{ "11001": "वृद्धिः,आत् ऐच्- इति केचित् त्रिपदमिदं सूत्रं वर्णयन्ति। अन्ये तु, आच्च, ऐच्च् इति आदैजिति समाहारे द्वन्दोऽयमिति मत्वा वृद्धिः, आदैच् इति द्विपदम्।इतरेतरयोगे हि बहुत्वाद्बहुवचनं स्यात्। ननु च समाहारेऽपि `द्वन्द्वाच्चुदषहान्ता-त्` [[5.4.106]] इति टच् समासान्तः स्यात्; समासान्तविधेरनित्यत्वान्न भविष्यति। अनित्यत्वं षष्ठे ज्ञापयिष्यते। अथ <<चोः कुः>> [[8.2.30]] इति कुत्वं कस्मान्न भवति? `अय-स्मयादीनि च्छन्दसि` [[1.4.20]] इति भसञ्ज्ञकत्वात्। आदिशब्दस्य प्रकारवाचित्वादैच्छ-ब्दोऽयमयस्मयादिषु द्रष्टव्यः। ननु तत्र च्छन्दसीत्युच्यते, न चेदं छन्दः, तत्कुतो भसञ्ज्ञा? `छन्दोवत् सूत्राणि भवन्ति` इत्यदोषः।इहेदं सूत्रमनर्थकं वा स्याद्यथाकथञ्चिदुदात्तादिवचनवत्? साध्वनुशासनार्थवा, वृद्धिशब्दस्यादैचाञ्चानेन साधुत्वमाख्यायत इति? प्रयोगनियमार्थं वा, आदैच पर एव वृद्धिशब्दः प्रयोक्तव्य इति? आदेशार्थवा, आदैचां वृद्धिशब्द आदेशो भवति ते वा तस्येति? आगमागमिसम्बन्धार्थं वा, आदैचां वृद्धिशब्द आगमो भवति, ते वा तस्येति? विशेषणविशेष्यभावप्रसिद्ध्यर्थं वा, आदैचां वृद्धिशब्दो विशेषणम्, ते वा, तस्येति?एकविभक्तिकत्वं ह्यत्र दृष्टम्, दृष्टश्चैकविभक्तिकयोर्विशेषणविशेष्यभावः, तद्यथा नीलमुत्पलमिति; सञ्ज्ञासञ्ज्ञिसम्बन्धार्थं वा? दृश्यते हि सोऽप्येकविभक्तिकयोः, तद्यथा `अयं पनसः` इति? तत्र तावदाद्यः पक्षो नोपपद्यते। सगषिगतज्ञानातिशयो ह्राचार्यः परहितप्रतिपन्नः समाहितचेताः शिष्याणां कृतरक्षासंविधानो मङ्गलपूर्वकं महता प्रयत्नेन सूत्राणि प्रणीतवान्। तत्राशक्यमेकेन वर्णनाप्यनर्थकेन भवितुम, किं पुनरियता सूत्रप्रबन्धेन!नापि शक्यं वृद्धिशब्दस्यादैचां च साधुत्वमनेन विधीयत इति विज्ञातुम्, लक्षणान्तरेण विहितत्वात् तेषां साधुत्वस्य। तथा हि वृद्धिशब्दोऽयम-विशेषेणचोपदिष्टः। `वृधु वृद्धौ` (धातुपाठः-759) इत्यतः क्तिन्प्रत्ययः <<स्त्रियां क्तिन्>> [[3.3.94]] इति, <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति धकारस्य दकारः। आदैचोऽप्यक्षरसमाम्नाय उपदेशात्। ऐचोऽक्षरसमाम्नाय उपदेशः, नाकारस्येति चेत्? अवर्णजातेरुपदेशात् सोऽपि गृह्रत इत्यदोषः। अथाप्यकारव्यक्तेरुपदेशः? एवमप्यदोषः। <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यकारेण गृह्रमाणेनाकारस्यापि ग्रहणात्। प्रयोगनियमार्थमप्येतन्नार्हति भवितुम। प्रयोगनियमार्थे ह्रेतस्मिन्? `सिचि वृद्धिः` [[7.2.1]] मृजेर्वृद्धिः` [[7.2.114]] इत्यादावनादैच्परस्य वृद्धिशब्दस्य प्रयोगो नोपपद्यते। कथं हि नाम स्वयमेव नियमं कृत्वा तमनादैच्परं प्रयुञ्जीत!अन्यस्तु प्रयोगनियमार्थमेतन्न भवतीति प्रतिपादयितुमाह- नह च प्रयोगनियमा-र्थमारभ्यत इति। ननु चायं प्रयोगनियमार्थमेवारभ्यते `ते प्राग धातोः` [[1.4.80]] इति? ते गत्यपसर्गसञ्ज्ञका धातोः प्रागेव प्रयोक्तव्याः इति परेण चोदिते परिहारमाह- `प्रत्याख्यायते स योगः, न वा, तथानिष्टदर्शनात्` इति। न हि प्रपचतीति प्रयोक्तव्ये कश्चित् पचति प्र इति प्रयुङ्कते। अथापि न प्रत्याख्यायेत, एवमपि न दोषः, यतः सञ्ज्ञानियमोऽयं न प्रयोगनियमः, ते प्रादयो धातोः प्राक् प्रयुज्यमाना एव गत्युपस-र्गसञ्ज्ञका भवन्तीति। अथापि प्रयोगनियमार्थं स्यात्, एवमपि न दोषः, लौकिकानां शब्दानामर्थे प्रयुक्तानां प्रयोगनियम आरभ्यते, आदैच्छब्दश्च लौकिकः, तस्य किं प्रयोगनियमार्थेन वचनेनेति? तत्र यदुक्तं `प्रत्याखायायते स योगः` इति, तदयुक्तम्। न हि सार्थकस्य प्रत्याख्यानं युक्तम्। निरर्थकः स इति चेत्? अत्राप्यनर्थकत्वाशङ्काप्रसङ्गः। यदि ह्रनर्थकान्यपि कानिचित् सूत्राणि प्रणीतवान् सूत्रकार इत्येषोऽ-ध्यवसायः स्यात्। तस्मात तस्य प्रामाण्यमभ्युपगच्छता सर्वं तत्प्रणीतं येन केनचित् प्रकारेण सार्थकमभ्युपेयम्। योऽपि सञ्ज्ञानियमपक्षमाश्रित्य परिहार उक्तः, सोऽपि वृत्त्या विरुध्यते। `ते गत्युपसर्गसञ्ज्ञका धातोः प्राक् प्रयोक्तव्याः` इत्यनेन हि वृत्तिग्रन्थेन प्रयोगनियम एवाश्रित इति स्पष्टमेवाख्यातम्। न च वृतिंत व्याख्यातुमुद्यतस्य तद्विरुद्धं व्याख्यानं युज्यते कर्तुम।यदप्युक्तं `लौकिकानां शब्दानाम्` इत्यादि, तदपि न प्रयोगनियमार्थता-शङ्कापनोदायालम्। तथा हि `विभाषा सुपो बहुच् पुरस्तातु [[5.3.68]] , `अव्ययसर्व-नाम्नामकच् प्राक् टेः` [[5.3.71]] , `कृञ्चानुप्रयुज्यते लिटि` [[3.1.40]] इत्यलौकिकानामपि बहुजादीनं शास्त्रे प्रयोगनियमो दृश्यते, तत्र भवितव्यमेवाशङ्क्या, किमेतत् प्रयोगनियमार्थम्, अथान्यार्थमित्यलमतिप्रसङ्गेन। तस्मात् पूर्वोक्त एव परीहारो युक्तः।आदेशार्थमप्येतच्छक्यते न विज्ञातुम्। यदि ह्रादैचामनेन वृद्धिशब्द आदेशो विधीयेत, य एते निर्देशाः `याति वाति द्राति प्साति` [[8.4.17]] इति, यश्च <<रायो हलि>> [[7.2.85]] इति, यश्च <<नावो द्विगोः>> [[5.4.99]] इति, ते नोपपद्येरन्। अथ वृद्धिशब्द-स्यादैच आदिश्येरन्, एवमपि <<इद्वृद्धौ>> [[6.3.28]] , <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इत्येवमादयो निर्देशा न सम्भवेयुः। अत एवागमार्थमप्येतन्नोपपद्यते। न ह्रादैचां वृद्धिशब्द आगमे विहिते तस्य वा तेषु पूर्वोक्ता निर्देशा उपपद्यन्ते।अन्यस्त्वाह- आदेशविधाने स्थान्यादेशसम्बन्धे षष्ठआ भवितव्यम्, आगमविधानेप्यवयवावयविसम्बन्धे, न चेह षष्ठी विद्यते, तस्मात् षष्ठआ अभावान्नेदमादेशार्थम्, नाप्यागमार्थम् इति। एतच्चासम्यक्। विनाऽपि षष्ठआ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] , `अनिते` [[8.4.19]] , `अन्तः` [[8.4.19]] , <<उभौ साभ्यासस्य>> [[8.4.21]] इत्यावेशविधानदर्शनात्। आगमविधानस्यापि `न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्` [[7.3.3]] इति षष्ठीमन्तरेणापि दर्शनात् विशेषणविशेष्यभावप्रसिद्ध्यर्थमप्येतन्न् सम्भाव्यते। तथा हि सम्भवव्यभिचारे च सति विशेषणविशेष्यभावो भवति, नीलोत्पलवत्। न चेहादैचां वृद्धिशब्दे तस्य वा तेषु सम्भवः। ननु च यथोत्पलशब्दःसर्वत्रोत्पलार्थे वर्तमानो नीलशब्देनार्थान्तराद्वयवच्छिद्यत इति व्यवच्छिद्यमानो विशेष्यो भवति, नीलशब्दस्तु व्यवच्छिन्दन् विशेषणम्, तथानयोरपबि यो वयवच्छेद्यः स विशेष्यो भवति, यस्तु व्यवच्छेदकः स विशेषणमिति? नैतदस्ति। उभयोर्हि सार्थकत्वे सत्येतदुपपद्यते, नीलोत्पलशब्दवत्। न चादैचोऽर्थवन्तः। भवतु नामानयोर्विशेषणविशे-ष्यभावः, तथापि नैतत्सिद्ध्यर्थमिदं युक्तम्; निष्प्रयोजनत्वात्, तत्पुनः प्रकृतानुपयोगित्वात्। शब्दानुशासने हि शास्त्रे प्रकृते यग्नाम शब्दसंस्कारानुपयोगिवचनं तत्सर्वमप्रयोजनम्। शब्दसंस्कारानुपयोगित्वं त्वेतत्प्रतिपदितेन विशेषणविशेष्यभावेनवृद्धिशब्दस्यादैचां वा स्वरविशेषस्य वा रुपविशेषस्य वा संस्कारस्यासिद्धेः। विशेषणविशेष्यभाव एव तेषां संस्कार इति चेत्? यद्येवम्, अत्यल्पमिदमुच्यते<<वृद्धिरादैच्>> [[1.1.1]] इति। नीलोत्पलमित्यद्पि हि वक्तव्यम्, नीलोत्पलादिशब्दानां विशेषणविशेष्यभावप्रसिद्धये। न चोक्तम्, अतो नैष संस्कारोऽभिमत इति नास्य तादथ्र्यं सम्भाव्यते।ननु तुल्यविभक्तिकानां तद्गुणसमाध्यारोपोऽपि दृष्टः, तद्यथा `सिंहो माणवकः` इति, तस्मात् तदर्थमेतद्भविष्यतीति यत्पक्षान्तरमेके परिकल्पयाम्बभूवुः, तदर्थम-प्येतन्न भवति, तद्गुणसमाध्यारोपस्य सतोऽप्यत्र प्रकृतानुपयोगित्वेनानर्थकत्वात्। तस्मात् पारिशेष्यात् सञ्ज्ञासञ्ज्ञिसम्बन्धार्थमेवैतदित्यालोच्याह-`वृद्धिशब्दःसञ्ज्ञात्वेन` इत्यादि। भवतु नाम परिशेष्यात्तदर्थम्। एतत् कुतो लभ्यते? वृद्धि-शब्दः सञ्ज्ञा, आदैचः सञ्ज्ञिनः इति। विपर्ययः कस्मान्न भवति,आदैचः सञ्ज्ञा, वृद्धिशब्दः सञ्ज्ञी इति? नार्हति विपर्ययो भवितुम्। तथा हि, लघ्वर्थत्वात् सञ्ज्ञाकरणस्य, यस्मिन्नुच्चार्यमाणे प्रदेशेषु लाघवं भवति तस्य सञ्ज्ञार्थत्वेन भाव्यम्। वृद्धिशब्दे च विभक्तिकेऽप्युच्चार्यमाणे लाघवं भवति, नादैक्षु; यस्माद्वृद्धिशब्द उच्चार्यमाणे चतस्त्रो मात्रा भवन्ति, आदैक्षु तु पञ्च। न चादैचां प्रत्येकंसञ्ज्ञाभावाल्लाघवं भवतीति शक्यं परिकल्पयितुम्, प्रयोजनविशेषमन्तरेणैकस्थाने-सञ्ज्ञाविधानस्य निष्फलत्वात्। किञ्चावर्तिभ्यः सञ्ज्ञा भवन्ति। वृद्धिशब्दश्चावर्तते, नादैच्छब्दः तस्मान्न भवति विपर्ययः `वृद्धिशब्दः` इति। शब्दग्रहणमर्थव्यवच्छे-दार्थम्। असति हि तस्मिन् शब्दादर्थावगतेरर्थस्यैव सञ्ज्ञात्वं विज्ञायेत। यद्यपि प्रागेव सञ्ज्ञा विहिता, तथापि शिष्यप्रशिष्यप्रबन्धाद्युपरमाद्विधीयत इतिवर्तमानप्रयत्वेन् निर्देशः। यत्र समुदास्य कार्यमिच्छति तत्र उभेपदग्रहणं करोति, यथा `उभेअभ्यस्तम्` [[6.1.5]] इति, अन्वर्थां वा महतीं सञ्ज्ञाम्, `हलोऽन्तराः संयोगः` [[1.1.7]] इति। तत्र हि महती सञ्ज्ञैवमर्था क्रियते, समुदायस्यैषा सञ्ज्ञायथा स्यादिति। एतच्चोत्तरत्र व्यक्तीकरिष्यामः। इह तु न किञ्चित्तथाविधं वचनमस्ति यतः समुदायस्यै-षा सञ्ज्ञा स्यात्। तस्मादेकैकस्यैषा सञ्ज्ञेति मनसि कृत्वाह `प्रत्येककम्` इति।ननु चेहापि लाघवार्थमेकाक्षरायां सञ्ज्ञायां कर्तव्यायां वृद्धिरिति महत्याः सञ्ज्ञायाःकरणं समुदायस्य सञ्ज्ञा यथा स्यादित्येवमर्थम्? नैतदस्ति। मङ्गलार्थत्वा-दस्याः सञ्ज्ञायाः। अत एवास्याः प्रागुच्चारणम्। अन्यथा सञ्ज्ञायाः सतः कार्यिणः कार्येण भवितव्यमिति, यथा `अदेङ्गुणः` [[1.1.2]] इत्यादौ पूर्वसञ्ज्ञीनिर्दिष्ट-,तथेहापि निर्दिशेत्। आकारस्य गुणान्तरयुक्तयोश्चैचोः प्रत्याहारेऽसन्निवेशान्नामी वर्णा इति कस्यचिन्मन्दधियो भ्रान्तिः स्यात्, अतस्तन्निराकरणायाह-`वर्णानाम्` इत्यादि। प्रत्यासत्तेस्तद्भावितानामेवैषां सञ्ज्ञा स्यादिति कस्यचिद्विपर्ययः स्यात्, अतस्तमपाकर्तुमाह-`सामान्येन` इति। व्याप्तेन्र्यायादित्यभिप्रायः। सामान्येनेत्यस्यार्थं विस्पष्टीकर्तुमाह- `तद्भावितनाम्` इत्यादि। ते तद्भाविताःये वृद्धिशब्देनोत्पादिताः, ततोऽन्येऽतद्भाविताः। आदिति तपरकरणम्-<<तपरस्तत्कालस्य>> [[1.1.70]] इति गुणान्तरभिन्नानामपि तुल्यकालानां ग्रहणार्थं वा स्यात्, भिन्न-कालानां ग्रहणनिवृत्त्यर्थं वा? तत्र्पूर्वः पक्षस्तावन्नोपपद्यते; अभेदकत्वादिहोदात्तादीनां शास्त्रे गुणानाम। कुत एतत्? `लुङलङलृङक्ष्वडुदात्तः` [[6.4.71]] इत्युदात्तग्रहणात्, अन्यथा ह्रुदात्तगुणयुक्तमेवाटमुच्चारयेत्। द्वितीयोऽपि नोपपद्यते।यदि ह्राकारः सवर्णानां ग्राहकः स्यात्, ततस्तेन भिन्नकालस्याप्यवर्णस्य ग्रहणे सति तस्यापि सञ्ज्ञा मा भूदिति भिन्नकालानां ग्रहणनिवृत्त्यर्थं तपरकरणमुपपद्यते। नचासौ सवर्णानां ग्राहकः, अनण्त्वात्, तस्य पुनरक्षरसमाम्नायेऽसन्निवेशात्। तस्मादनर्थकं तपरकरणम्। ततो न कर्तव्यमेवेत्यत आह- `तपरकरणम्` इत्यादि। एचोरर्थः प्रयोजनंयस्य् तत् तथोक्तम्। ननु च जातौ पदार्थे प्लुतस्यापि ग्रहणं भवति, तत्राप्यवर्णजातेः समवयात्, तत्रासति तपरकरणे तस्यापि सञ्ज्ञा स्यत्, तस्मात् तन्निवृत्तय तपरकरणं भवदाकारार्थमप्युपपद्यत एव, तत्किमुच्यते `एजर्थम्` इति? एवं मन्यते-जातिपक्षसमाश्रयणेऽपि हि दीर्घोच्चारणसामर्थ्याद्द्विमात्रा एवावर्णव्यक्तयःसमाश्रिता इति गम्यते, इतरथा हि लाघवार्थम्? `अद्` इत्येवाभिदध्यात्। न च ह्रस्वनिवृत्त्यर्थं दीर्घोच्चारणमिति शक्यते परिकल्पयितुम्, दीर्घोच्चारणेऽपि ह्रस्व-ग्रहणं प्राप्नोत्येव, तत्राप्यवर्णजातेः सम्भवादिति। न चासन्देहार्थम् `आत्` इत्युक्तम्, वर्णान्तरासाधारणत्वात्, असंहितया वा सन्देहाभावादिति। ननु च <<तपरस्तत्कालस्य>> [[1.1.70]] इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः, न चात्रैच् तपरः, तत्कथं तपरकरणमैजर्थं भवतीत्यत आह- `तावपि परस्तपरः` इति। न केवलं तः परो यस्मात् स तपर इति, अपि तु तादपि यः परः सोऽपि तपर इति अपिशब्देन दर्शयति। एतदुक्तं भवति, न केवलं बहुव्रीहिरेव तत्राश्रीयते, किं तर्हि? पञ्चमीतत्पुरुषोऽपि। यता चैतदुभयमा-श्रीयते तथा तत्रैवोपपादयिष्यामः। इति करणो हेतौ यत एवं तादपि परस्तपरः, तेन तपरकरणमैजर्थमित्यर्थः।`खट्वैडकादिषु` इत्यादिना तदेवैजर्थत्वं तपरकरणस्य स्पष्टीकरोति।वृक्ष एलका `वृक्षैलका`। अक्रियमाणे ह्यत्र तपरकरणे त्रिमात्रिकस्याकारैकारसमुदायस्यस्थाने वृद्धिरेचि` [[6.1.85]] इति वृद्धिरान्तरतम्यात् त्रिमात्रिक एवैकारः स्यात्यदि तस्यापि वृद्धिसञ्ज्ञा स्यात्। खट्वा ओदनं खट्वौदनम्, खट्वा एलका खट्वैलका इत्यत्रापि पूर्वोत्तरसमुदाययोश्चतुर्मात्रायोश्चतुर्मात्रावकारैकारौ स्याताम्,तन्मा भूदेष दोष इति त्रिमात्रचतुर्मात्राणामैचां वृद्धिसञ्ज्ञानिवृत्तये तपरकरणं क्रियते। आआलायनः, ऐतिकायनः` इति। अआलेतिकशब्दाभ्यां <<नडादिभ्यः फक्>> [[4.1.99]] , <<यस्येति च>> [[6.4.148]] इति लोपः, `किति च` [[7.2.118]] इत्यादिवृद्धिः। `औपगवः` इति।उपगुशब्दात् <<प्राग्दीव्यतोऽण्>> [[4.1.83]] । `औपमन्यवः` इति। उपमन्युशब्दात <<अनृष्यानन्तर्ये बिदादिभ्योऽञ्>> [[4.1.104]] इत्यञ्, उभयत्रापि <<ओर्गुणः>> [[6.4.146]] , अवादेशः [[6.1.75]] , <<तद्धितेष्वचामादेः>> [[7.2.117]] इति वृद्धिः। एतानि चत्वार्यपि तद्भावितो-दाहरणानि। ननु येऽत्र त्रयः सञ्ज्ञिनस्तेषामाद्यैस्त्रिभिर्विषयो दर्शितः, किमर्थ-श्चतुर्थोपन्यासः? केचिदाहुः- वद्धिनिमित्तभेदात्, आद्ययोरुदाहरणयोः कित्तद्धितो वृद्धेर्निमत्तम्, तृतीयेऽपि णित्, तचुर्थेऽपि ञित् इति। एतच्चायुक्तम्। तथा हि <<इको गुणवृद्धी>> [[1.1.3]] इत्यत्र`अकार्षीत्` इत्युदाहृत्य `अहार्षीन्` इत्युदाहृतम्`, न च तत्र वृद्धिनिमित्तभेदोऽस्ति। तथा <<न धातुलोप आर्धधातुके>> [[1.1.4]] इत्यत्रलोलुवः इत्युदाहृत्य `पोपुवः, मरीमृजः` इत्यधिकोदाहरणोपन्यासः कृतः। न च तत्र लोपनिमित्तभेदः; प्रतिषेधनिमित्तभेदो वा अधिकोदाहरणोपन्यासस्य हेतुर्विद्यते। प्रायेणा-न्यष्वेपि च सामान्यलक्षणेषु विनापि निमित्तभेदानाधिकोदाहरणोपन्यास उपलभ्यते। योऽप्याह `ओपगव इत्यनेनैच औकारस्य विषये दर्शितेऽपि स्वरभेदादौपमन्यव इत्येतदधिकमुदाहरणमुपन्यस्तम्` इति, तस्यापि तदयुक्तम्, अत एवानन्तरोक्ताद्धेतोर्वेदितव्यम् ॥ यदि निमित्तभेदः, स्वरभेदो वा सर्वत्राधिकोदाहरणोपन्यासो वेदितव्यः। `शालीयः, मालीयः` इति। अतद्भावितस्योदाहरणे। अत्र हि वृद्धिसञ्ज्ञायां वृद्धिर्यस्याचामादिस्तद्वृद्धम्` [[1.1.72]] इति वृद्धसञ्ज्ञाफं छप्रत्ययोपन्यासस्तस्या एव फलभूताया अभिव्यक्त्यर्थः। वृद्धसञ्ज्ञायां हि सत्यां <<वृद्धाच्छः>> [[4.2.114]] इति जातादावर्थे छो विधीयते। ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं नात्र दर्शितम्, एतदनुसरसार-णैव गम्यमानत्वात्। आकारस्यातद्भावितस्य वृद्धिसञ्ज्ञायाः कार्ये दर्शिते, तयोरपि तदेव कार्यमिति तन्मुखेनैव गम्यत एव। के पुनसत्योरुदाहरणे? `रैमयम्, नौमयम्` इति। आत्रैकारौकारयोर्वृद्धिसञ्ज्ञायां सत्यां पूर्ववद्वृद्धसञ्ज्ञा। तस्यां च सत्यां रायो विकारः, नावो विकार इति <<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]] इति मयड्भवति।", "11002": "`तपरकरणं त्विह सर्वार्थम्िति। सर्वस्मिन्नर्थः प्रयोजनं यस्य तत्तथोक्तम्। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। तत्र ह्रैजर्थमेव, इह तु सर्वार्थम्, अकारार्थमेङर्थमपि। असति हि तपरकरणं अदेङामणत्वात् सवर्णानां ग्रहणं सति भिन्नकालानामप्येषा सञ्ज्ञा स्यात्। ततश्च `तरिता` इत्यत्रान्तरत्मयाद्दीर्घस्य दीर्घ एव गुणस्यात्।ननु च वृद्धिसञ्ज्ञा गुणसञ्ज्ञाया बाधिका भविष्यति, तत् कुतोऽयं प्रसङ्गः? नैतदस्ति। एकसञ्ज्ञाधिकारे हि सञ्ज्ञया सञ्ज्ञान्तरं बाध्यते, न चात्रेकसञ्ज्ञाधि-कारः। स्यादेतत्, असत्यप्येकसञ्ज्ञाधिकारे यथा <<जीवति तु वंश्ये युवा>> [[4.1.163]] इति गोत्रसञ्ज्ञा युवसञ्ज्ञया बाध्यते, यथा च `लिट् च` [[3.4.115]] , <<लिङाशिषि>> [[3.4.116]] इति चार्धधातुकसञ्ज्ञया सार्वधातुकसंज्ञा बाध्यते, तथा गुणसंज्ञा वृद्धिसञ्ज्ञया बाधिष्यते इति? अयुक्तमेतत। युवसञ्ज्ञाविधौ तुग्रहणं नियमार्थं क्रियते। ततो युक्तं यद्युवसञ्ज्ञया गोत्रसञ्ज्ञा बाध्यत इति। आर्धधातुकसञ्ज्ञाऽपि यत् सार्वधातुकसञ्ज्ञा बाध्यते तदपि युक्तमेव, <<छन्दस्युभयथा>> [[6.4.86]] ति वचनात्। यदि सार्व-धातुकार्धधातुकसञ्ज्ञयोः समावेशः स्यात्, न बाध्यबाधकभावः, तदा <<छन्दस्युभयथा>> [[6.4.86]] इति वचनमपार्थकं स्यात्। इह तु न किञ्चित् तथाविधं निबन्धनमस्ति, यतो वृद्धिसञ्ज्ञया गुणसञ्ज्ञा बाध्यते। अथापि कथञ्चिद्बाध्येत, एवमपि त्रिमात्रिकस्यापि गुण-सञ्ज्ञा स्यादेव। न हि सा तया शक्या बाधितुम्, तस्य अतद्विषयत्वात्। त्रिमात्रस्यापि गुणसञ्ज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्यते। ऋकारस्य हि कालतो यथैकमत्रिकोऽकारोऽन्तरतमो न सम्भवति, तथा त्रिमात्रोऽपि, तत् कुत एतल्लभ्यते? ह्रस्वेनैवास्य गुणेन भवितव्यम् न हि त्रिमात्रेणाकारेणेति। किञ्च, यदि भिन्न-कालानामपि गुणसञ्ज्ञा स्यात्, `खट्वा इन्द्रः= खट्वेन्द्रः खट्वा उर्वी खट्वोर्वी` इत्यत्र त्रिमात्रत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिनः <<आद्गुणः>> [[6.1.87]] इति त्रिमात्रो गुणः स्यात्। खट्वा ईषा= खट्वेषा, खट्वा उढा=खट्वोढा` इत्यत्र चतुर्मा-मात्रित्वात् चतुर्मात्रः। तस्मात् सर्वार्थं तपरकरणं कर्तव्यम्। `तरिता` इत्यादि। `तृ? तप्लवनतरणयोः` (धातुपाठः-969), `चिञ् चयने` (धातुपाठः-1251), `ष्टुञ् स्तुतौ`(धातुपाठः-1043), एभ्यः `ण्लुल्तृचौ` [[3.1.133]] इति तृच्। <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इतीट्, <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः, सु, `ऋदुशनस्` [[7.1.94]] इत्यादिना अनङ, `सर्वनामस्थाने च` [[6.4.8]] इति दीर्घः। एतानि त्रीणि यथाक्रमदेङां तद्भावितानामुदाहरणानि। `पठन्ति, पठन्` इत्यकारस्यात्द्भावितस्योदाहरणे। अत्रान्त्याकारस्य गुणसञ्ज्ञायां <<अतो गुणे>> [[6.1.97]] पररूपत्वं भवति। पठन्निति शत्रन्तमेतत्। एकास्यातद्भावितस्यकार्योदाहरणम्- `अहं पचे` इत्यादि। ओकारस्यातद्भावितस् तन्न सम्भवतीति न प्रदश्र्यते।", "11003": "`परिभाषेयम्` इति। नाधिकारः, अस्वरितत्वात्। नापि गुणवृद्धयोर्विधायकं लक्षणम्, लक्षणान्तरेण तयोर्विधास्यमानत्वात्। `स्थानिनियमार्था` इति। स्थानिनि नियमः स्थानिनियमः, स्थान्यन्तरव्यवच्छेदेनैकत्र प्रवर्तनम्, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। `अनियमप्रसङ्गे नियमो विधीयते` इति। यत्र साक्षात् स्थानी न निर्दिष्टः <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] , <<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] इत्यादौ, तत्रानियमे प्रसक्ते नियममेषां करोति-इक एव नान्यस्येति। अतः स एवस्या विषयो वेदितव्यः, न तु यत्र साक्षात् स्थानी निर्दिश्यते सोऽपि, यथा- <<ओर्गुणः>> [[6.4.146]] <<अत उपधायाः>> [[7.2.116]] इत्यादिः। तत्र ह्रनियमस्य प्राप्तिरेव नास्ति। लिङ्गवती चेयं परिभाषा, लिङ्गं चास्या गुणवृद्धिग्रहणम्, तत्रोपतिष्ठते। तथा च द्वे षष्ठ्यौ प्रादुर्भवतः,-`इकः` इत्येका षष्ठी, <<मिदेर्गुणः>> [[7.3.82]] इत्येवमादिका द्वितीया।तत्र कामचारादयथेष्टं सिध्यति। तयोर्विशेषणविशेष्यभावः क्रियते। `मिदेः` इत्यत्रान्त इग न सम्भवतीति त्सयाङविशेषणत्वं नोपपद्यतेतस्मादत्राङ्गेनेगेव विशिष्यते- मिदेरङ्गस्य य इगिति। तेन स्थानष्ठभावादलोऽन्त्यस्यानुपस्थाने सति यत्र तत्र स्थस्येको गुणः सिद्धो भवति। <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यादौ त्वङ्गस्य इगन्तत्वं सम्भवति। तेन चाङ्गे विशिष्यमाणे तदन्तविधौ सतीष्टं सिध्यति। तस्मादिकै-वाङ्गं विशिष्यते, `इगन्तस्याङ्गस्येति। एवंचय सत्यस्याः स्थानषष्ठीत्वात् <<अलोऽन्त्यस्य>> [[1.1.52]] इत्येतदुपतिष्ठछते, तेनेगन्तस्यैवाङ्गस्य गुणवृद्धी भवतः,नेतरस्य। `स्वसञ्ज्ञया` इति। अत्र वक्ष्यमाणोऽभिप्रायः। `इक एव स्थाने` इति।यदर्थेयं परिभाषा तस्य नियमस्य स्वरूपं दर्शयति- `अकार्षीत्` इति। `डुकृञ् करण` (धातुपाठः- 1472),लुङ, <<च्लेः सिच्>> [[3.1.44]] सिचि वृद्धिः [[7.2.1]] <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्। एवम् `अहार्षीत्` इति। अत्र `ह्मञ् हरणे` (धा।899) इत्ययं विशेषः। `इक इति किम्` इत। एकदेशद्वारेण समुदायस्य पर्यनुयोगो वेदितव्यः। न हि `गुणवृद्धी`इत्येतावता विनेग्ग्रहणेनार्थः कश्चित् संगृह्रते। `यानम्` इति। यातेर्ल्युटि गुणे विधीयमान आन्तरतम्यादकारः स्यात्। ततश्च द्वयोरकारयोः `अतो गुणे` (6.1.104पररूपत्वे कृते `यनम्` इत्यनिष्टं रूपं स्यात्। `ग्लायति` इति। `ग्लै म्लै हर्षक्षये` (धातुपाठः-903।904), अत्र सन्ध्यक्षरस्य ऐकारस्य एकारो गुणः स्यात्। ततश्चायादेशे कृते ग्लयति इत्यनिष्टं रूपं स्यात्। `उम्भिता`इति। `उभ उम्भ पूरणे` (धातुपाठः-1319,1320), तृच्, इट्। अत्र व्यञ्जनस्य कारस्यौष्ठस्य ओकारो गुणः स्यात्। ततश्चावादेशे कृते `उभविता` इत्यनिष्टं रूपं स्यात्।अथ कथं स्वसञ्ज्ञया शिष्यमाणावित्येष विशेषो लभ्यते? न हि सूत्रेस्वसञ्ज्ञाग्रहणमस्तीत्यत आह `पुनर्गुणवृद्धिग्रहणम्` इत्यादि। इहपूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते। कतस्मिन्ननुवर्तमाने यत् पुनरिह गुणवृद्धरिग्रहणं क्रियतेतस्यैतत् प्रयोजनम्- `यत्र स्वसञ्ज्ञया गुणवृद्धी विधीयेते तत्रायं नियमो यथा स्यात्, अन्यत्र मा भूदिति पुनर्गुणवृद्धिग्रहणसामर्थ्यादन्यतरस्य गुणवृद्धिग्रहणस्य सञ्ज्ञाप्रधानत्वं सम्पाद्यते। कतेन स्वसञ्ज्ञया विधाने नियमो भवतीत्येषोऽ-र्थो लभ्यते। अन्यथा हि यद्येवं पूर्वो नियमो नात्राभिमतः स्यात्, ततो नियतस्य निय मस्य प्रकृतगुणवृद्धिग्रहणानुवृत्त्यैव सिद्धत्वात् पुनरिह गुणवृद्धिग्रहणमनर्थकंस्यादित्येवमभिप्रायः। `इह मा भूत्` इत्यादिनार्यैवं प्रकारस्य नियमस्य व्यवच्छेद्यत्वं दर्शयति- `द्यौः` इति। `दिव औत्` [[7.1.84]] इत्यौकारः। स्वरूपेण विधीयमानोऽलोऽन्त्यस्यैव भवति, नेकः। `पन्थाः` इति। `पथिमध्यृभुक्षामात्` [[7.1.85]] इत्याकारोऽन्त्यस्यैव भवति, नेकः। `इतोऽत्सर्वनामस्थाने` [[7.1.86]] इतीकारस्य अकारः, `थोऽन्थः` [[7.1.87]] इति थकारस्य न्थादेशः। `इयम्` इति। <<त्यदादीनामः>> [[7.2.102]] इत्यत्वमन्तर्सयैव भवति, नेकः। `दश्च` [[7.2.109]] इति दकारस्य मकारः। स इत्यत्र त्वस्याः परिभाषाया उपस्थाने सति त्यदाद्यत्वं न स्यादेव। `तदोः सः सावन-न्त्ययोः` [[7.2.106]] इति सत्वम्, ननु च `अनश्च` [[1.2.28]] इत्ययमपि स्थानिनियमः स्वसञ्ज्ञाविधान एवेष्यते, तस्यापि च नियमस्य द्यौरित्यादिकं व्यवच्छेद्यम्। तथा हि वृत्तिकारस्तत्र वक्ष्यति `स्वसञ्ज्ञया विधाने नियमः। अजिति वर्तते। इह मा भूत्, द्यौः, पन्थाः, सः, द्युभ्याम्, द्युभिः` (का 38) इति, ततश्च यदनेन नियमेनैवंविधेन कर्तव्यं तत्तेनैव सिध्यति, नार्थ एवंविधयनियमर्थेन पुनरिह गुणवृद्धिग्रहणेनसत्यमेतत्` किन्त्वेवमर्थप्रतिपत्तौ य एते मन्दधियः प्राथमकल्पिकाः श्रोतारः, तेषांप्रतिपत्तिगौरवं स्यात्। तस्मात् ताननुग्रहीतं विस्पष्टार्थमिह सञ्ज्ञाविधाने नियमं प्रतिपादयितुं पुनर्गुणवृद्धिग्रहणं कृतम्। तद्येवम्, यत् येन विधातव्यं तदनेनैवविहितमिति तत्र सञ्ज्ञाविधाने नियमो न कर्तव्यः? नैतदस्ति; यदि ह्रसावित्थम्भूतो नियमो न स्यात्, ततो `द्युभ्याम् द्युभिः` इत्यत्र <<दिव उत्>> [[6.1.131]] इत्युकारः स्वरूपेणैव विधीयमानोऽच एव स्थाने स्यात्, नालोऽन्त्यस्य। न ह्रनेन नियमेनाचःशक्यते व्यावर्तयितुम्, तस्य गुणवृद्धिसञ्ज्ञकत्वात्।", "11004": "उक्तपरिमाणस्य शब्दस्य धातुसञ्ज्ञा कृता। तस्य सर्वस्य लोपे कृते यत्र गुणवृद्धी प्राप्नुतस्तदार्धधातुकेन सम्भवत्येव, तत् किं प्रतिषेधेन? तस्मात् प्रतिषेधविधानसामर्थ्याद्धात्वेकदेशे धातुशब्दो वर्तत इति मत्वाह- `धात्वेकदेशो धातुः` इति। `धातुलोपे`इति। यद्ययं धातोर्लोपो धातुलोप इति तत्पुरूषः, तत आर्धधातुकग्रहणं गुणवृद्धिविशेषणं वा स्यात्- `धा4तुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः` इति। लोपविशेषणं वा स्यात्-` आर्धधातुकनिमित्ते धातुलोपे सति गुणवृद्धी न भवतः` इति? पूर्वस्मिन् `क्नोपयति`इत्यत्र प्रतिषेधः प्राप्नोति। तत्र प्रतिविधानं कर्तव्यम्। द्वितीये तु न भवत्येष दोषः। न हि `क्नोपयति` इत्यत्रार्धधातुकनिमित्तलोपः, किं तर्हि, कतवल्निमित्तकः। किन्तु द्वितीये पक्षे प्रेद्धमित्यत्र प्राप्नोति। अस्ति ह्यत्रार्धधातुकनिमित्तो लोपः। ननु चेग्लक्षणयोर्गुणवृद्धयोरयं प्रतिषेधः; न चात्रेग्लक्षणो गुणः? नैतदस्ति; अत्रापीग्लक्षण एव गुणो यो ह्रुभयोः स्थाने भवति, लभते सोऽन्तयतरव्यपदेशम्। तथा हि- `मातुः, पितुः` इत्यत्रोभयोः स्थाने भवन् रपरोऽण् भवति। तस्माल्लोपविशेषणपक्षेऽपि तत्पुरुषे प्रतिविधानंकर्तव्यमेव। बहुव्रीहौ तु न किञ्चित् प्रतिविधेयमिति मन्यमानो बहुव्रीहिरयमिति दर्शयन्नाह- `तस्य` इत्यादि। एतेन लोपविशेषणमार्धधातुकमित्येतद्दर्शितं भवति। एवं चार्धधातुके सम्भवति यदि तत्तस्य निमित्तं भवति, ततश्च क्नोपयतीत्यत्रातिप्रसङ्गोनावतरति। `तत्र` इत्यादि। नापि गुणवृद्ध्योरार्धधातुकं निमित्त्वेन विशेषणमित्या-ख्यातम्। ततश्च प्रेद्धमित्यत्राप्यतिप्रसङ्गो न भवति, न ह्राद्गुण आर्धधातुक-निमित्तः। `ये ते` इति। स्त्रीलिङ्गनिर्देशः `गुणवृद्धी`इत्यनेन स्त्रीलिङ्गेन सामानाधिकरण्यात्। अस्य तु स्त्रीलिङ्गता <<परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः>> [[2.4.26]] इत्यतिदेशात्। अर्थस्य च सोऽतिदेश इति यत्तदोरपि तत्रार्थे वर्तमानयोः स्त्रीलिङ्गता भवति। ननु च नियमस्य प्रकृतत्वात् तस्यैवायं प्रतिषेधो युक्तः, तत् किमित्येवमाह-`तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः` इति। तयोः प्राधान्यात्। तत् पुनर्नियमेनोपक्रियमाणत्वात्, नियमस्य तु तादथ्र्यादप्राधान्यम्। तस्माद्गुणवृद्धयोरेवायं प्रतिषेधो न्याय्यः।`लोलुवः, पोपुवः` इति। `लूञ् छेदने` (धातुपाठः-1483), `पूञ् पवने (धातुपाठः-1482)इत्येताभ्यां `धातोरेकाचः` [[3.1.22]] इत्यादिना यङ्, `सन्यङो` [[6.1.9]] इति द्विर्वचनम्, `गुणोयङलुकोः` [[7.4.82]] इत्यभ्यासस्य गुणः, यङन्तात् पचाद्यचि <<यङोऽचि च>> [[2.4.74]] इति लुकि तन्निमित्तगुणप्रतिषेधः, तस्मिन् सति `अचि श्नुधातुकभ्रुवाम्` [[6.4.77]] इत्यादिनोवङ। `मरीमृजः` इति। `मृजू शुद्धौ` (धातुपाठः-1066), पूर्ववद्यङ, द्विर्वचनम्, उरदत्त्वम्, [[7.4.66]] <<हलादिः शेषः>> [[7.4.60]] <<रीगृदुपधस्य च>> [[7.4.90]] इतिरीगागमः। लोलूयादिभ्य इत्यादिशब्देन `पोपूय, मरीमृज्य` इत्येतयोग्र्रहणम्। `लूञ्-लविता` इति। यावदेव धातुसञ्ज्ञा न भवति तावदेव `सर्वविधिभ्यो लोपविधिर्बलीयात्` (व्या।प।70) इति ञकारस्य लोपो भवति, पश्चाल्लू इत्येतस्य धातुसञ्ज्ञा, तेन ञकारलोपो धातुलोपो न भवतीति भवति प्रत्युदाहरणम्। `रेड् ` इति। `रिष रुष हिंसायाम्` (धातुपाठः-1232,1230), <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति विच्, इकारचकारौ <<वेरपृक्तस्य>> [[6.1.67]] इत्यत्र सामान्यग्रहणाविघातार्थो, वकारस्य चानेनैव लोपः, `पुगन्तलघूपध्स्य च` [[7.3.86]] इति गुणः। <<झलां जशोऽन्ते>> [[8.2.39]] इति षकारस्य डकारः। ननु च द्वयङ्गविकले द्वे अपि एते प्रत्युदाहरणे, तथैव ह्यत्र धातुलोपो न भवति, एवमार्धधातुकनिमि-त्तोऽपि न भवति, नैतदस्ति; सति हि धातुग्रहणे पदद्वयसान्निध्याद्बहुव्रीहिर्लभ्यते। तस्मश्च सत्यार्धधातुकनिमत्तत्वं लोपस्य। असति हि धातुग्रहणे `न लोप आर्धधातुके` इत्युच्यमाने `आर्धधातुकाश्रये ये गुणवृद्धी प्रतिषेधः स्यात्। `रोरवीति` इति। `रु शब्दे` (धातुपाठः- 1034) इत्यस्माद्यङ, <<बहुलं छन्दसि>> [[7.4.78]] इति यङो लुक्, लट्,तिप्, शप्। अदादित्वाच्छपो लुक् (2.4.72(,`यङो वा`7.3.94) इतीट्। अत्रसार्वधातुकनिमित्तो गुणो न प्रतिषिध्यते। ननु च द्वयङ्गविकलमेवेदम्, यथैवह्रार्धधातुकनिमित्तो गुणो न भवत्येवं लोपोऽपि? नैतदस्ति; सति ह्रार्धधातुकग्रहणेऽन्यपदार्थत्वे न तस्याश्रयणात् तन्निमित्तो लोपो लभ्यते, तस्मश्च सति `न धातुलोपे` इतीयत्युच्यमाने `ये केचन गुणवृद्धी ते च लोपे सति भवतः` इत्येष वाक्यार्थःस्यात्। ततश्चाविशेषितत्वाल्लोपस्य लोपमात्रे प्रतिषेधो विज्ञायते। `अभाजि` इति। `भञ्जो आमद्र्दने` (धातुपाठः- 1453),लुङ्, च्लिः, <<चिण् भावकर्मणोः>> [[3.1.66]] इति चिण्,`इणो लुक्` [[6.4.104]] इति तशब्दस्य लुक्, <<भञ्जेश्च चिणि>> [[6.4.33]] इत्यनुनासिकलोपः। `रागः` इति। अत्रापि <<घञि च भावकरणयोः>> [[6.4.27]] इति नलोपः। `रञ्ज रागे` (धातुपाठः-1167), भावे घञ्। यद्यप्यत्र रुआवमस्ति तथापीक इत्यत्रानुवृत्तेरिह चेकोऽसम्भवात् <<अत उपधायाः>> [[7.2.116]] इति वृद्धेः प्राप्तायाः प्रतिषेधो न भवति। `क्नोपयति` इति। `क्नूयी शब्दे` (धातुपाठः-485), <<हेतुमति च>> [[3.1.26]] इति णिच्, `अर्त्तिह्यी` गुणः। `प्रेद्धम्` इति। `ञीन्धी दीप्तौ` (धातुपाठः-1448), क्तः, `अनिदिताम्` [[6.4.24]] इत्या-दिनानुनासिकलोपः, `झषस्तर्थोर्घोऽधः` [[8.2.40]] इति तकारस्य धत्वम्। <<झलां जश् झशि>> [[8.4.53]] इति धातुधकारस्य दकारः, प्रगतमिद्धमिति <<कुगतिप्रादयः>> [[2.2.18]] इति समासः।", "11005": "क्ङितीति यदीयं परसप्तमी स्यादनन्तरस्यैवेकः प्रतिषेधः स्यात्, `चितः, चितवात्` इत्यादौ व्यवहितस्य `भिन्नो भिन्नवात्` इत्यादौ न स्यात्, <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थत्वात्। निमित्तसप्तम्यां त्वस्यां सर्वत्र भवितव्यम्, व्यवहितयोरपि निमित्तनिमित्तिभावसद्भावा-दिति मन्यमान आह- `निमित्तसप्तम्येषा` इति। निमित्तात् सप्तमी निमित्तसप्तमी। <<पञ्चमी भयेन>> [[2.1.37]] इति `पञ्चमी` इति योगविभागात् समासः। सा पुनः सप्तमी `यस्य च भावेन भावलक्षणम्` [[2.3.37]] इत्यनेन वेदितव्या। क्ङितो हि निमित्तभावेन गुणवृद्धयोःप्राप्तिलक्षणो भावो लक्ष्यते। अथ निमित्तसप्तम्यामप्यस्यां कस्मादेव व्यवहितस् प्रतिषेधो लभ्यते? तत्र तस्मिन् [[1.1.65]] इत्यादिकायाः परिभाषाया अनुपस्थानात्। <<क्ङिति च>> [[1.1.5]] इत्यादरावप्यस्या इक्परिभाषाया उपस्थानात् `शालीयः, मालीयः` इत्यत्र वृद्धरसञ्ज्ञा न स्यात। यता चेयमिक्परिभाषा विध्यङ्गशेषभूतत्वाद्विधावेवोपतिष्ठते, तथासावप्यानन्तर्यपरिभाषा। न चेह गुणवृद्धी विधीयेते, किं तर्हि? विहिते अप्यन्यत्र क्ङितीत्यनेन विशिष्येते। तस्मान्नात्र तस्याः परिभाषाया उपस्थानमित्यन-न्तरस्यापि प्रतिषेधः सिध्यति। `क्ङिन्निमित्ते ये गुणवृद्धी` इति। क्ङिन्निमित्तं ययोस्ते तथोक्ते। ते पुनर्ये क्ङिन्निमित्ते सति प्राप्नुतस्ते विज्ञेये। एतेन गुण-वृद्धीविशेषणं क्ङिद्ग्रहणमिति दर्शयति। ननु च विधीयमानतया प्राधान्यात् प्रतिषेध-स्यैवैतद्विशेषणं युक्तम्? नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्र प्रधानस्यैव भूयांसमुपकारं कर्तुमात्मनः संस्कारमनुभूय प्रधानेन सम्बन्धमनुभवति। यथोक्तम्-`गुणः कृतात्मसंस्कारः प्रतिपद्यते।प्रधानस्योपकारे हि तथा भयसि वर्तते॥ इति।इह तु गुणवृद्धयोः क्ङिद्दग्रहणेन विशेषितयोर्महान प्रधानस्य प्रतिषेधस्योपकारो भवति, व्यवहितस्यापि तत्सिद्धेः। `भिन्नः` इति। `भिदिर्विदारणे` (धातुपाठः- 1439),क्तः, `रदाभ्यां निष्ठातोनः` [[8.2.42]] इति नत्वम्। `मृष्टः` इति। मृजेः `व्रश्च` [[8.2.36]] इत्यादिना जकारस्य षत्वम्, <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्। चिनुत इत्यादौ तु <<सार्वधातुकमपित्>> [[1.2.4]] इति क्ङित्त्वम्। `चिन्वन्ति`इति। `हुश्नुवोःसार्वधातुके` [[6.4.87]] इति यणादेशः। अत्र `चितः, चितवान्, स्तुतः, स्तुतवान्, चिनतः, चिन्वन्ति` इत्येषूदाहरणेषु यतायोगं सार्वधातुकार्धधातुकलक्षणस्य गुणस्य प्रतिषेधः, `भिन्नः भिन्नवान्` इति लघूपधलक्षणस्य, परिशिष्टेषु <<मृजेर्वृद्धिः>> [[7.2.114]] इति वृद्धेः। `ग्लाजिस्थश्च क्स्नुः` इति। क्स्नुप्रत्ययोऽयं यदि कित् स्यात्, स्थास्नुरित्यत्र घुमास्थादिसूत्रेण [[6.4.66]] तिष्ठतेरीत्त्वं स्यात्। अतस्तत्परिहाराय क्स्नोर्गित्त्वं प्रतिज्ञायते। तथा हि तत्र वक्ष्यति-`गिच्चायं प्रत्ययो न कित्। तेन स्थ ईकारो न भवति`(का।241) इति। गित्वे च सति `भूष्णुः, जिष्णुः` इत्यत्र`क्ङितिच` [[1.1.5]] इति प्रतिषेध उच्यमानो न प्राप्नोति। अत एतद्दोषपरिहारायाह- `गकारोऽप्यत्र` इत्यादि (का241)।चत्त्र्वभूतः चर्त्वं प्राप्त इत्यर्थः। चर्त्वं तु `खरि च` [[8.4.54]] इति। यदि हि क्स्नोर्गित्त्वमिष्यते, भूष्णुरित्यत्र `श्रयुकः किति` [[7.2.11]] इति किति प्रतिषेध उच्यमानो न स्यात्? नैष दोषः; तत्रापि चत्त्र्वभूतोगकारो निर्दिश्यते। तथा हि -<<ग्लाजिस्थश्च क्स्नुः>> [[3.2.139]] इत्यत्र जयादित्यवृ-त्तौ ग्रन्थः- `<<क्ङिति च>> [[1.1.5]] इत्यत्र गकारश्चत्त्र्वभूतो निर्दिश्यते, तेन गुणो न भवति। `श्रयुकः किति` [[7.2.11]] इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति`(का। 241) इति। `श्रयुकः किति` [[7.2.11]] इत्यत्रापि जयादित्यवृत्तौ ग्रन्थः- `गकारोऽप्यत्र चत्त्र्वभूतो निर्दिश्यते भूष्णुरित्यत्र यथा स्यात्` इति। वामनस्यत्वेतत् सर्वमनभिमतम्। तथा हि तस्यैव सूत्रस्य तद्विरचितायां वृत्तौ ग्रन्थः- केचिदत्र द्विककरानिर्देशेन गकारप्रश्लेषं वर्णयन्ति भूष्णुरित्येवं यथा स्यात्। सौत्रत्वाच्च निर्देशस्य `श्रयुकः किति` [[7.2.11]] इत्यत्र चर्त्वस्यासिद्धत्वमना-श्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृतः इति। <<ग्लाजिस्थश्च क्स्नुः>> [[3.2.139]] इत्यत्र स्था आ इत्यकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किञ्चदेतत्`(का 802)इति। स एवं मन्यते- यदि क्स्नुप्रत्यययस्य कित्त्वे सति तिष्ठतेरीत्त्वं प्राप्नुयात् तथा तत्परिहारार्थं गित्त्वं युज्यते प्रतिज्ञातुम। गित्त्वे च सति जिष्णुः, भूष्णुः` इत्यत्र यथायोगमिड्गुणयोर्निरासाय <<क्ङिति च>> [[1.1.5]] इत्यत्र`श्रयुकः किति` [[7.2.11]] इत्यत्र च गकारश्चर्त्वभूतो निर्दिश्यमानः शोभेत। न च क्स्नुप्रत्ययो गित्,किं तर्हि? किदेव। तत्किमिड्गुण्प्रतिषेधार्थेन चत्त्र्वभूतगकारस्य निर्देशेन !न च क्स्नोः कित्त्वेसति तिष्ठतेरात्वं प्राप्नोति। तस्मात् `ग्लाजिस्थशाच क्स्नुः` [[3.2.139]] इत्याकारप्रश्लेषः कृतः, क्स्नुप्रत्ययान्तस्यतिष्ठतेराकार एव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूत् इत्येवमर्थः। ततश्च तेनैव सिद्धत्वात् स्थास्नुशब्दस्याकिञ्चित्करमिह गकारप्रश्लेषवर्णनमिति। `कामयते` इति। `कमेर्णिङ` [[3.1.30]] । अत्र <<अत उपधायाः>> [[7.2.116]] इति वृद्धेः प्रतिषेधो न भवति। `लैगवायनः` इति। लिगुशब्दात् `नडादिभ्यःफक्` [[4.1.99]] इति फकि कृते <<ओर्गुणः>> [[6.4.146]] इति गुणस्य प्रतिषेधो न भवति। ननु चोकारैगेव, तदयुक्तमिदं प्रत्युदाहरणम्? नैतदस्ति; अत्र हि चकारः क्रियते `इकः` इत्यनुकर्षणार्थः। तत्र चकारेणानुकर्षणसा-मथ्र्यादिक इत्येतदर्थपदार्थतामुत्सृज्य स्वरूपपदार्थतामनुभवति। अन्यथा हि यदिचकारेणाध्यनुकृष्यमाणमर्थपदार्थकमेव स्यात् तदनुकर्षणार्थं चकारकरणमनर्थकं स्यात्, अर्थपदार्थस्य स्वरितत्वादेवानुवृत्तिसिद्धेः। स्वरूपपदार्थके च तस्मिन्निह सन्नि-हिते सत्ययमर्थो भवति, `इकग इत्येवं ये गुणवृद्धी विधीयेते, इक इतीमं शब्दमुचार्य ये गुणवृद्धी विधीयेते, ते क्ङिन्निमित्ते न भवतः` इति। न च `लैगवायनः` इत्यत्र इकः` इतीमं शब्दमुचार्य गुणो विधीयते, इक्परिभाषायास्तत्रानुपस्थानात्। अनुपस्थानं तु साक्षादुकारस्य स्थानिनो निर्देशात्। यत्र हि साक्षात् स्थानी न निर्दिश्यतेतत्रासावुपतिष्ठते। ननु यदि स्वरूपपदार्थस्येक इत्यस्येह सन्निधानम्, स्थानी न निर्दिष्टः स्यात्, ततश्च न ज्ञायते कस्य गुणवृद्धी प्रतिषिध्येते इति? नैष दोषः। सामर्थ्यादिक एव गुणवृद्धयोः प्रतिषेधोऽयं गम्यते। न ह्रन्यस्येक इतीमं शब्दुमु-च्चार्य गुणवृद्धी विधीयेते। अथ वा ` यद्यपीक्परिभाषा विध्यङ्गशेषभूता, तथापीहास-त्यपि गुणवृद्धयोर्विधाने चकारेणानुकृशष्य सन्निधाप्यते। एतदेव हि चकारकरणस्य प्रयोजनं यदिदमिक्परिभाषायाः सन्निधापनम्। ततश्च तस्या उपस्थाने सति यत्रासौ व्याप्रियते तत्रैवायं प्रतिषेधो विज्ञायते। क्व चासौ व्याप्रियते? यत्र स्थानी साक्षान्न् निर्दिश्यते। इह तु निर्दिश्यते स्थानी, तस्मादिक्परिभाषाया व्यापाराभावाद्भवति प्रत्युदाहरण्। `मृजेः` इत्यादि। कथं पुनरिष्यमाणापि सा लभ्यते? यथा लभ्यते तथा श्रूयताम। `अचो ञ्णिति` श् [[7.2.115]] इत्यत्र <<मृजेर्वृद्धिः>> [[7.2.114]] इति वर्तते, <<जराया जरसन्यतरस्याम्>> [[7.2.101]] इत्यतोऽन्यतरस्यां ग्रहणं च मण्डूकप्लुतिन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। `अचः` इति योगविभागः क्रियते। मृजेरजादौ संक्रमे विभाषा वृद्धिर्भवति, अन्यत्र न भवत्येव।`लघूपधगुणस्याप्यत्र प्रतिषेधः` इति। एतेन संक्रमत्वं दर्शयति। अन्ये तु उत्तरसूत्रे `कणिता आः` रणिता आः` इत्यनन्तरमनेन ग्रन्थेन भवितव्यम्िह तु दुर्विन्यस्तकाकुपदजनितभ्रान्तिभिः कुलेखकैर्लिखितमिति वर्णयन्ति। अथ वा- निमित्तसप्त-म्या एवेदं फलं दर्शितमिति मन्तव्यम्। `अचिनवम्, असनुवम्` इत्यत्र लङो ङित्वात्तदादेशस्यापि मिपो ङित्त्वम्। स्थानिवद्भावेन मिपो ङित्त्वात् तदादेशस्याप्यमो ङित्त्वं पूर्ववत्, ततश्च तदाश्रयो विकरणस्य गुणप्रतिषेधः प्राप्नोति। कस्मान्नभवतीत्याह- `अचिनवम्` इत्यादि। आदिशब्देन `अकरवम्` इत्यादिनां परिग्रहः। `लकारस्य` इति। लकारादेशोऽपि पारम्पर्येण लकारपूर्वकत्वादुपचारेण लकार इत्युक्तः। सत्यपीत्य-भ्युपगमे <<हलः श्नः शानज्झौ>> [[3.1.83]] इति शानजादेशस्य शित्करणाल्लिङ्गान्नावश्यमनुबन्धकार्येषु स्थानिवद्भावो भवतीत्यध्यवसितोऽयमर्थः। अतो ङित्त्ववचम्` इत्यादि। यदि ङिति यत्कार्यं विधीयते तल्लकारे ङिति स्यात्, ततो लिङ एव ङित्त्वेन चिनुयादि-त्यादौ गुणप्रतिषेधस्य सिद्धत्वात् <<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यत् तस्य यासुटो ङ्द्विचनं तन्न कुर्यात्, कृतञ्च; ततोऽवसीयते- `ङिति यत् कार्यं तल्लकारे इति न भवति` इति।", "11006": "`दीधीवेव्योः` इति। दीधीङ दीप्तिदेवनयोः` (धातुपाठः- 1076); `वेवीङ वेतिना तुल्ये (धातुपाठः-1077) इत्येतयोग्र्रहणम्। ननु च `दीङ क्षये` (धातुपाठः- 1134) `धीङ अनादरे`(धातुपाठः-1136), `वेञ् तन्तुसन्ताने` (धातुपाठः-1006) `वी गतिप्रजनकान्त्यसनखादनेषु` (धातुपाठः-1048) इत्येतेषां ग्रहणं कस्मान्न विज्ञायते? यद्येषां ग्रहणमभिमतं स्यादसन्देहार्थं `वीवेधीदीटाम्` इत्येवं न्यासं कुर्यात्। अन्यथा तु कृतम्। तस्मात् पूर्वोक्तयोरेव धात्वोरिह ग्रहणम्। इटश्चेति- `आर्धरधातुकस्य` [[7.2.35]] इत्यादिना विहितस्य। अथ `इट्, किट, कटी गतौ` (धातुपाठः-318,319320) इत्यस्य ग्रहणं कस्मान्न भवति, युक्तं चैतत्, धातुसाहचर्यात्? नैतदस्ति; इह`अल्पाच्तरम्` [[2.2.34]] इत इटः पूर्वनिपाते कर्तव्ये तद्विपर्यासं कुर्वतैतत् सूचितम्-`अन्योऽ-प्यत्र कश्चिद्विपर्यासो विज्ञेयः` इति। तेन धातुसाहचर्याद्धातुग्रहणे प्राप्ते तद्विपरीतस्यैवागमस्य ग्रहणं विज्ञायते। `आदीध्यनम्` इति। ल्युट्। `आदीध्यकः` इति। ण्वुल्।`कणिता आः, रणिता आः` इति। `अण रण कण` (धातुपाठः-444,445,449) इत्यादौ शब्दार्थे धातुवर्गे कणिरणी पठएते , ताभ्यां लुटि स्यताशी लृलुटोः` [[3.1.33]] इति तासिः, `लुटः प्रथमस्य ` [[2.4.85]] इत्यादिना तिषो डादेशः, टिलोपः, `आर्धधातुकस्य` [[7.2.35]] इत्यादिनेट्। अथेटो वृद्धेरुदाहरणं कस्मान्न प्रदर्शितमित्याह- `वृद्धिरिटो न सम्भवति` इति। अङ्गस्य वृद्धिर्ञ्णिदादौ प्रत्यये विधीयते इट् चायमार्धधुकभवतः। न चार्धधातुकस्याङसञ्ज्ञास्ति ञ्णिदादौ प्रत्यये। तस्मादिटो वृद्धिर्न भवति।", "11007": "अन्तरं छिद्रं विवरं वर्णशून्यः काल इत्यर्थः। न विद्यतेऽन्तरं यषां तेतथोक्ताः। `भिन्नजातीयैः` इत्यादि। भिन्नजातीयैरिति वचनं भिन्नजातीयानामेव लोके व्यवधायकत्वदर्शनात्। तथा हि कश्चित् केनचित् किमनन्तरे परे ब्राआहृणकुले इति पृष्टः सन्नाह- नानन्तरे, वृषलकुलमनयोर्मध्ये प्रतिवसीति। `श्लिष्टोच्चारितस्य हलः सञ्ज्ञा स्यादिह निर्वायाय्, निर्यायादिति `वान्यस्य संयोगादेः` [[6.4.68]] इत्येत्वं स्यात्, इह च `संस्कषीष्ट` इति <<ऋतश्च संयोगादेः>> [[7.2.43]] इतीट्, इह च `संस्क्रियते` इति <<गुणोऽर्तिसंयोगाद्योः>> [[7.4.29]] इति गुणः- इत्येवमादयोऽन्येऽपि बहवो दोषाः प्रत्येकं हलां सञ्ज्ञित्वे भाष्य उद्भाविताः। यद्यपि तत्रैव ते कथ-ञ्चित् प्रयासेन परिह्मताः, तथापि यस्तु तत्परिहारेण प्रतिपत्तौ साध्यायां प्रति-पत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। समुदाये तु सञ्ज्ञिनि दोषाशङ्काऽपि नास्ति। तस्मात् स एव सञ्ज्ञी युक्त इत्यालोच्याह- `समुदायः सञ्ज्ञी` इति। ननु च यत्रसहभूतानां कार्यमिच्छति तत्र यत्न आरभ्यते, यथा- <<उभे अभ्यस्तम्>> [[6.1.5]] इति उभेग्रहणं करोति, न चेह कश्चिद्यत्नः कृतः, तत्कथं समुदायस्य सञ्ज्ञा लभ्यते?इहापि कृत एव यत्न इत्यदोषः। पुनरसौ? महत्याः सञ्ज्ञायाः करणम्। `लघ्वर्थं हिसञ्ज्ञाकरणम्` (व्या।प।135) इति महत्याः सञ्ज्ञायाः करणं प्रयोजनमन्तरेण न सम्भाव्यते। तस्मान्महानत्र सञ्ज्ञीत्येतत् सूचयितुं महती सञ्ज्ञा कृतेति गम्येति। तथाचोक्तम्- `इङ्गितेनोन्मिषितेमन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो लक्ष्यते` इति। एवं च महान् सञ्ज्ञी भवति, यदि समुदायः सञ्ज्ञी भवति, नैकैको हळ्। तस्मादुप-पन्नमेतत् समुदायः सञ्ज्ञीति `हलः` इति बहुवचननर्देशाद्द्वयोः सञ्ज्ञा न सिद्ध्यतीति यश्चोदयेत् तं प्रत्याह- `जातौ च ` इत्यादि। चशब्दो यस्मादर्थे। यस्माज्जातौ बहुवचनं तेन द्वयोर्बहूनां च संयोगसञ्ज्ञा सिद्धा भवति। अग्निरित्यादिकं रूपोदाहरणंद्रष्टव्यम् `तिलान्स्त्रावपति` इत्यादि। <<हे मपरे वा>> [[8.3.26]] इत्यतो वेति वर्तमाने , <<डः सि धुट्>> [[8.3.29]] इत्यतो धुडिति च, `नश्च` [[8.3.30]] इति पक्षे धुट्, `खरि च` [[8.4.54]] इति च तकारः। तत्र यदा धुण्नास्ति तदा`नसतयाः` इति। यदा त्वस्ति तदा `नतसतरयाः`। `तितौच्छत्रम्` इति। `तनोतेर्डौः सन्वच्च(द।उ।1।160) इति डौ-प्रत्यये टिलोपे द्विर्वचने च कृते रूपम्। `संयोगान्तस्य लोपः`स्यात् इति। यद्य-त्राकारस्योकारेण सञ्ज्ञा स्यादित्यभिप्रायः। न च लोपे सत्युकारोपदेशस्य वैयथ्र्यमाशङ्कनीयम्। यत्र पदसञ्ज्ञा नास्ति तितौनीत्यादौ, तत्र श्रूयमाणत्वात्। `पचति` इति रूपप्रत्युदाहरणम्, `पनसम्` इति कार्यप्रत्युदाहरणम् `स्कोः संयोगाद्योरिति लोपः स्यात्` इति। यदि सकारनकारयोः सान्तरयोरपि संयोगसञ्ज्ञा स्यादिति भावः।", "11008": "`मुखसहिता नासिका मुखनासिका` इत्यनेन मुखनासिकाशब्दोऽयं तत्पूरुषः, न द्वन्द्व इति दर्शयति। तत्पुरुषस्तु मयूरव्यंसकादित्वाद्वेदितव्यः। यदि च मुखं चनासिका चेति द्वन्द्व स्यात्, प्राणितूर्यादिसूत्रेण [[2.4.2]] एकवद्भावः स्यात्।ततश्च `स नपुंसकम्` [[2.4.17]] इति नपुंसकत्वं स्यात्। तस्मश्च सति `ह्रस्वोनपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वत्वं प्रसज्येतेति भावः। ननु चोच्यते-अनयेति करणे ल्युटि कृते, तदन्तात् `टिड्ढाणञ्` [[4.1.15]] इत्यादिना ङीपा भवितव्यम्, ततशच् तदन्तेन बहुव्रीहौ `मुखनासिकावचनः` इति निर्देशो नोपपद्यते? नैतदस्ति; वचनशब्दोऽयं <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति बहुलवचनात् कर्मसाधनः- उच्यत इतिवचनो वर्णे वर्तते, न नासिकायाम्। अत एवाह- `तया य उच्चार्यते` इति।` उच्चार्यते` इति कर्मणि लकारः। एवं कृत्वा `मुखनासिकावचनः` इति षष्ठीसमासोऽयं वेदितव्यः, न बहुव्रीहिः। `अनुस्वास्यैव` इति। अनुस्वारे ह्रुच्यमाने नासिकायाश्च व्यापारो न मुखस्य ; तेन तस्यैव स्यात्, न तु स्यात् ञमङणनानाम् ; नापि `अभ्र आँ अपः` (ऋ।5।48।1) इत्यात्रार्धचन्द्राकृतेर्वर्णस्य; तदुच्चारणे मुखस्यापि व्यापारात्। ततश्च <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्येतस्मिन् कार्ये कर्तव्येऽनुस्वारस्यैव ग्रहणं स्यात्, न तु ङकारादीनामित्यभिप्रायः। ननु च प्रासादवासिन्यायेन तेषामपि भविष्यति? यथा`प्रासादवासिन आनीयन्ताम्` इत्युक्ते ये प्रासाद एव निवसन्ति, तेषामपि ग्रहणं भवति, येऽपि प्रासादे भूमौ च उभयत्र वसन्ति तेषामपि। यथा ह्रभय आनीयन्ते, तथेहापि `नासिकावचनः` इत्येतावत्युच्यमाने नासिकावचनस्यानुस्वारस्य मुखानसिकावचनानांच ङकारादीनां ग्रहणं भविष्यति,ततश्चानुस्वारस्य हि स्यादित्ययुक्तमुक्तम्। एवं तुवक्तव्यम्- अनुस्वारस्यापि हि स्यादिति? नैतदस्ति; इह हि त्रीणि दर्शनानि सम्भवन्ति,-` समस्त एवानुनासिको वर्णओ नासिकावचनो मुखवचनश्च` इत्येकं दर्शनम्; `पूर्वभागस्त्वस्य मुखवचनः` इति तृतीयम्। उभयोरप्यनन्तरयोर्दर्शनयोर्नासिकामुखवचनेभागे तथानुरागं करोति यथाऽसावपि नासिकावचनभाग इव लक्ष्यते। तत्र यदेतदनन्तरदर्शन-द्वयम्, तस्यान्यरत् पाणिनेरभिमतम्। न चास्मिन् प्रासादवासिन्याय एकत्राप्यवतरति। यदि हि ङकारादयो नासिकायोऽपि साकल्येनोच्चार्येरन्, मुखेनापि; ततः प्रासादवासिन्यायेन `नासिकावचनः` इत्येतावत्युक्ते तेषामपि ग्रहणं स्यात्। न चैवं भागस्यैव; तेषां नासिकया मुखेन चोच्चारणात्। तदसति मुखग्रहणे तेषां ग्रहणं न स्यात्, तदभावे चसञ्ज्ञा न स्यादिति युक्तमुक्तम्- अनुस्वनारस्यैव हि स्यात्` इति। `कचटतपानां मा भूत्` इति। एते हि ककारादयो मुखेनैवोच्चार्यन्ते, न नासिकया; ततश्चासति नासिका-ग्रहणे तेषामेव स्यात्। एवं च `शक्तः`, `सुप्तम्` इत्यत्र `अनुदात्तोपदेशवनति` [[6.4.37]] इत्यादिना लोपः प्रसज्येत, `ओदनपक्` इत्यत्र <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घत्वम्।अथ किमर्थं महती सञ्ज्ञा क्रियते? अनु पश्चान्नासिका व्याप्रियते यस्मिन्, अथ वा - अनु पश्चान्नासिकाया व्याप्रियते यस्मिन्, यद्वा- नासिकायाः पश्चात् व्याप्रियते? मुखस्य तु प्रकृतत्वात् तदेव गम्यते। तत्र ये ते द्वे दर्शने, ययोःपाणिनेरन्यतरदभीष्टम्, तयोः पूर्वस्मिन् नासिका मुखात् पश्चात् व्याप्रियते,उत्तरत्र मुखं नासिकायाः। अन्वर्थसञ्ज्ञाकरणं तु पूर्वोक्तयोर्दर्शनयोरन्यतराभ्युपगमसूचनार्थम्। तदभ्युपगमसूचनं तु प्रासादवासिन्यायमाश्रित्य मुखग्रहणं ये प्रत्य-चक्षीरन्, तेषां निराकरणार्थम्।", "11009": "तुलया सम्मितं तुल्यमिति `नौवयोधर्म` [[4.4.91]] इत्यादिना यतमुत्पाद्य तुल्यशब्दो व्युत्पाद्यते। न च प्रयत्नस्य तुलया सम्मितत्वं सम्भवति, ततश्चासम्भवद्विशेषणमिति यश्चोदयेत्, तं प्रत्याह- `तुल्यशब्दः` इत्यादि। एवं मन्यते-व्युत्पत्त्यर्थं तु केवलं तुलोपादमते, न त्वत्र तुलार्थो विद्यते, न वासम्मितार्थः। सदृषपर्यायो ह्रयं तुल्यशब्दः। तथा हि- `तुल्य` इत्युक्ते `सदृश` इति पर्यायो भवति, न तु तुलया सम्मित इति। आस्यशब्दोऽयं ण्यदन्तोऽप्यस्ति। अस्यतेक्षिप्यतेऽन्नमनेनेति <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति करणे ण्यत्। आस्यम्- मुखम्। तत्पुनः ओष्ठात्प्रभृति प्राक् काकलकात्। काकलकं नाम ग्रीवायामुन्नतप्रदेशः, लोके यः कण्ठमणिः इत्युच्यते। तद्धितान्तोऽप्यास्यशब्दोऽस्ति- आस्ये भवमिति, <<शरीरावयवाच्च>> [[4.3.55]] इति यति कृते, <<यस्येति च>> [[6.4.148]] इत्यकारलोपे <<हलो यमां यमि लोपः>> [[8.4.64]] इति यलोपे च कृते `आस्यम्` इति। एतच्च मुखान्तर्वर्त्तिनां ताल्वादीनां वाचकम्। तत्र यदि पूर्वस्यास्यशब्दस्येदं ग्रहणंस्यात्, कचटतपानामपि सवर्णसञ्ज्ञा स्यात्, ण्यदन्तस्यास्यशब्दस्य वाच्येऽर्थेतेषां तुल्यत्वात् प्रयत्नविषयस्य। इममतद्धितान्तस्यास्यशब्दस्य ग्रहणे दोषं दृष्ट्वा तद्धितान्तस्येदं ग्रहणमिति दर्शयन्नाह- `आस्ये भवमास्यम` इति। किं पुनस्तदित्याह- `ताल्वादिस्थानम` इति। यस्मिन् वर्णा निष्पाद्यन्ते, तत् स्थानम्। आविशब्देननासिकादीनां ग्रहणम्। ननु च नासिका मुखाद्वहिर्वृत्तिरास्यं न भवति? नैतदस्ति; नहि मुखाद्बहिर्वर्त्तिनी नासिकेयं विवक्षिता, तस्यां वर्णानामनिष्पत्तेः। का तर्हि? अन्तरास्ये चर्म विततमस्ति पणवचर्मवत्, तत्सम्बद्धा रेखा, यस्यां वायुनाभिहन्यमा-नायां वर्णा निष्पद्यन्ते सेह नासिका विवक्षिता। कथं पुनर्विज्ञायते तद्धितान्तस्यास्यशब्दस्येदं ग्रहणमिति? आस्यग्रहणसाथ्र्यात्। यदि ह्रतद्धितान्तस्य ग्रहणंस्यात्, आस्यग्रहणमनर्थकं स्यात्। सर्वेषामेव हि तद्वाच्य एवार्थे प्रयत्नस्तुल्यः।नास्त्येव हि सः, यस्य व्यवच्छेदार्थमास्यग्रहणं स्यात्। ननु च विसर्जनीयस्य सत्य-सति वा सवर्णत्वे प्रयोजनमस्ति, नापि दोषः।`स्पृष्टतादिः` इति। आदिशब्देन ईषत्स्पृ-ष्टतादीनां ग्रहणम्। `वर्णगुणः` इति। अकारादीनां वर्णानां धर्म इत्यर्थः।`तुल्य आस्ये प्रयत्नो यस्य` इति। एतेन तुल्यास्यप्रयत्नशब्दस्त्रिपदोऽयं बहुव्रीहिरिति दर्शयति। व्याधिकरणानामपि गमकत्वनाद्बहुव्रीहिर्भवत्येव; यथा -`कण्ठेकालः, उरसिलोमा` इति। अथ द्वन्द्वगर्भबहुव्रीहिः कस्मान्नाश्रीयते- आस्यं च प्रयत्नश्च आस्यप्रयत्नौ,तौ तुल्यौ यस्य तत् तुल्यास्यप्रयत्नमिति? एवं मन्यते-द्वन्द्वगर्भबहुव्रीहावाश्रीयमाणे ताल्वादिना स्थानेन प्रयत्नो न विशेषितः स्यात्। ततश्च ककारङकारयोर्मिथः सवर्णसञ्ज्ञा न स्यात्, बाह्रस्य प्रयत्नस्य भिन्नत्वात्। ककारस्य विवृतकण्ठत्वादिर्बाह्रः प्रयत्नः। ङकारस्य संवृतकण्ठत्वादिः। असत्यां च सवर्णसञ्ज्ञायां शङ्कितेत्यत्र <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति ङकारो न स्यात्। अथ सत्यपि बाह्रस्य प्रयत्नस्य भेद आभ्यन्तरः स्पृष्टताख्योऽनयोस्तुल्यः प्रयत्नः, तं समाश्रित्यसवर्णसञ्ज्ञा भविष्यति? यद्येवम्, शकारचकारसयोरपि सत्यप्याभ्यन्तरयोर्विवृतास्पृष्टतयोः प्रयत्नयोर्भेदे योऽनयोर्बाह्रः प्रयत्नस्तुल्यो विवृत्कण्ठत्वादिस्तदाश्रया सवर्णसञ्ज्ञा स्यात्। ततश्च `अरुश्च्योतति` इति वक्ष्य-माणं प्रत्युदाहरणं नोपपद्यते।थ त्रिपदे तु बहुव्रीहौ ताल्वादिस्थानेन प्रयत्नोविशिष्यते। तेन बाह्रं प्रयत्नमुत्सृज्याभ्यन्तर एव स्पृष्टतादिर्गृह्रते। स एव हि ताल्वादावास्ये सम्भवति, नेतरः। आभ्यन्तरस्य प्रयत्नस्य ग्रहणे सति सत्यपि बाह्र-प्रयत्नभेदे भतत्येव ककार ङकारयोः सवर्णसञ्ज्ञा; आभ्यन्तरप्रयत्नस्य तुल्यत्वात्,तस्यैव चेह ग्रहणात्। न च चकारशकारयोः सत्यपि बाह्रस्य प्रयत्नस्य तुल्यत्वे सवर्णसञ्ज्ञा प्रसजति; तस्येहाग्रहणात्, यस्य च ग्रहणं तस्य चासमानत्वात्। तस्यात् त्रिपद एव बहुव्रीहिराश्रयितुं युक्तः; न द्वन्द्वगर्भ इति। यदि तर्हि त्रिपदो बहु-व्रीहिराश्रीयते, भिन्नविभक्तिकत्वादप्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं भवति, ततश्च भिन्नस्थानानामपि सवर्णसञ्ज्ञा प्राप्नोति? नैष दोषः। यदाधेयं प्रति यदधिकरणमुपदीयते, तदाधेयतुल्ययैव तत् तुल्यमिति विज्ञायते। तथा हि- `देवदत्तयज्ञदत्तयोस्तुल्यं कांस्यपात्र्यां भोजनम्` इत्युक्ते कांस्यपात्र्यपि तयोस्तुल्येतिगम्यते। यं प्रति यस्तुल्यास्यप्रयत्नः, स तमेव प्रति सवर्णसञ्ज्ञो भवतीत्येषोऽ-र्थो यतो वचनाल्लभ्यत इह तन्नास्ति। ततश्च यो यं प्रति तुल्यास्यप्रयत्नः, स ततोऽ-न्यमपि प्रति सवर्णसञ्ज्ञः स्यादिति चोद्यमाशङ्क्याह- `समानजातीयं प्रति` इति। समानजातीयो यं प्रति यस्तुल्यास्यप्रयत्नः, तं प्रति स सवर्णसञ्ज्ञो भवति, न ततोऽन्यम्। एतच्च तुल्यास्यप्रयत्नशब्दस्य सवर्णशब्दस्य च सम्बन्धिशब्दत्वाल्लभ्यते। सम्बन्धिशब्दो ह्रन्तेरणापि शब्दान्तरसन्निधिः नियमेव सम्बन्धिनमुपस्थापयति, यथा-`पितरि शुश्रूषितव्यम्` इति। नोच्यते स्वस्मिन्निति, सम्बन्धाच्चैतदवगम्यते, `यो यस्य पिता` इति। तथेहापि। यद्यपि यो यस्य तुल्यास्यप्रयत्नः, स तं प्रति सवर्णसञ्ज्ञो भवतीति,न चोच्यते, तथापि सम्बन्धात् तुल्यास्यप्रयत्नः समानजातीयमेव प्रति सवर्णसञ्ज्ञो भवतीति गम्यते। अथ वा समानो वर्णः `सवर्णः` इत्यन्वर्थसञ्ज्ञेयम्। तेनतुल्यजातीयमेव प्रति सवर्णसञ्ज्ञो भवति। एवं हि समानोऽस्य वर्णो भवति, यदि तमेव प्रति सवर्णसञ्ज्ञो भवति, न विजातीयं प्रति।`चत्वारः` इत्यादि। द्विविधाः प्रयत्नाः, आभ्यन्तराः, बाह्राश्च। तत्राभ्य-न्तराः चत्वारो वृत्तरौ दर्शिताः। बाह्रास्त्वेकादशष। के पुनस्ते? `विवारः, संवारः,आआसः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितश्च` इति। तत्र नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमात्रामन्नुरःप्रभृतीनामन्यतमस्मिन् स्ताने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरण-प्रयत्नाः परस्परं स्पृशन्ति, तदा सा `स्पृष्टता`। ईषद्यदा स्पृशन्ति, तदा सा ईष-स्पृष्टता; सामीप्येन यदा स्पृशन्ति, सा संवृतता; दूरेण यदा स्पृशन्ति, सा विवृतता-एते चत्वार आभ्यन्तराः प्रयत्नाः। आभ्यन्तरत्वं पुनरेषां स्थानकरणप्रयत्न-व्यापारेणोत्पत्तिकाल एव सम्भवात्। तत्र स्पृष्टकरणाः स्पर्शाः। कादयो मावसानाः स्पर्शाः, स्पष्टता गुणः। करणं कृतिरुच्चारणप्रकारः। स्पृष्टतानुगतं करणं येषां ते स्पृष्टकरणाः। एवमन्यत्रापि वेदितव्यम्। ईषत्स्पृष्टकरणा अन्तः स्थाः।अन्तः स्था यरलवाः। विवृतं करणमूष्मणाम्, स्वराणां च। स्वराः सर्व एवाचः। उष्ममाणः शषसहाः।अथ बाह्राः प्रयत्नाः किंलक्षणाः? स एव प्राणो नाम वायुपरूध्र्वमाक्रामन्मुध्न प्रतिहतो निवृतो यदा कोष्ठमभिहन्ति तदा कोष्ठेऽभिहन्यमाने गलबिलस्य संवृतत्वात् संवारो नाम वर्णधर्म उपजायते। विवृतत्वाद् विवारः। संवृते गलबिलेऽव्यक्तः शब्दो नादः, विवृते आआसः। उपरिवर्तिनौ तौ आआसनादावनुप्रदानमिति केचिदाचक्षते। वर्णनिष्पत्तेरनु-पश्चात् प्रदीयत इत्यनुप्रदानम्। अन्ये तु ब्राउवते `अनुप्रदानमनु-स्वानो घष्टानिह्र्यादवत्` यथा- घण्टानिह्र्यादोऽनुस्वनमनुभवति तथा इति। तत्र यदा स्थानाभिघातजे ध्ननौ नादोऽनुप्रदीयते, तदा नादध्वनिसङ्गाद् घोषो जायते, यदा आआसोऽनुप्रदीयते, तदा आआसध्वनिसङ्गादघोषः, महित वायौ महाप्राणः, अस्पवायावल्प-प्राणः। यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः, कण्ठविवर-स्य च चाणुत्वम्, स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति, तमुदात्तमाचक्षते। यदा तु मन्दः प्रयत्नो भवति, तदा गात्रस्य रुआंसनम्, कण्ठबिलस्य महत्त्वम्, स्वरस्य वायोर्मन्दगतित्वात् स्निग्धता भवति, तमनुदात्तमाचक्षते। उदात्तानुदात्तस्वरसन्निकर्षात् स्वरित इत्येवं लक्षणा बाह्राः प्रयत्नाः। बाह्रत्वं पुनरेषां वर्णनिष्पत्तिकालादूध्र्वं, वायुवशेनोत्पत्तेः। तत्र वर्गाणां प्रथम द्वितीयाः शषरविसर्ज-नीयजिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः आआसानुप्रदाना अघोषाः।वग्र्ययमानां प्रथमेऽल्पप्राणाः। इतरे सर्वे महाप्राणाः। वर्गाणाञ्च तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तः।वग्र्यमानां तृतीया अन्तःस्थाश्च अल्पप्राणाः। इतरे सर्वे महाप्राणाः। यथा तृतीया-स्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः।य एवैते द्विप्रकाराः प्रयत्ना बाह्रा आभ्यन्तराश्चाख्याताः, तेषामिह सवर्णसञ्ज्ञायां पूर्वोक्ता आभ्यन्तराश्चत्वारः स्पृष्टतादय आश्रीयन्ते,न बाह्रा विवारादयः, आस्यग्रहणेन तेषां व्यावर्तितत्वात्। स्पृष्टतादय एव ह्रास्ये भवन्ति, नविवारादयः। यद्येवम्, किमर्थं प्रयत्नग्रहणम्, एतावदस्तु तुल्यास्यमिति, आस्यग्रहणेनैव हि स्पृष्टतादयोऽपि प्रयत्नाः सवर्णसञ्ज्ञायां निमित्तभूतास्ताल्वादिस्थानवल्लभ्यन्त एव, तेषामप्यास्ये भवनात्? सत्यमेतत्, तथाप प्रत्येकं व्यापार-निरासार्थमुभयोरुपादानाम्। इतरथा हि यथैव स्थानं तुल्यं स्थानान्तरनिरपेक्षं सवर्णसञ्ज्ञायां व्याप्रियते, एवं प्रयत्नोऽपि स्थाननिरपेक्षः, स्थानं च प्रयत्ननिर-पेक्षं व्याप्रियेत; ततश्च भिन्नप्रयत्नानामपि तुल्यस्थानानाम्, भिन्नस्थानानामपि तुल्यप्रयतनानां सवर्णसञ्ज्ञा स्यात्। `अ अ अ` इत्यादिना येषां यावतां च यादृशां च मिथो नित्या सवर्णसञ्ज्ञा, तान् दर्शयति। अकाराणां हि सर्वेषाम् `अकुहविसर्जनीयाःकण्ठ्याः` इति तुल्यं कण्ठस्थानम्। इकाराणामपि `इचुयशास्तालव्याः` इति तालु। उकारा-णामपि `उपूपध्मानीया ओष्ठ्याः` इत्योष्ठः। ऋकाराणामपि `ऋटुरषा मूर्धन्याः` इतिमूर्धा। ऌकाराणामपि `लृतुलसा दन्त्याः` इत दन्तः। एकाराणामैकाराणां च `एऐ कण्ठतालव्यौ` इति कण्ठतालु। ओकाराणामौकाराणां च `ओ ओ कण्ठ्यौष्ठ्यौ` इतिकष्ठोष्ठम्। प्रयत्नस्तु सर्वेषामेवैषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। तस्मात् तुल्यस्थान्प्रयत्नत्वात् स्वरेऽकारादयो मिथः सवर्णसञ्ज्ञाः। एवंयावदौकारः। अन्तःस्था द्विप्रभेदाः, सानुनासिका निरनुनासिकाश्च रेफवर्जिताः। तेऽपि समानजातीयानन्तःस्थान् प्रति सवर्णसञ्ज्ञा भवन्ति। `रेफोष्मणां सवर्णा न सन्ति` इति। तेऽभ्योऽन्येऽकारादयो वर्णा विजातीया इत्येषोऽभिप्रायः। तुल्यजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नाः सवर्णाः सन्त्येव। तत्र रेफस्य तावद् ऋटुरषेभ्यो यवलेभ्यश्चान्ये वर्णा भिन्नस्थानत्वाच्च भिन्नप्रयत्नत्वाच्च सवर्णा न भवन्ति। तथाहि- `अकुहविसर्जनीयाः कण्ठ्याः, इचुयशास्तालव्याः, लृतुलसा दन्त्याः,अपूपध्मानीया ओष्ठ्याः, एऐ कण्ठतालव्यौ, ओ औ कण्ठओष्ठयौ` इति वचनादकारादीनां यथायोगं कण्ठादि स्थानम्। रेफस्य त्वृटुरषा मूर्धन्या इति मूर्धा। प्रयत्नोऽप्यनन्तरनिर्दिष्टेष्वकारादिषु ये स्वराः तेषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। ये तु वर्गान्तः पातिनः ककारादयः, तेषां स्पृष्टकरणाः स्पर्शा इति स्पृष्टता। रेफ-स्येषत्स्पृष्टकरणा अन्तःस्था इतीषत्स्पृष्टता। शकारसकारावपि स्थानप्रयत्नभेदाद्रेफस्य सवर्णौ न भवतः। तौ हि यथाक्रमं तालव्यदन्त्यौ। रेफस्तु मूर्धन्यः। प्रयत्नोऽपि तयोर्विवृतत्वम्। रेफस्य तु पूर्वोक्त एव। ऋटुषाः प्रयत्नभेदाच्चैव रेफस्य सवर्णा न भवन्ति; न तु स्थानभेदेन; तेषामपि मूर्धन्यत्वात्। प्रयत्नभेदस्तु विद्यतेऋकारषकारयोः पूर्ववद् विवृतत्वम्, रेफस्य तु स एव पूर्वोक्तः। टवर्गस्य स्पृष्टता।यवलास्तु पुनः स्थानभेदादेव सवर्णा न भवन्ति, न तु प्रयत्नभेदात्; तेषामपीषत्स्पृ-ष्टगुणत्वात्। स्थानभेदस्तु विद्यते, यवलानां यथायोगं तालव्यदन्त्योष्ठत्वात्। एवं विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वाराः। कुँ खुँ गुँ घुँ इत्येते च यमाश्चातुल्यस्थानप्रयत्नत्वादेव रेफस्य सवर्णा न भवन्ति। विसर्जनीयो हि कण्ठः,जिह्वामूलीयो हि जिह्व्यः; उपध्मानीय ओष्ठ्यः, अनुस्वारयमा नासिक्याः, रेफस्तुमूर्धन्यः। प्रयत्नस्तु यस्तस्य पूर्वोक्तः, स विसर्जनीयादीनां नास्त्येव तदेवं रेफस्य रेफादन्यो नास्ति कश्चित् सवर्तो वर्णः। अनया दिशोष्मणामपि शकारादीनांसावण्र्याभावे वेदितव्यः।`वर्ग्यः` इत्यादि। वर्गे भवो वर्ग्यः। `दिगादित्वाद् यत्` [[4.3.54]] , <<यस्येति च>> [[6.4.148]] इत्याकारलोपः। वग्र्यो यो वर्णः, सोऽन्येन वर्ग्येणस्ववर्गान्तःपातिना तुल्यास्यप्रयत्नेन सह सवर्णो भवति,यथा-ककारः खकारेण। एवमन्यत्रापि वेदितव्यम्। `भिन्नस्थानानाम्` इत्यादि। एते हि ककारादयः सर्वे स्पृष्टगुणत्वात् तुल्यप्रयत्ना यथाक्रमं कण्ठतालुमूर्धदन्तोष्ठस्थानत्वाद्भिन्नस्थानाः। `तर्प्ता, तर्प्तुम्` इति। `तृप तृन्फ तृप्तौ` (धातुपाठः-1307,1308) इत्यस्य तृचि तुमुनि च रूपम्। `भिन्नप्रयत्नानाम्ित्यादि। इकारादयोहि तालव्यत्वात् सर्वे तुल्य-स्थाना विवृतत्वस्पृष्टत्वेषत्स्पृष्टत्वप्रयत्नात् यथायोगं भिन्नप्रयत्नाः। इकार-शकारयोर्यद्यपि प्रयतनोऽप्यभिन्नः,तथापि, तयोः प्रतिषेधं वक्ष्यतीति न भवति सवर्ण-त्वम्। `अरुश्च्योतति`इति `श्च्युतिर् क्षरणे` (धातुपाठः-41) इत्यस्य लटि रूपम्। तत्र परत्रावस्थितऽरुस्शब्दस्य सकारस्य रुत्वम्। तस्य विसर्जनीयः, तस्यापि `वा शरि` [[8.3.36]] इति सकारः, तस्यापि श्चुत्वं शकारः। `होतृकारः` इति। कथं पुनरत्र ऋकारआदेशो भवति, न हि ऋकारऌकारयोः समुदायस्य स्थानिनः सोऽन्तरतम इत्याह- `उभयोः`इत्यादि। ऋकारो मूर्धन्यः, ऌकारस्तु दन्त्यः। तत्र तयोर्यद्येको मूर्धन्यो दन्त्यश्च दीर्घो वर्णोऽन्तरतमः सम्भवेत्, तदा सोऽन्तरतम आदेशो भवेत्। स च न सम्भवतीत्यवयवस्य योऽन्तरतमः, तेन भाव्यम्। तत्रापि यदि ऌकारो दीर्घः स्यात्। सोऽपि पर्यायेण स्यात्, स च नास्ति; तस्मात् पारिशेष्यात् समुदायस्यैकादेशस्य योऽन्तरतमः स एव ऋकारो भवति।", "11010": "`तुल्यास्यप्रयत्नावपि` इति प्रसङ्गे हेतुमाह, प्रसङ्गपूर्वकत्वात् प्रतिषेधस्य। `दण्डहस्त` इत्यत्राकारहकारयोद्र्वयोरपि कण्ठस्थानत्वात् तुल्यस्थानत्वम्, उभयोर्विवृतकरणत्वात् तुल्यप्रयत्नत्वम्; `दधि शीतम्` इत्यत्राप्यत एव तुल्युप्रयत्नत्वम्, उभयोस्तालव्यत्वात् तुल्यस्थानत्वम्। `सवर्णदीर्घत्वं न भवति` इति प्रतिषेध-स्य फलं दर्शयति। ननु च अकः सवर्णे दीर्घविधौ [[6.1.97]] `अचि`; इति वर्तते, तत्रासत्यपि प्रतिषेधे दीर्घत्वं न भविष्यति, यथा- कुमारी शेते इत्यत्र, तदयुक्तमे-वोदाहरणद्वयम्। स्यादेतत्- <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यकारेका-राभ्यां सावण्र्येन ग्रहणादच्त्वमस्ति, तथापि हल्षूपदेशाद् हल्त्वमप्यस्तीति न तावद्धकारश्कारवचावेव, अपि तु हलावपीति, सत्यमेतत्। अयं पुनरत्र वृत्तिकारस्याभिप्रायः- अवश्यं तावदन्यार्थं <<नाज्झलौ>> [[1.1.10]] इत्येतत् कर्तव्यम्, यस्येति लोपा-भावार्थम्। तदन्यार्थं कृतमेतदर्थमपि स्यात्। एवं तह्र्रजनुवृत्तिद्वारेण दीर्घत्वाभावप्रतिपत्तौ साध्यायां यत् प्रतिपत्तिगौरवमापद्यते, तदपास्तं भवतीति।`वैपाशः` इति। विपाशि भव इत्यण्। <<यस्येति च>> [[6.4.148]] इत्यत्रेवर्णउपादीयमानः सावण्र्येन शकारमप्युपादत्ते। एवं च तस्य लोपः प्रसज्येत। `आनहुहम्` इति। अनडुहो विकार इति <<प्राणिरजतादिभ्योऽञ्>> [[4.3.154]] ,तत्र <<यस्येति च>> [[6.4.148]] इत्यत्राकारो गृह्रकारो हकारमपि गृह्णीयात्, ततश्च पूर्ववत् तस्य लोपः स्यात्।", "11011": "अत्रेदादि यद्द्विवचनम्,तत् प्रगृह्रमित्येवं वा विज्ञायते? ईदाद्यन्तं यद् द्विवचनम्, तत् प्रगृह्रमिति वा? तत्राद्ये पक्षे `पचेते` इत्यादौ प्रगृह्रसञ्ज्ञा न प्राप्नोति, न ह्रेकारमात्रमत्र द्विवचनम्; अपि तु आतेशब्द इति। इममाद्येपक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह- ईदूदेदित्येवमन्तमित्यादि । नन्वेतस्मिन्नपि पक्षे अग्नी इत्येवमादि न सिध्यति, ईदाद्येव ह्यत्र द्विवचनं न तदन्तम्? <<आद्यन्तवदेकस्मिन्>> [[1.1.21]] इत्यनेनान्तवद्भावो भवतीत्यदोषः। `अग्नी` इति। <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घत्वम्। अत्र प्रगृह्रसञ्ज्ञायां सत्याम्<<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति प्रकृतिभावादितिशब्दे परतः `अकः सवर्णे` दीर्घत्वं [[6.1.97]] न भवति। `वायु` इत्यत्रापि <<इको यणचि>> [[6.1.77]] इति यणादेशः। शेषेष्वप्युदाहरणेष्वयादेशः। `खट्वे` इति। `औङ आपः` [[7.1.18]] इति शीभावः। <<आद्गुणः>> [[6.1.87]] । `पचेते` इति,`यजेते` इति। स्वरितेत्वादात्मनेपदम्, आताम्, टेरेत्त्वम्, <<आतो ङितः>> [[7.2.81]] इतीयादेशः <<लोपो व्योर्वलि>> [[6.1.66]] इति यलोपः। `वृक्षावत्र, प्लक्षावत्र` इति। भवत्येतद् द्विवचनम्; न त्वीदूदेदन्तम्। तेन प्रकृतिभावाभावादादेशो भवत्येव। `कुमार्यत्र` इति। <<वयसि प्रथमे>> [[4.1.20]] इति ङीपिकृते `कुमारी` इत्येतदीकारान्तम्, न तु द्विवचनान्तम्; तेनासति प्रकृतिभावे भवत्येव यणादेशः। अथ तपरकरणं किमर्थम्?प्लुतनिवृत्त्यर्थमिति चेत्, न; इष्टत्वात् प्लुतस्य। यथा च तपरत्वे क्रियमाणेऽपि प्लुतस्य प्रगृह्रसञ्ज्ञा सिध्यति, तथा भाष्ये `असिद्धः प्लुतः, तस्यासिद्धत्वात् तत्काल एव`(म।भा।1।66) इत्यादिना प्रतिपादितम्। गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्,न; `अभेदकत्वाच्छास्त्रे गुणानाम्` (सो।प।80) इत्यत आह- `तपरकरणमसन्देहार्थम्` इति। असति हि तपरकरण ईकारस्योकारस्य च यणादेशः स्यात्। ततश्च सन्देह एव स्यात्-किमिदं यकारवकारोयग्र्रहणम्, आहोस्विदिकारोकारयोरिति `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यातम्- वक्ष्यमाणं शाकल्यग्रहणमिहोपतिष्ठते सिंहावलोकितन्यायेन , सा च व्यवस्थित-विभाषा; तेन मणीवादीनां प्रतिषेधो भविष्यति, मणीव, दम्पतीव, रोदसीवेति। मणीवेत्या-दयः शब्दा द्विवचनान्ताः। तत्रासति प्रगृह्रत्वे `अकः सवर्णे दीर्घः` ( [[6.1.97]] एकादेशो भवत्येव।", "11012": "`अदसः सम्बन्धी यो मकारः` इति। अवयनवावयविभावलक्षणेन सम्बन्धेन षष्ठी।`अमी अत्र` इति अदस्शब्दात् परस्य जसः शी [[7.1.17]] त्यदाद्यत्वम् [[7.1.102]] ,अतो गुणो` [[6.1.94]] पररूपत्वम्, ईकारेण सह <<आद्गुणः>> [[6.1.87]] <<एत ईद्बहुवचने>> [[8.2.81]] इतीत्त्वम्, दस्य च मत्वम्, [[8.2.80]] । अयमद्विवचनार्थ आरम्भः। `अमू आसाते` इति। अदसो द्विवचनमौ। त्यदाद्यत्वम्,<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धिः; `अदसोऽसेर्दादुदो मः` [[8.2.80]] इत्यौकारस्य दीर्घस्य स्थाने तादृश एवान्तरतम्यादुकरः।अत्राप्यूकारादिकार्यमसिद्धमिति पूर्वेणाप्राप्तिः। अतः `पूर्वात्रासिद्धम्` [[8.2.1]] इत्यस्य बाधनार्थं आरम्भः। कथं पुनः <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्येतच्छक्यं बाधितुम्, वचनसामर्थ्यात्? नैतदस्ति; यत् सिद्धे प्रगृह्रकार्यम् <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इति, तदर्थं वचनं स्यात्, नैतदेवम्; न ह्रेकं प्रयोजनं योगारम्भं प्रयोजयति। यदि ह्रेतावत् प्रयोजनं स्यात्, तत्रैवेदं ब्राऊयात्, `अणोऽप्रगृह्रस्यानुनासिकः, अदसो न` इति। `शम्य्तर, दाडिम्यत्र` इति। `षिद् गौरादिभ्यश्च` [[4.1.41]] इति ङीष्, <<यस्येति च>> [[6.4.148]] इत्यकारलोपः। भवत्ययंमकारात्पर ईकारः, न त्वदः सम्बन्धीति। `अमुकेऽत्र` इति। `अव्ययसर्वनाम्नाम्` [[5.3.71]] इत्यकच्, `जसः शी` [[7.1.17]] , <<आद्गुणः>> [[6.1.87]] , पूर्ववदुत्वमत्वे अमुके इतिस्थिते परत्र चात्रशब्दे <<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपत्वम्।", "11013": "`शे` इति। शेश्रुतेरविशिष्टत्वात् काशे कुशे इत्यत्र यः शेशब्दस्तस्यापि ग्रहणं प्राप्नोति, अतो विशेषो वक्तव्य इत्यभिप्रायेणाह- `किमिदं शे` इति। `सुपाम्ित्यादि। यस्तु काशकुशशब्दाभ्यां सप्तम्येकवचने च कृते आद्गुणे [[6.1.84]] च शेशब्दः सम्पद्यते, तस्येह ग्रहणं न भवति; लाक्षमिकत्वादिति भावः। `युष्मे, अस्मे` इति।षष्ठीबहुवचनस्य `सुपां सुलुक्` [[7.1.39]] इत्यादिना शेशब्दादेशः, <<शेषे लोपः>> [[7.2.90]] अथ वा- प्रथमाबहुवचनस्यैव शेभावः, छान्दसत्वात् <<यूयवयौ जसि>> [[7.2.93]] इत्येतन्न प्रवर्तते। `त्वे इति, मे इति`। सप्तम्येकवचनस्य पञ्चम्येकवचनस्य च शेभावः। `त्वमा-वेकवचने` [[7.2.97]] इति युष्मदस्मदोस्त्वमावादेशौ। `इतरत् तु लौकिकमनुकरणम्` इति।यदा `युष्मे इति` एवमादिकं तदा लौकिकमनुकरणमिति भावः। यदा `युष्मे`, `अस्मे` इत्याददीनां वेदवाक्यस्थानामर्थाद्वयवच्छिद्य स्वरूपेऽवस्थानार्थं पदकारैरितिकरणोऽध्या-ह्यियते, तदा `युष्मे इति`, `अस्मे इति` एवमादिकमुदाहरणमिति भवति। इतरत् तु लौकिकमनुकरणमित्युक्ते `न युष्मे वाजबन्धवः` (ऋ।8।69।19), `त्वे रायः` (तै।सं।1.2.5।2), `मे रायः` (वा।सं।4।22) इत्येतेष्वपि वेदवाक्येषु यत् `युष्मे` इत्यादिशेशब्दान्तं शब्दरूपम्, तत् स्वरूपेण दर्शयितुमाह- `युष्मे इति, अस्मे इति, त्वे इति, मे इति`।यद्येववं किमर्थं `न युष्मे वाजबन्धवः` )ऋ 8।69।19) इत्यादीनामुपन्यासः? एषु वेदवाक्येषु ये `युष्मे` इत्यादयः शब्दाः, तेषामेतान्यनुकरणनीति प्रदर्शनार्थः; अन्यथाहि ज्ञायते कस्यैतान्यतनुकरणनीति॥", "11014": "एकाजिति बहुव्रीहिर्वाऽयं स्यात्,कर्मधारयो वा? यदि बहुव्रीहिः, प्रशब्द-स्यापि प्रगृह्रसञ्ज्ञा स्यात्। ततश्च `प्रोपाभ्याम्` [[1.3.42]] इति निर्देशो नोपप-द्येत, प्राग्नय इति च प्रत्युदाहरणम्। तस्मात् कर्मधारयोऽयमिति मनसि कृत्वाह- `एकश्चासावच्छेत्येकाच्` इति। `अ अपेहि` इत्यादीनि त्रीणि च्छान्दसान्युदाहरणानि; इतरत् तु लौकिकम्। तत्र `आ एवं नु मन्यसे` इत्यत्राकारो वाक्यापरिपूरणार्थः। `आ एवं किल तत्` इत्यत्र तु स्मरणार्थः। `चकारात्र` इति। करोतेर्लिट्। `परस्मैपदानाम्` [[3.4.82]] इत्यादिना तिपो णल्, वृद्धिः, रपरत्वम्। <<द्विर्वचनेऽचि>> [[1.1.59]] इतिस्थानिवद्भावेन द्विर्वचनम्। उरत्त्वम् [[7.4.66]] । <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्। भवत्ययं णलकार एकाच्, न तु निपातः।`प्राग्नये` इति। प्रशब्दो भवति निपातः, न त्वेकाच्। तेन <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति प्रकृतिभावो न भवति। <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घत्वं तु भवत्येव।आकारोऽत्र हि ङिद्विशिष्ट उपात्तः, तस्य न ज्ञायते- क्व च ङित्त्वम्, क्व च नेति। अतो ङित्त्वाङित्त्वयोर्विषयविभागप्रदर्शनार्थमाह- `ईषदर्थे` इत्यादि।तत्रेषदर्थे-आ-उष्णम्- ओष्णमिति।ईषदुष्णमित्यर्थः। क्रियायोगे उपसर्गसञ्ज्ञायां ङिद्विशिष्ट एव पठते।प्रपरापसमन्ववनिर्दुव्र्याङन्यधयोऽप्यतिसूदभयश्च।प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र॥ इति।आ इहि- एहि। आ अत्ति= आत्ति। मर्यादाभिविध्योरपि ङिद्विशिष्ट एव पठते, `आह मर्यादाभिविध्योः` (2।113) इति। मर्यादा= ,सीमा; अवधिः। आ उदकान्तात्= ओदकान्तात्प्रियं प्रोधमनुव्रजेत्। अभिविधिः = अभिव्याप्तिः। आ अहिच्छत्रात्, आहिच्छत्रं वृष्टो देवः। अहिच्छत्रं गृहीत्वा वृष्टो देव इत्यर्थः। ङिद्विशिष्टस्य `अनाङ` इति प्रगृह्रसञ्ज्ञाप्रतिषेधात् स्वरसन्धिर्भवति। अथ `एतमातम्` इत्यत्रैतदः `द्वितोयाटौस्त्वेनः` [[2.4.35]] इत्येनादेशः कस्मान्न भवति? `अन्वादेशे` इति तत्रानुवर्तते। अस्ति चेहान्वादेश इत्यस्ति प्राप्तिः? यथा न भवति तथा तत्रैव प्रकरणे वृत्तिकारः स्वयमेव वक्ष्यतीति(का।162) पुनरिह नोच्यते। `आतम्` इति। आकारे तकारो मुखसुखार्थः। ये तु पुरेतमाङमिति ङकारसहितमाकारं पठन्ति तेषां ङितं विद्यादिति वचनमनर्थकं स्यात्; ङकारसहितस्य पाठादेव ङित्त्वविज्ञानात्। तस्मात् तकारपर एवायमाकारः पठितव्यः। `वाक्यस्मरणयोः` इति। वाक्यशब्देन वाक्यार्थ उक्तः; अबिधेयेऽभिधानोपचारात्। प्रक्रान्तं हि वाक्यार्थं किञ्चिदपेक्ष्येदं प्रयुज्यते- `आ एवं नु मन्यसे` इति। एवमयं वाक्यार्थो विज्ञायत इत्य्रथः। पूर्वप्रक्रान्तवाक्यार्थप्रदर्शनपरोऽयमाकारः प्रयुक्तः। अथ वा- पूर्वप्रक्रान्तवाक्यार्थस्यान्यथाकरणमिदं प्रयुज्यते, `आ एवं नु मन्यसे` इति, नैवं पूर्वममंस्थाः, सम्प्रति त्वेवं मन्यस इति। अथ वा- वाक्याशब्देन वाक्यमेवोच्यते, वाक्यावयवो निरर्थक एवाकारः प्रयुज्यत इति। स्मरणं स्मृतिः, तत्र य आकारो वर्तते स्मृतिसूचकः,स ङिन्न भवति। `आ एवं किल तत्`, एवमिदं विज्ञातमित्यर्थः। ज्ञातं स्मृतमेव। अथ वा- स्मर्तव्यार्थविषयः पूर्वमाकारः प्रयुज्यते। `आ` इति स्मतेरुत्तरकालमर्थ आख्यायते। `आ` इत्येतस्यैवं किल तदिति भवत्ययमर्थ इत्यर्थः। वाक्यस्मरणयोराकारस्य प्रगृह्रसञ्ज्ञास्त्येवेति <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति प्रकृतिभावः। तेन <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धिर्न भवति।", "11015": "", "11016": "`सम्बुद्धिनिमित्तः` इति। सम्बुद्धिर्निमित्तं यस्य स तथोक्तः। एतेन `सम्बुद्धौ` इत्यस्य निमित्तसप्तमीत्वं दर्शयति। परसप्तम्यां त्वस्याम् `हे त्रपो`इत्यत्र न स्यात्, `स्वमोर्नपुंसकात्` [[7.1.23]] इति सम्बुद्धेर्लुप्तत्वादिति भावः। <<सम्बुद्धौ च>> [[7.3.106]] इति वर्तमाने `ह्रस्वस्य गुणः` [[7.3.108]] इत्यनेन यो गुणो विधीयते, स सम्बुद्धिनिमित्तः, तस्य सम्बुद्धिनिमित्तत्वमुपादाय विहितत्वात्। `गवित्ययमाह` इति। केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् `गो` इत्युक्तम्, तमन्यो यदानुकरोति, तत्रैतत् प्रत्युदाहरणम्। ननु चानुकार्येणार्थेनार्थवत्त्वात् प्रतिपदिकत्वे सति विभक्त्यात्र भवितव्यमित्यत आह- `अत्र` इत्यादि। अत्रानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते, ततोऽर्थवत्तायां सत्यां स्याद्विभक्तिः, स तु न विवक्ष्यत इति कुतस्तस्याः प्रसङ्गः? न हीह शब्दशास्त्रे वस्तुनः सत्तैव शब्-संस्कारस्य प्रधानं कारणम्, किं तर्हि, विवक्षा च। सा चेह नास्ति। `शाकल्यग्रहणं विभाषार्थम्` इति। एतेन पूजार्थताशङ्कां निरस्यति। यदि हि पूजार्थमेव तत् स्यात्, विकल्पो न भवेदिति भावः॥", "11017": "", "11018": "", "11019": "", "11020": "`दाधा` इति। दारूपाणां चतुर्णां कृतैकशेषाणां धारूपयोद्र्वयोश्च कृतैकशेषयोद्र्वन्द्वः। ननु च लक्षण प्रततिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, न तु लाक्षणिकस्य` (व्या।प।3), इत्यनया परिभाषया `दो अवखण्डने` (धातुपाठः-1148), `देङरक्षणे` (धातुपाठः-962), `धेट् पाने` (धातुपाठः-902) इत्येतेषां ग्रहणं न स्यात्? नैतदस्ति; तस्या हि परिभाषायाः `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इत्यपवादोऽस्ति, तेन सत्यपि लाक्षणिकत्वेदोदेङौ तावद् गृह्रेते। धेटोऽपि लिङ्गाद् ग्रहणमनुमीयते। तत् पुनर्लिङं दैपः पकारानुबन्धः,स हि `अदाप्` इति दाप्प्रतिषेधसामान्य-ग्रहणार्थः क्रियते। यदि चास्याः परिभाषाया इह व्यापारः स्यात्, दैपः पकारानुबन्धकरणमनर्थकं स्यात्। लाक्षणिकत्वादेव ह्रस्य ग्रहणं न भविष्यतीति किं प्रतिषेधेऽस्यग्रहणेन? ननु लाक्षणिकमपि दारूपं धारूपं च धेटो नोपपद्यत एव, सानुबन्धकस्य ह्रनेजन्तत्वादात्त्वानुपपत्तेः? नैष दोषः यदयम् <<उदीचां माङो व्यतीहारे>> [[3.4.19]] इति मेङ सानुबन्धकस्यात्त्वभूतस्य निर्देशं करोति , तज्ज्ञापयति- नानुबन्धकृत-मनेजन्तत्वम्`(शा।प।15) इति। ननु च `माङ माने` (धातुपाठः-1142) इत्यस्याप्यसौनिर्देशः स्यात्, तत् कथं ज्ञापकम्? नैतदस्ति। `मेङ प्रणिदाने` (धातुपाठः- 961) इत्ययमेव व्यतीहारे वर्तते, न `माङ माने` (धातुपाठः-1142) इति। तस्मान् मेङ एवायं कृतात्त्वस्य निर्देशो ज्ञापनार्थः। `प्रणिददाति` इति। `नेर्गदनदपतपदघुमास्यतिहन्ति` [[8.4.17]] इत्यादिना घुसञ्ज्ञायां सत्यामिह णत्वं भवति। `प्रणिदाता` इति। तृजन्तम्।`प्रणिद्यति` इति। <<ओतः श्यनि>> [[7.3.71]] इत्योकारलोपः। अशिद्विषये दारूपोऽयं भवतीत्यत्र घुसञ्ज्ञा प्रवर्तत एव। `दातं बर्हिः` इति। घुसञ्ज्ञाया अभावात् `दोदद्घोः` [[7.4.46]] इति ददादेशो न भवति। `अवदातम्` इति। अत्रापि `निष्ठा` [[3.2.102]] इति क्तप्रत्ययः।अत्र <<अच उपसर्गात्तः>> [[7.4.47]] इति तकारादेशो न भवति।", "11021": "`असहायस्य` इत्यादिना सूत्रारम्भस्य फलं दर्शयति। इति करणो हेतौ। यस्मादादेरन्तस्य यानि कार्याण्युपदिष्टानि, तान्यविद्यमानसहायस्य न सिध्यन्ति; तस्मादतिदेशोऽयमारभ्यते। द्वितीयादिकं हि सहायमपेक्ष्याद्यन्तशब्दौ प्रवर्तते। तथा हि - लोकः सति हि परस्मिन् सहाये पूर्वाभावे चादिरिति व्यपदिशति, सति च पूर्वस्मिन्पराभावे चान्त इति। अतस्तदुभयमसहाये नास्तीति। तत्राद्यन्तप्रतिबद्धानि कार्याणि न स्युः, यद्ययमतिदेशो आरभ्यते। `एकस्मिन्` इति वचनात् `आद्यन्तवत` इत्यत्र सप्तमीसमर्था-द्वतिर्गम्यत इत्याह- `सप्तम्यर्थे वतिः` इति। आद्यन्तयोरिवाद्यन्तवत्, <<तत्र तस्येव>> [[5.1.116]] इति वतिः। `औपगवम्` इत्यत्राप्यादिव्यपदिष्टं कार्यमतिदेशस्य फलम्। प्रत्ययाद्युदात्तत्वं ह्रादेरुपदिष्टम्, <<आद्युदात्तश्च>> [[3.1.3]] इति वचनात्। `आभ्याम्` इति। अत्रान्तोपदिष्टं दीर्घत्वं ह्रन्तस्योपदिष्टम्, <<अलोऽन्त्यस्य>> [[1.1.52]] इति वचनात्। इदमो भ्याम्, त्यदाद्यत्वम्, [[7.2.102]] , <<अतो गुणे>> [[6.1.97]] पररूपत्वम्, <<हलि लोपः>> [[7.2.113]] इतीद्रूपस्य लोपः, `सुपि च` [[7.3.102]] इति दीर्घः।", "11022": "`कुमारितरा` इति। `द्विवचविभज्योपपदे` [[5.3.57]] इत्यादिना तरप्। `कुमारितमा` इति। `अतिशायने` इत्यादिना तमप्। तयोर्घसञ्ज्ञायां सत्यां <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यादिना ह्रस्वत्वं भवति।", "11023": "अत्र बहुगणशब्दौ प्रातिपदिके, वतुडती प्रत्ययौ। `बहुकृत्वः` इति- `सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्` [[5.4.17]] । `बहुधा` इति- `सख्याया विधार्थे धा` [[5.3.42]] `बहुकः` इति- `सख्याया अतिशदन्तायाः कन्` [[5.1.22]] `तावत्कृत्वः` इत्यादि- तच्छब्दात् `यत्तदेतेभ्यः परिमाणे वतुप्` [[5.2.39]] इति वतुपि कृते <<आ सर्वनाम्नः>> [[6.3.91]] इत्यात्त्वे कृते `तावत्` इति भवति; किंशब्दात् किमः संख्यापरिमाणे डतौ कृते टिलोपे च `कति` इति भवति; ताभ्यां पूर्ववदेव कृत्वसुजादयः।`बहुगणशब्दयोः` इत्यादि। बहुशब्दोऽयं संख्यावचनोऽप्यस्ति, वैपुल्यवचनोऽपि; गणशब्दः संख्यावचनोऽप्यस्ति, सङ्घवचनोऽपि; तत्र यौ वैपुल्य्सङ्घवचनौ,तयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव तयोस्त्वेषा सङ्ख्यासंज्ञा विधीयते,तत्कथं संख्ये-त्यन्वर्थसंज्ञेयम्- संख्यायतेऽनया संख्या ! न च यो वैपुल्ये बहुशब्दो वर्तते,यश्च सङ्घे गणशब्दः, ताभ्यां संख्यायते। तथा हि- `बहुरोदनः` इत्युक्ते वैपुल्यंगम्यते; तथा `महान् भिक्षौउमां गणः` इत्युक्ते सङ्घः,न तु संख्यानम्। तस्मादन्वर्थसंज्ञाकरणाद् यावेकद्विसंख्याव्यवच्छेदेन संख्याविशेषमाहतुः, तयोरेव ग्रहणम्।यद्येवम्,किमर्थं तयोरियं संज्ञा विधीयते, यावता संख्यावाचिनौ तौ लौकिकसंख्यायामन्तर्भूतौ? लौकिकी च संख्या शास्त्रे गृह्रत एव; अन्यथा <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यत्र `अतिशदन्तायाः` इति प्रतिषेधोऽनर्थकः स्यात्, शास्त्रीयायाः संख्याया अतिशदन्ताया अभावादित्यत् आह- `भूर्यादीनां निवृत्त्यर्थम्` इति। भूरि-प्रभूतमित्येवमादयस्तज्जातीयाः प्रचुरविशेषवाचिनः सन्ति, तेषां मा भूदित्येवमर्थबहुगणशब्दयोः संख्यासंज्ञा विधीयते। तदेतेन नियमार्थमेतयोः संज्ञाविधानमेतदिति दर्शयति। तुल्यजातीयापेक्षया हि नियमः। अतस्तुल्यजातीयानां भूर्यादीनामेव नियमेन व्यावृत्तिः क्रियते, नान्येषाम्।`अर्धपूर्वपदश्च` इति। अर्धशब्दः पूर्वपदं यस्य पूरणप्रत्ययान्तस् सोऽर्ध-पूर्वपदः, स च संख्यासंज्ञो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह- `समासकन्विध्यर्थम्` इति। तत्रेदं व्याख्यानम्- `डति च` [[1.1.24]] इत्यत्र यश्चकारः, स इह स्वरितत्वमासज्य सिंहावलोकितन्यायेनोपस्थाप्यते। स चानुक्तसमुच्चयार्थः। तेनार्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति। अर्धपञ्चमशूर्पः` इति। अर्धं पञ्चमं येषामिति बहुव्रीहिः। अर्धपञ्चमैः शूर्पैः क्रीतमिति <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति समासः। <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसंज्ञा। <<शूर्पादञन्यतरस्याम्>> [[5.1.26]] इति विहितस्याञष्ठञो वा `अध्यर्धपूर्वद्विगोर्लुग-संज्ञायाम्` [[5.1.28]] इति लुक्। `अर्धपञ्चकः` इति। <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] ॥", "11024": "`स्त्रीलिङ्ग निर्देशात्` इत्यादि। ष्णान्तेति स्त्रीलिङ्गनिर्देशः क्रियते, न चेह किञ्चित् स्त्रीलिङ्गं श्रूयते, नापि प्रकृतमन्यत् संख्यायाः। तस्मात्स्त्रीलिङ्गनिर्देशात् संख्यैव `ष्णान्ता` इत्यनेन विशेषणेन विशिष्यते। `षट्` इति चानया संज्ञया सम्बध्यते। यदि ष्णान्तेत्यत्र स्त्रीलिङ्गनिर्देशो न क्रियते, सर्वं ष्णान्तं शब्दरूपं षट्संज्ञं स्यात्। ततः `पामानः` विप्रुषः` इत्यादावपि <<षड्भ्यो लुक्>> [[7.1.22]] इति लुक् प्रसज्येत। ननु च संख्येत्यनुवर्त्तिष्यते, तत् कुतोऽतिप्रसङ्गः? सत्यमेतत्; सैवानुवृत्तिः स्त्रीलिङ्गनिर्देशेन स्पष्टीक्रियते। यदि संख्येत्यनुवर्तते, सामर्थ्यादेव तदन्ता विज्ञास्यते, न हि षकारमात्रं वानकारमात्रं वा संख्यास्ति, तदपार्थकमन्तग्रहणम्, नैतदस्ति; उपदेशावस्थायां या ष्णान्ता सा षट्संज्ञा यथा स्यादित्येवमर्थत्वादन्तग्रहणस्य। असति तस्मिन् शतानिसहरुआआणीति नुमि कृते षट्संज्ञा स्यात्। इह च अष्टानाम्? इत्यष्टन आत्वे कृतेषट्संज्ञा न स्यात्। ततश्च `षट्चतुभ्र्यश्च` [[7.1.55]] इति नुण् न भवति।", "11025": "`डत्यन्ता या संख्या सा षट्संज्ञा भवति` इति। संख्याग्रहणेनेहापि संख्यानुवर्तत इति दर्शयति। किमर्थं पुनः सेहानुवर्तते? पातेर्डतिः पतय इत्यत्र मा भूत्। अथसंख्यानुवृत्तावपि कस्मादेवात्र न भवति, यावतायमपि संख्यासंज्ञ एव, सामान्येन हिपूर्वं डतेः संख्यासंज्ञा विहिता? नैतदस्ति; वतुना साहचर्यात् तद्धितस्यैव डतेस्तत्र ग्रहणम्, न कृतः; कृच्चायम्।", "11026": "`भुक्तवान्` इति। <<चोः कुः>> [[8.2.30]] इत कुत्वम्। `अत्वसन्तस् चाधातोः` [[6.4.14]] इति दीर्घः। अथ केन विहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते? अनयैवसंज्ञया। वक्ष्यति तृतीये `निष्ठा` [[3.2.102]] इति। यद्येवम्, निष्ठासंज्ञया क्तक्तवतू भाव्येते, तावेवाश्रित्य निष्ठासंज्ञेति; इतरेतराश्रयो दोषो भवति, `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते, (व्या।28) नैष दोषः; भाविनी हि संज्ञा विज्ञास्यते, यथा- `अस्य सूत्रस्य शटकं वय` इति। तौ भूते काले भवतः, ययोर्विहित-र्निष्ठेत्येषा संज्ञा भवतीति।", "11027": "`सर्वशब्द आदिर्येषां तानीमानि सर्वादीनि` इति। एष तद्गुणसंविज्ञानो बहुव्रीहिः; इतरथा ह्रुपलक्षणार्थत्वात् सर्वशब्दस्य संज्ञा न स्यात्। न ह्रुपलक्षणस्योपसर्जनी-भूतस्य कार्येण सम्बन्धो भवति। तथा हि- `चित्रगुरानीयताम्` इत्युक्ते न गवा-मप्यानयनं भवति। तद्गुणसंविज्ञानस्य बहुव्रीहेर्लिङ्गम्- <<अदः सर्वेषाम्>> [[7.3.100]] इति निर्देशः। सर्वशब्दस्य सुट् सर्वनाम्नः कार्यम्; अन्यथा हि तन्नोपपद्यते। `सर्वः, सर्वौ सर्वे` इति। इदमत्रोदाहरणं `सर्वे` इति। अत्र हि सर्वनामसंज्ञायाम् `जसः शी` [[7.1.17]] इति शीभावः कार्यः। पूर्वयोस्तु तत्साहचर्येण `सर्वे` इत्येतस्य पुंलिङ्गतां श्रूयमाणविभक्तितां च दर्शयितुमुपन्यासः; अन्यथा `सर्वे` इत्येता-वत्युच्यमाने स्त्रीलिङ्गस्य लुप्तसम्बृद्धेरयं प्रयोग इति। कस्यचिद् भ्रान्तिः स्यात्। `सर्वस्मै` इति। <<सर्वनाम्नः स्मै>> [[7.1.14]] । `सर्वस्मात्, सर्वस्मिन्` इति। <<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] । `सर्वस्मात्, सर्वस्मिन्` इति। `ङसिङयोःस्मात्स्मिनौ` [[7.1.15]] इति। `सर्वकः` इति- <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इति।उभशब्दोऽयं द्विवचनटाब्विषय एव प्रयुज्यते-`उभौ उभे`इति। न च तत्किञ्चित् सर्वनामकार्यं सम्भवति; स्मैप्रभृतीनां यतायोगमेकवचनबहुवचनविषयत्वात्। अकजपि नैवं सर्वनामसंज्ञां प्रयोजयति; विशेषाभावात्। नहि तस्मादकचि, कप्रत्यये वा विहिते रूपभेदो वा भवति। तत् किमर्थस्तस्येह पाठः? इत्याह- `उभशब्दस्थ` इत्यादि। `सर्व-नाम्नस्तृतीय च` [[2.3.27]] इत्यनेन उभाभ्यां हेतुभ्याम्, उभोयर्हेत्वोरिति तृतीया-षष्ठ्यौ यथा स्यातामित्येवमर्थ्सतस्येह पाठ इति दर्शयति।`डतरतम` इति। `किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्` [[5.3.92]] `वा बहुनां जातिपरिप्रश्ने डतमच्` [[5.3.93]] इत्येतयोः प्रत्ययोग्र्रहणम्।`वक्ष्यमाणेन` इति। <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> [[1.1.33]] इत्यादिना।`कथम्` इत्यादि। समशब्दस्य सर्वनामसंज्ञायां सत्यां <<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इति सुटि `समेषाम्` इति भवितव्यम्, तत् कथं सामानामिति भवति? ततश्च सप्तम्येकवचनस्य स्मिन्भावे कृते समस्मिन्निति भवितव्यम्, तत् कथं `समे देशे यजेत्` इति प्रयोग उपपद्यते ! इत्यभिप्रायः। `न सर्वत्र` इति। न सर्वत्रार्थे वर्तमान-स्येत्यर्थः। एतच्च `सर्वेषां नामानि सर्वनामानि` इत्यन्वर्थसंज्ञाकरणाल्लभ्यते। स एव हि समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः, न चान्योः प्रयोगयोः समशब्दः सर्वपर्यायः। तथा हि `समानाम्` इत्यत्र समशब्दस्तुल्यार्थे वर्तते। `समे देशे` इत्यत्राप्यविषमे- निम्नोन्नतादिरहिते। अत एव चान्वर्थसंज्ञाकरणात् संज्ञोपसर्जनीभूतानां संज्ञा न भवति। यथा- सर्वो नाम कश्चित्, तस्मै सर्वाय देहि। अतिक्रान्तः रुआर्वमतिसर्वः, तस्मा अतिसर्वाय देहीति। न ह्रेवंप्रकाराणि सर्वेषां नामानि; विशिष्टव्सतु विषयत्वात्। `सर्वनामानि` इत्यत्र`पूर्वपदात् संज्ञायाम्` [[8.4.3]] इतिणत्वं तु न भवति, अत एव निपातनात्।", "11028": "`दिगुपदिष्टे` इति। दिशामुपदिष्ट उक्तो दिगुपदिष्टः। स पुनः`दिङनामान्यन्तराले` [[2.2.26]] इति यः समासस्तस्यात्र ग्रहणम्। स पुनर्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते। प्रतिपदोक्तसमासाश्रयणं तु या पूर्वा दिक् सोत्तराऽस्योन्मु-ग्धस्य, `अस्मै पूर्वोत्तराय देहि` इत्यत्रा मा भूत्। `उत्तरपूर्वस्मै` इति।उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमिति पूर्वोक्तेन सूत्रेण बहुव्रीहिः, `सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः` (जै।प।वृ।103) इति पूर्वपदस्य पुंवद्भावः, चतुर्थ्येकवचनम्, <<सर्वनाम्नः स्याड्ढ्रस्वश्च>> [[7.3.114]] इति याट्, `आटश्च` [[6.1.87]] इति वृद्धिः।`समासग्रहणं किम्` इति। यावता न बहुव्रीहिः समासत्वं व्यभिचरत्येव, ततोऽपार्थकं विशेषणमित्यभिप्रायः। `समास एव यो बहुव्रीहि` इति। यस्यातिदेशेन बहुव्रीहिवद्भावो न विधीयते स वेदितव्यः समास एव बहुव्रीहिरिति। स पुनर्यः समासाधिकारे विहितः। `बहुव्रीहिवद्भावेन` इति। यस्यातिदेशिकं बहुव्रीहित्वं स बहुव्रीहिवद्भावेनबहुव्रीहिः। `दक्षिणदक्षिणस्यै` इति। <<एकं बहुव्रीहिवत्>> [[8.1.9]] इत्यतो बहुव्रीहिवदिति वर्तमाने <<आबाधे च>> [[8.1.10]] इति दक्षिणाशब्दस्य द्विर्वचनम्। बहुव्रीहि-वद्भावाच्च सुब्लुक्। अयं बहुव्रीहिवद्भावेन बहुव्रीहिरिति विभाषा न प्रवर्तते। योऽपि <<न बहुव्रीहौ>> [[1.1.29]] इति वक्ष्यमाणः प्रतिषेधः सोऽपीह न भवति; तत्रापि समासाधिकारात। `दक्षिणोत्तरपूर्वाणाम्` इति। अत्र <<द्वन्द्वे च>> [[1.1.31]] इति नित्य एव प्रतिषेधो भवति, तेन पक्षे सुण्न भवति। यद्येवम्, `सर्वनाम्नो वृत्तिमात्रे` (जै।प।वृ103) इति पुंवद्भावोऽत्र न स्यात्; नैतदस्ति; अवयवस्याद्वन्द्वत्वात्। ननु विनाऽपि बहुव्रीहिग्रहणेनात्र <<द्वन्द्वे च>> [[1.1.31]] इति प्रतिषेधेन भाव्यमेव; तदपार्थकं बहुव्रीहिग्रहणम्, नैतदस्ति; यो हि दिग्द्वन्द्वो न भवति स तस्य विषयः स्यात्। दिग्द्वन्द्वे त्वसति बहुव्रीहिग्रहणे एषैव विभाषा स्यात्। तस्माद्बहुव्री-हिग्रहणं कर्तव्यम्? न कर्तव्यम्। कस्मान्न भवति? `दक्षिणोत्तरपूर्वाणाम्` इत्यत्र प्रतिपदोक्तसमासस्येह ग्रहणात्। एवं तर्ह्रुत्तरार्थं बहुव्रीहिग्रहणम्। <<न बहुव्रीहौ>> [[1.1.29]] इत्यत्रास्य प्रयोजनं वक्ष्यति। वृत्तिकारस्य त्वेषोऽभिप्रायः- `उत्तरार्थमवश्यकर्तव्यम्, तदुत्तरार्थं कृतमिहापि स्पष्टार्थं भविष्यति` इति।", "11029": "`सर्वनामसंज्ञायाम्` इत्यादि। कथं पुरेतदवगतम्- अभ्युपगतस्तदन्तविधिरिति? अत एव प्रतिषेधात्, अन्यथा हि निष्फलः प्रतिषेधः स्यात्। तदन्तविध्यभ्युपगमे हि `परमसर्वस्मै उत्तमसर्वस्मै` इत्यत्रापि संज्ञा यथा स्यात्। `इह च` इत्यादि। अस्य `प्रतिषेध आरभ्यते` इत्यनेन सम्बन्धः। `त्वं पिताऽस्य, अहं पिताऽस्य` इति विगृह्र बहुव्रीहौ कृतेऽज्ञाताद्यर्थविवक्षायामसति प्रतिषेधे। <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यत्राकच् प्रसज्येत। ततश्च `त्वकत्पित-कः, मकत्पितृकः` इत्यनिष्टं रूपं स्यात्। तस्मादकज् मा भूदिति प्रतिषेद आरभ्यते। तेन `प्रागिवात् कः` [[5.3.70]] इति क एव भवति। तत्र परतः <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति मपर्यन्त-र्योर्युष्मदस्मदोस्त्वमयोः कृतयोः <<नद्यृतश्च>> [[5.4.153]] इति समासान्ते कपि च `त्वत्कपितृकः, मत्कपितृकः` इति सिद्ध्यति। ननु चान्वर्थसंज्ञाकरणादेव संज्ञानिरासे कृतेऽकज् न भविष्यति-न ह्यत्र सर्वार्थता सम्भवति, विशेषविषयत्वात्, नैतदस्ति;समुदायो हि विशेषे वर्तते, पूर्वपदं तु सर्वार्थताया अनपेतमेव। भवत्वनयोरनन्तरयो-रुदाहरणयोरेतत्सूत्रविषयता, `प्रियिआआय` इत्यादिस्तु नपपद्यते; न हि प्रियविआआदयः शब्दाः सर्वेषां नामानि नापि तदवयवभूतानां विआआदिशब्दानां किञ्चित् सर्वनामका-र्यममुपपद्यते; स्मैप्रभृतीनामङ्गकार्यत्वात्, विआआदिशब्दानां चानङ्गत्वात्? एवं मन्यते- `त्वत्कपितृकः, कत्कपितृकः` इत्यत्राकज् मा भूदिति, एतदर्थं तावदेतदार-ब्धव्यम्, `प्रियविआआय` इत्येवमादावपि विस्पष्टार्थं भविष्यतीति।अथ `बहुव्रीहौ` इति वर्तमाने किमर्थं पुनर्बहुव्रीहग्रहणमित्याह- `बहुव्रीहौ` इत्यादि। `वस्त्रान्तरवसनान्तराः` इति। वस्त्रमन्तरं येषामिति बहुव्रीहि कृत्वा वस्त्रान्तराश्च वसनान्तराश्चेति द्वन्द्वः कृतऋ। अत्र वर्तमा-नत्वाद् द्वन्द्वस्य <<द्वन्द्वे च>> [[1.1.31]] , <<विभाषा जसि>> [[1.1.32]] इति द्वन्द्वा-श्रितो विभाषाप्रतिषेधः स्यात्, न नित्यो बहुव्रीह्राश्रितः। पुनर्बहुव्रीहिग्रहणा-त्तु भूतपूर्वस्यापि बहुव्रीहेराश्रयमात् तदाश्रयो नित्यः प्रतिषेधो भवति। वसनशब्द-श्चात्र वसत्यस्मिन्नित्यधिकरणसाधनो गृहे वर्तते, न वस्त्रे; अन्यथा वस्त्रान्तरवसनान्तरशब्दयोः पर्यायत्वाद् द्वन्द्वो न स्यात्, `तुल्यार्थाञ्च विरुपाणामेकशेषः` इत्येकशेषविधानात्।", "11030": "ननु च <<विभाषा दिक्समासे बहुव्रीहौ>> [[1.1.28]] इत्यत समासग्रहणमनुवर्तत एव, तत् किमर्थं पुनः समासग्रहणमित्यत आह- `समास इत्यनुवर्तमाने` इत्यादि। अस्त्येव तृतीयासमासो मुख्यः, यस्मिन् सत्यैकपद्यमैकस्वर्यमेकविभ्कतिकत्वं च भवति। अस्ति च गौणः, यस्मस्तादथ्र्यादतस्मिन्नपि ताच्छबद्यं भवति। स पुनस्तृतीयासमासार्थंवाक्यम्। तत्रासति पुनः समासग्रहणे `गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः` (व्या।प।4) इति मुख्य एव प्रतिषेधः स्यात्। नेतरत्र। तस्मात् तत्रापि प्रतिषेधो यथा स्यादित्येवमर्थं पुनः समासग्रहणम्। यदि तर्हि तृतीयासमासार्थेऽपि वाक्ये प्रतिषेधो भवति,यावान् कश्चित् तृतीयासमासः, तदर्थे वाक्ये सर्वत्र प्रतिषेधः स्यात्; ततश्च `त्वयका कृतम्, मयका कृतम्ित्यत्राकज् न स्यात्। भवति ह्रेतत् <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इत्यनेन यः समासस्तदर्थं वाक्यम्;तत्र कप्रत्यये कृते `त्वत्केन कृतम्, मत्केन कृतम्` इति रूपं स्यादित्यत आह- `पूर्वसदृश`इत्यादि। एतच्च लक्षमप्रतिपदोक्तपरिभाषया लभ्यते।`त्वयका, मयका` इति। पूर्ववत् त्वमावादेशौ, सुबन्तादकच्। क्वचित् त्वकया, मकया इति पाठः स त्वयुक्तः। प्रातिपदिकात् त्वकजुत्पत्तौ त्वकया मकयेति भवति, न चात्र प्रातिपदिकादकजुत्पत्तिरिष्यते; अपि तु सुबन्तात्। तथा ह्रकज्विधौ वक्ष्यति-`प्रातिपिदकात्` सुपः` इति च द्वयमपीहानुवर्तते। तत्राभिधानतो व्यवस्था- क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। `युष्मकाभिः,युष्मकासु, अस्मकासु, युवकयोः, आवयकयोः` इत्यत्र प्रातिपदिकस्य। त्वयका, मयका,त्वयकि,मयकि` इत्यत्र सुबन्तस्य` इति।", "11031": "", "11032": "`जसः कार्यं प्रति` इत्यादि। एतच्च् व्यवस्थितविभाषात्वादस्या विभाषाया लभ्यते। अथ वा जसीति कार्यापेक्षया आधारसप्तमीयम्, न तु सर्वाद्यपेक्षया परसप्तमी; तेन जसि यत् कार्यम्= जसाधारं यत् कार्यं जसः शीभावः तत्र विभाषा भवति, नान्यत्र। किं कारणमेवं व्याख्यायत इत्यत आह-`अकज् हि न भवति` इति हि शब्दो हेतौ।एवं व्याख्यायमाने सति `कतरकतमकाः` इत्यत्राकज् न भवति; पूर्वसूत्रेण संज्ञाप्रतिषेधात् अन्यथा हि यदि जसि परतः संज्ञा विकल्प्यते,तदा पक्षेऽकज् भवेदेव। तथा च तस्य तन्मध्यपतित्वात् तद्ग्रहणेन ग्रहणात् पाक्षिकः शीभावः प्रसज्येत। कप्रत्यये तु सति तेन व्यवधानादेवैष दोषो न भवति।", "11033": "उभयशब्दस्य तयप्प्रत्ययान्तस्य` इति। `संख्याया अवयवे तयप्` [[5.2.42]] इत्युभशब्दाद्विहितस्य तयपो यद्यपि<<उभादुदात्तो नित्यम्>> [[5.2.44]] इत्ययजादेशो विधीयते, तथापि स्थानिवद्भावात् तद्ग्रहणेन गृह्रत इत्युभयशब्दस्तयप्प्रत्ययान्तो भवति।`तस्य गणे पाठान्नित्या सर्वनामसञ्ज्ञा`इति। न त्वनेन योगेन परेणापि पाक्षिकी। एतच्च व्यवस्थितविभाषात्वाल्लभ्यते। `काकचोर्यथायोगं वृत्तिः`इति। तेनोभय- नेम-शब्दयोः सर्वादित्वान्नित्यमकचो वृत्तिः, प्रथमादिभ्यस्तु कप्रत्ययस्य- इत्येष यथा-योगार्थः॥", "11034": "`असंज्ञायाम्` इति। संज्ञायामसत्याम् पूर्वादयश्चेत् संज्ञारूपा न भवन्ती-त्यर्थः। `स्वाभिधेयापेक्ष` इत्यादि अवधिर्मर्यादा,तस्य नियमोऽवश्यम्भावः; अवधिभा-वादभ्रंशः।किंविशिष्टोऽवधिनियमः? स्वाभिधेयापेक्षः ह्रर्थानाम्- पूर्वादिशब्दाभिधयानां यत् पूर्वादित्वम्, तन्नियोगतः कञ्चनावधिमपक्ष्य सम्पद्यते, न त्ववधिनिरपेक्षम्; यथा- पूर्वदेशस्य यत् पूर्वत्वम्,तत्परं देशमपेक्ष्य भवति; परस्यापि यत् परत्वम्, तत् पूर्वदेशम्; तस्मात् पूर्वादिशब्दवाच्यापेक्षेणावश्यं केनचिदवधिना भाव्यम्। तत्र तस्यैवावधेः यः पूर्वादिशब्दार्थापेक्षोऽवधिभाव ऐकान्तिकः, स नियमो व्यवस्था, तस्यां गम्यमानायां पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति; न तु वाच्यायाम्। यो हि पूर्वादिशब्दाभिधेयादन्यस्यार्थस्यावधिभूतस्यनियमः, स कतं पूर्वादिशब्दवाच्यो भविष्यति!`पूर्वे,पर्वाः` इति। अत्र परसमादेवावधेरिति गम्यते। `परे,पराः`इति। पूर्व-स्मादेवावदेरिति गम्यते। `प्रवीणाः` इति। कुशला इत्यर्थः। अत्र प्रावीण्यमात्रेण निमित्तेनावधिनिरपेक्ष एव दक्षिणशब्दो वर्तत इति व्यवस्था न गम्यते। `सत्यामेव`इत्यादि। जम्बूद्वीपं वावधिमपेक्ष्य तत्रोत्तरशब्दो वर्तत इति विद्यत एव व्यवस्था।", "11035": "`अत्रापि नित्या सर्वनामसंज्ञा प्राप्ता` इति। गणपाठात्। एवमुत्तरत्रापि वेदतव्यम्। `न चेत्` इत्यादिना ज्ञातिधनाख्याशब्दस्यार्थमाचष्टे। यत्र च शब्दान्तर-निरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे, तत्रासौ संज्ञारूपेण तयोर्वर्तते। `आत्मीया इत्यर्थः` इति। कथं पुनरयमर्थः, यावता `स्वे पुत्त्राः` इति ज्ञात्यर्थोगम्यते, `स्वे गावः` इति धनार्थः? नैतदस्ति; पुत्त्रगोशब्दसान्निध्यादतदुभयंगम्यते। स्वशभ्देनात्मीयत्वमात्रं गम्यते- `स्वा ज्ञातयः` इति। प्रभूता स्वा इतिचोभयत्र शब्दान्तरमनपेक्ष्य ज्ञातिधने स्वरूपेणैव स्वशब्देनाभिधीयेते। यद्येवम्, ज्ञातय इत्यनुप्रयोगो नोपपद्यते; पर्यायत्वात्, यथा- वृक्षशब्दप्रयोगे सति तरुशब्द-शब्दस्यानुप्रयोगो विरुध्यते, नैष दोषः; पर्यायशब्दस्य हि यत्रानेकार्थो भवति सन्दिग्धार्थो वा, तत्र तदर्थस्यैव व्यक्तीकरणार्थः पर्यायान्तरस्यानुप्रयोगो नविरुध्यते; यथा- मेघाद्यनेकार्थवृत्तेर्वराहकशब्दस्य प्रयोगे शूकरशब्दस्य प्रयोगः। तथा सन्दिग्धार्थस्य पिकशब्दस्य प्रयोगे कोकिलशब्दस्य ! स्वशब्दश्चायमनेकार्थः, तत्रासत्यनुप्रयोगे किंविषयोऽयं प्रयुक्तः- इति सन्देह स्यात्।", "11036": "`बर्हिर्योगे` इति। बहिरित्यनेनानावृतदेश उच्यते। तेन योगो बर्हिर्योगः। स चानावृतस्य बाह्रस्य वस्तुनो भवति। `उपसंव्याने च` इति। उपसंवीयते परिधीयते यत्तदुपसंव्यानम्- <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्मणै ल्युट्। अथ वा, संवीयतेपिधीयतेऽनेनेति संव्यानम्- <<करणाधिकरणयोश्च>> [[3.3.117]] इति ल्युट्। संव्यानस्य समीपमुपसंख्यानम्। अबहिर्योगे सामर्थ्यात् तदेव वेदितव्यम्। `नगरबाह्राः` इति। अनेन बहिर्योगं दर्शयति- `परिधानीयमुच्यते` इति। उपसंव्यान्सयेदमुदाहरणमुपन्यस्तम्। वस्त्रान्तरावृतवस्तु वस्त्वन्तरेणापिहितमुच्यते। अविशेषाभिधानऽपि यद्वस्त्रान्तरेणावृतम्, सामर्थ्यात् तदेवोपसंव्यानमुच्यते, नेतरत्। `न प्रावरणीयम्` इति। प्राव्रियतेऽपिधीयते-नेनेति प्रावरणीयम्, तन्नभिधीयते। तदभिधाने तस्य बहिर्योगत्वात्बहिर्योग एवेदमुदाहरणं स्यादित्याभिप्रायः।`अन्तरे तापसः प्रतिवसति` इति। अत्र संज्ञाया अभावात् सप्तम्याः स्मिन्नादेशो न भवति। ननु च जसीत्यनुवर्ते, तत् कस्मात् सप्तम्यन्तं प्रत्युदाहृतमित्यत आह-`गुणसूत्रस्य च` इत्यादि। `अपुरीति वक्तव्यम्` इति। अनन्तरं `गणसूत्रस्य च`इत्यभिधानाद् गणसूत्रमेवैतद् वक्तव्यमिति गम्यते। यद्यपि गणसूत्रेऽन्तरशब्द पठते,तथापि `प्रतिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति प्राकाराद्ब-हिर्वर्त्तिनी या पूस्तस्या अपि बहिर्योगोऽस्तीति तत्र वर्तमानस्य टाबन्तस्याप्यन्तराशब्दस्य सर्वनामसंज्ञा प्राप्नोति, तेनापुरीति वक्तव्यम्। तेनान्तरायामित्यत्र स्याण् न भवति। `विभाषाप्रकरणे` इत्यादि। उपसंख्यानशब्दस्येह प्रतिपादनमर्थः।अस्मिन् विभाषाप्रकरणे तीयप्रत्ययान्तस्य सर्वनामसंज्ञायाः प्रतिपादनं कर्तव्यमि-त्यर्थः। तत्रेदं प्रतिपादनम् <<विभाषा जसि>> [[1.1.32]] इत्यत्र `विभाषा` इति योग-विभागः क्रियते, तत्र च `सर्वादीनि` `द्वन्द्वे` इति च निवृत्तम्, तेन तीयस्य विभाषा सर्वनामसंज्ञा भविष्यतीति। न चैवं सत्यतिप्रसङ्गः; योगविभागदिष्टसिद्धेःनापि `विभाषा द्वितीयतृतीयाभ्याम्` [[7.3.115]] इत्यस्य वैयथ्र्यापत्तिः; प्रपञ्चार्तत्वात्। ततः `जसि` द्वितीयो योगः। अत्र विभाषाग्रहणम्, सर्वादिग्रहणम्, द्वन्द्वग्रहणं चानुवर्तते।", "11037": "स्वरादिषु स्वस्तिशब्दोऽस्तिशब्दश्च पठते। तत्र स्वस्तिशब्दस्य किमर्थः पाठः? यावतास्तिशब्दपाठादेव तदन्तविधिना स्वस्तिशब्दस्यापि भविष्यति। `ग्रहणवता प्रातिपदिकेन ` (व्या।प।89) इति तदन्तविधि प्रतिषेधान्न सिध्यतीत्येतत् तु नाशङ्कनीयम्, `अव्ययम्` इति महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेतलिङ्गकारकसंक्याविशेषानुपादान्न व्येति= विविधत्वं न गच्छतीत्यव्ययम्। तस्याश्चोपसर्जनप्रतिषेधः, तदन्तविधिश्च प्रयोजनम्। तस्मादन्वर्थसंज्ञकरणादेव तदन्तस्यापि भविष्यति, स्वस्तिशब्दोऽपि न व्येत्येव, सत्यमेतत्ेवं त्वन्वर्थसंज्ञाकरणाल्लब्धस्तदन्तविधिरननोपद-र्शितः। विस्पष्टार्थमुदाहरणमेतत्। `तसिलादिस्तद्धित एधाच्पर्यन्तः` इति। `पञ्च-म्यास्तसिल्` [[5.3.7]] इत्यत प्रभृति`एधाच्च` [[5.3.46]] इत्येतत्पर्यन्तः।`शस्तसी`इति। <<बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्>> [[5.4.42]] <<प्रतियोगे पञ्चम्यास्तसिः>> [[5.4.44]] `कृत्वसुच्` इति। `संख्यायः क्रियाभ्यावृत्तिगणने कृत्वसुच्` [[5.4.17]] इति। `द्वित्रिचतुभ्र्यः सुच्` [[5.4.18]] । `आस्थालौ` इति। `इण आसिः` (द।उ।9।81) इत्युणा-दिसूत्रेण इणो धातोरासिप्रत्ययः। `अयाः` इत्युदाहरणम्। `प्रत्नपूर्वविओमात्थाल् छन्दसि` [[5.3.111]] इति। `च्व्यर्थाश्च` इति। अभूततद्भावे `कृभ्यस्तियोगे सम्पद्य-कर्तरि च्विः` [[5.4.50]] `विभाषा साति कात्र्स्न्ये` [[5.4.52]] । `आम्` इति। `किमे-त्तिङव्ययधादाम्वद्रव्यप्रकर्षे` [[5.4.11]] । `निपाता वक्ष्यन्ते` इति। अथ कस्मात् ते स्वरादिषु न पठन्ते? कः पुरेवं गुणो भवति? अवययसंज्ञायां निपातग्रहणं तथा हि क्रियायोगे दृश्यते-`स्वः पश्यन्ति, स्वरारोहन्ति` इति। तत्र यदि चादयो निपाताः पठएरन्, तेषां सत्त्वेऽपि वर्तमानानामव्ययसंज्ञा प्रसज्येत।`अव्ययम्` इत्यन्वर्थसंज्ञेयम्` इति दर्शयितुमाह- `सदृशम्` इति। त्रिषु लिङ्गेषु स्त्रीपुंनपुंसकेषु सदृशं तुल्यम्, लिङ्गविशेषापरिग्रहाल्लिङ्गसामान्योपा-दानाच्च। `सर्वासु च विभक्तिषु` इति। विभक्तिनिमित्तत्वाद् विभक्तिः। विभज्यते वा प्रातिपदिकार्थ आभिरिति कर्मादीनि कारकाणि शक्तिरूपाणि विभक्तिशब्देनोच्यन्ते। `वच-नेषु च` इति। वचनान्येकवचनद्विवचनबहुवचनानि। इहाभिधेयेऽभिधानोचाराद् एकाधिकासंख्या गृह्रते `यस्मान्न व्येति लिङ्गादिसंख्याविशेषानुपादानाद् विविधं नानात्वं न गच्छति तस्माद् अव्ययम्` इत्यन्वर्थता प्रतिपादिता भवति। प्रयोजनं पुनरुपसर्जनप्र-तिषेधः, तदन्तविधिश्चेत्युक्तम्। तत्रोपसरजनप्रतिषेधः- `अत्युच्चैः, अत्युच्चैसौ, अत्युच्चैसः`। न ह्यत्र यथोपदर्शितार्थानुगमः सम्भवति। यत्र तु सम्भवति, तत्र तदन्तस्याव्ययसंज्ञा भवत्येव; यथा- `परमस्वः, उत्तमस्वः` इति। अत्र हि स्वर्? शब्द-स्य प्राधान्याल्लिङ्गादिविशेस्यासम्भवः। पूर्वत्र तूच्चैः शब्दस्य विपर्ययाद्वि-पर्ययः।", "11038": "प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतीत तद्धितान्तस्य संज्ञा विज्ञायत इत्याह `तद्धितान्तः शब्दः`इति। `यस्मान्न सर्व` इत्यादि।अत्रावयवकात्र्स्न्यवृत्तिः सर्वशब्दः। सर्वा निरवशेषा येषां त्रयाणां वचनानां विभ-क्तिरिति संज्ञा कृता। तानि सर्वाणि यतो नोपत्पद्यन्त इत्यर्थः। `ततः,यतः` इति। तद्- यच्छपब्दात् पञ्चमीसमर्थात् <<पञ्चम्यास्तसिल्>> [[5.3.7]] इति तसिल्, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्;<<प्राग्दिशो विभक्तिः>> [[5.3.1]] इतिविभक्तित्वात् त्यदाद्यत्वम्; <<अतो गुणे>> [[6.1.97]] , पररूपत्वम्। `तत्र यत्र `इति। `सप्तम्यास्त्रल्` (5.3.100 इति त्रल्। `तदा, यदा, सर्वदा` इति। <<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]] । सर्वे एते-ततः प्रभृतयः विभक्त्यर्थप्रधानाः। स च विभक्तयर्थः प्रातिपदिकार्थः सम्पन्न इति प्रातिपदिकार्थे प्रथमैव भवति। सापि संख्याविशेषाभावान्न सर्वा। किं तर्हि? एकवचनमेव; तस्योत्सर्गत्वात्। तथा चोक्तम्-`एकवचनमुत्सर्गतः करिष्यते` इति। तस्य <<अव्ययादाप्सुपः>> [[2.4.82]] लुक्। `एकः` इति। अत्रासर्वविभक्तिकत्वमस्ति; एकत्वे द्वित्वायोगात्। अतद्धितत्वान्न भवति। `औपगवः` इति। अत्र तद्धितान्तस्य सर्वविभक्तियोगान्न भवति॥", "11039": "`स्वादुङ्कारं भुङ्क्ते` इति। <<स्वादुमि णमुल्>> [[3.4.26]] । `स्वादुमि` इत्यत एवनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। स्वादुमिति चार्थग्रहणम्। तेन सम्पन्नादावप्युपपदे णमुल् भवति। `वक्षे` इति। `वच परिभाषणे` (धातुपाठः-1063), <<ब्रुवो वचिः>> [[2.4.53]] इति ब्राऊञादेशो वा। <<चोः कुः>> [[8.2.30]] इति कुत्वम्।`अन्तग्रहणम्` इत्यादि। `औपदेशिकप्रतिपत्त्यर्थम्` इति। नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपत्तिः। उपदेशे भवमौपदेशिकम्।तस्य प्रतिपत्तिज्र्ञानम् प्रयोजनं यस्य तत् तथा। एवं मन्यते- विनाप्यन्तग्रहणेन <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति सामर्थ्याद्वा कृतस्तदन्तविधौ सिद्धे यदन्तग्रहणं क्रियते तस्यैतत् प्रयोजनम् नियोगतो यस्यैजन्तत्वमुपदेशावस्थायामेव भवति तस्यैव प्रतीतिर्यथा स्यादिति। `आधये` इति। दधातेराङ्पूर्वात् <<उपसर्गे घोः किः>> [[3.3.92]] इति किः, <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः, चतुर्थ्येकवचने <<घेर्ङिति>> [[7.3.111]] इति गुणः। `चिकीर्षदः` इति। करोतेः सन्, <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः; <<सनाशंसभिक्ष उः>> [[3.2.168]] इत्युप्रत्ययः; अतो लोपः, शेषं पूर्ववत्। `कुम्भकारेभ्यः` इति। <<कर्मण्यण्>> [[3.2.1]] `उपपदमतिङ` [[2.2.19]] इति समासः; `बहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वम्। ननु च लक्षमप्रतिपदोक्तपरिभाषयैव वा `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्येव वात्र संज्ञा न भविष्यति- विभक्तिप्रत्ययं ह्राश्रित्य विधीयमानत्वाद् गुणादिकार्यं बहिरङ्गम्, अव्ययसंज्ञा त्वन्तरङ्गम्, बाह्रस्य निमित्तस्यानाश्रयणात्, सत्यमेतत्; एवं त्वर्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्। अतस्तत्परिहारार्थमन्तग्रहणं कृतम्॥", "11040": "`कृत्वा,ह्मत्वा` इति। `समानुकर्तृकयोः पूर्वकाले` [[3.4.21]] इति क्त्वा। `उदेतोः` इति। `इण् गतौ` (धा।1045) `सार्वधातुक` [[7.3.84]] इति गुणः। `अपाकर्त्तोः` इति। कृञः। `विसृपः`इति।`गम्लृ` (धा।942) `सृप्लृ` (धा।983) इतौ। `आतृदः` इति।`तृदिर्हिंसानारदयोः` (धा।1447)", "11041": "`उपाग्नि` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना सामीप्येऽव्ययीभावः।`अव्ययात्` [[2.4.82]] इत लुक्। अग्नेः समीपे उपाग्नीति। उपाग्नि मुखं यस्येत्यव्ययी-भावगर्भो बहुव्रीहिः।तत्र <<मुखं स्वाङ्गम्>> [[6.2.167]] इत्युत्तरपदान्तोदात्तत्वे प्राप्ते`नाव्यय` [[6.2.167]] इति प्रतिषिद्धम्। `तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वरः` इति। `बहुव्रीहौ प्रकृत्या` [[6.2.1]] इत्यादिना तत् पुनरन्तोदात्तत्वम्ुपाग्निशब्दस्य समासस्वरेणान्तोदात्तत्वात्। `उपपयःकारः`इति। <<कर्मण्यण्>> [[3.2.1]] एवम्,`उपपयः कामः` इत्यत्रापि। उपपयः कामो यस्येति बहुव्रीहिर्वायम्। काम्यत इति कामः, <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति कर्मण्यपि घञ्। `अनव्ययस्य` (वा।939) इति सत्त्वे प्रतिषिद्धे `कुप्वो क पौ च` [[8.3.37]] जिह्वामूलीयो भवति, विसर्जनीयो वा। अत्र मुखस्वरोपचारौ निर्वत्र्यमानौ प्रयोजनम्, न तु विधीयमानौ; लुक् पुनर्विधीयमानः। ननु चावययनिबन्धनमकजादिकार्यमस्त्येव,तत् कुतोऽयं कार्यनियमो लभ्यत इत्याह-`सर्वम्` इत्यादि। `इदम्` इति। <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यादिकम्।किञ्चित् स्वरूपेणैव पठते, कस्यचित् पर्यायान्तरेणार्थः। स त्वभिधेयधर्मेणोपचारा-दित्युच्यते। तत्र `कृम्भकारसन्ध्यरान्तः` इति <<कृन्मेजन्तः>> [[1.1.39]] इत्यस्यार्थःपठते। क्त्वातोसुन्कसुनोऽव्ययीभावश्चेति स्वरूपेणैव। तसिलादिस्तद्धित एधाच्पर्य-न्त इति यावत्। च्व्यर्थाश्चेति। असिमौणादिकं वर्जयित्वा। तद्धितश्चासर्वविभक्तिरि-त्यस्यार्थः। `अनित्यत्वज्ञापनार्थम्` इति। प्रकृतत्वात् `संज्ञायाः` इति लभ्यते। तेनाकजादौ कर्तव्ये संज्ञा न भवतीति। अज्ञाताद्यर्थविवक्षायामुपाग्निकमित्यत्रा-कज् न भवति, क एव तु भवति। इह च उपकुम्भमात्मानं मन्यत उपकुम्भम्मन्यः, <<आत्ममाने खश्च>> [[3.2.83]] इत खशि कृते <<खित्यनव्ययस्य>> [[6.3.66]] इत्यनुवर्तमाने <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुमः प्रतिषेधो न भवति। `इह च` इत्यादिना `अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः` इति यद्वक्ष्यति तस्यात्रावक्तव्यतां दर्शयति। सूर्यस्येत्यत्र <<कर्तृकर्मणोः कृति>> [[2.3.65]] इति षष्ठी॥", "11042": "`कुण्डानि` इत्यादि। <<जश्शसोः शिः>> [[7.1.20]] इति शिः, तस्य सर्वनामस्थानत्वे सति `नंपुसकस्य` स्थानम्` इति। पूर्वाचार्यैरेवेयं प्रयोजनमन्तरेणापि महतीसंज्ञा प्रणिता। तस्या इह यत् समाश्रयणम् तत् तत्कृतस्य शब्दानुशासनस्य दोषवत्त्वसूचनार्थम्। तत् पुनः स्वशास्त्रस्य पुनरुक्ततादोषपरिहारार्थम्। यदि हि तद्दोषवद्भवत्येवमस्य प्रणयनं युज्यते, नान्यथा।", "11043": "सुइति प्रत्याहाररग्रहणम्- सुशब्दादारभ्य आ औटष्टकारात्। तत्र पञ्चैव वचनानयन्तर्भवन्तीत्याह -`सुडिति पञ्च वचनानि` इत्यादि। `नपुंसकादन्यत्र` इत्यादि। अनेनानपुंसकशब्दस्य पर्युदासतां दर्शयति। प्रसज्यप्रतिषेधे हि प्रतिषेधप्रधानमिदंवाक्यं स्यात् - नपुंसकस्य न भवतीति। ततश्च यावती काचित् सुटः सर्वनामस्थानसंज्ञा-प्राप्तिः, तस्याः सर्वस्याः प्रतिषेधः स्यात्। एवं हि `कुण्डानि तिष्ठन्ति` इत्यत्र पूर्वेणापि संज्ञा न स्यात्। तस्यास्तु शसः शिरादेशोऽवकाशः। यद्यपि `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।त19) इत्येतत्समाश्रयेण प्रसज्यप्रतिषेधेऽप्येष दोष- शक्यते परिहर्तुम्, तथापि प्रतिपत्तिगौरवदोषः स्यात्। तथा हि- विधिप्रतिषेधयोर्विरोधादेकेन वाक्येन तावच्छक्यो न विधातुमिति वाक्यभेदः कर्तव्यः- `सुट् सर्वनामस्थानसंज्ञो भवति। नपुंसकस्य च न भवति` इति। ततश्चासम्बद्धं प्रतिषेधवचन-मिति पूर्वस्या अपि प्राप्तेरयं प्रतिषेधः सम्भाव्येत। ततस्तत्परिहारेणाभीष्टार्थप्रतिपत्तौ साध्यायां नियतभावी गौरवदोषः प्रसज्येत। तस्मात् सुखावबोधार्थं -पर्युदास एवाश्रितः। नपुंसके न विधिः` इति। स्त्रीपुंसम्बन्धिनः सुट उपादानात्। `न प्रतिषेधः` इति। विधिप्रधानत्वात् प्रयुदासस्य। एतेन नपुंसकेऽस्य योगस्याव्यापारं दर्शयति- `तेन` इत्यादि। यत एव नुपंसके नास्य विधौ प्रतिषेधे वा व्यापारः, तेन जसो यः शिरादेशस्तस्य तेन पूर्वयोगेन संज्ञा भवत्येव; अप्रतिषिद्धत्वात्। `राजा` इति। पूर्वद्दीर्घः। हल्ङ्यादिलोपः। `सामनी,वमनी`इति। <<नपुंसकाच्च>> [[7.1.19]] इति औङःशीभावः। तत्र संज्ञाया अभावाद्दीर्घत्वं न भवति।", "11044": "नवेति शब्दोऽयमेको निपातोऽप्यस्ति प्रतिषेधवाची, यथा-`नवा वक्तव्यंभुक्तार्थत्वात्` इत्यादौ भाष्यवाक्ये। तस्येह यदि ग्रहणं स्यात् <<विभाषा दिक्समासे बहुव्रीहौ>> [[1.1.28]] इत्युक्त्वा <<न बहुव्रीहौ>> [[1.1.29]] इत्यत्र तु पुनः प्रति-षेधोपादानमनर्थकं स्यात्। तस्मान्न निपातसमुदायोऽयमिति दर्शयन्नाह- `नेति प्रतिषे-धः` इत्यादि। ननु चान्यत्र संज्ञासंज्ञिसम्बन्धप्रक्रियाया हि शास्त्रे शब्दस्यैव ग्रहणं प्रसिद्धम्, यथा तरप्तमपौ घः` [[1.1.21]] <<दाधा घ्वदाप्>> [[1.1.20]] इति, तथेहापि नवाशब्दयोरेव ग्रहणं युक्तम्। तत् कथं तदर्थयोः संज्ञा लभ्यत इत्याह-`इतिकरणः` इत्यादि। क्रियत इति करणः, इतश्चासौ करणश्चेतीतिकरणः, सोऽर्थस्य संज्ञिनोनिर्देशो यथा स्यादित्येवमर्थः। इतिशब्दो हि विपर्यासकृत्। यथा गवित्यर्थमाहेति गोशब्दात् परतः प्रयुज्यमान इतशब्दस्तमर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वेव्यवस्थापयति, तथा `नवा` शब्दाभ्यां परः इति शब्दः प्रयुज्यमानः, तौ स्वरूपपदार्थक-त्वात्प्रच्याव्यार्थपदार्थकत्वे व्यवस्थापयति। तस्मादर्थनिर्देशार्थ एवेतिशब्दः कृत इति नवेति यावर्थौ प्रतीयेते प्रतिषेधविकल्पौ, तयोरेवेयं संज्ञा भवति; न नवाशब्द-योः। `तत्र प्रतिषेधेन` इत्यादिना प्रतिषेधविकल्पयोः प्रवृत्तिक्रमं व्यापारबेदं च दर्शयति। `समीकृते` इति। तुल्यतामापादिते। `विकल्पः प्रवर्तते` इति। पक्षे कार्यसम्पादनाय। ननु च वाशब्द एव विकल्पार्थत्वेन लोके प्रसिद्धः, प्रदेशेष्वयमुपादीयमानो विकल्पेन कार्यं सम्पादयिषयति। तथा हि प्राप्ते वा कार्ये विकल्पः क्रियताम्? यदि प्राप्ते? तत्र प्राप्तिरस्त्येवेति प्रतिषेध एव पक्षे कर्तव्यः। अथाप्राप्ते? तत्र प्राप्तिपूर्वकत्वात् प्रतिषेधस्य तामन्तरेण स न युज्यत इति विधिरेव पक्षेकर्तव्यः, न प्रतिषेधः। एतच्चोभयं वाशब्द एव शक्तः प्रयुज्यमानः सम्पादयितुम्।तत् किमर्थमियं संज्ञा क्रियत इत्याह- `उभयत्र विभाषाः प्रयोजन्ति` इति। प्रकृतत्वात् संज्ञामिति गम्यते। <<विभाषा श्वेः>> [[6.1.30]] इत्यत्र प्रतिषेधमुखेन वाशब्दस्य प्रवृत्तिः स्यात्? विधिमुखेन वा? तत्र यदि प्रतिषेधमुखेन वा न भवतीत्येवं प्रवृत्तिः? प्राप्तिपूर्वकत्वात् प्रतिषेधस्य यत्र स एव तस्य विषय इति कित्स्वेव विकल्पेन प्रतिषेधायेदं प्रवर्तते। तत्र `वचिस्वपि` [[6.1.15]] इत्यादिना आयतेः सम्प्रसारणस्य विहितत्वात्, न पित्सु; तत्र तस्य न केनचिद्विहितत्वात्। एकत्वच्चा-स्य वाक्यस्य कित्सु च प्रतिषेधसम्पादन एव चरितार्थत्वात् नोपपद्यते पुनर्विधिमुखेन प्रवृत्तिः। अथ विधिमुखेन वा भवतीत्येवं प्रवृत्तिः स्यात्? यत्र प्राप्तिर्ना-स्ति स एव विधिविषय इति पित्स्वेव विकल्पेन विध्यर्थः प्रवर्तते;तत्र चरितार्थ-त्वात् न कित्सु। संज्ञाविधाने तु न दोषः; तस्यां हि सत्यां प्रतिषेधः प्रवर्त-मानो योऽसौ सम्प्रसारणनिमित्तानिमित्तभेदाद्विषय आसीत् तं समीकरोति। सर्वस्याःसम्प्रसारणनिमित्ततया तुल्यतामापादयति।तस्मिन् समीकृते किति च पिति च विकल्पः प्रव-र्तमानो विधिमुकेन सर्वत्र पाक्षिकं कार्यं सम्पादयति, सम्प्रसारणं पक्षे भवतीति। अप्राप्तिस्तु पक्षे स्थितैवेति सर्वमिष्टं सिध्यति। तस्मादुभयत्र प्राप्तावप्रा-प्तौ विभाषार्थमियं संज्ञा विधीयते। शुशावेति। `टुओश्विगतिवृद्ध्योः` (धातुपाठः-1010), लिट्, णल्, संप्रसारणे कृते वृद्ध्यावादेशौ। `शुशुवतुः,शिइआयतुः` इति। `अचि श्नुधातु` [[6.4.77]] इत्यादिना इयङुवङौ॥", "11045": "`भूतः`इति। यत्र शास्त्रान्तरेण विहितो भूतविभक्त्या कार्यान्तरार्थमनूद्य-ते, यथा- <<सम्प्रसारणस्य>> [[6.3.139]] <<सम्प्रसारणाच्च>> [[6.1.108]] इति, तत्र भूतः। `भावी वा` इति। यत्र भाव्यमानविभक्त्या विधानार्थं निर्दिश्यते, यथा `ष्यङः सम्प्रसारणम्` [[6.1.13]] <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति, तत्र भावी। अत्र हि ष्यङः स्थानिको वसुस्थानिकश्चेङः नास्ति यस्य संज्ञा सूत्रस्य शाटकं वय` इति। स इग् यणः स्थाने भवति, यस्य भूतस्य सम्प्रसारणमित्येषा संज्ञा भवतीति। `इष्टम्, उप्तम्` इति। <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत सम्प्रसारणम्। `गृहीतम्ित्यत्रापि `ग्रहिज्यावयि` [[6.1.16]] इत्यादिना सम्प्रसारणम्। <<ग्रहोऽलिटि दीर्घः>> [[7.2.37]] । `केचित्` इत्यादिना ये भाविनीं संज्ञां नाश्रयन्ति तन्मतं दर्शयति। कथं पुनरेकस्यसूत्रस्यैतदर्थद्वयमेकेन वाक्येन लभ्यते? तन्त्रेण, आवृत्त्या वा। ननु च संज्ञाविधौशब्दस्यैव ग्रहणं प्रसिध्दमित्युक्तम्, ततो युक्तं वर्णस्यैव संज्ञित्वम्, अर्थस्यततु कथम्? यथा `नवेति विभाषा` (1॥44) इति सूत्र इति चेत्? न युक्तम्; तत्रेतिकरण-स्यार्थनिर्देशार्थस्य प्रयोगात्, इह तु स नास्तीत्ययुक्तम्। इहापि तन्त्रस्यावृ-त्तेर्वा न्यायस्याश्रितत्वाद् युक्तमेव। अस्य च सूत्रार्थद्वयस्य विभक्तिविशेषणिर्देशो लिङ्गम्। यदयं `ष्यडः सम्प्रसारणम्` (6 1।13) इत्यादौ विधिवाक्ये भाष्यमानविभक्त्या निर्देशं करोति ततो ज्ञायते-`वाक्यार्थः संज्ञी` इति। यतश्च<<सम्प्रसारणस्य>> [[6.3.139]] इत्यादौ भूतविभक्त्या निर्देशं करोति ततोऽवसीयते-`वर्ण` इति। तस्माद् युक्तं वाक्यार्थस्यापि संज्ञित्वम्। किरूपोऽसौ वाक्यार्थः? इत्याह-`स्थान्यदेशः` इत्यादि। तत्रेत्यादिना अनन्तरयोः सूत्रार्थयोर्विषयविभागंदर्शयति - विधौ वर्णो न सम्भवतीति। `ष्यडः सम्प्रसारणम्` (6 1।13) इत्यादौविधिवाक्ये प्रथमः सूत्रार्थ उपतिष्ठते। अनवादे तु <<सम्प्रसारणस्य>> [[6.3.139]] इत्यादौ विहितत्वाद्विधेयस्य प्रथमोऽकिञ्चित्कर इति द्वितीयः। `अदुहितराम्` इति।अत्र यणः स्थानिकत्वादिकः सम्प्रसारणसंज्ञया भाष्यम्। तस्यां च सत्यां `हलः` [[6.4.2]] इति दीर्घत्वं प्रसज्येतीति चोद्यमपाकर्त्तुमाह-`संख्ययातानुदेशात्ित्यादीह स्थानिनो यणश्चत्वारः इकोऽप्यादेशाश्चत्वार एव, तेन संख्यातानुदेशेन भवितव्यम्`यथासंख्यमनुदेशः` [[1.3.10]] इत्यादिना। ततश्च यकारस्य स्थाने य इवर्णस्तस्यैवसम्प्रसारमसंज्ञा भवति। न चेह यकारस्य स्थान इवर्णः। किं तर्हि? लकारस्य।तत् कुतस्तस्याः प्रसङ्गः? `द्रुह प्रपूरणे` (धा। पा। 1014), लङ, `कर्मवत् कर्मणातुल्यक्रियः` [[3.1.87]] इत्यतिदेशे कर्मकर्तयस्मिनेपदम्, इट्। <<न दुहस्नुनमां यक्चिणौ>> [[3.1.89]] इति यकि प्रतिषिद्धे शप्। तस्यादादित्वाल्लुक्। अदुहि इति स्थिते`तिङश्च` [[5.3.56]] इति तरप्। `किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे`(5 4।11)इत्याम्। तरप इहोपन्यासोऽङ्गसंज्ञार्थः।", "11046": "<<षष्ठी स्थानेयोगा>> [[1.1.49]] इत्यस्याः परिभाषाया अयमपवादः। तेनतत्सम्बन्धादस्यापि परिभाषात्वं विज्ञायते। यदि तह्र्रादिष्टिद् भवत्यन्तः किद्भवति, तदा <<चरेष्टः>> [[3.2.16]] <<आतोऽनुपसर्गे कः>> [[3.2.3]] इत्यादयोऽपि प्रत्ययाआद्यन्तभूताः स्युओः। न च टितः प्रत्ययस्यादित्वे `टिड्ढाणञ्` [[4.1.15]] इति टितो विधीयमानो ङीब् निरवकाश इत्याशङ्कनीयम्। यत्र हि प्रकृतेरेव सिद्धं टित्त्वं न प्रत्ययस्य, नदड् भषडित्येवमादौ, स तस्यावकाशो भविष्यतीति। टितश्च प्रत्ययस्या-दित्वे सति कुरुचर इत्येवमादिरूपमेव सिध्येत्। कितस्त्वन्त्यत्वे आध्योः, विध्योरि-त्यत्र <<उपसर्गे घोः किः>> [[3.3.92]] इति किप्रत्ययस्य प्रकृत्यन्तः-पातित्वाद्धातु-ग्रहणेन ग्रहणे सति <<उदात्तयणो हल्पूर्वात्>> [[6.1.174]] इत्येष स्वरो न स्यात्। <<नोङ्धात्वोः>> [[6.1.175]] इति प्रतिषेधादित्यत आह- `षष्ठीग्रहणस्य सिंहावलोकितन्यायेनोप-स्थानात्। नन्वेवमपि <<गापोष्टक्>> [[3.2.8]] <<व्रीहिशाल्योर्ढक्>> [[5.2.2]] इत्येतावाद्य न्तौ प्राप्नुतः, नैष दोषः, `पुरस्तादपवादा अनन्तरात् विधीन् बाधन्ते नोत्तरान्` (व्या।प।9) इति स्थानेयोगत्वस्यैवायमपवादो भविष्यति, न प्रत्ययपरत्वस्य। अपर आह-आद्यन्तावयवौ, अवयवश्चावयविनमन्तरेण न सम्भवतीत्यवयविनमाक्षिप्य तौ वर्तेते।ततश्चावयवावयविसम्बन्धे यलस्यादिरन्तो वावयवो विधीयते, सोऽवयवो षष्ठआ निर्देष्ट-व्य इति सामर्थ्यादवयवषष्ठआ निर्दिष्टस्येति ज्ञायते। न चैवम्। <<गापोष्टक्>> [[3.2.8]] <<व्रीहिशाल्योर्ढक्>> [[5.2.2]] इत्येतौ प्रत्ययावाद्यन्तौ प्राप्नुतः, यस्मादिहप्रकृतयोऽवयवषष्ठआ निर्दिष्टाः, किं तर्हि? सुपां सुपो भवन्तीति पञ्चम्यर्थे या षष्ठी तयेति। `भीषयते` इति। `ञिभी भये`(धातुपाठः-1084) हेतुमण्णिच्, <<भियो हेतुभये षुक्>> [[7.3.40]] <<भीस्म्योर्हेतुभये>> [[1.3.68]] इत्यात्मनेपदम्।", "11047": "अत्र यदि `अचः` [[4.3.31]] इत्येषा पञ्चमी स्यात्, अन्त्यादित्यनया पञ्चम्या समानाधिकरणत्वं स्यात्। ततः <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुमीहैवा-न्त्यादचः परः स्यात्- `कुण्डानि` इति; अस्ति ह्यत्र नपुंसकस्यान्त्योऽचः; पयांसी-त्यत्र तु न स्यात्, <<अलोऽन्त्यस्य>> [[1.1.52]] इति सकारस्यैव तु स्थाने स्यात्।ह्यत्राजन्त्यः, किं तर्हि? सकारः। तस्मान्निर्धारणे षष्ठीयमिति दर्शयन्नाह-`अचाम्ित्यादि। जातौ बहुवचम्। सूत्रेऽप्यच इत्येकवचनं जातावेव। यदि तर्हि निर्धारणषष्ठीयम्, अन्त्यस्याविशेषितत्वादविशेषेण यतः कुतश्चिदन्त्यात् परो मित् स्यात्; न हिद्वीतीयमज्ग्रहणमस्ति, येनान्त्यो दिशेष्यते, नैष दोषः; समानजातीयस्यैव हि लोके निर्धारणप्रतीतिर्भवति। तथा हि `कृष्णा गवां सम्पन्नश्रीरतमा` इत्युक्ते गौरेव प्रतीयते; नाजा, नाप्यआआ। तसस्मादिहाप्यचां मध्येऽन्त्यादचोऽवधेरित्यन्त्यत्वेन निर्धार्यमाणः समानजातीयोऽजेव। प्रतीयते। तेनाच एवान्त्यात् परो भविष्यति। स्थानेयोगित्वप्रत्ययपरत्वापवादार्थञ्चेदमारब्धम्। तत्र स्थानेयोगित्वापवादार्थम्-`शेमुचादीनाम्` [[7.1.59]] नुम् भवति, मुञ्चति। `नपुंकस् झलचः` (7॥72)पयांसि। प्रत्ययपरत्वापवादार्थम्- <<रुधादिभ्यः श्नम्>> [[3.1.78]] ,रुणद्धि। ननु च `पुरस्ताद-पवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् (व्या।प।9) इति स्थानेयोगित्वस्यैवापवादो युज्यते, न तु प्रत्ययपरत्वस्य, नैतदस्ति; एवं हि श्नमो मित्करणमनवकाशत्वादनर्थकं स्यात्। श्रवणार्थत्वान्नानर्थकमिति चेत्? नः; <<तृणह इम्>> [[7.3.92]] इति निर्देशात्। श्रवणार्थे ह्रेतस्मिन् `तृणम् ह इम्` इति निर्देशः स्यात्। तस्मात् प्रत्ययपरत्व-स्यापवादो युक्तः। यद्येवं `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते` (व्या।प।21) इति प्रकृत्यन्तः पातिनस्तद्ग्रहणेन ग्रहणादपरत्वाच्च श्नमः प्रत्ययसंज्ञा न स्यात्,तथा च <<लशक्वतद्धिते>> [[1.3.8]] इति प्रत्ययादेः शकारस्य विधीयमानेत्संज्ञा न स्यात्, नैष दोषः; प्रत्ययाधिकारे विधीयमानत्वात् प्रत्ययसंज्ञा भविष्यति- सत्यप्यपरत्वे, सत्यपि प्रकृत्यन्तः पातित्वे; यथा-बहुजकचोरन्तोदात्तत्वम्। `बहुपटवः, उच्चकैः` इत्यनयोरसति परत्वे सत्यं प्रत्ययसंज्ञायां `चितः` [[6.1.157]] इत्यन्तोदात्तत्वं भवत्येव। `मस्जेः` इत्यादि। नकारस्योपधाया `अनुषङ्गः` इति पूर्वाचार्येः संज्ञा कृता। `टुमस्जो शुद्धौ` (धातुपाठः-1416) इत्यस्य <<मस्जिनशोर्झलि>> [[7.1.60]] इति नुमं वक्ष्यति। स च यद्यचोऽन्त्यात् परः स्यात् `स्कोः संयोगाद्योः` [[8.2.29]] इति सकार-स्य `अनिदिताम्` [[6.4.24]] इति नकारस्य च लोपो न स्यात्; यथाक्रममनादित्वादनु-धत्वाच्च। तस्मादन्त्याज्जकारात् पूर्वो जकारसकारयोर्मध्ये नुम् कर्तव्यः। यथा चान्त्यात् पूर्वो लभ्यते,तथा सप्तमे वक्ष्यते। `मग्नः` इति। <<ओदितश्च>> [[8.2.45]] इति निष्ठानत्वम्, तस्यासिद्धत्वत् <<चोः कुः>> [[8.2.30]] इति कुत्वं जकारस्य गकारः। `मङ्क्ता` इति अत्र पूर्ववद् गकारे कृते तस्य `खरि च` [[8.4.54]] इति चर्त्वं ककारः। <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनुस्वारः। <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] ङकारः। पूर्वभक्तश्चायं मिद् वेदितव्यः; अन्यथा <<वहाभ्रे लिहः>> [[3.2.32]] इति लिहः खशि कृते <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुमि कृते वहंलिह् इत्यत्र <<मोऽनुस्वारः>> [[8.3.23]] इति पदान्तस्य विधीयमानोऽनुस्वारो न स्यात्, अपदान्तत्वात्।", "11048": "", "11049": "`योगनियमार्था` इति। योगनियमः सम्बन्धनियमः, सोऽर्थः प्रयोजनं यस्याः सातथोक्ता। यदि योगनियमार्थयम्- शास्त्रे या षष्ठी, सा स्थानेयोगैव् भवति, नान्ययोगे-ति। एवं सति <<ऊदुपधाया गोहः>> [[6.4.89]] इत्येषापि षष्ठी स्थानेयोगैव स्यात्, नावयवादयविसम्बन्धयोगा। ततश्च <<अलोऽन्त्यस्य>> [[1.1.52]] इति स्थानषष्ठआ अन्त्येऽप्युपसंहाराद् गोहश्चान्तस्य हकारस्य ऊकारः स्यात्। <<उपधायाश्च>> [[7.1.101]] इति वचनादुपधा-मात्रस्य चेत्यत आह-`इह शास्त्रे या षष्ठनियतयोगा` इत्यादि। अनियमप्रसङ्गेनियमोऽनया क्रियते। क्व चानियमप्रसङ्गः? यत्र सन्देहः; यथा-<<अस्तेर्भूः>> [[2.4.52]] इति। अत्र हि किमस्तेः स्थाने? आहोस्विदनन्तरे? इति सन्देहः, पूर्वत्र तूपधाया अवयवलक्षणस्य स्थानिनो विशिष्टावयविनो व्यवच्छिन्नत्वादवयवष्ठएवेयमिति निश्चितम्; ततो नात्रास्या व्यापारः। `स्थानेयोगैव` इति। स्थान इति निमित्तसप्तमी, योगःसम्बन्धः। तेनेदमुक्तं भवति-स्थाननिमित्तकसम्बन्धैवेति। एतदेव विस्पष्टीकुर्वन्नाह-`स्थाने योगस्य निमित्ते` इत्यादि। स्थानेयोगस् निमित्तभूते निमित्तत्वं प्राप्ते सति सा वेदितव्या। भूतशब्दो ह्यत्र प्राप्तशब्दे वर्तते; यथा- `देवभूतः` इत्यत्रदेवत्वं प्राप्त इत्यर्थः। निमित्तग्रहणं कुर्वन् सूत्रे स्थानेयोगेति निमित्तसप्त-मीयमिति दर्शयति। योगः पुनरिह स्थान्यादेशभावलक्षणः। कुत एतत्? तस्यैव स्थानि-हेतुत्वात्। स्थानशब्दोभावसाधनः, स्थितिः स्थानम्। तत् पुनस्त्रिधा- `अपकर्षः,निवृत्तिः,प्रसङ्गश्च` इति। गोस्थानेऽआओ बध्यतामित्यपकर्षः स्थानशब्दस्यास्थेयः। `श्लेष्मणः स्थाने कटुकमौषधम्` इत्यत्र निवृत्तिः। `दर्भाणां स्थाने शरैरास्तकरित-व्यम्` इति प्रसङ्गः। तत्राद्यावर्थाविह न सम्भवतः; नित्यत्वाच्छब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येनास्तेरुपदेशान्न द्वितीयः। तस्मात् तृतीय एवार्थ इति मत्वाह-`स्तानशब्दश्च` इति। प्रसङ्गस्त्वर्थक्रियानिमित्तभूतस्य कालस्यावसरः। `अस्तेस्थाने प्रसङ्गे` इति। अस्तेर्या क्रिया स्वार्थप्रतिपादनलक्षणा, तस्या निमित्तभूतस्य कालस्यावसरः प्राप्त इत्यर्थः। प्रसङ्गे सम्बन्धस्य निमित्तभूत इत्यादिना सूत्रार्थस्योदाहरणे सम्भवं दर्शयति। `ब्राउवः` इति चोपलक्षणमात्रम्। अस्तेरि-त्यादेरपि हि षष्ठी प्रसङ्ग एव सम्बन्धस्य निमित्तभाव उत्पन्ना।के पुनर्बहवः षष्ठर्थाः, यतः सम्बन्धान्तरविषयव्यवच्छेदनार्थं षष्ठआ इदमुच्यते? इत्याह-`बहवो हि` इत्यादि। शब्दे हि समीपानन्तरविकारावयवादिनिमित्ताः सम्बन्धाः सन्ति। न त्वपत्यापत्यवत्प्रभृतय इत्यतो `यावन्तः शब्दे सम्भवन्ति` इत्याह। अथ स्थानेयोग इत किमसमासः? अथ समासः? यद्यसमासः? तदा योगशब्दस्यपुंल्लिङ्गत्वात् स्त्रीलिङ्गेन निर्देशः, षष्ठीशब्देन च सामानाधिकरण्यं न प्राप्नोति; योगस्याषष्ठीत्वात्। अतः समासः किं तत्पुरुषः? आहोस्विद् बहुव्रीहिः? यदि तत्पुरुषः? तौ च पूर्वोक्तौ दोषौ स्याताम्, सप्तम्या लुकप्रसङ्गश्च। अथ बहुव्रीहिः? एवमपि लुक्प्रसङ्गोऽत्रानिवार्य एवेत्यत आह-`षष्ठी स्थानेयोगा` इत्यादि। गतार्थम्।", "11050": "परिभाषेयमादेशनियमार्था।`स्थाने प्राप्यमाणानाम्` इति। एतेन नेदं विधायकं वाक्यम्, किं तर्हि? लक्षणान्तरेण प्राप्तानामनन्तरतमानामितरेषां च योऽन्तरतमः, स एव भवतीति नियमार्थमिति दर्शयति। विधायकत्वे हि `दधि मधु` इतादावपि प्रसज्यते। किं पुनरत्रानिष्टम्? यावतान्तरतम्याद् दधिमधुशब्दयोस्तावेवादेशौ भविष्यतः, तयोरप्यादेशयोरन्यौ दधिमधुशब्दौ यावादेशौ स्याताम्, तयोरप्यन्यावित्येवमपरिसमाप्तादेशपर-म्पराविधानादनवस्था स्यात्। ततश्चार्थप्रत्यायनं प्रति शब्दानां विनियोगो न स्यात्न्वाख्यायकस्य शास्त्रस्य प्रवृत्त्यनुपरमात्। शास्त्रोपरतौ ह्रन्वाख्यातास्ते प्रयुज्यते, नान्यथेत्यनिष्टम्। ननु च सकृत्प्रवृत्तौ लक्षणस्य चरितार्तत्वात् पुनः प्रवृत्तिर्न भविष्यति, नैतदस्तिच यत्र हि प्रयोजनार्था प्रवृत्तिस्तत्रैतदुक्तम्, इह पुनरकस्मादन्तरतमो विधीयत इत्यनुपरतैवास्य प्रवृत्तिः। नियमाकत्वेऽप्यस्य यदीदं विहितानां नियमं कुर्यात् ! अनर्थकमेव वचनं स्यात्। यो हि भुक्तवन्तं ब्राउयात्-`मा भुङ्क्ष्य` इति,किं तस्य तेन कृतं स्यात् ! तस्मात् प्राप्यमाणावस्थायामेव वाक्यान्तरः सह संहत्यानन कार्यं निर्वत्र्यते; तदेकदेशभूत्वादस्य। `सदृशतमः` इति।? अन्तरतमशब्दस्यार्थ कथयति।`अर्थतः` इत्यादि। वतण्डशब्दात् स्त्रियामपत्यार्थे <<वतण्डाच्च>> [[4.1.108]] इति यञ्,तस्य <<लुक् स्त्रियाम्>> [[4.1.109]] इत्यकारलोपः, वतण्डी चासौ युवतिश्चेति <<पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः>> [[2.1.65]] इत्यादिना समासः। तत्रानेन <<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इत्यादिना पुंवद्भावे कर्तव्ये सर्वः पुंशब्दः प्रसक्तः। तत्रानेन वतण्डापत्यार्थ-स्य वतण्डी शब्दस्यार्थतोऽन्तरतमो वतण्डापत्यार्थ एव वातण्डशब्दो भवति।`पाकः` इत्यादौ भावे घञ्। `चकारस्य` इत्यादि। `वर्गाणां प्रथमा अल्पप्राणाः` (आपि।शि। 4।3।) इति चकारककारावल्पप्राणौ। `वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीय-जिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः आआसानुप्रदाना अघोषाः` (आपि।शि।4।2।) इत्यघोषौ। `जकारस्य` इत्यादि। `वर्गाणां तृतीयचतुर्था अन्तःस्थाहकारानुस्वारौ यमौ च द्वितीयचतुर्थौ नासिक्याश्च संवृकण्ठा नादानुप्रदाना घोषवन्तः`महाप्राणाः` इत्यल्पप्राणौ। `अमुष्मै, अमूभ्याम्` इति। अदसश्चतुर्थ्येकवचने भ्यामि च परतस्त्यदाद्यत्वम्,तो गुणे` [[6.1.94]] पररूपत्वम्, <<सर्वनाम्नः स्मै>> [[7.1.14]] इति स्मैभावः। भ्यामि `सुपि च` [[7.3.102]] इति दीर्घः, ततो ह्रस्वस्य ह्रस्व उकारो भवति, दीर्घस्य दीर्घः।`स्थाने इति वर्तमाने` इति। प्रकृतो हि स्थानशब्दः प्रसङ्गवाची। तदनुवृ-त्तौ स्थाने प्राप्यमाणानामन्तरतमो भवति` इत्येषोऽर्थो लभ्यते। ननु च यत्रानेकमा-न्तर्यं तत्र ताल्वादिस्थानत एवान्तर्यस्य बलीयस्त्वम्, तस्मात् तद् यथा स्यादिति पुनस्ताल्वादिस्थानवाचिनः स्थानशब्दस्योपादानं क्रियते। यद्येवम्,स्थानकृतमेवेहान्तर्यं विशिष्टमुपात्तमिति प्रमाणादिकृतं परित्यक्तं स्यात्? नैष दोषः, वाक्यभेदं हि कृत्वा तत्र सम्बन्धः क्रियते, स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति। `स्थाने च भवति` इति पूर्वत्र वाक्ये प्रसङ्गवाची स्थाशब्दः, उत्तरत्र ताल्वादिस्थानवाची। एवं वाक्यभेदेन सम्बन्धे सति, पूर्वस्मिन् वाक्ये स्थानादिकृतानामान्तर्याणां -परिग्रहः प्रतीयते। द्वितीये तु तेषामेव बलाबलवत्त्वम्। `स्थाने` इति च निमित्तसप्तमी। तेनेदमुक्तं भवति- यत्रानेकमान्तर्यं तत्र स्थानेन निमित्तेन योऽन्तरतमः, स एव भवति। वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम्। सादृश्ये प्रकर्षो हि तेन प्रतिपादयितुमिष्टः। स चानेकस्मिन् सादृश्ये सति सादृश्यान्तरापेक्षया भवति। एकवाक्यतायां च स्थानग्रहणेन सादृश्यान्तरे निरस्ते किमपेक्षया सादृश्यप्रकर्षः स्यात् ! तस्मात् तम-ब्ग्रहणाद् वाक्यभेदोऽनुमीयते, अन्यथा हि तस्य वैयथ्र्यं स्यात्।`चेता` इति। अत्रेकारस्य तालव्यत्वादेकारस्य कष्ठतालव्यत्वात् स्थानत आन्तर्यम्; इकाराकारयोस्तु प्रमाणयोरपि मात्रिकत्वात्। `स्तोता` इति। अत्राप्युकार-स्यौष्ठत्वादोकारस्य कण्ठ्यौष्ठत्वात् स्थानत आन्तर्यम्। उकाराकायोस्तु प्रमाणतः पूर्ववत्। तत्रासति पुनः स्थानग्रहणे, प्रमाणत आन्तर्यात् कदाचिदकारो गुणः स्यात्, स्थानत आन्तर्यात् कदाचिदेकारौ। पुनः स्थानग्रहणात् तु स्थानकृतस्यान्तर्यस्य बलीयस्त्वादेकारौकारौ एव भवतः, न कदाचिदकारः। `सोष्मणः, सोष्माण इति ` इत्यादि। इतिकरणो हेतौ; यस्मात् सोष्माणो द्वितीयस्तस्मात् सोष्मणो हकारस्यद्वितीयाः प्रसक्ता इत्यर्थः। एवं `नादवतो नादवन्तः` इत्यादौ वाक्ये हेत्वर्थोयोज्यः। `शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः` इति शिक्षा (आ।शि।1।4।द्वितीयाः` इत्यनेन तु वर्गद्वितीयानां खकारादीनाम्। `हकारेण चतुर्थाः` इत्यनेनापि वर्गचतुर्थानां धकारादीनाम्। समानं स्थानं यस्य स सस्थानः। `सस्थानेन` इति। इत्थ-म्भूतलक्षणे तृतीया। सस्थानेन द्वितीया ऊष्मतया लक्ष्यन्ते। एतदुक्तं भवति- `यथा सस्थान एवेषामूष्मा, एवमेतेऽपि वर्गाणां द्वितीया ऊष्माणः` इति। अथ वा - तुल्यार्थयोग एषा तृतीया, तुल्यशब्दस्त्वध्याहार्यः, तुल्यत्वमूष्मतया वेदितव्यम्। तत्र खकारस्य सस्थानो हकारः, छकारस्य शकारः, ठकारस्य षकारः, थकारस्य सकारः। फकारस्य सस्थान ऊष्मा नास्ति। तस्मात् तस्यापि विशेषेणोष्मत्वं लक्ष्यन्ते, तत्सदृशत्वात्। तेन यथा हकार ऊष्मा एवं तेऽपीत्यर्थः। `नादवतः` इत्यादि। `वर्गाणां तृतीयचतुर्थाः` इत्यादिना पूर्वोक्तेन ग्रन्थेन तृतीयानां हकारस्य नादवत्त्वमुक्तम्। ये सोष्माणो `नादवन्तश्च` इति। सोष्मत्वं हकारस्य `शादय ऊष्माणः` (आ।शि।1.4.8) इत्यनेनाख्यातम्,चतुर्थानां तु `हकारेण चतुर्थाः` (आ।शि। 1.4.1) इत्यनेन नादवत्त्वम्, उभयेषां वर्गाणां तृतीयचतुर्था इत्यादिनैव पूर्वोक्तेन।", "11051": "अत्र त्रयः पक्षाः सम्भवन्ति- `उः स्थानेऽण् रपरत्वं चानेनोभयं विधीयते` इत्येकः पक्षः। `लक्षणान्तरेण विहितस्याण उः स्थाने पश्चादनेन रपरत्वमात्रं क्रियते` इति द्वितीयः पक्षः। `उः स्थाने लक्षणान्तरेण विधीयमानोऽण विधानकाल एव तेन लक्षणान्तरेण सह संहत्य रपरत्वविशिष्टोऽनेन भाव्यते` इति तृतीयः। तत्र यद्याद्यः पक्ष आश्रीयते, ऋकारस्य स्थान उदात्तादयो न स्युः, अनेन बाधित्वात्; `कृति` इत्यत्र <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तो न स्यात्, `प्रकृतम्` इत्यत्र पूर्वपद्सयाद्युदात्तस्य <<गतिरनन्तरः>> [[6.2.49]] इति प्रकृतिस्वरे कृते <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनुदात्तो न स्यात्, <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इति स्वरितश्च। यद्यचः स्थाने उदात्तादयो विधीयन्ते, तथापि तेषामन्योऽजवकाश इतिऋवर्णस्थाने प्रतिपदोक्तोऽणेव रपरः स्यात्। ये चाप्यन्य ऋवर्णस्थाने प्रतिपदमादेशा उच्यन्ते, `ऋत इद्धातोः` [[7.1.100]] इत्येवमादिभिर्लक्षणान्तरैस्तेषु रपरत्वं नस्यात्; ततश्च `किरति` इत्यादि न सिध्येत्।अथ द्वितीयः पक्ष आश्रीयते, तरतेस्तृजादौ गुणो विधीयमानः प्रमाणत आन्तरतम्याद् दीर्घस्य दीर्घ एव स्यात्, तथा च `तरिता` इत्यादि न सिध्येत्। किं च-ण्वुलादौ वृद्धौ विधीयमानामृकारस्य केनचिद् वृद्धिसंज्ञकेनान्तरतम्यविशेषो नास्तीति सर्वे वृद्धिसंज्ञकाः पर्यायेण प्रसज्येरन्। तथा च पक्षे `नायकः, स्तावकः` इत्या-द्यप्यनिष्टं रूपं स्यात्। इत्येवमाद्ययोः पक्षयोर्दोषवत्तां दृष्ट्वा, तृतीयं पक्षमाश्रित्याह- `उः स्थानेऽण् प्रसज्यमान एव`इत्यादि। एतेन लक्षणान्तरेण विधीयमान-स्याणो विधानकाल एव तेन सह संहत्य रपरत्वविशिष्टस् विधावियं परिभाषा व्याप्रियत इति दर्शयति। एतच्च स्थानद्वयग्रहणस्यात्रानुवृत्तेर्लभ्यन्ते। पूर्वकेण हि स्थानग्रह-णेनेहानुवृत्तौ `उः स्थाने` इत्यतदर्थरूपं लभ्यते। द्वितीयेन तु प्रसज्यमानइत्येतत्। तथा हि- स्थानग्रहणं सप्तम्यन्तं प्रकृतमनुवर्तमाने तत्सामर्थ्यात् प्रथमान्तं सम्पद्यते, स्थानशपब्दश्चायं प्रसङ्गवाची। ततश्च यदा स्थानेनाण् विशिष्यते-`अण् स्थानम्` इति, तदा `अण् प्रसज्यमान एव` इत्येषोऽर्थो जायते।`प्रसज्यमानः` इति। प्रसङ्गेनाभिसम्बध्यमान इति यावत्। `एव` इति। अवधारणं पुनरत्र व्यवच्छेद फलत्वेन सर्ववाक्यानां सावधारणत्वाल्लभ्यते। कथं पुनरण् स्थानं भवति? नैव हि स स्थानं भवति, तद्योगात्तु तत्र स्थानव्यपदेशो भवति, यथा-`यष्टीः प्रवेशय` इत यष्टियोगात् पुरुषाणां व्यपदेश-। ननु च `स्थानेऽन्तरतमः` लभ्यते? नैष दोषः, स्वरितत्वचिह्नाद्धि यो यत्रोपष्ठते, स तत्र सामर्थ्यात् तत्कार्ययोग्यस्यै-वार्थस्याभिधाता सन्नुपतिष्ठते। तेन यद्यपि पूर्वसूत्रे स्थानशब्दस्तवादिस्थानवचनः, तथापीहोपतिष्ठमानः प्रसङ्गवचन एवोपतिष्ठते। तेदवं यस्मान्नेदं स्वतन्त्रमणो रपरत्वविशिष्टस्य च विधायकम्। तस्मादाद्ये पक्षे यो दोषः स इह न भवति ततश्च लक्षणान्तरेण विहितस्याणः पश्चादनेन रपरत्वं न विधीयते, किं तर्हि? प्रसज्यमान एवाण् लक्षणान्तरेण तत्सहायं प्रतिपद्य रपरो भाव्यते। तेन द्वितीये पक्षे यो दोषः, सोऽप्यस्मिन्न भवत्येव। प्रसज्यमानस्यैव हि रपरत्वविधौ यथा ऋवर्णो रश्रुतिमान्, एवमादेशोऽपिरश्रुतिमानेव भवति। ततश्चान्तरतम्यादृकारस्य रश्रुतिमतस्तादृश एव रश्रुतिमानेदेशो भवति। अन्ये गुणवृद्धिसंज्ञका व्यावर्तिता भवन्ति। यदि तर्हि प्रसज्यमान एव रपरोभवति, अनेकल्त्वात् सर्वादेशः प्रसज्येत, नैष दोषः; यदयं `तरति` इति निर्देशं करोति; ततो ज्ञाप्यते-सर्वादेशो न भवतीति।`कर्ता, हर्ता`इति। `डुकुञ् करणे`(धातुपाठः-1473) `ह्मञ् हरणे` (धातुपाठः-899)आभ्यां <<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्, `सार्वधातुकार्धकयोः` [[7.3.84]] इति गुणः, <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति द्वित्वम्। `किरति, गिरति` इति। `कृ विक्षेपे` (धातुपाठः-1410) `गृ निगरणे` (धातुपाठः-1411)- आभ्यां लट्, <<शेषात् कर्तरि परस्मैपदम्>> [[1.3.78]] इति तिप्, तुदादित्वाच्छः, `ऋत इद् धातोः` [[7.1.100]] इतीत्त्वम्। `द्वैमातुरः, त्रैमातुरः` इति। द्वयोर्मात्रोरपत्यम्, तिसृणां मातृणामपत्यमिति `मातुरुत् संख्यासम्भद्रपूर्वायाः` [[4.1.115]] इत्यण्, उकारश्चान्तादेशः। <<तद्धितेष्वचामादेः>> [[7.2.117]] इति वृद्धिः। `खेयम्` इति। <<ई च खनः>> [[3.1.111]] इति क्यप्, इकारश्चान्तादेशः, <<आद्गुणः>> [[6.1.87]] । `सौधातकिः` इति। `सुधातुरकङ च` [[4.1.97]] इतीञ्। तत्संयोगेनाकङादेशः क्रियमाणो रपरो न भवति, अनण्त्वात्। अथ योऽत्राण्, स रपरः कस्मान्न भवति? अनादेश्त्वात्। समुदायो ह्यत्रादेशो न तदवयवः। नैष दोषः; यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते सोऽन्यतरव्यपदेशम्, यथा- देवदत्तस्य पुत्रो देवदत्तायाः पुत्रः` इति॥", "11052": "अल्ग्रहणमन्त्यस्य विशेषणम्, नादेशस्य; अन्यथा ह्रलन्त्यस्येत्येवं ब्राऊयात्। आदेशः पुनरत्रैकाल्लभ्यते। अन्यस्य <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशतां वक्ष्यति। `षष्ठीनिर्दिष्टस्य` इति। सामान्यवचनेऽपि `षष्ठी स्थानेयोगा` (1।149) इत्यधिकारात् स्थानषष्ठआ निर्दिष्टस्येति वेदितव्यम्; अन्यथा टित्किन्मितोऽप्यवयवसम्बन्धषष्ठीनिर्दिष्टा विधीयमाना अन्त्यस्य स्युः। `इद् गोण्याः` [[1.2.50]] इति। येयं षष्ठी सान्त्यमलं नीयते- अन्त्यस्याल इत्त्वमिति। `पञ्चगोणिः` इति।पञ्चभिर्गोणीभिः क्रीत इति <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति समासः। <<तेन क्रीतम्>> [[5.1.37]] इति <<प्राग्वहतेष्ठक्>> [[4.4.1]] `अध्यर्धपूर्वद्विगोर्लुगसंज्ञा-याम्` [[5.1.28]] इति तस्य लुक्। यद्यलोऽन्त्यस्य षष्ठीनिर्दिष्टस्यादेशो भवति,<<इदोऽय् पुंसि>> [[7.2.111]] इत्यतः `इदः` इत्यनुवृत्तेः <<हलि लोपः>> [[7.2.113]] विधीयमान इद्रूपस्य योऽन्त्यस्तस्य स्यात्। तथा च - आभ्यामिति न सिध्येत्, नैष दोषः; `नानार्थकेऽलोऽन्त्यविधिरनभ्यासविकारेषु` (व्या।प।62) इति परिभाषया न भविष्यति॥", "11053": "`होतापोतारौ` इति। होतृपोतृशब्दयोद्र्वन्द्व, आनङ्, औप्रत्यये परतः <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः, रपरत्वं च। `अप्तृन्तृच्` [[6.4.11]] इत्यादिना दीर्घः। `मातापितरौ` इति। <<पिता मात्रा>> [[1.2.70]] इति यस्मिन् पक्ष एक-शेषो नास्ति, तत्रेदमुदाहरणम्। यदि ङिदादेशोऽनेकालप्यन्त्यस्य भवति, एवं सति तातङ-प्यन्त्यस्य भवतीत्यत आह-`तातङि` इत्यादि। तत्र गुणप्रतिषेधार्थम् चिनुतादित्यादौ। अत्र हि सार्वधातुकलक्षणस्य गुणस्य प्राप्तिः। वृद्धिप्रतिषेधार्थम्- मृष्टादिति। अत्र हि `मृजेर्वद्धिः` [[7.2.114]] इति वृद्धिप्राप्तिः। तदेवं गुणवृद्धिप्रतिषेधे चरितार्थत्वात् तातङो ङित्करणस्य सावकाशत्वे सति तस्मिन परत्वात <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन तातङ सर्वादेशो भवति। ङिच्चेत्यस्यावकाशः-`होतापोतारौ` इत्यादि। अनेकालित्यादेरवकाशो योन ङित्-<<अस्तेर्भूः>> [[2.4.52]] , भवितेत्यादि।`जीवतात्` इत्यादावुभयप्राप्तौ परत्वदनेकाल्त्वात् तातङ सर्वादेशो भवति, `जीवताद् भवान्` `जीवतात् त्वम्` इति। जीवतादिति `आशिषि लिङलोटौ` [[3.3.173]] इतिलोट्, तिप्, `एरुः` `तु ह्रोस्तातङ्` [[7.1.35]] इत्यादिना तातङ॥", "11054": "अलोऽन्त्यस्यापवादोऽयम्। शास्त्रे न क्वचित् परस्येतुच्चार्य कार्यं विधीयते। ततश्च निर्विषयमेतदित्यभिप्रायेणाह-`क्व च` इत्यादि। `यत्र पञ्चमीनिर्देशः`इति। <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति वचनाद् यत्र पञ्चमीनिर्देशस्तत्र परस्य कार्यं शिष्यते। `आसीनः` इति। `आस उपवेशने` (धातुपाठः-1021), लट्, अनुदात्तेत्वादात्मनेपदम्, शानच्, अदादित्वाच्छपो लुक्। `द्वीपम्, अन्तरीपम्` `समीपम्` इति। द्विर्गताअन्तर्गताः सङ्गता` आपोऽस्मिन्निति विगृह्र बहुव्रीहिः। `ऋक्पूः` [[5.4.74]] इत्यादिना अकारप्रत्ययः समासान्तः॥", "11055": "शितः शकारानुबन्धेनानेकाल्त्वेऽपि शिदिति पृथक्करणं `नानुबन्धकृतमनेकाल्त्वम्`(व्या।प।14) इति ज्ञापनार्थम्। तस्य तु प्रयोजनम् - <<दिव उत्>> [[6.1.131]] इत्या-दिषु सर्वादेशाभावः॥", "11056": "स्थानं प्रसङ्गः, स च पूर्वमुक्तस्वरूपः। अतिदेशोऽनेकप्रकारः- निमित्ताति-देशः; व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, कार्यातिदेशश्चेति। तत्रतावन्निमित्तमशक्यमतिदेष्टुम, न हि धात्वादिधर्माः शब्दप्रवृत्तिनिमित्तभूता धात्वादिव्यक्त्याश्रिता वस्त्वन्तरमादेशं प्रापयितुम्, प्रापयितुं पार्यन्ते; यथा- ब्राआहृणवदस्मिन् क्षत्रिये वर्त्तितव्यमिति ब्राआहृणशब्दप्रवृत्तिनिमित्तं न शक्यं क्षत्रिये प्रापयितुम्, तद्वत् तस्मादशक्यत्वात् नेह निमित्तादेश आश्रीयते। नापि व्यपदशातिदेशः; संज्ञासंज्ञिसम्बन्धादभिन्नत्वात्। संज्ञासंज्ञिसम्बन्धे हि वत्करण-स्यानर्थक्यं स्यात्, विनापि तेन तत्सिद्धेः। अप्रधानत्वाच्च नात्र व्यपदेशातिदेशो युक्त आश्रीयतुम्। अत एव शास्त्रातिदेशोऽपि। अप्रधानत्वं तु तयोरपि कार्यं प्रत्यङ्गभूतत्वात्। रूपातिदेशस्याप्याश्रयणमयुक्तम्` निष्फलत्वात्। यदि ह्रादेशस्य स्थानिनोरूपमतिदिश्येत; आदेशस्य वैयथ्र्यं स्यात्। <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यत्र रूपातिदेशेऽपि न भवत्यादेशवैयर्थ्यम्, द्वर्वचनादुत्तरकालं श्रवणार्थत्वात्। तस्मादतिदेशान्तराश्रयणस्यायुक्तत्वात् कार्यातिदेश आश्रीयते। `स्थानिना तुल्यं वर्तते` इति। तत्तुल्यकार्यत्वात्, `तेन तुल्यम्` [[5.1.114]] । `स्थान्याश्रयेषु` इति।स्थानी आश्रय एषामिति बहुव्रीहिः। `अनलाश्रयेषु` इति। अल आश्रय एषामिति बहुव्रीहि कृत्वा न अळाश्रयाणि अनलाश्रयाणीति नञ्समासः। अनन्तरोक्तमेवार्थं विस्पष्टीकर्तृमाह- `स्थान्यलाश्रयाणि` इत्यादि। स्थानी अल् आश्रयोयेषां तानि तथोक्तानि। आश्रयग्रह-णेन सूत्रे योऽल्विधिशब्दः, सोऽलाश्रयो विधिरल्विधिरित्युत्तरपदलोपी समास इति दर्शयति। स पुनः समासो मयूरव्यंसकादित्वात् समासं कृत्वा नञ्समासः कृतः। नअल्विधिरनल्विधिः` इति। पुनरलाश्रयो विधिः? यो वर्णमात्राश्रितः। यस्तु समुदाया-श्रितः सोऽनलाश्रयः। कार्यशब्देन क्मसाधनेन विधिशब्दस्यार्थमाचक्षाणः `विधीयते`इति विधिरिति तस्य कर्मसाधत्वं दर्शयति।`किमुदाहरणय्िति प्रश्नः। `धात्वाद्यादेशाः प्रयोजनम्` इत्युत्तरम्। प्रयुज्यतेऽनेनेति प्रयोजनम्, उदाहरणेन च प्रयुज्यत इति। अर्थात् प्रश्नानुरूपं प्रतिवचनम्। ननु चार्धधातुके परतो भाव्यमादेशाभ्याम्, तत्र किमत्रादेशेनेत्यत आह-`आर्धधातुके विषये` इति। `प्रकृत्य` इत्यादि। `कुगति` [[2.2.18]] इत्यादिना समासः, `समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] ।`दधिकम्` इति। दध्ना संस्कृतमिति <<दध्नष्ठक्>> [[4.2.18]] । `अद्यतनम्` इति। `सायंचिरम्` [[4.3.23]] इत्यादिना टउप्रत्ययः, तुडागमश्च, योरनादेशः। `अकुरुताम्कुरुतम्` इति। कृञो लङ्, `तस्थस्थमिपाम्` [[3.4.101]] इत्यादिना तसस्ताम्, थसस्तम्, तनादित्वात् <<तनादिकृञ्भ्य उः>> [[3.1.79]] , धातोर्गुणः। `अत उत् सार्वधातुके` [[6.4.110]] । ग्रामो वृ स्वम्, जनपदो नः स्वम्` इति। युष्मदस्मदोः षष्ठी, <<बहुवचनस्य वस्नसौ>> [[8.1.21]] इति वस्नसादेशौ। `वत्करणं किम्` इति? विनापि तेन तदर्थो गम्यते, यथा `असंयोगाल्लिट्कित्` [[1.2.5]] इत्यादावित्यभिप्रायः। `स्थानो` इत्यादि। प्रायेण ह्रस्मिन् पादे <<वृद्धिरादैच्>> [[1.1.1]] इत्यादीनि सूत्राणि संज्ञासंज्ञिसम्बन्धार्थान्येव दृष्टानि। अतोऽसति वत्करणे स्थान्यादेशस्य संज्ञा विधीयत इति विज्ञायते। तदेवं मा विज्ञायी-त्येवमर्थं वत्करणम्। किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह - `स्वाश्रयमपि` इत्यादि। संज्ञा हिसंज्ञिप्रत्ययनार्था न स्वतः कार्यं प्रतिपद्यते, अपि तु तत्प्रत्यायितः संज्ञीति। अत्र यदि स्थान्यादेशस्य संज्ञा स्यात्, आदेशस्यैव हिसंज्ञिनः कार्यं स्यात्,न संज्ञाभूतस्य स्थानिनः। ततश्च <<आङो यमहनः>> [[1.3.28]] इति वधेरादत्मनेपदं स्यात्, न हन्तेः।वत्करणे तु सत्यतिदेशोऽयं भवति, अतिदेशेन चान्य-सम्बन्धिकार्यमन्यत्र सम्पाद्यते;न तु तत्र स्वाश्रयं निवर्त्त्यते। तथा हि `ब्राआहृणवदस्मिन् क्षत्रिये वर्ततव्यम्` इत्यतिदेशे तद्ब्राआहृणसम्बन्धिकार्यं क्षत्रिये भाव्यते। न तु ब्राआहृणस्य यत् स्वाश्रयमग्रभोजनादि तद्व्यावर्त्त्यते। स्वाश्रयमपीत्यपिशब्दादतिदेशप्रापितमादेशे पराश्रितमपि। `आहत` इति। हन्तेरलुङ, <<हनः सिच्>> [[1.2.14]] इति कित्त्वम्। `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनाऽनुनासिकलोपः। `ह्स्वादङ्गात्` [[8.2.27]] इति सिचो लुक्। `आवधिष्ट` इति। <<आत्मनेपदेष्वन्यतरस्याम्>> [[3.1.54]] इति वधादेशः, इट्, <<अतो लोपः>> [[6.4.48]] षत्वष्टुत्वे।`आदेशग्रहणं किम्` इति। सथानीति सम्बन्धिशब्दोऽयम्। तत्र यथा `पितृवत्स्थूलः` इत्युक्तेऽन्तरेणाप्यत्र पुत्रग्रहणं सम्बन्धिशब्दत्वात् पुत्र इति गम्यते,तथा स्थानिवदित्युक्ते विनाप्यादेशग्रहणेन सम्बन्धिशब्दत्वादादेश एव स्थानिवद्भवतीति विज्ञायत इत्यभिप्रायः। `आनुमानिकस्य` इत्यादि। <<अस्तेर्भूः>> [[2.4.52]] इत्यादौ स्थान्यपि शब्देन साक्षात् प्रत्याय्यते, आदेशोऽपि। पचत्वित्यत्र स्थान्यपि, आनुमानिक आदेशोऽपि। तथा हि- `एरुः` [[3.4.86]] इत्यत्र न वस्तुत इकार एव स्थानी , अपि तु तिशब्दः। नाप्युकारमात्र आदेशः, तर्हि? तुशब्दः। लाघवार्थं तु तदेकदेशयो-रिकारोकारयोरुच्चारणम्। तेनैकदेशद्वारेण समुदायस्य समुदाय एवादेशो विधीयते। तत्रयथा विषाणेनैकदेशेनोपलब्धेन विषाणी समुदायोऽनुमीयते, तथैकदेशेनेकारेणोकारेण तिशब्दस्तुशब्दश्च। अत्र च शास्त्रे यस्य च क्रियाबिसम्बन्धः साक्षाच्छब्दादेव प्रतीयते,यस्य च कुतश्चिदर्थप्रकरणादेरनुमीयते,तयोः पूर्वस्य प्राधान्यमितरस्य विपर्यय इष्यते। तथा हि- <<सहयुक्तेऽप्रधाने>> [[2.3.19]] इत्यत्र वृत्तिकारः `पुत्रेण सहागतः` इत्याद्युदाहृत्य वक्ष्यति- `पितुरत्र क्रियादिसम्बन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्` इति। प्रधानेतरयोश्च सन्निधाने प्रधानस्यैव कार्येण सम्प्रत्ययो युक्तः। तथा चाह- `प्रधाने कार्यसम्प्रत्ययात् सिद्धम्` इति। अत्र हि यद्यादेश इत नोच्येत, ततो य आदेशशब्देनोपादाय विधीयमानत्वात् प्राधान्यमनुभवति तस्यैव स्थानिवद्भावः स्यात्, नाप्रधानस्यानुमानिकस्य। तस्मात् तस्यापि स्थानि-वद्भावो यथा स्यादित्येवमादेशग्रहणम्। तेन पचत्वित्यादावपि `सुप्तिङन्तं पदम्` (1।414) इति पदसंज्ञा सिद्धा भवति। कुतः पुनरेतववसीयते? `एरुः` [[3.4.86]] इत्यनेनैकदेश-द्वारेण तुःशब्दः समुदायो विधीयते, न पुनर्यथाश्रुतमिकारमात्रस्योकारमात्रमेवेति; पचत्वित्यत्र पदसंज्ञाकार्योपलब्धेः, तद्धि न विना पदसंज्ञया, सापि न विना तिङवद्भावेन, सोऽपि न विना समुदायोदेशेनेति। तस्मिन् हि सति स्थानिवद्भावेन यत्न-प्रतिपादितेन तिङभावो लभ्यते; नान्यथेति गतमेतत्। अथानुमानिके गृहीते कथमितरस्य ग्रहणं लभ्यते? एवं मन्यते स्थानिवदित्येतावानेको योगः कर्तव्यः, एतेन योगेनादेशः प्रधानभूतः सम्बन्धिशब्दत्वाल्लभ्यते। तत आदेश द्वितीयो योगः, आनुमानिकस्य स्थानि-वद्भावाय। अत्र च स्थानिवदिति वर्तते। एवमुभयोः प्रत्यक्षानुमानशिष्टओग्र्रहणमुपपद्यते। `अनल्विधौ` इति। द्वयोरपि योगयोः शेषभूतः। `द्युपथित्यदादेशा` इत्यादि। `दिव औत्` `पथिमथ्यृभुक्षामात्` [[7.1.85]] , <<त्यदादीनामः>> [[7.2.102]] इत्येते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] सुलोपे कर्तव्ये न स्थानिवद्भवन्ति; तस्य हल्मात्रमाश्रित्य प्रवृत्तेरलाश्रयत्वात्॥", "11057": "किमर्थमिदमुच्यते? अनल्विधौ स्थानिवद्भावः उक्तः, अल्विध्यर्थमिदम्। पटयतीत्यादौ <<अत उपधायाः>> [[7.2.116]] इति वृद्धिरलाश्रया; अकारस्योपधाया अल्त्वात्। तस्मात् पूर्वेण न प्राप्नोतीत्येके एव परनिमित्तक एव पूर्वविधावेव कर्तव्ये स्थानिवद् भवतीति नियमार्थमित्यन्ये।`अचेति स्थानिनिर्देशः` इति। `अचः` इत्यनेन स्थानषष्ठन्ततां दर्शयति। `परस्मिन्निति सप्तमीति` इति। न परसप्तमी, परशब्देनैव परस्योक्तत्वादित्यभिप्रायः। `पूर्वविधौ` इति, `विषय` इति। प्रकृतत्वात् स्थानवद्भावस्येति गम्यते, पूर्वविधौ विषये स्थानिवद्भवति, नान्यस्मिन्नित्यर्थः। पूर्वस्य विधिः पूर्वविधिः। विधि-शब्दश्चायं कर्मसाधनः - विधियत इति विधिः। भावसाधनो वा - विधानं विधिरिति। कर्म-साधने ह्रेतस्मिन् पूर्वस्येति शेषलक्षणा षष्ठी। पूर्वस्य व्यवस्थितस्य लब्धसत्ताक-स्य सम्बन्धिनि कार्ये कर्तव्य इत्यर्थः। भावसाधने तु `पूर्वस्य ` इति कृद्योग-लक्षणा कर्मणि षष्ठी। पूर्वस्यापरिनिष्पन्नस्य विधाने कर्तव्य इत्यर्थः। पूर्वस्मिन् विधातव्य इति यावत्। पूर्वत्वं पुनरिहादेशापेक्षम्, अजपेक्षम्, निमित्तापेक्षं वा; एषामेवादेशा-दीनामिह सन्निधानात्। तत्रादेशः स्वरितत्वात् सन्निहितः, इतरयोस्त्वत्रैव सूत्र उपादानात्। ननु च त्रिष्वप्येषु दोषः, तत्कथमादेशाद्यपेक्षया पूर्वत्वं शक्यमाश्रयि-तुम्, आदेशापेक्षे हि पूर्वत्व आश्रीयमाणे `पटयति` इत्यादौ स्थानिवद्भावो न सिध्यति; लोपो हि तत्रादेशः, न च तेन पूर्वपरता सम्भवति; तस्याभावरूपत्वात्।स्यादेतत्- लोपस्य यः स्थानी तदपेक्षया पौर्वापर्यमस्तीतित तद्द्वारेणादे-शापेक्षयाप्यौपचारिकं तद् भविष्यतीति वार्तमेतत्; बहुखद्वकादिषु मुख्ये पौर्वा-पर्ये सत्यौपचारिककल्पनाया अयुक्तत्वात्। `व्यक्तिः पदार्थः` इत्यस्य दर्शनस्याश्रयणाददोषः। व्यक्तौ हि पदार्थे प्रतिलक्ष्यं लक्षणं प्रवर्तते। तत्र यदि पटयतीत्या-दिष्वौपचारिकत्वात् पौर्वापर्यस्य स्थानिवद्भावो न स्यात्, यदेतद्विषयं लक्षणं -तस्यानवकाशत्वाद् वैयथ्र्यं स्यात्, अयं तर्हि दोषः प्रथमस्तावत्पक्षोऽयुक्तः। द्वितीये तु काममेष दोषो न भवति। तथा हि - तत्र योऽचः पूर्वस्तस्य विधौ कर्तव्ये स्थानिवद्भवतीत्येषः सूत्रार्थः, इह च `न य्वाभ्यां पदान्ताभ्याम` [[7.3.3]] इतिवचनात् प्रगेवैजागमाद् यणादेशेन भवितव्यम्। तेन नास्त्यैचोरजपेक्षं पूर्वत्वमिति न भवति स्थानिवद्भावः, तदभावादैचोरायावावपि न प्राप्नुतः; किन्त्वत्र `अचः` इत्येतदा-देशविशेषणार्थं षष्ठन्तं प्रतिज्ञातम्, न तु पञ्चम्यन्तम्। तदा चाचः तदा पञ्चम्य-न्तं सम्पद्यते। अयं तर्हि दोषः - इह `तन्वन्ति` इत्युप्रत्ययस्य यणादेशकृत इट्प्राप्नोति, न ह्यत्राचः पूर्वस्य व्यवस्थितस्य किञ्चित्कार्यं विधीयते; यतो यणादेशस्य स्थानिवद्भावादिडागमो न स्यात्। तृतीये तु पक्षे यणादेश एव निमित्तात् पूर्वः। तस्य व्यवस्थितस्येटि विधातव्ये स्थानिवद्भावो लभ्यत इति न भवति तन्वन्तीत्यत्रेट्प्रसङ्गः; किन्त्वाद्ये पक्षे यो दोषः, स इहापि प्रसज्येत। `वैयाकरणः, सौवआम्` इत्यत्रापि य्वौ निमित्तात् पूर्वौ भवत इति। ननु च निमित्तात् पूर्वस्य कार्ये विधातव्ये स्थानिवद्भाव उच्यते, न चेह निमित्तात् पूर्वयोर्व्योः किञ्चित् कार्यं विधीयते। न ह्रायावादेशौ य्वोः कार्यम्, किं तर्हि? ऐचः,नैतदस्ति; ऐचो हि यत् कार्यं तद् य्वोरपि सम्बन्धि भवत्येव, तयोस्तद्भक्तयोस्तदवयवभूतत्वात्।अत्रोच्यते - आद्यन्तयोः पक्षयोर्यो दोष उक्तः, स तावन्न भवति; यस्माद् बहिरङ्गावैचौ, तद्धितश्रयत्वादङ्गाश्रयत्वाच्च; अन्तरङ्गावायावौ, तद्धितनिरपेक्षत्वाद् वर्णाश्रयत्वाच्च। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।42) इत्यसिद्धत्वादैचोरायावौ नभ भविष्यतः। इतरस्मिन्नपि पक्षे यो दोष उक्तः, सोऽपि न भवत्येव; तत्र कर्मसाधने सर्वमिष्टं न सिध्यतीति भावसाधनोप्याश्रीयते। तेन तन्वन्तीत्यत्रेट एवापरिनिष्पन्न-स्याचः पूर्वस्य विधाने कर्तव्ये स्थानिवद्भावः सिद्धो भवति। कर्मसाधनेऽप्यदोषः; यणादेश एवात्राचः पूर्वः, तस्य विधाने कर्तव्ये एव। न हि यणादेशात् पूर्वस्यव्यवस्थितस्य कस्यचिदिड् विधीयते, किं तर्हि? यणादेशस्यैव। भावसाधने तु तस्मिन्नदोषः; यणादेशात् पूर्वस्यापरिनिष्पन्नस्येट एव विधानात्। तस्मात् तत्रापि पक्षे भावसाधन एव विधिशब्दोऽङ्गीकर्तव्यः।`पटयति` इति। `तत्करोति तदाचष्टे` इति णिच्, `णाविष्ठवत् प्रातिपदिकस्य`(वा।813)इति टिलोपः। ननु चात्र व्यवधानात् पूर्वत्वं न सम्भवति; नैष दोषः; व्यवहितेऽपि हि पूर्वशब्दो वर्तते, यथा-`मथुरायाः पूर्वं पाटलिपुत्रम्` इति। ननु च द्वितीया समर्थाण्णिजुत्पद्यते, तत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां जश्त्वे सति पडयतीति भवितव्यम्। टिलोपस्य स्थानिवद्भावाज्जश्त्वं न भवतीति चेत्, न; जश्त्वविधौ स्थानिवद्भावप्रतिषेधात्, नैष दोषः; `तदाचष्टे` इत्यत्र हि तदिति न द्वितीयासमर्थादिति, कुतस्तर्हि? कर्मणि इति। कुत एतत्? अर्थनिर्देश-परत्वात्। एतदुक्तं भवति- कर्मसंज्ञकात् तदाचष्ट इत्यस्मिन्नर्थे णिज् भवतीति। तस्मादसुबन्धाण्णिजुत्पत्तेः पदसंज्ञाया अभावाज्जश्त्वं न प्रवर्तते। `अवधीत्` इति। हन्तेर्लुङ, `हनो वध लुङि` [[2.4.42]] इति वधशब्दोऽदन्त आदेशः, <<अतो लोपः>> [[6.4.48]] , `आर्धधातुकस्येट्` [[7.2.35]] , `अस्तिसिचोऽपृक्त` [[7.3.96]] इतीट्,िट ईटि` [[8.2.28]] इति सिचो लोपः। `हलन्तलक्षण` इति। `वदव्रज` [[7.2.3]] इत्यादेः सूत्राद्धल्ग्रहणानुवृत्तेः <<अतो हलादेर्लघोः>> [[7.2.7]] इति वृद्धिर्हलन्तलक्षणा। `बहुखट्वकः` इति। ननु च `स्वरविधिं प्रति न स्थानिवद्भवति` इति प्रतिषेधं वक्ष्यति,अतः स्थानिवद्भावस्य प्राप्तिरेव नास्तीत्ययुक्तमेतदुदाहरणम्, नैतत्; विशेषे हि स प्रतिषेधः - स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवतीति। न चायं लोपाजादेशः स्वरो न भवतीति खकाराकारस्योदात्तत्वं न भवति। <<कपि पूर्वम्>> [[6.2.173]] इत्युत्तर-पदान्तोदात्तत्वमेव भवति। `प्रश्नः` इति। `यजयाचयतवितच्छप्रच्छ` [[3.3.90]] इत्यादिना नङ। `तुकि न स्थानिवद्भवति` इति। तुकि कर्तव्ये न स्थानिवद्भवतीत्यर्थः। यदि हि स्याच् छकारमात्रस्य शादेशे कृते स्थानिवद्भावाद्विहितस्य तुकः श्रवणं स्यादित्येके, एतच्चायुक्तम्; अत्र ह्रन्तरङ्गत्वात् `छे च` [[6.1.71]] इति तुकैव प्राग् भवितव्यम्।न चात्रेद-मस्ति `वार्णादाङ्गं बलीयः` (व्या।परि।39) इति, नानाश्रयत्वात। यत्र ह्रेकं निमित्तमाश्रित्ययुगपद् वार्णमाङ्गं च प्राप्नोति, तत्रेदमुपतिष्ठते, यता - `इयाय` इति।अत्राकारमाश्रित्याभ्यासेकारस्य <<इको यणचि>> [[6.1.77]] इति यण् प्राप्नोति, `अभ्यास-स्यासवण्र्ये` [[6.4.78]] इतीयङ च। तत्र `वार्णादाङ्गं बलीयः` (व्या।परि।39) इत्यस्योपस्थानादियङेव भवति। प्रश्न इत्यत्र तु शादेशमनुनासिकमाश्रयति, तुक् पुनश्छकारम्;अतो नानाश्रयत्वान्नोपतिष्ठते। तस्मात् तुकात्र भवितव्यमेव। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इत्यत्र यद्वक्ष्यति वृत्तिकारः - `अन्तरङ्गत्वात् `छे च` [[6.1.71]] इति तुकि कृते सतुक्कस्यायमादेशः` इति, तद्विरुध्यते।अन्ये तु व्याचक्षते - `च्छवोः शूडनुनासिके च` [[6.4.19]] इति सूत्रे `सतुक्क-स्य च्छकारस्य निर्देशः` इत्येव केनचिदाचार्येण शिष्याः प्रतिपादिताः, केनचित्तु `तुग्विरहितस्य शुद्धस्य` इत्येवम्, उभयं चैतत् प्रमाणम्। द्वैतत्वे तत्राङ्गेन वा च्छ्वौ विशेष्येते, छकारवकाराभ्यां वाङ्गमिति। तत्राद्ये पक्षेऽङ्गस्य यश्छस्तस्य शादेश इति। वाक्यार्थः; सतुक्कस्य च स्थानित्वेनोपादानात्। अन्तरङ्गे तुकि कृते`नानार्थके अलोऽन्त्यविधिः` (व्या।प।62) इति तदन्तविध्यभावात् समुदायस्यैवादेशो भवति। यदा शकारविधौ सतुक्कस्य च्छकारस्य निर्देशः, प्रश्न इत्येतत् तदानीमज्ग्रहण-स्याप्रत्युदाहरणमेव; तुकः पुनः प्रसङ्गाभावात्। यदा तु च्छकारवकाराभ्यामङ्गं विशेष्यते, तदा छकारान्तस्याङ्गस्य स्थानित्वम्। अस्मिन् पक्षे शविधौ शुद्ध एव छकार उपात्तो वेदितव्यः। अन्तरङ्गत्वात् तु पूर्वं तुकि कृते पश्चादलोऽन्त्यपरिभाषाया उपस्थानात् उपस्थानात् छकारमात्रस्य शकारः। तस्मिन् कृते निमित्ताभावात् तुको निवृत्तिः; यथा - स्थातेत्यत्र षत्वनिवृत्तौ ष्टुत्वस्य। अत्र पक्षे प्रश्न इत्येतत् प्रत्युदाहरणमज्ग्रहणस्य। यद्यत्र स्थानिवद्भावः स्यात्, तुकः प्रत्यावृत्तिर्भवेत्; निमित्तसद्भावात्, यथा - `प्रत्यष्ठात्` इत्यत्र ष्टुत्वस्य। `तुकि नस्थानिवद्भवति` इत्यस्यायमर्थः- योऽसौ निमित्ताभावान्निवृत्तस्तुगासीत्, तमेव पश्चात् प्रत्यावर्तमानं प्रति न स्थानिवद्भवतीति पुनः प्रत्यावृत्तिरेव।`पूर्वविधिः` इति। ननु च यद्यत्र तुकः प्रत्यावृत्तिः स्यान् नङो ङित्करणम-र्थकं स्यात्। तद्धि प्रच्छः प्रसारणार्थ वा विच्छेर्गुणप्रतिषेधार्थ वा क्रियते।तत्र प्रच्छेर्नङि सम्प्रसारणेन न भवितव्यम्; <<प्रश्ने चासन्नकाले>> [[3.2.117]] इति निपातनात्। यदि च स्थानिवद्भावे सति तुकः प्रत्यावृत्तिः स्यात्र् ततो गुणप्रतिषेधार्तमपि स्यात्, अलघूपधत्वादेव गुणो न भविष्यति, ततश्चानर्थकमेवैतत् स्यात्? नानर्थकम्; `अनित्यमागमशास्त्रम्` (व्या।प।99) इति ज्ञापनार्थत्वात्। अनित्यत्वज्ञपाने त्वागमशासनस्य `स्नक्रमोरनात्मनेपदनिमित्ते` [[7.2.36]] इत्यत्र यद्वक्ष्यति - `क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः` इति, तन्न वक्तव्यं इति। `उछि उञ्छे` (धातुपाठः-215), `विछ गतौ` (धातुपाठः-1424), <<सनाद्यन्ता धातवः>> [[3.1.32]] इत्येवमादयो निर्देशाश्चोपन्ना भवन्ति।`आक्राष्टाम्` इति। `कृष विलेखने` (धातुपाठः- 990) आङ्पूर्वाल्लुङ; च्लिः, `स्पृशमृशकृषतृपदृपां सिज् वा` (वा।207) इत्युपसंख्यानात् क्सस्यापवादः पक्षे सिच्, ततस्ताम् <<अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्>> [[6.1.59]] इत्यमागमः, यणादेशः,`वदव्रजः` [[7.2.3]] इत्यादिना वृद्धिः।`वैयाघ्रपद्यः` इति। व्याघ्रस्यैव पादावस्येति बहुव्रीहिः। <<पादस्य लोपोऽहस्त्यादिभ्यः>> [[5.4.138]] इत्यन्तलोपः। व्याघ्रपादिति स्थिते गर्गादित्वाद् यञ्, <<पादः पत्>> [[6.4.130]] इति पद्भावः। `आदीध्ये` इति। अदादित्वाच्छपो लुक्। अथात्रटेरेत्त्वात् प्रागेव कस्माल्लोपो न भवति? स्यात्, यदि `परस्मिन्` इत्युच्यमाने तु स्थानिवद्भावाभावात् कृते टेरेत्त्वे न प्राप्नोतीत्यनित्यो लोपः। टेरेत्त्वं तु कृताकृतप्रसङ्गित्वान्नित्यम्। तस्मात् तदेव पूर्वं भवति।`हे गौः`इति। `गोतो णित्` [[7.1.90]] इति णित्त्वात् सर्वनामस्थानस्य <<अचो ञ्णिति>> [[7.2.115]] वृद्धिः। `सम्बुद्धिलोपे कर्तव्ये` इति। <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इत्यनेन। `बाभ्रव्यस्य` इति। बभ्व्रोरपत्यमिति `मधुबभ्व्रो-र्बाहृणकौशिकयोः` [[4.1.106]] इति यञ्, <<ओर्गुणः>> [[6.4.146]] <<वान्तो यि प्रत्यये>> [[6.1.79]] इति वान्तादेशः, आदिवृद्धिः, बाभ्रव्य इति स्थिते <<वृद्धाच्छः>> [[4.2.114]] <<यस्येति च>> [[6.4.148]] इत्यकारलोपः। `अवादेशो न स्थानिवद्भवति` इति। ननु चासत्यपि स्थानिवद्भावे `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।परि।12) इति न भवितव्यमेवात्र यलोपेन, तथा हि - यकारादववादेशेनात्मलाभः प्रतिलब्धः इति नोत्सहते स तं बाधितुम्; नैतदस्ति; सङ्घातो ह्यत्र सन्निपातलक्षणः, नावयवो हल्; सत्यपि वा तस्यसन्निपातलक्षणत्वे न भवत्येव दोष-; अनित्यत्वात् सन्निपातलक्षणपरिभाषायाः। अनित्य-त्वं तु `न लोपः सुप्स्वर` [[8.2.2]] इत्यादौ सूत्रे ज्ञापयिष्यतते। `नैधेयः` इति। निपूर्वो डुधाञ् (धातुपाठः-1092), <<उपसर्गे घोः किः>> [[3.3.92]] , आतो लोपः,निधि इति स्थिते द्वयचः <<इतश्चानिञः>> [[4.1.122]] इति ढक्। ननु पूर्वस्माद् विधिः पूर्वविधिरिति पञ्चमीसमासस्याप्यभीष्टत्वात् पूर्वस्मादपि विधौ कर्तव्ये स्थानिवद्भावेन भाव्यम्, तथा हि <<ठस्येकः>> [[7.3.50]] इत्यत्र वक्ष्यति- `मथितं पण्यमस्य माथितिक इत्यत्रयस्येति लोपे कृते `इसुसुक्तान्तात्कः` [[7.3.51]] इति स्थानिवद्भावादिकस्य कादेशःप्राप्तः; सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति,अकारलोपस्य स्थानि-वद्भावत्वात्; पूर्वस्मादपि विधौ स्थानिवद्भवति` इति। तदेवं यस्मात् पूर्वस्मादपिविधौ स्थानिवद्भावोऽनेन भवति, तस्मात् ` हे गौः` इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदारणानि, नैष दोषः; इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदाहरणानि, नैष दोषः; पूर्वस्माद् विधौ कर्तव्येयः स्थानिवद्भावाः,तस्यानिवत्वात्। अत एव चानित्यत्वादप्रधानभूतोऽसाविति वृत्तावस्य सूत्रस्य पूर्वस्मादिति न प्रतिपादितस्तदेवा प्राधान्यस्य दर्शयितुम्। कुतः पुनस्तस्यानित्यत्वमवसितम्? <<निष्ठायां सेटि>> [[6.4.52]] इत्यत्र सेड्ग्रहणात्।तदेवमर्थं क्रियते- इटि कृते णिलोपो यथा स्यादिति। यदि ह्रकृत एव तस्मिन् णिलोपः स्यात्, कारितमित्यत्रेडागमो न स्यात्; `एकाच` इति प्रतिषेधात्। तथा च तत्रवक्ष्यति - ` सेडिति किम? `संज्ञापितः पशुः` `सनीवन्तर्ध` [[7.2.49]] इति ज्ञपेरिड्विकल्प्यते। `यस्य विभाषा` इति निष्ठायामिट्प्रतिषेधः। अथ पुनरेकाचेति तत्रानुवर्तते, तत्र निष्ठायाम् `अत्र भवितव्यमिडागमेन` इति। सेड्ग्रहणमनर्थकंस्यात्; तत् क्रियते कालावधारणार्थम्। इडागमे कृते णिलोपो यथा स्यात्` इति। अकृते तस्मष्टिलोपे सति कारितमित्यत्र `एकाच उपेदेशेऽनुदात्तात्` [[7.2.10]] इति प्रतिषेधः इटः प्रसज्येत। यदि च रपूर्वस्माद् विधौ कर्तव्ये नित्यं स्थानिवद्भावः स्यात्, णिलोपस्य स्थानिवद्भावे सत्यनेकाचत्वादिट्प्रतिषेधस्य प्रसङ्ग एव नास्तीति सेड्ग्रहणम् न कुर्यात्, कृतं च; ततोऽवसीयते - `पूर्वस्माद् विधानित्यः स्थानि-वद्भावः` इति। तेन गौरित्यादिषु पूर्वस्माद् विधौ कर्तव्ये स्थानिवद्भावो न भवति।अथ विधिग्रहणं किमर्थम्, यावता पूर्वस्येत्येवं सिद्धम? तथा हि, कार्यापे-क्षया षष्ठी भविष्यति-पूर्वस्य विधौ कर्तव्य इति, नैतदस्ति; असति हि विधिग्रहणे यदि पूर्वस्येत्युच्येत, पूर्वस्येत्युच्येत, पूर्वस्माद् विधौ स्थानिवद्भावो न स्यात्। अथ पूर्वस्मादित्युच्येत, पूर्वस्य विधौ न स्यात्। विधिग्रहणे सति षष्ठीसमासः पञ्चमीसमासश्च लभ्यत इति सर्वत्र सिध्यति। तस्मात् समासद्वयार्थं विधिग्रहणं कर्तव्यम्॥", "11058": "अत्रापि विधिशब्दो भावसाधनः कर्मसाधनश्च। स च प्रत्येकमभिसम्बध्यते। तत्र यथायोगं क्वचित् भावसाधन आश्रीयते, क्वचित् कर्मसाधनः। तत्र द्विर्वचनविधौ भावसाधनः, तत्र हि तदेव विधातव्यम्, न हि तस्यावस्थितस्य किञ्चित् कार्यम्। अन्यत्र तु कर्मसाधनः। तत्र हि व्यवस्थितस्य पदान्तादेः कार्यान्तरविधानात्।`कौ स्तः, यौ स्तः` इति। अस्तेर्लट्, तस्, अदादित्वाच्छपो लुक्, पूर्वविधा-वावादेशे यणादेशे च कर्तव्ये स्थानिवत् स्यादिति। कथं पुनः स्थानिवत् स्यात्,यावता पदसंस्कारायैव प्रयुक्तत्वाद् व्याकरणस्य? `स्तः` इत्यादिकं पदं पदान्तरनिर-पेक्षमेव संस्क्रियते, अनादिष्टादचो यः पूर्वः, तस्य विधिं प्रति स्थानिवद्भावेन भवितव्यम्। न चायं प्रकारः पदानतरनिरपेक्षे पदसंस्कारे सम्भवति; `स्तः` इत्यादिकेपदे संस्क्रियमाणे कावित्यादेः पदान्तररस्यासन्निधानात्। किं पुनरिदं राजशासनम् - पदसंस्कारायैव शब्दानुशासनं कर्तव्यमिति? अथ शास्त्रकारस्यैवायमभिप्रायः? इतिचेत्, न; शास्त्रकारेण दि <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> [[1.4.105]] इति युष्मदाद्युपपदे मध्यमादिपुरुषविधानाद् वाक्यसंस्कारप्रयुक्तमपि शास्त्रमेतदिति सूचितम्। अत्र `कौ` इत्यादिकं पदं प्रागेव व्यवस्थाप्य `स्तः` इत्यादेः पदस्य संस्कारे क्रियमाणेऽनादिष्टावचः पूर्वं औकारादिर्भवतीति स्थानिवद्भावः स्यात्। अतः प्रतिषेध उच्यते।ननु च `दध्यत्र` इत्येवमादौ` प्रतिषिद्धेऽपि स्थानिवद्भावे बहिरङ्गस्य यणादेशस्यासिद्धत्वादन्तरङ्गं द्वर्वचनं न प्राप्नोति। तत् किमित्येवमाह - `अस्माद्वच-नात् भवति` इति। न च शक्यं वक्तुम् - ` स्थानिवद्भावप्रतिषेधात् `असिद्धं बहिरङ्गम्`(व्या।प।42) इत्येषा न प्रवर्तते` इति। यत्रोभयमेकपदाश्रयम् - `पट्व्यौ पट्व्यः शुच्यौ शुच्यः` इत्येवमादौ,तत्र स्थानिवद्भावप्रतिषेधस्यार्थवत्त्वान्नैष दोषः। द्विर्वचनमेव बहिरङ्गम्; बह्वपेक्षत्वात्। तथा ह्रच उत्तरस्य योरऽनचीति च त्रितयं तदपेक्षते। यणादेशस्त्विकोऽचीति द्वयमेव।`वरे` इति। ननु चात्र समासे सति सप्तम्या लुका भवितव्यम्। तत् कथं वरे इति निर्देशः? अत एव निपातनादलुगित्यदोषः। अन्ये त्वीकारप्रश्लेषोऽत्रेतिवर्णयन्ति। एवं च सम्बन्धं कुर्वन्ति - `वरे योऽजादेशस्तस्य विधिं प्रति नस्थानिवत्, ईविधिं च प्रति न स्थानवत्` इति। तेनामलक्याः फलं विकार इति नित्यं वृद्धशरादिभ्यः` [[4.3.142]] इति मयट्, तस्य <<फले लुक्>> [[4.3.163]] इति लुक्, अतः <<लुक् तद्धितलुकि>> [[1.2.49]] गौरादिलक्षणस्य ङीषो लुकि कृते तस्य स्थानिवद्भावात् <<यस्येति च>> [[6.4.148]] इति लोपः प्राप्नोति। ईकारे परतो यो विधिस्तं प्रति स्थानिवद्भावप्रतिषेधान्न भवति। ननु चाजादेशः परनिमित्तकः लोपः पूर्वविधौ स्थानिवद्भवतीत्यु-च्यते, न च लुका पौर्वापर्यमस्तीत्यत एव स्थानिवद्भावो न भविष्यति? तदप्रयोजनमीकार-प्रश्लेषस्य। लोपेनापि तर्हि पौर्वापर्यं नास्तीति पटयतीत्यादावपि स्थानिवद्भावो नस्यात्। अथ तत्र स्थानिद्वारकं पौर्वापर्यं सम्भवति, इहापि तथा स्यात्। ये त्वीकार-प्रश्लेषं नेच्छन्ति, त आयलक्याः फलं विकार आमलकमित्येतदर्थं नेति योगविभागं कुर्वन्ति।`यायावरः` इति। अत्यर्थं यातीति `धातोरेकाचः` [[3.1.22]] इत्यादिना यङ, द्विर्वचनम्, अभ्यासस्य ह्रस्वः, <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घः, ततो वरच्च, अतो लोपे कृते <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः। `अतो लोपः परनिमित्तकः` इति।आर्धधातुके परतो विधानात्। यद्यतो लोपः परनिमित्तकः, ततः `अचो यत्` [[3.1.97]] इत्यत्र `अज्ग्रहणं किम्, यावता हलन्ताण्ण्यतं वक्ष्यति` इति चोद्यं समुत्थाप्य `अजन्तभूतपूर्वावपि यथा स्यात् - दित्स्यं धित्स्यम्` इति यद् वक्ष्यति तद् विरुध्यते; न हि परनिमित्तकेऽतो लोपेऽजन्तभूतपूर्वाद् यतो विधिः सम्भवति, प्राक्कृदुत्प-त्तेरतो लोपस्याभावात्, अभावस्तु परस्य निमित्तस्याभावात्? पक्षे भेदादविरोधः। तत्र ह्रार्धधातुक इति वर्तते। `आर्धधातुके` इति विषयप्तमी चैषा, परसप्तमी चेति पक्ष-द्वयम्; आर्धधातुकसमान्यविवक्षायां सामान्येन पौर्वापर्यं न सम्भवतीति विषयसप्तमी भवति आर्धधातुकव्यक्तिविवक्षायां तु व्यक्तेः पौर्वापर्यं सम्भवतीति परसप्तमी। यदातु व्यक्तिद्वारकं सामान्यस्य पौर्वापर्यं विवक्ष्यते; तदापि परसप्तम्येव।तत्राद्ये पक्ष आर्धधातुके विषयभूते प्रागेव यदुत्पत्तेरतो लोपो भवति, इतरत्र तु तस्मिन्नुत्पन्ने। तत्र `अचो यत्` [[3.1.97]] इत्यत्र यदज्ग्रहणस्य प्रयोजनं वक्ष्यति, तत् पूर्वं पक्षमाश्रित्य। यत् पुनरिहातो लोपः परनिमित्तक इत्युक्तम्, तदितरं पक्षम्। तस्माद् विषयभेदादविरोधः। परसप्तमीपक्षे तु तत्राज्ग्रहणं विस्पष्टार्थमेव वेदितव्यम्।कथं पुनज्र्ञायते परसप्तमीपक्षोऽपि तत्राभिमत इति? <<अनुदात्तेतश्च हलादेः>> [[3.2.149]] इत्यादिग्रहणात्। तद्ध्येवमर्थं क्रियते - हलन्तादित्येवं मा विज्ञायीति। एवं हि विज्ञायमाने जुगुप्सनः, मीमांसनः इत्यत्र युज् न स्यात्; अजन्त-त्वात्। यदि च `आर्धधातुके` इति विषयसप्तम्येवैषाभिमता स्यात्, न परसप्तमीतदाऽऽदिग्रहणमनर्थकं स्यात्; आर्धधातुके विषयेऽकारलोपे कृते जुगुप्सतिमीमांसत्योरपि हलन्तत्वात्। तस्मादादिग्रहणाद् विज्ञायते - परसप्तमीपक्षोऽपि तत्राभीष्ट इति। विषयसप्तमीपक्षे तु तत्रादिग्रहणं विस्पष्टार्थमेव द्रष्टव्यम्।`कण्डूतिः` इति। <<कण्ड्वादिभ्यो यक्>> [[3.1.27]] <<स्त्रियां क्तिन्>> [[3.3.94]] । `चिकीर्षकः, जिहीर्षकः` इति। चिकीर्षजिहीर्षशब्दाभ्यां ण्वुल्। `शिशेः, पिषेश्च` इति। `शिष्लु विशेषणे` (धातुपाठः-1452)`पिष्लृ संचूर्णने` (धातुपाठः-1453)। हित्वधित्व-ष्टुत्वजश्त्वेष्विति। `सेह्र्रपिच्च` [[3.4.87]] इति हेरादेशे कृते <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] ति धिरादेशः। <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम्। ननु चात्र स्थानिवद्भावस्य प्राप्तिरेव नास्ति; यो ह्रनादिष्टादचः पूर्वस्तस्य विधौ स्थानिवद्भवतीत्युच्यते, न चामानादिष्टादचः पूर्वः, तत् किं प्रतिषेधेन? नैष दोषः; स्थानिनो नाकरस्याऽनादिष्टाजपेक्षं पूर्वत्वम-स्तीति तदादेशोऽप्यनुस्वारः स्थानिवद्भावादनादिष्टादचः पूर्व इति लभ्यते।`शिषन्ति` इत्यादि। किमर्थं पुनरुदाहरणान्तरोपन्यासः, यावता शिण्ढीत्याद्य-न्तरोक्तमेवेदं युक्तमुदाहरण्? एवं मन्यते - यदि तदेवोदाह्यियते तदा यत्र परसवर्ण-स्तत्रानुस्वारेण भवितव्यम्,तत्रैव हि स विधीयते; ततश्च नान्तरीयकत्वात् परसवर्ण-विधौ स्थानिवद्भावप्रतिषेधेऽनुस्वारविधावपि स्थानिवद्भावप्रतिषेधः कृत एव, ततोऽ-नुस्वारग्रहणं पृथङ न कर्तव्यमिति कस्यचिद् भ्रान्तिः स्यात्। तस्माद् यत्र परसवर्णो न सम्भवति, तदेवोदाहरणं युक्तमिति।`प्रतिदिव्ना` इति। दिवेः `कनिन्युवृषि` (द।उ।6।51) इत्यादिना कनिन् प्रत्यये रूपम्। `हलि च` इति। `उपधायाञ्च` [[8.2.78]] इत्येतदिदानीन्तनकुलेखकैः प्रमादाल्लिखितम्। तथा हि `उपधायाञ्च` [[8.2.78]] इत्यत्र वक्ष्यति ` प्रतिदीव्न इत्यत्र तु `हलि च` [[8.2.77]] इति दीर्घत्वम्` इति। ननु च स्थानिवद्भावे प्रतिषिद्धेऽपि `न भकुर्छु-राम्` [[8.2.79]] इति दीर्घत्वप्रतिषेधेनात्र भवितव्यम्, तत् किमित्येवमाह - `अस्माद् वचनाद् भवति` इति। न च स्थानिवद्भावप्रतिषेधसामर्थ्यादत्र प्रतिषेधो न भवतीति शक्यं परिकल्पयितुम्; स्थानिवद्भावप्रतिषेधस्य पिपठीरित्यत्रार्थत्वात्। अत्र हि पिपठिषतेः क्विपि कृतेऽतो लोपे रुत्वे च, रुत्वं पुनरस्य पूर्वत्रासिद्धमिति षत्व-स्यासिद्धत्वात्, यदि स्थानिवद्भावो न प्रतिषिध्येत, ततोऽकारलोपस्य स्थानिवद्-भावात् <<र्वोरुपधाया दीर्घ इकः>> [[8.2.76]] इत्यधिकाराद् रेफवकारान्तस्य भस्य दीर्घत्वं प्रतिषिध्यते। न चैतद् रेफवकारान्तं भसंज्ञकम्, अपि तु नाकरान्तमिति।`सग्धिः` इति। समाना ग्धिरिति विशेषणसमासः। <<समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु>> [[6.3.84]] इति सभावः। `बब्धाम्` इति। `भस भत्र्सनदीप्त्योः` (धातुपाठः-1100), <<अभ्यासे चर्च>> [[8.4.54]] इत्यभ्यासभकारस्य जश्त्वं बकारः।`चक्षतुः, जक्षुः` इति। `लिटन्यतरस्याम्` [[2.4.40]] इति घस्लादेशः, `कुहोश्च` [[7.4.62]] इत्यभ्यासघकारस्य चुत्वं झकारः; तस्य पूर्ववज्जश्त्वं जकारः। बहुवचने घस्लादेश इति। `लुङ सनोर्घस्लु` [[2.4.37]] इत्यनेन। `बहुखट्वकः` इति। अत्र स्थानिवद्भावाद् <<ह्रस्वान्तेऽन्त्यात् पूर्वम्>> [[6.2.174]] इति, खकारस्योदात्तत्वं न भवति। <<कपि पूर्वम्>> [[6.2.173]] इति ट्वशब्दस्याकारास्यैव भवति।`किर्योः, गिर्योः` इति। <<र्वोरुपधाया दीर्घ इकः>> [[8.2.76]] `हलि च` [[8.2.77]] इति दीर्घत्वं न भवति। एतच्च व्युत्पत्तिपक्षमाश्रित्योक्तम्, `कृग्रोरिच्च` इति किरिगिरिशब्दौ व्युत्पाद्येते। अव्युत्पत्तिपक्षे त्वसत्यपि स्थानिवद्भावे धातुत्वाभावान्न भवत्येव दीर्घत्वम्। तथा ह्रव्युत्पत्तिपक्षमाश्रित्य `उपधायाञ्च` [[8.2.78]] इत्यत्र वक्ष्यति - `उणादयऽव्युत्पन्नानि प्रातिपदिकानि` (हे।प।103) इति किर्यो-गिर्योरित्येवमादिषु दीर्घो न भवति` इति। `वाय्वोः` इति। <<लोपो व्योर्वलि>> [[6.1.66]] इति यलोपो न भवति।", "11059": "पूर्वं कार्यातिदेशः कृतः, इदानीं तु रूपातिदेशार्थमिदमारभ्यते। अथ वानिमित्तात् पूर्वमित्येतस्मिन् पक्षेऽनन्तरसूत्रेण द्विर्वचनविधिं प्रति प्रतिषेधः प्राप्तः इत्यस्यारम्भो वेदितव्यः। <<द्विर्वचनेऽचि>> [[1.1.59]] इति समानाधिकरणे सप्तम्यौ। तत्राज् विशेष्यः, द्विर्वचनं विशेषणम्। विशेषणविशेष्यभावस्य च प्रयोजनं `दुद्यूषति` इति प्रत्युदाहरण दर्शयिष्यते। कथं पुनरज् द्विर्वचनशब्देनोच्यते? द्वर्वचननिमित्तत्वात्। अत एव वृत्तावाह - `द्विर्वचननिमित्तेऽचि` इति। भवति हितन्निमित्तत्वात् ताच्छब्द्यम, यथा - `आर्युर्घुतम्` इति। परसप्तमी चेयमपीति `यस्मिनन् विधिस्तदादावल्ग्रहणम्` (व्या।प।127) इति अजादाविति द्रष्टव्यम्। परस्मिन्निति च प्रकृत्वात् परस्मिन्नजादाविति गम्यते।अथ वा - द्वर्वचनस्य प्रत्ययविशेषणिमित्त्वाद् द्विर्वचनग्रहणेन प्रत्ययः सन्निधापितः, तेनाजादौ प्रत्यय इति प्रतीयते। यदि तह्र्रजादावजादेशः स्थानिवद्भवति, `पपौ` इति न सिध्यति, न ह्रजादावादेशः, किं तर्हि? अच्येव; इहापि व्यपदेशिवद्भावेना-जादित्वमस्तीत्यदोषः। इह तर्हि न सिध्यति - `चक्रतुः` इति; अच्येव तु यणादेशो विधीयते, न त्वजादौ? नैष दोषः; यो ह्यत्राचि यणादेशो विधीयते सोऽजादावपि भवत्येव। यदि द्विर्वचननिमित्तेऽच्यजादेशः स्थानिवद्भवति सर्वस्यामवस्थायां द्विर्वचनादुत्तरकालमपि स्यादित्यत आह - `द्विर्वचन एव कर्तव्ये` इति। एवकारेण द्विर्वचन क्रिया-कालात् कालान्तरे स्थानिवद्भावस्याभावं दर्शयति। कथं पुनरेतल्लभ्यते, यावतैकंद्विर्वचनग्रहणम्, तेन चाज् विशेषितः? एवं मन्यते - द्वितीयमपि द्विर्वचनग्रहणमन-न्तरसूत्रादिहानुवर्तते।अथ वा- द्विर्वचनञ्चेत्येकशेषं कृत्वा `द्विर्वचने` इति निर्देशः कृतः।तत्रैकेन द्विर्वचनग्रहणेन `द्वर्वचननिमित्तेऽचि` इत्थेषोऽर्थो लभ्यते। द्वितीयेन तु `द्विर्वचन एव कर्तव्ये` इति। इह द्विर्वचने कर्तव्ये स्थानिवद्भावोविधीयते इत द्विर्वचनकार्यार्थं एवैष प्रतीयते। साच्कस्य द्विर्वचनं विधीयमानमनच्क-स्य न प्राप्नोति युज्यते द्विर्वचनकार्यार्थत्वमस्य। `द्वर्वचनकार्यार्थत्वमस्य। `द्विर्वचनकार्यार्थे त्वस्मिन् - `चक्रतुः,चक्रुः` इत्यत्रास्यानच्कस्य द्विर्वचने कृते सतीष्टमभ्यासरूपं न सिध्यति` इतिव्यामोहाद् यो मन्यते, तं प्रत्याह - `रूपातिदेशश्चायम्` इति। `च` शब्दोऽवधारणे, रूपातिदेश एव, न कार्यातिदेश इत्यर्थः। कुतः पुनरेष निश्चयः-स `रूपातिधेशश्चायम्` इति? अज्ग्रहणात्। तस्य ह्रेतत् प्रयोजनम् - `जेघ्रीयते देध्मीयते` इत्यत्र मा भूदिति। यदि चायं द्विर्वचनकार्यातिदेशः स्यान्न रूपातिदेशः; अज्ग्रहणमनर्थकं स्यात्। भवत्वत्र स्थानिवद्भावः, तथापि न कश्चि-द्विशेषः। तथा हि - यद्यप्यत्र स्थानिवद्भावः, एवमपि द्विर्वचनकार्येण भवितव्यम्; अथापि न स्थानिवद्भावः, एवमपि भवितव्यम् - उभयत्रापि साच्कत्वात्, ततश्च कथमेतत् प्रत्युदाहरणम्? तदेतदज्ग्रहणं कथमर्थवद् भवति? यद्येष रुपादेशः ररूपेऽस्यातिदि-श्यमाने यद्यज्ग्रहणं न क्रियते तदिहापि रूपातिदेशे सति ध्रा इति, ध्मा इति च द्वि-र्वचनं स्यात्, तथाऽनिष्टमभ्यासरूपं प्रसज्येत। तस्मादज्ग्रहणाद् रूपातिदेशोऽय-मिति निश्चीयते। यद्येवम्, भेदनिबन्धनो वतिर्नं प्राप्नोति; स्थान्येव हि पुनरात्मीयं रूपं प्रापित इति कुतो भेदः? आतिदेशिकानामतिदेशिकत्वेन रूपभेदस्य विवक्षितत्वाददोषः।`द्विर्वचन एव कर्तव्ये` इति यदुक्तं तस्यार्थं विस्पष्टीकर्तुमाह - `नियतकालः` इति। कृते द्विर्वचने इत्यादिना तदेव नियकालत्वं दर्शयति।`जघ्नतुः` इति। <<अभ्यासाच्च>> [[7.3.55]] इति हकारस्य कुत्वम्।`आटिटत्` इति। अटतेर्हेतुमति णिच्; लुङ्, चङ, `चङि` [[6.1.11]] इति `अजादे-र्द्वितीयस्य` [[6.1.2]] इति द्विर्वचनम्। <<आडजादीनाम्>> [[6.4.72]] इत्याड् भवति। `निनय` इत्यादि। <<णलुत्तमो वा>> [[7.1.91]] इति यदा णित्त्वं नास्ति तदा गुणः, यदा णित्वं तदा वृद्धिः।`जग्ले,मग्ले` इति। `ग्लै हर्षक्षये` (धातुपाठः- 904), `म्लै गात्रविनामे` (धातुपाठः-904) <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्त्वम्। भावे आत्मनेपदम्, `लिटस्तझयो-रेशिरेच्` [[3.4.81]] इत्येश्। `श्रवणमाकारस्य न भवति` इति। यदा कालावधिपरिग्रहार्थंद्विर्वचनग्रहणं न क्रियते, तदोत्तरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणमेव स्यात्। आतो लोपस्य तु गोद इत्येवमाद्यवकाशः। श्रूयमाणे चाकारे परेण सह वृद्धिः स्यात्। `दुद्युषति` इति। दिवेः `सनीवन्तर्ध` [[7.2.49]] इत्यादिना यदा पक्ष इडागमो न क्रियते तदा <<इको झल्>> [[1.2.9]] <<हलन्ताच्च>> [[1.2.10]] इति कित्त्वम्, ततः <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इत्यूठ्। स च द्विर्वचननिमित्तं न भवति। तत्र यदि द्विर्वचननिमित्तत्वेन नाज् विशेष्यते, ऊठि परतो यो यणादेशस्तस्यापि स्थानिवद्भावः स्यात्। एवं चाभ्यासरूपमिवर्णान्तं श्रूयेत। द्विर्वचननिमित्तच्परिग्रहे तु `द्यु` इत्यस्य द्विर्वचनं भवति। तत्र हलादिशेषह्रस्वत्वयोर्दुद्यूषतीत्यभ्यासरूपमुकारा-न्तं सिध्यति॥", "11060": "`अदर्शनम्` इत्यादि। ननु चादर्शनानुपलब्धिशब्दावनुपलब्धिसामान्यवचनौ। अश्रवणानुपच्चारणशब्दौत्वनुपलब्धिविशेषवचनौ। तथा ह्रश्रवणादिशब्दोच्चारणे शब्दस्यैवानुपलब्धिः प्रतीयते, नानुपलब्धिमात्रम्, न च सामान्यविशेषशब्दानामेकार्थता, तत्किमित्येवमाह - `अनर्थान्तरम्` इति। एवं मन्यते- सामान्यशब्द अपि प्रकरणवशाद् विशेषे वर्तन्ते। इह च शब्दा व्युत्पाद्यत्वेन प्रकृताः, तस्माद् यद्यप्यदर्शनानुपलब्धिशब्दौ सामान्यवचनौ, तथापीह प्रकरणसामर्थ्याद् विशेषे शब्दानुपलब्धावेववर्तेते। इह वृद्धिरित्यादिकाः संज्ञा शब्दानां विहिताः। तद्वदिहाप्यदर्शनमित्यस्यैव शब्दस्य `लोपः` इत्येषा संज्ञा स्यात्। ततश्च लोपप्रदेशेष्वदर्शनशब्दस्यैवोपस्थानात् स एवादेशः स्यादित्यत आह - `एतैः शब्दैः` इत्यादि। कथं पुरेतल्लभ्यते? एवं मन्यते - <<न वेति विभाषा>> [[1.1.44]] इत्यत इतिकरणोऽर्थनिर्दशार्थोऽनुवर्तते। तेन ह्रवधारणं गम्यते, यथा - `क्रिया हि द्रव्यं विनयति नाद्रव्यम्` इति। विनापीकरणेन शब्द-स्वरूपस्य संज्ञा सिध्यत्येव, यथा - <<तरप्तमपौ घः>> [[1.1.22]] इत्यत्र। तस्मादिति-करणानुवृत्तिसामर्थ्याददर्शनमिति योऽर्थः प्रतीयते, तस्यैवेषा संज्ञा, न शब्दस्य।किञ्च `लोपः` महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत। लोपनं लोपः; अनुपलब्धिरनुच्चारणमित्यर्थः। न चादर्शनमित्येतच्छब्दरूपमेवाभावात्मकम्, किं तर्हि? तदर्थः। तस्मादन्वर्थसंज्ञाविज्ञानादर्थस्यैवैषा संज्ञा। यदि तह्र्रर्थस्यैवैषा संज्ञा, ततोऽतिप्रसङ्गः। सर्वो हि शब्दः स्वविषयादन्यत्र न दृश्यते। ततश्च `त्रपुजतु` इत्यत्र क्विपोऽदर्शनस्य लोपसंज्ञा स्यात्। एवञ्च सति <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति ह्रस्वस्य पिति कृति तुक्` [[6.1.69]] इति तुक् प्रसज्यतइत्यत आह - `प्रसक्तस्य` इत्यादि। तर्हयदर्शनमात्रस्यैषा संज्ञा?\tन किं तर्हि? शास्त्रादर्थाद्वा कुतश्चित् प्रसक्तस्य यददर्शनं तस्यैव। तदिह न केनचित्प्रकारेण क्विप्प्रसङ्गोऽस्ति, तत्कुतोऽस्तिप्रसङ्गः? कतं पुरेष विशेषो लभ्यते, यावता नेहप्रसक्तग्रहणमस्ति, नापि तत् कृतम्? एवं मन्यते - `स्थानिवत्` इत्यतः स्थानिग्रहण-मिहाप्यनुवर्तते, स्थानी, प्रसङ्गवन्, प्रसक्तः - इति पर्याया ह्रेते। तेनायमर्थो लभ्यते - प्रसक्तस्य यददर्शनं तस्येयं संज्ञेति।`गौधेरः` इति। <<गोधाया ढ्रक्>> [[4.1.129]] एयादेशः, <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारस्य शास्त्रेण प्रसक्तस्य लोपः। `पचेरन` इत्यत्रापि सीयुटः शारुओण। एवम-न्यत्रापि यथायोगं प्रसक्तता वेदितव्या। `जीरदानुः` `आस्त्रेमाणम्` इति। पूर्वपद् वकारस्य लोपः। `स्त्रिवु गतिशोषणयोः` (धातुपाठः- 1109) यस्य `सर्वधातुभ्यो मनिन्` इति मनिन्प्रत्ययान्तस्य द्वितीयैकवचन उपधादीर्गेणैत्वे चकृते `आरुओमाणम्` इति। `अपरस्यानुबन्धादेः` इति। ककारादेरनुबन्धस्य। आदिशब्देन सीयुट्सकारस्य।", "11061": "यथा वृद्धिशब्दस्तद्भावितानमतद्भावितानामपि संज्ञा, तथा लुगित्यादिकाअप्यतद्भावितस्यापि संज्ञाः प्राप्नुवन्ति, ततश्च संज्ञासंकरः स्यात्। संज्ञासंकरे हि सति संकीर्येरन्नित्यत आह - `अनेकसंज्ञाविधानाच्च` इत्यादि। यद्यतद्भावितस्या-प्येताः संज्ञाः स्युः, अनेकसंज्ञाकरणमर्थकं स्यात्; एकस्यैव सर्वकार्यसिद्धः। तस्मादनेकसंज्ञाविधानाद् यददर्शनं यया संज्ञयोच्चारितया भावितम्= निष्पादितं, तस्यैव प्रत्ययादर्शनस्य सा संज्ञा, नान्यस्येति न भवति संकरः। एवं तर्हीतरेतराश्रयदोषः प्राप्नोति, तथा हि - संज्ञया विशिष्टमदर्शनं भाव्यम्, सति च तस्मिन् प्रत्यया-दर्शने संज्ञया भाव्यमित्यत आह - `विधिप्रदेशेषु च` इत्यादि। तददर्शनं विधीयते यस्य विहितस्य लुगित्येवमादिकाः संज्ञा भवन्तीति भाविन्याः संज्ञया विज्ञानान्न भवतीतरेतराश्रयदोषः।`अत्ति` इति। <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपो लुक्। `जुहोति` इति। <<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] । `वरणाः` इति। वरणानां वृक्षाणामदूरभवो ग्राम इति। <<प्राग्दीव्यतोऽण्>> [[4.1.83]] तस्य <<वरणादिभ्यश्च>> [[4.2.82]] इति लुप्।`अगस्तयः, कुण्डिनाः` इति। यदि प्रत्ययग्रहमं न क्रियेत, आगस्त्यस्याप-त्यानि बहूनि `ऋष्यन्धकवृष्णिकुरुभ्यः` [[4.1.114]] इति ऋष्यण्। कुण्डिन्या अपत्यानि बहूनि गर्गादित्वाद् यञ् [[4.1.165]] , तयोरागस्त्यकौण्डिन्यशब्दयोर्जसि परतो यदा `आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्` [[2.4.70]] इति लुक् क्रियते,अगस्तिकुण्डिनचौ चादेशौ; तदा वैषम्यादेकैकस्य षष्ठीनिर्दिष्टस्य स्थानिनस्त्रय आदेसाः पर्यायेण स्युः। तत्र यदा लुक् क्रियते तदा विभक्तिमात्रस्य श्रवणं प्राप्नोति। अथाप्यलोऽ-न्त्यस्य स्यात्ेवमप्यागस्त्यः,कौण्डिन्यः इति स्यात्; अगस्तयः, कुण्डिना इति चेष्यते। यदाप्यागस्त्यशब्दस्य कुण्डिनजादेशः, कौण्डिन्यशब्दस्य चागसत्यादेशः, तथाप्यनिष्टमेव प्राप्नोति। आगस्त्यशब्दस्य हि जसन्तस्य अगस्तयैति रूपमिष्यते, कौण्डिन्यशब्दस्य तु कुण्डिना इति। अत एवागस्तयः कुण्डिना इत्यनयानुपूर्व्या तयोरुपन्यासः।अथाप्यान्तरतम्यादागस्त्यशब्दस्यागस्तिशब्द एवादेशो भवति, न कुण्डिनजिति? कौण्डिन्यशब्दस्यापि कुण्डिनजादेशो भवति, नागस्तिशब्द इति? एवमपि नैवानिष्टापत्ते-र्मुक्तिः। तथा हि - एवं ह्रगस्तयः, कुण्डिना इति च सिध्यति, तथापि प्राग्दीव्यतीये-ऽजादौ प्रत्यये विवक्षिते सति <<वृद्धाच्छः>> [[4.2.114]] इति च्छोः न स्यात्वृद्ध-त्वात्। प्रकृतेः। प्रत्ययग्रहणे तु सति तददर्शनस्यैवेयं संज्ञा विहितेति तस्यैव लुग् भवति। परिजादिप्रत्ययविवक्षायामपि `गोऽत्रेऽलुगचि` [[4.1.89]] इति लुकि प्रतिषिद्धे वृद्धाच्छप्रत्ययश्च। अगस्तीनां छात्रा आगस्तीया इति। कौण्डिन्यशब्दात् तु सत्यपि लुकि <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यणेव भवति - कौण्डिन्याश्चात्रा इति। तेन तत्र छप्रत्ययाभावदोषो न प्रसञ्जनीयः।", "11062": "`प्रत्ययलक्षणम्` इति। प्रत्ययो लक्षणं यस्येति कार्येऽन्यपदार्थे बहुव्रीहिः। प्रत्ययनिमित्तमित्यादिना सूत्रारम्भस्य प्रयोजनमाह।ननु च स्थानिवद्भावनाप्येतत् सिध्यति, नैतदस्ति; अलाश्रयमपि हि प्रत्ययलोपे प्रत्ययलक्षणं कार्यमिष्यते। तथा ह्रग्निचिदित्यत्र <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यलाश्रयोऽपि तुग् भवत्येव। `अग्निचित्` इति। <<अग्नौ चेः>> [[3.2.91]] इति क्विप्। अधोगिति हल्ङ्यादिसूत्रेण तिलोपः; अदादित्वाच्छपो लुक् [[2.4.72]] <<दादेर्धातोर्घः>> [[8.2.32]] इति धत्वम्, `एकाचो बशो भष्` [[8.2.37]] इत्यादिना भष् धकारः, `झलाञ्जशोऽन्ते` [[8.2.39]] इति जश्त्वम्, घकारस्य गकारः,तस्य `वावसाने` [[8.4.55]] इति चर्त्वं ककारः।`प्रत्ययः` इति। `वर्तमाने` इति पूर्वसूत्रात्। `आहो यमहनः` [[1.3.28]] इत्या-त्मनेपदम्। `गमहन` [[6.4.99]] इत्यादिनोपधालोपः। `हो हन्तेः` [[7.3.54]] इति घःष। `संग्मीय` इति। संपूर्वाद् गमेः `समो गमि` [[1.3.29]] इत्यादिनात्मनेपदम्। `इटोऽत्` इत्यद्भावः। <<बहुलं छन्दसि>> [[7.4.78]] इति शपो लुक्। पूर्ववदुपधालोपः।`अनुनासिकलोपो न भवति` इति। `अनुदात्तोपदेश` [[6.4.37]] इत्यादिना।`रैकुलम्` इति। षष्ठीसमासः। `गोहितम्` इति। `चतुर्थी` [[2.1.35]] इत्यादिना। अस्त्यत्र षष्ठीचतुर्थ्येकवचनयोः प्रत्ययर्लोपः; किं त्वयावादेशयोरचि विधानात्तद्विधौ वर्ण आश्रयीते, न तु प्रत्ययः। तेन वर्णनिमित्तकौ तौ न प्रत्ययनिमित्त-काविति न भवतः। ननु च चात्र प्रत्ययस्य लोपः क्रियते, किं तर्हि? लुक्, नैतदस्ति; लोपशब्दोऽपि सामान्येन तद्भावितस्यातद्भावितस्य चाऽदर्शनस्य संज्ञा। तस्माल्लुगपि लोपो भवत्येव॥", "11063": "`लुमता` इति। लुशब्दो यस्मिन्निस्ति स लुमान्। कः पुनरसौ? लुगित्यादिसंज्ञाशब्दः। करणे चेयं तृतीया, हे तौ व, इत्थम्भूतलक्षणे वा। लुमता करणेन लुप्ते प्रत्यये, तेन हेतुना वा, तदुपलक्षितेन वेत्यर्थः। अथ प्रत्य इत्येतत् कुतो लभ्यते? प्रत्ययादर्शनस्यैव लुगादिसंज्ञाविधानात्।`लुमताशब्देन लुप्ते प्रत्यये यदङ्गम्` इति। तत् पुनस्तमेव प्रत्ययं निमित्तमाश्रित्य येनाङ्गसंज्ञा प्रतिलब्धा तद् वेदितव्यम्।तस्य प्रत्ययलक्षणं कार्यं न भवतीत्यविशेषाभिधानेऽपि प्रत्यासत्तेर्य एवासौ लुमता लुप्तः प्रत्ययोऽङ्गसंज्ञाया निमित्तं तल्लक्षणमिति गम्यते। `गर्गाः` इति। <<गर्गादिभ्यो यञ्>> [[4.1.105]] <<यञञोश्च>> [[2.4.64]] इति बहुषु लुक्। अत्र `तद्धितेष्वलचामादेः` [[7.2.117]] इति वृद्धिर्न भवति। `मृष्टः` इति। मृजेस्तदस्, अदादित्वाच्छपो लुक्, व्रश्चादिसूत्रेण षत्वम्, ष्टुत्वम्, <<मृजेर्वृद्धिः>> [[7.2.114]] इति वृद्धिर्न भवति। `जुहुतः` इति। तसि परतो जुहोत्यादिभ्यः श्लौ कृते सार्वधातुकलक्षणो गुणो न भवति। सर्वत्र यमेव प्रत्ययमाश्रित्याङ्गसंज्ञा जाता स एव वृद्ध्यादेः कार्यस्य निमित्तम्। इह च विशेषस्यानाश्रणान्न केवलमङ्गाधिकारविहितं कार्यं प्रतिषिध्यते; अपि त्वनङ्गा4धिकारविहितमपि। तेन गर्गाः, बिदाः, उष्ट्रग्रीवा इत्यत्र <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तत्वमनङ्गाधिकारविहितमपि न भवति। इह च - अत्रय इति तद्धितस्य `कितः` [[6.1.159]] इत्यन्तोदात्तत्वम्। गर्गाः, बिदा इति यथाक्रमं गर्गादियञ्। `अनृष्यान्नतर्ये विददिभ्योऽञ्` [[4.1.104]] इत्यञ्। <<यञञोश्च>> [[2.4.64]] इति लुक्।उष्ट्रग्रीवा इति। `इवे प्रतिकृतौ [[5.3.96]] इति विहितस्य कनो <<देवपथादिभ्यश्च>> [[5.3.100]] इति लुप्। अत्रय इति अत्रेरपत्यार्थे <<इतश्चानिञः>> [[4.1.122]] इति विहितस्य ढकः `अत्रिभृगुकुत्सवसिष्ठ` [[2.4.65]] इत्यादिना बहुषु लुक्। `पञ्च, सप्त` इति। `षड्-भ्यो लुक्` [[7.1.22]] इति जश्शसोर्लुक्। `पयः साम`इति। अत्रापि <<स्वमोर्नपुंसकात्>> [[7.1.23]] इति। अत्र यद्यपि लुमता लुप्तः प्रत्ययः, तन्निमित्ता चाङ्गसंज्ञा, तथापि प्रत्ययलक्षणेन `सुप्तिङ्गन्तं पदम्` [[1.4.14]] इति पदसंज्ञा भवत्येव; यस्मान्नासाव-ङ्गस्य कार्यम्, अपि तु सविभक्तिकस्य समुदायस्य प्रत्ययस्य हि पूर्वभागोऽङ्गम्। न चेह तस् लुमता यो लुप्तः प्रत्यमाश्रित्याह्गसंज्ञा भवति तमेवाश्रित्य पदसंज्ञा प्राप्नोति। पदसंज्ञायञ्चेह सत्यां पय इत्यत्र <<ससजुषो रुः>> [[8.2.66]] इति रुत्वम्। खरवसनियोर्विसर्जनीयश्च पदकार्यं भवति। `पञ्च, सप्त,साम` इति। अत्रापि `नलोपः प्रा-तिपदिकान्तस्य` [[8.2.7]] इति नलोपः पदसंज्ञाकार्यम्। `कार्यते` इति। ण्यन्तात्कर्मणि लकारः, <<सार्वधातुके यक्>> [[3.1.67]] अत्र न लुमता प्रत्ययो लुप्तः किं तर्हि? <<णेरनिटि>> [[6.4.51]] इति; अत्र <<अतो लोपः>> [[6.4.48]] इत्यस्माल्लोपग्रहणानुवृत्तेः। तेन प्रत्ययलक्षणा वृद्धिर्भवत्येव॥", "11064": "`अन्त्यादि`इति बहुव्रीहिः अचां मध्ये योऽन्त्योऽच्,स आदिर्यस्य शब्दरूप-स्य तत् तथोक्तम्। ननु चान्त्यशब्दोऽत्राचामित्येतदपेक्षत इत्यसामर्थ्यादादिशब्देन सह समासो न प्राप्नोति, नैष दोषः; अन्त्यशब्दो हि सम्बन्धिशब्दः, सम्ब्नधिशब्दानां नित्यसापेक्षत्वेन गमकत्वात् सापेक्षत्वेऽपि समासो भवति, यथा देवदत्तस्य गुरुकुल-मिति। `निर्धारणे षष्ठी` इति। `यतश्च निर्धारणम्` [[2.3.41]] इत्यनेन यदि निर्धारणे षष्ठीयम्, एवं हि सति निर्धारणमनेकसन्निपाते भवतीत्यच इत्येकवचनं न स्यात्।बहुत्वद्बहुवचनेन भवितव्यमित्यत आह - `जातावेकवचनम्` इति। जातेरेकत्वादिति भावः। `अचां सन्निविष्टानां योऽन्त्योच्` इति। कथं पुनरजित्येष विशेषो लभ्यते, यावता नेह द्वितीयमज्ग्रहणम्, नापि प्रकृतम्? एवं मन्यते - समानजातीयस्यैव लोके निर्धारणं प्रसिद्धम्। तथा हि, कृष्णा गवां सम्पन्नक्षीरतमेति द्वितीयं गोशब्दमन्तरेणापि गौरेव प्रतीयते। तस्मादिहापि यद्यपि द्वितीयमज्ग्रहणं नास्ति, तथापि समानजातीयोऽजेव निर्धार्यमाणोऽवसीयत इति। अन्ते भवोऽन्त्यः, दिगादित्वात् यत्। `तदादि` इति। स आदिर्यस्येति विग्रहः। `इच्छब्दः` इत्यादिनि रूपोदाहरणानि। कार्यं पुनरिच्छब्दस्य टिसंज्ञायामग्निचितमाचष्ट इति णिचि कृते `णाविष्टवत् प्रातिपदिकस्य` (वा।813) इति टिलोप अग्न चयतीति। `आताम्, आथाम्` इति। अनयोस्तु टिसंज्ञाकार्यम् - <<टित आत्मनेपदानां टेरे>> [[3.4.79]] टेरेत्वम्। `पचेते, पचेथे` इति कार्योदाहरणे। अथ वहिमहिङोरिकारस्य कथंटिसंज्ञा, यावता न सोऽस्ति यस्य सोऽन्त्यः, अजादिरिति व्यपदिश्यते? नैष दोषः; <<आद्यन्तवदेकस्मिन्>> [[1.1.21]] इतिव्यपदेशिद्भावेनादिः, अन्त्य इति व्यपदेशो भविष्यति।", "11065": "अलोऽन्त्यादितिसमानाधिकरणे पञ्चम्यौ। `धात्वादौ वर्णसमुदाये`इति। ननु च नेह वर्णसमुदाय ग्रहणमस्ति, नापि तत् प्रकृतम्। तत् कथमेषोऽर्थो लभ्यते? अन्त्यग्रहणात्, समुदायस्यैवान्त्योऽल् भवति, न केवलः। तस्मादन्त्यग्रहणादेषोऽर्थो लभ्यते।`अलेव` इति।एवकारकरणादेवाल्समुदायो व्यवच्छिद्यते। ननु च नेह द्वितीय-मल्ग्रहणमस्ति, तदल्सुमुदायस्याप्येषा संज्ञा कसमान्न भवति? लोकतश्च। लोकेह्रमीषां बाहृणानामन्त्यात् पूर्व आनीयतामित्युक्तएक एवान्त्यात् पूर्व आनीयते, न समुदायः। एवमप्यल एव व्यवहितस्य कस्मादेषा संज्ञा न भवति? व्यहितेऽपि पूर्वशब्दो वर्तत एव। अत एव लौकिकाद् दृष्टान्तात् - लोके ह्रन्त्यात् पूर्वमानयेत्युक्ते न कश्चिद् व्यवहितमानयति, अपि त्वननतरमेव। यदि ह्रल एवैषा संज्ञा, नाल्समुदायस्य, <<ऋतश्च संयोगादेर्गुणः>> [[7.4.10]] इत्यत्र यद् वक्ष्यति - `संयोगादिगुणविधाने संयोगोपधग्रहणं कर्तव्यम्` इति, तद्व्याहन्यते; न ह्रल एवोपधासंज्ञायामनेकानन्तरहल्समुदायात्मनः संयोगस्योपधात्वमुपपद्यते। संयोगावयवस्योपधात्वादवयवधर्मेण समुदायस्य तथा व्यपदेश इत्यविरोधः। भवति ह्रवयवधर्मेण समुदायस्य तथा व्यपदेशः, यथा - आढमिदं नगरमिति।अथ वा- संयोगस्याल्पूर्वत्वोपलक्षणार्थं तत्रोपधाग्रहणं द्रष्टव्यम्। अकार इत्यादीनि रूपोदाहरणानि। कार्यं त्वकारस्योपधासंज्ञायां पाचकः, पाठक इत्यत्र <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः। इकारऌकारयोस्तु भेदकः, छेदकः, वर्तकः वद्र्धक इति। अत्र `पुगन्तलघूपधस्य` [[7.3.86]] इति गुणः।`शिष्टः` इति। `शासु अनुशिष्टौ` (धातुपाठः-1075), निष्ठा, `शास इदङ हलोः` [[6.4.34]] इति उपधाया इत्त्वम्। तत्र हि `अनिदिताम्` [[6.4.24]] इत्यादेः सुत्रादुपधाग्रहणमनुवर्तते। `शासिवसि` [[8.3.60]] इत्यादिना षत्वम्। `समुदायात्` इत्यादि। अकारसकारसमुदायात्। पूर्वस्य शकारस्योपधासंज्ञा मा भूदित्यर्थः। यदि हि स्यात्,तस्यैवेत्त्वं स्यात्॥", "11066": "किमर्थमिदम्? <<इको यणचि>> [[6.1.77]] इत्येवमादावचीत्येवमादेराधाराधेयभावः प्रत्यासत्तिनिबन्धनः, यथा - गङ्गायां घोषः प्रतिवसतीति। अत्र गङ्गायाः सा च प्रत्यासत्तिर्यथा पूर्वमपेक्ष्य भवति, तथा परमपि। ततदश्च दध्युदकादिषु न ज्ञायते - किं पूर्वस्येकः प्रत्यासत्तिभाजो यणादेशः, उत परस्येति। तत्र सन्देहेसति नियमार्थेयं परिभाषाऽऽरभ्यते। यद्येवं सन्देहविषय इयमारभ्यत इति यत्र सन्देहस्तत्रोपतिष्ठते, ततश्च दध्युदकमिति सिद्धं स्यात्; इदं तु न सिध्यति - दध्यत्रेति। ननु च विनैव परि-भाषैतत् सिद्धम्, न ह्यत्र सन्देहोऽस्ति। इदं तर्हि न सिध्यति - समिदत्रेति, अग्निचिदत्रेति। यदि हि यत्र सन्देहो नास्ति, तत्रैषा परिभाषा न स्यादिहानुपस्थानात्, व्यवधानेऽपि यणादेशः स्यादेव। तस्मादसन्देहविषयेऽप्येषा परिभाषा यथा भवति स यत्नःकर्तव्यः। एष क्रियते - इह (तस्मिन्निति) <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] तावत् सूत्रं कर्तव्यम्; इयतैवाभिलषितार्थसिद्धेः। तत्राप्ययमर्थः - स्वरूपग्रहणशङ्कां निराकर्तुमितिकरणो न कर्तव्यो भवति। न हि क्वचिच्छास्त्रं सप्तमीनिर्दिष्टः शब्दः श्रूयते, येन स्वरूपग्रहणमाशङ्क्येत। सोऽयमल्पेन सूत्रेण सिद्धे यन्महत्सूत्रं करोति तन्महाविषयेयं परिभाषेति। सूचनार्थम्। एवं च महाविषयेयं भवति यदि सर्वत्र - सन्देहविषये, अन्यत्र च प्रवर्तते।स्यादेतत् - `सप्तमीनिर्दिष्ट` इत्युच्यमाने सप्तम्या यद्यप्यधिकरणं निर्दि-श्यते, तथापि तस्याधेयप्रधानत्वात् <<इको यणचि>> [[6.1.77]] इत्यत्राचि योल्व्यवस्थित-स्तस्मिन् यणादेशो विज्ञायते, ततश्चेहैव स्यात् दधि भुङ्क्त इति, इह तु न स्यात् - दध्यत्रेति; यथान्यासे त्वेष दोषो नास्ति, तस्मात् महत् सूत्रं प्रणीतम्` इति, नैतदस्ति; यदयं <<दाधा घ्वदाप्>> [[1.1.20]] इति निर्देशं करोति, तज्ज्ञापयति - अधिकरणएव यणादेशादिकार्यं भवति, न त्वाधेय इति। अपि च-यथान्यासेऽप्यधिकरणस्यादेयप्रधानत्वादाधेय एव यणादेशादिकार्यं तेन सर्वत्रैषा परिभाषोपतिष्ठत इति सर्वमिष्टं सिद्धं भवति।इह <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इति स्वरूपस्यैव ग्रहणेनभवितव्यम्। ततश्च यत्रैव तस्मिन्नित्येतत् पदमुच्चार्यते तत्रैवेयं परिभाषा स्यात् `तस्मिन्नणि च यष्माकास्माकौ` [[4.3.2]] इति। अस्ति ह्यत्र तस्याः परिभाषायाः परनिवृत्तिः प्रयोजनम् - यौष्माकीणं युष्मभ्यं देहि, आस्माकीनमस्मभ्यं देहीति।युष्मभ्यं देहि यौष्माकीणम्, अस्मभ्यं देह्रास्माकीनमिति। <<इको यणचि>> [[6.1.77]] इत्येवमादौ त्वेषा नोपतिष्ठते,इत्यत आह - `तस्मिन्` इति।`सप्तम्यर्थनिर्देशे` इति। एवं मन्यते - इतिकरणो ह्यत्र कृतः, स च स्वरूप-पदार्थकत्वं निरस्यार्थपदार्थकत्वं तस्मिन्नित्यस्य सम्पादयति, तेनार्थस्यैव ग्रहणं भवति। स त्वर्थोऽवश्यं येन केनचिचछब्देन निर्देष्टव्य इति नानार्थकत्वात् सामान्यवाचिना तस्मिन्नित्यनेन पदेन निर्दिष्ट इति।ननु च शब्दस्यार्थेन पौर्वापर्यं न सम्भवतीत्यर्थेनासम्भवात् तद्वाचिना शब्देन विज्ञास्यत इत्यदोषः। अत्रेदं चोद्यते - अर्थस्य ग्रहणं यथा स्यात् स्वरूपस्य च ग्रहणं मा भूदित्येवमर्थमितिकरणः क्रियते, तच्च स्वरूपग्रहणम् `तस्मिन्नणि चयुष्माकास्माकौ` [[4.3.2]] इति सूत्रेण सम्भाव्यते; यदि च स्वरूपग्रहणं स्यात्, तत्रैव पूर्वग्रहणं कुर्यात्, न च कृतम्; तसमादवगम्यते - अन्तरेणापीतिकरणमर्थस्यैव ग्रहणं भविष्यति, न स्वरूपस्येति नार्थस्तेन?। स्तयमेतत्; ये तु मन्दवुद्ध्य एव प्रतिपत्तुमसमर्थास्तान् प्रति सुखावबधनार्थमितिकरणः क-तः। निर्दिष्टग्रहणमिदर्थस्य विशेषणम्। इह चशास्त्रे <<इको यणचि>> [[6.1.77]] इत्यादिषु वाक्येषु यत्र सप्तम्यर्थोऽस्ति तत्रासौ निर्दिष्ट एव सर्वत्र। तदपार्थकं निर्दिष्टग्रहणविशेषणं व्यभिचाराभावादित्यत आह - `निर्दिष्टग्रहणम्` इत्यादि। आनन्तर्यमव्यवधानमर्थो यस्य तत् तथोक्तम्। कथं पुनस्त-दानन्तर्यार्थं भवति? ततस्तत्प्रतीतेः। तथा हि दिशिरयमुच्चारणक्रियः, निःशब्दोऽ-प्ययमिह नैरन्तर्यं द्योतयति। तत्र निरन्तरं दिष्टः= निर्दिष्ट इति प्रादिसमासेकृते स्फुटमेनानन्तरमुच्चारितमिति प्रतीयते।किमर्थं पुनरानन्तर्यमाश्रितमित्यत आह - अग्निचिदत्रेत्यादि। पूर्वशब्दोऽ-यं व्यवहितेऽपि वर्तते। तत्र यद्यानन्तर्य नाश्रीयते ततो व्यवहितेऽपि स्यादित्यभिप्रायः। ननु च `अचि` इत्यौपश्लेषिकमधिकरणं विज्ञायते, न च व्यवहितमुपश्लिष्टंभवति, तत् किमानन्तर्यार्थेन निर्दिष्टग्रहणेन? असदेतत्; असति हि निर्दिष्ट्ग्रहणाउपश्लेषिकमधिकरणमेव न शक्यं विज्ञातुम्। यस्मात् पूर्वशब्दो व्यवहितेऽपि वर्तमानः परस्यैव निवृतिंत करोति, न व्यवहितपूर्वस्यापि। निर्दिष्टग्रहणे तु सति, सप्तम्या औपश्लेषिकाधिकरणाभिधायिन्याः प्रत्यासत्तिरुपादीयते। सा च पूर्वग्रहणेन न निवर्त्त्यते, परनिवृत्तिरेव क्रियत इत्येषोऽर्थो लभ्यते। तेन व्यवहितस्य कार्यंन भवति। उत्तरार्थं च निर्दिष्टग्रहणं कर्तव्यमेव॥", "11067": "किमर्थमिदम्? <<तिङ्ङतिङः>> [[8.1.28]] इति याऽत्र सा तु न कारकविभक्तिः, किंतर्हि? `दिक्शब्दादञ्चूत्तरपद` [[2.3.29]] इति दिग्योगलक्षणा। दिक्शब्दस्त्वध्या-हार्यः, तत्र किं पूर्वशब्दमध्याह्मत्यातिङः पूर्वस्य निघातः क्रियते? उत परशब्दम-ध्याह्मत्य परस्य? इति सन्देहे सति परिभाषेयं नियमार्ताऽऽरभ्यते।`निर्दिष्टग्रहणमनुवर्तते`इति। तेन तस्यानन्तर्यार्थत्वाद्वयवहितस्य कार्यं न भवतीति भावः। इहापीतिकरणोऽर्थनिर्देशार्थः क्रियते। तेन पञ्चम्यर्थग्रहणं भवति, न तु शब्दस्वरूपस्येत्यभिप्रायेणाह - `तस्मात्` इति। `पञ्चम्यर्थनिर्देशः` इति। ननु च पूर्वसूत्रादेवेतिकरणोऽनुवर्तिष्यते, तत् किमर्थः पुनरिहेतिकरणः? अनेन प्रकारेण पूर्वसूत्रादेकदेशोऽनुवर्तत इति ज्ञापनार्थ-। तेनेतिशब्दवन्निर्दिष्ट-ग्रहणमनुवर्तेतेत्येतदाख्यातं भवति।अन्यस्त्वाह - `इतिकरणं त्विहावधेरवधिमत्तन्त्रतां निवर्तयति। तेनावधेरे-वोत्तरस्य विज्ञायते, नावधिमतः। स्वरूपग्रहणनिरासार्थस्त्वितिकरणो न भवति; स्वरूपा-भावात्। यदपि <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति, तत्रापि पूर्वसवर्णदीर्घात्पूर्वः शस् न सम्भवतीति न भवति सन्देहः। तस्मादवधेरवधिमत्तन्त्रतानिरासार्थ एवेति-शब्दः` इति, अत्रोच्यते; यद्यवधेरेवोत्तरस्य कार्यं यथा स्यादवधिमतो मा भूदित्येवम-र्थं इतिकरणोऽवधेरवधिमत्तन्त्रतामपाकर्तुं क्रियते, नार्थस्तेन; लोकत एव तत्सिद्धेः; लोके हि तस्माच्छात्रादुत्तरो भोज्यतामित्युक्तेरवधेरेवोत्तरो भोज्यते, नावधिमतः। तदिहापि विनापीतिकरणेनावधेरेवोत्तरस्य कार्यं भविष्यति; नावधिमतः।यदप्युक्तम् - <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इत्यत्रापि पूर्वसवर्णदीर्घात् पूर्वः शस् न सम्भवति` इति, तदप्ययुक्तम्;तथा ह्रशब्दादिशब्दाच्च शसि परतः पूर्वसवर्णदीर्घत्वे पूर्वत्र च वृक्षादिशब्दे शसन्ते व्यवस्थापिते गच्छत आन् वृक्षानुपलभते गच्छतो वृक्षानानुपलभत इत्यत्र पूर्वसवर्णदीर्घात् पूरवं शश् सम्भवत्येव।अथ यत्रोभयनिर्देशस्तत्र कस्य कार्येण भवितव्यम्? तत्र यानवकाशा सेतरस्याः षष्ठीं प्रकल्पयिष्यति, अतः षष्ठीनिर्दिष्टस्य कार्यं भविष्यति। यथा <<आने मुक्>> [[7.2.82]] इत्यत्र सप्तमी निरवकासा <<अतो येयः>> [[7.2.80]] इत्यत इति पञ्चम्याःपूर्वसूत्रे सावकाशायाः षष्ठीत्वं प्रकल्पयिष्यति। तथा `ईदासः` [[7.2.83]] इति पञ्च-म्याऽऽन इति पूर्वसूत्रे सावकाशायाः सप्तम्याः। यत्रोभे सावकासे तत्र परत्वात् पञ्चमी सप्तम्याः षष्ठीं प्रकल्पयिष्यति। यथा - <<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इति<<आज्जसेरसुक्>> [[7.1.50]] इत्यत्र पञ्चमी सावकाशा। `आमि` इति सप्तम्युत्तरार्था। तत्रादिति पञ्चमी आमीति सप्तम्याः षष्ठीत्वं प्रकल्पयति, तेन सर्वनाम्न उत्तरस्यामः सुड् भवति। इह तु <<दीर्घात्>> [[6.1.75]] <<पदान्ताद्वा>> [[6.1.76]] इति, यद्यपि`च्छे च` [[6.1.71]] इति सप्तमी पूर्वसूत्रे सावकाशा, तथापि तस्याः स्वरित्त्वात् पूर्वयोगादनुवृत्ताया निरवकाशत्वम्। अतः सा च सप्तमी पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति। पञ्चमी तु पौर्वपर्यं प्रकल्प्य सावकाशा निवर्तते। तेनायं सूत्रार्थो भवति- दीर्घादुत्तरो यच्छः, तस्मिन् परतः पूर्वस्य दीर्घस्यैव तुग् भवतीति। <<सार्वधातुके यक्>> [[3.1.67]] इत्यत्र निरवकाशापि सप्तमी धातोरिति पञ्चम्याः सावकाशाया अपि षष्ठीत्वं न प्रकल्पयति; अन्यथा हि धातोरेवादेशा यगादयः स्युः। ततश्च `परश्च` [[3.1.2]] इत्यस्यानुवृत्तस्य बाधाद् यगादीनां चानुबन्धकरणस्य वयथ्र्यं प्रसज्येत। न हि धात्वादेशत्वे सति तेषां परत्वमुपपद्यते तु ते धातोः परे भवन्ति॥", "11068": "`शास्त्रे स्वमेव` इत्यादि। शास्त्रग्रहणं लोकेऽर्थस्यैव ग्राह्रत्वात्। शब्दस्येति <<कृत्यानां कर्तरि वा>> [[2.3.71]] इति कर्तरि षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयति, प्रत्याययतीत्यर्थः। कः पुनः शब्दस्य स्वरूपस्य च भेदः? येन शब्दस्येत व्यतिरेकनिबन्धना षष्ठी भवति। परमार्थतो वस्तुगतो नास्त्येव भेदः। तथा हि - स्वं रूपं शब्दस्य स्वभावः। तच्चेत् ततोऽर्थान्तरं स्याच् शब्दस्य वैस्वभाव्यमेवस्यात्। असत्यपि तु वास्तवे भेदे बुद्धिविरचितं भेदमाश्रित्य षष्ठी भवति। बुद्धिर्हि स्वबीजपरिपाकवशादाकारविशेषपरिग्रहवत्युपजायमाना वस्तुनोऽसत्यपि भेदे भेदमापादयति, यथा - राहोः शिरः, स्वस्य स्वभाव इति। `न बाह्रोऽर्थः` इति एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति।अतिप्रसक्तस्यापवादमाह - `अशब्दसंज्ञा` इत्यादि। किमर्थं पुनरिदमारभ्यतइत्याह - `शब्देन` इत्यादि। शब्देनोच्चारितेनार्थः कार्योपयोगितया गम्यते, न शब्द-स्वरूपम्। तथा हि - गौरुपलभ्यतमित्युक्तेऽर्थमेवोपलब्धुमाद्रियते, न शब्दस्वरूपम्; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थस्य न सम्भवति; तेन सह शब्दस्य पौर्वापर्याभावात्। न चार्थाद् विहितेन प्रत्ययेन कश्चित् प्रकृतोपयोगः। तेन <<अग्नेर्ढक्>> [[4.2.33]] इत्युक्ते नायं संप्रत्ययो भवति। अग्निशब्दस्य योऽर्थः, स इह कार्यी, तस्येदं कार्यं विधीयत इति। ततश्च तस्यार्थस्य ये वाचकाः विधेयमिति। यथा - आकृतिवादिनांगौर्दुह्रतामिति शब्देन जातौ चोदितायां तत्र तत्कार्यासम्भवात् तदाधारायां व्यक्तौ संभवात् तत्साहचर्याच्च तस्यामेव व्यक्तौ संप्रत्ययो भवति, न जातौ; तथेहापि तन्मा भूत् तद्वाचिनां संप्रत्यय इत्येवमर्थमिदमारभ्यते। तद्वाचिनामिति कर्मणि षष्ठी।तद्वाचिनो मा विज्ञायीत्येवमर्थमिदमारभ्यत इत्यर्थः।तत्र केचिदाहुः - स्वरूपस्य पर्यायाणां च कार्ये प्रसक्ते श्रूयमाणस्यैवतद् यथा स्यात्, पर्यायाणां भूदिति नियमार्था परिभाषेयमिति।अन्ये तु - ` लिङ्गवती परिभाषा भवति` , यथा, <<इको गुणवृद्धी>> [[1.1.3]] इति गुणवृद्धी लिङ्गम्। विध्यन्तरशेषभूता वा; यथा - `विप्रतिषेधे परं कार्यम्` (कात।प।67) इति परस्य विध्यन्तरस्य शेषभावमापद्यते। न वास्या लिङ्गं विध्यन्तरशेषभावो वा विद्यत इति संज्ञासूत्रमिदम्` इति प्रतिपन्नाः। यद्यपि वृत्तौ संज्ञाशब्दो नोच्चारिनः, तथापि `स्वमेव रूपं शब्दस्य ग्राह्रम्` इत्येवं ब्राउवता वृत्तिकारेण संज्ञैवेत्याख्यातं भवति। अग्निशब्दादौ शब्दान्तरैः साधारणमपि रूपमस्ति शब्दत्वादि, असाधारणमपि अग्निशब्दत्वादि, तत्र साधारणरूपव्युदासेनासाधारणस्याग्निशब्दत्वादि-रूपस्य परिग्रहार्थं `स्वम्` ग्रहणम्। तद्धि स्वमेव तस्य रूम्, इतरत् पुनः परस्यापि। प्रतीति प्रत्यनुपदेशाच्छब्दस्य स्वरूपमेवासन्नम्, नार्थः; विपर्ययात्, अहेयत्वा-च्च, तन्नित्यसम्बन्धित्वाच्च। तथा ह्रनुकरणशब्दा ह्रर्थं जहति, न तु स्वरूपम्। असाधारणञ्च रूपम्र्थस्तु साधारणः; शब्दान्तरैरपि प्रत्यायमानत्वात्।तदेवमासन्नत्वान्नित्यसम्बधित्वादसाधारणत्वाच्च रूपमेव शब्दस्य स्वम्,नार्थः। ततश्च स्वग्रहणादेव रूपपरिग्रहे सिद्धे व्याकरणे रूपवदर्थोऽप्यङ्गीक्रियत इति ज्ञापनार्थं रूपग्रहणम्। तेन - `अर्थवद्ग्रहणेन नानर्थकस्य` (व्या।प।1) इत्येतदुपपन्नं भवति। शब्दानुशासननप्रस्तावादेव च शब्दस्येति सिद्धे शब्दग्रहणम् - यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्रते, नार्थपरो निर्देश इति ज्ञापनार्थम्। तेन <<स्वे पुषः>> [[3.4.40]] इत्यत्र स्वरूपस्य ग्रहणं न भवति। अर्थपरत्वं तु निर्देशस्याविच्छिन्नपारम्पर्यादाचार्योपदेशाद्विज्ञायते।`आग्नेयम्` इति। अग्निर्देवताऽस्येत्यत्रार्थे ढक्।`औदइआत्कम्` इति। आत्राप्युदइआता संस्कृतमित्यत्रार्थे ढक्। `उदइआतो-ऽन्यतरस्याम्` [[4.2.18]] इत्यत्र <<दध्नष्ठक्>> [[4.2.18]] इत्यस्यानुवत्तेः, `इसुसु-क्तान्तात्कः` [[7.3.51]] इति ठकः कादेशः।`घग्रहणेषु` इत्यादि। यदि घुप्रभृतिरपि संज्ञाशब्द स्वरूपस्य ग्राहकः स्यात् <<उपसर्गे घोः किः>> [[3.3.92]] इत्यत्र यद्यपि धात्वधिकारस्तथापि घुग्रहणाद् घुशब्दात् किप्रत्ययः स्यात्। उपसर्गग्रहणं तु प्राद्युपलक्षणार्थ स्यात्। यथा - `अञ् नासिकायाः संज्ञायां, नसञ्चास्थूलात्` [[5.4.118]] <<उपसर्गाच्च>> [[5.4.119]] इत्यत्र। कुमारीघ इत्यत्र च घ इति संज्ञाशब्देन स्वरूपप्रत्यायने सति <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यादिन घशब्दे परतो ह्रस्वत्वं प्रसज्येत।ननु च संज्ञाविधानसामर्थ्यात् संज्ञायाः स्वरूपग्रहणं न भवति, संज्ञा हि संज्ञिनः प्रत्यायनार्था क्रियते; यदि संज्ञाशब्दोऽपि स्वरूपं प्रत्याययेत् संज्ञाविधानमनर्थकं स्यात्, नैतदस्ति; संज्ञाविदानसामर्थ्याद्धि संज्ञिनं प्रत्याययेत्, परिभाषाविधानसामर्थ्याच्च स्वरूपम्। तस्मात् प्रतिषेधः कर्तव्यः? न कर्तव्यः, ज्ञापकात् संज्ञाशब्दो रूपस्य ग्राहको न भविष्यति। यदयं <<ष्णान्ता षट्>> [[1.1.24]] इति षकारान्तायाः संख्यायाः षट्संज्ञां विदधाति,तज्ज्ञापयति- संज्ञाशब्दः स्वरूपस्य ग्राहको न भवतीति; अन्यथा हि <<षड्भ्यो लुक्>> [[7.1.22]] इत्यत्र षट्शब्देनस्वरूपस्य प्रत्यायितत्वात् ततोऽपि लुग् भवतीति षकारन्तायायः संख्यायाः षडिति संज्ञा न कुर्यात्। षट्शब्दो हि षकारान्ता संख्या, नान्या, सत्यमेतत्; तथापि येषां ज्ञापकद्वारेणार्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्, तान् प्रतितत्परिहाराययाशब्द-संज्ञेति प्रतिषेधः कृतः। शब्दग्रहणम्- व्याकरणे या संज्ञा तस्या एव प्रतिषेधो न लौकिक्या इति प्रदर्शनार्थम्।\t`सित्त्दविशेषाणाम्` इत्यादि। यत्र विशेषाणां ग्रहणमिष्यते तत्र सकार इत्संज्ञकः कर्तव्यः `वृक्षस्य,मृगस्िति। `ततो वक्तवयः` इत्यादि। सिन्निर्देशं कृत्वा ततः प्रथमेऽध्यायेऽन्यत्र वा परिभाषेयं कर्तव्या - सित्तद्विशेषाणामित्यादि। यस्य सकार इत्संज्ञकः, स तद्विशेषाणां वृक्षादिविशेणाणां खदिरादीनां प्रतिपादक इति वक्तव्यम्। एवं `पित्पर्यायवचनस्य च स्वाद्यर्थम्` (कात्या।वा।519) इत्यादावपि वेदितव्यम् न्यायादपि चैतत् प्रतिपाद्योऽर्थः सिध्यति। यथा सिध्यति तथा यथावससं पुरस्तात् प्रतिपादयिष्यामः सुखावबोधनार्थं सित्तद्विशेषाणामित्यादिग्रन्थोपन्यासः॥", "11069": "संज्ञासूत्रमिदम्, न परिभाषा। साहि नियमार्था भवति। न चाणुदितां सवर्णाना-मन्येषांच ग्रहणं प्राप्तम्, येन सवर्णानामेव ग्रहणं भवतीति नियमः क्रियते- `परेण णकारेण प्रत्याहारग्रहणम्` इति। तेन ऋकारादयोऽपि सवर्णानां ग्राहकाः सिध्यन्तीत्यभिप्रायः। परेण च णकारेण प्रत्याहारग्रहणम् `अ इ उ ण्` इत्यत्र प्रतिपादितम्। पूर्वसूत्रात् `स्वं रूपम्` इत्येतदिहानुवर्तते। तच्चार्थाद्विभक्तिविपरिणामो भवतीतिषष्ठन्तं सम्पद्यते। तेन स्वस्यापि रूपस्याण् गृह्रस्याण उदिच्च ग्राहको भवतीति दर्शयन्नाह - `स्वस्य च रूपस्य` इति। `आद्गुणः` इत्यादि। यथेह भवति देवेन्द्र इति, तथा खट्वेन्द्र इत्यत्राप्याद्गुणो भवति। <<अस्य च्वौ>> [[7.4.32]] यथा पटीभवतीत्यत्रे-त्वं भवति तथा मालीभवतीत्यत्रापि। <<यस्येति च>> [[6.4.148]] । यथा दिक्षिरित्यत्र लोपो भवति, तथा चौडिरित्यत्रापि। बाह्वादित्वाच्चूडाशब्ददिञ्। `स्वरानुनासिक्य` इत्यादि। उदात्तः सूत्रे गृह्रमाणः स्वरान्तरभिन्नस्यापि ग्राहको भवति। एवमनुदात्तः स्वरितश्च। तथा सानुनासिको निरनुनासिकस्य, सोऽपि तस्य।`दीर्घो न भवति` इति। यदि `अप्रत्ययः` इति प्रतिषेधो न स्यात् प्रत्ययोऽपि सवर्णानां ग्राहकः स्यात्। ततश्च दीर्घोऽपि स्यात्। ननु चात्यल्पमिदमुच्यते- `अप्रत्ययः` इति, अप्रत्ययादेशटित्किन्मित इति वक्तव्यम्। प्रत्यये प्रत्युदाहृतम्। आदेशे - <<इदम इश्>> [[5.3.3]] , अस्मात्= इतः, <<पञ्चम्यास्तसिल्>> [[5.3.7]] इतितसिल्, अस्मिन् = इह, <<इदमो हः>> [[5.3.11]] । अत्र हि सवर्णग्रहणे सति यद्यकृते त्यदाद्यत्व इश्भावस्तदान्तरतम्यात् त्रिमात्र इकारः प्राप्नोति, अथ कृतेऽद्र्धच-तुर्थमात्रः। यदि <<अतो गुणे>> [[6.1.97]] पररूपत्वेऽकृतेतदापि; अथ कृते ततोऽद्र्धतृ-तीयमात्रः। अथ वा- अद्र्धचतुर्थमात्रोऽद्र्धतृकतीयमात्रश्च नास्ति ततो द्विमात्र-स्त्रिमात्रश्च स्यात। टित् - <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] , लविता, सवर्णग्रहणे सति दीर्घोऽपि स्यात्। कित् भुवो वुग् लुङलिटोः` [[6.4.88]] बभूव, अत्र सानुनासि-कोऽपि स्यात्। सन्ति हि यणः सानुनासिका निरनुनासिकाश्च। मित् - `चतुरनुडुहोरामुदा-त्तः`, [[7.1.98]] <<अम् सम्बुद्धौ>> [[7.1.99]] , अनड्वन् - अत्र दीर्घोऽपि स्यात्। तत् तह्र्रेवं वक्तव्यम्? न वक्तव्यम्; चकारोऽत्र क्रियते, सोऽनुक्तप्रतिषेधसमुच्च-यार्थो भविष्यति। तेन येषामादेशादीनां ग्राहकत्वं नेष्यते ते सवर्णानां ग्राहका न भविष्यन्ति।अन्ये त्वाहुः- ``अप्रत्यः` इति नेह संज्ञाग्रहणम्, किं तर्हि? अन्वर्थग्रहणम्। प्रतीयते विधीयते=उत्पाद्यत इति प्रत्ययः। तेनाप्रत्यय इत्यस्यायमर्थो भवति - `भाव्यमानोऽण् सवर्णान् न गृह्णाति (व्या।प35)इति। हशादयोऽपि भाव्यन्ते= उत्पाद्यन्त इति तेऽपि प्रत्ययाः, तेन ते सवर्णानां ग्राहका न भवन्ति` इति। चैश्चकारस्य प्रयोजनं वक्तव्यम्। `स्वं रूपम्` इत्यस्यानुकर्षणं तस्य प्रयोजनमिति चेत्, न; चानुकृष्टत्वादुत्तरत्र तदनुवृत्तिर्न स्यात्। न चैतत्प्रयोजनमुपपद्यते; स्वरितत्वादेवानुवृत्तिसिद्धेः।अथ मतम् - `प्रथमान्तं स्वमित्येतत्प्रकृतं षष्ठीनिर्दिष्टेन चेहार्थः, तस्माच्चकाररे कृते यत्नात् षष्ठन्तता तस्य यथा स्यादित्येवमर्थश्चकारः` इति, एतदपि नास्ति; अर्थादेव हि विभ्कतिविपरिणामसिद्धेः॥", "11070": "तःपरो यस्मात् सोऽयं तपर इति बहुव्रीहिं दर्शयति, तादपि परस्तपर इति पञ्च-मीतत्पुरुषं च। स पुनः पञ्चमीति योगविभागात् समास इति वेदितव्यः। कथं पुनरेतत् समासद्वयं लभ्यते, यावतैकस्परशब्दः? एकस्याप्यावृत्त्या द्विधा भेदो भविष्यतीत्यदोषः। अत्र हि बहुव्रीहेर्लिङ्गम् - <<अतो भिस ऐस्>> [[7.1.9]] इति तपरकरणम्। न ह्यत्र पञ्चमीतत्पुरुष उपपद्यते। अवर्णो ह्यत्र तपरोऽभिमतः, न भिस्। यदि चेह पञ्चमीतत्पुरुषः स्यात्, तर्हि भिस् तपरः स्यात्; यतस्तपरो वर्ण इहोच्यते, न चासौ वर्णः, किं तर्हि? तत्समुदायः। पञ्चमीतत्पुरुषे तु लिङ्गम् - <<वृद्धिरादैच्>> [[1.1.1]] इति तपरकरणम्। न ह्यत्र बहुव्रीहिर्युज्यते। यदि बहुव्रीहिः स्यात् तदाऽऽकारस्य तपरत्वं स्यात्,न चाऽऽकारार्थं तपरकरणम्, अपि त्वैजर्थम्। एतच्च तत्रैव प्रतिपादितम्। सवर्णस्येति वर्तते, वर्णस्य च सवर्णो न भवति, ननु वर्णसमुदायस्य; तस्मादविशेषाभिधानेऽपि वर्ण एव तपरो विज्ञायत इत्याह - `तपरो वर्णः` इति। तत्कालस्येति बहुव्रीहिः - स कालोऽस्येति। अयुक्तोऽयं निर्देशः। तथा हि - तच्छब्देन तपरः परामृश्यते, तपरश्च वर्णः। कालस्तु क्रियाविशेष इष्यते। तथा ह्रुक्तम् - आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे।भिन्नमावृत्तिभेदेन कालं कालविदो विदुः॥ (वा।प।3.9.76) इति।तत् कुतो वर्णक्रियाविशेषाभिधायिनोस्तपरकालशब्दयोः सामानाधिकरण्यम्? एवं तत्काल इव कालो यस्य स तत्काल इति। अस्यार्थं दर्शयितुमाह - `आत्मना` इत्यादि। यद्यपि तपरकरणसन्निधानादिहात्मशब्दस्य तत्र वृत्तिर्युक्ता; तथापीह साहचर्यात् तत्सहचरितायामुच्चारणक्रियायां कालाख्यायां स वर्तते। कुत एतत्? तपरेण वर्णेन क्रियायास्तुल्यत्वानुपपत्तेः। सम्भवति साहचर्यात् ताच्छब्द्यम्। तदेतदुक्तं भवति- तपर-वर्णसहचरितया क्रियया तुल्यकालस्येति यादृशी तपरवर्णस्योच्चारणक्रिया तादृगुच्चारण-क्रिया यस्येति यावत्। `गुणान्तरयुक्तस्य` इति। यन गुणेन धर्माख्येनोदात्तादिना विशिष्ट उच्चारितस्ततोऽन्यैरुदात्तादिभिर्गुणैः सम्बद्धस्येत्यर्थः।`स्वस्य च रूपस्य` इति। इहापि तदनुवृत्तेः। इहेदं सूत्रं नियमार्थं वा स्यात्? विध्यर्थं वा? यद्यणित्यनुवर्तते,ततः पूर्वेणैव `सिद्धे सत्यारम्भो नियमा-र्थो भवति` - (कात्य।प।62)तपरोऽण् तत्कालस्यैव ग्राहको भवति, नान्यस्येति।अथाणिति निवृत्तम्, ततो विध्यर्थम्।तत्राद्ये पक्षे `विड्वनोरनुनासिकस्यात्` [[6.4.41]] इत्याकारो दीर्घस्तपरोनिरनुनासिकः सूत्र उपात्तः `भेदका गुणाः` इत्यस्मिन् दर्शने सानुनासिकस्य ग्राहको न स्यात्; अनण्त्वात्। ततश्च निरनुनासिक एवादेशः स्यात्। इतरत्र तु पक्षे सत्यपि भेदकत्वे गुणानामेष दोषो न भवतीति मन्यमानो द्वितीयं पक्षमाश्रित्याह - `विध्यर्थमिदम्` इति। कथं विध्यर्थमित्याह - `अणिति नानुवर्तते` इति। `अणामन्येषां च ` इत्यादि। युक्तं यदन्येषामेव तपराणां ग्रहणकशास्त्रमिति तेषां पूर्वेण ग्रहणस्यासिद्धत्वात्। अणां तु पूर्वेणैव सिद्धे ग्राहकत्वे कथममित्यत आह - `अतो भिस ऐस्` इत्यादि।स्यादेतत्, इहापि तत् प्रवृत्तमेवानवकाशत्वादित्यत आह - `अत पराः` इत्यादि।<<आद्गुणः>> [[6.1.87]] इत्यादावतपरा अणोऽवकाशः।अस्य त्वनणस्तपरा दीर्घाः। यथा <<विड्वनोरनुनासिकस्यात्>> [[6.4.41]] इति। ये त्वणस्तपराः, तेषूभयप्राप्तौ परत्वादिदमेव ग्रहणकशास्त्रं प्रवर्तत इत्यभिप्रायः।`वृक्षै प्लक्षैः` इति। तृतीयाबहुवचनं भिस्।`अतो बिस ऐस्` ( [[7.1.9]] इत्यैसादेशः; वृद्धिरेचि` [[6.1.85]] इति वृद्धिः। `अब्जाः गोजाः` इति। `जनी प्रादु-र्भावे` (धातुपाठः-1149) अप्सु जायते, गोषु जायत इति - <<जनसनखनक्रमगमो विट्>> [[3.2.67]] ।`खट्वाभिः` इति। कतं पुनरेतत् प्रत्युदाहरणम्, यावता <<अन्तादिवच्च>> [[6.1.85]] इत्यन्तादिवद्भावे भवितव्यमेवात्रैस्भावेन, तपरकरणस्य तु य्तरैकादेशो नास्ति तद्वयवच्छेद्यं भविष्यति - `कीलालपाभिः, सोमपाभिः` इत्यादि? नैष दोषः; अन्तदिवच्च` [[6.1.82]] इत्यत्र वक्ष्यति - `वर्णाश्रयविधावन्तादिवद्भावो नेष्यते`इति। तथा हि - खट्वाभिरितद्यत्रान्तवद्भावाभावात् <<अतो भिस ऐस्>> [[7.1.9]] न भवतीति।अथ वा - `अतः` इत्यत्राकारद्वयप्रश्लेषः कृतः, श्रूयमाणादतो यथा स्यात्।", "11071": "स्वरूपविधिपरिहारायारम्भः।इदमपि संज्ञासूत्रम्। अनादिभूत वस्त्वपेक्ष्य तत्पूर्ववस्तुन आदित्वं न भवति, अन्त्यभूतं वस्त्वपेक्ष्य ततः परस्यान्त्यत्वम्। न चेहाद्यन्तयोः परस्परापेक्षे आद्यन्तत्वे युज्येते। एवं हि सति वस्त्वन्तरस्य संज्ञिनो भावादादिरन्त्येन सहितः स्वर्यैव संज्ञा स्यात्। ततश्च <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इत्येतस्येहानुवृत्तये स्वरितत्वासङ्गो वृता स्यात्। तस्मादाद्यन्तशब्दाभ्यां सामर्थ्यादाद्यन्तव्यतिरेकेण तन्मध्यपाति वस्तु संज्ञित्वेनाक्षिप्तमिति मत्वाह - `तन्मध्यपतितानाम्` इति। जाताविदं बहुवचनम्; अन्यथा ह्रेङ शब्द ओकारस्य संज्ञा न स्यात्। ननु चाद्यन्तशब्दाभ्यां नियतदेशावयवावभिधीयते, अवयवाश्चावयविनः समुदाय-रूपस्य सम्बन्धिन इति सम्बन्धिशब्दत्वादाद्यन्तशब्दाभ्यां तस्यैव संज्ञित्वेना-क्षेपो युक्तः। अकत एवं वक्तव्यम् - `तन्मध्यपतितानां समुदायस्य` इति। एवं मन्यते - यदयम् <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यादौ वर्णानां समुदाये परतो यकारं यणादेशं कृत्वा निर्देशं करोति, ततो गम्यते - न वर्णसमुदायः संज्ञीति, किं तर्हि? प्रत्येकं वर्णा एवेति; अन्यथा वर्णसमुदाये संज्ञिनि परतो वर्णमालां यणादेशं कृत्वा निर्देशं कुर्यादिति। असम्भवात् स न कृत इति चेत्, न; वर्णमालात्मन आदेशस्य सम्भवात्। तर्हि समुदाये संज्ञिनि कार्यमेव न सम्भवतीति चेत्, यदि च समुदाये परतः कार्यं न सम्भवति वर्णा एव प्रत्येकं सन्तु संज्ञिनः; तत्र कार्यं सम्भवति, किं समुदायेन? `टा` इत्यनेन ग्रहणं मा भूदिति। ननु च सोऽपि तावतोऽवधेरन्त एव, न;तावतोऽवधेरविवक्षितत्वात्। टकारो ह्रयम् <<टाङसिङसामिनात्स्याः>> [[7.1.12]] `द्वितीयाटौस्त्वेनः` [[2.4.34]] इत्यत्र तृतीयैकवचनस्य विशेषणार्थः, न तु प्रत्याहारार्थः।अथादिग्रहणं किमर्थम्? अन्त्येन सह समुदाय एव संज्ञा मा भूदिति, नैतदस्ति; `आवृत्तिधर्माणो हि संज्ञाशब्दा भवन्ति`। आदिरेव प्रदेशवाक्येष्वावर्तते, नसमुदायः; तस्मादन्तरेणाप्यादिग्रहणं सामर्थ्यादादेरेवान्त्यसहितस्य संज्ञात्वंविज्ञायते, न समुदायस्य। एवं तर्हि सामर्थ्यलब्धस्यैवार्थस्य विस्पष्टीकरणार्थमादि-ग्रहणम्।अथ सहग्रहणं किमर्थम्, यावता तृतीययैव सहार्थो गम्यते, यथा - `वृद्धो यूना` [[1.2.65]] इत्यत्र? नैतदेवम्; इत्थम्भूतलक्षणेऽपि तृतीयाऽस्ति। तस्यां च सत्यामादिरेवान्त्येनेत्संज्ञकेनोपलक्षितः संज्ञा स्यात्। ततश्च प्रदेशेष्वक इति, इक इति, अचि इति च समुदायाद्विभक्तिर्न स्यात्, निरर्थकत्वेनाप्रातिपदिक्तवात्। `सह` ग्रहणात् तु सहभूता संज्ञेति समुदायस्य संज्ञात्वेनार्थत्त्वात् प्रातिपदिकत्वे सतिविभक्तिर्लभ्यते।इद्ग्रहणं तु `अचि` इत्यत्रानित्संज्ञकेन `चटतव` इत्यनेन चकारेण संज्ञा मा भूदित्येवमर्थम्। अन्त्यत्वं तस्य पूर्ववत्, न समुदायापेक्षया। एवं तर्हि <<हलन्त्यम्>> [[1.3.3]] इतीत्संज्ञा प्राप्नोति, तदर्थं <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यत्र नेति योगविभागः कर्तव्यः।", "11072": "`स्वं रूपं शब्दस्येत्यस्यायमपवादः`। इदमपि संज्ञासूत्रम्। न तु परिभाषा। न ह्यत्र नियमरूपता परिभाषाधर्मो विद्यते। `येन` इति करमए तृतीया। विधीयते = अपूर्व एव क्रियते इति विधिः कर्मसाधनः; उपसर्गे घोः किः` [[3.3.92]] इति किप्रत्ययान्तः।तदन्तस्य` इति। सोऽन्तोऽस्येति बहुव्रीहिः। तदित्यनेन स एव करणभूतः शब्दः प्रत्यवमृश्यते। अनतशब्दोऽयमवयववाची, अवयवश्च समुदायस्य भवति। अतश्च तस्यैवेयंसंज्ञा विज्ञायत इत्याह - `समुदायस्य संज्ञा भवति` इति।`अवश्यलाव्यम्` इति। `अवश्यपाव्यम्` इति। `लूञ् छेदने` (धातुपाठः-1484), `पूञ् पवने` (धातुपाठः-1483) वृद्धौ कृतायाम् <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यावादेशः, मयूरव्यंसकादित्वात् समासः; `लुम्पेदवश्यमः कृत्येः` (काशिका।6.1.149) इति मकारलोपः।अथेह कस्मादेजन्तस् संज्ञा न सम्भवति, <<एचोऽयवायावः>> [[6.1.78]] इति? किञ्चस्यात्? `चयनं चायको लवनं लावकः` इत्यत्रानेकाल्त्वादयादयः सर्वादेशाः स्युः, नैष दोषः; `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इत्येच एव भविष्यन्ति, न सर्वस्यतदन्तस्य। अथ वा - अस्य योगस्यैवं विधो विषय एव न भवति, ततो नायमिह प्रवर्तते। तथा हि येनेति करणे तृतीयेत्युक्तम्, न चाकर्तृकं करणमस्तीति कर्ताप्याश्रितः। स पुनरिह सम्बन्धिशब्दत्वादन्तशब्देनावयववाचिना सन्निधापितः समुदायो विज्ञाप्यते। प्रकृतत्वात् स्वरूपं च कर्ता च त्रिभिः प्रकारैः सन्निहितो भवति। क्वचिन्निर्देशात् - `ईदूदेद्द्विचनम्` [[1.1.11]] इति, अत्र द्विवचनं कर्तृभूतं निर्दिष्टम्। तथा हीदादिभिः करणैः प्रगृह्रसंज्ञां विदधाति। क्वचित् प्रकरणात् - यथा `एरच्` [[3.3.56]] इति, अत्र `धातोः` [[3.1.91]] इत्यधिकाराद्धातुः प्रकरणात् कर्ता सन्निहितः। स इकारेण करणेनाचं विदधाति। क्वचिच् सामर्थ्यात् - यथा <<इको झल्>> [[1.2.9]] इति, अत्र धातोरेव सन् विधीयते, नान्यसमादिति सामर्थ्याद्धातुः कर्ता सन्निहितः; सइका करणेन सनः कित्त्वं विदधाति। तदेवम्, `ईदूदेद्द्विवचम्` [[1.1.11]] इत्यादौ कर्तृकरणयोरुभयोरपि विद्यमानत्वात् सोऽस्य सूत्रस्य विषय इति तत्र तदन्तविधिर्भवति। <<एचोऽयवायावः>> [[6.1.78]] इत्यत्र तु न केनचित् कर्ता सन्निहितः प्रकारेण, न चाकर्तृकं करणं सम्भवति;तस्मात् कर्तृकरणयोरुभयोरप्यसन्निहितत्वाननायमस्य सूत्रस्य विषय इति न सम्भवति तदन्तविधिः।`वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यायम् - `द्वितीया श्रित` 2.1.25) इत्यादौ सुपा श्रितादयो विशिष्यन्ते,न श्रितादिभिः सुप्। विशेषणेन चतदन्तविधिः, न विशेष्येण। यस्मादयेनेति करणे तृतीया, करणं च परतन्त्रं परार्थं भवति, न विशेष्यम्, तस्माद्विशिष्टैः श्रितादिभिस्तदन्तविधिर्न भवति। `नडादिभ्यः फक्` इति। अत्रापि प्रकृतेन प्रातिपदिकेन नडादयो विशिष्यन्ते, न नडादिभिः प्रातिपदिकमतोऽत्रापि नास्ति तदन्तविधिरिति।`उगिद्वर्णग्रहणवर्जम्` इति। उगिता वर्णेन च प्रातिपदिकं विशिष्यते।विशेषणेन च तदन्तविधिर्भवत्येव।`यस्मिन् विधिः` इत्यादि। तदन्तविधौ प्राप्ते तदादिविधिरुच्यते। यस्मिन्नि-ति सप्तमीनिर्दिष्टे तदादिविधिं दर्शयति। यत्राल्ग्रहणे सप्तमीनिर्दिष्टे पूर्वस्य विधिस्तत्र तदादौ वेदितव्यः। अलादावित्यर्थः। यदि तर्हि तत्रापि तदन्तिविधिः स्यात्, इहैव स्यात् - श्रियाविति,इह तु न स्यात् - `श्रियः` इति? तदादिविधौ तु सतीहापि भवति, स्वस्य च रूपस्येति श्रियावित्यत्रापि भवत्येव।", "11073": "`यस्येति समुदाय उच्यते` अचां मध्ये यस्यादिर्वृद्धिसंज्ञकस्तस्यैव शब्दरूपस्य संज्ञा विधीयते। तच्च नियोगतः समुदायात्मकमेवेति सामर्थ्याद् यस्येति सामान्यप-देनापि समुदाय एवाभिधीयते। संज्ञिनिर्देशार्थं यस्येति वचनम्। अचां मध्य इत्यादिना वृद्धिसंज्ञिनः समुदायादेकदेशस्य निर्धारणं दर्शयन्नचामित्यस्य निर्धारणषष्ठीत्वंदर्शयति। आदिशब्दस्त्विहोपक्रमे वर्तते, उपक्रमम्यते इत्युपक्रमः, प्रथमत उच्चारित इत्यर्थः। अचामिति बहुवचननिर्देशाद् यस् बहूनामचां मध्ये वृद्धिसंज्ञक आदिभूतः,तस्यैव वृद्धसंज्ञया भवितव्यम्; न तु यस्य द्वयोर्मध्ये इति चोद्यमपाकर्तुमाह - `अचाम्` इत्यादि।यदि तह्र्रचामिति निर्धारणषष्ठीयम्, एवं सति समानजातीयस्यैव निर्धारणं भवतीत्यचां मध्ये वृद्धिकोऽजेव यथा स्यादित्येषोऽर्थः स्यात्। तथा च सत्याकारोयस्यादिस्तस्य संज्ञा न स्यादाआलायन इत्यादेः, न ह्राकारस्य मुख्यमच्त्वमस्ति;अक्ष्वसन्निवेशात्। उपचरितं तु स्यात् ; <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्येनेनानचोऽपि सतोऽच्कार्यकरणात्। न च मुक्ये सति गौणस्याश्रयणं युक्तम्, गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययात्, नैष दोषः; व्याप्तेन्र्यायादाकारस्यापि गौणमच्त्वमाश्रित्य भविष्यति,अन्यथा ह्रैज्ग्रहणमेव कुर्यात्, न वृद्धिग्रहणम्। `शालीयः, मालीयः, इत्यादि। अत्र वृद्धसंज्ञायां सत्याम् `वृद्धाच्छः` श् [[4.2.113]] इति च्छो भवति।ननु च शालामालाशब्दयोः कापटुशब्दस्य च संज्ञया न भवितव्यम्, न ह्रेषां वृद्धिसंज्ञक आदिः,किं तर्हि? हल्,नैतदेवम्; विद्यमानोऽपि ह्यत्र हल् नापेक्ष्यते,अजपेक्षस्यादित्वस्याश्रयणात्। एतदेव ह्रज्ग्रहणस्य प्रयोजनम्। कतं नाम तदपेक्ष-यादित्वं विज्ञायेतेति? अन्यथा तत्र कर्तव्यमेव स्यात्। अज्ग्रहणे क्रियमाणे सत्यमर्थो भवति। अचां मध्ये यस्य यो वृद्धिसंज्ञकोऽजेवादिभूत इति। अन्येभ्योऽज्भ्यो यस्य वृद्धिसंज्ञकः प्रागुच्चार्यत इति यावत्। तेन शालाशब्दादेरपि संज्ञा सिध्यति।`साभासन्नयनः` इति। अत्र वृद्धिसंज्ञाभावादणेव भवति, न तु च्छः। यदि पुनरा-दिग्रहणं न क्रियेत ततो यस्याप्यचां मध्ये वृद्धिसंज्ञकः कश्चित् सभासन्नयनादेस्त-स्याप्येषा संज्ञा स्यात्। अत्र यद्यपि वृद्धिशब्दः श्रूयते, तथापि तल्लिङ्गकपरि-भाषा नोपतिष्ठते। यसमाद् यत्र नियतस्थानिके गुणवृद्धी विधीयते तत्र स्थानिनियमार्थासा व्याप्रियते। एतच्च प्रागेवोक्तम्। न चेह गुणवृद्ध्योर्विधानम्, अतो नात्र व्यापारस्तस्याः। तेन यस्याप्यनियतस्थानिको वृद्धिसंज्ञक आदिभूतः, तस्यापि संज्ञा सिद्धा भवति। `वा नामधेयस्य` इत्यादि। ये पुरुषैव्र्यवहाराय संकीत्र्यमानाः शब्दा देवदत्त इत्येवमादयः, तेषामेषा संज्ञा वेदितव्या। तेष्वेव नामधेयशब्दो रूढः,न तु ये जात्यादिनिमित्तका गवादिशब्दा अनादिव्यवहारान्तः पातिनस्तेषु। ननु चकाश्यादिपाठात् `काश्यादिभ्यः` [[4.2.115]] ठञ्ञिठाभ्यां भवितव्यम्, तदयुक्तं देवदत्तीय इति च्छप्रत्ययान्तस्योदाहरणम्, नैष दोषः; यो हि देवैदत्तो देवदत्त इतिक्रियानिमित्तको देवदत्तशब्दः, तस्यैव तत्र पाठः,न संज्ञाशब्दस्य। तेन संज्ञाभूताद्देवदत्त शब्दाद् यदा वृद्धसंज्ञा तदा छो भवति,अन्यथा त्वण्। `गोत्रान्तात्` इत्यादि। तथाऽसमस्तात्त केवलाद्गोत्रप्रत्ययान्ताद् वृद्धाच्छप्रत्ययो भवति तथा समस्ताद-वृद्धादपि। `घृतरौढिः` इति। `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपद-लोपश्च` (वा।83) इति समासः। एवमुत्तर रूढस्यापत्यम्, पाणिनस्यापत्यम् - `अत इञ्` [[4.1.95]] इतीञ्। बाह्वादिषु `सम्भूयोऽम्भसः सलोपश्च` (ग।सू।66) इति पठते।काश्यपशब्दो बिदादित्वादञन्तः। `जैह्वाकाताः, हारितकाताः` इति। कात्यशब्दो गर्गादियञन्तः। जिह्वाचपलः कात्यः, जिह्वाकात्यः। हरितभक्षः कात्यः हरितकात्यः, ताभ्यामौत्सर्गिक एवाण्, <<यस्येति च>> [[6.4.148]] इत्यकारस्य लोपः; <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति यकारस्य॥", "11074": "`उत्तरार्थम्` इति। उत्तरसूत्रेऽस्य प्रयोजनवत्त्वात् यद्यनुवर्तते,एतद-र्थमपि कस्मान्न भवतीत्याह - `इह न सम्बध्यते` इति। यदीहापि सम्बध्येत तदायमर्थःस्यात् - `त्यदादीनि यस्याचामादिभूतानि तद्वद्धम्` इति। ततश्च त्वत्पुत्र इत्यादावेव स्यात्, केवालानां च त्यदादीनां न स्यादित्यभिप्रायः। ननु च त्वत्पुत्रोमत्पुत्र इत्यादावुपसर्जनानि त्यदादीनि, उपसर्जनानां च तेषां त्यदादित्वंनिवर्तितम्, तत् कुतोऽयं प्रसङ्गः? यदि यस्याचामादेरित्येतदिह सम्बध्यते तदा सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात्, न केवलानामिति मन्यते; कथंपुनरिहानुवर्तमानं शक्यमसम्बन्धुम्? स्वसम्ब्नधानुवृत्तेः। <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति। `वृद्धिर्यस्याचामादिस्तद्वृद्धम्` इति तद्वृद्धम्, <<एङ् प्राचां देशे>> [[1.1.75]] यस्याचामादिग्रहणमनुवर्तते। वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिशब्देन सम्बन्धमनुवर्तमानं न शक्यते त्यदादिभिः सम्बन्धुम्। `त्वादायनिः, मादायनिः` इति। `उदीचां वृद्धादगोत्रात्` [[4.1.157]] इति फिञ्, <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति युष्मदस्मदोस्त्वामादेशौ। चकारोऽनुक्तसमुच्चयार्थः। तेन `वा नामधेयस्य` (वा।