानसत्त्वेन व्यभिचारात्तदाक्षेपासम्भवात् ॥",
"11064": "अचोऽन्त्या । अच इति निर्धारणे षष्ठी । अन्ते भवो अन्त्यः । \"अन्त्यादि\" इति गमकत्वाद् बहुव्रीहिः । मार्त्तण्ड इति । मृतण्डादागतो मार्त्तण्डः । अण्विषये एव पररूपम् । ननु मार्त्तशब्दादन्त्याच् तकाराकारः स आदिर्यस्येत्यन्यपदार्थो दुर्लभ इति चेन्न । एकस्मिन्नेव समुदायरूपत्वारोपेण तदवयवत्वारोपेण च तदुपपत्तेः । एतन्मूलकमेव << व्यपदेशिवदेकस्मिन् >> <{PB३०}> इति पठ्यते इत्यलम् । वस्तुत आरोपस्य नात्रोपयोगः । शब्दज्ञानानुपाती वस्तुशून्यो विकल्प: (यो०सू० १/३/१०) इति पतञ्जल्युक्तेः, अर्थाभावेऽपि विकल्पात्मकं ज्ञानमत्र, तदपि लक्ष्यानुरोधाच्छास्त्रप्रवृत्त्युपयोगीति बोद्ध्यम् । पतञ्जलिरिति तु अञ्जलेः पतित इति विग्रहे मयूरव्यंसकादित्वात्समासे तत्रैव निपातनादितशब्दस्य लोपे पृषोदरादित्वाद्वा तल्लोपे साधु । गोनर्ददेशे कस्यचिदृषेरञ्जलेः सन्ध्याकरणसमये पतित इत्यैतिह्यात् । ओत्वोष्ठयोः । अत्र समर्थपरिभाषा (<<समर्थः पदविधिः>> [[२.१.१]]) नोपतिष्ठते <<समासेऽङ्गुलेः सङ्गः>> [[८.३.८०]] इत्यादौ समासग्रहणेन \"पदविधिरि\"ति (<<समर्थः पदविधिः>> [[२.१.१]]) सूत्रस्वरसेन भाष्यादिस्वारस्येन च पदत्वेन सुबन्तत्वेन वा यत्र साक्षादुद्देश्यता तत्रै वैतत्परिभाषाप्रवृत्तिस्वीकारात् । ओत्वोष्ठादिमात्रस्य पदत्वाभावात् । अवर्णादोत्वोष्ठयोरचि तद्घटितसमास इत्यर्थात् दन्त्योष्ठ्यो वः स्मृत इति प्रयोगसिद्धिः । अन्यथा प्रत्त्यासत्त्यौत्वाद्युत्तरपदकसमास एव प्रवृत्त्यापत्तौ तदसङ्गतिः स्पष्टैव । ओतुर्बिडालः ॥",
"13009": "तस्य लोपः । <<उपदेशेऽजनुनासिक इत्>> [[१.३.२]] इत्यत इदित्यनुवृत्त्या विभक्तिविपरिणामेन च सिद्धौ तस्य ग्रहणं सर्वलोपार्थम् । तेन ञिटुडूनामन्त्यस्य लोपो न । \"नानर्थके\" (<< नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे >> <{PB१०५}>) इति परिभाषा तु भाष्ये प्रत्याख्यातैवेति दिक् । न भवतीति । फलाभावादिति भावः ॥",
"61077": "स्यादिति । कार्यशब्दवादे इदम् । संहितायां विषये इति । कार्यिनिमित्तयोः संहितायां विषयभूतायामित्यर्थः । स्थानत इति । इदं यथासंख्यसूत्रे भाष्ये स्पष्टम् । जातिपक्षे यथासंख्येनापि निर्वाह इति <<स्थानेऽन्तरतमः>> [[१.१.५०]] सूत्रे भाष्ये स्पष्टम् । अनु नासिकस्थानेऽपि निरनुनासिक एव, विधीयमानत्वेन सवर्णाग्राहकत्वात् । गुणाभेदकत्वपक्षोऽपि न विधेयाण्विषये। दीर्घादीनामिगादिपदैरुपस्थितये प्रत्याहारेषु जातिपक्ष एव इति <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[१.१.६९]] सूत्रे भाष्ये स्पष्टम् । अत एव सर्वतकारादीनां झल्त्वादिसिद्धिः ल्वादय इत्यादिनिर्देशादयश्च जात्याश्रयणे मानमिति दिक् । व्याकरणस्य साध्वनुशासनत्वन्तु शब्दनित्यतापक्षे शब्दानां सिद्धत्वेन शास्त्रवैयर्थ्यापत्त्या मृजिप्रसङ्गे मार्जिः साधुर्भवति इत्यादिवृद्धिसञ्ज्ञासूत्रस्थभाष्यप्रामाण्येन यदिह परिनिष्ठितत्वेन ज्ञाप्यन्तत्साधु इत्यर्थापत्तिकल्प्यवाक्येन बोद्ध्यम् । कार्यशब्दवादे तु पूर्वभाष्योन्नीतानादितात्पर्यवशात् तत्कल्पनं बोध्यम् । एतेन स्थानत आन्तर्यादितिकथनेन स्थानप्रमाणोभयान्तरतमे ह्रस्वेकारे चरितार्थो यण् दीर्घे कथं स्यादित्यपास्तम् । स्थानत आन्तर्यस्य सर्वतो बलवत्त्वात् स्थानेऽन्तरतमे इति सप्तम्यन्तपाठस्य चैतद्दूषणेनैव भाष्ये दूषितत्वादिति भावः ॥",
"61078": "एचोऽय । \"इचोऽचि यणयवायावः\" \"अवावौ यि प्रत्यये\" इति सूत्रयितुमुचितमित्याहुः । यथासंख्यसूत्रलब्धमर्थमाह - क्रमादिति । उदात्तादिगुणयुक्तानामन्य – गुणकव्यावृत्तिस्तु स्थानेऽन्तरतमपरिभाषया बोद्ध्या । एतदेवाभिप्रेत्य <<यथासंख्यमनुदेशः समानाम्>> [[१.३.१०]] सूत्रे भाष्ये प्रकृतसूत्रे <<स्थानेऽन्तरतमः>> [[१.१.५०]] सूत्रेण व्यवस्थोक्ता संवृतावर्णस्य संवृतावर्णो विवृतावर्णस्य विवृतावर्ण इति । एतद्भाष्यप्रामाण्येन \"एओ\" इत्यनयोरकारांशे संवृतत्वम् । इतरांशे विवृततरत्वम् । तदुपरागाच्च न संवृतत्वस्य पृथग् ग्रहणम् । \"ऐऔ\" इत्यनयोस्त्वकारांशेऽपि विवृतत्वमेवेति बोद्ध्यम् ॥",