15) इत्यादि वक्तव्यं न भवति॥", "11075": "`प्राचां देशाभिधाने` इति। प्राचां सम्बन्धी यो देशस्तदभिधान इत्यर्थः। एतेन प्राचामिति देशविशेषणं न विकल्पार्थमिति दर्शयति। प्राचां मतेनेत्यस्याविवक्षितत्वादित्याख्यातं भवति। `एणीपचनीयः` इत्यादि। एणीपचन इत्यादिभ्यच्छः। `आहिच्छत्रः` इति, `कान्यकुब्जः` इति अहिच्छत्रकान्यकुब्जशब्दाभ्यामणेव भवति। `देवदत्तः` इति। वृद्धा-धिकारे विहितो <<वाहीकग्रामेभ्यश्च>> [[4.2.117]] इति ठञ्ञिठौ न भवतः, काश्यपादि-पाठादपि तौ न भवतः; क्रियानिमित्तको हि देवदत्तशब्दस्तत्र पठते संज्ञाशब्दस्य चेदं प्रत्युदाहरणम्। एतच्च यदा `वा नामधेयस्य` (वा। 15) इति वृद्धसंज्ञा नास्ति;तदा वेदितव्यम्। `गौमताः`इति। अत्र सर्वमस्ति न तु देशाभिधानम्। तथा हि गोमती नदी प्रग्देशे, न देशः। न हि नदी देशग्रहणेन गृह्रते;`नदीदेशोऽग्रामाः` [[2.4.7]] इत्यत्र नद्याः पृथग्ग्रहणात्।`एङ् प्राचां देशे` इति। `उदीचां वृद्धादगोत्रात्` [[4.1.157]] इत्येवमादिषु प्रागुदञ्चौ श्रूयेते, तयोश्च विभागो न विज्ञायते। अतस्तत्परिज्ञानायाह - `प्रागुदञ्चौ` इत्यादि। शरावती नाम नदी , तस्याः पूर्वेण व्यवस्थितो देशः प्राग्देशः, उत्तरेण उदग्देशः। तौ शरावती विभजते = विभागेन व्यवस्थापयति तस्यां हि मर्यादायां सत्यां तयोर्विभागः परिज्ञायते। किमर्थं विभजते? `विदुषां शब्दसिद्ध्यर्थम्` इति। पण्डितानां वैयाकरणानां शब्दव्युत्पत्त्यर्थम्। कतं विभजते? `हंसः क्षीरोदकं यथा`। क्षीरोदकमिति `जातिरप्राणिनाम्` [[2.4.6]] इत्येकवद्भावः। क्वचित् क्षीरोदके इति पाठः। सः `सर्वो द्वन्द्वो विभाषयैकवद्भवति` (व्या।प।91) इति वेदितव्यः। यथा हंसः क्षीरमुदकं च मिश्रीभावमुपगतं पृथगसङ्करेण व्यवस्थापयति, तथा शरावती प्रागुदञ्चौ। यत्-तदोर्नित्याभिसम्बन्दात् सेति वचनादनुक्तमपि येत्येतल्लभ्यते। या विभजते सा नोऽस्मान् पातु रक्षतु। प्रसिद्धस्तु पाठो यत्र श्लोके प्रागुदीचाविति, तत्राऽचः `उद ईत्` [[6.4.139]] इति भसंज्ञकस्योच्यमानः कथमीकारः? कथं च <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुम न भवतीति चिन्त्यम्। अत्र वर्णयन्ति - `अच्प्रत्यन्ववपूर्वात् सामलोम्नः` [[5.4.75]] इत्यत्राजितियोगविभागेनाच्प्रत्ययः कृतः, तेनात्राचि परतो भसंज्ञामीत्वं भवति। नुम् न भवति; अचा सर्वनामस्थानस्य व्यवहितत्वादिति।अनये तु प्रागुदीचमिति समाहारे कुर्वन्ति। तेषां `द्वन्द्वाच्चुदषहान्तात् समाहारे` [[5.4.106]] इति टचि समासान्ते कृते पूर्ववदीकारो नुमभावश्च भवति। क्वचित्तु प्रागुदीचेति पाटः। तत्रावयवदेशापेक्षया बहुत्वविवक्षायां बहुवचनम्।प्राग्देशानुदग्देशाश्च विभजत इत्यर्थः।श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायांकाशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यप्रथमः पादः", "12001": "अत्र पक्षत्रयं सम्भाव्यते - इत्संज्ञको वा ङकारोऽनेन भाव्यते,गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, इत्संज्ञको ङकार एषां सम्बन्धी भवतीति यावत्; एवं हि ते ङितो भवन्ति यदि हि तेषां ङकारोऽनुबन्धो विधीयते, नान्यथा; न हि विना चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति। ङिदितीयं वा संज्ञाऽनेन क्रियते, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङित्संज्ञका भवन्तीति यावत्। अतिदेशोऽयं वा स्यात्, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङिद्वद्भवन्तीत्यर्थः। तत्राद्ये पक्षे `गाङकुटादिभ्यः` इत्यनया पञ्चम्याऽञ्णिदित्यस्याः प्रथमायाः षष्ठआं परिकल्पितायां सत्याम्। <<आदेः परस्य>> [[1.1.54]] इति वचनादादेरलः स्थान आदेश एव ङकारः प्राप्नोति। द्वितीये तु पक्षे `अनिदितां हल उपधायः क्ङिति ` इत्यत्र संज्ञिनः संप्रत्ययो न स्यात्;शब्दभेदात्। अन्योहि ङिच्छब्दः, अन्यो हि क्ङिशब्दः।किञ्च, `ङिद्ग्रहणे ग्रह्रादौ` [[6.1.16]] सूत्र एषामेव संज्ञिनां ग्रहणंप्राप्नोति, न यङादीनाम् `कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः` (व्या।प।6) इति वचनात्। अथापि कथञ्चिदेते दोषाः परिहर्तुं शक्येरन्, आद्ययोः पक्षयोर्यस्तुतत्परिहारद्वारेण प्रवृत्तौ साध्यायां प्रतिपत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। तृतीये तु पक्षे न कश्चिद् दोष इति मत्वा तमेवाश्रित्याह - `अतिदेशोऽयम्िति।यद्येवम्, वतिना निर्देशः कर्तव्यः, अन्यथा तदर्थो नावगम्येत; नैतदेवम्, परपदार्थेषुहि प्रयुज्यमानाः शब्दावतिमन्तरेणापि वत्यर्थ गमयन्ति, यथा - सिंहो माणवकः,गौर्वाहीकः। गाङितीङादेशो गृह्रते - `इङश्च` [[2.4.48]] , `गाङ लिटि` [[2.4.49]] , विभाषा लुङ लृङो` [[2.4.50]] इति। गाङादेशो य इङः स्थाने वक्ष्यते तस्येदं ग्रहणम्, न `गाङ गतौ` (धातुपाठः-950) इत्यस्य। अथ `गाङ गतौ` (धा।प।950) इत्यस्य धातोग्र्रहणं कस्मान्न भवतीत्याह - `ङकारस्य` इत्यादि।इङादेशस्य यो ङकारस्तस्येदं प्रयोजनम् - इह सूत्रे तस्यैव ग्रहणं यथा स्यान्नान्यत् किञ्चिदात्नेपदार्थ स्यादिति चेत्? न; आत्मनेपदस्य स्थानमिवद्भावेनैव सिद्धत्वात्। तस्मादिङादेश एव गृह्रते; अन्यथा ङकारस्य वैयथ्र्यं स्यात्। ननु चोभयोरपि सामान्यग्रहणार्थो ङकारः स्यात्, तत् कुतो वैयर्थ्यम्नैतदस्त; यदि हि तौ समानौ स्यातां तदा सामान्यग्रहणार्थता तस्य, न च तौ समानौ; गत्यर्थस्य गाङो ङकारस्यात्मनेपदविधौ चिरार्थत्वात्। इतरस्य तु न क्विच्चरितार्थता। तस्मादसमानार्थत्वादयुक्तं सामान्यग्रहणमिति गाङादेश गृह्रते। किमर्थं पुनरिह उच्चार्यते, न गा इत्येवोच्येत? चैवं शक्यम्; एवं हि सति निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति `कै गै शब्दे` (धातुपाठः- 916-917) इत्यस्यैव ग्रहणं स्यात्। कुटादयो हि `कुट कौटिल्ये` (धातुपाठः-1366) इत्यत आरभ्य `कुङ शब्दे` (धातुपाठः-1401) इति यावदिति। तदनन्तरं वृत्करणात् ततोऽधिकानां कुटादित्वानुपपत्तेः।`अध्यगीष्ट` इति। सिचो ङित्त्वे घुमास्थागादि [[6.4.66]] सूत्रेणेत्त्वम्। अत्र हि <<दीङो युडचि क्ङिति>> [[6.4.63]] इत्यतः क्ङितीत्यनुवर्तते, `ईद् यति` [[6.4.5]] इत्यत ईदिति च। `अध्यगीषत` इति। <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः। अथ लिटि यो गाङादेशस्तस्य कस्मादुदाहरणं न प्रदर्शितम्? एवं मन्यते - लुङ एवायम्, नासाविह लिड्ग्रहणं प्रयोजयति; `अंसयोगाल्लिट् कित्` [[1.2.5]] इति वक्ष्यमाणेनैव सिद्धत्वात्। `उत्कुटिता` इति। `कुट कौटिल्ये` (धातुपाठः-1366)। `उत्पुटिता` इति। `पुट संश्लेषणे`(धातुपाठः-1367)। अथेहोच्चुकुटितषतीति सनो ङित्त्वादात्मनेपदं कस्मान्न भवति? उपदेशाधिकारात्। तत्र हि `उपदेशेऽजनुनासिकः` [[1.3.2]] इत्यत उपदेशग्रहणमनुवर्तते। न चात्रौपदेशिकं ङित्त्वम्, किं तर्हि? आतिदेशिकम्। `व्यचेः` इत्यादि। `व्यच व्याजीकरणे`(धातुपाठः-1293) इति तुदादौ कुटादिभ्यःप्राक् पठते। `विचिता` इति। ङित्त्वादिह ग्रह्रादिसूत्रेण [[6.1.6]] संप्रासरणम्। `उरुव्यचाः` इति। `सर्वधातुभ्योऽसुन्` (द।उ।9।49) इत्यसुन्प्रत्ययः। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः।", "12002": "`इडादिप्रत्ययः` इति। इट आदिर्यस्य तृजादेः स तथोक्तः।अथोत्त्मपुरुषस्यैकवचनस्येटो ग्रहणं कस्मान्न भवति, <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेनैव तस्य कित्त्वस्य सिद्धत्वात्?नैतदस्ति,यत्र हि तेन न सिद्ध्यति तत्रोत्तमपुरुषस्यैककवचनस्य ङित्त्वविधानार्थमिड्ग्रहणं स्यात्। क्व च तेन न सिद्ध्यति? आर्धुधातुक आशिषि लिङि - `उद्विजिषीय` इत्यत्र। अतो युक्तं चोत्तमपुरुषस्यैकवचनस्य ग्रहणम् नागमस्य;`अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।9), `प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्` (व्या।प।72) इति परिभाषाद्वयात्। अथापि कथञ्चिदागमस्येटो ग्रहणं स्यात्? एवमपि तन्मात्रस्यैव ङित्त्वं लभ्यते, न तु तदादेः प्रत्ययस्य, तत्किमित्याह - `इडादिप्रत्ययो ङिद्भवति ` इति? एवं मन्यते - <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इत्यत आदिग्रहणमनुवर्तते, तेन चेड् विशिष्यते। न चोत्तमपुरुषस्यैकवचनस्यादित्वमस्ति, किं तर्हि? आगमस्यैव; तस्मात् स एव गृह्रते। तस्य च केवलस्यादिभूतस्य ङित्वे प्रयोजनं नास्तीति सामर्थ्यादिडादेः प्रत्ययस्य ङित्त्वं विज्ञायत इति। `उद्विजिता` इति। ङित्त्वात् `पुगन्तलघुपधस्य` [[7.3.86]] इति गुणो न भवति।", "12003": "`प्रोर्णुविता` इति। ङित्वाद् गुणे प्रतिषिद्धे `अचि श्नुधातु` [[6.4.77]] इत्यादिनोवङादेशः॥", "12004": "`अपित्` इति। किमयं प्रसज्यप्रतिषेधः? उत पर्युदासः? किञ्चात्र? पूर्वस्मिन् पक्षे लोडुत्तमपुरुषस्यैकवचनस्य <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्याटि पिति कृते तुदानीत्यत्राड्विकरणाकारयोः पिदपितोरेकादेशः परं प्रति <<अन्तादिवच्च>> [[6.1.85]] इत्यादिद्भावात् पिद्ग्रहणेन गृह्रते इति पित्त्वम् , पित्त्वे च सत्यपिदिति ङित्त्वप्रतिषेधः स्यात्, ततश्च धातोर्गुणः प्रसज्येत। इतरत्र तु पक्षे `च्यवन्ते, प्लवन्ते` इत्यत्र शबन्तादेशाकारयोः पिदपितोर्य एकादेशस्तस्य पितोऽन्यत्वात् ङित्त्वमपाद्येत, ततश्च धातोर्गुणो न प्राप्नोति? पितोऽन्यत्वं त्वेकादेशस्य सर्वं प्रत्यादिवत्त्वात् परग्रहणेन ग्रहणात्, उच्यते,यथेच्छसि तथैवास्तु, उभयथाप्यदोषः। पूर्वत्र तावददोषः; यस्मादपितोरेव तुदानीत्यत्रैकादेशः, न पिदपितोः। तथा हि - <<आडुत्तमस्य पिच्च>> [[3.4.92]] लोडुत्तमपुरुषस्यैव पित्त्वं विधीयते, न त्वाटः। इतरत्राप्यदोषः, यस्मादपिदित्यनेन सार्वधातुकं विशिष्यते - पितोऽन्यत् सार्वधातुकमपिदिति। न चान्तशब्दाकारः सार्वधातुकम्, किं तर्हि? तदेकदेशः। यच्चात्र सार्वधातुकं न च तेन सहैकादेशः, येन सहैकादेशो न च तत्सार्वधातुकम्;तेन यद्यप्ययमेकादेशः पितोऽन्यः; तथापि सार्वधातुकं न भवतीति तत्कुतो ङित्त्वस्य प्रसङ्गः? अथ वा भवतु ङित्तवम्, सत्यपि तस्य ङित्त्वे तस्मिन् नास्ति गुणाभावप्रसङ्गः? यस्मात् `वार्णादाङ्गं बलीयः` (व्या।प।39) इति वचनादेशाद्धि प्रागेव `च्यवन्ते, प्लवन्ते` इत्यत्र गुणेन भवितव्यम्। `कुरुतः` इति। ततो ङित्त्वे सति विकरणस्य गुणो न भवति। करोतेरस्य <<अत उत् सार्वधातुके>> [[6.4.110]] इत्युत्त्वं भवति। तत्र हि `गमहन` [[6.4.98]] इत्यादिसूत्रात् क्ङितीत्यनुवर्तते॥", "12005": "धातोरेव लिड् विधीयते, नान्यस्मादिति लिटा सामर्थ्याद्धातुः सन्निधापितः; स चासंयोगग्रहणेन विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह - `असंयोगान्ताद्धातोः` इति। यदि तह्र्रसंयोगान्ताद्धातोः परस्य लिटः कित्त्वं विधीयते; तदा `ववृते, ववृधे` इति न सिध्यति, परत्वाद् गुणेन भवितव्यम्। कित्त्वस्यावकाशः - `ईजतुरीजुः` इति, गुणस्यावकाशः - `वर्त्तित्वा, वर्धित्वा इति; `ववृते,ववृधे` इत्यादावुभयप्राप्तौ परत्वाद् गुण एव स्यात्, नैतदस्ति; इष्टवाचित्वात्परशब्दस्य, कित्त्वमेवेष्टम्, कित्वमेव परम्, अतस्तदेव भविष्यतीत्यदोषः।अत्र च यदि `असंयोगात्` इति पर्युदास आश्रीयते, तदा संयोगादन्यस्मिन् गृह्रमाणे नञिवयुक्तन्यायेन (व्या।प।65) सदृशस्यैव ग्रहणं स्यात् - संयोगस्य सदृशो योऽन्योऽसहायो हल् इति हलन्तादेव कित्त्वं भविष्यति, नाजन्तात्,ततः `चक्रश्चक्रुः` इति न सिध्यति। तस्मात् प्रसज्यप्रतिषेधोऽयम्, न पर्युदासः - न चेत् संयोगात् यजादीनां किति` [[6.1.15]] इति किति विधीयते, न ङिति। `बिभिदतुः, बिभिदुः` इति। कित्त्वात् <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणाभावः। `सस्त्रंसे, दध्वंसे` इति। कित्त्वाभावात् `अनिदिताम्` [[6.4.24]] इत्यरनुनासिकल्लोपो न भवति। `स्त्रन्सु ध्वन्सु अधः पतने` (धातुपाठः- 754-755), अनुदात्तेत्वादात्मनेपदम्, <<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्येशादेशः। `बिभेदिथ` इति। सिप्,थल्, क्रादिनियमादिट्।", "12006": "`समीघे` इति। `ञीन्धी दीप्तौ`, (धातुपाठः- 1448) पूर्ववदात्मनेपदम्, एशादेशः, कित्त्वात् `अनिदिताम्` [[6.4.24]] इत्यादिनानुनासिकलोपः, द्विर्वचनम्, अकः सवर्णे दीर्घत्वं च [[6.1.97]] । अथ <<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इत्याम् कस्मान्न भवति? मन्त्रविषयत्वादस्य; तत्र च `अमन्त्रे` इत्यधिकारात। एवं तर्हि मन्त्रश्छन्द एवेति `च्छन्दस्युभयथा` [[3.4.117]] इति सार्वधातुकत्वम्, ततश्च सार्वधाकुमपित्` [[1.2.4]] इति ङित्त्वम्, अत एव ङित्त्वादनुनासिकलोपो भविष्यतीति तत् किमर्थमिन्धेःपरस्य लिटऋ कित्त्वं विधीयते? ज्ञापनार्थम्। एतदनेन ज्ञाप्यते- अनित्योऽयमामिति। नित्ये ह्रामि तेन व्यवधानादेवेन्धेः परो लिण्न सम्भवतीति कित्त्वविधानं नोपपद्यते; तस्मादनित्योऽयमामिति। तेन भाषायामपि `समीधे` इति प्रयोग उपपन्नो भवति।`बभूव, बभूविथ` इति। कित्त्वाद् यथाक्रमं वृद्धिगुणौ न भवतः।`भुवो वुग् लुङलिटोः` [[6.4.88]] इति वुक्। `भवतेरः` [[7.4.73]] इत्यभ्यासस्यात्त्वम्। ननु च कृतयोरपि गुणवृद्ध्योर्वुका भवितव्यम्, अकृतयोरपीति नित्यो वुक्; कृताकृतप्रसङ्गित्वात्, तत्र नित्यत्वाद् वुकि कृते गुणवद्धयोः प्राप्तिरेव नास्ति, भवतेरलघूपधत्वात्, अनजन्तत्वाच्चेति भवतिग्रहणमनर्थकम्? नैतदस्ति; `शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति` (व्या।प।100) इति वुगप्यनित्यः। ततश्च परत्वात् गुणवृद्ध्योः कृतयोर्वङ न स्यात्। तस्माद् भवतिग्रहणं कर्तव्यम्। अथ कृतयोरपि गुणवृद्ध्योरेकदेशविकृतमनन्यवद्भवतीति नास्ति शब्दान्तरत्वम्? एवं सति शक्यं भवतिग्रहणमकर्तुम्। तत् क्रियते विस्पष्टार्थम्।अथ `बभूव` इत्यत्र <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धेः कथं प्रतिषेधः, यावतेक इत्यनुवर्तते? क्ङिति च` [[1.1.5]] इत्यनेनेग्लक्षणा वृद्धिः प्रतिषिध्यते, न चेयमिग्लक्षणा वृद्धिः, निर्दिष्टस्थानिकत्वात्। अत्र कित्त्वविधानसामर्थ्यादनिग्लक्षणा अपि वृद्धेर्भविष्यति प्रतिषेधः; अन्यथा कित्त्वविधानमनर्थकं स्यादिति चेत्, न; तस्य थल्युत्तमणलि च गुणुप्रतिषेधार्थत्वात्। एवं तर्हि ङिद्ग्रहणमप्यनुवर्तते, तदनुवर्तमाने न विद्यमानमन्यत् प्रयोजनम्, तेनानिग्लक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति। `इन्धेः संयोगार्थं (ग्रहणम् - काशिका) वचनम्` इति। तस्य संयोगान्तत्वात् पूर्वेणासिद्धेः। `भवतेः पिदर्थम्` इति। नापिदर्थम्; तस्यासंयोगान्तत्वादपिदिति पूर्वेण सिद्धेः। भवतेरिह श्तिपा निर्देशो यङलुग्निवृत्त्यर्थः - यङलुगन्तल्लिटः कित्त्वं मा भूदिति। `बोभाव` इति। तथा चोक्तम् - श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च।यत्रैकाज्ग्रहणं किञ्चित् पञ्चैतानि न यङलुकि॥ (पु।प।94) इति। `अन्थिग्रन्थि` इत्यादि। `श्रन्थ ग्रन्थ सन्दर्भे` (धातुपाठः-1512,1513), `दम्भ,द्म्भे` (धातुपाठः- 1290) `ष्वन्ज परिष्वङ्गे` (धातुपाठः-973) एषामपि श्रन्थिग्रन्थिप्रभृतीनां लिटः कित्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - चकारोऽनुक्तसमुच्चयार्थः क्रियते, तेन श्रन्थिप्रभृतीनामपि संयोगान्तानां लिटः कित्त्वं भविष्यतीति। `श्रेथतुः` इत्यादि। कित्त्वात् `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः। `तृफलभजत्रपश्च` [[6.4.122]] इति चकारस्यानुक्तसमुच्चयार्थत्वादनेकहल्मध्यस्याप्येत्वाभ्यासलोपौ। `परिषस्वजे` इति। अनुदात्तेत्त्वादात्मनेपदम्। पूर्वस्य सकारस्य `स्थादिष्वभ्यासेन चाभ्यासस्य` [[8.3.64]] इति वर्तमाने, `उपसर्गात् सुनोति` [[8.2.65]] इत्यादिना षत्वम्। परस्य तु सकारस्य `सदिस्वञ्जयोः परस्य लिटि` इति षत्वप्रतिषेधः।", "12007": "`मुड सुखने`, (धातुपाठः-1516) `मृद क्षोदे` (धातुपाठः-1515) , `गुध रोषे ` (धातुपाठः-1517) , `कुष निष्कर्षे` (धातुपाठः-1518) `क्लिशू विबाधने` (धातुपाठः-1522), `वद व्यक्तायां वाचि` (धातुपाठः- 1009), `वस निवासे` (धातुपाठः-1942)। `न क्त्वा सेट् इति कित्त्वप्रतिषेधं वक्ष्यति` इति। नन्वेदतदेव नियमार्थं भविष्यतीति - मृडादिभ्य एव सेट् क्त्वा किद् भवति, नान्येभ्य इति, ततश्च सिद्धं देवित्वा, सेवित्वेत्यादि, तत् किमर्थं <<न क्त्वा सेट्>> [[1.2.18]] इति प्रतिषेधं वक्ष्यतिर? विस्पष्टार्थम्; अन्यथा हि केचिद्विपरीतनियमं सम्भावयेयुः - मृडादिभ्यः क्त्वाप्रत्यय एव किद् भवति, नान्य इति। `पुरस्तादपकर्षः` इत्यादि। अपकर्ष इत्यपवाद इत्यर्थः। `क्लिशित्वा` इति। <<क्लिशः क्त्वानिष्ठयोः>> [[7.2.50]] इतीट्। `उदित्वा`इति, `उषित्वा` इति। वच्यादिसूत्रेण [[6.1.15]] संप्रसारणम्। वसतेः `शासिवसिधसीनाञ्च` [[8.3.60]] इति षत्वम्, `वसतिक्षुधोः` [[7.2.52]] इतीट्।", "12008": "`रुदिर् अश्रुविमोचने` (धातुपाठः-1067), `विद ज्ञाने` (धातुपाठः-1064), `मुष स्तेये` (धातुपाठः-1530), `ग्रह उपादाने` (धातुपाठः-1533), `ञिष्वप् शये (धातुपाठः- 1068) `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413)। `ग्रहेर्विध्यर्थमेव` इति। `न क्त्वा सेट` [[1.2.18]] इति प्रतिषिद्धस्य कित्त्वस्य पुनर्विधिर्यथा स्यात्। `स्वपिर्विध्यर्थमेव` इत्यादि। `सन्नर्थम्` इति। अथ क्त्वार्थं वचनं कस्मान्न भवतीत्याह - `किदेव हि क्त्वा` स्वपिप्रच्छयोर्हि `एकाच उपदेशेऽनुदात्तात्` [[7.2.10]] इतीट्प्रतिषेधात् क्त्वा सेड् न भवतीत्यतः <<न क्त्वा सेट्>> [[1.2.18]] इति निषेधो न प्रवर्तते। तेन किदेव हि क्त्वेति। `रुदित्वा` इति। <<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वा। `गृहीत्वा` इति। <<ग्रहोऽलिटि दीर्घः>> [[7.2.37]] ग्रह्रादिसूत्रेण [[6.1.16]] संप्रासरणम्। `जिघृक्षति` इति। `हो ढः` [[8.2.31]] इति तत्वम्, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्; `एकाचो बसो भष्` [[8.2.37]] इत्यादिना गकारस्य घकारः, <<सनि ग्रहगुहोश्च>> [[7.2.12]] इतीट्प्रतिषेधः। `सुषुप्सति` इति। वच्यादिसूत्रेण [[6.1.15]] संप्रसारणम्। `पिपृच्छिषति` इति। अत्रापि ग्रह्रादिसूत्रेण [[6.1.16]] संप्रसारणम्; `छे च` [[6.1.71]] इति तुक्, <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्॥", "12009": "`क्त्वेति निवृत्तम्` इति। झलादेः क्त्वाप्रत्ययस्यौपदेशिकं कित्त्वमस्त्येवेति तदनुवृत्तेरपार्थकत्वात्। सन्ग्रहणन्तु प्रथमान्तमिहानुवर्तते, तस्य झलित्यनेन सामानाधिकरण्यमुपपन्नम्। अतः सामर्थ्यात् तदादिविधिर्विज्ञायत इत्यत आह - `झलादिः सन् किद्भवति` इति।अथ तदन्तविधिः कस्मान्न भवति - झलन्तः सन्निति? एवं मन्यते - वृद्धसंज्ञा [[1.1.72]] सूत्रादिहादिग्रहणमनुवर्तते, तेन झल् विशिष्यते; तस्मात् तदादिविधिरेव विज्ञायिते, न तदन्तविधिरिति। यदि पुनस्तदन्तविधिः स्यात् तदा किं स्यात्? यत्रातो लोपे कृते झलन्तत्वं सनस्तत्रैव स्यात् - चिकीर्षितेत्यादौ; चिकीर्षतीत्यादौ तदु न स्यात्, अदन्तत्वात्। अदन्तत्वन्तु सञ्शबकारयोद्र्वयोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावात्।अथेक इति `इक् स्मरणे` (धातुपाठः-1047) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? झलिति प्रत्याहारस्यैव युक्तत्वात्; किञ्च - गर्गादिषु जिगीषुशब्दपाठाच्च। धातुग्रहणे हि सति जयतेः परस्य सनः कित्त्वं न स्यात्, तथा च जिगीषुशब्दो न सिद्ध्येत्। किञ्च - धातुग्रहणे हि सतीको धातोः समीपगतो हल् न सम्भवतीति <<हलन्ताच्च>> [[1.2.10]] इत्येदप्यघटमानं स्यात्। तस्मात् प्रत्याहारस्यैव ग्रहणं न्याय्यम्, न धातोः। `चिचीषति` इति। <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः। `एकाचः` [[7.2.10]] इत्यादिना पूर्वोक्तेनेट्प्रतिषेधः। उत्तरत्रापि यत्रेटः श्रवणं नास्ति, तत्राप्यनेनैव प्रतिषेधो वेदितव्यः। यत्र तु विशेषोऽस्ति, तत्रासौ वक्तव्य एव। `तुष्टूषति`इति। <<शर्पूर्वाः खयः>> [[7.4.61]] इति खयः शेषः। `शिशयिषते` इति। <<पूर्ववत् सनः>> [[1.3.62]] इत्यात्मनेपदम्। एवमुत्तरत्रापीच्छासन्नन्तादात्मनेपदमनेनैव बोद्धव्यम्।`किमर्थ पुनः` इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। `गुणो मा भूत्` इति। यदर्थमिदमुच्यते तदाह। येनाभिप्रायेण पृष्टवांस्तमाविष्कर्तुमाह - `अज्झनगमां सनि` इत्यादि। यदि दीर्घत्वे कृतेऽपि गुणः स्यात् तदा दीर्घत्वस्य वैयथ्र्यं स्यात्। तस्मान्मा भूतस्य वैयथ्र्यमिति दीर्घत्वं तद्गुणस्य बाधकं भविष्यतीति। अत्र दोषमापादयितुमाह - `यथैव तर्हि` इत्यादि। असति कित्त्वेऽनवकाशं दीर्घत्वं यता गुणस्य बाधकं भवति, तथा - `तस्मात्` इत्यादि। यत एवमनारभ्यमाण एतस्मिन्नेष दोषोऽनुषज्येत, तस्माद्दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। अथारभ्यमाणेऽप्येतस्मिन् कस्मादेष दोषो न भवतीत्यत आह - `चिचीषति` इत्यादि। कित्त्वे सति तेनैव गुणस्य बाधितत्वात्। चिचीषति, तुष्टूषतीत्यादिषु सावकाशं दीर्घत्वं भवति; तेन च परत्वाण्णिलोपो न बाध्यते। न हि कित्त्वे सति शक्यमेवं वक्तम् - यथा दीर्घत्वं गुणं बाधते, तथा णिलोपमपीति; यस्मान्न गुणो दीर्घत्वेन बाध्यते,किं तर्हि? कित्त्वेन। अत्र दीर्घत्वस्यावकाशो दर्शितः णिलोपस्य त्वेषोवकाशः- पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्यादि; ज्ञीप्सतीत्यत्रोभयप्राप्तौ दीर्घत्वं बाधित्वा परत्वात् णिल#ओप एव भवति। `ज्ञा अवबोधने` (धातुपाठः-1507), `मारणतोषणमनिशामनेषु` (धातुपाठः-811), `मिच्च` (धातुपाठः-1624)इति चुरादिपाठाण्णिच्। `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्। `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वत्वम्। अन्ये तु - `ज्ञप मारणतोषणनिशामनेषु` (धातुपाठः-1624) इति पठन्ति, ततो णिच्, तत इच्छासन्, `सनीवन्तद्र्ध` [[7.2.49]] इत्यादिना पक्षे इडभावः, क`आप्ज्ञपृधामीत्` [[7.4.55]] इतीत्वम्, <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यभ्यासलोपः। त<<णेरनिटि>> [[6.4.51]] इति णिलोपः।`इकः कित्त्वम्` इत्यादि। अथ किमर्थमिक उत्तरस्य सनः कित्त्वं विधीयते, किमर्थमिको झलिति योगविभागः क्रियते, नन्वेकमेवेदं सूत्रं पठितव्यम्, `इको झल् हलन्ताच्च` इति? प्रयोजनमाह - `गुणो मा भूत्` इति। चिचीषतीत्यादौ <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः प्राप्नोति, स मा भूदित्येवमर्थं कित्त्वं विधीयते। नैतदस्ति प्रयोजनम्; यस्मात् <<अज्झनगमां सनि>> [[6.4.16]] इति नाप्राप्ते गुणे दीर्घत्वमारभ्यते, अतो दीर्घारम्भाद् गुणो न भविष्यतीति; अन्यथा हि दीर्घग्रहणमनर्थकं स्यात्। ननु च चुकूषते इत्यत्र दीर्घवचनस्य सार्थकत्वम्, अत्र हि गाङकुटादिसूत्रेण [[1.2.1]] ङित्त्वे सति गुणो न प्रवर्तते, नैतदस्ति; न ह्रेकमुदाहरणं प्रति योगारम्भं प्रयोजयति। यदि ह्रेतत् प्रयोजनमभिमतं स्यात्, णिग्रहणमेव कुर्यात्। समुदायामात्रादपेक्षया वा `पुरस्तादपदादाः` इत्यादिका परिभाषा नास्त्येवेति।", "12010": "इक इत्यनुवर्तते। अत्र यदि चान्तशब्दोऽवयववाची स्यादिको हला सह सम्बन्धोन स्यात्, न हीको हलवयवः सम्भवति। यो हि येनारभ्यते, अपृथग्देशभूतः स तस्यावयवो भवति; यथा - पटस्य तन्तव इति। न च हलेगारभ्यते, तस्मान्नायमन्तशब्दोऽवयववाची; अपि तु समीपवचनो युक्त इति मत्वाऽऽह - `समीपवचनोऽऽयमन्तशब्दः` इति। ननु च धातुरत्र सामर्थ्यादाक्षिप्तः, अत्सतदपेक्षया हलोऽवयवत्वं भविष्यति, नैतदस्ति; एवं तह्र्रन्तशब्दोऽतिरिच्येत, `येन विधिस्तदन्तस्य` (1.1.730 इत्यनेनैव तदन्तविधेर्लब्धत्वात्। हल् चासावन्तश्चेति विग्रहविशेषेण कर्मधारयत्वं दर्शयति। कस्य पुनरसावन्तः? प्रकृतस्येकः। यद्येवम्, सापेक्षमसमर्थं भवतीतिकमपेक्षमाणस्यान्तशब्दस्य समासो नोपपद्यते, नैष दोषः; अन्तशब्दो ह्यत्र प्रधानः। भवति च प्रधानस्य सापेक्षस्यापि समास #इति द्वितीयेऽध्याये ज्ञापयिष्यति <<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> [[2.1.56]] इत्यत्र सामान्याप्रयोगग्रहणेन।`इगन्तात्िति। षष्ठीसमासोऽयम्। ननु चेक इति पञ्चम्यन्तं प्रकृतम्, तत् कथं षष्ठीसमासः? नैष दोषः; यद्यपि पञ्चम्यन्तं प्रकृतम्, तथापीह समीपसमीपिसम्बन्धेसति विभक्तिविपरिणामेन षष्ठन्ततामनुभवति - `इकः समीपगतात्` इति। इकः समीपवर्तिन इति। `बुभुत्सते` इति। `बुध अवगमने` (धातुपाठः-1172), `एकाचो बशो भष्` [[8.2.37]] इत्यादिना भष्भावः। एवमुत्तरत्रापि यत्र भष्भावस्तत्रानेनैव बोद्धव्यः। `खरि च` [[8.4.54]] इति चर्त्वम् = धकारस्य तकारः। `यियक्षते` इति। यजेव्र्रश्चादिना [[6.1.15]] इत्यादिना संप्रसारणं न भवति। यदि समीपवचनोऽमन्तशब्दस्तदा दम्भेः परस्य सनः कित्त्वं न सिध्यति। तथा हि - तस्य य इकः समीप गतो हल् न तस्मात् परः सन्, यस्मात् परः सन् नासाविकः समीपगत इत्यत आह - `दम्भेः` इत्यादि। हलित्यनेन हल्जातिरुच्यते, न तु व्यक्तिः। तेन यदा `ता एव व्यक्तयस्त्यक्तभेदा जातिः` इति दर्शनम्; तदा तासां व्यक्तीनां हल्त्वेनाश्रितानां नास्ति व्यवधानम्। अतो यैव हल्जातिरिकः समीपवर्तिनी तत एव परः सन्निति दम्भेर्विहितस्य सनः कित्त्वं सिद्धमेव। यदाप्यर्थान्तरभूता जातिव्र्यक्तिषु प्रत्येकं परिसमाप्ता निरवयवैका, तदापि नास्ति व्यवधानम्; यस्माद्व्यक्तिव्र्यक्त्यन्तरस्य व्यवधायिका भवति, न तु जातेः; तस्या अशरीरिणीत्वात्। तस्मादिहापि दर्शने यैव हल्जातिरिकः समीपगता तत एव परः सन्निति दम्भेः परस्य सनः कित्त्वं भवति। तस्यास्तु व्यक्तिव्यतिरिक्ताया जातेर्यदिकमपेक्ष्य समीपवर्तिनीत्वम्, यच्च तज्जातिमपेक्षमाणस्य सनः परत्वम् - तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिरपीकः समीपगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन्, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति। नापि जात्यपेक्षं सनः परत्वम्; तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिपीकः समपीगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति नापि जात्यपेक्षं सनः परत्वम्; जातेरशरीरिणीत्वात्। यदि तर्हि व्यक्तिद्वारकमेतदुभयम्? एवं तर्हि विपर्ययोऽपि व्यक्तिद्वारकः स्यात्। भकारव्यक्तिरिकः समीपगता न भवतीति जातिरपि न स्यात्; नकारव्यक्तेः परः सन् न भवतीति जातेरपि न स्यात्, ततश्च हल्ग्रहमस्य सत्यपि जातिवाचकत्वे दम्भेः परस्य सनः कित्त्वं न सिध्यत्येव? नैतदस्ति; यद्यपि जातेव्र्यक्तिद्वारकमिकः समीपवर्तिनीत्वं तद्विपर्ययश्च, सनोऽपि यद्यपि व्यक्तिद्वारकं जात्यपेक्षं परत्वंतद्विपर्ययश्च; तथापि यदत्र हल्त्वसामान्यस्येकः समीपगतत्वं यदपेक्षञ्च सनः परत्वं तदाश्रयं कित्त्वं भविष्यतीति विपर्ययस्तु विद्यमानोऽपि नापेक्ष्यत एव, लक्ष्यानुरोधात्। ननु च हल्त्वं नाम जातिर्नासत्येव, तथा हि - हलिति संज्ञाशब्दः संङ्केतवशादेव प्रवर्तते डित्थादिशब्दवत्। न हि यथा गवादिषु गोत्वादिकं नाम सामान्यमभिन्नमस्ति, तथा हकारादिषु वर्णेषु हल्त्वं नाम सामान्यमभिन्नमस्तीति शक्यमभ्युपगन्तुम्; तन्नबन्धनस्याभावात्। ततश्चायुक्तमुक्तम् - दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्त सिद्धमिति, नैतदस्ति; जातिपदार्थवादिनां मते येऽपि तावदेकवस्त्वभिधायिनः संज्ञाशब्दा देवदत्तादयस्तदर्थानामप्यवस्थाभेदे परिकल्पितानानात्वेन जातिरभ्युपगम्यते, किं पुनर्हलित्येवमादीनामनेकवर्णविषयाणां संज्ञाशब्दानाम !अन्यथा ह्रतिव्यापिनी शब्दार्थस्य व्यवस्था स्यात्। इदञ्च तावद्भवान् प्रष्टव्यः - गवादिषु जातेरस्तित्वस्य किं निबन्धनं येनासौ तत्राभ्युपगम्यत इति? भिन्नेष्वभिन्नाभिधानप्रत्ययाविति चेत्, एतावितरत्रापि समानौ।यथैव हि गवादिषु भिन्नेष्वपि प्राक् सह्केतादुत्तरकालमनुयायिनौ तौ भवतः, तथा हकारादिष्वपि। प्राक् सङ्केताद्यथा तेषु तौ न भवतस्तथा गवादिष्वपि। तस्माद् यौ भिन्नेष्वभिन्नाभिधनाप्रत्ययौ जातिसद्भावसम्प्रत्ययहेतुभूतौ हल्ष्वपि स्त इतितत्रापि हल्त्वं नाम जातिरभ्युपेया, न तु गवादिष्वेव गोत्वादिकमस्तीत्येकान्त एव। `धिप्सति, धीप्सति` इति। `सनीवन्तर्ध` [[7.2.49]] इत्यादिना यत्र पक्ष इण् नास्ति तत्रेदमुदाहरणम्। <<दम्भ इच्च>> [[7.4.56]] इतीत्त्वम्, ईत्त्वञ्च, <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यभ्यासलोपः। `खरि च` [[8.4.54]] इति चर्तम् = भकारस्य पकारः।कित्त्वे सति `अनिदिताम्` [[6.4.24]] इति न लोपः। दकारस्य भष्भावेन धकारः॥", "12011": "`लिङसिचावात्मनेपदेषु परतः`इति। कथं पुनर्लिङात्मनेपदेषु परतो भवति, यावता सिच एवात्मनेपदेषु परत्वं सम्भवति, न लिङः? एवं मन्यते - लिङेकदेशेऽत्र सीयुटि लिङशब्दो वर्तते, यथा - <<न धातुलोप आर्धधातुके>> [[1.1.4]] इत्यत्र धात्वेकदेशे धातुशब्दो वर्तते। तस्मात् सीयुट एवानेन प्रकारेण कित्त्वं विधीयते। अथ वा - यथा हल्ङ्यादिसूत्रे [[6.1.66]] ययोरेव दीर्घत्वं सम्भवति तयोरेव ङ्यापो दीर्घादित्येतद्विशेषणम्, तथेहापि यस्मादात्मनेपदं परं सम्भवति सिचः, तस्यैवैतद्विशेषणम्। आत्मनेपदग्रहणं भवति परस्मैपदव्यवच्छेदार्थम्। `भिस्तीष्ट`इति। `आशिषि लिङलोटौ` [[3.3.173]] इति लिङ्; स्वरितत्वादात्मनेपदम्। एवमुत्तरत्रापि स्वरितञितः कत्र्रयात्मनेपदमनेनैव वेतितव्यम्। `सुट तिथोः` [[3.4.107]] इति सुट्। कर्तरि श्नम्, `लिङ सलोपोऽनन्त्यस्य` [[7.2.79]] इति च न भवति, <<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकत्वात्, तयोश्च सार्वधातुके विधानात्। `भुत्सीष्ट` इति। बुधेः `अनुदात्तङितः` [[1.3.12]] इत्यात्मनेपदं वेदितव्यम्। उत्तरत्राप्यनुदात्तङिद्भ्यः कर्तर्यात्मनेपदमनेनैव वेदितव्यम्। `अभित्त` इति। `झलो झलि` 8.2.26) इति सिचो लोपः। `अबुद्ध` इति। <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः, <<झलां जश् झशि>> [[8.4.53]] इति पूर्वधकारस्य दकारः। `यक्षीष्ट` इति। स्वरितेत्त्वादात्मेपदम्। पूर्ववत् षत्वं कत्वञ्च। `संप्रसारणं हि स्यात्` इति। वच्यादिसूत्रेण [[6.1.15]] ।`अद्राक्षीत्` इति। `अस्ति सिचोऽपृक्ते` [[7.3.96]] इतीट्, <<वदव्रजहलन्तस्याचः>> [[7.2.3]] इति वृद्धिः। पूर्ववत् षत्वकत्वे॥", "12012": "लिङसिचाविहानुवर्तमानौ धातुं सन्निधापयतः, तत एव तयोर्विधानात्। न च ऋकारेण विशिष्यते। <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति ऋकारेण तदन्तविधिर्विज्ञायत इत्याह - `ऋकारान्ताद्धातोः` इत्यादि। अथ `ऋ गतौ` (धातुपाठः-1098) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? शैलीहेयमाचार्यस्य यत्र यस्य धातोग्र्रहणमिच्छति तत्र यस्य श्तिपा निर्देशः करोति, यथा - `अर्तिपिपत्र्योश्च` [[7.4.77]] `सर्तिशास्त्यर्तिभ्यश्च` [[3.1.56]] इति, न चेह श्तिपा निर्देशः कृतः; तस्मादृवर्ण्सयैवेदं ग्रहणम्, न धातोः। `अकृत` इति। `ह्रस्वादङ्गात् [[8.2.27]] इति सिचो लोपः। `वरिषीष्ट` इति। वृङो वृञो वैकस्य रूपम्। `लिङसिचोरात्मनेपदेषु` [[7.2.42]] इतीट्।", "12013": "`संगसीष्ट` इति। `समो गमृच्छि` [[1.3.29]] इत्यादिनात्मनेपदम्। `समगत` इति। ह्रस्वाङ्गात्` [[8.2.27]] इति सिचो लोपः।", "12014": "`आहत` इति। <<आङो यमहनः>> [[1.3.28]] इत्यात्मनेपदम्। पूर्ववत् सिचो लोपः। `आहसत` इति। `आत्मनेपदेष्वनतः` (7.1.5 इत्यदादेश-। अथ सिज्ग्रहणे प्रकृते पुनः सिज्ग्रहणं किमर्थं क्रियत इत्याह - `सिज्ग्रहणं लिङनिवृत्यर्थम्` इति। प्रकृतं हि सिज्ग्रहणं लिङा सह सम्बद्धम्, अतस्तदनुवृत्तौ सत्यां तस्याप्यनुवृत्तिराशङ्क्येत; तस्मात् तन्निराकर्तुं सिज्ग्रहणं क्रियते। ननु च हन्तेलिङि वधादेशेन भवितव्यम्; न च तत्र सत्यपि कित्त्वे किञ्चिदनिष्टमापद्यते, तत् कस्माल्लिङनिवृत्त्यर्थं सिज्ग्रहणं क्रियत इत्यत आह - `उत्तरत्र` इत्यादि। यद्यत्र लिङनुवर्तते तत उत्तरत्र तस्यानुवृत्तिः स्यात्, ततश्चोत्तरसूत्रेण तस्यापि कित्त्वं स्यादित्यभिप्रायः।इह तु वृत्तावात्मनेपदेन सिज् न विशेष्यत इत्यात्मनेपदं निवृत्तमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - `आत्मनेपदग्रहणम्` इत्यादि। इहापि कस्मान्न भवतीत्यत आह - `इह तु` इत्यादि। `लुङि च` [[2.4.43]] इति हन्तेः परस्मैपदेषु लुङि वधादेशः क्रियते, स च नित्यः। नित्यत्वन्तु तस्य <<आत्मनेपदेष्वन्यतरस्याम्>> [[3.1.54]] इत्यत्तरसूत्रेऽन्यतरस्यां ग्रहणात्। नच नित्ये वधादेशे कित्त्वस्य किञ्चित् प्रयोजनमस्ति अतो नेहात्मनेपदस्यानुवृत्तिरुपपद्यते।अथ किमर्थं हन्तेः परस्य सिचः, कित्त्वं विधीयते, यावता <<सार्वधातुकमपित्>> [[1.2.4]] इति सिचः परस्य सार्वधातुकस्य ङित्त्वमस्त्येव? तत्र `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः सिद्धः। सिच इदित्त्वान्न सिध्यतीति चेत्? न; सिच इकारस्योच्चारणार्थत्वात्। तथा हि <<च्लेः सिच्>> [[3.1.44]] इत्यत्र वक्ष्यति - `इकार उच्चारणार्थः` इति। एवमपि च्लेरिदित्वात् सिचोऽपि स्थानिवद्भावेनेदित्त्वमतो न सिध्यतीति चेत्, न ; च्लेरकारस्योच्चारणार्थत्वात्। तथा हि <<च्लि लुङि>> [[3.1.43]] इत्यत्र वक्ष्यति - `इकार उच्चारणार्थः` इति। एवं तर्हि सिद्धे ङित्त्वे सति यत् पुनरिह हनः सिजिति सिचः कित्त्वं विदधाति तज्ज्ञापयति - बाह्र सार्वधातुकमाश्रित्य सिजन्तस्य `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपो न भवतीति; तेनारंस्त,अमंस्त आयंस्त पादमिति सिद्धं भवति; अन्यथा ह्रनुनासिकलोपे कृत आयतेत्यनिष्टं रूपं स्यात्।", "12015": "ननु च `यम उपरमे` (धातुपाठः-984) इति पठते, तत् कथमयं गन्धने वर्तते, इत्यत आह - `अनेकार्थत्वात्` इति। <<आङो यमहनः>> [[1.3.28]] इत्यत्र <<अकर्मकाच्च>> [[1.3.45]] इत्यतोऽकर्मकग्रहणमनुवर्तते। तत् कथमिह सकर्मकत्वे सत्यात्मनेपदमित्यत आह - `सकर्मकत्वेऽपि इत्यादि। सकर्मकत्वन्तु पदादेः क्रमणोऽत्र विद्यमानत्वात्। `उदायंस्त पादम्` इति। आकृष्टवानित्यर्थः॥", "12016": "`दारकर्म` इति। कर्मशब्दः क्रियावाची। दारक्रियेत्यर्थः॥17। स्थाघ्वोरिच्च। [[1.2.17]] सिच्च किद्भवतीति चकारेण कित्त्वं समुच्चीयत इति दर्शयति। किमर्थं पुनः सिचः कित्त्वं विधीयते; यावता गुणप्रतिषेधस्तस्य फलम्, इकारविधानसामर्थ्यादेव गुणो न भविष्यति; अन्यथा ह्रेकारमेव विदध्यात्? नैतदस्ति; लाघवार्थं हीकारविधानं स्यात्। दीर्घोच्चारणाद्ध्रस्वोच्चारणं लघु भवति। `उपास्थित` इति। `समप्रविभ्यः स्थः` [[1.3.22]] इत्यतः स्थग्रहणेऽनुवर्तमाने <<उपान्मन्त्रकरणे>> [[1.3.25]] इत्यत उपादिति तेन `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इतीत्त्वं नोत्सहते सिचं विहन्तुम्, तत् कुतो लोपः? नैतदस्ति;न हीत्त्वं सिचीत्युच्यते, किं तर्हि? इकारश्चान्तादेशो भवति सिच्च किद्भवतीति। अथापि सिज्निमित्तकं स्यात्? एवमप्यदोषः; तस्याः परिभाषायाश्चानित्यत्वात्। अनित्यत्वन्तु सप्तमेऽध्याये ज्ञापयिष्यते(काशिका।7.1.13)।`इच्च` इत्यादि। हेतुशब्दोऽत्राध्याहार्यः। तेन <<षष्ठी हेतुप्रयोगे>> [[2.3.26]] इति हेतुशब्दप्रयोगे कस्येति षष्ठी भवति। तकार इत् तकारेत्, तकार एव वा इद् यस्य स तकारेत्, तकारेतो भावस्तकारेत्त्वम्। इच्चेत्यत्र निर्देशे कस्य हेतोरिकारस्य तकारेत्त्वं क्रियते? किमर्थमिकारस्तपरः क्रियत इत्यर्थः। शेषलक्षणा वा कार्यसम्बन्धविवक्षायां षष्ठीयम्। कस्य कार्यस्य निष्पत्त्यर्थमिकारस्तपरः क्रियत इति यावत्। `दीर्घो मा भूत` इति, असति हि तपरत्वेऽण् गृह्रमाणः सवर्णान् गृह्णातीतीकारेण सवर्णानां ग्रहणे सति स्थानेन्तरतमपरिभाषयोपास्थित, अदितेत्यत्र दीर्घस्थाने दीर्घो भवति, स मा भूदिति तपरत्वं क्रियते।`ऋतेऽपबि सः` इति। स इत्यनेन दीर्घस्य प्रत्यवमर्शः। ऋतेऽप्यस्मादेव वचनाद् घुमास्थादिसूत्रेण [[6.4.66]] दीर्घः सिद्धः, तस्माद् वचनसामर्थ्याद्दीर्घो न भविष्यतीत्यभिप्रायः। `भाव्यमानोऽण् सवर्णान् न गृह्णाति` (व्या।प।30) इत्यतो दीर्घो न भविष्यतीति। एष तु परिहारो नोक्तः, भाव्यमानेनाप्यणा क्वचित् सवर्णानां ग्रहणात्। तथा हि - अदस औप्रत्यये परतस्त्यदाद्यत्वे <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धौ कृतायाम् भवति। <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्युकारो विधीयमानः सवर्णानां ग्रहणादौकारस्य दीर्घस्य स्थाने दीर्घ एव भवति - अमू इति।`अनन्तरे प्लुतो मा भूत्` इति। अनन्तरार्थे विसदृशार्थ आरम्भे सति।कुत एतत्? विसदृशस्य आकारस्य स्थाने क्रियमाणो ह्रस्वो भवति, न पुनः प्लुतः। तस्मात् प्लुतबाधनार्थं तपरत्वं कर्तव्यम्। एतदपि नास्ति प्रयोजनम्। `प्लुतश्च विषये स्मृतः` इति। चशब्दो हेतौ। प्लुतो हि दूराद्धूतादिविषयविशेषे [[8.2.84]] उक्त एव। तत्र यद्यनेन प्लुतो विधीयते तदा सर्वत्र दूराद्धूतादिविषयेऽन्यत्र चानेन भवितव्यम्, ततश्च दूराद्धूतादिविषयेऽपि तस्मिन् भवत्युक्तानुवाददोषः स्यात्; तस्य कृतस्य करणात्। तस्मात् पक्ष उक्तानुवाददोषो मा भूदिति ह्रस्व एव भविष्यति, न प्लुतः इति प्रत्याख्यातं भाष्ये तपरत्वम्।अन्ये तु वर्णयन्ति - `प्लुतश्च विषये स्मृतः` इत नानेन तपरत्वं प्रत्याख्यायते, किं तर्हि? तस्य प्रयोजनमाख्यायते। दूराद्धूतादिविषये प्लुत इष्टोऽभिप्रेतः, स न प्राप्नोति। स्थानेऽन्तरतमपरिभाषया( 1.1.51) दीर्घस्यैव स्थाने दीर्घ एव विधीयते। ननु चोक्तं सिद्ध एव दीर्घ इति? सिद्धस्य पुनर्वचनं प्लुतस्य बाधनार्थं स्यात्। इष्यते च प्लुतो दूरादधूतादिविषये। तस्मात् तस्य बाधको दीर्घो मा भूदिति तपरत्वं कर्तव्यम्। तेन विचार्यमाणानामित्याष्टमिको भवत्येव प्लुत इति।", "12017": "", "12018": "क्त्वाप्रत्ययस्यौपवेशिकं कित्त्वमस्त्येवेति तदिटः क्त्वाप्रत्ययेन ग्रहणात् सेटोऽपि प्राप्नोतीत्यतः प्रतिषेधऽयमारभ्यते। `क्त्वाप्रत्ययः सेट् किन्न भवति` इति। अथ किं ककारस्येत्संज्ञाप्रतिषेधात् कित्त्वन्न भवति? कित्कार्यस्य प्रतिषेधाद्वा? यदि ह्यत्र ककारस्येत्संज्ञाप्रतिषेधादकित्त्वं विधित्सितं स्यादित्संज्ञाप्रकरणे `लशक्वसेट्क्त्वातद्धितयोः` इति सूत्रं कुर्यात्। एवं हि द्विष्प्रतिषेधो न कर्तव्यो भवति। तस्मात् कित्त्वप्रतिबद्धं यत् कार्यं तत्प्रतिषेधादकित्त्वं सेटः क्त्वाप्रत्ययस्यानेन क्रियते, न तु ककारस्येत्संज्ञाप्रतिषेधात्।अथ सानुबन्धकस्य ग्रहणं किमर्थम् `न त्वा` इत्येवोच्येत,एवं हि लघु सूत्रं भवति? नैतदस्ति; ककारानुच्चारणे हि कश्चिद्द्वेष्यमपि विजानीयात्। सेटः क्त्वाप्रत्ययस्य ककारानुबन्ध एव नास्ति, निरनुबन्धकस्योच्चारणादिति। तदेवं मा विज्ञायीति सानुबन्धकस्योच्चारणम्।कः पुनः सेटो निरनुबन्धकत्वे विधौ निरनुबन्धक उच्चार्यते? एवमपि सेट एव ग्रहणं स्यात्, नानिटः;सानुबन्धकत्वात्।`निगृहीतिः`इति। <<स्त्रियां क्तिन्>> [[3.3.94]] `तितुत्रतथ` [[7.2.9]] इति `ग्रहादीनां प्रतिषेधो वक्तव्यः (वा।831।?) इति तितुत्रतथेत्यादिनेट्प्रतिषेधो न भवति।`उपस्निहितिः` इति। `स्निह प्रीतौ` (धातुपाठः-1200),`निकुचितिः` इति। `कुन्चु क्रुन्चु कौटिल्याल्पीभावयोः`(धा।प।185,186) एषु त्रिषूदाहरणेषु यथाक्रमं संप्रसारणगुणप्रतिषेधौ। <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इत्यनुनासिकलोपश्च कित्त्वाद्भवति।`न सेट्` इत्यादि। न सेडित्येतावता योगेनाकित्त्वे सति सिद्धं देवित्वेत्यादि,क्त्वाग्रहणं तु किमर्थम्, तेन विनाऽकित्त्वे सति `गुध परिवेष्टने` (धातुपाठः-1120) निगुधितो निगुधितो निगुधितवानित्यत्र निष्ठायां प्राप्नोतीति चेत्? नैतदस्ति; निष्ठायामवधारणात्। `निष्ठा शीङस्विदिमिदि` [[1.2.19]] इत्यत्रावधारणान्निष्ठायां न भविष्यति - शीङादिभ्य एव निष्ठा सेट् किन्न भवति नान्येभ्यो धातुभ्य इति। शीङादिभ्यो निष्ठैवेति विपरीत नियमस्तु नाशङ्कनीयः, न ह्रनिष्टार्था शास्त्रे प्रकॢप्तिरिति न भविष्यति। लिटस्तर्हि कित्त्वस्य प्रतिषेधः स्यात्, ततश्च जग्मिव,जग्मित्येतत्र `गमहन` [[6.4.98]] इत्यादिनोपधालोपो न स्यादित्यत आह - `ज्ञापकान्न परोक्षायाम्` इति। परोक्षे विहितत्तवाल्लिटः श्रुतिः परोक्षेत्युच्यते, तस्यां कित्त्वप्रतिषेधो न भविष्यति। कथम्? ज्ञापकात्। किं तज्ज्ञापकम्? इत्याह - `सनि झल्ग्रहणं विदुः` इति। यदयम् <<इको झल्>> [[1.2.9]] इति सन्विशेषणं करोति,ततो ज्ञायते - औपदेशिकस्य कित्त्वस्यन सेडिति प्रतिषेधोऽयम् नातिदेशिकस्येति। झल्ग्रहणं हिशिशयिषत इत्यत्र कित्त्वं मा भूदित्येवमर्थः क्रियते। यदि च न सेडिति प्रतिष#एधः आतिदेशिकस्यापि कित्त्वस्य स्यात्; झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, तस्य न सेडिति प्रतिषेधो भविष्यतीति तस्मादौदेशिकस्य कित्त्वस्य प्रतिषेधोऽयं नातिदेशिकस्येति। अस्यार्थस्य ज्ञापकं झल्ग्रहणं स्यात्, `स्थाध्वोरिच्च` [[1.2.17]] इत्यत्र झलादौ सिचीत्वं यथा स्यात्, अजादौ मा भूदिति - उपास्थायिषातामिति। अत्र हि `स्यसिच्सीयुट्तासिषु` [[6.4.62]] इत्यादिना चिष्वद्भावः प्राप्नोति, इत्त्वञ्च; तत्र परत्वाच्चिण्वद्भावादिट्। चिण्वद्भावे सति <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्; तत्रासति झल्ग्रहण इडादावपीत्त्वं यकारस्थाने प्राप्नोति, नैतदस्ति; यस्मादित्त्वं कित्सन्नियोगेन विधीयते। कित्त्वं हि प्रधानभूतम्, इत्त्वमन्वाचयशिष्टम्। अतः कित्त्वाभावे तदित्त्वं न भविष्यतीति। अथ `स्थाध्वोरिच्च` [[1.2.17]] इत्यत्रापि कित्त्वं कस्मान्न भवति? `न सेट्` इत्येतावता योगेन प्रतिषिद्धत्वात्।`रेण तुल्यं सुधीवनि` इति। रेफेण तुल्यमेतदित्त्वम्। क्व चोदाहरणे? सुधीवनीत्यत्र। शोभना धीवानो यस्यां सा सुधीवा। <<अनो बहुव्रीहेः>> [[4.1.12]] इति ङीपोऽत्र प्रतिषेधे कृते यथा <<वनो र च>> [[4.1.7]] इति रेफो ङीप्सन्नियोगेन विधीयमानस्तदभावे न भवति, तथा कित्तवसन्नियोगेन विधायमानमित्त्वं तदभावे न भविष्यति। किमर्थं तर्हि क्त्वाग्रहणम्? क्वसौ कित्त्वप्रतिषेधो मा भूदित्येवमर्थं क्त्वाग्रहणं कर्तव्यम्। क्वसौ त्वौपदेशिकं कित्त्वमस्ति, तस्य `न सेट्` इत्येतावता योगेन प्रतिषेधः स्यात्। ततश्च जग्मिवान् - इत्यत्रोपधालोपो न स्यात्। `वस्वर्थं किदतीदेशात्` इति। न भविष्यतीत्यध्याहार्यम्। अस्तु क्वसावौपदेशिकस्य कित्त्वस्य प्रतिषेधः, सत्यपि तस्मिन् <<असंयोगाल्लिट् कित्>> [[1.2.5]] इति यदातिदेशिकं कित्त्वम्, तेनोपधालोपो भविष्यति। झल्ग्ररहणादातिदेशिकस्य कित्त्वस्य प्रतिषेधो न भविष्यतीत्युक्तं ह्रेतत्। तस्माद्वस्वर्थं क्त्वाग्रहणं न भविष्यतीति।एवं तर्हि - निगृहीतिः प्रयोजनम्। क्तिनि तु प्रतिषेधो मा भूदित्येवमर्थंक्त्वाग्रहणमित्यर्थः। जग्मिवानित्यत्र <<विभाषा गमहनविदविशाम्>> [[7.2.68]] इति क्वसोरिट्, `उगिदचाम्` [[7.1.70]] इति नुम्, हलङ्यादिसंयोगान्तलोपौ (5.1.69; 8.2.23)`सान्तमहतः` [[6.4.10]] इत्यादिना दीर्घः।", "12019": "`शीङ स्वप्ने` (धातुपाठः-1032) , `ञिष्विदा गात्रप्रक्षरणे` (धातुपाठः-1188), `ञिमिदा स्नेहने` (धातुपाठः-1243), `ञिक्ष्विदा स्नेहनमोचनयोः` (धातुपाठः-1244), `ञिधृषा प्रागल्भ्ये` (धातुपाठः-1269)। `शयिततवान्` इति। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। `शयितः` इति। `गत्यथाकर्मक` [[3.4.72]] इत्यादिना कर्तरि क्तः। `प्रस्वेदितः` इत्यादौ <<आदिकर्मणि क्तः कर्तरि च>> [[3.4.71]] इत्यनेन प्रशब्द आदिकर्म = प्रारम्भं द्योतयति।`प्रधर्षितः` इति। वैयात्यादन्यत्रेदमुदाहरणम्। तत्र हि `धृषिशसीवैयात्ये` [[7.2.19]] इतीट्प्रतिषेधेन भवितव्यम्। प्रकृतिग्रहणे यङलुको ग्रहणं स्मरति। अतो यङलुको `एरनेकाचः` [[6.4.82]] इत्यादिना यणादेशः॥", "12020": "तितिक्षा = क्षमा, क्षान्तिरिति। यद्येवम्, क्षान्तिग्रहणेव कर्तव्यम्,लघु ह्रेवं सूत्रं भवति? सत्यमेतत्; वैचित्र्यार्थं तु न कृतम्।`अपमृषितम्` इति। अपरामृष्टमित्यर्थः, अनेकार्थत्वातद्धातूनाम्। अनेकार्थत्वं तु तितिक्षाग्रहणाद्विज्ञायते। असति हि तत्र मृषस्तितिक्षायामेव पठत इति तन्न कुर्यात्, व्यवच्छेद्याभावात्।", "12021": "", "12022": "`न सेट् वर्तते` इत्यक्तम्। <<न क्त्वा सेट्>> [[1.2.18]] इत्यतः। ननु च पूङः परयोः क्त्वानिष्ठयोरिटा न भवितव्यमेव; `श्रयुकः किति` [[7.2.11]] इति प्रतिषेधात्। तदपार्थिका सेड्ग्रहणानुवृत्तिरिति यश्चोदयेत् तं प्रत्याह - पूङश्चेड् विहितः` इत्यादि। अत क्त्वाप्रत्ययस्योदाहरणं कस्मान्न प्रदर्शितमित्यत आह - `क्त्वाप्रत्ययस्य` इत्यादि। यदि ह्रनेन योगेन क्त्वाप्रत्ययस्य कित्त्वं प्रतिषिध्येत, तदा तस्याप्युदाहरणं प्रदर्श्येत, न चानेन प्रतिषिध्यते, किन्तर्हि? <<न क्त्वा सेट्>> [[1.2.18]] इत्यनेनैव प्रतिषिद्धत्वात्। तस्मात तस्योदाहरणं न प्रदर्शितमितित भावः। क्त्वाप्रत्ययस्य <<न क्त्वा सेट्>> [[1.2.18]] इत्यनेन प्रतिषेध इत्येतदेव द्रढयितुमाह - `तथा च ` इत्यादि। `पूङ्श्च` [[7.2.51]] इत्यत्र सूत्रे द्वयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति मन्यमानैर्भारद्वाजीयैरिदमुक्तम् - `नित्यमकित्त्वमिडाद्योः` इति। तौ पुनरिडादी क्त्वानिष्ठाप्रत्ययौ। यदि तर्हि नित्यमकित्त्वमिडाद्योः; तदा क्त्वाग्रहणमनर्थकं स्यात्। विकल्पेन ह्यत्राकित्तवसद्धये तस्य ग्रहणमर्थवद्भवति, नान्यथा। नित्यत्वं कित्त्वप्रतिषेधस्य <<न क्त्वा सेट्>> [[1.2.18]] इत्यनेनैव सिद्धत्वादिति चोद्यमाशह्क्येदमुक्तम् - `क्त्वाग्रहणमुत्तरार्थम्` इति। `पूङः` इति सानुबन्धकस्योच्चारणं किमर्थम्? पोपुवितः, पोपुवितवान्, पोपुवित्वेति यङलुगन्तात् कित्त्वप्रतिषेधो मा भूदिति। पूङनिवृत्यर्थं सानुबन्धक्सयोच्चारणं नोपपद्यते; `श्रयुकः किति` [[7.2.11]] इतीट्प्रतिषेधात्। पूञः परयोः क्त्वानिष्ठयोः सेटोरभावात्॥", "12023": "`निष्ठेति निवृत्तम्` इति। पूर्वसूत्रे चानुकृष्टत्वात्। `ग्रथित्वा` इति। कित्त्वपक्षे `अनिदिताम्` [[6.4.24]] इत्यनुनासकिलोपः। `गुफित्वा` इति। `गुफ गुन्फ ग्रन्थे` (धातुपाठः-1317,1318) `रिफित्वा` इति। `रिफ कत्थनयुद्धनिन्दाहिंसादानेषु` (धातुपाठः-1306)। ननु चैतद्विक्पाभावेऽपि `रलो व्युपधात्` [[1.2.26]] इत्यादिनैवात्र विकल्पेन भवतव्यम्, न चानयोर्विकल्पयोः कश्चिद्विशेषोऽप्यस्ति? एवं तर्हि नोपधग्रहणसाम-थ्र्याद्योगान्तरकृतोऽपबि विकल्पोऽनेन बाध्यते। ननु च ऋकारोपधो नोपधग्रहणस्य प्रत्युदाहरणविषयो भविष्यति, `ऋफ ऋन्फ हिंसायाम्` (धातुपाठः-1315,1316), अर्फित्वेति, नैतद्स्ति; इहास्माभिरनयोर्धात्वो रूपत्रयं साध्यम् - अर्फित्वा, ऋम्फित्वा, ऋफित्वेति। एतत् तु सत्यसति वा नोपधग्रहणऽनेनैव सिद्ध्यत्येव। सति तावन्नोपधग्रहणे, अनोपधस्य ऋफेः <<न क्त्वा सेट्>> [[1.2.18]] इति प्रतिषेधे सत्यर्फित्वेति सिद्ध्यति। नोपधस्य तु ऋम्फेरस्मिन् विकल्पे सति, ऋम्फित्वा ऋफित्वेतीदमपरं रूपद्वयं सिद्धयति। असत्यपि नोपधग्रहणे सर्वथास्मिन् विकल्पे सतीदं रूपत्रयं सिद्ध्यत्येव। तस्माद् युक्तमुक्तं प्रत्युदाहरणं रेपित्वेति। <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति तदन्तविधौ सिद्धेऽन्तग्रहणम् `इह क्त्वाप्रत्यकाण्डे यत्नमन्तरेण तदन्तविधर्न भवति` इति ज्ञापनार्थम्। तेनोत्तरसूत्रे `ऋत` इति धातुः स्वरूपेण गृह्रते, न तु तदन्त इति।", "12024": "`वन्चु प्रलम्भने` (धातुपाठः-1703), `लुन्च अपनयने` (धातुपाठः-187), `ऋत` इति सौत्रौ धातुः, यत्र `ऋतेरीयङ` [[3.1.29]] इतीयङ विहितः। `ऋतेरीयङ` आर्धधातुके विकल्प्यते` इति। `आदाय आर्धधातुके वा` [[3.1.31]] इत्यनेन। `वचित्वा` इति। `अनिदिताम्। [[6.4.24]] इति नलोपः। `वक्तवा` इति। <<उदितो वा>> [[7.2.56]] इतीडभावः पक्षे। चकारो वाग्रहणस्य स्वरितत्वविस्पष्टीकरणार्थः। तेनोत्तरसूत्रे काश्यपग्रहणस्य पूजार्थता; अन्यथा हि तस्यविकल्पार्थता विज्ञायेत। तथा च द्वयोर्विभाषयोर्मध्यवर्त्तित्वान्नित्योऽयं विधिः स्यात।", "12025": "`ञितृषा पिपासायाम्` (धातुपाठः-1228), `मृष तितिक्षायाम्` (धातुपाठः-1164), `कृश तनूकरणे` (धातुपाठः-1227)।`काश्यपग्रहणं पूजार्थम्` इति। `काश्यपस्यैवैतद्विषयकं ज्ञानं नान्येषाम्` इत्यसाधारणज्ञानोद्भावनमेव पूजा। तस् तत्पूजाद्वारेण शास्त्रस्यापि महार्थतोद्भावनलक्षणा पूजा कृता भवति। एवन्नाम शास्त्रस्य महार्थत्वं येन तथाविधा मुमुक्षवोऽप्याद्रियन्त इति। तेन विकल्पार्थं काश्यपग्रहणं कस्मान्न भवतीत्यत आह - वेत्येव हि वर्तते` इति॥", "12026": "क्त्वाप्रत्ययश्च <<न क्त्वा सेट्>> [[1.2.18]] इति कित्त्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वभावत एव व्यवस्थित उभयत्रेदं विधिमुखेनैव प्रवर्तत इतिपक्षे कित्त्वं भवतीति।`{दिद्युतिषते` - काशिका,पदमंजरी च} विदद्युतिषते` इति। `द्युतिस्वाप्योः संप्रासरणम्` [[7.4.67]] इत्यभ्यासस्य संप्रासरणम्। `एषिषिषति` इति। `इषु इच्छायाम्` (धातुपाठः-1351), इडागमे कृते <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति द्वितीयस्यैकाचो द्विर्वचनम्। `बुभुक्षते` इति। <<हलन्ताच्च>> [[1.2.10]] इति नित्यं कित्त्वं भवति। लाघवार्थम् `इणुपधात्` इति वाच्ये, इण्ग्रहणानि सर्वाणि परेम णकारेणेति ज्ञापनार्थं `व्युपधात्` इत्युक्तम्। तेन `लण्` इत्यत्र यदुक्तम् - `इण्ग्रहणानि सर्वाणि परेण णकारेण` इति तदुपपन्नं भवति॥", "12027": "ऊः कालो यस्याचः स ऊकालः। ननु चायुक्तोऽयं निर्देशः, तथा हि - ऊ इति शब्दः कालस्तु क्रिया, तत् कुतोऽत्र सामानाधिकरण्यम्? नैष दोषः; यस्मात् `ऊ` इत्येतत्सहचरितायामुच्चारणक्रियायामिह साहचर्यात् `ऊ` इत्येष शब्दो वर्तते, एवमप्ययुक्तम्; यतः `ऊ` इत्येतत्सहचरितं यदुच्चारणं तदूकारस्यैव, नान्यस्याचः। तत्कथं सोऽन्यसम्ब्नधिन्या क्रियया ऊकारलः स्यात्, न हि यज्ञदत्तसम्बन्धिनीभिश्चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति? अयमप्यदोषः; वत्यर्थस्येह गमयन्तीत्युक्तमेतत्। तदेतदुक्तं भवति - `ऊ` इत्येतत्सहचिरतयोच्चारणक्रियया तुल्योच्चारणक्रिया कालालख्या यस्याचः स ऊकाल इति। ननु च ऊकाल इत्येकः संज्ञी, संज्ञास्तु तिस्त्रः, ततो वैषम्यात् संख्यातानुदेशो न प्राप्नोतीति यो मन्येत, तं प्रत्याह - `ऊ इति त्रयाणाम्` इत्यादि। मात्रिकाणांत्रयाणामकः सवर्णे [[6.1.97]] दीर्घत्वमेकादेशं कृत्वा `ऊ` इति निर्देशः कृत इत्यर्थः। कुतः पुनरेतद्विज्ञायते त्रयाणामेकः प्रश्लेषनिर्देश इति? तिसृणां संज्ञानां विधानसामर्थ्यात्। न ह्रेकस्य भिन्नप्रयोजनमन्तरेणानेकसंज्ञाविधानमर्थवद्भवति। न चेहैकस्यानेकसंज्ञाकरणे भिन्नप्रयोजनमस्ति। `ह्रस्वदीर्घप्लुत` इति यद्येक एवायं शब्दः संज्ञा स्यात्, लाघवार्थत्वात् संज्ञाकरणस्य, महत्याः संज्ञायाः करणमयुक्तं स्यात्। किञ्च - आवृत्तिधर्माणः संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदाय संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदायः प्रदेशेष्वावत्र्यते,अपि तु प्रत्येकं ह्रस्वादिशब्दाः। तस्मात् तेषां द्वन्द्वं कृत्वा निर्देश इति मत्वाह- `ह्रस्वदीर्घप्लुतः` इत्यादिः। द्वन्द्वैकवद्भावस्तु `सर्वो द्वन्द्वो विभाषयैकवद्भवति` इति वचनात्। ननु च द्वन्द्वैकवद्भावे `स नपुंसकम्` [[2.4.17]] इति नुपंसकत्वेन भवितव्यम्, तत्कथं पुंल्लिङ्गेन निर्देशः, सौत्रत्वान्निर्देशस्य। छन्दसि <<व्यत्ययो बहुलम्>> [[3.1.85]] इति लिङ्गव्यत्यय उक्तः। `छन्दोवत्सूत्राणि भवन्ति` (म।भा।1.1.1) इत्यविरुद्धास्यपुंल्लिङ्गता। उ ऊ ऊ3 इत्यनया आनुपूर्व्यैषां प्रश्लेष इति दर्शयति। कुतः पुनरेष निश्चयः - एषैवैषामानुपूर्वीति? एवं मन्यते - <<विभाषा पृष्टप्रतिवचने हेः>> [[8.2.93]] इत्येकमात्रिकस्य हेः प्लुतविधानाज्ज्ञायते - न मात्रिकोऽन्त्य इति। अन्त्यत्वे हि सति तस्य प्लुतसंज्ञा स्यात्। एवञ्च प्लुतविधानमनर्थं स्यात्। द्विमात्रिकोऽप्यन्त्यो न भवति; <<ओमभ्यादाने>> [[8.2.87]] इति द्विमात्रिकस्य प्लुतविधानात्। तस्य चान्त्यत्वे हि सति यदि प्लुतसंज्ञा स्यात्, तदा च प्लुतस्य प्लुतविधानमनर्थकं स्यात्। तसमादन्ते एकमात्रिकद्विमात्रिकौ न भवतः। मध्येऽप्येकमात्रिको न भवति, <<अतो दीर्घो यञि>> [[7.3.101]] इति `सुपि च` [[7.3.102]] इतिच दीर्घविधानसामर्थ्यात्। यदि मध्यएकमात्रिकः स्यात् तदा तस्य दीर्घसंज्ञा स्यात्,दीर्घस्य दीर्घवचनमकिञ्चित्करं स्यात्, तस्मादादावेकमात्रिकत्वे हि सति पारिशेष्यान्मध्ये द्विमात्रिकः, अन्ते त्रिमात्रिक इति। `उ ऊ ऊ3` इति। अत्राप्युकारादिसहचरितायामुच्चारणक्रियायमुकारादयो वर्तन्ते। एवं कालोऽजिति यकारस्य लोपः। ननु चोकारोऽयमण् गृह्रमाणः सवर्णान् गृह्णातीत्यत उकारेण दीर्घप्लुतयोग्र्रहणे सति तयोरपि ह्रस्वसंज्ञा भवतीत्यत आह- `कालग्रहणम्` इत्यादि। कालग्रहणे हि येषामेताःसंज्ञा विधीयते तेषां यथाक्रममेकमात्रिकत्व द्विमात्रिकत्वत्रिमात्रिकत्वानि विशेषणानि लभ्यन्ते। तथा हि, कालग्रहणेसति प्रत्येकं वाक्यपरिसमाप्तौ क्रियमाणायां त्रयो बहुव्रीहयो भवन्ति- उः कालो यस्य् स उकालः, ऊः कालो यस्य स ऊकालः, ऊ3#ःकालो यस्य सः ऊ3 कालः। एषां यथार्ममेकमात्रिकद्विमात्रिकत्रिमात्रिका अचोऽन्यपदार्थाः। यस्मान्मात्रिक एवाचः `उ` इत्येतत्सहचारिण्या उच्चारमक्रियायास्तुल्यकालः; एवं द्विमात्रिक एवाच `ऊ` इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः; एवं त्रिमात्रिक एवाच `ऊ3` इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः। एवं च सति मात्रापरिमाणस्याचो ह्रस्वसंज्ञा विधीयमाना सत्यप्युकारेण दीर्घप्लुतयोग्र्रहणे तयोर्न भवति, न हि तौ मात्रा परिमाणौ। तेन आलूय, परिणीयेत्यत्र ह्रस्वाश्रयस्तुङ न भवति। `प्रत्यक्ष्य, प्ररक्ष्य` इति। `तक्षू त्वक्षू तनूकरणे` (धातुपाठः-655, 656) `रक्ष पालने` (धातुपाठः-658) <<कुगतिप्रादयः>> [[2.2.18]] इति समासे कृते `समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] इति ल्यप्। तत्र परतो द्वयोरर्धमातर्योर्हलोः संयोगसंज्ञिनोरूकाल्त्वमस्तीत्यसत्यज्ग्रहणे ह्रस्वसंज्ञा स्यात्, ततश्च ह्रस्वाश्रयस्तुक प्रसज्येत।`तितौच्छत्रम्` इति। अत्राकारोकारचोः समुदायस्य ऊकालत्वाद् द्विमात्रिकत्वमस्तीति दीर्घसंज्ञा स्यात्। ततश्च <<पदान्ताद्वा>> [[6.1.76]] इति विकल्पितस्तुक् प्रसज्येत। अज्ग्रहणे तु सति दीर्घसंज्ञा न भवति,अच्समुदायस्याज्ग्रहणेनाग्रहणात्। ननु च सत्यामपि तस्यां समुदायाश्रयायां दीर्घसंज्ञायायमवयवाश्रया ह्रस्वसंज्ञा भविष्यति। तदाश्रयस्तुङनित्य एव, नैतदस्ति; परत्वाद्दीर्घाश्रयस्तुग्विकल्पः प्राप्नोति। न चैवं विधविषये पुनः प्रसङ्गविज्ञानमस्ति; यत्र पूर्वो विधिः प्रवर्तमानः परविधिविज्ञानं न बाधते तत्रैतद्भवति - `पुनः प्रसङ्गविज्ञानात् सिद्धम्` इति, इह तु नित्यो विधिः परविधिविकल्पविज्ञानं बाधते; नित्यविकल्पयोर्विरोधात्। ततश्च `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव` (व्या।प।40) इति परिभाषयैव विकल्पः स्यात्। तस्मादज्ग्रहणं", "12028": "परिभाषेयं लिङ्गवती स्थानिनियमार्था प्रदेशेषु `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इत्येवमादिषूपतिष्ठते;तदुपस्थाने च षष्ठीद्वयं प्रादुर्भवति; विशेषणविशेष्यभावं प्रति कामचारात्। `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इत्यत्राचा प्रातिपदिकं गृह्रमाणं विशिष्यते - अजन्तस्य प्रातिपदिकस्येति, न तु प्रातिपदिकेना-ज्विशिष्यते। यदि हि प्रातिपदिकेनाज्विशिष्येत - प्रातिपदिकस्य योऽजिति, तदा मध्यस्थितस्याप्यचो ह्रस्वः स्यात्। `सुवाग् ब्राआहृणकुलम्` इति। अचा तु प्रातिपदिके विशिष्यमाणे प्रातिपदिकस्यैवेत्येषा स्थानषष्ठी भवति, न चावयवषष्ठी, तेनालोऽन्त्यस्यैवाचो ह्रस्वो भवति। <<वाक्यस्य टेः प्लुत उदात्तः>> [[8.2.82]] इत्यत्र गृह्रमाणेन टिशब्देनाज्विशिष्यते - टेर्योऽजिति। तेन टेर्मध्यवर्तिनोऽप्यचः प्लुतो भवति। यदि त्वचा टिर्विशिष्यते - अजन्तस्य टेरिति, तदेहैव स्यात् - देवदत्ता3 इति; इह तु न स्यात् - अग्निचिदिति। चकारेणाजित्यनुकृष्यते, त्सय प्रयोजनमिहैव वक्ष्यति। अतिरि- इत्यादीन्युदाहरणानि <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इत्यत्र व्युत्पादितानि। चीयते इति कर्मणि लकारः।`संज्ञाविधाने नियमः` इत्यत्र युक्तिमाह - `अजिति वर्तते` इति। अज्ग्रहणे ह्रनुवर्तमाने ह्रस्वादिशब्दा अनुवर्तमाना अच एवोपस्थानं प्रति व्याप्रियन्ते;तस्य स्वयमेवोपस्थितत्वात्। ततश्च स्वरूपमात्रपदार्थकाः सन्तो विधीयमानस्याचो विशेषणतामुपयान्ति। तत्रैवमभिसम्बन्धः क्रियते - अः स्थानेऽज् भवति `ह्रस्वदीर्घप्लुतः इत्येवं संज्ञया विधीयमान इति। `द्यौः, पन्थाः, सः` इति। एतानि <<इको गुणवृद्धी>> [[1.1.3]] इत्यत्र व्युत्पादितानि। एषु च यथायोगं `दिव औत्` [[7.1.84]] `पथिमथ्यृभुक्षामात्` [[7.1.85]] <<त्यदादीनामः>> [[7.2.102]] इत्येभिरौकारादयः स्वरूपेण विधीयमाना दीर्घादिसंज्ञया न विधीयन्त इति हल एव स्थाने ते भवन्ति, नाचः। द्युभ्याम्, द्युभिरित्यत्रापि `दिव उत् इत्युकारो ह्रस्वसंज्ञया न विधीयत इति हल एव स्थाने भवति, नाचः। ननु च द्यौरित्यादीनि त्रीण्युदाहरणानि `इको गुणवृद्धि` [[1.1.3]] इत्यनेनैवसंज्ञाविधाननियमेन सिद्धानि, तत्र हि तस्याप्येतानि प्रत्युदाहरणानि प्रागुपन्यस्तानि, तस्मान्नार्थ एतदर्थेन संज्ञया विधीयमानेन नियमेन? सत्यमेतत्; एवं मन्यते - द्युभ्याम्, द्युभिरित्येवमर्थं संज्ञाविधाने नियमः कर्तव्यः; न ह्रुकारस्य गुणसंज्ञास्ति, नापि वृद्धिसंज्ञा; यतः पूर्वेणैव संज्ञाविधाननियमेनैतदपि सिद्ध्यति। तस्मादन्यार्थोऽयं संज्ञाविधाननियमः क्रियमाणो येऽपि विस्मरणशीलाः पूर्वस्य नियमस्य प्रयोजनं न स्मरन्ति ताननुग्रहीतुम् - द्यौः, पन्था-, स इत्येवमर्थोऽपि भवति॥", "12029": "उदात्तादयो लोकवेदयोः प्रसिद्धाः। तत् किं संज्ञाकरणेनेति यश्चोदयेत् तंप्रत्याह - `उदात्तादिशब्दाः` इत्यादि। आदिशब्देनानुदात्तस्वरितयोः परिग्रहः।एवकारो भिन्नक्रमो वर्णधर्मे इत्यस्यानन्तरं द्रष्टव्यः। लोकवेदयोरुदात्तादयः शब्दा वर्णनां यो धर्मः = गुणस्तत्रैव प्रसिद्धाः, न तु तद्वित्यचि। तस्मादिह व्याकरण उदात्तादयो धर्मा यस्याचस्तद्गुणेऽचि संज्ञाप्यन्ते = परिभाष्यन्ते; अन्यथा प्रदेशेषूदात्तादिशब्दश्रवणाद्वर्णधर्म एव गृह्रेत, न तद्वानजित्यभिप्रायः।उच्चैरिति श्रुतिप्रकर्षेऽस्ति - श्रुतिप्रकर्षवत्युच्चैर्भाषते उच्चः पठतीति। अस्ति च प्रमाणाधिकरणवाची उच्चैः स्थितो देवदत्त इति, उच्चैर्नाम प्रमाणम्, तस्य तदधिकरणं तदिहोच्चैः शब्देनोच्यते। तदिह द्वितीयस्योच्चैः शब्दस्यार्थो गृह्रते, नेतरस्येति दर्शयितुमाह - `उच्चैः` इति। उच्चैर्भाषते इत्येवमादौ तु वाक्ये प्रयुक्तस्योच्चैः शब्दस्य योऽर्थः श्रुतिप्रकर्षः स उच्चैरित्यत्र न गृह्रते। यदि गृह्रेत, उपांशुप्रयोग उदात्तादिसंज्ञा न स्यात्; प्रकर्षाभावात्, प्रकर्षस्थितत्वादुदात्तादयो न विशिष्येरन्। य एव हि कञ्चित् प्रत्युच्चैर्भवति, स एव हि कञ्चित्प्रतति नीचैर्भवति। एवञ्च सर्वमुदात्तं स्यात्, अनुदात्ततमोऽपि चेष्यत इत्यभिप्राय।`स्थानकृतम्` इत्यादि। उच्यता नाम प्रमाणविशेषः, तदधिकरणभूतस्थानमुच्चैर्भवति। एवञ्च सर्वनमुदात्तं न स्यात्। अनुदात्तमुच्चैरुच्यत इत्यर्थः।`भागवत्सु` इति। भागा अवयवा येषां तानि भागवन्ति। ते भागास्ताल्वादिषु स्थानेष्वौत्तराधर्येण व्यवस्थिताः। स्थानमुच्चैः शब्देनोच्यते, तत् कुतः संज्ञिन उच्चैस्त्वविशेषणम्? उच्चैस्थाननिष्पन्नत्वात्। तत्र समाने स्थान उच्चैरूध्र्वभागे योनिष्पन्नः स उदात्तसंज्ञो भवति। यदि स्थाने य ऊध्र्वभागनिष्पन्नोऽच् स उदात्तसंज्ञो भवतीत्येतावदुच्यते, एवञ्च स एवानवस्थितदोषः। तथा हि- अल्पशरीरेषु य एव ताल्वादिभाग उच्चैर्भवति, स एव महाशरीरेषु ताल्वादिभागापेक्षया नीचैर्भवति। अतः `समान` इत्येतत् स्थानविशेषणमुक्तम्। एतच्च् लघ्वर्थत्वात् संज्ञाकरणस्यैकाक्षरायां संज्ञायां कर्तव्यायामनेकाक्षरसंज्ञाकरणाल्लभ्यते। ग्रन्थाधिक्यादर्थाधिक्यं भवतीति। ननु च ग्रन्थाधिक्यादत्र कश्चिदाचार्यस्याधिकोऽर्थोऽभिप्रेत इत्येतावन्मात्रं प्रतीयते, समानत्वमित्येषोऽर्थ विशेषः कुतो लभ्यते? अविच्छिन्नादुपदेशपारम्पर्यात्। तत् पुनः समानत्वं वक्त्रभिन्नत्वाद्वेदितव्यम्; न तु ताल्वादिस्थानस्याभिन्नत्वात्; अन्यथा तालव्यमेवापेक्ष्योदात्तः स्यात्, न तु कण्ठादीन्। वक्तुरभेदात् तद्द्वारेण भिन्नानामपि ताल्वादीनां समानत्वेऽपि विज्ञायमान एष दोषो न भवति। किंलक्षणः पुनरसावुच्चभागनिष्पन्नोऽजित्याह - `यस्मिन्` इत्यादि। `आयामः` इत्यस्य विवरणं `निग्रहः` इति। निग्रहः = स्तब्धता। संवृतकण्ठता = कण्ठविवरस्य संवृतता। अत एव शनैर्निष्क्रामन् वायुर्गलावयवाञ्शोषयति। रूक्षता भवत्यस्निग्धता।`ये ते के` इति। यत्तत्कशब्देभ्यस्त्यदाद्यत्वम्, <<अतो गुणे>> [[6.1.97]] पररूपत्वम्,`जसः शी` [[7.1.17]] , <<आद्गुणः>> [[6.1.87]] । अत्र प्रातिपदिकस्वरेण प्रकृतिरूदात्ता। <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इति विभक्तिस्वरः। एकादेशस्तु <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इति॥", "12030": "अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति। शैथिल्यमित्यर्थः। मृदुतेत्यस्य विवरणं स्निग्धतेति। उरुतेत्यस्यापि महत्तेति। महत्त्वादेव कण्ठविवरस्य पुनः शीघ्रं वायुर्निष्क्रामन् गलावयवान्न शोषयतीति। अतः स्वरस्य स्निग्धता भवति। त्व-सम-सिम-नेमेत्यनुच्चानीति सर्वादिष्वेव पठन्ते। अनुच्चानि अनुच्चानि अनुदात्तानीत्यर्थः। `नमस्ते रुद्र` इत्यादि। तेशब्दः `तेमयावेकवचने` [[8.1.22]] इति <<अनुदात्तं सर्वमपादादौ>> [[8.1.18]] इत्यधिकारादनुदात्तः। रुद्रादयोऽपि <<आमन्त्रितस्य च>> [[8.1.19]] इत्यनेनाष्टमिकेन सर्वेऽनुदात्ता भवन्तीति।", "12031": "उदात्तानुदात्तशब्दावज्विशेषयोः संज्ञे। संज्ञा हि प्रदेशेषूच्चारिताःसंज्ञिनं प्रत्याययन्ति। ताभ्यामिहानुवृत्ताभ्यामुदात्तानुदात्तयोरचोरुपस्थापितयोः प्रत्ययः। तस्मात् समाहारात्मकस्याचः स्वरितसंज्ञा विधीयते। समाहारशब्दश्चसमाहरणं समाहार इति भावसाधनोऽयं लोके समुदाये रूढः। न चोदात्तानुदात्तात्मकः कश्चिदच्समुदायः सम्भवतीति, ततश्च संज्ञिनोऽसम्भवात् संज्ञापि न सम्भवीति यश्चोदयेत्, तं प्रत्याह - `सामर्थ्याच्च` इत्यादि। उच्यते चेदम् - उदात्तानुदात्तसमाहारः स्वरितसंज्ञो भवतीति, न च पारिभाषिकोदात्तानुदात्तसमाहारत्मनोऽचः सम्भवोऽस्ति। तत्र सामर्थ्याल्लोकवेदप्रसिद्धौ यौ धर्मावुदात्तानुदात्तौ तावेव गृह्रेते; नाचौ। नन्वेवमपि स एव दोषः, लोके प्रसिद्धोदात्तानुदात्तात्मनोऽच एषा संज्ञा विधीयते, कस्य तर्हि? लोकवेदप्रसिद्धावुदात्तानुदात्तौ समाह्यियेते यस्मिन्नचि तस्य। सम्भवति चैकस्मिन्नप्यचितयोः समाहार इति कुतः संज्ञिनोऽसम्भवः। `समाह्यियेते यस्मिन्` इति ब्राउवताऽधिकरणसाधनोऽयं समाहारशब्दो न भावसाधन इति दर्शितम्। समाह्यियेते = संहन्येते, सहितावुपलभ्येते इत्यर्थः। `शिक्यम्` इति। `पूञो यण्णुग् ह्रस्वश्च` (द।उ।16) इति यदिति वर्तमाने `श्रन्सेः शि कुट् किच्च` (द।उ।817) इति श्रंसतेर्यत्प्रत्यये शिशब्दादेशे कुडागमे च कृते रूपम्। तित्त्वात् स्वरितम्। `कन्या` इति। `तिल्यशिक्यमत्र्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः` (फि।सू।4।76) इत्यन्तः स्वरितम्। `सामान्यः` इति। सामनि साधुः। <<तत्र साधुः>> [[4.4.98]] इति यत्प्रत्ययः। क्वेति किंशब्दात् सप्तम्यन्तात्`किमोऽत्` [[5.3.12]] इत्यत्प्रत्ययः। `क्वाति` [[7.2.105]] इति क्वादेशः॥", "12032": "आदौ = आदितः, सप्तम्य्रथे तसिः। अयमेव निर्देशो ज्ञापकः - `आद्यादिभ्यस्तसिर्भवति` इत्यत्र। तेन तसिप्रकरणे `आद्यादिभ्यः उपसंख्यानम्` (वा।634) इत्येतन्न व्कतव्यं भवति। `अद्र्धह्रस्वम्` इति। ह्रस्वस्याद्र्धमित्यर्थः। `अर्धं नपुंसकम्` [[2.2.2]] इति समासः। ततश्च `परवल्लिङ्गम्` [[2.4.26]] इत्यादिना पुंल्लिङ्गेन भवितव्यम्, ह्रस्वशब्दस्य पुंल्लिङ्गत्वात्, नैतदस्ति; ह्रस्वशब्दो हि प्रमाणविशेषं गुणमुपादाय प्रवृत्तः, `गुणवचनानाञ्चाश्रयलिङ्गवचनानि` इति गुणवचनत्वाच् शुक्लशब्द एव ह्रस्वशब्दस्त्रिलिङ्गः। `ह्रस्वः` इति मात्रिकस्य संज्ञा कृता, तस्यैव विभागः स्यात्, न तु दीर्घप्लुतयोरित्याशङ्क्याह - `अद्र्धह्रस्वम्` इत्यादि। ह्रस्वस्याद्र्धमद्र्धमात्रा भवति, अतोऽद्र्धमात्रा भवति, अतोऽद्र्धह्रस्वग्रहणेनाद्र्धमात्रोपलक्ष्यते। तत एव च तस्येत्युक्तम्। त्रयाणां ह्रस्वदीर्घप्लुतानां स्वरितानां निर्देशार्थम्। यदि चाद्र्धह्रस्वग्रहणमद्र्धमात्रोपलक्षणम्, अतस्त्रयाणां निर्देशोऽर्थवान् भवति; नान्यथा।`ह्रस्वग्रहणमतन्त्रम` इति। अतन्त्रप्रधानम्, उपलक्षणार्थत्वात्। यथा काकेभ्यो दधि रक्ष्यतामित्यत्रकाकाः। तेन सर्वेषामेव ह्रस्वादीनामेष स्वरितविभागो भवति। नन्वेवमप्याष्टमिकस्य स्वरितस्य विभागो न सिध्यति, तस्यासिद्धत्वात्, नैतदेवम्; यस्मात् परविधिः पूर्वविधावसिद्धः। न चायं विधिः, किं तर्हि? तस्य विहितस्य विभागाख्यानार्थः। अथ वा - <<न मु ने>> [[8.2.3]] इत्यत्र नेति योगविभागात् सिद्धं भवति॥।`एवश्रिर्वा` इति। पूर्वो भागोऽयमुदात्तः पटुतरः। तेनोपरज्यमानस्तद्रूपतामिवापन्नः परो भागः स्फटिकमणिरिवोपधानेनोपरक्तः शुद्धेनोदात्तेन भिन्नश्रुतिकत्वादनुदात्तव्यपदेशं नार्हति। उदात्तव्यपदेशमपि नार्हति; उपरागमात्रत्वात्। तस्मादेकश्रुतिरिति केचित्। अन्ये त्वाहुः - पूर्वेण भागेनानुपजातरूपातिशयेन नोपरज्यते यदोत्तरभागस्तदा स्वेन रूपेण प्रतिभानादनुदात्त इति व्यपदिश्यते। यदा तूपधानेन स्फटिकमणिरिव पूर्वेण भागेन पटीयसोदात्तेनाभिभूयानुरज्यमानस्तद्रूपतामिवोपपद्यते तदैकश्रुतिरिति व्यपदिश्यते। पूर्वभागश्रुतेरभिन्नैका तुल्याकारा श्रुतिर्यस्येति कृत्वा। न हि तदानीं पूर्वोत्तरयोः स्वरितश्रुतिं प्रति कश्चित् भेदोऽस्ति; द्वयोरप्युदात्तगुणवत्तया प्रतीयमानत्वनादिति।", "12033": "`एकश्रुति वाक्यं भवति` इति। वाक्यग्रहणेन पदपदैकदेशयोर्निरासं करोति; तयोःसम्बोधनं प्रत्यसामर्थ्यात्। वाक्यस्य सम्बुद्धौ कर्तव्यायां करणभावोपगमादस्ति सामर्थ्यम्। ततस्तस्यैकश्रुत्यं विधीयते। कुतः पुनस्तद्वाक्यमित्याह - `दूरात् सम्बोधयति येन` इति। एतेन सम्बुदिंध प्रति वाक्यस्य करणभावो दर्शितो भवति। दूरादिति - <<दूरान्तिकार्थेभ्यो द्वितीया च>> [[2.3.35]] इति पञ्चमी। `सम्बोधनं सम्बुद्धिः` इत्यादिना सम्बुद्धिरित्कयन्वर्थग्रहणम्, न पारिभाषिकं सम्बुद्धिग्रहणमिति दर्शयति। यदि पारिभाषिक्याः सम्बुद्धेग्र्रहणं स्यात् तदा `देवा {ब्राआहृणाः इति पदंजरीपाठः} ब्राहृआणःट इत्यत्रैकश्रुत्यं न स्यात्; पारिभाषिक्याः सम्बुद्धेरसत्त्वात्। अन्वर्थग्रहणे तु भवति; सम्बोधनलक्षणक्रियारूपायाः सम्बुद्धेरिहापि विद्यमानत्वादिति भावः। कुतः पुनरेतदन्वर्थग्रहणं व्यवसितम्? दूरग्रहणात्। अन्वर्थग्रहणे दूरादित्यनेन सम्बुद्धिरुत्पद्यते। `{पंक्तिरियं नास्ति-काशिका} दूरात् सम्बोधने कर्तव्ये` इति। तेनार्थवद्भवति दूरशब्दस्यपादानम्। पारिभाषिक्यास्तु ग्रहणे तदसम्बद्धमेव स्यात्। न ह्रामन्त्रितविभ्कतेर्दूरत्वमस्ति। दूरत्वञ्च यद्यप्यनवस्थितम्, तथापि यत्र प्राकृतप्रयत्नसंस्थापितं वचनं न श्रूयते, तदिह दूरं वेदितव्यम्। `स्वराणाम्` इत्यादि। `{पंक्तिरियं नास्ति-काशिका}एकश्रुतिस्वरूपाख्यानमविभागः` भेदतिरोधानमित्यनन्तरं विवरणम्। उदात्तादिस्वरविशेषानुपलब्धिरकारादिवर्णमात्रावबोध एकश्रुतिरित्युक्तं भवति। `आगच्छ भो माणवक देवदत्ता3` इति। <<दूराद्धूते च>> [[8.2.84]] इत्यत्रैवार्थे प्लुतः, स चोदात्तः; `वाक्यस्य टेः प्लुतः उदात्तः` [[8.2.82]] इत्यधिकारात्। तस्यैकश्रुत्योदात्तस्य समावेश इष्यते, प्लुतनिवृत्त्यर्थम्। यथा चासौ लभ्यते तथा वक्ष्यति। प्रत्युदाहरणे त्रैस्वर्यमेव भवतीति तत्र आकारः `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्युदात्तः। गच्छेत्यस्य `तिङङतिङः` [[8.1.28]] इतिनिघातः। भो इति `निपाता आद्युदात्ताः` इत्युदात्तः। माणवक - देवदत्तशब्दयोः `आमन्त्रतस्य च` [[8.1.19]] इत निघातः।", "12034": "`अग्निर्मूर्धा दिवः` इत्यादि। `अगि रगि गत्यर्थाः` (धातुपाठः-146,144)। `वीज्याज्वरिभ्यो निः` (द।उ।1।18) इत वर्तमाने `अङ्गेर्निर्नलोपश्च` (द।उ।1।20) इति निप्रत्ययः; नलोपश्च भवति। अग्निशब्दः प्रत्ययस्वरेणान्तोदात्तः। `मुर्वी बन्धने` (धातुपाठः-575),`अकनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः` (द।उ।6।51) इत्यतः कनिन्निति वर्तमाने `आन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघवन्` (द।उ।6।55) इति मूर्धन्शब्दः कनिन्प्रत्यान्तो निपातित इति निपातनादाद्युदात्तः। वकारस्य धकारोऽत्र निपातनादेव। `दिवु क्रीडादौ` (धातुपाठः-1107) डिविन् प्रत्ययः। इकार उच्चारणार्थः। डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् `ट#ए#ः` [[6.4.143]] इति टिलोपः। `दिव्` इति स्थिते <<ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः>> [[6.1.171]] इति विभक्तेरन्तोदात्त्वम्। ककुच्छब्दः `{फिषोन्त उदात्तः- #इति मुद्रितं सूत्रम्}प्रातिपदिकमन्तोदात्तं भवति` (फि।सू। 1।1)इत्यन्तोदात्तः। पतिशब्दः `पातेर्डतिः` (द।उ।1।27) इति डतिप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः, ततः ककुदः पतिः ककुत्पतिरिति षष्ठीसमासः, स<<समासस्य>> [[6.1.223]] इत्यन्तोदात्तत्वम्। `प्रथ प्रख्याने` (धातुपाठः-1553), `प्रथेः षिवन् संप्रसारणञ्च` (द।उ।8।124)। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति पृथिवशब्दान्ङीष्। प्रत्ययस्वरेण धातुप्रत्यङीष आद्युदात्तोदात्तः। षष्ठऐकवचनम् ङस्। `आण्नद्याः`इत्यनुदात्तत्वम्। सवर्णदीर्घः। <<इको यणचि>> [[6.1.77]] इति यणादेशः। <<उदात्तयणो हल्पूर्वात्>> [[6.1.174]] इति विभक्तिरुदात्ता। `अयम` इति। `इदि परमैआर्ये` (धातुपाठः-63) <<इदितो नुम् धातोः>> [[7.1.58]] इति नुम्, `इन्देः कमिर्नलोपश्च` (पं।उ।596) इति कमिप्रत्ययो नलोपश्च; इदम्शब्दः कमिप्रत्ययेनान्तोदात्तः। सौ परतः `इदोऽय् पुंसि` इतीदम इद्रूपस्यादेशः। `अपाम्` इति। `आप्लृव्याप्तौ` (धातुपाठः-1260), `आप्नोतेह्र्यस्वश्च` (द।उ।1।127) इति क्विप्, ह्रस्वश्च, षष्ठीबहुवचनम्। `ऊडिदं पद` [[6.1.165]] इति विभक्तेरुदात्तत्वम्। तेनापामित्यस्यान्तोदात्तत्वम्। `रि गतौ` (धातुपाठः-1404), `स्त्रुरिभ्यां तुट् च` (द।उ।9।62) इत्यसुन् प्रत्ययः। तुडागमः। `रेतांसि` इति नित्स्वरेणाद्युदात्तः। `जिन्वति` इति। `जि जये` (धातुपाठः-561) लट्,शत्रादेशः। <<व्यत्ययो बहुलम्>> [[3.1.85]] इति व्यत्ययेन श्नुप्रत्ययः।<<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इति यणादेशः। <<उगितश्च>> [[6.3.45]] इति ङीप्। `अम्बार्थनद्योह्र्यस्वः` [[7.3.107]] इति ह्रस्वः। <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुलोपः। <<ये यज्ञकर्मणि>> [[8.2.88]] इति वर्तमाने <<प्रणवष्टेः>> [[8.2.89]] इति प्रणवादेशः। स च प्लुतउदात्तश्च,<<वाक्यस्य टेः प्लुत उदात्तः>> [[8.2.82]] इत्यधिकरात्। प्रणव इत्योकारम्, ओङ्कारं वाऽऽचक्षते। प्रणवस्योदात्तविधानसामर्थ्यादसिद्धत्वाच्च पदादुत्तरस्य <<आमन्त्रितस्य च>> [[8.1.19]] इत्यनुदात्तं न भवति; शेषस्य तु भवति। एषु स्वरेषु प्राप्तेष्वेकश्रुतिर्विधीयते।`संपाठे मा भूत्` इति। संपाठ= स्वाध्यायकालः। `ममाग्ने` इत्यादि। `असु क्षपणे` (धातुपाठः-1209), `युष्यसिम्यां मदिक्` (द।उ।6।50) इति मदिक्। अस्मच्छब्दः प्रत्ययस्वेरणान्तोदात्तः। षष्ठएकवचनस्य `युष्मदसमद्भ्यां ङसोऽश्` [[7.1.27]] इत्यशादेश-, <<तवममौ ङसि>> [[7.2.96]] इत्यस्मदो ममादेशः। स्था4निवद्भावादन्तोदात्तः। <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] अग्निशब्दस्य <<आमन्त्रितस्य च>> [[8.1.19]] इति निघातः। `वर्च दीप्तौ` (धातुपाठः-162), `असुन्` (द।उ।9।49) इतिअसुन् प्रत्ययः। वर्चशब्दो नित्स्वरेणाद्युदात्तः। `ह्वेञ् स्पर्धायाम्` (धातुपाठः-1008)। `ह्वः संप्रासारणञ्च न्यभ्युपदिषु [[3.3.72]] इत्यप् प्रत्ययः। `उपपदमतिङ` [[2.2.19]] इति समासः। <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्युत्तरपदप्रकृतिस्वरत्वेप्राप्ते, `अन्तः` [[6.2.142]] इत्यनुवर्तमाने <<थाथघञ्क्ताजबित्रकाणाम्>> [[6.2.144]] इत्यन्तोदात्तत्वम्, सप्तमीबहुवचने `बहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वम्, स्थानिवद्भावादेकारोऽपब्यदात्त एव। `अस भुवि` (धातुपाठः-1065) , लोट्, तिप्, `एरुः` [[3.4.86]] इत्युत्वम्, अदादित्वाच्छपो लुक्। `तिङङतिङः` [[8.1.28]] इति निघातेन `अस्तु` शब्दोऽनुदात्तः। `जपोऽनुकरणमन्त्रः` इति। `जप` इत्युक्तेरर्थकथनमनुकरणमन्त्र इति। अनुकृतिः = अनुकरणम्। सर्वत्र मन्त्रे स्फुटमुच्चारणमित्यनुकरणमन्त्रः। अत एवाह - `उपांशुप्रयोगः` इति। यता जले निमग्नस्य पाठः।क्वचिदकरणमन्त्र इति पाठः। तत्रायमर्थः - ईषत् करणमुच्चारणं यस्य सोऽकरणमन्त्र इति; नञ ईषदर्थत्वात्।एशब्दो निपातः। `निपाता आद्युदात्ताः` (फि।सू।4।80)। `विश प्रवेशने` (धातुपाठः-1424),`अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्` (द।उ।125) इति क्वप्रत्ययान्तत्वाद्विआशब्दो नित्स्वरेणाद्युदात्तः। समञ्च तत् अत्रिणञ्चेति विशेषणसमासः। समासान्तोदात्तत्वम्। `दह भस्मीकरणे` (धातुपाठः-991), लोट्,सिप्, सेर्हिरादेशः,<<अतो हेः>> [[6.4.105]] इति हेर्लुक्, `तिङङतिङ` [[8.1.28]] इति निघातविधानात् दहशब्दोऽनुदात्तः। केचिद् वहा3 इति प्लुतान्तं पठन्ति; तेषां साहसमनिच्छतां `सर्वत्र विभाषा प्लुतो वक्तव्यः` (म।भा।3।420) इत्यतो वचनात् प्लुतो वक्तव्यः, स चोदात्तः।अन्ये त्वाकारान्तं पठन्ति, तेषां छान्दसत्वादाकारः। ह्रस्वोऽपि हि वर्णो व्यत्ययेन दीर्घो भवति,`पुरुषः` `नारकः` इति यथा। `वाक्यविशेषस्था गीतयः` इति। यथोक्तं जैमिनिना - `गीतिषु सामाख्या` इति। गीतिः = ध्वनिविशेषः।कर्मग्रहणं किमर्थम्,यज्ञ इत्येवोच्येत, यज्ञमन्त्राणां यज्ञक्रियार्थत्वाद्यज्ञकर्मणि भविष्यति? सत्यमेतत्; विस्पष्टार्थ हि कर्मग्रहणम्। अथ वा - योऽपि न प्रसिद्धो यज्ञः पञ्चयजनादिः, तत्रापि यथा स्यादित्येवमर्थम्; अन्यथा `यज्ञे` इच्युच्यमाने प्रसिद्धो यो यज्ञोऽआमेधादिस्त्तत्रैव स्यात्॥", "12035": "`वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते`इति। समानाथ्र्वादित्यभिप्रायः। द्वावपि तौ देवानां दानवचनौ। यथा `वषट्` शब्देन देवानां दानं दीयते तथा वौषट्शब्देनापि। तस्मात् समानार्थत्वात् `वषट्` शब्दो `वौषट्` शब्दं लक्षयति। कारशब्दग्रहणमर्थपदार्थकत्वं विहाय शब्दपदार्थकत्वेन दानक्रियायामुपयुज्यमानस्य तस्योदात्ततरत्वं यथा स्यादित्येवमर्थम्। कारग्रहणे शब्दपदार्थतया दृष्टा, यथा एवकार इति।अन्ये कारग्रहणमन्यस्यापि यथा स्यादिति वर्णयन्ति। तेन `अस्तु श्रौषट्` इत्यत्रायमुदात्ततरो भवति। उच्चैस्तरामिति प्रकर्षप्रत्ययो वौषट्शब्दे `ब्राऊहिप्रेष्यश्रौषडावहानामादेः` [[8.2.91]] इति यः प्लुतो विहितस्तदपेक्षया वेदितव्यः; स ह्रुदात्तः, `याज्यान्तः` [[8.2.90]] इत्यनेन य उदात्तः प्लुतो विहितस्तदपेक्षया प्रकर्षस्य सत्त्वात्। अथ वा - प्रकर्षप्रत्यान्तः स्वरूपशब्दान्तरमेवैतदिति।अपरे त्वाहु - <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति वचनेन प्लुतश्चोदात्तः। अन्यस्त्वनुदात्ततर इति।", "12036": "`इषे त्वा` इत्यादि। `इषु इच्छायाम्` (धातुपाठः-1351), <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्। इडस्यास्तीति लुगधिकारस्य `अप्रत्ययः` (वा। 492) इत्यनेनोपसंख्यानेन अकारप्रत्ययः, प्रत्ययस्वरेणाद्युदात्तः, इषशब्दात् सप्तम्येकवचनम्, <<आद्गुणः>> [[6.1.87]] , <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] । युष्मच्छब्दस्य द्वितीयान्तस्य <<त्वामौ द्वितीयायाः>> [[8.1.23]] इति त्वामादेशः, स त्वनुदात्तः; <<अनुदात्तं सर्वमपादादौ>> [[8.1.18]] इत्यधिकारात्। `अग्ने` इति। <<आमन्त्रितस्य च>> [[8.1.19]] इति षाष्ठिकमाद्युदात्तत्वम्। आङपूर्वात् `या प्रापणे` (धातुपाठः-1049) इत्यस्माल्लोट, सिप्,सेर्हिरादेशः, आङ `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्युदात्तः। `तिङङतिङ` [[8.1.28]] इति याहीत्यस्य निघातः। `वी गत्यादिषु` (धातुपाठः-1019) `मन्त्रेवृषेषपच` [[3.3.96]] इत्यादिना क्तिन्नुदात्तः, चतुर्थ्येकवचने प्रत्यये <<घेर्ङिति>> [[7.3.111]] इति गुणः, अयादेशः, द्वावपि स्थानिवद्भावेनोदात्तौ, शेषमनुदात्तम्। अग्निशब्दः पूर्ववन्निप्रत्ययस्वरेणान्तोदात्तः। द्वितीयैकवचनेऽमि पूर्वत्वम्। <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] । `ईड स्तुतौ` (धातुपाठः-1019)। अनुदात्तेत्त्वादात्मनेपदम्। `तिङङततिङः` [[8.1.28]] इतीडेशब्दस्य निघातः। पुरः पूर्वस्मिन् देश इति विगृह्र `पूर्वापराधरावराणामसि पुरधवश्चैषाम्` [[5.3.39]] इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः। पुरः शब्दः प्रत्ययस्वरेणान्तोदात्तः। दधातेर्निष्ठायां <<दधातेर्हिः>> [[7.4.42]] इति हिरादेशः। <<पुरोऽव्ययम्>> [[1.4.67]] इति गतिसंज्ञायां सत्यां <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। समासस्यान्तोदात्तत्वे प्राप्ते <<गतिरनन्तरः>> [[6.2.49]] इति पूर्वपदप्रकृतिस्वरेण पुरः शब्दोऽन्तोदात्तः। शंशब्दश्चादित्वान्निपातः। निपातस्वरेणाद्युदात्तः। अस्मच्छब्दस्य षष्ठी, `बहुवचनस्य वस्न सौ` [[8.1.21]] इत#इ नसादेशोऽनुदात्तः,अनुदात्ताधिकारात्। दिवः पचाद्यच्॥ पचादिषु देवडिति पठते। `टिड्ढाणञ्` [[4.1.15]] ङीप् अनुदात्तः,<<यस्येति च>> [[6.4.148]] इत्यकारलोपः। <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इति ङीबुदात्तः। द्वितीयाबहुवचने <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घत्वम्। <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] । `ष्टुञ् स्तुतौ` (धातुपाठः-1043), अभिपूर्वात्ृदोरप्` [[3.3.57]] इत्यप्, गुणावादेशौ। वर्णव्यत्ययेन वकारस्य यकारः। `गतिकारक` [[6.2.138]] इत्त्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते `अन्तः` [[6.2.142]] इति वर्तमाने <<थाथघञ्क्ताजबित्रकाणाम्>> [[6.2.144]] इत्त्युत्तरपदान्तोदात्तत्वम्। सप्तम्येकवचम्। <<आद्गुणः>> [[6.1.87]] <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] तस्मात् `अभिष्टये` शब्दोऽन्तोदात्तः॥", "12037": "`सुब्राहृण्या नाम निगदः` इति। अपादबन्धे गदतिर्वर्तते। अपादबन्धं हि गद्यमुच्यते। निशब्दः प्रकर्षे। यदुच्चैरविच्छिन्नमपादबन्धं मन्त्रवाक्यं निगद इति तस्य व्यपदेशः। तस्य च सुब्राहृण्योपलक्षमत्वात्, `सुब्राहृण्या` इति स्त्रीलिङ्गनिर्देशः। `सुब्राहृण्योम्` इति। सुब्राहृणि साधुः।<<तत्र साधुः>> [[4.4.98]] इति यत्। <<तित्स्वरितम्>> [[6.1.185]] इति स्वरितत्वम्, <<प्रणवष्टेः>> [[8.2.89]] इत्योङ्कार आदेश इति केचित्, तदयुक्तम्; `पादस्य वाद्र्धर्चस्य वान्त्यमक्षरमुपसंह्मत्य तदाद्यक्षरशेषस्य स्थाने? त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणवमित्याचक्षते` इति {काशिका-8.2.89}वक्ष्यति। न च निगदे पादव्यवस्था, नाप्यद्र्धर्चव्यवस्था। तस्मादोशब्दोऽस्ति निपातोऽनर्थकः। तस्य स्वरितेन सहैकादेशः स्वरितः। `आमन्त्रितमाद्युदात्तम्` इति। <<आमन्त्रितस्य च>> [[8.1.19]] इत्यनेन षाष्ठिकेन। `त्सयानेनोदात्तः क्रियते` इति। ननु चासिद्धोऽसौ स्वरितः; वचनात् तस्यासिद्धत्वं न भवति। ननु च वचनस्य सुब्राहृण्योमिति प्रयोजनं वक्तुं शक्यम्? न हि समस्ते निगदे सुब्राहृण्याशब्दनोपलक्षिते सतीदमेकमुदाहरणं युक्तम्। `अकार उदात्तः` इति। निपातस्वरेण। `ततः परोऽनुदात्तः स्वरितः` इति। `तिङङतिङ` [[8.1.28]] इति निघाते कृते, <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इत्यनेन। `पश्चिम एकः` इति। छकाराकारः। `चत्वार उदात्ताः` इति। वकारच्छाकाराभ्यामन्ये। `द्वावनुदात्तौ` इति। वकारच्छकारौ। `द्वितीयमक्षरम्` इति। मेधाशब्दाकारः। `शेषमनुदात्तम्` इति। मेधाशब्दे यावचौ ताभ्यामन्यत्। `पूर्वेण` इति। मेधातिथेर्मेषेत्यनेन। `तथैव द्वे आद्ये अक्षरे उदात्ते` इति। `यदि गौरावस्कन्दिन्` इति समस्तमामन्त्रितमाद्युदात्तमिति। अथापि गौरेति शब्दान्तरमामनन्ति, तथापि तस्यापि प्रवेशे कृते सकलस्यामन्त्रितस्याद्युदात्तत्वे <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इत्यादिना पूर्वोक्तेन विधिना द्वे उदात्ते भवतः। `अहल्यायै जार` इति। षष्ठर्थे चतुर्थी, <<बहुलं छन्दसि>> [[7.4.78]] इत्यत्र `षष्ठर्थे चतुर्थी वक्व्या` (वा।142) इत्युपसङ्ख्यानात्; <<व्यत्ययो बहुलम्>> [[3.1.85]] इति व्यत्ययेन वा। `समस्तमामन्त्रितमाद्युदात्तम्` इति। कौशिकशब्दस्य परामन्त्रितानुप्रवेशात्। `एवं गौतमब्राउवाण` इति। एतदपि कौशिकब्राआहृणेत्यनेन तुल्यमित्यर्थः। `द्वावुदात्तौ` इति। अनन्तरयोरुदाहरणयोः प्रत्येकमाद्यवित्यर्थः। `आः शपब्द उदात्तः` इति। प्रातिपदिकस्वरेण। `उदात्त इति वर्तते` इति। `मन्त्रे वृष` [[3.3.96]] इत्यादेः सूत्रात्। `द्वावुदात्तौ` इति। तौ पुनरादी आगच्छेत्यत्र दर्शितौ। `पदात् परमामन्त्रितं निहन्यते` इति। <<आमन्त्रितस्य च>> [[8.1.19]] इत्यनेन।", "12038": "`द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे कृते` इति। `विभाषितं विशेषितं विशेषवचने बहुवचनम्` [[8.1.74]] इति पूर्वस्याविद्यामानत्वात् <<आमन्त्रितस्य च>> [[8.1.19]] इति पदात् परस्यापि निघातो न भवति। तेन द्वयोरपि पृथगेव षाष्ठिकमाद्युदात्तत्वं भवति। `शेषनिघातः` इति। <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनेन।", "12039": "`अनुदात्तानाम्` इति जातौ बहुवचनम्। तेन द्वयोरपि भवति। `इममित्यन्तोदात्तम्` इति। इदंशब्दस्य कमिप्रत्ययान्तत्वात् प्रत्ययस्वरेणान्तोदात्त्त्वम्, तस्य त्यदात्यत्वे <<अतो गुणे>> [[6.1.97]] पररूपत्वे तस्याप्येकादेश [[8.2.5]] उदात्तेनोदात्तत्वात्। `विधिकल एव` इति। <<तेमयावेकवचनस्य>> [[8.1.22]] इति विधिकाल एव निघातविधानात्। `सर्व एत आमन्त्रितनिघातेनानुदात्ताः` इति। यद्यपि ``आमन्त्रितं पूर्वमविद्यमानवत्` [[8.1.72]] इति, तथापि मेशब्दापेक्षया सर्वेषां निघातापत्तेः। `प्रथमामन्त्रितमाद्युदात्तम्` इति। <<आमन्त्रितस्य च>> [[8.1.19]] इति षाष्ठिकेन। `तस्य द्वितीयमक्षरं स्वरितम्` इति। <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इति। `ततः परेषामनुदात्तानाम्` इति। <<नामन्त्रिते समानाधिकरणे सामान्यवचनम्>> [[8.1.73]] इत्यविद्यमानत्वस्य प्रतिषेधे सति माणवकात् परयोः <<आमन्त्रितस्य च>> [[8.1.19]] इति निघातविधानात् परेऽनुदात्ताः। `अवग्रहे मा भूत` इति। अवग्रहः = असंहितापाठः। ननु च स्वरितादिति पञ्चमी, तेन <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थकत्वादवग्रहे प्राप्तिरेव नास्ति, यथैव हि वर्णो व्यवधायकस्तथा कालोऽपि, तत् किं संहिताग्रहणम्? पञ्चमीनिर्देशकालो न व्यवधायक इति ज्ञापनार्थम्। तेन `तिङङतिङः` [[8.1.28]] इत्यत्रावग्रहेऽतिङन्तात् परं तिङन्तं निहन्यते॥", "12040": "`मातर इत्यनुदात्तः` इति। अनुदात्तत्वं तु विभक्तिस्वरेण। मातर इति मातृशब्दाज्जस्, <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः। जसः सकारस्य रुत्वम्। तस्याप्यशब्दे शसन्ते परतः <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्वम्। <<आद्गुणः>> [[6.1.87]] `उडिदम्` [[6.1.165]] इत्यादिना विभक्तेरन्तोदात्तत्वे कृते `एङः पदान्तादति` (61।109) इतिय ओकारः, सोऽपि स्थानिवद्भावेनानुदात्तो भवति। `तस्योदात्ते परभूते` इति। विभक्त्यकारे। `इकारोऽनुदात्तः` इति। सरस्वतीतिशब्दसम्बन्धी; `आमन्त्रित्सय च` [[8.1.19]] इति सरस्वतीशब्दस्य निघातविधानात्। `तस्मान्न निहन्यते` इति। <<अनुदात्तं सर्वमपादादौ>> [[8.1.18]] इत्यत्रापादादाविति निघातप्रतिषेधात्। `प्रथममक्षरम्` इति। शकारोकार उदात्तः, <<आमन्त्रितस्य च>> [[8.1.19]] इति षाष्ठिकेन।", "12041": "`घृतस्पृक्` इति। <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम् = शकारस्य खकारः, तस्य जश्त्वम् = खकारस्य गकारः। `अद्र्धभाक्` इति। <<चोः कुः>> [[8.2.30]] इति जकारस्य गकारः। उभयत्र <<वाऽवसाने>> [[8.4.56]] इत चर्त्वं ककारः। त्तरापृक्तसंज्ञायां सत्याम् <<वेरपृक्तस्य>> [[6.1.67]] इति वकारलोपो भवति। प्रत्युदाहरणेषु हि तदभावान्न भवति।`दर्विः` इति। `दृ विदारणे` (धातुपाठः-1493) `वृ दृभ्यां विन्` (द।उ।1।23) इति विन्। `जागृविः` इति। `जागृ निद्राक्षये` (धातुपाठः-1072), `जृशृस्तृजागृभ्यः क्विन्` (द।उ।1।24) इति क्विन्। `सुराः` इति। `षूञ् अभिषवे` (धातुपाठः-1247), सुरां सुनोतीति <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्; सुरासुत्, ह्रस्वस्य तुक्। `तमाचष्टे` (वा। 201) इति णिच्। `णाविष्टवत् कार्यं प्रातिपदिकस्य` (वा।813) इति टिलोपः। सुरासवतेः पुनः क्विप्, णिलोपः, प्रथमैकवचनम्, हल्ङ्यादिना [[6.1.66]] सुलोपः; रुत्वविसर्जनीयौ। अत्रापि णिलोपे कृतेऽसति प्रत्ययग्रहणे धातुकारस्यापृक्तसंज्ञा स्यात्। तस्यां च सत्यां <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति धातुसकारलोपऋः स्यात्। ननु चासत्यपि प्रत्ययग्रहणे `प्रत्याप्रत्ययोः प्रत्ययस्यैव ग्रहणम्` (व्या।प।72) इति संज्ञा विज्ञास्यते, तत् किमर्थं प्रत्ययग्रहणम्? क्रियते विस्पष्टार्थम्।अथैकग्रहणं किमर्थम्? अल्समुदायस्य मा भूदिति, नैतदस्ति; अल्ग्रहणसामर्थ्यान्न भविष्यति, अन्यथा ह्रल्ग्रहणमनर्थकं स्यात्- यदि हल्समुदायस्यापि संज्ञा स्यात्। एवं तह्र्रल्ग्रहणेनात्र जातिग्रहणं भवतीति ज्ञापनार्थमेकग्रहणमम्। तेन <<हलन्ताच्च>> [[1.2.10]] इत्यत्र यदुक्तम् - `दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्` इति तदुपपन्नं भवति।", "12042": "`तत्पुरुषः` इति समासविशेषस्याख्या। स च एक एवशब्दः। अनेकस्य च शब्दस्य भिन्नप्रवृत्तिनिमित्तकस्यैकस्मिन्नर्थे वृत्तिः =सामानाधिकारण्यम्। ततश्च यत्र बाह्रेन पदेन तत्पुरूषस्य सामानधिकरण्यम्, तत्रैवेयं संज्ञा स्यात् - राजपुरुषः शोभन इत्यादौ,अस्ति ह्यत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शोभनशब्देन सह। पाचकवृन्दारिकेत्यादौ तु न स्यात्, न ह्यत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शब्दान्तरस्य प्रयोगाभावादिति चोद्यमपाकर्त्तुमाह- `समानाधिकरणपदः` इति। समानम् = अभिन्नम्, एकमधिकरणम् = वाच्यं येषां पदानां तानि समानाधिकरणानि पदानि, तान्याश्रयभूतानि यस्य तत्पुरुषस्य स समानाधिकरणपदस्तत्पुरुषः। एतेन तत्पुरुषार्थानां पदानां समानाधिकरणत्वादुपचारेण तत्पुरुषोऽत्र सूत्रे समानाधिकरणशब्देनोक्त इति दर्शयति। कथं पुनर्बाह्रन्यपदापेक्षया तत्पुरुषस्य मुख्ये सामानाधिकरण्ये सम्भवति सत्यौपचारिकस्य ग्रहणमुपपद्यते? `कर्मधारयः` इति महत्याः संज्ञायाः करणात्। इह हि लाघवार्थत्वात् कसंज्ञाकरणस्य, लघीयस्यां संज्ञायां कर्तव्यायां `कर्मधारयः` इति महतीं संज्ञां कुर्वता - `अन्योऽप्यत्र कश्चित् विपर्ययः संज्ञायामाश्रितः` इत्येषोऽर्थः सूचितः। तेन `गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः` (व्या।प।4) इति मुख्यस्य समानाधिकरणस्य ग्रहणं न विज्ञायते।`समानाभिधेयः` इति। तदर्थानां पदानां समानाभिधेयत्वात् तत्पुरुषोऽप्युपचारेण समानाभिधेय इत्युक्तः। `परमराज्यम्, उत्तमराज्यम्` इति। <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना समासः। कर्मधारये सति <<अकर्मधारये राज्यम्>> [[6.2.130]] इत्युत्तरपदाद्युदात्तमत्वं न भवति। `पाचकवृन्दारिका` इति। वृन्दारकनागकुञ्जरैः` [[2.1.61]] इति पुंवद्भावः। `पाचिकाभार्यः` इति। बहुव्रीहिरयम्। तेनात्र <<न कोपधायाः>> [[6.3.37]] इति प्रतिषेधो भवत्येव। `ब्राआहृणराज्यम्` इति। षष्ठीतत्पुरुषोऽयम्। तेनात्र समासान्तोदात्तमेव न भवति, अपि तूत्तरपदाद्युदात्तत्वम्॥", "12043": "`समासे` इत्यधिकरणनिर्देशोऽयम्। कष्टश्रितादयः समासाः न किञ्चित् प्रथमानिर्दिष्टं शब्दरूपमस्ति। तथा हि - समासे कृते तत एव समासाद् विभक्तिरुत्पद्यते, न तु तत्र स्थाच्छब्दात्। न च वाक्यकाले समासार्थात् पदाद् या प्रथमोत्पन्ना तदाश्रयं प्रथमानिर्दिष्टत्वं समासावयवस्य कल्पयितुं युक्तम्, यतः `समासे` इत्यधिकरणनिर्देशोऽयम्। तत्र समासे कृते यस्मात् प्रथमोत्पद्यते, तदेव समासे प्रथमानिर्दिष्टं भवति; न तु यस्मात् वाक्यकाले विभक्तिकाले विभक्तिरुत्पद्यते। तद्धि वाक्य एव प्रथमानिर्दिष्टम्, न तु समासे; प्रागेव समासात् तस्य प्रथमानिर्दिष्टत्वात्। ततश्च समासे कृते प्रथमानिर्दिष्टस्य संज्ञिनोऽसम्भवात् संज्ञा न सम्भवीत्येतच्चोद्यमपाकर्तुमाह- `प्रथमया विभक्त्या यन्निर्दिश्यते` इति। समासार्थं यच्छास्त्रं तत् समासशास्त्रं गृह्रते। तत्र प्रथमानिर्दिष्टस्येयं संज्ञा विधीयते, न तु कष्टश्रितादौ; समासे प्रथमानिर्दिष्टस्याविद्यामानत्वात् विद्यते च समासशास्त्रे प्रथमानिर्दिष्टं संज्ञीति कुतः संज्ञाया अप्रसिद्धिः? कथं पुनः `समासे` इत्युच्यमाने समासशास्त्रे यत् प्रथमया निर्दिश्यते तस्य संज्ञित्वं लभ्यत इत्यत आह - `समासे` इति। `समासशास्त्रं गृह्रते इति। कथं पुनः `समासे` इत्युच्यमाने समासशास्त्रं ग्रहीतुं शक्यम्? तादथ्र्यात् तत्र समासशब्दस्य प्रवृत्तेः। भवति हि तादथ्र्यात् तावच्छब्द्यम् , यथा - प्रदीपार्था मल्लिका `प्रदीपः` इति, इन्द्रार्था स्थूणा `इन्द्रः` इति। कष्टश्रितादिषूपसर्जनसंज्ञयायाः कार्यम् - `उपसर्जनं पूर्वम्` [[2.2.30]] इति पूर्वनिपातः।तत्रेदं चोद्यते - राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यत्र राजन्शब्दः `षष्ठी` [[2.2.8]] इति समासशास्त्रे प्रथमानिर्दिष्टः; <<द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः>> [[2.1.24]] इति द्वितीयासमासशास्त्रे कुमारीशब्दश्च। समसाशास्त्रे तत्रोभयोरप्यस्यां संज्ञायां सत्यां पूर्वनिपातानियम उपसर्जनह्रस्वस्वत्वञ्चेत्येतद्दोषद्वयं प्राप्नोतीति। इह च राज्ञः कुमार्याः स्वं राजकुमारीस्वमिति द्वयोरपि षष्ठन्तयोः समासशास्त्रे प्रथमानिर्दिष्टत्वादुभयोरप्युपसर्जनसंज्ञायां सत्यां तदेव दोषद्वयं प्राप्नोति? नैष दोषः; यस्मादुसर्जनमिति महत्याः संज्ञायाः करणस्यैतदेव प्रयोजनम् - अन्वर्थसंज्ञा यथा विज्ञायेतेति। अप्रधनामुपसर्जनम्, प्रधानमनुपसर्जमिति। अप्रधानञ्च प्रधानमपेक्षते; सम्बन्धिशब्दत्वात्। तत्र सम्नब्धादेतवगन्तव्यं यत् प्रति यदप्रधानं तत् प्रतितदुपसर्जनमिति। श्रितादींश्चापेक्ष्य द्वितीयान्तमुपसर्जनं भवति, न तु द्वितीयान्तमात्रम्। न चेह श्रितादयः सन्ति। राज्ञः कुमार्याः स्वं राजकुमारीस्वमित्यात्राप्येष परीहारः। अत्रापि कुमारीशब्दमपेक्ष्य राजन्शब्दस्याप्राधान्यम्; न तु राजन्शब्दमपेक्ष्य कुमारीशब्दस्य। तस्मात् राजन्शब्दस्योपसर्जनसंज्ञा, न तु कुमारीशब्दस्य। यदि ह्रन्वर्थसंज्ञेयम्, पाचकवृन्दारिका, पुरुषव्याघ्रः, अर्धपिप्पली, पूर्वकायः - इत्येतेषु पूर्वपदार्थ एव प्रधानमिति पाचिकादीनामिह प्राधान्यम्। अतो यद्यप्येते <<वृन्दारकनागकुञ्जरैः पूज्यमानम्>> [[2.1.62]] , <<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> [[2.1.56]] , `अर्धं नपुंसकम्` [[2.2.2]] , `पूर्वापराधरोत्तरमेकदेशिकनैकाधिकरणे` [[2.2.1]] इत्येतेषु समासशास्त्रेषु प्रथमानिर्दिष्टाः, तथापि तेषामुपसर्जनसंज्ञा न प्राप्नोति; कुतः? तेषां प्राधान्यात्। एवं तर्ह्रुत्तरसूत्रेऽनुक्तसमुच्चयार्थत्वाच्चकारस्य भविष्यतीत्यदोषः।अन्यस्त्वेवं मन्यते - `पाचकवृन्दारिकेत्येवमादिषु पूर्वोक्तेषु समासेष्वाद्यौ <<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] , <<उपमानानि सामान्यवचनैः>> [[2.1.55]] इत्येताभ्यामेव सिद्धौ; शेषौ तु `षष्ठी` [[2.2.8]] इत्यनेनैव। तस्मात् <<वृन्दारकनागकुञ्जरैः पूज्यमानम्>> [[2.1.62]] इत्यादीनां न तदर्थ आरम्भः; किं तर्हि? उपसर्जन संज्ञार्थः; तेनासत्यपि पाचिकादीनामप्रधानत्वे तेषामियं संज्ञा भविष्यति` इति, एतच्चासम्यक्, तथा हि - `पूज्यमानम्`, `सामान्याप्रयोगे`, `नपुंसकम्`, `एकाधिकरणम्` - इत्येतान् विशेषान् वक्ष्यामीत्येतदर्थ आरम्भः स्यात्। सति चैतदर्थ आरम्भेऽत्राप्रधानस्योपसर्जनसंज्ञा विधीयमाना प्रधानस्य न स्यात्॥", "12044": "अप्रधमानिर्दिष्टार्थोऽयमारम्भः। विभक्तिशब्दः सुपां वाचकः, विभागवचनो वा। कारकशक्तिर्विभागः - विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। `समासे विधीयमाने` इति। समासार्थवाक्यकाले। तदा हि तस्य समासस्य विधीयमानता भवति। एतेन समासग्रहणमनुवर्तमानं समासार्थे वाक्ये वर्तते, न समासशास्त्र इति दर्शयति। समासशास्त्रे हि सर्वमेव शब्दरूपमेकविभक्तिकमेव भवतीत्येकविभक्तिग्रहणमनर्थकं स्यादिति भावः। सर्वमेव हि प्रातिपदिकं पर्यायेणैकया विभक्त्या प्रयुज्यते। तस्मादेकविभक्तिग्रहणसामर्थ्यादवधारणमत्र विज्ञायत इत्यत आह - `यन्नियतविभक्तिकम्` इति। तदेव स्पष्टीकुर्वन्नाह - `द्वितीये सम्बन्धिति` इत्यादि। `पूर्वपदेनानाविभक्तिकेऽपि` इति। निष्क्रान्तशब्दः कर्तृशक्त्युपसर्जनीभूतं द्रव्यमाह। तच्चानेकसाधनशक्त्युपचितमिति क्रियान्तरसम्बन्धादेनेकसाधनविभक्तिकं भवति। `उत्तरपदंद तु पञ्चम्यन्तमेव भवति` इति। निषक्रमणक्रियापेक्षयाऽऽविर्भूतापादानशक्तिकत्वात्। `निष्कौशाम्बिः` इत्यत्रोपसर्जनसंज्ञाकार्यम्`गास्त्रियोरुपसर्जनस्य` [[1.2.48]] इति हस्वत्वम्। अथ निसोऽत्र केनोपसर्जनसंज्ञा विधीयते, ययोऽस्य पूर्वनिपातः? पूर्वसूत्रेणेति चेत्, नैतदस्ति; तेनाप्रधानस्योपसर्जनसंज्ञाविधानात्, निसश्चात्र प्राधान्यात्। एवं तर्हि चकारस्यानुक्तसमुच्चायार्थत्वात् भविष्यति। अन्ये त्वाहुः - मा भून्निस उपसर्जनसंज्ञा, असत्यामपि तस्यां पूर्वनिपातो भविष्यति, <<एकविभक्ति चापूर्वनिपाते>> [[1.2.44]] इति वचनादिति, एतच्चायुक्तम्; पूर्वनिपाते हि कर्तव्य एकविभक्तिकस्योपसर्जनसंज्ञा नास्त्येव। तत्र यदि निस उपसर्जनसंज्ञा न स्यात्, तदोदहरणे द्वयोरप्यसत्यां तस्यां पर्यायेणानियः पूर्वनिपातः प्रसज्येत। अथ कथमर्धपिप्पल्यादीनामूपसर्जनसंज्ञा न भवति? अत्र च `विभाषा च्छन्दसि` [[1.2.36]] इत्यतो विभाषाग्रहणं मम्डूकप्लुतन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। तेनार्ध पिप्पल्या अर्धपिप्पलीत्यादौ विषये पिप्पल्यादीनामेकविभक्तियुक्तानामप्युसर्जनसंज्ञा न भवति। यदि हि स्यात्, तदा ह्रस्वत्वं स्यात्॥", "12045": "`अभिधेयवचनोऽयमर्थशब्दः` इति। एतेन प्रयोजनादिवचनाद्वयवच्छिनत्ति। अर्थशब्दो हि प्रयोजनवचनोऽप्यस्ति, यथा - अनेनार्थनागतः, अनेन प्रयोजनेनेति गम्यते। निवृत्तिवचनोऽप्यस्सि, यथा - मशकारर्थो धूम इति, मशकनिवृत्त्यर्थ इति गम्यते। धनवचनोऽप्यस्ति,यथा - अर्थवान् देवदत्त इति, धनवानिति गम्यते। अभिधेयवचनोऽप्यस्ति, यथा - अस्य वचनस्यायमर्थ इति, इदमस्याभिधेयमिति गम्यते। इह त्वभिधेयवचनस्यैव ग्रहणम्। तत् पुनरभिधेयं जातिगुणक्रियाद्रव्यभेदेन चतुर्विधम्।अत एव चतुष्टयी शब्दानां प्रवृत्तिर्भवति। तत्र जातिशब्दानां जातिरभिधेया - गौरिति। यद्यर्थवतः प्रातिपदिकसंज्ञा विधीयते तदाऽभाववचनशशविषाणादिशब्दानां प्रातिपदिकसंज्ञा नोपपद्यते, अर्थाभावात्, नैतदस्ति; `अर्थशब्दोऽभिधेयवचनः` (का।1.2.45) इत्युक्तम्, अभावोऽप्यभिधेयो भवत्येव। अन्यथा ह्रर्थाभावादितीदं वचनमनुच्चारणीयं स्यात्, अनर्थकत्वात्, न ह्रनर्थकं वचनं प्रयोगर्हति। तस्मादबाववचनानामपि प्रातिपदिकसंज्ञा भवत्येव।`नान्तस्याधेर्मा भूत्` इति। ननु चाधातुरिति प्रतिषेधो भविष्यति, तथा हि `वन सम्भ्कतौ` (धातुपाठः-463), `धन धान्ये` (धातुपाठः-1104) इत्येतयोः धरात्वोरेते रूपे, नैतदस्ति; अव्युत्पन्नावपि वनधनशब्दौ स्तः, तयोरेवायं प्रयोगः। अत्र यदि नान्तस्यावधेः प्रातिपदिकसंज्ञा स्यात् तदा सुबुत्पत्तिः स्यात्, ततश्च पदसंज्ञायां सत्यां नलोपः स्यात्। ननु च `अधातुः` `अप्रत्ययः` - नैतदस्ति; अनर्थकस्यापि धातोर्विद्यमानत्वात् यथा - `इङ अध्ययने` (धातुपाठः-1046), `इक् स्मरणे` (धातुपाठः-1047) इति - एतयोरधिपूर्वयोरेवार्थवत्त्वम्, न केवलयोः। यस्तु गणपाठेऽनयोरर्थनिर्देशः, स समुदायार्थमवयवेऽध्यारोप्य कृत इति वेदितव्यम्। अध्यारोपितार्थयोरपि तयोर्गणपाठसामर्थ्याद्धातुसंज्ञा भवत्येव। एवं प्रत्ययोऽप्यनर्थकोऽप्यस्ति। यथा - <<यावादिभ्यः कन्>> [[5.4.29]] , याव एव यावक इति। न ह्यत्र प्रत्ययस्यान्वयव्यतिरेकाभ्यां शक्यतेऽर्थवत्त्वं प्रत्येतुम्। विनापि तेन कन्प्रत्ययेन यावशब्दादेव तदर्थः प्रतीययते। तस्मादर्थवदिति युक्तमुक्तम्।`अहन्` इति। अदादित्वाच्छपो लुक्, तिपो हल्ङ्यादिना [[6.1.66]] लोपः, अट्। स च हन्तिग्रहणेन गृह्रत इति कृतेऽपि तस्मिन् हन्तिर्दातुरेव। अत्र विना धातुग्रहणेन प्रागेव प्रत्ययोत्पत्तेः प्रातिपदिकसंज्ञा स्यात्। नलोपस्तु प्रत्ययोत्पत्तौ पदत्वे सत्युत्तरकालम्। अथ वा - प्रातिपदिकसंज्ञाऽपि प्रत्ययोत्पत्तेरुत्तरकालमेव स्यात्, तस्माद्धातुग्रहणं कर्तव्यम्। ननु चात्र प्रत्ययलक्षणेन `अप्रत्ययः` इति प्रतिषेधेन भवितव्यम्,तत् किमधातुग्रहणेन? नैतदस्ति; प्रातिपदिकसंज्ञायां नलोपः कार्यः, नलोपे च `न ङिसम्बुद्धयोः` [[8.2.8]] इति प्रतिषेधो ज्ञापकः- प्रत्ययलक्षणेन `अप्रत्ययः` इति प्रतिषेधो न प्रवर्तत इति। यदि ह्रप्रत्यय इति प्रत्ययलक्षणेन हे राजन्नित्येवमादिषु प्रातिपदिकसंज्ञायाः प्रतिषेधः स्यात्, `न ङिसम्बुद्धयोः` [[8.2.8]] इति प्रतिषेधो अनर्थकः स्यात्; प्राप्त्यभावात्। अथ भिद्-छिद्-लूः- पूरित्येवमादीनां कथं प्रातिपदिकसंज्ञा, यावता क्विबन्ता धातुत्वं न जहतीति धातव एवैत इति, अत्राधातुरिति प्रतिषेधेन भवितव्यम्? नैष दोषः; मा भूदनेन, कृदन्तत्वादुत्तर सूत्रेण भविष्यति। न चोत्तरस्याः प्राप्तेरयं बाधकः; वाक्यान्तरस्थत्वात्। `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।10) इति वा।`काण्डे, कुडए` इति। प्रथमाद्विवचनान्ते एते रूपे। <<नपुंसकाच्च>> [[7.1.19]] इति शीभावः। अत्र च `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (भा।प।सू।7) इति तदन्तस्य प्रतिषेधो भविष्यति, न प्रत्ययमात्रस्य। ननु च <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यत्रान्तग्रहणेन `अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति` इति ज्ञापितत्वात् `अप्रत्ययः` इति प्रत्ययान्तस्य प्रतिषेधो न लभ्यते, नैष दोषः; संज्ञाविधौ स प्रतिषेधः, न चायं संज्ञाविधिः, किं तर्हि? प्रतिषेधविधिः। अथ किमर्थमप्रत्यय इत प्रतिषेध उच्यते, यावतोत्तरसूत्रे कृत्तद्धितग्रहणं नियमार्थं भविष्यति - `कृत्तद्धितान्तस्यैव प्रातिपदिकसंज्ञा, नान्यप्रत्ययान्तस्य - काण्डे,कुडए इत्येवमादेः`इति? नैतदस्ति, असत्यस्मिन् प्रतिषेधेऽन्यत्र`संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति` इति कृत्तद्धितयोरेव प्रातिपदिकसंज्ञा स्यान्न तदन्तस्य; तदन्तस्य चैवेष्यते - भिच्छिल्लूःपूरित्येवमादीनां प्रातिपदिकसंज्ञार्थम्। सत्यप्रत्यय इत्येतस्मिन् प्रतिषेधे प्राप्ते यथा कृत्तद्धितान्तस्य प्रातिपदिकसंज्ञा लभ्यते तथोत्तरसूत्रे प्रतिपादयिष्यामः। ननु च `काण्डे` `कुड्ये` - इत्येतयोः पूर्वमेव प्रकृतेः प्रातिपदिकसंज्ञा प्रवृत्ता, विभक्त्या च सहैकादेशे कृतेऽन्तादिवद्भावादस्त्येव प्रातिपदिकत्वमिति सत्यप्यप्रत्ययग्रहणे ह्रस्वत्वं प्राप्नोत्येव, नैतदस्ति; अप्रत्ययग्रहणसामर्थ्यान्न भविष्यति,अन्यथा ह्रप्रत्ययग्रहणमनर्थकं स्यात्।`अधातुरप्रत्ययः` इति द्विष्प्रतिषेधः षष्ठीतत्पुरुषाशङ्कानिरासार्थः `अधातुप्रत्ययः` इत्युच्यमाने षष्ठी तत्पुरुषोऽप्याशङ्क्येत - धातोर्यः प्रत्ययस्य न भवतीति॥", "12046": "अत्र `अन्यत्र संज्ञाविधौ प्रत्ययग्रणे तदन्तविधिर्नास्ति` इत्यतन्नोपतिष्ठते, यस्मादप्रत्यय इति प्रतिषेधे प्राप्ते वचनमिदम्। `अप्रत्ययः` इति प्रत्ययान्तस्य प्रतिषेधः उक्तः। तेन यत्र संज्ञायाः प्रतिषेधस्तत्रेयमारभ्यमाणा तदन्तस्यैव भवतीत्येतच्चेतसि कृत्वाऽऽह - `अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य` इत्यादि।अथ समासग्रहणं किमर्थम्? यावता समासस्यार्थवत्त्वात् पूर्वेणैव संज्ञासिद्धेत्यत आह - `अर्थवत्समुदायानाम्` इत्यादि। निर्धारणषष्ठीयम् - अर्थवन्तो ये समुदायास्तेषां मध्ये समासस्यार्थवतः समुदायस्य प्रातिपदिकसंज्ञा यथा स्यादिति नियमार्थं समासग्रहणम्।यद्येवम्, प्रकृतिप्रत्ययसमुदायस्यार्थवतः प्रातिपदिकसंज्ञा न स्यात् - बहुपटव उच्चकैरिति? कोऽत्र दोषः? `चितः` [[6.1.157]] इत्यस्मिन् सूत्रे चितः सप्रकृतेर्बहुजकजर्थमिति वचनादेतद्वयवस्थाप्यते - प्रकृतिमन्तर्भाव्य चित्स्वरो विधीयत इति। बहुपटव इत्यत्र बहुचि विहिते यदि प्रातिपदिकसंज्ञा न स्यात्,तदा प्रातिपदिकत्वाभावात् यथा सुबुत्पत्तिर्न स्यात् तथोत्पन्नाया अपि विभक्तेः <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति लुका न भवितव्यम्। ततश्च बहुपटव इत्यत्र जस्विभक्तेरकारस्य स्वरः स्यात्; उकारस्य चेष्यते। प्रातिपदिकत्वे तु सति पूर्वोत्पन्नाया विभक्तेर्लुकि कृते याऽन्या विभक्तिरुत्पद्यते, सा बहुजुत्पत्तेरुत्तरकालभाविनीत्वात् प्रकृतौ नान्तर्भवति। तेन तामुत्सृज्य पूर्वो भागः स्वरभाग भवति। अत उकारस्य स्वरः सिध्यति। उच्चकैरित्यत्र प्रातिपदिक्तवाभावाकज्वतः समुदायाद्विभक्तिर्न स्यात्, तस्याञ्चासत्यां पदत्वं न स्यात्। ततश्चोच्चकैः पठतीति `तिङङतिङः` [[8.1.28]] इति निघातो न स्यात्। तस्मात् प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा वक्तव्या? न वक्तव्या, यस्मात् तुल्यजातीयानां नियमः, तेन तुल्यजातीयो नियमेन व्यवच्छ#इद्यते। तुल्यजातीयश्चच समाससुबन्तसमुदायादन्यः वाक्यसमुदाय एव, न तु प्रकृतिप्रत्ययसमुदायः। तेनायं तस् नियमेन व्यवच्छेदो न करिष्यते, नैतदस्ति; सुबन्तासुबन्तसमुदायोऽपि समासोऽस्ति, यथा - प्रकर्ता, प्रकारक इति। अत्र हि `गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः` (व्या।,प।वृ 138) इति कृदन्तेनासुबन्तेन गतिकारकं सुबन्तं समस्यते, तेन सुबन्तासुबन्तसमुदायोऽयं समास इति तुल्यजातीयस्यापि नियमे विज्ञायमाने बहुपटवः, उच्चकैरित्यत्र प्रातिपदिकसंज्ञा न स्यात्। एवं तह्र्राचार्यप्रवृत्तिज्र्ञापयति - भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञेति; यदयमप्रत्यय इति प्रत्ययान्तस्य प्रतिषेधं शास्ति॥", "12047": "`नपुंसकलिङ्गे` इति। नुपुंसकं लिङ्गं यस्येति बहुव्रीहिः। स पुनर्नपुंसकलिङ्गोऽर्थो द्रव्यभूतो वेदितव्यः; न पुंसकिलिङ्गस्य द्रव्यधर्मत्वात्। `अलोऽन्त्यस्य` इति। <<अलोऽन्त्यस्य>> [[1.1.52]] इति परिभाषा।`ग्रामणीः` इति। `सत्सूद्विष` [[3.2.61]] इत्यादिना क्विप्। `अग्रग्रामाभ्यां च` (का।वा।5064) इत्युपसंख्यानाण्णत्वम्। काण्डे, कुडए - इत्यत्रापि `अप्रत्ययः` इति प्रतिषेधात्प्रातिपदिकसंज्ञा नास्ति, तेन ह्रस्वत्वं न भवति। ननु च प्रातिपदिकाप्रातिपदकयोरेकादेशोऽन्तादिवद्भावात् प्रातिपदिकग्रहणेन गृह्रते, ततश्च क्रियमाणे प्रातिपदिकग्रहणे ह्रस्वत्वं प्राप्नोतीत्यत आह - `प्रातिपदिकगर्हणसमथ्र्यात्` इत्यादि। इह यदन्तवद्भावः स्यात्, प्रातिपदिकगर्हणमनर्थकं स्यात्,व्यवच्छेद्याभावादिति भावः॥", "12048": "`स्त्रीति स्त्रीप्रत्ययग्रहणम्` इति। अत्र हेतुमाह - `स्वरितत्वात्` इति। स्त्रीग्रहणस्येह स्वरितत्वं क्रियत इति स्वरितेनाधिकारादवगतिर्भवति। तेन <<स्त्रियाम्>> [[4.1.3]] इत्यधिकृत्य ये प्रत्यया विहिताष्टावादयस्तेषां ग्रहणं भवति; न स्त्रर्थाभिधायिनः शब्दमात्रस्य, नापि स्त्रीशब्दस्यैव स्वरूपस्य उपसर्जनग्रहणं द्वयोर्विशेषणमित्यादेः स्पष्टीकरणयाह - `गोरुपसर्जनस्य, स्त्रीप्रत्ययस्योपसर्जनस्य` इत्यादि। ताभ्यां प्रातिपदिकस्यत्यादेरपि स्फुटीकरणायाह - `उपसर्जनगोशब्दान्तस्य` इत्यादि। उपसर्जनगोशब्दोऽन्तो यस्येति विग्रहः। एवं गोशब्देनोपसर्जनेन स्त्रीप्रत्ययेन च प्रातिपदिकस्य तदन्तविधो सति गोः कुलं गोकुलम्, राज्ञः कुमार्याः पुत्रो राजकुमारीपुत्र इत्यत्र गोशब्द्य कमारीशब्दस्य च ह्रस्वत्वं न भवति, अन्यथा इहापि स्यात्। भवति ह्यत्र गोशब्दस्य राजकुमारीशब्दस्य चोपसर्जनत्वमित्यभिप्रायः।`चित्रगुः` इति। `प्रथमानिर्दिष्टम्` [[1.2.43]] इत्यादिना गोशब्दसयोपसर्जनसंज्ञा, निष्कोशाम्बिरित्यादौ तु `एकविभक्ति चापूर्व` [[1.2.44]] इत्यादिना। `अतितन्त्रीः` इत्यादि। `तत्रि कुटुम्बधारणे` (धातुपाठः-1678), `इदितो नुम्` [[7.1.58]] , `अवितृस्तृतन्त्रीभ्यः` (द।उ।1।82) इतीः- तन्त्रीः। `लक्ष दर्शनाङ्कनयोः` (धातुपाठः-त1538), `लक्षेर्मुट् च` (द।उ।1।84) इति मुट् ईप्रत्ययश्च - लक्ष्मीः। `श्रिञ् सेवायाम्` (धातुपाठः- 897), `क्विब वचिप्रच्छि`(वा।288) इत्यादिना क्विप्, दीर्घः- श्रीः। `अत्यादयः क्रान्त्याद्यर्थे द्वितीयया` (वा।91) इति प्रादिसमासः।यदि स्त्रीति स्त्र्यधिकारविहिताः प्रत्यया गृह्यन्ते ततश्च `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (भो।सू।7) इति तदन्तग्रहणेऽतिराजकुमारीरित्यत्र ह्रस्वत्वं न सिध्यति; न हि राजकुमारशब्दात् <<वयसि प्रथमे>> [[4.1.20]] इति ङीप्प्रत्ययो विहितः,किं तर्हि? कुमारशब्दात्, नैष दोषः; एषा परिभाषा `यस्मात्प्रत्ययविधिस्तदादि` [[1.4.13]] इत्यत्र सूत्रे प्रतिपादिता। तत्र च `वाऽऽमि [[1.4.5]] इत्यतः `वा` ग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन व्यवस्थिविभाषावतीयं क्वचिन्नोपतिष्ठत एव। अथ वा - <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यतश्चकारोऽनुवर्तते,स चानुक्तसमुच्चयार्थः, तेनातिराजकुमारिरित्यत्रापि ह्रस्वत्वं भविष्यतीत्यदोषः।`ईयसो बहुव्रीहौ प्रतिषेधः` इति। ईयसन्ताद्यो विहितः स्त्रीप्रत्ययः,तदन्तस्य बहुव्रीहौ प्रतिषेध इति। कथं पुनरसौ लभ्यते? ` विभाषा च्छन्दसि` [[1.2.36]] इत्यतो विभाषाग्रहणानुवृत्तेः। न चैवं सत्यतिप्रसङ्गः; व्यवस्थितविभाषाविज्ञानात्।`बहुश्रेयसी` इति। अतिशयेन प्रशस्येति `द्विवचनविभज्योपपदे तरबीयसुननौ` [[5.3.57]] इतीयसुन्प्रत्ययः। `प्रशस्यस्य` [[5.3.60]] इति प्रशस्यशब्दस्येयसुनि परतः श्रादेशो भवति, <<प्रकृत्यैकाच्>> [[6.4.163]] इति प्रकृतिवद्भावः, <<आद्गुणः>> [[6.1.87]] , <<उगितश्च>> [[6.3.45]] इति ङीप्। बह्व्यःश्रेयस्यो यस्येति बहुश्रेयसीति `नद्युतश्च` [[5.4.153]] इति कप् न भवति; `ईयसश्च` [[5.4.156]] इति कपो निषेधात्।", "12049": "अदर्शनं [[1.1.59]] लुक्, तच्चाभावः। अभावे पौवापर्यन्नोपपद्यते। तस्माल्लुकीति सति सप्तमीयम्, न परसप्तमीति मत्वाहऽऽह - `तद्धितलुकिसति` इति। `पञ्चेन्द्रः` इति। `तद्धितार्थ` [[2.1.50]] इत्यादिना समासे कृते <<सास्य देवता>> [[4.2.24]] इत्यण्, तस्य <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति लुक्, `इन्द्रवरुण` [[4.1.49]] इत्यादिना विहितस्य ङीषोऽनेन लुक्। तस्मिन्निवृत्ते सन्नियोगशिष्टानामेकतरापाय उभयोरप्यपाय इत्यानुको निवृत्तिः। `पञ्चशष्कुलिः` इति। `अध्यद्र्धपूर्वद्विगोर्लुगसंज्ञायम्` [[5.1.28]] इत्यार्हीयस्य ठकस्तेन क्रीतार्थे विहितस्य लुक्। `आमलकम्` इति। आमलक्याः फलं विकार इति <<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]] इति मयट् । पूर्ववल्लुक्। शष्कुली, बदरी, आमलकी, कुवली - गौरादिपाठदेते ङीषन्ताः।`गार्गीकुलमिति। गर्गशब्दात् `यञश्च` [[4.1.16]] इति ङीप्; <<यस्येति च>> [[6.4.148]] इत्यकारलोपः; <<हलस्तद्धितस्य>> [[6.4.150]] इति यकारस्य च लोपः, गार्ग्याः कुलमिति षष्ठीसमासः, षष्ठ्या लुक्। गार्गीशब्दस्य समासशास्त्रे प्रथमानिर्दिष्टत्वाच्छास्त्रीयमुपसर्जनत्वम्, मूलोदाहरणेषु त्विन्द्रणी प्रभृतीनां लौकिकमात्रोपसर्जनमत्वम्। उभयगतिरिह शास्त्रे सम्भवतीति लौकिकमप्रधानत्वमुपसर्जनत्वम्। लोके ह्रप्रधानमुपसर्जनमित्यच्यते। `गार्गीत्वम्` इत्यत्रापि गार्गीशब्दस्य लौकिकमेवोपसर्जनत्वम्। `अवन्ती, कुन्ती कुरूः` इति। अवन्तेरपत्यं गोत्रं स्त्री, कुन्तेरपत्यं गोत्रं स्त्री - <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] । कुरोरपत्यं स्त्री - <<कुरुनादिभ्यो ण्यः>> [[4.1.172]] इति ण्यः। <<स्त्रियामवन्तिकुन्तिकुरुभ्यश्च>> [[4.1.176]] इति लुक्।अवन्तिकुन्तुशब्दाभ्याम्, <<इतो मनुष्यजातेः>> [[4.1.65]] इति ङीष्। कुरुशब्दात् `ऊङुतः` [[4.1.66]] इत्यूङ। अत्र ङीषा ऊङा च तद्धितार्थो गोत्रापत्यं स्त्रीप्रधानमेवाभिधीयत इत्युपसर्जनत्वं नासति लौकिकम्। शास्त्रीयमपि नास्ति; अप्रथमानिर्दिष्टात् समासशास्त्र इति॥", "12050": "`पञ्गोणिः` इति। `तद्धितार्थ` [[2.1.50]] इति समासे कृत आर्हीयष्ठक्। तस्यपूर्ववल्लुक्। `इदिति योगविभागः` इति। एतस्येद्ग्रहणमेव लिङगम्। तथा हि गोणी इत्येतावति सूत्रे ह्रस्वग्रहणानुवृत्तौ ह्रस्वत्वे कृते पञ्चगोणिरिति सिद्ध्यत्येव;किमिद्ग्रहणेन? तदेतदिद्ग्रहणं क्रियमाणं योगविभागर्थं विज्ञायते। ननु चानन्तरसूत्राल्लुक एवानुवृत्तिः स्यात्, न ह्रस्वस्य, नैतदस्ति; लुगनुवृत्तौ हि सूत्रमिदमनर्थकं स्यात्; लुकोऽनन्तरसूत्रेणैव सिद्धत्वात्। तस्माद्ध्रस्वग्रहणमेवानुवर्तते, न लुग्ग्रहणम्।`पञ्चसूचिः` इति। पञ्चगोणिरित्यनेन तुल्यम्। यदि योगविभागः क्रियते, तदातिप्रसङ्गः स्यात्। अन्येषामपि प्रसज्यत इत्यत आह - `स च` इत्यादि। यदि सर्वत्रेत्त्वं पूर्वयोगेणैव स्यात्, तदा `गोण्याः` इति वचनमनर्थकम्। तस्मादगोणीग्रहणादस्यासर्वविषयत्वम्। तेन योगविभागः सूचीविषय एव, नान्यविषय इति। तपरकरणं दीर्घानिवृत्त्यर्थम्। दीर्घस्य दीर्घकरणमनर्थकं स्यात्। अतो विना तपरकरणेन दीर्घो न भविष्यीति चेत्, न; लुघ्यस्वबाधनार्थत्वाद्दीर्घकरणस्य। भाव्यमानोऽण् सवर्णान् न गृह्णातीति, तस्माददीर्घनिवृत्त्यर्थं तपरत्वं नोपपद्यत इति चेत्, न; तस्याभाव्यमानत्वात्। अपूर्वस्य हि विधानं भाव्यमानत्वम्। न चात्रापूर्वस्य विधानम्। तथा हि - लुग्घ्रस्वयोः प्राप्तयोः पुनः स एव ईकारः प्रतिप्रसूयते। तस्मात् तपरकरणं कर्तव्यम्॥", "12051": "अभिधेयस्य लिङ्गसङख्ययोः प्राप्तयोरयमारम्भः। लुबिति प्रत्ययस्यादर्शनम्,तच्चाभावात्मकम्। न चाभावे व्यक्तिवचनयोः शक्यतेऽतिदेशः कर्त्तुम्। तस्माल्लुप्संज्ञया लुप्तस्य प्रत्ययस्यार्थो लुप्शब्देन विवक्षित इति मत्वाऽह - `लुपीति लुप्संज्ञया` इत्यादि। कथं पुनरेतल्लभ्यते, यावता प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्ययार्थस्य? साहचर्यात्। साहचय्र्यन्तु यत्र लुप्, तत्रावश्यं प्रत्ययार्थस्य सद्भावात्। `युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते` इति। अत्र कारणमाह - `स हि` इत्यादि। युनक्ति = अभिसम्बध्नाति, विशेषणविशेष्यभावलक्षणसम्बन्धेनात्मसम्बन्धिनं करोतीत्यर्थः। तत्र `तस्य निवासः` इत्यादि प्रत्ययार्थो विशेष्यः,पञ्चालादिशब्दस्यार्थः प्रकृत्यर्थो विशेषणम्। तेन हि पूर्व विज्ञातेन स्वाम्यन्तरव्यवच्छेदेनप्रत्ययार्थो विशिष्यते।`अथ वा` इत्यादि। पूर्वं `युजिर्योगे` (धातुपाठः-1444) इत्यस्माद्धातोक्तवतुप्रत्यये सति युक्तवदित्यतद्रूपं प्रदर्शितम्, इदानीं तस्यैव धातोः क्तप्रत्ययाद्वतिप्रत्यये सति युक्तवदित्येतद्रूपं दर्शयति। यद्यपि द्विष्ठत्वात् सम्बन्धस्य - यथा प्रत्ययार्थेन प्रकृत्यर्थो युक्तः, तथा प्रकृत्यर्थेनापि प्रत्ययार्थः; तथापि प्रत्ययार्थसम्बन्धिनोव्र्यक्तिवचनयोः प्रत्ययार्थ एवातिदेशोऽनर्थक इति प्रकृत्यर्थ एवात्र युक्तशब्देन विवक्षित इति मत्वाऽह - `युक्तः प्रकृत्यर्थः` इति। `सप्तम्यर्थे वतिः` इति। लुपीति सप्तमीनिर्देशात्।व्यक्तिशब्दः प्रादुर्भावादावप्यर्थे वर्तते, वचनशब्दो हि भाषणादिषु, अतस्तत्संप्रत्ययो मा भूदित्यत आह - `व्यक्तिवचने` इति। किं पुनः कारणं पूर्वाचार्यनिर्देश आश्रीयत इत्यत्र आह - `तदीयम्` इत्यादि। कुत एतदित्यत आह - `तथा च` इत्यादि। न हि स्वकीयस्यैव प्रत्याख्यानं युक्तमिति भावः।`पञ्चालाः क्षत्रियाः` इति। पञ्चालस्यापत्यानि बहूनीति विवक्षायाम् <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] , तस्य `तद्राजस्य बहुषु तेनैवास्त्रियाम्` [[2.4.62]] इति लुक्। `तेषां निवासो जनपदः` इत्यस्य वक्ष्यमाणेन `पञ्चालानाम्` इत्यनेन सम्बन्धः। `पञ्चालानां निवासो जनपदः` इति। तस्य <<जनपदे लुप्>> [[4.2.81]] इति लुक्। कुरुशब्दादपत्यार्थे <<कुरुनादिभ्यो ण्यः>> [[4.1.172]] इति ण्यप्रत्ययः। मत्स्यादिशब्देभ्योऽप्यपत्यार्थे `द्वयञ्मगध` [[4.1.168]] इत्यादिनाण्। शेषं पूर्ववत्।`लवणः सूपः` इति। लवणेन संसृष्ट इति प्राग्वहतीष्ठक् [[4.4.1]] , तस्य <<लवणाल्लुक्>> [[4.4.24]] इति लुक्। अत्राभिधेयवल्लिङ्गवचने भवतः। शिरीषाणामदूरभदो ग्राम इति शिरीषाः। <<अदूरभवश्च>> [[4.2.70]] इति शरीषशब्दादण्, तस्य <<वरणादिभ्यश्च>> [[4.2.82]] इति लुप्। णत्वन्न भवतीति व्यक्तिवचनग्रहणस्य फलम्। यदि `व्यक्तिवचने` इति नोच्येत, तदा शिरीषेषु यद्वनस्पतित्वं तस्यापि ग्रामेऽतिदेशः स्यात्। एवञ्च शिरीषवनमित्यत्र `विभाषौषधिवनस्पतिभ्यश्च` [[8.4.6]] इति णत्वं प्रसज्येत्।`हरीतक्यः फलानि` इति। हरीतकीशब्दो गौरादिषु पिप्पल्यादिदर्शनान्ङीषन्तः। ततः फले विकारे <<अनुदात्तादेरञ्>> [[4.2.44]] इत्यञ्; तस्य <<हरीतक्यादिभ्यश्च>> [[4.3.167]] इति लुप्। अत्र व्यक्तिरेव युक्तवद्भावेन भवति, वचनन्त्वभिधेयवदिति। एतच्च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। `खलतिकं वनानि` इति। <<अदूरभवश्च>> [[4.2.70]] इत्यण्, तस्य <<वरणादिभ्यश्च>> [[4.2.82]] इति लुप्। अत्र वचनमेवयुक्तवद्भावेन भवति, व्यक्तिस्त्वभिधेयवदेवेति। एतदपि पूर्ववदेव लभ्यते॥", "12052": "पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसंख्ययोर्लुबर्थेऽतिधेशात् तद्विशेषणानामपि रमणीयादीनां व्यक्तिवचनातिदेशः सिद्ध एव। यद्यपि भिन्नं विशेषणानां प्रवृत्तिनिमित्तम्; तथापि तेन भिन्नेनापि तत्र प्रवर्तमानानां स एव लुबर्थोऽतिदिष्टव्यक्तिवचनस्तेषामभिधेयः, तस्मात् तद्गतेनैव लिङ्गसंख्याभिधाने सिद्धे जातिप्रतिषेधार्थमिदं वचनम्। `गोदौरमणीयौ` इति। गोदौ नाम ह्यदौ, तयोरदूरभवो ग्राम इत्यर्थेऽण्। <<वरणादिभ्यश्च>> [[4.2.82]] इति लुप् तस्य।`पञ्चालाः जनपदः`। `गोदौ ग्रामः `इति। जनपदग्रामशब्दौ जातिवचनौ। ताभ्यां जातिनिमत्ताभ्यां स एव लुबर्थो जातिरूपेणोच्यत इति तयोरपि व्यक्तवचने युक्तवत् स्याताम्। ततो `जातेः` इति प्रतिषेधः।`जात्यर्थस्य` इत्यादि। जातिशब्दस्यार्थो जात्यर्थः, तस्यायम् `अजातेः` इति युक्तवद्भावप्रतिषेधः, न जातिशब्दस्यैवेत्यर्थः। किमेव सति सिद्धं भवतीत्यत आह- `तेन` इत्यादि। अर्थस्य युक्तवद्भावप्रतिषेधे सति यथा जातिशब्दस्य तत्रार्थे वर्तमानस्य तदीये लिङ्गसंख्ये न भवतः, तथा तद्विशेषणानामपि युक्तवद्भावो न बह्वन्न इत्यादौ न स्यात्, रमणीयादीनामजातिशब्दत्वात्। द्वारग्रहणं लुबर्थे जातिशब्द्स्य प्रवृत्तत्वात्, लुबर्थे जातिविशेषणानां साक्षादप्रवृत्तेः। तानि हि साक्षाज्जातिमेव विशेषयन्ति। तस्यां तु विशेषितायां लुबर्थोऽपि विशिष्ट एव प्रतीयत इति जातिद्वारेण तस्य तानि विशेषणानि भवन्ति। `मनुष्यलुपि` इति। मनुष्यलक्षणो यो लुप् तस्य विशेषणानां युक्तवद्भावप्रतिषेध इति। स च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाल्लभ्यते। `चञ्चाभिरूपः` इति। चञ्चेव मनुष्यश्चञ्चा - <<इवे प्रतिकृतौ>> [[5.3.96]] इति कन्। तस्य `लुम् मनुष्ये` [[5.3.98]] इति लुप्। `अभिरूपः` इति विशेषणस्याभिधेयवल्लिङ्गवचनानि भवन्ति। `वर्ध्रिका` इति। पूर्ववत् कँल्लुपौ॥", "12053": "`तदशिष्यम्` इति प्रतिज्ञा, `संज्ञाप्रमाणत्वात्` - इति हेतुः। यस्मात् संज्ञाभूतानां पञ्चालादिशब्दानां प्रमाणत्वम्, तस्मात् तदशिष्यम्। प्रमाणत्वं पुनः प्रत्ययलक्षणम्। सर्वेषामेव शब्दानामेवं विधे स्वविषये प्रमाणत्वमस्ति, उच्यते चेदम्, तत्र विशेषो विज्ञायते, स पुनरभिधेयगतलिङ्गसंख्यानपेक्षया भिन्नलिङ्गसंख्यानामपि तेषां स्वार्थे प्रत्यायकत्वम्। अत एवाह - `संज्ञाशब्दा हि नानालिङ्गसंख्याः` इति। `प्रमाणम्िति। प्रमाणं प्रत्यायका वाचका इत्यर्थः। तत्रैतत् स्यात् - संज्ञाशब्दा एवामी पञ्चालादयो न भवन्ति, किं तर्हि? योगनिमित्तका इत्यत आह - `पञ्चाला वरणाः` इत्यादि। योगनिमित्तकाः शब्दा योगशब्दाः। न हि पञ्चालादयः शब्दाः क्षत्रियादिसम्बन्धेन जनपदादौ वर्तन्ते; किं तर्हि? संज्ञा एता जनपदादीनाम्। यदि संज्ञाशब्दा एते, ततः किमिति? तदशिष्यमित्यत आह - `तत्र लिङ्गं वचनञ्च` इत्यादि। कुत एतत्? यत् संज्ञाशब्दानां लिङ्गं वचनञ्च तत्स्वभावसिद्धमित्यत आह - `यथा` इत्यादि। एकस्यामपि जलकणिकायां बहुवचनान्तः स्त्रीलिङ्गोऽप्शब्दः प्रयुज्यते, एकस्यामपि योषिति दारशब्दः पुंल्लिङगो बहुवचनान्तः, गृहशब्दश्चैकस्मिन् वेश्मनि बहुवचनान्तः पुंल्लिङ्गश्च, एकस्यामपि वालुकायां बहुवचनान्तः सिकताशब्दः स्त्रीलिङ्गः, वर्षा इत एकस्मिन् विशिष्टकालेऽपि प्रवर्तमानः स्त्रीलिङ्गो बहुवचनान्तश्च वर्तते। तस्मात् यथैवेषामप्प्रभृतिशब्दानां स्वाभाविकं लिङ्गं वचनञ्च तथा पञ्चालादिशब्दानामपीति नार्थो युक्तवद्भावचनेन। यद्येवम्, कस्मात् पूर्वं तदुक्तम्? प्रतिषेधविषयोपदर्शनार्थम्। न ह्रनिर्दिष्टविषयस्य प्रतिषेधः शक्यते कर्त्तु ज्ञातुं वा॥", "12054": "`योगप्रख्यानात्` इति।योगो जनपदादेः क्षत्रियादिभिः सह सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः। ये हि योगनिमित्तिकाः शब्दा योगमभिधाय तद्वति द्रव्ये वर्तन्ते, तेभ्यो योग उपलभ्यते; यथा - दण्डिशब्दादिभ्यः। न च पञ्चालादिभ्यो दण्डआदिशपब्दवद्योग उपलभ्यते, तस्मान्नैते योगशब्दा इत्यत आह- `न हि` इत्यादि। प्रख्यायते = कथ्यते, प्रकाश्यते, बुद्धेर्विषय आपद्यत इति यावत्। यत एवं पञ्चाला वरणा इति सम्बन्धो न प्रख्ययते अत एव नैतदुपलभामहे वृक्षयोगान्नगरे वरणा इति, किं तर्हि? संज्ञा एता अनपेक्षितप्रवृत्तिनिमित्ताः। यदि संज्ञाश्बदा एते, ततः किमित्याह - `तस्मादत्र` इत्यादि। गतार्थम्। ननु च संज्ञा शब्दानामपि व्युत्पत्त्यर्थ तद्धित उत्पद्यत ए, यथा <<हस्ताज्जातौ>> [[5.2.133]] हस्ती, <<कम्बलाच्च संज्ञायाम्>> [[5.1.3]] कम्बल्यमिति, तत्किमुच्यते - ` तस्मादत्र <<तस्य निवासः>> [[4.2.69]] <<अदूरभवश्च>> [[4.2.70]] इति तद्धितो नोत्पद्यते` इति? सत्यम्, संज्ञाशब्दव्युत्पत्त्यर्थं तद्धित उत्पद्यते। स च क्वोत्पद्यते? यत्र श्रुतिकृतो विशेषो विद्यते, न चेह तद्धितोत्पत्तौ लुपि सतिकश्चिद्विशेष इति न तद्धितोत्पत्तिः॥", "12055": "`योगप्रमाणे` इति। योगस्य प्रमाणं योगप्रमाणम्, येन योगः प्रत्याय्यते। तत् पुनरिह प्रकृतत्वात् पञ्चालादिशब्दः। स हि परमतेन पञ्चालादिसम्बन्धं स्वप्रवृत्तिनिमित्तमभिधायैव जनपदादौ वर्तते, नानभिधाय। तेन योगस्य प्रमाणं प्रत्यायको वाचक इत्यर्थः। `तदभावेऽदर्शनं स्यात्` इति। यो हि योगनिमित्तकः स योगाभावे न प्रयुज्यते, दणडआदिशब्दवदित्यभिप्रायः। `योगप्रमाणे हि` इत्यादि। हिशब्दं हेत्वर्थं प्रयुञ्जानश्चशब्दो हेत्वर्थवृत्तिः सूत्रे उपात्त इति दर्शयति। स्यादेतत्, भवत्येव योगाभावे पञ्चालादिशब्दस्यादर्शनमित्यत आह - `दृश्यते च` इत्यादि। गतार्थम्।", "12056": "`अन्यप्रमाणत्वात्` इति। अन्यत् प्रमाणमवगतिहेतुर्यस्यार्थाभिधानलक्षणस्य तदन्यप्रमाणम्, तस्य भावोऽन्यप्रमाणत्वम्। `प्रधानं समासे किञ्चित् पदम्` इति। यथा राजपुरुषशब्दे पुरुष इत्येतत्। `प्रधानोपसर्जने` इत्यादि। राजपुरुष इत्यत्र पूर्ववदुपसर्जनम्, इतरत् प्रधानम्। ते च प्रधानार्थ सह ब्राऊतः। `प्रकृतिप्रत्ययौ` इत्यादि। अशक्यत्वं त्वनन्तप्रकारत्वात्। तथा हि - चित्रगुरिति बहुव्रीहौ कृते गुणगुणिभ्यामन्यपदार्थ उच्यते। अत्र गुणपदं चित्रशब्दोऽप्रधानम्, विशेषणत्वात्; गुणिपदं गोशब्दः प्रधानम्, विशेष्यत्वात्। क्वचिदुपसर्जनाभ्यामन्योऽर्थोऽभिधीते - प्लक्षन्यग्राधाविति। तथा हि, न केवलं प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्राऊतः अपि तु, क्वचित् प्रकृत्यर्थमपि, यथा - स्वार्थिकेषु शुक्लतरम्, शुक्लतममिति। तथा केचिदाख्यातेषु स्वभावात् प्रधानमाहुः प्रकृत्यर्थम् - `क्रियाप्रधानमाख्यातम्` इति।अन्ये तु मन्यन्ते- आख्यातेषु प्रधानभूतः प्रत्ययार्थ एव शक्तिरूपेणोच्यते, यथा विभक्तिभिः क्वचित् प्रत्यये; न तु शक्तिमान् पदार्थो द्रव्यभावमापन्न उच्यते। अतः क्रियान्तरेण च सम्बन्धे शक्त्यन्तरमाविर्भवति कर्तारं पश्येति। एवमाद्यनन्तप्रकारमर्थाभिधानशक्यं सर्वमुपदेष्टुम्, तस्माल्लोकत एवार्थावगतिः। कथं पुनरेतद्विज्ञायत इत्यत आह - `यैरपि` इत्यादि। सुगमम्॥बाल-मनोरमाविभाषोपयमने 554, 1.2.56 विभाषोपयमने। `यमो गन्धने` इत्तो यम इति, `हनः सिच्` इत्यतः सिजिति, `असंयोगा`दित्यतः किदिति चानुवर्तते। तदाह - यमः सिच्किद्वा स्याद्विवाहे इति। उपयमशब्दो विवाहे वर्तते इति भावः। रामः सीतामुपायतेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे `अनुदात्तोपदेशे`ति मकारलोपे `ह्रस्वादङ्गा`दिति सिचो लोपः। उदवोढेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे `अनुदात्तोपदेशे`ति मकारलोपे `ह्रस्वादङ्गा`दित सिचो लोपः। उदवोढेति। भार्यात्वेन परिग्रहः - उद्वाहः। गन्धनाङ्गे उपयमे त्विति। हिंसापूर्वके विवाहे त्वित्यर्थः। राक्षसविवाहे त्विति यावत्। `हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदतो हरेत्। स राक्षसो विवाहः-` इति स्मृतेः। नित्यं कित्त्वमिति। `यमो गन्धने` इति पूर्वसूत्रेणे`ति शेषः। यदि गन्धनाङ्गकेऽप्युपयमने परत्वादियं विभाषा स्यात्तर्ह एषा प्राप्तविभाषा स्यात्। ततश्च `न वेति विभाषे`त्यत्र भाष्येऽप्राप्तविभाषास्वस्याः परिगणनं विरुध्येत। अतः पूर्वविप्रतिषेध आश्रयणीय इति भावः।बाल-मनोरमाप्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् 1279, 1.2.56 अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे - प्रधानप्रत्ययार्थ। प्रत्ययार्थ इति। `प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण`मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः।", "12057": "अर्थस्यान्यप्रमाणत्वादित्युक्तम्। कथं पुनरत्राप्ययं हेतुर्लभ्यत इतिप्रश्नावसर इत्याह - `तुल्यशब्दो हेत्वनुकर्षणार्थः` इति। कथं पुनस्तुल्यशब्दो हेत्वनुकर्षणार्थो भवति? मन्यते - तुल्यमिति प्रत्याख्यानक्रियाविशेषणमेतत्। अनन्तरोक्तेन प्रत्याख्यानेन तुल्यमेतत् प्रत्याख्यानम्। एवञ्च् तुल्यं भवति यदि यस्तस्य हेतुः स एवास्यापि भवति। तस्मात् तुल्यग्रहणसामर्थ्यात् पूर्वको हेतुत्रानुवर्तते। तेन तुल्यशब्दो हेत्वनुकर्षणार्थो भवतीति। `आन्याय्यादुत्थानात्` इत्यादि। उत्थानं शयनाद्रात्रेः पश्चिमे यामे न्याय्यमुक्तम्। संवेशनम् = शयनम् तदपि रजन्याः प्रथमे यामे न्याय्यम्। तदेवं सकलो दिवसः; पूर्वस्याश्च रात्रेः पश्चिमो यामः, आगमिन्याश्च प्रथमो याम इत्येषोऽद्यतनः काल इत्युक्तं भवति। `अहरुभयतोऽद्र्धरात्रम्` इत्यादि। कृत्स्नो दिवस उभयश्चाद्र्धरात्रम्। अतिक्रान्तायाश्च रात्रेरागामिन्याश्च रात्रेरद्यतनः काल इत्यपरे॥", "12058": "`जातिर्नामायमेकोऽर्थः इत्यादिना सूत्रारम्भस्य प्रयोजनमाह। ननु जातेः संख्या न विद्यते? तस्या द्रव्यधर्मत्वात्। यद्यपि वैशेषिकसिद्धान्तप्रसिद्धा गुणपदार्थसंगृहीता या संख्या सा न विद्यते; तथापि `भेदका गुणाः` इत्यस्मद्दर्शने` भेदमात्रा या संख्या सा विद्यत एवेत्यदोषः। `जातेराख्या` इति। आख्यानमाख्या = प्रत्यायनम्। `एकस्मिन्नर्थे` इति। जात्याख्योऽर्थो `जात्यर्थो बहुवद्भवतीति यावत्` इति। एतेनैतद्दर्शयति - न हि जातिविशेषणेभ्यः सम्पन्नादिभ्यस्तन्न स्यात्। तेषामजातिशब्दत्वादित्यभिप्रायः। कथं पुनर्जात्यर्थस्य बहुवद्भावो लभ्यते? अन्वर्थग्रहणात्। बहुवचनमिह न पारिभाषिकं बहुवचनं गृह्रते, किं तर्हि? अन्वर्थम्। उक्तिः = वचनम्। बहूनां वचनं बहुवचम्। न चैकस्मिन्नर्थे बहूनां वचनं सम्भवति, अतः सामर्थ्याद्वित्यर्थो गम्यते - एकस्मिन्नर्थे बहुविदिति। तदनेन प्रकारेण जात्यर्थो बहुवद्भवति। `तेन` इत्यादि। यत ए जात्यर्थस्य बहुवद्भावो विधीयते, तेन जातिविशेषणानामजातौ वर्तमानानां बहुवचनमुपपद्यते, जातिशब्दवत्।`देवदत्तः` इति। देवदत्तशब्दो यदृच्छाशब्दः। नानेनैकं वस्त्वनेकव्यक्त्यनुगतमभिधीयते। अनेकव्यक्त्याधारा हि जातिः। ततो न देवदत्तत्वं नाम जातिरस्तीति न भवत्यत्र बहुवद्भावः। ननु चात्रावस्थाभेदेनानेकाधारं देवदत्तत्वमस्ति, नैतदस्ति; एवं हि जातिग्रहणमनर्थकं स्यात्, सर्वत्र जातेः सम्भवात्। तस्माज्जातिग्रहणसामर्थ्याल्लोके ये जातिशब्दाः, प्रतीताः, तदर्था एवात्र जातिशब्देन विवक्षिता इति विज्ञायते, न च देवदत्तशब्दो लोके जातिशब्दः प्रतीतः।`काश्यपप्रतिकृतिः काश्यपः` इति। काश्यपस्यापत्यम् `अनृष्यानन्तर्ये विदादिभ्योऽञ्` [[4.1.104]] इत्यञ् - काश्यप इति। तत इवार्थे `एवे प्रतिकृतौ` [[5.3.96]] इति कन्। `लुम् मनुष्ये` [[5.3.98]] इति लप् भवति। `अयं जातिशब्दः` इति। `गोत्रञ्च चरणैः सह` (4.1.63म।भा) इति लक्षणात्, तस्य च गोत्रप्रत्ययान्तत्वात्। न त्वयं जातिरूपेणोच्यते, किं तर्हि? प्रतिकृतिरिति। एवं तर्हि जातिप्रत्यायने हि चिकीर्षिते बहुवद्भावेन भवितव्यम्। न चेह जातिप्रत्यायनं चिकीर्षितम्, किं तर्हि? प्रतिकृतिप्रत्यायनम्।`व्रीहियवौ` इति। एकस्मिञ्जात्यर्थे बहुवद्भावोऽनेन विधीयते। इह तु द्वौ जात्यर्थो विवक्षितौ। वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - अन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेन संख्याप्रयोगे न भविष्यति। अथ वा- एको व्रीहिः सम्पन्न इत्यत्रैकशब्दः प्रयुज्यमानो जात्यर्थस्यैकत्वमुद्भावयति,तच्च बहुत्वेन विरुध्यते। तस्मादेकत्वबहुत्वयोर्विरोधाद्बहुवद्भावो नेह भविष्यति॥", "12059": "अत्राप्यर्थस्य बहुत्वातिदेशः। `अस्मदो योऽर्थः स बहुवद्भवति` इति। तेन तिङन्तस्यापि तत्र वर्तमानस्य बहुवचनान्तत्वं भवति। `वयं ब्राऊमः` इति। `एकत्वे द्वित्वे च` इत्यादि। युक्तं यदेकत्वे भवति, द्वित्वे तु कथम्? न हि द्वित्वमस्मदर्थस्य सम्भवति; अस्मच्छब्दस्यात्मविषयत्वात्, आत्मनश्चैकत्वात्, नैष दोषः; आत्मत्वं परत्र यदोपचर्यते `अयं मे द्वितीय आत्मा` इति तदा अस्मच्छब्दस्य तत्रापि वृत्तेद्वर्यर्थविषयत्वं सम्भवति। अथ वा - त्यदादीनां मिथो यद्यत् परं तच्छिष्यत इत्यस्मच्छब्द एव शिष्यमाणो युष्मदर्थमप्याहेति द्वयर्थतोपपद्यत इति युज्यते द्वयर्थता। अथ यद्यस्मच्छब्दो बहुवचनान्तः प्रयुज्यते तदैकार्थविषयोऽयम्, न द्वयर्थविषय इति; अथ द्व्यर्थविषयोऽयं नैकार्थविषय इति कुतस्यस्यैकार्थद्वयर्थविषये वृत्तिरवसीयते? प्रकरणात्। यथा - आराच्छब्दस्य दूरान्तिकार्थयोर्वृत्तिरिति। `अहम्` इति। <<ङे प्रथमयोरम्>> [[7.1.28]] इत्यम्भावः, <<त्वाहौ सौ>> [[7.2.94]] इत्यहारदेशः। `वयम्` इति। जसि <<मपर्यन्तस्य>> [[7.2.91]] <<यूयवयौ जसि>> [[7.2.93]] इत वयादेशः, <<शेषे लोपः>> [[7.2.90]] `आवाम्` इति। औप्रत्यये <<युवावौ द्विवचने>> [[7.2.92]] इत्यावादेशः। `प्रथमायाश्च` [[7.2.88]] इत्यादिनात्वम्। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानां तु - अन्यतरस्यांग्रहणं यदनुवर्ततते तस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। `युष्मदि गुरावेकेषाम्` इति। एतदपि चकारस्यानुक्त समुच्चयार्थत्वात् सूत्रेणैव संगृहीतम्॥", "12060": "`चकारो द्वयोरनुकर्षनार्थः` इति। ननु च फल्गुन्यौ नक्षत्रे द्वे एव, तथा प्रोष्ठपदे अपि द्वे; अत्रानयोर्दित्वाद्वित्व एव बहुवचनं भविष्यति, तत् किं चकारेण द्वयोरित्यनुकर्षणार्थेन? एवं तह्र्रेतज्ज्ञापयति - नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति। तेनैतदपि सिद्धं भवति - उदिताः पूर्वाः फल्गुण्यः, उदिते पूर्वे फल्गुन्याविति। यदि नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति न ज्ञाप्यते, तदिह तु न स्यात्, यतो ज्योतिषामावस्थिकी नक्षत्रता चन्द्रमसा योगे सति भवति, नान्यदा; अन्यदा तु ज्योतिष्ट्वमेव। न च नक्षत्राभिधायिनः `उदिताः पूर्वाः फल्गुन्यः` इत्यत्र फल्गुनीशब्दस्य प्रयोगः, किं तर्हि? ज्योतिर्मात्राभिधायिन इति। अत्र ज्योतिष्ट्वमेक्सयाप्यस्तीति तन्निवृत्यर्थं द्वयोरित्यनुकर्षणार्थं चकारकरणं युक्तम्। यदि पुनज्र्योतिषउपलक्षणार्थं नक्षत्रग्रहणं न स्यात्, तदा क्व स्यात्? तदेहैव स्यात् - अद्य पूर्वाः फल्गुन्यः, अद्य पूर्वे फल्गुन्याविति। अस्ति ह्यत्र फल्गुन्योर्नक्षत्रता, चन्द्रमसा युक्तत्वात्। तथा ह - <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यण् भवति। श्रवणं तस्य न भवति; <<लुबविशेषे>> [[4.2.4]] इति लुप्तत्वात्।`फल्गुन्यौ माणविके` इति। फल्गुन्योर्जाते इति। `फल्गुन्याषाढाभ्यां टानौ` (वा।451) इत्युपसंख्यानाट्टप्रत्ययः। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्॥", "12061": "", "12062": "", "12063": "`तिष्यपुनर्वसवो माणवकाः` इति। तिष्यपुनर्वसुशब्दाभ्यां <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यण् भवति। तस्य <<लुबविशेषे>> [[4.2.4]] इति लुप्। ततस्तिष्ये जातो माणवकः पुनर्वस्वोर्जातौ माणवकाविति `सन्धिवेलादि` [[4.3.16]] इत्यादिनाऽण्, तस्य `श्रविष्ठाफल्गुन्यनुराधा` [[4.3.34]] इत्यादिना लुप्। `पर्यायाणामपि यथा स्यात्` इति। नक्षत्रग्रहणे सत्यर्थग्रहणादेतद्भवति। शब्दग्रहणे च <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इत्यषा परिभाषा भवतीत्युक्तमेतत्। तदभावे पर्यायाणामपि भवति। `सिद्ध्यपुनर्वसू` इति। सिद्ध्यशब्दस्तिष्यपर्यायः। `यस्तिष्यस्तौ पुनर्वसू येषाम्` इत्यवयवेन विग्रहं दर्शयति। समुदायस्तु समासार्थो वेदितव्यः। अथ तिष्यपुनर्वसव इति? बहुव्रीहिणा विपर्यस्तमतयः पुरुषा एवैवमुच्यन्ते। ततश्च नक्षत्रसमास एवायं न भवति। तत् किमेतन्निवृत्त्यर्थेन द्वन्द्वग्रहणेनेत्येवं यो देशयेत् तं प्रत्याह - `तिष्यादय एव` इत्यादि। स्वदर्णनापराधादन्यथा तिष्यादीन् दृष्ट्वा प्रतिपत्तृभिस्त ए तिष्यादयो विपर्ययेण दृश्यमाना बहुव्रीहिणैवमुच्यन्ते, न तु पुरुषाः। तस्मान्नक्षत्रसमास एवायम्। `तिष्यपुनर्वस्विदम्` इति। केन पुनरत्रैकवद्भावः? `जातिरप्राणिनाम्` [[2.4.6]] इति चेत्, न; संज्ञाशबद्त्वात्, देवदत्तादिशब्दवत्। नायं जातिशब्दः,अनेकधारा हि जातिर्भवति, न च तिष्यादिस्तथा। किञ्च वक्ष्यति - `जातिप्रधानपरत्वे च जातिद्रव्याणामयमेकवद्भावः, न नियतद्रव्यविवक्षायाम्` इति; नियतद्रव्यविवक्षा चात्र, तस्मान्न `जातिरप्राणिनाम्` इत्यनेनैकवद्भाव उपपद्यते। न चान्यदेकवद्भावलक्षणमस्ति। तत्र तिष्यपुनर्वस्वोर्नक्षत्रे द्वन्द्वसमासे बहुत्वाद्बहुवचनेन भवितव्यम्। एवञ्च बहुवचनग्रहणमनर्थकमित्यत आह - `सर्वो द्वन्द्वो विभाषा` इत्यादि। यदयमेकवचननिवृत्त्यर्थं बहुवचनग्रहणं करोति, ततोऽवसीयते - अस्तीयम्परिभाषा `सर्वो द्वन्द्वो विभाषैकवद्भवतिट (व्या।प।91) इति। तेनेह बहुवचनग्रहणमेकवचननिवृत्त्यर्थं कृतिमित्यभिप्रायः।", "12064": "`सरूपाणाम्` इति बहुव्रीहौ कृते `ज्योतिर्जनपद` [[6.3.84]] इत्यादिना समानस्यसभावः। रूपशब्दोऽत्र स्वभावे वर्तते। `सरूपाणां शब्दानाम्` इति निर्धारणे षष्ठी। तेन स्वरूपाणां मध्ये समानजातीयो यः सरूपः, स एक एव शिष्यते, न विरूपः। समानजातीयस्यैव हि निर्धारणं भवति, न विजातीयस्य। अथ वा - समुदायलक्षणैषा षष्ठी, सरूपसमुदायान्तः पाती च सरूप एव भवति, न विरूपः। तेन सरूप एव शिष्यते। `एक विभक्तौ` इति। एकशब्दः समानार्थः, एकधनाविति यथा। एका चासौ विभक्तिश्चेति `पूर्वकालैक` [[2.1.48]] इत्यादिना समासः। एकमेकशेष इत्यत्रापि। अत्र त्वेकशब्दः संख्यावचनः, शेषशब्दोऽयं निवृत्त्या विशिष्टवस्थानमाह, नावस्थानमात्रम्। अत एवाह - `एकः शिष्यते, अपरे निवर्तन्ते` इति। `वृक्षश्च वृक्षश्च वृक्षौ` इत्यादि। अविभक्तिकानामयमेकशेषः; अनैमित्तकत्वाद्विभक्तेः। न ह्रयं परां विभक्तिमाश्रित्य विधीयते। एकविभक्तावितीहसारूप्योपलक्षणमेतत्, न निमित्तनिर्देशः। एकस्यां विभक्तौ परतो यानि रूपाणि दृष्टानि, तेषामनुत्पन्नायामेव विभक्तौ प्रातिपदिकानामेकशेषो भवति। ततः कृत एकशेषे विभक्तिरुपपद्यते। अथ वा - सविभक्तिकानामेवैकशेषः, कथम्? विभक्तिशब्देन हि कारकमभिधीयते, विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। तदेतदुक्तं भवति - एकस्मिन् समानेऽभिन्ने कारके यानि सरूपाणि तेषामेवैककारकाणामेकशषो भवतीति। यद्येवम्, `परतः` इति वृत्तिग्रन्थो नोपपद्यते, कारकं ह्रर्थसमवायिनी शक्तिः, न च तया शब्दानां पौर्वापर्यं सम्भवति, कथञ्च विभक्तिशब्देन कारकेऽभिधीयमाने सविभक्तिकानामेकशेषो लभ्यते? उच्यते; वृत्तिग्रन्थस्तावदुपपद्यते - परशब्दो ह्रयमिष्टवाची, एकविभक्तौ परतः = एकस्यां विभक्ताविष्टायामित्यर्थः। विषयसप्तमी चेयम्, सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति चेत्यर्थः। किञ्चेष्टं कारकं भवति? यद्विवक्षितम्। अत ए विवक्षितत्वात् कारकं स्वनिमित्तां विभक्तिकानामेकशेषो लभ्यते।सहभावविवक्षायाञ्चायमेकशेषो भवति। यद्येकेन युगपत् सर्वेषामर्थोऽभिधातुमिष्यत एवं सति भवति; नान्यथा। ननु च जातिः पदार्थः, जातिश्चैकैव; तत्रैकत्वाज्जातेर्बहूनां शब्दानां प्रसङ्ग एव नास्ति,तत्किमेकशेषारम्भेण? इति चोद्यावसरे `द्रव्यं पदार्थः` इत्येतद्दर्शनमाश्रित्याह - `प्रत्यर्थम्` इत्यादि। प्रत्यर्थम् = एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशप्रवृत्तिस्ततोऽकेन शब्देनानेकार्थ्सयाभिधानम्। तत्रैतद्दर्शनेऽकेषामर्थाभिधाने प्रत्येकेनैव कर्तव्येऽनेकशब्दत्वं प्रसज्यत इति यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दता। तस्मादेकशेष आरभ्यते।`रूपग्रहणं किम्` इति। एवं मन्यते - रूपग्रहणे क्रियमाणे पदद्वयसमनुगम्योऽर्थेः प्रतिपत्तव्य इति प्रतिपत्तिगौरवं भवति। समानानामित्युच्यमाने सत्येकपदसमनुहम्योऽर्थः प्रतीयत इति प्रतिपत्तिलाघवं भवति; तस्मात् समानग्रहणमेव कर्तव्यमिति? भिन्नेऽप्यर्थे यथा स्यादिति रूपग्रहणम्। यदि रूपग्रहणं न क्रियेत तदा विशेषानभिधानाद्यत्र सर्व समानं शब्दोऽर्थश्च तत्रैव स्याद्वृक्षा इत्यादौ, अक्षा इत्यादौ तु न स्यात्; अर्थभेदात्। तथा ह्रक्षशब्द इन्द्रियाख्ये, शकटाङ्गे, बिभीतकादावर्थे च वर्ततेष पादशब्दोऽपि कार्षापण - श्लोकपाद - पाणिपदादावर्थे वर्तते, माषशब्दोऽपि व्रीह्रादौ। `द्विबह्वोः शेषे मा भूत्` इति। ननु च `शेष` इत्येकत्वसंख्याविवक्षायां द्वयोर्बहूनाञ्च शेषो न भविष्यति,नैतदेवम्; इह विधीयमानत्वाच्छेष एव प्रधानम्, न च प्रधाने संख्या विवक्ष्यते। तथा हि - `कर्त्तुरीप्सिततमं कर्म` [[1.4.49]] इतिकर्मसंज्ञा; ईप्सिततमस्य प्राधान्यात्। असत्यां संख्याविवक्षायां द्वयोर्बहूनाञ्च कर्मसंज्ञा भवति। गुणे तु संख्या विवक्ष्यते, यथा - `ङयाप्प्रातिपदिकात्` [[4.1.1]] इति स्वादयो विधीयमानत्वात् प्रधानम्; ङयाप्प्रातिपदिकमप्रधानमिति तत्र संख्या विवक्ष्यते। तेनैकैक्मादेव स्वादय उपपद्यन्ते। लक्षणानुरोधाद्गुणेऽपि क्वचित् संख्या न विवक्ष्यते, यथा इहैव - सरूपाणामिति। तेन द्वयोरपि सरूपयोरेकः शिष्यते।`आदेशो मा भूत्` इति। असति शेषग्रहणे सरूपाणामिति स्थानषष्ठीयं स्यात्; ततशचादेशः स्यात्। एवञ्च `अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्` (द।उ।8।125) इति क्वन्प्रत्ययान्तोऽआशब्दो नित्स्वरादाद्युदात्त इति द्वयोरआशब्दयोराद्युदत्तयोः स्थान आद्युदात्तद्वयवानेवादेशः स्यात्; आन्तरतम्यात्।`पयः` इत्यादि। एकः पयः शब्दः प्रथमान्तः कर्तृपदम्, द्वितीयो द्वितीयान्तः कर्मपदम्, ततो भिन्नविभक्तिकत्वम्;नैकविभक्तिपरत्वमित्येकशेषो न भवति।` ब्राआहृणाभ्याम्` इति। प्रथमो ब्राआहृणशब्दस्तृतीयान्तः,द्वितीयस्तु चतुथ्र्यन्तः। तेनात्रापि समानविभक्तिकत्वं नास्ति॥", "12065": "वृद्धशब्दोऽयमस्ति लौकिकः, यश्चरमे वयसि वर्तते; अस्ति च शास्त्रीयः - <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इति; अस्ति च पूर्वाचार्यसंज्ञा - अपत्यमन्तर्हितं वृद्धमिति। तत्र यदि लौकिको गृह्रेत? युवशब्दस्यापि तत्साहचर्याल्लौकिकस्यैव वयोविशेषवाचिनो ग्रहणं स्यात्, ततश्चाजश्च वर्करश्चेत्येवमादौ प्रसज्येत। वृद्धावस्थो हि पशुविशेषोऽज इत्युच्यते, युवा तु वर्करः। अथ शास्त्रीय उपादीयते? औपगवश्चौपगविश्चेत्यादावपि स्यादित्येतदालोच्याह - `वृद्धशब्दः` इत्यादि। एतेन पूर्वाचार्यप्रणीतायाः संज्ञाया वृद्धस्येदं ग्रहणमिति दर्शयति। कथं पुनरेतल्लभ्यते? उपदेशात्। अथ वा एवं मन्यते - युवशब्दो यद्यपि लोके द्वितीये वयसि रूढः, तथापि <<जीवति तु वंश्ये युवा>> [[4.1.163]] इति परिभाषाबलादपत्ये यो वर्तते स एव गृह्रते। तेन तत्साहचर्यात् वृद्धशब्दस्यापत्यार्थवृत्तेरेव ग्रहणं युक्तमिति। गोत्रग्रहणं तु न कृतम्, वैचित्र्यार्थम्। `यूना सह वचने` इति। सहग्रहणेन यूनेति सहयोग एषा तृतीयेति दर्शयति। अत ए सहयोगे तृतीयाविधानादवगम्यते- सहभावविवक्षायामेकशेषो भवतीति। `समानायाम्` इत्यादिना यत्र वृद्धयुनिमित्तमेव वैरूप्यं तद्व#इषयं दर्शयति। आकृतिः= शब्दस्य प्रवृत्तिनिमित्तम्, गाग्र्यात्वादि, तस्यां समानायाम् = अभिन्नायां यत्र वृद्धयुवप्रत्ययादेव केवलं भिद्येते, नान्यत् प्रकृत्यादिकम्, तत्र वृद्धयुवप्रत्ययनिमित्तमेव वैरूप्यं भवतीति भावः। `गाग्र्यश्च` इत्यादि। गर्गवत्सशब्दाभ्यां गर्गादित्वाद् यञ्, गार्ग्यः, वात्स्यः, ताभ्यां यून्यपत्ये <<यञिञोश्च>> [[4.1.101]] इति फक्। गाग्र्यश्च गाग्र्यायणश्च गार्ग्यौ, वात्स्यश्च वात्स्यायनश्च वात्स्यौ। प्रकरणादिनात्र युवार्थो गम्यते। `गर्गश्च` इति। गर्गशब्दोऽयं मूलप्रकृततिः; न वृद्धे वर्तते, नापि यूनि। `गाग्र्यवात्स्यायनौ` इति। अत्र न केवलं वृद्धयुवप्रत्ययनिमित्तको विशेषोऽस्ति, अपि तु प्रकृतिनिमित्तकोऽपि। भागवित्तिशब्दो गोत्रापत्ये भगवित्तशब्दादिञन्तः। `भागवित्तिकश्च` इति। भागवित्तिशब्दाद्यून्यपत्ये <<गोत्रस्त्रियाः कुत्सने ण च>> [[4.1.147]] इत्यतः `कुत्सने` इत्यनुवृत्तौ <<वृद्धाट्ठक् सौवीरेषु बहुलम्>> [[4.1.148]] इति ठक्॥", "12066": "स्त्र्यर्थस्य वैरूप्यकारणस्याधिक्यात् पूर्वेण न सिध्यतीति वचनम्। `पुंवच्च` इति वचनादतदेशोऽयम्। `स्त्री` इति। स्त्रीप्रत्ययग्रहणं वेदं स्यात्? स्त्र्यर्थवृत्तिशब्दस्य वा ग्रहणम्? अर्थग्रहणं वा? यदि स्त्रीप्रत्ययस्य ग्रहणं स्यात्, ततोऽनेन तस्यैव निवृत्तिः क्रियते - पुंवत् स्त्रीप्रत्ययो भवतीति; न तु स्त्र्यर्थस्य निवृत्तिः क्रियते; ततो गाग्र्यश्च गाग्र्यायणश्चेति गर्गा इत्यत्र `अस्त्रियाम` [[2.4.62]] इत्यनुवर्तमाने <<यञञोश्च>> [[2.4.64]] इति लुङन स्यात्; इह तु गर्गान् पश्यतीति <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति नत्वं न स्यात्। द्वितीये तु पक्षे स्त्र्यर्थवृत्तेः शब्दस्यानेन पुंवद्भावः क्रियते, न तु स्त्रीत्वस्य निवृत्तिः; तथापि स एव दोषः स्यात्। अर्थगर्हणे तु न कश्चिद्दोष इत्यतः स्त्र्यर्थस्येदं ग्रहणमिति मत्वाऽऽह - `स्त्र्यर्थः पुंवद्भवति` इति। कथं पुनरर्थस्येदं ग्रहणं लभ्यते? उच्यते; स्त्रीप्रत्ययानां तु तस्याभिधेयपातन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्रयात्। प्रधानगुणन भवति; अप्राधान्यात्। अप्रधान्यं तु तस्याभिधेयपारतन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्र्यात्। प्रधानगुणसन्निपाते तु प्रधानस्य ग्रहणं न्याय्यमतः स्त्र्यर्थं एव गृह्रते। `गार्गी, वात्सी च` इति। गाग्र्यवात्स्यशब्दाभ्यां `यञश्च` [[4.1.16]] इति ङीप्,पूर्ववदकारयकारलोपो। `दाक्षी` इति। पूर्ववन्ङीप्। `दाक्षायणश्च` इति। दाक्षेरपत्यमिति <<यञिञोश्च>> [[4.1.101]] इति फक्॥", "12067": "`स्त्रीपुंसलक्षणश्चेदेव विशेषः` इति। यद्येवम्, इह न स्यात् - गौश्चायं गौश्चेयमित्येतौ गावौ तिष्ठत इति, न ह्यत्र स्त्रीपुंसकृतः कश्चिद्विशेषोऽस्ति? मा भूदनेन , `सरूपाणाम्` [[1.2.64]] इत्यादिना भविष्यति? नैतदस्ति; यदि हि तेन स्यात् स्त्रीशब्दस्याप्येकशेषः प्रसज्येत। ततश्च स्त्रीलिङ्गतापि स्यात् लिङ्गमशिष्यं लोकाश्रयत्वात्। स्त्रीलिङ्गस्यैकशेषे कृते पुंसत्वं विवक्षितव्यमित्यदोषः।अथ वा, पुमानिति योगविभागः क्रियते। तेनेहाप्यसत्यपि स्त्रीपुंसकृते विशेषे पुंस एवैकशेषो भवति। न चैवं सत्यतिप्रसङगो भवति; योगविभागादिष्टसिद्धेरिति। `ब्राआहृणी, कुक्कुटी, मयूरी` इति। `जातेरस्त्रीवषयादयोपघात्` [[4.1.63]] इति ङीष्। `कुक्कुटमयूर्यौ` इति। अत्र न केवलं स्त्रीपुंसकृतो विशेषः,किं तर्हि? आकृतिश्रुतिकृतोऽपि। `इन्द्राणी` इति। `इन्द्रवरुण` [[4.1.49]] इत्यादिना ङीष्, आनुगागमश्च। `प्राक् च प्राची` इति। प्राञ्चीति प्रपूर्वादञ्चतेः `ऋत्विक्` [[3.2.59]] इत्यादिना क्विन्, <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम्। क्विनन्तात् `दिक्छब्देभ्यः` [[5.3.27]] इत्यादिनाऽस्तातिप्रत्ययः। तस्य <<अञ्चेर्लुक्>> [[5.3.30]] ) इति लुक्। `प्राची` इति। प्राक्छब्दात् <<उगितश्च>> [[6.3.45]] इत्यत्राञ्चतेश्चोपसंख्यानान्ङीप्। `प्रागित्यव्ययम्` इति। <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यव्ययत्वम्॥", "12068": "", "12069": "`अनपुंसकेन` इति। `किम` इत्यादि। ननु च विना नपुंसकेनापि सहवचनेन सरूपाणामित्यादिनैकशेषो भवत्येव; तत् कोऽत्र विशेषः, यस्तेनैकशेषो विधीयमानः, अनेनैव चेत्यत आह - `एकवच्चेति न भवति` इति। यद्यनेनैकशेषः स्यात्, पक्ष एकवद्भावः स्यात्। तेन त्वेकशेषे सति न भवति। अथास्येति किमर्थमुच्यते? यद्यस्येति नोच्येत, उत्तरत्राप्येकवच्चेत्यनुवृत्तिः स्यात्। ततश्चोत्तरत्र तु यस्यैकशेषः करिष्यते, तस्यैकवद्भावः प्रसज्येत। तस्मादस्यैव नपुंसकस्यैकवद्भावो यथा स्यात्। उत्तरत्र तु यस्यैकशेषः करिष्यते, तस्य मा भूदित्येवमर्थमस्येति वचनम्। अस्येति हि वचने सति मा भूदस्य वैयथ्र्यमित्युत्तरत्राप्येकवच्चेति नानुवर्तते। ननु चास्वरितत्वादेव नानुवर्तष्यते। एवं तर्हि तदेवास्वरितत्वमनेन प्रकारेणाख्यायते विस्पष्टार्थम्। एकारोऽत्रानुवर्तते। तेन हिमञ्च हिमानी च हिमहिमान्यौ, अरण्यञ्चारण्यानी चारण्यारण्यान्यावित्यत्र न भवति। इन्द्रवरुणादिसूत्रेण [[4.1.49]] `हिमारण्ययोर्महत्वे` (वा। 352) इति वचनात् महत्त्वमपरो विशेषः॥", "12070": "`पितरौ` इति। `ऋतो ङि` [[7.3.110]] इति गुणः। `मातापितरौ` इति। `आनङृतो द्वन्द्वे` [[6.3.24]] इत्यानङ, अभ्यर्हितत्वन्मातुः पूर्वनिपातः॥", "12071": "", "12072": "`सर्वग्रहणं साकल्यार्थम्` इति। विना तेनानपुंसकेनेत्यस्यानुवृत्तिराशङ्क्येत, ततश्च नपुंसकेन सह न स्यात्। अथ वा - तल्लक्षमश्चेदेव विशेष इत्येतदिहानुवर्तत इत्याशङ्क्येत, ततश्च यत्र त्यदादिकृत एव विशेषस्तत्रैव स्यात् - स च यश्च यावित्यादि, इहि तु न स्यात्- स च देवदत्तशच् ताविति। अतः सर्वग्रहणम्। `स च देवदत्तश्च तौ` इति। यदा विशेषविवक्षा तदैतदुदाहरणम्, यदा तु सामान्यविवक्षा , तदा देवदत्तोऽपि तच्छब्देन सम्बध्यत इति `सरूपाणाम्` [[1.2.64]] इत्यनेननैव सिध्यति। `यद्यत्परम्` इति। गणपाठापेक्षं परत्वं वेदितव्यम्॥", "12073": "`ग्राम्याणाम्` इति। ग्रामे भवा ग्राम्याः। `ग्रामाद्यखञौ [[4.2.93]] इति यः। ननु च सङ्घस्य तरुमत्वं न सम्भवति, नापि तद्वयवच्छेद्यं तरुणत्वम्। अतः `अतरुणेषु ` इत्ययुक्तं विशेषणमित्याह- `अतरुणग्रहणम्` इत्यादि। उच्यते चेदं विशेषणम्, न च सङ्घस्य तत्सम्भवति, तत्र सामर्थ्यादन्येषां सङ्घो विज्ञायते। `गावः इमाः` इति। इमा इत्यनुप्रयोगः स्त्रीत्वाभिव्यक्तये। `एतौ गावौ` इति। कथं पुनरिदं प्रत्युदाहरणम्, यावता द्वाभ्यामपि सङ्घो भवत्येव? नैष दोषः, यस्मात् मतं स्यात् सङ्घग्रहणमनर्थकं स्यात्, व्यवच्छेद्याभावात्। `अनेकशफेषु` इत्यादि। अनेकानि शफानि खुरा येषां तेष्वयमेकशेषो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - अन्यतरस्यांग्रहणमिहानुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनानेकशफेष्वेव भवति,नान्यत्रेति॥इति श्रोबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यद्वितीयः पादः", "13001": "भूरादिर्येषां ते भूवादयः। भूवादयो दशगणीपरिपठिता गृह्यन्ते। `भवति` इत्यादि। अत्र धातुसंज्ञायां सत्याम् `धातोः` [[3.1.91]] इत्यनुवर्तमाने `वर्तमाने लट्` [[3.2.123]] इति लट्प्रत्ययः। `भू इत्येवमादयः शब्दा धातुसंज्ञका भवन्ति` इत्यनेन गणपाठेनैवेयं धातुसंज्ञा विधीयत इति दर्शयति। तेन अणपयति, कड्ड्पयति इत्येवमादीनां धातुसंज्ञा न भवतीत्युक्तं भवति। यद्यवम्, या-वा- दिव-इत्येवमादीनां सर्वनाम - विकल्प-स्वर्गाभिधायिनां धातुसमानशब्दानामक्रियावचनानामपि धातुसंज्ञा प्राप्नोतीति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - `धातुशब्दः` इत्यादि। लघ्वर्थं हि संज्ञाकरणमिच्छन्त्याचार्या इत्येकाक्षरायां संज्ञायां कर्तव्यायां महत्याः पूर्वाचार्यसंज्ञाया यदाश्रयणं तस्यैतत्प्रयोजनम् - यथाविधानां ते धातुसंज्ञां कृतवन्तः, तथाविधानमेवैषा संज्ञा यथा स्यादिति। ते च क्रियावचनानामेव धातुसंज्ञां विहितवन्तः। तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावचनानामेव धातुसंज्ञा विधीयते। तेन या-वा-दिव इत्येवमादीनां धातुसमानशब्दानामक्रियावचनानान्न भवतीति भावः।ननु च भूरादिर्येषामिति बहुव्रीहौ कृते, आदिशब्दे परतो यदि संहितया निर्देशः, तदा <<इको यणचि>> [[6.1.77]] इति यणादेशे कृते `भ्वादयः` इति भवितव्यम्, अथासंहितया निर्देशस्तदा भू आदय इति, तत्कुतोऽयं वकारो यस्मिन् सति भूवादय इति निर्देशो भवतीत्यत आह - `भवादीनाम्` इत्यादि। भूवादीनां संज्ञिनां निर्देशेऽयं वकारो मङ्गलार्थः प्रयुज्यते। मङ्गलमर्थः प्रयोजनं यस्य स तथोक्तः। स मङ्गलशब्दो धर्मपर्यायः, धर्मार्थ इति यावत्। यथा वेदे `त्रियम्बकं यजामहे` इत्यत्र यकारस्य दृष्टप्रयोजनं नास्त्रीत्यदृष्टार्थो धर्मार्थ एव पाठस्तस्य, तथेहापि वकास्य। अथ वा - अपूर्वस्य वस्तुनो लाभो लोके मङ्गलं सम्मतम्, यथा प्रातर्दध्यादीनाम्; तथेहापि वकारस्यापूर्वस्यलाभो मङ्गलं प्रशस्तम्। प्रशस्तार्थो मङ्गलशब्दः। तथा चोक्तम्- `मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च` (म।भा। 1.1.1) इति। इह चादौ वृद्धिशब्दो मङ्गलम्, मध्ये चायं वकारः, अन्ते च `स्वरिदतोयम्` [[8.4.66]] इत्युदयशब्दः।`भुवो वार्थम्` इत्यादि। अथ वा - भूवादय इत्यत्र निर्देशे नायमादिशब्द्स प्रयोगः, नापि मङ्गलार्थस्य वकारस्य किं तर्हि? वादिशब्दस्यौणादिकस्य। वदन्तीति वादयः,वाचका इत्यर्थः। वदेर्थातोः `वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्` (द।उ। 1।53) इति कर्तरीञ्प्रत्ययः। यद्यपि वादीति सूत्रण्यन्तस्योपदानाम्, तथापि बहुलवचनादण्यन्तादपि भवति।`भ्वर्थाः` इति। तेषां वदीनामिदं विशेषणम्,भवनं भूः, सम्पदादित्वाद्भावे क्विप्। भवतेरर्थः क्रियासामान्यम्। भूरर्थो येषां ते भ्वर्थाः।कस्मात् पुनस्ते भ्वर्थाः? `भुवो वार्थं वदन्ति` इति। इतिकरणो हेतौ - यस्माद्भृवो धातोरर्थ वदन्त्यभिदधति तस्मात् ते भ्वर्थाः। एवं विधा वादयो वाचकाः शब्दा भूवादयो धातुसंज्ञा भवन्तीत्युक्तं इतीह सूत्रे संज्ञिनः स्मृताः =अभिमताः, अभिप्रेता इत्यर्थः। तदेवं क्रियावचनाः शब्दा भूवादयो धातुंसज्ञा भवन्तीत्युक्तं भवति।तेन याव-वा- दिव प्रभृतीनां धातुसमानशब्दानां क्रियावचनानां धातुसंज्ञा न भवति। गणपाठसामर्थ्यात् पाठोऽप्यङ्गीक्रियते। तेनाणपयतीत्येवमादीनां क्रियावचनानामपि धातुसंज्ञा न भवतकीत्युक्तंभवति। अस्मिन् व्याख्याने भूवादय इति षष्ठीसमासो वेदितव्यः - भुवोवादयो भूवादय इति।अथ वा - आदिशब्दस्यैवात्र `वा गतिगन्धनयोः`(धातुपाठः-1050)इत्यस्मात् परस्य प्रयोगः। वा आदिः येषां ते वादयः। आदिशब्दः प्रकारवाची, वाप्रकारा इत्यर्थः। प्रकारस्तु सादृश्यम्, तत्पुनः क्रियात्मकतया, यदाह - `भ्वर्थाः` इति। भ्वर्थता तु भुवोऽर्थ वदतीति हेतोः। एवं विधा वाप्रकारकाः शब्दा इह सूत्रे संज्ञिनः स्मृता।तदनेन प्रकारेण क्रियावचनानामेव भूवादीनां धातुसंज्ञा भवतीत्युक्तम्। तेन धातुसमानशब्दानां या-वा-दिव-प्रभुतीनां धातुसंज्ञा न भवति। न हि ते क्रियावचनाः; निष्पन्नवस्त्वभिधायित्वात्। साध्यमानस्वरूपा हि क्रिया निरवयवा क्वचित् पूर्वापरीभूतावयवाऽनिष्पन्नवस्तुस्वभावा। गणपाठस्तु पूर्ववदेवाङ्गीक्रियते। तेनाणपयतीत्येवमादीनां शब्दानां धातुसंज्ञा न भवतीति। अस्मिन्नपि व्याख्यानं `भूवादयः` इति षष्ठीसमासोऽयम्। षष्ठी च वाच्यवाचकसम्नब्धलक्षणा वेदितव्या॥", "13002": "`उपदिश्यतेऽनेनेत्युपदेशः` इति। <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति करणे घञ् ननु च संज्ञायामित्युच्यते, न चेयं संज्ञा? नैतदस्ति; <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति बहुलवचनादसंज्ञायामपि भवतीत्यदोषः। `शास्त्रवक्यानि` इति। अस्येदं विवरणम् - `सूत्रपाठः, खिलपाठश्च` इति। खिलपाठः = धातुपाठः। चकारात् प्रातिपदिकपाठश्च। अथ रगेलगेप्रभृतीनां कथमानुनासिक्यम्; न हि तेषामानुनासिक्यं गणे पठते? अथापरिपठितानामपि भवति, तदा `भू` इत्येवमादीनां कस्मान्न भवतीत्याह - `प्रतिज्ञाननासिक्याः पाणिनीयाः` इत्यादि। प्रतिज्ञयाऽऽनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः। यत्रैवानुनासिक्यं पाणिनीयाः प्रतिजानते, तत्रैव तदपठमानमपि भवति, नान्यत्र। एतदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि? यत्रैवाचार्याः स्मरन्ति तत्रैव तेन भवितवयम्, यथा स्वरितत्वमनुदात्तत्वञ्च स्मरणेन विज्ञायते, तथाऽऽनुनासिक्यमपि। यदि तह्र्रानुनासिक्यं प्रतिज्ञामात्रभावि तत् किमर्थं तत् क्वचित् पठते - `डुपचँष् पाके ` (धातुपाठः-996) इत्यादौ? एवंविधोऽर्थोऽनुनासिकः प्रतिज्ञेय इत्यर्थस्य प्रदर्शनार्थम्।`अभ्र आँ अपः` इति। अत्रोपपदेशात्तूत्तरकालम् <<आङोऽनुनासिकश्छन्दसि>> [[6.1.126]] इत्यनेनानुनासिको विहितः, तेनेत्संज्ञा न भवति। ननु चानुनासिकविधानसामर्थ्यादेव न भविष्यति, तत् किमुपदेशग्रहणेन? इत्संज्ञायां हि सत्यां <<तस्य लोपः>> [[1.3.9]] इति लोपः स्यात्, ततश्चानुनासिकविधानमनर्थकं स्यात्, सत्यमेतत्; एवं मन्यते - उत्तरार्थमवश्यमुपदेशग्रहणं कर्तव्यम्। उत्तरार्थ क्रियमाणमिहापि विस्पष्टार्थं भविष्यति। अथ वा - प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता। इदन्त्वत्र प्रत्युदाहरणम् - <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] , दधिं ब्राआहृणकुलम्। यद्यत्रेत्संज्ञा स्यात् <<इदितो नुम् धातोः>> [[7.1.58]] इति नुम् स्यात्। ननु च धातोरित्युच्यमाने धातोर्नुम् विधीयते, नचायं धातुः, किं तर्हि? प्रातिपदिकम्,तत्कथं नुम् स्यात्? नैतदस्ति; `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति क्विबन्तत्वाद्धातुत्वं भवति। आत्मनो दधीच्छति <<सुप आत्मनः क्यच्>> [[3.1.8]] दधीयति, दधीयतेः क्विप्; दधिं ब्राआहृणकुलमिति। <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। <<लोपो व्योर्वलि>> [[6.1.66]] इत्यत्रादौ लोपग्रहणात् पूर्वं यकारस्य लोपो भवति। <<वेरपृक्तस्य>> [[6.1.67]] इति वकारस्य। प्रत्ययलोपलक्षणेन `अकृतसार्वधातुकयोः` [[7.4.25]] इति दीर्घः। `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वत्वम्। <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इत्यनुनासिके कृते `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति नुम् स्यात्। अश्मा,भस्मेति `आतो मनिन्` [[3.2.74]] इत्यत्र मकारस्येत्संज्ञा न भवति। यदि हि स्यात्, <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति हलन्तेभ्यो विधीयमानो मनिन्नचोऽन्त्यात् परः स्यात्।`सर्वस्याचो मा भूत्` इति। दरिद्राप्रभृतिसम्बन्धिनोऽपि॥", "13003": "`अन्ते भवमन्त्यम्` इति। दिगादित्वाद्यत्। अन्तशब्दोऽयं समाप्तौ वर्तते। यथा - एतदन्तं वनमिति। येन च समाप्यते समुदायः सोऽन्तः। त्तरान्ते = समाप्तौ भवमन्त्यम्। हलिति हल्शब्दस्योभयलिङ्गत्वादन्त्यमिति नपुंसकेन निर्देशः। `धात्वादेः` इत्यादि। आदिशब्देन सूत्रप्रातिपदिकप्रत्ययागमादेशानां ग्रहणम्। तत्र धातोः - `डुकृञ्` (धातुपाठः-1472) इति ञकारः; सूत्रस्य - `ऐउण्` (मा।सू।1) इति णकारः; प्रातिपदिकस्य - `नवट्` इति टकारः; नदडिति पचादिषु पठते। प्रत्ययस्य - <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] इति नकारः; आगमस्य <<त्रपुजतुनोः षुक्>> [[4.3.138]] इति ककारः; आदेशस्य च - `चक्षिङः ख्याञ्` [[2.4.54]] इति ञकारः।`अग्निचित्, सोमसुत्` इति। चिनोतेः सुनोतेश्चाग्न चितवान् सोमं सुतवानिति क्विप्, तुक्।ननु च हलिति प्रत्याहारपाठे योऽन्त्यो लकारस्तस्येत्संज्ञा न प्राप्नोति; इतरेतराश्रयत्वात्। तथा हि - इत्संज्ञायाम् <<आदिरन्त्येन सहेता>> [[1.1.71]] इति हलिति प्रत्याहारग्रहणं भवति। तस्मश्च तस्य लकारस्य हलन्त्यमितीत्संज्ञा। तदिदमितरेतराश्रयत्वं स्फुटतरमेव। `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते` (व्या।प।28) इत्यत आह - `हस्य ल् हल्` इत्यादि। यदेकमावृत्तिभेदमन्तरेणाप्यनेकेषामुपकारं करोति तत् तन्त्रम्। यथा - प्रदीपः सुप्रज्वलितो बहूनां छात्राणामुपकारं करोति। इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः। तेन तन्त्रेण द्वितीयमत्र हल्ग्रहणमुपात्तं परिगृहीतं वेदितव्यम्। यथा ओतो धावतीत्येकेन प्रयत्नेन द्वे वाक्ये उच्चारिते भवतः, तथेहाप्येकेनैव प्रयत्नेन द्वौ हल्शब्दावुच्चारितावित्यभिप्रायः। हस्य ल् हलिति समीपिसामीप्यसम्बन्धे षष्ठी। `तेन` इत्यादि। यतस्तन्त्रेण न्यायेन द्वितीयं हल्ग्रहणं कृतम्, तेन प्रत्याहारपाठे हलित्यस्य लकारस्य हकारसमीपवर्तिनः साक्षादेव संज्ञित्वेनोपात्तस्येत्संज्ञा क्रियते, न तु प्रत्याहारसमाश्रयणेन। एवञ्च सति <<हलन्त्यम्>> [[1.3.3]] इत्यत्र प्रत्याहारपाठे इतरेतराश्रयद#ओषो न भवति। बाल-मनोरमाहलन्त्यम् 2, 1.3.3 एकपदं सूत्रम्। हलि अन्त्यं हलन्त्यमिति विग्रहः। शौण्डादेराकृतिगणत्वात् `सप्तमी शौण्डैः` इति सप्तमीसमासः, सुप्सुपेति समासो वा। हल्पदमिह सूत्रपरम्। `उपदेशेऽजनुनासिक इत्` इति पूर्वसूत्रादिदित्यनुवर्तते। तदाह - हलिति सूत्र इत्यादिना। इत्स्यादिति। इत्संज्ञकः स्यादित्यर्थः, संज्ञाप्रस्तावात्। एवं च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्संज्ञामनुपजीव्यैव इत्संज्ञा सिद्धेति नान्योन्याश्रय इति भावः। बाल-मनोरमाहलन्त्यम्(बि) 4, 1.3.3 ततः किमित्यत आह - हलन्त्यम्। आवृत्तयोर्द्वितीयं सूत्रमेतत्। हल् अन्त्यमितिच्छेदः। हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात्। `उपदेशेऽजनुनासिक इ`दिति पूर्वसूत्रादुपदेश इति` इदिति चानुवर्तते। तदाह - उपदेशेऽन्त्यमित्यादिना। धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम्। अथ कोऽयमुपदेशो नाम` तत्राह - उपदेश आद्योच्चारणमिति। उपशब्द आद्यर्थकः। दिशिरुच्चारणक्रियायाम्। भावे घञिति भावः। एतच्च `आदेच उपदेशे` इत्यादासूत्रे भाष्ये स्पष्टम्। धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्। आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥ - इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता। उपदेशे किम्-`इदमस्थमुः` इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत्। तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम्। ततः किमित्यत आह-ततोऽण्? अजित्यादिसंज्ञासिद्धाविति। ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः।", "13004": "`वृक्षात्` इत्यत्र तकारस्येत्संज्ञायां सत्याम् `तित्स्वसितम्` ( [[6.1.179]] इति स्वरितत्वं स्यात्।`अपचतात्, अपचतम्` इति। पचेर्लङ्, `तस्तथस्थमिपां तान्तन्तामः` [[3.4.101]] इति तान्तमादेशौ भवतः। `किमोऽत्` [[5.3.12]] इत्यत्राच्छब्दस्य `प्राग् दिशो विभक्तिः` [[5.3.1]] इत्यस्य मकारस्येत्संज्ञापरित्राणार्थादुकारानुबन्धाद्विज्ञायते। नित्यत्वे हि सत्येतस्मादेव प्रतिषेधान्मकारस्येत्संज्ञा न भविष्यतीत्युकारानुबन्धग्रहणमनर्थकं स्यात्।", "13005": "अत्र टुग्रहणेन `अणुदित्सवर्णस्य चाप्रत्ययः` [[1.1.69]] इति टवर्गस्य ग्रहणं कस्मान्न भवति? उकार्सयानुनासिकत्वाप्रतिज्ञानात्, `चुटू` [[1.3.7]] इत्यत्र टुग्रहणाच्च। यद्यत्र टवर्गस्य ग्रहणं स्यात्, तदानेनैव प्रत्ययादेरपि सिद्धत्वात् टुग्रहणमनर्थकं स्यात्। `मिन्नः` इति। <<ञीतः क्तः>> [[3.2.187]] , <<आदितश्च>> [[7.2.16]] इतीट्प्रतिषेधः। `वेपथुः`इति। `ट्वितोऽथुच` [[3.3.89]] । `पक्त्रिमम्` इति। <<ड्वितः क्त्रिः>> [[3.3.88]] । पाकेन निवृत्तम्, `क्त्रेर्मम् नित्यम्` [[4.4.20]] इति मप्। `उप्त्रिमम्` इति। वच्यादिसूत्रेण [[6.1.15]] सम्प्रासारणम्।`पटूयति` इति। <<सुप आत्मनः क्यच्>> [[3.1.8]] , `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः। `कण्डूयति` इति। <<कण्ड्वादिभ्यो यक्>> [[3.1.27]] । कथं पुनरत्रेत्संज्ञाप्राप्तिः, यावता सूत्रे टुडुशब्दौ ह्रस्वान्तावुपात्तौ,दीर्घान्ताविमौ? नेतत्; यद्यपि दीर्घत्वे कृते दीर्घान्तावेतौ भवतस्तथाप्युदेशे ह्रस्वान्तावेव,`उपदेशे` (1.3.2।) इति चेहानुवर्तते। तत्र पटुशब्दस्य पृथ्वादिपाठात् टुशब्दस्योपदेशे ह्रस्वान्तता सिद्धा। कण्डूशब्दस्य `कण्डवादिभ्यो यक्` [[3.1.27]] इत्यत्र पाठात् डुशब्दस्यापि। द्विविधा हि कण्ड्वादयः - धातवः, प्रातिपदिकानि च। तत्र धातुः कण्डुशब्दो ह्रस्वान्तः। प्रातिपदिकं तु कण्डुशब्दो दीर्घान्तः।अथ वा - यद्यप्युपदेश इति नानुवर्तते, तथापि दीर्घत्वे कृतेप्येकदेशविकृतस्यानन्यत्वादस्त्येव प्राप्तिः। `ञिकारीयति` इति। पूर्ववत् क्यच्। ञिकारशब्दो न क्वचित् पठत इति तेनात्रेत्संज्ञा न भवति। यदि स्यात्, लोपे कृते रूपं न सिद्ध्येत्॥", "13006": "`रजकी` इति। षित्त्वात् <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्। अथ केनात्रानुनासकिलोपः? `अनिदिताम्` [[6.4.24]] इति चेत्? न; तत्र क्ङितीत्युच्यते,न चात्र क्ङित्प्रत्ययोऽस्ति, नैष दोषः; `जनीजृष्क्नसुरञ्जौ।ञमन्ताश्च` (ग।सू।धातुपाठः-817) #इतिमित्संज्ञाकरणं रञ्जेज्र्ञापकम्- अक्ङित्यपि तस्यानुनासिकलोपो भवति, अन्यथा णौ रञ्जेरकारस्यानुपधत्वात् <<अत उपधायाः>> [[7.2.116]] इति वृद्ध्या न भवितव्यमिति मित्संज्ञाकरणमनर्थकं स्यातदित्येके।<<घञि च भावकरणयोः>> [[6.4.27]] इत्यत्र चकार्सयानुक्तसमुच्चयार्थत्वादक्ङित्यपि क्कचिद्रञ्जेरनुनासकिलोपो भवतीत्यपरे।`षोडः` इति। षड् दन्ता अस्येति बहुव्रीहिः; <<वयसि दन्तस्य दतृ>> [[5.4.141]] इति दत्रादेशः, ऋकार उगित्कार्यार्थः; `षष उत्वं दतृदशधासूत्त्रपदादेः ष्टुत्वञ्च` (वा।765) पृषोदरादिपाठात् षषोऽन्त्यस्योत्वम्, <<आद्गुणः>> [[6.1.87]] , उत्तरपदादिष्टुतवमिति दकारस्य डकारः। षोडत् इति स्थिते षोडन्तमाचष्ट इति `तत्करोति तदादष्टे` (वा।200,201) इति णिच्, `णाविष्ठवत् कार्यम् प्रातिपदिकस्य` (वा।813) इतीष्ठवद्बावाट्टिलोपः - षोडयतीति, ततः पचाद्यच्, णिलोपः।`षण्डः` इति। `षणु दाने` (धातुपाठः-1464)। `ञमन्ताड्डः` (द।उ।5।7), <<उणादयो बहुलम्>> [[3.3.1]] इति बहुलवचनात् <<धात्वादेः षः सः>> [[6.1.64]] इति सत्वं न भवति। अथ वा - `षण्ड` इत्येतदव्युत्पनन्नं प्रातिपदिकमिति।`षडिकः` इति। षडङगुलिदत्तशब्दात् अनुकम्पायाम् `बह्वचोऽमनुष्यनाम्नष्ठज्वा` [[5.3.78]] इति ठच्। `ठाजादापूध्र्वं द्वितीयादयः` [[5.3.83]] इति ङगुलिदत्तस्य लोपः; <<ठस्येकः>> [[7.3.50]] इतीकादेशः। षडशब्द्सय <<यस्येति च>> [[6.4.148]] इत्यकारलोपः, तस्य स्थानिवद्भावे सति व्यवधानात् षट्शब्दस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा न भवति। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् = षकारस्य डकारः। यद्येषां षकारस्येत्संज्ञा स्यात्, स्त्रीविवक्षायां <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष् स्यात्। षण्डशब्दोऽयं यद्यपि बलीवर्दे वर्तते, तथापि स्त्रीगवीष्पपि षण्डधर्मयोगाद्वृत्तिरस्य सम्भवत्येव। यद्यप्येते षोडादयो लाक्षणिकाः, तथाप्युदेशग्रहणेन षकारो विशिष्यत इति भवन्त्येतानि प्रत्ययग्रहणस्य प्रत्यदाहरणानि। भवति ह्यत्राप्युदेशे षकारः।`अविषः, महिषः` इति। `अव रक्षणे` (धातुपाठः-600) `मह पूजायाम्` (धातुपाठः-1867), `अविमह्रोष्टिषच्` (द।उ।9।3।) ननु च<<उणादयो बहुलम्>> [[3.3.1]] इति बहुलवचनात् प्रत्ययसंज्ञैवात्र न भवति, सत्यामपि तस्यामित्संज्ञा न भविष्यति, बहुलवचनात्, तत् कस्मादादिग्रहणमेतदनुवर्तत#ए? एवं मन्यते - उत्तरार्थमवश्यमादिग्रहणमनुवर्तमानमिहापि स्पष्टार्थं भविष्यति।", "13007": "`कौञ्जायन्यः` इति। च्फञन्तात् <<व्रातच्फञोरस्त्रियाम्>> [[5.3.113]] इति स्वार्थे ञ्यः। `छस्येयादेशं वक्ष्यति` इति। इत्संज्ञापवादम्। `शाण्डिक्यः` इति। <<शण्डिकादिभ्यो ञ्यः>> [[4.3.92]] इति शण्डिकोऽभिजनोऽस्येत्यर्थे ञ्यः, तत्र हि `सोऽस्याभिजनः` इति वर्तते। `मन्दुरजः`इति। <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इति मन्दूराशब्दस्य ह्रस्वत्वम्। `अन्नाण्णः- आन्नः` इति। `अन्नं लब्धा` इत्य्रथे णः। तत्र हि <<धनगणं लब्धा>> [[4.4.84]] इत्यतो लब्धेत्यनुवर्तते। अथ किमर्थं पृथग्योगः क्रियते, `चुटुषाः प्रत्ययस्य` इत्येक एव योगः क्रियतामित्यत आह - `पृथग्योगकरणम्` इत्यादि। `तेन वित्तः` [[5.2.26]] इत्यादिनाऽस्य विधेरनित्यत्वज्ञापनस्य प्रयोजनं दर्शयति॥", "13008": "`प्रियंवदः` इति। <<प्रियवशे वदः खच्>> [[3.2.38]] , <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुम्। `जिष्णुः`- इति। <<ग्लाजिस्थश्च क्स्नुः>> [[3.2.139]] इति। ये तु क्स्नुप्रत्ययं गितमिच्छन्ति तन्मतेनेदं गकारस्योदाहरणम्। ये तु कितमिच्छन्ति तन्मतेनेमपि ककारस्योदाहरणं भवति।`चूडाल#ः` इति। मत्वर्थे <<प्राणिस्थादातो लजन्यतरस्याम्>> [[5.2.96]] इति लच् प्रत्ययः। ननु च प्रयोजनाभावादत्रेत्संज्ञा न भविष्यति; लित्प्रत्ययात् पूर्वस्योदात्तत्वं प्रयोजनमिति चेत्, न; चित्स्वरस्य हि सर्वस्य रस्यापवादत्वात् प्रत्ययस्वरेणह्रन्तोदात्तत्वे सिद्धे चित्करणस्यैतत् प्रयोजनम् - चित्स्वर एव यथा स्यात्, योऽन्यः स्वरः प्राप्नोति स मा भूदिति। इदं तु प्रत्युदाहरणम् - लोमान्यस्य सन्तीति <<लोमादिपामादिपिच्छादिभ्यः शनेलचः>> [[5.2.100]] इत्यादिना शः, लोमशः? एतदपि नास्ति, अत्रापि प्रोयजनाभावादेवेत्संज्ञा न भविष्यति। इदं तर्हि प्रत्युदाहरम् - `कर्णललाटात् कनलङ्कारे` [[4.3.65]] इति भावार्थे कन्; कर्णिका, यद्यत्रेत्संज्ञा स्यात् `किति च` [[7.2.118]] इत्यादिवृद्धिः स्तात्, ततश्च रूपमेव न सिद्ध्येत? यद्येवम् इवमेवोपन्यसनीयम्, नेतरे? एवं मन्यते - एतदर्थम् `अतद्धिते`इति क्रियमाणमिहापि मन्दधियां प्रतिपत्तिगौरवं परिहर्तु चूडालः, लोमश इत्येवमर्थमपि भवितुमर्हतीति॥", "13009": "अथ किमर्थम् `तस्य` इत्युच्यते, यवातेत्संज्ञायाः प्रकृतत्वाद्यस्येत्संज्ञा विहिता सामर्थ्यात्तस्यैव लोपो भविष्यतीति आह - `तस्यग्रहणम्` इत्यादि। कः पुनरित्संज्ञको योऽलोन्त्यस्य निवृत्त्यर्थं तस्यग्रहणं प्रयोजनतीत्याह - `आदिर्ञिटुडवः` इति। असति तस्यग्रहणे, एषामपि ञिप्रभृतीनाम् <<अलोऽन्त्यस्य>> [[1.1.52]] इति वचनादन्त्यस्य लोपः स्यात्। तस्यग्रहणेन तु प्रकृत इत्संज्ञके सन्निधापिते सर्वस्य लोपो भवति, नान्त्यस्य; अन्यथा हि तस्यग्रहणमनर्थकं स्यात्। यदि तु `नानर्थकेऽलोऽन्त्यविधिः` (व्या।प।62) इत्येषा परिभाषाऽऽश्रीयते, तदा तस्यग्रहणमकर्तुं शक्यते। तत् क्रियते विस्पष्टार्थम्।", "13010": "`संख्याशब्देनात्र क्रमो लक्ष्यते` इति। यत्रानेके उद्देशिनोऽनुदेशिनश्च, तत्रानियमेन सम्बन्धे प्राप्ते नियमार्थंमिदमारभ्यते। यत्रोद्देशिनोऽनुदेशिनोऽनेकसंख्याः; तत्रावश्यं संख्याभेदेन भवितव्यम्। यत्र च संख्याभेदः, तत्र नियतभावी क्रमः ; संख्याभेदवतां युगपदुच्चारयितुमशक्यत्वात्। अतः साहचर्यात् संख्याशब्देन क्रमो लक्ष्यते। अर्थधर्मत्वं तु शब्दे समारोप्य संख्याशब्देन क्रमो लक्ष्यत इत्युक्तम्। यथाक्रमग्रहणं कथं न कृतम्? वैचित्र्यार्थम्।`यथासंख्यम्` इति। `यथाऽसादृश्ये` [[2.1.7]] इति वीप्सायामव्ययीभावः। `अनुदिश्यत इत्यनुदेशः` इति। <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति घञ्। `पश्चादुच्चार्यते` इति। अनुशब्दस्य पश्चादर्थवृत्तित्वाद्दिश्चोच्चारणक्रियत्वात्। `समसंख्यानम्` इति। समसंख्यतया समानत्वं दर्शयति। `{समं परिपठितानाम्िति मूल (काशिका) पाठः। }समगणनपरिपठितानाम` इति। तमेवार्थं शब्दान्तरेण व्यक्तीकरोति। `उद्देशिनामनुदेशिनाञ्च्` इति। यथाक्रममित्येतदपेक्षया षष्ठी। उद्देशिनो यद्यपि सूत्रे न श्रूयन्ते, तथापि सम्बन्धित्वात् पश्चाद्भावस्यानुदेशग्रहणाल्लभ्यन्ते। `यथाक्रमम्` इति। पूर्ववद्वीपसायामव्ययीभावः, तृतीयान्तञ्चैतत्; तदयमत्रार्थः- उद्देशिनामनुदेशिनाञ्च योऽयं क्रमस्तेन क्रमेणानुदेशिनः सम्बध्यन्त उद्देशिभिः सहेति। यद्यप्युद्देशिनामिति षष्ठन्तं प्रकृतम्, तथाप्यर्थाद्विभक्तेर्विपरिणामो भविष्यतीति तृतीयान्तं सम्पद्यते। `प्रथमात् प्रथमः` इत्यादिना यथाक्रमसम्बन्धं दर्शयति। आदिशब्दस्तृतीयात् तृतीयः, चतुर्थाच्चतुर्थ इत्यादिपरिग्रहाय। तौदेय इत्यादौ `सोऽस्याभिजनः` [[4.3.90]] इत्यत्रार्थे तद्धितः।`इह` इत्यादि। `वेशोयशाअदेर्भगात्` 94.4.132) इति द्वे प्रकृती, `यल्खौ` इति प्रत्ययावपि द्वावेव; अतो यथासंख्येन भवितव्यमित्यभिप्रायः। इह केनचिनदाचार्येण शिष्याः प्रतिग्राहिताः - `वेशो यश आदेर्भगाद्यल् ख च` इत्येको योगः। अन्ये तु द्वावेतौ योगविति- `वेशोयश आदेर्भगात्` इत्येको योगः, `यल् ख च` इति द्वितीयः। तत्र य एक एवायं योग इत्येवं शिष्या ग्राहितास्तान्प्रत्ययं प्रश्नः। वृत्तिकारेणापि तन्मतमेवाश्रित्य`स्वरितेन` इत्यादिना परीहार उक्तः। ये तु द्वावेतौ योगावित्येवं ग्राहितास्तान् प्रत्येष प्रश्नो नास्ति; योगविभागेनैव यथासंख्यस्य स्यात्, योगविभागकरणमनर्थकं स्यादित्यभिप्रायः। कथं पुनः स्वरितेन लिङ्गेन यथासंख्यं लभ्यते, यावता नेह स्वरितग्रहणमस्तीत्याह - `स्वरितेनाधिकारः` इत्यादि। <<स्वरितेनाधिकारः>> [[1.3.11]] इति योगं विभज्य `स्वरितेन` इत्येको योगः, `अधिकारः` इति द्वितीयः। तत्र प्रथमो योगः पूर्वेणापि `यथासंख्यम्` इत्यादिना सम्बध्यते। अपिशब्दात् परेणापि `अधिकारः` इत्यनेन। यदि तर्हि स्वरितेन लिङ्गेन यथासंख्यं भवति, एवं हि सति सन्देहः स्यात्। तथा हि - यथासंख्यमिति स्वरितेनाधिकारोऽपि तत्र न ज्ञायते - किमधिकारार्थः स्वरितानुषङ्गः? अथ वा यथासंख्यार्थ इति? सन्देहमात्रमेतत्। सर्वनसन्देहेष्विदमुच्यते - `भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्` (व्या।प।75) इति॥", "13011": "`इत्थंभूतलक्षणे तृतीय` इति। स्वरितेन चिह्नेनाधिकारस्योपलक्षणीयत्वात्। यदि पारिभाषिकस्येह स्वतिस्य ग्रहणं स्यात्, <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इत्यत्र णकारण्णाकारस्याधिकारस्याधिकारता न स्यात्; परिभाषिकस्याज्धर्मत्वात्। णकारस्यानच्कत्वादिति मत्वा सर्वेषां वर्णानामचां हलाञ्च स्वरिताख्यो यो वर्णधर्मो गुणस्यस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयन्नाह - `स्वरितो नाम स्वरदोषो वर्णधर्मः` इति। वर्णधर्मस्य तु गर्हणमधिकारावगमाय। स इह हल्यपि स्वरितासरञ्जनाद्विज्ञायते। `अधिकारो विनियोगः` इति। व्यापारकरणम्। `अधिकृतत्वादुत्तरत्रोपतिष्ठते` इति। यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते, तथा स्वरितगुणयुक्तं शब्दरूपं सूत्रकारेण नियुक्तं सूत्रकारेण तत्र तत्रोपतिष्ठते। `उत्तरत्र` इति वचनमुपलक्षणार्थम्। क्वचित् पूर्वत्राप्युपतिष्ठत एव।क्व पुनरस्य सद्भावो भवति? क्व च वा न भवति? इत्याह - `प्रतिज्ञास्वरिताः पाणिनीयाः` इति। प्रतिज्ञया स्वरितो येषां ते तथोक्ताः। तदेतदुक्तं भवति - यत्रेव त आचार्याः स्वरितत्वं प्रतिजानते तत्रैवास्य सद्भावो भवति, नान्यत्रेति। तदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि? यत्राचार्याः स्मरन्ति तत्रैव भवति। स चायं धर्मः कलागद्युपम इति वेदितव्यः। कार्यार्थमुपादीयते, कृतकार्यस्तु निवर्तते; न तु प्रयोगसमवायी भवति। <<प्रत्ययः>> [[3.1.1]] इत्यादिना येऽधिकाराः स्वरितनावच्छिद्यन्ते तेषामुदाहरणानि दर्शयति। अथ किमर्थोऽयमधिकारः क्रियते? प्रतियोगं तस् ग्रहणं मा कार्षीदित्येवमर्थमिति चेत्, न; यथा देवदत्ताय गौर्दीयतां कम्बलश्चेत्युक्ते न च पुनरुच्यते देवदत्तायेति, अथ च प्रस्तुतत्वाद्देवदत्तस्य कम्बलश्चेत्यस्य साकाङ्क्षत्वात् तेनैव सम्बन्धो भवति; तथा च <<सृ स्थिरे>> [[3.3.17]] `भावे` [[3.3.18]] इत्येवमादीनामपि वाक्यानां साकाङ्क्षत्वाद्घञादीनाञ्च प्रस्तुतत्वात् तैरेव सम्बन्धो भविष्यति, तत्किमधिकरेण? सत्यमेतत्; यत्रान्य निर्देशो नास्ति तत्रोपतिष्ठते, यत्र त्वन्यनिर्देशस्तत्रासौ प्रकृतस्य निवर्तक एव स्यात्। तथा हि - गौर्दीयतां यज्ञदत्ताय कम्बलो विष्णुमित्रायेत्युक्तेऽन्यनिर्देशेन प्रस्तुतो देवदत्तो निवर्तत्ते। एवञ्चान्यनिर्देशेनास्य निवर्तकत्वे सति `अभिविधौ भाव इनुण` [[3.3.44]] इत्यस्येनुणो निर्देशेन प्रस्तुतस्य घञो निवर्तितत्वात् `आक्रोशेऽवन्योग्र्रहः` [[3.3.45]] इत्यत्रानन्तरेणेनुणा सम्बन्धः स्यात्,न पुनव्र्यवहितेन घञा,घञ् त्विष्यते। ननु च दृष्टानुवृत्तिसामर्थ्याद् घञेवानुवर्तिष्यते तेनैवाभिसम्बन्धो भविष्यति, तथा च तत्र वक्ष्यति - `दृष्टानुवृत्तिसामर्थ्यात्तत्र घञेवानुवर्तते, नानन्तर इनुण् ` इति नैतदस्ति; यदि दृष्टानुवृत्तिसामर्थ्यादघञ एवानुवृत्तिः स्यात्, तदा `ऋदोरप्` [[3.3.57]] इत्तत्रोत्तरेष्वपि योगेषु घञेवानुवर्तेत, नाप्प्रत्ययः। यत्पवुनर्वक्ष्यति - `दृष्टानुवृत्तिसामर्थ्यात्` इति, तत्र दृष्टानुवृत्तिसामर्थ्यशब्देन स्वरितत्वमेवोक्तम्। दृष्टमनुवृत्तौ सामर्थ्यम् - अधिकृतस्य शब्दरूपस्य यस्मादिति बहुव्रीहिकृत्वा।तस्मात् स्वरितत्वादित्ययमत्रार्थः। यद्येषोऽर्थः सूत्राकाराभिमतः स्यात्, स्वरितत्वादिति कस्मान्नोक्तमिति चेत्? न;स्वच्छन्दतो हि वचसां प्रवृत्तिः, अर्थस्तु परीक्षणीय इत्यचोद्यतमेतत्। तदेवं यतोऽन्यनिर्दशः प्रस्तुतस्य निवर्तको भवति तस्मादधिकारः कर्तव्यः। तस्मश्च क्रियमाणे तदवगमोपायदर्शनाय `स्वरितेनाधिकारः` इत्येतदिप कर्तव्यः॥", "13012": "`तत्रायं नियमः क्रियते` इति। विधीयमानत्वात् प्रधानस्य प्रत्ययस्य न तु प्रकृतेरिति विज्ञायते। अत एवाह - `अनुदात्तेतो ये धातवो ङितश्च तेभ्यः` इति। यदि पुनरयं प्रकृतिनियमः स्यात्, तदा किं स्यात्? अनुदात्तङिद्भ्यः प्रत्ययान्तरं न स्यात्। कामं वचनसामर्थ्यात् प्रत्ययान्तरमपि भविष्यतीत्येष दोषः शक्यते परिहर्तुम्। यस्तु वचनसामर्थ्यद्वारेणाभीष्टेऽर्थे प्रतीयमाने प्रतिपत्तिगौरवदोषः स्यात्, सोऽपरिहार्य एव। यदि तर्हि प्रत्ययनियमोऽयम्, तदा प्रकृतीनामनियतत्वात् ताभ्यः परस्मैपदमपि स्यात्? न भविष्यति; `शेषात्कर्तरि परस्मैदपदम्` [[1.3.78]] इति द्वितीयनियमविधानात् शेषादेव परस्मैपदम्, नान्यस्मादिति। `आस्ते` इत्यादि। `आस उपवेशने` (धातुपाठः-1021) `वस आच्छादने` (धातुपाठः-1023), `षूङ प्राणिगर्मविमोचने` (धातुपाठः-031) , `शीङ स्वपने` (धातुपाठः-1032), अदादित्वाच्छपो लुक्। `शेते` इति। <<शीङः सार्वधातुके गुणः>> [[7.4.21]] ॥", "13013": "भाव इति धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकमेव। तत्रेदमुच्यते नियमार्थं इति विशेषः। अयमपि पूर्वत् प्रत्ययनियः - भावकर्मणोरेवात्मनेपदं भवति, नार्थनियमः। अर्थनियमे सति `को भवता दायोदत्तः`, `को भवता लाभो लब्धः` इति कर्मणि घञादिर्दुर्लभः स्यात्। `सुप्यते` इति। `ञिष्वप् शये` (धातुपाठः-1068) वच्यादिना [[6.1.15]] सम्प्रासरण्। `क्रियते` इति। `रिङ शयग्लिङक्षु` [[7.4.28]] इति रिङादेशः। `लूयते केदारः स्वयमेव` इति। `कर्मवत्कर्मणा तुल्यक्रियः` [[3.1.87]] इत्यत्र व्यपदेशातिदेशशासत्रातिदेशपक्षयोः कर्मकर्तरि परस्मैपदेन परत्वाद्भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - `कर्मकर्तरि` इत्यादि। `द्वितीयं कर्तरिग्रहणमुपतिष्ठते` इति। <<कर्तरि कर्मव्यतिहारे>> [[1.3.14]] इत्यतः। तेन कर्त्तैव यः कर्ता शुद्धः केवलः कर्मवद्भावरहितः, तत्र परस्मैपदं भवति; यत्र कर्मवद्भावस्तत्रात्मनेपदं भवति।कार्यातिदेशपक्षे `क्रमवत् कर्मणा तुल्यक्रियः` [[3.1.87]] इत्यनेनैवात्मनपेपदं भवति।", "13014": "`कर्मशब्दः क्रियावाची` इति। एतेन लौकिकमिह कर्म क्रियात्मकं गृह्रते, न पारिभाषिकमिति दर्शयति। कुत एतल्लभ्यते? प्रत्यासत्तेः। क्रिया हि धातोः प्रत्यासन्ना, तत्र साक्षाद्वृत्तेः। साक्षाद्वृत्तिस्तु धातुवाच्यत्वात् क्रियायाः। पारिभाषिके तु साधनात्मके कर्मणि धातुः साक्षान्न वर्तते;तस्याधातुवाच्यत्वात्। तस्माद्धातुं प्रतिन तस्य प्रत्यासत्तिरिति न गृह्रते, तेन साधनकर्मव्यतीहारे न भवत्यात्मनेपदम् - देवदत्तस्य धान्यं व्यतिलुनन्तीति। लुनातिरुपसंगर्हार्थे लवने वर्तते। देवदत्तेन यद्धान्यं सङगृहीतं पुरस्ताल्लवनेनोपसंगृह्णन्तीत्यर्थः। ततश्चान्यसम्बन्धिनो धानयस्यान्येन संग्रहणाद्भवति साधनकर्मव्यतीहारः। `अन्यसम्बन्धिनीम्` इति। अन्यस्य कर्त्तुरभीष्टया क्रियेमां क्रियां करिष्यामीति सेहान्यसम्बन्धिन्यभिप्रेता, अन्यथा यद्यन्येन निष्पादिता या क्रिया सेहान्यसम्बन्धिन्यभिप्रेता स्यात् तदा व्यतिहारो नोपपद्येत, न ह्रन्येन निष्पादितायाः पुनर्निष्पादनमुपपद्यते। `व्यतिलुनते` इति। <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः, `श्नाभ्यस्तयोरातः` [[6.4.112]] इत्याकारलोपः। अथ कर्तृग्रहणं किमर्थम्? भावकर्मनिवृत्त्यर्थमिति चेत्, न; अभीष्टत्वाद्भावकर्मणोरात्मनेपदम् - व्यतिभूयते सेनया, व्यतिगम्यन्ते ग्रामाः, व्यतिहन्यन्ते दस्यव इति। <<भावकर्मणोः>> [[1.3.13]] इत्यनेनैव यथा स्यात्, अनेन मा भूदित्येवमर्थमिति चेत्, न; विशेषाभावात्। न हि तेनात्मनेपदे सत्यनेन वा कश्चिद्विशेषोऽस्ति। यद्यनेन स्यात् तदा <<न गतिहिंसार्थेभ्यः>> [[1.3.15]] इति प्रतिषेधः स्यात्, तेन चात्मनेपदे विधीयमाने न भवत्येष दोष इति चेत्, सत्यम्; एषोऽस्तु विशेषः,तथापि न कर्त्तृग्रहणं कर्तव्यम्; यस्मात् `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते, न पूर्वा। तेन भावकर्मणोरात्मनेपदं भविष्यति। अत आह - `कर्त्तृग्रहणमुत्तरार्थम्` इति। कः पुनरसावुत्तरो योगो यत्रास्य प्रयोजनमित्याह - `शेषात्` इत्यादि॥", "13015": "`व्यतिगच्छन्ति`इति। <<इषुगमियमां छः>> [[7.3.77]] इति छत्वम्, `छे च` [[6.1.71]] इति तुक्। `व्यतिसर्पन्ति` इति। `गम्लृ सृप्लृ गतौ` (धातुपाठः-982,983), लघूपधगुणः। `व्यतिहिंसन्ति` इति। `तृहि हिसि हिंसायाम्` (धातुपाठः-1348,1829)। `व्यतिघ्नन्ति` इति। `हन हिंसागत्योः` (धातुपाठः-1012) `गमहन` [[6.4.98]] इत्युपधापलोपः, <<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इति कुत्वम्।`प्रतिषेधे` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। उपसंख्यानशब्दोऽत्रानेकार्थत्वाद्धातूनां प्रतिपादने वर्तते। तच्च प्रतिपादनं प्रकृतत्वात् प्रतिषेधस्येति गम्यते। तदयमर्थः - प्रतिषेधे कर्तव्ये हसादीनामप्यात्मनेपदप्रतिषधस्य प्रतिपादनं कर्तव्यमिति। तत्रेदं प्रतिपादनम् - नेति योगविभागः क्रियते, तेन हसादीनामपि भविष्यतीति। ततः `गतिहिंसार्थेभ्यः` इति द्वितीयो योगः, तत्र `न` इति वर्तते।किमर्थं पुनरयम्? पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थम्, तेन `न` इति योगविभागेन हसादीनामेव प्रतिषेधो भविष्यति, नान्येष्यमिति।", "13016": "उपोच्चारितं पदमुपपदम्। इतरेतरान्योऽन्यशब्दावुपपदे यस्य स तथोक्तः। अथोपपदग्रहणं किमर्थम्, `नेतरेतरान्योऽन्याभ्याम्` इत्युच्यताम्? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने पञ्चमीनिर्देशात् <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्युत्तरस्यैव स्यात् - इतरेतरस्य व्यतिलुनन्तीति, इह तु न स्यात् - व्यतिलुनन्तीतरेतरस्येति।`परस्परोपपदाच्चेति वक्तव्यम्` इति। परस्परशब्द उपपदं यस्य तस्मात् प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्- चकारोऽत्र क्रियते। स चानुक्तसमच्चयार्थः। तेन परस्परोपपदादपि प्रतिषेधो भविष्यतीति।", "13017": "`निविशते` इति। `विश प्रवेशने` (1424) तुदादित्वाच्छः।`न्यविशत` इति। अडागमेन व्यवधानमित्यात्मनेपदेन न भविव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - `{यदागमास्तद्ग्रहणेन` इति - काशिका।पदमञ्जरी च। अडागमः` इत्यादि। `मधुनि विशन्ति` इति। अत्र नेः परस्य विशतेरात्मनेपदं प्राप्नोति, तत्कस्मान्न भवतीत्याह - `नेरुपसर्गस्य` इत्यादि। मधुशब्दस्य सप्तमेयकवचने <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमि मधुनीति रूपं भवति, तस्य चावयवो निशब्दोऽनर्थकः॥", "13018": "`परिक्रीणीते` इति। <<ई हल्यघोः>> [[6.4.113]] इतीत्त्वम्। `पर्यादय उपसर्गा गृह्यन्ते` इति। कथम्? क्रिय इति सम्बन्धलक्षणा षष्ठी, न पञ्चमी - क्रियो ये सम्बन्धिनः पर्यादय इति। अर्थद्वारश्च तेषां सम्बन्धो विशेषणविशेष्यभावलक्षणः। स चोपसर्गैरेव पर्यादिभिः सम्भवति; नान्यैरिति सामर्थ्यादुपसर्गग्रहणं भवति। `बहुवि क्रीणाति` इति। बहवो वयो यस्मिन्निति बहुव्रीहिः। विशब्दोऽत्र पक्षिणि वर्तते॥", "13019": "`साहचर्यात्` इति। उपसर्गग्रहणए हेतुः <<नेर्विशः>> [[1.3.17]] इत्यत्र नेरुपसर्गस्य ग्रहणम्। अनन्तरसूत्रेऽपि [[1.3.18]] पर्यादीनामुपसर्गाणामेव ग्रहणम्। अतः प्रकरणसाहचर्यादद्विपराशब्दावुपसर्गौ गृह्रेतेत - इत्येके।अपरे तु वर्णन्ति - साहचर्य पत्र्यासत्त्युपलक्षणम्। येषां साहचर्यं तेषां नियोगतः प्रत्यासत्त्या भवितव्यमिति। अतः साहचर्यस्य प्रत्यासत्त्याऽविनाभावित्वात् तेन प्रत्यासत्तिर्लभ्यते। तदेतदुक्तं भवति - प्रत्यासत्तेर्विपराशब्दावुपपसर्गौ गृह्रेते इति। प्रत्यासत्तिश्च जयतेर्विपराशब्दाभ्यामुपसर्गाभ्यामेव, नानुपसर्गाभ्याम्। तथा हि - ताभ्यामेव जयत्यर्थो जयत्यर्थो विशिष्यते,नेतरभ्यामिति॥", "13020": "ददातेरेवास्यविहरणे वृत्तिः सम्भवति, नान्येषां दारूपाणां धतूनामिति। अतस्तत्प्रतिषेधेन तस्यैव ग्रहणं विज्ञायत इत्यत आह - `आङपूर्वाद्दाञः` इति। `आदत्ते` इति। पूर्ववदाकारलोपः, `खरि च` [[8.4.54]] इति चर्त्वम्।`आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः` इत्युपसंख्यानध्याजेनास्यविहरणविषयं दर्शयति। कथम्? विहरणग्रहणं न कर्तव्यम्, इह `आङो दोऽनास्ये` इत्येतद्वक्तव्यम्, तत्रास्ये दाञो वृत्तिर्न सम्भवतीति सामर्थ्यादास्यसमवायिन्यां क्रियायां वृत्तिर्विज्ञास्यते, तत्रैव प्रतिषेधः,तत् किं विहरणग्रहणेन? ननु च `आङो दोऽनास्ये` इत्येतावत्युच्यमाने, स्वं मुखमादत्ते देवदत्त इत्यत्रापि प्रतिषेधः स्यात्, नैष दोषः, वा ह्रास्यविषयैव क्रिया तस्यां वर्तमानो ददातिरास्यवृत्तिर्भवति, विहरणमेवास्यविषयम्, ग्रहणं त्वास्यविषयं ग्रहीतृविषयञ्च। तदेवं विहरणमन्तेरणापि सिद्धे यद्विहरणग्रहणं क्रियते तस्यैतत् प्रयोजनम् - आस्यविहरणसमानक्रियादपि प्रतिषेधोऽयं यथा स्यादित्येवमित्येके। `इतरेतरान्योऽन्योपपदाच्च` [[1.3.16]] इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेनास्यविहरणसानक्रियादपि प्रतिषेधो भवतीत्यपरे।`स्वाङ्गकर्मकाच्च` इति। वक्तव्यमिति शेषः। न चात्राद्रवमूर्तिमल्लक्षमं पारिभाषिकं स्वाङ्गं विवक्षितम्, किं तर्हि? स्वमङ्गं स्वाङ्गमिति। तत् कर्म यस्य स स्वाङ्गकर्मकः,तस्मात् स्वाङ्गकर्मात् प्रतिषेधो भवतीत्येतदर्थरूपं वक्तव्यमित्यर्थः। तेन परसम्बन्धिना मुखेन यदा सकर्मको भवति तदा भवत्येवात्मनेपदम् - `व्याददते पिपीलिकाः पतङ्गस्य मुखम्` इति। वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - कर्तरीति वर्तते, आस्यमिति च सम्बन्धिशब्दः, तत्रैवं विज्ञायते - `यस्मिन् कर्तर्यैवात्मनेपदं भवति तस्य चेदास्यम्` इति। `आङ` इति योगविभागः क्रियते - आगमयस्व तावन्माणवकम्, आनुते शृगालः, आपृच्छते गुरूनित्येवमर्थः। तेन `आगमेः क्षमायाम्` (वा।35) इति `आङि नुप्रसच्छयोः` (वा।40) इति च नोपसंख्येयं भवति॥", "13021": "`समा साहचर्यात्` इति। यद्यप्यन्वादिरुपसर्गत्वं व्यभिचरति, सम्शब्दस्तु न व्यभिचरति, अतस्तत्साहचर्यादन्वादिरुपसर्ग एव गृह्रते। `माणवकमनुक्रीडति` इति। माणवकेन सह क्रौडतीत्यर्थः। <<तृतीयार्थे>> [[1.4.85]] इत्यनुशब्दस्य कर्मप्रवचनीयसंज्ञा।`आगमेः` इति। आङपूर्वस्य गमेण्र्यन्तस्य ग्रहणम्। `क्षमा उपेक्षा कालहरण्` इति। कालप्रतिपादनं प्रतीक्षणमित्यर्थः। `आगमयस्व` इति। `जनीजृष्वनसुरञ्जौऽमन्ताश्च` (ग।सू।धातुपाठः- 817) इति मित्संज्ञायाम् `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वत्वम्। लोण्मध्यमपुरुषैकवचनम्, `थासः से` [[3.4.80]] <<सवाभ्यां वामौ>> [[3.4.91]] इति वादेशः।\t`शिक्षेः` इति। शकिः सन्नन्तो गृह्रते।`विद्यासु शिक्षते` इति। विद्यां जिज्ञासितुं घटत इत्यर्थः। शकेः सन्, `सनि मीमाघुरभलभ` [[7.4.54]] इत्यादिनेस्भावः। <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यभ्यासस्य लोपः। <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः, शिक्ष इति स्थिते लट्। यस्तु `शिक्ष विद्योपादाने` (धातुपाठः-605) इति पठते, ततोऽनदात्तेत्त्वादात्मनेपदं सिद्धमेव।`आशिषि नाथः` इति। गतेस्ताच्छील्यं गतिताच्छील्यम्। ताच्छील्यम् = तत्स्वभावता। `पैतृकमआआ अनुहरन्ते, मातृकं गावोऽनुहरन्ते` इति। पितृवन्मातृवद्गमनमेषां स्वभाव इत्यर्थः। `मातुरनुहरति, पितुरनुहरति` इति। मातुराकारं पितुराकारमनुकरोतीत्यर्थः। मातृसदृशः,पितृसदृशः इत्यर्थः। पैतृकमिति पितुरागतमिति <<ऋतष्ठञ्>> [[4.3.78]] , `इसुसुक्तान्तात् कः` [[7.3.51]] । मातुरनुहरतीत्यत्र गतिताच्छील्यं न विवक्षितम्। `किरतेः` इत्यादि। `कृ विक्षेपे` (धातुपाठः- 1409) अस्य विक्षेप एवार्थः। हर्षादयस्तस्य विषयभूताः। अत्र हर्षो विक्षेपस्य कारणम्, जीविकाकुलायकरणञ्च तत्फलम्। एतेष्वेवार्थेषु किरतेरात्मनेपदं भवति। `अपस्किरते` इति। <<अपाच्चतुष्पाच्छकुनिष्वालेखने>> [[6.1.142]] सुट्।`आनुते` इति। `णु स्तुतौ` (धातुपाठः-1035), अदादिः। अयञ्चात्रोत्कण्ठापूर्वकशब्देन वर्तते। `आपृच्छते` इति। `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413) तौदादिकः, ग्रह्रादिना [[6.1.16]] सम्प्रसारणम्।`वाचा शरीरस्पर्शनमुपलम्भनम्` इति। शपथविशेषः। तथा हि - देवदत्तस्य शरीरं स्पृशामीति शपथं कुर्वाणो देवदत्ताय शपत इति प्रयुज्यते। `श्लाघह्नुङस्थाशपाम्` [[1.4.34]] इत्यादिना समप्रदानसंज्ञायाम्, देवदत्तायेति सम्प्रदाने चतुर्थी। शपतीत्याक्रोशतीत्यर्थः। `समोऽकूजने` (वा।34) इत्यादिग्रन्थस्य शप उपलम्भनपर्यन्तस्य योऽर्थः स इह चकारेणानुक्तसमुच्चयार्थेनोपात्तः, तस्यैवार्थस्य चकारोपात्तस्य स्पष्टीकरणायास्य ग्रन्थस्योपन्यासः कृतः॥", "13022": "`सन्तिष्ठते` इति। पाघ्रादिसूत्रेण [[7.3.78]] तिष्ठादेशः।`अस्त सकारमातिष्ठते` इति सकारमात्रमस्त धातुमापिशलिराचार्यः प्रतिजानीते। तथा हि - न तस्य पाणिनेरिव `अस भुवि` (धातुपाठः-1065) इति गणपाठः, किं तर्हि? `स भुवि` इति स पठति। `आगमौ गुणवृद्धी आतिष्ठते` इति। स त्वागमौ गुणवृद्धी आतिष्ठते। एवं हि स प्रतिजनीत इत्यर्थः॥", "13023": "`तिष्ठन्त्यस्मिन्नति स्थेयः` इति। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इत्यधिकरणे `अचो यत्` [[3.1.97]] । `ईद्यति` [[6.4.65]] इतीत्त्वम्। गुणः। `विवाद` इति। सन्देहविषये। `निर्णेता` इति। निश्चेता, प्रमाणभूत इत्यर्थः। कथं पुनः स्थेयशब्दात् तस्य प्रतीतिर्भवति, यावता स्थेयशब्दो भावसाधनोप्यस्ति गतिनिवृत्तिवचन इत्याह - `तस्य` इत्यादि। यस्य `स्थेय` इत्याख्या, लोके तस्य प्रतीतिर्यथा स्यादित्येवमर्थमाख्याग्रहणम्। तेनाख्याग्रहणेन तस्य प्रतीतिर्भवतीति दर्शयितुमाख्याग्रहणं कृतम्। `तिष्ठते कन्या छात्रेभ्यः` इति। पूर्ववत् सम्प्रदानसंज्ञायां सत्यां छात्रेभ्य इति चतुर्थी। `प्रकाशयत्यात्मानमित्यर्थः ` इति। अनेकार्थद्धातूनां तिष्ठतिरत्र प्रकाशने वर्तते। `संशय्य` इति।जहातु नैनं कथमर्थसिद्धःसंशय्य कणादिषु तिष्ठते यः।असाधुयोगा हि जयान्तरायाःप्रमाथिनीनां विपदां पदानि॥ (किरा-3।14) इत्यस्य श्लोकस्यायमेकदेश इहोपन्यस्तः। संशय्येति विवादपदभूते वस्तुनि संशयित्वो भूत्वा कर्णादिषु तिष्ठत इति। कर्णशकुनिप्रभृतिषु निर्षेतृत्वेनाभिमतेषु तत्सु पक्षान्तरं परित्यज्य तिष्ठते; तदुपदर्शितस्यैव पक्षस्याश्रयणात्॥", "13024": "अनुध्र्वकर्मणि वर्तमानादित्युक्ते, यश्चोदयति - `ननु च तिष्ठतेरकर्मकक्रियावचनत्वान्न कर्मणि वृत्तिरुपपद्यते। तत्किमुच्यते - `अनूध्र्वकर्मणि वर्तमानात्` इति, तं प्रत्याह - `क्रियावाची` इति। यदुक्तम् - अनूध्र्वकर्मणि वर्तमानादिति, तस्यार्थं विस्पष्टीकर्त्तुमाह - `अनूध्र्वकर्मविशिष्टात् क्रियावचनात्` इति। `उद ईहायामिति वक्तव्यम्िति। उत्पूर्वात् तिष्ठतेरीहायां परिस्पन्दनेवर्तमानादात्मेपदं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् - अन्तरेणापि कर्मग्रहणं क्रियामात्रवृत्तित्वे तिष्ठतेः सिद्धे यत् कर्मग्रहणं तल्लोके या क्रिया कर्मत्वेन प्रसिद्धा तस्याः प्रतिपत्तयर्थं कृतम्, सा तु परिस्पन्दनात्मकैव परिस्पन्दनात्मिकैव घटनभ्रमणादिका, तथा हि - तां कुर्वाणः `सक्रियः` इत्युच्यते। स्थानासनादिकां त्वपरिसम्पन्दनात्मिकां कुर्वाणोऽपि `निष्क्रियः` इति। तस्मादात्मनेपदमिदं कर्मग्रहणादीहायामेव वर्तमानाद्भविष्यति। उद ईहायामित्युक्ते, ईहाग्रहणमनूध्र्वकर्मणोऽपवाद इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - `ईहाग्रहणम्` इत्यादि। विशेषणं व्यक्तीकरणमिहाभिप्रेतम्। एतदुक्तं भवति - यदिदमुक्तम् `उद ईहायामिति वक्तव्यम्` इति, तत्र यदीहाग्रहणं तदनूध्र्वकर्मण एव विशेषणं सूत्रोपात्तस्य व्यक्तीकरणार्थम्। ईहात्मकमिहानूध्र्वकर्म विवक्षितमिति प्रतिपादनार्थमित्यर्थः॥", "13025": "`मन्त्रकरणे`इति। मन्त्रः करणं साधकतमं यस्य धात्वर्थस्य स तथोक्तः। `उपात्` इत्यादि। अत्र वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - उत्तरसूत्रे चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन उपपूर्वात्तिष्ठतेर्देवपूजादिष्वप्यात्मनेपदं भवति।`वा लिप्सायाम्` इति। लब्धुमिच्छा लिप्सा। लिप्सायां गम्यमानायामित्येषोऽर्थोवेदितव्यः,न तु तत्र वर्तमानात् तिष्ठतेरिति, न लिप्सा तिष्ठरेरर्थः। तथा हि - `भिक्षुको ब्राआहृणकुलमुपतिष्ठते`इत्यत्र तिष्ठतिरुपसंक्रमणे वर्तते। लिप्सा तूपसंक्रमणस्य हेतुभूता गम्यते। लिप्सायां हेतुभूतानां ब्राआहृणकुलमुपसंक्रामतीत्यर्थः॥", "13026": "`अकर्मकात्` इति। नास्य कर्मास्तीति बहुव्रीहिः। `डुकृञ् करणे`(धातुपाठः-1472), `अन्यभ्योऽपि दृश्यन्ते` [[3.2.75]] इति मनिन्, धातोर्गुणः, <<शेषाद्विभाषा>> [[5.4.154]] इति कप्। ननु धातोः क्रियावचनादकर्मकत्वं न सम्भवतीति तस्मादयुक्तमकर्मकादिति विशेषणम्, व्यवच्छेद्याभावादित्यत आह - `अकर्मकक्रियावचनात्िति। अकर्मिका चासौ क्रिया चेत्यकर्मकक्रिया, तस्या वचनो यः, तां वक्ति सोऽकर्मकक्रियावचनः। एतेनार्थद्वारकं विशेषणमिदं दर्शयति - अकर्मको यो धात्वर्थस्तसत्साहचर्यादभिधेयधर्मस्याभिधान उपचारात् धातुरकर्मक इति। अर्थस्य च युक्तमेतद्विशेषणम्,तस्य सकर्मकत्वाकर्मकत्वसम्भवात्। `यावद्भुक्तम्` इति। यावच्छब्दो निपातोऽव्ययम्, तस्य यथार्थे वीप्सायामव्ययीभावः, सप्तम्यन्तञ्चैतत्।अत एवाह - `भोजने भोजने सन्निधीयते` इति। `भावे क्तः` इति।<<नपुंसके भावे क्तः>> [[3.3.114]] इत्यनेन॥", "13027": "`स्वाङ्गकर्मकाच्चेति वक्तव्यम्` इति। स्वाङ्गं कर्म यस्य तस्मात् तपतेरात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः, तत्रेदं व्याख्यानम् - पूर्वसूत्राच्चकारोऽनुवर्तते, तस्यानुक्तसमुच्चयार्थत्वात् स्वाङ्गकर्मकादपि भविष्यति। स्वाङ्गञ्चेह न पारिभाषिकम्, किं तर्हि? स्वमङ्गं स्वाङ्गमिति। आत्मीयमङ्गमित्यर्थः।`निष्टपति` इति। <<निसस्तपतावनासेवने>> [[8.3.102]] इति मूर्धन्यः॥", "13028": "`आहते` इति। `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनानुनासिकलोपः। `आघ्नते` इति। `गमहन` [[6.4.98]] इत्युपधालोपः, `हो हन्तेः` [[7.3.54]] इत्यादिना कुत्वम्।`स्वाङ्गकर्मकाच्चेति वक्तव्यम्` इति। अस्य पूर्ववदर्थः। व्याख्यानमपि पूर्ववदेव॥", "13029": "`संस्वरते` इति। `स्वृ शब्दोपतापयोः` (धा।ता।932)। `समरन्त` इति। अर्त्तेः `सर्तिशास्त्यर्तिभ्यश्च` [[3.1.56]] इत्यत्र पुषादिसूत्रात् परस्मैपदग्रहणानुवृत्तेरात्मनेपदेष्वङागेशेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - `तत्र हि` इत्यादि। `संशृणुते`इति। `श्रु श्रवणे` (धातुपाठः-942), <<श्रुवः शृ च>> [[3.1.74]] इति श्नुप्रत्ययः, शृभावश्च।`ऋच्छेरनादेशस्य ग्रहणम्` इति। `ऋच्छ गतीन्द्रियप्रलयमृर्तिभावेषु` (धातुपाठः-1296) इत्यस्य। `स्मृच्छिष्यते` इति लृट्। स्यप्रत्ययः। यद्यादेशस्य ग्रहणं स्यात् तदेतन्न सिध्येत्। प्राध्रादि [[7.3.72]] सूत्रेणार्तेरृच्छादेशस्यच्छादशस्य शितीत्येवं विधानात्। अथार्त्त्यादेश्यापि ग्रहणं कस्मान् भवतीत्याह - `अर्त्त्यादेशस्यत्वर्तीत्येवम्` इत्यादि।अथ वा - यद्यनादेशस्य ग्रहमं स्यात्, आदेशस्यात्मनेपदं न सिध्यतीत्यत आह - अर्त्त्यादेशस्य त्वर्तीत्येवम्` इत्यादि। स्थानिवद्भावेनेत्यभिप्रायः।`न लाभार्थस्य` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य। अथ `न तु सत्तार्थस्य, नापि विचारणार्थस्य` इत्येवमपि कस्मान्नोक्तम्? एवं मन्यते - नित्यात्मनेपदित्वादनयोरात्मनेपदार्थग्रहणं नाशङ्क्येतैवेति।`दृशेश्चेति वक्तव्यम्` इति। `दृशिर्प्रेक्षणे`(धातुपाठः-988) इत्यस्मात् संपूर्वादात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याखानं तु पूर्वपदेव। `सम्पश्यते इति। पाध्रादिना [[7.3.72]] पश्यादेशः॥", "13030": "", "13031": "`स्पद्र्धायां विषये` इति। स्पर्धेह धात्वर्थस्य विषयोऽभिमतः, न धातोः। अत एवाह - `स्पर्धा सङ्घर्षः। `पराभिभवेच्छा` इति। स्पर्धायाः स्वरूपं दर्शयित्वा धात्वर्थस्य विषयं दर्शयितुमाह- `स विषयो धात्वर्थस्य` इति। कः पुनर्धातोरर्थो नाम यस्यैवं विषयः? इत्याह - `धातुस्तु शब्दक्रियः` इत्यादि। शब्दनं शब्दः। सा क्रिया यस्य स तथोक्तः। शब्दनक्रियावाचीति यावत्। यद्यपि ह्वयतिः स्पद्र्धायामपि पठते, तथाप्याङपूर्वस्तत्र न वर्तते, यथा - तिष्ठतिर्गतिनिवृत्तौ पठते, अथ च प्रपूर्वो गतावेव वर्तते, न गतिनिवृत्तौ; तथा हि प्रतिष्ठित इत्युक्ते गच्छतीत्यर्थः। तस्मादाङपूर्वस्य ह्वयतेः स्पद्र्धायां वृत्त्यभावात् स्पद्र्धा धात्वर्थस्य विषयः। धात्वर्थविषयत्वं तु तद्धेतुभावेन वेदितव्यम्॥बाल-मनोरमास्पर्धायामाङः 527, 1.3.31 स्पर्दायामाङः। आङ्पूर्वकात् स्पर्धाविषयकात् ह्वेञ आत्मनेपदमित्यर्थः। कृष्णश्चाणूरमाह्वयते इति। स्पर्धार्थमाकारयतीत्यर्थः। बाल-मनोरमासमाहारः स्वरितः 9, 1.3.31 अथ स्वारितसंज्ञामाह-समाहारः स्वरितः। पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते। ऊकालोऽजित्यस्मादजित्यनुवर्तते। ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते। एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य। अतो नैवमर्थः। किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते। यत्र समाहरणं स समाहारः। अधिकरणे घञ्। ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः।", "13032": "`अपकारप्रयुक्तम्` इति। तृतीयासमासोऽयम्। अपकारमुद्दिश्य यत्प्रवर्तते तदपकारप्रयुक्तं वेदितव्यम्। `हिंसात्मकम्` इति। हिनस्तीति हिंसः, पचाद्यच्, हिंस आत्मा यस्य तत् तथोक्तम्। पीडाकरणमित्यर्थः। `सूचनम्` इति दोषाविष्करणम्। कथमेतद्विज्ञायत एंविधं सूचनं गन्धनमित्याह - `तथा ह` इत्यादि। `वस्त` इत्यादिनना गन्धयतिधातुरर्दयतेरर्थे वर्तते इति दर्शयति। `अर्द हिंसायाम्` इत्यादिना अर्दयतेर्हिसात्मकत्वम्। एवञ्च हिंसार्थेनार्दयतिना गन्धयतेः समानार्थतां दर्शयता गन्धनशब्दवाच्यस्यार्थस्य हिंसात्मकत्वं दर्शितं भवति। भत्र्सनं तिरस्करणम्। अनुवृत्तिः परचितावधारणम्। `साहसिक्यं साहसं कर्म` इति। `ओजः सहोऽम्भसा वर्तते` [[4.4.27]] इति ठक्, साहसिकः। तस्य कर्मेति तस्माद्गुणवचनब्राआहृणादित्वात् [[5.1.123]] ष्यञ्, साहसिक्यम्। `उपयोगो धर्मादिप्रयोजनो विनियोगः` इति। धर्मादिषु प्रयोजनं यस्य स तथोक्तः। आदिशब्दः कामापरिग्रहाय। `एधो दकस्योपस्कुरुते` इति। <<उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु>> [[6.1.139]] इति सुट्। <<कृञः प्रतियत्ने>> [[2.3.53]] इति षष्ठी॥", "13033": "`तमधितक्रे` इति। कृञो लिट्, तस्य चैशादेशः। `द्विर्वचनेऽचि [[1.1.58]] इति स्थानिवद्भावाद्द्विर्वचनम्, `उरत` [[7.4.66]] इत्यत्त्वम्, रपरत्वञ्च, <<हलादिः शेषः>> [[7.4.60]] <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्॥", "13034": "`कर्तरि कर्म` [[1.3.14]] इत्येवमादौ क्वचित् कर्मशब्दस्य क्रियावाचिना दृष्टा। इहापि तस्य क्रियावाचिता मा विज्ञायीत्याह- `कर्मशब्द इह कारकाभिधायि`इति। अथक्रियाभिधायी कस्मान्न भवति? विपूर्वस्य करोतेः शब्दनक्रियायां वृत्त्यसम्भवात्। `शब्दकर्मणः` इति। धातोरर्थद्वारकं चेदं विशेषणम् - शब्दः कर्मास्येति; शब्दकर्मा धात्वर्थः। तदर्थस्य शब्दकर्मत्वात्तद्द्वारेण धातुरपि शब्दकर्मेति; अन्यथा हि क्रियावाचित्वाद्धातोः कतं शब्दः कर्मास्येति सम्बन्ध उपपद्यते॥", "13035": "`ओदनस्य {पूर्णाः` इत्येव - काशिका, पदमञ्जरी च।} परिपूर्णाः` इति। सुहितार्थयोगे षष्ठी। `पूरणगुणसुहितार्थ` [[2.2.11]] इत्यादिना षष्ठीसमासप्रतिषेधेन ज्ञापितमेतत् - सुहितार्थयोगे षष्ठी भवतीति। सुहितार्थाः = तृप्त्यर्थाः। पूर्णास्तृप्ता इत्यर्थः॥", "13036": "`सम्माननादिषु विशेषणेषु` इति। किंस्विदत्र विशिष्यते नयत्यर्थोऽनेनेति विशेषणम्? किंस्विन्नयत्यर्थ एव विशेषणम्? विशिष्यते व्यावर्त्त्यतेऽर्थान्तरादिति कृत्वा। तत्र सम्माननमाचार्यकरणं भृतिश्चेति पूर्वेणैवार्थेनैतानि विशेषणानि, परिशिष्टानि तु नयत्यर्थस्वभावानि द्वितीयेन विशेषणानि। `नयते चार्वी लोकायते` इति। अत्र नयतेः प्रापणमर्थो विशेष्यः, शिष्यसम्माननन्तु तस्य फलभावेन विशेषमम्। तत्सम्बन्धादाचार्योऽपि चार्वीत्युच्यत इति। यथा कुन्तान्न प्रवेशयेत्युक्ते कुन्तशब्दः कुन्तसम्बन्धात् पुरुषेष्वपि वर्तते, तथेहापि चार्वीशब्दश्चार्वीसम्नब्धादाचार्येऽपि। `स्थिरीकृत्य` इति। निशच्लीकृत्येत्यर्थः। निश्चलत्वन्तु तेषामनन्यार्थभावः। `स्थाप्यमानाः` इति। लोकायते शास्त्रे पदार्थानां सम्यगवबोधः। `पूजिता भवन्ति` इति। अभिलषितार्थसम्पादनमेव तेषां पूजा। अभिलषितोऽर्थस्तु लोकायते शास्त्रे पदार्थानां सम्यवबोधः। `उत्क्षिपतीत्यर्थः` इति। एतेनोपत्सञ्जनं नयतेरर्थः, न तु तस्य विशेषणमिति दर्शयति। एवं `निश्चिनोतीत्यर्थः` इत्यादिभिरपि ज्ञानादीनां यथासम्भवं नयत्यर्थतां दर्शयतीति वेदितव्यम्। `ईदृशेन` इति। यादृशः शास्त्रोक्तो विधिः, तादृशेनेत्यर्थः। अत्राप्याचार्यकरणं नयत्यर्थस्य फलभावेनैव विशेषणम्। `कर्मकरानुपनयते` इति। अत्र हि भृतिर्हेतुभावेन नयत्यर्थस्य समीपकरणस्य विशेषणम्। `ऋणादेः` इति। आदिशब्देन करशुल्कदण्डादीनां ग्रहणम्। करो नाम राजग्राह्रो भागः कर्षकैः रक्षार्थं परिकल्पितः। `धर्मादिषु` इति। आदिशब्देन कामादिष्वपि॥", "13037": "`नयतेः कर्ता` इति। अर्थद्वारकः सम्बन्धो वेदितव्यः। `तदेकदेशोऽपि शरीरम्` इति। समुदायेषु हि प्रवृत्ताः शब्दाः क्वचिदवयवेष्वपि वर्तन्त इति भावः। कथं पुनर्मुख्ये सति गौणस्यापि ग्रहणं लभ्यते? शरीरग्रहणात्। इह लघुत्वात् कायग्रहणं कर्तव्ये यच्छरीरग्रहणं कर्तव्ये यच्छरीरग्रहणं करोति तच्छरीरैकदेशोऽपि शरीरश्रुत्या नाम गृह्रेतेत्येवमर्थम्। `क्रोधं विनयते` इति। अत्र नयतेर्यः कर्ता स हि बुद्धीन्द्रियदेहसमुदायस्वभावो देवदत्तादिः। तत्रैव कर्म क्रोधो वर्तत इति कर्त्तृस्थं कर्माशरीरं भवति। एवं गडुं विनयतीत्यादौ गड्वादैः शरीरैकदेशस्य कर्मणः कर्त्तृस्थाभावो वेदितव्यः। अत्र च क्रोधाद्यपगमः क्रियाफलं कत्र्रभिप्राय एवेति ` स्वरितञितः कत्र्रभिप्राये` [[1.3.72]] इत्यनेनैव सिद्धे नियमार्थमेतद्वचनं वेदितव्यम् - कर्त्तृस्थे कर्मण्यशरीर एव, नान्यत्रेति॥", "13038": "शेषलक्षणेन क्रमेः परस्मेपदे प्राप्त आत्मेपदं विधीयते। वृत्त्यादयोऽर्था अप्रतिबन्धोत्साहस्फीततासु प्रसिद्धाः॥", "13039": "`संक्रमति` इति। <<क्रमः परस्मैपदेषु>> [[7.3.76]] इति दीर्घः।बाल-मनोरमाउपपराभ्याम् 535, 1.3.39 उपपराभ्याम्। `वृत्तिसर्गतायनेषु क्रमः` इत्यनुवर्तते। तेनैव सिद्धे नियमार्थमिदं। तदाह - आभ्यामेव क्रमेरिति। `आत्मनेपद`मिति शेषः। बाल-मनोरमाआङ उद्गमने 536, 1.3.39 आङ उद्गमने। आङः परस्मादुद्गमनवृत्तेः क्रम आत्मनेपदमित्य्रथः। आक्रमते सूर्य इति। आङ्पूर्वः क्रमिरुद्गमनार्थकः। तदाह - उदयते इत्यर्थ इति। उपसर्गवशादिति भावः। बाल-मनोरमाराधीक्ष्योर्यस्य विप्रश्नः 569, 1.3.39 राधीक्ष्योः। यदीय इति। यद्विषयक इत्यर्थः। `विप्रश्न` इत्येतद्व्याचष्टे - विविधः प्रश्न इति। कृष्णाय राध्यति ईक्षते वा। पृष्टो गर्ग इति। गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः। `राध संसिद्धौ ` `ईक्ष दर्शने`। इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, `यस्य विप्रश्न` इति लिङ्गात्। तदाह - शुभाशुभं पर्योलोचयतीत्यर्थ इति। अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ। अत एव राध्यतीति श्यन्नुपपद्यते। अन्यथा `राधोऽकर्मकादि`ति नियमाच्छ्यन्न स्यात्। एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः। कृष्णस्य संप्रदानत्वं। षष्ठपवादः।", "13040": "`आक्रामति माणवकः कुतपम्` इति।अवष्टभ्नातीत्यर्थः। `ज्योतिरुद्गमन इति वक्तव्यम्` इति। ज्योतिषां ग्रहनक्षत्रादीनामुद्गमन एवात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<अनुपसर्गाद्वा>> [[1.3.43]] इत्यतो वाग्रहणमनुवर्तते सिंहावलोकितन्यायेन, सा च व्यवस्थितविभाषा; तेन ज्योतिरुद्गमन् एव भविष्यति, नान्यत्रेति। यदि तर्हि `वा` ग्रहणमनुवर्तते, उभयोरपि योगयोरनुवर्तेत? मण्डूकप्लुतिन्यायेन नानुवर्तिष्यत इत्यदोषः।", "13041": "`विक्रामत्यजिनसन्धिः` इति। द्विधा भवति। स्फुटतीत्यर्थः॥", "13042": "`प्रकर्मते, उपक्रमते` इति। आरभत इत्यर्थः।", "13043": "`अप्राप्तविभाषेयम्` इति। वृत्यादीनां निवृत्त्वात्।", "13044": "`शतमपजानीते` इति। <<ज्ञाजनोर्जा>> [[7.3.79]] इति जादेशः श्ना, पूर्ववत् `ई हलघोः` [[6.4.113]] इतीत्त्वम्॥", "13045": "`कथञ्चायमकर्मकः` इति। एवं मन्यते - सर्पिरादि ज्ञेयत्वेन विवक्षितं कर्म, अतस्तेन कर्मणा सकर्मक एवायमित्यभिप्रायः। `कथम्` इति। न कथञ्चिदित्यर्थः। तथा चेत्यादिना `नात्र सर्पिरादि कर्मत्वेन, अपि तु करणत्वेन विवक्षितम् इत्यत्र युक्तिमाह - `सर्पिषोपायेन` इत्यादि। यस्य सर्पिःष्वभिष्वङगो विना तेन भुजिक्रियायामभिलाषो न भवति तस्य भोजने प्रवृतिंत प्रति सर्पिरुपायभावं प्रतिपद्यत इति तेनोपायेन स प्रवर्तत इति। `अकर्मकादिति किम्` इति। `नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? करणत्वेन` इति ब्राउवता वृत्तिकृता साक्षाच्छब्दोपात्तेन करणेन सकरणादात्मनेपदं भवतीत्युक्तं भवति। एवञ्च सकरणादित्येवं वाच्यम्, किमकर्मकग्रहणेनेति भावः। एवमुच्यमाने करणयुक्तात् सकर्मकादपि स्यादिति दर्शयितुमाह - `स्वरेण पुत्रं जानाति` इति॥", "13046": "`उत्कण्ठास्मरणम्` इति। उत्कण्ठापूर्वकस्मरणमिति। `मातुः` इति। <<अधीगर्थदयेशां कर्मणि>> [[2.3.52]] इति षष्ठी॥", "13047": "`{भासनादिषु विशेषणेषु` इत्येव-काशिका, पदमञ्जरी च।} भासनादिष्वर्थेषु विशेषणेषु` इति। अत्रापि किंस्विद्विशिष्यते वदत्यर्थोऽनेनेति विशेषणम्? किंस्विद्वदत्यर्थ एव, विशेषणं ह्रर्थान्तराद्विशिष्यते व्यवच्छिद्यत इति कृत्वा? तत्रोपसम्भाषोपलसान्त्वनमुपमन्त्रणञ्च द्वितीयेनार्थेन वदत्यर्थ एव विशेषणम्। परिशिष्टानि तु भासनादीनि प्रथमेनार्थेन विशेषणानि। `भासनमान` इत्यादिना भासनं वदत्यर्थस्य लक्षणभावेन हेतुभावेन वा विशेषणमिति दर्शयति। तथा ह्यत्र भासमान इति <<लक्षणहेत्वोः क्रियायाः>> [[3.2.126]] इत्यनेन शानजादेशो विहितः। `जानाति` इत्यादिना ज्ञानं वदत्यर्थस्य विषयिभावेन विशेषणमिति दर्शयति। ज्ञानेन ह्रसौ वदितुं जानाति। अत्र येन ज्ञानेन वदनं वदत्यर्थस्य हेतुभावेन तत्र तेनैव विषयेण परिच्छेद्येन विषयीभवति। `तद्विषयम्` इत्यादिना यत्र आविष्करणस्य वदत्यर्थस्य हेतुभावेन विशेषणमित्याचष्टे। उत्साहो ह्राविष्क्रियमाण आदिष्करणक्रियायाः कर्माख्यं साधनं भवति, साधनं च हेतुः; कारकाणां क्रियानिमित्तत्वात्। `विमतिपतिताः` इत्यादिना विमतिर्भाषणस्य वदत्यर्थस्य हेतुभावेन विशेषणमिति दर्शयति। सत्यां विमतौ विचित्रं नानाप्रकारं भाषन्ते। यदि ह्रभिन्ना मतिः स्यादभिन्नमेव भाषेरन्। `उपच्छन्दयति` इति। `भद्रे भजस्य मामिदं ते दास्यामि` इत्येवमादिभिरभिष्टेऽर्थे प्रवर्तयतीत्यर्थः॥", "13048": "`प्रसिद्ध्युपसंग्रहार्थम्` इति। यदि तदर्थं व्यक्तवाचामिति नोच्येत,`वरतनु सम्प्रवदन्ति कुक्कुडा {अयि विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु वल्लभम्।अरुणकरोद्गम एष वर्तते वरतनु सम्प्रवदन्ति कुक्कुटाः।इत्येवं सयग्रः श्लोकः।}। कुक्कुटाः अपि व्यक्तवाच एव। तथा हि - कुक्कुटेनापि लपिते विशेषपरिच्छेदादुच्यते- कुक्कुटा लपन्तीति। वरतन्विति तनूशब्दस्य `अम्बार्थनद्योह्र्यस्वः` [[7.3.107]] इति ह्रस्वः। ह्रस्वकवचनसामर्थ्यात् `ह्रस्वस्य गुणः` [[7.3.108]] इति गुणो न भवति। नृणामिति न कृतं वैचित्र्यार्थम्॥", "13049": "`अनुवदति` इति। अनुशब्दः पुनरित्यस्यार्थे वर्तते। पुनर्वदतीत्यर्थः। यजुषात्र कर्मणा सकर्मकत्वम्।", "13050": "`विप्रलापात्मके` इति। परस्परप्रतिबन्धेन विरुद्धः प्रलापो विप्रलापः, स यस्यात्मा स्वभावः स तथोक्तः। `प्राप्तविभाषेयम्` इति। <<व्यक्तवाचां समुच्चारणे>> [[1.3.48]] इत्यस्यानुवृत्तेः।", "13051": "`अवगिरते` इति। `ऋत इद्धातोः` 97.1.100) इतीत्त्वम्, रपरत्वञ्च।", "13052": "", "13053": "`गेहेमुच्वरते` इति। चरिर्गत्यर्थः। `गुरुवचनमुच्चरते` इति। अत्रोत्क्रमणात्मिकायां गतौ वर्तमानश्चरतिर्गुरुवचनेन कर्मणा सकर्मकः। `बाष्पमुच्चरति` इति। उपरिष्टाद्गच्छतीत्यर्थः। नात्र किञ्चित्कर्म विवक्षितमित्यकर्मकत्वम्।", "13054": "यद्यत्र तृतीयेति गृह्रते, तदेहापि स्यात् - उभौ लोकौ सञ्चरति इमाञ्चामुत्र देवलेति। अत्रापि तृतीयार्थो गम्यत एव। तपसा श्रुतेन वा विद्यत एवेत्येतच्चेतसि कृत्वाह - `तृतीया` इति। `\tतृतीयाविभक्तिर्गृह्रते` इति। यद्येवं तया सह धातोः सम्बन्धो नोपपद्यते। न हि तृतीय धातुवाच्येत्याह - `तया` इत्यादि। अर्थो द्वारं मुखमुपायो यस्य स तथोक्तः। तृतीयार्थेन धात्वर्थस्य युक्तवादौपचारिको धातोस्तृतीयीर्थेन योग इति दर्शयति। `यत्रप्यत्र तदर्थेन योगः सम्भवति` इति। विना करणेन क्रियानिष्पत्तेरभावात्, तथापि न भवति। `तृतीय तु` इत्यादि। तृतीयायपुक्तग्रहणं ह्रेवमर्थं क्रियते - श्रूयमाणतृतीययुक्ताद्यथा स्यादिति, अन्यथा सम इत्येवं वक्तव्यं स्यात्? अनुक्तेऽपि सिद्ध्वतात् तृतीयाप्रयोगस्य। न हि तेन विना क्रियानिष्पत्तिरुपपद्यते। तस्माद्यत्र तृतीया श्रूयते तन्मूलोदाहरणम्, यत्र तु न श्रूयते तत्प्रत्युदाहरणम्॥", "13055": "कथं पुनस्तृतीया चतुथ्र्यर्थे स्यादिति? न कथञ्चिदित्यर्थः। तद्विधायिनः शास्त्रस्याभावादिति भावः। `वक्तवयमेवैतत्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - तदेव सम्प्रदानं यदा साधकतमत्वेन विवक्ष्यते तदा साधकतमत्वेन विवक्ष्यते तदा चतुर्थ्येऽपि तदा चतुर्थ्येऽपि तृतीया भवति, विवक्षातः कारकाणि भवन्तीति कृत्वा; न तु स्वभाववतः। सा च विवक्षा लौकिकी समाश्रीते, न तु प्रोयोगिकीति। लोके चाशिष्टव्यवहारे एव सा सम्भवति, नान्यत्र। लौकिकविवक्षात्र समाश्रीयत इति अस्यैवार्थस्य द्योतनाय चेच्छब्दः प्रयुक्तः। `दास्या मालां सम्प्रच्छते` इति। यो हि धर्मशास्त्रविरुद्धां दासीं कामयितुं तस्यै मालां ददाति तस्यासावशिष्टव्यवहारो भवतीत्यस्त्यत्राशिष्टव्यवहारः। सम्प्रयच्छत इति पाध्रादिसूत्रेण [[7.3.78]] दाणो यच्छादेशः। कथमात्मनेपदं भवतीति। न कथञ्चिदित्यर्थः। <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिति। एवं मन्यते - `सम इति विशेषणे षष्ठी` इत्यादि। यदि `समः` इति पञ्चमी स्यान्न षष्ठी, तदा प्रशब्देन व्यवधानादात्मननेपदं न स्यात्; तस्मान्नेयं पञ्चमी, किं तर्हि? षष्ठी - समो विशेषणस्य सम्बन्धी यो विशेष्यो दाणिति। ततश्च व्यवहितोऽपि विशेषणविशेष्यभावो भवतीति तेन व्यवधानेऽपि भवत्यात्मनेपदम्॥", "13056": "यदि स्वकरणमात्र आत्मनेपदं भवति शाकटकादिस्वीकारेऽपि स्यादिति चोद्यमपाकर्त्तुमाह - `पाणिग्रहणम्` इत्यादि। एवं मन्यते - प्रतिनियतविषया हि शब्दशक्तयो भवन्ति, यस्मादुपपूर्वो यमिरात्मनेपदान्त एवंविध एव स्वीकारे वर्तते; न तु सर्वस्मिन्। तस्मात् पाणिग्रहणात्मकमेव स्वीकरणं गृह्रते। उपयच्छत इति पूर्ववद्यच्छादेशः॥", "13057": "`त्रिभिः सूत्रेः` इति। <<अपह्नवे ज्ञः>> [[1.3.44]] इत्यादिभिः। `धर्मं जिज्ञासते` इति। `ज्ञा अवबोधने` (धातुपाठः-1507), सन्, द्विर्वचनम्, अभ्यासस्य ह्रस्वत्वम्, `सन्यतः` [[7.4.79]] इतीत्त्वम्। `शुश्रूषशते` इति। श्रु श्रवणे` (धातुपाठः-942),\t <<इको झल्>> [[1.2.9]] इति सनः कित्तम्, `श्रयुकः किति` [[7.2.11]] इतीट्प्रतिषेधः, <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः। `सुस्मूर्षते` इति।`स्मृ आध्याने` (धातुपाठः-807) ; पूर्ववत् कित्त्वात् `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वम्, रपरत्वम्। `दिदृक्षते` इति। <<हलन्ताच्च>> [[1.2.10]] इति कित्त्वम्, ततश्च व्रश्चादिना [[8.2.36]] षत्वम्, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्॥", "13058": "`पूर्वेण` इति। अनन्तरसूत्रप्राप्तं यत्तत्प्रतिषिध्यते - `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा ` (व्या।प।19) इति कृत्वा। `तथा च` इत्यादि। यस्मादनन्तरसूत्रेणाअत्मनेपदं #एयत्प्राप्नोति, तस्यायं प्रतिषेधः सम्पद्यते। एवंसति सकर्मकस्यैवायं प्रतिषेधः; अनन्तरसूत्रेण सकर्मकादात्मनेपदविधानात्। अकर्मकाद्धि <<अकर्मकाच्च>> [[1.3.45]] इत्यनेन प्रागेवात्मनेपदं विहितमित्यनन्तरातीतो योगः सकर्मकार्थो विज्ञायते; यतश्चैवम्, तेनाकर्मकात् `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदं भवत्येव - औषधस्यानुजिज्ञासत इति॥", "13059": "`उपसर्गग्रहणञ्चेदम्` इति। कथं श्रुव इति? विशेषणविशेष्यभावसम्बन्धे षष्ठी। तेनायं सम्बन्धो भवति - शृणोतेर्यौ विशेषणभूतौ प्रत्याङौ तत्पूर्वाच्छरुवः सम्बन्धात् सन्नन्तादात्मनेपदं न भवति। उपसर्गादेवार्थं द्वारेण शृणोतेर्विशेषणभूताविति सामर्थ्यादुपसर्गयोग्र्रहणम्। `देवदत्तं प्रति शुश्रूषते` इति। प्रतिशब्दस्य <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इत्यादिना लक्षणे कर्मप्रवचनीयसंज्ञा, तेन प्रतिना देवदत्त् एव सम्बध्यते; न धात्वर्थ इति॥", "13060": "यदि `शदेः शितः` इति व्यधिकरणे एते पञ्चम्यावित्यभ्युपगम्यैवं व्याख्यायते - शदेः परो यः शित् तस्मादात्मेपदं भवतीति, तदा सार्वधातुकाश्रयत्वाच्छितः प्रागेव तदुत्पत्तेर्धातोः शेषत्वादस्य लावस्थायां परस्मैपदं स्यात्, ततस्तन्निमित्तकः व्याचिख्यासुराह - शदिर्यः शिदिति। एतेन `शदेः शितः` इति समानाधिकरणे एते पञ्चम्याविति दर्शयति। कथं पुनः शदिः शिद्भवति, यावता विकरणस्य शकार इत्संज्ञक इत्संज्ञासम्बन्धी, न तु शदेः? इत्यत आह - `शद्भावी` इति। भाविशब्दोऽयम् <<भविष्यति गम्यादयः>> [[3.3.3]] इति भविष्यत्कालविषयः। शिद्भावीति यतः शिद्भविष्यति स शिद्भावी।एतदुक्तं भवति - शिन्निमित्तत्वादुपचारेण शदिः शिदित्युक्तमिति। भवति हि कारणे कार्योपचारात् तथा व्यपदेशः, यथा - नड्वलोदकं पकादरोग इति। शितो वा सम्बन्धी` इति। एतेन `शितः` इत्यस्य षष्ठन्ततां दर्शयति। कः शदेः शित्सम्ब्नधी? यस्तस्य प्रकृतिः। प्रागपि शितः शदेस्तत्प्रकृतित्वमस्त्येवेति शित्प्रकृतेः शदेरात्मनेपदं भवति। `शीयते` इति। पाघ्रादिसूत्रेण [[7.3.78]] शीयादेशः॥", "13061": "`नियमार्थमिदं वचनमिति। म्रियतेर्लुङलिङोः शित एव यथा स्यात्। यद्येवम्, ङिद्ग्रहणं किमर्थम्? यावताऽन्यत्रात्मनेपदेन न भवितव्यमिति? उच्यते; स्वरार्थमुपदिश्यते - मा हि मृतेति लुङि `तास्यनुदात्तेन्ङिदुपदेशाल्ल सार्वधातुकस्य` [[6.1.180]] इति अनुदात्तत्वे कृते धातोरन्तोदात्तत्वं भवति। `तिङङतिङः` [[8.1.28]] इति निघातोऽत्र `हि च` [[8.1.34]] इति प्रतिषिध्यते। अडागमोऽपि `न माङयोगे` [[6.4.74]] इति। `अमृत` इति। `ह्रस्वाद्ङात्` [[8.2.27]] इति सिचो लोपः। `मृषीष्ट` इति। आशिषि लिङ, तस्य <<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकत्वाद्विकरणाभावः; <<सुट् तिथोः>> [[3.4.107]] इति सुट्; वलि [[6.1.64]] यलोपः। `म्रियते`इति। तुदादित्वाच्छः; `रिङ शयग्लिङक्षु` [[7.4.28]] इति रिङादेशः, `अचि श्नुधातु` [[6.4.77]] इत्यादिनेयङ। `मरिष्यति`इति। <<ऋद्धनोः स्ये>> [[7.2.70]] इतीट्॥", "13062": "`पूर्ववत्` इति। <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इति वतिः ॥ पूर्वशब्दः सम्बन्धिशब्दत्वादवधिमपेक्षते। स चावधिः श्रुतत्वात्सन्नेव विज्ञायत इत्याह - `सनः पूर्वो यो धातुः` इति। यद्येवम्, अवधिभावोपगम एव सन्ग्रहणस्योपयुक्तत्वात्त सन्नन्तादात्मनेपदं भवतीति, न तत्रैतल्लभ्यते; कुतस्तर्हि स्यात्? धातुमात्रात्, नैतदस्ति; एवं ह्रात्मनेपदं परस्मैपदानुक्रमणमनर्थकं स्यात्। अथ प्रत्ययान्तात् स्यात्? एवमपि सन्ग्रहणमनर्थकं स्यात्, पूर्ववत् प्रत्ययादिति वाच्यं स्यात्। तस्मात् पत्र्यासन्नं सनं त्यक्त्वा न युक्त्वा न युक्ताऽन्यन्यस्याश्रुतस्य परिकल्पनेति सन्न्तादेव भवतीति विज्ञायते। `येन` इत्यादिना वत्यर्थमाचष्टे। `तदेव निमित्तम्` इति। अनुदात्तेत्वं ङित्त्वञ्च धात्वन्तरावस्थायामपि सन्नन्ताद्वचनसामर्थ्यान्निमित्तं भवति। `असिसिषते` इति। इटि कृते <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति सिशब्दस्य द्विर्वचनम्। `निविविक्षते` इति। `विश प्रवेशने` (धातुपाठः-1424), पूर्ववत् कित्त्वषत्वकत्वानि। `आचिक्रंसते` इति। आत्मनेपदनिमित्तत्वात् <<स्नुक्रमोरनात्मनेपदनिमित्ते>> [[7.2.36]] इतीण् न भवति। `शिशत्सति`, मुमूर्षति`इति। अत्र सनो यः पूर्वो भागः, तस्यात्मनेपदनिमित्तत्वमस्ति; शीयते, म्रियत इत्यात्मनपददर्शनात्। तत आत्मनेपदेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - `इह न भवति` इत्यादि। किं कारणमित्याह - `न हि` इत्यादि। किं तर्हि? `शिदाद्यपि`इति। शिच्छब्देनात्र शिद्भावित्वं शित्सम्बन्धित्वञ्चोक्तम्। आदिशब्देन लुङलिङोग्र्रहणम्, तच्चेह नास्तीति न ह्यत्र सनः पूर्वभागस्य शिद्भावित्वं शित्सम्बन्धित्वं वास्ति; शित्प्रत्ययस्यास्मिन् विषयेऽत्यन्तासम्भवात्, नापि म्रियतेः परौ लुङलिङौ स्तः; तस्मान्नेह शदिम्रियत्योरात्मनेपदनिमित्तत्वमस्तीति न भवत्यात्मनेपदम्।इह तर्हि कस्मान्न भवति - अनुचिकीर्षति, पराचिकीर्षतीति? करोतेर्हि गन्धनादिष्वर्थेष्वात्मनेपदं विहितम्, अतस्त्दविवक्षायां सनन्तादपि तेन भवितव्यमित्याह - `यस्य च` इत्यादि। गन्धनादिष्वर्थेषु पूर्वत्रासनन्तावस्थायाम् <<अनुपराभ्यां कृञः>> [[1.3.79]] इत्यनेन परस्मैपदविधानात् करोतेरात्मनेपदाभावः क्रियते। तस्मादाभ्यां सनन्तादप्यात्मनेपदनिमित्ताभावान्न भवति।`अथ जुगुप्सते, मीमांसत इत्यत्र कथमात्मनेपदम्, यावता `पूर्ववत्सनः` [[1.3.62]] इत्युच्यते, न च गुपादिषु सनः प्रागेवात्मनेपदं भवतीति; अतः पूर्ववदित्यतिदेशाभावान्न भवितव्यमात्मनेगदेनेत्यत आह - `इह` इत्यादि। `जुगुप्सते`इति। <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] इति सन्। `मीमांसते` इति। `मानबध` [[3.1.6]] इत्यादिना सन्, अभ्यासस्य `सन्यतः` [[7.4.79]] इतीत्वे दीर्घः। कथं पुनरिह <<अनुदात्तङित आत्मनेपदम्>> [[1.3.12]] , यावता गुपादाववयवेऽनुदात्तेत्वं लिङ्गम्, न जुगुप्सादौ समुदाय इत्यत आह - `अवयवे कृतम्` इत्यादि। यथा गोः कर्णादाववयवे कृतं लिङगं समुदायस्य विशेषकं भवति, तथा गुपादाववयवे कृतमनुदात्तेत्त्वं समुदायस्य जुगुप्स इत्येवमादेर्विशेषक्रं भवति। यद्येवम्, गोपयति, तेजयति, सङ्केतयतीत्येवमादावपि प्राप्नोति, सत्यम्; स्यादेतत् - अवयवेकृतं लिङगं तस्य समुदायस्य गोर्विशेषकं भवति, यं समुदायं सोऽवयवो न व्यभिचरति; सनन्तं पुनर्न व्यभिचरति; णिजन्तन्तु व्यभिचरतीत्यतोऽत्रात्मनेपदेन न भवितव्यम्; वार्तमेतत्, सनन्तमपि व्यभिचरतीति विनापि तेन गोपयतीत्यादौ सम्भवात्। तस्मात् समुदायं यं गुपादिर्न व्यभिचरति, तस्यासम्भवात् सर्वस्य गुपादावयवे कृतमनुदात्तेत्त्वं लिङ्गं समुदायस्य विशेषकं भविष्यति। ततश्च गोपयतिप्रभृतिभ्योऽप्यात्मनेपदं प्राप्नोतीत्येव। एवं तर्हि <<निगरणचलनार्थेभ्यश्च>> [[1.3.87]] इत्यत्र चकारोऽनुक्तसमुध्चयार्थः क्रियते। तेन गुपादिभ्यो ण्यन्तेभ्यः परस्मैपदात्मनेपदापवादो भविष्यति॥", "13063": "`आम्प्रत्ययवत्िति। <<तत्र तस्येव>> [[5.1.116]] इति षष्ठीसमर्थाद्वतिः। `कृञोऽनुप्रयोगस्य` इति समानाधिकरणे षष्ठ्यौ। `ईक्षाञ्चक्रे` इत्यादि। `ईक्ष दर्शने` (धातुपाठः-610), `ईह चेष्टायाम्` (धातुपाठः-632), `ऊह वितर्के` (धातुपाठः-648) लिट्, `इजादेः` [[3.1.36]] इत्यादिऽऽनाम्, `आमः` [[2.4.81]] इति लेर्लुक्; प्रातिपदिकत्वात् सुप प्राप्तः; सुः, स्वरादित्वादव्ययत्वात् सुब्लुक्, `कृञ्च` [[3.1.40]] इत्यादिना कृञो लिट्परस्यानुप्रयोगः। `अकत्र्रभिप्रायायर्थोऽयमारम्भः` इति ब्राउवता विध्यर्थमेतदित्युक्तं भवति। तत्रास्मिन्विध्यर्थे यो दोषस्तमुद्भावयितुमाह - `यदि` इत्यादि। `उदुब्जाञ्चकार` इति। `उब्ज आर्जवे`(धातुपाठः- 1303), उत्पूर्वाल्लिट्, पूर्ववदाम्। `परस्मैपदानाम्` [[3.4.82]] इत्यादिना तिपो णल्। `उदुम्भाञ्चकार` इति। `उभ उम्भ पूरणे` (धा।1319, 1320) `उभयम्` इत्यादिना परिहारः। `कथम्िति? एकेन प्रयत्नेनाशक्यमेतदुभयं कर्त्तुमित्यत आह - `पूर्ववत्` इत्यादि। नैवात्रेको यत्नः, किं तर्हि? द्वौ - `आम्प्रत्ययवत्` इत्येको यत्नः,पूर्ववद्ग्रहणमनुवर्तमानं द्वितीयः। तत्र पूवण यत्नेन विधिः क्रियते, इतरेण नियमः। यद्यनुप्रयोगस्य कृञ आत्मनेपदं भवति, पूर्ववदेव; नान्यथा। तेनोदुब्जाञ्चकारेत्येनमादौ न भवति। न ह्रुब्जादीनामात्मनेपदं सम्भवति, परस्मैपदित्वात्।`ईक्षामास` इति। आम्, अस्तेरनुप्रयोगः। `ईक्षाम्बभूव` इति। `भवेतरः` [[7.4.73]] `कृञ्च` [[3.1.40]] इत्यत्र करोतेरेव ग्रहणमित्यभिप्रायेणाह - `कथं पुनः` इत्यादि। `कृञिति प्रत्याहारग्रहणम्` इत्यादि। तत्र प्रत्याहरे।डस्तिभवत्योरपि सन्निदेशः।?तस्तयोरप्यनुप्रयोगो भवतीति भावः। यद्यवम्, सम्पदोऽप्यनुप्रयोगः प्राप्नोति,तस्यापि तत्र सन्निवेशोस्त्येव; <<अभिविधौ सम्पदा च>> [[5.4.53]] इति वचनात्। सत्यपि सन्निवेशे नासौ प्रत्याहारग्रहणन गृह्रत इत्यदोषः। यथा तस्याग्रहणं ततोत्तरत्र प्रस्तावान्तरे प्रतिपदायिष्यामः। अथाम्प्रत्ययवदिति किम्? असति हि तस्मिन्ननुप्रयोगमात्रस्यात्मनेपदं स्यात् - देवदत्तः करोतीति? अत्रापि पूर्ववदित्यनुवर्तते। तथापीह स्यात् - ईहते, करोतीति? `आम्प्रत्ययम्` इत्युच्यमाने प्रत्यासत्तेराम एवानुप्रयोगस्येति गम्यते, नानुप्रयोगमात्रे, तेनातिप्रसङ्गो न भवति॥", "13064": "`युज समाधौ`(धातुपाठः-1177) इत्यस्यानुदात्तेत्त्वात् सिद्धमात्मनेपदमित्यतस्तस्येह ग्रहणमयुक्तमित्यभिप्रायेणाह - `युजिर्योगे` इति। `प्रयुङ्कते` इति। रुधादित्वात् <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः। <<चोः कुः>> [[8.2.30]] इति कुत्वम् = जकारस्य गकारः, `खरि च` [[8.4.54]] इति चत्त्र्वम् = ककारः, `नश्च` [[8.3.24]] इत्यादिनाऽनुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति ङकारः।`स्वराद्यन्तोपसृष्टाविति वक्तव्यम्` इति। स्वरोऽज् आदिरन्तो वा यस्य स स्वराद्यन्तः, तदुपसृष्टात् = तत्सम्बन्धाद्युजेरात्मनेपदं भवति - इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्- इह सूत्रे प्रशब्दोऽजन्तोपसर्गलक्षणार्थः, उपशब्दोजाद्युपलक्षणार्थः, उपशब्दोऽजाद्युपलक्षणार्थः, तेन सर्वेणाजन्तेनाजादिना चोपसर्गेण चयुक्ताज्युजेरात्मनेपदं भवतीति। स्वराद्यन्तोपसृष्टादिति किम्? निर्युनक्ति॥", "13065": "`अकर्मकादिति तत्रानुवर्तते` इति। सकर्मकादपि क्ष्णुव आत्मनपदमिष्यत इति मन्यते। अत एव सकर्मकस्योदाहरणमुपन्यस्तम्। `संक्ष्णुते शस्त्रम्` इति। अदादित्वाच्छपो लुक्। `संक्ष्णुवाते` इति। `अचि श्नुधातु` [[6.4.77]] इत्यादिनोवङ। `संक्ष्णुवते` इति। पूर्ववदादेशः।", "13066": "`अवनप्रतिषेधेन` इत्यादि। अवनं पालनम्। तत्प्रतिषेधेन रौधादिकस्य भुजेग्र्रहणं विज्ञायते; न तौदादिकस्य - `{भुजौ - धातुपाठः} भुज कौडिस्ये` (धातुपाठः-1417) इत्यस्य। यथैव हि सवत्सा धेनुरानीयतामित्युक्ते यस्या हि वत्सेन सह सम्बन्धः सम्भवति सैव गोधेनुरानीयते, न महिष्यादिधेनुः; तथेहाप्यवनप्रतिषेधेन यस्य भुजोऽनवने वृत्तिः सम्भवति, स एव रौधादिकः प्रतीयते; तस्मात् तस्यैव ग्रहणं विज्ञायते। तेन निर्भुजति, विभुजतीति तौदादिकस्यात्मनेपदं न भवति॥", "13067": "`आरोहन्ति हस्तिनं हस्तिपकाः` इति। अणौ कर्मप्रदर्सनार्थमेतदुक्तम्। इदं त्वत्रोदाहरणम् - `आरोहयते हस्ती स्वयमेव` इत। आरोहन्ति हस्तिनं हस्तिपका इत्यत्राङपूर्वस्य तु `रुह बीजजन्मनि प्रादुर्भावे` (धातुपाठः-859) इत्यस्य द्वे क्रिये वाच्ये - न्यगम्भवनम्, न्यग्भावनञ्च। तत्र न्यग्भवनस्य हस्ती कर्ता, न्यगम्भावनस्य हस्तिपका इति। न्यग्भवन्तं हस्तिनं न्यग्भावयन्तीत्यर्थः। स यदा तु सुशिक्षितत्वात् सुविधेयत्वाच्च न्यग्भावनक्रियायामत्यन्तमानुकूल्यं प्रतिपद्यते हस्ती स्वयमेव; तदासौ हस्ती हस्तिपकान् प्रति प्रयोजनकत्वेन विवक्ष्यते, हस्तिपकास्तु प्रयोज्यत्वेन। हस्ती हस्तिपकान् प्रयुङ्क्ते - मामारोहतेति, ततश्च प्रयोज्यप्रयोजकभावे विवक्षिते हेतुमण्णिच्। एवमुत्तरत्रापि कर्मणः कर्त्तृत्वस्य विवक्षितत्वात् प्रयोजकभावविवक्षायां णिज्विधेयः। ततस्तस्मिन्नुत्पन्ने यदा निज्र्ञातस्वरूपत्वाच्चरितार्थत्वात् प्रयोज्या न विवक्ष्यन्ते, तदा निवृत्तत्वात् प्रयोज्यप्रयोजकभावस्य न्यग्भवनमात्रे रुहिर्वर्तते। अत्रेदमुदाहरणम् - आरोहयते हस्ती स्वयमेवेति। तथा हि यदेवाण्यन्ते कर्मासीत् स एव ण्यन्ते हस्ती कर्ता भवति। न च प्रयोज्यप्रयोजकभावे निवृत्तेऽपि णिचो निवृत्तिर्भवतिः निवृत्तिकारणाभावात्। यथैव हि देवदत्तस्य व्यापारे निवृत्तेऽपि पचिः पाकान्न निवर्तते - पच्यत ओदनः स्वयमेवेति, तथेहापि निवृत्ते प्रयोज्यप्रयोजकव्यापारे णिचो निवृत्तिर्न भवतीति वेदितव्यम्।`सिञ्चन्ति` इत्यादि। अत्रापि सिच्यमानो हस्ती कर्म यदा सुशिक्षितत्वात् सुविधेयत्वाच्च सेचनक्रियां प्रति प्रकृष्टमानुकूल्यं भजते, तदा तस्य प्रयोजकत्वे विवक्षिते हस्तिपकानाञ्च प्रयोज्यत्वे णिच्। तत्र कृते पूर्ववत् प्रयोज्येष्वविवक्षितेषु यदेवाण्यन्ते कर्म स एव ण्यन्ते कर्ता भवति। `पश्यन्ति` इत्यादि। अत्रापि दृश्यमानस्य राज्ञः दर्शनक्रियायामतिशयेनानुकूल्यभावोपगमनात् प्रयोजकत्वे विवक्षिते भृत्यानाञ्च प्रयोज्यत्वे णिच्। तत्र विहिते पूर्ववत् प्रयोज्याविवक्षायां यदेव दृशेरण्य्नते कर्म राजा, स एव ण्यन्ते कर्ता। क्रियपि च सर्वेष्वेतेषूदाहरणेषु यैवाण्यन्तावस्थायाम्, सैव ण्यन्तेऽपि। सत्यपि च णिचि प्रयोज्यप्रयोजकभावस्य निवर्त्तितत्त्वात् क्रियान्तरस्य चानुत्पत्तेः।`गणयति` इत्यादि। `गण संख्याने` (धातुपाठः-1853) चनुरादवदन्तः पठते। ततो णिच् , <<अतो लोपः>> [[6.4.48]] इत्याकारलोपः। तस्य पूर्वविधौ कर्तव्ये स्थानिवद्भावात् `अत उपाधायाः` [[7.2.116]] ति वृद्धिर्न भवति। `गणयति गोगणं गोपालकः। गणयति गणः स्वयमेव` इति। अत्र स गण्यमानो यदा गणनं प्रत्यानुकूल्यं भजमानः प्रयोजकत्वेन विवक्ष्यते, गोपालकस्तु प्रयोज्यत्वेन; तदा हेतुमण्णिच्। तस्मिन् कृते पूर्ववत् प्रयोज्याविवक्षायां यदेव कर्म स एव कर्ता भवति। तथाप्यणाविति वचनादात्मनेपदं न भवति; न हि गणःप्रागणौ कर्मासीत्, किं तर्हि? ण्यन्त एव। ननु च <<अणावकर्मकाच्चित्तवत्कर्तृकात्>> [[1.3.88]] इत्यत्र `अणौ` इति किम्? चेतयमानं प्रयोजयति चेतयते इति केचित् प्रत्युदाहरन्ति` इत्युक्त्वा प्रत्युदाहरन्ति` इत्युक्त्वा वृत्तिकारो वक्ष्यति, तदयुक्तम्, `हेतुमण्णिचो विधिः। प्रतिषेधोऽपि प्रत्यासत्या तस्यैव न्याय्यः`इति, तच्चेत्, सत्यम्, गणयति गोगणं गोपालकः, गणयति गोगणः स्वयमेवेत्येतदपि प्रत्युदहारणमयुक्तमेव स्यात्, नैतदस्ति; भेदस्याविवक्षितत्वात्। यदि हि भेदो विवक्ष्यते, तदा हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव स्य#आत्, न हि विप्रकृष्टस्य चुरादिणिचः।न चेह भेदो विवक्षितः, `णेः`इति जातिनिर्देशात्। तस्माण्णिज्मात्रविधिः, अतः प्रितिषेधोऽपि णिज्मात्रस्यैव स्यदिति युक्तमेतत् प्रत्युदाहरणम्। `अणावकर्मकात्` [[1.3.88]] इत्यादौ सूत्रेऽणाविति हेतुमण्णिच एव ग्रहणम्। अत एव हेतुमण्णिच एव विधिरिति प्रायासत्तेस्तस्यैव प्रतिषेधो युक्तः। यथा तत्र हेतुमण्णिचो ग्रहणं तथा तत्रैव प्रतिपादयिष्यामः। न चात्र तथाविधं किञ्चिन्निबन्धनमस्ति, यतो णेरिति हेतुमण्णिच एव ग्रहणमवसीयते; चौरादिकानामप्यनित्यण्यन्तत्वात्, विभाषितणिचां च केषाञ्चिद्विद्यमानत्वात् येषामण्यन्तानामेव यत् कर्म, तेषामेव चुरादिणिजन्तानां तस्यैव कर्त्तृत्वसम्बवात्। तस्मादिह णेरिति णिज्मात्रस्य ग्रहणं सूत्रकारस्याभिमतमिति लक्ष्यते।अथ गणयति गोगणः स्वयमेवेत्यत्र `कर्मवत् कर्मणा तुल्यक्रियाः` [[3.1.87]] इत्यतिदेशात् कस्मादात्मनेपदं न भवति? कर्त्तृस्थभावकत्वात्। अत्र हि गणयतिरयं संख्यानिमित्ते परिच्छेदे ज्ञानविशेषे वर्तते, यस्य हि संख्यानमित्याख्या। स च ज्ञाविशेषः कर्तरि वर्तते; तत्र तस्य समवेतत्वात्, न कर्मणि। तस्मात् कर्त्तृस्थभावकत्वादिहात्मनेपदं न भवति। कर्मस्थक्रियाणां कर्मस्थभावकानाञ्च कर्मवद्भावातिदेशेनात्मनेपदमिष्यते, नेतरेषाम्।`लुनाति दात्रेण` इत्यादि। दात्रस्य तीक्ष्णतया करणस्यापि सतो विशिष्टव्यापारभूतत्वाल्लावकपुरुषान् प्रति प्रयोजकत्वविवक्षायां णिच्।`णौ चेद्ग्रहणम्` इत्यादि। इह णौ चेदिति यत् कर्म स कर्तेत्येतावत्युच्यमानेऽणौ यत् कर्म तस्य सामर्थ्याण्णावेव कर्त्तृत्वं विज्ञायत इति किं णौ चेदित्यनेन? तदैतण्णौ चेद्ग्रहणं क्रियमाणं समानक्रियार्थं विज्ञायते - यदि यैव कर्मावस्थायां क्रिया, सैव कत्र्रवस्थायां भवतीति। एतदुक्तं भवति - यस्यैव धात्वर्थस्य य्तकर्म तस्यैव यदि तत् कर्त्तृत्वेन विवक्ष्यत एवमात्मनेपदं भवति; नान्यथेति। तेन `आरोहन्ति हस्तिनं हस्तिपकाः, आरोह्रमाणो हन्ती भीतान् सेचयति मूत्रेण` इत्यत्र सेचयतेरात्मनेपदं न भवति; भिन्नत्वात् क्रियायाः। तथा हि, न्यग्भावनक्रियायां प्राक् ह्सती कर्मत्वेन विवक्षितः, सेचनक्रियायां तूत्तरकालं कर्त्तृत्वेन। `यत्सग्रहणमनन्यकर्मार्थम्` इति। अण्यन्ते यत्कर्म ण्यन्तेऽपि यदि तदेव कर्म कर्ता भवति न कर्मान्तरम्, एवमात्मनेपदं भवति; नान्यथा। ननु विप्रतिषिद्धमेतत् - एकस्यैवैकदा कर्मत्वं कर्त्तृत्वञ्च? नैतद्विप्रतिषिद्धम्; एको हि वस्तुधर्मः, अपरश्च विवक्षाधर्मः, स्वातन्त्र्यविवक्षायां कर्त्तृत्वस्य विवक्षाधर्मत्वात्त वस्तुध्रमत्वाच्चारुह्रमाणताय कर्मत्वम्। `स्थलमारोहयति मनुष्यान्` इति। अत्र कर्मान्तरमप्यस्ति। मनुष्यानिति न केवलं हस्त्येवेति न भवत्यात्मनेपदम्। यद्येवम्, भीतान् सेचयति मूत्रेणेत्यत्र कर्मान्तरसद्भावादात्मनेपदं न भविष्यति; अस्ति ह्यत्रापि कर्मान्तरम् - भीतानिति; अतो न वक्तव्यम् - समानक्रियार्थं णौ चेदित्येतत्? नैतदस्ति, न हि भीतानिति सेचयतेः कर्म किं तर्हि? आरोहयतेः। भीतानाराहयमाणः सन् मूत्रेणात्मानं सेचयतीत्यर्थः; अयुक्तमेतत्, एवं ह्रारोह्रमाण इत्यत्रात्मनेपदं शानच्च न स्यात्, कर्मान्तरसद्भावात्। नैवं तर्हि शानजेवात्र विहितः किं तर्हि? `ताच्छील्यवयोवचनशक्तिषु` [[3.2.129]] चानश्प्रत्ययः। तत्र यदि समानक्रियार्थं णौ चेद्ग्रहणं न क्रियेत, तदा यदेवारोहयतेरण्यन्ते कर्म, स एव हस्ती सेचयतेण्र्यन्ते कर्ता भवतीति तदेव कर्म, स एव कर्तेति स्यादेवात्मनेपदम्। तस्माण्णौ चेद्ग्रहणं समानक्रियार्थं कर्तव्यम्।`कर्तेति किमि` इति। कर्तर्येवात्मनेपदमनेन विधीयते; भावकर्मणोः [[1.3.13]] इत्मनेनैव सिद्धत्वात्। तस्मात् सामर्थ्यलब्धः कर्तेत्यभिप्रायः। कर्त्तृग्रहणं येवाण्यन्ते कर्म तस्मिन्नेव ण्यन्ते कर्त्तृत्वेन विवक्षिते सत्येवात्मनेपदं भतवि, नान्यथेत्येवमर्थ क्रियत इति दर्शयितुमाह - `आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयति महामात्रः` इति। अत्र यदेवाण्यन्ते हस्ती कर्म न तदेव ण्यन्ते कर्त्तृत्वेन विवक्षितम्, किं तर्हि? महामात्रः, तेनात्मनेपदं न भवति। एतच्च कर्त्तृग्रहणाल्लभ्यते; तस्यानन्यार्थत्वात्। ननु च यत्सग्रहणमनन्यकर्मार्थमित्यक्तम्, इहच कर्मान्तरं हस्तिपकाख्यमस्त, अतो यत्सग्रहणादेव न भविष्यति, तत् किमेतन्निवृत्त्यर्थेन कर्त्तृग्रहणेन? नैतदस्ति;एवं सति हि कर्तृग्रहणेऽणौ यत्कर्म णौ चेत् स कर्ता तदेव कर्म कर्ता भवतीत्यस्यार्थस्यच प्रतिपादनाय क्रियमाणं यत्सग्रहणमर्थवद्भवतीति। असति तु कर्त्तृग्रहणे तन्न कर्तव्यमेव स्यादिति कुतः समानकर्मता प्रतीयते।`स्मरति वनगुल्मस्य` इति। अणौ कर्मप्रदर्शनार्थमेतत्। कर्मविषयेण शेषत्वेन विषयिणा विषयं दर्शयितुमुक्तम्। नन्वत्र न कर्मास्ति; तस्य शेषत्वेन विवक्षितत्वात्। तथा हि `शेषे` [[2.3.50]] इत्त्यनुवर्तमाने `अधीगर्थ` [[2.3.52]] इत्यादिना कर्मणि शेषत्वेन विवक्षिते षष्ठीयं विहिता। तस्मादेदं दर्शयितव्यम्, - स्मरति वनगुल्ममिति। अथ वा - यद्यपि तच्छेषत्वेन विवक्षितम्, तथापि स्मर्यमाणत्वात् तस्य कर्मत्वं वस्तुतोऽस्त्येवेति। `स्मरयति` इति। `स्मृ आध्याने` (धातुपाठः-807), वनगुल्मस्य प्रयोजकत्वे विवक्षिते णिच्, घटादित्वान्मित्संज्ञा, `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वत्वम्। `एनम्` इति। `गतिबुद्धिप्रत्यवसानार्थ` [[1.4.52]] इत्यादिना कर्मसंज्ञायां सत्याम्, `द्वितीया टौस्त्वेनः` [[2.4.34]] इत्येनादेशः। ननु च यत्सग्रहणमनन्यकर्मार्थम्, इह च कर्मानतरमस्ति कोकिलः, ततश्च कर्मान्तरसद्भावादात्मनेपदं न भविष्यतीति किमेतन्निवृत्यर्थेनानाध्यानग्रहणेन? नैतदस्ति; आध्यानामात्रं विवक्षित्येदं प्रत्युदाहरणमुपन्यस्तम्। एनम इति तु वचनं वनगुल्मः कर्ता न कोकिल इत्यर्थोपदर्शनपरं वेदितव्यम्। एवं वनगुल्मं वनगुल्मो स्मरयति। आत्मानमात्मना स्मरयतीत्यर्थः। णिच्युत्पन्ने कोकिलस्य प्रयोज्यस्य विवक्षितत्वान्निवृत्ते प्रयोज्यप्रयोजकभावे स्मरयतेण्र्यन्तस्य प्रकृत एवार्थो भवति। ननु च स्मरणं चेतनावतां धर्मः, वनगुल्मश्चाचेतनः, तत् कथमसौ स्मरेत्? नैतदस्ति; अचेतनेष्वपि चेतनावद्धर्मोपचारः - यथा नदीकूलं पिपतिषतीति। `रुहुः कर्तस्थक्रियः` इति। तदर्थस्य न्यग्भावनात्मनो हस्तिपकेषु समवेतत्वात्। `दृशिश्च कर्तस्थभावकः` इति। तदर्थस्य दर्शनस्य कर्त्तृषु भृत्येषु व्यवस्थित्वात्॥", "13068": "`हेतुभये`इति। हेतोर्भयं हेतुभयमिति। <<पञ्चमी भयेन>> [[2.1.37]] इति समासः। भीतिर्भयम् = त्रासः, अनिष्टापाताशङ्का। `ततश्चद्भयं भवति` इति। यदि ततो हेतुसंज्ञकात् प्रयोजकाद्भयं भवत्येवमात्मनेपदं भवति, नान्यथेति। यद्येवम्,स्मयत्यर्थो न विशेषितः स्यात्; यस्माद्भयं बिभेतेरेवार्थो न स्मरतेः, ततश्च रूपेण विस्माययतीत्यवमादावप्यात्मनेपदं स्यात्। मुण्डो विस्मापयत इत्यादौ न स्यादित्यत आह - `भयग्रहणम्` इत्यादि। भयग्रहणं हि धात्वर्थोपलक्षणार्थम्। धात्वर्थश्चेत् प्रयोजकाद्भवतीत्ययमर्थो विवक्षितः।तेन विस्मयोऽपि यदि तत एव हेतोर्भवति यद्येषोऽर्थो लभ्यत इति स्मयत्यर्थोऽपि विशेषित एव। विस्मयः = आश्चर्यम्। `मुण्डः` इति। मुण्डगुणोपेतत्वान्मुण्डः। `भीषयते` इति। `ञिभी भये` (धातुपाठः-1084),<<विभाषा लीयतेः>> [[6.1.51]] इत्यतो विभाषाग्रहणानुवृत्तेः <<बिभेतेर्हेतुभये>> [[6.1.56]] इति पक्ष आत्त्वम्। <<भियो हेतुभये षुक्>> [[7.3.40]] इति षुक्। `विस्मापयते` इति। `{ष्मिङ`-धातुपाठः} स्मिङ ईषद्धसने` (धातुपाठः-948)। <<नित्यं स्मयतेः>> [[6.1.57]] इत्यात्त्वम्;र्तिह्यी` [[7.3.36]] इत्यादिना पुक्।`कुञ्चिकयैनं भाययति` इति। करणादत्र भयम्, न हेतोः प्रयोजकात्। तेनात्मनेपदं न भवति। षुगप्यत्र न भवति, स हीकारान्तस्यैवेष्यते, <<भियो हेतुभये षुक्>> [[7.3.40]] इत्यत्र भी ई - इतीकारप्रश्लेषनिर्द्देशात्। `रूपेण विस्माययति` इति। अत्र करणादेव विस्मयः;न हेतोः॥", "13069": "", "13070": "`विशेषाभावात्` इति। कतं पुनर्विशेषभावः, यावता निरनुबन्धकत्वं सानुबन्धकत्वञ्चानयोर्विशेषोऽस्त्येव,ततश्च `निरनुबन्धकग्रहणे न सानुबन्धकस्यट (व्या।प।#आ53) इत्यनया पिरभाषाय न लीङो ग्रहणेन भवितव्यम्। तदयुक्तमुक्तं विशेषाभावाद्द्वयोरपि ग्रहणमिति? नैष दोष-, उत्सृष्टानुबन्धको हि लीह ल्यन्तो भवति। उत्सृष्टे चानुबन्धे द्वयमेवाभेदकं भवति - अर्थः, शब्दान्तरत्वञ्च। तत्रार्थस्तावदनयोरेक एव, शब्दान्तरत्वमपि नास्ति। शब्दान्तरत्वञ्च प्रकृतिबेदविकरणभेदाभ्यां भवति। न चानयोण्र्यन्तयोः प्रकृतिभेदःष नापि विकरणभेदोऽस्ति;शब्विकरणत्वात्। यदपि <<विभाषा लीयतेः>> [[6.1.51]] इत्यात्त्वं तदप्युभयोर्भवति। तथा च वक्ष्यति - `किमिदं लीयतेरिति? लीनातिलीयत्योरागन्तुकेन यका निदशः` इति। `न्यग्भावम्` इति। अभिभवनमित्यर्थः। `जटाभिः` इति। हेतौ तृतीया। जटा हि पूजाद्यधिगमहेतुभूताः। तथा हि - यस्य जटाः सन्ति लोके महानयं तपस्वीतयुपजातसम्प्रत्ययैः पूज्यते॥", "13071": "`मिथ्योपपदात्` इति। उपोच्चारितं पदमुपपदम्, मिथ्याशब्द उपपदं यस्य स तथोक्तः। `पदं मिथ्या कारयते` इति। अत्रात्मनेपदानाभ्यासस्य द्योतितत्वात् <<नित्यवीप्सयोः>> [[8.1.4]] इसि द्विर्वचनं न भवति। `सापचारम्` इति। सदोषम्। अनेन मिथ्याशब्दस्यार्थमाचष्टे। `स्वरादिदुष्टम्` इति। पूर्वस्यैवार्थं व्यक्तीकरोति। आदिशब्देन रूपस्य परिग्रहः। `असकृत्` इति। अभ्यासशब्दार्थमुदाहरणेन दर्शयति॥", "13072": "`कत्र्रभिप्राये` इति। कर्तारमभिप्रैतीति <<कर्मण्यण्>> [[3.2.1]] । यदि सामान्येन यत्र क्रियाफलं कर्तारमभिप्रैति तत्रात्मनेपदम्, तदेहापि स्यात् - पचन्ति पाचकाः, यजन्ति याजका इति। तथा ह्यत्र क्रियाफलं दक्षिणा याजकान् कर्त्तृनभिप्रैति, भृतिश्च पाचकानित्यत आह - `क्रियायाः फलम्` इत्यादि। प्रधानभूतं यत्फलं क्रियायास्तदिह गृह्रते। न च दक्षिणादिकं क्रियाफलं प्रधानभूतम्, ततो न भवत्यतिप्रसङ्गः। किं पुनस्तत्प्रधानभूतमित्यत आह- `यदयर्थम्` इत्यादि। एतेन यदुद्दिश्यासौ यागादिक्रियारभ्यते, न तु दक्षिणाद्यर्थम्। `यदर्थम्` इति। स्वर्गादि, न तु दक्षिणादि। तथा हि स्वर्गाद्यर्थं यागादिक्रियारभ्यते, न तु दक्षिणाद्यर्थम्। `यदर्थम्` इति। क्रियाविशेषणमेतत्। यच्छब्देन क्रियायाः प्रधानभूतं फलं निर्दिश्यते। यदर्थः प्रयोजनं यस्य क्रियारम्भस्य फलमात्रस्य ग्रहमभिप्रेतं स्यात्, तदा फलग्रहणमनर्थकं स्यात्; व्यवच्छेद्याभावत्। नास्त्येव हि स विषयो यत्र क्रियाफलं कर्तारं नाभिप्रैति; ततश्च कत्र्रभिप्राये क्रियाया इत्येदं ब्राउयात्। एवमप्युक्ते षष्ठआ क्रियायाः सम्बन्धिनि कत्र्रभिप्राये प्रत्यायिते सामर्थ्यात् फमलेव क्रिय#आयाः कत्र्रभिप्रायं गम्यते। न हि फलान्यत् क्रियासम्बन्धि कर्तारमभिप्रैति। तस्मात् फलग्रहणसामर्थ्यात् प्रधानं फलं गृह्रते। अथ वा - प्रधानत्वादेव प्रधानं फलं गृह्रते। तथा चोक्तम् - प्रधाने कार्यसम्प्रत्ययात् सिद्धमिति। अस्मिन् व्याख्याने फलग्रहणं स्पष्टार्थम्, कर्तर्यात्मनेपदविधानात्। प्रत्यासत्तर्यस्तस्य वाच्यः कर्ता यदि तस्यैव तत् फलं भवतीति विज्ञायत इत्याह - `तच्च` इत्यादि। गतार्थम्। `स्वर्गादि` इति। आदिशब्देनौदनादिकमपि गृह्रते। `तथापि` इत्यादिना दक्षिणादेः फलस्याप्रधान्यं दर्शयति। यदर्थं सा क्रियारभ्यते तत्प्रधानमिहोपात्तं फलम्। स्वर्गाद्यर्थं च यागादिक्रियाऽऽरभ्यते; न दक्षिणाद्यर्थम्। अतोऽप्रयोजकत्वात्तदप्रधाम्। तेन यद्यपि तत् कर्तारमभिप्रैति तथाप्यात्मनेपदं न भवति। अथाभिप्रग्रहणं किमर्थम्? विप्रकृष्टेऽपि फले यथा स्यात् द्विविधं हि क्रियाफलम् - आसन्नम्, विप्रकृष्टञ्च। तत्रासन्नम् - यस्य व्यापारानन्तरमेव निष्पत्तिः। विप्रकृष्टन्तु - उपरतेषु व्यापारेषु यन्निमित्तान्तरमपेक्ष्य कालविप्रकर्षकृतं संस्कारपरिपाकाच्चिराद्भवति। तत्राद्यमासन्नत्वात् दृष्टत्वादुत्पतिंत प्रत्यव्यभिचाराच्च प्रधानमम्। इतरत् पुनर्विप्रकृष्टत्वादनुमेयत्वात् सम्भवव्यभिचाराच्चोत्पतिंत प्रति व्यभिचारः। यद्यपि तदुद्दिश्य क्रियारम्भात् तदपि प्रधानम्, तथाप्यविप्रकृष्टफलापेक्षया तस्याप्राधान्यमस्त्येव। तत्र यद्यभिप्रग्रहणं न क्रियेत, तदा लुनीत पुनीत इत्यादावेव स्यात् - यत्राविप्रकृष्टं क्रियाफलम्। यजते इत्यादौ तु न स्यात् - यत्र विप्रकृष्टं स्वर्गादिकं क्रियाफलम्, प्रधाने कार्यसम्प्रत्ययात्। अभिग्रहणे तु न दोषः; यस्मादभिराभिमुख्ये वर्तते, प्रशब्दसत्त्वारम्भे। तेन प्रारम्भमात्रस्याभिमुख्ये फलनिष्पत्तौ बुद्धावाश्रीयमाणायां सर्वत्र सिद्धं भवति। ननु चासत्यभिप्रग्रहणे प्रकृतीनां यजिप्रभृतीनामनुबन्धविशेषासञ्जनादेव विप्रकृष्टेऽपि फले भविष्यतिच अन्यथा हि तस्य वैयथ्र्यं स्यात्, न; अभिचारादौ यत्राविप्रकृष्टं फलं दृष्टमस्ति तत्र तस्य सार्थकत्वात्। तस्माद्विप्रकृष्टेऽप्यप्रधाने फले स्यादित्येवमर्थमिप्रग्रहणं कर्तव्यमेव॥", "13073": "`न्यायपवादेन` इत्यादिना येनाभिप्रायेण धनकामो न्यायमपवदते तं दर्शयति॥", "13074": "", "13075": "`उद्यचछति` इति। `चिकित्सा वैद्यः` इति। चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः॥", "13076": "नास्योपसर्गाः सन्तीति बहुव्रीहिः। कतसकर्मकार्थेञ्चेदम्। <<अकर्मकाच्च>> [[1.3.45]] इत्येवं सिद्धत्वात्॥", "13077": "तत्र `स्वरितञितः` [[1.3.72]] इत्यादीनि पञ्च सूत्राण्यनुवर्तन्ते। `कत्र्रभिप्राये क्रियाफले द्योग्ये` इति। केन द्योत्ये? प्रकृतत्वादात्मनेपदेनेति विज्ञेयम्। `तदुपपदेन द्योतिते न प्राप्नोति` इति। उक्तार्थानामप्रयोगात्। एतेनाप्राप्तविभाषेयमिति दर्शयति। ननु चस्वं यज्ञं यजते इत्यत्र स्वशब्दस्योपपदत्वान्नोपपद्यते? यतः `तत्रोपपदं सप्तमीस्थम्` [[3.1.92]] इति द्वितीयधात्वधिकारे यत् सप्तमीनिर्दिष्टं तदुपपदसंज्ञं भवति, न च स्वशब्द एवंविध इत्याह - `समीपे श्रूयमाणम्` इत्यादि। एतेनोपोच्चारितं पदमुपपदमित्यन्वर्थस्योपपदस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति। एतच्च पारिभाषिकस्यासम्भवाल्लभ्यते। `स्वं यज्ञम्` इत्यादिना पञ्चसूत्र्यां यदाद्यं सूत्रं तत्रोदाहरति। `स्वं पुत्रम्` इत्यादिना यद्द्वितीयं तत्र। `एवं पञ्चसूत्र्यामुदाहरार्यम्` इति। अन्यत्रापीति सेषः। पञ्चसूत्र्यन्तर्गते सूत्रे यदुदाहृतं ततोऽन्यत्राप्युदाहार्यमित्यर्थः। स्वं कटं कारयते, कारयति वा। स्वं व्रीहिं संयचछते, संयच्छति वा। स्वं भारमुद्यच्छते, उद्यच्छति वा। स्वं वस्त्रमायच्छते, आयच्छति वा। स्वं गां जानीते, जानाति वेति। एतानि `णिचश्च` [[1.3.74]] इत्यादिषु सूत्रेषु यथायोगमुदाहरणानि॥", "13078": "`पूर्वेण` इति। `अनुदात्तहितः` [[1.3.12]] इत्यादिना। `सर्वत्र प्राप्नोति` इति। अशेषेभ्योऽपि। `तदर्थमिदमुच्यते` इति। सर्वत्र परस्मैपदे प्रसक्ते तन्निवृत्त्यर्थम्; अर्थशब्दस्य निवृत्तिवचनत्वात्। तथा-मशकार्थो धूम इति। तदेनैतत् नियमार्थमित्युक्तं भवति। `येभ्यो धातुभ्यः` इत्यादिना शेषत्वं दर्शयति। `येन विशेषणेन` इति। अनुबन्धादिना। `याति, वाति` इत्यनुबन्धशेषस्योदाहरणम्। `आविशति, प्रविशति` इत्युपसर्गशेषस्यार्थशेषस्यापि। एवं गन्धनादिभ्योऽन्यत्र करोतीत्येवमादिकमुदाहरणं वेदितव्यम्। ननु च शेषादित्यनेन पञ्चम्यन्तेन धातुसमानाधिकरणेन धातुरेव विशिष्यते, नार्थः, ततश्चाशेषेषु गन्धनादिष्वर्थेषु परस्मैपदं प्राप्नोति, नैतदस्ति; गन्धनादयो हि प्रकृतेरेवार्थाः, तत्रासौ शेषग्रहणान्निवर्तमानस्तानपि निवर्तयति। `पच्यते, गम्यते` इति। ननु च यद्यत्र परस्मैपदं स्यात्, तदा <<भावकर्मणोः>> [[1.3.13]] इति वचनमनर्थकं स्यात्, अनवकाशत्वात्, नैतदस्ति; अस्ति हि तस्यावकाशः। कः पुनरसौ? यो न शेषः - आस्यते, शय्यते, क्रियत इति। अनुदात्तेत्वं ङित्त्वञ्चाशेषः। `शेषात् कर्तरि` [[1.3.78]] इत्यत्र कर्त्तृग्रहणं सामान्यमुपात्तमिति यो देशयेत् तं प्रत्याह - `कर्मकर्तरि` इत्यादि। `कर्तरि कर्मव्यतीहारे` [[1.3.14]] इत्यादिना परिहरति। `कर्त्तैव यः कर्ता` इति। शुद्धो यः कर्ता, कर्त्तृवद्भावरहितो यः कर्त्तैत्यर्थः॥", "13079": "", "13080": "`अभिक्षिपति` इति। तुदादित्वाच्छःष।", "13081": "", "13082": "`परिमृष्यति` इति। दिवादित्वाच्छ्यन्॥", "13083": "", "13084": "`उपाच्च` इति। चकारः पूर्वापेक्षया समुच्चयार्थः। `उपरमति देवदत्तम्` इति। ननु चोपपूर्वो रमिरकर्मक एव भवति। तथा ह्रुपपूर्वस्यास्य विनाशोऽर्थो भवति; यथा - उपरतानि, नष्टानीति गम्यते। निवृत्तिर्वा भवति, स्वाध्यायादुपरमते, निवर्तत इति गम्यते। न चास्मिन्नार्थे वर्तमानस्य सकर्मकत्वमुपपद्यते। तत्कतं सकर्मकस्योदाहरणं युज्यत इत्याह - `उपरमयतीति यावत्` इति। एतेन ण्यर्थवृत्तितामुपरमतेर्दर्शयन् सकर्मकतामुपपादयतीति। अकर्मको हि धातुण्र्यर्थे वर्तमानः सकर्मको भवति। अथ पुनरण्यन्तस्य ण्यर्थवृत्तितोपपद्यते कथम्? स तथोक्तः। एवंविधस्य तस्य प्रयोज्येन सकर्मत्वमुपपद्यत एव।अथ किमर्थं पृथग्योगः क्रियते? `न व्याङपर्युपेभ्यो रमः` इत्येक एव योगः क्रियतामित्याह - `पृथग्योगकरणम्` इत्यादि। गतार्थम्॥", "13085": "`यावद्भुक्तम्` इति। <<यावदवधारणे>> [[2.1.8]] इत्यव्ययीभावः।`भुक्तम` इति। `नपवंसके भावे क्तः` [[3.3.114]] इति क्तप्रत्ययः। यावन्ति भोजनानि तावद्भ्यो निवर्ततइत्यर्थः। अथ वा - यावद्भुक्तमिति यथार्थे वीप्सायामव्ययीभावः। भोजनाद्भोजनन्निवर्तत इत्यर्थः॥", "13086": "`बुध अवगमने` (धातुपाठः-1172), `युध सम्प्रहारे` (धातुपाठः-1173), `णश अदर्शने` (धातुपाठः-1194), `जनी प्रादुर्भावे` (धातुपाठः- 1149), `इह अध्ययने` (धातुपाठः-1046), `च्यङ` (धातुपाठः-955) छ्युङ्, ज्युङ (धातुपाठः-956), झयुङ प्रुङ (धातुपाठः-957) प्लुङ (धातुपाठः-958) गतौ `दु द्रु गतौ` (धातुपाठः-944, 945), `सु रुआउ गतौ` (धातुपाठः-940)। `जनयति` इति। `जनीजृष्` (ग।सू।धातुपाठः-817) इत्यादिना मित्संज्ञा। मितां ह्रस्वत्वम्। `अध्यापयति` इति। <<क्रीङ्जीनां णौ>> [[6.1.48]] इत्यात्त्वम्। पूर्ववत् पुक्। `एतद्विषयाण्युदाहरणानि` इति। प्राप्तिविलयनस्यन्दनविषयाण्येतानि प्रावयतीत्याद्युदाहरणानि यथाक्रममित्यर्थः। स्यन्दनं चलनमिति लोके प्रसिद्धम्। ततोऽन्यत्र स्यन्दयतीति बोद्धयम्। प्रावयति = प्रापयति द्रावयति = विलापयति। रुआआवयति = स्यन्दयतीत्यर्थः।बाल-मनोरमाविभाषाऽकर्मकात् 576, 1.3.86 विभाषाऽकर्मकात्। उपादिति, रम इति, परस्मैपदमिति चानुवर्तते। तदाह- उपाद्रमेरिति। बाल-मनोरमाबुधुयुधनशजनेङ्प्रुद्रुरुआउभ्यो णेः 577, 1.3.86 बुधयुध। बुध युध नश जन इङ् प्रुद्रु रुआउ एषां द्वन्द्वः। बोधयति पद्ममिति। `सूर्य`इति शेषः। बुधिर्विकसनार्थकः। विकसति पद्मम्। तद्विकासयति सूर्य इत्यर्थः। `अणावकर्मकाच्चित्तवत्कर्तृका`दिति परस्मपैदं तु न सिध्यति, अणौ पद्मस्य कर्तृतया चित्तवत्करर्तृकत्वाऽभावत्। योधयति काष्ठानीति। काष्ठानि युध्यन्ते स्वयमेव। तानि योधयतीत्यर्थः। अणावचित्तवत्कर्तृकत्वात् `अणावकर्मका`दित्यस्य न प्राप्तिः। अतएव योधयति देवदत्तमिति नोदाहृतम्, `अणावकर्मकाच्चित्तवत्कर्तृका`दित्येव सिद्धेः। एवमग्रेऽपि ज्ञेयम्। नाशयति दुःखमिति। दुखं नश्यति, तन्नाशयति हरिरित्यर्थः। जनयति सुखमिति। जायते सुखम्, तज्जनयति हरिरित्यर्थः। अध्यापयतीति। अधीते वेदं विधिः, तमध्यापयतीत्यर्थः। `प्रु गतौ` इत्यस्योदाहरति - प्रावयतीति। गत्यर्थकत्वं मत्वा आह - प्रापयतीत्यर्थ इति। द्रावयतीति। द्रवत्याज्यं, तद्द्रावयतीत्यर्थः। धातोद्र्रवीभावार्थकत्वं मत्वा आह - स्यान्दयतीत्यर्थ इति। `प्रीतिं भक्तजनस्य यो जनयते` इत्यात्मनेपदं तु प्रामादिकमेव। यद्वा भक्तजनो हरौ प्रीतिं जनयत्यत्मविषये , तां हरिर्जनयते इति ण्यन्ताण्णौ रूपम्। प्रयोज्यकर्तुः शेषत्वविवक्षय#आ भक्तजनस्येति षष्ठीत्याहुः।", "13087": "`निगारयति` इति। `गृ निगरणे` (धातुपाठः-1410)। `आशयति` इति। `अश भोजने` (धातुपाठः-1523)। `भोजयति` इति। `भुज पालनाभ्यवहारयोः` (धातुपाठः-1046), `चलति` इति। `चल कम्पने` (धातुपाठः-832)। घटादित्वान्मित्त्वम्; पूववद्ध्रस्वः। `चोपयति` इति। `चुप मन्दायां गतौ` (धातुपाठः-403)। `कम्पयति` इति। `कपि चलने` (धातुपाठः-375)। अयमपि योगः सकर्मकार्थः, अचितत्वत्कर्त्तृकार्थश्चेति। तद्विपरीतेभ्यः `अणावकर्मकाच्चितवत्कर्त्तृकात्` [[1.3.88]] इत्यनेनैव सिद्धत्वात्। तत्र येषामुदाहरणान्युपन्यस्तानि, तेषु चलिकम्पी अकर्मकौ द्वौ; तयोरचितवत्कर्त्तृकार्थोऽयं योगः। शेषाणान्तु सकर्मकार्थः।`वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - <<विभाषाऽकर्मकात्>> [[1.3.85]] इत्यतो विभाषाग्रहणं मण्डूकप्लुत्याऽनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनादेरन्येभ्यो नित्यं परस्मैपदम्, अदेस्तु न भवत्येव। `आदयते देवदत्तेन` इति। अत्र `गतिबुद्धि` [[1.4.52]] इत्यादिना कर्मसंज्ञा न भवति; `आदिखादिनीवहीनां प्रतिषेधः` (वा।64) इति वचनात्॥", "13088": "`चेतयमानम्` इति। `चिती संज्ञाने` (धातुपाठः-39), चौरादिकः। अयञ्चाकर्मकश्चित्तवत्कर्तृकश्च। `हेतुमण्णिचो विधिः` इति। बुधादेः [[1.3.86]] सूत्रादिह णिज्ग्रहणमनुवर्तते, स च हेतुमण्णिजेव; बुधादिभ्योऽन्यस्य णिचोऽसम्भवात्। यतश्च हेतुमण्णिचो विधिः, प्रत्यासत्तेस्तस्यैव प्रतिषेधो युक्तः। यथाभूत एव विधिभाक्; तथाभूतेनैव प्रतिषेधभाजा भवितव्यम्; प्रत्यासत्तेः। तथा हि - ब्राआह्मणाः प्रवेश्यन्तामन्यताधीयानेभ्य इत्युक्ते यताजातीयकानां प्रवेशो विहितस्तथाजातीयकानामेव प्रत्यासत्तेः पर्युदासो विज्ञायते। `{आरोह्रमाणः`- इति मुद्रितः पाठः।} आरोह्रमाणम्` इति। णेरणावादि [[1.3.67]] सूत्रेणात्मनेपदम्। यद्यप्यत्र हस्तिपकान् प्रति हस्तिनः प्रयोजकत्वे विवक्षिते णिज्विहितः, तथापि ण्यन्तावस्थायां हस्तिपकाः प्रयोज्यत्वेन न विवक्ष्यन्ते; अन्यथा ह्रणौ यत्कर्म तदेव णौ कर्ता न स्यात्। तत्र प्रयोज्यत्वाविवक्षायामारोह्र-माण इत्यस्य स्वयमेवारोहयतीत्येषोऽर्थो भवति। तमारोहयमाणं यदान्यः प्रयुङ्क्ते, तदा द्वितीयो हेतुमण्णिच्। तदन्तात् `णिचश्च` [[1.3.74]] इत्यात्मनेपदं भवति। तेनारोहयत इति युक्तमेव प्रत्युदाहरणम्॥", "13089": "`पा` इति `लुग्विकरणालुग्विकरणायोरलुग्विकरणस्यैव ग्रहणम्` (व्या।प।50) इत्यनेन `पा पाने` (धातुपाठः-925) इत्यस्यैव ग्रहणम्, न `पा रक्षणे` (धातुपाठः-1056)इत्येतस्य। `दमु उपशमे` (धातुपाठः-1203), `यम उपरमे` (धातुपाठः-984), `यसु प्रयत्ने` (धातुपाठः-1210), आङपूर्वावेतौ। `मुह वैचित्ये` (धातुपाठः- 1198), परिपूर्वः, `रुच दीप्तौ` (745), `नृती गात्रविक्षेपे` (धातुपाठः-1116), `वद व्यक्तायां वाचि` (धातुपाठः-1009) `वस निवासे` (धातुपाठः-1005), आच्छादनार्थस्य वसेग्र्रहणं पूर्वोक्तादेव हेतोर्न भवति। `पूर्वेण योगद्वयेन` इति। अन्तरेणेत्यर्थः। `नृतिश्चलनार्थोऽपि` इति। अपिशब्दाच्चितवत्कर्त्तृकार्थश्च। `पाययते` इति। <<शाच्छासाह्वाव्यावेपां युक्>> [[7.3.37]] । पातेस्त्वकर्मकत्वविवक्षायां परस्मैपदं भवति। `पालयति` इति। `पातेलुग्वक्तव्यः` (वा।2;7, 3।37) इत्युपसंख्यानाल्लुगागमः। `दमयते` इति। पूर्ववत् `मितां ह्रस्वः` [[6.4.92]] । `आयामयते` इति। ननु चात्रपिमित्वे सति ह्रस्वेन भवितव्यमित्यत आह - `यमोऽपरिवेषणे` इति। तत्र हि `न कम्यमिचमाम्` (ग।सू।धातुपाठः-817)इत्यतो नेत्यनुवर्तते। `आङ`इति। ङिद्विशिष्टस्याकारस्योपबदानमुपसर्गप्रतिपत्त्यर्थम्। तेनोपसर्गप्रतिरूपको य आकारस्तस्य ग्रहणं न भवति।`पादिषु धेट उपसंख्यानम्` इति। पादिष्विति विषयसप्तमी। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। धेटः पादिविषयस्य परस्मैपदप्रतिषेधस्य प्रतिपादनं कर्तव्यम्। योऽयं पादिविषयः परस्मैपदप्रतिषेधः,स धेटोऽपि भवतीत्यर्थः। तत्रेदं प्रतिपादनम्- नेति योगविभागः क्रियते, तेन धेटोऽपि प्रतिषेधो भविष्यति। यद्येवम्, नेत्यनेनैव सिद्धत्वात् पादीनां ग्रहणमनर्थकम्? नानर्थकम्; पूर्वयोगस्यासर्वविषयात्वज्ञापनार्थत्वात्। `धापयेते` इति। `धेट पाने` (धातुपाठः-902) `आदेचः` [[6.1.44]] इत्यादिनात्त्वम्, पूर्ववत् पुक्। `शिशुम्` इति। `गतिबुद्धि` [[1.4.52]] इत्यादिना कर्मसंज्ञायां द्वितीया॥", "13090": "`लोहितायति` इति। अलोहितो लोहितो भवतीत्यत्रार्थे <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इति क्यष्। `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः। `पटपटायति` इति। पटच्छब्दस्य डाचि विषयभूते `डाचि बहुलं द्वे` (वा।888) इत्युपसंख्यानाद्द्विर्वचनम्, `अव्यक्तानुकरणात्` [[5.4.57]] इत्यादिना डाच्, <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इति पटशब्दस्य योऽन्त्यस्तकारः, यश्च तस्मात्परः पकारः-तयोः`कथम्` इति। न कथञ्चिदित्यर्थः। किं कारणं न लभ्यत आह - `यावता` इत्यादि। आत्मनेपदं हि `अनुदात्तङितः` [[1.3.12]] इत्यादि नियतम्, अतो न शक्यते क्यषन्ताद्विज्ञातुमिति। `एवं तर्हि` इत्यादिना परिहरति। `विकल्पितम्` इति विभाषितम्, पाक्षिकमित्यर्थः। ननु चात्मनेपदं परस्मैपदेन व्यवच्छिन्नम्, अतोऽसन्निहित्वान्न शक्यते विज्ञातुमित्याह - `तच्च`इत्यादि। कत्र्रभिप्राये क्रियाफले विवक्षित आत्मनेपदं प्राप्ते तदपवादेन <<अनोरकर्मकात्>> [[1.3.49]] इत्यादिना योगद्वयेन परस्मैपदं विहितम्। तस्यापवादस्यानन्तरसूत्रेण यः प्रतिषेधो विहितः, तेनापवादेन परस्मैपदमपनयतात्मनेपदं सन्निधापितम्। अपवादे ह्रपनीते नियोगत एवोत्सर्गेण भवितव्यम्। तदेवं प्रतिषेधेन सन्निधापितमिहात्मनेपदं सम्बध्यते। यदि तह्र्रनेन कर्तर्यात्मनेपदमेव विकल्पेन विधीयते, पक्षे परस्मैपदं कथं लभ्यत इत्याह - `तेन` इत्यादि॥", "13091": "ननु च द्युतेरेकत्वाद्बहुवचननिर्देशो नोपपद्यत इत्याह - `तत्साहचर्यात्` इत्यादि। यथैकेन छत्त्रिणा साहचर्यादन्येऽपि तत्सहचारिणश्छत्रिण इत्युच्यन्ते - छत्रिणो गच्छन्तीति, तथेहापि द्युतिना साहचर्यात् इआतादयोऽपि `द्युत` इति व्यपदिश्यन्ते। कथं पुनरेकस्य व्यपदेशे सत्ययमभिप्रेतोऽर्थः सम्पद्यत इत्याह - `बहुवचननिर्देशात्` इत्यादि। एं हि विनाऽप्यादिशब्देन तदर्थो लभ्यत इत्येषोऽर्थः सम्पद्यत इति दर्शयति। `कृपूपर्यन्ताः`इति। अनेन कृपेः परे ये पठन्ते ते द्युतादयो न भवन्तीत्याचष्टे। एतच्च तदनन्तरं वृत्करणाद्गणपरिसमाप्तेर्लिङ्गाद्विज्ञायते। `व्यद्युतत्` इति। पुषादित्वादङ। यद्येवम्, तत एवाङविधानात् परस्मैपदं तेभ्यो भविष्यति, किमनेन योगेन? नैतदस्ति; ज्ञापकाद्धि नित्यं लुङि परस्मैपदं विज्ञायते। किञ्च लुङोऽन्यत्रात्मनेपदं न भवतीति सम्भाव्येत। ननु चानुदात्तेत्करणसामर्थ्यादन्यत्र न भविष्यति, नैतत्; अनुदात्तेत्करणम् <<अनुदात्तेतश्च हलादेः>> [[3.2.149]] इति युजर्थं स्यात्। तस्मात् कर्तव्योऽयं योगः। अलुठत्। `रुठ लुठ प्रतीघाते` (धातुपाठः-747, 749)॥", "13092": "`स्यसनोः` इति। सती सप्तमीयम्। वत्स्र्यतीत्यादौ `सेऽसिचि` [[7.2.57]] इत्यादेः सूत्रादसिचि स इत्यनुवर्तमाने <<गमेरिट् परस्मैपदेषु>> [[7.2.58]] इत्यतः परस्मैपदे च `न वृद्भ्यश्चतुभ्र्यः` [[7.2.59]] इतीट्प्रतिषेधः। आत्मनेपदं त्विड्भवत्येव। `विवृत्सति` इति। <<हलन्ताच्च>> [[1.2.10]] इति कित्वाद्गुणाभावः॥", "13093": "`चकारस्तर्हि` इत्यादि। स्यसनोर्वृतादित्वादेव सिद्धे विकल्प इत्यभिप्रायः। `एवं तर्हि`इत्यादिना विशेषविधानं सामान्यविधानस्य बाधकं भवतीति विज्ञायते। ननु चयदीयं प्राप्तिः कृपेः प्राप्त बाधते, द्युतादिषु पाठस्य तस्यानर्थक्यं प्रसज्येत? नैतदस्ति; अङर्थत्वात्। ननु च स्यसनोरिति स्वरितत्वमिष्यते, तेन तस्य बाधा न भविष्यतीति, सत्यमेतत्; सूत्रकारस्तु चकारं वैचित्र्यार्थं चकार, न स्वरितत्वार्थम्। `कल्प्ता` इति। पूर्ववदधिकारद्वयानुवृत्तौ सत्यां `तासि च कॢपः` [[7.2.60]] इतीट्प्रतिषेधः। <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति डादेशः। <<कृपो रो लः>> [[8.2.18]] इति लत्वम् `चिकॢप्सति` इति। पूर्ववत् कित्वाद्गुणाभावः॥इति श्रोबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यतृतीयः पादः", "14001": "`या परा` इति। यत्र विप्रतिषेधस्तत्र `विप्रतिषेधे परम्` [[1.4.2]] इति वचनात् परा भवति। `अनवकाशा च या` इति। यस्याः संज्ञायाः क्वचिदवकाशो नास्ति, साऽप्यपवादभूत्वात् संज्ञान्तरं बाधित्वा प्रवर्तते। यद्येवम्, अत एव संज्ञासमावेशो न भविष्यति, तत् किमेकसंज्ञाधिकारेण? नैतदस्ति, विरोधे हि सत्यपवादभूतत्वं भवति। विप्रतिषेधस्तु विरोध एव, स च विरोध एकसंज्ञाधिकारे सति भवति, नासति; तथा हि यत्रैकसंज्ञाधिकारो नास्ति, तत्र विप्रतिषेधो नास्त्येव, यथा - प्रत्ययादीनां संज्ञायाम्; तस्मादस्मिन्नधिकारे सति विरोधो भवति। तस्मश्च सति `विरोधे परम्` इति वचनात् परा भवति,?पवादभूतत्वादनवकाशा च। तस्मात् कर्तव्योऽयमधिकारः।यद्येवम्, अङसंज्ञायां भपदसंज्ञयोः समावेशो वक्तव्यः - बाभ्रव्यः, धानुष्क इति। बभ्रुशब्दात् `मधुब्राभ्व्रोब्र्राआहृणकौशिकयोः` [[4.1.106]] इति यञ्। तत्र भत्वात् <<ओर्गुणः>> [[6.4.146]] अङ्गत्वादादिवृद्धिः, तत्र <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः; धनुःशब्दाच्च धनुः प्रहरणमस्य `तदस्य प्रहरणम्` [[4.4.57]] इति ठक्; `इसुसुक्तान्तात्कः` [[7.3.51]] इति कादेशः, अत्र पदत्वात् `इणः षः` [[8.3.39]] इति षत्वम्।अङ्गत्वादादिवृद्धिर्न वक्तव्या। <<वा क्यषः>> [[1.3.90]] इततो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन क्वचित् संज्ञासमावेशो भविष्यतीति। `अन्यत्र ` इति। लोके च, शास्त्रे च। लोके तावत् - इन्द्रः, शुक्रः, पुरन्दर इति संज्ञायाः समावेशो दृष्टः। शास्त्रेऽपि प्रत्ययः,कृत्, कृत्यप्रत्ययः। एवमन्यत्र संज्ञासमावेशादिहापि स्यात्, अतएवैका संज्ञा यथा स्यादिति नियमार्थमेतत्। `भिदिश्छिदिः` इति। लघुसंज्ञाया अवकाशः। प्रयोजनं तु - `भेत्ता, छेत्ता` इति। `पुगन्तलघूपधस्य` [[7.3.86]] इति गुणः। `शिक्षिर्भिक्षिः` इति। गुरुसंज्ञाया अवकाशः। प्रयोजनं - `शिक्षा, भिक्षा` इत। <<गुरोश्च हलः>> [[3.3.103]] इत्यकारप्रत्ययः। लघुसंज्ञा त्वत्र प्रयोजनाभावान्न भवति। इहोभयं प्राप्नोति - `अततक्षत्, अररक्षत्` इति। परत्वाद्गुरुसंज्ञैव भवति। `तक्षूत्वक्षू तनूकरणे` (धातुपाठः-655, 656), `रक्ष पालने` (धातुपाठः-65र8), हेतुमण्णिच्, लुङ, च्लेश्चङ, णिलोपः, `चङि` [[6.1.11]] इति द्वर्वचनम्। यद्यत्र लघुसंज्ञा स्यात्, `सन्वल्लघुनि` [[7.4.93]] इत्यादिना सन्वद्भावादित्वं स्यात्। तदभावान्न भवतीत्याह - `सन्वल्लघुनि` इत्यादि। `एष विधिः ` इति। सन्वद्भावविधिः। परस्या इदमुदाहरणमुक्तम्। अनवकाशायास्तूच्यते - अयन्ते योनिरृत्विय इति। ऋतुः प्राप्तोऽस्तेति `ऋतोरण्` [[5.1.104]] <<छन्दसि घस्>> [[5.1.106]] इति घस्; तस्येयादेशे कृते `सिति च` [[1.4.16]] इति पदसंज्ञा प्राप्नोति, <<यचि भम्>> [[1.4.18]] इति भसंज्ञा च, अनवकाशत्वात् पदसंज्ञैव भवति। यदि भसंज्ञा स्यात् तदा <<ओर्गुणः>> [[6.4.146]] इति गुणः स्यात्। भसंज्ञायास्त्वौपगवादिष्ववकाशः। आ कडारादितीयतोऽवधेग्र्रहणं वैचित्र्यार्थम्; अन्यथा हि `आ द्वन्द्वात इत्येवं ब्राऊयात्। न हि द्वन्द्वसंशब्दानात् परेणाकडारादेकसंज्ञाविधानस्य प्रयोजनमस्ति; यत एतावतोऽवधेग्र्रहणमर्थवद्भवति॥", "14002": "`विरोधो विप्रतिषेधः ` इत। विप्रतिषेधशब्दस्य लोके विरोधवाचित्वेन प्रसिद्धत्वात्। तथा हि - विरुद्धेऽभिहिते वक्तारो वदन्ति - `विप्रतिषिद्धमिदमुच्यते` इति, विरुद्धमिति गम्यते। तस्य विप्रतिषेधस्य विषयं दर्शयितुमाह - `यत्र` इत्यादि। प्रसज्येते विधीयेते इति प्रसङ्गौ = विधी। `अन्यार्थौ` इति। अन्यत्र विषयेऽर्थः प्रयोजनं ययोस्तौ तथोक्तौ। अन्यत्र विषयान्तरे कृतार्थावित्यर्थः। `एकस्मिन्` इति। अभिन्ने। युगपत् = एककलाम्। स इत्यस्य विप्रतिषेध इत्यने सम्बन्धः। स विप्रतिषेधो विप्रतिषिद्धः, विप्रतिषेधस्य विषय इत्यर्थः। विप्रतिषेधविषयत्वाद्विप्रतिषेदविषयो ह्यत्र विप्रतिषेधशब्देनोक्तो विषयिणा विषयं दर्शयितुम्। यस्मान्न प्रसङ्गो विप्रतिषेध उपपद्यते, नापि तदाधारः। `तुल्यबलविरोधः` इति। तुल्यबलयोर्विरोधोऽस्मिन्निति बहुव्रीहिः। इदं जातिपक्षमाश्रित्य विवरणं कृतम्। द्रव्यपदार्थपक्षे त्वयं विशेषः - अन्यः= भिन्नोऽर्थः = प्रयोजनं यतोस्तावन्यार्थाविति। शेषं समानम्। `विप्रतिषेधे` इति च सती सप्तमीयम्।`उत्सर्गापवाद` इत्यादि। विप्रतिषेधो यत्रास्ति, सोऽय योगस्यावकाशः। विप्रतिषेधञ्च तुल्यबलयोरेव भवतीति नातुल्यबलयोः। एतत्तु `यत्र हि प्रसङ्गावन्यार्थौ`इत्यादिग्रन्थेन तस्य विषयं दर्शयता व्याख्यातम्। न चोत्सर्गापवादादिषु तुल्यबलतास्तीति, ततो नासावुत्सर्गापवादादिरस्य योगस्य विषयः। तेन बलवानेव तत्र भवति; तत्र सामान्येनोत्सर्गः प्रवर्तते; यथा - `आर्धधातुकस्येड्वलादेः` [[7.2.35]] इति, वलादिसामान्यस्येड्विधानात्। विशेषोऽपवादः, यथा - नेड वशि कृति` [[7.2.8]] इतीट्प्रतिषेधस्य वलादिविशेषे वशादौ कृति विधानात्। यस्य च विशेषे विधिः, स बलवान् भवति; तथा हि - ब्राआहृणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्यायेति विशेषविहितं तक्रदानं सामान्यविहितस्य दधिदानस्यैव बाधकं भविष्यति। तस्माद्वशादौ कृति परेऽपीडागमो न भवति, प्रतिषेध एव भवति - `स्थेशभासपिसकसो वरच` [[3.2.175]] ईआर इति। नित्यानित्ययोर्नित्यं बलवत् यथा- `भिस ऐस्` [[7.1.9]] इत्यैत्वम्। तद्धि `बहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वे कृते प्राप्नोति। अकृतेऽपि - भूतपूर्वगत्याश्रयणादकारान्तादङ्गद्भिस ऐस् विहित इति कृत्वा। यश्च कृताकृतप्रशङ्गी विधिः स नित्य इति। तथा च तत्र [[7.1.9]] वक्ष्यति - एत्त्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति।कृतेऽप्येत्त्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति॥इति स नित्यः। ऐस्त्वे एत्त्वं न प्राप्नोति; निमित्तस्य झलादेर्विहितत्वात्। वृक्षेष्व्तयादादेत्त्वस्यावकाशः, अस्मश्च सति भूतपूर्वगत्याश्रयणस्यायुक्तत्वात्। तस्मात् तदनित्यम्। यच्चानित्यं तत् परस्य भावाभावमपेक्षत इति दुर्बलम्। विपर्ययात् तु नित्यं बलवत्। तेन वृक्षैरिति परमप्येत्त्वं न भवति। ऐस्भाव एव तु भवति।अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवदिति लोकत एव दृष्टत्वात्। लोको हि प्रातरुत्थायान्तरङ्गाणि मुखप्रक्षालनादीनि कार्याणि करोति, पश्चद्बहिरङ्गाणि राजगृहगमनादीनि कार्याणि कर्त्तुमारभते। शास्त्रेऽप्येवं वेदितव्यम्। दिवि कामोऽस्य द्युकामः, तस्यापत्यम् `अत इञ्` [[4.1.95]] द्यौकामिः। यद्यपि द्युकामशब्दादिञ् विहितः, तथापि `अकृतव्यूहाः पाणिनीयाः` (व्या।प।84) कृतमपि शास्त्रं निवर्तयन्तीति,प्रविभ्जायन्वाख्याने दिव् काम इञिति स्थिते `दिव् उत्` [[6.1.127]] इत्युत्त्वे कृते यणादेशः प्राप्नोति, <<तद्धितेष्वचामादेः>> [[7.2.117]] इति परत्वात् वृद्धिः प्राप्नोति? अन्तरङ्गत्वाद्यणादेशः पूर्वो विधिः क्रियते, पश्चाद्वृद्धिरुकारस्य। अन्तरङ्गत्वन्तु यणादेशस्य वर्णाश्रयत्वात्। वृद्धेस्तु बाह्रतद्धिताश्रयाद्बहिरङ्गत्वम्। `वार्णादाङ्गं बलीयः` (व्या।प।39) इत्येतदिह न प्रवर्तते; व्याश्रयत्वात्।`अप्रवृत्तौ` इत्यादि। यदा `आकृतिः पदार्थः`इत्येष पक्ष, तदाऽन्यत्र कृतार्थत्वाच्छास्त्रयोर्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्राप्नोति; यथा - यदिह द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति, तौ च युगपत् प्रेषयतः, नानादिक्षु तयोः कार्ये भवतः। ततो यद्यसावविरोधार्थी भवति तदोभयोरपि कार्ये न प्रवर्तते। द्रव्ये पदार्थे तु प्रतिव्यक्ति लक्षणं प्रवर्त इत्यकृतार्थत्वल्लक्षणयोः पर्यायेण प्रवृत्तिः प्राप्नोति, यथा - ब्राआहृणक्षत्रियादीनामसहभुजामेकस्मिन् भाजने भुजक्रियायां पर्यायः स्यात्। तत्र जातौ पदार्थे कृतार्थत्वाद्वृत्तौ प्राप्तयां विध्यर्थमिदमारभ्यते - विप्रतिषेधे सति परं कार्यं भवतीति। तत्र कृते यदि पूर्वमपि प्राप्नोति, तदपि भवत्येव। तत्रेदमुच्यते - पुनः प्रसङ्गविज्ञानात् सिद्धमिति। व्यक्तौ तु पदार्थेऽकृतार्थत्वात् शास्त्रयोः पर्यायेण प्रवृत्तौ प्राप्तयां नियमार्थमिदम् - विप्रतिषेधे परमेव भवति न पूर्वमिति। तत्रेदमुच्यते - `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव` (व्या।प।40) इति।", "14003": "`ई च ऊ च यू` इति। ननु च <<दीर्घाज्जसि च>> [[6.1.105]] इति प्रथमयोः पूर्वसवर्णदीर्घत्वे प्रतिषिद्धे यणादेशे सति य्वाविति भवितव्यम्। तत्कथं `यू` इति निर्देश इत्यत आह - `\tअविभक्तिकोऽयं निर्देशः` इति। `सुपां सुलुक्` [[7.1.39]] इति विभक्तिर्लुप्तत्वात्। नास्माद्विभक्तिर्विद्यत इत्यविभक्तिकः। `स्त्रियमाचक्षाते स्त्र्याख्यौ` इति। ननु च <<कर्मण्यण्>> [[3.2.1]] इत्यणि कृते <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युकि च स्त्र्याख्यायाविति भवितव्यम्, तत्कथं स्त्र्याख्याविति? <<आतोऽनुपसर्गे कः>> [[3.2.3]] इति कप्रत्यये कृत एतद्रूपमिति चेत्, न; चक्षिङोऽत्र सोपसरग्त्वादित्यत आह - `मूलविभुजादिदर्शनात्` इति। मूलविभुजादिष्वपि कप्रत्यय इष्यते। तथा च वक्ष्यति तृतीयेऽध्याये कप्रकरणे - `मूलविभुजादिभ्य उपसंख्यानम्` (वा।232) इति। तेन `स्त्र्याख्यौ` इति शब्दस्य मूलविभुजादिषु दर्शनात् कप्रत्ययः।इहेदूतोरेवेयं संज्ञा विधीयते? तदन्तयोर्वा? तत्र यद्याद्यः पक्ष आश्रीयेत, कृत्स्त्रियां न स्यात् - हे लक्ष्मि, हे यवाग्विति; समुदायौ ह्यत्र स्त्र्याख्यौ, न त्वीदूताविति। इममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - `ईकारान्तमूकारान्तम्` इत्यादि। ननु च <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यत्रान्तग्रहणादन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न लभ्यते, नैष दोषः; यदयम् `नेयङवङस्थानौ` [[1.4.4]] इति प्रतिषेधं शास्ति; तज्ज्ञापयति - भवतीह प्रकरणे तदन्तविधिरिति ; अन्यथा प्रतिषेधोऽनर्थकः स्यात्। न हीकारोकारमात्रं स्त्र्याख्यामियङस्थानमस्ति,किं तर्हि? तदन्तम्। `कुमारी` इति। <<वयसि प्रथमे>> [[4.1.20]] इति ङीष्। `गौरी` इति। `षिद्गौरादिभ्यश्च` ( [[4.1.41]] इति ङीष्। `शार्ङरवी` इति। `शार्ङरवाद्यञो ङीन्` [[4.1.73]] । `लक्ष्मीः` इति। `लक्ष दर्शनाङ्कयोः` (धातुपाठः-1538) `अवितृस्तृतन्त्रिभ्य ईः` (द।उ।1।82) इत्यनुवर्तमाने `लक्षेर्मुट् च` (द।उ।1।84) चकारादीकारश्च। `ब्राहृबन्धूः` इति। `ऊङुतः` [[4.1.66]] इत्यूङप्रत्ययः। ङकारः <<नोङ्धात्वोः>> [[6.1.175]] इति विशेषणार्थः। `यवागूः` इति। `यू मिश्रणे` (धा।प।#आ1033) `सुयूवचिभ्योऽन्युजागूजक्नुच्` (द।उ।10।4) इत्यागूच्प्रत्ययः। रूपोदाहरणान्येतानि।कार्यं तु `अम्बार्थनद्योह्र्यस्वः` [[7.3.107]] इत्येवमादि।`मात्रे, दुहित्रे` इत्यत्र नदीसंज्ञाया अभावात् `आण् नद्याः` [[7.3.112]] इत्याण् न भवति। `ग्रामणीः, खलपूः` इति। पंस्येतौ वर्तेते। तेन नतीसंज्ञाया अभावात् `अम्बार्थनद्योह्र्यस्वः` [[7.3.107]] इति ह्रस्वो न भवति। ग्रामं नयतीति `सत्सूद्विष` [[3.2.61]] इत्यादिना क्विप्। `अग्रग्रामाभ्याञ्च` (का।वा।5064) इति णत्वम्। खलं पुनातीति `अन्यभ्योऽपि दृश्यते` [[3.2.178]] इति क्विप्। `ग्रामण्ये स्त्रियै` इति। <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणाअदेशः। `खलप्वे स्त्रियै`। अत्रापि ओः सुपि` [[6.4.83]] इति। अत्र स्त्रीशब्देन पदान्तरेण स्त्रीत्वं द्योत्यत इति नदीसंज्ञा न भवति, तेनाण्न भवति। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति भवत्येव नदीसंज्ञा - इष्वै, अशन्या इति। यदि पदान्तरद्योत्ये स्त्रीत्वे नदीसंज्ञा न भवति, इह पट्वै स्त्रिया इति पटुशब्दस्य पुरुषेऽपि दृष्ट्त्वात् पदान्तरद्योत्यमत्र स्त्रीत्वमिति नदीसंज्ञा न स्यात्, नैतदस्ति; पदान्तरं हि दविविधम्- क्वचित्सामान्येन प्रवृत्तिमाशङ्कमानस्य शब्दस्य सामान्यस्याभिधेयान्तरं व्यवच्छिनत्ति, यथा - गोशब्दस्य गवादिषु गौर्वागिति; क्वचित् प्रवृत्तिमेव करोति , यथा - वाहीकादौ गौर्वादीक इति। अत्र यत् सामान्यस्य शब्दस्य पट्वादेः पदान्तरसम्बन्धेन विशेषेऽवस्थानं तत् पदेऽन्तर्भूतमेवेत्याख्याग्रहणेन नापनीयते। ग्रामणीशब्दस्य तु स्त्रीत्वप्रवृत्तिः पदान्तरेण क्रियते,न तु व्यवच्छिद्यते। तेनासावाख्याग्रहणेनापसार्यते। एतयोस्तु क्रियाशब्दत्वेन रूढा पुंसिमुख्या वृत्ति। पटुशब्दस्य पाटवोपादयिनः परत्र मुख्येऽपीत्यस्ति भेदः।", "14004": "`इयङुवङस्थानौ यौ यू तौ नदीसंज्ञकौ न भवतः` इति। यूद्वारेण य्वन्तस्यायं प्रतिषेधो विज्ञायते, न केवलयोः; प्राप्त्यभावात्। न हि यू केवलावियङुस्तानौ स्त्र्याख्यौ विद्येते। `हि श्रीः, हे भ्रूः` इति। अत्र नदीसंज्ञाया अभावात् तन्निबन्धनः `अ म्बार्थनद्योह्र्यस्वः` [[7.3.107]] इति ह्रस्वो न भवति। `श्रिञ् सेवायाम्` (धातुपाठः-897) `क्विब्वचिप्रच्छिश्रिरुआउद्रुप्रुज्वां दीर्घौऽसम्प्रासारणञ्च`(वा। 288) इति क्विपि दीर्घत्वे कृते श्रीरिति भवति। `भ्रमु अनवस्थाने` (धातुपाठः-1205) इत्यस्मात् `भ्रमेर्डूः` (द।उ।1।177) इति डूप्रत्यये टिलोपे भ्रुरिति भवति। उभयोः `अचि श्नुधातु` [[6.4.77]] इत्यादिनेयडुवङोर्विधानादियङुवङस्थानौ यू भवतः।`हे स्त्रि` इति। `ष्टऐ स्त्यै शब्दसंधातयोः` (धातुपाठः-911,910)। `आदेच उपदेशेऽशितित [[6.1.44]] इत्यात्त्वम्; स्त्यायतेर्ड्रट, `टेः` [[6.4.155]] इति टिभागलोपः; <<लोपो व्योर्वलि>> [[6.1.66]] इति वाकरस्य लोपः, `टिट्ढा` [[4.1.15]] इत्यादिना ङीप्। अत्र नदीसंज्ञायाः प्रतिषेधाभावात् ह्रस्वत्वं भवत्येव। स्त्रीशब्दस्य <<स्त्रियाः>> [[6.4.79]] इतीयङविधानादियङस्थान ईकारः।अथ स्थानग्रहणं किमर्थम्? इयङुवङस्थानयोः प्रतिषेधो यथा स्यादिति चेत्? न; यद्येतत् प्रयोजनमभिमतं स्यात् `इयङुवङोः` इत्येवं वाच्यम्। एवमप्ययमेवार्थः - ईयङुवङोः सम्बन्धौ यौ यू तयोर्नदीसंज्ञा न भवतीति। कौ च तयोः सम्बन्धिनौ यू? यौ तयोः प्रकृतिभुतावियङुवङरस्थानाविति, अन्तरेणापि स्थानग्रहणमियङुवङस्थानयोः प्रतिषेधो विज्ञास्यते। इदं तर्हि स्थानग्रहणस्य प्रयोजनम् - यत्रेयङ्वङोः स्थितिरभिनिवृत्तिस्तत्र प्रतिषेधो यथा स्यात्। यत्र त्वपवादेन तयोर्बाधस्तत्र मा भूदिति - आध्यै, वर्षाभ्वै इति। `ध्यै चिन्तायाम्` (धातुपाठः-908) <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्; सम्प्रसारणञ्च। सम्प्रसारणन्तु दृशिग्रहणाल्लभ्यते। तथा हि तत्रैव दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्। क्वचिद्दीर्घः, क्वचिद्द्विर्वचनमित्युक्त्वा `ध्यायतेः सम्प्रसारणञ्च` (वा।292) इति वक्ष्यति। कृतसम्प्रसारणस्यैव चतुर्थ्येकवचने `एरनेकाचः` [[6.4.82]] इत्यादिना यणादेशः। वर्षाभूशब्दस्यापि <<वर्षाभ्वश्च>> [[6.4.84]] इति।", "14005": "संहितासाम्येऽपि षष्ठीबहुवचनस्यामो ग्रहणम्, न तु द्वितीयैकवचनस्य; तत्र नदीसंज्ञाकार्याभावात्। नापि सप्तम्यादेशस्यामो ग्रहणम्; तस्य नदीसंज्ञोत्तरकालं <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्याम्विधानात्। `श्रीणात्र` इति। नदीसंज्ञापक्षे `ह्रस्वनद्यापो नुट्` [[7.1.54]] इति नुट्। इह स्त्र्याख्यादिति वर्तते, विभक्तिसम्बन्धेन चेयं नदीसंज्ञा विधीयत इति विभक्तिसम्बन्धिन एव शब्दरूपस्य स्त्र्याख्यस्य नदीसंज्ञा युक्ता, तेन यत्रावयवस्त्र्याख्यः, तत्र नदीसंज्ञा न भवति - अतिश्रियां ब्राआहृणानाम्, अतिभ्रुवां ब्राआहृणानामिति॥", "14006": "यद्यत्र ह्रस्वविशेषणार्थ `यू` इति नानुवर्तते इति नानुवर्तते, तदेहापि स्यात् - मात्रे दुहित्र इति; तस्मात् तदिहानुवर्तते। अनुवर्तमानमपि यदि प्रथमान्तमनुवर्तते, तदा प्रथमान्तयोह्र्यस्वत्वं प्रति विशेषणविशेष्यभावो नोपपद्यते। तस्मात् तदिहार्थात् षष्ठन्तमुपजायत इत्यत आह - `ह्रस्वश्च य्वोः सम्बन्धी` इति। कः पुनस्तयोः सम्बन्धी ह्रस्वः? यस्तयोह्र्यस्वः सवर्णः; तेन सामर्थ्यादिकारोकारयोग्र्रहणम्, न हि ताभ्यामन्यो ह्रस्व ईदुतोः सवर्णः सम्भवति। `कृत्यै, कृतये` इति। यदा नदीसंज्ञा तदा पूर्ववदाट्, अन्यथा तु `शेषो ध्यसखि` [[1.4.7]] इति धिसंज्ञकत्वात् <<घेर्ङिति>> [[7.3.111]] गुणः। अत्रापि यत्र विभक्तिसम्बन्धिनः शब्दरूपस्यावयवः स्त्र्याख्यस्तत्र पूर्वोक्तया रीत्या नदीसंज्ञा न प्राप्नोति - अतिकृतये ब्राआहृणाय, अतिश्रियेति॥", "14007": "`सख्या` इति। घिसंज्ञाया <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति नाभावो न भवति। `सख्ये, सख्युः` इत्यत्रापि <<घेर्ङिति>> [[7.3.111]] न गुणः। `सख्यौ` इत्यत्र <<अच्च घेः>> [[7.3.119]] इत्यत्त्वं न भवति। <<इदुद्भ्याम्>> [[7.3.117]] `औत्` [[7.3.118]] इत्यौत्त्वं भवति। सख्युरित्यत्रापि <<ख्यत्यात् परस्य>> [[6.1.112]] इत्युक्तम्। इह शोभनः सखाऽस्येति सुसखिरिति; सुसखेरागच्छतीत्यत्र तदन्तविधिना प्रतिषेधः प्राप्नोति, स च `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति` (व्या।प।89) इति प्रतिषेधान्न भवति। इह द्विविधा घिसंज्ञा - अवयवाश्रया, समुदायाश्रया च। तत्र याऽवयवाश्रया सा प्रतिषिध्यते, या पुनः समुदायाश्रया सा च भवत्येव; तस्या अप्रतिषेधात्॥", "14008": "`पतिशब्दस्य सिद्धायां घिसंज्ञायाम्` इति। अनन्तरसूत्रेणैवेति शेषः। `प्रजापतिना` इति षष्ठीसमासः। यदि सिद्धायां घिसंज्ञायामिदमारभ्यते तदा `सिद्धे सत्यारम्भो नियमार्थः` (दु।सि।का।सू।वृ।59) इति विनाप्येवकारेण लभ्यत एव नियमः, तत् किमर्थमेवकारकरणमित्यत आह - `एवकारकरणम्` इत्यादि। विना ह्रेवकारेण विपरीतमप्याशङ्क्येत - पतिरेव समसा इति। ततश्च दृढमुष्टिनेत्यादौ न स्यात्, एवकारे तु सति भवतीति। तथा ह्रतर् समासशब्दादनन्तरं प्रयुज्यमानं यत एवकारकरणं ततोऽन्यत्रावधारणमिति पतिशब्द एव नियम्यते, न समासः॥", "14009": "अत्र यदि पतिशब्दः षष्ठीविभक्त्यन्तो घि ज्ञो भवतीत्येषोऽर्थोऽभिमतः स्यात्, तदा युक्तग्रहणमनर्थकं स्यात्; षष्ठीत्यवं ब्राऊयात्। तस्माद्युक्तग्रहणे सति षष्ठन्तशब्दान्तरेण युक्त इत्येषोऽर्थो विज्ञायत इत्यत आह - `षष्ठन्तेन` इत्यादि। यदि पुनः पतिशब्दस्य षष्ठन्तस्य घिसंज्ञा स्यात्, तदा किं स्यात्? पस्युरित्यत्रैव स्यात्, इह तु न स्यात् - क्रुञ्चानामपतये नम इति।`मया पत्या` इति। तृतीयायुक्तोऽत्र पतिशब्दः। अस्मदः <<मपर्यन्तस्य>> [[7.2.91]] <<त्वमावेकवचने>> [[7.2.97]] इति मादेशः। `योऽचि` [[7.2.89]] इति यकारः॥", "14010": "`भेत्ता` इति। <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणः। `अचीकरत्` इत। कृञो णिच्, लुङ, अडागमः, च्लेश्चङ, णिलोपः,`णौ चङ्युपधायाः` [[7.4.1]] इति ह्रस्वः। `ओः पुयण्च्यपरे` [[7.4.80]] इति वचनं ज्ञापकम् - णौ कृतं स्थानिवद्भवतीति। `चङि` [[6.1.11]] इति कृशब्दो द्विरुच्यते। `उरत्` [[7.4.66]] इत्यत्त्वम्, रपरत्वम्, `सन्वल्लघुनि` [[7.4.93]] इति लघुसंज्ञायां सत्यां सन्वद्भावादित्त्वम्, <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घत्वम्॥", "14011": "`कुण्डा, हुण्डा` इति। `कुडि दाहे` (धातुपाठः-270), `हुडि सङ्घाते` (धातुपाठः-269), नुम्विधावुपदेशिवद्वचनादुपदेशावस्तायामेव नुम्। `शिक्षा, भिक्षा` इति। `शिक्ष विद्योपादाने` [[3.3.103]] इत्यकारप्रत्ययः, `अजाद्यतष्टाप` [[4.1.4]] ॥", "14012": "`ईहाञ्चक्रे, उहाञ्चक्रे` इति। `आम्प्रत्ययवत्` [[1.3.63]] इत्यादौ सूत्र एते व्यत्पादिते। गुरुसंज्ञायां त्वत्र कार्यम्- `इजादेश्च गुरुमतोऽनुच्छः [[3.1.36]] इत्यात्मप्रत्ययः॥", "14013": "`कर्ता` इति लुट्। `करिष्यति,अकरिष्यत्` इति। लुट्लृङौ। अङ्गसंज्ञायाः कार्यमत्र <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः, <<ऋद्धनोः स्ये>> [[7.2.70]] इतीडागमो यथायोगम्। `यस्मादिति संज्ञिनिर्देशार्थम्` इति। संज्ञिनो निर्देशः, सोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। ननु च तदादीत्यनेनात्र संज्ञीनिर्दिष्टः, तत्कथं संज्ञिनिर्देशार्थमिति पर्यनुयोगमाशङ्क्य येन हेतुना यस्मादित्यस्य संज्ञिनिर्देशार्थत्वं भवति,तं दर्शयितुमाह - `तदादिसम्बन्धात्` इति। यस्मादित्येतस्मिन् सत्यनेन प्रकृतेन तदादीत्यस्य सम्बन्धो भवति। यस्मात् प्रत्ययो विधीयते स आदिर्यस्य तत् तदादीति। अनुच्यमाने ह्रेतस्मस्तदित्यनेन सर्वनाम्ना प्रकृतप्रत्यवमर्शिना किं सम्बध्येतेति, असदेतत्; एवं हि सति प्रत्ययादेः प्रत्यये परतोऽङ्गसंज्ञा स्यात्, ततश्च करिष्यावः, करिष्याम इत्यत्र धातोर्गुणो न स्यात्। तस्माद्विशिष्टस्य संज्ञिनो निर्देशार्थ तस्मादिति वक्तव्यम्। अनेन हि सम्बन्धे सति तदादीत्यनेन योऽत्र विशिष्टः संज्ञी विवक्षितः स शक्यते निर्द्देष्टुम्; नान्यथा। <<नेर्विशः>> [[1.3.17]] इत्युपसर्गाद्विधिरस्तीति नियमस्य, न तु प्रत्ययस्य; तस्य लक्षण#आन्तणरे विहितत्वात्। <<नेर्विशः>> [[1.3.17]] इत्युपलक्षणमात्रम्। <<परिव्यवेभ्यः क्रियः>> [[1.3.18]] इत्येतदपीहोपात्तं द्रष्टव्यम्। तदादेरङ्गसंज्ञा स्यात्, ततश्चोपसर्गात् प्रागडागमः स्यादिति भावः।`स्त्री इयती` इति। इदं परिमाणमस्या इति `किमिदम्भ्यां वो घः` (5।240) इति वतुप्। वस्य च घत्वम्, इयादेशः, <<इदङ्किमोरीश्की>> [[6.3.90]] इतीदम ईश, <<यस्येति च>> [[6.4.148]] इतीकारलोपः। <<उगितश्च>> [[6.3.45]] इति ङीप्- इयती। स्त्रीशब्दात् सुः, तस्य हलङ्यादिना [[6.1.66]] लोपः, स्त्री इयती इति स्थिते यदि विधिग्रहणं न क्रियेत, तदेयच्छब्दे प्रत्यये परतः स्त्रीशब्दस्याङ्गसंज्ञा स्यात्; ततश्च `यस्येति च` 6.4.148) इतीकारलोपः प्रसज्येत। ननु च`असिद्धवदत्राभात्` 6.4.22) इत्यसिद्धत्वादीकारलोप एवासिद्धः, तत् कुतोऽयं लोपप्रसङ्गः? प्राग्भाधिकारादसिद्धत्वमित्यभिप्रायः, नैषोऽस्त्यभिप्रायः; वक्ष्यति हि तत्र वृत्तिकारः - र`असिद्धवदित्यधिकारोऽयम्, यदित ऊध्र्वमनुक्रिमिष्याम आअध्यायपरिसमाप्तेस्तदसिद्धवद्भवति` इति, तथा ह्रा भादित्यभिविधावाङ,तेन भाधिकारेऽप्यसिद्धत्वं भवतीति? एवं तर्हि विधिग्रहणेनैतज्ज्ञाप्यते - भाधिकारीयमसिद्धत्वमनित्यत्वमिति; तेन `वुग्युटाववङ्यणोः सिद्धौ वाच्यौ` (वा।776) इत्येतन्न वक्तव्यं भवतीति। वुक् - बभूव, युट् - उपदिदीय इति।नन्वेवम् <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इतीकारलोपस्य स्थानिवत्त्वात् स्त्रीशब्देकारलोपाप्रसङ्ग एव, नैतदस्ति; यो ह्रनादिषाटदचः पूर्वस्तस्य पूर्वस्तस्यविधिं प्रति स्थानिवद्भवतीत्यादिष्टदचः पूर्वः स्त्रीशब्देकारः प्राक् संस्कृतस्य सत इयीतशब्द्योत्तरकालं स्त्रीशब्देन सम्बध्यते। अथ क्रियमाणेऽपि विधिग्रहणे कस्मादेवाङ्गसंज्ञा न भवति, यावता स्त्रीशब्दाद्विभक्तेः प्रत्ययस्य विधिरस्त्येव, प्रत्ययोऽपि चास्मात् पर इयच्छब्दो विद्यत एव? नैष दोषः; विधिग्रहणे सति यस्मात्प्रत्ययो विधीयते प्रत्यासत्तेस्तस्मिन् परतोऽङ्गसंज्ञा विधीयते। इह तु यः स्त्रीशब्दाद्विहितः प्रत्ययो नासौ परः, लुप्तत्वात्; यश्च पर इयच्छब्दो विहितः, नासौ ततो विहितः।अथ तदादिग्रहणं किमर्थम्? यावाता विनाऽपि तेन `यस्मात् प्रत्ययविधिः प्रत्ययेऽङ्गम्` इत्येतावत्युच्यमाने यत्तदोर्नित्याभिसम्बन्धाद्यस्मात्प्रत्ययो विधीयते तत्प्रत्यये परतोऽङ्गसंज्ञा भवतीत्येषोऽर्थो लभ्यत इत्यत आह - `तदादिवचनम्` इत्यादि। असति तदादीत्येतस्मिन् यस्मादेव प्रत्ययो विधीयते तस्यैवाङ्गत्वं स्यात्, न तु सर्वस्य सहस्यादेः, नापि सनुम्कस्य समुदायस्य; ततः प्रत्ययस्यादिविहितत्वत्। तदादिग्रहणे सति यस्मात् प्रत्ययो विधीयते स आदिर्यस्य शब्दरूपस्य तत् तदादीति बहुव्रीहिराश्रितो भवति, तेन सर्वस्य सहस्यादेः सनुम्कस्य समुदायस्याङ्गसंज्ञा सिद्ध्यति - इति तदादिवचनं स्यादिनुमर्थम्। आदिग्रहणेन प्रकृतिप्रत्ययस्य मध्यवर्तिनां प्रत्ययागमानां ग्रहणम्; नुम आगमोपलक्षणत्वात्। `करिष्यावः` इत्यत्र यस्मात् प्रत्ययो विहितस्तदादेः सहस्य प्रत्ययस्य समुदायस्याङ्गसंज्ञायां सत्याम् <<अतो दीर्घो यञि>> [[7.3.101]] इति दीर्घत्वं भवति; अन्यथा क्व तर्हि स्यात्? `वावावः, वावामः` इत्यादौ। `अय वय मय पय तय चय णय गतौ` (धातुपाठः-474-480), यङलुक्, अभ्यासस्य <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घत्वम्; वस्मसोः <<लोपो व्योर्वलि>> [[6.1.66]] इति यलोपः - इह विना विकरणेन धातोदीर्घत्वम्; विकरणस्य शपः `अदिप्रभृतिभायः शपः` [[2.4.72]] इति लुप्तत्वात्। अदादित्वम् `चर्करीतञ्च` (धातुपाठः-1081) इत्यादिषु पाठात्। `चर्करीतम्` इति यङलुकः पूर्वाचार्यसंज्ञा। `कुण्डानि` इति। जसि <<जश्शसोः शिः>> [[7.1.20]] इति शिभावः। <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुम्। तदायं नुम् परादिरिति पक्षः, तदा `सुपि च` [[7.3.102]] इति दीर्घत्वं विनापि सनुम्कस्याङ्गसंज्ञया सिद्धम्। यदापि पूर्वान्तः, तदाप्यङ्गकदेशत्वात् <<नोपधायाः>> [[6.4.7]] इत्यनुवर्तमाने <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति दीर्घत्वं सिद्धम्। यदा त्वभक्तः, तदाङ्स्यानेकदेशत्वान्न सिद्ध्यति। अभक्तश्चायं नुमिति सूत्रकारस्य पक्षः। तेन नुमर्थमपि तदादिवचनं कृतम्। `श्रयर्थम्, भ्व्यर्थम्` इति। श्रिय इदं भ्रुव इदमिति - `चतुर्थी तदर्थार्थ` [[2.1.35]] इत्यादिना समासः; अस्त्यत्र चतुर्थ्यैकवचनस्य विधिरिति। असति हि पुनः प्रत्ययग्रहणे श्रीभ्रूशब्दयोरर्थशब्दे परतोऽङ्गसंज्ञा स्यात्, ततश्चेयङुवङौ स्याताम्। सप्तमीनिर्दिष्टे तु पुनः प्रत्ययग्रहणे श्रीभ्रूशब्दयोरर्थशब्दे परतोऽङ्गसंज्ञा स्यात्, ततश्चेयङुवङौ स्याताम्ा। सप्तमीनिर्दिष्टे तु पुनः प्रत्ययग्रहणे सति न दोष इति। तथा हि - ततो विहिते प्रत्यये परत इत्येवं विज्ञायते। यश्चातो विहितः प्रत्ययः स लुप्तः। यद्यपि लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेनाङ्गसंज्ञा लभ्यते, कार्यं तु न लभ्यते; <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षमप्रतिषेधात्॥", "14014": "`सुप् तिङिति प्रत्याहारग्रहणम्` इति। युक्तं हि तिङिति प्रत्याहारग्रहणम्, अन्यस्य तिङशब्दस्याभावात्; कथं सुबिति प्रत्याहारग्रहणम्, सप्तमीबहुवचनस्य विद्यमानत्वात् तस्य ग्रहणं कस्मान्न भवतीति? नैष दोषः; <<न ङिसम्बुद्ध्योः>> [[8.2.8]] इति प्रतिषेधात्। सप्तमीबहुवचनस्य सुपो ग्रहणे ङिसम्बुद्ध्योः पदत्वाभावान्नलोपस्य प्राप्तिरेव नास्तीति प्रतिषेधोऽर्थकः स्यात्। `ब्राआहृणाः` इति। पदत्वे च सति <<ससजुषो रुः>> [[8.2.66]] , <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] । `पठन्ति` इति। अत्र पदत्वे सति `तिङङतिङः` [[8.1.28]] इति निघातः।ननु च`प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (पु प 24) इत्यनेन <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन वाऽन्तरेणाप्यन्तग्रहणं तदन्तस्यैव संज्ञा भविष्यति, तत्किमर्थमन्तग्रहणमित्यत आह - `पदसंज्ञायाम्` इत्यादि। यदीहान्तग्रहणेनाप्यन्यत्र संज्ञाविधौ तदन्तविधिर्नास्तीत्येषोऽर्थो न ज्ञाप्यते, तदा <<तरप्तमपौ घः>> [[1.1.22]] इत्यत्र तरबन्तस्य घसंज्ञा स्यात्, न प्रत्ययमात्रस्य। तस्मादत्रास्मिन्नर्थेऽन्तग्रहणेन ज्ञाप्यते - अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधो यथा स्यादित्येवमर्थमन्तग्रहणम्। तेन तरप्तमपोरेव घसंज्ञा भवति, न तु तदन्तस्य। `गौरीब्राआहृणितरा` इति।अत्र गौरीशब्दस्य तरबन्ते ब्राआहृणितराशब्दे परतः <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यादिना ह्रस्वो न भवति; तरबन्तस्याघसंज्ञकत्वात्। प्रत्ययमात्रस्य घसंज्ञायां तत्र परतो ब्राआहृणीशब्दस्य ह्रस्वो भवत्येव॥", "14015": "", "14016": "`भवदीयः` इत्यादि। <<तत्र जातः>> [[4.3.25]] इत्यादौ शैषिकेऽर्थे तद्धितः, पदत्वात् `झलाञ्जशोऽन्ते` [[8.2.39]] इति जश्त्वम्। `ऊर्णायुः` इति। <<ऊर्णाया युस्>> [[5.2.123]] इति युसि कृते पदसंज्ञया भसंज्ञायां निरस्तायां <<यस्येति च>> [[6.4.148]] इत्याकारलोपो न भवति। `ऋत्वियः` इति। ऋतुः प्राप्तोऽस्त्येति `ऋतोरण्` <<छन्दसि घस्>> [[5.1.106]] ऋत्वियः, पदत्वात् भत्वाभावे तदाश्रयः <<ओर्गुणः>> [[6.4.146]] न भवति।", "14017": "अत्र यदि सप्तमीबहुवचनादारभ्य आ कपः प्रत्यया गृह्रेरन्, तदा `असर्वनामस्थाने` इति प्रतिषेदं न कुर्यात्; प्राप्त्यभावात्। कृतश्चासावतोऽवसीयते प्रथमैकवचनादारभ्या कपः प्रत्ययाः स्वादयो गृह्रन्त इत्यत आह - `स्वादिष्विति सुशब्दादेकवचनादारभ्य` इति। `राजत्वम्, राजता` इति। <<तस्य भावस्त्वतलौ>> [[5.1.119]] । `राजतरः` इति।\t<<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इति तरप्। `राजतमः` इति। `अतिशायने` [[5.3.55]] इत्यादिना तमप्।`राजानौ,राजानः` इति। अत्र पदसंज्ञाया अभावान्नलोपो न भवति। यद्येवम्, राजत्यत्रापि न स्यात्, प्रत्ययलक्षणेनासर्वनामस्थान इति पदसंज्ञाया अभावात्,नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति - भवति सौ परतः पदसंज्ञेति, यदयम् `नङिसम्बुद्धयोः` [[8.2.8]] इति प्रतिषेधं शास्ति। अत्र सम्बुद्धिशब्दोऽनर्थकः स्यात्, पदत्वाभावादेव नलोपस्याप्राप्तेः। अथ वा - `असर्वनामस्थाने` इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः,तेन सर्वनामस्थानादन्यत्र पदसंज्ञा विधीयते; न तु सर्वनामस्थानं प्रतिषिध्यते। तेन तत्र पूर्वसूत्रेण सौ परे पदसंज्ञा भविष्यति। अथ वा- प्रसज्यप्रतिषेधेऽपि न दोषः, यस्मात् `अनन्तरस्य विधिर्वा प्रतिषेधो वा`(व्या।प।12) इत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते; न व्यवहिता। तेन <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यकारलोपः॥", "14018": "`यचि` इति वर्णग्रहणं सप्तमीनिर्दिष्टम्। अतः `यस्मिन् विधिस्तद्दावल्ग्रहणे` (वा।14) इति तदादिविधिनात्र भवितव्यमित्यत आह - `यकारादौ` इत्यादि। गाग्र्य इत्यादौ भसंज्ञायां सत्यां <<यस्येति च>> [[6.4.148]] इत्यकारलोपः।`नभोऽङिरोमनुषां वत्युपसंख्यानं कर्तव्यम्` इति। भसंज्ञायास्त्वत्र पदसंज्ञाबाधः फलम्। `नभ इव` इति तुल्यार्थतोपदर्शनमेतत्; न तु प्रथमासमर्थाद्वतिः। स तु नभसा तुल्यं वर्तत इति `तेन तुल्यम्` [[5.1.114]] `आङ्गिरस्वत्` इति। पूर्वेण तुल्यम्। `मनुष्वत` इति। `जनेरुसिः`(द।उ।9।37) इत्यत्र बहुलग्रहणानुवृत्तेः `मन ज्ञाने` (धातुपाठः-1176) इत्येतस्मादुसिप्रत्ययः। <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्। मनुष् इति स्थिते पूर्ववद्वतिः - मनुष्वदिति। यद्यत्र पदसंज्ञा स्यात् तदा षत्वस्यासिद्धत्वादिह रुत्वं स्यात्, ततश्च मनुर्वदित्यनिष्टं रूपं स्यात्। उपसंख्यानशब्दस्य चेह प्रतिपादनम् - `सिति च` [[1.4.16]] इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेन नभोऽङ्गिरोमनुषां वतौ भसंज्ञा भविष्यति।`वृषण्वस्वआयोः` इति। अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां प्राप्तायां भसंज्ञा विधीयते,तस्याश्च विधिश्चकारानुवृत्तेरेव लभ्यते। वृष्णोऽआः, अत्र भत्वे सति यद्यपि णत्वस्यासिद्धत्वम्, तथापि नलोपः पदनिबन्धनो न भवति, <<पदान्तस्य>> [[8.4.37]] इति णत्वप्रतिषेधश्च॥", "14019": "`तसौ` इति वर्णग्रहणम्। न च वर्णमात्रान्मत्वर्थीय सम्भति, अतः सामर्थ्यात् तदन्तविधिर्विज्ञायत इत्याह - `तकारान्तम्` इत्यादि। `मत्वर्थे प्रत्यये` इति व्यधिकरणे पदे; षष्ठीसमासः। मतोरर्थो मत्वर्थ इति, तत्र यो वर्तते प्रत्ययस्तस्मिन्नित्यर्थः। अथ वा- समानाधिकरणे पदे, मतुशब्देन साहचर्यान्मतुप्सहचरितार्थ उच्यते - णतुबर्थो यस्य तस्मिन्, न तु यस्मिन्निति मत्वर्थे प्रत्यय इति। अर्थग्रहणं कमतुपोऽन्यत्रापि यथा स्यात्; इतरथा हि मतावित्युच्यमाने मतावेव स्यात्; नान्येषु। मत्वर्थग्रहणे क्रियमाणे मतुपि न स्यात्; तस्यार्थविशेषणत्वात्। विशेषणस्य च कार्येण सम्बन्धानुपपत्तेः। न हि चित्रगुरानीयतामित्युक्ते विशेषणभूता गावोऽडप्यानीयन्ते, नैष दोषः; विशेषमपि क्वचित् कार्ये विशिष्यते, यथा हि - देवदत्तशालाया ब्राआहृणा आनीयन्तामित्युक्ते देवदत्तः शालायां विशेषणभूतो यदि ब्राआहृणो भवति तदा सोऽप्यानीयत एव। `उदइआत्वान` इति। भत्वात् पदसंज्ञाभावे जश्त्वं सिध्यति। `झयः` [[8.2.10]] इति वत्वम्, `उगिदचाम्` [[7.1.70]] इति नुम्, <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। `पयस्वी, यशस्वी` इति। <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] भत्वाद्रुत्वं न भवति। `इन्दरन्पूषार्यम्णां सौ` [[6.4.12]] इत्यनुवर्तमाने `सौ च` [[6.4.13]] इत्यनेन दीर्घः॥", "14020": "यद्यत्र भसंज्ञा विधीयेत तदा पदसंज्ञा न स्यात्, अथ यदि पदसंज्ञा विधीयेत तदाऽत्र भसंज्ञा न स्यात्, तदा भपदसंज्ञयोः समावेशो न स्यात्; एकसंज्ञाधिकारात्। साधुत्वविधाने त्वेष दोषो न भवति, तद्धि केषाञ्चिद्भसंज्ञा विधीयते पदसंज्ञकानाम्, केषाञ्चिदुभयसंज्ञाकानाम्; तस्मात् साधुत्वमेव विधातुं युक्तमित्यत आह - `अयस्मयादीनि` इत्यादि। कथं पुनरेषां साधुत्वं विधीयत इत्याह - `भपदसंज्ञाधिकारे` इत्यादि। द्वारम्, मुखम्, उपाय तत्र भाषाग्रहणमस्ति, तथाप्ययस्मयशब्दस्यास्मादेव साधुत्वविधानाच्छन्दस्यपि मयड् भवतीति भत्वाद्रुत्वं न भवति। `सऋक्वता` इति। ऋचोऽस्य सन्तीति मतुप्। पदत्वात् `चोः कुः` 8.3.30) इति कुत्वम्। भत्वात् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वं न भवति। `आकृतिगणोऽयम्` इति। आदिशब्दस्य प्रकारवाचित्वात्॥", "14021": "`तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते` इति। एतेन विध्यर्थतामस्य योगस्य दर्शयति। इह केषाञ्चित् `स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थः` इति दर्सनम्। केषाञ्चित् `स्वार्थद्रव्यलिङ्गात्मकस्त्रिकः प्रातिपदिकार्थः` इति। तत्र स्वार्थो विशेषणम्; स्वरूपजातिगुणद्रव्याणि। द्रव्यस्तु विशेष्यम्, तत्पुनर्जातिगुणद्रव्याणि। तत्र यदा शब्दस्वरूपेण विशिष्टा जातिरभिधीयते - गौरिति, तदा शब्दस्वरूपं विशेषणत्वात् स्वार्थो भवति; जातिस्तु विशेष्यत्वाद्द्रव्यम्। यदा तु जात्या विशिष्टो गुणोऽभिधीते - पटस्य शुक्लो गुण इति, तदा जातिर्विशेषणत्वात् स्वार्थो भवति; गुणस्तु विशेष्यत्वाद्द्रव्यम्। यदा तु गुणैर्विशिष्टं पटादिकं द्रव्यमुच्यते - शुक्लः पट इति, तदा विशेषणभूतो गुणः स्वार्थो भवति; विशेष्यभूतं पटादिकं द्रव्यमेव। यदा पुनद्र्रव्यमपि द्रव्यान्तरस्य विशेषणभूतं भवति - यष्टीः प्रवेशय, कुन्तान् प्रवेशयेत्यादौ, तदा यष्टआदिकं द्रव्यं विशेषणभावापन्नं स्वार्थः; द्रव्यान्तरं विशेष्यभावापन्नं पुरुषादिकं द्रव्यमेव। क्वचित्सम्बन्धोऽपि स्वार्थो भवति - यत्र सम्बन्धनिमित्तकः प्रत्यय उत्पद्यते, यथा - दण्डी, विषाणीति। अत्र दण्डपुरुषसम्बन्धो विशेषणम्, दण्डीति द्रव्यम्। क्वचित् क्र#इयापि स्वार्थो भवति, यत्र क्रियानिमित्तकः प्रत्ययः उत्पद्यते, यथा - पाचकः, पाठक इति। क्रियाकारकसम्बन्धोऽत्र स्वार्थ इत्यपरे। लिङ्गं स्त्रीत्वादि, संख्यैकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तत्र पूर्वोक्तयोर्दर्शनयोर्द्वितीयं यद्दर्शनं तदिह वृत्तिकारेणाश्रितम्।धातोस्तु क्रियैव वाच्येत्यत्राचार्याणामविवाद एव। तत्र प्रातिपदिकस्य पूर्वोक्ते त्रिकेऽर्थे सति धातोश्च क्रियात्मकत्वे यदीदं सूत्रं नोच्येत, ततः `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (सी।वृ।125) इति प्रातिपदिकाज्जसादिबहुवचनं विधीयमानं त्रिक एवार्थे स्यात्, न बहुत्वसंख्यायाम्। धातोरपि झिप्रभृति बहुवचनं विधीयमानं क्रियायामेव स्यात्; न तु बहुत्वसंख्यायाम्। तस्मादनेनैव तस्य बहुत्वसंख्यावाच्यत्वेन विधीयत इति विध्यर्थमेतद्भवति। यथा चानेन योगेन बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते, तथा <<कर्मणि द्वितीया>> [[2.3.2]] इत्येवमादिभिर्योगैर्द्वितीयादीनां कर्मादि च। <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इत्यनेनापि लकाराणां कर्माद्येव। तस्मादेतेऽपि योगा विध्यर्था एव वेदितव्याः।येषाञ्च पञ्चकं प्रातिपदिकार्थ इति मतम्, तेषां प्रातिपदिकस्यैव पञ्चाप्यर्था वाच्याः। विभक्तयश्च तद्दयोतिका भवन्ति। तत्र `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (सी।वृ।125) इति विनापि वचनेनानेन प्रातिपदिकाद्बहुवचनं जसादि बहुत्वे सिद्धमेव। तत्र त्वनियमेनान्यत्राप्येकत्वादौ प्राप्तमनेन नियम्यत इति नियमार्थमेतद्भवति।कस्मात् पुनर्वृत्तिकारेण त्रिकं प्रातिपदिकार्थ इति दर्शनमाश्रितम्? युक्तत्वात्। तथा हि - वृक्षं पश्येत्यादौ न हि विना विभक्तिभिः संख्याकर्मादयश्चार्थाः प्रतीयन्ते। यद्यपि पयः पयो जरयतीत्यादौ विनापि विभक्त्या संख्याकर्मादेरर्थस्य प्रतीतिर्भवतीति, तथापि पयसी पयांसि पयसेत्येवमादौ संख्याकर्मादिप्रतीत्यर्थं नियोगतो विभक्तिरपेक्ष्यत एव। न हि यथा गर्गा इत्यत्र बहुवचनेन यञ्प्रत्ययमन्तरेणापत्यार्थः प्रतीयते, तथा गाग्र्य इत्यत्र प्रकृतिरेवापत्यार्थमभिधत्त इति शक्यते वक्तुम। अपि च - पयः पयो जरयतीत्येवमादौ विभक्तिविशेषओत्पत्तिसामर्थ्यादेव संख्याकर्माद्यर्थ्स्य प्रतीतिर्भवति। तथा हि, यतः स विभक्तिविशेष उत्पन्नस्त्त एवासावर्थविशेषः प्रतीयते, नान्यस्मादिति त्रिक एव प्रातिपदिकार्थो युक्तः।यदि तर्हि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते तदा सूत्रे भावप्रत्ययेन बहुत्वनिर्देशः कर्तव्यः, अन्यथा बहुत्वसंख्या न प्रतीयेत? न कर्तव्यः; अन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भविष्यतीति, यथा - पटस्य शुक्ल इति। नन्वेवमपि भादस्यैकत्वाद्बहुष्विति बहुवचनं नोपपद्यते, नैष दोषः; यस्माद्बहुतवसंख्याधारस्य द्रव्यस्य यो भेदस्तं बहुत्वे गुणेऽध्यारोप्य बहुष्विति बहुवचनेन निर्देशः कृतः , संख्यावाच्ययं बहुशब्दो न वैपुल्यवाचीति ज्ञापनार्थश्च। तेन वैपुल्यं बहुवचनस्य वाच्यं न भवतीति बहुरोदनः,बहुः सूप इति वैपुल्यवाचिनो बहुशब्दादेकवचनमेव भवति, न बहुवचनम्।यदि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते, इह वृक्षं पश्येत्यत्र बहुवचनं प्राप्नोति, द्वे ह्यत्र संख्ये - समुदायसंख्या चैकत्वम्, अवयवसंख्या च फलमूलशाखाद्यवयवसमवेता बहुत्वम्। अस्यापि प्रातिपदिकार्थेनैकार्थसमवायलक्षणः सम्बन्धोऽस्त्येव। तथा हि - येष्वयववेषु समवेत। बहुत्वसंख्या प्रातिपदिकार्थोऽपि समुदायस्तत्रैव समवेतः, ततश्च तस्माद्बहुवचनं प्राप्नोतीत्यत आह - `कर्मादयः` इत्यादि। कर्मादयो ह्रेकविभक्तिशब्दवाच्यत्वात् प्रत्यासन्ना बहुत्वसंख्यायाः; ततः प्रत्यासत्तेस्तदीय एव बहुत्वे बहुवचनं भवति। समुदाय एव हि वृक्षं पश्येत्यत्र दृशिक्रियया व्याप्तमिष्टतम इति स एव कर्मभावमापद्यते, नावयवाः, तत्कुतो बहुवचनस्य प्रसङ्ग? `कर्मादिषु` इत्यादि। कर्मादयो बहुवचनस्य वाच्याः। तदीयं बहुत्वं बहुष्वेव कर्मदिषु सम्भवति, अतः सामर्थ्यात् कर्मादिषु बहुष्वित्येषोऽर्थः सम्पद्यते।यदि तर्हि विभक्तीनां बहुवचनस्य बहुत्वसंख्या वाच्यत्वेन विधीयते, तदा निःसंख्येभ्योऽव्ययेभ्यः स्वादयो न स्युः; ततश्च पदसंज्ञा तेषां न स्यादित्याह - `यत्र च` इत्यादि। ननु स्वादिविधानसूत्रे संख्याकर्मादयः स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति वक्ष्यति। तत्कुतः स्वादीनां सामान्यविहितत्वम्? न हि `बहुषु बहुवचनम` [[1.4.21]] , <<कर्मणि द्वितीया>> [[2.3.2]] इत्यादिना शास्त्रान्तरेण स्वौजसादेः सूत्रस्यैकवाक्यतायां स्वादीनां सामान्यविहितत्वमुपपद्यते। एवं तर्हि ज्ञापकेन अव्ययेभ्यः सामान्येन स्वाद्युत्पत्तेज्र्ञापि तत्वात् सामान्यविहिता इत्युक्तमित्यदोषः; किं पुनस्तज्ज्ञापकम्? <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यव्ययादुत्पन्नानां सुपां लृग्ववचम्, न ह्रनुत्पन्नानां लुगुपपद्यते॥", "14022": "`द्व्येकयोः` इति। अयमपि भावप्रधानो निर्देशः; अन्यथा हि बहुत्वाद्बहुवचनं स्यात्। भावप्रधाने तु निर्देशे,द्वित्वमेकत्वञ्च द्वावेतावर्थाविति युक्तं द्विवचम्। `एतदपि` इत्यादिनाऽस्यापि योगस्य विध्यर्थतां दर्शयति। `अर्थाभिधानम्` इति। अर्थो वाच्योऽभिधीयते येन तदर्थाभिधानम्॥", "14023": "`कारक इति विशेषणमपादानादिसंज्ञाविषयम्` इति। अपादानदयः संज्ञा विषयो यस्य तत्तथोक्तम्। आदिशब्देन सम्प्रदानादीनां ग्रहणम्। अथ वक्ष्यमाणानां ध्रुवादीनाभियं संज्ञा कस्मान्न भवति? एवं मन्यते - यदीयं संज्ञाशब्दा निर्दिश्यन्ते; अयं तु सप्तम्या निर्दिष्टः, तस्मान्नेयं ध्रुवादीनां संज्ञेति। `कारके` इति निर्धारणे सप्तमी, निर्धारणं तु बहुनां सम्भवति, तत्कथमेकवचनेन निर्देशः? सामान्यपेक्षया त्वेकवचनम्। अथ वा - `छन्दोवत् सूत्राणि भवन्ति` (म।भा।1.1.1) ततो `व्यतयो बहुलम्` [[3.1.85]] इति बहुवचने प्राप्त एकवचम् कारकेषु मध्ये यद् ध्रुवं कारकं तदपादानसंज्ञं भवति। एवमन्यत्रापि वेदितव्यमिति।कारकशब्दोऽयमस्त्येव व्युत्पन्नः - ण्वुलन्तः कर्तृपय्र्याय इति, अस्ति च संज्ञाशब्दः - अव्युत्पन्नो पय्र्याय इति। तत्रेह यदि पूर्वोक्तस्य ग्रहणं स्यात तदापादानादिषु कारकशब्दो न वर्तते, यथा - कर्तृशब्दः <<ण्वुल्तृचौ>> [[3.1.133]] इति कर्तरि व्युत्पादितः, तथा कारकशब्दोऽपि; कर्ता च स्वतन्त्रः, अपादानादयश्चास्वतन्त्राः, तत्कथं तेषु कारकव्यपदेशः स्यात्? असति हि कारकव्यपदेशे कारकसंशब्देषु तेषां ग्रहणं न स्यात्। अथ तेषामपि कथञ्चित् स्वतन्त्रताभ्युपेयेत, एवञ्च तत्र कर्तृसंज्ञा प्रसज्येत, ततश्च ग्रामादागच्छति, उपाध्यायाय गां ददातीत्यादौ ग्रामादिभ्यस्तृतीया प्रसज्येत, इतरेतराश्रयश्चापि दोषः स्यात्। तथा हि - कर्तृसंज्ञोत्तरकालं कारकशब्दस्य व्युत्पत्तिः, तस्यां सत्यां कारकशब्दोपक्रमेण कर्त्तृसंज्ञा स्यात् बह्वेवं प्रतिविधेयं स्यात्, प्रतिविधाने च प्रतिपत्तिगौरवं स्यात्। निमित्तपर्यायस्य तु कारकशब्दस्य ग्रहणे न दोषः स्यात्, ततः स एव गृह्रत इति मत्वाह - `कारकशब्दोऽयं निमित्तपर्यायः` इति। `ग्रामादागच्छति` इति। ग्रामस्य ध्रुस्यागमनक्रियां प्रति निमित्तभावोऽस्ति। यदीह ग्रामोऽवधिभावेन नावतिष्ठेततत आगमनं न निष्पद्येत,तस्माद्ग्रामः कारकम्।`वृक्षस्य पर्णं पतति` इति। वृक्षः सम्बन्धित्वेनात्र विवक्षितः न तु निमित्तत्वेन। अपायस्य कारकग्रहणान्निमित्तत्वेनाविवक्षितस्यापादानसंज्ञा न भवति। नैतत् कारकग्रहणस्य प्रत्युदाहरणं युक्तम्; ध्रुग्रहणेनैवात्रापादानसंज्ञाया निवर्तितत्वा#आत्, ध्रुवं हि तद्यदवधिभूतमपाये साध्ये। तथा हि वृत्तिकारो वक्ष्यति - `अपाये साध्ये यदवधिभूतम्` (का।1.4.24) इति। न चेह वृक्षोऽवधित्वेन विवक्षितः, किं तर्हि? सम्बन्धत्वेन, नैतदस्ति; विवक्षितावधिभावस्यैव वृक्षस्य सम्बन्धिभावेन विवक्षित्वात्। अवधिभूतस्य वृक्षस्य सम्बन्धिनः पर्ण पततीत्यर्थः। न हि सम्बन्धित्वेन विवक्षाऽवधिभावविक्षाया विरुध्यते। तस्माद्विवक्षितावधिभावस्यैव वृक्ष्सय सम्बन्धित्वमात्रं विवक्षितम्, न तु विद्यमानमप्यपायं प्रति निमित्तत्वमिति काऽत्रायुक्तता !\t`माणवकस्य पितरं पन्थानं पृच्छति`इति। `अकथितञ्च` [[1.4.51]] इत्यकथितस्य कर्मसंज्ञा विधीयमाना `कारके ` [[1.4.81]] इत्येतस्मिन्नसति माणवकस्यापि स्यात्, कथम्? अकथितशब्दोऽयमकीर्त्तित पर्यायः। स च कस्याचिद्विशेषस्याप्रकृतत्वद्विशेषानुपादाने सति प्रयुज्यमानः सर्वत्राविशेषएणाकीर्त्तितमात्रे स्यात्। ततश्च `अकथितम्` इत्युच्यमाने कारकञ्चाकारकञ्च सर्वमकथितमिति सर्वकथितमिति गम्यते। यथा पिताऽपादानादिभिर्विशेषकथाभिर्न कथितः, तथा माणवकोऽपि, अत्स्तस्यापि कर्मसंज्ञा स्यात्। `कारके` इत्यस्मस्तु सति प्रश्नक्रियानिमित्तस्य पितुरेव भवति; न तु माणवकस्य। न ह्रसौ प्रश्नक्रियां प्रति निमित्तभावेन विवक्षितः, किं तर्हि? पितुः सम्बन्धित्वेन। यदि विशेषणमिदं ध्रुवादीनाम्; न संज्ञा, ततश्च <<कारकाद्दत्तश्रुतयोरेवाशिषि>> [[6.2.148]] इत्येवमादिषु प्रदेशेषु यत्र कारकशब्दः संशब्द्यते तदा तत्रापादानादीनां कारकग्रहणेन ग्रहणं न स्यात्। संज्ञापक्षे तु न दोषः, संज्ञा ह्रावर्तमाना संज्ञिनं प्रत्यायतीत्यत आह - कारकसंशब्दनेषु`इत्यादि। यत्र कारकशब्दस्य संशब्दनं तत्राप्यनेनैव विशेषणेन विवक्षितार्थप्रत्यायनलक्षणो व्यवहारोऽयं विज्ञायते; प्रदेशान्तरेऽपि कारकशब्दस्य निमित्तपर्यायस्यैवोपादानात्। तच्च् निमित्तमपादाननाद्येव, न हि ततोऽन्यत्क्रियानिमित्तं भवति। तस्मात् कारकग्रहमेनापादानादीनां ग्रहणं भवति।अन्ये त्वाहुः - साहचर्यात् कारकविशेषणसहचरिता अपादानादयः कारकशब्देनोच्यन्त इति तद्ग्रहणेनैव तेषां ग्रहणम्। कारकग्रहमं वा स्वरयितव्यम्। तेन <<स्वरितेनाधिकारः>> [[1.3.11]] इत्येष विधिर्भवति। तस्मात् कारकग्रहणेनापादानादीनां ग्रहणं भविष्यति।", "14024": "अपायः = विश्लेषःक; विभाग इत्यर्थः। तस्य द्विष्ठत्वाद्याथा तेन विभागेन योऽपैति सोऽपाययुक्तः, तथा यतोऽपैति सोऽप्यपाययुक्तः; तस्मादुभयत्र पञ्चम्या भवितव्यमित्यत एवाह - `ध्रुवं यदापायमुक्तम्` इति। `अपाये साध्ये` इति। विषयसप्तमीयम्। अपायस्य साध्यत्वेन विषयभूत इत्यर्थः। यद्यपि ध्रुवशब्दो लोक एकरूपतामाचष्टे - ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति; तथाप्ययाये साध्येऽभिहितया तया न कश्चिदर्थः सम्पद्यत इति नात्र ध्रुवताऽपायं प्रत्युपयुज्यते? सैवोपदीयते, सा चावधिभाव एव। तस्यादपायस्य सन्निधौ ध्रुवशब्दः सम्बन्धात् सश्लेषलक्षणात् प्रच्यवमानस्यावधिभावमाचष्टे, इत्यत आह - `अवधिभूतम्` इति। अत एवापाये साध्येऽवधिभूतं यत्तदिह ध्रुवशब्देनोच्यते। तेन धावतोऽआआत् पतित इत्येवमादावप्यपादानसंज्ञा अआआदेः सिद्धा भवति। असति ह्यत्रापि सत्यपि चलत्वेऽआआदेरप्यपायेऽवधिभावः।अथेह कथमपादानसंज्ञा - अधर्याज्जुगुप्सते, अधर्माद्विरमति, धर्मात्प्रमाद्यतीति, न ह्यत्रापायोऽस्ति? कथम्? कार्यसम्प्राप्तिपूर्वको ह्रपायो भवति, न चेह कार्यसम्प्राप्तिरस्तीति आह - `जुगुप्सा` इत्यादि। जुगुप्साद्यर्थानां धातूनां प्रयोगेऽपादानासंज्ञाया उपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - `अपादानम्िति महती संज्ञा क्रियते, महाविषयेयं संज्ञेति सूचनार्थम्। एवञ्च महाविषया भवतीयम् - यदि सूत्रोपात्तात् संज्ञिनोऽन्योऽप्यस्या विषयो भवति, नान्यथा; तेन दजुगुप्सादीनां प्रयोगेऽसत्यपायेऽपादानसंज्ञा भविष्यतीति। अथ वा - अस्त्येवाऽत्रापायः, न हि कार्यसम्प्राप्तिपूर्वक एवापायो भवतीति, किं तर्हि? चित्तसम्प्राप्तिपूर्वकोऽपि भवति। इह तावदधर्माज्जुगुप्सते, अधर्माद्विरमतीति, य एव मनुष्यः प्रेक्षापूर्वकारी भवति स एवं पश्यति - दुःख हेतुरयमधर्मो नाम, अतो नार्हत्येनं सचेताः कर्त्तुमिति; एवं पश्यति - `नास्माद्धर्मात् किञ्चिदिष्टं सम्पद्यते, दुःखमेव केवलं तदारम्भ निमित्तकं भवति` स एवं विचारयंस्तं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवर्तते। तथा च ध्रुवमपायेऽपादानमित्येवं स#इद्धम्। `प्रमाद्यति` इति। `मदी हेर्षे` (धातुपाठः-1208), <<शमामष्टानां दीर्घः श्यनि>> [[7.3.74]] इति दीर्घः। अथेह कथमपादानसंज्ञा - ग्रामान्नागच्छतीति? कथञ्च न स्यात्? ग्रामस्यापायेनायुक्तत्वात्। यस्यां सत्यामपायो भवति, सा प्रतिषिद्ध्यते चापादनसाधनागमनक्रिया, तदसत्यां तस्यां कुतोऽपायः? नैष दोषः अत्र ह्रपादानसंज्ञायां समुपजातायां पश्चात्प्रतिषेधेन सम्बन्धः क्रियते,अन्यथा हि प्रतिषेधस्य विषयो न दर्शितः स्यात्। तथा ह्रपादानसाधनागमनक्रिया प्रतिषेद्धुमिष्टा।तत्र यदि चादावेव निषेधः स्यात्, अपायाभावात् तदसम्बद्धस्य ग्रामस्यापादानसंज्ञा सिद्धा न स्यात्। ततश्च या प्रतिषेध्यापादानसाधनागमनक्रिया प्रतिषेधस्य विषयभूता; सा न शक्यते प्रदर्शकयितुम्; न चात्राप्रदर्शितकविषयेत प्रतिषेधः शक्यते वक्तुम्। तस्मात् पूर्वमपादानसंज्ञा भवति, पश्चात्प्रतिषेधेन योग इत्येष क्रमः।", "14025": "भीतिर्भीः; त्राणं त्राः; सम्पदादित्वात्? क्विप्। भीश्च त्राश्च भीत्रौ। भीत्रादर्थौ येषां ते भीत्रार्थाः। `बिभेत्यर्थानाम्` इत्यादि। बिभेतित्रायतिशब्दाविह साहचर्याद्बिभेतित्रायत्यर्थयोर्वर्तेते। बिभेतिरर्थो येषां ते बिभेत्यर्थाः। त्रायतिरर्थो येषां ते त्रायत्यर्थाः। `बिभेति` इति। `ञिभी भये` (धातुपाठः-1084), जौहोत्यादिकः। `उद्विजते` इति। `ओविजी भयचलनयोः` (धातुपाठः-1460) तौदादिकोऽनुदात्तेत्। `त्रायते` #इति। `त्रैङ पालने` (धातुपाठः-965) भौवादिकः।`अरण्ये बिभेति` इति। नात्रारण्याद्भयम्, किं तर्हि? तत्रस्थेभ्यश्चौरादिभ्यः। ननु चात्राधिकरणसंज्ञा परत्वात् बाधिका भविष्यति।अपि च - ध्रुवमित्यनुवर्तते, `ध्रुवञ्चावधिभूतम्` इत्युक्तम्। न चारण्यमवधिबावेन विवक्षितम्, तत्किमेतन्निवृत्त्यर्थेन भयहेतुग्रहणेन? एवं तर्हि पूर्वस्यायं प्रपञ्चः। न हि कायसम्प्राप्तिपूर्वक एवापायो भवति, किं तर्हि? बुद्धिसम्प्राप्तिपूर्वकोऽपि। अस्ति चेह बुद्धिकसंप्राप्तिपूर्वकोऽप्ययायः, तथा हि - चौरेभ्यो बिभेतीत्यत्र यस्तावत् पुरुषः प्रेक्षावान् भवति स एवं पश्यति - `यदि मां चौराः पश्येयुध्र्रुवं मे मृत्युः` इति विचारयंस्तान् बुद्ध्या प्राप्नोति, प्राप्य चततो निवर्तते। तत्र ध्रुवमित्यादिनैव सिद्धम्। तस्मात् पूर्वस्यायं प्रपञ्चः। न च प्रपञ्चे गुरुलाघवं चिन्त्यते। एवमुत्तरेऽपि योगाः पूर्वस्यैव प्रपञ्चा वेदितव्याः; तदुदाहरणानां `अध्ययनात् पराजयते` इत्येवमादीनां पूर्वेणैव सिद्धत्वात्। यथा च तेषां सिद्धत्वं तथा भाष्ये एव प्रतिपादितम्। तस्मात् तत्रापि गुरुलाघवं न चिन्तनीयम्॥", "14026": "`सोढुं न शक्यते` इति। अनुभवितुं न शक्यत इत्यर्थः। `अध्ययनात् पराजयते` इत्यध्ययनमभिभवितुं न शक्नोति, न पारयतीत्यर्थः। <<विपराभ्यां जेः>> [[1.3.19]] इत्यात्मनेपदम्। `शत्रून् पराजयते` इति। अभिभवतीत्यर्थः। ननु च परत्वात् कर्मसंज्ञयैवात्र बाधितत्वादपादानसंज्ञा न भविष्यति, तत् किमेतन्निवृत्त्यर्थेनासोढग्रहणेन? सत्यमेतत्; प्रपञ्चे गुरुलाघवं न हि चिन्त्यते, प्रपञ्चश्चायम्। अस्ति ह्यत्राध्ययनाद् बुद्धिसंसर्ग पूर्वकोऽपायः। तथा हि - यएव पुरुषोऽलसो भवति, स एवं मन्यते - दुःखायैवैतदध्ययनमिति, पश्यन् बुद्ध्या तत्प्राप्नोति, प्राप्य च ततो निवर्तते; तस्मात् पूर्वेणैव सिद्धम्॥", "14027": "वारणमर्थो येषां ते वारणार्थाः। `यवेभ्यो गा वारयति` इति। `गाः` इति गवामीप्सिततमत्वेन विवक्षितत्वात्कर्मसंज्ञा, गोशब्दाच्छस, <<औतोऽम्शसोः>> [[6.1.93]] इत्यात्त्वम्, रुत्वे कृते `भोभगोअधोअपूर्वस्य` [[8.3.17]] इति यत्वम्, <<हलि सर्वेषाम्>> [[8.3.22]] इति यलोपः। `वारयति` इति। `वृञ् आवरणे` (धातुपाठः-1813), चुरादिणिच्। `निवर्तयति` इति। `वृतु वर्तने` (धातुपाठः- 758), हेतुमण्णिच्। `यवेभ्यो गा वारयति क्षेत्रे` इति। अत्र क्षेत्रस्यानीप्सितस्य न भवति संज्ञा; ईप्सितग्रहणम्। ननु चात्र परत्वादरधिकरणसंज्ञयैव बाधितत्वादपादानसंज्ञायाः, क्षेत्रस्यापादानसंज्ञा न भविष्यतीत्यतो न कर्तव्यमीप्सितग्रहणमिति, एतन्नाशङ्कनीयम्; उक्तोत्तरत्वात्॥", "14028": "अन्तर्द्धौ इति निमित्तसप्तमीयम्। निमित्तात् कर्मयोगे (वा-138) इति सप्तमी, यथा - चर्मणि द्वीपिनं हन्तीति। एतदेव ज्ञापकम् - निमित्तात् कर्मसंयोगेऽस्ति सप्तमीति। अस्ति ह्यत्रादर्शनेन कर्मणा संयोगः । येन इति। कर्तरि तृतीया। ननु च <<कर्त्तृकर्मणोः कृति>> [[2.3.65]] इति षष्ठ्या भवितव्यमिति? नैतदस्ति; <<उभयप्राप्तौ कर्मणि>> [[2.3.66]] इति नियमात् कर्मण्येव, न कर्तरि। कर्म त्वत्रादर्शनस्यात्मा, तस्यान्तरङत्वात् स एव कर्म विज्ञायते। तत् कारकम् इति। यद्यप्यत्र सूत्रे तच्छब्दो नोपात्तः, तथापि स यत्तदोर्नित्याभिसम्बन्धाल्लभ्यते। उपाध्यायादन्तर्धत्ते इत्यत्रोपाध्यायेन कर्ता शिष्य आत्मनः कर्मभूतस्यादर्शनमिच्छति। अन्तर्द्धिनिमित्तम्। अन्तर्धत्ते इति दधातेर्लट्,<<स्वरितञितः>> [[1.3.72]] इत्यात्मनेपदम्, शपः श्लुः, <<श्लौ>> [[6.1.10]] इति द्विर्वचनम्, <<श्नाभ्यसत्योरातः>> [[6.4.112]] इत्याकारलोपः, अभ्यासस्य जश्त्वम्, <<दधस्तथोश्च>> [[8.2.38]] इति दकारस्य धकारः, परस्य धकारस्य <<खरि च>> [[8.4.54]] इति चर्त्वम् तकारः। निलीयते इति। लीङ श्लेषणे (धातुपाठः-1139) दैवादिकः। चौरान्न दिदृक्षते इति। अत्र यश्चौरान् न दिदृशत इति स तैरात्मनोऽदर्शनमिच्छति, न त्वन्तर्द्धिनिमित्तम्; किन्तूपघातनिवृत्त्यर्थम्। विस्पष्टार्थञ्चान्तर्द्धिग्रहणम् । परत्वात् कर्मसंज्ञयैव बाधितत्वाच्चौराणामिहापादानसंज्ञा न भविष्यति। प्रपञ्चार्थोऽयं योगः, न च प्रपञ्चे गुरुलाघवं चिन्त्यत इत्युक्तम्। उपाध्यायादन्तर्धत्ते शिष्य इति शिष्यस्यान्तर्द्धातुर्मा भूत्, नैतदस्ति; ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभूतमित्युक्तम्; न चान्तर्द्धातावधिभूतः। एवं तर्ह्यसति येनेत्येतस्मिन् वचने, सत्यामपि ध्रुवमित्यस्यानुवृत्तौ सूत्रस्यावाचकत्वं स्यात् । अतस्तन्माभूदिति येनेत्युक्तम् ॥", "14029": "`नियमपूर्वकं विद्याग्रहणम्` इति। विद्याग्रहणार्थं शिष्यप्रवृत्तिः = नियमः। स पूर्वो यस्य तत् तथोक्तम्। <<शेषाद्विभाषा>> [[5.4.154]] इति कप्। `नटस्य गाथां शृणोति` इति। सम्बन्धलक्षणा षष्ठी। नियमपूर्वकमिह विद्याग्रहणं नास्ति॥", "14030": "जनिशब्दोऽत्र साहचर्याज्जन्यर्थे वर्तते। अत एवाह - `जन्यर्थस्य` इति। `जन्मनः` इति। एतेन जन्यर्थं दर्शयति। तथा हि - `जनी प्रादुर्भावे` (धातुपाठः-1149) इति पठ्यते। प्रादुर्भावो जन्म एव। कः पुनस्तस्य कर्तेत्यत आह - `जायमानः` इति। <<ज्ञाजनोर्जा>> [[7.3.79]] इति जादेशः। अथ प्रकृतिग्रहणं किमर्थम्? यावता ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभुतमित्युक्तम्। जनिकर्त्तृश्चावधिः कारणमेव भवति; तत्रान्तरेणापि प्रकृतिग्रहणं प्रकृतेरेव भविष्यति, नैतदस्ति; पुत्रात् प्रमादो जायत इत्यादौ पुत्रादेरप्यपादानासंज्ञा यथा स्यादित्येवमर्थं प्रकृतिग्रहणम्। द्विविधं हि कारणम् - उपादानकारणम्, सहकारिकारणञ्च। तत्र यत् कार्येणाभिन्नदेशं तदुपादानकारणम्, यथा- घटस्य मृत्पिण्डः। सहकारिकारणं यत् कार्येण भिन्नदेशम्, यथा - तस्यैव दण्डचक्रादि। तत्रासति प्रकृतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव स्यात्, नेतरस्य। प्रकृतिग्रहणे तु सति सर्वस्यैव कारणमात्रस्य भवति॥", "14031": "`भवनं भूः`इति। सम्पदादित्वात् क्विप्। प्रभव्तयस्मीदित प्रभव इत्यपादाने `ऋदोरप्` [[3.3.57]] इत्यप्। ननु च `हिमवतो गङ्गा प्रभवति` इत्येतत् पूर्वेणैव सिद्धम्। तथा ह्रयमत्रार्थः - हिमवतो गङ्गा जायत इति, तत्किमर्थमिदमारभ्यत इत्याह - `प्रथमत उपलभ्यते` इति। एष चार्थोऽनेकार्थत्वाद्धातूनां वेदितव्यः। जन्यर्थस्त्वत्र न सम्भवत्येव, न हि हिमवान् गङ्गायाः कारणम्, सा ह्रन्येभ्य एव कारणेभ्य उत्पन्ना। हिमवति तु केवलं प्रथमत उपलभ्यत इति॥", "14032": "`कर्मणा करणभूतेन` इति। ननु च कथं कर्म करणं भवति? क्रियाभेदसम्बन्धात्। तथा हि ददातिक्रिययाऽस्तुमिष्टतमत्वात् तस्याः कर्मत्वम्, अभिप्रयाणक्रियां प्रति तस्य साधकतमत्वात् करणत्वम्। `अभिप्रैति` इति। अभिसम्बध्नातीत्यर्थः। यदि कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञो भवति, एवमजां नयति ग्राममित्यजादिभिर्नयनक्रियाकर्मभिः सम्बध्यमानस्य ग्रामस्य सम्प्रदानसंज्ञा प्रसज्येतेत्यत आह - `अन्यर्थसंज्ञाविज्ञानात्` इत्यादि। सम्प्रदानमिति। तेन ददातेः कर्मणा यमभिप्रैति तत् सम्प्रदानमिति विज्ञायते। नन्वेवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठं ददातीत्यतत्र प्राप्नोति, नैतदस्ति; दानं हि नाम पूजानुग्रहकाम्यया स्वकीयद्रव्यपरित्यागः परस्वत्वापत्तिः, तच्चेह नास्ति, अतो न भविष्यति। कर्मणेति किमर्थम्? ` यमभिप्रैति स सम्प्रदानम्` इत्युच्यमाने यमभिप्रैति तस्य कर्मण एव सम्प्रदानसंज्ञा स्यात्। कर्मसंज्ञायास्तु ददातिकर्मणोऽन्यत्रावकाशः स्यात् - ओदनं पचतीति। `यं स` ग्रहणं किमर्थम्? `कर्मणाभिप्रैति सम्प्रदानम्` इत्युच्यमाने कोऽभिप्रैति तस्य सम्प्रदानसंज्ञा स्यात्। ततश्च कर्तुः सम्प्रदानसंज्ञा स्यात्, कर्तृसंज्ञायास्तु यत्र कर्मसम्बन्धो नास्ति, सोऽवकाशः स्यात् - आस्ते, शेते इति। अथाभिप्रग्रहण किमर्थम्? `कर्मणा यमेति स सम्प्रदनाम्` इत्युच्यमाने कालविशेषविवक्षा स्यात्, वर्तमान एव स्यात्। ततश्चोपाध्यायस्य गामदात्, उपाध्यायायं गां दास्तीत्यत्र न स्यात्, अभिग्रहणे तु सति भवति। अभिराभिमुख्ये वर्तते तच्चाप्यतीतेऽप्यस्ति। प्रशब्द आदिकर्मणि, प्रारम्भे। स चासन्निहितायां भाविन्यामपि क्रियायां सम्भवतीति सर्वत्र संज्ञा सिद्धा भवति। नैतदभिप्रग्रहस्य प्रयोजनमुपपद्यते। यथैव कर्मणेत्यत्रैकत्वसंख्याया विवक्षा न भवति; यथा च `यं` `सः` इत्यत्र लिङ्गसंख्योर्विवक्षा न भवति तथा कालस्यापि न भविष्यति। किं कारणम्? उपलक्षणार्थत्वात्। यथा - `सोऽर्थो योऽनर्थं बाधते` इत्युक्ते योऽपि बाधितवान्, योऽपि बाधिष्यते सोऽप्यर्थ एव। एवं तर्हि ग्रन्थाधिक्यादर्थाधिक्यं यथा स्यादित्यवमर्थमभिप्रग्रहणम्। एतेन क्रिययापि यमभिप्रैति तस्यापि सम्प्रदानसंज्ञा सिद्धा भवति; अन्यथा हि यद्यपि क्रिया प्रार्थनाध्यवसानाभ्यां व्याप्तुमिष्टतमत्वात् कर्म, तथापि ददातिकर्मसम्बन्धाभावान्न सिद्ध्येत्। कथं पुनरेतदवसितम् - क्रियया यमभिप्रैतिस सम्प्रदावमित्ययमर्थोऽत्र प्रतिपादयितुमिष्टतम् इति? अभिप्रग्रहणात्। अस्ति ह्यत्राचार्यस्य कश्चिदर्थोऽधिकोऽभिमतः, यस्यावभासनायाधिकं शब्दान्तरं प्रयुक्तमिति गम्यते, न त्वर्थविशेषः। न हि तत् तस्य वाचकम्। यद्यप्यवाचकं स्यात्, तथापि लक्ष्यदर्शनवशादविच्छिन्नाचार्यपारम्पर्योपदेशाच्च विशेषावगतिर्भविष्यतीत्यद्वेष्यमेतत्। `क्रियाग्रहणमपि कर्तव्यम्` इति। क्रियया ग्रहणं क्रियाग्रहणम्। येन क्रिया गृह्रते, तद्वयाख्यानं कर्तव्यम्। किं पुनस्तद्व्याख्यानम्? तच्चास्माभिरभिग्रहण्सय प्रयोजनं वर्णयद्भिः कृतमेव। का पुनरिह क्रिया, ययाभिप्रेयमाणस्य सम्प्रदानसंज्ञेष्यते? सा विवक्षिता। अत आह - `क्रिययापि यमभिप्रैति` इत्यादि। `निगल्हते` इति। `गर्ह गल्ह कुत्सायाम्` (धातुपाठः-६३६,६३७) अनुदात्तेत्। `युद्धाय सन्नह्यते` इति। `नह बन्धने` (धातुपाठः-११६६) दिवादौ स्वरितेत्। स चेह निश्चये वर्तते, युद्धे निश्चयं करोतीत्यर्थः। `पत्ये शेते` इति। शीङत्रोपसर्पणपूर्वके शयन वर्तते। पतिमुपसृत्य शेते इत्यर्थः। `कर्मणः करणसंज्ञा` इत्यादि। एतत् `पशुना रुद्रं यजते` इत्येतद्विषयमेव वेदितव्यम्। यजिः स्वरितेत्। एतच्च व्यत्ययो बहुलम् ३.१.८५ इति सुब्व्यत्ययेन सिद्धमेवेति न वक्तव्यम्॥", "14033": "`रुचिना समानार्था रुच्यर्थाः` इति। रुच्यर्थानामित्यस्मादेव निपातनात - मयूरव्यंसकादित्वान्मध्यमपदलोपो समासः। `समानार्थाः` इति। एकार्था इत्यर्थः। यद्यपि `रुचिर्दीप्तौ` (धातुपाठः-745) पठते, तथापीहाभिलाषे वर्तते, अनेकार्थत्वाद्धातूनाम्; तत्रैव प्रीयमाणार्थस्य सम्भवात्। यस्य ह्यभिलाषः स प्रीयमाणः। यस्त्वभिलषति स प्रीणाति। `प्रीयमाणः` इति। तृप्यमाण इत्यर्थः। `प्रीञ् तर्पणे` (धातुपाठः- 1474) इत्येतस्मात् कर्मणि विहितस्य लस्य शानच्। `अन्यकर्त्तृकः` इत्यादिना तमभिलाषविशेषं दर्शयन् रुचिशब्दस्यार्थमाचष्टे। प्रीयमाणापेक्षयाऽन्योर्थो वेदितव्यः। प्रीयमाणादन्यः कर्ता यस्य सोऽन्यकर्त्तुकः। `रोचते स्वदते` इति। `रुच दीप्तौ`(धातुपाठः-745) `स्वद आस्वादने` (धातुपाठः-18) अनुदात्तेत्तौ। `देवदत्तस्थस्य` इत्यादिनाऽन्यकर्त्तृकतामभिलाषस्य दर्शयति।`देवदत्ताय रोचते मोदकः पथि` इति। प्रीयमाणग्रहादिहाधिकरणस्य पथः सम्प्रदानसंज्ञा न भवति। अथ देवदत्तो मोदकमभिलषतीत्यत्र देवदत्तस्य सम्प्रदानसंज्ञा कस्मान्न भवति? रुच्यर्थाभावात् `अन्यकर्त्तृको ह्यभिलाषो रुचिः, (का। 1.4.33) इत्युक्तम्। न चेहान्यकर्त्तृकोऽभिलाषः, किं तर्हि? प्रीयमाणो देवदत्तो यस्तत्रस्थोऽभिलाषस्तत्कर्त्तृकः॥", "14034": "`ज्ञीप्स्यमानः` इति। `मारणतोषणनिशामनेषु ज्ञा` (धातुपाठः-811) इति घटादिषु पठते। तस्मात् निशामने ज्ञाने वर्तमानात् हेतुमण्णिच्। अथ वा `ज्ञप मिच्च` (धातुपाठः-1624) इति चुरादौ पठते। तस्माच्चुरादिणिच्, मित्त्वात् ह्रस्वत्वम्, सन्, द्विर्वचनम्, `आप्ज्ञप्यृधामीत्` [[7.4.55]] इतीत्वम्, `अत्र लोपऽभ्यासस्य` [[7.4.58]] इत्यभ्यासलोपः, कर्मणि लकारः, शानच् यक्, <<अतो लोपः>> [[6.4.48]] । `श्लाघते` इति। `श्लाघु कत्थने` (धातुपाठः-115) अनुदात्तेत्। `{ह्नुते- काशिका, `निह्नुते-पदमञ्जरी।} अपह्नते` इति। `ह्नुङ अपनयने` (धातुपाठः-1082), आदादिकः। `तिष्ठते` इति। <<प्रकाशनस्थेयाख्ययोश्च>> [[1.3.23]] इति तङ। `शपते` इति। `{शप आक्रोशे- धातुपाठः-} शप उपलम्भने` (धातुपाठः-1000) इत्यनेनोपलसंख्यानन तङ॥", "14035": "`उत्तमर्णः` इति। ऋणे उत्तमुत्तमर्णः। अत एव निपातनात् समासः, सप्तमीसमासे ऋणस्य पूर्वनिपातात्। ननु चोत्तमर्णे ऋणशब्देन न भवितव्यम्। `ऋणमाधमण्र्ये ` [[8.2.60]] इत्याधमण्र्ये तस्य निपातनात्, नैतदस्ति; कालान्तरे देयनियमोपलक्षणार्थं हि तत्राधमण्र्यग्रहणम्। अत उत्तमर्णोऽपि भवत्येव। `शतं धारयति` इति। `धृङ अवस्थाने` (धातुपाठः-1412), शतं ध्रियते स्वरूपेणावतिष्ठते, स्वभावान्न प्रच्यवते। तदन्यः प्रयुङ्क्त इति <<हेतुमति च>> [[3.1.26]] इति णिच्। `ग्रामे` इति ग्रामस्याधिकरणस्यानुत्तमर्णस्य न भवति॥", "14036": "`स्पृहयति` इति। अतो लोपस्य [[6.4.48]] <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावाद्गुणो न भवति। यदा तु पुष्पादीनामीप्सिततमत्वं विवक्ष्यते, तदा परत्वात् कर्मसंज्ञैव भवति - पुष्पाणि स्पृह्रतीति॥", "14037": "क्रुधद्रुहावकर्मकौ, तत्र षष्ठ्यां प्राप्तायामयमारम्भः ; इतरौ सकर्मकौ, तत्र द्वितीयायां प्राप्तायाम् । कथं पुनरेषां भिन्नार्थत्वे सति 'यं प्रति कोपः' इति सामान्येन तद्विशेषणमुपपद्यत इत्याह - क्रोधस्तावत् इत्यादि। सुगमम् । क्रुद्ध्यति, द्रुह्रति इति। क्रुध कोपे(धातुपाठः-1189), द्रुह जिघांसायाम् (धातुपाठः-1197) दैवादकौ। ईर्ष्यति इति। ईर्क्ष सूर्क्ष ईर्ष्य ईर्ष्यार्थाः । असूयति इति। असूयशब्दः कण्ड्वादियगन्तः। भार्यामीर्ष्यति इति । अस्ति भार्यायामीर्ष्या, न तु तां प्रति कोपः। केवलं परैर्दृश्यमानां तां न क्षमते। अथास्मिन् द्वेष्टीत्यत्र कथं न भवति सम्प्रदानसंज्ञा? द्विषेरक्रोधाद्ययर्थत्वात्। अप्रीतौ ह्येनं स्मरन्ति; तथा चाचेतनेष्वपि प्रयुज्यते - औषधं द्वेष्टीति। नाभिनन्दतीति गम्यते ॥", "14038": "", "14039": "`राध्यति` इति। `राध साध संसिद्धौ` (धातुपाठः-1262,1263),दैवादिकः। `दैवम्` इति शुभाशुभं कर्म। यस्येति ग्रहणं विस्पष्टार्थम्। तथा हि - `यं प्रति` इत्यनुवर्तते, तत्र यं विप्रश्न इत्येवमभिसम्बन्धे क्रियमाणे यस्येत्यस्यार्थोऽप्रयुज्यमानस्यापि गम्यत एव।", "14040": "`परेण` इत्यादि। अन्येन केनचिदिदं मे क्रियतामिति प्रयुक्तो व्यापारितः सन् प्रतिजानीते। अतः प्रतिज्ञातुरन्येन प्रयुक्त्सयाभ्युपगमो भवति। प्रयोक्तेति व्यापारयिता। सूत्रे पूर्वस्येत्यर्थापेक्षया पुंल्लिङ्गेन निर्देशः।स त्वर्थो विचार्यमाणः क्रियैव भवति। यस्मात् कर्तेति क्रियाया एव भवति नान्यस्यार्थस्येत्याह - `पूर्वस्याः क्रियायाः` इति। यश्चासौ पूर्वस्याः क्रियायाः कर्ता भवति, स प्रतिज्ञातुः प्रयोजको भवतीति हेतुसंज्ञायां प्राप्तायामिदं वचनम्। `देवदत्ताय गां प्रतिशृणोति` इति। अत्र पूर्वस्या यानचक्रियाया देवदत्तः कर्ता। देवदत्तेन हि मह्रं गां देहीति याचित स यदा ददामीति प्रतिजानीते, तदैवं प्रयुज्यते - देवदत्ताय गां प्रतिशृणोतीति। पूर्वस्य कर्तेति किम्? विना तेन गवादेरभ्युपयेमानस्य कर्मण एव स्यात्। ननु च परत्वात् कर्मसंज्ञा तस्य बाधिका भविष्यति, नैतदस्ति; नाप्राप्ते हि संज्ञान्तर इदमारभ्यत इति। इहापि च देवदत्ताय गामाशृणोतीति देवदत्तस्य हेतुसंज्ञा प्राप्नोति। तत्र पूर्वस्य कर्तेत्यस्मिन्नसति यथा देवदत्तस्य हेतुसंज्ञां बाधते, तदा कर्मसंज्ञामपि बाधेत। अथ वा - `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।9) इति कर्मसंज्ञामेव बाधेत। पूर्वस्य कर्तेत्यस्मस्तु सति हेतुसंज्ञामेव बाधते, न कर्मसंज्ञाम्॥", "14041": "`अनुप्रतिगृणः` इति श्नाप्रत्ययेन निर्देशात् क्र्यादिपठितस्य `गृ? शब्दे` (धातुपाठः-1498) इत्यस्य, न `गृ? निगरणे` (धातुपाठः-1410) इत्यस्य तौदादिकस्य। `होता प्रथमं शंसति`इति। एतेन स्तुतिक्रियायाः पूर्वस्या होता कर्तेति दर्शयति। प्रोत्साहयतीत्यनेनागृणातिप्रतिगृणातिशब्दयोरर्थमाचष्टे। कथं पुनज्र्ञायते - अनुपूर्वः प्रतिपूर्वश्च शंसितुर्गृणातिः प्रोत्साहने वर्तत इत्याह - `अनुगरः प्रतिगरः` इति। अनुगीर्यते = होता प्रथमं प्रशस्यते येन शब्देन सोऽयमनुगरः। एवं प्रतिगीर्यते येन स प्रतिगरः। पूर्वसय् कर्तेत्येव, होत्रेऽनुगृणातिक सदसीत्यधिकरणस्य मा भूत्॥", "14042": "ननु च सामग्र्यधीना हि क्रियासिद्धरेकस्याप्यभावेन न भवति। तत् कस्यात्र प्रकर्षो यत्परिग्रहाय साधकतमशब्दस्य ग्रहममित यश्चोदयेत्, तं प्रत्याह - `क्रियासिद्धौ` इत्यादि। प्रकृष्टम् = अत्यन्तमुपकारकम्। अथ वा - प्रकर्षः प्रकृष्टम् `नुपंसके भावे क्तः` [[3.3.114]] । प्रकृष्टेन प्रकर्षेणोपकारकं प्रकृष्टोपकारकं यत् क्रियायसिद्धिविषये प्रकर्षेणोपकारकं विवक्षितं तत् साधकतमम्। विवक्षितग्रहणं यदा प्रकृष्टोपकारकत्वेन विवक्ष्यते, तदा साधकतमव्यवहारो विज्ञायते, नान्येदित ज्ञापनार्थम्। तथाहि - विवक्षावशाद् यदेव कदाचित् करणम्भवति - धनुषा विध्यतीति, तदेव कदाचित् स्वातन्त्र्यविवक्षायां कर्त्तृत्वमनुभवति - टधनुर्विध्यतीति। `लुनाति` इति। `प्वादीनां ह्रस्वः` [[7.3.80]] ।`तमब्ग्रहणं किम्? गङ्गायां घोषः` इति। यदि तमब्ग्रहणं न क्रियेत, ततोऽत्राधिकरणसंज्ञा न स्यात्। इह हि द्विवध आधारः- गौणः,मुख्यश्च। तत्र मुख्यो य आधेयेन व्याप्यते, यथा - तिलेषु तैलमस्ति;अत्र तैलेनाधेयेनाधारभूतास्तिला व्याप्ताः। अव्याप्तो गौणो यथा - गङ्गायां घोष इति। अत्र हि सामीप्याद् गङ्गायां आधारत्वमुपचरितम्, न मुख्यम्; व्याप्त्यभावात्। तत्रासति तमब्ग्रहणे `गौणमुख्ययोर्मुख्ये कार्यसंम्प्रत्ययः` (व्या।प।4) इति मुख्यस्यैवाधिकरणसंज्ञा स्यात्, नेतरस्य; तमब्ग्रहणात् तस्यापि भवति; तथपीह तमब्ग्रहणं न कर्तव्यम्,कथम्? विनापि तेन प्रकर्षावगतेः। यथैव ह्रनभिरूपाय कन्यादानस्य प्रवृत्तिर्नास्तीत्यभिरूपाय कन्या देयेत्युक्ते विनापि प्रकर्षप्रत्ययेनाभिरूपतमायेति गम्यते; तथेहापि कारकाधिकारादसाधके संज्ञायाः प्रवृत्तिर्नस्तीति `साधकं करणम्` इत्युक्तेऽन्तरेणापि तमब्ग्रहणं साधकतममिति गम्यते, तत्क तमब्ग्रहणेन? तदेतत् तमब्ग्रहणं ज्ञापनार्थं कृतम्। एतदनेन ज्ञाप्यते - `इह कारकाधिकारे इतः सूत्रादन्यत्र विना तमब्ग्रहणेन प्रकर्षो नाश्रीयते` इति। तेन <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन `गङ्गायां घोषः` इत्यादावमुख्यस्यापि गङ्गादेराधारस्याधिकरणसंज्ञा सिद्धा भवति॥", "14043": "`दीव्यति` इति। `हलि च` [[8.2.77]] इति दीर्घः॥", "14044": "परिक्रीतिः = परिक्रयणम्। `नियतकालम्` इति। नात्यन्तिकम्। `वेतनादिना` इति। आदिशब्देन बन्धकादीनां ग्रहणम्। `नात्यन्तिकः क्रय एव` इति नियतकालत्वं स्पष्टीकरोति। परिशब्दोऽत्र प्रत्यासतिं द्योतयति। क्रयो हि नामात्यन्तिकः। वेतनादिना केवलं यत्तु नियतकालं तदात्यन्तिकस्य क्रयस्य समीपमिति परिशब्देनाख्यायते॥", "14045": "`आध्रियन्ते क्रियागुणा अस्मिन्नित्याधारः` इति। `अध्यायन्यायोद्यावट [[3.3.122]] इत्यादिनाऽऽधारशब्दोऽधिकरणे घञन्तो व्यत्पादित-। क्रियापेक्षत्वत् कारकस्येति क्रियाग्रहणम्। यद्याध्रियन्ति क्रिया यस्मिन् स आधारः इति, एवं हि सति कर्तृकर्मणोरेवाधिकरणसंज्ञा प्रसज्येत, तयोरेव हि क्रिया आध्रियन्ते। तथा हि- कर्तस्था व #आ क्रिया भवति, कर्मस्था वा, अनवकाशत्वात् कर्त्तृकर्मणोः संज्ञा न भविष्यत्येष दोष प्रसङग् इति, एतच्चानुत्तरम्; सत्यपि ह्रनवकाशत्वे तयोः पर्यायः स्यात्। एकदाधिकरणसंज्ञा भवितव्यं तं दर्शयति। प्रतिराभिमुख्ये। `क्रियां प्रति य आधारः` इति॥ क्रियाया अभिमुखो य आधार इत्यर्थः। यश्च क्रियां धारयति स क्रियाया अभिमुखो भवति। क्रियायास्तु धारणं साक्षात्, व्यवधानेन वा; कर्त्तृकर्मणोः क्रियाश्रययोर्धारणात्। अत्र पूर्वस्य व्यवच्छेदार्थं `कर्त्तृर्मणोः` इत्युक्तम्।तदेतदुक्तं भवति - कर्त्तृकर्मणोः क्रियाधारभूतयोर्धारणात् क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा भवतीति। तदेवं क्रियाधारभूतकर्त्तृकर्मधारणद्वारेण क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा; यतोऽनेन विधीयते ततो न भवति पूर्वस्य दोषप्रसङ्गः। न हि कर्त्तृकर्मणोरनेन प्रकारेण क्रियां प्रत्याधारत्वम्; अपि तु साक्षादेव क्रियाधारणात्। नन्वेवमपि कर्त्तृकर्मणोर्मुख्यं क्रियाधारत्वम्, साक्षादेव क्रियाधारणात्, कर्त्तृकर्माधारस्य तु कटादेर्गौणत्वं क्रियाश्रयभूतकर्त्तृकर्मधारणद्वारेण क्रियाधारणात्। तत्र मुख्य आधारे सति गौणस्याधिकरणसंज्ञा न प्राप्नोतीति स दोषसत्दवस्थ एव? नैतदस्ति; तमब्ग्रहणेन ज्ञापितमेतत् - गौणस्याप्याधारस्याधिकरणसंज्ञा भवतीति। भवतु गौणस्याधिकरणसंज्ञा, मुख्यस्यापि कर्त्तृ कर्मणश्च कस्मान्न भवतीति चेत्, न; परत्वादनवकाशत्वाच्च कर्त्तृकर्मसंज्ञाभ्यां बाध्यमानत्वात्। अधिकरणसंज्ञा हि पूर्वो गौण आधारे सावकाशा, तद्विपरीते तु कर्त्तृकर्मसंज्ञे इति ताभ्यां बाध्यमाना नोत्सहते तयोर्विषयमवगाहितुम्।`कटे आस्ते` इति। कर्त्तृस्था क्रिया यत्र पूर्वेण प्रकारेणाध्रियते तस्योदाहरणम्;; विक्लेदनक्रियायाः कर्मस्थत्वात्। `स्थाल्यां पचति` इति। कर्मस्था क्रिया यत्राध्रियते तस्योदाहरणम्; विक्लेदनक्रियाया कर्मस्थत्वात्।तत्पुनरधिकरणं त्रिप्रकारम् - औपश्लेषिकम्,वैषयिकम्, अभिव्यापकञ्च। तत्राद्ये - कटे आस्ते,स्थाल्यां पचतीति कटादेर्पयाधारस्य ह्राधेयेन सहोपश्लेषः संयोगलक्षणोऽस्तीत्यौपश्लेषिकं तद्भवति। वैषयिकम् - गुरौ वसति, गङ्गायां घोष इति। प्रतिवसतीति विषयो ह्रनन्यत्रभावः, यथा - चक्षुष्वप्रभृतीनां रूपादिभ्योऽनन्यत्रभावाच्चक्षुरादीनां रूपादयो विषया इत्युच्यन्ते, एवं शिष्यादीनां गुर्वादिभ्योऽनन्यत्रभावादेषां ते विषया इति। ननु च <<आधारोऽधिकरणम्>> [[1.4.45]] इत्युक्तम्, आधारश्च को भवति? य आश्रयः; संयोगतः समवायो वा भवति, न च शिष्यादीनां गुरुप्रभृतिभिः सह संयोगः समवायो वाऽस्ति, तदयुक्तं तेषामधिकरणत्वम्? नैतदस्ति; यदायत्ता हि यस्य स्थितिः स विनापि संयोगसमवायाभ्यां तस्याश्रयो भवति, यथा - राजायत्तस्थितित्वात् पुरुषस्य राजेति; न च राज्ञा सह पुरुषस्य संयोगसमवायौ स्त-। तथा हि - तदधीनस्थितित्वात् राजाश्रयः पुरुष इति लोके व्यपदिश्यते, तथा शिष्यादीनां गुर्वाद्यायत्ता स्थितिरिति युक्तस्तान् प्रति गुरुप्रभृतीनामाश्रयभावः। अभिव्यापकं यथा - तिलेषु तैलम्, दघ्नि सर्पिरिति। तिलादिकं तैलदिकमाधेयं व्याप्यावतिष्ठत इति तिलादिकमभिव्यापकमधिकरणम्। यद्यप्यत्र तिलादीनां तैलादिभिः सह संयोगोऽस्ति, तथापि देशविभागाभावादत्र संश्लेषव्यवहारो नास्तीत्यौपश्लेषिकात् तत्पृथगेवोपस्थाप्यते॥", "14046": "`अध्यास्ते` इति। `आस उपवेशने` (धातुपाठः-1021) अदादिः अनुदात्तेत्॥", "14047": "", "14048": "", "14049": "`कर्त्तुः क्रियया` इति। एतेन कर्त्तुरिति नेप्सिततमापेक्षया <<क्तस्य च वर्तमाने>> [[2.3.67]] इत्यनेनेयं षष्ठी, अपि तु क्रियापेक्षया शेषलक्षणैवेति दर्शयति। ननु च नेह क्रियोपात्ता, तत्कथं तदपेक्षया षष्ठी प्रयुज्यते? यद्यपि नोपात्ता, तथापि कर्त्तुः क्रियापेक्षत्वात् कर्त्तृशब्दोऽयं सम्बन्धिशब्द इति कर्त्तृसम्बन्धिनीं क्रियामुपस्थापयतीत्यदोषः। ईप्सितशब्दो ह्रस्ति रूढिशब्दः - ईप्सितोऽभिप्रेत इति, अस्ति च क्रियाशब्दः-आप्तमिष्ट ईप्सित इति ; तत्रह क्रियाशब्दो गृह्रते, नेतरः; न हि रूढिशब्दस्य क्रियया कर्त्तृसाध्यया सम्बन्ध उपपद्यते। `ईप्सित` इति। `आप्लृ व्याप्तौ` (धातुपाठः-1260) सन्, द्विर्वचनम्, `आप्ज्ञप्यृधामीत्` [[7.4.55]] इतीत्त्वम्। <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यभ्यासलोपः। ईप्स इति स्थिते, क्तप्रत्यये कृते, इटि च <<अतो लोपः>> [[6.4.48]] इत्यकारलोपे चेप्सितशब्दः सम्पद्यते। तेनार्थद्वयमिहोपात्तम् - प्रकृत्यर्थः, प्रत्ययार्थश्च। तत्राप्तुमित्यनेन प्रकृत्यर्थं दर्शयति,इष्टतममित्यनेन प्रत्ययार्थम्।`कर्मणः` इत। अआस्य। अत्र बन्धक्रियया आप्तमिष्टतमत्वात् कर्मत्वम्। स हि भक्षणक्रियया माषानाप्तुमिच्छति। `पयसौदनं भङ्क्ते` इति। असति हि तमब्ग्रहणे पयसोऽपि स्यात्। तदपि कर्त्तृर्भुजिक्रियया व्याप्तुमिष्टं भवति। तमब्ग्रहणे तु सति न भवत्यतिप्रसङ्गः; प्राधान्यादौदनस्यैवेप्सिततमत्वात्। प्राधान्यं त्वोदनस्य संस्कार्यत्वात्, पयसस्त्वप्राधान्यं संस्कारकत्वात्। `कर्मेत्यनुवर्तमाने` इति। `अधिशीङस्थासां कर्म` [[1.4.46]] इत्यतः। `पुनः`इत्यादि। पूर्व कर्मग्रहणमाधारेण सम्बद्धम्; अतस्तदनुवृत्तौ तस्यानुवृत्तिः स्यादत आधारनिवृत्त्यर्थं पुनः कर्मग्रहणं क्रियते। यदि पुनराधारोऽनुवर्तते, ततः किं स्यादित्यत्राह - `आधारस्यैव हि स्यात्` इति। `हि` शब्दो यस्मादर्थे। यस्मास्यादित्याह - `गेहम्` इत्यादि। आधारानुवृत्तौ तु यत्र न भवति तद्दर्शनयितुमाह - `ओदनं पचति` इत्यादि। आदिशब्देनौदनं भङ्क्तं इत्येवमादेग्र्रहणम्। अथ नदी कूलं कर्षतीत्यादौ कथं कर्मसंज्ञा? कथञ्च न स्यात्? नद्यादेरचेतनत्वात्, अचेतनानामीप्साया असम्भवात्, नैतदस्ति; अत्र नदीति पदान्तरसम्बन्दादीप्साया अभावोऽचेतनस्यापि भावः प्रतीयते। न च पदसंस्कारे पदानतरसम्बन्धगम्योऽर्थ उपयुज्यते, तेन कूलं कर्षतीत्यादाविच्छामात्रमाश्रिता व्याप्तिः, कर्म च संस्क्रियते। यद्यपि पश्चान्नद्या सह सम्बन्धादचेतनत्वमिच्छाया अभावश्च प्रतीयते, तथापि च तद्बहिरङ्गत्वादन्तरङ्गसंज्ञाकार्य न शक्नोति निवर्तयितुम्। अनेनैव न्यायेन यत्र व्याप्तिर्नास्ति,इच्छामात्रं च केवलम्, तत्रापि कर्मसंज्ञा भवति, यथा- ग्रामं गनतुमिच्छामि न च मे गमनशक्तिरस्तीति। तच्च कर्म त्रिविधम् - निर्वत्र्यम्, विकार्यम्, प्राप्यञ्च। तत्र निर्वर्त्त्यं यदसकदेवोत्पाद्यते, यस्य जन्म क्रियते, तन्निर्वर्त्त्यम् , यथा - कटं करोति, कटो ह्रसन्नेव क्रियते। विकार्यं यल्लब्धसत्ताकमवस्थान्तरमापाद्यते केवलं भस्माख्यामवस्थामापाद्यन्ते। प्राप्यं यत्र व्याप्तिव्यितरेकेण क्रियाकृता विशेषा न विभाव्यन्ते, यथा - आदित्यं पश्यतीति। न हि दृशिक्रियया व्याप्यमानस्य सवितुः क्रियाकृतविशेष उपलभ्यत इति प्राप्यमेतत् कर्म॥", "14050": "", "14051": "`{मुद्रित `काशिकावृत्तौ` तु `अपादानादिविशेषकथाभिः` इत्येवास्ति।}अपादानाधिभिर्विशेषकथाभिः` इति। कारकसामान्यकथाया व्यवच्छेदार्तमेतत्। यदि हि केनाप्यकथितस्य कर्मसंज्ञा स्यात्, तदा माणवकस्य पितरं पन्थानं पृच्छतीत्यत्राकारकस्यापि माणवकस्य कर्मसंज्ञा स्यात्। `परिगणनम्` इति। अनयधातुव्यवच्छेदार्थमेतत्। तेन `दुह प्रपूहरणे` (धातुपाठः-1014) इत्येवमादीनामेव धातूनां प्रयोगेऽकथितस्य कर्मसंज्ञा विधीयते, नान्येषाम्। `उपयुज्यत इत्युपयोगः` इति। कर्मसाधनो घञन्तः।`उपयज्यते` इति। इष्टार्थसिद्धौ व्यापार्यत इत्यर्थ-। `पयःप्रभृति` इति। प्रभृतिशब्दन भिक्षादीनां ग्रहणम्। `तस्य निमित्तं गवादि` इति। आत्राप्यादिशब्देन पौरवादेग्र्रहणम्। `तस्योपर्युज्यमानपयः प्रभृतनिमित्तस्य` इति। उपयुज्यमानञ्च तत् पयः प्रभृति चेति विशेषणसमासं कृत्वना उपयुज्यमानपयः प्रभृतेर्निमित्तमिति षष्ठीसमासः। `गवादेः` इति। आदिशब्देन पौरवादेग्र्रहणम्। ननु च पाण्यादिकमप्युपयोगनिमित्तमिति, तेन विनोपयोगस्य पयसोऽसम्भवात्। आदिशब्देन कांस्यपात्रादेग्र्रहणम्। `विहिता हि तत्र करणादि संज्ञा` इति। आदिशब्देनाधिकरणसंज्ञाया ग्रहणम्। `तदर्थम्` इति। करणादेः कर्मसंज्ञानिवृत्त्यर्थमित्यर्थः। अर्थशब्दस्य निवृत्तिवचन्तवात्। `अपूर्वविधौ` इति। पूर्वग्रहणमत्रान्यविधेरुपलक्षणार्थम्। एतदुक्तं भवति - यस्यान्यो विधिर्नोक्तस्य कर्मसंज्ञेति। तेन यत्रापि वक्ष्यमाणे हेतुकर्त्तृसंज्ञे इति तत्राप्येषा संज्ञा नभवतीति दोग्धाप्युपयोगस्य निमित्तं तस्य कर्मसंज्ञा न भवति। सूत्रेऽपि `अकथितम्` इति कथमनिवृत्तपरायां चोदनायां भूतकालो न विवक्ष्यते; उपलक्षणत्वात्। तेन योऽपि कथयिष्यमाणो हेतुकर्त्तृसंज्ञाभ्याम्, तस्यापि कर्मसंज्ञा न भवतीत्युक्तं भवति। ब्रुविशासिगुणेन` इति। कः पुनर्गुण इत्याह - `साधनम्` इति। साधनं हि क्रियया उपकारकम्। यच्चोपकारकं तदुपकार्यम् प्रधानमपेक्ष्य गुणो भवति। कतरत् पुनः साधनमित्याह - `प्रधानं कर्म` इति। किं पुनस्तदित्याह - `धर्मादिकम्` इति। आदिशब्देन पत्त्यादेग्र्रहणम्। प्रधानत्वन्तु धर्मादेस्तदर्थत्वाच्छिष्यादिप्रवृत्तेः। `सम्बध्यते` इति सचत इत्यस्यार्थकथनम्। तथा हि - `षच समवाये` (धातुपाठः-997) इति पठते, समवायश्च सम्बन्ध एव। सचते = तेन गुणेन सम्बन्धमुपैति। यच्च तेन सम्बन्धमुषैति तत्तेन सम्बध्यते। `उक्तम्` इति आचरितमित्यस्य विवरणम्। सूत्राकारेणेत्येतदपि `कविना` इत्यस्य।`गां दोग्धि पयः` इति। `दुह प्रपूरणे` (धातुपाठः-1014) आदादिकः। <<दादेर्धातोर्घः>> [[8.2.32]] , <<झषस्तथोर्धोऽधः>> [[8.2.40]] , <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम्। ननु चात्र विहिताऽपादान संज्ञा, अस्ति ह्यत्रापायः - गोः दुहेः क्षरणार्थत्वात्, क्षरति गौओः क्षीरम्, तद्गोर्दोग्धा क्षारयति, एवञ्च तत् क्षार्यमाणं ततोऽपक्रामतीति स्पष्ट एवापायः, ततो नेदमुदाहरणमुपपद्यते? नैतदेवम्; सत्यपि ह्रपाये नात्र गोरवधित्वं विवक्षितम्, किं तर्हि? क्षीरं प्रति निमित्तभावमात्रम्। यद्येवम्, गोः कारकत्वं न स्यात्, यथा - वृक्षस्य पर्णं पततीत्यत्र वृक्षस्य न; क्षरणक्रियां प्रति निमित्तभावेनाविवक्षितत्वात्, नैतत्; अवधित्वं ह्यत्र गोर्न विवक्षितम्। क्षरणं प्रति निमित्तभावस्तु विवक्षित एव। वृक्षस्य पर्णं पततीत्यत्र तु पतनं प्रति वृक्षस्य निमित्तभावमात्रमपि न विवक्षितम्, न केवलमवधिभाव इत्यसमानम्। `पौरवं गां याचते` इति। ननु चात्र कथितापादानादिसंज्ञा , अस्ति ह्रसौ। पौरवाद्गामादत्त इति अस्त्येववापायः? नैतदस्ति; न हि याचनादेवापायो भवति , किं तर्हि? अवरोधनक्रियां प्रति निमित्तभावमात्रम्। अस्याञ्चावस्थायां वा विवक्ष्यते; न चैतदिह विवक्षितम्, हेतुना गामवस्थापयतीत्ययमत्रार्थो वेदितव्यः, न तु क्वावस्थापयतीत्येतदिह चिन्त्यत एव। `माणवकं पन्थानं पृच्छति` इति। `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः- 1413), तुदादिः, ग्रहिज्यादिसूत्रेण [[6.1.16]] सम्प्रसारणम्। ननु च कथितात्रापादानसंज्ञा, अस्ति ह्यत्रापायः - सहि तस्मादुपदेशमादित्सते, नैतदस्ति; न हि प्रश्नमात्रेणापायो भवति, किं तर्हि? पृष्टः सन् यद्यसावाचष्टे तदापायेन युज्यते। सत्यप्यपाये नात्र माणवकोऽवधिभावेन विवक्षितः, किं तर्हि? प्रश्नक्रियां प्रति निमित्तभावमात्रेण।`पौरवं गां भिक्षते` इति। `भिक्ष याच्ञायाम्` (धातुपाठः-606) अनुदात्तेत्। अत किमर्थ याचिभिक्ष्योद्र्वयोरुपादानम्, यावताऽनयोरर्थभेदो नास्ति? न चेयं संज्ञा श्बदाश्रया, किं तर्हि? अथश्रिया। तथा हि- याचिना समानार्थस्यान्यस्यापि ग्रहणं भवति - देवदत्तं शतं प्रार्थयते, देवदत्तं शतं मृगयत इति। तस्मात् सत्यपि शब्देभेदे न युक्तं तयोः पृथग्ग्रहणम्। एवं तर्हि याचिरत्रानुनये वर्तते - तन क्रुद्धं याचते, अविनीतं याचत इति, तदर्थं पृथग्ग्रहणं स्यात्।`वृक्षमवचिनोति फलानि` इति। ननु चात्र विहिताऽपादानसंज्ञा तथा हि - वृक्षात् फलान्यादत इत्यपायोऽत्रार्थः,नैतदस्ति; न ह्यत्र वृक्षोऽवधित्वन विवक्षितः। किन्तर्हि? फलावचयनस्य हेतुभावमात्रेण। वृक्षेण हेतुना फलावचयनं करोत्यर्थः। तस्य वृक्षस्य हेतुभावः किमवधिभूतस्य? अधिकरणभूतस्य वा? इत्येवमादिका चिन्ता न कृता।एवं `माणवकं धर्मं ब्रूते, माणवकं धर्ममनुशास्ति` इति। `ब्राऊञ् व्यक्तायां वाचि` (धातुपाठः-1044), `शासु अनुशिष्टौ` (धातुपाठः-1075) अदादी। ननु च कथितात्र सम्प्रदानसंज्ञा, अस्ति ह्यत्र सम्प्रदानत्वम्, सम्प्रदेयेन धर्मेणाभिप्रेयमाणत्वात्, नैतदस्ति; ददातिकर्मणाभिप्रेयमाणस्य सम्प्रदानसंज्ञा विहिता, न चात्र धर्मो ददातिकर्म; ब्राउविशास्योरदानार्थत्वात्। अथापि दानार्थता स्यात्? एवमपि माणवेकन निमित्तेन धर्मं ददातीत्ययमर्थः स्यात्। माणवकस्य सम्प्रदानत्वनाविवक्षितत्वात्; धर्मदाननिमित्तत्वेन विवक्षितत्वात्।ब्रुविशासिगुणेन चेति चकारोऽनुक्तसमुच्चयार्थः। तेन नयतिप्रभृतीनां प्रयोगेऽप्यकथितस्य कर्मसंज्ञेष्यते।तथा चोक्तम् - नीवह्रोहरतेश्चैव गत्यर्थानां तथैव च।द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः॥ इति।अत्रापि श्लोके चकारो जयतिप्रभृतीनां प्रयोगेऽकथितस्य समुच्चयार्थः। किमुदाहरणम्? अजां नयति ग्रामं देवदत्तः। अजां वहति ग्रामं देवदत्तः। अजां हरति ग्रामं देवदत्तः। शतं जयति देवदत्तं यज्ञदत्तः। शतं गर्गान् दण्डयतीति। ननु चोभयेषामपि `कर्त्तुरीप्सिततमं कर्म` [[1.4.49]] इत्यनेनैव कर्मसंज्ञा सिद्धा। यदि तह्र्रजादीनामीप्सिततमत्वं विवक्ष्यते, न ग्रामादीनाम्, तदा कथं कर्मसंज्ञा? तथापि `तथायुक्तम्` [[1.4.50]] इत्यनेन सिद्धा। यदा तर्हि ग्रामादीनामीप्सितत्वं प्रकर्षरहितं विवक्ष्यते, तदा न सिद्ध्यति। अकर्मकाणाञ्च धातूनां कालभावाध्नगन्तव्यदेशानां कर्मसंज्ञेष्यते। तथा चोक्तम् - कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम्।दशाश्चाकर्मकाणाञ्च कर्मसंज्ञा भवन्ति च॥इति वक्तव्यम् (म।भा।1।336) इति।तस्मात् तदर्थोऽनुक्तसमुच्चयार्थश्चकारः कृतः कालः - मासमास्ते मासं स्वपितीति। भावः - गोदोहमास्ते, गोदोहं कस्वपितीति। अध्वा गन्तव्यः - क्रोशमास्ते, क्रोशं स्वपितीति। अध्वा चासौ गन्तव्यश्चेति विशेषमसमासः। `कडाराः कर्मधारय` [[2.2.38]] इति विशेष्यस्य पूर्वनिपातः। देशः कुरूनास्ते, कुरून् स्वपितीति। सर्वं एते कालादयोऽकथिताः; पूर्वविधेः कस्यचिद्प्रवृत्तत्वात्॥", "14052": "`यापयति` इति। `अर्तिह्यी` [[7.3.36]] इत्यादिना पुक्।`वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - उत्तरसूत्रे [[1.4.53]] अन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतो विज्ञायते, सा च व्यवस्थितविभाषा; तेन नीवह्रोर्न भविष्यति।`वहेः` इत्यादि। नियच्छति = विशिष्टे विषयेऽवस्थापयतीति नियन्ता सारथिः, अविद्यमानो नियन्ता कर्ता यस्य स तथोक्तः, तस्य। `नीवह्योः प्रतिषेधो वक्तव्यः` (वा।62) इति योऽनन्तरोक्तः स वहेरनियन्तृकर्त्तृकस्य भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - तस्यैवान्यतरस्यांग्रहणस्य व्यवस्थितविभाषा त्वान्नियन्तृकर्त्तृकस्य वहेः कर्मसंज्ञा भविष्यतीति।`आदिखाद्योः` इत्यादि। अत्रापि वक्तव्यशब्दस्य पूर्ववदेवार्थः। व्याख्यानमपि पूर्ववदेव कर्तव्यम्। `भक्ष्यति पिण्डी देवदत्तः` इति। चुरादिणिच्। `भक्षयति` पिण्डीं देवदत्तेन` इति। हेतुमण्णिच्। `भक्षयति बलीवर्द्दान् शस्यम्` इति। भक्षिरत्र हिंसार्थः। `सर्वे सचेतना भावाः` इत्यस्मिन् दर्शे हिंसितं शस्यमिति शस्यस्य भक्षणेन देवदत्तो हिंसितो भवति। यस्य हि तच्छस्यं तस्य हिंसा गम्यते।`शब्दकर्मणाम्` इति। शब्दग्रहणेनेह पारिभाषिकं कर्म गृह्र।ते, न तु क्रिया। क्रिया ग्रहणे हि कर्म ग्रहणमनर्थकं स्यात्। कारकाधिकारादेव कारकस्य क्रियापेक्षत्वाच्छब्दात्मिकायां क्रियायां वर्तमाना धातवो ग्रहीष्यन्त इति, तत् किं कर्मग्रहणेन? यदि तर्हि पारिभाषिकं कर्म गृह्रते, जल्पति देवदत्तो जल्पयति देवदत्तम्, विलपति देवदत्तं कार्षापणमित्यत्र न प्राप्नोति, शब्दादन्यस्य पारिभाषिकस्य कर्मणो विवक्षितत्वात्, नैष दोषः; बुद्ध्यर्थत्वात् भविष्यति। अत्र हि जल्पतिप्रभृतयस्तावच्छब्दसाधने बोधने वर्तन्ते। जल्पति देवदत्त इति। वचनेन बोधयतीत्यर्थः। एवमन्यत्रापि। पश्यति कार्षापणमित्यत्र दृशिश्चक्षुः साधने ज्ञाने वर्तते। चक्षुषा जानीत इत्यर्थः। तस्माद्बुद्धर्थत्वात् सिद्धम्। `अध्यापयति` इति। `क्रीङजीनां णौ` (6।1॥48) इत्यात्त्वम्। `अर्तिह्यी` [[7.3.36]] इत्यादिना पुक्। किमर्थं पुनरिदं सूत्रम्, यावता ण्यन्ते धातौ प्रयोजनकव्यापारेण प्रेषणाध्येषणाख्येन व्याप्तुमिष्टतमत्वात् प्रयोज्यस्य `कर्त्तुरीप्सिततमं कर्म` [[1.4.49]] इत्यनेनैव कर्मसंज्ञा सिद्धा? सत्यम्, नियमार्थं वचनम् - प्रयोजकव्यापारेण व्याप्यमानस्य यदा कर्मसंज्ञा तदा गत्यर्थादीनामेव,नान्येषामिति॥", "14053": "गत्यर्थादयो निवृत्ताः। तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्तते, अभ्यवहारे वा, करोतिश्चाकर्मणो भवति तदा प्राप्ते। यदा तु हरतिः स्तेयादौ वर्तते, करोतिश्च सकर्मको भवति तवाऽप्राप्ते। `उपसंख्यानम्` इति। प्रतिपादनमित्यर्थः। एतच्च प्रकृतत्वात् तत्रेदं प्रतिपादनम् - `अकथितञ्च` [[1.4.51]] इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेनाभिवादिदृशोरप्यात्मनेपदे कर्मसंज्ञा भविष्यतीति। `अभिवादयते` इति। `णितश्च`(1।3।क74) इत्यात्मनेपदम्। `दर्शयते` इति। अत्रापि `णेरणौ` [[1.3.67]] इत्यादिना।", "14054": "अस्त्ययं स्वतन्तरशब्दो बहुव्रीहिः। स्वं तन्त्रं यस्य स स्वतन्त्रः। अस्ति च समासप्रतिरूपको रूढिशब्दः, प्रधानार्थवृत्तिः, यथा - स्वतन्त्रोऽयमिह देवदत्त इति, प्रधानभूत इति गम्यते। तत्र यदि पूर्वो गृह्रेत तदा तन्तुवायस्यैव स्यात्; विस्तृता हि तन्तवस्तन्त्रम्, तच्च तन्तुवायस्यैवास्ति। देवदत्तः पचतीत्यादौ न स्यात्। इतरस्य तु ग्रहणे सर्वत्र भवति। तस्मात् व्याप्तेन्र्यायात् स एव गृह्रत इति मत्वाह - `स्वतन्त्र इति प्रधानभूतः` इति। यद्येवमप्रधानमपेक्ष्य प्रधानमुच्यत इति यत्राधिकरणादीन्यपराण्यप्रधानानि कारकाणि सन्ति, देवदत्तः काष्ठैरग्निनोदनं स्थाल्यां पचतीत्यादौ तत्रैव स्यात्। यत्र तु तेषामविवक्षा - आस्ते देवदत्तः, शेते देवदत्त इत्यादौ, तत्र न स्यादिति यो देशयेत् तं प्रत्याह - `अगुणभूतः` इति। एवं मन्यते - प्रधानेनागुणभाव उपलक्ष्यते। गुणभावो यत्र नास्ति स कर्तेति। कारकान्तराविवक्षायामप्यगुणभावोऽस्त्येवेति सर्वत्र भवति। ननु च सामग्र्यधीना हि क्रियासिद्धिः, एकस्याप्यभावे न सिध्यति, तत् कस्यात्र प्राधान्यं यत्परिग्रहाय स्वतन्त्रग्रहणं क्रियते? इत्याह - `यः क्रियासिद्धौ` इत्यादि। यद्यपि क्रिय#आसिद्धौ सर्वेषां व्यापारः, तथापि स्वातन्त्र्यं यस्य विवक्ष्यते स एव स्वतन्त्र इत्युत्यते, नान्य इति। देवदत्तः पचतीत्यत्र देवदत्तः कर्त्तृसंज्ञकत्वात् कर्त्तृप्रत्ययेनोच्यते लकारेण॥", "14055": "`तस्य प्रयोजकस्तत्प्रयोजकः` इति। ननु च `कर्तरि च` [[2.2.16]] इत्यनेन षष्ठीसमासप्रतिषेधे नात्र भवितव्यमित्याह - `निपातनात्समासः` इति। `प्रयोजकः` इति प्रेरकः = उपदेशकः, व्यापारक इत्यर्थः। न चान्येन प्रयुज्यमानस्य स्वव्यापारे स्वातन्त्रयं हीयते; अन्यथा ह्रकुर्वत्यपि कारयीति स्यात्। प्रयोजकत्वं द्विविधम् - मुख्यम्, इतरच्व। देवदत्तः कटं कारयीत्यत्र देवदत्तस्य मुख्यम्। भिक्षा वासयतीत्यत्र भिक्षाणां वासहेतुत्वात् प्रयोजनत्वमुपचरितम्, न मुख्यम्। न हि भिक्षा यूयं वसथेत्येवं प्रयुञ्जते। इह च कारकाधिकारे तमब्ग्रहणव्यतिरेकेणातिशयो न विवक्षित इति `साधकतमं करण म्` [[1.4.42]] इत्यत्र तमब्ग्रहणेन ज्ञापितमेतत्। तेन यस्यापि प्रयोजगत्वमुपचरितम्, न मुख्यम्, तस्यापि हेतुसंज्ञा भवत्येव।`संज्ञासमावेशार्थश्चकारः` इति। असति तस्मिन्नेकसंज्ञाधिकारादत्र कर्तृसंज्ञा न स्यात्। अतः संज्ञासमावेशार्थश्चकारः क्रियते। `हेतुत्वात्` इत्यादिना संज्ञाद्वयस्य प्रयोजनं दर्शयति। प्रयोजकव्यापारे हि <<हेतुमति च>> [[3.1.26]] इति णिच् विधीयते। तस्य हेतुत्वं प्रयोजकस्य हेतुत्वे सत्युपपद्यते। हेतुत्वात्प्रयोजको णिचो निमित्तं भवति। कर्तृप्रत्येन न लकारेणाभिधानं कर्त्तृसंज्ञायां सत्यां भवतीति कर्त्तृत्वत् कर्त्तृप्रत्ययेन लकारेणोच्यत इति॥", "14056": "च,वा,ह, अह इत्यत्र निपातसंज्ञायां सत्याम् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यव्ययसंज्ञा भवति। `निपाता आद्युदात्ता भवन्ति` (फि।सू।4।80) इत्याद्युदात्तत्वञ्च। अथ किमर्थं प्राग्ग्रहणम्? यावता पञ्चम्युच्चारणसामर्थ्यादेव प्रागित्यस्य दिक्छब्दस्याध्याहारो भविष्यति। न च `पराम्` इत्ययमपि दिक्छब्दोऽस्ति। अतो नाध्याहार आशङ्कनीयः। तदध्याहारे हि <<चादयोऽसत्त्वे>> [[1.4.57]] इत्येवमादयो योगा निपातसंज्ञासम्बन्धाभावादसम्बद्धाः स्युः। तस्मात् प्रागित्येतदेवाध्याहरिष्यते। तत् किं प्रागवचनेन? इत्याह - `प्राग्वचनम्` इत्यादि। एका संज्ञेत्यनुवर्तते। निपातसंज्ञा चादिषु प्रादिषु वा क्रियायोगे चरितार्था। तत्रासति प्राग्वचने निपातसंज्ञाया उपसर्गादिसंज्ञाभिरनवकाशाभिर्बाध्यमानत्वात् ताभि) सह तस्याः समावेशो न स्यात्। इष्यते चात्र, तदर्थं प्राग्वचनम्, तस्मिन् सत्येवं सम्बन्धः क्रियते - रीश्वरात यावन्तः प्राग्व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्ति, निपाताश्च सन्त उपसर्गादिसंज्ञका इति। तेन निमित्तमेव निपातसंज्ञोपसर्गसंज्ञानां भवति। न च निमित्तिना निमित्तं व्याहन्यते, अन्यथा हि तस्य निमितत्वमेव न स्यात्। अध्याह#ऋते तु प्राक्शब्दे रीश्वराद्ये प्राग्व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्तीत्येषोऽर्थोऽभिमतः स्यात्, न तु निपाताः सन्त उपसर्गादिसंज्ञका इत्येषोऽप्यर्थो लभ्यते। सूत्रोपात्तो तु प्राक्शब्द एषोऽर्थो लभ्यत एव; अन्यथा तस्य वैयथ्र्यं स्यात्।अथ किमर्थं रेफादिक ईआरशब्दो गृह्रते - प्राग्रीश्वरादिति, न च प्राग्रीश्वरादित्येवोच्येत, प्रत्यासत्तेरनन्तर एव हीआरशब्दो ग्रहीष्यत इत्यत आह - `रीश्वराद्वीआरात्मा भूत` इति। रेफसहित ईआरो रीश्वरः। शाकपार्थिवादित्वान्मयूरव्यंसकादित्वाद्वा समासः। रीश्वरादित्युच्यमाने वीआरान्मा भूत्, `अधिरीश्वरे` [[1.4.96]] इत्यस्यैवेआरशब्दस्य ग्रहणं यथा स्यात्। `ईआरे तोतुन्कसुनौ` [[3.4.13]] इत्यत्र यो वीआरशब्दस्तस्य ग्रहणं मा भूत्। यस्य ग्रहणे बहूनां संज्ञा भवत्यतो व्याप्तेन्र्यायादस्यैव ग्रहणं स्यात। ननु च वकारस्तत्र नास्त्येव, तत् किमुच्यते वीआरान्मा भूदिति? एवं मन्यते - यदा सूत्राणि संहितया पठन्ते - `शकि णमुल्कमुलावीआरेतोसुन्कसुनौ` (3.4.12,13) इति तदा लौशब्दस्य ग्रहणे न प्रयोजकम्। यद्यपि परस्येआरशब्दस्य ग्रहणे तन्निबन्धना व्याप्तिरस्ति, तथाप्यनन्तरस्यैवेआरशब्दस्य ग्रहणं भविष्यति, न परस्य; कथम्? ज्ञापकात्; यदयं <<कृन्मेजन्तः>> [[1.1.39]] इति कृतो मान्तस्यैजन्तस्याव्ययसंज्ञा शास्ति तज्ज्ञापयति - अनन्तरस्येआरशब्दस्य ग्रहणं नेतरस्येति; अन्यथा हि णमुलादीनां निपातत्वादेवाव्यव्यसंज्ञा सिद्धेति <<कृन्मेजन्तः>> [[1.1.39]] इति वचनमर्थकं स्यात्, नैतदस्ति ज्ञापकम्; यस्मात् `ईआरे तोसुन्कसुनौ` [[3.4.13]] इत्यस्मात् परोऽपि कृदेजन्तो मान्तश्चास्ति। <<कृत्यार्थे तवैकेन्केन्यत्वनः>> [[3.4.14]] `आभीक्ष्ण्ये णमुल च` [[3.4.22]] इत्येवमादिः। तत्कथं <<कृन्मेजन्तः>> [[1.1.39]] इत्येत ज्ञापकं स्यात्? एवं तर्हि यदयमव्ययीभावस्य <<अव्ययीभावश्च>> [[2.4.18]] इत्यव्ययसंज्ञां शास्ति, तज्ज्ञापयति - अनन्तरो य ईआरशब्दस्तस्य ग्रहणमिति। अन्यथा हि <<अव्ययीभावश्च>> [[2.4.18]] इत्येदपार्थकं स्यात्; निपातत्वादेवाव्ययीभावस्याव्ययसंज्ञायाः सिद्धत्वात्।अस्यापि ज्ञापकतामपाकर्त्तुमहा - `समासेष्वव्ययीभावः` इति। सर्वेषां समासानां निपातत्वादव्ययसंज्ञायां प्राप्तायां <<अव्ययीभावश्च>> [[2.4.18]] इत्येतद्वचनं नियमार्थं स्यात् - समासेषु तत्पुरुषादिषु मध्येऽव्ययीभाव एवाव्ययसंज्ञो भवति, नान्य इति। एवं तर्हि लौकिकन्यायादनन्तरस्यैवेआरशब्दस्य ग्रहणं भविष्यति। लोके हि `ओदकान्तं प्रियं प्रोथमनुव्रजेत्` इति य एवानन्तर उदकान्तस्तमेव गत्वा तत एव बान्धवा निवर्तन्ते, न व्यवहितात्। तस्मादिहाप्यनेनैव न्यायेनानन्तरादेवआरशब्दान्निपातसंज्ञा निवर्तिष्यत इत्यत आह - `लौकिकं चातिवर्ततते` इति। लौकिकमपि न्यायं लोकोऽतिक्रम्य वर्तते, यस्मात् द्वितीयमप्यदकान्तं स्नेहात् कथाप्रसङ्गद्वा गत्वा निवर्तन्ते बान्धवाः। तदेवं रेफाधिक ईआरशब्द उच्चार्यते। तेन वीआरान्मा भूदिति स्थितमेतत्॥", "14057": "`असत्त्वे` इति। पर्युदासोऽयं वा स्यात्, प्रसज्यप्रतिषेधो वा? तत्र यद्ययं पर्युदासः स्यात्, तदा सत्त्वादन्यत्र वर्तमानाश्चादयो निपातसंज्ञका भवन्तीत्ेयषः सूत्रार्थः स्यात्। ततश्च पशुशब्दस्य चादिपरिपठितस्य जातिव्यवच्छिन्ने द्रव्ये वर्तमानस्य निपातसंज्ञा स्यात्। यो हि जातिविशिष्टे द्रव्ये वर्तते, स जातिद्रव्यसमुदायात्मकमर्थमाह। यश्चैवंविधोऽर्थः स द्रव्यात् केवलादन्यो भवति। निपातसंज्ञायां सत्यां पशुरिति सविभक्तिकस्य श्रवणं न स्यात्। प्रसज्यप्रतिषेधे त्वेष दोषो न भवति। तत्र हि यत्र द्रव्यगन्धोऽप्यस्ति तत्र सर्वत्र प्रतिषेधेन भवितव्यम्। अस्ति चेह द्रव्यगन्धः। पशुत्वजात्याश्रितस्य द्रव्यस्यापि पशुशब्देनाभिधानात्। तस्मात् प्रसज्यप्रतिषेध एवायं युक्त इत्यालोच्याह - `प्रसज्यप्रतिषेधोऽयम्` इति। क्व तर्हि वर्तमानः पशुशब्दोऽसत्त्ववचनो भवति? यत्र वृत्तौ निपातसंज्ञां लभते दृश्यर्थे - यथा, लोधं नयन्ति पशु मन्यमाना इति। अत्र दृश्यर्थेन पशुशब्देन मननं विविष्यते। दर्शनमेतन्मननम्, सम्यग्ज्ञानमित्यर्थः। सत्त्वशब्दोऽयमिह सत्तायां वर्तत इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - `सत्त्वमिति च द्रव्यमुच्यते` इति। चशब्दोऽवधारणे। द्रव्यमेव न सत्तेत्यर्थः। यदि ह्यत्र सत्तवशब्देन सत्तोच्यते, प्रतिषेधोऽनर्थकः स्यात्? न हि चादिषु मध्ये शब्दः सत्तावाची कश्चिदस्ति। तस्मादद्रव्यमेवोच्यते। इदं तर्हि सर्वनामप्रत्यवमर्शयोग्यो योऽर्थस्तद्द्रव्यमिति। तथा चोक्तम् - वस्तूपलक्षमं यत्र सर्वनाम प्रयुज्यते।द्रव्यमित्यच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति।भेद्यत्वेन विशेष्यत्वेनेत्यर्थः। अत एवावसीदति यत्र गुणो विशेषणभावेनेति सत्त्त्वं तद्द्रव्यमुच्यते।`चण्` इति पठते। तस्य णकारो विशेषार्थः `निपातैर्यद्यदिहन्तकुविन्नेकच्चेण्कच्चिद्यत्रयुक्तम्` [[8.1.30]] इति, स तु चेच्छब्दस्यार्थे वर्तते।यत्र` इति पठते। तस्य <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यव्ययसंज्ञा सिद्धैव। `निपातैर्यद्यदिहन्तः` [[8.1.30]] इति विशेषणार्थ निपात संबोध्यते। असति निपातत्वे `त्रैङ पालने` (धातुपाठः-965) यं त्रायत इति यत्र इत्यस्य <<आतोऽनुपसर्गे कः>> [[3.2.3]] इति कप्रत्ययस्य ग्रहणं स्यात्। `नञ्` इति पठते; नञो ञकारः `नलोपोः नञः` [[6.3.72]] इति विशेषणार्थः। `नलोपो नञ्` इत्युच्यमाने पामनपुत्र इत्यत्रापि स्यात्, यदि तत्र <<अलुगुत्तरपदे>> [[6.3.1]] इत्युत्तरपदग्रहण पूर्पपदं नशब्देन विशेष्यते - नान्तस्य पूर्वपदस्येति। अथ तु पूर्वपदेन विशेष्यते - (सेए इन् ओथेर् तेक्ष्ट्)पगे नो।206)उत्तरसंज्ञीत्तरसूत्रे कृता संज्ञोपसर्गसंज्ञा। तस्या विशेषणं व्यवच्छेदः प्रादिभ्योऽन्यस्माद्वयावर्तनमुत्तरसंज्ञा मा भूत्` इति। एकयोगे हि सति यथा प्रादीनामुपसर्गसंज्ञा भवति तथा चादीनामपि स्यात्। अतः प्रादीनामेवोपसर्गसंज्ञा यथा स्याच्चादीनां मा भूदित्येवमर्थं पृथग्योगः क्रियते। `पराः सेनाः` इति। सेनायाः द्रव्यत्वात् तत्र वर्तमानस्य पराशब्दस्येह ग्रहणं न भवति। परा उत्कृष्टाः परदेशस्थिता वा। यत्र त्वेकवचनं पठते - परा सेनेति, तत्र रूपोदाहरणं वेदितव्यम्। द्विवचनबहुवचनयोस्तु निपातत्वादव्ययसंज्ञायां सत्यां विभक्तेर्लुक्स्यात्॥", "14058": "", "14059": "`प्रणयति` इति। प्रशब्दस्योपसर्गत्वात् <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इति णत्वम्। `प्रनायको देशः` इति। अत्रनयनक्रियया प्रशब्दस्य योगो नास्तीत्युपसर्गसंज्ञा न भवति। ननु चात्रापि गमिक्रियया योगोऽस्त्येवेति स्यादेव तस्योपसर्गसंज्ञा, नेतदस्ति; क्रियायोगग्रहणं ह्रेवमनर्थकं स्यात्। कथम्? प्रादीनां क्रियायोगाव्यभिचारात्; तस्मात् क्रियायोगग्रहणसामर्थ्याद्यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्ुयपसर्गसंज्ञका भवन्ति, नान्यं प्रति। न चेह नयनक्रियया युक्तः प्रशब्दः, किं तर्हि? गमिक्रिययेति नयतिं प्रत्युपसर्गसंज्ञको न भवति।`मरुच्छब्दस्योपसंख्यानम्` इति। तत्वविधाविति। शेषः; अन्यथा हि `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तत्वमपि स्यात्। अन्तोदात्तश्चेष्यते मरुच्छब्दः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः; मरुच्छब्दस्योपसर्गसंज्ञायाः प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - `उपसर्गाः` इति योगविभागः क्रियते। अत्र च `प्रादयः` इति नाभिसम्बध्यते। तेन मरुच्छब्दस्य तत्वविधावुपसर्गसंज्ञा भवतीति। अत एव योगविभागात् श्रच्छब्दस्याङविधावन्तः शब्दस्याङ्गिविधिणत्वेषूपसर्गसंज्ञा भवतीति वेदितव्यम्। योगविभागस्येदं लिङ्गम् <<प्रज्ञाश्रद्धार्चाभ्यो णः>> [[5.2.101]] , <<तिरोऽन्तर्द्धौ>> [[1.4.71]] इति च निर्देशः। ततः `क्रियायोगे` इति द्वितीयो योगः। अत्र च `प्रादयः` इति सम्बध्यते। किमर्थमिदम्? पूर्वेणैव सिद्धमिति पूर्वयोगस्यासर्वविषयत्वाज्ञापनार्थम्, तेन नातिप्रसङगः। प्रादीनामक्रियायोग उपसर्गसंज्ञा मा भूदित्येवमर्थञ्च। `मरुत्तः` इति। <<अच उपसर्गात्तः>> [[7.4.47]] इति क्तप्रत्यये कृते द्वितकारनिर्देशाद्दवातेः सर्वादेशः। ननु चसत्यामुपसर्गसंज्ञयां करुच्छब्दस्यानजन्तत्वात् तत्वेन न भवितव्यमित्यत आह - `संज्ञाविधान सामर्थ्यात्` इत्यादि। यथा ह्रुपसरज इत्यत्र डित्करणसामर्थ्यादभस्यापि टिलोपो भवति, तथेहाप्यनजन्तादपि तत्वं भविष्यति; अन्यथा हीदं वचनमपार्थकं स्यात्। मरुच्छब्दस्योपसर्गसंज्ञाया अन्यकार्याभावादिति भावः।`श्रच्छब्दस्योपसंख्यानम्` इति। अत्राप्युपसंख्यानशब्दस्य स एवार्थः। प्रतिपादनमपि तदेव। ननु च भिदादिपाठादेव हि श्रद्धेति सिद्धम्;तत्कथं तत्सिद्धये श्रच्छब्दस्योपसर्गसंज्ञा क्रियते? एवं मन्यते- अनार्षस्तत्र पाठ इति॥बाल-मनोरमाप्रादयः 23, 1.4.59 प्रादयः। असत्त्व इत्यनुवर्तते, निपाता इति च। तदाह - अद्रव्येति। तथेति। निपातसंज्ञका इत्यर्थः।बाल-मनोरमाउपसर्गाः क्रियायोगे 24, 1.4.59", "14060": "`प्रकृत्य` इति। गतिसंज्ञायां सत्यां <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] इति ल्यप्। `प्रकृतम्` इति। `क्ते च` [[6.2.45]] इत्यनुवर्तमाने <<गतिरनन्तरः>> [[6.2.49]] इति प्रकृतिस्वरेणाद्यदात्तः प्रशब्दः। `यत्प्रकरोति` इति। प्रशब्दादनन्तरस्य `तिङङतिङः` [[8.1.28]] इति निघाते प्राप्ते `निपातैर्यद्यदि` [[8.1.30]] इत्यादिना प्रतिषेधे तिपः पित्त्वादनुवदात्तत्वम्। `सतिशिष्टस्वरस्य बलीयस्त्वमन्यत्र विकरणस्वरेभ्यः` (वा; 9;6.1.164) इति विकरणस्वरस्य प्रत्ययाद्युदात्तत्वं न भवति। करोतेरेव तु भवति - `धातोः` [[6.1.156]] इति। शेषमनुदात्तं भवति। प्रशब्दस्य `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तत्वे प्राप्ते <<गतिर्गतौ>> [[8.1.70]] इति निघातेऽनुवर्तमाने <<तिङि चोदात्तवति>> [[8.1.71]] इति करोतिशब्दे तिङन्त उदात्तवति परतोऽनुदात्तत्वं भवति। तत्र हि `पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः` [[8.1.67]] इत्यतोऽनुदात्तमिति वर्तते। एतच्च प्रयोजनत्रयमुत्तरत्र गतिसंज्ञाया वेदितव्यम्।अथ किमर्थो योगविभागः, न गतिग्रहणं पूर्वयोगग एव क्रियते? इत्यत आह- `योगविभाग उत्तरार्थः` इति। `उत्तरत्र ` इत्यादिना योगविभागस्योत्तरार्थतां दर्शयति। यद्युत्तरत्राप्युपसर्गसंज्ञा स्यात्, तदा किं स्यादित्यत आह - `ऊरीस्यादित्यत्र ` इत्यादि।`चकारः संज्ञासमावेशार्थः` इति। असति चकार एकसंज्ञाधिकारादेकत्र संज्ञाद्वयस्य विधानात् पर्यायः स्यात्, न समावेशः। `प्रणीतम्` इत्यादिना संज्ञासमावेशस्य फलं दर्शयति। `गतिरनन्तर इति स्वरः` इति। उदाहरणद्वयेऽपि `उपसर्गादिति णत्वषत्वे भवतः` इति। `प्रणीतम्` इति। <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इति णत्वम्। `अभिषिक्तम्` इति। `उपसर्गात्सुनोति` [[8.3.65]] इत्यादिना षत्वम्।`कारिका` इत्यादि। धात्वर्थनिर्देश एतदुपसंख्यानं कर्तव्यम्। योऽन्यः कर्तरि कारिकाशब्दो ण्वुलन्तः, तस्य कारिकां कृत्वेत्येवं भवति। `उपाख्यान` शब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकार्सयानुक्तसमुच्चयार्थत्वात् कारिकाशब्दस्य गतिसंज्ञा भवतीति।`पुनश्चनसौ` इत्यादि। पुनश्चनः शब्दौ छन्दसि विषये गतिसंज्ञकौ च भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तूत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थतामाश्रित्य कर्तव्यम्। `पुनरुस्त्यूतम्` इति। `षिवु तन्तुसन्ताने` (धातुपाठः-1108), निष्ठा, उदित्वात् `इदितो वा` [[7.2.56]] इति विभाषेट्त्वात् <<यस्य विभाषा>> [[7.2.15]] इतीट्प्रतिषेधः; `च्छवोः शूडनुनासिके च` [[6.4.19]] इति वकारस्योठ्, यणादेशः। `चनोहितम्` इति। <<दधातेर्हिः>> [[7.4.42]] इति नहिरादेशः, <<गतिरनन्तरः>> [[6.2.49]] इति प्रकृतिस्वरे णाद्युदात्तत्वम्। चनः शब्दो हि `निपाता आद्युदात्ता भवन्ति` (फि।सू।4।80) इत्याद्युदात्तः॥", "14061": "`च्व्यन्ता डाजन्ताश्च` इति। ननु च पदसंज्ञायामन्तग्रहणेन ज्ञापितम् - `अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति` (पु।प।वृ।81) इति; अतश्च्विडाचोरेव गतिसंज्ञया भवितव्यम्, तत् किमुच्यते - च्व्यन्ता डाजन्ताश्चेति? एवं मन्यते - <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इति वर्तते, न च प्रत्ययमात्रस्य क्रियायोगः सम्भवति। तस्मात् क्रियायोगानुवृत्तिसमाथ्र्यात् तदन्तस्यैव संज्ञा विज्ञायत इति भवत्येव तदन्तस्य संज्ञा। सा तु विशेषानुपादानाद्धातुमात्रेण योगे प्राप्नोतीत्यत आह - `च्विडाचोः` इत्यादि। अभूततद्भावे कृभ्वस्तियोगे [[5.4.50]] च्विर्विहितः। `अव्यक्तानुकरणात्` [[5.4.57]] इत्यादावपि सूत्रे कृभ्वस्तियोगस्यानुवृत्तेर्डाजिपि तत्रैव विहितः। तेन च्विडाचोस्तावद्धात्वन्तरेण योगासम्भवात् कृभ्वस्तियोगे गतिसंज्ञाविधानम्। अतस्तत्साहचर्यादूर्यादीनामपि तैरेव योगे विधीयते। ऊर्यादिभ्यश्च्व्यर्थस्याप्रतीतेर्न प्रतिपादयितुमाह - `उरी, उररी` इत्यादि। श्रौषञडादीनां स्वधापर्यन्तानां चादिषु पाठादक्रियायोगेऽपि निपातसंज्ञा भवति। आविस्शब्दः साक्षात्प्रभृतिषु पठते। तेन तस्य <<विभाषा कृञि>> [[1.4.98]] इति करोतियोगे विभाषा गतिसंज्ञ#आ। `शुक्लीकृत्य` इति। <<अस्य च्वौ>> [[7.4.32]] इतीत्त्वम्। `पटपटाकृत्य` इति। <<वा क्यषः>> [[1.3.90]] इत्यत्र पटपटाशब्दो व्युत्पादितः॥", "14062": "`अनितिपरम्` इति। अत्रेतिपरशब्द इते पर इति पञ्चमीति योगविभागात् तत्पुरुषो वा स्यात्? इतिः परो यस्मादिति बहुव्रीहिर्वा? तत्र यद्याद्यः पक्ष आश्रीयेत, तदेतिखाट्कृत्येत्यत्र प्रतिषेधः स्यात्; इह तु न स्यात् - खडिति कृत्वा आगत इत, अनिष्टञ्चैतत्; द्वितीये तु पक्ष एष दोषो न भवति, अतस्तमेवाश्रित्याह - `इतिः परो यस्मात्` इति। `निरष्ठीवत्` इति। `ष्ठिवु निरसने` (धातुपाठः-560) `सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः` (वा।671) इति प्रतिषेधात् <<धात्वादेः षः सः>> [[6.1.64]] इति सत्वं न भवति। `ष्ठिवुक्लमुचमां शिति` [[7.3.75]] इति दीर्घत्वम्॥", "14063": "`{प्रीत्यतिशयः = आदरः - काशिका}प्रीतिसम्भ्रम आदरः` इति। प्रीत्या सम्भ्रमः प्रीतिसम्भ्रमः, प्रीतिपूर्विका प्रत्युत्थानासनादिदानक्रियेत्यर्थः। `परिभवौदासीन्यम्` इति। परिभवः = अवज्ञा। तिरस्कारः = औदासीन्यम्। कर्तव्यम् = प्रत्युत्थानासनादिदानं प्रत्युपेक्षा। परिभवेणौदासीन्यं परिभवौदासीन्यमिति, `तृतीया` इति योगविभागात् समासः। अथ वा - परिभवश्चौदासीन्यञ्च परिभवौदासीन्यम्। अथ किमर्थमनादरग्रहणमसद्ग्रहणञ्च क्रियते? नादरे सदित्येवोच्यते? अथ कथमिदानीमनादेऽसच्छब्दस्याव्ययसंज्ञा स्यात्? कथञ्च समासादि कार्यम्? तदन्तविधिनासच्छब्दस्यापि निपातसंज्ञायां गतिसंज्ञायाञ्च सत्यां सच्छब्दस्य निपातस्याव्ययसंज्ञा विधीयमानाऽव्ययसंज्ञायां तदन्तविधेरुपसंख्यानादसच्छब्दस्याप्यव्ययसंज्ञा भविष्यति। <<कुगतिप्रादयः>> [[2.2.18]] इत्यत्र च सुबन्तस्य प्रकृतत्वाद्गत्यन्तस्य सुबन्तस्य समासो विधीयमानोऽसच्छब्दस्यापि भविष्यति। `गतिरन्तरः` [[6.2.49]] इत्यत्रापि पूर्वपदमित्यनुवर्तते। <<गतिर्गतौ>> [[8.1.70]] इत्यत्रापि पदस्येति। तेन गत्यन्तस्य पूर्वपदस्य प्रकृतिस्वरो विधीयमानस्तता यथोक्तं कार्यम्, अनादरावगतिस्तु कथं स्यात्? असत्यनादरग्रहणे न सदसदिति नञाऽऽदरप्तिषेधात्। आदरश्चेत् प्रतिषिद्धः किमन्यदनादरात् स्यात्? नैतद्युक्तमुच्यते; नञ्समासो हि तत्पुरुषः सदृशमेव कार्यं प्रतिपादयति, यथा - अब्राआहृणमानयेति। तत्रेह यद्यनादरग्रहणं न क्रियेत तदा सत्सदृशं यत् तदसद् यत्रादरप्रसङ्गस्तत्रैव स्यात् - गुरुमसत्कृत्य गतः। यत्र त्वप्रसक्त एवादरस्तत्र न स्यात् - भृत्यमसत्कृत्य गतः। अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते - अविद्यमान आदरो यस्मिन्नित्यनादर इतो। बहुव्रीहिश्चात्यन्ताभावे प्रसक्त्यबावे च भवतीति सर्वत्र संज्ञा सिध्यति। तस्मादनादरग्रहणं कर्तव्यम्। तस्मश्च क्रियमाणे सत्यसदृग्रहणमपि कर्तव्यमेव। अन्यथा हि किमनादरग्रहणेन विशिष्येत - य्सयानादरे वर्तमानस्य गतिसंज्ञा विधीयते ! न हि सच्छब्दस्यानादरे वृत्तिः सम्भवति। यद्यपि तस्य न सम्भवति तदन्तस्यासच्छब्दस्य सम्भवतीति चेत्, सत्यम्; सम्भवति, न तु तस्य गतिसंज्ञा लभ्यते, तदन्तविधेरभावात्। प्रकृते न हि तदन्तविधिर्भवति, न चेह किञ्चित् प्रकृतमस्ति ; तस्मादसच्छब्दार्थमनादरग्रहणम्। यदि तु यथा `गोष्पदं सेवितासेवितप्रमाणेषु` इत्यत्रासेविते गोष्पदशब्दो न सम्भवतीत्यगोष्पदशब्दार्थमसेवितग्रहणं विज्ञायते, तथेहापि सच्छब्दोऽनादरे न सम्भवतीत्यस्छब्दार्थमनादरग्रहणं विज्ञायेत; तदा शक्यमसच्छब्दस्य ग्रहणमकर्त्तुम्। असद्ग्रहणन्तु क्रियते तदा विस्पष्टार्थम्। सत्कृत्वाऽसत्कृत्येति। शोभनाशोभनार्थाविह सदसच्छब्दौ। विद्यमानाविद्यमानार्थौ वा॥बाल-मनोरमाआदराऽनादरयोः सदसती 753, 1.4.63 आदरानादरयोः। सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः। सत्कृत्येति। आदरं कृत्वेत्यर्थः। असत्यकृत्येति। अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप्। खाडिति कृत्वेति। न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात्। `ते प्राग्धातोः` इति सूत्रं तु `ते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत` इति प्रयोगनिमपरमेवेति भावः। बाल-मनोरमाआदराऽनादरयोः सदसती 754, 1.4.63 आदरानादरयोः। सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः। सत्कृत्येति। आदरं कृत्वेत्यर्थः। असत्कृत्येति। अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप्।", "14064": "`अलं कृत्वा` इति। पर्याप्ताविहालंशब्दो वर्तते।", "14065": "अन्तःशब्दोऽयं मध्येऽधिकरणभूते वर्तते; परिग्रहे च। तत्र परिग्रहप्रतिषेधादिरत्र संज्ञा विधीयते।यस्त्वस्य स्वरादिषु पाठः, स परिग्रहेऽप्यव्ययसंज्ञार्थः। `अन्तर्हस्य` इति। मध्ये हत्वेत्यर्थः। <<वा ल्यपि>> [[6.4.38]] , इत्यनुनासिकलोपः। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। `अन्तर्धा` इति। आतश्चोपसर्ग` [[3.3.106]] इत्यङ। `अन्तर्द्धिः` इति। <<उपसर्गे घोः किः>> [[3.3.92]] इति किप्रत्ययः। `अन्तर्णयति` इति। `उपसर्गादसमासेऽपि` [[8.4.14]] इति णत्वम्॥", "14066": "कणेशब्दः सप्तम्यन्तप्रतिरूपको निपातः। न चेहाभिलाषातिशये वर्तमानो गृह्रते। तस्य हि श्रद्धाप्रतीघात इत्युपाधिः सम्भवति। मनःशब्दोऽपि तत्साहचर्यादभिलाषवृत्तिरेव विज्ञायते।`कणे` हत्वा, मनो हत्वा` इति। अत्र कणेशब्दः सूक्ष्मे तण्डुलावयवे वर्ततेऽधिकरणभूते, मनश्शब्दश्चेतसि॥", "14067": "`पुरस्कृत्य` इति। पूर्वस्माद्देशागत इत्यस्मिन्नर्थे `पूर्वाधरावराणामसि पुरधवश्चैषाम्` [[5.3.39]] इत्यसिप्रत्ययः पूर्वशब्दस्य च पुरादेशः। <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यव्ययसंज्ञा विसर्जनीयस्थानिकस्य सकारस्योपचार इत्येषा संज्ञा पूर्वाचार्यप्रणीता। <<नमस्पुरसोर्गत्योः>> [[8.3.40]] इति सकारः।`पूः पुरौ, पुरः कृत्वा गतः` इति। पुरः कृत्वेतीदं प्रत्युदाहरण्। पूः परावित्येतयोस्तूपन्यसस्तत्साहचर्येण पुरःशब्दस्यानव्ययत्वप्रदर्शनार्थः। `पृ? पालनपूरणयोः` (धातुपाठः-1489), `भ्राजभ्रास` [[3.2.177]] इत्यादिना। क्विप्। `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युक्तम्, रपरत्वञ्च। गतिसंज्ञाया अभावादिह समासादि कार्यं न भवति। <<नमस्पुरसोर्गत्योः>> [[8.3.40]] इति विसर्जनीयस्य सकारोऽपि न भवति। ननु च यद्यत्र गतिसंज्ञा स्यात् गतिसमासे कृते सुपो निवृत्त्या भवितव्यम्, तदा पुर इति रूपं न स्यात्; असति तस्मिन् संज्ञाऽपि निवर्तते, नैतदस्ति; यद्यपि विभक्तौ निवृत्तायां पुर इति रूपं न स्यात्, नैवं संज्ञा निवर्तते; एकदेशविकृतस्यानन्यत्वात् (व्या।प।16)॥", "14068": "`अस्तंशब्दो मकारान्तोऽव्ययम्` इति। अव्ययमित्यत एव विशेषणोपादानससामर्थ्याददव्ययत्वं विज्ञेयम्। चादेशकृतिगणत्वाद्वा। `अस्तं कृत्वा काण्डं गतः` इति। `असु क्षेपणे` (धातुपाठः-1209), निष्ठा, पूर्ववदिट्प्रतिषेधः। चकारः `अव्ययम्` (1।4।क67) इत्यस्यानुकर्षणार्थः। यद्येवम्,चानुकृष्टत्वादुत्तरत्र तस्यानुवृत्तिर्न स्यात्? उत्तरत्रापि चकारस्तदनुकर्षणार्थोऽनुवर्तिष्यत इत्यदोषः॥", "14069": "`अच्छशब्दोऽव्ययमभिशब्दस्यार्थे`इति। अभिराभिमुख्ये। `अच्छोद्य` इति। यजादित्वाद्वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्। अच्छमित्यकलुषमित्यर्थः॥", "14070": "उपदेशः = परस्यार्थकथनम्। तच्च परस्य प्रत्यायनार्थ भवतीत्याह - `उपदेशः परार्थः` इति। `अदः कृत्वा` इति। एतत्कृत्वेत्यर्थः॥", "14071": "`तिरो भूत्वा स्थितः` इति। अनृजुर्भूत्वा, पार्(ातो भूत्वेत्यर्थः॥", "14072": "", "14073": "", "14074": "`साक्षात्प्रभृतिषु च्व्यर्थवचनम्` इति। च्व्यर्थ उच्यते कथ्यते येन तच्व्यर्थवचम् - च्व्यर्थव्याख्यानम्। एतेनैतदुक्तं भवति - साक्षात्प्रभृतीनां च्व्यर्थो येन प्रतिपाद्यते अस्मिन् संज्ञाविधौ तच्व्यर्थवचनं कर्तव्यमित्यर्थः। किमर्थम्? असाक्षाद्भूतं यदा साक्षात् क्रियते तदा गतिसंज्ञा यथा स्यात्। यदा त्वसाक्षाद्भावो न क्रियते, किन्तु साक्षाद्भूत्सय प्रत्यक्षभावमुपगतस्यैव सतो योऽन्यो विशेषः कश्चित् क्रियते, तदा मा भूदिति। एवं मिथ्याप्रभृतीनाम्। अमिथ्याभूतानां मिथ्याभूतानां यदा क्रियते, तदा यथा स्यात्; अन्यथा मा भूत्। तदेवं व्याख्यानम् - <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यत्र च्विग्रहणम् <<अच्छ गत्यर्थवदेषु>> [[1.4.69]] इत्यतश्चार्थग्रहणमिह मण्डूकप्लुतिन्यायेनानुवर्तते। तेन च्व्यर्थे वर्तमानानां साक्षात्प्रभृतीनां गतिसंज्ञा विधीयत इति। व्यवस्थितविभाषाविज्ञानाद्वा च्व्यर्थ एव वर्तमानानां तेषां संज्ञा भविष्यतीति। च्व्यर्थता चोभयथा सम्भवति - च्व्यन्तानाम्, अच्व्यन्तानाञ्च। तत्र यदा च्व्यन्तता भवति तदा <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इति नित्यं संज्ञा भवति, अन्यथा त्वनेन गतिसंज्ञा विभाषा भवति; व्यवस्थितविभाषया चास्य सूत्रस्य च्व्यर्थष्वेव प्रवृत्तेः। मकारान्तत्वनिपातनम्। अग्नौ, वशेप्रभृतयो विभक्तिप्रतिरूपकनिपाता द्रष्टव्यः। प्रादुराविः शब्दावूर्यादिषु उरसिमनसिशब्दौ विभक्तिप्रतिरूपकौ निपातौ। `उरसिकृत्य`इति। अभ्युपगम्येत्यर्थः। `मनसिकृत्य` इति। निश्चित्येत्यर्थः॥", "14075": "", "14076": "`मध्ये पदे` इति। सप्तम्यन्तप्रतिरूपकौ। `निवचने` इति। अर्थाभावेऽव्ययीभावः; नितृणं निवुसमिति यथा। `निवचनेकृत्य` इति। उच्चारणसामर्थ्यात् सप्तम्याः समासेऽप्यलुग् भवति। एवमुत्तरत्र॥", "14077": "`हस्तेकृत्य, पाणौकृत्य` इति। सप्तम्याः पूर्ववदलुक्। `दारकर्म` इति। भार्याकरणम्॥", "14078": "`बन्धने` इति निमित्तसप्तमीयम्। प्राध्वंशब्दस्यानुकूल्यवृत्तित्वात् `बन्धने` इत्यस्य विशेषणं नोपपद्यत इति सामर्थ्यात् तदर्थस्य विशेषणं विज्ञायत इत्यत आह - `तदानुकूल्यम्` इत्यादि। बन्धनं हेतुर्यस्य तत्तथोक्तम्। `प्राध्वंकृत्य` इति। बन्धनेन निमित्तेनानुकूल्यं कृत्वेत्यर्थः। `प्राध्वं कृत्वा` इति। समर्थमध्वगमने शकटम्, अध्वाभिमुखं कृत्वेति गम्यते। <<उपसर्गादध्वनः>> [[5.4.85]] इत्यच् समासान्तः। <<नस्तद्धिते>> [[6.4.144]] इति टुलोपः। प्रगतमध्वानमिति प्रादिसमासः। लक्षमप्रतिपदोक्तपरिभाषयैवात्र (व्या।पा।3) प्राप्तौ सिद्धायां लाक्षणिकोऽपि प्राध्वंशब्दो यत्र बन्धनेनाभिसम्बध्यते, तत्रापि गतिसंज्ञा भवतीति ज्ञापनार्थं बन्धनग्रहणम्। तेन यदा बन्धनेनैव शकटस्याध्वनि सामर्थ्यादध्वाभिमुखता विवक्ष्यते, तदा प्राध्वंकृत्य शकटं गतमित्येतदपि सिद्धं भवति॥", "14079": "`{औपम्ये विषये` - काशिका।} औपम्यविषये` इति। उपमीयतेऽनयेत्युपमा। <<आतश्चोपसर्गे>> [[3.3.106]] इत्यङ। तस्या भाव औपम्यम्; ध्यञ्। तत्पुनः क्रियाकारकसम्बन्धः। `समासकृत्तद्धितेषु सम्बन्धाभिधानमन्यत्र रूढभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः`इति वचनात्। विषयग्रहणेनौपम्ये इति सप्तम्या विषयसप्तमीत्वं दर्शयति। सम्भवति च जीविकोपनिषदावुपमाभूते प्रत्यौपम्यविषयभावः, तेन विनोपमाया अभावात्। `जीविकाकृत्य` इत्यादि।जीविकामिव कृत्वा। उपनिषदमिव कृत्वेत्यर्थः। जीविका = जीवनोपायः। उपनिषत् = रहस्यं हेतुश्च। यत्तत्सदृशं तज्जीविकेन जीविका। उपनिषधिवोपनिषदिति जीविकोपनिषद्भ्यामुपमीयते॥", "14080": "नियमार्थमेतत्। नियमः पुनः संज्ञाननियमो वा स्यात् - ते प्रादयो यदा धातोः प्राक प्रयुज्यते तदैव गत्युपसर्गसंज्ञकाः भवन्तीति? प्रयोगनियमो वा - ते प्रादयो गत्युपसर्गसंज्ञकाः सन्तो धातोः प्राक् प्रज्ञोक्तव्या इति? यत्र यदि पूर्वो नियम आश्रीयेत तदा संज्ञावाक्यानामयमेकदेशो विज्ञायेत - ते प्रादयो धातोः प्राक् प्रयुज्यमाना गत्युपसर्गसंज्ञका भवन्तीति। तथा च गत्युपसर्गसंज्ञयोरनभिनिर्वृत्तत्वात् ते गत्युपसर्गसंज्ञा इति प्रत्यवमर्शो न युज्यते। निपातसंज्ञायाश्चाभिनिर्वृत्तत्वात् त इत्यनेन निपाता एव प्रत्यवमृश्येरन्; ततश्च निपातसंज्ञाया नियमः स्यात्। इतरत्र तु नियमेनायं योगो गत्युपसर्गसंज्ञावाक्यानामेकदेशभूतो भवतीति न भवत्येव दोषप्रसङ्गः। संज्ञानियमस्य चाप्राक्प्रयुज्यमानानां संज्ञानिवृत्तिः फलं स्यात्, तच्चायुक्तम्; न ह्रप्राक्प्रयुज्यमानानां सत्यामपि संज्ञायां किञ्चिदनिष्टमापद्यते। इतरस्य तु नियमस्याप्राक्प्रयोगाभावः फलम्, तच्च युक्तम्; न हि गत्युपसर्गसंज्ञकानामप्राक्प्रयोग इष्यते। तस्मात् प्रयोगनियम एव न्याय्य इति तमाश्रित्याह - `ते गत्युपसर्गसंज्ञकाः` इति। `तथा च` इत्यादि। यादृशो नियमः कृतस्तदनुरूपं तत्सदृशमेवेत्यर्थः। ननु च नैव कश्चित् प्रपठतीति प्रयोक्तव्ये `पठति प्र` इति प्रयुङक्ते, ततोऽनिष्टादर्शनादपार्थकमेतत्, नैतदस्ति; यद्यपि भाषायां धातोः परेण प्रयुज्यमानास्ते गत्युपसर्गसंज्ञका न दृश्यन्ते, छन्दसि तु दृश्यन्ते। तत्र य एव मन्दबुद्धिः प्रतिपत्ता तेषां छन्दसि धातोः परे प्रयोगं दृष्ट्वा यथैव ते छन्दसि विषये धातोः परेण प्रयुज्यन्ते, तथा भाषायमपि प्रयोक्तव्या इति मन्यते, तं प्रति व्युत्पादनार्थत्वान्नास्ति वैयथ्र्यप्रसङ्गः।अथ किमर्थं तेग्रहणम्? यावता प्रकृतत्वादेव गत्युपसर्गसंज्ञकानां प्राक्प्रयोगेण सम्बन्धो विज्ञस्यत इत्याह - `तेग्रहणम्` इत्यादि। असति तेग्रहणे गतिसंज्ञकानामनन्तरत्वात् त एव प्राक्प्रयोगेण सम्बध्येरन्। तेग्रहणे तूपसर्गसंज्ञा अपि निर्दिश्यन्त इति तषामपि सम्बन्ध उपपद्यते। तस्मादुपसर्गाणामपि प्राक्प्रयोगनियमो यथा स्यादित्येवमर्थ तेग्रहणम्। ननु चयं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीत्यन्तरेणापि धातुग्रहणं धातोरेव प्राक् प्रयोगो विज्ञास्यते, न हि धातोरन्यत्र क्रियाऽस्ति, तत्कथं धातोरित्युच्यते? नैतदस्ति ; प्रकर्त्तृमिच्छति प्रचिकीर्षतीत्यत्रापि धातोश्च प्राक् प्रयोगो यथा स्यात्। अत्र सनः सम्बन्धिन्यषणक्रियया युक्तः प्रशब्द इति सनं गत्युपसर्गसंज्ञा यथा स्यात्। ततश्चासति धातुग्रहणे तत एव प्राक् प्रयुज्येत।धातुग्रहणे तु चिकीर्षतेर्धातोः प्राक्प्रयुज्यते, न सनः॥", "14081": "", "14082": "छन्दसि व्यवहितानां प्रयोगवचनात् भाषयां व्यवहितानां प्रयोगो न भवतीत्युक्तं भवति। यद्येवम्, गतिव्यवधानेऽपि प्राक्प्रयोगो न प्राप्नोति - समाहरतीत्यादौ नैष दोषः; न हि तुल्यजातीयको व्यवधायको भवति। गत्युपसर्गजातेराश्रयणान्नास्ति व्यवधानम्। `आ मन्द्रैः` इत्यादि। अत्राङो मन्द्रैरित्यादिभिः पदैव्र्यधानेऽपि यातेर्धातोः प्राक्प्रयोगः। `आयाहि` इति। एतेनाङो याहीत्यनेन सम्बन्धं दर्शयति॥", "14083": "`कर्मप्रवचीयाः` इति वक्ष्यमाणानां संज्ञिनां बहुत्वाद्बहुवचनेन निर्देशः। महत्याः संज्ञायाः करणस्यैतत्प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत - कर्म प्रोक्तवन्तः कर्मप्रवचीया इति। भूते <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्तर्यनीयर्। कर्मशब्दः क्रियावचनः। के च कर्म प्रोक्तवन्तः? ये सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु प्रोक्तवन्तः? येत सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु सम्प्रति द्योतयन्ति, ते कर्मप्रवचनीयसंज्ञा भवन्तीत्युक्तं भवति। यदि सम्प्रतति न क्रियां द्योतयन्ति, किन्तर्हि? सम्बन्धविशेषम्। यथा शाकल्यस्य संहितामनुप्रावर्षखदित्यत्र हि निशमनक्रियया संहिताप्रवर्षणयोर्यः सम्बन्ध उपजनितो हेतुहेतुमद्भावलक्षणः, तमनुशब्दो द्योतयति। कर्मप्रवचनीयसंज्ञायां सत्याम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इति द्वितीया भवति॥", "14084": "`लक्षणाशब्दोऽत्र चिह्ने वर्तते` इति मत्वा कश्चिच्चोदयति - `किमर्थम्` इत्यादि। इतरस्तु <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इत्यादौ सूत्रे। तत्र चिह्ने ज्ञापके वर्तमानस्य लक्षणशब्दस्य ग्रहणम्, इह तु कारके हेतौ, अतस्तेन न सिध्यतीत्येनाभिप्रायेण तं प्रत्याह - `हेत्वर्थन्तु वचनम्` इत्यादि। तुशब्दोऽवधारणे - हेत्वमर्थमेवेति। हेतुशब्दोऽतर् कारकहेतुवचनः, न ज्ञापकहेतुवचनः; अन्यथा ह्रपरिहार एवायं स्यात्। हेतुरर्थो यस्य तत्तथोक्तम्। हेतौ वर्तमानस्यानोः कर्मप्रवचनीयसंज्ञा यथा स्यादित्येवमर्थमिदं वचनमित्यर्थः। किमर्थं पुनहतौ वर्तमानस्य तस्येयं संज्ञा विधीयत इत्याह - `हेतौ तृतीयायाम्` इत्यादि। संहिता हि वर्षणस्य हेतुः, अनुहुद्द्यज्ञः सेकस्य, तथा हि - संहितामनुनिशम्य श्रुत्वा प्रावर्षत्। अवुडुद्यज्ञञ्चानुनिशम्यासिञ्चत्। तत्र यदि हेतावनोरेषा संज्ञा नोच्येत शाकल्यस्य संहितामनु रप्रावर्रषदित्यादौ `हेतौ` [[2.3.23]] इति तृतीया स्यात्। तस्मात्तां बाधित्वा द्वितीयैव यथा स्यादित्येवमर्थ हेतावियं संज्ञाऽनोर्विधीयते॥", "14085": "`नदीमन्ववसिता` इति। सहार्थोऽत्र तृतीयार्थः। <<सहयुक्तेऽप्रधाने>> [[2.3.19]] इति सहार्थयोगे तृतीयाविधानात्। `अन्ववसिता` इति। `षिञ् बन्धने` (धातुपाठः-1477) इत्यस्य निष्ठायां रूपम्॥", "14086": "`अनुशाकटायनं वैयाकरणाः` इति। शाकटायनमपेक्ष्यान्ये वैयाकरणा हीना इति। अपेक्षयात्र जनितो यः सम्बन्धस्तेन व्यतिरिच्यते शाकटायन इति। ततः षष्ठआं प्राप्तायां तदपवादेन द्वितीया विधीयते। एकयैव विभक्त्योभयस्थोऽपि सम्बन्धो द्योतित इति। तेन सम्बन्ध्यन्तरवाचिनो वैयाकरणशब्दादपरः सम्बन्धिविभक्तिर्न भवति॥", "14087": "अधिकध्यारूढमुच्यते। न चानधिकेन विनाधिकं सम्भवति। तेनाधिके सम्बन्धेऽध्यारूढक्रियाजनिते संज्ञेयं विज्ञायते। चकारद्धीने च। `उपखार्यां द्रोणः` इति। खार्या द्रोणोऽधिक इत्यर्थः। `यस्मादधिकम्` [[2.3.9]] इत्यादिना सप्तमी। तयैव सम्बन्धस्याभिहितत्वात् द्रोणशब्दात् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इति द्वितीया न भवति॥", "14088": "`प्रकृतेन सम्बन्धिना` इति। वर्षादिना। `कस्यचित्` इति। त्रिगर्तादेः। `अप त्रिगर्तेभ्यः` इति। `पञ्चम्यपाङपरिभिः` [[2.3.10]] इति पञ्चमी। `परि परि त्रिगर्तेभ्यः` इति। <<परेर्वर्जने>> [[8.1.5]] इति द्विर्वचनम्।`ओदनं परिषिञ्चिति` इति। सर्वतः सिञ्चतीत्यर्थः। <<शे मुचादीनाम्>> [[7.1.59]] इति नुम्। कर्मप्रवचनीयसंज्ञाया अभावादुपसर्गसंज्ञैव भवति। तेन `उपसर्गात्सुनोति` [[8.3.65]] इत्यादिना षत्वं भवति॥", "14089": "यत्राङो मर्यादायामभिविधौ च कार्यमिच्छति तत्रोभयोरपि ग्रहणं करोति, यथा - <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इत्यादि। इह तु मर्यादाग्रहमेव कृतम्, नाभिविधिग्रहणम्, अतोऽभिविधावनया संज्ञया न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `वचनग्रहणात्` इत्यादि। वचनग्रहणे हि सति बहुव्रीहिर्लभ्यते। `मर्यादा` इत्येतद्वचनं यत्र सूत्रे तन्मर्यादावचनम्। तत्रायमर्थो भवति - यत्र मर्यादाग्रहणमस्त सूत्रे, तत्र य आङ स कर्मप्रवचनीयसंज्ञो भवति। तत्पुनः सूत्रम् - <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इत्येतत् - तत्र चाङ मर्यादाभिविध्योर्वर्तमान उपात्त इत्युभयत्रापि भवति।कः पुनर्वर्जनस्य मर्यादाश्च विशेषः, येन पूर्वसूत्रे वर्जनमभिधायेह मर्यादाग्रहणं करोति? अयमस्ति विशेषः - वर्जने हि तत्परित्यागेनान्यत्र सामान्येन वर्षणादिना सम्बन्धो गम्यते, यथा - आ त्रिगर्तेभ्यो वृष्टो देव इति, अत्र हि यस्यां दिशि व्यवस्थितो वक्तेदं वाक्यं प्रयुङ्क्ते तस्यां दिशि यो देशो यस्तथान्यासु दिक्षु तत्र सर्वत्रैव त्रिगर्तान्? वर्जयित्वा वृष्ट इति गम्यते। मर्यादायां त्विदं वाक्यं प्रयुङक्ते - आ पाटलिपुत्राद्वृष्टो देव इति, तत्सम्बन्धिन्यामेव दिशि यो व्यवस्थितो देशस्तस्य देशस्य वर्षणेन सम्बन्धरः प्रतीयत इत्येष विशेषः।`ईषदर्थे क्रियायोगे मा भूत्` इति। ईषदर्थ आकडार इति। क्रियायोगे समाहरतीति। पूर्वत्र संज्ञाया अभावात्पञ्चमी न भवति। इतरत्र <<गतिर्गतौ>> [[8.1.70]] इति निघातो भवति। यस्तु वाक्यस्मरणयोराकारो वर्तते, तस्याङित्त्वादिह ङकारोच्चारणादेव संज्ञाया अप्रसक्तिः॥", "14090": "लक्षणं ज्ञापको हेतुश्चिह्नमिहाभिप्रेतम्। लक्ष्यते चिह्न्यते येन तल्लक्षणम्। कञ्चित्प्रकारमापन्नमित्थम्भूतम्, तस्याख्यानमित्थम्भूताख्यानम्। `भी प्राप्तौ` (धातुपाठः-1844) आत्मनेपदी। तस्मात् `आ धृषाद्वा` (धातुपाठः-1805 तः पश्चात्) इति विभाषितणिचो यदा चुरादिणिज् नास्ति, तदा क्तान्तस्य भूत इति रूपं भवति। स्वीक्रियमाणोंऽशो भागः। यस्त्वस्वीक्रियमाणेऽशे भागशब्दः प्रयुज्यते - प्रियङ्गोर्भागो नगरस्य भाग इति, स स्वीक्रियमाणांशसादृश्यात्। पदार्थान् व्याप्तुमिच्छा वीप्सा। एते च लक्षणादयः प्रत्यादीनां न द्योत्याः। किं तर्हि? विषयभूताः, अत एवाह - `विषयभूतायम्` इति। एतच्च `अभिधेयवल्लिङ्गवचनानि भवन्ति` (व्या।प।73) इति लिङ्गविपरिणामं कृत्वा लक्षणादिभिः सम्बध्यते। एतच्च `अभिधेयवल्लिङ्गवचनानि भवन्ति` (व्या।प।73) इति लिङ्गविपरिणामं कृत्वा लक्षणादिभिः सम्बध्यते। यदि लक्षमादयः प्रत्यादीनां न द्योत्याः, तर्हि किं ते द्योतयन्ति? सम्बन्धविशेषम्। `वृक्षं प्रति विद्योतते विद्युत्` इति। अत्र वृक्षो लक्षणम्, विद्योतमाना विद्युल्लक्ष्या; सा हि वृक्षं प्राप्य विद्योतत इति तयोः प्राप्तिक्रियाजनितोऽत्र लक्ष्यलक्षणभावः सम्बन्धः प्रतिशब्देन द्योत्यते। `साधुर्देवदत्तो मातरं प्रति` इति। प्रतिना देवदत्तस्य मातृविषया साधुभावापत्तिराख्यायते। अत्रापि मातरं प्राप्य साधुभावापत्तिरिति प्राप्तिक्रियाजनित एव मातुः साधुभावापत्तेश्च विषयविषयिभावलक्षणः सम्बन्धः प्रतिनाऽऽख्यायते। `यदत्र माम्ित्यादि। यो भागो मामभिभजते स दीयतामित्यर्थः। अत्रापि विभजनक्रियाजनितः स्वीकारक्रियाजनितो वा स्वस्वामिभावः सम्बन्धः। `माम्` इति। अस्मच्छब्दस्य <<त्वमावेकवचने>> [[7.2.97]] इति मादेशः। `द्वितीयायाञ्च` [[7.2.87]] इत्त्यात्त्वम्। `वृक्षं वृक्षं प्रति सिञ्चति` इति। अत्र वीप्सा द्विर्वचनेनैव द्योत्यते। प्रतिशब्दस्य तु सेकक्रियाजनितो वृक्षायां यः सम्बन्धः साध्यसाधनभावलक्षणः स एव द्योत्यः। वृक्षादिनिमित्तं साधनम्, सेकः साध्यः। द्वितीया चेह सकर्मकत्वात् सिचेः सेकेन व्याप्तुमिष्टतमानां वृक्षाणां कर्मत्वे सति <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेनैव सिद्धा। कर्मप्रवचनीयसंज्ञयोपसर्जनसंज्ञया निवर्त्तितत्त्वात् `उपसर्गात् सुनोति` [[8.3.65]] इत्यादिना धत्वं न भवति। `परिषिञ्चति` इति। सर्वतः सिञ्चतीत्यर्थः। अथेत्यादि चोद्यम्। वर्जनेत्यादि परीहारः। अपशब्दसाहचर्यादित्यतत्र्रैवोपपत्तिः। तत्र हि कर्मप्रवचनीयाधिकाराद्वर्जनार्थस्यापशब्दस्य ग्रहणं वर्जन एव। तस्य <<अपपरी वर्जने>> [[1.4.88]] इति कर्मप्रवचनीयसंज्ञा विहिता। तस्मात्तेन साहचर्याद्वर्जनार्थस्य परोग्र्रहणम्। अतस्तेनापि योगे वर्जन एव विषय इयं पञ्चमी विधीयते, न लक्षणादिषु॥", "14091": "`यदत्र मामाभिष्यात्` इति। <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः। कर्मप्रवचनीयसंज्ञाया अभावदुपसर्गत्वमस्त्येव। तेन `उपसर्गप्रादुभ्र्यामस्तिर्यच्परः` [[8.3.87]] इति षत्वम्। `माम्` इति। यद्यप्यस्तिरकर्मकस्तथाप्यकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि द्वितीया [[2.3.2]] ननु चाभिशब्दो भागसम्बन्धस्य द्योतक इति तेनास्तेः सम्बन्धो नास्ति; तत्कथं सकर्मकता? नैतदस्ति; अस्ति सम्बन्धद्वारेण ह्रभिशब्दो भागसम्बन्धं द्योतयति, अन्यथा हि यदि तस्यास्तिना योगो न स्यात् तदोपसर्गसंज्ञापि न स्यात्। ततश्चोपसर्गसंज्ञानिबन्धनमभिष्यादिति षत्वमपि न स्यात्॥", "14092": "`अभिमन्युरर्जुनतः प्रति` इति। अर्जनो मुख्यः। तत्सदृशोऽभिमन्युः। सोऽर्जुमनुकरोतीत्यत्रानुकरणक्रियाजनितः सम्बन्धविशेषोऽनुकार्यानुकरणभावः प्रतिना द्योत्यते। `प्रतिनिधिप्रतिदाने च यस्मात्` [[2.3.11]] इति पञ्चमी। <<प्रतियोगे पञ्चम्यास्तसिः>> [[5.4.44]] । `माषानस्मै तिलेभ्यः` इति। तिलानां पूर्वदत्तानां माणाणां प्रतिदानमिह निर्यातनम्। तिलान् गृहीत्वा माषान् ददातीत्यर्थः। दानग्रहणक्रियाजनितोऽत्र सम्बन्ध उत्तमर्णाधमर्णभावलक्षणः॥बाल-मनोरमाप्रतिः प्रतिनिधिप्रतिदानयोः 591, 1.4.92 प्रतिः प्रतिनिधि। सदृशः प्रतिनिधिः, दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। उक्तसंज्ञ इति। कर्मप्रवचनीयसंज्ञक इत्यर्थः। बाल-मनोरमाप्रतिः प्रतिनिधिप्रतिदानयोः 592, 1.4.92 प्रतिनिधि। अत्रेति सूत्रोक्तविषये इत्यर्थः। सूत्रे यस्मादिति षष्ठर्थे पञ्चमी, अस्मादेव निर्देशात्। `कृष्णस्य प्रतिनिधिः` इति तु `ज्ञापकसिद्धं न सर्वत्रे`ति समाधेयम्। तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति। प्रद्युम्नः कृष्णात्प्रतीति। युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः। पञ्चम्यर्थः सादृश्यम्। प्रतिस्तु तद्द्योतकः। तिलेभ्य इति। ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः। कर्मणि पञ्चमी।", "14093": "`अनर्थान्तरवाचिनौ` इति। #एतेनानर्थान्तरवाचित्वादनर्थकादवित्युक्तम्, न त्वर्थाभावादिति दर्शयति। यदि ह्रविद्यमानार्थत्वादनर्थकौ स्याताम्, निरर्थकमिदं सूत्रं स्यात्। तथा हि - कर्मप्रवचनीयसंज्ञा गत्युपसर्गसंज्ञाबाधनार्थाऽनेन विधीयते। न चानर्थकयोरधिपर्योर्गत्युपसर्गसंज्ञाप्राप्तिरस्ति। यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा विधानात्। अनर्थकयोश्च क्रियायोगासम्भवात्। `कुतोऽध्यागसच्छति` इत्यादि। कुत इत्यापादाने पञ्चमी। कर्मप्रवचीयेति [[2.3.8]] द्वितीया न भवति; `उपपदविभक्तेः कारकविभक्तिर्बलीयसी`(चां।प।69) इति वचनात्। सूत्रारम्भस्य तु प्रयोजनमाख्यातमेव। कुत इति, किंशब्दात् <<पञ्चम्यास्तसिल्>> [[5.3.7]] इति तसिल्, <<कु तिहोः>> [[7.2.104]] इति कुभावः। कर्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञोर्वाधितत्वात् <<गतिर्गतौ>> [[8.1.70]] इति निघातो न भवति। ननु चागच्छतीत्युक्त आगमनं विशिष्टं प्रतीयते, अध्यागच्छति, पर्यागच्छतीति - अधिपरियोगे त्वागमनस्योपरिभावः सर्वतोभावश्चावगम्यत इत्यपरो विशेषः, तत्कथमनर्थान्तरवाचित्वमनयोः? नैतदस्ति; यदा तयोरप्यर्थयोः प्रकरणादेः कुतश्चिदवगतयोरधिपरी प्रयुज्येते तदा तयोरनर्थान्तरवाचित्वं वेदितव्यम्। कथं पुनरवगतार्थयोः? नैतदस्ति; यदा तयोरप्यर्थयोः प्रयोगः, `उक्तार्थानामप्रयोगः` (व्या।प।60) इति वचनात्? सत्यम्, अवगतार्थस्यापि प्रयोगो दृश्यते, यथा - `ब्राआहृणौ द्वौ` इति। लोकस्य प्रयोगे गुरुलाघवं प्रत्यनादरात्॥", "14094": "`सुसिक्तं भवता` इति। भवच्छब्दात् कर्तरि तृतीया। द्वितीया तु पूर्ववदेव न भवति। `धात्वर्थः स्तूयते` इति। शोभनोद्भावनं स्तुतिः, सैव तस्य पुजा। `उपसर्गाश्रयं षत्वं न भवति` इति। कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाया बाधितत्वादिति भावः। `सुषिक्तं किं तवात्र` इति। क्षेपोऽयम्,न पूजा॥", "14095": "`अतिस्तुतमेव भवता` इति। निष्पन्नेऽपि फले स्तुतिः प्रवृत्तेर्थः। `शोभनं कृतमित्यर्थः` इति। पूजामाविष्करोति॥", "14096": "`पदार्थे` इति। अन्यस्य पदस्यार्थो लक्ष्यते। न स्वार्थः, नापि स्वसम्बन्धिनः; पदस्यार्थः पदार्थः। स्वपदार्थग्रहणं, स्वसम्बन्धिपदार्थग्रहणं वा पदार्थग्रहणमनर्थकं स्यात्। अपिशब्दस्य हि योऽर्थः यश्चापिशब्दसम्बन्धिनः स्यादित्यादेः पदस्य , स पदार्थ एवेति किं पदार्थग्रहणेन? तस्मात् पदार्थग्रहणसामर्थ्याद्विशिष्टपदस्यार्थो विज्ञायत इत्याह - `पदान्तरस्य` इत्यादि। `सर्पिषोऽपि स्यात्` इति। कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाया निवर्तितत्वात् `उपसर्गप्रादुभ्र्यामस्तिर्यच्परः` (8।3।क87) इति षत्वं न भवति। अथ सर्पिःशब्दाद्द्वितीया कथं न भवति? अपिशब्देन तस्य योगासम्भवात्। सर्पिषो हि या मात्रा साऽपिशब्देन युक्ता, न सर्पिः। मात्राशब्दात् तर्हि कस्मान्न भवति? तस्य प्रयोगाभावात्। यदा तु प्रयुज्यते, तदा कर्मप्रवचनीयसंज्ञैव नास्ति; अप्रयुज्यमानस्य पदान्तरस्यार्थे तद्विधानात्। `अधिकार्थवचनेन` इति। अधिकर्थो मूलकसहरुआसेकादिः, तस्य वचनेन सेकादावर्थे क्रियायां यच्छक्तेरप्रतिघातस्याविष्करणम् = प्रकाशनं तत्सम्भावनम्। `अपि सिञ्चेन्मूलकसहरुआम्। अपि स्तुयाद्राजानम्` इति। तस्य सेके स्तुतौ च सामर्थ्यं न विहन्यत इत्यर्थः। `सम्भावनेऽलमिति चेत् सिद्धाप्योगे` [[3.3.154]] इति लिङ। `कामचाराभ्यनुज्ञानम्` इति। कमचारः = इच्छया प्रवृत्तिः, तस्याभायनुज्ञानं कामचाराभ्यनुज्ञानम्। `अपि सिञ्च, अपि स्तुहि` इति। सिञ्च वा स्तुहि वा यथेष्टमभ्यनुज्ञातोऽसीत्यर्थः। `धिग्जाल्मं देवदत्तम्` इति।उभयसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते॥(वा।118) इत्युपसंख्यानाद्द्वितीया। `अपि सिञ्चेत्पलाण्डुम्` इति। <<अर्हे कृत्यतृचश्च>> [[3.3.169]] इति लिङ। पलाण्डुमिति कर्मणि द्वितीया [[2.3.2]] । `अपि सिञ्च, अपि स्तुहि\t` इति। एकस्मिन् कर्तरि स्तुतिसेकक्रिययोश्चनीयमानता। अत्र समुच्चयः। सिञ्च च स्तुहि चेति प्रसिद्धसमुच्चयार्थस्य चशब्दस्य प्रयोगेण तमेव समुच्चयमुदाहरणे व्यक्तीकरोति॥", "14097": "`तदयं स्वस्वामिसम्बन्धे` इति। परिलपालनादिक्रियाजनितोऽत्र सम्बन्धः। `तत्र` इत्यादि। सर्वत्र हि सम्बन्धे किञ्चिदनूद्यते, किञ्चिदाख्यायते। यत्प्रसिद्धं तदनूद्यते, यदप्रसिद्धं तदाख्यायते = विधीयते; ज्ञाप्यते; यथा - यः कुण्डली स देवदत्त इति। कुण्डलित्वानुवादेन देवदत्तनुवादेन देवदत्तत्वं विधीयते। यच्च विधीयते तत्प्रधानम्, इतरदप्रधानं विशेषमम्। तत्र यदा स्वमप्रसिद्धत्वाद्विधीयते तदा स्वामी प्रधानत्वाद्वयतिरेकमापद्यत इति तत इव कर्मप्रवचनीयसंज्ञायुक्तत्वाद्व्यतिरेकनिबन्धनविभक्तो षष्ठआं प्राप्तायां तदपवादः `यस्मादधिकं यस्य चेआरवचनं तत्र सप्तमी` [[2.3.9]] इति सप्तमी भवति। तयैव सम्बन्धस्य द्योतितत्वात् स्वात् प्रथमैव भवति, न सप्तमी। यदा तु स्वाम्यप्रसिद्धत्वात् विधीयते, तदा विपर्ययो वेदितव्यः॥", "14098": "अधिरीश्वर इति वर्तते। तेन प्राप्ते विभाषेयम्। अधिपूर्वः करोतिर्विनियोगे वर्तते। विनियुक्तस्यैवआर्यं सम्पद्यते। `यदत्र मामधिकरिष्यति` इति। मामिति कर्मणि द्वितीया। अधिकरिष्यतीति; अत्र `निपातैर्यद्यदि` [[8.1.30]] इत्यादिना निघाते प्रतिषिद्धेऽस्य प्रकृतिस्वरेणाद्युदात्तत्वं भवति॥", "14099": "ल इति प्रथमा वा स्यात्? षष्ठी वा? तत्र यदि प्रथमा स्याल्लकारस्यैव परस्मैपदसंज्ञा स्यात्, न तदादेशानां तिबादीनाम्। कामम्, तेषममपि स्थानिवद्भावेन स्यात्। <<तङानावात्मनेपदम्>> [[1.4.100]] इत्यत्र तु `लः` इत्यनेन तङानयोः सम्बन्धो नोपपद्येत, न हि तङानौ लौ भवतः। अत्र तङानभावो लकार एव तङानावित्येवमभिहितः। साहचर्याद्वा लादेशौ तङानावव `ल` इत्युक्ताविति व्याख्येयम्। तथा च व्याख्यानद्वारेणेष्टार्थप्रतिप्त्तौ साध्यायां प्रतिपत्तिगौरवं स्यात्। षष्ठीपक्षे त्वेष दोषो नास्ति, अतस्तमाश्रित्याह - `लः` इति षष्ठी` इत्यादि। नन्वयमपि पक्षो दोषवानेव, लादेशस्य हि परस्मैपदसंज्ञा विधीयमाना तिङां न स्यात्, तेषां परत्वात् <<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> [[1.4.101]] इत्यादिना प्रथमपुरुषादिसंज्ञया भवितव्यम्। परस्मैपदसंज्ञायास्तु शतृक्वस्वोश्चावकासः? नैष दोषः; यदयं `सिचि वृद्धिः परस्मैपदेषु` (7.2.1।) इत्याह तज्ज्ञापयति - भवति च तिङां परस्मेपदसंज्ञेति। स हि परस्मैपदे परे सिचि विधीयते, न हि सिज्विषये शतृक्वसू सम्भवतः। `तिप्तस्झि` इत्यादि रूपोदाहरणमात्रम्॥`कतीह निघ्नानाः` इति। निपूर्वोद्धन्तेः <<ताच्छील्यवयोवचनशक्तिषु चानश्>> [[3.2.129]] इति चानश्प्रत्ययः। `गमहन` [[6.4.98]] इत्यादिनोपधालोपः। `होहन्तेर्ञ्णिन्नेषु` [[7.3.54]] इति कुत्वम्। यद्यनादेशोऽपि चानशात्मनपदसंज्ञकः स्यात् परस्मैपदिनो हन्तर्न स्यात्॥तिङ इति प्रथमाबहुवचनम्। तिङः संज्ञिनः किंभुताः? त्रीणि त्रीणित्येवम्भूता इत्यर्थः। वचनापेक्षया नपुंसकलिङ्गेन निर्देशः। वीप्सायाञ्चैतद्द्विर्जनम्। यदि तिङस्त्रीणि त्रीणि वचनानि प्रथममध्यमोत्तमपुरुषसंज्ञकानि भवन्ति, एवं सति षट्त्रिकाः संज्ञिनः संज्ञास्तित्र इति यथासंख्यं न प्राप्नोति; वैषम्यात्। तत्र यद्येकस्यानेकसंज्ञाविधानवैयथ्र्यादेका संज्ञा भवेत्, न त्वेकैकस्य तिरुआः, तथापि सैवैकैका भवन्तीत्यव्यवस्था वा स्यात्; नैष दोषः;इह हि परस्मैपदग्रहणमात्मनेपदगर्हणञ्चानुवर्तते। तदनुवृत्तौ च द्वौ राशी भवतः- नवानां तिङां परस्मैपदसंज्ञकानामेको राशिः, तथा नावानामात्मनेपदसंज्ञकानां द्वितीयः। तत्र प्रथमे राशौ ये त्रयस्त्रिकाः, ये च द्वितीये राशौ त्रयस्त्रिकास्तैरिदं सूत्रं प्रत्येकमभिसम्बध्यते - परस्मैपदेषु तिङस्त्रीणि त्रीणि प्थममध्यमोत्तमाः, तथात्मनेपदेषु तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमा इति। एवं हि सति न भवति संख्यातानुदेशाभावप्रसङ्गः। तमेवार्थं दर्शयितुमाह - `तिङोऽष्टादश प्रत्ययाः` इति। `नव` इत्यादिना राशिद्वयं दर्शयति। `तत्र` इत्यादिना प्रथमे राशौ ये त्रयस्त्रिकास्तैरस्य सूत्रस्य सम्बन्ध#ं करोति। `आत्मनेपदेषु` इत्यादिनापि द्वितीये राशौ ये त्रयस्त्रिकास्तैश्च॥`तानि` इति बहुवचनं संज्ञासमावेशार्थम्; अन्यथा ह्रेकसंज्ञाधिकारे सति वचन्परामाण्यात् पुरुषवचनसंज्ञाः पर्यायेण प्रवर्तेरन्। एवञ्च तत्र <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्यादिना विधीयमानमाडादिकार्यं पाक्षिकं स्यात्। अस्मस्तु सति भवति संज्ञासमावेशः। तच्छब्देन हि त्रीणि त्रीणि लब्धपुरुषसंज्ञकानि तान्येकवचनादिसंज्ञकानि भवन्तीति प्रत्यवमृश्यन्ते, तेन यानि लब्धप्रथमपुरुषादिसंज्ञकानि तान्येवैकवचनादिसंज्ञकानि भवन्ति। ननु च त्रिकाणां प्रथमादिसंज्ञैकैकस्य चैकवचनादिसंज्ञा, तत्र विषयबेदादेकसंज्ञाधिकारेऽपि विरोधो नास्त्येवेति; नैष दोषः; तदस्ति पुरुषादिसंज्ञापि हि प्रत्येकमेव, न हि समुदायो नामान्यस्त्रिकेभ्योऽस्ति; तस्मात् तिबादयस्त्रका एव संज्ञिनः। त्रिग्रहणन्तु मर्यादार्थम्। त्रत्वसंख्यापरिच्छिन्नास्तिङः प्रत्येकं पुरुषसंज्ञाः प्रतिपाद्यन्ते। तस्मात् प्रथमादिसंज्ञानामेकवचनादिसंज्ञानाञ्चैकविषयतैवेति संज्ञासमावेशार्थं तानीत्युक्तम्॥", "14100": "", "14101": "", "14102": "", "14103": "सुविति प्रत्याहारग्रहणम्। प्रथमैकवचनात् सुशब्दादारभ्य सप्तमीबहुचनस्य सुपः पकारेण। अथ कपः पकारेणायं प्रत्याहार कस्मान्न विज्ञायते? सप्तमीबहुवचनस्य पकारस्य वैयथ्र्यप्रसङ्गात्। स ह्रनुदात्तार्थः स्यात्? प्रत्याहारार्थो वा? तत्रानुदात्तार्थो न भवति; अनुदात्तस्य सुपत्वादेव सिद्धत्वात्। तत्र यदि प्रत्याहारार्थोऽपि न स्यात् तदास्यापार्थकत्वमेव स्यात्। तस्मात् तेनैवायं प्रत्याहारो विज्ञायते, न तु कपः पकारेण; स्वरविधौ तस्य चरितार्थत्वात्॥", "14104": "चकारः पुरुषादिसंज्ञासमावेशार्थः। विना तेनैकसंज्ञाधिकारे वचनप्रामाण्यात् पर्यायः स्यात्। तिङो विभक्तत्वे प्रयोजनम् `न विभक्तौ तुस्माः` (र1.3.4) इतीत्संज्ञाप्रतिषेधः। सुपस्त्वेच्च, अन्यच्च त्यदाद्यत्वादि॥", "14105": "नियतार्थमेतदिति दर्शयितुमाह - `लस्येत्यधिकृत्य` इत्यादि। एतच्च नियमार्थत्वे कारणम्। सत्यारम्भो नियमार्थो भवति, नासिद्धे। स पुनरयं नियम उपपदार्थनियमो वा स्यात् - तिङो युष्मद्युपपदे मध्यम एव? पुरुषनियमो वा स्यात् - युष्मद्येवोपपदे मध्यम् इति वा? तत्र यदि प्रथमो नियम आश्रीयते, त्वया कुर्वता त्वया कुर्वाणेनेति युष्मद्युपदे लस्य शतृशानजादेशौ न भवतः। तस्मात् तदर्थं यत्नान्तरमास्थेयम्। इतरत्र तु न किञ्चिद्यत्नसाध्यम्, अतो द्वितीयपक्षमाश्रित्याह - `तेषामयम्` इत्यादि। व्यवहिते च, अव्यवहिते चेति। ननु च परस्परं सन्निकृष्टं यत्पदं तदुपपदमुच्यते - उपोच्चारितं पदमिति कृत्वा;यच्च व्यवहितं तदव्यवहितापेक्षया विप्रकृष्टम्, अतो व्यवहितेन भवितव्यम्, नैष दोषः; यस्मात् सन्निकृष्टं विप्रकृष्टमित्यव्यवस्थितमेतदुभयग्रहणम्; सापेक्षत्वात् परापरवत्। तत्र यद्यव्यवहितमपेक्ष्य व्यवहितं विप्रकृष्टं भवति, तथाप्यन्यद्विप्रकृष्टतरमपेक्ष्य सन्निकृष्टं भवतीतीतरत्र व्यवहितेनापि भवितव्यम्। यद्येवम्, उपपदग्रहणं किमर्थम्? पूर्वभूतेऽपि यथा स्यादित्येवमर्थ कृतम्। अन्यथा `युष्मदि` इत्येतावत्युच्यमाने<<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति परभूत एव युष्मदि पूर्वस्य मध्यमः स्यात्, न तु पूर्वभूते परस्य। उपपदग्रहणादत्रापि भवति। पूर्वेण परेणापि प्रयुज्यमानमुपपदं भवत्येव।`समानाधिकरणे` इत्यनेन समानाभिधेय इति व्याचक्षाणोऽयमधिकरणशब्दोऽभिधेयवचनः सूत्र उपात्त इति दर्शयति। तत्पुनरभिधेयं यत्र लकार उत्पद्यते कर्तरि कर्मणि वा कारके प्रत्यासत्तेस्तदेव विज्ञायते इत्याह - `तुल्यकारके` इत्यादि। तुल्यं कारकं यस्य तत् तथोक्तम्। तुल्यशब्देन समानशब्दस्यार्थो दर्शितः। `प्रयुज्यमानेऽप्रयुज्यमानेऽपि` इति। अनेन स्थानिन्यपीत्यस्यार्थमाचष्टे। स्थानशब्दः प्रसङ्गवाची - स्थानमस्यास्तीति स्थानी। कस्य च स्थानम्? तस्यैव स्थानमस्ति यस्यार्थो गम्यते, शब्दो न प्रयुज्यते। तदेतदुक्तं भवति - अप्रयुज्यमानेऽपि युष्मदि, अपिशब्दात् प्रयुज्यमानेऽपि। समानाधिकरणग्रहणं किम्? `त्वया पच्यते` इत्यत्र मा भूत्, भिन्नं ह्रधिकरणम्। तथा हि - `त्वया` इत्येतत् कर्त्तृवाचि; कर्तरि तृतीयाविधानात्। `पच्यते` इति कर्मवाचि; कर्मणि लकारविधानात्॥", "14106": "`प्रहासे गम्यमाने` इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रयाविष्करणेन प्रहासो गम्यते। `मन्योपपदे` इति।मन्यतिरुपपदमुपोच्चारितं पदं यस्य स तथोक्तः। मध्यमस्य धातोर्विधानात् धातुरन्यपाद्रथो विज्ञायत इत्याह - `धातोःट इति। `स चैकवत्` इति। यत्र द्वौ मन्तारौ बहवो वा तत्रायमेकवद्भावो विधीयते। अन्यत्र तु मन्तुरेकत्वादेवैकवचनं सिद्धम्। `मध्यमोत्तमयोः` इति। यथाक्रमं युष्मदस्मदोरुपपदयोः समानाधिकरणयोरप्रयुज्यमानयोरप्यर्थस्य विद्यमानत्वात्। यथा प्रत्युदाहरणे पूर्वकमुपपदग्रहणं युष्मच्छब्देनाभिसम्बद्धमिहानुवर्तेतेति तन्मन्यतिनाऽशक्यमभिसम्बन्धृमिति पुनरुपपदग्रहणं क्रियते। मन्यतेरिति श्यना निर्देशः, इत्यस्य तानादिकस्य ग्रहणं मा भूदत्येवमर्थः। तेनेनह न भवति - एहि मनुषे रथेन यास्यामि न हि यास्यसि यातस्तेन ते पितेति। एवं हि मनोतेर्भवति॥", "14107": "यदा युष्दस्मदी द्वे अप्येते उपपदे स्तः, तदा कथं भवितव्यम्? यदि कर्त्तृशक्ती आधारप्रतिनियते अपेक्ष्येते, तदाऽऽख्यातमपि पृथगेव प्रयुज्यते - पचसि पचामि चेति। अथाविरोधाच्छक्तिद्वयेऽपि लकार उत्पद्यते, तदा विप्रतिषेधादुत्तम एव भवति - त्वञ्चाहञ्च पचाव इति। यद्यपि `त्यदादीनां यद्यत्परं तच्छिष्यते` भवति। आवां पचाव इत्यत्र ह्रस्मच्छब्दस्य युष्मदर्थोऽपि वाच्यः, अन्यथा हि द्विवचनं न स्यात्। न ह्रस्मच्छब्दस्यैव द्वित्वमुपपद्यते॥", "14108": "", "14109": "`परशब्दोऽतिशये वर्तते` इति। यथा परं दुःखमिति। एतन परशब्दोल दिगादिष्वप्यर्थेषु वर्तते, तथापीहातिशये वर्तमानस्य तस्य ग्रहणमित दर्शयति। सन्निकर्षः = प्रत्यासत्तिः, संश्लेषश्च। तत्रेह प्रत्यासत्तिर्गृह्रत इति दर्शयन्नाह - `सन्निकर्षः प्रत्यासत्तिः` इति। संश्लेषस्तु न गृह्रते, तस्य वर्णेष्वसम्भवात्। संश्लेषो ह्रेककालानां भवति, न च वर्णामामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसितत्वात्। संश्लेषो ह्रेककालानां भवति, न च वर्णानामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसतत्वात्। सत्यामपि चैककालतायां न सम्भवत्येव वर्णानां सश्लेषः। तथा हि - संश्लेषः संयोगतो वा स्यात्, समवायतो वा; तत्र पूर्वको द्रव्यस्यैव स्यात्, न तु शब्दस्य - निर्गुणा गुणा इति कृत्वा। इतरोऽपि नैव शब्दस्य सम्भवति, न हि वर्णो वर्णे समवैति; शब्दस्याकाशसमवायित्वात्। न च संयोगसमवाययोरतिशयः सम्भवति; सर्वत्रैकरुपकत्वात्। तथा च `परः` इति विशेषणं नोपपद्यते। प्रत्यासत्तिस्त्वपेक्षाकृतभेदात् प्रकर्षाप्रकर्षाभ्यां प्रयुज्यमानापरग्रहणेन विशिष्यत इति युक्तं तस्य विशेषणत्वम्। कः पुनरसौ परः सन्निकृष्टान् वर्णानुच्चारयति वक्तरि पूर्वस्य वर्णस्य ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपरतौ वर्णान्तरस्य च ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपदेशनमद्र्धमात्राकालमाहुः। स वर्णानां व्यवधानः = व्यवधायको यस्मिन् सोऽद्र्धमात्राकालव्यवधानः सन्निकर्षः। यदि वर्णानामद्र्धमात्राकालव्यवधानः सन्निकर्षः,कथं तर्हि दध्यत्रेत्यादौ वयवधायककालो नोपलक्ष्यते,वर्णाः संश्लिष्टा एवोपलभ्यन्ते? नैतत्; किमर्थं पुनरेतदारभ्यते, यावता परमेव सन्निकर्षं संहितेति वदन्त्याचार्याः, तथा हि संहितामधीष्वेत्युक्ते परं सन्निकर्षमेवाधीते शिष्यः? नैतदेवम्; पदस्य पदान्तरेण यदानन्तर्यं सा संहितेति लोकेऽभिधीयते। तथा च वक्तारो वदन्ति - संहितामधीते न पदानि, पदान्यधीते न संहितामिति। तथा चैकपदे हि संहिताकार्यं न स्यात्, <<इको यणचि>> [[6.1.77]] इति - कुमार्यौ, कुर्मार्य इति। सति ह्रस्मिन् वर्णानां सन्निकर्षविशेषस्यानेन संहितासंज्ञा विधीयत इत सर्वत्रैव भवति॥।", "14110": "`विरतिर्विरामः` इति। भावे घञ्। विरामो वणोच्चारणाभावोऽवसानसंज्ञो भवति। `विरम्यतेऽनेनेति विरामः` इति विरामशब्दस्य द्वितीयमर्थं दर्शयति। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति बहुलवचनादसंज्ञायामपि `हलश्च` [[3.3.121]] इति घञ्। अत्र पक्षे येनान्त्येन वर्णेन विरम्यते सोऽवसानसंज्ञो भवति। तत्र पूर्वस्मिन् पक्षेऽभावे पौर्वापर्याभावात् `खरवसानयोः` [[8.3.15]] इत्यत्रावसानापेक्षया विषयसप्तमीयं विज्ञायते; न परसमप्तमी। खरपेक्षया तु सप्तमीयम्।अन्ये तु - यद्यभावे पौर्वापर्यं न सम्भवतीत्यवसनापेक्षया `खरवसानयोः` [[8.3.15]] इति परसप्तमी नोपपद्यते, तदा <<इको यणचि>> [[6.1.77]] इत्यादावपि परसप्तमी नोपपद्यते। कथम्? वर्णानां क्रमभावित्वात्, उच्चरितप्रध्वंसितत्वाच्च। यदेगस्ति तदाञ् नास्ति, यदा त्वजस्ति तदेग् नास्ति। अथात्र बुद्धिप्रकल्पितं पौर्वापर्यमाश्रित्य परसप्तमीष्यते, तदा `खरवसानयोः` [[8.3.15]] इत्यत्रापितथैवैष्टव्येति मन्यमाना अवसानापेक्षयापि परसप्तमीमिच्छन्ति।अपरे तु - अन्त्यस्य तु वर्णस्यावसानसंज्ञायां सत्यां `खरवसानयोः` [[8.3.15]] इति षष्ठी विज्ञायते। अत्रावसानापक्षया स्थानषष्ठी। रेफस्यावसानस्य विसर्जनीय इति खरपेक्षया तवानन्तर्यलक्षणा षष्ठीति वदन्ति। तन्मते स्थानषष्ठआं हि `रो रि` [[8.3.14]] इत्यतो रेफस्यानुवृत्तस्य यत् स्थानित्वं तदविरुध्यते तदेवमेकापि विभक्तिर्यथायोगं विभज्यते। ननु चाभावपक्षेऽपि पूर्वस्मिन्नपि भागेऽनुच्चारममस्ति, तत्रापि विसर्जनीयः प्राप्नोति - रथ इति, अस्ति ह्यत्रापि रेफात् प्रागुच्चारणम्? नैष दोषः तत्र हि प्रकृतं पदग्रहणं रेफेण विशिष्यते - रेफान्तस्य पदस्येति। न च पूर्वेण रेफेण पदं भवति। नन्वेवप्यर्थस्यैषा संज्ञा स्यादिति `खरवसनायोः` [[8.3.15]] इत्यत्र <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति परिभाषा नोपतिष्ठते। शब्दे हि सप्तमीनिर्दिष्टे सतीयमुपतिष्ठते, नार्थे। तदनुपस्थाने च परेण रेफेण रेफान्तस्य रथ इत्येतस्य पदस्य पूर्वो यो रेफस्तस्य व्यवहितस्यापि विसर्जनीयः स्यात्, नैष दोषः; ज्ञापकान्न भविष्यति, यदयं <<उरण् रपरः>> [[1.1.51]] इति व्यवहितस्य रेफस्य विसर्जनीयमकृत्वा निर्देशं करोति, तज्ज्ञापयति- व्यवहितस्य रेफस्य विसर्जनीयो न भवतीति। `नन्वत्र लोके प्रसिद्धेरेवायन्त्ये वर्णेऽवसानशब्दस्य सम्प्रत्ययो भविष्यति। प्रसिद्धो हि लोके - अन्त्ये वर्णेऽवस्यतेः प्रयोगः। तथा हि केनावस्यतीत्युक्ते वक्तारो वदन्ति - इकारेणोकारेण वेति। इकारादिवर्णेनावसानं करोतीत्यर्थः। ततः प्रदेश एवावसानग्रहणं कर्तव्यमिति नार्थः संज्ञासंज्ञिप्रणनेन, नैतदस्ति; अपूर्वो हि स्यतिः परिसमाप्तावपि वर्तते - अवसितो वाद इति, अवगमेऽपि वर्तते - अवसितोऽर्थ इति, पराभवेऽपि वर्तते - द्वयोर्विवादेऽवसितो दवदत्त इति। तत्र यदीयं नारभ्यते, तदावसानग्रणे सन्देहः स्यात् - किमभिधानावसानशब्दस्य ग्रहणमिति? <<विरामोऽवसानम्>> [[1.4.110]] इति तु ह्रन्तग्रहणं कर्तव्यम् - खरन्त्ययोरिति? एतदपि नास्ति; एवं हि सन्देहः स्यात् - किमन्त्यस्य वर्णस्य? उत पदस्य? आहोस्वद्वाक्यस्येति? तत्रान्त्यस्य विशेषणार्थं वर्णग्रहणं कर्तव्यं स्यात्। तस्मात् संज्ञासंज्ञिसम्बन्धः कर्तव्यः।`वृक्षः, प्लक्षः` इति। `खरवसनायोर्विसर्जनीयः` [[8.3.15]] । `दधिं मधुँ` इति। <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इति। अत्र हि <<वाऽवसाने>> [[8.4.56]] इत्यतोऽवसानग्रहणमनुवर्तते॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यचतुर्थः पादः\tसमाप्तश्चायं प्रथमोऽध्यायः॥", "21001": "`परिभाषेयम्` इति। परितो व्यापृता भाषा = परिभाषा। तथा चोक्तम् - `परिभाषा पुनरेकस्था सर्व शास्त्रमभिज्वलयति, यथा - वश्मप्रदीपः`। कुतः पुनरेतद्विज्ञायते - परिभाषेयम्, नाधिकार इति? पदविधिग्रणाल्लिङ्गात्। उत्तरत्र हि सर्वः पराङ्गवद्भावादिरनुकरस्यमानः पदविधिरेव। तत्र यद्यमधिकारः स्यात्, पदविधिग्रहणमनर्थकं स्यात्; वयावत्र्याभावात्। परिभाषायां त्वस्याम्, परिभाषा ह्रेकदेशस्यापि सर्वत्र शास्त्रे व्याप्रियत इत्यसति पदविधिग्रहणे वर्णविधायवप्युपतिष्ठेत। ततो वर्णविधिनिरासार्थ क्रियमाणं पदविधिग्रहणमर्थवद्भवति। तस्मात् पदिविधग्रहणाल्लिङ्गात् परिभाषेयं नाधिकार इत्यवसीयते। यद्यवम्, <<इसुसोः सामर्थ्ये>> [[8.3.44]] , <<न चवाहाहैवयुक्ते>> [[8.1.24]] इत्येवमादिषु योगेषु सामर्थ्यग्रहणं युक्तग्रहणञ्च किमर्थं क्रियते, यावता `पदस्य` इति तत्रानुवर्तते, तत्र पदविधित्वादेवासामर्थ्ये न भविष्यति? सत्यमेतत्; यदर्थं तु क्रियते तत् तत्रैव प्रतिपादयिष्यामः।विधिशब्दोऽयमस्त्येव भावसाधनः - विधानं विधिरिति। अस्ति च कर्मसाधनः - विधीयत इति विधिः। तत्र भावसाधने विधिशब्द आश्रीयमाणे पदानामपरिनिष्पन्नानां परिनिष्पादनं पदविधिरिति पदेषु कर्मणि कृद्योगलक्षणा षष्ठी; तेषां विधिना सम्बन्धात्। कर्मसाधने तु परिनिष्पन्नानां व्यवस्थितानामेव पदानां यत्समासादि कार्यं विधीयते स पदिविधिः। तत्र पदेषु च शेषलक्षणा षष्ठी भवति; विधीयमानस्य कार्यस्य पदसम्बन्धित्वेनोपादानात्। तत्र यदीह भावसाधनो विधिशब्द आश्रीयेत तदा विभक्तिविधानमेव सङ्गृहीतं स्यात्,समास - पराङ्गवद्भाव - तद्धितवृत्त्यादिकं न सङ्गृह्रेतच न हि तत्र पदानामसतां विधानम्; किं तर्हि? व्यवस्थितानामेव पदानां समासादि कार्यं विधीयते। इतरत्र तु विधिशब्द आश्रीयमाणे तेऽपि सङ्गृहीता भवन्तीति मन्यमानः कर्मसाधनं विधिशब्दमाश्रित्याह - `विधीयत इति विधिः` इति। ननु चात्रापि पक्षे विभक्तिविधानं न सङ्गृह्रेत, न हि <<कर्मणि द्वितीया>> [[2.3.2]] इत्येवमादिशास्त्रेण व्यवस्थितानां पदानां किञ्चित् कार्यं विधीयते, अपि तु पदान्येव विधीयन्ते? यदि न सङ्गृहीतं स्यान्न नाम। न च तदसङ्ग्रहे किञ्चिदनिष्टमापद्यत इत्युत्तरत्र प्रतिपादयिष्य#आमः। `समासादिः` इति। आदिशब्देन तद्धितवृत्यादीनां ग्रहणम्।`समर्थः शक्तः` इति। स्वकार्यनिर्वर्तनक्षम इत्यर्थः। स हि लोके समर्थ इत्युच्यते। स्वार्थप्रतिपादनमेव शब्दानां स्वकार्यम्। ये चेह लौकिका वैदिकाश्च शब्दा अधिकृतास्ते सर्वे एव स्वकार्यप्रतिपादनं प्रति समर्थाः। तस्मात् `समर्थः` इत विशेषणोपादानसामर्थ्याद्विशेषः कश्चिदाश्रीयते। स च विशेषः - वृत्त्यर्थं यद्वाक्यमुपादीयते, प्रत्यासत्तेस्तदर्थप्रतिपादने या शक्तता तल्लक्षमो विज्ञायत इत्याह - `विग्रहवाक्यर्थाभिधाने` इत्यादि। विशेषेण गृह्रते विज्ञायतेऽनेनेति विग्रहः, विग्रहश्च तद्वाक्यम्। अथ वा - विशेषेण ग्रहणं विग्रहः, विग्रहार्थं यद्वाक्यं तद्विग्रहवाक्यम्। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। विग्रहवाक्यस्यार्थो विग्रहवाक्यार्थः, तदभिधाने तत्प्रत्यायने यः शक्तः स समर्थो वेदितव्यः, यथा - राजपुरुष इत्ययं समसाः, एतदर्थं यद्वाक्यं राज्ञः पुरुष इति तस्य योऽर्थस्तदभिधाने राजपुरुष इत्ययं शब्दं शक्तः; ततोऽपि तदर्थस्य प्रतीतेः। स पुनरर्थः - संसर्गः, भेदश्च;भेदसंसर्गौ वा।तत्र स्वविशेषस्य स्वामिविशेस्य स्वामिविशेषेण यः सम्बन्धः स `संसर्गः` आख्यायते। स्वान्तरस्य स्वाम्यन्तरेभ्यः, स्वाम्यतरस्य स्वातन्तरेभ्यश्च व्यावृत्तिः `भेदः` आख्यायते।तत्र संसर्गवादिनो मते संसर्ग एव शब्दार्थः, व्यावृत्तिस्त्वर्थसंगृहीता। न ह्रव्यावर्त्त्यसंगृहीता। न ह्रव्यावर्त्त्यमानयोः स्वस्वामिनोः सम्बन्ध्यन्तरेभ्यः संसर्ग उपपद्यते। भेदवादिनस्तु व्यावृत्तिरव शब्दार्थः, संसर्गोऽर्थसङ्गृहीतः; न हि व्यावर्त्त्यमानस्य सम्बन्ध्यन्तरेणासम्बद्धस्य स्वाम्यादेरवस्थानमस्ति। उभयवादिनस्तु उभय एव शब्दार्थः। यदि विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो विज्ञायेत, एवं सति समासतद्धितविषयमेव सामर्थ्यामिति पराङ्गवद्भावविभक्तिविधानयोरियं परिभाषा नोपतिष्ठेत; न हि तत्र विग्रहवाक्यार्थाभिधानमस्ति? यदि नोपतिष्ठेत, न नाम; न च तदनुपस्थाने किञ्चिदनिष्टमापद्येत। तथा हि - पराङ्गवद्भावे तावन्निमित्तग्रहणं देशयिष्यति भाष्यकारः। तत्र च निमित्तस्य निमित्तिना सामर्थ्यमस्त्येव - मद्राणां राजन्, परशुना वृश्चन्निति। विभक्तिविधानेऽपि यास्तावत् कारकविभक्तयस्ता येष्वेव कारकेषु कर्मादिषु विधीयन्ते तेषां क्रियया सम्बन्धोऽस्त्येव। उपपदविभक्तिष्वपि <<सहयुक्तेऽप्रधाने>> [[2.3.19]] इत्येवमादिषु युक्तग्रहणादीनि सन्ति, तत्रापि सामर्थ्यमस्त्येव। तत्रैवं सम्बन्धे सति विभक्तय इष्यन्ते, न तु व#इग्रहवाक्यार्थाभिधानलक्षणसामर्थ्ये। एवं तावन्मुख्यार्थवृत्तिः समर्थशब्दो दर्शितः।इदानीमुपचरितवृतिंत दर्शयितुमाह - `अथ वा` इत्यादि। समर्थानि पदान्याश्रयो यस्य स समर्थपदाश्रायः; तद्भावः समर्थपदाश्रयत्वम्। ततो हेतोः समासादिः समर्थ उच्यते। आश्रयस्य समर्थत्वादुपचारेणाश्रितोऽपि तथेति व्यपदिश्यते; कारणधर्मस्य कार्य उपचारात्, यथा - नड्वलोदकं पादरोगः। `समर्थानाम्` इत्यनेन वाक्ये व्यपदेशलक्षणं सामर्थ्यमाह। तथा हि `राज्ञः पुरुषः` इत्यत्र वाक्ये राजा पुरुषमपेक्षते - ममायमिति, पुरुषोऽपि राजानमपेक्षते - अहमस्येति। `संसृष्टार्थानाम्` इत्यनेन समासे पदानामेकार्थीभावनलक्षमं सामर्थ्यं दर्शयति। एकार्थीभावश्च पृथगवस्थितानां भिन्नार्थानां पदानां समासे साधारणार्थता नामावस्थाविशेषः। वाक्ये हि साधारणार्थता नास्ति; भिन्नार्थत्वात्। अत एव तत्र भेदनिबन्धना षष्ठ्युपजायते - राज्ञः पुरुष इति। वृत्तौ तूभयपदव्यवच्छिनार्थाभिधानत् साधारणार्थता भवति। एतेनैतदुक्तं भवति - समासे हि विशेषणं विशेष्यमनुप्रविशत्येकार्थी भवति विशेष्येण सरह, वाक्ये हि विशेषमं विशेष्यात् पृथगवतिष्ठत इति। यस्मिन्नसति, वाक्ये राज्ञो गौश्चाआश्च पुरुषश्चेति भेदनिबन्धनसमुच्चयप्रतिपादनाय चशपब्द प्रयुज्यते। समासे तु यस्मिन् सति स निवर्तते राज्ञो गवाआपुरुषा इत्ययमेकार्थीभावो वेदितव्यः। `पश्य देवदत्त कष्टम्, श्रितो विष्णुमित्रो गुरुकुलम्` इति। अत्र कष्टशब्दस्य पश्येत्यनेन सम्बन्धः; न तु श्रितशब्दन; तेन सामर्थ्याभावात्समासो न भवति। ननु च श्रितादीनां श्रुतत्वात्तैरेव द्वितीयां विशेषयिष्यामः - श्रितादीनां सम्बन्धिनी या द्वितीयेति शक्यते व्यपदेष्टम् । असति तु तस्मिन्, द्वितीयामात्रं श्रितादिभिः समस्यत इति विज्ञायते। एवं सापेक्षस्यापि समासः स्यादेव - महत् कष्टं श्रित इति, भवति ह्यत्र श्रितादिनिमित्ता द्वितीया। तस्मात् समर्थग्रहणं कर्तव्यम्। `किं त्वं करिष्यसि सङ्कुलया, खण्डो देवदत्त उपलेन` इति। अत्रोपलेन तृतीयान्तेन कृतं खण्डनम्। अतस्तत्कृतत्वमस्तीति प्राप्नोति समासः; समर्थग्रहमान्न भवति। समर्थग्रहणे तु सत्ययमर्थो भवति - यस्यैव तृतीयान्तस्य समासस्तेनैव यदि कृतं खण्डनमिति। न चेह तत्कृतं खण्डनमतो न भवति समासः। एवमन्यत्राप्यसामर्थ्यादसमासो वेदितव्यः।", "21002": "`परस्याङ्गवत्` इति। अत्राङ्गवशब्दोऽवयववचनः। पर्सयाङ्गवत् परैकदेशवद्भवति। तद्ग्रहणेन गृह्रत इत्यर्थः। एवं तादात्म्यातिदेशोऽयं विज्ञायत इत्याह - `तादात्म्यातिदेशोऽयम्` इति। तादात्म्यम् = तत्सभावत्वम्। `सुबन्तम्` इत्यादिना तमेव तादात्म्यातिदेशं स्पष्टीकरोति। `सुबन्तमामन्त्रितमनुप्रविशति` इति। तत्रान्तर्भवतीत्यर्थः। `कुण्डेनाटन्` इति। अत्र कुण्डशब्दोकार आमन्त्रितस्वरः। एवमन्यत्रापि ससुप्कस्यामन्त्रितस्य स्वरो वेदितव्यः।`पीडए पीडमान` इति। हे पीडमान त्वदीयया पीडयाऽहं पीडए, बाध्येऽहमित्यर्थः। `पीड अवगाहने` (धातुपाठः-1544), चुरादिणिच्, उभयत्र कर्मण्यात्मनेपदम्, एकत्रोत्तमपुरुषैकवचनमिट्, अन्यत्र शानच्, सार्वधातुके यक्, णिलोपः, <<तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः>> [[6.1.186]] इतीटोऽनुदात्तत्वम्, यकः प्रत्ययस्वरेणाद्युदात्तत्वम्, यकः प्रत्ययसर्वेणाद्युदात्तत्वम्, `एकादेश उदात्तेनोदात्तः` (र8.2.5) इत्येकार उदात्तः। पीडमानेत्यस्य तु `पीड` इत्यस्यात् पदादुत्तरस्य <<आमन्त्रितस्य च>> [[8.1.19]] इति निघातः। `गेहे गार्ग्यः` इति। गेहशब्द उञ्छादिपाठादन्तोदात्तः, सप्तम्येकादेशः पूर्ववदुदात्तः, गाग्र्य इति ञ्त्सरेणाद्युदात्तः। पृथक्स्वर एवात्र भवति। `देवदत्त कुण्डेनाटन्` इति। यदि परग्रहणं न क्रियते तदा देवदत्तशब्दं पूर्वमप्यामन्त्रितं प्रति सुबन्तस्यानुप्रवेशः स्यात्, ततश्च देवदत्तशब्दात् पदात्परस्याटन्नित्येतस्य <<आमन्त्रितस्य च>> [[8.1.19]] इति निघातः स्यात्। ननु च परग्रहणे क्रियमाणे कुण्डशब्दस्य पराङ्गवद्भावे सत्याद्युदात्तत्वे षाष्ठिके कृते देवदत्तशब्दात् पदात्परस्याटन्नित्येतस्य निघातेन भवितव्यमेव? नैतदस्ति; अपादादौ हि स निघातः, पादादित्वञ्चेह विवक्षितम्; तत्र च देवदत्तेत्यामन्त्रितस्वरेणाद्युदात्तः। एवं कुणेडनाटन्नित्यपि। आमन्त्रितनिघातोऽत्र न भवति; पादादित्वात्। `यथा मृत्पिण्डीभूतः स्वरं लभेत` इति। कथं नाम सुबन्तसमुदायो मृत्पिण्ड इवैकीभूत एकरूपतामिवापन्नः स्वरं लभेततेत्यवमर्थमङ्गग्रहणम्। किमर्थं पुनरेकीभूतस्य स्वरप्राप्तये यत्नः क्रियत इत्यत आह - `उभयोः` इत्यादि। यद्यङ्गग्रहणं न क्रियेत, ततश्च कार्यातिदेश- शास्तरातिदेश-व्यपदेशातिदेशानामन्यतमः स्यात्। तथा च सति यथा परस्य कार्यमाद्युदात्तत्वमामन्त्रितव्यदेश आद्युदात्तशास्त्रं च; तथा सुबन्तस्य पूर्वस्यापि स्यादिति,ततश्चोभयोरप्याद्युदात्तत्वं स्यात्। अङ्गग्रहणे तु सति तादात्म्यातिदेशोऽयं भवति। तेन मृत्पिण्डीभूतः सुबन्तसमुदाय आमन्त्रिताद्युदात्तरूपं स्वरं लभत इति न भवत्युभयोराद्युदात्तत्वप्रसङ्गः। `स्वाश्रयमपि कार्यं यथा स्यात्` (इति)। `आम कुण्डेनाटन्` इत्यत्र अटन्नित्येतस्य पदात्परस्य `आमन्त्रितस्य` (8॥19) इति निघाते प्राप्ते `न लुट्` [[8.1.29]] इत्यतो नेत्यनुवर्तमाने `आम एकान्तरताया अभावात्। परमेव हि स्यात् सुबन्तमसत#इवत्करणे, न च तथाभूतेनैकान्तरता युक्ता। वत्करणे तु सति, भवति कदाचित् स्वाश्रयमप्यनङ्गत्वमित्युपपद्यत एकान्तरता, तेन निघातप्रतिषेधः सिध्यति। तत्रायं स्वरविभागः - आमित्यस्य निपातस्वरेणाद्युदात्तत्वम्। कुण्डशब्दस्यापि पराङ्गवद्भावे सत्यामन्त्रितस्वरेणाद्युदात्तत्वम्। तथा निघातप्रतिषेधे सत्यटन्नित्येतस्यापि षाष्ठिकेनाद्युदात्तेन भवितव्यम्। `कूपे सिञ्चन्` इति। अत्र पराङ्गवद्भावो नास्तीति पदादित्वं सकारस्य भवति। तेन <<सात्पदाद्योः>> [[8.3.111]] इति षत्वप्रतिषेधः स्यात्। `चर्म नमन्` इति। अत्रापि पराङ्गवद्भावाभावात् समानपदस्थौ निमित्तनिमित्तिनौ न भवत इति समानपदाश्रयं णत्वं न भवति।`सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य` इत्यादि। किं पुनः कारणं समानाधिकरणस्य न प्राप्नोति, यत इदमुपसंख्यानं क्रियत इत्याह - `अनन्तरत्वात्` इति। <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात् व्यवहिते न प्राप्नोतित्तयुपसंख्यायते। `तीक्ष्णया सूच्या सीव्यन्` इत्यत्र सीव्यन्नित्येतस्मिन् परतस्तीक्ष्णयेत्यस्य व्यवहितस्यापि पराङ्गवादाद्युदात्तत्वं भवति। `उच्चैरधीयान` इति। उच्चैः शब्दस्य पराङ्गवद्भावाभावादामन्त्रितनिबन्धनमाद्युदात्तत्वं न भवति। तस्मिन्नसति तत्रान्तोदात्तत्वमेव भवति; स्वरादिष्वनन्तोदात्तस्य पाठात्। तथा हि तत्रैव सन्नतर - उच्चैस्- नीचैरित्येवमादीनि पृथक्पर्यन्तान्युपदिश्य `एते सन्नतरप्रभृतयोऽन्तोदात्ताः पठन्ते` [[1.1.36]] इत्युक्तम्। अधीयानेत्यस्य यदा पादादित्वं विवक्ष्यतेतदाऽऽद्युदात्तत्वम्, अन्यत्र <<आमन्त्रितस्य च>> [[8.1.19]] इति निघातः॥", "21003": "`यथावृद्धम्` इति। अत्र समाससंज्ञायां सत्याम् <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्येवमादि कार्यं भवति। अथ किमर्थं प्राग्वचनम्? यावता पञ्चमीनिर्देंशादेव प्रागित्यस्याध्याहारो भविष्यति; न च परागित्ययमपि दिक्छब्दोऽस्ति, अतस्तस्याप्यध्याहारः स्यादित्यशङ्कनीयम्, तदध्याहारे कडारसंशब्दनात् परे येऽनुक्रंस्यन्ते तेषां समाससंज्ञा स्यात्; तथा च कडारसंशब्दनादनन्तरमेव समासाधिकारं कुर्यात्, इह तु कृतः, तस्मादिह करणसामर्थ्यात् समासाधिकारस्य प्रागित्यस्याध्याहारो भविष्यति, ततो नार्थः प्राग्वचनेनेत्याह - ` प्राग्वचनम्` इत्यादि। उत्तरत्राव्ययीभावादिसंज्ञाभिः सह समाससंज्ञायाः समावेशो यथा स्यादित्येवमर्थ प्राग्वचमनम्। असति तु तस्मिन्, ताभिरनवकाशाभिरियं संज्ञाल बाध्येत। अस्यास्तु समाससंज्ञायाः <<सह सुपा>> [[2.1.4]] इत्यत्र सहेति योगविभागेन यः समासः क्रिते सोऽवकाशः स्यात् - अनुप्रावर्षत्, अनुव्यचलदिति, तिङन्तेनात्र समासः; असत्यपि सावकाशत्व एकसंज्ञाधिकारे वचनप्रमाण्यात् पर्यायेण वृत्तिः स्यात्, न तु समावेशः। साक्षात् सूत्रेणोपात्ते तु प्राग्वचने सति भवति समावेशः, कथम्? एवं हि सम्बन्धः क्रियते - कडारात् प्राग्यावन्तो व्यवस्थितः सर्वे ते समाससंज्ञका भवन्ति, समाससंज्ञकाः सन्तोऽव्ययीभावादिसंज्ञां लभन्त इत। तेन निमित्तमेव समाससंज्ञाऽव्ययीभावादिसंज्ञानाम्। नच निमित्तिना निमित्तं विहन्यते; अन्यथा तस्य निमित्तत्वमेव न स्यादिति युक्तः सूत्रोपात्तेन प्राग्वचनेन समावेशः। अध्याह्मते तु तस्मिन् `कडारसंशब्दनात्प्राग्यावन्तो व्यवस्थिताः सर्वे ते समाससंज्ञका भवन्ति` इत्येषोऽर्थो लभ्यते, न तु `समाससंज्ञकाः सन्तोऽव्ययीभावादिसंज्ञकाः` इत्येषोऽपि। साक्षात् सूत्रोपात्ते तु तस्मिन्नेषोऽपि लभ्यते; अन्यथा तस्य सूत्रे साक्षादुपादानमनर्थकं स्यात्॥", "21004": "", "21005": "`यथावृद्धम्` इत्यत्राव्ययीभावत्वे सति <<अव्ययीभावश्च>> [[2.4.18]] इति नपुंसकत्वे <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्येष विधिर्भवति। `अन्वर्थसंज्ञा चेयम्` इति। अनव्ययमव्ययं भवतीत्यव्ययीभावः। `पूर्वपदार्थप्राधान्यम्` इत्यादिना अन्वर्थसंज्ञायाः फलमाह। प्रायेण ह्रव्ययीभावे पूर्वपदमव्ययम्, परपदमन्यव्ययम्; समुदायो नाव्ययम्। स यदि पूर्वपदवशेन तस्य पूर्वपदस्य यो धर्मोऽव्ययत्वं तत्प्रतिपद्यते ततो।ञनव्ययस्वभावः सन्नव्ययस्वभावो भवति। एवञ्च पूर्वपदवशेन तद्धर्मं प्रतिपद्यते यदि पूर्वपदं प्रधानं भवति, नान्यथा। प्रधानवशेन हि वस्तुनः स्वधर्मपरित्यागेन धर्मान्तरापत्तिर्युक्ता। तदेवमन्वर्थसंज्ञेयं भवन्ती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति। तेन यदा पूर्वपदार्थस्य प्राधान्यं भवति तदाव्ययीभावो भवति, नान्यथेत्युक्तं भवति॥", "21006": "", "21007": "`ये य वृद्धाः` इत्यनेन `यथावृद्धम्` इत्यत्र यथाशब्दो वीप्सायां वर्तत इत्याचष्टे। `यथा देवदत्तस्तथा यज्ञदत्तः` इति। देवदत्तसदृशो यज्ञदत्त इत्यर्थः। ननु च यथाशब्दोऽयमुपमानं `यज्ञदत्त` इत्युपमेयमपेक्षते। तत्र `सापेक्षमसमर्थं भवति` इत्यसामर्थ्यादेव समासो न भविष्यति, तत्किमर्थमसादृश्य इति प्रतिषेधेन? नैतदस्ति; न ह्यत्र यथाशब्द उपमानम्, किं तर्हि? `यथा देवदत्तः` इत्येष समुदायः। तस्मात् तस्यैवोपमेयापेक्षयाऽसामर्थ्यम्, न तु यथाशब्दस्य॥", "21008": "`इयत्तापरिच्छेदः`इति। इयतो भाव इयत्ता = परिमाणम्, तस्याः परिच्छेदो निश्चयः। `यावन्ति पात्राणि` इत्यादिना तमेवेयत्तापरिच्छेदं विस्पष्टीकरोति। `नावधारयामि` इत्यादिना इयत्तापरिच्छेदाभावं दर्शयति॥", "21009": "`वृक्षं प्रति` इत्यत्र लक्षणे प्रतिशब्दो वर्तते, न मात्रार्थे। ननु परं सुब्ग्रहणं कमर्थंम्? यावता `सुबामन्त्रिते` [[2.1.2]] इत्यतः सुब्ग्रहणमतुवर्तिष्यत इत्यत आह - `सुब्ग्रहणम्` इत्यादि। सुब्ग्रहणं पूर्वं ह्रव्ययेन सम्बद्धम्; अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मादव्ययनिवृत्त्यर्थमिदमन्यत सुब्ग्रहणं क्रियते॥", "21010": "`कितव्यवहारे` इत्यादि। कथं पुनः कितवव्यवहार इष्यमाणेऽपि तत्र लभ्यते? स्वभावत एव; समासस्य तत्र वृत्तेः।न ह्रर्था अतिदिश्यन्ते, लौकिकत्वात् तेषाम्। `तस्य` इत्यादि। तस्य पातयितुस्तस्य च विपात इत्यनेन सम्बन्धः। विपातः = पराजयः। `एतस्य` इति। अक्षादेरेव प्रत्यवमर्शः। अभेदविवक्षायामेकवचनम्। एतस्यानयथा पात इत्यनेन सम्बन्धः। `अन्यथा` इति। जये य उक्तः पातप्रकारस्तदपेक्षयाऽन्यथात्वं विवक्षितम्। `पञ्चसु त्वेकरूपासु जय एव भवति` इति। पञ्चपरीति समसो न भवतीति भावः। जये हि यदक्षादीनां वृत्तं तदपेक्षयान्यपातत्वे सति समासेन भवितव्यम्। न च पञ्चस्वेकरूपास्वन्यथात्वं सम्भवति। अत एव जयस्तदा भवति यदा पञ्चाप्येकरूपा भवन्ति - उत्ताना अवाञ्चो वा। एतेन प्रकारेण `परेण चतुष्परि` इत्यत्रोपपत्तिर्दर्शिता। `परेण` इति। अतिशयेनेत्यर्थः।`अक्षादयस्तृतीयान्ताः` इत्यादि। अन्यथा वृत्तावयं समास इष्यते। तत्र चाक्षादिनामन्यथावृत्तौ कर्त्तृत्वं करणत्वं वा भवति, अतस्तृतीयया भवितव्यमिति तदन्ता एव समस्यन्ते। `पूर्वोक्तस्य` इति। अक्षादेरित्यर्थः। कुत एतत्? अक्षादयस्तृतीयान्ता इति पूर्वमक्षादेरेवोक्तत्वात्। अभेदविवक्षायामेकवचनम्। षष्ठी चेयं शेषविवक्षायां वृत्तशब्दापेक्षया सम्बन्धलक्षणा, वृत्तशब्दस्त्वध्याहर्तव्यः। `यथा न तत्` इति। अक्षादेः पूर्वोक्तस्य यथा वृत्तमभूत् पूर्वं जये तथा वृत्तं यदि सम्प्रति न भवत्येवं समासो भवति , नान्यथा। पूर्ववृत्तस्यान्यथात्वद्योतने समासोऽयम्, तच्चैकेनापि क्रियते, ततो द्विवचनाद्यपेक्षया निष्प्रयोजनमित्याह - `एकत्वेऽक्षशलाकयोः` इति। अक्षशलाकयोरेकवचनान्तयोरित्यर्थः। ततोऽयं न्यायसिद्ध एवार्थः श्लोकेन संगृहीतः।अथ वा - उत्तरं विभाषाग्रहणमिहापि सिंहावलोकितन्यायेन सम्बध्यते। सा च व्यवस्थिविभाषा। तेन वचनसिद्ध एवायमर्थो वेदितव्यः। अक्षादय इति किम्? पाशकेनेदं न तथावृत्तं यथा पूर्वं जये। परिणेति किम्?? सुबन्तमात्रेण सह समासो मा भूत्। कितवव्यवहार इति किम्? अक्षाभ्यामक्षैर्वा न तथा वृत्तं यता पूर्वं जये॥", "21011": "", "21012": "", "21013": "अथ मर्यादाभिविधिग्रहणं किमर्थम्? यावता पञ्चमीत्यनुवर्तते, आङा च कर्मप्रवचनीयेनैव योगे पञ्चमी विधीयते - एतयोरेवार्थयोः <<आङ् मर्यादावचने>> [[1.4.89]] इत्याङः कर्मप्रवचनीयसंज्ञा4, नान्यत्र; तत्रान्तरेणापि मर्यादाविधिग्रहणं तयोरेवार्थयो समासो भविष्यति, नान्यत्रेति? सत्यमेतत्; तथापि मन्दधियां सुखावबोधनार्थं मर्यादाभिविधिग्रहणम्॥", "21014": "`अभ्यग्नि, प्रत्यग्नि` इति। `अग्निमभि, अग्न प्रति` इति विग्रहः। <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] कर्मप्रवचनीयसंज्ञा त्वेकस्य <<अभिरभागे>> [[1.4.91]] इत्यनेन। अपरस्य <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इत्यादिना। अत्र चाग्निर्लक्षणम्, तेन शलभपातो लक्ष्यते। अत्राभिमुख्ये चाभिप्रती वर्तेते; तथा ह्रग्न्यभिमुखमेव शलभाः पतन्ति, नापि पार्(ातः, नापि पृष्ठत इत्यर्थोऽवगम्यते।`रुआउघ्नं प्रतिगतः` इति। रुआउघ्नान्मथुरां प्रस्थितो दिङमोहात् रुआउघ्नमेव प्रतिनिवृत्त इति नात्र रुआउघ्नो लक्षणम्। यदुद्दिश्य हि गच्छति तल्लक्षणं भवति। यदा तु दिङमोहाद्यत एव प्रस्थितस्तमेव प्रतिगच्छतितदा तदप्रतीतं कथं लक्षणं भवति - `रुआउघ्नमिति ! `तथायुक्तञ्चानीप्सितम्` [[1.4.50]] इति कर्मसंज्ञायां सत्यां कर्मणि द्वितीया। `येनाग्निस्तेन गतः` इति। भवत्यत्राग्निर्लक्षणमाभिमुखायमप्यस्ति, अभिप्रती तु न स्त इति तेन येनतेनशभ्दाभ्यां सह समासो न भवति। `अभ्यङ्का गावः, प्रत्यङ्का गावः` इति। अभिनवः प्रतिनवोऽङ्क आसामिति बहुव्रीहिः। अभिशब्दोऽत्राभिनवार्थे वर्तते, प्रतिशब्दश्च प्रतिनवार्थे। अङ्कोऽत्र भवति गवां लक्षणम्, आभिमुख्यन्तु नास्ति। ननु चात्र परत्वाद्बहुव्रीहिणा भवितव्यम्, अतः स बाधको भविष्यति, किमाभिमुख्यग्रहणेन? नैवम्; असत्याभिमुख्यग्रहणेऽशेषत्वात् कुतो बहुव्रीहिर्भवति ! अथ वैतज्रज्ञापयति - बहुव्रीहिरव्ययीभावेन बाध्यत इति। तेन द्वौ मुनी व्याकरणमिसि सिद्धं भवति; अन्यथा हि स्वपदार्थे चरितार्थोऽव्ययीभावो द्विमुनि व्याकरणमित्यत्रान्यपदार्थे परत्वाद्बहुव्रीहिणा बाध्येत॥", "21015": "", "21016": "अत्राप्युपचारेणायामवाचित्वादनुरेवायामशब्दनोक्तः। `अनुगङ्गं वाराणसी` इति। यद्यपि गङ्गावाराणस्यावुभे अप्यायमवत्यौ, तथाप्यायामवत्तया गङ्गायाः प्रसिद्धत्वाद्? गङ्गैवात्र लक्षणम्, न वाराणसी। प्रसिद्धं हि लक्षणं भवति, नाप्रसिद्धम्। तस्माद्ग्ङ्गयैवात्र समासो भवति, न वाराणस्या। `यमुनायामेन गथुरायामः लक्ष्यते` इति। यमुनया तद्वत्या लक्षणभूतयेति वेदितव्यम्। यस्माद्यस्यायामवाच्यनुशब्दस्तेन लक्षणभूतेन सुबन्तेन समस्यते। युमनायाश्चायामवाच्यनुशब्दः, न यमुनायामस्य। न ह्रायामस्यापर आयामोऽस्ति, तस्माद्यमुनायामेति हेतावियं तृतीया। यमुनायामेन हेतुना तद्वत्या यमुनया लक्षणयभूतया करणभावमापन्नया वा मथुरायामो लक्ष्यत इत्ययमर्थो वेदितव्यः॥", "21017": "तिष्ठद्गुप्रभृतीनां गणपाठादेव कृतसाधुत्वानामिह प्रकरणे सङ्कीर्तनमव्ययीभावसंज्ञार्थम्; न तु सुबन्तेन समासार्थम्। अत एवाह - `समुदाया एव निपात्यन्ते` इति। तथाभूतानां पाठ एवैषां निपातनम्। `अव्ययीभावसंज्ञकानि भवन्ति` इति। अनेन संज्ञामातर्#ं विधीयते, न त्वेषां सुबन्तेन समास इति दर्शयति।`तिष्ठद्गु, बहद्गु`इति। पूर्वपदस्य शत्रादेशो निपात्यते। `गोस्तरियोरुपसर्जनस्य` [[1.2.48]] इति ह्रस्वः। तिष्ठन्ति गावो यस्मिन्न काले स तिष्ठद्गु कालः। वहन्ति गावो यस्मिन् काले स बहद्गु कालः। `चकारोऽवधारणार्थः` असति तस्मिन् परमतिष्ठद्ग्विति `सन्महत्` [[2.1.60]] इत्यादिना परमशब्देन समासः स्यात्। अवधारणार्थे तु तस्मिन् तिष्ठद्गुप्रभृतीनीत्येवम्भूतान्येवावतिष्ठते। `आयतीगवम्` इति। पुंवद्भावाभावः समासान्तश्च भवति। आयत्यो गवो यस्मिन् काले स आयतीगवम्। `खलेयवम्; खलेबुसम्` इति। सप्तम्या अलग् निपात्यते। `लूयमानयवम्` इति। शानज् निपात्यते। तथा `पूयमानयवम्` इत्यत्रापि। `एते कालशब्दाः` इति। तिष्ठद्गुप्रभृतयः संस्क्रियमाणबुसपर्यन्ताः।`समभूमि, समपदाति` इति। समत्वं भूमेः, समत्वं पदातेरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। उत्तरपदार्थप्राधान्यविवक्षायान्तु समपदातिः समभूमिरिति विशेषणसमासस्तत्पुरुषो भवति। अन्ये मकारान्तं समशब्दं पठन्ति - समम्भूमि, समम्पदाति` इति। `\tसुषमम्, विषमम्, दुःषमम्परसमम्` इति। समशब्देनेति। सुषमादयश्चैते। सुषमादयश्चैते पूर्वपदार्थप्राधान्ये समासाः। अत्र शोभनत्वं समस्येत्येवमादि वाक्यं द्रष्टव्यम्। उत्तरपदार्थप्राधान्ये तु प्रादिसमासो विशेषणसमासश्च यथथायोगं कर्तव्यः। `आयतीसमम्` इति। समाशब्दः संवत्सरवाची, तेन समासः- आयती समं आयतीसमम्। एवं पापा समा पापसमम्। पुण्या समा पुष्यसमम्। अन्ये तु तृतीयासमासं वर्णयन्ति - आयत्या समं आयतीसममिति; एवमन्यत्रापि। प्रगतत्वमह्नः प्राह्णम्। अयमपि पूर्वपदार्थप्रधानः। उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव भवति - प्राह्णे कल्याणनामानावेतौ तिष्यपुनर्वसू इति। एवं `प्ररथम्` `प्रदक्षिणम्` `प्रमृगम्` , `अपरदक्षिणम्` , `सम्प्रति`, `असम्प्रति`। `इच् कर्मव्यतीहारे` [[5.4.127]] इतीचोऽव्ययीभावत्वे प्रयोजनमव्ययसंज्ञा, नपुंसकत्वञ्च। दण्डैश्च दण्डैश्च प्रह्मत्येदं युद्धं वृत्तिमित#इ। `तत्र तेनेदमिति सरूपे`(2।2।क27) इति समासः, `इच् कर्मव्यतीहारे` [[5.4.127]] इतीच् समासान्तः - <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घः, `दण्डादण्डि` इति॥", "21018": "ननु च प्रकृतैव महाविभाषा तयैव विकल्पो भविष्यति, तत्क वाग्रहणेनेत्याह - `वावचनात्` इत्यादि। गतार्थम्। यदि तर्हि वावचनात् पक्षे षष्ठीसमासो भवति, माहविभाषया किं क्रियत इत्याह - `महाविभाषया` इत्यादि॥", "21019": "`एकलक्षण` इति। एकस्वभावः। सन्तानः = प्रबन्धः। सन्तानिनामेकलक्षणत्वात्, सन्तानोऽप्येकलक्षमो भवति। ततर्विद्ययैकलक्षणः - वैयाकरणवंशः, उपाध्यायवंश इति। जन्मना - ब्राआहृणवंशः, क्षत्रियवंश इति। `तत्र भवो वंश्यः` इति। दिगादित्वाद्यत्। `द्वौ मुनी` इति। पाणिनिकात्यायनौ। `व्याकरणस्य` इति। सम्बन्धलक्षमा षष्ठी। `त्रिमुनिव्याकरणस्य` इति। पूर्वौ द्वौ, भाष्यकारस्तृतीयः। `विद्यया` इति। व्याकरणाख्यया। `तद्वताम्` इति। पाणिनिप्रभृतनीनाम्। `अभेदविवक्षा` इति। यौ तौ द्वौ मुनी तावेव व्याकरणमित्यतिशयेन विद्यया योगं तयोराख्यातुमभेदविवक्षा यदा क्रियते तदा सामानाधिकरण्यं भवति - द्विमुनि व्याकरणमिति॥", "21020": "चकारेण `संख्या` इत्यनुकृष्यते। बहुवचननिर्देशेनार्थस्येदं ग्रहणम्, न स्वरूपस्य, नापि संज्ञायाः, तेन सर्वैर्नदीवाचिभिः समासो विज्ञायत इत्याह - `नदीवचनैः` इत्यादि। `समाहारे चायमिष्यते` इति। चकारोऽवधारणे - समाहार एव नान्यत्रेति। यद्येवम्, समाहारग्रहणमं कर्तव्यम्? न कर्तव्यम्, यत एव हेतोरक्षादीनां परिणा सह कितवव्यवहार एव समासो भवति, ततएव हेतोरयमपि समाहार एव भविष्यति- सप्त गङ्गाः समाह्मताः सप्तगग्ङमिति। पूर्ववद् ह्रस्वः। अन्यपदार्थे तु न भवति - द्वीरावतीको देश इति। `पञ्चनवम्, सप्तगोदावरम्िति।कृष्णोदकपाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः।गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि॥इति वचनादच् समासान्तः॥", "21021": "`कृष्णवेण्णा` इति। कृष्णा चासौ वेण्णा चेति विशेषणसमासः। `शीघ्रगङ्गः` इति। बहुव्रीहिः।", "21022": "`कष्टश्रितः` इति। तत्पुरुषसंज्ञायां सत्यां `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्। अथ किमर्थमियं महती संज्ञा विधीयत इत्याह - `पूर्वाचार्यसंज्ञा चेयम्` इति। तदङ्गीकरणं किमर्थमित्याह - `तदङ्गीकरणम्` इत्यादि। उपाधिः = विशेषणम्। कः पुनरसौ तदीय उपाधिरित्याह - उत्तरपदार्थप्रधानस्तत्पुरुषः` इति॥", "21023": "`समासान्ताः प्रयोजनम्` इति। <<तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः>> [[5.4.86]] इत्यतस्तत्पुरुष इत्यनुवर्तमाने `राजाहःसखिभ्यष्टच्` [[5.4.91]] <<गोरतद्धितलुकि>> [[5.4.92]] इति च द्विगोरपि यथा स्यात्। `पञ्चराजी` इति। पञ्चानां राज्ञां समाहार इति <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति समासः। <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसंज्ञा, टच्, <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते` (वा।156) इति स्त्रीलिङ्गता, <<द्विगोः>> [[4.1.21]] इति ङीप्। `द्वह्रहः, त्र्यहः` इति। <<अह्नष्टखोरेव>> [[6.4.145]] इति टिलोप), `रात्रह्नाहाः पुंसि` [[2.4.29]] इति पुंस्त्वम्। `पञ्चगवम्` इति। `स नपुंसकम्` [[2.4.17]] इति नपुंसकत्वम्। सत्यप्यकारान्तत्वे स्त्रीत्वं न भवति; `पात्रादीनां प्रतिषेधो वक्तव्यः` (वा।1.5.9) इति वचनात्॥", "21024": "`श्रितादिषु` इत्यादि। श्रितादिषु समासकारणत्वेनोपात्तेषु सत्सु गमिगाम्यादीनां समासस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। एतैरपि समासः प्रतिपादयितव्यः। तत्रेदं प्रतिपादनम्-`द्वितीया` इति योगविभागः क्रियते, तेन गमिगामिप्रभृतिभिरपि समासो भवति। न चैवं श्रितादिग्रहणनर्थकम्; पूर्वविषयस्यासर्वविषयत्वज्ञापनार्थत्वात्। आदिशब्दः प्रकारवाची। गमिगामिशब्दयोरेकतरोपादानेनैव सिद्धे द्वयोरुपादानमुणादीनामन्येषाञ्च यथा स्यात्; अन्यथा यदि गमिग्रहणमेव क्रियेत तदाऽऽदिशब्दस्य प्रकारवाचित्वात् गमिप्रकाराणामुणादीनामेव ग्रहणं स्यात्। अथ गामिग्रहणमेव क्रियेत, तदा गामिप्रकाराणामुणादीनां स्यात्। तस्माद्द्वयोरपि ग्रहणं कर्तव्यम्। `ग्रामं गमी`इति। `गमेरिनि` (द।उ।6।57) इतीनिप्रत्ययः। स च भविष्यत्काले; <<भविष्यति गम्यादयः>> [[3.3.3]] इति वचनात्। `ग्रामं गमी` इति। `आवश्यकाधमण्र्ययोः` [[3.3.170]] इत्यावश्यमे णिनिः। `अकेनोर्भविषायदाधर्मण्र्ययोः` [[2.3.70]] इति षष्ठीप्रतिषेधः। `ओदनं बुभुक्षुः` इति। भुजेः सन्नन्तात् <<सनाशंसभिक्ष उः>> [[3.2.168]] इत्युप्रत्ययः। क`न लोक` [[2.3.69]] इत्यादिना षष्ठीप्रतिषेधः। कष्टं श्रित इत्यादावप्यनेनैव षष्ठीप्रतिषेधः।", "21025": "`तस्य द्वितीयया सह सम्बन्धो नोपपद्यते` इति। द्वितीयार्थासम्भवात्। इतिशब्दो हेतौ। यतस्तस्य द्वितीयया सह सम्बन्धोऽनुपपन्नस्तस्माद्द्वितीयाग्रहणमुत्तरार्थमनुवर्तते, न त्वेतदर्थम्। `स्वयंधौतौ पादौ` इति। `धावु गतिशुद्धयोः` (धातुपाठः-601), अस्योदित्त्वाद्विभाषितेट्। <<यस्य विभाषा>> [[7.2.15]] इतीट्प्रतिषेधः। `च्छवोः शूडनुनासिके चट [[6.4.19]] इत्यूठ्। <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धिः। `स्वयंविलीनमाख्यम्` इति। `लीङ श्लेषणे` (धातुपाठः-1139), `स्वादय ओदितः` (का।8.2.45) इत्योदित्त्वात् <<ओदितश्च>> [[8.2.45]] इति नत्वम्। `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्` (व्या।प।126) इति गतिपूर्वस्यापि समासो भवति। कः पुनरत्र समासे सति विशेषः यावता विनापि तेनैतद्रूपं सिध्यतीत्याह - `ऐकपद्यम्` इत्यादि॥", "21026": "`स च` इत्यादि। एवकारेण वाक्यार्थतां क्षेपस्य निरस्यति। स्यादेतत् - वाक्यार्थोऽपि क्षेपः; तेन वाक्यमपि भविष्यतीत्याह - `न हि` इत्यादि। वाक्येन हि क्रियाकारकसम्बन्धमात्रं गम्यते, न तु क्षेपः। `खट्वारोहणञ्च` इत्यादि। विरुद्धो मार्गः = विमार्गः,तेन प्रस्थानम् = गमनम्। अधीत्य स्नात्वा गुरुणाभ्यनुज्ञातेन खट्वाऽरोढव्या। यत्त्वन्यथा खट्वारोहणं तद्विमार्गप्रस्थनम्। न तु खट्वारोहणमेव। इह च `खट्वारूढः` इत्यादौ खट्वारोहणं विमार्गप्रस्थानस्योपलक्षणं वेदितव्यम्। किं पुनः कारणमेव विज्ञायत इत्याह - `सर्व एव` इत्यादि। आरूढ इत्याङपूर्वस्य रुहेः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु कृतेषु रूपम्। जाल्म इत्ययुक्तकारीत्यर्थः।", "21027": "`असत्त्ववाचित्वात्` इति। द्रव्याधारा हि कर्मशक्तिः। अतो द्रव्यवाचिन एव द्वितीयया सम्बन्धो भवति, नासत्त्ववाचिनः॥", "21028": "`चराचराः` इति। अनत्यन्तसंयोगप्रतिपादनार्थम्। चरन्ति भ्रमन्तीति चराचराः, अनवस्थिता इत्यर्थः। `चरिचलिपतिवदीनमच्याक्चाभ्यासस्य` (वा।658) इति चरेः पचाद्यचि द्विर्वचनमभ्यासस्याक्चागमश्च। `कदाचिदहर्गच्छन्ति` इत्युत्तरायणे। `कदाचिद्रात्रिम्` इति दक्षिणायने। एतेन तदेवानवस्थितत्वं व्यक्तीकुर्वन्नह्नो रात्रेश्च तैर्मुहूर्तैरनत्यन्तसंयोगमाचष्टे। `अहरतिसृताः` इति। <<रोऽसुपि>> [[8.2.69]] इत्यह्नो नकारस्य रेफः। `अहः संक्रान्ताः` इति। `क्रमु पादविक्षेपे` (धातुपाठः-473),पूर्वपदिट्प्रतिषेधः। `अनुनासिकस्य क्विझलोः` [[6.4.15]] इति दीर्घः। `मासप्रमितः` इति। `माङ माने` (धा।1088), `आदिकर्मणि कर्तरि च` [[3.4.71]] इति कर्तरि निष्ठा। `द्यतिस्यति` [[7.4.40]] इत्यादिनेत्त्वम्। `मासं प्रमातुमारब्धः` इति। मासस्यैकदेशस्य प्रतिपदश्चन्द्रमसा योगं दर्शयन् मासस्य तेनात्यन्तसंयोगमाचष्टे। कालस्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः = अत्यन्तसंयोगः। न च प्रतिपच्चन्द्रमा मासस्येह व्याप्तिः = संयोगोऽस्तीति नेहात्यन्तसंयोगः।", "21029": "`कृत्स्नसंयोगः` इति। कृत्स्नस्य संयोगः कृत्स्नसंयोगः, कृत्स्नस्य कालस्य मुहूर्तादेः स्वेन सम्बन्धिना = सुखादिना संयोग = सम्बन्धोऽत्यन्तसंयोगः। एतदेव स्पष्टीकर्त्तुमाह - `कालस्य` इत्यादि। `मुहूर्त सुखम्` इति। <<कालाध्वनोरत्यन्तसंयोगे>> [[2.3.5]] इति द्वितीया। अत्र मुहूर्तस् कालस्य स्वेन सम्बन्धिना सुखेन व्याप्तिः।", "21030": "`तत्कृत` इति। एतदर्थशब्देनासमस्तमेव, अविभक्तिञ्च। तृतीयाविभक्तेः `सुपां सुलुक्` [[7.1.39]] इति लुप्तत्वात्। एतच्च गुणवचनेनेत्यस्य समानाधिकरणं विशेषणम्। अत एव कीदृशेनेति पृष्टः सन्नाह - `तत्कृतेन` इति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्श इति तृतीयान्तकृतेनेति दर्शयति। तृतीयान्तेन गुणवचनस्य करणत्वं न सम्भवतीत्यतः सामर्थ्यात् तदर्थकृतेनेति विज्ञायत इत्यत आह - `तृतीयान्तार्थकृतेनेति यावत्` इति। अर्थद्वारेण चेदं गुणवचनस्य विशेषणं वेदितव्यम्- तृतीयान्तार्थकृतो गुणवचनार्थ इति। सोऽपि तथोच्यते। एतदुक्तं भवति - तृतीयान्तार्थकृतेन गुणवचनार्थेनेति। अर्थ एव हि तृतीयान्तार्थेन क्रियते, न च गुणवचनशब्दः। गुणमुक्तवान् = गुणवचनः। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्तरि ल्युट्। अथ वा - करणे, गुण उक्तोऽनेनेति गुणवचनः। यश्च पूर्व गुणे वर्तित्वा पश्चात् तद्वति द्रव्ये वर्तते स गुणवचनः। गुणेनेत्युच्यमाने घृतेन पाटवमित्यादौ प्रसङ्गः, अतस्तन्निवृत्त्यर्थं वचनग्रहणम्। तस्मश्च सति गुणे वर्तित्वा तद्वति द्रव्ये यो वर्तते तेनैव समासो भवति, न तु गुण एव यो वर्तते तेन सह। न च पाटवादयः शब्दाः पूर्वं गुणे वर्तित्वा पश्चात् तद्वति द्रव्ये वर्तन्ते, अपि तु गुण एव। वचनग्रहणात् तैः सह समासो न भवति। `शङ्कुलाखण्डः, गिरिकाणः` इति। खण्डकाणशब्दावत्र खण्डनेन निमीलने च क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति द्रव्ये वर्तते इति गुणवचनौ भवतः। `धान्यार्थः` इति। भवुत्ययमर्थशब्दस्तत्कृतः, तथा हि स गोभिर्वपावान् कृतः। न तु वपावानित्ययं शब्दो गुणमुक्तवामिति न गुणवचनः, ततस्तेन सह समासो न भवति॥", "21031": "युक्तः समसदृशशब्दाभ्यां समासः, यावाता ताभ्यां योगे `तुल्यार्थेरतुलोपमाभ्याम्` [[2.3.72]] इति तृतीयाविधानम्, इतरैस्तु पूर्वादिभिः कथं तृतीयासमास उपपद्यते? न हि तद्योगे केनचित्तृतीया विहिता इत्याह `अस्मादेव` इत्यादि। सुबोधम्।`पूर्वादिष्ववरस्योपसंख्यानम्` इति। पूर्वादिषु समासकारणत्वेनोपात्तेषु सत्स्ववरशब्दस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। अवरशब्देनापि तृतीयासमासः प्रतिपद्यत इत्यर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे बहुलग्रहणं क्रियते। तेनावरशब्देनापि समासो भवति॥", "21032": "`भिक्षाभिरुषितःट इति। हेतौ [[2.3.23]] तृतीया विहिता। वसेर्वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्, `शासिवसिघसीनाञ्च` [[8.3.60]] इति षत्वम्, `वसतिक्षुधोः` (7।2।क52) इतीट्। `दात्रेण धान्यं लूनवान्` इति। `ल्वादिभ्यश्च` [[8.2.44]] इति निष्ठानतवम्। `पादहारकः` इति। पादाभ्यां ह्यियत इति पादाहारकः। पादाभ्यामिति पञ्चमी चतुर्थी वा। हारक इति <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्मणि ण्वुल्। `गलेचोपकः` इति। गले चुप्यत इति। `चुप मन्दायां गतौ` (धातुपाठः- 403) इत्यस्मात् पूर्ववदेव ण्वुल्। <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इत्युलक्॥", "21033": "`स्तुतिनिन्दाप्रयुक्तम्` इति। स्तुत्या निन्दया वा यत् प्रयुक्तं प्रवर्त्तितं तत् स्तुतिनिन्दाप्रयुक्तम्। तदर्थमुच्चारितमित्यर्थः। `अध्यारोपितार्थवचनम्` इति। अध्यारोपितोऽर्थोऽसन्नेव बुद्ध्या समारोपितस्तस्य वचनमिति षष्ठीसमासः। `कृर्त्तृकरणयोःट इति। अर्थे कार्यासम्भवात् तदभिधायिनि सुबन्ते कार्यं विज्ञायते। `काकपेया` इति। `पा पाने` (धातुपाठः-925) इति `अचो यत्` [[3.1.97]] `ईद्यति` [[6.4.65]] ईत्त्वम्। अत्र सम्पूर्णतोयत्वोद्भावनं नद्याः स्तुतिः, अध्यारोपितः पुनरत्रार्थः काकपेयत्वम् - एवं नाम सम्पूर्णतोया नदी यत्तटस्थैरपि काकैः शक्या पातुम्। `आलेह्रः कूपः` इति। `ऋहलोण्र्यत्` [[3.1.124]] अत्राप्यासन्नोदकत्वोद्भावनं कूपस्य स्तुतिः। अध्यारोपितः पुनरत्रार्थः आलेह्रत्वम् - एवं नामासन्नोदकः कूपो यतः श्नभिरपि लिह्रते। `बाष्पच्छेद्यानि तृणानि` इति। अत्र मारद्वातिशयोद्भावनं तृणानां स्तुतिः। अध्यारोपितः पुनरत्रार्थो बाष्पच्छेद्यता - एवं नाम मृदूनि तृणानि यद्बाष्पेणापि शक्यानि छेत्तुम्। `कण्टकसञ्चेय ओदनः` इति। अत्रापि वैषद्यातिशयोद्भावनं विक्लिन्नतोद्भावनञ्चौदनस्य स्तुतिः। अध्यारोपितः पुनरत्रार्थः कण्टकसञ्चेयत्वम् - एवं नामौदनस्य विशदतातिशयो विक्लेदश्च यत्कण्टकेनापि शक्यः सञ्चेतुम्। एवं तावत् स्तुतिप्रयुक्तेऽधिकार्यवचन उदाहरणानि।निन्दाप्रयुक्तेऽधिकार्थवचन एतावन्त्येव द्रष्टव्यानि। तथा हि - काकेया नदीत्यत्राल्पतोयत्वोद्भावनं नद्या निन्दा। अध्यारोपितः पुनरत्रार्थस्तदेव पूर्वोक्तं काकपेयत्वम्, एवं आलेह्रादावपि पूर्वोक्त एवाध्यारोपितोऽर्थो द्रष्टव्यः - एवं नामाल्पतोया नदी यत्काकैरपि शक्यं पातुमिति। आलेह्रः कूप इत्यत्राप्यशुद्धतोयत्वोद्भावनं निन्दा- एवं नामाल्प ओदनो यत्कण्टकैरपि चीयत इति। ननु च बहुलवचनादधिकार्थोऽपि पूर्वेणैव सिद्धः समासः, तत्किमर्थमिदमित्याह - `पूर्वस्य` इत्यादि। ते वै विधयः सुसंगृहीता येषां प्रपञ्चश्चेति। सुसंगृहीतं यथा स्यादिति पूर्वस्यायं प्रपञ्च क्रियते॥`दध्योदनः` इति। ननु च क्रियाकृतः कारकाणां सम्बन्ध-, न तु स्वतः। न च वृत्ताविह काचन क्रिया श्रूयत इति सामर्थ्याभावः। असति च सामर्थ्ये समासाभावः। अथासत्यपि सामर्थ्ये वचनसामर्थ्यात् समासो भवतीति चेदास्यतां दध्ना, ओदनो भुज्यतां देवदत्तेनेत्यत्रापि स्यादित्यत आह - `वृत्तौ` इत्यादि। न ह्रसत्यामुपसेचनक्रियायां संस्कार्यं संस्कारकं सम्भवति। अस्ति चेह तदुभयमित्यतस्तद्भावादेव समासान्तर्भूता क्रिया गम्यते। तद्द्वारकश्चान्नव्यञ्जनयोः सम्बन्ध इति विद्यत एव सामर्थ्यम्॥", "21034": "", "21035": "", "21036": "`तदर्थेन` इत्यादि। यदि तादथ्र्यमात्रे समासः स्यात्, बलिरक्षितग्रहणमनर्थकं स्यात्। तथा हि - कुबेरबलिः,गोरक्षितमित्यत्रापि तादथ्र्यं गम्यतत एव। तसमाद्बलिरक्षितग्रहणाल्लिङ्गात् `तादर्थ्ये प्रकृतिविकारभावे समासो भवति` इति विज्ञायते। ननु च सम्प्रदाने चतुथ्र्यर्थं बलिरक्षितग्रहणं स्यात्, नैतदस्ति; ददातिकर्मणा हि अभिप्रेयमाणस्य क्रियया वा सम्प्रदानसंज्ञेष्यते, न चेह ददातिकर्मणा क्रियया वाऽभिप्रेयमाणताऽस्ति, तत्कुतः सम्प्रदाने चतुर्थी? केन पुनस्तादर्थ्ये चतुर्थी भवतीत्याह - `अस्मादेव` इत्यादि। यदि तादर्थ्ये चतुर्थी न स्यात्, तदा तदर्थग्रहणमनर्थकं स्यात्। तस्माद्यदेतत्, तदर्थेन चतुथ्र्यन्तस्य समासविधानं तदेव ज्ञापकम् - तादर्थ्ये चतुर्थी भवतीति।`अर्थेन` इत्यादि। कर्तव्यमिति शेषः। नित्यसमास उच्यते = कथ्यते, येन तन्नित्यसमासवचनं व्याख्यातव्यम्। एतदुक्तं भवति - येनार्थशब्देन नित्यसमासः प्रत्याय्यते तद्वयाख्यानं कर्तव्यमिति। तत्रेदं व्याख्यानम् - विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनार्थशब्देन नित्यसमासो भविष्यति, सर्वलिङ्गता चेति। `परवल्ललिङ्गं द्वन्द्वतत्पुरुषयोः` [[2.4.26]] इति परवल्लिङ्गतायां प्राप्तायां सर्वलिङ्गता विधीयते। एषा तु लोकाश्रयत्वाल्लिङ्गस्येति सिद्धा। अथ वा - बहुलग्रहणानुवृत्तेः सर्वमेतत् सिद्धम्। गोहितम्, गोसुखमिति `चतुर्थी चाशिष्यायुष्य` [[2.3.73]] इत्यादिना चतुर्थी। हितयोगे त्वनाशिष्यपि चतुर्थी भवति। तथा हि वक्ष्यति - `हितयोगे चतुर्थी वक्तव्या` (वा। 123) इति।", "21037": "`भयभीतभीतिभीभिरिति वक्तव्यम्` इति। एवं हि त्रिभिरपि भीतादिभिः समासो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। स्वयमेव व्याख्यातुमाह - `पूर्वस्य` इत्यादि। यथैव हि <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति तृतीयान्तस्य समासो विधीयमानो बहुलग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वादन्यविभक्त्यन्तस्यापि समासो भवति - पादहारकः, गलेचोपक इति, तथा वृकभीत इत्यादावपि समासो भविष्यति। तस्मात् पूर्वकस्य बहुलग्रहणस्सयैवोदाहरणप्रदर्शनार्थोऽयं योगः प्रपञ्चार्थो वेदितव्यः। `तथा च` इत्यादि। यस्मात् पूर्वकेणैव बहुलग्रहणेन सिद्धं तस्यैवायम्प्रपञ्चः; तस्मात्तत एव बहुलग्रहणात् `ग्रामनिर्गतः` इत्याद्यपि सिद्धं भवति। आदिशब्देन वृकभीतादेग्र्रहणम्॥", "21038": "`अल्पशः` इति। <<बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्>> [[5.4.42]] इति शस्। `अल्पा पञ्चमी समस्यते` इति॥ अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी सा समस्यते, न तु सर्वेभ्यः प्रातिपदिकेभ्यः इत्यर्थः॥", "21039": "`स्तोकान्मुक्तः; कृच्छ्रान्मुक्तः` इति। `करणे स्तोकाल्पकृच्छ्र` [[2.3.33]] इत्यादिना पञ्चमी। `अन्तिकादागतः, दूरादागतः` इति। दूरान्तिकार्थेभ्यो द्वितीया च` [[2.3.35]] इत्यनेन॥", "21040": "शौण्डैरिति बहुवचननिर्देशादाद्यर्थो गम्यत इत्याह - `शौण्डादिभिः` इत। केन पुनर्विहितायां सप्तम्यां तदन्तस्य शौण्डादिभिः समासो विधीयते? <<सप्तम्यधिकरणे च>> [[2.3.36]] इत्यनेनेति चेत्, वार्तमेतत्। तथा ह्रधिकरणं कारकम्, तच्च क्रियापेक्षम्। न चाक्षशौण्ड इत्यादौ वृत्तौ काचन क्रिया श्रूयते। तत्कुतोऽधिकरणस्येह सम्भवः? न च शक्यते वक्तुम् - अस्मादेव वचनाच्छौण्डादिभिर्योगे सप्तमी भविष्यतीति, देवदत्तः शौण्ड इत्यत्रापि प्रसङ्घः स्यादित्यत आह - `वृत्तौ` इत्यादि। अस्त्येवात्र प्रसक्तिक्रिया। सा तु समासार्थ एवान्तर्भूतेतिगम्यमानत्वाद्द्वृतौ क्रियापदं न प्रयुज्यते। तस्या यत्साधनमधिकरणं तत्र सप्तमीत्यदोषः। अन्तः शब्दस्त्वत्राधिकरणप्रधान एव पठते। तस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम्। वनेऽन्तर्वनान्तर्वसतीति पूर्वपदार्थप्रधान्ये तु `विभक्त्यर्थे यदव्ययम्` [[2.1.6]] इत्यव्ययीभाव एव भवतिः- अन्तर्वणमिति। अधिशब्दोऽत्र पठते - तस्याधिकरणप्राधान्ये सत्यव्ययीभावः- अधिस्त्रि। आधेयप्राधान्ये तु तत्पुरुषः - ब्राआहृणेष्वपि ब्राआहृणाधीन इति। ब्राआहृणाधिशब्दः केवलो न प्रयुज्यते। `अषडक्षाशित` [[5.4.7]] इत्यादिनाऽध्युत्तरपदात् स्वार्थिकस्य नित्यस्य खस्य विधानात्॥", "21041": "", "21042": "`ध्वाङक्षेणेत्यर्थग्रहणम्` इति। अर्थप्रधानत्वान्निर्देशस्य। यत्र हि शब्दप्रधानो निर्देशस्तत्र स्वरूपग्रहणं भवति, अन्यत्र त्वर्थग्रहणमेवेति प्रतिपादितमेतत् प्राक्। अर्थप्रधानत्वन्तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। बहुलग्रहणानुवृत्तेरर्थस्येदं ग्रहणं वा। अपि च `क्षेपे` इत्युच्यते, क्षेपश्चार्थकारित एवेत्यर्थग्रहणमेव युक्तम्। अर्थग्रहणे च सति ध्वाङक्षपर्यायैरपि समासो भवति, अत आह - `ध्वाङक्षवाचिना` इत्यादि। `तीर्थे ध्वाङक्ष इव` इति। उपमानभावे सति ध्वाङक्षस्य क्षेपो गम्यते,नान्यथेति दर्शयितुमिवशब्दः प्रयुक्तः। समासे तु समास एवोपमानार्थस्यान्तर्भूतत्वादिवशब्दो गतार्थो न प्रयुज्यते। यथैव हि तीर्थ ध्वाङक्षश्चिरं स्थातारो न भवन्ति, तद्वदन्योऽपि यः कार्यं प्रत्यनवस्थितः स `तीर्थध्वाङक्षः` इत्युच्यते, यदाह - `अनवस्थित इत्यर्थः` इति। कार्यं प्रत्यनवस्थितत्वमेव क्षेपः॥", "21043": "`यप्रत्ययान्तेनैव समास इष्यते` इति। कथं पुनर्यत्प्रत्ययेनैव लभ्यते? अल्पश इत्यनुवृत्तेः, `मासदेयम्` इति। पूर्ववद्यत्, ईत्त्वञ्च। सप्तमी ह्यत्रौपश्लेषिकेऽधिकरणे वेदितव्या। मासे ह्रतीते योऽन्तरो दिवसः स मासं प्रत्युपश्लिष्टो भवति, `यस्य च भावेन भावलक्षमम्` [[2.3.37]] इत्यनेन वा। मासातिक्रमणभावेन हि ऋणदानभावो लक्ष्यते। अथ ऋण इत्युच्यते, तत्रेदं न सिध्यति - पूर्वोह्णेगेयं साम, प्रातरध्येयोऽनुवाकः, इत्यत आह - `ऋणम्` इत्यादि। ऋणं हि नियोगतो निर्यातयितव्यमिति नियोगसहचरितम्। अतः साहचर्यात् तेन नियोगोऽवश्यम्भाव उपलक्ष्यते। एतच्च `कृत्यैः` इति बहुवचनन्रिदेशाल्लिङ्गाद्गम्यते। कथम्? `कृत्यैः` इति बहुवचनमत्र विवक्षितम्, तच्च ऋणग्रहणस्य नियोगोपलक्षणार्थत्वे प्रकृतिभेदेन। भिद्यमाने कृत्ये सति प्रसज्यते, न त्वन्यथा। यत्प्रत्ययस्यैकत्वात् तेनैव समासस्येष्टत्वात्॥", "21044": "`समुदायोपाधिः` इति। `संज्ञायाम्` इति नेदं पूर्वपदस्योत्तरपदस्य वा विशेषणम्, किं तर्हि? समुदायस्य - समुदायेन चेत्संज्ञा गम्यत इति। किमेवं सति सिध्यतीत्यत आह - `तेन` इत्यादि। अत्रैवोपपत्तिमाह - `न हि` इत्यादि॥", "21045": "`एतत्तु ते दिवावृत्तं रात्रौ वृत्तञ्च द्रक्ष्यसि` इत्यादि। नात्राहरवयवाः रात्र्यवयवाश्च सन्ति, किं तर्हि? कृत्स्नमेवाहः, कृत्स्ना च रात्रिरिति, तेनेह समासो न भवति॥", "21046": "`तत्रेत्येतत् सप्तम्यन्तम्` इति। सप्तमीसाधम्र्यात्। त्रल्प्रत्यय एवात्र सप्तमीशब्देनोक्तः। भवति हि ताद्धम्र्यात् ताच्छब्द्यम्। यथा - गौर्वाहीक इति। सप्तमीसाधम्र्यं पुनस्त्रलोऽधिकरणार्थत्वात्। यथैव ह्रधिकरणप्रत्यायनाय सप्तमी प्रयुज्यते,तथा त्रलपि। अथ मुख्यैव सप्तमीविभक्तिः कस्मान्न विज्ञायते? तस्यास्तत्रशब्देऽसम्भवात्। असम्भवस्तु त्रलैव तदर्थस्य द्योतित्तवात्। अन्यस्त्वाह - यदा विभक्त्यादशास्त्रलादयस्तदा स्थानिवद्भावेनैवैतत् सप्तम्यन्तं भवति। आदेशपक्षसत्ु तत्र वृत्तिकृता नाश्रित इत्यसम्यगेतत्। अन्तशब्दश्चात्रावयववचनः। सप्तमीत्रल्प्रत्ययोऽन्तोऽवयवो यस्य तत्तथोक्तम्॥", "21047": "`अवतप्तेनकुलस्थितम्` इति। <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति सप्तम्या अलुक्। कः पुनरत्र क्षेपः? कार्येष्वनवस्थितता। यदाह - `एतच्चापलम्` इत्यादि। यथा अवतप्ते देशे नकुला न चिरं स्थातारो भवन्ति, तद्वदन्योऽपि योऽर्थानारभ्य न चिरं तेष्ववतिष्ठते तं प्रतीदमुच्यते - अवतप्तेनकुलस्थितमिति। `उदकं विशीर्णम्` इत्यादावप्यारम्भस्य निष्फलता क्षेपः। अत एवाह - `निष्फलं यत्क्रियते तदेवमुच्यते` इति। `प्रवाहे मूत्रितम्` इति। `मूत्र प्ररुआवणे` (धातुपाठः-1909) चुरादिः॥", "21048": "`युक्तारोह्राविपरिग्रहार्थः` इति। युक्तारोह्रादिषु युक्तारोह्रादिभिर्वा परिगर्होऽर्थः प्रयोजनं यस्य पाठस्य स तथोक्कतः। किमर्थं पुनर्युक्तारोह्रादिषु परिग्रहस्तेषामिष्यत इत्याह - `पूर्वपदाद्युदात्तत्वं यथा स्यात्` इति युक्तारोह्रादीनां हि `युक्तारोह्रादयश्च` [[6.2.81]] इत्यनेन पूरवपदाद्युदात्तत्वं विधीयते। तत्र यदि ये क्तान्तास्ते न पठएरन्, तदा तेषामाद्युदात्तत्वं न स्यात्। कथं पुनः पात्रेसमितादयो युक्तारोह्रादिग्रहणेन गृह्यन्ते; यतस्तेषां विधीयमानमाद्युदात्तत्वं पात्रेसमितादीनमपि भवतीत्याह - `युक्तारोह्रादिषु हि` इत्यादि। `उदुम्बरमशकादिषूपमया क्षेपः` इति। यस्तत्रैवावरुद्धो न क्वचिद्गच्छति तमव विशिष्टचं मन्यते - नास्मात्परमस्तीति, सोऽदृष्टविस्तार उच्यत उदुम्बरमशक इति। एवमन्यत्राप्यपमानात् क्षेपः। `प्रतिषिद्धसेवनेन` इति। यः कश्चित् प्रतिषिद्धमाचरति स `मातरिपुरुषः` इत्युच्यते। `निरीहतया` इति। यो न किञ्चित् कर्तुं समर्थः स `पिण्डीशूरः` इत्येवमादिभिः पदैरभिधीयते। `चकारोऽवधारणार्थः` इति। पात्रेसमितादय एव यता स्युः, यदन्यत् समासान्तरं तेषां प्राप्नोति तन्मा भूदिति। तेन परमपात्रेसमिता इत#इ `सन्महत्` [[2.1.60]] इत्यादिना समासान्तरं न भवति॥", "21049": "`भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्य` इत्यादि। भिन्नप्रवृत्तिनिमित्तग्रहणं पर्यायनिवृत्त्यर्थम्। एकग्रहणं गौरआ इत्यादिनिवृत्त्यर्थम्। `पूर्वकाल इत्यर्थनिर्देशः` इति। अर्थप्रधानत्वान्निर्देशस्य। तेन स्वरूपग्रहणं न भवतीति भावः। `परिशिष्टानां स्वरूपग्रहणम्` इति। शब्दप्रधानत्वान्निर्देशस्य। `पूर्वकालोऽपरकालेन` इति। कुतः पुनरनुक्तोऽप्येषोऽर्थविशेषो लभ्यते; सम्बन्धिशब्दत्वात् पूर्वकालस्य? न ह्रनपेक्ष्यापरकालं पूर्वकालं सम्भवति; अतः पूर्वकालपरिग्रहे कृते सत्यपरकालस्यापि परिग्रहः कृत एव। `स्नानानुलिप्तः` इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यत्र स्नातशब्दः स्नानेन निमित्तेन प्रयुक्तः, अनुलिप्तशब्दोऽनुलेपनेन; तयोश्चैकत्रार्थे वृत्तिरित्यस्ति सामानाधिकरण्यम्। `एकशाटी` इति। एका चासौ शाटी चेति <<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इत्यादिना पुंवद्भावः॥", "21050": "`पूर्वेषुकामशमीत्यादिः` ग्रामाणां संज्ञा। पूर्वा चासाविषुकामशमी चेति पूर्वेषुकामशमी। मन्दश्रियां पूर्वोत्तरपदविभागमात्रप्रदर्शनार्थं वाक्यं कृतम्। न ह्यत्र वाक्येन भवितव्यम्। न हि वाक्येन संज्ञा गम्यते॥", "21051": "एकस्या अपि सप्तम्या विषयभेदेन भेदं दर्शयितुमाह - `तद्धितार्थे विषये` इत्यादि। यदि तद्धितार्थेऽभिधेय इत्येवं विज्ञायेत, तदा पाञ्चनापितिरित्यादौ तद्धितो दुर्लभः स्यात्। तदर्थस्य समासेनैवोक्तत्वादित्येतन्मनसि कृत्वा तद्धितार्थापेक्षया विषयसप्तमीयमिति दर्शयितुं `तद्धितार्थे विषये` इत्युक्तम्। तद्धिताः = अणादयः, तेषामर्थोऽपत्यादिः, तस्मिन् विषये। अनन्यत्रभावो विषयशब्दस्यार्थः, यथा - मत्स्यानां जलं विषः इति। `पौर्वशालः` इति। पूर्वस्यां शलायां भव इति तद्धितार्थे विषयभूते?