"61079": "वान्तो । <<येन विधिस्तदन्तस्य>> [[१.१.७२]] इत्यस्यापवादभूतया <<तस्मान्नुडचि>> [[६.३.७४]] इत्याद्यर्थमावश्यिकया वाचनिकया (वा० [[१.१.७२]]) इति वार्त्तिककृदुक्तपरिभाषया लब्धमर्थमाह - यकारादाविति । ओदौतोरिति । ओदौतोरिति वक्तव्यम् इति वार्त्तिकमूलाद् व्याख्या नादिति भावः । पूर्वसूत्रे वान्तौ प्रति तयोरेव स्थानित्वनिर्णयात् इति स्थानेऽन्तरतमसूत्रस्थकैयटोक्तं तु न युक्तम् । वान्तज्ञानाय सूत्रपर्यालोचनस्याऽऽवश्यकत्वेऽपि तद्वाक्यार्थपर्यालोचने मानाभावात् । यथासङ्ख्यसूत्रसहकारेण बोधोत्तरं तयोस्तत्त्वनिर्णयात् । अन्तरतमपरिभाषया निर्वाहे तु लक्ष्यपर्यालोचनकाले तन्निर्णयः । अत एव पूर्वसूत्रे स्थानिविशेषलाभो यथासङ्ख्यसम्बन्धादिह तु निमित्ताभावाल्लाभाभाव: इति षष्ठे प्रकृतसूत्रे कैयटः । गव्यमिति । भत्वाद्वलोपो न। यीति किम् ? गोभ्याम् । प्रत्यये किम् ? गोयानम् । ननुः गव्यूति: इत्यत्र वस्य <<लोपः शाकल्यस्य>> [[८.३.१९]], <<हलि सर्वेषाम्>> [[८.३.२२]] इति वा लोपः स्यादत आह - वान्त इत्यत्रेति । न च विशेषविहितेन कार्यित्वेन लोपे वस्य निमित्तत्वबाध इति वाच्यम् । निमित्तत्वानाक्रान्ते विषये कार्यित्वस्य चारितार्थ्यात् । तक्रकौण्डिन्यन्यायश्चानवकाशविषयो विधेयविषयश्चेति स्पष्टं <<तद्धितेष्वचामादेः>> [[७.२.११७]] इति सूत्रे यङ्विधायके च भाष्ये । अन्त्ये उत्तरयोर्विग्रहेण विशेषासम्प्रत्ययान्नित्यग्रहणानर्थक्यं, क्रियासमभिहारे च नैतेभ्यो यङा भवितव्यम् इति भाष्ये चेन विशेषासम्प्रत्ययादित्यनुकृष्यते । अन्यथा तक्रकौण्डिन्यन्यायेन सिद्धे विशेषासम्प्रत्ययादित्यनुकर्षकचकारवैयर्थ्यापत्तिः । निरूपयिष्यते चेदं यङन्ते । तस्य च वार्त्तिकेऽनुवृत्त्या यूतौ श्रूयमाणवकारान्त आदेश इत्यर्थः । सूत्रे तु न फलं, गव्यादौ भत्वेन वान्तस्य पदत्वाभावात्, लव्ये स्वत एव तदभावात् लोपाप्राप्तेः । गोशब्दादिभ्यः क्यजादावपि <<न: क्ये>> [[१.४.१५]] इति नियमेन पूर्वस्य पदत्वाभावात् । एवन्तर्हि वार्त्तिके एव प्रश्लेष उचित इत्याशयेनाह – छकाराद्वेति । <<लोपो व्योर्वलि>> [[६.१.६६]] इति सूत्रे वकारप्रत्याख्यानं तु लौकिकोदाहरणाभावेन तदर्थतया बोद्ध्यम् । अत एव <<इको गुणवृद्धी>> [[१.१.३]] इति सूत्रे <<अतो ल्रान्तस्य>> [[७.२.२]] इत्यत्र लुप्तनिर्दिष्टो वकार इत्युक्तं भाष्ये । शास्त्रीयसौत्रप्रयोगार्थं तदिति तदाशयः । न चैवं विष्णवे इत्यादौ <<तस्य लोप:>> [[१.३.९]] इति दुर्वारं गव्यूतौ उच्चारणस्य चारितार्थ्यादिति वाच्यम् । (वा० [[६.३.४६]]) इत्यादिनिर्देशैर्वारणात् । परे तु सा पूर्वपक्ष्युक्तिरिति न वकारप्रश्लेषो लोपेनोचितः । किञ्च छन्दसि सर्वविधीनां व्यवस्थितत्वान्न वलोपप्रसक्तिस्तत्रत्ये गव्यूतौ । अध्वपरिमाणेऽपि संज्ञाशब्दोऽयम्, तत्र सञ्ज्ञात्वभङ्गापत्तेर्न वलोपः । यथा रघुनाथ इति संज्ञाशब्दे नित्यस्यापि णत्वस्याभावः । सर्वनामशब्दे णत्वाऽऽशङ्का तु तस्य सञ्ज्ञिविशेषे आधुनिकविनियोगात् शास्त्रानुसारिशब्दस्यैव विनियोग उचित इत्यभिप्रायेण । निरूपितञ्चैतत्सर्वादिनीतिसूत्रे भाष्यप्रदीपोद्घोते इत्याहुः । निरूपयिष्यते चेदं <<पूर्वपदात् संज्ञायामगः>> [[८.४.३]] इति सूत्रे ॥",
"61080": "धातोस्त । धातोरित्यस्याभावे प्रातिपदिकमात्रविषयो नियमः स्यात् । तथा च गव्यम् इत्यत्र न स्यात् । ओयते इत्यत्र च स्यात् । तदभावे सामान्यतो नियमापादनन्तु योगविभागैवकारवैयर्थ्यापत्तेरयुक्तम्। तन्निमित्तस्य चेद्धातोरेव इति नियमे बाभ्रव्यासिद्धेस्तद्वारणायैवकारः । लाव्यमित्यादि । अत्र गुणवृद्ध्योर्यण्ण्यन्निमित्तकत्वेनैचो यादिप्रत्ययनिमित्तकता । तन्निमित्तस्येति किमिति । सूत्रमेव किमर्थमिति प्रश्नः । ओयत इति । वेञः कर्मणि लटि यकि यजादित्वात्सम्प्रसारणे <<अकृत्सार्वधातुकयोर्दीर्घः>> [[७.४.२५]] इति दीर्घे आङा सहाऽऽद्गुणः । <<न धातुलोप आर्धधातुके>> [[१.१.४]] सूत्रभाष्यरीत्या बहिर्भूतधातूपसर्गकार्यस्य बहिरङ्गत्वाद्वान्तादेशे गुणोऽसिद्ध इत्यरुचेराह – औयतेति । तस्मादेव कर्मणि लङि आडागमे वृद्धिः । शेषं पूर्ववत् ॥",
"61081": "क्षय्यज । <<क्षि क्षये>> <{१.२६९}> <<जि जये>> <{१.६४२}> इत्यनयोरेव ग्रहणम् । न तु <<क्षीष् हिंसायाम्>> <{९.४२}> <<क्षै जै क्षये>> इत्यनयोर्व्याख्यानात् । अत एव क्षिज्योरेवैचः इति भाष्ये उक्तम् ॥",
"61082": "तस्मै प्रेति । क्रयार्थे वस्तुनि क्रय्य इति निपात्यते इत्यर्थो, व्याख्यानात् । गुण भूतस्यापि तदा परामर्शः । क्रयार्थत्वञ्च फलोपधानरूपं तदर्थे इति विशेषणात्तदाह – क्रेतार इति । योग्यतामात्रग्रहणे त्वव्यावर्त्तकं तत्स्यादिति भावः । केचित्तु स्वीयं धान्यादि दत्त्वा यत्र तन्मूल्यग्रहणं तत्र धान्यं क्रय्यम् । यत्र तु स्वयं द्रव्यं दत्त्वा परकीयधान्यादिग्रहणं तत्र धान्यं क्रेयम्। द्रव्ये तु न क्रय्यत्वं नापि क्रेयत्वं, किं तु धान्यादेरेव, शक्तिस्वभावात् । भाष्यस्वरसोऽप्येवमेवेत्याहुः ॥",
"61084": "एकः पूर्व । गुण इत्यादेर्विधेयसमर्पकत्वेन तत्रैकत्वसङ्ख्याया विवक्षणेनोभयोः पूर्वपरयोरेकवाक्यतयैव विधेयान्वयेन च अनयोः पूलयोः कटं कुरु इत्यादित इवोभयसम्बन्ध्येकविधेयस्यैव प्रतीतेरेकग्रहणं स्पष्टार्थम् ॥",
"61085": "अन्तादि । इह पूर्वपरयोरिति वर्त्तते यथासङ्ख्यञ्च । अन्तादिशब्दावुपस्थितैकादेशस्थानिपरौ । पूर्वपरशब्दौ च तद्घटितसमुदायपरौ । एवञ्च पूर्वस्य परस्य समुदायस्यान्तादिभ्यां वर्णाभ्यां पृथगवस्थिताभ्यां ये व्यवहाराः प्रातिपदिकत्वसुबन्तत्वप्रत्ययत्वादयस्ते कृतैकादेशस्य भवन्ति, न तु तद्वर्णमात्रवृत्तयोऽत्वह्रस्वत्वादय इत्यर्थस्तत्फलितमाह - योऽयमित्यादि । तेन रामौ इत्यादौ परादिवत्त्वेन \"औ\" इत्यस्य सुप्त्वे पूर्वमान्तस्यैकदेशविकृतन्यायेन (<<एकदेशविकृतमनन्यवत्>> <{PB३७}>) प्रकृतित्वे यस्मद्विहितस्तदादितदन्तत्वमार्थसमाजग्रस्तमिति पदत्वसिद्धिः । तद्वर्णमात्रवृत्तिधर्मानतिदेशात् खट्वाभिः इत्यत्रात्वनिबन्धन ऐस् न । अयजे इन्द्रम् इत्यादौ सवर्णदीर्घश्च न । अत एव तुक्यसिद्धिवचनं चरितार्थम् । अन्यथा अधीत्य इत्यादावादिवत्त्वेन ह्रस्व त्वप्रयक्ततुक्सिद्धौ तद्वैयर्थ्यं स्पष्टमेव । तदुक्तं वर्णाश्रये चान्तादिवत्त्वप्रतिषेधो वक्तव्यो न वाऽताद्रूप्यातिदेशात् इति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादिति तदर्थः । क्षीरपेण इत्यादावेकारविशिष्टे एकाजुरपदत्वं भवत्येव । स्थानिवद्भावेन तु नैतल्लभ्यम् । अप्राधान्येनालाश्रयणात् । किञ्च एकादेशे वर्णयोरेव स्थानित्वं न समुदायस्येति भी ई \"भिय\" इत्यादावेकादेशविशिष्टे धातु त्वानापत्तिः । धातुत्वस्यैकादेशस्थानिधर्मत्वाभावात् । आनुमानिकादेशकल्पकवाक्यम् अन्तादिघटितसमुदायस्यैकादेशघटित आदेश इत्येव, न तु प्रत्येकं तयोः स्थानित्वबोधकं, तथा सति स्वाश्वशब्दस्य स्थानिवत्त्वेन स्वशब्दतया तत ईरिन् शब्दे वृद्ध्यापत्तेः । किञ्च भवत्सम्मतस्य उभयत आश्रयणे नान्तादिवत् इत्यस्यासङ्गतौ भवत्सम्मत अभीयात् इत्याद्यसिद्धिः । स्थानिवत्त्वं तूभयत आश्रयणे इष्यत एव। अन्यथा <<अचः परस्मिन् पूर्वविधौ>> [[१.१.५७]] इत्यस्याप्युभयत आश्रयणेऽप्रवृत्त्यापत्तौ प्लायते इत्याद्यसिद्धिरिति दिक् ॥",
"61087": "",
"61088": "कृष्णैकेति । कृष्णेति सम्बुद्ध्यन्तं पृथक्पदमिति कश्चित् ॥",