प्राक् समासः। ततः सुब्लुक्। ततस्तद्धितः। `पूर्वशालाप्रियः` इति। पूर्वा शाला प्रियाऽस्येति पूर्वं पदानां त्रयाणां बहुव्रीहिः। पश्चात् प्रियशब्दे उत्तरपदे परतः पर्वयोः पदयोस्तत्पुरुषः। तस्मिन् सति समासान्तोदात्तत्वं भवति शालेत्यत्र। `समाहारे {दिक्शब्दः इति मूलपाठः, पदमञ्जरी च। } दिङ न सम्भवति` इति। समाहारो हि समूहः। स च भिन्नार्थानामेवैककालानां भवति। बुद्ध्या युगपदार्थानां परिग्रहादेककालत्वम्, न त्वभिन्नवस्तुनः। संखायैव च भेदमाचष्टे; तस्या भिन्नार्थाभिधायित्वात्, न तु दिक्शब्दः; तस्य प्रतिनियतविषयत्वात्। तस्मात् समाहारे द#इक्शब्दोन सम्भवतीति स न तत्र समस्यते। `पञ्चानापितिः` इति। पञ्चानां नापितानामपत्यमिति तद्धितार्थे विषयभूते प्राक् समासः। पश्चात् `अत इञ्` (4।1। 95)। `पञ्चकपालः` इति। पञ्चसु कपालेषु संस्कृत इति तद्धितार्थे विषयभूते पूर्वं समासः; पश्चादण्। तस्य <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति लुक्। `{पञ्चगवधनम् इति मुद्रित पाठः}पञ्चगवधनः` इति। पञ्च गावो धनमस्येति प्राक् त्रयाणां पदानां बहुव्रीहिः। उत्तरकालं धनशब्द उत्तरपदे परतः पूर्वयोः पदयोस्तत्पुरुषः। तस्मिन् सति <<गोरतद्धितलुकि>> [[5.4.92]] इति टच् समासान्तः। तत्र हि `तत्पुरुषस्याङ्गुलेः` [[5.4.86]] इत्यतस्तत्पुरुषग्रहणमनुवर्तते। `पञ्चपूली`इति। पञ्चानां पूलानां समहार इति विग्रहः। `द्विगुरेकवचनम्` (2.4.1।) इत्येकवद्भावः। `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते` (वा।156) इति स्त्रीलिङ्गता; <<द्विगोः>> [[4.1.21]] इति ङीप्। ननु समाहारः = समूहः, समूहश्च तद्धितकार्थो भवतीत्यपार्थकं समाहारग्रहणम्; तद्धितार्थ इत्येव सिद्धत्वात्? नैतदस्ति; पञ्चकुमारीत्यत्र हि समूहप्रत्ययस्य <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति लुकि कृते <<लुक् तद्धितलुकि>> [[1.2.49]] इति स्त्रीप्रत्ययस्यापि लुक् स्यात्। समाहारे तु पृथग्गृहीते तद्धितानुत्पत्तिरेवात्र विषये समाख्यायते। ततो न भवत्येष दोषः। पञ्चानां कुमारीणां समाहारः पञ्चमकुमारि। `एकविभक्तिचापूर्वनिपाते` [[1.2.44]] इत्युपसर्जनसंज्ञायाम् <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वत्वम्। कथं पुनरत्रैकविभक्तत्वम्? षष्ठऐवैकया योगात्। तथा हि समाहारः समूहः, तेन च तत्सम्बन्धे षष्ठऐव भवितव्यम्। अतः समाहारः कुमा4रीणाम्, समाहारं कुमारीणां पश्य, समाहारेण कुमारीणामित्येवमादिभिरनेकाभिर्विभक्तिभिर्युज्यमानेऽपि समाहारशब्दे कुमारीशब्दः षष्ठऐवैकया युज्यत इत्येकविभक्तिकत्वम्॥व", "21052": "`समासान्तो भवति` इति। टच्। `राजाहःसखिभ्यष्टच्` [[5.4.91]] इत्युवृत्तेः॥", "21053": "कुत्सितशब्दोऽयमिह रूढिमाचष्टे। तथा च निष्ठा भूतकालं नोपादत्ते। कुत्सनशब्देन च कुत्साहतुर्धर्मो गृह्रते - कुत्स्यते गह्र्रतेऽनेनेति कृत्वा। बहुवचननिर्देशस्तु स्वरूपविधेर्निरासार्थः। तेन कुत्सितवादिना कुत्सनवचनैः सह समासो विज्ञायते, न तु कुत्सितशब्दस्य कुत्सनशब्देन। अत आह - `कुत्सितवाचीनि` इत्यादि। शब्दप्रवृत्तिनिमित्तकुत्सायामयं समासो वेदितव्यः। कुतः पुनरेतल्लभ्यते? प्रत्यासत्तेः। शब्दस्य हि प्रवृत्तिनिमित्तं प्रत्यासन्नम्, अतस्तत् कुत्सायामेव समासेन भवितुं युक्तम्। `वैयाकरणखसूचिः` इति। वैयाकरणश्चासौ खसूचिश्चेति विग्रहः। यः पृष्टः सन् व्याकरणे खमाकाशं सूचयतीति निरीक्षते निष्प्रतिभो भवति स एवमुच्यते। अत्र हि वैयाकरणत्वं वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं तत् कुत्स्यते; तत्पुनः व्याकरणाध्येतृसम्बन्धः, व्याकरणवेदितृसम्बन्धो वा।तेन हि निमित्तेन वैयाकरणशब्दो पुरुषे वर्तते। एवमन्यत्रापि शब्दप्रवृत्तिनिमित्तकुत्सायां समासो वेदितव्यः। `याज्ञिककितवः` इति। कितव इव कितवः। यथा हि कितवः किं तवास्तीति धनवत्तामात्रमपेक्षमाणो द्यूते प्रवर्तते, न तु तस्य जात्यादिकमपेक्षते; तथा याज्ञिकोऽपि याजने प्रवर्तमानो यस्तृष्णयाऽयाज्यस्य धनवतामात्रमपेक्षते, न तु तस्य यागार्हतां स याज्ञिककितव इत्युच्यते। अत आह- `अयाज्ययाजनतृष्णापर उच्यते` इति। `मीमांसकदुर्दुरूढः` इति। मीमांसको मीमांसाध्ययनफलमनवाप्य नास्तिको जात इति प्रतीयते।`वैयाकरणश्चौरः` इति। ननु चौरत्वेन गह्र्रमाणो वैयाकरणः कुत्सितो भवत्येव। तदभिषायी च वैयाकरणशब्दः। तत्कथमिदं प्रत्युदाहरणमुपपद्यत इत्याह - `न ह्यत्र ` इत्यादि। प्रत्यासत्तेर्हि शब्दप्रवृत्तिनिमित्तस्य कुत्सायां ससासेन भवितव्यम्। न चेह वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं कुत्स्यते; यस्माच्चौरोऽपि सम्यक् व्याकरणं वेत्त्यधीते वा। तस्मान्नात्र शब्दप्रवृत्तिनिमित्तं कुत्स्यते, किं तर्हि? यत्र तद्वैयाकरणत्वं वर्तते स कुत्स्यते, वैयाकरणत्वन्तु तस्योपलक्षणमेव केवलम्, योऽसौ वैयाकरणः स चौरः, यथा - यः कम्पते सोऽआत्थ इति। अत्र कम्पनमआत्थस्योपलक्षणम्। `कुत्सितो बाहृणः` इति। भवत्यत्र कुत्सितशब्दः कुत्सिताभिधायी। न तु ब्राआहृणशब्दः कुत्सनवचनः॥`पापाणकशब्दौ कुत्सनाभिधायिनौ` इत्युक्तम्। यद्येवमत्र पूर्वेणैव सिद्धः समासः, किमर्थमिदनुच्यत इत्याशङ्क्याह - `तयोः` इत्यादि। यदि पूर्वेण स्यात् समासः, ततः कुत्सितशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वेनिपातः स्यात्, पापापणकशब्दयोस्तु परनिपातः। तस्मात् पूर्वनिपातार्थमिदमारभ्यते। कुत्सितग्रहणं विस्पष्टार्थम्। अन्यथा पूर्वयोगादेव कुत्सित इत्यनुवर्तिष्यत इति तन्न कर्तव्यमेव स्यात्॥", "21054": "", "21055": "`उपमीयतेऽनेनेत्युपमानम्` इति। सादृश्येन येन परिच्छिद्यते तदुपमानमित्यर्थः। यथा गौरिव गवय इत्यत्र गौरुपमानम्,तेन हि सादृश्येन गवयः परिच्छिद्यते। `यादृशो गौस्तादृशो गवयः` इत्यर्थः प्रतीयते। सामान्यमनेकसाधारणं भवति; इह चोपमानस्य श्रुतत्वात् तस्य चोपमेयापेक्षत्वादुपमानोपमेयोरेव साधारणो धर्मः सामान्यं विज्ञायत इत्याह - `उपमानोपमेययोः` इत्यादि। `तद्विशिष्टोपमेयवचनैरयं समासः` इति। तेन सामान्येन धर्मेण विशष्टं यदुपमेयं तद्वचनैरयं समासो भवति। कृतः पुनः सामान्यवचनैरित्युक्ते सत्येष विशेषो लभ्यते? न्यायात्। तथा हि - सामान्यमुक्तवन्तः सामान्यवचनाः, यथा- गुणमुक्तवन्तो गुणवचना इति। कदा च ते सामान्यवचना भवन्ति? यदा सामान्यमभिधाय सामान्यविशिष्टे तद्वति द्रव्ये वर्तन्ते। तच्च सामान्यवदुपमानस्य सम्बन्धिशब्दत्वादुपमेयमेव विज्ञायत इति न्यायप्राप्त एवार्थो वृत्तिकृता दर्शितः। `शस्त्रीश्यामा देवदत्ता` इति। अत्रोपमानं शस्त्री, उपमेया देवदत्ता। प्रसिद्धं ह्रुपमानं भवति, नाप्रसिद्धम्। शस्त्र्येव श्यामगुणत्वेन प्रसिद्धा, न देवदत्ता। तयोः सामान्यं साधारणो धर्मः श्यामत्वम्। तत् श्यामत्वमुक्त्वा श्यामशब्दो द#एवदत्तयामभेदोपचारान्मतुब्लोद्वा वर्तत इति सामान्यवचनो भवति। ननु च समानाधिकरणेनेत्यनुवर्तते, इह च शस्त्रीशब्दस्य शस्त्र्यां वृत्तिः, श्यामाशब्दस्य देवदत्तायाम्, अतो वैयधिकरण्यात् समासेन न भवितव्यम्? नैतदस्ति; सर्वत्र ह्रुपमानोपमेययोर्भेदात् तद्वाचिनोर्वैयधिकरण्यमेव, उच्यते चेदं वचम्, अतो वैयधिकरण्येऽपि वचनसामर्थ्यात् समासो भविष्यति।अथ वा - शस्त्रीशब्दोऽप्यत्र देवदत्तायां वर्तते। तेन सामानाधिकरण्यं एवायं समासः - शस्त्रौ चासौ श्यामा चेति शस्त्रीश्यामा। ननु च शस्त्रीशब्दोऽयं जातिवचनः शस्त्रीत्वं प्रवृत्तिनिमित्तमुपादाय तद्वति वर्तते, न च तत् शस्त्रीत्वं देवदत्तायामस्ति, तत् कथं तत्र वर्तते? नैष दोषः; `सर्व एवामी शब्दा गुणमुपादाय तद्वति द्रव्ये वर्तन्ते` इत्यपि दर्शनमस्ति। तत्र श्यामत्वं गुणमुपादाय शस्त्रीशब्दो देवदत्तायां वर्तिष्यते। ताद्धम्र्याद्वा देवदत्ता शस्त्रीशब्देनाभिधास्यते। भवति हि ताद्धम्र्यात् ताच्छब्द्यमित्युक्तं प्राक्। ताद्धम्र्यं पुनः श्यामगुणत्वम्। `फाला इव तण्डुलाः` इति। भवन्ति हि फाला उपमानम्। तथाहि तैर्दीर्घत्वादिना सादृश्येन तण्डुला उपमीयन्ते। तण्डुलशब्दस्तु सामान्यवचनो न भवति। ननु च तण्डुलशब्दोऽपि तण्डुलत्वं सामान्यमुपादाय तद्वति द्रव्ये वर्तत इति भवत्येव सामान्यवचनः, तदयुक्तमिदं प्रत्युदाहरणम्? नैतदस्ति; तथा ह्रुपमानोपमेययोः साधारणो धर्मः सामान्यमित्युक्तम्। न च तण्डुलत्वं फालानामस्ति, किं तर्हि? तण्डुलानामेव॥", "21056": "`सामर्थ्यादुपमानवचनैः` इति। यद्यपि `उपमानवचनैः` इति सूत्रे नोपात्तं, तथाप्युपमेयमानापेक्षमित्युपमितशब्दः सम्बन्धिशब्दत्वादुपमानत्वं व्याघ्रदीनां गमयति। तेन विशेषानभिधानेऽपि सामर्थ्यादुपमानवचनैस्तैः समासो विज्ञायते। `न चेत्सामान्यवाची शब्दः प्रयुज्यते` इति। उपमानोपमेययोः साधारणो धर्मः, शौर्यादि, सामान्यम्ष यदि तद्वाची शब्दो न प्रयुज्यते, एवं सति समासो भवति; नान्यथा। ननु च सामान्यस्य समासेऽन्तर्भूत्तवात् त्दवाचिनां शब्दानां प्रयोगो नास्ति, तत्क प्रतिषेधेन? नैतदस्ति; साधारणधर्मः सामान्यं हि समासेऽन्तर्भूतम्, न तु तद्विशेषः। तत्रासति प्रतिषेधे विशिष्टसाधारणधर्मवाचिनः प्रयोगः स्यादेवेति कर्तव्यः प्रतिषेधः? न कर्तव्यः,कथम्? सामान्यशब्दप्रयोगे हि सति तदपेक्षत्वेन सापेक्षमसमर्थ भवतीत्यसामर्थ्यादेव समासो न भविष्यति। एं तह्र्रेतज्ज्ञापयति - `भवति हि प्रधानस्य सापेक्ष्यस्यापि समासः` इति। पुरुषाश्चात्रोपमेयत्वात् प्रधानः, उपमानन्तु व्याघ्रादि तदर्थत्वादप्रधानम्। किमेतेन ज्ञापकेन प्रयोजनम्? `राजपुरुषः शोभनः` इत्येवमादि सिद्धं भवति। `विशेषणं विशेष्येणेति प्राप्ते` इति। ननु च विशेषणस्य विशेष्येण समानाधिकरणेन समासं वक्ष्यति, उपमानोपमेययोश्च भेदाद्वैयधिकरण्यम्, तत्कुतो विशेषणं विशेष्येणेति प्राप्तिः? एवं मन्यते - पुरुषादावुपमेये वत्र्मानैव्र्याघ्रादिभिरुपमानशब्दैरयं समासो भवति। यथा चोपमानशब्दानामुपमेयवृत्तित्वे सामानाधिकरण्यं तथा पूर्वसूत्र एव व्याख्यातम्॥", "21057": "`भेदकं विशेषणम्` इति। `{शिष्लृ विशरणे इति मुद्रित); शिष्लृ शेषणे, विपूर्वः - पदमंजरी} शिष्लृ विशेषणे` (धातुपाठः-1451) इत्यस्माद्धातोर्विपूर्वात् करणे ल्युट्। विशिष्यतेऽनेनेति विशेषणम्। तस्येदं लक्षणम् - भदेमिति। यत् सामान्याकारेण प्रवृत्तमनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थापयति, तद् भेदकं विशेषणमिति। `भेद्यं विशेषणम्` इति। विशेषणीयं विशेष्यम्। विपूर्वात् तस्माद्धातोः `ऋहलोण्र्यत्` [[3.1.124]] इति कर्मणि ण्यत्। तस्येदं लक्षणम्, भेद्यमिति। यदनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थाप्यते तद्भेद्यं विशेष्यमिति। अथ किमर्थं विशेषणविशेष्ययोरुभयोरुपादानं क्रियते? न; अन्यतरस्यैव क्रियेत, सम्बन्धिशब्दत्वाद्धि तयोरन्यतरोपादानेनैवेतरस्याप्यवगतिर्भवत्येव? सत्यमेतत्; यत्र पूर्वोत्तरपदे प्रत्येकं विशेषणविशेष्यभूते भवतस्त्रैव समासो भवतीति ज्ञापानार्थमुभयोरुपादानम्, यथा - नीलोत्पलमिति। अत्र नीलार्थो भ्रमरादिभ्यो व्यावत्र्योत्पलार्थेनोत्पले व्यवस्थाप्यते। उत्पलार्थोऽपि रक्तोत्पलादिभ्यो व्यावत्र्य नीलार्थेन नीले व्यवस्थाप्यत इत्यस्ति प्रत्येकं विशेषणविशेष्यभावः। स यत्र नासत्ि तत्र तु न समासः यथा - वृक्षः शिंशपेति। वृक्षो हि शिंशपात्वं व्यभिचरति, शिंशपा तु न वृक्षत्वम्। अतस्तत्प्रकारान्तरेभ्यः पलाशादिभ्यस्तं व्यवच्छिनत्तीति शिंशपा तस्य विशेषणं भवति, न तु विशेष्यम्। वृक्षस्तु विशेष्यः शिंशपार्थस्तु वृक्षत्वं न व्यभिचरतीति न तस्यासौ विशेषणं भवति। अथ किं न भवितव्यमेव शिंशपावृक्षः, आम्रवृक्ष इति? विशेषणसमासेन भवितव्यम्, यदा शिंशपादिशब्दानां विशेषे वृत्तिर्नावधार्यते। तथा हि - शिंशपादिशब्दाः फलस्य वृक्षस्य मूलस्य च वाचकाः सामान्यशब्द इति तदर्थानां वृक्षत्वव्यभिचारादद्विशेष्यभावः, वृक्षश्च विशेषणं भवति। यदा तु कुतश्चित् प्रकरणादर्थाद्वा वृक्षाद्यर्था एवावसितवृत्तयो भवन्ति तदा न भवितव्यम्। ननु च वृक्षार्थावसितवृत्तित्वाद्वृक्षशब्दस्य तदा प्रयोग एव नोपपद्यते, उक्तार्थत्वात्, `उक्तार्थानामप्रयोगः` (व्या।प।60) इति वचनात्। ततश्च समासस्याप्रसङ्ग एव। तत्क तन्निवृत्त्यर्थेनोभयग्रहणेन? नैतदेवम्; क्वचिदुक्तार्थानामपि लोके प्रयोगो दृश्यते, यथा - अपूपौ द्वावानयेति।यदि तर्हि यत्रोभयोः प्रत्येकं विशेषमविशेष्यभावस्तत्र समासेन भवितव्यम्, एवं सति प्रत्येकमुपसर्जनत्वं स्यात्, उभयोरपि विशेषणत्वात्, विशेषणस्येह सूत्रे प्रथमानिर्दिष्टत्वात्, ततश्चोत्पलनीलरमित्यपि स्यात्, नीलोत्पलमिति तु सर्वदैवेष्यते? नैष दोषः; यस्मादेकतरं प्रधानम्, इतरदप्रधानम्। द्वयोः प्राधान्ये परस्परानुपकारित्वादसम्बन्धयोरेकत्र प्रयोगो न स्यात्। अप्राधान्येऽपि द्वयोः प्रधानापेक्षावतोर्नास्ति परस्परोपकारित्वमिति न स्यादेवैकत्र प्रयोगः। तस्मादेकत्र प्रधानम्, अपरं त्वप्रधानम्। यच्चाप्रधानं तेदवोपसर्जनसंज्ञां भवति, नेतरत्; अन्वर्थत्वादुपसर्जनसंज्ञायाः - उप = समीपे विशेष्ये स्वार्थ सृजति = क्षिपतीति। नीलशब्दश्चाप्रधानम्, तदर्थस्य गुणस्याप्राधान्यात्; उत्पलशब्दस्तु प्रधानम्, तदर्थस्य द्रव्यस्य प्राधान्यात्। तस्मान्नीलशब्द एवोपसर्जनम्, नोत्पलशब्द इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। यत्रोभावपि तत्र पर्यायेणोपसर्जनभावः, यथा - कुब्जखञ्ज, खञ्जकुब्ज इति।अथ कुतोऽत्र द्रव्यस्य प्राधान्यमवसितम्? उच्यते;यथा - ओतं छागमालभेतेत्यस्यां देशनायां देशनायां ओतगुणस्याभावेऽन्यवर्णस्यापि च्छागस्यालम्भनाच्छागाबावे ओतगुणस्यान्यद्रव्यस्यानालम्भनाच्च। न हि च्छागाभावे पिष्टकपिण्डीलमालभ्य याज्ञिकः कृती भवति। यदि च प्रधानं गुणः स्यात्तदा यथा छागाभावे पिष्टकपिण्डी नालभ्यते, तथा ओतगुणाभावेऽन्यगुणोऽपि च्छागो नालभ्यते। न च स नालभ्यते, तस्मात् द्रव्यमेव प्रधानम्, न गुण इति। ननु चोत्पलशब्दोऽपि नैव द्रव्यशब्दोऽयमिति व्यवस्थाप्यते। एवं नीलशब्देऽप्यतिप्रसङ्गः, प्रभृत्या विनाशात् स्वाधारं द्रव्यं नैव जहाति। अतो द्रव्यात्मभूतत्वाज्जातेस्तन्निमित्तकः शब्दो द्रव्यस्योत्पत्ते। गुणाः पुनरपायिनोऽनपायिनो वा सत्येतस्मिन् द्रव्ये वर्तन्ते निवर्तन्ते च। तस्मान्नैते द्रव्यात्मभूता इति न तन्निमित्तशब्दो द्रव्यशब्दो व्यवस्थाप्यत इत्यलमतिप्रसङ्गेन।`तक्षकः सर्पः` इति। ननु च तक्षकः सर्पस्य विशेषणं भवत्येव, तथा हि - सर्प त्युक्ते सर्पसामान्यं प्रतीयते, न सर्पविशेषः। तक्षक- सर्प इत्युक्ते सर्पविशेषोऽतक्षकाद्व्यावृत्तोऽवसीयते, तदयुक्तं प्रत्युदाहरणमेतत्; नैतदस्ति;उक्तं ह्रेतत्- यत्रैकैस्योभयत्र भावस्तत्र समास इति। न तु कदाचित् सर्पार्थस्य तक्षको विशेष्यो भवति। कथं न भवति? तक्षकस्य सर्पत्वाव्यभिचारात्। ननु च तक्षकशब्दस्यानेकप्रकारत्वेन प्रकारान्तरनिवृत्तये युज्यत एव सर्पस्य तक्षकोऽपि विशेष्यः? नैतदस्ति; न नामधेयस्य क्रियाशब्देन तुल्यमर्थाभिधानसामर्थ्यम्। अवयवार्थानुसारेण हि क्रियाशब्दोऽर्थं बोधयति, समुदायरूपेण तु नामधेयम्। `अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी` (व्या।प।108) इति तस्यां सत्यां क्रियाशब्दार्थविषयापेक्षा नोपजायत एव। `लोहितस्तक्षकः` इति। भवति लोहितो विशेषणम्, न तु तक्षको विशेष्यम्। तस्य लोहितत्वाव्यभिचारात्। यदि तर्हि तक्षको न विशेष्यः, लोहितोऽपि विशेषणं न स्यात्; विशेषणस्य विशेष्यापेक्षत्वात्। न च शक्यं तक्षकाद्यर्थान्तरं पटादिकं विशेष्यं तदपेक्षया लोहितस्य विशेषणत्वं परिकल्पयितुम्। एवं हि लोहिताद्यदर्थान्तरं त#ईव्रविषादिकं विशेषणं तदपेक्षं तक्षकस्यापि विशेष्यत्वं प्रसज्येत। तस्माद्विस्पष्टार्थमुभयोग्र्रहणमित्यपरे॥", "21058": "`पूर्वस्यैवायं प्रपञ्चः` इति। तेनैव सिद्धत्वात्। अस्ति ह्यत्रापि प्रत्येकं पूर्वोत्तरपदयर्विशेषणं विशेष्यभावः॥", "21059": "`श्रेण्यादिषु च्व्यर्थवचनम्` इति। अभूततद्भावे वर्तमानानां समासो यथा स्यात्। यदा हि श्रेण्यादिशब्दानामर्था अपरिनिष्पन्ना एव निष्पाद्यन्ते तदा समास इष्टे। यदा तु निष्पन्ना एव ते रूपान्तरेण क्रियते तदा श्रेणयः कृता दण्डिताः सत्कृता वेत्येवमाद्यर्थविवक्षायां नेष्यते। कृतशब्दस्य दण्डितादिशब्दानामर्थेषु वृत्तिर्न सम्भवतीत्येतच्च नाशङ्कनीयम्। करोतेः क्रियासामान्यवाचित्वात्। अनेकार्थत्वाद्वा धातूनाम्। श्रेण्यादिषु च्व्यर्थवचनमित्यस्यायमर्थः - च्व्यर्थ उच्यते = प्रत्याय्यते येन तच्च्व्यर्थवचनम्। `कर्तव्यम्` इति। येन श्रेण्यादिषु समासकराणत्वेनोपात्तेषु च्व्यर्थता प्रतिपद्यते तद्वयाख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - बहुलग्रहणमिहानुवर्तते, तेन च्व्यर्थानामेव समासो भवतीति नाच्व्यर्थानाम्। `च्व्यन्तानाम्` इत्यादि। च्वेर्विकल्पेन विधानाद्द्विविधाश्च्व्यर्थाः - च्व्यन्ताः, अच्व्यन्ताश्च। तत्र ये श्रेण्यादयोऽच्व्यन्तास्तेषामनेन समासः। च्व्यन्तानान्तु <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इति गतिसंज्ञायां सत्यां परत्वात् <<कुगतिप्रादयः>> [[2.2.18]] इति समासो भविष्यतीति॥", "21060": "अयं विशिष्टशब्दोऽस्त्येव सावधारण आधिक्ये वर्तमानः। यथा - देवदत्तयज्ञदत्तावाढआवभिरूपौ प्रेक्षावन्तौ। देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः; स्वाध्यायेनैवाधिक इति गम्यते। अन्ये तु गुणाः समाना एव भवन्ति। अस्ति च निरवधारण आधिक्ये वर्तमानः, यथा - देवदत्तयज्ञदत्तावाढआविभिरूपौ प्रेक्षावन्तौ। देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः, स्वाध्यायेनाधिक इति गम्यते। अन्ये तु गुणाः समाना भूयांसो वा, ते न विवक्षिता भवन्ति। यद्यपि चाभिन्नरूपमेव वाक्यद्वयमेतत्, तथापि प्रकरणादेः कुतश्चिदर्थभेदो गम्यते, यथा - आराच्छब्दे दूरान्तिकार्थभेदः। तत्र यदि निरवधारण आधिक्ये वर्तमानो विशिष्टशब्दो गृह्रेत, तदा सिद्धं च तदभुक्तञ्चेत्यत्रापि स्यात्, अस्त्यत्र नञाधिकं क्तान्तम्। तस्मात् सावधारण आधिक्ये वर्तमानं विशिष्टशब्दं परिगृह्राह - `नञैव विशेषो यस्य` इत्यादि। `प्रकृत्यादिकम्` इति। आदिशब्देन प्रत्ययोपसर्गयोः परिग्रहः। `अनञ्` इति। अविद्यामानो नञ् यस्मिन् क्तान्ते तदनञ्। `कृतञ्च तदकृतञ्च` इति। कथं पुनरेकमेव वस्तु कृतं स्यादकृतञ्च? अवयवधर्मेण समुदायस्य तथा व्यपदेशाददोषः। कृतभागसम्बन्धात् कृतम्, अकृतभागसम्बन्धात् तदेवाकृतमित्युच्यते। अथ वा- यदर्थं कृतं तत्रासामर्थ्यादकृतम्, यथा - पुत्रकार्यासामर्थ्यात् पुत्रोऽप्यपुत्र इति। यदि नञेव विशेषो यस्य सर्वमन्यत् प्रकृत्यादिकं तुल्यं तेन समासः, एवं सति यस्य नुडप्यधिक इडागमो वा, तेन सह समासो न भवतीत्याह - `नुडिटौ` इत्यादि। यत्तु नञ्विशिष्टं क्तान्तं तद्भक्तौ नुडिटौ, अतस्तद्ग्रहणेन गृह्रेते, अतो नास्य भेदकौ तौ। अभेदकावित्यर्थः। तेन तदधिकमपि नञ्विशिष्टमेव भवतीति तेन समासो भवत्येव। `अशितानशितेन` इति। <<तस्मान्नुडचि>> [[6.3.74]] इति नुट्। `क्लिष्टाक्लिशितेन` ति। <<क्लिशः क्त्वानिष्ठयोः>> [[7.2.50]] इति पक्षे इट्। अनञिचि शक्यमकर्तुम्। यदि स नञ् समस्येत तदा नञ्विशिष्टता नोपपद्यते; द्वोयरपि नञ्सम्बन्धात्। तस्मान्नञ्विशिष्टग्रहणादेवानञ् समस्यत इत्येषोऽर्थो लभ्यत इत्यनञ्ग्रहममनर्थकम्। तत् क्रियते विस्पष्टार्थम्।`कृतापकृतादीनाम्` इत्यादि। कृतापकृतप्रभृतीनामुपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - बहुलग्रहणमिहानुवर्तते, तेन कृतापकृतादीनामपि समासी भवतीति। `कृतापकृतम्` इति। तदेकदेशस्येष्टस्य करणात् कृतम्। अपकृतञ्च तदेकदशस्यानभिमतस्य करणात्। `भुक्तविभुक्तम्` इति। भुक्तं त्वभ्यवह्मतत्वात्, विभुक्तञ्चाशोभनत्वात्। विशब्दोऽत्राशोभवत्वं प्रतिपादयति विरूपवत्। अथ वा- भुक्तञ्च तत्प्रत्यागतञ्चेति `गतप्रत्यागतम्`। यातञ्च तत्पूर्वमनुयातञ्च पश्चात् `यातानुयातम्`। `क्रयाक्रयिका` #इति। महान् क्रयः क्रयशब्दोनोच्यते, अल्पस्तु क्रयिकाशब्देन। क्रयावयवसम्बन्धात् क्रयः, क्रयिकावयवसम्बन्धात् क्रयिता, क्रयश्चासौ क्रयिका चेति क्रयाक्रयिका। <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घः। एवं पुटश्चासौ पुटिका चेति `पुटापुटिका`। फलञ्च तत् फलिका चेति `फलफलिका`। मानञ्च तदुन्मानिका चेति `मानोन्मानिका`। `समानाधिकरणाधिकारे` इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु पूर्ववदेव॥`पूज्यचमानवचनैरिति वचनात्` इत्यादि। पूज्यमनत्वं ह्रवमुत्तरपदस्य भवति यदि पूजावचना भवन्ति, नान्यथा; तस्मात् पूज्यमानग्रहणात् सदादयः पूजावचना विज्ञायन्ते। अत एव सच्छब्देन शतृशानचोग्र्रहणं न भवति, न हि तौ पूजामाहतुः। `उत्कृष्टा गौः कद्र्दमात्` इति। उद्धृतेत्यर्थः। अथ कथं महाद्रुमः, महोदधिरिति समासः, न ह्यत्र पूजा गम्यते, किं तर्हि? प्रमाणातिरेक उत्तरपदार्थस्य? यद्यप्येवम्, तथापि बहुलग्रहणानुवृत्तेर्भविष्यति॥", "21061": "", "21062": "वन्दारकादयो जातिशब्दाः। ते चोपमानत्वे सति पूजावचना भवन्ति। तत्र व्याघ्रादेराकृतिगणत्वात् <<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> [[2.1.56]] इत्येवं सिद्धे समान्यप्रयोगगेऽपि यथा स्यादित्येवमर्थोऽयमारम्भः। ``पूज्यमानम्` इति वचनाद्वृन्दारकादयः पूजावचनना गृह्यन्ते` इति। न ह्रन्यथा पूज्यमानत्वमुपपद्यत इति भावः।`सुषीमो नागः` इति। ननु च विशेषणं विशेष्येणेति वर्तते। न च नागादन्यः सुषीमोऽस्ति, संज्ञा ह्रेषा नागस्यैव? एवं तर्हि प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता।इदन्त्वत्र प्रत्युदाहरणम् - देवदत्तो नागो यस्मान्मूर्ख इति॥", "21063": "`जातिपरिप्रश्न एव व्युत्पाद्येते`इति। `किंयत्तदौर्निर्धारणे` [[5.3.92]] इत्यनुवर्तमाने `वा बहूनाम्` [[5.3.93]] इत्यादिना। स्यादेतत् - कतरशब्दविशेषणार्थ जातिपरिप्रश्नग्रहणमित्याह - `कतरशब्दोऽपि` इत्यादि। `तदेव ज्ञापयति` इति। यदि तर्हि कतमशब्दो जातिपरिप्रश्न एव वर्तमानो गृह्रते, जातिपरिप्रश्नग्रहणमनर्थकं स्यात, विनाऽपि तेन यथोक्तया नीत्या कतरतमशब्दौ जातिपरिप्रश्न एव वर्तमानो ग्रहीष्येते। `तथा च` इत्यादि। यत एव तकमशब्दस्य जातिपरिप्रश्नादन्यत्रापि वृत्तिः, एवञ्च कृत्वा भवतां देवदत्तः कतम इति प्रत्युदाहरणमुपपद्यते। अन्यथा तन्नोपपद्येत्; तस्य जातिपरिप्रश्नादन्यत्राप्रवृत्तेः॥", "21064": "`किंसखा` इति। `अनङ सौ` [[7.1.93]] इत्यनङादेशः। अथ किंराजेत्यादौ `राजाहः सखिभ्यष्टच्` [[5.4.91]] <<गोरतद्धितलुकि>> [[5.4.92]] इति टच् समासान्तः कस्मान्न भवतीत्याह - `किमः क्षेपे` इत्यादि। अत्र `न पूजनात्` [[5.4.69]] इत्यतः `न` इत्यनुवर्तते॥", "21065": "विशेषणमित्यादिना समासे प्राप्ते वचनमिदं परनिपातार्थम्। गुणशब्दा ह्रेते। तत्र यदि तेन समासः स्यात तदैषां पूर्वनिपातः प्रसज्येत। अथ धूर्तग्रहणं किमर्थम्, यावता कुत्सनशब्दोऽयम्, <<कुत्सितानि कुत्सनैः>> [[2.1.53]] इत्येवं समासः सिद्ध? इत्याह - `धूर्तग्रहणमकुत्सार्थम्` इति। शब्दप्रवृत्तिनिमित्तकुत्सायां समासो विज्ञायते, न कुत्सायाम्॥", "21066": "`रूढिशब्दाः प्रशंसावचना गृह्यन्ते` इति। त्रिप्रकारा हि प्रशंसाशब्दाः- के#इज्जातिशब्दाः परार्थे प्रयुज्यमानाः प्रशंसामाचक्षते यथा - सिंहो देवदत्त इति। केचिद्गुणशब्दा गुणगुणिसम्बन्धेन प्रशंसावचना भवन्ति, यथा - रमणीयो ग्रामः, शोभनः पाचक इति। केचिद्रूढिशब्दा मतल्लिकादयः; तेषां प्रशंसैव शब्दार्थः। तदिह वचनग्रहणात् प्रशंसायामेव ये वर्तन्ते ते गृह्यन्ते रूढिशब्दाः। `गोप्रकाण्डम्` इति। शोभनः प्रशस्तो गौरित्यर्थः। योगविभागोऽसन्देहार्थः। यदि पूर्वयोग एव प्रशंसावचना गृह्रेरन्, तदा सन्देहः स्यात् - किं पोटादिभिः प्रत्येकं वचनमभिसम्बध्यते? अथ प्रशंसयेति? पोटादिभिः सम्बन्धे तत्पर्यायैरपि समासः स्यात्॥", "21067": "`खलत्यादिभिः समानाधिकरणैः` इत्यादि। यद्येवम्, किमर्थं जरतीभिरिति स्त्रीलिङ्गेन निर्देशः, जरद्भिरित्येवं नाम निर्देशः कर्तव्यः स्यात्, न हि जरतीशब्देन स्त्रीलिङ्गेन युवशब्दस्य पुंलिङ्गस्य सामानाधिकरण्यमुपपद्यत इत्याह - `जरतीभिरिति स्त्रीलिङ्गेन निर्देशः` इत्यादि। कथं पुनरनेन निर्देशेनैषा परिभाषा शक्यते ज्ञापयितुम्? यद्येषा न स्यात् तदा जरतीभिरित्येवं निर्देशोऽनर्थकः स्यात्। तथा च समानाधिकरणाधिकारात् समानाधिकरणेन जरतीशब्देनायं समासो विज्ञायते। न च तेन स्त्रीलिङ्गेन पुंसि वर्तमानस्य युवशब्दस्य सामानाधिकरण्यं भवति, तदेष निर्देशः कथमर्थवान् भवति? यद्येषा परिभाषाऽवतिष्ठते ! तस्यां हि सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्य ग्रहणं भवतीत्युपपद्यते। युवतिजरतीशब्दयोः सामानाधिकरण्यम्, तस्मश्च सति तयोः समासः। तेदवं जरतीभिरिति निर्देशो ज्ञापयति - एषा परिभाषाऽस्तीति। नन्वेवमपि जरत्या समास उच्यमाने जरता न प्राप्नोति - युवजरन्निति? नैष दोषः; वृत्त्यन्तरे हि जरद्भिरिति पठते। उभयथाऽप्याचार्येण शिष्याः प्रतिपादिता इत्युभयं सिध्यति॥", "21068": "`तुल्यपर्यायाश्च` इति। अथ स्वरूपग्रहणं कस्मान्न विज्ञायते? एवं मन्यते - कृत्य इत्यर्थग्रहणम्। अतस्तत्साहचर्यात् तुल्य इत्यर्थस्यैव ग्रहणं युक्तम्, तत्रार्थे कार्यासम्भवात् तद्वाचिनां समासो विज्ञायत इत्याख्याग्रहणं तुल्यनामधेयपरिग्रहार्थम्। अन्यथा गौर्वाहीक इत्यत्रापि स्यात् ; गोशब्दस्येह सादृश्यार्थत्वात्। सर्व एव हि शब्दाः परपदार्थे प्रयुज्यमानाः सादृश्यं गमयन्ति। आख्याग्रहणे तु क्रियमाणे गोशब्दोऽत्र तुल्यनामधेयं न भवतीति समासाभावः। भोज्योष्णमित्यादावुष्णादयः शब्दा गुणवचनाः। तत्रासत्यस्मिन् योगे विशेषणसमासे सति तेषां पूर्वनिपातः स्यात्। अतः परनिपातार्थ आरम्भः। `तुल्यमहान्` इति। यद्यप्यत्र `सन्महत्` इत्यादिना समासः प्राप्नोति, तथापि परत्वादनेनैव भवति। तुल्याख्यायामस्यावकाशः - तुल्यओत इति। तस्य चातुल्याख्यायामवकाशः - महापुरुष इति। `भोज्य ओदनः` इति। ओदन शब्दोऽत्र जातिवचनः॥", "21069": "<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति वर्तते। तत्र यदि द्वयोरपि वर्णशब्दयोः स्वरूपग्रहणमिह स्यात्, विशेषणविशेष्यभावो नोपपद्येत; अभिन्नार्थत्वात्। न हि तदेव देवदत्तस्य विशेषणत्वं विशेष्यत्वं चोपपद्यते। अथाप्येकस्य स्वरूपग्रहणं स्यात्, अपरस्यार्थग्रहणम्? एवप्येकः सामान्यवाची स्याद्वर्णशब्दः, द्वितीयस्तु विशेषवाची कृष्णादिशब्दः। ततश्च प्रत्येकं विशेषणत्वं विशेष्यत्वं च न स्यात्। यत्र च तदुभयमस्ति तत्र समास इति प्रागुभयग्रहणस्य प्रयोजनमुक्तम्। तस्मादुभयत्राप्यर्थग्रहणं विज्ञायत इत्याह - `वर्णविशेषवाचि` इत्यादि। `कृष्णसारङ्गः, लोहितसारङ्गः` इति। ननु च कृष्णशब्दो लोहितशब्दश्चावयवे वर्तते सारङ्गशब्दस्तु समुदाये; यथा - शबलशब्दः, तत्कथमवयववृत्तेः कृष्णादिशब्दस्य समुदायवृत्तिना सारङ्गादिशब्देन सामानाधिकरण्यमित्याह - `अवयवद्वारेण` इत्यादि। कृष्ण इत्युच्यते, लोहितावयवसम्बन्धाल्लोहित इति। अत एव गौणत्वादत्र सामानाधिकरण्यस्य <<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इत्यादिना समासो न प्राप्नोतीतीदमारभ्यते महत्याः संज्ञायाः करणमन्वर्थसंज्ञा यथा विज्ञायेतेति। तेनाप्रधानमुपसर्जनमिति। न चात्र समुदायोऽप्रधानम्, किं तर्हि? प्रधानमेव। अवयवानान्तु तदर्थत्वादप्राधान्यम्। अतोऽवयववचनस्यैव कृष्णशब्दादेरुपसर्जनत्वम्। न समुदायवचनस्य सारङ्गादिशब्दस्य॥", "21070": "`तैः सह स्त्रीलिङ्ग एव कुमारीशब्दः समस्यते` इति। न तु पुंल्लिङ्ग इत्यवधारणेन दर्शयति। न हि पुंल्लिङ्गस्य स्त्रीलिङ्गेन सामानाधिकरण्यमुपपद्यत इति भावः। `तैरुपभयथा` इति। स्त्रीलिङ्गः, पुंल्लिङश्च। कथं पुनः पुंल्लिङ्गैः समास उच्यमानः स्त्रीलिङ्गैः स्यादित्यत आह - `प्रातिपदिकग्रहणे` इति। गतार्थम्॥", "21071": "`चतुष्पादः` इति। चत्वारः पादा यासां ताश्चतुष्पादः। <<पादस्य लोपोऽहस्त्यादिभ्यः>> [[5.4.138]] इत्यन्तस्य लोपः। `चतुष्पाज्जातिरिति वक्तव्यम्` इति। चतुष्पादो जातिवचना एव गर्भिण्या समस्यन्त इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पोटादि [[2.1.64]] सूत्रादिह जातिग्रहणमनुर्तते। तेन चतुष्पज्जातिवाच्येव गर्भिण्या समस्यते, नान्यदिति॥", "21072": "`मयूरव्यंसकः` इति। मयूरश्चासौ व्यंसकश्चेति मयूरव्यंसकः। व्यंसकशब्दस्य पूर्वनिपाते प्राप्ते परनिपातार्थः पाठः। एवं चात्र मयूरव्यंसकादीनां यवनमुण्डपर्यन्तानाम्। `छन्दसि ह्स्तेगृह्र` इत्यादि। समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] । भाषायान्तु - हस्तेगृहीत्वा, पुनर्दत्त्वेत्येवं भवति। `एहीडादयोऽन्यपदार्थे` इति। एहि ईड यत्र कर्मणि वर्तते तदुच्यते - `एहीडम्` इति। एवम् - `एहियवम्` इति। एहिवाणिजेति यस्यां क्रियायां सा `एहिवाणिजा`। एवम् - `अपेहिवाणिजा, प्रेहिवाणिजा`। एहि सवागतमिति यस्यां क्रियायां सा `एहिस्वागता`। एवम् - `अपेहिस्वागता`। प्रौह कटमिति यस्यां सा `प्रोहकटा`। एं प्रोहकर्दमादय आहरवसनान्ताः। कृन्धि विचक्षणेति यस्यां क्रियायां सा `कृन्धिविचक्षणा`। `उद्धरोत्सृज` इति। तिङन्तयोः समासः। `आख्यातमाख्यातेन क्रियासात्ये` (ग।सू।20) इत्येवं सिद्धेऽसातत्यार्थं वचनम्। उद्धरोत्सृजति यस्यां क्रियायां सा उद्धरोत्सृजा। क्रियाप्रधानश्चायं समासः। `उत्पतनिपता`। `उत्तमविधमा`। एवमुद्धरोत्सृजेत्यादिकमसातत्यविषयमेव। `उच्चावचनम्` इति निपात्यते। उदक् चावाक् चिति विगृह्र। उच्चैश्च नीचैश्चेति विगृह्रोच्चनीचमिति निपात्यते। आचितञ्चोपचितञ्चेति विगृह्र `आचोपचम्`। आचितञ्च पराचितञ्चेति `आचपराचम्`। निश्चितञ्च प्रचितञ्चेति `निश्चप्रचम्`। न किञ्चन `अकिञ्चनम्`। `स्नत्वाकालकः`। `पीत्वास्थिरकः`। `भुक्त्वासुहितः` इत्येषामन्तोदात्तार्थः पाठः। ल्यब्भावश्च निपात्यते। `प्रोष्यपापीयान्` इति। ऐकपद्यमैकस्वर्यञ्च समासाद्भवति। एवम् - उत्पत्यपाकलादीनाम्। `नित्यरोहिणी। निषण्णश्यामा। अपेहिप्रसवा। इहपञ्चमी। इहद्वितीया` इति। ऐकपद्यमैकस्वर्यञ्च समासे भवति।`जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारञ्चाधिदधाति` इति। जहीति लोण्मध्यमपुरुषैकवचनम्। तदन्तं कर्मणा च बहुलं समस्यत आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्ता चाभिधीयते। जहिजोडमित्याभीक्ष्ण्यं य आह स उच्यते `जहिजोडः` इति। जहिस्तम्ब इति, लोट्; सिप्, <<हन्तेर्जः>> [[6.4.36]] इति जादेशः। जोडादेरत्र कर्मभावः। `आख्यातम्` इत्यादि। तिङन्तं तिङन्तेन सह समस्यते क्रियासातत्ये गम्यमाने। अश्नीत पिबतेत्यसकृद्यत्रोच्यते तत्र `अश्नीतपिबत` इति प्रयुज्यते। क्रियाप्रधानश्चायं समासः। एवं पचतभृज्जतेत्येवमादयो वेदितव्याः। भिन्धि लवणमिति यत्रीभिधीयते सा `भिन्धिलक्षणा`। एवं `पचलवणा` इति॥ इति श्रीबोधसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्यप्रथमः पादः", "22001": "`सामर्थ्यादेकदेशवचनाः` इति। यदि हि पूर्वादयः शब्दा एकदेशवचना न स्युसतदोत्तरपदस्यैकदेशित्वं न गम्येत;एकदेशिन एकदेशापेक्षत्वात्। तस्मात् सामान्योक्ता अपि पूर्वादयः शब्दा सामर्थ्यादेकदेशवचनाः समस्यन्त इति विज्ञायते। एकाधिकरणग्रहणमेकदेशिनो विशेषणमित्यस्यार्थं विस्पष्टीकर्तुमाह - `एकं च` इत्यादि। एकमित्येकसंख्याविशिष्टं द्रव्यमित्यर्थः। `एकद्रव्यम्` इत्यनेनाधिकरमशब्दोऽत्र द्रव्ये वर्तमान उपात्त ति दर्शयति। ननु `एकदेशिना` इति तृतीयान्तमेतत्, `एकाधिकरणे इत्येतत् सप्तम्यन्तम्, तत् कथं तयोर्भिन्नविभक्तिकयोः सामानाधिकरण्येन विशेषणविशेष्यभाव उपपद्यते, कथञ्च न स्यात्; भिन्नार्थत्वात्? नैतदस्ति; `छन्दोवत् सूत्राणि भवन्ति` (म।भा।1.1.1) इत्यतो <<व्यत्ययो बहुलम्>> [[3.1.85]] इति बहुलवचनात्। `एकाधिकरणे` इत्यत्र तृतीयार्थ एवैषा सप्तमी। न <<सप्तम्यधिकरणे च>> [[2.3.36]] इत्यनेन। अतो नास्ति भिन्नार्थत्वमित्यदोषः। `षष्ठीसमासापवादोऽयं योगः` इति। `एकदेशिना` इति वचनात् पूर्वादयः शब्दा एकदेशवचना आश्रीयन्ते। सम्बन्धिशब्दा हि नियतमेव प्रतियोगिनमुपस्थापयन्ति। तत्रावयवावयविसम्बन्धे स्तेयकदेशिनः षष्ठआमुपजनितायां `षष्ठी` [[2.2.8]] इति समासः प्राप्नोति, अतस्तदपवादोऽयं योग इति। `पूर्वकायः` इत्यत्र काय एकदेशी, एकद्रव्यञ्च; एकसंख्यायुक्तत्वात्।`पूर्वं नाभेः कायस्य` इति। नाभेरिति दिग्योगलक्षणा पञ्चमी। नाभेरुपरिष्टात् यत् पूर्वं तत् कायस्येत्येषोऽर्थो विवक्षितः। तेनात्र नाभिरेकदेशिनी न भवति। किं तर्हि? अवधिभूता, तद्वाची नाभिशब्दः पञ्चम्यन्तो न समस्यन्ते। यस्त्वेकदेशी कायस्तद्वाचिनः कायशब्दस्य भवत्येव समासः। सत्यपि पूर्वशब्दस्य सापेक्षत्वे कायस्य प्राधान्यात् प्रधानस्यच सापेक्षस्यापि समासो भवतीति ज्ञापितमेतत् <<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> [[2.1.56]] इत्यत्र। `पूर्वं {छात्राणामामन्त्रय इत मूलपाठः, पदमञ्जरीसम्मतश्च।} छात्राणामामन्त्रयस्व`इति। अत्र बहुत्वसंख्याविशिष्टैकदेशिनश्छात्रा इति न भवति समासः। ननु चात्र परत्वात् `न निर्धारणे` [[2.2.10]] इति षष्ठीसमासनिषेधो भविष्यति। तत् {किमेवाधिकरणे- इति मुद्रित पाठः।} किमेकाधिकरणग्रहणेन? नैतदस्ति; यदि तह्र्रामन्त्रयस्वेत्येतन्नापेक्ष्यते तदा पूर्वं छात्राणामित्येतावद्वाक्यं परिसमाप्यते,तदा निर्धारणाभावान्नायं तस्य प्रतिषेधस्य विषय इत्यसत्येकाधिकरणेऽनेकसंख्येनाप्येकदेशिना समासः स्यात्। अथ सर्वं हि वाक्यं क्रियया परिसमाप्यत इति पूर्वं छात्राणामित्यत्र यां काञ्चित् क्रियामध्याह्मत्य निर्धारणं परिकल्प्येत, एवं `पूर्वं कायस्य` इत्यत्रापि निर्धारणं स्यात्। अस्ति ह्यत्राप्यकर्षणक्रिया निर्धारणहेतुः। तथा च तस्यैव योगस्य विषये किलारभ्यमाणोऽयं योगस्तदपवादः स्यात्। न चोत्सर्गापवादयोर्विप्रतिषेध उपपद्यते, तत्कथं परत्वात् `न निर्धारणे` [[2.2.10]] इति प्रतिषेधः प्रवर्तते - संख्याविसायपूर्वस्येत्यादि? यदयं <<संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ>> [[6.3.110]] इत्याह, ततो ज्ञापकादवसीयते - सर्वेणैकदेशिनाऽह्नः समासो भवतीति। अन्यथा हि सायपूर्वत्वमह्नशब्दस्य नोपपद्यत इत्ययुक्तमेतद्वचनं स्यात्॥", "22002": "`समप्रविभागे त्वद्र्धशब्दो नपुंसकमाविष्टलिङ्गस्तस्येदं ग्रहणम्` इति। यद्येवम्, समग्रहणमेव कर्तव्यम्? नैवं शक्यम्, अनेकार्थत्वात् समशब्दस्य। तथा हि - स निम्नोन्नतादिरहितेऽपि देशे वर्तते - यथा - समे यजेतेति, निम्नोन्नतादिरहिते देशे यजेतेत्यर्थः। अथापि समप्रविभाग इच्युच्यते, एवमपि गुरुत्वं स्यात्, तस्मान्नपुंसकग्रहणं कर्तव्यम्? न कर्तव्यम्; अद्र्धमिति नपुंसकलिङ्गेन निर्देशादेव हि नपुंसकस्य ग्रहणं भविष्यति, नैतदस्ति; असति हि नपुंसकग्रहणं शब्दरूपापेक्षया नपुंसकनिर्देश इति विज्ञायेत, यथा - <<स्वमज्ञातिधनाख्यायाम्>> [[1.1.35]] , `बन्थुनि बहुव्रीहौ` [[6.1.14]] इति च; ततश्चाद्र्धशब्दस्य नपुंसकलिङ्गत्वताऽनाश्रिता स्यात्। एवमनुपंसकलिङ्गोऽपि समस्येत। तस्मादद्र्धशब्दस्य नपुंसकलिङ्गत्वमाश्रयितुं नपुंसकमिति वक्तव्यम्। `अद्र्धपिप्तली` इति। `परवलिङ्गम्` [[2.4.26]] इति स्त्रीलिङ्गता। अथात्र <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वत्वं कस्मान्न भवति? अनुपसर्जनत्वात्। उपसर्जनत्वं तु `एकविभक्ति च` [[1.2.44]] इति। अत्र <<विभाषा छन्दसि>> [[7.4.44]] इत्यतो विभाषाग्रहणमनुवर्तते। सा च व्यवस्थितविभाषा प्रतिपादिता। `ग्रामार्द्धः` इति। ग्रामस्यैकदेश इत्यर्थः।`अद्र्ध पशोर्दैवदत्तस्य` इति। देवदत्तशब्देन सह समासो न भवति। अनेकदेशित्वाद्देवदत्तस्य। न ह्रसावेकदेशः, किन्तर्हि? स्वामी। यस्त्वेकदेशी पशुशब्दः, तेन सह भवत्येव समासः। सत्यपि पशुशब्दस्य सापेक्षत्वे पशोः प्राधान्यात् समासो भवत्येव - अद्र्धपशुर्देवदत्तस्येति॥", "22003": "`अन्यतरस्यां ग्रहणात् सोऽपि षष्ठीसमासो भवति` इति। ननु च पूरणप्रत्ययान्ता एते द्वितीयादयः शब्दाः। तत्र पूरणेत्यादिना समासनिषेधेन भवितव्यम्, तत्कथं सोऽपि भवतीत्याह - `पूरण` इत्यादि। यद्यत्र षष्ठीसमास्य प्रतिषेधः स्यात् तदाऽन्यतरस्यां ग्रहणमनर्थकं स्यात्। वाक्यस्य तु महाविभाषयैव सिद्धत्वादिति भावः। `द्वितीयं भिक्षायाः` इति। भिक्षाया द्वितीयो भाग इत्यर्थः। `द्वितीयं भिक्षाया भिक्षकस्य` इति। भिक्षुकेण सहात्र समासो न भवति। न ह्रसावेकदेशी, किं तर्हि? स्वामी। तुर्यशब्दः `चतुरश्छयतावाद्यक्षरलोपश्च` (वा।571) इति यत्प्रत्ययान्तः पूरणार्थस्य प्रतिपादकः॥", "22004": "`द्वितियासमासे प्राप्ते` इति। `द्वितीया श्रित` [[2.1.23]] इत्यादिना। `समासविधानात्सोऽपि भवति` इति। अपिशब्दादयमपि भवति। `प्राप्तजीविकः`इति। `एकविभक्ति च` [[1.2.44]] इत्यादिनोपसर्जनत्वम्। ह्रस्वत्वं तु <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति। अत्र च `परवल्लिङ्गम्` [[2.4.26]] इत्यादिना जीविकाया यल्लिङगं तत् समुदायस्य कस्मान्न भवति? `द्विगुप्राप्तापन्नलंपूरवगतिसमासेषु प्रतिषेदो वक्तव्यः`(वा।163) इति वचनात्। तेन प्राप्तापन्योर्यल्लिङ्गं तत् समुदायस्य भवति। अथ यदा प्राप्ताजीविकामिति विगृह्र समासः क्रियते तदा किमुदाहरणम्? प्राप्तजीविक इति। टापः श्रवणं कस्मान्न भवति? `स्त्रियाः पुंवत्` [[6.3.33]] इति योगविभागात् पुंवद्भावेन टापो निवर्तितत्वात्॥", "22005": "`सामर्थ्यात् परिमाणवचनाः` इत। एवं ह्रुत्तरपदस्य परिमणिवाचित्वं गम्यते यदि कालशब्दाः परिमाणवचना भवन्ति, नान्यथा। तस्मात् काला इत्येविशेषाभिधानेऽपि सामर्थ्यात् `परिमाणवचनः कालशब्दाः समस्यन्ते` इति विज्ञायते। ननु चकालः परिमाणेव भवति; अनवधित्वात्, तत् कथं तदभिधायिनः शब्दाः परिमाणवचना भवन्ति? नैष दोषः; यद्यपि मुख्यस्य परिमाणस्य वाचका न भवन्ति, गौणस्य तु भवत्येव। इह हि मुख्यं परिमाणत्वं कालस्य मासदेर्न भवतीति सामर्थ्यात् परिच्छेदहेतुमात्रपरिमाणसाधम्र्यमुपादायोपचारेण कालाः परिमाण्तवेनाभिमताः। मासादयोऽपि हि जातादेः सम्बन्धिनीरादित्यगतीर्गमयन्ति, अतो भवन्ति परिच्छेदहेतवः। `षष्ठीसमासविषये योगारम्भः` इति। परिमाणपरिमाणिसम्बन्धे हि परिमाणवाचिनः षष्ठआ भवितव्यम्। यत्र च षष्ठी भवति स षष्टीसमासस्य विषयः,तेनायं षष्ठीसमासस्य विषयो योग आरभ्यते। `मासजातः` इत्यत्र जातः परिमाणी। तस्य परिमाँ मासः। `द्वयहजातः` इति। द्वयोरह्नोः समाहार इति द्व्यहः। `राजाहःसखिभ्यष्टच्` [[5.4.91]] । <<अह्नष्टखोरेव>> [[6.4.145]] इति टिलोपः। <<न संख्यादेः समाहारे>> [[5.4.89]] इत्यह्नादेशप्रतिषेधः। द्व्यहो जातस्य द्व्यहजातः। अथ `कालाः` इति बहुवचननिर्देशः किमर्थः? स्वरूपविधिनिरासार्थ इति चेत्; नैतदस्ति; न हि स्वरूपग्रहणे सत्युत्तरपदस्य परिमाणिवाचित्वं गम्यते, कालशब्दस्यापरिमाणवाचित्वात्। तस्मात् परिमाणिग्रहणादेव कालविशेषवाचिनां मासादीनां ग्रहणं भविष्यति। एवं तर्हि बहुवचननिर्देशोऽयं मात्राधिक्येन सूत्रप्रबन्धस्यार्थाधिक्यसूचनार्थः। तथा चोक्तम् - `इङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेनाचार्याणामबिप्राया लक्ष्यन्ते` इति। तेन संख्यापूर्वपदस्त्रिपदोऽप्ययं परिमाणिना तत्पुरुषसमासो भवतीत्येषोऽर्थो लभ्यते। तेन द्व्यह्नजात इत्येवमादि सिद्धं भवति। द्वे अहनी जातमस्येति विगृह्र त्रिपदे तत्पुरुषे कृते जातशब्द उत्तरपदे पूर्वयोः पदयोः <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्व्यवयवस्तत्पुरुषो भवति, पूर्वषट्टच्, `अह्नोह्न एतेभ्यः` [[5.4.88]] इत्यह्नादेशः॥", "22006": "नञो ञकारः <<नलोपो नञः>> [[6.3.73]] इति विशेषणार्थः, पामनपुत्रादिषु मा भूत्। <<लोमादिपामादिपिच्छादिभ्यः शनेलचः>> [[5.2.100]] । अथाब्राआहृण इति किंप्रधानोऽयं समासः? उत्तरपदार्थप्रधानस्तत्पुरुषः, यथा - राजपुरुष इति। पूर्वपदार्थप्रधानोऽव्ययीभावः, यथा - अमक्षिकमिति। अन्यपदार्थप्रधानो बहुव्रीहिः, यथा - अब्राआहृणको देश इति। यद्येवम्, अब्राआहृणमानयेत्युक्ते ब्राआहृणमात्रस्यानयनं प्राप्नोति? अथ निवृत्तिपदार्थकोऽयं ब्राआहृणशब्दः, सा च निवृत्तिः स्वाभाविकी नञा द्योत्यत इति मतम्, एवं च सत्यभाव एवास्यार्थ इत्यब्राआहृणमानयेत्युक्ते न कस्यचिदानयनं प्राप्नोति? नैष दोषः;सर्वं हि पदं स्वार्थे प्रयुज्यमानं प्रयोगप्रतिज्ञानमपेक्षते। तथा चोक्तम् - `आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया` इति।तच्च द्विविधं ज्ञानम् - सम्यक्, मिथ्या चेति। उभयमप्येतत् ब्राआहृणशब्दः प्रवर्तयति। यत्र सम्यग्ज्ञानपूर्वके ब्राआहृणशब्दप्रयोगे नास्ति नञो व्यापारः, न हि तत्र नञा किञ्चित क्रियते। मिख्याज्ञानपूर्वके तु विद्यत एव तस्य व्यापारः। तत्र हि तेन मिथ्याज्ञानप्रभावता परस्याख्यायते। मिथ्याज्ञानं च दुष्टेन्द्रियहेतुकम्। तच्चसादृश्यादृते न सम्भवतीति प्रतिषेधे सत्यत्तरपदार्थसदृशः समासार्थो जायते। तथा चोक्तम् - `नञिव युक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः` (व्या।प।65) इति। तस्मादब्राआहृणमानयेत्युक्ते ब्राआहृणसदृशे क्षत्रियादौ प्रतीतिर्भवतीति न भवति पूर्वोकत्दोषावसरप्रसङ्गः॥", "22007": "`ईषद्गुणवचनेनति वक्तव्यम्` इति। ईषदित्येतदव्ययं समस्यते, न सर्वेणाकृदन्ेतनेत्येतद्रूपं व्याख्येयमित्यर्थः। त्तरेदं व्याख्यानम् - विभाषेत्यनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन गुणवचनेनैव समासो भविष्यति, नान्येन। `ईषद्गार्ग्यः` इति। गाग्र्यशब्दऽयं जातिवचनः, न गुणवचनः। नन्वकृतेत्युच्यते, त्तर ईषत्पीतः, ईषदुन्न त इत्यादि न सिध्यति; पीतादिशब्दस्य कृदन्तत्वात्? नैष दोषः; अव्युत्पन्ना ह्रेते पीतादिशब्दा वेदितव्याः; न तु कृदन्ताः॥", "22008": "`कृद्योगा च` इत्यादि। `कृद्योगलक्षणा षष्ठी समस्यते` इति व्याख्येयम्। तत्रेदं व्याख्यानम् - यदयं `क्तेन च पूजायाम्` [[2.2.12]] <<अधिकरणवाचिना च>> [[2.2.13]] <<कर्मणि च>> [[2.2.14]] `तृजकाभ्यां कर्तरि च {च नासति सूत्रे}` इति निषेधमारभते, तज्ज्ञापयति - `कृद्योगा या षष्ठी सा समस्यते` इति ; अन्यथा प्रतिषेधारम्भोऽनर्थकः स्यात्; प्राप्त्यभावात्। `इध्मप्रव्रश्चः` इति। करण ल्युट्। `कृत्युल्युटो बहुलम्` [[3.3.113]] इति कर्तरि वात। `कर्त्तृकर्मणोः कृति` [[2.3.65]] इति कर्मणि षष्ठी। पलाशशातनः` इति। शदेण्र्यन्तस्य <<शदेरगतौ तः>> [[7.3.42]] इति दकारस्य तकारः। पूर्ववल्ल्युट्, षष्ठी च। किमर्थमित्युच्यते, यावता षष्ठीत्यनेनैव कृद्योगलक्षणाया अपि षष्ठ्याः समासः सिद्धः एवेत्यत आह- `प्रतिपदविधाना च` इत्यादि। सुबोधम्।", "22009": "चकारोऽनुक्तसमुच्चयार्थः। तेन `तत्स्थैश्च गुणैः षष्टी समस्यत इति वक्तव्यम्` (इति) इति न वक्तव्यं भवति;अनेनैव सिद्धत्वात्। तस्मिन् स्थिताः = तत्स्थाः। प्रकृतस्यान्यस्याभावात् तदित्यनेन गुणा एव प्रत्यवमृश्यन्ते। तेन गुणात्मन्येव ये गुणा वर्तन्ते , न कदाचिद्द्रव्यात्मनि, तैः षष्ठी समस्यते। यद्यपि नास्त्येव हि स गुणो यो द्रव्ये न वर्तते, सर्वनस्य गुणस्य द्रव्याश्रितत्वात्; तथापि गुणशपब्दास्तु केचित् मतुब्लोपादबेदोपचाराद्वा तद्वति द्रव्ये वर्तमाना गुणमाधारानुगतं गमयन्ति, यथा - शुक्लः पटः, लोहितः कम्बल इति। अपरे त्वाश्रयाद्विभक्तं द्रव्यं प्रत्यनुपसर्जनीभूतं गुणमाहुः, यथा - चन्द्रनस्य गन्धः, कपिस्थस्य रस इति। तस्मादभिधानशक्तव्यापारापेक्षया तत्स्थैरिति विशेषणं युक्तम्। तदेतदुक्तं भवति - ये गुणाः स्वशब्दैद्र्रव्यं प्रत्यनुपसर्जनभावापन्ना एव प्रत्याय्यन्ते, तैः सह षष्ठी समस्यत इति चन्दनस्य गन्धशब्दनगन्धः, कपित्थस्य रसः कपित्थरसः। गन्धादयो हि स्वशब्दैराधारविभक्ता एव प्रत्याय्यन्ते, न तु कदाचिदाश्रयानुगता द्रव्यं प्रति विशेषणीभूताः॥", "22010": "`मनुष्याणां क्षत्रियः शूरतमः` इति। `यतश्च निद्र्धराणम्` [[2.3.41]] इति षष्ठी। `प्रतिपदविधाना च` इत्यादि। <<षष्ठी शेषे>> [[2.3.50]] इति सामान्यलक्षणविहितां षष्ठीं त्यक्त्वा याऽन्या विशेषलक्षणाविहिता षष्ठी सा प्रतिपदविधाना,क सा च षष्ठी न समस्यत इत्येतद्रूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - नेति योगविभागः क्रियते, तेन प्रतिपदविदाना षष्ठी न समस्यत इति।यद्येवम्, कथं गृहस्वामी, विद्यादायादः, पृथ्वीआर इति, प्रतिपदविधाना ह्रेषा षष्ठी बाधिष्यत इति चकारेण पुनः षष्ठीप्रतिप्रसवः क्रियते। न ह्रेवंविदा षष्ठी प्रतिपदविधाना भवति। अत व `न निर्धारणे` इति निषेधो विधीयते। `यतश्च निर्धारणम्` [[2.3.41]] इत्यत्रापि चकारेण सैव शेषलक्षणा षष्ठी प्रतिप्रसूयते, अन्यथा हीयमपि प्रतिपदविधानैव षष्ठीति समासो न स्यात्। ततश्च `न निर्धारणे`इति प्रतिषेधोऽनर्थकः स्यात्।`सर्पिषो ज्ञानम्` इति। `ज्ञोऽविदर्थस्य` [[2.3.51]] इति करणे षष्ठी॥", "22011": "`छात्राणां पञ्चमः` इति। <<तस्य पूरणे डट्>> [[5.2.48]] <<नान्तादसंख्यादेर्मट्>> [[5.2.49]] समुदायसमुदायिसम्बन्धे शेषलक्षणा षष्ठी। एवं `वलाकायाः शौक्ल्यम्`, `काकस्य काष्ण्र्यम्` इत्यत्र गुणगुणिसम्बन्धे शेषलक्षणैव षष्ठी वेदितव्या। ब्राआहृणस्य कर्तव्यमित्यत्र <<कृत्यानां कर्तरि वा>> [[2.3.71]] इति षष्ठी। अथ कथं गोर्विशतिरिति षष्ठीसमासः, यावता संख्याया गुणत्वात् प्रतिषेधेन भवितव्यम्? नैष दोषः; यदयं <<शतसहस्रान्ताच्च निष्कात्>> [[5.2.119]] इत्याह, तज्ज्ञापयति - संख्यायाः समासो भवतीति। न हि तेना विना शतसहरुआआन्तता निष्कस्य प्रातिपदिकस्य सम्भवति। `तव्यता सानुबन्धकेन समासो भवत्येव` इति। निरनुबन्धकपरिभाषया तस्याग्रहणात्। `ब्राआहृणकर्तव्यम्` इति। <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति प्रकृतिस्वरेणान्तस्वरितमुत्तरपदं भवति। यदि तर्हि निरनुबन्धकेनापि समासः स्यात् प्रकृतिस्वरे कृते प्रत्ययस्वरेण मध्योदात्तः स्यात्, स चानिष्टः; अतो निरनुबन्धकेन समासः प्रतिषिध्यते, न तु सानुबन्धकेन। किञ्च स्यादिति? एवं मन्यते - क्रियमाणेऽप्येतस्मिन् प्रतिषेधे विशेषणसमासेनात्र भवितव्यमेव। तदवस्यम्भाविनि समासे यदि षष्ठीसमासः स्यात् तदा को दोषः स्यात्, यत्परिह्मतयेऽयं षष्ठीसमासः प्रतिषिध्यत इति? - `{पूर्वनिपातस्यानियमः - काशिका}पूर्वनिपातानियः` इत्यादिना दोषमाह। यदि षष्ठीसमासः स्यात् तदा द्वयोरपि पदयोः प्रथमानिर्दिष्टत्वादुपसर्जने सति पक्षे विशेषणस्यापि पूर्वनिपातः स्यात्, स च नेष्यते। विशेषणसमासे सति विशेषणस्यैव समासशास्त्रे प्रथमानिर्दिष्टत्वात् पूर्वनिपातो भवतीति न भवत्येष दोषप्रसङ्ग॥", "22012": "``मतिबुद्धिपूजार्थेभ्यश्च` इति वक्ष्यति`इति। क्तमिति वाक्यशेषः। `तस्येदं ग्रहणम्` इति। `मतिबुद्धि` [[3.2.188]] इत्यादिना सूत्रेण यो विहितः क्तः, तस्य पूजायामन्यत्र च सर्वस्य विहितस्येदं ग्रहणम्। न केवलं पूजायां यो विहितस्त्सयैवेष्यत इत्यभिप्रायः। अत एवाह - `पूजाग्रहणमुपलक्षणार्थम्` इति। कस्योपलक्षणार्थम्? `मतिबुद्धि` [[3.2.188]] इत्यादौ सूत्रे निर्दिष्टार्थस्य यः क्तो विधीयते तस्य मत्यादेः। तेन न केवलं पूजायां यः क्तो विहितस्तेन षष्ठीसमासप्रतिषेधो भवति, अपि तु मतिबुद्धयोरपि यो विहितस्तेनापि। `राज्ञां मतः` इति। `क्तस्य च वर्तमाने` [[2.3.67]] इति षष्ठी। पूजायां किम्? छात्रस्य हसितं छात्रहसितम्। <<नपुंसके भावे क्तः>> [[3.3.114]] शेषलक्षणा षष्ठी॥", "22013": "`इदमेषामासिम्` इति। अस्यतेऽस्मिन्नित्यधिकरणे क्तः। `अधिकरणवाचनिश्च` [[2.3.68]] षष्ठी। एवं पीतमित्यादावपि। अधिकरणवाचिनेति किम्? छात्रस्य हसितं छात्रहसितमिति॥", "22014": "`<<उभयप्राप्तौ कर्मणि>> [[2.3.66]] इत्यस्याः षष्ठआ इदं ग्रहणम्` इति। एतच्च् पुनः `कर्तरि चट [[2.2.16]] इति प्रतिषेधाद्विज्ञायते। यदि हि कर्मणि या काचित् षष्ठी तस्याः सर्वस्या इदं ग्रहणं स्यात् तदा `कर्तरि च` [[2.2.16]] इति पुनः प्रतिषेधं न कुर्यात्; अनेनैव सिद्धत्वात्। यत्र हि कर्तरि तृजकौ विहितौ तत्र नियोगतः कर्मणि षष्ठआ भवितव्यम्। तस्मात् `कर्तरि च` [[2.2.16]] इति पुनः प्रतिषेधवचनादुभयप्राप्तौ कर्मणि या षष्ठी विहिता तस्या अत्र ग्रहणमवसीयते। <<उभयप्राप्तौ कर्मणि>> [[2.3.66]] इति षष्ठआ इह ग्रहणादिध्मव्रशच्नः; पलाशशातनः, इक्षुभक्षिकां मे धारयसीति समासनिषेधो न भवति॥", "22015": "भवतः शायिकेत्यादौ भावे `पर्यायार्हणोत्पत्तिषु ण्वुच्` [[3.3.111]] भवतीति `\tकर्तृकर्मणो कृति` [[2.3.65]] इति कर्तरि षष्ठी। तृचा योगे कर्तरि षष्ठी नास्ति, तेनैव कर्त्तृरभिहितत्वात्। तर्हि किमर्थं तृचो ग्रहणमित्याह - `तस्मत्` इत्यादि। `इक्षुभक्षिकां मे धारयति` इति। पूर्ववण्ण्युच्। अत्रेक्षुशब्दात् कृद्योगे कर्मणि षष्ठी। `मे`इति कर्तरि षष्ठी कृद्योगैव। <<उभयप्राप्तौ कर्मणि>> [[2.3.66]] इत्यत्र न प्रवर्तते; `अकाकारयोः प्रतिषेधः` (वा।143) इति वचनात्॥", "22016": "`इतरत्र व्यभिचाराभावात्` इति। तृचि। सामर्थ्यादकस्येदं विशेषणम्। कर्त्तृग्रहणमित्यत्र हेतुः। सम्भवव्यभिचारे हि विशेषणविशेष्यभावो भवति। न हि तृच् कर्तारं व्यभिचरति; तस्य कर्तर्यैव विधानात्। अकस्तु व्यभिचरति; तस्य भावेऽपि विधानात। अतः सामर्थ्यादकस्यैव विशेषणं कर्त्तृग्रहणम्; न तृचः। `अपां रुआष्टा` इति। अपामैति कर्मणि षष्ठी। `अपां रुआष्टा` इति तृच्; व्रश्चादिना [[8.2.36]] षत्वम्। <<सृजिदृशोर्झल्यमकिति>> [[6.1.58]] इत्यमागमः।`ननु च` इत्यादि। याजकादिपाठाद्भवितव्यमेवात्र समासनेनेत्यभिप्रायः।`सम्बन्धिशब्दस्य` इत्यादिना परीहारः। होतृशब्देन सम्बन्धिशब्देन सम्बन्धिशब्देन साहचर्याद्भवर्तृशब्दोऽपि सम्बन्धिशब्दस्तत्र गृह्रते; अयन्तु क्रियाशब्दः - बिभर्तीति भर्ता। `सक्तूनां पायकः` इति। <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्। अथ किमर्थं तृचः सानुबन्धकस्योच्चारमम्? तृनो निवृत्त्यर्थमिति चेत्, नैतदस्ति; तद्योगे `न लोकाव्ययनिष्ठा` [[2.3.69]] इत्यादिना षष्ठीप्रतिषेधात्। एवं तह्र्रेतदेव ज्ञापकम् - तृन्योगेऽपि क्वचित् भवतीति। तेन `भीष्मः कुरुणां भशोकहर्ता` इत्यादि सिद्धं भवति॥", "22017": "`उद्दालकपुष्पभञ्जिका` इति। <<रोगाख्यायां ण्वुल् बहुलम्>> [[3.3.108]] इत्यनुवर्तमाने <<संज्ञायाम्>> [[8.2.11]] इति ण्वुल्। उद्दालकपुष्पादिषु कर्मणि षष्ठी। `दन्तलेखकः, नखलेखकः` इति। `ण्लुल्तृचौ` [[3.1.133]] इति ण्वुल्। क्रीडायां विषये `षष्ठी` [[2.2.8]] इति सूत्रेण महाविभाषया विकल्पेन समासे प्राप्ते जीविकायाञ्च `कर्तरि च` [[2.2.16]] इति निषेधे प्राप्तेऽयमारम्भः। तत्र नित्यग्रहणं किमर्थम्? जीविकार्थम्। इतरत्र त्वारम्भसामर्थ्यान्नित्योऽयं भविष्यति। जीविकायां त्वसति नित्यग्रहणे महाविभाषाधिकाराद्विकल्पेन समासः स्यादिति तदर्थं नित्यग्रहणं कृतम्, उत्तरार्थञ्च॥", "22018": "`कुशब्दोऽव्ययं परिगृह्रते` इति। अलिङ्गसंख्यत्वादव्ययत्वम्, न तु निपातेषु पाठात्। न ह्रयं तत्र पठते। `न द्रव्यवचनः` इति। पृथिव्यादौ यो द्रव्ये वर्तते तस्यात्र ग्रहणं न भवति। कुत एतदित्याह - `गत्यादिभिः साहचर्यात्` इति। गतार्थम्।`कोष्णम्` इति। <<ईषदर्थे>> [[6.3.105]] इति कोः कादेशः। `कवोष्णम्` इति। `कव?चोष्णे` [[6.3.106]] इति कवादेशः। `कदुष्णम्` इति। <<कोः कत् तत्पुरुषेऽचि>> [[6.3.101]] इति कत्। `कुपुरुषः` इति पापार्थे। `दुष्कृतम्` इति। `दुस्` कृच्छ्रार्थे वर्तते। <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति षत्वम्। `{नास्ति काशिकायाम्; पदमञ्जर्यां दृश्यते - सुष्टुतम् इति।}सुस्तुतम्` इति। सुशब्दोऽतिशये वर्तते। `अतिस्तुतम्` इति। अतिरक्रमणे। `{आबद्धम्- काशिका}आविद्धम्` इति। आङ क्रियायोगे, मर्यादायां वा।`पर्यायदयो ग्लानाद्यर्थे` इति। पर्यादिराकृतिगणः। `पर्यध्ययनः` इति। परिग्लानोऽध्ययनायेत्यर्थः। `वापसी इव` इत्यादि। `सर्वधातुभ्योऽसुन्` (द।उ।9।49) इत्यनुवर्तमाने `वसेर्णिच्च` (द।उ।9।77) इत्यसुन्प्रत्ययान्तो वासःशब्दो व्युत्पादितः, वस्त्रशब्दोऽप्यौगणादिकष्ट्रन्प्रत्ययान्तः, तेन द्वावप्येतौ <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तौ।`प्रादिप्रसङ्गे` इत्यादि। प्रादिग्रहणे यः प्रसङ्गः समासशास्त्रस्य तत्र कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - लक्षणादिष्वर्थेषु कर्मप्रवचनीयसंज्ञा भवति। न च तेऽर्थाः समासेन गम्यन्त इत्यनभिधानात् कर्मप्रवचनीयानां समासो न भवति। यत्र तेऽर्था गम्यन्ते तत्र भवत्येव समासः - अतिस्तुतमिति॥", "22019": "`एधानाहारको व्रजति` इति। `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्` [[3.3.10]] इति ण्वुल्। `एतयोर्योगयोः सुप्सुपेति `{न सम्बध्यते इति मूलपाठः} नाभिसम्बध्यते` इति। ननु चास्मिन्नव योगे तदनभिसम्बन्दो युक्तो यत्रातिङग्रहणमस्ति, न तु पूर्वसूत्रेण, न हि तत्रातिङित्येतदस्ति? एवं मन्यते - `अतिङ` इति योगविभागः क्रियते, स च पूर्वसूत्रस्यापि शेषभूतो विज्ञायते। नन्वेवमप्यतिङिति प्रथमान्तेन निर्देशात् प्रथमान्तस्यैव सुबित्यस्य निवृत्तिर्युक्ता, न तृतीयान्तस्य सुपेत्यस्य? नैतदस्ति; समान्येन सुबधिकारनिवृत्त्युपलक्षणार्थत्वाद्युक्ता द्वयोरपि निवृत्तिः। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। पूर्वयोगेऽप्यतिङग्रहणात् `गत्युपसर्गसंज्ञकानांकृद्भिः सह प्राक् सुबुत्पतेः समासो भविष्यति` (व्या।प।138) इत्येतदुपपन्नं भवति। तथा हि तत्र गतयः कृद्भिः सह समस्यन्ते, अस्मिस्तु योगेऽतिङग्रहणात् कारकोपपदानां कृद्भिः समासः सुबुत्पत्तेः प्रागुपपन्नो भवति। तथा ह्यत्र कारकं कृद्भिः सह समस्यते प्राक् सुबुत्पत्तेः।समासे सति यदिष्टं सिध्यति तद्दर्सयन्नाह - `अआक्रीती` इति। अत्राआः करणं कारकम्, तद्वाचिनोऽआशब्दस्य <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। सुबुत्पत्त्यां स्तायं यदि स समासः स्यात् तदा प्रागन्तरङ्गत्वाट्टाप स्यात्, ततः सुप्, पश्चात् समासः, ततश्च `क्रीतात् करणपूर्वात्` [[4.1.50]] इति ङीष् न स्यात् ; अत इत्यधिकारात्। ङीषस्त्ववकाशः - धनेन क्रीतं क्रयणं यस्याः। प्राक्सुबुत्पत्तेः समासे सति टाप्न क्रियते, प्रथमतः समास एव भवति, तेनादन्तत्वान्ङीष् सिद्धो बवति। कथं पुनरआदेरुपपदत्वम्। यावता द्वितीयधात्वधिकारे सप्तम्या निर्देशः कृतः? नैष दोषः; न हि द्वितीयधात्वधिकारे यत् सप्तम्या निर्दिष्टं तदेवोपपदसंज्ञं भवति। अपि तु यदप्युपोच्चारितं पदं तदप्युपपदं भवत्येव, तदपि शास्त्रे <<इतरेतरान्योन्योपपदाच्च>> [[1.3.16]] इत्यादौ सूत्रे क्वचिदाक्षीयत #एव। तस्मादआआदिकमप्युच्चारितपदत्वादुपपमिह विवक्षितम्। पद्वं पुनस्तस्य पद्यते गम्यतेऽनेनार्थ इत कृत्वा; न तु सुबन्तत्वात्; इह सुपोऽसम्भवात्। सुबनुत्पत्तेः प्राक् समासात्। यदि तर्हि यदुपोच्चा4रितं पदं तदपीहोपपदं गृह्रते, तदातिप्रसङ्गः स्यात्; राजश्रितम#इत्यत्रापि प्राक् सुबुत्पत्तेः समासप्रसङ्गात्, तदतश्च पदत्वाभावान्नलोपो न भवति? असर्वविषयत्वादस्य ज्ञापकस्येत्यदोषः। न ह्रनेन सर्वत्र `गतिकारकोपपदानां कृद्भिः प्राक् सुबुत्पत्तेः समासो भवतिट इ#इत ज्ञाप्यते, किं तर्हि? क्वचिदेवेष्टविषये। कथमेतज्ज्ञायते? <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति कृदन्त उत्तरपदे सप्तम्या अलुग्विधानात्। यदि तर्हि सर्वत्रैव गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः स्यात् तदा सप्तम्याः कृदन्त उत्तरपदेऽलुग्विधानं नोपपद्यते - बिलेशय इत्यादौ, सप्तम्या असम्भवात्। तस्मात् क्वचिदेव प्राक् सुबुत्पत्तेः समासः, न सर्वत्रेति।एवञ्च कृत्वा `सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी` इत्यादौ टाबन्तेन समास उपपन्नो भवति॥", "22020": "`स्वादुङ्कारं भुङ्क्ते` इति। `स्वादुभि` [[3.4.26]] इति णमुल्। स्वादुमीत्यतस्मादेव मान्तनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। यदि पूर्वेणैव समासे सिद्धे नियमार्थम् वचनम्; एवञ्च सति सद्धे विधिरारभ्यमाणोऽन्तेरणाप्येवकारकरणं नियमार्थो भविष्यति, तत्किमर्थमेवकारकरणमित्याह - `एवकारककरणम्` इत्यादि किमर्थं पुनस्तदुपपदविशेषणार्थं क्रियत इत्यत आह - `अमैव तुल्यविधानम्` इत्यादि। येन वाक्येनायमेव प्रत्ययो विधीयते न तु प्रत्ययान्तरम्; तेन यदुपपदं निर्दिश्यते तदमैव तुल्यविधानम्, तस्यैव समासो यथा स्यादित्येवमर्थमेवकारकरणमुपपदविशेषणार्थं क्रियते। स च समासः प्रत्यासत्तेरमैव भवति, न प्रत्ययान्तरेणेति विज्ञायते। `अग्रे भुक्त्वा, अग्रे भोजम्` इति। अत्राग्रेशब्द उपपदम् <<विभाषाऽग्रेप्रथमपूर्वेषु>> [[3.4.24]] इत्यमा क्त्वाप्रत्ययेन च तुल्यविधानमिति न समस्यते। अव्ययग्रहणं स्पष्टार्थम्। न ह्रनव्यवममन्तमस्ति यन्निवृत्त्यर्थमव्ययग्रहणमर्थवद्भवति॥", "22021": "`पर्याप्तो भोक्तुम्` इति। `पर्याप्तवचनष्वलमर्थेषु` [[3.4.66]] इत्यत्र `शकधृषज्ञाग्लाघटरभ` [[3.4.65]] इत्यादेः सूत्रात् तुमुन्ग्रहणानुवृत्तेस्तुमुन्प्रत्ययः॥", "22022": "`अलं कृत्वा, खलु कृत्वा ` इति। `अलंखल्योः प्रतिषेधयोः प्राचां क्त्वा` [[3.4.18]] स च तृतीयप्रभृतिभ्यः पूर्वः॥", "22023": "`उपयुक्ताद्योऽन्यः` इति। अभिहितादन्य इत्यर्थः। `यद्यान्यः समासो नोक्तः` इति। यत्रान्या समाससंज्ञा न विहितेत्यर्थः। `चित्रगुः` इति। अत्र बहुव्रीहित्वे सति <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इत्येष विधिर्भवति। `उन्मत्तगङ्गम्` इति। <<अन्यपदार्थे च संज्ञायाम्>> [[2.1.21]] इत्यव्ययीभावः। असति हि शेषग्रहण इहापि बहुव्रीहिः स्यात्। ननु च बहुव्रीहौ प्राप्तेऽव्ययीभावस्त्वारभ्यमाणस्तस्यैव बाधको भविष्यति, तत्कुतो बहुव्रीहिप्रसङ्गः? `प्राक्कडारात् परं कार्यम्` इत्यस्मिन् पक्ष इदं प्रत्युदाहरणमुपन्यस्तम्। तत्र हि पक्षे कयदि शेषग्रहणं न क्रियेत, ततः अन्यपदार्थेच संज्ञायाम्` [[2.1.20]] इति वचनप्रामाण्यदव्ययीभावः स्यात्। परत्वाद्बहुव्रीहिरित्येके। अयन्तु पक्षो वृत्तिकारेण नाश्रित इत्ययुक्तमेतत्। तस्मात् `आकडारादेका संज्ञा` [[1.4.1]] इत्यस्मिन् पक्षे `व्यक्तिः पदार्थः` इत्येद्दर्शमाश्रित्येदं प्रत्युदाहरणमुपन्यस्तम्। व्यक्तौ हि पदार्थे प्रतिलक्ष्ये लक्षणं प्रवर्तते। अत्रासति शेषग्रहणे यदेसद्विषयं लक्षणं तदकृतार्थमित्यवश्यं तेन प्रवर्त्तितव्यम्। एकसंज्ञाधिकाराच्च योगपद्यं न सम्भवतीति वचनप्रामाण्यादुभयप्रसङ्गः, उभे अपि पर्यायेण स्यातामित्यपरे॥", "22024": "", "22025": "`उपदशाः` इति। `बहुव्रीहौ संख्येये डजबहुगणात्` [[5.4.73]] इति डच् समासान्तः, टिलोपश्च। दशानां समीपे ये वर्तन्ते ते तथोच्यन्ते, ते पुनर्नवैकादश वा। पूर्वपदार्थप्रधानोऽयं समासः। यद्येवम्, कस्तह्र्रव्ययीभावस्यास्य च विषयविभागः; सोऽव्ययीभावोऽवव्ययस्य समीपे वर्तमानस्य `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना पूर्वपदार्थप्रदान एव विधीयते? उच्यते - यदा समीपिनः प्राधान्यं तदा बहुव्रीहिः,यदा तु समीपस्य प्राधान्यं तदाव्ययीभावः- इत्येष विषयविभागः। `उपविंशाः` इति। पूर्ववड्डच्। `तिर्विशतेर्डिति` [[6.4.142]] इति टिलोपः। `आसन्नदशाः` इति। दशानामासन्ना आसन्नदशाः। ते च पूर्ववन्नवैकादश वा। `अदूरदशाः` इति। दशानामदूरा ये, ते पुनः पूर्वोक्ता एव। `अधिकदशाः` इति। दशानामधिकाः , ते पुनरेकादशादयः। `द्वित्राः` इति। द्वौ वा त्रयो वति विग्रहः। वार्थेचायं समासः। वार्थश्चायं संशयः, न विकल्पः। यदि वार्थ इह विकल्प आश्रीयते ततो यदा द्वौ भवतः, तदा बहुवचनं न स्यात्। तस्मात् संशयोऽत्र वार्थः। संशयिते चार्थे बहुवचनं भवति, यथा - कित भवतः पुत्राः। उक्तञ्च भाष्ये - `अविज्ञातेऽर्थे बहुवचनं प्रयोक्तव्यम्` इति। तत्कथम्? संशयज्ञ#आनस्योभयपक्षरामर्शित्वेन बह्वर्थविषयत्वात्। उभयपक्षापरामर्शित्वे संशय एव न स्यात्। अथ वा - पञ्चैवात्र सदा भवन्ति, न कदाचिद्द्वौ त्रयो वेति। तथा च `द्वित्रा` इत्युक्ते पञ्चैवेति गम्यते। सैषा पञ्चाधिष्ठानावागिति ततो युक्तं बहुवचनम्। यदि तर्हि वार्थेऽयं समासः, तस्यार्थस्यान्यपदार्थत्वात् पूर्वेणैव सिद्धः समासः? न सिद्ध्यति, मत्वर्थे हि पूर्वयोगः; अमत्वर्थोऽयं योगः। अथ वा - प्रथमार्थे वर्जयित्वाऽन्यत्र विभक्त्यर्थे पूर्वेण समासः। प्रथमार्थमिदं वचनम्। `त्रिचतुराः` इति। `चतुरोऽच्प्रकरणे चतुरस्त्र्युपाभ्यामुपसंख्यानम्` (वा।639) इत्यच् समासान्तः। `द्विदशाः` इति। द्विर्दशेति विग्रहः। सुजर्थेऽयं समासः। दशसम्बन्धिनी याऽऽवृत्तिर्दशशब्देन लक्ष्यमाणा सा द्विशब्देनाख्यायते। सुजर्थश्च प्रत्ययार्थो नान्यपदार्थ इति पूर्वेण न सिद्ध्यति। अथ वा - प्रथमार्थेऽपिचायम्, अमत्वर्थेऽपि; अतः पूर्वेण न सिध्यति। समास एव सुजर्थं गमयितुं समर्थ इति वृत्तौ सुज् न प्रयुज्यते।`अधिका विंशतिर्गवाम्` इति। विंशतिशब्दोऽत्र संख्यान एव वर्तते; न तु संख्येये द्रव्ये॥", "22026": "`दक्षिणपूर्वा` इति। प्रथमार्थेऽप्ययं समास इष्यते, अमत्वर्थेऽपि तत्पूर्वेण न सिध्यतीत्यममत्वर्थं आरम्भः प्रतिपदविधानार्थश्च। <<विभाषा दिक्समासे बहुव्रीहौ>> [[1.1.28]] इत्यत्र दिशां यः समासः प्रतिपदविहितस्तस्य ग्रहणमिष्यते। प्रतिपदविहितश्च समासो दिशामेव भवति यद्ययं योग आरभ्यते, नान्यथा। `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः` इति। स पुनः `स्त्रियां पुंवत्` [[6.3.33]] इति योगविभागेन सिध्यतीति वेदितव्यम्। `नामग्रहणं रूढर्थम्` इति। लोके ये रूढञा दिक्शब्दास्तत्परिहार्थमित्यर्थः। `ऐन्द्रआश्च कौबेर्याश्च` इति। नेमौ रूढिशब्दौ, किं तर्हि? योगिकौ - इन्द्रस्येयमैन्द्री, कुबेरस्येयं कौबेरी। <<तस्येदम्>> [[4.3.120]] इत्यण्॥", "22027": "`इतिकरणः` इत्यादि। समासादभिमतेऽर्थे इतिकरणो यमर्थं प्रतिपादयति तं दर्शयितुमाह - `लौकिकमर्थमनुसारयति` इति। अनुगमयति प्रबोधयतीति यावत्। स पुनर्लौकिकोऽर्थो ग्रहणादिरिति दर्शयन्नाह `ततः` इत्यादि। यस्मादितिकरणो लौकिकमर्थमनुसारयति ततो हेतोर्गर्हणादिरिति सर्वं लभ्यते। `यत्तत्रेत्यादिना` कर्मव्यतीहार इति परस्परग्रहणम्, परस्परग्रहणञ्चेतिकरणादेव लभ्यत इति वेदितव्यम्। स्वरूपविधिरत्रेतिकरणादेव न भवतीति वेदितव्यम्। दण्डैश्चेति करणे तृतीया। `स चाव्ययम्` इति। तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावः; <<अव्ययीभावश्च>> [[2.4.18]] इत्यव्ययसंज्ञाविधानात्। `सरूपम्` इति। समानस्य `ज्योतिरवचनस्य` [[6.3.84]] इत्यादिना सभावः॥", "22028": "`तुल्ययोगे वर्तमानम्` इत्यादि। तुल्योगः = समानसम्बन्धः। तं यदा सहशब्दोद्योतयति तदासौ तत्र वर्तते। `सपुत्रः` इति। सह पुत्रेणेति विग्रहः कर्तव्यः। <<सहयुक्तेऽप्रधाने>> [[2.3.19]] इति तृतीया। <<वोपसर्जनस्य>> [[6.3.82]] इति सहस्य सभावः। अत्र सपुत्र आगतो देवदत्त इति देवदत्तस्य पुत्रस्य चागमनेन तुल्यसम्बन्धः सहशब्देन द्योत्यते। अथ कथं पुनः सकर्मक इत्यादौ स्यात्? कथञ्च न स्यादित्याह - `न ह्यत्र` इत्यादि। `प्रायिकम्` इति।असर्वविषयमित्यर्थः। कुतः पुनः प्रयिकत्वमस्य लभ्यते? इतिकरणात्। ननु चान्यदितिकरणस्य प्रयोजनमस्ति, किं तत्? सहशब्दः स्वरूपपदार्थको यथा गम्येत; अन्यथा ह्रर्थनिर्देशोऽयं विज्ञायेत। ततश्च साकं साद्र्धमित्यादयोऽपि समस्येरन्? नैवं ब्राऊमः; - इह सूत्रे य इतिकरणस्ततो लभ्यत इति, किं तर्हि? पूर्वसूत्राद्योऽनुवर्तते तत इति॥", "22029": "कः पुनरयं चार्थो नामेत्याह - `समुच्चयाऽन्वाचय` इत्यादि। समुच्चितिः = समुच्चयः। साधनमेकं क्रियां वा प्रति क्रियासाधनानामात्मरूपभेदनेन चीयमानताऽनेकत्वमिति यावत्। स पुनस्तुल्यबलानामनियतक्रमयोगपद्यानामेव भवति, यथा - गामआं पुरुषं पशुञ्चाहरहर्नयमानो वैवस्वतस्तृप्त नोपयातीति। अन्वाचयोऽपि यत्रैकस्य प्राधान्यम्, इतरदप्रधानम्, तदनुरोधेनान्वाचीयमानता, यथा - भो वटो भिक्षामट गाञ्चानयेति। इतरेतरयोगः समाहारश्च समुच्चयस्यैव प्रभेदः। स एव हि परस्परापेक्षाणामवयवभेदानुगत इतरेतरयोगः, यथा - देवदत्तयज्ञदत्ताभ्यामिदं कार्यं कर्तव्यम्। उभावपि तत्कार्यं प्रति परस्परापेक्षौ। तथा हि तदेकस्याप्यभावे न क्रियते। अवयवप्रधानश्चायमिति द्वित्वाद्द्विचवचनं भवति। परस्परापेक्षाणामेव तिरोहितावयवभेदः संहतिप्रधानः समाहारः; यथा - छत्रोपानहमतिति। अत्रापि कस्याञ्चित् क्रियायां छत्त्रादेः परस्परापेक्षत्वम्। संहतिप्रधानत्वाच्चैकवचनम्। यदि तर्हि समुच्चयान्वाचयावपि चार्थौ तदा तयोरपि समासः प्राप्नोतीत्तयत आह - `तत्र` इत्यादि। समुच्चये तावत् परस्परानभिसम्बन्धा एव गवादयो नयनादिभिः सम्बध्यमानाः समुचीयन्त इत्यासामर्थ्यात् सत्यपि चार्थे तस्मिन् न भवति समासः। अन्वाचयेऽप्येकं सापेक्षं नेतरत्, यथा - पूर्वोक्त उदाहरणे। त्तर हि गवानयनं भिक्षाटनमपेक्षते, न तु भिक्षाटनं गवानयनम्,; विनापि तेन तदनुष्ठानात्। स यदि गां पश्यति तदा तामप्यानयति, न चेत् भिक्षामेवाटतीत्यन्यतरापेक्षारहिते चार्थे न भवति समासः। `इतरेतरयोगे समाहारे च विधीयते` इति। तत्र सर्वेषां सामर्थ्यस्य विद्यामानत्वात्। `वाक्त्वचम्, वाग्दृषदम्` इति। `द्वन्द्वाच्चुदषहान्तात् समाहारे` [[5.4.106]] इति टच्। समासान्तः। `जातिरप्राणिनाम्` [[2.4.6]] इत्येकवद्भावः॥", "22030": "`पूर्ववचनं परप्रयोगनिवृत्त्यर्थम्` इति। ननु च परप्रयोगविपर्ययो लोके न दृष्ट एव; तत्कथं परप्रयोगनिवृत्त्यर्थेन पूर्वग्रहणेनेत्यत आह - `अनियमो हि स्यात्` इति। सम्भावनायां लिङ। एवं मन्यते - यद्यपि परप्रयोगविपर्ययो न दृष्टः, तथाप्यसति नियामके वाक्ये पुरुषापराधाद्विपरीतप्रयोगोऽपि सम्भाव्येत। येषाञ्च वाक्यमेव समासीभवतीति दर्शनम्, तेषां वाक्यस्यानितयतक्रमत्वात् तद्विकारोऽपि समासोऽनियतक्रमः स्ादिति सूत्रारम्भः॥", "22031": "`पूर्वस्य परनिपात` इति। लिप्तवासिताद्युप्तगाढपर्यन्तेषु। उदूखलमसलादयो ये द्वन्द्वाः, तत्र क्वचिदल्पाच्तरत्वात् पूर्वनिपातः प्राप्नोति, क्वचिद् ध्यन्तत्वात् पूर्वनिपातः, क्वचिदजाद्यन्तत्वात्; क्वचितुल्यादनियमः। `दृष्दुपलम्` इति प्रमादाच्चायं पाठो लक्ष्यते। अल्पाच्तरत्वादद्दृषच्छब्दस्य पूर्वनिपातः सिद्धः। `अक्षिभ्रुवम्, दारगवम्` इति। अचतुरादिसूत्रेणाच् [[5.4.79]] समासान्तः। `स्थूलपूलासम्` इति। प्रमदपाठोऽयं लक्ष्यते;पूर्वोक्तादेव कारणात्॥", "22032": "`उपसर्जनम्` इत्यन्वर्थसंज्ञाविधानादप्रधानस्योपसर्जनसंज्ञा विहिता। द्वन्द्वे च सर्वेषां पदानां प्राधान्यम्। न कस्यचिदप्राधान्यमित्युपसर्जनसंज्ञाया अभावादनियमे प्राप्ते वचनमिदम्। अत्र यत्र बहूनां पूर्वनिपातप्रसङ्गस्तत्र किमेकस्यानियमो भविष्यति, उत सर्वेषामित्याह - `अनेकप्राप्तावेकस्य` इत्यादि। एव चार्थो जातिपदार्थस्याश्रयणाल्लभ्यते व्यक्तौ तु पदार्थे प्रतिव्यक्ति शास्त्रप्रवृत्या भवितव्यम्, ततः सर्वेषां नियमः स्यात्। आकृतौ तु पदार्थे लक्ष्य एकं लक्षणं सकृदेव प्रवर्तते। तेन चैकस्य पूर्वनिपाते जातिः कृतार्थेति शेषाणामनियमो भवति। एवमुत्तरत्राप्येकस्य नियमः, शेषाणान्त्वनियम इति वेदितव्यम्। `विस्पष्टपटुः` इति। विस्पष्टः पटुः, मयूरव्यंसकादित्वात्समासः॥", "22033": "`द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेन` इति। <<द्वन्द्वे घि>> [[2.2.32]] इति तस्मादजाद्यदन्तमित्येततद्भवति विप्रतिषेधेन। `द्वन्द्वे घि`इत्यस्यावकाशः - पटुशुक्लौ,पटुगुप्तौ। `अजाद्यदन्तम्` इत्यस्यावकाशः - उष्ट्रशशौ, उष्ट्रखरौ। इन्द्राग्नी इत्यत्रोभयं प्राप्नोति, अजाद्यदन्तं भवति विप्रतिषेधेन॥", "22034": "`ऋतुनक्षत्राणाम्` इत्यादि। ऋतूनामानुपूर्व्य प्रादुर्भावकृतम्, नक्षत्राणामुदयकृतम्। ऋतुनक्षत्राणामित्यत्रैव वर्णग्रहणं कस्मान्न कृतमिति पर्यनुयोगदोषमाशङ्क्याह - `समानाक्षराणाम्` इत्यादि। असमानाक्षराणामपि वर्णानामानुपूर्व्येण पूर्वनिपात इष्यत इति पृथग्वचनम्। आनुपूर्व्यञ्च वर्णानां जन्मकृतमिति लोकव्यवहारे प्रसिद्धम्। प्रसिद्धिश्च श्रुतिकृता। श्रुतौ हि पठते `मुखते ब्राआहृणमसृजत्, बाहुभ्यां राजनयम्, ऊरुभ्यां वैश्यम्, पद्भ्यां शूद्रम्` इति। `संख्याया अल्पीयस्याः` इति द्वन्द्वे चेति वक्तव्यम्। `द्वित्राः,त्रिचतुराः` इति बहुव्रीहिः। `नवतिशतम्` इति द्वन्द्वः॥", "22035": "`सर्वनामसंख्ययोः` इति। यत्र गुणवचनेन सह समासः सोऽस्य विषयः। यत्र तु द्रव्यवाचिना तत्र सर्वनामंख्ययोर्विशेषणत्वादेव पूर्वनिपातः सिद्धः।`सप्तम्याः पूर्वनिपाते` इत्यादि। सप्तम्यन्तस्य पूर्वनिपाते प्राप्ते गड्वादिभ्यः परवचनं कर्तव्यमिति। सप्तम्य्नतं परमुच्यते = कथ्यते येन व्याख्यानेन तत् परवचनम्। तत्रेदं व्याख्यानम् - आहितादेराकृतिगणत्वाद् गडुककण्ठप्रभृतयस्तत्रैव द्रष्टव्याः,तेन गड्वादिभ्यः परं सप्तम्यन्तं भविष्यति। `कथं वहेगडुः` इति। यदि गड्वादिभ्यः सप्तम्याः परवचनमिति भावः। `प्राप्तस्य च बाधा व्याख्येया` इति। तत्रेदं व्याख्यानम् - <<वाहिताग्न्यादिषु>> [[2.2.37]] इत्यतो वाग्रहणं क्रियते, सा च व्यवस्थितविभाषा विज्ञायते। तेन प्राप्तस्य परनिपातस्य बाधनं भविष्यति॥", "22036": "`ननु विशेषणमेवात्र निष्ठा` इति। कृतशब्दः क्रियाशब्दः। कटशब्दो द्रव्यवचनः। तत्र यथा गुणो द्रव्यस्य विशेषणं तथा क्रियाऽपि। तथा सति निष्ठान्तस्य विशेषणत्वात् पूर्वेणैव पूर्वनिपातः सिद्धः। कटेकृतमनेनेत्यादिना विग्रहभेदेन निष्ठाया विशेषणत्वाभावं दर्शयति। अत्र विग्रहे सप्तम्यन्तमेव विशेषणम्, निष्ठान्तं विशेष्यम्, सामानाधिकरण्ये हि क्रियागुणौ विशेषणविशेष्यभावौ नियमेनानुभवतः, न हि वैयधिकरण्ये। तथा हि - पटस्य शुक्लः, काकस्य गतिरित्यत्र गुणादेर्विशिष्येत्वम्, व्यवच्छेद्यत्वात्; द्रव्यस्य तु विशेषणत्वम्, व्यवच्छेदकत्वात्। `निष्ठायाः पूर्वनिपाते` इत्यादि। जात्यादिभ्यो निष्ठान्तं परमुच्यते, तेन तद्व्याख्यानं कर्तव्यम्। तत्रेदं व्याख्यानम् - सारङ्गजग्धी-मासजाता-सुखजातादयः शब्दाः आहितादेराकृतिगणत्वात् तदन्तःपातिनः, तेन जातिकालसुखादिभ्यो निष्ठान्तं परं भवतीति। `सारङ्गजग्धी` इति। सारङ्गशब्दो जातिवचनः। ततः <<क्तादल्पाख्यायाम्>> [[4.1.51]] इत्यनुवर्तमाने <<अस्वाङ्गपूर्वपदाद्वा>> [[4.1.53]] इति ङीष्। `कथं कृतकटः` इति। कटशब्दस्य जातिवाचित्वादिति प्रश्नः। `प्राप्तस्य चाबाधा व्याख्येया` इति। तेन कृतकट इत्यत्र#आपि भविष्यतीति भावः। सा पुनरप्राप्तस्य चाबाधा पूर्ववदेव व्याख्येया। एवमुत्तरत्रापि व्याख्येया। `प्रहरणार्थेभ्यः` इत्यादि। प्रहरणमर्थो येषां ते तथोक्ताः। तेभ्य परे निष्ठासप्तम्यौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - अस्युद्यतः, दण्डपाणिरित्येवमादिनां शब्दानामाहिताग्न्यादिषु पाठात् परे निष्ठासप्तम्यौ भवत इति॥", "22037": "", "22038": "कडारादयो ये गुणशब्दास्तेषां विशेषणत्वं भवतीत्याह - `गुणशब्दानाम्` इत्यादि। गतार्थम्॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्यद्वितीयः पादः", "23001": "दधातेर्हिनोतेर्वाऽनभिहित इत्यस्य रूपम्; समानत्वात्, अनेकार्थत्वाच्च धातूनाम्। न ज्ञायते किमर्थस्यानभिहितशब्दस्य ग्रहणमिति सन्देहः स्यात्, अतस्तं निराकर्त्तुमाह - `अनभिहितेऽनुक्ते` इत्यादि। यद्यनभिहिते कर्मादौ द्वितीयादयो विभक्तयो भवन्तीति सामान्येनोच्येत; ततो यथा `कृतः कटः` इत्यत्र क्तप्रत्ययेन कर्मणोऽभिहितत्वात् कटशब्दाद्द्वितीया न भवति, तथा `कटं करोति`, `भीष्ममूदारं शोभनं दर्शनीयम्` इत्यत्र कटशब्दादुत्पद्यमानया द्वितीयया भीष्मादिगतस्य कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोति। तस्मात् कश्चिद्विशेषोऽत्राभिमत इति मत्वा तं विशेषं पृच्छति - `केनानभिहितते`? इति। इतरो विदिताभिप्राय आह - `तिङकृत्तद्धितसमासैः` इत्यादि। क्रियत इति कर्मणि लकारः। <<सार्वधातुके यक्>> [[3.1.67]] । `रिङ शयग्लिङशु` [[7.4.28]] इति रिङादेशः। `शत्यः, शतिकः` इति। <<शताच्च ठन्यतावशते>> [[5.1.21]] इति ठन्यतौ भवतः।`बहुषु बहुवचनम्` इत्येवमादि। तत्रेदमुक्तम्- कर्मादयोऽव्यपरे विभक्तीनां वाच्याः, अत स्तदीये बहुत्वे बहुवचनं भवतीति। एवञ्च ब्राउवता वृत्तिकृता कर्माद्याश्रितायां संख्यायां द्वितीयादयो विभक्तयो भवन्तीत्येतदुक्तं भवति। न च तत्र कश्चिद्विशेष उपात्तः। सन्ति च कर्मादयोऽभिहिताः, अनभिहिताश्च। तत्र विशेषानुपादान्त, यथा अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो विभक्तयो भवन्ति, तथाऽभिहितकर्माद्याश्रयेष्वपि स्युः। अतोऽनभिहिता ये कर्मादयस्तदाश्रयेष्वेकत्वादिषु यथा विभक्तयः स्युरन्यत्र मा भूवन्नित्यनभिहित इत्येतद्विशेषणमारभ्यते। `अनभिहितकर्माद्याश्रयेषु` इति। अनभिहिताः कर्मादय आश्रया येषामिति बहुव्रीहिः। एतेन <<बहुषु बहुवचनम्>> [[1.4.21]] इत्यादेः शास्त्रस्य, अनभिहित इत्येतस्य च <<कर्मणि द्वितीया>> [[2.3.2]] इत्येवनमादिभिः सहैकवाक्यतां दर्शयति - अनभिहिते कर्मणि द्वितीया बहुषु बहुवचनमिति। एवमन्यत्राप्येकवाक्यता वेदितव्या। एकवाक्यता च गुणप्रधानभावमन्तरेण न सम्भवतीत्येकस्य गुणभावेन भवितव्यम्, अपरस्य प्रधानभावेन। तत्र विशेषणत्वादनभिहित इत्यस्य कर्माद्येपेक्षया गुणबावः, कर्मादीनां तु विशेष्यत्वात् प्राधान्यम्, एकत्वाद्यपेक्षया कर्मादीनान्तु विशेषणत्वादप्राधान्यम्। एकत्वादीनां विशेष्यत्वात् प्रधानभावः। अथ कथं कटशब्दादुत्पद्यमाना द्वितीया मीष्मादिपदानुगतं कर्माभिदधाति, यथा - निष्ठेति चेत्? स्याददत् - `यथा कटः कृतो भीष्म उदारः शोभनो दर्शनीय इत्यत्र करोतेः कर्मण्युत्पद्यमाना निष्ठा सर्व भीष्मादिकमपि कर्माभिदधाति,तथा कटशब्दादुत्पद्यमाना द्वितीया` इति, वार्तमेतत्; कृत इति क्रियाकारकसम्बन्धनिमित्तकभिधानम्। क्रिया चोत्पद्यमाना सामर्थ्यात् सर्वाणि कारकद्रव्याण्याक्षिपति। ततः कृञ उत्पद्यमानः क्तः साधारणतया यावत् करोतेरुयाति कर्मतां तावत् सर्वमेवाभिदधातीति युक्तम्। भीष्मादिगताया अपि कर्मतायाः क्तप्रत्ययेनाभिधानम्। कटस्तु विशिष्टद्रव्यवचनः, तत उत्पद्यमाना द्वितीया तद्गतमेव कर्म शक्नोत्यभिधातुम्, नान्यगतं किञ्चित्, तत्कथं तया भीष्मादिगतमपि कर्माभिधीयते? तथा च निरर्थकं परिगणनम्। तस्मात् तिङकृत्तद्धितसमासैरेवाभिधानं सम्भवतीति सम्भवदुदाहरणप्रदर्शनमपरमेतत् परिसंख्यानं वेदितव्यम्, न परिगणनम्॥", "23002": "द्वितीया तिङविभक्तिरप्यस्तीति तस्या अप्यत्र ग्रहणमिति कस्यचिदाङ्का स्यात्, अतस्तन्निराकर्तुमाह - `द्वितीयादयः शब्दाः` इत्यादि। कर्मशब्देनेह साधनं कर्म गृह्रते, न तु क्रियाकर्म। तथा हि - ये विभक्त्यर्था एकत्वादयस्तेषां विशेषणत्वेनैव कर्मादयोऽनुक्रंस्यन्ते। न च क्रियाकर्मणि द्वित्वबहुत्वे स्तः; साधनकर्मणि तु विद्येते, तस्मात् तस्यैव ग्रहणं युक्तम्, नेतरस्य।`उभसर्वतसोः`इत्यादि। उभसर्वशब्दयोस्तसिप्रत्ययान्तयोः प्रयोगे द्वितीयाविभक्तिः कार्याः। शेषलक्षणायां षष्ठआं प्राप्तायामयमारम्भः। उभसर्वतसोरित्यत्र यद्युप्यभशब्दः पठितस्तथापि सामर्थ्यादुभयशब्दो गृह्रते; साधम्र्यात्। न ह्रुभशब्दस्तसिप्रत्ययान्तोऽस्ति; तस्य नित्य्दविवचनटाब्विषयत्वात्। तथा चोक्तम् - `अन्यभावो नि#एत्यद्विवुचनटाब्विषयत्वादुभयोऽन्यत्र` (1.1.28-वा।8,9) इति। `उभयतः, सर्वतः` इति। <<पञ्चम्यास्तसिल्>> [[5.3.7]] । धिक्शब्दयोगेऽपि द्वितीया कार्या। तथोपर्यादिषु त्रिषु योगे द्वितीया कार्या। `आम्रेडितान्तेषु`इति। कृतद्विर्वचनेष्वित्यर्थः। `उपर्युयरि ग्रामम्` इत्यादौ <<उपर्यध्यधसः सामीप्ये>> [[8.1.7]] इति द्विर्वचनम्। `ततोऽन्यत्रापि दृश्यते` इति। यथोक्तादन्यत्रापि दृश्यते द्वितीयेति सम्बन्धः। क्व चान्यत्र दृश्यत इत्यत आह - `अभितः` इत्यादि। `प्रयभिभ्याञ्च` [[5.3.9]] इति तसिः। अपिशब्दो विकल्पार्थः। अपि दृश्यतेऽपि न दृश्यतेच। तेन हा तात हा मातरित्यादि सिध्यति॥", "23003": "`यवाग्वाऽग्नहोत्रं जुहोति` इति। यद्यप्यत्र `सुपां सुपो भवन्ति` (वा।818) इति द्वितीयास्थाने तृतीयादेशविधानेऽप्येतत् सिध्यति; तथापि पयसा जुहोति, आज्येन जुहोतीत्येवमादि न सिध्यति। तथा हि - स्थानिवद्भावात् `स्वमोर्नपुंसकात्` [[7.1.23]] इत्येकस्य लुक् प्राप्नोति। अपरस्य `अतोऽम्` [[7.1.24]] इत्यम्भावः॥", "23004": "`अन्तरान्तरेणशब्दौ निपातौ साहचर्याद्गृह्रेते` इति। अयमन्तराशब्दो यद्यपि स्त्रीप्रत्ययान्तोऽस्ति, तथाऽस्त्रीप्रत्ययान्तोऽपि;अन्तरेणशब्दस्त्वस्त्रीप्रत्ययान्तो गृह्रते। यश्चास्त्रीप्रत्ययान्तोऽन्तराशब्दः स निपात एवेत्यन्तराशब्दस्य तावन्निपातस्य ग्रहणम्। अतस्तेन निपातेन साहचर्यादन्तरेणशब्दस्यापि तस्यैव ग्रहणम्। तेनानिपातो यस्तृतीयान्तोऽन्तरेणशब्दः, यश्च टाबन्तोऽन्तराशब्दस्ताभ्यां योगे द्वितीया न भवति। किं ते बाभ्रावाणां शालङ्कायमानाञ्चान्तरेण गतेन? ग्रामयोरन्तरायां पुरि वसतीत्यन्तरशब्दोऽत्र विशेषवचनः। गमिरपि ज्ञानवचनः। किं ते विशेषण ज्ञानेनेत्यर्थः। `षष्ठपवादोऽयं योगः` इति।र शेषलक्षणायां षषठआं प्राप्तायामस्यारम्भात्। षष्ठआपवादत्वमस्य योगस्यान्तरान्तरेणशब्दार्थप्रदर्शनद्वारेण विस्पष्टीकर्त्तुमाह - `तत्र` इत्यादि। मध्यं हि सम्बन्धिशब्दत्वादमध्यभूतं द्वितीयं सम्बन्धिनमपेक्ष्य भवति। तत्र यदपेक्षं मध्यत्वं ततो मध्येन व्यतिरेके समुपजनिते षष्ठी प्राप्नोति। विनार्थोऽपि शेष एव। अत्रापि षष्ठएव प्राप्नोति। `अन्तरा त्वाञ्च माञ्च कमण्डलुः` इति। तव मम मध्ये कमण्डलुरित्यर्थः। अथ कमण्डलुशब्दाद्द्वितीता कस्मान्न भवति? सत्यप्यन्तरान्तरेणयोगे तस्य प्राधान्यात्। तथा हि - कमण्डलोः स्वार्था प्रवृत्तिः , युष्मदस्मदोस्तु परार्था; कमण्डलुविशेषणत्वेन तयोः प्रवृत्तत्वात्। तत्र कमण्डलोः स्वार्थे वर्तमानात् प्राधान्येनावस्थित्वात् प्रातिपदिकार्थादप्रच्युतत्वात् परत्वात् प्रथमैव भवति। द्वितीयायास्त्वप्रधाने युष्मदस्मच्छब्देऽवकाश इति ताभ्यां तेनेव प्रथमान्तेन कमण्डलुनोपजनिते व्यतिरेके षष्ठआं प्राप्तायां द्वितीया विधीयते। `अन्तरेण पुरुषकारम्` इति। विना पुरुषकारेणेत्यर्थः। `अन्तरा तक्षशिलां पाटलिपुत्रञ्च रुआउघ्नस्य प्राकारः` इति। अत्र रुआउघ्नः प्राकारविशेषणत्वेनोपक्षीणसामर्थ्य इति न भवति त्सयान्तराशब्देन योगः॥", "23005": "कालाध्वनोरित्यर्थग्रहणम्। अत आह - `कालशब्देभ्योऽध्वशब्देभ्यश्च` इत्यादि। `मासस्य द्विरधीते। क्रोशस्यैकदेशे पर्वतः। योजनस्यैकदेशे पर्वतः` इति। नात्र `कालाध्वनोरत्यन्तसंयोगे` इति द्वितीया भवति॥", "23006": "`अपवर्गः`इति। अत्यन्तसंयोगस्य फलरूपमेतद्विशेषणमुपात्तम्। तच्च क्रियात्यन्तसंयोगस्यैव सम्भवति, नान्यस्यति सामर्थ्यादत्र क्रियात्यन्तसंयोग एव गृह्रते। सर्वस्याश्च क्रियायाः परिसमाप्तिरस्ति; तस्माद्विशेषणोपादानसामर्थ्यात् फलप्राप्तौ सत्यां क्रियायाः परिसमाप्तिरिहापवर्गो विज्ञायत इत्यत आह - `फलप्राप्तौ` इत्यादि। `कर्त्तृव्यावृतौ` इति। न हि मासमधीतोऽनुवाको न चानेन गृहीत इत्युक्तेऽपवर्गो गम्यते, किं तर्हि? कर्त्तुरशक्तिमात्रम्। न च तत्रापवर्गव्यपदेशः॥", "23007": "`अद्य भुक्त्वा देवदत्तो द्व्यहे भोक्ता, द्व्यहाद्भोक्ता` इति। ननु चात्र एक एव कर्ता, कारकभेदे सति तन्निबन्धनो मध्यव्ययपदेशो भवति, तत् कथमसति कारकभेदे कारकयोर्मध्ये कालो भवतीत्यत आह - `कर्त्तृशक्त्योः`इत्यादि। न हि द्रव्यं कारकम्, किं तर्हि? शक्तिः, सा चेह भिद्यते। तथा हि - देवदत्ते द्वे शक्ती व्यवस्थिते; एकाद्य भुजेः साधनम्, अपरा द्व्यहेऽतीतीति कर्त्तृशक्तिभेदे सति युक्तो मध्यव्यपदेशः। `कर्त्तृकर्मणोः` इत्यादि। इष्वासः कर्ता, लक्ष्यं कर्म। `कर्मापादानयोः` इति। कर्म तदेव। अपादानं यतः परो निर्याति। `कर्माधिकरणयोर्वा` इति। इहेत्यनेन यन्निर्दिश्यतेतदधिकरम्। कर्म च तदेव। `तयोर्मध्ये क्रोशः` इति। क्रोशस्येहापादानाधिकरमत्वाभावात् सप्तमीपञ्चम्यौ न भवतिः। न हि क्रोशाच्छरोऽपैति, किं तर्हि? तदेकदेशात्। नापि क्रोशे व्यवस्थितं लक्ष्यम्, किं तर्हि? तदेकदेश एव। तस्मात् क्रोशस्य शेषत्वात् षष्ठआं प्राप्तायां सप्तमीपञ्चम्यौ विधीयेते। अथात्र संख्यातानुदेशः कस्मान्न भवति? यावता कालाध्वनौ हि द्वौ, सप्तमीपञ्चम्यावपि द्व, अत एव सामात् संख्यातनुदेशेन भवितव्यम्- कालात् सप्तमी, अध्वनः पञ्चमीत्यत आह - `संख्यातानुदेशः` इत्यादि। <<स्वरितेनाधिकारः>> [[1.3.11]] इत्यत्र स्वरितेनेति योगविभागः कृतः, तत पूर्वेणापि सम्बध्यते। यत्र स्वरितत्वं प्रतिज्ञायते तत्र यथासंख्यं यथा स्यात्। इह तु स्वरितत्वं नास्ति, अतो न भवति संख्यातानुदेशः॥", "23008": "`शाकल्यस्य संहितामनु प्रावर्षत्` इति। <<अनुर्लक्षणे>> [[1.4.84]] इति कर्मप्रवचनयीसंज्ञा।", "23009": "`उपखार्यां द्रोणः` इति। खार्या अधिको द्रोण इत्यर्थः। <<उपोऽधिके च>> [[1.4.87]] इत्युपशब्दस्य कर्मप्रवचनीयसंज्ञा। `यस्य चेआरवचनम्` इति। यस्य चेआरव्यपदेश इत्यर्थः। ईआरव्यदेशस्तु स्वामिन एव सम्भवति। तत्रैव सप्तम्या भवितव्यमिति कस्यचिद्भ्रान्ति स्यात्, अतस्तान्निराकर्त्तुमाह - `यस्य चेआरवचनम्` इत्यादि। यस्य चेआरवचनमित्यनेन द्वयोरपि = स्वस्वामिनोः पर्यायेण सप्तमी भवतीति। कथम्, यावता `अधिरीश्वरे` [[1.4.96]] इत्यनेनाधिकशब्दस्य कर्मप्रवचनीयसंज्ञा विहिता, ईआरस्तु स्वमी, स च स्वमपेक्ष्य भवति? स्वस्वामिसम्बन्धेऽधिशब्दः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामी कर्मप्रवचनीयविभक्तया युज्यते, कदाचित् स्वमित्येतत् प्रतिपादितं प्रागेव। कथं पुनर्यस्य चेआरवचनमित्युच्यमाने स्वमपि कर्मप्रवचनीयविभक्त्या युज्यते, न हि तस्येआरव्यपदेशोऽस्ति? एवं तर्हि अनुक्तसमुच्चयार्थश्चकारः क्रियते, तेन यस्येआरव्यपदेशो नास्ति तत्रापि सप्तमी विज्ञायत इत्यदोषः॥", "23010": "अपपरिशब्दयोः <<अपपरी वर्जने>> [[1.4.88]] इत्यनेन कर्मप्रवचनीयसंज्ञा विहिता, आङश्च <<आङ् मर्यादावचने>> [[1.4.89]] इत्यनेन। `वृक्षं परि विद्योतते` इति। परिः <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इत्यादिना॥", "23011": "`मुख्यसदृशः प्रतिनिधिः` इति। मुख्यो यः कश्चित् कार्ये रूढः = समर्थः, प्रसिद्धः = प्रधानभूतस्तेन सदृशो यस्तदभावे तस्य कार्यस्य सिद्ध्यर्थमुपादीयते स प्रतिनिधिः। `अभिमन्युरर्जुनतः प्रति` इति। मुख्यादर्जुनादभिमन्युः प्रतिनिधिस्ततः पञ्चमीविभक्तिर्भवति। प्रतियोगे पञ्चम्यास्तसिः। `माषानस्मै तिलेभ्यः प्रतियच्छति` इति। ये तिलाः पूर्वं दत्तास्तेभ्यो माषाणां प्रतिदानम्। तिलेभ्य इति पञ्चमी भवति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः।ननु च <<प्रतिः प्रतिनिधिप्रतिदानयोः>> [[1.4.92]] इति प्रतेः प्रतिनिधिप्रतिदानरोरेवार्थयोः कर्मप्रवचनीयसंज्ञा, तयोरेव प्रतिना योग उपपद्यते, न तु यतस्ते तस्येति मन्यमान आह - `ननु च` इत्यादि। `सम्बन्धसम्बन्धात्` इति। सम्बध्यत इति सम्बन्धः=प्रतिनिधिः, प्रतिदानञ्च, तदुभयमयि कर्मप्रवचनीयेन प्रतिना युज्यते। तेन सम्बन्धेन यः सम्बन्धः स सम्बन्धसम्बन्धः। कस्यपुनस्तेन सम्बन्धः? यतः प्रतिनिधिः प्रतिपादनञ्च तस्य। सम्बन्धिशब्दौ हि प्रतिनिधिप्रतिदानशब्दौ। तौ च नासति पूर्वविज्ञाते मुख्ये पूर्वदत्ते च भवतीति प्रतिनिधिप्रतिदानाभ्यां यस्य सम्बन्धस्तस्य ताभ्यां सम्बन्धोऽस्तीति ते अपि कर्मप्रवचनीयैर्युक्ते भवत इति। क्वचित् `सम्बन्धिसम्बन्धात्` इति पाठः। तत्रापि प्रतिनिधिः हूतिदानञ्च सम्बन्धिशब्देनोच्यते; तदुभयस्यापि कर्मप्रवचनीयेन सम्बन्धात्। तेन सम्बन्धिना यः सम्बन्धः स सम्बन्धिसम्बन्ध इति स एवार्थः॥", "23012": "यदि क्रियामात्रमिह चेष्टाशब्देनोच्यते तदा चेष्टाग्रहणमपार्थकम्। सर्वो हि धातुः क्रियावचनः। तस्माद्विशेषणं पादानसामर्थ्यात् परिस्पन्दवचनोऽयं चेष्टाशब्दो विज्ञायते, इत्याह - `परिस्पन्दक्रियाणाम्` इति। परिस्पन्दः = शरीरव्यापारः, सा क्रिया येषां ते तथोक्ताः। `अध्वनीत्यर्थग्रहणम्` इति। अर्थप्रधानत्वन्निर्देशस्य, सप्तमीनिर्देशाच्च। यदीह स्वरूपग्रहणं स्यात् `अनध्वनः` इति कुर्यात्। `आस्थितप्रतिषेधश्चायं {विज्ञेयः- काशिका।} विज्ञायते इति। येन देशविशेषेण प्राप्यं ग्रामादिकं प्राप्यते स देशविशेषो लोकेऽध्वेति रूढः। केन च प्राप्यं प्राप्यते? यः पन्था आक्रान्तस्तेन। तस्मात् तस्यैवायं प्रतिषेधः। यदा तु स एवोत्पथेन प्राप्यते तदा तस्य पथोऽध्वव्यपदेशो न भवतीति भवत्येव तत्र चतुर्थी। `द्वितीयाग्रहणं किम्` इति। कर्मणि कारके चतुर्थ्यां विकल्पितायां पक्षे न्यायप्राप्तैव द्वितीयेति भावः। तत् क्रियते बाधकबाधनार्थम्। `अपवादविषयेऽपि यथा स्यात्` इति। अथार्थग्रहणं किमर्थम्, न गतिकर्मणीत्येवोच्येत, यावता गतिरर्थ एव? नैतदस्ति; या गतिर्गमिनैव शब्दान्तरसन्निधानाद्यनपेक्षतयोच्यते तत्र यथा स्यात्। पादविहरणात्मिका च या गतिः प्रधानभूता तस्या एवग्रहणं यथा स्यादित्येवमर्थम्। तेनेह न भवति - स्त्रियं गच्छति, अजां ग्रामं नयति। अत्र हि गमेमँथुनमथः स्त्रीशब्दसन्निधानाद्गम्यते, न तु गमेः केवलात्। नयतेश्च प्रापणमेवार्थः प्रदानभूतः, तद्विशेषणन्तु प्रादविहणमप्रधानम्। यद्येवम्,ग्रामं गमयति ग्रामाय गमयतीति णन्ते गुणभूतत्वाद्गमर्न सिध्यति, गमेरत्र प्रेषणाध्येषणादिको ह्रर्थः प्राधान्यमनुगच्छति, नैष दोषः ; न ह्यत्र ग्रामो ण्यन्तस्य कर्म, किं तर्हि? गमेरेव॥", "23013": "`देवदत्ताय रोचते` इति। <<रुच्यर्थानां प्रीयमाणः>> [[1.4.33]] इति संप्रदानसंज्ञा। `पुष्पेभ्यः स्पृह्रति` इति। अत्र <<स्पृहेरीप्सितः>> [[1.4.36]] इत्यनेन।`तादर्थ्ये उपसंख्यानम्` इति। तच्छब्देन चतुथ्र्यन्तस्यार्थो निर्दिश्यते। तस्मा इदं तदर्थम्, तस्य भावस्तादथ्र्यम्। तत्र चतुथ्र्या उपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - `चतुर्थी` इति योगविभागः क्रियते, तेन तादर्थ्ये चतुर्थी भवतीति। अथवा <<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः>> [[2.1.36]] इति तादर्थ्ये चतुर्थ्याः समासवचनं ज्ञापकं भवति - तादर्थ्येऽपि चतुर्थीति।`कॢपि सम्पद्यमाने` इत्यादि। कॢप्त्यर्थानां धानूनां प्रयोगे सम्पद्यमाने कर्तरि संपादनक्रियाविशिष्टे चतुर्थी वक्तव्या, व्याख्येयेत्यर्थः। व्याख्यानं तु तमेव योगविभागमाश्रित्य। तथा `उत्पातेन ज्ञाप्यमाने` इत्यादावपि। `मूत्राय कल्पते यवागूः` इति। यवागूर्मूत्रविकाररूपेण भवतीत्यर्थः। विकाररूपापत्तौ चतुर्ती विज्ञेया। तेनेह न भवति - देवदत्तस्य शालयः संपद्यन्त इति। यदा चाभेदविवक्षा तदा परत्वात् प्रथमैव भवति, न चतुर्थी - मूत्रमिदं संपद्यते यवागूरिति, उच्चारोऽयं सम्पद्यते यवौदन इति। यदा तु `जनिकर्त्तृः प्रकृतिः` [[1.4.30]] इति प्रकृतेरपादानात्वं विवक्ष्यते तदा यवाग्वा इति पञ्चम्येव स्यात् - मूत्रं सम्पद्यते यवाग्वा इति। `वाताय कपिला विद्युत्` इति। अत्र कपिलाविद्युदुत्पातो वातस्य लक्षणम्। तेन ज्ञाप्यमाने वाते चतुर्थी भवति। `अरोचकिने` इति। <<अत इनिठनौ>> [[5.2.115]] इतीनिः॥", "23014": "`क्रियार्था क्रियोपपदं यस्य` इत्यादि। कथं पुनरयमर्थो लभ्यते, यावता नेह सूत्रे द्वितीयं क्रियाग्रहणमुपात्तमस्तीत्याह - `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्` [[3.3.10]] इत्यस्मिन् विषये क्रियार्थोपपदं सम्भवतीति यदत्र क्रियार्थोपपदं तत् क्रियैवेति गम्यते। `स्थानिनः`इति। शब्दास्तिष्ठन्त्यस्मिन्निति स्थानम्। तदस्यास्तीति स्थानि। एतदुक्तं भवति - यस्यार्थः प्रतीयते, न तु प्रयोगोऽस्ति, स स्थानीत्युच्यत इति।`एधेभ्यो व्रजति`इति। आङपूर्वो हरतिरत्र स्थानी, तत्कर्म त्वेधाः। एधानाहर्त्तु व्रजतीत्यर्थः। ननु चात्र तादथ्र्यमस्ति, अतस्तादथ्र्यं इत्येवं सिद्धा चतुर्थी, तत्किमर्थंमिदं वननम्? नियमार्थम्- स्थानिनोऽप्रयुज्यमानस्यैव कर्मणि यथा स्यात्, प्रयुज्यमानस् मा भूत्। `भक्षिरत्र स्थानी` इति। प्रविश गृहं पिण्डीं भक्षयेति गम्यमानत्वात्। प्रविश तर्पणमित्यत्रापि पिबतिः स्थानी। `न तु क्रियार्थोपपदः` इति। तुमुन्नादिविशिष्टप्रत्ययान्तो हि क्रियार्थोपपदो भवति। अयन्तु लोडन्तः। न च लोट् क्रियार्थोपपदे विधीयत इति न भवति भक्षिरत्र क्रियार्थोपपदः॥", "23015": "`तुमुना समानार्थः` इति। वृत्तौ गम्यमानत्वात् समानशब्दो न प्रयुक्तः। `तुमर्थभाववचनप्रत्ययान्तात्` इति। तुमर्थो भाववचनप्रत्ययोऽन्तो यस्य स तथोक्तः। `भाववचनाश्चेति वक्ष्यति, तस्येदं ग्रहणम्` इति। स एव हि तुमर्थो भाववचनः सम्भवति, नान्यः। `पाकाय व्रजति` इति। यद्यप्यत्र तादथ्र्यं गम्यते तथापि चतुर्थी न भवति; तस्मिन्नेव तादथ्र्यं विहितेन भावप्रत्ययेन तस्योक्तत्वात्,यथा - पाचको व्रजतीत्यत्र न भवति। तेन चतुर्थीविधानार्थमिदमारब्धम्। अथ वा - भाववचनादेव यथा स्यात्, इह मा भूत् - पाचको व्रजतीति नियमार्थंमेतत्। `पाकः, त्यागः, रागः` इति भावे घञ्। ननु च क्रियार्थोपपदग्रहणमनुवर्तिष्यते, तदर्थाद्विभक्तेर्विपरिणामं कृत्वैवमभिसम्बन्धः करिष्यते - क्रियार्थोपपदाद्भाववचनादिति। यस्तु क्रियार्थोपपदो भाववचनः स तुमर्थ एवेति किं तुमर्थग्रहणेन? नैतदस्ति; न हि क्रियार्थोपपदग्रहणं भाववचनस्य विशेषणं सम्भवति। किं तर्हि? धातोरेव। तस्मात् तुमर्थग्रहणं कर्तव्यमेव। `कारको व्रजति`इति - `तुमुन्ण्वुलौ` [[3.3.10]] इति ण्वुल्। भवत्ययं तुमर्थो न तु भाववचनः, किं तर्हि? कर्त्तृवचनः, तेन तदन्तान्न भवति॥", "23016": "`अलमिति पर्याप्त्यर्थस्य ग्रहणम्` इति। <<तस्मै प्रभवति संतापादिभ्यः>> [[5.1.101]] इत्यलंशब्दसमानार्थेन प्रभवतिशब्देन योगे चतुर्थीनिर्देशाल्लिङ्गात्। ननु चास्माल्लिङ्गादर्थस्येदं ग्रहणम्, न तु शब्दस्येत्येषोऽर्थः प्रतीयते; न तु पर्याप्त्यर्थस्येत्येषोऽर्थः। तथा च भूषणप्रतिषेदयोरपि ग्रहणं स्यात्। एवञ्च कन्यामलंकुरुते, अलं बाले रोदनेनेत्यादावपि चतुर्थी स्यात्; नैष दोषः; सामर्थ्यात् पर्याप्त्यर्थस्यैव ग्रहणं भविष्यति, कथम्? कन्यामलङकुरुते इत्यत्र `उपपदविभक्तेः कारकविभक्तिर्बलीयसी` (चां।प।69) इति <<कर्मणि द्वितीया>> [[2.3.2]] इति द्वितीययैव भवितव्यम्। `अलं बाले रोदनेन` इत्यत्राप्यत एव हेतोः करणे तृतीययैव। अत्र हि रोदनं करणभावमापन्नमेव प्रतिषेधेन सम्बध्यत इति सामर्थ्यात् पर्याप्त्यर्थस्य ग्रहणं सम्पद्यते। `चकारः पुनरस्यैव समुच्चयार्थः` इति। यदेतन्नमःप्रभृतियोगे चतुर्थीविधानं तत्समुच्चयार्थश्चकारः। तेन पुनर्विध्नात् `चतुर्थी चाशिष्यायुष्य` [[2.3.73]] इत्यादिनाशीर्विवक्षायां पक्षे या षष्ठी विधीयते तामपि बाधित्वा चतुर्थ्येव भवति। यद्यवम्, कारकविभक्तिमपि बाधित्वा `कन्यामलङ्कुरुते` इत्यादौ चतुर्थ्येव स्यात्, ततश्च यदुक्तम्- सामर्थ्यात् पर्याप्त्यर्थस्यैव ग्रहणं भविष्यतीति, तन्नोपपद्यते? नैष दोषः; कारकविभक्तेर्बलीयस्त्वात्, पुनर्विधानस्य चान्यत्र चरितार्थत्वात्। अथ वा - वक्ष्यमाणा विभाषा सिंहावलोकितन्यायेनेहाप्युपतिष्ठते। तेन `कन्यामलङ्कुरुते इत्यादौ चतुर्ती न भवति॥", "23017": "`अनादरस्तिरस्कारः` इति। अत्रैवानादरशब्दस्य रूढत्वात्। तिरस्कारः = परिभवः, अवज्ञानमित्यर्थः। ` न त्वा तृणाय मन्ये` इति। तृणादपि निकृष्टतरं त्वामहं इत्यर्थः। `\tविकरणनिर्देशः किमर्थः` इति। `मनिकर्मणि` इति कस्मान्नोक्तम्? एव हि लघु सूत्रं भवतीति? `मन ज्ञाने` (धातुपाठः-1176) इत्यस्य दैवादिकस्य ग्रहणं यथा स्यात्, `मनु बोधने` (धातुपाठः-1471) इत्यस्य तानादिकस्य ग्रहणं मा भूदित्येवमर्थो विकरणनिर्देश इति दर्शयितुमाह- `न त्वां तृणं मन्वे` इति।`अश्मानं दृषदं मन्ये` इत्यादौ यथाव्यवस्थितस्य वस्तुनः स्वरूपमाविष्क्रियत इत्यत्रानादरो न गम्यते। `येदतदप्राणिष्विति तदनावादिष्विति वक्तव्यम्` इति। अप्राणिग्रहणपनीयनावादिग्रहणं कर्तव्यमित्यर्थः। यथान्यासे हि न त्वा नावं मन्य इत्यत्र चतुर्थी स्यात्। न त्वा शुने मन्य इत्यत्र चतुर्थी न स्यादित्यभिप्रायः॥", "23018": "`तृतीयाविधाने {प्रकृतयादीनाम्ितिवृत्तौ पाठः} प्रकृत्यादिभ्य उपसंख्यानम्` इति। किं पुनः कारणम्? न सिद्ध्यति, कर्त्तृकरणयोरभावात्। तयोस्त्वभावः प्रकृत्याऽभिरूप इत्यादौ क्रियाया अविद्यमानत्वादित्यभिप्रायः। प्रातिपदिकेनात्र सम्बन्दमात्रं प्रतीयते, न तु काचन क्रिया। न च तया विना कर्त्तृकरणे सम्भवतः; तयोः क्रियापेक्षत्वात्। ततश्च सम्बन्धलक्षणा षष्ठी स्यात् - प्रकृतेरभिरूपः, प्रायस्य याज्ञिकः, गोत्रस्य गाग्र्य इति। `समेन धावति, विषमेण धावति` इति। यद्यप्यत्र क्रियाऽप्यस्ति, तथाऽपि नात्र समविषमशब्दौ करणत्वेन विवक्षितौ, किं तर्हि? कर्मत्वेन, ततश्च द्वितीया स्यात्। `द्विद्रोणेन धान्यं क्रीणाति` इत्यादावपि द्विद्रोणात्येषोऽर्थो विवक्षितः। `पञ्चकेन पशून् क्रीणाति` इति। पञ्च परिमाणमस्य पशुसंघस्य पञ्चकः सङ्घः। पञ्चकं सङ्घं कृत्वा पशून् क्रीणातीत्यर्थः। एवं `साहरुओणाआआन् क्रीणाति`इति साहरुआं सङ्घं कृत्वा। सहरुआं सहरुआं कृत्वेत्यर्थः। उपसंख्यानशब्दस्य प्रतिपादनार्थः। तत्रेदं प्रतिपादनम् - प्रतीयमानाऽपि क्रिया कारकाणां निमित्तं भवत्येव। इह च प्रकृत्याऽभिरूप इत्यत्रापि करोत्यर्थो भवत्यर्थो वा गम्यते। गाग्र्योऽस्मि गोत्रेणेत्यत्रापि ज्ञाने भवने वा गम्यमाने गोत्रस्य करणत्वं प्रतीयते। समेन धावतीत्यदौ समेन विषमेण वा पथा करणेनेति गम्यते। द्विद्रोणेनेत्यत्रापि तृतीया न कर्मत्वं बोधयति। किं तर्हि? करणत्वम्। अत्र हि द्विद्रोणाद्यर्थं हिरण्यादिकं मूल्यभूतं तादथ्र्याद्द्विद्रोणादिशब्देनोक्तम्। तस्यापि करणत्वमस्त्येवेति करण इत्येवं सर्वत्र तृतीया सिद्ध्यति॥", "23019": "क्रियागुणद्रव्यसम्बन्धे हि सति सहयोगो भवति। अतः `पुत्रेण सहागतः` इत्यादीनि क्रियादिसम्बन्धे यथाक्रमुदाहरणानि वृत्तिकृतोपन्यस्तानि। सर्वत्र च पुत्रस्यात्राप्रधान्यमिति ततस्तृतीया भवति। ननु चोभयोरपि पितापुत्रयोः क्रियादिसम्बन्धः प्रतीयते, तत्कुतः पुत्रस्याप्राधान्यमितरस्य प्रधानभाव इत्याह - `पितुरत्र` इत्यादि। `यद्य्प्युभयगतः क्रियादिसम्बन्धः प्रतीयते, तथाऽप्युपात्तशब्दव्यापारापक्षया प्रधानाप्रधानव्यवस्थाः - शब्देन यस्य क्रियादिसम्बन्धः प्रत्याय्यते तत् प्रधानमितरदप्रधानमिति। इह तु पितुरव क्रियादिसंबन्धः प्रत्याय्यते शब्देन, न तु पुत्रस्य। कुत एतत्? शब्दशक्तस्वाभाव्यात्। तथाविधा हि शब्दशक्तिर्यतः पितुरेवात्र क्रियादिसम्बन्धं श्नोति प्रतिपादयितुम्, न पुत्रस्येति; एवञ्चागत इत्यादवेकवचनमुपपद्यते; अन्यथा हि द्वित्वाद्द्विवचनं स्यात्, यथा - पिततापुत्रावागताविति। `पुत्रस्य तु प्रतीयमानत्वादप्राधान्यम्` इति। अर्थात्स पुनरर्थः सहार्थयोगः। स च भेदाधिष्ठानत्वात् पुत्रस्य क्रियादिसम्बन्धमन्तरेण न सम्भवतीति सम्बन्धस्य नान्तरीयकत्वात् पुत्रस्यापि क्रियादिसम्बन्धं प्रत्याययति। `सहार्थेन योगे तृतीयाविधानात्` इति। कुतः पुनरेतदवगतं सहार्थेन योगे तृतीयाविधानमिति? युक्तग्रहणात्। तस्य चैतदेव प्रयोजनम् - सहार्थेन योगे तृतीया यथा स्यात्, नान्यत्। `शिष्येण सहोपाध्यायस्य गौः` इति। अत्र द्रव्यसम्बन्धः षष्ठऐवोपाध्यायस्योच्यत इत्यस्य प्राधान्यात्। तत्रासत्यप्रधानग्रहणे प्रधानेऽप्युपाध्याये स्यात्। ननु च परत्वात् षष्ठी भविष्यति? न भविष्यति; अशेषत्वात्। सति त्वप्रधानग्रहणे शेषोऽयं सम्पद्यत इति षष्ठी॥", "23020": "अयमङ्गशब्दोऽवयवे प्रसिद्धः। स यदि तत्रैव वर्तमान इह गृह्रते तदाऽत्रैव स्यात् - अक्षि काणमस्येति; अत्र ह्रक्ष्णः शरीरावयवस्य विकारः काणेन गुणेन द्योत्यत इति। इह तु न स्यात् - अक्ष्णा काण इति। न ह्यत्रावयवस्याक्ष्णो विकारो लक्ष्यते, किं तर्हि? अङ्गनः समुदायस्येत्यत आह - `अङ्गशब्दोऽत्र`इत्यादि। अङ्गमस्यास्तीत्यङ्गः, अर्श आदित्वादच्प्रत्ययान्तोऽङ्गशब्द उपात्त इति दर्शयति; अङ्गिनोऽङ्गापेक्षत्वात्। यदपेक्षयाऽङ्गिनोऽङ्गित्वं तदेव येनेत्यनेन निर्दिश्यत इति दर्शयितुमाह - `येन` इत्यादि। विकृतेनेति सामर्थ्याल्लब्धमर्थं दर्शयति। न ह्रविकृतेनाङ्गनिनोऽङ्गेन विकारो लक्ष्यते। `लक्ष्यते` इति। द्योत्यत इत्यर्थः। `अक्ष्णा काणः` इति। अत्राक्ष्णाऽवयवेन विकृतेनाङ्गिनो देवदत्तस्य विकारो लक्ष्यत इति तत्सतृतीया। विभक्तिर्भवति। कथं पुनरवयवेन विकृतेन समुदायस्तथा व्यपदिश्यत इत्याह - `अवयवधर्मेण` इत्यादि। याथाऽढमिदं नगरमित्यवयवधर्मेणाढत्वेनात्र समुदायो व्यपदिश्यते, तथेहाप्यवयवेन विकृतन समुदायो व्यपदिश्यत इति। कथं पुनरत्राक्षिशब्दस्य प्रयोगः क्रियते, यावता विनाऽपि तेन काणत्वं गुणः समुदायस्य प्रत#ईयत एव? सत्यमेतत्; लौकिके शब्दप्रयोगे गुरुलाघनं प्रत्यनादरात्। यस्तु तदाद्रियते सोऽक्षिशब्दं न प्रयुङ्क्त एव।`अक्षि काणमस्य` इति। अत्रासत्यङ्गग्रहणे काणशब्दात् तृतीया स्यात्। लक्ष्यते हि काणत्वेन गुणेनाक्ष्णो विकारः समुदायस्यावयवस्य॥", "23021": "कञ्चित् प्रकारमित्यनेन इत्यमित्यस्यार्थमाचष्टे। तथा हि प्रकारवचने <<इदमस्थमुः>> [[5.3.24]] इति थमुप्रत्यये विहिते इत्थमित्येद्रूपं भवति। सामान्यस्य भेदको विशेषः प्रकार उच्यते। आपन्न इत्यनेन भूतशब्द्सयार्थमाचष्टे। तथा हि - `भू प्राप्तावात्मनेपदी` (धातुपाठः-1844) इत्यस्य चौरादिकस्य `आ धृषाद्वा` (धातुपाठः-805) इत्यस्यानन्तरम्) इति यदा णिज् नास्ति तदा क्तप्रत्यये `भूत` इति रूपं भवति। तस्येतीत्वम्भूतस्य। `लक्षणम्` इति। लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम् = चिह्नम्। `अपि भवान् कमण्डलुना छात्रमाद्राक्षीत्` इति। अत्र मनुष्यत्वं सामान्यम्, तस्य च्छात्रत्वं प्रकारःच; तं प्राप्तस्य च्छात्रस्य कमण्डलुर्लक्षणम्। `छात्रेणोपाध्यायम्` इति। मनुष्यत्वं सामान्यम्, तस्योपाध्यायत्वं प्रकारः; तं प्राप्तस्योपाध्यायस्य लक्षणं छात्रः। `शिखया परिव्राजकम्` इति। मनुष्यत्वं सामान्यम्, परिव्राजकत्वं प्रकारः। तं प्राप्तस्य परिव्राजकस्य लक्षणं शिखा।`लक्षणस्य समासेऽन्तर्भूतत्वात्` इति। एकार्थीभावद् बहुव्रीह्रर्थेन लक्षणार्थस्यापृथग्भावादित्यर्थः। बहुव्रीहावेव वाच्यत्वेनान्तर्भावो लक्षणस्येति गतार्थत्वात् तृतीया न भवति। इत्थम्भूतलक्षण इति किम्? वृक्षं परि विद्योतते विद्युत्। नात्र विद्योतनत्वप्राप्तस्य कस्यचिद्वृक्षेण लक्षणम्। किं तर्हि? विद्योतनस्यैव॥", "23022": "`मात्रा सञ्जानीते` इति। `ज्ञाननोर्जा` [[7.3.79]] इति जादेशःक, <<ई हल्यघोः>> [[6.4.113]] इतीत्वम्, `संप्रतिभ्यामनाध्याने` [[1.3.46]] इत्यात्मनेपदम्। आध्याने तु <<अधीगर्थदयेशां कर्मणि>> [[2.3.52]] इति परत्वात् षष्ठी भवति - मातुः सञ्जानातीति। कृत्प्रयोगे चानाध्यानेऽपि `कर्त्तृकर्मणोः कृति` [[2.3.65]] इति परत्वात् षष्ठएव भवति - संज्ञातेति॥", "23023": "हेतुर्द्विविधः - शास्त्रीयः,लौकिकश्च। तत्र शास्त्रीयः <<तत्प्रयोजको हेतुश्च>> [[1.4.55]] । लौकिकः फलसाधनयोग्यः पदार्थः। तत्र शास्त्रीये हेतौ `कर्त्तृकरणयोस्तृतीया` [[2.3.18]] इत्येवं सिद्धा तृतीया। तस्माल्लौकिकस्य हेतोरिदं ग्रहणमित्यत आह - `फलसाधनयोग्यः` इत्यादि। अनिष्पादयन्नपि फलं तासाशनयोग्यः पदार्थो लोके हेतुरित्युच्यत इति योग्यग्रहणम्। `धनेन कुलम्` इत्यादौ कुलादीन्यकुर्वन्त्यपि धनादीनि तत्करणयोग्यतया लोके हेतुवय्पबदेशमासादयन्तीति तेभ्यस्तृतीया। इह यूपाय दार्विति सदपि दारुणो हेतुत्वं न विवक्षितम्। किं तर्हि? कारणस्यान्यथात्वम्। तेन तादर्थ्ये चतुर्थी भवति॥", "23024": "`शतेन बन्धितः`इति। बन्धेण्र्यन्तस्य निष्ठायामेतद्रूपम्। `शतमृणञ्च भवति`इति। उत्तमर्णाय देयत्वात्। प्रयोजकत्वात् कर्त्तृसंज्ञेति, <<तत्प्रयोजको हेतुश्च>> [[1.4.55]] इति चकारात् कर्त्तृसंज्ञाविधानात्। ननु लौकिको हेतुः पूर्वसूत्रे गृहीतः, स चेहानुवर्तत इति तत एव पञ्चमी विधीयते, न चात्र लौकिको हेतुः, किं तर्हि? पारिभाषिक इति प्राप्त्यभावादकर्तरीति प्रतिषेधोऽनर्थकः? नैतदस्ति;तत्र हि शास्त्रीये हेतौ तृतीया सिद्धेवेति लौकिकस्य हेतौग्र्रहणम्, इह तु पञ्चमी विधीयते। न चातर्ासौ शास्त्रीये हेतौ केनचित् सिध्यति। द्वावपीह हेतू गृह्रेते। अथ वा शास्त्रीयस्यापि हेतोर्लौकिकं हेतुत्वमविरुद्धमेव। यो हि बन्धने प्रयुङ्क्ते स तत्साधनयोग्यो भवत्येव॥", "23025": "`धनेन कुलम्` इति। धनं द्रव्यम्, न गुणः। द्रव्याश्रितो हि गुणो भवति, न द्रव्यमेव ! गुणशब्देन चात्र सम्बन्धिमात्रं परार्थरूपापन्नमुच्यते, तेनाग्निरत्र धूमादित्याद्यपि सिद्धं भवति। ननु चास्त्रियामित्युच्यते, तेन नास्तीह घटोऽनुपलब्धेरित्यादि न सिध्यति? नैतदस्ति;`विभाषा गुणे` इति योगविभागः कर्तव्यः।तेन यत्रेष्यते तत्रय योगविभागादिष्टसिद्धिरिति स्त्रियामपि भवत्येव॥", "23026": "प्रयोगस्य शब्दधर्मत्वात् हेतुरित्यनेन हेतुशब्द एव विज्ञायत इत्यत आह - `{हेतुशब्दस्य प्रयोगे - काशिका} हेतुशब्दप्रयोगे` इति। एवञ्च हेतुशब्दस्य स्वरूपग्रहणे सति तत्पर्याणां निमित्तकारणादीनां प्रयोगे षष्ठी न भवतीति किमर्थं पुनरिदमुच्यते, यावता शेषविवक्षयैवात्राध्ययनादिभ्यः षष्ठी भविष्यति, तत्समानाधिकरण्याच्च हेतुशब्दादपि? एवं तर्हि सैव शेषविवक्षाऽस्मिन् विषये वचनेनाख्यायते मन्दधियामनुग्रहाय॥", "23027": "`निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायदर्शनम्` इति। एतच्चकारस्यानुक्कतसमुच्चयार्थत्वल्लभ्यत इति वेदितव्यम्।यदर्थग्रहणमेतत कस्मात् पर्यायोपादानं कृतमित्माह - `पर्यायोपादानम्` इत्यादि। असति पर्यायग्रहण एतत् स्वरूपग्रहणमिति कस्यचिद्भ्रान्ति स्यात्। अतस्तन्निराकर्त्तु पर्यायग्रहणम्॥", "23028": "`वृकेभ्यो बिभेति` इति। <<भीत्रार्थानां भयहेतुः>> [[1.4.25]] इत्यपादानत्वम्। अध्ययनात् पराजयत इत्यत्र <<पराजेरसोढः>> [[1.4.26]] इत्यपादानत्वम्। `विपराभ्याञ्जेः` [[1.3.19]] इत्यात्मनेपदम्।`पञ्चमीविधाने इत्यादि। यदेतत् पञ्चमीविधानमत्र ल्यब्लोपे पञ्चमो स्यादित्युपसंख्यानम् = व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - इह पूर्वसूत्राच्चकारोऽनुवर्तते। स चानुक्तसमुच्चयार्थः। तेन ल्यब्लोपे कर्मणि पञ्चमी भविष्यति।`अधिकरणे चोपसंख्यानम्` इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु पूर्ववच्चकारानुक्तसमुच्चयार्थत्वमाश्रित्य कर्तव्यम्।`प्रश्नाख्यानयोश्च` इत्यादि। वक्तव्येति व्याख्यातव्येत्यर्थः। व्याख्यानन्तु तामेव चकारानुवृत्तिमाश्रित्य कर्तव्यम्। अथ वा - अत्रापादान इत्येवं सिद्धा पञ्चमी। तथा हि कुतो भवानित्य्तरागच्छतीति प्रतीयते, पाटलिपुत्रादित्यत्राप्यगच्छामीति; अतः स्फुटमेवापादानत्वम्।`यतश्चाष्वकाल` इत्यादि। यतः प्रभृत्यध्वनः कालसय् निर्माणमियत्तापरिच्छेदस्तत्र पञ्चमी वक्तव्या। एतदुक्तं भवति - अध्वनि काले च निर्मीयमाणे यदवश्रिभूतत्वेन विवक्ष्यते तत्र पञ्चमी वक्तव्या = व्याख्येया। व्याख्यानन्तु पूर्ववच्चाकारानुवृत्तिमाश्रित्य कर्तव्यम्। अथ वा- अध्वनि निर्मीयमाणे अपादान इत्येवं सिद्धा पञ्चमी। तथा हि - गवीधुमतः साङ्काश्यं चत्वारि योजनानीत्यत्र निःसृत्येति क्रिया गम्यते। अतो युक्तमेवापादानत्वम्। कार्त्तिक्या आग्रहायणी मास इत्यत्रापि परेणेति शब्दो गम्यते। तत्रोत्तरसूत्रेण दिग्योलक्षणा पञ्चमी भविष्यति।`तद्युक्तात्काले` इत्यादौ तदित्यनेन पञ्चमी सम्बध्यते। पञ्चमीयुक्तात् परो यः कालस्तत्र सप्तमी वक्तव्या = व्याख्येया। व्याख्यानं तु कार्त्तिक्या आग्रहायणी मास इत्यत्र `यस्य च भावेन भावलक्षणम्` [[2.3.37]] इत्यनेन सप्तमी सिद्धा। कार्त्तिक्याः परो यो मासस्तत्सत्तयाऽऽग्रहायण्या भावो लक्ष्यते।`अध्वनः प्रथमा` इत्यादि। तद्युक्तादिति वर्तते। तत्र यदा साङ्काश्यस्य योजनादभेदो विवक्ष्यते तदा प्रथमा। `गवीषुमतः साङ्काश्यं चत्वारि योजनानि` इति। भेदविवक्षायान्तु `यस्य च भावेन भावलक्षणम्` [[2.3.37]] इति सप्तमी। तथा हि गवीधुमतः सांकाश्यं चतुर्षु योजनेषु गतेषु सत्सु भवतीत्येषोऽर्थः प्रतीयते। तत्र योजनस्य सम्बन्धि सम्बन्धि गमनं साङ्काश्यभावस्य लक्षणं भवति॥", "23029": "`अन्य इत्यर्थग्रहणम्` इति। अर्थद्वारक एव हि शब्दस्य शब्दान्तरणे योगो भवति। तस्मादर्थस्येदं ग्रहणं विज्ञायते। तेनेत्यादिनाऽर्थग्रहणस्य फलं दर्शयति। अथान्यो देवदत्ताद्यज्ञदत्त इति यज्ञदत्तशब्दादपि पञ्चमी कस्मान्न भवति? देवदत्तादुत्पन्नया पञ्चम्योभयगतस्याप्यन्यत्वस्य प्रतिपादित्वात् तद्विशिष्टमन्यत्वमेकत एवोत्पाद्यमानया पञ्चम्या शक्यं प्रतिपादयितुमिति द्वितीयसम्बन्धिनः पञ्चमी न भवति।`इतर इति निर्दिश्यमानस्य प्रतियोगी पदार्थ उच्यते` इति।यथा क्वचित्प्रकरणे द्वौ प्रकृतौ - देवदत्तः, अन्यश्च कश्चित्। तत्रैकस्तावन्निर्दिश्यते - देवदत्तः शूर इति। तस्य निर्दिश्यमानस्य योऽसौ द्वितीयः सम्बन्धी प्रतियोगी स इतरशब्देनोच्यते, यथा - इतरः कातर इति। `शब्दग्रहणम्ित्यादि। शब्दग्रहणे सति दिशि दृष्टः शब्दो दिक्शब्द इतेषोऽर्थो लभ्यते। तेन योऽपि सम्प्रति दिक्शब्दो देशे काले च वर्तते, सोऽपि दिशि दुष्ट इति तद्योगे पञ्चमी भवति। तत्र देशवृत्तिना पञ्चमी - पूर्वो ग्रामात् पर्वत इति। कालवृत्तिनाऽपि - पूर्वो ग्रीष्माद्वसन्त इति। `इतरथा हि दिग्वृत्तिनैव योगे स्यात्` इति। तत्रैव दिक्शब्दस्य मुख्यत्वात्।`प्राग्ग्रामात्` इति। प्रपूर्वादञ्चतेरृत्विगादिसूत्रेण [[3.2.59]] क्विन्प्रत्ययः। तदन्ताद्यदादिशब्देभ्यः `सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकाल` [[5.3.27]] इत्यादिना विहितस्य स्तातेः <<अञ्चेर्लुक्>> [[5.3.30]] इति लुक्; लुकि कृते तदेदमुदाहरणम्। `दक्षिणा ग्रामादुत्तरा ग्रामात्। `दक्षिणाहि ग्रामादुत्तराहि ग्रामात्` इति। `दक्षिणादाच` <<आहि च दूरे>> [[5.3.37]] <<उत्तराच्च>> [[5.3.38]] इत्याजाही प्रत्ययौ॥", "23030": "", "23031": "", "23032": "", "23033": "", "23034": "विकल्पेन पञ्चम्यां विहितायां पक्षे शेषत्वादेव यद्यपि सिध्यति, तथाऽपि तदिह षष्ठीग्रहणं कृतं तत् `चतुर्थी चाशिष्य` [[2.3.73]] इत्यादिनाऽऽशिषि या चतुर्थी विधीयते तामपि बाधित्वा षष्ठएव यथा स्यादित्येवमर्थम् - दूरं हितं ग्रामस्य, अन्तिकं हितं ग्रामस्येति। ननु चान्यतरस्यांग्रहणं प्रकृते पुनरन्यतरस्यांग्रहणं किमर्थमित्याह - `अन्यतरस्यांग्रहणम्` इत्यादि। यदीहान्यतरस्यांग्रहणं न क्रियेत तदा पक्षे तृतीया स्यात्; तस्या एवानन्तरसूत्रे श्रुतत्वात्। पुनरन्यतरस्यांग्रहणं क्रियमाणं पञ्चमीविधानार्थं विज्ञायते; प्रयोजनान्तराभावात्। तथा हि - तृतीयाविकल्पार्थं तावदेतन्न भवति। तृतीयाविकल्पो हि पूर्वकेणान्यतरस्यांग्रहणेन सिध्यति। न चान्या काचिद्वभक्तिः प्रकृता, किं तर्हि? पञ्चमी। तस्मात् पञ्चमीविकल्पार्थमेतद्विज्ञायते॥", "23035": "`{एवम्प्रकारकं वाक्यं वृत्तौ नास्ति}पञ्चमी च` इति। तदनुवृत्तिसामर्थ्यात्। `तृतीयाऽपि समुच्चीयते` इति। चकारेण। `यथायथम्` इति। यथास्वं यो यस्यात्मीयो विषयस्तत्रासौ भवति, न विभक्त्यन्तरमित्यर्थः॥", "23036": "`दूरान्तिकार्थेभ्यश्चतरुआओ विभक्तयो भवन्ति` इति। पूर्वसूत्रेण द्वितीयादयस्तिरुआः, अनेन सप्तमी।`सप्तमीविधाने क्तस्येन्विषयस्य` इत्यादि। इन्विषयो यः क्तस्तदीये कर्मणि सप्तमी। विधेया। कश्चेन्विषः क्तः? यस्तदन्तस्तेनैव सह प्रयुज्यत इत्यर्थः। अनन्यत्रभावार्थत्वादत्र विषयशब्दस्य। `अधीती व्याकरणे` इति। अधीतं व्याकरणमनेनेति। <<श्राद्धमनेन भुक्तमिनिठनौ>> [[5.2.85]] इत्यतोऽनेनेत्यनुवर्तमाने <<पूर्वादिनिः>> [[5.2.86]] इत्यत इनिरित्यनुवर्तमाने च <<इष्टादिभ्यश्च>> [[5.2.88]] इतीनिप्रत्ययः। अत्र यद्यपि कर्मण्येव क्तो विहितस्तथापि तद्धित उत्पन्नेऽधीतव्याकरणोरभिसम्बन्धो निवर्तते। अस्ति च धात्वर्थस्य व्याकरणेन सम्बन्ध इति कर्मैव व्याकरणं भवतीत्यतो द्वितीया स्यात्, यथा - कृतपूर्वी कटमिति। तस्मात् सप्तम्या उपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - योऽसावधीती कर्ता तस्य व्याकरणं विषमत्वेन विवक्ष्यते। तस्मादधिकरण इत्येवं सिद्धा सप्तमी॥`साध्वसाधुप्रयोगे` इत्यादि। अनर्चार्थमिह साधुशब्दस्य ग्रहणम्। अर्चायां हि `साधुनिपुणाभ्यामर्चायाम्` [[2.3.43]] इत्यनेनैव सिद्धा सप्तमी। `साधुर्देवदत्तो मातरि` इत्यादि। अत्राप्यधिकरण एव सप्तमी। तथा ह्यत्र मातृस्थासु क्रियासु मातृशब्दो वर्तते, पितृस्थासु क्रियासु पितृशब्दः; तासाञ्च क्रियाणां साध्वसाधुतां प्रति विषयभावोऽस्तीति वैषयिकाधिकरण एव सप्तमी। वक्तव्यशब्दस्तु व्याख्येय इत्यर्थे वर्तते। एवमुत्तरत्रापि। `कारकार्हाणाञ्च` इत्यादि। भावप्रधानोऽत्र कारकशब्दः। क्रियां प्रति येषां कारकत्वं साधनत्वं न्याय्यं ते कारकार्हाः, तेषां कारकार्हत्वे सप्तमी वक्तव्या। `ऋद्धेषु` इत्यादि। ऋद्धा हि भुजिक्रियां प्रति साधनभावमर्हिन्ति। तेषामेव चेह कारकत्वं विवक्षितम्। एतदनुसारेण कारकार्हाणाञ्चाकारकत्व इत्येवमादेरर्थो वेदितव्यः। अत्रापि सर्वत्र `यस्य च भावेन भावलक्षणम्` [[2.3.37]] इत्येनैव सिद्धा सप्तमी। तथा हि - ऋद्धादिसम्बन्धिना भुजिक्रियादिलक्षणेनात्र भावेन दरिद्रादिसम्बन्ध्यासनादिभावो लक्ष्यते।`चर्मणि द्वीपिनं हन्ति` इत्यत्र द्वीपिननस्य निमित्तं चर्म, तस्य द्वीपिना कर्मणा सह संयोगः। अत्रापि चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धा सप्तमी। ननु च दूरान्तिकार्थानुकर्षणार्थश्चकारःच नार्थस्तदनुकर्षणार्थेन चकारेण, सप्तमीति योगविभगादेव दूरान्तिकार्थेभ्यः सप्तममी भविष्यति। अथ वा - उत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सप्तमी वेदितव्या॥", "23037": "कीदृशी पुनः क्रिया क्रियान्तरं लक्षयतीत्य त आह - `प्रसिद्धा च` इत्यादि। चकारोऽवधारणार्थः, प्रसिद्धैवेत्यर्थः। न हि स्वयमप्रसिद्धं परस्य लक्षणमुपपद्यते। अथ कथं फलायामानेष्वाम्रेषु गतः, पक्तेवष्वागत इत्यत्र सप्तमी, न हीह भावः श्रूयते? यद्यपि न श्रूयते? तथाऽपि गम्यते। फलायमानेषु जातेष्वित्यर्थः॥", "23038": "अनादरः तिरस्कारः, परिभव इत्यर्थः। `रुदतः` इति। `रुदिर् अश्रुविमोचने` (धातुपाठः-1067) शतृप्रत्ययः॥", "23039": "स्वामीआराधिपतीनामेकार्थत्वेऽपि भेदेनोपादानं पर्यायान्तरनिवृत्यर्थम्। इह मा भूत् - ग्रामस्य राजेति। `षष्ठआमेव प्राप्तायाम्` इति। शेषलक्षणायां षष्ठआं प्राप्तायाम्॥", "23040": "आयुक्तता निपुणता च कटादिकरणविषयैवेति सप्तम्यामेव प्राप्तायां पक्षे षष्ठीविधानार्थं वचनम्। `आसेवायामिति किम्? आयुक्तो गौः शकटे` (इति)। ईषद्युक्त इत्यर्थः॥", "23041": "किमर्थं पुनरिदम्? यावता निर्धार्यमाणोऽवयवः समुदायान्तर्भूतः; तत्र यदा समुदायास्याधिकरणत्वं विवक्ष्यते तदा सप्तमी सिद्धैवेति, यथा - वृक्षे शाखेति; यदा त्ववयवावयविसम्बन्धस्तदा षष्ठी, यथा - वृक्षस्य शाखेति? सत्यमेतत्; प्रपञ्चार्थ वचनम्॥", "23042": "`विभागो विभक्तम्` इति। <<नपुंसके भावे क्तः>> [[3.3.114]] । `\tयस्मिन्निर्धारणाश्रये` इति। यतो निर्धारयते स इह निर्धारणाश्रय इति सर्वस्मिन्नेव निर्धारणाश्रये विभागोस्तीति विशेषणोपादानसाथ्र्याद्विभाग एव यत्र स निर्धारणाश्रयो विज्ञायते; तेन कृष्णा गवां सम्पन्नक्षीरतमेत्यत्र न भवति। तथा हि - गोषु निर्धार्यमाण एकदेशो यस्मात् गोत्वेनान्तर्भूतः प्रतीयते तस्मान्नास्ति विभाग इति। यदा तु कृष्णेन गुणेन पथग्भूतः प्रतीयते तदास्ति विभाग इति। नात्र निर्धारणाश्रयो विभाग एव। इह पुनर्माथुराः पाटलिपुत्रकेभ्य आढतरा इति माथुरत्वेन नाप्याढतरत्वेन माथुराणामन्तर्भावः। तस् #आदत्र विभाग एवेत्ययमस्य योगस्य विषयः।अन्ये त्वाहुः - यत्र राशीकृत्य पृथक्करणं स पूर्वस्य योगस्य विषयः; यत्र तु पृथग्भूतस्यैव गुणान्तराविष्करणं सोऽस्य; तत्र द्वयोरप्यवस्थयोर्विभाग एवेति कृत्वा अयमपि योगः प्रपञ्चार्थ एव। विभागो हि सम्नब्धात्प्रच्युतिः। पाटलिपुत्रकाश्च सम्बन्धात् प्रच्यवमानानां माथुराणां सम्बन्धे प्रच्युतेरवधिभावमुपवान्तीत्यपादान इत्येवं पञ्चमी सिद्धा॥", "23043": "`{अप्रत्यादिभिरहित वक्तव्यम्` इति वृत्तौ पाठः।} अप्रत्यादेरिति वक्तव्यम्` इति। के पुनः प्रत्यादयः? येषां <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इत्यादिना कर्मप्रवचनीयसंज्ञा विहिता ते प्रतिपर्यनवः इत्यादयः॥प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति - प्रकृष्टः सितः प्रसितः, क्रियाशब्दोऽप्यस्ति - `षिञ् बन्धने` (धातुपाठः-1477) इत्यस्य प्रपूर्वसय् निष्ठायां व्युत्पाद्यते, तत्रेहोत्सुकशब्देन क्रियाशब्देन साहचर्यात् क्रियाशब्दो विज्ञायत इत्यत आह - `प्रसितः प्रसक्तः` इति। `यस्तत्र नित्यमेवाबद्धः स प्रसितशब्देनोच्यते` इति। आबद्ध इवाबद्धः, यो हि यत्र प्रसक्तः स तत्राबद्ध इव भवति। `केशैः प्रसितः, केशेषु प्रसितः` इत्यादि। प्रसितत्वमुत्सुकत्वञ्च केशविषयमिति `सप्तम्यधिकरणे` [[2.3.36]] इत्येव सिद्धा सप्तमी पक्षे तृतीयाविधानार्थ वचनम्॥", "23044": "", "23045": "नक्षत्रे च लुपीति सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमीविधानम्। अत एवाह - `लबन्तान्नक्षत्रशब्दात्` इत्यादि। `पुष्येण` इत्यादि। <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इति विहितस्याणः <<लुबविशेषे>> [[4.2.4]] इति लुप्। पञ्चालेषु वसतीत्यत्रापि <<तस्य निवासः>> [[4.2.69]] इति विहितस्याणः <<जनपदे लुप्>> [[4.2.81]] इति लुप्।`मघासु ग्रहः` इति। सामीप्येऽधिकरण एव सप्तमी। अत्र <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यस्यार्थस्याविवक्षितत्वादण् न भवति। `अद्य पुष्यः` इति। पूर्ववदण्, लुप्। `अधिकरणे` [[2.3.36]] इत्यनुवर्तते। न चेहाधिकरणत्वं विवक्षितमिति भावः॥", "23046": "`प्रातिपदिकार्थः सत्ता`इति। यदि जातिस्तदा देवदत्तादौ न स्यात्। अथ सतो भावः सत्ता, तदाकाशकुसुमादौ न स्यादित्याह - प्रादिपदिकार्थः सत्तेति। यत्रार्थान्तरनिरपेक्षा शब्दस्य प्रवृत्तिः स सर्वः प्रातिपदिकार्थः। सत्ताग्रहणन्तूपलक्षणार्थम्। उच्चैर्नीचैः` इति। अत्रोच्चैः शब्दस्य स्वार्थे जात्याद्यर्थान्तनिरपेक्षः वृत्तिः। अत्र च प्रथमायाः प्रयोजनम् - <<सपूर्वायाः प्रथमाया विभाषा>> [[8.1.26]] इति विकल्पेन तेमयादिविधिर्यथा स्यात् - ग्राम उच्चैस्ते स्वम्, ग्राम उच्चैस्तव स्वमिति। पदसंज्ञा तु षष्ठआऽपि स्यादेव। `कुमारी, वृक्षः, कुण्डम्` इति। ननु चात्रापि प्रातिपदिकार्थ इत्येवंसिद्धा प्रथमा; लिङ्गमपि प्रातिपदिकार्थ एव भवति। तथा च वक्ष्यत <<स्त्रियाम्>> [[4.1.3]] इत्यत्र `सिद्धास्तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः` (वा।4।13) इति? नैतदस्ति; इदमपि हि तत्र वक्ष्यति - `अथ वा पुनरिदमस्तु। स्त्रियामभिधेयायाम्` (म।भा।4.1.3) इति। किञ्च - स्त्रीतवं प्रत्येषा गतिः स्यात्, पुंनपुंसके तु नियोगतो विभक्तिवाच्ये एव। तथा हि - विना विभक्त्या तटशब्दाः प्रत्युज्यमानः किं पुंस्त्वमाचष्टे? उत नपुंसकत्वम्? इति सन्देहः स्यात्। तत्र यथा राज्ञः पुरुषः इत्यत्र प्रातिपदिकार्थेनानुपात्ते स्वस्वामिकसम्बन्धे तस्य चाभिधाने विभक्त्यपक्षया षष्ठी भवति, तथा पुंनपुंसकयोरपि षष्ठी स्यात्। तस्माल्लिङ्गग्रहणं कर्तव्यम्।`द्रोणः, खारी, आढकम्` इति। ननु चात्रापि प्रातिपदिकार्थत्वादेव सिध्यति प्रथमा, तथा हि - द्रोणादयः शब्दाः परिमाणे लौहे दारुमये वा अर्थान्तरनिपेक्षा एव वर्तन्ते? सत्यम्; सिध्यति तदा यदा परिमाण एव वर्तन्ते, यदा तु पुनः परिमेये वर्तन्ते तदा न सिध्यति। तथा हि - द्रोणादयः शब्दा द्रोणादिकं परिमाणमर्थान्तरं प्रवृत्तिनिमित्तमुपादाय व्रीह्रादौ परिमेयं वर्तन्ते। कथं पुनस्ते तत्र वर्तन्ते? सोऽयमित्यबेदसम्बन्धात्- द्रोणपरिमितो व्रीहिद्र्रोण इति। यद्येवम्, निमित्तरूपेण निमित्तनोऽभिधानादव्यतिरिक्त एव प्रातिपदिकार्थ इति प्रातिपदिकार्थ इत्येव सिद्धा प्रथमा? न सिध्यति, न हि मुख्ये सति गौणस्याश्रयणं युक्तम्। नन्वेवमपि लिङ्गग्रहणादेवात्र प्रथमा भविष्यति, तत्क परिमाणग्रहणेन? नैतदस्ति; तस्य हि यत्र परिमाणं नास्ति सोऽवकाश इति। अत्र परिमाणाधिक्ये षष्ठएव स्यात्। तस्मात् परिमाणग्रहणं कर्तव्यम्।परिमाणग्रहणञ्च यत्र निमित्तादर्थान्तरे सोऽयमित्यभेदसम्बन्धाच्छब्दः प्रवर्तते, तदुपलक्षणार्थ वेदितव्यम्। तेन परिमाणवदर्थान्तरभूतेष्वप्युन्मानादिषु प्रथमा भवति। घृतम्, पलम्, दीर्घ काष्ठम्, शुक्लः पटः, हस्तो मुष्टिर्वितस्तिरित्येवमादि सिद्धं भवति। कुत एतत्? मात्रशब्दात्। स ह्यत्र व्याप्तिवचनो गृह्रते, यथा - कन्यामात्रं वरयति, ब्राआहृणमात्रं भोजयतीति। तेन परिमाणग्रहणस्यैवोपलक्षणार्थता विज्ञायते यदि तु यथा `पयोमात्रं भुङ्क्ते` इत्यत्र मात्रशब्दो नियमार्थः, तथेहापि नियमार्थ एव स्यात्; ततश्चोन्मानादिषु प्रथमा न स्यात्; तस्य परिमाणादन्यत्वात् - उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यादिति।वचनग्रहणे त्वसत्युक्तेष्वेकत्वादिषु प्रथमा न स्यात्। <<अनभिहिते>> [[2.3.1]] इत्यधिकारात्। ननु च परिगणनं तत्र कृतम्, तत् कुतोऽयं प्रसङ्गः? नैतदस्ति; प्रत्याख्यातं हि तत्र परिगणनम्। तथा हि - रूढः कर्म, भीष्मादयोऽपि कर्मणि, तत्र कर्माणि, तत्र कर्मणीत्येव द्वितीया सिद्धा। कटशब्दादुत्पद्यमाना द्वितीयया सामान्यकर्मोक्तम्, न विशेषकर्म। तत्रावश्यं विशेषो वक्तव्य इति भीष्मादिभ्योऽपि विशेषाभिधानार्थ द्वितीया भविष्यति। अथ वा - कट एव कर्म, तत्सामानाधकरण्यात् भीष्मादिभ्योऽपि द्वितीया भविष्यति; नार्थः परिगणनेन। यत्पुनरिदं `तिङकृत्तद्धितसमासैः परिसंख्यानम्` [[2.3.1]] इति वृत्तावुपन्यसत्म्, तदेभिरेवाभिधानं सम्भवतीति सम्भवप्रदर्शनार्थपरं वेदितव्यम्। यद्यप्येकादिभिरपि संख्याशब्दैरेक्तवादीनामभिधानं सम्भवति, तथाऽप्यभिहितेऽपि तैरेत्कत्वादावर्थे वचनग्रहणात् यत्नात् विभक्त्येति। तैरप्यभिधानस्य सम्भवप्रदर्शनार्थ यत्नः कृतः।`निपातरस्यानर्थकस्य` इत्यादि। अथार्थविशेषणार्थ प्रातिपदिकग्रहणं कस्मान्न विज्ञायते? असति हि तस्मिन् न ज्ञायते - कस्यार्थ इति, तथा चार्थमात्रे प्रथमा स्यात्? नैतदस्ति;प्रातिपदिकाद्धि प्रथमा विधीयते। तत्रासति प्रातिपदिकग्रहणे प्रातिपदिकार्थ एव भवतीति विज्ञायते। तस्याद्वृत्तिकारोक्तमेव प्रातिपदिकग्रहणस्य प्रयोजनं न्याय्यम्॥", "23047": "सम्बोधनम् = अभिमुखीकरणम्, `तदधिके प्रातिपदिक्रथा` इति। अभिमुखीकरणस्य क्रियापरत्वात् प्रातिपदिकार्थे तस्यान्तर्भावो नास्ति, त्सयातदात्मकत्वात्, तस्मात तेनाधिकः प्रातिपदिकार्थो भवति। अथ कथमिह प्रथमा-हे-पचनम्, हे पचमानेति? कथञ्च न स्यात्? शतृशानज्भ्यामुक्तत्वात् सम्बोधनस्य। एतावपि `सम्बोधने च` इति सम्बोधन एव वक्ष्यते। मा भूदनेन, पूर्वसूत्रेण भविष्यति? सम्बोधनार्थस्येह <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकार्थत्वात्। योगविभाग उत्तरार्थः॥", "23048": "`तदन्तं शब्दरूपम्` इति। ननु च `संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति` (पु।प।वृ।81) इति ज्ञापितमेतत् <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यत्रान्तग्रहणेन। इह च संज्ञाविधौ प्रत्ययग्रहणम्, तत् कथं तदन्तस्य संज्ञा विधीयते? नैतदस्ति; यद्यपि संज्ञाविधौ प्रत्ययग्रहणमिह, तथाऽपि तदन्तस्यैवेयं संज्ञा विधीयते। यदीह प्रत्ययमात्रस्य संज्ञाग्रहणं स्यात् तदा प्रदेशेषु तस्यैव ग्रहणं स्यात्, तथा च संज्ञाकरणमनर्थकं स्यात्। प्रदेशेषु सम्बोधन इत्येवं ब्राऊयात्। एवमपि प्रत्ययमात्रस्य ग्रहणं लभ्यत एव। तस्यैव सम्बोधने विहितत्वात्। तस्मात् संज्ञाकरणादेव तदन्तस्य संज्ञा लभ्यते। सेति वचनं पूर्वसूत्रेणापि सम्बोधने या विहिता तस्या अपीयं संज्ञा यथा स्यात् - हे पचन्, हे पचमानेत्यत्र। असति त्वस्मिन् `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति पूर्वसूत्रेणैव या विहिता तस्या एव स्यात्; सेत्येतदुच्यमानं सर्वनामपदं सामान्येन प्रवर्तत इति कृत्वा। अतः सम्बोधनमात्रे या प्रथमा तां प्रतिपादयति, तेन सर्वत्र संज्ञा सिद्धा भवति। आमन्त्रितसंज्ञायां सत्यां हे देवदत्त इत्यादौ <<आमन्त्रितस्य च>> [[6.1.198]] इत्याद्युदात्तत्वं भवति। `आमन्त्रितम्` इति महत्याः संज्ञायाः करणं वैचित्र्यार्थम्॥", "23049": "`हे पटो, हे देवदत्त` इति। अत्र सम्बुद्धिसंज्ञायां सत्याम्, <<सम्बुद्धौ च>> [[7.3.106]] इत्यधिकृत्य `ह्रस्वस्य गुणः` [[7.3.108]] इति गुणे <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सोर्लोपो यथायोगं भवति। अथ सुग्रहणमेव कस्मान्न कृतम्, न च सप्तमीबहुवचनस्य प्रसङ्गः, सम्बोधनप्रथमाधिकारात्? सत्यम्; किन्तु नैतदस्ति; प्रत्ययमात्रस्य संज्ञाविधानार्थमेकवचनग्रहणं कृतम् - हे पचनम्, हेपचमानेति; अन्यथा हि पूर्वेण यथा तदन्तस्य संज्ञा विहिता तथेहापि स्यात्। न चेहासंज्ञिनः कश्चिद्विशेषोऽङ्गीक्रियत इति सुशब्देन तदन्तमेव लक्ष्यते, ततश्च तदन्तकस्यैव संज्ञा स्यात्। तथा <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सोर्लोपो विधीयमानः <<आदेः परस्य>> [[1.1.54]] इत्यादेरेव स्यात्; प्रत्ययमात्रस्य न स्यात्। तस्मात् प्रत्ययमात्रस्य संज्ञा यथा स्यादित्येवमर्थमेकवचनग्रहणम्॥", "23050": "कर्मादीनां प्रकृतत्वात् तदपेक्षया शेषत्वं विज्ञायत इत्याह - `कर्मादिभ्यो योऽन्यः` इति। कर्मादयः कारकविशेषास्तस्य सम्बन्धस्य हेतुभूताः, स तु फलभूतः। हेतुफलयोश्च प्रसिद्धमन्यत्वमिति तेभ्योऽन्यो भवति। प्रातिपदिकार्थ{व्यतिरिक्तः-काशिका।पदमञ्जरी च} व्यतिरेकः। व्यतिरेकः = आधिक्यम्। अथ वा - येन प्रातिपदिकार्थो व्यतिरिच्यते = व्यतिरेकीक्रियते स व्यतिरेकः। प्रातिपदिकार्थस्य व्यतिरेकः = प्रातिपदिकार्थव्यतिरेकः। स शेषः। कः पुनरसवित्याह - `स्वस्वामिकसम्बन्धादिः` इति। आदिशब्देनोवयवावयविप्रभृतेः सम्बन्धस्य ग्रहणम्। सम्बन्धश्च यद्यपि द्विष्ठस्तथापि तस्यैकत्वादेकत एव सम्बन्धिन उत्पद्यमानया षष्ठआ विभक्त्याऽभिहितत्वात् द्वितीयासम्बन्धिनःषष्ठी न भवति। एकस्मादुत्पद्यमानाऽपि षष्ठी विशेषणादेव भवति ; न विशेष्यात्। विशेष्यात्तु प्रथमैव भवति; यस्माच्छेषशब्दोऽयंयथा प्रकृतादन्यविशेषणमाचष्टे तथा परार्थमपि। एवं ह्रभियुक्ताः पुरुषा उपदिशन्ति - शेषः परार्थ इति। राज्ञा पुरुष इति स्वस्वामिकसम्बन्दस्योदाहरणम्। अत्र पुरुषस्य प्रादान्यम्, विशेष्यत्वात्। राज्ञोऽप्राधान्यम्, विशेषणत्वात्। विशेषणस्य परार्थत्वात् शेषभाव इति ततः षष्ठी भवति। यदा तु द्वावपि विशेषणभूतौ तृतीये सम्बन्धिन्यपेक्षितौ भवतः, तदा द्वाभ्यामपि षष्ठी भवति `राज्ञः पुरुषस्य गृहम्` इति।`पशोः पादः` इति। अत्रावयवावयिसम्बन्धे षष्ठी। `पितुः पुत्रः` इत्यत्र जन्यजनकसम्बन्धे षष्ठी। अथ शेषग्रहणं किमर्थम्, यावता <<कर्मणि द्वितीया>> [[2.3.2]] इत्येवमादौ प्रत्यनियमोऽर्थनियमश्चेति द्वावपि पक्षौ। तत्र प्रत्ययनियमपक्षे यदि शेषग्रहमं न क्रियेत तदा कर्मण्येव द्वितीयेति कर्मानियतम्, द्वितीया तु नियता; अतस्तत्रापि षष्ठी स्यादिति शेषग्रहणं कर्तव्यम्। शेष एव यथा स्यादन्यत्र माभूदिति अर्थनियमपक्षे तु शेषग्रहमं शक्यमकर्त्तुम्। यावता कर्मणि द्वितीयैवैति कर्म नियतम्, द्वितीया त्वनियता; तस्यामन्यत्रापि प्राप्तायां षष्ठीत्युच्यमानं सूत्रमिदं नियमार्थं भविष्यति - यत्र षष्ठी चान्या च प्राप्नोति तत्र षष्ठएव भवति। एवमन्यत्रापि वेदितव्यम्॥", "23051": "यद्यपि बहवो विदयः सन्ति, तथापि यस्यार्थे जानातर्वृत्तिः सम्भवति तस्यैव विदेः प्रतिषेधकरणं युक्तम्, `विद ज्ञाने` (धातुपाठः-1064) इत्यस्यैवार्थे जानातेर्वृत्तिः सम्भवति, तस्मादविदर्थस्येत्यनेन ज्ञानार्थस्यैव प्रतिषेधो विज्ञायत इत्याह - `अज्ञानार्थस्य` इत्यादि। `सर्पिषो जानीते, मधुनो जानीते` इति। <<अपह्नवे ज्ञः>> [[1.3.44]] इत्यनुवर्तमाने, <<अकर्मकाच्च>> [[1.3.45]] इत्यात्मनेपदम्। धुन इति - `\tइकोऽचि विभक्तौ` (र7.1.73) इति नुम्। सर्पिषा करणभूते प्रवर्तत इत्यर्थः। यस्य प्रियतमं सर्पिस्तस्य प्रवृतिं प्रति सर्पिषः करणभूतत्वात्। धातूनामनेकार्थत्वाज्जानातिरिह प्रवृत्त्यर्थः। `सर्पिषिरक्तः प्रतिहतो वा` इति। सर्पिषि रक्तत्वं प्रतिहतत्वं च चित्तभ्रान्तेः कारणमाह। यदि सर्वमेव ग्राह्रं तदात्मना सर्पिःस्वभावतया प्रतिपद्यते। एवं सत्यविदर्थता नोपपद्यते, ज्ञानार्थत्वादित्यत आह - `मिथ्याज्ञानमज्ञानमेव` इति। ज्ञानकार्याकरणादिति भावः। अविपरीतविषयपरिच्छेदो हि ज्ञानकार्यम्, कतच्च मिथ्याज्ञानेन न क्रियत इति मिथ्याज्ञानमज्ञानमुच्यते, यथा - पुत्रकार्याकरणात् पुत्रोऽपुत्र इति॥", "23052": "`अधीक` इति। `इक् स्मरणे` (धातुपाठः-1047) इत्यस्याधिपूर्वस्य ग्रहणम्। अधीगित्यनेन समानार्था अधीगर्थाः। ककारानुबन्धकरणमस्य धातोरत्रैव सूत्रे विशेषणार्थम्। अध्ययनार्थानामित्युच्यमाने सन्देहः स्यात् - कोऽयं धातुरिति। अधिपूर्वस्योच्चारणेनाधिपूर्वस्यैवास्य प्रयोग इति दर्शयति। `कर्मणि कारके` इत्यादि। यदा तदेव कर्म शेषकार्यत्वाच्छेषत्वेन विवक्ष्यते न कर्मत्वेन, तदा तत्र षष्ठी भवति। `अध्येति` इति। अदादित्वाच्छपो लुक्। एवम् `ईष्टे` इति। व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्।`मातुर्गुणैः स्मरति` इति। अत्र कर्मग्रहणाद्गुणानां करणभूतानां शेषविवक्षायामपि षष्ठी न भवति॥", "23053": "`एथो दकस्योपस्कुरुते` इति। गन्धनादि [[1.3.32]] सूत्रेणात्मनेपदम्, `उपात्प्रतियत्न` [[6.1.134]] इत्यादिना सुट्॥", "23054": "रुजेति केचिद्भिदादिषु पठन्ति। ये न पठन्ति तेऽपि `चिन्तिपूजिकथिकुम्बचर्च्चश्च` [[3.3.105]] इति चकारस्यानुक्तसमुच्चयार्थत्वादस्मादेव निपातनाद्वा रुजाशब्दस्य साधुत्वं वर्णयन्ति। रुजा अर्थो येषां ते रुजार्थाः। `भाववचनानाम्` इति। यदि भावार्थाभिधायिनां रुजार्थानामित्येषोऽर्थो विवक्षितः स्यात्, तदाऽनर्थकमिदं वचनं स्यात्। सर्व एव हि रुजार्था भाववचनाः। तस्मान्नात्र धातुवाच्यो भावो विवक्षितः, किं तर्हि? प्रत्ययवाच्यः, यत्र `भावे` [[3.3.18]] इति घञ् विधीयते। वचनशब्दोऽयं कर्त्तृसाधनः, वक्तीति वचनः, <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्तरि ल्युट्। न च रुजार्थानां यो भावस्तस्य वचनक्रियां प्रति कर्त्तृत्वं सम्भवतीति सामर्थ्यादवचनशब्देन प्रकृत्यर्थं परित्यज्य प्रत्ययार्थो विवक्षित इति प्रतीयते। स पुनः कर्त्तृशक्तिः। भाववचनानामिति बहुव्रीहिः - भावो वचनः कर्ता येषां ते भाववचनाः। भावकर्त्तृका इत्यर्थः। एतत्सर्वं चेतसि कृत्वाऽऽह - `भावकर्त्तृकाणाम्` इति। भावकर्त्तृकाणामित्येवं नोक्तं वैचित्र्यार्थम्। `चौरस्य रुजति` इति। `रुजो भङ्गे` (धातुपाठः-1416), तौदीदिकः। अत्र रोगो भावः कर्ता। `चौरस्यामयति` इत्यत्राप्यामयः। `अम रोगे` (धातुपाठः-1720), चौरादिकः।`एति जीवन्तमनन्दो नरं वर्षशतादपि` इति। अस्त्यत्रानन्दो भावः कर्ता। न त्वेतिर्धातू रुजार्थः, किं तर्हि? गत्यर्थः। `नदी कूलानि रुजति` इति। रुजिरत्र द्रव्यकर्त्तृकः, न भावकर्त्तृकः, नद्या द्रव्यत्वात्। नैतद्युक्तं प्रत्युदाहरणम्, रुजाशब्दो हि रुढिशब्दत्वात् व्याधिमेवाचष्टे; न चात्र व्याधिवचनः, किं तर्हि? भङ्गवचनो रुजिः। एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता वृत्तिकृता। इदन्त्वत्र प्रत्युदाहरणम् - श्लेष्मा पुरुषं रुजतीति। व्याधिना ग्राहयतीत्यर्थः। ज्वरयतीति। `ज्वर रोगे` (धातुपाठः-776), हेतुमण्णिच्। घटादित्वान्मित्त्वम्। `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वः।`सन्तापयति` इति। `तप सन्तापे` (धातुपाठः-985), हेतुमण्णिच्। सन्तापोऽत्र भावः कर्ता॥`सर्पिषो नाथते` इति। सर्पिर्यस्य नास्त्यतोऽर्थित्वादाशास्ते सः - सर्पिर्मे भूयादिति। `आशिषि नाथः` इत्युपसंख्यानादात्मनेपदम्।`माणवकमुपनाथति` इति। याचत इत्यर्थः॥", "23055": "", "23056": "`न दैवादिकस्य` इति। हिंसायामिति वचनात्। अस्य च तत्राप्रवृत्तेः। अत एव हि ण्यन्तस्यैव ग्रहणं भविष्यति, तत्किमर्थो ण्यन्तस्य निर्देश इति? कः पुनराह च्यन्तस्य निर्देश इति? अत्र हीकारोऽयं धातुनिर्देशार्थः कृतः, `इक्श्तिपौ धातुनिर्देशे` (वा।319) इति। यद्येवम्, जासीत्याकारः कथं श्रूयते? उच्यते - आकारमुच्चार्य विकृतनिर्देशः कृतः, विकृतनिर्देशस्तू यत्रास्यैतद्रूपं भवति तत्रैव यथा स्यादिह मा भूत्, - दस्युमजीजसदिति। लुङ, `णिश्रि` [[3.1.48]] इत्यादिना च्लेश्चङ, `णौ चङयुपधाया ह्रस्वः` [[7.4.1]] , `चङि` [[6.1.11]] इति द्विर्वचनम्, `सन्वल्लघुनि` [[7.4.93]] इत्यादिना सन्वद्भावः, `सन्यतः` [[7.4.79]] इतीत्वम्, <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घः। नाटक्राथयोरपि वकृतानिर्देशस्यैतदेव प्रयोजनम्। इह मा भूत - दस्युमनीनटदिति, दस्युमचिक्रथदिति। क्रथेर्वृद्धिश्च प्रयोजनम्, एतच्च `निपातनाद्वृद्धिः` इति ब्राउवता वृत्तिकारेण दर्शितम्। `{निप्रहन्ति`इति वृत्तौ पाठः} निप्रहन्` इति। धातूपसर्गानिर्देशमात्रमिह तन्त्रम्। न तूपसर्गसयोः संघातः, नाष्यानुपूर्वी; तयोरविवक्षितत्वात्। तेन निप्रशब्दयोव्र्यस्तसमस्तयोर्विपरीतानुपूर्वीकयोश्च ग्रहणं विज्ञायत इत्याह - `संघातविगृहीतविपर्यस्तस्य ग्रहणम्` इति। `चौरस्य प्रणिहन्ति` इति। नेर्गदनद` [[8.4.17]] इत्यादिना णत्वम्। `चौरस्योन्नाटयति` इति। `नट अवस्पन्दने` (धातुपाठः- [[7.2.116]] इति वृद्धि सिद्धा; तत्किमर्थमुच्यते - निपातनाद्वृद्धिरिति? अत आह - `अयं हि` इत्यादि। `ह्रस्वस्य स्यात्` इति। `मितां ह्रस्वः` [[6.4.92]] इत्यनेन। `चौरस्य पिनष्टि` इति। `\tपिष्लृ सञ्चूर्णने` (धातुपाठः-1452) रुधादित्वात् श्नम्। `धानाः पिनष्टि` इति। अत्र हिंसा नास्ति; तस्या प्राणिधर्मत्वात्। इदञ्चाभावकर्त्तृकाणामपि यथा स्यादित्येवमर्थमारब्धम् चौरस्योजासयति देवदत्तः॥", "23057": "`शतस्य व्यवहरति` इति। शतं क्रयविक्रयेण विनियुङ्क्ते, दीव्यतीति वेत्यर्थः। `शतस्य पणते` इत्यत्रापि स एवार्थः। अनुदात्तेत्वादात्मनेपदम्,। `आयप्रत्ययः कस्मान्न भवति` इति। `गकपूधूप` [[3.1.28]] इत्यादिना प्राप्नोतीति भावः। `स्तुत्यर्थस्य` इत्यादि। यद्यपि `पण व्यवहारे स्तुतौ च`(धातुपाठः-439) इति स्तुतिव्यवहारयोः पणिः पठते; तथापि स्तुत्यर्थस्यैव पणतेरायप्रत्यय इष्यते, न व्यवहारार्थस्य। तत्र वृत्तिकारः स्वयमेव युकिंत वक्ष्यति। स्तुत्यर्थ्येन पणिना साहचर्यात् तदर्थ एव पणिरायमुत्पादयति,न व्यवहारार्थ इति। `शलाकां व्यवहरति` इति। परिगणयतीत्यर्थः। अत्र व्यवहारार्थे वर्तत इत्यसमानार्थत्वम्। `ब्राआहृणान् पणयति` इति। स्तौतीत्यर्थः। पणयीत्यस्यार्थे व्यवहरतेर्वृत्तिर्नास्तीत्यसमानार्थता।ओ।", "23058": "`ब्राआहृणान् दीव्यति` इति। स्तौतीत्यर्थः। `हलि च` [[8.2.77]] इति दीर्घः। यदि तदर्थस्यैव भविष्यति, पूर्वयोग एव दिवो ग्रहणं कर्त्तुं युक्तं स्यात्। तत्किमर्थो योगविभाग इत्यत आङ - `योगविभाग उत्तरार्थः` इति॥", "23059": "`शलाकां प्रति दीव्यति` इति। अर्थान्तरे क्रीडादौ दीव्यतिर्वर्तते॥बाल-मनोरमाविभाषोपसर्गे 612, 2.3.59 विभाषोपसर्गे। उपसर्गे सति व्यवह्मपणार्थस्य दिवः कर्मणि षष्ठी वा स्यादित्यर्थः। बाल-मनोरमाप्रेष्यब्राउवोर्हविषो देवतासंप्रदाने 613, 2.3.59 प्रेष्यब्राउवोः। देवतासप्रदानके इति। देवता संप्रदानं यस्य तस्मिन्नित्यर्थः। प्रेष्यब्राउवोरिति। `ईष गतौ` दिवादिः श्यन्नन्तः, उपसर्गवशात्प्रेरणे वर्तते। प्रेष्यश्च ब्राऊश्चा तयोरिति विग्रहः। कर्मण इति। `अधीगर्थे`त्यतः कर्मणीत्यनुवृत्तं षष्ठआ विपरिणम्यत इति भावः। हविष इति। हविश्शब्दो न स्वरूपपरः किंतु हविर्विंशेषवाचकशब्दपरः , व्याख्यानात्। तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विंशेषवाचकशब्दपरः, व्याख्यानात्। तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विशेषवाचकशब्दपरः, व्याख्यानात्। तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विशेषस्तद्वाचकाच्छब्दात्षष्ठीति फलितम्। अत्रापि शेष इति नानुवर्तते, व्याख्यानात्। तथाच द्वितीयापवादोऽयम्। अग्नये छागस्येति। मैत्रावरुणं प्रति अध्वर्युकर्तृकोऽयं सम्प्रैषः। हे मैत्रावरुण। अग्न्युद्देशेन प्रदास्यमान छागसम्बन्धि यद्धविः वपाख्यं मेदोरूपं तत्प्रेष्य। `होता यक्षदग्न छागस्य वपाया`मेदसो जुषतां हविर्होतर्यजे`ति प्रैषेण प्रकाशयेत्यर्थः। अत्र यद्यपि `अग्नये छागस्य वपाया मेदसः प्रेष्ये`त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणात्क्वचिच्छाखायां ज्ञेयः। मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते। अनुब्राऊहि वेति। `अग्नये छागस्य हविषो वपाया मेदसः प्रेष्ये`त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणत्क्वचिच्छाखायां ज्ञेयः। मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते। अनुब्राऊहि वेति। `अग्नये छागस्य हविषो वपाया मेदसः प्रेष्ये`त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणात्क्वचिच्छाखायां ज्ञेयः। मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते। अनुब्राऊहि वेति। `अग्नये छागस्य हविषो वपाया मेदसोऽनुब्राऊही`त्युदाहरम्। हे मैत्रावरुण ! अगन्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः-वपाख्यं मेदोरूपं - तत्पुरोऽनुवाक्यया प्रकाशयेत्यर्थः। प्रेष्यब्राउवोः किम्?। अग्नये छागस्य हविर्वपां मेदो जुहुधि। हविषः किम्?। अग्नये गोमयानि प्रेष्य। देवतासंप्रदाने किम्?। माणवकाय पुरोडाशं प्रेष्य। `हविषः प्रस्थितत्वविशेषणे प्रतिषेधो वक्तव्यः`। इन्द्राग्निभ्या#ं छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य। प्रस्थितमिति। अव्यक्तमित्यर्थः।", "23060": "`ब्राआहृणे; इति। ब्राआहृणशब्दः शथपथस्याख्या। `ग्रामस्य` इति। शेषषष्ठी। सभायामित्येतदपेक्षया। `तदहः` इति। एतदुहारणम्। `स्वमोर्नपुंसकात्` [[7.1.23]] इत्यमो लुक्। `अहन्` [[8.2.68]] इत्यनुवर्तमाने <<रोऽसुपि>> [[8.2.69]] इति नकारस्य रेफः, विसर्जनीयः। `दीव्येयुः` इति। लिङ, झेर्जुस्, <<अतो येयः>> [[7.2.80]] इतीयादेशः, `लिङ सलोपोऽनन्त्तयस्य` [[7.2.79]] इति सलोपः। सोपसर्गस्य विभाषया षष्ठआं प्राप्तायां नित्यं द्वितीयाविधानार्थं वचनं कस्मान्न भवतीत्याह - `सोपसर्गस्य` इति। <<विभाषोपसर्गे>> [[2.3.59]] इत्यनेन व्यवस्थितविभाषयापि च्छन्दसि नित्यं द्वितीया भविष्यतीति तदर्थकमिदं वचनं नोपपद्यते॥", "23061": "`इष्यतेर्दैवादिकस्य` इति। `इष गतौ` (धातुपाठः- 1127) इत्यस्य श्यना निर्देश इष्यन्तराणां निवृत्त्यर्थः। लोण्मध्यमपुरुषैकवचनेन निर्देशस्तु लकारान्तरस्य पुरुषान्तरस्य वचनान्तरस्य च निवृत्त्यर्थः। `तद्विषय एव` इति। लोण्मध्यमपुरुषैकवचनविषय एव। `अग्नये छागस्य` इत्यादि। छागस्य विकारश्चछागः। तत्राग्निर्देवता सम्प्रदानम्। कछागविकारो वपादि सम्प्रदेयं हविः कर्म। `{नास्ति-काशिका, पदमञ्जरी च} ननु प्रेष्य` इति। <<अतो हेः>> [[6.4.105]] इति हर्लुक्। ` अनुब्राऊहि` इति। `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः। अदादित्वाच्छपो लुक्। भाषाविषयेऽप्ययं योगः; उत्तरसूत्रे छन्दोग्रहणात्। `जुहुधि` इति। <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति धिभावः। `अग्नये गोमयानि प्रेष्य` इति। ननु च गोमयानि हर्वीषि भवन्त्येव, तत्कथं प्रत्युदाहरणम्? नैवम्; देवतासम्प्रदानग्रहणादेव सम्बन्धिशब्दात्वाद्धविग्र्रहणे सिद्धे पुनर्हविग्र्रहणादभ्यवहार्यस्य हविषो ग्रहणं विज्ञायते। न च गोमयान्यभ्यवहार्याणि भवन्तीति युक्तं प्रत्युदाहरणम्।`हविषः प्रस्थितस्य` इत्यादि। प्रस्थितशब्देन यद्विशिष्यते हविस्तत् प्रस्थितम्। तस्य षष्ठ्याः प्रतिषेधो वक्तव्यः। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - <<विभाषोपसर्गे>> [[2.3.59]] इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन हविषः प्रस्थितस्य न भवति॥", "23062": "`बहुलग्रहणं किम्` इति। विभाषाग्रहणानुवृत्तेरेव सिध्यतीति मन्यमानस्य प्रश्नः। `कृष्णो रात्र्यै, हिमवतो हस्ती` इति। अत्र बहुलग्रहणात् सप्तम्यर्थेऽपि चतुर्थी भवति। `वक्तव्या` इति। व्याख्यातव्येत्यर्थः। तत्रेदं प्रतिपादनम् - बहुलग्रहणमिह क्रियते। तेन क्वचित् षष्ठर्थेऽपि चतुर्थी भवति। क्वचिदन्यदेवेत्येषोऽपि बहुलगर्हणस्यार्थोऽभिमत एव॥", "23063": "`धृतस्य यजते` इति। यजिरत्र देवपूजायां वर्तते, तत्र च घृतस्य करणभावः॥", "23064": "`पञ्चकृत्वः` इति। <<संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्>> [[5.4.17]] `\tद्विरह्नः` इति। `द्व्त्रिचतुर्थ्यः सुच्` [[5.4.18]] ।`गम्यते हि द्विस्त्रिश्चतुर्वा` इति। प्रकरणादेरिति भावः। ननु च बहिरङ्गः प्रकरणाद्यर्थ इति पञ्चकृत्व इत्यमत्र च वचनस्य चरितार्थत्वादिह न भविष्यति? एवं तह्र्रेतज्ज्ञापयति - प्रकरणाद्यर्थोऽपि विभक्तीनां निमित्तमिति। तेन `वृद्धो यूना` [[1.2.65]] इति <<सहयुक्तेऽप्रधाने>> [[2.3.19]] इति सहार्थे गम्यमाने तृतीया भवतीति॥", "23065": "`आसिका` इति। भावे `पर्यायार्हणोत्पत्तिषु ण्वुच्` [[3.3.111]] । `रुआष्टा`इति। सृजेस्तृच्`। <<सृजिदृशोर्झल्यमकिति>> [[6.1.58]] इत्यम्, `व्रश्चादिना [[8.2.36]] षत्वम्।`तद्धितप्रयोगे मा भूत्` इति। अथ तिङप्रयोगे मा भूदित्येवमर्थमपि कृद्ग्रहणं कस्मान्न भवति? तत्र `न लोकाव्ययनिष्ठा` [[2.3.69]] इत्यनेन षष्ठीप्रतिषेधात्। ` कृतपूर्वी कटम्` इति। <<पूर्वादिनिः>> [[5.2.86]] इत्यत्र इनिरित्यनुवर्तमाने <<सपूर्वाच्च>> [[5.2.87]] इतीनिप्रत्ययः। अत्र कर्ता तद्धितेनैवोक्त इत्यत्र वाक्यमेवैतन्नोपप्रसङ्गो नास्ति, कर्म तु तेनानभिहितमित्यसति कृद्ग्रहणे कटादेः कर्मणः षष्ठी स्यात्। ननु चात्र वाक्यमेवैतन्नोपपद्यते, तथा हि - कर्मणो निष्ठयाऽभिहितत्वात् द्वितीययाऽत्र न भवितव्यम्, नापि तद्धितेन, असमाथ्र्यात्। तत्पुनरसामर्थ्य सापेक्षत्वात्। तथा हि - कृतः कटः पूर्वमनेनेति कृतशब्दः कटमपेक्षते, नैवम्; धातोरुत्पद्यमाना निष्ठा कथं कटशब्दस्य कर्मतामभिदध्यात्। तस्या हि कर्मसामान्यमेवाभिधातुं सामर्थ्यम्, न कर्मविशेषम्। वाक्ये तर्हि कथं तया कटशब्दस्य कर्मत्वमभिधीयते? तत्र युक्तमभिधानम्; कृत इत्यनेन सामानाधिकरण्यात्। तद्धिते तूत्पन्न एकार्थीभावात्सामानाधिकरण्यं निवृत्तमिति केन कटादेः कर्मभावोऽभिधीयते? क्रिया तु प्रकृत्यर्थत्वाद्यथा वाक्ये गुणीभूता साधनसम्बन्धमनुभवति, तथा वृत्तावपीति करोत्यर्थापेक्षं कटशब्दस्य कर्मत्वमुपपद्यते। तस्माद्धवितव्यमेव द्वितीयया।किञ्च वृत्तिसमानार्थेन वाक्यन भवितव्यम्। न च वृत्तौ बाह्रं कटादिकं कर्म गम्यते येन प्रत्यय उत्पादयिष्यते। वाक्ये कटादिकर्मापेक्षा निष्प्रयोजनेति गम्यते। तस्मादेवं विग्रहः कर्तव्यः - कृतं पूर्वमनेनेति। ततश्च नास्ति सापेक्षत्वमिति भवत्येव तद्धितः।`इतरथा हि` इति। यदि शेषगर्हणमनुवर्तत इत्यर्थः। `कर्तरि च कृतीत्येवं ब्राऊयात्` इति। एवमपि ह्रुच्यमाने शेष इत्यनुवृत्तौ चकारकरणात् कर्मणीत्येतल्लभ्यत एव, किं कर्मग्रहणेन? तस्मात् पुनः कर्मग्रहणं शेषाधिकरानिवृत्त्यर्थम्। पुनः कर्मग्रहणेन हि पूर्वस्य कर्मग्रहणस्य निवृत्तिराख्यायते। तन्निवृत्तौ तत्सम्बद्धमनुवृत्तमपि शेषग्रहणं निवर्तते॥", "23066": "`उभयप्राप्ताविति बहुव्रीहिः` इति। तेन तत्पुरुषशङ्कां निरस्यति। बहुव्रीहेराश्रयणस्य प्रयोजनं वक्ष्यति। उभयग्रहणमेन प्रकृतत्वात् कर्त्तृकर्मणी सम्बध्येते। `उभयोः प्राप्तिर्यस्मिन् कृति`इत्यनेनैकस्मिन्नेवेत्यभिप्रायः। `कर्मण्येव` इति नियमस्य स्वरूपं दर्शयति। उभयप्राप्तावेव कर्मणीत्येष तु विपरीतनियमो न भवति। मा भूत् पूर्वसूत्रेण कर्मणि षष्ठीविधानस्य वैयथ्र्यमिति। `आश्चर्यो गवां दोहोऽगोपालकेन` इति। दुहेर्भावे घञ्। तत्रोभयोप्राप्तौ कर्मण्येव गोषु षष्ठी भवति; नाऽगोपालके कर्तरि। अत्र च `कृत्वोऽर्थप्रयोगे` [[2.3.64]] इत्यतः प्रयोगग्रहणं नानुवर्तते। तेन गम्यमानेऽपि कर्मणि षष्ठी भवति, यथा - `अन्तर्धौ येनादर्शनमिच्छति` [[1.4.28]] इत्यत्र ह्रप्रयुज्यमानस्यात्मनः कर्मत्वं गम्यते। `पानम्` इति। <<ल्युट् च>> [[3.3.115]] इति भावे ल्युट्। इह तु न भवति - आश्चर्यमिदमोदनस्य च पाको ब्राआहृणानाञ्च पादुर्भाव इति। न ह्यत्रैकस्मिन् कृत्युभयोः प्राप्तिः। तथा ह्रोदनस्य पाक इत्यत्र कर्मण्येवौदने प्राप्तिः, न तु ब्राआहृणेषु कर्त्तुषु। न हि पाकस्य कर्त्तृत्वेन विवक्षिता ब्राआहृणाः, किं तर्हि? प्रादुर्भावस्य कर्त्तृत्वेन। ब्राआहृणानां नच प्रादुर्भाव इत्यत्रापि प्रादुर्भाव इत्येतस्मिन् कृति कर्त्तृष्वेव ब्राआहृणेषु प्राप्तिः, न कर्मण्योदने। न हि प्रादुर्भावस्योदनः कर्म; भवतेरकर्मकत्वात्। पाकस्यैव त्वोदनः कर्मत्वेन विवक्षितः।`अकाकारयोः`इत्यादि। नियमस्यायं प्रतिषेधः। अकाकारयोः प्रयोगे नियमो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `चतुथ्र्यर्थे बहुलं छन्दसि` [[2.3.62]] इत्यतो बहुलग्रहणमनुवर्तते, तेनाकाकारयोः प्रयोगे नियमो न भविष्यतीति।`शेषे विभाषा` इति। अस्याप्यर्थो बहुलग्रहणसमाश्रयणेन व्याख्यातव्यः। `भेदिका` इति। पूर्ववद्भावे ण्वुच्। `चिकीर्षा` इति। `अ प्रत्ययात्` [[3.3.102]] इत्यकारप्रत्ययः॥", "23067": "`राज्ञां मतः` इति। `मतिबुद्धि` [[3.2.188]] इत्यादिना क्तः। राज्ञामिति कर्तरि षष्ठी। कर्म तु निष्ठयाभिहितम्। अथेह कस्मान्न भवति - शीलितो देवदत्तेन, रक्षितो देवदत्तेनेत्यादि, शीलितादिष्वपि <<मतिबुद्धिपूजार्थेभ्यश्च>> [[3.2.188]] इति चकारस्यानुक्तसमुच्चयार्थत्वनाद्वर्तमान एव क्तो विधीयते? यद्यप्येवम्, तथापि बहुलग्रहणानुवृत्तेरिह न भविष्यतीत्यदोषः। अथ वा - प्रकरणादेवात्र वर्तमानकालता गम्यते। पदार्थस्तु भूतत्वमेव प्रतिपादयति, न वर्तमानताम्। यस्य तु पदार्थो वर्तमानस्तत्प्रयोगे भवत्येव षष्ठी, यथा - `कान्तो हरिश्चन्द्र इव प्रजानाम्` इति।`शेषविज्ञानात् सिद्धम्` इति। उपसंख्यानं प्त्याचष्टे - `तथा च` इत्यादिना। यस्तूपसंख्यानमारभते, तस्य कर्त्तृत्वाविवक्षायामपि षष्ठएव भवति, न तृतीयेति दर्शयति॥", "23068": "`तस्य प्रयोगे षष्ठी विभक्तिर्भवति` इति। यथासम्भवं यत्र कर्त्तैव संभवति तत्र कर्तरि भवति; यथा - इदमेषामासितमिति। अत्रासेरकर्मकत्वात् कर्तैव सम्भवति, न कर्म। यत्र तु कर्म कर्तापि सम्भवति तत्रोभयत्रापि, यथा - इदमेषां भुक्तमोदनस्येति। भुजेः सकर्मकत्वात् कर्माप्यस्त्येवौदनः। <<उभयप्राप्तौ कर्मणि>> [[2.3.66]] इति नियमः कस्मान्न भवति? `कर्त्तृकर्मणो कृतिः` [[2.3.65]] इत्यस्याः षष्ठ्याः प्राप्तेरेव नियमो विज्ञायते। `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।10) इति वा। अधिकरणे चेति वक्तव्ये वाचिग्रहणमिधकरणक्तोपलक्षणं मा विज्ञायीत्येवमर्थम्। उपलक्षणार्थत्वे हि तस्यार्थान्तरवृत्तेरपि ध्रौव्यगतिप्रत्यवसानार्थेभ्य उत्पन्नस्य क्तस्य प्रयोगे षष्ठी स्यात्। वाचिग्रहणे तु यदा भावे क्तप्रत्ययो भवति तदा षष्ठी न भवति। तदा कर्तरि तृतीयैव भवति - हहानेनासितमिति। न ह्यत्राधिकरणवाची क्तः; `{क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेऽभ्यः` इति सूत्रम्।} क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानाथभ्यश्च` [[3.4.76]] इति चकारात् यथाप्राप्तञ्चेति भावे कर्त्तरि च विधानात्। यदा तु कर्तरि क्तो भवति तदा तेनैवाभिहतत्वात् तत्र षष्ठी न भवति। इहेम आसिता इति चकारः पूर्वापेक्षया समुच्चयार्थः॥", "23069": "`किकिनौ च गृह्रेते` इति। यद्यपि किकिनोरलादेशत्वात् स्थानिवद्भावेन लग्रहणेन तयोग्र्रहणं नास्ति, तथापि `लिट् च` [[3.2.171]] इत्यतिदेशेन भवितव्यम्। विशेषातिदेशे हि नान्तरीयकः सामान्यातिदेश इति; विशेषस्य सामान्येनाविनाभावादिति। तेन सामान्यनिबन्धनः प्रतिषेधः किकिनोरपि सिध्यतीति युक्तं तयोरपि ग्रहणम्। `पचमानः` इति शानच्। स्वरितेत्त्वादात्मनेपदम्। `पेचानः` इति। <<लिटः कानज्वा>> [[3.2.106]] इति वचनात्, कानच्। द्विर्वचनम्। `अत एक` [[6.4.120]] इत्यादिनैत्वाभ्यासलोपौ। `पेचिवान्` इति। `क्वुश्च` [[3.2.107]] इति क्वसुः। एत्वाभ्यासलोपयोः कृतयोः `वस्वेकाजाद्धसाम्` [[7.2.67]] इतीट्। `उगिदचाम्` [[7.1.70]] इति नुम्। `सान्तमहसः` [[6.4.10]] इत्यादिना दीर्घः। `ददिः। पपिः` इति। <<आदृगमहनजनः किकिनौ लिट् च>> [[3.2.171]] इति किकिनोरन्यतरः। लिट् चेत्यतिदेशाद्द्विवनम्। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। `चिकीर्षुः` इति। `सनासंसभिक्ष उः` [[3.2.168]] । `अलङ्करिष्णुः`इति। `अलंकृञ्` [[3.2.136]] इत्यादिनेष्णुच्। `{आगामुकम्- काशिका, पदमञ्जरी च।} आगामुकः` इति। `लषपतपद` [[3.2.154]] इत्यादिनोकञ्।`उकप्रतिषेधे` इत्यादि। प्रतिपाद्यत इति शेषः। प्रतिपादनन्तु बहुलग्रहणानुवृत्तिमाश्रित्य कर्तव्यम्। `कृत्वा` इति। `समानकर्त्तृकयोः` [[3.4.21]] इति क्त्वा।`अव्ययप्रतिषेधे` इत्यादि। अत्रापि पूर्ववद्वाक्यशेषो वेदितव्यः। प्रतिपादनञ्च पूर्ववदेव। अथ वा - <<अव्ययीभावश्च>> [[2.4.18]] इत्यत्र `सर्वमिदं काण्डं स्वरादिषु पठते` (1.1.42 काशिका) इत्यादिना वृत्तिकारेण प्रतिपादनं कृतम्। `संज्ञापूर्वको विधिरनित्यः` (व्या।प।64) इति वा। `उदेतोः` इति। उत्पूर्वादिणो `भावलक्षणे स्थेण्कृञ्वदिचरि` [[3.4.16]] इत्यादिना तोसुन्। `विसृपः` इति। <<सृपितृदोः कसुन्>> [[3.4.17]] । `\tईषत्करः` इति। `ईषद्` [[3.3.126]] इत्यादिना खल्। `ईषत्पानः` इति। <<आतो युच्>> [[3.3.128]] । `आतृनो नकारात्` इति। ताच्छीलिकस्य तृनः सम्बन्धिनो नकारादित्यर्थः। `\tपवमानः` इति। `पूङ पवने` (धातुपाठः-966), `पूङयजोः शानन्` [[3.2.128]] । `नडमघ्नानः` इति। `ताच्छील्यवयोवचनशक्तिषु चानश् [[3.2.129]] । `गमहन` [[6.4.98]] इत्यादिनोपधालोपः। `हो हन्तेः` [[7.3.54]] इत्यादिना कुत्वम्। `अधीयन्` इति। `इङ धार्योः शत्रकृच्छ्रिणि` [[3.2.130]] इति शत्रादेशः। इयङादेशः। उपसर्गेण सह दीर्घः। `कर्ता` इति। `आ क्वेस्तच्छील` [[3.2.134]] इत्यादिना तृन्।`द्विषः शतुर्वावचनम्` इति। द्विषः परो यः शतृप्रत्ययस्य प्रयोगे वावचनं कर्तव्यम्; अभिधानाभिधेययोरभेदोपचारात्। वेत्यनेन वार्थ उक्तः। वार्थोऽपि विकल्पः। विकल्प उच्यते = प्रत्याय्यते येन तद्वावचनम्। तस्य व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानं - बहुलग्रहणमिहानुवर्तते, तेन द्विषः शतुर्विकल्पेन प्रतिषेधो भविष्यति। `द्विषन्` इति। <<द्विषोऽमित्रे>> [[3.2.131]] इति शतृप्रत्ययः॥", "23070": "`अकस्य भविष्यति काले` इति। नाधमण्र्ये, तस्य तत्रासम्भवात्। `इनस्तु भविष्यदाधमण्र्ययोः` इति। तस्योभयोरपि सम्भवात्। ननु च साम्यादिह संख्यातानुदेशेन भवितव्यम्? नैतदस्ति; स्वरितेन हि संख्यातानुदेशो भवति, न चेह तदर्थं स्वरितत्वं प्रतिज्ञायते। `कटं कारको व्रजति` इति। `तुमुन्ण्वुलौ` [[3.3.10]] इत्यादिना ण्वुल्। `ग्रामं गमी` इति। गमेरिनिः। स च <<भविष्यति गम्यादयः>> [[3.3.3]] इति वचनाद्भविष्यत्कालविषयः। `शतं दायी` इति। `आवश्यकाधमण्र्ययोर्णिनिः` [[3.3.170]] । `यवानां लावकः` इति। `ण्वुलतृचौ` [[3.1.133]] इति ण्वुल्। `अवश्यं कारी` इति। आवश्यके णिनिः। `वर्षशतस्य पूरकः` इति। `पूरी आप्यायने` (धातुपाठः-1151) चौरादिकः। तस्मात् `ण्वुल्तृचजौ` [[3.1.133]] इति भविष्यत्काले ण्वुल्। स हि त्रिषु कालेषु भवति। `भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्` इति। इह हि भविष्यदिति स्वर्यते। स्वरितेनाधिकारावगतिर्भवति। तेन भविष्यदधिकारविहितस्येदमकस्य ग्रहणम्, न सर्वस्य॥", "23071": "`गेयो माणवकः साम्नाम्िति। `भव्यगेय` [[3.4.68]] इत्यादिना कर्तरि गेयशब्दो व्युत्पादितः। गायतीति गेयः साम्नामिति कर्मणि षष्ठी नित्यमेव भवति। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - `न लोकाव्ययनिष्ठा` [[2.3.69]] इत्यत्र नेति योगविभागः कर्तव्यः, तेनोभयप्राप्तौ कृत्ये षष्ठआप्रतिषेधो भविष्यति। तेन क्रष्टव्या शाखा ग्रामं देवदत्तेनेति। कृषेः <<अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्>> [[6.1.59]] इत्यमागमो भवति। देवदत्ते कर्तरि षष्ठी मा भूदिति। एवमुभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्य इत्युक्तम्। कर्मणि तु शाखायां कृत्येनाभिहित्वादेव षष्ठी न भविष्यति। ग्राम्यस्याप्रधानत्वादेव यथैव हि कृत्याः प्रधाने कर्मणि भवन्ति नाप्रधाने तथा षष्ठपि। न चेह ग्रामः प्रधानं कर्म, किं तर्हि? शाखेति॥", "23072": "तुल्यार्थैः सदृशार्थैरित्यर्थः। अर्थग्रहणं पदान्तरनिरपेक्षया ये तुल्यार्थतामाहुस्तत्परिग्रहार्थम्। तेन पदान्तरसान्निध्येन द्योतका इवादयो निवर्तिता भवन्ति - गौरिव गवय इति, यथा गौस्तथा गवय इति। स्वरूपनिवृत्त्यर्थत्वर्थग्रहणं न भवति; बहुवचननिर्देशादेव स्वरूपविधेर्निरस्तत्वात्। इहापि पितुस्तुल्यः प्रज्ञयेति प्रज्ञाशब्दात् षष्ठी न भवति हेतुत्वन करणत्वेन वा प्रज्ञाया विवक्षितत्वात् `इतरथा हि तृकतीयानुकृष्येत` इति। तस्या अनन्तरसूत्रे श्रुतत्वात्। अन्यतरस्यांग्रहणस्य त्वेतदेव प्रयोजनमिति। तदेव चकारेणानुकृष्यत इति॥`तृतीयानिर्देशादेवार्थग्रहणे सिद्धेऽर्थग्रहणादर्थशब्दः पृथगेव निमित्तं विज्ञायते। कथं पुनस्तृतीयाग्रहणादर्थग्रहणं सिध्यति? अपरिसमाप्तत्वादस्य योग इत्यध्याह्यियते। स चार्थैरेव सम्भवति, न शब्दैरिति सामर्थ्यादर्थग्रहणं सिध्यति॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेदन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्यतृतीयः पादः", "23073": "", "24001": "अत्र यदि पारिभाषिकमेकवचनं गृह्रेत तदानुप्रयोग एकवचनं न स्यात् - पञ्चपूलीयं शोभनेति, अनुप्रयोगस्याद्विगुत्वात्। यदि पारिभाषिकमेकवचनमिहाभिप्रेतं स्यात् तदा द्विगोरेकवचनमित्येवं ब्राऊयात्, तस्मादन्वर्थस्यैकवचनस्येदं ग्रहणं न पारिभाषिकस्येति मनसि कृत्वाह - `एकस्य वचनमेकवचनम्` इति। एतेनैकवचनशब्दस्य षष्ठीसमासतां दर्शयन्नन्वर्थतां दर्शयति। एकस्य वचनं वाचकमेकवचनमिति। वक्तीति वचनम्, <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्तरि ल्युट्। एकवचनस्यैवार्थं पर्यायान्तरेण स्पष्टीकर्तुमाह - `एकार्थस्य` इत्यादि। ननु चैकवचनमिति पुंल्लिङ्गेन भवितव्यम्; कथम्? द्विगोः पुंल्लिङ्गत्वात्; न; लिङ्गसामान्यस्य विवक्षितत्वान्नपुंसकलिङ्गेनैव सामान्येन निर्देशः कृत इत्यदोषः। `तदनेन प्रकारेण` इति। अन्वर्थस्यैकवचनशब्दग्रहणात्मकेनेत्यर्थः। नचानेकार्थाभिधायिनः शब्दस्य वचनशतैरप्येकार्मथाभिधायित्वं शक्यते कर्त्तुम्; शब्दानामर्थाभिधायित्वस्य स्वाभाविकत्वात्; उच्यते चेदं वचनम्, ततः सामर्थ्यादतिदेशोऽयं विज्ञायत इत्यत आह - `द्विग्वर्थस्यैकवद्भावो विधीयते` इति। अस्यैवार्थं स्पष्टीकर्तमाह - `द्विग्वर्थ एकवद्भवति` इति। यद्येवम्, तद्धितार्थो यो द्विगुस्तस्याप्यकवद्भावः प्राप्नोति - पञ्चसु कपालेषु संस्कृतौ संस्कृता वा पञ्चकपालौ पञ्चकपाला वेत्यत आह - `समाहारद्विगोश्च` इत्यादि। चकारोऽवधारणे। समाहारद्विगोरेवेति यावत्। कथं पुनः समाहारद्विगोरेव ग्रहणं लभ्यते? एवं मन्यते - `द्वन्द्वश्च` [[2.4.2]] इत्यत्र चकारेण द्विगुरनुकृष्यते। यस्मिन्नर्थे द्वन्द्व एकार्थीभवति तस्मिन्नेवार्थे द्विगोरप्येकवद्भावो यथा स्यादिति। द्वन्द्वश्च समाहार एवैकार्थीभवति, नान्यत्र। तस्मात् द्विगोरप्येकवद्भावस्तत्रैव भवति; अतः समाहारद्विगोरेवेदं ग्रहणं युक्तं भवति। यदि तर्हि समाहारद्विगोरेवेदं ग्रहणं तदा निष्प्रयोजनोऽतिदेशः, तथा हि - समाहारो द्विगोरर्थः, समाहारश्च भावसाधनः, समाहरणं समाहारः = समुदायः, स चैक एव। तत्र न्यायप्राप्तमेवैकवचनमिति निष्फलः सूत्रारम्भः? नैतदस्ति; यतः `समुदायिभ्योऽनन्यः समुदायः` इत्यस्मिन् दर्शनेऽनेकद्रव्यात्मकत्वात् समुदायस्यैकवचनं न सिद्ध्यतीतीदमारब्धम्। तथा चोक्तं भाष्ये - `प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचने विधानम्` इति। प्रत्यधिकरणम् = प्रतिद्रव्यम्। वचनस्योत्पत्तौ प्रत्यभिधेयद्रव्यसमवायिनी संख्याविभक्तिः प्रयोजिकोत्पद्यते। द्विगोश्च योऽर्थः सोऽनेकद्रव्यात्मकः। तथा हि - पञ्च समाह्मताः। समाह्यियमाणानां पूलानां पञ्चसंख्यावच्छिन्नत्वात् संख्यासामानाधिकरण्याच्च पञ्चैतानि द्रव्याणीति कृत्वा समुदायस्यैकवचनं न सिद्ध्यति। तत्रासत्यस्मिन् वचने बहुत्वात् बहुवचनं स्यात्। अत एवद्भावो विधीयत इति वाक्यार्थः।`समुदायिभ्योऽन्यः समुदायः` इत्यस्मिन् दर्शने सूत्रमिदं प्रत्याख्यातव्यमेव। तथा चोक्तं भाष्ये - `न वा समाहारैकत्वात्` इति। न वा योगारम्भेणैवार्थः। यस्मादेकोऽयमर्थः समाहारो नाम। तत्रैकत्वादेकवचनं भविष्यतीति वाक्यार्थः। `पञ्चपूली` इति। `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते` (वा।156) इति स्त्रीत्वे सति द्विगोः` [[4.1.21]] इति ङीप्। `अर्थस्यैकत्वात्` इत्यादिनाऽर्थातिदेशस्य फलं दर्शयति॥", "24002": "अत्राङ्गशब्दः समुदाये परिसमाप्यते? प्रत्येकं परिसमाप्यते वा? तत्र यदि समुदाये परिसमाप्येत तदैकमेवेदं वाक्यं स्यात्, तथा च व्यतिकरः प्रसज्येत। प्राणितूर्यसेनाङ्गानां परस्परसहितानां यो द्वन्द्वो व्यतिकीर्णावयवस्तस्यैकवद्भावः स्यात्। प्रत्येकं परिसमाप्तौ त्वेष दोषो न भवति। तत्र हि प्राण्यङ्गानां द्वन्द्व एकवद्भवतीत्येवमादीनि त्रीणि वाक्यानि सम्पद्यन्ते। स्वविषये यत्र बहुवचनान्तं वाक्यं क्रियते तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गैरेव यः समासस्तस्यैकवद्भावो विधीयते। द्वितीयेन वाक्येन तूर्याङ्गानां तूर्याङ्गैः। तृतीयेन सेनाङ्गानां सेनाङ्गैरिति न भवति सङ्करप्रसङ्गः। न हि चतुर्थ वाक्यमस्ति येन व्यतिकीर्णावयवस्य द्वन्द्वस्यैकार्थता स्यादिति मन्यमानः प्रत्येकं वाक्यपरिसमाप्तिपक्षमाश्रित्याह - `अङ्गशब्दस्य` इत्यादि। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्येपेक्षते। एवं सेनाङागनाञ्चेत्यत्रापि। `पाणिपादम्` इति। अत्र यदि प्राण्यङ्गमपि प्राणिग्रहणेन गृह्रते तदा `जातिरप्राणिनाम्` [[2.4.6]] इत्येवं सिद्धम्। यथा - पणवमृदङ्गमिति। `रथिकाआआरोहम्` इति। रथिकाश्चाआआरोहाश्चेति वृत्तिपदार्थस्य बहुत्वं दर्शयितव्यम्। यस्माद्बहुत्वमेव सेनाङ्गत्वे कारणम्। बहुत्वाभावे सेनाङ्गत्वन्नास्तीति रथिकाआआरोहाविति भवितव्यम्। `हस्त्यआआदिषु परत्वात् पशुद्वन्द्वविभाषयैव भवितव्यम्` इति। `विभाषा वृक्षमृग` [[2.4.12]] इत्यादिना। `इतरेतरयोगे` इत्यादिना द्वन्द्वप्रकरणस्य प्रयोजनं दर्शयति। `प्राण्यङ्गादीनां समाहार एव` इत्यादिना विषयविभाषागार्थतां स्पष्टीकरोति॥", "24003": "`चरणशब्द` इत्यादिना सूत्रस्य विषयं दर्शयति। तथा हि - यो हि कठादिप्रोक्ताध्ययनविशेषः शाखा, तत्र यदा चरणशब्दो वर्तते तदा `जातिरप्राणिनाम्` [[2.4.6]] इत्येव सिद्धम्। यदा तु शाखानिमित्तकः` इति। शाखा निमित्तम्सयेति बहुव्रीहिः। `प्रमाणान्तरावगतस्य` इति। शब्दात् प्रमाणाद्यदन्यत् प्रमाणं तत् प्रमाणान्तरम्, तत्पुनःप्रत्यक्षादि। तेनावगतस्य परिच्छिन्नस्य शब्देन रसङ्कीर्तनमात्रमिति मात्रशब्दोऽर्थावगतिव्युदासार्थः। `उदगात्,प्रत्यष्ठात्` इति। उत्पूर्वादिणः प्रतिपूर्वात्तिष्ठतेर्लुङ, `इषो गा लुङि` [[2.4.45]] इति गादेशः, `गातिस्था` [[2.4.77]] इति सिचो लुक्। `कठकालापम्` इति। कठेन प्रोक्तमधीयत इति कठाः। कठशब्दात् प्रोक्तार्थे <<कलापिवैशम्पायनान्तेवासिभ्यश्च>> [[4.3.104]] इति णिनिः, तस्य <<कठचरकाल्लुक्>> [[4.3.107]] , ततः <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] , <<छन्दोब्राह्मणानि च तद्विषयाणि>> [[4.2.66]] इति तद्विषयता। कलापिना प्रोक्तमधीयत इति कलापाः। प्रोक्तार्थे कलापिनोऽण्, <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावे प्राप्ते `सब्राहृचारिपीठसर्पिकलापिकुथुमितैरतिलिजाजलिलाङ्गलिशिलालिशिखष्टिश#ऊकरसद्मसुपर्वणामुपसंख्यानम्` (वा। 798) इति टिलोपः। ततः <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्। तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] इति लुक्। पूर्ववत् तद्विषता च। कठाश्च कालापाश्च कठकालापम्। `\tयदा तु प्रथमत एवोपदेशः` इति। अनवगतस्यैव प्राक् प्रमाणान्तरेण शब्देनाद्यं प्रत्यायनमर्थस्य प्रश्ने प्रतिवचने वोपदेशः, स यदा भवति तदात्र प्रत्युदाहरणम्। `\tउदगुः` इति। `आतः` [[3.4.110]] इति झर्जुस्। <<उस्यपदान्तात्>> [[6.1.96]] इति पररूपत्वम्। `स्थेणोरद्यतन्याञ्चेति वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `तुल्यार्थैरतुलोपमाभ्याम्` [[2.3.72]] इत्यतः सूत्रादन्यतरस्यामित्यनुवर्तते। सा च व्यवस्थितविभाषा विज्ञायते। तेन स्थेणोरद्यतन्यामनुवादे चरणानामेकवद्भावो भविष्यति, नान्यत्रेति। `अद्यतनी` इति लुङः पूर्वाचार्यप्रणीतैषा संज्ञा। `अनन्दिषुः` इति। `टुनदि समृद्धौ` (धातुपाठः-67), `सिजब्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुस्। `उद्यन्ति` इति। `इको यण्` [[6.4.81]] इति यणादेशः॥", "24004": "`अध्वर्युवेदे` इति। ऐतेनाध्वर्युशब्दनात्र यजुर्वेदो लक्ष्यत इति दर्शयति। अथाष्वर्योरृत्विग्विशेषस्य यः क्रतुरिति क्रतुविशेषणमेवाध्वर्युग्रहणं कस्मान्न विज्ञायते? असम्भवात्; को हि तस्य क्रतुर्भवति ! अपि तु घनव्ययशीलस्य। यद्यपि तस्य क्रतौ कर्त्तृत्वमस्ति तदपि ऋत्विगन्तरेण साधारणमित्यध्वर्युणैकेन तस्य विशेषणमयुक्तम्। ननु चाथर्ववेदविहितो यः क्रतुस्तन्निवृत्त्यर्थमध्वर्युणैकेन कथं विशेषणं न स्यात्; न हि त्तराध्वर्यवः सन्ति? नैतदस्ति; यदि ह्रेतावत् प्रयोजनमभिहितं स्यात् तदाऽनथर्वण इति प्रतिषेधमेव कुर्यात्। लघीयसी हि साक्षात् प्रतिषेधे प्रतीतिर्भवति। त्रयीग्रहणं वा कुर्यात्। यदि चाध्वर्युणा क्रतुर्विशेष्येत तदेषुवज्रावित्यत्रापि स्यात्? इषुवज्रावपि ह्रध्वर्योः क्रतू भवतः; तयोरपि तत्कर्तृकत्वात्। तस्मादध्वर्यूणां यजुर्वेदविदां यो वेदः सोऽध्वर्युशब्देनोपलक्ष्यते। स पुनर्यजुर्वेदः। तत्राध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुरिति। इतिकर्तव्यतोपदेशः प्रयोगश्चानुष्ठानात्मको विधानशब्देनोक्तः। यदि तह्र्रध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवद्भवतीति सूत्रार्थस्तदा सूत्रेऽध्वर्युक्रतुशब्दस्यानपुंसकमित्यस्य च द्वन्द्व इतयनेन प्रकृतेन सामानाधिकरण्येन निर्देशो नोपपद्यते। अतोऽध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानामिति वक्तव्यं स्यादित्यत आह - `अध्वर्युक्रतुरनपुंसकम्` इति। `गौणोऽयं निर्देशः` इति। गौण इत्यमुख्य औपचारिक इत्यर्थः। अध्वर्युक्रत्ववयवो द्वन्द्व उपचारेणाध्वर्युक्रतुरित्युक्तः। स एवानपुंसकलिङ्गावयवोऽनपुंलकमिति। गौणन्र्दिएशस्तु लाघवार्थो वेदितव्यः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्त्या द्वन्द्व एवोच्येत तदा `स नपुसंकम्` [[2.4.17]] इत्यस्यापवादोऽयं विज्ञायेत। `अर्काआमेधम्` इत्यादि। अर्कश्चाआमेधश्चेत्यर्काआमेधम्। सायाह्नश्चातिरात्रश्चेति `सायाह्नातिरात्रम्`।`इषुवज्रौ` इत्यादि। इषुवज्रप्रभृतयोऽध्वर्युक्रतवो न सम्भवति, न हि तेषामध्वर्युवेदे विधानम्। किं तर्हि? सामवेदे। `राजसूयवाजपेये` इति। एतौ राजसूयवाजपेयशब्दौ पुंल्लिङ्गावपि स्तः। तत्र यदा नपुंसकलिङ्गौ प्रयुज्येते तत्रेदं प्रत्युदाहरणम्। `सोमयागेषु` इति। यत्र यत्र सोमपानं विहितं ते सोमयागाः। तेष्वेव क्रतुशब्दो रूढः। न च दर्शपौर्णमासौ सोमयागौ। `अनपुंसकम्` [[2.4.4]] इत्युपादानात् स्वरूपग्रहणमिह न भवति। न हि क्रतुसामान्यो नपुंसकलिङ्गो भवति॥", "24005": "अधीतिरध्ययनमिति भावसाधनोऽध्ययनशब्दः, कर्मसाधनो वा - अधीयत इत्यध्ययनमिति। `अध्ययनतः` इति। `आद्यादिभ्यस्तस्युपसंख्यानम्` (वा। 634) इति हेतुतृतीयान्तात् तसिः। अत आह - `अध्ययनेन निमित्तेन` इति। `अविप्रकृष्टा` इति। अविप्रकृष्टाऽऽख्या येषां तेऽविप्रकृष्टाख्याः। निमित्तस्य साधारणत्वादिविप्रकृष्टता। तत्पुनर्निमित्तं सूत्रोपात्तमेवाध्ययनमाख्यानामधेयम्। `पदकक्रमकम्` इति। पदमधीते, क्रममधीते इति <<क्रमादिभ्यो वुन्>> [[4.2.61]] । `क्रमकवार्तिकम्` इति। वृत्तिमधीत इति वार्तिकः। क्रतूक्थादिसूत्रान्ताट्ठक् [[4.2.59]] । कथं पुनः पदस्याध्येतुः क्रमस्य चाध्ययनेन निमित्तेनाविप्रकृष्टता भवतीत्याह - `सम्पाठः` इत्यादि। यस्मात् पदानां क्रमस्य च यः पाठः स नातिभिन्नः। ग्रन्थोऽपि तादृश एव, अतः प्रत्यासन्नः। यतश्च पदान्यधीत्य क्रमोऽध्येतव्यः, ततोऽपि सम्पाठस्तयो। प्रत्यासन्नः, ततश्च तेन सम्पाठेनाध्ययनेन निमित्तेन पदक इति क्रमक इति च याऽध्येतुराख्या साऽपि प्रत्यासन्ना भवतीत्यभिप्रायः। `पितापुत्रौ` इति। <<आनङ् ऋतो द्वन्द्वे>> [[6.3.25]] इत्यानङादेशः। तत्र हि <<पुत्रेऽन्यतरस्याम्>> [[6.3.22]] इत्यतः पुत्र इत्यनुवर्तते। अत्रापि पितेति पुत्र इति चाख्ये प्रत्यासन्ने साधारणत्वान्निमित्तस्य। तथा हि - जन्यजनकभावो द्वयोरपि तयोर्निमित्तम्। `याज्ञिकवैयाकरणम्` इति। यज्ञमधीते याज्ञिकः। क्रतूक्थादिना [[4.2.59]] इक्। व्याकरममधीते वैयाकरणः। <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्। अस्त्यत्राध्ययननिमित्तत्वमनयोराख्ययोः, न तु प्रत्यासतिः। न हि यज्ञाध्ययनेन व्याकरणाध्ययनेन वा तयोः क्रियाप्रत्यासत्तिर्नापि ग्रन्थप्रत्यासत्तिः॥", "24006": "अयमपि गौण्या वृत्त्या जातिद्र्वन्द्व इति सामानाधिकरण्येन निर्देशः कृतः। जातिवाच्यवयवो द्वन्द्वो जातिरित्युक्तः। जातेश्च स्वरूपग्रहणं न भवति, अप्राणिनामिति प्रतिषेधात्। `आराशस्त्रि` इति। `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वः।`नन्दकपाञ्चजन्यौ` इति। संज्ञाशब्दयोरेव द्वन्द्वोऽयम्, न जातिशब्दयोः। अनेनाप्राणिनामित्यस्य पर्युदासतां दर्शयति। तेनायमर्थो भवतीत्याह - `नञिवयुक्त` इत्यादि। `रूपरसगन्धस्पर्शाः` इत्यादि गुणजातिः। `गमनाकुञ्चनप्रसारणानि` इति क्रियाजातिः। `जातिपरत्वे च` इति। यदा जातेः प्राधान्येन विवक्षा तदा जातेःपरत्वे प्रधानत्वे सति जातिशब्दानाममेकवद्भावो भवति। `न नियतद्रव्यविवक्षायाम्` इति।\tयदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा भवति तदा जातिशब्दस्य प्रयोगेऽप्येकवद्भावो न भवति। कुत एतत्? जातिरित्यभिधानान्मुख्या जातिराश्रीयते; न गौणी। एतच्च प्रधाने कार्यसम्प्रत्ययाल्लभ्यते। एतदुक्तं भवति - यदा जातिरेव व्यक्तिविशेषमाश्रित्य प्रयुज्यते तदा नैकवद्भावः। यदा तु व्यक्तिविशेषमनाश्रित्य प्रयुज्यते तदैवैकवद्भाव इति। `बदरामलकानि` इति। अत्र बदरामलकानाञ्च व्यक्तिप्रयुक्तानां प्रतीतिः; न जातिशब्दानाम्। अत एव व्यक्त्याश्रयं बहुवचनम्; अन्यथा जातेर्द्वित्वाद्दविवचनमेव स्यात्, न बहुवचनम्। अप्राणिनामिति पर्युदासोऽयम्। तेनायमर्थो लभ्यते - नञिवयुक्तन्यायेन (व्या।प।65) रूपरसस्पर्शादीनान्नैकवद्भाव इति। अप्राण#इनामिति प्रतिषेधे बहुत्वं श्रूयमाणं विधावपि बहुत्वं गमयति। तेन बहुप्रकृतेरेव द्वन्द्व एकदवद्भवति, न द्विप्रकृतेः - आराशस्त्र्याविति॥", "24007": "विशिष्टशब्दोऽयं भेदवचनः। योञऽपि `क्तेन नञ्विशिष्टेनानञ्` (2।1।क60) इत्यत्र सावधारणाधिक्ये विशिष्टशब्दो व्याख्यातः; सोऽपि भेद्दवारेणैव प्रतिपत्तयः। तेनेह वृत्तिकारोऽपि `भिन्नलिङ्गाना{अपि नास्ति - काशिका}मपि` इत्याह। `अग्रामाः` इति। प्रतिषेधादनयोः स्वरूपग्रहणं न भवतीत्याह - `नदीवाचिनाम्` इत्यादि। यदि नदीवाचिनां द्वन्द्वो देशवाचिनाञ्चैकवद्भवतीत्ययमत्र सूत्रार्थोऽभिमतः, तत्कथं नदीदेश इत्ययं द्वन्द्व इत्यनेन प्रकृतेन सामानाधिकरण्येन निर्देश इत्याह - `नद्यवयवो द्वन्द्वोनदीत्युच्यते` इत्यादि। एतेन गौणः सूत्रे निर्देश इति दर्शयति। नदीदेश इत्ययं यदि द्वन्द्वसमासस्तदा व्यतिकीर्णावयवो द्वन्द्वो यस्य कश्चिदवयवो नदी कश्चिद्देशस्तस्यैकवद्भावः स्यात्। किञ्च, द्वन्द्वो भवन्नेष समाहारे वा स्यात्? इतरेरतरयोगे वा? त्त्र पूर्वस्मिन् पक्षे `स नपुंसकम्` [[2.4.17]] इति नपुंसकत्वं स्यात्, इतरत्र तु द्विवचनमितीमं दोषं दृष्ट्वाऽऽह - `नदीदेश` इति। `असमास एवायं निर्देशः` इति।`मद्रकेकयाः` इति। मद्राश्च केकयाश्च मद्रकेकयाः। अथ नदीग्रहणं कस्मात् क्रियते? न देशग्रहणादेव नदीग्रहणं सिद्धमित्यत आह - `नदीग्रहणमदेशत्वात्` इति। कस्मात् पूनर्नदी देशो न भवतीत्याह - `जनपदो हि देशः` इति। तत्रैव देशशब्दस्य रूढत्वात्। यत् पुनर्नदी देश इत्युच्यते तत् तात्स्थ्यात्। भवति हि तात्स्थ्यात् ताच्छब्द्यम्, यथा- मञ्चाः क्रोशन्तीति। `तथा च` इत्यादि। तस्माज्जनपद एव देशो नान्यः पर्वतादिः। एवञ्च कृत्वा देशग्रहणेन पर्वतादीनां ग्रहणं न भवति।`अग्रामा इत्यत्र ` इत्यादि। लोके हि ग्रामग्रहणेन नगरग्रहणं भवति, तथा ह्रभक्ष्यो ग्राम्यशूकर इत्युक्ते नागरोऽपि न भक्ष्यते। ततश्चेहाग्रामा इति प्रतिषेधः क्रियमाणो नगराणामपि प्राप्नोति, तस्मादग्रामा इति प्रतिषेधे नगरप्रतिषेधो वक्तव्यः, अग्रामा इत्यनेन नगराणां यः प्रतिषेधः प्राप्नोति तस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। तेन नगराणां विधिरेव भवति। तत्रेदं व्याख्यानम् - यदयम् <<प्राचां ग्रामनगराणाम्>> [[7.3.14]] इत्यत्र ग्रामनगरयोर्भेदेनोपदानं करोति कज्ज्ञापयति - इह शस्त्रे ग्रामग्रहणेन नगराणां ग्रहणं न भवतीति। तेनाग्रामा इति प्रतिषेधो नगराणां न भवति।`उभयतच्च` इत्यादि। उभयस्मिन्नित्यर्थः उभयतः। यत्र कश्चिदवयवो ग्रामः कश्चिन्नगरं तत्र ग्रामाणां यः प्रतिषेध उच्यते स एव वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - अग्रामा इति प्रसज्य प्रतिषेधोऽयं विज्ञेयः, नचेत् द्वन्द्वे ग्रामा विद्यन्त इति। तेन यत्र ग्रामगन्धोऽप्यस्ति तत्राप्येकवद्भावो न भवतीति॥", "24008": "क्षुद्रशब्दोऽयमस्त्येव यः कार्पण्यवति पुरुषे वर्तते; यथा - क्षुद्रो देवदत्त इति, कृपण इति गम्यते। अस्ति च शीलहीनेऽङ्गहीने च, यथा - क्षुद्राभ्यो वेति। अत्र ह्रनियतपुंस्का विकलाङ्गाश्च स्त्रियः क्षुद्राग्रहणेन गृह्यन्ते। अस्ति च परिमाणापचये, यथा - क्षुद्रास्तण्डुला इति। इह तु जन्तुशब्दसन्निधानात् प्राणिशरीरस्याल्पतामाचष्टे। तेन परिमाणापचये वर्तमानस्य क्षुद्रशब्दस्य ग्रहणं विज्ञायत इत्याह - `अपचितपरिमाणः क्षुद्रः` इति। अल्पशरीर इत्यर्थः। अपचितपरिमाणता चापेक्षाभेदादनवस्थितेति। अस्थिरेत्यर्थः।क्षुद्रजन्तुशब्दस्याभिधेयं प्रति स्म-तीरुपन्यस्यति - `क्षुद्रजन्तुरनस्थिः स्यात्` इति। `क्षुदिर् सम्पेवणे` (धातुपाठः-1443) क्षुद्यत इति क्षुद्रः। औणादिकः `स्फायीतञ्चि` (द।उ।8।31) इत्यादिना रक्। क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। `अनस्थिः` इति। यस्यास्थीनि न विद्यन्ते। कवलं यस्य चर्मशोणितमांसमस्ति स क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। `अथ वा क्षुद्र एव यः` इति स्मृत्यन्तरमाह। क्षोदयितुं यः शक्यते स क्षुद्रजन्तुः। शब्दार्थवशात् प्रसिद्ध एव लोके क्षुद्रजन्तुग्र्राह्रः। स पुनर्मशकादिरङ्गे यस्यात्मीयं शोणितं नास्ति। येषां वा गोचर्ममात्रं राशिहत्वापि नरः पतितो न भवति ते प्रसिद्धाः क्षुद्रजन्तव उच्यन्ते। `शतं वा प्रसृतौ येषाम्` अपरा स्मृतिः। प्सृतौ अञ्जलौ बद्धं येषां प्राणिनां शतं प्रसृतिर्भवति शतेन वा प्रसृतिः पूर्यते ते क्षुद्रजन्तवः। `केचिदानकुलादपि` इति। ककेचिद्वर्णयन्ति - नकुलपर्यन्ताः क्षुद्रजन्तव इति। `इयमेव स्मृतिः प्रमाणम्` इति। अस्याः सर्वस्मृत्यनुग्राहिणीत्वात्। तथा ह्रेतदुपलक्षितेषु क्षुद्रजन्तुषु स्मृत्यन्तरदर्शिता अपि क्षुद्रजन्तवोऽन्तर्भवति। इतरा अपि स्मृतयः प्रमाणं कस्मान्न भवन्तीत्याह - `इतरासाम्` इत्यादि। अनस्थ्यादीनां स्मृतीनामा नकुलादपीति स्मृत्या विरोधः। तस्मान्नैताः प्रामाण्येनाभ्युपगम्यन्ते, तेन सर्वत्रेदं सिद्धं भवति। `क्षुद्रजन्तवः` इति बहुवचननिर्देशात् बहुवचननिर्देशात् बहुप्रकृतेरेवैकवद्भावो यथा स्यात्। तनेह न भवति - यूकालिक्षे, दंशमशकाविति। अयञ्च प्राणिजात्यर्थ आरम्भः। `क्षुद्रजन्तव इति किम्` इति? ननु च सूत्रास्याभावे किं प्रत्युदाहरणं स्यात्? एवं मन्यते - अन्यथा हि जन्तव इति सूत्रं कर्तव्यम्, ततश्चातिप्रसङ्ग स्यादिति॥", "24009": "प्रतिपक्षभावमात्रं लोके विरोधशब्देनोच्यते। तस्येह ग्रहणे सति छायातपौ, अग्निजले इत्यत्रापि स्यादिति मत्वा वैरमिह विरोधोऽभिमत इति दर्शयितुमाह - `विरोधो वैरम्` इति। एवं मन्यते - <<क्षुद्रजन्तवः>> [[2.4.8]] इत्यतो जन्तुग्रहणमनुवर्तते। तेन जन्तूनां यो विरोधस्तस्येह ग्रहणं विज्ञायते। स च वैरस्वभाव एवेति। `शाआतिको नित्यः` इति। शस्वदिति त्रैकल्यमुच्यते। तत्र भवः शाआतिकः। `कालाटठञ्` [[4.3.11]] । अस्मादेव निपातनात् तान्तादपि को न भवति। यश्च त्रैकल्ये भवति स नित्यः। `गोपालिशालङ्कायनाः` इति। गोपालयश्च शालङ्कायनाश्च गोपालिशालङ्कायनाः। नात्र शाआतिको विरोध इत्येकवद्भावो न भवति। `चकारः पुनरस्यैव समुच्चयार्थः` इति। प्रकृतस्यान्यस्य समुच्चेतव्यस्याभावादस्यैकवद्भावस्य समुच्चयार्थश्चकारो विज्ञायते। तेन किं भवतीत्याह - `तेन पशुशकुनि` इत्यादि। पशुशकुनिविभाषाया अवकाशः - महाजोरभ्रम्, महाजोरभ्राः, हंसचक्रवाकम्, हंसचक्रवाका इति। नित्यविरोधिनामेकवद्भावस्यावकाशः - ब्राआहृणनास्तिकमिति, आशृगालम्, अआमहिषम्। काकोलूकमित्यत्रोभयप्राप्तौ परत्वात् पशुशकुनिविभाषा स्यात्। चकारस्य पुनरस्यैव समुच्चयार्थत्वादनेन नित्यमेकवद्भवति॥", "24010": "यद्यपि `षिञ् बन्धने` (धातुपाठः- 1248) इति सिनोतिर्बन्धने वर्तते; तथापि निरवपूर्वो बहिष्करणे वर्तत इत्याह - `निरवसानं बहिष्करणम्`। यैर्भुक्ते पात्रं संस्कारेणापि न शुद्ध्यति तस्मात् ते ततो बहिष्कृताः = पृथक्कृताः। न लभन्ते तत्र भोक्तुमित्यर्थः॥", "24011": "गवाश्चादीनि कृतैकवद्भावानि गणे पठन्ते। तेषाममनेन साधुत्वमात्रं विधीयते। न त्वेकवद्भाव इति दर्शयन्नाह - `गवाआआदीनि` इति। ग्वाआमित्येवमादीनामजैडकपर्यन्तानां पशुद्वन्द्वविकल्पे वचनमिदम्। कुब्जवामनप्रभृतीनां त्रयाणामप्राप्ते। आचाण्डालस्याविरोधः? यदा विरोधं द्वन्द्वो नाचष्टे केवलञ्चार्थमात्रे वर्तते तदा आचाण्डालमिहास्तीति। `स्त्रीकुमारं दासीमाणवकम्` इत्यप्राप्ते वचनम्। `शाटीपिच्छकम्` इति `जातिरप्राणिनाम्` [[2.4.6]] इति सिद्धे, अबहुप्रकृत्यर्थः पाठः। `उष्ट्रखरमुष्ट्रशशम्` इति। पशुद्वन्द्वविभाषाप्राप्तौ नित्यार्थम्। मूत्रशकृदादीनां मांसशोणितपर्यन्तानामप्राणिजातीनामबहुप्रकृत्यर्थः पाठः। दर्भशरप्रभृतीनां तृणविभाषायां प्राप्तायां वचनम्। दासीदासादीनां त्रयाणामप्राप्ते। <<पुमान् स्त्रिया>> [[1.2.67]] इत्येकशेषो न भवत्यस्मादेव निपातनात्।`गवाआप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम्` इति। कथम्? तथा रूप्सयाश्रयणात्। गणपाठे हि यदेषां शब्दानां रूपं तदाश्रितम्। येन यथोच्चारितानामेकवद्भावलक्षणं द्वन्द्ववृतं भवति। `रूपान्तरे तु नायं विधिः` इति। यदा <<अवङ् स्फोटायनस्य>> [[6.1.123]] इत्यवङ नास्ति तदा रूपान्तरे जातेऽनेन सूत्रेण यो विधिः क्रियते स न भवति। पशुद्वन्द्वविभाषैव प्रवर्तते॥", "24012": "वृक्षादिग्रहयणेनेह वक्षादिविशेषवाचिनां ग्रहणम्। कथम्? यस्मादत्र हि वृक्षादिभिद्र्वन्द्वः प्रत्येकं विशिष्यते, तेनैषा विभाषा तुल्यजातीयेष्वेवावतिष्ठते। विरूपेषु तुल्यजातीयेष्वपि, न स्वरूपेषु। तेषां द्वन्द्वो नास्ति; एकशेषविधानात्। विरूपेष्वपि न पर्यायेषु। तेषां द्वन्द्वाभावात्। द्वन्द्वाभावश्च युगपत्प्रयोगाभावात्, युक्तार्थाभावाच्च। चार्थाभावस्त्वर्थभेदाभावात्। भिन्नाधिष्ठाना हि चार्थता। न च पर्यायाणां भिन्नार्थता सम्भवति; तस्माद्वरूपेष्वेव वृक्षादिविशेषवाचिष्वस्या विभाषाया उपस्थानम्। तेन विशेषग्रहणं वृक्षादिषु विज्ञायते, न स्वरूपग्रहणम्, नापि पर्यायग्रहणम्। अथ सामान्यविशेषवाचिनां ग्रहणं कस्मान्न विज्ञायते, सम्भवति हि सामान्यविशेषवाचिनां द्वन्द्वः, यथा - गोवलीवर्दमिति? न; अनभिधानात्। न हि वृक्षधवमित्येवं लोकेऽभिधानमस्ति; धवशब्दादेव तदर्थाभिधायिनो वृक्षशब्दस्यार्थस्यावगत्वात्, धवादिशब्दप्रयोगे वृक्षादिशब्दस्य प्रयोगानर्हत्वात्। गोवलीवर्दमित्यत्र तु बलीवर्दसन्निधाने गोशब्दस्य स्त्रीगवीष्वेव वृत्तेद्र्वावपि विशेषवाचिनाविति युक्तो द्वन्द्वः। येऽत्राप्राणिवाचिनस्तेषां `जातिरप्राणिनाम्` [[2.4.6]] इत्येकवद्भावे नित्ये प्राप्ते वचनमिदं विभाषार्थम्। परिशिष्टानामप्राप्ते। पशुग्रहणेनैव मृगादिग्रहणे सत्यपि पआन्तरेणेषां किमर्थम्? तुल्यजातीयानां द्वन्द्वोऽयमेकवद्भवतीत्युक्तम्, अत्र पशुग्रहणेनैव सिद्धे मृगादिग्रहणे सत्यपि पआन्तरेणेषां परस्परेण वा द्वन्द्वो मा भूदित्येवमर्थम्। `पशुद्वन्द्व` इत्येवं सिद्धेऽआवडवग्रहणं नियमार्थम्। योऽन्य एतयोः पर्यायस्तत्र मा भूत् - हयवडवे इति।`बहुप्रकृतिः` इति। बह्वर्था बहुवचनान्ता वा प्रकृतिर्यस्य स बहुप्रकृतिः। बह्वर्थानां फलादीनामेषां बहुवचनान्तानां वा द्वन्द्व एकवद्भवतीत्यर्थः॥", "24013": "`अद्रव्यवाचिनाम्` इति। एतेनाधिकरणशब्दोऽत्र द्रव्ये वर्तते नाधार इति दर्शयति। न हि विप्रतिषिद्धवाचिनां शब्दानामाधारे वृत्तिरस्तिः; विभक्त्यर्थत्वादाधारशक्तेः। `शीतोष्णे` इति। शीतोष्णयोः सहानवस्थानलक्षणेनैव विरोधेन विरुद्धत्वाद्विप्रतिषिद्धवाचित्वम्। तथा सुखदुःखयोरपि॥`कामक्रोधौ` इति। क्रुद्धोऽपि काममाचरतीति नानयोर्विप्रतिषिद्धत्वम्॥", "24014": "`यथायथम्` इति। यथास्वं यस्य यदात्मीयं लक्षणं तेनेत्यर्थः। तत्र दधिपयसी इत्यादीनां त्रयाणां व्यञ्जनवाचित्वाद्विभाषैकवद्भावप्राप्तिः। ननु च सर्पिर्मधुनी, मधुसर्पिषी इति राजदन्तादिष्वनयोर्निपातनादेवैकवद्भावो न भविष्यति? नैतदस्ति; पाक्षिको हि व्यञ्जनैकवद्भावः। तत्र यस्मिन् पक्षे स नास्ति तस्मिन्निपातनं पूर्वनिपात्व्यभिचारार्थं स्यात्। इतरस्मिन्नपि पक्ष एकवद्भावनिषेधार्थोऽत्र पाठः। यद्येवम्, अनेनैव सिद्धत्वाद्राजदन्तादिषु पाठोऽनर्थकः स्यात्? नानर्थकः; बहुवचनार्थत्वात्। `सर्पिर्मधुनी, मधुसर्पिषी` इति। ननु तत्रापि द्ववचनान्तावेव पठएते? यद्यप्येवम्, तथापि शब्दाश्रयत्वात् परनिपातस्यार्थधर्मत्वाद्द्वित्वं नापेक्ष्यते। अर्थाश्रयस्त्वेकवद्भाव इति तत्प्रषेधे युज्यते संख्यां विवक्षितुम्। `ब्राहृप्रजापती` इत्यादीनां पञ्चानां समाहारैकत्वात् प्राप्तिः। `शुक्लकृष्णौ` इति। <<विप्रतिषिद्धं चानधिकरणवाचि>> [[2.4.13]] इत्यादिना। `इध्माबार्हिषी` इत्यादीनां समाहारैकत्वात् प्राप्तिः॥", "24015": "अधिकरणं वर्त्तिपदार्थः` इति। वर्तन वर्त्तः = समासः। भावे घञ्। वर्तोऽस्यास्तीति वर्ति = समासावयवभुतम। वर्त्तिश्च तत् पदञ्चेति वर्त्तिपदं तस्य पदस्यार्थोऽधिकरणमित्युच्यते। कथं पुनस्तस्याधिकरणत्वामित्यत आह - `स हि` इत्यादि। आधारो ह्रधिकरणम्। वर्त्तिपदार्थश्च समासार्थस्याधारो भवति; तत्र तस्य समवायात्। वर्त्तिपदार्थैह्र्रवयवैरवयवी समासार्थ आरभ्यते, अवयवी चावयवेषु कसमवैति। `तस्य ` इति। वर्त्तिपदार्थस्य। `दश {इमे नास्ति - काशिका, पदमञ्जरी च} इमे दन्तौष्ठाः}` इति। `द्वन्द्वश्च` [[2.4.2]] इत्यादिना प्राप्तिः॥", "24016": "अधिकरणैतावत्त्वस्य प्रकृतत्वात् तदपेक्षयैव समीपत्वं विज्ञायत इत्यत आह - `अधिकरणैतावत्त्वस्य समीपे` इति। `उपदशं दन्तौष्ठम्िति। अत्राधिकरणैतावत्त्वं दशसंख्या, तत्समीपं नवैकादश वा। तत्र दशशब्द एतावत्त्वमाचष्टे। उपशब्दः सामीप्यम्।कथं पुनद्र्वन्द्वैकवद्भावो विकल्प्यमानोऽनुप्रयोगस्य लभ्यत इत्यत आह - `अव्ययस्य` इत्यादि। यद्यप्यर्थातिदेशादनुप्रयोगस्यापि विकल्पो लभ्यते, तथापि परीहारान्तरमप्यस्तीति दर्शनार्थमस्योपन्यासः। तत्राव्ययस्य संख्याया अव्ययीभावो विहितः - `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना। बहुव्रीहिरपि विहितः - `संख्यायाव्ययासन्न` [[2.2.25]] इत्यादिना। अत्रैकवद्भावपक्ष एकार्थस्य द्वन्द्वस्यैकार्थ एवाव्ययीभावोऽनुप्रयुज्यते। एकार्थत्वं पुनस्तस्य सामीप्यप्रधानसत्वात्। यद्यप्यव्ययीभावोऽव्ययम्, तथाप्यभेदैकत्वं भेदाभावलक्षणं तस्यास्त्येव सामानाधिकरण्यम्। इतरत्र तु बह्वर्थस्य द्वन्द्वस्य बह्वर्थ एव बहुव्रीहिरनुप्रयुज्यते। बह्वर्थं पुनर्बहुव्रीहेः समीपिनः प्राधान्यात्। बहुव्रीहिर्हि समीपी प्रधानत्वाद्भेदसंख्यामुपादत इति बह्वर्थो भवति। `उपदशम्` इति। <<अव्ययीभावे शरत्प्रभृतिभ्यः>> [[5.4.107]] इत्यनुवर्तमाने `अनश्च` [[5.4.108]] इति टच् समासान्तः। <<नस्तद्धिते>> [[6.4.144]] इति टिलोपोः। `उपदशाः` इति। बहुव्रीहौ संख्येये डजबहुगणात्` [[5.4.73]] इति डच्॥", "24017": "`पञ्चगवम्` इति। <<गोरतद्धितलुकि>> [[5.4.92]] इति टच्। सग्रहणं द्विगोरपि यथा स्यादित्येवमर्थम्। इतरथा हि `अनन्तरस्य विधिर्वा भवति प्रतिषेदो वा` (व्या।प।19) इत्यनन्तरस्यैव द्वन्द्वस्य स्यान्न व्यवहितस्य द्विगोः, नैतदस्ति; एकवचनमित्यनुवर्तते, तस्य `नपुंसकम्` इत्यनेन सम्बन्धे सति कुतो व्यवधानम् ! न ह्यत्रैकरवचनेन विशेषो द्वन्द्वोऽनेनापेक्ष्यते, किं तर्हि? एकवचनमात्रम्। प्रसिद्ध्युपसंग्रहार्थं तर्हि सग्रहणम्। स इत्येतदनुवादो भविष्यति, अनुवादश्च प्रसिद्धस्यैव भवति। तथा च यथादर्शनमियं लिङ्गव्यवस्थाऽऽख्यायत इति। तेन द्वन्द्वैकवद्भावे नित्यं नपुंसकत्वं विज्ञायते। द्विगोश्चानियता। तेन `अकारान्तोत्त्रपदो द्विगुः स्त्रियां भाष्यते` (वा।156) इत्येतदुपपन्नं भवति। `पञ्चपूली` इति। <<द्विगोः>> [[4.1.21]] इति ङीप्। एतदेव द्विगोः स्त्रीप्रकरणे ङीब्विधानं ज्ञापकम् - `क्वचित् स्त्रियां द्विगुर्भाष्यते` इति।`पञ्चखट्वम्, पञ्चखट्वी` इति। उपसर्जनह्रस्वत्वे कृते पक्षे ङीप्।`पञ्चतक्षम्, पञ्चतक्षी` इति। नलोपे कृते पक्षे ङीप्॥", "24018": "`अधिस्त्रि` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिनाऽव्ययीभावः। `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वत्वम्। `उन्मत्तगङ्गम्, लोहितगङ्गम्` इति। <<अन्यपदार्थे च संज्ञायाम्>> [[2.1.21]] इति समासः। पूर्ववद्ध्रस्वत्वम्। `पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता` इति। अधिस्त्रीत्यादौ पूर्वपदस्यालिङ्गत्वात्। `अन्यपदार्थप्रधानस्याभिधेयलिङ्ता` इति। उन्मत्तगङ्मित्यादौ देशोऽभिधेयः, स च पुंल्लिङ्ग इति पुंल्लिङ्गत्वं प्राप्तम्।`पुण्याहम्` इति। कर्मधारयः। `राजाहःसखिभ्यष्टच्` [[5.4.91]] इति टच् समासान्तः। <<रात्राह्नाहाः पुंसि>> [[2.4.29]] इति पुल्लिङ्गतायां वचनम्।`विपथम्` इति। `पथः संख्याव्ययादेः` (वा। 161) इति परवल्लिङ्गतायां प्राप्तायां वचनम्। <<कुगतिप्रादयः>> [[2.2.18]] इतकि समासः। `चतुष्पथम्` इति। षष्ठीसमासः। समाहारद्विगौ तु पूर्वेणैव सिद्धम्। `ऋक्पूरब्धूःपथामानक्षे` [[5.4.74]] इत्यकारः समासान्तः॥नञ्मात्रस्य तत्पुरुषस्याभावन्नञात्र नञ्समासो लक्ष्यत इत्याह - `नञ्समासम्` इति। `वक्ष्यति-विभाषा सेनासुराच्छाया` इति। अनन्तरयोगेय्वस्याधिकारस्य प्रयोजनं नास्तीत्यस्तानुल्लङ्घ्य व्यवहितस्य `विभाषा सेनासुरा` [[2.4.25]] इत्यादियोगस्योपन्यासः। इत उत्तरेष्वनन्तरेषु योगेष्वस्य प्रयोजननाभावः `न हि संज्ञायां कन्थोशीनरेषु तत्पुरुष नञ्समासः, कर्मधारयो वाऽस्ति` इत्यादिना भाष्ये प्रतिपादितः। `दृढसेनः` इति। बहुव्रीहिः। अथानञ्कर्मधारय इति कोऽयन्निर्देशः? यदि ह्यत्र नञ्कर्मधारययोर्वदन्द्वः, तदा समाहारे वा स्यादितरेतरयोगे वा? तत्र पूर्वस्मिन् पक्षे नपुंसकत्वं प्रसज्येत; इतरत्र तु द्विवचनम्। निर्देशस्य सौत्रत्वादुभयथाप्यदोषः। तथा हि - च्छन्दोवत् सूत्राणि भवन्तीति। छन्दसि च लिङ्गवचनव्यत्ययं तृतीयेऽध्याये वक्ष्यति॥", "24019": "", "24020": "प्रकृते न तदन्तविधिरिति प्रकृतस्य तत्पुरुषस्य कन्यया तदन्तविधिर्वज्ञायत इत्याह - `कन्थान्तस्तत्पुरुषः` इति। `सौशमिकन्थम्` इति। सौशमीनां कन्था इति षष्ठीसमासः। `दाक्षिकन्था` इति। अस्तीयं ग्रामस्य संज्ञा; न तूशीनरेषु किं तर्हि? ततोऽन्यत्रेति॥", "24021": "`उपज्ञायत इत्युपज्ञा` इति। `आतश्चपसर्गे` [[3.3.106]] इति कर्मण्यङ। `उपक्रम्यत इत्युपक्रमः`। अत्र <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति कर्मणि घञ्। `नोदात्तोपदेशस्य` [[7.3.34]] इत्यादिना वृद्धिनिषेधः। `यद्यप्युपज्ञेयस्योपक्रम्यस्य च` इत्यादि। उपज्ञेयः = परिज्ञेयः। उपक्रमः = उपक्रमितव्यः। आदिः = प्राथम्यम्। `पाणिन्युपज्ञम्` इति। षष्ठीसमासः। तेन तत्प्रथमतः प्रणीतम्। `अकालम्` इति। स स्वस्मिन् व्याकरणे कालाधिकारं न कृतवान्। `व्याडउपज्ञं दशहुष्करणम्` इति। व्यडिरप्यत्र युगपत्कालभाविनां विधीनां मध्ये दश हुष्करणानि कृत्वा परिभाषितवान् पूर्वं पूर्वं कालमिति। वाल्मीकेः श्लोका वाल्मीकिश्लोका इति षष्ठीसमासः॥", "24022": "`पूर्वपदार्थधर्मो बाहुल्यम्` इति। अत्र हेतुमाह - `शलभादीनाम्ित्यादि। शळभादीनां बहुत्वं शलभच्छायमित्यादौ हि गम्यते, न हि तेन विना छाया सम्भवति। अतः पूर्वपदार्थस्य शलभादेर्बाहुल्यं धर्मः॥", "24023": "`इह कस्मान्न भवति - राजसभा` इति। <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इति वचनदिहैव युक्तं भवितुमित्यभिप्रायः। `तदयुक्तम्` इत्यादि। एतेन `पर्यायवचनस्यैवेष्यते` (का।वृ।2.4.23) इत्येतदाप्तवचनेन द्रढयति। यतः पर्यायवचनस्यैवेष्यते तस्मादेव हेतोरिदमुक्तम्। `{जित्पर्यायवचनस्यैव-काशिका। जदित्पर्यायवनस्यैव` इत्यादि। कथं पुनः पर्यायवचनस्यैव भवतीत्येषोऽर्थः, यावता नेह सूत्रे तथाविधं वचनमस्ति? एवं मन्यते - ननु च पूर्वग्रहणमस्ति, अतः पूर्वग्रहणादेषोऽर्थो लभ्यते, कथम्? यदि स्वरूपग्रहणं स्यात् `राजाऽमनुष्यात्` इत्येवं ब्राऊयात्, पञ्चम्येव हि दिक्शब्दमध्याहरयिष्यति, न च सभान्तस्य तत्पुरुषस्य पूर्वशब्दादन्यो दिक्शब्दोऽध्याहर्त्तुं शक्यत इति किं पूर्वग्रहणेन? तत् क्रियतेऽर्थग्रहणं यथा स्यात्। अर्थग्रहणे च सत्यराजाऽमनुष्यपूर्वा इति द्विष्प्रतिषेधो वण्र्यते - अराजपूर्वा, अमनुष्यपूर्वेति। तदनेन नञिवयुक्तन्यायेन (व्या।प।65) तत्सदृशा राजपर्याया गृह्यन्ते, न तु तद्विशेषाश्चन्द्रगुप्तादयः, न हि ते राजार्थस्य वाचका इति। अथ वा - अर्थग्रहणेऽस्मिन् <<विभाषा समीपे>> [[2.4.16]] इत्यतो विभाषागर्हणमनुवर्तते मण्डूकप्लुतिन्यायेन, सा च व्यवस्थितविभाषा विज्ञायते। तेनेह प्रयायवचनस्यैवेआरादेग्र्रहणं भविष्यति, नान्यस्य।`अमनुष्यशब्दो {हि - वृत्तौ नास्ति} हि रूढिरूपेण रक्षः पिशाचादिषु वर्तते` इति। यद्येवम्, `अनुष्यकर्त्तृके च` [[3.2.53]] इत्यत्र यदुदाहरिष्यति - जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखा, श्लेष्मध्नं मधु, पित्तघ्नं घृतमिति,तद्व्याहन्यते? नैष दोषः; अत्र हि चकार क्रियते, तस्यैव विधेः समुच्चयार्थः। तेन पुनर्विधानात्, `कृत्यल्युटो बहुलम्` (3।3।क113) इति वचनाद्वा रक्षः पिशाचादिभ्योऽन्यत्रापि भविष्यति। अथ वा - अमनुष्यशब्दोऽयं द्विविधः - अस्त्येवायमव्युत्पन्नो यो रक्षः पिशाचादिषु वर्तते, अस्ति च व्युत्पन्नो नञ्समासः; तत्रेहाव्युत्पन्नस्य रूढिशब्दस्य ग्रहणम्। `अमनुष्यकर्त्तृके च` [[3.2.53]] इत्यत्र व्युत्पन्नस्यारूढिशब्दस्य ग्रहणमित्यविरोधः। `देवदत्तसभा` इति। देवदत्तशब्दो न राजपर्यायः; नाप्यमनुष्यवचनः॥", "24024": "सभाशब्दोऽयमस्त्येव कुटीवचनः - कदीर्घा सभा,ह्रस्वा सभेति। अस्ति च सङघातवचनः, यथा - ब्राआहृणानां सभा, स्त्रीणां सभेति; इह चाशालेति कुटीवचनप्रतिषेधादितरो गृह्रत इत्यत आह - `सङ्घातवचनः` इत्यादि॥", "24025": "`आनिशम्` इति। यस्यां निशायां आआनो मत्ता विहरन्ति सा आनिशम्; आनिशेति चोच्यत इति॥", "24026": "किमर्थमिदम्? इहायं द्वन्द्वः सर्पवदार्थप्रधानः, स यदा भिन्नलिङ्गावयवो भवति तदा पूर्वोत्तरयोः पदयोर्भिन्नलिङ्गयोरनुग्राहकमेकं लिङ्गं नास्ति येन समुदायो व्यपदिश्यते। उभाभ्याञ्च युगपदसम्भवादशक्यो व्यपदेशः कर्तृम्। अतः पर्यायः स्यादिति द्वन्द्वे नियमार्थं वचनम्। तत्पुरुषोऽपि द्विविधः - पूर्वपदार्थप्रधानः, उत्तरपदार्थप्रधानश्चेति। ततो य उत्तरपदार्थप्रधानस्तत्पुरुषस्तस्य प्रधानत्वादेव परस्य यल्लिङ्गं तत्समुदायस्य भविष्यतीति तं प्रत्यनर्थकं वचनम्। यस्तु पूर्वपदार्थप्रधानस्तस्य पूर्वपदस्य यल्लिङ्गं तस्मिन् प्रसक्त उत्तरपदस्य यल्लिङ्गं तद्विधीयत इति तत्र विध्यर्थमेतद्भवति। `द्वन्द्वस्य तत्पुरुषस्य च` इति। द्वन्द्वतत्पुरुषयोरिति षष्ठीयमिति दर्शयति, न सप्तमी। यदीयं सप्तमी स्यात् तदा द्वन्द्वे तत्पुरुषे च यत् परं तदीयं लिङ्गं पूर्वपदस्य आपद्येत; परशब्दस्य सम्बन्धिशब्दत्वात्। तथा च मयूरीकुक्कुटावित्यत्र पूर्वपदस्य स्त्रीप्रत्ययो निवर्तेत, तत्पुरुषेऽप्यर्धपिप्पलीत्यत्र पूर्वपदस्यापि स्त्रीप्रत्ययः स्यात्; तस्मात् षष्ठीयम्। तथा च सति समासार्थस्यायमतिदेशो विज्ञायते। पूर्वपदस्य न प्रतिषिध्यते; नापि विधीयत इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। समासार्थस्य लिङ्गातिदेशादनुप्रयोगोऽपि समासार्थस्यैव विशेषणमिति तल्लिङ्गमेव भवति। कुक्कुटमयूर्याविमे` इति। उपसर्जनह्रस्वत्वं न भवति, उपसर्जनसंज्ञाया अभावात्। उक्तं ह्येतत् प्राक् - `उपसर्जनमिति महत्याः संज्ञायाः प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत - अप्रधानमुपसर्जनम्` इति। द्वन्द्वश्च सर्वपदार्थप्रधान इति नास्त्युपसर्जनसंज्ञा। अर्धपिप्पलीत्यादावपि सत्येकविभक्तियोगे यथा पिप्पल्यादेरुपसर्जनसंज्ञा न भवति, तथोपसर्जनसंज्ञाविधावेव तत्प्रतिपादितम्। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - <<तत्पुरुषः>> [[2.1.22]] इत्यनुवर्तमाने पुनस्तत्पुरुषग्रहणस्यैतत् प्रयोजनम् - तत्पुरुषविशेषस्य परवल्लिङ्गता यथा स्यादिति। तेन द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु परवल्लिङ्गता न भवति; अन्यथा यदि सर्वस्येयं तत्पुरुषस्य परवल्लिङ्गता स्यात् तदा `परवल्लिङ्गं द्वन्द्वस्य च` इत्येवं ब्रूयात्। चकाराद्धि प्रकृतस्य तत्पुरुषस्येति विज्ञास्यत एवेति। `पञ्चकपालः` इति। तद्धितार्थे द्विगुः। संस्कृतार्थ उत्पन्नस्याणः <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति लुक्। `प्राप्तजीविकः` इति। प्राप्तापन्ने च द्वितीयया` [[2.2.4]] इति समासः। `अलञ्जीविकः` इति। `पर्यादयो ग्लानाद्यर्थे चतुर्थ्या (वा। 93) इति समासः। निष्कौशाम्बिः` इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या` (वा।94) इति॥", "24027": "`अआवडवयोर्विभाषैकवद्भावो विहितः`इति। `विभाषा वृक्षमृग` [[2.4.12]] इत्यादिना। `अर्थातिदेशश्चायम्, न निपातनम्` इति। निपातने हि पूर्ववदिति वचनमर्थकं स्यात्, अआवडवावित्येवं ब्राऊयात्। तेन `द्विवचनमतन्त्रम्` इत्यादिनाऽर्थातिदेशस्य फलं दर्शयति। निपातने हि वचनान्तरे पूर्ववल्लिङ्गता न स्यात्॥", "24028": "परवल्लिङ्गतापवादोऽयं योग इति हेमन्तशिशिरावित्यत्र नपुंसकत्वापवादः, परस्य शिशिरशब्दस्य नपुंसकत्वात्। `अहोरात्रे` इति। पुंल्लिङ्गत्वापवादोऽयम्। <<रात्राह्नाहाः पुंसि>> [[2.4.29]] इति पुंल्लिङ्गत्वे प्राप्ते छन्दसि लिङ्गव्यत्यय उक्त इति - <<व्यत्ययो बहुलम्>> [[3.1.85]] इत्यनेन॥", "24029": "`परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोः` इति। रात्रिशब्दस्य स्त्रीलिङ्गत्वादहः शब्दस्य च नपुंसकत्वात्। `द्विरात्रः` इति। द्वयो रात्र्योः समाहारः। `तद्धितार्थ` [[2.1.50]] इत्यादिना समाहारे द्विगुः। `अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः` [[5.4.87]] इत्यच् समासान्तः। अत्र हि `अच् प्रत्यन्ववपूर्वात् सामलोम्नः` [[5.4.75]] इत्यतोऽजित्यनुवर्तते। `पूर्वाह्णः` इति।र अह्नः पूर्वमिति विगृह्र `पूर्वापर` [[2.2.1]] इत्यादिना समासः, `राजाहःसखिभ्यष्टच्` [[5.4.91]] इति टच्, <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यह्नादेशः; `अह्नोऽदन्तात्` [[8.4.7]] इति णत्वम्। `द्वयहः` इति। पूर्ववत् समाहारे द्विगुः। पूर्ववत् टच्। <<न संख्यादेः समाहारे>> [[5.4.89]] इति प्रतिषेधावह्नदेशो न भवति। <<अह्नष्टखोरेव>> [[6.4.145]] इति टिलोपः। `अनुवाकादयः` इति। केचिदाहः - बहुव्रीहिरयम्, अनुक्रान्तो वाकोऽनयानेन वाऽनुवाकः। स्त्रीलिङ्गे नपुंसकलिङ्गे च प्राप्ते वचनम्। अन्ये च मन्यन्ते - योऽयं घञ् स सामर्थ्यात् पुंल्लिङ्गः। तस्य हि नपुंसके भावे क्तोऽपवादः, स्त्रियाञ्च क्तिन्। तेनासौ सामर्थ्यात् पुंस्यवावतिष्ठते। यस्त्वकर्तरि कारके विधीयते स पुंसि नपुंसके च वर्तते; बाधकाभावात्। स्त्रियान्तु न भवति; यतः <<स्त्रियां क्तिन्>> [[3.3.94]] इत्यकर्तरि च कारके विदीयते, स विशेषविहितो घञं बाधते। इह च वचेः <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति घञ् विहितः। अनूच्यते यत् पदं तदनुवाकः। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। अस्मिन् पक्षे नपुंसके प्राप्ते वचनम्॥", "24030": "`अपधम्` इति। <<पथो विभाषा>> [[5.4.72]] इति यदा समासान्तप्रतिषेधो नास्ति तदा `ऋक्पूरब्धूपथामानक्षे` [[5.4.74]] इत्यकारः समासान्तः। समासान्तनिर्दशाद्यदा समासान्तो नास्ति तदा पुंल्लिङ्गतैव भवति - अपन्था इति॥", "24031": "अद्र्धर्चा इति बहुवचननिर्देशादाद्यर्थो गम्यत इत्याह - `अद्र्धर्चादयः` इत्यादि।`शब्दरूपाश्रया चेयम्` इति। शब्दरूपमाश्रयो यस्याः सा तथोक्ता। शब्दरूपमाश्रित्यार्थमनपेक्ष्यद्विलिङ्गतेयं विधीयत इत्यर्थः। क्रियाशब्दस्याभिधेयवल्लिङ्गमिति भूतं कुण्डम्, भूता शाटी, भूतो घट इति। यौगिकस्याभिधेयवल्लिङ्गमिति लवणं शाकम्, लवणा यवगूः, लवणः सूपः इति। लवणेन संसृष्टमिति `संसृष्टे` (4।4।क22) इति ठक्। तस्य <<लवणाल्लुक्>> [[4.4.24]] इति लुक्। अत एव तद्धितार्थयोगे भूतत्वात् अपूर्वशब्दोऽयं धर्माधर्मयोर्वर्तते। `तत्साधने` इति। अदृष्टोपार्जनं प्रति यस्याङ्गभावः स तत्साधनमित्यर्थः, स पुनर्यागादिः। कर्मशब्दो नकारान्त एवोभयलिङ्ग इति क्रम कर्मा चेति॥", "24032": "`आदेशः कथनम्` इति। प्रथमतः प्रतिपादनम्, शब्देन। `अनवादेशोऽनुकथम्` इति। पश्चात्प्रतिपादनम्। तच्च यादृशमिहाभिप्रेतं तादृशं पश्चाद्वक्ष्यति। `आभ्यां छात्राभ्याम्` इत्यादि। आदेश एषः। `अथो आभ्याम्` इत्याद्यन्वादेशः एषः। अथोशब्देनात्रान्वादेश उच्यते।ननु च त्यादाद्यत्वे कृते हलि लोपे [[7.2.113]] चाथो आभ्यामित्यादिरूपं सिध्यत्येव, तस्मादनुदात्तमेव केवलं विधेयम्, आदेशवचनं त्वनर्थकमित्यत आह - `आदेशवचनम्` इत्यादि। <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यकरच्प्रत्यये कृते सत्यपि <<अनाप्यकः>> [[7.2.112]] इत्यधिकारादिद्रूपस्य लोपो नास्तीत्यस्तयादेशवचने रूपं न सिध्यति। ननु च <<हलि लोपः>> [[7.2.113]] इत्यनेन हलादाविद्रूपस्य लोपेऽनेनाजादौ यथा स्यादित्यवेवमर्थं कस्मान्न भवति? नैतदस्ति; सामर्थ्याद्धि हलादावेव भवितव्यम्, तत्र स्मैभावादिषु कृतेषु। तस्मात् साकच्कार्थमादेशवचनम्। साकच्कार्थे चास्मिन्नारब्धे शित्करणं सर्वादशार्थम्; अन्यथा ह्रलोऽन्त्स्य स्यात्। प्रयोजनाभावान्न भविष्यतीति चेत्, न; अकारस्य त्वकारवचनं दीर्घादेशनिवृत्त्य्रथं विज्ञायते। अथानुदात्तवचनं किमर्थम्, यावता <<ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः>> [[6.1.171]] इति विभक्तेरुदात्तत्वे कृते `आनुदात्तं पदमेकवर्जम्` [[6.1.158]] इति प्रकृतेरनुदात्तत्वं भविष्यति? नैतदस्ति; सविभक्त्यर्थमनुदात्तवचनम्, सविभक्तिकस्यानुदात्तत्वं यथा स्यात्। तेन सर्वानुदात्तमेवाभ्यामिति पदमन्वादेशे भवति। यदि पश्चादुच्चारणमात्रमन्वादेशस्तदेह कस्मान्न भवति - देवदत्तं भोजय, इमञ्च यज्ञदत्तमिति? अस्ति ह्यत्राप्यन्वादेशः, ततश्च <<द्वितीयाटौस्स्वेनः>> [[2.4.34]] इत्येनादेशः प्राप्नोतीत्यत आह - `नेह पश्चादुच्चारणमात्रम्` इत्यादि। `तेनेह न भवति` इति। न ह्यत्रैकस्याभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनम्, किं तर्हि? अभिधेयान्तरस्य। तथाहि पूर्वं देवदत्तस्य प्रतिपादनम्, उत्तरकालं यज्ञदत्तस्य। कथं पुनरयं विशेषो लभ्यते, यावतापश्चादुच्चारणमात्रेऽन्वादेशशब्दः प्रसिद्धः, न च सामान्यशब्दः शब्दान्तसन्निधानादिकरमन्तेरण विशेषेऽवतिष्ठते? नैष दोषः; यस्मात् `विभाषा सेना` [[2.4.25]] इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनैवंविधविषय एवान्वादेशोऽत्र ग्रहीतव्यः, नान्वादेशमात्रम्। तसमाद्विशिष्टस्यान्वादेशस्य ग्रहणं युक्तमिति भावः। यदपि च वक्ष्यति तत्र - `यत्र किञ्चिद्विधाय` इत्यादि, तदपीममेव न्यायं ह्मदि कृत्वेति बोद्धव्यम्॥", "24033": "`अथो अत्र` इति। <<सप्तम्यास्त्रल्>> [[5.3.10]] । `अथो अतः`इति। <<पञ्चम्यास्तसिल्>> [[5.3.7]] । `पुनर्वचनमनुदात्तार्थम्` इति। `एतदोऽश्` [[5.3.5]] इति यः पाञ्चमिकोऽशादेशः स उदात्तः स्यात्। अनुदात्ततश्चेष्यत इत्यनुदात्तार्थ वचनम्। अथ त्रतसोरिति किमर्थम्, यावता `त्रतसौ चानुदात्तौ` इति वचनात् तयोरेव निमित्तभावो विज्ञास्यते? नैतदस्ति; अन्वाचयोऽपि विज्ञायेत, यथा - `कर्त्तुः क्यङ सलोपश्च` [[3.1.11]] इति। अत्राविशेषेण क्यङ भवति। तथाऽत्राविशेषेण तावदशादेशो भवति। यत्र तु त्रतसौ दृश्येते तत्र तावनुदात्तौ भवतः, तस्मात् तावन्निमितभावार्थं त्रतसोरितिवक्तव्यम्। अथ त्रतसोरनुदात्तत्वं किमर्थम्, यावता लित्स्वर एव तयोरनुदात्तत्वं करिष्यति? नैतदस्ति; न ह्यत्र लित्स्वरोऽस्ति, अनुदात्तस्यादेशस्य विधानात्। ननु च लितस्वरे कृत आदेशस्वरः क्रियते; यद्येवम्, लित्स्वरापवाद आदेशस्वरो विज्ञायेत, न चापवादविषयमनुत्सर्गोऽभिनिविशते? तस्माद्यथा गोष्पदप्रमित्यत्र लिति पूर्वमनुदात्तभावो नास्तीति प्रत्तययस्वर एव भवति; तथेहापि स्यादिति त्रतसोरनुदात्तार्थ वचनम्। ततश्चैतदपि सर्वमनुदात्तं पदं भवति। ताविति वक्तव्ये त्रतसोरिति वचनं स्पष्टार्थम्। गोषपदप्रमिति। `यावति विन्दरजीवोः` [[3.4.30]] । `चर्मोदयोः पूरेः` [[3.4.31]] । `वर्षप्रमाण ऊलोपश्चादन्यतरस्याम्` [[3.4.32]] इति णमुल्, ऊलोपश्च॥", "24034": "द्वितीयाटौस्स्वेनः। द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः। `इदमोऽन्वादेशे` इत्यत `इदम` इति, `अन्वादेशे` इति चानुवर्तते। `एतदस्त्रतसोः` इत्यत `एतद` इति च। तदाह - द्वितीयायामित्यादिना। `अनावादेश` शब्दं व्याचष्टे-किञ्चिदिति। विधातुमिति। अपूर्वं बोधयितुमित्यर्थः। अन्वादेशमुदाहृत्य दर्शयति -यथेति। उदाहरणप्रदर्शने यथाशब्द। `ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्` इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात्। किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम्। इति मान्ताः। अथ णकारान्ताः। गणयतेर्विजिति। `गण सङ्ख्याने` इति चुरादिरदन्तः। ततः सुपूर्वात्स्वार्थे णिच्। अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्माद्विच्, `अन्येभ्योऽपि दृश्यते` इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः। सुगण् इति रूपम्। सुगणौ, सुगण इत्याद्यविकृतमेव। सुपि `ङ्णोः कुक्टुक्शरी`ति टुग्विकल्पः। `चयो द्वितीयाः` इति टस्य ठ इत्यभिप्रेत्याह - सुगण्ठ्सु इति। द्वितीया।ञभावे रूपमाह - सुगण्ट्सु इति। टुगभावे रूपमाह - सुगण्सु इति। सुगाणिति। गणधातोरदन्ताण्णिच्, अल्लोपः। तस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्मात्क्विप्, णिलोपः अपृक्तलोपः। `अनुनासिकस्य क्विझलो`रिति दीर्घः। सुगाणिति रूपम्। सुगाणौ सुगाण इत्यादि। नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च। इति आन्ताः। अथ नान्ताः। राजन्शब्दे विशेषमाह - परत्वादिति। हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेव `सर्वनामस्थाने चाऽसंबुद्धौ` इति दीर्घः। ततो हल्ङ्यादिलोप इत्यर्थः। नच `विप्रतिषेधे यद्बाधितं तद्वाधितमेवे`ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं, `पुनः प्रसङ्गविज्ञानात्सिद्ध`मिति। विप्रतिषेधे यद्वाधितं`मित्यस्याऽसार्वत्रिकत्वादिति भावः। नलोप इति। `न लोपः प्रातिपदिकान्तास्ये`ति नकारस्य लोप इत्यर्थः।", "24035": "`दध्यात्` इति। आशिषि लिङ। <<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकसंज्ञा। `हन्यात्` इति। `विधिनिमन्त्रण` [[3.3.161]] इत्यादिना लिङ। `विषयसप्तमी चेयम्` इति। यदि परसप्तमी स्यात् तदा भव्यमित्यादि न सिद्ध्यति। तथा हि - हलन्तत्वादस्त्यादीनाम् `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यति कृते तस्मिन् परतः <<अस्तेर्भूः>> [[2.4.52]] , `अजेव्र्यघञपोः` [[2.4.56]] `चक्षिङः ख्याञ्` [[2.4.54]] इत्येते आदेशाः स्युतः। तत्र द्वयोर्वृद्धौ कृतायां तृतीयस्य युकि कृते भाव्यं प्रवैयमाख्याय्यमित्यनिष्टं रूपं स्यात्। विषयसप्तम्यां त्वस्यामार्धधातुकत्वे विवक्षिते प्रागेव प्रत्ययोत्पत्तेरादेशाः स्युः। ततोऽजन्तत्वात् `अचो यत्` [[3.1.97]] इति यति `ईद्यति` [[6.4.65]] इतीत्वे कृते सर्वेषां गुणेऽस्त्यादेशस्य <<धातोस्तन्निमित्तस्यैव>> [[6.1.80]] इत्यवादेशे च भव्यं प्रवेयमाख्येयमिति सिद्ध्यति। तस्माद्विषयसप्तमीयम्, न परसप्तमी। कथं पुनर्विषयसप्तमीयं लभ्यते, यावता <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति परिभाषोपस्थानात् परसप्तम्येव न्याय्या, न विषयसप्तमी? नैतदस्ति; <<आर्धधातुके>> [[6.4.46]] इति सामान्यनिर्देशात्, न च सामान्ये पौर्वापर्यमस्ति। ब#उद्ध्या पौर्वापर्यमस्तीति चेत्? नैवम्; एवं हि गौरवं स्यात्। अथ वा - `अचो यत्` [[3.1.97]] इत्यज्ग्रहणं ज्ञापकम् - विषयसप्तमीयमिति। `पश्चाद्यथाप्राप्तम्` इत्यादि। आदेशेषु कृतेषूत्तरकालं यो यतः प्राप्नोति स ततो भवतीत्यर्थः॥", "24036": "`प्रजग्घ्य` इति। `समानकर्त्तृकयोः पूर्वकाले` [[3.4.21]] इति क्त्वा। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] । `जग्धः` इति। `झषस्तथोर्द्धोऽधः` [[8.2.40]] इति तकारस्य धकारः। <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम् - धकारस्य दकारः। <<झरो झरि सवर्णे>> [[8.4.65]] इति लोपः। अथेह <<इदितो नुम् धातोः>> [[7.1.58]] इति नुम् कस्मान्न भवतीत्यत आह - `इकार उच्चारणार्थः` इति। यथा - `अद भक्षणे` (धातुपाठः-1011) इत्यत्राकार उच्चारणार्थः, तथेहापीकारो वेदितव्यः। अथ ल्डग्रहणं किमर्थम्, ति कितीत्येवं सिद्धम्? न सिध्यति; यस्मात् क्त्वाप्रत्ययस्य परत्वाल्ल्यवादेशः प्राप्नोति, नैतदस्ति; अन्तरङ्गत्वाज्जग्ध्यादेशेन भवितव्यम्। अन्तरङ्गत्वन्तु तस्यैकपदाश्रयत्वात्। ल्यबादेशस्य तु बहिरङ्गत्वम्; समासाश्रयत्वात्; समासस्य चानेकपदाश्रयत्वात्। एवं तर्हि - जग्धौ सिद्धेऽन्तरङ्गत्वात् ति किति यल्ल्यबुज्यते।(तज्) ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्॥इति।तेन दधातेः, जहातेश्च संपूर्वाद्विपूर्वाच्च क्त्वाप्रत्यये कृते `द्यतिस्यतिमास्थामिति किति` [[7.4.40]] इत्यतस्ति कितीत्यनुवर्तमाने <<दधातेर्हिः>> [[7.4.42]] <<जहातेश्च क्त्वि>> [[7.4.43]] इति हिरादेशो ल्यबादेशं बाधित्वं प्राप्तः। अस्मादेव ज्ञापकाल्ल्यपा बाधितत्वान्न भवति - संधाय, विहायेति। एवं निर्दाय दुर्दायेति <<दो दद् घोः>> [[7.4.46]] इति ददादेशो न भवति। प्रस्थायेत्यत्र `द्यतिस्यातिमास्थामितित किति` [[7.4.40]] इतीत्वं न भवति। प्रखन्य प्रखायेति `जनसनखनां सञ्जलोः` [[6.4.42]] इति नित्यमात्त्वं न भवति, <<ये विभाषा>> [[6.4.43]] इति विभाषैव भवति। तत्र हि `विह्वनोरनुनासिकस्यात्` [[6.4.41]] इत्यत आद्ग्रहणनुवर्तते। `प्रक्रम्य` इति <<क्रमश्च क्त्वि>> [[6.4.18]] इति दीर्घत्वं न भवति। तत्र हि <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यतो दीर्घग्रहणम्, <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इत्यतो झल्ग्रहणं क्ङिति चानुवर्तते। आपृच्छ्येति `च्छ्वोः शूजनुनासिके च` [[6.4.19]] इति शकारो न भवति। प्रदीव्येत्यत्रानेनैव सूत्रेणोठ् न भवति। `हलि च` [[8.2.77]] इति दीर्घत्वम्। प्रपठएत्यत्र `आर्धधातुकस्य` [[7.2.35]] इतीड् न भवति॥", "24037": "`अघसत्` इति। लृदित्त्वात् पुषादिसूत्रेण [[3.1.55]] च्लेरङ्गादेशः। `जिघत्सति` इति। `सः स्यार्धधातुके` [[7.4.49]] इति सकारस्य तकारः।`घस्लृभावेऽच्युपसंख्यानम्` इति। घस्लृभावे कर्तव्येऽचि तस्योपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन घस्लृभावेऽच्यपि भवति। `प्रघसः` इति। पचाद्यच्॥", "24038": "`घासः` इति। भावे घञ्। `प्रघसः` इति। <<उपसर्गेऽदः>> [[3.3.59]] इत्यप्। `लुङसन्घञ्प्सु घस्लृ` इत्येकयोगे कर्तव्ये योगविभागो वैचित्र्यार्थः॥", "24039": "`घस्ताम्` इति। लङ, तसस्ताम्, आदादिकत्वाच्छपो लुक्। `बहुलं छन्दस्यामाङ्योगेऽपि` [[6.4.75]] इत्यहागमाभावः। अथ वा लुङ्युदाहरणमेतत्। `मन्त्रे घसह्वर` [[2.4.80]] इत्यादिना च्लेर्लुक्। `सग्धिः` इति। स्त्रियां क्तिन्` [[3.3.94]] । <<घसिभसोर्हलि च>> [[6.4.100]] इत्युपधलोपः। <<झलो झलि>> [[8.2.26]] इति सकारलोपः। अथ तु सिचोऽनेन लोपो विधीयते तदा च्छान्दसी वर्णलोपो द्रष्टव्यः - यथा इष्कर्तारमध्वर इति। पूर्ववत् तकारस्य धकारः। घकारस्य जश्त्वम्। समाना ग्धिरिति <<पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च>> [[2.1.58]] इत्यादिना समासः, <<समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु>> [[6.3.84]] इति सभावः। `अत्ताम्` इति। <<झलो झलि>> [[8.2.26]] इति सिचो लोपः। तसस्ताम्। `खरि च` [[8.4.54]] इति दकारस्य तकारः। अथ वा लङ्युदाहरणमेतत्। अथ बहुलग्रहणं किमर्थम्, अन्यतरस्यांग्रहणमेव कस्मान्न क्रियते इत्युच्यते कः पुनरेवं सति गुणे भवतीति पर्यनुयोगमाशङ्क्याह - `तदेवोत्तरार्थमपि भविष्यति` इति। एतेनेहान्यतरस्यांग्रहणे सत्युत्तरसूत्रेऽन्यतरस्यांग्रहणं न कर्तव्यं भवतीतीमं गुणं दर्शयति। तर्हीहैवान्यतरस्यांग्रहणमुत्तरसूत्रेऽनुवर्तिष्यते। यदि पुनरुत्तरसूत्रे बहुलग्रहणमनुवर्त्तेत तदा किं स्यात्? अन्यदपि किञ्चित कार्यं भवतीत्याशङ्क्येत। क्वचिदन्यदेवेत्येषोऽप्यर्थो हि बहुलग्रहणस्याभीष्ट एव। `घस्तामित्यत्रोपधालोपो न भवति` इति। <<घसिभसोर्हलि च>> [[6.4.100]] इति प्राप्तः। स बहुलग्रहणान्न भवति॥", "24040": "`लिटि परतः` इति। ननु च <<आर्धधातुके>> [[6.4.46]] इति वर्तते, `आर्धधातुके` इति च विषयसप्तमीयमित्युक्तम्, तदयुक्तं लिटि परत इति वचनम्? नेदमयुक्तम्; आर्धधातुकशब्दस्यार्धधातुकत्वमनेकप्रत्ययसाधारणं सामान्यमर्थः, तेन च पौर्वापर्यं न सम्भवति। तद्धि देशतो वा भवति कालतो वा, सामान्यस्य चादेशत्वात् कालत्वान्नित्यत्वाच्च तेन सह देशकृतं कालकृतञ्च पौर्वापर्यं नोपपद्यते, अतो युक्ता `आर्धधातुके` इति विषयसप्तमी। इह तु `लिटि` इत्यार्धधातुक उपात्तः, सम्भवति चानेन पौर्वापर्यम्। किञ्च - लिटि रभूते घस्लृ- आदेशे विधीयमाने न किञ्चिदनिष्टमापद्यते। तस्मात् परसप्तम्येवैषा युक्ता। `जक्षतुः` इति। `गमहन` [[6.4.98]] इत्यादिनोपधालोपः, `शासिवसिघसीनाञ्च` [[8.3.60]] इति षत्वम्, `खरि च` [[8.4.54]] इति चर्त्वम्। `आद, आदतुः, `आदुः` इति। <<अत आदेः>> [[7.4.70]] इत्यभ्यासस्य दीर्घः। ननु च `घस्लृ अदने` (धातुपाठः-715) इत्येतस्य जाघास, जक्षतुः, जक्षुरिति भविष्यति; `अद भक्षणे` (धातुपाठः-त1011) इत्यस्य आद, आदतुः, आदुरिति; अस्ति घसिः प्रकृत्यन्तरम्, <<सृघस्यदः क्मरच्>> [[3.2.160]] इति क्मरज्विधानात्, तत् कथमिह लिटि विकल्पविधानम्? घसेः प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थम्। तेन तस्य सार्वधातुक आर्धधातुके च यत्र लिङ्गं नास्ति वचनञ्च, तत्र प्रयोगो न भवति॥", "24041": "`इकार उच्चारणार्थः` इति। नानुबन्धः। तेन नुम् न भवतीति भावः। `उवाय` इति। `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इति सम्प्रसारणम्। `ऊयतुः, ऊयुःक` इत्यत्रापि ग्रह्रादिसूत्रेण [[6.1.16]] सम्प्रसारणम्। अथ यकारस्य सम्प्रसारणं कस्मान्न भवतीत्याह - `लिटि वयो यः` इत्यादि। `वेञ इति सम्प्रसारणं न भवति` इति। वच्यादिसूत्रेण प्राप्तम् `वेञः` [[6.1.39]] इति प्रतिषेधान्न भवति। तत्र हि <<न सम्प्रसारणे सम्प्रसारणम्>> [[6.1.37]] इत्यतो नेति वर्तते। उवाय इत्यादि रूपं वयेरात्मनेपदित्वान्न सिद्ध्यतीति सूत्रारम्भः॥", "24042": "`अकारान्तश्चायमादेशः` इति। कुत एतत्? शैलीयमाचार्यस्य यत्रेह प्रकरणे व्यञ्जनान्त आदेशः, तत्रोच्चारणार्थमिकारं करोति, यथा - जग्धिरित्यादौ। तस्मादिकारान्ताकरणादकारान्तोऽयमादेश इति विज्ञायते। `हलन्तलक्षणा` इति। <<वदव्रजहलन्तस्याचः>> [[7.2.3]] इत्यनेन या वृद्धिर्विधीयते सा हलन्तलक्षणा।", "24043": "`आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लुङि मा भूत्` इति। अनेन योगविभागस्योत्तरार्थतां दर्शयति। एकयोगे हि सति लिङोऽप्युत्तरत्रानुवृत्तेस्तत्राप्यात्मनेपदेषु विकल्पः स्यात्॥", "24044": "`आवधिष्ट` इति। <<आङो यमहनः>> [[1.3.28]] इत्यात्मनेपदम्। `आफधिषत` इति। <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यवादेशः। `आहत` इति। <<हनः सिच्>> [[1.2.14]] इति कित्त्वम्, `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनाऽनुनासिकलोपः, `ह्रस्वादङ्गात्` [[8.2.27]] इति सिचो लोपः॥", "24045": "`अगात्` इति। `गतिस्था` [[2.4.77]] इत्यादिना सिचो लुक्। `अगुः` इति। `आतः` [[3.4.110]] इति झेर्जुस, <<उस्यपदान्तात्>> [[6.1.96]] इति पररूपत्वम्। `लुङीति वर्तमाने` इत्यादि। `लुङि च` [[2.4.43]] इत्योत लुङगर्हणेऽनुवर्तमाने यत्पुनः लुङग्रहणं कृतं तस्यैततप्रयोजनम् - परस्मैपदेष्वपि यथा स्यात्। नित्यञ्चात्मनेपदेषु। एतेनैतद्दर्शयति - पूर्वकं हि लुङग्रहणमात्मनेपदग्रहणेनान्यतरस्याग्रहणेन च सम्बद्धम्, अतस्तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तथा चात्मनेपदष्वेव विकल्पेनादेशः स्यात्। तस्मादविशेषेण, नित्यञ्च यथा स्यादित्येवमर्थं पुनर्लुङग्रहणं क्रियते। `अगायि` इति। <<चिण् भावकर्मणोः>> [[3.1.66]] इति चिण्। <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्। <<चिणो लुक्>> [[6.4.104]] इति तकारस्य लुक्।`इण्वदिक इति वक्तव्यम्` इति। यथेणो गादेशो लुङि भवति, तथा `इक् स्मरणे` (धातुपाठः-1047) इत्यस्यापि भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<बहुलं छन्दसि>> [[7.4.78]] इत्यतो बहुलग्रहणमनुवर्तते मण्डूकप्लुतिन्यायेन। तेनेकोऽपि लुङि गादेशो भविष्यतीति॥", "24046": "`गमयति` इति। `जनीजृष्क्नसुरञ्जोऽमन्ताश्च` (धातुपाठः-ग।सू।817) इति मित्त्वात् ह्रस्वत्वम्॥", "24047": "`जिगमिषति` इति। <<गमेरिट् परस्मैपदेषु>> [[7.2.58]] इतीट्। `प्रतीषिषति` इति। <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति <<सन्यङोः>> [[6.1.9]] इत्यनेन स इत्यस्य द्वर्वचनम्। `सन्यतः` [[7.4.79]] इतीत्त्वम्। उपसर्गेकारस्य धातोरिकारेण सह <<अकः सवर्णे दीर्घः>> [[6.1.101]] । `इङश्च` [[2.4.48]] इत्यादिना योगविभागस्योत्तरार्थतां दर्शयति। एकयोगे हि णेरप्युत्तरत्रानुवृत्तिः स्यात्, ततश्च तत्राप्ययमादेशः प्रसज्येत॥", "24048": "`अधिजिगांसते` इति। <<पूर्ववत् सनः>> [[1.3.62]] इत्यात्मनेपदम्। <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः॥", "24049": "`अधिजगे` इति। <<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्येश्। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। गा इत्येतस्य द्विर्वचनम्। ननु लिटि परभूते तशब्दस्य परत्वात् प्रगेवैशादेशेन भवितव्यम्; पश्चात् गाङादेशेन, ततश्च द्विर्वचने निमित्तेऽच्ययं गाङादेश इति <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थानिवद्भावादिवर्णस्य द्विर्वचनं प्राप्नोति, तत्कथं गा इत्येतस्य द्वर्वचनम्? नैतदस्ति; यस्मात् लिण्मात्रापेक्षत्वात् गाङादेशोऽन्तरङ्गः, लिडादेशविशेषाश्रयत्वादेशादेशो बहिरङगः, तस्मादन्तरङ्गत्वादेशादेशात् प्रागेव गाङ्गादेशेन भवितव्यम्, ततश्च द्विर्वचननिमित्तेनायमच्यजादेश इति स्थानिवद्भावो न भवति, तत्कुत इवर्णस्य द्विर्वचनप्रसङ्गः। `गाङोऽनुबन्धकरणं विशेषणार्थम्` इति। गाङकुटादिसूत्रे [[1.2.1]] `गाङकुटादिभ्यः` इत्युच्यमाने `कै गै शब्दे` (धातुपाठः-916,917) इत्यस्यापि ग्रहणं स्यात्, ततश्चागासीन्नट इत्यत्र ग्रहणं कस्मान्न भवति? येन हेतुना न भवति स हेतुर्गाङ्कुटादिसूत्रे एव दर्शितः। ननु चेङो ङितस्तत्र स्थानिवद्भावेनैव ग्रहणं भविष्यति, तत्क ङकारेणेत्यत आह - `न हि` इत्यादि। तत्र हि गाङित्येतस्य स्वरूपस्य ग्रहणम्। न च तत् स्थान#इवद्भावेन लभ्यते। किं तर्हि? कार्यम्। यस्मात् <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इति कार्यातिदेशोऽयम्, न रूपातिदेशः॥", "24050": "`अध्यैष्ट` इति। <<आडजादीनाम्>> [[6.4.72]] इत्याट्। `आटश्च` [[6.1.87]] इति वृद्धि। बाल-मनोरमाविभाषा लुङ्लृङोः 291, 2.4.50 विभाषालुङ्लृङोः। शेषं पूरयति - इङोगाङ्वा स्यादिति। `इङश्चे`त्यतो, `गाङ् लिटी`त्यतश्च तदनुवृत्तेरितिभावः। सिचि अधि अ गा स् त इति स्थिते - बाल-मनोरमाआगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् 1136, 2.4.50 आगस्त्य। अगस्तयः। कुण्डिना इति। अगस्त्यशब्दादृष्यणो लुक्। प्रकृतेरगस्त्यादेशः। कौण्डिन्यशब्दो गर्गादियञन्तः। बहुत्वे यञो लुक्। प्रकृतेः कुण्डिनादेशश्च। `यस्कादिभ्यो गोत्रे` इत्यारभ्य `आगस्त्यकौण्डिन्ययोः` इत्यन्तं द्वैतीयीकम्। अथ प्रकृतं चातुर्थिकम्-।", "24051": "`णावितीङपेक्षया` इत्यादि। णावितीयं या परसप्तमीङपेक्षया सा। `संश्चङोः` इतीयं या परसप्तमी सा ण्यपेक्षयेत्यर्थः। `अधिजिगापयिषति` इति। णिच्। `अर्तिह्यी` [[7.3.36]] इत्यादिना पुक्, सन्, इट्, गुणायादेशौ। अध्यापिपयिषति` इति। <<क्रीङ्जीनां णौ>> [[6.1.48]] इत्यात्त्वम्, पुक्, <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति `पा` इत्यस्य द्विर्वचनम्। `अध्यजीगपत्` इति। `णिश्रि` [[3.1.48]] इत्यादिना चङ। `णौ चङ्युपधाया ह्रस्वः` [[7.4.1]] । `सन्वल्लघुनि` [[7.4.93]] इति सन्वद्भावात् `सन्यतः` [[7.4.79]] इतीत्त्वम्। <<दीर्घो लघोः>> [[7.4.94]] इती दीर्घः॥", "24052": "`ईहामास` इति। ईहतेः <<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इत्याम्। `आमः` [[2.4.81]] इति लेर्लुक्; `कृञ्चानुप्रयुज्यते लिटि` [[3.1.40]] इत्यस्तेर्लिट्परस्यानुप्रयोगः। `प्रत्याहरग्रहणेनास्तेग्र्रहणसामर्थ्यात्` इति। `कृञ्चानुप्रयुज्यते लिटि` [[3.1.40]] इत्यत्र कृञिति प्रत्याहारग्रहणम्, `अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि` [[5.4.50]] इति कृशब्दादारभ्य `कृञो द्वितीयतृतीयशम्बबीजात्` [[5.4.58]] इत्याकृञो ञकारात्। तेन च प्रत्याहारग्रहणेनास्तेरपि ग्रहणम्; तस्यैतदेव प्रयोजनम् - आसेत्ेयतदनुप्रयोगे रूपं यथा स्यादिति। यदि चास्तेरनुप्रयोगेऽपि भूभावः स्यात्, तदासेत्येतदनुप्रयोगे रूपं न स्यादिति प्रत्याहारग्रहणमनर्थकम्। ततश्च`कृभ्वनुप्रयुज्यते लिटि` इत्येवं ब्राऊयात्। तत्राप्ययमर्थः - किमिदं प्रत्याहारग्रहणमुत करोतेरित्येव सन्देहः परिह्मतो भवति, कृतञ्च प्रत्याहारग्रहणम्, तस्मात् प्रत्याहारग्रहणसामर्थ्यादनुप्रयोगेऽपि भूभावोऽस्तेर्न भवति। `तथा चोच्यते` इत्यादिनाऽनन्तरोक्तमेवार्थमाप्तवचनेन द्रढयति। भूरिति दीर्घोच्चारणं निष्ठायां ह्रस्वश्रवणं मा भूत् - भूतो भूतवानिति, अस्तेरिति श्तिपा निर्देशोऽस्यतेर्मा भूत्; नैतदस्ति, निरनुबन्धक(व्या।प।53) पिरभाषयैवास्यतेर्न भविष्यति। तस्य ह्रुकारोऽनुबन्धः `इदितो वा` [[7.2.56]] इति विशेषणार्थः कृतः। अस्तेस्त्वकार उच्चारणार्थः, नानुबन्धः। एवं तर्हि श्तिपा निर्देशो वैचित्र्यार्थ इत्येके। निरनुबन्धकपरिभाषायाः प्रत्ययविधिविषयत्वादित्यपरे॥", "24053": "`वक्ता` इति। <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `ऊचे` इति। वच्यादिसूत्रेण [[6.1.15]] सम्प्रासारणम्॥", "24054": "`नित्यमात्मनेपदं न भवति` इति। यदि हि स्यात्, अकारानुबन्धकरणमनर्थकं स्यात्। तस्मात् कत्र्रभिप्राये क्रियाफले विवक्षित आत्मनेपदं स्यान्नान्यत्र।`क्शादिरपि` इति। ककारशकारयोरकार उच्चारणार्थः। क्श् ख्याञित्येवंरूप आदेशो वक्तव्यः। कथं पुनरिष्यमाणोऽप्येवंविध आदेशो लभ्यते? पूर्वोक्तस्य बहुलग्रहणस्यानुवृत्तेः। अत ए बहुलग्रहणस्यानुवृत्तेर्वर्जनेऽसनयोश्चादेशप्रतिषेधो भवतीति व्याख्यानं कर्तव्यम्।`संचक्ष्या` इति। `ऋहलोण्र्यत्` [[3.1.124]] ।`नृचक्षा` इति। `सर्वधातुभ्योऽसुन्` (द।उ।9।49), <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। `विचक्षणः` इति। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्तरि ल्युट्।`बहुलम्` इत्यादि। संज्ञायां छन्दसि च जग्ध्यादेशादिकार्यं बहुलं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? अन्नाद्यर्थम्। अन्नादयः शब्दा साधवो यथा स्युः। व्याख्यानन्तु तदेव बहुलग्रहणमाश्रित्य कर्तव्यम्। `अन्नम्` इति। अदो जग्धिरादेशो न भवति; बहुलग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तेः। `वधक` इति। `हनो वध` [[2.4.42]] इत्यादिना वधादेशो लिङ्युटच्यमानो हन्तेर्ण्वुल्प्रत्यये कृतेऽपि भवति। `गात्रम्` इति। औणादिकः ष्ट्रन्। <<इणो गा लुङि>> [[2.4.45]] इति लुङ्युच्यमानो गादेशोऽत्रापि भवति। `\tविचक्षणः` इति। चक्षिङ ख्याञादेशो न भवति ल्युटि। अजिरशब्दस्तु `अजिरशिशिरशिथिर` (द।उ।8।27) इति किरच्प्रत्ययान्त औणादिको निपातितः। तस्यात एव निपातनात् `अजेघञपोः` [[2.4.56]] इति विधीयमानो वीभावो न भवति। आदिशब्देन `प्रघस` इत्यादेग्र्रहणम्॥", "24055": "", "24056": "`प्रवायकः` इति। ण्वल्। `प्रवयणीयम्` इति। अनीयर्। <<कृत्यचः>> [[8.4.29]] इति णत्वम्। `घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्` इति। घञपोः कर्तव्ये क्यपः प्रतिषेधस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। क्यपः प्रतिषेधनिमित्तत्वेन प्रतिषेधं प्रति सम्बन्धित्वेन विवक्षितत्वात् क्यप इति षष्ठी। तत्रेदं प्रतिपादनम् - `संज्ञायां समजनिपतमनविद` [[3.3.99]] इत्यादिना संज्ञायां गम्यमानायामजेः क्यप् विधास्यते। नियतवर्णानुपूर्वीका च संज्ञा भवति, न चादेशे कृते संज्ञा गम्यते, तस्मात् संज्ञायां विधानात् क्यपि वीभावो न भवति। `वलादावर्धधातुके विकल्प इष्यते` इति। कथं पुनरिष्यमाणोऽपि लभ्यते? अजेरुदात्तत्वात्, स हीडर्थो धातुषूदात्तः पठते। यदि चास्य नित्यं वीभावः स्यात्, तदा तस्योदात्तपाठोऽनर्थकः स्यात्। न हि वीभावे विहित इट् प्राप्नोति;तस्यानुदात्तत्वात्।", "24057": "`यु` इति ल्युटो ग्रहणम्` इति। अन्यस्यासम्भवात्। `प्रवयणो दण्डः` इति। प्राज्यतेऽनेनेति करणे ल्युट्। पूर्ववण्णत्वम्॥", "24058": "`ण्यादयो गोत्रप्रत्ययाः` इति। <<गोत्राद्यून्यस्त्रियाम्>> [[4.1.94]] इति गोत्रप्रत्ययान्तादेव युवप्रत्ययविधानात्। `तस्माद्यूनीञ्` इति। `अत इञ्` [[4.1.95]] इत्यनेन। `कौरव्यशब्दस्तिकादिषु पठते` इति। औरसशब्दादनन्तरम्। `क्षत्रियगोत्रस्य तत्र ग्रहणम्` इति। औरसशब्देन क्षत्रियगोत्रप्रत्ययान्तेन साहचर्यात्। औरसशब्दो हि जनपदशब्दात् क्षत्त्रियादञ् [[4.1.166]] इति क्षत्त्रियगोत्रप्रत्ययान्तः॥`ऋष्यण्` इति। <<ऋष्यन्धकवृष्णिकुरुभ्यश्च>> [[4.1.114]] इत्यनेन। `कुर्वादिभ्यो ण्यः` इति। वमरथ्यशब्दं व्युत्पादयति। तस्मात् `कण्वादिभ्योगोत्रे इति शैषिकोऽण्` इति। ननु च वामरथ्यशब्दः कुर्वादिषु पठते, न कण्वादिषु, तत्कथमेवमुक्तम्? यद्यपि न पठते, तथापि वामरथ्यस्य कण्वादिवत् स्वरवर्जमिति पाठात् कण्वादिवद्भावोऽस्ति, अत एवमुक्तमित्यदोषः।`दाक्षायणः` इति। <<यञिञोश्च>> [[4.1.101]] इति फक्।`अब्राआहृणगोत्रमात्रात्` इति। इह कैश्चिदुक्तम् - `अणिञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम्` इति। तेषां वैश्यगोत्रान्न प्राप्नोति; तस्माद्वैश्यगोत्रादपि यथा स्यादित्येवमर्थं मात्रग्रहणम्। ब्राआहृणक्षत्रियवैश्यानां हि गोत्राणि सम्भवन्ति, तत्र ब्राआहृणगोत्रं वर्जयित्वाऽन्यतः सर्वस्माद्भवति। पूर्वके तु वाक्येऽतद्राजादपि क्षत्रियगोत्राद्यथा स्यादित्येवमर्थं मात्रग्रहणम्। तथा हि `अणिञोर्लुकि तद्राजाद्युप्रत्ययस्योपसंख्यान्` दर्शयति। `भाण्डीजङ्घिः` इत्येवमादिना वैश्यगोत्रोदाहरणम्। ब्राआहृणगोत्रप्रतिषेधादिह न भवति - दाक्षायण इति। `शाल्वावयवलक्षणः` इति। क्षत्रियगोतर्मधिकृत्येदमुक्तम्। भाण्डीजङ्घिरित्यत्र वैश्यगोत्रे `अत इञ्` [[4.1.95]] इत्यनेनेञेव भवतीति वेदितव्यम्। `पैलादिदर्शनात् सिद्धम्` इति। पैलादेराकृतिगणत्वात् तत्रेते द्रष्टव्या इति दर्शयति॥", "24059": "`पीलाया वेत्यण्` इति। तत्र हि <<शिवादिभ्योऽण्>> [[4.1.112]] इत्यतोऽण्ग्रहणानुवृत्तेः। `अन्ये पैलादयः इञन्ताः` इति। अत्रौदञ्चिशब्दो बाह्वादित्वादिञन्तः। बाह्वादिषु ह्रुदञ्चुशब्दः पठते। उकारोच्चारणमतन्त्रम्। धातुप्रदर्शनार्थत्वात्। उदञ्चतीति `ऋत्विक्` [[3.2.59]] इत्यादिना सूत्रेण क्विन्। उदचोऽपत्यमौदञ्चिः। निपातनात् `अनिदिताम्` [[6.4.24]] इत्यादिना नलोपो न भवति, `अचः` [[6.4.138]] इत्यकारलोपश्च। भौलिङ्गिशब्दः शाल्वावयव इञन्तः। शेषास्तु `अत इञ्` [[4.1.95]] इतीञन्ता वेदितव्याः। शालङ्किरिति पठते, स कथम्, यावता नडादिषु `शलङ्कु शलङ्कञ्च` (ग।सू।67) इति पाठात् शालङ्कायन इत भवितव्यम्? प्रकृत्यन्तरं शलङ्कुशब्दोऽस्ति, ततोऽयमिञ् विहित इत्येके। अस्मादेव निपातनाच्छलङ्कुशब्दादिञिति विज्ञायते, तत्सन्नियोगे च शलङ्कादेश इत्यपरे। `तद्राजाच्चाणः` इति। तद्राजसंज्ञकाच्चाण उत्तरस्य युवप्रत्ययस्य लुग् भवति। अङ्गस्यापत्यमिति `द्वयञ्मगध` [[4.1.168]] इति फिञ्, तस्यानेन लुक्॥", "24060": "अन्यत्र प्राग्ग्रहणं विकल्पार्थं दृष्टम्, अत इहापि विकल्पो मा विज्ञायीत्याह - `गोत्रविशेषणम्` इत्यादि॥", "24061": "तौल्वल्यादिष्वान्तरहातिशब्दः पौष्करसादिशब्दश्च बाह्वादी इञन्तौ। बाह्वादिषु ह्रन्तरहच्छब्दः पुष्करसच्छब्दस्य पठएते; अत्रोभयपदवृद्धिकश्चानुरशतिकादित्वात्। शेषास्तु `अत इञ्` [[4.1.95]] इति इञन्ताः॥", "24062": "`बहुषु वर्तमानस्य` इति। बहुष्वर्थेषु वर्तमानस्येत्यर्थःर। अथ `बहुवचने परतः` इत्येवं कस्मान्न व्याख्यायते? अशक्यमेवं वक्तुम्; यतः संख्यावाची बहुशब्दो न बहुवचनवाची। यदि तु `बहुवचने परतः` इत्ययमर्थोऽत्राभिमतः स्यात्, अस्त्रियामिति प्रतिषेधे न कुर्यात्; प्राप्त्यभावात्। न हि तद्राजान्तदुत्पन्नेन स्त्रीप्रत्ययेन व्यवहिते बहुवचने परतो लुकः प्राप्तिरस्ति। किञ्च, अत्त्रय इत्यत्र बहुचने परतो लुकि विधीयमाने उदात्तनिवृत्तिस्वरः प्रसज्येत। कथम्? अत्त्रेरपत्यानि बहूनीति <<इतश्चानिञः>> [[4.1.122]] इति ढकि तस्य `तद्धितस्य`, `कितः` (6.1.170,165) इत्यन्तोदात्तत्तत्वे कृते बहुवचने जसि परतः `अत्त्रिभृगुकुत्सवसिष्ठ` [[2.4.65]] इत्यादिना लुकि कृते <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इति विभक्तेरुदात्तत्वं प्राप्नोति। तस्मात् बहुषु वत्र्मानस्येत्ययमेवार्थः। बहुष्विति च तद्राजान्तस्य विशेषणम्, न तद्राजस्य; अन्यथा हि द्वन्द्वे दोषः प्रसज्येत - आङ्गश्च वाङ्गश्च सौहृश्चाऽङ्गवाङ्गसुहृआ इत्यत्र हुङ् न स्यात्; न ह्यत्र तद्राजो बहुषु वर्तते। तदन्तस्तु वर्तते, युगपदधिकरणवचनो हि द्वन्द्व इति कृत्वा। तस्मात् तद्राजान्तस्यैवेदं विशेषणम्, न तद्राजस्य।`तद्राजसंज्ञकस्य प्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग्भवति` इत्ययं तु वृत्तिग्रन्थ एवमुन्नेयः - बहुषु वर्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य यः सम्बन्धी तद्राजसंज्ञकः प्रत्ययस्तस्य तद्राजसंज्ञकस्य प्रत्ययस्य लुग्भवति। कथम्? तद्राजान्तस्यैवैतत् सामर्थ्यं लब्धम्। न ह्रतद्राजान्तस्य तद्राजसंज्ञकः प्रत्ययः सम्बन्धी भवति। सूत्रेऽप्यन्तग्रहणं न कृतम्; प्रत्ययग्रहणपरिभाषयैव तदन्त स्य लब्धत्वात्। तथापि प्रत्ययान्तस्य लुगुच्यमानः प्रत्ययमात्रस्यैव विज्ञायते; <<प्रत्ययस्य लुक्श्लुलुपः>> [[1.1.61]] इति प्रत्ययादशनस्यैव लुक्संज्ञाविधानात्। `तेनैव चेत्` इति। तद्राजप्रत्ययान्तेनैवेत्यर्थः। `अङ्गाः, वङ्गाः, सुह्माः` इति। अङ्गस्यापत्यानि बहुनि। `द्वयञ्मगध` [[4.1.168]] इत्यादिनाऽण्, तस्य लुक्। `लोहध्वजाः, व्रीहिमन्तः` इति। `पूगाञ्ञ्योऽग्रामणीपूर्वात्` [[5.3.112]] इति ञ्यप्रत्ययः, तस्य लुक्।`औपगवाः` इति। `प्राग्दीव्यतोऽण` [[4.1.83]] `प्रियवाङ्गाः` इति। बहुव्रीहिः। नात्र तद्राजप्रत्ययेन बहुत्वं किं तर्हि? समासेन। न चासौ तद्राजप्रत्ययान्तःच ततस्तद्राजस्याविहितत्वात्। तद्येवम्, द्वन्द्वोऽपि, तद्राजप्रत्ययान्तो न भवतीति तत्रापि लुङ न स्यात्? नैतत् ; यदि द्वन्द्वोऽपि तद्राजप्रत्ययान्तो न भवति, तथापि प्रत्येकं द्वन्द्वावयवास्तद्राजप्रत्ययान्ता गह्वर्थाश्चेति तत्र भवत्येव लुक। न च बहुष्वित्यर्थग्रहणम्, यश्च बह्वर्थस्तत्रावश्यमेव तत्कृतेन बहुत्वेन भवितव्यम्, तत्क तेनैवेत्यनेन? एवं मन्यते - अन्तरङ्गत्वात् तद्राजप्रत्ययोत्पत्तिवेलायां यद्बहुत्वमुपजायते तदेव यदि गृह्रते, न तु तत्पदान्तरापेक्षम्, ततश्च द्वन्द्वेषु लुग् न स्यात्। तेनैवग्रहणं तु द्वितीयोऽयं यत्न इति - यः प्रत्ययान्तस्य बहुत्वं तेनैव क्रियते, यच्च पदान्तरापेक्षेणापि तत्र सर्वत्र भवतीति। यद्येवम्, इहापि प्राप्नोति - प्रियवाङ्गा इति? नैष दोषः; एवकारो ह्यत्र क्रियते। स तुल्यजातीयापेक्षयैव नियमं करोति, लोपिबिरेव यत् कृतं बहुत्वमिति। न च प्रियवाङ्गा इत्यत्र लोपिभिरेव कृतं बहुत्वम्, यस्मादत्र किञ्चिल्लोपि पदं किञ्चिदलोपि, एवञ्च नियमे सति द्वन्द्वे सति द्वन्द्वेऽपि यत्र लोप्यलोपिनां तत्रापि न भवति - <<नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्>> [[8.4.67]] इति, अत्र गाग्र्यकाश्यपयोः <<यञिञोश्च>> [[4.1.101]] इति लोपः प्राप्नोति। गालवस्य तु ऋष्यणन्तत्वान्नास्ति लुकः प्राप्तिः। `आङ्ग्यः` इति। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्॥", "24063": "`अपत्यं पौत्रप्रभृति गोत्रम्` [[4.1.162]] इति पारिभाषिकमेवेदं गोत्रं गृह्रते, न लौकिकमिति कस्यचिद्भ्रान्तिः स्यात्। अतस्तां निराकर्त्तुमाह - `प्रत्ययविधेयश्चान्यत्र ` इत्यादि। एतच्चोभयगतिरिह शास्त्रे संभवतीति लभ्यते। लौकिके गोत्रे गृह्रमाणे शास्त्रीयमपि तत्रान्तर्भवति; प्रत्ययविधौ तु लौकिकगोत्रस्य ग्रहणं न भवतीति ज्ञापकात्। यदयम् - <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्>> [[4.2.39]] इत्यत्र गौत्रग्रहणं कृत्वा राजन्यग्रहमं करोति, तज्ज्ञापयति - प्रत्ययविधौ लौकिकगोत्रग्रहणं न भवतीति।`यास्काश्छात्राः` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। पुष्करच्छब्दोऽप्यत्र पठते, स किमर्थः; यावता `बह्वच इञ् प्राच्यभरतेषु` [[2.4.66]] इत्येवं सिध्यति? न सिध्यति; <<न गोपवनादिभ्यः>> [[2.4.67]] इति प्रतिषेधः प्राप्नोति। गोपवनादिषु हि कैश्चित् तौल्वल्यादयश्चेति पठते, तौल्वल्यादिषु पुष्करसच्छब्दः पठते, तौल्वल्यादीनाञ्च गोपवनादिषु पाठोऽस्तीत्ययमेव यस्कादिषु पुष्करसच्छब्दपाठो ज्ञापयति॥", "24064": "`गार्ग्यः` इति। `यञश्च` [[4.1.16]] इति ङीप्। <<यस्येति च>> [[6.4.148]] इत्यकारलोपः, <<हलस्तद्धितस्य>> [[6.4.150]] इति यकारस्य च। तत्र हि <<सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः>> [[6.4.149]] इत्यतः `य` इत्यनुवर्तते, <<अल्लोपोऽनः>> [[6.4.134]] इत्यतो लोप इति च। `वैद्यः` इति। `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] । `द्वैप्याः, औत्साः` इति। जातादौ शैषिकेऽर्थे यञञो।