"61089": "एत्येध । ऊठ् अत्रादेश एव, व्याख्यानात् । एचीति नोठो विशेषणमूठस्तत्त्वासम्भवात् । \"एत्येधत्योः\" इति योगं विभज्य तयोरेवैचीति विशेषणस्य भाष्ये कृतत्वाच्च तदाह – एजाद्योरिति । एतिरत्रेणेव प्रसिद्धत्वात् । उपैति इत्यादौ <<वृद्धिरेचि>> [[६.१.८८]] इत्यनेन गतार्थत्वमाशङ्क्याह - पररूपगुणेति । एत्येधत्योरेङि पररूपस्योठि चाऽऽद्गुणस्येति विवेकः । उपेधत इति । अत्र न सर्वादेशः । एत्येधत्याद्यवयवेऽचीत्येवं क्रमेण सूत्राणामर्थात् । अयमेवार्थ इति प्रत्ययलक्षणसूत्रस्थभाष्यस्वरसः । वृक्षे शाखा इतिवत् एत्येधत्यूठ्स्विति सप्तमी बोध्या । प्रष्ठौह इति । प्रष्ठं वहतीत्यर्थे वहेर्ण्वौ ततः शस्यूठि सम्प्रसारणे पूर्वरूपेऽनेन वृद्धिः । प्रेदिधदिति । परे तु इति वार्त्तिके एधत्यनुपादानात् \"न त्वेधतेरव्यभिचारात्\" इति वृत्तेश्चास्यानभिधानमेव । एत्येधत्योरेचीति विशेषणम् इति भाष्यस्यैधत्यंशे सम्भवमात्रेणोपरञ्जकतया विशेषणमित्याशय इत्याहुः । उपैधयते इत्यादावपि वृद्धिर्भवत्येव, प्रकृतिभागस्यैध्रूपत्वात् । किञ्च एत्येधत्यवयवेऽचीत्यर्थः प्रत्ययलक्षणसूत्रभाष्यसम्मत इति अत्र न दोषः । पुरस्तादिति । << पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् >> <{PB६०}> इति न्यायः । अवश्यं स्वपरस्मिन्बाधनीये भेदेनापेक्षायां प्रथमोपस्थितबाधेनाऽऽकाङ्क्षानिवृत्तिर्हि तद्बीजम् । असाधुरेवेति । आङिणोरेकादेशस्य पूर्वान्ततयाऽऽङि पररूपेण बाधादिति भावः । अर्थवद्ग्रहणे इति । अस्या बीजं स्वं रूपमिति सूत्रे उक्तम् । पररूपे प्राप्ते इति । पूर्वं धातुः साधनेन युज्यते इति सिद्धान्तादिति भावः ॥",
"61091": "उपसर्गादृति । तपरकरणात् उपऋकारीयति इत्यादौ <<वा सुप्यापिशलेः>> [[६.१.९२]] इति न वृद्धिः । सौत्रऋतिस्तु न गृह्यते, व्याख्यानात् । आदित्यनुवृत्तेन तदन्तविधिरित्याह - अवर्णान्तादिति । \"यस्मिन्विधिः\" (<< यस्मिन्विधिस्तदादावल्ग्रहणे >> <{PB३३}>) इति परिभाषयाऽऽह – ऋकारादाविति । पूर्वपरयोस्तयोः समुदाययोरन्त्याद्योर्वर्णयोरेकादेश इत्यर्थः । उपसर्गावयवाकाराद्धात्ववयवे ऋकारे तयोः पूर्वपरयोर्वृद्धिरित्युचितम् । गतेरिति तु नोक्तम् । अच्छर्छति इत्यादौ दोषात् ॥",
"61092": "सुब्धाताविति । सुबन्तप्रकृतिके धातावित्यर्थः । तुल्यास्यसूत्रे (<<तुल्यास्यप्रयत्नं सवर्णम्>> [[१.१.९]]) उपार्कारीयति इत्यादेरेतदुदाहरणत्वस्य भाष्ये उक्तत्वात् । शास्त्रे सुबन्तस्य धातुप्रकृतित्वेनोक्ततया तत्प्रकृतिके इति व्याख्यानमेवोचितम् । ऋषभस्य समीपमुपर्षभं तदिच्छति उपर्षभीयति इत्यत्र तु न वृद्धिः, उपेत्यस्यानुपसर्गत्वात् । अत्रापि धाता वित्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन सुब्धातावपि न प्रकृतिभावः । प्रार्षभीयतीति । अत्र <<शरोऽचि>> [[८.४.४९]] इत्यस्यानुपन्यासेन व्यञ्जनात्परस्यैकस्यानेकस्य वोच्चारणे विशेषाभावेन <<अचो रहाभ्यां द्वे>> [[८.४.४६]] इत्यस्य तन्निषेधस्य चानावश्यकता सूचिता ॥",
"61094": "वाक्यभेदेनेति । इदं वृत्तौ स्पष्टं, भाष्ये तु न दृश्यते । (वा० [[६.१.९४]]) इति वार्त्तिकं सूत्रे धातावित्यनुवृत्तेरारब्धम् । अवधारणं नियमः । एवशब्दस्य द्योत्यमर्थद्वयमवधारणमसम्भवरूपानवक्लृप्त्यादि च । तयोरन्त्योऽत्रैवशब्दार्थ इत्यभिप्रेत्याह – अनवक्लृप्तावेवेति । क्वेव भोक्ष्यसे इत्युक्तेः स्थलसङ्कीर्णत्वादिना नास्ति सम्भवस्तव भोजनस्येति गम्यते ॥",
"61095": "ओमाङोः । अत्र एङीति नानुवर्त्तते । तेनेषदर्थकाऽऽङा सह ऋषभशब्दस्य समासे अद्य अर्षभः इत्यत्र पररूपेऽद्यर्षभसिद्धिः । न चात्र परत्वाद्दीर्घप्रसङ्गः । प्रतिपदविधित्वञ्च निरवकाशत्वे सत्येव बाधकत्वे प्रयोजकम् । इदञ्च मध्येऽपवादन्यायेन अवेहि इत्यादौ वृद्धेरेव बाधकं स्यादिति वाच्यम्, लक्ष्यानुरोधेनात्र बाध्यसामान्यचिन्ताश्रयणात् । अन्यत्र प्रतिपदविधित्वस्य बलवत्त्वे प्रयोजकतादर्शनेन परदीर्घात्पूर्वं पररूपप्रवृत्तेश्च ॥",
"61098": "अव्यक्तशब्दार्थो - ध्वनेरिति । अविद्यमानकत्वादिशब्दस्येत्यर्थः । तस्य चाच्छब्दोऽनुकरणे एव सम्भवतीत्याह - अनुकरणस्येति । अत्र <<अलोन्त्यस्य>> [[१.१.५२]] इति न प्रवर्त्तते, \"नानर्थके\" (<<नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे>> <{PB१०५}>) इति निषेधात् । \"आम्रेडितस्य वा\" इति वक्तव्ये <<नाम्रेडितस्यान्त्यस्य तु वा>> [[६.१.९९]] इत्यारम्भाद्वा । अत इति किम् ? वटक् इति ॥",
"61099": "नाम्रेडित । अव्यक्तानुकरणस्य इति अत इति च वर्त्तते । अव्यक्तानुकरणावयवीभूताऽऽम्रेडितावयवाच्छब्दस्येत्यर्थः । \"नाम्रेडितस्य तस्तु वा\" इति न सूत्रितं वैचित्र्यार्थम् । फलकल्पनाभिनिवेशस्तु न युक्तो भाष्यानुक्तेः । अत एव <<तदधीते तद्वेद>> [[४.२.५९]] इति सूत्रे द्विस्तद्ग्रहणं प्रमादकृतमाचार्यस्य इति भाष्ये उक्तम्। लाघवानवधानलक्षणोऽत्र प्रमाद इति कैयटः । क्व तदवधानं ? क्व तदनवधानमिति तु भाष्यकृदुक्तप्रयोजने तदवधानमन्यत्रान्यदिति निर्णेयम् । ननु डाचोऽभावादेतदप्राप्तिरत आह - बहुलवचनादिति ॥",
"61101": "अज्झलो: सावर्ण्यनिषेधादाह - अचि किमिति । अनिष्पत्तेरिति । <<नाज्झलौ>> [[१.१.१०]] इति सूत्रविषयनिर्णयेऽपवादविषयपरिहारेण तत्तद्वर्णीयसवर्णपदवाच्यनिर्णयोत्तरं तावतां ग्रहणस्य ग्रहणकशास्त्रबोद्ध्यतयैतद्बोधकाले ग्रहणकशास्त्रस्य तावद्ग्रहणबोधक-त्वानिष्पत्तेरित्यर्थः । सूत्रस्थसवर्णपदानुवृत्तिमभिप्रेत्याह - ऋति सवर्ण इति । तत्फलं दध्यृकारादावेतदप्रवृत्तिः । एतद्विधेययोः <<अइउण्>> सूत्रानन्तरं पाठादच्त्वम् । तेन तयोः स्थाने प्लुतसिद्धिस्तयोश्च न रपरत्वम् । द्विमात्रमिति । अत एव <<अकः सवर्णे दीर्घः>> [[६.१.१०१]] इत्यनेनैव ऋकारद्वयस्य स्थाने रेफद्वयवत्तारूपगुणकृताऽऽन्तर्येण कदाचिद्रेफद्वयगर्भस्य विवृतत्वाऽऽन्तर्येण कदाचिद्विवृतस्य, ऌकारे लकारवत्तान्तर्येण कदाचिद् द्विलकारस्य, कदाचिद्विवृतत्वसाम्येन रेफवत्तासाम्येन च तादृशस्य ऋकारस्य सिद्ध्या विकल्पफलसिद्धिमाश्रित्यैतद्वचनद्वयं <<तुल्यास्यप्रयत्नं सवर्णम्>> [[१.१.९]] इति सूत्रे भाष्ये प्रत्याख्यातम् । द्वौ रेफाविति । अत्रापि तदेव भाष्यं मानम् । द्विरेफत्वे हि रेफद्वयवति स्थानिन्ययं, लकारवत्यपर इति व्यवस्था सिद्ध्यति । अभित इति । द्वौ रेफावित्यनुषज्यते । तच्च द्वितीयान्तम् । अभितः पदयोगात् । <<एओङ्>> सूत्रे भाष्ये मातॄणाम् इत्यादौ णत्वादिसिद्ध्यर्थमवश्यमङ्गीकर्त्तव्ये वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते इति पक्षे प्रलूय, खट्वाभिः, वाचा तरति इत्यादौ तुगैस्द्व्यज्लक्षणानां शङ्कायाः, <<दीर्घात्>> [[६.१.७५]] इति तुग्विधानसामर्थ्यतपरकरणसामर्थ्यं <<नौद्व्यचष्ठन्>> [[४.४.७]] इति सूत्रस्थनौग्रहणसामर्थ्येर्भेदेनाप्रतिभासमानेषु वर्णावयवेषु अवयवसदृशस्वतन्त्रवर्णाश्रयकार्याभावज्ञापनरूपसमाधानस्य च करणवत् प्रातर्ऋतम् इत्यत्र <<रो रि>> [[८.३.१४]] इत्यस्य तद्लृकार इत्यादौ <<तोर्लि>> [[८.४.६०]] इत्यस्य च शङ्कासमाधानाकरणेन यत्तद्रेफात्परं भक्तेः इति <<हयवरट्>> सूत्रस्थभाष्येण च <<ऋलृक्>> - सूत्रस्थयोरर्धमात्राज्भागस्याभितः क्लृप्तत्वेन तथैवोचितत्वादिति भावः । द्वौ लकाराविति । हल्द्वयवत्पूर्वसाहचर्यादिति भावः। अत्र ह्रस्वऋकारद्वयस्थानिकैकादेशे एव पूर्वस्य साधुत्वं ह्रस्वऋकारऌकारस्थानिकैकादेशे एवोत्तरस्य साधुत्वम् । अत एव ऌति न ऋकारो नाप्यृति लृकारः । अत एव वार्त्तिके ऋतीति तपरकरणमुत्तरवार्त्तिके ऌतीति च चरितार्थम् । तुल्यास्यसूत्रे भाष्ये यदेतदृतीति एतदृत इति वक्ष्यामि इत्येतद्वचनाश्रयणेन ऋऌवर्णयोः सावर्ण्यं न कार्यमिति च सङ्गच्छते । उपस्थितरेफीयप्रयत्नत्यागे मानाभावादीषत्स्पृष्टाविमौ । विवृतत्वे हि विवृतऋकारऌकाराभ्यामनयोरपि ग्रहणे \"अकः सवर्णे\" इत्यनेनैव सिद्धे वार्त्तिकस्यैव वैयर्थ्यापत्तेः ॥",
"61109": "एडः । पदान्तात् किम् ? भवति ॥",
"61122": "सर्वत्र वि । <<प्रकृत्याऽन्तः पादमव्यपरे>> [[६.१.११५]] इति सूत्रात्प्रकृत्येत्यनुवर्त्तते । प्रकृतिशब्दोऽत्र स्वभाववाची दुस्त्यजा प्रकृतिः इत्यादौ तथा दर्शनात् । प्रकृत्या स्वभावेनावस्थानमित्यर्थः । अत एव प्रकृतिभावे न पूर्वरूपं नाप्ययादय इति भावः । नान्तः पादम् इति पाठे त्वनेन सूत्रेण गोशब्दस्य यत्प्राप्तं तन्नेति व्याख्यानेन नान्त: पादमित्यनेनैव पूर्वरूपत्वादिकं विकल्पेन निषिद्ध्यत इति बोद्ध्यम् ॥",