`यञादीनाम्` इत्यादि। यञादीनां बहुषु लुगुच्यमान एकत्वे द्वित्वे च प्राप्नोतीति वचनम्। एकद्वयोरिति च संख्याप्रधानोऽयं निर्देशः, यथा - `द्वयेककयोर्द्विचवनैकवचने` [[1.4.22]] इति, एकत्वद्वित्वयोरिति यावत्; उपसंख्यानशब्दस्य प्रतिपादनमर्थः। कर्तव्यमित्यध्याहार्यम्। तत्रेदं प्रतिपादनम् - `वा यौ` [[2.4.57]] इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणमनुवर्तते। चकारो वात्रानुक्तसमुच्चयार्थः क्रियते। तेन यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठआ लुग्भवतीति। यदि वेत्यनुवर्तते तदा बहुष्वपि विकल्पः स्यात्। व्यवस्थिविभाषाविज्ञानान्न भविष्यतीत्यदोषः।`आङ्गकुलम्` इति। अत्राङ्गशब्दात् तद्राजसंज्ञकोऽण्, स च यञादिर्न भवति तस्येह प्रकरणे यञादिभ्यः प्राङ्निर्देशात्। `उपगाग्र्यम्` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिनाव्ययीभावः। `परमगार्ग्यः` इति। <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना प्रथमान्तयोस्तत्पुरुषः॥", "24065": "`{आत्रेय्यः - इति मुद्रितः पाठः`आत्त्रेयः` इति। `टिड्ढाणञ्` [[4.1.15]] इति। ङीप्॥", "24066": "`भरताः` इति। येषां भरत आद्यः संज्ञाकारी ते भरताः। `पन्नागाराः` इत्यादिषूहाहरणेषु `अत इञ्` [[4.1.95]] , तस्य लुक्। `बालाकयः` इति। बाह्वादित्वादिञ्। `हास्तिदासयः` इति। `अत इञ्` [[4.1.95]] । `आर्जुनायनः` इति। `यञियोश्च` [[4.1.101]] इति फक्॥", "24067": "विदाद्यन्तर्गणोऽयमिति लुक्प्राप्त दर्शयति। `शैग्रवाः` इति। <<ओर्गुणः>> [[6.4.146]] । ननु चान्येऽपि हरितादयोऽत्र पठन्ते, तत्किमित्यवधार्यत एतावन्त इत्यत आह - `परिशिष्टानाम्` इत्यादि। `प्रमादपाठः` इति। अनार्षः पाठः इत्यर्थः। यदि तेषां प्रमादपाठः, एवं तह्र्रविदादित्वादञप्येभ्यो न प्राप्नोतीत्यत आह - `ते हि` इत्यादि। ते हि चतुर्थेऽध्याये बिदादिषु गोपवनादिभ्यः पर्वे पठन्त इति न भवत्येष दोषप्रसङ्गः। यस्त्विह गोपवनादिभ्योऽष्टभ्यः पर एषां पाठः, स प्रमादपाठ इत्युच्यते॥", "24068": "", "24069": "", "24070": "यद्यपि प्रत्ययान्तात् षष्ठ्युच्चारिता, तथापि प्रत्ययस्यैव लुग्विज्ञायते, न तदन्तस्य; यस्मात् प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तदन्तस्येत्यालोच्याह - `आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोः` इति। व्यधिकरणे षष्ठ्यौ। आगस्त्यकौण्डिन्ययोर्याववयवौ गोत्रप्रत्ययौ तयोरित्यर्थः। तावेव प्रत्ययौ स्वरूपेण दर्शयन्नाह - `अणो यञश्च` इति। यञो यद्यपि लुक् सिद्धस्तथापि पुनर्विधीयते कुण्डिनजादेशेन तस्य बाधा मा विज्ञायीति। `मध्योदात्तो हि कुण्डिनीशब्दः` इति। कुण्डमस्यास्तीति <<अत इनिठनौ>> [[5.2.115]] इतीनिप्रत्यये कृते प्रत्ययस्वरेण। `तदादेशोऽपि तथा स्यात्` इति। स्थानिवद्भावेन मध्योदात्तः स्यात्। चित्करणान्मध्योदात्तत्वं न बवति। किमर्थं पुनः प्रत्ययान्तरयोरेवायमादेशो न क्रियत इत्याह - `तयोः` इत्यादि। यदि प्रत्ययान्तयोरेवायमादेशः स्यात <<गोत्रेऽलुगचि>> [[4.1.89]] इति प्रतिषधो न स्यात्। यस्माल्लुकोऽसौ प्रतिषेधो नादेशस्येति स्यादेवात्रादेशः, ततश्चावृद्धादणेव स्यात्; एवं चागस्ता इत्यनिष्टं रूपं स्यात्। यद्यपि वृद्ध्सयादेशः स्यानिवद्भावाद् वृद्धग्रहणेन गृह्रते तथाप्यगस्तीया इति स्यात्, आगस्तीया इति न सिध्यति। न च स्थानिवद्भावो लभ्यते; वृद्धसंज्ञाया अल्विधित्वात्। इह प्रत्ययस्य तु लुकि परिशिष्टस्यादेशे विहिते <<गोत्रेऽलुगचि>> [[4.1.89]] इति लुकि च प्रतिषिद्धे <<वृद्धाच्छः>> [[4.2.114]] सिद्धो भवति। `तत्र विशेषो नास्ति` इति। सत्यामपि वृद्धसंज्ञायां <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इति च्छापवदेनाणैव भवितव्यमिति नास्ति कौण्डिन्ये विशेषः॥", "24071": "`धातुप्रातिपदिकयोः` इति। यदीयं सप्तमी स्यात् तदाऽयमर्थो विज्ञायेत - धातौ च प्रातिपदिके च या सन्निकृष्टा विभ्कतिस्तस्या लुग्भवतीति। सन्निकृष्टत्वञ्चोपश्लेषमन्तरेण न सम्भवतीतीहापि स्यात् - वृक्षः प्लक्ष इति, अस्ति ह्यत्रापि प्रादिपदिकेन विभक्तेरुपश्लेषः। तस्मात् षष्ठीयं युक्तेति मत्वाह - `सुपो विभक्तेर्धातुसंज्ञायाः` इत्यादि। कथं पुनविभक्तेर्धातुसंज्ञा प्रातिपदिकसंज्ञा च भवतीत्यत आह - `तदन्तर्गता` इत्यादि। नन्वेमपि धातुप्रातिपदिकयोरेवकदेशीभूता विभक्तयः स्युः, न धातुसंज्ञकाः, नापि प्रातिपदिकसंज्ञकाः? समुदायेषु हि प्रवृत्ताः शब्दा अवयेवष्वपि वर्तन्त इत्यदोषः। `पुत्रीयती` #इति। आत्मनः पुत्रमिच्छतीति <<सुप आत्मनः क्यच्>> [[3.1.8]] <<क्यचि च>> [[7.4.33]] इतीत्त्वम्, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा, सा च सुबन्तात् क्यज्विहित इति ससुप्कस्यैव भवतीति तेनात्र विभक्तिर्धात्वन्तर्गता भवति। `कष्टश्रितः` इति। कष्टं श्रित इति `द्वितीया श्रित` [[2.1.23]] इत्यादिना समासः। <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, सापि सुबन्तानां समासो भवतीति ससुप्कस्यैव भवति। तेनात्रापि विभक्तिः प्रातिपद#इकान्तर्गता भवति। वृक्षः, प्लक्ष इत्यत्राप्यप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधात् सविभक्तिकस्य प्रातिपदिकसंज्ञा नास्तीति नास्ति विभक्तेः प्रातिपदिकान्तर्भावः॥", "24072": "", "24073": "`त्राध्वम्` इति। `त्रैङ पालनै` (धातुपाठः-965) भौवादिकः, लोट, ध्ममादेशः, टेरेत्त्वम्, `सवाभ्यावामौ` [[3.4.91]] इत्यमादेशः॥", "24074": "`अचि प्रत्यये परतः` इति। प्रत्ययग्रहणमचीति न प्रत्याहारग्रहणमिति प्रदर्शनार्थम्। यदि हि प्रत्याहारग्रहणभिमतं स्यात् तदाऽणीति णकारेणैव कुर्यात्। न हि यङन्तादणोऽन्येऽचः परे सम्भवन्तीत्यभिप्रायः। इदमेवाज्ग्रहणं ज्ञापकम् - सर्वे धातवः पचाद्यन्तःपातिन इति। `लोलुवः`इति। `धातोरेकाचो हलादेः क्रियासमभिहारे` [[3.1.22]] इति यङ्, द्वर्वचनं <<सन्यङोः>> [[6.1.9]] इत्यनेन, `गुणो यङलुकोः` [[7.4.82]] इति गुणः। लोलू य इति स्थिते पचाद्यच्, यङो लुक्, `न धातुलोप` [[1.1.4]] इत्यादिना गुणप्रतिषेधः। `अचि श्नुधातु` [[6.4.77]] इत्यादिनोवङ। `सनीरुआंसः। दनीध्वंसः` इति। `रुआन्सु ध्वन्सु अवरुआंसने` (धातुपाठः-754,755), पूर्ववद्यङ्दिकार्यम्। <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रतिषेधात् प्रत्ययलक्षणेन `अनिदिताम्` [[6.4.24]] इत्यादिनाऽनुनासिकलोपो न भवति। `नीग्वञ्चु` [[7.4.84]] इत्यादिनाऽभ्यासस्य नीगागमः। `लालपीति।वावदीति` इति। लपेर्वदेश्च <<दीर्घोऽकितः>> [[7.4.83]] इत्यभ्यासस्य दीर्घः। `यङो वा` [[7.3.94]] इतीट्॥", "24075": "`शबनुवर्तते, न यङ` इति। शब एव स्वरितत्वप्रतिज्ञानात्। `जुहोति` इति। `श्लौ` [[6.1.10]] द्विर्वचनम्। बिभर्ति` इति। `उरत्ट [[7.4.66]] इत्यत्त्वम्। `रपरत्वम्। `भृञामित्` [[7.4.76]] इतीत्त्वम्। `नेनेक्ति` इति। `णिजिर् शौचपोषयोः` (धातुपाठः-1093) , `निजां त्रयाणां गुणः` [[7.4.75]] , `श्लौ` [[6.1.10]] इति द्वर्वचनम्॥", "24076": "`दाति, धाति` इति। ददातिदधात्योः पूर्वसूत्रेण श्लौ प्राप्ते बहुलं प्रतिषिध्यते। शपो लुक्। `विवष्टि` इति। `वश कान्तौ` (धातुपाठः-1080), अदादित्वाच्छपो लुकि प्राप्ते श्लुः, `श्लौ` [[6.1.10]] इति द्वर्वचनम्, `भृञामित्` [[7.4.76]] इत्यनुवर्तमाने <<बहुलं छन्दसि>> [[7.4.78]] इतीत्त्वम्, व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्। <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्। `विभक्ति` इति। `भज सेवायाम्` (धातुपाठः-998) भौवादिकः,शपः श्लुः, पूर्ववदित्त्वम्, <<चोः कुः>> [[8.2.30]] ) इति कुत्वम्। `विवक्ति` इति क्वचित्पाठः। स च `वच परिभाषणे` (धातुपाठः-1063) इत्येतस्यादादिकस्य वेदितव्यः॥`अगात्` इति। `इमो गा लुङि` [[2.4.45]] इति गादेश-। `अपात्` इति। `पा पाने` (धातुपाठः-925)। `अभूत्` इति। <<भूसुवोस्तिङि>> [[7.3.88]] इति गुणप्रतिषेधः॥`गापोग्र्रहणे इण्पिवत्योग्र्रहणम्` इति। इणादेशस्य ग्रहणं तावद्गातीत्यत एव श्तिपा निर्देशाद्विज्ञायते। श्तिपा हि विकरणशून्य एवमर्थो निर्देशः क्रियते - लुग्विकरणस्यैव ग्रहणं यथा स्यादिति; अन्यथा हि यदि गायतेग्र्रहणमिष्टं स्यात् तदा गा इत्येवं ब्राऊयात्। एवं तर्हि `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इत्युभयोरपि ग्रहणं भविष्यति, किं श्तिपा निर्देशेन? तस्मादयमेव श्तिपा निर्देशो ज्ञापयति - इमादेश्सयैवेदं ग्रहणम्, न गायतेरिति। पाग्रहणे पिबतेरेव गर्हणमित्येतदपि `लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्` (व्या।प।50) इत्यनया परिभाषया विज्ञायते। `अघासीत्` इति। `कै गै शब्दे` (धातुपाठः-916,917) <<यमरमनमातां सक् च>> [[7.2.73]] इति सगागमः। सिच्, इट् च। `अस्तिसिचोऽपृक्ते [[7.3.96]] इतीट्। `इट ईटि` [[8.2.28]] इति सिचो लोपः। `अपासीत्` इति। `पा रक्षणे` (धातुपाठः- 1056) पूर्ववत् सगादिकार्यम्।`आगासाताम्` इति। कर्मण्यात्मनेपदम्। आताम्। किमर्थं पुनः सिचो लुगुच्यते, न लेरित्येवोच्येत? अत्राप्ययमर्थः सम्पाद्यते, उत्तरसूत्रे लिग्रहणं न कर्तव्यं भवति? नैतदस्ति; इह लेर्हि लुकि विज्ञायमाने मा हि गातामिति <<आदिः सिचोऽन्यतरस्याम्>> [[6.1.187]] इत्यादिः स्वरो न सिद्ध्येत्,स पुनरुदात्तः। अगुरित्यत्रापि `आतः` [[3.4.110]] इति `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुस्भावो न सिद्ध्यति। तस्मात् सिच एव लुग् वक्तव्यः॥", "24077": "", "24078": "`घ्रा गन्धोपादाने` (धातुपाठः-926), `धेट् पाने` (धातुपाठः-902), `शो तनूकरणे` (धातुपाठः-1145), `छो छेदने` (धातुपाठः-1146), `षोऽन्तकर्मणि` (धातुपाठः-1147)। `धेटः पूर्वेण नित्ये प्राप्ते` इति। घुसंज्ञकत्वात्। अलुक्पक्षे पूर्ववत् सगादिकार्यम्। धेटः सानुबन्धकस्य निर्देशो धाञ्परीहारार्थः। यदि कृतात्त्वो निर्दिश्येत तदा धाञोऽपि ग्रहणं स्यात्। `अध्रासाताम्` इति। कर्मण्यात्मनेपदम्॥", "24079": "`अतत` इति। `स्वरितञितः` [[1.3.72]] इत्यात्मनेपदम्। `अनुदात्तोपदेश` ( [[6.4.37]] इत्यादिनाऽनुनासिकलोपः। `अतनिष्ट ययम्` इति। मध्यमपुरुषबहुवचनान्तमेतत्॥", "24080": "सिच इत्यनुवर्तमाने पुनर्लिग्रहणं <<आदिः सिचोऽन्यतरस्याम्>> [[6.1.187]] इत्यादेःसिच्कार्यस्य निवृत्त्यर्थम्, उत्तरार्थञ्च। `अक्षन्` इति। `अद भक्षणे` (धातुपाठः-1011) लुङ, `लुङसनोर्धस्लृ` [[2.4.37]] इति घस्लादेशः। ततः <<च्लि लुङि>> [[3.1.43]] इ#इत च्लिः, तस्यानेन लुक्, झेरन्तादेशः, `इतश्च` [[3.4.100]] इकतीकारलोपः, `संयोगान्तस्य` [[8.2.23]] इति तकारलोपः, `गमहन` [[6.4.98]] इत्यादिनोपधालोपः, `शासिवसिघलसीनाञ्च` [[8.3.60]] इति षत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम्, `खरि च` [[8.4.54]] इति चर्त्वम्। ह्वरेत्यागन्तुकेनाकारेण निर्देशः। `मा ह्वः` इति। लुङ, तिङगुणरपरत्वानि, हल्ङ्यादिलोपः, [[6.1.66]] , `न माङयोगे` [[6.4.74]] इत्यडागमाभावः। `प्राणड्` इति। `णश अदर्शने` (धातुपाठः-1194), पूर्ववल्लुङादिकार्यम्, व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, <<झलां जशोऽन्ते>> [[8.2.39]] इति जस्त्वम् - षकारस्य डकारः, तस्य `वावसाने` [[8.4.55]] इति चर्त्वं टकारः,`उपसर्गादसमासेऽपि` [[8.4.14]] इति णत्वम्। क्वचित् `प्राणग्` इति पाठः। तत्र <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इत्यतः कुरित्यनुवर्तमाने <<नशेर्वा>> [[8.2.63]] इति कुत्वम्। `आवः` इति। वृञस्तिप्, गुणो रपरत्वम्, हल्ङ्यादिना [[6.1.66]] सिपो लोपः। `धक्` इति। `दह भस्मीकरणे` (धातुपाठः-911), सिप्,हल्ङ्यादिना [[6.1.66]] सिपो लोपः। <<दादेर्धातोर्घः>> [[8.2.32]] इति हस्य घः। `एकाचो बशो भष्` [[8.2.37]] इत्यादिना दकारस्य धकारः, धकारस्य जश्त्वम् - गकारः, तस्य चर्त्वम् - ककारः, आडागमस्य `बहुलं छन्दस्यामाङ्योगेऽपि` [[6.4.75]] इति निषेधः। `आप्रात्` इति। `प्रा पूरणे` (धातुपाठः-1061) इत्यस्मात् तिप्। `परावर्क` इति। वृजेस्तिप्, लघूपधगुणः,हल्ङ्यादिना [[6.1.66]] लोपः। `रात्सस्य` [[8.2.24]] इति नियमात् संयोगान्तलोपाभावः। जकारस्य पूर्ववत् कुत्वं गकारः, तस्य चर्त्वं ककारः। `अक्रन्` इति। कृञो झेरन्तादेशः, संयोगान्तलोपः। `अज्ञत` इति। जनेर्झस्य <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः, पूर्ववदुपधालोपः, <<स्तोः श्चुना श्चुः>> [[8.4.40]] इतिश्चुत्वम्। क्वचित् `अज्ञन्` इति पाठः। तत्र झिः, ततः परस्मैपदं वधेयम्। `ब्राआहृणे प्रयोगोऽयम्` इति। योऽयमनन्तरं मन्त्रे जनेरुक्तः स ब्राआहृणो मन्त्रव्याख्यानग्रन्थः। मन्त्रे जनेर्लुक् च दृश्यत इति तद्विषयमुदाहरणं नोपन्यस्तम्। यदि तह्र्रमन्त्रे लुग्भवति मन्त्रग्रहणं किमर्थमित्याह - `मन्त्रग्रहणम्` इत्यादि॥", "24081": "`ईहाञ्चक्रे` इति। `ईह चेष्टायाम्` (धातुपाठः-632), लिट्, `इजादेश्च` [[3.1.36]] इत्यादिनाऽऽम्। तस्य कृत्वे मकारान्तस्य कृदन्तत्वात् प्रातिपदिकसंज्ञा, सुः, आमः स्वरादिपाठादव्ययत्वम्, <<अव्ययादाप्सुपः>> [[2.4.82]] इति सुलोपः, `कृञ्च` [[3.1.40]] इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः, `आम्प्रत्ययवत्` [[1.3.63]] इत्यादिनाऽऽत्मनेपदम्, तत एशादेशः, द्विर्वचनम्, अभ्यासकार्यम्। आमो मकारस्यानुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] । अथेह कस्मान्न भवति - जगाम, शशामेति? अर्थवदामो ग्रहणात्, अस्य चानर्थकत्वात्। प्रत्ययस्तु `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (पु।प।पा।90) इत्यर्थवान्। इह तर्हि कस्मान्न भवत्यम् रोग इति - आमेति? `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्` (व्या।प।3), अस्य तु लाक्षणिकत्वात्॥", "24082": "`तत्र शालायाम्` इति। तच्छब्दात् सप्तम्यास्त्रल्। तस्य `प्राग्दिशो विभक्ति` [[5.3.1]] इति। विभक्तिसंज्ञा, त्यदाद्यत्वम्,टाप्, <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इति पुंवद्भावः। <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इति त्रलोऽव्ययत्वम्, ततौत्पन्नस्य टापो लुक्। केन पुनरव्ययाट्टाबुत्पद्यते? `अजाद्यतष्टाप्` [[4.1.4]] इति चेत्, नच स्त्रियां टापो विधानात्, अव्ययस्य चालिङ्गत्वात्। तस्मादव्ययाट्टापः सम्भव एव नास्तीत्यव्ययादपार्थकं टापो लुग्वचनम्? नापार्थकम्; <<स्त्रियाम्>> [[4.1.3]] गुणिप्रधाननिर्देशः - स्त्रीत्ववति पदार्थे टाबादय इति। स्त्रीत्ववति च तस्यां शालायमित्येतस्मिन् पदार्थे तत्रेत्येतदव्ययं वर्तते। यद्यपि वाक्यार्थोऽत्र स्त्रीत्वम्; तथापि वाक्यार्थतयैव तसय् स्त्रीप्रत्ययो द्योत्यते, सति च स्त्रीप्रत्यये पदार्थ एव स्त्रीत्वं भवति, ततष्टापो लुग्वक्तव्यः। `कृत्वा, ह्मत्वा` इति। <<क्त्वातोसुन्कसुनः>> [[1.1.40]] इति क्त्वाप्रत्ययस्याव्ययत्वम्, तत उत्पन्नस्य सुपो लुक्। केन पुरव्ययात् सुबुत्पत्तिः? स्वादि [[4.1.2]] सूत्रेणेति चेत्, न; तत्र <<बहुषु बहुवचनम्>> [[1.4.21]] इतयादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां नियत्वात्, अव्ययानाञ्चासंख्यत्वात्। स्यादेतत् - यत्र संख्यास्ति तत्र `बहुषु वहुवचनम्` [[1.4.21]] इत्येवमादिना स्वादिनियः कृतः, अव्ययेभ्यस्तु निःसंख्येभ्यः समान्यविहिताः स्वादयो विद्यन्त एवेति?वार्तमेतत्; स्वादिसूत्रेण [[4.1.2]] हि <<बहुषु बहुवचनम्>> [[1.4.21]] इत्यादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां विधानात्। तथा हि - तत्रोक्कतं संख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति। एकवाक्यतायाञ्च कुतः स्वादीनां सामान्येन विधानाम्। न ह्रपरं लक्षणमस्ति येन स्वादयः सामान्येन विहिताः। एवं तह्र्रेतदेवाव्ययादुत्पन्नस्य सुपो लुग्वचनं ज्ञापकम् - भवन्त्यवययात् स्वादय इति। न ह्रनुत्पन्नस्य लुगुपपद्यते। एतदेव ज्ञापकं ह्मदि कृत्वोक्तम् - `अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव` इति॥", "24083": "`एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति` इति। कथम्? इह द्वोयरर्थयोर्विधानात्, विधायके च वाक्ये द्वे एव। तत्र `नाव्ययीबावादतः` इत्येतत् प्रतिषेधस्य विधायकमेकं वाक्यम्। `अम् त्वपञ्चम्याः` इत्येतदमो विधायकं द्वितीयं वाक्यम्, तत्र चात इत्येतदपेक्षते। अत एव वृत्तौ वाक्यद्वयमुपन्यस्तम् - `अदन्तादवययीभावदुत्तरस्य सुपो न लुग्भवति` इत्येकं वाक्यम्, `अमादेशस्तु तस्य भवत्यपञ्चम्याः` इति द्वितीयम्। तत्रापञ्चम्या इत्यनेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति पञ्चम्या अमादेश एव प्रतिषिध्यते, न त्वलुक् पूर्ववाक्येन विहितः। अत एवालुकि सति पञ्चम्याः श्रवणमेव बवति। एकवाक्यतायां हि सत्यां कार्यद्वयस्यैकया पाठप्रवृत्या विधीयमानत्वात् कार्यद्वयस्यापञ्चम्या इति प्रतिषेधः स्यात्। पञ्चमीं वर्जयित्वैतत् कार्यद्वयं वेदितव्यम्। वाक्यभेदे त्वपञ्चमम्या इत्येतत् प्रत्यासन्नममादेशमपेक्षते, न तु वाक्यान्तरविहितमलुकम्। तेनापञ्चम्या इत्यनेन सम्बध्यमानः सामान्येन विधीयमानः सन्नलुक् पञ्चमीमप्यवगाहते; तस्मात् पञ्चम्याः श्रवणमेव युक्तम्। तुशब्देनाप्ययमर्थो लभ्यते।ननु च क्रियायाः कारकाणि भवन्ति, पूर्वपदार्थप्रधानश्चाव्ययीभाव उक्तः,पूर्वपदार्थस्य चासत्त्वभूतत्वात् क्रियामन्तरेण सम्बन्धाभावादपादानादिभावो नास्ति, तत् कुतोऽव्ययीभावात् पञ्चम्यादयो विभक्तयो भवेयुः?नैतदस्ति; पूर्वपदार्थप्राधान्येऽपि गुणभूतोत्तरपदार्थपेक्षः क्रियायोग उपपद्यते, यथा - पञ्चपूलीमानयेति। तत्र भावप्राधान्येऽपि गुणभूत द्रव्यापेक्षः क्रियासम्बन्धः॥", "24084": "`सुमद्रम्` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना समृद्धावव्ययीभावः। `\tउन्मत्तगङ्गम्` इति। <<अन्यपदार्थे च संज्ञायाम्>> [[2.1.21]] इत्यनेन। `एकविंशतिभारद्वाजम्` इति। <<संख्या वंश्येन>> [[2.1.19]] इति॥", "24085": "परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डारौरस् - इत्येत आदेशा भवन्ति` इति। यद्ेयवम्, परस्मैपदेषु तिप् तस् झीत्येतत् प्रत्येकं प्रथमपुरुषसंज्ञा, आत्मनेपदेष्वपि त आतां झ इति; तत्र स्थानिनः षट्, त्रय आदेशा इति वैषम्यात् संख्यायानुदेशाभावादेकैकस्य पर्यायेण सर्व आदेशाः स्युः? नैष दोषः; आनन्तर्यतो हि व्ययस्था भविष्यति। तच्चार्थकृतमानन्तर्यम् - ` एकार्थस्यैकार्थः, द्वयर्थस्य द्व्यर्थः, बह्वर्थस्य बह्वर्थ इति। `कर्ता` इति। <<अनद्यतने लुट्>> [[3.3.15]] , तिप्, तस्यानेकाल्त्वात् डा इत्ययं सर्वादेशः। ननु च नानुबन्धकृतमनेकाल्त्वम् (व्या।प।14), डकारश्चानुबन्धः,तत् कुतोऽनेकाल्त्वं यतः सर्वादेशः स्यात्? नैष दोषः; न ह्रकृते सर्वादेशे `चुटू` [[1.3.7]] इतीत्संज्ञा भवति। इत्संज्ञाया अभावे चानुबन्धो न भवतीत्यनेकाल्त्वात् सर्वादेशो भवति। डित्यभस्यापि `टेः` [[6.4.143]] इति टिलोपः। `कर्तारौ, कार्तारः` इति। `रिच` [[7.4.51]] इति सकारलोपः। एवमध्येतेत्येवमादीनि रूपाणि `इङ अध्ययने` (धातुपाठः-1046) इत्येतस्य। अत्र परमपि टेरेत्वं बाधित्वाऽन्तरङ्गत्वात् डादय आदेशा भवन्ति। अन्तरङ्गत्वं पुनस्तेषां स्थानिमात्रापेक्षत्वात्। टेरेत्वन्तु बहिरङ्गम्; तद्धि धातुमप्यपेक्षते, न केवलं स्थानिनम्; आ तृतीयाध्यायपरिसमाप्तेः `धातोः` [[3.1.7]] इत्यस्याधिकृतत्वात्। `थासः से` [[3.4.80]] इति ज्ञापकम् - तिङादेशस्य टेरेत्वं न भवतीति। तेन कृतेष्वपि डारौरस्स्वेत्त्वं न भवति। `कर्तासि` इति। <<तासस्त्योर्लोपः>> [[7.4.50]] इति सकारलोपः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्य चतुर्थः पादःसमाप्तश्चायं द्वितीयोऽध्यायः॥", "31001": "`प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते` इति। शास्त्रस्य लाघवार्थम्। यदि सन्प्रत्ययः, क्यच्प्रत्ययः, क्यङप्रत्ययः इत्येवमेकैकं संज्ञिनमुपादायानकेषां भिन्नवाक्यैः प्रत्ययसंज्ञा विधीयेत् तदा शास्त्रसय् गौरवं स्यात्; संज्ञिनां बहुत्वात्। न हि तेषां तथाविधं सायान्यमभिन्नमस्ति यदुपादायैकेन वाक्येनानेकेषां संज्ञा कविधीयेत् यथा - <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इति। ननु चेदमस्ति समान्यं सविति, एवञ्च सूत्रं करिष्यते - `सप्प्रत्ययः` इति, सविति प्रत्याहारग्रहणं च सनः सकारादारभ्य कपः पकारेण? नैतदस्ति; अन्येऽपि बहवः पकाराः सन्ति - <<सिब्बहुलं लेटि>> [[3.1.34]] , <<वदः सुपि क्यप् च>> [[3.1.106]] इत्येवमादयः तत्र यदि प्रत्यासत्तिमाश्रित्यानन्तरः पकारः प्रत्याहारार्थ गृह्रते,तदा सिपः पकारेमैव प्रत्याहारग्रहणं विज्ञायेत। अथ व्याप्तिर्गृह्रते? तदा `तप्तनप्तनाथनाश्च` [[7.1.45]] इति तनपः पकारेणैव स्यात्। स्यादेतत् - व्याप्तेरेव न्याय आश्रयितव्यः। न च तनपः पकारेण प्रत्याहारगर्हणं भविष्यति, अपि तु कप एव, <<इच एकाचोऽम्प्रत्ययवच्च>> [[6.3.68]] इति वचनाज्ज्ञापकात्; अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादपार्थकमिदं स्यात्? नैतदस्ति; असति हि प्रयोजने ज्ञापकं भवति, अस्ति ह्रस्य प्रयोजनम्, किं तत्? अम्प्रत्ययप्रतिबद्धं विशिष्टमेव यथा स्यात्। प्रत्ययमात्रप्रतिबद्धं मा भूदिति नियमार्थमेतत् स्यात्, तत्कुतो वैयर्थ्यम्। अथापि कथञ्चित् कपः पकारेणैव प्रत्याहारो लभ्येत, एवमपि प्रतिपत्तिगौरवं स्यात्। अतो लाघवार्थमधिकारेणैवेयं संज्ञा विधातुं युक्तेति मत्वाऽऽह - `प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते` इति। यद्येवम्, प्रतियोगं तेनोपस्थातव्यम्, तत्रासावुपस्थितः सन्नादिभिरेव सम्बध्यते, न प्रकृत्यादिभिरिति नियमहेतुर्नास्ति। अतः प्रकृत्युपपदोपाधिविकारागमानामप्येषा संज्ञा स्यात्। तत्र प्रकृतिः - <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] , उपपदम् - `स्तम्बकर्णयो रमिजपोः` [[3.2.13]] , उपाधिः - `हरतेर्दतिनाथयोः पशौ` [[3.2.25]] । यद्यपि पआर्थस्य संज्ञायाः प्रयोजनं नास्ति, तथापि तद्वाचिनोऽस्तीति तस्य स्यादेव। विकारः - <<हनस्त च>> [[3.1.108]] , आगमः - <<त्रपुजतुनोः षुक्>> [[4.3.138]] । प्रत्ययसंज्ञायाञ्चैषां परत्वमाद्युदात्तत्वञ्च स्यात्। यद्यपि युगपदगुपादीनां परस्परापेक्षया सनादीनाञ्च परत्वं न सम्भवति, तथापि पर्यायेण स्यात् - कदाचित् गुपादयः परे स्युः, कदाचित् सन्नादयः, अन्यतो वा कुतश्चिद्गुपादयः परे भवेयुरित्यत आह - `प्रकृत्युपपद` इत्यादि। एतच्च न्यायप्राप्तमेवोक्तम्। कथम्? प्रकृत्युपपदोपाधयस्तावत् परकार्यसिद्धये भूतविभक्त्या पञ्चम्यादिकया निर्दिश्यन्त इति तेषां पञ्चम्यादिविभक्त्यन्तं शब्दरूपं संज्ञासंज्ञिसम्बन्धं प्रतिपत्तुमयोग्यम्। तथा हि - प्रथमान्तसय् वा सामानाधिकरण्येन संज्ञासंज्ञिसम्बन्धो भवति यत्र बुद्ध्याहितसंज्ञारूपः सोऽयमित्यभेदसम्बन्धमुपगतः संज्ञी संज्ञया सह निर्दिश्यते, यथा - <<वृद्धिरादैच्>> [[1.1.1]] इति; षष्ठन्तस्य वा यत्र संज्ञासंज्ञिनोर्भेदविवक्षायां संज्ञाशब्देन स्वरूपपदात्मकेनोपादीयमानेनोपजनितव्यतिरेकः षष्ठआ संज्ञी निर्दिश्यते, यथा - <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इति। प्रकृत्यादयस्तु परोपकारयोग्यं विभक्तिविशेषमुपादाय वर्तन्त इत्यशक्य एषां संज्ञासम्बन्धः कर्त्तुम्। न च संज्ञासंज्ञिसम्बन्धयोग्यविभक्त्यध्याहारे सत्येषां संज्ञा भविष्यतीति युक्तं परिकल्पियितुम्। असति हि वचनस्यावकाशेऽध्याहारो युक्तः, न तु सति। अस्ति चावकाशः सन्नादिः। अप्राधान्याच्च प्रकृत्यादीनामयुक्ता संज्ञा। प्रधाने ह#इ कार्यसम्प्रत्ययो लोके दृष्टः, यथा - बहुषु गच्छत्सु कश्चित् पृच्छति कोऽयं याति? स आह - राजेति। तत्र यः पृच्छति, यश्चाचष्टे - तयोरुभयोरपि प्रधाने राजनि सम्प्रत्यययो भवति। तस्मादिहापि प्रधाने सन्नादौ कार्यसम्प्रत्ययात् तस्यैव संज्ञा भविष्यति। प्राधान्यं पुनस्तस्यापूर्वस्य विधानात्। प्रकृत्यादीनां धात्वदिपाठे निज्र्ञातस्वरूपाणां सन्नाद्यर्थोपादानादप्राधान्यम्, तत् कुतस्तेषां संज्ञा? आगमविकारयोर्यद्यपि संज्ञासंज्ञिसम्बन्धयोग्यतया प्रथमया निर्देशः, विधेयत्वाच्च प्राधान्यम्, तथापि न भवति संज्ञा;यस्मात्प्रत्यय इति महती संज्ञा क्रियते। तस्या एतत्प्रयोजनमन्वर्थसंज्ञा यथा स्यात् - प्रतियनत्यनेनार्थानिति प्रत्ययः। न च विकारागमाभ्यां कञ्चनार्थं प्रतियन्ति। यदि तह्र्रन्वर्थसंज्ञेयम्, <<अवेः कः>> [[5.4.28]] <<यावादिभ्यः कन्>> [[5.4.29]] इत्येवमादीनां प्रत्ययसंज्ञा न प्राप्नोति; अर्थाभावात्। द्विवधो ह्रर्थः - लौकिकः, शास्त्रीयश्च; तत्र पूर्वः पदेनैव प्रतीयते, द्वितीयस्त्वन्वयव्यतिरेकाभ्याम्; स च तेषां नास्ति, विना प्रत्ययैः प्रकृतेरेव तदर्थस्य प्रतीतेः? नैष दोषः; यद्यपि तेषामन्वयव्यतिरेकाभ्यामर्थो न समधिगम्यते, तथापि `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (पु।प।90) इत्यस्मादेवाप्तवचनात् समधिगम्यते। तस्मात् तैरपि स्वार्थं प्रतियन्तीति तेऽपि प्रत्यया इत्लमतिप्रसङ्गेनेति स्थितमेतत् - प्रकृत्यादीनां प्रत्ययसंज्ञा न भवतीति। `कर्तव्यम्, करणीयम्` इति। तव्यदादेः प्रत्ययसंज्ञायां `यस्मात्प्रत्ययविधिः` [[1.4.13]] इति तस्मिन् परतोऽङ्गसंज्ञा भवति। अथ कथं तदनन्तरं सन्नादिमतिक्रम्य व्यवहित एव तव्यदादिरुदाहृतः? तत्राद्युदात्तादेरपि प्रत्ययसंज्ञाकार्यस्य सम्भवात्। सन्नादौ तु तन्न सम्भवति; धातुस्वरेणैव बाधितत्वात्॥", "31002": "`अयमप्यधिकारः` इति। न केवलं प्रत्यय इत्यपिशब्दार्थः। `योगे योगे उपतिष्ठते` इति। परिभाषाया अधिकारस्य भेदं दर्शयति। परिभाषा ह्रेकदेशस्थैव सर्वत्र शास्त्रे व्याप्रियते, न तु प्रतियोगमुपतिष्ठते। `परिभाषा वा` इति। पक्षान्तरं दर्शयति। एकदेशस्यैव सर्वत्र शास्त्रे व्याप्रियत इत्येष परिभाषाधर्मो वृत्तौ न दर्शितः; अधिकारधर्मप्रदर्शनद्वारेणावगम्यमानत्वात्। यदि हि प्रयोगमुपतिष्ठमाना परिभाषा कार्यसिद्धौ व्याप्रियेत तदाऽधिकारपरिभाषयोर्भेदो न स्यात्, तथा च तयोरिह भेदेनोपन्यसो निष्फलः स्यात्। लिङ्गवती चेयं परिभाषा, लिङ्गञ्चास्याः प्रत्ययसंज्ञैव। धातोर्वेति क्रियावाचिन्या प्रकृतेरिदमुपलक्षणम्, तेन तिङन्तमपि गृह्रते। तदपि क्रियाप्रधानत्वात् क्रियावाचीति शक्यते व्यपदेष्टुम्। प्रधानेन हि व्यपदेशा भवन्ति, यथा - राजधानीति। `प्रातिपदिकाद्वा` इति। अक्रियाभिधायिन्याः प्रकृतेरिदमुपक्षणम्, तेन ङ्यापावपि गृह्रेते। `तैत्तिरीयम्` इति। प्रोक्तार्थे `तित्तिरवरतन्तुखण्डिकोखाच्छण्` [[4.3.102]] इति छण्। तदन्तात् <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्। तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] इति लुक्। अथ चकारः किमर्थः; यावता नात्र किञ्चित् प्रकृतमस्ति यच्चकारेण समुच्चीयते? इत्याह - `चकारः पुनः` इत्यादि। अन्यस्य समुच्चेतव्यस्याभावादस्यैव समुच्चयार्थश्चकारो विज्ञायते, तेन बहुलाधिकारेऽपि ये प्रत्यया विधीयन्ते तेष्वप्यृणादिषु परत्वं न विकल्प्यते।किमर्थं पुनरिदमुच्यते? परो यथा स्यात्, पूर्वो मा भूदिति। नैतदस्ति प्रयोजनम्, तथा हि - यमिच्छति पूर्वं तमाह - `अव्ययसर्वनाम्नामकच् प्राक्टेः` [[5.3.71]] इति। य इदानीमतोऽन्यः प्रत्ययः सोऽन्तरेणापि वचनं पर एव भविष्यति? नैतदस्ति; येषामेव हि प्रत्ययानां देशो नियम्यते त एव नियतदेशाः स्युः। य इदानीमतोऽन्योऽनियतदेशः स कदाचित् परे, कदाचित् पूर्वे, कदाचिन्मध्ये स्यात्, तस्मात् परश्चेति वक्तव्यम्? न वक्तव्यम्; यस्मात् धातोः प्रतिपदिकादिति च दिग्योगलक्षमेयं पञ्चमी; अन्यस्यापादानादेः पञ्चमीनिमित्तस्याभावात्। तस्मादेषैव परदिक्शब्दाध्याहारं करिष्यति? नैतदस्ति; पूर्वदिक्शब्दाध्याहारः स्यात्, तथा च पूर्वेऽपि कदाचित् सन्नादयः स्युः। <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यनया परिभाषया तर्हि व्यवस्था भविष्यति? नैतदस्ति; यत्र पञ्चमीनिर्दिष्टात् परस्य षष्ठीनिर्देशस्य कार्यं विधीयते सोऽस्य विषयः, न च सन्नादयः षष्ठआ निर्दिश्यन्ते, तनापि तेषां सम्बन्धिकार्यं विधीयते, तेषामेव भाव्यमानत्वात्। ननु च प्रत्ययसंज्ञाकार्यं विधीयते? नैवम्, कथं पुनरसतां तेषां शक्यं संज्ञाकार्यं विधातुम्? किञ्च येषां प्रत्ययसंज्ञैव न विधीयते - `कणेष्ठः` (द।उ। 5।6) `शमेर्ढः` (5।11), इत्येवमादीनाम्, तत्र का गतिः स्यात्? न ह्रेषां प्रत्ययसंज्ञेष्यते, तथा हि - कण्ठः, शण्ढ इत्यत्र प्रत्ययस्योच्यमानमिकादेशादिकार्यं न भवति। यद्येवम्, प्रत्ययस्योच्यमानं परत्वमपि न स्यात्? परश्चेत्यधिकारसामर्थ्याद्भविष्यति। असति ह्रेतस्मिन् वचने सत्यपि तस्याः परिभाषाया उपस्थाने बहुलाधिकारे विधीयमानत्वादुणादिषु परत्वं विकल्प्येत। तस्मात् कर्तव्यमेतत्॥", "31003": "`अनियतस्वरप्रत्ययप्रसङ्गे` इत्यादिना सूत्रारम्भस्य प्रयोजनं दर्शयति। अनियतोऽव्यवस्थितः स्वरो यस्य स तथा, स चासौ प्रत्ययश्चेति कर्मधारयः, तस्य प्रसङ्गशब्देन षष्ठीसमासः। अनियतस्वरो यः प्रत्ययस्तस्य प्रसङ्गे सति वचनमिदमादेरुदात्तार्थम्। `अनियतस्वरप्रसङ्गे` इति क्वचित्पाठः। तत्रानियतशब्दस्य स्वरशब्देन विशेषमसमासं कृत्वा प्रसङ्गशब्देन षष्ठीसमासः। अनियतानामुदात्तादीनां स्वराणां प्रसङ्गे सत्यादेरुदात्तार्थ वचनम्। `अनेकाक्षु च` इत्यादि। अनेकेऽचो येषां तेऽनेकाचः। तेष्वनेकाक्षु प्रत्ययेषु देशस्यानियमे सति वचनमादेरुदात्तार्थम् - आदेरेवोदात्तत्वं यथा स्यात्, मध्येऽन्ते च मा भूदिति। ये ह्रेकाचः प्रत्ययास्तत्र देशस्याभावादसत्यप्यादिग्रहणे देश्यानियमो न सम्भवति, अतोऽनेकाक्षु चेत्युक्तम्।अनेकाचां ह्रसत्यादिग्रह आदिमध्यान्तानामनियमेन स्वरः प्रसज्येतनेकाचः प्रत्ययादेर्यद्याद्युदात्तार्थवचनं नार्थं एतेन; यस्मादादेरनुदात्तादीनां मध्यान्तयोश्चोदात्तस्य प्रसङ्ग एव नास्ति। तथा हि - यमनुदात्तमिच्छति, करोति तत्र पकारमनुबन्धम्, आह च - <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इति; स्वरितमपि यमिच्छति, करोति तत्र तकारमनुबन्धम्, आह च - <<तित्स्वरितम्>> [[6.1.185]] इति; एकश्रुतिं यमिच्छति तत्रैकश्रुतिग्रहणं करोति, आह च - `एकश्रुति दूरात्सम्बुद्धौ` [[1.2.33]] इति; अन्तोदात्तमपि यमिच्छति करोति तत्र चकारमनुबन्धम्, आह च - `चितोन्त उदात्तो रित` (का।6.1.169) इति; मध्योदात्तमपि यमिच्छति, करोति तत्र रेफमनुबन्धम्, आह - <<उपोत्तमं रिति>> [[6.1.217]] इति; य इदानीमतोऽन्यः प्रत्ययः सोऽन्तरेणापि वचनमाद्युदात्त एव भविष्यति? नैतदस्ति; येषामेव हि स्वरो नियम्यते त एव नियतस्वराः स्युः, यस्त्वनियतस्वरः प्रत्ययस्तस्यानियमेनैव स्वरः प्रसज्येत - कदाचिदुदात्तः कदाचित् स्वरान्तरम्। उदात्तोऽपि भवन् कदाचिदादौ, कदाचिन्मध्ये, कदाचिदन्ते स्यात्। तस्मात् कर्तव्यमेतत्॥", "31004": "`पूर्वस्यायमपवादः` इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। सुबिति प्रत्याहारस्य ग्रहणम्, न सप्तमीबहुवचनस्य; तस्य पित्त्वादेवानुदात्तस्य सिद्धत्वात्। अत एव वृत्तौ `सुपः` इति बहुवचनेन निर्देशः कृतः। प्रत्याहारग्रहणञ्चेदं सुप एव पकारेण नान्येन; तस्यानन्यार्थत्वात्। `पचति, पठति` इति। शबत्रोदाहरणम्, न तिप; तस्य `तास्यनुदात्त` [[6.1.180]] इत्यादिनैव सिद्धत्वात्॥", "31005": "`प्रत्ययसंज्ञा चाधिकृतैव` इति। विस्पष्टार्थमेतत्। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते; `आ पञ्चमाध्यायपरिसमाप्तेः` (का।3.1.1) इत्यतो वचनादेव प्रतिपाद्यस्यावगतत्वात्। ननु च सत्यपि प्रत्ययसंज्ञाया इहोपस्थाने नैव तया सनो भवितव्यम्; यतः प्रत्यय इत्यन्वर्थसंज्ञेयम् - प्रतियन्त्यनेनार्थानिति प्रत्ययः, न च सना कञ्चनार्थं प्रतियन्ति; तस्यानर्थकत्वात्, न हीह सनः कश्चनार्थो निर्दिश्यते। न च `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भविष्यति` (पु।प।पा।90) इतिस्वार्थ एव सन् भविष्यतीति युक्तं परिकल्पयितुम्; गोपनादेः स्वार्थस्य सन्नन्तादप्रतीतेः।अथानर्थकस्यापि प्रत्ययाधिकारे विधानसामर्थ्यात् संज्ञा भविष्यतीति चेत्? न; एवञ्च <<हनस्त च>> [[3.1.108]] <<त्रपुजतुनोः षुक्>> [[4.3.138]] इति विकारागमयोरपि स्यात्। नैष दोषः; अस्त्येव सनोऽर्थः, कः पुनरसो? निन्दादिः। यदाह - `निन्दाक्षमाव्याधिप्रतीकारेषु सनिष्यते` (वा। 178) इति। कुतः पुनरेतदवसितम् - सनोऽर्था निन्दादय इति? अन्वयव्यतिरेकाभ्याम्। सति हि सनि जुगुप्सत इत्यादौ तेऽर्थाः प्रतीयन्ते, असति तु सनि सत्स्वपि गुपादिषु गोपयतीत्यादौ ते न प्रतीयन्ते। तस्मादर्थवानेव सन्निति भवत्येव प्रत्ययसंज्ञा। `जुगुप्सते` इत्यार्धधातुकत्वाभावादिण् न भवति। आर्धधातुकत्वाभावस्तु सनो धातोरित्यविधानात्। `कुहोश्चु` [[7.4.62]] इति चुत्वम् - जकारः। `तितिक्षते` इति। जकारस्य <<चोः कुः>> [[8.2.30]] कुत्वम् - गकारः। तस्य `खरि च` [[8.4.54]] इति चर्त्वम् - ककारः।`निन्दाक्षमा` इत्यादि। कथं पुनर्निन्दादिष्विष्यमाणो लभ्यते? वक्ष्यमाणं वाग्रहणं सर्वस्य शेषो विज्ञायते, सा च व्यवस्थितविभाषा। तेन निन्दादिषु नित्यं सन् भवति, अन्यत्र न भवति। प्रायिकञ्चैतत् व्याधिप्रतीकारस्यार्थमन्यथा व्याख्यास्यति। अथ वा - क्षेत्रियाणि च तृणानि शस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि। अथ वा - क्षेत्रियः पारदारिकः। परदाराः परक्षेत्रम्,तत्र चिकित्स्यो निग्रहीतव्य इत्यर्थः। संशयेऽपि दृश्यते - `विचिकित्सति मे मनः` इति। यद्यप्यत्रोपसर्गसम्बन्धात् संशयः प्रतीयते, तथापि धातोरेव वाच्य इष्यते, उपसर्गस्य तु द्योत्यः। तस्मात् प्रायिकं व्याधिप्रतीकारग्रहणम्। प्रायेण हि लोके व्याधिप्रतीकारे चिकित्सतीति प्रयुज्यते। `अन्यत्र` इति। गोपनादौ। `गोपयति` इति। हेतुमण्णिच्। तेजयति, `सङ्केतयति`इति। हेतुमण्णिच्, चुरादिण्ज्वाः; भ्वादौ चुरादौ चानयोः पाठात्।अथ जुगुप्सत इत्यादौ कथमात्मनेपदं सन्नन्ताद्विधीयते, न च गुपादिभ्य प्राक् सन आत्मनेपदं पश्यामः? इत्याह - `गुपादिष्वनुबन्धकरणम्` इत्यादि। आत्मनेपदं यथा स्यादिति। गुपादिष्वनुबन्धोऽनुदात्तार्थः कृतः तस्मात् `अनुदात्तङितः` [[1.3.12]] इत्यात्मनेपदं भवतीति भावः। ननु च कृतेऽप्यनुबन्धे न भवितव्यमेव तेभ्य आत्मनेपदेन; सना व्यवहितत्वात्? नैतदस्ति; अनुबन्धकरणसामर्थ्याद्भविष्यति। अथ वा - `अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति` (है।ग।प।107) इति जुगुप्सादय एव समुदाया अनुदात्तेतः, तेनावयवधानेनैव तेभ्य आत्मनेपदं भविष्यति। एवं स्थिते यदत्र द्वेष्यमापद्यते तत् `पूर्ववत्सनः` [[1.3.62]] इत्यत्रोपन्यस्तमपास्तञ्च। अथ किमर्थं सनोऽकार उपदिश्यते, यावता तस्यार्धधातुके <<अतो लोपः>> [[6.4.48]] इति लोपेन भवितव्यम्, सार्वधातुकेऽपि शपा सहैकादेशेन, तत्र सत्यसति वाऽकारोपदेशे नास्ति कश्चिद्विशेषः? नैतदस्ति; इह प्रतीषिषतीति प्रपूर्वादिणः सनि विहिते यद्यकारोपदेशो न स्यात् <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति द्वितीयस्यैकाचो द्वर्वचनं विधीयमानं स इत्यस्य न स्यात्, अनच्कत्वात् सनः। अकारोपदेशे सति स इत्यस्य द्वितीयस्यैकाचो भवति। तदर्थोऽपकारोपदेशः॥", "31006": "मान्बन्धी अनुदात्तेतौ, शेषौ स्वरितेतौ। इह दीर्घग्रहमात् `अचश्च` ( [[1.2.28]] इति परिभाषोपस्थानादचाऽभ्यासो विशिष्यत इत्यजन्तस्याभ्यासस्य दीर्घो विधीयमानो नियतं हलादिशेषमपेक्षते; विना तेनाजन्तत्वाभावात्। तस्मस्तु सति न किञ्चित् प्रतीक्षणीयमिति तत्समनन्तरमेव दीर्घेण भवितव्यम्, ततश्चाभ्यासस्यावर्णस्य स्थाने भवन् ब्धेरित्त्वस्य बाधकः स्यात्, शेषाणान्तु ह्रस्वस्य, ततश्चानिष्टं रूपं स्यादिति यो मन्येत तं प्रत्याह - `अभ्यासस्य चेकारस्य दीर्घो भवति` इति।कथं पुनरिकारस्य दीर्घो लभ्यते, यावता विशेषविधिः सामान्यविधेर्बाधको भवति, विशेषविहितश्च दीर्घः, ततोऽयं सामान्यविहितमित्त्वं बाधित्वाऽकारस्यैव प्राप्नोति? अत एवं मन्यते - `दीर्घोऽकितः [[7.4.83]] इत्यत्र ज्ञापितमेतत् स्यात् - `अभ्यासविकारेष्वपवादानोत्सर्गान् विधीन्बाधन्ते` (व्या।प।23) इति। अकिद्ग्रहणस्यैतत् प्रयोजनम्, इह मा भूत् - यंयम्यते, रंरम्यते इति। यदि चाभ्यासविकारेष्वपवादैरुत्सर्गा बाध्येरन्नेवं सत्यपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यति, किमकित इत्यनेन। कृतञ्च; अतस्ततो ज्ञापयति - नाभ्यासविकारेषु बाध्यबाधकभाव इति। `बीभत्सते` इति। `एकाचो बशो भष्` [[8.2.37]] इति बकारस्य भकारः, धकारस्य `खरि च` [[8.4.54]] इति तकारः।`उत्तरसूत्रे` इत्यादि। अत्र हि सनो विधिमात्रमपेक्ष्यते वावचनेन, न त्वनन्तर एव विधिः। तेन त्रयाणामपि योगानां शेषो विज्ञायते। सर्वग्रहणं गुपादिसूत्रस्यापि [[3.1.5]] शेषो विज्ञायत इति ज्ञापनार्थम्, अन्यथा ह्रनन्तरस्यैव सूत्रस्य शेषो विज्ञायेत। `मानयति` इति। हेतुमण्णिच्, चुरादिणिज्वा, चुरादावप्यस्य पाठात्। `{निशानयति - काशिका} निशानम्` इति। पचाद्यच्॥", "31007": "कर्त्तृः क्रियया व्याप्तुमिष्टतमस्य कर्मभाव उपपद्यते। नान्यथेत्यवश्यं या काचित् क्रियाऽपेक्षितव्येति। इह चान्या न श्रूयते, प्रत्ययार्थत्वेन चेच्छा सन्निधापिता, अतः सैवापेक्षितुं युक्ता; प्रत्यासत्तेन्र्यायात्,तस्मात्, तयैव व्याप्यमानस्य कर्मभावो विज्ञायत इत्याह - `इषिकर्म` इत्यादि। इषेः कर्मेति षष्ठीसमासः। प्रतियोग्यपेक्षत्वात् समानत्वस्य नियोगतः प्रतियोग्यपेक्षितव्यः, न च सूत्रे प्रतियोगी श्रूयते, तत्र पूर्वोक्तन्यायेनेषेरेव प्रतियोगित्वं विज्ञायत इत्याह - `इषिणैव` इत्यादि। समान एकः कर्तास्येति बहुव्रीहिः, एककर्त्तृक इत्यर्थः। ननु चट धातोः कर्मत्वं नोपपद्यते, तस्यार्थधर्मत्वात्, धातोश्च शब्दात्मकत्वात्। अथ करोति धातुमिच्छतीत्यादौ प्रयोगे धातोरपि कर्मता दृष्टेति चेत्? न ब्राऊमः - सर्वथा धातोः कर्मत्वं न भवतीति, किं तर्हि? य इह सन्नुत्पत्तिनिमित्तभावनोपात्तः समानकर्त्तृकः, तस्य न सम्भवतीति ब्राऊमः; यस्मात् समानकर्त्तृकत्वं साध्यमानस्यार्थस्य भवति, कर्मत्वं तु सिद्धस्वभावस्य। अङ्गीकृत्य च समानकर्त्तृकत्वं धातोः कर्मत्वे दोष उक्तः इदानीं तदपि न सम्भवत्येव। तथा हि - धातुः शब्दः क्रिय#आयाश्च कर्ता भवति, न शब्दस्येतत् आह - `कर्मत्वम्` इत्यादि। `अर्थद्वारकम्` इति। अर्थो द्वारमुपायो यस्य तदर्थद्वारकमिति। अर्थस्य कर्मत्वात् समानकर्त्तृकत्वाच्च तद्वचनोऽपि धातुरर्थधर्मेणोपचारात् कर्मसमानकर्त्तृकश्चोच्यते, यथा - `द्वन्द्वश्च प्राणितूर्य` [[2.4.2]] इत्यत्रार्थस्य प्राण्यङ्गत्वात् तद्वचनोऽपि प्रामायङ्गमित्युच्यत इति भावः। `चिकीर्षति` इत्यत्र करोतेरर्थ इच्छया व्याप्यमानत्वात् समानत्वात् कर्मसमानकर्त्तृकश्चेषिणा; यस्मात् य एवेषेः कर्ता स एव तस्यापि। अतस्तद्द्वारेण करोतिरपि कर्मसमानकर्त्तृकश्चेति भावः। ततः सन्, <<इको झल्>> [[1.2.9]] इति सनः कित्त्वात् गुणभावः, `अज्झनगमां सनि` ( [[6.4.16]] इति दीर्घः, `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, रपरत्वम्, `हलि च` [[8.2.77]] इति दीर्घः, `इण्कोः` [[8.3.57]] इत्यनुवर्तमाने <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्, द्विर्वचनम्, अभ्यासकार्यम्।धातुग्रहणं किमिति। धातुग्रहणं ह्रेवमर्थं क्रियते - गमनमिच्छतीति सुबन्थान्मा भूदिति। ननु चासत्यपि धातुग्रहणे ततः सन् भवितुं नोत्सहते; <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्पपवादेन बाधितत्वात्, तस्मात् पारिशेष्याद्विनापि धातुग्रहणेन धातोरेव भविष्यतीत्यभिप्रायेणाह - `सोपसर्गादुत्पत्तिर्मा भूत्` इति। यदोपसर्गविशिष्टो धात्वर्थ इषिणा व्याप्यते तदासावुपसर्गविशिष्ट एव कर्मत्वमनुभवतीति तदद्वारेणासौ सोपसर्ग एव धातुः। कर्मेति सोपसर्गादुत्पत्तिः स्यात्,ततश्च प्राचिकीर्षदित्यत्र द्विर्वचनं क्रियमाणं सन्नन्तस्यैकाचः प्रथमस्य द्विर्वचनं भवतीति <<सन्यङोः>> [[6.1.9]] इति समुदायादेः प्रशब्दस्य स्यात्। लङि च सोपसर्गस्याङ्गसंज्ञायां ततः प्रागडागमः स्यात्। यदि तर्हि सोपसर्गः, कर्मधातोरुत्पत्तिर्न स्यात्, तस्याकर्मकत्वात्? नैतदस्ति, समुदायस्य हि कर्मत्वेऽवयवा अपिक्मत्वमनुभवन्ति;अवयवात्मकत्वात् समुदायस्य। अभ्युपाय एव ह्रवयवकर्मता समुदायकर्मतायाः; अन्यथा यदि समुदाये कर्मण्यवयवाः कर्मभावापन्ना न भवेयुः, तदा महान्तं पुत्रमिच्छतीत्यत्र कर्मलक्षणावयवा द्वितीया न स्यात्। `\tगमेनेनेच्छति` इति। करणत्वप्रदर्शनार्थं ल्युहन्तोपन्यासः। धातोरेव हि सनोऽनुत्पत्तिः प्रत्युदाहरणम्। अस्त्यत्र समानकर्त्तृकत्वम्। तथा हि - य एवेषेः कर्ता स एव गमनस्य, स ह्रात्मीयेन गमनेन करणभावमापन्नेन किमपि वस्त्विच्छति। क्मत्वं तु गमेरर्थद्वारकं नास्तीति न भवत्यतः सन्। `देवदत्तस्य भोजनमिच्छति` इति। देवदत्तस्येति `कर्तकर्मणोः कृति` [[2.3.65]] इति कर्तरि षष्ठी। अत्र हि भोजनस्य देवदत्तः कर्ता, इषेस्तु यज्ञदत्त इति समानकर्त्तृकत्वं नास्ति। `कर्तुं जानाति` इति। इच्छाग्रहणादिह ज्ञानेऽर्थे सन्न भवति। ननु चेषिकर्मा यो धातु रिषिणैव समानकर्त्तृकस्तत इच्छाया वा सन् भवतीत्युक्तम्। इह च यथेच्छा प्रत्ययार्थो नास्ति तथा धातोरिषिकर्मत्वमपि, इषिणा समानकर्त्तृकत्वञ्च, तदयुक्तं प्रत्युदाहरणम्, अङ्गत्रयवैकल्यात्? नैतदस्ति, सति हीच्छाग्रहणे तद्विशेषणद्वयं प्रत्यासत्तेर्लभ्यते। असति तु तस्मिन् यां काञ्चित् क्रियां प्रति धातोः कर्मत्वं विज्ञायते, प्रतियोगिमात्रापेक्षया च समानकर्त्तृकत्वमिति काऽत्रायुक्तता !`वावचनाद्वाक्यमपि भवति` इति। उत्तरसूत्र इति शेषः। इह तु `समानकर्त्तृकेषु तुमुन्` [[3.3.158]] इत्यत एव विधानात् कर्त्तृमिच्छतीति वाक्यं भविष्यति। नित्यत्वेहि सनस्तस्य वचनस्यानर्थक्यं स्यात्। अन्यदपि वावचनप्रयोजनमुक्तमेव, तस्यै समुच्चयार्थोऽपिशब्दः। `धातोरिति विधानात्` इत्यादि। `आर्धधातुके शेषः` [[3.4.114]] इत्यनेन धातोरित्येवं धातुशब्दमुच्चार्य विहितस्य प्रत्ययस्यार्धधातुकसंज्ञाविधानात्। इह धातोरित्येव सनो विधानमित्यार्धधातुकसंज्ञा न भवति, न हि तस्य तथा विधानमस्ति।`आशङ्कायामुपसंख्यानम्` इति। आशङ्का = सम्भावना, सा च प्रयोक्तृधर्मः। `नदीकूलं पिपतिषति` इत्यचेतनत्वात् कूलस्येच्छा न सम्भवतीति न प्राप्नोति। `आशङ्के कूलं पतिष्यति` इत्यस्मिन् विषय एवं प्रयोगः। `आआ मुमूर्षति` इति। पूर्ववत् कित्त्वदीर्घत्वे। `उदोष्ठपूर्वस्य` [[7.1.102]] इत्त्युक्तम्; रपरत्वञ्च। अत्र सत्यपि चेतनत्वे जीनस्य प्रियत्वाच्छुनो मर्तुमिच्छा न सम्भवतीति न प्राप्नोति। एष च प्रयोगः `अहमाशङ्केमरिष्यति आआ` इत्यत्रार्थे वेदितव्यः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। कर्तव्य इत्यव्याहार्यम्। प्रतिपादनं तु - धातोरिति योगविभागः कर्तव्यः, तेनाशङ्कायामपि सन् भविष्यति।`इच्छासनन्तात्` इत्यादि। इच्छायामर्थे यो विहितः सन् तदन्तात् सनः प्रतिषेधो व्याख्येयः। व्याख्यानं तूत्तरत्र करिष्यामः। स्वार्थे यः सन् तदन्तात् सनिष्यत एवेतीच्छाविशेषणं कृतम्। `जुगुप्सिषते` इति। <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। `शैषिकात्` इत्यादि। अआप्तयादिभ्योऽर्थेभ्योऽदूरभव इत्येतत्पर्यन्तेभ्योऽन्यो योऽर्थः स शेषः, तत्र भवः शैषिकः, `अध्यात्मादिभ्यष्ठञ्` (वा।456)। तस्माच्छैषिकः सरूपः प्रत्ययो नष्टः। शालायाम्भव इति <<वृद्धाच्छः>> [[4.2.114]] शालीयः, शालीये भव इति पुनश्छो न भवति। विरूपस्तु भवत्येव - अहिच्छत्रे भव आहिच्छत्रः, <<प्राग्दीव्यतोऽण्>> [[4.1.83]] आहिच्छत्रे भव आहिच्छत्रीयः - अणन्ताद्वृद्धाच्छो [[4.2.113]] भवति। मतुबर्थे भवः प्रत्ययो मतुबर्थीयः, <<गहादिभ्यश्च>> [[4.2.138]] इति च्छः, मतुबर्थोऽस्यास्तीति मतुबर्थिकः प्रत्ययः, <<अत इनिठनौ>> [[5.2.115]] इति ठन्। मतुबर्थोऽस्यास्तीतिमतुबर्थीयात् प्रत्ययान्मतुबर्थिकः सरूपः प्रत्ययो नेष्टः। दण्डोऽस्यास्तीति दण्डिकः, पूर्ववट्ठन्, दण्डिकोऽस्यास्तीति मतुबर्थीयात् पुनष्ठन् न भवति। विरूपस्तु भवत्येव - दण्डोऽस्यास्तीति दण्डी, दण्डिनोऽस्यां शालायां सन्तीति दण्डमती शाला, इन्नन्तान्मतुप् भवति। `सन्नतान्न सनिष्यते` इति। `सरूपः` इति सम्बध्यते। तत्र यद्यपि सनो रूपसारूप्यव्यभिचारो नास्ति, तथापि विशेषणसामर्थ्यादर्थसारूप्यमाश्रीयते। तेनेच्छासनन्तादिति गम्यते, पूर्वम् `इच्छासनन्तात्प्रतिषेधो वक्तव्यः` (वा।181) इत्यभिधानाच्च। यस्तु निन्दादिषु गुपादिभ्यः सन् तत् इच्छासन् भवत्येव। तथा चैवं वृत्तादुदाहृतम्।एतत्सर्वं न्यायप्राप्तमेवोदाहृतम्। कथम्? निष्पन्ना हि प्रकृतिः प्रत्ययविधेर्निमित्तं भवति। न च सरूपशैषिकप्रत्ययविधानकाले तथाविधप्रत्ययानता निष्पन्ना प्रकृतिरस्ति, नापि सरूपमतुबर्थिकप्रत्ययविधानकाले तथाविधप्रत्ययान्ता निष्पन्ना प्रकृतिः, नापीच्छासनि विधीयमान इच्छासनन्तात् प्रकृतिर्लब्धसत्ताकास्ति; इदानीमेव हि <<तत्र भवः>> [[4.3.53]] इत्यादिभिर्लक्षणैः सरूपाणां शैषिकादीनां भाव्यमानत्वात्। तस्मादविद्यमानप्रकृतिकत्वात् ते यथोक्तप्रकारायाः प्रकृतेर्न सम्भवन्तीति॥", "31008": "आत्मशब्दः परस्य व्यावृतिंत कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स इह परिगृह्रते, न तु योऽन्तव्र्यापारवति पुरुषे भोक्तरि वर्तते; स इह गृह्रमाणोऽकिञ्चित्करः स्यात्। तेनेच्छा विशिष्येत, सुबन्तं वा; तत्रेच्छा तावदात्मनः, अन्यस्य न सम्भव्तयेवेति तद्विशेषणता तस्यायुक्ता। सुबन्थमप्येषित्रान्येन वा सम्बध्यमानमात्मसम्बद्धमेव भवति; उभयोरपि तयोरात्मसम्बन्धित्वात्। तस्मात् सुबन्तविशेषणत्वमपि तस्यायुक्तमिति परप्रतियोगिवचन एव गृह्रते। एवं हि कपरनिवृत्तिः शक्यते कर्त्तुम्, नान्यथा। अत्रापीच्छायाः सन्निधानात् तयैव व्याप्यमानस्य कर्मत्वं विज्ञायते, इत्याह - `इषिकर्मणः` इति। आत्मग्रहणेन यदीच्छा विशिष्येत तदेहापि स्यात् - राज्ञः पुत्रमिच्छतीति। राज्ञोऽपि पुत्र इष्यमाणे सत्यात्मन एवैषितुरिच्छा भवति। तस्मासुबन्तमेवात्मगर्हणेन विशेषयितुं युक्तमिति मत्वाऽऽह - `एषितुरात्मसम्बन्धिनः` इति। आत्मसम्बन्धित्वं तु सुबन्तस्यार्थद्वारकं वेदितव्यम्। अथैषितुरेवैतत् कुतो लभ्यते? इच्छया सन्निधीयमानयेहैषितुः सन्निधापितत्वात्। एतदपि कुतः? तेन विना तदभावात्। `पुत्रीयति` इति। <<क्यचि च>> [[7.4.33]] इतीत्त्वम्।सब्ग्रहणमिह प्रातिपदिकनिवृत्त्यर्थं वा स्यात्? धातुनिवृत्त्यर्थं वा? तत्र प्रातिपदिकनिवृत्त्यर्थं तावन्नोपपद्यते, न हि सुबन्तात् प्रत्ययोत्पत्तौ प्रातिपदिकाद्वा कश्चिद्विशेषोऽस्ति। धातुनिवृत्त्यर्थमपि न युज्यते, ततो विहितस्य सनो बाधकत्वादित्यभिप्रायेणाह - `सुब्ग्रहणं किम्` इति, `वाक्यान्मा भुत्` इति। सुब्ग्रहणप्रयोजनमाह - असति सुब्राग्रहणे वाक्यादपि स्यात्, अतस्तन्निवृत्त्यर्थं कृतं सुब्ग्रहणम्। अथ किमिदानीं न भवितव्यमेव महापुत्रीयतीति? भवितव्यं यदा समासे कृत एतद्वाक्यं भवति - महापुत्रमिच्छतीति, यदात्वेतद्वाक्यं भवति - महान्तं पुत्रमिच्छतीति, तदा न भवितव्यम्। पदसमुदायोपलक्षणञ्च वाक्यग्रहणं वेदितव्यम्। तस्मान्महान्तं पुत्रमित्यतः समुदायात् प्राप्तिराशङ्क्यते, न चैतद्वाक्यम्; अपरिसमाप्त्यर्थत्वात्। किञ्च स्यात् यद्यतः स्यात्? प्रत्ययार्थे गुणीभूतयोर्महत्पुत्रशब्दयोरसत्येकार्थीभावलक्षणेऽसामार्थ्ये समासो न स्यात्। ततश्चोत्तरपदे विधीयमानं <<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इत्यात्त्वं न स्यात्। अथ वा - प्रत्ययार्थे गुणीभूतस्य पुत्रशब्दस्य पूज्यमानताविशेषणं न स्यादिति <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना समासो न स्यात्, तदभावादात्त्वमपि न स्यात्। अथ क्रियमाणे सुब्ग्रहणे कस्मादेवात्र न भवति, सुबन्तं ह्रेतत्? नैतत्; प्रत्ययग्रहणपरिभाषया यतः सुबूत्पन्नः सुब्ग्रहणे सति तदादेरेव ग्रहणं भवति। न चेह वाक्यात् सुबुत्पन्नः, किं तर्हि? अवयवात्। तेन वाक्यादुत्पत्तिर्न भवति। अवयवात् तर्हि पुत्रशब्दात् कस्मान्न भवति? अगमकत्वात्। वृत्तिसमानार्थेन हि वाक्येन प्रत्ययान्तेन भवितव्यम्। यश्चेह महान्तं पुत्रमिच्छतीति वाक्यनार्थः प्रतीयते नासौ प्रत्ययान्तेन। {तथा हि महान्तं पुत्रमिच्छतीति वाक्येनार्थः कञ्चित् - वाराणसीमुद्रणम्} तथा हि महान्तं पुत्रीयतीत्युक्ते महान्तं कञ्चित् पुत्रमिवाचरतीत्येषोऽर्थो वाक्यार्थद्भिन्नजातीय ए गम्यते। `राज्ञः पुत्र मिच्छति` इति। ननु च सापेक्षत्वादसामर्थ्ये सति न भविष्यति, किमात्मग्रहणेन,कथमसामर्थ्यम्? सापेक्षमसमर्थं भवति` (चां।प।27) इति वचनात्? नैतत्। यदा तह्र्रर्थात् प्रकरणाद्वाऽनपेक्षं निज्र्ञातं भवति तदा प्राप्नोति। इह च प्राप्नोति - पापमिच्छति, अघमिच्छतीति। अत्र हि तृतीयस्य परपदस्य प्रयोगमन्तरेणापि परस्येति गम्यते, न हि कश्चिदात्मनः पापमिच्छति। `ककार#ः` इत्यादि। असति ककारेऽस्य ग्रहणं न स्यात्; <<नः क्ये>> [[1.4.15]] इत्यत्र ककारानुबन्धवतो ग्रहणात्। चकारस्तदविघातार्थः। असति चकारे तु सति क्यच्क्यङक्यषो द्वनुबन्धका भवन्तीति सामान्यग्रहणस्य विघातो न भवति। अन्तोदात्तार्थस्तु चकारो न भवति; `घातोः` [[6.1.156]] इति तस्य सिद्धत्वात्। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। व्याख्यानन्तु - वेत्यनुवर्तमानस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। तेन मान्ताव्ययेभ्यएः क्यज्न भवति।`छन्दसि` इत्यादि। छन्दसि परेच्छायामपि क्यज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं पुनर्यद्यं क्यचि कृते `अआआद्यस्यात्` [[7.4.37]] इतीत्त्वबाधनार्थमघशब्दस्येत्त्वं शास्ति तज्ज्ञापयति - छन्दसि परेच्छायामपि क्यज्भवति। न हि कश्चिदात्मनोऽघमिच्छति। `अघायवः` इति। ज्ञापकसुत्रेणात्त्वम्, <<क्याच्छन्दसि>> [[3.2.170]] इत्युप्रत्ययः, `जसि च` [[7.3.109]] इति गुणः, अवादेशः॥", "31009": "ननु च द्वावप्येतौ क्यच्काम्यचौ सुबन्तात् कर्मण आत्मेच्छायां विधीयेते, तदेकयोग एव कथं न कृत इत्याह - `योगविभागः` इत्यादि। `सुप आत्मनः क्यच्काम्यचौ` (इत्येक योगे सत्युत्तरत्र द्वयोरप्यनुवृत्तिः स्यात्। ननु च योगविभागेऽप्यानन्तर्यात् काम्यच एवानुवत्तिः स्यात्, न क्यचः? नैष दोषः; चकारोऽत्र क्रियते क्यचोऽनुकर्षणार्थः; क्यचोऽनुकर्षणस्यैतत्प्रयोजनम् - उत्तरसूत्रेऽनुवृत्तिर्यथा स्यात् इह योजनाभावात्। काम्यजपि कस्मान्नानुवर्ततत इति चेत्, न; योगविभागसामर्थ्यात्। अथ <<लशक्वतद्धिते>> [[1.3.8]] इति ककारस्येत्संज्ञा कस्मान्न भवतीत्याह - `ककारस्येत्संज्ञा` इत्यादि। ननु च लोप एव कार्यम्? न कार्यम्; लोप इह हि वर्णस्य कार्यार्थो भव्तयुपदेशः, श्रवणार्थो वा। कार्यं तावदिह नास्ति। तत्रि यदि श्रवणार्थो न स्यादुपदेशोऽनर्थकः स्यात्। इदं तर्हि कार्यम् - अग्निकाम्यतीति गुणप्रतिषेधो यथा स्यात्? नैतत् प्रयोजनम्, सार्वधातुकार्धधातुयोरङ्गस्य गुण उच्यते। धातोर्विहितश्च प्रत्ययः शेष आर्धधातुकसंज्ञो भवति; न चायं धातोर्विधीयते, किं तर्हि? सुबन्तात्। इदं तर्हि प्रयोजनम् - उपयट्काम्यतीति, वच्चादिना [[6.1.15]] संप्रसारणं यथा स्यात्? नैतदपि; यस्मात् तत्र यजादिभिः किद्विशिष्यते - यजादीनां यः किदिति। कश्च यजादीनां कित्? यो यजादिभ्यो विहितः, न चायं तथा विहितः। अभ्युपगम्यापि प्रयोजनं परीहारान्तरमाह - `चकारादित्वात्` इति। एवं मन्यते - क्रियते विन्यास एवम्, द्विचकारो निर्देशः, सुप आत्मनः क्यच्च काम्यच्चेति; स इत्संज्ञकश्चकारः ककारस्यत्संज्ञापरित्राणार्थो भविष्यतीति। अथ द्वितीयश्चकारः किमर्थः, यावता `धातोः` [[6.1.162]] इत्येवमन्तोदात्तत्वं सिद्धम्? इह पुत्रकाम्यिष्यीतति सतिशिष्टस्वरमपि बाधित्वा चित्करणसामर्थ्यात् काम्यच एव स्वरो यथा स्यात्। `उपयट्काम्यति` इति। <<विजुपे छन्दसि>> [[3.2.73]] इति विच्, उपयजमिच्छतीति काम्यच्, व्रश्चादिना [[8.2.36]] षत्वम्, तस्य जश्त्वं डकारः, तस्यापि `वावसाने` [[8.4.55]] इति चर्त्वं टकारः॥", "31010": "`क्यजनुवर्तते न काम्यच्` इति। अत्र च कारणं पूर्वमुक्तम्। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयवोपमानस्य कर्मता; पूर्ववत् प्रत्यासत्तेः।`अधिकरणाच्च` इत्यादि। अधिकरणादाचारे क्यज्भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। व्याख्यानन्तु पूर्ववच्चकारकरणमनुवर्त्त्य तस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कर्तव्यम्॥", "31011": "सलोपसन्नियोगेन चायं क्यङ विधीयते। तेन यत्रैव सलोपस्तत्रैव स्यात् - पयायत इत्यादौ, इह तु न स्यात् - काकः श्येनायत इत्यादौ। एकं हीदं वाक्यम्,चकारश्च समुच्चये, तेनैतदुक्तं भवति - क्यङसलोपौ भवत इति। तथा च युगपदनयोर्विधानात् सलोपाभावे क्यङा न भवितव्यम्। युगपदनयोर्विधाने हि नान्यतराभावे कार्यमुपयुज्यते, यथा - `स्थाध्वोरिच्च` [[1.2.17]] , इत्यत आह - `अन्वाचशिष्टः` इत्यादि। एतदनेन हि। नायं समुच्चये चकारः, किं तर्हि? अन्वाचये। तत्र द्वे वाक्ये भवतः - कर्त्तुः भवति सर्वत्र, यत्र त्वस्ति सकारस्तत्र तस्यापि लोपः। तत्राद्येन वाक्येन सलोपमनपेक्ष्य प्राधान्येन विधीयमानः क्यङ सलोपविधावपि प्रवर्तते। `श्येनायते` इति। `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः।`सलोपविधावपि वाग्रहणं सम्बध्यते` इति। अन्यथा पयस्यत इति न सिध्येत्। `सा च व्यवस्थितविभाषा` इति। अन्यथौजसोऽप्सरसोरपि विभाषा सलोपः स्यात्। `ओजसोप्सरसोर्नित्यं पयसस्तु विभाषया` (वा।185 - (जै।सू।2.1.92) इति यदुक्तम्, सा च व्यवस्थितविभाषा भवतीति, तदनेन विस्पष्टीकरोति। अथ हंसायते सारसायत इत्यत्र सलोपः कस्मान्न भवतीत्याह - `सलोपविधौ च` इत्यादि। यदि सलोपविधावपि कर्त्तुरित्येषा पञ्चमी स्यात तदा हि <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यस्यानुपस्थानात् यत्रतत्रस्थस् सलोपो भवन्निहापि स्यात्। न च सलोपविधौ कर्त्तुरित्येषा पञ्चमी, किं तर्हि? षष्ठी। यस्मादर्थाद्विभक्तिपरिणामो भवतीति स्थानषष्ठी सम्पद्यते। स्थानषष्ठआं च <<अलोऽन्त्यस्य>> [[1.1.52]] इत्युपस्थानेऽन्त्यस्यैव लोपेन भवितव्यम्। तेन हंसायत इत्यादौ न भवति लोपः।`आचारे` इत्यादि। क्यङविषयोपलक्षणार्थम्; तेन क्यङपवादः क्विब्दिधीयते। अत्र चावगल्भादीनामनुदात्तमकारमनुबन्धमासज्य निर्देशादवगल्भत इत्यात्मनेपदं भवति, पुनरवल्भादिभ्यो विकल्पेन क्विब् विधीयते, यावता `{गल्भ धार्ष्टए - धातुपाठः-} अवगल्भ आ धृष्टे` (धातुपाठः-392), `क्लीबृ {अधार्ष्टए - धातुपाठः-) मदे` (धातुपाठः-381), `हुडृ होडृ गतौ` (धातुपाठः-352, 354) इत्यात्मनेपदिनः, तत्रैतेभ्यो यदा लकारस्तदावगल्भत इत्यादि भविष्यति, यदा तु कृतमुत्पाद्याचं प्रातिपदिकानि कृत्वा क्यङुत्पाद्यते तदावगल्भायत इति भविष्यति? इदं प्रयोजनं विकल्पेन क्विब्विधानस्य - अवगल्भाञ्चक्र इति `कास्प्रत्ययादाममन्त्रे` [[3.1.35]] इत्यां यथा स्यात्। अन्यथा ह्रप्रत्ययान्तात् प्रत्ययान्ताद्धातोरामुच्यमानो न स्यात्। `सर्वप्रातिपदिकेभ्यः` इति। तरप्यवगल्भाद्यनुकर्षणं कर्तव्यम् - अनुबन्धासञ्जनार्थम्। इह चाचारे क्विब् वेत्यपेक्षते। तेन सर्वप्रातिपदिकेभ्य आचार एव क्विब् भवतीति वाक्यं निष्पद्यते। अथ किमर्थं ककारपकारौ क्विपोऽनुबन्धावासज्येते, यावताककारस्य गुणप्रतिषेधः प्रयोजनम्, न चेह गुणप्राप्तिरस्ति? क्विपो धातोरित्यविधानात् सार्वधातुकत्वाभावात्। सार्वधातुकार्धधातुकयोर्हि गुण उच्यते। पकारस्य चानुदात्तत्वं प्रयोजनं, तच्च क्विपो न सम्भवति; अनच्कत्वात्, सर्वलोपित्वाच्च <<वेरपृक्तस्य>> [[6.1.67]] इति। तर्हि द्वावेतौ सामान्यग्रहणाविघातार्थौ, न; अन्यतरेणैव सामान्यग्रहणाविघातस्य सिद्धत्वात। अन्यथा विज्विटोरपि तदर्थोऽनुबन्धः कर्तव्यः स्यादिति चिन्त्यमेतत्॥", "31012": "`भुवि` इति। भवनं भूः, सम्पदादित्वाद्भावे क्विप्। इह हल्ग्रहणेन यथासम्भवं भृशादयो विशिष्यन्ते, विशेषेणेन न तदन्तविधिर्भवतीत्याह - `हलन्तानाञ्च` इत्यादि। इहापि पूर्ववदन्वाचयशिष्टो हलो लोपः, तेन तदभावेऽपि क्यङ भवत्येव। हलो लोपविधौ भृशादिभ्य इति स्थानषष्ठी सम्पद्यते, अर्थाद्विभक्तिविपरिणामात्। तत्र <<अलोऽन्त्यस्य>> [[1.1.52]] इति नियमे सति भृशायत इत्यादावहलन्त्यस्य हलो लोपो न भवति। ननु च भृशादीनां बहुत्वात् तत्सम्ब्नधेनाच्विभ्य इति बहुवचनेन भवितव्यम्, तत्कथमच्वेरित्येकवचनेन निर्देश इत्याह - `अच्वेः` इत्यादि। भृशादच्वेः, शीघ्रादच्वेरिति प्रत्येकमभिसम्बध्यते। तस्मादेकवचनं न्याय्यम्।`किमर्थं पुनः ` इत्यादि। अच्वेरित्यधिकृत्य प्रश्नः। कस्मान्न कर्तव्यमित्याह - `यावता` इत्यादि। `अभूततद्भाव` इत्यादिना भवतिप्रयोगे च्विर्विधीयते। तत्र तेनैवोक्तार्थत्वाच्च्व्यन्तेभ्यः क्यङ न भविष्यति, `उक्तार्थानामप्रयोगे` (व्या।प।60) इति कृत्वा। ननु चानुप्रयोगं बाधित्वा क्यङेव स्यात्? नैतदस्ति; अनवकाशा हि विधयो बाधका भवन्ति, सावकाशश्च क्यङ। क्व? अच्च्व्यन्ता ये भुशादयस्तत्र; अच्व्यन्तात् च्वेर्विकल्पेन विधानात्। तत्राच्वेरित्यनुवर्तमाने ज्व्यन्तेषूभयप्रसङ्गे परत्वादनुप्रयोगेणैव भवितव्यम्, अत एवाह - `तत्सदृश` इत्यादि। `नञिवयुक्तमनयसदृशाधिकरणे तथा ह्रर्थगतिः` (व्या।प।65) इति च्व्यन्तसदृशाभृशादयः कथं नाम प्रतीयेरन्नित्येवर्थोऽच्वेरिति प्रतिषेधः। तत्सांदृश्यं च्व्यन्तस्याभूततद्भावविषयत्वात् अर्थकृतमेवाश्रीयते, न शब्दादिकृतमित्याह - `अभूततद्भावविषयेभ्यः` इत्यादि। इह भृशादिषु कैश्चिन्मनस्प्रभृतयः सोपसर्गाः पठन्ते, तेभ्यः सोपसर्गेभ्य एव प्रत्ययः स्यात्। ततशचोदमनायतेति सोपसर्गस्याङ्गसंज्ञात्वादुपसर्गात् प्रागडागमः स्यात्। सुमनाय्य गत इत्यत्र सोपसर्गस्य क्वान्तेऽनुप्रवेशात् तद्व्यतिरिक्त उपसर्गो नास्तीति समासो न स्यात्, ततश्च लब्न स्यात्? नैतदस्ति; यथैव हि प्रकृर्त्तुमैच्छदिति सोपसर्गस्यापि कर्मत्वे धातुग्रहणेनोपसर्गान्निष्कृष्य धातुमात्रात् प्रत्ययो भवति, तथेहापि भविष्यति। ननु तत्र धातुग्रहणमस्तीति चेत्? इहापि सुब्ग्रहणमनुवर्तत इति हेतुः। सुमनस् इत्यादीनि सुबन्तसमुदायानि। तेन सुबन्तसमुदायात् क्यङ। लङ कस्मान्न भवति? उच्यते - लङविधावपि धातुग्रहणमनुवर्तते। अथ `लोपः` [[3.1.11]] इत्यनुवर्तमाने पुनर्लोपग्रहणं किमर्थम्? सकारनिवृत्त्यर्थम्। पूर्वकं हि लोपग्रहणं सकारेण सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्, ततश्च तस्यानन्तस्यापि लोपः प्रसज्येत; इतरथा हि तदनुवृत्तिरपार्थिका स्यात्॥", "31013": "`लोहितयाते` इति। <<वा क्यषः>> [[1.3.90]] इत्यात्मनेपदम्। `पटपटायते` इति। पटच्छब्दात् `अव्यक्तानुकरणात्` [[5.4.57]] इति डाच्। `डाचि बहुलं द्वे` (वा।888) इति द्विर्वचनं डाचः प्रागेव भवति; डाचीत्यस्य हि विषयसप्तमीत्वात्। डाचि कृते टिलोपः। द्विर्वचने योऽच्छब्दस्तदवयवस्य तकारस्य <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इति पररूपम् - पकारः। `लोहितडाज्भ्यः क्यष्वचनम्` इत्यादि। लोहितादिसूत्रेण यदेतत् क्यषो विधानं तल्लोहितात्, डाजन्तेभ्यश्चेत्यर्थः। ननु चान्यान्यपि नीलादिशब्दरूपाणि लोहितादिषु पठन्ते, अतस्तेभ्योऽपि क्यषा भवितव्यमित्याह - `भृषादिषु` इत्यादि। लोहितशब्दादितराणि यानि तानि भृशादिषु द्रष्टव्यानि। यस्त्विह तेषां पाठः, स प्रमादतः। अर्वाक्कालभावित्वादनार्ष इत्यभिप्रायः। यदि तर्हि भृशादिष्वितराणि पठन्ते, एवमादिशब्दस्यानर्थक्यम्, न हि किञ्चिदस्ति यत् तेनोपादीयेत? अत आह - `यानि` इत्यादि। यानि प्रामादाल्लोहितादिषु पठन्ते तेषां भृशादिषु पाठो वेदितव्यः। न त्वपरिपठितानां वर्मादीनाम्। अतस्तेषामादिग्रहणेन ग्रहणे सति क्यषेव भवति। `वर्मायते` इति। <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नलोपः, `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः। निद्रादयोऽत्र शब्दाः पठन्ते, ते यद्यपि धरममात्रवचनास्तथापि क्यष्वृत्तिविषये तद्वपि द्रव्ये वर्तन्ते; शब्दशक्तिस्वाभाव्यात्। `निद्रायते` इति। अनिद्रावान् निद्रावान् भवतीत्यर्थः। कथं पुनरपरिपठितानां लोहितादित्वं भवतीत्याह - `आकृतिगणश्चायम्` इति। कथमेतज्ज्ञायत इत्याह - `तथा च` इत्यादि। केयति सामान्यग्रहणार्थमित्याह - `नः क्ये` इति। तत्रैतत् स्यात्। परिपठितानां मध्ये यो नकारान्तस्तस्य पदसंज्ञार्थः ककारोऽनुबध्यत इत्याह - `न हि` इत्यादि। कथं पुनः क्यषा योगे डाज्भवति, यावता `कृभ्वस्तियोगे` इत्यनुवृत्तेः करोत्यादियोगे डाज् विधीयते, न क्यषा? इत्याह - `{कृभ्वस्तिभिरेव` इति मुद्रितः पाठः}कृभ्वस्तिभिरिव` इत्यादि। यदेतत् डाजन्तेभ्यः क्यषो विधानमेतदेव ज्ञापयति - यथा कृभ्वस्तिभिर्योगे डाज्भवति तथा क्यषापीति। अन्यथा डज्ग्रहणमनर्थकं यदि क्यषा योगे डाज् न स्यात्। ननु च यदा भवतियोगे डाज्भवति तदा तदन्तात् क्यष् भविष्यति, त्तकुत आनर्थक्यम्? नैतत्; न हीदानां क्यष् भवितुमर्हति, भुवो भवतिनैवोक्तार्थत्वात्। `अच्वेरित्यनुवृत्तेरभूततद्भावे क्यष्विज्ञायते` इति। मञिवयुक्तन्यायेनेति भावः। यथैव हि पूर्वसूत्रेऽच्वेरिति प्रतिषेधादमुना न्यायेनाभूततद्भावविषये क्यङ विधीयते, तथेहापि क्यषिति॥", "31014": "`क्यङनुवर्तते, न क्यष्` इति। क्यङ एव स्वरितत्वात्। `चतुर्थी समर्थात्` इति कष्टायेति निर्देशादेव चतुर्थी समर्थविभक्तिर्लभ्यते, अतस्तत्समथ्र्यात् प्रत्ययो विज्ञायते। क्रमणशब्दोऽयमस्ति पादविहरणे, असति चानार्जवे; तत्र क्रमण इत्यविशेषाभिधाने पादविहरणे प्रत्ययो मा विज्ञायीति विशेषणमुपात्तम्। जिहृम्, पापम्, अनार्जवमित्यनर्थान्तरम्। ततोऽनार्जव इत्यनेन क्रमेण विशेषिते सत्यानार्जवलक्षणं यत्क्रमणं तत्रैव प्रत्ययो विज्ञायते, न क्रमणमात्रे। एतच्च `धातोः कर्मणः` [[3.1.7]] इत्यादेः सूत्राद्वाग्रहणस्यानुवर्तमानस्य व्यवस्थितविभाषात्वाल्लभ्यते। `कष्टाय क्रमणे` इति तादर्थ्ये चतुर्थी। `कष्टायते` इति। कष्टाय क्रमणमनार्जवं करोतीत्यर्थः। `अत्यल्पमिदमुच्यते` इति। सर्वलक्ष्यासंग्रहात्। कथं तर्हि वक्तव्यमित्याह- `{सत्त्रकक्ष` इति मुद्रितः पाठः} सत्रकष्ट` इत्यादि। अस्मिन् न्यसान्तरे यद्यपि समर्थविभक्तिनिर्दशो नास्ति, तथापि सुबधिकारात् तत्समर्थयोग्या विभक्तिरध्याहर्तव्या। सत्रं चिकीर्षतीति सत्त्रायते, पापं कर्त्तुमिच्छीत्यर्थः।`अजः कष्टं क्रामति` इति। क्रमिरत्र पादविहरणे। कष्टमिति कर्मपदमेतत्। कष्टं देशं गहनं क्रामतीत्यर्थः। अथ वा - कष्टमिति क्रियाविशेषणमेतत्। अजः कष्टं यथा भवति तथा सञ्चरतीत्यर्थः। क्रियाविशेषमपक्षेऽपि कष्टमिति द्वितीयान्तमेतत्। प्रसिपादितं हि `करणे च स्तोकाल्प` [[2.3.33]] इत्यादौ सूत्रे - क्रिया विशेषाणानां कर्मतेति। तेनात्र सूत्रे प्रत्युदाहरणे द्वितीयान्तस्य कष्टशब्दस्य निर्देशः। मूलोदाहरणेष्वपि द्वितीया समर्थविभक्तिरध्याहर्तव्येति विज्ञायते॥", "31015": "कर्मण इति पञ्चमी; रोमन्थतपोभ्यां पञ्चम्यन्ताभ्यां सामानाधिकरण्यात्। सत्यपि ताभ्यां सामानाधिकरण्ये द्विवचनं न भवति, प्रत्येकं वाक्यपरिसमाप्तेः। `\tवर्त्तिचरोः` इति। वर्तनं वर्त्तिः, ण्यन्तात् स्त्रियां क्तिन्। ननु च क्तिना न भवितव्यम्, <<ण्यासश्रन्थो युच्>> [[3.3.107]] इति युचा बाधितत्वात्। अस्मादेव निपातनात् क्तिन् भविष्यतीत्यदोषः। चरणं चरिति सम्पदादित्वात् क्विप्।`हनुचलने` इत्यादि। अभ्यवह्मतस्य यत् पुनरुद्गीर्य चर्वणं हनुचलनम्। अत्रार्थे रोमन्थशब्दात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु वाग्रहणमनुवर्त्त्य तद्व्यवस्थितरकविभाषात्वमाश्रित्य कर्तव्यम्। वाग्रहणं त्ववश्यमनुवर्तयितव्यम्, रोमन्थं वर्तयतीति वाक्यं यथा स्यात्। `कीटो रोमन्थं वर्तयति` इति। उद्गीर्णं वहिर्निरस्तमवगीर्णं वा पृष्ठान्तेन निर्गतं रोमन्थाख्यं द्रव्यं वर्तयति, गुटिकां करोतीत्यर्थः। तेनात्र हनुचलनं न विद्यते। मूलोदाहरणे तु विद्यत एव, तथा हि रोमन्थायत इति। अभ्यवह्मतं पुनराकृष्य चर्वयीत्यर्थः। तच्चर्वणं हनुचलनात्मकमेव।अन्ये तु हनुचलने प्रत्ययमन्यथा प्रतिपादयन्ति। अस्ति चायं रोमन्थशब्दः क्रियापदार्थको यो रोमन्थशब्दात् प्रातिपदिकाद्धात्वर्थ इत्यादिना णिचमुत्पाद्य घञन्तो व्युत्पाद्यते, स ह्रभ्यवह्मतस्य द्रव्यस्य पुनराकृष्य यच्चर्वणं तत्र वर्तते। अस्ति च द्रव्यवचनोऽयं य उद्गीर्णमवगीर्णं वा रोमन्थक्रियाविशिष्टं द्रव्यमाह। तत्र यः क्रियावचनस्तस्येदं ग्रहणम्, यतो द्रव्येऽप्ययं वर्तमानः क्रियाद्वारेणैव वर्तते। अतो द्रव्ये गौणः, क्रियायां मुख्यः; गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः (व्या।प।4)। तेन क्रियावचनादेव भवति, न द्रव्यवचनादिति।`तपसः परस्मैपदं च` इति। वक्तव्यमित्यपेक्षते। ङित्त्वादात्मनेपदे प्राप्ते परस्मैपदं वक्तव्यम् = व्याख्येयम्। व्याख्यानं तु `अनुदात्तङितः` [[1.3.12]] इति सूत्रे `नपुंसकमनपुंसकेन` [[1.2.69]] इत्यादेः सूत्रान्मण्डूकप्लुतिन्यायेनानुवर्तमानस्यान्थतरस्यांग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। तेन तपसः क्यङन्तादात्मनेपदं न भवति। तदभावात् <<शेषात् कर्तरि परस्मैपदम्>> [[1.3.78]] इति परस्मैपदमेव भवति।", "31016": "`फेनाच्चेति वक्तव्यम्` इति। फेनशब्दाद्वमनेऽर्थे वर्तमानात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु - `भृशादिभ्यः` [[3.1.12]] इत्यतः सूत्राच्चकारमनुक्तसमुच्चयार्थमनुवर्त्त्य कर्तव्यम्॥करणशब्देनात्र क्रियोच्यते, न साधकतमम्। यस्मात् `कर्मणः` [[3.1.15]] इत्यधिकाराच्छब्दादिभ्यः कर्मभ्य एव प्रत्ययेन भवितव्यम्। तत्र यदि साधकतमे प्रत्ययः स्यात् प्रकृतिप्रत्ययावसम्बद्धौ स्याताम्, क्रियापेक्षत्वाच्च कर्मत्वस्य क्रियाया अभावे कर्मत्वं न स्यात्। तस्मात् क्रियावचन एव करणशब्दं निश्चित्याह - `करणे करोत्यर्थे`इति।`सुदिन` इत्यादि। सुदिनादिभ्यः कर्मभ्यः करमए करोत्यर्थे क्यङप्रत्ययो भवति#ईत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु - इहापि तमेवानुक्तसमुच्चयार्थ चकारमनुवर्त्त्य कर्तव्यम्। अत एवानुक्तसमुच्चयार्थाच्चाकारादटादीनामपि ग्रहणम्। तेनटायत इत्याद्यपि सिद्धं भवति।`अटाट्ट` इत्यादि। अटादीनां ग्रहणमुपादानमित्यर्थः। अयञ्च `तत्करोति` (वा।200) इति णिचि प्राप्त आरम्भः; सोऽपीष्यते - शब्दयति, वैरयतीति। तस्मादेतदर्थापि चकारानुवृत्तिर्वेदितव्या॥", "31017": "", "31018": "`वेदनायामर्थेऽनुभवे` इति। प्रत्यक्षेण वस्तुन उपलब्धिः = अनुभवः। ननु च वेदनाशब्द उपलब्धिमातर्वचनो लोके दृष्टः, तत्कथमेष विशेषो लभ्यते? यथा लभ्यते तथोत्तरसूत्रे प्रतिपदायिष्यामः। कर्ता कारकम्, कारकञ्च क्रियापेक्षं क्रियाया एव भवति। वेदना चेह क्रिया श्रूयते, नान्या। तस्मात् तस्या एव कर्ता विज्ञायते। तस्याश्च सो वेदयिता स एव विज्ञायते। तस्मादविशेषाभिधानेऽपि वेदयितरि कर्तरि वर्तमानः कर्त्तृशब्दः गृह्रत इति - `वेदयितुश्चेत् कर्त्तुः` इत्यादि। एतेन कर्त्तृग्रहणेन सुखादयो विशिष्यन्ते, न तु वेदनेति दर्शयति। यदि कर्त्तृग्रहणेन वेदना विशिष्येत - कर्त्तुः सम्बन्धिनी चेद्वेदना भवतीति, तदेहापि स्यात् - देवदत्तस्य सुखं वेदयति प्रसाधक इति। प्रसाधकस्यापि सम्बन्धिनी वेदना भवत्येव, तथा हि सोऽपि तस्याः कर्ता। यथैव हि प्रसाध्यः सुखं वेदयते तथा प्रसाधकोऽपि। एतावांस्तु विशेषः - एकः प्रत्यक्षेण वेदयते, अपरश्चानुमानेन; सर्वथा हि तदकर्त्तृकत्वे वेदयत इत्येतन्न स्यात, न ह्रकर्ता वेदयत इत्युच्यते। तस्मात् सुखादीनामेव कर्त्तृग्रहणं विशेषणं युक्तिमिति भावः। ननु च सुखादिविशेषणत्वेऽपि स एव दोषः, यस्मात् प्रसाधकस्यापि जन्यजनकभावलक्षणेन सम्बन्धेन सुखादयः सम्बन्धिनो भवन्ति? नैतत्; सर्वत्रैव हि कर्त्तृसम्बन्धिनः सुखादयः, क्रियते चेदं कर्त्तृग्रहणम्। अतः कर्त्तृग्रहणसामर्थ्याद्विशिष्टो यः कर्ता सुखादीनामाश्रयः समवायिकारणं स एव गृह्रते। तेनाश्रयाश्रयिभावेन सम्बन्धेन कर्त्तृसम्बन्धिभ्यः सुखादिभ्यः प्रत्ययो विज्ञायते। न च प्रसाधकः सुखादीनां समवायिकारणम्, किं तर्हि? निमित्तकारणम्। सुखादिसमवायिकारणस्य कर्त्तुर्ये सुखादय आश्रयाश्रयिभावेन सम्बन्धिनस्ते प्रत्यक्षेणोपलभ्यन्ते। तेन तदुपलब्धिरनुभवस्वभावा भवतीति युक्तमुक्तम् - वेदनायामर्थेऽनुभव इति। यदि तर्हि कर्त्तृग्रहणेन सुखादयो विशिष्यन्ते, न वेदना, ततश्च कर्त्तृवेदनायामिति षष्ठीसमासो न प्राप्नोति, असामर्थ्यात्? सौत्रत्वान्निर्देशस्य सत्यप्यसामर्थ्ये समासो भविष्यतीत्यदोषः। अथ वा - असमास एव, षष्ठआस्त्वश्रवणम्; `सुपां सुलुक्` [[7.1.39]] इति लुप्तत्वात्॥", "31019": "`करणविशेषे पूजाद्वौ` इति। आदिशब्देन परिचर्याश्चर्ययोग्र्रहणम्। `नमसः` इत्यादिनाऽनन्तरस्योक्तार्थस्य विषयविभागं दर्शयति। एष चार्थो यद्यपि करण इति करणसामान्यमनुवर्तते, तथाप्यभिधानशक्तिस्वाभाव्यल्लभ्यते विनापि वचनेन, यथा - पचादीनां विक्लेदादिषु वृत्तिः, बहुव्रीहेश्च मत्वर्थे। `नमस्यति देवान्` इति। ननु च नमस्यतिशब्दे नमःशब्दोऽस्ति, अतस्तद्योगे `नमः स्वस्ति` [[2.3.16]] इत्यादिना चतुथ्र्या भवितव्यम्? नैतदस्ति; `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यर्थवतो नमःशब्दस्य कर्त्तुमशक्यत्वात्। अथ वा - `उपपदविभक्तेः कारकविभक्तिर्बलीयसी` (चां।प।69) इति द्वितीयैव भवति। उपपदसम्बन्धनिरपेक्षत्वात् कारकविभक्तेर्बलीयस्त्वम्। उपपदविभक्तेस्तु पदान्तरसापेक्षत्वाद्दुर्बलत्वम्। `नमस्यति` इति। नमस्कारं करोतीत्यर्थः। `वरिवस्यति`। परिचरीत्यर्थः। `चित्रीयते` इति। विस्मापयत इत्यर्थः॥", "31020": "`पुच्छात्` इत्यादि। उदसनम् = ऊध्र्वक्षेपणम्, पर्यसनम् = परितः क्षेपणम्। यदोदसने प्रत्ययस्तदा तस्य द्योतनार्थ उच्छब्दः प्रयुज्यते - `उत्पुच्छयते` इति। यदा पर्यसने प्रत्ययस्तदा परिशब्दः - `परिपुच्छयते` इति। `णाविष्ठवत् कार्यम् प्रातिपदिकस्य` (वा।813) इतीष्ठवद्भाववाट्टिलोपः। समाचयनम् - राशीकरणम्। अर्जनम् = अलब्धस्य लाभः। परिधानम् = आच्छादनम्॥", "31021": "`प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च` (धातुपाठः-ग।सू।186) इत्यनेन मुण्डादिभ्यः सिद्धो णिच्। अयञ्च तस्यैव प्रपञ्चः। यद्यपि तस्य तत्करोतीत्यादिः प्रपञ्च उक्तः, तथापीह मन्दबुद्धीनामनुग्रहाय पुनरुच्यते। `तन्निवृत्तौ वा` इति। भोजननिवृत्तौ। `पयो व्रतयति` इत। पयो भुङ्क्त इत्यर्थः। `वृषलान्नं व्रतयति` इति वृवलान्नं न भुङ्क्त इत्यर्थः। `हलिं गृह्णाति हलयति, कलिं गृह्णाति कलयति` इति। ननु चेह हलकलशब्दयोः एतेनैतद्दर्शयति - सूत्रेऽपि हलिकल्योरेव ग्रहणम्, तयोस्त्वत्त्वनिपातनं कृतम्, `सन्वल्लघुनि` [[7.4.93]] इत्यादिना सन्वद्भावो मा भूदिति। अतो युक्तं हलिकल्योग्र्रहणम्। तथा हि - नात्र णिज् दुर्लभः, गणसुत्रेणैव सिद्धत्वात्। केवलं प्रपञ्चार्थमिदमुच्यते। स च प्रपञ्चो हलिकल्योरपि ग्रहण उपपद्यत एव। अयन्तु विशेषः - अकारान्तयोग्र्रहणे सतीकारान्ताभ्यामपि गणसूत्रेणैव णिच् प्राप्नोति, तत्र कृते सतीष्ठवद्भावेन टिलोपः प्राप्नोति, <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिश्च,उभयोरपि तयोरनित्यत्वम्। तथा हि, टिलोपस्य सत्यपि कृताकृतप्रसङ्गित्वे शब्दान्तरप्राप्त्याऽनित्यत्वम्। तथा हि, कृतायां वृद्धावैकारस्य प्राप्नोति, अकृताय#आन्त्विकारस्य; वृद्धेस्तु टिलोपे सत्यप्राप्त्याऽनित्यम्। अप्राप्तिस्त्वनजन्तत्वात्। उभयोरनित्ययोः परत्वाद्वृद्धिः, तस्यां कृतायां टिलोपः, तत्राप्यग्लोप्यङ्गं न भवति। तथा च सति `सन्वल्लघुनि` [[7.4.93]] इति सन्वद्भावेऽभ्यासस्येत्वे <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घत्वे च अचीकलत्, अजीहलादित्यनिष्टं रूपं प्रसज्येत। हलिकलिशब्दयोस्तु कृतात्त्वयोग्र्रहणे सति यद्यपि परत्वाद्वृद्धिर्भवति, तथापि सत्यामपि तस्यामगेव लुप्यत इत्यग्लोप्यङ्गं भवति। ततश्च सन्वद्भावात् अचकलत्, अजहलादितीष्टं रूपं सिध्यति। तत्र ययोग्र्रहणे सतीष्टं सिध्यति तयोरेव ग्रहणम्, न तु ययोग्र्रहणेऽनिष्टं प्राप्नोति। नह्रनिष्टार्था शास्त्रे प्रकॢप्तिर्युक्ता॥", "31022": "`एकाच्` इति। बहुव्रीहिरयं न तत्पुरुषः; `हलादेः` इति विशेषणात्। `क्रियासमभिहारे वर्तते` इति। एतेन क्रियासमभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। `तस्माद्यङप्रत्ययो भवति` इति। क्व? `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति`(पु।प।पा।90) इति तत्रैव क्रियासमभिहारे। विप्रकीर्णानामकेत्र राशीकरणं समुदायभावापत्तिर्मुख्यः समभिहारः। स च क्रियागामुत्पन्नापवर्गिणीनां सहानवस्थानादेकेन च धातुनाऽनकस्याः क्रियाया युगपदनभिधानान्न सम्भवतीति गौणं समभिहारं दर्शयतुमाह - `पौनः पुन्यम्` इत्यादि। उभयमपि ह्रेतत् समभिहारसादृश्यादुपचारेण समभिहारे व्यपदेशमासादयति। यथा द्रव्याणां समाह्मतानां द्रव्यान्तरैरव्यपेतानां समाहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवतीति सादृश्यम्। क्रिया च द्विप्रकारा - प्रधाना,अप्रधाना च। तत्र प्रधानक्रिया विक्लेदनादिः, गुणक्रिया चाधिश्रयणादिः। तत्र यः फलान्तं पाकमवसाय्य क्रियान्तरमनारभ्य पुनः पाकमेवारभते स प्रधानक्रियां समभिहरति, तासां पौनःपुन्यं समभिहारः। यस्त्वधिश्रयणादीरेव क्रियाः क्रियान्तरैरव्यपेताः साकल्येन करोति स गुणक्रियाः समभिहरति, तासां भृशार्थता समभिहारः। फलातिरेको वा भृशार्थता। तथा हि - यो ज्वलनफलमवाप्य ज्वलति, दीप्यते वा, स जाज्वल्यते देदीप्यते इति चोच्यते। `पापच्यते` इति। <<सन्यङोः>> [[6.1.9]] इति द्विर्वचनम्, `दीघोऽकितः` [[7.4.83]] इति दीर्घः। अत्र `क्रियासमभिहारे द्वे भवतः` (वा।886) इति द्वित्वं न भवति; क्रियासमभिहारे विधीयमानस्य यङः स्वयमेव तदभिव्यक्तौ सामर्थ्यात्। यस्तु `क्रियासमभिहारे लोड् लोटो हिस्वौ वा च तध्वमोः` [[3.4.2]] इति लोड् वक्ष्यते स क्रियासमभिहारव्यक्तौ स्वयमशक्त इत्यपेक्षते द्विर्वचनम्। न ह्रसौ क्रियासमभिहारे विधीयते, किं तर्हि? कर्मादिषु; <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इति वचनात्। तेन तस्य प्रयोगे द्विर्वचनं भवत्येव - `लुनीहि लुनीहीत्येवायं लुनाति। `देदीप्यते` इति। `गुणो यङ लुकोः` [[7.4.82]] इति गुणः।`भृशं प्राटति` इति। असति धातुग्रहणे, एकाज् यः शब्दो हलादिः क्रियासमभिहारे वर्तते तस्माद्यङ प्रत्ययो भवतीत्ये। सूत्रार्थः स्यात्। ततश्च प्रपूर्वादटतेर्यङ प्रसज्येत; प्रपूर्वस्याटतेर्यः समुदायस्तस्य यथोक्तविशेषणविशिष्टत्वात्। धातुग्रहणे सत्येष प्रसङ्गो न भवति। न ह्रयं धातुः, किं तर्हि? धातूपसर्गसमुदायः। `जागर्ति` इति। आदादित्वाच्छपो लुक्। अथ क्रियाग्रहणं किमर्थम्, न समभिहार इत्येवोच्येत? नैवम्। साधनसमभिहारेऽपि स्यात्। नैतदस्ति, प्रकृतिविशेषणं ह्रेतत्। न च प्रकृतेः साधनसमभिहारे वृत्तिः सम्भवति। अपि च `करणे` [[3.1.17]] इति वर्तते, तेन समभिहारो विशेषयिष्यते - करणसम्बन्धी चेत् समभिहारः, तत् कुतः साधनसमभिहारे प्रसङ्गः? इदं तर्हि प्रयोजनम् - क्रियामात्रसमभिहारे यथा स्यात्; अन्यथा प्रधाने कार्यसम्प्रत्ययात् प्रधानक्रियासमभिहार एव स्यात्, न गुणक्रियासमभिहारे। `सूचि` इत्यादि। `सूच पैशून्ये` (धातुपाठः-1873), `सूत्र {वेष्टने` धातुपाठः-} अवमोचने` (धातुपाठः-1908), `मूत्र प्ररुआवणे` (धातुपाठः-1909) `अट गतौ` (धातुपाठः-295), `ऋ गतौ` (धातुपाठः-1098), `अश भोजने` (धातुपाठः-1523) `ऊर्णूञ् आच्छादने` (धातुपाठः-1039), - आसां प्रकृतीनां यङविधौ ग्रहणं कर्तव्यम्, तच्च पूर्वस्यैव चकारस्यानुक्तसमुच्चयार्थत्वाल्लभ्यते, किमर्थं पुनरासां प्रकृतीनां ग्रहणमित्याह - `अनेकाजहलाद्यर्थम्` इति। अनेकाज् अहलादिरर्थः प्रयोजनं यस्य तत्तथोक्तम्। सूच्यदीनां तिसृणां चुरादिणिजन्तानामनेकार्थं ग्रहणम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थञ्च, शेषाणां तु अहलाद्यर्थमेव। `सोसूयते` इति। <<णेरनिटि>> [[6.4.51]] इति णिलोपः, पूर्ववदभ्यासस्य गुणः। `अटाटयते` इति। <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति टकारस्य द्विर्वचनम्, हलादिः शेषः, दीर्घश्च। `अरार्यते` इति। `यङि च` [[7.4.30]] इति गुणः। द्वितीयस्यैकाचो र्यशब्दस्य द्वर्वचनम्। <<न न्द्राः संयोगादयः>> [[6.1.3]] इति तु नास्ति, `यकारपरस्य रेफस्य प्रतिषेधः` (वा। 651) इति वचनात्। `अशाश्यते` इति। द्वितीयस्यैकाचः `श्य` इत्यस्य द्विर्वचनम्। `प्रोर्णुनूयते` इति। अत्रापि नुशब्दस्य द्विर्वचनम्। रेफस्तु न द्विरुच्यते, तथैव प्रतिषेधात्। `भृशं रोचते, भृशं शोभत इत्यत्र नेष्यते` इति। तदर्थं वेत्यनुवृत्तस्य व्यवस्थितविभाषात्वं व्याख्येयम्॥", "31023": "धातोरित्येव। `गतौ` इति। प्रकृतिविशेषणमेतत्। गतौ वर्तमानाद्धातोरित्यर्थः। अमुमेवार्थं पर्यायान्तरेणाचष्टे - `गतिवचनाद्धातोः` इति। `चंक्रकम्यते, दंद्रम्यते` इति। `क्रमु पादविक्षेपे` (धा।प।473), द्रम हम्म मीमृ गतौ (धातुपाठः-466, 467, 468) <<नुगतोऽनुनासिकान्तस्य>> [[7.4.85]] इति नुमागमः। योऽल्पीयस्यध्वनि गतागतानि करोति स कुटिलां गतिं सम्पादयन् चंक्रभ्यते देद्रम्यत इति चोच्यते। अथ नित्यग्रहणं किमर्थम्, यावताऽनभिदानादेवात्र वाक्यं न भविष्यति? न हि चङक्रम्यत इति वृत्तेरर्थं कुटिलं क्रामतीति वाक्यं शक्नोति गमयितुम्। तथा हि कुटिलं क्रामतीति वाक्यात् संशयो भवति - किं गतिकौटिल्यम्? उत मनः - कौटिल्यमिति? चंक्रम्यत इति वृत्तौ त्वसंशयं गतिकौटिल्यमेव गम्यते, इत्याह - `नित्यग्रहणम्` इत्यादि। गतिकौटिल्यं विषयः। तत्र यङो नियमोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। `गतिवचनात्` इत्यादिना नियमस्य प्रयोजनं दर्शयति। `न तु` इत्यादिना तद्व्यवच्छेद्यम्। नित्यम् = सर्वकालं गतिवचनात् कौटिल्य एव भवति, न तु कदाचित् क्रियासमभिहारे। तेन `भृशं क्रामति` इति क्रियासमभिहारे पूर्वेण प्राप्तो यङ् न भवति।", "31024": "`लुप्लृ छेदने` (धातुपाठः-1431), `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-1427), `अभ्र वभ्र चर गत्यर्थाः` (धातुपाठः-556, 557, 559), `जप जल्प व्यक्तायां वाचि` (धातुपाठः-397, 398), `{जभी धातुपाठः-}जभ {जृभि-धा।पाक} गात्रविनामे` (धातुपाठः-388,389), `दह भस्मीकरणे` (धातुपाठः-991), `दन्श दंशने` (धातुपाठः-989), `गृ? निगरणे` (धातुपाठः-1410)। `धात्वर्थगर्हायाम्` इत्यनेन भावगर्हायामित्यस्यार्थमाह। `गर्हितं लुम्पति` इति। गर्हितमिति क्रियाविशेषणमेतत्। तेन भावगर्हात्र गम्यते। गर्हितत्वं छेदनसय् निरर्थकत्वात्, दोषदुष्टत्वाच्च। एवमुत्तरत्रापि गर्हितत्वं वेदितव्यम्। `चञ्चूर्यते` इति। <<चरफलोश्च>> [[7.4.87]] इति नुक्। `उत्परस्यातः` [[7.4.88]] इत्युत्त्वम्, `हलि च` [[8.2.77]] इति दीर्घः। `जञ्जप्यते` इति। `जपजभ` [[7.4.86]] इत्यादिना नुक्। `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, रपरत्वम्, द्विर्वचनम्। गिर्याशब्दस्य रेफयकारयोस्तु हलादिशेषेण निवृत्तिः, पुर्ववद्गुणः, <<ग्रो यङि>> [[8.2.20]] इति लत्वम्।`साधु जपति` इति। नात्र धात्वर्थस्य गर्हा, किं तर्हि? प्रशंसा। `मन्त्रं जपति वृषलः` इति। अत्र साधनस्य वृषलस्य गर्हा गम्यते; वृषलस्य = शूद्रस्य वैदिकमन्त्रजाप्यं प्रत्यनधिकारात्॥", "31025": "चुरादिभ्योऽन्येंषामिह ग्रहणं प्रपञ्चार्थम्। `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च` (वा।813) इति सिद्धत्वात्।`अर्थवेद` इत्यादि। वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। व्याख्यानं तु - प्रातिपदिकाद्धात्वर्थे बहुलमिति कार्यान्तरविधानार्थाद्बहुलणादेषां णिच्सन्नियोगेनापुग्भवतीति। सत्यशब्दस्य तु `सत्याप` इत्यत एव निपातनादापुग्भवतीति वेदितव्यम्। `विपाशयति` इति। पाशं विमोचयतीत्यर्थः। `निरूपयति` इति। रूपं पश्यतीत्यर्थः। `अभिषेणयति` इति। `उपसर्गात्` [[8.3.65]] इत्यादिना षत्वम्। `त्वचयति` इति। ननु च त्वच्शब्दो हलन्तः, तस्मात् णिचि `णाविष्ठवत्` (वा।813) इतीष्ठवद्भावाट्टिलोपे प्राप्ते तत्र <<प्रकृत्यैकाच्>> [[6.4.163]] इति प्रकृतिवद्भावे कृते <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः प्राप्नोति, तत् कथं त्वचयतीति हि भवितव्यमित्याह - `अकारान्तोऽयं त्वचशब्दः` इति। शब्दान्तरमेवेदमकारान्तं त्वच्शब्दसमानार्थम्। अत एव त्वच इत्यकारान्तस्य सूत्रे निर्देशः, तस्यकारस्य लोपे कृते स्थानिवद्भावाद्वृद्धिर्न भवति। `चुरादिभ्य स्वार्थ` इति। स्तेयादौ। ननु च नेह सूत्र आख्यानादयोऽर्था उपात्ताः, तत्कथं ते लभ्यन्ते? अलब्धाश्च कथं निर्दिश्यन्ते? इत्याह - `स्वाभाविकत्वात्` इत्यादि। शब्दानामर्थाभिधानं स्वाभाविकम्,न तु वाचनिकम्; तस्याशक्यत्व#आदिति प्रागेवोक्तम्। तस्मात् स्वभावत एव यो यस्यार्थस्याभिधायकः स सूत्रानुपात्तोऽर्थो युक्त एव निर्देष्टुम्। `यथायथम्` इति। यो यस्यात्मीय इत्यर्थः॥", "31026": "", "31027": "किं पुनरिमे कण्ड्वादयो धातवः? उत प्रातिपदिकानि? तत्र यदि धातवः, यकि कृते कण्डूरिति न सिध्यति। कण्डूयेति प्राप्नोति। ननु च वेत्यनुवर्तिष्यते, ततर्यदा यङ नास्ति तदा कण्डूरिति भविष्यति? नैतदस्ति; न हि धातोः सुब्विभक्तिरुत्पत्तुमुत्सहते; तस्याः प्रातिपदिकाद्विधानात्। स्यादेतत् - यगन्तात् `अन्यभ्योऽपि` [[3.2.178]] इति क्विपि कृते अतो लोपे [[6.4.48]] वलि यकारलोपे [[6.1.66]] च कण्डूरिति भविष्यति? असदेतत्; कर्तरि क्विब् विधीयते, कण्डूरिति च वेदनामात्रमुच्यते, न कर्ता; तथापि सम्पदादेराकृतिगणत्वात् भावे क्विपं विधाय कण्डूरिति व्युत्पाद्यते। एवमपि मन्तुः, वल्गुरिति न सिध्येत्। यदि तावद्वेत्यनुवृत्त्या मनुवल्गुशब्दाभ्यां पक्षे यग्न भवति तदा विभक्तिस्ताभ्यां नोपपद्येत, तथा च मन्तु, वल्गु इत्यविभक्तिकं रूपं स्यात्। अथापि ताभ्यां यकं विधाय क्विप् क्रियते? एवमपि मन्तूर्वल्गुरित्यनिष्टं रूपं स्यात्। अवश्यं यकि कृते `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घत्वेन भवितव्यम्। अथ प्रातिपदिकानि कण्डवादयस्तदा यकः करारोऽनर्थकः स्यात्, स हि <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति प्राप्तस्य गुणस्य <<क्ङिति च>> [[1.1.5]] इति प्रतिषेधो यथा स्यादित्येवमर्थं क्रियते। प्रातिपदिकत्वे तेषामेतत्प्रयोजनं नोपपद्यते, न हि प्रातिपदिकाद्विहितः प्रत्यय अर्धधातुकसंज्ञां लभत इति यो देशयेत्, तं प्रत्याह - `द्विविधाः` इत्यादि। तत्रेति निर्धारणे सप्तमी। तेषु धातुप्रातिपदिकेषु मध्ये ये धातवः कण्ड्वादयस्तेभ्यो यक्। `धात्वधिकारात्` इत्यत्रवोपपत्तिः। एवमेवार्थं द्रढयितुमाह - `तथा च` इत्यादि। यत एवं धातुभ्यः प्रत्ययो विधीयते; धात्वधिकारात् , प्रातिपदिकेभ्यः। एवञ्च कृत्वा यकः ककारोऽनुबध्यते गुणप्रतिषेधात्। यदि तु प्रतिपदिकेभ्यो यक् स्यात् तस्यानार्धधातुकत्वाद्गुणस्य प्राप्तिरेव नास्ति, तत्प्रतिषेधार्थं ककारानुबन्धकरणमनर्थकं स्यात्।`धातुप्रकरणाद्धातुः` इति। प्रत्ययमुत्पादयतीति शेषः। `धातोरेकाचः` [[3.1.22]] इत्योत धातुग्रहणमनुवर्तते। तेन धातुरेव कण्ड्वादिशब्दः प्रत्ययमुत्पादयति, न प्रातिपदिकम्। `कस्य` इत्यादि। यच्चेदं ककारानुबन्धासञ्जनमतोऽपि हेतोरेव धातुः प्रत्ययमुत्पादयति। अन्यथा ककारानुबन्धकरणं पूर्वोक्तया रीत्या निरर्थकमेव स्यात्। अतएव धातुभूतेभ्यः कण्डवादिभ्यो यग्विधानात् ककारानुबन्धासञ्जनाच्च तेषां धातुत्वं विज्ञायते। न ह्रधातुभूतेभ्यो यग्विधानमुपपद्यते, नापि ककारानुबन्धकरणम्; प्रयोजनाभावात्। अथ प्रातिपदिकत्वं कण्ड्वादीनां कथमवसीयते? इत्याह - `आह चायम्` इत्यादि। चकारो हेतौ। यद्येते धातव एव स्युस्ततो यकि कृते `अकृत` [[7.4.25]] इति दीर्घत्वस्य सिद्धत्वात् कण्डूञ्, ह्मणीङ्, महीङिति दीर्घं नोच्चारयेत्, उच्चारयति च दीर्घम्, अतोऽवसीयते - `धातुर्विभाषितः` इति। धातुत्वमेषां विकल्पितमित्यर्थः। ननु च पक्षे यत्र यङ नास्ति तत्रायगन्तेभ्यः क्विबादौ प्रत्यय उत्पन्ने कण्डूः, कण्डूतिः, कण्डूतवानिति दीर्घस्य श्रवणं यथा स्यादित्येवमर्थं दीर्घोच्चारणं स्यात्। तत् कुतस्तस्यानर्थक्यम्! कथं पुनरयगन्तेभ्यः क्विबादयो भवन्ति, यकः पाक्षिकत्वात्, तदपि कुतः? वेत्यनुवृत्तेः, नैतत्; नित्यत्वादस्य विधेः। नित्यत्वन्तु वाग्रहणस्य निवर्तितत्वात्। कुतः पुनस्तन्निवृत्तिरवीसयते? `आयादयः` [[3.1.31]] इत्यादेः सूत्रारम्भात्। यद्यत्र वेत्यनुवृत्तिस्तदोत्तरत्राप्यनुवर्तनादायादयो वा भविष्यन्तीत्येतन्नारभेत। न च तदनारम्भे सार्वधातुकेऽप्यायादयो विकल्पेन प्राप्नुवन्ति; वाग्रहणस्य व्यवस्थितविभाषात्वात्। तस्मादायादय इत्यादेरारम्भाद्वाग्रहणनिवृत्तिरवसीयत इति नित्यं यका भवितव्यम्। ततश्च यद्येषां पक्षे प्रातिपदिकत्वं न स्याद्दीर्घोच्चारणमनर्थकं स्यात्। तस्माद्दीर्घोच्चारणसामर्थ्यात् प्रातिपदिकत्वमेषामस्तीत्येकान्त एष पक्षः। तत्र धातुपक्षे कण्डूयत इत्यादयः सिध्यन्ति, प्रातिपदिकपक्षे त्वसति यकि कण्डूर्मन्तुर्वल्गुरित्यादयः। मगध इत्यादयो येऽकारान्ताः कण्ड्वादिषु पठन्ते तेषां <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः - मगध्यति, सुख्यति, दुःख्यति। लेट्लोटौ शब्दौ पठएते, तयोः ल्वरूपेणैव ग्रहणम्, न तु प्रत्ययत्वेन, कण्ड्वादिभिः स्वरूपशब्दैः साहचर्यात्॥", "31028": "`स्तुत्यर्थेन` इत्यादि। `पण व्यवहारे स्तुतौ च` (धातुपाठः- 439) `पन च` (धातुपाठः-440) इत्यनयाऽनुपूर्व्या गणे पाठः। तत्र `पन च` (धातुपाठः-440) इत्यत्र स्तुतावित्यनुवर्तते, न व्यवहारार्थः तेन पणिव्र्यवहारार्थः, स्तुत्यर्थश्च,पनिः स्तुत्यर्थ एव। तदिह स्तुत्यर्थेन पणिना साहचर्यात् पनेरपि स्तुत्यर्थ एव गृह्रते। तेनासौ स्तुतावेव वर्तमानः प्रत्ययमुत्पादयति, न तु व्यवहारे। `शतस्य` इति। `व्यवह्मपणोः समर्थयोः` [[2.3.57]] इति कर्मणि षष्ठी। अत्र पणायतीत्यत्रात्मनेपदं कस्मान्न भवति, यावता पणिरयमनुदात्तेत् पठते? तत्र `अनुदात्तङितः` [[1.3.12]] इति यथा केवलादात्मनेपदं भवति तथायपत्प्रत्ययान्तादपि तेन भवितव्यमित्यत आह - `अनुबन्धः` इत्यादि। यो हि तस्यानुबन्धः स आयप्रत्ययरहिते पणतौ चरितार्थः = कृतात्मनेपदकार्यः, तेनायप्रत्ययान्तादात्मनेपदं न भवति; तस्य धात्वन्तरत्वात्॥", "31029": "`सौत्रः` इति। सूत्रे परिपठितत्वात्। सूत्रे भवः सौत्रः। `घृणायां वर्तते` इति। घृणा = जुगुप्सा। तस्यामयं स्वभावत एव वर्तते। अथ कस्मादीयङुच्यते, न च्छङित्येवोच्येत, तस्येयादेशे ऋतीयत इति सिध्यति? न सिध्यति; परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशो न स्यात्। ननु चान्तरङ्गत्वादीयादेश एव भविष्यति, अन्तरङ्गत्वन्तु तस्यायन्नादिषु `उपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थम्` (7.1.2।वा।1) इति वचनात्; एवं तह्र्रेतज्ज्ञापयति - `धातुप्रत्ययानामायन्नादयो न भवन्ति` इति। तेन शमेर्ढप्रत्यये कृते शण्ढः इत्येवमादयः सिद्धा भवन्ति। अथ वा - स्वरविधावुपदेशिवद्भावः स्वरसिध्यर्थमिति वचनात्। तेन नास्त्यन्तरङ्गतेति परत्वादिडागमः स्यात्, तस्मादीयङ् विधीयते॥", "31030": "`णकारो वृद्ध्यर्थः` इति `अच उपधायाः` [[7.2.116]] इति वृद्धिर्यथा स्यात्। यद्येवम्, किमर्थं `न कम्पमिचमाम्` (धातुपाठः-817) इति कमेर्मित्संज्ञा प्रतिषिध्यते `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वो मा भूदिति? नैतदस्ति; णित्करणसामर्थ्यादेव तन्न भविष्यति; अन्यथा णित्करणमनर्थकं स्यात्। नानर्थकम्? <<णेरनिटि>> [[6.4.51]] इति सामान्यग्रहणार्थत्वात्। यदा च `आयादय आर्धधातुके वा` [[3.1.31]] इति णिङ् नास्ति, तदा हेतुमण्णिचि ह्रस्वत्वं मा भूदिति मित्संज्ञा प्रतिषिध्यते॥", "31031": "`आर्धधातुकविषये` इत्येतेनार्धधातुक इत्यस्य विषयसप्तमीत्वं दर्शयति। आर्धधातुकविषयत्वं तु तद्विवक्षायां सत्यां बुद्धिस्थे तस्मिन् सम्भवति,नान्यथेत्याह - `आर्धधातुकविवक्षायाम्` इति। केन पुनरभिसन्धिना विषयसप्तमीत्वमाश्रीयत इति? एवं मन्यते - परसप्तम्यामुत्पत्तिर्वा विकल्प्यते? निवृत्तिर्वा? यद्युत्पत्तिस्तदा गुपेः स्त्रियां क्तिनि विहिते तत्र यदायप्रत्ययो नोत्पद्यते तदा कामं गुप्तरितीष्टं सिध्यति। यदा तूत्पद्यते, तदातो लोपे [[6.4.48]] वलि लोपे [[6.1.64]] इत्यकारे कृते तत्र परतो यदा निवृत्तिर्न भवति तदा कामं गोपायेतीष्टं सिध्यति। यदा तु भवति तदा गोपेत्यनिष्टं प्राप्नोति। गुप्तिरिति सत्यामसत्यां वा निवृत्ताविष्टं न सिध्यति; विषयसप्तम्यां तूत्पतौ विकल्पितायामुत्पत्स्यते। अर्धधातुकमिति आर्धधातुकविवक्षायामादावेव विकल्पः। तत्रानुत्पत्तिपक्षे स्त्रियां क्तिनि विहिते गुप्तिरिति सिध्यति, उत्पत्तिपक्षे गोपायेति। न च गोपातिरित्यनिष्टमपि; आयप्रत्ययान्तात् क्तिनोऽभावात्। नापि गोपेत्यनिष्टमापद्यते, आयप्रत्ययस्यानुत्पत्तेः। `नित्यप्रत्ययप्रसङ्गे` इति। पूर्वकैस्त्रिभिः सूत्रेर्नित्यमायादिषु प्राप्तेष्वित्यर्थः। `तदुतप्त्तौ` इत्यादि। तेषामायादीनामार्धधातुकविषय उत्पत्तिर्विकल्प्यते, न तूत्पन्नानां निवृत्तिः। यदि हि निवृत्तिर्विकल्प्येत तदार्धधातुके विषयभूते सत्यायप्रत्यये निवृत्ते प्रत्ययलक्षणेन `अ प्रत्ययात्` [[3.3.102]] इत्यकारप्रत्यये विहिते विषयसप्तम्यामपि गोपेत्यनिष्टं स्यादित्यभिप्रायः। `यथायथम्` इति। यो यतः प्राप्नोति स पश्चादुत्पत्तिविकल्पादुत्तरकालं ततो भवतीत्यर्थः॥", "31032": "`सनादयोऽन्ते येषाम्` इति वाक्यविशेषेण बहुव्रीहि दर्शयति। गमकत्वन हि व्यधिकरणानामपि बहुव्रीहिर्भवत्येव, यथा - कण्ठेकालः, उरसिलोमेति। आदिशब्देन क्यजादीनां णिङपर्यन्तानां ग्रहणम्। `समुदायाः` इति। प्रकृतिप्रत्ययसमुदायाः। एतेन तद्गुणसंविज्ञानबहुव्रीहि दर्शयति; अन्यथा सनाद्युपलक्षितानां प्रकृतीनामेव धातुसंज्ञा विधीयेत। `{धातुसंज्ञाः - काशिका, पदमञ्जरी च।}धातुसंज्ञकाः` इति। धातुः संज्ञा येषां ते धातुसंज्ञकाः। धातुशब्दश्चात्र स्वरूपपदार्थकः, न भूवादिपदार्थकः, अन्यथा भूवादयः सनाद्यन्तानां संज्ञाः स्युः, तच्चायुक्तम्, न हि तावतीनां संज्ञानां करणे किञ्चित् प्रयोजनमस्ति। आवर्तिन्यश्च संज्ञा भवन्ति। न हि भूवादीनामेव सर्वेषामावृत्तिः क्वचिच्छास्त्रेऽस्तीति न तत्पदार्थको धातुशब्दः। इह हि संज्ञाविधौ सनादीनां प्रत्ययनां ग्रहणम्। <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यत्र चान्तग्रहणेन ज्ञापितमेतत - `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (पि।प।वृ।44) इति। एषा परिभाषा संज्ञाविधौ प्रत्ययग्रहणे प्रतिषिद्धा। तत्रासत्यन्तग्रहणे तदन्तविधिर्न स्यात्, इष्यते च, अतस्तदर्थमन्तग्रहणं कृतम्, तत्रानेनान्तग्रहण#एनापूर्व एव तदन्तविधिः क्रियत इति मन्यमानो यो देशयेत् तं प्रत्याह - यदि तर्हि सनाद्यन्तानामियं संज्ञा विधीयते तदा देवदत्तः प्राचिकीर्षदित्यत्र देवदत्तस्य सोपसर्गस्य च संज्ञा प्रसज्येतेति। अत आह - `प्रत्ययग्रहणपरिभाषयैव` इत्यादि। न ह्रनेनान्तग्रहणेनापूर्व एव तदन्तविधिः क्रियते, किं तर्हि? पदसंज्ञाविधादन्तग्रहणेन प्रतिषिद्धा सती प्रत्ययग्रहणपरिभाषयैव पुनरिह प्रतिप्रसूयते। कृतप्रवृत्तिविधाता सती पुनः प्रवर्तत इत्यर्थः। ततश्च यतः सनादयो विहितास्तदादेरेव समुदयस्य संज्ञा भवति, न शब्दान्तरादेरिति भावः। अथ <<भूवादयो धातवः>> [[1.3.1]] इत्यस्यानन्तरं `सनाद्यन्ताश्चेति कस्मान्नोक्तम्; एवं हि धातुग्रहणं द्विर्न कर्तव्यं भवति? नैवं शक्यम्, एवं हि क्रियमाणे सनादीनामियत्तापरिच्छदो न स्यात्। इह तु क्रियमाणे णिङपर्यन्तानां ग्रहणं विज्ञायते। तर्हि <<सनाद्यन्ता धातवः>> [[3.1.32]] इत्यस्यानन्तरं `भूवादयश्च` इति कस्मान्नोक्तम्? एतदपि न; एवं हि क्रियमाणे सनाद्यन्तस्यानुक्रान्तापेक्षित्वात् भूवादीनामप्यनुक्रान्तापेक्षित्वं स्यात्; ततश्चानुक्रान्तानामेव गुपादीनां धातुसंज्ञा स्यात्, नान्येषां भूवादीनाम्। अथ भूवादीनामनुक्रान्तापेक्षा न भवति सनादीनामपि न स्यात्, ततश्च सनादयः कप्पर्यन्ता गृह्रेरन्निति सन्देहः स्यात्। तस्माद्यथान्यासमेव न्याय्यम्॥", "31033": "इह द्वे लृरूपे - एकं लृटः सम्बन्धिः, द्वितीयं लृङ। द्वयोरपि तेयोग्र्रहणम्िष्टत्वात्, विशेषानुपादानाच्च। ततश्चैते द्वे तृतीयञ्च लुडिति त्रीणि निमित्तानि भवन्ति। निमित्तिनौ तु द्वौ स्यातासी इति वैषम्यम्। अतः संख्यातानुदेशो न स्यादिति यो देशयेत्, तं प्रत्याह - `लृरूपम्ित्यादि। टकारङकारयोरनुबन्धयोः परित्यागेन ततकृत्यस्य भेदस्याभावाल्लृरूपं लृङलृटोः सामान्यमेकमेवेति निमित्तयोरपि द्वित्वम्। तेन संख्यतानुदेशो न विरुध्यत इत्यभिप्रायः। अत एवाह - `यथा संख्यम्` इति। `करिष्यति` इति। <<लृट् शेषे च>> [[3.3.13]] इति लुट्, ऋद्धनोः स्ये` [[7.2.70]] इतीट्। `अकरिष्यत्` इति। लृङ, अडागमः, `इतश्च` [[3.4.100]] इतीकारलोपः। `कर्ता` इति। `अनद्यतने लुट्`, [[3.3.15]] `लुटः प्रथमस्य` [[2.4.85]] इत्यादिना तिपो डादेशः,टिलोपः। `इदित्करणम्` इत्यादि। इच्चासावित् इत्संज्ञकश्चेतीति,तस्य करणमिदित्करणम्। इकारस्येत्संज्ञकस्य करणित्यर्थः। अथ वा - इदित् यस्य तासेः स इदित् तासिः, तस्य करणमिदित्करणसंज्ञकेकारस्य तासेः करणमित्यर्थः। `अनुनासिकलोपप्रतिबन्धार्थम्` इति। असति तु तस्मिन् `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः स्यात्। अतस्तस्य प्रतिबन्धः प्रवृत्तिविघातो यथा स्यादित्येवमर्थमिदित्करणम्। `मन्ता` इति। `मन ज्ञाने` (धातुपाठः-1176), `मनु अवबोधने`(धातुपाठः-1471) इति वा। `अनुदात्तङितः` [[1.3.12]] इत्यात्मनेपदम्। `संगन्ता` इति। अत्रापि संपूर्वाद्गमेः `समो गमि` [[1.3.29]] इत्यादिना अत्रोभयत्रापि टिलोपे कृते ङित्वादात्मनेपदमाश्रित्यानुनासकिलोपः प्राप्नोति, स इदित्करणेन प्रतिषिध्यते। यदि तर्हि तासेरिदित्करणमनुनासिकलोपप्रतिबन्धार्थम्, एवं सति <<इदितो नुम् धातोः>> [[7.1.58]] इत्यत्र यद्वक्ष्यति `तासिसिचोरिदित्कार्यं नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठते` इति तद्विरुध्यते? नास्ति विरोधः, भिन्नकर्त्तृकत्वात्। इदं हि जयादित्यवचनम्, तत् पुनर्वामनस्य। वामनवृत्तौ तु तासिसिचोरिकार उच्चारणार्थो नानुबन्धो पठते, तेन विरोधो नाशङ्कनीयः। केन पुनरभिसन्धिना जयादित्यस्तासेरिकारस्यानुनासिकलोपप्रतिबन्धार्थतां कृतवान्? वामनस्तूच्चारणर्थताम्? येनाभिसन्धिना स तावच्छरूयताम् - आभाच्छास्त्रीयमसिद्धत्वमनित्यम्, अनित्यत्वं तु तस्य तत्रैव प्रतिपादयिष्यते जयादित्येन। आभाच्छास्त्रीयस्य टिलोपस्यासिद्धत्वमिह नास्ति। अनित्यत्वादित्यभिप्रेत्य तासेरिकारस्यानुनासिकलोपे प्रतिबन्धार्थतोक्ता। वामनेनत्वसिद्धत्वमिहास्त्येवेति मन्यमानेनोच्चारणार्थतोक्ता। न हि टिलोपस्यासिद्धत्वे सत्यनुनासिकलोपः प्राप्नोति। तदयुक्ता तत्प्रतिबन्धार्थतेकारस्य। यथैव हि गोनर्द्दीय आचार्यः - सन्निपातलक्षणपरिभाषाया उपस्थानमाश्रित्यातिजरं ब्राआहृणकुलं तिष्ठति, अतिजरैब्र्राआहृणकुलैरिति भवितव्यमित्याह; अन्ये त्वनित्यत्वादस्याः परिभाषाया अनुपस्थानमाश्रित्यातिजरसं ब्राआहृणकुलमतिजरसैरिति भवितव्यमित्याहुः, तथेदमपि प्रयोजनद्वयमाभाच्छास्त्रीय्सयास्तित्वञ्चाश्रित्य वृत्तिकारावुक्तवन्ताविति वेदितव्यम्।अन्ये चाचक्षते - प्राग भादसिद्धाधिकार इतीमं पक्षमाश्रित्येकारस्यानुनासिकलोपप्रतिबन्धार्थतोक्ता। सह तेनासिद्धाधिकार इत्यश्रित्योच्चारणार्थतेति। एतच्चाशक्यं विज्ञातुम्; प्राग् भादसिद्धाधिकार इत्यस्य पक्षस्य जयादित्यवामनाभ्यामनाश्रित्वात्। अनाश्रितत्वंतु तत्रैव वृत्तावभिव्यक्तमिति तत एवावगन्तव्यम्। एते च स्वादयो येननाप्राप्तिन्यायेनान्तरङ्गत्वाच्च सर्वेषां यगादीनामपवादाः; अन्तरङ्गत्वं तु तेषां लावस्थायामेव विधानात्॥", "31034": "`जोषिषत्` इति।`जुषी प्रीतिसेवनयोः` (धातुपाठः-1288) लिङर्थे लेट्। सिप इकार उच्चारणार्थः, पकारः स्वरार्थः, <<लेटोऽडाटौ>> [[3.4.94]] इत्यट्। <<इतश्च लोपः परस्मैपदेषु>> [[3.4.97]] इतीकारलोपः, `आर्धधातुकस्येडवलादेः` [[7.2.35]] इतीट्, लघूपधगुणः, <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्। `तारिषत्` इति। `तृ? प्लवनतरणयोः` (धातुपाठः-969) <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] <<व्यत्ययो बहुलम्>> [[3.1.85]] इति वर्णव्यत्ययेन धात्वकारस्याकारः। शेषं पूर्ववत्। `मन्दिषत्` इति। `मदि {स्तुतिमोदमदस्वप्नकान्तिगतिषृ` धातुपाठः-} स्तुतिमोदनस्वप्नगितषृ` (धातुपाठः-13), <<इदितो नुम् धातोः>> [[7.1.58]] इति नुम्। `पदाति` इति। `पद गतौ` (धातुपाठः-1169), दिवादिरनुदात्तेत्, व्यत्ययेन परस्मैपदम्, शप्प्रत्ययश्च, अटा सह सवर्णदीर्घत्वम्। तिप इकारलोपोऽत्र न भवति; तद्विधौ <<वैतोऽन्यत्र>> [[3.4.96]] इत्यतो वेत्यनुवृत्तेः। `च्यावयाति` इति। `च्यङ {न स्तो धातुपाठे} छ्युङ ज्युङ {न स्तो धातुपाठे} झयुङ प्रुङ प्लुङ गतौ` (धातुपाठः-955,956,957,958)। हेतुमण्णिच्। सिपः पित्करणं बोभूयिषातामित्यत्रोदात्तनिवृत्तिस्वरेणोदात्तत्वे प्राप्तेऽनुदात्तार्थम्। यङन्तात् बोभूयशब्दाल्लेट आत्मनेपदम्, त, टेरेत्वम्। `एत ऐ` [[3.4.93]] <<लेटोऽडाटौ>> [[3.4.94]] इत्याट् <<तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः>> [[6.1.186]] इति सार्वधातुकस्यानुदात्तत्वं पित्करणसामर्थ्यादन्तरङ्गोऽपि सिप्स्वरं प्रतीक्षते। तेन कृते तस्मिन् सिप इडागमः। स चागमानुदात्तत्वेनानुदात्तः। <<अतो लोपः>> [[6.4.48]] इति यङोऽकारस्योदात्तस्य लोपः। उदात्तत्वं तु तस्य धातुस्वरेण च। <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्युदात्तत्वे प्राप्ते पित्करणादनुदात्तत्वमिटो भवति॥", "31035": "प्रत्ययग्रहणेनेह सन्नादीनां प्रत्यायानां ग्रहणम्। `प्रत्ययग्रहणे यस्मात्` (पु।प।वृ।44) इति परिभाषया <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति वा तदन्तविधिर्विज्ञायते।धात्वधिकाराच्च प्रत्ययग्रहणेनेह धातवो विशिष्यन्त इत्याह - `प्रत्ययान्तेभ्यो धातुभ्यः` इति। आम्प्रत्ययो भवतीति हलन्तपक्षमाश्रित्योक्तम्। अदन्तपक्षे त्वामः प्रत्ययो भवतीत्येवं वक्तव्यम्, तच्च नोक्तम्; वक्ष्यमाणादामोऽमित्त्वमदन्तत्वादित्यत एवावगम्यमानत्वात्। `अमन्त्रे` इति विषयसप्तमीयम्, न परसप्तमी, तेन मन्त्रप्रतिषेधात् भाषायां ब्राआहृणे च विषयेऽयं विधिर्विज्ञायते। ब्राआहृणो नाम मन्त्राणामेव व्याख्यानग्रन्थः। न च नञिवयुक्तन्यायेन (व्या।प।65) ब्राआहृण एव भवितव्यम्, न भाषायाम्? नैतत्; यदि भाषायामपि न स्यात् ब्राआहृण इत्येवं ब्राऊयात्। `कासाञ्चक्रे` इति। `आमः` [[2.4.81]] इति लेर्लुक्। लिटः कृत्तवाल्लुप्ते तस्मिन् <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा, सुः, स्वरादिपाठात् <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद्वाऽव्ययसंज्ञायां सोर्लुक्। अथ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन#आत्र सोर्लोपो भविष्यति, किमत्राव्ययसंज्ञया। `लोलूयाञ्चक्रे` इति। लोलूयशब्दाद्यङन्तादाम्।`नोनाव` इति। `णु स्तुतौ` (धातुपाठः-1035), `णो नः` [[6.1.63]] इति नत्वम्, यङ, नोनूयत इति स्थिते <<यङोऽचि च>> [[2.4.74]] इति यङो लुक्, लिट्, तिप्, `परस्मैपदानाम्` [[3.4.82]] इति णल्, वृद्धिः। अत्र प्रत्ययलक्षणेन प्रत्ययान्तादाम् स्यात्, अमन्त्र इति वचनान्न भवति।`कास्यनेकाचः` इत्यादि। प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्तव्यमित्यर्थः। किमर्थमित्याह - `चुलुम्पाद्यर्थम्` इति। यथान्यासं हि क इत्यस्मात् प्रजापतिवाचिनो विष्णुवाचिनोऽशब्दादाचारक्विपि तदन्तादप्याम् प्रसज्येत, चकासृप्रभृतिभ्योऽप्रत्ययान्तेभ्यश्च न स्यात्, तस्मादिदं न्यासान्तरं द्रष्टव्यम्। अन्ये तु प्रत्ययग्रहणस्यानेकाजुपलक्षणान्न कर्तव्यमेतदिति मन्यन्ते, एतच्चायुक्तम्; न हि प्रत्ययग्रहणमनेकाजुपलक्षणार्थमुपपद्यते, एकाचामपि प्रत्ययानां धातूनां विद्यमानत्वात्। यथा त्वेतन्न्यासान्तरं प्रत्याख्येयं भवेत् तथोत्तरत्र दर्शयिष्यामः। `चकासाञ्चकार, दरिद्राञ्चकार` इति। `चकासृ दीप्तौ` (धातुपाठः-1074), `दरिद्रा दुर्गतौ` (धातुपाठः-1073)। `चुलुम्पाञ्चकार` इति। चुलुम्पतेर्धातुष्वपरिपठितस्यापि कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमिति कात्यायनवचनप्रामाण्यात् धातुत्वं वेदितव्यम्।अथामो मकारस्य <<हलन्त्यम्>> [[1.3.3]] इतीत्संज्ञा कस्मान्न भवतीत्याह - `आमोऽमित्तवम्` इत्यादि। मकार इद्यस्य सोऽयमित्, न मिदमित्, तस्य भावोऽमित्त्वम्। कथममित्तवमित्याह - `अदन्तत्वात्` इत्यादि। मकारान्तत्वे हि सति मकार्सयेत्संज्ञा स्यात्। न चास्य मकारान्तत्वम्, किं तर्हि? अदन्तत्वम्। तेनाकार एव `उपदेशेऽजनुनासिक इत्` ((1.3.2#ः इतीत्संज्ञामनुभवन् मकारस्येत्संज्ञां प्रतिबध्नाति। यथा चामेऽमित्तवमदन्तत्वादगुणत्वं विदेस्तथा। गुणाभावोऽपि हि विदेर्विदाञ्चकारेत्यत्राकारान्तत्वादावेव भवति। अथाकारान्तत्वे सत्यतो लोपे [[6.4.48]] तस्याः <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावादिकार उपधा न भवति, तेन लघूपपधगुणो न भवति। अदन्तत्वं तु विदेः <<उषविदजागृभ्योऽन्यतरस्याम्>> [[3.1.38]] इत्यनेनाम्प्रत्ययसन्नियोगेनाकारान्तत्वनिपातनात्। अभ्युपेत्यामो मकारान्तत्वममित्त्वं प्रतिपादयितुमाह - `आश्चकासोर्विधानाच्च` इति। आमोऽमित्त्वमिति प्रकृतेन सम्बन्धः,`दयायासश्च`( 3.1.37) इत्यास आमो विधानात्। कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमित्युपसंख्यानाच्चकासेः। आदिग्रहणेन हि चकासेरपि ग्रहणम्। मकारस्येत्संज्ञैयतत् प्रय#ओजनम् - अचोऽन्त्यात् परो यथा स्यादिति। यदि चामोऽमित्त्वं स्यात् तदाऽऽश्चकासोरामो विधानमनर्थकं स्यात्। न हि तयोरचोऽन्त्यात् प आशि भवत्यभवति वा कश्चिद्विशेषः। उभयथा हि <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घत्वे तदेव रूपं स्यात्, तदेतदाश्चकासोरामो विधानं कथमर्थवद्भवति? यद्यमित्तवमामो भवति नान्यथा। न ह्रन्यत् किञ्चित्प्रयोजनमस्तीति प्रयोजनाभावादित्संज्ञा न भविष्यति। आश्चकासोर्विधानसमाथ्र्यात् सवर्णदीर्घत्वमिह न भविष्यति। <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति परिभाषा वा नोपस्थास्य इत्येतच्च नाशङ्कनीयं लक्ष्यविरोधमनिच्छता। एवं ह्रनिष्टं रूपं स्यात्। न चानिष्टार्था शास्त्रे प्रकॢप्तिर्युक्ता। यदि तह्र्रमोऽदन्तत्वमेवं सत्याममन्त्र इति निर्देशो नोपपद्यते, सवर्णदीर्घत्वे `आमामन्त्रे` इति भवितव्यमित्याह - `पररूपं कतन्तवत्` इति। यथा` सर्वत्र लोहितादिकतन्तेभ्यः` [[4.1.18]] इत्यत्र पररूपं तथेहापीति न भवति निर्देशानुपपत्तिः॥", "31036": "`{यजादेः इति मुद्रितः पाठः।} इजादेः` इति। आदिर्यस्येति बहुव्रीहिः। `इच्` इति प्रत्याहारग्रहणम्। गुरुरस्यास्तीति गुरुमान्। `ऋच्छतिवर्जितः` ऋच्छिना त्यक्तः। तद्रूपरहित इत्यर्थः। `ईहाचञ्क्रे` इति। `ईह चेष्टायाम्` (धातुपाठः-632) `ऊहाञ्चक्रे` इति। `ऊह वितर्के` (धातुपाठः-648)। `ततक्ष, ररक्ष` इति। `तक्षू त्वक्षू तनूकरणे` (धातुपाठः-655, 656), `रक्ष पालने` (धातुपाठः-658)। `इयज; उवप` इति। यजिवप्योरुत्तमे णलि <<णलुत्तमो वा>> [[7.1.91]] इति णित्त्वाभावपक्षे वृद्ध्यभावाद्गुरुमत्ताभावः। केचित् इयेष, उवोषेति प्रत्युदाहरन्ति। `{इष धातुपाठः-} इषु इच्छायाम्` (धातुपाठः-1351) `उष दाहे` (धातुपाठः-696), णलि लघूपधगुणःष द्विर्वचनम्, <<अभ्यासस्यासवर्णे>> [[6.4.78]] इतीयङुवङौ। ननु च गुणे कृत एतावपि गुरुमन्तो भवत इति भवितव्यमेवामात्र? न भवितव्यम्; `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इति लिट्सन्निपातो गुरुमत्ताया हेतुः। गुरुमत्ता च `आमः` [[2.4.81]] इति लिटमेव विहन्ति। अथ वा - गुरुमत इति नित्ययोगे मतुप्, तेन नित्यं यस्य गुरुमा योगस्ततो भवितव्यम्, न चेषेरुषेश्च नित्यं गुरुणा सह योगः। यद्येवम्, `उछी विवासे` (धातुपाठः-216) - उच्छाञ्चकारेत्यत्र तुकि कृते न प्राप्नोति? नैष दोषः; ऋच्छिप्रतिषेधो हि ज्ञापयति - आगमनिमित्ता गुरुमत्ता यस्य ततोऽपि भवतीति। `आनच्र्छ` इति। `ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु` (धातुपाठः-1296), `छे च` [[6.1.71]] इति तुक्, `ऋच्छत्यृताम्` [[7.4.11]] इतिगुणः, द्विर्वचनम्, हलादिशेषः, <<अत आदेः>> [[7.4.70]] इति दीर्घः, <<तस्मान्नुड् द्विहलः>> [[7.4.71]] इति नुट्। ननु च `ऋच्छत्यृताम्` [[7.4.11]] इति ऋच्छतेरनन्तरे लिटि गुणवचनं ज्ञापकम् - ऋच्छेराम् न भवति। सति हि तस्मिन्नागमनिमित्ता गुरुमत्ता यस्य ततोऽपि भवतीत्येतज्ज्ञापितं न स्यात्। तस्मादनृच्छ इति प्रतिषेधः कर्तव्यः।`ऊर्णोतेः` इत्यादि। इजादित्वाद्गुरुमत्त्वाच्च प्राप्नोत्याम्। तस्मात् प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। व्याख्यानं तु - वक्ष्यमाणस्यान्यतरस्यांग्रहणस्य सिंहावलोकितन्यायेनानुवर्त्तितस्य व्यवस्थितविभाषात्वविज्ञानात् कर्तव्यम्। `प्रोर्णुनाव` इति। <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति `नु`इत्यस्य द्विर्वचनम्। रेफस्तु न द्विरुच्यते; <<न न्द्राः संयोगादयः>> [[6.1.3]] इति प्रतिषेधात्।`अथ वा` इत्यादि। `णु स्तुतौ` (धातुपाठः-1-35)। `तेन तुल्यं वर्तते` इति नुपवत्, तस्य भावो नुवद्भाव इति। नौतिना तुल्यं वर्तत इत्यर्थः। किं पुनस्तस्य प्रयोजनम्, येनासौ तथा वाच्यः? इत्याह - `यङप्रसिद्धिः प्रयोजनम्` इति। नुवद्भावे सति यथा नौतेः `धातोरेकाचः` [[3.1.22]] इतियङ भवति नोनूयत इति, एवमूर्णोतेरपि- प्रोर्णोनूयत इति। `आमश्च प्रतिषेधार्थम्` इति नुवद्भावो वाच्य इत्यपेक्षते। तस्मिन् सति यथा नौतेरनिजादित्वाद्गुमत्ताभावाच्चाम् न भवति, तथोर्णोतेरपि - प्रोर्णुनावेति। `एकाचश्चेडुपग्रहात्` इति। `नुवद्भावो वाच्यः` इति सम्बध्यते। कर्मणि `ल्यब्लोपे` (वा।127) इति पञ्चमी, यथा - प्रासादात् प्रेक्षते, आसनात् प्रेक्षत इति। इडुपग्रह इति इट्प्रतिषेधः। एतदुक्तं भवति - एकाचः` [[7.2.10]] इत्यनुवर्तमाने `श्रयुकः किति` [[7.2.11]] इति य इडुपघः क्रियते तदुद्दिश्य प्रयोजनमूर्णोतेर्नुवद्भावो वाच्य इति। तेन यथा नौतेः `श्रयुकः किति` इतीट्प्रतिषेधः-नुतः, नुतवानिति, तथोर्णोतेरपि - प्रोर्णुतः, प्रोर्णुतवानिति। अथ वा - इडुपग्रहादिति हेतावियं पञ्चमी, यथा - <<तदशिष्यं संज्ञाप्रमाणत्वात्>> [[1.2.53]] इति। एकाचो यत इडुपग्रहो विधीयते तस्मात् प्रयोजनाद्धेतोरूर्णोतेर्नुवद्भावो वाच्य इत्यर्थः। अथ `इजादेश्च` इति किमर्थश्चकारः? अनुक्तसमुच्चयार्थः , तेन `कास्यनेकाचः` (वा। 205) इति वक्तव्यं न भवति। यथान्यासेऽपि चकारेण चकासाञ्चकारेत्यादेः सिद्धत्वात्। ननु च यदीदं नोच्येत, तदा प्रत्ययान्तोऽपि यो धातुरेकाच् ततोऽपि प्रसज्येत्? यदि नेष्यते, तदा वक्ष्यमाणमन्तयतरस्यांगर्हणमनुवत्र्यं व्यवस्थितविभाषात्वमङ्गीकर्तव्यम्॥", "31037": "`पलायाञ्चक्रे` इति। परापूर्वस्यायतेः `उपसर्गास्यायतौ` [[8.2.19]] इति लत्वम्।", "31038": "उषजागृभ्यां साहर्याद्विदेरपि परस्मैपदिनो ज्ञानार्थस्य ग्रहणम्, न तु सत्त्ाविचारणार्थं योरात्मनेपदिनोः, नापि लाभार्थस्योभयपदिनः; जागर्त्तिनाऽऽदादिकेन वा साहचर्याद्विदेरादादिकस्यैव ग्रहणमित्याह - `विद ज्ञाने` इति। विवेदेत्यत्रादन्तत्वाभावाद्गुणो भवत्येव। आम्सन्नियोगेन विदेरदन्तत्वं विज्ञायते, तेन तत्रैव गुणाभावो नान्यत्रेति। अत आह - `विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति` इति॥", "31039": "`भीह्यीभृहुवाम्` इति। पञ्चम्यर्थे षष्ठी। सुपां सुपो भवन्तीति। `श्लुवत्` इति। श्लविव श्लुवत्। <<तत्र तस्येव>> [[5.1.116]] इति सप्तमीसमर्थाद्वतिः। कार्यातिदेशश्चायम्। अत एवाह - `श्लुवच्चास्मिन् कार्यं भवति` इति। `द्वित्वमित्त्वञ्च` इति। `श्लौ` [[6.1.10]] इति द्विर्वचनम्, `भृञामित्` [[7.4.76]] इतीत्त्वम्। असति ह्रतिदेशे लिडाश्रयं द्विर्वचनमामा व्यवधाने न स्यात्। इत्त्वमपि नैव स्यात्, तद्विधौ हि `णजां त्रयाणां गुणः श्लौ` [[7.4.75]] इत्यतः श्लावित्यनुवर्तते। तस्मात् तस्योभयस्य सिद्धये `श्लुवच्च` इत्यतिदेशः॥", "31040": "`अनुप्रयुज्यते` इति। अनुप्रशब्दौ प्रत्येकं प्रथमान्ते पदे। `युज्यते` इत्यात्ममनेपदे प्रथमपुरुषैकवचनान्तं पदम्। `आम्प्रत्ययस्य` इति। आम् प्रत्ययो यस्मादिति बहुव्रीहिः। पश्चादित्यनेनानुशब्दस्यार्थमाचक्षाणः प्राक् प्रयोगं निराकरोति। सावधारणफलत्वाच्च सर्ववाक्यानामाम्प्रत्ययस्यैव पश्चात् कृञ् प्रयुज्यते - इत्यवधारणमिहाश्रितम्, तेन व्यवधाने प्रयोगो निराकृतो भवति। न हि व्यवधाने कृञनुप्रयुज्यमान आम्प्रत्ययस्यैवानुप्रयुक्तो भवति, अपि तु शब्दान्तरस्यापि।`लिटि परतः` इत्यनेन प्रत्ययान्तरे परे प्रयोगाभावमाह। ननु च `आमः` [[2.4.81]] इति लिटो लुका भवितव्यम्, तत्कथं लिटि परतः कृञ नुप्रयुज्यते? नैष दोषः; न ह्रयमत्रार्थः - लक्षणान्तरेण यो विहितो लिट्परः कृञनुप्रयुज्यत इति यावत्। ननु च कृञित्युच्यते, पाचयाम्बभूव पाचयामासेति भवतेरस्तेश्चानुप्रयोगो न सिध्यतीत्याह - `कृञिति प्रत्याहारेण` इत्यादि।<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इतीतं कृशब्दं गृहीत्वा `कृञो द्वितीयतृतीयशम्बबीजात् कृषौ` [[5.4.58]] इति ञकारेण प्रत्याहारग्रहणमेतत्। तेन प्रत्याहारग्रहणेन कृभ्वस्तयस्त्रयो गृह्यन्ते। तत्र च त्रयाणामप्यन्तर्भावादित्यदोषः। एवमप्यस्तेरनुप्रयोगो न सिध्यति, यस्मात् <<अस्तेर्भूः>> [[2.4.52]] इति भूभावेन भवितव्यमित्याह - `तत्सामर्थ्यात्` इति। प्रत्याहेरण कृभ्वस्तीनां ग्रहणसामर्थ्यादस्तेर्भूभावो न भवति। तेषां प्रत्याहारगर्हणस्यैतत् प्रयोजनम् - अस्तेरनुप्रयोगो यथा स्यात्। यद्यस्तेरनुप्रयोगस्य भूभावः स्यात् निष्फलं प्रत्याहारग्ररहणं स्यात्, `कृभ्वनुप्रयुज्यते लिटि` इत्येवं ब्राऊयात्। तत्राप्ययमर्थः - किमिदं करोतेग्र्रहणम्? उत प्रत्याहारस्य? इति सन्देहः परिह्मतो भवति। यदि तर्हि कृञिति प्रत्याहारग्रहणम्, एवं सति <<अभिविधौ सम्पदा च>> [[5.4.53]] इति सम्पदानुप्रयोगः प्राप्नोति; तस्य प्रत्याहारेऽन्तर्भूतत्वात्? नैष दोषः; <<सनाद्यन्ता धातवः>> [[3.1.32]] इत्यतो धातुग्रहणमनुवर्तते, तेन च कृञ् विशिष्यते - कृञ् यो धातुरिति, न च सम्पदेत्यं धातुः, किं तर्हि? धातूपसर्गसमुदायः, तस्मान्नानुप्रयुज्यते।`पाचयाम्बभूव` इति। पचेण्र्यन्तादाम्। <<अयामन्ताल्वाय्येत्न्विष्णुषु>> [[6.4.55]] इति णेरयादेशः। `भवतेरः` [[7.4.73]] इत्यभ्यासस्यात्त्वम्। `भुवो वुग् लुङलिटोः` [[6.4.88]] इति वुगागमः।किमर्थं पुनरिदमुच्यते, यावताऽमन्तमिदम्, अनभिव्यक्तक्रियापदार्थम्। अतो हि क्रियाकालमात्रस्याभिव्यक्तिर्भवति, न साधनपुरुषसंख्यानम्। न हि विना तिङन्तपदेन तासामभिव्यक्तिर्भवति। तस्मादपरिसमाप्त्यर्थत्वादेवामन्तस्यानुप्रयोगो भविष्यति? कृभ्वस्तीनामनुप्रयोगो यथा स्यात्, `{पचादीनां मा भूत्। पचादीनामिति चेन्न`} इति मुद्रितः पाठः} पचादीनां मा भूदिति चेत्, न; पचादीनां विशेषवाचित्वादनुप्रयोगस्यानुपपत्तेः। विशेषवाची ह्रनुप्रयुज्यमानः सामान्यवाचिनो ह्रामन्तस्यानुप्रयुज्यते? विशेषवाचिनो वा? तत्र न तावत् सामान्यवाचिन आमन्तस्य विशेषवाच्यनुप्रयोगमर्हति, तस्यासम्भवात्। कृभ्वस्तयो हि सामान्यवाचिनः, न च तेभ्यः केनचिदाम् विहितः। विशेषवाचिनोऽप्यामन्तस्य विशेषवाची समानार्थोऽनुप्रयुज्येत? भिन्नार्थो वा? तत्र समानार्थस्तावन्नानुप्रयुज्यते; उक्तार्थत्वात्। तस्मश्चानुप्रयोक्तुमिष्ट आमन्तस्य सकलक्रियाकालाद्यर्थाभिव्यक्तिर्भवति। सामर्थ्यात् स एवानुप्रयोक्तव्यो यत्र सर्वाभव्यक्तिर्भवति। तत्र क्रियामन्तेन समानार्थेन पूर्वेण ! भिन्नार्थोऽपि नानुप्रयोगमर्हति; तदर्थानभिव्यक्तेः। अनुप्रयोगो ह्रामन्तस्यार्थस्य#आभिव्यक्तये क्रियते, न चात्यन्तभिन्नार्थेनामन्तवाच्यस्यार्थस्य सम्बन्धिनः साधनादयः शक्यन्तेऽभिव्यङक्तुम्। सामान्यवाचिना तु शक्यन्तेऽभिव्यङक्तुम्। विशेषसन्निधौ हि सामान्यशब्दस्य विशेषेऽवस्थानादामन्तस्य सन्निधौ सामान्यशब्दाः कृभ्वस्तयोऽनुप्रयुज्यमानास्तद्वाच्य एवार्थविशेषे वर्तन्ते, तस्मादेषामेव कृभ्वस्तीनामनुप्रयोगो भविष्यतीति नारब्धव्यमिदम्? नैतदस्ति; यथैव हि कृभ्वस्तयः क्रियासामान्यवचनाः, एवं विद्यतिरपीति तस्याप्यनुप्रयोगः स्यात्। तस्मात् तन्निवृत्त्यर्थमिदमारब्धम्। व्यवहितप्रयोगनिवृत्त्यर्थञ्च, पाचयां देवदत्तश्चकारेति मा भूत्। व्यवहितप्रयोगानिवृत्तिस्त्ववधारणविशेषाल्लभ्यते। अवधारणं तु सर्ववाक्यानां व्यवच्छेदफलत्वात् सावधारणफलत्वाच्चकारस्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। विपर्ययनिवृत्त्यर्थश्चारब्धव्यः, विपर्ययनिवृत्तिस्त्वनोः पश्चादर्थत्वाल्लभ्यते॥", "31041": "`विदेर्लोटआम्प्रत्ययः` इति। विदेर्लिटआम् विहितो लोटि न प्राप्नोतीत्यतोऽपि निपात्यते। अममाश्रित्य लघूपधगुणः प्राप्नोतीति तदभावश्च। `आमः` [[2.4.81]] इति लेर्लुग्विधीयमानो लोटो न सिध्यतीत्यतो लोटो लुक्। लिट्परस्य कृञोऽनुप्रयोग उक्तो लोट्परस्य न प्राप्नोति, सोऽपि निपात्यत इति सर्वत्र सम्बन्धनीयम्। `कुर्वन्तु` इति। बहुवचनम्, झेरन्तादेशः, `एरुः` [[3.4.86]] , विकरणमश्रित्य धातोर्गुणः, `\tअत उत् सार्वधातुके` [[6.4.110]] इत्युत्त्वम्, विकरणस्य यणादेशः। `इतिकरणः` इत्यादि। लोड्वचनानामुपलक्षणार्थत्वे सतीतिकरणस्य यदिष्टं तद्दर्शयितुमाह - `न केवलम्` इत्यादि। `कुरुताम्` इति। `तस्थस्` [[3.4.101]] इत्यादिना तसस्ताम्। `कुरु` इति। `सेह्र्रपिच्च` [[3.4.87]] इति हिः, `उतश्च प्रत्ययात्` [[6.4.106]] इत्यादिना हेर्लुक्। `कुरुतम्` इति। तसस्तम्॥", "31042": "`अभ्युत्सादयाम्` इति। <<कुगतिप्रादयः>> [[2.2.18]] इति समासे कृत एकमेवेदं प्रथमान्तम्। एवं `प्रजनयाम्` इत्येतदपि। शेषाण्यप्यामन्तानि प्रथमान्तान्येव। `अकः` इति। करोतेर्लुङ। प्रथमपुरुषैकवचनान्तम्। `अक्रन` इति। प्रथमपुरुषबहुवचनान्तम्। `सदिजनिरमीणाम्` इति। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-1427), `जनी प्रादुर्भावे` (धातुपाठः-1449), `रमु क्रीडायाम्` (धातुपाठः-853)। `ण्यन्तानाम्िति। हेतुमण्णिजन्तानाम्। `पचतेः` इति। लिटि विहितत्वाल्लिङि न प्राप्नोति, ततो निपात्यते। `अस्य` इति। पुनातेः पवतेर्वा ण्यन्तस्य। `लृङ्याम् निपात्यते` इति। पूर्ववन्न प्राप्नोतीति कृत्वा। `विदेरपि गुणाभावश्च` इति। `पुगन्तलघूपधस्य` [[7.3.86]] इति गुणः प्राप्नोति, अत्सतदभावो निपात्यते। `अभ्युत्सादयाम्` इति। पूर्ववण्णेरयादेशः। लुङो लुक्। `अकः` इति। करोतेर्लुङ, अडागमः, तिप्, च्लिः, तस्य `मन्त्रे घसह्वर` [[2.4.80]] इति लुक्, गुणः, रपरत्वम्, <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति तिलोपः, रेफस्य विसर्जनीयः। `अभ्युदसीषदत्` इति। `णिश्रि` [[3.1.48]] इत्यादिना चङ, `णौ चङ्युपधायाः` [[7.4.1]] इति ह्रस्वः, `चङि` [[6.1.11]] इति द्विर्वचनम्, हलादिशेषः, `सन्वल्लघुनि` [[7.4.93]] इति सन्वद्भावे सतीत्त्वम्, <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घः। एषा प्रक्रिया यथायोगमुत्तरत्रापि वेदितव्या।`प्रजनायाम्` इति। `जनीजृष्क्नसुरञ्जोऽमन्ताश्च` (धातुपाठः-817) इति मित्त्वात् ह्रस्वत्वम्। `चिकयाम्` इति। ककारोऽप्यत्र निपात्यते। गुणायादेशौ। `अचैषीत्` इति। <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्, सिचि वृद्धिः। `रमयाम्` इति। `मितां ह्रस्वः` [[6.4.92]] । `पावयाम्` इति। `आमः` [[2.4.81]] इति लिङो लुक्। `क्रियात्` इति। कृञ आशिषि लिङ, तिप्, `इतश्च` [[3.4.100]] इतीकारलोपः, यासुट्, `रिङ शयग्लिङक्षु` [[7.4.28]] इति रिङादेशः; `स्को संयोगाद्योरन्ते च` [[8.2.29]] इति सलोपः। `पाव्यात्` इति। पूर्ववल्लिङ, <<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकत्वाच्छपोऽभावः, <<णेरनिटि>> [[6.4.51]] इति णिलोपः। `विदाम्` इति। विदेर्लुङ, आम्, गुणाभावः, लुङो लुक्। `अक्रन्` इति। कृञो लुङ, च्लिः, झेरन्तादेशः, `इतश्च` [[3.4.100]] इतीकारलोपः, संयोगान्तलोपः, च्लेः `मन्त्रे घसह्वर` [[2.4.80]] इति लुक्, अट, यणादेशः। `अवेदिषुः` इति। सिच इट्, `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुस्। `\tइतिकरणः प्रयोगदर्शनार्थः` इति। अन्येऽप्येवंजातीयाश्छन्दसि वेदितव्या इत्यर्थः॥", "31043": "`इकार उच्चारणार्थः` इति। उच्चारणमेवास्यार्थो नान्यत् किञ्चित् प्रयोजनमित्यर्थः। एतेनेत्संज्ञाकार्यं न भवतीति दर्शयति। `चकारः स्वरार्थः` इति। `चितः` [[6.1.157]] इत्यन्तोदात्तत्वं यथा स्यात्। अथ `मन्त्रे घसह्वरणशववृदहाद्वृच्कृगमिजनिभ्यो लेः` [[2.4.80]] इत्येकारः सामान्यग्रहणार्थः, चकारस्तदविघातार्थः कस्मान्न विज्ञायते? एवं मन्यते - मन्त्रेघसादिभ्यो नैवाभ्यो लिरस्ति यस्य सामान्यग्रहणार्थोऽयमिकारः स्यात्, तस्मश्चासति सामान्यग्रहणार्थे तदविघातार्थतापि चकारस्य नोपपद्यते। `आमः` [[2.4.81]] इत्यत्र तर्हीकारचकारौ कस्मान्न सामान्यग्रहणाविघातार्थौ भवतः, तत्र हि मन्त्रेघसादि [[2.4.80]] सूत्राल्लेरित्यनुवर्तते, तत्रेकारचकारयोरभावे `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति तस्यैव ग्रहणं स्यात्, न लिङलिटोः? नैतदस्ति; अत्र मा भूल्लिग्रहणानुवृत्तिः,अविशेषेणापि प्रत्ययमात्रस्य लुग् भवष्यति; नैवं सति किञ्चिदनिष्टमापद्यते। न हि सोऽस्ति प्रत्ययो यस्य लुकि सति किञ्चिदनिष्टं भवेत्। सत्यामपि लिग्रहणानुवृत्तौ न दोषः, अनेकस्मिन् ग्राह्रे सति सामान्यग्रहणं भवति, न चामः परस्यानेकं ग्राह्रमस्ति। न हि क्वचिदामः परो लिटोन्यः प्रयोगोऽस्ति, तस्मादन्याभावाल्लिट एव ग्रहणम्। तत्र नार्थः सामान्यग्रहणार्थेनेकारेण,नापि तदविघातार्थेन चकारेण। ननु च पावयाङ्क्रियादित्यत्रान्योऽपि लिरस्ति? नैतदस्ति; निपातनादेव तत्सिद्धम्।तच्चावश्यं निपातनमाश्रयितव्यम्; अन्यथा क्रियमाणेऽपीकारे तदविघातारएथे च चकारे अब्युत्सादयामिति न सिद्ध्येत्। तस्मात् पूर्वोक्तमेव प्रयोजनं न्याय्यम्। यथोत्तरार्थश्चकारस्तथोत्तरत्र प्रतिपादयिष्यामः।अथ किमर्थं च्लिप्रत्ययमासज्य तस्य सिजादय आदिश्यन्ते, न सिचमेवोत्सर्गं विधाय तस्य क्सादय आदेशा विधीयेरन्निति?नैवं शक्यम्; एवं हि <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इत्यत्र च्लेरभावादनिड्ग्रहणं धातोर्विशेषणं विज्ञायेत- धातोरनिट इति। तथा च गुहेर्न सिद्ध्येत - अघुक्षदिति।तस्य हि ऊदित्त्वात् स्वरत्यादिना [[7.2.44]] विकल्पेड्विधानान्नास्त्यनिट्त्वम्। च्लौ सत्यनिड्ग्रहणेन स एव विशिष्यते - च्लेरनिट इति। गुहेश्च परस्य च्लेर्विभाषितेट्त्वात् यदेण् नास्ति तदा च्लेरनिट्त्वात् क्सः सिद्धो भवति॥", "31044": "`इकार उच्चारणार्थः` इति। एतेनेहोच्चारणादन्यप्रयोजनं नास्तीति दर्शयन्नित्संज्ञायां अभावमाह। ननु चासतीकारेऽनुबन्धे `अनिदिताम्` [[6.4.24]] इत्यनेनामंस्तेत्यत्रानुनासिकलोपः प्राप्नोति, ततस्तत्प्रतिषेधार्थोऽयमित्संज्ञकः कस्मान्न भवति? एवं मन्यते - असत्यपीकारेऽनुबन्धेनैव सिजन्तस्यानुनासिकलोपेन भवितव्यम्; `हन सिच्` [[1.2.14]] इति कित्करणाज्ज्ञापकात्। तथा हि हन्तेः कित्करणस्यैतत् प्रयोजनम् - आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिजन्तस्यानुनासिकलोपः स्यात् हन्ते सिचः कित्करणमनर्थकं स्यात्। `चकारः स्वरार्थः` इति। अन्तोदात्तार्थः। ननु च सिचोऽनच्कत्वाच्चकारस्य स्वरार्थता नोपपद्यते? इटि कृते साच्को भवतीत्यदोषः। नन्वेवमपि लुङ्यत्राडागमस्योदात्तत्वे सतिशिष्टस्वरेणाद्युदात्तत्वेन भवितव्यम्, किमर्थश्चकारः? यत्र तर्हि `न माङयोगे` [[6.4.74]] इत्यडागमः प्रतिषिध्यते तत्र चकारस्य स्वरार्थता भविष्यति। ननु तत्रापि `तिङङतिङः` [[8.1.28]] इति निघातेन भवितव्यम्? तर्हि यत्र `हि च` [[8.1.34]] इति निघातः प्रतिषिध्यते - मा हि लावीदित्यादौ , तत्र स्वरार्थो भविष्यति। ननु च च्लेस्तत्र स्थानिवद्भावादेव चित्सरो भविष्यत#ईतिकिमादेशे चकारोऽनुबध्यते? इत्याह - `आगमानुदात्तत्वं हि` इत्यादि। यासुट उदात्तवचनेनागमानुदात्तत्वं ज्ञापयिष्यते। तच्च नाप्राप्ते स्वरान्तरे विधीयते। तथा हि - ये प्रकृतिभक्ता आगमा अडानुकप्रभृततयस्तेषां प्रकृतिस्वरः प्राप्नोति, ये च प्रत्ययभक्ता इडादयस्तेषां प्रत्ययस्वरः; तस्मादगमानुदात्तत्वं सर्वस्य स्वरान्तरस्य बाधकम्। ततश्चैव तद्यथा प्रत्ययस्वरं बाधते तथा चित्स्वरमपि स्थानिवद्भावकृतं बाधेत। तस्मादादेशेऽपि चकारोऽनुबध्यते। हि-शब्दोयस्मादर्थे,इतिशब्दस्तस्मादर्थे। यस्मादेवं चितस्वरमपि बाधेत तस्मात् स्थानिन्यादेशेऽपि द्विश्चकारोऽनुबध्यते। ननु च मा हि लावीत्यादावागमानुदात्तत्वं यदि स्यात् च्लेश्चित्करणमनर्थकं स्यात्, प्रयोजनाभावात्; तस्मात् च्लेश्चित्करणसामर्थ्यादागमानुदात्तत्वेन चित्स्वरो न बाधिष्यते - इत्यपार्थकं सिचश्चित्करणम्? नापार्थकम्; पक्षे सार्थकत्वात्। कथम्? इह हि यथा व्यक्तिपदार्थपक्षमाश्रित्य `सरूपाणामेकशेषः` [[1.2.64]] इत्येतत्सूत्रमारब्धम्, तथा व्यक्तिपदमार्थक्षाश्रयत्पद्विश्चकारोऽनुबध्यते। व्यक्तौ हि पदार्थे यथा चित्स्वरलक्षमं प्रतिलक्ष्यं प्रवर्तते तथागानुदात्तत्वज्ञापकमपि यासुट उदात्तवचनम्। ततश्च मा हि लावीदित्यत्रागमानुदात्तत्वं तेन ज्ञापितमेव। तथा च - यथेह चित्स्वरो भवति तथागमानुदात्तत्वेनापि भवितव्यम्; अन्यथा ह्रेतद्विषयस्य ज्ञापकस्य वैयथ्र्यं स्यात्। न च द्वयोरप्यनुदात्तयोर्यौगपद्यं सम्भवतीति पर्यायः स्यात्। तत्र पक्षे स्थानिनश्चकारस्य पक्षान्तर आगमानुदात्तत्वेन बाध्येत। द्विरनुबध्यमाने तु चकारे यद्यपि पक्षेऽनुदात्तोऽभिनिर्वर्तते, तथाप्यभिनिर्वृत्ते तस्मिन् द्विश्चकारा4नुबन्धकरणसामर्थ्यात् पुनश्चित्स्वरोऽभिनिर्वर्तते, अतो न दोषः।`स्पृशमृश` इत्यादि। स्पृशिमृशिकृषिभ्यः <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्से प्राप्ते, तृपिदृपिभ्यां पुषादित्वादङि प्राप्ते सिज्वा वक्तव्यः = व्याख्येयः। तत्रेदं व्याख्यानम् - क्सविधौ `विदांकुर्वन्त्वित्यन्यतस्याम्` [[3.1.41]] इत्यतो मण्डूकप्लुतिन्यायेनान्यतरस्यांग्रहणमनुवर्तते, पुषादिसूत्रेऽपि `आत्मनेपदेषु` [[3.1.54]] इत्यतः। सा च व्यवस्थित विभाषितोभयत एव विज्ञायते। तेन स्पृशिमृशिकृषिभ्यो विकल्पेन क्सो भविष्यति, अन्येभ्यस्तु नित्यम्। तृपिदृपिभ्यामन्यतरस्यामङ् च भविष्यति, अन्येभ्यस्तु पुषादिभ्यो नित्यमेव। तेन यस्मिन् पक्षे क्साङोरभावस्तस्मिन् पक्षे सामान्यविहितः सिजेव भवति। `अस्पृक्षत्` इति। `स्पृश संस्पर्शे` (धातुपाठः-1422), क्सः, व्रश्चादिना [[8.2.36]] षत्वम्, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्, `आदेशप्रत्ययोः` [[8.3.59]] इति षत्वम्। `अस्प्राक्षीत्` इति। <<अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्>> [[6.1.59]] इत्यमागमः; `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः, ऋकारस्य यणादेशः। `अस्पाक्षीत्` इति। सिच्। यदाऽमागमो नास्ति तदा ऋकारस्यैव वृद्धिः।एवं `मृश आमर्शने` (धातुपाठः-1425), `कृष विलेखने` (धातुपाठः-1286) इत्येतयोरपि रूपद्वयं, वेदितव्यम्। `अतु पत्` इति। `तृप प्रीणने` (धातुपाठः-1195)। `अत्राप्सीत्, अताप्सीत्` इति। पूर्ववत्। एवं `दुप हर्षणमोचनयोःट (धातुपाठः-1196) इत्यस्यापि रूपत्रयं वेदितव्यम्॥", "31045": "`अघुक्षत्` इति। `दुह प्रपूरणे` (धातुपाठः-1014), <<दादेर्धातोर्घः>> [[8.2.32]] , `एकाचो बशो भष्` [[8.2.37]] इत्यनेन दकारस्य भष्भावेन धकारः, धकारस्य `खरि च` [[8.4.54]] इति चर्त्वम् - ककारः। `अलिक्षत्` इति। `लिह आस्वादने` (धातुपाठः-1016), `हो ढः` [[8.2.31]] इति ढत्वम्, पूर्ववत् षत्वकत्वे। `अधाक्षीत्` इति।`\tदह भस्मीकरणे` (धातुपाठः-991), पूर्ववत् ढत्वकत्वषत्वभष्भावचर्त्वानि। `अकोषीत्` इति। `कुष निष्कर्षे` (धातुपाठः- 1518) लघूपधगुणः॥", "31046": "", "31047": "`अदर्शत्` इति। अङ्। `ऋदशोऽङि गुणः` [[7.4.16]] इति गुणः। अद्राक्षीत्` इति। <<सृजिदृशोर्झल्यमकिति>> [[6.1.58]] इत्यमागमः। `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः, पूर्ववत् षत्वकत्वे॥", "31048": "`चकारो विशेषणार्थः` इति। `चङि` [[6.1.11]] इत्यत्राङीत्यच्यमाने `अस्यतिवक्तिख्यातिभ्योऽङ् [[3.1.52]] इत्यनेनापि विहितेऽङि द्विर्वचनं स्यात्। `अचीकरत्, अजीहरत्` इति। `चङि` [[6.1.11]] इति द्विर्वचनं कृह्मशब्दयोः उरत्त्वम्, <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम् - ककारस्य चकारः, हकारस्यापि झकारः, <<अभ्यासे चर्च>> [[8.4.54]] इति झकारस्य जकारः। शेषमभ्युदसीषददित्यनुसारेण वेदितव्यम्। `अशिश्रियत्` इत्यादि। `श्रिञ् सेवायाम्` (धातुपाठः-897), `दु द्रु गतौ` (धातुपाठः-944, 945), `रुआउ गतौ` (940), `अचि श्नुधातु` [[6.4.77]] इत्यादिना यथायोगमियङुवङौ। `अकारयिषताम्` इति। कर्मणि द्विवचनम्, आताम्, इड्गुणायादेशषत्वानि।`कमेरुपसंख्यानम्` इति। ननु <<कमेर्णिङ्>> [[3.1.30]] इति णिङि कृते ण्यन्तत्वादेव कमेश्चङ्, सिद्धः, तत् कथमुपसंख्यायत इत्याह - `आयादयः` इत्यादि। `अचकमत`इति। अनुदात्तेत्त्वादात्मनेपदम्, पूर्ववदभ्यासस्य कुत्वम्। `णिङ्भावपक्षे सन्वद्भावः` इति। न त्वणिङ्पक्षे इति दर्शयति; यस्मात् `सन्वल्लघुनि चङ् परे` [[7.4.93]] इत्यस्य चङ् परो यस्माण्णेः स चङ्परो तस्मिन् परतो यदङ्गं तस्याभ्ययासस्य सन्वत् कार्यं भवतीत्येषोऽर्थः, न चायमर्थो णिङभावपक्षे सम्भवति॥`अदधत्` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। पूर्ववदभ्यासस्य जश्त्वं दकारः। `अधासीत्` इति। लुङ्, सिच्, `यमरमनमातां सक् चट [[7.2.73]] इतीट्, प्रकृतेश्च सगागमः, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्, `इट ईटि` [[8.2.28]] इति सिचो लोपः। `अशिइआयत्` इति। पूर्ववदियङ्। `अङप्यत्र विकल्प्यते` इति। `जृस्तम्भु` [[3.1.58]] इत्यादिसूत्रेण। `अआत्` इति। `आयतेरः` [[7.4.18]] इत्यत्वम्, <<अतो गुणे>> [[6.1.97]] , पररूपत्वम्। `अआयीत्` इति। ह्रन्तक्षणाआस` [[7.2.5]] इत्यादिना वृद्धिप्रतिषेधे कृते गुणेऽयादेशः। `अधिषाताम्` इति। कर्मणि द्विवचनम्, आताम्, `स्थाघ्वोरिच्च` [[1.2.17]] इति कित्त्वमित्त्वञ्च।", "31049": "", "31050": "`यत्रायप्रत्ययो नास्ति तत्रायं विधिः` इति। अनायप्रत्ययान्तकस्योपादानात्। आयप्रत्ययान्तस्य धात्वन्तरत्वात्। `अझूगुपतम्` इति। `गुपू रक्षणे` (धातुपाठः-395), लुङ्, द्विर्वचनम्,थस्, `तस्थस्थ` [[3.4.101]] इत्यादिना तम् `दुजादीनां दीर्घोऽभ्यासस्य` [[6.1.7]] इति दीर्घः। `अगौप्तम्` इति। <<झलो झलि>> [[8.2.26]] इति सिचो लोपः,तस्यासिद्धत्वात् `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः। `अगोपिष्टम्` इति। ऊदित्त्वात् `स्वरति` [[7.2.44]] इत्यादिना पक्षे इट्, `नेटि` [[7.2.4]] इति वृद्धौ प्रतिषिद्धायां लघूपधगुणः। `अगोपायिष्टम्` इति। आयप्रत्ययान्तात् सिच्, इट्, <<अतो लोपः>> [[6.4.48]] ।`रूपत्रयम्` इति। पाश्चात्यम्॥", "31051": "`एभ्यो ण्यन्तेभ्यः` इति। ऊनयत्येलयतिभ्यां चुरादिण्यन्ताभ्यम्। `पूर्वेण` इति। `श्रिणि` इत्यादिना। `औनयीत्` इति। तिप्, सिच्, `इट ईटि` [[8.2.28]] इति सिचो लोपः, तस्यासिद्धत्वाद्वृद्धौ प्राप्तायां `ह्म्यन्तलक्षण` [[7.2.5]] इति प्रतिषेधः, गुणायादेशौ, <<आडजादीनाम्>> [[6.4.72]] इत्याट्, `आटश्च` [[6.1.87]] इति वृद्धिः। `औनिनत्` इति। <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति द्विर्वचनम्। णिलोपः। `ध्वनयीत्` इति। ध्वनयीदित्यतदेव निपातनाददन्तत्वम्, <<अतो लोपः>> [[6.4.48]] , तस्य स्थानिवद्भावात् `अत उपाधायाः` [[7.2.116]] इति वृद्धिर्न भवति। `बहुलं छन्दत्यमाङ्योगेऽपि` [[6.4.75]] इत्यड्निषेधः। `अदिध्वनत्` इति। सन्वद्भावादित्त्वम्। `ऐलिलत्` इति। <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति लिशब्दस्य द्विर्वचनम्, पूर्ववदाट्। `आर्दिदत्` इति। इहापि द्वितीयस्यैकाचो द्वर्वचनं पूर्ववत्। रेफस्तु न द्विरुच्यते; <<न न्द्राः संयोगादयः>> [[6.1.3]] इति प्रतिषेधात्। आट्, वृद्धिः॥", "31052": "`ब्राऊञादेशो वा` इति। ब्राऊवो वचिः` [[2.4.53]] इति। `चक्षिङादेशो वा` इति। `\tचक्षिङः ख्याञ्` [[2.4.54]] इति। `पर्यास्थत` इति। `उपसर्गादस्यत्यूह्रोर्वचनम्` (वा।49) इत्युपसंख्यानात्मनेपदम्। <<अस्यतेस्थुक्>> [[7.4.17]] । `अवोचत्` इति। `वच उम्` [[7.4.20]] `आख्यत्` इति। पूर्ववदाकारलोपः॥", "31053": "`अह्वत्` इति। पूर्ववदाकारलोपः। अथ किमर्थो योगविभागः, न `अस्यतिवक्तिख्यातिलिपिसिचिह्वश्च` इत्येक एव योगः कियतामित्याह - `पृथक्` इत्यादि। उत्तरसूत्रे लिपिप्रभृतिभ्य एवात्मनेपदेष्वङ्विकल्पो यथा स्यादित्येवमर्थो योगविभागः। एक योगे ह्रस्यत्यादीनामप्युत्तरत्रानुवृत्तिः स्यात् तथा च तेभ्योऽपि विकल्पेनाङ् प्रसज्येत॥", "31054": "`स्वरितञिचः` इत्यात्मनेपदम् इति। लिपिसिच्योः स्वरितेत्त्वात्, ह्वयतेस्तु ञित्त्वात्। `अलिप्त, असिक्त` इति। <<झलो झलि>> [[8.2.26]] इति सिचो लोपः, तस्या [[8.2.26]] सिद्धत्वाल्लघूपधगुणः प्राप्तः, स <<लिङ्सिचावात्मनेपदेषु>> [[1.2.11]] इति कित्त्वान्न भवति, <<चोः कुः>> [[8.2.30]] इति कुत्वम्॥", "31055": "ऌकार इद्येषां ते लृदितः। पुषादिरस्त्येव भावाद्यन्तर्गणः - पुष पुष्टौ` (धातुपाठः-700) श्रिषु श्लिषु प्रुषु प्लुषु दाहे` (धातुपाठः-701-704) इत्येवमादिः, अस्ति च दिवाद्यन्तर्गणः - `पुष पुष्टौ` (धातुपाठः-1182), `शुष शोषणे` (धातुपाठः-1183) इत्येवमादिः, अस्ति च क्र्याद्यन्तर्गणः - पुष पुष्टौ` (धातुपाठः-1529), `मुष स्तेये` (धातुपाठः-1530) इत्येवमादिः, तदिह कस्य ग्रहणमित्याह - `पुषादिर्दिवाद्यन्तर्गणः` इत्यादि। यदि भ्वाद्यन्तर्गणो गृह्रते, पुषाद्यनन्तरं द्युतादीनां पाठात् पृथग्ग्रहणं न कुर्यात्; पुषादिग्रहणेनैव गृहीतत्वात्, तस्मात् स तावन्न गृह्रते। क्र्याद्यन्तर्गणोऽपि नैव गृह्रते, तत्र हि चत्वार एव पठन्ते धातवः - पूर्वोक्तौ द्वौ `खच भूतप्रादुर्भावे` (धातुपाठः-1531), `ग्रह उपादाने` (धातुपाठः-1533) इत्येतौ, यदि चैते जिघृक्षिताः स्यर्लृदित यएवैतान् कुर्यात्, एवं पुषादिग्रहणं न कर्तव्यं भवति। तस्मात् पारिशेष्याद् दिवाद्यन्तर्गणानां पुषादीनां ग्रहणं विज्ञायते। अथ पुषादय लृदितः कस्मान्न कृताः? न; न हि ते लृदितः शक्यन्ते कर्त्तुम्। लृदित्वे हि तेषां उदित आदितश्च पठयन्ते तेषाम् <<उदितो वा>> [[7.2.56]] <<आदितश्च>> [[7.2.16]] इत्येतयोः कार्ययोरभावः स्यात्। अथ द्युतादयः कस्मात् लृदितो न कृताः? यत एव हेतोः पुषादय लृदितो न कृतास्तत एव द्युतादयश्च। तेष्वपि हि केचिदुदित आदितश्च पठन्ते। तत्र पुषादय आदिवादि परिसमाप्तेः। यत्तु `ष्णिह प्रीतौ` (धातुपाठः-1200) इत्यनन्तरं वृदिति वृत्करणं तद् रवादीनां परिसमाप्त्यर्थम्, न पुषादीनामित्याचार्याणां स्मृतिः। द्युतादयस्तु `कृपू सामर्थ्ये` (धातुपाठः-762) इत्येवंपर्यन्ताः, तदनन्तरं वृत्; `घट चेष्टायाम्` (धातुपाठः-763) इति वृत्करणात्। `अद्युतत्` इति। <<द्युद्भ्यो लुङि>> [[1.3.91]] इति पक्षे परस्मैपदम्। `अआतत्` इति। इआता वर्णे` (धा।पा॥742)। `अगमत्, अशकत्` इति। `गम्लृ गतौ` (धातुपाठः-982), `शक्लृ शक्तौ` (धातुपाठः-1261)। `व्यद्योतिष्ट` इति। अनुदात्तेत्त्वादात्मनेपदम्। `अलोटिष्ट` इति। `रुट लुट् प्रतीघाते` (धातुपाठः-747,748)॥", "31056": "`असरत्` इति। <<ऋदृशोऽङि गुणः>> [[7.4.16]] । `अशिषत्` इति। <<शास इदङ्हलोः>> [[6.4.34]] इतीत्त्वम्, `शासिवसि` [[8.3.60]] इति षत्वम्। `आरत्` इति। पूर्ववद् गुणः, अजादित्वादाट्, सवर्णदीर्घः।`पृथक` इत्यादि। यदि `पुषादिद्युताद्लृदित्सर्त्तिशास्त्यसर्तिभ्यश्च` इत्येकयोग एव क्रियेत; सर्त्तिप्रभृतिभ्य परस्मैपद एव स्यात्, नात्मनेपदे। तस्मादेभ्य एवात्मनेपदेऽपि यथा स्यादित्येवमर्थं पृथग्योगकरणम्। `समरन्त` इति। सम्पूर्वादर्त्तेः `समो गमि` [[1.3.29]] इत्यादिनात्मनेपदम्। `बहुलं छन्दस्यमाङयोगेऽपि` [[6.4.75]] इत्यडागमाभावः; छान्दसत्वादयस्य प्रयोगस्य। ननु च यद्यात्मनेपदेष्वङ भवत्येव, तत् किं परस्मैपदेष्वित्यनुकर्षणार्थेन चकारेणेत्याह - `तच्च` इत्यादि। तदिति परस्मैपदेष्वित्येतदपेक्षते। `उत्तरत्रोपयोगं यास्यति` इति। न त्विहैवोपयोगं याति; अन्यथा पृथग्योगकरणमनर्थकं स्यात्॥", "31057": "इश्च रश्च इरौ, इतौ यस्य त इरित्। तत्रेकारस्य `उरजेषेऽजनुनासिक इत्` [[1.3.2]] इतीत्संज्ञा, रेफस्य <<हलन्त्यम्>> [[1.3.3]] इति।अथ वा इरित् यस्यैव समुदायस्य तत्येत्संज्ञा, न प्रत्येकमवयवस्य? इरित्ययं समुदाय इत्संज्ञको यस्य स इरित्। समुदायस्येत्संज्ञाऽस्मादेव वचनाद्वेदितव्या। न ह्रन्येन केनचित् तस्येत्संज्ञा विहिता। `अभैत्सीत्` इति। `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्। `अरुद्ध, अभित्त` इति। स्वरितेत्त्वादात्मनेपदम्,पूर्ववत् सिचो लोपः॥", "31058": "स्तम्भेरुदित्करणम् <<उदितो वा>> [[7.2.56]] इति विशेषणार्थम्। `अस्तभत्` इति। `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः। `अआत्` इत्यादि। रूपत्रयं <<विभाषा धेट्श्व्योः>> [[3.1.49]] इत्यत्र व्युत्पादितम्। `ग्लुचुग्लुञ्स्वोरन्यतरोपादाने रूपत्रयं सिध्यति` इति। कथं कृत्वा? यदि तावत् ग्लुचिरुपादीयेत तस्याङि सिचि चाग्लुचत्, अग्लोचीदित्येतद्रूपद्वयं सिध्यति; ग्लुञ्चेस्तु सिचि तृतीयमग्लुञ्चीदिति। अथ ग्लुञ्चिरुपादीयेत, तस्याङि सिचि चाग्लुचत्, अग्लुञ्चीदिति रूपद्वयं सिध्यति। ग्लुचेस्तु सिचि तृतीयमग्लोचीदिति। यद्येवम्, किमर्थमुभयोरुपादानम्, रूपत्रयं हि साध्यम्, तच्चान्यतरोपादानेऽपि सिध्यत्येवेत्यत आह - `अर्थभेदात्` इत्यादि। तुशब्दोऽवधारणे। भिन्नो ह्रनयोरर्थः। तत्रान्यतरस्योपादाने य एव नोपादीयेत तत्रैवार्थेऽग्लुचदिति न सिध्येत्। तस्माद्भिन्नार्थत्वादद्व्योरुपादानम्। `केचित्` इत्यादि। अनेकार्थत्वाद्धातूनामभिन्नार्थता न विरुद्ध्यते। तस्मादुभयोरुपादानग्लुञ्चदिति सिद्ध्य इति॥", "31059": "`डुकृञ् करणे` (धातुपाठः-1472), `मृङ प्राणत्यागे` (धातुपाठः-1403), `दृ विदारणे` (धातुपाठः-1493), `हुह {बीजजन्मणि प्रादुर्भावे च धातुपाठः-} जन्मनि` (धातुपाठः-859)। तत्राद्यानां त्रयाणां सिचि प्राप्ते, रुहेश्च `शल इगुपधादनिटः` [[3.1.45]] इति क्से प्राप्ते। `अकरत्` इति। पूर्ववद्गुणः। `अमरत्` इति। व्यत्ययेन परस्मैपदम्। भाषायां तु अकार्षीत्, अमृत, अदारीत्, अरुक्षदिति भवति॥", "31060": "`सामर्थ्यात्` इत्यादि। तशब्दो। ञयमस्त्येवात्मनेपदैकवचम्, अस्ति च परस्मैपदमध्यमपुरुषबहुवचनं यस्यस्य स्थाने विधीयते; तत्रास्य धातोरात्मनेपदित्वात् परस्मैपदबहुवचनं न सम्भवति, अतः पारिशेष्यावात्मनेपदैकवचनस्य ग्रहणम्। इयमेव च पारिशेष्यसिद्धिः सामर्थ्यम्। `उदपादि` इति। <<चिणो लुक्>> [[6.4.104]] इति तशब्दस्य लुक्। `उदपत्साताम्` इति। आताम्, `खरि च` [[8.4.54]] इति चत्त्र्वम्। `उदपत्सत` इति। झे <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः। इह वेति निवृत्तम्। उत्तरत्रान्यतरस्यांग्रहणात्॥", "31061": "`जनी प्रादुर्भावे` (धातुपाठः-1149), `बुध अवगमने` (धातुपाठः-1172) इति। एतेन `जन जनने` (धातुपाठः-1105), `{ बुधिर्बोधने धातुपाठः-875 भ्वादिगतः (858) दिवादिगतश्च (1172) `बुध अवबोधने` इत्येव पठते। `अदुग्ध` इति। <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्सः, तस्य <<क्सस्याचि>> [[7.3.72]] इत्यतः `क्सस्य` इत्यनुवर्तमाने `लुग्वा दुहदिह` [[7.3.73]] इति लुक्। <<दादेर्धातोर्घः>> [[8.2.32]] पूर्ववज्जश्त्वम्। `अदोहि` इति। शुद्धे कर्मणि तशब्दः, तेनात्र नित्यं चिण् भवति॥", "31062": "", "31063": "", "31064": "कर्मवदित्यतिदेशे प्राप्तस्य चिणोऽयं प्रतिषेधः। `अरुद्ध` इति। <<झलो झलि>> [[8.2.26]] इति सिचो लोपः; तस्यासिद्धत्वाल्लघूपधगुणः प्राप्तः `लिङसिचावात्मनेपदेषु` [[1.2.11]] इति कित्त्वान्न भवति। पूर्ववद्धत्वजश्त्वे॥", "31065": "`तपस्तपः कर्मकस्यैव` [[3.1.88]] इत्यतिदेशात् <<चिण् भावकर्मणोः>> [[3.1.66]] इति प्राप्तस्य चिणोऽयं प्रतिषेधः। `अतप्त तपस्तापसः` इति। उपवासादिलक्षणं तपस्तापसं तपति दुःखयतीत्यर्थः। तपसोऽत्र कर्त्तृत्वम्, तापसस्य तु कर्मत्वम्। यदा तु स तापस्त्वगस्थीभूतः स्वर्गाय तपस्तप्यते, तदायं प्रयोगः- अतप्त तपस्तापस इति। इदानां तपसः कर्मत्वं तापसस्य कर्त्तृत्वम्। तपःशब्दश्चेह ज्ञानविशेषे स्वर्गाद्यवाप्तिहेतौ वर्तते। तपिरप्यर्जने। अर्जितवान् ज्ञानविशेषं तापस इत्यर्थः। `अन्ववातप्त पापेन कर्मणा` इति। यत् पूर्वं पापकर्म कृतं तेन पश्चात् तप्तोऽभ्याहत इत्यर्थः। कर्मण्यत्र लकारः॥", "31066": "`भावकर्मणोरर्थयोः` इति। तशब्दस्येदं विशेषणम्। `भावकर्मणोर्यस्तशब्दः` इति। अथ चिण्ग्रहणं किमर्थम्? यावता <<चिण् ते पदः>> [[3.1.60]] इत्यतश्चिण्ग्रहणमनुवर्तत एव? स्यादेतत् - `दीपजन` [[3.1.61]] इत्यन्यतरस्यांग्रहणेन `न रुधः` [[3.1.64]] इति निषेधेन च सम्बद्धं तत्, अतो यदि तदनुवर्तेत तत्सम्बद्धमेवानुवर्तेतेति, एतच्च नास्ति; अनयतरस्यांग्रहणस्य पूर्वयोरेव योगयोर्निवर्तितत्वात्, प्राप्तिपूर्वकत्वाच्च निषेधस्य। यदि भावकर्मणोश्चिणः प्राप्तिः स्यात्, तदा तत्प्रतिषेधार्थं नेत्यस्यानुवृत्तिः स्यात्। न च तयोस्तस्य केनचित् प्राप्तिः; चिण्विधौ सर्वत्र कर्तरित्यनुवृत्तेः। तदपार्थकं पुनश्चिण्ग्रहणमित्याह - `चिण्ग्रहणं विस्पष्टार्थम्` इति। असति चिण्ग्रहणे मन्दधियः प्रतिपत्तिगौरवं स्यात्, अतस्तमनुग्रहीतुं न्यायप्राप्तस्यैवार्थस्य स्पष्टीकरणाय पुनश्चिण्ग्रहणम्॥", "31067": "भावकर्मणोरित्यनुवर्तते,तच्चेह सार्वधातुकस्य विशेषणमिति दर्शयन्नाह - `भावकर्मवाचिनि` इत्यादि। भावकर्मणोरर्थयोर्वर्तते यत् सार्वधातुकं तद्भावकर्मवाचि। ताच्छील्य आवश्नके णिनिः। अथैवं कस्मान्न भवति - भावकर्मणोरभिधेययोः सार्वधातुके परतो यग्भवतीति? अशक्यमेवं वक्तुम्; सार्वधातुकवाच्यत्वेन भावकर्मणोः शास्त्रे प्रतिज्ञानात्। कुत एतदिति चेत्? <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इति वचनात्। ननु चाकारि कटो भवता, अशायि भवता, अबिभर्भवानित्यादौ सार्वधातुकाभावेऽपि कर्मादीनां प्रतीयमानत्वात् सार्वधातुकार्थता नोपपद्यते; न हि यो यदभावे प्रतीयते स तस्यार्थो युज्यते, अन्वयव्यतिरेकसमधिगम्यत्वादर्थस्य? नैष दोषः; न ह्रयं नियमः - अन्वयव्यतिरेकसमधिगम्यत्वादर्थवत्तया। भवितव्यमिति, किं तर्हि? प्रतिज्ञा। प्रापिता च सा भवति यथा क्विबादीनाम्। अस्ति च सार्वधातुकस्येति यत्किञ्चिदेतत्। `शय्यते` इति।`अयङयि क्ङिति` [[7.4.22]] इत्ययङादेशः।`ययग्विधाने` इत्यादि। ननु च कर्मवदित्यतिदेशादेव यग्भविष्यतीति किमुपसंख्यानेनेत्यत आह - `विप्रतिषेधाद्धि` इत्यादि। `कर्तरि शप्` [[3.1.68]] इत्यस्यावकाशः - शुद्धः कर्ता भवतीति; <<सार्वधातुके यक्>> [[3.1.67]] इत्यस्यावकाशः- शुद्धं कर्म, पच्यत ओदन इति। पच्यत ओदनः स्वयमेवेत्यत्र कर्मवद्भावाद्यक्? प्राप्नोति, वत्करणात् स्वाश्रयकमपि यथा स्यादिति कर्त्तृत्वस्य सम्भवाच्छबपि, तत्र परत्वाच्छबेव स्यात्। शशास्त्रं यक्शास्त्रात् परं भवति, तस्मात् कर्मकर्तरि यक उपसंख्यानम् = प्रतिपादनं कर्तव्यम्। प्रतिपादनं त्विदम् - ज्ञापकात् कर्मकर्तर्यपि यग्भविष्यतीति। किं तज्ज्ञापकम्? <<न दुहस्नुनमां यक्चिणौ>> [[3.1.89]] इति प्रतिषेधः। यदि हि कर्मकर्तरि यग्न स्यात् प्रतिषेधोऽनर्थकः स्यात्। विप्रतिषेधाद्धि शपो बलीयस्त्वं शास्त्रातिदेशत्वमभ्यपेत्योक्तम्, न त्वसौ शास्त्रातिदेशः, किं तर्हि? कार्यातिदेशः। कार्यातिदेशसूत्रमेव स्वतन्त्रं यगादेः कार्यस्य विधायकम्, तच्च परम्; अतो विप्रतिषेधाद्यक एव बलीयस्त्वम्॥", "31068": "` पकारः स्वरार्थः` इति। <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनुदात्तत्वं यथा स्यात्। `शकारः सार्वधातुकसंज्ञार्थः` इति। `तिङशित्सार्वधातुकम्` [[3.4.113]] इति सार्वधातुकत्वं यथा स्यात्। श्यन्प्रभृतीनामपि शकारस्यैतत् प्रयोजनं वेदितव्यम्॥", "31069": "`शपोऽपवादः` इति। तत्प्राप्तावेवास्यारम्भात्। `नकारः स्वरार्थः` इति। <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इति पदस्याद्युदात्तत्वं यथा स्यात्। `दीव्यति` इति। `हलि च` [[8.2.77]] इति दीर्घः॥", "31070": "`सनोति, क्षणोति` इति। `षणु दाने (धातुपाठः-1464), क्षणु हिंसायाम्` (धातुपाठः-1465)। `नियमार्थम्` इति।एतदेव तनादिकार्यं यथा स्यादित्येष नियमो यथा स्यात्। अन्यत् तनादिकार्यं तदभावम्। असति हि नियमार्थे यथान्येभ्यस्तनादिभ्यो विभाषा सिचस्तथासोर्लुग् भवति - अतत, अतथाः, अतनिष्ट, अतनिष्ठाः, तथा करोतेरपि स्यात्। अस्मस्तु सति न भवति, तदभावे च `ह्रस्वादङ्गात्` [[8.2.27]] इत्याष्टमिक एव लोपो भवति - अकृत, अकृथाः। ननु सत्यपि तस्मस्तनादिकार्ये नैव किञ्चिदनिष्टमापद्यते, अलुक्पक्षेऽपि `ह्रस्वात्` [[8.2.27]] इति लोपप्रवृत्तेः? नैतत्; नाप्राप्ते सिचो लोपे लुगारभ्यमाणस्तस्य बाधकः स्यात्। <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यासिद्धत्वादयुक्ता लोपबाधेत्येतन्ाशङ्कनीयम्; यस्माद्वक्ष्यत्येतत् - `नास्त्यपवादेष्वसिद्धत्वम्, अपवादवचनप्रामाण्यात्` इति। यदि तर्हि करोतेरन्यत् तनादिकार्यं नेष्यते, कस्मात् तर्हि भ्वादावेव पठितः? कः पुनरेवं लाघवकृतो विशेषः। भ्वादावपि पाठे नियोगतोऽस्य विकरणविधौ ग्रहणं कर्तव्यमित्यदेश्यमेतत्॥", "31071": "", "31072": "", "31073": "", "31074": "", "31075": "", "31076": "", "31077": "", "31078": "", "31079": "", "31080": "भ्वादित्वाच्छपि प्राप्ते वचनम्। `अकारादेशो भवति` इति। अलोऽन्त्यस्य [[1.1.51]] परिभाषया। `धिनोति` इति। <<अतो लोपः>> [[6.4.48]] । अथ लघूपधगुणोऽत्र कस्मान्न भवतीत्याह - `अल्लोपस्य` इत्यादि। <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यल्लोपस्य स्थानिवद्भावनादनुपधत्वादिकारस्य गुणो न भवति। लाघवारथं `धिविकृव्योः` इति वक्तव्ये नुमनुषक्तयोग्र्रहणं कृतमुपदेशावस्थायामेव नुम्भवतीति ज्ञापनार्थम्। तेन नुम्विधावुपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थमिति न वक्तव्यं भवति॥", "31081": "", "31082": "चकारः श्नानुकर्षणार्थः। `स्तभ्नाति` इति। आदौ `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः। श्नुश्नाभ्यां सह निर्देशात् तद्विषयतैवैषां धातूनामिति कस्यचिद्भ्रान्ति स्यात्। अतस्तन्निराकर्त्तुमाह - `उदित्त्वप्रतिपादनात्` इत्यादि। एषां ह्रुकार इत्संज्ञकः प्रतिज्ञायते, तस्य क्त्वाप्रत्यय इड्विकल्पः फलम्। यदि त एतद्विकरणविषयाः स्युः, उदित्करणमनर्थकं स्यात्। तस्मादुदित्करणप्रतिज्ञानात् सर्वार्थत्वमेषामवसीयते। अर्थशब्दोऽयं विषयवाची। सर्वविषयत्वमित्यर्थः॥`पुषाण, मुषाण` इति। विध्यादौ लोट्, `सेह्र्रपिच्च` [[3.4.87]] , क्र्यादित्वाच् श्ना, तस्यानेन शानच्। चकारोऽन्तोदात्तार्थः। <<अतो हेः>> [[6.4.105]] इति हेर्लुक्। `क्रीणीहि` इति। <<ई हल्यघोः>> [[6.4.113]] इतीत्त्वम्। ननु च श्नाप्रत्ययस्य प्रकृतत्वात् स एवेह स्थानित्वेन विज्ञास्यते, तत् किमर्थः `श्नः` इति निर्देश इत्याह - `श्न इति स्थानिनिर्देशः` इत्यादि। शानच्शब्दोऽयमादेश इत्येष संप्रत्ययो यथा स्थादित्येवमर्थः श्न इति निर्देशः। किं पुनः कारणमसति तस्मिन्नेव संप्रत्ययो न स्यादित्यत आह - `प्रत्ययान्तरं हि` इत्यादि। सर्वे धातवोऽन्यगणपठिता अपि विषयो यस्य तत्तथोक्तम्।`श्नः` इत्यस्मिन् ह्रसति स्थानिर्देशे श्नाप्रत्ययस्यानुवृत्तिर्न ज्ञायेत्। ततश्च सर्वेभ्यो धातुभ्यो हलन्तेभ्यः शानजपवादः प्रत्ययो भवति तस्य च शानजादेशः, तदा मिदेर्गुणो मा भूत्; इतरथा ह्रयं गुणः प्रतिषेधविषय आरभ्यमाणो यथेह भवति - मेध्यतीति, तथेहापि स्यात् - मिदान इति। पुनः शित्करणे तु <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वमपि पुनः प्रवर्तते। तेन मिदेः प्रतषेधविषयेऽपि गुण आरभ्यमाण इह न भवति॥", "31083": "", "31084": "`अत्रापि चित् - शित्करणयोः पूर्वोक्तमेव प्रयोजनम्। `{नास्ति काशिकायाम्।} गृहाण्` इति। `ग्रहण उपादाने` (धातुपाठः-1533) लोट्, सिप्; हिः, ततः श्ना,तस्य शानच्, हेर्लुक् [[6.4.105]] , ग्रह्रादीना [[6.1.16]] सम्प्रसारणम्। `गृभाय` इति, क्वचित् पाठः। तत्र `ह्मग्रहोर्भश्छन्दसि` (वा। 8.2.32) इति भत्वम्। `बधान`इति। `बन्ध बन्धने` (धातुपाठः-1508) `अनिदिताम्` [[6.4.24]] इति नलोपः। शेषं पूर्ववत्॥", "31085": "`यथायथम` इति। यो यस्यात्मीयो विषयः = यथायथम्। यस्मिन् यस्मिन् विषय इत्यर्थः। किं पुनरयं व्यत्ययो नामेत्याह - `व्यतिगमनं व्यत्ययः` इति। तमेव व्यत्ययं स्पष्टीकर्त्तुमाह - `{व्यतिहारः-काशिका} व्यतिकरः` इत्यादि। `क्वचित्` इत्यादिना व्यत्यस्य प्रकारान्तरं दर्शयति। `भेदति` इति। श्नमो विषये शपो विधानम्। `मरति` त्यत्रापि शविषये शप्, परस्मैपदञ्च व्यत्ययेनैव। `म्रियते` इति। पूर्ववद्रिङ, तस्येयङ।`नेषतु` इति। नयतेर्लोट्, तिप्, `एरुः` [[3.4.86]] सिप्, तस्मात् परः शप्, धातोर्गुणः, सिपः षत्वम्।त्रिविकरणतायास्तूदाहरणम् - `{तरुषेम वृत्रम्` - काशिका} तरुषेम दृषदम्` इति। तरतेराशिषि लिङ्, मस्, `नित्यं ङित्, [[3.4.99]] इतिवस्मसोः सलोपः, यासुट्, <<छन्दस्युभयथा>> [[6.4.86]] इति सार्वधातुकत्वाल्लिङ उप्रत्ययः, तस्मात् परः सिप्, तस्मादपि परोऽङ, धातोर्गुणः, सिपः षत्वम्, <<अतो येयः>> [[7.2.80]] इतीयादेशः। अङा सह <<आद्गुणः>> [[6.1.87]] , <<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सलोपः। <<लोपो व्योर्वलि>> [[6.1.66]] इति यलोपः।अथ `व्यत्ययः` इत्येतावत् कतं नोक्तम्,किं बहुलग्रहणेन, पूर्वसूत्राद्ध्यपिशब्दस्यानुवृत्तौ सत्यां छन्दसि व्यत्ययो भवति, अपिशब्दाद्यथाप्राप्तञ्चेति, एवमभिसम्बन्धे क्रियमाणेऽन्तरेणापि बहुलग्रहणं सर्वमिष्टं सिध्ययत्येवेत्यत आह - `\tबहुलग्रहणम्` इत्यादि। सर्वस्य प्रकृतस्याप्रकृतस्य विधेव्र्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थ बहुलम्, इतरथा ह्रसति बहुलग्रहणे प्रकृतानामेव स्यादीनां शानच्पर्यन्तानां स्यात्, नान्येषां श्नम्प्रभृतीनाम्, इष्यते च तेषामपि। स बहुलग्रहण एव सति लभ्यते। एतमेवार्थं दर्शयितुमाह - `सुप्तिङुपग्रह` इत्यादि। ततर् सुपां व्यत्ययः - धुरि दक्षिणायामिति प्राप्ते सप्तम्या विषये षष्ठी। तिङाम् - ये यूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यक्रियाविशेषो मुख्य उपग्रहः। इह तु तद्व्यक्तिनिमित्तत्वात् परस्मैपदात्मनेदयोरुपग्रहशब्दो वर्तते। एतदुक्तं भवति - आत्मनेपदपरसमैपदयोव्र्यत्यय इति। स ब्राहृचारिणमिच्छते, प्रतीतमन्यदग्न युध्यति। इच्छति, बध्यत इति प्राप्ते। लिङ्गस्य - मधोस्तृप्ता इवासत इति। मधुन इति प्राप्ते। नरस्य = प्रथमपुरुषादेः - अतोपचारैर्दशभिर्वियूयाय इति। वियूयादिति प्रथमपुरुषविषये मध्यमपुरुषः, `यु मिश्रणे` (धातुपाठः- 1033), विपूर्वादाशिषि लिङ, सिप्, यासुट्, <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति दीर्घः, <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सलोपः। कालस्य - सोऽग्नीनाधास्यमानेन। लुटो विषये लुट्; कालशब्दोऽत्र कालविषयत्वाल्लुडादिप्रत्ययेषु वर्तते। न हि मुख्यकालस्य व्यत्ययः शक्यते कर्त्तुम्। हलाम् - शुफितं मुखबीजम्। शुभितमिति प्राप्ते। `शुभ शुम्भ शोभार्थे` (धातुपाठः-1321,1322) निष्ठा, इट्, भकारसय् फकारः। अचाम् - उपगायन्तु मां पत्नयो गर्भिणयः। पत्न्यो गर्भिण्य इति प्राप्ते। ईकारस्य इकारः। स्वराणाम् - <<अन्तोऽवत्याः>> [[6.1.220]] इत्यन्तोदात्तत्वं यथेह भवति - अआवतीं सोमवतीं प्रजावतीं सूर्यवतीं दृषदमित, तथेहापि स्यात् - अआवती सोमवती प्रजावती। व्यत्यये तु सत्यआशब्दस्य प्रकृतिस्वर एव भवति। कः पुनः प्रकृतिस्वरः? आद्युदात्तत्वम्। तथा हि ङीपोऽनुदात्तत्वं पित्त्वात्। मतुपोऽप्यत एव। `{अशूप्रुषिप्लुषिलटिकटिकणिखटिविशिभ्यः क्वन्` इति द।उ।सूत्रम्} अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्` (द।उ।8।125) इति क्वन्प्रत्ययान्तत्वात् नित्स्वरेणाद्युदात्तोऽआशब्दः। कर्तृग्रहणं कारकोपलक्षणार्थम्। कारकाणां व्यत्यय इत्यर्थः। आसादयद्भिरुभयोर्वेदाः। आसादयद्भ्य इति प्राप्ते सम्प्रदानस्य करणत्वम्। `यङ` इति प्रत्याहारग्रहणार्थम् - <<सार्वधातुके यक्>> [[3.1.67]] इति यक आरभ्य `लिङ्याशिष्यङ` [[3.1.86]] इत्यतो ङकारेण। यगादीनां प्रत्ययानामङपर्यन्तानां व्यत्यय इत्यर्थः। मुण्डा शुष्मस्य भेदतीति। श्नमि प्राप्ते शप्। एषां शप्प्रभृतीनां व्यत्ययमिच्छति शास्त्रकृत् - पाणिनिः। `सोऽपि च सिध्यति बाहुलकेन` अपिशब्दात् स्यादिव्यत्ययः। बाहुलस्य भावो बाहुलकम्, द्वन्द्वमनोज्ञादित्वाद्वुञ् [[5.1.132]] । चशब्दो हेतौ। यस्मादेवं प्रकृतानामप्रकृतानाञ्तच बाहुलकेन व्यत्ययः सिध्यति तस्माद्बहुलग्रहणं कृतमिति॥", "31086": "`शपोऽपवादः` इति। ननु चाशिषि यो लिङ विहितस्तस्य <<लिङाशिषि>> [[3.4.116]] इत्यार्थधातुकसंज्ञा, सार्वधातुके च शब्विहितः, तत्कथं शपोऽपवाद इत्याह - `छन्दस्युभयथा` इत्यादि।स्थादिभ्य एवात्र दृश्यते,नान्येभ्य इत्यभिप्रायेणाह - `स्थागागमि` इत्यादि। `उपस्थेयम्` इति।उपपूर्वात्तिष्ठतेराशिषि लिङ, मिप्, तस्य `तस्थस्` [[3.4.101]] इत्यादिनाऽमादेशः, यासुट्, उभयसंज्ञात्वेन सार्वधातुकत्वात् `लिङ सलोपोऽनन्त्यस्य` [[7.2.79]] इति सलोपः। क्वचित् `उपस्थेषम्` इति पाठः। तत्रार्धधातुकत्वात् सलोपाभावः, वलि यलोपः। `उपगेयम्` इति। `गै शब्दे` (धातुपाठः-917) <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्त्वम्। शेषं पूर्ववत्। `गमेम` इति। गमेः परस्य लिङो मस्, <<नित्यं ङितः>> [[3.4.99]] इति सलोपः। यासुडादि सर्व पूर्ववत्। `वोचेयम्` इति। `वच भाषणे` (धातुपाठः-1842)। सिप्, तस्याम्, अङ, अङि परतः `वच उम्` [[7.4.20]] , `या` इत्यस्य इय्, उभयत्र <<आद्गुणः>> [[6.1.87]] । `विदेयम्` इति। `विद ज्ञाने` (धातुपाठः-1064)। `शकेयम्` इति। `शक्लृ शक्तौ` (धातुपाठः-1261)। `आरुहेयम्` इति। `रुह {बीजजन्मणि प्रादुर्भावे - धातुपाठः-} जन्मनि (ध।पा।859) इयादेशादि सर्व पूर्ववत्।`दृशेरग्वक्तव्यः` इति। अङि हि सति <<ऋदृशोऽङि गुणः>> [[7.4.16]] इति गुणः स्यात्। तथा च दृशेयमिति न सिध्येत्। अकि तु सति कित्त्वाद्गुणाभावो भवति। तस्मादग्वक्तव्यः = व्याख्येयः। व्याख्यानं तु बहुलग्रहणानुवृत्तेर्वक्तव्यम्॥", "31087": "`कर्मवत्` इति। <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इति; न तु <<तत्र तस्येव>> [[5.1.116]] इति; तुल्यक्रिय इति प्रथमानिर्देशात्। अन्यथा तुल्यक्रिये, तुल्यक्रियस्यति सप्तम्या षष्ठआ वा निर्देशं कुर्यात्। तुल्याक्रियाऽस्येति तुल्यक्रियः। केन तुल्यक्रियः? कर्मणा। सापेक्षत्वेऽपि गमकत्वात् समासः। तुल्यशब्दोऽयं सदृशवचनः। न च साधनस्य कर्मणः क्रियया सादृश्यमुपपद्यते; अत्यन्तभेदात्। तथा हि - कर्म द्रव्यं परिनिष्पन्नम्। त्दविपरीतस्वभावा क्रिया। तस्मात् कर्मणेति कर्मशब्दोऽयं गौणस्तात्स्थ्यादुपचारेण कर्मस्थायां क्रियायां वर्तते, यथा - मञ्चाः क्रोशन्तीति, अत्र मञ्चशब्दः पुरुषेषु। उपचारस्तु कर्मस्थबावकानां कर्मस्थक्रियाञ्च कर्मवद्भावो यथा स्यात्, कर्तृस्थभावकानां कर्तृस्थक्रियाणां च मा भूदित्येवमर्थः। एतत्सर्वं चेतसि कृत्वाह - `कर्मणि क्रिया कर्म` इति। एतेन कर्मशब्दोऽयं कर्स्थक्रियावाचीत्याचष्टे। कर्मस्थक्रियावाचिनि च कर्मशब्दे यः सूत्रार्थः सम्पद्यते तं दर्शयितुमाह - `कर्मस्थया` इत्यादि। एवं स्थिते सूत्रार्थे तुल्यशब्दोऽयं साधारणवचन इति मन्यमानो यो देशयेत् - `यदि कर्मस्थया क्रियया तुल्यक्र#इयः साधारणक्रियः कर्ता कर्मवद्भवति तदा पचत्योदनं देवदत्त इत्यत्रापि स्यात्; यस्मादिहापि यासौ प्रधानक्रिया तामुद्दिश्य सर्वाणि कारकद्रव्याणि प्रवर्तन्ते, तयाकर्मस्थया प्रवर्तन्ते, तयाकर्मस्थया साधारणक्रियः कर्ता भवति, यथैव ह्रसावन्येषां कारकाणां सम्बन्धिनी तथा कर्त्तुरपि` इति, तं प्रत्याह - `यस्मिन् कर्मणि` इत्यादि। तद्वद्यथाशब्दौ सादृश्यार्थौ प्रयुञ्जानः `सदृशवचनोऽयं तुल्यशब्द-,न साधारणवचनः` इत्याचष्टे। यस्मिन् कर्मणि कर्त्तृभूतेऽपि कत्र्रवस्थां प्रतपन्नेऽपि तादृशी क्रिया लक्ष्यते यादृशी कर्मावस्थायां स कर्ता कर्मवद्भवति। सादृश्यञ्च कञ्चिद्भेदाधिष्टानमित्यसाधारण एवाधिश्रयणादिलक्षणः कर्त्तृव्यापारो गृह्रते, न तु साधारणो विक्लेदादिलक्षणः। स चासाधारणः पचच्योदनं देवदत्त इत्यत्र कारकान्तरव्यापारविसदृशो देवदत्तस्य कर्त्तुव्र्यापार इति न भवति कर्मवद्भावः। अथ वा - कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवतीत्युक्ते सदृशवचनस्तुल्यशब्द इति मन्यमानो यो देशयेत् - `यद्येवम्, भिद्यमानः कुसूलः पात्राणि भिनत्तीत्यत्रापि प्राप्नोति, तथा हि यादृशी पात्रेष्ववयवविभागात्मिका क्रिया तादृश्येव कुसूले कर्तरि लक्ष्यते` इत्यस्मिन् पूर्वपक्ष इदमाह - `यस्मिन् कर्मणि` इत्यादि। स इत्यनेन यस्मिन्नित्यनेन योऽर्थो निर्दिष्टः स एव प्रत्यवमृश्यते। एतेनैकद्रव्याधारयैव कर्मस्थयाक्रियया तुल्यक्रियः कर्ता कर्मवद्भवतीति दर्शयन् पूर्वपक्षं प्रतिक्षिपति। एवच्च प्रत्यासत्तेन्र्यायाल्लभ्यते। एकद्रव्यसमवायिनो हि क्रिया प्रत्यासन्ना, द्रव्यान्तरसमवेता तु विप्रकृष्टा।ननु च शक्तिः कारकमिति दर्शनम्, न च कर्मशक्तिः कदापि कर्त्तृभावमापद्यते, तदयुक्तमुक्तम् - यस्मिन् कर्मणि कर्त्तृभूतेऽपीति? शक्तिशक्तिमतोर्भेदस्याविवक्षायां शक्त्याधारं द्रव्यमेवैतदुक्तमित्यदोषः। इदं तह्र्रयुक्तमुक्तम् - `तद्वत् क्रिया लक्ष्यते यथा कर्मणि` इति। यस्माद्य एव कर्मावस्थायां व्यापारः स एव कत्र्रवस्थायामपीति सादृश्यं नोपपद्यते, तस्य भेदाधिष्ठाने सति सत्त्वात्? नैष दोषः; अवस्थाभेदेन क्रियाबेदाद्यद्यप्यवस्थावद्द्रव्यमभिन्नम्, तथाप्यवस्थाभेदोऽस्ति - अन्यैव हि कत्र्रवस्था,अन्या च कर्मावस्था। अवस्थाभेदेन क्रियाभेद इति तदधिष्ठानं सादृश्यं भवति।इहातिदेशो निमित्त - व्यपदेश - शास्त्र - कार्यभेदादनेकविधः। तत्रेह निमित्तातिदेशो न भवति, न हि कर्मणो यन्निमित्तं कर्त्तुरोप्सिततमत्वं तत् कर्तर्यतिदेष्टुं शक्यते; वस्त्वन्तरधर्माणां वस्त्वन्तरेण विरुद्धधर्मिणा सम्बन्धाभावात्। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। संज्ञापक्षे तु वक्ष्यमाणो दोषः, वतिग्रहणञ्चानर्थकं स्यात्। शास्त्रातिदेशपक्षे तु शास्त्रमतिदिश्यते, तस्मिन्नतिदिष्टे तैरेव शास्त्रैर्यगादयः प्राप्यन्ते; ततश्च यद्ययं शास्त्रातिदेशः स्यात् कर्मकर्तरि परत्वाच्छबादयो बाधकाः स्युः, तत्र प्रतिविधेयं स्यात्। कार्यातिदेशे त्वनेनैव यगादयो विधीयन्ते। तेन येन कत्र्राश्रयाः कर्मकर्तरि शबादयः प्राप्नुवन्ति ते परत्वाद्यगादिभिर्बाध्यन्त इति न किञ्चित्प्रतिविधातव्यम्। प्रधानं तु कार्यातिदेशः; तदर्थत्वनादतिदेशशास्त्राणाम्। अतः कार्यातिदेशतामस्य दर्शयन्नाह - `कर्माश्रयाणि` इत्यादि। ननु च `तुल्यक्रियः` इति प्रथमानिर्देशात् तदन्तस्य कर्तुरतिदेशो विज्ञायते, न च सूत्रे कर्त्तृग्रहणमस्ति। यद्यपि च प्रकृतं तदपि सप्तम्यन्तम्, प्रथमानिर्दिष्टेन चेहार्थः तत्कथं प्रथमान्तकर्त्तृग्रहणमन्तरेण शक्यतेऽतिदेशः कर्त्तुमित्याह - `कर्तरि` इत्यादि।किं पुनरस्यातिदेशस्य प्रयोजनमित्याह - `यगात्मनेपद` इत्यादि। `भिद्यते` इति यक उदाहरणम्। `अभेरि` इति चिणः। `कारिष्यते` इति चिष्वद्भावस्य। कर्मणि हि `स्यसिच्सीयुट्` [[6.4.62]] इत्यादिना चिण्वद्भावो विहितः। आत्मनेपदस्य तु सर्वाण्येवैतान्यदाहरणानि।`स्वाश्रयमपि` इत्यादि। यद्विनाप्यतिदेशो न भवति तत् स्वाश्रयम्, तद्यथा स्यादित्येवमर्थं वत्करणम्। असति हि तस्मिन् संज्ञासूत्रमिदं स्यात्, ततश्च कर्मणा तुल्यक्रियः कर्ता कर्मसंज्ञकः स्यात्। एवञ्च सति सकर्मकत्वात् <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इति भावे लकारो न स्यात्। वत्करणे तु सत्यतिदेशो भवति। तेन चाप्राप्तमेव कर्त्तुः कर्म कार्यं भवति, न स्वाश्रयं कर्त्तृत्वम्। अकर्मकस्वभावत्वमपनीयते, तत्र तस्या व्यापारात्। एतेनाकर्मकाणां भावे लः सिद्धो भवति - भिद्यते कुसूनेति। अथ भिद्यते कुसूलः स्वयमेवेत्यत्र कुसूलशब्दाद्द्वितीया कस्मान्न भवति, एतदपि कर्म कार्यं भवत्यत आह - `लिङ्याशिष्यङिति` इत्यादि। द्वौ लकारौ यस्मिन् स द्विलकारो निर्देशः। यदि द्विलकारको निर्देशस्तदा किमित्याह - `तत्र` इत्यादि। कार्यं प्रतीत्यध्याहार्यम्। द्विलकारनिर्देशे सति `लिङ्याशिष्यङ` [[3.1.86]] इत्यतो लानुवृत्तेलन्तिस्यैव कार्यं प्रति कर्ता कर्मवद्भवति, न तु प्रातिपदिकस्य। इतिकरणो हेतौ। यत एवं तस्मात् कुसूलाद्द्वितीया न भवति।`करणाधिकरणाभ्याम्` इति। कर्मणेत्यसत्यस्मिन् करणाधिकरणस्थयापि क्रियया तुल्यक्रियः कर्ता कर्मवत् स्यात्, अस्मस्तु सति न भवति। `साध्वसिश्छिनत्ति` इति। कणस्य कर्त्तृत्वविवक्षायां करणस्थयापि क्रियया छेद्यद्रव्यान्तःप्रवेशलक्षणया तुल्यक्रियोऽत्रासिः कर्ता। `साधु स्थाली पचति` इति। अत्राधिकरणस्य कर्त्तृत्वविवक्षायामधिकरणस्थया क्रियया सम्भवति धारणात्मिकया तुल्यक्रियः कर्ता। अथेह कस्मान्न भवति - पचत्योदनं देवदत्तः, राध्यत्योदनः स्वयमेवेति; भवति ह्यत्रापि कर्मस्थया क्रियया तुल्यक्रियः कर्ता, तथा हि यादृश्योदेने कर्मभूते क्रिया विक्लेदनलक्षणा लक्ष्यते तादृश्येव कर्त्तृभूतेऽपि, पचतिराध्यत्योरेकार्थत्वादित्याह - `धात्वधिकारात्` इत्यादि। समानशब्दोऽयमेकपर्यायः, यथा - देवदत्तयज्ञदत्तयोः समाना मातेति। एका मातेति गम्यते। `धातोरेकाचः` [[3.1.22]] इत्यतो धातुग्रहणमनुवर्तते। कर्मादिशब्दाश्च सम्बन्धिशब्दाः,ये च सम्बन्धिशब्दास्ते प्रकृत्यैव नियतरूपं सम्बन्धिनमुपस्थापयन्ति। तथा हि - मातरि भक्त्या प्रवर्तितव्यामित्युक्तेऽन्तरेणापि स्वस्यामिति वचनं स्वस्यां मातरीति गम्यते। तेन यं धातुमपेक्ष्य तस्य कर्मणः कर्त्तृत्वं तमेव धातुं सन्निधापयति, नान्यम्। ततश्च धातुग्रहणेऽनुवर्तमाने सत्ययमर्थो लभ्यते। यस्मिन् धातौ कर्मणोपस्थापिते यत् करम तस्मिन्नेव धातौ स यदि कर्ता भवत्येवं सत्ययमतिदेशः, नान्यथा। तेन पचत्योदनं देवदत्तः,राध्यत्योदनः स्वयमेवेत्यत्र न भवति, भिन्नयोर्धात्वोरोदनस्य कर्मकर्त्तृत्वासम्भवात्। अथ वा - धातोरिति येयमेका संख्या सा विवक्षिता, तेनैकस्मिन्नेव धातौ कर्मवद्भावो भवति।`कर्मस्थभावकानाम्` इत्यादिना न्यायप्राप्तमेवार्थं दर्शयति।तथा हि - कर्मस्थया क्रियया तुल्यक्रियस्य कर्त्तुः कर्मवद्भावो भवति। न च कर्त्तृस्थभावकानां कर्त्तृस्थक्रियाणां कर्ता तथाविधोऽस्ति। यद्यपि क्रियाप्युपादीयते, <<लक्षणहेत्वोः क्रियायाः>> [[3.2.126]] इत्यत्र च भावोऽपि परिगृह्रते; तथापीह द्वयोरुपादानसामर्थ्यादर्थभेदो द्रष्टव्यः।सा परिस्पन्दनसाधनसाध्या क्रिया क्रियाशब्देनोच्यते, अपरिस्पन्दनसाध्या तु भावशब्देन। येषां कर्मस्थोभावः कर्मस्था च क्रिया; येषां कर्त्तृस्थो भावः कर्तस्था च क्रिया, तेषामुदाहरणं दर्शयितुमाह - `कर्मस्थः पचतेर्भावः` इति। पच्यते घटः स्वयमेवेत्यत्र यदा तद्देशस्थघटकर्मकपाको निष्पद्यते तदाऽपरिस्पन्दनसाधनसाध्यस्वभावः पाकः कर्तस्थो भवति, यदा तु देशान्तरं गच्छतः पाकद्रव्यस्य पाकाभिनिर्वृत्तिर्भवति तदा कर्मस्थैव पचेः क्रिया, यथा - पच्यत ओदन इत्यत्रोदाहरणे। `कर्मस्था टच भिदेः क्रिया` इति। भिद्यते कुसूलः - स्वयमेवेति। अवयवविभागलक्षणा हि भिदेः क्रिया,सा च दशान्तरप्राप्तौ सत्यां भवतीति भिद्यते परिस्पन्दः,तेन कर्मस्था क्रिया भवति। `मासासिभावः कर्तस्थः` इति। आसेर्धातोर्भाव असिभावः। आसनं हि भावः; तस्याः परिस्पन्दनसाधनसाध्यत्वात्। तथा हि - व्यापारोपरतावास्त इति प्रयुज्यते। माससहचरित आसिभावः। शाकपार्थिवादित्वात् समासः - मासासिभावः। कदा स माससहचरित आसिभावो भवति? यदा मासमास्त इति प्रयुज्यते। मासमिति कर्मणि द्वितीया। कर्मसंज्ञा तु `कालभावाध्वगन्तव्याः क्रमसंज्ञा ह्रकर्मणाम्` (वा।1.4.51) इति वचनात्। मासासिभावः कर्तस्थो भवति, आसितरि समवायात्। तेनास्यते मासः स्वयमेवेति न भवति। `कर्त्तृस्था च गमेः क्रिया` #इति। गमनं पाद विहरणात्मकम्। तच्च परिस्पन्दनसा नसाध्यत्वाच्च क्रिया, सा च गन्तरि देवदत्तादौ समवेता, न कर्मणि ग्रामादौ। तेन कर्मस्थक्रियाभावाद्गम्यते ग्रामः स्वयमेवेति न भवति॥", "31088": "`तपः कर्मकस्यैव` इति। एवकारो विस्पष्टार्थः; व्यवच्छेदफलत्वात्, सर्ववाक्यानामित्येवं तदर्थस्य लब्धत्वात्। यदि ह्रतपःकर्मकस्यापि स्यात्, तपःकर्मग्रहणमनर्थकं स्यात्। `नान्यकर्मकस्य` इत्यवधारणेन यद्व्यवच्छिन्नं तद्दर्शयति। `क्रियाभेदात्` इति। क्रियाविसदृशत्वादित्यर्थः। पूर्वं हि क्रियासादृश्ये कर्मवद्भावो विहित इति वैसदृश्येन प्राप्नोति, अतो विध्यर्थमेतत्। अत एव कर्मस्थया क्रियया तुल्यत्वं न सम्भवतीति `कर्मणा तुल्यक्रियः` [[3.1.87]] इत्येतन्नानुवर्तते। `उपवासादीनि` इत्यादिना तमेव क्रियाभेदं दर्शयति। उपवासादिशब्देन तपः शब्दस्यार्थमाचष्टे। `दुःखयन्तीत्यर्थः` इत्यनेन तापसस्य कर्मावस्थायां तपेर्दुःखनमर्थ इति दर्शयति। `स्वर्गाय तपस्तप्यते` इति। तपःशब्दोऽत्र ज्ञानविषेय स्वर्गाद्यवाप्तिहेतौ वर्तते। `अर्जयीत्यर्थः`इत्यनेन तापसस्य कत्र्रवस्थायां तपिरर्जने वर्तत इति दर्शयति। निवर्तयतीत्यर्थ इति, न दुःखयतीति; तपसोऽचेतनत्वाद्दुःखासम्भवात्॥`उत्तपति सुवर्णम्` इत्यादौ सुवर्णकर्मकत्वात् तपेः कर्मवद्भावो न भवति॥", "31089": "`कर्मकर्तरि यक्चिणानुपदिष्टौ न भवतः` इति। कर्मकर्तरीति विशेषणम्। `कर्मवत् कर्मणा तुल्यक्रियः` [[3.1.87]] इति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः, न तु चिण्वद्भावकर्मणोः। <<सार्वधातुके यक्>> [[3.1.67]] इति च। शुद्धे कर्मणि यौ प्राप्तौ तयोरपीति दर्शनार्थम्। एतच्च `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति परिभाषया लभ्यते। `दुग्धे` इति। यकि प्रतिषिद्धे शप्, तस्यादादित्वाल्लुक्। पूर्ववद् घत्वघत्वजश्त्वानि। `अदुग्ध` इति। लुङ। चिणि प्रतिषिद्धे क्सः, तस्य `लुग्वा` [[7.3.73]] इत्यादिना लुक्। `प्रस्नुते` इति। `{ष्णु प्ररुआवणे` धातुपाठः-} स्नु प्ररुआवणे` (धातुपाठः-1038), पूर्ववच्छपो लुक्। `प्रास्नोष्ट` इति। लुङ। `नमते` इति। `णम प्रह्वत्वे शब्दे` (धातुपाठः-981)। अन्तर्भावितण्यर्थोऽत्र नमिः कर्मणि वर्तत इति वेदितव्यम्। एवं हि कर्मस्थक्रियो भवति; अन्यथा कर्त्तृस्थक्रियत्वात् प्राप्तिर्नास्त्येवेति प्रतिषेधोऽनर्थकः स्यात्। अन्तर्भावितव्यर्थस्तु कर्मस्थक्रियो भवति - नमति दण्डं देवदत्तः। `नमते दण्डः स्वयमेव` इति। यथा ण्यन्तावस्थायाम्। `यक्चिणोः प्रतिषेधे` इत्यादि। यक्चिणोः प्रतिषेधे कर्तव्ये श्रन्थ्यादीनामपि तस्य प्रतिषेधस्योपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। प्रतिपादनं तु नेति योगविभागादिष्टसिद्ध्यर्थात् कर्तव्यम्। णीति हेतुमण्णिच इतरस्य च णेग्र्रहणम्। हेतुमण्णिच्। `कारयति` कटं देवदत्तः। कारयते कटः स्यवमेव` इति। यकि प्रतिषिद्धे शप्। `अचीकरत कटः स्वयमेवट इति। चिणि प्रतिषिद्धे `णिश्रि` [[3.1.48]] इत्यादिना चङ,णौ चङ्युपधाया ह्रस्वः` [[7.4.1]] इति ह्रस्वः। `चङि` [[6.1.11]] इति द्विर्वचनम्, अभ्यासकार्यम्। इतरो णिः - `पुच्छभाण्ड चीवराण्णिङ` [[3.1.20]] । `उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयमेव` (इति)। यकि प्रतिषिद्धे शप्। एवमुत्तरत्रापि वेदितव्यम्। `उदपुपुच्छत गौः स्वयमेव` इति। चिणि प्रतिषिद्धे पूर्ववच्चङ। एवमुत्तरत्रापि वेदितव्यम्। `श्रन्थ ग्रन्थ सन्दर्भे` (धातुपाठः-1512,1513)। चुरादौ ग्रन्थिश्रन्थी पठएते (धातुपाठः-1837,1838)। `आ धृषाद्वा` (धातुपाठः-1805 अनन्तरम्) इति विभाषाणिचौ। तयोर्यदा णिज् नास्ति तदोदाहरणे; अन्यथा णीत्येवं सिद्धिः। ग्रन्थि ग्रन्थं देवदत्तः। ग्रन्थते ग्रन्थः स्वयमेव। अग्रन्थिष्ट ग्रन्थः स्वयमेव। श्रन्थति मेखलां देवदत्तः। श्रन्थते मेखला स्वयमेव। `श्रन्थ ग्रन्थ सन्दर्भे` (धातुपाठः-1512,1513) इतिक्र्यादावपि पठएते, तयोरप्ययं प्रतिषेधः - श्रथ्नीते मेखलां देवदत्तः, श्रन्थीते मेखला स्वयमेव। <<ई हल्यघोः>> [[6.4.113]] इतीत्त्वम्। अश्रन्थिष्ट मेखला स्वयमेव। ग्रथ्नीते ग्रन्थं देवदत्तः। ग्रन्थीते ग्रन्थः स्वयमेव। अग्रन्थिष्ट ग्रन्थः स्वयमेव। ब्रूते कथां देवदत्तः। ब्रूते कथा स्वयमेव। पूर्ववच्छपो लुक्। अवोचत कथां देवदत्तः। अवोचत कथा स्वयमेव। `ब्राउवो वचिः` [[2.4.53]] इति वचिरादेशः, `अस्यतिवक्तिख्यातिभ्योषऽङ` [[3.1.52]] इत्यङादेशः; `वच उम्` [[7.4.20]] । अन्तर्भावितण्यर्थत्वात् कर्मस्थक्रियात्वं वेदितव्यम्। `आत्मनेपदाकर्मकाणाम्` इति। आत्मनेपदविधावकर्मका ये धातवो गृह्यन्ते त आत्मनेपदाकर्मकाः। `विकुर्वते सैन्धवाः स्वयमेव` इति। <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः। `व्यकृषत सैन्धवाः स्वयमेव` इत्यत्रापि कृञो विपूर्वात् <<अकर्मकाच्च>> [[1.3.45]] इत्यात्मनेपदविधानादात्मनेपदाकर्मकत्वम्। अत्रापि वल्गने वर्तमानः करोतिरन्तर्भावितण्यर्थः कर्मस्थकियो भवति॥", "31090": "रञ्जेः कृतानुनासिकलोपनिर्देशो लाघवार्थः। `यगात्मनेपदयोरपवादौ` इति। श्यन् यकोऽपवादः; परस्मैपदं त्वात्मनेपदस्य। `रज्यति` इति। `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः। `प्राचां ग्रहणं विकल्पार्थम्` इति। एतेन पूजार्थतामपनयति। पूजार्थे तस्मिन् विकल्पो न लभ्येत। `कुष्यते` इत्यादिना विकल्पार्थे प्राग्ग्रहणे यदिष्टं सिध्यति तद्दर्शयति। `स्यादिविषये च` इत्यादि। आदिशब्देन तासिप्रभृतीनां ग्रहणम्। `चुकुषे, ररञ्जे` इति। लिट्, आत्मनेपदम्, तप्रत्ययः, तस्यैशादेशः। `कोषिषीष्ट` इति। आशिषि लिङ, सीयुट्, <<सुट् तिथोः>> [[3.4.107]] इति सुट्, लघूपधगुणः, षत्वम्, ष्टुत्वञ्च। `रङक्षीष्ट` इति। `एकाचः` [[7.2.10]] इतीट्प्रतिषेधः, <<चोः कुः>> [[8.2.30]] इति कुत्वम् - गकारः। `खरि च` [[8.4.54]] इति चर्त्वम् - ककारः। `अकोषि, अरञ्जि` इति। लुङ,चिण्॥", "31091": "`यङविधौ धातोरित्यधिकारात्` इति। `धातोरेकाचः` [[3.1.22]] इति यङविधौ यत् धातुग्रहणं तस्येहाधिकारादित्यर्थः। इयञ्च धातुग्रहणस्यानर्थकत्वे युक्तिः। `कृदुपपदसंज्ञार्थं तु` इति। आनर्थक्यमपाकरोति। ननु च पूर्वेणापि धातुग्रहणेन कृदुपपदसंज्ञे सिध्यत स्याताम्, इह करिष्यतीति स्यप्रत्ययस्य `कृदतिङ` [[3.1.93]] इति कृत्संज्ञा स्यात्। ततश्च <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा प्रसज्येत, तस्याञ्च सत्यां सुबुत्पत्तिः। <<च्लि लुङि>> [[3.1.43]] इत्यत्र च `तत्रोपपदम्` [[3.1.92]] इति लुङोऽप्यपपदसंज्ञा स्यात्, ततश्च लुङ्युपपदे च्लिरित्ययमर्थश्च सम्भाव्येत। तसमादिह धात्वधिकारे कृदुपपदसंज्ञे यथा स्यातां पूर्वत्र मा भूतामिति पूनर्धातुग्रहणम्। अथाधिकारेणैते संज्ञे विधास्येते प्रत्ययसंज्ञावत्, तेन पूर्वत्र न भविष्यतीति चेत्? न हि; सिंहावलोकितन्यायोप्यस्ति। अधिकारेण विधाने पूर्वत्रापि सम्भाव्येयाताम्। तत्र व्याख्यानं कर्तव्यं भवेत्। व्याख्यानाच्च लघु धातुग्रहणं भवति। अवश्यञ्चान्यार्थं धातुग्रहणं कर्तव्यम्, तदन्यार्थ क्रियमाणं कृदुपपदसंज्ञाविधावपि विस्पष्टार्थं भविष्यति। तामेव चान्यार्थतां दर्शयितुमाह - `आर्धधातुकसंज्ञार्थम्` इत्यादि। चशब्दाद्वाऽसरूपविधानार्थञ्चेत्ययमत्रार्थो वेदितव्यः। <<वाऽसरूपोऽस्त्रियाम्>> [[3.1.94]] इत्यस्मिन् धात्वधिकारेऽसरूपोऽपवादो बाधको यथा स्यात्, पूर्वत्र मा भूत्। तेन क्सादिभिः सिचः समावेशो न भवति। ननु च पूर्वेणापि धातुग्रहणेनार्धधातुकसंज्ञा सेत्स्यति, किं द्वितीयधातुग्रहणेन? इत्यत आह - `धातोरित्येवम्` इत्यादि। धातोरित्येवं धातुशब्दमुच्चार्य विहितस्यार्धधातुकसंज्ञा यथा स्यादित्येवमर्थं पुनर्धातुकृग्रहणमित्यर्थः। किमर्थं पुनर्धातोरित्येवं विहितस्यार्धधातुकसंज्ञोच्यते? इत्याह - `इह मा भूत्` इतति।असति द्वितीये धातुग्रहणे लूभ्याम्, लूभिरित्यत्रार्धधातुकसंज्ञा स्यात्। भवति ह्यत्र धातोः परः प्रत्ययः - `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति कृत्वा। आर्धधातुकत्वे सत्यार्धधातुकलक्षण इट् प्रसज्येत। द्वितीयं तु धातुग्रहणं क्रियमामं सामर्थ्याद्छबन्दपदात्मकं भवति। तेनायमर्थो लभ्यते - धातोरित्येवं धातुसंशब्दनेन यो विहितः स अर्धधातुकसंज्ञो भवतीति। तेन लूभ्यामित्यादावार्धधातुकत्वं न भवति। न हीह धातोरित्येवं प्रत्ययो विहितः, किं तर्हि? प्रातिपदिकादित्येवम्॥`सप्तम्या निर्दिष्टम्` इत्यनेन सप्तमीस्थमित्यस्यार्थमाचष्टे। शब्दस्य हीयं संज्ञा विधीयते, स च कः सप्तमीस्थो भवति? यस्याः सप्तम्या निर्देशः। `कुम्भकारः` इति। उपपदसंज्ञायां `उपपदमतिङ` [[2.2.19]] इति समासः, <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्यत्तरपदस्य प्रकृतिस्वरत्वं भवति।`स्थग्रहणम्` इत्यादि। निर्दिश्यतेऽनेनेति निर्देशः। सप्तमी निर्देशो यस्य स सप्तमीनिर्देशः। तत्प्रतिपत्त्यर्थं स्थग्रहणम्। एतदुक्तं भवति - सूत्रे यत् सप्तम्या निर्दिष्टं तस्य संज्ञित्वेन प्रतिपत्तिर्यथा स्यादित्येवमर्थं स्थग्रहणम्। यदि पुनः स्थग्रहणं न क्रियते, ततः किं स्यादित्यत आह - `इतरथा हि` इत्यादि। इतरथा ह्रक्रियमाणे स्थग्रहणे `संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति` (पु।प।वृ।81) इतिसैव सप्तम्युपपदसंज्ञां प्रतिपद्येत। न चासतः संज्ञिनः संज्ञा युक्तेति यत्र श्रूयते सप्तमी - स्तम्बेरम इत्यादौ तत्रैव स्यात्। स्यादेतत् - नैतत् प्रत्ययग्रहणम्,किं तर्हि? सप्तमीशब्दस्य स्वरूपस्य ग्रहणमित्याह - `यत्र` इत्यादि। गतार्थम्। `स्थग्रहणात्तु` इत्यादि। स्थग्रहणे तु क्रियमाणे ग्रन्थाधिक्यात् सूत्रे यस्य सप्तम्या निर्देशस्तत् संज्ञित्वेन निर्दिश्यते, तेनु सर्वं सिद्धं भवति; येषामियं संज्ञेष्यते तेषां सर्वेषामेव सूत्रे सप्तमीनिर्देशात्। तथा हि - `स्तम्बकर्णयोः` [[3.2.13]] इत्यत्र स्तम्बकर्णशब्दौ सूत्रे सप्तम्या निर्दिष्टौ। <<सप्तम्यां जनेर्डः>> [[3.2.97]] इत्यत्राप्युपसरादयः। <<कर्मण्यण्>> [[3.2.1]] इत्यत्रापि कर्माभिधायिनः कुम्भप्रभृतयः।ननु च लाघवार्थं संज्ञाकरणम्, तत्किमर्थं गुर्वी संज्ञा क्रियते? इत्याह - `गुरुसंज्ञाकरणम्` इत्यादि। उपशब्दः सामीप्ये। उपोच्चारितं पदमुपपदमित्यन्यर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारो यथा स्यादित्येवमर्थं गुरुसंज्ञाकरणम्। समर्थपरिभाषोपस्थाने सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह - `पश्य कुम्भम्` इत्यादि। अन्वर्थसंज्ञायां हि सत्यामुपपदाश्रयः प्रत्ययः पदविधिर्भवति। यत्र च पदगन्धोऽप्यस्ति तत्र समर्थपरिभाषोपतिष्ठते। तेन पश्य कुम्भं करोति कटमित्यत्र <<कर्मण्यण्>> [[3.2.1]] न भवति। न हीह कुम्भस्य करोतिना सामर्थ्यम्, किं तर्हि? पश्येत्यनेन। पदशब्दोऽप्यत्रान्वर्थ एव, न पारिभाषिकः। तथा हि सुबन्तस्य पदसंज्ञा टचोपपदसंज्ञाविधनकाले सुबन्ततयास्ति; यस्मादुपपदसंज्ञायां विहितायामुपपदाश्रयेऽपि प्रत्यय उपपदसमासोऽपि `गतिरकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः` (व्या।प।वृ।138) इति सुबुत्पत्त्या भवितव्यः। तस्मादन्वर्थोऽयं पदशब्दः - पद्यते गम्यतेऽर्थो येन तत् पदमिति। `तत्र` ग्रहणं सप्तमीस्थस्य प्रत्योत्पतिंत प्रति निमित्तभावे सत्युपपदसंज्ञा यथा स्यादित्येवमर्थम्। असति हि तत्र ग्रहणे कर्मण्युपपदेऽनुपपदेऽपि प्रत्ययः स्यात्। यस्तु कर्मणीति सप्तम्या निर्देशः, स यदा सप्तम्यन्तः सम्भवति, तदा तस्योपपदसंज्ञार्थः स्यात्; न तु तस्मिन् सत्येव प्रत्ययेन भवितव्यमित्येषोऽर्थो लभ्यते। तस्मात् यथोक्तप्रयोजनार्थं तत्रग्रहणम्। ननु चानन्तरस्य धात्वदिकारस्य निर्देशार्थं तत्रग्रहणं कस्मान्न भवति, तत्रैतस्मिन् धात्वधिकारेऽनन्तर उपपदसंज्ञा यथा स्यादिति? नैतदस्ति; अधिकारादप्येतत् सिद्धम्। उपपदसंज्ञाधिकरिष्यते, तेन वक्ष्यमाणेषु संज्ञिषु संज्ञा भविष्यतीति नार्थ एतदर्थेन तत्रग्रहणेन। `तत्रैतस्मिन्` इत्यादिस्तु वृत्तिग्रन्थ एवमुन्नीयते - एतस्मिन् धात्वधिकारे यत्सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति। तत्र च निमित्ते प्रत्यय इत्येषोऽर्थः सोपस्कारत्वाद्वृत्तिग्रन्थस्य लभ्यते॥", "31092": "", "31093": "`कर्तव्यम्` इति। कृत्संज्ञायां सत्यां <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा। `चीयात्` इति। आशिषि लिङ,<<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकसंज्ञा। अतिङिति यदि नोच्येत, तिङोऽपि कृत्संज्ञा स्यात्; ततश्च `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घत्वं न भवेत्। अतिङिति तु सत्यकृद्यकारत्वाद्भवति॥", "31094": "अपवादविषयमुत्सर्गो नाबिनिविशत इत्येष उत्सर्गधर्मः, कृताञ्च केषाञ्चिदुत्सर्गाणामपवादविषये प्रवृत्तिरिष्यते, सा च वचनमन्तरेण न सिद्ध्यतीति तदर्थमिदम्। ननु चारभ्यमाणेऽप्येतस्मिन् नैवायमर्थः सम्पद्यते, तथा हि - अस्योत्सर्गेण वा सम्बन्धः स्यात्, अपवादेन वा, उभाभ्यां वा? तत्र यदि पूर्वकल्प आश्रीयेत तदा वाशब्देन विकल्पार्थेनोपस्थापितयोर्भावाभावयोरस्यायमर्थः स्यात् - उत्सर्गोऽसरूपोऽस्त्रियां पक्षे भवतीति, पक्षे न भवतीति। तथा चापवादस्य स्वस्मिन् विषये नित्याप्राप्तिः स्यात्। न ह्रनेनापवादस्य किञ्चित्कृतम्; तेन सहास्यासम्बन्धात्। न च बाधकेऽपवादेऽविकल्पां प्रवृत्तिमनुभवति सति तत्रोत्सर्गः प्रवर्तितुमुत्सहत इति स्वविषय एव विकल्पः प्रवर्तेत। अथ द्वितीयः, तदायमर्थः स्यात् - असरूपोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादविषयं परिहति, तदापवादस्य बाधकत्वात्। तच्च बाधकत्वमस्मिन्नपि पक्षे तदवस्थमेव, न ह्रनेन तदपनीतम्, किं तर्हि? स्वस्मिन् विषये तस्य भावाभावौ प्रतिपादितौ - पक्षे भवति,पक्षे न भवति। न चान्यद्वचनमस्ति; यतोऽपवादविषयमुत्सर्गोऽव्यास्ते। अपवादस्याभावपक्षे प्रापकवचनमन्तरेणापि उत्सर्गो भविष्यति। प्रतिबन्धाभावादिति चेत्? सत्यमेतत् कार्यबाधायाम्; शास्त्रबाधायान्तु यत् कार्यस्य विधायकं तदपवादेन बाध्यमानं तद्विषपरीहारेणैव प्रवर्तेत, तस्मिन् प्रवृत्ते पश्चापदवादे विकल्पेन प्रवृत्तिमनुबव्तयपि तद्विषय उत्सर्गप्रवृत्तिर्न सम्भवति, सामान्यशास्त्र्सयातद्विषयत्वात्।अस्तु कार्यवधापक्ष इति चेत्? न; अयुक्तत्वात्। न ह्रबाधिते विधायके शास्त्रे तत्कार्यबाधा युज्यते। निदानोच्छेदेन हि निदानिन उच्छेदः शक्यते कर्त्तुम्, नान्यथा। न हि प्रदीपेऽनुच्छिन्ने तत्प्रभोच्छिद्यते। तस्मादपवादः शास्त्रमेव बाधते,तस्मिश्च बाधिते सत्यपवादाभावपक्षेऽपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिः स्यात्। अथ तृतीयः पक्षः, तदायमर्थः स्यात् - उत्सर्गोऽसरूपोऽस्त्रियां वा भवति, अपवादोऽपीति। एवमपि तयोः स्वस्मिन् विषये विकल्पेन प्रवृत्तिः स्यात्, न तूत्सर्गस्यापवादविषये; पूर्वोक्तादेव हेतोः। तस्मात् क्रियमाणेऽप्येतस्मिन् नैवाभिमतोऽर्थः सम्पद्यत इति देशयेत्, तं प्रत्याह - `असरूपोऽपवादप्रत्ययो वा बाधको भवति` इति। एतेनापवादस्यानेन सम्बन्धः, न तु भावाभावौ विकल्प्येते, किं तर्हि? पक्षे बाधकत्वमिति दर्शयति। एवञ्च यस्मिन् पक्षेऽपवादो बाधको न भवति, तस्मिन् विषये प्रतिबन्धाभावादुत्सर्गः प्रवर्तत इति सिध्यति समावेशः। `स्त्र्यधिकारविहितं प्रत्ययं वर्जत्वा` इति।कथं पुनः `अस्त्रियाम्` इति वचनादेषोऽर्थो लभ्यते? एवं मन्यते - `स्त्रीग्रहणमिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति; तेन स्त्रयधिकारविहितमाश्रित्य यावुत्सर्गापवादौ विहितौ तद्वि,ये प्रतिषेधो विज्ञायते` इति। अथैवं कस्मान्न विज्ञायते - स्त्रियामभिधेयायामसरूपोऽपवादो बाधको वा न भवतीति? एवमशक्यं विज्ञातुम्; एवं हि विज्ञायमाने लव्या लवितव्येति यद्विषये तव्यो न स्यात्। एवं तर्हि कस्मान्न विज्ञायते - स्तिरयामित्येवं स्त्रीशब्दसंशब्दनेन यः प्रत्ययो विहितः स इह स्त्रीशब्देनोक्तः, तत्र स्त्रियामित्येवं विहितेऽसरूपोऽपवादो बाधको वा न भवतीति? एवमशक्शं विज्ञातुम्; एवं हि विज्ञायमाने व्यावक्रोशी, व्यावक्रुष्टिरिति णचो विषये क्तिनः प्रवृत्तिर्न स्यात्,; यस्मात् `कर्मव्यतीहारे णच् स्त्रियाम्` [[3.3.43]] इति णज्विहितः, स्त्रियां क्तिन्नपि; तस्मात् पूर्वोक्त एवार्थः। यद्येवम्, `क्तल्युट्तुमुन्खलर्थेषु` (पु।प।वृ।76) इति परिभाषा न प्राप्नोतिच तेषामस्त्र्यधिकारविहितत्वात्? <<नपुंसके भावे क्तः>> [[3.3.114]] , <<ल्युट् च>> [[3.3.115]] - हसितम्, हसनम्, तयोर्विषये `भावे` [[3.3.18]] इति घञपि प्राप्नोति। `समानकर्त्तृकेषु तुमुन्` [[3.3.158]] - इच्छति भोक्तुम्,तस्य विषये `इच्छार्थेषु लिङलोटौ` [[3.3.157]] अपि प्राप्नुतः? <<आतो युच्>> [[3.3.128]] - ईषत्पानम्, तस्य विषये `ईषव्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्` [[3.3.126]] इति खलपि प्राप्नोति? वावचनस्य व्यवस्थितविभाषात्वान्न भवतीत्यदोषः। `ण्वुल्तृचावित्युत्सर्गा` इति। सामान्यविहितत्वात्। `इगुपधापीकिरः कः इत्यपवादः` इति। विशेषविहित्वात्। <<कर्मण्यण्>> [[3.2.1]] इत्युत्सर्गः, <<आतश्चोपसर्गे>> [[3.3.106]] इति कप्रत्ययोऽपवादः। ननु चानुबन्धकृतेनासारूप्येण सोऽप्यसरूप इत्याह - `नानुबन्धकृतम्` इत्यादि। अत्र <<ददातिदधात्योर्विभाषा>> [[3.1.139]] इति विभाषाग्रहणं ज्ञापकम्। यदि ह्रनुबन्धकृतमसारूप्यं स्याद्विभाषाग्रहणमनर्थकं स्यात्। अनुबन्धकृतादसारूप्यादेव हि `श्याऽऽद्व्यध` [[3.1.141]] इत्यादिसूत्रेण पक्षे णो भविष्यति॥", "31095": "`कृत्याः` इति बहुवचनेन निर्देशो बहुत्वात् संज्ञिनाम्। अथ वा - अनुक्तकृत्प्रत्ययसंग्रहार्थं बहुवचनम्। तेन `केलिमर उपसंख्यानम्` (वा।121) इत्येतत् कर्तव्यं न भवति। `ण्वुल्तृचाविति वक्ष्यति` इति। अथ रोगाख्यायां ण्वुल् बहुलम्` [[3.3.108]] इत्यस्य ण्वुलोऽवधित्वं कस्मान्न विज्ञायते? ज्ञापकात्। यदयम् <<अर्हे कृत्यतृचश्च>> [[3.3.169]] इति कृत्यग्रहणं कृत्वा तृज्ग्रहणं करोति, ततो ज्ञायते - नास्यावधित्वमिति; अन्यथा तृचोऽपि कृत्यत्वाद्भदेनोपादानमनर्थकं स्यात्। यद्येवम्; प्राग्वचनमनर्थकं स्यात्, अत एव ज्ञापकात् तृच इयं संज्ञा न भविष्यति? नैतदस्ति; असति ह्रेतस्मिन्, ज्ञापकात् तृच एव न स्यात्। ण्वुलस्तु स्यादेव। स्यादेतत् - योगापेक्षं ज्ञापकम्, एतस्मिन् योगे कृत्यसंज्ञा भवति - एषोऽर्थस्तृज्ग्रहणेन ज्ञाप्यते, तेन ण्वुलोऽपि न भविष्यतीति? एवमन्येषामजादीनां स्यात्, प्रतिपत्तिगौरवञ्च स्यात्, योगापेक्षस्य ज्ञापकस्य दुर्विज्ञानत्वात्॥", "31096": "`तकाररेफौ स्वरार्थौ` इति। तकारः <<तित्स्वरितम्>> [[6.1.185]] इति स्वरितार्थः। रेफः <<उपोत्तमं रिति>> [[6.1.217]] इतिमध्योदात्तार्थः।`वसेस्तव्यत् कर्तरि णिच्च` इति।`वस निवासे` (धातुपाठः-1005) इत्यस्मात् कर्तरि तव्यप्रत्ययो भवति, स च णिद्भवतीति। न चैतद्वक्तव्यम्; <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति सिद्धत्वात्। वसतीति वास्तव्यः। णित्त्वाद्द्वृद्धिः।`केलिमर उपसंख्यानम`इति। उपसंख्यानशब्दसय् प्रतिपादनमर्थः। प्रतिपादनं तु प्रागेव कृतम्। पुनरपि क्रियते - <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इतिबहुलवचनात् केलिमप्र्रत्ययोऽपि कृत्यो भविष्यति। ककारः कित्कार्यार्थः, रेफः स्वरार्थः। स्वयमेव पच्यन्ते `पचेलिमा माषाः`। शब्दशक्तिस्वाभाव्यादत ए बहुवचनाच्च कर्मकर्तर्येव भवति नान्यत्र॥", "31097": "`तकारः `यतोऽनावः` इति {स्वरार्थः - काशिका} विशेषणार्थः` इति। आद्युदात्तार्थः। `गेयम्` इति। `कै गै शब्दे` (धातुपाठः-916,917), <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्त्वम्, `ईद्यति` [[6.4.65]] इतीत्त्वम्, गुणः।`यावता` इत्यादि। इह द्विविधा धातवः - हलन्ता अजन्ताश्च; तत्र `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यतं हलन्तादिच्छति।अतः परिशेष्यादेवाज्ग्रहणमन्तरेणाप्यजन्तादेव यद्भविष्यतीत्यतोऽज्ग्रहणमपार्थकमित्यभिप्रायः। `अजन्तभूतपूर्वात्` इति। अजन्तश्चासौ भूतपूर्वश्चेति कर्मधारयः। यः प्रागजन्त आसीत् संप्रति तु हलन्तः, ततोऽपि यथा स्यादित्येवमर्थमज्ग्रहणम्। `दित्स्यम्`। `धित्स्यम्`। दाञो धाञश्च सन्, द्विर्वचनम्। `सनि मीमा` [[7.4.54]] इतीस्। <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यभ्यासलोपः। `सः स्यार्धधातुके` [[7.4.49]] इति तत्त्वम्। अनुत्पन्न एवार्धधातुके विषयभावेन विवक्षिते <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। अस्यामवस्थायामसत्यज्गर्हणे न स्यात्; अनजन्तत्वात्। तस्मस्तु सति भूतपूर्वमजन्तत्वमाश्रित्य भवति। पाक्षिकञ्चैतत् प्रयोजनं वेदितव्यम्। क्व तस्मिन्पक्षे? यदार्धधातुके विषयभावन विवक्षिते <<अतो लोपः>> [[6.4.48]] विधीयते। यदाऽऽर्धधातुकः, तदा नेदं प्रयोजनम्। विस्पष्टार्थं त्वज्ग्रहणं वेदितव्यम्।`तकिशसि` इत्यादि। `तक { सहने इति मुद्रितः पाठः} हसने(धातुपाठः-117), `शसु हिंसायाम्` (धातुपाठः-727), `चते चदे याचने` (धातुपाठः-865,866) , `यती प्रयत्ने` (धातुपाठः-30), `जनी प्रादुर्भावे` (धातुपाठः-1149) - एषां यत्प्रत्ययस्योपसंख्यानम् = प्रतिपादनं कर्तव्यम्। प्रतिपादनं तु बहुलग्रहणमाश्रित्य कर्तव्यम्।`हनो वा वध च` इति। हन्तेर्धातोर्यत्प्रत्ययो भवति, ण्यतोऽपवादः। वावचनात् पपक्षे ण्यद्भवत्येव। यत्प्रत्ययस्तु तत एव बहुलवचनाल्लभ्यते। यदा यद्भवति तदा हन्तेर्बधादेशः। सोऽपि <<हनो वध लिङि>> [[2.4.42]] इत्यत्र <<बहुलं छन्दसि>> [[7.4.78]] इत्यतो बहुलग्रहणानुवृत्तेर्लभ्यते। घात्य इति। `हनस्तः` [[7.3.32]] इति तत्वम्, `हो हन्तेः` [[7.3.54]] इति कुत्वम्॥", "31098": "`प्राक्यम्। वाक्यम्` इति। `चजोः` [[7.3.52]] इति कुत्वम्। `कोप्यम्। गोप्यम्` इति। `कुप क्रोधे` (धातुपाठः-1233), `गुप {गोपने इत्येव-धातुपाठः-} गोपनकुत्सनयोः` (धातुपाठः-970), `गुप व्याकुलीकरणे` (धातुपाठः-1234)। आप्यमिति। `आप्लृ व्याप्तौ` (धातुपाठः-1260)॥", "31099": "", "31100": "`अनुपसर्गे` इति। सुज्व्यत्ययेन पञ्चम्यर्थे सप्तमी। अत एवाह - `अनुपसर्गेभ्यः` इति। अविद्यमानोपलसर्गेभ्य इत्यर्थः। अथैवं कस्मान्न विज्ञायते - उपसर्गादन्योऽनुपसर्ग इति? अशक्यमेवं विज्ञातुम्; एवं हि विज्ञायमाने केवलेभ्यो न स्यात्। नञिवयुक्त (है।प।94) न्यायेनोपसर्गसदृशस्य सुबन्तस्य ग्रहणे सति <<वदः सुपि क्यप् च>> [[3.1.106]] इत्यत्र पुनः सुब्ग्रहणमनर्थकं स्यात्, अस्यैवानुपसर्गस्य तत्रानुवृत्तेः। तस्मात् पूर्वोक्त एवार्थो युक्तः। `नियमार्थम्` इति। अनुपसर्गादेव यथा स्यात्, सोपसर्गानमा भूदिति।`चरेः` इत्यादि। सोपसर्गार्थमिदम्- चरेर्धातोराङि चोपपदे यद्भवतीति, अगुरावभिधेये। स तु ज्ञापकादेव सिध्यतीति नोपसंख्येयः, यदयम् <<आश्चर्यमनित्ये>> [[6.1.147]] `सम्माननोत्सञ्जनाचार्यकरण` [[1.3.36]] इत्यादि करोति, ततो ज्ञायते - चरेराङि चागुरौ यद्भवतीति। `आचार्यो देशः` इति गन्तव्य इत्यर्थः। गुरुः= उपनेता॥", "31101": "`अवद्यम्` इति। वदेर्नञ्युपपदे <<वदः सुपि क्यप् च>> [[3.1.106]] इति यत्क्यपोः प्राप्तयोर्यदेव निपात्यते। `अनुद्यम्` इति। यजादित्वात् संप्रासरणम्, <<नलोपो नञः>> [[6.3.73]] , <<तस्मान्नुडचि>> [[6.3.74]] इति नुट्। `पण्यम्` इति। पणेव्र्यवहारार्थस्य ण्यति प्राप्ते यन्निपात्यते। `पाण्यम्` इति। स्तोतव्यमित्यर्थः।`वर्या` इति। वृङो ण्यति प्राप्ते यन्निपात्यते। स्त्रियामित्यनेन सूत्रे लिङ्गनिर्देशस्य तन्त्रतां दर्शयति। `अप्रतिबन्धः` इति। अनेनानिरोधशब्दस्यार्थमाचष्टे। अप्रतिबन्धः प्रसराभिघात इत्यर्थः। `वृत्या` इति। निरोधनीया। प्रसरविघातोऽस्याः कर्तव्य इत्यर्थः। एतच्च वृञः `एतिस्तृशासु` [[3.1.109]] इति क्यपि कृते <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुकि च रूपम्। `वार्या ऋत्विजः` इति। वृङ एतद्रूपम्। ऋत्विजो हि धनेन संविभक्तव्या इत्यस्त्यनिरोधः। स्त्रीलिङ्गता तु नास्तीति ण्यदेव भवति। ननु `एतिस्तुशास्वृ` [[3.1.109]] इति क्यपा भवितव्यम्? नैतदस्ति; वृञो हि तत्र ग्रहणम्, वृङश्चात्रोदाहरणम्॥", "31102": "", "31103": "`वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - तन्त्रेणेह द्वावर्यशब्दावुच्चारितौ,तत्रैक आद्युदात्तः,अपरोऽन्तोदात्तः। य आद्युदात्तः स वैश्ये निपात्यते, इतरस्तु स्वामिनीति॥", "31104": "`प्राप्तकाला काल्या` इति। <<समयस्तदस्य प्राप्तम्>> [[5.1.104]] इत्यनुवर्तमाने <<कालाद्यत्>> [[5.1.107]] इति यत्। प्रजननम् = प्रजनः, भावे घञ्, <<जनिवध्योश्च>> [[7.3.35]] इति वृद्धिप्रतिषेधः। `उपसार्या` इति। उपसंक्रमणीत्येत्यर्थः।", "31105": "`जीर्यतेः` इति। `जृष् झृष् वयोहानौ` (धातुपाठः-1130, 1131)। `सङ्गमन` इति। सङ्गमनम् = सङ्गतिः। <<ल्युट् च>> [[3.3.115]] इति ल्युट्। एतेन सङ्तमित्यत्र <<नपुंसके भावे क्तः>> [[3.3.114]] इति दर्शयति। `कर्तरि यत्प्रत्ययो निपात्यते`इति। तृजादीनामपवादः। `अजरिता` इति। तृच्॥", "31106": "`अनुपसर्ग इति वर्तते` इति। ननु च `सत्सूद्विष` [[3.2.61]] इत्यादौ सूत्रे वक्ष्यति - एतदुपसर्गग्रहणं ज्ञापनार्थम्, अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवतीति; एवञ्च तत एव ज्ञापकादुपसर्गे न भविष्यतीति किमिहानुपसर्गग्रहणानुवृत्त्या? विस्पष्टार्थमित्येके। तत्र वाज्ञापनार्थमुपसर्गग्रहणं कर्तव्यम्; इह वानुपसर्गमनुवत्र्यमिति विकल्पदर्शनार्थमित्यपरे। `ब्राहृओद्यम्` इति। ब्राहृणो वदनमित्यर्थः। भावे क्यप्, पूर्ववत् संप्रसारणम्, <<आद्गुणः>> [[6.1.87]] , उपपदसमासः॥", "31107": "`यत् तु नानुवर्तते` इति। पूर्वसूत्रे चानुकृष्टत्वात्। `ब्राहृभूयं गतः` इति। ब्राहृत्वं प्राप्त इत्यर्थः। ननु च <<तयोरेव कृत्यक्तखलर्थाः>> [[3.4.70]] इति भावकर्मणोः कृत्वा विधीयन्ते, अनुपसर्ग इति चानुवर्तते, अनुपसर्गश्च भवतिरकर्मक इतिसामर्थ्याद्भाव एव भविष्यति, न कर्मणि, किं भावग्रहणेन? इत्याह - `भावग्रहणेन? इतयाह - `भावग्रहणमुत्तरार्थम्` इति। एतेन <<हनस्त च>> [[3.1.108]] इत्यत्रोपयोगमाह - तत्र भाव एव यथा स्यात्। `भव्यम्` इति। अचो यत्` [[3.1.97]] , धातोर्गुणः, <<धातोस्तन्निमित्तस्यैव>> [[6.1.80]] इत्यवादेशः॥", "31108": "`ब्राहृहत्या` इति। ब्राहृणो हननमित्यर्थः। `धातः` इति। पूर्ववत् तत्वकत्वे। किमर्थं पुनर्घञ् प्रत्युदाह्यियते, न ण्यदित्याह - `ण्यत्तु` इत्यादि। तत्रैव युक्तिमाह - `अनभिधानात्` इति।अबिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति, न च हन्तेर्विहितेन ण्यता भावः शक्यतेऽभिधातुम्। तथा हि धात्य इत्युक्ते कर्मैव प्रतीयते, न भावः॥", "31109": "`शिष्यः` इति। `शासु अनुशिष्टौ` (धातुपाठः-1075),` शास इदङहलोः` [[6.4.34]] इतीत्त्वम्, `शासिवसि` [[8.3.60]] इति षत्वम्। `आदृत्यः` इति। `दृङ आदरे` (धातुपाठः-1141), आङपूर्वः। `जुष्यः` इति। `जुषी प्रीतिसेवनयोः` (धातुपाठः-1288)। अथ किमर्थं क्यब्ग्रहणम्, यावता <<वदः सुपि क्यप् च>> [[3.1.106]] इत्यतः क्यब्ग्रहमनुवर्तत एवेत्यत आह - `क्यबिति वर्तमाने` इत्यादि। `बाधकबाधनार्थम्` इति। एतद्विस्पष्टीकर्त्तुमाह - `ओरावश्यके` इति। स्तुग्रहणस्यावकाशो यत्रावश्यकं न विवक्ष्यते - स्तुत्य इति, <<ओरावश्यके>> [[3.1.125]] इत्यस्यावकाशोऽन्यो धातुः - अवश्यलाव्यमिति; इहोभयं प्राप्नोति - अवश्यस्तुत्य इति, परत्वाद्बाधको ण्यत् स्यात्। पुनः क्यब्ग्रहणात् तमपि बाधित्वा क्यब्भवति। `वृग्रहणेन वृञो ग्रहणमिष्यते, न वृङः` इति। तत्कथम्? `कृषिरजोः` [[3.1.90]] इत्यादेः सूत्रादिह परस्मैपदग्रहणमनुवर्तते, तेन वृशब्दो विशिष्यते - परसमैपदंस्य यो वृशब्द इति। कश्च परस्मैपदस्य वृशब्दः? यस्य परस्मैपदं प्रति निमित्त्भावो दृष्टः। वृञ एवोभयपदिनः स दृष्टः, न वृङः; तस्य नित्यात्मनेपदित्वात्। तेन वृञ एव ग्रहणं भवति, न वृङः।`शंसिदुहि` इत्यादि। एभ्यः शंसिप्रभृतिभ्यो वा क्यब्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तदेव बहुलग्रहणमाश्रित्य कर्तव्यम्। `शस्यम्` इति। `शन्सु स्तुतौ` (धातुपाठः-728), `अनिदिताम्` [[6.4.24]] इति नलोपः। `गुह्रम` इति। `गुहू संवरणे` (धातुपाठः-896)।`अःङपूर्वादञ्जेः` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्च पूर्ववत्। `अञ्जू व्यक्तिभ्रमणकान्तिगतिषु` (धातुपाठः-1458)। पूर्ववन्नलोपः। इयं च सर्पिषः संज्ञा।`कथमुपेयम्` इति। इण एतद्रूपमिति मन्यमानस्य प्रश्नः। `ईङ एतद्रूपम्` इति। `ईङ गतौ` (धातुपाठः-1143) इत्यस्य `अचो यत्` [[3.1.97]] इति यति सत्येतद्रूपम्, न त्विणः। तस्य हि क्यपि सत्युपेत्यमिति भवितव्यम्॥", "31110": "`कॢपिचृतौ वर्जयित्वा` इति। `कृपू सामर्थ्ये` (धातुपाठः-762), `चृती {हिंसाश्रन्थनयोः` धातुपाठः-} हिंसाग्रन्थनयोः` (धातुपाठः-1324) इत्येतौ त्यक्त्वा। कृपेर्लत्वस्यासिद्धत्वादृदुपधत्वम्। `कल्प्यम्` इति। लत्वस्यामिद्ध्तवादृकारस्यैवाकारो गुणः। `ण्यदेव भवति - कीर्त्त्यम्` इति। आर्धधातुकविवक्षायां चुरादिणिचः <<णेरनिटि>> [[6.4.51]] इति णिलोपे कृ-ते हलन्ततोपजायत इति कृत्वा `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यदेव भवति। `हलि च` [[8.2.77]] इति दीर्घः। ननु च `अचो यत्` [[3.1.97]] इत्यत्राज्ग्रहणस्य प्रयोजनमुक्तम् - अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यमिति;एवञ्चेहापि णिचि यतैव भवितव्यम्? एवं तह्र्रनित्यण्यन्ताश्चुरादय इत्यण्यन्तादेवात्र ण्यद्भवतीत्यदोषः। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्ववत्।पाणिभ्यां रुआष्टव्या `पाणिसग्र्या रज्जुः`। `उपपदमतिङ्ट [[2.2.19]] इति समासः। `समवपूर्वाच्च` इति। सृजेण्र्यद्भवतीति सम्बध्यते। चकारः समुच्चये।न केवलं पाणावुपपदे ण्यद्वक्तव्यः; अपि तु समवपूर्वाच्च॥", "31111": "`खेयम्` इति। `खनु अवदारणे` (धातुपाठः-878), नकारस्य ईकारः, <<आद्गुणः>> [[6.1.87]] । अथ किमर्थं दीर्घ आदिश्यते, यावता ह्रस्वेऽपि कृते आद्गुणेन भवितव्यम्। न च ह्रस्वस्याद्गुणे कृते कश्चिद्विशेषः? स्यादेतत् - एकादेशस्तु तुग्विधावसिद्धो वक्तव्यः, तत्र यदि ह्रस्व आदिश्यते तदा ह्रस्व्सयाद्गुणे कृते तुग्विधावसिद्धत्वाद् ह्रस्वाश्रयस्तुक् स्यात्; दीर्घादेशे तु न भवति, अतो दीर्घादेशो वक्तव्य इति? एतच्च नास्ति; यस्मात् पदान्तपदाद्योयं एवादेशः स तुग्विधावसिद्धो वक्तव्यः, न सर्वत्रेत्याह - `दीर्घनिर्देशः। किमर्थं पुनर्द्वितीय सवर्णदीर्घत्वेन [[6.1.97]] द्व्योरिवर्णयोः प्रश्लेषो यथा स्यादित्येवमर्थो दीर्घनिर्देशः। किमर्थं पुनिर्द्वितीय इवर्णः, यावतैकेनैव खेयमिति रूपं सिध्यतीत्यत आह - ` तत्र ` इत्यादि। द्वयोरिकारयोः प्रश्लेषनिर्देशः। तत्र यो द्वितीय इवर्णः सः `ये च` [[6.4.109]] इत्यात्त्वबाधा यथा स्यादित्येवमर्थः। <<ये विभाषा>> [[6.4.43]] इत्यस्यावकाशः - खायते, खन्यते, इसि, अस्यादेशस्यावकाशो यस्मिन् पक्ष आत्त्वं नास्ति; आत्तवपक्षे तूभयं प्राप्नोति। उभयप्राप्तावसतीकारे पर्तवादन्तरङ्गत्वाच्चात्त्वं स्यात्, अस्मश्च सत्यात्त्वं बाधित्वेकार एव भवति। अन्तरङ्गत्वं पुनरात्त्वस्य यकारसामान्यमाश्रित्य विधानात्। इत्त्वस्य बहिरङ्गत्वम्; क्यब्विशेषमाश्रित्य विधानात्॥", "31112": "`भर्तव्या इत्यर्थः` इति। एतेन क्रियाशब्दत्वं भृत्यशब्दस्य दर्शयन् संज्ञाशब्दत्वमपाकरोति। `संपूर्वाद्विभाषा` इति। असंज्ञायामेवायं क्योप नित्यं प्रसक्तस्य क्यपो नित्यं प्रसक्तस्य विकल्पः। एतद्वक्ष्यमाणस्य विभाषाग्रहणस्योभयोरपि योगयोः शेषभूतत्वादव्यवस्थितविभाषाविज्ञानाच्च लभ्यते।`संज्ञायां पुंसि` इत्यादि। असंज्ञायामित्यस्य प्रतिषेधस्येति शेषः। एतेन पुंसि प्रतिषेधस्य चरितार्थतामाह - यत एवं पुंसि चरितार्थः प्रतिषेधस्ततो न ते भार्या प्रसिध्यति। भार्याशब्दस्तव सूत्रकारस्य मते न प्रसिध्यतीत्यर्थः। पुंसि प्रतिषेधे हि चरितार्थे स्त्रियां क्यपा भवितव्यम्। ननु चासंज्ञायामित्युच्यते, संज्ञाशब्दश्च भार्याशब्दः, तथा हि अबिभ्रत्यपि देवदत्ते तस्य पत्नी भार्येत्युच्यते, तत्कुतः क्यप्प्रसङ्गः? न ब्राऊमः - अनेन सूत्रेण क्यपा भवितव्यमिति किं तर्हि? `संज्ञायां समजनिषद` [[3.3.99]] इत्यनेन, तत्र उत्तरमाह - `स्त्रियां भावाधिकारोऽस्ति` इति। भावाधिकारशब्देनात्र भावस्याभिधेयभावोपगमलक्षणो व्यापारो विवक्षितः, न तु शास्त्रीयोऽधिकारः। स्त्रियाम् = स्त्रीप्रकरणे, `संज्ञायां समजनिषद` [[3.3.99]] इत्यादिना क्यपि विधीयमाने भावस्याधिकारः, शब्दशक्तिस्वाभाव्यात्। तत्र क्यब्विधीयमानो भाव एव भवति, न कर्मणि। `तेन भार्या सिध्यति` इति। कर्मणीत्यभिप्रायः। यस्मात् स्त्रियां भावाधिकारोऽस्ति। भाव एव वाच्यत्वेन व्याप्रियते, न कर्म,तेन कर्मणि भार्याशब्दः प्रसिध्यति। स्त्रियां भावाधिकारे हि भाव एव क्यपा भवितव्यम्। कर्मणि तु ण्यतैव॥", "31113": "ऋदुपधत्वात् प्राप्तविभाषेयम्। `ऋदुधाच्चाकॢपिचृतेः` [[3.1.110]] इति क्यपो विधानात्। `परिमार्ग्यः` इति। पूर्ववत् कुत्वम्, `गृजेर्वृद्धिः` [[7.2.114]] ॥", "31114": "`राज्ञा सोतव्यः` इति। वाक्यविशेषेण राजनि तृतीयान्त उपपदे कर्मणि निपातनमिति दर्शयति। `राजा वेह सूयते` इत्यनेनापि राजनि प्रथमान्त उपपदेऽधिकरणे निपातनमिति। `षुञ् अभिषवे` (धातुपाठः-1247) इत्यस्मात् क्यप्। तत्र चास्य तुगभावो दीर्घत्वञ्च निपात्यते। `सूसर्तिभ्याम्` इति। `षू प्ररणे` (धातुपाठः-1408), `सृ गतौ` (धातुपाठः-935)- आभ्यां यथाक्रमं `अचो यत्` [[3.1.97]] इति यति प्राप्ते `ऋहलोण्र्यते` [[3.1.124]] इति च क्यब् निपात्यते। `सुवति` इति। कर्मणि। कार्ये लोकान्` प्रेरयतीति। तस्मिन् ह्रुदिते लोकस्य क्रियाप्रवृत्तिः। `पक्षे यति प्राप्ते` इति। <<वदः सुपि क्यप् च>> [[3.1.106]] इत्यनेन। मृषाववनम् = मृषोद्यम्। क्यप्, सम्प्रसारणम्; <<आद्गुणः>> [[6.1.87]] , उपपदसमासः। `रोचतेऽसौ`इति। कर्त्तृप्रत्ययान्तेनार्थमुपदर्शयन् कर्तरि निपातनं दर्शयति। तृजादौ प्राप्ते क्यब् निपात्यते। `गुपेः` इति। `गुप गोपने` (धातुपाठः-970), `गुपू रक्षणे` (धातुपाठः-395) इत्यस्य वा। `अव्ययः` इति। `व्यण {भयसंचलनयो धातुपाठः-} भयचलनयोः` धातुपाठः-764) - अस्मात् कर्तरि तृजपवादः क्यब् निपात्यते॥", "31115": "`उज्झेश्च` इति। `उज्झ उत्सर्गे` (धातुपाठः-1304)। `कर्तरि क्यब् निपात्यते` इति। तृजादेरपवादः॥", "31116": "`पुषेः सिद्धेश्च` इति। `पुष पुष्टौ` (धातुपाठः-1182) `{षिधु धातुपाठः-}सिधु संराद्धौ (धातुपाठः-1192)। `अधिकरणे क्यब् निपात्यते` इति। ल्युटोऽपवादः।", "31117": "`विपूर्वात् पवतेः` इति। `पङ पवने` (धातुपाठः-966)। `नयतेश्च` इति। विपूर्वादित्यपेक्षते। `यति प्राप्ते` इति। त्रयाणामप्यजन्तत्वात्। विपूयते विपूयः। विनीयते = सिद्धत्वं प्राप्यते विनीयः। तैलेन घृतेन वा त्रिफलादिद्रव्यसमवेतेन साध्यः कश्चिदौषधविशेषः कल्क इत्युच्यते। जेतव्यो `जित्यः`। बृहद्धलम् = हलिः॥", "31118": "`प्रतिगृह्रम्` इति। `ग्रहिज्या` [[6.1.16]] इत्यादिना संप्रसारणम्। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः॥", "31119": "`अस्वैरी` इति।`ईर {गतौ कम्पने च - धातुपाठः-}(धातुपाठः-1018)। स्वेन स्वयमीरितुं गन्तूं शीलमस्येति ताच्छीलिको णिनिः। निपातनाद्वृद्धिः स्वरी = स्वतन्त्रः। अस्वैरी उच्यते। `बाह्रायाम्` इति। बहिर्भूतायामित्यर्थः। `बहिषष्टिलोपश्च` (वा।378) इत्युपसंख्यानाद्यञ्, तत्र च टिलोपः। `पक्ष्ये चार्थे` इति। पक्ष्यशब्दो वर्गमाचष्टे। पक्षे भवः पक्ष्य इति। दिगादित्वाद्यत्। प्रगृह्रत इति प्रगृह्रं पदम्। असननिकर्षोऽत्र गृह्णातेरर्थः। स्वरा हि तत्र न सन्निकृष्यन्ते सन्निधीयन्त इत्यसन्निकर्षः। अवगृह्रत इत्यवगृह्रम्। `यस्यावग्रहः क्रियते` इति। तत्र समुदायपदेऽवयवपदानि विविधान्यवगृह्र विच्छिद्याख्यायन्ते। तेनावयवानामवगृह्रत्वादवगृह्रमित्युच्यते। `गृह्रकाः` इति। <<अनुकम्पायाम्>> [[5.3.76]] इति कन्। `गृहीतकाः` इति। संयताः परतन्त्रीकृता इति यावत्। `अन्यत्र` इति। पुंसि नपुंसके च। `वासुदेवगृह्राः` इति। षष्ठीसमासः॥", "31120": "`वृषेश्च` इति। वृषु {प्लुषु दाहे-धातु पाठः-703} प्लुषु मृषु मेचने` (धातुपाठः-706,707)॥", "31121": "`पतन्त्यनेनेति पत्त्रम्` इति। `दाम्नीशस` [[3.2.182]] इत्यादिना ष्ट्रन्। `\tयुग्यम्` इति। `युजिर्योगे` (धातुपाठः-1444)। योजनीर्ये - युज्यते वाहनेन {गमनमितीति मुद्रितः पाठः} गवादिकमिति युग्यम्॥", "31122": "`अमावस्यत्` इति। ण्यत्प्रत्ययान्तमेतन्निपातनम्, न क्यप्प्रत्ययान्तमिति ज्ञापनार्थं तकारानुबन्धोच्चारणम्; अन्यथा क्यपः प्रकृतत्वात् क्यप्प्रत्ययान्तमेतदिति सम्भाव्येत। स चापि तित्प्रत्ययो ण्यदिहाभिप्रेतः, न यत्; अन्यथा हि निपातनमर्थकं स्यात्। यत्प्रकरणे `अमावसेरन्यतरस्याम्` इत्येव ब्राऊयात्। दोषवत्त्वाच्च यत्प्रत्ययान्तनिपातस्य। दोषस्तूत्तरत्राविष्करिष्यते। यश्च यत्प्रत्ययान्तनिपातने दोषः स क्यबन्तेऽपि सम्प्रसारणाभावश्च निपातयितव्यतामापद्येत; तस्माण्ण्यत्प्रत्ययान्तमेतन्निपातनमिति मत्वाह - `कालेऽधिकरणे ण्यत्प्रत्ययो भवति` इति। एकदेशविकृतत्वादिना ण्यत्प्रत्ययान्तनिपातनस्य गुणं दर्शयति। वृद्ध्यभावो हि ण्यति निपातितोऽमावस्याशब्द एव। अमावस्याशब्दो नात्रोपतिष्ठते वृद्ध्यभावपक्षे। ततश्च `एकदेशविकृतमनन्यवद्भवति` (व्या।प।16) इत्यमावस्याशब्दे गृह्रमाणेऽमावास्याशब्दस्यापि ग्रहणं भवति। तेन `पूरवाह्णापराह्णाद्र्रामूलप्रदोषावस्काराद्वुन्` [[4.3.28]] इत्यनुवर्तमाने <<अमावास्याया वा>> [[4.3.30]] इत्यमावास्याशब्दे वुन्नणौ विधायमानावमावस्याशब्दस्यापि सिध्यत #ः। `अमावसेः` इत्यादि। एकस्या अपि प्रकृतेर्वृद्धिभाक्त्वावृद्धिभाक्त्वधर्मभेदेन भेदस्य विवक्षितत्वाद्द्विवचने निर्देशः। अहमित्यात्मानं व्यपदेशयन्नपरेऽन्यथा कुर्वन्तीति सूचयति। `ण्यतोः` इति। ण्यत्प्रत्ययान्तयोरित्यर्थः। `निपातयाम्यवृद्धिताम्` इति। अन्यतरस्यामिति शेषः। तेन किं सिध्यीत्याह - `तथैकवृत्तिता तयोः` इति। प्रसिद्ध्यतीति वक्ष्यमाणेन सम्बन्धः। क्वचित् `तथैकवृत्तिताम्िति पाठः। तत्र निपातयामीति प्रकृतेन सम्बन्धः। निपातयामीत्यस्य च साधयामीत्येषोऽर्थः। `तयोः` इति। अमावास्याऽमावस्ययोः प्रत्यवमर्शः। वृत्तिः पुनर्वुन्नणोः प्रत्यययोरुत्पत्तिः। एका तुल्या ययोर्वृत्तिस्तावेकवृत्ती,तद्भाव एकवृत्तिता। सा ण्यत्प्रत्ययमुत्पाद्य तत्र वृद्ध्यभावनिपातनेन सिध्यतीति;एकदेशविकृतस्यानन्यत्वात्। `स्वरश्च मे प्रसिध्यति` इति। <<तित्स्वरितम्>> [[6.1.185]] इति। अन्तस्वरितत्वचेष्टम्। `सिध्यति` इति। ये त्वमापूर्वस्य वसेर्यतं निपातयन्ति, अन्यतरस्यांग्रहणाच्च पक्षे ण्यतमिच्छन्ति,तेषां यद्यप्यमावस्येति रूपं सिध्यति तथापि यत्प्रत्ययपक्षे स्वरो न सिध्यति; <<यतोऽनावः>> [[6.1.213]] इति स्वरितत्वापवाद आद्युदात्तत्वं वस्याशब्दस्य प्राप्नोति। अमाशब्देनापि समासे कृते <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इतिकृदन्तस्योत्तरपदस्य प्रकृतिस्वरे कृते वस्याशब्द एवाद्युदात्तः स्यात्। अन्तस्वरितस्चेष्यते। एकवृत्तितापि पूर्वोक्ता न सिध्यति;शब्दान्तरत्वात्। एको हि यत्प्रत्ययान्तः अपरश्च ण्यत्प्रत्ययान्त इति ण्यति वृद्ध्यभावो निपात्यते॥", "31123": "`क्यपि प्राप्ते` इति। ऋदुपधत्वात्। `आद्यन्तविपर्ययः` इति ककारस्यादेरन्तत्वं निपात्यते। तकारस्यान्तस्यादित्वम्। `ह्वयतेः` इत्यादि। यदा `ह्वेञ् स्पद्र्धायाम्` (धातुपाठः-1008) इत्यस्मात् क्यप् तदा यजादित्वात् [[6.1.15]] सम्प्रसारणम्, `हलः` [[6.4.2]] इति दीर्घः। यदा तु `{हु दानादानयोः` धातुपाठः-}हु दाने` (धातुपाठः-1083) इत्यसमात्, तदा तुगभावो निपात्यते दीर्घत्वं च। देवा हूयन्तेऽस्मिन्निति देवहूवः। `{उच्छिष्यम् इति काशिका} अच्छिव्यः` इति। `शिष्लृ {विशेषणे-धातुपाठः-} विशरणे` (धातुपाठः-1451)। <<शश्छोऽटि>> [[8.4.63]] इति छकारः, <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्। `\tआभ्यां यत्प्रत्ययः` इति। ऋकारान्तत्वाण्ण्यति प्राप्ते। `स्त्रियामव निपातनम्िति। अन्यथा स्तर्येति स्त्रीलिङ्गनिर्देशोऽपार्थकः स्यात्। `आपृच्छ्यः` इति। ग्रह्रादिना [[6.1.16]] सम्प्रसारणम्। `प्रतिषीव्यः` इति। `हलि च` [[8.2.77]] इत दीर्घः` `वदेण्र्यत्` इति। <<वदः सुपि क्यप् च>> [[3.1.106]] इति क्यपि यति च प्राप्ते। `भाव्यः, स्ताव्यः` इति। भवतेः स्तौतेश्च यदपवादो ण्यत्।`निष्टर्क्ये` इत्यादि। सुखोपग्रहणार्थौ सङग्रहश्लोकौ। `व्यत्ययम्` इति। आद्यन्तविपर्ययमित्यर्थः। `ण्यदेकस्मात` इति। कर्मणि ल्यब्लोप एषा पञ्चमी। एकं निष्टर्क्यशब्दमुद्दिश्य ण्यद्भवति। एकं शब्दं साधयितुं ण्यद्भवतीति यावत्। `चतुभ्र्यः क्यप्` इति। तादथ्र्य एषा चतुर्थी। ये देवहूयादयोऽनन्तराश्चत्वारस्तदर्थ तत्सिद्ध्यर्थ क्यब् भवतीति। `चततुभ्र्यश्च यतो विधिः` इति। एषापि तादथ्र्यं एव चतुर्थी। तदनन्तरा ये चत्वारो मर्यादयः खान्यपर्यन्तास्तदर्थम् = तत्सिद्ध्यर्थं यतो विधिर्भवति। `णय्देकस्मात्` इति। एषामपि ल्यब्लोपे कर्मणि पञ्चमी। खान्यमेकं शब्दमुद्दिश्य ण्यद्भवति। खान्यशब्दं साधयितुमित्यर्थः। `यशब्दश्च` इति। एकस्मादित्यनुकर्षणार्थः। देवयज्याशब्दमुद्दिश्य यशब्दो भवति। `द्वौ क्यपौ` इति। आपृच्छ्यप्रतीषीव्यशब्दयोः सिद्ध्ये द्वौ क्यपौ भवतः। `ण्यद्विधिश्चुतः` इति। चतुरो वारान् ण्यद्भवतीत्यर्थः। स पुनः परिशिष्टेषु ब्राहृवाद्यादिषु।अथ वा - `ण्यदेकस्मात्` इत्येकस्माद्धातोरित्यर्थः। `चतुभ्र्यः क्यप्` इति। चतुर्भ्यो धातुभ्यः क्यब् भवतीति। ननु च नयतिरेकएव धातुः, तत्कथं चतुर्भ्यो धातुभ्य इत्युच्यते? उपसर्गभेदादेकस्यापि भेदो विवक्षित इत्यदोषः। `चतुभ्र्यश्च यतो विधिः` इति। तदनन्तरेभ्यश्चतुर्भ्यो धातुभ्यो यतो विधिरित्यर्थः। `ण्यदेकस्मात्` इति। खन एकस्माद्धातोण्र्यद्विधिः। `यशब्दश्च` इति। देवयज्याशब्द एकस्माद्धातोर्यशब्दो भवति। `द्वौ क्यपौ` इति। आपृच्छ्यप्रतिषीव्यशब्दयोः सिद्ध्य आप्रच्छिप्तिषिवशब्दाभ्यां द्वौ क्यपौ भवतः॥", "31124": "`पञ्चम्यर्थे षष्ठी` इति। <<व्यत्ययो बहुलम्>> [[3.1.85]] इत्यनेन। कस्याः पुनः पञ्चम्या अर्थे षष्ठी? दिग्योगलक्षणायाः। प्रत्ययविधौ हि `परश्च` [[3.1.2]] इति सम्बन्धात् पञ्चम्या भाव्यम्॥", "31125": "`अवश्यम्भाव आवश्यकम्` इति। मनोज्ञादित्वाद्वुञ्। एतदेव ज्ञापकम् - अव्ययानां भमात्रे टिलोपो भवतीति। अत्र द्वयं सम्भाव्यते - उपपदत्वम्, आवश्यक उपपद इति; उपाधिकत्वञ्च, आवश्यके द्योत्य इति। तत्र यद्येवं ज्ञाप्यते - आवश्यकौपपद इति, तदोपपदरहितादावश्यके द्योत्ये न स्यात्। `लाव्यं पाव्यम्` इति।आवश्यके द्योत्य इत्येवं विज्ञायत इत्याह - `आवश्यके द्योत्ये` इति। एतच्च प्रत्यासत्या लभ्यते। उपाधिर्हि प्रत्ययान्तद्योत्यत्वादन्तरङ्गः, उपपदेन च सम्बन्धो बहिरङ्गः, तदर्थस्य पदान्तरवाच्यत्वात्। `स्वरसमासानुपपत्तिः` इति। उपपदे ह्रावश्यके विज्ञायमाने `उपपदमतिङ` [[2.2.19]] इति समासो भवति। तस्मश्च सति <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्युपपदाश्रय उत्तरपदप्रकृतिस्वरत्वम्, न तित्स्वरो भवति। द्योत्यपक्षे तु समासो न स्यात्; लक्षणाभावात्। अथापि कथञ्चिदुपपदसमासादन्यः समासः स्यात्? एवमप्युपपदसमासाश्रयः स्वरो न स्यात्; ततश्च तित्स्वरो न लभ्येत्, समासान्तोदात्तत्वं हि स्यात्। `अवश्यलाव्यम्` इति। `लुम्पेदवश्यमः कृत्ये` इति मलोपः। `मयूरव्यंसकादित्वात्` इत्यादि। मयूरव्यंसकादेराकृतिगणत्वादवश्यलाव्यप्रभृतलाव्यप्रभृतयस्तत्र द्रष्टव्या इति दर्शयति। स्वरः कथमित्याह - `उत्तरपदप्रकृतिस्वरत्वे च` इत्यादि। तत्रायं यत्नः - <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्यत्र <<षट् च काण्डादीनि>> [[6.2.135]] इत्यतश्चकारोऽनुवर्त्तिष्यते, स चानृक्तसमुच्चयार्थः। तेनावश्यलाव्यमित्यादावपि प्रकृतिस्वरो भवतीति॥", "31126": "`यतोऽपवादः` इति। `षृञ् अभिषवे` (धातुपाठः-1247), `यु मिश्रणे` (धातुपाठः-1033) अनयो रजन्त्वात्। `डुवप बीजतन्तुसन्ताने` (धातुपाठः-1003), `रप लप व्यक्तायां वाचि` (धातुपाठः-401,402), `त्रपूष् लज्जायाम्` (धातुपाठः-374), `चमु अदने` (धातुपाठः-469) - एषामदुपधत्वनात् पवर्गान्तत्वात्। `दाभ्यम्` इति। दभिर्धातुष्वपठित एव प्रकृत्यन्तरमस्ति चुलुम्पवत्॥", "31127": "`ण्यन्निपात्यते` इति। यति प्राप्ते। यद्यनित्ये निपात्यते घटादिष्वप्यतिप्रसङ्गः, तेषामनित्यत्वादित्याह - `रूढः` इत्यादि। सत्यपि प्रवृत्तिनिमित्तत्वे रूढआ नियतविषयत्वाच्शब्दा विशिष्ट एवार्थे वर्तन्ते, नाविशिष्टे, मयूरादिशब्दवत्। न हि मह्रां रौतीति सर्वो मयूर इत्युच्यते, नापि गच्छतीति सर्वो गौरित्युच्यते, किं तर्हि? विशिष्ट एव प्राणी। तस्माद्रूढिशब्दाद्दक्षिणाग्नावेव वर्तते, न घटादिषु। `नित्यमजागरणात्` इति। सततमज्वलनादित्यर्थः। ज्वलनमेव हि तस् जागरणम्। दक्षिणाग्नावपि विशिष्ट एवावतिष्ठते न सर्वत्रेति दर्शयितुमाह - `यश्च` इत्यादि। किं पुनस्तस्य योनिवकल्पोऽस्ति, येनैवं विशिष्यते? इत्याह - `तस्य हि` इत्यादि। योनिः = कारणमित्यर्थः। `वैआकृलात्` इत्यादिना योनिविकल्पं दर्शयति।`आनाय्योऽनित्य इति चेत्` इति। घटादिष्वपि प्राप्नोतीति शेषः। `दक्षिणाग्नौ कृतं भवेत्` इति। `आनाय्यः` इत्येतस्मिन्निपातनं दक्षिणाग्नावेव विशिष्टे कृतं भवेत्, नान्यत्र। लिङ सम्भावनायाम्। एतत् सम्भाव्यते, नान्यथेत्यर्थः। `एकयोनौ च तं विद्यात्` इति। तमानाय्यशब्दमाहवनीयेन य एकयोनिर्दक्षिणाग्निस्तत्र विद्याजानीयादित्यर्थः। चशब्दोऽवधारणे - एकयोनावेव। `आनेयो ह्रन्यथा भवेत्` इति। घटादावनित्ये दक्षिणाग्नौ चाहवनीयेन भिन्नयोनौ `अचो यत्` [[3.1.97]] इति यति कृत आनेय इत्येवं भवति॥।", "31128": "अविद्यमाना सम्मतिरित्यनेन वाक्यविशेषेण बहुव्रीहिं दर्शयंस्तत्पुरुषाशङ्कां निराकरोति - `सम्मतिः सम्मतता` इति। सम्मत इति पूजित इत्युच्यते। सम्मतस्य भावः सम्मतता। एतेन सम्मतिशब्देनेह पूजिताभिधेयतेति दर्शयति।`यद्येवम्` इत्यादि। अविद्यमानपूजे चौरादौ प्रणाय्यशब्दस्यान्तेवासिनि प्रयोगो नोपपद्यते। न हि पूजाऽन्तेवासिनि न विद्यत इत्यभिप्रायः। `ब्राहृ प्रब्राऊयात्` इति ब्राहमशब्देनात्र वेद उच्यते। `सम्मतिरभिलोषोऽप्युच्यते` इति। न केवलं पूजेत्यपिशब्देन दर्शयति। `तदभावेन` इति। अभिलाषाभावेन। `निष्कामतया` इति। भावभोगाभिलाषरहिततयेत्यर्थः॥", "31129": "`पाय्य` इति।` आतो युक्` [[7.3.33]] `हविर्विशेषेष्वतिष्ठते` इति। यत्रैवायं रूढस्तत्रैवावतिष्ठते। न हविर्मात्रे। `धाय्या` इति। पूर्ववत् युक्। `ऋग्विशेषस्य वाचकः` इति। सर्वा ऋचो न सामिधेनीशब्देनोच्यते, किं तर्हि? समिदाधानमन्त्रः। तथा हि समिदाधानमन्त्रे सामिधेनीशब्दो व्युत्पाद्यते। सामिधेन्यपि न सर्वा ऋगभिधीयते, किं तर्हि? काचिदेवेति दर्शयन्नाह - `तत्र` इत्यादि। कथं पुनः सामान्येन निपातनां क्रियमाणं विशेषविषयं लभत इत्याह - `रूढिशब्दो ह्रमम् ` इति।धाय्याशब्दो रूढिशब्द ऋग्विशेषस्य वाचकः। सैवानेनोच्यते, नान्या। कथं पुनज्र्ञायते रूढिशब्दोऽयमित्यत आह - `तथा च` इत्यादि। यदि रूढिशब्दोऽयं न स्यात् सामिधेन्यां निपातितत्वाद् धाय्याः शंसदित्यत्र ऋग्विशेषे न दृश्येत, दृश्यते चासौ। तसमाद्रूढिशब्दोऽयमित्यवसीयते। यदि तह्र्रसामिधेन्यामपि दृश्यते, सामिधेनीग्रहणमनर्थकं स्यात्? नानर्थकम्; रूढिविशेषोपलक्षणार्थत्वात्॥।", "31130": "`पिबतेः` इति। `पा पाने` (धातुपाठः-925)। `अधिकरमे यत्प्रत्ययः` इति। ल्युटि प्राप्ते। किं पुनः कारणं ण्यतं त्यक्त्वा यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्यते? अत आह - `यतोऽनाव इति स्वरः` इति। यत्प्रत्ययान्तत्वे ह्रुत्तरपदाद्युदात्तत्वं भवति। ण्यत्प्रत्ययान्तत्वेऽन्तस्वरितत्वं स्यात्। `कुण्डपानम्` इति। क्रतोरन्यत्र ल्युडेव भवति॥", "31131": "`संपूर्वाद्वहेः` इत्यादि। हलन्तत्वाण्ण्यत् सिद्ध एव; तस्मस्तु सति सम्प्रसारणं न प्राप्नोति; अकित्त्वात्। ण्यतः कृतेऽपि सम्प्रसारणे `हलः` [[6.4.2]] इति दीर्घत्वं न प्राप्नोति; यसमादङ्गावयवाद्धल उत्तरं यत् सम्प्रसारणं तदन्तस्याङ्गस्य दीर्गत्वं विधीयते; न चायमेवम्प्रकारोऽस्ति,अत उभयं निपात्यते। न सम्पूर्वादूहेः सामान्यविहितेन ण्यतैव सिध्यति। अग्नावेव वहेः सम्पूर्वाण्ण्यद्यथा स्यात्, इह मा भूत् - संवोढव्यो ब्राआहृण इति॥", "31132": "`तेनान्तोदात्तत्वं भवति` इति। यत्प्रत्ययान्तनिपातने हि प्रत्ययस्वरेणान्तोदात्तत्वं पदस्य भवति। ण्यति तु सति तित्स्वरितत्वं भवति। तस्मात् प्रकृतं त्यक्त्वा यप्रत्ययो निपात्यत इति भावः॥", "31133": "`चकारः सामान्यग्रहणार्थः` इत्यादि। तृज्तृनोः सामान्यग्रहणं यथा स्यादिति। असति तु तस्मिन् `निरनुबन्धकरणे न सानुबन्धकस्य` (व्या।प।53) इति तृनो ग्रहणं न स्यात्। अथान्तोदात्तार्थः कस्मान्न भवति? तस्य प्रत्ययस्वरेणैव सिद्धत्वात्॥", "31134": "`प्रत्यासत्त्या पचिनैवादिशब्दस्य सम्बन्धो मा विज्ञायीत्यत आह - `प्रत्येकम्` इत्यादि।`नन्दिवाशि` इत्यादि। `टुनदि सममृद्धौ` (धातुपाठः-67), `वाशृ शब्दे` (धातुपाठः-1163), `मदी हर्षे` (धातुपाठः-1208), `दुष वैकृत्ये` (धातुपाठः-1185), `राध साध संसिद्धौ` (धातुपाठः-1262,1263), `शुभ शुम्भ शोभायाम्` (धातुपाठः-1321,1322), `रुच दीप्तौ` (धातुपाठः-745) - एभ्यो धातुभ्यो ण्यन्तेभ्यः संज्ञायां ल्युर्भवति। नन्दयतीति। नन्दनमित्येवमाद्युदाहरणम्। `दूषणम्` इति। <<दोषो णौ>> [[6.4.90]] इत्यूत्त्वम्। अण्यन्तानां त्वेषामसंज्ञायां संज्ञायां च तृजादय एव भवन्ति। ग्रह्रादीनां नन्द्यादीनाञ्च गणे पाठस्येदमेव प्रयोजनम् - संज्ञाविशिष्टविषये तेषां साधुत्वं यथा स्यात्। अन्यथा हि प्रकृतीरेव गणे पठित्वेह चादिशब्देन ता उपलक्ष्य प्रत्ययं विदध्यात्। `सहितपि` इत्यादि। `षह मर्षणे` (धातुपाठः-1809), `तप सन्तापे` (धातुपाठः-985), `दमु उपशमे` (धातुपाठः-1203) - एभ्यः संज्ञायामण्यन्तेभ्यो ल्युः। `जल्पनः` इत्यादि। `जप जल्प व्यक्तायां वाचि` (धातुपाठः-397,398), `रमु क्रीडायाम्` (धातुपाठः-853), `दृप {हर्षमोहनयोः-धातुपाठः-} हर्षणमोचनयोः` (धातुपाठः-1196), `कदि क्रदि आह्वाने रोदने च` (धातुपाठः-70,71), `कृष विलेखने` (धातुपाठः-990) ह्मषु अलोके` (धातुपाठः-709),`अर्द हिंसायाम्` (धातुपाठः-1828), जनमर्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते ल्युः। `यु {मिश्रणेऽमिश्रणे च-धातुपाठः-} मिश्रणे` (धातुपाठः- 1033), `षूद क्षरणे` (धातुपाठः-1717), मधुं सूदयतीति मधुसूदनः। अत्रापि कर्मण्यणि प्राप्ते ल्युः। `ञिभी भये` (धातुपाठः- 1084)। विपूर्वात् <<हेतुमति च>> [[3.1.26]] इति णिच्; <<भियो हेतुभये षुक्>> [[7.3.40]] ।`लवणः` इति। `लूञ् छेदने` (धातुपाठः-1483)। `निपातनाण्णत्वम्` इति। कृतणत्वस्य गणे पाठो निपातनम्। `णश अदर्शने` (धातुपाठः-1194) विपूर्वः, `दमु उपशमे` (धातुपाठः-1203)- द्वावप्येतौ हेतुमण्णिजन्तौ। वित्तं विनाशयतीति वित्तविनाशनः। कुलं दमयतीति कुलदमनः। `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वः, कर्मण्यणि प्राप्ते ल्युः।`ग्रह` इत्यादि। `ग्रह उपादाने` (धातुपाठः-1533), `षह मर्षणे` (धातुपाठः-1809) उत्पूर्वः। `तसु {उपक्षये - धातुपाठः-}क्षेपणे` (धातुपाठः-1212), `दसु च` (धातुपाठः-1213),दसिवत् पूर्वः। `भस भत्र्सनदीप्त्योः` (धातुपाठः-1100) उत्पूर्वः। `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928), `आतो युक्` [[7.3.33]] । स्थायी। `मत्रि {गुप्तपरिभाषणे` धातुपाठः-} गुप्तभाषणे` (धातुपाठः-1679), चुरादिणिजन्तः। `मृद क्षोदे` (धातुपाठः-1515) संपूर्वः। संमृद्नातीति संपूर्वादेव यथा स्यात्। `रक्षश्रुवसवपशां नौ` इति। `रक्ष पालने` (धातुपाठः-658), `श्रु श्रवणे` (धातुपाठः-942), `डुवप बीजतन्तुसन्ताने` (धातुपाठः-1003), `शो तनूकरणे` (धातुपाठः-1145) - एषां निशब्द उपपदे णिनिः। `निशायी` इति। पूर्ववद्युक्। `याचि` इत्यादि। `टुयाचृ याच्ञायाम्` (धातुपाठः-863), `ह्मञ् हरणे` (धातुपाठः-899) , व्याङ्पूर्वः, पुनः स एव संपूर्वः, `वज व्रज गतौ` (धातुपाठः-252,253), वद व्यक्तायां वाचि` (धातुपाठः-1009), `वस निवासे` (धातुपाठः-1005) - एषां प्रतिषिद्धानां णिनिर्भवति। `प्रतिषिद्धानाम्` इति। `प्रतिषिद्धार्थानामित्य्रथः। प्रतिषिद्धार्थतांच नञ्पूर्वाणामेव भवतीति नञ्पूर्वेभ्यो णिनिर्विज्ञायते। कथं पुनः प्रतिषिद्धानां प्रयोग#ः? उपचारसत्तयामप्रतिषेधाददोषः। न हि मुख्यैव पदार्थानां सत्ता; किन्तूपचरिताऽपि यथोक्तमर्थद्वारेण पदार्थानामन्या सत्तौपचारिकीति। तत्र मुख्या या सत्ता तस्या एव प्रतिषेधः, न तु बुद्धिस्थाया औपचारिक्या इति तन्निबन्धनप्रयोगो न विरुध्यते। `अचाम्` इत्यादि। अजन्तानां धातूनामचित्तकर्त्तृकाणां प्रतिषिद्धानां णिनिर्भवति। अविद्यमानं चित्तमस्येति अचित्तः स कर्ता येषां ते तथोक्ताः। अर्थद्वारकं चेदं विशेषणम्। अर्थस्य ह्रचित्तकर्त्तृकत्वात् तदभिधायिनो धातव उपचारेण तथोच्यन्ते। `विशयी विषयी देशे` इति। विशययिविषयिशब्दौ देशेऽभिधेये णिनिप्रत्ययान्तौ साधू भवतः। `शीङ स्वप्ने`((धातुपाठः-1032), `षिञ् बन्धने` (धातुपाठः-1477) - एतयोर्विपूर्वयोर्णिनिः। वृद्ध्यभावश्च निपातनात्। अभिभावी भूते` इति। अभिभाविशब्दो भूतकाले णिनिप्रत्ययान्तः साधुर्भवति। भवतेरभिपूर्वात् णिनिः। अभिभूतवानित्यभिभावी। `अपराधी, उपरोधी` इति। `राध साध संसिद्धौ` (धातुपाठः-1262,1263), `रुधिर् आवरणे` (धातुपाठः-1438)- आभ्यामपोपपूर्वभ्यां णिनिः। `परिभावी, परिभवी` इति। भवतेः परिपूर्वस्य। पक्षे वृद्धयभावः।`पच` इत्यादि। `डुपचष् पाके` (धातुपाठः-996), `वच परिभाषणे` (धातुपाठः-1842), `डुवपबीजतन्तुसन्ताने {छेदनेऽपि - धातुपाठः-}`(धातुपाठः-1003), `वद व्यक्तायां वाचि` (धातुपाठः-1009), `चल कम्पने`(धातुपाठः-832), `शल गतौ` (धातुपाठः-843), `पत्लु गतौ` (धातुपाठः-845)। `नदट्` इति। `{णद` -धातुपाठः-}नद अवक्ते शब्दे` (धातुपाठः-54)। टकारानुबन्धो ङीबर्थः। `{भषट्-काशिका} भसट्` इति। `{भष भत्र्सने`} भस भत्र्सनदीप्त्योः` (धातुपाठः-1100) टकारो ङीबर्थः। `गृ निगरणे` (धातुपाठः-1410), `मिष स्पद्र्धायाम्` (धातुपाठः-1352), `कुप क्रोधे`(धातुपाठः-1233), `मिह सेचने` (धातुपाठः-992), `तृ? प्लवनतरणयोः` (धातुपाठः-969), `चुर स्तेये` (धातुपाठः-1534), `गाहू विलोडने` (धातुपाठः-649), `जृष् झृष् वयोहानौ` (धातुपाठः-1130,1131), `मृङ प्राणत्यागे` (धातुपाठः-1403), `क्षमूष् सहने` (धातुपाठः-442), `तुद व्यथने` (धातुपाठः-1281), `मृद् क्षोदे` (धातुपाठः-1515), `दिवु क्रीडादौ` (धापा।1107), `नृती गात्रविक्षेपे` (धातुपाठः-1116), `व्रण गात्रचूर्णने` (धातुपाठः-1937) चुरादिः; `दृशिर्प्रेक्षणे` (धातुपाठः-988)। `डुभृञ् धारणपोषणयोः` (धातुपाठः-1087)- अस्माज्जारशब्द उपपदेऽच्। जारं बिभर्तीति `जारभरः`। पचेः शुन्युपपदे कर्मण्यणपदादोऽच् - आआनं पचतीति `आपचः`। `आकृतिगणः` इति। पचादिसम्बन्धिन आदिशब्दस्य प्रकारार्थत्वात्। आकृतिगणत्वे चास्य चक्रधरादयः सिद्धा भवन्ति॥", "31135": "`विक्षिपः` इति। कित्त्वाद्गुणाभावः। `ज्ञः` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। `प्रियः` इति। `प्रीञ् तर्पणे` (धातुपाठः-1836), इयङ। `किरः` इति। `कृ? विक्षेपे` (धातुपाठः-1409), `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, रपरत्वम्। अथ कथं देवादयः सिध्यन्ति, यावता दिवादीनामिगुपधत्वात् के कृते दिवः, सिव इत्येवमादिना रूपेण भवितव्यम्?? अत आह - `देवसेव` इत्यादि। आदिशब्दः प्रकारे॥बाल-मनोरमाओरावश्यके 703, 3.1.135 ओरावश्यके। लाव्यं पाव्यमिति। `अचो ञ्णिती`ति वृद्धौ `वान्तो यी` त्यवादेशः। बाल-मनोरमाइगुपधज्ञाप्रीकिरः कः 714, 3.1.135 इगुपधज्ञा। `कृ? विक्षेपे` इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम्। इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी। कित्त्वं गुणनिषेधार्थम्। ज्ञ इति। आतो लोपः। प्रिय इति। प्रीञ् के इयङ्। किर इति। कृधातोः कप्रत्यये इत्त्वे रपरत्वम्।", "31136": "`णप्रत्ययस्यापवादः` इति। `श्याद्व्यध` [[3.1.141]] इत्यादिना प्राप्तस्य। `सुग्लः` इति। `ग्लै म्लै हर्षक्षये` (धातुपाठः-903,904)॥", "31137": "`पा पाने` (धातुपाठः-925), `घ्रा गन्धोपादाने` (धातुपाठः-926), `ष्मा शब्दाग्निसंयोगयोः` (धातुपाठः-927) `ध्ट् पाने` (धातुपाठः-902)- एषामाकारान्तलक्षणे के णे च प्राप्ते शो विधीयते। यद्युपसर्ग इत्यनुवर्तते तदा के; अथ निवृत्तम् - के प्राप्त इत्यनुपसर्गेभ्यो णे। दृशेस्त्विगुपधलक्षणे के। `उत्पिब` इत्यादिषु प्रत्ययस्य शित्त्वात् सार्वधातुकसंज्ञायां `कर्तरि शप्` [[3.1.68]] । प्राघ्रादिना [[7.3.78]] यथायोगं पिबादयः।`संज्ञायां प्रतिषेधः` इति। प्रकृतत्वाच्शप्रत्ययस्य। तस्य प्रतिषेधस्य `व्याघ्रादिभिः` [[2.1.55]] इति वचनं लिङ्गम्॥", "31138": "`अनुपसर्गात्` इति। सुब्व्यत्ययेन बहुवचनस्य स्थान एकवचनम्। `लिम्पः,विन्दः` इत्यादि। `लिप उपदाहे` (धातुपाठः-1433), `विद्लृ लाभे` (धातुपाठः-1432)। सनुम्कयोग्र्रहणमुपदेशावस्थायामेव `नुम्` भवतीति ज्ञापनार्थम्। `धृञ् धारणे` (धातुपाठः-900), हेतुमण्णिजन्तः। `पारयः` इति। `पार तीर कर्मसमाप्तौ` (धातुपाठः-1911,1912) चुरादिः। अथ वा `पृ पालनपूरणयोः` (धातुपाठः-1489) इति हेतुमण्णिजन्तः। `विद {चेतनाख्यान धातुपाठः-पदमंजरी } वेदनाख्याननिवासेषु` (धातुपाठः-1708), चुरादिण्यन्तः। अथ वा - ज्ञानाद्यर्थानां बिदादीनामन्यतमो हेतुमण्ण्यन्तः। `एजृ कम्पने` (धातुपाठः-234), हेतुमण्णिजन्तः। `चिती संज्ञाने` (धातुपाठः-39) चुरादिण्यन्सः। `षह मर्षणे` (धातुपाठः-1809) हेतुमण्ण्यन्तः, चुरादिण्यन्तो वा। `लिम्पः, विन्दः` इति। <<तुदादिभ्यः शः>> [[3.1.77]] , <<शे मुचादीनाम्>> [[7.1.59]] इति नुम्।`प्रलिपः, {नास्ति-काशिका}प्रविदः` इति। इगुपधलक्षमः क एव।`नौ लिम्पेः`इत्यादि। निशब्द उपपदे लिम्पेर्धातोः शप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्वत्रस्थस्य चकारस्यानुक्तसमुच्चयार्थत्वात् कर्तव्यम्। `गवादिषु` इत्यादि। गवादिषूपपदेषु संज्ञायां विषये शो भवति। कर्मण्यणोऽपवादःऋ। स च चकारस्यानुक्तसमुच्चयार्थत्वाल्लभ्यते॥", "31139": "`णस्यापवादः` इति। `श्याद्व्यध` [[3.1.141]] इत्यादिना प्राप्तस्य। कस्य त्वपवादो न भवति; अनुपसर्गादित्यनुवृत्तेः। `ददः,दधः` इति। शे कृते शप्। तस्य जुहोत्यादित्वात् श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, `श्नाभ्यस्तयोरातः` [[6.4.112]] इत्याकारलोपः। `दायः` इति। `आतो युक्` [[7.3.33]] । `प्रदः` इति। <<आतश्चोपसर्गे>> [[3.3.106]] इति कः। ननु च `दद दाने` (धातुपाठः-17), `दध धारणे` (धातुपाठः-8)- इत्येताभ्यमचि कृते ददो दध इति, दा धा - इत्येताभ्यामपि णे कृते दायो धाय इति भविष्यति, तत्किमित्यनेन सूत्रेण? नैतदस्ति; अचि हि सति <<अच्कावशक्तौ>> [[6.2.157]] इत्यन्तोदात्तत्वं स्यात्। शे तु नञ्स्वर एव भवति - अददः, अदध इति॥", "31140": "`ज्वलिति` इति। ज्वल् इति = आदि येषामिति बहुव्रीहि। विभक्तेस्त्वश्रवणम्, `सुपां सुलुक्` [[7.1.39]] इति लुप्तत्वात्। `कसन्तेभ्यः` इति। कसोऽन्ता इति तत्पुरुषः, अन्तशब्द समीपवाची। अथ वा - कसोऽन्त एषामिति बहुव्रीहिः। अन्तशब्दः समीपवाची, मर्यादावाची वा। `ज्वल दीप्तौ` (धातुपाठः-804,831) इति द्विष्पठते - घटादिषु , परस्ताच्च। `तेभ्यः` इति। तत्रासत्यस्मिन् विशेषणे सन्देहः स्यात्केभ्यो ज्वलादिभ्य इति? अतस्तन्निरासार्थं ज्वलादयो विशिष्यन्ते - कसन्ता ये ज्वलादय इति। न घटाद्यन्तर्गणः पर्युदस्तो भवति। कसेः परत्वाद्ये पठन्ते तन्निवृत्त्यर्थं कसग्रहणं न भवति, कसमधीत्य वृदिति पाठात्। ननु च घटादिषु ज्वलादीनां पाठो मित्संज्ञार्थः, तत्र विनापि कसन्तग्रहणं कसन्ता एव ग्रहीष्यन्ते,तदनर्थकमिदं विशेषणम्? नैतदस्ति; असति हि तस्मिन् पूर्वेषां ज्वलादीनामुभयार्थः पाठः स्यात् - मित्त्वार्थः प्रत्ययार्थश्च। इतरेषां तु प्रत्ययार्थ एव। तस्मात् कसग्रहणं कर्तव्यम्। `अचोऽपवादः` इति। ज्वलादीनां पचाज्यन्तः पातित्वात्।`तनोतेर्णस्योपसंख्यानं कर्तव्यम्` इति। णे विधातव्ये तनोतेरपि णस्य प्रतिपादनं कर्तव्यम्। प्रतिपादनं तूत्तरत्र चकारस्यानुक्तसमुच्चयार्थत्वात् कर्तव्यम्॥", "31141": "`श्येङ गतौ` (धातुपाठः-963)। आदित्याकारान्तानां दाधाप्रभृतीनां ग्रहणम्। `व्यध ताडने` (धातुपाठः-1181), `रुआउ गतौ` (धातुपाठः-940) आङ्पूर्वः, पुनः स एव संपूर्वः। `इण् गतौ` (धातुपाठः-1045) अतिपूर्वः,`षोऽन्तकर्मणि` (धातुपाठः-1147) अवपूर्वः। `ह्मञ् हरणे` (धातुपाठः-899) अवपूर्वः। `लिह आस्वादने` (धातुपाठः-1016), `श्लिष आलिङ्गने` (धातुपाठः-1186), `आस प्राणने` (धातुपाठः-1069)। अत्र ये सोपसर्गाः पठितास्तेभ्यः सोपसर्गेभ्य एव भवति; शेषेभ्यस्तु सोपसर्गेभ्यः, अनुपसर्गेभ्यश्च। `अनुपसर्गादिति निवृत्तम्` इति। पुनरुत्तरत्रानुपसर्गग्रहणात्। `बिभाषेति च` इति। निवृत्तमिति सम्बध्यते। विभाषाग्रहणं ह्यनुपसर्गेण सम्बद्धम्। अतस्तन्निवृत्तौ तस्यापि निवृत्तिर्भवति। `बाधकबाधनार्थम्` इति। <<आतश्चोपसर्गे>> [[3.3.106]] इति विशेषविहितत्वात् कः सामान्यविहितस्य णस्य बाधकः,?तस्तद्बाधनार्थम्। अवश्यतेरप्युपादानस्यैतत् प्रयोजनं वेदितव्यम्। अथ वा - उपसर्गनियमार्मथ तस्य ग्रहणम्, अवपूर्वादेव यथा स्यात्। `अवश्यायः` इति। `आतो युक्` [[7.3.33]] ॥", "31142": "`दुन्योः` इति सुब्ब्यत्ययेन पञ्चम्यर्थे षष्ठी। `अनुपसर्गे` इत्यपि पञ्चम्यर्थे सप्तमी। अत एवाह - `दुनोतेर्नयतेश्चानुपसर्गात्` इति। `दावः` इति। `टु दु उपतापे` (धातुपाठः-1256)। `नायः` इति। `णीञ् प्रापणे` (धातुपाठः-901)।`प्रदवः, प्रणयः`इति। पचाद्यच्, `उपसर्गादसमासेऽपि` [[8.4.14]] इति णत्वम्॥", "31143": "`व्यवस्थितविभाषा चेयम्` इति। एतत् `जलचरे` इत्यादिना स्पष्टीकरोति। `भवतेश्चेति वक्तव्यम्` इति। भवतेश्च विभाषा णो भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु विभाषेति योगविभागात् कर्तव्यम्॥", "31144": "`गेहे कर्तरि` इति। एतेन `गेहे` इति प्रत्ययार्थस्य कर्त्तुरुपाधिरयम्, न तूपपदमिति दर्शयति। एतच्चाआपत्यादौ गृहपतिशब्दपाठाद्विज्ञायते। `तात्स्थ्याद्दाराश्च` इति। गेहमिति प्रकृतेन सम्बन्धः। एतेन गौणेऽपि गेहे प्रत्ययो भवतीत्याचष्टे। एतच्च तन्त्रेण गेहशब्दस्य द्वितीयस्योच्चारणाल्लभ्यते। `गृहम्िति। ग्रह्रादिना [[6.1.16]] सम्प्रसारणम्॥", "31145": "`शिल्पिनि कर्तरि` इति। पूर्ववदुपाधित्वं दर्शयन्नुपपदत्वमपाकरोति। एतच्च रजकस्य वस्त्रं ददातीति भाष्यकारप्रयोगाल्लभ्यते।