"61123": "अवङ् । स्फोटोऽयनं यस्य सः, स्फोटप्रतिपादक इत्यर्थः । \"स्फौटायनस्य\" इतिपाठे नडादित्वं कल्प्यम् । स्फोटायनोऽवङः स्मर्त्ताऽन्यस्तु तद भावस्येति स्मृत्यन्तरानुसन्धानद्वारेणात्र विकल्पो बोद्ध्यः । निवृत्तमिति । अत एव इन्द्रे इति सामर्थ्यान्नित्यम् इति भाष्यादावुक्तम् । गवाग्रमिति । सन्निपातपरिभाषया अनित्यत्वाद्दीर्घ इति बोद्ध्यम् । व्यवस्थितेति । देवत्रातो गलो ग्राह इतियोगे च सद्विधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ।। । तेन प्राण्यवयवे नेति <<शाश्छोरन्यतरस्याम्>> [[७.४.४१]] इति सूत्रे भाष्ये स्पष्टम् । <<अग्नीत्प्रेषणे परस्य च>> [[८.२.९२]] इति सूत्रे अग्नीदग्नीन्विहर इत्यत्र एतद्व्यावृत्त्यर्थं वार्त्तिककृद्बहुलग्रहणघटितं न्यासं कृतवान् । तत्प्रत्याख्यानाय भाष्ये कृतेन विभाषा इति योगविभागेन विभाषेत्यस्य व्यवस्थितविभाषात्वं ध्वनितम् । तथा <<अजेर्व्यघञपो:>> [[२.४.५६]] इति च व्यवस्थितविभाषेति अजेर्वी इति सूत्रे भाष्ये स्पष्टम् । न च व्यवस्थितविभाषयेन्द्रे नित्याऽवङि सिद्धे <<इन्द्रे च>> [[६.१.१२४]] इति व्यर्थमिति वाच्यम् । भाष्योक्तातिरिक्तव्यवस्थितविभाषाणामप्रामाणिकत्वज्ञापनार्थं तत्सत्त्वादित्याहुः ॥",
"61124": "इन्द्रे च । क्वचिद्भाष्यपुस्तके चशब्दरहितः पाठः । इन्द्रावयवेऽचीत्यर्थस्तेन षष्ठीतत्पुरुषोत्तरपदषष्ठीतत्पुरुषे गवेन्द्रयज्ञ इत्यादाववङ्सिद्धिः । अन्यथा वाक्ये गोशब्दस्येन्द्रपरत्वासम्भवेन समासाक्षेपादिन्द्रशब्दस्योत्तरपदत्व एव प्रवृत्तिः स्यात् ॥",
"81002": "तस्य परम् । अवयववाचिपरशब्दयोगेऽत एव ज्ञापकात् षष्ठी । तस्य ग्रहणं स्पष्टार्थम्, द्वे इत्यनुवर्त्य षष्ठ्या विपरिणामेन सिद्धेः । अन्यद्विरुक्तपरस्य तु न सञ्ज्ञा, अष्टमे <<सर्वस्य द्वे>> [[८.१.१]] इत्येतत्प्रकरणे सञ्ज्ञाकरणात् ॥",
"82023": "इति पक्षे इति । विनिगमनाविरहादिति भावः । द्वित्वस्य त्रैपादिकत्वात्तत्र न यणो बहिरङ्गासिद्धत्वम् । अत एव दद्ध्यत्र इति भाष्ये उदाहृतम् । धकारयकारयोरिति । तेन विसर्गादिद्वित्वेनाधिक्येऽपि न क्षतिः । द्विधमिति । द्विधत्वं प्रक्रियायां बोद्ध्यम् । एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भविष्यति इति <<कृञ्चानुप्रयुज्यते लिटि>> [[३.१.४०]] इति सूत्रभाष्योक्तन्यायेनैकस्य द्वित्वे परस्य तदभावोऽनुचित इति न वाच्यम् । सार्थकानेकविषये तन्न्यायाङ्गीकारात् । यत्रान्याकृतिकरणे भिन्नार्थत्वसम्भावना तद्विषयत्वाच्च । <<हलो यमां यमि लोपः>> [[८.४.६४]] इति लोपे द्वित्वाभावे चैकधमेव रूपम् ॥",
"82039": "झलां जश् । अन्तग्रहणं झलीति निवृत्त्यर्थम् । सर्वोपकारकतया च प्रकरणान्तेऽस्य लेखः । एतेन \"श्रत्\" इत्यत्रैव लेख उचित इत्यपास्तम् ॥",
"83015": "निर्देशादिति । न च <<कर्त्तरि चर्षिदेवतयोः>> [[३.२.१८६]] इत्यादौ गुणस्य पदद्वयसम्बन्धिवर्णद्वयाश्रितत्वेन बहिरङ्गत्वाद्रेफाभावेन न विसर्ग इति वाच्यम् । गुणस्येव पदद्वयसम्बन्धिरेफखरात्मकवर्णद्वयाश्रितत्वेन विसर्गस्यापि तत्त्वात् । पर निमित्तकत्वमप्युभयोः समम् । किं च कार्यकालपक्षे त्रिपाद्यां तदुपस्थितावपि पूर्वं प्रति परस्यासिद्धत्वादन्तरङ्गाभावेन पूर्वस्यान्तरङ्गनिरूपितबहिरङ्गत्वाभावात्कथं तस्यासिद्धत्वप्रतिपादनम् । न चानया पूर्वस्यासिद्धत्वादभावेन तं प्रति परासिद्धत्वं <<पूर्वत्रासिद्धम्>> [[८.२.१]] इत्यनेन वक्तुमशक्यमिति वाच्यम् । एवं हि विनिगमनाविरहादुभयोरप्यप्रवृत्तौ विसर्गो दुर्वारः । एवञ्च विरोधात्कार्यकालपक्षेऽपि तदनुपस्थितिरेव त्रिपादीस्थेऽन्तरङ्गे उचिता । अत एव विसर्जनीयसूत्रे (<<खरवसानयोर्विसर्जनीयः>> [[८.३.१५]]) भाष्ये इमावेव युक्तिमुक्त्वा अयुक्तोऽयं परिहारो न वा बहिरङ्गलक्षणत्वात् इत्युक्तम् । एवञ्च तत्र तत्र वचनान्येव कार्याणि ज्ञापकानुसरणं वा कर्त्तव्यम् । अत एव निगाल्यते इत्यादौ लत्वाद्यर्थं \"तस्य दोष\" इति वचनमेवारब्धम् । अन्यथाऽन्तरङ्गत्वाण्णिलोपात्पूर्वं वैकल्पिकलत्वे चक्र्यत्र, माषवपनी इत्यादौ बहिरङ्गासिद्धत्वेन च सिद्धे तद्वैयर्थ्यं स्पष्टमेव । यत्तु लक्ष्यानुरोधात्कार्यकालपक्षे उपस्थितयान्तरङ्गपरिभाषयाऽऽनुमानिक्या प्रत्यक्षसिद्धस्यापि पूर्वत्रेत्यस्य बाध इति, तन्न लक्षणैकचक्षुषामादरणीयम्। अत एव <<उरण् रपरः>> [[१.१.५१]] इति सूत्रे रेफस्य पूर्वान्तवत्त्वे विसर्जनीयप्रतिषेधो वक्तव्यो नार्कुटाद्यर्थम् इत्युक्तं भाष्ये इति दिक् । उपसर्गेणैवेति । तत्सञ्ज्ञायाः क्रियायोगनिमित्तत्वादित्यर्थः । यदर्थे क्रियारूपे प्रादीनामन्वयस्तं प्रत्येवोपसर्गत्वमिति भावः । प्रकृते च प्रत्यासत्त्या ऋकारादिनिमित्तोपसर्गग्रहणात् प्रगतः ऋद्धः \"प्रर्द्ध\" इत्यत्र न । पुनरिति । प्रकृतसूत्रे भाष्ये स्फुटमेतत् ॥",
"83019": "लोपः शा । <<भोभगोअघोअपूर्वस्य>> [[८.३.१७]] इति \"अशि\" इति चानुवर्त्तते । तत्रौकारान्तेषु <<ओतो गार्ग्यस्य>> [[८.३.२०]] इति बाधकमित्याशयेनाह - अवर्णपूर्वयोरिति । व्योरित्यनुवृत्तावपि वर्णसमाम्नाये यकारस्य प्राक्पाठात्तत्क्रमेणाह - यवयोरिति । स तस्मा आचष्टे इत्यादिभाष्यप्रयोगादत्र रोरित्यस्यासम्बन्धः । इदं सूत्रं लघुप्रयत्ने न । शाकटायनमते तयोर्विधानेन शाकल्यमते तदभावात् । अवर्णेति किम् ? गौर्यत्र । पदान्तयोः किम् ? हरये । अशि किम् ? वृक्षं वेतीति वृक्षवी: ? क्विप् तमाचष्ट इति ण्यन्ताद् विच् । वृक्षव् करोति । क्विपि तूठ् स्यात् । विज्निमित्तको <<लोपो व्योर्वलि>> [[६.१.६६]] इति लोपस्तु न । णिलोपटिलोपयोः स्थानिवत्त्वात् । प्रातिपदिकाण्णिजुत्पत्त्या पदत्वाभावेन पर पदस्थाजादेशाभावेन च लोपस्य पदचरमावयवत्वाभावेन च <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[१.१.५८]] इति निषेधाप्रवृत्तेः । एतेन विज्निमित्तको वलोपोऽत्र दुर्वार इत्यपास्तम् । किञ्च स्थानिवत्त्वनिषेधं विनाऽस्य पदान्तत्वासिद्ध्यात्र निषेधाप्रवृत्तिः । स्थानिवत्त्वनिषेधज्ञाने पदान्तत्वज्ञानं तन्निर्णये च स्थानिवत्त्वाभावज्ञानमित्यन्योन्याश्रयस्तत्राप्रवृतौ मानम् । इदञ्च <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[१.१.५८]] सूत्रे भाष्ये स्पष्टम् । न च पदसञ्ज्ञायां टिलोपस्य स्थानिवत्त्वाद्वस्य पदान्तत्वमेव नास्तीत्यशीति व्यर्थमिति वाच्यम् । \"पूर्वत्रासिद्धीये\" इति निषेधात् । साक्षात्, पदत्वादिद्वारकपरम्परया वा पूर्वत्रासिद्धीयप्रापकस्य तत्प्रतिबन्धकस्य वाऽतिदेशस्य तेन निषेधादिति केचितू । परे तु न पदान्ता हलोऽणः सन्ति इति लण्सूत्रस्थभाष्याद्वृक्षवादेरनभिधानमेव । <<भोभगोअघोअपूर्वस्य>> [[८.३.१७]] इति सूत्रे इति वार्त्तिकाच्च । अशोऽन्यत्र तन्निमित्तकार्यिणोऽभावादिति तदर्थः । न ह्यन्यत्र रुरस्ति इति तद्वयाख्यानभाष्ये रुग्रहणमुपलक्षणम् । एतदाशयमजानानेनैकदेशिना उत्तरार्थं <<हलि सर्वेषाम्>> [[८.३.२२]] इति वृक्षव् करोतीत्यत्र मा भूत् इत्युक्तम् । अस्य चैकदेश्युक्तित्वं लण्सूत्रस्थोक्तभाष्यविरोधेन स्पष्टमेव कैयटेनोक्तम् । अत एव भाष्ये उत्तरार्थमित्युक्त्वा <<हलि सर्वेषाम्>> [[८.३.२२]] इत्यत्रैव प्रयोजनमुक्तम् । हलि सर्वेषामित्यत्र वकारनिवृत्त्यैवात्र तद्वारणसम्भवान्न तत्राप्यश्ग्रहणस्य प्रयोजनमिति तद्भाष्यमेकदेश्युक्तिरेवेत्याहुः । कानि सन्तीति । वाक्यसंस्कारपक्षेऽपि पूर्वोपस्थितनिमित्तकत्वरूपान्तरङ्गत्वमादायान्तरङ्गाणां पूर्वं प्रवृत्तिरितीकारादेः स्थानिभूतादचः पूर्वत्वं बोद्ध्यम् ॥",
"84046": "<<अचो रहाभ्यां द्वे>> [[८.४.४६]] । अच इति श्रुतत्वाद् व्याख्यानाच्च रहाभ्यां सम्बद्ध्यते । <<तस्मादित्युत्तरस्य>> [[१.१.६७]] इत्येतल्लभ्यमाह - अचः पराभ्यामिति ॥",