`नृतिखनिरञ्जिभ्यः परिगणनम्` इति। एतच्च विभाषेत्यनुवृत्तेव्र्यवस्थितविभाषात्वाल्लभ्यते। `रञ्जेरनुनासिकलोपश्च` इति। एषोऽपि तत एव भाष्यकारप्रयोगाल्लभ्यते। किञ्च `जनीजृष्क्नसुरञ्जोऽमन्ताश्च` (धातुपाठः-819 तः पश्चात्) इति यद् रञ्जेर्मित्त्वं शास्ति, तज्ज्ञापयति - अक्ङित्यपि रञ्जेरनुनासिकलोपो भवतीति। मित्त्वस्य ह्रेतदेव प्रयोजनम्- `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वत्वं यथा स्यात्, न चासत्यस्मिन्ननुसाकिलोपे वृद्धिरस्ति। न चासत्यां वृद्धौ ह्रस्वभाविन्युपधा भवति। तेन णौ रञ्जेर्यथानुनासिकलोपो भवति, तथा ष्वुनि च। परिगणनात् ह्वाता, ह्वायक इत्यत्र न भवति। ष्वुनो नित्करणमाद्युदात्तार्थम्, षकारो ङीषर्थः॥", "31146": "`गः` इति। <<आतो धातोः>> [[6.4.140]] इत्याकारलोपं कृत्वा `गै शब्दे` (धातुपाठः-917) इत्यस्यायं निर्देशः। अत एवाह - `गायतेः`इति। ननु च `गामादाग्रहणेष्वविशेषणः` (व्या।प।124) इति `गाङ् गतौ` (धातुपाठः-950) इत्यास्यपि ग्रहणेन भवितव्यम्? नैतत्; यस्माद् गाथक इति थकन्प्रत्ययान्तेन गायत्यर्थविशेष एव शिल्पिनि कर्त्तृत्वं विज्ञायते; न तु गाङर्थविषये। थकनो नकार आद्युदात्तार्थः॥", "31147": "`गायनः` इति। <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्। `गायनी`। टित्त्वान्ङीप्। `योगविभाग उत्तरार्थः` इति। उत्तरत्र चकारेण ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति। `गो ण्युट्थकनौ` इत्येकयोगे थकन्नप्यनुकृष्येत॥", "31148": "`जहातेः` इति। ओहाक् त्यागे` (धातुपाठः-1090)। `जिहातेश्च` इति। `ओहाङ गतौ` (धातुपाठः-1089)। अस्यात्र ग्रहणमिष्यते। तयोः सामान्यग्रहणार्थ एव ककारो जहातेर्निर्दिश्यते। असति हि तस्मिन् यदीदमेकानुबन्धग्रहणम्, तदुपादाने द्वयनुबन्धकस्य जिहातेर्न स्यात्। अथ द्वयनुबन्धकस्य जहातेर्न स्यात्। ककारे तु सति द्वयोरपि सानुबन्धकत्वात् सामान्येन ग्रहणमुपपद्यते। `व्रीहौ काले च कर्तरि` इति। एतेन व्रीहिकालयोः प्रत्यार्थविशेषणं दर्शयति। उपपदत्वं तु निरस्यति। एतच्च <<दामहायनान्ताच्च>> [[4.1.27]] इति निर्देशाद्विज्ञायते। `हायनाः` इति। <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्। `जहत्युदकमिति कृत्वा` इति। व्रीहिषु हायनशब्दस्य प्रवृत्तिनिमित्तं दर्शयति। `जिहीते भावान्` इति। `जिहीते भावान्` इति। एतेनापि संवत्सरे॥", "31149": "`प्रसृल्वः` इति समभिहारं कृत्वा निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे न कृतः, अनित्यत्वादागमशासनस्य। समभिहारे वुन् इति। अन्यत्र समभिहारशब्दस्य पौनःपुन्यादिकमर्थ इति, इहापि स एवार्थ इति कस्यचित् भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - समभिहारग्रहणेन इत्यादि। लक्ष्यते प्रदर्श्यते इत्यर्थः। एतच्चानेकार्थत्वाद्धातूनां लभ्यते । शिल्पिनीत्यनुवृत्तेरित्यपरे । शिल्पी = साधुकारी । `साधुकारिणि वुन्विधानम्` साधुकारित्वोपलक्षणस्य फलं दर्शयति। `सकृदपि` इत्यादि। अनन्तरस्यैव स्पष्टीकरणम्॥", "31150": "`आशिषि गम्यमानायाम्` इति। न वाच्यायाम्। `कर्तरि कृत्` [[3.4.67]] इति कर्त्तुरेव प्रत्ययान्तवाच्यत्वात्। `धातुमात्रात्` इति। धातुसामान्यविवक्षितत्वात्, प्रुसृल्वाञ्च निवर्तितत्वात्। अन्यस्य चेह धातुविशेषस्यानाश्रयणात्। धातुमात्राश्रयो भवति, न तु कुतश्चिदेव विशेषात्। `जीवतात्, नन्दतात्` इति। आशिषि लोट्प्रयोगेण जीवकनन्दयोस्तत्समानार्थतां दर्शयति। का पुनरियमाशीर्नामेत्याह - `आशीः प्रार्थनाविशेषः` इति। अप्राप्तस्याभीष्टस्य वस्तुनः प्रार्थना = आशीः। `सा चेह क्रियाविषया`इति। क्रिया विषयोऽस्या इति बहुव्रीहिः। एष चार्थो धातुग्रहणात्, धातोश्च क्रियावाचित्वाद्विज्ञायते। `अमुष्याः क्रियायाः` इति। जीवनक्रियाया नन्दनक्रियायाश्च कर्ता भवेदित्येवमाशास्यते - जीवनं नन्दनञ्च ते भूयादिति॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्यप्रथमः पादः", "32001": "`कर्मणि` इति नेदं स्वरूपग्रहणम्; `अशब्दसंज्ञा` [[1.1.67]] इति प्रतिषेधात्। यदि च कर्मप्रदेशेषु स्वरूपमेव गृह्रते,तदा संज्ञाविधानमनर्थकं स्यात्; नापि क्रियाग्रहणम्, तस्य हि ग्रहणे `कर्त्रभिप्राये` [[1.3.72]] इति निर्देशो नोपपद्यते, क्रियाकर्मणो हि ग्रहणे क्रियावाच्युपपदे प्रत्ययेन भवितव्यम्, न चेह क्रियावाच्युपपदमस्ति तस्मात् `कर्त्तुरीप्सिततमं कर्म` [[1.4.49]] इति कर्म गृह्रते। तस्य प्रभेदं दर्शयितुमाह - `त्रिविधम्` इत्यादि। तत्र निर्वर्त्त्यं यदसदेवोत्पद्यते, तथा - कुम्भं करोति,नगरं करोतीति। कुम्भादिकं ह्रविद्यमानमेवोत्पद्यत इति निर्वर्त्त्यं कर्म। विकार्यम् - यस्य सत एव कश्चिदद्विकारो विधीयते, तद्यथा - काण्डं लुनाति, नगरं लुनातीति। सत एव काण्डादेर्लवनेन विकारो विधीयत इति विकार्यं कर्म। प्राप्यम् - नासत एवोत्पादनं क्रियते, नापि सत एव विकाराधानम्, केवलं क्रियासम्बन्धमात्रं प्रतीयते, तद्यथा - वेदमधीते, चर्च्चां परयतीति। अत्रह्रव्ययनादिना वेदादेः सम्बन्धमात्रं प्रतीयते, न त्वसत एवोत्पादनम्। नापि सत एवान्यथालक्षणो विकार इति प्राप्यमेतत् कर्म। `सर्वत्र` इत्यादि। त्रप्रकारे विशेषानुपादानात्। `कर्मण्युपपदे` इति नाभिदाने कुतो मा भूत्? `कर्तरि कृत्` [[3.4.67]] इत्यस्य बाधा इति। `शीलिकामि` इत्यादि। `{शील उपधारणे इति धातुपाठः- चुरादौ पठते; `शील समाधौ` इति च धातुपाठः-भ्वादौ पठते} शील समाधौ` (धातुपाठः-1878) चुरादिण्र्यन्तः। `कमु कान्तौ` (धातुपाठः-443) कमिर्णिङन्तः। `भक्ष अदने` (धातुपाठः-1557), चुरादिण्र्यन्तः। `चर गत्यर्थः` (धातुपाठः-559) आङ्पूर्वः। इकारोऽस्य धातुनिर्देशार्थः। एभ्योऽणि प्राप्ते णो वक्तव्यः = व्याख्येयः। तत्रेदं व्याख्यानम् - <<ज्वलितिकसन्तेभ्यो णः>> [[3.1.140]] इत्यतो मण्डूकप्लुतिन्यायेन णोऽनुवर्तते, <<विभाषा ग्रहः>> [[3.1.143]] इत्यतश्च विभाषाग्रहणम्, द्वावपीह कर्मण्युपपदे णाणौ विधीयते। अत्र विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्छीलीत्यादिभ्यो ण एव भविष्यतीति, परिशिष्टेभ्यस्त्वणेवेति। एतयोस्तु स्त्रियां विशेषः - अणि हि ङिब् भवति, णे तु टाप्। णकारः <<अचो ञ्णिति>> [[7.2.115]] वृद्ध्यर्थः। `पूर्वपदप्रकृतिस्वरत्वञ्च` इति।`गतिकारकोपपदानां कृत्` [[6.2.139]] इत्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते पूर्वपदप्रकृतिस्वरत्वञ्च वक्तव्यम् = व्याख्येयम्। तत्रेदं व्याख्यान म् - `{तत्पुरुषे तुल्यादौ` मु।पाठः} तुल्यार्थ` [[6.2.2]] सूत्रे `तत्पुरुषे`इति योगविभागः कर्तव्यः तेन मांसशीलादिभ्यः पूर्वपदप्रकृतिस्वरत्वञ्च भविष्यतीति। मांसशब्दोऽन्तोदात्तः - `वृतृवदिहनिकमि{कषियुमुचिभ्यः द।उ।} कषिभ्यः सः` (द।उ।9।21) इत्यनुवर्तमाने `मनेर्दीर्घश्च` (द।उ।9।23) इति सप्रत्ययान्तत्वात्प्रत्ययस्वरेण। कल्याणशब्दो मध्योदात्तः-`लघावन्ते द्वयोश्च बह्वषो गुरुः` (फिट्। 2।42) इत्यनेन। अस्यायमर्थः - अन्ते लघौ परतौ द्वयोश्चान्तयोर्लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवति। `बह्वष्` इति बह्वजित्यर्थः। ननु च शील्यादिभ्यः कर्मणि घञं कृत्वा तदन्तेन बहुव्रीहौ कृते सिध्यत्वेव मांसशीलादि, तत्क णविधानेन? नैतदस्ति; बहुव्रीहौ सति बहुभक्षा इत्यत्र <<बहोर्नञ्वदुत्तरपदभूम्नि>> [[6.2.175]] इत्युत्तरपदान्तोदात्तत्वं स्यात्। अवश्यञ्चाण्बाधनार्थो णो वक्तव्यः, अन्यथा हि यदा `मांसं कामयते` इतीदं वाक्यं भवति तदाऽणपि स्यात्।`ईक्षिक्षमिभ्याश्च`इति। `ईक्ष दर्शने` (धातुपाठः-610), `{क्षमू-धातुपाठः-}क्षमु सहने` (धातुपाठः-1206)- आभ्यां णो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्ववदेव कर्तव्यम्॥", "32002": "`ह्वेञ् स्पद्र्धायाम्`। `वेञ् तन्तुसन्ताने` इति। अथ `वा गतिगन्धनयोः` (धातुपाठः-1050) इत्यस्य ग्रहणं कस्मान्न भवति? अकर्मकत्वात्। कर्मणि चेहानुवर्तते। `माङ माने` इति। ङकारानुबन्धवतो मा इत्यस्योपलक्षणार्थमेतत्। `मेङ प्रणिदाने` (धातुपाठः-961) इत्यस्यापि ग्रहणमिष्यते; `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति वचनात्। ननु यदि गामादाग्रहणेष्वविशेषस्तदा `मीञ् हिंसायाम्` (धातुपाठः-1476), `डुमिञ् प्रक्षेपणे`(धातुपाठः-1250) इति तयोरप्येज्विषय आत्त्वे कृते मेत्येतद्रूपं सम्पद्यते? भवत्येवाभ्यामणेवेति पूर्वसूत्रेण प्राप्तस्य। `स्वर्गह्वायः` इति। <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्॥", "32003": "`अनुपसर्गे` इति। व्यत्ययेन पञ्चमीप्रसङ्गेऽपि सप्तमी। धातुविशेषणञ्चैतत्। अत एवाह - `आकारान्तेभ्योऽनुपसर्गेभ्यः`इति च। `गोदः` इति। पूर्ववलदाकारलोपः। `पाष्णम्` इति। `त्रैङ पालने` (धातुपाठः-965)॥", "32004": "सुपीति ग्रहणात् कर्मणीति न सम्बध्यते, तिष्ठतेरकर्मकत्वाच्च। `समस्थः` इत्यादौ सप्तम्यन्त उपपदे `अत्र` इत्यादि। सुपीत्येको योगः, तत्र चात इत्यनुवर्तते। `सुपीत्यादिना` अस्य योगस्यार्थमाचष्टे। `ततः स्थ इत` इति। द्वितीयो योग इति। `स्थश्च सुपि` इति विवरणम्।`किम्ित्यादि। पूर्वेण सिद्धमिति मन्यमानस्य प्रश्नः। `भावेऽपि यथा स्यात्` इति। आरम्भसामर्थ्यात् कर्तरि तावन्न भविष्यति। न चार्थान्तरं निर्द्दिश्यते, तत्र `अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (पु।प।पा।90) इति भाव एव स्यात्। स एव हि धातूनां स्वार्थः। `{आखूत्थः-काशिका} आखूत्थम्` इति। <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति पूर्वसवर्णः॥", "32005": "`परिमृजापनुदोः` इति। सुब्व्यत्येन पञ्चम्यर्थे षष्ठी। `मृजू शुद्धौ` (धातुपाठः-1066) पूरिपूर्वः। `नुद प्रेरणे` (धातुपाठः-1426) अपपूर्वः। `आलस्य` इत्यादि। प्रत्ययार्थोपाधिरयम्। अलस एवालस्यम्। चातुर्वण्र्यादित्वात् स्वार्थे ष्यञ्। आहरतीत्याहरणः। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्तरि ल्युट्। सुखस्याहरणः सुखाहरणः। आलस्यकर्तरि सुखस्याहरणेऽनेन को भवति, नान्यत्रेत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - अत्रापि पूर्ववद्वविभाषागर्हणमनुवर्तते, सा च व्यवस्थितविभाषा। तेनालस्यसुखाहरणयोरेव कर्त्तोः को भवति, नान्यत्रेति। `तुन्दपरिमार्ज एवान्यः` इति। अनालस्ये त्वण् भवति। <<मृजेर्वृद्धिः>> [[7.2.114]] । `शोकापनोदः` इति। यः प्रतिपक्षोपदेशेन शोकं केवलमपनुदति, न तु सुखमुत्पादयति। अत्राणेव तु भवति।`कप्रकरणे` इत्यादि। मूलविभुजादिब्यस्तदर्थे चतुर्थी। आदिशब्दः प्रकारवचनः। मूलविभुजाद्यर्थ मूलविभुजादयः साधवो यथा स्युरित्येवमर्थ कप्रत्ययस्योपादानं प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - <<ह्वावामश्च>> [[3.2.2]] इत्यतः <<आतोऽनुपसर्गे कः>> [[3.2.3]] इत्यत्र चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन मूलविभुजादिभ्यः कप्रत्ययो भविष्यतीति। मूलं विभुजति। `{भुजो-धातुपाठः-} भुज कौटिल्ये` (धातुपाठः-1417)। नखानि मुञ्चन्तीति नखमुचानि। `मुच्लृ मोक्षणे` (धातुपाठः-1430)। `\tकाकगृहास्तिलाः` इति। `गुहू संवरणे` (धातुपाठः-896)। काकेभ्यो गूहितव्याः।तव्यदाद्यपवादः। कर्मणि कः। `कौ मोदते कुमुदम्` इति। तृजाद्यपवादः॥", "32006": "`सोपसर्गार्थं आरम्भः` इति। अनुपसर्गात् <<आतोऽनुपसर्गे कः>> [[3.2.3]] इत्येवं सिद्धत्वात्। `ददातेः` इति। दारूपाणां धातूनामुपलक्षणमेतत्। अन्येषामपि दारूपाणां ग्रहणमिष्यमे; `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति वचनात्। `प्रेणोपसृष्टात्` इति। प्रेणोपसर्गेण सम्बद्धादित्यर्थः। सूत्रे `प्रे` इति सुब्व्यत्ययेन तृतीयार्थे सप्तमी वेदितव्या। `पथिप्रज्ञः` इति। पन्थानं प्रजानातीत्यर्थः॥", "32007": "`गां सञ्चष्टे` इति। वाक्यविशेषेण `चक्षिङः ख्याञ्` [[2.4.54]] इति ख्याञादेशस्य ग्रहणम्, न `ख्या प्रकथने` (धातुपाठः-1060) इत्येतस्येति दर्शयति। एतच्च संपूर्वस्य ख्यातेः प्रयोगासम्भवाल्लभ्यते॥", "32008": "`लुग्विकरणालुग्विकरणयोर्लुक्विकरणस्यैव ग्रहणम्` (व्या।प।50) इति `पा` इति पानार्थस्य ग्रहणमम्, रक्षणार्थस्य न। यद्यपि `गामादाग्रहणेष्वविशेषः` (व्या।प।124) उच्यते, तथापि पिबतिना साहचर्यात् `गा` इत्यस्यालुग्विकरणस्य ग्रहणम्, न गत्यर्थस्येत्याह - `गायतेः, पिबतेश्च` इति। टकः कित्करणमातो लोपार्थम्। टित्करणं ङीबर्थम्; न तु <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्येवमर्थम्। कुत एतत्? आद्यन्तयोरवयवत्वात्। न च प्रत्ययोऽवयवो युज्यते, `परश्च` [[3.1.2]] इति वचनात्। ननु च गापोरिति षष्ठी टकोऽवयवत्वञ्च बोधयिष्यते? नैतदस्ति; पञ्चम्यर्थे त्वेषा षष्ठी, कर्त्तृविशेषणार्था वा - गापोः कर्तरीति। युक्तञ्चैतत्, एवं हि प्रत्ययपरत्वं बाधितं न भवति। किञ्चादित्वे हि टकः कित्करणमनर्थकं स्यात्।पिबतेरूपपदान्तस्य निवृत्त्यर्थमाह - `सुराशीध्वोः` इत्यादि। तत्र पिबतेरिह ग्रहणम्, न पातेरित्येतत् प्रागेव व्यवस्थापितम्। इह `विभाषा` [[3.1.143]] इत्यनुवर्तते, सा तु व्यवस्थितविभाषा; तेन सुराशीध्वोरुपपदयोर्भविष्यति, नान्यत्र। `क्षीरपा` इति। स्त्रीलिङ्गोदाहरणं स्त्रियां विशेष इति प्रदर्शनार्थम्।`बहुलम्` इत्यादि। पिबतेश्छन्दसि बहुलं टग्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु - तस्यैव विभाषाग्रहणानुवृत्तस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। तस्य तु फलं सुरापेति पक्षे कप्रत्ययो भवति॥", "32009": "`उद्यमनमुत्क्षेपणम्` इति। अधः स्थितस्य व्सतुन ऊध्र्वं नयनमित्यर्थः। `अंशहरः` इति। अंशं स्वीकरोतीत्यर्थः, न तूत्क्षेपयति।`अच्प्रकरणे` इत्यादि। `प्रातिपदिकग्रहणे {लिङ्गिविशिष्टस्य` इति मुद्रितः पाठः।} लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति घटग्रहणेनैव घटीग्रहणे सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्। तस्य तु प्रयोजनम् - `दित्यदित्यादित्यपत्त्युत्तरपदाण्ण्यः` [[4.1.85]] इत्यत्र वक्ष्यते। उपसंख्यानशब्दस्य प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन शक्त्यादिषूपपदेषु ग्रहेरज्भविष्यति।`सूत्रे च` इत्यादि। धारेरर्थो धाय्र्यर्थः। तत्र वर्तमानाद्ग्रहेः सूत्रे चोपपदेऽच उपसंख्यानं प्रतिपादनं कर्तव्यम्। प्रतिपादनं तावत्तदेव। `सूत्रग्राह एवान्यः` इति। यः सूत्रं केवलमुपादत्ते न धारयति, तत्राणेव भवति॥", "32010": "`उद्यमनार्थोऽयमारम्भः` इति। अनुद्यमने पूर्वेणैव सिद्धत्वात्। `अस्थिहरः`इति। अस्थ्युत्क्षेपणसमर्थे वयसि वर्तत इत्यर्थः॥", "32011": "अनुद्यमनमिति निवृत्तम्। तेनाविशेषाल्लभ्यते - उद्यमने चायं विधिरिति। ननु चानुद्यमने पूर्वेणैव सिद्धम्, परत्वाद्धि तृन् प्राप्नोति, वासरूपविधानादजपि भवति? नैतदस्ति; वक्ष्यति ह्रेतत् - ताच्छीलिकेषु वासरूपेण तृजादयो न भवन्तीति। `ताच्छील्यं तत्स्वभावता` इति। तत् पुनर्मानसो धर्मः। फलनिरपेक्षया प्रवृत्तिरनुमीयते। `पुष्पाहरः`इत्यादिना ताच्छील्यमुदाहरति॥", "32012": "`{स्त्रीलिङ्गे इति मूलपाठः} स्त्रियां विशेषः` इति। अणि हि सति ङीब्भवति, अचि तु सति टाप्॥", "32013": "`जपेः शब्दकर्मकत्वात्` इति गायत्रीं जपति;अनुवाकं जपतीत्यत्र शब्दकर्मकस्यैव प्रयोगदर्शनात्। `कर्मं न सम्भवति` इति। कर्णस्याशब्दात्मकत्वादित्यभिप्रायः।इतिकरणो हेतौ। यत एव कर्णशब्दः कर्म न सम्भवति तेन सुपीत्येतदिह सम्बध्यते,न कर्मणीति।`हस्तिसूचकयोः` इत्यादि। हस्तिसूचकग्रहणं प्रत्ययार्थस्यैव कर्त्तुर्विशेषणम्। `स्तम्बकर्णयो रमिजपोः` इति योऽयमज्विधिः स हस्तिसूचकयोः कत्र्रोर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु - तस्यैव विभाषाग्रहणानुवृत्तस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। `स्तम्बेरमः कर्णेजपः` इति। <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति सप्तम्या अलुक्। `सूचकः`इति। पिशुनक इत्यर्थः॥", "32014": "`धातुमात्रात्` इति। धातुमात्रग्रहणेनापवादविषयेऽपि विधानं दर्शयति। एवं हि धातुमात्राद्भवति, यद्यप्यपवादं बाधित्वा तद्विषयेऽपि भवति। एष चार्थो धातुग्रहणाल्लभ्यते। `शमि संज्ञायाम्` इत्यादिना धातुग्रहणस्य प्रयोजनं दर्शयनम्, धातुप्रतिपादितमर्थं स्पष्टीकरोति - `शमि संज्ञायाम्` इति। सूत्रोपलक्षणमेतत्। `शमि धातोः संज्ञायाम्` इत्यस्मिन् सूत्र इत्यर्थः। `हेत्वादिषु` इति। आदिशब्देन ताच्छील्यानुलोम्ययोग्र्रहमम्। शम्युपपदे करोतेः संज्ञायां हेत्वादिषु विवक्षितेषु <<कृञो हेतुताच्छील्यानुलोम्येषु>> [[3.2.20]] इति टः प्राप्नोति, अतस्तद्वाधनार्थं धातुग्रहणम्। शमि धातोरित्य्सयावकाशः करोतेरन्यो धातुः शम्युपपदः सम्भवति - शंवद इति, `कृञो हेतुताच्छील्यानुलोम्ये` [[3.2.20]] इत्यस्यावकाशः करोतिः शब्दान्तरोपपदः - श्राद्धं करोतीति श्राद्धकर इति; करोतेः शम्युपपदे संज्ञायायमुभयमेव प्राप्नोति - शङ्करा नाम शकुनिकेति। सा हि तच्छीला, तत्संज्ञा च, तत्र परत्वाट्टः प्राप्नोति, पुनर्धातुग्रहणाद्धातु मात्राद्विधीयमानं टं बाधित्वाऽजेव भवति॥", "32015": "`सुपीति सम्बध्यते` इति।शेतेरकर्मकत्वात्। अधिकरणस्य चाकर्मकत्वे सम्भवति सुपीतीह सम्बध्यते, न कर्मणीति।`पार्(ाआदिषूपसंख्यानम्` इति। आरम्भोऽयमनधिकरणार्थः। पार्(ाआभ्यामिति तृतीयान्तमुपपदं दर्शयति। उरःशः, पृष्ठशय इत्यत्रापि तृतीयान्तमेवोपपदं वेदितव्यम्।`दिग्धसहशयः` इति। दिग्धेन सह शेत इति `तृतीया` [[2.1.29]] इति योगविभागेन समासः। दिग्धस्य सहेन प्राक् प्रत्ययोत्पत्तेः पश्चादुपपदसमासः।`गिरौ` इत्यादि। गिरावुपपदे शेतेश्छन्दसि विषये डो भवति। `गिरिशः`इति। डित्त्वाट्टिलोपः। एतत् सर्वं <<व्यत्ययो बहुलम्>> [[3.1.85]] इति बहुलवचनात् सिद्धम्॥बाल-मनोरमाअधिकरणे शेतेः 744, 3.2.15 अधिकरणे। सुबन्तेऽधिकरणवाचिन्युपपदे शीङ्धातोरच् स्यादित्यर्थः। पार्(ाआदिष्विति। अत्राऽधिकरणवाचनिनीति न संबध्यते। तद्ध्वनयन्नुदाहरति - पार्(ाआभ्यामिति। उत्तानादिषु कर्तृष्विति। वार्तिकमिदम्। उत्तानादिशब्देषु कर्तृवाचिषूपपदेषु शीङोऽजित्यर्थः। गिराविति। वार्तिकमिदम्। गिरावुपपदे शीङो दभस्यापि टेर्लोपः। यद्यपि वैदिकप्रक्रियायामेवेदं व्याख्येयम्, तथापि लोके डप्रत्ययस्य न प्रवृत्तिः कि त्वजेवेति प्रदर्शनार्थमिह तद्व्याख्यानमित्यभिप्रेत्य लोके अच्प्रत्ययमुदाहरति - गिरिशय इति। कथमिति। लोके डप्रत्ययाऽसंभवादिति भावः। समाधत्ते - गिरिरस्यास्तीत्यादि। बाल-मनोरमाहरतेर्दृतिनाथयोः पशौ 752, 3.2.15 हरतेर्दृतिनाथयोः। दृतिः चर्मभस्त्रिका। दृतिहरिः आआ इति वृत्तिः। `नाथ` शब्दस्य विवरणम् - नासारज्जुमिति। नासिकाप्रोतरज्जुमित्यर्थः। नाथहरिरिति। नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम्।", "32016": "`प्रत्ययान्तरकरणं ङीबर्थम्` इति। टित्त्वान्ङीब्भवति॥", "32017": "`अनधिकरणार्थ आरम्भः` इति। अधिकरणे पूर्वेणैव सिद्धम्। भिक्षाञ्चरतीति `भिक्षाचरः` सेनाञ्चरतीति `सेनाचरः`। `आदाय` इति ल्यबन्तमेतत्। आदाय चरतीति `आदायचरः` अत्रादातव्यकर्मणोऽविवक्षितत्त्वात् पूर्वाकालमात्रे विवक्षिते प्रत्ययः। आदानं कृत्वा चरतीति यावत्। तेन सापेक्षत्वादसामर्थ्ये सति प्रत्ययो न सिध्यतीत्येतदचोद्यम्। अथापि कर्मापेक्षते? एवमपि न दोषः; वचनसामर्थ्यादसामर्थ्येऽपि प्रत्ययो भवति॥", "32018": "पुरःशब्दः `पूर्वाधरावराणामसि पुरधवश्चैषाम्` [[5.3.39]] इत्यसिप्रत्ययान्तो व्युत्पादितः। अग्रतःशब्दोऽपि `तसिप्रकरण आद्यादिभ्य उपसंख्यानम्` (वा।634) इति तसिप्रत्ययान्तः। `अग्रे` इति। अग्रशब्दस्यैकारान्तत्वं निपात्यते - अग्रेसर इत्येतद्रूपं यथा स्यात्। ननु च सप्तम्या अलुकाप्येतत् सिध्यति? सत्यम्; यदा सिध्यति तदा सप्तम्यन्त उपपदे प्रत्ययः। यदाग्रः सरतीति, अग्रेण वा सरतीत्यसप्तम्यन्तस्तदा न सिध्यति; तदर्थमेकारान्तत्वं निपात्यते॥", "32019": "`पूर्वशब्दे कर्त्तृवाचिन्युपपदे प्रत्ययः` इति। एतेन कर्तरीत्यनेनोपपदं विशिष्यते, न कर्ता। प्रत्ययार्थो निर्दिश्यत इति दर्शयति; तस्य `कर्तरि कृत्` [[3.4.67]] इत्यनेनैव निर्देशात्। अयुक्तत्वादिह निर्देशस्येत्यभिप्रायः। ननु च पूर्वः सरतीत्यत्रासामर्थ्यमस्ति, तथा हि - पूर्वशब्दोऽयं व्यवस्थावचनः, अवयववाची वा। तत्र पूर्वस्मिन् कल्पेऽवधिरपेक्षणीय - अस्मादयं पूर्व इति। इतरस्मस्त्ववयवी पदार्थः, यथा - पूर्व कायस्येति, उभयोरपि सापेक्षितत्वात्, असामर्थ्ये सति प्रत्ययानुत्पत्तिः? नैष दोषः; पूर्वशब्दः सम्बन्धिशब्दः। सापेक्षेऽपि वृत्तिर्ननु भवत्येव, यथा - देवदत्तस्य गुरुकुलमिति॥", "32020": "हेत्वादय एते, नोपपदानि। यदि ह्रुपपदानि स्युः, <<शमि धातोः संज्ञायाम्>> [[3.2.14]] इत्यत्र धातुग्रहणमनर्थकं स्यात्। तद्धि कृञो हेत्वादिषु टप्रतिषेधार्थं कृतम्। यद्येषामुपपदत्वं स्याट्टप्रत्ययस्य प्राप्तिरेव नास्तीति धातुग्रहणमनर्थकं स्यात्।अतो नैवामुपपदत्वम्, नापि प्रत्ययार्थत्वम्; `कर्तरि कृत्` [[3.4.67]] इति कर्त्तुः प्रत्ययार्थत्वात्। न च तैर्बाधा युक्ता, विरोधाभावात्। तस्मात् प्रत्ययार्थविशेषमत्वमेषां युक्तम्। तत्र कर्तरि प्रत्ययो भवति यस्मिन्नभिधीयमाने तद्विशेषो हेत्वादयो गम्यन्ते। अत एवाह - `हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने` इति। `हेतुरैकान्तिकं कारणम्` इति। एतेन लौकिकहेतोग्र्रहणम्, न पारिभाषिकस्येति दर्शयति। पारिभाषिको हेतुः स्वतन्त्रस्य कर्त्तुः प्रयोजकः, यदि तस्येह ग्रहणं स्यात कृञ इति नोपपद्यते; न ह्रण्यन्तात् प्रयोजककर्तरि प्रयोजक इत्पद्यते, अपि तु ण्यन्तादन्तर्भावितण्यर्थात् प्रत्यय उत्पद्यत इति चेत्? नैतदस्ति; टप्रत्ययान्तण्ण्यर्थस्याप्रतीतेः। ननु च लौकिकस्य हेतोग्र्रहणे सति निमित्ततया कर्ता विशिष्यते, तच्चायुक्तम्; न हि कर्त्तुरनिमित्वमस्ति यद्विशेषणेन व्यावर्त्त्येत? नैष दोषः सिद्धे कर्त्तुर्हि निमित्तत्वे पुनर्हेतुशब्द उपादीयमान ऐकान्तिकत्वं बोधयतीति - यः कर्ता यस्याः ऐकान्तिको हेतुरिति। अत एवोक्तम् - `हेतुरैकान्तिकं कारणम्` इति। आनुलोम्यम् = अनुकूलयामीत्याराध्यचित्तानुप्रवर्तनम्। `यशस्करी`इति। `अतः कृकमिकंस` [[8.3.46]] इत्यादिना विसर्जनीयस्य सत्वम्॥बाल-मनोरमाकृञो हेतुताच्छील्यानुलोम्येषु 748, 3.2.20 कृञो हेतु। हेतुः - कारणम्। आनुलोम्यम् - आराध्यचित्तानुवर्तनम्। द्योत्येष्विति। कर्तुरेव प्रत्ययवाच्यत्वादिति भावः। हेत्वादिषूपपदेष्विति तु नार्थः, व्याख्यानात्। कर्मण्युपपदे इत्यपि द्रष्टव्यम्। `कुप्वो`रिति जिह्वामूलीयमाशङ्क्याह - अत- कृकमीति। हेतावुदाहरति - यशस्करी विद्येति। विद्या यशोहेतुः। श्राद्धकर इति। श्राद्धक्रियाशील इत्यर्थः। वनकर इति। गुर्वादिवचनानुवर्तीत्यर्थः। बाल-मनोरमानाडीमुष्ट�ओश्च 758, 3.2.20 नाडीमुष्टओश्च। यथासङ्ख्यं नेष्यते इति। इदं तु भाष्ये स्पष्टम्। घटीखारीत्यादि स्पष्टम्।", "32021": "`यथायोगम्` इति। दिवाशब्दस्य सुपीति सम्बन्धः, तस्याधिकरणस्य प्रधानत्वात् कर्मत्वानुपपत्तेः। शेषाणां तु सत्त्वप्रधानत्वात् करोतिसम्बन्धे कर्म चोपपद्यत इति कर्मणीत्यनेन सम्बन्धः। `अहेत्वाद्यर्थ आरम्भः` इति। हेत्वादिषु पूर्वेणैव सिद्धत्वात्। `भास्करः` इति। कथं पुनरत्र सकारः, यावता सकारस्य रुत्वविसर्जनीययोः `कुप्वो क पौ च` [[8.3.37]] इति विसर्जनीयजिह्वामूलीययोरन्यतरेण भवितव्यमित्याह - `सकारस्य निपातनात्` इत्यादि। भास्करान्तेति यत्सकारस्योच्चारणं तदेव निपातनम्। `बहुकरः` इति। बहुशब्दो वैपुल्यवाची। `अहस्करः` इति। अहन्नित्यस्य <<रोऽसुपि>> [[8.2.69]] इति नकारस्य रेफः, तस्य विसर्जनीयः। तस्य `अतः कृकमि` [[8.3.46]] इत्यादिना सत्वम्। `धनुष्करः, अरुष्करः` इति। <<इसुसोः सामर्थ्ये>> [[8.3.44]] , <<नित्यं समासेऽनुत्तरपदस्थस्य>> [[8.3.45]] इति षत्वम्। अथानन्तग्रहणं किमर्थम्, अन्तग्रहणादेवानन्तशब्देऽपि तदन्तविधिना भविष्यति? नैतदस्ति; सर्वस्मिन्नुपपदविधौ न हि तदन्तविधिरिष्यते। तथा हि `{ वार्तिककारः} पदकारः पठति - `उपपदविधौ भयाढआदिग्रहणं तदन्तविधिं प्रयोजयति` (1.1.73 वा।9) इति। एवं तर्हि नानतकरोऽनन्तकर इत्यन्तशब्देनापि नञ्समासो भविष्यति? नैवं शङ्क्यम्;स्वरे दोषः स्यात्। सति शिष्टे हि `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना प्रकृतिस्वरे हि नञ्स्वरः प्रसज्येत। तथा चानन्तकरशब्द आद्युदात्तः, `निपाता आद्युदात्ताः` (फि।सू।4।80) इति नञ उदात्तत्वात्िष्यते च `{ गतिकारककोपपदात् कृत् इति सूत्रम्} गतिकारकोपपदानां कृत्` [[6.2.138]] इत्युत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम्। तस्मादनन्तग्रहणं कर्तव्यम्।`किंयत्तद्बहुष्वज्विधानम्` इत्यादि। किमित्यादिषूपपदेष्वज्विधानं कर्तव्यम्, तत्कथमिह टोऽप्यनुवर्तते? माण्डूकल्पुतिन्यायेनाजपि, विभाषाग्रहणमपि। तद्वयवस्थितविभाषाविज्ञानात् किंयत्तद्बहुषु कृञोऽजेव भवति, शेषेषु दिवादिषु ट एव। अहेत्वाद्यर्थत्वाच्चारम्भस्य यदा हेत्वादयो विशेषा न विवक्ष्यन्तेतदा किंयत्तद्बहुषु कृञोऽज्विधानम्, तेषु विवक्षितेषु पूर्वसूत्रेण ट एव भवति। तथायं प्रयोग उपपन्नो भवति - जातिरियं किंकरीति। किंकरणशीला किंकरी, न किञ्चिदपि करोति। निष्प्रयोजननेति यावत्॥", "32022": "`कर्मणीति स्वरूपग्रहणम्` इति। कुत एतत्? कर्मग्रहणसमाथ्र्यात्। यदि पारिभाषिकस्य कर्मणो ग्रहणमिह स्यात् कर्मग्रहणमनर्थकं स्यात्; कर्माधिकारात्। करोतेश्च सकर्मंकत्वात् तेनैव सम्बद्धो भविष्यति। तथा च प्रागुक्तम् - कर्मणि सुपीति द्वयमप्यनुवर्तते, तत्र सकर्मकेषु कर्मणीत्येतदुपतिष्ठते, अन्यत्र सुपीति। तस्मात् स्वरूपग्रहणमेवैतत्। `कर्मनिर्देशः`इति। कर्म व्यापारः, तस्य निर्देशः = मूल्यम्॥", "32023": "`हेत्वादिषु टः प्राप्तः` इति। `कृञो हेतु` [[3.2.20]] इत्यादिना॥", "32024": "`व्रीहिवत्सयोरिति वक्तव्यम्` इति। कर्त्तृविशेषमं व्रीहिवत्सग्रहणम्। अनेन सूत्रेण य इन् विधीयते स व्रीहिवत्सयोः कत्र्रोर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - इहापि विभाषेत्यनुवर्तते, सा च व्यवस्थितविभाषा। तेन व्रीहिवत्सयोः कत्र्रोरेव भविष्यति, नान्यत्र। नित्यत्वादुत्तरपदादाद्युदात्तत्वम्॥", "32025": "`पशौ कर्तरि` इति। एतेन पशुग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणमिति दर्शयति। प्रत्ययार्थत्वं तु `कर्तरि कृत्` [[3.4.67]] इति वचनात्। कुतः पुनरेतदवसितम् - प्रत्ययार्थस्य विशेषणमेवेति, न पुनर्बाधकमेवेति? तदुच्यते - धातोः प्रत्ययस्य विधानात् तदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययेन भवितव्यम्। धात्वर्थः = क्रिया तस्याश्च साधनेन सम्बन्धः, न वस्तुस्वरूपेण। साधनञ्च शक्तिः, न वस्तुस्वरूपम्। पशुशब्देन वस्तुस्वरूपेण स्वार्थमाचष्टे। न शक्तिस्वरूपेणेति। तेनाशक्तिस्वरूपे प्रत्याय्यमानः पशुर्नार्हति प्रत्ययार्थो भवितुम्। सोऽप्रत्ययार्थः सन्नशक्तित्वात् कथमिमं प्रत्ययार्थ बाधेत। तस्मात् प्रत्ययार्थः, तेन कर्तरि विशिष्यत इति युक्तमुक्तम् - पशौ कर्तरीति। एष न्यायोऽन्यत्रापि प्रत्ययार्थविशेषणे द्रष्टव्यः॥", "32026": "", "32027": "`ब्राहृवनिं त्वा क्षत्रवनिम्िति। ब्राहृ वनति, क्षत्रं वनतीत्यर्थविवक्षायामिन्प्रत्ययः। तदन्ताद्द्वितीया, तस्याः `सुपां सुलुक्` [[7.1.39]] इति लुक्। युष्मच्छब्दाद्द्वितीयादिभक्तेः <<त्वामौ द्वितीयायाः>> [[8.1.23]] इति त्वादेशः। `गोसनिम्` इति। गां सनतीत्यर्थ इन्प्रत्ययः। तदन्तादमि परे पूर्वरूपत्वम्। पन्थानं रक्षत इति `पथिरक्षी`। द्विवचनमेतत्। पूर्वसवर्णदीर्घत्वम्। `हविर्मथीनाम्` इति। हविर्मथन्तीति विगृह्र प्रत्ययः। तदन्तात् षष्ठआ बहुवचनम्॥", "32028": "ण्यन्तात्` इति। एतेन प्रकृत्यन्तरस्यायमेजेरिका निर्देश इत्याशङ्कां निरस्यति। कुतः पुनण्र्यन्तमवसितम्? खशः शित्करणात्। प्रकृत्यन्तरस्य ग्रहणे शित्करणमनर्थकं स्यात्। तद्धि सार्वधातुके सति तदाश्रयस्य शपो विधिर्यथा स्यादित्येवमर्थं क्रियते। न चैजेः प्रकृत्यन्तरस्य सत्यसति वा शपि कश्चिद्विशेषोऽस्ति, ण्यग्रहणे तु सति शित्करणमर्थवद्भवति। असति तस्मिन् णिलोपः स्यात्, तस्मस्तु सति सार्वधातुनिबन्धने शपि णिलोपो न भवति। आर्धधातुकत्वं णिलोप इत्येके, एतच्चायुक्तम्; उत्तरार्थं हि शित्करणं स्यात्। असति हि तस्मिन्नुत्तरसूत्रे धेट आत्त्वं स्यात्, ध्मश्च धमादेशो न स्यात्। तथा च स्तनन्धयः, नासिकन्धम इति न सिध्येत्। तस्माद्व्याख्यानादेव ण्यन्तत्वमवसेयम्। `खकारोऽयं मुमर्थः`इति। <<खित्यनव्ययस्य>> [[6.3.66]] इत्यधिकृत्य <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुमागमो यथा स्यात्। `शकारः सार्वधातुकसंज्ञार्थः` इति। `तिङशित् सार्वधातुकम्` [[3.4.113]] इति सार्वधातुकसंज्ञा यथा स्यात्। `अङ्गमेजयः` इति। शप्, गुणायादेशौ।`खश्प्रकरणे` इत्यादि। वातादिषूपपदेषु `अज गतिक्षेपणयोः` (धातुपाठः-230), `धेट् पाने` (धातुपाठः-902), `तुद व्यथने` (धातुपाठः-1281),`ओहाक् त्यागे` (धातुपाठः-1090) - इत्येभ्यो धातुभ्यः खश्प्रकरण उपसंख्यानं कर्तव्यम्। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - <<नाडीमुष्ट्योश्च>> [[3.2.30]] इत्यत्र चकारः, स चानुक्तसमुच्चयार्थः। तेन वातादिषूपपदेष्वजादिभ्यो धातुभ्यः खश् भविष्यति। `शुनिन्धयः` इति। <<खित्यनव्ययस्य>> [[6.3.66]] इति ह्रस्वत्वम्। `शद्र्धञ्जहाः` इति। जुहोत्यादिभ्यः शपः श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, `श्नाब्यसत्योरातः` [[6.4.112]] इत्याकारलोपः॥", "32029": "`स्तने धेटः` इत्यादिना यथायोगमुपपदसम्बन्धं दर्शयन्नुदाहरणानि दर्शयति। `नासिकन्धमः` इति। पाघ्रादिसूत्रेण [[7.3.78]] धमादेशः। `तच्चैतत्` इत्यादि। यथासंख्याभावे हेतुमाह। स्तनशब्दो हि नासिकापेक्षयल्पाच्तरः, तस्य पूर्वनिपाते कर्तव्ये योऽयमपूर्वनिपातः कृतः सलक्षमव्यभिचारं सूचयति। यथेह पूर्वनिपातशास्त्रं व्यभिचरति, स्वविषये न प्रवर्तते, तथा यथासंख्यलक्षणमपीति। अतोऽस्माल्लक्षणव्यभिचारचिह्नाद्यथासंख्याभावो लभ्यते॥", "32030": "", "32031": "`उदि` इति। सप्तमीयम्- उदि सति। तत्रोत्कूलशब्दयोर्विषयव्यवस्था द्रष्टव्या। <<ते प्राग्धातोः>> [[1.4.80]] इति वचनाद्धातोरनन्तरमुत्शब्दः, तस्मात् पूर्वः कूलशब्द इति। अथ वा - `{ उदिति - मुद्रितः पाठः} उदीति परसप्तमी - उदि परतः कूलशब्दस्योपपदत्व इति। अथोच्छब्दस्याप्युपपदसंज्ञा कस्मान्न भवति, प्रत्येकं सप्तम्युच्चारणात्? एषा ह्राचार्यस्य शैली यत्र प्रत्येकमुपपदत्वमस्ति तत्र समुदायात् सप्तमीमुच्चारयति, यथा - `नाडीमुष्ट्योः [[3.2.30]] इति। इह तु विपर्ययः कृत इति न भवत्युपपदत्वम्। अपि च रुजिवहोः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते। न चोच्छब्दसय् कर्मत्वं सम्भवति असत्त्ववाचित्वात्। कुतस्तस्योपपदत्वम्। `कूलमुद्रुजः` इति। तुदादित्वाच्छः` `कूलमुद्वहः` इति। शप्॥", "32032": "`वहंलिहः` इति। `लिह आस्वादने` (धातुपाठः-1016) अदादित्वाच्छपो लुक्, <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्वाद्गुणाभावः॥", "32033": "`प्रस्थम्पचा,द्रोणम्पचा` इति। प्रस्थद्रोणपरिमिते व्रीह्रादौ प्रस्थद्रोणशब्दावुपचारेण वर्तेते; न प्रस्थादावेव परिमाणविशेषे काष्ठादिमये। क्लेदवाची ह्यत्र पचिः। न च मुख्यस्य प्रस्थादेर्विक्लेदः सम्भवति, अतो न तस्य सम्बन्ध उपपद्यते। स्वरूपग्रहणमप्यत एव न भवति; न हि स्वरूपप्रधानेन परिमाणेन विक्लेदवचनस्य पचेः सम्बन्धः सम्भवति। यद्यपि हि प्रस्थादिशब्दः परिमेये वर्तते, तथापि परिमाणव्यपदेशो न तस्य विरुध्यते, प्रथमं परिमाणवृत्तित्वात्॥", "32034": "`अपरिमाणार्थ आरम्भः` इति। परिमाणे पूर्वेणैव सिद्धत्वात्। मितनखशब्दयोरपरिमाणवचनत्वात्। सर्वदैव हि मितशब्दः परिमेयद्रव्यवचनः , नखशब्दो हि प्राण्यङ्गवचनः॥", "32035": "`अरुन्तुदः` इति। अरुश्शब्दस्य <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इत्युकारात् परो मुमागमः, संयोगान्तलोपः [[8.2.23]] , <<मोऽनुस्वारः>> [[8.3.23]] , <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इतिपरसवर्णः॥", "32036": "`असूर्यम्पश्याः` इति। प्राघ्रादिसूत्रेण [[7.3.78]] पश्यादेशः। `दृशिना नञः सम्बन्धात्` इति। असामर्थ्य हेतुः। अत्र हि दर्शनं प्रतिषिध्यते,न तु सूर्य एव। तस्माद्दृशिनैव नञः सम्बन्धः, न सूर्येणेत्यसामर्थ्यम्। `सूर्यं न पश्यन्ति` इति दृशिना नञः सम्बन्धं दर्शयति। यदा सूर्यः प्रतिषध्यते तदा न भवितव्यमेव प्रत्ययेन, अनभिधानात्। समासश्चायमसामर्थ्येऽपि भवति, गमकत्वात्। अस्मादेव वचनाद्वा। ननु च यथा राजदाराः सूर्यं न पश्यन्तीति तथान्यदपि परपुरुषादिकम्, तत्रायुक्तं सूर्येणैकेन विशेषणेनेत्यत आह - `गुप्तिपरञ्चैतत्` इति। यतेतदसूर्यम्पश्या राजदारा इति वचनमेतद्गुप्तिप्रधानम्; गुप्तिप्रतिपादनाय प्रयुक्तत्वात्। `एवं नाम` इत्यादिना गुप्तिपरत्वमस्य दर्शयति॥", "32037": "`उग्रम्पश्य` इति। <<कर्मण्यण्>> [[3.2.1]] इति प्राप्ते दृशेः खश् निपात्यते। पूर्ववत् पश्यादेशः। `इरम्मदः`इति। `इरया माद्यति`इति। `मदी हर्षे` (धातुपाठः-1208)। तृजादिषु प्राप्तेषु खश् निपात्यते। तत्र दिवादित्वाच्छ्यनि प्राप्ते तदभावो निपात्यते। `पाणिन्धमाः` इति। अधिकरणे ल्युटि प्राप्ते खश् निपात्यते। पूर्ववद्धमादेशः।", "32038": "`चकारः `खचिह्रस्वः` इति विशेषणार्थः`इति। `खे ह्रस्वः` इत्युच्यमाने खश्यपि स्यात्। ननु चैकानुबन्धकग्रहणे न द्व्यनुबन्धकस्येति (व्या।प।52) न भविष्यति? एवं तर्हि परिभाषाश्रयणाच्चकारकरणमेव लघ्विति च मन्यते। ननु च प्रियंवदो वशंवद इति खश्यपि सिद्ध्यति, किमर्थं प्रत्ययान्तरकरणमित्याह - `प्रत्ययान्तरकरणमुत्तरार्थम्िति। <<द्विषत्परयोस्तापेः>> [[3.2.39]] इत्यत्र खचि ह्रस्वस्तापेर्यथा स्यात्। णिलोपश्चेत्याद्यर्थं प्रत्ययान्तरं क्रियते। अथोत्तरत्रैव खच् कस्मान्न क्रियते? अत्रापि खज्भवतीति विज्ञानार्थम्। तेन गमेरपि सुप्युपपदे खच् सिद्धो भवति।यदि `खच्प्रकरणे गमेः सुप्यपसंख्यानम्` (वा।247), तत्रोपसंख्यानशब्दस्य प्रतिपादनार्थं प्रत्ययान्तरं क्रियते। प्रतिपादनन्त्विदमेव वेदितव्यम्।`विहायसो विह च` इति। गमेर्विहायःशब्द उपपदे खच्प्रत्ययः, तत्सन्नियोगेन विहायःशब्दस्य विहादेशः। `खच्च डिद्वा वक्तव्यः` इति। डित्त्वाट्टिलोपः स्यात्, `विहायसो विह च` (वा।248) इत्यतोऽस्य भेदेन पाठात्। डित्त्वस्यानित्यत्वज्ञापानार्थम्; अन्यथा विहङ्गम इति न सिध्येत्।`डे च` इत्यादि। डप्रत्यये च गमेर्विहायसो विहादेशः। `विहगः` इति। न पुनरत्र डप्रत्ययः? अस्मादेव वचनाद्भवति। अथ वा वक्ष्यत्युत्तरतः `डप्रकरणेऽन्येष्वपि दृश्यते` (वा।256) इति॥", "32039": "`द्वयोरपि ग्रहणम्` इति। ण्यन्तावस्थायां विशेषाभावात्। `द्वितकारको निर्देशः`इति। `द्विषत्परयोः`इति निर्देशे द्वौ तकारौ,तत्रैको द्विषच्छब्दस्यावयवः, तेन द्विषच्छब्दो विशिष्यते - द्विषच्छब्द उपपदे तकारान्त इति। `तेन स्त्रियां न भवति` इति। स्त्रीप्रत्ययान्तस्तकारान्तो न भवति। असति तु द्वितीये तकारे `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इति स्त्रयियामपि स्यात्। `{द्विषतीकाशिका} द्विषती` इति। <<उगितश्च>> [[6.3.45]] इति ङीप्। उगित्त्वन्तु द्विषच्छब्दस्य <<द्विषोऽमित्रे>> [[3.2.131]] इति शत्रन्तत्वात्॥", "32040": "`शास्त्रितः` इति। शास्त्रे कृत इति विगृह्र शास्त्रशब्दात् प्रतिपदिकाद्धात्वर्थे णिच्, तदन्तात् क्ते विहते शास्त्रित इति। शास्त्रविहित इत्यर्थः। अथ वा शास्त्रिण इतः शास्त्रितः, शास्त्रविद इतः = जातः, प्रवृत्तः। अथ वा - शास्त्रशब्दस्तारकादिषु द्रष्टव्यः। शास्त्रमस्य सञ्जातमिति शास्त्रितः। `वाचंयमः` इति। वाचं यच्छतीति विगृह्र खचि <<वाचंयमपुरंदरौ च>> [[6.3.69]] इति पूर्वपदस्य मुमभावो निपात्यते। ननु च प्रत्ययोऽपि तेनैव निपातनेन भविष्यति, तत्किमनेन? नैतदस्ति; यच्छतीति पचाद्यचि विहिते ततश्च `वाचो यमः` इति षष्ठीसमासे कृते वाचंयम इति सिध्यति। सम्पद्यत एव, तत्र तु निपातनमनर्थकं स्यात्। एवञ्च सति नित्यमुपपदसमासो न स्यात्। अतः खच्प्रत्ययो विधेयः, निपातनमपि कर्तव्यम्॥", "32041": "`दारि` इति। `दृ? विदारणे` (धातुपाठः-1493) इत्यस्य णिचा निर्देशः। `पुरन्दरः` इति। पूर्वपदे मुम्भावो निपात्यते।`भगे च दारेरिति वक्तव्यम्` इति। भगे चोपपदे दारेः खज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<उग्रम्पश्येरम्मदपाणिन्धमाश्च>> [[3.2.37]] इत्यतश्चकारोऽनुवर्तते, न चानुक्तसमुच्चयार्थः, तेन भगे चोपपदे दारेः खज्भवतीति॥", "32042": "`सर्वङ्कषः` इति। `कष खष शिष जष जष {शक इति मु।पाठः} शष वष मष रुष रिष हिंसार्थाः` (धातुपाठः-685-694)॥", "32043": "`उपपदविधौ` इत्यादि। ननु चाभयशब्दो नञ्समासे सिध्यत्येव? नैवं शक्यम्, सतिशिष्टत्वाद्धि `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इति पूर्वपदप्रकृतिस्वराद्युदात्तत्वं स्यात्, `{गतिकारकोपपदात् कृत्` इति सूत्रम्} गतिकारकोपपदानाम्` [[6.2.138]] इत्यादिनान्तोदात्तत्वं चेष्यते। तस्मात् कर्तव्यम्। अपवादत्वात् खजयमणं बाधते, हेत्वादिविवक्षायाञ्च परत्वाट्टप्रत्ययमपि॥", "32044": "अथ `क्षेमप्रियमद्रे वा` इत्येवं कस्मान्नोक्तम्? किमण्ग्रहणेन? खचि विकल्प्यते, <<कर्मण्यण्>> [[3.2.1]] इत्यनेनैवाण् भविष्यीत्यत आह - `वेति वक्तव्ये` इत्यादि। `क्षेमप्रियमद्रे वा` इत्युच्यमाने पक्षे वाग्रहणाद्यथाप्राप्तमपीष्यते। ततो हेत्वादिषु विवक्षितेषु `कृञो हेतुताच्छील्य` [[3.2.20]] इत्यादिना टः स्यात्; अतस्तद्वाधनार्थम्। तेन हेत्वादिविवक्षायां टप्रत्ययं बाधित्वाऽण् भवति॥", "32045": "अत्र सुपीत्युपतिष्ठते, न कर्मणीति; भवतेरकर्मकत्वात्। `आशितशब्दे सुबन्ते` इत्यादि। अथ विपर्ययः कस्मान्न वति, करणभावयोरुपपदयोराशिते प्रत्ययार्थ इति? असम्भवात्। आशित इत्यश्नातेः कर्तोच्यते, तस्य भवतिना सम्बन्धो नोपपद्यते। न हि योऽश्नातेः कर्ता स भवतेः प्रत्ययार्थो भवतुमुत्सहते। तस्मादाशितशब्दस्योपपदत्वम्, इतरयोस्तु प्रत्ययार्थत्वम्। एवञ्च घञ्ल्युटोरपवादो भवति। वाऽसरूपविधिना ल्युडपि भवत्येव - आशितभवन ओदन इति। घञस्तु स्वरूपत्वाद्बाधख एव॥।", "32046": "`संज्ञावशात्` इति। संज्ञाशब्दा हि द्विविधा भवन्ति - केचिदवयवार्थानुगताः,यथा - सप्तवर्ण इति; केचित्तु विपरीताः, यथा तैलपायिकेति। तदिह यत्रावयवार्थानुगमोऽस्ति विआम्भरः, शत्रुन्तप इत्यादिषु , तत्र कर्मणीति सम्बध्यते - विआं बिभर्तीति विआम्भरः। यत्र त्ववयवार्थानुगमो नास्ति, यथा - रथन्तरं सामेति, तत्र व्यत्पत्त्यर्थं सुपीति सम्बध्यते - रथेन तरतीति, रथे तरतीति वा। `पतिंवरा` इति। `वृञ् वरणे` (धातुपाठः-1254), `वृङ सम्भक्त्रौ`(धातुपाठः-1509)। पतिं वृणीते, पतिं वृणुत इति विग्रहः। शत्रुं जयतीति `शत्रुञ्जयः`। `धारि` इति। धृञो ण्यन्तस्य ग्रहणम्। युगं धारयतीति `युगन्धरः`। पूर्वपदध्रस्वत्वम्। शत्रुं सहत इति `शत्रुंसहः`। शत्रुं तपतीति `शत्रुंतपः`। अरिं दाम्यतीति `अरिन्दमः`। यद्यपि दमिरकर्मकः, तथाप्यन्तर्भावितण्यर्थत्वात् सकर्मको भविष्यति। अरिं दमयतीत्यर्थः॥", "32047": "`यस्य सौतङ्गमिः पुत्रः` इति। पुत्रस्य सौतङ्गमित्वव्यपदेशेन पितुः सुतङ्गमसंज्ञानुमीयत इति दर्शयति। सत्यां हि पितुः सुतङ्गमसंज्ञायां तत्पुत्रस्य सौतङ्गमिशब्देनाभिधानं भवति, नासत्याम्। अथ योगविभागः किमर्थः, पूर्वसूत्र एव गमेग्र्रहणं क्रियातमित्याह - `योगविभाग उत्तरार्थः` इति। गमेरेवोत्तरत्रानुवृत्तिर्यथा स्यात्, भृञादीनां मा भूत्। एकयोगे हि तेऽप्यनुवर्तेरन्॥", "32048": "`डकारष्टिलोपार्थः`इति। डिति `टेः` [[6.4.155]] इति टिलोपो यथा स्यात्। कथं पुनः सत्यपि डकारे टिलोपो लभ्यते, यावता भसंज्ञकस्य हि टिलोप उच्यते, न चेह भसंज्ञाऽस्तीत्याह - `डित्यभस्यापि` इत्यादि। यदि सत्यपि डिति टिलोपो मा भूत्, तदा तस्य वैयथ्र्यं स्यादिति भावः। ननु चश्रवणार्थ भविष्यति, तत्कुतो वैयथ्र्यं स्यात्? एवं मन्यते - <<प्रावृट्शरत्कालदिवां जे>> [[6.3.15]] इति कृतटिलोपस्य जनेर्डप्रत्ययान्तस्यायं निर्देशं करोति, ततोऽवसीयते डकारस्याश्रवणार्थतेति। `सर्वत्र` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - `गमश्च` [[3.2.47]] इत्यतश्चकारोऽनुवर्तते। तस्यानुक्तसमुच्चयार्थत्वात् सर्वत्रेत्यादानुपपदे डो भविष्यतीति। सर्वत्रशब्दश्चात्र सुपीत्यनेन सम्बध्यते, न तु कर्मणीत्यनेन; तस्याधिकरणशक्तिप्रधानत्वात् कर्मत्वानुपपत्तेः। पन्नशब्दः क्रियाविशेषणत्वात् कर्मणीत्यनेन सम्बध्यते। प्रतिपादितं हि `करणे च स्तोकाल्प` [[2.3.33]] इत्यादिसूत्रे क्रियाविशेषणस्य कर्मत्वम्।`उरसो लोपश्च` इति। <<अलोऽन्त्यस्य>> [[1.1.52]] इति सकारस्य।`सुदूरोरधिकरण` इति। ल्युडपवादो डो विधीयते। वाऽसरूपविधिना सोऽपि भवति - सुगमनम्, दुर्गमनमिति। अधिकरण इति किम्? कर्मणि मा भूत्। `ईषद्दुःसुषु` [[3.3.126]] इत्यादिना खलेव भवति - सुगमः, दुर्गम इति।`निरो देशे` इति। निर्शब्द उपपदे गमेर्डो भवति देशेऽधिकरणे। निर्गम्यतेऽस्मिन् देशे निर्गो देशः। देशादन्यत्र ल्युडेव - निर्गमनमिति॥", "32049": "`आशिषि` इति। प्रत्ययार्थमेतत्। तस्मिन् कर्तरि प्रत्ययो भवति यस्मिन् विधीयमान आशीर्गम्यते। `तिमिं वध्यात्` इति। आशीर्लिङ। प्रयोगवतो वाक्यस्योपन्यासस्तु समानार्थत्वात् तिमिहशब्दस्य प्रख्यानार्थः।`दारावाहन` इत्यादि। टकारादेश एवोपसंख्यायते। अण्प्रत्ययस्तु <<कर्मण्यण्>> [[3.2.1]] इत्यनेनैव सिद्धः। अथान्तग्रहणं किमर्थम्, यावता <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्तस्य भविष्यतीति? नच षष्ठीनिर्दिष्टस्यालोन्त्यविषयो भवन्ति। न चेह हन्तेः षष्ठआ निर्देशः, किं तर्हि? पञ्चम्या। नन्वर्थाद्विभक्तिविपरिणामो भविष्यति - हन इत्यस्याः षष्ठी सम्पद्यते? एवं तर्हि विस्पष्टार्थमन्तग्रहणम्। `दार्वाहन्ति` इति।दारुशब्दोऽत्र द्वितीयान्तः। `स्वमोर्न्पुंसकात्` [[7.1.23]] इति लुप्तत्वान्न द्वितीया श्रूयते।`चारौ वा` इति।अत्राऽप्यादेशो विकल्पेन विधीयते। अण् तु <<कर्मण्यण्>> [[3.2.1]] इति नित्यमेव सिद्धः। `चार्वाघाटः`इति। `हो हन्तेर्ञ्णिन्नेषु` इति कुत्वम्। <<हनस्तोऽचिण्णलोः>> [[7.3.32]] इति तत्वम्। `कर्मणि समि चि` इत्येतद्वाक्यं कर्मण्युपपद इत्यस्यैव विशेषणम्॥", "32050": "<<उदि कूले रुजिवहोः>> [[3.2.31]] इत्यत्रोच्छब्दस्योपपदत्वे यो न्याय उक्तः स इहाप्यपशब्दस्य वेदितव्यः। `अनीशीरर्थ आरम्भः`इति। आशिषि पूर्वेणैव सिद्धत्वात्॥", "32051": "`कुमारघाती` इति। पूर्ववत् तत्वकुत्वे। `निपातनाच्छिरसः शीर्षभावः` इति। कुमारशीर्षयोरित्यत एव निपातनाच्छिरसः शीर्षभावो भवति, न पुनः <<शीर्षंश्छन्दसि>> [[6.1.60]] इत्यनेन। तत्र हि शीर्षन्निति शिरःशब्दसमानार्थं शब्दान्तरं निपात्यते,अन्यथा शीर्षघातीति च्छन्दस्येव स्यात्,न भाषायाम्। `कुमारशीर्षयोः` इति च निर्देशो नोपपद्यते, स हि नकारान्तः; अकारान्तेन चायं निर्देशो भवति, न नकारान्तेनेति। णिनेर्द्वितीय इकारो नकारस्येत्संज्ञापरित्राणार्थः, णकारो वृद्ध्यर्थः॥", "32052": "लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम्। तदस्यास्तीति तस्मिन् लक्षणवति। एतेन मत्वर्थीयाकारप्रत्ययान्तो लक्षणशब्दः सूत्र उपात्त इति दर्शयति, स च कर्त्तुः प्रत्ययस्य विशेषणमिति दर्शयन्नाह - `लक्षमवति कर्तरि` इति। अथ लक्षणशब्दस्योपपदत्वं कस्मान्न भवति? केचिदाहुः- `हन्तेः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते;तत्र यदीह लक्षणस्योपपदत्वं स्यात्, तत् कर्मणा विशिष्येत। न च लक्षणं हन्तेः कर्मोपपद्यते, स हि हिंसायां वर्तते, हिंसा च प्राणिविषया। जायापत्योः प्राणिधर्मत्वात् कर्मत्वमुपपद्यते`इति, एतच्चानुपपन्नम् ; मत्वर्थीयाकारप्रत्ययान्तस्य लक्षणशब्दस्य प्राणिन्यपि वृत्तेः। व्याख्यानादेव लक्षणस्यानुपपदत्वं विज्ञायते। अनभिधानाद्वा। जायापत्योः कत्र्रोरभिधानं दृष्टम्। `जायाघ्नः`इति। कित्त्वात् `गमहन` [[6.4.98]] इत्यादिनोपधालोपः, पूर्ववत् कुत्वम्। `पतिघ्नी`इति। टित्त्वान्ङीप्॥", "32053": "`अमनुष्यकर्त्तृके` इति। अमनुष्यः कर्ता यस्य स तथोक्तः एतच्च धात्वर्थविशेषणम्, धात्वर्थो हन्तेरित्यत आह - `{ एवंप्रकारा पंक्तिर्मूलपाठे नास्ति} अमनुष्यकर्त्तृके धात्वर्थे` इत्यादि। अथामनुष्यकर्त्तृकग्रहणमुपपदविशेषणं कस्मान्न भवति? कर्मणीत्यनुवर्तते, कर्मणश्चामनुष्यकत्र्रा सह सम्बन्धानुपपत्तेः। साधनस्य हि क्रियायाः सम्बन्धः, न कारकान्तरेण। प्रत्ययार्थस्य कर्त्तृरिदं विशेषणं कस्मान्न विज्ञायते? तस्यामनुष्यकर्त्तृकत्वाभावात्। न हि कर्त्तुः कर्ता सम्भवति, अपि तु क्रियायाः। ननु च कर्त्तृग्रहणं न कर्तव्यम्, विनापि हि तेनामनुष्यकर्तरि प्रत्ययो लभ्यत एव? नैवं शक्यम्; कर्त्तृग्रहणमन्तरेणामनुष्यग्रहणं केवलमुपादीयमानमुपपदविशेषणमपि विज्ञायते। तस्मात् कर्त्तृग्रहणं कर्तव्यम्। तस्मिन् सत्यमनुष्यकर्त्तृग्रहणं तस्य विशेषणं न सम्भवतीत्यतो धात्वर्थ एव तेन विशेषयितुं युक्तः। `इह कस्मान्न भवति` इति। हस्तिकर्त्तृकत्वादमनुष्यकर्त्तृको धात्वर्थः। एतस्माद्भवतिव्यमेव टक्प्रत्ययेनेति मन्यते॥", "32054": "`शक्तौ गम्यमानायाम्` इति। अनेनोपपदत्वं शक्तेर्निराकरोति। `हस्तिकपाटयोः कर्मणीरुपपदयोः`इत्यनेनापि हस्तिकपाटयोः प्रत्ययार्थविशेषणम्। अथैवं कस्मान्न विज्ञायते - शक्तावुपपदे हस्तिकपाटयोः कत्र्रोरिति? आरम्भसामर्थ्यादेव हि विज्ञायमाने हस्तिकपाटयोर्मनुष्यकर्त्तृके धात्वर्थे हन्तिर्वर्तते। तथा च पूर्वेणैव सिद्धेऽस्यारम्भवैयथ्र्यं स्यात्। उपपदत्वे तु तयोः शक्तौ गम्यमानायां मनुष्ये कर्तरि विज्ञायत इति न भवत्येष दोषः।`विशेष हस्तिनं हन्ति`इति। विषेणेत्यशक्तिकत्वं दर्शयति। यो हि स्वयं हन्तुं न समर्थः स विषादिनोपायान्तरेण हन्ति॥", "32055": "`पाणिघताडघौ` इति। टप्रत्ययो घत्वं टिलोपश्च निपात्यते॥", "32056": "`अच्चौ`इति। बहुव्रीहिः - न विद्यते च्विर्यस्मिस्तत्राच्चौ। तत्पुरुषो वा - च्वेरन्योऽच्विः। अच्व्यन्त इत्यर्थः। अच्वादित्याढआदीनां विशेषणम्। एकवचनं तु प्रत्येकं तैरभिसम्बध्यते। `आढआदिषु` इत्यादिना कर्त्तृविषषणत्वमाढआदीनपाकरोति। `करणे कारके`इत्यनेनापि करणस्योपपदत्वं निरस्यति। अथैवं कस्मान्न विज्ञायते - करण उपपदे आढआदिषु कर्त्तृष्विति? तत्र केचिदाहुः - आढआदयोऽत्र शब्दप्रधानाः, न च तथाभूतानां कर्त्तृत्वमुपपद्यते। शब्दप्रधानत्वं पुनस्तेषां च्व्यन्तेष्वच्वाविति प्रतिषेधाद्विज्ञायते। शब्द एव हि च्व्यन्तो भवति, नार्थः। च्व्यन्तता शब्दस्यैव विद्यते, नार्थस्य। तत्र यद्येतेऽर्थप्रधानाः स्युः; च्व्यर्थेष्विति विशेषणमनुपपन्नं स्यात्, अच्वाविति च प्रतिषेधोऽनर्थकः स्यात्। पर्युदासोऽप्यनर्थकः स्यात् ; न; त्सयाप्याढ इत्येवंशब्दः सुखति, सुभगशब्दः सुखयीत्यादिप्रयोगेषु कर्तत्वदर्शनात्। व्याख्यानादेवार्थनिश्चयोऽद्वेष्यः। करणस्य प्रत्ययार्थत्वेन निर्देशात् `कर्तरि कृत्` [[3.4.67]] इति न व्याप्रियते। ननु च नेमे च्व्यर्थाः, ते नियोगत एव च्व्यन्ताः, इह त्वच्व्यन्ता आढआदयो न सम्भवन्त्येव, तत्क पर्युदस्यन्त इत्याह - `च्वेर्विकल्पेन विधानात्` इत्यादि। विकल्पेन विधानं तु <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यतो वाग्रहणानुवृत्तेः।`आढं तैलेन कुर्वन्ति` इत्यादि। न ह्रसौ प्रागनाढस्तैलेनाढ्यः क्रियते, किं तर्हि? आढस्तैलेनाभ्यज्यते। अनेकार्थत्वाद्धातूनां करोतिरत्राभ्यञ्जने वर्तते। तेनाभूतप्रादुर्भावे नास्तीति भवति प्रत्युदाहरणम्। अथ वा - भवतु नामाभूतप्रादुर्भावः, तथापि युक्तमेवेदं प्रत्युदाहरणमिति दर्शयितुमाह - `प्रकृतेरविवक्षायाम्` इत्यादि। न ह्रभूतप्रादुर्भावः इत्येवं सर्वोऽभूतप्रादुर्भावश्च्व्यर्थो भवति, किन्तु विशिष्ट एव; यस्मात् तत्र प्रकृतिग्रहणं दर्शयिष्यते। प्रकृतिः कार्यस्य पूर्वावस्था। तेन यत्राश्रितं कार्यं पूर्वारम्भश्च कार्यस्य् भाव्यमानतया विवक्ष्यते तत्र स अभूतप्रादुर्भावः, स एव च्व्यर्थः। एतदुक्तं भवति - यदा कार्यस्य पूर्वावस्था विवक्ष्यते तदा च्व्यर्थो भवति, नाभूतप्रादुर्भावविवक्षायामिति। इह तु पूर्वावस्थामपरामृश्यानाश्रितपूर्वारम्भे कार्येऽभूततद्भावमात्रं विवक्षितम्। तेन सत्यप्यभूततद्भावे च्व्यर्थो न भवति। अतो भवत्येतत् प्रत्युदाहरणम् - `आढ्यीकुर्वन्ति` इति। `अभूततद्भावे कृभ्वस्थियोगे` [[5.4.50]] इत्यादिना च्विः, <<अस्य च्वौ>> [[7.4.32]] इतीत्त्वम्। `ल्युटा भवितव्यम्` इति। <<करणाधिकरणयोश्च>> [[3.3.117]] इत्यनेन ल्युड्विधानात्। यदि ल्युटा भवितव्यं ततः किमित्याह - `न च` इत्यादि। उभयत्रापि तदेव रूपम्, स एव स्वरः। रूपं तावदभिन्नम्, उभयत्रापि समासस्य नित्यार्थत्वात्; तथा हि ख्युन्युपपदसमासेन भवितव्यम्, ल्युटपि गतिसमासेन? <<खित्यनव्ययस्य>> [[6.3.66]] इति च प्रतिषेधान्मुमा नि भवितव्यमिति रूपभेदो नास्ति। स्वरोऽपि न भवति भेदकः; ख्युनि सति यत्रैव नित्स्वरो भविष्यति, ल्युटपि लित्स्वरस्तत्रैव। `प्रतिषेधसामर्थ्यात्` इति। आढ्यीकरणमित्यस्य रूपस्य निरासाय `अच्वौ` [[3.2.56]] इति प्रतिषेधः क्रियते। एवं तस्य निरासः कृतो भवति यदि ख्युना मुक्ते ल्युडपि भवति, अन्यथा हि स्यादेव। तदेव रूपमिति प्रतिषेधः स्यादिति वैयथ्र्यमिति भावः। `अर्थतः` इति। न शब्दतः। अर्थस्तु प्रतिषेधसामर्थ्यमेव। `उत्तरार्थश्च` इति। उत्तरसूत्रस्योपयोगं दर्शयति। तत्र खिष्णुच्खुकञ्भ्यां मुक्ते तृजादिभिर्भवितव्यमित्यस्ति विशेषः।ख्युनः खकारो मुमर्थः, नकारः स्वरार्थः॥", "32057": "`कर्तरि कारके` इति। कर्त्तृग्रहणं करणनिवृत्त्यर्थम्। ननु चास्वसितत्वादेवानुवृत्तिर्न स्यात्? सत्यमेतत्; द्वेष्यमपि कश्चिदविजानीयात् - यथैवाढआदयोऽनुवर्तन्ते तथा तत्सम्बन्धकरणमपीति। उत्तरार्थञ्च कर्त्तृग्रहणम्।`उदात्तत्वात्` इत्यादि। उदात्तादितरोऽनुदात्तः, तेन भवतेर्विहितस्यार्धधातुकस्य `एकाच उपदेशेऽनुदात्तात्` [[7.2.10]] इतीट्प्रतिषेधो न भवति। बलादिलक्षणेटा [[7.2.35]] भवितव्यम्, ततश्च तेनैवेकारादित्वं सिद्धम्,ततो न कर्तव्यं खिष्णुच इकारादित्वमिति भावः। इकारादित्वकरणस्य प्रयोजनमाह - `नञस्तु` इत्यादि। यदि। खिष्णु च इकारादित्वं न क्रियते ततो यद्यपीटि कृते सतीकारदित्वं तस्य भवति, तथापि तस्य लाक्षणिकत्वात् <<कृत्योकेष्णुच्चार्वादयश्च>> [[6.2.160]] इत्यत्रेष्णुज्ग्रहणेन न ग्रहणं स्यात्। ततश्चानाढम्भविष्णुरिति नञ उत्तरस्योत्तरपदस्यान्तोदात्तत्वं न स्यात्िष्यते च। अतो नञ उत्तरस्योत्तरपदान्तोदात्तत्वंम्, तेनेकारादित्वमिष्णुचः क्रियते। ननु च सत्यपीकारादित्वे अलंकृञादिसूत्रे [[3.2.136]] विहितस्यैवेष्णुचो ग्रहणेन भवितव्यम्, नेतरस्य , तस्यैकानुबन्धकत्वात्, अस्य द्वयनुबन्धकत्वात्? इकारोच्चारणसामर्थ्यादस्यापि ग्रहणं भविष्यतीत्यदोषः। खकारो मुमर्थः; चकारः स्वरार्थः, ञकारो वृद्ध्यर्थः॥", "32058": "<<सुपि स्थः>> [[3.2.4]] इत्यत्रोक्तम् - `कर्मणि` `सुपि`इति द्वयमनुवर्तते, तत्र सकर्मकेषु कर्मणीत्युपतिष्ठते, अन्यत्र सुपीति। स्पृशिरयं सकर्मकः, अतः स्पृशेर्धातोरनुदके सुबन्त उपपद इत्युक्ते पूर्वापरव्याहति मन्यमान आह - `ननु च` इत्यादि।`नैषः` इत्यादिना परिहारः। कथं पुनः कर्त्तृग्रहणे कर्त्तुश्च प्रचयार्थे विज्ञायमाने सुबन्त उपपदे प्रत्ययो लभ्यत इत्याह - `सुबन्तमात्रे` इत्यादि। सुबन्तमात्र उपपदे सत्येकः प्रचयार्थः कर्ता कर्मण्युपपदे सति भवति, अपरः करणादावुपपदे; तत्र भेदे सति तत्सम्बन्धभेदेन भिद्यमानस्य कर्त्तुः प्रचयो लभ्यते। `घृतस्पृक्` इति। `क्विन्प्रत्ययस्य कुः` इत्यादि। `क्विप्रत्ययस्य कुः` इत्युच्यमाने क्विपोऽपि ग्रहणं स्यात्तो नकारोऽनुबध्यते। प्रकृतेराद्युदात्तार्थो नकारो न भवित; स्पृशेरेकाच्त्वात्,तत्स्वरेणैव सिद्धत्वात्। ककारो गुणप्रतिषेधार्थः, वकारः <<वेरपृक्तस्य>> [[6.1.67]] इति विशेषणार्थः॥", "32059": "`ऋतौ यजति` इति। वसन्तादिक ऋतौ यजति, यस्मिन् ऋतुर्देवता स याग ऋतुस्तं यजतीति। `ऋतुप्रयुक्तो वा यजति` इति। यस्मिन् याग ऋतुः प्रयोजकस्तमृतुप्रयुक्तो यजतीति। अस्मिन् पक्षे प्रयुक्तमात्रस्य लोपो निपात्यते। `ऋत्विक्िति। यजादित्वात् [[6.1.15]] सम्प्रसारणम्। `यथाकथञ्चिदनुगन्तव्या` इति। येन केनचित् प्रकारेण व्युत्पादयितव्यम्, न त्ववयवार्थस्तन्त्रमिति दर्शयति। `अन्तोदात्तत्वं निपात्यते` इति। नियतस्वरबाधनार्थम्। `दधृक्` इति। अभ्यासस्य `उरत्` [[7.4.66]] इत्यत्त्वम्, हलादिःशेषः, [[7.4.60]] जश्त्वम्। `षत्वञ्च निपात्यते` इति। <<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधान्न प्राप्नोतीति कृत्वा। `ष्णिह प्रीतौ` (धातुपाठः-1200), उत्स्निह्रतीत्युष्णिक्। `निपातनैः` सह निर्देशात्` इत्यादिना निपातनैः सहैषां यो निर्देशः स एषामपि किञ्चिदलाक्षणिकं कार्यं यथा स्यादित्येवमर्थः। तेनैषु किञ्चिदलाक्षणिकं कार्यं भवति। इदं त्वलाक्षणिकम् - यः सकर्मकस्यापि सुबन्तमात्र उपपदे भवति। `प्राङ` इति। <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुम्, हल्ङ्यादि [[6.1.66]] संयोगादि [[8.2.23]] लोपौ,नकारस्य पूर्ववत् कुत्वम्। `केवलात्` इति। सत्यपि कर्मणि सुपीत्यधिकारे निरुपपदादेव भवति; निपातनैः सहेति निर्देशात्। क्विन्विधानसामर्थ्याद्वा। उपपदे हि सदादिसूत्रेण [[3.2.61]] क्विपा भवितव्यम्। `सोपपदात्` इत्यादि। न च सोपपदाद्युजेः क्विपि क्विना वा विशेषोऽस्ति; <<चोः कुः>> [[8.2.30]] इति कुत्वस्य सिद्धत्वात्। अनुपपदत्वे <<युजेरसमासे>> [[7.1.71]] इति नुमि कृते नकारस्य कुत्वार्थं क्विनो विधानं सार्थकं भवति॥", "32060": "अनालोचनमिह चक्षुज्र्ञानमात्रमभिप्रेतम्। यदि तत्र दृशिर्न वर्तत एवं प्रत्ययो भवति, नान्यथा। `त्यादृक्, त्यादृशः` इति। <<दृग्दृशवतुषु>> [[6.3.89]] इत्यनुवर्तमाने <<आ सर्वनाम्नः>> [[6.3.91]] इत्यात्वम्। `कञो ञकारः `टिड्ढामञ` इति विशेषणार्थः इति। यदि कञो ञकारो न कर्तव्यसत्दोदात्तार्थो नकारः कर्तव्यः। एवञ्च कञ्कन्नित्येवं [[4.1.15]] कर्तव्यम्। ततश्चैवमुच्यमाने <<यावादिभ्यः कन्>> [[5.4.29]] यादिकेत्यत्रापि ङीप् प्रसज्यते, अतस्तद्विशेषणार्थो ञकारः कर्तव्यः इति। ननु च दृशेर्दर्शनक्रियत्वात् तादृक् तादृश इत्यादिषु दर्शनक्रियाऽस्त्येव, तथा ह्रेषां व्युत्पत्तौ तं पश्यत्येवंप्रकारं वाक्यमुपदिश्याचार्याः प्रत्ययं कुर्वन्ति। वाक्यसमानार्था वृत्तिर्भवति, सा च दर्शनक्रिया ज्ञानार्थिका। तत्कथमत्र दृशिरनालोचने वर्तत इत्याह - तादृगादयो हि रूढिशब्दप्रकाराः`इत्यादि। रूढिशब्देषु नावयवार्थेन भवितव्यम्,किं तर्हि? समुदायार्थेन। अत एवात्रावयवार्थो नोपदीयते। व्युत्पत्त्यर्थस्तु विद्यमानोऽप्यवयवार्थ नोपादत्ते, यथा - व्याजिघ्रतीति व्याघ्र इत्यादौ। तस्मादिह यद्यपि व्युत्पत्त्यर्थं वाक्यस्य दर्शनक्रियोपादीयते, तथाप्यसौ वृत्तौ नास्त्येव। तथा हि - तादृक् तादृश इत्यादिभ्यः शब्देभ्यः सदृशवस्तुविषये प्रत्यय उपजायते, न तु दर्शनक्रियाविषय इति युक्तैव दृशेरनालोचने वृत्तिः।`समानान्ययोश्चेति वक्तव्यम्` इति। समानान्ययोश्च शब्दयोरुपपदयोर्दृशेः क्विन्कञौ प्रत्ययौ भवव इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूरवसूत्रादिह चकारोऽनुवर्तते, स चानुवतसमुच्चयार्थः। तेन समानान्ययोरुपपदयोर्दृशेः प्रत्ययौ भविष्यतः। `सदृशः` इति। <<समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु>> [[6.3.84]] इत्यनुवर्तमाने <<दृग्दृशवतुषु>> [[6.3.89]] इति सभावः॥", "32061": "`कर्मग्रहणं तु `स्पृशोऽनुदके क्विन्` इत्यतः प्रभृति न व्याप्रतीयते` इति। ननु सकर्मका अपि धातवः सन्ति, तत्कथं न व्याप्रियत इति? एवं मन्यते - स्पृशोऽनुदके क्विन्` [[3.2.58]] इत्यादिषु यत् `कर्तरि` [[3.2.57]] इत्यनुवर्तते तत् कर्त्तृप्रचयार्थं विज्ञायते, तेन सुपीति व्याप्रियते, न कर्मणीति। एवं हि कर्त्तृप्रचयो लभ्यते, नान्यथा। अथ उपसर्गग्रहणं किमर्थम? यावतोपसर्गाः सुबन्ता एव, तत्र सुब्ग्रहणेनैवोपसर्गग्रहणं सिद्धमित्याह - `उपसर्गग्रहमं ज्ञापनार्थम्िति। `अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवति` इति। क्वान्यत्र सुब्राग्रहण उपसर्गग्रहणं न भवतीत्याह - `वदः सुपि क्यप् च` इति। ननु च <<वदः सुपि क्यप् च>> [[3.1.106]] इत्यत्र <<गदमदचरयमश्चानुपसर्गे>> [[3.1.100]] इत्यतोऽनुपसर्गग्रहणमनुवर्तते। एवञ्चोपसर्गग्रहणं नानुवर्तयितव्यमिति वा ज्ञापनार्थमुपसर्गग्रहणम्। विकल्पप्रदर्शनार्थं कर्तव्यमित्यन्ये।`अपूरे त्वाहुः - ज्ञापकप्रयोजनदिगियमिति वृत्तिकारो दर्शयति। इदं तु स्पष्टं ज्ञापकस्य प्रयोजनम् - <<स्पृशोऽनुदके क्विन्>> [[3.2.58]] इत्यत्र `सुपि` [[3.2.4]] इत्यधिकारादसति ज्ञापक उपसर्गग्रहणे सुबन्तेऽप्युपसर्गे स्यात् - उपस्पृशति, संस्पृशतीति; अस्मात् ज्ञापकान्न भवति। `साहचर्यात्ित्यादि। यदि `सू`इत्ययं धातुरादादिकत्वं व्यभिचरति `द्विष अप्रीतौ`(धातुपाठः-1013) इत्येष तु न व्यभिचरति, अतोऽनेन साहचर्यात् `सू` इत्यादादिकस्य `षूङ प्राणिगर्भविमोचने` (धातुपाठः-3031) इत्यस्य ग्रहणम्, न `षू प्रेरणे` (धातुपाठः-1408) इत्यस्य तौदादिकस्य। ननु च सदिना तौदादिकसाहचर्यादस्यापि ग्रहणं भवति? नैतदस्ति; यथैव हि `सू` इत्येष तौदादिकतवं व्यभिचरति,तथा सदिरपि, तस्य भ्वादिषु पाठात्, तत्कथं तेन साहचर्यात् तौदादिकस्येह ग्रहणं स्यात्। `न सुबतेः` इति। अनादादिकसूरूपस्य धातोरुपलक्षममेतत्। `{षूङ्-धातुपाठः-}षञ् प्राणिप्रसवे` (धातुपाठः-1132) इत्येतस्यापि दैवादिकस्य ग्रहमं न युक्तम् ; न्यायस्य च तुल्यत्वात्। `द्वयोरपि ग्रहणम्` इति। विशेषानुपादानात्। `न लाभार्थस्य` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्येतस्य। `अकारस्य विवक्षितत्वात्` इति। इह लाभार्थस्यानुपादाने हेतुः `विदः` इति सूत्रेऽकारान्तोच्चारणं विवक्षितमिति,तेन विदेरकारान्तस्य गणे पाठात् स एव गृह्रते, न ऌकारान्तः।`शृचिषत्` इति। `{षद्लृ-धातुपाठः-} सद्लृ विशरणार्थः (धातुपाठः-854)। `मित्रध्रुक्िति। `द्रुह जिघांसायाम्` (धातुपाठः-1197) `वा द्रुहमुह` [[8.2.33]] इति ककारः, `एकाचो बशो भष्` [[8.2.37]] इत्यादिना भष्भावः। `गोधुक्` इति। `\tदुह प्रपूरणे` (धातुपाठः-1014) <<दादेर्धातोर्घः>> [[8.2.32]] इति घत्वम्। `अआयुक्` इति। <<चोः कुः>> [[8.2.30]] इति कुत्वं गकारः, तस्य पूर्ववत् ककारः। `शत्रुजित्` इति। <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] । `कथमत्र णत्वम्` इति। `पूर्वपदात् संज्ञायामगः` [[8.4.3]] इति संज्ञायां विधीयमानेन णत्वेनासंज्ञायामिह न भवितव्यमिति भावः। `सम्राटः`इति। `राजृ दीप्तौ` (धातुपाठः-822), `व्रश्चभ्रस्ज` [[8.2.36]] इति चर्त्वं टकारः, `मो राजिसमः क्वौ` [[8.3.25]] इति मकारः। क्विपः ककारो गुणवृद्धिनिषेधार्थः। पकारस्तुगर्थः। <<वेरपृक्तस्य>> [[6.1.67]] इति वकारलोपः। इकारः `वेरपृक्तस्य` इति सामान्यग्रहणार्थः॥", "32062": "`अर्धभाक्` इति। <<वेरपृक्तस्य>> [[6.1.67]] इति वकारलोपः। प्रत्ययलोपलक्षणेन <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः, <<चोः कुः>> [[8.2.30]] इति कुत्वम्। णकारो वृद्ध्यर्थः। इकारः <<वेरपृक्तस्य>> [[6.1.67]] इति सामान्यग्रहणार्थः॥", "32063": "`जलाषाट्` इति। `हो ढः` [[8.2.31]] इति ढत्वम्, तस्य जश्त्वम् - डकारः,तस्य <<वाऽवसाने>> [[8.4.56]] इति टकारः॥", "32064": "`पृष्ठवाट्` इति। पूर्ववद्वृद्धिः, ढत्वजश्त्वचर्त्वानि। योगविभागं उत्तरार्थः - उत्तरत्र बहेनुवृत्तिर्यथा स्यात्, सहेर्मा भूत्। एकयोगे हि सति द्वयोरप्यनुवृत्तिः स्यात्॥", "32065": "पूर्वेण च्वौ प्राप्ते ञ्यृड्विधीयते। टकारो ङीबर्थः, ञकारः स्वरार्थो वृद्ध्यर्थश्च। युमात्रं प्रत्ययः, तस्य <<युवोरनाकौ>> [[7.1.1]] इत्यनादेशः॥", "32066": "`अनन्तःपादम्` इति। अन्तः शब्दो मध्यशब्देन समानार्थः। अन्तःपादमिति पादस्य मध्य इत्यर्थ-। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना विभक्त्यर्थेऽव्ययीभावः - न अन्तःपादमनन्तःपादमिति। एतच्च वहेः प्रकृतत्वात् तस्यैव विशेषमं विज्ञायत इत्यत आह - `अनन्तःपादञ्चेद्वहिर्वर्तते`इति। छन्दसीत्यनुवृत्तेः पादशब्द ऋक्पादं बोधयति। ऋक्पादमध्ये वहिर्न वर्तत इत्यर्थः। प्रत्युदाहरणे पादमध्ये वहिर्वर्तत इति तेन `वहश्च` [[3.2.64]] इति ण्विरेव भवति॥", "32067": "`द्वयोरपि ग्रहणम्` इति। विशेषानुपादानात्। `तथा` इत्यादि। यथानन्तरयोर्धात्वोरुभयोग्र्रहणमिति, तथानयोरपि सम्भवक्तार्थयोरित्यर्थः। `टकारः सामान्यग्रहणविघातार्थः`इति। असति टकारे <<वेरपृक्तस्य>> [[6.1.67]] इत्यत्रैकानुबन्धपरिभाषया (व्या।प।52) अस्यैवं ग्रहणं स्यात्, न विजादीनाम्। टकारे त्वस्यापि द्वयनुबन्धकत्वात् सर्वेषां ग्रहणमुपपद्यते। `विशेषणार्थश्च` इति। `विड्वनोरनुनासिकस्यात्` [[6.4.41]] इत्यत्र विशेषणार्थष्टकारः, `विवनोः` इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्, तथा चाकरोदित्येवमादौ लोपः स्यात्। `अब्जाः` इति। अप्सु जायत इति अब्जाः। एवं `गोजाः`। गां सनोतीति `गोषाः`। <<सनोतेरनः>> [[8.3.108]] इति षत्वम्। नरं सनोतीति `नृषाः`। विलं खनतीति `विलखाः`। दधि क्रामतीति `दधिक्राः`। अग्रे गच्छतीति `अग्रेगाः`। <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति सप्तम्या अलुक्। सर्वत्र <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः, `विड्वनोः` [[6.4.41]] इत्यात्त्वम्॥", "32068": "", "32069": "", "32070": "`कामदुधा`। `घर्मदुघा`। कामं दोग्धीति कामदुघा। गर्मं दोग्धीति घर्मदुधा॥", "32071": "`एतेभ्यः` इति। ओतव इत्येवमादिभ्यः प्रकृत्युपपदसमुदायेभ्यः। `धातुपपदसमुदाया निपात्यन्ते` इति। ओतवा इत्येवादयः। किं पुनः कारणं धातूपपदसमुदाया निपात्यन्ते, न पुनः पृथगेवोपपदानि धातवश्च निर्दिश्यन्ते? इत्याह - `अलाक्षणिककार्यसिद्ध्यर्थम्` इति। ओतवा इत्येवमादिषु `अवयाः ओतवाः पुरोडाश्च` इति रुत्वं निपात्यते। `उक्थशाः`इति। <<ससजुषो रुः>> [[8.2.66]] इतिरुत्वमस्त्येव। `शंसतेः`इति। `{शंसु-धातुपाठः-} शन्स स्तुतौ` (धातुपाठः-728) इत्यस्य। ण्विनौ नित्करणमाद्युदात्तार्थम्। णित्करणं वृद्ध्यर्थम्। इकारः <<वेरपृक्तस्य>> [[6.1.67]] इति विशेषणार्थः।`ओतवाहादीनाम्` इत्यादि। यदि तर्हीदमुच्यते, नार्थः `अवयाः ओतवाः पुरोडाश्च`इत्यनेन वचनेन, रुत्वार्थेन तस्य दीर्घत्वात्त? ननु च <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घत्वं सिद्धमेव? यत्र तर्हि तेन न सिध्यति तदर्थं यथा स्यात्। क्व पुनस्तेन न सिध्यति? सम्बुद्धौ। यदि तर्हि तदुच्यते तदा डस् न वक्तव्यः,तेनैव निपातनेन ओतवहादीनामसन्तता निपातयिष्यते? नैतदस्ति; सम्बुद्धौ दीर्घत्वं न स्यादित्युक्तम्। अथासन्तता निपातयिष्यत इति वक्तव्यम्, तथा च सति ओतवोभ्यामित्यत्रोत्वं स्यात्। तस्मात् डस् वक्तव्यः, निपातनमपि कर्तव्यम्॥", "32072": "`योगविभाग उत्तरार्थः`इति। उत्तरसूत्रे यजरेवानुवृत्तिर्यथा स्यात्॥", "32073": "`उपयड्भीः`इति। `व्रश्चादिना` [[8.2.36]] षत्वम्, पूर्ववज्जश्त्वम् - डकारः। `उभयट्त्वम्` इति। त्वप्रत्यये परतः `खरि च` [[8.4.54]] इति चर्त्वं टकारः। ननु च `मन्त्रे` [[3.2.71]] इत्यनुवर्त्तिष्यते, मन्त्रश्च च्छन्द एव, तत् किमर्थं छन्दसिग्रहणं क्रियत इत्याह - `छन्दोग्रहणं ब्राआहृणार्थम्` इति। असति च्छन्दोग्रहणे मन्त्रग्रहणानुवृत्तेरपि ब्राआहृणे न स्यात्, न हि मन्त्रग्रहणेन ब्राआहृणं गृह्रते;तस्य ग्रन्थान्तरत्वात्। मन्त्रव्याख्याने ग्रन्थविशेषे ब्राआहृणशब्दो वर्तते, न तु मन्त्रे ; तसमाद्ब्राआहृणेऽपि यथा स्यादित्येवमर्थं छन्दसीत्युक्तम्। `विचश्चित्करणम्` इत्यादि। असति चित्करण एष एकानुबन्धः स्यात्। ततश्च <<वेरपृक्तस्य>> [[6.1.67]] इत्यत्रैकानुबन्धकपरिभाषया (व्या।प।52) अस्यैव ग्रहणं स्यात्, न क्विबादीनाम्। चित्करणे तु सत्येकानुबन्धो न कश्चिदस्तीति सर्वे गृह्यन्ते॥", "32074": "मनिनो नकार आद्युदात्तार्थः। क्वनिब्वनिपोः पकारानुदात्तार्थौ, इकार उच्चारणार्थः। क्वनिपः पकारः पित्कार्यार्थः, चकारो विचोऽनुकर्षणार्थः। शोभनं ददातीति `सुदामा`। `सर्वनामस्थाने च` [[6.4.8]] इत्यादिना दीर्घः। अआ इव तिष्ठतीत्यआत्थामा। पृषोदरादित्वात् सकारस्य तकारः। शोभनं दधातीति `सुधीवा`। शोभनं पिबतीति `सुपीवा`। धुमादिनेत्त्वम् [[6.4.66]] । भूरि ददातीति `भूरिदावा`। घृतं पिबतीति `घृतपावा`। कीलालं पिबतीति `कीलालपाः`॥", "32075": "`सुशर्मा` इति। `शृ? हिंसायाम्` (धातुपाठः-1488) शोभनं शृणातीति विग्रहः। `प्रातरित्वा` इति। इणः प्रातः शब्द उपपदे क्वनिप्, <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुक्। `विजावा` इति। `जनी प्रादुर्भावे` (धातुपाठः-1149), विजायत इति वनिप्, `विड्वोरनुनासिकस्य` [[6.4.41]] इत्यात्त्वम्। `अग्रेगावा` इति। `ग्म्लृ सृप्लृ गतौ` (धातुपाठः-982,983) पूर्ववदात्त्वम्। `रेडसि` इति। `रिष हिंसायाम्` (धातुपाठः-694), पूर्ववज्जश्त्वं डकारः। `दृशिग्रहणं प्रयोगानुसरणार्थम्` इति।तेन प्रयोगे गम्यमाने यत्र दृश्यन्ते मनिन्नादयस्तत्रैवैते साधवः, अतो नापूर्वतमः क्रियते। एतेन `ते न सर्वतो विधेयाः` इत्युक्तं भवति। यद्यन्येभ्योऽपि दृश्यन्ते, पूर्वसूत्रमनर्थकम्, मनिन्नादयः सर्वधातुभ्यो दृश्यन्त इत्येवं वाच्यम्? नैतदस्ति; आकारान्तेभ्यो धातुभ्यो नियोगतस्ते भवन्ति, अनाकारान्तेभ्यः क्वचिदेय। अपि तु पूर्वयोगश्छन्दसि, वयं तु भाषायामपि॥", "32076": "`निरुपपदेत्रभ्यश्च` इति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थस्यानुवृत्तेर्लभ्यते। `उखारुआत्। प्रर्णध्वत्` इति। `रुआन्सु ध्वन्सु अवरुआन्सने` (धा।पा754,755) , `अनिदिताम्` [[6.4.24]] इत्यादिनानुनासिकलोपः। `वसुरुआन्सुध्वंस्वनडुहां दः` [[8.2.72]] इति दत्वम्, `वाऽडवसाने` [[8.4.55]] इति चर्त्वम्। `वाहाभ्रट्` इति। `भ्रन्शु अधः पतने` (धातुपाठः-1225), व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, पूर्ववज्जश्त्वम्, चर्त्वम्, <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घः॥", "32077": "`बाधकबाधनार्थम्` इत्यादि। कक्विपोर्बाधकोऽच्, तस्यापि बाधनार्थम्। अचस्तु बाधकत्वं <<शमि धातोः संज्ञायाम्>> [[3.2.14]] इत्यत्र धातुग्रहणम्। तद्धि यतोऽपवादो विहितस्ततोऽपि शम्युपपदे संज्ञायामजेव यथा स्यादित्येवमर्थं कृतम्। एवञ्च `स्थः क च` इत्येतद्यदि नोच्येत, ततो यथा कृञो हेत्वादिषु टप्रतिषेधार्थं धातुग्रहणं तथा तिष्ठतेरपि कक्विपोर्बाधनार्थं विज्ञायते। तथा च सति शम्युपपदे संज्ञायां तिष्ठतेरजेव स्यात्, न कक्विपौ। अस्मस्तु योगे सत्यचं बाधित्वोभावेव भवतः। `शंस्थः` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः॥", "32078": "`ब्राआहृणानामन्त्रयिता` इति। `मत्रि गुप्तभाषणे` (धातुपाठः-1679), <<इदितो नुम् धातोः>> [[7.1.58]] इति नुम्, चुरादिणिच्, ततः `तृन्` [[3.2.135]] इति ताच्छीलिकस्तृन्। `सुपि` इत्यादि। ननु च `सुपि` [[3.2.4]] इत्यनुवर्तमाने पुनः सुब्ग्रहणमनर्थकम्?नानर्थकम्; पूर्वकं हि सुब्ग्रहणमुपसर्गेण सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। अत उपसर्गनिवृत्त्यर्थं पुनः सुब्ग्रहणं क्रियते। `उत्प्रतिभ्याम्` इत्यादि। सुब्ग्रहणस्य चोपसर्गनिवृत्त्यर्थ्तवादुपसर्गे न प्राप्नोतीति वचनम्। उत्प्रतिभ्यां परो य आङ,तस्मिन्नुपपदे सर्तेर्धातोरुपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इत्यतोऽत्रापिशब्दः सर्वोपाधिव्यभिचारार्थोऽनुवर्तते, तेन `उदासारिण्यः`इत्यत्रोपसर्गे णिनिर्भवति।`साधुकारिणि च`इति। अताच्छील्यार्थ आरम्भः। चकारेणोपसंख्यानमित्यनुकृष्यते, तस्य प्रतिपादनमेवार्थः। प्रतिपादनं तु - पूर्ववदपिशब्दं सर्वोपाधिव्यभिचारार्थमाश्रित्य कर्तव्यम्। अथ वा - यदयम् `तच्छीलतद्धर्मत्साधुकारिषु` [[3.2.134]] इति तच्छीलेत्यभिधाय तत्साधुकारिग्रहणं करोरति,तज्ज्ञापयति - साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति। `ब्राहृणि वदः` इति। अयमप्यताच्छील्यार्थ आरम्भः, जात्यर्थो वा। ताच्छील्येऽजातौ पूर्वेणैव सिद्धत्वात् वाऽसरूपनिवृत्त्यर्थो न हि भवति। ब्राहृआणं वदित `ब्राहृवादी`इति। णिनेर्णकारो वृद्ध्यर्थः। द्वितीय इकारो नकारस्येत्संज्ञापरित्राणार्थः॥", "32079": "धातोः कर्तरि प्रत्ययविधानात् तस्यैवोपपदकर्तोपमानं विज्ञायत इत्याह - `उपपदकर्ता`इत्यादि। उपपदवाच्यः कत्र्रा = उपपदकर्ता, शाकपार्थिवादित्वन्मध्यमपदलोपी समासः। `उष्ट्रक्रोशी` इति। `क्रुश आह्वाने रोदने च`च(धातुपाठः-856)। `ध्वाङक्षरावी` इति।`रु शब्दे` (धातुपाठः-1034)। अताच्छील्यार्थ आरम्भजात्यर्थो वेति; ताच्छील्येऽजातौ च पूर्वेणैव सिद्धत्वात्।`भक्षयति` इति। `भक्ष अदने` (धातुपाठः-1557) चौरादिकः॥", "32080": "`समुदायोपाधिश्चायम्` इति। प्रत्ययार्थविशेषणशङ्कां निराकरोति। प्रत्ययार्थविशेषणे हि तस्मिन् व्रत एव कर्तरि प्रत्ययः प्रसज्येत,न तद्वति देवदत्ते। `धातूपपद` इत्यादिना समुदायोपाधित्वं व्रतस्य दर्शयति। `कामचारप्राप्तौ नियमः`इति। कामचारः = इच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः। अनियमत्वाद्यथेष्टं सामान्येन शयने भोजने च प्रवृत्तौ प्राप्तायामयमर्थान्तराद्वयावर्त्त्यविशेषे स्थण्डिलादौ न प्राप्नोति, तस्माद्वयवस्थाप्यते। नियमश्चात्र द्विविधः सम्भवति - स्थण्डिले शेत एवाश्राद्धं भुङक्तं एवेत्येयंरूपो वा स्यात्, स्थण्डिल एव शेतेऽश्राद्धमेव भुङ्क्ते इत्येवंरूपो वा,तत्र पूर्वके नियमे यदैव स्थण्डिले न शेतेऽश्राद्धञ्च न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। तस्माद् द्वितीयो नियमो युक्त इति मन्यमान आह - `सति शयने`इत्यादि॥", "32081": "`आभीक्ष्ण्यं पौनःपुन्यम्` इति। पुनः पुनर्भावः पौनःपुन्यमिति, अव्ययानां भमात्रे टिलोपः। `तात्पर्यमासेवैव` इति। तदेवाभीक्ष्ण्यम्। पर्यायान्तराभ्यां स्पष्टीकरोति - `{ताच्छील्यादन्यत् - काशिका, पदमंजरी च।} ताच्छील्यादन्यः` इति। एतेन `सुप्यजातौ` [[3.2.78]] इत्यादिनाऽऽभीक्ष्ण्ये न सिध्यतीत्यसामर्थ्यमुद्भावयन्नस्य योगस्य फलं दर्शयति - `कषायपायिणः`इति। यत्र देशे कषायं पुनः पुनः पिबतामारोग्यं भवति, अतस्ते कषायं पिबन्तीति, न तु ताच्छील्यात्। `क्षीरपायिणः`इति। तेऽपि तथोक्तादेव कारणात् पानान्तराभावाद्वा ताच्छील्याभावेऽप्यगत्या क्षीरं पिबन्ति। `सौवीरपायिणः` इति। अत्राप्येतदेवानन्तरोक्तं पुनः पुनः सौवीरपानस्य कारणम्। सर्वत्र <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्। `प्रातिपदिकान्तनुम्` [[8.4.11]] इत्यादिना णत्वम्। `कुल्माषखादः` इति। <<कर्मण्यण्>> [[3.2.1]] ॥", "32082": "`मन्यतेग्र्रहणम्` इति। `मन ज्ञाने` (धातुपाठः-1176) इत्येतस्य दैवादिकस्य। `न मनुतेः` इति। `मनु अवबोधने` (धातुपाठः-1471) इत्येतस्य तानादिकस्य ग्रहणं न भवति। नन #उ च यदेव मन्यतेर्णिनिप्रत्यये कृते दर्शनीयमानीति रूपं भवति, तदेव मनुतेरपि,तत् कोऽत्र विशेषो यतो मन्यतेग्र्रहणमिष्यते,न मनुतेरित्यत आह - `उत्तरसूत्रे हि` इत्यादि। यद्यपीह विशेषो नास्ति, उत्तरसूत्रे तु विकरणकृतो विशेषोऽस्ति, तत्र हि मन्यतेः खशि कृते दिवादित्वाच्छ्यन् भवति, मनुतेस्तु तनादित्वादुप्रत्ययः॥", "32083": "`आत्ममाने` इति। मननम् = मानः, भावे घञ्। आत्मनो मानः आत्ममानः। `कर्त्तृकर्मणोः कृति` [[2.3.65]] इति षष्ठी, `कृद्योगा च षष्ठी समस्यते`(वा। 83) इति समासः। अथ कर्तरि षष्ठी कस्मान्न भवति? आत्मग्रहणसामर्थ्यात्। न ह्रात्मनोऽन्यस्य पदार्थस्य मतिः सम्भवति, तस्या आत्मगुणत्वात्। अथात्मशब्दोऽयं न सुखादिगुणमाचष्टे, कि तर्हि? पराभावम्। परो यो न भवति स आत्मेति, तथाप्यात्मग्रहणमनर्थकम्। एवं हि मन्तुर्या मतिर्या मतिस्त्तत्र वर्तमानादित्येषोऽर्थः स्यात्, स चायुक्तः,क सर्वा हि मतिः परमपि मन्यमानस्य मन्तुरेव भवति, तस्मात् कर्मण्येव षष्ठी। `यदा प्रत्ययार्थः कर्ता` इत्यादि। कथं पुनरेष एवार्थः, कर्म कर्ता च युज्यते? शक्तिभेदात्, यथा - पीयमानं मधु मदयतीति। खशः खकारः <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुमर्थः। शकारः सार्वधातुकसंज्ञार्थः॥", "32084": "भूतशब्दोऽयमतिक्रान्तवचनः, अस्ति च स्वरूपवचनः, तत्र न ज्ञायते - कस्मिन् भूते प्रत्यय इति? अतस्तत्पज्ञानायाह - `धात्वधिकाराच्च`इत्यादि। चशब्दो हेतौ। यस्माद् धातोरिति वर्तते तस्माद्धात्वर्थभूत इति विज्ञायते। ननु च धात्वधिकाराद्धातोरेव भूत इत्येतद्विशेषणं युक्तम्? न; असम्भवात्। धातोह्र्रस्मिन्नभिधेये गुणीभूतस्य भूत इत्येतद्विशेषणमनुपपन्नम्। अतस्तत्रासम्भवात् तदर्थस्यैव तद्विशेषणं विज्ञायते॥", "32085": "`णिनिरनुवर्तते, न खश्िति। णिनेरेव स्वरितत्वात्। क्व पुनर्यागः करणमित्याह - `अग्निष्टोमः फलभावनायाम्` इत्यादि। फलं स्वर्गः, तस्य या भावनोत्पादना = यजमानसम्बन्धी व्यापारः, तत्राग्निष्टोमयागः करणं भवति। ननु चाग्निष्टोमव्यतिरेकेण यजमानसय् व्यापारो भावनाख्यो नास्त्येव, यत्र यागः करणमिष्यते, तथाह्रग्निष्टोमाख्येनैव ह्रसौ यागेन स्वर्गाख्यं फलमुत्पादयति? नैतदेवम्; विशेषव्यापारे हि सामान्यव्यापारोऽस्ति, विक्षेषस्य सामान्यव्यभिचारात्। सामान्यव्यापार एव ह्रादौ फलार्थिनो बुद्धौ सन्निविशते। तथा हि - प्रतिपत्ता फळं समीहमानः स्वयमेव फलकामः सन् `स्वर्गो मनसि कर्तव्यः`इति सामान्यव्यापारं बुद्धावारोपयति, ततः `\tअग्निष्टोमेन स्वर्गकामो यजेत`इति शास्त्रस्याग्निष्टोमेन करणेन स्वर्ग भावयेदितीममर्थ प्रतिपाद्य, स्वर्गभावनां प्रति करणत्वेनाग्निष्टोममाश्रयति। तस्मात् सामान्यव्यापारे स्वर्गस्योत्पादो विशेषव्यापारोऽग्निष्टोमाख्यो यागः स्वर्गाभावनायां करणं भवति। ननु चानुष्ठीयमानः कर्मत्वमनुभवति, तथापि तस्य शक्तिभेदात् करणत्वं न विरुध्यते, यथा - `निपीयमानेन मधुना मत्तः` इत्यत्र कर्मभावमनुभवतोऽपि मधुनः करणभावो भवति। तदेवमग्निष्टोमयाजीत्यस्यायमर्थः - अग्निष्टोमेन करणेन स्वर्ग भावितवानिति। स्वर्गशब्दस्तु वृत्तादन्तर्हितत्वान्न प्रयुज्यते॥", "32086": "`पितृव्यघाती` इति। <<हनस्तोऽचिण्णलोः>> [[7.3.32]] इति तत्वम्। <<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इति घत्वम्, `सौ च` [[6.4.13]] इति दीर्घत्वम्। `कुत्सितग्रहणं कर्तव्यम्िति प्रत्ययर्थस्य विशेषणम्। गृह्रतेऽनेनेति ग्रहणम्। तत् पुनव्र्याख्यानम्। एतदुक्तं भवति - येन कुत्सितः कर्ता प्रत्ययार्थो गृह्रते तद्व्याख्यानं कर्तव्यमिति। तत्रेदं व्याख्यानम् - वक्ष्यमाणबहुलग्रहणमपकृष्येह सम्बन्धः क्रियते, तेन पितृव्यवधादिकां प्रतिषिद्धां क्रियां कुर्वाणो यः कर्ता कुत्स्यते, तत्रव, नान्यत्र॥", "32087": "`ब्राहृहः`इति। पूर्ववद्दीर्घत्वम्।`सर्वधातुभ्यः क्विब्विहित एव` इति। <<क्विप् च>> [[3.2.76]] इत्यनेन। `चतुर्विधश्चात्र नियमः` इति। धातुनियः, उपपदनियमः, प्रत्ययनियमः, कालनियमः। चकारोऽवधारणे - चतुर्विध एव। `ब्राहृआदिष्वेव हन्तेर्नान्यस्मिन्नुपपदे`इति धातुनियमं दर्शयति। अत एव यतएवकारकरणं ततोऽन्यत्रावधारणमिति। उपपदेभ्यः पर एवकारः प्रयुज्यमानो हन्त नियमयति। प्रायिकश्चायं नियमः, क्वचिदन्यस्मिन्नुपपदे दृश्यते - मधुहेतु। प्रायिकत्वञ्च तस्य वक्ष्यमाणबहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते। `ब्राहृआदिषु हन्तेरेव नान्यस्मात्` इति उपपदनियमः। अत्र हि हन्तेः एकारः श्रूयमाण उपपदं नियमयति - ब्राहृआदिषु हन्तेर्भूते क्विबेव। `नान्यः प्रत्ययः` इति कालनियमः। ब्राहृआद्युपपदे हन्तेः क्विपि विहिते भूतकालस्य नियमितत्वात्। यदि ब्राहृआदिषु क्विबेव नान्यः प्रत्ययः इति, तदा निष्ठापि न प्राप्नोति - ब्राहृआणं हतवानिति? नैष दोषः; `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्`(व्या।प।10) इत्यणादय एव बाध्यन्ते, न निष्ठा। एवमपीह वृत्रस्याहन्तुरिति तृज् न प्राप्नोति? प्रायिकत्वान्नियमस्य न दोषः। `तथा भूतकाल एव नान्यस्मिन्` इति प्रत्ययनियमः, भूतकाले प्रत्ययो नियम्यत इति कृत्वा। कथं पुनरेकदा चत्वारो नियमा लभ्यन्त इत्याह - `तदेतत्ित्यादि। <<बहुलं छन्दसि>> [[7.4.78]] इति वक्ष्यमाणं बहुलग्रहणं पुरस्तादपकृव्यानेन योगेन सम्बध्यते - ब्राहृभ्रूणवृत्रेषु क्विब्बहुलमिति, तेनायं चतुर्विधो नियमो लभ्यते॥", "32088": "", "32089": "`सुशब्दं वर्जयित्वा`इति। तस्यासत्त्ववचनात् कर्मत्वानुपपत्तेः। `स्वादिषु कर्मसु` इति। बाहुल्यमाश्रित्योक्तम्, यथा - `ब्राआहृणग्रामः, भट्टग्रामः` इति। कुत एतत्? सुशब्दं वर्जयित्वेत्यनन्तराणामेवाभिधानात्। `त्रिविधश्चात्र नियमः` इति। एतदपि बहुलग्रहणानुवृत्तेर्लभ्यते। `कालोपपदप्रत्यय{नियमः-काशिका}विषयः` इति। कालोपपदप्रत्यया विषया यस्य स तथोक्तः। स पुनः कालनियमः, उपपदनियमः, प्रत्ययनियमश्चेति। तत्र कालनियमः - स्वादिषु कृञो भूत एव क्विबेव बवति, नान्यः प्रत्यय इति; न भवति - कर्म कृतवान् कर्मकार इति। उपपदनियमः - स्वादिषु कृञ एव, नान्यस्माद्धातोरिति; न हि भवति क्विप् - मन्त्रमधीतवानिति, अणेव भवति मन्त्राध्याय इति। प्रत्ययनियमः - स्वादिषु कृञो भूत एव क्विप्, न वर्तमाने, भविष्यत् इवा, तेन मन्त्रं करोति, मन्त्रं करिष्यतीति वेत्यर्थविवक्षायां मन्त्रकृदिति न भवति। `शास्त्रकृत्` इति। <<क्विप् च>> [[3.2.76]] इति क्विप्॥", "32090": "`धातुकालोपपदप्रत्यय विषयः`इति। पूर्ववद्बहुव्रीहिः। कालादिनियमोऽन्यपदार्थः। तत्र कालनियमः - सोमे सुनोतेः क्विबेव भूते, नान्यः प्रत्ययः; न हि - सोमं सुतवान् सोमसाव इति। धातुनियमः - सोम एव सुनोतेः क्विप्, नान्यस्मिन्नुपपद इति;इह न भवति - सुरां सुतवान् सुरासुदिति। उपपनियमः - सोमे सुनोतेरेव, नान्यस्माद्धातोरितित;इह न भवति क्विप् - सोमं क्रीतवानिति , सोमक्राय इत्यणेव तु भवति। प्रत्ययनियमः - सोमे सुनोतेर्भूत एव क्विप्, नान्यत्रेति;तेन सोमं सुनोति, सोष्यति वेत्यर्थविवक्षायां सोमसुदिति न भवति॥", "32091": "`अत्रापि पूर्ववत्ित्यादि। तत्र कालनियमः - अग्नौ चिनोतेर्भूते क्विबव, नान्य इति; तेनाग्न चितवानित्यर्थविवक्षायामग्निचाय इति न भवति। धातुनियमः - अग्नावेव चिनोतेर्नान्यस्मिन्नुपपद इति; तेनेष्टकाचिदितति न भवति। उपपदनियमः - अग्नौ चिनोतेरेव नान्यस्माद्धातोरिति; तेनाग्निकृदिति न भवति। प्रत्ययनियमः - अग्नौ चिनोतेर्भूत एव क्विप्, नान्यस्मिन् काले; तेन वर्तमानभविष्यतोरग्निचिदिति न भवति॥", "32092": "<<कर्मणि हनः>> [[3.2.86]] इत्यत उपपदविशेषमे कर्मग्रहणेऽनुवर्तमाने यत् पुनरिह कर्मग्रहणं तस्य प्रत्ययार्थत्वं विज्ञायत इत्याह - `कर्मण्येव कारके` इति। `धातूपपद` इत्यादिना समुदायोपाधित्क्मेतदग्न्याख्याग्रहणस्य दर्शयति।`आख्याग्रहणं रूढिसम्प्रत्ययार्थम्` इत्यादि। अग्निशब्दोऽयमग्निसामान्यवाची, अत्रासत्याख्याग्रहणे विशेषो न विज्ञायते - कस्येह ग्रहणमिति, रूढिसम्प्रत्ययार्थमाख्याग्रहणं क्रियते। किं पुनः कारणं तदर्थमाख्याग्रहणं क्रियत इत्याह - `अग्न्यर्थो हि` इत्यादि। अग्न्यर्थो य इष्टकानां रचनाविशेषः स श्येनचिदित्युच्यते, तत्रैवायं प्रत्यय इष्यते। स कथं तत्रैव लभ्यते? यस्य ग्रहणं क्रियते, तस्मश्च सति प्रसिद्धो गृह्रमाणोऽग्न्यर्थो य इष्टकानां रचनाविशेषः स एव प्रत्ययार्थो वाच्यतया विज्ञायते, नान्यः॥", "32093": "`कर्मणीति वर्तमाने` इत्यादि। `कर्मणिहनः` [[3.2.86]] इत्यतः। `पुनः कर्मग्रहणम्` इत्यादि। यत् कर्म क्रियासम्बन्धमनुभवत् कर्त्तुः कुत्सामावहति,तत् कुत्सानिमित्तं कर्म यथा स्यादित्येवमर्थम्। कर्मग्रहणेऽनुवर्तमाने पुनः कर्मग्रहणमनन्तरसूत्रे यत् कर्मप्रत्ययार्थत्वेऽनिष्टं कर्मग्रहणं तन्निवृत्त्यर्थम्। कर्मग्रहणं कस्मान्न भवति? तस्य स्वरितत्वादेवानुवृत्तेः। `सोमविक्रयी` इति। सोमविक्रयणं शास्त्रे प्रतिषिध्यत इति सोमाख्यं कर्म विक्रयणक्रियया सम्बध्यमानं विक्रेतुः कुत्सामावहति। `धान्यविक्रायः` इति। <<कर्मण्यण्>> [[3.2.1]] ॥", "32094": "`प्रत्ययान्तरनिवृत्यर्थम्` इति। प्रत्ययान्तरमणादि, तस्य निवृत्त्यर्थम्। निवृत्ते सत्यपि प्रत्ययः प्रत्ययान्तरत्वे भवत्येव - परलोकं दृष्टवानिति। अत्र च कारणं `ब्राहृभ्रूण` [[3.2.87]] सूत्र एव उक्तम्॥", "32095": "", "32096": "", "32097": "सप्तमीति प्रत्ययग्रहणम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तस्य ग्रहणं भवतीत्याह - `सप्तम्यन्त उपपदे` इति । स्वरूपग्रहणमत एव न भवति। `उपसरजः` इति । डित्करणसामर्थ्यादभसंज्ञकस्यापि टिलोपः। `मन्दुरजः` इति। <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इति ह्रस्वः॥", "32098": "`बुद्धिजः` इति। `जनिकृर्त्तुः प्रकृतिः` [[1.4.30]] इति बुद्धेरपादानत्वादपादाने पञ्चमी।, तदस्योपपदत्वम्। बुद्ध्यादिशब्दा जातिशब्दा न भवन्ति; बुद्ध्यादीनामात्मगुणत्वात्॥", "32099": "`समुदायोपाधिः`इति। धातूपसर्गप्रत्ययसमुदायेन यदि संज्ञा गम्यत इएवं प्रत्ययार्थो भवति, नान्यथेति दर्शयति - `{प्रजाः- काशिका} प्रजाः` इति। प्राणिसमुदायस्यैषा संज्ञेति। यद्यस्य सूत्रस्य प्रजेत्येतदेवोदाहरणम्, तदा `प्रे जनः संज्ञायाम्िति वक्तव्ये प्रजेति सिध्यत्येव, किमुपसर्गग्रहणेन? उपसर्गग्रहणमुत्तरार्थम्; <<अनौ कर्मणि>> [[3.2.100]] इत्युपसर्गे यथा स्यात्, कर्मप्रवचीये मा भूत्। अथानन्त्यस्य प्रयोगविषयस्यान्यस्मिन्नुपपदे कदाचित् प्रत्ययो दृश्यते यदि, तदैतदर्थमपि॥", "32100": "`अनुपूर्वाज्जनेः` इत्यादि। अथानुशब्दस्योपपदत्वं कस्मान्न भवति? यतो न भवति स हेतुः `उदि कूलेरुजिवहोः` [[3.2.31]] इत्यत्र व्याख्यात इति पुनर्नाख्यायते। `पुममुजः` इति। लुप्तेऽपि सुपि प्रत्ययलक्षणेन पदत्वम्, तेन संयोगान्तलोपो [[8.2.23]] भवति॥", "32101": "`अपिशब्दः` इत्यादि। सर्व उपाधय उपपदादयः, तेषां व्यभिचारो यथा स्यादित्येवमर्थोऽपिशब्दः। `धात्वन्तरादपि`इति। `खनु अवदारणे`(धातुपाठः-878) इत्येतस्मात्। `कारकान्तरेऽपि` इति। कर्त्तुरन्यस्मिन् कारके कर्मणि॥", "32102": "`कृतम्` इति। अत्र कित्त्वाद् गुणाभावः। `कृतवान्` इति। `उगिदचाम्` [[7.1.70]] इति नुम्। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः, हल्ङ्यादि [[6.1.66]] संयोगान्तलोपौ [[8.2.23]] ।`निष्ठायाम्` इत्यादि। निष्ठासंज्ञके प्रत्यये विधातव्येऽप्रसिद्धनिष्पत्तिकस्य निष्ठासंज्ञकस्य प्रत्ययस्य निष्ठेति चास्याः संज्ञाया अप्रसिद्धिः, कुतः? इतरेतराश्रयत्वात्। कथमितरेतराश्रयत्वमित्याह - `संज्ञायाम्` इत्यादि। निष्ठेत्येवं संज्ञामुच्चार्य क्तक्तवत्वोरिह भूते विधानम्, विद्यमानयोश्च तयोः संज्ञया भवितव्यमितीतरेतराश्रयत्वम्, `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते`(व्या।प।28)। यदितो क्तक्तवतू स्वरूपेण विज्ञातौ भवत एवञ्च <<क्तक्तवतू निष्ठा>> [[1.1.26]] इत्यन्यस्य संज्ञा विधातुं शक्यते,नान्यथा। अतः संज्ञाया अप्रसिद्धिः, तस्याश्चाप्रसिद्धौ तयोरप्रसिद्धिः। `भाविनी` इति। भविष्यन्तीत्यर्थः। यथा - अस्य सूत्रस्य शाटकं वयेति। भाविनीशब्दोऽयम् `गमेरिनिः`(द।उ।6।57) `आङि णित्` (द।उ।6।58) `भुवश्च` (द।उ।6।59) इतीनिप्रत्ययान्तो व्यत्पादितः। स च <<भविष्यति गम्यादयः>> [[3.3.3]] इति भविष्यत्काले विहितः। तेन भाविनीत्यस्य भविष्यन्तीत्येवार्थो लभ्यते। `सामर्थ्यात्` इत्यादि। स भूते भवति यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। न चान्यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। अपि तु क्तक्तवत्वोरेवेति सामर्थ्यम्। `आदिकर्मणि` इत्यादि। कर्मशब्दोऽत्र क्रियावाची। आदिभूते क्रियारम्भादिभूते प्रथमे क्रियालक्षण इत्यर्थः। यावत्क्रियालक्षणैः सकलः कटः परिसमाप्तिमुपैति क्रियालक्षणानां तावतामपवर्गे भूतकालो भवति। आद्ये क्रियालक्षणे समुदायस्यापरिनिष्पन्नत्वात् वर्तमानकाल एवेति। तत्र वर्तमाने निष्ठा न प्राप्नोति, अतो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम् - यदयं <<उदुपधाद्भावादिकर्मणोरन्यतरस्याम्>> [[1.2.21]] इत्यादिकर्मणि कर्मणि निष्ठा विकल्पयति। यद्वा - <<आदिकर्मणि क्तः कर्तरि च>> [[3.4.71]] इत्यादि, तज्ज्ञापयति - आदिकर्मणि निष्ठा भवतीति। `प्रकृतः कटम्` इति। प्रशब्दोऽत्रादिकर्म द्योतयति। य एवार्थः प्रकरोति कटं देवदत्त इति, स एवार्थः प्रकृतः कटं देवदत्त इति॥`सुत्वा` इति। <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुक्, `सर्वनामस्थाने च` [[6.4.8]] इत्यादिना दीर्घः, <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः॥", "32103": "", "32104": "`जरन्` इति। अतृनो नित्त्वादाद्युदात्तत्वं भवति। `उगिदचाम्` [[7.1.70]] इति नुम्॥", "32105": "`ददर्श` इति। दर्शर्लिट, णल्, द्विर्वचनम्, `उरत्` [[7.4.66]] इत्यत्त्म्, रपरत्वम्, हलादिशेषः [[7.4.60]] , लघूपधगुणः [[7.3.86]] । `आततान` इति। `तनु विस्तारे` (धातुपाठः-1463) आङपूर्वः, <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः। `धातुसम्बन्धे स विधिः` इति। <<धातुसम्बन्धे प्रत्ययाः>> [[3.4.1]] इत्यतो धातुसम्बन्धग्रहणानुवृत्तेः। `अयं त्वविशेषणेण` इति। भूतमात्रे। लिट इकारटकारावुत्तरसूत्रे विशेषणार्थौ। `लः कानज्वा` इत्युच्यमाने लकाराणां ग्रहणं स्यात्। टकारष्टेरेत्वार्थः॥", "32106": "कानचश्चिकरणमन्तोदात्तार्थम्। कित्करणं कित्कार्यार्थम्। तत्पुनः `बन्ध बन्धने` (धातुपाठः-1508) इत्येवमादयः संयोगान्ताः प्रयोजन्ति,नान्ये। असंयागान्तेभ्यः <<असंयोगाल्लिट् कित्>> [[1.2.5]] इति सिद्धः, संयोगान्ता अपि कित्त्वं भाषायां प्रयोजयन्ति, न छन्दसि। तत्राह - <<छन्दस्युभयथा>> [[6.4.86]] इति लिटः सार्वधातुकत्वात् <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वमस्त्येव। न कित्त्वे ङित्त्वे वा च्छन्दसि कश्चिद्विशेषोऽस्ति। भाषायां तु यद्यसंयोगान्तेभ्यः कित्त्वं न स्याद्योऽयं `ऋच्छत्यृताम्` [[7.4.11]] इति गुणः प्रतिषेधविषय आरभ्यते स यथेह न भवति - निपपरतुः, निपपरुरिति;तथेहापि स्यात् - निपपुराण इति; कित्त्वे च सति न भवति। भाषायां तु कित्त्वमर्थवद्भवति। `पृ पालन पूरणयोः` (धातुपाठः-1086), निपूर्वात् कानच्। द्विर्वचनात् परत्वात् `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वम्, रपरत्वञ्चेति। <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थानिवद्भावात् पृशब्दो द्विरुच्यते। उरत्त्वरपरत्वहलादिशेषाः, अट्कुप्वादिना [[8.4.2]] णत्वम्। भाषायां कानज्भवीत्यस्मादेव ज्ञापकादवसीयते। `चिक्यानःट इति। अभ्यासादुत्तरस्य चिनोतेश्चकारस्य <<विभाषा चेः>> [[7.3.58]] इति कुत्वम्, `एरनेकाचः` [[6.4.82]] इत्यादिना यणादेशः। `सुषुवाणः` इति। `{सुनोतेरिति-इति मुद्रितः पाठः।} सुनोतेरिति; `अचि श्नुधातु` [[6.4.77]] इत्यादिनोवङादेशः, <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्।\t`विभक्तिविपरिणामो भविष्यति` इति। यद्यपि लिडिति प्रथमान्तं प्रकृतं तथाप्यर्थाद्विभक्तिविपरिणामो भविष्यति। आदेशम्बन्धादुत्तरस्य लिटः षष्ठन्तता भविष्यति।तस्मादन्तरेणापि लिड्ग्रहणं प्रकृत्वाल्लिट एव कानजादेशो भविष्यतीति लिड्ग्रहणं न कर्तव्यमिति भावः। `योऽपि` इत्यादि। योऽपि <<परोक्षे लिट्>> [[3.2.115]] इत्यनेनलिड्विहितस्तस्यापि लिड्ग्रहणे सति कानजादेशो भवति। असति तु तस्मिन् `अनन्तरस्य विधिर्वा प्रतिषेधो वा` (व्या।प।19) इत्यस्यैव स्यात्, न परोक्षे लिटः। अथासति लिड्ग्रहणे प्रत्ययान्तरं कानच् कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्, प्रत्ययान्तरे हि `न लोकाव्ययनिष्ठाखलर्थतृनाम्` [[2.3.69]] इति षष्ठीप्रतिषेधो न स्यात्। ततश्चाग्न चिक्यान इत्यत्राग्निशब्दात् षष्ठी स्यात्॥।", "32107": "क्वसोरुगित्करणं नुमर्थम्। कित्करणं कानच इव द्रष्टव्यम्। असति हि तस्मिन् `ऋच्छत्यृनाम्` [[7.4.11]] इति यथेह गुणो न भवति - तेरतुः, तेरुरिति; तथेहापि ततीर्वानिति। `तृ प्लवनतरणयोः` (धातुपाठः-969), <<ॠत इद्धातोः>> [[7.1.100]] इतीत्त्वम्, `हलि च` [[8.2.77]] इति दीर्घः, द्विरवचनमभ्यासकार्यम्। `जक्षिवान्` इति। `लिटन्यतरस्याम्` [[2.4.40]] इत्यदेर्घस्लादेशः। `वस्वेकाजाद्धसाम्` [[7.2.67]] इतीट्, <<घसिभसोर्हलि च>> [[6.4.100]] इत्युपधालोपः, `खरि च` [[8.4.54]] इति घकारस्य ककारः, `शासिवसिघसीनाञ्च` [[8.3.60]] इति षत्वम्, <<कुहोश्चुः>> [[7.4.62]] इत्यभ्यासस्य चुत्वम् - झकारः, <<अभ्यासे चर्च>> [[8.4.54]] इति झकारस्य जकारः। `पपिवान्` इति। `पा पाने` (धातुपाठः-925)। पूर्ववदिट्। <<आतो लोप इटि च>> [[6.4.64]] इत्यकारलोपः। `योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे क्वसोरेवानुवृत्तिर्यथा स्यात्, कानचो मा भूत्॥", "32108": "ननु चेह प्रकरणे भूतसामान्ये लिड् विहितः, तेनासौ भाषायां नास्त्येव, तदसतस्तस्य कथं क्तसुरादेशः शक्यते विज्ञातुमित्याह - `आदेशविधानादेव` इत्यादि। यदेतद्भाषायां लिटः क्वसोरादेशविधानमत एव विज्ञानाद् भूतसामान्ये भाषायां लिडित्वनुमीयते; अन्यथा ह्रादेशविधानमनर्थकं स्यात्। न ह्रविद्यमानस्य स्थानिन आदेश उपपद्यते। यदि तह्र्रादेशविधानाल्लिड्? भाषायामनुमीयते, ततश्च सदादिभ्यो भाषायां नित्यं लिट् प्राप्नोति, तस्य `विभाषा क्वसुः` इति पक्षे तिङः श्रवणं प्रसज्येत, लुङादेशश्च स्वविषये पाक्षिको न स्यात्, नित्यत्वाल्लिटः? नैष दोषः;आदेशेन हि लिङ्गेन लिडनुमीयते, तेन यदादेशो नास्ति तदा तदनुमानमपि नास्त्येव। तदसत्त्वे लिटः कुत आदेशा येषां श्रवणं प्रसज्येत ! यत्र पक्षे लिट् नास्ति तत्र स्वविषये लुङादयो भवन्तः केन निवार्यन्ते ! `उपसेदिवान्` इति। `षद्लृ विशरणे` (धातुपाठः-854)। `अत एकहल्मध्ये` [[6.4.120]] इत्यादिनैत्वाभ्यासलोपौ, `वस्वेकाजाद्धसाम्` [[7.2.67]] इतीट्, नुम्, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः, हल्ङ्यादि [[6.1.66]] संयोगान्तलोपौ [[8.2.23]] । `उपासदत्` इति। वाग्रहणाद्यस्मिन् पक्षे लिड् नास्ति तस्मिन् पक्षे भूतसामान्ये लुङ्, तिप्, `इतश्च` [[3.4.100]] इतीकारलोपः, पुषादिना [[3.1.55]] च्लेरङ्। `उपासीदत्` इति। <<अनद्यतने लङ्>> [[3.2.111]] , प्राघ्रादिसूत्रेण [[7.3.78]] सीदादेशः। `उपससाद` इति। <<परोक्षे लिट्>> [[3.2.115]] , तिप्, णल्, <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः। `अनूविषान्` इति। `वस निवासे` (धातुपाठः-1005), लिटः क्वसूर्द्विर्वचनम्, वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्। `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इत्यभ्यासस्य सम्प्रसारणम्, `शासिवसिघसीनाञ्च` [[8.3.60]] इति षत्वम्, <<अकः सवर्णे दीर्घः>> [[6.1.101]] अनुशब्देन सह पुनर्दीर्घः। `अन्ववात्सीत्िति। लुङ्, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्, `एकाचः` [[7.2.10]] इतीट्प्रतिषेधः, `सः स्यार्धधातुके` [[7.4.49]] इति तत्वम्, `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः। `अन्ववसत्` इति। लङ्। `अनूवास` इति। लिट, पूर्ववत् सम्प्रसारणादिकार्यम्। `उपशुश्रुवान्` इति। `श्रु श्रवणे` (धातुपाठः-942), लिटः क्वसुः, द्विर्वचनम्। `उपाश्रौषीत्` इति। लुङ् <<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] इति वृद्धिः, पूर्ववदिट्प्रतिषेधः, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्, उपसर्गेण <<अकः सवर्णे दीर्घः>> [[6.1.101]] । `उपाशृणोत्` इति। लङ्, <<श्रुवः शृ च>> [[3.1.74]] इति श्नुप्रत्ययः, शृभावश्च, `सार्वधातुकार्थधातुकयोः` [[7.3.84]] इति गुणः। `उपशुश्राव` इति। लिट्, तिप्, णल्, <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः, आवादेशः। इहानेन सूत्रेण यत्कार्यं विधीयते तद्भूतसामान्ये। `{इयं पंक्तिर्मुद्रिते नास्ति} लुङ्` [[3.2.110]] इत्यनेन लुङ्। `अनद्यतने लुङ्` [[3.2.111]] इत्यनेन लङ्, <<परोक्षे लिट्>> [[3.2.115]] इत्यनेन लिट्, भूतानद्यतनपरोक्षे परौ च लङिलिटौ भवतः। विशेषविहितत्वाच्च लङलिटोरस्य सदादिकार्यस्य बाधकौ प्राप्नुतः। तस्य कार्यस्य भूतसामान्यमवकाशः; लङलिटोः सदादिभ्योऽन्येभ्यो धातुभ्यः, सदादिभ्यो भूतविशेषे भूतानद्यतनपरोक्षे; भूतानद्यतने चोभयप्राप्तौ यथोक्तकारणद्वयात् लङलिटौ स्याताम्।न चैतत् सूत्रविहितं कार्यमपीति यश्चोदयेत्, तं प्रत्याह - `लुङलङविषयेऽपि` इत्यादि। लिड्ग्रहणस्य वाग्रहणस्य चास्य सूत्रस्य पुरस्तात् `अनद्यतने लङ` [[3.2.111]] , <<परोक्षे लिट्>> [[3.2.115]] इत्यत्र चानुवृत्तिः क्रियते। तत्र चानुवृत्तिसामर्थ्यात् लङ्यप्येतत् भवति। अत्रैवं सम्बन्धः कर्तव्यः - अनद्यतने लङ भवति, सदादिभ्यो वा लिट्, लिटश्च क्वसुरादेशो नित्यमिति। परोक्षे लिड्? भवति, सदादिभ्यो वा, लिटः क्वसुरिष्यते, सूत्रान्तरविहितश्चायम्॥", "32109": "`उपपूर्वादिणः क्वसुः` इति। लिडादेश इति वेदितव्यः। `अभ्यासदीर्घत्वम्` इति। <<दीर्घ इणः किति>> [[7.4.69]] इत्यनेन। `तत्सामर्थ्यात्` इत्यादि। दीर्घत्वविधानसामर्थ्यादकः सवर्णे दीर्घ्तवमेकादेशः प्रतिषिध्यते, प्रवृत्तिविघातोऽस्य क्रियत इत्यर्थः। यदि ह्रेकादेशः स्यात्, दीर्घत्वभिधानमनर्थकं स्यात्; एकादेशेनैव दीर्घत्वसिद्धेः। ननु चाभ्यासदीर्घस्येयतुः, इयुरित्ययमवकाशः स्यात् - यत्र धातुरूपस्य <<इणो यण्>> [[6.4.81]] इति यणादेशः क्रियते? नैषोऽस्यावकाशः, अत्र हि <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावेन भवितव्यम्। कथम्? सवर्णदीर्घत्वे हि पूर्वापरविधितवात् पूर्वविधिरिति शक्यते व्यपदेष्टुम्। यो ह्रुभयस्थानी निष्पद्यते लभतेऽसावन्यतरव्यपदेशम्। न चात्र `न पदान्त` [[1.1.57]] इत्यादिसूत्रेण दीर्घविधिं प्रति स्थानिवद्भावप्रतिषेधोऽस्ति; यस्मात् `स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवदेव` (काशिका।1.1.59) इत्यादिसूत्रेण दीर्घविधिं प्रति स्थानिवद्भावप्रतिषेधोऽस्ति; यस्मात् `स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवदेव` (काशिका।1.1.59) इति स्थानिवद्भावादकः सवर्णे दीर्घत्वेनात्र भवितव्यम्। तदेतदभ्यासदीर्घत्वमनवकाशत्वात् सवर्णदीर्घत्वं बाधत इति स्थितमेतत् - सामर्थ्यादेकादेशः प्रतिषिध्यत इति। `तत्र` इत्यादि। एकादेशप्रतिबन्धके हि सत्यनेकाच्त्वं भवति, तेन <<वस्वेकाजाद्घसाम्>> [[7.2.67]] इत्यनेनेडागमो न प्राप्नोतीति स निपात्यते। `धातुरूपकस्य यणादेशः` इति। <<इणो यण्>> [[6.4.81]] इत्यनेन, तर्दीदं निपातनमेव। सत्यजादावपि परतो वसोः सम्प्रासरणमिति। सम्प्रसारणे कृते सतीट् प्राप्नोति स <<वस्वेकाजाद्घसाम्>> [[7.2.67]] इति प्रतिषिद्धः, स एवानेन निपातनन प्रतिप्रसूयते। प्रतिषिद्धः स पुनः प्रवर्तते, न त्वपूर्व विधीयते। `तेनाजादौ न भवति` इति। अपिपूर्वस्य हि विधानेन विशेषानुपादानादजादावपि प्रसङ्गः स्यात्; न तु लक्षणप्रतिषेधस्येटः प्रसवे; तस्य वलादित्वात्। `उपेयुषा` इति। सम्प्रसारणे कृते धातोर्यणादेशः, <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्। `न चात्रोपसर्गस्तन्त्रम्` इति। उपस्र्गोऽत्र न प्रधानमित्यर्थः। तन्त्रत्वं तस्य <<बहुलं छन्दसि>> [[7.4.78]] इत्यतो बहुलग्रहणानुवृत्तेर्लभ्यते। `उपागात्` इति। लुङ, <<इणो गा लुङि>> [[2.4.45]] इति गादेशः। `गातिस्था`( 2.4.77) इत्यादिना सिचो लुक्। `उपैत्` इति। लङ, तिप्, अदादित्वाच्छपो लुक्, <<आडजादीनाम्>> [[6.4.72]] इत्याट्, `आटश्च` [[6.1.87]] इति वृद्धिः। `उपेयाय`इति। लिट्, तिप्, णल्, <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः, आयादेशः, स्थानिवद्भावादद्विर्वचनमिकारस्येति; <<अभ्यासस्यासवर्णे>> [[6.4.78]] इतीयङ, इकारेण सह <<आद्गुणः>> [[6.1.87]] ।\t`अनाआआन्` इति। `अश भोजने` (धातुपाठः-1523) लिट्, क्वसुः, द्विर्वचनम्, `अश`इत्यस्य <<अत आदेः>> [[7.4.70]] इत्यभ्यासस्य दीर्घत्वम्, इडभावश्च,`वस्वेकाजाद्धसाम्` [[7.2.67]] इत्यनेन प्राप्तस्येटोऽभावो निपात्यते। न आआआन् अनाआआन् - नञ्समासः, <<नलोपो नञः>> [[6.3.73]] इति नलोपः;<<तस्मान्नुडचि>> [[6.3.74]] इति नुडागमः। `नाशीत्` इति। लुङ, <<च्लेः सिच्>> [[3.1.44]] , `इट ईटि` [[8.2.28]] इति सिचो लोपः, पूर्ववदाट्, वृद्धिः, नञा सह सवर्णदीर्घत्वम्। `नाश्नात्` इति। लङ्, क्र्यादित्वात् श्ना, आडागमः। `नाश` इति। लिट्, तिप्,णल्, द्विर्वचनम्, पूर्ववदभ्यासदीर्घत्वम्, धातुना नञा सहाकः सवर्णे दीर्घत्वम्।`वचेः`इत्यादि। `वच परिभाषणे` (धातुपाठः-1063) - इत्यस्मात् `ब्राउवो वचिः` [[2.4.53]] इति वच्यादेशाद्वा वचेरनुपूर्वात्, कानच् कर्तर्यात्मनेपदसंज्ञको न प्राप्नोति;परस्मैपदित्वात्, इतरस्मात् कर्त्त्रभिप्रायफलस्य विवक्षितत्वात्, अतः स निपात्यते। वच्यादिसूत्रेण [[6.1.15]] धातोः सम्प्रसारणम्, `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इत्यभ्यासस्य पश्चादनुशब्देन सहाकः सवर्णे दीर्घत्वम्। `अन्ववोचत्` [[6.1.84]] । `अन्वब्रावीत्` इति। ब्राउवो लङ,शपो लुक्, `ब्राउव ईट्` [[7.3.93]] । `अनूवाच` इति। लिट्, णल्, <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः, पूर्ववदभ्यासस्य सम्प्रासरमेकादेशः॥", "32110": "ङकारः <<नित्यं ङितः>> [[3.4.99]] इति विशेषणार्थः। उकारः `लुङलङलृङक्ष्वडुदात्तः` [[6.4.71]] इति विशेषणार्थः। भूतसामान्ये चायं लुङ वेदितव्यः; भूतविशेषणेऽनद्यतन्यां लङलिटोर्विधानात्। `अकार्षीत्` इति। <<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] इति वृद्धिः; पूर्ववदीट्। `वसतेः` इत्यादि। `वस निवासे` (धातुपाठः-1005) इत्यस्मादनद्यतने लङि प्राप्ते लुङ वक्तव्यः। दिवसः सकलोऽतिक्रान्ताया रात्रेश्चतुर्थो याम आगामिन्याश्च प्रथमो यामः - इत्येषोऽनद्यतनः कालः। तत्र रात्रिविशेषेऽतिक्रान्ताया रात्रेश्चतुर्थे यामे प्रत्युत्थितः क्व भवानुषितः? इति केनचित् पृष्टः कश्चित्, स तस्मिन् रात्रविशेषे दिवा वा प्रतिवचनं प्रयच्छन् लुङं प्रयुङ्क्ते - `अहमत्रावात्सम्` इति। स च न प्राप्नोति; यस्मादसौ ततो रात्रिशेषात् पूर्वभागं प्रहरत्रयलक्षमधिशयितः, सोऽस्यानद्यतनकालः, ततश्चानद्यतने लङ स्यात्; तसमाल्लुङ् वक्तव्यः = व्याख्येयः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित्य कर्तव्यम्। `जागरणसन्ततौ` इति। यद्यसौ रात्रिशेषं सकलं सन्तत्याऽविच्छेदेन जागरितवानेवं लुङ् भवति। मुहूर्तमपि यद्यस्मिन् रात्रिविशेषे शयितवांस्ततो लङेव - आहमत्रावसमिति। `अवात्सम्` इति। लुङ्, मिप्, `तस्थस्थ` [[3.4.101]] इत्यादिनाम्भावः, `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः; `सः स्यार्धधातुके` [[7.4.49]] इति सकारस्य तत्वम्॥", "32111": "`अनद्यतने` इति। यद्ययं तत्पुरुषः स्यात् तदा पर्युदासो वा स्यात्, प्रसज्यप्रतिषेधो वा। तदा पूर्वस्मिन् पक्षेऽद्यतनाद्योऽन्यस्तस्मिन् भवितव्यम्। एवञ्च `अद्य ह्रो वाभुक्ष्मिहि` इत्यत्राप्यद्यतनव्यामिश्रे प्राप्नोति। अस्ति हृद्यतनानद्यतनसमुदायोऽनद्यतनादन्यः, इतरस्त्वद्यतने न भवतीत्येषोऽर्थो जायते, ततश्च भूतसामान्ये स्यात्। अनद्यतन इति अद्यतनभूतविशेषे प्रतिषेधः,न भूतसामान्ये। न हि भूतसामान्यं भूतविशेषः, तस्मात् तत्पुरुषपक्षो दोषवानिति मत्वाऽऽह - `अनद्यतन इति बहुव्रीहिनिर्देशः` इति। अविद्यमानोऽद्यतनो यस्मिन्निति सोऽनद्यतनभूतधात्वर्थः, अत्र वर्तमानाल्लङ भवति, न त्वद्यतनानद्यतनसमुदाये, तत्राद्यतनैकदेशस्य सद्भावात्। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः; तस्यान्तर्भूतविशेषत्वात्। यत्राद्यतनगन्धोऽप्यस्ति तत्र लङा न भवितव्यमित्येषोऽर्थो बुहव्रीहौ सति लभ्यते। यदि तर्हि बहुव्रीहिरयम्, एवं सत्यद्यतनेऽपि प्राप्नोति, न हृद्यतने द्वितीयोऽद्यतनोऽस्ति? नैतदेवम्; अद्यतनसामान्ये मुहूर्तादेरद्यतनविशेषस्य विद्यमानत्वात्। तस्मादद्यतनोऽविद्यमानाद्यतन इति न शक्यते वक्तुम्।`अद्य ह्रो वा भुक्ष्महि` इति। लुङ्, <<भुजोऽनवने>> [[1.3.66]] इत्यात्मनेपदम्, महिङ्, `लिङसिचोरात्मनेपदेषु` [[7.2.42]] इति सिचः कित्त्वाद्गुणाभावः। <<चोः कुः>> [[8.2.30]] इति कुत्वम् - जकारस्य गकारः, तस्य `खरि च` [[8.4.54]] इति चर्त्त्वं ककारः,पूर्ववत् षत्वम्।`परोक्षे च` इत्यादि। परोक्षशब्दो रूढिशब्द इन्द्रियातिक्रान्तेऽर्थे वर्तते। परोक्षे लोकविज्ञाते = लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङन्तस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः = व्याख्येयः। व्याख्यानं तु - तस्यैव बहुलग्रहणमाश्रित्य कर्तव्यम्। ननु च विप्रतिषिद्धमिदमुच्यते - परोक्षेऽर्थे दर्शनविषय इ#इत,परोक्षो ह्रर्थोऽतीन्द्रिय उच्यते, इन्द्रियविषयभावापन्नस्तु दर्शनविषयः, ततो यदि परोक्षः, कथं दर्शनविषयः। यदि दर्शनविषयः कथं परोक्षः? नैतदस्ति; शक्यदर्शनविषय इत्युक्तम्ननुभूतत्वात् परोक्ष इत्यविरोधः। अरुणत्िति। `रुधिर् आवरणे` (धातुपाठः-1438), रुधादित्वात् श्नम्, तिप्, हल्ङ्यादिना [[6.1.66]] तिलोपः। साकेतावरोधस्तदानीन्तनप्रयोक्तुर्दर्शनविषयत्वात् लोकप्रसिद्धश्च,कार्यव्यासङ्गदननुभूतत्वात् परोक्षश्च। परोक्ष इति किम्? उदगादादित्यः। `गातिस्था` [[2.4.77]] इत्यादिना सिचो लुक्। पूर्ववदादेशादि कार्यम्। लोकविज्ञात इति किम्? चकार कटं देवदत्तः। प्रयोक्तुर्दर्शनविषय इति किम्? जघान कंसं किल वासुदेवः। हन्तेः परोक्षे लिट्; द्विर्वचनम्, <<अभ्यासाच्च>> [[7.3.55]] इति कुत्वम् - हकारस्य घकारः। कंसवधश्चिकारालवृत्तत्वादिदानीन्तनप्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङमेव प्रयुक्तवान् - अहन् कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतावरोधतुल्यकालो वेदितव्यः। तस्यैव ह्रसौ दर्शनविषयः,नान्यस्य॥", "32112": "`वत्स्यामः` इति। लृट्, मस्, <<स्यतासी लृलुटोः>> [[3.1.33]] इति स्य, पूर्ववत् सकारस्य तत्वम्, <<अतो दीर्घो यञि>> [[7.3.101]] इति दीर्घः। `वचनग्रहणम्` इत्यादि। असति हि वचनग्रहणेऽभिज्ञाशब्द एवोपपदे स्यात्। तस्मस्तु यावन्तोऽभिज्ञावचनास्तेषु सर्वेषु भवति॥", "32113": "`यदि` इति। सती सप्तमीयम्। अभिज्ञावचनञ्चानुवर्तते। तेन यत्र यच्छब्दोऽस्ति तत्र नियोगतोऽभिज्ञावचनं तत्सहितं न भवतीत्याह - `यच्छब्दसहिते`इत्यादि। `अवसाम` इति। वसेर्लङ्, <<नित्यं ङितः>> [[3.4.99]] इति सलोपः, पूर्ववद्दीर्घः। `वासमात्रम्ित्यादिना उत्तरसूत्रस्य नायं विषय इति दर्शयति। यदि हि तत्रापरं लक्षणमपेक्ष्यते तदोत्तरसूत्रे पाक्षिको विधिः स्यात्, स नेष्यते, तस्मान्नापेक्षते॥", "32114": "`उभयत्रविभाषेयम्` इति। प्राप्ते चाप्राप्ते च। असति हि यच्छब्दे `\tअभिज्ञावचने लुट्` [[3.2.112]] इति प्राप्ते, सति यच्छब्दे `न यदि` [[3.2.113]] इति प्रतिषेधादप्राप्ते। आकाङ्क्षणम् = आकाङ्क्षा,आकाङ्क्षया सह वर्तते साकाङ्क्षः। आकाङ्क्षा च सम्बन्धज्ञानमुच्यते, तच्चेतनावतो धर्मः, तस्मात् साकाङ्क्ष इति प्रयोक्तुर्विशेषणं विज्ञायत इत्याह - `साकाङ्क्षश्चेत् प्रयोक्ता`इति। अस्यैवार्थ स्पष्टीकर्त्तुमाह - `साकाङ्क्षश्चेत प्रयोक्ता` इति। अस्यैवार्थ स्पष्टीकर्त्तुमाह - `लक्ष्यलक्षणयोः` इत्यादि। तत्र यदि ह्रेतदपेक्ष्यत एतदुक्तं भवति - लक्ष्यलक्षणयोर्यः सम्बन्धस्तद्विषयज्ञानं यदि प्रयोक्तुरुपपन्नं भवति। यदि प्रयोक्ता लक्ष्यलक्षणयोः सम्बन्धमपेक्षत इति यावत्। `भोक्ष्यामहे` इति। भुजः पूर्ववदात्मनेपदम्, स्यप्रत्ययश्च, टेरेत्वम्, <<चोः कुः>> [[8.2.30]] इति कुत्वम् - जकारस्य गकारः, `खरि च` [[8.4.54]] इति चर्त्वम् - ककारः, सकारस्य षत्वम्। किं पुनर्लक्ष्यं लक्षणञ्च, ययोः सम्बन्धे प्रयोक्तुराकाङ्क्षेत्याह - `वासो लक्षणम्िति। परिज्ञातत्वाल्लक्षणम्, तेन हि जनो लक्ष्यते। `भोजनं तु लक्ष्यम्` इति। अपरिज्ञातत्वात्; न तु लक्षणम्। परिज्ञातं लक्षणमिति भवति, यथा - अग्नेर्धुम इति॥", "32115": "`ननु च` इत्यादि। धात्वर्थो हि पूर्वापरीभूतावयवा साध्यमाना क्रिया। यच्च साध्यमानं तदसत्। तच्चासदिन्द्रियाणामविषयः, तेषां सद्विषयत्वात्। यच्चेन्द्रियाणामविषयः तत् परोक्षमिति स एव हि धात्वर्थः परोक्षः, ततः परोक्षग्रहणमनर्थकम्, व्यवच्छेद्याभावादिति भावः।`सत्यमेतत्` इति। यदनन्तरमुक्तम्। यदि सत्यमेतत् तदा कस्य व्यवच्छेदार्थं परोक्षग्रहणं कृतमित्याह - `अस्ति तु` इत्यादि। यत्र साध्यानि प्रत्यक्षाणि तत्रानिष्पन्ने क्रियात्मनि धात्वर्थे प्रत्यक्षाभिमानो लोकस्य भवति। ननु च सावधानान्यपि नैव प्रत्यक्षाणि;शक्तिस्वभावत्वात्, शक्तेश्च कार्यानुमेयत्वात्, न ह्रशक्तौ कार्यं करोतीति कार्यकरणे शक्तिरनुमीयते; तत् किमुच्यते साधनानि प्रत्यक्षाणि? नैष दोषः;`द्रव्याश्रिता हि शक्तयः`इति द्रव्यस्य प्रत्यक्ष्टवादाश्रयधममाश्रितेषु शक्त्यात्मकेषूपचार्याण्येतान्यपि प्रत्यक्षाणीत्युच्यन्ते। अथ वा - तदपि साधनाश्रयं द्रव्यशक्तिमतोर्भेदस्याविवक्षितत्वात् साधनशब्देनोच्यते; तदनेन परोक्षग्रहणेन प्रत्यक्षाभिमानोऽस्ति, स एव परोक्ष इच्युच्यते - तदाह - `स यत्र नास्त` इति। आत्मविषय उत्तमस्य च धात्वर्थस्य परोक्षत्वं नोपपद्यते; तत्साधनानां प्रत्यक्षत्वात्। तत्र लोकस्य प्रत्यक्षत्वात्, ततश्चोत्तमेन सिध्यतीति चोद्यमाशङ्क्याह - `उत्तमविषये` इत्यादि। आत्मसाध्या हि क्रिया, यत्र चित्तविक्षेपान्नोपपद्यते, तदासौ परोक्षा भवति, तेनोत्तमविषयेऽपि परोक्षभावः। तद्भवत्येव। `विललाप` इति। लपेर्विपूर्वस्योत्तमे णलि रूपम्।`अत्यन्तापह्नवे` इति। प्रत्यक्षमेतत्। अपह्नवः = अपलापः। स क्चिदत्यन्तो भवति यः सर्वापह्नवः, क्वचिदनत्यन्तो य एकदेशापह्नवः। तत्र योऽत्यन्तः स सर्वापह्नवः, तत्र लिड्वक्तव्य, व्याख्येय इत्यर्थः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित् कर्तव्यम्। कश्चित् केनचित् पृष्टः - `कलिङ्गेषु प्रस्थितोऽसि`इत्यादि। स एवमाह - `नाहं कलिङ्गान् जगाम्` इति। अत्र केवलं न कलिङ्गविषयस्यापह्नवोऽपि तु गमनस्यापीति विद्यतेऽत्यन्तापह्नवः। यस्तु स्थानमात्रस्यापह्नवो न गमनस्यापि , तदानत्यन्तापह्नवे लङेव भवति - न हि कलिङ्गेषु प्रत्यतिष्ठ इति। तथा कश्चित् केनचित् पृष्टः दक्षिणापथं प्रविश्य त्वयेदं कार्यं कृतमिति। स एवमाह - `नाहं दक्षिणापथं प्रविवेश` इति। अत्रापि विद्यतेऽत्यन्तापह्नवः। तथा हि - न केवलं दक्षिणापथपिषयं कार्यं प्रतिषिध्यते, अपि तु प्रवेशमपि॥", "32116": "", "32117": "`प्रष्टव्यः प्रश्नः` इत्यनेन प्रश्नशब्दं कर्मसाधनं दर्शयति। करणसाधने हि पृच्छ्यतेऽनेनेति शब्दः प्रश्नशब्देनोच्यते। तथा च सति तस्योच्चर्यमाणत्वादात्मलाभस्य सर्वदैवासन्नकाल इत्यासन्नकालग्रहणमनर्थकं स्यात्। भावसाधनेऽप्यर्थान्तरवाचिभ्यो धातुभ्यो न स्यात्। `अगच्छत्िति। `गम्लृ सृप्लृ गतौ` (धातुपाठः-982, 983), `इषुगमियां छः` [[7.3.77]] इति छत्वम्। `इयाज` इति। `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इति सम्प्रसारणम्। `जघान` इति। कंसवधोऽत्र पृच्छमानः। स चेदानीन्तनप्रयोक्तुरपेक्षया विप्रकृष्टकालः। पञ्चवर्षाभ्यन्तरमासन्नकाल इति नैयायिका वर्णयन्ति। पञ्चवर्षातीतस्तु विप्रकृष्ट इति भवति। कंसवधोऽत्र विप्रकृष्टकालः॥", "32118": "`नडेन स्म पुराधीयते` इति। इङोऽधिपूर्वाल्लट्, <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्, टेरेत्वम्, <<सार्वधातुके यक्>> [[3.1.67]] , `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः। उपसर्गेण सहाकः सवर्णे [[6.1.97]] दीर्घत्वम्। अथ वा - कर्तर्यात्मनेपदम्, अदादित्वाच्छब्दो लुक्, <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः, धातोरियङ यथायोगं पूर्ववत्॥", "32119": "`ब्रावीति` इति। `ब्राउव ईट्` [[7.3.93]] । `कथयति` इति। `कथ वाक्यप्रबन्धे` (धातुपाठः-1851), चुरादावदन्तः, तस्माण्णिच्, <<अतो लोपः>> [[6.4.48]] , <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावात् <<अत उपधायाः>> [[7.2.116]] इति वृद्धिर्न भवति। अथ किमर्थं पुनरिदमारब्धम्? पूर्वेण परोक्षे विधानादपरोक्षे न प्राप्नोति, अतस्तत्रापि यथा स्यादित्येवमर्थम्। ननु च पूर्वयोगे परोक्षग्रहणं निवर्तिष्यते, तस्मिन् निवृत्ते पूर्वेणैव परोक्षे चापरोक्षे च भविष्यति? सत्यमेतत्; चोद्यमपि कश्चिद्विजानीयाद्यदि परोक्षग्रहणं निवृत्तं तत्सम्बद्धमनद्यतनग्रहणमपि निवृत्तमिति, तदन्यथा मा विज्ञायीति पूर्वसूत्रे परोक्षग्रहणमनुवर्तते, तस्मश्चानुवर्तमाने कर्तव्यमेतत्, अन्यथा ह्रपरोक्षे न स्यात्॥", "32120": "`पृष्टप्रतिवचने` इति। प्रश्नः = पृष्टम्, भावे निष्ठा। पृष्टपूर्वकप्रतिवचनं पृष्टप्रतिवचनम्, शाकपार्थिवादित्वन्मध्यमपदलोपी समासः। `अनद्यतने परोक्ष इति निवृत्तम्` इति। अस्वरितत्वात्। `अकार्षीः कटं देवदत्त` इत्येष प्रश्नः। `ननु करोमि भोः`इत्येतत् प्रश्नपूर्वकं प्रतिवचनम्। `अवोचस्तत्र किञ्चिद्देवदत्त`इत्येष प्रश्नः। `ननु करोमि भोः`इत्येतत् प्रश्नपूर्वकं प्रतिवचनम्।`नन्वकार्षीत्` इति। प्रश्नपूर्वकं प्रतिवचनं न भवतीति लुङेव भवति। ननु च प्रतिवचनं सर्वं प्रश्नपूर्वकमेवु, तदनर्थकं पृष्टग्रहणम्, व्यवच्छेद्याभावात्? नैतदिष्टम् ;प्रतिवचनशब्दोऽयमस्त्येव पृष्टान्वाख्याने - यः प्रश्नमन्तरेण न भवति; अस्त्यव्ययीभावे - वचनं वचनं प्रतिवचनम्, यथार्थे `अव्ययम्` [[2.1.6]] इति वीप्सायामव्ययीभावः;अस्ति समाधिवचनः - प्रतिपूर्वस्य वचेः समाधाविति दर्शनात्, तथा हि वक्तारो वदन्ति - यदननाभिहितं तन्मया प्रयुक्तमिति, परिष्कृतमित्यर्थः; तदेवमनेकार्थे प्रतिवचनशब्द-, यदि पृष्टग्रहणं न क्रियते सर्वेष्वर्थेषु स्यात्। अस्मस्तु क्रियमाणे प्रश्नपूर्वो यः प्रतिवचनशब्दः, स एव गृह्रते, नान्य इति न भव्तयानर्थक्यम्॥`नाकर्षम्िति। पूर्ववदम्भावः॥", "32121": "", "32122": "`पुराशब्दे` इति। एतेन पुराशब्द इहोपपदत्वेनोपात्तो न पुरिति दर्शयति। यद्येतदेव, अस्याकारान्तत्वात् पुरीति सप्तम्यन्तो निर्देशो नोपपद्यते? <<आतो धातोः>> [[6.4.140]] इति योगविभागादाकारलोपाददोषः। अथ `पृ पालनपूरणयोः`(धातुपाठः-1086) इत्येतस्माद्भ्राजादिसूत्रेण [[3.2.177]] क्विपि विहितः `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वे रपरत्वे च कृते यः पूःशब्द सम्पद्यते तस्येहाप्युपपदत्वेनोपादानमिति कस्मान्न विज्ञायते? तस्यानद्यतनवृत्त्यसम्भवात्। पुराशब्दस्तु तत्रैव वर्तत इति तस्यैव ग्रहणं युक्तम्। `लुङ च` इति चकारेण लडनुकृष्यत इति दर्शयति। `यथाविषयम्` इति। `यथाऽसादृश्ये` [[2.1.7]] इति वीप्सायामव्ययीभावः। `अन्येऽपि`इति। लङादयः। `वसन्ति` इति। लट्। `अवात्सुः` इति। लुङ, `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुसादेशः, `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः, पूर्ववत् सकारस्य तत्वम्। `अवसन्` इति। लङ। `ऊषुः` इति। लिट्, `परस्मैपदानाम्` [[3.4.82]] इत्यादिना झेर्जुस्, द्विर्वचनम्, वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्, `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इत्यभ्यासस्य च; `शासिवसिघसीनाञ्च` [[8.3.60]] इति षत्वम्॥", "32123": "`प्रारब्धोऽपरिसमाप्तश्च` इति। प्रारब्धो यः साधयितुं प्रस्तुतः, न च समाप्तिमुपगतः स वर्तमान इत्युच्यते। वर्तमानग्रहणं धात्वधिकारात् तदर्थस्यैव विशेषणं विज्ञायत इत्याह - `वर्तमाने` इत्यादि। न ह्रधात्वर्थे धातोर्वृत्तिः सम्भवति। लटष्टकारः <<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति विशेषणार्थः। अकारः <<विदो लटो वा>> [[3.4.83]] इति विशेषणार्थः; इकारे ह्रच्चारिते लिडादीनां ग्रहणं स्यात्॥", "32124": "शतृशानचोः शकारौ सार्वधातुकार्थौ। ऋकार उगित्कार्यार्थः। अप्रथमासमानाधिकरण इति पर्युदासोऽयम्। प्रथमाशब्दोऽयं विभक्तिविशेषे सोरौजस्पर्य्नते शास्त्रे रूढः। प्रथमाया अन्या द्वितीयादिका विभक्तिः = अप्रथमा। समानशब्दोऽयं साधारणवचनः, यथा - देवदत्तयज्ञदत्तौ समानधनावित। अधिकरणशब्दोऽयमभिधेयवचनः समानञ्च तदधिकरणञ्चेति कर्मधारयः। अप्रथमया समानाधिकरणम् = अप्रथमासमानाधिकरणम्। `तृतीया` [[2.1.29]] इतियोगविभागात् समासः। ततः `यस्य च भावेन भावलक्षणम्` [[2.3.37]] इति सप्तमी। अप्रथमासमानाधिकरणभावेन शतृशानचोर्भावो लक्ष्यते। अप्रथमेति पर्युदासवृत्त्या द्वितीयादेर्विभक्तेग्र्रहणम्, तेन प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यतीत्याह - `अप्रथमान्तेन चेत्` इत्यादि। `तस्य` इति। लटः। सामानाधिकरण्यम्` इति। समानाभिधेयमिति। यदि द्वितीयान्तेन शब्देन सामानाधिकरण्यम् = समानाभिधेयत्वं सम्भवत्येवं शतृशानचौ भवतः, नान्यथेति वाक्यार्थः। एवं विवृम्वताऽप्रथमासमानाधिकरणेऽत्र पर्युदास आश्रितः, न प्रसज्यप्रतिषेध इति दश्र्यते, अन्यथा हि यदि प्रसज्यप्रतिषेध आश्रितः स्यात् प्रथमान्तेन चेत सामानाधिकरण्यं न भवतीत्येवं ब्राऊयात्। किं पुनः स्याद्यदि प्रसज्यप्रतिषेध आश्रितः? अप्रथासमानाधिकरण उत्तरपदे शतृशानचौ न स्याताम् - भज्यत इति भक्तिः, कुर्वन् भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणो भक्तिरस्य कुर्वाणभक्तिः। ये च प्रथमासमानाधिकरणवृत्तयस्तद्धितास्तेषु न स्याताम् - `प्रशंसायां रूपप्` [[5.3.66]] कुर्वद्रूपम्, कुर्वाणरूपमिति; `ईषदसमाप्तौ कल्पशब्देश्यदेशीयरः` [[5.3.67]] कुर्वत्कल्पः। ननु पर्युदासेऽपि भवत्येव दोषः, न ह्यत्राप्रथमान्तेन क्वचित् प्रथमासमानाधिकरणेऽपि भवत इति। प्रसज्यप्रतिषेधे तु प्रतिषेधं विधाय प्रतिषिद्धस्य च पुर्विधानमयुक्तम्। `पचन्तं देवदत्तं पश्य` इति। द्वितीयान्तेन सामानाधिकरण्यं दर्शयति। `पचता` इति। तृतीयान्तेन। विभक्तेर्विपरिणामं कृत्वा देवदत्तेनेति सम्बन्धात्। ननु च लडादेशस्यात्राप्रथमान्तेन सामानाधिकरण्यम्, न लटः; तस्य प्रयोगाभावात्। आदेशधर्मस्य स्थानिन्युपचारात् लटोऽप्युपचारितं सामानाधिकरण्यं भवतीत्यदोषः।अथ लड्ग्रहणं किमर्थम्, यावताऽनन्तरसूत्राल्लडित्यनुवर्तत एव? स्यादेतत्; प्रथमान्तञ्चैतत्। षष्ठीनिर्देशेन चेहार्थः, तस्मात् षष्ठीनिर्देशार्थ पुनर्लड्ग्रहणं कर्तव्यमिति, एतच्चायुक्तम्,प्रथमान्तस्यापि लड्ग्रहमस्यार्थद्विभक्तिविपरिणामो भविष्यतीति षष्ठन्तं विज्ञास्यत इत्यत आह - `लडिति वर्तमाने` इत्यादि। अप्रथमासमानाधिकरणे पुनर्लड्ग्रहणम्। तेन क्वचित् प्रथमासमानाधिकरणे भवतः - कुर्वन् ब्राआहृणः। `सन् ब्राआहृणः` इति। `अस भुवि` (धातुपाठः-1065), अदादित्वाच्छपो लुक्। `श्नसोरलोपः` [[6.4.111]] , इत्यकारलोपः। `विद्यमानः` इत्यादौ सर्वत्र ब्राआहृण इत्यपेक्षते। `विद सत्तायाम्` (धातुपाठः-1171), दिवादिरात्मनेपदी, श्यन्। `जुह्वत्` [[7.1.78]] इति। `हु {दानादनयोः (आदाने इत्येके प्रीणनेऽपि इति भाष्यम्) -धातुपाठः-} दाने`(धातुपाठः-1083), <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इति यणादेशः, `नाभ्यस्ताच्छतुः [[7.1.78]] इति नुमागमाभावः। `अधीयानः`इति। `इङ अध्ययने` (धातुपाठः-11046), अधिपूर्वः। पूर्ववत् `अचिश्नु` [[6.4.77]] इत्यादिना इयङ।`माङ्याक्रोशे` इति। माङ्युपपद आक्रोशे गम्यमाने लटः शतृशानचौ भवतः। `मा पचन्, मा पचमानः` इति। ननु चात्रैव माङि लुङा भवितव्यम्, एतस्मादेवाधिकविधानात्? पुनर्लड्ग्रहणादाक्रोशे न भवतीत्यदोषः। `माङि लुङ` [[3.3.175]] इत्यस्य यत्राक्रोशे नास्ति सोऽवकाशः।`केचिद्विभाषाग्रहणमनुवर्तयन्ति` इति। सन् ब्राआहृणोऽस्ति ब्राआहृण इत्यादौ विकल्पेन शतृशानचौ यथा स्यातामित्येवमर्थम्। केचिदिति वचनात् केचिन्नानुवर्तयन्तीत्युक्तं भवति। तेषामयमभिप्रायः - यदि प्रथमासमानाधिकरणे नित्यं तौ भवतस्तदाऽप्रथमासमानाधिकणग्रहणं न कुर्यात्, `शतृशानचौ`इत्येवं ब्राऊयात्। तत्राप्ययमर्थः - सामान्येन प्रथमासानाधिकरणेऽन्यत्र शतृशानचोर्विधानात् पुनग्र्रहणं न कर्तव्यं भवति। तस्मादप्रथमासमानाधिकरणग्रहणसामर्थ्यादप्रथमासमानधिकरण एव नित्यौ तौ भवतः, प्रथमासमानादिकरणेष्वन्यथेति। यदि तर्हि विभाषाग्रहणमनुवर्तयन्ति, यथा सन् ब्राआहृणः, अस्ति ब्राआहृणः, विद्यमानो ब्राआहृणः,विद्यते ब्राआहृण इत्यादौ विकल्पेन भवतः; तथा कुर्वद्भक्तिः कुर्वाणभक्तिरित्येवमादावपि स्यातामित्यत आह - `सा च` इत्यादि। `तत्र` इति। व्यवस्थितविभाषयां सत्याम्। `यथादर्शनम्` इति। यथा लक्ष्यस्य दर्शनं तदनुरूपाः प्रयोगा उन्नेयाः। एतदुक्तं भवति - लक्ष्यदर्शनवत् स्यात्। क्वचिन्नित्यं तौ शतृशानचौ वेदितव्यौ, क्वचित् पाक्षिकौ,क्वचिदविद्यमानाविति। तत्र कुर्वद्भक्तिः, कुर्वाणभक्तिः, कुर्वत्तरः, कुर्वत्तम इत्यादौ नित्यम् ; सन् ब्राआहृणः , अस्ति ब्राआहृण इत्यादौ पाक्षिकौ; तरप्तमवादिप्रत्यये परे तावविद्यमानावेव। `पचतितराम` इति। पचतिशब्दात् `तिङश्च` [[5.3.56]] इति तरप्, `किमेत्` [[5.4.11]] इत्यादिनामि कृते न भवतः॥", "32125": "`प्रथमासमानाधिकरणार्थ आरम्भः` इति। अवधारणमिह द्रष्टव्यम्। पूर्वयोगो ह्रप्रथमासमानाधिकरणार्थः, क्वचित् प्रथमासमानाधिकरणार्थश्च; अयं तु प्रथमासमानाधिकरणार्थं एव। यदि तर्हि पूर्वसूत्रं प्रथमासमानाधिकरणार्थमपि, तह्र्रेषंसति तौ यथा अन्यत्र प्रथमासमानाधिकरणेऽपि भवतस्तथा सम्बोधनेऽपि भविष्यत इत्यपार्थकम्? नापार्थकम्; तस्यैव प्रपञ्चार्थत्वात्। `हे पचन्` इति। <<न ङिसम्बुद्ध्योः>> [[8.2.8]] इति नलोपप्रतिषेधान्नलोपाभावः। `हे पचमान` इति। <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुलोपः॥", "32126": "`धात्वर्थ विशेषणञ्चैतत्` इति। धात्वधिकारात्। अथोपपदे कस्मान्न भवतः? क्रियाया इति वचनात्। यद्युपपदे स्यातां तदा क्रियाग्रहणमनर्थकं स्यात्। उपपदं हि धातोर्भवति, स च क्रियावचन इत्येन्तरेणापि क्रियाग्रहणं लक्षमहेतू क्रियाविषयौ विज्ञास्येते। तत् क्रियाग्रहणेन धात्वर्थविशेषणत्वे हि तयोः क्वचिद्धात्वर्थो द्रव्यस्य हेतुर्भवति, लक्षणं वा ; क्वचिद्गुणस्य , क्वचित्क्रियायाः। अतो द्रव्यादिनिवृत्त्यर्थं क्रियाग्रहणं युक्तम्; अतः `क्रियायाः` इति वचनम्। `क्रियाविषयौ` इति। क्रियाया इत्येतद्विवरणम्। क्रिया विषयो यथोस्तौ तथोक्तौ। एतेन `क्रियायाः` इति येयं षष्ठी सा सुब्व्यत्ययेन सप्तम्याः स्थाने विहितेति सूचयति। `शयाना भुञ्जते` इति। शीङोऽपवादित्वाच्छपो लुक्, `शीङः सार्वधातुके` [[7.4.21]] इति गुणः। अत्र शयनं लक्षणम्, भुजिक्रिया विषयः।तेन हि भुजिक्रिया लक्ष्यते तत्र शीङ वर्तते। `तिष्ठन्तोऽनुशासति` इति। तिष्ठतेः पाघ्रादिसूत्रेण [[7.3.78]] तिष्ठादेशः। अत्रावस्थानं लक्षणम्, तेनानुशासनक्रिया लक्ष्यते। `अर्जयन् वसति` अत्राध्ययनम्।`पचति, पठति` इति। नात्र क्रियाया लक्ष्यलक्षणभावो विवक्षितः। `यः कम्पतेसोऽआत्थः`इति। अत्र हि कम्पनं लक्षणं भवतीति तेनाआत्थो लक्ष्यते, न तु क्रियाविषयम्, किं तर्हि? द्रव्यविषयम्; अआत्थस्य द्रव्यविषयत्वात्। `यदुत्प्लवते तल्लघु` इति। अत्रोत्प्लवनेनलघुसंज्ञको गुणो लक्ष्यत इति गु विषयं तत्, न तु क्रियाविषयम्। वर्षतीति धावति, हन्तीति पलायत इत्यत्र यद्यपि वर्षणहननाभ्यां धावनपलायनक्रिये लक्ष्येते, तथापि शतृशानचौ न भवतः; <<नन्वोर्विभाषा>> [[3.2.121]] इत्यतो व्यवस्थितविभाषेत्यनुवर्तते; इतिकरणेन हेतुभावस्य द्योतितत्वात्। पूर्वनिपातलक्षमव्यभिचारलिङ्गम्` इति। <<द्वन्द्वे घि>> [[2.2.32]] इत्यनेन ध्यन्तस्य यः पूर्वनिपातः क्रियते तस्य व्यभिचारः। स्वविषये सत्यपि तस्य क्वचिदभावः। तस्य व्यभिचारस्य लिङ्गमयं निर्देशः।यदि ह्रभिचारी ध्यन्तस्य निपातः स्यात्, `हेतुलक्षणयोः`इति निर्देशं कुर्यात्। व्यभिचारे तु सति धूमाग्नी इत्येवमादय उपपन्ना भवन्ति॥ननु च प्रकृतत्वादेव शतृशानचोरियं संज्ञा स्यात्, तत्क तौग्रहणमित्याह - `तौग्रहणम्` इत्यादि। उपाधिना विशेषमेनासंसर्गार्थं तौग्रहणमित्यर्थः। उपाधिस्तु वर्तमानकालः, तत्र शतृशानचोर्विहित्वात्। उपाध्यसंगर्हार्थे तौग्रहणे सति किं भवतीत्याह - `शतृशानज्मात्रस्य` इत्यादि। मात्रग्रहणमुपाधिसंग्रहव्यवच्छेदार्थम्। असति हि तौग्रहणे यादृशौ प्रकृतौ तादृशयोरव संज्ञा स्यात्। कीदृशौ च तौ? वर्तमानकलाविहितौ। ततश्च लृडादेशयोर्भविष्यत्कालविहितयोः सदिति संज्ञा न स्यात्। ननु च `लुटः सद्वा` [[3.3.14]] इति सच्छब्देन तौ विधीयेते, ततो वचनसामर्थ्यात् तु भविष्यतः? न ब्राऊमः - विधानं तयोर्न सिध्यतीति, किं तर्हि? विहितयोरुत्तरकालसंज्ञा न सिध्यति। ततश्च ब्राआहृणस्य करिष्यन्, ब्राआहृणस्य करिष्यमाण इत्यत्र `पूरणगुण` [[2.2.11]] इत्यादिना षष्ठीसमासप्रतिषेधो न स्यात्। सद्ग्रहणं तु सच्छब्देनैव वर्तमानशतृशानजन्ते षष्ठीसमासप्रतिषेधार्थं स्यात्। तौग्रहणे शतृशानचोर्विशेषणमनपेक्ष्य रूपमात्रे संज्ञाऽऽख्यायत इति वर्तमानकाले विधानासंसक्तयोरपि संज्ञा सिध्यतीति॥", "32127": "", "32128": "वर्तमानविहिताः शतृशानच्प्रभृतयः। एते लादेशा वा स्युः? प्रत्यया वा? तत्र यदि इह लट इत्यनुवर्तते तदा लादेशाः, अथ नानुवर्तते ततः प्रत्ययाः। तस्यादेशाः क्रियेरंस्तदा <<नन्वोर्विभाषा>> [[3.2.121]] इत्यतो विभाषाग्रहणमनुवर्तयितव्यं जायेत; अन्यथा पवते देवदत्तः, यजते देवदत्त इति तिङश्रवणं कुर्यात्। प्रत्ययलक्षणे तु वासरूपविधिना यदा लड् भवति तदा प्रत्ययश्रवणं तिङश्रवणमुपपद्यते। किञ्च, आदेशपक्षे <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इति भावकर्मणोरपि शानन्नादयः स्युः, कर्तर्येव चेष्यन्ते। प्रत्ययपक्षे तु `कर्तरि कृत्` [[3.4.67]] इति कर्तर्येव भवन्ति, न भावकर्मणोः, इह कतीह मण्डयमान इत्त्युत्तरसूत्रे चानशि कृते <<तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः>> [[6.1.186]] इतिनिघातः स्यात्, प्रत्ययपक्षे तु न भवति; अलसार्वधातुकत्वात्। चानशः <<लः परस्मैपदम्>> [[1.4.99]] <<तङानावात्मनेपदम्>> [[1.4.100]] इत्यात्मनेपदसंज्ञा प्रसज्येत, ततश्चात्मनेपदिभ्य एव स्यात् - कतीह निघ्नाना इति। प्रत्ययपक्षे त्वलादेशान्न भवत्यात्मनेपदसंज्ञाप्रसङ्गः। तदेवमादेशपक्षे बहवो दोषाः प्रतिविधेयाः, प्रततिविधानेऽपि तेषां प्रतिपत्तिगौरवं भवतीति मत्वा प्रत्ययपक्षमाश्रित्याह - `शानन्प्रत्ययो भवति` इति। शकारः सार्वधातुकसंज्ञार्थः। `पवमानः` इति। `पूङ पवने` (धातुपाठः-966), शप्, <<आने मुक्>> [[7.2.82]] ।`यदि` इत्यादि। `न लोकाव्यय` [[2.3.69]] इत्यादौ तृन्निति तृन एव प्रत्ययस्य निर्देश इति मन्यमानस्य प्रश्नः। `तृन्निति प्रत्याहारनिर्देशात्` इति। `सोमं पवमानः, नडमाघ्नानः` इति। षष्ठीप्रतिषेध इत्यनेन सम्बन्धनीयम्। यदि तृन्निति प्रत्ययग्रहणं स्यात् तदा शानन्प्रभृतीनां प्रत्ययार्थे सति `सोमं पवमानः` इत्यादौ षष्ठीप्रतिषेधो न स्यात्। न च तृन्निति प्रत्ययस्य ग्रहणम्, किं तर्हि? प्रत्याहारस्य। तत्र चशानन्नादयोऽन्तर्भूता इति भवत्येव षष्ठीप्रतिषेधः।`द्विषः शतुर्वा वचनम्` इति। <<द्विषोऽमित्रे>> [[3.2.131]] इत्यनेन यः {शता`इति मुद्रितः पाठः} शतृ विधीयते तस्य प्रत्याहारेऽस्मिन्नन्तर्भावात् तद्योगे षष्ठीप्रतिषेधः स्यात्, ततश्चौरस्य द्विषन्निति पक्षे न स्यात्। तस्मात् `द्विष अप्रीतौ` (धातुपाठः-1013) इत्यस्य शत्रन्तस्य प्रयोगे द्वितीयायां प्राप्तायां वा षष्ठी वक्तव्या॥", "32129": "`मण्डमानाः` इति। `मडि भूषायाम्` (धातुपाठः-321), इदित्त्वान्नुम्। हेतुमण्णिच्। `भूषयमाणाः` इति। `भूष अलङ्कारे` (धातुपाठः-682), चुरादिणिच्। `कवचं पर्यस्यमानाः`इति। दिवादित्वाच्छ्यन्। तदेव वयो गम्यते तत्र स्थिताः कवचं पर्यस्यन्ते। कवचम् = सन्नाहम्। `शिखण्डं वहमानाः`इति। अत्रापि तथाविधं वयो गम्यते यत्र वर्तमानाः शिखण्डं वहन्ति। शिखण्ण्टः = चूडा। वचनग्रहणं वैचित्र्यार्थम्, विनापि हि तेन वयसि गम्यमाने प्रत्ययो लभ्यत एव, यथा च `वयसि च` [[3.2.10]] इत्यत्र। `निघ्नानाः` इति। हननशक्तिरिति गम्यते॥", "32130": "`अकृच्छ्रिणि कर्तरि`इति। एतेनाकृच्छ्रिणीति प्रत्ययार्थस्य कर्त्तुरेतद्विशेषणमिति दर्शयति। `अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थः सोऽकृच्छ्री` इति। <<अत इनिठनौ>> [[5.2.115]] इतीनिः। `अधीयन्` इति। पूर्ववदियङ। `धारयन्` इति। `धृङ अवस्थाने` (धातुपाठः-1412) चुरादिणिच्॥", "32131": "`अमित्रः शत्रुः` इति। शत्रादेवामित्रशब्दस्य रूढत्वात्।`द्वेष्टि` इति। अदादित्वाच्छपो लुक्॥", "32132": "`यज्ञसंयोगः` इति। कर्मसाधनः संयोगशब्दः। अत एव वृत्तावाह - `यज्ञसंयुक्तेऽभिषवे` इति। संयुक्तः = सम्बद्धः, यज्ञेन संयुक्तो यज्ञसंयुक्तः। कदा चाभिषवो यज्ञसंयुक्तो भवति? यदा यज्ञाङ्गं भवति। `सुन्वन्तः` इत्यादि। <<स्वादिभ्यः श्नुः>> [[3.1.73]] । `सर्वे यजमानाः` इति। सुन्वन्त इत्यनेन यजमानाः सत्त्रिणो यज्ञस्य ये स्वामिनस्तेऽभिधीयन्ते, न तु याज्ञिका इति दर्शयति। कथं पुनरेषोऽर्थो लभ्यते, यावता यथाभिषवस्य यजमानाः, कर्तारस्तथा याजका अपीत्याह - `संयोगग्रहणम्` इत्यादि। इह `सुञोयज्ञे` इत्येतद्वेदितव्यम्, एवमपि ह्रुच्यमाने यज्ञसंयुक्तताभिषवस्य लभ्यत एव; यज्ञविषयश्चैष सुनोत्यर्थो भवतीत्यर्थस्य प्रतिपत्तेः, तस्मात् संयोगग्रहणमिति न कर्तव्यमेतत्? क्रियते प्रधानकर्त्तृप्रतिपत्त्यर्थम्। यागस्य ये कर्तारो भूत्वा फलं प्राप्नुवन्तः सुन्वन्तस्ते प्रधानकर्तारः, ते पुनर्यजमानाः,न याजकाः॥", "32133": "", "32134": "`तच्छीलादिषु कर्त्तुषु` इति। अनेन तच्छीलादीनां प्रत्ययार्थविशेषणतां दर्शयति।`अभिविधौ चायमाङ` इति। अभिविधिः = अभिव्याप्ति-। अत्राङ न मर्यादायाम्, तेन वक्ष्यमाणस्य क्विपोऽप्ययमर्थनिर्देश इति। सोऽपि तच्छीलीदिष्वेव भवति। `तत्ित्यादि। `धातोः` [[3.1.91]] इति वर्तते,न च धातोः शीलादिविशेषणमुपपद्यते, तस्मात् तस्य योऽर्थः स शीलादीनां त्रयाणां विशेषणभावेन तच्छीलादिशब्देन निर्दिश्यते। स धात्वर्थः शीलं यस्य स तच्छीलः। स एव धर्मो यस्य स तद्धर्मा। साधु करोतीति साधुकारी, तस्य धात्वर्थस्य साधुकारीति यावत्। `स्वभावतः` इति। भवत्यस्मात् फलनिरपेक्षा वृत्तिरिति भावः। स्वभावश्चैतनिको धर्मः, स पुनः शीलमेव।`फलनिरपेक्षः` इति। फलाकाङ्क्षारहितः। `तत्र`इति। धात्वर्थे। `तदाचारः`इति। तच्छीलात् तदाचारस्यान्यथात्वं दर्शयति। `यो धात्वर्थं साधु करोति` इति। अत्रापि विना शीलेनेति सम्बध्यते। `साधु`इति। प्रशस्तमित्यर्थः। क्रियाविशेषणत्वान्नपुंसकत्वम्॥", "32135": "`मुण्डयितारः` इति। मुण्डां कुर्वन्तीति `मुण्डमिश्र` [[3.1.21]] इत्यादिना णिच्, इष्ठवद्भावेन टिलोपः। `{मुण्डयितारः श्राविष्ठायना भवन्ति बधूमूढाम्` - काशिका।} वधूमूढां श्राविष्ठायना मुण्डयन्ति` इति। एतेषां कुलधर्मः। `आह्वरकाः श्राद्धे सिद्धेऽन्नमपहरन्ति` इति। एतेषामाचारः। यः कटं साधु करोतीति स कर्ता कटमिति। खेटं यो लीलया गच्छति स साधु गच्छति।`तृन्विधौ` इत्यादि। अताच्छील्यार्थ आरम्भः। अस्मस्तृन्विधावनुपसर्गस्य धातोस्तृन् वक्तव्य ऋत्विक्ष्वभिधेयेषु। `होता` इति। `हु {दानादनयोः। आदाने इत्येके।प्रीणनेऽपि इति भाष्यम् - धातुपाठः-} दाने` (धातुपाठः-1083)। `पोता` इति। `पूङ पवने` (धातुपाठः-966)। `उद्गाता` इति। `कै गै शब्दे` (धातुपाठः-916,917)।`स्वरे विक्षेषः` इति। तृचि सति <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति प्रकृतिस्वरेणान्तोदात्तत्वं भवति, तृनि तु सति <<गतिरनन्तरः>> [[6.2.49]] इत्यनुवर्तमाने` <<तादौ च निति कृत्यतौ>> [[6.2.50]] इति पूर्ववदस्य प्रकृतिस्वरः प्रसज्येत।`नयतेः षुक् च` इति। कृते गुणे षुगागमो वेदितव्यः; अन्यथा ह्रलघूपधत्वाद्गुणो न स्यात्। गुणोऽपि वा वक्तव्यः। अत्र ऋत्विगिति वर्तते। अयमप्यताच्छील्यार्थ आरम्भः।`त्विषेःट इत्यादि। `त्विष दीप्तौ` (धातुपाठः-1001) इत्यस्माद्देवतायामभिधेयां तृन् वक्तव्यः, अकारश्चोपधाया आदेशो भवति। `अनिट्त्वं च`इति। एतस्य सर्वशेषत्वे चास्य पोतेत्यत्रानिट्त्वं सिद्धं भवति।`क्षदेः`इत्यादि। `क्षद`इति सौत्रो धातुः। `गुधृवीपचिवयियमिसदि क्षदिभ्यस्त्रः`(पं।उ।4।166) इत्याद्युणादिसूत्रपाठात्। उणादिषु निपातितत्वात् होत्रादय इति सिद्धम्। तत्र हि `नप्तृनेष्टृत्वष्टृक्षतृपोतृहोतृभ्रातृजामातृपितृदुहितृ` (द।उ।2।3।) इत्येते निपातिताः॥", "32136": "अलम्पूर्वः करोतिः, पुनः स एव निराङपूर्वः, `जनी प्रादुर्भावे` (धातुपाठः-1149) प्रपूर्वः;`{पचि धातुपाठः-} पच व्यक्तीकरण` (धातुपाठः-174);`पद गतौ` (धातुपाठः-1898), पतिमन्ये पठन्ति;`शल हुल पत्लृ गतौ` (धातुपाठः-843,844,845)। `{मदी हर्षग्लेपनयोः`-धातुपाठः-)मदी तृप्तिसाधने` (धातुपाठः-815) - एते पदादय उत्पूर्वाः। `रुच {दीप्तवभिप्रीतौ च` -धातुपाठः-} दीप्तौ` (धातुपाठः-745); `त्रपूष् लज्जायाम्` (धातुपाठः-374) अपपूर्वः, `वृतु वर्तने` (धातुपाठः-758), `वृधु वृद्धौ` (धातुपाठः-759), `षह मर्षणे` (धातुपाठः-1809), `चर गत्यर्थः` (धातुपाठः-559) - एभ्य इष्णुज् भवति, {तृणोऽपवादः इति, मु।पाठः} तृनोऽपवादः। यदा त्वलम्पूर्वः करोतिर्मण्डने वर्तते, तदा <<क्रुधमण्डार्थेभ्यश्च>> [[3.2.151]] इति युच् प्राप्नोति;पूर्वविप्रतिषेधश्च वक्तव्यः; अन्यथा मण्डनादन्यत्र सावकाशमिष्णुचं परत्वाद्बाधते। येऽत्र सोपसर्गाः पठन्ते, तेभ्य एतदुपसर्गपूर्वेभ्य एव भवति, अन्येभ्यस्त्वनियमेन॥", "32137": "`धारयिष्णवः, पारयिष्णवः`इति। `धृङ अवस्थाने` (धातुपाठः-1412), `पृ पालनपूरणयोः (धातुपाठः-1086); हेतुमण्णिच्, `अयामन्त` [[6.4.55]] इत्यादिनायादेशः॥", "32138": "`योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे भवतरेवानुवर्तनं यथा स्यात्; अन्यथा यदि `णिभूभ्याञ्च` इत्येको योगः क्रियते तदा णिग्रहणमप्यनुकृष्येत। `भाजिष्णुना` इत्याद। लौकिकप्रयोगः। तस्योपन्यासो भाषायामपि `भ्राजृ दीप्तौ` (धातुपाठः-181) इत्येतस्मादिष्णुच्प्रदर्शनार्थः॥", "32139": "अथ स्थास्नुरित्यत्र `घुमास्थागापा` [[6.4.66]] इत्यादिसूत्रेण कस्मादीत्वं भवतीत्याह - `पिच्चायम्` इत्यादि। ईत्त्वं क्ङिति। तत्र <<दीङो युडचि क्ङिति>> [[6.4.63]] इत्यनुवृत्तेः। न चायं कित्, न चायं ङित्; किं तर्हि? गित्। गकारस्य त्वश्रवणम्,चर्त्वभूतस्य निर्देशात्। यदि तर्हि गिदयम्, जिष्णुरित्यत्र गुणः प्राप्नोति, यस्मात् <<क्ङिति च>> [[1.1.5]] इति क्ङिति प्रत्यये गुणः प्रतिषिध्यते, न गितीत्यत आह - `क्ङिति च` इत्यादि। न हि <<क्ङिति च>> [[1.1.5]] इत्यत्र ककारङकारावेव निर्दिश्येते, किं तर्हि? गकारोऽपि कृतचर्त्वः,तेन गित्यपि गुणो न भवति। भूष्णुरित्यत्र तर्हि श्रयुकः किति` [[7.2.11]] इट्प्रतिषेध उद्यमानो गिति न स्यादित्यत आह - `श्रयुकः` किति इत्यादिना गकारश्चर्त्वभूतो निर्दिश्यते` इति प्रकृतेन सम्बन्धः। `तेन` इति। गकारस्य चर्तवभूतस्य निर्देशेनेति।`कस्नोर्गित्वात्ित्यादि। गकार इत्संज्ञको यस्य स गित्, तद्भावो गित्त्वम्। तस्मात् गित्त्वान्न स्यास्नुरित्यत्रेकारः। तिष्ठतेरीकारो न भवति। कस्मात् पुनर्गित्तवादीकारो न भवतीत्याह - `कङितोरित्वशासनात्` इत्यादि। ककारेऽकार उच्चारणार्थः। यस्मात् क्ङितीत्वमुच्यते, अयं तु गित्, तस्मात् क्ङिति विधीयमानमीत्वं गित्वादिह न प्राप्नोति। यद्येवम्, जिष्णुरित्यत्र गुणः प्राप्नोतीत्यत आह - `गुणाभावः`इत्यादि। त्रिषु ककारगकारङकारेष्वित्संज्ञकेषु यो गुणप्रतिषेधः स स्मर्तव्य- = ज्ञातव्यः। <<क्ङिति च>> [[1.1.5]] इत्यत्र गकारश्चर्त्वभूतो निर्दिष्टः। यदि तर्हि गिदयम्, `भूष्णुरित्यत्र `श्रयुकः किति` [[7.2.11]] इत्यीट्प्रतिषेधो न स्यादित्यत आह - `श्रयुकोऽनिट्चत्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदि गकारश्चर्त्वभूतः `श्रयुक किति` [[7.2.11]] इतीट्प्रतिषेधो न स्यादित्यत आह - `शयुकोऽनिट्त्वम्` इत्यादि। गकारोऽपि ततश्चर्त्वभूतो निर्दिश्यते। तन ककारगकारयोद्र्वयोरपीत्संज्ञकयोः श्रयुकोऽनिट्त्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदिगकारश्चत्त्र्वभूतः `श्रयुकः किति` [[7.2.11]] इत्यत्र निर्दिश्यते,` हशि च` [[6.1.110]] इत्युत्वं प्राप्नोति, तस्यासिद्धत्वात्? सौत्रत्वान्निर्देशश्यासंहितया पाठान्न भविष्यतीत्यदोषः। वामनस्य त्वेतत् सर्वमनभिमतम्। यथा नाभिमतं तथा <<क्ङिति च>> [[1.1.5]] इत्यत्र प्रतिपादितम्। `दंशेः`इत्यादि। उपसंख्यानशब्दः प्रतिपादने वर्तते। `दन्श दंशने` (धातुपाठः-898) इत्येतस्मादपि क्स्नुप्रत्ययस्योपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - पूर्वसूत्राच्चकारोऽनुर्तते, स चानुक्तसमुच्चयार्थः, तेन दंशेरपि भविष्यतीति। `दंक्ष्णवः` इति। व्रश्चादिना [[8.2.36]] षत्वम्, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्। `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपो न भवति, क्स्नोर्गित्वात्। ये तु कित्वमिच्छन्ति, तैरिह नकारलोपप्रतिषेधः <<नाञ्चेः पूजायाम्>> [[6.4.30]] इत्यत्र नेति योगविभागेन कर्तव्यः। यत्नान्तरं वा तैरास्थेयम् - नकारस्यानुस्वारः, तस्य परसवर्णः॥", "32140": "`त्रस {धारणे - धातुपाठः-} उद्वेगे` (धातुपाठः-1741), `गृधु अभिकांक्षायाम्` (धातुपाठः-1246) , `ञिघृषा प्रगल्भ्ये` (धातुपाठः-1269), `क्षिप प्रेरणे` (धातुपाठः-1285)। `त्रस्नुः` इति। `नेड्वशिकृति` [[7.2.8]] इतीट्? प्रतिषेधथः। `गृघ्नुः `इति। <<क्ङिति च>> [[1.1.5]] इति गुणाभावः॥", "32141": "`शमु उपशमे` (धातुपाठः-1201), `तमु काङ्क्षायाम्`(धातुपाठः-1202), `दमु {उपशमे-धातुपाठः-} उपरमे` (धातुपाठः-1203), `श्रमु तपसि खेदे च` (धातुपाठः-1204), `भ्रमु अनवस्थाने` (धातुपाठः-1205), `क्षमु सहने` (धातुपाठः-1206), `क्लमु ग्लानौ` (धातुपाठः-1207), `मदी हर्षे`(धातुपाठः-1208)। `उत्तरत्र कुत्वार्थः` इति। सम्पर्कीत्यादौ `चजोः कु घिण्यतोः` [[7.3.52]] इति यथा स्यात्। `उकार उच्चारणार्थः` इति। अनुबन्धत्वमस्य निरस्यति। अनुबन्धत्वे सति शमिनौ शमिन इति `उगिदचाम्` [[7.1.70]] इति नुम् प्रसज्येत। इह शमिनितराम्, शमिनितमामिति <<नद्याः शेषस्यान्यतरस्याम्>> [[6.3.44]] इति वर्तमाने <<उगितश्च>> [[6.3.45]] इत्यन्यतरस्यां ह्रस्वत्वं स्यात्, अन्यथा ह्रस्यानुबन्धकरणमनर्थकं स्यात्। तस्मदुच्चारणार्थ एवोकारो भवति। ह्रस्वत्वञ्च <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यनेन नित्यं भवति।`शमी` इति। `अत उपधाया-` [[7.2.116]] इति वृद्धिर्न भवति, `नोदात्तोपदेश` [[7.3.34]] इत्यादिना प्रतिषिद्धत्वात्। `सौ च` [[6.4.13]] इति दीर्घः।`असिता`इति। `असु क्षेपणे` (धातुपाठः-1209) तृनि भवति॥", "32142": "`पृची सम्पर्के` (धातुपाठः-1462) सम्पूर्वः। `रुधिर् आवरणे` (धातुपाठः-1438) अनुपूर्वः;`यम उपरमे` (धातुपाठः-984), `यसु प्रयत्ने` (धातुपाठः-1210) आङपूर्वः,`सृज विसर्गे` (धातुपाठः-1178), `ज्वर रोगे` (धातुपाठः-776) सम्पूर्वः;`क्षिप प्रेरणे` (धातुपाठः-1285), `रट परिभाषणे` (धातुपाठः-297), `वद वक्ताव्यां वाचि` (धातुपाठः-1009), `दह भस्मीकरणे` (धातुपाठः-991), `मुह वैचित्त्ये` (धातुपाठः-1198) परिपूर्वः, `दुष वैकृत्ये` (धातुपाठः-1185), `द्विष अप्रीतौ` (धातुपाठः-1013), `द्रुह जीघांसायाम्` (धातुपाठः-1197),`दुह प्रपूरणे` (धातुपाठः-1014), `क्रीडृ विहारे` (धातुपाठः-350) आङपूर्वः, `विजिर्पृथग्भावे` (धातुपाठः-1094) विपूर्वः, `त्यज {हानौ इत्येव-धा।पा} वयोहानौ` (धातुपाठः-986), `रञ्ज रागे` (धातुपाठः-999), `भज सेवायाम्` (धातुपाठः-998), `चर गत्यर्थ` (धातुपाठः-559) अतिपूर्वः, स एवानुपूर्वः, `मुष स्तेये` (धातुपाठः-1530) आङपूर्वः, `हन हिंसागत्योः` (धातुपाठः-1012) अभ्याङपूर्वः। शरेषा वृत्तावेव निर्दिष्टाः। `न त्वदादिः`इति। `गृह्रते`इति सम्बध्यते। आदादिकः कस्मान्न गृह्रत इत्याह - आदादिकस्तु लुग्विकरणः, तस्मात् स न गृह्रते। `परिदेविर्भ्वादिः` इति। `गृह्रते` इति सम्बन्धः। अथ परिदिव#ए#ः क्रीडाद्यर्थस्य ण्यन्तस्य ग्रहणं कस्मान्न भवति? अण्यन्तैरितरैः साहचर्यात्। `सामान्येन गृह्रते` इति। विशेषाभावात्। `द्वयोरपि ग्रहणम्` इति। तत एव हेतोः। `निपातनादनुनासिकलोपः` इति। `त्यजरज`इति सूत्रे निरनुनासिकस्योच्चारणमेव निपातनम्। `सम्पर्की` इति। लघूपधगुणः। `आयामी` इति। <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः। `परिसारी` इति। अत्रापि <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः। `अभ्याघाती` इति। पूर्ववद्घत्वतत्वे॥", "32143": "", "32144": "", "32145": "`प्रलापी, प्रसारी` इति। `लप व्यक्तायां वाचि`(धातुपाठः-402), `सृ गतौ` (935)। `प्रद्रावी, प्रमाथी`इति। `दु द्रु गतौ` (धातुपाठः-944 945), `{मथे विलोडने-धातुपाठः-} मध विलोडने` (धातुपाठः-848)। `नाच्छादनार्थस्य` इति। न `वस आच्छादने` (धातुपाठः-1023)इत्येतस्य॥", "32146": "`णिदि कुत्सायाम्` (धातुपाठः-66), `अर्द हिसि हिंसायाम्` (धातुपाठः-1828, 1829), `खादृ भक्षणे` (धातुपाठः-49), `णश अदर्शने` (धातुपाठः-1194) विपूर्वः, हेतुमण्ण्यन्तः। `क्षिपिः`पूर्वोक्त एव, एवं रटिर्वदिः परिपूर्वो हेतुमण्ण्यन्तः, `भाव व्यक्तायां वाचि (धातुपाठः-612) व्याङपूर्वः। `असूय` इति कण्डवादियगन्तस्य ग्रहणम्। अत्र क्लिशेरुपतापार्थस्य भाषतेश्च `अनुदात्तेश्च हलादेः` [[3.2.149]] इति युचि प्राप्ते वुञ्चिधानम्। शेषेभ्यस्तु तृनि। ननु `परश्च` [[3.1.2]] इति दिग्योगलक्षणया पञ्चम्या भवितव्यम्, यथा वृत्तौ - निन्दादिभ्यो धातुभ्यः` इति, तत्कथं सूत्रे प्रथमेत्यत आह - `पञ्चम्यर्थे प्रथमा` इति। <<व्यत्ययो बहुलम्>> [[3.1.85]] इतिसुब्व्यत्ययेनेति भावः। समाहारद्वन्द्वाच्च प्रथमैकवचनम्, पुंल्लिङ्गं तु व्यत्ययेन। `असूयकः`इति। <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। अथ किमर्थं निन्दादिभ्यो धातुभ्यो वुञ् विधीयते, यावता वाऽसरूपविधिनैव निन्दकादयः,सिद्धाः, तदेव हि रूपम्, स एव स्वरः, इहैवैकत्र स्वरविशेषोऽस्ति - असूयक इति, अत्र वुञि सति ञित्वादादेरुदात्तत्वं भवति, ण्वुलि तु सति लित्प्रत्ययात् पूर्वस्य स्यात्, तस्मादसूयतेरेवैकस्माद्वुञ्, विधातव्यः, नेतरेभ्यो निन्दादिभ्य इत्यत आह - `ण्नुलैव सिद्धे`इत्यादि। यदि तच्छीलादिषु वाऽसरूपविधिना तृजादयोऽपि स्युः निन्दादिभ्यो वुञ् न विदध्यात्, विहितश्चासौ, अत एव वुञ्विधानं ज्ञापयति - तच्छीलादिषु वाऽसरूपविधिर्नास्तीति। तेनालङ्कारकः, निराकर्तेत्यादीनां तच्छीलादिषु साधुत्वं न भवति॥", "32147": "", "32148": "चलनं देशान्तरप्राप्तिहेतुः क्रियाविशेषः। शब्दः श्रोत्रविषोऽर्थः। `चलनः, चोपनः` इति। `चल कम्पने` (धातुपाठः-832),`चुप मन्दायां गतौ` (धातुपाठः-403)। `शब्दनः` इति। `शब्द {उपसर्गादाविष्कारे भाषणे च` - धातुपाठः-}शब्दने उपसर्गा विष्कारे ` (धातुपाठः-1714) इति चौरादिकः। अथ वा - `प्रतिपदिकाद्धात्वर्थे बहुलम्` (ग।सू।1860 चुरादिः- 1915) इत्यादिना णिच्, `शब्दवैरकलह` [[3.1.17]] इत्यादिना णिजन्ताद्युच्। `रवणः`इति। `रु शब्दे` (धातुपाठः-1034)॥", "32149": "`एधिता`इति। `एध वृद्धौ` (धातुपाठः-2)। `जुगुप्सनः,मीमांसनः` इति <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] `मान्बध` [[3.1.6]] इत्यादिना सनि दीर्घे च कृते भवतः। अत्र तदन्तौ समुदायावनुदात्तेतौ अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति। तथा च यद्यादिग्रहणं न क्रियते तदा ताभ्यां न स्यात्; यस्मादसत्यादिग्रहणे हला तु तदन्तविधिर्विज्ञायते - अनुदात्तेतो हलन्तादिति। न च जुगुप्समीमांसशब्दौ हलन्तौ, किं तर्हि? अजन्तौ। आदिग्रहणे सत्यहलन्तेभ्योऽपि भवतीत्यादिग्रहणं कर्तव्यम्। तच्च तदा कर्तव्यं यदातो लोप आर्धधातुके परतो भवतीत्ययं पक्षः, न तु यदार्धधातुके विषयभूत इत्येष पक्षः। तदा ह्रार्धधातुकविवक्षायां विज्ञायमाने हलन्तग्रहणमनर्थकं स्यात्; व्यावत्र्याभावात्। तस्माद् ह्ल्ग्रहणसामर्थ्यादादेर्विशेषणं विज्ञास्यत इत्यादिग्रहणं न कर्तव्यमेव। अत्रादिग्रहणं विस्पष्टार्थमेव व्याख्येयम्। `वसिता` इति। `वस आच्छादने` (धातुपाठः-1023)॥", "32150": "`जवनः`इति। `जु` सौत्रौ धातुः; गतौ वर्तत इत्येके। विशेषहेतौ वेग इत्यपरे। `चंक्रमणः, दन्द्रमणः`इति। `क्रमु पादविक्षेपे` (धातुपाठः-473)। `द्रम हम्म गतौ` (धातुपाठः-466, 467), <<नित्यं कौटिल्ये गतौ>> [[3.1.23]] इति यङ्, द्विर्वचनम्, <<नुगतोऽनुनासिकान्तस्य>> [[7.4.85]] इति नुक्, <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः, <<यस्य हलः>> [[6.4.49]] इति यकारलोपः। `ज्वलनः, शोचनः` इति। `ज्वल ह्वल सञ्चलने`(धातुपाठः-804,805), `शुच शोके` (धातुपाठः-183)।ननु चात्र जुचंक्रम्यदंद्रम्यप्रभृतयश्चलनार्थाः,पदिस्त्वनुदात्तेत, हलादिश्च; तस्मादेतेभ्यो यथायोगं पूर्वयोगाभ्यां युच्, सिद्धः, ततः किमर्थमिह ग्रहणमित्याह - `चलनार्थानाम्` इत्यादि। असति तेषां ग्रहम इह चंक्रमणो ग्रामस्येत्येवमादौ न स्यात्;ग्रामादेः कर्मणो विवक्षितत्वात्। तस्मात् सकर्मकेभ्यो यथा स्यादित्येवमर्थमेषां ग्रहणम्। `ज्ञापकार्थम्` इत्यादिना मतान्तरं दर्शयति। `अलंकृञस्तृन्न भवति` इति। अनेनापि ज्ञापकस्य प्रयोजनम्। अलंकर्तेति साधुर्न भवतीत्यध्याहार्यम्। कथं पुनः पदिग्रहणं ज्ञापकमित्याह - `तथा हि` इत्यादि। विशेषविहितेनोकञा बाधा मा भूत्, समावेश एव यथा स्यादित्येवमर्थमिह पदिग्रहणं क्रियते। यदि ताच्छीलिके वाऽसरूपविधिः स्यात् ततोऽसरूपत्वदेवोकञा समावेशः स्यादिति पदेर्युज्विधानमनर्थकं स्यात्। तस्माज्ज्ञापनार्थमेवैतद्विशेषविहितत्वम्; <<अनुदात्तेतश्च हलादेः>> [[3.2.149]] इति सामान्यलक्षणेन विहितत्वात्। यदि तर्हि वाऽसरूपविधेरभावो ज्ञाप्यते, गन्तेति च <<अनुदात्तेतश्च हलादेः>> [[3.2.149]] इति युज्न सिध्यति, `वौ कष`( 3.2.143) इत्यादिना धिनुणो विधानादित्यत आह - `प्रयिकञ्च ` इत्यादि। प्रायिकत्वञ्चोत्तरसूत्रे प्रतिपादयिष्यते॥", "32151": "`तृन्` [[3.2.135]] इति तृनि प्राप्ते युज्विधीयते। इहोत्तरेऽपि प्रत्ययो यत्र विशेषो न विवक्ष्यते, तत्र तृन एवापवादो वेदितव्यः। `रोषणः`इति। `रुष रोषे` (धातुपाठः-1670)॥", "32152": "`पूर्वेण` इति। <<अनुदात्तेतश्च हलादेः>> [[3.2.149]] इत्यादिना सिद्धत्वात्। अथ `अय वय रय णय गतौ`(धातुपाठः-474,475,482,480) इत्यस्माद्धातोर्युचो विधानार्थञ्चैतत्कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्;यस्मान्नयतेः `अनुदात्तेतश्च` [[3.2.149]] इत्यादिनैव सिद्धत्वात्। तस्मात् प्रतिषेधार्थमिदम्। `क्नयिता, क्ष्मायिता` इति। `क्नूयी शब्द {उन्दने च-धातुपाठः-} उन्दे च` (धातुपाठः-485), `क्ष्मायी विधूनने` (धातुपाठः-486)॥", "32153": "`षूद क्षरणे` (धातुपाठः-25), `दीपौ दीप्तौ` (धातुपाठः-1150), `दीक्ष {मौण्डएज्योपनयननियमव्रतादेशेषु-धा।पा} मौण्डए` (धातुपाठः-609)। `ननु च` इत्यादि देश्यम्। `वाऽसरूपेण` इत्यादि परिहारः। स्यादेतत् - वाऽसरूपविधिर्नास्तीति ज्ञापितमेतत्। ततो नास्ति युच्प्राप्तिरित्यत आह - `ताच्छीलिक`इत्यादि। प्रायिकस्य चायमेव लिङ्गम्। यदि हि सर्वत्र वाऽसरूपविधेरभावः स्यात्, ततो विशेषविहितेनैव प्रत्ययेन बाधितत्वादेव युज्न भविष्यीति प्रतिषेधोऽनर्थकः स्यात्। `तथा च` इत्यादिना ताच्छीलिकप्रत्ययेन समावेशं दर्शयन् प्रायिकत्वमेव ज्ञापकस्य द्रढयति। `कम्रा`इति। `नमिकम्पि` [[3.2.167]] इत्यादिना रप्रत्ययः। `कमना` इति। अनुदात्तेतश्च हलादेः` [[3.2.149]] इति युच्प्रत्ययः। `कम्प्रा`इति। `कपि चलने`(धातुपाठः-275)।`सूदेः` इत्यादि चोद्यम्। `अनित्यम्` इत्यादि परिहारः। `योगविभागादविज्ञायते` इति। अनित्यत्वे साधनं `नयसूददीपदीक्ष` इत्येकयोगे कर्तव्ये यद्योगविभागं करोति तज्ज्ञापयति - पूर्वस्मात् प्रतिषेधादस्य कश्चिद्विशेषोऽस्तीति। स पुवनर्विशेषोऽनित्यत्वमेव। यद्यपि दीपदीक्षतिम्यामपि युच् प्राप्नोति, अनभिधान्न भवति॥", "32154": "`{उपस्थायुकाः-काशिका} उपस्थायुकः` इति। `आतो युक्` [[7.3.33]] इत्यादिना युक्। `{प्रवर्षुकाः-काशिका} प्रवर्षुकः`इति। `वृषु मृषु सेचने`(धातुपाठः-706,707) इति। `कामुकाः`इति। `कमु कान्तौ`(धातुपाठः-443)। `नोदात्तोपदेश` [[7.3.34]] इत्यादिना वृद्धिप्रतिषेधे प्राप्तेऽनाचमेरित्यत्र `चमिकमिवमीनामिति वक्तव्यम्` (वा।844) इति वृद्धिरेव भवति। `{किंशारुकं-काशिका} शारुकः`इति। `शृ हिंसायाम्` (धातुपाठः-1488)। अपपूर्वाल्लषेः `अपे#ऐ च लषः` [[3.2.144]] इति धिनुण् भवति। उक्तं हि प्राक् - ताच्छीलिकेषु समावेशः क्वचित् भवति इति । पतिपदिभ्यां जुचङ्क्रम्य इत्यादिना युजपि भवत्येव । तिष्ठतेरिति `ग्लाजिस्थश्च क्सनुः` [[3.2.139]] इति वचनसामर्थ्यात्। गमेश्छन्दसि `आदृगम` [[3.2.171]] इत्यादिना किकिनावपि भवतः। भाषायामपि;`भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः (वा।284) इत्युपसंख्यानात्। कमेः `नमिकम्पि` [[3.2.167]] इत्यादिना रप्रत्ययः॥", "32155": "", "32156": "`जुचंक्रम्य` [[3.2.150]] इत्यादिना युचि प्राप्त इनिर्विधीयते। इकारो नकारस्येत्संज्ञापरित्राणार्थः॥", "32157": "`जि जये` (धातुपाठः-561), `दृङ आदरे` (धातुपाठः-1411), `श्रिञ् सेवायाम्`(धातुपाठः-897) विपूर्वः, `इण् गतौ` (धातुपाठः-1045), `टुवम उद्गिरणे` (धातुपाठः-849), `व्यथ {भयसञ्चलनयोः-धातुपाठः-} भयचलनयोःर` (धातुपाठः-764) नञ्पूर्वः, `अम रोगे`(धातुपाठः-1720) अभिपूर्वः। `षू प्रेरणे` (धातुपाठः-1408) प्रपूर्व इत्यस्य ग्रहणम्, न `षूङ प्राणिगर्भविमोचने`(धातुपाठः-1031) `षूओङ प्राणिप्रसवे`(धातुपाठः-1132) इत्येतयोः। निरनुबन्धकपरिभाषयेति (व्या।प।53) भावः। इण्जिभ्यामित्यत्र `इण्नश्जिसर्त्तिभ्यः क्वरप्` [[3.2.163]] इति वचनात् क्परप् भवति॥", "32158": "`चुरादावदन्ताः पठन्ते` इति। तेनातो लोपे कृते <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] स्थानिवद्भावाद्वृद्धिगुणौ न भवत इत्याभिप्रायः। एतेभ्यश्छन्दसि पूर्ववदिष्णुचि प्राप्ते द्रातेर्दधातेश्च किकिनोः प्राप्तयोरालुज्विधीयते। `स्पृहयालुः`इति। `अयामन्त` [[6.4.55]] इत्यादिना अयादेशः। `आलुचि` इत्यादि। शीङ गृह्रते। येन तच्छीङग्रहणं तत् पुनव्र्याख्यानमित्येतदुक्तं भवति। तद्व्याख्यानं कर्तव्यं येनालुचि विधातव्ये शीङोऽपि ग्रहणं भवति। तत्रेदं व्याख्यानम् - पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन शीङपि प्रकृतित्वेन गुह्रत इति॥", "32159": "`डुदाञ् दाने` (धातुपाठः-1091), `दो अवखण्डने`(धातुपाठः-1148), `देङ रक्षणे`(धातुपाठः-962) - त्रयाणामिह ग्रहणम्; `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति वचनात्। `धेट् पाने`(धातुपाठः-902), षिञ् बन्धने` (धातुपाठः-1477), `शद्लृ शातने` (धातुपाठः-1428), `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-1427)। अथ `धारुर्वत्सो मातरम्` इति कथमत्र द्वितीया, यावता `कर्त्तृकर्मणोः कृति` [[2.3.65]] इति षष्ठआ भवितव्यमित्यत आह - `न लोकाव्ययनिष्ठा` इति। उको य उकारस्तेन सहाकः सवर्णदीर्घत्वेन प्रश्लिष्टः, तेन तदन्तविधौ विज्ञायमाने उकारान्तस्य प्रत्ययस्य प्रयोगे षष्ठी न भवति, तेन द्वितीयैव भवतीति न षष्ठी। नन्विह तर्हि - कटं चिकीर्षुरिति प्रतिषेधो न स्यात्, उप्रत्यय्सयानुकारान्तत्वात्। घिनुणपि बवति। छन्दस्युकारान्तत्वात् `आदृगमहन` [[3.2.171]] इत्यादिना किकिनावपि भवतः॥", "32160": "", "32161": "`{भञ्ज आमर्दने`(धातुपाठः-1453), `भासृ दीप्तौ`(धातुपाठः-624), `ञिमिदा {स्नेहने-धातुपाठः-} स्नेहनमोचनयोः`(धातुपाठः-1243)। `भङगुरम्िति। <<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति कुत्वम्। `कर्मकर्तरि प्रत्ययः` इति। भज्यते स्वयमेवेत्यर्थः। कुतः पुनः कर्मकर्तरि प्रत्यो लभ्यत इत्यत आह - `स्वभावात्` इति। प्रकृत्यैव प्रत्ययः कर्मकर्तरिमभिधत्ते, न कर्त्तृमात्रम्। अतः कर्मकर्तर्येव॥", "32162": "`ज्ञानार्थस्य विदेग्र्रहणम्` इति। `विद ज्ञाने` (धातुपाठः-1064) इत्येतस्य। `न लाभार्थस्य` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्येतस्य। अज्ञानार्थस्य विदेरुपलक्षणमेतत्, तेन सत्ताविचारणार्थौ यौ विदी तयोरपि ग्रहणं न भवत्येव। क्वचित्त्वनयोरादिशब्देनोपसंग्रहाय लाभार्थस्येति पाठः। कस्मात् पुनज्र्ञानार्थस्य ग्रहणमित्याह - `स्वभावात्` इति। विदेरुत्पन्नेन प्रत्ययेन स्वभाव एव ज्ञानक्रियाया यः कर्ता स एव प्रतीयते, नान्यः। तस्माज्ज्ञानार्थस्य ग्रहणम्, नान्यस्य। `कर्मकर्तरि प्रत्ययः`इति। स्वयमेव च्छिद्यत इत्यर्थे। तत्र स्वभावादिति पूर्वोक्त एव हेतुः॥", "32163": "`इत्वरः` इति। <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] । `इत्वरी` इति। `टिड्ढाणञ्` [[4.1.15]] इत्यादिना ङीप्॥", "32164": "", "32165": "`जागरूकः` इति। `जागृ निद्राक्षये` (धातुपाठः-1072)। वाऽसरूपविधिना तृन्नपि - जागरितेति भवति॥", "32166": "दंशेर्यदि `अनिदिताम्` [[6.4.24]] इत्यादिनाऽनुनासिकलोपो लुप्तेऽपि यङि प्रत्ययलक्षणेन सिध्यति, तथापि लाघवार्थं कृतानुनासिकलोपो द्रष्टव्यो निर्दिष्टः। `यायजूकः` इति। यजेर्यङ, <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घः, <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। `जञ्जपूकः, दन्दशूकः` इति। `लुपसद` [[3.1.24]] इत्यादिना यङ, `जपजभ` [[7.4.86]] इत्यादिनाऽभ्यासस्य नुक्॥", "32167": "णम प्रह्वत्वे शब्दे` (धातुपाठः-981), `कपि चलने` (धातुपाठः-375), `ष्मिङ ईषद्धसने` (धातुपाठः-948), `कमु कान्तौ` (धातुपाठः-443), `{तृह-धा।पा} तृहि हिसि हिंसायाम्` (धातुपाठः-1455,1456), `दीपी दीप्तौ` (धातुपाठः-1150)। कपेश्चलनार्थत्वात् कमिदीपिभ्यञ्चानुदा4त्तेत्त्वाद्युचि प्राप्ते रो विधीयते। `क्रियासातत्यम्` इति। क्रियमाणानामविच्छेदेन प्रवृत्तिः = क्रियासातत्यम्। तत्र स्वभाव एव प्रत्ययान्तो वर्तते॥", "32168": "`सन्प्रत्ययो गृह्रते` इति। `गुप्तिज्किद्भ्यः` [[3.1.5]] इत्यादिना यो विहितः। `न सनिर्धातुः`इति। `षणु दाने` (धातुपाठः-1464) `\tवन षण सम्भक्तौ` (धातुपाठः-463,464) इति न गृह्रते। एतच्च गर्गादिषु जिगीषुशब्दपाठाद्विज्ञायते, स हि प्रत्ययग्रहणे चोपपद्यते, न तु धातुग्रहणे। `आङ शासि इच्छायाम्ित्यादि। एतदप्याङा सह निर्देशाद्विज्ञायते। इच्छार्थो ह्राङसहितः पठते, न स्तुत्यर्थः। `आशंसु, भिक्षुः` इति। अत्र `अनुदात्तेश्च हलादेः` [[3.2.149]] इति युचि प्राप्त उप्रत्ययस्य विधानम्॥", "32169": "`विदेः` इति। `विद ज्ञाने` (धातुपाठः-1064)। इतरेषां त्वनभिधानान्निपातनसामर्थ्याद्वा ग्रहणं न भवति। `इषेः` इति। `{इष-धातुपाठः-} इषु इच्छायाम्` (धातुपाठः-1351) इत्येतस्य। `इष गतौ` (धातुपाठः-1127) इत्यादीनां त्विषीणां पूर्ववद्ग्रहणं न भवति। `इच्छुः` इति। छकारादेशो निपात्यते। `छे च` [[6.1.71]] इति तुक्, <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्॥", "32170": "`मित्रयुः` इति। मित्रमिच्छतीति <<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्। `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घत्वं प्राप्नोति, <<क्यचि च>> [[7.4.33]] इतीत्त्वञ्च, एतदुभयमपि <<न च्छन्दस्यपुत्रस्य>> [[7.4.35]] इति प्रतिषेधान्न भवति। `संस्वेदयुः`इति। लोहितादित्वात् [[3.1.13]] क्यष्। `सुम्नयुः` इति। `देवसुम्नयोः` [[7.4.38]] इति प्रतिषेधः। सुम्न इवाचरतीति `कर्त्तुः क्यङ सलोपश्च` [[3.1.11]] इति क्यङ॥", "32171": "परपदार्थेषु प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थं गमयन्ति, यथा - गौर्वाहीकः, सिंहो माणवक इति। गौर्वाहीक इत्युक्ते गो शब्दोऽर्थान्तरे प्रयुक्तो विनापि वतिना गौरिवायमिति तुल्यशब्दरूपे वाहीके प्रतीयते। इह लिडिति स्वार्थादन्यत्र किकिनोः प्रयुक्तः। तस्मादसत्यपि वतिना योगेऽतिदेशो गम्यत इत्याह - `लिड्वच्च तौ भवतः`इति। लिटा तुल्यौ = तुल्यधर्माणौ भवत इत्यर्थः। द्विर्वचनादिकं यल्लिटः कार्यं तत् किकिनोर्भवतीति भावः। कार्यातिदेशोऽयम्, न शास्त्रातिदेशः; कार्यातिदेशापेक्षया शास्त्रातिदेशस्याप्राधान्यात्। अप्राधान्यं तु शास्त्रातिदेशस्य कार्यत्वात्। यदि तर्हि कार्यातिदेशोऽयम् <<लः परस्मैपदम्>> [[1.4.99]] इति परस्मैपदसंज्ञाऽपि किकिनोः प्राप्नोति, ततश्चात्मनेपदिभ्यस्तौ न स्याताम्? नैष दोषः; लादेशस्य हि परस्मैपदसंज्ञा, न लकारस्य। `ल` इति ह्रादेशापेक्षया तत्र षष्ठी, लादेशः परस्मैपदसंज्ञको भवतीति यावत्। न च किकिनौ लादेशौ,तत्कुतः परस्मैपदसंज्ञायाः प्रसङ्गः। तिबादयस्तर्हि कस्मान्न भवन्ति? तयोर्विधानसामर्थ्यात्। यदि तर्हि तिबादयः स्युः, किकिनोर्विधानमनर्थकं स्यात् - लिटमेव विदध्यादिति, न च तिबादिभिस्तच्छीलादयो विधीयन्ते? अनभिधानान्न भविष्यन्ति। क्वसुकानचौ कस्मान्न भवतः, न च तयोर्भाव आनर्थक्यं किकिनोरुपपद्यते; <<लिटः कानज्वा>> [[3.2.106]] <<क्वसुश्च>> [[3.2.107]] इति विकल्पेन क्वसुकानचोर्विधानात्? अनभिधानादेव तावपि न भविष्यतः; न हि ताभ्यां तच्छीलादयो विधीयन्ते;अत एवानभिधानात्। <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इतिभावकर्मणोरपि किकिनौ न भवतः। यथैव हि <<भञ्जभासमिदो घुरच्>> [[3.2.161]] इति भञ्जेरुत्पन्नेन च घुरचा स्वभावात् कर्मकर्त्तैवाभिधीयते न कर्त्तृमात्रम्, तथा किकिन्भ्यामपि धातोरुत्पन्नाभ्यां स्वभावादेव कर्त्तैवाभिधीयते, न भावकर्मणी। `आदिति दकारो मुखसुखार्थः`इति। तपरत्वनिरासार्थमेतत्। अत एवाह - `\tन त्वयं तपरः` इति। किं पुनः कारणं तपरो नेष्यत इत्याह - `मा भूत्` इत्यादि। <<तपरस्तत्कालस्य>> [[1.1.70]] इति तादपि पर इति पञ्चमीसमासोऽप्याश्रितः। <<वृद्धिरादैच्>> [[1.1.1]] इत्यत्र त्रिमात्रचतुर्मात्रयोरैचां वृद्धिसंज्ञा मा भूदित्येवमर्थम्। ततश्च यद्येवं तपरः स्यात् तदा ऋकारेऽपि तपर एव स्यात्, ततश्च ऋकारेण तत्कालानां मात्रिकाणामेतद्ग्रहणं स्यात्, न पुनर्दीर्घाणाम्। तत्र को दोषः? दधिश्चक्रिरित्येवमादावेव स्याताम्; ततुरिः, जगुरिरित्येवमादौ च न स्याताम्। तस्मात् मा भूदित्येव दोष इति तपरत्वमत्र नेष्यते। `पपिः सोमम्` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः, द्विर्वचनम्, अभ्यासस्य ह्रस्वः। `न लोकाव्ययनिष्ठा` [[2.3.69]] इत्यादिना षष्ठीप्रतिषेधः कार्यं इति सोमशब्दात् कर्मणि द्वितीयैकवचनं भवति। `ददिः` इति। `डुदाञ् दाने` (धातुपाठः-1091)। `ततुः` इति। <<बहुलं छन्दसि>> [[7.4.78]] इत्युक्तम्, रपरत्वञ्च। <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थानिवद्भावात् तृशब्दो द्विरुच्यते। (धातुपाठः-7.4.66) इत्यत्त्वम्,रपरत्वम्, हलादिशेषः [[7.4.60]] । `जगुरिः` इति। `गृ निगरणे` (धातुपाठः-1410) `जन्मिः, जघ्निः` इति। `गमहन` [[6.4.98]] इत्यादिनोपधालोपः। जनेर्नकारस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वं ञकारः।`अथ` इत्यादि चोद्यम्। `ऋच्छत्यृताम्` इत्यादिना परीहारः।`उत्सर्गश्छन्दसि` इत्यादि। सामान्येन विधानम् = उत्सर्गः। एतदुक्तं भवति - प्रकृतिविशेषमनुपादाय धातुमात्रात् किकिनोरुत्पादौ द्रष्टव्याविति। धातुमात्राद्विधातव्याविति यावत्। कुतो हेतोरित्याह - `सदादिभ्योऽपि दर्शनात्` इति। सदादिभ्योऽपि सूत्रानुपात्तेभ्यः किकिनौ यस्मादुत्सर्गः कर्तव्यः। `सेदिः,नेमिः`इति। पूर्वदेत्त्वाभ्यासलोपौ। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-854), `णम प्रह्वत्वे शब्दे` (धातुपाठः-981), <<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इत्येत्त्वाभ्यासलोपौ।`दधिः, चक्रिः` इति। घाञः पूर्ववदाकारलोपः। `चक्रिः, सस्रिः` इति। करोतेः सर्तेश्च यणादेशः। `जज्ञिः` इति। जनेः पूर्वच्चुत्वोपधालोपौ। `नेमिः`इति। पूर्ववदत्त्वाभ्यासलोपौ।`सहिवहि` इत्यादि। भाषायामपि वर्तते। `सासहिः` इत्यादि। सहादिभ्यो यङ, द्विर्वचनम्, पूर्ववदकारयलोपौ॥", "32172": "`स्वप्नक, तृष्णक्` इति। `ञिष्वप शये` (धातुपाठः-1068), `ञितृषा पिपासायाम्` (धातुपाठः-1228), <<चोः कुः>> [[8.2.30]] इति कुत्वम् - गकारः। तस्य <<वाऽवसाने>> [[8.4.56]] इति चर्त्वम् - ककारः। नजिङो ङकारस्तृषेश्च गुणप्रतिषेधार्थः, इकार उच्चारणार्थः॥", "32173": "शृणोतेः `लषपत` [[3.2.154]] इत्यादिनोकञपि भवति। वन्दतेः `अनुदात्तेतश्च` [[3.2.149]] इत्यादिना युचि प्राप्ते वचनमिदम्॥", "32174": "`क्रुकन्नपि वक्तव्यम्` इति। क्रुकन्नित्यपरः प्रत्ययो वाच्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - `आदृगमहन` [[3.2.171]] इत्यादेः सूत्राच्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, स चानुक्तसमुच्चयार्थः। तेन क्रुकन्नपि भविष्यतीति॥", "32175": "`स्थावरः`इति। `एकाच` [[7.2.10]] इत्यादिनेट्प्रतिषेधः।`ईआरः` इत्यादावपि `नेड्? वशि कृति` [[7.2.8]] इति। तिष्ठतेः पूर्वसूत्रविहितौ क्स्नूकञावपि वचनाद्भवतः। ईशभासोः पूर्ववद्युचि प्राप्त इदं वचनम्।", "32176": "`यायावरः` इति। पूर्ववदकारयलोपौ॥", "32177": "`{भ्राजृ- धा।पा} भ्राज दीप्तौ` (धातुपाठः-181), `भासृ दीप्तौ` (624), `उर्वी तुर्वी थुर्वी धुर्वी हिंसार्थाः`(धातुपाठः-569,570,571,573), `द्युत दीप्तौ` (धातुपाठः-741), `उर्ज बलप्राणनयोः` (धातुपाठः-1549), `पृ? पालनपूरणयोः` (धातुपाठः-1086), `जु`इति सौत्रो धातुः, `ष्टुञ् स्तुतौ` (धातुपाठः-1043) ग्रावपूर्वः। `विभ्राट्` इति। व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्। पूर्ववज्जश्त्वं चर्त्वञ्च। `धूः` इति। <<राल्लोपः>> [[6.4.21]] इति वकारलोपः, <<र्वोरुपधाया दीर्घ इकः>> [[8.2.76]] इति दीर्घः। `पूः`इति। `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वम्, रपरत्वञ्च, पूर्ववद्दीर्घत्वम्। `जवतेर्दीर्घश्च` इति। कथम्? केचिदाहुः - सूत्रे `जू` इति दीर्घः पठितव्य इति। अपरे त्वाहुः- उत्तरसूत्रे दृश्यत इत्युभयोरपि योगयोः शेषः, तच्च विध्यन्तरोपसंग्रहार्थम्, अतोजवतेर्दीर्घो विधीयत इति। ग्रावाणं स्तौतीति ग्रावस्तुत्।<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] ।`किमर्थमिदम्` इत्यादि द्योद्यम्। `ताच्छीलिकैर्बाध्यते` इति परीहारः। स्यादेतत् - वाऽसरूपविधिना क्वचिदपि भविष्यतीत्याह - `वाऽसरूपविधिश्च` इति। एतत्तु `निन्दहिंस` [[3.2.146]] इत्यादौ सूत्र उक्तम्। ननु च <<सूददीपदीक्षश्च>> [[3.2.153]] इति सूत्रे प्रायिकत्वं ज्ञापकस्य प्रतिपादितम्, वाऽसरूपविधिश्चात्र नास्तीत्याह - `तस्यैव` इति। <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] , <<क्विप् च>> [[3.2.76]] इत्यादिना भवति॥", "32178": "ननु चान्यभ्योऽपीत्येतावतैव सिद्धम्, तत्किमर्थं दृशिग्रहणमित्यादि? क्वचिदित्यादिना येषामुपसंग्रहार्थं दृशिग्रहणं तानि विध्यन्तराणि दर्शयति। यस्मात् विध्यन्तराणामुपसंग्रहार्थं दृशिग्रहणम्ेवञ्च कृत्वा वृत्तिकारः `क्विब्वचिपृच्छि`(वा।288) इत्यादिकं वाक्यं पठति। दृशिग्रहणोपात्तानि तान्येव विध्यन्तराणि दर्शयितुमित्यभिप्राय-। कथं पुनर्दृशिग्रहणेन विध्यन्तरोपसंग्रहः? दृशिग्रहणे हि सति `यथा दृश्यन्ते क्विबन्ता धातवस्तथैव तेऽनुगन्तव्याः` इत्येषोऽर्थो लभ्यते। तस्मश्चार्थे लभ्यमाने द्विर्वचनादिविधयः संगृहीता भवन्ति। एवं हिते यथा दृश्यन्ते तथानुगता भवन्ति। यदि यथायोगं द्विर्वचनादयो विधीयन्ते, तदा क्विबन्तेषु क्वचिद्द्विर्वचनं दृश्यते, क्वचिदपि संप्रसारणमिति युक्तमुक्तम् - `दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्` इति।`वाक्` इति। वचेर्वच्यादिसूत्रेण [[6.1.15]] प्राप्तस्य सम्प्रसारणस्याभावः क्रियते। `शब्दप्राट्` इति। पृच्छेरपि ग्रह्रादिसूत्रेण [[6.1.16]] सम्प्रसारणस्य। व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, पूर्ववज्जश्त्वं चर्त्वञ्च। आयतं स्तौतीति `आयतस्तूः`। `ष्टुञ् स्तुतौ` (धातुपाठः-1043)। कटं प्रवत इति `कटप्रूः`। `प्रुङ गतौ` (धातुपाठः-957)। `श्रीः` इति। `श्रिञ् सेवायाम्` (धातुपाठः-897)। `दिद्युत्` इति। `जगत्` इति। <<गमः क्वौ>> [[6.4.40]] इत्यनुनासिकलोपः। `ददृत्` इति। `उरत्` [[7.4.66]] इत्यत्त्वम्, रपरत्वम्, हलादिशेषः [[7.4.60]] ।`धीः`इति। `ध्यै चिन्तायाम्` (धातुपाठः-908) `हलः` [[6.4.2]] इति दीर्घः॥`धनिकाधमर्णयोः` इत्यादि। धनिको यस्मै ऋणं धार्यते। अधमर्णो यो धारयति। तदन्तरे मध्ये यस्तिष्ठत्यात्मपक्षपतितः सम्प्रत्ययहेतुः सप्रतिभूशब्देनोच्यते, न सर्वः। तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र प्रत्ययो न वति। एतच्च शब्दशक्तिस्वाभाव्याल्लभ्यते, `दृश्यते` [[3.2.178]] इत्यस्यानुवर्तेर्वा। अस्य ह्रनुवृत्तौ प्रतिभूरिति संज्ञेयम्, तत् किमन्तरग्रहणेन, संज्ञायामित्येव वक्तव्यम्? नैतदस्ति; द्रव्यताविघाता हि संज्ञाशब्दा भवन्ति, न चैवं प्रतिभूशब्दः। तथापि सत्यपि देवदत्ते कदाचिदसौ न प्रवर्तत एव॥", "32179": "", "32180": "`विभुः` इति। पूर्वेण क्विबेव भवति।`मितद्रवादिभ्य उपसंख्यानम्` इति। आविशेषेण - संज्ञायाम्, असंज्ञायाञ्च। `मितद्रवादिभ्यः`इति तादर्थ्ये चतुर्थी। मितद्रवादयो डुप्रत्ययान्ताः साधवो यथा स्युरित्येवमर्थः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्व प्रतिपादनं प्रकृतत्वाड्डुशब्दस्य। तत्रेदं प्रतिपादनम् - <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इत्यतोऽपि शब्दोऽत्रानुवर्तते, तेन मितद्रवादिब्यो डुप्रत्ययो धात्वन्तरादपि भवति, पदान्तरे चेति॥", "32181": "`धयतेः` इति। `धेट् पाने` (धातुपाठः-९०२)। `दधातेः` इति। `डुधाञ् धारणपोषणयोः` (धातुपाठः-१०९२)। `कर्मणि कारके` इति। एतेन कर्मणः प्रत्ययार्थतां दर्शयन्नुपपदत्वमपाकरोति। यदि हि कर्मण उपपदत्वं स्यात् कर्मण्यण् ३.२.१ इत्यस्मिन्नेव प्रकरणे विदध्यात्। एवं हि द्विः कर्मग्रहणं न कर्तव्यं भवति। ननु च यद्यपि द्विः कर्मग्रहणं न कर्तव्यं भवति, तदाप्युत्तरसूत्रेण ष्ट्रन्ग्रहणं कर्तव्यं जायते? जायतां नाम, लघीयो हि कर्मग्रहणात् ष्ट्रन्ग्रहणम्। नन्विह वर्तमान इत्यनुवृत्तेर्वर्तमानप्रत्ययो भवति, तत्र तु क्रियमाणे नैतल्लभ्यते? नैतदस्ति; इहापि क्रियमाणे नैव वर्तमाने प्रत्ययो भवति। न हि धात्रीत्युक्ते काप्यविशेषा प्रतीयते, किं तर्हि? क्रियाकारकसम्बन्धमात्रविशिष्टा स्त्री प्रतीयते - आमलकी च दधति तां भैषज्यार्थमिति कृत्वा। तस्मात् `कर्मणि` इति प्रत्ययार्थं एव, नोपपदम्॥", "32182": "`दाप् लवने ` इति। यथा <<दाधा घ्वदाप्>> [[1.1.20]] इति सूत्रे `दैप् शोधने` (धापा।924) इत्यस्यापि ग्रहणम्। तर्हीहापि कस्मान्न भवति? अनभिधानात्। प्रकृत्यैव हि दात्रमिति ष्ट्रन्प्रत्ययान्तेन लवनस्य करणमुच्यते, न शोधनस्य। `करणे कारके` इति। एतेन करणप्रत्ययार्थतां दर्शयन्नुपपदत्वं निराकरोति। यद्युपपदत्वमस्यस्यात् तदाजादिषु दंष्ट्राशब्दस्य पाठो नोपपद्यते। `योक्त्रम्` इति। <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `मेढ्रम्` इति। `हो ढः` [[8.2.31]] इति ढत्वम्, <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति घत्वम्, <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्, <<ढो ढे लोपः>> [[8.3.13]] `दंष्ट्रा`इति। अजादित्वाट्टाप्।`दंशेः`इत्यादि। ननु च यथा `त्यजरज` [[3.2.142]] इति रञ्जेरनुनासिकनिर्देशे धिनुण्प्रत्यये रागीत्यनुनासिकलोपो भवति, तथा दंशेः ष्ट्रन्प्रत्यये न लोपो भविष्यति,तत्कथमस्य ज्ञापकतोपपद्यते? नैष दोषः; यद्ययं निर्देशो दंशेः ष्ट्रन्प्रत्ययेऽनुनासिकलोपार्थः स्यात्, तदा दंष्ट्राशब्दस्याजादिपाठो विरुध्यते। तस्माज्ज्ञापकार्थत्वम्। `नद्ध्री`इति। `नहो धः` [[8.2.34]] इति धत्वम्, `झषस्तथोर्धो।धः` [[8.2.40]] इति तकारस्य धत्वम्, धकारस्य <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम्, <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्। येऽत्र सेटो धातवः शस्प्रभृतयस्तेषां हि `तितुत्रतथ` [[7.2.9]] इत्यादिनेट्प्रतिषेधः॥", "32183": "`तच्चेत् करणं हलशूकरयोरवयवो भवति` इति। एतेन हलशूकरयोरित्येषाऽवयवषष्ठी, नत्वभिधेयसप्तमीति दर्शयति। `{मुखमुच्यते - काशिका, पदमञ्जरी च} मुखमेवोच्यते` इति। नान्यः कर्णाद्यवयवः। एतच्चाभिधानशक्तिस्वाभाव्यात्॥", "32184": "`धू विधूनने` (धातुपाठः-1398), `षू प्रेरणे` (1408) इत्यनयोग्र्रहणम्। `धूञ् कम्पने` (धातुपाठः-1487) ` {षूङ-धातुपाठः-} षूञ् प्राणिगर्भविमोचने` (धातुपाठः-1031) `षूङ प्राणिप्रसवे` (धातुपाठः-1132) इत्येतेषां `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति परिभाषया ग्रहणं न भवति॥", "32185": "`बर्हिष्पवित्रम्` इति। पवतेः, पुनातेर्वा। अनेन पवित्रं बर्हिषा कृतम्। बर्हिष्पवित्रम् = कुशविकारः। प्रदेशिन्या अङ्गुलेर्वेष्टनमुच्यते।", "32186": "", "32187": "`मिन्न` इति। <<आदितश्च>> [[7.2.16]] इतीट्प्रतिषेधः। `रदाभ्याम्` [[8.2.42]] इति नत्वम्। एवं `क्ष्विण्णः` इत्यात्रापि। `अट्कुप्वाङ` [[8.4.2]] इत्यादिना णत्वम्। `धृष्टः` इति। `धुपिशसी वैयात्ये` [[7.2.19]] इतीट्प्रतिषेधः, <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्॥", "32188": "`मतः` इति। `मन ज्ञाने` (धातुपाठः-1176)। इट्प्रतिषेधः `एकाचः` [[7.2.10]] इत्यादिना, `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनानुनासिकलोपः। `इष्टः` इति। `{इष - धातुपाठः-} इषु इच्छायाम्`(धातुपाठः-1351)। <<उदितो वा>> [[7.2.56]] इति विभाषितत्वान्निष्ठायां <<यस्य विभाषा>> [[7.2.15]] इतीट्प्रतिषेधः। `बुद्धः` इति। `बुध अवगमने` (धातुपाठः-858)। पूर्ववद्धत्वम्, तकारस्य जश्त्वम्,धकारस्य दकारः। `पूजितः, अर्चितः` इति। `{भ्वादौ नोपलभ्यते;चुरादित्वेनैव प्रसिद्धः।} पूज पूजायाम्` (धातुपाठः-1642);`अर्च पूजायाम्` (धातुपाठः-204) भ्वादी। एतौ चारदी च, तत्र यदा चुरादिभ्यां प्रत्ययस्तदा <<निष्ठायां सेटि>> [[6.4.52]] इति णिलोपः।`शीलितः` इत्यादौ `शील समाधौ`(धातुपाठः-658) `क्षमुष् सहने` (धातुपाठः-442),`क्रुश {आह्वाने रोदने च- धा।पा}आह्वाने` (धातुपाठः-856), `जुषी प्रीतिसेवनयोः (धातुपाठः-1288),` रुष रोषे` (धातुपाठः-1670), `ह्मञ् हरणे` (धातुपाठः-899), `ह्मष तुष्टौ` (धातुपाठः-1229), `ह्मषु अलीके` (धातुपाठः-709),`तुष {प्रीतौ-धातुपाठः-} तुष्टौ (धातुपाठः-1184), `कमु कान्तौ` (धातुपाठः-443), `यम उपरमे` (धातुपाठः-984), `कष हिंसायाम्` (धातुपाठः-685), `मृङ प्राणत्यागे` (धातुपाठः-1403) - इत्येतेषां धातूनां यथाक्रमेणैतानि रूपाणि। तत्राद्यौ सेटौ। यश्चात्र कश्चिदुदिदूदिच्च, तस्य निष्ठायां <<यस्य विभाषा>> [[7.2.15]] इतीट्प्रतिषेधः। यस्त्वीदित् तस्यापि `श्वीदितो निष्ठायाम्` [[7.2.14]] इतीट्प्रतिषेधः। ह्मषेरेव `ह्मषेर्लोमसु` [[7.2.29]] इत्यादिना <<रुष्यमत्वरसंघुषास्वनाम्>> [[7.2.28]] इति विभाषितेट्। `{नास्ति-काशिका} कान्तः, क्षान्तः` इति। <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घः। `आक्रुष्टः` इति। व्रश्चादिना [[8.2.36]] षत्वम्। `संयतः` इति। पूर्ववदनुनासिकलोपः। `अमृतः` इति। गत्यर्थादीनां कर्तरि क्तः। `पूर्ववत्` (इति)। यथा शीलादिषु वर्तमाने निष्ठा तथाऽमृतशब्दस्यापीत्यर्थः।`सुप्तः`इति। स्वपेः सम्प्रसारणम्। `शयितः` इति। `निष्ठा शीङ` [[1.2.19]] इत्यादिना कित्त्वप्रतिषेधाद्गुणः। `आशितः` इति। `अश भोजने` (धातुपाठः-1523) आङपूर्वः, `लिप उपदेहे` (धातुपाठः-1433), `तृप प्रीणने` (धातुपाठः-1195)। अत्र अशिशीङौ सेटौ; शेषास्त्वनिटः। `एकाचः` [[7.2.10]] इत्यादिनेट्प्रतिषेधः। यद्यपि शीलादयो वर्तमानकाले व्युत्पाद्यन्ते, तथापि शीलितो देवदत्तेन, रक्षितो देवदत्तेन आक्रुष्टो देवदत्तेनेत्यत्र `क्तस्य च वर्तमाने` [[2.3.67]] इति षष्ठी न भवति। यथा न भवति तथा तत्रैव प्रतिपादितम्॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायांकाशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्य द्वितीयः पादः।", "33001": "", "33002": "`पूर्वत्र वर्तमानात्िति। अथ पूर्वत्र वर्तमानग्रहणं कस्मान्न निवर्त्तितम्, युक्तं हि तत् तत्र निवर्त्तियितुम्, तथा हि - तस्मस्तत्र निवृत्ते सतीदं न कर्तव्यम्? नैतदस्ति;अवश्यमैतत् कर्तव्यम्,यस्मात् केचिद्भूत एवेष्यन्ते। यदिच पूर्वत्र वर्तमानग्रहणानुवृत्तिर्न स्यात्,भविष्यत्यप्युणादयो न स्युः। <<भविष्यति गम्यादयः>> [[3.3.3]] इत्येकं तु नियमार्थं विज्ञायेत - भविष्यत्येव गम्यादयैति। तस्मात् पूर्वत्रानुवर्तयितव्यं वर्तमानग्रहणम्। `वत्र्म` इति। `आतो मनिम्` [[3.2.74]] इत्यनुवर्तमाने <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति मनिन्प्रत्ययः।<<नेड् वशि कृति>> [[7.2.8]] इतीट्प्रतिषेधः। `भस्म` इति। `भस भत्र्सनदीप्त्योः` (धातुपाठः-1100)। `दृशिग्रहणम्` इत्यादि। विशिष्टप्रयोगमनुसृत्य यत्र शिष्टाः प्रयुज्यते तत्र भूते प्रत्ययः कर्तव्यः,न तु सर्वत्रेति दृशिग्रहणेनायमर्थः प्रतिपादित इति दर्शयति॥", "33003": "`प्रत्ययस्यैव` इत्यादि। इदं हि भविष्यति गम्यादयः साधवो भवन्ति,यदि प्रत्ययस्यैव भविष्यत्कालता विधीयते, अथ तु प्रत्ययस्यान्यकालता स्यान्न ते भविष्यति साधवः स्युः।तस्मात् प्रत्ययस्यैवानेन प्रकारेण भविष्यत्कालता विधीयते। `ग्रामं गमी` इति। `गमेरिनिः` (द।उ।6।57) इतीनिप्रत्ययः,`सौ` [[6.4.13]] इति दीर्घः। `अकेनोर्भविष्यदाधमण्र्ययोः` [[2.3.70]] इति षष्ठआं प्रतिषिद्धायां ग्रामशब्दात् `कर्मणि द्वितीया` (2।32)। `आगामी` इति। `गमेरिनिः`(द।उ।6।57) इति वर्तमाने `आङि णित्` (द।उ।6।58)इतीनिः; णित्त्वादुपधावृद्धिः। `प्रस्थायी`इत्यादि। `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928) `बुध बोधने` (धातुपाठः-1172), `युज समाधौ` (धातुपाठः-1177) `या प्रापणे` (धातुपाठः-1949) - एब्यः <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति णिनिः।यातितिष्ठत्योः <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्। युजः `चजोः कुघिण्ण्यतोः` इति कुत्वम्। `भावी` इति। `आङि णित्` (पं।उ।4।7) इति वर्तमाने `भुवश्च` (पं।उ।4।8) इतीनिः, णित्त्वाद्वृद्धिः। `अनद्यतन उपसंख्यानम्` इति। किं पुनः कारणं न सिध्यति? भविष्यतीति लृटायं निर्देशः क्रियते, तेन च लृट एव विषये भविष्यत्सामान्ये स्यात्, न भविष्यदनद्यतने,ततो लुटो न विषयः, लृटा बाधितत्वात्। तस्मादनद्यतन उपसंख्यानं कर्तव्यम्। उपसंख्यानशब्दस्य चेह प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - बहुलग्रहणमिहानुवर्तते,तेनानद्यतनेऽपि भविष्यतीति।एते च गम्यादयो लुङ्लृटोरुभयोरपि बाधकाः, अपबादत्वात्।अपवादत्वं तु येननाप्राप्तिन्यायेन (व्या।प।49) ननु च वासरूपविधिना लुङ्लृटावपि प्राप्नुतः, तद्विधौ `भविष्यति गम्यादयः` इत्यनुवृत्तेः? सत्यम्; अस्यामप्यनुवृत्तौ पक्षे एवेति चेत्? नैतदस्ति;एवं ह्रनुवृत्तिरपार्थिका स्यात्॥", "33004": "`यावद्भूङ्क्ते` इति। <<भुजोऽनवने>> [[1.3.66]] इत्यत्मनेपदम्। <<श्नसोरल्लोपः>> [[6.4.111]] त्यकारलोपः।`यावद्दास्यति तावद्भोक्ष्यते` इति। यत्परिमाणम्सय, तत् परिमाणमस्येति `यत्तदेतेभ्यः परिमाणे वतुप्` [[5.2.39]] <<दृग्दृशवतुषु>> [[6.3.89]] इत्यनुवर्तमाने <<आ सर्वनाम्नः>> [[6.3.91]] इत्यात्त्वम्। `पुरा व्रजिष्यति`इति। `पृ पालनपूरणयोः` (धातुपाठः-1489)। `भ्राजभास` [[3.2.177]] इत्यादिना क्विप्, `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वम्, करणे तृतीयैकवचनम्। ननु चाव्युत्पन्नावेव यावत्पुराशब्दौ निपातौ, तो च व्युत्पादितौ, तो च व्युत्पादितौ, तत्र लक्षणप्रतिपदोक्तपरिभाषयैव (व्या।प।3) तयोर्निपातयोग्र्रहणं भविष्यति, तत्किमर्थं निपातग्रहणम्? मन्दबुद्धीनां प्रतिपत्तिगौरवपरिहार्थमित्येके। अस्याः परिभाषाया अनित्यत्वज्ञापनार्थमित्यपरे। अनित्यत्वज्ञापनस्य तु प्रयोजनमुत्तरत्र वक्ष्यते॥", "33005": "`कदा भोक्ता` इति। लुट्। ननु च भविष्यतीत्यनुवृत्तेर्लृट एव विषये भवितव्यम्, न लुटः। ततो लृडेव पक्षे युक्त उदाहर्तुम्, तत्कथं लुडप्युदाहृतः? एवं मन्यते - <<अनद्यतने लुट्>> [[3.3.15]] इत्यत्र `विभाषा कदाकर्ह्योः` इत्यस्यानुवृत्तेर्लृटो विषये विभाषा लुटा भवितव्यमिति। `कर्हि भोक्ष्यते` इति। लृट्। ननु च कर्हिशब्दः <<अनद्यतने र्हिलन्यतरस्याम्>> [[5.3.21]] इत्यनद्यतने व्युत्पादितः, तदसौ यत्र प्रयुज्यते ततर्ानद्यतन इव कालः सम्भवति, तत्कुतो लृटः प्राप्तिः, <<अनद्यतने लुट्>> [[3.3.15]] इति लुटैव पक्षे भवितव्यम्? नैतदस्ति; यस्माद्भोक्ष्यत इत्येतत् पदं भविष्यत्काल एव वर्तते। अनद्यतनकालावगतिस्तु कर्हिशब्दसन्निधाने सति वाक्याद्भवति। न च वाक्यगम्येऽर्थे लृड्भवति। तथा हि पदमिह संस्क्रियते, न च पदसंस्कारे वाक्यगम्योऽर्थ उपयुज्यते। तस्माद्भविष्यत्सामान्ये विवक्षिते लृड्भवति, भविष्यति विशेषेऽप्यनद्यतने विवक्षिते लुडिति॥", "33006": "`किमो वृत्तम्` इत्यादि। किं पुनःकिमो वृत्तमित्याह - `वृत्तग्रहणेन\t` इत्यादि। तदित्यनेन किंशब्दः सम्बध्यते - किमेतच्छब्दरूपं विभक्त्यन्तं वृत्तग्रहणेन प्रतीयात्। डतरडतमौ च `किंयत्तदौर्निर्धारणे द्वयोरेकस्य डतरच्` [[5.3.92]] ।<<वा बहूनां जातिपरिप्रश्ने डतमच्>> [[5.3.93]] इत्येतौ प्रत्ययौ किंशब्दसम्बन्धिनावेव वृत्तग्रहणेन प्रतीयात्। प्त्ययग्रहणपरिभाषया चेह डतरडतमान्तं प्रतीयादित्येषोऽर्थो वेदितव्यः। `परिसंख्यानम् ` इति। नियम इत्यर्थः। तेन किंतराम्, किंगौः, किंपुरुषः - इत्यवमादिषु पदेषु न भवति; तेषां किंवृत्तत्वस्य परिगणनेन निरस्तत्वात्। `भोजयन्ति` इति। हेतुमण्णयन्ताल्लट्। `भोजयितारः` इति। <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति झे रसादेशः, `रि च` [[7.4.51]] इति सकारलोपः। `लब्धुकामः पृच्छति` इति। उदाहरणेषु लिप्साया गम्यमानत्वात्॥", "33007": "लिप्सायामेव सत्यां सम्भवति, नासत्याम्। अतो यत्र लिप्स्यमानसिद्धिर्गम्यते तत्रावश्यं लिप्सया भवितव्यम्, तथा च पूर्वेणैव सिद्धम्, तत्किमर्थोऽयमारम्भ इत्यत आह - `अकिंवृत्तार्थोऽयमारम्भः`इति। यद्येवम्, पूर्वसूत्र एव किंवृत्तग्रहणमकृत्वा प्रत्ययो विदेयः, एवं हीदं नारब्धव्यं भवति? नैतदस्ति; एं हि यथा लिप्स्यमानसिद्धौ गम्यमानायां किंदृत्तं चाकिंवृत्तं च भवति तथा यत्रापि लिप्स्यमानसिद्धिरहितं लिप्स्यमानं गम्यं तत्रापि स्यात्। किंवृत्त एव तत् तत्रेष्यते, तस्मात् पूर्वयोगे किंवृत्तग्रहणं कर्तव्यम्। तस्मश्च सतीदमप्यकिंवृत्तारोथमारब्धव्यम्। `दातारं प्रोत्साहयति` इति। भक्तदानविषयेऽस्य प्रोत्साहं जनयतीत्यर्थः॥", "33008": "`प्रैषादि`इति आदिशब्देन विधिनिमन्त्रणामन्त्रणाधीष्टादयो गम्यन्ते। `आगच्छति` इति। <<इषुगमियमां छः>> [[7.3.77]] इति च्छत्वम्। `अध्ययनप्रैषस्य`इति। अध्ययनविषयः प्रैषोऽध्ययनप्रैषः, शाकपार्थिवादित्वादुत्तरपदलोपी समासः। `अथ त्वं छन्दोऽधीष्व ` इति। अत्र <<प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च>> [[3.3.163]] इति लोट्। स च प्रैषोऽध्ययनविषयः। तस्योपाध्यायगमनं ह्रपेक्ष्याध्ययने प्रैषतेत्यस्योपाध्यायागमनस्यप्रैषं प्रति निमित्तभावः॥", "33009": "`निपातनात् समासः` इत्यादि। ऊध्र्वमौहूर्तिकशब्दस्योच्चारणेव निपातनम्। ऊध्र्वं मुहूर्तादिति विगृह्रास्मादेव निपातनात् समासः। ततः `बह्वचोऽन्तोदात्तात्` [[4.3.67]] इति ठञ्, तत उत्तदरपदवृद्धिः, सा ह्रत एव निपातनात्। भविष्यतः प्रकृतत्वात् तस्यैवोध्र्वमौहूर्त्तिकग्रहणं विशेषणं विज्ञायत इत्याह - `भविष्यतश्चैतत्` इत्यादि। ऊध्र्वमौहूर्त्तिकशब्दश्चायं वर्तमानस्य प्रत्यासन्ने वर्तते। ऊध्र्वमौहूर्त्तिके वर्तमानसमीप इत्यर्थः। `आगच्छेत्` इति। यासुट्, <<अतो येयः>> [[7.2.80]] इतीयादेशः, <<आद्गुणः>> [[6.1.87]] <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारस्य लोपः,सलोपोऽनन्त्यस्य` [[7.2.79]] इति सकारस्य॥", "33010": "`भिक्षिष्य इत्यस्य जटाः` इति। लृट्, अनुदात्तेत्त्वादात्मनेपदम्ुत्तमपुरुषैकवचनम्, इट्, टेरेत्त्वम्, <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। अत्रास्ति भिक्षिक्रियार्थमुपपदं जटाशब्दः, न तु जटाशब्दः क्रियावचनः; जटानां द्रव्यत्वात्। `धावतस्ते पतिष्यति दण्डः`इति। `धाव् गतिशुद्धयोः`(धातुपाठः-601), लट्, तस्य शत्रादेशः, षष्ठएकवचनम्। अथ वा `सृ गतौ` (धातुपाठः-935)इत्यस्य प्राघ्रादिसूत्रेण [[7.3.78]] धावादेशः। अस्त्यत्र धावतिक्रियोपपदम्, न तु क्रियार्थः। अर्थशब्दो ह्रयं प्रयोजनवचनः, यच्च यदुद्दिश्य प्रवर्तते तत्तस्य प्रयोजनं भवति, न चासौ दण्डपतनमुद्दिश्य धावति, किं तर्हि? कार्यान्तरार्थम्।`अथ` इत्यादि चोद्यम्। `सामान्येन विहित एव`इति। भविष्यत्यन्यत्र च काले क्रियायां क्रियार्थायामुपपदेऽन्यत्र चाविशेषेण विधानात्। `लृटा` इत्यादि परिहारः। `लृट शेषे च` [[3.3.13]] इति लृटं वक्ष्यति, तेन विशेषविहितेन लृटा बाध्यते, तन्मा भूतत्तस्य बाधेति पुनरिह विधीयते। अथ तुमुन् क्रियार्थोपपदेन बाध्यत इत्येतत् क्समान्नोक्तम्? भिन्नार्थत्वात्। न हि भिन्नार्थयोर्बाध्यबाधकभावो भवति, भिन्नार्थो च ण्वुल्तुमुनौ। तथा हि - कर्तरि ण्वुल्, तुमुन् पुनर्भावे। कथं ज्ञायते? `तुमर्थे सेसेन्` [[3.4.9]] इत्यत्र तुमर्थग्रहणात्। यदि तुमुन् `कर्तरि कृत्` [[3.4.67]] इत्यतो वचनात् कर्तरि स्यात्,ततः सेसेन्प्रभृतयोऽपि तत्रैव भविष्यन्तीति तुमर्थग्रहणं न कुर्यात्, कृतवांश्च, ततस्तुमर्थग्रहणादवसीयते - तुमुन् कर्तरि न भवति। न चान्यार्थो निर्द्दिश्यते, तत्र `अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (पु।प।90) इति भाव एव तुमुन् भवतीति विज्ञायते। यदुक्तम् - लृटा क्रियार्थोपपदेन बाध्यत इति,तद्विघटयितुमाह - `वासरूपविधिना`इत्यादि। `एवं तर्हि` इत्यादि। एतेन ज्ञापकार्थतां ण्वुल्विधानस्याचष्टे। यदि हि क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयः स्युर्ण्वुलपि तृजर्थाभिधायित्वाद्वासरूपविधिना भविष्यन्तीति पुनरिह तन्न विदध्यात्, विहितवांश्च;ततस्तेन ण्वुल्विधानेनास्मिन् विषये वासरूपेण तृजादयो न भवन्तीत्येषोऽर्थो विज्ञाप्यते। `तेन` इत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। `कर्ता` इति। तृच्। `विक्षिपः` इति। <<इगुपधज्ञाप्रीकिरः कः>> [[3.1.135]] । तुमुनो नकार आद्युदात्तार्थः, उकार उच्चारणार्थः। ण्वुलो लकारो लिति प्रत्ययात् पूर्वस्योदात्तार्थः, णकारो वृद्ध्यर्थः॥", "33011": "`भाववचनाः` इति। ब्राउवन्तीति वचनाः, बहुलचनात् कर्तरि ल्युट्। भावस्य वचना भाववचनाः। भाववचनत्वं पुनस्तेषां भावाधिकारे विधानादिति दर्शयितुमाह - `भावे इति प्रकृत्य`इत्यादि। प्रकृत्य अधिकृत्येत्यर्थः। `घञादयः`इति। आदिशब्देनाजबादीनां ग्रहणम्। `किमर्थम्` इत्यादि चोद्यम्। `क्रियार्थोपपदे विहितेन` इत्यादि परिहारः। स्यादेतत् - वासरूपविधिना ते भविष्यन्ति। अत आह - `वासरूपविधिश्च नास्तीत्युक्तम्` इति। एतच्च पूर्वसूत्र उक्तम्।`अथ ` इत्यादि। भाव इत्येतावद्वक्तव्यम्; एवं ह्रुच्यमाने सतीदमेव घञादीनां विधायकं स्यात्,ततश्च ते धातुमात्रादविशेधेम प्रसज्येरन्; विशेधानुपादानात्। वचनग्रहणादयमर्थो लभ्यते - भावे ये विहिताः प्रत्ययास्ते तथा भवन्ति यथा भावस्य वाचका भवन्तीति। यथा च ते भावस्य वाचका भवन्ति तथा प्रश्नपूर्वकं दर्शयितुमाह - `कथञ्च` इत्यादिना। `नामसामञ्जस्येन` इति। न व्यतिरेकेण,नानियमेनेत्यर्थः।तत्र केचिदाहुः- वचनग्रहणाद्यैरेव विधिवाक्यैर्भाव एषां विधानं तैरेव क्रियायामुपपदे क्रियार्थायां भवन्ति, एवञ्चते वाचका भवन्ति, नान्यथेति। अन्ये त्वाहुः - एतदेव सूत्रं विधायकम्; वचनग्रहणसामर्थ्यात्। अनेनापि तथैषां विधानं भवति यथा स्वैर्विधिवाक्यैः। यदि भावे हि तद्विधिः, नान्यस्मिन्नपि विषये भविष्यति। तत् तस्मात् पुनर्विधीयत इति॥", "33012": "`कर्मण्यण्` इत्यादि। `तुमुन्ण्वुलौ` [[3.3.10]] इत्यादिसूत्रे ज्ञापितमेतत् - वासरूपविधिरिह नास्तीति। तेन यद्यपि विशेषणेणाण् विहितः, तथापि वासरूपविधेरभावात् क्रियार्थोपपद न ण्वुला बाधितः,तस्मात् पुनर्विधीयते। `सोपऽपवादत्वाण्णवुलं बाधते` इति। नाप्राप्ते ण्वुलीतरस्यारब्धत्वात्, विशेषविहितत्वाच्च। `कादीन्` इति। बाधत इति सम्बन्धः। आदिशब्देन टगादीनां ग्रहणम्। `तेनापवादविषयेऽपि भवति` इति। अपवादाः सामान्यविहितस्याणः कादयः, तद्विषयेऽपि भवति। <<अण् कर्मणि च>> [[3.3.12]] इत्यस्याऽनाकारान्तक्रियोपपदोऽवकाश - काण्टलावो व्रजतीति, <<आतोऽनुपसर्गे कः>> [[3.2.3]] इत्यस्याकारान्तः क्रियोपपदोऽवकाशः - गोद इति; इह ह्रुभयं प्राप्नोति - गोदायो व्रजतीति, परत्वादण् भवति। तथा `गपोष्टक्` [[3.2.8]] इत्यस्यावकाशः - सुरापः,शीधुपः,अणः स एव;इहोभयं प्राप्नोति - सुरापायो व्रजति, शीधुपायो व्रजतीति॥", "33013": "`चकारात्` इत्यादि। एतेन क्रियायां क्रियार्थायामित्यस्यानुकर्षणार्थश्चकार इति दर्शयति। `करिष्यामि` इति। <<ऋद्धनोः स्ये>> [[7.2.70]] इतीट्॥", "33014": "`सत्संज्ञौ` इति। `तौ सत्` [[3.2.127]] इतिसंज्ञाविहितत्वाच्छतृशानचौ सत्संज्ञकौ। कथं पुनर्लृटः शतृशानचौ भवत इत्याह - `अप्रथमासमानाधिकरणे` इत्यादि। प्रथमासमानाधिकरणे विकल्पेन यथा लटः शतृशानचौ,तथा लृटोऽपि व्यवस्थितविभाषया सत्संज्ञकौ भवतः। अप्रथमासमानाधिकरणादिषु नित्यं भवतः - करिष्यन्तं पश्य, करिष्यमाणं पश्य, हे करिष्यन्, हे करिष्यमाण, अर्जयिष्यन् वसति, करिष्यद्भक्तिः, करिष्यमाणभक्तिः, करिष्यद्रूपः,करिष्यमाणरूप इत्यप्रथमासमानाधिकरणे।प्रथमासमानाधिकरणे तु विकल्पः - करिष्यति देवदत्तः करिष्यन् देवदत्तः; करिष्यते देवदत्तः, करिष्यमाणो देवदत्त इति। लृडिति वर्तमाने पुनर्लृड्ग्रहणं स्थानिनिर्देशार्थम्; इतरथा हि प्रत्ययान्तरत्वं सत्संज्ञकयोर्विज्ञायेत। लृण्मात्रस्य यथा स्यादित्येवमर्थं वा। तेन योऽनद्यतने लृट् तस्यापि भवतः - आओऽग्नीनाधास्यमानेनेति। <<अभिज्ञावचने लृट्>> [[3.2.112]] इत्यस्य न भवतः; भविष्यतीत्यधिकारात्, अस्य च भविष्यत्कालविहितत्वात्। अनद्यतने पुनर्लृडुत्तरसूत्रेऽनद्यतन इतियोगविभागाद्भवतीति वेदितव्यम्। लृटष्टकारष्टेरेत्वार्थः, ऋकारः <<स्यतासी लृलुटोः>> [[3.1.33]] इत्यत्र विशेषार्थः॥", "33015": "`अनद्यतन इति बहुव्रीहिनिर्देशः` इति। अद्य भावो नास्यास्मिन्नित्यनद्यतनः। `तेन` इत्यादिना बहुव्रीहिसमासाश्रयणस्य फलं दर्शयति। एतच्च <<अनद्यतने लङ्>> [[3.2.111]] इत्यत्र व्याख्यातप्रायमिति तत एवादवगन्तव्यम्। `अद्य आओ वा गमिष्यति` इति। अद्य आश्च गमिष्यतीत्यर्थः।`परिदेवने` इत्यादि। भविष्यदनद्यतने लुडुक्तो भविष्यत्सामान्ये न प्राप्नोति, इष्यते च, एतदर्थमिदमुच्यते। परिदेवनम् = अनुशोचनम्। `आस्तनी` इति। लुट इयमन्याचार्यसंज्ञा। `वक्तव्या` इति। व्याख्येया। तत्रेदं व्याख्यानम् - <<लृट् शेषे च>> [[3.3.13]] इत्यतश्चकारोऽनुवनर्तते, स चानुक्तसमुच्चयार्थः। ततः परिदेवने आस्तनी भविष्यत्यर्थे भविष्यतीति। अन्यस्त्वयं नु कदा गन्तेत्यादावनद्यतन एव काले लुडिति दर्शयन्नाह - पदमन्वाख्याने व्याकरणे च, तच्च पदं गन्तेत्यादिकमनद्यतन एव वर्तते। तस्य यदाऽनद्यतने भविष्यत्सामान्ये वा वृत्तिः सार्थात् प्रकरणाद्वा भवतीति वाक्यार्मथोऽवतिष्ठते। न च वाक्यार्थः पदसंस्कारस्य निमित्तम्, किं तर्हि? पदार्थः। तस्मादनद्यतने लुडित्येष सिद्धमिति। अनेन तु न्यायेन परिदेवने आस्तनीत्यादि सम्यगेतत्। लुटोऽपि टकारष्टेरेत्वार्थः; उकारः <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति विशेषणार्थः॥", "33016": "पदेर्ण्वृल्तृचोरपवादो घञ् विधीयते, रुजिविशिभ्यामिगुपधलक्षणस्य कस्य, स्पृशेश्च पचाद्यचः। `पादः` इति। <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः। यद्येवम्, पदमिति न सिद्ध्यति? न तु खलु न सिद्ध्यति, `अनुदात्तं पदमेकवर्जम् [[6.1.152]] इति निपातनात्।`स्पृश उपतापे इति वक्तव्यम्िति। उपतापः = रोगः, तत्र स्पृशेर्घञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `लृटः सद्वा` [[3.3.14]] इत्यतो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन स्पृशेरुपात एव कर्तरि भवति, नान्यत्रेति। `स्वरे विशेषः` इति। अचि हि सत्यन्तोदात्तत्वं भवति, घञि तु पदस्याद्युदात्तत्वं स्यात्। घञो ञकारो वृद्ध्यर्थः, आद्युदात्तार्थश्च। घकारः `चजोः कुघिण्ण्यतोः` [[7.3.52]] इति कुत्वार्थः॥", "33017": "`सर्तेर्धातोः` इति। `सृ गतौ` (धातुपाठः-935) इत्यस्माद्धातोः। `स्थिरे कर्तरि` इति। एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणं न तूपपदमिति दर्शयति।`घञ्प्रत्ययो भवति` इति। तृजाद्यपवादः। कः पुनरयं स्थिरो नामेत्याह - `स्थिर इति कालान्तरस्थायी` इत्यादि। तत्रैवोपपत्तिमाह - `स चिरम्` इत्यादि। सर्तेर्धातोर्गतिरर्थः। स च कालान्तरस्थायिन एव कर्त्तुः सम्भवति, नात्मलाभसमनन्तरनाशिनः। तस्मात् कालान्तरस्थाय्येव गतेर्धात्वर्थस्य कर्ता युज्यत इत्येवेह स्थिरशब्देनोच्यते। यदि कालान्तरस्थायिन एव गतिः सम्भवति स्थिरग्रहणमनर्थकम्, न ह्रस्थिरः सर्त्त्यर्थस् कर्तोपपद्यते? नानर्थकम्; प्रकर्षेण यः सरति तत्र कर्तरि प्रत्ययो यथा स्यादित्येवमर्थत्वात्। अत एव स चिरं तिष्ठन् कालान्तरं सरतीति वृत्तौ चिरग्रहणं कृतम्। `चन्दसारः` इति। षष्ठीसमासः।`व्याधिमत्स्यबलेष्विति वक्तव्यम्` इति। अस्थिरार्थोऽयमारम्भः। एषु व्याध्यादिषु त्रिष्विपि घञ् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि चकारानुवृत्तिमाश्रित्य कर्तव्यम्। `अतीसारः` इति। <<उपसर्गस्य घञ्यमनुष्ये बहुलम्>> [[6.3.122]] इति दीर्घत्वम्॥", "33018": "`रागः` इति। <<रञ्जेश्च>> [[6.4.26]] <<घञि च भावकरणयोः>> [[6.4.27]] इत्यनुनासिकलोपः। ननु च `भावे` इति भवतिनायं घञन्तेन निर्देशः क्रियत इति भवतिविषय एव प्रत्ययार्थनिर्द्देशः कृतो भवति, ततश्च भवतेर्यो भावस्तस्मिन्नेव वाच्ये प्रत्ययः स्यात्, स च भवतेरेवोत्पद्यमानेन प्रत्ययेन शक्योऽभिधातुम्, अतस्तत एव प्रत्ययेन भवितव्यम्, तत्कथं पाकस्त्यागो राग इति पच्यादिभ्यो भवति? अत आह - `क्रियासामान्यवाची` इत्यादि। क्रियासामान्यं हि सर्व धात्वर्थानुगतं भवतेरर्थः। तेन क्रियासामान्यवाचिनाऽर्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति, अतः पच्यादिभ्योऽपि प्रत्ययो भवतीत्यभिप्रायः। ननु धात्वर्थः पूर्वापरीभूतोऽपरिनिष्पन्नः, ततो यदि तत्र वाच्ये प्रत्ययो भवति तस्यासत्त्वभूतत्वाल्लिङ्गसंख्याभ्यां प्रत्ययार्थस्य सम्बन्धो न सिद्ध्यति, तत आह - `धात्वर्थश्च` इत्यादि। एवकारः प्रत्ययव्यवच्छेदार्थः। धातुनैवोच्यते धात्वर्थः, न तु प्रत्ययेन। कथं तर्हि घञादयो विधीयन्त इत्यत आह - `यस्तस्य` इत्यादि। तस्य धात्वर्थस्य सिद्धता निष्पन्न्ता नाम यो धर्मस्तत्र घञादयः प्रत्यया विधीयन्ते, ततो युक्तः प्रत्ययार्थस्य लिङ्गसंख्यायोगः। तस्य यो धर्मस्तस्य सत्त्वभूतत्वादित्यर्थः। भाव इति - इहि पुंल्लिङ्गेनायं निर्द्देश एकवचनेनन च। तेन पुंल्लिङ्ग एव बावे एकवचन एव प्रत्ययाः स्युः। न लिङ्गान्तरयुक्ते नापि वचनान्तरे। एवञ्च सति <<स्त्रियां क्तिन्>> [[3.3.94]] इत्यत्र `भावे` `स्त्रियाम्िति चैतयोः सामानाधिकरण्यं नोपपद्यते, वैयधिकरण्यं हि स्यात्। ततः स्त्रियां भावे क्तिन्प्रत्ययो न स्यात्, अर्थान्तर एव कर्मादौ स्यात्। भावे च पुंल्लिङ्गे पाकौ पाका इत्यत्रैकवचनं स्यात्।यथाजातीयकं ह्रर्थमुपादातुं समर्थो भावशब्दस्तथाजातीयकेऽर्थे प्रत्ययेन युक्तं भवितुं नान्यत्रेत्यत आह - `पुंल्लिङ्गमेकवचनं चात्र न तन्त्रम्` इति। सर्वलिङ्गसंख्यासम्बन्धयोग्यं प्रतातिपदिकार्थसामान्यनिमित्तं प्रत्ययनिमित्तत्वेनोपादीयते, तदेव प्रधानम्, न लिङ्गं नापि वचनम्। तत्र प्रातिपदिकार्थसामान्यं विना लिङ्गवचनाभ्यां न शक्यं निर्द्देष्टुमिति नान्तरीयकत्वात् तयोरुपादानम्। प्रतीते तु तस्मिन् प्रातिपदिकार्थसामान्यचरितार्थत्वाल्लिङ्गवचने लिङ्गान्तरे च प्रत्यया भवन्त्येव। `पक्तिः` इति। भावे <<स्त्रियां क्तिन्>> [[3.3.94]] । `पक्वम्` इति। `नुपंसके भावे क्तः` [[3.3.114]] । `पचनम्` इति। <<ल्युट् च>> [[3.3.115]] इति ल्युट्। अत्रापि यदि भावे पुल्लिङ्गस्तन्त्रं स्यात्, ततो भावनपुंसकशब्दयोः सामानाधिकरण्यानुपपत्तेर्वैयधिकरण्यं स्यात्, ततश्च भावे नपुंसके ल्युण्न स्यात्, अर्थान्तर एव तु स्यात्। भावे च पुंल्लिङ्गे पचनमित्यस्य तुल्यत्वाच्चोद्यपरिहारस्योपन्यासः, अन्यथा ह्रन्यदेव भावग्रहणमधिकृत्य ल्युटो विधानाददमिहानुपन्यसनीयमेव स्यात्। `पाकौ` इत्यादिकं वचनान्तरे भावप्रत्ययस्योदाहरणम्॥", "33019": "`प्रासः`इति। `असु क्षेपणे` (धातुपाठः-1209), `प्रसेवः` इति। `षिवृ तन्तुसन्ताने` (धातुपाठः-1108), उभयत्राप्यत्र कर्मणि घञ्। `आहारः` इति। `ह्मञ् हरणे` (धातुपाठः-899)। `मधुराहारः` इति। कर्मधारयः, षष्ठीतत्पुरुषो वा।`मेषः` इति। `मिष स्पद्र्धायाम्` (धातुपाठः-1352), पचाद्यच्। `कर्तव्यः` इति। कर्मणि तव्यः।`चकारः संज्ञाव्यभिचारार्थः` इति। चकारोऽयं भिन्नक्रमः संज्ञायामित्यस्यानन्तरं द्रष्टव्यः, तदनेन चार्थ द्योत्यते। `संज्ञायाञ्च`इति चार्थं द्योतयन्नसौ संज्ञाव्यभिचाराय भवति, तेनासंज्ञायामपि च भवति यद्येवम्, संज्ञाग्रहणमकृत्वा सामान्येनैव प्रत्ययो विधेयः; तत्राप्ययमर्थः - संज्ञाव्यभिचारार्थश्चकारो न कर्तव्यो भवति? सत्यमेतत् ; तथापि बाहुल्येन संज्ञायां भवति; असंज्ञायां तु क्वचिदेवेत्यमुमर्थं सूचयितुं संज्ञाग्रहणं कृतम्। दीयत इति `दायः` कर्मणि घञ्, पूर्ववद् युक्। `लाभः` इति कर्मण्येव घञ्। `कारकग्रहणम्` इत्यादि। पर्युदासे हि `अकर्तरि` इत्युक्ते कारकग्रहणमन्तेरणापि नञिवयुक्तन्यायेन (व्या।प।65) कर्त्तुरन्यत्र तादृशे कारक एव कर्मादौ प्रतीतिर्भवति, यथा - अब्राआहृण इति ब्राआहृणसदृशे क्षत्रियादौ। तस्मात् पर्युदासे विनापि कारकग्रहणेन कारकएव प्रत्ययो लभ्यतैत कारकग्रहणं न कर्तव्यम्। प्रसज्यप्रतिषेधे तु कर्तव्यम्, तत्र हि क्रियाप्रतिषेधमात्रं प्रतीयते, न सदृशं वस्त्वन्तरम्। तत्र यदि `अकर्तरि संज्ञायाम्` इत्येतावदुच्येत, कर्तरि न भवतीत्येषोऽर्थः प्रतीयेत। एवञ्च विधायकस्य वाक्यान्तरस्याभ#आवात् कर्मादिषु प्रत्ययो न स्यात्। क्व तर्हि स्यात्? `अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (पुं।प।90) इति स्वार्थे। ननु च विहितः स्वार्थे पूर्वेणेव? नैतदस्ति;`धात्वर्थस्य हि सिद्धता नाम यो धर्मस्तत्र घञादयो विधीयन्ते` इत्युक्तम्। तस्मात् प्रसज्यप्रतिषेधे कारकग्रहणं क्रियते? इत्यत आह - पर्युदासे कारकग्रहणमन्तरेणापि सिध्यति, स एवाश्रयिष्यते, तत्किमर्थमं कारकग्रहणं क्रियते? इत्यत आह - `तत्क्रियते` इत्यादि। यदि तर्हि पर्युदास एवैष नञ्समासः स्यात्, कारकग्रहणमनर्थकं स्यात्, विनापि हि तेन कारक एव प्रत्ययो लभ्यते; प्रसज्यप्रतिषेधे तु सति कारकग्रहणमर्थवद्भवति, न हि तत्र विनापि तेन कारके प्रत्ययो लभ्यते। इवञ्चानन्तरमेव प्रतिपादनम्। तस्मात् कारकग्रहणेन प्रसज्यप्रतिषेधेऽपि समासोऽस्तीति ज्ञाप्यते। तेन <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यत्र प्रसज्यप्रतिषेधे समासो लभ्यते, ततश्च यदुक्तम् - `अनैमित्तिकमात्त्वं शिति प्रतिषेधः` इति, तदुपपन्नं भवति। किं पुनः कारणं तत्र प्रसज्यप्रतिषेध आश्रीयते? प्रागेव प्रत्ययोत्पत्तेरनिमित्तक आत्त्वे कृते सुग्लः सुम्ल इति <<आतश्चोपसर्गे>> [[3.3.106]] इति को यथा स्यात्। पर्युदासे तु तत्राश्रीयमाणे शितोऽन्यत्र तृजादौ प्रत्यये परभूत आत्त्वेन भवितव्यम्, ततश्च ग्लायतिप्रभृतिभ्य आकारान्तलक्षमः प्रत्ययो न स्यात्। ननु चाचार्यप्रवृत्तिज्र्ञापयति - भवन्त्येजन्तेभ्य आकारान्तलक्षणः प्रत्यय इति, यदयं कबाधनार्थं <<ह्वावामश्च>> [[3.2.2]] इत्यणं शास्ति, तस्मादशितीति पर्युदासेऽप्याश्रीयमाणे ज्ञापकादेजन्तस्याकारान्तलक्षणः प्रत्ययः सिध्यत्येव? नैतदस्ति; कर्मोपपदविषयमेवैतज्ज्ञापकं विज्ञायते। तस्मादशितीत्यत्र प्रसज्यप्रतिषेध एवाश्रयितुं युक्तः। तस्य चास्तित्वमिह कारकग्रहणेन ज्ञाप्यते। किं पुनः कारणं प्रसज्यप्रतिषेधो न सिध्यति, यतस्तदस्तित्वज्ञापनं प्रतिपन्नं क्रियते? असामर्थ्यं कारणम्; सामर्थ्ये हि सति समासेन भवितव्यम्,न च तत् प्रसज्यप्रतिषेधे। तथा हि ततर्नञ् क्रियया सम्बद्धः, नोत्तरपदेन॥", "33020": "`एकस्तण्डुलनिश्चायः`इति। <<ग्रहवृदृनिश्चिगमश्च>> [[3.3.58]] इत्यपि प्राप्ते धञ्। `द्वौ शूर्पनिष्पावौ` इति। अत्रापि `ऋदोरप्` [[3.3.57]] इत्यपि प्राप्ते। <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति विसर्जनीयस् षत्वम्। `द्वौ कारौ`इति। `कृ विक्षेपे` (धातुपाठः-1409)। ननु च द्वौ शूर्पनिष्पावावित्यत्र <<निरभ्योः पूल्वोः>> [[3.3.28]] इत्यनेन घञ् सिद्धः, तत्किमर्थमिदमिहोक्तम्? एवं मन्यते - अन्यार्ते सर्वग्रहणे क्रियमाणे परिमाणाख्यायां वाऽन्यत्रैव सिद्धम्, निष्पूर्वादपि ह्रप्प्रत्ययो युक्तः, <<निरभ्योः पूल्वोः>> [[3.3.28]] इत्यस्य तु यत्र परिमाणाख्या न गम्यते सोऽवकाश इति। कः पुनस्तेन वानेन वा घञि सति विशेषः? को न्यायो वाख्ययते? न कश्चित्। ननु च धातोरिति सामान्यमधिकृतम्, न धातुविशेष इति। अन्तरेणापि सर्वग्रहणं धातुमात्राद्धञ् भविष्यति तत्किमर्थं सर्वग्रहणमित्याह - `सर्वग्रहणम्` इत्यादि। किं पुनः कारणमसति सर्वग्रहणेऽपो बाधा न सिध्यतीत्याह - `पुरस्तात्` इत्यादि। `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।9) इति। सति सर्वग्रहणे घञमनन्तरमचमेव बाधेत, नापम्। सर्वग्रहणे तु सत्यपमपि बाधते। तस्मादपोऽपि बाधा यथा स्यादिति सर्वग्रहणम्।न च परिमाणशब्दोऽयं प्रस्थादिषु रूढो न संख्यायाम्, तत्कथं परिमाणाख्यायं प्रत्ययो विधायमान एकस्तण्डुलनिश्चाय इत्यादौ गम्यमानायां भवतीत्यत आह - `आख्याग्रहणम्` इत्यादि। आख्याग्रहणमिह रूढेर्निरासस्त्यागो यथा स्यादित्येवमर्थं कृतम्। तेन रूढौ त्यक्तायां संख्यापि गृह्रते। आख्याग्रहणसामर्थ्याद्धि परिमाणम्, अतो युक्तं तस्यापि ग्रहणम्। यदि सर्वग्रहणात् परमप्ययं घञ् बाधते, स्थीप्रत्ययानपि बाधेतेत्यत इत्यभिप्रायः। अत एवाह -`स्त्रीप्रत्ययास्तु न बाध्यन्ते` इति। कृतः पुनरयमर्थो लभ्यते? `सर्वेभ्यः`इति पञ्चम्यन्तेन निद्र्दशात्। पञ्चम्यन्तनिर्द्देशे हि सर्वशब्दो धातुसमानाधिकरणो विज्ञायते। तेन प्रकृत्याश्रयस्यापवादस्य सर्वग्रहणाद्बाधा भवति, नार्थाश्रयस्य। यदि त्वर्थाश्रयोऽप्यपवादो बाधितुमिष्टः स्यात्, तदा सर्वस्मिन्निति सर्वशब्दं सप्तम्यन्तमुच्चारयेत्। `एका तिलोच्छ्रितिः`इति। श्रिञ उत्पूर्वात् <<स्त्रियां क्तिन्>> [[3.3.94]] , <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति चुत्वम्, <<शश्छोऽटि>> [[8.4.63]] इति च्छत्वम्। `दारजारौ` इत्यादि। दारजारशब्दौ निपात्येते। किमत्र निपात्यते? `दृ विदारणे` (धातुपाठः-1493) `जृष् वयोहानौ` (धातुपाठः-1130) आभ्यां हेतुमण्ण्यन्ताभ्यां कर्तरि तृजादिषु घञि णिलुक्। ननु च <<णेरनिटि>> [[6.4.51]] इति णिलोपे हि सति `जनीजृष्क्नसुरञ्जोऽमन्ताश्च` (धातुपाठः-817) इति मित्संज्ञायां सत्यां णिलोपे कृतेऽपि प्रत्ययलक्षणेन जीर्यतेर्मितां ह्रस्वत्वं प्रसज्यते। अस्तु तर्हि मितां ह्रस्वत्वम्, पुनर्घञाश्रया वृद्धिर्भविष्यतीति चेत्? अयुक्तमेतत्; न हि घञाश्रया वृद्धिः प्राप्नोति, <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावे सति णिचा व्यवहितत्वात्। लुकि तु सति तस्यापरनिमित्तत्वादसति स्थानिवद्भावे घञमाश्रित्य वृद्धिर्भवति। न च प्रत्ययलक्षणेन ह्रस्वत्वं प्रसज्यते; `न लुमताङ्गस्य [[1.1.62]] इति प्रत्ययलक्षणप्रतिषेधात्। तस्माल्लुग्वक्तव्यः॥", "33021": "`अचोऽपवादः` इति। `एरच्` [[3.3.56]] इति प्राप्तोस्योत्तरस्यापीवर्णान्ताद्घञ् विधीयमानोऽच एवापवादो वेदितव्यः। `अध्यायः` इति। कर्मणि घञ्। `तदन्ताच्च वा ङीष्` इति। योऽयमपादाने घञ् तदन्तान्ङीष् प्रतिपाद्यः। तत्रेदं प्रतिपादनम् - `वोतो गुणवचनात्` [[4.1.44]] इत्यत्र वेति योगविभाघः कर्तव्यः, तेनापादाने स्त्रियामिङो यो घञ् विहितस्तदन्तान्ङीष् भविष्यतीति। यदा च पुंयोगो न विवक्ष्यते तदा ङीष् प्रतिपाद्यः। यदा तूपाध्यायस्य स्त्रीति पुंयोगो विवक्ष्यते तदा <<पुंयोगादाख्यायाम्>> [[4.1.48]] इत्येव ङीष् सिद्धः। उपेत्याधीयतेऽस्या उपाध्यायी।`शृ वायुवर्णनिवृतेषु` इति। `शृ हिंसायाम्` (धातुपाठः-1488) - अस्माद्वाय्वादिषु वाच्येषु घञ् प्रतिपाद्यः। प्रतिपादनं तु तमेव चकारमनुक्तसमुच्चयार्थम्, <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति बहुलग्रहणं वाऽऽश्रित्य कर्तव्यम्। निवृत्तम् = निवारणम्। शीतादिदुःखोपशमहेतुर्निवारणमुच्यते।`अकृतनीशारः` इति। अकृतशीतनिवारण इत्यर्थः। पूर्ववदुपसर्गस्य दीर्घत्वम्॥", "33022": "`अपोऽपवादः` इति। `ऋदोरप्` [[3.3.57]] इति प्राप्तस्य। उत्तरसूत्रेणाप्युवर्णान्ताद्धञ् विधीयमानोऽप एवापवादो वेदितव्यः॥", "33023": "", "33024": "`अनुपसर्गेभ्यः`इति। अविद्यमान उपसर्ग एषामिति बहुव्रीहिः `अनुपसर्गेभ्यः` इति पञ्चम्यन्तेन विवरणं कुर्वन् सूत्रेऽनुपसर्ग इति सुब्व्यत्ययेन एषा सप्तमीति दर्शयति।`कथं प्रभावो राज्ञः` इति। अनुपसर्गवचनादिह प्रशब्द उपसर्ग उपपदे न भवितव्यमिति भावः। `{कथं च - काशिका} कथं नयो राज्ञः` इति। अनुपसर्गाद्घञात्र भवितव्यमिति मन्यते॥", "33025": "`विक्षावः`इति। `टुक्षु शब्दे` (धातुपाठः-1036)॥", "33026": "`उन्नायः` इति। <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति वाऽनुनासिकः। `कथमुन्नयः पदार्थानाम्` इति। उच्छब्दोपपदत्वाद्धञात्र भवितव्यमित्यभिप्रायः॥", "33027": "", "33028": "`सामान्येन ग्रहणम्` इति। विशेषानुपादानात्। `यथासंख्यमुपसर्गसम्बन्धः` इति। निसोपसर्गेण पुवः सम्बन्धः, अभिना लूञः। ननु च पूञ्पूङ्लूञस्त्रयो धातवः, उपसर्गौ द्वौ, अतो वैषम्याद्यथासंख्येन न भवितव्यम्? पूरूपमुत्सृष्टानुबन्धसामान्यमेकमेव, ततो नास्ति वैषम्यमित्यदोषः॥", "33029": "`ॠदोरप्` [[3.3.57]] इतिप्राप्तस्यायमपवादः। उत्तरत्रापि ॠकारान्ताद्धञ् विधीयमानोऽप एवापवादो वेदितव्यः। `द्वयोरपि ग्रहणम्` इति। विशेषानुपादानात्॥", "33030": "धान्यमिह प्रकृत्यर्थो वा स्यात्? प्रत्ययार्थो वा स्यात्? प्रकृत्यर्थस्तावन्नोपपद्यते;धान्यस्य द्रव्यत्वात् धातोश्च क्रियावाचित्वात्। प्रत्ययार्थस्तूपपद्यते धान्यम्;किन्तु प्रत्ययेनाबिहितत्वादुत्कारो धान्यस्येति धान्यशब्दस्य प्रयोगो न प्राप्नोति। अथापि प्रयोगः स्यात्? एवमपि प्रत्ययर्थेऽन्तर्भूतत्वात् षष्ठी नोपपद्यते - उत्कारो धान्यस्येति। सामानाधिकरण्यमेव प्रत्ययान्तेन स्यात्, एवं हि प्रत्ययर्थो भवति यदि प्रत्ययान्तेन सामानाधिकरण्यं भवति, यथा - दृतिहरिः पशुरिति। तस्मान्नेदं प्रत्ययार्थः,नापि प्रकृत्यर्थः, अपि तु प्रकृत्यर्थविशेषणमिति हिंसार्थस्य` इति। `कृ हिंसायाम्` (धातुपाठः-1496) इत्यस्य ग्रहणं न भवति। किं कारणमित्याह - `अनभिधानात्` इति। शब्दशक्तिस्वाभाव्यादुत्कारशब्दाभ्यां धान्यविषयो विक्षेप एवाभिधीयते, न हिंसा। यस्य चार्थः प्रत्ययान्तेनाभिधीयते तस्यैव ग्रहणं युक्तम्, नेतरस्य। `उत्कारो धान्यस्य` इति। विक्षेपो दान्यस्येत्यर्थः॥", "33031": "`समेत्य स्तुवन्ति यस्मिन् देशे` इत्यादिना संस्तावशब्दस्याधिकरणसाधनत्वं दर्शयति॥", "33032": "`बर्हिष्प्रस्तरः`इति। `इदुदुपधस्य चाप्रत्ययस्य` (8.3.41 ) विसर्जनीयस्य षत्वम्॥", "33033": "`तृणविस्तरः` इति। तृणाच्छादनमित्यर्थः॥", "33034": "छन्दःशब्दोऽयमस्त्येव मन्त्रब्राआहृणे, अस्त्यन्यदक्षराणामित्ताविशिष्टवृत्ते यस्य गायत्र्यादयो विशेषाः। तदिह कतरस्तदर्थो गृह्रते? इत्याह - `वृत्तम्` इत्यादि। अत्रैवोपपत्तिमाह - `नामग्रहणात्` इति। यद्यत्र मन्त्रब्राआहृणमिष्टं स्यान्नामग्रहणं न कुर्यात्, छन्दसीत्येव ब्राऊयात्। एवमपि ह्रुच्यमाने मन्त्रब्राआहृणग्रहणं लभ्यत एव, यथा - <<बहुलं छन्दसि>> [[7.4.78]] इत्यादौ वाक्ये। तस्मन्नामग्रहणाव्वृत्तमिह च्छन्दो गृह्रते। `विष्टारपङ्क्तिः` इति। <<छन्दोनाम्नि च>> [[8.3.94]] इति षत्वम्। विष्टारशब्द एवात्र घञन्तश्छन्दोनामेति कस्यचिद्भ्रान्तिः स्यात्, तन्निराकरणायाह - `विष्टारपङ्क्तिशब्दोऽत्र` इत्यादि। तत्र = विष्टारपङ्क्तिशब्दे। `अवयवत्वेन वर्तते`इति। घञन्तं शब्दरूपमिति सम्बन्धनीयम। यदि घञन्तं शब्दरूपं न च्छन्दोनाम, किन्तु विष्टारपङ्क्तिशब्दः, तत्र घञन्तरूपमवयत्वेन वर्तते, एवं तर्हि `छन्दोतत्कथमुन्नीयते? अस्य हि छन्दोनाम्नि गम्यमान इत्येषोऽर्थः,प्रत्ययान्तं छन्दोनाम भवतीति यावत्। एवञ्चार्थ एवं सति नोपपद्यत इत्याह - `छन्दोनाम्नीत्यधिकणसप्तम्येषा`इति। एतेन च्छन्दोनाम्नि प्रत्ययान्तस्याधिकरणभूते प्रत्यययो भवतीत्ययमत्रार्थो वेदितव्यः,न च्छन्दोनाम्नि गम्यमान इत्येष इति दर्शयति॥", "33035": "`अपोऽपवादः` इति। <<ग्रहवृदृनिश्चिगमश्च>> [[3.3.58]] इति प्राप्तस्य।`{छन्दसि विपूर्वादपीष्यतेरुआउगुद्यमननिपातनयोः`इत्येव वार्त्तिकपाठो मुद्रितो दृश्यते।} छन्दसि तु`इत्यादि। यज्ञपात्रविशेषो येनाहुतिर्दीयते तत्रुआउगुच्यते, तस्योद्यमनम् = ऊध्र्वलनयनम्, निपातनम् = धस्तान्नयनम्ेतयोरर्थयोग्र्रहेश्छन्दसि विषये घञिष्यते। स च <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति लभ्यत इति वेदितव्यम्। `निग्राभम्` इति। ह्मग्रहोर्भश्छन्दस्युपसंख्यानाद्धकारस्य भकारः॥", "33036": "ग्रहेः क्रियावाचित्वात् मुष्टेश्चाक्रियात्मकत्वात् तत्र ग्रहेर्न सम्भवति, तस्मान्मुष्टिग्रहे योऽर्थस्तस्य विषयो विज्ञायत इत्याह - मुष्टिविषयश्चेद्वात्वर्थो भवति` इति। अस्त्येवायं मुष्टिशब्दः परिमाणे - शाकस्य मुष्टिरिति, अस्त्यङ्गुलीनां रचनाविशेषे, यथा - हन्ति मुष्टिनेति,ततर्यदीह परिमाणवृत्तेग्र्रहणं स्यादस्य सूत्रस्य वैयथ्र्यं स्यात्, <<परिमाणाख्यायां सर्वेभ्यः>> [[3.3.20]] इत्येव सिद्धत्वात्। तस्मादङ्गुलीनां रचनाविशेषवृत्तेग्र्रहणं विज्ञायत इत्याह - `मुष्टिरङ्गुलिसन्निवेशः` इति।सन्निवेशः = रचनाविशेषः। `अहो मल्लस्य संग्रहः`इति। मुष्टेर्दाढर्मित्यर्थः। अत एवाह - `दृढमुष्टिताऽऽख्यायते` इति।", "33037": "`पदार्थानाम्` इत्यादि। पदार्शब्दो वस्तुवाची। कुत्सितश्चारः = अपचारः।यताप्राप्तस्याकरणमित्यर्थः। यथाप्राप्तस्याकरणमसाध्वेतदितिलोके कुत्स्यते, तस्मादन्यः शान्तश्चारोऽनपचारः। एतमेवार्थं पर्यायान्तरेण व्यक्तीकर्त्तुमाह - `यथाप्राप्तस्य करणम्` इति। यद्यत् प्राप्तिमिति `यथाऽसादृश्ये` [[2.1.7]] इतिवीप्सायामव्ययीभावः। करणम् = सम्पादनम्। एतुदुक्तं भवति - युक्तेरागमाल्लोकप्रसिद्धेर्वा यः पदार्थानां प्राप्नोति तस्य सम्पादनमभ्रेष इति।`{ भ्रेषृ गतौ-धातुपाठः-} भ्रेष चलने` (धातुपाठः-884) भ्रेषणम् = भ्रेषः, स्वरूपात् तच्चलनम्। अभ्रेषो भ्रेषस्वरूपादचलनम्। एवं हि पदार्थाः स्वरूपादचलिता भवन्ति यदि प्राप्तं नातिवर्तन्ते। `परिमायेन` इति। <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इति णत्वम्। `हन्ति` इति बाधते। `समन्तान्नयनेन` इति। परिणायेनेत्यस्येदमर्थकथनम्॥", "33038": "`अनतिपातः` इति। अनितक्रम इत्यर्थः। `अतिपात इत्यर्थः` इति। अतिक्रम इत्यर्थः॥", "33039": "पर्यायोऽनुपात्यय एव,तत्रानुपात्ययग्रहणानुवृत्त्यैव सिद्धे पर्यायग्रहणं बाधकबाधनार्थम्। अभिविधिविवक्षायां परिमाणमपि बाधित्वा घञेव यथा स्यात्। एवञ्चार्थे शब्दाधिक्यादर्थाधिक्यं भवतीति लभ्यते, न तु पर्यायशब्दोऽस्यार्थस्य वाचकः॥", "33040": "`हस्तादानग्रहणेन` इत्यादि। हस्तेनोपायान्तरनिरपेक्षेणोपादानम् = प्रत्यासत्तिः, ततएव वस्तुनो भवति, तस्माद्धस्तादानग्रहणेन ग्राह्रस्य वस्तुनः प्रत्यासन्नतोपलक्ष्यते; हस्तादानशब्दाभिधेयस्यार्थस्य प्रत्यासत्तेः साहचर्यात्।`वृक्षशिखरे` इत्यादि। वृक्षशिखरग्रहणेनादेयस्याप्रत्यासन्नत्वं सूचयति॥", "33041": "`राशीकरणम्` इति। प्रकीर्णस्यैकत्रकरणमित्यर्थः। `चिखल्लिनिकायः` इति। चिखल्लिर्जनपदः, तस्य निकायः = निवासः। अथादिग्रहणं किम्? अर्थस्य मा भूत्। यद्येवम्, `चः कः` इति वक्तव्यम्? एवं तर्हि यदा यङ्लुगन्तादुत्पद्यते तदा `{अन्त्याभावे अन्त्यसदेशस्य` शाक।प।}अन्त्यविकारेऽन्त्यसदेशस्य` (शाक।प।56) इति द्वितीयस्य चकारस्य मा भूदित्यवमर्थमादिग्रहणम्॥", "33042": "`एकधर्मनिवेशेन` इति। एकधर्मानुगमनेनेत्यर्थः॥", "33043": "`दातोः` [[3.1.91]] इत्यधिकाराद्धातुवाच्यं यत्कर्म तदव गृह्रते,न साधनकर्म। न हि धातोस्तत्र वृत्तिरस्तीति मत्वाऽऽह - कर्मं क्रिया`इति। `चकारो विशेषणार्थः` इति। अन्तोदत्तार्थश्चकारः कस्मान्न भवति? नार्हत्यन्तोदात्तार्थो भवितुम्; णजन्तादञो विधानात्। सतिशिष्टस्वरेणाद्युदात्तेन भवितव्यम्,तत्र कुतोऽन्तोदात्तस्य सम्भवः। तस्माद्विशेषणार्थ एव चकारः। `स्त्रियाम्` इत्युच्यमाने <<प्रज्ञाश्रद्धार्चाभ्यो णः>> [[5.2.101]] इति प्राज्ञेत्यत्रापि स्यात्। `व्यावक्रोशी` इत्यादि। `क्रुश { आह्वाने रोदने च - ध।पा।}, `लिख अक्षरविन्यासे` (धातुपाठः-1365),`हसे हसने` (धातुपाठः-721) - एभ्यो णच्, `णचः स्त्रियाम्` [[5.4.14]] इति स्वार्तेऽञ्, `टिड्ढाणञ्` [[4.1.15]] इति ङीप्, <<न कर्मव्यतिहारे>> [[7.3.6]] इत्यैजागमप्रतिषेधः। आदिवृद्धिरेव भवति।`व्यतिपाकः` इति। तत्र पुंल्लिङ्गत्वाद्भावस्य घञ् भवति। अथ <<स्त्रियां क्तिन्>> [[3.3.94]] इत्यस्मिन्नेव प्रकरणे णच् कस्मान्नोक्तः, कः पुनरेवं सति गुणो भवति, द्विः स्त्रियांग्रहणं न कर्तव्यं भवित? अस्ति गुणः,वासरूपविधिस्तु न स्यात् ; अस्त्रियामिति प्रतिषेधात्। ततश्च क्तिनो णचासमावेशाभावाद्व्यावक्रुष्टिरिति न सिध्येत्। इह तु क्रियमाणे णच् सिध्यति; यस्मात् <<वाऽसरूपोऽस्त्रियाम्>> [[3.1.94]] इत्यत्र स्त्रीग्रहणस्य च स्वरितत्वात् स्त्र्यधिकरारविहितप्रत्ययविषय एव `अस्त्रियाम` [[3.1.94]] इति प्रतिषेधो विज्ञायते,न स्त्रीप्रत्ययमात्रविषये। तस्माद्यथान्यसमेव न्याय्यम्।`व्यावचोरी, व्यावचर्ची` इति। `चुर स्तेये` (धातुपाठः-1534), `चर्च अध्ययने` (धातुपाठः-1712) - आभ्यां चुरादिणिजन्ताभ्याम् <<ण्यासश्रन्थो युच्>> [[3.3.107]] इति युच् प्राप्नोति, स च विशेषविहितत्वात् परवाच्च बाधकः, तथापि तद्विषये तु णजेवेष्यते। `व्यतीक्षा,व्यतीहा` इति। `ईक्ष दर्शने` (धातुपाठः-610), `ईह चेष्टायाम्` (धातुपाठः-632) - आभ्यां <<गुरोश्च हलः>> [[3.3.103]] इत्यकारएव प्रत्ययो भवति। न णच् शक्यः कर्त्तुम्;यस्मात् क्वचिद्बाधकविषये स इष्यते, न सर्वत्र। बाधकत्वं त्वकारप्रत्ययस्य पूरववद्वेदितव्यम्। `व्यात्युक्षी`इति। `उक्ष सेचने` (धातुपाठः-657)। अत्र बाधकस्याप्यकारस्य विषये णजेव भवति। `तदेतद्वैचित्र्यं कथं लभ्यते` इति। न कथञ्चित्। तल्लाभहेतोरभावादिति भावः। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इत्यनेन। अतो हेतोर्वेचित्र्यमेतल्लभ्यत इति दर्शयति॥", "33044": "`सांकूटिनम्` इति। `कूट {परितापे (परिदाहे इत्यन्ये)-धातुपाठः-} (धातुपाठः-1890), <<अणिनुणः>> [[5.4.15]] इतीनुमन्तात् स्वार्थिकोऽण्। <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावात् <<नस्तद्धिते>> [[6.4.144]] इति टिलोपो न भवति।`संरावः` इति। `उपसर्गे रुवः [[3.3.22]] इति घञ्। `संद्रावः` इति। अत्रापि <<समि युद्रुदुवः>> [[3.3.23]] इति।\tननु च भाव इति वर्तत एव, तत्किमर्थं पुनस्तद्ग्रहमित्याह - `भावे` इति। `वर्तमाने` इत्यादि। भावग्रहणमिहातिरिच्यते, तदितरिच्यमानं वासरूपनिरासार्थं विज्ञायते। तेन क्तेन सहेनुणः समावेशो न भवति। ननु च कारक इत्यपि वर्तते, ततस्तन्निवृत्त्यर्थं भावग्रहणं कस्मान्न भवति? एवं मन्यते - भावे कारक इति द्वये प्रकृतेऽपि प्रयोगदर्शनवशाद्वयवस्था भवति, यथा णचः। स हि द्वथेऽपि प्रकृते लक्ष्यदर्शनानुरोधात् पुनग्र्रहमन्तरेणापि यथा भाव एव विज्ञायते, न कराके, तथात्रेनुणपि भाव एव विज्ञास्यते। तस्माद्वासरूपविधिनिरासार्थमेव पुनर्भावग्रहणं युक्तमिति। यद्येवम्, तर्हि, यथा घञेनुणः समावेशो न भवति तथा ल्युटापि न स्यादित्यत आह - `ल्युटा तु` इत्यादि। गतार्थम्। इनुणो णकारो वृद्ध्यर्थः। उकार उच्चारणार्थः॥", "33045": "`\tग्रहवृदृ` [[3.3.58]] इत्यादिना प्राप्ते वचनम्। `दृष्टानुवृत्तिसाम्थ्र्यात्` इति। प्रयोगोपस्थानेन घञोऽनुवृत्तिसामर्थ्य दृष्टम्, इनुणस्तु कल्पयितव्यम्। दृष्टसामर्थ्ययोश्च सन्निधौ दृष्टसामर्थ्यदग्रहणं न्याय्यम्। अतो घञेवानुवर्तत इत्येके। एवं तु `ग्रहवृदृ` [[3.3.58]] इत्यादावपि सूत्रे घञेवानुवर्तते, नाप्। तस्मादन्यथा व्याख्यायते - दृष्टमनुवृत्तिसामर्थ्यमधिकृतस्य यत्र तद्दृष्टानुवृत्तिसामर्थ्यम्, तत्र पुनः स्वरितत्वम्। ततो हि शास्त्रेऽधिकृतस्य शब्दस्यानुवृत्तौ सामर्थ्ये दृश्यते। तदेतदुक्तं भवति - घञ एव स्वरितत्वं प्रतिज्ञायते, नेनुणः। तस्मात् स्वरितत्वाद्घञेवानुवर्तते, नेनुणिति॥", "33046": "", "33047": "", "33048": "`अपोऽपवादः`इति। `ग्रहवृदृ` [[3.3.58]] इत्यादिना प्राप्तस्य। `नीवारा नाम व्रीहयो भवन्ति` इति। एतेन यद्यपि धान्यशब्देन सामान्यवाचिनायं व्युत्पाद्यते, तथापि प्रत्ययान्तं शब्दशक्तिस्वाभाव्याद्धान्यविशेष ए वर्तत इति दर्शयति। `उपसर्गस्यघञि` [[6.3.121]] इति दीर्घत्वम्।`निवरा` इति। निव्रियत इति निवरा। स्वभावेनाबन्तमपि स्त्रियां वर्तते। एवञ्च यद् घञबन्तो घाजन्तश्चेति लिङ्गाधिकारेऽबन्तस्य पुंल्लिङ्गताप्रतिपादनं तत् प्रायिकं वेदितव्यम्॥", "33049": "`अजपोरपवादः` इति। श्रयतेरिवर्णान्तत्वादचोऽपवादः, यौतिप्रभृतीनां तूवर्णान्तत्वादपः। `कथं पतनान्ताः समुच्छ्रया इति` इति। उच्छब्दोपपदत्वाद्धञात्र भवितव्यमिति भावः। `वक्ष्यमाणम्` इत्यादि परिहारः। यदि तर्हि विभाषाग्रहणमिह सम्बध्यते, यौतिप्रभृतीनामपि विकल्पेन प्रत्ययः प्रसज्यते? व्यवस्थितविभाषया न प्रसज्यत इत्यदोषः॥", "33050": "रौतेः <<उपसर्गे रुवः>> [[3.3.22]] इति नित्यं घञि प्राप्ते प्लवतेरप्युवर्णान्तत्वादपि सूत्रारम्भः॥", "33051": "`ग्रहवृदृ` [[3.3.58]] इत्यादिनापि प्राप्ते तदपवादः, पक्षे घञभिधीयते। `कुतश्चिन्निमित्तात्` इति। सत्त्वकर्मापराधाधिकारात्॥", "33052": "`वणिक्सम्बन्धन च` इत्यादि। तुलासूत्रं हि प्रायेण वणिजासम्बद्धम् = सहचरम्, ततः साहचर्याद्वणिक्सम्बन्धेन तदुपलक्ष्यते। नात्र वणिजां प्राधान्याम्। तस्मात् तदेव तुलादिसूत्रं तदन्यशब्दस्याभिधेयम्॥", "33053": "`रथादियुक्तानाम्` इत्यादि। कुतः पुनरेतल्लभ्यते,यावता रश्मिशब्दः सामान्यवचनः, यथैवासावआआदिसंयमनार्थायां रज्ज्वां वर्तते तथा चन्द्रार्कादिसम्बन्धिष्वपि रश्मिषु? एवं मन्यते- यथा <<नौ वृ धान्ये>> [[3.3.48]] इति धान्यशब्दस्यापि धान्यविशेष एव गृह्रते, प्रत्ययान्तेन शब्दशक्तिस्वभाव्याद्धान्यविशेषस्य वाभिधानात्; तथा यद्यपि रश्मिशब्दः सामान्यवाची, तथापि प्रत्ययान्तः स्वभावाद्रज्जुविशेष एव वर्तते। तस्मात् युक्तं ग्रहणमिति॥", "33054": "`वृणोतेः`इति। श्नुविकरणेन निर्देशो वृङो निवृत्त्यर्थः। अत्रापि सामान्यवाचित्वे प्राग्वदाच्छादनशब्दादन्यत्र। पक्षे `ग्रहवृदृ` [[3.3.58]] इत्यादिनाब्भवति॥", "33055": "", "33056": "`चकारो विशेषणार्थः` इति। विनापि तेन थाथादिसूत्रे [[6.2.143]] अप्रत्ययादित्यप्रत्ययस्यापि ग्रहणं स्यात्। `अज्विधौ` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इत्येतदाश्रित्य कर्तव्यम्। अन्यस्तु <<पञ्चमी भयेन>> [[2.1.37]] `वर्षप्रमाण ऊलोपश्चास्यान्तरस्याम्` [[3.4.32]] इति निपातनाद्भयादीनां सिद्धिमिच्छति, न चासौ युक्ता; किमिदं भयवर्षशब्दयोर्नपुंसकलिङ्गयोरुच्चारणम्? इत् पुंल्लिङ्गयोः? इति सन्देहात्। `वक्तयौ`इति। व्याख्येयावित्यर्थः। व्याख्यानं तु तदेव बहुलग्रहणमाश्रित्य कर्तव्यम्। `जवः, सवः` इति। `जु` [[3.2.150]] इत्येस्मात् सौत्राद्धातोः, `षुञ् अभिषवे` (धातुपाठः-1247) इत्येस्माच्चोत्तरसूत्रेणापि प्राप्तेऽज्भवति। स्वरे विशेषः - अपि हि स्तामाद्युदात्तं पदं स्यात्, अजन्ते सत्यन्तोदात्तत्वं भवति॥", "33057": "`पित्करणं स्वरार्थम्` इति। <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनुदात्तत्वं यथा स्यात्। `ऋदोरप्` इत्यत्र ऋकारस्तपरः स्यात्। एवं सति तादपि परस्तपरः इत्युकारोऽपि तस्य परः स्यात्। ततश्च <<तपरस्तत्कालस्य>> [[1.1.70]] इति परिभाषोपस्थानादिहैव स्यात् - यवः,स्तव इति; लवः,पव इत्यत्र तु न स्यात्। दकारे तु `अण् सवर्णान् गृह्णाति - `भुवः गृह्णाति` (व्या।पा।66?) इति दीर्घादपि भवति। तस्मादुकारोऽयं सवर्णं गृह्णाति। अत्र च लिङ्गम् - <<भुवः प्रभवः>> [[1.4.31]] इति निर्देशः।तपरे तु भवतेरप् न स्यात्, ततश्च `प्रभवः`इति निर्देशो नोपपद्यते। तस्य तु दकारस्य मुखसुखार्थत्वादन्यत् प्रयोजनं न सम्भवतीत्येतत्सर्वमालोच्याह - `दकारो मुखसुखार्थः` इति॥", "33058": "`वृ` इति वृङ्वृञोः सामान्येन ग्रहणम्। `दृ`इति। `दृङ आदरे` (धातुपाठः-1411)। `निश्चिनोतेस्तवचोऽपवादः` इति। `एरच्` [[3.3.56]] इति प्राप्तस्य। अथ निश्चिग्रहणं किमर्थम्, यावता नास्मादच्यपि वा विहिते कश्चिद्विशेषोऽस्ति, तदेव हि रूपमुभयत्रापि समापद्यत इत्याह - `निश्चिग्रहणं स्वरार्थम्` इति। अनुदात्तार्थमित्यर्थः। ननु च <<हस्तादाने चेरस्तेये>> [[3.3.40]] इति चिनीतेर्घञ् विधीयमानो न स्यात्, निष्पूर्वादपि प्राप्नोति, अतस्तद्बाधनार्थमपि निश्चिग्रहणं युक्तम्? नैतदस्ति; निष्पूर्वादपि हि चिनोतेश्चैष घञ् पूर्वविप्रतिषेधेनेष्यते। ननु च स्वरार्थमपि निश्चिग्रहणं नोपपद्यतएव, तथापि <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्युत्तरपदप्रकृतिस्वरे प्राप्ते`\tअन्तः` [[6.2.142]] , <<थाथघञ्क्ताजबित्रकाणाम्>> [[6.2.144]] इत्यन्तोदात्तत्वेनैव भाव्यते। तथा चापि प्रत्ययेऽपि सत्यनुदात्तत्वेनैव भवितव्यम्? नैष दोषः;निश्चिग्रहणसामर्थ्यात थाथादिस्वरस्तस्मिन् विषये न भवति। तस्मिन्नसत्युत्तरपदे प्रकृतिभावेनावस्थितेऽपोऽनुदात्तत्वाद्धातोश्चान्तोदात्तत्वान्निश्चय इति पदं कृत्स्वरेण मध्योदात्त्#ं भवति, अचि सत्यन्तोदात्तं स्यात्।`वशिरण्योः` इत्यादि। `वश कान्तौ` (धातुपाठः-1080), `रण` (धातुपाठः-445) इति शब्दार्थः, अणरणेत्यादयः शब्दार्थाः (धातुपाठः-444-453) धातवः। तयोर्वशिरण्योरप उपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - चकारोऽत्रानुक्तसमुच्चयार्थः क्रियते, तेन वशिरण्योरप्यब्भविष्यति।`घञर्थे क` इत्यादि। घञर्थो भावः कर्त्तृवर्जितञ्च कराकम्, तत्र कप्रत्ययस्य विधानं कर्तव्यं स्थाद्यर्थम्। एतत्तु <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इत्येव सिद्धम्। `पा` इति लुग्विकरणपरिभाषया (व्या।प।50) पानार्थस्य ग्रहणम्, न रक्षणार्थस्य। `प्रस्थः` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। `प्रश्नः` इति। `ष्णा शौचे` (धातुपाठः-1052)। `आविधः` इति। `व्यध ताडने` (धातुपाठः-1181)। `ग्रहिज्या` [[6.1.16]] ईत्यादिसूत्रेण सम्प्रसारणम्। `विघ्नः`इति। `गमहन` [[6.4.98]] इत्यादिनोपधालोपः, `हो हन्तेः` [[7.3.54]] इत्यादिना कुत्वम्। `आयुधम्` इति। `युध सम्प्रहारे` (धातुपाठः-1173)॥", "33059": "`अदेर्धातोरप्प्रत्ययो भवति` इति। घञपवादः। इत उत्तरत्रापि हलन्तादब्विधीयमानो घञोऽपवादो वेदितव्यः। `विघसः, प्रघसः` इति। <<घञपोश्च>> [[2.4.38]] इति घस्लादेशः। अथ किमर्थमदेरब्विधीयते, न घसेः प्रकृत्यन्तरादेव विधीयते,कः पुनरेवं सति गुणो भवति? अदेरपि घस्लुभावो न कर्तव्यो भवति? सत्यमेतत्; तथाप्युत्तरार्थमदेर्विहितम् - `नौ ण च` [[3.3.60]] इत्यदेर्यथा स्यात्, घसेर्मा भूदिति॥", "33060": "", "33061": "", "33062": "", "33063": "", "33064": "", "33065": "`सोपसर्गार्थं वीणाया ग्रहणम्` इति। यदि वीणाविषयेऽप्यनुसर्गादेव स्यात्, वीणाग्रहणमनर्थकं स्यात्। अनुपसर्गात् सामान्येन विधानाद्वीणायामपि प्रत्ययः सिद्धः॥", "33066": "`परिमितः`इति। परिमितो मितः परिच्छिन्नः। द्वयोस्त्रयाणां चतुर्णां वा मूलकादिद्रव्याणां यो मुष्टिः = परिमाणविशेषो बध्यते संव्यवहारार्थः स `मूलकपणः` इत्यादिना शब्देनाभिधीयते॥", "33067": "`विद्यामदः`इति। विद्यया मदः। `कर्त्तुकरणे` [[2.1.31]] इत्यादिना समासः। `उन्मादः` इति। अत्रापि <<कुगतिप्रादयः>> [[2.2.18]] इति <<व्यधजपोरनुपसर्गे>> [[3.3.61]] इत्यत्रैव मदिग्रहणे कर्तव्ये `मदोऽनुपसर्गे` इति सूत्रप्रणयनमस्य विधेरनित्यत्वाज्ञापनार्थम्, तेन माद इति सिद्धं भवति॥", "33068": "ननु च `मदः` [[3.3.67]] इत्यनुवर्तते, तत्र प्रसंभ्यामिति वक्तव्यम्, एवमप्यभीष्टं सिध्यत्येव,तत्क निपात्यते? इत्यत आह - `प्रसंभ्याम्` इत्यादि। रूढिशब्देनेह प्रमदसंमदाभ्यामन्यस्याश्रुतत्वादनयोश्च रूढिशब्दत्वादेतादेव विवक्षितताविति गम्यते। अवधारणञ्चेह द्रष्टव्यम्, सावरधारणत्वात् सर्ववाक्यानाम्। तेन रूढर्थं निपातनम्। प्रमदसम्मदशब्दार्थमेवैषोऽर्थः सम्पद्यते। अनेन सूत्रेण `प्रमदसम्मदौ` इत्यनयोरेव रूढिशब्द्योव्र्युत्पत्तिर्यथा स्यान्न शब्दान्तराणामित्यवमर्थं निपातनमिति यावत्। यदि हि मदिग्रहणमनुवर्त्त्य प्रसंभ्यामित्येतावदुच्येत, तर्हि यदापि प्रसंभ्यां समस्ताभ्यामुत्तरो मदिर्भविष्यति तदापि प्रत्ययः स्यात्। तथा यदा प्रसमावन्यस्मादुपसर्गात् परौ भवतः प्रसंभ्यञ्च परो मदिर्भवति तदापि स्यात्। ततश्च प्रसम्मदः, अभिप्रसम्मदः, प्रनिसम्मदः - इत्येवमाद्यरूढिशब्दार्थमपि सूत्रं स्यात्, न प्रमदसम्मदार्थमेव। निपातने तु सति नियमो विज्ञायते - प्रत्येकमेवेतौ;न समस्तौ, नाप्यन्योपसर्गसहिताविति। तेन रूढर्थं सूत्रं सम्पद्यते॥", "33069": "", "33070": "`ग्रहेरप् सिद्ध एव` इति। `ग्रहवृदृ` [[3.3.58]] इत्यादिना। यद्येवम्, किमर्थं निपातनमित्याह - `लत्वार्थम्` इत्यादि॥", "33071": "", "33072": "`निहवः`इति। `ह्वेञ् {स्पर्धायां शब्दे च - धा।पा} स्पद्र्धायाम्` (धातुपाठः-1008)। सम्प्रसारणे कृते गुणावादेशौ। जुहोतेरेव निप्रभृत्युपसर्गपूर्वस्य `निहवः`इत्यादिके रूपचतुष्टये सिद्धे सति ह्वयसेर्निप्रभृतिपूर्वस्य घञ्निवृत्त्यर्थमेवैतद्ववचनम्॥", "33073": "`आह्वायः`इति। <<आतो युक् चिण्कृतोः>> [[7.3.33]] इति युक्॥", "33074": "निपिबन्ति तस्मिन्निति निपानमित्यधिकरणे [[3.3.117]] ल्युट्। कस्मादाहावशब्द उदकाधारे वर्तत इत्याह - `तत्र हि` इत्यादि। एतेनाहावशब्दस्योदकाधारे प्रवृत्तनिमित्तं दर्शयति॥", "33075": "`भावग्रहणम्` इत्यादि। ननु च यथा <<कर्मव्यतिहारे णच् स्त्रियाम्>> [[3.3.43]] इत्यत्र द्वये प्रकृते च लक्ष्यदर्शनवशाद्भाव एव प्रत्ययो विज्ञास्यते, तथेहापि, तत्क भावग्रहणेन `अकर्तरि च कारके` [[3.3.19]] इत्येतन्निरासार्थेन? सत्यमेतत्; लक्ष्यदर्शनसामर्थ्यादेव प्राप्त एव एवार्थो भावग्रहणेनाख्यायते मन्दबुद्धीनामनुग्रहाय। अथ यथा <<अभिविधौ भाव इनुण्>> [[3.3.44]] इत्यत्र `भावे` इति वर्तमाने पुनर्भावगर्हणं वासरूपनिरासार्थं विज्ञायते, तथेहापि कस्मान्न विज्ञायते? लक्ष्यदर्शनवशात्। दृश्यते हि क्तादयः - हूतम्, ह्वानम्, हूतिरिति। घञादौ वासरूपेण भावः॥", "33076": "`स चान्तोदात्तः` इति। सूत्रे वधशब्दस्यान्तोदात्तस्योच्चारणात्। `तत्र `इत्यादिनाऽन्तोदात्ते वधादेशे यदिष्टं सिध्यति तद्दर्शयति। अपि कृते <<अतो लोपः>> [[6.4.48]] इत्यकारलोपे च <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्यप उदात्तत्वं भवति। `धातः` इति। कर्मादौ कारके घञ्,`हनस्तोऽटिण्णलोः` [[7.3.32]] इति तत्वम्; `हो हन्तेः` [[7.3.54]] इत्यादिना कुत्वम्। `चकारो भिन्नक्रमत्वात्` इत्यादि। चकारो नादेशेन सम्बध्यत इति सम्बन्धः।कस्मान्न सम्बध्यते? भिन्नक्रमत्वात्। यदि `हनो वधश्च` इत्येष चकारस्य क्रमः; आदेशानन्तरमनुच्चारणात्।तस्मात् भिन्नक्रमत्वात् क्रमभेदान्नादेशेन सम्बध्यते।अपि तु प्रकृतेन प्रत्ययेन। एवञ्च प्रकृतेन सम्बन्धं दर्शयितुमाह - `अप् च` इत्यादि। अप् प्रत्ययो भवति, चकारावृत्तेर्यः प्राप्नोति स च। तेन घञपि भवति॥", "33077": "`अभ्रवनः` इति। षष्ठासमासोऽयम्। अभ्रस्य काठिन्यमित्यर्थः। यदि मूर्तावभिधेयायां घनशब्दो व्युत्पाद्यते - घनं दधीति, मूर्तिमतो दघ्नो नाभिधानं प्राप्नोति, कथं हि नाम मूर्त्तौ व्युत्पादितस्ततोऽन्यत्र वर्ततते? इत्यत आह - `धर्मशब्देन धर्मी भण्यते` इति। मतुबालोपादभेदोपचारः, यथा - शुक्लः पटः। शुक्लशब्देन शुक्लगुणः पट इति भावः॥", "33078": "`अन्तर्घनः`इति। अन्तर्हण्यन्ते प्राणिनोऽत्रेत्यधिकरणेऽप्। `तवपि ग्राह्रमेव` इति। उभयथा चाचार्ये शिष्याणां प्रतिपादित्वात्॥", "33079": "", "33080": "`अत्याधानम्` इति। अतिशब्द उपरिभावे वर्तते। आदधातिः स्थापने। य उपरि निधीयते स्थाप्यते तस्मिन् सः, तदस्याधानम्। अधिकरणे ल्युट्। `उद्घनः` इति। उद्धन्यतेऽस्मिन्नित्यधिकरणेऽप्॥", "33081": "`अपघनः`इति। अपहन्यतेऽनेनेति करणेऽप्॥", "33082": "", "33083": "`तत्र च` इति। अनन्तरोक्तेऽपि। `घनादेशः`इति। `मूर्त्तौ घनः` [[3.3.77]] इत्यतः `घनः` इत्यतस्यानुवृत्तेः। `स्तम्बघ्नः`इति। पूर्ववत् कुत्वोपधालोपौ॥", "33084": "`वलिघः` इति। <<परेश्च घाङ्कयोः>> [[8.2.22]] इति विभाषा लत्वम्॥", "33085": "`आश्रयशब्दः` इत्यादि। आश्रयणमाश्रयः = सेवा। सा च यत्र प्रत्यासत्तिस्तत्र भवतीत्याश्रयः प्रत्यासत्तिसहचरः।तस्मादाश्रयशब्दः सामीप्यं प्रत्यासत्तिमुपलक्षयति; तदर्थस्य प्रत्यासत्तिसाहचर्यात्। `पर्वतोपघ्नः` इति। पर्वतसमीपभूतोऽर्थ उच्यते॥", "33086": "`सङ्घोद्घौ` इति। संहननं सङ्घः। उत्कटं हन्यते ज्ञायत इति उद्घः। कर्मण्यप्। कथं पुनर्हन्तिज्र्ञाने वर्तते? गत्यर्थत्वात्। सर्वेषां गत्यर्थानां धातूनां ज्ञानार्थत्वात्॥", "33087": "समन्तान्मितमिति ननिमितशब्दः। सर्वत आरोहतः परिणाहतश्च तुल्यमित्यर्थः। एकमेवार्थं प्रसिद्धतरेण दर्शयितुमाह - `समारोहपरिणाहौ यस्य तत् तथोक्तम्। आरोहः = उच्छ्रायः। परिणाहः = विस्तारः। `निघा वृक्षाः`इति। निविशेषमं हन्यन्ते ज्ञायन्त इति निघाः। कर्मण्यपि समन्तात् तुल्या इत्यर्थः। एवं ते निर्विशेषं ज्ञायन्ते यदि समन्तादारोहतः परिणाहतश्च तुल्या भवन्ति॥", "33088": "`उप्त्रिमम्` इति। `वचिस्वपि` [[6.1.15]] इत्यादिना सम्प्रसारणम्। क्त्रेः ककारो गुणप्रतिषेधार्थः॥", "33089": "`वेपथुः` इति। वेपनम् = वेपथुः। स्वभावत एवैतदुभयं भावे भवतीति घञोऽपवादो विज्ञायते। घञ् तु वासरूपविधिनापि न भवति; अनभिधानात्। अथुचश्चकारः।अथुचश्चकारः स्वराथः॥", "33090": "`यज देवपूजादौ` (धातुपाठः-1002), `टुयाच् याच्ञायाम्` (धातुपाठः-863), `{यती प्रयत्ने-धा।पा} यत प्रयत्ने`(धातुपाठः-30), `विच्छ गतौ` (धातुपाठः-1423), `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413), `रक्ष {पालने - धातुपाठः-}रक्षणे` (धातुपाठः-658) -अत्र स्वाभाविकत्वाद्याचेरन्येषां नङ्प्रत्ययान्तानां पुंसि वृत्तिरिति तेभ्यो नङ् न घञपवादो भवति। यथादर्शनञ्च वासरूपविधना घञपि भवति- याग इति। याचेस्तु नङन्तसय स्वभावात् स्त्रियां वृत्तिरिति ततो नङ् <<गुरोश्च हलः>> [[3.3.103]] इति प्राप्तस्याकारप्रत्ययस्यापवादः। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति वचनाद्वासरूपविधिर्न भवति। `ङकारो गुणप्रतिषेधः` इति। विच्छेर्लघूपधगुणो मा भूदित्येवमर्थः। ननु चान्तरङ्गत्वात् `छे च` [[6.1.71]] इति तुकैव विच्छेस्तावद्भवितव्यम्, तत्रालघूपधत्वादेव गुणो न भविष्यति, तत्क तत्प्रतिषेधार्थो ङकारः कर्तव्यः। `अनित्यमागमशासनम्`(व्या।प।99) इत्यस्य चैदेव नङो ङिकरणं ज्ञापकम्। यदा तह्र्रनित्यत्वात्, तुङ्न, तदा <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति सतुक्कस्य च्छकारस्य शादेशो विधीयमानः केवलस्य न प्राप्नोति? नैष दोषः; यस्मात् `च्छ्वोः`इति द्विच्छकारो निर्देशः। तत्रैकः सतुक्कः, द्वितीयः केवल एव, तेन केवलस्यापि शादेशो भविष्यति। यदि तु द्विच्छकारो निर्देशः `च्छ्वोः` इति द्विवचनं न प्राप्नोति,बहुत्वात् स्थानिनाम्? सौत्रत्वनान्निर्देशस्य बहुवचनस्य व्यत्ययेन द्विवचनं भविष्यतीत्यदोषः। अवश्यं द्विच्छकारो निर्देशः कर्तव्यः; अन्यथा <<राल्लोपः>> [[6.4.21]] इत्यत्र केवलस्य लोपो न स्यात्, केवलस्य च्छकारस्याप्रकृत्वात्। वचनं तु वकारलोपार्थमेव स्यात्। `यज्ञः, याच्ञा` इति। <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वेन नकारस्य ञकारः। `यत्नः` इति। <<नेड् वशि कृति>> [[7.2.8]] इतीट्प्रतिषेधः। `विश्नः, प्रश्नः` इति। `च्छ्वोः` [[6.4.19]] इत्यादिना च्छकारस्य शकारादेशः। `रक्ष्णः`इति। <<ष्टुना ष्टुः>> [[8.4.41]] इति नकारस्य णकारः। अथ प्रच्छेः ग्रहिज्यादिसूत्रेण [[6.1.16]] सम्प्रसारणं `प्रश्नः` इत्यत्र कस्मान्न भवतीत्यत आह - `प्रच्छेः` इत्यादि। किं ज्ञापकमित्याह - `प्रश्ने च` इत्यादि॥", "33091": "", "33092": "`किप्रत्ययो भवति` इति। घञोऽपवादः। `कित्करणे लोपार्थम्` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपो यथा स्यादिति॥", "33093": "कर्माधिकरणयोः सप्तम्या भेदेन निर्देशान्नोभयोरुपपदत्वम्, नापि प्रत्ययार्थत्वम्, तस्मात् किञ्चित् तत्रोपपदम्, किञ्चित्प्रत्ययार्थः। कर्म उपपदम्, अधिकरणं प्रत्ययार्थः। एष तु विभागो व्याख्यानास्लक्ष्यदर्शनाच्च विज्ञात इत्याह - `कर्मण्युपपदे इत्यादि। अथाधिकरणग्रहणं किमर्थम्, यावता `अकर्तरि च कारके` [[3.3.19]] इत्यस्यानुवृत्तेरेवाधिकरणे प्रत्ययो लभ्यते? इत्याह - `अधिकरणग्रहणम्` इत्यादि। असति ह्रधिकरणग्रहणेरऽर्थान्तरेऽपि भावे करणादौ कारके प्रकृतप्रत्ययः स्यात्, तस्मात् तन्निवृत्त्यर्थमधिकरणग्रहणम्॥", "33094": "`भावादौ` इति। आदिशब्देनाकर्त्तुः कारकस्योपादानम्। `घञजपामपवादः` इति। य इकारान्तास्तेभ्योऽचोऽपवादः, य ऋकारान्ता उवर्णान्ताश्च, तेभ्योऽपः, शेषेभ्यो घञः।वक्तव्य इति। व्याख्येय इत्यर्थः। व्याख्यानं तु <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इत्येतदाश्रित्य कर्तव्यम्। `आप्तिः` इत्यादि। `आप्लृ व्याप्तौ` (धातुपाठः-1260), `राध साध संसिद्धौ` (धातुपाठः-1262), `दीपी दीप्तौ` (धातुपाठः-1150), `रुआन्सु ध्वन्सु अवरुआंसने` (धातुपाठः- 754,755) `डुलभष् प्राप्तौ` (धातुपाठः-975)। लभेति षित्त्वात् `षिद्भिदादिभ्योऽङ` [[3.3.104]] इत्यङि प्राप्ते शेषेभ्यस्तु गुरुत्वात् <<गुरोश्च हलः>> [[3.3.103]] इत्यकारे क्तिन विधीयते। `इष्टिः` इति। वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्।`कीर्णिः,गीर्णिः, शीर्णिः` इति। `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, रषादिसूत्रेण [[8.4.1]] णत्वम्। यथा `रदाभ्याम्` [[8.2.42]] इत्यादिना कीर्ण इति निष्टायास्तकारस्य नत्वं भवति, तथेहापि क्तिनः। यथा <<ल्वादिभ्यः>> [[8.2.44]] इति लून इत्यत्र निष्ठातकारस्य नत्वं तथा `लूनिः, यूनिः`इत्यात्रापि क्तिनः॥", "33095": "`अङोऽपवादस्य बाधकः` इति। स्थादिभ्यः <<आतश्चोपसर्गे>> [[3.3.106]] इति प्राप्तस्याङोऽपवादस्य बाधक इत्यर्थः। `पक्तिः` इति। `षिद्भिदादिभ्योऽङ` [[3.3.104]] इत्यस्य। `प्रस्थितिः` इति। `द्यतिस्यति` [[7.4.40]] इत्यादिनेत्त्वम्। `सङ्गीतिः`इति। धुमास्यादि [[6.4.66]] सूत्रेणेत्त्वम्। अत्र च `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति `गै शब्दे`(धातुपाठः-917) `गाङ गतौ` (धातुपाठः-950) इति द्वयोरपि ग्रहणम्। `पा`इति। पूर्ववत् पानार्थस्य ग्रहणम्, न रक्षणार्थस्य। `भावग्रहणम्` इत्यादि। अर्थान्तरम् = कर्त्तृवर्जितं कराकम्, तन्निवृत्यर्थं भावग्रहणम्।`कथम्` इत्यादि। यद्यङोऽपवादस्यापवादोऽयं क्तिन्प्रत्ययस्तत् कथं `अवस्था संस्था` इति सिध्यति? न कथञ्चिदित्यभिप्रायः। `व्यवस्थायाम्` इत्यादि। यदिदं व्यवस्थाशब्दस्याङन्तस्य सूत्र उच्चारणमेतदेव ज्ञापकम्, अतः क्तिनात्यन्तबाधा न भवतीति, तेनावस्थेत्याद्यपि सिध्यति। `अत्यन्ताय` इति। चतुभ्र्यन्तप्रतिरूपको निपातोऽयम् यथा- चिरायेति॥", "33096": "`वृषु मृषु सेचने` (धातुपाठः-706,707), `{इष - धातुपाठः-} इषु इच्छायाम्`} (धातुपाठः-1351), `डुपचष् पाके` (धातुपाठः-996), `मन ज्ञाने` (धातुपाठः-1176), `विद ज्ञाने` (धातुपाठः-1064),`भू सत्तायाम्` (धातुपाठः-1), `वी गतिव्याप्तिप्रजनादिषु` (धातुपाठः-1048), `रा {दाने -धातुपाठः-} आदाने` (धातुपाठः-1057)। `प्रकृतिप्रत्ययोः` इति। प्रकृतिसामान्यविवक्षायां द्विवचनम्, अन्यथा हि बहुत्वात् प्रकृतीनां बहुवचनं स्यात्। `विभक्तिविपरिणामेन सम्बन्धः` इति। वृषादिभ्यो या प्रथमा तस्या अर्थात् पञ्चमीपरिणामः। तेन प्रकृतिप्रत्ययोः सम्बन्धः; अन्यथा सम्बन्धानुपपत्तेः। `मतिः` इति। `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनाऽनुनासिकलोपः।`सर्वत्र` इत्यादि। मन्त्रे च, अमन्त्रे च - सर्वत्र वृषादिभ्यः किन्विहितः। पचेरपि स्थागादि [[3.3.95]] सूत्रेण। यद्येवम् किमर्थमिदमित्याह - `उदात्तार्थम्` इति। `इषेस्तु` इत्यादि। इषेरिच्छेति निपातनं वक्ष्यति; तस्मात् क्तिन्विधीयते, अन्यथा निपातनेनैवास्य स्यात्। वृषादिभ्यः क्तिन्प्रत्यय एव विधातव्यः। उदात्तवचनमुत्तरार्थम्। `व्रजयजोर्भावे क्यप्` [[3.3.98]] इति क्यबुदात्तो यथा स्यात्॥", "33097": "`स्वरार्थं वचनम्` इति। न तु प्रत्ययार्थम्। <<स्त्रियां क्तिन्>> [[3.3.94]] इत्येव सिद्धत्वात्। नाप्यूडर्थम्; `ज्वरत्वर` [[6.4.20]] इत्यादिनैव सिद्धत्वात्। `यौतेः`इति। `यु {मिश्रणेऽमिश्रणे च-धा।पा} मिश्रणे (धातुपाठः-1033) इत्यस्य। `जवतेश्च` इति। `जु` इत्यस्य सौत्रस्य [[3.2.150]] धातोः। `दीर्घत्वञ्च` इति। चकारादुदात्तत्वञ्च। क्तिन् सामान्यलक्षणेनैव सिद्धः। `ल्यतेः` इति। `षोऽन्तकर्मणि` (धातुपाठः-1147) इत्यस्य। `इत्त्वाभावोऽपि निपात्यते` इति। `द्यतिस्यति` [[7.4.40]] इत्यादिनेत्त्वं प्राप्नोति, ततस्तस्याभावो निपात्यते। `सनोतेर्वा` इति। `षणु दाने` (धातुपाठः-1464) इत्यस्य। `जनसनखनाम्` [[6.4.42]] इत्यात्त्वे कृते सातिरिति सिध्यतीति शेष-। यद्येवम्, किमर्थं निपातनमित्याह - `स्वरार्थम` इत्यादि। असति हि निपातने सातिश्शब्द आद्युदात्तः स्यात्। अन्तोदात्तो यथा स्यादित्येवमर्थ निपातनम्। `हन्तेर्हितनोतेर्वा` इति। हेतिरिति यदा हन्तेः, तदा हकारस्यैत्त्वं निपात्यते, अनुनासिकलोपस्तु `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनैव सिद्धः। यदा तु `हि {गतौ बुद्धौ च-धा।पा} (धातुपाठः-157) इत्स्य, तदा गुणो निपात्यते। `कीर्त्तिः`इति। `कृतं संशब्दने` (धातुपाठः-1653) इत्यस्माच्चुरादिणिजन्तात् <<ण्यासश्रन्थो युच्>> [[3.3.107]] इति युचि प्राप्ते क्तिन्निपात्यते। <<उपधायाश्च>> [[7.1.101]] इतीत्त्वम् भवति, `हलि च` [[8.2.77]] इति दीर्घत्वम्॥", "33098": "`इज्या` इति। वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्। यद्युदात्तं विधीयते पित्करणं किमर्थमित्याह - `पित्करणमुत्तरत्र` इत्यादि॥", "33099": "`भाव इति न स्वर्यते` इत्यादि। स्थागादिसूत्रे [[3.3.95]] यद्भावग्रहणं कृतं तस्यैव स्वरितत्वं न क्रियते। `भावे` [[3.3.18]] <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इत्येष एवाधिकारः। `समज्या` इति। `अजेव्र्यघञपोः` [[2.4.56]] इति वीभावो न भवति; संज्ञायामिति वचनात्। न हि वीभावे कृते संज्ञा गम्यते, नियतवर्णानुपूर्वीका हि संज्ञा भवति। `निपत्या` इति। निपतन्ति तस्यामिति। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-854)। निषीदन्ती तस्यामिति। `निपत्या` इति। निपतन्ति तस्यामिति। `मत्या` इति। मन्यन्ते तयेति मत्या। पूर्ववदनुनासिकलोपः, ह्रस्वस्य तुक्। विदन्ति तया विद्या। सुन्वन्ति तस्यां सुत्या। शेरते तस्यां शय्या। `अयङ यि क्ङिति` [[7.4.22]] इत्ययङादेशः। भरणं भृत्या। एति तयेत्या = अयनमिति।<<भृञोऽसंज्ञायाम्>> [[3.1.112]] इत्यत्र - `संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति।`स्त्रियां भावाधिकरोऽस्ति तेन भार्या प्रसिध्यति॥इत्युक्तम्, इह `भाव इति न स्वर्यते` (का।3.3.98) इत्यभिहितम्, अतः पूर्वोत्ततरवचनं व्याहतमिति मन्यमान आह - `कथम्` इत्यादि। यदीह `भावे` [[3.3.18]] इति न स्वर्यते तत्कथं `स्त्रियां भावाधिकारोऽस्ति` इत्युक्तम्, न हि `भावे` इत्यस्वर्यमाणे भावाधिकारस्येहास्तित्वमुपपद्यते? `भावाधिकारो भाव्यव्यापारः`इत्यादि परिहारः। भावाधिकारशब्देन तत्र व्यापारो वाच्यत्वेन विवक्षितः। स पुनर्भृत्याशब्दाभिधेयभावोपगमनलक्षमः। अत एवैतदुक्तं भवति - `संज्ञायां समजनिषद` इत्यादिना व्युत्पादितस्य भृत्याशब्दस्य भाव एवाभिधेयमुपयाति, न तु कर्त्तृवर्जितं कारकम्। तेन कर्मणि कारके भार्येति सिध्यीति। न तु शास्त्रीयोऽधिकारोऽयं स्वरितत्वासङ्गात् प्रियोगमुपतिष्ठते, स तत्र भावशब्देन विवक्षितो मा भूत्। समजन्ति तस्यां समज्या, निषीदन्ति तस्यां निषद्या, विदन्त्यनया विद्येत्येवमादीनां कारके करणादिके करणादसाधुत्वमिति न।कथं पुनः `भावेऽकर्तरि च कारके` (3.3.18,19) सर्वस्मिन्ननुवर्तमाने क्वचिद्भावः क्यबन्तस्याभिधेयभावमुपयाति? क्वचिदकर्त्तृकारकमेवेत्येष नियमो लभ्यते? संज्ञावशात्। यत्रोत्पद्यमानेन प्रत्ययेन संज्ञा गम्यते तत्र भाव एवाभिधेयत्वं प्रतिपद्यते, इतरदुदास्ते। यत्र त्वकर्तरि कारके प्रत्ययेनोत्पन्नेन संज्ञा गम्यते तत्र तदभिधेयतामुपयाति, भावस्त्वौदासीन्यमवलम्बते। <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति संज्ञाग्रहणेऽनुवर्तमाने पुनः संज्ञाग्रहणं भावार्थम्, पूर्वकं हि संज्ञाग्रहणमकर्त्तृकारकेण सम्बद्धमिति। ततः कर्त्तृवर्जित एव कारके संज्ञायां स्यात्, न भावे। तस्माद्भावेऽपि संज्ञायामेव यथा स्यादित्येवमर्थं पुनः संज्ञाग्रहणम्। अथ कथं भृतिः, मतिः, आसुतिरिति? निपातनात्। किं पुनर्निपातनम्? <<कर्मणि भृतौ>> [[3.2.22]] , <<मतिबुद्धिपूजार्थेभ्यश्च>> [[3.2.188]] <<रजःकृष्यासुतिपरिषदो वलच्>> [[5.2.112]] #इति॥", "33100": "`योगविभागोऽत्र कर्तव्यः` इति। कृञः क्यबिति भवति, ततः शश्च, यथाप्राप्तञ्चेति, तेन त्रीणि रूपाणि सिध्यन्ति। तत्र `कृञः`इति योगेन कृत्येत्येतद्रूपं सिध्यति, `श च` इत्यनेन क्रिया कृतिरिति चेत्येतद्रूपद्वयं क्रियत इति। यदा भावे शब्दस्तदा <<सार्वधातुके यक्>> [[3.1.67]] , <<रिङ् शयग्लिङ्क्षु>> [[7.4.28]] इति रिङादेशः। यदा त्वकर्तरि कारके तदा यगभावाच्छ एव प्रत्यये परतो धातोरिङादेशे कृते `अचि श्नुधातु` [[6.4.77]] इत्यादिना तस्येयङ्। शकारः सार्वधातुकार्थः॥", "33101": "इषर्भावे शप्रत्ययो भवति; अभिधानशक्तिस्वाभाव्यात्, न कारके। `यगभावश्च` इति। <<सार्वधातुके यक्>> [[3.1.67]] इति यक् स्यात्, अतस्तदभावो निपात्यते। `इच्छा` इति। `इषुगमि` [[7.3.77]] इत्यादिना छत्वम्।`परिचर्या` इत्यादि। `चर गत्यर्थः` (धातुपाठः-559), `सृ गतौ` (धातुपाठः-965), `मृग अन्वेषणे` (धातुपाठः-1900) चुरादावदन्तः, `अट पट गतौ` (धातुपाठः-295,296) - एभ्यो भावे शः, पूर्ववद्यक्, सर्तेर्गुणः। मृगयतेरकारलोपाभावः, <<णेरनिटि>> [[6.4.51]] इति णिलोपः। `अटाटआ` इति। अटतेर्द्विवचनात्त्वञ्चाभ्यासस्य।`जागर्तेरकारो वा` इति। यदा शस्तदा <<सार्वधातुके यक्>> [[3.1.67]] , <<जाग्रोऽविचिण्णल्ङित्सु>> [[7.3.85]] इति गुणः। `जागरा` इति यदा त्वकारः॥", "33102": "`धातोः` [[3.1.91]] इत्यधिकारात् प्रत्ययग्रहणं धातोर्विशेषणं विज्ञायत इत्याह - `प्रत्ययान्तेभ्यो धातुभ्यः` इति। `चिकीर्षा` इति। चिकीर्षशब्दात् सन्नन्तादप्त्र्ययः। `पुत्रीया` इति। <<सुप आत्मनः क्यच्>> [[3.1.8]] , <<क्यचि च>> [[7.4.33]] इतीत्त्वम्। `पुत्रकाम्या` इति। <<काम्यच्च>> [[3.1.9]] इति काम्यच्। `लोलूया` इति। `धातोरेकाचो हलादेः` [[3.1.22]] इति यङ॥", "33103": "`धातोः [[3.1.91]] इत्यधिकाराद्गुरुग्रहणं हल्ग्रहणं च तस्यैव विशेषणं विज्ञायत इत्याह - `गुरुमान् हलन्तो यो धातुः` इत्यादि। कथं पुनर्गुरोरित्युच्यमाने गुरुमान् धातुर्लभ्यते? सामर्थ्यात्। न हि हलन्तस्य धातोः कस्यचिद्गुरुसंज्ञा विहिता, उच्यते चेदं गुरोरिति, तत्र सामर्थ्याद्गुरुमान् धातुर्गुरुसंज्ञाकेनाभेदोपचारं कृत्वा गुरुशब्देनोक्त इति गम्यते। इष्यते ह्रभेदोपचाराद्विनापि मतुपा तद्वतोरभिधाम् - यथा - शुक्लः पट इति। अथ रुधादिभ्य एव यथा स्यात्, कुडिप्रभृतीभ्यो मा भूदित्येवमर्थो विपर्ययः कस्मान्न विज्ञायते `गुर्वन्तो यो धातुर्हल्वान्` इति? ज्ञापकात्, यदयं `गत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ चेष्टायामनध्वनि` [[2.3.12]] इत्यप्रत्ययान्तस्य चेष्टाशब्दस्य `शकि शङ्गायाम्` (धातुपाठः-86) इति च शङ्काशब्दस्य निर्देशं करोति, ततो ज्ञायते - नात्र विपर्यय इति। विपर्यये हि न हि चेष्टेति गुर्वन्तः, नापि शङ्केति। `कुण्डा` इत्यादि। `कुडि दाहे` (धातुपाठः-270), `हुडि सङ्घाते` (धातुपाठः-269), `ईह चेष्टायाम्` (धातुपाठः-632) `ऊह वितर्के` (धातुपाठः-648) - इत्येषां रूपाणि॥", "33104": "`गणपरिपठितेषु`इत्यादि। भिदादयोऽङन्ता एव गणे पठन्ते, तेभ्योयदि पुनरिहाङ विहितः प्रातिपदिकेभ्यो विहितः स्यात्, तच्चायुक्तें स्यात्, धात्वधिकारात्,तस्माते तेषु याः प्रकृतयोऽवयवभूतास्ता निष्कृष्य पृथक्कृत्वा `षिद्भिदादिभ्योऽङ्` इति भिदादिग्रहणेन निर्दिश्यन्ते। ताः पुनः `भिदिर्विदारणे` (धातुपाठः-1439), `छिदिर्द्वैधीकरणे` (धातुपाठः-1440), `विद ज्ञाने` (धातुपाठः-1064), `क्षिप प्रेरणे` (धातुपाठः-1285), `गुहू संवरणे` (धातुपाठः-896), `डुधाञ् धारणपोषणयोः` (धातुपाठः-1092), `{मिदृ मेधाहिंसनयोः`-धातुपाठः-}{मेदृ सङ्गमे च।धातुपाठः-} मेधृ हिंसासंक्लेशनयोः`(धातुपाठः-868,869), `ऋ गतौ` (धातुपाठः-1098), `ह्मञ् हरणे` (धातुपाठः-899) `हुकृञ् करणे` (धातुपाठः-1472), `क्षि क्षये`(धातुपाठः-236), अथवा `क्षि निवासगत्योः` (धातुपाठः-1407), `तृ प्लवनतरणयोः` (धातुपाठः-969), `घृञ् धारणे` (900), `लिख अक्षरविन्यासे` (धातुपाठः-1365), `चुद {सञ्चोदने-धातुपाठः-}समुच्छ्रये(धातुपाठः-1592), `पीड अवगाहने` (धातुपाठः-1544), `डुवप {बीजतन्तुसन्ताने, छेदनेऽपि#ऋधातुपाठः-} बीजतन्तुसन्ताने` (धातुपाठः-1003), `वस निवासे` (धातुपाठः-1942), `{मृजू-धातुपाठः-}मृजूष् शुद्धौ` (धातुपाठः-1066),`क्रप {कृपायां गत#औ च-धातुपाठः-} (धातुपाठः-771) इत्येते वेदितव्याः। यदि तर्हि प्रकृतयो निर्दिश्यन्ते भिदादीनां गणे पाठोऽनर्थकः? अथ पाठः क्रियते प्रत्ययविधानमनर्थकम्? गणे पाठस्तावन्नानर्थकः; प्रसिद्ध्युपसंग्रहार्थत्वात्। प्रसिद्ध्युसंग्रहस्तु यत्र भिदादयः समुदायाः प्रसिद्धास्तत्रैवैषां साधुत्वं यथा स्यात्, अन्यत्र मा भूदित्येवमर्थः। तेन यदुक्तं भाष्ये `भिदा विदारणे` (ग।सू।29) इत्येवमादि, तदुपपन्नं भवति। न च प्रत्ययविधानमनर्थकम्; असन्देहार्थत्वात्। असति हि तस्मिन् सन्देहः स्यात -किमेषु <<इगुपधज्ञाप्रीकिरः कः>> [[3.1.135]] इत्येवमादिना लक्षणान्तरेण कप्रभृतादयः प्रत्यया विहिताः? उताङ्प्रत्यय एव? इति। ततर्पूर्वस्मिन् पक्षे स्त्रीत्वविवक्षायां क्तिन् प्रसज्यते, कस्मात्? असन्देहार्थत्वात्। अतः प्रत्ययविधानं नानर्थकम्।`आरा` इति। <<ऋदृशोऽङि गुणः>> [[7.4.16]] । `गुहा गिर्य्योषध्योः`इति। गुहाशब्दो गिर्य्योषध्योरेव साधुर्भवति, नान्यत्र। गिरिशब्दश्चात्र `समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते` (व्या।पा।सू।85) इत्येकदेशे वर्तते। गुहेति गिरेः कश्चिदेवैकदेश उच्यते। गुहा नामौषधिः। अन्यत्र गुहेः क्तिन् भवति - गूढिरिति। `हो ढः` [[8.2.31]] , `झतस्तथोर्घोऽघः` [[8.2.40]] , <<ष्टुना ष्टुः>> [[8.4.41]] <<ढो ढे लोपः>> [[8.3.13]] , <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] । `हारा, कारा, धारा`इति। गुणे कृते दीर्घत्वं निपात्यते। `लेखा, रेखा` इति। लिखेर्गुणो निपात्यते। पक्षे लकारसय् रेफश्चादेशः। `चूडा` इति। चोदयतेर्डत्वादेशो निपात्यते, उपधाया दीर्घश्च। `आरा शस्त्र्याम्िति। आराशब्दः शस्त्र्यां साधुर्भवति, अत्रापि गुणे कृते दीर्घत्वं निपात्यते। `आर्त्तिरन्या` इति। अर्तेराङपूर्वस्य क्तिन्। <<उपसर्गादृति धातौ>> [[6.1.91]] इत्येकादेशः, रपरत्वम्। `धारा प्रपाते` इति। यत्र प्रपातनं तत्र धारेति, यथा - जलधारा, क्षीरधारेति॥", "33105": "`चुरादिः`इति। एतत् `चिति स्मृत्याम्` (धातुपाठः-1535) इत्यादिभिः प्रत्येकमभिसम्बध्यते। `युचि प्राप्ते` इति। `ण्याससश्रन्थो युच्` [[3.3.107]] इत्यनेन। यस्तु भ्वादौ कुम्बिः पठते ततो <<गुरोश्च हलः>> [[3.3.103]] इत्यकारेण भवितव्यम्। न च कुम्बेरकारेऽङि वा सति कश्चिद्विशेषोऽस्तीति नासाविह ग्रहणं प्रयोजयति॥", "33106": "`श्रदन्तरोः`इत्यादि। उपसर्गे इवोपसर्गवत्। यादृश्युपसर्गे वृत्तिः प्रत्ययोत्पत्तिलक्षणा, तादृश्येव तयोरपि भवति। तेन यथा प्रधा, उपधेत्युपसर्गे भवति, तथा श्रदन्तरोरपि श्रद्धा, अन्तर्धेति। न चेयं वृत्तिरुपसंख्यानसाध्या; यतः श्रद्धाशब्दस्तारकादिषु च पाठात् साधुत्वमनुभवति। अन्तर्धाशब्दोऽपि ज्ञापकात्, यदयं `अन्तर्धौयेनादर्शनमिच्छति` [[1.4.28]] इत्यन्तर्धिशब्दस्य किप्रत्ययान्तस्य निर्देशं करोति, तततो ज्ञायते - भवत्यन्तःशब्द उपसर्गकार्यस्य निमित्तमिति; अन्यथा हि तस्मिन्नुपपदे <<उपसर्गे घोः किः>> [[3.3.92]] इति किप्रत्ययो न स्यात्, ततश्च `अन्तर्धौ` इति निर्देशो नोपपद्यते॥", "33107": "`अकारस्यापवादः` इति। `अ प्रत्ययात्` [[3.3.102]] , <<गुरोश्च हलः>> [[3.3.103]] इति द्वाभ्यां यथायोगं प्राप्तस्य। `कथमास्या` इति। न कथञ्चित्। अः स्यादासेः, अनेन सूत्रेण युज्वा भविष्यति, नान्य इति भावः। `ऋहलोण्र्यत्` [[3.1.124]] इत्यादि परिहारः। ननु च वासरूपविधिना ण्यत्प्रत्ययः स्यात्, स च वासरूपविधिः स्त्रियां न भवति, `अस्त्रियाम्` [[3.1.94]] इति प्रतिषेधात्, तत् किमुच्यते - `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यद्भविष्य(ती)ति? इत्यत आह - `वासरूप` इत्यादि। एध चार्थस्तत्रैव प्रतिपादितः।`उपसंख्यानम्` इति। प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम् - वक्ष्यमाणं बहुलग्रहणमुभयोरपि योगयोः शेषः, तेन घट्टिप्रभृतिभ्यो भविष्यीति। `वक्तव्यः`इति। व्याख्येय इत्यर्थः। व्याख्यानं तदेव बहुलग्रहणमाश्रित्य कर्तव्यम्। `अन्वेषणा` इति। `इष गतौ` (धातुपाठः-1127), `इष आभीक्ष्ण्ये` (? ) इति वा॥", "33108": "`क्तिन्नादीनामपवादः` इति। आदिशब्देनाङादीनाम्।`आख्याग्रहणम्` इत्यादि। यदि प्रत्ययान्तं रोगस्य नाम भवत्येवं प्रत्ययो भवति। नान्यथेत्यस्यास्य संवाद्नायाख्याग्रहणम्। ते पदान्तरवाच्ये रोगे न भवति - बुभुक्षा भस्मकेनेति। `बहुलग्रहणम्` इत्यादि। रोगाख्याया रोगाख्याया अन्यत्रापि ण्वुलो विधानं व्यभिचारः; तदर्थं बहुलग्रहणम्। तेन धात्वर्थनिर्देशेऽपि सिद्धो भवति।अपरोऽर्थः रोगाख्याया विषयाण्ण्वुलो विधेर्योऽन्यत्राप्यस्य लक्षणस्य विषये वृत्तिव्र्यभिचारः सः, तदर्थं बहुलग्रहणम्। तेन `इक्श्तिपौ धातुनिर्दशे`(वा।319) इत्येवमादि सर्वं संगृहीतं भवति। `प्रच्छर्दिका` इति। `छर्द वमने`(धा।1589) चुरादिः। `प्रवाहिका`इति। `वह प्रापणे`(धातुपाठः-1004)। `प्रचर्चिका` इति। `चर्च अध्ययने` (धातुपाठः-1712) चुरादिः। अत्र वहेः क्तिनि प्राप्ते ण्वुल्ितरयोस्तु युचि। `शिरोऽस्तिः` इति। `अर्द हिंसायाम्` (धातुपाठः-1828), `अर्द {गतौ याचने च` -धातुपाठः-} गतौ` (धातुपाठः-55) इति वा। `खरि च` [[8.4.54]] इति चर्त्वम्। शिरसा सह षष्ठीसमासः, <<ससजुषो रुः>> [[8.2.66]] , <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्त्वम्, <<आद्गुणः>> [[6.1.87]] , <<एङः पदान्तादति>> [[6.1.109]] इत्येते विधयः कर्तव्याः। `इक्श्तिपौ`इति। ककारः कित्कार्यार्थः, तेन पचतिरिति सार्वधातुकनिबन्धनः शब्भवति। ननु च कर्त्तृवाचिनि सार्वधातुके शब्विधीयते; न चात्र कर्ता प्रत्ययार्थः;तत्कुतः शपः सम्भवः? सार्वधातुकसंज्ञार्थशित्करणसामाथ्र्यादकर्त्तृवाचिन्यपि सार्वधातुके शब्भविष्यति;अन्यथा हि शित्करणमनर्थकं स्यात्। यद्येवम्, यगपि स्यात्? अनभिधानान्न भविष्यति।`वर्णात्कारः` इति। वर्णादित्युच्यते, तत्रैवकार इति न सिध्यति? बहुलग्रहणसन्निधौ वचनात् क्वचिदवर्णादपि भविष्यतीत्यदोषः। अथ वा करणं कारः, एवस्य कारैति षष्ठीसमासोऽयम्। `मत्वर्थाच्छः` इति। अत्राकारलोपश्च वक्तव्यः। अभसंज्ञत्वद्धि न प्राप्नोति। बहुलग्रहणाद्वाकारलोपो भविष्यति। `इणजादिभ्यः` (इति)। `इक् कृष्यादिभ्यः` इति। अधातुनिर्देशार्थमेतत्। आज्यादयः शब्दाः संज्ञाशब्दा द्रष्टव्याः॥", "33109": "`उद्दालकपुष्पभञ्जिका` इति। <<नित्यं क्रीडाजीविकयोः>> [[2.2.17]] इति षष्ठीसमासः। षष्ठी पुनरत्र `कर्त्तृकर्मणोः कृति` [[2.3.65]] इति कृद्योगलक्षणा॥", "33110": "इह सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात् परिप्रश्नस्य; वृत्तौ तु `परिप्रश्ने चाख्याने च गम्यमाने`इति पूर्व परिप्रश्नसोयपन्यासः,पश्चादाख्यानस्य; तत्र यश्चोदयेत् -किं कारणमेवं वृत्तौ विपर्ययः कृतः? इति, तं प्रत्याह - `पूर्वं परिप्रश्नः`इत्यादि। परिप्रश्नपूर्वकं व्याख्यानं भवति, अतो वृत्तौ पूर्वं परिप्रश्नस्य तदुदाहरणस्य चोपन्यासः कृतः, पश्चादाख्यानस्य। क्रमव्यतिक्रमे प्रयोजनाभावादित्याभिप्रायः। सूत्रे तर्हि कस्मात् पूर्वं परिप्रश्नो न निर्दिष्टः, पश्चादाख्यानमित्याह - `सूत्रे` इत्यादि। `अल्पाच्तरम्` [[2.2.34]] इति सूत्रेण द्वन्द्वे पदानां क्रमस्य नियत्वादल्पाच्तरस्याख्यानशब्दस्य सूत्रे पूर्वनिपातः कृत इति दर्शयति। `कां कारिम्िति। इञ्। `कां कारिकाम्` इति। ण्वुल्। `कां क्रियाम्` इति। <<कृञः श च>> [[3.3.100]] इति शः। `कां कृत्याम्` इति। तत्र चकारात् क्यप्। `कां कृतिम्` इति। योगविभगात् क्तिन् कृतः। `कां गणिम्` इति। इञ्। `गण संख्याने` (धातुपाठः-1853) चुरादावदन्तः पठते। `कां गणिकाम्` इति। ण्वुल्। `गणनाम्िति। युच्। एवम् -`कां पाचिम्` इत्यादि। `कां पाचिमकार्षीः`, `कां पाचिकाम्` , `कां पचाम्`। `कां याजिम्` , `कां याजिकाम्` इत्यादि, कामिष्टिम्। `कां पाठिम्` , `कां पाठिकाम्` `कां पठितिम्` इति॥", "33111": "`क्तिन्नादीनामपवादः`इति। आदिशब्देनाकारादीनाम्। `अग्रगामिका` इति। अग्रस्य गामिका। कृद्योगलक्षणायाः कर्मणि षष्ठ्याः समासः। `स्वरार्थम्` इति। अन्तोदात्तत्वं यथा स्यादित्येवमर्थम्। ण्वुलि हि सति प्रत्ययात् पूर्वमुदात्तः स्यात्॥", "33112": "", "33113": "`यत्र विहितास्ततोऽन्यत्रापि भवन्ति` इति। यद्येवम्, <<तयोरेव कृत्यक्तखलर्थाः>> [[3.4.70]] इत्येवमादेरर्थनिर्देशस्यानर्थकत्वं जायते? नैतदस्ति; योगतो हि कृत्यादयो भावादिष्वर्थेष्विष्यन्ते, कारकान्तरे त्वल्पः। सा च तथा तेषां वृत्तिरनर्थनिर्देशे सति सिध्यतीति कुतस्तस्यानर्थक्यम् ! `स्नानीयम्` इति। करणे कृत्यः। `दानीयः`इति। दीयते तस्मै इति सम्प्रदाने। `अपसेचनम्` इति। अपसिच्यते तदिति कर्मणि ल्युट्। `अवरुआआवणम्` इति। `अवरुआआव्यते तदिति `सृ गतौ` (धातुपाठः-935) इत्यस्माण्ण्यन्तात् कर्मणि ल्युट्। भुज्यतैति `भोजनाः`। आच्छाद्यन्त इति `आच्छादनानि`। कर्मण्येव ल्युट्। राज्ञो भोजना राज्ञ आच्छादनानीति षष्ठीसमासः। `प्रस्कन्दनम्, प्रपतनम्िति। प्रस्कन्दति, प्रपतत्यस्मादित्यपादाने ल्युट्।अथ बहुलग्रहणं किमर्थम्? यावता सूत्रारम्भसामर्थ्यादेव कृत्युल्युटो यत्र विहिता स्ततोऽन्यत्रापि प्रायेण भवन्तीत्येषोऽर्थो विज्ञायत एवेत्यत आह - `बहुलग्रहणात्` इत्यादि। एतेनान्येऽपि कृतो यत्र विहितास्ततोऽन्यत्राप्यभिधेय इष्यन्ते, तच्च बहुलग्रहणात् सिध्यति। अतो बहुलग्रहणं कृतमिति सूचयति। `पादहारकः`इति। कर्तरि ण्वुल् विहितो बहुलग्रहणादिह कर्मणि भवति॥", "33114": "<<तयोरेव कृत्यक्तखलर्थाः>> [[3.4.70]] इति भावे क्तः सिद्धः। नपुंसके भावेऽपि क्तोऽयं विशेषविहितेन ल्युटा बाध्यत इति योगरम्भः॥", "33115": "`योगविभाग उत्तरार्थः`इति। उत्तरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूत्॥", "33116": "`नित्यसमासार्थं वचनम्` इति। नित्यः समासोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। कथं पुनरेतद्वचनं नित्यसमासार्थं भवतीत्याह - `उपपदसमासो हि नित्यसमासः` इति। अनेन हि सूत्रेण कर्मण्युपपदे प्रत्ययो विधीयत इति, <<उपपदमतिङ्>> [[2.2.19]] इत्युपपदसमासो भविष्यति, स च नित्यः;तद्विधौ <<नित्यं क्रीडाजीविकयोः>> [[2.2.17]] इत्यतो नित्यगर्हणानुवृत्तेः। `पयः पानं सुखम्` इति। कथं पुनरेतदस्योदाहरणं भवति? यावता नात्र संस्पर्शात् सुखमुत्पद्यते, किं तर्हि? अभ्यवहारात्;नैष दोषः;सर्वे हि तेऽभ्यवहारादयो न विना स्पर्शेन न भवतीति नान्तरीयकत्वात् स्पर्शो नापेक्ष्यते।`तूलिकाया उत्थानं सुखम्` इति। <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति पूर्वसवर्णः। अस्तीह कर्त्तुः शरीरसुखम्, न तु कर्मणा संस्पृश्यमानस्य, किं तर्हि? अपादानेन तूलिकाख्येन। `अग्निकुण्डस्योपासनम्` इति। `आस उपदेशने` (धातुपाठः-1021) उपपूर्वः। अत्रास्पर्शात् सुखं भवति; अग्निकुण्डेनोपास्यमानेनोपस्पृश्यमानस्यैव तदुत्पत्तेः। `गुरोः स्नापनम्` इति। `ष्णा शौचे` (धातुपाठः-1053), हेतुमण्मिच्। `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्। ननु चात्रापि गुरुः सुखस्य कर्ता भवतीत्यस्तीह कर्त्तुः सुखम्। तत्कथमिदं प्रत्युदाहरणं भवतीत्याह - `स्नापयतेर्न गुरुः` इति। अनेनतद्दर्शयति - नात्र सुखापेक्षं कर्त्तृत्वं विवक्षितम्, किं तर्हि? क्रियापेक्षम्। न चात्र स्नापनक्रियाया गुरुः कर्ता, किं तर्हि? शिष्यः, तस्य च गुरुः कर्मैव भवति। कर्मसंज्ञा पुनर्गुरोः `गतिबुद्धि` [[1.4.52]] इत्यादिसूत्रेण; तस्याकर्मके स्नातावण्य्नते कर्तत्वात्। `परिष्वञ्जनम्` इति। `ष्वन्ज परिष्वङ्गे` (धातुपाठः-976), `उपसर्गात् सुनोति` [[8.3.65]] इत्यादिना मूर्धन्यः। `मानसी प्रीतिः`इति। तेन पुत्रपरिष्वञ्जनजन्मनः प्रीतिविशेषस्य शरीरसुखत्वं दर्शयति। `मर्दनम्` इति। `मृद क्षोदे` (धातुपाठः-1515)। `सर्वत्रासमासः प्रत्युदाह्यियते`इति। न तु ल्युडभावः। ल्युटः पूर्वसूत्रेण सर्वत्र भावात्॥", "33117": "`करणेऽधिकरणे च कारके` इत्यनेन करणाधिकरणयोः प्रत्ययार्थत्वं दर्शयति। अत्रोपपदे करणाधिकरणे कस्मान्न भवतः? `करणाधिकरणयोः`इत्यत एव निर्देशात्। करणाधिकरणशब्दौ हि ल्युडन्तौ करणाधिकरणसाधनौ च। तत्र दद्युपपदत्वमेतयोः स्यादेष निर्देशो नोपपद्यते। यद्येवम्, सति निर्देशे प्रत्ययविधानं च , सति च तस्मिन् निर्देश इतीतरेतराश्रयत्वं प्रसज्येत? न; नित्यत्वाच्छब्दानाम्। न ह्रपूर्वं किञ्चिदुत्पद्यते; शब्दानां नित्यत्वात्। सत्तामेव तु तेषामन्वाख्यानं क्रियते इति इतरेतराश्रयतायाः प्रसङ्गः। `इध्मप्रव्रश्चनः` इति। `ओव्रश्चूछेदने` (धातुपाठः-1292), इध्मानां प्रव्रश्चन इति षष्ठीसमासः। `पलाशशातनः` इति। `शद्लृ शातने` (धातुपाठः-1428), `हेतुमण्णिच्, <<शदेरगतौ तः>> [[7.3.42]] इति तत्वम्। `गोदोहनी` इति। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्॥", "33118": "`समुदायेण चेत्` इत्यादि। प्रकृतिप्रत्ययसमुदायेन यदि संज्ञा गम्यत एवं प्रत्ययो भवति, नान्यथा। `अकार्त्स्न्यार्थम्` इति। अकार्त्स्न्यम् = असाकल्यम्, प्रयोजनमर्थो यस्य तत् तथोक्तम्। एतेनाकृत्स्नविषयतां प्रत्ययस्य दर्शयति। `दन्तच्छदः` इति। `छद अपवारणे` (धातुपाठः-1935), चुरादिणिच्। `छादेर्घेऽद्वयुपसर्गस्य` [[6.4.96]] इति ह्रस्वः, पूर्ववत् समासः। `प्रसाधनम्िति। `राध साध संसिद्धौ` (धातुपाठः-1262), 1263), अस्माद्धेतुमण्ण्यन्तात् पूर्वसूत्रेण करणे ल्युट्, `कुगतिप्रादयः [[2.2.18]] इति समासः॥", "33119": "`पूर्वस्मिन्नेवार्थे` इति। करणेऽधिकरणे च। ननु पूर्वसूत्रेणैव गोचरादिषु घः सिद्धः, तत्किमित्ययं योग आरभ्यते? इत्याह - `हलश्च` इत्यादि। ननु च प्रत्ययग्रहणं तत्रानुवर्तिष्यते, तेन गोचरादिषु घञ् भविष्यति? प्रतिपत्तिगौरवं तु स्यात; प्रायग्रहणानुवृत्तेरज्ञापकत्वात्॥", "33120": "`स्तृणातेः`इति। `स्तृञ् आच्छादने` (धातुपाठः-1484) इत्यस्मात्। `प्रायानुवृत्तेः` इत्यादि। प्रायशब्दस्यानुवृत्तौ सत्यामेव उपपदे तृस्त्रोर्घञ्प्रत्ययो भवति संज्ञायां प्रायेणोपधिभूतायामित्येषोऽर्थो लभ्यते। `न संज्ञायाम्िति। अस्योपाधेः प्रायिकत्वात् क्वचिदसंज्ञायामपि भवति॥", "33121": "`वेष्टः` इति। `वेष्ट वेष्टने` (धातुपाठः-255)। `मार्गोऽपामार्गः` इति। `{मृजू-धातुपाठः-} (धातुपाठः-1066)। `चजोः [[7.3.52]] इत्यादिना कुत्वम्, मृजेर्वृद्धिः, [[7.2.114]] `उपसर्गस्य घञि` [[6.3.121]] इति दीर्घः॥", "33122": "`अहलन्तार्थ आरम्भः`इति। हलन्तेभ्यः पूर्वसूत्रेणैव सिद्धत्वात्॥", "33123": "`ननु च` इत्यादि चोद्यम्। `उदकप्रतिषेधार्थं वचनम्िति परिहारः। यद्येतन्नारभ्येत तदोदकेऽपि पूर्वेण स्यादित्यर्थः। `तैलोदङ्कः`इति। षष्ठीसमासः। षष्ठी पुनः कर्मणि कृद्योगलक्षणा।`उदकोञ्चनः` इति। करमे ल्युट्। `घः कस्मात्` इत्यादि। एवं मन्यते - `पुंसि संज्ञायाम्` [[3.3.118]] इत्यादिना घे प्राप्ते घञ् विहितः, ततश्च तेन मुक्ते विषये घनैव युक्तं भवितुमिति। `विशेषाभावात्` इति। न ह्यत्राञ्चतेर्घञि घे वा सति विशेषोऽस्ति। तत्र यद्युदकेऽपि घः स्यादनुकप्रतिषेधेनार्थो न स्यादित्यभिप्रायः। ननु च घे सति प्रत्ययस्वरेणान्तोदात्त उदङ्कशब्दो भवति, घञढि सति ञित्स्वरेणाद्युदात्तः स्यात्, तत् किमुच्यते विशेषाभावादित्यत आह - `घञ्यपि` इत्यादि। `थाथादिस्वरेण<<थाथघञ्क्ताजबित्रकाणाम्>> [[6.2.144]] इत्येतद्विहितेन॥", "33124": "", "33125": "`डो वक्तव्यः`इत्यादि। सर्वत्र वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थः। तत्रेदं व्याख्यानम्- चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन डादयोऽपि प्रत्यया भविष्यन्तीति। ननु च घञनुकर्षणार्थश्चकारः? नैतदस्ति; स्वरितत्वादेव हि घञपतिष्ठते। अथ किमर्थं खनेर्घः प्रत्ययो विधीयते, यावता कुत्वार्थं तस्य विधानम्, न च खनेः कश्चिदवयवः कुत्वभागस्ति? एवं तह्र्रेतज्ज्ञापयति - अन्येभ्योऽप्ययं भवतीति। तेन खलः,भगम्, पदमित्येवमादयः सिद्धा भवन्ति॥", "33126": "`तदितरयोः`इति। सुशब्देषच्छब्दयोः। कथं पुनः सामान्योक्तेनापि विशेषो लभ्यते? इत्याह - सम्भवात्िति। यत्र यस्य सम्भवस्तत्र तस्य विशेषणं भवति। कृच्छ्रमेव दुःशब्दस्यार्थे वर्तते, नाकृच्छ्रम्। इतरयोस्त्वर्थेऽकृच्छ्रमेव वर्त्तैते न कृच्छ्रम्। तस्मात् कृच्छ्रं दुर एव विशेषणम्, अकृच्छ्र त्वितरयोरेव। `ईषात्करः कटो भवता` इति। अकृच्छ्रेणायत्नेन क्रियते भवता कट इत्यर्थः। `ईषत्कार्यः`इति। `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यत्। ईषच्छब्दोऽत्र मनागित्यस्यार्थे वर्ततेत।`लकारः स्वरार्थः` इति। लिति प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। ननु च ह्रस्वादिकं खित्कार्यं <<खित्यनव्ययस्य>> [[6.3.66]] इत्येवमादिशास्त्रेणानव्ययस्य विधीयते; ईषदादयश्चाव्ययसंसज्ञाः; तत्किमर्थं खलः, खित्करणमित्याह - `खित्करणमुत्तरत्र मुमर्थम्` इति।उत्तरत्रानव्ययेऽप्युपपदे खल् विधास्यते, तत्र <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुम् यथा स्यादित्येवमर्थं खित्करणम्॥", "33127": "कर्त्तृकर्मणोरुपपदत्वं भवति, न तु प्रत्ययार्थम्। यदि च तयोः प्रत्ययार्थत्वं स्यादीषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, ततश्च खित्करणमनर्थकं स्यात्; अनव्ययस्य खित्कार्यविधानात्। ईषादादीनाञ्चाव्ययत्वात्; तस्मादतोऽपि खित्करणम्। उपपदे कर्त्तृकर्मणी, न तु प्रत्ययार्थावेतावित्यवसीयते। अत्र च कर्त्तृकर्मणी ईषदादयश्च न प्रत्येकं प्रत्ययस्य निमित्तम्, किं तर्हि? तत्समुदायः। चकारेण ह्रतर् सन्नियोगः क्रियते, तेन कर्त्तृकर्मणोरीषदादीनाञ्च युगपदुपपदत्वं भवति; नान्यथा। यद्येवम्, कथं द्वयोरुपपदयोर्युगपत् समासः? कः पुनराह - युगपत् समास इति? पूर्वं हि परस्योपपदस्य समासं कृत्वा पश्चात् पूर्वस्य समासो भवति। किं पुनरत्र परमुपपदम्? कर्त्तृकर्मणी। कुत एतत्? खित्करणसामर्थ्यात्। खित्करणं हि मुमर्थम्, मुमागमश्चानव्ययस्य विधीयते। तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकं स्यात्। `ईषदाढम्भवं भवता` इति। अकृच्छ्रमाढएन भयते भवतेत्यर्थः। `ईषदाढङ्करो देवदत्तो भवता` इति। अकृच्छ्रमाढ्यः क्रियते देवदत्तो भवतेत्यर्थः।`कर्त्तृकर्मणोः`इत्यादि। च्व्यर्थोऽभूततद्भावः। तदर्थयोः कर्त्तृकर्मणोरुपपदयोः खल भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - प्रायग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, तेन यदा कर्त्तृकर्मणी च्व्यर्थे भवतस्तदैव प्रत्ययो भवति, नान्यदेति। `स्वाढएन भूयते` इति। अत्र च्व्यर्थस्याविवक्षितत्वात् प्रत्ययो न भवति॥", "33128": "", "33129": "`सूपसदनम्` इति। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-854), उपपूर्वः॥", "33130": "`सुदोहनम्` इति। `दुह प्रपूरणे` (धातुपाठः-1014)। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - अपिशब्दोऽत्र क्रियते, स च सर्वव्यभिचारार्थः, तेन `शासु अनुशिष्टौ` (धातुपाठः-1075), `युध सम्प्रहारे` (धातुपाठः-1173), `दृशिर्प्रेक्षणे` (धातुपाठः-988), `ञिधृषा प्रागल्भ्ये` (धातुपाठः-1269), `मृष तितिक्षायाम्` (धातुपाठः-1164) - इत्येतेभ्योऽपि भाषायां युज्भवतीति। कथं पुनरेतदवसितम् - `सर्वव्यभिचारार्थोऽपिशब्द इति? सूत्रारम्भात्। यदि हि गत्यर्थव्यभिचार एवात्राभिसंहितः स्यात्, सूत्रमिदं नारभेत। पूर्वसूत्र एव च गत्यर्थग्रहणं न कुर्यात्॥", "33131": "यदि समीपस्य भावोऽभिधीयेत तद्धि स्यात्, एवं सति वर्तमानस्य सामीप्येन च समासो न स्यात्; सम्बन्धाभावात्। न हि सामीप्यस्य वर्तमानेन सम्बन्धः, अपि तु तत्समीपेन; तस्य तद्गुणत्वात्। तस्मात् स्वार्थ एवायमिह भविष्यतीति मत्वाहऽऽह - समीपमेव सामीप्यम्` इति। किमर्थं पुनः स्वार्थिकं ष्यञं विधायैवं निर्देशः क्रियते, न वर्तमानसमीप एवोच्येत यतो लाघवं भवति? इत्यत आह - `ष्यञः स्वार्थिकत्वं ज्ञाप्यते` इति।स्वार्थे ष्यञपि स्यादनेनेति। स्वार्थे ष्यञ् भवतीत्यमुमर्थं ज्ञापयितुं स्वार्थिकः ष्यञ् कृत इति। `चातुर्वण्र्यादिसिद्ध्यर्थम्` इति। अनेनापि ज्ञापनस्य प्रयोजनमुच्यते। आदिशब्देन चातुराश्रम्यादीनां ग्रहणम्। `अयमागच्छामि` इति। अयमागममित्यस्यार्थ एतद्वर्तते। `आगमम्` इति। लुङ, उत्तमैकवचनम्, `तस्थस्थमिपाम्` [[3.4.101]] इत्यादिना मिपोऽम्भावः, पुषादिसूत्रेण [[3.1.55]] च्लेरङ। `एष गच्छामि` इति। एष गमिष्यामीत्यस्यार्थ इदं वर्तते। <<गमेरिट् परस्मैपदेषु>> [[7.2.58]] इतीट्। `गन्तास्मि`इति। लुट्, तासिः, मिप्।अथ वत्करणं किमर्थम्, यत्वता `वर्तमानसामीप्ये वर्तमाने` इत्युच्यमाने वर्तमानकालविहिताः प्रत्यया वर्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एवत्यत आह - `वत्करणम्` इत्यादि। असति वत्करणे वर्तमानकालेन रूपमात्रमेषां प्रत्ययानामुपलक्ष्यते, न तु प्रकृत्यादय उपादीयेरन्, ततश्च धातुमात्रात् स्युः। वत्करणे तु सति सर्वसादृश्यं गम्यते; तत्रैव वतेर्विधानात्, तेन सङ्करो न भवति। तमेवन सङ्कराभावं दर्शयितुमाह - `येन `इत्यादि। एवं हि सर्वसादृश्यं भवति यदि येन विशेषणेन वर्तमाने विहितास्तेनैव वर्तमानसामीप्ये भवन्ति, नान्यथा। `प्रकृत्योपपदोपाधिना` इति। आदिश्ब्देनोपाधेरबिधेयस्य च ग्रहणम्। `पवमानः, यजमानः`इति। <<पूङ्यजोः शानन्>> [[3.2.128]] विहितः,स वर्तमानसामीप्येऽपि ताभ्यामेव भवति, न धात्वन्तरात्। `अलङ्गरिष्णुः` इति। ताच्छील्यादिविशिष्टे कर्तर्यलम्पूर्वात् कृञ इष्णुद्विहितः, वर्तमानसामीप्येऽपि तत्पूर्वादेव भवति। तस्मिन्नेव चार्थे `परुदगच्छत्` इत्यत्र विप्रकर्षविवक्षायां लङेव भवति। `वर्षेण गमिष्यति` इति। अत्रापि लृडेव भवति।`यो मन्यते` इत्यादिनापि प्रतिपत्तृविशेषं प्रति सूत्रं प्रत्याचष्टे। `कालान्तरगतिस्तु` इत्यादि। कालान्तरं वर्तमानसमीपो भूतो भविष्यंश्च कालः, तस्य या गतिः = प्रतीतिः। आगच्छामीत्यस्य पदस्य वर्तमानकालविशेषेऽप्ययं गच्छामीत्यतो वाक्यात् कदा देवदत्त गमिष्यसीत्येद्वाक्यसमनन्तरं प्रयुज्यमानाद्भवति। वाक्यगम्योऽपि कालो यदि पदसंस्कारवेलायामुपयुज्यते युज्येत सूत्रारम्भः, न चासौ तत्रोपयुज्यते; यस्माच्छास्त्रेण पदस्य संस्कारः क्रियते, न वाक्यस्य। पदे संस्क्रियमाणे तद्गम्य एव काल उपयुज्यते, तेन वाक्यगम्य इत्यभिप्रायः। इतिकरणः प्रकृतप्रत्यवमर्शक इति। एवं यो मन्यते = अवगच्छति तं प्रतीदं नारब्धव्यमेव। यदर्थमारभ्यते तेषां प्रत्ययानां `वर्तमाने लट्` [[3.2.123]] इत्यादिनैव शास्त्रेणासिद्धत्वात्। प्रकरणग्रहणेन केवलमिदं सूत्रं नारब्धव्यम्, अपि तु `अशंसायां भूतवच्च` [[3.3.132]] इत्येवमादीन्यपि नारब्धव्यनीति दर्शयति। `तादृशम्ित्यादि। एवञ्च यस्तु तादृशः प्रतिपत्ता न भवति मन्दबुद्धिस्तं प्रत्यारब्धव्यमेवेत्युक्तं भवति। न ह्रसावेवं न्यायेन प्रतिपत्तुं समर्थः। `तथा च` इत्यादि। यस्मात् तत्रैवं वाक्यगम्यः कालः पदसंस्कारवेलायां नोपयुज्यते, एवञ्च सति आः करिष्यतीत्येमाद्युपपद्यते। तत्रापि हि करिष्यतीत्येतत् पदं भविष्यत्येव काले वर्तत इति <<लृट् शेषे च>> [[3.3.13]] इत्येव लृट् सिद्धः। भविष्यदनद्यतनस्तु कालोऽयम्। यद्युत्तरकालः प्रतीयते तथाप्यसौ वाक्यार्थ इति पदसंस्कारे नाश्रीयते। यदि तु वाक्यगम्योऽपि कालः पदसंस्कारे समाश्रीयेत, तदा तु करिष्यतीत्येवमादि नोपपद्येत - भविष्यदनद्यतने लुटैव भवितव्यमिति कृत्वा॥", "33132": "`आगमत्` इति। लुङ। आगत इति निष्ठा। `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनानुनासिकलोपः। `अधीमहे` इति। इङो लुट्, महिङ्, अदादित्वाच्छपो [[2.4.72]] लुक्। `अध्यगीष्महि` इति। लुङ, `विभाषा लुङलृङोः` [[2.4.50]] इतीङो गाङादेशः, गाङकुटादिना [[1.2.1]] सिचो ङित्त्वात् `घुमास्था` [[6.4.66]] इत्यादिनेत्त्वम्। भूतवच्चेत्यादिदेशे लङलिटावपि प्राप्नुतः, तौ कस्मान्न भवत इत्याह - `सामान्यातिदेशे` इत्यादि। भतसामान्यातिदेशोऽयम्, भूतविशेषप्रत्ययौ च लङलिटौ। सामान्यातिदेशे विशेषस्यानतिदेशः, तेन ताविह न भवतः॥", "33133": "`भूतवच्चेत्यचस्यायमपवादः`इति। न प्राप्ते भूतवच्चेत्यस्मिन्नस्यारम्भात्। अथ वचनग्रहणं किमर्थम्? यावता क्षिप्रे लृडित्येनेनैव सर्वं सिद्धमित्यत आह - `वचनग्रहणं पर्यायार्थम्िति। असति हि वचनग्रहणे क्षिप्रशब्द एवोपपदे लृट् स्यात्, तस्मस्तु सति यावन्तः क्षिप्रवचनास्तेषु सर्वेषु भवति। अथ लृड्ग्रहणंकिमर्थम्, न क्षिप्रवचन इत्येवोच्येत, भूतवच्चेत्यस्यातिदेशस्य भविष्यत्कालविषयत्वात् तस्मिन् प्रतिषिदोधे `लट् शेषे च` [[3.3.13]] इत्येनेनैव सिद्धः? इत्याह -`नेति वक्तव्ये`इत्यादि। नेति वक्तव्ये यल्लृड्ग्रहणं क्रियते तस्यैतत् प्रयोजनम् - लुटोऽपि विषये भविष्यदनद्यतने काले `लृड्? यथा स्यात्, अन्यथा, हि लृडपवादो लुडेव स्यात्॥", "33134": "`आशंसे युक्तोऽधीयीय` इति।इङः लिङः सीयुट, उत्तमपुरुषैकवचनम्, इट्, `इटोऽत्` [[3.4.106]] इत्यद्भावः <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वाद्गुणाभावः, `लिङ सलोपोऽनन्तस्य` [[7.2.79]] इति सकारलोपः, धातोरियङ्, उपसर्गेण सह <<अकः सवर्णे दीर्घः>> [[6.1.101]] । `आशंसे क्षिप्रमधीयीय`इति। अत्र यद्यपि क्षिप्रवचनमुपपदमाशंसावचनमपि, तथापि परत्वाल्लिङेव भवति, न लृट। तस्य तु यत्राशंसावचनमुपपदं नास्ति सोऽवकाशः - `क्षिप्रमध्येषामहे`इति॥", "33135": "`कालानां सामीप्यम्ित्येनन कालसम्ब्धि सामीप्यमिहाश्रीयत इति दर्शयति। कुतः पुनः सामान्योक्तेन कालसम्बन्धिन एव सामीप्यस्य ग्रहणं लभ्यते? वर्तमानसामीप्य इत्यत आरभ्य प्रायिकत्वादस्य प्रकरणस्य। एतदपि कुतः? वर्तमानादिशब्दानां कालशब्दत्वात्। अपि च लङलुटोः प्रतिषेधः, तौ च कालविहितौ। अतो यत्र हि तौ, तत्र तत्सम्बन्धेनैव कालसामीप्यमिहाश्रीयत इति विज्ञायते। तत्पुनः कीदृशमित्याह - `तुल्यजातीयेन`इत्यादि। तुल्यजातीयग्रहणं भिन्नजातीयनिवृत्त्यर्थम्। कालमात्रेण व्यवधानेन गृह्रमाणे येयं पौर्णमास्यतिक्रान्ता तस्यामुपाध्यायोऽग्नीनाधितेत्येवमादावुदाहरणे सामीप्यं न स्यात्; अमावास्यया अन्याभिश्च तिथिभ्यव्र्यवधानात्। तस्मात् समानजातीयेनाव्यवधानमश्रीयते। `अदात्` इति। `गातिस्था` [[2.4.77]] इत्यादिना सिचो लुक्। `अध्यापिपत्` इति। <<हेतुमति च>> [[3.1.26]] इति णिच्। <<क्रीङ्जीनां णौ>> [[6.1.48]] इत्यात्त्वम्, `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्, लुङ, च्लेः `णि श्री` [[3.1.48]] इत्यादिना चङ, <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति पीत्येतस्य द्विर्वचनम्, <<आडजादीनाम्>> [[6.4.72]] इत्याट्, `आटश्च` [[6.1.87]] इति वृद्धिः, णिचो लोपः।`येयं पौर्णमास्यतिक्रान्ता` इति। पौर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी, तामधिकृत्येदमाह। सा हि यद्यप्यमावास्यया अन्याभिश्च तिथिभिव्र्यवहिता, तथापि तुल्यजातीयेन पौर्णमास्याख्येन कालेनाव्यवहितत्वात् सामीप्यं नातिवर्तते। `अग्नीनाधित` इति। दधातेराङपूर्वस्य `स्थाघ्वोरिच्च` [[1.2.17]] इतीत्त्वम्, सिचश्च कित्वम्, `ह्रस्वादङ्गात्` [[8.2.27]] इति सिचो लोपः। `अदित`इति। ददाते रूपम्। पूर्ववत्। `यक्ष्यते`इति।यजेर्ललृट्, स्यः, तस्मिन् परस्तथा षष्वे कृते <<षढोः कः सि>> [[8.2.41]] इति कत्वम्। `आधित` इत्यादौ सर्वत्र `स्वरितञितः` [[1.3.72]] इत्यादिनाऽऽत्मनेपदम्। किमर्थं प्रतिषेधद्व्यमुच्यते, `नाद्यतनवत् क्रियाप्रबन्धसामीप्ययोः`इत्येवोच्येत? क्रियाप्रबन्धसामीप्ययोह्र्रद्यतनप्रत्ययौ लुङलृटाविष्येते, नानद्यतनप्रत्ययौ लङलृटौ। तौ च लङलुटावेवमुच्यमाने सिध्यत एवेत्यत आह - `द्वौ प्रतिषेधौ` इत्यादि। एवं मन्यते - यदि `नाद्यनवत् क्रियाप्रबन्धसामीप्ययोः`इत्येवोच्येत तदैतदेवं सूत्रं विधायकं स्यात्, ततश्च सङ्करः प्रसज्येत - लुङोऽपि विषये लृट्, लृटश्च विषये लुङ। न ह्यत्रायं विशेष उपादीयते। भूते लुङ भविष्यति लृडिति प्रतिषेधविषय उच्यमाने नायं दोषः, ततो नानेन किञ्चिद्विधीयते, केवलमनद्यतनप्रत्ययानां प्रतिषेधः क्रियते, तेषु प्रतिषिद्धेषु स्वैरेव वाक्यैर्विधायकैर्लुङादय उत्सर्गाः स्वे स्वेकालेऽपवादविनिर्मुक्ते भवन्ति। अतो यथाप्राप्ताभ्यनुज्ञापनाय प्रतिषेधद्वयमुच्यते॥बाल-मनोरमानाऽनद्यतनवत्क्रियाप्रबन्धसामीप्ययोः 617, 3.3.135 नाऽनद्यतनवत्। क्रियायाः प्रबन्धः = सातत्यम्। तदाह - क्रियायाः सातत्ये इति। अनद्यतनबदित्यनेन अनद्यने भूते भविष्यति च विहितौ लङ्लुटौ विवक्षितौ। तदाह - लङ्लुटौ नेति। अनद्यतने भूते लङ् न भवति, भविष्यत्यनद्यतने तु लुग्नेत्यर्थ-। क्रियासातत्ये लङ्निषेधमुदाहरति - यावज्जीवमन्नमदादिति। लुङि `गातिस्थे` ति सिचो लुक्। सामीप्ये उदाहरिष्यन्नाह - सामीप्यमिति। येयमिति। पोर्णमास्या उपरि कृष्णपक्षे कतपयाहोरात्रे व्यवधानेऽपि सामीप्यमस्त्येव, पौर्णमास्यन्तरेण सजातीयेन व्यवधानाऽभावात्। आधितेति। धाधातोर्लुङि `स्थाध्वोरिच्चे`ति धाधातोरित्त्वं, सिचः कित्त्वं च `ह्रस्वादङ्गा`दिति सिचो लोपः। सोमेनायष्टेति। `येयं पौर्णमास्यतिक्रान्ता तस्या`मित्यनुषज्यते। अथ क्रियासातत्ये लुटो निषेधमुदाहरति - येयममावास्येति। सोमेन यक्ष्यते इति। `येयममावास्या आगामिनी तस्या`मित्यनुषज्यते। बाल-मनोरमाभविष्यति मर्यादावचनेऽवरस्मिन् 618, 3.3.135 भविष्यति मर्यादा। `अवरस्मि`न्निति च्छेदः। अनद्यतनवन्नेति। लुण्नेत्यर्थः। `अक्रियाप्रबन्धार्थ`मिति भाष्यम्। `असामीप्यार्थं चे`ति कैयटः। योऽयमिति। कस्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् आः प्रभृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते। `अवर`मित्यनेन अवरत्वं गम्यते। अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः। कालविभागे। पूर्वसूत्रमिति। `भविष्यति मर्यादावचनेऽवरस्मि`न्निति सूत्रमित्यर्थः। ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह - अहोरात्रेति। तथा च आहोरात्रसंबन्धिनि प्रविभागे `भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः। ननु `भविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह - योगविभाग उत्तरार्थ इति। इदमुत्तरसूत्रे स्पष्टीभविष्यति। योऽयं वत्सर आगामीति। कालतो मर्यादायामुदाहरणम्। आग्रहायण्या इति। मार्गशीर्षपौर्णमास्या इत्यर्थः। युक्ता इति। नियमयुक्ता इत्यर्थः। अध्येष्यामहे इति। अत्र न लुट्, किंतु लृडेवेति भावः। पञ्चदशरात्रयुक्ता इति। पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः। `अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः। यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः। `अहःसर्वैकदेशे`त्यच्समासान्तः। `सङ्ख्यापूर्वंरात्रं क्लीब`मिति तु `लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये`ति वचनान्न भवति।", "33136": "`मर्यादावचने सति` इति। वचनग्रहणमभिविधावपि यथा स्यात्। मर्यादाविशेष एवाभिविधिश्च। सैव मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदाऽभिविधिरित्युच्यते, यदा तु न सम्बद्ध्यते तदा मर्यादेति। तत्रेह वचनग्रहणाद्विशेषो नाश्रीयते, तेन मर्यादाया उक्तिमात्रे भवति। विनापि वचनग्रहणेनाभिविधौ प्रतिषेधो न भवेत्; यस्माद्यत्राभिविधौ कार्यमिच्छति तत्राभिविधिग्रहणं वा करोति, यथा - <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इति#इ; वचनग्रहणं वा, यथा - <<आङ् मर्यादावचने>> [[1.4.89]] इति। तदभिविधावपि यथा स्यादित्येवमर्थं वचनग्रहणं क्रियते। `अवरस्मिन्` इति। अर्वागित्यर्थः। `गन्तव्यः`इति। भविष्यत्कातामध्वनो दर्शयति। `तस्य यदवरम्` इति। अनेनाध्वनो विभागं `द्विः` इति। एतेनापि क्रियाप्रतिबन्धाभावम्। `भोक्ष्यमहे` इति। <<भुजोऽनवने>> [[1.3.66]] इत्यात्मनेपदम्, <<चोः कुः>> [[8.2.30]] इति गकारः, `खरि च` [[8.4.54]] इति गकारस्य ककारः।`अध्यैमहि` इति। महिङ, <<आडजादीनाम्>> [[6.4.72]] इत्याट्, `आटश्च` [[6.1.87]] इति वृद्धिः, उपसर्गस्य [[6.1.74]] यणादेशः। `अपिबाम` इति। पाघ्रादिसूत्रेण [[7.3.78]] पिबादेशः, <<नित्यं ङितः>> [[3.4.99]] इति सकारलोपः। `भोक्तास्महे` इति। लुट्। `तत्रच विशेषं वक्ष्यति` इति। अनहोरात्राणामित्यनेन [[3.3.137]] ॥", "33137": "`कालमर्यादाविभागे सति` इति मर्यादाविभागशब्दयोः सयाहारे द्वन्द्वः। तेन कालशब्दस्य षष्ठीसमासः। `तेषाञ्च` इति। तैस्तेषाञ्चेति युक्तं यत् तेषां विभागे प्रतिषेधो भवति; तत्सम्बन्धित्वाद्विभागस्य। यदा तैरन्यस्य विभागस्तदा न युक्तम्, न हि तदा तत्सम्बन्धी विभागः। किं तर्हि? विभज्यमानसम्बन्धी। तथाप्यहोरात्रकृतत्वाद्विभागस्य सम्बन्धित्वमस्त्येव; निमित्तस्य नैमित्तिकसम्बन्धादित्यदोषः। यदि वचनमहोरात्रप्रतिषेधार्थम्, एवं च सामर्थ्यात् कालविभागस्यैव प्रतिषेधो विज्ञास्यते, न देशविभागस्य, न हि देशविभागस्याहौरात्रैः सह सम्बन्धोस्तीत्यत आह - `योगाविभाग उत्तरार्थः`इति। उत्तरसूत्रे कालविभाग एव यथा स्यादित्येवमर्थम्, देशविभागे मा भूदिति। `अभुञ्ज्महि` इति। <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः।`त्रिविधिमुदाहरणम्` इति। तत्र प्रथमे शब्दान्तरवाच्यस्य कालस्याहोरात्रैर्विभागः, द्वितीयेऽहोरात्रवाच्यस्य शब्दान्तरवाच्ययेन कालेन विभागः, तृतीयेऽहोरात्रवाच्यस्य कालस्योरात्रवाच्येन कालेन। `सर्वथा` इति। सर्वेण प्रकारेण। यद्यहोरात्रैरन्यस्य विभागोऽथधाप्यन्येन तेषां यद्यहोरात्रैरेव तेषामेवमपि प्रतिषेध इति सर्वथाशब्दस्यार्थः। `अहोरात्रसंस्पर्शः` इति। अहोत्राणां विभागेन सम्बन्ध = अहोरात्रसंस्पर्श इति।`सर्वत्रानद्यतनवत्प्रत्यया उदाहर्तव्याः` इति। भूतानद्यतने - तत्र युक्ता अध्यैमहि, तत्रोदनमभुञ्ज्महीति सर्वत्र लुङदाहर्तव्यः। भविष्यदनद्यतने तु-तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्मह इति सर्वत्र लुडुदाहर्तव्यः॥", "33138": "", "33139": "`इत्येवमादिकम्` इति। आदिशब्देन `कथमि लिङ च` [[3.3.143]] इत्येवमादयो गृह्यन्ते। `कुतश्चिद्वैगूण्यात्` इति। विधुरप्रत्ययोपनिपातात्, कारणान्तरवैकल्याद्वा। `आयास्यत्` इति। <<स्यतासी लृलुटोः>> [[3.1.33]] इति स्यप्रत्ययः। `इतश्च` [[3.4.100]] इतीकारलोपः। `आह्वास्यत्` इति। `ह्वेञ् {स्पर्धायां शब्दे च - धातुपाठः-} स्पर्धायाम्` (धातुपाठः-1008)। `{वास्तीदमुदाहरणं काशिकायाम्} पर्यासिष्यत` इति। `आस उपवेशने` (धातुपाठः-1021), अनुदात्तेत्। {तत्र हेतुभूतम् - काशिका} तद्धेतुभूतम्` इति। शकटपर्याभवनस्य हेतुभूतम्। एतेन लिङनिमित्तं हेतुहेतुमद्भावं दर्शयति। `लिङ्गिलिङ्गेबुध्वा` इति। असकृत् प्राक् कमलकाह्वाने सति शकटस्यापर्याभवनं दृष्ट्वा भाविनोऽपि कमलह्वानस्य शकटस्यापर्यायभवनस्य हेतुभूतत्वं हेतुभूतत्वं लिङ्गेन बुध्वा। लिङ्गं पुनः कमलकाह्वानसामान्यं धर्मम्। `तदतिपर्तिंत च` इति। कमलकाह्वानस्य शकटपर्याभवनस्य चातिपत्तिम्। तत्र कमलकाह्वानस्य चातिपतिंत कमलकस्य देशान्तरगमनादिना लिङ्गेनावगम्यते, शकटपर्याभवनस्यातिपत्तिमत्र शकटस्य गुरुभारारोपणादिना। `इतो वाक्यात्` इति। यदि कमलकमाह्वास्यदित्यादेवर्वाक्यात्।अथ किमर्थं क्रियाग्रहणम्, न त्वेतद्वक्तव्यम् - लिङ्निमित्ते लृङतिपत्ताविति, धात्वधिकाराद्विनापि क्रियाग्रहणेन धात्वर्थस्यातिपत्ताविति विशेषोऽर्थो लभ्यते, ततोऽनर्थकं क्रियाग्रहणमिति मन्यते;नैतत्; लिङनिमित्त इति श्रूयते, प्रकृतस्य सम्बन्धाच्छरुक्तस्य सम्बन्धो बलवानिति लिङनिमित्तस्यैवातिपत्तिर्विज्ञायते। ततश्च `उताप्योः समर्थयोः` [[3.3.152]] इति सामर्थ्यातिपत्तावुताप्योश्चातिपत्तौ लिङ प्रसज्येत। तस्मात् क्रियाग्रहणं कर्तव्यम्॥", "33140": "`उताप्यरित्यारभ्य`इत्यादि। `उताप्योः समर्थययोः` [[3.3.152]] इत्येतत्प्रभृतिषु लिङ्निमित्तेषु ह्रेतल्लृङविधानम्। कुत एतदित्याह - `प्राक्` इत्यादि। यस्मात् प्राक् <<वोताप्योः>> [[3.3.141]] इति वक्ष्यते, ततश्च पारिशेष्याद्भूते लिङो विधानं <<वोताप्योः>> [[3.3.141]] इत्यादिष्वेवावतिष्ठते। `न तु भुक्तवान्` इत्यादि। क्रियातिपर्तिंत दर्शयति॥", "33141": "`वा आ उताप्योः` इति। एतेनाङ प्रश्लेषं दर्शयति। यद्योङोऽत्र प्रश्लेषःष वोताप्योरिति न प्राप्नोति, परत्वाद्गुणे कृते पूर्वेण सह वृद्ध्या भवितव्यम्? सौत्रत्वान्निर्देशस्येत्यदोषः। निपातनत्वात् पूर्वेण सहैकादेशं कृत्वा परेण सहाद्गुणः [[6.1.84]] करिष्यते। ननु चाङो योगे `पञ्चम्यापाङ्परिभिः` [[2.3.10]] इति पञ्चम्या न च पदादाङो योगे पञ्चमी भवति; अप्रातिपदिकत्वात्। `मर्यादायाम्` इत्यादि। यद्यभिविधौ स्यात् `उताप्योः समर्थयोः` [[3.3.152]] इति लिङ् विकल्पेन प्रसज्येत, नित्यञ्चेष्यते। तस्मान्मर्यादायामयमाङ्, नाभिविधौ। `यथाप्राप्तञ्च` इति। लिङादिः; वाग्रहणात्॥", "33142": "`कालसामान्ये न प्राप्नोति` इति। एतेन भविष्यतीत्यादेः कालविशेषवाचितोऽनुवृतिंत सूचयन्नयं कालसामान्ये विधिरिति दर्शयति - `कालविशेषविहितान्` इति। भूते कालविशेषे लङलिटौ विहितौ, भविष्यति लुङलृटौ च। तान् सर्वान् कालसामान्ये विधीयमानो लट् परत्वाद्बाधते। `याजयति` इति। यजेर्हेतुमण्ण्यन्ताल्लट्। `लिङ्निमित्ताभावात्` इति। हेतुहेतुमदादेरिलङ्निमित्तभावादिह यद्यपि क्रियातिपत्तिर्विवक्ष्यते, तथापि लृङ न भवति॥", "33143": "`विभाषाग्रहणम्` इत्यादि। यस्मिन् काले लृङादयो विहितास्तेषां बाधनं मा भूदित्येवमर्थं विभाषाग्रहणम्। यद्येवम्, अनर्थकश्चकारः, विभाषाग्रहणादेव हि लटोऽप्यबाधित्वात् सिध्यत्येव? सत्यं सिध्यति वर्तमाने, कालान्तरे तु न सिध्यति। न हि तत्र कथमित्युपपदे लटः प्राप्तिरिति तत् कथं विभाषाग्रहणेन सिध्यति ! तस्माल्लडर्थश्चकारः कर्तव्यः।`याजयेत्` इति। लिङ। `याजयिष्यति` इति। लृट्। `अयीयजत्` इति। लुङ, च्लेश्चङ, णौ चङि ह्रस्वः, णिलोपः, `चङि` [[6.1.11]] इति द्विर्वचनम्, `सन्यतः` [[7.4.79]] इतीत्त्वम्। `अयाजयत्` इति। याजयाञ्चकार` इति। लिट्। `कास्प्रत्ययात्` [[3.1.35]] इत्याम्, `आमः` [[2.4.81]] इति लेर्लुक्, तस्याव्ययत्वात् सुबलुक्, `कृञ्च` [[3.1.40]] इत्यादिना लिट आम्परस्य कृञोऽनुप्रयोगःष णल्, द्विर्वचनम्, अभ्यासकार्यम्, `अयामन्त` [[6.4.55]] इत्यादिनायादेशः। अत्र लिङ्निमित्तमस्तीति कथमित्येतत् गर्हा च? तदेतद्गर्हायां लिङो विधानाद्भूतविवक्षायां क्रियातिपत्तौ लृङिति भूते चेति वर्तमाने <<वोताप्योः>> [[3.3.141]] इति वचनाद्भविष्यद्विवक्षायां सर्वत्र नित्यनैव लृङा भवितव्यमिति; भवितव्यमिति; भविष्यतीति वर्तमाने `लिङ्निमित्ते लृङ् क्रियातिपत्तौ [[3.3.139]] इति वचनात्॥", "33144": "`किंवृत्ते` इति। वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयतते। `डतरतमौ च` इति किंवृत्ते च लृडित्येवं कस्मान्नोक्तम्, प्रकृतो हि लिङ्, ततश्चकारेण तस्यैव समुच्ययो विज्ञास्यते, किं लिङ्ग्रहणेनेत्याह - `लिङ्ग्रहणम्` इत्यादि। असति हि लिङ्ग्रहणे यथा प्रकृत्वाच्चकारेण लिङ समुच्चीयते, तथा लडपि समुच्चीयेत, सोऽपि हि प्रकृत एव। तस्माल्लटो निवृत्त्यर्थं लिङग्रहणं कृतम्॥", "33145": "अत्र द्वावर्थौ, प्रत्ययावपि द्वावेव, ततश्च यथासंख्येन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - `बह्वचः`इत्यादि। अमर्षशब्दो ह्रनवक्लप्तिशब्दापेक्षयाल्पाच्तरः, तत्र `अल्पाच्तरम्` [[2.2.34]] इति तस्य पूर्वनिपाते कर्तव्ये योऽयमिह वह्वचोऽनवुकॢप्तिशब्दस्य पूर्वनिपातः कृतः स लक्षणव्यभिचारार्थतां दर्शयति। यथेह पूर्वनिपातलक्षणं व्यभिचारात् स्वविषये न प्रवर्तते, तथा यथासंख्यलक्षममपीति, तेन यथासंख्यं न भवति। अपिग्रहणं किंवृत्तेऽपि यथा स्यात्न्यथा ह्रकिंवृत्तग्रहणे किंवृत्ते न स्यात्। यदि यथा `उपकादिभ्योऽन्यतरस्याम्` [[2.4.69]] इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम्, तथेहाप्यकिंवृत्तग्रहणं किंवृत्ताधिकारनिवृत्त्यर्थं स्यात्, तस्मिन्निवृत्ते किंवृत्तेऽकिंवृत्ते प्रत्ययद्वयं भविष्यतीति व्याख्यायते, तदा शक्यतेऽपिग्रहणमकर्तुम्। तर्हि तत् क्रियते विस्पष्टार्थम्॥", "33146": "`किंकिलशब्दः समुदायैति। एतेन किंकिलशब्दयोः प्रत्येकमृपपदत्वं निरस्यति, कस्मात् पुनस्तयोश्च प्रत्येकमुपपदत्वं न भवति? केवलस्य किंशब्दस्यानवक्लप्त्यमर्षयोर्वृत्यसम्भवात्, समुदायस्य च सम्भवात्। `लिङ्गोऽपवादः` इति। पूर्वेण प्राप्तस्य।`लिङनिमित्तमिह नास्ति` इति। लृट एव विधानात्॥।", "33147": "`लृटोऽपवादः` इति। अनवकॢप्त्यादिसूत्रेण [[3.3.145]] प्राप्तस्य। `यदायद्योरुपसंख्यानम्` इति। लिङेव यथा स्यात्, लृङ मा भूत्। उपसंख्यानशब्दस्य प्रतिपादनार्थः। तत्रेदं प्रतिपादनम् - अनवक्लप्त्यादि [[3.3.145]] सूत्रादिहापिशब्दऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन यदायद्योरपि भविष्यति॥", "33148": "`लृटोऽपवादः` इति। अनवकॢप्त्यादिसूत्रेण [[3.3.145]] प्राप्तस्य। अथ पूर्वसूत्र एव यच्चयत्रयोग्र्रहणं कस्मान्न कृतम्, किं योगविभागेन? इत्यत आह - `योगविभाग उत्तरार्थः` इति। उत्तरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्मा भूत्। `यथासंख्यमिह नेष्यते` इति। पूर्वोक्तादेव लक्षणव्यभिचारचिह्नात्। स च बह्वचः पूर्वनिपातः सर्वत्रैव चात्र प्रकरणे लक्षणव्यभिचारचिह्नम्, न तु तत्रैव सूत्रे। अथ वा - यथासंख्यार्थस्य स्वरितत्वस्याभावादिह न भवति यथासंख्यम्। उक्तं हि प्राक् - `स्वरितेन चिह्नेन यथासंख्यं भवति` इति॥", "33149": "", "33150": "", "33151": "`यच्चयत्राभ्याम्` इत्यादिना यच्चयत्रापेक्षं शेषं दर्शयति। चित्रीकरणापेक्षया शेषो न शक्यते विज्ञातुम्; चित्रीकरणस्येह स्वर्यमाणत्वात्। `आरोक्ष्यति` इति। `रुह बीजजन्मनि प्रादुर्भावे च` (धातुपाठः-859)। `हो ढः` [[8.2.31]] , <<षढोः कः सि>> [[8.2.41]] । `आश्चर्य यदि भुंजीत` इति। अनवकॢप्रेरत्राश्चर्य गम्यते। तत्राश्चर्यनिमित्ते लृटि प्रतिषिद्धे `जातुयदोर्लिङविधाने यदायद्योरूपसंख्यानम्` (वा।331) इत्यनवकॢप्तौ लिङ॥", "33152": "`समर्थयोः` इति। धातुना सामर्थ्यमिह नाश्रीयते। तयोरुपपदत्वेनैव तस्य लब्धत्वात्। तस्मात् परस्परसामर्थ्य समर्थशाब्दादिह गृह्रते। तदपि व्यपेक्षालक्षणमेकार्थीभावलक्षणमुभयमुताप्योर्न सम्भवति; पर्यायेण तयोरुपपदत्वात्, तस्मात् समानार्थलक्षणमिह सामर्थ्य समर्थशब्देन प्रतिपाद्यत इत्यत आह - `समानार्थत्वमनयोः`इति। `कुर्यात्` एइति। उप्रत्यये कृते गुणो रपरत्वञ्च, `अत उत् सार्वधातुके` [[6.4.110]] इत्युत्त्वम्, `ये च` [[6.4.109]] इत्युकारलोपः॥", "33153": "`कामो मे भुञ्जीत भवान्` इति। स्वाभिप्रायं परस्यानेनाविष्कारोति॥", "33154": "`योग्यताध्यवसानम्` इति। योग्यता = सामर्थ्यम्, तस्याध्यवसानम्। सा येनाध्यवसीयते निश्चीयते तद्योग्यताध्यवसानम् = ज्ञानम्, सम्भावनमुच्यते। तमेवार्थं पर्यायान्तरेण विस्पष्टीकर्त्तुमाह - `शक्तिश्रद्धानम्` इति। शक्तिः = सामर्थ्यम्, सा श्रद्धीयते येन ज्ञानेन तच्छक्तिश्रद्धानम्। `तत्` इति। सम्भावनम्`। `पर्याप्त्या` इति। सामर्थ्येन।एतेन पर्याप्ताविह वर्तमानोऽलंशब्दो गृह्रते, न तु भूषणादाविति दर्शयति। `पर्याप्तम्` इति। शक्तम्, स्वकार्यनिर्वर्तनक्षममित्यर्थः। स्वकार्यं पुनस्तस्य विपरीतविषयपरिच्छेदः। `अवितथम्` इति। विद्यमानविषयत्वात्। एतेन पर्याप्त्यर्थं एवास्य स्वीकृतिः। एवं हि तद्विपरीतविषयं भवति यदि विद्यमानविषयत्वादवितथं भवति, नान्यथा। `अलमःर`इति। अलंशब्दस्य। कुत एतत्? इतिकरणेनार्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकतयाऽलंशब्दस्य व्यवस्थापनात्। अलमर्थः सम्भावनस्य विशेषमं नोपपद्यते, ततश्च यदुक्तम् - `तदिदानीमलमथन विशेष्यते` इति तद्विघटते? नैष दोषः`; आवृत्तिरलंशब्दस्य करिष्यते, तत्रैकस्य सूत्रोपात्तस्यार्थपदार्थकता भविष्यति, आवृत्तस्येतिकरणेनाभिसम्बन्धादर्थपदार्थतायाः प्रच्युतस्य शब्दपदार्थकता चात्र गम्यते। `चार्थः` इति। अर्थात्, प्रकरणाद्वा। `{न चासौ प्रयुज्यते-काशिका} न तु प्रयुज्यते` इति।अवगतार्थत्वात्। `{ तदीदृशसंभावनोपाधिकेऽर्थे - काशिका} क्रियासम्भावनोपाधिके` इति। क्रियासम्भावनमुपाधिविशेषणं यस्यार्3तस्य स तथोक्तः। `अपि पर्वतं शिरसा भिन्द्यात्` इति। पूर्ववत् <<श्नसोरल्लोपः>> [[6.4.111]] । अत्र यत् पर्वतभेदनविषयं सामर्थ्यं पुंसः सम्भाव्यते तत् तस्य विद्य एवेत्यवितथत्वात् पर्याप्तं सम्भावनम्। `प्रायेण स गमिष्यति` इति। अस्त्यत्र सम्भावनं प्रायशब्दात् प्रतीयमानम्, अलमर्थस्तु नास्ति; तेन भविष्यत्कालविवक्षायां लृडेव भवति न लिङ॥", "33155": "`{भविष्यति च काले - काशिका`} भविष्यति काले` इति। इष्यत इत्यपेक्षते। कथं पुनर्विभाषा भविष्यत्कालश्च लभ्यते, यावता नेह सूत्रे विभाषाग्रहणं विनापि भविष्यत्कालोऽस्ति? अत आह - यस्माद्विभाषाग्रहणमनुवर्तते` इति। तेन विभाषा लिङप्रत्ययो लभ्यते। यत् `उताप्योः` [[3.3.152]] इत्यादेः सूत्राल्लिङिति वर्तमाने पुनर्लिङग्रहणं क्रियतेऽतोभविष्यत्कालो लभ्यते। पुनर्लिङग्रहणस्यैतत् प्रयोजनम् - कालविशेषे भविष्यति यथा स्यादिति। तेन हन्तीति पलायत इत्येवमादौ वर्तमानविवक्षायां लडेव भवति। अत्र हननं हेतुः, पलायनं हेतुमत्। `पलायते` इति। <<उपसर्गस्यायतौ>> [[8.2.19]] इति लत्वम्॥", "33156": "", "33157": "`भुङ्क्ताम्` इति। टेरेत्वे कृत आम्।`कामप्रवेदन इति वक्तव्यम्` इति। कामस्येच्छायाः प्रवेदने = प्रकाशने इमौ लिङलोटौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<कामप्रवेदनेऽकच्चिति>> [[3.3.153]] इत्यतः कामप्रवेदनग्रहणमनुवर्तते, तेन कामप्रेवदन एव भवतः। अत्र लिङ्ग्रहणं किमर्थम्, न `इच्छार्थेषु लोट् च` इत्येवोच्यत, चकारेण समुच्चीयमानोऽपि प्रकृतो लिङ भविष्यति?नैतदस्ति; विभाषया हि भविष्यत्काल इत्युक्तम्,ततो यद्यसावनुवर्तते विकल्पः स्यात्। तद्बाधनार्थमेव पुनर्लिङग्रहणं क्रियते॥", "33158": "पूर्वेण लिङ्लोटोः प्राप्तयोस्तुमुन् विधीयते। `तुमुनप्रकृत्यपेक्षमेव`इति। यस्माद् धातोस्तुमुन् , अतः प्रत्यासत्तेस्तदपेक्षमेव समानकर्त्तृकत्वं ज्ञायते - तुमुन्प्रकृतेर्यः कर्ता स चेदिच्छार्थानामपि भवतीति। `इच्छति भोक्तुम्` इति। योऽत्रेषेः कर्ता स एव भुजेरपीत्यस्तीह समानकर्त्तृकेषु लिङलोटौ च परत्वात् प्राप्नुतस्तौ मा भूतमित्येवमर्थम्, {अर्थः-मुद्रितः पाठः,} ण्वुल् मा भूदित्येव {अर्थश्च-मुद्रितः पाठः} च।`देवदत्तं भुञ्जानमिच्छति` इति। अत्र भूजेर्देवदत्तः कर्ता, इच्छतेस्ततोऽन्य इति नास्ति समानकर्त्तृकत्वम्, तेन वर्तमानविवक्षायां लडेव भवति। `अनभिधानात्` इति। न ह्यत्र तुमुनोत्पद्यमानेन विवक्षतोऽर्थः शक्यतेऽभिधातुमिति। अबिधानलक्षणाश्च कृत्तद्धितसमासाः। अथ वा - `अनभिधानात्` इति। इच्छन् कर्त्तुमित्यभिधानस्याभावादित्यर्थः। लोकप्रसिद्धानां हि शास्त्रेऽन्वाख्यानं क्रियते, न त्विच्छन् कर्त्तुमित्यादयो लोकप्रसिद्धाः॥", "33159": "`भुञ्जीयाधीय` इति। `इटोऽत्` [[3.4.106]] । किमर्थं पुनरिदमुच्यते, यावता वासरूपविधिनैवात्र लिङ् भविष्यति? नैतदस्ति;लिङलोटोरपवादत्वाद् बाधकयोः प्राप्तयोस्तद्वबाधनार्थस्तुमुन्, विधीयते। तेन बाधितत्वाद्यथा लोड् न भवति, तथा लिङ्गपि न स्यात्। तसमाल्लिङविधानार्थमिदमुच्यते। `योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे लिङ एवानुवृत्तिर्यथा स्यात्, तुमुनो मा भूत्॥", "33160": "", "33161": "`प्रेरणम्` इति। नियोगः` `निमन्त्रणं नियोगकरणम्` इति। असत्यामपीच्छायामकरणे सत्यधर्मोत्पत्तेर्नियमेनावश्यम्भावेन यत् करणं तन्निमन्त्रणम्। `कामचारकरणम्िति। कामचार- = इच्छाप्रचारः। तेन यत्करणं तदामन्त्रणम्। एतदुक्तं भवति - यदिच्छयैवकरणंनानिच्छया अकरणेऽपि दोषाभावात्,तदामन्त्रमणम्। इहायं विध्यादिरर्थः प्रकृत्यर्थविशेषणं वा स्यात्? प्रत्ययार्थो वा? प्रत्ययार्थविशेषणं वा? तत्र यद्याद्यः पक्ष आश्रीयेत तदा यत्र प्रकृतिरेव विध्यादीनर्थानाचष्टे तत्र न सिध्येत् - विदध्यान्निमन्त्रयेतामन्त्रयेताधीच्छेदिति, न ह्यत्र प्रकृत्यर्थादन्ये विशेषणभूता विध्यादयः सन्तीत्येष दोषः प्रतिविधेयः स्यात्। प्रतिविधीयमानेऽपि तस्मिन् प्रतिपत्तिगौरवं स्यात्। अथ द्वितीयः? भावकर्मकर्त्तृप्रत्ययार्थानां विध्यादयो वाचकाः स्युरित्येवमनयोर्दोषं दृष्ट्वा तृतीयं पक्षमाश्रित्याह - `विध्यादयश्च` इत्यादि। प्रत्ययार्थास्त एव भावकर्मकर्तारः। तेषु `लः कर्मणि च` [[3.4.69]] इत्यादिना प्रत्ययस्य विधानात् तेषामयं विध्यादिरर्थो विशेषणमिति मत्वाऽऽह - `विध्यादिविशिष्टेषु` इत्यादि। एतेनादिशब्देन निमन्त्रणादीनां ग्रहणम्। द्वितीयेन भावकर्मणोः। `आसीत्` इति। अदादित्वाच्छपो [[2.4.72]] लुक्। `अध्यापयेत्` इति। पूर्ववदात्त्वपुकौ॥", "33162": "यदि विध्यादिष्वेव लोड्भवत्येवं योगविभागः किमर्थं क्रियते? इत्याह - `योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे लोट एवानुवृत्तिर्यथा स्यात्, लिङो मा भूदिति। `करोतु` इति। `एरुः` [[3.4.86]] इत्युक्तम्। `अध्ययै` इति। <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्याट्, टेरेत्वे कृते `एत ऐ` [[3.4.93]] , `आटश्च` [[6.1.87]] इति वृद्धिः, प्रकृतेर्गुणायादेशौ॥", "33163": "`कार्यः` इति। `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यत्। `कृत्यः` इति। <<विभाषा कृवृषोः>> [[3.1.120]] इति क्यप्।`किमर्थमिदम्` इत्यादि द्वेष्यम्। `विशेषविहित` इत्यादि परीहारः। कृत्या हि सामान्येन विहिताः। लोट् तु प्रैषादिनार्थविशेषेण। अतस्तेन विशेषविहितेन कृत्याः प्रैषादिविषये बाध्येरन्निति पुनर्विधीयते। `वासरूप`इत्यादीना परीहारं विघटयति। `एवं तर्हि` इत्यादिना प्रेषादिषु कृत्यविधानस्य ज्ञापकत्वं दर्शयति। ननु चाऽसति प्रयोजने ज्ञापकं भवति, इह चास्ति प्रयोजनम्, किं तत्? प्रैषादि येन नियमेन कृत्या भवन्ति, नान्यत्रेति? नैतत्; अनिष्टत्वात्। अन्यत्रापि हि कृत्या दृश्यन्ते - तृणेन शोष्यम्, बुधेन बोध्यमिति। तच्च नियमे सति न सिध्येत्, न ह्यत्र प्रैषादयो गम्यन्ते। तस्मान्नेह नियमोऽभीष्टः, न चानिर्दिष्टार्था प्रकॢप्तिः शास्त्रे युक्ता (भो।प।सू।107)। ततो युक्तं ज्ञापकमेव;कृत्यविधानस्यावश्यम्भावात्। अवश्यंग्रहणेन न क्वचिदपि भवतीति दर्शयति। एतच्च स्त्रधिकारात् परेणापि वासरूपविधिः क्वचित् स्वरितत्वप्रतिज्ञानाल्लभ्यते। तेन कालादिषूपपदेषु वासरूपविधिना ल्युडपि भवति - कालो भोजनस्येति। यदि तु सर्वथा वासरूपविधिर्न स्यात् तदा <<कालसमयवेलासु तुमुन्>> [[3.3.167]] इति तुमुन्नेव नित्यं स्यात्। `केचिदाहुःर`इति वचनादपरे त्वेतयोर्विशेषं नेच्छन्तीत्युक्तं भवति॥", "33164": "`यथाप्राप्तञ्च` इति। लोट्, कृत्याश्च॥", "33165": "`लिङकृत्यानामपवादः`इति। अनन्तर सूत्र विहितानाम्॥", "33166": "`लिङोषऽपवादः`इति। विध्यादिसूत्रेण प्राप्तस्य। `अध्यापय`इति। सेर्हिरादेशः [[3.4.87]] , तस्य <<अतो हेः>> [[6.4.105]] इति लुक्। `जुहुधि`इति। <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति धिरादेशः॥", "33167": "`प्रैषादिग्रहणमिह सम्बध्यते` इति।न चेदिह प्रैषादयो गम्यन्ते, तेन तत्र न भवतीत्यभिप्रायः। कालो भोजनस्येत्युक्ते तस्याद् भङ्क्तां भवानिति प्रैषो गम्यते। ततश्च प्रैषादिग्रहणेऽनुवर्तमानेऽपीह प्राप्नोतीत्यभिप्रायेणाह -`इह कस्मान्न भवति` इत्यादि। स्यादेत् - प्रैषादि कृत्यविधानाज्ज्ञापकात् स्त्र्यधिकारात् परेणापि वासरूपविधिर्नास्तीति, किं तर्हि? अनित्यः।ततः क्वचिद्भवति। एतच्च `एवं तर्हेतञ्ज्ञापयति` (3.3.163 का।वृ) इत्यादिना प्रागेवाभिहितम्॥", "33168": "`\tतुमुनोऽपवादः`इति। पूर्वसूत्रेण प्राप्तस्य॥", "33169": "`वोढव्यः`इति। `हो ढः` [[8.2.31]] , <<झषस्तथोर्धोऽधः>> [[8.2.40]] , <<ष्टुना ष्टुः>> [[8.4.41]] , `ढो धे लोपः` [[8.3.13]] , <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्येते विधयः कर्तव्याः। `अथ`इत्यादि द्वेष्यम्। `योऽयम्` इत्यादि परीहारः। वासरूपविधिः स्त्र्धिकारात् परेण नावश्यम्भवतीत्युक्तमेव॥", "33170": "`आवश्यकम्िति। मनोज्ञादित्वाद्वुञ्। `उपाधिरयम्िति। प्रत्ययार्थविशेषणमित्यर्थः। `नोपपपदम्` इति। उपपदत्वे तु कारी, हारीति रूपं नस्यादित्यभिप्रायः।<<ओरावश्यके>> [[3.1.125]] इत्यत्र प्रतिपादितमेवावश्यमुपाधिः, नोपपदमिति;तदिहापि तद्वदेवोपाधिकत्वमावश्यकस्य वदितव्यम्। तेन सह निर्द्देशादाधमण्र्यमप्युपाधिरेव, नोपपदमिति। यद्यावश्यकमपाधिर्नोपपदम्, <<उपपदमतिङ्>> [[2.2.19]] इति समासो न स्यात्, न चान्यल्लक्षणमस्ति येनेह समासः स्यादिति यो मन्येत्, तं प्रत्याह - `मयूरव्यंसकादित्वात् समासः` इति `सहरुआं दायी`इति।`अकेनोर्भविष्यदाधमण्र्ययोः` [[2.3.70]] इति षष्ठआं प्रतिषिद्धायां द्वितीयैव भवति॥", "33171": "`किमर्थम्ित्यादि चोद्यम्। `विशेषविहितेन`इति परीहारः।`कर्तरि`इत्यादिना परीहारविघटनञ्च। `केचित्ित्यादिना परकीयमतेन परोहारसमर्थनम्। `भव्यगेयम्िति। `समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते` (शा।प।85) इति भव्यगेयादयः शब्दा अवयवभूतेषु कृत्येष्विह वर्तन्ते। `कर्त्तृवाचिनः`इति। भव्यगेयादिसूत्रेणैषां पक्षे कर्तरि निपातनात्। योगविभाग उत्तरार्थः॥", "33172": "`प्रकृत्यर्थविशेषणञ्चैतत्`। पूर्वेणाभिप्रायेणोपपदनिरासार्थमिदमुच्यते। `जीव्यात्िति।`स्कोः` [[8.2.29]] इति सलोपः। अथ किमर्थं लिङग्रहणम्, `लोट् च` [[3.3.162]] इत्येव सिद्धम्, चकारेण ह्रनुकृष्यमाणो लिङपि भविष्यति? नैवं शक्यम्; यथैव हि चकारेण लिङनुकृयते तथा कृत्या अप्यनुकृष्येरन्। ननु निवर्तिष्यन्ते कृत्याः, तेषु निवृत्तेषु लिङ एवानुकर्षणार्थश्चकारो भविष्यति? सत्यमेतत्; एवं यदि तेषां निवृत्तिर्विज्ञास्यते लिङोऽपि निवृत्तिः स्यात्। व्याख्यानादनुवर्तिष्यत इति चेदेवमपि प्रतिपत्तिगौरवं स्यात्। तस्मात् प्रतिपत्तिगौरवपरीहारार्थं यथान्यासमेव न्याय्यम्। अत्र विध्यादिसूत्रे [[3.3.161]] एवाशीग्र्रहणं कस्मान्न कृतम्, एवं हि लिङलोटोग्र्रहणं न कृतं भवति? नै शक्यम्; विध्यादिसूत्रे पाठे सति <<स्मे लोट्>> [[3.3.165]] इत्येवमादिभिः परत्वाद्बाधा स्यात्। इहतु क्रियमाणे परत्वादेष योगस्तेषां बाधको भविष्यतीति न भवत्येष दोषप्रसङ्ग। अवश्यञ्चोत्तरार्थमाशीग्र्रहणं कर्तव्यम् - <<क्तिच्क्तौ च संज्ञायाम्>> [[3.3.174]] इत्याशिषि यथा स्याताम्॥।", "33173": "", "33174": "`समुदायेन`इति। प्रकृतिप्रत्ययसमुदायेन। एतेन समुदायोपाधितां संज्ञाया दर्शयति। `तन्तिः`इति। `तनु विस्तारे`(धातुपाठः-1463), अत्र <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घः प्राप्नोति, `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनानुसिकलोपश्च; तदुभयं <<न क्तिचि दीर्घश्च>> [[6.4.39]] इति निषिध्यते। `सातिः`इति। `षणु दाने`(धातुपाठः-1464), <<जनसनखनां सञ्झलोः>> [[6.4.42]] इत्यात्त्वम्। `देवदत्तः`इति। डुदाञो निष्ठायाम् <<दो दद् घोः>> [[7.4.46]] इति ददादेशः, `खरि च` [[8.4.54]] इति चर्त्वम्॥", "33175": "`मा कर्षित्` इति। <<न माङ्योगे>> [[6.4.74]] इत्यडागमाभावः॥", "33176": "स्मशब्द उत्तरमधिकं यस्य माङः स तथोक्तः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां तृतीयस्याध्यायस्यतृतीयः पादः", "34001": "`धात्वर्थे धातुशब्दः` इति। अभिधेयेऽभिधानोपचारं कृत्वा धात्वर्थोऽत्र धातुशब्देन निर्द्दिष्ट इति दर्शयति। भ्वादिष्वेवायं धातुशब्दो वर्तते, स्वार्थे गुणीभूतस्य धातुशब्दस्य शब्दान्तरेण सम्बन्धो न स्यात्; तस्माद्धात्वर्थ एवायं धातुशब्दो वर्तते, न भ्वादिषु। ततश्च धातुसम्बन्ध इत्यस्य धात्वर्थसम्बन्ध इत्येषोऽर्थो विज्ञायत इत्याह - `धात्वर्थानां सम्बन्धो धातुसम्बन्धः` इति। कथं पुनः सम्बन्ध इत्याह - `विशेषणविशेष्यभावः` इति। `अयथाकालोक्ता अपि` इत्यादि। यो यस्यात्मीयः कालो यथाकालम्। `यथाऽसादृश्ये` [[2.1.7]] इति वीप्सायामव्ययीभावः, यथाकाले उक्ता यथाकालोक्ताः, `सप्तमी` [[2.1.39]] इति योगविभागात् समासः,न यथाकालोक्ताः = अयथाकालोक्ताः। एतदुक्तं भवति - स्वैः स्वैर्विधायकैर्वाक्यैर्यत्र यस्मिन् यस्मिन् काले ये ये विहितास्ततोऽन्यत्रकालेऽपि प्रयुक्ताः प्रत्ययाः साधवो भवन्तीति। `अग्निष्टोमयाजी` इत्यादीन्युदाहरणानि दर्शयति। सर्वत्र तिङन्तदाच्योऽर्थो विशेष्यः, सुबन्तवाच्यस्तु विशेषणम्। `अग्निष्टोमयाजीति भूतकालः` इति। भूतः कालोऽस्येति बहुव्रीहिः। भूतकालत्वंतु भूताधिकारे <<करणे यजः>> [[3.2.85]] इति णिनेर्विध#आनात्। `जनितेति भविष्यत्कालः` इति। भविष्यन् कालोऽस्येति बहुव्रीहिरेव। भविष्यत्कालत्वं तु भविष्यदनद्यतने लृटो विधानात्। `तत्र`इति। निर्धारणे सप्तमी। तयोर्भूतकालभविष्यत्कालयोर्मध्ये यो भूतकालः स भविष्यत्कालेन सम्बध्यमानः साधुर्भवति। अग्निष्टोमयाजीति भूतकालो जनितेति भविष्यत्कालेनापि सम्बध्यमानो भविष्यत्काल एव सम्पद्यते। द्वितीयेऽप्युदाहरणे `कृतः` इति भूतकालः; भूते निष्ठाविधानात्। `भविता` इति भविष्यत्कालः पूर्ववदेव। तत्र भूतकाल इतरेणापि सम्बध्यमानः साधुर्भवति। तृतीयेऽपि `भावी`इति भविष्यत्कालः; <<भविष्यति गम्यादयः>> [[3.3.3]] इति वचनात्। `आसीत्` इति भूतकालः; भूतानद्यतने लङो विधानात्। तत्र भविष्यत्कालो भूतकालेनापि सम्बध्यमानः साधुर्भवति।इहाग्निष्टोमयाज्यस्य पुत्रो जनितेति भूतकालो भविष्यत्कालेनापि सम्बध्यमानो भविष्यत्कालः सम्पद्यते। तथा ह्रयमत्रार्थः प्रतीयते - सोऽस्यपुत्रो जनिता योऽग्निष्टोमेन यष्टेति। न च भविष्यत्कालो भूतकालेनाभिसम्बध्यमानो भूतकालतां प्रतिपद्यते, न ह्यत्रायमर्थः प्रतीयते - सोऽस्य पुत्रो जातो योऽग्निष्टोमेनेष्टवानिति। इतरयोरप्युदाहरणयोर्विशेषणं विशेष्यकालतामापद्यते, यतस्तत्रायमर्थोऽवगम्यते - स आओ भविता कटो यः करिष्यते, तत् कृत्यमासीद् यदभूतमिति। तदेतत्कथं भवति? विपर्ययः कस्मान्न भवति? इत्याह - `विशेषणम्ित्यादि। विशेषणं हि परार्थत्वाद्गुणोऽप्रधानमित्यर्थः। तेन च प्रधानकालस्य विशेष्यस्योपकारः कर्तव्यः। न च तत् प्रधानमपरित्यज्य स्वकालं प्रधानकालमप्रतिपद्यमानं प्रधानोपकारक्रियां कर्त्तुं समर्थ भवतीति प्रधानस्य यः कालस्तमुरुध्यते। विशेष्यं तूपकार्यत्वात्प्रधानम्।न च प्रधानस्य गुणकालापत्तिर्युक्ता, अन्यथा यदिगुणकालं प्रधानकालः प्रतिपद्येत तदा तस्य प्रधानत्वं हीयेत। तेन न भवति विपर्ययः।अथ प्रत्ययग्रहणं किमर्थम्, यावता प्रत्यय इत्यनुवर्तत इत्यत आह - `प्रत्ययाधिकारे`इत्यादि। पूर्वकं प्रत्ययग्रहणं धातुसम्बद्धम्, अतस्तदिहाश्रीयमाणं धात्वधिकारविहितानां प्रत्ययानां साधुत्वे सम्पद्यते। अत्र पुनः प्रत्ययग्रहणे प्रत्ययमात्रं गृह्रते, तदर्थं पुनः प्रत्ययग्रहणम्। `कालभेदे` इति। कालविशेषे,अस्मात्कालादन्यस्मिन् काल इत्यर्थः। `गोमानासीत्िति। गोमानिति वर्तमानकालः, `तदस्य` [[5.2.93]] इत्यादिना वर्तमानकालमस्तीत्युपादाय मतुपो विधानात्। स भूतभविष्यत्कालाभ्यां सम्बध्यमानः साधुर्भवति॥", "34002": "`प्रकृत्यर्थविशेषं चैतत्िति। एतेनोपपपदत्वं निरस्यति। उपपदत्वे हि केवलाद्धातोर्न स्यादित्यादित्यभिप्रायः। अत्र तिङादेशौ वा हिस्वौ स्याताम्, लोडादेशौ वेति द्वौ पक्षौ। ननु च प्रथमपक्षाशङ्कायाः प्रसङ्ग एव नास्ति; लोट इति वचनात्,तत् कथमसावाशङिकतः? लोट्स्थानिकत्वादादेशोऽपि लोड्व्यपदेशमासादयीति युक्तमाशङ्कितुम्। तत्र हि यदि पूर्वकः पक्ष आश्रीयते तदा `भुङ्क्ष्व भुङ्क्ष्वेत्येवाहं भुञ्जै`इति <<आडुत्तमस्य पिच्च>> [[3.4.92]] इति, पित्त्वान्ङित्त्वं नास्ति, ततश्च `श्नषोरल्लोपः` [[6.4.111]] इत्याकारलोपो न स्यात्। उभावपि च परस्मैपदानामात्मनेपदानामनियमेन स्याताम्;नियमहेतोरभावात्। सामान्येन तिङां स्थाने विधीयमानयोः कृत एतल्लभ्यते ! यतः परस्मैपदानां ह्रादेशेन भविव्यम्, इतरेषां स्वादेशेनेति। तस्माद्दुष्टोऽयं पक्ष इति मत्वा द्वितीयपक्षमाश्रित्याह - `तस्य च लोटः` इत्यादि। यस्मिन् पक्षे दोषः प्रसजति तं प्रतिविधास्यति। `तध्वंभाविनस्तु वा भवतः` इति। लोट इत्यपेक्ष्यते। तश्च ध्वञ्च तध्वमौ, तौ भाविनौ यस्य लोटः स तष्वम्भावी। एतेन तादशार्थो लोडेव स्थानी; तादथ्र्यात्, सूत्रे तशब्देन व्यपदिष्टो ध्वमादेशार्थश्च ध्व#ंशब्देनेति दर्शयति। अथ तध्वमावेवस्थानिनौ कस्मान्न विज्ञायेते? अशक्यं हि तौ स्थानित्वेन विज्ञातुम्। तयोरपि स्थानित्वेऽलोडादेशयोरपि हिस्वौ स्याताम्। अथ तध्वमौ विशेषयिष्यामः - लोटो यौ तध्वमाविति, ततोऽयमदोष इति चेत्; एवमपि प्रतिपत्तिगौरवं स्यात्। तध्वम्भाविनौ लोट एव स्थानित्वं युक्तम्, न तध्वमोः।यदितर्हि लोटो हिस्वावादेशौ, न तदादेशानां तिङामेव, एवञ्च <<लः परस्मैपदम्>> [[1.4.99]] इति तयोः परस्मैपदसंज्ञा स्यात्, ततश्च `शेषात्कर्तरि परस्मैपदम्` [[1.3.78]] इत्युभावपि परस्मैपदिभ्य एव स्याताम्; तिङक्ष्वसन्निवेशाच्च तदन्तस्य तिङन्तता न स्यात्, ततश्च <<तिङ्ङतिङः>> [[8.1.28]] इति निघातो न स्यादित्यत आह - `योगविभागश्च` इत्यादि। `लोडित्येव` इति। एतेन द्वितीये योगे लोडित्यस्यानुवृतिंत दर्शयति। `लोड्धर्माणौ`इत्यादि। लोट इव धर्मस्तिङत्वादित्वार्ययोस्तौ लोड्धर्माणौ। ननु च लोडादेशानां तिङत्वादि धर्मः, न लोटः? आदेशद्वारेण स्थानिनोऽपि लोटस्तिङत्वादिधर्मो भवतीत्यदोषः। कथं पुनर्योगविभागे सति लोड्धर्माणौ तौ भवतः? योगविभागे सति द्वितीये योगे लोटशब्दो योऽनुवर्तते तेनार्थाद्विभक्तेर्विपरिणामो भवतीति षष्ठन्ततामापन्नेन हिस्वौ विशेष्येते - लोटो यौ हिस्वाविति। ततश्च लोडादेशयोः सिप्थासोः स्थाने यौ हिस्वौ `सेह्र्रपिच्च` [[3.2.87]] इत्यादिना शास्त्रेण विधास्येते, तावेव यथास्वमुपात्तविशेषाविह लोटः स्थाने विधीयेते, नापूर्वाविति। तेन लोड्धर्माणौ तौ इत्येषोऽर्थो लभ्यत एव। `तेन`इत्यादि। अत एव= यथोक्तेन प्रक#आरेण, लोड्धर्माणौ हिस्वौ लोटः स्थाने भवतः। तेन परस्मैपदत्वनमात्मनेपदत्वञ्च भेदेन विषयविभागेन व्यवतिष्ठते। तत्र हिशब्दे परस्मैपदत्वं व्यतिष्ठते; लोट्सम्बन्धिनो हेः परस्मैपदसंज्ञकत्वात्। स्वशब्दे चात्मनेपदत्वं व्यवतिष्ठते;स्वशब्दस्य लोट्सम्बन्धिन आत्मनेपदसंज्ञकत्वात्। `तिङत्वञ्च द्वयोरपि भवति` इति। लोट्सम्बन्धिनोस्तयोद्र्वयोरपि तिङन्तत्वात्। ननु च सिप्थासोर्लोडादेशयोस्तौ सम्बन्धिनौ, तदादेशत्वात्, न लोटः, तत्कथं लोट्सम्बन्धित्वेन व्यदिश्येते? आदेशद्वारेण लोट्सम्बन्धित्वं तयोरप्यस्तीत्यदोषः। यदि तर्हि लोड्धर्माणौ भवतः, एवमेकवचनसंज्ञा स्यात्, मध्यमपुरुषसंज्ञा च, तयोरपि लोड्धर्मत्वात्, ततश्च वचनान्तरभाविनः पुरुषान्तरभाविनश्च लोटो न स्याताम्? नैष दोषः;यदि ह्रेकवचनमध्यमपुरुषसंज्ञे अपि स्यातां वचनमिदमनर्थकं स्यात्, विनाप्यनेन वचनेन मध्यमपुरुषैकवचनयोर्हिस्वयोः सिद्धत्वात्।`लुनीहि लुनीहि`इति। `क्रियासमभिहारे द्वौ भवतः` (वा।886) इति द्विर्वचनम्।<<ई हल्यघोः>> [[6.4.113]] इतीत्त्वम्। `लुनन्ति`इति। `श्नाभ्यस्तयोरातः` [[6.4.112]] इत्याकारलोपः। `अथ वा` इत्यादिना `वा च तध्वमोः` इति वाग्रहमस्य फलं दर्शयति।\t`अलावीत्` इति। <<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] इति वृद्धि, `आर्धधातुकस्येड्वलादेः` [[7.2.35]] इतीट्,स्तिसिचोऽपृक्ते` [[7.3.96]] इतीट्, `इट ईटि` [[8.2.28]] इति सिचो लोपः। `अलाविष्टाम्` इति। `तस्थस्थ` [[3.4.101]] इत्यादिना तसस्ताम्। `अलाविषुः` इति। सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुसादेशः। `एवं मध्यमोत्ततयो{अपि नास्ति-काशिका,पदमञ्जरी च}रप्युदाहार्यम्` इति। लुनीहि लुनीहीत्येव त्वमलावीर्युवामलाविष्टं यूयमलाविष्ट। अथ वा - लुनीत लुनीतेत्येव यूयमलाविष्ट। लुनीहि नीहीत्येवाहमलाविषम्, आवामलाविष्वि, वयमलाविष्म।`एवं मध्यमोत्तमयो{अपि नास्ति-काशिका}रप्युदाहार्यम्` इति। लुनीहि लुनीहीत्येवं त्वं लविष्यसि, युवां लविष्यथः, यूयं लविप्यथ। अथ वा - लुनीत लुनीतेत्येव यूयं लविष्यथ। लुनीहि लुनीहीत्येवाहं लविष्यामि, आवां लविष्यावः, वयं लविष्यामः।`अधीयात्` इति। इयङ। `अधीयते` इति। <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः। `एवं {सर्वेषु लकारेषूदाहार्यम्-काशिका, पदमञ्जरी च}सर्वलकारेषूदाहार्यम्` इति। लङ-लुनीहि लुनीहीत्येवायमलुनात्, इमावलुनीताम्, इमेऽलुनन्। लुनीहि लुनीहीत्येव त्वमलुनः, युवामलुनीतम्, यूयमलुनीत। अथ वा - लुलीत लुनीतेत्येव यूयमलुनीत। लुनीहि लनीहीत्येवाहमलुनाम्, आवामलुनीव, वममलुनीम। अधीष्वाधीष्वेत्येवायमध्यैत, इमावध्यैयाताम्िमेऽध्यैयत। अधीष्वाधीष्वेसत्येव त्वमध्यैथाः, युवामध्यैयाथाम्, यूयमध्यैध्वम्। अथ वा - अधीध्वमधीध्वमित्येव यूयमध्यैध्वम्। अधीष्वाधीष्वत्यवाहमध्यैषि, आवामध्यैवहि, वयमध्यैमहि। अन्येषु लकारेष्वतिग्रन्थविस्तरभयान्नोदाह्यियते।अनया दिशा स्वयमेवाभ्युपगम्योदाहार्यम्।अथ लुनीहि लुनोहीति कथमत्र द्विर्वचनम्, यावता धातुनैव क्रियासमभिहारोऽवगमितः; तद्विशिष्टक्रियावचनाद्धातोर्लोड्विधानात्? अथ वा - अवगमिते सति तस्मिन् द्विर्वचनं भवतीति चेदेवं यङन्तस्यापि द्विर्वचनं स्यात्? इत्यत आह - `क्रियासमभिहाराभिव्यक्तौ` इत्यादि। यद्यपि क्रियासमभिहारविशिष्टक्रियाभिधायिनो धातोर्लोड् भवति, तथापि या तस्य क्रियासमभिहारभिव्यक्तिः सा धातुना न क्रियते, किं तर्हि? लोडैव। स चतां कर्त्तुं द्विर्वचनसहित एव समर्थो भवति, न केवलः; तत्र तस्याविधानात्। स हि लोट <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इति कर्मादिषु विधीयते, न क्रियासमभिहारे। तस्मात् तदभिव्यक्तौ कर्तव्यायां लोट् स्वयमसमर्थ इति द्विर्वचनमपेक्षते, तेन तदन्तस्य द्विर्वचनं भवतीति भावः। केन पुनर्विधीयमानं द्विर्वचनमपेक्षत इत्याह - `क्रियासमभिहारे` इत्यादि। `यङप्रत्ययः पुनः` इत्यादि। यङप्रत्ययो हि क्रियासमभिहार एव विधीयते। तेनासौ तत्र विधीयमानस्तदभिव्यक्तौ स्वयमेव समर्थ इति नापेक्षते द्विर्वचनम्। तेन तदन्तस्य द्विर्वचनं न भवतीति भावः॥", "34003": "`अनेकक्रियाध्याहारः` इति। अनेकासां क्रियाणां चीयमानतेत्यर्थः। एतेन समभिहारात् समुच्चयस्य भेदं दर्शयति। समभिहारोऽपि पौनःपुन्यम्, भृशार्थो वा, स चैकस्या एव क्रियायाः सम्भवः। समुच्चयः पुनरनेकासां क्रियाणाम्।`भाष्ट्रमट`इति। <<अतो हेः>> [[6.4.105]] इति लुक्। अत्र साधनभेदाद्भेदमुपागतानामनकासामटनक्रियाणां समुच्चयः।`अथ वा` इत्यादि। प्रथमेनाथ वेतिग्रहणेन `वा च तध्वमोः` [[3.4.2]] इति वाग्रहणप्रतिपादितं विकल्पं दर्शयति, द्वितीयेनान्यतरस्यां [[3.4.3]] ग्रहणप्रतिपादितम्॥", "34004": "`पूर्वस्मिन लोड्विधाने` इत्यादेर्वाक्यस्य यस्माद्धातोरित्यादिनार्थं स्पष्टीकरोति। `धातुसम्बन्धे` इत्यादि। धातुसम्बन्ध [[3.4.1]] इत्यनुवृत्तेर्धातुसम्बन्ध एव लोड्विधानम्, अतोऽनु प्रयोगः सिद्धः एव, न हि तेन विना धातुसम्बन्धो भवति; तस्य द्विष्ठत्वात्। यद्येवम्, किमर्थमिदं वचनम्? इत्याह - `यथाविध्यर्थं तु` इति। अथ व्यवहितप्रयोगस्य वा पूर्वस्य प्रयोगस्य वा निवृत्त्यर्थं कस्मान्न भवति, यथा - `कृञ्चानुप्रयुज्यते लिटि` [[3.1.40]] इति? न; तयोरपीष्टत्वात्। इष्यते हि व्यवहितप्रोगः- लुनीहि लुनीहीत्यवायं देवदत्तो लुनाति। पूर्वप्रयोगोऽपीष्यते - लुनाति देवदत्तो लुनीहि लुनीहीति। तस्माद्यथा विध्यर्थमेवेदं युक्तम्। ननु च<<समुच्चये सामान्यवचनस्य>> [[3.4.5]] इति धात्वन्तरस्य समानार्थस्य प्रयोगाभ्यनुज्ञानात् क्रियासमभिहारे यथाविध्यनुप्रयोगो भविष्यतीति, तत्किमनेन वचनेन? नैतदस्ति, समुच्चय एव हि नियमः स्यात्, क्रियासमभिहारे तु यथाविध्यनुप्रयोगः स्यात्, धात्वन्तरस्य च समानार्थस्य। तस्मादारब्धव्यमिदम्॥", "34005": "`सर्वविशेषानुप्रयोगानिवृत्त्यर्थम्` इति। यदीदं नारभ्यते तदा यावद्भ्यो धातुभ्यो लोड्विहितस्तावतामेवानुप्रयोगः प्रसज्येत; ततस्तन्निवृत्यर्थमेतत्। ननु चान्तरेणापीदं वचनं लाघवात् सामान्यवचनस्यैवानुप्रयोगो भविष्यति। सर्वविशेषानुप्रयोगे ह्रोदनं भुङ्क्ष्व सक्तून् पिब धानाः खाद इत्येवायं भुङ्क्ते पिबति खादतीति सर्वेषु तदा तरुशब्दस्यैव प्रयोगः स्यात्, वनस्पतिशब्दप्रभृतयस्तूच्छिद्येरन्, न चैवम्, तस्मान्नास्ति लौकिकशब्दप्रयोगे गुरुलाघवं प्रत्यादरः। ननु च भ्राष्ट्रमटेत्यादावुदाहरणे कारकस्यैव समुच्चयो भ्राष्ट्रादेः, न क्रियायाः, तस्या एकत्वात्; अनेकाधारत्वञ्च सामान्यम्, एकत्वे क्रियायास्तन्न सम्भवति, तत्कथं सामान्यवचनस्यानुप्रयोग उपपद्यते? इत्याह - `भ्राष्टमट`इत्यादि। गतार्थम्॥", "34006": "`यथायथम्` इति। यथास्वम्। यो यस्यात्मीयो विषयः स तत्रेत्यर्थः। `अकरत्` इति।<<कृमृदृरुहिभ्यश्छन्दसि>> [[3.1.59]] इति च्लेरङ, <<ऋदृशोऽङि गुणः>> [[7.4.16]] । `अकरम्` इति। मिपोऽम्। `अवृणीत` इति। वृञो लङ्, क्र्यादित्वात् श्ना, पूर्ववदीत्वम्। `ममार` इति। लिट्, `म्रियतेर्लुङलिङोश्च` [[1.3.61]] इति नियमात् परस्मैपदम्, णल्, वृद्धिः, रपरत्वम्, <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थाननिवद्भावात् मृ इत्येतद्द्विरुच्यते, `उरत्` [[7.4.66]] इत्यत्वम्, रपरत्वम्, हलादिशेषः॥", "34007": "`नेषत्`। `तक्षिषत्` इति। नयतेस्तक्षते श्च लेट्, तिप्, `इतश्च लोपः परस्म #ऐपदेषु` )3.4.97) इतीकारलोपः, `सिब् बहुलं लेटि` [[3.1.34]] इति सिप्, <<लेटोऽडाटौ>> [[3.4.94]] इत्याट्। तक्षिषदित्यत्र `आर्धधातुकस्य` [[7.2.35]] इत्यादिनेट्। जोषिषदित्यादीन्युदाहरणानि `सिब् बहुलं लेटि`( 3.1.34) इत्यत्र व्युत्पादितानि॥", "34008": "`उपसंवादः परिभाषणम्; कर्तव्ये पणबन्धः` इति। उपसंवादशब्दस्येमौ पर्यायौ। `यदि मे भवान्` इत्यादिनोसवादस्य स्वरूपं दर्शयति। कारणत इत्यादिनाप्याशङ्कायाः। `अनुसरणम्` इति। अनुगमनम्, अनुमानमित्यर्थः। `तर्क उत्प्रेक्षा` इति। आशङ्काया इमौ प्र्यायौ। `अहमेव` इत्यादि। देवैः पशुपतिरुक्तस्त्रिपुरं जहीति, तेनोक्तम् - `अहमेव पशूनामीशै` इति। ब्राहृहत्याभागं गृहाणेत्युक्ते आदित्य इदमुक्तवान् `मदग्रा एव वो ग्रहा गृह्रान्तै। मद्देवतान्येव वः पात्राण्युच्यान्तै। `ईशै`इति - `ईश ऐआर्ये` (धातुपाठः-1020), उत्तमपुरुषैकवचनम्, इट्, टेरेत्वम्, `एत ऐ` [[3.4.93]] । `गृह्रान्तै` इति - ग्रह उपादाने` (धातुपाठः-1533), <<झोऽन्तः>> [[7.1.3]] , कर्मणि <<सार्वधातुके यक्>> [[3.1.67]] , ग्रह्रादिसूत्रेण [[6.1.16]] सम्प्रसारणम्। शेषं पूर्ववत् साधनम्। `उच्यान्तै` इति - `वच परिभाषणे` (धातुपाठः-1063), वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्। शेषं पूर्ववत्। `पताम` इति - `पत्लृ गतौ` (धातुपाठः-845), मस्, <<लेटोऽडाटौ>> [[3.4.94]] इत्याट्। `जिहृआचरणेन` इत्यादिना पूर्वोक्तमाशङ्कालक्षणमुदाहरणे दर्शयति। `लिङर्थ एवायम्` इति। हेतुहेतुमद्भावः। कथम्? उपसंवादे तावत् - यदि मे भवानिदं कुर्यादहमपि त इदं दास्यामीत्येवंविधं परिभाषणलक्षणम्। तत्र च करणं हेतुः, दानं हेतुमदिति युक्त उपसंवादो लिङर्थः। आशङ्कापि कारणतः कार्यानुसरणम्। तत्रापि कारणं हेतुः, कार्यानुसरणं हेतुमदित्याशङ्कापि लिङर्थ एव। यद्येवम्म, पूर्वेणैव सिद्धम्, तत्किमर्थमिदमुच्यते? इत्याह - `नित्यार्थ वचनम्` इति। स्यादेतत् पूर्वेणैव नित्यं भविष्यतीत्याह - `पूर्वसूत्रे` इत्यादि॥", "34009": "`कथं ज्ञायते` इति। `कर्तरि कृत्` [[3.4.67]] इति वचनात् कर्त्तैव तुमर्थो युक्त इति मन्यते। `वचनसामर्थ्यात्` इत्यादि। यदि कर्त्तैव तुमर्थः स्यात् तुमर्थवचनमर्थकं स्यात्, कृत्त्वादेव हि सयादयः कर्तरि भविष्यन्ति। तस्मात् तुमर्थग्रहणाल्लिङ्गात् कर्तरि तुमुन्न भवति। `अपकृष्यते`। अपनीयते। कर्तरि न भवतीति यावत्। स्यादेतत्, कर्मादिरस्यार्थो भविष्यतीत्याह - `न च` इत्यादि। `अन्यस्मिन्` इति। कर्मादौ। यथा तर्हि कर्मादावनिर्देशान्न भवति तथा भावेऽपि न स्यात्। भावेऽपि नैव तुमुन्निर्दिश्यत इत्याह - `अनिर्दिष्टार्थाः` इत्यादि। अर्थान्तरस्य निर्देशाद्या प्रकृतिः प्रत्ययानां निमित्तत्वेनोपादीयते तदर्थस्य प्रत्यासत्तेस्तत्रैवानिनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, स पुनरिह स्वार्थो भावः। कुत एतत्? धात्वधिकारात्, धातोश्च भाववचनत्वात्। यद्येवम्, भावग्रहणमेव कुर्यात्, लघुत्वात्? नैवं शक्यम्; भावग्रहणे सति `कर्तरि कृत्` [[3.4.67]] इति वचनात्तुमुन् कर्तर्येव स्यात्। तुमर्थग्रहणे हि तुमुनोऽपि हि भाव एवार्थ इत्येतद्ज्ञापितं भवतीति न कश्चिद्दोष इति। `वक्षे` इति। `वच परिभाषणे` (धातुपाठः-1063), सेप्रत्ययः, <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `एषे` इति। इणः सेन्प्रत्ययः। `जीवसे` इति। `जीव प्राणधारणे` (धातुपाठः-562)। प्रत्ययद्वयस्याप्येतदेवोदाहरणम्, स्वरस्तु भिद्यते। `प्रेषे` इति। इणः प्रपूर्वात् क्से, <<आद्गुणः>> [[6.1.87]] । `श्रियसे` इति। `श्रिञ् सेवायाम्` (धातुपाठः-897), अस्मात् क्सेन, इयङ्। `उपाचरध्यै` इति। `चर गत्यर्थः` (धातुपाठः-559), उपाङपूर्वः। प्रत्ययद्वयस्यापीदुहारणम्, स्वरभेदात्तु भेदः। `आहुवध्यै` इति। `पा पाने` (धातुपाठः-925), शध्यै, प्राघ्रादिसूत्रेण [[7.3.78]] पिबादेशः। `मादयध्यै` इति। `मदी {हर्षग्लेपनयोः-धातुपाठः-} हर्षे` (धातुपाठः-815), हेतुमण्णिच्, शध्यैन्, गुणायादेशौ। `पातवै` इति। पिबतेस्तवै। `सूतवे` इति। `षूङ प्राणिगर्भविमोचे` (धातुपाठः-1031), तवेङ, ङित्वाद्गुणाभावः। `गन्तवे` इत्यादीन्युदाहरणानि गमिकरोतिहरतीनां यथाक्रमेण॥", "34010": "`प्रयै` इति। `अतो लोप इटि च` [[6.4.64]] इत्याकारलोपः॥", "34011": "`दृशे` इति। दृशेः केप्रत्ययः। `विख्ये` इति। विपूर्वाच्चक्षिङ ख्यातेर्वा केप्रत्ययो निपात्यते॥", "34012": "`विभाजमम्` इति। विपूर्वाद्भजेर्णमुल्। `अपलुपम्` इति। `लुप्लृ च्छेदने` (धातुपाठः-1431), कमुल्॥", "34013": "अभिचरितोः` इति। चरतेरभिपूर्वात् तोसुन्प्रत्ययः। `विलिखः, वितृदः` इति। लिखतेः, `{उ तृदिर्` धातुपाठः-}तृदिर्हिंसादानयोः` (धातुपाठः-1446) इत्येतस्माच्च कसुन्॥", "34014": "`कृत्यानामर्थो भावकर्मणी` इति। <<तयोरेव कृत्यक्तखलर्थाः>> [[3.4.70]] इतिभावकर्मणोः कृत्यानां विधानात्। `अन्तेतवै` इति। अनुपूर्वादिणस्तवै। `परिधातवै` इति। परिपूर्वाद्दधातेः। `परिस्तरितवै` इति। परिपूर्वादेव `स्तृञ् आच्छादने` (धातुपाठः-1252) इत्यस्मात्। `अवगाहे` इति। `गाहु विलोडने` (धातुपाठः-649) अक्पूर्वः। `दिदृक्षेण्यः` इति। `दृशः सन्, द्विर्वचनम्, उरत्त्वम्, रपरत्वम्, `सन्यतः` [[7.4.79]] इतीत्त्वम्, <<हलन्ताच्च>> [[1.2.10]] इति गुणाभावः, व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्,<<षढोः कः सि>> [[8.2.41]] इति कत्वम्, दिदृक्ष इति स्थिते केन्यप्रत्ययः, <<अतो लोपः>> [[6.4.48]] । `शुश्रूषेण्यः` इति। शृणोतेः सन्, <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः, द्विर्वचनमभ्यासकार्यम्, शुश्रूष इति स्थिते केन्यप्रत्ययः। `कत्त्र्वम्` इति। करोतेस्त्वम्। `सयादिसूत्रेऽपि तवै विहितः` इति। सयादीनां सूत्रं सयादिसूत्रम्, येन सयादयो विहितास्ततत्रापि तवैप्रत्ययो विहितः। `तस्य तुमर्थात्` इत्यादि। यदि तु तस्य तुमर्थ एव भावे विधिः स्यात् तस्यानर्थक्यं स्यात्; अनेनैव सिद्धत्वात्। तस्माद्यद्यपि तत्र तुमर्थ इत्युच्यते, तथापि ततोऽन्यत्र कर्मकारके कर्त्रादौ तवैप्रत्ययविधानं वेदितव्यम्॥", "34015": "`एश्प्रत्ययो निपात्यते` इति। शित्करणं सार्वधातुकसंज्ञार्थम्। तेनार्धधातुके विधीयमानः सार्वधातुके `चक्षिङ ख्याञ्` [[2.4.54]] इति ख्याञादेशो न भवति॥", "34016": "`आसंस्थातोः` इत्यादि। आसंस्थातोः शब्देन समाप्तिरुच्यते, वेद्यां सदनं लक्ष्यते। `पुरा सूर्यस्योदेतोराधेयः` इति। अत्राप्याधानक्रिया सूर्यस्योदयेन। `पुरा वत्सानाम्` त्यादौ वत्सानामपाकरणेनासनम्। `पुरा प्रवदितोः` इत्यादौ प्रवदनेन हवनम्। `पुरा प्रचरितोः` इत्यादौ प्रचरणेन हवनमेव। उत्तरयोरुदाहरणयोराहवनेनासम्भवनम्॥", "34017": "", "34018": "`प्रतिषेधवाचिनोः` इति। प्रतिषेधयोरित्यस्येदं विवरणम्।एतेन प्रतिषेधवाचित्वादलंखलुशब्दौ सूत्रे प्रतिषेधशब्देनोक्ताविति दर्शयति। भवति हि तद्वाचित्वात्ताच्छब्द्यम्; यथा - <<क्षुद्रजन्तवः>> [[2.4.8]] इति, तत्र क्षुद्रजन्तुवाचित्वाद्यूकालिक्षादयः शब्दाः क्षुद्रजन्तुशब्देनोक्ताः। `अलङ्कारः` इति। भावे घञ्। भूषणवचनोऽत्रालंशब्दः।`अलं वाले रोदनेन` इति। भावे ल्युट्। `वासरूपविधिरिति चेत्` इति। विनापि प्राग्ग्रहणेन विकल्पो लभ्यत एव। यस्मादसरूपोऽपवादो बाधको भवतीत्येवं चेन्मन्यसे,एवं तर्हि प्राग्ग्रहणम्, पूर्वं स्त्र्यधिकारात्। परेण वासरूपविधिर्नास्तीति चेतसि कृत्वा विकल्पार्थं प्राग्ग्रहणमुक्तम्॥", "34019": "`अपमित्य` इति। <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्वम्, <<कुगतिप्रादयः>> [[2.2.18]] इति समासः, `समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] इति ल्यप्, <<मयतेरिदन्यतरस्याम्>> [[6.4.70]] इतीत्त्वम्, <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] । ननु च `समानकर्त्तृकयोः पूर्वकाले` [[3.4.21]] इत्यनेनैवात्र क्त्वाप्रत्ययो भवति, अस्ति ह्यत्रापि समानकर्त्तृकत्वम्। तथा हि - य एवापमयतेः कर्ता स एव याचतेः,तत्किमर्थं विधीयते? इत्याह - `अपूर्वकालत्वात्` इत्यादि। पूर्वं ह्रसौ याचते पश्चादपमयत इति नास्ति पूर्वकालत्वम्, तस्मादप्राप्त एव क्त्वा विधीयते। विधीयतान्नमाम; अयन्तु दोषः - यदैवास्माद्वचनान्मयतेः क्त्वा भवति, तदैव समानकर्त्तृकयोरित्यस्माद्वचनाद्याचतेरपि स्यात्? नैष दोष-; यस्मात् `समानकर्त्तृकयोः` [[3.4.21]] इत्यत्र `उदीचाम्` [[3.4.19]] इति वर्तते, सा च व्यवस्थितविभाषा,तेन यदा मयतेः क्त्वा भवति तदा याचतेः क्तवा न भविष्यति। `उदीचांग्रहणात्` इत्यादि। उदीचांग्रहणमिह विकल्पार्थम्। तेन यथाप्राप्तमपि पक्षे भवति। याचतेः क्त्वा। मयतेर्लडादिः।माङिति `माङ माने` (धातुपाठः-1142) इत्यस्यायं निर्देश इति कस्यचिदाशङ्का स्यात्तस्तां निराकर्त्तुमाह - `मेङ कृतात्त्वस्यायं निर्दशः` इति। कुतः पुनरेतदवगतम्? व्यतीहारग्रहणात्। मेङेव व्यतीहारे वर्तते, न माङ, तस्मान्मेङ एवायं निर्देश इति विज्ञायते। किमर्थं पुनरेवं निर्देशः कृतः,कृते यत्र सति सन्देहः स्यात्, न मेङ इत्येवासन्दिग्धः कर्तव्य स्यादित्यत आह - `ज्ञापनार्थः`इति। मेङ इत्येवं निर्देशे कर्तव्ये यः सानुबन्धकस्य कृतात्त्वस्य निर्देशः कृतः स ज्ञापनार्थः। तेनैतज्ज्ञापयते - `नानुबन्धकृतमनेजन्तत्वम्` इति। `तेन` इत्यादिना ज्ञापनप्रयोजनं दर्शयति। यद्यमर्थो न ज्ञाप्येत ततो हलन्तत्वाद् दैप एजन्तत्वं न स्यात्। तत्र को दोषः? दाब्ग्रहणेन दैब्ग्रहणं न स्यात्; भिन्नेरूपत्वात्। ततश्च <<दाधा घ्वदाप्>> [[1.1.20]] इत्यत्र दैपः प्रतिषेधो न स्यात्। अस्मस्त्वर्थे ज्ञापिते सति भवति॥", "34020": "इहेमौ परावरशब्दौ सम्बन्धिशब्दौ। पूर्वञ्चापेक्ष्य परो भवति, परञ्चापेक्ष्।यावरः,सम्बन्धिशब्दाश्च नियतमेव प्रतियोगिनमुपस्थापयन्ति, तस्मात् सूत्रे यद्यपि विशिष्टप्रयोगो न मिर्दिश्यते, तथापि पूर्वपरयोरेव परावराभ्यां योगो गम्यत इत्याह - `परेण पूर्वस्य` इत्यादि। `परनदीयोगेन पर्वतो विशिष्यते` इति। तथा ह्रप्राप्य नदीं पर्वत इत्युक्ते परया नद्या पर्वतस्य यो योगस्तद्विशिष्टः पर्वतः प्रतीयते। `अवरपर्वतयोगेन नदी विशिष्यते` इवि। यस्मादतिक्रम्य पर्वतं नदीत्युक्तेऽवरेण पर्वतेन नद्या च यो योगस्तद्विशिष्ट नदी विज्ञायते॥", "34021": "धात्वधिकाराद्धात्वर्थस्यैव समानकर्त्तृकत्वं विज्ञायत इत्याह - `समानः कर्ता ययोर्धात्वर्थयोःट इत्यादि। निर्धारणे चेयं षष्ठी। समानशब्दश्चायमेकवाची। ननु शक्ति कारकम्, अन्या च पूर्वकालक्रियायाः, तत्कुतः समानकर्त्तृकत्वं विज्ञायते? इत्याह - `शक्तिशक्तिमतोः` इत्यादि। शक्तिः शक्तिमाँश्च शक्तिशक्तिमन्तौ। यश्च शक्त्याधारो या च शक्तिस्तयोरिह भेदो न विवक्षितः। तेन शक्त्याधार एक एव देवदत्तः कर्ता, स चोभयोरपि क्रिययोरेक एवेति युक्तं समानकर्त्तृकत्वम्। `पीत्वा` इति। पूर्ववदीत्वम्। इह `समानकर्त्तृकयोः` इति द्विर्वचनेन निर्देशः कृतः तेन द्वे एव क्रिये प्रत्युपस्थास्येते, न बह्व्यः, ततश्च द्वयोरेव क्रिययोः प्रत्युपस्थापितयोः स्यात्, न बह्वीषु? इत्याह - `द्विवचनम्` इत्यादि। क्रियाप्रधानत्वादस्य निर्देशस्य। नात्र द्विवचनं प्रधानम्; नान्तरीयकत्वात्। तेन द्विवचनेन निर्देशः कृतः। अवश्यं येन केनचिद्वचनेन निर्देशः कर्तव्यः, तस्मादतन्त्रत्वाद्द्विवचनस्य, बह्वीष्वपि क्रियासु भवत्येव।`भुक्तवति ब्राआहृणे व्रजति` सिति। अत्र भुजिक्रियाया ब्राआहृणः कर्ता, व्रजतिक्रियायास्तु देवदत्त इति समानकर्त्तृकत्वाभावः। `व्रजति जल्पति च` इति। यौगपद्यादिह क्रियायाः पूर्वकालता नास्ति।`व्यादाय` इति। ददातेव्र्याङपूर्वस्य रूपम्। `सम्मील्य` इति। `मील स्मील क्ष्मील निमेषणे` (धातुपाठः-517,519,520) इत्यस्य सम्पूर्वस्य हेतुमण्ण्यन्तस्य। किं पुनः कारणं न सिध्यीत्याह - `अपूर्वकालत्वात्ुपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - पूर्वयोगाच्चकायोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन मुखं व्यादाय स्वपितीत्यादौ पूर्वकालत्वाभावेऽपि भविष्यतीति॥", "34022": "`द्विर्वचनसहितौ` इत्यादि। आभीक्ष्ण्यं हि द्योतयितुं द्विर्वचनसहितयोरेव क्त्वाणमुलोः सामर्थ्यम्, न केवलयोः; शब्दशक्तिस्वाभाव्यात्। तस्माद्द्विर्वचनं विधेयमिति भावः। केन पुनरत्र द्विर्वचनमित्याह - `आभीक्ष्ण्ये` इत्यादि। `पायम्पायम्` इति। `आतो युक्` [[7.3.33]] ॥", "34023": "`अनाकाङ्क्षे` इति। न विद्यत आकाङ्क्षा = अपेक्षा यस्य स तथोक्तः। `क्त्वा तु पूर्वसूत्रविहितोऽपि` इति। अपिशब्दादनन्तरविहितोऽपि युक्तं यदनन्तरसूत्रविहितः प्रतिषिध्यते - `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।99) इति कृत्वा। पूर्वसूत्रेण विहितस्य तु कथं प्रतिषेधः? प्रकरणापेक्षया प्रतिषेधविधानात्। पूर्वकालप्रकरणे यत् प्राप्नोति तन्न भवतीत्येवमयं पूर्वकालप्रकरणापेक्षया प्रतिषेधः क्रियते। तस्माद्युक्तः पूर्वसूत्रविहितस्यापि प्रतिषेधः॥", "34024": "`आभीक्षण्ये` इति नानुवर्तते` इति। `अप्राप्तविभाषेयम्` इत्यत्रेयं युक्तिः। ननु च प्रताप्तविभाषेयं युक्ता,णमुल्यप्राप्ते क्त्वाप्रत्यये `समानकर्त्तृकयोः` [[3.4.21]] इत्यादिना प्राप्ते सत्यारम्भात्? नैतदस्ति; अनन्तरसूत्रविहितौ हि क्त्वाण्मुलावित्यधिकृत्याप्राप्तविभाषेयमित्युच्यते। यस्तु `समानकर्त्तृकयोः` [[3.4.21]] इत्यादिना केवलः क्त्वा विहितस्तं प्रति विभाषाग्रहणं न कर्तव्यमेव; वासरूपविधिना तत्प्रतिपादितस्यार्थस्य सिद्धत्वात्। `ननु च` इत्यादिनाऽनन्तरोक्तविभाषाग्रहणस्य प्रयोजनं विघटयति। `क्त्वाणमुली यत्र` इत्यादि। वासरूपविधिनैव पक्षे लडादिषु। सिद्धेषु यत् तदर्थं विभाषाग्रहणं क्रियते तेन यत्र क्त्वाणमुलौ युगपद्विधीयेते तत्र वासरूपविधिर्नास्तीत्येषोऽर्थो ज्ञाप्यते। किमेतस्य प्रयोजनं ज्ञापनस्य? इत्याह - `तेन` इत्यादि।`उपपदसमासः` इत्यादि। <<अमैवाव्ययेन>> [[2.2.20]] इत्युपपदसमासः प्राप्नोति, स कस्मान्न भवतीत्याह - `उक्तम्` इत्यादि। `अमैव यत् तुल्यविधानमुपपदं तत् समस्यते` (का।व।2.2.20) इत्युक्तं प्राक्। अग्ने भृतीन्युपपदान्यमा चान्येन क्त्वाप्रत्ययेन तुल्यविधानम्, अतो न समस्यन्ते॥", "34025": "`चौराङ्कारम्` इति। <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुम्। `चौरकरणम्` इत्यादि। करोतिरत्रोच्चारणक्रियः। `चौरोऽसि`इत्याक्रोशवाक्ये चौरशब्दस्य यत् करणमुच्चारणं तदाक्रोशस्यैव सम्पादनार्थम्। न हि तेनविनाऽऽक्रोशः शक्यते प्रतिपादयितुम्। `न त्वसौ चौरः क्रियते` इति। अशक्यत्वात्। न च `चौरोऽसीति शतकृत्वोऽपि ब्राउवता पुरुषस्य शक्यते चौरत्वमुत्पादयितुम्॥", "34026": "`स्वादुमीत्यर्थग्रहणम्` इति। ननु च <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इति वचनात् स्वरूपस्यैव ग्रहणेन भवितव्यम्? नैतदस्ति; शब्दानुशासनप्रस्तावादेव हि शब्दस्येति सिद्धे शब्दग्रहणं यत्र शब्दपरो निर्देशस्तत्र स्वं रूपं गृह्रते नार्थपरनिर्देश इति ज्ञापनार्थं कृतम्, इह चार्थपरो निर्देशः। तस्मादर्थग्रहणमेव युक्तम्। अर्थपरत्वं तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। अर्थग्रहणे च सति तत्पर्यायेष्वपि प्रत्ययो लभ्यत इत्याह - `स्वाद्वर्थेषु` इत्यादि। अथ `स्वादुमि` इति किमर्थं मकारान्तत्वं निपात्यते, मान्तस्योपपदस्य श्रवणं यथा स्यादिति चेत्? न; यद्येतत्प्रोयजनम्, न निपातयितव्यम्, अनन्तरसूत्रे खमुञः प्रकृतत्वात् स एव विधास्यते। अस्मश्च विहिते मुमैव मान्तत्वमुपपदस्य भविष्यतीत्येतच्चोद्यमापाकर्त्तुमाह - `स्वादुमि`इत्यादि। एतेनैतद्दर्शयति - यद्यपि खमुञि सति सिध्यति मकारान्तत्वम्, ईकारप्रतिषेधस्तु न सिध्यति, ततश्च स्वदुशब्दादुपपदात् `वोतो गुणवचनात्` [[4.1.44]] इति ङीष् प्रसज्येत्, तथा चानिष्टं रूपं स्यात्। माकारान्तत्वनिपातने हि निमित्तस्य विहितत्वान्ङीष्प्रसङ्गो नास्ति। तस्माद्योऽपि खमुञं विदधाति तेनाप्यवश्यमीकारप्रतिषेधार्थं मकारान्तं निपातयितव्यमिति। यद्यपि परस्याभिमतम् - `खमुञि विहिते मुमैव मकारान्तत्वं भविष्यति` इति, तदपि न सर्वत्रेति सूचयितुमाह - `च्व्यन्तस्य` इत्यादि। अनेनैतद्दर्शयति - यदि मकारान्तत्वं न निपात्येत, तदा सत्यपि खमुञि मकारान्तत्वं च्व्यन्तस्योपपदस्य न स्यात्; तस्याव्ययत्वात्। मुम्विधौ च <<खित्यनव्ययस्य>> [[6.3.66]] इत्यधिकारात्। तस्माद्योऽपि खमुञं विदधाति तेनापि मकारान्तत्वनिपातनं कर्तव्यम्। एवं हि मकारान्तत्वनिपातनमेव क्रियताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधातव्यः? अशक्यः खमुञ् विधातुम्; खमुञ्प्रत्यये हि मकारान्तत्वनिपातनमव्ययार्थं विज्ञायते,ततश्च `च्वौ च` [[6.3.63]] इति दीर्घत्वं स्यादेव। णमुलि सति सर्वविधयपवादस्तु विज्ञायेत, तेन दीर्घत्वमपि न भवति। अवश्यञ्चोत्तरार्थं णमुल् विधेयः, न च तस्मिन्नुत्तरत्र विधीयमाने लाघवं भवति, नापीह गौरवम्।क्व पुनरर्थ एते प्रत्या भवन्तीत्याह - `तुमरोथाधिकाराच्च` इत्यादि॥ `एते` इति। ये तुमर्थधिकारे विहिताः। `यद्येवम्` इति। यदि तुमर्थे भवन्तीत्यर्थः। `भुजिप्रत्ययेन` इत्यादि। यद्यपि णमुलाऽनभिहितः कर्ता, तथापि भुजिप्रत्ययेन लटाभिहित इति न भवितव्यं तृतीयया। ननु च शक्तिलक्षणः कर्ता, अन्या च स्वादुकरणविषया शक्तिः, अन्या च भुजिक्रियाविषया, तत्र लटाभिहितायामपि भुजिक्रियाविषायायां शक्तावितरस्याः शक्तेः कर्त्तृसंज्ञाया अनभिधानात् {प्राप्नोतीत्येव-मुद्रितः पाठः} प्राप्नोत्येव तृतीयेत्याह - `न चास्मिन्` इत्यादि। अत्र हि समानकर्त्तृकप्रकरणे शक्तमतः शक्तीनाञ्च भेदो न विवक्ष्यते। तेन शक्तिमान् देवदत्तः कर्ता। स चैक एवाभिहितश्चेति कुतस्ततीयाप्रसङ्गः। किं कारणं भेदेनोपादानं न विवक्षितम्? इत्याह - `समानकर्त्तृकत्वे हि` इत्यादि। अभ्युपगम्यापि भेदविवक्षाम्, परिहारान्तरमाह - `प्रधानशक्त्यभिधाने` इत्यादि। किं कृतः पुनरत्र कर्त्तृशक्त्योः प्रधानगुणभावः? क्रियाकृतः; स्वादुङ्कारं हि गुणभूतम्, भुजिक्रियार्थत्वात्। भुजिक्रिया तु प्रधानम्; तेनोपकार्यत्वात्। क्रियायाश्च गुणप्रदानभावात् तद्विषययोरपि कर्त्तृशक्त्योः प्रधानगुणभावो भवति। तत्र प्रधानशक्तावभिहितायामप्रदानशक्तिरभिहितत्वात् प्रकाशते = प्रतिभासते; प्रधानानुयायित्वाद्गुणानाम्। तेन तृतीया न भवतीति भावः॥", "34027": "`सिद्धाप्रयोगः` इति। सिद्धोऽप्रयोगो यस्य स तथोक्तः। `निरर्थकत्वात्` इत्यादि। अभिधेयाभावात् प्रयोजनाभावाद्वा निरर्थकत्वम्। `एवमेव` इति। निरर्थकत्वमेवेत्यर्थः। `अन्यथा भुङ्क्ते` इत्यादिना तदेवानर्थकत्वं चेतसि कृत्वा सिद्धाप्रयोगतां दर्शयति। अन्यथा भुङ्क्ते इति यावानेवार्थः करोतावप्रयुज्यमाने गम्यते तावानेवार्थः करोतावप्रयुज्यमाने गम्यते तावानेवार्थोऽन्यथाकारं भुङ्क्त इति करोतौ प्रयुज्यमानेऽपि। तस्मादनर्थकः करोतिः। कथं पुनः प्रयुज्यमान एवानर्थको भवति? अन्यथादयएते प्रकारवचनाः, ते यदानुप्रयोगधातोरर्थस् प्रकारमाचक्षते तदा कृञपि तैर्विशेष्यमाणस्तदीयप्रकारमाचष्टे, गचान्यत एवावगत इत्यनर्थको भवति। यद्येवम्, अवगतार्थत्वात् तस्य प्रयोगो न प्राप्नोति? नैवम्; अवगतार्थमपि प्रयोगो दृश्यते - अपूपौ द्वावानय, पचाम्यहमिति।`अन्यथा कृत्वा शिरो भुङ्क्ते` इत्यत्रान्यथाशब्देन पदान्तरस्य शिरसः प्रकारमाख्यायते। स विना करोतिना नावगम्यते। यदि हि करोतिर्न प्रयुज्येत, भुजिक्रियागत एव प्रकारोऽन्यथालक्षणः प्रतीयतेत, न शिरोगतः। शिरसस्तु भुज्यमानतैवावगम्येत। तस्मान्नात्र करोतिः शिद्धाप्रयोगः॥", "34028": "`असूयाप्रतिवचने` इति। असूयाप्रभवं प्रतिवचनमसूयाप्रतिवचनम्। `यद्यसूयन्` इत्यादि। असूयन्निति शत्रन्तमेतत्। कण्ड्वादियगन्तः। अस्य प्रतिवक्तीत्यनेन सम्बन्धः। प्रतिवक्ति = प्रतिभणति, प्रतिवचनं वदातीत्यर्थः। `पृच्छति` इति। सप्तम्यन्तमेतत्। पृच्छति सति यद्यसूयन् = असूयां कुर्वन् प्रतिवक्ति तदा तत्र पृच्छति यत् प्रतिवचनं तदसूयाप्रतिवचनम्। `यथाकारम्` इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनम्। `यथाकारम्` इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनमेतत्। `यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि` इति। नैतदसूयाप्रतिवचनम्। किं तर्हि? तद्व्याख्यानम्॥", "34029": "`कर्मण्युपपदे साकल्यविशिष्टे` इति। एतेन साकल्यग्रहणं कर्मविशेषणमिति दर्शयति। `{यं यं ब्राआहृणं जानाति - काशिका`} यं यं जानाति लभते विचारयति वा` इति। एतेन ज्ञानलाभविचारणार्थानां विदीनां ग्रहणमिति दर्शयति। कुतः पुनः सत्तार्थस्य ग्रहणं न भवति? तस्याकर्मकत्वात्, कर्मणीति चोपादानात्॥", "34030": "`विन्दतेः` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य॥", "34031": "`पूरयतेः` इति। एतेन निर्देशे ण्यन्तस्येदं ग्रहणमित्याचष्टे। इह कर्मणीति वर्तते। न चाण्यन्तस्य पूरेः कर्म सम्भवति; अकर्मका हि धातवो ण्यन्ताः सकर्मका भवन्ति। तस्माण्ण्यन्तस्येदं ग्रहणं विज्ञायते॥", "34032": "`समुदायेन` इति। प्रकृतिप्रत्ययोपपदसमुदायेन। एतेन वर्षप्रमाणस्य समुदायोपाधित्वं दर्शयति।`अस्यग्रहणं किमर्थम्` इति। प्रकृतत्वात् पूरयतेः, अस्येति वचनमन्तरेणापि तस्यैव लोपो विज्ञास्यत इत्यभिप्रायः। `उपपदस्य मा भूत्` इति। यद्यस्येति नोच्येत ततो यथा वर्षप्रमाणं समुदायोपाधिर्विज्ञायते, ऊलोपोऽपि तथा समुदायोपाधिर्विज्ञायेत। प्कृतिप्रत्ययोपपदस्य समुदायस्य य ऊकारान्तस्य लोपो भवतीति, ततश्चोपपदस्यापि स्यात्। तस्मात् मा भूदेष दोष इति `अस्य` इत्युच्यते॥", "34033": "`ण्यन्तात्` इति। सपुक्कस्यायां निर्देशः। पुक् च `अर्त्तिह्यी` [[7.3.36]] इत्यादिना णावेव परतो भवतीति। तस्मादत एव निर्देशाण्ण्यन्तताऽवगम्यते। `चेलार्थेषु`इति। चेलमर्धो येषामिति बहुव्रीहिः। एतेन `चेल` इत्यस्यार्थग्रहणतां दर्शयति। अर्थग्रहणे च या युक्तिः सा <<स्वादुमि णमुल्>> [[3.4.26]] इत्यत्रोक्ता, सैवेहार्थग्रहणे द्रष्टव्या। `चेलक्नोपम्` इति। वलि यलोपः, `पुगन्तलघूपधस्य` [[7.3.86]] इति गुणः, णिलोपः॥", "34034": "`कषः` इति। `कष शिष` (धातुपाठः-685,687) इति हिंसार्थधातुवर्गे पठते॥", "34035": "`पिषः` इति। `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452)॥", "34036": "`समूलघातम्` इति। <<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इति कृत्वम्, <<हनस्तोऽचिण्णलोः>> [[7.3.32]] इति तत्वम्॥", "34037": "`अहिंसार्थोऽयमारम्भःट इति। हिंसायाम् `हिंसार्थानाम्` [[3.4.48]] इति वक्ष्यमाणेन सिद्धत्वा। `नित्यसमासार्थः` इति। हिंसार्थस्यापीति शेषः। <<उपपदमतिङ्>> [[2.2.19]] इति नित्यसमासो यथा स्यादित्येवमर्थोऽयमारम्भः। तेन तु प्रत्यये सति `तृतीयाप्रभृतीन्यन्यतरस्याम्` [[2.2.21]] इति विकल्पेन स्यात्। `यथाविध्यनुप्रयोगार्थश्च` इति। <<कषादिषु यथाविध्यनुप्रयोगः>> [[3.4.46]] इति। यस्माद्धातोर्णमुल् विहितस्तस्यैवानुप्रयोगो यथा स्यात्, तेन तु प्रत्यये धात्वन्तर्सयानुप्रयोगः स्यात्।ननु च यता हन्तिहिंसार्थो भवति तदा परत्वात् तेनैव भवितव्यम्, तत्कथं नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्च हिंसार्थस्य हन्तेरयमारम्भो युज्यते? इत्यत आह - `पूर्वविप्रतिषेधेन` इत्यादि॥", "34038": "`स्नेहनवाचिनि` इत्यनेन `स्नेहने` इत्यस्यार्थमाचष्टे॥", "34039": "`वर्त्तिण्र्यन्तः` इति। निर्देशादेव वर्तेण्र्यन्तत्वं प्रतीयते॥", "34040": "`स्वपोषम्` इति। आत्मवाचिनी स्वशब्द उपपदे प्रत्ययः। `गोपोषम्` इति। आत्मीयवाचिनि। `धनपोषम्` इति धनवाचिनि। `पितृपोषम्` इति ज्ञातवाचिनि॥", "34041": "", "34042": "", "34043": "`नष्टः` इति। नशेव्र्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, <<मस्जिनशोर्झलि>> [[7.1.60]] इत्यागमस्य नुमः `अनिदिताम्` [[6.4.24]] इत्यादिना लोपः। `पुरुषेणोढः` इति। वहेर्वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्, <<सम्प्रसारणाच्च>> [[6.1.108]] इति परपूर्वत्वम्, `हो ढः` [[8.2.31]] , <<झषस्तथोर्धोऽधः>> [[8.2.40]] , <<ष्टुना ष्टुः>> [[8.4.41]] , <<ढो ढे लोपः>> [[8.3.13]] , <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः॥", "34044": "`ऊध्र्वं पूर्यते` इति। ऊध्र्वं पूरितो भवतीत्यर्थः। अनुदात्तेत्त्वादात्मनेपदम्, दिवादित्वच्छ्यन्॥`घृतनिधायम्` इति। पूर्ववद् युक्॥", "34045": "", "34046": "", "34047": "इह `मूलकेनोपदंशं भुङ्क्ते` इत्यादौ करणे तृतीया, तदन्तं मूलकाद्युपपदम्। तच्च करणमुदंशेर्वा स्यात्, भुजेर्वा? तत्रोपदंशेस्तावन्नोपपद्यते; अन्यस्मिन् {ह्रुपदिश्यमाने-मुद्रितः पाठः} ह्रुपदंश्यमानेऽन्यत् करणं भवति, इह च तदेव मूलकाद्युपदश्यते, नापरं किञ्चित्। भुजिं तु प्रत्युपपद्यत एव करणभावः, किन्तूपपदसंज्ञा न स्यात्, तदभावदुपपदसमासश्च; यस्मादुपपदमिति महत्याः संज्ञायाः करणं समर्थपरिभाषाया व्यापार्थम्, तेनेह तस्यामुपस्थितायां यमेव प्रति यस्य सामर्थ्य तमेव प्रति तस्योपपदसंज्ञाया भवितव्यम्। भुजिं तु प्रति तस्योपपदसंज्ञया भवितव्यम्। भुजिं तु प्रति मूलकादेः सामर्थ्यम्, नोपदंशि प्रतीति चोद्यमाशङ्क्याह - `मूलकादि चोपदंशे` इत्यादि। यद्यपि भुजिं प्रति मूलकादेः करणभावः तथाप्युपदंशिना सह सामर्थ्यमुपपद्यत एव; यतस्तस्य कर्म। न च भुजिना सरह सम्बन्धे सत्युपदंशिना सह सम्बन्धो निवर्तते; विरोधाभावात्। तस्मादुपपद्यत एवोपपदत्वम्, तस्मश्च सत्युपपदसमासः।`क्रियाभेदे सति`इति। क्रियाभेदग्रहणेन क्त्वाप्रत्ययविषयमुपलक्षयति। यत्र क्रियाणां पौर्वापर्यं समानकर्त्तृकत्वञ्च स क्त्वाप्रत्ययस्य विषयः। एतच्चोभयं क्रियाभेदे सति भवतीति क्त्वाप्रत्ययस्य विषय उपलक्ष्यते। `मूलकेनोपदश्य भुङ्क्ते` इति। `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः॥", "34048": "धातुसम्बन्धाधिकारादनुप्रयोगेण भवितव्यम्, द्विष्ठत्वात्। तत्र प्रत्यासत्तेरनुप्रयोगधात्वपेक्षयैव समानकर्मत्वं विज्ञायत इत्याह - `अनुप्रयोगधातुना` इत्यादि। `कालयति` इति। `{वेल कालोपदेशे (काल इति पृथग्धातुरित्येके)-धातुपाठः- कल क्षेपे-धातुपाठः-} काल विक्षेपे (धातुपाठः-1880)। `दन्तताडम्` इति। `तड आघाते` (धातुपाठः-1579), चुरादिरेव। `दण्डेनाहत्य` इत्यादि। अत्र हन्तेश्चौरः कर्म , अनुप्रयोगधातोश्च गौरिति समानकर्मकत्वाभावः। तेन क्त्वाप्रत्यय एव भवति। `आहत्य` इति। `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनाऽनुनासिकलोपः, <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] ॥", "34049": "`उपशब्दः प्रत्येकमभिसम्बध्यते` इति। रुधिकषिभ्यामुपपूर्वाभ्यामेव यथा स्यात्। `पार्(ाओपपीडम्` इति। `पीड अवगाहने` (धातुपाठः-1544), चुरादिः। `कर्षतेः` इत्यादि। `कृष विलेखने` (धातुपाठः-990, 1286) भ्वादौ तुतादौ च पठते, तत्रेह भौवादिकस्य ग्रहणम्, न तौदादिकस्य; शपा निर्देशात्। शपा निर्देशस्तस्य कृतगुणस्योच्चारणाल्लभ्यते॥", "34050": "`युद्धसंरभात्` इति। संरम्भः = मनः संक्षोभपूर्वको वाक्कायविकारविशेषः,युद्धाय संरम्भो युद्धसंरम्भः, तस्मादत्यन्तं सन्निकृष्यन्ते, प्तत्यासीदन्तीति यावत्॥", "34051": "`प्रमाणमायामः` इति। `आयामस्तु प्रमाणं स्यात्` इति वचनात्। दैघ्र्यमिति प्रसिद्धतरार्थेन शब्दान्तरेण प्रमाणशब्दस्यैवार्थं स्पष्टीकरोति। `द्व्यङ्गुलोत्कर्षम्` इति। द्व्योरङ्गुल्योः समाहारो द्व्यङ्गुलम्, `तत्पुरुषस्याङ्गुलेः` [[5.4.86]] इत्यादिनाऽच्। तेन द्व्यङ्गुलेन खण्डिकाया देघ्र्यं परिच्छिद्यते॥", "34052": "`शय्योत्थायम्िति। <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति पूर्वसवर्णः, `आतो युक्` [[7.3.33]] एवम्` इत्यादिना परीप्सां दर्शयति। `रन्ध्रापकर्षम्` इति। एवं नाम त्वरते यत् पात्रमपि नापेक्षते, स्तनरन्ध्रादेवापकृष्य मुखेन पयः पिबतीत्यर्थः। `भ्राष्ट्रापकर्षम्` इति। एवं नाम त्वरते यद्भाजनमपि दीयमानं नापेक्षते, भ्राष्ट्रादेवापकृष्य हस्तेन भक्षयति॥", "34053": "", "34054": "स्वाङ्गलक्षणमद्रवादि चतुर्थे वक्ष्यति। `अक्षिनिकाणम्` इति। `कण निमीलने` (धातुपाठः-1715), चुरादिर्निपूर्वः। `यस्मिन्नङ्गेच्छिन्ने प्राणी न म्रियते तद्ध्रतम्` इति। पाणिपादादिकम्। अध्रुवत्वं पुनस्तस्य जीवत्यपि प्राणिनि कदाचिदभावात्। यस्मिस्त्वङ्गे च्छिन्ने प्राणी म्रियते तद्ध्रुवम्, शिरःप्रभृति। ध्रुवत्वं पुनस्तस्य सदा प्राणिनि सन्निवेशात्॥", "34055": "`परिक्लेशः सर्वतो विबाधनम्` इति। सर्वतःशब्देन परिशब्दस्यार्थमाचष्टे। विबाधनशब्देनापि क्लिशेर्धातोः॥", "34056": "`विश्यादिभिः क्रियादिभिः` इति। आदिशब्देन पत्यादित्रयाणां ग्रहणम्। `अनवयवेन` इति। साकल्येन। `पदार्थानाम्` इति। गेहादीनाम्।`तात्पर्यम्` इति। क्रियाणां पौनःपुन्यमाभीक्ष्ण्यमित्यर्थः। `द्रव्ये व्याप्तिः` इत्यादिना व्याप्यमानासेव्यमानयोर्विषयविभागं दर्शयति। यदि व्याप्यमान आसेव्यमाने चार्थे प्रत्ययो भवति, एवञ्च सति तयोरर्थयोर्नित्यता वीप्सा च विद्यत इति <<नित्यवीप्सयोः>> [[8.1.4]] इति द्विवचनेन भवितव्यम्, तत् कस्मान्न भवति? इत्याह - `समानेन`इत्यादि। यद्यपि समासस्तयोरर्थयोर्न विधीयते, पुरस्तादेव प्रतिपादितम्। `तथा च वक्ष्यति`इति।भाष्यकारः। `सुप्सु वीप्सा `इति वचनात् `व्याप्तमानतायां द्रव्यवचनस्य द्विर्वचनं भवति`इत्युक्तं भवति। `तिङ्क्षु नित्यता`इति वचनात् `आसेध्यमानतायां क्रियावचनस्य द्विर्वचनं भवति` इत्युक्तं भवति। `गेहंगेहम्िति। द्रव्यमवचनस्य द्विर्वचमनम्। `गेहमनुप्रवेशमनुप्रवेशम्िति। क्रियावचनस्य।`ननु च`इत्यादि देश्यं `क्त्वानिवृत्त्यर्थम्ित्यादिना परमतमाशङ्क्य निराकरोति। स्यादेतत्, <<आभीक्ष्ण्ये णमुल् च>> [[3.4.22]] इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र यदि विश्यादिभ्यः पुनरासेवायां णमुल् विधीयेत तदा क्त्वाप्रत्ययोऽपि स्यात्। अतस्तन्निवृत्त्यर्थं पुनर्णमुलुच्यत इति? एतच्च नास्ति; इष्टत्वात्। इष्यते ह्रासेवायां विशिप्रभृतिभ्यः क्त्वा - गेहमनुप्रविश्यानुप्रविश्यास्त इति। तस्मादयुक्तं तन्निवृत्त्यर्थं पुनर्णमुल्ग्रहणम्।`द्वितीयान्तोपपदार्थम्` इत्यादि। यदि क्त्वानिवृत्त्यर्थं न प्रयुज्यते तदा द्वितीयान्तस्योपपदसंज्ञार्थं पुनर्वचनम्। अनेन `द्वितीयायाञ्च` [[3.4.53]] इत्यधिकाराद्द्वितीयान्त उपपदे प्रत्ययविधानम्। अतो द्वितीयान्तस्योपपदसंज्ञा लभ्यते। किमर्थं पुनर्द्वितीयान्तस्योपपदत्वमिष्यते? इत्याह - `उपपदसमासः` इत्यादि। पक्षग्रहणं `तृतीयाप्रभृतीन्यन्यतरस्याम्` [[2.2.21]] इति विकल्पेन समासविधानात्। स्यादेतत् - तेनापि णमुल्विधान उपपदसंज्ञा भविष्यतीत्यत आह - `तेन हि`इत्यादि। न हि तेनोपपदसम्बन्धे णमुल् विधीयते; सप्तमीस्थस्य कस्यचिच्छब्दस्याभावात्। तस्मात् तेन णमुल्विधाने सत्युपपदत्वाभाव एव स्यात्॥", "34057": "`अस्यतितृषोः`इति। `असु क्षेपणे` (धातुपाठः-1209), ञितृषा पिपासायाम्` (धातुपाठः-1228)। `क्रियामन्तरयति` इत्यादि। अन्तरं करोतीति `तत्करोति`(वा।200) इत्यादिना णिच्। `क्रियामन्तरयति क्रियान्तरः` (इति) कर्मण्यण्, णिलोपः।अन्तरशब्दश्चायमिह व्यवधाने वर्तत इति दर्शयन्नाह - `क्रियाव्यवधायकः`इति। `पाययति`इति। `पा पाने` (धातुपाठः-925), णिच्। `शाच्छा` [[7.3.37]] इत्यादिना युक्। `अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते` इति। यच्चायं पानं यच्च द्व्यहेऽतीते पानं भविता तन्मध्यवर्तित्वाद्तयसननतर्षणयोः। `अद्य पाययित्वा` इत्यादिना द्व्यहात्यासं गाः पाययतीत्यस्यार्थमाचष्टे। एतदनुसारेणान्यस्याप्यर्थो गम्यत इतिन व्याख्यातः।`द्व्यहमुपोध्य`इति। `वस निवासे`(धातुपाठः-1942), वच्यादिना [[6.1.15]] सम्प्रसारणम्, क्त्वो ल्यबादेशः `शासिवसिघसीनाञ्च` [[8.3.60]] इति षत्वम्। अत्रोपवसने भुजिक्रियाव्यवधायके वसिर्वर्तते। अत्र `अस्यतितृषोः`इति यदि नोच्येत तदेहापि स्यात्। `न गतिव्र्यवधीयते` इति। यथा मलोदाहरणेऽत्यसनेन तर्षणेन च मध्यवर्त्तिना पानक्रिया व्यवधीयते, न तथेह गतिः। तत्र चाहञ्छब्दातृ <<कालाध्वनोरत्यन्तसंयोगे>> [[2.3.5]] इति द्वितीया। सकलस्याह्न इष्वत्यसनेन व्याप्तत्वादिषुशब्दात् कर्मण्येव। `योजनमत्यस्य गाः पाययति` इति। अत्राध्ववाच्युपपदम्। क्वचित् रुआउध्नादौ पाययित्वा योजनमतिक्रम्य पाययतीत्यर्थः। `अध्वकर्मकम्`, `न कालकर्मकम्िति द्वावपि बहुव्रीही॥", "34058": "`आदिशेः` इति। `दिश अतिसर्जने` (धातुपाठः-1283)), आङ्पूर्वः॥", "34059": "`अयथाभिप्रेताख्याने` इति। यद्यदभिप्रेतमिष्टं यथाभिप्रेतम्, `यथाऽसादृश्ये` [[2.1.7]] इति वीप्सायामव्ययीभावसमासः, न यथाभिप्रेतमयथाभिप्रेतम्। अप्रियमित्यर्थः। `आचक्षे`इति। आङपूर्वाच्चक्षिङो लट्; `थासः से` [[3.4.80]] , `स्कोः संयोगाद्योरन्तेच` [[8.2.29]] इति ककारलोपः, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्,िण्कोःट [[8.1.57]] इति षत्वम्।`उक्तम्` इति। क्वोक्तम्? <<उपदंशस्तृतीयायाम्>> [[3.4.47]] इत्यत्र। उपपदसमासार्थं वचनमिति च। <<क्त्वा च>> [[2.2.22]] इत्यनेनोपपदसमासः पक्षे यथा स्यात्। कस्मात् पुनरनेन यः क्त्वा विहितस्तेन समासो भवति? यस्तु `समानकर्त्तृकयोः` [[3.4.21]] इत्यादिना विहितस्तेन न भवति? इत्याह - `तथा हि` इत्यादि। <<क्त्वा च>> [[2.2.22]] इत्यत्र `तृतीयाप्रभृतीनि` [[2.2.21]] इत्यनुवर्तते। तस्मादनेन यः क्त्वा विहितस्तेनैव पक्षे समासो भवति, न तु तेन, तृतीयाप्रभृतिषूपपदेषु क्त्वा विधीयते। अथ णमुल्ग्रहणं किमर्थम्; यावता णमुलनुवर्तत एव,ततः क्तवा चेति वक्तव्यम्? इत्याह - `णमुलधिकारे` इत्यादि। तुल्यकक्षत्वं तद्वत् तुल्यबलत्वम्। `तेन` इत्यादि। ज्ञापकस्य प्रयोजनं दर्शयति। यदि `क्त्वा च` इत्युच्येत। चकारेण यत्नादनुकृष्टो णमुलुत्तरत्र नानुवर्तेत; यत्नाभावात्। यथा तेन क्त्वाप्रत्ययस्यान्वाचीयमानता विज्ञायेत ततश्चोत्तरत्र तस्याप्रधान्यादनुवृत्तिर्न स्यात्। पुनर्णमुल्ग्रहणे सति सहनिर्देशात् क्त्वाणमुलोर्गुणप्रधानभावो न भवतीति द्वयोरप्यनुवृत्तिर्भवति॥", "34060": "`तिर्यक्कृत्वा` इति। तिरोऽञ्चतीति ऋत्विगादिना [[3.2.59]] क्विन्। <<झलां जशोऽन्ते>> [[8.2.39]] इति चकारस्य जकारे कृते <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम् - गकारः, तस्यापि चर्त्वम् - ककारः, <<तिरसस्तिर्यलोपे>> [[6.3.94]] इति तिर्यादेशः।\t`तिर्यक्कृत्वा `{काष्ठं इति मूलपाठः} काण्डं गतः`इति। अनृजृ कृत्वा। पार्(ातः कृत्वेत्यर्थः।अथ `तिर्यचि` कोऽयं निर्देशः, यावता भसंज्ञायां सत्यां `अचः` [[6.4.38]] इत्यकारलोपे कृते तिरश्चीति भवितव्यमित्यत आह - `तिर्यचि` इत्यादि। सर्वत्र ह्रनुकरणभूतशब्दः शब्दस्वरूपस्यैवानुकरणम्। एतावांस्तु विशेषः - क्वचिच्चब्दपदार्थस्यानुकरणम्, क्वचिदर्थस्येति। तत्रानुकरणमित्येतावपि वक्तव्ये शब्दरूपग्रहणं शब्दरूपमात्रस्यार्थरहितस्यैतदनुकरणमिति ज्ञापनार्थम्। तदेतदुक्तं भवति - शब्दपदार्थको यस्तिर्यक्छब्दस्तस्येदमनुकरणम्, न तु स एव। तेन शब्दान्तरत्वादकारलोपो न भवतीति भावः। नन्वेवमपि `प्रकृतिवदनुकरणं भवति`(व्या।प।113) इति भवितव्यमेवात्र प्रकृतिकार्येणाकारलोपेन? इत्यत आह - `न च` इत्यादि। अत्रैवोपपत्तिमाह - `अनुक्रियमाणरूपविनाशप्रसङ्गात्` इति। यद्यत्र प्रकृतिकार्यं स्यात् ततो यादृशमनुकरणं तिर्यगिति शब्दरूपं तस्य विनाशोऽनुपलब्धिः स्यात्। यादृशमनुकर्त्तुमिष्टमकृताकारलोपं तादृशं न प्रतीयेतेत्यर्थः। यतएवं प्रकृतिवदनुकरणभावे सत्येष दोष आपतति, ततोनेह प्रकृतिवदनुकरणेन भवितव्यम्। `प्रकृतिवदनुकरणं भवति` (व्या।प।113) इत्यस्य तु यत्रार्थपदार्थस्यानुकरणं सोऽवकाशो वेदितव्यः। क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह - `एतदोऽश्` इत्यादि। एतदोऽदस इत्युभयमप्येतच्छब्दरूपपदार्थकस्यानुकरणम्। यदि च शब्दपदार्थकस्य यदनुकरणं तस्यापि प्रकृतिभावः स्यात्, तदा त्यदाद्यत्वादिके प्रकृतिकार्ये कृते - एतस्य, अमुष्येति रूपं स्यात्। तस्याद्यथेह प्रकृतिभावो न भवति,तथातिर्यचीत्यत्रापि॥", "34061": "`यथासंख्यमत्र नेष्यते` इति। कथं पुनरिष्यमाणमपि न भवति, यावता द्वे प्रकृती, प्रत्ययावपि द्वावेवेत्यस्ति यथासंख्यप्राप्तिनिमित्तम्? `कृभ्वोः` इति निर्देशाल्लक्षमव्यभिचारचिह्नात्। इह प्रत्यये विधीयमाने `परश्च` [[3.1.2]] इति सम्बन्धाद्दिग्योगलक्षणया पञ्चम्या भवितव्यम्, ततर् कृभूभ्यामिति पञ्चमीनिर्देशे कर्तव्ये योऽयं `कृभ्वोः` इति निर्देशाल्लक्षणव्यभिचारचिह्नात्। इह प्रत्यये विधीयमाने `परश्च` [[3.1.2]] इति सम्बन्धाद्दिग्योगलक्षणया पञ्चम्या भवितव्यम्, तत्र कृभूभ्यामिति पञ्चमीनिर्देशे कर्तव्ये योऽयं `कृभ्वोः` इति षष्ठीनिर्देशः स लक्षणव्यभिचारचिह्नम्, तेन यथासख्याभाव इति वेदितव्यम्। `मुखतः` इति। <<अपादाने चाहीयरुहोः>> [[5.4.45]] इति तसिः।`मुखीकृत्य` इति। अत्र मुखशब्दश्च्व्यन्तः। `अभूततद्भावे` [[5.4.50]] इत्यादिना च्विः, <<अस्य च्वौ>> [[7.4.32]] इतीत्त्वम्। `मुखे तस्यति` इति। `तसु उपक्षये`, (धातुपाठः-1212) <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्, हल्ह्रादिना [[6.1.66]] सुलोपः, रुत्वविसर्जनीयौ। धातुरत्र तस्शब्दः, न तु प्रत्ययः। तेन तदन्त डपदेशे क्त्वाणमुलौ न भवतः, `समानकर्त्तृकयोः` [[3.4.21]] इति क्त्वैव भवति॥", "34062": "`नार्थो धार्थश्च` इति। नाप्रत्ययसहचरितोऽर्थो ना इत्युच्यते, धाप्रत्ययसहचरितश्च धा इति। नाऽर्थो यस्य प्रत्ययस्य स नार्थः धाऽर्थो यस्य प्रत्ययस्य स धार्थ इति। `द्विधाकृत्य` इति। <<संख्याया विधार्थे धा>> [[5.3.42]] । `द्वैधं कृत्वा` इति। `द्वित्र्योस्च धमुञ्` [[5.3.45]] इति धमुञ्। `द्वेधाकृत्य` इति। `एधाच्च` [[5.3.46]] इत्येधाच्।`हिरुक् कृत्वा, पृथक् कृत्वा` इति। असति प्रत्ययग्रहणे हिरुक्पृथक्शब्दयोरसहार्थत्वात् नार्थत्वनमस्तीति तयोरप्युपपदयोः क्त्वाणमुलौ स्याताम्। पूर्वसूत्रादेव प्रत्ययग्रहणानुवृत्त्या सिद्धे पुनरिह प्रत्ययग्रहणं सुखप्रतिपत्त्यर्थम्। पूर्वकं हि प्रत्ययग्रहणं समासैकदेशत्वाद्यत्नानुवृत्तं स्यात्। `नाना कृत्वा काष्ठानि गतः` इति। च्व्यर्थोऽत्र नास्ति; प्रकृत्यन्यावस्थाया अविवक्षितत्वात्। `धार्थमर्थग्रहणम्` इति। धाप्रत्ययोऽर्थः प्रयोजनं यस्य तत् तथोक्तः। धार्था हि प्रत्यया बहवः,तत्रसत्यर्थग्रहणे धाप्रत्ययस्यैव ग्रहणं स्यात्, नान्येषां तदर्थानाम्। अथग्रहणे तु सति तेषामपि ग्रहणं भवति। अथ नार्थमप्यर्थग्रहणं कस्मान्न भवति? इत्याह - `ना पुनरेक एव` इति। अर्थग्रहणं हि तत्र क्रियते यत्र बहवो ग्राह्राः सम्भवन्ति, नाप्रत्ययस्त्वेक एव,तस्य चार्थग्रहणमन्तरेण सिध्यतीति न तदर्थमर्थग्रहणम्। ननु च घमुञादीनामपि स्थानिवद्भावादेव धाग्रहणेन ग्रहणं भविष्यति, अतोधार्थमप्यर्थग्रहणमयुक्तम्? नैष दोषः; अघादेशोऽपि धार्थप्रत्ययोऽस्ति, `घमुञन्तात् स्वार्थे डदर्शनम्` (व्या।प।610) इति वचनात्। तस्माद्धार्थमर्थग्रहणं कर्त्तव्यम्।वयं तु ब्राऊमः - नार्थमप्यर्थग्रहणं कर्तव्यमेव। तथा हि - द्वौ नाप्रत्ययौ; एको निरनुबन्धकः, द्वितीयः सानुबन्धकः। तत्रासत्यर्थग्रहणे `निरनुबन्धग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति नाप्रत्ययस्यैव ग्रहणं स्यात्, न सानुबन्धकस्य नाञः। अर्थग्रहणे तु सति तस्यापि ग्रहणं भवति॥", "34063": "ननु च <<स्वाङ्गे तस्प्रत्यये कृभ्वोः>> [[3.4.61]] इत्यतो भूग्रहणमनुवर्तत एव, तत् किमर्थं भुव इतीहोच्यते? इत्याह - `भूग्रहणम्` इत्यादि। पूर्व हि भूग्रहणं कृञा सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्; अतस्तन्निवृत्यर्थं पुनरिह भूग्रहणम्॥", "34064": "`अन्वचि` इति निर्देशस्तिर्यचीत्यनेन व्याख्यातः। `अन्वग्भूय`इति। पूर्ववत् क्विनि कृते तदन्तस्य जश्त्वे कृते च रूपम्। `अन्वग्भूत्वाट इति। अनुचरो भूत्वा तिष्ठतीत्यर्थः॥", "34065": "ननु च `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्` [[3.3.10]] इत्येवं शकादिषूपपदेषु तुमुन् सिद्धः, तत् किमर्थोऽयमारम्भ इत्याह - `अक्रियार्थोऽयमारम्भः` इति। अक्रियार्थेष्वपि शकादिषु तुमुन् यथा स्यादित्येवमर्थोऽयमारम्भः। न हि शक्नोति भोक्तुमित्यादौ क्रियार्थोपपदं गम्यते। किं तर्हि? अर्थान्तरम्, अन्यदेव। इह तावत् - `शक्नोति भोक्तुम्, उत्सहते भोक्तुम्, जानाति भोक्तुम्` इति प्रावीण्यं गम्यते। `ग्लायति भोक्तुम्` इति तदशक्तता गम्यते, `घटयति भोक्तुम्, अर्हति भोक्तुम्` इति तद्योग्यतामात्रम्। `आरभते भोक्तुम्, प्रक्रमते भोक्तुम्` इति भुजेरेवाद्यावस्थानक्रियान्तरम्। `लभते भोक्तुम्` इति प्रत्याख्यानम्। `अस्ति भोक्तुम्` इत्यादौ सम्भवमात्रम्॥", "34066": "`पर्याप्तिरन्यूनता` इति। परिपूर्णतेत्यर्थः। `अलमर्थविशिष्टेषु` इति। यद्यपि भूषणादयोऽलमर्थाः, तथापि पर्याप्तिवचने सामर्थ्येमेव सम्भवतीति तदेव गृह्रते। प्रयोगदर्शनार्थबोधेन व्याख्यानतो वा। तेनालमर्थविशिष्टेष्वित्ययमर्थो भवति। यद्येवम्, सामर्थ्येष्वित्येवं कस्मान्नक्तम्? नैवं शक्यम् ; एवं ह्रुच्यमाने सामर्थ्येन भुङ्क्ते, बलेन भुङ्क्त इत्यादावपि स्यात्। यथान्यासे तु न दोषः; न ह्यत्र पर्याप्तिर्दृश्यते। किं तर्हि? सौकर्यम्। सुकरमेतदित्यर्थः। यथाविध्यस्य सम्भवमात्रं विवक्षितम्, सम्भवत्येवंविधस्य करणमित्यर्थः॥", "34067": "किमर्थमिदम्? कर्तरि तृजादयो यथा स्युः। क्व तर्हि स्युः? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे (पु।प।पा।90)। ननु च स्वार्थे यत्र प्रत्ययमिच्छति तत्र भावग्रहणं करोति, यथा - घञादिविधौ भाव इति, न चैते घञादयः स्वार्थे भवन्ति, किं तर्हि? तस्य धर्मे सिद्धताख्ये; तथा लकारादिविधौ <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इत्यत्र सूत्रे लकारा अपि नैव स्वार्थे विधीयन्ते, किं तर्हि? तस्य धर्मे साध्यताख्ये? यद्यपि घञादीनां लकाराणाञ्च भावे विधानम्, तथापि शब्दशक्तिस्त्वाभाव्यादेष विषयविभागो लभ्यते। घञादीनां हि धात्वर्थस्य सिद्धतामेवाभिधातुं सामर्थ्यम्, लकाराणां साध्यतामेव। तदेवं यदनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, तस्मात् तृजादयोऽपि तत्रैव भवेयुः, अतः कर्तर्येव ते यथा स्युरित्येवमर्थमिदमारभ्यते।अत्र च द्वेधम् - कृदुत्पत्तिवाक्यानामयं शेषो वा स्यात् - ण्वुल्तृचौ कर्तरि, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कर्तरीति? अर्थादेशो वा? निरपेक्षैः स्वैः स्वैर्विधायकैवर्वाक्यैर्विहितानां कृतां पश्चादनेनार्थ आदिश्येत - ये न लक्षणान्तरैः कृतो विहितास्ते कर्तरि वाच्ये भवन्तीति। तत्र यदि द्वितीयः पक्ष आश्रीयेत ततो यथा तृजादीनामनेनर्थ आख्यायते, तथा ख्युन्नादीनामपि; विशेषानुपादानात्, ततस्तेऽपि कर्तरि स्युः। स्वेषु विधिवाक्येषु करणादीनामुपादानात् कणादिष्वपि। यद्यप्येकस्य प्रत्ययस्य कर्तरि करणे च यगुपद्वृत्तिर्न सम्भवति, तथापि वचनसामर्थ्यात् पर्यायेण कर्तरि करणे च स्युरिति। तस्माद्दुष्टोऽयं पक्ष इति प्रथमं पक्षमाश्रित्याह - `कृदुत्पत्तिवाक्यानाम्` इत्यादि। अनेन तेषामस्य चैकवाक्यतामाह। यद्येवम्, ख्युन्नादिवाक्येष्वप्यनेनोपस्थातव्यम् - तेषामप्ययं शेष इति कृत्वा, ततश्चास्मिन्नपि पक्षे द्वितीये पक्षे भावी दोषः स्यात्? इत्यत आह - `तत्र येषु` इत्यादि। तत्रैव हे#उतमाह - `अर्थाकाङ्क्षत्वात्` इति। शेषो हि तेषां भवति यान्यपरिसमाप्तत्वादर्थमाकाङ्क्षन्ति, नान्येषाम्। अतो येषु वाक्येष्वर्थो न#आदिश्यते तेषामेव साकाङ्क्षत्वात् शेषोऽयं युक्तः। तृजादीनामेव विधायकानि वाक्यान्यर्थानादशादर्थाकाङ्क्षाणि। तथा हि - `ण्वुल्तृचौ भवतः` इत्युक्तेऽर्थविशेषाकाङ्क्षा भवति - क्वेमौ भवत इति। तस्मात् तेषामेवायं शेष इति तेष्वेवोपतिष्ठते। `न ख्युन्नादिवाक्येषु` इति। `उपतिष्ठते` इति। प्रकृतेनैव सम्बन्धः। `साक्षात्` इत्यादि। अनुपस्थाने कारणम्। ख्युन्नादिवाक्यान्यर्थाकाङ्क्षाणि न भवन्ति, तेषु करणादीनामर्थानां साक्षान्निर्देशात्। तस्यान्न तेषामयं शेष इति न तेषूपतिष्ठते,अतो न भवत्येष दोषप्रसङ्गः॥", "34068": "भव्यादिषु गेयप्रवचनीयोपस्थानीयाः सकर्मकाः। तेन तेषां कर्मणि प्राप्ते कर्तरि च निपातनम्। शेषाणामकर्मकाणां भावे कर्तरि च। `भव्यः` इति। `अचो यत्` [[3.1.97]] , गुणः, <<धातोस्तन्निमित्तस्यैव>> [[6.1.80]] इत्यवादेशः। `गेयः` इति। `ईद्यति` [[6.4.65]] इतीत्त्वम्,गुणः। `साम्नाम्` इति। कर्मणि कृद्योगलक्षणा षष्ठी। `उपस्थानीयः` इति। अनीयर्। `जन्यः`इति। `अचो यत्` [[3.1.97]] इत्यत्र `तकिशसियतिचतिजनीनामुपसंख्यानम्` (वा।213) इति यत्। `आप्लाव्यः` इति। प्लवतेः <<ओरावश्यके>> [[3.1.125]] ण्यत्,वृद्धिः, पूर्ववदावादेशः। `आपात्यः` इति। `ऋहलोण्र्यत्` [[3.1.124]] ॥", "34069": "पूर्वसूत्रेण कृत्संज्ञकत्वाल्लकारः कर्तर्येव प्राप्नोति न भावकर्मणोः, अतस्तयोरपि यथा स्यादित्येवमर्थमिदमारब्धम्। `ल इत्युत्सृष्टानुबन्धकम् इत्यादि। लडादीनां दशानां लकारानां विशेषकराननुबन्धानुत्सृज्य `लः` इति सामान्यं गृह्रते। `प्रथमाबहुवचनान्तञ्चैतत्` इति। पञ्चमीषष्ठेकवचनाशङ्कां निराकरोति। पञ्चम्यां ह्रस्यां लकारात् परो यस्तस्यैवार्थो निर्दिष्टः स्यात्, ततश्च कर्तर्येव लकारः स्यात्, षष्ठआमेवास्यामनन्तर्यलक्षणा विज्ञायेत। तथा च लकारस्य योऽनन्तरस्तस्यैवार्थनिर्देशः स्यात्, ततश्च स एव दोषो यः पञ्चम्याम्। अत्राप्यादेशापेक्षया षष्ठी विज्ञायते?एवमपि लकारादेशानामनेनामर्थो निर्दिश्यत इत्ययमेव विषयार्थो न निर्दिष्टः स्यात्। ननु च लकारस्य प्रयोग एव नास्ति, तत्कथं तस्यैव कर्मादयोऽर्थाः? सामर्थ्यात् तदादेशानामेतेऽर्था विज्ञास्यन्त इत्यदोषः। `सकर्मकेभ्यो भावे न भवन्ति` इति। अकर्मकेभ्य इति वचनात्; अन्यथा हि तदनर्थकं स्यात्॥", "34070": "`तयोरेव भावकर्मणोः` इति। एतेन `तयोः` इत्यनेन `भावकर्मणोः` इत्यस्य प्रत्यवमर्श इति दर्शयति। ननु चानन्तरसूत्रे द्वे वाक्ये - `लः कर्मणि भवन्ति कर्तरि च` इत्येकं वाक्यम्, `भावे चाकर्मकेभ्योऽपि भवन्ति कर्तरि च` इति द्वितीयम्, तत्रानन्तरवाक्यश्रुतयोः कर्त्तृभावयोरेव तयोरित्यनेन प्रत्यवमर्शो युक्तः? नैष दोषः। यदयमुत्तरसूत्रे `कर्तरि च` [[3.4.71]] इति करोति,ततोऽवसीयते - भावकर्मणोरेव प्रत्यवमर्श इति यदि भावकत्र्रोरेव प्रत्यवमर्शः स्यात्, कर्त्तृग्रहणमनर्थकं स्यात्; कर्तर्यनेनैव सिद्धत्वात्। एवं हि तत्र वक्तुं युक्तं स्यात् - कर्मणि चेति, कर्मणि केनचिदप्राप्तः स्यात्। यदा पुनरिह भावकर्मणोः प्रत्यवमर्शस्तदा युक्तं कर्तरिग्रहणम्, कर्तर्यप्राप्ते यथा स्यात्। यथाप्राप्तं भावकर्मणोः। तस्माद्भावकर्मणोरेव प्रत्यवमर्शो युक्तः। `एवकारः` इत्यादिना एवकारस्य व्यवच्छेद्यं अपकर्षणार्थः = निवृत्त्यर्थः।`शयितम्` इति। `निष्ठा शीङ` [[1.2.19]] इत्यादिना कित्त्वप्ररतिषेधाद्गुणः।`ईषत्करः,सुकरः` इति। `ईषदुःसुषु` [[3.3.126]] इत्यादिना खल्। `ईषदाढंभवम्` इति। अत्रापि `कर्त्तृकर्मणोश्च भूकृञोः [[3.3.127]] ॥", "34071": "`आदिकर्मणि` इति। आदिश्चासौ कर्म चेति विशेषणसमासः। `क्रियाक्षणः` इति। एतेन कर्मशब्दोक्रियां कर्माचष्टे, न साधनं कर्मेति दर्शयति। कुतः पुनरेतदवसितम् - `क्रियां कर्माचष्ट इति? आदिशब्देन विशेषणात्। बहुनां क्रियाक्षणनामादिमध्यान्तभावे सत्यनादिभूतक्रियाक्षमव्यवच्छेदादादिभूतो यः क्रियाक्षणस्तदादिकर्मेति युक्तं प्रतिपादयितुम्। आदिग्रहणेन साधनं कर्म त्वेकमेवेत्यादिशब्देन विशेषयितुं न शक्यते; आदेरनादिभूतत्वापेक्षत्वादादिशब्दस्य तत्राप्रवृत्तिः, व्यवच्छेद्याभावात्। आदिकर्मणि च `भूते` [[3.2.84]] इत्यनुवर्तमाने `निष्ठा` [[3.2.102]] इत्यनेनैव विहित इति दर्शयतिन्नाह - `तस्मिन्` इत्यादि। आद्यो यः क्रियाक्षणः स परिनिष्पन्नत्वाद्भूतो भवतीति युक्ता तस्य भूतत्वेन विवक्षितता। `प्रकृतः कटं देवदत्तः` इति। कर्तरि क्तः। तेनैव कर्ताऽभिहित इति देवदत्तशब्दात् तृतीया न भवति। कर्मणस्त्वनभिहितत्वात् कटशब्दाद्द्वितीया भवत्येव। `प्रकृतः कटो देवदत्तेन` इति। अत्र कर्मणि क्तः। तेनैव कर्णणोऽभिहितत्वाद्द्वितीया न भवति। कर्तरनभिहितत्वाद्देवदत्तशब्दात् तृतीया भवत्येव। `प्रकृतं देवदत्तेन` इति। भावे क्तप्रत्ययः। सर्वत्र प्रशब्द आदिकर्म द्योतयति। ननु चादिभूतक्रियाक्षमकाले कटोऽनभिनिर्वृत्त एव भवति, कटकारणभूता एव पीरणादयस्तदानीं सन्ति, न च तदवस्थः कटः तदवस्थः कटः, तत्कथं प्रकृतः कट इति भूतकालेन प्रकृतशब्देन कटस्य सामानाधिकरण्यम्? आद्येन क्रियाक्षणेन यो वीरणादीनां विशेष आहितस्तत्र तादथ्र्यात् कटशब्दो वर्तते, स च भूत एवेत्यदोषः॥", "34072": "`उपस्थितः` इति। `द्यतिस्यतिमास्थामिति किति` [[7.4.40]] इत्तीत्वम्। `अनूषितः` इति। वच्यादिना (6.1.15 सम्प्रसारणम्, `वसतिक्षुघोः` [[7.2.52]] इतीट्, `शासिवसिघसीनाञ्च`\t इति षत्वम्। `अनुजातः` इति। <<जनसनखनां सञ्झलोः>> [[6.4.42]] इत्यात्त्वम्। `आरूढः` इति। `हो ढः` [[8.2.31]] , `झषस्तथोर्द्धोऽधः` [[8.2.40]] इति धत्वम्, <<ष्टुना ष्टुः>> [[8.4.41]] , <<ढो ढे लोपः>> [[8.3.13]] , <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः। `अनुजीर्णः` इति। `जृ वयोहानौ` (धातुपाठः-1494), `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, `हलि च` [[8.2.77]] इति दीर्घत्वम्, `रदाभ्याम्` [[8.2.42]] इत्यादिना नत्वञ्च।ननु च श्लिषादीनामकर्मकत्वादेव सिध्यतीति तत्किमर्थमेषां ग्रहणमित्याह - `श्लिषादयः` इत्यादि। `तदर्थम्` इति। सकर्मकार्थमित्यर्थः॥", "34073": "`गोघ्नः` इति। स एव हन्तेः पचाद्यच्। सम्प्रदानेऽच् निपात्यते, उपधालोपश्च। अथ वा - टक्प्रत्ययो निपात्यते, उपधालोपश्च `गमहन` [[6.4.98]] इत्यादिनैव सिद्धः, `हो हन्तेः` [[7.3.54]] इत्यादिना कुत्वम्। यदि सम्प्रदाने `गोघ्नः` इति निपात्यते, ततश्चाण्डालादेरपि तेनाभिधानं प्राप्नोति; यस्मात् तस्मै अपि ये ह्रागताय दातुं घ्नन्ति तेऽपि सुकृत इत्यत आह - `निपातनसामर्थ्यात्` इत्यादि। यथैव ह्यत्र निपातनसामर्थ्यात् किञ्चिदलाक्षणिकं कार्यं लभ्यते तथाऽर्थविशेषोऽपि। तस्माद्यद्यपि `गोघ्नः` इत्यविशेषेण निपात्यते, तथापि विशिष्टस्यैव। तेन ऋत्विगादेरभिधानम्, नान्यस्य चाण्डालादेः। यदा तर्हि दातुं हन्यते तदा तस्य गोघ्न इत्यभिधां न प्राप्नोतीत्यत आह - `असत्यपि` इत्यादि। यथा ह्रपचन्नपि योग्यतया पाचक इत्युच्यते, तथाऽसत्यपि गोहनने गोघ्न इति॥", "34074": "`{उणादिप्रत्ययान्ता एते - काशिका`} ऊणादिप्रत्यया एते`। इति। उणादयः प्रत्यया येषां ते तथोक्ताः। के पुनस्त उणादयः प्रत्ययाः? इत्यत आह - `श्याधूसूभ्यो मक्` इत्यादि। आदिशब्देन मङ्क्वन्नादीनां ग्रहणम्। यदि तर्ह्रुणादिप्रत्यया एते, एवं सत्युणादिप्रत्ययानां रूढिशब्दात् क्रियाकारकसम्बन्धाभावादपादाने वृत्तिर्न सम्भवत्येव? नैष दोषः; रूढिशब्देष्वपि केषाञ्चित् क्रियाकारकसम्बन्धोऽस्त्येव, यथा - तैलपायिकादिषु। अतोऽदेश्यमेतत्। `ताभ्याम्` इत्यादि। ननु चासत्यस्मिन् सूत्रे ताभ्यामित्येष निर्देशो नोपपद्यते; अपादानस्याप्रकृतत्वात्, तत्कुतः पर्युदासस्य प्रसङ्गः? नैष दोष-; अर्थकत्वमेतत्। अस्मिन् ह्रसति तत्रैवं सूत्रं कर्तव्यम् - ततोऽपादानाच्चान्यत्रोणादय इति। तथा च यदीदं नोच्येत,तदा स्यादेव पर्युदासः॥", "34075": "अथ किमर्थं ताभ्यामित्यनेन सम्प्रदानापादानप्रत्यवमर्शः क्रियते, एतावदेव वक्तव्यम् - अव्यत्रोणादय इति, प्रकृतत्वादेव हि तयोस्ताभ्यामन्यत्रोणादयो विज्ञास्यन्ते? अत आह - `सम्प्रदानप्रत्यवमर्शार्थम्` इत्यादि। `अन्यथा हि` इत्यादि। यदि `ताभ्याम्` इत्यनेन तयोः प्रत्यवमर्शो न क्रियते इत्यर्थः। `अनन्तरत्वात्` इत्यादि। `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति न्यायादपादानस्यैव पर्युदासः स्यात्, यदि ताभ्यामिति निर्देशो न क्रियेत। `कृषिः` इति। `इक् कृष्यादिभ्यः` (वा।324) इतीक्। `तन्तुः` इति। `सितनिगमिमसिसच्याविधाञ्क्रुशिभ्यस्तुन्` (द।उ।1।122) इति तुन्। `चर्म` इति। मनिन्॥", "34076": "ननु च नेयं लोके प्रसिद्धिः - ध्रौव्यार्था अकर्मकाः, प्रत्यवसानार्था अब्यवहार्था इति, तत्कथमयमर्थो लभ्यते? इत्यत आह - `स्वनिकायप्रसिद्धिः` इति। स्वनिकायः = वैयाकरणसङ्घः, तत्रेयं प्रसिद्धिः। `कर्त्तृभावाधिकरणेषु` इति। भावकर्मणोः `तयोरेव` [[3.4.70]] इत्यादिना। `इदमेषाम्` इति। `अधिकरणवाचिनाम्` [[2.3.68]] इति षष्ठी।`कथम्` इत्यादि। `भुक्ता ब्राआहृणाः, पीता गावः` इति। कर्तरि निष्ठा, अन्यथाऽनभिहितत्वात् कर्त्तुब्र्राआहृणशब्दाद्गोशब्दच्च कर्तरि तृतीया स्यात्। न प्रत्यवसानार्थेभ्यः केनचित् कर्तरि क्तो विहितः, तत्कथमेतौ सूत्रादनन्तरमिदं कस्मान्न पठते, एकः एवं सति गुणो भवति, द्विः क्तग्रहणं न कर्तव्यं भवति। तदेवं वक्तव्यम् - आदिर्मणि क्तः कर्तरि च, ततः श्लिषशीङस्थासवजनरुहजीर्यतिभ्यश्च, ततोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य इति, एवञ्च द्विः क्तग्रहणं गत्यर्थाकर्मकग्रहणञ्च न कर्तव्यं भवति? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने यथा ध्रौव्यार्थेभ्यः कर्तरि क्तो भवति, तथा प्रत्यवसानार्थेभ्योऽपि स्यात्, स च नेष्यते। तस्माद्यथान्यासमेवास्तु॥`अकार उच्चारणार्थः` इति। एतेनानुबन्धशङ्कां निराकरोति। अनुबन्धे ह्रस्मिन्नकारानुबन्धविशिष्टयोरेव लङलटोग्र्रहणं स्यात्, नान्येषां लिडादीनाम्। `अर्थविशेषे`इति। कर्त्तृकर्मादौ`। `कालविशेषे` इति। वर्तमानादौ। `अक्षरसमाम्नायवत्` इति। यथाऽक्षरसमाम्नाये प्रत्याहारेऽकारादयो वर्णा आनुपूर्व्या कथ्यन्ते, तद्वदित्यर्थः।`अथ लकारमात्रस्य ग्रहणं कस्मान्न भवति` इति। विशेषानुपादानामिति भावः। `चूडालः` इति। <<प्राणिस्थादातो लजन्यतरस्याम्>> [[5.2.96]] इति लच्। `धात्वधिकारः` इति। `धातोः` [[3.1.91]] इति पञ्चम्यन्तमनुवर्तते, तेन च लकारो विशिष्यते - धातोर्विहितस् लस्येति। <<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इत्यादौ प्रकारणे येऽर्थाः कर्त्तृकर्मभावा निर्दिष्टास्त इहानुवर्तन्ते, तैश्च लकारो विशिष्यते - कत्र्रादिषु विहितस्य लस्येति। तेन विसिष्टस्यैव लकारस्य ग्रहणं भवति, न सर्वस्येति भावः॥", "34077": "", "34078": "`पकारः स्वरार्थः` इति। `अनुदात्तौ सुप्तितौ` [[3.1.4]] इत्यनुदात्तो यथा स्यात्। `इटष्टकारः` इत्यादि। ननु चासत्यप्येतस्मिन् विशेषणार्थे नैवं किञ्चिदनिष्टं प्राप्नोति, `इटोऽत्` [[3.4.106]] इत्यत्र सूत्रे लिङादेशस्येटोऽद्विधानात्, ततोऽन्यस्य लिङ्गादेशस्येकारस्यासम्भवात्। तिवाद्यवयवोऽस्तीति चेत्? न; तस्यालादेशत्वात्। तिबादयो हि समुदाया लादेशाः, न च तदवयवा इकारादयः। अर्थवद्ग्रहणे (व्या।प।1) परिभाषयार्थवदिकारस्य ग्रहणे सति कृतस्तबाद्यवयवस्य प्रसङ्गः ! न हि तेऽर्थवन्तः; तिबादीनामेव समुदायानामर्थवत्वात्। तस्मान्न कर्तव्य एव टकारः? सत्यं न कर्तव्यं, य एवं प्रतिपत्तुं समर्थस्तं प्रति; यस्त्वसमर्थस्तं प्रति कर्तव्य एव। अथ <<आद्यन्तौ टकितौ>> [[1.1.46]] इति विशिष्टदेश आगमभूतस्यास्य विधानं यथा स्यादित्येवमर्थष्टकारः कस्मान्न विज्ञायते? इत्याह - `तिबादिभिः` इत्यादि। तुल्यत्वम् = सदृशत्वम्, तत्ुपनरेकयोगनिर्दिष्टत्वेन। तस्मिन् सति लस्य [[3.4.77]] इत्यनया षष्ठआ सर्वेषं तिबादीनां सम्बन्धो भवति। द्वितीये त्विट एव। तत्र यस्मिन्पक्ष आश्रीयमाणे सर्वेषामनुग्रहो भवति स एवाश्रयितुं युक्त इति स्थानषष्ठीयमङ्गीकर्तव्या। इटोऽप्यादेशत्वं तेन भवतीति न भवति देशवनिध्यर्थष्टकारः। अथ वा - तिबादिभिरेकयोगनिर्दिष्टत्वेन यत् तिबादिभिस्तुल्यत्वं तत् साहचर्योपलक्षमम्। तिबादिभिस्तुल्यत्वात् तत्साहचर्यादित्यर्थः। साहचर्येण सन्दिग्धार्थनिश्चयो भवति, यथा - सवत्सा धेनुरिति। तथेहापि सन्देहो जायते - किमयमादेशः? उतागमः? इति, तथापि तिबादिभिरसन्दिग्धादेशभावैः साहचर्यादादेशोऽयमिति निश्चीयते। तेन देशविध्यर्थता टकारस्य न भवति। यद्येवम्, `फलिपाटिनमिमनिजनां गुक् पटिनाकिधतश्च` (द।उ।1।103) इत्यत्रापि पटआदिभिरादेशैस्तुल्यत्वाद्गुगागमोऽप्यादेशः स्यात्? नैष दोषः; <<संज्ञायाम्>> [[8.2.11]] इति तत्रानुवर्तते,न चादेशेन संज्ञा गम्यते, किन्त्वागमेन। तस्माद्गुक आगमत्वं वेदितव्यम्। तत्रैकापि षष्ठी यदाऽदेशन सम्बध्यते तदा स्थानषष्ठी भवति, यदा त्वागमेन तदावयवषष्ठी। `महिङो ङकारः` इत्यादि। अथ ङित्वार्थो ङकारः कस्मान्न भवति? तस्य <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेनैव सिद्धत्वात्॥7र9। टित आत्मनेपदानां टेरे। [[3.4.79]] `इह कस्मान्न भवति` इत्यादि। शानजपि टितो लकारस्य सम्बन्ध्यात्मनेपदसंज्ञकश्च, तस्मात् तस्यापि टेरेत्वेन भवितव्यमित्यभिप्रायः। `प्रकृतैः` इत्यादि। प्रकृतानां तिबादीनां मध्ये `यान्यात्मनेपदानि` - इत्येवमिहात्मनेपदानि विशिष्यन्ते, तेन न भवत्येष दोषः। न हि शानच् तिबादिषु सन्निविष्टः। लाघवार्थं `टितस्तङाम्` इति वाच्ये `आत्मनेपदानाम्` इति वचनं वैचित्र्यार्थम्। ननु च `तङाम्` इत्युच्यमाने तसस्तकारेण प्रत्याहारग्रहणं स्यात्? अर्थवद्ग्रहणपरिभाषया (व्या।प।1) न भविष्यति। यस्तर्हि थस्य स्थान आदिश्यते तेन स्यात्? न; तिबादिषु सन्निविष्टा ये तेषां तिङां ग्रहणं विज्ञास्यते। प्रत्यासत्तेर्वा आत्मपदीयेन तशब्देन प्रत्याहारग्रहणं विज्ञास्यते। व्याप्तेस्त्वनाश्रयः; लक्ष्यस्थित्यनुरोधात्॥", "34079": "", "34080": "`पेचिषे` इति।लिट्, `अत एकहल्मध्वेऽनादेशादेर्लिटि` [[6.4.120]] इत्येत्वाभ्यासपोपौ। `पक्तासे` इति। लुट्, तासिः, <<तासस्त्योर्लोपः>> [[7.4.50]] इति सकारलोपः। `पक्ष्यसे` इति। लृट्, <<चोः कुः>> [[8.2.30]] इति कुत्वम् - ककारः। अथ थकारमात्रस्यैव सकारादेशः कस्मान्न भवति - थः स इति, थकारस्य सकारे कृते परस्य भागस्य टेरेत्वे सत्यभीष्टं सिध्यत्येव? नैतच्छक्यम्च एवं ह्रार्थाशब्दस्य यस्थकारस्तस्यापि स्यात्। धात्वधिकाराद्धातोर्यो विहित इति विशेषणान्न भवतीति चेत्? न; असम्भवात्। न हि तथाविधस्तकारो धातोर्विहितः सम्भवति। अथ धातोरनन्तरस्यैति विशिष्येत? एवमप्यनादित्व एव परस्य स्यात्, नेतरेभ्यो विकरणेभ्यः; व्यवधानादिति यथान्यासमेवास्तु। टेरेत्त्वेनैव सिद्ध एकारान्तत्वे यदेकारान्तत्वामादेशस्य क्रियते, तत् `तिङामादेशानां टेरेत्वं न भवति` इति ज्ञापनार्थम्। तेन डारौरस्प्रभृतिषु टेरेत्वं न भवतीति - पक्ता, पक्तारौ, पक्तार इति॥", "34081": "`शकारः सर्वादेशार्थः` इति। असति तस्मिन् धात्वधिकारात् <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यादेः परस्य तकारस्य प्रसज्येत। शकारे तु सति <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति वचनात् सर्वस्य भवति। अथ `शे` इति कस्मान्नोक्तम्? नैवं शक्यम्; `शे` इति हि प्रगृह्रसंज्ञा स्यात्। इह च व्यतिपप इति पिबादेशः स्यात्। एशि तु सति न भवति, वक्ष्यति ह्रेतत् - `वर्णे यत् स्यात् तच्च विद्यात् तदादौ` इति॥", "34082": "`पपक्थ` इति। <<उपदेशेऽत्वतः>> [[7.2.62]] इतीडभावः। `पेचिथ` इति क्वचित् पाठः, तत्र हि <<ऋतो भारद्वाजस्य>> [[7.2.63]] इति नियमादिट्। <<थलि च सेटि>> [[6.4.121]] इत्येवत्वाभ्यासलोपौ। `पेच` इति। `धातोः` [[3.1.91]] इत्यधिकारात् <<तस्मादित्युत्तरस्य>> [[1.1.67]] , <<आदेः परस्य>> [[1.1.54]] इति थकारस्याकारादेशः। द्वयोराकारयोः <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। अथ वा - आन्तरतम्याद्बह्वर्थस्याकारस्य बह्वर्थ एव स्थानी युक्त इति समुदायस्यैव भवति। `पेचिव, पेचिम` इति। क्रादिनियमादिट्॥", "34083": "`विद ज्ञाने` इति। एतेन ज्ञानार्थस्य विदेग्र्रहणम्, नान्येषामिति। एवं मन्यते - विद इति पञ्चमी, तेन <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यनन्तराणां तिबादीनामादेशेन भवितव्यम्। न चान्यस्माद्विदेः परस्मैपदान्यनन्तराणि सम्भवति; विकरणैव्र्यवधानात्। विचारसत्तार्थयोश्चात्मनेपदित्वात् परस्मैपदानुपपत्तिः। तस्मात् ज्ञानार्थस्यैव ग्रहणमिति॥", "34084": "`पञ्चैव` इत्यादि। ननु च नेह द्वितीयं पञ्चग्रहणं, नाप्यदिग्रहणमादेशविशेषमम्, तत्र पञ्चानामाद्यानां स्थाने सर्वैरेव णलादिभिः पर्यायेण भवितव्यम्, तत् कथं पञ्चैव णलादय आदेशा भवन्तीत्येषोऽर्थो लभ्यते? इत्यत आह - `स्थानिसम्बन्धात् ` इत्यादि। इह हि स्थानिनः पञ्चैवाऽद्या निर्दिष्टाः, तेषाञ्च <<स्थानेऽन्तरतमः>> [[1.1.50]] इति परिभाषया पञ्चिरेवाद्यैः सम्बन्धः सम्भवति, नेतरैश्च। तथा हि - पञ्चानामेवाद्यानामान्तरतम्यमस्ति, तुल्यार्थत्वात्। नान्येषाम्, विपर्ययात्। तस्मात् स्थानिसम्बन्धादादेशेष्वपि पञ्चत्वमादित्वञ्च विज्ञायत इति युक्तम् - पञ्चैव णलादय आदेशा भवन्तीति। `आत्थ` इति। `आहस्थः` [[8.2.35]] इति हकारस्य थकारः, तस्य `खरि च` [[8.3.55]] इति चर्त्वम् - तकारः। `ब्रावीति` इति। `ब्राउव ईट्` [[7.3.93]] ।`परेषाम्` इति। थादीनाम्। अथ `ब्राउवः` इति किमर्थं पुनरिदमुच्यते, यावता ब्राउव इति यदेतत् पञ्चम्यन्तं तदेवार्थद्विभक्तेर्विपरिणामो भविष्यीति षष्ठन्तं विज्ञास्यत इत्याह - `ब्राउवः` इति पुनर्वचनम्` इत्यादि। असति हि श्रते सम्बन्धिनि विभक्तिविपरिणामो युक्तः। इह परस्मैपदानामिति प्रकृता एव तिबादयः षष्ठन्ताः सम्बन्धिन इति न युक्तो विभक्तिविपरिणामः। `ब्राउवः` इतियदि पुनर्नोच्येत ततो यथा णलादयः परस्मैपदानां भवन्ति, एवमाहौदेशोऽपि स्यात्। तस्मात् तं प्रति ब्राउवः स्थानित्वं यथा स्यादित्येवमर्थं `ब्राउवः` इति पुनरुच्यते। `परस्मैपदानामेव हि स्यात्` इति। यदि `ब्ुवः` इति पुनर्नोच्येतेति शेषः। अयञ्च `ब्राउवः` इति पूनर्वचनस्य हेतुः। हिशब्दो यस्मादर्थे। यस्मादसति पुनवर्वचने परस्मैपदानामेवाहादेशः स्यात्, तस्मात् `ब्राउवः` इति पुनर्वचनं कर्तव्यम्॥", "34085": "`तामादयः` इति। येषां `तस्थस्थ` [[3.4.101]] इत्यादिना विधाननम्। `सलोपश्च` इति। यस्य नित्यं ङितः` ( 3.4.99) इति विधानम्।`अडाटौ इत्यादि। `लुङ्लङ्लृङक्षु` [[6.4.71]] इत्यादिनाट्, <<आडजादीनाम्>> [[6.4.72]] इत्याट् लङः कार्य विधास्यते। `लङ शाकटायनस्यैव` [[3.4.111]] इति झेर्जुसादेशश्च। न चेह कश्चिद्विशेष उपादीयते, ततश्च यस्मादतिदेशात् तामादिकार्यं भवति तथा <<आडजादीनाम्>> [[6.4.72]] लङकार्येणापि भवितव्यमित्यभिप्रायः। `इतश्च` [[3.4.100]] इति लोपः, मिपोऽम्भावश्च। देश्यमेतत्। तयोः `एरुः` [[3.4.86]] इत्युत्त्वस्य `मेर्निः` इति निरादेशस्य चापवादस्य विधास्यमानत्वात्। `सा च व्यवस्थितविभाषा` इति। तेन तामादिरेवादेशो भवति, न त्वडादिरिति मन्यते॥", "34086": "`हिन्योः` इत्यादि। हिश्च निश्च हिनी, तयोरुत्वप्रतिषेधो वक्तव्यः, अन्यथा हि लुनीहि पचानीति न सिध्येत्। `न वोच्चारणसामर्थ्यात्` इति। यदि हीकारे कृते सत्युकारेण भवितव्यं तदोकारमेवोच्चारयेत्। अयं हि लधीयान् शब्दव्युत्पत्तावुपायः। न चेकारोच्चारणे सूत्रस्य लाघवं भवति, तदुकार एवोच्चरयितव्ये यदिकारोच्चारणं करोति, तस्यैतत् प्रयोजनम् - उत्वं मा भूदिति॥", "34087": "`लुनीहि` इति। पित्त्वे प्रतिषिद्धे <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वम्, ततस्तन्निबन्धनं <<ई हल्यघोः>> [[6.4.113]] इतीत्वं भवति। `राघ्नुहि` इति। `राध साध संसिद्धौ` (धातुपाठः-1262), 1263) स्वादित्वात् श्नुः। अत्रापि पूर्ववन्ङित्वने सति गुणो न भवति। अथ किमर्थं गुरु सूत्रं क्रियते, न `से र्हि ङिच्च` इत्येवोच्येत? नैवं शक्यम्; ङित्त्वस्य विधाने स्थानिवद्भावातम् पित्त्वं स्यादेव। ततश्च ङित्त्वान्ङित्कार्यं गुणनिषेधादिकं स्यात्, पित्त्वाच्चानुदात्तत्वम्। तस्माद्यथान्यासमेवास्तु॥", "34088": "`अपित्त्वं विकल्प्यते`( इति)। `लादेशः` इति। तस्यानन्तरत्वात्। आदेशस्तु तेन व्यवहितत्वादनन्तरो न भवति विकल्प्यते। `युयोधि` इति। `यु{मिश्रणेऽमिश्रणे च` धा।पा} मिश्रणे` (धातुपाठः-1033), `बहुलं छन्दसि` 2.4.76) इति शपः श्लुः, `श्लौ` (6।1।त10) इति द्विर्वचनम्। अत्रापि पित्त्वेन ङित्त्वं नास्ति, तेन गुणो न भवति। <<अङितश्च>> [[6.4.103]] इति घिभावः। `प्रीणीहि` इति। `प्रीञ् {तर्पणे कान्तौ च` -धातुपाठः-}(धातुपाठः-1474) क्र्यादित्वात् श्ना। अत्राप्यपित्त्वे सति पूर्ववदीत्वम्॥", "34089": "`उत्थलोपयोरपवादः` इति। यथाक्रमं `एरुः` [[3.4.86]] , `लोटो लङवत्` [[3.4.85]] इत्यतिदेशेन प्राप्तयोः। इकारलोपस्य च लङि `इतश्च` [[3.4.100]] इति विधानादतिदेशेन तस्य प्राप्तिः। `पचानि` इत्यत्र <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्याट्॥", "34090": "अत्रैकारेण लोड्विशिष्यते, लोटा वैकार इति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत तदैकास्य विशएषणत्वाद्विशेषणेन च तदन्तविधिर्भवतीत्येकारान्तस्य लोट आम् विधीयमानोऽनेकाल्त्वात् सर्वादेशः स्यादित्येष दोषः प्रतिविधेयः। द्वितीये तु पक्ष एकार एव विशेष्यत्वात् प्रधानम्। न च प्रधाने तदन्तविधिरित्येकारस्यैव भविष्यीति न किञ्चित् प्रतिविधेयम्। तेन द्वितीयपक्षमाश्रित्याह - `लोट्सम्बन्धिन एकारस्य` इत्यादि। `पचताम्` इति। टेरेत्वे कृत आम्। इह पचावेदम्, यजावेदमिति यद्यप्यन्तादिवद्भावाद्गुणो लोड्ग्रहणेन गृह्रते, तथापि बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यन्तरङ्ग आमादेशे कर्तव्ये बहिरङ्गस्याद्गुणस्यासिद्धत्वादामादेशो न भवति। बहिरङ्गत्वं तु गुणस्य द्विपदाश्रयत्वात्। आमस्त्वन्तरङ्गत्वमेकपदाश्रयत्वात्॥", "34091": "`पचस्व` इति। `थासः से` [[3.4.80]] इति कृते वकारः। `पचध्वम` इति। टेरेत्वे कृतेऽमादेशः॥", "34092": "`स चोत्तमपुरुषः पिद्भवतिट` इति। अथाट एव पित्त्वं कस्मान्न क्रियते? निरर्थकत्वात्। पित्त्वं ह्रनुदातार्थं वा स्यात्, गुणवृद्ध्यर्थं वा; तत्राटोऽनुदात्तत्वमागमत्वादेव सिद्धम्, गुणवृद्ध्योस्तु नैवासौ निमित्तम्; अप्रत्ययत्वात्। तस्मादाटं प्रति पित्त्वमनर्थकमित्युत्तमस्यैव विधीयते। `करवाणि` इति। पित्त्वादुत्तमस्य ङित्वं नास्ति, तेन गुणो भवति। `करवै` इति। `एत ऐ` [[3.4.93]] , `आटश्च` [[6.1.87]] इति वृद्धिः॥", "34093": "`आमोऽपवादः` इति। `आमेतः` [[3.4.90]] इति प्राप्तस्य। `पचावेदं यजावेदम्` इति। `लोटो लङ्वत्` [[3.4.85]] इति सलोपे सति <<आद्गुणः>> [[6.1.87]] इति वृद्धिः॥", "34094": "`पर्यायेण` इति। अथ युगपदेव कस्मान्न भवतः? एवं मन्यते - टितावेतौ विधीयेते, टित्त्वञ्चादिविधानार्थंम्। न च युगपद्द्वयोरादित्वं भवति, एकेनैवादिदेशस्यावष्टब्धत्वान्न युक्तं यौगपद्यमिति। `जोषिषत्` इत्यादीव्युदाहरणानि <<सिब्बहुलं लेटि>> [[3.1.34]] इत्यत्र व्युत्पादितानि। अत्रापि व्युत्पाद्यन्ते। `जोषिषत्` इति - `जुषी प्रीतिसेवनयोः` (धातुपाठः-1288), सिप इकार उच्चारणार्थः, अनेनाट्, <<इतश्च लोपः परस्मैपदेषु>> [[3.4.97]] इतीकारलोपः `आर्धधातुकस्येड्वलादेः` [[7.2.35]] इतीट्, लघूपधगुणः, `आदेशप्रत्यययोः` 8.3.59) इति षत्वम्। `तारिषत्` इति - `तृ प्लवनतरणयोः` (धातुपाठः-969), <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति व्यत्ययेन धात्वकारस्य दीर्घः। शेषं पूर्ववत्। `मन्दिवत्` इति - `मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु` (धातुपाठः-13) इदितो नुम्` [[7.1.58]] । `पदाति` इति। `पद गतौ` (धातुपाठः-1169) दिवादावनुदात्तेत् , व्यत्ययेन परस्मैपदम्; शप्प्रत्ययश्च, अटा सहाकः सवर्णे [[6.1.97]] दीर्घत्वम्, तिप्। इकारलोपोऽत्र न भवति; तद्विधौ <<वैतोऽन्यत्र>> [[3.4.96]] इत्यतो वाग्रहणानुवृत्तेः। `च्यावयति` इति। `च्युङ् ज्युङ प्रुङ प्लुङ गतौ` (धातुपाठः-955 - 958), हेतुमण्णिच्॥", "34095": "`मन्त्रयैते` इति। `मत्रि {गुप्तपरिभाषणे-धातुपाठः-} (धातुपाठः-1679), चुरादिणिच्, शप्,{गुणायादेशः` इति मु।पाठः।} गुणायादेशौ। `आटः कस्मान्न भवति` इति। पदाति विद्युदित्यादौ। `विधानसामर्थ्यात्` इति। यद्याट ऐत्वं स्यात् ऐडागममेव विदध्यात्, एवं प्रक्रियालाघवं भवतीति मन्यते॥", "34096": "`शासै` इति। उत्तमपुरुषैकवचनमिट्, टेरेत्वम्। `ईशै` इत्यादीनि उदाहरणानि `उपसंवादाशङ्कयोः` [[3.4.8]] इत्यत्र व्युत्पादितानि। `दधस` इति। `डुधाञ् धारणपोषणयोः` (धातुपाठः-1092), `थासः से` [[3.4.80]] , शपः श्लु), `श्लौ` [[6.1.10]] इति द्विर्वचनम्, अट्, <<घोर्लोपो लेटि वा>> [[7.3.70]] इत्यकारलोपः॥", "34097": "`परस्मैपदग्रहणम्` इत्यादि। ननु च टेरेत्वमिडादिषु बाधकं भविष्यति, तत् किं परस्मैपदग्रहणेन? नैतदस्ति; टेरेत्वस्यावकाश अन्येषु लकारादिषु, इतो लोपस्य च परस्मैपदेषु; उभयप्रसङ्गे परत्वादितो लोपः स्यात्॥", "34098": "`करवाव` इति। <<लेटोऽडाटौ>> [[3.4.94]] इत्याट्। `उत्तमग्रहणम्` इत्यादि। यदि तर्हि पुरुषान्तरे मा भूदित्येवमर्थमुत्तमग्रहणं क्रियते? न ; वस्मस्ग्रहणमेव कर्तव्यम्, अत्राप्ययमर्थः - सकारग्रहणं कर्तव्यं न भवति, अलोऽन्त्यपरिभाषयैव सकालोपो भवति? अशक्यं वस्मस्ग्रहणं कर्त्तुम्; तस्मिन् सति यदा व्यत्यनेन पुरुषान्तरस्य स्थाने तौ भवतस्तदापि लोपः स्यात्, यदा चोत्तमपुरुषस्य स्थाने थस् क्रियते तदा लोपो न स्यात्। उत्तमग्रहणे सत्येव दोषो न भवति स्थानिवद्भावेन मध्यमोत्तमसंज्ञयोर्भवन्त्योरेकसंज्ञाधिकारादसति समावेश उत्तमसंज्ञया मध्यमसंज्ञाया निवृत्तिः। सकारग्रहणञ्च यदि न क्रियेत, तदोत्तमस्य व्यत्ययेन वचनान्तरेषु कृतेषु वर्णान्तरस्यापि लोपः स्यात्। तस्माद्यथान्यासमेवास्तु॥", "34099": "`अपचावापचाम` इति। लङ, <<अतो दीर्घो यञि>> [[7.3.101]] इति दीर्घः॥`अपचात्` इति। लङ। `अपाक्षीत्` इति। लुङ `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्॥", "34100": "", "34101": "`अपाक्ताम्` इति। पूर्ववद्वृद्धिः, <<झलो झलि>> [[8.2.26]] इति सिचो लोपः॥", "34102": "`पचेत्` इत्यादौ `विधिनिमन्त्रण` [[3.3.161]] इत्यादिना लिङ, `लिङ सलोपोऽनन्तस्य` [[7.2.79]] इति सकारलोपः, शपा सह <<आद्गुणः>> [[6.1.87]] वलि लोपः। `पक्षीष्ट` इत्यादौ आशिषि लिङ, चकारस्य <<चोः कुः>> [[8.2.30]] इति कुत्वम्, `इण्कोः` [[8.3.57]] इति षत्वम्॥", "34103": "`परस्मैपदविषयस्य` इति। एतेन `परस्मैपदेषु` इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयति, न परसप्तमीत्वम्। परसप्तमीत्वं तु न सम्भवति; लिङः परस्मैपदानामसम्भवात्। `आगमानुदात्तत्वे प्राप्ते` इति। कुतः पुनरागमानुदात्तत्वं भवतीति निश्चितम्? अत एव यासुट उदात्तवचनात्। यदि ह्रागमा अनुदात्ता न स्युस्तदोदात्तवचनमनर्थकं स्यात्; प्रत्ययभक्तत्वेनैव यासुटः प्रत्ययस्वरेणैवाद्युदात्तस्य सिद्धत्वात्। ननु यानि पिद्वचनानि तदर्थमुदात्तवचनं स्यात्, तेषां ह्रनुदात्तत्वात् तद्भक्तो यासुडनुदात्त एव स्यात्, यद्युदात्त इति नोच्येत? नैतदस्ति;यद्येतत् प्योजनमभिमतं स्यात्, अपिदित्येवं ब्राऊयात्। तदैतदुदात्तवचनमागमानुदात्तस्य ज्ञापकमेव। `तत्र ङित्कार्याणामसम्भवात्` इति। न सर्वेषामित्यभिप्रायः। कुत एतत्? यावता `उष्यात्` इत्यत्र ग्रहिज्यादिसूत्रेण [[6.1.16]] यत्सम्प्रसारणं तत् यासुटयि ङिति सम्भवति। ङिन्मात्निबन्धनं हि सम्प्रसारणम्; विशेषानुपादानात्। तत्र यदि यासुटो ङित्त्वं विधीयेत तदा ग्रहेः सम्प्रसारणस्यैवेकस्यानुग्रहः स्यात्। लिङस्तु ङित्वे विधाने सर्वस्य ङित्कार्यस्य गुणवृद्धिप्रतिषेधादेवानुग्रहो भवतीति लिङ एव ङित्त्वं विधीयते। `ङित्कार्याणाम्` इति। ङिति कार्याणामित्यर्थः। `कुर्यात्` इति। विकरणाश्रयो धातोर्गुणः, `अत उत् सार्वधातुके` [[6.4.110]] इत्युत्वम्, `ये च` [[6.4.109]] इत्युकारलोपः। `कुर्युः` इति। <<उस्यपदान्तात्>> [[6.1.96]] इति पररूपत्वम्। `अचिनवम्` इति। मिपोऽम्। अत्र ङित्त्वाभावाद्गुणः। एतच्च ज्ञापकस्य प्रयोजनम्॥", "34104": "`प्रत्ययस्यैवेदं कित्त्वम्` इति। यद्येवम्, आशिषि लिङ् विहितस्तस्य यासुट् किद्भवतीत्येतद्विरुध्यते? नास्ति विरोधः; यासुड्वचनं लिङ एवोपलक्षणम्। तेन लिङवयवद्वारेण लिङ एव कित्त्वमनेन विधीयते; यासुडवयवत्वाल्लिङः। `नागमस्य` इति। `नागमस्य` इति। अत्रापि नागमात्रस्येत्येषोऽर्थो वेदितव्यः। `प्रयोजनाभावात्` इति। न सर्वस्य कित्त्वप्रयोजनस्याभावादिति भावः। कुतः? वाच्यादिसूत्रेण [[6.1.15]] यद्वचिस्वप्योः सम्प्रसारणं तस्य यासुटपि किति सम्भवात्। किन्मात्रे हि सम्प्रसारणमुच्यते, विशेषापरिग्रहात्। यदि गुणवृद्धिप्रतिषेधस्तुल्य एवेति कस्तर्हि ङित्वात् कित्त्वस्य विशेषो येन तस्मिन् प्राप्ते कित्तवं विधीयेत? इत्याह - `सम्प्रसारणम्` इत्यादि। ङित्वे वच्यादिसूत्रेण [[6.1.15]] किति दिधीयमानं सम्प्रसारणं न स्यात्। <<जाग्रोऽविचिण्णल्ङित्सु>> [[7.3.85]] इति विधीयमानो गुणः। `इष्यात्` इति। <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः।`वच्यात्` इति। कित्वाभावाद्वचेः सम्प्रसारणं न भवति। `जागृयात्` इति। पूर्वसूत्रेण ङित्वम्, तेन गुणो न भवति। उभयत्रादादिकत्वाच्छपो लुक्॥", "34105": "`कृषीरन्` इति। आशिषि लिङ्॥", "34106": "`कृषीय` इति। आशिषि लिङ्। `नैवायमादेशावयवः` इति। अकारमात्रस्यादेशत्वात्। यद्येवम, अकारोऽयमादेशो विधीयत इति `अणुदित्सवर्णस्य चाप्रत्ययः` [[1.1.69]] इति सवर्णानां ग्राहकः स्यात्? `भाव्यमानोऽण् सवर्णान् न गृह्णाति` (व्या।प।35) इति न भविष्यति। सत्यपि वा सवर्णग्रहणे मात्रिकस्यान्तरतम्यान्मात्रिक एव भविष्यति।अथ लाविषीष्टेत्यत्रागमस्येटः कस्मादकारो न भवतीत्याह - `आगमस्येटो ग्रहणं न भवति` इति। अत्र कारणमाह - `अर्थवद्ग्रहणे न` इत्यादि। ननु चागमानामप्यर्थवत्त्वमस्त्येव, तथा हि - यासुट्सहितेनैव लिङो।ञर्थोऽविभिधीयते, न केवलेन? नैतदेवम्; अन्येषु लकारेषु विनापि तेनार्थवत्ता दृष्टा, आगमानां तु न क्वचित्। तेन तेऽर्थवन्तो न भवन्तीति॥", "34107": "अथ तकारथकाराब्यां लिङ विशिष्यते - तकारथकायोर्यो लिङ स्थानीति? तेन वा तौ लिङसम्बन्धिनोस्तकारथकारयोरिति? तत्र यद्याद्यः पक्ष आश्रीयेत, तदा विशेष्यत्वाल्लिङः प्राधान्यम्। ततश्च प्रधाने कार्यसम्प्रत्ययाल्लिङ एव सुडागमः स्यात्। एवञ्च परत्वाद्विशेषविहित्वाच्च सुटा सीयड् बाध्येत। तस्माद्दुष्टोऽयं पक्ष इति द्वितीयं पक्षमाश्रित्याह - `लिङ्सम्बन्धिनोः` इति। यदुक्तम् - तकारथकारयोः सुडागमो भवतीति, तस्यार्थ स्पष्टीकर्त्तुमाह - `तकारथकारावागमिनौ` इति। विशेष्यत्वेन प्राधान्यादिति भावः। यदुक्तञ्च - लिङसम्बन्धिनोरिति, तस्यार्थ स्पष्टीकर्त्तुमाह - `लिङ् तद्विशेषणम्` इति। `सीयुटस्तु लिङेवागमी` इति। तकारथकारावेवकारेण व्यवच्छिद्येते। `तेन` इत्यादि। यत एवं तकारथकारावागमिनौ सुटः, सीयुटस्तु लिङेव, तेन भिन्नदेशत्वात् सुटा सीयुड् न बाध्यते। न च भिन्नदेशयोर्बाध्यबाधकभावो युक्तः; विरोधाभावात्। `कृषीष्ट, कृषीष्ठाः` इति। तथासोरेकवचनयो रूपे। `कृषीयास्ताम्, कृषीयास्थाम्` इति। आतामाथामोः। सर्वत्राशिषि लिङ, `उश्च` [[1.2.32]] इति कित्त्वाद्गुणाभावः॥", "34108": "`पचेयुः` इति। <<अतो येयः>> [[7.2.80]] इतीयादेशः, <<आद्गुणः>> [[6.1.87]] , पररूपत्वम्॥", "34109": "`वेत्तेश्च` इति निर्देशेन लुग्विकरणस्यैवेह ग्रहणमिति दर्शयति। तस्यैव हि झिरनन्तरः सम्भवति,नान्येषां विदीनाम्। विकरणैव्र्यवधानात्। सत्ताविचारणार्थयोरात्मनेपदित्वात् झेरसम्भव एव, तस्माल्लुग्विकरणस्यैव ग्रहणं युक्तम्। `अभ्यस्तविदिग्रहणमसिजर्थम्` इति। यद्यभ्यस्तविदिग्रहणमसिजर्थम्, एवं सति लडादिसम्बन्धिनोऽपि झेः प्राप्नोतीत्यत आह - `ङित इति चानुवर्तते` इति। तेन ङिल्लकारसम्बन्धिन एव झेर्जुस् भविष्यति, नान्येषामित्यभिप्राय-। `अबिभयुः, अजिह्ययुः` इति। `ञि भीभये` (धातुपाठः-1084), `ह्री लज्जायाम्` (धातुपाठः-1085), `जुजि च` [[7.3.83]] इति गुणः, जुहोत्यादिभ्यः शपः श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्। `अजागरुः` इति। अदादित्वाच्छपो लुक्; जागर्तेः `जक्षित्यादय षट्` [[6.1.6]] इत्यभ्यस्तसंज्ञा॥", "34110": "सिचः परस्याकारान्तादुत्तरस्य झेरिति ब्राउवता द्वाभ्यमप्यनन्तरसय् झेरित्युक्तं भवति। उभाभ्याञ्चानन्तर्यं न सम्भवति, आतः सिचा व्यवधानादिति मन्यमानः पृच्छति - `कथम्` इत्यादि। `सिचो लुकि` इति। `गातिस्था` [[2.4.77]] इत्यादिना यदा सिचो लुक् क्रियते तदा प्रत्ययलक्षणेन सिचोऽनन्तरः सम्भवति। `श्रुत्या चाकारान्तात्` इति। तदनन्तरश्रूयमाणत्वात्। श्रुत्येति श्रोत्रेन्द्रियसाध्योपलब्ध्येत्यर्थः। तदेवं द्वाभ्यामप्यानन्तर्यस्याश्रयणात् सामर्थ्यादातः सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति। न हि श्रूयमाणे सिचि द्वाभ्यामानन्तर्यं सम्भवति। `तकारो मुखसुखार्थः` इति। व्यावर्त्त्याभावात्। न हि ह्रस्वात् प्लुताद्वा वर्णात् परः सिच् सम्भवति।`पूर्वेणैव सिद्धे` इति। लुप्तेऽपि सिचि प्रत्ययलक्षणेन झेः सिजनन्तरत्वादभूविन्निति नियमस्य व्यावत्र्यं दर्शयति। `भुवो वुग् लुङलिटोः` [[6.4.88]] इति वुक्। ननु च नैवेह पूर्वसूत्रेण प्राप्नोति, न हीह सिजपेक्षयानन्तर्यं झेर्विद्यते, तत् किं प्रतिषिध्यत इत्याह - `प्रत्ययलक्षणेन` इत्यादि। लुप्ते हि प्रत्ययलक्षणेनानन्तर्यमस्ति, अतः पूर्वेण प्राप्नोति। जुस् नियमेन प्रतिषिध्यते। यदि तर्हि नियमार्थमिदम्, `अकार्षुः` इत्यत्रापि न स्यात्, न ह्यत्रातः सिज्लुगन्तात्परो झिर्भवतीति? इत्यत आह - `तुल्यजातीय` इत्यादि। आतः सिज्लुगन्तान्नियमार्थमयं जुस् विधीयते। स च नियमस्तुल्यजातीयापेक्षः, तेन समानजातीयमेव व्यवच्छिनत्ति। कश्च समानजातीयः? अन्यः {सिजलुगन्तः इति मु।पाठः।} सिज्लुगन्तः। न चाकार्षुरित्यत्र झेः पूर्वः सिज्लुगन्तः इति नायं नियमस्य विषयः, तेन भवत्येव जुस्॥", "34111": "`अयुः, अवुः` इति। पूर्ववच्छपो लुक्, पूर्ववच्च पररूपत्वम्।`लङेव` इत्यादि। यत्सम्बन्धिनो झेर्जुस्भावो विधेयः। तिङत्वमधिकृत्येमुक्तम्। कुतः एतत्? लङलिङोरप्याकारान्तादनन्तरयोः सम्भवात्। तत्सम्बन्धिनोस्तु <<झेर्जुस्>> [[3.4.108]] इत्येवमादिनैव शास्त्रेण जुस्भावो विहित इति न तावदधिकृत्येदमुच्यते। एवकारस्तु लृङव्यवच्छेदार्थः, स्यप्रत्ययेन झेव्र्यवधानात्। स चातिदेशद्वारेण यस्य लङवद्भावो न भवति स वेदितव्यः। यस्य ह्रतिदेशद्वारेण लङवद्भावो विहितः स उपचारेण लङित्युच्यते। परमार्थतस्तु लोडेवासौ, न लङेव। `लङवद्भावेन यः` इति। लङिति सम्बध्यते।लङा तुल्यं मा भूदिति मुख्यस्यैव लङो ग्रहणं यथा स्यादित्येवमर्थं लङ्ग्रहणं क्रियते। केन पुनर्लङवद्भावो भवतीत्याह - `लोटो लङ्वत्` इति। अनेन हि सूत्रेण [[3.4.85]] लोटो लङ्वत् कार्यष्वतिदिष्टेषु लङ्कार्ययोगात् तस्य लङ्वद्भावो भवति। तेन लङसदृशभूत उपचारेण लङिति व्यपदिश्यते। अत्रायमर्थः - यदि मुख्यस्य लङः परिग्रहार्थं लङ्ग्रहणं न क्रियते, ततः `लोटो लङ्वत्` [[3.4.85]] इत्यतिदेशाद्यथा तामादिकार्यं लोटो भवति, तथेदमपि स्यात्। अतोऽस्य दोषस्य निवृत्यर्थं लङग्रहणं क्रियत इति मा भून्नामायं जुस्; लोटो लङग्रहणाद्यत्नात्॥ यस्तु `सिजभ्यस्तविद#इभ्यश्च` [[3.4.109]] इत्यनेन विधीयते स विभ्यतु, जाग्रतु, विदन्त्वित्यादौ कस्मान्न भवति, न हि किञ्चित् तत्र यत्नान्तरमस्ति? इत्याह - `सिजभ्यस्त` इत्यादि। कथं पुनर्विना यत्नेन पूर्वको जुस् लोटो न भवतीत्याह - `जुस्भावमात्रं हि` इत्यादि। न ह्रयमेव जुस् मुख्येन लङा विशिष्यते,किं तर्हि? जुस्भावमात्रम्। योऽस्मिन् प्रकरणे जुस् विहितः स मुख्यस्यैव लङो भवति, नेतरस्येति। तेन पूर्वकोऽपि जुस् न भवति। `एककार उत्तरार्थः` इति। अथ तदर्थं एवकारः कस्मान् भवति? विध्यर्थत्वात् तस्य। न हि विध्यर्थवाक्य एवकारस्यार्थवत्वमुपपद्यते। स हि नियमार्थेषूपयुज्यते, न हि विध्यर्थेषु। न चेदं नियमार्थम्; सिद्धे हि विधिरारभ्यमाणो नियमार्थो भवति (का।दु।प।59), न च सिद्धेऽयमारभ्यते। तस्मादुत्तरार्थं एवकारः। ननु शाकटायनस्यैव मतेन यथा स्यादन्येषां मते मा भूदित्येवमर्थमिहैवकारः स्यात्? न; तेन विनाऽप्यस्य नियमस्य सिद्धत्वात्। यद्यन्येषां मते न स्यात्, शाकटायनग्रहणमनर्थकं स्यात्॥", "34112": "`अद्विषु` इति। अदादित्वाच्छपो लुक्॥", "34113": "`भवति, नयति` इति। तिङः सार्वधातुकसंज्ञायां तन्निबन्धनः कर्तरि शप्, तस्यापि शितः सार्वधातुकत्वात् `सार्वधातुकार्धधातुकयोः` 7.3.84) इति गुणः। `रोदिति` इति। पूर्ववच्छपो लोपः, <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इतीट्। `पवमानः, यजमानः` इति। <<पूङ्यजोः शानन्>> [[3.2.128]] ,तस्य सार्वधातुकत्वात् शप्, तस्यापि सार्वधातुकत्वाद्धातोर्गुणः॥", "34114": "`लविता` इति। तृच्, `आर्धधातुकस्येड्वलादेः` [[7.2.35]] इतीट्। `वृक्षत्वम्` इति। <<तस्य भावस्त्वतलौ>> [[5.1.119]] । `लूभ्याम्` इति। लुनातेः क्विबन्ताद्भ्याम्। `जुगुप्सते` इति। गुपादिसूत्रेण [[3.1.5]] सन्। त्वलादीनामार्धधातुकत्वाभावादिडभावः। यक्तं `वृक्षत्वम्` प्रत्युदाहरणम्, त्वप्रत्ययस्य धातोरविधानात्, `लूभ्याम्` इत्याद्ययुक्तम्, `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति न्यायात्, म्याम्प्रत्ययो धातोरेव विहितः, सन्प्रत्ययोऽपि धातोः, गुपादेर्धातुत्वात्? नैतदस्ति;अस्यैव हि दोषस्य परीहाराय धातुशब्देन यो विहित इत्युक्तम्। तस्य चायमर्थः - धातोरित्येवं यो विहितः,धातुशब्दमुच्चार्य यो विहित इति यावत्। यस्य विधायकलक्षणे धातुग्रहणमस्ति,न चैवं भ्मांसनौ विहितौ; त्दविधौ धात्वधिकारस्य धातुग्रहणस्य चासम्भवात्। कथं पुनर्धातुसंशब्दनेन यो विहित इत्येषोऽर्थो लभ्यते, यावता धातोरित्येकमेव धातुग्रहणमनुवर्तते, तच्चाधातुप्रत्ययनिवृत्तौ चरितार्थत्वान्नापरं किञ्चिद्विशिष्टमभिधातुमुत्सहते? एवं मन्यते - यङविधानसूत्रात् [[3.1.22]] `शमिधातो संज्ञायाम्` [[3.2.14]] इत्यतो वा द्वितीयदातुग्रहणमनुवर्तते, तत्रैकेन धातुना अधातुप्रत्ययो निवर्ततते, अपरेण धातुप्रत्ययो विशिष्यते - धातोरित्येवं यो विहित इति। शेषग्रहणं किम्? तिङशितोर्मा भूत्, अन्यथा ह्रेकसंज्ञाधिकाराभावात् प्रत्ययादिसंज्ञानामिव समावेशः स्यात्॥", "34115": "`शेकिथ` इति। आर्धधातुकत्वाल्लिटः <<ऋतो भारद्वाजस्य>> [[7.2.63]] इतीट्। तत्र ऋत एव भारद्वाजस्य नान्येषां धातूनामित्येषोऽर्थोऽभिमतः। <<थलि च सेटि>> [[6.4.121]] इत्येत्वाभ्यासलोपौ। `जग्ले, मम्ले` इति। आर्धधातुकत्वात् <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः।`ननु च ` इत्यादिना यदुक्तं `सार्वधातुकसंज्ञाया अपवादः` (का।3.4.115) इति तद्विघटयति। एकसंज्ञाधिकारादन्यत्र समावेशो भवति, यथा - त्ययादिसंज्ञानाम्। न चात्रैकसंज्ञाधिकारोऽस्ति,तदयुक्तमस्याः सार्वधातुकसंज्ञाया अपवादत्वमित्यभिप्रायः।`सत्यमेतत्ित्यादिना अपवादत्वमेव समर्थयते॥", "34116": "`{लविषीष्ठा` इति मु।पाठः} लविषीष्ट` इति। थास् , <<सुट् तिथोः>> [[3.4.107]] इति सुट्, षष्वम्, ष्टत्वञ्च॥", "34117": "`{अस्तये इति मुद्रितः पाठः} स्वस्तये` इति। `अस भुवि` (धातुपाठः-1065), स्त्रियां क्तिन्। सार्वधातुकत्वादस्तेर्भूभावो न भवति।`विशृण्विरे` इति। अत्र लिटः सार्वधातुकत्वात् <<श्रुवः शृ च>> [[3.1.74]] इति श्नुप्रत्ययः, शृभावश्च। `सुन्विरे` इति। <<स्वादिभ्यः श्नुः>> [[3.1.73]] । `उपस्थेयाम`इति। तिष्ठतेर्लिङ,यासुट्,मस्, <<एतेर्लिङि>> [[7.4.24]] इत्येत्वम्।ननु <<व्यत्ययो बहुलम्>> [[3.1.85]] इत्यनेनैव सिद्धं सर्वमेवेदम्, किमर्थोऽयमारम्भ इत्याह - `व्यत्ययो बहुलमित्यस्यैव` इति। गतार्थम्॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्यचतुर्थः पादः।समाप्तश्च तृतीयोऽध्यायः॥", "41001": "`अधिकारोऽयम्` इति। स्वरितेनासञ्जितत्वात्। `आ पञ्चमाध्यायपरिसमाप्तेः` इति। अनेनाधिकारस्यावधिं दर्शयति। ततः परं नायमनुवर्तते; अस्वरितत्वात्। `स्वादिषु कप्पर्यन्तेषु` इति। अधिकारस्य विषमाचष्टे। `ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम्` इत्यादि। `ङी` इति विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं ङीमात्रं तदिह गृह्रते। `टाब्डाप्चापामाप्` इति। सामान्येन ग्रहणमिति प्रकृतेन सम्बन्धः। ननु च ङ्यादीनां बहुत्वाद्बहुवचनेन भवितव्यम्, तत्कथं `ङ्याप्प्रातिपदिकात्` [[4.1.1]] इत्येकवचनेन निर्देश इत्याह -`तेषाम्` इत्यादि। समाहारद्वन्देनेह ङ्यादीनामयं निर्देशः कृत इत्यर्थः। इतरेतरयोगे हि द्वन्द्वे स्याद्बहुवचनम्। न चायमितरेतरयोगे द्वन्द्वः,किं तर्हि? समाहारे। तस्य चैकार्थत्वादेकवचनमेव युक्तम्। `समाहारनिर्देशः` इति वचनमितरेतरयोगनिवृत्त्यर्थम्,सामासन्तरनिवृत्त्यर्थञ्च, अन्यथा हि ङ्यापोः प्राप्तिपदिकं ङ्याप्प्रातिपदिकमित्यपि षष्ठीसमास आशङ्क्येत। ततो ङ्यन्तमाबन्तञ्च समासप्रातिपदिकं यत् ततः स्याद् राजकुमार्यादिभ्यः न तु केवलेभ्यः कुमार्यादिभ्यः। ङ्यापोस्तु विधानेनैव प्रातिपदिकं प्रकृतिः स्यात्। तस्मात् समाहार द्वन्द्वेनायं निर्देशः। तत्र तु त्रयं प्रकृतित्वेनाधिक्रियते, तेन सर्वतो भवति।अथ कथं पुनरत्र विग्रहः? केचिदाहुः - `ङीश्च आप्च प्रातिपदिकञ्चेति। ननु च `अप्रत्ययः` [[1.2.45]] इति प्रातिपदिकसंज्ञाप्रतिषेधाद् ङीश्चेति विभक्त्युत्पत्तिर्न स्यात्? उच्यते; नायं प्रत्ययः, अपि तु प्रत्ययानुकरणमिदम्। एवमपि `प्रकृतिवदनुकरणं भवति` (व्या।प।113) इति स्यादेव प्रतिषेधः? नैष दोषःच अनुकरणं द्वैधम् - अर्थस्य, शब्दमात्रस्य चेति। ज्ञापितमाचार्येणैतद् द्वेधा निर्देशात् - <<परिव्यवेभ्यः क्रियः>> [[1.3.18]] , <<विपराभ्यां जेः>> [[1.3.19]] इतीयङादेशस्य करणाकरणाभ्याम्। अतोऽत्र शब्दमात्रमनुकृतम्, न त्वर्थसहितम्। तेनात्र `अप्रत्ययः` [[1.2.45]] इति नास्त्येव प्रतिषेधः। प्रकृतिवदतिदेशस्त्वर्थवत्यनुकरणे। ननु चेवमपि हल्ङ्यादिलोपेन [[6.1.68]] भाव्यम्? उच्यते; ङ्यन्तात् सुलोपः, न ङीमात्रात्। व्यपदेशिवद्भावात् स्यादिति चेत्? न; `व्यपदेशवद्भावोऽप्रातिपदिकेन` (शाक।प।65) इत्युच्यते, प्रातिपदिकञ्चदम्। तस्मात् `ङीश्च` इति। अथ प्रत्ययविधिविषयैषा परिभाषा पूर्वादिनिः` [[5.2.85]] <<सपूर्वाच्च>> [[5.2.87]] इत्यत्र ज्ञापितत्वात्? न चायं प्रत्ययविधिः, कस्तर्हि? लोपविधिरिति, अतः परिभाषा न प्रवर्तत इत्यस्त्येव व्यपद#एशिवद्भाव इति ततः प्रवर्तते लोपशास्त्रम्। अतः सुलोपेन भवितव्यम् - ङी चेति। सामान्येन परिभाषाप्रवृत्तिमाश्रित्य ङीश्चेति विग्रहः।अन्यस्त्वाह - `प्रयोगस्य एव कुमारी, गौरीत्यादिषु य ईकारः सोऽत्रानुकृत एव लुप्तविभक्तिकः,तेन ङी इत्येव भवति। यद्येवम्, कुतो ङकारः सामान्यग्रहणार्थ आसज्यते? ननु चानुक्रियमाणेनार्थेनार्थवत्त्वात् पुनरपि विभक्त्युत्पत्तिः प्राप्नोति, ततश्च ङीश्चेति भवितव्यम्? नैतदस्ति; प्राक्कालभाविनी या विभक्तिस्तां प्रत्ययलक्षणेनाश्रित्याप्रत्यय [[1.2.45]] इति प्रतिषेधात्। अथापि स्यात् - <<न ङिसम्बुद्ध्योः>> [[8.2.8]] इति ज्ञापकात् प्रत्ययलक्षणेनाप्रत्यय [[1.2.45]] इति प्रातिपदिकसंज्ञा न प्रतिषिध्यते` इति। असदेतत्; नलोपविधिविषयमेवैतज्ज्ञापकम्। अतोऽत्र नास्त्येव प्रत्ययलक्षणेन प्रातिपदिकसंज्ञाप्रतिषेध इति स्थितमेतत्।ननु च प्रत्ययत्वे सति `परश्च` [[3.1.2]] इति वचनात् परे भवन्तः स्वादयः पूर्वां प्रकृतिमाक्षिप्य भवन्ति, न ह्रन्यथा परत्वमुपपद्यते, तस्य परत्वस्य पूर्वापेक्षत्वात्, न च ङ्यादिभ्योऽन्या प्रकृतिरुपपद्यते। तत्र ङ्याप्प्रातिपदिकग्रहणमन्तरेणापि पारिशेष्यादियमेव प्रकृतिर्लभ्यते तथा हि, प्रकृत्यन्तरं धातुरिति - तिङन्तञ्च, वाक्यञ्च। प्रत्यया अपि स्वादयः, टाबादयः अणादयश्च। तत्र धातोस्तावत् स्वादिभिर्न भवितव्यम्, ते ह्रेकत्वादिष्वर्थेषु विधीयमानास्तद्वन्तं शब्दमाक्षिपन्ति। न च धातुरेकत्वादिमान्। अथाप्यविशेषणोत्पद्यन्ते, उत्पन्नानां तु नियमः क्रियते? तथापि न #ऐव तेषां धातोरुत्पत्तिर्युक्ता; सामान्यविहितानां स्वादीनां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात्। टाबादयस्तर्हि धातोर्भवेयुरिति चेत्? स्यादेतत्। असति ङ्याप्प्रातिपदिकग्रहणेऽकारान्तेभ्यो धातुभ्यो जुगुप्सादिभ्यः `अतः` [[4.1.4]] इति टाप् स्यात्, अपिद्भ्यो वञ्चुप्रभृतिभ्यः <<उगितश्च>> [[6.3.45]] इति ङीप् स्यात्, नकारान्तेभ्यो मन्प्रभृतिभ्यः `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ङीप्प्रत्ययः इति? एतच्च नास्ति ; यतः स्त्रियां टाबादयो विधीयन्ते, क्रियावचनश्च धातु#ः। क्रियायाश्चासत्त्वभूतत्वाल्लिङ्गेन योगो नास्ति; तस्य द्रव्यधर्मत्वात्। एतेन तिङन्ताद्वाक्याच्च टाबादीनामुत्पत्तिः प्रतिक्षिप्ता; तयोरपि क्रियाप्रधानत्वात्। अणादीनामपि नैव धातोरुत्पत्तिरुपपद्यते। ते ह्रपत्यादिनार्थेन सम्बन्धे सति विधीयन्ते। धातुवाच्यस्यार्थस्यासत्त्वभूतत्वाद्यथा स्त्रीत्वेन योगो न सम्भवति, तथाप्यपत्यादिना ह्रर्थेन। एतेन तिङन्ताद्वाक्याच्चाणादीनामुत्पत्तिर्निरस्ता; तदर्थस्यापि क्रियाप्रधानस्यापत्यादिना सम्बन्धाभावात्। देवदत्तस्य पचति यस्तस्यापत्त्यमिति सत्यपि सम्बन्धे `तिङश्च` [[5.3.56]] इति ज्ञापकान्न भवति। येऽपत्यादिनार्थेन सम्बन्धे तद्धिता विधीयन्ते तेऽनन्तरोक्तया नीत्या मा भून्, ये तु स्वार्थे विधीयन्ते तैर्युक्तमेव भवितुमिति चेत्? वार्तमेतत्; यथैव हि स्वादीनां सामान्यविहितानां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात् तदुत्पत्तिर्नोपपद्यते तथा स्वार्थिकानामपि सामान्यविहितानां स्वार्थिकैस्तुमुन्नादिभिर्विशेषविहितैर्बाधितत्वान्नोपपद्यत एव। तिङन्तात् तर्हि के स्युरिति चेत्? ज्ञापकान्न भविष्यन्ति। यदयं क्वचित् तद्धितविधौ तिङ्गर्हणं करोति - <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] `तिङश्च` [[5.3.56]] इति, क्वचित् तद्धितविधौ तिङ्ग्रहणं करोति - <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] `तिङश्च` [[5.3.56]] इति, तज्ज्ञापयति - तिङन्तात् तद्धिता न भवन्तीति। वाक्यात् तर्हि भवेयरिति चेत्? अनभिधानान्न भविष्यन्ति। न हि `देवदत्तस्याआकः` इत्युक्ते वाक्यार्थगता अज्ञातादयोऽर्थाः कप्रत्ययेन द्योत्यन्ते, किं तर्हि? अआशब्दगता एव।स्वादिभिरपि नैव तिङन्ताद्भवितव्यम्, तेषां ह्रेकत्वादयोऽर्थाः,ते च तिङभिरेवोक्ताः। न चोक्तर्थानां प्रयोगे युक्तः; `उक्तार्थानामप्रयोगः` (व्या।प।60) इति वचना। ननु चोक्तार्थानामपि प्रयोगो दृश्यते, यथा - एको द्वौ बहव इति चेत्? युक्तोऽत्र प्रयोगः वचनग्रहणात्। `प्रातिपदिक` इत्यादौ हि सूत्रे वचनग्रहणस्यैतत् तेषां भवति; तत्रास्याः परिभाषाया उपस्थानात्। तेन लिङ्गविशिष्टानामपि सर्वादीनां सर्वनामकार्यमुपपद्यते। यद्येवम्, इममेव न्यायमाश्रित्य शक्यं ङ्याब्ग्रहणमकर्त्तुम्? नैतदस्ति; न हि प्रातिपदिकसंज्ञा लिङ्गविशिष्टस्यार्थवतः शब्दरूपस्य भवितुमर्हति; `अप्र्तयय` [[1.2.45]] इति प्रतिषेधात्। न च प्रातिपदिकसंज्ञाविधौ सर्वेऽर्थवन्तः संज्ञिनः स्वरूपेण शक्या दर्शयितुम्; तेषामानन्त्यात्। यद्येवम्, `णाविष्ठवत् प्रातिपदिकस्य` (वा।813) इत्यत्रापि तर्हीयं परिभाषा नोपतिष्ठते; स्वरूपाग्रहणात्, ततश्च लिङ्गव्शीष्टेष्वष्ठवद्भावो न स्यात्। तत्र को दोषः? कुमारीमाचष्टे कुमारीयतीत्यत्र टिलोपो न स्यात्? नैष दोषः; बहुलमिष्ठवद्भाव इष्यते, तथा च चुरादौ पठते `प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च` (चुरा।ग।सू।186) इति। तस्माद्बहुलवचनाल्लिङ्गविशिष्टस्यापीष्ठवद्भावो भविष्यति।`किञ्च` इत्यादना प्रयोजनान्तरं समुच्चिनोति। तदिति ङ्यापोः प्रत्यवर्शः। ङ्यन्तादाबन्ताच्च तद्धितविधानं यथा स्यादित्येवमर्थं च ङ्याब्ग्रहणम्। `कालितरा` इति। कालशब्दाज्जनपदादिसूत्रेण [[4.1.42]] ङीप्, तदन्तात् `द्विवचनविभज्योपपदे` [[5.3.57]] इत्यादिना तरप्, <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यादिना ह्रस्वः। `हरिणितरा` इति। हरितशब्दात् `वर्णादनुदात्तात् तोपधातो नः` [[4.1.39]] इति ङीप्, तकारस्य नकारः, `अट्कुप्वाङ्` [[8.4.2]] इत्यसति ङ्याब्ग्रहणे परत्वादातिशयिकः स्यात्। अस्मस्तु सति ङ्यापोस्तद्धितविधाने प्रकृतित्वेनाश्रयणात् पूर्वं ङ्याब्भ्यां भवितव्यमिति तदन्तात् तद्धितविधिः सिध्यति। ननु चान्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तदिताः, तथा हि - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यधिकाराद्विभक्त्यन्ताते उत्पद्यन्ते, विभक्तयश्च कर्माद्यपेक्षाः, कर्मादयश्च बाह्रक्रियानिमित्तत्वाद्बहिरङ्गाः ततश्च निमित्तस्य बहिरङ्गत्वात् तद्धिता अपि बहिरङ्गाश्रया एव भवन्ति; लिङ्गस्य तु सम्बन्ध्यन्तरानपेक्षत्वादन्तरङ्गत्वञ्च, अतस्तन्निमित्ता अपि टाबादयोऽन्तरङ्गा भवन्ति, ततश्चान्तरङ्गत्वादेव टाबादिभिस्तावद्भवितव्यम्, पश्चात् तदन्तात् तद्धितैरित्यपार्थकं ङ्याब्ग्रहणम्? नैतदस्ति; तदन्तात् तद्धितविमधानार्थं ङ्याब्ग्रहणमित्यत्र हि वाक्ये तद्धितग्रहणेन स्वार्थिका ये तद्धितास्त एव विवक्षिताः। इममेवार्थं सूचयितुं कालितरा, हरिणितरेति स्त्रीप्रत्ययान्तात् स्वार्थिक एव तरप्प्रत्यय उदाहृतः।स्वार्थिकेषु च `समर्थानाम्` [[4.1.82]] इत्येतन्नानुवर्तते। तथा हि क्ष्यति वृत्तिकारः - `स्वार्थिकप्रत्ययावधिश्चायमधिकारः <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इति यावत्। स्वार्थिकेषु ह्रस्योपयोगो नास्ति` इति। एवञ्च सति विभक्त्युत्पत्तिमनपेक्ष्य प्रातिपदिकादेव स्वार्थिकैर्भवितव्यमिति कुतस्तेषां बहिरङ्गत्वम् ! नन्वेवमपि कालितरेत्याद्यनुदाहरणम्; तरप्प्रत्ययस्य बहिरङ्गत्वात्। स हि यद्यपि विभक्त्युत्पतिंत नापेक्षते, प्रतियोगिनं तु बाह्रार्थमपेक्षत एव, स्त्रीप्रत्ययस्य तु न कश्चित् प्रतियोग्यपेक्षेति तस्यान्तरङ्गत्वम्? नैष दोषः; उदाहरणदिगियं वृत्तिकारेण दर्शिता।एतानि त्वत्रोदाहरणानि दर्शयितव्यानि - एनिका, श्येनिका, रोहिणिकेति। अत्र हि यदि पूर्वं तद्धितः स्यात् तदेतश्यतरोहितशब्देभ्योऽज्ञाताद्यर्थविवक्षायां कप्रत्यये `वर्णादनुदात्तात् तोपधात् तो नः` [[4.1.39]] इत्यनेन ङीब्नकारौ न स्याताम्। यदि तर्हि ङ्याबन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, समासान्ता अपि तदन्तादेव स्युः, ततश्च बहवो गोमन्तोऽस्यां नगर्यामिति स्यात्, बहुव्रीहौ कृते <<उगितश्च>> [[6.3.45]] इति ङीप्, ततश्च <<नद्यृतश्च>> [[5.4.153]] इति कपि बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते? नैष दोषः; न हि समासान्ताः समासादुत्पद्यन्ते। किं तर्हि? अकृत एव समासे तदर्थादुत्तरपदात्। तथा हि `न कपि` [[7.4.14]] इत्यत्र वक्ष्यति वृत्तिकारः - <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इत्ययमपि ह्रस्वः कपि न भवति, समासार्थे ह्रुत्तरपदे कपि कृते पश्चात् समासेन भवितव्यमिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति` इति। न च बहवो गोमन्तोऽस्यां नगर्यामित्यत्र वाक्ये समासार्थमुत्तरपदं स्त्रियां वर्तत इति प्राक्कपैव भवितव्यम्, पश्चात् समासेन, ततः स्त्रीप्रत्ययेन प्रत्ययानुपूर्व्या बहुगोमत्केति सिद्धं भवति।यिद तह्र्रकृत एव समासे तदर्थादुत्तरपदात् समासान्ता भवन्ति, तदा `नञस्तत्पुरुषात्` [[5.4.71]] इत्यत्र `नञढः परे वक्ष्यमाणा य ऋगादयस्तदन्तात् तत्पुरुषात् समासान्ता न भवन्ति` इत्येष वृत्तिग्रन्थो विरुध्यते, तेब्यस्तत्पुरुषसमासार्थेभ्यः समासान्ता न भवन्तीति वक्तव्यं स्यात्? नञः प्रकृतत्वात् स एव विज्ञायते। `तत्पुरुषात्` [[5.4.71]] इत्यत्रापि तत्पुरुषशब्दस्तादथ्र्यात् तत्पुरुषार्थ उत्तरपदे वर्तते। तत्र पुनः ऋगादेः श्रुतत्वादृगादिरेव विज्ञायते, तदन्तात् तत्पुरुषादिति च व्यधिकरणे पञ्चम्यौ। ततोऽयमर्थः नञः परे य ऋगादयस्ते समीपभूता यस्य नञस्तस्मात् परं यत्तत्पुरुषार्थमृगादिपदं ततः समासान्तो न भवतीति। अथ वा - अवयववचनोऽन्तशब्दः, समानाधिकरण एव पञ्चम्यौ; तादथ्र्यात्। ऋगाद्यन्तं तत्पुरुषार्थं युदत्तरपदं तदेव। तदन्तात् तत्पुरुषार्थादित्युक्तम्। ततश्चायमर्थः नञः परे य ऋगादयस्तदन्तात् तत्पुरुषार्थादुत्तरपदात् समासान्ता न भवन्तीति। तत् पुनस्तदन्ततत्पुरुषार्थम्। उत्तरपदं सामर्थ्यादृगाद्येव विज्ञायते। `बहुव्रीहौ संख्येये डजबहुगणात्` [[5.4.73]] इत्यत्र तर्हि योऽयं वृत्तिग्रन्थः - `संख्येये योऽयं बहुव्रीह#इर्वर्तते तस्मादबहुगणान्ताड्डच्प्रत्ययो भवति` इति, तस्य विरोधः? नास्ति विरोधः; अत्र हि बहुव्रीह्रर्थमुत्तरपदमेव तादथ्र्याद्बहुव्रीहिरित्युक्तं भवति। तदयमर्थः - संख्येये यद्बहुव्रीह्रर्थमुत्तरपदं वर्तते तस्माड्ड्च्प्रत्ययो भवतीति। अनया दिशाऽप्यन्य एवञ्जातीया विरोधाः परिहर्तव्याः। तदेवं स्थितमेवैतत् - तदन्तात् तद्धितविधानार्थं ह्राब्ग्रहणमिति, विप्रतिषेधात् तद्धितविधानार्थं ङ्याब्ग्रहणमिति, विप्रतिषेधात् तद्धितवलीयस्त्वमिति।यद्येवम्, `युनस्तिः` [[4.1.77]] `ऊङुतः` [[4.1.66]] इत्येतयोरपि त्यूङोग्र्रहणं कस्मान्न विज्ञायते, तदन्तात् तद्धितोत्पत्तिर्यथा स्यात् - युवतितरा, ब्राहृबन्धूतरेति? <<नद्याः शेषस्यान्यतरस्याम्>> [[6.3.44]] इत्यूङो विकल्पेन ह्रस्वत्वं न कर्तव्यम्; ह्राब्ग्रहणस्योपलक्षणार्थत्वात्। <<स्त्रियाम्>> [[4.1.3]] इति प्रकृत्य येषां विधानं तदुपलक्षणार्थमिह ङ्याब्ग्रहमम्। अतस्त्यूङोरपि ग्रहणमिह कृतमेव वेदितव्यम्।ङ्याब्ग्रहणं यद्युपलक्षणार्थम, अन्यतरस्यैव ग्रहणं कर्तव्यम्, एकेनापि हि स्त्रीप्रत्यया उपलक्ष्यन्त एव? सत्यमेतत् ; वैचित्र्यार्थं तु द्वयोग्र्रहणम्। <<यावादिभ्यः कन्>> [[5.4.29]] , <<लोहितान्मणौ>> [[5.4.30]] , <<वर्णे चानित्ये>> [[5.4.31]] इत्यनेन तु विकल्पेन स्वार्थिकेन स्त्रीप्रत्ययस्य बाधनमिष्यते। तत्र यदा बाधा तदा लोहितशब्दात् कनि टापि कृते चेत्वे लोहितिकेति भवितव्यम्; यदा तु न बाधा तदा `\tवर्णादनुदात्तात्तोपधात् तो नः` [[4.1.39]] इति ङीब्नकारयोः कनि च `केऽणः` [[7.4.13]] इति ह्रस्वत्वे कृते लोहिनिकेति भवितव्यम्। तस्माद्वक्तव्यमेवैतत् - लोहिताल्लिङ्गबाधनं वेति॥", "41002": "`उकारादवोऽनुबन्धाः` इत्यादि। तत्र प्रथमैकवचनस्योकार उच्चारणार्थाः। `अनहसौ` [[7.1.93]] इति विशेषणार्थः कस्मान्न विज्ञायते? व्यावत्र्याभावात्। जसो जकारोऽसन्दिग्धोच्चारणार्थः, असति हि तस्मिन्नौकारस्यावादेशे कृते सन्देहः स्यात् - कीदृशस्य प्रत्ययस्योच्चारणमिति, तत्र व्याख्यानं कर्तव्यमापद्यते। अथ `जसः शी` [[7.1.17]] इत्यत्र विशेषणार्थः कस्मान्न विज्ञायते? `असः शी` (इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्। `औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः` इति। वृत्तौ त्वेष ग्रन्थो नास्ति; भवितव्यं त्वनेन। लेखकप्रमाददोषादिदानीमन्तर्हितः। शसः शकार औटष्टकारस्य `खरि च` [[8.4.54]] इति चर्त्वेनासन्दिग्धोच्चारणार्थः। शकारः सन्देहनिरासार्थः, इतरथा ह्रौडसित्युच्यमाने सन्देहः स्यात् - किं टकारस्येदमुच्चारणम्, उत डकारस्येति?तत्र डकारोच्चारणाट्टिलोपः स्यात्। ननु च सत्यपि शकारे भवितव्यमेव सन्देहेन - किमिदं कृतचर्त्वस्य डकारस्योच्चरणम्?टकारस्य वेति? नैतदस्ति; यदि हि डकारस्य स्यात्, शकारोच्चारणमनर्थकं स्यात्। अथ <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति तत्र विशेषणार्थः <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इत्यत्र। `सुपां सुलुक्` [[7.1.39]] इत्यादौ सुपां सुलुक् पूर्वसवर्ण आ आत् शे इत्याकारप्रश्लेषः, तत्रासति टकारे तस्यापि ग्रहणं स्यात्। `संख्याकर्मादयश्च` इत्यादि। संख्या स्वादीनामर्थे विहिता <<बहुषु बहुवचनम्>> [[1.4.21]] इत्यादिना शास्त्रान्तरेण। कर्मादयश्च <<कर्मणि द्वितीया>> [[2.3.2]] इत्येवमादिना। `तेन सहास्यैकवाक्यता` इति। कर्मणि बहुत्वे बहुवचनं शस्। कर्मणि द्वित्वैकत्वयोद्विवचने औडमौ। एवमन्यत्राप्येकवाक्यता वेदितव्या।यदि तर्हि तेन सहास्यैकवाक्यता , तदा युक्तं <<बहुषु बहुवचनम्>> [[1.4.21]] इत्यत्र - `यत्र च संख्या सम्भवति तत्रायमुपदेशः, अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव` इति, तद्विरुध्यते, एकवाक्यतायां हि विशिष्ट एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात् सामान्यविहितत्वं नोपपद्यते।यदपीदं तत्रोक्तम्- `ङ्याप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वसंख्यावाच्यत्वेन विधीयते` इति, तदपि विरुध्यत एव; न ह्रेकवाक्यतायां विहितस्य बहुवचनस्य पश्चाद्बहुत्वसंख्याय वाच्यत्वेन विधानं युक्तम्। तेन शास्त्रान्तेणानेन च संहत्य बहुत्वसंख्यायामेव बहुवचनविधानात् पूर्वकस्तावन्नास्ति विरोधः।\tएकवाक्यतायामपि हि यथा स्वादीनां सामान्येन विधानमुपपद्यते तथा <<बहुषु बहुवचनम्>> [[1.4.21]] इत्त्रैव प्रतिपादितम्। योऽपि द्वितीयो विरोध उद्भावितः सोऽपि न भवत्येव; ह्राप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितमिति <<बहुषु बहुवचनम्>> [[1.4.21]] इत्यनेन सैहकवाक्यतामापन्नेनेत्ययं तत्राभिप्रायो वेदितव्यः। तस्यानेन सूत्रेण बहुत्वसंख्या वाच्यत्वेन विधीयत इत्यत्रापि स्वादिसूत्रेण [[4.1.2]] `लस्य` [[3.4.77]] इत्यादिना च शास्त्रेण सहैकवाक्यतां प्रतिपन्नेनेत्येषोऽभिप्रायो द्रष्टव्यः। एवञ्च संहत्यैव बहुवचनं विहितम्। संहत्यैव च तस्य बहुतवसंख्या वाच्यत्वेन विधीयत इति कुतो विरोधः; ननु च `बहुवचनम्` [[1.4.21]] इत्येकमिदं शास्त्रम्, तस्य दि स्वादिसूत्रेणै [[4.1.2]] कवाक्यता, ततो `लस्य` [[3.4.77]] इत्यादिना शास्त्रान्तरेण सा नोपपद्यते? अथ तेनैकवाक्यता, स्वादिसूत्रेण [[4.1.2]] सा नोपपद्यते? नैव दोषः; द्वे ह्रेते वचने तन्त्रोच्चारिते, तत्रैकस्य स्वादिसूत्रेणैकवाक्यता, अपरस्य `लस्य` [[1.4.21]] इत्यादिना शास्त्रान्तरेण।अथ वा - अन्यथा विरोधाभावः प्रतिपाद्यते। इह हि स्वादयोऽनेन सूत्रेण <<कर्मणि द्वितीया>> [[2.3.2]] इत्येवमादिकं शास्त्रमनपेक्ष्य वा विधीयेरन्? तद्वापेक्ष्य तेन सहैकवाक्यतामापन्ने ते? इति द्वौ पक्षौ। तत्राद्ये पक्षेऽविशेषेणैव स्वादयो विधीयन्त इति, तथा विहितानां तु तेषां नियमः क्रियते - यत्र संख्या सम्भवति तत्रासौ बहुषु बहुवचनम्` [[1.4.21]] इत्यादिना शास्त्रान्तरेण कर्मादिसम्बन्ध्येकत्वादिसंख्यावाच्यत्वेन विधीयते, यानि तु निःसख्यान्यव्ययानि तेब्यः सामान्यविहिताः स्वादय सन्तीत्येव। द्वितीये तु पक्षे विशिष्ट एवार्थे कर्मादिसम्बन्धिनि बहुत्वादौ स्वादयो विधीयन्ते। तत्र <<बहुषु बहुवचनम्>> [[1.4.21]] इत्याद्यः पक्ष आश्रितः, इह तु द्वितीय इति नास्ति विरोधः; पक्षान्तरमाश्रित्य तथाऽभिधानात्। अथ द्वितीये पक्षे कथमव्ययेभ्यः सुबुत्पत्तिः, न ह्रेकवाक्यतायां संक्याकर्माद्यर्थरहितेभ्यः स्वाद्युत्पत्तिरुपपद्यते? नैष दोषः; ज्ञापकाद्भविष्यति। यदयं <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यव्ययादुत्पन्नस्य सुपो लुकं शास्ति, तज्ज्ञापयति - भवत्यव्ययाद्विभक्त्युत्पत्तिरिति। `कुमारी` इति। <<वयसि प्रथमे>> [[4.1.20]] इति ङीप्। `गौरी` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्। `शाङ्र्गरवी` इति `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] । `खट्वा` इति। `अजाद्यतष्टाप्` [[4.1.4]] इति टाप्। `बहूराजा` इति। `डाबुभाभ्यामन्यतरस्याम्` [[4.1.13]] इति डाप्। `कारीवगन्ध्याः` इति। करीषस्य गन्ध इव गन्धो यस्येति। <<गन्धस्येदुत्पूतिसुसुरभिभ्यः>> [[5.4.135]] , <<उपमानाच्च>> [[5.4.137]] इतीत्त्वम्। करीषगन्धेरपत्यमिति <<यस्येति च>> [[6.4.148]] इत्यकारलोपः,<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यादि वृद्धिः,`अणिञोरनार्षयोर्गुरुपोत्तमयोः` [[4.1.78]] इत्यादिना ष्यङादेशः, `यङश्चाप्` [[4.1.74]] इति चाप्॥", "41003": "`ङ्यापोरनेनैव विधानात्` इति। एतेन `स्त्रियाम्` इत्यधिकृत्य प्रत्ययविधौ ह्राबन्तायाः प्रकृतेरभावमाह। एष च `प्रातिपदिकमात्रमत्र प्रकरणे सम्बध्यते` इत्यत्र हेतुः। यदि हि ङ्याबन्ता प्रकृतिरिह प्रकरणे सम्भवेत् ततो ङ्यापावपि सम्बध्येयातानाम्, सा ङ्याब्राऊपा न सम्भवति, अतो न ताविह सम्बध्येते।इह च स्त्रीत्वं प्रत्याचार्याणां दर्शनभेदः, क्वचिच्च दर्शने दोषो दृश्यते। तत्र केषाञ्चिद्दर्शनम् -`स्तनकशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।उभयोरन्तरं यच्च तदभावे नपुसंकम्॥ इति। `स्तनकेशवती` इति, भूम्न्यतिशायने वा मतुप्। `लोमशः` इत्यत्रापि लोमादिपामादिसूत्रेण [[5.2.99]] शप्रत्ययः। `उभयोरन्तरम्` इति, उभयोः स्त्रीपुंसयोः सदृशमित्यर्थः। तत्पुनः सादृश्यं लिङ्गवत्वेन। एवं तर्हि तदुभयं समुदितं यत्र तन्नपुंसकं प्राप्नोति। भवति हि समुदायरूपं समुदायिरूपेण लिङिगत्वेन सदृशमित्यत आह - `तदभावे` इति। एतदुभयं यत्र नास्ति तत् `नपुंसकम्` इति। तेन न सम्भवत्येष दोषः। यदि तदभावे नपुंसकमित्येतदुच्यते, ततोऽव्ययानां तिङन्तानाञ्चैव नपुंसकत्वं स्यात्। तथाप्युभयोरन्तरं यदित्येतावदुच्यते, एवमपि कुक्कुटमयूर्यौ इत्येवमादीनां लिङ्गसमुदायमतां समुदायानां नपुंसकत्वं प्रसज्येत। तस्मादुभयोरन्तरं यत् तदभाव इति च द्वयमप्युक्तम्। तदेवं यन्न स्त्री न पुमान् लिङ्गवच्च वस्तु तन्नपुंसकमित्युच्यते, ततोऽव्ययानां तिङन्तानाचञ्च नपुंसकत्वं न भवतीत्युक्तं भवति। अत्र दर्शने भ्रृकुंसे च टाप् प्रसज्यते, तसय् हि स्तनकेशसम्बन्ध उपलभ्यते। भ्रृकुंसः स्त्रीवेशधारी नर्तकः, पुरुष उच्यते। खट्वादीनाञ्च स्तनकेशाभावात् स्त्रीत्वं न स्यात्, वृक्षादीनाञ्च लोमशत्वाभावात् कुंस्त्वाभावः प्राप्नोति, खरकुटआदीनाञ्च लोमशत्वात् पुंस्त्वम्, ततश्च खरकुटीः पश्येति <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति नत्वमापद्येत।अन्येषां तु दर्शनम् - संस्त्यानम्, प्रसवः, स्थितिश्चेति। संस्त्यानम् - अपचयस्वभावं स्त्रीत्वम्, तद्यत्रास्ति सोऽर्थः स्त्री। प्रसवः = उपचयात्मकः पुंस्त्वम्, तद्यत्रास्ति स पुमान्। उपचयापचयरहिता याऽवस्था तदात्मिका स्थितिर्नपुंसकत्वम्, तद्यत्रास्ति तन्नपुंसकमिति। अत्रापि दर्शने संस्त्यानादेस्त्रयस्य सर्वत्र भावादेकैकं वस्तु स्त्री, पुमान्, नपुंसकञ्च प्रसज्येत। संस्त्यानविवक्ष्यायामेव स्त्रीत्वं भवति, प्रसवविवक्षायामेव पुंस्त्वम्, स्थितिविवक्षायामेव नपुंसकत्वम्, अतोऽयमदोष इति चेत्? अयुक्तमेतत्; तथा हि - उपचीयते कुमारीत्यपि कुमारी स्त्री भवति, न पुमान्। अपचीयते वृक्ष इति संस्त्यानविवक्षायामपि वृक्षः पुमानेव भवति, न स्त्री। #उपचीयते कुण्डमपचीयते वेत्युपचयापचययोरन्यतरविवक्षायामपि कुण्डं नपुंसकमेव भवति, न पुमान् नापि स्त्री।तदेवमाचार्याणां स्त्रीत्वं प्रति दर्शनभेदाद्दोषदर्शनाच्च पृच्छति - `स्त्रियामित्युच्यते,केयं स्त्री` इत्यादि। वृत्तिकारस्तु विदिताभिप्रायो दर्शनान्तरमाश्रित्याह - `सामान्यविशेषाः` इत्यादि। सामान्यानि विशेषाश्चेति। तथा सामान्यानि च तानि तुल्यजातीपदार्थसाधारणत्वाद्विशेषाश्च परस्परतो विजातीयेभ्यश्च विशिष्यन्ते = व्यावत्र्यन्त इति सामान्यविशेषाः। `स्त्रीत्वादयो गोत्वादय इव` इति। यथैव हि गोत्वादयः सामान्यविशेषा भिन्नेष्व पि स्वाश्रयेष्वभिन्नाकारबुद्ध्यभिधानहेतवस्तथा स्त्रीत्वादयोऽपि। यथैव हि गोत्वादयस्तुल्यजातीयेषु सर्वेषु वर्तन्ते, विजातीयेभ्यस्तु व्यावर्तन्ते, तथा स्त्रीत्वादयोऽपि। तस्मात् तद्वदेव तेऽपि सामान्यविशेषाः। ननु च सामान्यविशेषणां सर्वव्यक्त्यनुगतत्वादस्मिन्नपि दर्शने स एव सर्वत्र सर्वलिङ्गताप्रसङ्गः, तत्किमिति दर्शनान्तरमुत्सृज्येदं दर्शनमाश्रितमित्याह -`बहुहप्रकारा व्यक्तयः`इति। व्यजन्त आभिरिति व्यक्तव्यः - सामान्यविशेषाणामाश्रयाः। बहुप्रकारा व्यक्तयो येषां सामान्यविशेषाणां ते तथोक्ताः। अनेनैतत् सूचयति - विचित्रत्वात् सामान्यविशेषाश्रयाणां व्यञ्जकानां कश्चिदेव सामान्यविशेषः केनचिदेवाश्रयेण व्यज्यते, न सर्वः सर्वेण। प्रतिनियतविषयत्वात् पदार्थशक्तीनाम्। तत्र येनार्थेन स्त्रीत्वमेव व्यज्यते न पुंस्त्वं नापि नपुंसकत्वम्, सा स्त्र्येव भवति, न पुमान्, नापि नपुंसकम्, येन पुंस्त्वमेव व्यज्यते स पुमानेव, येन नपुंसकत्वं तन्नपुंसकमेव। यस्तु द्वयोस्त्रयाणां वा व्यञ्जकः स द्विलिङ्गस्त्रिलिङ्गो वेष्यते - अर्धर्चः, अर्धर्चम्; पद्मः, पद्मम्; तटः, कटी,तटमिति। तेन नास्मिन् दर्शने पूर्वदोषावसरः। यस्तर्हि सामान्यविशेषस्याश्रयो व्यञ्जको न भवति स कथं तद्योगात् स्त्री भवति? पुमान् नपुंसकञ्चेति?अत आह -क्वचित्` इत्यादि। आशात्माकाशादिषु हि सामान्यविशेषाः स्त्रीत्वादयः क्वचिदुपदेशमात्रव्यङ्ग्या एव, न त्वाश्रयव्यङ्ग्याः, तदाश्रयाणामतीन्द्रियत्वात्। तत्र यस्मिन्नुपदेशेन स्त्रीत्वं व्यज्यते सा स्त्री भवति, यथा - इयमाशेति। यत्र पुंस्त्वं स पुमान्, यथा -अयमात्मेति। यत्र नपुंसकत्वं तन्नपुंसकमेव, यथा - इदमाकाशमिति। कथं स्त्रीत्वादयः क्वचिदुपदेशमात्रव्यङ्ग्या भवन्तीत्याह - `यथा` इत्यादि। ब्राआहृणत्वक्षत्रियत्वादीनां हि तथाविध आश्रयो नास्ति यस्तान्यभिव्यञ्जयेत्; सामान्यविशेषाश्रयाणामाशात्माकाशादीनमतीन्द्रियत्वात्। तदाश्रयणामन्यत्र सादृश्यादुपदेशमात्रादेव तु ब्राआहृणत्वादीनामभिव्यक्तिर्भवति। यथा च तेषां तथा च क्वचित् स्त्रीत्वादीनाम्। किं पुनरिदं स्त्रीत्वम्? प्रत्ययार्थः? उत प्रातिपदिकविशेषणम्? इत्याह - `स्त्रीत्वञ्च` इत्यादि। यदा स्त्रीशब्दो विनाऽपि भावप्रत्ययेन स्त्रीत्वे वर्तते तदा स्त्रियामभिधेयायां टाबादयो भवन्तीति स्त्रीत्वं प्रत्ययार्थो भवति। यथैव हि गोशब्दो जातिपदार्थपक्षे भावप्रत्ययरहितोऽपि गोत्वे वर्तते तथा स्त्रीशब्दोऽपि स्त्रीत्वे। यदा तु स्त्रीत्वं विशेषणमुपादाय तद्वति द्रव्ये स्त्रीशब्दोऽपि वर्तते तदायं पक्षोऽपि भवति - स्त्रियां यत् प्रातिपदिकं वर्तते तस्माट्टाबादय इति स्त्रीत्वं प्रकृतेर्विशेषणं भवति। `उभयथाऽपि युज्यते` इति। कथं पुनरुभयथा युज्यते, यावता स्त्रीत्वस्य प्रत्ययार्थत्वे स्त्रीत्वं प्रधानमापद्यत इति तत्र व्यतिरेकलक्षणा षष्ठी प्राप्नोति, यथा -स्त्रीत्वं देवदत्ताया इति, ततश्च कुमारी देवदत्तेति सामानाधिकरण्यं न स्यात्? द्विवचने बहुवचने च कुमार्यौ कुमार्य इति न स्याताम्, एकत्वात् स्त्रीत्वस्य? अनेकश्च प्रत्ययो नोपपद्यते गार्गायणी, कारीषगन्ध्या,कालितरेति;एकत्वात् स्त्रीत्वस्य, तस्य च प्रथमोत्पन्नेनैव ष्फष्यङादिनाभिहितत्वात्? स्त्रीति च ईकारो न प्राप्नोति संस्त्याने `{स्त्री इत्येव मुद्रितदशपाद्युणादिसूत्रपाठे दृष्यते} स्त्यायतेर्ड्रट्` (पं।उ।4।165) इति ड्रट्प्रत्ययान्तेनाभिधीयते, यतो व्यतिरेकलक्षणा षष्ठी स्यात्। कस्मात् न हि सामान्यविशेषाणामाश्रयाद्भेदः स्त्रीप्रत्ययान्तेनाभिधीयते, यतो व्यतिरेकलक्षणा षष्ठी स्यात्। कस्मात् पुनर्नाभिधीयते? शब्दशक्तिस्वाभाव्यात्। द्विवचनबहुवचने अपि चोपपद्यते; यस्मात् सामान्यविशेषाणामेकत्वेऽपुनर्नाभिधीयते? शब्दशक्तिस्वाभाव्यात्। द्विवचनबहुवचने अपि चोपपद्येते; यस्मात् सामान्यविशेषणामेकत्वेऽप्याश्रयसंख्यास्तद्वाचिन उपाददते, शब्दशक्तिस्वाभाव्यादेव। तेनाश्रयस्यानेकत्वात् द्विवचनबहुवचने भविष्यतः। गाग्र्यायणीत्येवमादौ द्वाभ्यामेव स्त्रीप्रत्ययाभ्यां स्त्रीत्वं व्यज्यते। नैकेन ष्यङादिनेत्यनेकोऽपि प्रत्ययो युक्त एव। अथ वा - गाग्र्यायणीत्यत्र `प्राचां ष्फ तद्धितः` 4.1.17) इति विहितस्य ष्फस्य षित्करणसामर्थ्यात् ङीष् प्रत्ययो भविष्यति। `कारीषगन्ध्या` इति। ष्यङन्तात् `यङश्चाप्` [[4.1.74]] इति वचनसमाथ्र्यादच्चाब्भविष्यति। `कालितरा` इति। जानपदादि [[4.1.42]] सूत्रविहितेन ङीषा स्त्रीत्वमप्रकर्षविशिष्टमुक्तम्, न तु प्रकर्षविशिष्टम्, अतस्तस्यानभिहितत्वात् तरवन्तात् टाब्भविष्यति। स्त्रीति <<स्त्रियाम्>> [[4.1.3]] इति निर्देशाल्लिङ्गाट्टित्करणसामर्थ्याद्वा ङीब्भविष्यति। प्रकृत्यर्थविशेषणपक्षे तु प्रातिपदिकेन स्त्रीत्वविशिष्टं द्रव्यमेवोच्यते, टाबादयस्तु द्योतका इति। तत्र व्यतिरेकाभावात् षष्ठआ अप्रसङ्गादेव द्विवचनबहुवचने अपि। अनेकत्वाद्द्रव्यस्य युक्तेऽनेकोऽपि प्रत्ययो युक्त एव। यथैव हि प्रातिपदिकेनोक्तेऽपि स्त्रीत्वे खट्वेत्यादौ टाबादयो भवन्ति, तथा गाग्र्यायणीत्यादावनेकेऽपि ष्फादयो भवन्ति। अनेनैव स्त्रीत्वस्य द्योतितत्वादिति युक्तमुक्तम् - `उभयथापि युज्यते` इति॥", "41004": "`अजाद्यतदन्ताच्च`इति। अकारान्तादित्यर्थः। अथ स्वरूपग्रहणं कस्मान्न विज्ञायते? अच्छब्दान्ताच् शरद्दरदित्येवमादेरिति? लिङ्गात्। किं लिङ्गम्? `तदाद्याचिख्यासायाम्` [[2.4.21]] `यकपूर्वायाः` [[7.3.46]] इत्येवमादिनिर्देशात्। स्वरूपग्रहणे हि ते नोपपद्येरन्। `पकारः सामान्यग्रहणार्थः` इति। `ङ्याप्प्रातिपदिकात्` [[4.1.1]] इत्यत्रासति हि पकारेऽस्य ग्रहणं न स्यात्। `टकारः सामान्यग्रहणाविघातार्थः` (इति)। असति हि टकारे `एकानुबन्धकग्रहणे न द्वय्नुबन्धकस्य` (व्या।प।52) इतिटापकस्यैव ग्रहणं स्यात्, न डाप्चापोः; द्वयनुबन्धकत्वात्। `शुभंयाः कीलालपाः` इति। `अन्येभ्योथऽपि दृश्यन्ते` [[3.2.75]] इतिविच्। किं पुनः स्यात्, यद्यत्रापि टाप्स्यात्? इत्याह - `हल्ङ्याभ्यः` इत्यादि।`जातिलक्षणे` इति। `जातेरस्त्रीविषयादयोपधात्` [[4.1.63]] इति। `पुंयोगलक्षणे` इति। <<पुंयोगादाख्यायाम्>> [[4.1.48]] इति। `पुष्पफलोत्तरपदलक्षणे` इति। `पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च` [[4.1.64]] इति। `वयोलक्षणे` इति। <<वयसि प्रथमे>> [[4.1.20]] इति। `टिल्लक्षणे` इति। `टिड्ढाणञ्` [[4.1.42]] इति।`शूद्रा चामहत्वपूर्वा` इत्यादि। ननु च `आमन्महतः` [[6.3.46]] इत्यादिनात्त्वेनात्र भवितव्यम्, अत एवं वक्तव्यम् - अमहापूर्वेति? नैतदस्ति; अर्थप्रधानस्य हि तदात्त्वमुच्यते, शब्दप्रधानश्चायम्। महच्छब्दः पूर्वो यस्याः सा महत्पूर्वेति। `महत्पूर्वस्य प्रतिषेधः` इति।अहमत्पूर्वेत्यस्यार्थमाचष्टे। अत्रापि जातिरिति सम्बध्यते, जातिवचनस्य प्रतिषेधो यथा स्यात्। इह मा भूत् - महती शूद्रा महाशूद्रेति। अत् ह्रुत्तरपदं शूद्रशब्दो जातौ वर्तते, न समुदायो महतीशूद्रारूपः। कथं पुनर्जातिरित्युच्यमाने मह्त्पूर्वस्य प्राप्तिः,यतः प्रतिषेध उच्यत इत्याह - `महाशूद्रशब्दो ह्राभीरजातिवचनः` इति। महाशूद्रशब्दल एव हि समुदायो जातौ वर्तते। अत एव महाशूद्रीति `जातेरस्त्री` [[4.1.63]] इत्यादिना ङीब्भवति। नन्वेवमपि नास्त्येव टापः प्राप्तिः,शूद्रशब्दाद्धि प्रत्यय उत्पद्यमानः कथं महाशूद्रात् प्राप्नोतीत्यत आह -`तत्र तदन्तविधिर्न` इत्यादि। `कथं तदन्तविधिः` इति। न कथञ्चित्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादिति (व्या।प।89) मन्यते। `अतिधीवरी ` इति। `अतिपीवरी` इति। दधातेः पिबतेश्च `आतो मनिन्ववनिष्वनिपश्च` [[3.2.74]] इति क्वन#इप्, ईत्वं घुमास्थादिसूत्रेण [[6.4.66]] । धीवानमतिक्रान्ता, पीवानमतिक्रान्तेति <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। अत्र तदन्तविधौ ज्ञापिते सति `वनोरच्` [[4.1.7]] इति ङीब्राऔ न भवतः। यदि पुनस्तदन्तविधिर्न ज्ञाप्येत तदा `वनः` इति प्रत्ययग्रहणमेतत्, ततश्च प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवति` (पु।प।वृ।44) इति वचनादिहैव स्याताम् - `धीवरी, पीवरीति; अतिधीवरी, अतिपीवरीत्यत्र तु न स्याताम्। `अतिभवती`। अतिमहती` इति। भवतुशब्दः केवल उगित् सर्वादिषु पठते, महदिति गौरादौ, तत्रासत्यस्मिञ्ज्ञापके केवलाभ्यामेव भवन्महच्छब्दाभ्यामुगिद्गौरादिलक्षणौ ङीब्ङीषौ स्याताम्। अतिभवती, अतिमहतीत्यत्र तु न स्याताम्, ज्ञापके तु सति भवतः। यद्येवम्, पञ्चानामजानां समाहारः पञ्चाजीति द्विगोरपि तदन्तविधिना टाप् प्राप्नोति? नैष दोषः; अजादिभिः स्त्रियामिति विशेषयिष्यामः,`अजाद्यतः` [[4.1.4]] इति हि षष्ठी,तत्रैवमभिसम्बन्धः कर्तव्यः - अजादीनां या स्त्री, अजादिशब्दानां वाच्येऽर्थे यत् स्त्रीत्वं समवायसम्बन्धेन वर्तमानम्, तत्र टाबिति। न च पञ्चाजीत्यत्राजाशब्दस्यार्थे वाच्ये स्त्रीत्वं समवेतम्, किं तर्हि? समाहारे वाच्ये।`पूर्वापहाणा। अपरापहाणा। टित्` इति। ल्युडन्तत्वात्।कक`प्राक्पुष्पा` इति। प्राञ्चन्तीति प्राञ्चि, `ऋत्विग्दधृक् [[3.2.59]] इत्यादिना क्विन्। प्राञ्चि पुष्पानि यस्याः सा प्राक्पुष्पा॥", "41005": "`ङकारः सामान्यग्रहणार्थः` इति। असति हि तस्मिन् `ङ्याप्प्रातिपदिकात्` [[4.1.1]] इत्यत्र ङीति ङीग्ङीषोरेव ग्रहणं स्यात्। न ङीपः॥", "41006": "`यथाकथञ्चित्` इति। येन केनचित् प्रकारेण। यदि वर्ण उगित् सम्भवति, यदि प्रत्ययः, अथापि प्रातिपदिकम्, सर्वर्था यत्रैषामन्यतमः सम्भवति तत् `उगिच्छब्दरुपम्` इति। अनेनोगिच्छब्दरूपस्य विशेषणं न प्रातिपदिकस्येति दर्शयति। यदि प्रातिपदिकस्यैव विशेषमं स्यादिहैव स्यात् - भवती, महतीति; अर्वतीत्यत्र तु न स्यात्, <<अर्वणस्त्रसावनञः>> [[6.4.127]] इति नकारस्य त्रादेशः कृत इति वर्ण एव तकार उगित्, न प्रातिपदिकम्; गोमतीत्यत्र च न स्यात्, अत्रापि हि मतुप्प्रत्यय एवोगित्, न प्रातिपदिकम्; तस्मादुगिच्छब्दस्यैव विशेषणं युक्तमित्यभिप्रायः। तच्चोगिच्छब्दरूपं प्रातिपदिकस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह - `तदन्तात्` इत्यादि। यदि तर्ह्रुगिच्छब्दरूपान्तात् प्रातिपदिकान्ङीब्भवत्येवं सति भवतीति न सिध्यति, न ह्यत्रोगिच्छब्दरूपान्तं प्रातिपदिकं भवति, भवच्छब्दान्तादुगितः प्रातिपदिकादन्यस्य तदन्तस्याभावात्? नैष दोषः; व्यपदेशिवद्भावात् तदन्ताद्भविष्यति। ननु च `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शाक।प।65) इति व्यपदेशिद्भावेन नात्र भवितव्यम्? नैतदस्ति; न ह्रुगिदिति प्रातिपदिकग्रहणम्, किं तर्हि? प्रातिपदिकाप्रातिपद#इकग्रहणम्; वर्णप्रत्ययोरप्युगितोग्र्रहणात्। `पचन्ती, यजन्ती` इति। शत्रन्तान्ङीप्।`धातोरुगितः प्रतिषेधः` इति। प्रतिपाद्यत इति शेषः।`अञ्चतेश्चोपसंख्यानम्` इति। अञ्चतेर्ङीप्प्रत्ययस्य प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदमुभयत्र प्रतिपादनम् - <<पादोऽन्यतरस्याम्>> [[4.1.8]] इति सूत्रे `अन्यतरस्याम्` इति योगविभागः करिष्यते, स च <<उगितश्च>> [[6.3.45]] <<वनो र च>> [[4.1.7]] <<पादोऽन्यतरस्याम्>> [[4.1.8]] इत्येषां त्रयाणामपि योगानां शेषः। व्यवस्थितविभाषा च सा। तेन प्रातिपदिकादुगितच्छब्दरूपान्ताद्धातूगिच्चब्दान्तादञ्चतेरेव नित्यं ङीब्भवति, ततोऽन्येभ्यस्तु न भवत्येवेति।अन्ये त्वन्यथा प्रतिपादनं कुर्वन्ति - उखारुआत्, पर्णध्वदिति। क्रियाकारकसम्बन्धमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न भवति। स्त्रीशब्दसामानाधिकरण्यात्तु स्त्रीत्वप्रतीतिरापद्यते। न च `स्त्रीयाम्` [[4.1.3]] इत्यत्र स्त्रीसामानाधिकरण्यपक्षः स्थितः। प्राचीत्यादिषु तु स्त्रीत्वं विवक्षितम्, तेनेह भवतीकार इति। `उखारुआत्, पर्णध्वत्` इति। उखेन रुआंसते, पर्णानि ध्वंसत इति <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति क्विप्, <<अन्येषामपि दृश्यते>> [[6.3.137]] इत्युखस्य दीर्घत्वम्। प्राचीति प्रपूर्वादञ्चतेः क्विन्, `अचः` [[6.4.138]] इत्यकारलोप), `चौ` [[6.3.137]] इत्युपसर्गस्य दीर्घत्वम्॥", "41007": "`वनः` इति क्वनिब्वनिपोः प्रत्ययोग्र्रहणम्। अथ `बन षण सम्भवक्तौ` (धातुपाठः-463,464) `वनु याचने` (धातुपाठः-1470) इत्याभ्यां <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति विचि कृते यद्रूपं वन्निति निष्पद्यते तत्कस्मान्न गृह्रते यदि ताभ्यां विज् दृश्येत स तु न दृश्यते; अनभिधानात्। `शर्वरी` इति। `शृ? हंसायाम्` (धातुपाठः-1488), <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति वनिप्,गुणः रपरत्वम्। `परलोकदृआरी` इति। दृशस्तेनैव सूत्रेण [[3.2.75]] क्वनिप्।`वनोन हशः` इति। क्वचिदिति शेषः। हशः परो यो वनिप् हशन्ताद्धातोर्विहितस्तदन्तात् प्रातिपदिकात् क्वचिन्ङीब्रोफश्चान्तादेशो न भवति। `सहयुध्वा` इति। `युध सम्प्रहारे` (धातुपाठः-1173), `दृशेः क्वनिप्` [[3.2.94]] , <<राजनि युधिकृञः>> [[3.2.95]] , `सहे च` [[3.2.96]] इति क्वनिप्, <<नोपधायाः>> [[6.4.7]] , `सर्वनामस्थाने` [[6.4.8]] इति दीर्घः, <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] । क्वचित्तु प्रतिषेधो न भवत्येव - शर्वरीति, अतर् रेफाद्धशः परो वनिप्; अवावरीति, अत्रापि हशन्ताद्धातोर्वनिब्विहितः, तथापि प्रतिषेधो न भवति। `ओणृ अपनयने` (धातुपाठः-454), <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति वनिप्, `विड्वनोरनुनासिकस्यात्` [[6.4.41]] इत्यात्त्वम्, अवादेशः। न च वनो न हश इत्येव {वक्तव्यं कर्तव्यम्` इति मुद्रितः पाठः। } वक्तव्यम्; यस्मात् <<पादोऽन्यतरस्याम्>> [[4.1.8]] इत्यन्तरस्यांग्रहणमस्यापि योगस्य शेषः। सा च व्यवस्थितविभाषा विज्ञायते। तेन यत्र ङीब्रोफौ नेष्येते तत्र न भविष्यतः॥", "41008": "`पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यते` इति। अथ `पद गतौ` (धातुपाठः-1169) इत्यस्माण्ण्यन्तात् <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विपि कृते यत् पादिति रूपं निष्पद्यते रूपं निष्पद्यते तस्य ग्रहणं कस्मान्न विज्ञायते? विज्ञायते यदि पादयतेः क्विब् दृश्येत्, स तु न दृश्यते; अनभिधानात्। `द्विपात्, द्विपदी` इति। द्वौ पादादस्या इति बहुव्रीहिः। `पादस्य लोपः` [[5.4.138]] इत्यनुवर्तमाने <<संख्यासुपूर्वस्य>> [[5.4.140]] इत्यकारलोपः, <<पादः पत्>> [[6.4.130]] इति पद्भावः॥", "41009": "`ऋचीत्यभिधेयनिर्देशः` इति। विषयनिर्देशाशङ्कां निराकरोति। यदि हि विषयनिर्देशः स्यात्, तत ऋचि विषय ऋग्ग्रन्थे यः पाच्छब्दस्तदन्तात् प्रातिपदिकाट्टाब्भविष्यतीत्येषोऽर्थः स्यात्, तथा च ऋग्वेद एव स्यात्, नान्यत्र। अभिधेयनिर्देशे तु सर्वत्र भवतीति भावः॥", "41010": "यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते` इति। ङीपोऽनन्तरत्वात् तस्यैवायं प्रतिषेध इत्याशङ्काया निरासार्थमिदमुक्तम्। ननु चात्र `टाबृचि` [[4.1.9]] इति टाबेवानन्तरः, तत् कुतो ङीपोऽनन्तरत्वम्? अस्वरितत्वात्। अस्य टापो ङीप एवानन्तर्यं युक्तम्। ननु च षट्संज्ञाः संख्याशब्दाः, संख्याश्च भेदमात्रं द्रव्यस्य प्रत्ययायन्ति, न स्त्रीत्वम्, या तु तस्य स्त्रीत्वप्रतीतिः सा शब्दान्तरेण सामानाधिकरण्याद्भवति, न च स्त्रीसमानाधिकरणपक्षः <<स्त्रियाम्>> [[4.1.3]] इति सूत्रे स्थितः, तथा च तेभ्यः स्त्रीप्रत्ययस्य प्राप्तिरेव नास्तीत्यपार्थकः प्रतिषेधः? नैतदस्ति; संख्या हि गुणः, `संख्या परिमाणानि पृथक्त्वं संयोगविभागौ` इति वैशेषिकाणां [[1.1.6]] गुणसूत्रे पाठात्। गुणवचनानां चाश्रयतो लिङ्गवचनानि भवन्ति, यथा -शुक्ला शाटी, शुक्लः कम्बलः, शुक्लं वस्त्रम्; शुक्लः शुक्लौ शुक्लाः इति। तथा सति प्रतिषेधे यथा शुक्लादिशब्देभ्यः स्त्रीप्रत्ययो भवति तथा षट्संज्ञकेभ्योऽपीति स्यात्, यथा - पञ्च ब्राआहृण्य इति। <<षड्भ्यो लुक्>> [[7.1.22]] इति जसो लुक्। `स्वसा` इति। `अनङ सौ` [[7.1.93]] पूर्ववत् <<नोपधायाः>> [[6.4.7]] इति दीर्घः। तिसृचतसृशब्दावपि स्वरुआआदिषु पठएते, तयोः किमर्थः पाठः? यावता विभक्तौ परतः <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति तिसृचतसृभ्यां भवितव्यम्, तत्र यदि तावृकारान्तलक्षमं ङीपं प्रति निमित्तभावं प्रतिपद्येयातां विभक्तेरानन्तर्यं ताभ्यां विहन्येत, एतच्च `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इत्युक्तम्। तस्मात् सन्निपातलक्षणपरिभाषयैव ङीब्न भविष्यतीति किं प्रतिषेधेन? एवं तह्र्रेतज्ज्ञापयति - अनित्यैषा परिभाषेति। तेन या, सेति सिद्धं भवति। अत्रापि हि विभक्तौ त्यदाद्यत्वमित्यकारष्टापो निमित्तं न स्यात्, टापि हि सति विभक्तेरानन्तर्यं विहन्यते। परिभाषायस्त्वनित्यत्वेनैव टाब्भवति।`षट्संज्ञानाम्` इत्यादि। पञ्च ब्राआहृण्य इत्यादौ `अवन्तरस्य विधिर्भवति प्रतिषेधो वा` (व्या।प।19) इति ङीपोऽनन्तरस्य प्रतिषेधे कृते <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारे लुप्ते सत्याकारान्ततायामुपजातायां टाबुत्पत्तिः कस्मान्न स्यात्?स्यादेव, निमित्तस्य सविधानात्। नलोपस्यासिद्धत्वान्न स्यादिति चेत्? नैतदस्ति; <<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>> [[8.2.2]] इति परिगणितेष्वेव विधिषु नलोपस्यासिद्धत्वमुच्यते। न च टाब्विधिस्तत्र परिगण्यते, तत् कुतस्तत्र नलोपस्यासिद्धत्वम्? टाब्विधिरपि तत्र परिगण्यत एवेति दर्शयन्नाह - `प्रत्याहारात्` इत्यादि। चाबिति चाप्सम्बन्धिनं पकारमुपलक्षयति। तदेतदुक्तं भवति - सुबिति। तत्र न सप्तमीबहुवचनसम्बन्धिना सुपः पकारेण प्रत्याहारो गृह्रते,किं तर्हि? `यङश्चाप्` [[4.1.74]] इति चाप्सम्बन्धिना। तस्माट्टापो विधिरपि सुब्विधिरेव; टापोऽपि प्रत्याहारान्तर्भावात्। ततश्च टाब्विधावपि नलोपस्यासिद्धत्वेन भवितव्यमिति सिद्धं सर्वमिष्टम्। सिध्यत्येव। `दोषस्त्वित्त्ववे` इति। बहूनि चर्माण्यस्यां नगर्यामिति बहुव्रीहिः। <<शेषाद्विभाषा>> [[5.4.154]] इति कप्, टाप्, नलोपः। अत्रेदानीं `प्रत्ययस्थात्कात्` [[7.3.44]] इत्यनेनेत्त्वमिष्यते बहुचर्मिकेति यथा स्यात्, तच्च न प्राप्नोति, न ह्यत्र कात् पूर्वोऽकारः; सिद्धत्वार्थं सर्वविभक्त्यन्तः समास आश्रितः। सुपो विधिः सुब्विधिः, सुपिवा विधिः सुब्विधिरिति। यदि च टाबपि सुप् स्यात्, ततस्त्रत्रापि परत्रावस्थित इत्त्वमुच्यत इति तदपि सुब्विधिः स्यात् - सुपि विधिरिति कृत्वा। ततस्तस्मिन्नपि कर्त्त्व्ये नलोपस्यासिद्धत्वं स्यात्, तवयुक्तश्चापा प्रत्याहारः। `तस्मान्नोभौ` इति। यस्मादेवं चापा सह प्रत्याहारे दोषस्तमादुभावपि टाब्ङीपौ न भवत इति प्रतिषिद्धौ। कथमिह हि स्त्रियामित्यर्थोऽपेक्षते? अस्मिन्नर्थे यदुक्तं भवतीति स्त्र्यर्थे चोभौ ङीप्टापावुक्तावित्युभावपि भवतः॥", "41011": "`वामा,पामा` इति। ददातेः पिबतेश्च <<आतो मनिन्क्वनिब्वनिपश्च>> [[3.2.74]] इति मनिन्, पूर्ववत् <<नोपधायाः>> [[6.4.7]] दीर्घः। अथ समीमा, सीमानौ, सीमानः; अतिमहिमा, अतिमहिमानौ, अतिमहिमान इत्यत्र कतं प्रतिषेधः, यावता मन इत्यर्थवतो मन एतद्ग्रहणम्। न च यथा दामा पामेत्यतर्मनः प्रत्ययार्थेनार्थवत्वं तथा सीमेत्येवमाद न केनचिदर्थेनार्थवत्त्वम्, तथा हि सीमाशब्दस्तावदव्युत्पन्नं प्रातिपदिकम्, तस्यैव चार्थवत्त्वम्, न तदवयवभूतस्य मनः; अतिमहिमेत्यत्रापि नैव मनोऽर्थवत्त्वम्, तथा हि - `महतो भावः` इत्यर्थविवक्षायां <<पृथ्वादिभ्य इमनिज्वा>> [[5.1.122]] इति मह्छब्दादिमनिज्विहितः, तत्र चेमनिच एवार्थवत्त्वम्, न तदेकदेशस्य मन इत्यत आह - `अनिनस्मन्ग्रहणानि` इत्यादि। एतद्वाक्यं पठता वाक्यकारेण अन्, इन्स्, मन् - इत्येतेषां ग्रहणेऽर्थवद्ग्रहणपरिभाषा (व्या।प।1) न व्याप्रियते। तेनैषामनर्थकानामपि ग्रहणं भवति, एभिश्चानर्थकैः सार्थकैश्च तदन्तविदिर्भवतीत्युक्तं भवति, ततश्च सीमाऽतिमहिमेत्यादावपि प्रतिषेधः सिद्धो भवति॥", "41012": "`अनुपधालोपो बहुव्रीहिरिहोदाहरणम्` इति। कथं पुनरेतत्लभ्यते, यावता नात्र विशेष उपात इत्याह - `उपधालोपिनो हि` इत्यादि। यस्मात् `अन उपधालोपिनोऽन्यतरस्याम्` [[4.1.28]] इत्युपधालोपिनो विकल्पं वक्ष्यति, तस्मात् पारिशेष्यादनुपधालोपो बहुव्रीहिरस्यावकाश इति। तस्य चोदाहरणम् - `सुपर्वा` इत्यादि। शोभनमस्याः पर्वं शोभनं चर्मास्या इति बहुव्रीहिः। अयञ्च `न संयोगाद्वमन्तात्` इत्यल्लोपो न भवति।`अतिराजी` इति। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा।91) इति <<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषोऽयम्॥", "41013": "इहान्यतरस्यांग्रहमस्य डापः मुक्ते पक्षे प्रतिषेधोऽपि यथा स्यादित्येतद्वा प्रयोजनं स्यात्? डाप्प्रतिषेधाभ्यां मुक्ते पक्षे ङीबपि यथा स्यादित्येतद्वा? तत्राद्यं तावदयुक्तम्;डाबपि ह्रुच्यते, प्रतिषेधोऽपि, तावुभावपि वचनसामर्थ्याद्भविष्यतः। द्वितीयमप्ययुक्तम्। अन्यतरस्यांग्रहमेन ह्रनुपधालोपिनो वा बहुव्रीहेः पक्षे ङीब्विधीयते? उपधालोपिनो वा? तत्र प्रथमस्तावत् पक्षो नोपपद्यते, यदि ह्यत्रानुपधालोपिनःपक्षे ङीब्विधीयेत प्रतिषेधवचनमनर्थकं स्यात्; द्वितीयोऽपि नोपपद्यते, `अन उपधालोपिनोऽन्यतरस्याम्` [[4.1.28]] इति प्रतिपदं विकल्पेन ङीपो विधास्यमानत्वात्। न च तदन्यतरस्यांग्रहमं न करिष्याम इतीहान्यतरस्यांग्रहणं कर्त्तुं युक्तम्; तद्ध्यवश्यमेव कर्तव्यम्, उपधालोपिनो हि ङीपा मुक्ते डाप्प्रतिषेधौ यथा स्याताम् - बहुराज्ञ्यौ, बहुराजानौ, बहुराजे इति। इतरथा हि डाप्प्रतिषेधौ सुपर्वादिष्वनुपधालोपिषु सावकाशौ परत्वान्ङीपा बाध्येयाताम्। तस्माद्वक्ष्यमाणमप्यन्यतरस्यांग्रहणं कर्तव्यमेवेति तत्सर्वं मनसि कृत्वाऽऽह - `अन्यतरस्यांग्रहणं किमर्थम्` इति। निरर्थकमिति भावः। `बहुव्रीहौ`इत्यादि। <<वनो र च>> [[4.1.7]] इत्यनेन यत्कार्यं विधीयते तस्यापि बहुव्रीहौ विकल्पो यथा स्यादित्येवमनर्थकमन्यतरस्यांग्रहणम्। यद्यत्प्राप्तं तत्तद्विकल्पेन प्रत्युपस्थापयितव्यम्। ङीब्रोफावप्राप्तौ, <<अनो बहुव्रीहेः>> [[4.1.12]] इति प्रतिषेधात्। तस्मात् तद्विधानार्थमन्यतरस्यांग्रहणं कर्तव्यम्। कथमन्यतरस्यामिति? योगविभागोऽत्र क्रियते, तत्र बहुव्रीहिग्रहणमनुवर्तते, <<वनो र च>> [[4.1.7]] इत्येतच्च मण्डूकप्लुतिन्यायेन। तेन वन्नन्ताद्बहुव्रीहेरन्यतरस्यां ङीब्रोफश्चान्तादेशो लभ्यत इति बहुपीवा, बहुधीवा, बहुपीवरी, बहुधीवरीत्यादि सिद्धं भवति। अन्ये त्वाहुः - उभाभ्यांग्रहमसहितादन्यतरस्यांग्रहणाद्वन्नन्ताद्बहुव्रीहेर्ङीब्रोफौ लभ्येते। `उभाभ्याम्` [[4.1.13]] इतिनेयं पञ्चमी, कं तर्हि? तृतीया, वन्नन्ते बहुव्रीहौ स्त्रीत्वमुभाभ्यां ङीब्रोफाभ्यां करणाभ्यां प्रयोक्त्रा प्रत्याययितव्यमिति। ननु च मन्नन्तात् प्रातिपदिकादन्नन्ताच्च बहुव्रीहेर्डाबुभाभ्यामित्यदुभाभ्यांग्रहणस्य प्रयोजनम्? एवं मन्यते - स्वरितत्वादेव `उभाभ्याम` [[4.1.13]] इति वचनमन्तरेणाप्युभाभ्यामेव प्रत्ययो लभ्यत एवेति॥", "41014": "", "41015": "`सर्वत्र` इति। स्त्रीप्रकरणे। ननु च <<पत्युर्नो यज्ञसंयोगे>> [[4.1.33]] <<इतो मनुष्यजातेः>> [[4.1.65]] इत्यादौ नानुवर्तते, तस्यात इत्यस्यासम्भवाद्विशेषणं नोपपद्यत इत्याह - `तत् सति` इत्यादि। यत्र सम्भवति तत्र विशेषणं भवति, यत्र तु न सम्भवति तत्रोत्तरार्थमेवानुवर्तते। इह कस्मान्न भवति - `पचमाना` इति। स्थानिवद्भावेन शानचष्टित्त्वमस्ति, अतस्तदन्तादपि ङीपा भवितव्यमित्यभिप्रायः। `द्वयनुबन्धकत्वाल्लटः` इति। तेन `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इत्येतया परिभाषया लटोऽत्र ग्रहणं नास्तीति दर्शयति, तस्य ह्रकारो द्वितीयोऽनुबन्धोऽस्ति।`ल्युडादिषु कथम्` इति। ईकारो भवतीति शेषः। आदिशब्देन <<गापोष्टक्>> [[3.2.8]] इत्येवमादयो गृह्यन्ते। ल्युडादीनामपि द्व्यनुबन्धकत्वाट्टिद्ग्रहणेन भवितव्यम्, अतस्तदन्तेभ्यो ङीब्न स्यात्, ततश्चक करणी, सामगीत्यादि न सिध्येत्। `टित्करणसामर्थ्यात्` इति। यदि तेषामपि टिद्ग्रहणेन ग्रहणं न स्याट्टित्करणमनर्थकं स्यात्; प्रयोजनान्तरासम्भवात्। तस्मात् सत्यपि द्व्यनुबन्धकत्वे टित्करणसामर्थ्याल्ल्युडादयो गृह्रन्त इत्यदोषः। लटोऽपि तर्हि टित्करणसामर्थ्यादेव ग्रहणेन भवितव्यमित्यत आह -`इतरत्र` इति। लटि हि टित्करमस्य <<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति टेरेत्वं फलम्। अतो यद्यपि ग्रहणं न भवति, तथापि नैव टित्करणस्य वैयथ्र्यं प्रसज्येत। तस्मात् टित्करणसामर्थ्याल्ल्युडादयो गृह्रन्त इत्यदोषः। लटोऽपि तर्हि टित्करणसामर्थ्यादेव ग्रहणेन भवितव्यमित्यत आह -`इतरत्र` इति। लटि हि टित्करणस्य <<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति टेरेत्वं फलम्। अतो यद्यपि तस्येदं ग्रहणं न भवति, तथापि नैव टित्करणस्य वैयथ्र्यं प्रसज्येत। तस्मात् टित्करणस्य चरितार्थत्वादयुक्तं तस्येदं ग्रहणम्।`पठिता विद्या` इति। अत्रापि कथमिति सम्बध्यते। इडागमस्य हि प्रत्ययभक्तत्वात् प्रत्ययस्य टित्त्वमस्ति, ततस्च ङीपा भवितव्यम्, तत्कथं पठितेत्येतद्रूपं भवतीति?`आगमटित्त्वमनिमित्तम्` इति। प्रकृतत्वात् ङीप इति विज्ञायते। कथं ज्ञायतेऽयमनिमित्तमित्याह -`टउटउलौ` इत्यादि। तुड् वेत्यागमटित्त्वेनैव सिद्धे ङीपि `सायंचिरं प्राह्ण` [[4.3.23]] इत्यादिसूत्रे `टउटउलौ` इति पुनः प्रत्ययोष्टत्करणं ज्ञापकम् - आगमटित्त्वमनिमित्त्वं ङीप इति।`सोपर्णेयी,वैनतेयी` इति। सुपर्णीशब्दाज्जातिलक्षमङीषन्ताद्विनताशब्दाच्च टाबन्तात् <<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढक्। आयमन्नादि [[7.1.2]] सूत्रेणैयादेशः। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति ढको ग्रहणेन न भवितव्यमित्यत आह - `निरनुबन्धको ढशब्दः` इत्यादि। ननु चायं निरनुबन्धकोऽस्ति `शिलायाः ढः` [[5.3.102]] इति? नैतदस्ति; स्वभावत एव ह्रयं नपुसंके वर्तते। अयं तह्र्रस्ति स्वाभाव्यात् - `{सभाया ढश्छन्दसि इति मुद्रितः पाठः} सभाया यः` [[4.4.104]] <<ढश्छन्दसि>> [[4.4.106]] इति? अयमपि नैव स्त्रियां वर्तते, छन्दसि सभेयीशब्दस्य प्रयोगादर्शनात्। तस्मान्नरनुबन्धको ढशब्द स्त्रियां नास्तीति नेह निरनुबन्धकपरिभाषोपतिष्ठते; अन्यथा हि ढग्रहममनर्थकं स्यात्।`णेऽपि` इति। अणि यत् कार्यं कृतं तण्णेऽपि क्वचिदिति क्वचिन्न भवतीत्युक्तं भवति। क्व पुनर्णेऽप्यण्कृतं कार्यं भवतीति? ताच्छीलिके। तथा हि <<कार्मस्ताच्छील्ये>> [[6.4.172]] इत्यत्र ज्ञापितमेतत्- णेऽप्यण्कृतं कार्यं भवतीति, कथम्? कार्मशब्दो हि ताच्छील्ये टिलोपार्थं निपात्यते। यदि न णेऽप्यण्कृतं कार्यं न स्यात् निपातनमनर्थकं स्यात्। कर्मशब्दात् कर्म शीलमस्येति `छत्त्रादिभ्यो णः` [[4.4.62]] इति णे कृते <<नस्तद्धिते>> [[6.4.144]] इत्येवं टिलोपस्य सिद्धत्वात्। `अन्` [[6.4.167]] इति प्रकृतिभावान्न सिध्यतीति चेत्? नैतदस्ति; अणि हि प्रकृतिभाव उच्यते, तत्र <<इनण्यनपत्ये>> [[6.4.164]] इत्यतोऽणीत्यनुवर्तते। तदेवं `ताच्छीलिके णेऽप्यणि कृतं कार्यं भवति` इत्यस्यार्थस्य ज्ञापितत्वात् तत्रैवाण्कृतं कार्यं भवति, नान्यत्र। `\tचौरी, तापसी` इति। चुरा शीलमस्यास्तपः शीलमस्या इति `छत्त्रादिभ्यो णः` [[4.4.62]] णेऽप्यण्कृतं भवतीति ङीप्। `दाण्डा मौष्टा` इति। दण्डः प्रहरणस्याम्, मुष्टिः प्रहरणस्यां क्रीडायामिति <<तदस्यां प्रहरणमिति क्रीडायाम् णः>> [[4.2.57]] इति क्रीडायां णः। अथाणित्यकारादारभ्य लणो णकारात् प्रत्याहारग्रहणं कस्मान्न भवति? टिबादीनां पुनग्र्रहणात्। प्रत्याहारग्रहणे हि तेषां ग्रहणमनर्थकं स्यात्, अणन्तादेव सिद्धत्वात्।`औत्सी, औदपानी` इति। उत्सस्योदपानस्येयमिति <<उत्सादिभ्योऽञ्>> [[4.1.86]] इत्यञ्। अथ `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] इत्यत्र पुनरञ्ग्रहणं किमर्थं क्रियते,।यावतानेनैव सिद्धम्, तदेव हि रूपं स एव हि स्वरः, तथा हि - ङीनि सति <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तं भवति,औत्सीत्यत्राप्युत्सशब्दादञन्तान्ञित्स्वरेणाद्युदात्तान्ङीपि कृते तदेवाद्युदात्तत्वं भवति? इत्याह - `शाङ्र्गर्वाद्यञः` इत्यादि। बिदस्यापत्यं गोत्रं स्त्रीति `अनृष्यानन्तर्य्ये बिदादिभ्योऽञ्` [[4.1.104]] इत्यञि कृते तस्य `गोत्रञ्च चरणैः सह` (का।वृ।4.1.63) इति जातित्वात् `जातेरस्त्रीविषयादयोपधात्` [[4.1.63]] इति ङीष् प्राप्नोति। तद्बाधानार्थं पुनः `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] इत्यत्राञो ग्रहमं क्रियते। यद्येवम्, इहाञ्ग्रहमं न कर्तव्यम्, तेनैवोत्सीत्यादेरपि सिद्धत्वात्? नैतदस्ति; जातिग्रहणं तत्र <<इतो मनुष्यजातेः>> [[4.1.65]] इत्यतोऽनुवर्तते <<पुंयोगादाख्यायाम्>> [[4.1.48]] इत्यादिनाञ् बैदः, तस्य भार्या बैदीति, तस्य पुंयोग ङीषेवेष्यते, तस्मात् तत्र जातिग्रहणमनुवर्तनीयम्। तस्मश्चानुवर्तमान औत्सीत्यत्रोत्सस्येयमित्यर्थविवक्षायामञि कृतेऽजातित्वादीकारस्तत्र न प्राप्नोति,तस्मादिहाप्यञ्ग्रहणं कर्तव्यमेव।द्वयसजादीनामनुबन्धोच्चारणं प्रत्ययपरिग्रहार्थम्। प्रातिपदिकान्यपि द्व्यसजादीनि सन्ति, तत्रासत्यनुबन्धोच्चारणे तेषामपि ग्रहणं विज्ञायेत। तयशब्दोऽपि `अय वय तय {णय-धातुपाठः-} नय गतौ` (धातुपाठः-474,485,479,480) इति तयो धातोरजन्तं प्रातिपदिकं सम्भवति, अतस्तन्निवृत्त्य्रथं पकारोच्चारणम्।`ऊरुद्वयसी` इत्यादि। ऊरुप्रमाणमस्याः, जानुप्रमाणस्या इति <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इति द्वयसजादयः प्रत्ययाः।`पञ्चतयी` इति।पञ्चावयवा अस्या इति `संख्याया अवयवे तयप्` [[5.2.42]] ।`आक्षिकी, शालाकिकी` इति। अक्षैर्दीव्यति शलाकाभिर्दीव्यतीति `तेन दीव्यतिखनति` [[4.4.2]] इत्यादिना ठक्, ठस्येकादेशः।`लावणिकी` इति। लवणं पण्यमस्या इति <<लवणाट्ठञ्>> [[4.4.52]] । अथ किमर्थं ठक्ठञौर्भेदेनोपादानाम्? न विशेषकरानुबन्धानुत्सृज्य `ठ`इति सामान्येनैव ग्रहणं क्रियेतेत्यत आह - `भेदेन` इत्यादि। `ठ` इति सामान्येन ग्रहणे सति ठनादीनामपि ग्रहणं स्यात्, अतस्तन्निवृत्त्यै भेदेन ग्रहणम्। आदिशब्दो ञिठादीनां परिग्रहाय, तेन दण्डोऽस्यास्तीति <<अत इनिठनौ>> [[5.2.115]] इति ठनि कृते दण्डिकीति न भवति, काशिषु भवेति <<काश्यादिभ्यष्ठञ्ञिठौ>> [[4.2.116]] इति ञिठे प्रत्यये कृते काशिकीति न भवति।कञोनुबन्धग्रहणं <<आतोऽनुपसर्गे कः>> [[3.2.3]] इत्येवादीनां निवृत्त्यर्थम्। `यादृशी, तादृशी` इति। `त्यदादिषु दृशेरनालोचने कञ्च` [[3.2.60]] इति कञ्, <<आ सर्वनाम्नः>> [[6.3.91]] इति यत्तदोरात्त्वम्। क्वरपोऽनुबन्धोच्चारणं `स्थेशभास` [[3.2.175]] इत्यादिना विहितस्य वरचो निवृत्यर्थम्। यद्येवम्, एक एवानुबन्ध उच्चारणीयः, एकेनापि वरचो निवृत्तिः सिध्यत्येव? सत्यमेतत्, तथापि मन्दबुद्धीनां सुखप्रतिपत्तयेऽनुबन्धद्वयोच्चारणम्।`इत्वरी, नआरी`इति। `इण्नश्जसर्त्तिभ्य- क्वरप्` [[3.2.163]] ह्रस्वस्य तुक्। ख्युनोऽनुबन्धोच्चारणं लाघवार्थम्; अनयथा हि षष्ठीबहुवचने कृते नुटि नामि दीर्घत्वे च गुरुच्चारणं स्यात्। `आढङ्करणी` इति। अनाढ आढ्यः क्रियतेऽनयेति `आढसुभग` [[3.2.56]] इत्यादिना ख्युन्, <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] ।