"84047": "चो विद्ध्यर्थः । ध्वनितञ्चेदं एओङ् सूत्रे भाष्ये तदाह - द्वे वा स्त इति । सूत्रकृता शाकल्यमते सर्वत्र द्वित्वाभावोक्तेरिति भावः । अवसाने द्वित्वसिद्धयेऽनचीति प्रसज्यप्रतिषेधस्तदाह - न त्वचीति । इदं द्वित्वं षाष्ठद्वित्ववद् द्विःप्रयोग एव । (<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]]) यर इत्यादेरध्याहृतोच्चारणक्रियानिरूपितकर्मषष्ठीत्वस्यौचित्यात् । इति धस्येति । न तु द्वित्वे पूर्वधस्थाने जश्त्वनिष्पन्नदस्यापि लक्ष्ये लक्षणम् इति न्यायात् । विकारान्यत्वेन न लक्ष्यभेद इत्यन्यत्र प्रपञ्चितम् ॥",
"84048": "नादिन्या । <<यरोनुनासिकेनुनासिको वा>> [[८.४.४५]] इत्यतो \"यर\" इति वर्त्तते । पुत्रशब्दस्येत्यवयवषष्ठी । आदिनीशब्दे परे इति च प्राधान्याद् यर एव विशेषणम् । सूत्रे आदिनीति ङ्यन्तानुकरणं लुप्तसप्तमीकम् । अत एव (वा० [[८.४.४८]]) इत्यस्य आदिनीशब्दो यस्मात्परस्तत्र परे इत्यर्थं हरदत्तो व्याख्यत् अद्धातौ माधवोऽप्येवमेव । ईदृशाक्रोशस्य स्त्रीष्वेव दर्शनाच्च । आक्रोशो निन्दा; तदाह – पुत्रादिनीति । तादृशाक्रोशस्य स्त्रीष्वेव दर्शनादाह – पुत्रहतीति । <<अनचि च>> [[८.४.४७]] इति सिद्धे पुत्रस्य क्तान्ते चेद्धतजग्धयोरेव, आक्रोशे एव इति नियमार्थमिदम् ॥",
"84050": "संयुक्तेष्विति । <<त्रिप्रभृतिषु शाकटायनस्य>> [[८.४.५०]] इति सूत्रे वर्णानां सजातीयानामेव ग्रहणं परस्परसाहचर्यात् । न च तथाऽचः सम्भवन्ति । अत एव <<अचो रहाभ्यां द्वे>> [[८.४.४६]] इति सार्थकम् । निर्धारणे सप्तमी, अच इत्यनुवर्त्तते, त्रिप्रभृतिसंयुक्तवर्णमध्येऽचः परस्य यरो द्वे वा न स्त इत्यर्थः । तेन इन्द्रः, राष्ट्रम् इत्यत्र नकारषकारयोः प्राप्तद्वित्वस्यैव निषेधविकल्पः । <<अनचि च>> [[८.४.४७]], <<सर्वत्र शाकल्यस्य>> [[८.४.५१]] इत्येव सिद्धे इदं सूत्रद्वयं विकल्पस्य मतभेदप्राप्तव्यवस्थाबोधनार्थमिति बोध्यम् । <<यरोनुनासिकेनुनासिको वा>> [[८.४.४५]] इत्यतो वेत्यनुवृत्त्या <<अनचि च>> [[८.४.४७]] इत्येव सिद्धे सूत्रत्रयमपि तथेति बोद्ध्यम् ॥",
"84051": "",
"84052": "",
"84053": "दकार इति । स्थानत आन्तर्यादिति भावः ॥",
"84064": "वा यमीति । <<झयो होऽन्यतरस्याम्>> [[८.४.६२]] इत्यतो \"अन्यतरस्याम्\" इत्यनुवृत्तेरिति भावः । <<दीर्घादाचार्याणाम्>> [[८.४.५२]] इत्युत्तरम् <<अनुस्वारस्य ययि परसवर्णः>> [[८.४.५८]], <<वा पदान्तस्य>> [[८.४.५९]], <<तोर्लि>> [[८.४.६०]], <<उदः स्थास्तम्भोः पूर्वस्य>> [[८.४.६१]], <<झयो होन्यतरस्याम्>> [[८.४.६२]], <<शश्छोऽटि>> [[८.४.६३]] - इति षट्सूत्रीपाठोत्तरं <<झलां जश् झशि>> [[८.४.५३]], <<अभ्यासे चर्च>> [[८.४.५४]], <<खरि च>> [[८.४.५५]], <<वाऽवसाने>> [[८.४.५६]], <<अणोऽप्रगृह्यस्यानुनासिकः>> [[८.४.५७]] - इति पञ्चसूत्र्याः पाठ इति भाष्यसम्मताष्टाध्यायीपाठे तु <<वाऽवसाने>> [[८.४.५६]] इत्यतोऽनुवृत्तिर्बोद्ध्या । स्पष्टञ्चास्य वैकल्पिकत्वं लण्सूत्रे भाष्ये । आदित्य इति । आदित्यशब्दाच्छेषार्थण्यन्ताद्देवतार्थे ण्यः । <<यस्येति च>> [[६.४.१४८]] इत्यल्लोपेऽनेन यलोपः । <<आपत्यस्य च तद्धितेऽनाति>> [[६.४.१५१]] इति तु न । आपत्यत्वाभावात् । हल इति किम् ? शय्या । यमामिति किम् ? आर्ध्नोत् । यमीति किम् ? रामाभ्याम् ॥",
"84065": "झरो झ । <<झयो होऽन्यतरस्यां>> [[८.४.६२]] इत्यतो <<वाऽवसाने>> [[८.४.५६]] इत्यतो वा विकल्पोऽनुवर्त्तते । हयवरट्सूत्रशेषे भाष्ये स्पष्टमिदम्। लोपे इति । ऋधधातोर्झर इति भावः । असतीति । द्वित्वाभाव इत्यनुकृष्यते । त्रिधमिति । त्रिधकारत्वं प्रक्रियाभिप्रायेण । न च द्वित्वभिन्ने पूर्वत्र कर्त्तव्ये परमसिद्धमित्यर्थकेन (वा० [[८.२.१]]) इत्यनेन धातुधकारस्य जश्त्वे दस्य द्वित्वमितीदमयुक्तमिति वाच्यम् । फले विशेषाभावेन तदनादरणात् । न ह्यत्र जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषोऽस्ति, तदनन्तरञ्जश्त्वप्रवृत्तेस्तस्य परिभाषात्वेन फलविशेषे एव प्रवृत्तेरित्यन्यत्र विस्तरः । पञ्चमीति । विनिगमकाभावादिति भावः । अत एवास्य वैकल्पिकत्वम् ॥"
}