नञ्स्नञीकक्` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्यार्थः, तेन नञादिभ्योऽपि भविष्यतीति। `स्त्रैणी,पौस्नी` इति। स्त्रिया इयम्, पुंस इयमिति `स्त्रीपुंसाभ्यां नङस्नञौ भवनात्` [[4.1.87]] इति नञ्सञौ। `शाक्तीकी, याष्टीकी` इति। शक्तिः प्रहरणमस्याक्षितम्। तरुणी सुरा,तलुनी सुरेति - अत्र सुरादौ विषये तरुणतलुनशब्दाभ्यां ङीब्वेदितव्यः, न हि सुरादीनां वयोऽस्ति,तस्य प्राणिधर्मत्वात्। अभिनत्वमात्रं सुरादीनां तरुणतलुनशब्दाभ्यां गम्यते। यदा तु वयो विवक्ष्यते तदा गौरादिपाठान्ङीषा भवितव्यम्। तत्र स्वरे विशेषः - तरुणतलुनशब्दौ हि `{कृवृदारिभ्य उनन्` (द।उ।5।52) `त्रो रश्च लो वा` (द।उ।5।56) इत्युननप्रत्ययान्तौ व्युत्पादितौ,अतो नित्स्वरेणाद्युदात्तौ। तत्र ङीपि सत्याद्युदात्तत्वं भवति; ङीषि तु सति प्रत्ययस्वरेणान्तोदात्तत्वम्॥", "41016": "`गार्गी। वात्सी` इति। गर्गवत्सशब्दाभ्यां स्त्रियामपत्ये <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ्, ङीप्, <<यस्येति च>> [[6.4.148]] इत्यकारस्य लोपः, <<हलस्तद्धितस्य>> [[6.4.150]] इति यकारस्य च।`अपत्यग्रहणं कर्तव्यम्` इति। अपत्यं गृह्रते येन तदपत्यग्रहमम्। व्याख्यानमेतदुक्तं भवति - तथा व्याख्यानं कर्तव्यं यथा यञो विशेषणमपत्यं गृह्रेत्। तत्रेदं व्याख्यानम् - उत्तरसूत्रे विकल्पार्थं प्राचामिति वचनमनेनापि योगेन सम्बध्यते,व्यवस्थितविभाषा च सा विज्ञायते, तेनापत्येऽर्थे यो यञ् विहितस्तदन्तान्नित्यं भवति, यस्तु द्वीपशब्दाज्जातादावर्थे विहितदन्तान्न भवतीति। अथ योगविभागः किमर्थः? न पूर्वसूत्र एव अञ्ग्रहणं क्रियेतेत्यत आह - `योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे यञन्तादेव ष्फो यथा स्यात्, टिदादिभ्यो माभूदिति॥", "41017": "`षकारो ङीषर्थः` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीप्यथा स्यात्। ननु च क्रियमाणेऽपि षकारे नैव ङीषा भवितव्यम्, ष्फप्रत्ययेनैव स्त्रीत्वस्याभिव्यक्तत्वादित्यत` आह - `प्रत्ययद्वयेन` इत्यादि। न हि केवलः ष्फः स्त्रीत्वमभिव्यङ्क्तुं समर्थ इति ङीषमपेक्षते। तेन सहिताभ्यामेव ताभ्यां स्त्रीत्वं व्यज्यत इति ङीषा भवितव्यम्। `तद्धितग्रहणम्` इत्यादि। `कृत्तद्धितसमासश्च` [[1.2.46]] इति प्रातिपदिकसंज्ञा यथा स्यादित्येवमर्थं तद्धितग्रहणम्। प्रातिपदिकसंज्ञा तु ङीष् यथा स्यादित्येवमर्थम्। ननु च विनापि तया षित्करणसामर्थ्यादेव ङीष् भविष्यति, अन्यथा हि षित्करणमनर्थकं स्यत्, प्रयोजनन्तराभावात्; न च `त्रपूष् लज्जायाम्` (धातुपाठः-374) इत्यतोऽपि धातोः स्यादित्यतिप्रसङ्ग आशङ्कनीयः, धातोः षित्करणस्य `षिद्भिदादिभ्योऽङ` [[3.3.104]] इत्यङविधौ चरितार्थत्वात्, अत इति चाधिकारात्? सत्यमेतत्, प्रतिपत्तिगौरवं तु स्यात्। तस्मात् सुखप्रतिपत्तये तद्धितग्रहमम्।`सर्वत्रग्रहणम्` इत्यादि। उत्तरसूत्रे सर्वत्रग्रहणमनर्थकम्। तद्धि सर्वेषामचार्याणां मतेन यथा स्यादित्येवमर्थं क्रियते, एतच्चाप्रयोजनम्, अस्वरितत्वदेव हि प्राग्ग्रहणस्य सर्वेषां मतेन भवितव्यम्। तस्मादुत्तरसूत्रे सर्वत्रग्रहणमनर्थकम्, अतस्तदिहापकृष्यते। किमर्थमित्याह - `बाधकबाधनार्थम्` इति। `आवटआच्चापं वक्ष्यति` इत्यादना बाधकबाधनार्थमित्यस्यैवार्थं विस्पष्टीकरोति।अवटआच्चापोऽवकाशः - उदीचां मतेन आवटएति, घवटशब्दाद् गर्गादिञन्ताच्चाप्, <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इत्यस्यावकाशः - गाग्र्यायणीति; आवटआत् प्राचानुभयप्रसङ्गे परत्वाच्चाप् स्यात्। सर्वत्रग्रहणात् ष्फ एव भविष्यति - आवटआयनीति॥बाल-मनोरमावृद्धेत्कोसलाजादाञ्ञ्यङ् 1171, 4.1.17 वृद्धेत्कोसला। जनपदक्षत्रियोभयवाचकाद्वृद्धसंज्ञकादिदन्तात्, कोसलात् , अजादाच्चापत्ये ञ्यङित्यर्थः। वृद्धादिति। उदाह्यियते इत्यर्थः। आम्बष्ठ्यः सौवीर्य इति। आम्बष्ठसौवीरशब्दौ जनपदक्षत्रियोभयवाचकौ। इदिति। इदन्तोदाहरणसूचनमिदम्। आवन्त्य इति। अवन्तिशब्दो देशे राजनि च। कौसल्य इति। कोसलशब्दो देशे राजनि च। अजादस्यापत्यमिति। राजवाचकत्वे विग्रहोऽयम्। देशवाचकत्वे तु अजादानां राजेति विग्रहः। बाल-मनोरमाप्राचां ष्फ तद्धितः 466, 4.1.17 प्राचां ष्फ तद्धितः। `यञ` इत्यनुवर्तते, स्त्रियामित्यदिकृतम्। `ष्पे` ति लुप्तप्रथमाकम्। तदाह -यञ्न्तादिति।", "41018": "`स्वतन्त्रम्` इति। यो ह्रन्यस्यावयवभूतो न भवति केवलः कतशब्दस्तत् स्वतन्त्रं प्रातिपदिकम्। यस्तु कुरुकतशब्दस्यावयवः कतशब्दस्तस्य स्वान्तन्त्र्यं नास्ति; समुदायप्रतिबद्धत्वात्। कः पुनरसौ कतशब्दः स्वतन्त्रं प्रातिपदिकमित्यत आह - `कपिशब्दात्` इत्यादि। `लौहित्यायनी`। शांसित्यायनी` इति। लोहितशंसितशब्दाभ्यां गर्गादित्वाद्यञ्। `वाभ्रव्यायणी` इति। अत्रापि बभ्रुशब्दात् `मधुबभ्रुवोब्र्राआहृणकौशिकयोः` [[4.1.106]] इति यञ् <<ओर्गुणः>> [[6.4.146]] , <<वान्तो यि प्रत्यये>> [[6.1.79]] इति वान्तादेशः, यञन्तेभ्यः ष्फः।\t`कण्वात्तु`इत्यादि। कण्वशब्दात् पूर्वः शकलशब्द इष्यते, कतशब्दात्तूत्तरः। किमेवं सति भवतीत्याह - `पूर्वोत्तरो`इत्यादि। एवं सति पूर्वोत्तरो गणौ तदन्तादी भवतः। तच्छब्देन शकलशब्दः प्रत्यवमृश्यते। शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोत्तरयोर्गणयोस्तौ तदन्तादी पूर्वोत्तरगणौ। लोहितादिः शकलशब्दान्तो भवति पूर्वो यथः। उत्तर गणः कण्वादिः शकलशब्दादिर्भवति। किं पुनः पूर्वोत्तरयोर्गणयोस्तदन्तादित्वे प्रयोजनमित्याह -`ष्फाणौ तत्र प्रयोजनम्` इति। पूर्वस्य गणस्यशकलान्तत्वे ष्फः प्रयोजनम्। उत्तरस्य शकलादित्वेऽण् प्रयोजनम्।`प्रातिपदिकेष्वन्यथा पाठः`इति। कपिकत, कुरुकत, अनडुह्, कण्व, शकल - इत्यनयाऽनुपूर्व्या प्रातिपदिकेषु पाठः। `स एवं व्यवस्थापयितव्यः` इति। कण्वात्तु शकलः पूर्वः`इत्यादिना याऽऽनुपर्वी दर्शिता तया व्यवस्थापयितव्यः। अत एतदुक्तं भवति - कुरुकत, अनडुह् - इत्येतावन्यस्मिन् स्थाने पठितव्यौ, शकलशब्दस्तु कतकण्वशब्दयोर्मध्ये पठितव्यः। `मन्यते` इति श्लोवार्त्तिकारः। कथं पुनरेवं पाठे सति शकलशब्दात् ष्फाणौ सिध्यत आह - `कतन्तेभ्यः` इत्यादि। कतस्यान्तः कतन्त इति तत्पुरुषः `कतन्तेभ्यः`इति निपातनात्पररूपत्वम्। कतशब्दोऽन्ते येषां लोहितादीनां ते कतन्ता इति बहुव्रीहिः। कतन्तश्च शकलशब्दः, कतन्ताश्च लोहितादय इति कतन्तश्च कतन्ताश्चेति सरूपाणामेकशेषः। `तथा` इत्यादिना यथा कतन्तेभ्य इत्यत्र बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्य इत्यत्रापीति दर्शयति। कण्वस्यादिः कण्वादिः शकलशब्दः कण्वशब्दः आदिर्येषां गोकक्षादीनां ते कण्वादयः, कण्वादिश्च कण्वादयश्च कण्वादयः, पूर्ववदेकशेषः। `तत्पुरुषवृत्त्यासंगृहीतः`इति। `कतन्तेभ्यः` इत्यत्र <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यत्र तत्पुरुषवृत्त्या तत्पुरुषसमासेन। `मध्यापीत` इति। कतकण्वशब्दयोर्गणयोर्वा। `प्रत्ययद्वयम्` इति। ष्फप्रत्ययम्, अण्प्रत्ययञ्च। `प्रतिपद्यते` इति। प्राप्नोति। तत्पुरुषवृत्त्याहि तस्य संग्रहे सत्यस्य सूत्रस्यायमर्थो जायते - कतन्ताच्छकलशब्दात् तथा यञन्तात् कतन्तेभ्यश्च लोहितादिभ्यो यञन्तेभ्यः स्त्रियां ष्फप्रत्ययो भवतीति। तेन ष्फप्रत्ययं प्रतिपद्यते शकलशब्दः। `शाकल्यायनी` इति। <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यत्रापि तत्पुरुषवृत्त्या शकलशब्दस्य संग्रहे सत्ययमर्थो भवति। कण्वादेः शकलशब्दान्ताद्गोत्रप्रत्ययान्तात् कण्वादिभ्यो गोकक्षान्तेभ्यो गोत्रप्रत्ययान्तेभ्यः शैषिकेष्वर्थेष्वण्प्रत्ययो भवतीति। तेनाण्प्रत्ययमपि शकलशब्दः प्रतिपद्यते - शाकल्यस्येमे छात्राः शाकला इति॥", "41019": "`कथं कौरवी`इति। कौरव्यशब्दादेवात्र हीब्विहित इति मन्यमानस्य प्रश्नः। कुरुशब्दादेवात्राणन्तान्ङीब्विहित इति दर्शयन्नाह -`तस्येदम्` इत्यादि।`कौरव्यमाण्डूकयोः` इत्यादि। कौरव्यमाण्डूकयोरनेन सूत्रेण यत्कार्यं विधीयते तस्यासुरेरप्युपसंख्यानम् = प्रतिपादनं कर्तव्यम्। आसुरेरपि ष्फः प्रतिपादयितव्य इति यावत्। तत्रेदं प्रतिपादनम् - चकारोऽत्र क्रियते,स चानुक्तसमुच्चयार्थः तेनासुरिशब्दादपि ष्फो भविष्यतीति। `आसुरायणी`इति। असुरस्यापत्यमिति `अत इञ्` [[4.1.95]] , तदन्तात् ष्फः। `इञश्चेत्यणि प्राप्ते` इति। तत्र <<प्रस्थोत्तरपदपलद्यादिकोपधादण्>> [[4.2.110]] नेति योगविभागः कर्तव्यः, तेनासुरिशब्दादपि प्रतिषिद्धे <<वृद्धाच्छः>> [[4.2.114]] इति छ एव भविष्यति - आसुरिणा प्रोक्त आसुरीयः कल्प इति॥", "41020": "`यौवनादिः` इति। आदिशब्दो वृद्धत्वाद्युपसंग्रहार्थं इति। `श्रुत्या वर्तते` इति। यत् प्रातिपदिकं श्रवणमात्रेणैव प्रकरणाद्यनपेक्षं प्रथमं वयः प्रत्याययति तदत्र श्रुत्या वर्तते। `कुमारी` इति। ननु च नायं कुमारीशब्दः प्रथमे वयसि वर्तते, क्व तर्हि? पुंयोगाभावे, तथा हि वृद्धायामपि हि प्रयुज्यते - वृद्धा कुमारीति? नैतदस्ति;कुमारीशब्दो हि प्रथम एव वयसि रूढः। यस्तु वृद्धायामपि तस्य प्रयोगस्तत्र कुमारीसाधम्र्यात्, न तु पुंयोगाभावात्। भवति हि ताद्धम्र्यात् ताच्छब्द्यम्, यथा -#ऋ- गौर्वाहीक इति।`वयस्यचरमे` इति। अचरमे = अनन्त्ये ङीब्भवतीत्येतदर्थरूपमस्य सूत्रस्य व्याख्यानमित्यर्थः। तेत्रेदं व्याख्यानम् - प्रथमवयोग्रहणमिहाचरमस्य वयस उपलक्षणम्, तेनान्यत्राप्यचरमे वयसि ङीब्भवतीति। किं पुनः कारणं प्रथम एव वयसि गृह्रमाणे न सिध्यति, येनैवं सूत्रार्थो व्याख्येयः? इत्याह - `द्वितीयवयोवचनावेतौ` इत्यादि। इह केचिच्चत्वारि वयांसीच्छन्ति -कौमार यौवन मध्यत्व वृद्धत्वानि। तथा चाहुः - `प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम्।तृतीये न तपस्तप्तं चतुर्थं किं करिष्यति॥ इति।अन्ये त्रीणीच्छन्ति -कौमारयौवनस्थाविराणि। तथा चाहुः -पिता रक्षतिकौमारे भर्ता रक्षति यौवने, पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥इति।\tकेचिद्बाल्यमध्यत्ववृद्धत्वानीति त्रीणीच्छन्ति।तथा चाहुः -आषोडशाद्भवेद्बालो यावत् क्षीरान्नवर्तकः।मध्यमः सप्ततिर्यावत् परतो वृद्ध उच्यते॥ इति।एतेषु सर्वेषु यौवनं द्वितीयं वयो भवति। ननु प्रथमवयोवचनौ तु वधूटीचिरण्टीशब्दावित्यतो न प्राप्नोति, तस्मादचरमस्य वयस इहोपलक्षणं प्रथमं वय इति व्याख्येयमिति केचित्।यस्तु मन्यते `केचित्तु द्वे एव वयसी इच्छन्तीति, यावत्यो बुद्धिमत्योऽवस्थास्ताः सर्वा राशीकृत्य प्रथमं वयो व्यवस्थाप्यते, यास्त्वपचयवत्योऽवस्थास्ताः सर्वा राशीकृत्य द्वितीयं वयः। तथा चोक्तम् - `वद्र्धते यावदन्नेन तावद्वर्धितव्यं पश्चदपायेन योक्ष्यते`इति,एतदेव दर्शनमाश्रित्यैतत् सूत्रं प्रणीतम्। इति। तेन वधूटी, चिरण्टीत्यत्रापि ङीब्भवतीति तेन द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्र्यभिधीयत इत्यस्य ग्रन्थस्याविरोधाय यतितव्यम्। न ह्रस्मिन्दर्शने यौवनं द्वितीये वयस्यन्तर्भवति;यौवनावस्था वृद्धिमतीत्वात्।अथ कथमुत्तानशयालोहितपादिकेति, यावता बाल्यमत्र गम्यते, बालैव ह्रुत्तानशया लोहितपादिका भवति, तस्माद्भवितव्यमेव ङीपेत्यत आह - `नैता वयः श्रुतयः` इति। नैते वयोवचनाः शब्दा इत्यर्थः। इह तावदुत्तानशयेति प्रातिपदिकश्रवणमात्रेण क्रियाकारकसम्बन्धमात्रं प्रतीयते - उत्ताना शेत इत्युत्तानशया। <<हरतेरनुद्यमनेऽच्>> [[3.2.9]] इत्यतोऽज्ग्रहणेऽनुवर्तमाने <<अधिकरणे शेतेः>> [[3.2.15]] इत्यत्रोत्तानादिषु कर्त्तुष्वित्युपसंख्यानादच्,`स्त्रियाः पुंवत्` [[6.3.33]] इति पुंवद्भावः। सर्वैवोत्ताना शेते, उच्यते चेदमुत्तानशयेति;तत्र नियमो गम्यते। अन्यथा शायितुमसामर्थ्यादुत्तानैव या सेते सोत्तानशयेति गम्येति। अवगतेऽप्यस्मिन्नियमे सन्देह एव - किमसौ बाला? वृद्धा वा? इति। वृद्धाऽपि हि कदाचिदन्यथा शयितुमशक्ता स्यात्, उत्तानैव च शेते। तस्माद्यदोत्तानैव शेत इति नियमप्रतीतिर्भवति, वृद्धत्वाभावश्च कुतश्चितप्रकरणादेरवसितो भवति, तदा बाल्यं गम्यते। `लोहितपादिका`इति। अत्रापि लोहितौ पादावस्या इत्यन्यपदार्थमात्रं तावत् तच्छब्दात् प्रतीयते। यदा तु प्रकरणादिना स्वभावत एवास्या रक्तौ पादौ नालक्तकरसादिनेति प्रतीतिर्भवति तदा बालेति गम्यते। इतिशब्दः प्रकारार्थः। एवम्प्रकारा नैता वयः श्रुतय इत्यर्थः। कथं बाला, वत्सेति? अजादित्वाट्टाब्भविष्यति। ननु वचनसामर्थ्यादनेन ङीबपि प्राप्नोति? नैतदस्ति;तस्यान्यत्र कुमारी, किशोरीत्यादौ चरितार्थत्वात्॥", "41021": "`पञ्चपूली` इति। पञ्चानां पूलानां समाहार इति। <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति समाहारद्विगुः। `अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाष्यते` (वा। 156) इति स्त्रीलिङ्गता।`त्रिफला` इति। त्रयाणां फलानां समाहार इति। पूर्ववद् द्विगुः॥", "41022": "`तद्धितलुकि सति`इति। एतेन `तद्धितलुकि` इत्येषा विषयसप्तमीति दर्शयति। परसप्तमीत्येषानोपपद्यते;लुकोऽभावरूपत्वात्, अभावे च पौर्वापर्याभावात्। `सर्वतो मानं परिमाणम्` इति। परिशब्दः सर्वतो भावे। सर्वत आरोहतः परिणाहतश्च मीयते = परिच्छद्यते येन तत्परिमाणम्- प्रस्थादिः।`पञ्चाआआ` इति। तद्धितार्थे द्विगुः, <<तेन क्रीतम्>> [[5.1.37]] इत्यार्हीयष्ठक्, `अध्यर्थपूर्वाद्द्विगोर्लुक्` [[5.1.28]] । `कालः संख्या च न परिमाणम्` इति। न हि ताभ्यामारोहतः परिणाहतश्च मीयते। ज्ञापकाच्च न तयोः परिमाणत्वमवसीयते। यदयं <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इति सिद्धायामुत्तरपदवृद्धौ <<संख्यायाः संवत्सरसंख्यस्य च>> [[7.3.15]] इति संख्यासंवत्सरग्रहणं करोति, तज्ज्ञापयति -कालः संख्या च न परिमाणं भवतीति। विस्तादि च परिमाणविशेष एव ग्रहीतव्यः। अतो वृत्तिग्रन्थः - परिमाणार्थं ग्रहणमिति। काण्डस्य वा परिमाणत्वे तूत्तरसूत्रेण नियमार्थता न विरुध्यते। यद्येवं <<कालाः परिमाणिना>> [[2.2.5]] इत्यत्र सामर्थ्यात् परिमाणवचनाः कालशब्दाः समस्यन्त इति यदुक्तं तद्विरुध्यते? नास्ति विरोधः; उपचारेण तथान्यत्र परिमाणिवाचिना सुबन्तेनाभिधानात्। इह हि मुख्यं कालस्य परिमाणत्वे निषिध्यते। तत्र ह्रौपचारिकं कालस्य परिमाणत्वमाश्रित्य परिमाणवचनाः कालशब्दा इत्युक्तम् - कालाः परिमाणनेति ब्राउवता। परिमाणवचनत्वं कालशब्दानामुपयुक्तं भवति,न हि तेन विना परिमाणापेक्षयोत्तरपदस्य परिमाणिव्यपदेश उपपद्यते। न च कालस्य मुख्यं परिमाणत्वमस्ति। अतः सामर्थ्यादौपचारिकं परिमाणत्वमाश्रितमिति गम्यते। उपचारस्य हेतुः परिच्छेदस्य हेतुत्वमात्रम्, परिमाणस्य साधम्र्यम्। कालो हि मासादिर्जातादिसमबन्धिनीमादित्यगतिं गमयतीति भवति परिच्छेदस्य हेतुः। अतः परिमाणसाधम्र्यादुपपद्यते, तत्र च परिमाणोपचारः। `द्विवर्षा, त्रिविर्षा` इति। द्वे वर्षे भूतेति <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यनेन विहितस्य ठकः <<वर्षाल्लुक् च>> [[5.1.88]] इति लुक् पाक्षिकः। चित्तवत्त्वे तु प्रत्ययार्थस्य विवक्षिते <<चित्तवति नित्यम्>> [[5.1.89]] इति नित्यमेव लुक्। द्वे वर्षे प्रमाणमस्या इति `प्रमाणे लो द्विगोर्नित्यम्` (वा।558,559) इति नित्यमेव लुक्। `द्विशता, त्रिशता` इति। द्वाभ्यां शताभ्यां क्रीतेति `पणपादमाषसशताद्यत्` 5.1.34) इति यति प्राप्ते <<शाणाद्वा>> [[5.1.35]] इत्यत्रोपसंख्यानम् - `शताच्चेति वक्तव्यम्`(वा। 510) इति। तेन शतसशब्दात् पक्षे <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्,तस्य पूर्ववल्लुक्।`द्विविस्ता`इति। द्वौ बिस्तौ पचति। <<सम्भवत्यवहरति पचति>> [[5.1.52]] इत्यनेनार्हीयष्ठक्, तस्य पूर्ववल्लुक्। द्वावाचितौ पचति `द्व्याचिता`। <<आढकाचितपात्रात् खोऽन्यतरस्याम्>> [[5.1.53]] इति वर्तमाने <<द्विगोः ष्ठंश्च>> [[5.1.54]] इति ष्ठन्, तस्य पूर्वल्लुक्। द्वाभ्यां कम्बल्याभ्यां क्रीता `द्विकम्बल्या`। <<तेन क्रीतम्>> [[5.1.37]] इति ठक्,तद्वदेव। लुक्।`द्व्याढकी` इति। द्वावाढकौ पचति। <<आढकाचितपात्रात् खोऽन्यतरस्याम्>> [[5.1.53]] इति वर्तमाने <<द्विगोः ष्ठंश्च>> [[5.1.54]] इतिपक्षे ष्ठन्, तस्या लुक्। `पञ्चाआई` इति। पूर्ववत् समाहारे द्विगुः।इहेमौ द्वौप्रतिषेधावुच्येते, तत्रैकः शक्यमकर्त्तुम्। कथम्? एवं सूत्रन्यासः करिष्यते - परिमाणान्तातद्धितलुकीति। पूर्वेणैव सिद्धे नियमार्थमेतत् - परिमाणान्तादेव तद्धितलुकि ङीब्भवति, नान्यस्मात्। तेन द्व्याढकीत्यादावेव भवति, न पञ्चाओत्यादौ;ततो विस्ताचितकम्बल्येभ्यो न तद्धितलुकीत्यनुवर्तते,बिस्तादिभ्यः परिमाणेभ्योऽपि तद्धितलुकि ङीब्न भवतीति? नैवं शक्यम्; विपरीतोऽपि नियमः सम्भाव्येत -परिमाणान्तात् तद्धितलुक्येवन भवति, नान्यत्रेति। ततश्च द्वयोः कुडवयोः समाहारो द्विकुडवीत्त्र न स्यात्। तस्माद्यथान्यासमेवास्तु॥", "41023": "`नियमार्थम्` इति। क्षेत्र एव यथा स्यात्, अन्यत्र मा भूदिति। अथान्तग्रहणं किमर्थम्, यावता सामर्थ्यादेव तदन्तविधिर्लभ्यत एव, यथा - पूर्वस्मिन् सूत्रे, न हि केवलस्य काण्डशब्दस्य केनचिद्द्विगुसंज्ञा विहिता? सत्यमेतत्, किन्त्वसत्यग्रहणे काणडमेव क्षेत्रेण विशिष्येत - काण्डशब्द एव केवलो यः क्षेत्रे वर्तते इति, ततश्चेह प्रतिषेधः स्यात् - द्वाभ्यां काण्डसंज्ञकाभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति। इह तु न स्यात् - द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्तेः द्विकाण्डा क्षेत्र भक्तिरिति। अन्तसूत्रे तु सति काण्डशब्दस्य विशेषणं क्षेत्रं न भवति; तस्य द्विगो गुणभूतत्वात्।", "41024": "`प्रमणे यः पुरुषशब्दो वर्तते`इति। जातिवचनोऽपि पुरुषशब्दः, यदा प्रमाणशब्देनाभिसम्बध्यते तदा पुरुषगते प्रमाणे वर्तते। भवति पदान्तरसम्बन्धेन शब्दस्यार्थान्तरे वृत्तिः, यथा - सिंहो माणवक इति। सिंहशब्दो जातिवचनोऽपि माणवकसान्निध्याच्छौर्यलक्षणं गुणमाचष्टे। `द्विपुरुषी` इति। `प्रमाणे द्वयसच्` [[5.2.37]] इति विहितस्य द्वयसचः `प्रमाणे लो द्विगोर्नित्यम्`(वा। 558,559) इति लुक्।`अपरिमाणान्तत्वात् प्रतिषेध प्राप्ते`इति। `अपरिमाणविस्त` [[4.1.22]] इत्यादिना। `द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा` इति। पूर्ववदार्हीयस्य ठको लुक्।`तद्धितलुकि` इत्येव। `पञ्चपुरुषी` इति। प्रमाणार्थवृत्तानामेव समाहारान्नास्ति द्व्यङ्गविकलता॥", "41025": "`ऊधसोऽनङिति समासान्ते कृते` इति। अकृत एव समासे बहुव्रीह्रर्थं उत्तरपदे पूर्वं समासान्तेन भवितव्यमिति प्राक् ततः समासान्त एव भवति, ततो बहुव्रीहिः ततः स्त्रीप्रत्ययः - इत्येवैवानुपूर्वी।`अनो बहुव्रीहेः` इत्यादि। इतिशब्द आद्यर्थे। <<अनो बहुव्रीहेः>> [[4.1.12]] इत्यादिना शास्त्रान्तरेणेत्यर्थः। तत्र `अनो बहुव्रीहेः` इत्यनेन सूत्रेण प्रतिषेधे प्राप्ते `डाबुभाभ्यामन्यतरस्याम्` [[4.1.13]] इत्यनेन डाप्। `कुण्डोघ्नी` इति। कुण्डमिवोधोऽस्या इति बहुव्रीहिः,<<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपः।`प्राप्तोधाः` इति। <<प्राप्तापन्ने च द्वितीयया>> [[2.2.4]] इति तत्पुरुषः, <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः।`अन उपधालोपिनः`इत्यादि। `अन उपधालोपिनोऽन्यतरस्याम्` [[4.1.28]] इत्येतेनापि विधीयमानस्य ङीपोऽयं ङीब्बाधक इष्यते। कथं पुनरिहोच्यमानस्तस्य बाधको भवति? उत्तरसूत्रानुवृत्तेः। असत्यानुत्तरत्रानुवृत्तौ `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते` (व्या।प।10) इत्येवमयं ङीब्डाप्प्रतिषेधावेव बाधते, नोपधालोपिनो ङीषम्। ततशचोपधालोपिनः परत्वात् स एव पक्षे भवेत्। तस्मात् `अन उपधालोपिनः` [[4.1.28]] इत्यत्रास्यानुवृत्तिः कर्तव्याः। तेनोपधालोपिनोऽप्यूधसन्तान्ङीषेव भवति। `समासान्तश्च स्त्रियामेव` इति। समासान्तविधेरनित्यत्वात्। अनित्यत्वं तु पुनरूधःशब्देन सकारान्तेनासमासान्तेन विशेषणाद्विज्ञायते। यदि हि नित्यः स्यात् `बहुव्रीहेरूघ्नः` इति निर्देशः स्यात्॥", "41026": "`द्व्यूघ्नी`इत्यादि। द्वे ऊधसी अस्याः। त्रीण्यूधांस्यस्याः।अबिगतमूधोऽस्याः।निर्गतमूधोऽस्या इति विग्रहः।`आदिग्रहणं किम्` इति। एवं मन्यते - संख्याव्ययाभ्यामित्येव वक्तव्यम्, `बहुव्रीहेरूधसः` [[4.1.25]] इति हि वर्तते,, तत्रैवमभिसम्बन्धः करिष्यते - संख्याव्ययाभ्यामुत्तरो य ऊधःशब्दस्तदन्ताबहुव्रीहेर्ङीब्भवतीति, तथा च निष्पलमादिग्रहणम्, विनापि तेन सिद्धत्वादिति। `द्विविधोघ्नी` इत्यादि। यद्यादिग्रहणं न क्रियेत तदा `संख्याव्ययाभ्याम्` इति पञ्चमीनिर्देशात् संख्याया अनन्तरो य ऊधःशब्दस्तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति। द्विविधमूधो यस्या इति विग्रहः। अत्रादिग्रहणे सति विधशब्देन व्यवधानेऽपि भवति॥", "41027": "`ऊधसः` इति निवृत्तम्,प्रकृत्यन्तरोपादानात्। `संख्याग्रहणनुवर्तते, नाव्ययग्रहणम्` इति। संख्याग्रहणस्यैव स्वरितत्वात्। `डाप्प्रतिषेधविकल्पेषु प्राप्तेषु` इति। `डाबुभाभ्यामन्यतरस्याम्` [[4.1.13]] इत्यादिना डापि प्राप्ते <<अनो बहुव्रीहेः>> [[4.1.12]] इति प्रतिषेध `अन उपधालोपिनोऽन्यतरस्याम्ट [[4.1.28]] इति विकल्पे च। द्वे दामनी अस्या इति `द्विदाम्नी`। `द्वौ हायनावस्या इति `द्विहायनी`। `हायनो वयसि स्मृतः` इति। प्रकृतिरिति शेषः। कस्य प्रकृतिः? ङीपः प्रकृतत्वात् तस्यैव। बहुव्रीह्रधिकारादत्र हायमान्तो बहुव्रीहिरिति गम्यते। एतदुक्तं भवति - हायमान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इति। तेन यदि वयो गम्यते ततो ङीब्भवति, नान्यथा। एतच्चोत्तरसूत्रेऽन्यतरस्यांग्रहणस्योभयोर्योगयोः शेषभूतत्वाद्व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अथ त्रिचतुभ्र्यां हायनस्याप्युपसंख्यानाद्यथा हि त्रिहायनी चतुर्हायणीत्यत्र णत्वं भवति; तथा त्रिहायना शाला, चतुर्हायना शालेत्यत्रापि कस्मान्न भवति? इत्याह - `णत्वमपि` इत्यादि। तदपि हि णत्वमौपसंख्यानिकमाचार्यैर्वयस्येव स्मर्यते। न च शालाया वयः सम्भवति, तस्य प्राणिधर्मत्वादिति नेह णत्वं प्रवर्तते।अन्तग्रहणं विस्पष्टार्थम्। बहुव्रीह्रधिकारादेव हि सामर्थ्यात् तदन्तविधिर्लभ्यते; न हि केवलयोर्दामहायनशब्दयोर्बहुव्रीहिसंज्ञा केनचिद्विहिता॥", "41028": "`उपधालोपी`इति। उपधालोपो यस्य ङीपि परतः सम्भवति स उपधालोपी।`ननु` इत्यादि। <<अनो बहुव्रीहेः>> [[4.1.12]] इति प्रतिषेधः सिद्धः, `डाबुभाभ्याममन्यतरस्याम्` [[4.1.13]] इति डाप्, अनयतरस्यांग्रहणाच्च पक्षे ङीप्। यदि तर्हि `डाबुभाभ्यामन्यतरस्याम्` इत्यनेन ङीबपि विधीयते, तदा दामा पामेत्यत्रापि स्यात्? अन्यतरस्यांग्रहणस्य व्यवस्थितविभाषात्वान्न भविष्यति। `अनुपधालोपिनः` इत्यादि। यदीदं नोच्येत, अनुपधालोपिनोऽपि ङीप् स्यात्। तस्मादुपधालोपिन एव ङीब्यथा स्यात्, अनुपधलोपिनो मा भूदित्येवमर्थमिदमुच्यते। `बहुराजा` इति। ङीप्प्रतिषेधः। `सर्वनामस्थाने च` [[6.4.8]] इति नोपधाया दीर्घः। `बहुराज्ञी` इति। ङीप्, <<अल्लोपोऽनः>> [[6.4.134]] । `बहुराजे` इति। डाप्, `औङ आपः` [[7.1.18]] इति शीभावः, <<आद्गुणः>> [[6.1.87]] । द्विवचननिर्देशो डापोऽभिव्यक्तये। एकवचने हि डाप्प्रतिषेधयोर्न कश्चिद्विशेषः; उभयत्रापि तुल्यरूपत्वात्। क्वचित् `बहुराजाः` इति बहुवचनेन निर्देशः, तस्यापि तेदव प्रयोजनम्।`बहुमत्स्या` इति। `सूर्यातिष्यागस्त्यमस्त्यानां य उपधायाः` [[6.4.149]] इति लोपविधानादुपधालोपीत्येष बहुव्रीहिः। `सुपर्वा` इति। अयमुपधालोपी न भवति। `न संयोगाद्वमन्तात्` [[6.4.137]] इत्युपधालोपप्रतिषेधात्॥", "41029": "नित्यग्रहणं विस्पष्टार्थम्। पूर्वणैव हि विकल्पेन ङीप् सिद्धः, तदारम्भसामर्थ्यादेव ङीब्नित्यं भविष्यति, अन्यथा हीदं वचनमनर्थकं स्यात्॥", "41030": "अथ मामकग्रहणं किमर्थम्, यावताऽस्मदः <<तस्येदम्>> [[4.3.120]] इत्यणि कृते <<तवकममकावेकवचने>> [[4.3.3]] इतिममकादेशेन मामक इति भवति, ततश्च `टिड्ढाणञ्` [[4.1.15]] इत्येव ङीप्सिद्धेः? सत्यमेतत्; नियमार्थं तु मामकशब्दस्य ग्रहणम्; संज्ञाच्छन्दसोर्यथा स्यात्, अन्यत्र मा भूदिति॥", "41031": "`अजसौ` इति। विषयसप्तमीयम्, न परसप्तमी, कुतः? स्त्रीप्रत्ययस्यान्तरङ्गत्वाज्जसः परत्वाविरोधाद्विषयसप्तमीत्वे न दोष इत्याह - `जस्विषयत्वात्` इत्यादि।`अजसादिष्विति वक्तव्यम्िति।जासादिविषयादन्यत्र रात्रिशब्दान्ङीब्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - इह लाघवार्थं `अजसि` इति वक्तव्येऽजसावित्युक्तम्, मात्राधिक्यादर्थाधिक्यसूचनार्थम्, तेनाजसादिषु ङीब्भवतीति। आदिशब्देनामादीनां ग्रहणम्।`कथम्` इत्यादि। `रात्र्यः` इति। रात्रिशब्दस्य जसन्तस्य प्रयोगः। एवं हि <<दीर्घाज्जसि च>> [[6.1.105]] इति सवर्णदीर्घत्वे प्रतिषिद्धे यणादेश उपपद्यते, नान्यथा। यदि तु रात्रिशब्दस्यायं प्रयोगः स्यात्, ततः `जसि च` [[7.3.109]] इति गुणे कृतेऽयादेशे च रात्रय इति रूपं स्यात्। ईकारान्तश्च रात्रिशब्दो न सम्भवति;अजसाविति ङीप्प्रतिषेधात्। ततश्च रात्र्य इति प्रयोगो नोपपद्यत इत्यभिप्रायः। `ङीषयम्ित्यादि। ननुच रात्रिशब्दो बह्वादिषु पठते, तत्कथं बह्वादिलक्षणस्ततो ङीष्भविष्यति? इत्यत आह -`तत्र हि` इत्यादि। `कृदिकारादक्तिनः`इति। कृत इकारः कृदिकारः,तदन्तान्ङीष् भवति।`वृदृभ्यां विन्` (द।उ। 1।23) वर्वी, दर्वी। यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति - <<स्त्रियां क्तिन्>> [[3.3.94]] कृतिः, ह्मतिः। `सर्वतोऽक्तिन्नर्थादित्येके` इति। एक आचार्या सर्वतोऽक्तिन्नर्थात् कृदिकारादकृदिकाराच्च ङीष् भवतीत्याहुः, राजिः राजी। राजिशब्दोऽव्ययुत्पत्तिपक्षे कृतिकारान्तो न भवति। अक्तिन्नर्थादिति, न विद्यते क्तिन्नर्थो यस्य सोऽक्तिन्नर्थः, तस्मात् सर्वतो ङीष् भवति। यस्तु क्तिन्नर्थस्तदन्तान्न भवति - कृतिः ह्मतिः। <<आक्रोशे नञ्यनिः>> [[3.3.112]] - अकरणिः, अहरणिः। रात्रिशब्दश्चायं व्युत्पत्तिपक्षे कृदिकारान्तो भवति, `रा आदाने` (धातुपाठः-1057), `राशदिभ्यां त्रिप्` (द।उ।1।36) रात्रिः, तस्मात् पक्षे ङीष् रात्री। अव्युत्पत्तपक्षे तु कृदिकारान्तो न भवति, ततः `सर्वतोऽक्तिन्नर्थात्` (ग।सू।51) इति ङीष्॥", "41032": "`स तु नकारान्तत्वादेव सिद्धः` इति। `ऋन्नेभ्यो ङीप्` 4.1.5) इत्यनेन। `निपातनसामर्थ्यात्` इत्यादि। यथैव हि निपातनसामर्थ्यादन्यत् किञ्चिदलाक्षणिकं कार्यं भवति, तथार्थविशेषेऽपि वृत्तिः। कस्मिन्पुनरर्थविशेषे वृत्तिर्भवति? इत्यत आह - `अन्तर्वत्पतिवत्` इत्यादि। यथाक्रममन्तर्वदित्यस्य गर्भसंयोगे वृत्तिः, पतिपदित्यस्य भर्तृसंयोगे। गर्भेण संयोगो गर्भसंयोगः, स कस्या भवति? यस्याः कुक्षौ गर्भो व्यज्यते। भत्र्रा संयोगो भर्तुसंयोगः, स च कस्या भवति? यस्याः पतिर्जीवति। भर्ता चेह योऽग्निसाक्षिपूर्वकेण पाणिग्रहणनेन सम्बन्धी स एवाभिमतः, नतु यः पृथिवीस्वामी। `{राशतिभ्यां द।उ।} इह तु न भवतीति - अन्तरस्यां शालायां विद्यते` (इति) शालायां कुक्षिगतेन गर्भेण सम्बन्धाभावात्। `पतिमती` इति। परिरस्या अस्तीति मतुप्, <<उगितश्च>> [[6.3.45]] इति ङीप्। अत्र पतिशब्द ईआरे स्वमिनि वर्तते। तेन संयोगे च न पतिवदिति निपात्यते। येन तु संयोगो निपात्यते स चाख्यात एव।`मतुब्निपात्यते` इति। अन्तःशब्दस्याधिकरणप्रधानत्वात् प्रथमासमर्थता नास्ति। प्रथमासमर्थाच्चास्तिसमानाधिकरणेन मतुब्विधीयते, न चास्तिनान्तशब्दस्य सामानाधिकरण्यम्, तस्मान्मतुब्न प्राप्नोतीति निपात्यते। `वत्वं न सिद्धम्` इति। `मादुपधायाश्च` [[8.2.9]] इत्यादिनैवाकारोपधत्वात्। `निपात्यते` इति। केनचिदप्राप्तत्वात्। `\tमतुप्सिद्धः`इति। पतिरस्यास्तीति प्रथमासमर्थस्य पतिशब्दस्यास्तिना सामानाधिकरण्यात्। `गर्भिणी` इत्यनेन गर्भसंयोगं दर्शयति। `जीवपतिः`इत्यनेनापि भर्तृसंयोगम्।`अन्तर्वत्पतिवतोः`इत्यादि। अन्तर्वत्पतिवदित्येतयोः शब्दयोर्निपातनान्मतुबवत्वे भवतः, यथाक्रमं गर्भिण्यां जीवपत्यां च स्त्रियामभिधेयायाम्। गर्भोऽस्या अस्तीति गर्भिणी। जीवतीति जीवः, पचाद्यच्; जीवः गतिर्यस्याः सा जीवपतिः।ननु च <<पतिः समास एव>> [[1.4.8]] इति घिसंज्ञोयऽयं पतिशब्दः,तत्र <<अच्च घेः>> [[7.3.119]] इत्यात्वौत्वयोः कृतयोः जीवपताविति भवितव्यम्, तदयुक्तो जीवपत्यामिति निर्देशः? नैतदस्ति; <<शेषो घ्यसखि>> [[1.4.7]] इति, सिद्धायामेव घिसंज्ञायां <<पतिः समास एव>> [[1.4.8]] इत्यनेन शेषस्यैव पतिशब्दस्य घिसंज्ञा नियमार्थं विधीयते, न चायं शेषः; `ङिति ह्रस्वश्च` [[1.4.6]] इति नदीसंज्ञासम्भवात्। नदीसंज्ञायां च सत्यां <<इदुद्भ्याम्>> [[7.3.117]] इति `ङेराम् नद्याम्नीभ्यः` [[7.3.116]] इत्याम्, यणादेशे जीवपत्यामिति भवति। `वा च्छन्दसि नुग्विधिः`। छन्दसि विकल्पे तु नुग्विधिर्भवति। स च वक्ष्यमाणस्य विभाषाग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। नुक्पक्षे `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ङीप्। `अन्तर्वत्नी` इति। अनुक्पक्षे <<उगितश्च>> [[6.3.45]] इति ङीप् -अन्तर्वतीति भवति॥", "41033": "`यज्ञसंयोगे` इति। यज्ञसम्बन्धे। कस्य पुनर्यज्ञेन संयोगः? पतिशब्दवाच्यार्थस्य। अथ पतिशब्दस्यैव कस्मान्न भवति? असम्भवात्। तयोर्हि वाच्यवाचकभावलक्षणः सम्बन्धः स्यात्, न केवलः पतिशब्दो यज्ञस्य वाचकः। कथं पुनर्यज्ञेन संयोग इत्याह - `तत्साधनत्वात्` इति। तस्य यज्ञस्य साधनं तत्साधनम्, तद्भावो यज्ञसाधनत्वम्। तस्माद्यज्ञेन संयोगो भवति। यजमानस्य या भार्या तस्या यागं प्रति साधनभावोऽस्तीति; विना तया तदनिष्पत्तेः। न हि भार्याविरहितस्त्रैर्णिकः केवलो यज्ञेऽधिक्रियते। तस्मात् स तया करणभूतया यज्ञं निष्पादयतीत्यस्ति तस्या यज्ञेन सह क्रियाकारकलक्षणः सम्बन्धः। `तत्फलग्रहीतृत्वाद्वा` इति। यज्ञसंयोगे द्वितीयो हेतुः। अनेन तु स्वस्वामिभावलक्षमः सम्बन्धः प्रतिपाद्यते। यज्ञस्य यत्प्रधानं फलं स्वर्गाख्यं तद्यजमानस्य पत्नी परिगृह्णाति। अतो यद्यपि यज्ञं प्रति तस्याः साधनत्वं न विवक्ष्यते, तथापि तत्फलस्य ग्रहणात्, यथा यजमानस्य यज्ञेन हस स्वस्वामिभावसम्बन्धः, तथा तत्पत्न्या अपि। अथ फलग्रहीतृत्वादिति कथमत्र षष्ठीसमासः? कथञ्च न स्यात्? `कर्तरि च` [[2.2.16]] इति तृचा सह षष्ठीसमासप्रतिषेधात्? नैवायं तृजन्तेन षष्ठीसमासः, किं तर्हि? द्वितीयेति योगविभागात् तृन्नन्तेन द्वितीयासमासः। अथ वा - याजकादिषु ग्रहीतृशब्दो द्रष्टव्यः, तेन षष्ठीसमासो भविष्यति। अथापि तत्र न पठते? एवमपि <<याजकादिभिश्च>> [[2.2.9]] इति चकारस्यानुक्तसमुचयार्थत्वाद्भविष्यति। `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ग्रहीतृशब्दादिह ङीप् न भवति, स्त्रीत्वस्याविवक्षितत्वात्। क्वचित् `फलगृह्णीतत्वात्` इति पाठः।तत्र फलगृहीतशब्दयोर्बहुव्रीहिः। फलशब्दस्य जातिवाचित्वान्निष्ठायाः पूर्वनिपाते प्राप्ते `जातिकालसुखादिभ्यः परवचनम्` (वा।116) इति गृहीतशब्दस्य परनिपातः।`कथम्` इत्यादि। एं मन्यते - `शूद्रस्यैव तावद्यज्ञेऽनधिकृत्वाद्यज्ञेन संयोगो नास्ति, किं पुनस्तद्भार्यायाः? अतः `वृषलस्य पत्नी` इत्येष प्रयोगो नोपपद्यते` इति। `उपमानाद्भविष्यति` इति। पत्नीवद्धि पत्नी। यथैव हि यजमानस्य पत्न्यग्निसाक्षिपूर्वकेण तत्पत्युः सम्बन्धिनी तत्कार्येषु चाधिकृता तथा वृषलस्य भार्याऽपि। तस्मात् पत्नीसमाधम्र्यात् साऽपि पत्नीत्युच्यते॥", "41034": "`पतिशब्दान्तस्य`इत्यादि। एतेन पतिशब्दस्य ग्रहणम्, सपूर्वग्रहणम्, अनुपसर्जनग्रहणञ्च - त्रयमप्येतत् प्रातिपदिकस्य विशेषणमिति दर्शयति। सहशब्दोऽयमस्त्येव तुल्ययोगे - सशिष्यो गुरुरागत इति, गुरोः शिष्यस्य चागमनेन तुल्ययोगः प्रतीयते; अस्ति च सत्तावचनः, यथा - सहैव दशभिः पुत्रैर्भारं वहति गर्दभी` इति, विद्यमनैरेवेत्यर्थः। तदिह सत्तावचनो गृह्रते, सपूर्वस्य विद्यमानपूर्वस्येत्वर्थः। यदि हि तुल्ययोगे वर्तमानो गृह्रते, ततोऽयमर्थः स्यात् - सहपूर्वेण पतिशब्दान्तस्य नकारो भवतीति। ततश्च पतिशब्दात् पूर्वस्यापि वृद्धादिशब्दस्य नकारः स्यात्। एवं हि तुल्ययोगो भवति यदि नकार उभयोरपि भवति। पूर्वशब्दोऽयमस्त्येव व्यवस्थाशब्दः, यथा -पूर्वं मथुरायाः पाटलिपुत्रमिति; अस्त्यवयववचनः, यथा - पूर्वं कायस्येति। तदिहावयववचनो गृह्रते। सह विद्यमानः पूर्वोऽवयवो यस्य तत् सपूर्वमित्युच्यते। यदि व्यवस्थाशब्दो गृह्रेत, तत्रायमर्थः स्यात् - विद्यमानः पूर्वो यस्मात् तस्य पतिशब्दान्तस्य नकारो भवतीति। ततस्च दृढपत्नीत्यत्र न स्यात्, न हि पतिशब्दान्तादिहकश्चित् पूर्वोऽस्तीति। अथ पतिशब्दस्यैव सपूर्वत्वमनुपसर्जनत्वञ्च विशेषणं कस्मान्न विज्ञायते? अशक्यत्वात्। स ह्रवयववचनं वा पूर्वशब्दं गृहीत्वा विशिष्येत, व्यवस्थाशब्दं वा। तत्र पूर्वस्तावदयुक्तः कल्पः अव्यभिचारात्, असम्भवाच्च। कथम्? यदि पकारं पूर्वमभिप्रेत्य विद्यमानः पूर्वोऽवयवो यस्येति विशिष्येत, ततोऽव्यभिचारादयुक्तं विशेषणम्। न हि पकारेण यस्य पूर्वत्वं तत्पतिशब्दो व्यभिचरति। अथ शब्दान्तरम्? तदसम्भवादयुक्तं विशेषणम्। न हि शब्दान्तरं पतिशब्दस्यावयव उपपद्यते। व्यवस्थाशब्दपक्षे तु विद्यमानः पूर्वो यस्मात् तदिति विशिष्यते। युज्यते च विशेष्यविशेषणभावः। किन्तु वाक्येऽपि नकारः प्राप्नोति - ग्रामस्य पतिरियं ब्राआहृणीति; अस्ति ह्यत्र पतिशब्दात् पूर्वो ग्रामशब्द-। अनुपसर्जनग्रहणेनापि पतिशब्दे विशिष्यमाने बहुव्रीहौ विकल्पो न प्राप्नोति - दृढः पतिरस्या दृढपतिः, दृढपत्नीति। न ह्यत्रानुपसर्जनं पतिशब्दः, सर्वोपसर्जनत्वाद्बहुव्रीहेरिति बहुव्रीह्रवयवानामप्युपसर्जनत्वात्। तस्मात् प्रातिपदिकस्यैव विशेषणं युक्तम्।`पतिरियं ब्राआहृणी ग्रामस्य` इति। ननु च व्यपदेशिवद्भावादिदमपि सपूर्वमिति शक्यते व्यपदेष्टुम्। न च `व्यपदेशिवद्भावोऽप्रतिपदिकेन` (शाक्।प।65) इति व्यपदेशिवद्भावाभावः; प्रातिपदिकत्वात्। यद्येवम्, पतिशब्दान्ततापि नास्तीति, अतो द्व्यङ्गविकलता? नैतदस्ति; सपूर्वग्रहणे हि क्रियमाणे पतिशब्दान्तस्येत्येषोऽर्थो लभ्यते। अक्रियमाणे तु तस्मिन् शब्दस्यैव शुद्धस्य नकारो विज्ञायते॥", "41035": "`सपत्न्यादिषु` इति। के पुनः सप्त्नत्यादयः? ये पठन्ते। तेषु प्रातिपदिकेषु येषां समानादीनि पूर्वपदानि ते सपत्न्यादयः। कुत एतत्? समानादीनां गणे पाठात्, सपत्न्यादीनां चापाठात्। लाघवार्थं समानार्थं समानादिष्विति प्रवक्तव्ये कृते नकारदेशस्य सप्रत्ययस्य च सपत्न्यादिष्विति समुदायस्योच्चारणम् - नियोगत एव समुदाय ईकारन्त एव यथा स्यादित्येवमर्थम्। तेन सपत्नी भार्या यस्य स सपत्नीभार्य इति `स्त्रियां पुंवत्` [[6.3.33]] इति पुंवद्भावो न भवति। `सपत्न्यादिषु नित्यम्` इत्यादि। समानादिषु पूर्वेष्वयवयवेषु सत्सु नित्यं पतिशब्दस्य नकारादेशो भयतीत्यर्थः। यदि पूर्वेण विकल्पे प्राप्त इदं वचनम्, एवं हि नित्यग्राहणयनर्थकम्, आरम्भसामर्थ्यादेव हि नित्यं विधिर्भविष्यतीत्यत आह - `नित्यग्रहणं विस्पष्टार्थम्` इति।`दासाच्छन्दसि` इति। दासशब्दात् परो यः पतिशब्दस्तदन्तस्य प्रातिपदिकस्य चछन्दसि विषये नित्यं नकारादेशो भवति। दासः पतिर्यस्याः सा दासपत्नी। भाषायां तु पूर्वेण विकल्पः - दासपतिः, दासपत्नीति॥", "41036": "`ऐकारश्चान्तादेशो भवति` इति। कुतः पुनरेतदवसितम् - आदेज्ञोऽयमिति, न पुनः प्रत्ययः? उत्तरसूत्रेऽप्यादेशत्वात्। उत्तरसूत्रे ह्रयमेवैकारोऽनुवर्तते, तत्र चास्यादेशत्वम्। अत इहाप्यादेशत्वमवसीयते। उत्तरसूत्रे कुतोऽस्यादेशत्वं निश्चितमिति चेत्? उदात्तवचनात्। यदि हि प्रत्ययः, तस्याद्युदात्तत्वादुदात्तवचनमनर्थकं स्यात्; प्रत्ययस्वरेणैवोदात्तत्वस्य सिद्धत्वात्।`त्रय एते योगाः` इति। अयं चैकः, वक्ष्यमाणौ चानन्तरौ - द्वौ - एते त्रयो योगाः पुंयोगप्रकणे <<पुंयोगादाख्यायाम्>> [[4.1.48]] इत्येवमादौ द्रष्टव्याः; तस्मिन्नेषां स्वरितत्वेनानुवृत्तेः। पूतः क्रतुर्येन पुकषेण स पूतक्रतुः, तस्य स्त्री पूतक्रतायी॥", "41037": "`वृषाकपिशब्दो मध्योदात्तः` इति। `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फिट्।2।42) इति वचनात्। अस्यायमर्थः - लघावन्ते परतो द्वयोश्च लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवतीति। `बह्वष्` इति बह्वजित्यर्थः। पाणिनेर्यश्चकारेण प्रत्याहारः सोऽन्येषामाचार्याणां मतेन षकारेण। वृषाकपिशब्दे कपिशब्दसम्बन्धिनोर्लघ्वोः परतः पूर्व आकारो गुरुतर उदात्तो भवति, शेषमनुदात्तम्। तत्र यद्युदात्तग्रहणं न क्रियेतानुदात्तस्य स्थाने य आदेशः स्थानिवद्भावेन सोऽनुदात्त एव स्यात्। तस्माद्वृषाकपि शब्द उदात्तत्वं प्रयोजयति। `अग्न्यादिषु पुनरन्तोदात्तेषु` इति। `फिषः` (फि।सू।1।1) इत्यादिनाग्न्यादीनामन्तोदात्तत्वम्। आदिशब्देन कुसितकुसीदयोग्र्रहणम्। `फिष्` इति प्रातिपदिकस्यैव पुनरन्याचार्याकृता संज्ञा॥", "41038": "`वाग्रहणेन द्वावपि विकल्प्येते` इति। प्रत्येकं वाग्रहणेनाभिसम्बन्धात्। यदा चैकारौकारौ न भवतस्तदा ङीबपि न भवति ; तस्य सन्नियोगशिष्टत्वात्। `मनुशब्द आद्युदात्तः` इति। एतेनोदात्तग्रहणमनुवर्तयितव्यम्; अन्यथा शेषस्यानुदात्तत्वे स्थानिवद्भावेनादेशस्याप्यनुदात्तत्वं स्यादिति भावः। `मन ज्ञाने` (धातुपाठः-1176) `{भृमृशीतृचरित्सरितनिममस्ज्भ्य उः - द।उ।}भृमृशीतृचरित्सरितनिधनिमिमस्ज्भ्य उः` (द।उ।1।92) इत्यनुवर्ताने `धान्ये नित्` (द।उ।1।94) इति च `शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमानिभ्यश्च` (द।उ।1।95) इत्युप्रत्ययः, नित्वात् <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तत्वं भवति मनुशब्दस्य॥", "41039": "`वर्णानां तणितनितान्तानाम्` (फि।सू।2।23) इत्यस्यायमर्थः - वर्णवाचिनां तशब्दान्तानां णकारान्तानां तिशब्दान्तानां निशब्दान्तानां चादिरुदात्तो भवतीति, आदिग्रहणमुदात्तग्रहणं च प्रकृतं तत्रानुवर्तते।`प्रकृता` इति। प्रकर्षेण कृतेति, <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। प्रशब्दोऽयं निपातः, `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्युदात्तः। समासेऽपि कृते `गितरनन्तरः` [[6.2.49]] इति पूर्वपदप्रकृतिस्वरेणाद्युदात्त एव भवतीति। सेषमनुदात्तम्। `घृतादित्वादन्तोदात्तः` इति। `घृतादीनाञ्च` (फि। सू।1।21।) इत्यन्तोदात्तत्वविधानात्। एतच्च फिट्सूत्रे पठते। `शिति` इति `वर्णानाम्` (फि।सू।2।33) इत्यादिना शितिशब्द आद्युदात्तः। `पिशङ्गात्` इत्यादि। पिशङ्गशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः, ततः `अन्यतो ङीष्` (41।36) इत्यतश्चकारोऽनुक्तसमुच्चयार्थोऽनुवर्तते। तेन पिशङ्गादपि ङीब्भवतीति। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<मनोरौ वा>> [[4.1.38]] इत्यतो वेत्यनुवर्तते,सा च व्यवस्थितविभाषा। तेनासितपलितशब्दाभ्यां ङीष्न भविष्यत्येवेति। `वर्णानां तणतिनितान्तानाम्` (फि।सू।2।33) इयाद्युदात्तौ असितपलितशब्दौ।`तयोश्छन्दसि` इत्यादि। असितपलितशब्दयोस्तकारस्य क्नमेक आचार्या इच्छन्ति। स तु <<व्यत्ययो बहुलम्>> [[3.1.85]] इत्येव सिद्धः। `भाषायामपीष्यते` इति। एतेन प्रत्याचष्टे। `असिक्निकानाम्` इति। अज्ञातार्थे <<प्रागिवात्कः>> [[5.3.70]] इतिकः, `केऽणः` [[7.4.13]] इति ह्रस्वः॥", "41040": "`सारङ्गी, कल्माषी` इति। `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तौ सारङ्गकल्मावशब्दौ। `शवली` इति। `शप अक्रोशे` (धातुपाठः-1000), `कलस्तृपश्च` (द।उ।8।107) इति `शपेर्वश्च` (द।उ।8।108) इति कलप्रत्ययः, पकारस्य बकारः, प्रत्यायाद्युदात्तत्वेन मध्योदात्तः शबलशब्दः। `खट्वा` इति। `खट काङ्क्षायाम् (धातुपाठः-309), `अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्` (द।उ।8।125) इति क्वन्, नित्सर्वेरणाद्युदात्तः खट्वाशब्दाः। `कृष्णा` इति। `कृष विलेखने` (धातुपाठः-990) `{इण्सिञ्दीङुष्यविभ्यो नक् -द।उ।) इण्सिञ्जिदीङुष्यविभ्यो नक्`, `कृषेर्वर्णे` (द।उ।5।35।37) इति नक्, प्रत्ययस्वरेणान्तोदात्तः कृष्णशब्दः। `कपिला` इति। `कमु कान्तौ` (धातुपाठः-443) `सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्` (पं।उ।155), `कमेः पश्च` (पं।उ।1।56) इति मकारस्य पकारः, चित्स्वरेणाणान्तोदात्तः कपिलाशब्दः॥", "41041": "`षिद्भ्यः प्रातिपदिकेभ्यः` इति। षकार इद्येषां तानि। कथं पुनः प्रातिपदिकानि षिन्ति भवन्ति, यावता ध्वुनादेः प्रत्ययस्य षकार इत्संज्ञकः,न तु तेषाम्? नैष दोषः; अवयवगतं हि षित्त्वं समुदायस्य विशेषणं भविष्यति, यथा - अक्षिगतं काणत्वं पुरुषस्य -काणः पुरुष इति। यद्येवम्, धातुगतमपि षित्त्वं समुदायस्य विशेषणं प्राप्नोति, `त्रपूष् लज्जायाम्` (धातुपाठः-347), अङ, अपत्रपेति? नैतदस्ति; यो ह्रनुबन्धोऽवयवे निष्प्रयोजनः स समुदायार्थो विज्ञायते। धातोस्तु विद्यत एव षित्करणस्य नान्यत् प्रयोजनमस्ति, अतः समुदयार्थमेव तद्विज्ञायते। `रजकी` इति। अत्र <<रञ्जेश्च>> [[6.4.26]] इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वादनुनासिकलोपः।गौरादिषु गौरशब्दस्य सत्यपि वर्णवाचित्वे प्रातिपदिकस्वरेणान्तोदात्तत्वात् पूर्वेण प्राप्नोतीतीह पाठः। मत्स्यादीनां यकारोपधानाम् `अयोपधात्` [[4.1.63]] इति जातिलक्षणस्य ङीषः प्रतिषेधे प्राप्ते। शृङ्गशब्दस्य प्राक् आञ्शब्दात् पुटादीनाञ्चानन्दवर्ज्जितानां स्त्रीविषयत्वात् शृङ्गशब्दस्य प्राप्ते पुटादीनां चास्त्रीविषया [[4.1.63]] दिति प्रतिषेधे प्राप्ते। आनन्दशब्दस्याजातिवाचित्वान्ङीष्यप्राप्ते। आंस्तक्षन्नित्येतयोः `ऋन्नेभ्यो ङीप्` [[4.1.5]] इतिङीपि प्राप्ते। अनुडुह्रनड्वाहीत्यनयोरनकारान्तत्वान्ङीप्यप्राप्ते। इकारान्तयोः सप्रत्ययोर्गणे पाठः पुंवद्भावप्रति,#एधार्थः - अनडुहीभार्यः, अनड्वाहीभार्य इति। एतदेव वचनं ज्ञापकम् - अनडुहः स्त्रियां विकल्पेनाम्भवतीति। तेन यदुक्तम् - `अनडुहः {स्त्रियां वेति - वा।पाठ।} स्त्रियाञ्चेति वक्तव्यम्` (वा।829) इति, तन्न वक्तव्यमिति भवति। `{एषणः का।वृ।}एषणं करणे` इति। एषणशब्दः करणे कारके ङीषमुत्पादयतीति। इष्यतेऽनयेत्येषणी। करण इति किम्? इष्यतेऽस्यामित्यधिकरणे ङीपि। मेध इत्यस्याजातित्वान्ङीष्यप्राप्ते। गौतमस्य शार्ङ्रगरवादित्वान्ङीनि प्राप्ते। पक्षे च वचनात्सोऽप#इ भवत्येव। आयस्थूणादीनामालिपिशब्दपर्यन्तानां `अणिञोरनार्षयोः` [[4.1.78]] इति ष्यङि प्राप्ते। आयस्थूणशब्दः शिवाद्यणन्तः। `{भौरि,भौलिकि-गणपाठः} भौरिक्यादयः `अत इञ्` [[4.1.95]] इतीञन्ताः। आपिच्छिकस्य ङीषि प्राप्ते। आपिच्छिकानां राजानः, तेषामपत्यं स्त्री। <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] इत्यञ्, तस्य `अतश्च` [[4.1.175]] इति लुकि कृतेप्रत्ययलक्षणेन ङीप्प्राप्नोति। आरटादीनां प्राक् शातनशब्दात् स्त्रीविषयत्वान्ङीष्यप्राप्ते। शातनादीनां ल्युडन्तत्वान्ङीपि प्राप्ते। अधिकरणान्ङीपि। अग्रे हायनमस्य इत्याग्रहायणी। स्वार्थिकोऽण्, णत्वं निपातनात्। अणन्तत्वान्ङीपि प्राप्ते। ईकारान्तस्य पाठः पुंवद्भावप्रतिषेधार्थः - आग्रहायणीभार्य इति। प्रत्यवरोहणसेवनयोर्ल्युडन्तयोष्टित्वान्ङीपि। केचित्तु पुंद्भावप्रतिषेधार्थं प्रत्यवरोहिणीति पठन्ति -प्रत्यवरोहिणीभार्य इति। `सुमङ्गलात्संज्ञायाम्` (इति)। `नित्यं संज्ञाच्छन्दसोः` [[4.1.29]] इति वर्तमाने `केवलमामक` [[4.1.30]] इत्यादिना ङीपि प्राप्ते। पक्षे वचनात् सोऽपि भवति। संज्ञायामिति किम्? सुमङ्गला। सुन्दरादीनां प्राक् तरुणशब्दात् स्त्रीविषयत्वात् ङीष्यप्राप्ते। तरुणतलुनशब्दयोर्वयोलक्षणे ङीपि प्राप्ते। `नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्` (वा।338) इत्यत्र तु वयोग्रहणम्। बृहन्महच्छब्दयोरुगित्वान्ङीपि प्राप्ते। `रोहिणी नक्षणे` इति। नक्षत्र इति किमर्थम्? रोहिता। `रेवती नक्षत्रे` इति किम्? येषां रेवतशब्दोऽत्राकारान्त इति दर्शनं\tतेषां प्रत्युदाहरणं टाप् - रेवतेति। येषां त्विदं वचनम् - राविद्यतेऽस्या इति रेशब्दान्मतुप्, निपातनाद्वत्वमिति, तेषां प्रत्युदाहरणम् <<उगितश्च>> [[6.3.45]] इति ङीप् - रेवतीति। स्वरे विशेषः। विकलादीनां टापि प्राप्ते। कटशब्दाच्छोण्यभिधाने ङीष्। कटी श्रोणिरित्यर्थः। श्रोणिरिति किम्? कटा। `पिप्पल्यादयश्च` इति। एतावद्गणे पठते। तांस्तु पिप्पस्यादीन् दर्शयितुं पिप्पली हरीतकीत्यादिकं वृत्तिकावचनम्।`पृथिवी` इति। ईकारान्तनिपातनं पुंवद्भावनिवृत्त्यर्थम् - पृथिवीभार्य इति। क्रोष्टुशब्दस्य <<स्त्रियां च>> [[7.1.96]] इतितृज्वद्भावः।`मातरि षिच्च` इति। <<पितृव्यमातुलमातामहपितामहाः>> [[4.2.36]] इत्यत्र पितृमातृभ्यां पितरि वाच्ये डामहज्निपातयिष्यते। मातरि डामहजेव। तस्यापि षित्त्वम्। `दंष्ट्रा` इति। `{दन्श धातुपाठः-} दंश दशने` (धातुपाठः-989), `दाम्नीशस्` [[3.2.182]] इत्यादिनाष्ट्रन्। षिल्लक्षणस्यानित्यत्वान् ङीषष्टाब्भवति॥", "41042": "वर्तते यया सा वृत्तिरिति जीवनोपायो वृत्तिशब्देनेहोच्यते। जनपदे भावा वृत्तिर्जानपदी। <<उत्सादिभ्योऽञ्>> [[4.1.86]] इत्यञ्। `जनापद्यन्या` इति।`टिड्ढाणञ्` [[4.1.15]] इति ङीबेव भवति। `स्वरे विशेषः` इति। ङीषि सति प्रत्ययस्वरेणान्तोदात्तत्वं भवति। ङीपि तु सत्याद्युदात्तत्वम्; जानपदस्य ञित्स्वरेणाद्युदात्तत्वात्। `अमत्रम्` इति। भाजनम् = पात्रम्। `कुण्डाऽन्या` इति। क्रियाशब्दोऽयमित्याहुः।`कुडि दाहे` (धातुपाठः-270), <<गुरोश्च हलः>> [[3.3.103]] इत्यकारतप्रत्ययः,`अजाद्यतष्टाप्` [[4.1.4]] । यस्तु द्रव्यवचनः कुण्डशब्दः स नित्यं नुपंसक एव वर्तत इति प्रत्युदाहर्त्तुं न युक्त इति। `आवपनम्` इति। भाजनविशेष उच्यते, यत्र धान्यादि प्रक्षिप्य नीयते। `गोणाऽन्या` इति। सा पुनर्यस्या इदं यादृच्छिकं नाम। `अकृत्रिमा` इति। पुरुषव्यापारदिभिर्न निर्वृत्तेत्यर्थः। `स्थलाऽन्या` इति। या पौरुषेयी। `भाजी` इति। `भज विश्राणने` (धातुपाठः-1733) चुरादिणिच्। <<ण्यासश्रन्थो युच्>> [[3.3.107]] इति युच् प्राप्नोति। अस्मादेव निपातनादङ्, अङन्तान्ङीष्। `श्राणा` इति। `श्रा पाके` (धातुपाठः-810) इत्यस्मात् क्तः। `{संयोगादेरातो धातोर्यण्वतः`इति सूत्रम्`}संयोगादेर्धातोर्यण्वतः` [[8.2.43]] इतिनत्वम्, `अट्कुप्वाङनुम्व्यवायेऽपि` [[8.4.2]] इति णत्वम्। `नागशब्दः` इत्यादि। नागशब्दो द्विविधः - जातिवचनः, गुणवचनश्च। ततर् स्थौल्यग्रहणादिह न जातिवचनो ङीषमुत्पादयति, न हि जातिवचनस्य स्थौल्यमभिधेयं सम्भवति; नापि गुणान्तरवचनः; न हि गुणान्तरशब्दान्नागवचनान्ङीषन्ताद्गुणान्तरं प्रतीयते, अपि तु स्थौल्यमेव। तस्माद्यदाऽसौ स्थौल्यं गुणमभिधाय द्रव्ये वर्तते तदा ङीषमुत्पादयति, नान्यथा। `अन्यत्र` इत्यादि। स्थौल्यादग्यत्र गुण एव दैध्र्यादौ वर्तमानो नागशब्दो यदा द्रव्यं विशिनाष्टि तदा टापमुत्पादयति। `जातिवचनात्तु` इत्यादि। हस्तित्वादिजातिवचनात् `जातरेस्त्रीविषयात्` [[4.1.63]] इत्यादिना ङीष्भवति। `वर्णश्चेत्` इति। द्रव्ये वर्तमानो यदि वर्णस्तस्य प्रयृत्तिनिमित्तं भवतीत्यर्थः। `कालाऽन्या` इति। यस्या यादृटच्छिकसंज्ञा। `नीलाऽन्या` इति। आच्छादनं शाटिकादि। अनाच्छादने, न सर्वत्र। किं तर्हि? `नीलादौषदधौ प्राणिनि च` इति। शब्दशक्तिस्वाभाव्यात्,तत्रैव नीलशब्दस्य वृत्तेः। अथ वा <<मनोरौ वा>> [[4.1.38]] इत्यतो वाग्रहणमिहानुवर्तते, सा च व्यवस्थितविभाषा , तेनानयोरेवार्थयोस्ततो भविष्यति, नान्यत्रेति। `संज्ञायामेव` इति। अनाच्छादन एवायं विकल्पः। एषोऽपि तत एव वाग्रहानुवृत्तेर्लभ्यते। `अयोविकारः` इति। विशिष्ट एव `फालः` इति यस्य नामधेयम्। `कुशाऽन्या` इति। तदाकृतिरेव काष्ठादिमयी। `कामुकाऽन्या` इति। सा पुनर्यस्या मैथुनादन्यद्वस्तु कामयितुं शीलम्। `मैथुनेच्छवती भण्यते` इति। मत्वर्थीयाकारान्तस्य मैथुनेच्छाशब्दस्योपादानात्। `केशवेशः`इति। एतदाख्ये विशिष्ट एव। `कवराऽन्या` इति। वर्णोऽस्या` अस्तीति मतुप्, तस्या लोपादभेदोपचाराद्वा द्रव्ये यो वर्तते स वेदितव्यः॥", "41043": "शोणशब्दोऽयं वर्णवचनः। `वर्णानां तणतिनितान्तानाम्` (फि।सू।2।33) इतिवचनादाद्युदात्तः। तत्र <<अन्यतो ङीष्>> [[4.1.40]] इति सिद्धे वचनं नियमार्थम् - प्रचामेद यथा स्यात्, अन्येषां मा भूदिति॥", "41044": "`गुणमुक्तवान् गुणवचनः` इति। भूते काले ल्युटो विधानात्। स पुनर्यः प्राग् गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वद्द्रव्यमभिधत्ते स वेदितव्यः। `पट्वी, मृद्वी` इति। अत्र पटुत्वं मृदुत्वञ्च यताक्रमं गुणमभिधाय पटुमृदुशब्दौ तद्वति द्रव्ये वर्तेते इति गुणवचनौ भवतः।`शुचिः` इति। शुचिशब्दः शुचित्वे गुणे वर्त्तित्वा द्रव्ये वर्तत इति गुणवचनः, न तूकारान्तः। `आखुः` इति। जातिवचनोऽयम्, न गणवचनः।`गुणवचनान्ङीबाद्युदात्तार्थम्` इति। गुणवचनान्ङीब्विधेयः, न ङीष्। स्वरे विशेषः। किमर्थम्? आद्युदात्तार्थम्। अन्तोदात्तेषु <<उदात्तयणो हल्पूर्वात्>> [[6.1.174]] इत्युदात्तत्वमीकारस्य विधीयत इति नास्ति विशेषो ङीब्ङीषोः। आद्युदात्तेषु तु ङीबनुदात्त एवावतिष्ठते, तस्मात् तदर्थं ङीब्विधेयः। ननु च ङीष् प्रकृतः, तत् कथं ङीप् शक्यते विधातुम्? नैष दोषः; ङीबेव ह्यत्र मण्डूकप्लुतिन्यायेनानुवर्तते, न ङीष्; अस्वरितत्वात्। `वस्वी` इति। `वस निवासे` (धातुपाठः-1942) `भृमृशीतृचरित्सरितनि{धनि-नास्ति-द।उ।} धनिमिमस्जिभ्य उः` (द।उ।1।92) इति वर्तमाने `धान्ये नित्` (द।उ।1।94) इति च शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिवन्धिमनिभ्यश्च` (द।उ।1।95) इत्युप्रत्ययः, निच्च, नित्त्वादाद्यदात्तत्वं भवति। गुणवचनश्चायं वसुशब्दः, वसुत्वे गुणे वर्त्तित्वा तद्वति द्रव्ये वर्तत इति कृत्वा। पटुशब्दोऽप्याद्युदात्तत्वान्ङीपं प्रोजयति। `अट पट गतौ` (धातुपाठः-296,297), हेतुमण्णिच्, `फलिपाटिनमिमनिजनां गुक् पटिनाकिधतश्च` (द।उ।1।103) इत्युप्रत्ययः, पाटेश्च पटिरादेशः, `धान्ये नित्` (द।उ।1।94) इत्यनुवृत्तेर्नत्वादाद्युदात्तत्वम्। मृदुशब्दश्च प्रत्ययस्वरेणान्तोदात्त इति, तत्र ङीपो ङीषो वा विशेषो नास्ति। `म्रद मर्दने` (धातुपाठः-767), `कुभ्र्रश्च` (द।उ।1।107) इत्यतः कुरित्यनुवर्तमाने `प्रथिम्रदिभ्रस्जां सम्प्रसारणं च` (द।उ।1।113) इति कुप्रत्ययः, सम्प्रसारणं च भवति।`खरुसंयोगोपधप्रतिषेधः` इति। खरुशब्दात् संयोगोपधाश्च प्रतिषेधः। स तु वेत्यस्य व्यवस्थितविभाषाविज्ञानादेव लभ्यत इति वक्तव्यमिति। `उतः` इति तपरकरणं दीर्घनिवृत्त्यर्थम्, तेन पटुरित्यत्र न भवति। पटुमिच्छतीति `सुपः आत्मनः क्यच्` [[3.1.8]] , `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः। पटू य इति स्थिते क्विप्, <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः, <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारस्य लोपः। इह `उतः` इति विशेषणोपादनादेव शास्त्रीयगुणस्यापरिग्रहः सिद्धः म ह्रेदेङ्गां मध्ये कश्चिदुकारान्तोऽस्ति। लोके तु क्वचिदुपसर्जनं गुण इत्यभिधीयते, यथा - गुणभूता वयमिति, अप्रधानभूता इति गम्यते। यस्य गुणस्य हि भावात् तद्वति द्रव्यशब्दे निवेशस्तदभिधाने त्वतलावित्यत्र विशेषणमात्रं गुणशब्देनोच्यते, तथा हि, जातावपि भावप्रत्ययो भवति - इह तु यादृशो गुण इष्यते तादृशं परिभाषितुमाह - `सत्त्वे निवशतेऽपैति` इत्यादि। व्यवच्छेदफलकत्वात् सर्ववाक्यानां सत्तव एवेत्यवधारणं द्रष्टव्यम्। सत्त्वम् = द्रव्यम्, तत्रैव निविशते, तदेवाश्रयतीत्यर्थः। अपैति = ततः सत्त्वादपगच्छथि, यथा - आम्रफले श्यामता पूर्वमुपैति, रक्ततायामुपजातायां ततोऽपैति। `पृथग्जातिषु दृश्यते` (इति)। पृथक् = नाना जातयो येषां ते पृथग्जातयः, अतस्तेषु पृथग्जातिषु दृश्यते। न हि गोत्वमआआदिषु व्यक्तिषु दृश्यते। गोव्यते। गोव्यक्तौ दृष्टः शङ्खादावपि शुक्लादिर्गुणौ दृश्यते। एतेन सर्वेण जातिर्गुणो न भवतीत्युक्तं भवति। न हि जातिद्र्रव्यमेवाश्रयति। यथा हि सत्ता द्रव्यगुणकर्मसु त्रिष्वपि वर्तते, द्रव्यत्वं द्रव्य एव, कर्मत्वं कर्मण्येव, गुणत्वं गुण एव, नापि द्रव्यवर्तिनी जातिः सत्त्वादपैति; जन्मनः प्रभृत्या विनाशात्तस्याधारद्रव्यापरित्यागात् न जातिः पथग्जातिषु दृश्यते। न हि गोत्वमआआदिव्यक्तिषु दृश्यते, नाप्यआत्वं गवादिष्विति नास्ति जातेर्गुणत्वप्रसङ्गः। कर्मणस्तु स्यात्; तदपि हि सत्त्व एव निवशिते यदा सक्रियं द्रव्यं भवति, अपैति च ततो यदा तु निष्क्रियं भवति। `पृथग्जातिषु दृश्यते` इति। घटपटादिषु दृश्यते। अतः रक्तता गुणः, स ह्रग्निसन्नियोगेन निष्पाद्यते। `अक्रियाजश्च` इति। क्रिया = व्यापारः, ततो जातः क्रियाजः, न क्रियाजोऽक्रियाजः = नित्यः, यथा - आकाशादिषु महत्त्वादिर्गुणः। तदेवं गुणस्योत्पाद्यत्वानुत्पाद्यत्वप्रकारद्वयदर्शनेन कर्मणो गुणत्वनिवृत्तिः कृता भवति। तद्ध्युत्पाद्यमेव, नानुत्पाद्यम्। एवमपि द्रव्यस्य गुणत्वं प्राप्नोति,तस्यापि ह्रेते धर्मा विद्यन्ते।तथा हि - तदपि यदि द्रव्य एवारम्भकेऽवयवभूते निविशते, अपैति च ततः, यथा - शरीरमवयवीति। तद्धि हस्तपादादिष्ववयवेषु समवैति; तद्विनाशे च विनाशात् ततोऽपैति। पृथग्जातिषु दृश्यते, हस्त्यादिषु दृश्यते। द्रव्यस्यापि पूर्वोक्तं प्रकारद्वयमस्त्येव। अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेस्तद्वदनुत्पाद्यत्वात्? इत्यत आह - `सोऽसत्त्वप्रकृतिर्गुणः`इति। प्रकृतिः = स्वभावः। सत्त्वं द्रव्यं प्रकृतिर्यस्य स सत्त्वप्रकृतिः, न सत्त्वप्रकृतिरसत्त्वप्रकृतिः। यथोक्तैर्धर्मैर्युक्तो यो द्रव्यस्वभावो न भवति स गुणः। द्रव्यम् = द्रव्यस्वभावम्, अतो गुणो न भवति॥", "41045": "बह्वादिषु `शक्तिः शस्त्रे` इति पठते, तस्यायमर्थः - शस्त्रेऽभिधेये शक्तिशब्दाद्वा ङीष् भवति - शक्तिः, शक्ती। शस्त्र इति किम्? शक्तिः,सामर्थ्यम्। अन्ये तु शक्तिशस्त्री इति शब्दद्वयं पठन्ति - शक्तिः,शक्ती, शस्त्रिः, शस्त्री। `इतः प्राण्यङ्गात्` इति। इकारान्तात् प्राण्यङ्गवाचिनो वा ङीष् भवति - धमनिः, धमनी। इत इति किम्? समर्था ग्रीवा। प्राण्यह्गादिति किम्? श्रेणिः। `कृदिकारादक्तिनः` (इति)। `सर्वतोऽक्तिन्नर्थादित्येके` (इति)। अस्यार्थः <<रात्रेश्चाजसौ>> [[4.1.31]] इत्यत्रैव व्याख्यातः। यदि सर्वतोऽक्तिन्नर्थात् ङीष् भवति, शकटआदीनां गणेकिमर्थं इकारान्तानां पाठः? तस्यैव प्रपञ्चार्थः। पद्धतिश्बद्सयाक्तिन्नर्थादिति प्रतिषेधे प्राप्ते पाठः। पादस्य हतिः पद्धतिः, <<हिमकाषिहतिषु च>> [[6.3.54]] इति पद्भावः। `चन्द्रभागान्नद्याम्` इति। चन्द्रभागशब्दान्नद्यामभिधेयायां वा ङीष् भवति - चन्द्रभागी नदी। नद्यामिति किम्? चन्द्रभागा नाम देवता। `अहन्` इति। अयं शब्दः केवलः स्त्रियां न वर्तते। तस्मात् समासे तदन्त उदाहार्यः। दीर्घाण्यहानि यस्यां शरदि सा दीर्घाह्नो। ङीप्प्रतिषेधावप्यस्माद्भवतः। `अनोः बहुव्रीह#ए#ः` [[4.1.12]] `डाबुभाभ्यामन्यतरस्याम्` [[4.1.13]] इत्यपि डाब्भवति; `अन उपधालोपिनोऽन्यतरस्याम्` [[4.1.28]] इति वा ङीप् च। तेन धातुरूप्यं भवति। यदि बहुशब्दो गुणवचनः,तत्किमर्थमस्येह ग्रहणम्,यावता पुर्वेणैव सिद्धो ङीष्? इत्यत आह - `तस्य` इत्यादि॥", "41046": "अथ नित्यग्रहणं किमर्थम्, यावता पूर्वेणैव सिद्धे विकल्पे सत्यारम्भसामर्थ्यादेव नित्यं भविष्यति? इत्यत आह - `नित्यग्रहणमुत्तरार्थम्` इति॥", "41047": "`प्रभ्वी` इत्यादि। `भुवः संज्ञान्तरयोः` [[3.2.179]] इत्यतः `भुवः` इत्यनुवर्तमाने `विप्रंशभ्यो ड्वसंज्ञायाम्` [[3.2.180]] इतिप्रत्ययः, तदन्तान्ङीष्। `स्वयम्भूः` इति। भवतेः क्विबन्तस्य रूपम्। ननु च `भुवः` इति भूशब्दाद्दीर्घादियं पञ्चमी, , ततश्च दीर्घादेव प्रत्ययेन भवितव्यम्, न ह्रस्वादित्यत आह - `ह्रस्वादेवेयं पञ्चमी ` इति। तर्हि `भुवः`इति निर्देशो नोपपद्यते, <<घेर्ङिति>> [[7.3.111]] इति गुणे कृते `भोः` इति निर्देशेन भवितव्यम्? इत्यत आह - `सौत्रो निर्देशः`इति। छन्दसि वर्णव्यत्यय उक्तः। तेन तस्य गुणेऽकृत उवङादेशः कृत इति दर्शयति॥", "41048": "`पुंयोगात्` इति। `विभाषा गुणेऽस्त्रियाम्` [[2.3.25]] इति हेतौ पञ्चमी। योगः = सम्बन्धः। `आख्यायाम्` इति। पञ्चम्यर्थ एषा <<व्यत्ययो बहुलम्>> [[3.1.85]] इति सप्तमी। आख्यायतेऽनया प्रातिपदिककार्थ इति श्रुत्याऽऽख्या। `पुंस आख्यायाम्` इति। पुंसो वाचकभूतमित्यर्थः। तद्धि पुंयोगाद्धेतोः सम्प्रति स्त्रियां वर्तते; न पुंसि। अतीत ए काले पुंसो वाचकमासीत्, अतो भूतग्रहणम्। एतदुक्तं भवति - यत् प्रातिपदिकं प्राक् पुंसो वाचकमभूत्, पश्चात्तु पंयोगाद्धेतोः स्त्रियां वर्तते तस्मान् ङीष्भवतीति। कथं पुनर्योगे गुणभावमापन्नस्य पुंस आख्याग्रहणं विशेषणं युज्यते, स्त्रियामित्यनुवृत्तेः स्त्रिया एव? नैतदस्ति; यो हि पुंयोगात् स्त्रियां वर्तते सोऽवश्यं स्त्रियमचष्ट इति विशेषणमिदमदनर्थमकमेव स्यात्। पुंयोगस्य तर्हीदं विशेषणम्? न; असम्भवात्। न सम्भवत्येव हि तत् प्रातिपदिकं यत् पुंयोगाद्धेतोः पूर्वं स्त्रियां वर्तते, पुंयोगस्य चाख्याभूतं भवति। गणकादयो हि ये शब्दाः पुंयोगात् स्त्रियां वर्तन्ते ते सर्वे एव वाचकाः प्रागभूवन्, न पुंयोगस्य। ये तु पुंयोगादयः शब्दाः पुंयोगस्य वाचकाः, ते पुंयोगात् स्त्रियां न वर्तन्त एव। न चेह कश्चित् तथाविधोऽन्य प्रकृतः, नापि श्रूयते, यस्याख्याग्रहणेन सम्बन्धः स्यात्। तस्माद्गुणभूतस्यापि पुंस एवानेन सम्बन्धो विज्ञायते। `गणकी` इत्यादि। गणयतीति गणक,ण्वुल्। प्रतिष्ठित इति प्रष्ठः, <<आतश्चोपसर्गे>> [[3.1.136]] इति कः। <<प्रष्ठोऽग्रगामिनि>> [[8.3.92]] इति निपातनान्मूर्धन्यः। सर्व एते पुंसो वाचकाः। पुंयोगात्तु यदोत्तरकालं स्त्रियां वर्तन्ते तदैतेभ्यो ङीष्। `पुंसि शब्दप्रवृत्तिनिमितस्य सम्भवात्` इति। गणनादिक्रियास्वभावं यद्गणकादिशब्दानां प्रवृत्तिनिमित्तं तस्य पुंसि सम्भवः, न स्त्रियाम्, नापि नपंसके। तस्मात् पुंसि शब्दे एते। पुंसो वाचका एते शब्दा इत्यर्थः। कथं तर्हि स्त्रियां वर्तन्ते? इत्याह - `तद्योगात्` इत्यादि। तद्योगः = तस्यायमिति सम्बन्धः, स्वस्वामिभावलक्षणः। तस्मादेते पुंशब्दा अपि स्वभावतः स्त्रियां वर्तन्ते। यथैव तद्योगात् स्त्रियां स्नानोद्वर्तनपरिषेकादीन् लभते तथा ताच्छब्द्यमपि।`देवदत्ता` इति। अत्र देवदत्तशब्दसंज्ञकेन पुरुषेण योगाद्देवदत्तशब्दः स्त्रियां न वर्तते। किं तर्हि? स्वत एव, तस्या हीयं संज्ञा कृता। `परिसृष्टा, प्रजाता` इति। प्रसूतेत्यर्थः। निर्लुठितगर्भेति यावत्। परिसृष्टप्रजातशब्दौ स्त्रियां वर्तमानो प्रसवनिमित्तमुपादाय प्रवर्तेते। परिसर्गः, प्रजनः, प्रसव इत्येकार्था एते शब्दाः। तस्य च प्रसवस्य पुंयोगो निमित्तम्, तेन विना तदभावात्। तस्मात् पुंयोगाद्धेतोः स्त्रियां वर्तत इति। वर्तत इति। न तु पुंशब्दाख्य इति ईकारो न भवतीति। `एते शब्दाः` इति। बहुवचनं येऽन्येऽप्येवंजातीयाः शब्दास्तानपेक्ष्य वेदितव्यम्; अन्यथा हि परिसृष्टप्रजातशब्दयोर्द्वित्वदेतौ शब्दाविति वक्तव्यं स्यात्।`गोपालिकादीनां प्रतिषेधो वक्तव्यः` इति। सिद्ध्ये इति वाक्यशेषः। गोपालिकादीनां शब्दानां सिद्धये ङीब्प्रतिषेधः। स तु `वोतो गुणवचनात` [[4.1.44]] इत्यतो वेत्यनुवृत्तेस्तस्य व्यवस्थितविभाषात्वमाश्रित्य प्रतिपाद्यः।`सूर्याद्देवतायां चाव्वक्तव्यः`इति। ननु च ङीष एव प्रतिषेधो वक्तव्यः, ङीषि प्रतिषिद्धे टाब्भविष्यति, टापि च सूर्येति सिध्यत्येव? नैतदेवम्; यद्यपि हि रूपं सिद्ध्यति, स्वरतु न सिध्यति, यस्मात् सूर्यशब्दोऽयमाद्युदात्तः। तथा हि `राजसूयसूर्यः` [[3.1.114]] इत्यत्र क्यबन्तो निपातितः, ततः क्यपः पित्त्वादनुदात्तत्वम्। धातोस्तु सुवतेः सर्तेर्वा धातुस्वरेणान्तोदात्तत्वम्। तत्र टापि सत्यनुदात्तत्वं स्यात्, तु सत्यन्तोदात्तता भवति। पित्करणं तु `ङ्याप्प्रातिपदिकात्` [[4.1.1]] इत्यत्र सामान्यग्रहणार्थम्। `सूरी`इति। सूर्यस्य स्त्री मानुषी सूरी, ङीषेव भवति, `सूर्यतिष्यागस्त्यमस्त्यानाम्` [[6.4.149]] इति यलोपः॥", "41049": "`येषाम्` इति। इन्द्राणीनाम्। `अन्येषां तु` इति। हिमादीनाम्। अथ किमर्थमानुक् क्रियते, अनुगेव नोच्येत, तेन सवर्णदीर्घत्वेन सिध्यति? न सिध्यति; <<अतो गुणे>> [[6.1.97]] इति पररूपत्वं हि प्राप्नोति। अकारोच्चारणसामर्थ्यान्न भविष्यति, पररूपे हि नुगेव वक्तव्यः स्यात्। एवं तह्र्रकारोच्चारणसमथ्र्याद्भविष्यति। ल्वरसन्धिरेव न भवतीत्येवमपि विज्ञायते। तस्मान्मैवं विज्ञायीत्यानुगेव वक्तव्यः। अथ वा - इन्द्रमाचष्ट इति `तत्करोति तदाचष्टे` (वा।200,201) इति णिचि `णाविष्टवत् प्रातिपदिकस्य` (वा।813) इति टिलोपः, इन्द्रयतेः क्विप्, णिलोपः, इन्द्रः स्त्रीन्द्राणीत्यत्र दीर्घघस्याकारस्य श्रवणं यथा स्यादित्येवमर्थमानुको विधानम्। आनुकि हि सति दीर्घो न श्रूयेत। ननु च नैवात्र ङीषा भवितव्यम्, अत इत्यधिकारात्? दीर्घोच्चारणसामर्थ्याद्भविष्यति।`हिमारण्ययोर्महत्त्वे` इति। महत्त्वेन युक्ता हिमादयः स्त्रीलिङ्गेनाभिसम्बध्य्नते यदा, तदा स्त्रीत्वविवक्षायामनयोः प्रत्ययागमयोर्विधानमित्येतदनेनाख्यायते, न तु स्त्रीप्रत्ययस्यायमपवाद उच्यते। स्त्रीत्व एव हि प्रत्ययो भवति।`यथाद्दोषे`इति। यवाद्दोषे गम्यमाने स्त्रियां ङीष् भवति - दुष्टो यवो यवानी।`यवनाल्लिप्याम्` इति। `यवनानां लिपिः` इति। <<तस्येदम्>> [[4.3.120]] इत्यप्प्रसङ्गे ङीष् विधीयते, स तु तदर्थस्य ङीषैव द्योतितत्वान्न भवति। `आचार्यदणत्वञ्च` इति। नेदमपूर्वं वक्तव्यम्, क्षुभ्नादिष्वस्य पाठात्।`स्वार्थ एवायं विधिः` इति। एवकारेण पुंयोगो व्यवच्छिद्यते। यदि हि पुंयोगे विधिरयं स्यात् शूद्राऽपि क्षत्रियस्य भार्या क्षत्रियाणीति स्यात्। तस्मात् स्वार्थे एवायं विधिः - क्षत्रियैव क्षत्रियाणीति। `पुंयोगे तु ङीषैव भवितव्यम्` इति। पूर्वसूत्रेण।`लिच्च`इति। कस्य तल्लित्वम्? आनुकः। तथा हि - मुद्गलानीशब्दस् द्वितीय उदात्त आम्याये पठते। ङीषस्तु लित्वे तृतीय उदात्तः स्यात्॥", "41050": "करणं पूर्वं यस्मिन्नित्यादिना करणपूर्वग्रहणं क्रीतग्रहणञ्च उभयमप्येतत्प्रातिपदिकस्य विशेषणमिति दर्शयति। पूर्वशब्दोऽयमवयववचनः। करणमवयवो यस्मिन्नित्यर्थः। अथ क्रीतशब्दस्यैव करणपूर्वग्रहणं विशेषणं कस्मान्न विज्ञायते? अशक्यत्वात्। क्रीतशब्दो ह्रवयववाचिनं वा पूर्वशब्दं गृहीत्वा विशेष्येत - करणं पूर्वस्मिन्निति? व्यवस्थाशब्दं वा - करणं पूर्वमस्मादिति? तत्र प्रथमः पक्षो न सम्भवति; न ह्यत्र क्रीतशब्दस्य करणवाचिशब्दान्तरमवयव उपपद्यते, द्वितीयस्तु सम्भवति, किन्तु वाक्येऽपि स्यात् - अओन क्रीतेति, अस्ति ह्यत्र क्रीतशब्दात् करणं पूर्वम्। प्रातिपदिके तु विशेष्यमाणे न भवत्येष दोषः। न ह्रओन क्रीतेत्येतत् करणावयवं क्रीतशब्दान्तं प्रातिपदिकम्। किं तर्हि? वाक्यम्। तस्मात् प्रकृतं प्रातिपदिकं सामान्यमेवावयववाचिना पूर्वशब्देन विशेष्यते। क्रीतशब्देनापि तदेव करणपूर्वं प्रातिपदिकम्। तेन तस्मिन् विशेष्यमाणे सामर्थ्यात् तदन्तविधिः प्रसज्येतेत्याह - `क्रीतशब्दात् प्रातिपदिकात्` इति। `वस्त्रक्रीती, वसनक्रीती` इति। अत्र `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः` (व्या।प।वृ।138) इति वस्त्रवसनयोः करणयोः क्रीतशब्देन <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति प्रागेव सुबुत्पत्तेः समासः।`सुक्रीता, दुष्क्रीता` इति। गत्युपपदत्वात् प्रागेव सुबुत्पत्तेः `कुगतिप्रादयःर` [[2.2.18]] इति समासः। दुष्क्रीतेत्यत्र `इदुदुपधस्य चाप्रत्यय` [[8.3.41]] इति षत्वम्।`टाबन्तेन समासः` इति। सुबन्तयोरेवेति वेदितव्यम्। टापि विहिते कृदन्तताया विहितत्वात्। अत्र किं टाप् क्रियताम्? उत विभक्तिरिति? अन्तरङ्गत्वाट्टाप्। पश्चाद्बहिरङ्गा विभक्तिरिति विभक्त्यन्तयोः समासः। अन्तरङ्गत्वं बहिरङ्गत्वं तु टाब्विभक्त्योः `ङ्याप्प्रातिपदिकात्` [[4.1.1]] इत्यत्र प्रतिपादितम्। कृते तर्हि टापि ङीष् कस्मान्न भवतीत्याह - `अत इति च` इत्यादि। कथं पुनः टाबन्तेन समासः सिध्यति, यावता `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः` (व्या।प।वृ।138) इति प्रागेव कृदन्ततायां समासेन भवितव्यमित्यत आह - `गतिकारकोपपदानाम्` इत्यादि। कथं पुनर्बहुलं तदुच्यते? इत्याह - `कर्त्तृकरणे` इत्यादि। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इत्यनेन हि गतिकारकोपपदानां कृद्भिः समासो विधीयते। स च बहुलग्रहणात् क्वचित् कृदन्तावस्थायां प्रागेव सुबुत्पत्तेः, क्वचिदन्यथा। तेन `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः (व्या।प।वृ।138) इति बहुलं तदाचार्यैरुच्यते। ततश्च टाबन्तेनापि क्वचित्समासो लभ्यत इत्यभिप्रायः॥", "41051": "`अभ्रविलिप्ती` इति। `लिप उपदेहे` (धातुपाठः-1433), अस्मात् क्तः। अल्पैरभ्रैर्विलिप्तेत्यस्यामर्थविवक्षायां पूर्ववत्प्राक्सुबुत्पत्तेः समासः। अल्पशब्दस्तु गतार्थत्वान्न प्रयुज्यते। `चन्दनानुलिप्ता` इति। बहुचन्दनानुलिप्तेत्यर्थः॥", "41052": "`शङ्खभिन्नी` इति। `रदाभ्याम्` [[8.2.42]] इति नत्वम्। निष्ठान्तस्य `निष्ठा` [[2.2.36]] इति पूर्वनिपाते प्राप्ते `जातिकालसुखादिभ्यः परवचनम्` (वा।116) इति स न भवति। शङ्खादिशब्दा हि जातिवचनाः। अत एव हि <<जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः>> [[6.2.170]] इत्यन्तोदात्तत्वं भवति। `गलकोत्कृती` इति। `कृती छेदने` (धातुपाठः-1435) इत्यस्मात् क्तः। `केशलूनी` इति। केशान् लुनातीति। <<ल्वादिभ्यः>> [[8.2.44]] इति नत्वं चोदयति।`पादपतिता` इति। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति तत्पुरुषसमासेऽन्तोदात्तत्वम्।`अन्तोदात्ताज्जातप्रतिषेधः` इति। अन्तोदात्ताद्बहुव्रीहेर्ङीषो विधाने जातशब्दान्तात् प्रतिषेधः, स चान्तग्रहणादेव लभ्यत इति न वक्तव्यम्। इहान्तग्रहणं न कर्तव्यमेव, विनाऽपि तेन यथा `वर्णाअदनुदात्तात्` [[4.1.39]] इत्यत्रानुदात्तान्तादिति विज्ञायते, तथेहाप्यन्तोदात्तन्तादिति विज्ञास्यते? तदेवमर्थं क्रियते - अन्तोदात्त एव यो नित्यं बहुव्रीहिस्ततो यथा स्यात्, विकल्पेन योऽन्तोदात्तस्ततो मा भूदिति। इह च दन्ताजाता, स्तनजातेत्यत्र <<वा जाते>> [[6.2.171]] इति विकल्पेनान्तोत्तत्वम्, अतोऽयं विधिर्न भविष्यति। अथ वा - उत्तरसूत्रे वाग्रहणमुभयोरपि योगयोः शेषः, व्यवस्थितविभाषा च, तेन जातशब्दान्तान्न भविष्यति। अस्मस्तु व्याख्यानेऽन्तग्रहणं विस्पष्टार्थमेवेति वेदितव्यम्।`पाणिगृहीत्यादीनामर्थविशेषे`इति। `सिद्धये` इति शेषः। पाणिगृहीतीत्यादीनां सिद्ध्यर्थं विशेष एव ङीब्भवति, न सर्वत्र। एतदपि व्यवस्थितविभाषया लभ्यते। विशेषस्तु पाणिग्रहणस्य वेदितव्यः। आग्निसाक्षिपूर्वकं भार्यार्थं यस्या पाणिग्रहणं क्रियते सा पाणिगृहीतीति भवति। `यथाकथञ्चित्` इति। यथोक्तात् प्रकारादन्येन केनापि प्रकारेणेत्यर्थः।`अबहुनञ्` इत्यादि। बह्वादिपूर्वान्ङीष् न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तस्यैव वाग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। `जातिकालसुखादि` इत्यादि। `बहुकृते` इत्यत्र <<बहोर्नञ्वदुत्तरपदभूम्नि>> [[6.2.175]] इत्यन्तोदात्तत्वम्। `अकृता, सकृता` इत्यत्र `नञ्सुभ्याम्` इति। `मासजातः` इत्यादिषु <<जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः>> [[6.2.170]] इति॥", "41053": "`अस्वाङ्गपूर्वपदात्` इति। न स्वाङ्गम् = अस्वाङ्गम्, तत् पूर्वपदं यस्य बहुव्रीहेः स तथोक्त-। `सारङ्गजग्धी` इति। `अद भक्षणे` (धातुपाठः-1011), `अदो जग्धिः` [[2.4.36]] इत्यादिना जग्ध्यादेशः, <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य घत्वम्, <<झरो झरि सवर्णे>> [[8.4.65]] इति घलोपः। `पलाण्डभक्षिती` इति। `भक्ष अदने` (धातुपाठः-1557), चुरादिणिच्। `सुरापीति` इति। घुमास्थादि [[6.4.66]] सूत्रेणेत्वम्। सर्वत्र `जातिकालसुखादिभ्यः` [[6.2.169]] इत्यादिनोत्तरपदान्तोदात्तत्वम्।`वस्त्रच्छन्ना, वसनच्छन्ना` इति। `छद अपवारणे` (धातुपाठः-1833) इत्यस्य चुरादिण्यन्तस्य क्तप्रत्यये `वा वान्तशान्तपूर्ण` [[7.2.27]] इत्यादिना च्छन्नशब्दो निपातितः। `अनाच्छादनात्` [[6.2.169]] इत्युत्तरपदान्तोदात्तत्वप्रतिषेधे <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इति प्रकृतिस्वरे कृते <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति शेषस्यानुदात्तत्वादिहान्तोदात्तत्वं नास्ति। पूर्वपदे एवात्राद्युदात्ते -एकं नित्स्वरेण, अपरं लित्स्वरेण। `थस आच्छादने` (धातुपाठः-1023), ष्ट्रन्प्रत्ययः -वस्त्रम्। धातोर्वसनम् -ल्युट्। `बहुलम्` इत्यादिना संज्ञायां छन्दसि बहुलं ङीष्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्र वाग्रहणस्य व्यवस्थितविभाषात्वादेव बहुलं संज्ञाच्छन्दसोर्भविष्यति। नन्व सूत्रेणैवानेनावस्य बहुव्रीहित्वाद्भविष्यति ङीष्, किमर्थं तर्हीदम्? इत्याह - `प्रवृद्धा च`इत्यादि। विग्रहविशेषेण तत्पुरुषं दर्शयति।", "41054": "`चन्द्रमुखी` इति। चन्द्र इव मुखमस्या इति बहुव्रीहिः। अत्र च `प्रथमानिर्दिष्टम्` [[1.2.43]] इत्यादिना मुखशब्दस्योपसर्जनसंज्ञा। `अतिकेशी` इति। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। `एक विभक्ति च` [[1.2.44]] इति केशब्दस्योपसर्जनत्वम्।`अङ्ग` इति। अङ्गादिभ्य उपसर्जनेभ्यो ङीष् भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? संयोगोपधत्वान्ङीष् न प्राप्नोति, तदर्थमेतदर्थरूपं व्याख्येयम्। तदिदं व्याख्यानम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेनाङ्गादिभ्यः संयोगोपधेभ्यो ङीब्भवतीति। `अद्रवम्` इति। मुखनासिकाभ्यां योऽभिनिष्क्रामति वायुः स प्राणः, प्राणोऽस्यास्तीति, प्राणी, तत्र यत्तिष्ठति तत्प्राणिस्थम्; मुखादि स्वाङ्गमुच्यते। यद्येवम्, कफोऽपि स्वाङ्गं स्यात्, ततश्च बहुकफेत्यत्र ङीष् प्रसज्येत? इत्यत आह - `अद्रवम्` इति। विशेषणोपादानान्न भवत्ययं प्रसङ्गः, कफस्य द्रवात्मकत्वात्। एवमपि ज्ञानं स्वाङ्गं भवेत्, प्राणिस्थत्वादद्रवत्वाच्च, ततश्च बहुज्ञानेत्यत्रापि ङीष् स्यात्? इत्यत आह - `मूर्तिमत्` इति। असर्वगतानि यानि द्रव्याणि तेषां परिमाणं ह्रस्वादिमद्यत् तन्मूर्त्तिः, सा यस्यास्ति तन्मूर्तिमत्। न च तद्ज्ञानेऽस्तीति;निर्गुणत्वात्। गुणानां च ज्ञानस्यात्मगुणत्वान्नास्य स्वाङ्गत्वप्रसङ्गः। येषामपि काठिन्यादिस्पर्शविशेषो मूर्त्तिः, तन्मतेनापि नैव ज्ञां मूर्तिमद्भवति, न हि ज्ञानस्य स्पर्शोऽस्ति। एवमपि शोफस्य आयथुसंज्ञकस्य स्वाङ्गत्वं प्राप्नोत्येव; यथोक्तविशेषणविशिष्टत्वात्। ततश्च बहुशोफेत्यत्र ङीष् प्रसज्येतेत्यत आह - `अविकारजम्` इति। विकारः = धातुवैषम्यम्, भूतप्रक्षोम इत्यर्थः, ततो जातं विकारजम्। न विकारजम् = अविकारजम्। तदेवं विशेषमोपादानसामर्थ्यात्। शोफस्यापि स्वाङ्गत्वं न प्राप्नोति। यदि प्राणिस्थं स्वाङ्गं भवति, एवं तर्हि रथ्यादिपतितानां केशानां स्वाङ्गत्वं न स्यात्, ततश्च दीर्घकेशी रथ्येति न सिध्यतीत्यत आह - `अतत्स्थम्` इत्यादि। तस्मिन् प्राणिनि तिष्ठतीति तत्स्थम्, न तत्स्थमतत्स्थम् = अणिस्थम्। एवमपि केशादि स्वाङ्गं भवति यदि तत्प्राणिनि पूर्वं दृष्टं भवति। प्रतिमावयवानां तर्हि मुखादीनां स्वाङ्गता न स्यात्, अप्राणिस्थत्वात्, ततश्च दीर्घमुखी प्रतिमेति ङीष् न स्यात्? इत्यत आह - `तस्य चेत्ततथा` इति। तस्य प्राणिनस्तत् स्वाङ्गं यथा युतं येन प्रकारेण संस्थानविशेषेण सम्बद्धं तथा तेन प्रकारेणाप्राणिनोऽपि यदि सम्बद्धं भवत्येवमपि तस्य स्वाङ्गत्वं भवति। अथ वा - तस्य चेदं प्राणिनस्तत् स्वाङ्गं तथा यदि युतं सम्भवति यथा प्राणिनः, एवमपि स्वाङ्गं भवति।अन्येषां पाठः- `तेन चेतत्तथा युतम्` इति। तेन प्राणिना येन प्रकारेण संस्थानविशेषादिना सम्बद्धं तथा यद्यप्राणिनापि सम्बद्धं भवति, एवमपि स्वाङ्गं भवति। अथ वा -तेनाप्राणिना तन्मुखादि यदि तथा युतम् = सम्बद्धं भवति यथा प्राणिना, एवमपि स्वाङ्गं भवति। अथ वा तेन चेन्मुरवादीनां स्वाङ्गेन तदप्राणिस्थं द्रव्यं तथा यदि युतं भवति यथा प्राणिद्रव्यम्, एवमपि स्वाङ्गं भवतीति। सर्वथाययमर्थः - यादृशं प्राणिनो मुखादि स्वाङ्गं तादृशमेव यद्यप्राणिनोऽपि भवति स्वाङ्गमेवमेव भवतीति॥", "41055": "`बह्वज्लक्षणे` इत्यादि। नासिकोदरयोः। <<न क्रोडादिबह्वचः>> [[4.1.56]] इति बह्वज्लक्षणे प्रतिषेधे प्राप्ते वचनम्। शेषाणाम् `असंयोगोपधात्` [[4.1.54]] इति संयोगोपलक्षणे। `सहनञ्विद्यमानपूर्वलक्षणनस्तु प्रतिषेधो भवत्येव` इति। नासिकोदरयोस्तावदयं योगः `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते, नोत्तरान्` (व्या।प।9) इत्यनन्तरमेव बह्वज्लक्षणं प्रतिषेधं बाधते, न सहादिलक्षणम्। ओष्ठादिष्वपि `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते` (व्या।प।10) इति पूर्वमेव संयोगोपधलक्षणम्, तेनासौ भवत्येवम - सहनासिका, अनासिका, विद्यमाननासिकेति। `बिम्बोष्ठी` इति। बिम्बमिवोष्ठौ यस्याः सा बिम्बोष्ठी - `ओत्वष्ठयोः समासे वा पररूपं वक्तव्यम्` (वा।687) इत्यौपसंख्यानिकं पररूपत्वम्। ये तु बिम्बौष्टीत्यौकारं पठन्ति ते <<वृद्धिरेचि>> [[6.1.88]] इति वृदिंध कुर्वन्ति।`पुच्छाच्चेति वक्तव्यम्` इति। पुच्छान्ताच्च प्रातिपदिकान्ङीष् भवतीत्येदर्थरूपं व्याख्येमित्यर्थः। किमर्थम्? संयोगोपधादपि पुच्छान्ताद्यथा स्यात्। व्याख्यानं तु चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कर्तव्यम्। `कल्याणपुच्छी` इति। कल्याणं पुच्छमस्याः।`कबर` इत्यादि। कबरादिभ्यो यः पुच्छशब्दस्तदन्तान्ङीष् भवतीति। एषोऽपि तत एव चकाराद्वाग्रहणस्य वा व्यवस्थितविभाषात्वल्लभ्यते। कबरं पुच्छे यस्याः सा कबरपुच्छी। एवं `मणिपुच्छी, विषपुच्छी, शरपुच्छी` इति। <<सप्तमीविशेषणे बहुव्रीहौ>> [[2.2.35]] इति पुच्छस्य पूर्वनिपातो न भवति; `सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम्` (वा। 115) इति वचनात्। `उपमानात् पक्षात् पुच्छाच्च` इति। नित्यमिति सम्बध्यते। एतदपि पूर्वोक्तात् कारणद्वयाल्लभ्यते। `पुच्छाच्चेति वक्तव्यम्` (वा।364) इत्यनेनैव सिद्धे पुनरिह पुच्छग्रहणं प्रपञ्चार्थम्,नित्यार्थं वा। उलूकस्येव पुच्छं यस्याः सा `उलूकपुच्छी`॥", "41056": "`कल्याणक्रीडा` इति। क्रोडाशब्दः स्त्रीलिङ्गः। `क्रोडाघाटाजिह्वाशिरोधरासङ्गकुलास्पृहामाया` इति लिङ्गकारिकायां पाठात्। कल्याणी क्रोडाऽस्या इति विग्रहः। `स्त्रियाः पुंवत्` [[6.3.33]] इति पुंवद्भावः। उत्तरपदस्य `गोस्त्रियोः` [[1.2.48]] इत्यादिना ह्रस्वः। ततः `स्वाङ्गाच्चोपसर्जनात्` [[4.1.54]] इत्यादिना प्राप्तस्य ङीपोऽनेन प्रतिषेधः ततष्टाप्। `महाललाटा`इति। `आमन्महत्` (6।346) इत्यादिनात्वम्॥", "41057": "`सकेशा` इति। सह केशैर्वर्तत इति। `तेन सहेति तुल्योगे` [[2.2.28]] इति समासः। <<वोपसर्जनस्य>> [[6.3.82]] इति सहस्य सभावः। `अकेशा`इति। अविद्यमानाः केशा अस्येति, `नञोऽस्त्यर्थानां बहुव्रीहिरुत्तरपदलोपश्च` (वा।102) इति विद्यमानशब्दलोपः। अथ पूर्वग्रहणं किम्, सहनञ्विद्यमानादित्येवोच्येत, एतया हि पञ्चम्या स्वाङ्गे विशेष्यमाणे सहादिपूर्वता लभ्यत एव? नैतदेवम्; पञ्चमी हि परत्वेन स्वाङ्गं विशेषयेत् - सहादिभ्यः परं यत् स्वाङ्गमिति। ततश्च सहादिभ्यः परेण स्वाङ्गेनान्यस्यापि कल्याणं विद्यमानमुखमस्या इति विग्रहः। अथ वा - विद्यमानं मुखं यस्य स विद्यमानमुखः, कल्याणो विद्यमानमुखो यस्या इति विग्रहः। पूर्वग्रहणे सति पूर्वशब्दस्यावयववाचित्वात् सहादिपूर्वत्वेन प्रातिपदिकं विशेष्यत इति सहाद्यवयवं यत् स्वाङ्गान्तं प्रातिपदिकं तस्मादिति विज्ञायमाने नात्र प्रतिषेधो भवति, न ह्रेतत् सहाद्यवयवमेव। किं तर्हि? कल्याणशब्दावयवमिति न भवत्यनिष्टप्रसङ्गः॥", "41058": "`सूर्पणखा` इति। `पूर्वपदात्संज्ञायामगः` [[8.4.3]] इति णत्वम्। अथ कथं शूर्पनखी राक्षसीति? असंज्ञात्वात्। संज्ञायामित्युच्यते, न चेयं संज्ञा। तथा हि - `पूर्वपदात्` [[8.4.3]] इत्यादिना णत्वं न भवति। यौगिकस्त्वेष तस्या व्यपदेशः; शूर्पाकारनखयोगात् - शूर्पमिव नखो यस्याः शूर्पनखीति॥", "41059": "अथ किमर्थमीकारान्तनिपातनं क्रियते, न `दीर्घजिह्वा च्छन्दसि` इत्येवोच्येत, एवमुच्यमाने प्रतिषेध प्रकरणात् प्रतिषेधो विज्ञायेतेति चेत्? न; संयोगोपधत्वेन प्राप्त्यभावात्, प्राप्तिपूर्वकत्वाच्च प्रतिषेधानाम्। तस्मात् सामर्थ्याद्विधिरेव विज्ञास्यत इत्याह - `निपातनं नित्यार्थम्` इति। कल्पितत्वात् प्रकृतस्य ङीष इहापि विकल्पित एवासौ विज्ञायेत, निपातनात् नित्यो भवति॥", "41060": "`विधिप्रतिषेध` इत्यादि। विधिविषयः - स्वाङ्गमुपसर्जनसंयोगोपधत्वम्, नासिकादि च प्रातिपदिकम्। प्रतिषेधविषयः- संयोगोपधञ्च प्रातिपदिकम्, <<न क्रोडादिबह्वचः>> [[4.1.56]] <<सहनञ्विद्यमानपूर्वाच्च>> [[4.1.57]] इति। एतेनैतत् सूचयति - `स्वाङ्गाच्चोपस्र्जनासंयोगोपधात्` [[4.1.54]] इत्यादि विधिशास्त्रमिहानुवर्तते, <<न क्रोडादिबह्वचः>> [[4.1.56]] इत्यादि प्रतिषेधशास्त्रम्, तेन यत्र विषये ङीष् विहितस्तत्रैव ङीब्विधेयः। यत्र तु विषये ङीष् प्रतिषिद्धस्तत्र ङीबपि प्रतिषिध्यत इति। `यत्र ङीष् विहितः` इत्यादिना विधि विषयापेक्षयाः फलं दर्शयति। कः पुनर्ङीपो वा विशेषः, यावतोभयत्र तदेव रूपम्? इत्याह - `स्वरे विशेषः` इति। ङीपो हि पित्त्वादनुदात्तत्वं भवतीति, ङीषस्तु प्रत्ययस्वरेणाद्युदात्तत्वम्। `प्राङमुखी` इति। ऋत्विगादि [[3.2.59]] सूत्रेणाञ्चतेः क्विन्, `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः, <<उगितश्च>> [[6.3.45]] इति ङीप् -प्राची। प्राच्यां दिशि मुखमिति `दिक्शब्देभ्यः सप्तमीपञ्चमी` [[5.3.27]] इत्यादिनास्तातिः, <<अञ्चेर्लुक्>> [[5.3.30]] इति तस्य लुक्, <<लुक् तद्धितलुकि>> [[1.2.49]] इति स्त्रीप्रत्ययस्यापि लुक्, <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यव्ययत्वम्, <<अव्ययादाप्सुपः>> [[2.4.82]] इति सुपो लुक् - प्राग् मुखं यस्याः सा प्राङमुखी, <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति ङकारः। `प्राङ्मुखा` इति। टाप्। ननु च ङीपा मुक्ते `स्वाङ्गाच्चोपसर्जनात्` [[4.1.54]] इति ङीषा भवितव्यम्? नैतदस्ति; आचार्यप्रवृत्तिज्र्ञापयति -यत्रोत्सर्गापवादयोर्विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति, यदयं <<पीलाया वा>> [[4.1.118]] इति वाग्रहणं करोति। यद्यत्राणा विकल्पितेन मुक्ते <<स्त्रीभ्यो ढक्>> [[4.1.120]] (इति) ढकारेण भवितव्यं किं वाग्रहणेन? तस्मादस्माद्वाग्रहणादिदं ज्ञाप्यते - यत्रोत्सर्गोऽपि विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति। कथं पुनरुत्सर्गो विभाषा? महाविभाषया। <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यणुत्सर्गः, <<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढगपवादः; तेन मुक्ते यद्यपि स्यादण्, किं वाग्रहणेन? नेत्येवं ब्राऊयात्, तत्रौत्सर्गिकाणो निवृत्त्यर्थम्। `इह न भवति` इत्यादिना प्रतिषेधापेक्षायाः फलं दर्शयति। `प्राक्क्रोडा, प्राग्जघना` इति। अत्र हि <<न क्रोडादिबह्वचः>> [[4.1.56]] इत्यस्याप्यनुवृत्तेर्ङीष् न भवति। `प्राग्गुल्फा` इति। अत्राप्यसंयोगोपधा [[4.1.63]] , `वहश्च` [[3.2.64]] इति ण्विः, ण्वेः सर्वापहारी लोपः, प्रत्ययलक्षणेन <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः, ङीष्, <<वाह ऊठ्>> [[6.4.132]] इति संप्रासरणसंज्ञको वकारस्योठ् भवति; <<वसोः सम्प्रसारणम्>> [[6.4.131]] इत्यतः सम्प्रसारणानुवृत्तेः। ठकारः <<एत्येधत्यूठ्सु>> [[6.1.89]] इति विशेषणार्थः। <<सम्प्रसारणाच्च>> [[6.1.108]] इति पररूपत्वम्, <<एत्येधत्यूठ्सु>> [[6.1.89]] इति पूर्वपदाकारेण सैहकादेशो वृद्धिः॥", "41061": "", "41062": "`सखी` इति। सखिशब्दान्ङीप्। नास्याः शिशुरस्तीति वाक्यशेषेण बहुव्रीहिं दर्शयन्नशिशुशब्दो यो बहुव्रीहिस्तस्याशिआईति निपात्यते। न तु तत्पुरुषो यस्तस्येति दर्शयति। तत्पुरुषे हि न शिशुरशिशुरित्येवं भवति। `सखा` इति। <<अनङ् सौ>> [[7.1.93]] इत्यनङादेशः, <<नोपधायाः>> [[6.4.7]] `सर्वनामस्थाने च` [[6.4.8]] इति दीर्घः। `सख्यशिशुभ्याम्` इत्येवं वक्तव्ये यन्निपातनं क्रियते, तस्यैतत् प्रयोजनम् - तुल्यश्रुतेः शब्दान्तरस्यापि यथा स्यात्, सह खेन या वर्तते सा सखीति॥", "41063": "जासेः प्रातिपदिकादिति सामानाधिकरण्यानुपपत्तेर्जातिवाचि यत् प्रातिपदिकं तदिहाभिधानेऽभिधेयोपचारं कृत्वा जातिशब्देनोक्तम्, अत एव वृत्तावाह - `जातिवाचि यत् प्रातिपदिकम्` इति। `अस्त्रीविषयात्` इति। अनन्यत्राभावेऽपि विषयशब्दो वर्तते, अत एव वृत्तावाह - `न चेत् स्त्रियामेव नियतम्` इति। न स्त्रियामेव यस्य भावः, किन्तु स्त्रियां चान्यत्र च तदस्त्रीविषयम्।जातिरित्युच्यते, केयं जातिर्नामेति प्रश्नस्योत्तरमाह -`आकृतिग्रहणा` इत्यादि। आक्रियते व्यज्यतेऽनयेत्याकृतिः = संस्थानमुच्यते। तथा हि - दुराकृतिः दुःसंस्थानमुच्यते, स्वाकृतिश्च सुसंस्थानम्। गृह्रतेऽनेनेतित ग्रहणम्, करणे ल्युट्। आकृतिग्र्रहणं यस्याः साऽऽकृतिकग्रहणा, संस्थानव्यङ्ग्येति यावत्। ननु चाकृतिशब्दसामानाधिकरण्याद्ग्रहणशब्दस्य स्त्रियां वृत्तिरिति `टिड्ढाणञ्` [[4.1.15]] इति ङीपा भवितव्यम्, तदन्तेन समासे कृते <<नद्यृतश्च>> [[5.4.153]] इति कप्, ततश्चाकृतिग्रहणीकेति प्राप्नोति? नैष दोषः; ग्रहणशब्दो हि पूर्व करणसामान्ये व्युत्पादितः, पश्चाद्विशेषेणाभिसम्बध्यते। तत्र पदान्तरसन्निधाने यस्तस्य लिङ्गविशेषसम्बन्धः, स च बहिरङ्ग इति सामान्यलिङ्गेनैवान्तरङ्गेण वाक्यं कृत्वा समासः क्रियते, यथा - <<मुखनासिकावचनोऽनुनासिकः>> [[1.1.8]] इत्यत्र। तदनेन लक्षणेन सामान्यरूपा गोत्वादिलक्षणा जातिरित्युक्तं भवति। गोत्वादयो हि विषाणादिमत्संस्थानव्यङ्ग्यत्वादाकृतिग्रहणाः। एतेन लक्षणेन ब्राआह्णत्वादयो जातिविशेषा न संगृहीताः। न हि ते संस्थानव्यङ्ग्याः; तदाश्रयस्य संस्थानस्याभिन्नत्वात्। यादृशं हि संस्थानं ब्राआह्मणस्य क्षत्रियादेः संस्थानमपि तादृशमेवेत्यतो द्वितीयं लक्षणमाह - `लिङ्गानाञ्च` इत्यादि। यापि सर्वाणि लिङ्गानि न भजति साप्यसंस्थानव्यङ्ग्यापि जातिः, यथा - ब्राआहृणत्वादिः। सा हि स्त्रीलिङ्गं पुंलिङ्गं च भजति - ब्राआहृणएः, ब्राआहृणीति, न तु नपुंसकलिङ्गमित्यसर्वलिङ्गभाग्भवति। ब्राआहृणत्वादिष्वप्युदेशाभिव्यङ्ग्यताऽश्रयणीया, अन्यथा देवदत्तः, देवदत्तेति लिङ्गद्वयं भजति, अत्रापि जातित्वं स्यात्। न चायं जातिशब्द इष्यते, किं तर्हि? संज्ञाशब्दः। विध्यर्थञ्चेदम्। अतः सर्वलिङ्गभाजोऽपि पूर्वेण लक्षणेन जातित्वमस्ति, यथा -तटः,तटी, तटमिति। सर्वलिङ्गं भजत इति सर्वलिङ्गभाक्, कर्मण्युपपदे <<भजो ण्विः>> [[3.2.62]] इति ण्विः। ननु च लिङ्गापेक्षया सर्वशब्द उपपदे भजो ण्विप्रत्ययो न प्राप्नोति, उपपदाश्रयत्वा, उपपदसमासश्च असमर्थत्वात्? नैष दोषः; यथैव हि देवदत्तस्य गुरुकुलमित्यत्रासामर्थ्येऽपि समासो भवति, गमकत्वात्; तथैवमुभयमपि भविष्यतीति।सा च जातिः - `सकृदाख्यातनिग्र्राह्रा` इति। सकृत् = एकवारम्, आख्याता = उपदिष्टा, निग्र्राह्रा = निश्चयेन ग्राह्रा। एतेन जातिधर्मानेकत्वनित्यत्वप्रत्येकपरिसमाप्तित्वलक्षणान् दर्शयति। सकृदेवारं यस्मात् कृष्णे धवले वा गोपिण्ड आख्याता तद्विलक्षणेऽपि गोपिण्डे निग्र्राह्रा, तस्मादेव नित्या प्रत्येकं परिसमाप्ता च। यदि ह्रेका न स्यात्, सकृदाख्याता गौरिति पिण्डान्तरे न गृह्रेत। यदि च नित्या न भवेत्, पिण्डविनाशे तस्या अपि विनाशात् पिण्डान्तरेण न गृह्रेत। यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्, तस्मिन्नपि तावत् पिण्डे सर्वात्मना न गृह्रेत यत्राख्याता, किं पुनः पिण्डान्तरे ! अंशेन हि परिसमाप्तौ सत्यामंश एव परिगृह्रते, न जातिः। नजात्यंशो जातिर्भवति, अनेकत्वप्रसङ्गात्।तृतीयं जातिलक्षममाह - `गोत्रञ्च` इत्यादि। `अपत्यं पौत्रप्रभृति गोत्रम्` [[4.1.162]] इति गोत्रं पारिभाषिकम्। इह तु लौकिकमपि गोत्रमपत्यमात्रं गृह्रते। चरणमध्ययनभेदेनानेकधा। गोत्रञ्च चरणैः सह जातिर्भवति। गोत्रं नाडायनादि। यद्यपि नाडायनतादि सामान्यं गोत्रवदेव कल्प्यते, तथापि तत् संस्थानव्यङ्ग्यं न भवति। सर्वलिङ्गभावक्त्वाच्च - नाडायनः पुमान्, नाडायनी स्त्री, नाडायनं नपुंसकमिति। अतो गोत्रस्य जातित्वप्रतिपादनसिद्धये गोत्रञ्चेत्युक्तम्। चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात्। क्रियाशब्द एव जातिशब्द इत्यतस्तदर्थस्य जातित्वप्तिपादनाय चरणैः सहेत्युक्तम्।`कुक्कुटी, शूकरी मयूरी` इति। आकृतिग्रहणाया जातेरुदाहरणम्। `ब्राआहृणी, वृषली` इति। असर्वलिङ्गभाजः। `नाडायनी, चारायणी` इति। गोत्रलक्षणायाः। नडचरशब्दयोः <<नडादिभ्यः फक्>> [[4.1.99]] इति फगपत्येऽर्थे। `कठी, बह्वृची` इति। चरणलक्षणयाः।`मुण्डा`इति। मुण्डगुणयोगात्। मुण्डो भवत्येष इत्यस्त्रीविषयः - मुण्डो देवदत्त इति; पुरुषेऽपि मुण्डशब्दस्य वृत्तेः। न तु जातिशब्दः,किं तर्हि? गुणशब्दः।`मक्षिका` इति। सर्वदा स्त्रियामेव नियत्वात् स्त्रीविषयो मक्षिकाशब्दः। `क्षत्त्रिया` इति। गोत्रमिह जातिः। `क्षत्त्राद्धः` [[4.1.138]] इति गोत्रापत्ये घविधानादरुआवलिङ्गभाक्त्वाच्च जातित्त्वम्। `क्षत्त्रियः` इति च पुंस्यपि वृत्तेरस्त्रीविषयः क्षत्त्रियशब्दः।योपधस्तु - `योपधप्रतिषेधे हयगवयमुकत्स्यमनुष्याणामप्रतिषेधः` इति। कथं पुनरेष लभ्यते? उत्तरसूत्रे चकास्यानुक्तसमुच्चयार्थत्वात्। तेन हि हयगवयादिभ्यो ङीष्विधानादयं प्रतिषेधो न प्रवर्तते। `मत्सी` इति। `सूर्यतिष्यागस्त्यमत्स्यानाम्` [[6.4.149]] इत यलोपः। `मनुषी` इति। <<मनोर्जातावञ्यतौ षुक् च>> [[4.1.161]] इति यत्प्रत्ययः, षुगागमश्च। जातित्वं च पुरनेषां हयगवयादीनामाकृतिग्रहणाद्वेदितव्यम्॥", "41064": "`ओदनपाकी` इति। ओदनस्य पाक इति षष्टीसमासः। व्युत्पत्तिमात्रार्थं त्वसौ क्रियते, न त्ववयवार्थो विद्यते। समुदाय एव ह्रयं कस्याञ्चिज्जातौ वर्तते। एवं `शह्कुकर्णी` इत्यदिष्वपि वेदितव्यम्॥", "41065": "`अवन्ती, कुन्ती` इति। अवन्तिकुन्तिशब्दाभ्यामपत्येऽर्थे <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] <<स्त्रियामवन्तिकुन्तिकुरुभ्यश्च>> [[4.1.176]] इति तस्य लुक्, ततो ङीष्। `दाक्षी,प्लाक्षी`इति। `अत इञ्` [[4.1.95]] । सर्वत्र गोत्रं हि जातिः।`विट्, दरत्` इति। विशोऽपत्येऽर्थे <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] । दरदो द्वयञ्मगधादिसूत्रेणाण् [[4.1.168]] , `अतश्च` [[4.1.175]] इति तयोः स्त्रियां लुक्। इहापि गोत्रं जातिः। `तित्तिरिः` इति। अत्राकृतिग्रहणा जातिः। `उदमेयी` इति। `अत इञ्` [[4.1.95]] गोत्रमिह जातिः।`इञ उपसंख्यानम्` इति। इञन्तान्ङीष उपसंख्यानं कर्तव्यमित्यर्थः। किमर्तम्? अजात्यर्थम्। अजातिवाचिनोऽपीञन्ताद्यथा स्यात्। तत्रेदं प्रतिपादनम् - `इतः` इति योगविभागोऽत्र क्रियते, तेनेञन्तादजातिवाचिनोऽपि भविष्यतीति। ततः `मनुष्यजातेः` इत्ययं द्वितीयो योगः पूर्वयोगस्यानित्यत्वज्ञापनार्थः।तेन मुष्यजातौ नित्यम्, अन्यत्र तु यथादर्शनम्। क्वचिदेव न सर्वत्र। `सौतङ्गमी` इत्याद्युदाहरणम्। स्यादेतत्-`अत इञ्` [[4.1.95]] इति गोत्रापत्य एवात्रेञ् विहितः, गोत्रञ्च जातिरेव, तत् किमुच्यते -इञ उपसंख्यानमजात्यर्थमिति? अत आह - `सुतह्गमादिभ्यः` इत्यादि। सुतङ्गमेन निर्वृता नगरीति <<वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः>> [[4.2.80]] इत्यादिना सुतङ्गमादित्वादिञ्। `इतः` इत तपकरणं दीर्घनिवृत्त्यर्थम्। तेन अवन्तीशब्दादयं न भवति। अवन्तिमिच्छति, <<सुप आत्मनः क्यच्>> [[3.1.8]] , `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः, अवन्ती य इत स्थिते क्विप्, <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। पूर्वं लोपग्रहणादपृक्तलोपात् प्राक् <<लोपो व्योर्वलि>> [[6.1.66]] इति यलोपः, पश्चात् <<वेरपृक्तस्य>> [[6.1.67]] इति वकारस्य। ततः अवन्ती इति स्थिते यदि तपरकरणं न क्रियेत, ततोऽस्मादपि स्यात, ततः <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुलोपः प्रसज्येत,ततोऽवन्तीरिति न सिध्येत्॥", "41066": "`कुरूः` इति। कुरोरपत्यं स्त्री - कुरुनादिभ्यो ण्यः` [[4.1.170]] , `स्त्रियामवन्ति` [[4.1.174]] इत्यादिना तस्य लुक्। गोत्रमिह जातिः। `ब्राहृबन्धूः` इति। ब्राहृ बन्धरस्याः, वीरो बन्धुरस्या इति बहुव्रीहिः। ब्राहृबन्धूवीरबन्धूशब्दौ कस्याञ्चिदेव जातौ वर्तेते। जातित्वं पुनरसर्वलिङ्गभाक्त्वात्। तौ हि स्त्रीलिङ्गपुंल्लिङ्गादेव, न नपुंसकलिङ्गौ। `उतः` इति तपरकरणं मुखसुखार्थम्। न तु दीर्घनिवृत्त्य्रथम्; ऊकारान्तस् मनुष्यजातिवाचिनोऽभावात्।`ङकारः`इत्यादि। ऊङो यदि ङकारो न क्रियेत तदा <<नोङ्धात्वोः>> [[6.1.175]] इत्यस्मिन्नपि न कर्तव्यः स्यात् ; ङाकारानुबन्धवतोऽन्यस् कस्यचिदूकारस्याभावात्। ततश्च `नोधात्वोः` इत्युच्यमाने यवाग्वा, यवाग्वै इत्यत्रापि <<उदात्तयणो हल्पूर्वात्>> [[6.1.174]] इति तृतीयादिविभक्तेरुदात्तत्वस्य प्राप्तस्य प्रतिषेधः स्यात्। ननु चार्थवत ऊकारस्य ग्रहणात् `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यनर्थकस्य न भविष्यति, यवागूशब्दो हि `सृयुवचिभ्योऽन्युजागूजक्नुचः` (द।उ।10।4) इत्यागूच्प्रत्ययान्तो व्युत्पादितः, तत्रागूच्छब्द एव प्रत्ययार्थेनार्थवान्, ऊकारस्त्वनर्थक एव? नैतदस्ति; यस्मान्न वर्णग्रहणेष्वियं परिभाषा व्यवस्थिता, वर्णग्रहणञ्चेदम्, अतो नोपतिष्ठते। अथोपतिष्ठेत? एवमपि `कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः` (द।उ।1।164) इत्यूप्रत्ययस्य ग्रहणं स्यात्। ततश्च खर्ज्वा, खर्ज्वे - इत्यत्र प्रतिषेधः प्रसज्येत। तस्माद्विशेषणार्थो ङकारः कर्तव्यः। अथ दीर्घोच्चारणं किमर्थम्, ननु उङेवोच्येत, <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घत्वेन हि दीर्धस्य ग्रहणं भवति? इत्यत आह - `दीर्घोच्चारणम्` इत्यादि। यदि दीर्घो नोच्चार्येत तदा <<शेषाद्विभाषा>> [[5.4.154]] इति परत्वात् पक्षे कप् स्यात्, अतस्तद्बाधनार्थं दीर्गोच्चारणम्। कथं पुनर्दीघोच्चारणेन कपो निवृत्तिः? ब्राहृआ बन्धूरस्येति समासादनन्तरमूङ् क्रियताम्ुत कबिति? तत्र परत्वात् कप् स्यात्; दीर्घोच्चारणेनोकारप्रश्लेषात्। पुनर्विधानं तुल्यकालप्राप्तिकं स्वार्थिकतया समानजातीयं कब्विधिमेव निवर्तयति, न स्वादिविधिम्। स्वादयस्तूङन्ताद्भवन्त्येव; त्यूङोरपि ग्रहणात्; ज्ञापकाद्वा, `आशुरः आश्रवा` [[1.2.71]] इतिनिर्देशात्। तेन ब्राहृबन्धूरिति नित्यमूकारान्त एव भवति, न तु कदाचित् कबन्तः। `अध्वर्युः` इति। अध्वरमिच्छतीति क्यच्, <<क्याच्छन्दसि>> [[3.2.170]] इत्युप्रत्ययः, `कब्यघ्वरपृतनस्यर्चि लोपः` [[7.4.39]] इत्यकारलोपः।`अप्राणिजातेश्च` इत्यादि। अप्राणिजातिवाचिनश्च प्रातिपदिकादूङ् प्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<पङ्गोश्च>> [[4.1.68]] इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाप्रणिजातेश्च रज्ज्वादिवर्जिताद्भविष्यति। `अलाबूः, कर्कन्धूः` इति। कः पुनरस्योङि सत्यसति वा विशेषः, यावतोभयत्र तदेव रूपं स व स्वरः; तथा हि - अलाबूशब्द उणादिषूकारप्रत्ययान्त एव व्युत्पाद्यते, `कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः` (द।उ।1।164) `{इति वर्तमाने णित् इति च (द।उ।1।168) नञि लम्बेर्नलोपश्च` (द।उ।1।170) इतिनञ्पूर्वात् `लबि अवरुआंसने इत्यस्मादूप्रत्ययः` इति पाठेन भवितव्यम्। इति `वर्तमाने णित्` इति च `नञि लम्बेर्नलोपश्च` (द।उ।1।170) इति नञ्पूर्वात् `लबि अवरुआंसने` (धातुपाठः-379) इत्यस्मादूप्रत्यययः, `इदितो नुम्` [[7.1.58]] इत्यनेन कृतनुमागरूपस्य नकारस् नलोपश्च विहितः; कर्कन्धूशब्दोऽपि `नृतिशृध्योः कूः` (द।उ।1।174) इति वर्तमाने `अन्दूदृन्भूजम्बूकफेलूकर्कन्धूदिधिषूः` (द।उ।1।176) इत्यूकारान्त एव व्युत्पादितः, तत्किमर्थमूङ् विधीयते? अलाब्वा, अलाब्वै - इत्यत्र <<नोङ्धात्वोः>> [[6.1.175]] इति विभक्त्याद्युदात्तत्वप्रतिषेधो यथा स्यात्। असति हि तस्मिन् यथा खलप्वौ, खलप्वः- इत्यत्र स न भवति तथेहापि न स्यात्॥", "41067": "", "41068": "`आशुरस्योकाराकारयोर्लोपश्च` इति। अयं तु `आशुरः आश्रवा` [[1.2.71]] #इति निपातनादेव सिद्ध इति न वक्तव्यः॥", "41069": "`वृत्तोरुः` इति। वृत्तौ {परिमण्डला ऊरू इति मुद्रितः पाठ।} परिमण्डलाबूरू यस्याः सा वृत्तोरुः। लाघवार्थमूर्वन्तादिति वक्तव्य ऊरूत्तरपदादित्युक्तम् - यत्र केवल ऊरुब्द उत्तरपदं तत्र यथा स्यादित्येवमर्थम्; अन्यथा हि यद्यर्वन्तादित्युच्येत,तदा स्वामिन ऊरू स्वाम्यूरू, हस्तिन इव स्वम्यूरू यस्याः सा हस्तिस्वम्यूरुरित्यत्रापि स्यात्, भवति ह्रेतदूर्वन्तं प्रातिपदिकम्। उत्तरपदग्रहणे तु न दोषः, न ह्रेतदूरूत्तरपदं प्रातिपदिकम्, किं तर्हि? स्वाम्यूरूत्तरपदम्॥", "41070": "`संहितोरूः` इति। संहितशब्दः संश्लिष्टवचनः, संश्लिष्टोरुरित्यर्थः।`सहितसहाभ्याञ्चेति वक्तव्यम्` इति। सहित, सह - इत्येताभ्यां परो य उरुशब्दस्तदन्ताच्च प्रातिपदिकादूङ् भवीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - घकारोऽत्र क्रियते, स चायुक्तसमुच्चयार्थः, तेन सहितसहाभ्यामपि भविष्यति। सूत्र आदिग्रहणमूरूत्तरपदमित्यस्यानुवृत्तेर्लिङ्गम्। अन्यथा संहितादिप्रातिपदिकेभ्य एव प्रत्ययो भवतीत्येषोऽर्थो विज्ञायेत। सत्यां हि स्वरितत्वादेवानुवृत्तावेभ्यो यत्परमूरूत्तरपदं सत्यप्यस्मिन् मध्यपदे तत्रैव प्रत्ययः प्रसज्यते;संहितस्वाम्यूरुशब्दात्, न संहितोरुशब्दात्। गुणभावादूरुशब्दस्य न स्यादेवेह विशेषणम्॥", "41071": "कद्रुशब्दो वर्णविशेषवचनः, ततः `वोतो गुणवचनात्` [[4.1.44]] इति ङीषः प्राप्तस्य `खरुसंयोगोपधयोः` (वा।349) इति प्रतिषेधे कृते प्रातिपदिकेनानभिधाने प्राप्ते वचनम्। कमण्डलुशब्दस्याप्यप्राणिवाचित्वात् `अप्राणिजातेश्चारज्ज्वादीनाम्` (वा।369) इत्यूङ प्राप्ते छन्दसि नियमार्थम्। अथ वा - अयं रज्ज्वादि,ततः प्रतिषेधे सति प्राप्त्यर्थं वचनम्॥", "41072": "", "41073": "`बैदी, और्वी` इति। बिदौर्वशब्दाभ्यां `अनृष्यानन्तर्ये` [[4.1.104]] इत्यादिनाऽञ्, तदन्ताद्गोत्रत्वाज्जातित्वे जातिलक्षणे ङीषि प्राप्ते ङीन् विधीयते। स्वरे विशेषः। `अणन्ता एते` इति। गोतमशब्दादपत्येऽर्थे `ऋष्यन्धकवृष्णि` [[4.1.114]] इत्यादिनाऽण्, शेषेभ्यस्तु तस्यापत्यम्` [[4.1.92]] इति। गौतमशब्दाद्गौरादिपाठात् ङीषपि भवति। `ढगन्ता एते` इति। शुभ्रादित्वात्। `कामण्डलेयः`इति। `ढे लोपोऽकद्र्वा` [[6.4.147]] इत्युकारलोपः। एषां `टिड्ढाणञ्` [[4.1.15]] इति ङीपि प्राप्ते वचनम्। `वात्स्यायन` इति। वत्सशब्दाद्गर्गादियञन्तात् <<यञिञोश्च>> [[4.1.101]] इति फक्। `मौञ्जायन` इति। मुञ्जशब्दात् <<नडादिभ्यः फक्>> [[4.1.99]] इति फक्। `जातिः` इति। गोत्रलक्षणा। लौकिकमपि हि तत्र गोत्रं गृह्रते। युवापि च लोके गोत्रमुच्यते, तथा हि वक्तारो वदन्ति - गाग्र्यायणो गोत्रेणेति। `ढगन्ताः` इति। केकसशब्दस्य शुभ्रादित्वात् अढगन्ताञ्ञ्यङन्तादपि ताविति। कपिशिविशब्दाभ्यामपत्येऽर्थे <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] इति ञ्यङ्। `यङश्चाप्` [[4.1.74]] इति चापि प्राप्ते वचनम्। `एहि, पर्येहि` इति। `ईह चेष्टायाम्` (धातुपाठः-632) इत्यस्मादाङपूर्वात् पर्याद्याङ्पूर्वाच्च `{इन् इत्येवोणादिसूत्रम् - वृत्तौ तु सर्वधातुभ्यः इन्प्रत्ययो भवतीति दृश्यते-द।उ।} सर्वधातुभ्यः` (द।उ।1।46) इतीन्प्रत्ययः। बह्वादिषु `कृदिकारादक्तिनः` (ग।सू।50) इति पाठान्ङीषि प्राप्ते वचनम्। `यञन्तः` इति। गर्गादित्वात्। `यञश्च` [[4.1.16]] , <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इति ङीपि ष्फे च प्राप्ते वचनम्। `{उदपानः इति मुद्रितः पाठः} औदपानः`इति। उदपानादागत इति <<शुण्डिकादिभ्योऽण्>> [[4.3.76]] इत्यण्। उत्सादिष्वयं पठत इति तत्राञि कृते नास्ति विशेषः - ङीपो वा ङीनो वा, उभयत्रापि हि <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तेन भवितव्यमित्येतन्मनसि कृत्वाऽऽह - `शुण्डिकाद्यणन्तः प्रयोजयति` इति। `जातिः` इति। अरालचण्डालयोरसर्वलिङ्गत्वादिति जातित्वम्। वतण्डस्य गौरादिलक्षणे ङीषि प्राप्ते वचनम्। प्रत्ययलक्षणेन `यञश्च` [[4.1.16]] , <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इति ङीष्फयोर्बाधनम्। वतण्डस्यापत्यं स्त्री <<वतण्डाच्च>> [[4.1.108]] इति यञ्, तस्य <<लुक् स्त्रियाम्>> [[4.1.109]] इति लुक्।`भोगवद्गौरिमतोः संज्ञायाम्` इति। संज्ञायां गम्यमानायां भोगवद्गौरिमच्छब्दाभ्यां ङीन् भवति। मत्वन्तत्वात् <<उगितश्च>> [[6.3.45]] इति ङीपि प्राप्ते वचनम्। ननु च बोगशब्दो घञन्तः, गौरिश्बदः `अत इञ्` [[4.1.95]] इतीञन्तः, तेन द्वावप्येतौ ञित्स्वरेणाद्युदात्तौ। ताभ्यां मतुप्, पित्त्वादनुदात्तः। तथा च भोगवद्गौरिमद्भ्यां ङीपि ङीनि वा विहिते न कश्चिद्विशेषः, तत्किमर्थं ताभ्यां ङिन् विधीयते? इत्यत आह - `घादिषु नित्यं ह्रस्वार्थम्` इति। <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यादिषु नित्यं ह्रस्वो यथा स्यादिति ताभ्यां ङीनो विधानम् - भोगवतितरा, गौरिमतितरेति। यदि पुनरुगिल्लक्षणो ङीप्क्रियेत,ततः <<नद्याः शेषस्यान्यतरस्याम्>> [[6.3.44]] इत्यनुवर्तमाने <<उगितश्च>> [[6.3.45]] इति विकल्पेन ह्रस्वत्वं स्यात्। अथानेनापि ङीनि सति कस्मादेव <<उगितश्च>> [[6.3.45]] इत्यन्यरस्यां ह्रस्वत्वं न भवति, यावता भोगवद्गौरिमद्भ्यामुगिद्भ्यामेवायं त्सया विकल्पेन ह्रस्वत्वं भवतीति। न चानेन सूत्रेण या विहिता सा नद्युगित्संशब्दनेन विहिता भवति; उगित्त्वानाश्रयणात्। संज्ञायामिति किम्? भोगवती, गौरिमतीति। <<उगितश्च>> [[6.3.45]] इति ङीप्। अत्र च घादिषु विकल्पनैव ह्रस्वो भवति - भोगवतितरा , भोगवतीतरा, गौरिमतितरा, गौरीमतीतरेति।`नृनरयोर्वद्धिश्च` इति। नृशब्दस्य `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ङीपि प्राप्ते वचनम्। नरशब्दस्य `अजाद्यतः` [[4.1.4]] इति टापि प्राप्ते जातित्वान्ङीषि वा। जातित्वं त्वाकृतिग्रहणात्। वृद्धिश्च तयोर्भवति, सा च नृशब्दस्यालोऽन्त्यपरिभाषया [[1.1.51]] ऋकारस्यस्थाने भवति। नरशब्दस्य `यस्येति` [[6.4.148]] लोपे कृते सत्यकारस्य। ननु च `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इति रेफस्यैव भवितव्यम्? नैष दोषः; वृद्धेर्याऽन्तरमा प्रकृतिस्तत्र षष्ठी, यत्र षष्ठी तत्रादेश इत्यकारः स्थानी ज्ञायते।पुत्रशब्दमत्र केचित् पठन्ति, न स केवलः स्तियां वर्तत इत्ययं समासन्तो गृह्रते। समासान्ते च वर्तमानो दुहितृशब्देन समानार्थो भवन् स्त्रीलिङ्गो भवति - प्रद्योतपुत्त्री, शैलपुत्त्रीति। `यथोयोगम्` इति। यथासम्भवम्॥", "41074": "पकारोऽत्र `ङ्याप्प्रातिपदिकात्` [[4.1.1]] इत्यत्र सामान्यग्रहणार्थः,चकारस्तदविघातार्थः, एवमुभयोरन्यत्र चरितार्थयोः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्येतद्बाधित्वा परत्वात् `चितः` [[6.1.157]] इत्यन्तोदात्तत्वं चापो भवति। `ञ्यङः ष्यङश्च सामान्यग्रहणमेतत्` इति। विशेषकरानुबन्धानुत्सृज्य यत्सामान्यं यङमात्रं तस्येदं ग्रहणम्। कथं पुनः सामान्यग्रहणं युज्यते; यावता ञ्यङ एव तत्र ग्रहणं युक्तम्, तथा हि - सोऽपत्ये विधीयमानः स्त्रीत्वं वक्तुमसमर्थ इति स्त्रीप्रत्ययमपेक्षते, न तु ष्यङ, तस्य स्त्रियामेव विधानात्? नैतदस्ति; यदि हि सामान्यग्रहणं न स्यात् ष्यङो ङित्करणमनर्थकं स्यात्। तस्य ह्यत्र सूत्रे सामान्यग्रहणेव प्रयोजनम्, नान्यत किञ्चित्। तस्मात् ङित्करणसामर्थ्यात् ष्यङोऽपि ग्रहणं भवति। `आम्बष्ठआ` इत्यादि। आम्बष्ठसौवीरकोसलशब्देभ्योऽपत्येऽर्थे <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] इति ञ्यङ्, तदन्ताच्चाप्। `कारीषगन्ध्या` इति। एतत् स्वादिसूत्रे [[4.1.2]] व्युत्पादितम्। `वाराह्या` इति। वराहशब्दात् `अत इञ्` [[4.1.95]] । `बालाक्या` इति। बलाकाशब्दाद्बाह्वादिलक्षम इञ्। उभयत्र `अणिञोरनार्षयोः` [[4.1.78]] इत्यादिना ष्यङादेशः, तदन्ताच्चाप्।`शार्कराक्ष्या` इत्यादि। शर्कराक्षपूतिमाषगोरक्षशब्देभ्यो गर्गादियञन्तेभ्यश्चाप्॥", "41075": "`ङीपि प्राप्ते` इति। `यञश्च` [[4.1.16]] इत्यनेन॥", "41076": "`युवतिः` इति। तद्धितसंज्ञायां सत्यां `कृत्तद्धित` [[1.2.46]] इत्यादिना प्रातिपदिकसंज्ञा भवति। अथ `तद्धिताः` इति न सम्भवति बहुवचननिर्देशः, यथैव हि <<प्रत्ययः>> [[3.1.1]] इत्येकवचननिर्देशेऽपि वक्ष्यमाणानां बहूनामपि सन्नादीनां सर्वेषां सा संज्ञा भविष्यति, तथाऽत्राप्येकवचनेनैव निर्देशः कर्तव्यः? इत्यत आह - `बहुवचनम्` इत्यादि। एकवचन एव कर्तव्ये यद्बहुवचनं क्रियते तस्यैतत्प्रयोजनम् -अनुक्ता ये तद्धिता लक्षणवाक्यैरनभिहितास्तेषामपि परिग्रहो यथा स्यात्। ततः `पृथिव्या ञाञौ` (वा।376) इत्यादि न कर्तव्यं भवति। बहुवचननेनैवानुक्ततद्धितपरिग्रहार्थेन तेषां सिद्धत्वे महत्याः संज्ञायाः करण एतत् प्रयोजनम्, अन्वर्थसंज्ञा यथा विज्ञायेत - तेभ्यो हितास्तद्धिताः। तदित्यनेन लौकिका वैदिकाश्च शब्दाः प्रत्यवमृश्यन्ते; तेषां व्युत्पाद्यत्वेन प्रकृतत्वात् तेन तत्रैव भवन्त्यणादयो यत्र च भवन्तस्तेषामुपकारिणो भवन्ति, नान्यत्रेति। तेनाभिधानलक्षणत्वं तद्धितानामुपपन्नं भवति। अथ तद्धिताधिकारः स्त्रीप्रत्ययानामादित एव कस्मान्न क्रियते? किमेव सति भवति? तद्धितानामुपपन्नं तद्धितानन्तत्वात् प्रातिपदिकमिति `ङ्याप्प्रातिपद#इकात्` [[4.1.1]] इत्यत्र ङ्याब्ग्रहमं न कर्तव्यं भवति, <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इत्यत्र च तद्धितग्रहणम्, <<यस्येति च>> [[6.4.148]] इतीकारग्रहणञ्च;तद्धित इत्येवं सिद्धत्वात्? अशक्यमेवं कर्त्तुम्; एवं हि क्रियमाणे तत्र ङ्याब्ग्रहणस्य यत् पूर्वं प्रयोजनमुक्तं तन्न स्यात्; ङीब्ङीष्ङीनाञ्च ङकारस्येत्संज्ञा `अतद्धिते` [[1.3.8]] इति प्रतिषेधात्। इह च पट्वीति <<ओर्गुणः>> [[6.4.146]] इति गुणः स्यात्। तस्माद्यथान्यासमेवास्तु॥", "41077": "`ङीपोऽपवादः` इति। नकारान्तत्वात् `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति प्राप्तस्य। अथेदन्तात् <<इतो मनुष्यजातेः>> [[4.1.65]] इति ङीष् कस्मान्न भवति? अमनुष्यजातित्वात्। न हि युवतिशब्दो मनुष्यजातिवचनः, किं तर्हि? वयोवचनः। तथा हि यौवनावस्थायामेव स वर्तते, न बाल्यवृद्धत्वावस्थायाम्। न चैवंविधा जातिशब्दाः,ते हि सर्वावस्थासु व्युक्तिषु जातिनिबन्धना वर्तन्ते, गोशब्दादिवत्॥", "41078": "इह `अणिञोः` इति प्रत्ययमात्रं वा गृह्रते? तदन्तो वा समुदायः? तत्र यद्याद्यः पक्ष आश्रीयेत, `गुरूपोत्तमयोः` इति विशेषणं नोपपद्येत। न ह्रणिञोर्गुरूपोत्तमत्वं सम्भवति, कस्य तर्हि? तदन्तस्य समुदायस्य। तस्माद्द्वितीयः पक्ष आश्रयितुं युक्त इति मत्वाऽऽह - `गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोः` इति। यदि तर्हि समुदायस्याणन्तस्येञन्तस्य चेदं ग्रहणम्, `अनार्षयोः` इति विशेषणं न प्रकल्प्येत; समुदायस्य ऋषादेव विधानात्। अणिञोस्तु प्रकल्प्यत एतद्विशेषणम्; तयोरृषादन्यतर्च विधानात्। `गोत्रे` इत्यपि विशेषणमणिञोरेव युक्तम्, न समुदायस्य; तथा हि `अपत्यं पौत्रप्रभृति गौत्रम्` [[4.1.162]] इति परिभाषिकं गोत्रमिह गृह्रते,तत्र चाणिञावेव विहितौ, न समुदायः? नैष दोषः; समुदायस्यैते विशेषणे न सम्भवत इति सामर्थ्यादेकदेशयोरणिञोर्विज्ञायेते। अत एव वृत्तावाह - `गोत्रे यावणिञौ विहितावनार्षौ` इति। इहायं ष्यङादेशो वा स्यात्? प्रत्ययो वा? ननु च षष्ठीनिर्देशादादेशेनैवानेन भवितव्यमिति असन्दिग्धमेतत्, तदयुक्ता द्वितीयपक्षाशङ्का? नैतदस्ति; प्रत्ययविधावपि षष्ठीनिर्देशो दृश्यते, यथा - `गापोष्ठक्` [[3.2.8]] <<व्रीहिशाल्योर्ढक्>> [[5.2.2]] इति,तस्मात् प्रत्ययपक्षशङ्कापि युक्तैव। तत्र यदि प्रत्ययः स्यात्, औदमेधेय इति न सिध्येत्। उदमेघस्यापत्यं स्त्री - `अत इञ्` [[4.1.95]] , तदन्तादनेन ष्यङ्, इकारस्व यस्येति [[6.4.148]] लोप), `यङ्श्चाप्` [[4.1.74]] , औदमेध्या, तस्या अपत्यमिति <<स्त्रीभ्यो ढक्>> [[4.1.120]] , एयादेशः। तस्मिन् <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति यलोप इष्यते, स न प्राप्नोति; अनापत्ययकारत्वात्। ननु च <<हलस्तद्धितस्य>> [[6.4.150]] इति चेत्? न; ईतीत्यत्रानुवर्तते। आदेशपक्षे त्वणिञोरपत्यत्वात् तदादेशस्यापि ष्यङः स्थानिवद्भावेनापत्यत्वमिति सिध्यति यलोपः। तस्मादादेशपक्ष एव साधुरित्यभिप्रायेणाह - `ष्यङादेशो भवति` इति। ननु चादेशपक्षेऽप्यौडुलोम्येति न सिध्यति, लोमशब्दो बाह्वादिषु पठते। तस् केवलस्यापत्येन संयोगो नास्तीति तदन्तः समुदायो गृह्रते, तत उडुलोम्नोऽपत्यं स्त्री -बाह्वादित्वादिञि कृते तस्य च ष्यङादेशः। तत्र <<नस्तद्धिते>> [[6.4.144]] इति टिलोप इष्यते, स च न प्राप्नोति;<<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिभावात्। प्रत्ययपक्षे त्विञो व्यवहितत्वात् ष्यङः प्रकृतिभावो नास्तीति भयति टिलोपः। नन <<यस्येति च>> [[6.4.148]] इति लोपे कृते नास्ति व्यवधानम्। <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति लोपस्य [[6.4.148]] इति लोपे कृते नास्ति व्यवधानम्। <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति लोपस्य स्थानिवद्भावादस्त्येव। आदेशपक्षेऽप्यदोषः; आनुपूर्व्या सिद्धत्वात्। न ह्यत्राकृते लोपे गुरुपोत्तमत्वं सम्भवति। तत्र प्रागेव ष्यङ इञि तस्यैव टिलोपः, ततो गुरुपोत्तमता। ततः ष्यङित्यानुपूर्व्या सिद्धत्वम्। अयं तह्र्रादेशपक्ष दोषः - अनेकाल्त्वात् सर्वादेशः प्राप्नोति, `ङिच्च` [[1.1.53]] इत्यन्तस्य प्राप्नोतीति चेत्? नैतदस्ति; अपवादप्रतिषेधाद्धि सर्वादेशः प्राप्नोतीति। `ङिच्च` [[1.1.52]] इत्यन्तादेशः क्रियताम्, आहोस्विदनेकाल्त्वात् सर्वादेशः, तत्र परत्वात् सर्वादेशः प्राप्नोति, यथा - `तुह्रोस्तातङ्ङाशिष्यन्यतरस्याम्` [[7.1.35]] ? इत्यत आह - `निर्दिश्यमानस्य` इत्यादि। यथा पाच्छब्दस्य पदित्ययमादेशो विज्ञायते न पाच्छब्दान्तस्य समुदायस्य, तथाऽयमपि निर्दिश्यमानयोरणिञोरेव विज्ञायते। तत् क्व तर्हि सर्वादेशेन भवितव्यम्? यत्र समुदायात् षष्ठ्युच्चारिता, यथा -तुह्रोरिति। `ङकारः सामान्यग्रहणार्थः` इति। असति हि तत्र `यङश्चाप्` [[4.1.74]] इत्यत्र <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] इत्यस्यैव ग्रहणं स्यात्, न ष्यङः। `षकारस्तदविघातार्थः` इति। तत्र ह्रसत्येकानुबन्धकग्रहणे न द्वयनुबन्धकस्य (व्या।प।52) त्यस्यैव ग्रहणं स्यात्, न ञ्यङः।उत्तमशब्दोऽयमस्त्येव व्युत्पन्नं तमबन्तं प्रातिपदिकम्, अस्त्यव्युत्पन्नम्। तत्र यदि व्युत्पन्नस्येदं ग्रहणं स्याद्वाराह्रेति न सिध्येत्; यस्माद्व्युतप्त्तिमानुत्तमशब्दश्चतुष्प्रभृतिष्ववतिष्ठते। यथा ह्रुच्छब्दादुद्गताभिधायिनस्तमप्प्रत्ययोऽतिशायने विधीयते। अनुद्गतञ्चापेक्ष्योद्गतो भवति। त्रिषु च द्वावुद्गतौ,एकोऽनुद्गतः,न च द्वयोरयं चोद्गत इत्ययमनयोरतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते; तरपा विशेषविहितेन बाधितत्वात्। चतुर्षु तु त्रय उद्गताः, एकोऽनुद्गतः, ततर् त्रीनुद्गतानपेक्ष्यायञ्चोद्गतः। अयं चैषामतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते, तस्माच्चतुर्ष्वेव प्राप्नोति; तत्र चोत्तमशब्दस्य स्वरूपसिद्धेः, ततश्च वाराह्रेति न सिध्येत्। न ह्यत्र चत्वारः सन्तीत्येतदालोच्याव्युत्पन्नोऽयमिहोत्तमशब्दो गृह्रत इति दर्शयन्ननाह - `उत्तमशब्दः स्वभावात्` इत्यादि। अध्युत्पन्न एव ह्रुत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमाह, न व्युत्पन्नः। स हि चतुष्प्रभृतीनामन्त्यमाह, तस्मात् `उत्तमशब्दः स्वभावात्` इत्यादिना ग्रन्थेनाव्युत्पन्नस्योत्तमशब्दस्येह ग्रहणमिति दर्शितं भवति। तदेवमव्युत्पन्नस्य ग्रहणे वाराहीत्येतदपि सिद्धं भवति।`टिड्ढाणञिति ङीबेव भवति` इति। प्रमादपाठोऽयम्। यथैव हि बैदीति जातित्वादञन्तात् `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] इति ङीन् भवति, तथेहापि ङीनैव भवितव्यम्। जातित्वं तु गोत्रत्वात्। तस्मात् `शाङ्र्गरवाद्यञो ङीन् इति ङीनेव भवति` इत्ययमेवात्र पाठो द्रष्टव्यः।`वासिष्ठी, वैआआमित्री` इति। `ऋष्यन्ध` [[4.1.114]] इत्यादिनिऽण्। `औपगवी, कापटवी` इति। उपगुकपटुशब्दाभ्यामौत्सर्गिकोऽण्, <<ओर्गुणः>> [[6.4.146]] ।`आहिच्छत्री। वैआआमित्री` इति। <<तत्र जातः>> [[4.3.25]] इत्यण्॥", "41079": "गोत्रञ्च तदवयवञ्चेति गोत्रावयवः। इह त्वभिधानेऽभिधेयोपचारं कृत्वा तदभिधायिप्रातिपदिकं गोत्रावयव शब्देनोक्तम्। ननु चैवं विग्रहे विशेषणत्वादवयवशब्दस्य नीलोत्पल इव नीलशब्दस्य पूर्वनिपातः स्यात्। राजदन्तादेराकृतिगणत्वाद्विशेषणस्य परनिपातो भविष्यति। गोत्रं पुनरिह लौकिकं गृह्रते, न पारिभाषिकम्। लोके च प्रधानभूत आदिपुरुषः स्वप्रभवस्यापत्यसन्तानस्य संज्ञाकारी गोत्रमुच्यते। तथा हि भरतो नाम कश्चिदाद्यः प्रधानः पुरुषोऽभूत्, तेन सर्व एव तत्पूर्वकाः पुत्त्रपौत्त्रादयो भरता इति व्यपदिश्यन्ते। अवयवशब्दोऽयमस्त्येवैकदेशे, तत्सम्बन्धादवयवीति समुदाय उच्यते। अस्ति च पृथग्भावे -अवयुतिः = अवयवः, पृथग्भूत इत्यर्थः। यद्यपि यौतिर्मिश्रणे पठते, तथाप्यनेकार्थत्वाद्धादूनामवपूर्वः पृतघ्भावमाचष्टे। अस्त्यप्रधाने, यथा - कुलावयवोऽयम्, सङ्घावयवोऽयमिति। कुलसय् सङ्घस्य चाप्रधानभूतोऽयमिति गम्यते। तत्र यदेयकदेशवाची गृह्रते तदुपादानमनर्थकं स्यात्, गोत्रादित्येव वक्तव्यम्। गोत्रादवयवोऽपि हि गोत्रं भवति, यथा - क्षीरावयवः क्षीरमिति। अथापि पृथग्भावे गोत्रादन्यत्र वर्तमानो गृह्रते, एवमपि पुणिकादिभ्यो विहितयोरणिञो विहितौ; अनिष्टञ्चैतत्; तस्यैकदेशवाचिनि पृथग्भाववाचिनि वाक्यशब्दे दोष इत्यत्राप्रधानवाच्येव गृह्रते। `गोत्रावयवाः` इति। पुणिकादिश्रुतीनामेतद्विशेषणम्। अप्रधानगोत्राभिधायिन्य इत्यर्थः। `गोत्रभमताः` इति। गोत्रमित्येवमभिमता गोत्राभिवायिन्य इत्येवं लोके प्रसिद्धाः। न पुनर्गोत्राध्याये पठिता इत्यर्थः। अत एव तासामप्रधान्यम्; गोत्राध्यायेऽपठितत्वात्। `कुलाख्याः` इति। कुलम् = गोत्रम्, आख्यायत आभिरित्याख्याः, गोत्रेणेत्येवमादि। `ततः` इति। यथोक्तविशेषणविशिष्टाभ्यः पुणिकादिश्रुतिभ्यः। यदि तर्हि ततो गोत्रविहितयोरणिञोः ष्यङ् भवत्येवं सत्यपार्थकोऽयं योगः, पूर्वेणैव सिद्धत्वात्? इत्यत आह - `अगुरुपोत्तमर्थ आरम्भः`इति। `पौणिक्या` इत्यादि। पुणिकभुणिकमुखरशब्देभ्यः `अत इञ्` [[4.1.95]] इतीञन्तस्य ष्यङश्चाप्॥", "41080": "`क्रौजीत्येवमादिभ्यश्च स्त्रियां ष्यङ्प्रत्ययो भवति` इति। ननु चाचेशपक्षः पूर्वमाश्रितः, तत् किमर्थमिह प्रत्ययपक्ष आश्रीयते? तदाश्रयणेऽप्यत्र दोषो नास्तीति प्रदर्शनार्थः। `अगुरूपोत्तमार्थ आरम्भः` इत्यादि। येऽत्रान्ता इञन्ताश्च पठन्ते तान् त्ययमगुरूपोत्तमार्थ आरम्भः। ये त्वन्ये, तान् प्रत्ययमणिञर्थः। तत्राद्याः क्रौडआदयः प्राक् चौपयतशब्दादिञन्ताः।चौपयतप्रभृतयस्त्वणन्ताः प्राक् सौधातकिशब्दात्। सौधातकिशब्दस्तु `सुधातोरकङ् च` [[4.1.97]] इतीञन्तः। `सूत युवत्याम्` इति। सूतशब्दाद्युवत्यां प्राप्तयौवनायां ष्यङ् भवति - सूत्या, अन्यत्र टाबेव -सूता। `भोज क्षत्त्रिये` इति। भोजशब्दात् क्षत्त्रियजातौ वाच्यायां ष्यङ भवति। जातिलक्षणस्य ङीषोऽपवादः -भोज्या, अन्यत्र टाबेव भवति - भोजा। तत- परे प्राग्गौकक्ष्यशब्दादिञन्ताः। स पुनर्गर्गादियञन्तः॥", "41081": "`गोत्रे पूर्वेण नित्यः` इत्यादि। यदा पौत्रप्रभृतावपत्य इञ् विधीयते तदा पूर्वेण `अणिञोः` [[4.1.78]] इत्यादिना नित्ये प्राप्ते विकल्प्यते। यदा त्वनन्तरापत्ये तदाऽप्राप्त एव पक्षे विधीयते॥", "41082": "`स्वार्थिकप्रत्ययवधिश्चायमधिकारः`इति। स्वार्थे प्रकृत्यर्थे भवाः स्वार्थिकाः , अध्यात्मादित्वाट्(वा।456) ठञ्। स्वार्थिकाः प्रत्यया अवधिर्मर्यादा यस्य स तथोक्तः। `प्राग्दिशो विभक्तिरिति यावत्` इति। अनेन यतः परेण स्वार्थिकाः प्रत्यया अवधिभूताः प्रवर्तन्ते तत्सूत्रं दर्शयन् <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इत्येतत्सूत्रात् प्रागयमधिकार इच्याचष्टे। किं पुनः कारणं स्वार्थिकेष्वयमप्यधिकारो न प्रवर्तते? इत्याह - `स्वार्थिकेषु` इत्यादि। `समर्थानाम्` इति। सम्बद्धार्थानमामित्येषोऽर्थः। सम्बद्धार्थता च द्विष्ठत्वात् प्रतियोगिनि सति भवति, स्वार्थिकानाञ्च प्रकृत्यर्थादर्थान्तरं न सम्भवति यत्प्रत्ययायनाय शब्दान्तरं प्रयुज्येत,यदपेक्षया च समर्थता स्यात्। तस्मात् समर्थतावा अभावात् स्वार्थिकेषु समर्थानामित्येतत् तावन्नोपयुज्यते। अत एव प्रतियोगिनोऽभावात् प्रथमादित्येतदपि नोपयुज्यत एव। यदि हि प्रतियोगिशब्दान्तरं स्यात्, तत आशङ्का स्यात् - किं प्रथमात् प्रत्ययः? उत द्वितीयादिति? ततश्च तन्निवृत्तये प्रथमादिति वचनमनुवर्तमानमर्थवत् स्यात्। असति तु द्वि#ईतीये प्रतियोगिनि तदनुवृत्तिर्नोपयुज्यते। `विकल्पोऽपि तत्रानवस्थितः`इति। अनियत इत्यर्थः। यतः केचित् स्वार्थिका नित्यमेव भवन्ति। तथा च `अषडक्षाशितङ्ग्वलंकर्मालम्` [[5.4.7]] इत्यादौ सूत्रे भाष्यकारः परिगणनं करिष्यति - `के पुनर्नित्याः प्रत्ययाः? तमबादयः प्राक् कात्, ञ्यादयः प्राग्वुनः, आमादयः प्राङमयटः, बृहत्या जात्यन्तात् समासान्ताश्च` इति। तत्र <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इति तमप्प्रभृतयो ये प्रत्ययाः `प्रागिवात् कः` [[5.3.70]] इत्येतस्मात् प्राक् ते नित्याः। तथा <<पूगाञ्ञ्योऽग्रामणीपूर्वात्>> [[5.3.112]] इत्यतो ञ्यप्रत्ययात् प्रभृति `पादशतस्य संख्यादेर्वीप्सायां वुन्म लोपश्च` [[5.4.1]] इत्यतो वुनः प्राग्ये ते नित्याः। तथा <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यत आम्प्रभृति प्राक् तत्प्रकृतवचने मयटो ये प्रत्ययास्ते नित्याः। तथा <<बृहत्या आच्छादने>> [[5.4.6]] इति यो विहितः कप्रत्ययः`जात्यन्ताच्छोबन्धुनि` [[5.4.9]] इति च यश्चप्रत्ययो ये समासान्ता डजादयस्ते सर्वे नित्याः। तस्माद्विकल्पः स्वार्थिकेष्वनवस्थितः। ततश्च वाग्रहणमपि तत्रानवस्थितमेव क्वचिदनुवर्तते, क्वचिन्नेत्युक्तं भवति।इह प्रथमादिति विशेषणं प्रयोगवाक्यस्य? लक्षमवाक्यस्य वा? यदि प्रथमः ,ततो लौकिके वाक्ये पदानां प्रयोगे नियमो नास्तीति; पात्रमाहर, आहर पात्रमिति प्रयोगात्। ततश्च यदापत्यमुपगोरिति प्रयुज्यते तदापत्यशब्दात् प्रथमासामर्थ्यात् प्रत्ययः स्यात्। ननु च तस्येतनेन सूत्रोपात्तेनानुकरणपदेन षष्ठन्तेन प्रथमेनालौकिकवाक्यसमवायि पश्चान्निर्दिष्टमपि पदमनुकृतम्, तत् प्रथमत्वात् प्रथमव्यपदेशमासादयति। तेन यदाप्यपत्यमुपगोरिति लौकिकं वाक्यं प्रयुज्यते, तदोपगुशब्दादेव यथोक्तेनैव प्रकारेण लब्धप्रथमव्यपदेशात् प्रत्ययो भविष्यति; नापत्यशब्दात्। तदाद्येऽपि पक्षे समाश्रीयमाणे न दोष इति चेत्? वार्तमेतत्; न हि मुख्ये प्रथमे सम्भवपिसति गौणस्य ग्रहणं युक्तम्। अतः सत्यप्युपगुशब्दस्य गौणेन प्रथमत्वे मुख्यात् प्रथमादपत्यशब्दादेव प्रत्ययः स्यात्, नोपगुशब्दात्। प्रतिपत्तिगौरवञ्च। द्वितीये तु पक्ष एव दोषो नावतरति; लक्षमवाक्येषु पदानां प्रयोगस्य नियत्वात्। अतस्तमाश्रित्याह - `लक्षणवाक्यानि` इत्यादि। समर्थानां मध्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धारित इति, यथा - कृष्णा गवां सम्पन्नक्षीरतमेति, गवां मध्ये कृष्णा गौः सम्पन्नक्षीरतमात्वेन। यदि तर्हि समर्थानां प्रथमात् प्रत्ययो भवति, एवं सति <<तस्यापत्यम्>> [[4.1.92]] इत्यत्र तस्येत्येतत्सर्वनाम। सामान्यवाचि प्रथमं निर्दिष्टमिति सामान्यवाचिन एव प्रत्ययः स्यात्, न विशेषवाचिनः; प्रातिपदिकादुपग्वित्यादेः, न हि तल्लक्षमवाक्ये प्रथमं निर्दिष्टम्? इत्यत आह -`तस्य` इत्यादि। `विशेषलक्षणार्थम्` इति। विशेषोपलक्षणार्थमित्यर्थः। यदि हि तस्येत्येद्विशेषोपलक्षणार्थं न स्यात् तदा समर्थता तस्य न स्यात्। न हि तस्येत्येतत् प्रकरणाद्यनपेक्षं विशेषेष्वतिष्ठछते। न च विशेषेष्वनवस्थितेनानेनापत्यस्य कश्चिदुपकारः कृतो भवति; सम्बन्धिसामान्यस्य सम्बन्धिशब्दत्वात्, अपत्यशब्देनैव गमितत्वात्। ततश्चोपाकारभावात् समर्थता न स्यात्। उच्यतेचेदम् - तस्येति। तस्मात् सामर्थ्याद्विशेषोपलक्षणार्थत्वं तस्येत्यस्य। तेन ये विशेषा उपलक्षिताः = प्रतिपदितान्ते सम्बन्ध्यन्तरव्यवच्छेदेन विशिष्टं सम्बन्धिनं प्रतिपादयन्त उपकारिणो भवन्तीत्युपपद्यते तैः सह सामर्थ्यम्। तस्मात् तस्येतत् सामान्यं विशेषोपलक्षणार्थं द्रष्टव्यम्। तेन तस्य यत् प्राथम्यं तद्विशेषाणामुपगुशब्दादीनां विज्ञायते। ततश्च तत एव प्रत्ययो भवति, न च सामान्यवाचिनः।`कम्बल उपगोरपत्यं देवदत्तस्य` इति। अत्रोपगुशब्दः कम्बलेन सह सम्बद्धः, नापत्येन। अपत्यशब्दस्यापि देवदत्तशब्देन, नोपगुशब्देन। तस्मादपत्यशब्देन, सहोपगुशब्दस्य सम्बन्धो नास्तीति न ततः प्रत्ययो भवति।`वाक्यमपि हि यथा स्यात्` इति। असति हि वाग्रहणे वाक्येनापत्यस्याभिधाने प्राप्तेतस्मिन्नर्थे विधीयमानः प्रत्ययस्तन्निवर्तयेत्। ननु च समानेऽर्थे शास्त्रान्वितोऽशास्त्रान्वितस्य निवर्तको भवति, यथा - `गमेर्डोः` (द।उ।2।11) इत्यनेन शास्त्रान्वितो गोशब्दोऽशास्त्रान्वितस्य गावीशब्दस् समानार्थस्यैव, न तु भिन्नार्थस्य डित्थादेः। न च वृत्तिवाक्ययोः समानोऽर्थः, वृत्तौ ह्रेकार्थीभावः सामर्थ्यम्, वाक्ये तु व्यपेक्षा? नैतदेवम्; सत्यपि ह्रेतस्मिन्नर्थभेदे प्रधानार्थो न भिद्यते, तथा हि - उपगोरपत्यमानयेत्युक्ते य एवार्थोऽपत्यात्यवत्सम्बन्धविशिष्टः स आनीयते। औपगवमानयेत्युक्ते स एव। प्रधानापेक्षयैव च समानार्थः शास्त्रन्वितोऽशास्त्रान्वितं निवर्तयति, अन्यथा हि गोशब्दोऽपि गावीशब्दं न निवर्तयेत्। अस्ति हि तयोरप्यर्थभेदः, तथा हि - गोशब्दो गोत्वमाचष्टे, गावीशब्दस्तु तथा, अशास्त्रियत्वञ्च। तस्मादसति वाग्रहणे यथा गोशब्दः सत्यप्यप्रधानार्थभेदे प्रधानार्थस्य समानर्थाद्गावीशब्दं निवर्तयति, तथा तद्धितोऽपि शास्त्रान्वितोऽशास्त्रन्वितं वाक्यं निवर्तयेत्। तस्माद्वाक्यमपि यथा स्यादिति वाग्रहणं क्रियते। `यद्येवम्` इत्यादि। यदि वाग्रहणेन तद्धितस्य भावाभावौ कुर्वता वाक्यस्य भावः क्रियते, एवं सति यदा वाक्यं नास्ति तदा तद्धितेनैव भवितव्यम्। समासवृत्तिरुपग्वपत्यमित्येषः तद्धितवृत्त्या बाध्येत। `नैष दोषः` इत्यादि। गतार्थम्॥", "41083": "`प्राग्दीव्यत्` इत्ययुक्तोऽयं निर्देशः , यावता `दीव्यति` [[4.4.2]] इति वक्ष्यति, न तु दीव्यदिति, तत्र दीव्यतीशब्दस्यावधित्वेनोपादाने दीव्यतेरिति निर्देशेन भवितव्यम्? इत्यत आह - `तदेकदेशः`इत्यादि। समस्तस्य दीव्यतिशब्दस्यावधित्वेनोपादाना#ए सति न युज्येतायं निर्देशः, न तु समस्तस्योपादानम्, अपि तु तदेकदेशस्य दीपव्यच्छब्दस्येत्यदोषः। अथ किमर्थं दीव्यद्ग्रहणं प्राग्ग्रहणञ्चत, नणित्येवाधिकारः क्रियताम्? नैवं शक्यम्ेवं हि क्रियमाणे <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्येवमादिनाऽधिकारान्तरेण विच्छिननस्याणः `तेन रक्तं रागात्` [[4.2.1]] इत्येवमादिषु पुनग्र्रहणं कर्तव्यं जायेत। अवधिनाधिकारपरिमाण आख्याते तदवधिकेष्वर्थेषु सर्वेष्वयमभ्यनुज्ञायत इतिपुनरण्ग्रहणं कर्तव्यं न भवति। तस्मादधिकारपरिमाणज्ञापनार्थं दीव्यद्ग्रहणं तावत्कर्तव्यम्। प्राग्ग्रहणमपि कर्तव्यमेव तस्यैवावधित्वद्योतनार्थम्। असति हि तस्मिन् `दीव्यतोऽण्` इत्युच्यमाने प्रकृतिरणो दीव्यच्छब्दो विज्ञायेत। `त्रिष्वपि दर्शनेषु` इत्यादि। कथं पुनरियमपवादविषयपरिहारेणाणः प्रवृत्तिर्लभ्यते, यावताधिकारे तस्मिन् सति प्रतियोगमुपस्थानादपवादविषयेऽप्यण् प्राप्नोति - `अत इञ् अण् च` इति, अन्यथा हि तस्य तत्रोपादानमनर्थकं स्यात्? परिभाषापक्षेऽपि प्राग्दीव्यतोऽर्थेष्वणित्यविशेषेण परिभाषिते सामान्येन परिभाषा प्रवर्तमाना केनापवादविषयं परिहरेत्? विधावपि प्राग्दीव्यतो याः प्रकृतयस्ताः सर्वा इहैकध्यमुपनीयाण् विधीयमानः सर्वतः प्रवर्तेत, अन्यथा सर्वतो विधानमनर्थकं स्यात्? एवं मन्यते - ज्ञापकादपवादविषये न भविष्यतीति, यदयं क्वचिद्वाग्रहणमन्यतरस्यांग्रहणञ्च करोति - <<पीलाया वा>> [[4.1.118]] , `उदइआतोऽन्यतरस्याम् [[4.2.18]] इति,तज्ज्ञापयति - नापवादविषयेऽण् भवतीति। विधौ तु भूयान् परीहारः। न हि प्राग्दीव्यतो याः प्रकृतयस्ताभ्योऽण् विधीयते, किं तर्हि? प्राग्दीव्यतो येऽर्थास्तेषु। तत्र समानार्थे प्रकृतिविशेषादुत्पाद्यमान इञणं बाधिष्यत इति। अथ किमर्थमियानवधिरुपादीयते, न प्राक् ठक इत्येवोच्येत, <<प्राग्वहतेष्ठक्>> [[4.4.1]] इत्येतस्माट्ठकः प्रागित्यर्थः? नैवं शक्यम्; <<दध्नष्ठक्>> [[4.2.18]] इत्येवमादिरपि ठगवधित्वेन विज्ञायते। `प्राक् कंसीयात्` इत्येवं तर्हि वक्तव्यम् - `कंसीयपरशब्दयोर्यञञौ लुक् च` [[4.3.168]] इति,तत्र यः कंसीयशब्दस्ततः प्रागित्यर्थः? एवमप्यशक्यं वक्तुम्; <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्येतयापि कंसीयादुत्पद्येत, ततश्च द्वयोः कंसीययोर्विकारो द्विकंस इत्यत्र लुङ्न स्यात्। तस्माद्यथान्यासमेवास्तु॥", "41084": "", "41085": "`पत्त्युत्तरपदाच्च` इति। एतेनोत्तरपदशब्दः पतिशब्देनैव सम्बध्यते, नान्यैर्दित्यादिभिरिति दर्शयति। एतच्च प्रत्यासत्तेव्र्याख्यानाद्वा लभ्यते।`यमाच्चेति वक्तव्यम्` इत। यमशब्दाच्च ण्यप्रत्ययो भवीत्येतदर्थरूपं व्याख्येयम्। तत्रेयं व्याख्या - इह लाघवार्थं पत्यन्तादिति वक्तव्ये पत्युत्तरपदादित वचनमधिकविधानार्थम्\t। ग्रन्थाधिक्यादर्थाविषयं भवतीति। तेन यमशब्दादपि ण्यो भविष्यतीति। अथ वा - पूर्वसत्राच्चकारोऽनुवर्तते,तस्मादनुक्तसमुच्चतयार्थत्वाद्भविष्यतीति।\t`वाङमतिपितृमताम्` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु तदेव ग्रन्थाधिक्यादर्थाधिक्यमाश्रित्य चकारस्यानुक्तसमुच्चयार्थस्यानुवृत्तेर्वा कर्तव्यम्। याम्यमित्यादिषु यथायोगं प्राग्दीव्यतीयेपत्यादावर्थे ण्यप्रत्ययः।`पृथिव्या ञाञौ` इति। एते ञादयः - <<तद्धिताः>> [[4.1.76]] इति बहुवचनेनानुक्ततद्धितपरिग्रहार्थेन सिद्ध्यन्तीति न वक्तव्याः। तत्र पृथिवीशब्दाद्यदा ञस्तदा टाप् - पार्थिवा, यदा त्वञ् तदा `टिड्ढाणञ्` [[4.1.15]] इति ङीप् -पार्थिवी। `बहिषष्टिलोपश्च` इत्यादि। ननु च `अव्ययानां भमात्रे टिलोपः सायंप्रातिकाद्यर्थः` (वा।802) इत्येनैव टिलोपसिद्धिः, तत्किमर्थं पुनरुच्यते? इत्यत आह - `टिलोपपवचनम्` इत्यादि। `आरातीयः` इति। अनित्यत्वाज्ञापनस्य प्रयोजनम्। आराद्भवतीति <<वृद्धाच्छः>> [[4.2.114]] ।`स्थाम्नोऽकारः`(इति)। स्थामन्शब्दस्य केवलस्यापत्यार्थे प्रयोगो नास्तीति तदन्तस्याकारप्रत्ययो विज्ञेयः। अआस्येव स्थामास्येत्यआत्वामा, पृषोदादित्वात् सकारस्य तकारः। अआत्थाम्नोऽपत्यमआत्थामः, <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः।`लोम्नोऽपत्ये` इति। लोमशब्दो बाह्वादिषु पठते, तस्य केवलस्यापत्येन सम्बन्धो नास्तीति तदन्तविदिर्विज्ञायते। अत्रापत्यविवक्षायां बहुष्विञि प्राप्ते तदपवाद एवाकारो विधीयेते। उडुलोम्नोऽपत्यानि बहून्युडुलोमाः।`सर्वत्र` इति। अपत्ये च अन्यत्र च।अथ वा - प्राग्दीव्यतीये चान्यत्र चार्थेऽजादिप्रत्ययप्रसङ्गं इति। अजादेः प्रत्ययस्य प्रसङ्गः = प्राप्तिः। तत्र गोशब्दात् सर्वत्र यद् भवति। यद्येवम्, <<उगवादिभ्यो यत्>> [[5.1.2]] इत्यत्र गोग्रहणं किमर्थम्? अस्यैव प्रपञ्चार्थम्। `गव्यम्` इति। गोरपत्यम्, गवा चरतीति वा। अणष्ठको वाऽजादेर्यत्रार्थे प्रसङ्गस्तत्र यद्भवति, नान्यत्र। `गोरूप्यम्, गोमयम्` इति। `हेतुमनु,येभ्योऽन्यतरस्यां रूप्यः` [[4.3.81]] , `मयट् च` [[4.3.82]] ।`ण्यादयः` इत्यादि। लक्षमशब्दो निमित्तवचनः,चिह्नवचनो वा। अर्थविशेषो लक्षणं यस्य सोऽर्थविशेषलक्षणोऽणपवादः। तस्मात् पूर्वविप्रतिषेधेन ण्यादयो भवन्ति। न चेदं वक्तव्यम्; परशब्दस्येष्टवाचित्वात् तेनैव सिद्धत्वात्। आदिशब्देन <<उत्सादिभ्योऽञ्>> [[4.1.86]] इत्येवमादयः प्रत्यया गृह्यन्ते। तत्र ण्यस्यावकाशः भवति - दैत्यः, वानस्पत्यमिति। ण्यश्चायं सर्वेष्वपत्यादिष्वर्थेषु विधीयत इति सामान्यप्रत्ययो भवतीति, अतो नार्थविशेषलक्षणः। अर्थविशेषलक्षमस्याणपवादस्यावकाशः - दुलेरपत्यमिति `इतश्चानिञःट [[4.1.122]] इति ढक् - दौलेयः, ढगयमपत्य एवार्थवेशेषे विधीयत इत्यर्थविशेषलक्षणो भवति। इहोभयं प्राप्नोति - दितेरपत्यं दैत्यः, वनस्पतीनां समूहो वानस्पत्यमिति वा, ण्यप्रत्ययो भवति पूर्वविप्रतिषेधेन। अर्थविशेषलक्षणादिति किम्? योऽणपवादोऽर्थसामान्येनार्थविशेषे विहितः स परत्वाण्ण्यादीन् बाधित्वा भवत्येव। उष्ट्रपतिर्नाम पत्त्रम्। तस्योष्ट्रपतेरिदमिति तस्येदं विवक्षायाम् <<पत्राध्वर्युपरिषदश्च>> [[4.3.123]] इत्यञ् - औष्ट्रपत्यम्, तस्येदंलक्षणो ह्रयमञणोऽपवादः, न योऽर्थविशेषलक्षणस्तस्य। अर्थविशेषा ह्रपत्यादयोऽर्थाः। तस्येदमर्थस्तु सामान्यम्, नार्थविशेषः।`कथं वैतेयः`इति। यदि ण्यादयोऽर्थविशेषलक्षणादणपवादात् पूर्वविप्रतिषेधन भवन्ति, दैतेय इति न सिध्यति। अत्रापि हि ण्यप्रत्ययेनैव भवितव्यमिति भावः। `दितिशब्दात्` इत्यादि। दितिशब्दोऽयं `दो अवखण्डने` (धातुपाठः-1148) इत्यस्मात् `क्तिच्क्तौ` [[3.3.174]] इति क्तिच्, `द्यतिस्यति` [[7.4.40]] इत्यादिनेत्त्वमित्येवं यदा व्युत्पाद्यते तदा `कृदिकारादक्तिनः` (ग।सू।50) इति ङीष्। अथाव्युत्पन्नं प्रातिपदिकं तदा `सर्वतोऽक्तिन्नर्थादित्येके` (ग।सू।51) इति। ननु `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इति दितिशब्दो गृह्रमाणो दितीशब्दमपि ग्राहयति, ततश्च यथा दितिशब्दाण्ण्यप्रत्ययः पूर्वविप्रतिषेधेन भवति, तथा दितीशब्दादपि तेन भवितव्यमित्यत आह -`लिङ्गविशिष्टपरिभाषाऽनित्या` इति। अनित्यत्वं पुनरस्याः `अच्प्रकरणे शक्तिलाङ्गलांकुशयष्टितोमरघटघटीधनुःषु ग्रहेरुपपसंख्यानम्` (वा।235) इति घटशब्दोच्चोरणाद्वेदितव्यम्॥", "41086": "`तदपवादानाञ्च` इति। इञादीनाम्। `वष्कयाऽसे` इति गणे पठते। तस्यायमर्थः- वष्कयशब्दादञ् भवति, असे असमासे इत्यर्थः। पूर्वाचार्यैः समासस्य `स` इत्येषा संज्ञा कृता। वष्कयस्यापत्यं वाष्कयः। अस इति किम्? `गौवष्कयिः`। `अत इञ्` [[4.1.95]] इतीञेव भवति। `उदस्थानाद्देशे` इति। उदस्थानशब्दाद्देशे वाच्येऽञ् भवति। उदस्थाने भवो देश औदस्थानः। देश इति किम्? उदस्थानो नाम कश्चित्पुरुषः, तस्यापत्यमौदस्थानिः। `पृषदंशे` इति। पृषच्छब्दादंशेऽभिधेयऽञ् भवति। पृषदोंऽशः पार्षदः। अंश इति किम्? पार्षदोऽन्यः। अणेव भवति। कुरुशब्दोऽत्र पठते, तस्यापत्यविवक्षायां कौरव इति न सिध्यति,यस्मात् <<कुर्वादिभ्यो ण्यः>> [[4.1.151]] <<कुरुनादिभ्यो ण्यः>> [[4.1.172]] इतिच ण्यप्रत्ययः प्राप्नोति। अञ्प्रत्ययो हि सामान्यविहितः, ण्यप्रत्ययस्तु विशेषविहितः। सामान्यविहितश्च विशेषविहितेन बाध्यते? नैष दोषः; अयं योगस्तयोर्योगयोरनुवर्तिष्यते; तत्राप्यपत्येऽर्थे कुरुशब्दोऽनवकाश इत्यञपि ततो भविष्यति। अपत्यार्थस्य <<तस्येदम्>> [[4.3.120]] इत्यर्थविवक्षायां वा कौरव इति भविष्यति।`ग्रीष्मादच्छन्दसीति वक्तव्यम्` (इति)। ग्रीष्मशब्दादच्छन्दस्यभिदेयेऽञ् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह - `इह मा भूत्` इत्यादि। छन्दसि त्रिष्टुवादौ वाच्ये सन्धिवेलादिसूत्रेण [[4.3.16]] ऋत्वणेव यथा स्यात्, अञ्मा भूदित्येवमर्थम्। तेन ग्रैष्मी त्रिष्टुवित्यञ् न भवति। तत्रेदं व्याख्यानम् - वेति वर्तते, सा च व्यवस्थितविभाषा। तेन ग्रीष्मशब्दाच्छन्दसि वाच्येऽञ् न भवतीति। `वृत्तं गृह्रते` इति। यस्य त्रिष्टुज्जगतीत्यादयो विशेषास्तदिह वृत्तम्; अतश्छन्दो गृह्रते, न वेदः॥", "41087": "`अत्र तावत् स्त्रीशब्दस्य स्वरूपग्रहणम्, न टाबादिस्त्रीप्रत्ययन्तस्य शब्दस्य। ततो हि <<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढकं वक्षति, तत्साहचर्यात् पुंशब्दोऽपि तद्धर्मैव विज्ञायते। तस्यापि स्वरूपग्रहणेव। `पौस्नम्` इति। `संयोगानतस्य लोपः` [[8.2.23]] इति लोपः।यदि प्राग्भवनसंशब्दनात् स्त्रीपुंसाभ्यां नञ्सनञौ भवतः, वत्यर्थेऽपि तौ स्याताम्, ततश्च स्त्रीवत्, पुंवदिति न सिध्येदित्याह- `स्त्रियाः पुंवत्` इत्यादि। यदयम् `स्त्रियां पुंवत्` [[6.3.33]] इति निर्देशं करोति ततो ज्ञायते - वत्यर्थे नञ्स्नञौ न भवतः। ननु चैतस्मान्निर्देशात् स्नञ्प्रत्ययो वत्यर्थे न भवतीति शक्यं विज्ञातुम्, न तु नञ्प्रत्ययो न भवतीति, ततश्च स्त्रीवदिति न सिध्यति? इत्यत आह - `योगापेक्षञ्च` इत्यादि। `पुंवत्` इति निर्देशादयं योगो वत्यर्थे न प्रवर्तते - इत्यवमर्थमिदं योगापेक्षं ज्ञापकम्, न तु स्नञ्प्रत्ययापेक्षम्। तेन स्त्रीवदित्येतदपि सिध्यति॥", "41088": "`प्राग्दीव्यतः` इति। तस्य स्वरितत्वात्। `न भवनात्िति। विपर्ययात्। द्विगोरिति पञ्चमी चेयं स्यात्? षष्ठी वा? तत्र यदि पञ्चमी, तदायमर्थः स्यात् - द्विगोः परस्यानप्रत्यप्रत्ययस्य प्राग्दीयव्यतीयस्य लुग्भवतीति। ततश्च यथा द्विगुसंज्ञानिमित्तस्य लुग्भवति - पञ्चकपालेषु संस्कृतः पुरोडाशः पञ्चकपाल इति, तथा यो द्विरगोर्निमित्तं न भवति तस्यापि स्यात् - पञ्चकपालस्य पुरोडाशस्येदं खण्डम्। <<तस्येदम्>> [[4.3.120]] इत्यण् - पाञ्चकपालमिति। तमिमं पञ्चमीपक्षे दोषं दृष्ट्वा, षष्टीपक्षमाश्रित्याह - द्विगोरिति षष्ठी` इति। `द्विगोर्यः सम्बन्धी` इति। यस्य तद्धितस्यार्थे <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति समाहारद्विगुर्विधीयते स द्विगोः सम्बन्धीति; अर्थद्वारेण तदर्थस्य द्विगुसम्बन्धित्वात्। सोऽपि तद्द्वारेण द्विगुसम्बन्धी। `निमित्तत्वेन`इति। अनेन निमित्तनैमित्तिकभावेन यः सम्बन्धो तस्य लुग्भवति, न तु पौर्वापर्यभावेन यस्तस्येति दर्शयति। एतच्च निमित्तनैमित्तिकभावस्यान्तरङ्गत्वाल्लभ्यते। स हि द्विगोराद्यस्तद्धितेन सम्बन्धः; तस्मात् स गृह्रते। पौर्वापर्यभावस्तूत्तरकालमपि भवतीति बहिरङ्गो भवति, अतो न तस्य ग्रहणम्। `पञ्चकपालः` इति। पञ्चसु कपालेषु संस्कृत इति `तद्धितार्थ` [[2.1.50]] इति समासः, <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसंज्ञा, <<संस्कृतम्>> [[4.4.3]] इत्यण्, तस्य लुक्। `द्विवेदः`इति। द्वौ वेदावधीत इति पूर्ववत्समासः, <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्।`द्वैदेववत्तिः` इति। द्वयोर्देवदत्तयोरपत्यमिति `अत इञ्` [[4.1.95]] । `पञ्चकपालस्येदमिति पाञ्चकपालम्` इति। अत्र संस्कृतार्थे यः प्रथमः प्रत्यय उत्पन्नः स एव द्विगोर्निमित्तम्, न तु य उत्तरकालं तस्येदमित्यर्थविवक्षायाम्। न हि तस्यार्थे विषयभूते द्विगुर्विहितः, किं तर्हि? संस्कृतार्थे यो विहितस्तस्य। तेनाद्विगुनिमित्तत्वात् `तस्येदम्` इति यो विहितस्तस्येह लुग्न भवति। `अथ वा` इत्यादि। पूर्वं हि द्विगोर्यस्तद्धितो निमित्तं तस्य लुग्विहितः, इदानीं द्विगोरेव विधीयत इत्यस्ति विशेषः। कथं पुनर्द्विगोरेव लुग्भवति? इत्यत आह - `द्विगोरिति स्थानषष्ठी` इति।`ननु च` इत्यादिनानन्तरोकक्तव्याख्यानं विघटयति। <<प्रत्ययस्य लुक्श्लुलुपः>> [[1.1.61]] इतिलुगादिकाः प्रत्ययादर्शनस्यैताः संज्ञा विहिताः, ततो लुगुच्यमानोऽनेन न शक्तो द्विगोरेव लुकं विधातुमित्याभिप्रायः। `सत्यमेतत्` इति। यदनन्तरमुक्तम्। यद्येवम्, कथं लुक्संज्ञाया द्विगोर्लुग्लभ्यते? इत्यत आह - `उपाचारेण तु` इत्यादि। अतथाभूते वस्तुनि योऽध्यारोपिततथाभावो ज्ञानविशेषः स उपचारः। लक्ष्यतेऽनयेति लक्षणा, सापुनरिहोपचार एव `एतेन हृद्विगुरूपस्तद्धितो द्विगुरूपतया लक्ष्यते। यथा मञ्चाः क्रोशन्तीत्यत्रामञ्चरूपा अपि पुरुषा मञ्चरूपतया लक्ष्यन्ते, तथेहाप्यद्विगुरूपस्तद्धितो द्विगुरूपतया। उपचारस्य तु निबन्धनं द्विगुनिमित्तभूतत्वम्, यदाह - `\tद्विगुनिमित्तभूतः प्रत्यय एव द्विगुः` इति। भवति हि कारणे कार्योपचारः, यथा - आयुर्घृतमिति। `द्विगुनिमित्तकोऽपि तर्हि` इत्यादि। द्विगुर्निमित्तं यस्य स तथोक्तः। यो धर्म उपचारस्य निबन्धनं स इह गुणशब्देन विवक्षितः। गुणनिमित्ता कल्पना = गुणनिमित्तकल्पना, सा पुनरुपचारात्मिकैव वेदितव्या। यद्युपचारेण द्विगोर्निमित्तं प्रत्ययोऽपि द्विगुरुच्यते, द्विगुर्यस्य निमित्तं सोऽप#इ गौण्या कल्पनया कस्माद्द्विगुरिति नोच्यते? कार्येऽपि हि कारणशब्द उपचारात् प्रयुज्यमानो विद्यत एव, यथा - पुरातनं सर्वमिदं शुभाशुभं कर्म भुज्यत इति। `पाञ्चकपालम्` इति। पञ्चकपालस्य पुरोडाशस्येदं खण्डमित्यण्, स च द्विगोरुत्पन्नत्वाद्द्विगुनिमित्तक इत्यभिप्रायः। न तस्य द्विगुत्वं निमित्तमिति निष्पन्नत्वाद्द्वगोस्तद्धितस्योत्पद्यमानस्य न द्विगुत्वं निमित्तं, किं तर्हि? प्रातिपदिकम्। तथा हि - नासौ द्विगुरित्येवं विधीयते, किं तर्हि? प्रातिपदिकादित्येवम्। तस्मात् सन्निहिताऽपि द्विगुता न प्रत्ययस्य निमित्तमिति, न च प्रत्ययो द्विगुरित्युपचारेण व्यपदेष्टुं शक्यत इति। `इतरस्तु` इति। तद्धितप्रत्ययः, यस् मूलोदाहरणे लुग्दर्शितः। `द्विगुत्वस्यैव निमित्तम्` इति। एवकारेण प्रातिपदिकस्य व्यवच्छेदः क्रियते - द्विगुत्वस्यैव निमित्तम्, न तु प्रातिपदिकत्वस्य; यतस्तदर्थे द्विगुसमासो विधीयते,न तु प्रातिपदिकत्वमित्यस्ति विशेषः। ततश्च द्विगोर्यो निमित्तं तत्रैव द्विगुत्वव्यपदेश उपाचाराद्भवति। न तु निष्पन्नाद्द्विगोर्य उत्पद्यते तत्रापि।`यद्येवम्ित्यादि। यदि द्विगोर्यो निमित्तं तद्धितः सोऽत्र निमित्तत्वादुपाचारेण द्विगुरुच्यते तस्य लोपो भथवि। एवं सतीह कथं लोपः - पञ्चकपाल्यां संस्कृतः पञ्चकपाल इति? अत्र हि पञ्चानां कपालानां समाहार इति समाहारे द्विगौ निष्पन्ने ततस्तूत्तरकालं तद्धितो विधीयमानो न द्विगोर्निमित्तं भवति। `नैवात्र` इत्यादि परिहारः। कस्मान्नोत्पद्यत इत्याह - `त्रैशब्द्यं हि` इत्यादि। त्रय एव शब्दाः = त्रैशब्द्यम्। चातुर्वण्र्यादित्वात् स्वार्थे ष्यञ्। इहास्माभिस्त्रैशब्द्यं साध्यम्। पञ्चकपालीशब्दस्तद्धितोत्पत्तिमन्तरेणापि सिद्धतीति न तस्मात् तद्धित उत्पद्यते। `पञ्चसु कपालेषु संस्कृतः` इत्यादिना त्रैशब्द्यं दर्शयति। `द्वयोः शब्दयोः` इत्यादि। यश्च समाहारे पञ्चकपालीशब्दः, यश्च तद्धितार्थविषये समासे पञ्चकपालशब्दस्तौ द्वावपि समानार्थौ,तयोरेकेन पूर्वेण विग्रह एवेति तस्मान्न तद्धितोत्पत्तिर्विज्ञेया। `अपरस्मादुत्पत्तिः` इति। पञ्चकपालशब्दात्। अव्यविकन्यायेन। यथाऽवेर्मांसमाविकमित्यविशब्देन विग्रहः,अविशब्दस्तु प्रत्ययमुत्पादयति तद्वदिहापि।`अथेह कस्मान्न भवति` इत्यादि। रूप्यमयटावपि हि द्विगोर्निमित्तभूतौ, अतस्तयोरपि लुका भवितव्यमिति भावः। `वेत्यनुवर्तते` इति <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यतः। नन्वेवमपि सर्वत्र विकल्पेन लुक् प्राप्नोतीत्यत आह - `सा च` इत्यादि। च शब्दो हेतौ। यस्मात् सा व्यवस्थितविभाषा विज्ञायते, तेन पञ्चकपाल इत्यादौ नित्यं लुग्भवति। पञ्चगर्गरूप्यमित्यादौ न भवत्येव॥", "41089": "`अचि` इति। यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयता प्रसज्येत। कथम्? गर्गस्यापत्यानि बहुनि <<गर्गादिभ्यो यञ्>> [[4.1.105]] , तस्य यदि लुक् स्याच्छो न स्यात्। लुप्तेऽपि तस्मिन् <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति चेत्? <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलोपप्रतिषेधाद्वृद्ध्यभावेन वृद्धसंज्ञा न स्यात्, ततश्च वृद्धलक्षणच्छो न स्यात्। तस्माद्वृद्धत्वं प्रातिपदिकस्य वाञ्छतोऽलुक् पूर्व स्यात्। स चालुक छे परतो यदि भवति ततश्चालुग्विनिमित्तश्छः, तन्निमित्तश्चालुगितिव्यक्तमितरेतराश्रयत्वम्। तदिमं परसप्तम्यां दोषं दृष्ट्वा विषयसप्तमीयमिति दर्शयन्नाह -`अजादौ प्राग्दीव्यतीये विषयभूते` इति। विषयभूते = अनुत्पन्न एव बुद्धिस्थ इत्यर्थः। `गार्गीयाः` इति। गर्गस्यापत्यानि बहूनि। गर्गादित्वाद्यञ् [[4.1.105]] । तस्य गर्गाणाञ्छात्रा इत्यर्थविवक्षायामजादावनुत्पन्ने बुद्ध्यभिमुखीकृते विषयभूते <<यञिञोश्च>> [[4.1.101]] इतियो लुक् प्राप्नोति तस्यानेन प्रतिषेधः क्रियते, ततश्चादिवृद्धौ कृतायां तन्निबन्धनायां च वृद्धसंज्ञायाम् <<वृद्धाच्छः>> [[4.2.114]] इति च्छः, ईयादेशः, <<यस्येति च>> [[6.4.148]] इत्यकारलोपः, <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इत यकारस्य। `वास्तीयाः` इति। पूर्वेण तुल्यम्। `आत्रेयीयाः` इति। अत्त्रेरपत्यानि बहूनि। <<इतश्चानिञः>> [[4.1.122]] इति ढक्, तस्य `अत्त्रिभृगुकुत्स` [[2.4.65]] इत्यादिना लुकि प्राप्तेऽत्रीणां छात्रा इति च्छे विषयभूते तस्य प्रतिषेधः। `खारपायणीयाः` इति। खरपस्यापत्यानि बहूनि। <<नडादिभ्यः फक्>> [[4.1.99]] , <<यस्कादिभ्यो गोत्रे>> [[2.4.63]] इति तस्य प्राप्तस्य लुकः खरपाणां छात्रा इति च्छे विषयभूते प्रतिषेधः।`कौबलम्, वादरम्` इति। कुबलीवदरीशब्दौ गौरादिङीषन्तौ प्रत्ययस्वरेणान्तोदात्तौ, तयोः शेषमनुदात्तम्। तेन कुबल्या विकारः फलम्, वदर्या विकारः फलमित्यर्थविवक्षायाम्। <<अनुदात्तादेरञ्>> [[4.2.44]] तस्य <<फले लुक्>> [[4.3.163]] इति तयोर्लुग् यः प्राप्नोति तस्य कुबलस्येदं वदरस्येदमित्यर्थविवक्षायामजादौ छे विषयभूते प्रतिषेधो न भवति; गोत्रग्रहणात्। गोत्रे यः प्रत्ययो वाचकत्वेन वर्तते तस्य लुकः प्रतिषेधेन भवितव्यम्। न चायमञ् गोत्रे वाचकत्वेन वर्तते, अपि तु विकारे, तेन तस्य लुग्भवत्येव। तस्मिन् सति `लुक्तद्धितलुकि` [[1.2.49]] इति स्त्रीप्रत्ययस्यापि लुक्। अञि लुप्ते वृद्ध्यभावाद्वृद्धत्वं नास्तीत्यणेव भवति, न तु च्छः। `गर्गरूप्यम्, गर्गमयम्` इति। पूर्ववद्रूपमयटौ। यद्यत्रालुक् स्याद्गाग्र्यरूप्यं गाग्र्यमयमिति स्यात्। `गार्गीयम्` इति। <<तस्मै हितम्>> [[5.1.5]] इति `प्राक्क्रीताच्छः` [[5.1.1]] इति च्छः, स च प्राग्दीव्यतीयो न भवति; दीव्यतः परेण विधानात्। `गोत्रस्य` इति। गोत्रप्रत्ययस्य। `बहुषु लोपिनः` इति। बहुष्वर्थेषूत्पन्नस्य यस्य लोपो विधीयते स बहुषु लोपी। `बहुवचनान्तस्य प्रवृत्तौ` इति। प्रवृत्तिः = अर्थान्तरसंक्रान्तिः। एतदुक्तं भवति - बहुवचनान्तस्यार्थान्तरसंक्रान्ताविति। सा चार्थान्तरसंक्रान्ताविति। सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यूनि प्रत्यय उत्पद्यते तदा भवतीति वेदितव्यम्; तदा गोत्रान्तस्य यूनि प्रवृत्तेः। `द्वयेकयोः` इति। यदा गोत्रप्रत्ययान्तादेकस्मिन्नर्थे यूनि द्वयोर्वा यूनोः उत्पद्यते तदाऽर्थान्तरसंक्रान्तौ सत्यामलुग्भवति। बिदस्यापत्यानिबहुनि। `अनुष्यानन्तर्ये बिदादिभ्योऽञ` [[4.1.104]] इत्यञ्, स च <<यञञोश्च>> [[2.4.64]] इति बहुषु लुग्विधानाद्बहुषु लोपी भवति, तदन्ताद्युवविवक्षायामेकस्मिन् यूनि द्वयोर्वा `अत इञ्` (4।195), तस्य ण्यक्षत्त्रियादिसूत्रेण (2।458) लुकि कृते गोत्रप्रत्ययान्तस्य तस्यार्थान्तरसंक्रान्तौ सत्यां गोत्रप्रत्ययस्याञ इहापि बहुषूत्पन्नस्य लग्न भवति। कथं पुनर्न भवति, यावताऽलुको विषयाभावात् प्राग्दीव्यतीयोऽजातिरिञ् प्रत्यय उपनीतः? प्रत्ययलक्षणम्` (व्या।प।96) इति च परिभाषा। यथा गवे हितं गोहितमिति चतुर्थीसमासे सुब्लुकि कृते प्रत्ययलक्षणेन चतुर्थीविभक्तिमाश्रित्य गोशब्दस्य `एचोऽयवायावः` इत्यवादेशो न भवति; वर्णाश्रयत्वात्। वर्णाश्रयत्वं तु तस्याचि विधानात्। यथा च `वर्णाश्रये नास्ति प्रत्ययलक्षणम्ट (व्या।प।96) इति परिभाषा, तथा बैदः, बैदौ - इत्यत्राप्यलुका वर्णाश्रयतया न भवितव्यम्? नैतदस्ति, न ह्रलुगत्र वर्णाश्रयः, किं तर्हि? तद्धिताश्रयः। अचीत्येतत् त्विह सूत्रे विशेषणत्वेनोक्तम्। अत एव वृत्तावुक्तम् - अजादौ प्राग्दीव्यतीये प्रत्यय इति। तस्मात् तस्याः परिभाषाया इहोवस्थानेऽसति `गोत्रेऽलुगचि` इति भवतीति, अनेनैवात्रालुक् सिद्धः। स च बहुषु युवसु मा भूदिति द्वयेकयोरेवेत्युपसंख्यानम्। तत्र बिदा इत्येव भवति।`एकवचनद्विवचनान्तस्य` इत्यादि। एकवचनान्ततस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य च बहुष्वर्थेषु युवसंज्ञकेषु प्रवृत्तौ संक्रान्तौ सत्यां लुग्वक्तव्यः। तत्र बैदस्येत्येकवचनान्तं गोत्रम्, बैदयोरिति द्विवचनान्तम्। अत्र च पूर्ववदञ्, तयोर्युवापत्यबहुत्वविवक्षायाम् `अत इञ्` [[4.1.95]] । तस्य ण्यक्षत्त्रियादिसूत्रेण [[2.4.58]] लुकि कृतेऽञोऽपि गोत्रप्रत्ययस्य लुगिष्यते। स च न प्राप्नोति, तस्मादुपसंख्यायते। किं पुनः कारणं न प्राप्नोति? इत्याह - `न ह्यत्र` इत्यादि। <<यञञोश्च>> [[2.4.64]] इति अनेन हि बहुषूत्पन्नोर्लुग्विधीयते, न चाञ् हुहषूत्पन्न,किं तर्हि? एकस्मिन् द्वयोश्च, तस्मान्न प्राप्नोतीति। तदेवं सर्वथा बहुषु बिदा इत्येवं भवितव्यमिति स्थितम्॥", "41090": "`यूनि` इति। <<व्यत्ययो बहुलम्>> [[3.1.85]] इति षष्ठर्थे सप्तमी। अत एव वृत्तावाह -`युवप्रत्ययस्य` इति। अजादौ प्रत्यये विवक्षिते बुद्धिस्य इत्यादिनाऽचीति विषयसप्तमीत्वं दर्शयति। यद्येषां परसप्तमी स्यात्, यत्रापि च्छप्रत्ययो नेष्यते तत्रापि स्यात्। युवप्रत्ययान्तस्य बुद्धत्वादित्यभिप्रायः।`फाण्टाह्मतरूप्यम्, फाण्टाह्मतमयम्` इति। यद्यत्र लुक् स्यात्, फाण्टाह्मतरूप्यं फाण्टाह्मतमयमिति न स्यात्। `भागवित्तिकीयम्` इति। प्राक्क्रीतीयच्छः [[5.1.1]] पूववत्॥", "41091": "`गार्गीयाः, वात्सीयाः` इति। पूर्वपदकारयकारलोपः। `वा` [[4.1.82]] इति वर्तमानेऽन्यतरस्यां ग्रहणं `पूर्वसूत्रे नित्यो विधिः` इति ज्ञापनार्थम्॥", "41092": "`पूर्वैरुत्तरैश्च प्रत्ययैरभिसंबध्यते` इति। तत्र पूर्वैस्तावदणादिभिः सम्बध्यते; असंयुक्तविधानात्। अस्य यदि पूर्वैरभिसम्बन्धो न भवेत् `तस्यापत्यमत इञ्` इत्येकयोगमेव कुर्यात्। यतस्तु `अत इञ्` [[4.1.95]] इत्यनेन <<तस्यापत्यम्>> [[4.1.92]] इत्येतदसंयुक्तं करोति, ततोऽसंयुक्तविधानात्पूर्वार्थमेतद्विज्ञायत इत्येवं तावत्पूर्वैरभिसम्बध्यते। उत्तरैरप्यभिसम्बध्यते; तेष्वस्य स्वरितत्वात्। `तस्य` इति। पुंल्लिङ्गेन निर्देशः क्रियते, एकवचनेन च। तेन पुंल्लिङ्गादेवोत्पत्तिः स्यात्, एकवचनान्ताच्च। स्त्रीलिङ्गान्नपुंसकाच्च न स्यात् - देवदत्ताया अपत्यम्, कुलस्यापत्यमेवमादौ न स्यात्। द्विवचनबहुवचनान्ताच्च - द्वयोर्मात्रोरपत्यम्, तिसृणां मातृणामपत्येवमादौ न स्यात्। अथ नपुंसकलिङ्गेनायं निर्देशः? स्त्रीलिङ्गात् पुंल्लिङ्गाच्च न स्यात्। अपत्यमित्येकवचनेऽत्र निर्देशः क्रियते, तेनैकस्मिन्नेवापत्ये स्यात्, न द्वयोर्नापि बहुषु - उपगोरपत्ये औपगवौ; उपगोरपत्यान्यौपगवा इति। एतस्मिन् पूर्वपक्ष इदमाह - `प्रकृत्यर्तविशिष्टः` इत्यादि। `गृह्रते` इति वक्ष्यमाणेन सम्बन्धः। प्रकृत्यर्थ उपगवादिशब्दानामर्थः,तेन विशिष्टः षष्ठर्थोऽपत्यापत्यवत्सम्बन्धः। ननु च तस्यात्र तच्छब्दस्य सामान्यवाचिनो ग्रहणम्, तस्य कृत उपगवादिरर्थविशेषः, येन षष्ठर्थो विशिष्यते? तस्येत्यस्य विशेषोपलक्षणत्वाददोषाः। विशेषोपलक्षणत्वं चास्य प्रागेव प्रतिपादितम्। तस्माद्विशेष एवोपग्वादिः प्रकृत्यर्थः। `अपत्यमात्रञ्च` इति। मात्रशब्दोऽधिकस्य लिङ्गादेव्र्यवच्छेदाय।`लिङ्गवचनादिकम्` इति। आदिशब्देन कालस्य ग्रहणम्। वर्तमानेन हि कालेनायं निर्देशः क्रियते। यथोक्तम् - `यत्रापि साक्षादन्यक्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते` इति। तत्र वर्तमानकालविवक्षायां कालान्तरे न स्यात्। किं पुनः कारणं लिङ्गवचनादि न विवक्ष्यते? तस्याप्रधान्यात्। अवश्यं हि येन केनचिल्लिङ्गादिना निर्देशः कर्तव्य इति, नान्तरीयकत्वात्। तस्येहोपादानम्, यथा - धान्यार्थिनः पलालादेरप्रधानस्यापि।`तस्येदम्` इत्यादि। <<तस्येदम्>> [[4.3.120]] इत्येतत्सूत्रमपत्यार्थेऽपि वर्तते। यो ह्रुपगोरपत्यमुपगोरसावयमिति शक्यते व्यपदेष्टुम्। तस्येदमित्यस्य विशेषा ह्रेते - अपत्यम्, समूहः, निवासः, विकार इति। ततश्च <<तस्येदम्>> [[4.3.120]] इत्यनेनैवापत्यार्थेऽप्यण् सिद्धः, तत् किमर्थं तस्यापत्यमित्येतत् सूत्रं कृतम्? `बाधनार्थम् कृतं भवेत्` इति। <<तस्येदम्>> [[4.3.120]] इत्यनेन विधीयमानस्याणो यो बाधकः <<वृद्धाच्छः>> [[4.2.114]] इति च्छः प्राप्नोति, तद्बाधनार्थमिदं कृतम्। एतत्सूत्रविहितेनाणा छप्रत्ययस्य बाधनं यथा स्यात्। कथं पुनरशैषिकः शैषिकं बाधते? अपत्यादिभ्यश्चतुरर्थीपर्यन्तेभ्योऽन्योषडर्थः शैषिकाणां विषयः। अयं चापत्याच्छविषये नास्त्येव। तदसन्नयं कथं छप्रत्ययं बाधिष्यत इत्यत आह - `उत्सर्गः शेष एवासौ` इति। असत्यस्मिन् योग इत्यभिप्रायः। असावित्यनेन प्रकृतत्वात् तस्यापत्यमित्येषोऽर्थः प्रत्यवमृश्यते। उत्सर्ग उत्पन्नेनाप्यणा स एवार्थ उत्सर्गसाहचर्यादुच्यते। उत्सर्गसाहचर्यन्तु तस्य तत्रोत्सर्गस्याणादेर्विधानात्। इहापि क्रियमाणे <<तस्यापत्यम्>> [[4.1.92]] इत्येतस्मिन् योगे <<तस्येदम्>> [[4.3.120]] इत्येतस्मिन्ननुप्रवेशाद्यथान्यस्तद्विशेषः शेषो भवति तथाऽपत्यार्थोऽपि। अस्ति तस्याप्युपयुक्तापेक्षमन्यत्वम्, `चतुरर्थीपर्यन्तेष्वनन्तर्भावात्। ततश्च शेषत्वादपत्यार्थे च्छप्रत्ययः प्राप्नोति। अस्मस्तु योगे <<तस्येदम्>> [[4.3.120]] इत्यत्र शेषे नानुप्रविशति; उपयुक्तत्वात्। ततश्चाशेषत्वादपत्ये छप्रत्ययस्य छप्रत्ययस्य प्राप्तिर्नास्त्येव। सैवाप्राप्तिर्बाधनशब्देनोक्ता। अथ बाधनार्थस्यास्य किं प्रयोजनमित्याह - `वृद्धान्यस्य प्रयोजनम्` इति। वृद्धानि प्रातिपदिकान्यस्य योगस्य प्रयोजनम्। भानोरपत्यं भानवः, श्यामगोरपत्यं श्यामगव इत्यत्राण् सिद्धो भवति। असति त्वस्मिन् योकेऽपत्यार्थः पूर्वोक्तरीत्या शेषः स्यात्। ततश्च तत्र वृद्धेभ्यचः <<वृद्धाच्छः>> [[4.2.114]] प्रसज्येत॥", "41093": "`कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः`(व्या।प।6) इति परिभाषिकस्यैव गोत्रस्य ग्रहणम्। अपत्याधिकारे गोत्रग्रहणाच्च। अपत्यमात्रं हि लौकिकं गोत्रम्, तस्य यदीह ग्रहणमभिमतं स्यादेक इत्येवं ब्राऊयात्, लौकिकस्य गोत्रापत्याधिकारादेव लब्धत्वात्। तस्माद्गोत्रग्रहणाच्च पारिभाषिकस्य ग्रहणमत्याह -`अपत्यं पौत्रप्रभृति गोत्रम्` इति। `भेदेन` इत्यादि। भेदेन = विभागेन, अपत्यमपत्यं प्रति = प्रत्ययत्यम्। यावन्त्यपत्यानि सम्भवन्ति तेभ्योऽपि सर्वेभ्यः प्रत्ययानामुत्पत्तेः प्रसङ्गे प्राप्तौ सत्यामित्यर्थः। सर्वेषामपत्येन योगेन गर्गगार्गिगाग्र्यगाग्र्यायणानामन्यतमस्य यदपत्यं तत्सर्वेषामपत्यं भवतीति परमप्रकृतेरनन्तरगोत्रमुवलक्षणाः प्रत्ययाः प्राप्नुवन्ति। गर्गस्य यदपत्यं तत्सर्वेषां गार्गिगाग्र्यगाग्र्यायणानामपि सम्बन्धि भवति। तथा ह्यत्र यद्यपि गर्गस्यापत्यमिति गर्गशब्देन विग्रहः क्रियते, तथापि नायंनियमो लभ्यते - गर्गशब्दादेवोत्पत्तिरिति, अपि तु कामचारः। ततश्च यदा गर्गशब्दादुत्पत्तिर्भवति तदा गर्गादित्वाद्यञ् [[4.1.105]] , यदा गार्गिशब्दात् तदा <<यञिञोश्च>> [[4.1.101]] इति फक्, यदापि गाग्र्यशब्दात् तदापि स एव फक्, यदा गाग्र्यायमशब्दात् तदा `अत इञ्` [[4.1.95]] । एवं प्रत्यपत्यं विभागेन प्रत्ययानामुत्पत्तौ प्रसक्तायामनेन नियमः क्रियते - `एक एव प्रत्ययो भवति` इति। एतेन प्रत्ययनियम इति दर्शयति। प्रत्ययनियमस्त्वेकस्त्वेकशब्दस्य प्रत्ययशब्दसामानाधिकरण्याल्लभ्यते। एकशब्दश्चास्मिन्नियमे संख्यावचनो वेदितव्यः यथा -एकः,द्वौ, बहव इति। एवकारेण द्वयादिव्यवच्छेदः क्रियते - एक एव प्रत्ययो भवति,न द्वौ, नापि बहव इति। स चैकः प्रत्ययो भवन्नेकग्रहणात् परमप्रकृतेरेव भवतीति सामर्थ्यादुक्तं भवतीति। यदि हि गार्गिशब्दादुत्पद्येत्, द्वौ स्याताम् - इञ्फकौ, नैकः? अथ गाग्र्यशब्दादेवमपि द्वावेव - यञ्फकौ? अथ गाग्र्यायणशब्दात्, त्रयः स्युः - यञ्फगिञः। तस्मान्मूलप्रकृतेरेवोत्पत्तावेकः प्रत्ययः सिध्यतीत्येकग्रहणं कुर्वता सामर्थ्यान्मूलप्रकृतेरेव गोत्रप्रत्ययस्योत्पत्तिरुक्ता भवति। ननु चोत्पादयितैवापत्येन सम्बध्यते, एवं हि लोके दृश्यते - पितामहस्योत्सङ्गे दारकमासीनं दृष्ट्वा कश्चित् पृच्छति - कस्यायमिति? स आह - देवदत्तस्येति, तेनोत्पादयितारं व्यपदिशति, नात्मानम्? ततः सर्वेषामपत्येन योगाभावात् प्रत्यपत्यं भेदेन प्रत्ययोत्पत्तिप्रसङ्गो नास्त्येवेति निवर्त्त्याभावादिदं नियमार्थं नारब्धमित्यत आह - `सर्वेऽपत्येन युज्यन्ते` इति।अत्रैवोपपत्तिमाह - `अपतनादपत्यम्` इति। यन्निमित्तं हि यस्य् पापेष्वपतनं तदपतनात् तस्यापत्यं भवति। तस्माद्यो व्यवहितेन जनितः सोऽपि परमप्रकृतिवाच्यस्यार्थस्यापत्यं भवति,तस्यापि येनापतनात्। परमप्रकृतिग्रहणञ्चोपलक्षणं वेदितव्यम्। इतरप्रकृतिवाच्यस्यापि ह्रर्थस्याव्यवहितजनितोऽपत्यं भवत्येव। यत्पुनरुक्तम् - कस्यायमित्युक्ते उत्पादयितारं व्यपदिशति, नात्मानमिति, न तेनोत्पादयितुरेवापत्येन योगः, शक्यते प्रतिपादयितुम्। यस्मान्न तत्र यस्य तेनापतनं स जिज्ञासितः स्यात्, किं तर्हि? य उत्पादयितारं व्यपदिशति नात्मानम्। यदि यस्य तु तेनापतनं स जिज्ञासितः स्यात्, तदाऽऽत्मानमपि व्यपदिशेदेव। यदि च सर्वेऽपत्येन न युज्येरन्, `अपत्यं पौत्रप्रभृति गोत्रम्` [[4.1.162]] इति योऽयमपत्यपौत्रप्रभृतिशब्दयोः सामानाधिकरण्येन निर्देशः, स नोपपद्यते; यदपेक्षया पौत्रादिव्यपदेशमासादयन्ति पुमांसस्तं प्रति तेषामनपत्यत्वात्। तस्मादतोऽपि निर्देशात् - सर्वेऽपत्येन युज्यन्त इति विज्ञायते। `तत्पुत्त्रोऽपि गार्ग्यः` इति। अपिशब्दात् तत्पौत्रादिरपि। किं पुनः कारणं तत्पुत्त्रोऽपि गाग्र्य इत्याह - `सर्वस्मिन्` इत्यादि। यदपि गार्ग्यायण इत्यत्रैकेन व्यवहितेन जनितं गोत्रापत्यं यस्मात् तत्रापि गर्गशब्दाद्यञेव भवति, तस्मात् तत्पुत्त्रोऽपि गाग्र्यो भवति। गर्गशब्दादित्यनेन परमप्रकृतेर्भवतीति दर्शयति। एतच्चैकग्रहणाल्लभ्यत इत्युक्तम्।`अथ वा` इत्यादिना प्रकृतिनियमं दर्शयति प्रकृतिनियमस्त्वेकशब्दस्य प्रकृतिसामानाधिकरण्याल्लभ्यते। एकशब्दोऽत्र प्राथम्यनियमे वर्तत इति वेदितव्यम्, यथा - वर्गाणां प्रथमद्वितीयाः संवृतकण्ठाः आआसानुप्रदाना अघोषा एकेऽल्पप्राणा इतरे सर्वे महाप्राणा इति। अत्र हि प्रथमेऽल्पप्राणा इति गम्यते। एकशब्दस्येदं विवरणम् - `प्रथमा प्रकृतिः` इति। का च प्रथमा? या परमप्रकृतिरप्रत्ययान्ता `गर्ग नड` इत्येवमादिका। `प्रकृतिर्नियम्यते` इति। प्रथमैव प्रकृतिः प्रत्ययमुत्पादयति, नाप्रथमा - गार्गिगाग्र्यगाग्र्यायणप्रभृतिशब्दाः प्रत्ययान्ताः। गर्गस्यापत्यं गार्ग्यः, तत्पुत्त्रोऽपि गार्ग्यः। नडस्यापत्यं नाडायनः, तत्पुत्त्रोऽपि नाडायनः। सर्वत्र व्यवहितजनितेऽपि गोत्रापत्ये प्रथमा प्रकृतिः प्रत्ययमुत्पादयति॥", "41094": "`अयमपि नियमः` इति। न केवलं पूर्वः - इत्यपिशब्देन दर्शयति। सर्वेषां ह्रपत्येन योगे परमप्रकृत्यनन्तरयुवभ्योऽपि युवापत्यविवक्षायां प्रत्ययः प्राप्नोति, अतस्तन्निवृत्त्यर्थं नियमः क्रियते। `गोत्रादेव`इति। गोत्रपत्ययान्तादेवेत्यर्थः। अनेन नियमस्वरूपं दर्शयति। `न परम` इत्यादिना नियमस्य व्यवच्छेद्यम्। `गाग्र्यायणः, दाक्षायणः` इति। गोत्रे यौ यञिञौ विहितौ तदन्तात् <<यञिञोश्च>> [[4.1.101]] इति फक्। `औपगविः` नाडायनिः` इति। गोत्रे यावण्फकौ विहितौ तदन्तात् `अत इञ्` [[4.1.95]] ।`दाक्षी` इति। वक्षस्यापत्यं चतुर्थ स्त्री। `अत इञ्` [[4.1.95]] , <<इतो मनुष्यजातेः>> [[4.1.65]] इति ङीष्।`किं पुनरत्र प्रतिषिध्यते` इति। सर्वस्मिन् प्रतिषिध्यमाने दोषं मन्यते। तमेव दोषमाविष्कर्तुमाह - `यदि` इत्यादि। `स्त्रियामनियमः प्राप्नोति` इति। परमप्रकृत्यनन्तरयुवभ्योऽपि स्त्रियां युवप्रत्ययः प्राप्नोतीत्यर्थः। `गोत्रसंज्ञाया युवसंज्ञया बाधितत्वात्` इति। `जीवति तु वंश्ये युवा` इत्यत्र तुशब्दोऽवधारणार्थः कृतः। तेन अभिधानं न प्राप्नोति। `तस्मात्` इत्यादि। यत एव च नियमयुवप्रत्यययोरुभयोरपि प्रतिषेधे दोषः, तस्मात् तन्निरासाय योगविभागः कर्तव्यः। तत्र `\tगोत्राद्यूनि` इत्येको योगः, अनेन च नियमः क्रियते, यदाह - `गोत्राद् यूनि प्रत्ययो भवति` इति। ततः `अस्त्रि याम्` इति द्वितीयो योगः। तेन च यूनीत्यत्र यदुक्तं कार्यं तस्य प्रतिषेधः क्रियते, यदाह - `यूनि यदुक्तं स्त्रियां तन्न भवति` इति। `युवसंज्ञैव प्रतिषिध्यते` इति। कथम्? `अस्त्रियाम्` इत्यत्र हि योगे यूनीत्येतदनुवर्तते, तेनैवं विज्ञायते - यूनि यदुक्तं कार्यं स्त्रियां तन्न भवतीति। युवसंज्ञा च यून्येव कार्ययुक्तेत्यतः सैव प्रतिषिध्यते। `युवसंज्ञैव` इति। एवकारेण नियमयुवप्रत्ययोव्र्यवच्छेदः क्रियते। `तेन स्त्री गोत्रपत्ययेनाभिधास्यते` इति। तस्यां युवसंज्ञायां प्रतिषिद्धायां गोत्रसंज्ञाया अविचलत्वात्॥", "41095": "`अतः`इत्यनेन प्रकृतं प्रातिपदिकं विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्यत आह - `अकारान्तात् प्रातिपदिकात्` इति। अथात इति `अत सातत्यगमने` (धातुपाठः-34) इत्यस्य क्विबन्तस्य ग्रहणं कस्मान्न विज्ञायते? <<शिवादिभ्योऽण्>> [[4.1.112]] इति वचनात्। तद्धीञो बाधनार्थं क्रियते। यदि चेह स्वरूपग्रहणं स्यात्, शिवादिभ्यः प्रसङ्ग एव नास्तीति तेभ्यस्तद्बाधनार्थमण्विधानमनर्थकं स्यात्, क्रौडआदीनाञ्चेञन्तानां पाठात्। तस्मादकारान्तस्यैवेदं ग्रहणम्। यद्येवम्, अस्यापत्यमिरित्यत्र न प्राप्नोति, अनकारान्तत्वात्? एतदपि व्यपदेशिवद्भावेनाकारान्तं भवतीत्यदोषः। `शुभंयाः, कीलालपाः` इति। यातेः, पिबतेश्च <<आतो मनिन्क्वनिब्वनिपश्च>> [[3.2.74]] इत्यत्र हि `विजुपेश्छन्दसि` [[3.2.73]] इत्यतश्चकारेण विजप्यनुकृष्यते।`कथम्` इत्यादि। दशरथशब्दादप्यकारान्तदिञा भवितव्यम्। ततः `दाशरथाय` इत्यणन्तस्य प्रयोगो नोपपद्यत इति भावः। `शेषविवक्षायाम्` इत्यादि। एतेन दशरथस्यायमित्यर्थविवक्षायामत्राण विहितः, न तु <<तस्यापत्यम्>> [[4.1.92]] इत्यर्थविवक्षायामिति दर्शयति। यदा तु दशरथस्यापत्यमिति विवक्ष्यते, तदेञ्भवत्येव - दाशरथिरिति॥", "41096": "`बाहविः` इति। <<ओर्गुणः>> [[6.4.146]] । `क्वचित्` इति। अजीगर्ताविष्कारान्तेषु। बाहुप्रभृतीनां वटाकुपर्यन्तानामनकारान्तत्वात् प्राप्त्यर्थः पाठः। चूडाशब्दस्य च `द्वय चः` [[4.1.121]] इति ढकि प्राप्ते। वृकलादीनां प्राक् पुष्करसच्छब्दात् `अवृद्धाभ्यो नदीमानुषीभ्यः` [[4.1.113]] इत्यणि प्राप्ते। पुष्करसदित्येवमादीनां लोमशब्दपर्यन्तानां प्राप्त्यर्थः, अनकारान्तत्वात्।`अमितौजसः सलोपश्च` इति। अमितौजस्शब्दादिञ् भवति, सलोपश्च। आमितौजिः। उदञ्च्विति पठते, तत्राञ्चतेर्धातोश्चकारो वेदितव्यः। नायं पुनरकारान्तः, किं तर्हि? क्विन्नन्तः, प्रत्ययवेलायां निपातनादनुनासकिलोपो न भवति। उदीचोऽपत्यमौदञ्चिः। शिरः शब्दस्तदन्तविधिं प्रयोजयति, केवलस्य नपुंसकस्यापत्येन सम्बन्धाभावात्। हस्तिशिरसोऽपत्यं हास्तिशीर्षिः, <<ये च तद्धिते>> [[6.1.61]] इत्यत्र चकारस्यानुक्तसमुच्चलोम्नोऽपत्यम् - औध्र्वलोमिः। अजीगर्तादीनां प्रागुदङ्कशब्दात् `ऋष्यन्धकवृष्णि` [[4.1.114]] इत्यादिनाणिबाधके प्राप्ते। `उदङ्कः संज्ञायाम्` इति। उदङ्को नाम कश्चित्, तस्यापत्यमौदङ्किः। `सम्भूयोऽम्भसोः सलोपश्च` (इति)। सम्भूयस्, अम्भसित्येतयोरिञ् भवति, सकारलोपश्च - साम्भूयिः,आम्भिः। `बाह्वादिप्रभृतिषु` इति। प्रभृतिशब्देनेत ऊध्र्वं ये वक्ष्यन्ते ते परिगृह्यन्ते। `येषां दर्शनं गोत्रभावे लौकिके` इति। दर्शनं = प्रसिद्धिः। लौकिके गोत्रे भावः = संज्ञाकारित्वम्। येषां लौकिकगोत्रभावे प्रसिद्धिस्तेषां बाह्वादिषु परिग्रहो द्रष्टव्यः। `ततोऽन्यत्र तेषां प्रतिषेधः` इति। येषां लौकिके गोत्रभावे न दर्शनमपि तु ततोऽन्यत्र दर्शनम्, तेषां प्रतिषेधो वेदितव्यः। तेन बाहुर्नाम कश्चिदादिपुरुषो यः संज्ञाकारित्वेन प्रसिद्धो यदपत्यसन्तानान्तः पातिनः पुमांसो बाहुव्यपदेशमासादयन्ति, तत एवेञ् भवति। यस्त्विदालीन्तनो बाहुर्नाम कश्चित् ततोऽणेव भवति - बाहव इति। एतच्च वेत्यनुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्चलभ्यते। सम्बन्धिशब्दानाञ्च आशुरादीनाञ्च यत्कार्यमुच्यते तस्य तत्सादृश्यात् प्रतिषेधो भवति। अत्रापि पूर्वोक्त एव हेतुर्वेदितव्यः। राजआशुराद्यत्` [[4.1.137]] इति आशुरशब्दाद्यत्प्रत्ययः सम्बन्धिशब्दादेव भवति, न संज्ञाशब्दात्। तेन आशुरो नाम कश्चित्, तस्यापत्यं आआशुरितीञेव भवति। `संज्ञाआशुरस्य` इति। संज्ञया यः आशुरः, न सम्बन्धेन स संज्ञाआशुरः॥", "41097": "`व्यासवरुड` इत्यादि। व्यासादीनामिञ्, तत्सन्नियोगेन चाकङादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रामिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः,तेन व्यासादीनामपि भविष्यति। `वैयासकिः` इति। `न य्वाभ्याम्` [[7.3.3]] इत्यादिनैज्वृद्धिप्रतिषेधौ। अथ बाह्वादिष्वेव सुधातृशब्दमधीत्य तत्र चाकङादेशः कस्मान्न कृतः, यथा - अमितौजसः सलोपश्चेति गणे पठते? सूत्रे वा, न तत्र कश्चिल्लाघवाभावाद्विशेषो लभ्यत इति यत्किञ्चिदेतत्॥", "41098": "`इञोऽपवादः` इति। अकारान्तत्वात् कुञ्जादीनाम्। `चकारो विशेषणार्थः`इति। यद्यत्र चकारो न क्रियेत ततः <<व्रातच्फञोरस्त्रियाम्>> [[5.3.113]] इत्यत्रापि नैव क्रियते, च्फञ्प्रत्ययस्याभावात्। ततश्च `वातफञोरस्त्रियाम्` इत्युच्यमाने `अआआदिभ्यः फञ्` [[4.1.110]] इत्यस्यापि ग्रहणं स्यात्। `कौञ्जायन्यः, कौञ्जायन्यौ` इति। `पूगाञ्ञ्योऽग्रामणीपूर्वात्` [[5.3.112]] इत्यतः `ञ्यः` इत्यनुवर्तमाने <<व्रातच्फञोरस्त्रियाम्>> [[5.3.113]] इति स्वार्थ ञ्यः। `कौञ्जायनाः` इति। `ञ्यादयस्तद्राजा-` [[5.3.119]] इति तद्राजसंज्ञकत्वात् `तद्राजस्य बहुषु` [[2.4.62]] इत्यादिना लुक्। किं पुनरत्र ञित्वस्वरेण भवितव्यम्? उत चित्स्वरेण? इत्यत आह - `एकवचनद्विवचनयोः` इत्यादि। एकवचनद्विवचनयोस्तावत् सति तस्मिन् चित्स्वरे पश्चाद् ञ्ये विहिते समुपजायमानो ञित्स्वरः सतिशिष्टो भवतीति तेनैव भवितव्यम्। बहुवचने तु ञ्ये निवृत्ते प्राप्ते तं त्यक्त्वा चित्स्वर एवेष्यते। कथं पुनरिष्यमाणोऽपि स लभ्यते, चित्करणसामर्थ्यादिति चेत् न; ञित्करणसामर्थ्याद् ञित्स्वरोऽपि लभ्यते। एवं तर्हि स्वरविधौ योगविभागः करिष्यते,इदमस्ति - `चितःट [[6.1.157]] इति; ततः `तद्ध#इतस्य` [[6.1.158]] इति, तत्र `चितः` इत्येवानुवर्तते। किमर्थमिदम्? परत्वात् <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तत्वं प्राप्नोति, तद्बाधनार्थम्। ततः `कितः` [[6.1.159]] इति, कितश्च तद्धितस्यान्त उदात्तो भवति॥", "41099": "नडादिषु `शलङ्कु शलङ्कञ्च` इति पठते। तस्यायमर्थः- शलङ्कुशब्दः प्रत्ययमुत्पादयति शलङ्कभावं चापद्यते, तेन शालङ्कायन इति भवति। `पैलादिषु `इति। पैलादिषु शालङ्किशब्द इञन्तः पठते, तत उत्पन्नस्य युवप्रत्ययस्य लुग्यथा स्यात् - `शालङ्कि पिता, शालङ्किः पुत्रः` इति। तत्र हि `ण्यक्षत्त्रियार्षञितः` [[2.4.58]] इत्यादेः सूत्रात् `यूनि लुक्` इति चानुवर्तते, तस्य शालङ्गिशब्दस्य तत्र पाठो न युज्यते - नडादिषु पाठात् फका भवितव्यमिति कृत्वा, तत् कथमिञन्तस्तत्र पठत इति चोद्यम्। तस्य परिहारमाह - `गोत्रविशेषे` इत्यादि। कौशिकं यद्गोत्रं तत्रैव शलङ्कुशब्दादाचार्यः फकं स्मरन्ति, ततोऽन्यत्र त्विञेव भवतीत्यदोषः। स त्विञ् बाह्वादेराकृतिगणत्वाल्लभ्यते। अभ्युपेत्यापि गोत्रमात्रे फको विधानम्। परिहारान्तरमाह - `अथ वा` इत्यादि। इञो भाव उपलक्षणम्। शलङ्कभावस्यापि हि पैलादिपाठ एव ज्ञापकम्। पूर्वत्रापि परिहारे तस्य एव ज्ञापकं वेदितव्यम्। `अग्निशर्मन् वृषगणे` इति। अग्निशर्मञ्शब्दाद्वृषगणे गोत्रे फग्भवति - आग्निशर्मायणः। अन्यत्राणेव - आग्निशर्मः। `अमुष्य` इति पठते। ततर्निपातनाद्विभक्तेरलुक् - आमुष्यायण इति। `कृष्णरणौ ब्राआहृणवाशिष्ठयोः` इति। कृष्णरणशब्दौ यथाक्रमं ब्राआहृणे वाशिष्ठे चाभिधेये फकमुत्पादयतः। काष्र्णायनो ब्राआहृणः। राणायणो वशिष्ठः। वशिष्ठगोत्र इत्यर्थः। अन्यत्रेञेव भवति - काष्णः, राणिरिति। `क्रोष्टु क्रोष्टञ्च` इति पठते। क्रोष्टुशब्दः फकमुत्पादयति, क्रोष्टञ्चापद्यते - क्रौष्टायनः॥", "41100": "`न च` इत्यादि चोद्यम्। `सत्यमेतत्` इत्यादि परिहार उच्यते। गोत्रे योऽञ् विहितस्तदन्तेभ्यो हरितादिभ्यः फक्। न च गोत्रप्रत्ययादपरो गोत्रप्रत्यययः सम्भवति। तत्र सामर्थ्यादगोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते। यद्येवम्, गोत्राधिकारः किमर्थः? इत्याह - `गोत्राधिकार उत्तरार्थः` इति॥", "41101": "अथ <<द्वीपादनुसमुद्रं यञ्>> [[4.3.10]] इति यो यञ् विहितः, यश्च `वृञ्छण्` [[4.2.79]] इत्यादिना सूत्रेण सुतङ्गमादिभ्य इञिति तदन्तात् कस्मान्न भवति, न ह्यत्र कश्चिद्विशेष उपात्तः?इत्यत आहः - `द्वीपादनुसमुद्रं यञ्` इत्यादि। गोत्रग्रहणेन ह्यत्र यञिञौ विशेष्येते - गोत्रे यौ यञिञाविति। न च `द्वीपात्` [[4.3.10]] इत्यादिना गोत्रे यञ् विहितः,किं तर्हि? जातादावर्थविशेषे। नापि सुतङ्गमादिभ्यो गोत्रे इञ् विहितः, किं तर्हि? तदस्मिन्नस्तीति देशे` (4.2.68,70) इत्येवमादिषु चतुष्र्वर्थेषु, तेन तदन्तान्न भवति। यदि तर्हि गोत्रग्रहणेनेह यञिञौ विशेष्येते, न प्रत्ययार्थः, एवं सति क्वायं प्रत्ययो भवतीति न विज्ञायत इत्यत आह -`तदन्तात्` इत्यादि। कस्मात् तदित्याह - `गोत्राद्यूनीति वचनात्` इति॥", "41102": "`गोत्र इत्येतत्` इति। यदि तर्हि गोत्र इति वर्तते, भुगुवत्साभ्यां मूलप्रकृतिभ्यां प्रत्ययार्थस्य विशेषणं नोपपद्यते, गोत्रप्रत्ययाभ्यामेव हि ताभ्यां गोत्रापत्यं प्रत्ययार्थः शक्यो विशेषयितुम्त एव युक्तं स्याद्वक्तुम् - भार्गववात्स्यायनाग्रायणेष्विति? नैष दोषः;गोत्राधिकारसामर्थ्याद्धि गोत्रापत्य एव वर्तमानाविह गृह्रेते, कार्ये कारणोपचारं कृत्वा। तामेव गोत्रापत्ये तयोर्वृतिंत दर्शयितुं वृत्तावित्युक्तम् - `शारद्वतायनो भवति भार्गवश्चेत्, शौनकायनो भवति वात्स्यश्चेत्` इति॥", "41103": "`कथम्` इत्यादि। यदि गोत्रापत्ये द्रोणादिभ्यः फग्भवति, तत्कथं द्रौणायनः, द्रोणतः प्रतीत्येवमादिषु प्रयोगेष्वनन्तरोऽआत्थामा इत्युच्यते? `नैवात्र` इति। नात्रेदानीन्तनो द्रोणस्तदनन्तरापत्ये फका द्रोणायन इति, किं तर्हि? `अनादिः`इति। श्रुतिसम्भवदर्शनार्थमिदमुक्तम्। येन हेतुनाआत्थामा द्रौणायन इत्युच्यते तमिदानीन्तनेत्यादिना दर्शयति। `इदानीन्तनात्तु`इत्यादि। अनादिद्रोणव्यवच्छेदपरमेतद्वेदितव्यम्। न हि तावद्भारतद्रोण इदानीन्तनो भवति; चिरातीतत्वात्। चिरातीतोऽप्यर्थो बुद्धौ परिभाव्यमानो वर्तमानतां प्रतिपद्यते, यथा - अद्य कंसो हन्यताम्। इदानीन्तनाद् द्रोणादप्यआत्थाम्नि द्रोणायन इत्येवं गोत्रप्रत्ययेन यदभिधानं तदध्यारोपेण भवति। अविद्यमानस्यैव तत्रासञ्जनमध्यारोपः। कस्याध्यारोपः? गोत्रस्य। `श्रुतिसामान्यात्` इति। अध्यारोपे हेतुः। अनादेद्र्रोणस्याआत्थानम्नः पितुश्च द्रोण इति समाना श्रुतिः। अतः श्रुतिसामान्यादनादिद्रोणापत्यस्य यो धर्मो गोत्रत्वं तद्भावं भारतद्रोणापत्येऽआत्थाम्न्यपि श्रुतिसामन्याच्चलितबुद्धयः प्रतिपत्तार अध्यारोपयन्ति। तेनाध्यारोपेण द्रोणायन इति तत्राभिधां प्रवर्तत#ए॥", "41104": "`ये पुनरत्रानृषिशब्दाः` इत्यादि। ननु च सूत्रे आनन्तर्यशब्दो भावप्रत्ययान्त उपात्तः,तत्रैवं विवरितव्यम् - ये पुनरत्रानृषिशब्दाः पुत्त्रादयस्तेभ्योऽपत्यानन्तर्य एव भवति? नैतदस्ति; न ह्रयं भावे ष्यञ् विहितः, किं तर्हि? स्वार्थ एव, चातुर्वण्र्यवत्; अन्यथापत्यस्य धर्म आनन्तर्ये प्रत्ययः धर्म आनन्तर्ये प्रत्ययः स्यात्, नापत्ये, तत्रेष्यते च। कथं पुनर्गोत्राधिकारे सत्यनुषिभ्योऽनन्तरापत्य एव प्रत्ययो लभ्यते? अत्र गोत्रग्रहणं निवर्तते। ऋषिशब्देभ्योऽनन्तरापत्य एव स्वदित्यत आह - `अनृष्यानन्तर्य इत्यस्यायम्` इत्यादि। `यद्ययमर्थः` इत्यादि। अस्मिन् ह्रर्थे सत्यनृष्यानन्तर्य इत्येतद्विष्यर्थ भवति; अनृषेरनन्तरापत्ये प्रत्ययविधानात्। ततश्च ऋष्यपत्य आनन्तर्येप्रतिषेधो न कृतः स्यादित्याह - `ऋषिशब्दोऽत्रऋषिजातावृषित्वे वर्तते। `अपत्येषु नैरन्तर्यम्` इति। `सप्तमी` [[2.1.39]] इति योगविभागात्समासः। पश्चादृषेरपत्यनैरन्तर्यमिति षष्ठीसमासः। तदायमर्थो भवति - ऋषित्वस्यापत्येषु नैरन्तर्यविषयेऽञः प्रतिषेधो न कृतः स्यात्। अथ वा - ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्यं तद्विषये प्रतिषेधोऽञः प्रत्ययस्य न कृतऋ स्यादित्यर्थः। ततर् को दोषः? इत्याह - `तत्रेदम्` इत्यादि। सप्त काश्यपा ऋषयोऽपत्यापत्यवत्सम्बन्धेन परसप्रं सम्बद्धाः, येषां मित्त्रहूर्नाम काश्यपः सप्तमः, तेषामुषित्वस्यापत्येषु नैरन्तर्यम्। तत्र ऋष्यपत्यानां वा नैरन्तर्ये विषयेऽञः प्रतिषेध इष्यते,काश्यपानामित्येतद्रूपं यथा स्यात्। अञि सति तस्य बहुषु लोपाभावात् काश्यपानामिति प्राप्नोति। स च प्रतिषएधोऽस्मिन्नर्थे सति न प्राप्नोति, ततश्च काश्यपानामिति न सिध्यति। तस्मात् `अनृष्यानन्तर्ये` इत्यस्य ऋष्यपत्यनैरन्तर्येण न भवतीत्येषोऽर्थो विज्ञायत इत्यभिप्रायः। `अनन्तरापत्यरूपेणैव` इति। न चात्र गोत्रापत्यं विवक्षितम्। किं तर्हि? किं तर्हि? अनन्तरापत्यम्। अतोऽनन्तरापत्यरूपेणैव ऋष्यणा ऋष्यन्धकादिषु [[4.1.114]] विहितेन काश्यपानामित्यभिधानं भविष्यति। एतदेव द्रढयितुमाह - `अवश्यञ्च` इत्यादि। ऋष्यपत्यं नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः। ऋषित्वस्यापत्येषु ऋष्यपत्यानां वा यन्नैररन्तर्य तद्विषये प्रतिषेधे विज्ञायमान इत्यर्थः। `कौशिको विआआमित्र इति दुष्यति` इति। किं कारणम्? विआआमित्रस्तपस्तेपे - नानृषिः स्यामिति, तत्रभवानृषिः सम्पन्नः,स पुनस्तपक्षेपे -नानृषेः पुत्त्रः स्यामिति, तत्रभवान् गाधिरपि ऋषिः सम्पन्नः; स पुनस्तपस्तेपे - नानृषेः पौत्रः स्यामिति; तत्रभवान् कुशिकोऽपि ऋषिः सम्पन्नः। तदेतद्भवति - ऋषित्वस्यापत्येषु नैरन्तर्यम्ृष्यपत्यानां वानन्तर्यम्। ततश्च ऋष्यपत्यनैरन्तर्ये न भवतीत्येवं विज्ञायमाने कौशिको विआआमित्र इति न सिध्यति।`परस्त्री परशुञ्च` इति।परस्त्रीशब्दः प्रत्ययमुत्पादयति परेशुभावञ्चापद्यते। परस्त्रिया अपत्यं पारशवः॥", "41105": "`कथं मानवी प्रजा`इति। गर्गादिषु पाठाद्यञा भवितव्यम्, ततश्च मानवीति न सिध्यतीति। लोहितादिलक्षणे हि यञन्तात्तु ष्फे विहिते मानव्यायनीति भवितव्यमित्यभिप्रायः। गोत्रमित्युच्यते, गोत्रे हि यञ् प्रत्यय उच्यते, नापत्यसामान्ये। तेन तत्रौत्सर्गिकोऽण् मानवीति भविष्यति। `कथम्` इत्यादि। यदि गोत्रमित्युच्यते, ततो यथा गर्गशब्दादनन्तरापत्ये यञ् न भवति, तथा च जमदग्निपराशरशब्दाभ्यामपि न भवितव्यम्, तत्कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इत्यत्र यञ् भवति? `गोत्ररूपाध्यारोपेण भविष्यति` इति। यदानन्तरापत्ययोरपि गोत्ररूपयो रामव्यासयोर्विवक्षितत्वाद्गोत्ररूपाध्यारोपः क्रियते, तदा यञ् भवतीत्यदोषः। असतो न युक्ता विवक्षेत्येतच्च न सम्भावनीयम्; दृश्यते ह्रसतोऽपि विवक्षा, यथा - विन्ध्यो वर्द्धितकः, समुद्रः कुण्डिकेति। यदा तह्र्रनन्तरापत्यविवक्षा भवति, तदा केन भवितव्यमित्याह - `अन्तरापत्यविवक्षायां तु` इत्यादि। `वाजाऽसे`इति। वाजशब्दो यञमुत्पादयति। असे, असमास इत्यर्थः। वाज्यः असमास इति किम्? सौवाजिः॥", "41106": "यदि तर्हि बभ्रुशब्दस्य गर्गादिपाठादेव सिद्धे कौशिके नियमार्थमिह ग्रहणम्, एवं सति नार्थो गर्गादिषु पाठेन, कौशिके विध्यर्थमेव ग्रहणमस्तु, नास्य? इत्यत आह - `गर्गादिषु पाठोऽपि` इत्यादि। गर्गादिषु पाठोऽपि कर्तव्यः। `सर्वत्र लोहितर` [[4.1.18]] इत्यादिनान्तर्गणकार्य ष्फो यथा स्यात्। अथ गण ए कौशिकग्रहणं कस्मान्न कृतम्, कः पुनरेवं सति गुणो भवति, सुत्रे पुनर्बभ्रुग्रहणं न कर्तव्यं भवति? सत्यमेतत्; `अपाणिनीयत्वात्` गणस्य। नैवं चाकरणे पाणिनिरुपालम्भमर्हति। गणकारेणापि हि किं न कृतम्? वैचित्र्यार्थम्। विचित्रा हि गणस्य कृतिर्गणकारेण॥", "41107": "`कापेयः`इति। `इतश्चामिञः` [[4.1.122]] इति ढञक्। यदि कपिशब्दो गर्गादिषु पठते, नियमार्थं त्विह तस्य ग्रहणम्, एवं सत्याङ्गिरसे विध्यर्थमेवास्य ग्रहणमेवास्तु,नार्थो गर्गादिषु पाठेन? इत्यत आह - `लोहितादिकार्यार्थश्च` इत्यादि॥", "41108": "किमर्थमिदम्? अनर्थकमिदमित्यर्थः। किं कारणमित्याह - `यावता` इत्यादि। `शिवादिष्वपि` इत्यादिना प्रयोजनं दर्शयति। यदीदं नोच्येत, ततो गर्गादिपाठादाङ्गिरसे यथा यञ् भवति, तथा शिवादिषु पाठादणपि स्यात्। तस्मादाङ्गिरसे यञा शिवाद्यणो बाधनं यथा स्यादित्येवमर्थं पुनर्वचनम्। अथ गर्गादिपाठादेव सिद्धे, आङ्गिरसे नियमार्थमेतदिति कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्; प्रयोजनाभावे हि नियमार्थं भवति। इह चास्ति प्रयोजनम्, तच्च दर्शितमेव॥", "41109": "`वातण्डआयनी` इति। लोहितादिलक्षणः ष्फः॥", "41110": "`ये त्वत्र` इत्यादि। <<एको गोत्रे>> [[4.1.93]] इति वचनाद्गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो नोपपद्यते। तत्र सामर्थ्यादगोत्राधिकारेऽपि ये गोत्रप्रत्ययान्ताः पठन्ते तेभ्यः <<गोत्राद्यून्यस्त्रियाम्>> [[4.1.94]] इति यूनि प्रत्ययो विज्ञायते। `शप आत्रेये` इति। शपशब्दात् फञात्त्रेयश्चेद्भवति शापायन आत्त्रेयः, अन्यत्र शापिः। वैल्यशब्दो गोत्रप्रत्ययान्तः, तस्माद्यूनि भवति। विलिर्नाम राजर्षिः, तस्यापत्यं गोत्रम्, <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] , वैल्यः, तस्यापत्यं वैल्यायनो युवा। आनडुह्रशब्दोऽपि गोत्रप्रत्ययान्तो गर्गादिषु, यञन्तत्वात्; तस्मादपि यून्येव फञ् - आनडुह्रायनो युवा। स्त्रियां ढगेव भवति - जाताया अपत्यं जातेयः। `आत्त्रेय भारद्वाजे`इति। आत्त्रेयशब्दात् फञ् भारद्वाजश्चेदपत्यार्थो भवति - आत्त्रेयायणो भारद्वाजः, अन्यत्र आत्त्रेयिः। `भारद्वाज आत्त्रेये` इति। भारद्वाजशब्दात् फञ् आत्त्रेयेऽपत्यविशेषे - भारद्वाजायन आत्त्रेयः, अन्यत्र - ऋष्यण्॥", "41111": "", "41112": "`यथायथम्` इति। यथास्वम्। यस्य य इञादिरात्मीयप्रत्ययस्तदपदादोऽण् विधीयते। अथाण्ग्रहणं किमर्थम्, न `शिवादिभ्यः` इत्येवोच्येत? `शिवादिभ्यः` एतावत्युच्यमाने यथाविहितमिञादिरेव प्रत्ययो मा भूत्, अणेव यथा स्यादित्येवमर्थमिति चेत्; नैतदस्ति; यथाविहितमिञादीन् प्रत्ययान् प्रत्येतद्वचनमनर्थकम्; विनाप्यनेन तत्सिद्धेः। तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति। ननु चासत्यण्ग्रहणे फञः प्रकृतत्वात् तस्यैव विधिर्विज्ञायते? नैतदस्ति; यदि हि शिवादिभ्यः फञ् विधातुमिष्टः स्यात्, ततोऽआआदिष्वेव तेषां पाठं कुर्यात्। इदं तर्हि प्रयोजनम् - अयमुष्टिषेणशब्दः शिवादिषु पठते, तस्य <<सेनान्तलक्षणकारिभ्यश्च>> [[4.1.152]] इति ण्यप्रत्ययः प्राप्नोति। तत्रासत्यण्ग्रहणे पुनर्विधानमिदं तद्बाधने कृतार्थमिति ततो यथाविहितमिञेव स्यात्, नाण्; ततोऽणेव यथा स्यादित्यण्ग्रहणम्।`उदीचामिञं बाधितुम्` इति। `उदीचाम्` [[4.1.153]] इत्यनेनेञ् प्राप्नोति, ततस्तं बाधितुं तक्षन्शब्दोऽतर्पठते। तथा तर्हि तक्षन्शब्दस्यात्र पाठादुदीचामिञ् बाध्यते, तथा <<सेनान्तलक्षणकारिभ्यश्च>> [[4.1.152]] इति यो ण्यस्तस्यापि बाधा प्राप्नोति। ततश्च `ताक्षण्यः` इति न सिध्यति? इत्याह - `ण्यप्रत्ययस्य तु बाधो नेष्यते` (इति)। कथमनिष्यमाणमपि न भवति? सुपिष्टशब्दादिभिः साहचर्यात्। इह यस्तक्षञ्शब्दः सुपिष्टमयूरखरदूरतक्षन्नित्येवं सुपिष्टादिभिः सह पठते, यथा तेषाञ्चेञपवादार्थोऽत्र पाठः, तैः साहचर्यादस्यापीञपवादार्थ एव पाठो विज्ञास्यते। तत्र शिवादीनां प्राग् भूरिशब्दादिञपवादार्थं वचनम्। भूरि, सन्धि, मुनि - इत्येतेषां <<इतश्चानिञः>> [[4.1.122]] इति ढकि प्राप्ते। कुठार, अनभिम्लान - इत्येतयोः ककुत्स्थ - इत्येमादीनां प्राग् जरत्कारुशब्दादिञो बाधनार्थम्। जरत्कारुप्रभृतीनां प्राक् सुपिष्टशब्दात् <<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढकि प्राप्ते। सुपिष्टादीनां प्राक् तक्षञ्शब्दादिञः। तक्षन्नित्यस्य कारिलक्षणोदीचामिञः। ऋष्टिषेणस्य सेनान्तलक्षमस्य ण्यस्य च बाधनार्थम्। गङ्गादिपाट्शब्दयोर्यस्मिन्नप्राप्त इह पाठः स वृत्तिकारेणैव व्याख्यातः। यस्कादिभ्यः प्राग् भूमिशब्दादिञि प्राप्ते। भूमिशब्दस्य <<इतश्चानिञः>> [[4.1.122]] इति ढकि। इलाशब्दस्यापि `{द्व्यचः इति सूत्रम्} द्व्यचश्च` [[4.1.121]] इति ढकि। एमेव सपत्नीशब्दस्यापि <<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढक्येव। `द्व्यचो नद्याः` इति। नदीवाचका ये द्व्यचस्तेभ्योऽण् भवति, सन्ध्या - सान्ध्यम्, कुल्या - कौल्यम्। ननु चात्र तन्नामिकोऽणस्त्येव? सत्यमस्ति; स तु <<द्व्यचः>> [[4.1.121]] इति ढका बाध्यते। तस्मात् तद्बाधनार्थं वचनम्। `त्रिवेणी त्रिवणञ्च` इति। त्रिवेणीशब्दः प्रत्ययमुत्पादयति, त्रिवणञ्चापद्यते। त्रिवेण्या अपत्यं त्रैवणः॥", "41113": "शास्त्रान्तरे परिभाषितमपि वृद्धमस्ति - अपत्यमन्तर्हितं वृद्धमिति; इह शास्त्रेऽपि परिभाषितं वृद्धमस्ति <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इति, अतो वृद्धप्रतिषेधे कस्यचित् सन्देहः स्यात् - कस्य वृद्धस्यायां प्रतिषेधः, किंस्वित् यदिह परिभाषितं तस्यायं प्रतिषेधः? उत यच्छास्त्रान्तरेण परिभाषितं तस्येति? अतस्तन्निरासाय `वृद्धिर्यस्य` 91.1.74) इत्यादिनेह शास्त्रे यत् परिभाषितं तस्यायं प्रतिषेध इति दर्शयति। कुतः पुनरेतदवसितम् - इह वृद्धं यत् परिभाषितं तस्यायं प्रतिषेध इति दर्शयति। कुतः पुनरेतदवसितम् - इह वृद्धं यत् परिभाषितं तस्यायं प्रतिषेध इति? नदीमानुषीनामधेयस्य गोत्रप्रत्ययान्तस्यासम्भवात्। नदीग्रहणे त्विह लौकिक्येव नदी गृह्रते, न तु पारिभाषिकी। कुत एतत्? लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात्। अथ स्वरूपग्रहणमेव नदीमानुषीशब्दयोः कस्मान्न भवति? वृद्धप्रतिषेधात्। स्वरूपग्रहणे हि वृद्धप्रतिषेधोऽनर्थकः स्यात्; प्रसङ्गाभावात्। बहुवचननिर्देशाच्च न स्वरूपग्रहणम्। स्वरूपग्रहणे ही नदीमानुषीशब्दयोर्द्वित्वाद्द्विचनेनैव निर्देशं कुर्यात्। `अवृद्धाभ्यिति शब्दधर्मः स्यात्। यदि तर्ह्रर्थधर्मोऽयम्, कथं नदीमानुषीभ्य इत्यनेन प्रकृतयो निर्दिश्यन्ते, अर्थधर्म एव ह्रेवं निर्दिष्टो भवति, न प्रकृतयः? इत्यत आह - `तेन` इत्यादि। तेनार्थभेदोपचारात्। नदीमानुष्यभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। `प्रत्ययप्रकृतिः` इति। प्रत्ययस्य प्रकृतिरिति षष्ठीसमासः। `ढकोऽपवादः` इति। अवृद्धादीनां नदीनां मनुषीणां नामधेयानां स्त्रीप्रत्ययान्तत्वात्। `वैतस्तः, नार्मदः` इति। वितस्तानर्मदाशब्दाभ्यामण्। `शैक्षितः` इति। शिक्षिताशब्दात्।`सौपर्णेयः, वैनतेयः` इति। सुपर्णाविनताशब्दौ पक्षिणीनामधेये, न नदीमानुष्यौ। `शौभनेय-` इति। शोभनाशब्दो वर्तते नदीमानुष्यर्थः, न तु संज्ञात्वेन, किं तर्हि? विशेषणत्वेन॥", "41114": "`इञोऽपवादः` इति। ननु चानकारान्तेभ्योऽत्स्त्र्यादिभ्यो ये ढगादयः प्राप्नुवन्ति तदपवाद एव युक्त इत्यत आह - `अत्त्र्यादिभ्यस्तु` इत्यादि। एकेनादिशब्देन ऋषयो जातसेनादयोऽन्धकादिषु च वर्तमाना उग्रसेनादयः, परिगृह्यन्ते, द्वितीयेन ण्यादयः प्रत्ययाः। तत्र ऋष्यणोऽवकाशः - वासिष्ठः, <<इतश्चानिञः>> [[4.1.122]] इति ढकोऽवकाशः -दौलेयः;अत्त्रिशब्दादुभयप्राप्तौ परत्वाद् ढग्भवति - आत्त्रेयः। ऋष्यणोऽवकाशः स एव, सेनान्तलक्षमस्य ण्यस्यावकाशः - कारिषेण्यः, हारिषेण्यः;जातसेनो नाम ऋषिः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति - जातसेन्यः। अन्धकाणोऽवकाशः -वासुदेवः, ण्यस्य स एव; शूरसेनो विष्वक्सेनो नाम वृष्णिः, तस्मादुभ्यप्राप्तौ परत्वाण्ण्यो भवति - शौरसेन्यः , वैष्वक्सेन्यः। कुर्वणोऽवकाशः -नाकुलः,ण्यस्य स एव; उग्रसेनो नामान्धकः,तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति - औग्रसेन्यः। वृष्ण्यणोऽवकाशः - वासुदेवः, ण्यस्य स एव; शूरसेनो विष्वक्सेनो नाम वृष्णिः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति - शौरसेन्यः, वैष्वक्सेन्यः। कुर्वणोऽवकाशः -नाकुलः, ण्यस्य स एव; भीमसेनो नाम कुरुः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति - भैमसेन्यः।`कथं पुनः` इत्यादि चोद्यम्। `केचिदाहुः` इत्यादि चोद्यपरिहारः। `काकतालीयम्` इति। अबुद्धिपूर्वकमित्यर्थः। `सङ्कलिताः` इति। समुच्चिताः। `नित्या एव` इति। अन्धकादीनां वंशानामनादित्वात्॥", "41115": "`द्वैमातुरः`इति। प्राक् तद्धितार्थे विषये द्विकुः, पश्चात् तद्धितः। `साम्मातुरः` इति। पूर्वं प्रादिसमासः, पश्चात् तद्धितः।`भाद्रमातुरः` इति। पूर्वं विशेषणसमासः; ततस्तद्धितः।अथ प्रत्ययार्थ वचनं कस्मान्न भवति? इत्याह - `प्रत्ययः पुनः` इत्यादि। उत्सर्गलक्षणेनैव <<तस्यापत्यम्>> [[4.1.92]] इत्यनेन। ननु च संख्यादिपूर्वत्वं मातृशब्दस्य विशेषणम्, तत्र मातृशब्दापेक्षया निर्देशः क्रियमाणः पुंल्लिङ्ग एव दृश्यते, तत्कथं `संख्यासम्भद्रपूर्वायाः` इति स्त्रीलिङ्गेन निर्देशः? इत्यत आह - `स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः` इति। मातुः शब्दस्य योऽर्थस्तदपेक्षोऽयं निर्देशः, स चार्थः स्त्रीलिङ्गः। तेन स्त्रीलिङ्गेन निर्देशः कृतः। `तेन` इत्यादिनार्थापेक्षस्य फलं दर्शयति। अर्थापेक्षे हि स्त्रीलिङ्गनिर्देशे स्त्रीलिङ्गो यस्यार्थो मातृशब्दस्य , तस्यैव ग्रहणेन भवितव्यम्, तेन धानयमातुग्र्रहणं न भवति। न हि तस्य स्त्रीलिङ्गोऽर्थः, किं तर्हि? पुंल्लिङ्गः। धान्यं मिमीते यो भृतकः स धान्यमातेत्युच्यते।`सौमात्रः` इति। प्राक् प्रादिसमासः। तत औत्सर्गिकोऽण्॥", "41116": "", "41117": "अत्र वत्सभरद्वाजास्त्रिशब्दा वात्स्यभारद्वाजात्त्रेयेषु गोत्रविशेषेषु लब्धवृत्तय उपात्ता इति। अत एवाह - `वैकर्णो भवति वात्स्यश्चेत, शौङ्गो भवति बारद्वाजश्चेत्, चागलो भवत्यात्त्रेयश्चेत्` इति। सा पुनस्तेषां गोत्रापत्ये वृत्तिः कार्ये कारणीपचाराद्वेदितव्या।`द्वयमपि चैतत् प्रमाणम्` इति। कथं पुनः परस्परविरुद्धमपि प्रमाणं भवति? इत्याशङ्क्याह - `उभयथा ह्रेतत् सूत्रमाचार्येण प्रणीतम्, तस्मात् को विरोधः॥", "41118": "", "41119": "", "41120": "`इह स्त्रीग्रहणेन टाबादिस्त्रीप्रत्ययान्ताः शब्दाः गृह्यन्ते` इति। अथ स्वरूपग्रहणं कस्मान्न भवति? बहुवचननिर्देशात्। स्वरूपग्रहणे हि तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यात्। स्त्र्यर्थमात्रस्य ग्रहणं कस्मान्न भवति? विमातृशब्दस्य स्त्र्यर्थस्य शुभ्रादिषु पाठात्। यद्यत्र स्त्र्यर्थमात्रस्य स्त्रीशब्दस्य ग्रहणं स्यात्, तस्य शुभ्रादिषु पाठोऽनर्थकः स्यात्, अनेनैव ढकः सिद्धत्वात्। `ऐडविडः दारदः` इति। इडविडोऽपत्यं वरदोऽपत्यमित्यणेव भवति। ढगिति वर्तमाने ढकः पुनग्र्रहणं नित्यार्थम्। `वडवाया वृष वाच्ये` इति। यस्तस्या गर्भे बीजं प्रक्षिपति स वृषो वाडवेय इत्युच्यते।`अण्क्रुञ्चाकोकिलात् स्मृतः` इति। वृष इति नापेक्ष्यते। अपत्ये विधिरेवायम्। ढकोऽपवादः॥", "41121": "`तन्नामिकाणोऽपवादः`इति। ये द्व्यचः स्त्रीप्रत्ययान्ता नदीमानुषीनामधेयभूतास्तेभ्यो विशेषविहितत्वात् तन्नामिकाण् भवति। ततस्तद्बाधनार्थं ढग्विधीयते॥", "41122": "", "41123": "`यथायोगम्` इत्यादि। ये तावदकारान्तास्तेभ्य इञोऽपवादः। शलाका, कुरेका,अम्बिका, अशोका, खट्वा, पिङ्गला, खण्डोन्मत्ता - इत्येतेम्पस्तन्नामिकाणः। विधवाशब्दात् क्षुद्रालक्षणस्य ढ्रकः। किंकसा, रोहिणी, अजवस्ति, शकन्धि, कृकलास, सुदत्त, परिधि - एतेभ्यश्चतुष्पाल्लक्षणस्य ढञः। गोधाशब्दाद् गोधाया ढ्रकः, वचनसामर्थ्यात् सोऽपि भवत्येव। शेषेभ्य औत्सर्गिकोऽण इत्येष यथायोगार्थः। `लक्षणश्यामयोर्वासिष्ठे` इति। लक्षण, श्याम - इत्येतयोर्वासिष्ठेऽपत्यविशेषे ढग्भवति। लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः। श्यामेयो वासिष्ठः, श्यामायनोऽन्यः। अआआदित्वात् फञ्॥", "41124": "", "41125": "", "41126": "", "41127": "कुलन्यटतीति कुलटा। नन्वकः सवर्णे दीर्घत्वे कृते कुलाटेति भवितव्यमित्यत आह - `पररूपम्` इत्यादि। `पूर्वेणैव` इति।<<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यननैव। व्यवहितेऽपि पूर्वव्यपदेशः प्रवर्तते, यथा - मथुरायाः पाटलिपुत्रं पूर्वमिति।`कौलटेरः` इति। एयादेशे कृते वलि यलोपः॥", "41128": "`चटकाया अपत्यं स्त्री चटका` इति। <<लुक् तद्धितलुकि>> [[1.2.49]] इति लुकि कृते पुनष्टाप् कर्तव्यः। पुंल्लिङ्गादपि स्त्रियामिष्यत एव लुक्। एवम् `चटकादैरक्` इत्येतत् सूत्रमासीत्, इदानीं प्रमादाच्च `चटकायाः` इति पाठः॥", "41129": "`गोधेरः` इति। पूर्ववद्यलोपः॥", "41130": "`आचार्यग्रहणं पूजार्थम्` इति। ननु चासत्याचार्यग्रहणे नित्य एवायं विधिः स्यात्, तथा चारकः पूर्वेण ढ्रका समावेशो न स्यात्। तद्विकल्पार्थमेवाचार्यग्रहणं कस्मान्न भवतीत्याह - `वचनसामर्थ्यात्` इति। ढ्रगपि ह्रुच्यते, आरगपि, तत्र वचनसामर्थ्यात् समावेशो भविष्यति। तस्मात् पूजार्थमेवाचार्यग्रहणम्। `ज्ञापकं तु` इत्यादि। रका सिद्धे यदारग्वचनं सञ्ज्ञापनार्थम्। तेनैवं ज्ञायते - अन्येभ्योऽप्ययं भवति;अन्यथा ह्रारग्वचनमनर्थकं स्यात् रकि सिद्धेः। तेन जडस्यापत्यं जाडारः, पाण्डार इति सिद्धं भवति, न ह्रेतद्रका सिध्यति॥", "41131": "`अर्थधर्मेण` इति। अर्थस्य क्षुद्रत्वात्तदभिधायिन्योऽपि प्रकृतय उपचारेण क्षुद्रा इति निर्दिश्यन्ते॥", "41132": "", "41133": "`कथं पुनः` इत्यादि। ढग्विधौ टाबादिस्त्रीप्रत्ययान्तग्रहणात् पितृष्वसृशब्दस्य चास्त्रीप्रत्ययान्तत्वात्। ततो ढको भावमसम्भावयतः प्रश्नः। `एतदेव` इत्यादि। यदेतत् पितृष्वसृशब्दं प्रति ढको निमित्तत्वेनाश्रयणम्, एतदेव पितृष्वसृशब्दत् तस्य भावं ज्ञपायति। न ह्रसतो निमित्तभाव उपपद्यते॥", "41134": "`पितृष्वसुरित्येतदपेक्षते`इति। इहापि `अनन्तरस्य पितृष्वसुर्विधिर्वा भवतिप्रतिषेधो वा` इति लोप एवानन्तरः प्राप्नोति, न छण्; व्यवहितत्वात्। उभयमपि चैतदिष्यते, तत्र यतो हेतोरेतद्द्वयमपि लभ्यते तमनेन दर्शयति - `पितृष्वसुः` इति। एतदिहापेक्ष्यमाणं षष्ठन्तं ज्ञायते यथा लोपविधौ `पितृष्वसुः` [[4.1.132]] इति च षष्ठी, तेनायमर्थः सम्पद्यते - पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि तेन छण् ढकि लोपश्च लभ्यते। उभयमपि ह्रेतत् पितृष्वसुरुक्तम्॥", "41135": "`चतुष्पाद्भ्यः` इति। चत्वारः पाद आसामिति तास्तथोक्ताः। `पादस्य लोपऽहस्त्यादिभ्यः` [[5.4.138]] इति लोपः। इहाप्यर्थधर्मेण तदभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। अत एवाह - `चतुष्पादभिधायिनीभ्यः प्रकृतिभ्यः` इति। बहुवचननिर्देशः स्वरूपविधिनिरासाय। `अणादीनाम्` इति। आदिशब्देन ढगादीनां ग्रहणम्। `कामण्डलेयः` इत्यादि। कमण्डलूशुन्तिबाहुजम्बुशब्दाश्चतुष्पाज्जातिवाचिनः,तेषां `ढे लोपोऽकद्रवाः` [[6.4.147]] इत्युवर्णलोपः॥अणादीनामपवादः। आदिशब्देन ढकः। बहुवचननिर्देशस्तु प्रकृतिभेदेन तयोर्भेदस्य विवक्षितत्वात्। तत्राजवस्तिमित्रयुशब्दयोरणोऽपवादः, शेषाणां <<इतश्चानिञः>> [[4.1.122]] इति ढकः॥", "41136": "", "41137": "`क्षत्रियजातिश्चेत्` इति। प्रत्ययान्तेन यदि क्षत्रियजातिर्गम्यते एवं यद् भवति। यो ह्रपत्यमेव राज्ञो न क्षत्त्रियजातिस्तत्राणेवौत्सर्गिको भवति। एतच्च `वा [[4.1.131]] इत्यस्येहानुवृत्तस्य व्यवस्थिविभाषात्वविज्ञानाल्लभ्यते। `राजन्यः` इति। <<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिभावः। `राजनः` इति। अत्रापि `अन्` [[6.4.167]] इति प्रकृतिभावः॥", "41138": "`घप्रत्ययो भवति` इति। घशब्द एव, न तु तरप्तमपाविति वेदितव्यम्। कथं पुनरेतल्लभ्यते,यावता `घः` इति तरप्तमपोरियं संज्ञा, चोच्चरिता संज्ञिनं सम्प्रत्ययायतीति तयोरेव ग्रहणं युक्तम्? नैष दोषः; प्रत्ययविधौ यत्र `घः` इति श्रूयते,तत्र स्वरूपस्य ग्रहणं भवति; ज्ञापकात्। यदयं प्रत्ययादेर्घकारस्येयादेशं शास्ति, तज्ज्ञापयति - यत्र प्रत्ययविधौ घः श्रूयते स्वरूपमेव गृह्रत इति। न हि संज्ञिनोग्र्रहणेन प्रत्ययादेर्घः सम्भवति॥", "41139": "`उत्तरसूत्रे` इत्यादि। उत्तरसूत्रे हि पूर्वपदप्रतिषेधाद्यस्यां परिभाषायां प्रातिपदिकश्रुतिरस्ति, साऽत्र नोपतिष्ठत इत्येषोऽर्थो ज्ञायते। यदि ह्रुपतिष्ठेत, तदा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव (व्या।प।89) स पूर्वपदान्न भविष्यतीत्यपूर्वपदादिति प्रतिषेधोऽनर्थकः स्यात्। सामान्यापेक्षञ्च ज्ञापकम्; तेन `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शाक।प।65), `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते` (व्या।प।89) इत्येतयोरपीह परिभाषयोरुपस्थानं न भवति। ततश्च कुलशब्दान्तं प्रातिपदिकं कुलशब्दो गृह्रते॥", "41140": "ननु पूर्वशब्दोऽवयववचनः; न च कुलशब्दस्य पदान्तरमवयव उपपद्यते; पृथग्भूत्तवात्, अनारम्भकत्वाच्च, ततो व्यपच्छेद्याभावादपूर्वपदादित्युक्तमेतत्कुलशब्दस्य विशेषणम्? इत्याह - `समाससम्बन्धि` इत्यादि। समासे सत्येतद्भवति - पूर्वपदम्, उत्तरपदमिति। तस्मात् समाससम्बन्धिनः पूर्वपद्सयाभावेन कुलशब्दो विशेष्यते - अविद्यमानं समाससम्बन्धि पूर्वपदं यस्येति। कस्य चाविद्यमानम्? यः समासस्यान्तभूतो न भवति केवलः कुलशब्दः,तेन केवलात् कुलशब्दादयं विधिरित्युक्तं भवति। अथ व्यवस्थावाच्येव पूर्वशब्दः कस्मान्नाश्रीयते? अशक्यत्वात्। तत्र ह्राश्रीयमाणेऽविद्यमानं पूर्वपदं यस्मात् कुलशब्दात् सोऽपूर्वपदशब्देनोच्यते। ततश्च देवदत्तः कुल्यो देवदत्तः कौलेयक इति वाक्ये यड्ढकञौ न स्याताम्; देवदत्तस्येह पूर्वपदस्य विद्यमानत्वात्। `पदग्रहणं किम्` इति। अपूर्वादित्येवं कस्मान्नोक्तम्, एवमपि हीष्टं सिध्यति, लघु च सूत्रं भवतीति मन्यते। `बहुच्पूर्वपदादपि यथा स्यात्` इति। `अपूर्वात्` इत्युच्यमाने बहुच् पूर्वं यत्प्रतातिपदिकं बहुजस्य पूर्वं इति ततः प्रत्ययो न स्यात्। पदग्रहणे तु सति ततोऽपि भवति; तस्यापूर्वपदत्वात्। `बहुकुल्यः` इति। ईषदसमाप्तं कुलमिति <<विभाषा सुपो बहुच् पुरस्तात्तु>> [[5.3.68]] इति बहुच्। बहुकुलस्यापत्यं बहुकुल्यः॥", "41141": "", "41142": "", "41143": "", "41144": "`तकारः स्वरार्थः` इति। <<तित्स्वरितम्>> [[6.1.185]] इति स्वरितत्वं यथा स्यात्।", "41145": "ननु <<नित्यं सपत्न्यादिषु>> [[4.1.35]] इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं सपत्न इति प्रयोगः पुंलिङ्गस्य युज्यत इत्याह - `सपत्नशब्दः शत्त्रुपर्यायः` इत्यादि। `इवार्थे` इति। इवार्थः = सादृश्यम्। यथैव हि सपत्नी दुःखहेतुः, तथा शत्त्रुरपीति। यः सपत्नीव सपत्नः स उच्यते॥", "41146": "`यथायोगम्` इत्यादि। तत्राद्यानां चतुर्णां स्त्रीप्रत्ययान्तत्वाद् ढकोऽपवादः; वृकञ्चिन् - इत्यस्याणः, शेषाणामकरान्तत्वादिञः॥", "41147": "`अपत्यं प्रौत्रप्रभृति गोत्रं गृह्रते` इति। न लौकिकमपत्यमात्रम्, तद्ग्रहणे हि गोत्रग्रहणमनर्थकं स्यात्। अपत्याधिकारादेव तद्ग्रहणस्य लब्धत्वादिति भावः। `पितुरसंविज्ञाने` इति। अप्रसिद्धौ। तस्य पितुरसंविज्ञानप्रदर्शनार्थं मात्रा यो व्यपदेशोऽस्ति तेन कुत्सा स्यात्। `गार्गो जाल्मो गार्गिकः` इति। गर्गशब्दाद्गोत्रे गर्गादियञन्तात् `यञश्च` [[4.1.16]] इति ङीपि <<हलस्तद्धितस्य>> [[6.4.150]] इतिलोपे सति यकारस्य गार्गी इति स्थिते णठकौ। `ग्लौचुकायनः` इत्यादि। ग्लुचकस्यापत्यं गोत्रं स्त्री `प्राचामवृद्धात्` फिन् बहुलम्` [[4.1.160]] इति फिन्,ततः <<इतो मनुष्यजातेः>> [[4.1.65]] इति ङीष्,ततो णठकौ।`कारिकेयः`इति। कारकशब्दाण्ण्वुलन्ताट्टाप्।कारिकाशब्दोऽयं गोत्रे न वर्तते,ततो ढगेव भवति। `औपगविः`इति। उपगोरपत्यं गोत्रं पुमान्ण्, तदन्तादिञेव भवति। अत्र केनचित् प्रतिषिद्धाचरणादिना कुत्सा वेदितव्या।`गार्गेयो माणवकः` इति। अत्र पितरि विज्ञाते मातुः परिज्ञानार्थं तन्मत्रा व्यपदेशः क्रियत इति नास्ति कुत्सा, तेन ढगेन भवति॥", "41148": "`सौवीरेष्विति प्रकृतिविशेषणम्` इति। सौवीरेषु यद्वृद्धं सौवीरगोत्राभिधायि यद्वृद्धमित्यर्थः। `भागवित्तेःट इत्यादि। भगवित्तस्यापत्यं गोत्रम्। `अत इञ` [[4.1.95]] , तदन्तात् ठक् - `भागवित्तिकः`। `भागवित्तायनः` इति। <<यञिञोश्च>> [[4.1.101]] इति फक्। तृणादिबिन्दोरपत्यमौत्सर्गिकोऽण् तार्णबिन्दवः, ततष्ठक् - `तार्णबिन्दविकः`। पूर्वसूत्रे ठक् चानुकृष्ट इतीह नानुवर्तत इति पुनष्ठग्ग्रहणं ण्सय निवृत्त्यर्थम्। वापूर्वकं हि ठग्ग्रहणं णप्रत्ययेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्।`भागपूर्वपदो वृत्तिः` इत्यादि। येभ्योऽनेन सूत्रेण ठगिष्यते, त एतेन श्लोकेन परिगण्यन्ते। `भाग` इत्येतत् पूर्वपदं यस्य वृत्तिशब्दस्य स तथोक्तः। अयं तावदेको भागवित्तिः, द्वितीयस्तार्णबिन्दवः, तृतीयस्त्वाकशापेयः - य एते त्रयः शब्दाः ,गोत्रे ठग्बहुलं तत इति। सौवीरगोत्रवचनान्तात् प्रातिपदिकाद्बहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवित्तिप्रभृतिभ्यस्त्रिभ्यो भवति, नान्येभ्य इत्यर्थः।अथ वृद्धग्रहणं किमर्थम्, यावता पूर्वसूत्राद्गोत्रग्रहणमनुवर्तते, सौवीरग्रहणेनैव विशेषयिष्यामः; यच्चसौवीरगोत्रे वर्तते प्रातिपदिकं भागवित्त्यादिकं तद्वृद्धमेव, ततो निवृत्त्यभावादपार्थकं वृद्धग्रहणम्? इत्याह - `वृद्धग्रहणम्` इत्यादि। तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तस्मिन्ननुवर्तमाने विशेष्यायाः स्त्रिया अनुवृत्तिः स्यात्। तस्मात् तन्निदृत्त्यर्थं वृद्धग्रहणम्। गोत्रग्रहणमेवानुवर्तिष्यते; तस्यैव स्वरितत्वात्, न स्त्रीति - एतद्व्याख्येयं भवति। व्याख्यानाच्च लघु वृद्धग्रहणमेव।`औपगविः` इति। अणन्तादिञ्। ननु च परिगणनं कृतम्,तत्कथमौपगवशब्दात् ठक्प्रसङ्गः? सौवीरग्रहणे सति तत्परिगणनम्। तथा हि - भागवित्तिप्रभृतयः सौवीरगोत्राभिधायिन एव परिगणिताः। तत्रासति सौवीरग्रहणे औपगवशब्दादपि प्रसज्यते - `भागवित्तायनः` इति। पूर्ववत् फक्।अथ बहुलग्रहणं किमर्थम्,न, वाग्रहणमेव क्रियेत,तेनापि हि भागवित्तिको भाघवित्तिकायन इत्यादि सिध्यत्येव? इत्यत आह - `बहुलग्रहणम्` इत्यादि। वाग्रहणाद्विकल्पमात्रं लभ्यते, न तूपाधिवैचित्र्यम्। बहुलग्रहणे तु तदपि। तस्मादुपाधीनां विशेषमानां वैचित्र्यम् = नानाप्रकारता यथा स्यादित्येवमर्थं बहुलग्रहणम्। तदेवोपाधिवैचित्र्यं दर्शयितुमाह - `गोत्रस्त्रिया इत्यारभ्य` इत्यादि। सुखावबोधम्॥", "41149": "`यमुन्दश्च`इत्यादि। येभ्योऽनेन सूत्रेण छठकाविष्येते, तेषामनेन श्लोकेन परिगणनं क्रियते, तत्तु बहुलग्रहणानुवृत्तेरेव लभ्यत इत्येवं तद्वेदितव्यम्। यमुन्दमुद्दिश्य वृत्तिकारेणैवोदाहरणं दर्शितम्। इतरयोस्तु दर्शयामः - सुयाम्नोऽपत्यं, फिञ् - सौयामायनिः,तस्यापत्यं सौयामायनिकः। वृषस्यापत्यं,फिञ्, तस्य वाध्र्यायणिः, तस्यापत्यं वाष्र्यायणीयः,वाष्र्यायणिकः। एते यमुन्दादयः शब्दाः फिञः स्मृताः = फिञन्ता विज्ञाताः। <<गोत्रस्त्रियाः कुत्सने ण च>> [[4.1.147]] इत्यादयश्चत्वारो योगाः। तत्राद्यः कुत्सन एव, अन्त्यः सौवीरेष्वेव। मध्यमौ तु द्वौ सौवीरेषु कुत्सायाञ्च शब्दवित्स्मरेत् जानीयात्॥", "41150": "`आल्पाच्तरस्य` इत्यादि। मिमतशब्दोऽयमल्पाच्तरः, तस्य `अल्पाच्तरम्` [[2.2.34]] इति पूर्वनिपाते प्राप्ते यः परनिपातः स लक्षमव्यभिचारचिह्नं सूचयति। यथेदं पूर्वनिपातलक्षणं व्यभिचरति = स्वविषये न प्रवर्तते, तथा यथासंख्यलक्षणमपीति यथासंख्यं न भवति। अत एवैकैकस्मात् प्रत्ययद्वयं सिद्धं भवति॥", "41151": "`कौरव्यः` इति। <<ओर्गुणः>> [[6.4.146]] , <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादशः। `कुरुनादिभ्यो ण्यः` इत्यादि। किमर्थं पुनः कुरुशब्दादपरोऽपि ण्यप्रत्ययो भविष्यति, यावतानेनैव सिद्धम्, तदेव हि रूपम्, स एवच स्वरः? इत्यत आह - `स तु क्षत्त्रियात्` इति। अनेनार्थभेदं दर्शयति। स हि <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] इत्यधिकारात् क्षत्त्रियाद्भवति, अयं तु ततोऽन्यतः। ततश्चैकः क्षत्त्रियापत्यो भवति, अपरस्त्वक्षत्त्रियापत्य इति स्पष्ट एवार्थभेदः। रूपविशेषोऽपि बहुषु विद्यत इति दर्शयन्नाह - `तद्राजसंज्ञकः` इत्यादि। तस्य हि तद्राजसंज्ञकत्वात् `तद्राजस्य बहुषु` [[2.4.62]] इत्यादिना बहुषु लुका भवितव्यम् - कुरव इति। अयं तु श्रूयत एव कौरव्या इति।रथकारशब्दोऽतर्पठते, तत्र रथकारशब्दश्चास्त्येव जातिवचनः, अस्ति च कारिवचनः, तदिह तयोः कतरः पठते? इत्याह - `रथकारशब्दोऽत्र पठते` इत्यादि। अथ कारिवचनोऽपि कस्मान्न पठते? इत्याह - `कारिणस्तु` इत्यादि। यो हि वचनो रथकारशब्दः, तत उत्तरसूत्रेणैव ण्यः सिद्धः, तत्कित्र तस्य पाठेन !`पुंवद्भावो न भवति` इति। `भस्याऽढ तद्धिते` (वा।731) इति यः पुंवद्भावः प्राप्नोति, स केशिनी शब्दस्य न भवति। यदि स्यात्, <<नस्तद्धिते>> [[6.4.144]] इति टिलोपे कृते `कैश्यः` इत्यनिष्टं रूपं स्यात्। कस्मान्न भवति? इत्याह - `स्त्रीप्रत्ययस्य निर्देशसामर्थ्यात्` इति।यदि हि पुंवद्भावः स्यात्, स्त्रीप्रत्ययेनास्य निर्देशोऽनर्थकः स्यात्, पुंल्लिङ्गमेवैनं पठेत्। पुंल्लिङ्गस्यापि पाठे लिङ्गविशिष्टपरिभाषया केशिनीशब्दादपि प्रत्ययः सिध्यति। ननु च पुंल्लिङ्गनिवृत्त्यर्थः स्त्रीप्रत्ययान्तस्य पाठः स्यात्? नैतदस्ति; अभिधानादेव हि पुंल्लिङ्गान्न भविष्यति।`तस्य कण्वादिवत्िति। अपत्याधिकारेऽयमतिदेशो भवन् कण्वादिभिरपत्यप्रत्ययान्तैर्विज्ञायते। कण्वादयश्च गर्गाद्यन्तः पातिनः, तेन यञन्तानां कण्वादीनां यत्कार्यं तद्वामरथ्यस्य स्वरवर्जं भवतीत्ययं भवति। `लुगादिकम्` इति। आदिशब्देन ङीबादिकं गृह्रते। कण्वादीनमपत्यप्रत्ययस्य <<यञञोश्च>> [[2.4.64]] इति बहुषु लुग्भवति। स्त्रियां `यञश्च` [[4.1.16]] इति ङीप्। `प्राचां ष्फ तद्धिते` [[4.1.17]] इतिष्फ प्रत्ययःस्त्रियामेव। <<यञिञोश्च>> [[4.1.101]] इति फक्। शैषिकेष्वर्थेषु <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यण् <<तस्येदम्>> [[4.3.120]] इत्यर्थविवक्षायाम्। `सङ्घाङ्कलक्षणेष्वञ्यञिञाम्` [[4.3.127]] इत्यण्। एतानि कार्याणि यथा कण्वादीनां भवन्ति तता वामरथ्यस्यापि। एषां `वामरथा` इत्यादीनि यथाक्रममुदाहरणानि। `नातिदेशिकमाद्युदात्तत्त्वम्` इति। यथा कण्वादीनां यञन्तानां ञित्स्वरेणाद्युदात्तत्वं, न तथा वामरथ्यस्य, किं तर्हि? प्रत्ययस्वरेणान्तोदात्तत्वमेव भवति। `सम्राजः क्षत्त्रिये` इति। सम्राजः क्षत्त्रिये ण्यो भवति, सम्राजोऽपत्यं साम्राज्यः। अन्यत्राणेव - साम्राजः॥", "41152": "अत्र ग्रहणवता प्रातिपदिकेन तदन्तविधि (व्या।प।89) प्रतिषेधाल्लक्षणशब्दस्य स्वरूपग्रहणम्। अत एवाह - `लक्षणशब्दात्` इति। कारीत्यर्थग्रहणम्। तत्रार्थे कार्यस्याभावात् तद्वाचिनः प्रत्ययो विज्ञायत इत्याह - `कारिवचनेभ्यश्च` इति।यथा लक्षणशब्दस्य स्वरूपग्रहणं तथा कारिशब्दस्य कस्मान्न भवति? शिवादिषु तक्षन्निति पाठात्। अस्य हि कारिलक्षणमिञं बाधितुं तत्र पाठः। यदि च कारिशब्दस्येह स्वरूपग्रहणं स्यात्, तक्षन्शब्दादिभ्यः प्राप्तेरसम्भवादुत्सर्गेणैवाणा भवितव्यमिति तस्य शिवादिषु पाठोऽनर्थकः स्यात्। अर्थग्रहणे त्वनेन प्राप्तस्येञो बाधनार्थस्तत्र पाठो युज्यते॥", "41153": "`वचनसामर्थ्यात्` इत्यादि। ण्योऽप्युच्यते, इञपि, वचनसामर्थ्यादेवान्तरेणाचार्यग्रहणं तयोः समावेशे सिद्धे तदाचार्यग्रहणं क्रियते तद्वैचित्र्यार्थम्। आचार्यग्रहणस्यातिरिच्यमानत्वादयमर्थो लभ्यते, ग्रन्थाधिक्यादर्थाधिक्यं भवतीति कृत्वा। ननु च पूजार्थमाचार्यग्रहणं स्यात्? नैतदस्ति; एवं हि प्राचामपि ग्रहणं कर्तव्यं स्यात्। तेऽपि हि सेनान्तलक्षणकारिभ्य इञं स्मरन्ति। `तक्षन्शब्दः` इत्यादिना वैचित्र्यं दर्शयति। `ताक्ष्णः` इति। शिवाद्यणि कृते <<षपूर्वहन्धृतराज्ञामणि>> [[6.4.135]] इत्यल्लोपः। `ताक्षण्यः` इति। <<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिभावः॥", "41154": "`कौरव्यशब्दः पठते` इत्यादि। कौरव्यशब्दोऽयमस्त्येव क्षत्त्रियगोत्रवचनो यः <<कुरुनादिभ्यो ण्यः>> [[4.1.172]] इति ण्यप्रत्ययान्तः; तयोरिह पूर्वो गृह्रते। कुत एतत्? औरसशब्देन साहचर्यात्। औरसशब्दोऽयं <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] इत्यञ्प्रत्ययान्तः, तेनासौ क्षत्त्रियवचनः, तत्साहचर्याच्चकौरव्यशब्दो यः क्षत्त्रियप्रत्ययान्तत्वात् क्षत्त्रियवचनः स एव गृह्रते।`यस्तु` इत्यादि। यस्तु <<कुर्वादिभ्यो ण्यः>> [[4.1.151]] । इति ण्यप्रत्ययान्तो ब्राआहृणादिगोत्रवचनः, तस्मात् `अत इञ्` [[4.1.95]] इदीञैव भवितव्यम्, तत्रैतत् स्यात्? स्वमनीषिकेयं भवत इत्याह - `तथा च` इत्यादि। यत एवं ब्राआहृणादिगोत्रवचनादिञैव भवितव्यम्। तथा हि ण्यक्षत्त्रियादि [[2.4.58]] सूत्रे पूर्वेरपि वृत्तिकारैः - कौरव्यः पिता, कौरव्यः पुत्र इत्युदाहृतम्। यदि चातः फिञ् स्यात् तदुदाहरणं न युज्येत।न हि ण्यप्रत्ययान्ताद्विहितस्य फिञो यूनि लुगुच्यते, अपि त्वणिञोः॥", "41155": "`परमप्रकृतेरेवायं प्रत्यय इष्यते` इति। कोशलशब्दात्, कर्मारशब्दाच्च। एवकाः <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] इति ञ्यङन्तो यः कौशल्यशब्दः, यश्च <<सेनान्तलक्षणकारिभ्यश्च>> [[4.1.152]] इति कारिलक्षणण्यप्रत्ययान्तः कर्मार्यशब्दः तयोव्र्यवच्छेदाय।यदि मूलप्रकृतेरेवेष्यते, कथमिदं विकृतं प्रकृतिरूपं श्रयूते? इत्याह - `प्रत्ययसन्नियोगेन` इत्यादि। न चेयं स्वमनीषिका, अपि त्वाचार्यणामेव भाष्यकारप्रभृति#ईनामिदं मतमिति दर्शयन्नाह - `तथा च` इत्यादि। कः पुनः परमप्रकृतेः प्रत्ययान्ताद्वत्पत्तौ विशेषः? परमप्रकृतेरुत्पत्तावपत्यमात्रे प्रत्ययो लभ्यते, प्रत्ययान्तात् तूत्पत्तौ `गोत्राद्यूनि` [[4.1.94]] इति वचनात् `यून्यपत्ये` इत्येव विशेषः। `युड् वादिष्टस्य` इति। आदिष्टग्रहणमायन्नादेशए कृते यथा स्यादित्येवमर्थम्; अन्यथा ह्रनादित्वादायन्नादेशो न स्यात्। `दागव्यावनिः` इति। `ओर्गुणेः` [[6.4.146]] कृते <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः॥`कात्र्रायणिः` इति। कर्त्तुरपत्यमित्यण् - कार्त्रः, ततः फिञ्। `\tदाक्षायणः` इति। दाक्षिशब्दादिञन्ताद्यूनि पञिञोश्च` [[4.1.101]] इति फक्। प्रतिपादनादि सुगमम्॥", "41156": "", "41157": "`वृद्धात्` इति। इहैव यत्पारिभाषिकं वृद्धं तद्गृह्रते, न शास्त्रान्तरप्रसिद्धम्, अगोत्रादिति प्रतिषेधात्। `कारिशब्दात्` इत्यादि। कारिलक्षणस्येञोऽवकाशः - तान्तुवायिरिति, फिञोऽवकाशः -आम्रगुप्तायनिरिति; इहोभं प्राप्नोति - नापितायनिरिति, परत्वात् फिञेव भवति॥", "41158": "`यदिह वृद्धमगोत्रम्` इति। वाकिनशब्दादिकाकपर्यन्तम्। `इञाद्यपवादो योगः` इति। आदिशब्देनाणो ग्रहणम्। तत्र चर्मिवर्मशब्दयोरणोऽपवादः शेषाणामिञः।`चमिवर्मिणोर्नलोपश्च` इति। चर्मिन्, वर्मिन् - इत्येतयोः कुक्फिञौ भवतः, नलोपश्चेति। कुकि कृते प्रातिपदिकस्यानकारान्तत्वान्नलोपोऽत्र न प्राप्नोतीति विधीयते - चार्मिकायणिः,वार्मिकायणिः॥", "41159": "`तेन` इत्यादि। वचनात् पूर्वसूत्रेणैवोदीचां मतेन यः पक्षे फिञ् विहितस्तस्मिन्ननेनान्यतरस्यां कुगागमोऽपि विधीयते।तेन त्रीणि रूपाणि भवन्ति॥", "41160": "`विकल्पार्थः` इति। विकल्पप्रयोजनाय। `एकेनैव सिध्यति` इति। विकल्पार्थत्वादिति।प्रकृतत्वाद्विकल्प इति गम्यते। अत्र च किमर्थं सर्वेषां ग्रहणमित्यध्याहार्यम्। तत्रेत्याद्युत्तरम्। यच्चोदीचांग्रहणं यच्च प्राचांग्रहणम्, तदुभयं पूजार्थम्। `बहुलग्रहणं वैचित्र्यार्थम्` (इति)। पारिशेष्यादन्यतरस्यांग्रहणं विकल्पार्थमित्युक्तं भवति। `क्वचित्` इत्यादिना बहुलग्रहणस्य वैचित्र्यार्थतां दर्शयति॥", "41161": "`तथा च` इत्यादि। यस्मादपत्यार्थोऽत्र नास्ति, एवञ्च कृत्वा मानुषा इति बहुषु लुग्न भवति। अपत्यार्थे तु सति <<यञञोश्च>> [[2.4.64]] इति बहुषु लुक् प्रसज्येत।`अपत्ये कुत्सिते` इत्यादि। मूर्धन्योपसंख्यानपरोऽयं श्लोकः। अण्प्रत्ययोऽपत्यविवक्षायाम् <<तस्यापत्यम्>> [[4.1.92]] इत्येनैव सिध्यति। ननु च मूर्धन्योऽपि च बहुलग्रहणानुवृत्त्या सिध्यत्येव? एवं तर्हि बहुलग्रहणानुवृत्तेर्लभ्य एवार्थः श्लोकेन कथ्यते। स चापि मूर्धन्यो विशिष्ट एव विषये मूढादावपत्ये भवति, न सर्वत्र। अनधीतवेदत्वदज्ञो मूढः। मूढत्वादेव प्रतिषिद्धाचरणाद्वा कुत्सितो यः स ब्राआहृणजातीयो माणव उच्यते॥", "41162": "प्रभृतिशब्द आदिशब्दस्यार्थे। पौत्रः प्रभृतिर्यस्येति बहुव्रीहिः। यदि पौत्रप्रभृति यदपत्यं तद्गोत्रसंज्ञं भवति, गर्गस्यापि गोत्रसंज्ञा प्राप्नोति, सोऽपि कञ्चित् प्रति पौत्रो भवत्येव। सत्याञ्च गोत्रसंज्ञायां गोत्रशब्दादनन्तरापत्ये प्रत्ययो न प्राप्नोतीति चोद्यमाशङ्क्याह - `सम्बन्धिशब्दत्वात्` इत्यादि। गोत्रसंज्ञा ह्रपत्यस् पोत्रप्रभृतेर्विधीयते। ते च यस्चापत्यमिति सम्बन्धिशब्दोऽसौ नियोगतोऽपत्यवन्तमपेक्षत। तेन तस्य यदपत्यं तदपेक्षया गोत्रसंज्ञा विधीयते। न च यस्य गर्गः पोत्रस्तस्यासौ गर्गोऽप्तयमिति शक्यते व्यपदेष्टुम् ; अपत्यत्वस्य तत्राप्रतिभासनात्। अप्रतिभासनं पुस्तस्तस्य द्वतोऽविवक्षितत्वात्। यदपि हि तत्रापत्यत्वं तदप्यविवक्षितस्वरूपेण नाख्यातम्, ततोऽपत्यस्य पोत्रप्रभृतेर्विधीयते। अतः स्वरूपेण प्रतिभासमानो न भवति गर्गस्य गोत्रसंज्ञायाः प्रसङ्गः।`गर्गस्य पौत्रप्रभृति` इति। गर्गसम्बन्धि पौत्राद्यपत्यं गाग्र्य इति गोत्रसंज्ञायां सत्यां <<गोत्रे कुञ्जादिभ्यश्च्फञ्>> [[4.1.98]] इत्यतो गोत्र इत्यनुवर्तमाने <<गर्गादिभ्यो यञ्>> [[4.1.105]] इतिगोत्रेऽपत्ये यञ् भवति। `अपत्यमिति व्यपदेशोऽयम्` इति। संज्ञिन इति शेषः। तच्चोत्तरसूत्र इत्यभिप्रायः। इह तु पौत्रस्यापत्यत्वाव्यभिचारात् तदपत्यमेव प्रत्ययान्तैः विज्ञायत इति नार्थः संज्ञिव्यपेदशार्थेनापत्यग्रहणेन। उत्तरसूत्रे तु पौत्रप्रभृत्येतत् षष्ठन्तं विपरिणम्य पौत्रप्रभृतेः सम्बन्धिनोऽपत्यस्य युवसंज्ञेष्यते, सा चापत्यग्रहणमन्तरेण न लभ्यते। अन्यदपि ह्रपत्यात् पौत्रप्रभृतेः सम्बन्ध्यस्ति, तत्र न ज्ञायते - कस्येयं संज्ञेति? अतस्तत्र संज्ञिनो व्यपदेशाय युक्तमपत्यग्रहणमित्येके।इह तु संज्ञिव्यपेदशार्थं युक्तमपत्यग्रहणं पश्यामः। असति ह्रपत्यग्रहणे सम्ब्नधिशब्दत्वादपत्यशब्दस्येत्यादि यदुक्तं चोद्यनिरासाय तदघटमानं स्यात्। ततश्च गर्गस्यापि गोत्रसंज्ञा स्यादेव। तस्मादिहापि संज्ञिव्यपेशायापत्यग्रहणं कर्तव्यमेव, अपत्यरूपेण प्रतिभासमानस्य संज्ञा यथा स्यात्।`अन्यस्य मा भूत्` इति। ननु च तस्मादेव तत्प्रकृतमपत्यग्रहणं तदेव संज्ञिव्यदेशाय भविष्यति, तत् किमपरेणापत्यग्रहणेन? नैतदस्ति; तद्धि प्रत्ययार्थतया प्कृतं कथं संज्ञिनो व्यपदेशाय स्यात्; स्यादेतत् यद्यपि तत्प्रत्ययार्थे कृतं तथापि तस्येहानुवृत्तस् तत्प्रयोजनं नास्तीत्यतः संज्ञिव्यपदेशाय विज्ञास्यत इति?एतच्च नास्ति; उत्तरार्थं ह्रधिकाराणामनुवृत्तिर्दृश्यते,व्याख्यानञ्चैवं कर्तव्यं स्यात्, व्याख्यानाच्च वचनमेव लघुतरमित्यपत्यग्रहणं कर्तव्यम्। `कौञ्जि-, गार्गिःर` इति। अनन्तरस्य गोत्रसंज्ञाया अभावात् <<गोत्रे कुञ्जादिभ्यश्च्फञ्>> [[4.1.98]] , <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यश्च गोत्रे विधीयमानो न स भवति॥", "41163": "`अभिजनप्रबन्धः` इति। अभजनाः = पितामहादयः, प्रबन्धः = सन्तानः, तत्र भवो वंश्य इति दिगादित्वाद्यत्। `पौत्रप्रभृत्यपत्यम्` इति। षष्ठीसमासः। `पौत्रप्रभृतीति च` इत्यादि। यदि पौत्रप्रभृतीत्येतत् सामानाधिकरण्येनापत्यं विशेषयेत् पौत्रप्रभृति यदपत्यमिति तदारभ्य युवसंज्ञा स्यात्, तच्चानिष्टम्। तस्मान्नैतत् सामानाधिकरण्येनापत्यस्य विशेषणम् किं तर्हि? अर्थाद्विभवनक्तविपरिणामे कृते षष्ठन्ततामापन्नं वैयधिकरण्येन पौत्रप्रभृर्यदपत्यमिति, तथा सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह - `तेन` इत्यादि। यत एवं विभक्तिविपरिणामे कृते पौत्रप्रभृतीत्यनेन षष्ठन्तेनापत्यं विशेष्यते तेन चतुर्थादारभ्य युवसंज्ञा विधीयते, तस्य च विभक्तपरिणामस्यापत्यं हेतुः। अपत्यशब्दो हि सम्बन्धिशब्दत्वनाद्धेत्वाद्यपेक्षते,तत्र षष्ठआ हेतुर्भवति। सन्निहितत्वाच्च। पौत्रप्रभृति तस्येत्येतदेवापेक्षते, ततस्तत्रैव षष्ठीं प्रकल्पयति।यदि तह्र्रपत्यग्रहमसामर्थ्यात् पौत्रप्रभृतेः षष्ठीविपरिणामो भवति, पूर्वसूत्रेऽपि कस्मान्न भवति? तत्र प्रथमाया अनवकाशत्वात्। पूर्वसूत्रे ह्रकृतार्था प्रथमा, ततो न शक्यते तस्याः षष्ठीं विपरिणमयितुम्। इह तु कृतार्था शक्यते षष्ठीभावेन विपरिणमयितुम्। `गाग्र्यायणः` इति। इह युवसंज्ञायां सत्यां <<गोत्राद्यून्यस्त्रियाम्>> [[4.1.94]] इति गोत्रप्रत्ययान्ताद्यूनि प्रत्ययो भवति। `तु शब्दोऽवधारणार्थः` इति। कः पुनः संज्ञासमावेशे दोषः कथ्यते? शालङ्केरपत्यं युवा <<यञिञोश्च>> [[4.1.101]] इति फक्, पैलस्यापत्यं युवा <<अणो द्व्यचः>> [[4.1.156]] इत फिञ्,तयोः <<पैलादिभ्यश्च>> [[2.4.59]] इति लुगुच्यते - शालङ्किर्युवा, पैलो युवेति। यदि च गोत्रयुवसंज्ञयोः समावेशः स्यात् तदा शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायां प्राग्दीव्यतीयेऽजादौ प्रत्यये विषयभूते गोत्रादयः <<गोत्रेऽलुगचि>> [[4.1.89]] इत्यलुक् स्यात्। ततस्तस्माद्यूनो गोत्रसंज्ञा मा भूदित्यवधारणार्थस्तुशब्दः क्रियते॥", "41164": "भ्रातृशब्दस् सम्बन्धिशब्दत्वाद्यदपेक्षं भ्रातृत्वं मेव भ्रातरं संज्ञित्वेनोपक्षिपति। ज्यायानिति प्रशस्यतरोवृद्धतरश्चाभिधीयते। तस्य च ज्यायस्त्वं गुणैर्वयसा वा। युवानं प्रतियोगिनमपेक्ष्य भवतीति स एव ज्यायसीत्यनेन प्रतियोगी प्रत्युपस्थाप्यते। तेन भ्रातुरेव कनीयसः संज्ञा विज्ञास्यत इति मत्वाह - `कनीयान् भ्रातः यवसंज्ञो भवति` इति। `पूर्वजाः` इत्यादिना अवंश्यार्थतामारम्भस्य समर्थयते। `अकारणत्वात्` इत्यनेनापि भ्रातुरवंश्यत्वम्। यो हि साक्षात् पारम्पर्येण वा कारणं स वंश्यः, न च भ्राता कारणम्, तस्मादसौ वंश्यो न भवतीति॥ गार्ग्ये जीवति भ्रातरि जीवतीत्यर्थः। एवं वात्स्ये जीवति वात्स्यायनोऽस्य कनीयान् भ्राता, दाक्षौ जीवति दाक्षायणोऽस्य कनीयान् भ्राता वेदितव्यः॥", "41165": "", "41166": "", "41167": "", "41168": "जनपदवृत्तिशब्दः पञ्चालादिर्जनपद इत्युक्तः,क्षत्रियवृत्तिः क्षत्रिय इत्यभिधानेऽभिधेयोपचारात्, साहचर्याद्वा। ननु पञ्चालादयः शब्दाः, ते <<तस्य निवासः>> [[4.2.69]] इति तद्धिते कृते तस्य <<जनपदे लुप्>> [[4.2.81]] इति लुपि च जनपदे वर्तन्ते, तत् कथमवरकालया जनपदशब्दतया नित्याः क्षत्रियशब्दा विशेष्यन्ते? कथं पुनः क्षत्त्रियसम्बन्धादेते जनपदे वर्तन्त इत्येतदभिधातुमर्हति विद्वान्। सूत्रकारेण हि `तदशि,यं संज्ञाप्रमाणत्वाल्लुव्योगाप्रख्यानात्` (1.2.53,54) इतियुक्तवद्भावं लुपञ्च प्रत्यादिशता जनपदे क्षत्त्रियेष्विव स्वत एव पञ्चालादिशब्दस्य वृत्तिरुक्ता। यथा शब्दा नित्यास्तथा पञ्चालादिरपि जनपद इति कुतो जनपदवचनानताया अवरकालता !`पाञ्चालः` इत्यादि। पञ्चालादयः शब्दा देशे सन्तः क्षत्त्रियवाचिनोऽपि भवन्ति स्वभावत एव, तेभ्योऽपत्यार्थेऽञ्। `ऐक्ष्वाकः` इति। इक्ष्वाकुशब्दस्य `दाण्डिनायनहस्तिनायन` [[6.4.174]] इत्यादौ सूत्रे उकारलोपो निपातितः।`द्रौह्रवः` इति। द्रह्रुशब्दः क्षत्त्रियवचन एव, न जनपदशब्दः, तेनाणेव भवति। `पाञ्चालिर्वैदेहिः` इति। इह पञ्चालविदेहशब्दौ भवतो जनपदशब्दौ, न तु क्षत्त्रियवचनौ। अपि तु ब्राआहृणवचनो, तेनेञेव भवति। `क्षत्त्रियसमानशब्दात्` इत्यादि। क्षत्त्रियवचन एव शब्द उपचारेण क्षत्त्रिय इत्युक्तः जनपदशब्दो जनपद इति। क्षत्त्रियेण समानः शब्दो यस्य स तथोक्तः। तस्मात् क्षत्त्रियसमानशब्दादस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत् प्रत्ययोत्पत्तिरिति वक्तव्यम्। <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] (इति) प्राप्तस्य वुञोऽपवादः। यथा पञ्चालस्यापत्यमित्यत्र भवति पाञ्चालः, तथा पञ्चालानां राजा पाञ्चाल इत्यत्रापि भवति।`मागधः` इति। मगधशब्दादपत्ये <<द्व्यञ्मगधकलिङ्गसूरमसादण्>> [[4.1.170]] इत्यादिनाण् भवति, तथा तस् यराजेत्यत्रापि॥", "41169": "", "41170": "", "41171": "वृद्धग्रहणेनेह <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इति गृह्रते, तस्यैव हि जनपदशब्दता क्षत्त्रियवाचित्वं च सम्भवति, न शास्त्रान्तरपरिभाषितस्य। `आम्बष्ठ्यः सौवीर्यः` इति। आम्बष्ठसौवीरशब्दाभ्यां ञ्यङ। `आवन्त्यः, कौन्त्यः` इति। अवन्तिकुन्तिशब्दाभ्यां ञ्यङ। `कौमारः` इत्यत्राञ् भवति। `डण् वक्तव्यः` इति। क्षत्त्रियञ्यङोऽपवाद इति, डकारष्टिलोपार्थ इति। स च `वान्यस्मिन् सपिण्डे` [[4.1.165]] इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवृत्तेर्लभ्यते। तथैवमतिप्रसङ्गो भवति? व्यवस्थितविभाषात्वात् स न भविष्यति। `अन्यस्मात् पाण्डवः` इति। यः पाण्डुशब्दः क्षत्त्रिये वर्तते,तस्मादौत्सर्गिकेऽणि कृते पाण्डव इति भवति॥", "41172": "अञणोरपवादः। कुरुशब्दस्यतु द्व्यज्लक्षणस्याणः। कुरुशब्दात् <<कुर्वादिभ्यो ण्यः>> [[4.1.151]] इति पूर्वमपत्ये उक्तः। तस्य यो जनपदशब्द क्षत्त्रियो न भवति सोऽवकाशः, यस्तु जनपदशब्दः क्षत्त्रियस्तस्मात् परत्वादञि तदपवादो द्व्यज्लक्षणोऽण् स्यात्। अतस्तं बाधितुं पुनर्ण्यो विधीयते॥", "41173": "`अजपीष्यते` इति। तन्नामिकालक्षणः। कुतो विज्ञायते? साल्व इति निपातनात्। तदवयवा जनपदानां वाचकाः क्षत्त्रियाणां समाना भवन्ति। अतस्तेऽप्यौपचारिकं साल्वापदेशमासादयन्ति॥", "41174": "`गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्` इति।गोत्रयुवसंज्ञाप्रकरणं हि यदन्तरा व्यवधायं कृतं तस्यैतदेव प्रयोजनम्। तेन ये व्यवहिताः पूर्वेऽणादयस्तेषां `ते तद्राजाः` इत्यत्र सर्वनाम्ना प्रत्यवमर्शो मा भूदिति। `तथा चैवोदाहृतम्` (इति)। `तद्राजस्य बहुषु तेनैवास्त्रियाम्` [[2.4.62]] इत्यत्र कार्याश्रयमुदाहृतम्। इह तु प्रकरणे रूपाश्रयम्॥", "41175": "`चोलः,शकः` इति। द्व्यञ्मगध [[4.1.168]] लक्षणस्याणो लुक्। केरल इत्यञः॥", "41176": "`अवन्ती। कुन्ती` इति। तद्धितलुकि कृते <<इतो मनुष्यजातेः>> [[4.1.65]] इति ङीष्। `कुरूः` इति। `ऊङ्` [[4.1.66]] इत्यूङ्॥", "41177": "`तकारो विस्पष्टार्थः` इति। तकारे ह्रसति `अस्य` इति निर्देशेन भवितव्यम्, ततश्च समानत्वान्निर्देशस्य सन्देहः स्यात् - किमयवमवर्णस्य निर्देशः? आहोस्तवित् इदमः? इति। तकारे तु सत्येष दोषो न भवति; तपरस्य वणष्वेव प्रसिद्धत्वात्। दीर्घनिवृत्त्यर्थस्तु तकारो न भवति, दीर्घस्यासम्भवात्। `सूरसेनी। मद्री` इति। सूरसेनाशब्दाद्योऽञ्, म्दरशब्दाद्यो द्व्यज्लक्षणोऽण् - तयोर्लुकि कृते `जातेरस्त्रीविषयादयोपधात्` [[4.1.63]] इति ङीष्। `दरत्` इति। दरच्छब्दाद् द्व्यञ्मगधलक्षणस्याणो [[4.1.168]] लुक्।यदि `अतः` इति वर्णस्येदं ग्रहणम्, एवंसति वर्णग्रहमं तदन्तविधिं प्रयोजयतीतीहापि प्राप्नोति - आम्बषष्ठआ, सौवीर्या इति? अत आह - `अवन्त्यादिभ्य लुक्` इत्यादि। यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्। तदन्तविधावसत्यकारग्रहणमात्रेण न सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमनर्थवद्भवति॥", "41178": "`पाञ्चाली, वैदेही`इति। <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] इत्यादिनाञ्। `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] । `आङगी। मागधी` इति। <<द्व्यञ्मगधकलिङ्गसूरमसादण्>> [[4.1.170]] इत्यादिनाण्। `जातेरस्त्रीविषयादयोपधात्` [[4.1.63]] इति ङीष्। भर्गशाल्वशब्दाभ्यां द्व्यञ्मगधलक्षणोऽण् [[4.1.168]] । शेषेभ्यस्त्वञ्। `भार्गी` इत्यादौ पूर्ववत् ङीष्। `यौधेयी, शौक्रेयी, शौभ्रेयी` इति। यौधेय शौक्रेय शौभ्रेयशब्देभ्यः स्वार्थे `पर्(ाआदियौधेयादिभ्योऽणञौ` [[5.3.117]] इत्यण्। भार्गीत्यादौ पूर्ववन्ङीष्। `कस्य पुनः` इत्यादि।येनाभिप्रायेण पृष्टवान् तं `कथम्` इत्यादिना आविष्करोति। `पर्(ाआदि` इत्यादि। पर्शूः = क्षत्त्रियः, जनपदेन समानशब्दः, तस्यापत्यं स्त्रीत्वविशिष्टम्। <<द्व्यञ्मगधकलिङ्गसूरमसादण्>> [[4.1.170]] इत्यादिनाण्, तस्य `अतश्च` 4.1.77) इति लुक्। पर्(ाआदियौधेयादिभ्योऽणञौ` [[5.3.117]] इत्यनेनापि यः स्वार्थिकोऽण्, तस्यापि लुक्। एवं `रक्षाः` इति। असूरशब्दाज्जनपदशब्दादित्यादिनाञ्, तदन्तात् पूर्ववत् स्वार्थिकोऽण् तोयर्लुक्। `तथा च` इत्यादिना ज्ञापकमेव भाष्यकारयतेन द्रढयति॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांचतुर्थाध्याये प्रथमः पादः।", "42001": "रञ्जिरयमस्त्येवानुरागे - देवे रक्तः, स्त्रियां रक्त इति; अस्ति च वर्णविशेषे - रक्तो गौरिति, लोहित इत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने -रक्तः पट इति, शुक्लमपनीय रक्तादिकं वर्णान्तरमापादित इत्यर्थः। इह तृतीयेऽर्थे वर्तमानो गृह्रते, यदाह - `शुक्लस्य` इत्यादि। रागशब्दोऽयमस्त्येव भावसाधनः, अस्ति च करणसाधनः; तत्रेह द्वितीयो गृह्रते, यदाह - `रज्यतेऽनेनेति रागः` इति। रागग्रहणेन चार्थस्य ग्रहणम्, न स्वरूपस्य। तेन रागविशेषवाचिनः प्रातिपदिकात् प्रत्ययो विज्ञायते, न तु रागशब्दादेवेत्यत आह - `रागविशेषवाचिनः प्रातिपदिकात्` इति। अथ स्वरूपग्रहणं कस्मान्न भवति? अर्थपरत्वान्निर्देशस्य। यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्रते,न यत्रार्थपरो निर्देश इति प्राक् प्रतिपादितमेव। अर्थपरत्वञ्च निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्गम्यते। यदि तर्हि शुक्लस्य वर्णान्तरापादनमित्यभिप्रायेणाह - `कथम्` इति। `उपमानात्` इत्यादि परिहारः। यथा `गौर्वाहीकः` इत्युपमानाद्गोशब्दोऽर्थान्तरे वाहीके वर्तते,तथेहापि काषायादिशब्दो गर्दभकर्णादाविति भावः॥", "42002": "`शकलकर्दमाभ्यामणपीष्यते` इति। स च `वान्यस्मिन् सपिण्डे` [[4.1.165]] इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणानुवृत्तेर्लभ्यते। न चैवं सत्यतिप्रसङ्गो भवति; व्यवस्थितविभाषाविज्ञानात्॥", "42003": "इह कालं क्रियात्मानं केचिदिच्छिन्ति, अपरे द्रव्यात्मानमाकाशादिकल्पम्। दर्शनद्वयमपि चैतदिहाश्रयितुमयुक्तम्। पूर्वस्मिन् दर्शने समाश्रीयमाणे सूर्यादिद्रवयान्तर्सयायां वा क्रियाया नक्षत्रेण योगः स्यात्? आत्मस्थाया वा? पूर्वस्यास्तावन्न सम्भवति, अर्थान्तरासमवायात्। अन्यथा ह्राकाशादयोऽपि क्रियावन्तः स्यु। न ह्रर्थान्तरसमवायिन्या अपि क्रियाया द्रव्यान्तरेण योगः स्यात्। आत्मस्थायास्तु क्रियाया विद्यते नक्षत्रेण योगः, किन्तु युक्तग्रहणं विशेषणं नोपपद्यते; व्यवच्छेद्याभावात्। न हि पुष्यादिस्थायाः कालस्य पुष्यादिभिः कदाचिद्योगो युज्यते यद्व्यवच्छेदार्थं युक्तग्रहणं क्रियते। एवं तावत् `क्रिया कालः` इत्येतद्दर्सनमत्राश्रयितुमयुक्तम्। द्वितीयमप्ययुक्तमेव; यस्मात् कालविशेषावधारणहेतुरिह योगोऽभिप्रेतः। तथा हि कालविशेषावधारणार्थमेव पौषीत्यादिलोके प्रयुज्यते। स चैवंविधो योगस्तयोरेव भवतीति ययोः सन्निकर्षविप्रकर्षे स्तः, यथा - पुष्यचन्द्रमसोः। तयोर्हि कदाचित् सन्निकर्षो भवति, तदाचिद्विप्रकर्षः। न च नक्षत्रकालयोः कदाचित् सन्निकर्षविप्रकर्षैः स्तः,तयोर्नित्यत्वादित्येतच्चेतसि कृत्वाह - `कथं पुनः` इत्य#आदि। न कथञ्चिदित्यभिप्रायः। नक्षत्रनिकटवर्तिनि चन्द्रमसि वर्तमानः सूत्रे नक्षत्रशब्द उपात्त इत्येतत् सूचयन्नाह - `पुष्यादिसमीपस्थे` इत्यादि। यतैव हि सामीप्यात् `गङ्गायां घोषः` इति गङ्गासमीपस्थे देशे गङ्गाशब्दो वर्तते, तथेहापि पुष्यदयो नक्षत्रविशेषवाचिनः शब्दाः पुष्यादिसमीपस्थे चन्द्रमसि वर्तन्ते। तेन तत्रैव वर्तमानाः प्रत्ययमुत्पादयन्ति। तेन पुख्यादिसमीपस्थचन्द्रमसा कालस्य विशेषावधारणहेतुर्योग उपपद्यते। तदवस्थस्य चन्द्रमसः कादाचित्कत्वात्। पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः; तदवस्थे चन्द्रमसि पुष्यशब्दस्य वृत्तेः। `पौषी` इति। `सूर्यतिष्यागस्त्यमस्त्यानां य उपधायाः [[6.4.149]] इत्यत्र `{तिष्यपुष्ययोर्नक्षत्राणि यलोपः` इति मु।पाठ।} तिष्यपुष्ययोर्नक्षत्राणि` (वा।808) इति वचनाद्यलोपः॥", "42004": "यद्यविशेषे लुग्भवति, इहापि प्राप्नोति - पौषी रात्रिः,पौषमहरिति, अत्राप्यविशेषी गम्यत एव। तथा हि - पौषीरात्रिरित्युक्ते, अद्य आओ वेति विशेषो न गम्यत इत्यत आह - `न चेत् नक्षत्रयुक्तस्य` इत्यादि। एवं मन्यते - <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यनुवर्तते, तेन तद्विशेष एव न भवतीति। `रात्र्यादिविशेषः` इति।आदिशब्देनाह, मुहूर्त्तः, लवः - इत्येते विशेषा गृह्यन्ते। `यावान्` इत्यादि। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। कियांश्च कालो नक्षत्रेण युज्यते? अहोरात्रः। तदेवं यावान् कालो नक्षत्रेण युक्तस्तस्याविशेषे न गम्यते, अपि तु तदेकदेशस्य रात्रेः, अह्नो वेति नायं लुपो विषयः। यद्येवम्, प्रत्ययस्यापि कथमेकदेशो विषयः?समुदायद्वारेण तदन्तःपातिनो गृह्यन्ते। एकदेशानामपि योगात् पूर्वेण प्रत्ययोत्पत्तिः सिद्धा बवति। पुनरिहावयवस्यैकदेशो लुपो विषय इति। इह तर्हि प्राप्नोति - पौषोऽहोरात्र इति, अत् यावान् कालो नक्षत्रेण युक्तः, तस्याविशेषो गम्यते, तथा ह्रहोरात्र इत्युक्ते न ज्ञायते - किमतीतः, अथानागतः,अथ वर्तमान इति? नैष दोषः; अविशेष इति प्रसज्यप्रतिषेधोऽयम्। तेन नक्षत्रयुक्तस्य कालस्य यत्र विशेषो रात्र्यादिस्तत्र न लुग्भवतीति ज्ञायते, न तु यत्राविशेषस्तत्र तु लुब्भवतीति॥", "42005": "`लुपि युक्तवद्भावः कस्मान्न भवति` इति। यदि स्यात्, श्रवणशब्दस्य पुंल्लिङ्गता स्यात्। `निपातनात्` इत्यादिना परिहारः। गतार्थः॥", "42006": "नक्षत्रग्रहणं यत्प्रकृतं तदिहार्थात् षष्ठन्तं विपरिणम्यते।तेन नक्षत्राणां यो द्वन्द्वस्तस्मात् प्रत्ययो विज्ञायत इत्याह - `नक्षत्रद्वन्द्वात्` इति। `विशेषे चाविशेषे च` इति। अविशेषग्रहणस्य निवृत्तत्वात्। `अद्य राधानुराधीयम्` इति। ननु चाविशेषे लुपा भवितव्यम्, तत्कथं प्रत्ययस्य श्रवणमित्याह - `लुपं परत्वाद्बाधते` इति॥", "42007": "`तीयात्` इति। द्वेस्तीयः` [[5.2.53]] इति तीयः। `त्रेः सम्प्रसारणञ्च` [[5.2.55]] इति तीयं वक्ष्यति, तदन्तात् स्वार्थ ईकग्वक्तव्यः।`न विद्यायाः`इति। विद्याया अभिधाने तीयादीकग्न भवति।`गोत्रादह्कवत्` इति। यथा तस्याङ्क इत्यत्रार्थे विवनक्षिते गोत्रात् प्रत्ययो भवति, `तेन दृष्टं साम` [[4.2.7]] इत्यत्रार्थे विवक्षिते तथैवेष्यते। `औपवेन दृष्टं साम` इति। औपगवशब्दः <<तस्यापत्यम्>> [[4.1.92]] इतिगोत्रप्रत्ययान्तः। `गोत्रचरणाद्वुञ् भवति` इति। यथौपगवस्यायमङ्क औपगवक इत्यौपगवशब्दाद्गोत्रप्रत्ययान्तादङ्के वुञ्भवति, तथा `तेन दृष्टं साम` इत्यत्रापि। ननु च <<गोत्रचरणाद्वुञ्>> [[4.3.126]] इत्यत्र नाङ्कार्थ उपात्तः, तत्कथमनेनाह्कवदित्युच्यमाने वुञ् बवति? नैष दोषः; तत्राङ्कवदित्यनेन विहितस्येदमर्थो विवक्ष्यते। `तेन गोत्रप्रत्ययान्ताद्यथा <<तस्येदम्>> [[4.3.120]] इत्यत्रार्थे प्रत्यय इष्यते, तथा तेन दृष्टं साम` इतत्यत्रापीत्यर्थः। `दृष्टे सामनि` इति सङ्ग्रहः।गतार्थः॥बाल-मनोरमादृष्टं साम 1190, 4.2.7 दृष्टं साम। तेनेत्येवेति। अनुवर्तत एवेत्यर्थः। तेन दृष्टं सामेत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः। अस्मिन्नर्थे इति। `दृष्टं साम` इत्यर्थे यः अण् स डिद्वेत्यर्थः। औशनमिति। अमि टिलोपपक्षे रूपम्। बाल-मनोरमाकलेर्ढक् 1191, 4.2.7 कलेर्ढक्। वार्त्तिकमिदम्।", "42008": "", "42009": "`{उदाहरणद्वयं मूले नास्ति, एवमेव वामदेव्य् इति दृश्यते।} वामदेव्यम्, वागमदेव्यम्` इति। एकस्तित्स्वरेणान्तस्वरितः, द्वितीयः प्रत्ययस्वरेणान्तोदात्तः।`ङित्करणं किमर्थम्` इति। <<यस्येति च>> [[6.4.148]] इत्येवं लोपस्य सिद्धत्वाड्डित्करणस्यानर्थक्यं मन्यते - डड्डआवित्यादि। न वामदेव्यमवामदेव्यमिति - - अत्र <<नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः>> [[6.2.155]] इत्यतो नञ इत्यनुवर्तमाने <<ययतोश्चातदर्थे>> [[6.2.156]] इत्युत्तरपदस्यान्तोदात्तत्वे विधीयमानेऽनयोग्र्रहणं मा भूदित्येवमर्थ डित्करणम्। असति च तत्रानयोग्र्रहणे नञ एव स्वरो भवति, स पुनरुदात्तः। `निपाता आद्युदात्ता भवन्ति` (फिट्।सू।4।80) इति वचनात्। अथ क्रियमाणे डित्करणे कस्मादनयोग्र्रहणं न भवति? इत्याह्म - `निरनुबन्धग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति परिभाषया डडडयोरपि निवृत्तिः क्रियते। यद्ग्रहणेऽपि `एकानुबन्धकरणे न द्व्यनुबन्धकस्य` (व्या।प।52) इति परिभाषया यतः। अनयोश्च परिभाषयोरस्तित्व एतदेव डित्करणं लिङ्गम्।सङ्ग्रहश्लोके `अतदर्थे` इत्यनेन <<ययतोश्चातदर्थे>> [[6.2.156]] इत्येतत् सूत्रं लभ्यते। एतस्मिन् सूत्रे इत्यर्थः। `नञ्स्वरे`इति। नञो यः स्वरः नञ्स्वरः। शेषो गतार्थः॥", "42010": "`चार्मणः`इति। `अन्` [[6.4.167]] इति प्रकृतिभावे टिलोपो न भवति। `न संयोगा4द्वमन्तात्` [[6.4.137]] इत्यल्लोपो न भवति।अथेह कस्मान्न भवति - छात्त्रैः परिवृतो रथ इति? अत्राह - `समन्ताद्वेष्टितः` इत्यादि। वृणोतिरयं वेष्टने वर्तते, तस्य परिणा सर्वतो भावो द्योत्यते। तस्माद्यः सर्वतो वेष्टते तत्रैव त्ययेन भवितव्यम्, न तु छात्त्रैः रथः सर्वतो वेष्टितः, ततो न तत्र प्रत्ययस्य प्रसङ्गः। यस्तु छात्त्रैः परिवृतो रथ इति प्रयोगः,सपरिवृतस्याध्यारोपेणौपचारिकः।नच मुख्ये सति परिवृतत्वे गौणस्याध्यारोपितस्य ग्रहणं युक्तम्॥", "42011": "`पाण्डुकम्बली` इति। `सौ च` [[6.4.13]] इति दीर्घः।`मत्वर्थीयेनैव सिद्धे` इति। यद्धि येन सम्न्ताद्वेष्टितं तत् तस्यास्ति। तस्मात् <<अत इनिठनौ>> [[5.2.115]] इति म्तवर्थीयेनेनिना सिद्धे यत्तद्वचनं तदणो निवृत्त्यर्थम्। यदि लभ्येत, तन्नारभ्येत। यदि ह्रेतद्वचनं न स्यात्, तदा <<परिवृतो रथः>> [[4.2.10]] इत्यण्प्रसज्येत्, ततश्च पाण्डुकम्बल इति स्यात्, पाण्डुकम्बलीति चेष्यते। तस्मादण्निनृत्त्यर्थमुच्यते॥", "42012": "`द्वीपिव्याघ्रयोर्विकार` इत्यादि। द्वीपिनो विकारश्चर्म, व्याघ्रस्य विकारश्चर्म - इत्यर्थविवक्षायां <<प्राणिरजतादिभ्योऽञ्>> [[4.3.154]] इत्यञ्प्रत्ययान्तत्वात् द्वैपवैयाघ्रशब्दयोः, ताभ्यामिह द्वीपिव्याघ्रविकारत्वाच्चर्मणि अभिधीयेते। चर्मणैव द्वीपिव्याघ्रविकारेण रथस्य परिवृतत्वं सम्भवति, न विकारमात्रेणेति चर्मणी इह द्वैपवैयाघ्रशब्दाभ्यां विवक्षिते इति गम्यते॥", "42013": "`अपूर्ववचने`इति। अपूर्वस्य वचन इति, अपूर्वाभिधान इत्यर्थः। कस्यापूर्ववचनमित्याह -`पाणिग्रहणस्य` इत्यादि। एतच्च सामान्योक्तावपि निपातनसामर्थ्याल्लभ्यते। यथैव हि निपातनसामर्थ्यादन्यदपि किञ्चिदलाक्षणिकं कार्यं लभ्यते,तथेदमपि। `उभयतः स्त्रियाम्` इत्यादि। यदि कौमार इति पुमानभिधीयते, एवमप्यस्यापूर्वत्वं यदा स्त्रिया एव विशेषणं भवति, न पुंसः एवमतन्निपात्यते नान्यथेत्यर्थः। `अपूर्वपतिम्` इति। नास्याः पूर्वः पतिरिति बहुव्रीहिः। पत्या सह यस्याः पाणिग्रहणं निवृत्तं साऽपूर्वपतिः। तां पतिरुपपन्नः प्राप्तवानित्यर्थः। `अपूर्वपतिः` इति। अयमपि बहुव्रीहिः।`कौमारापूर्ववचने` इत्यादि। कौमार इत्येतन्निपात्यते, अपूर्ववचने। किं पुनरिह निपात्यत इत्याह - `कुमार्या अण्विधीयते` इति। कुमारीशब्दादण् निपात्यत इत्यर्थः। कदेत्याह - `अपूर्वत्वं यदा तस्याः` इति। इह हि निपातनेन पुमानभिधीयते, स्त्री वा,तत्र द्वयोरपि पक्षयोरपूर्वत्वम्। यदा तस्याः स्त्रिया विशेषणं भवति, न पुंसः, तदेतन्निपातनम्, नान्यथेत्यर्थः। `कुमार्या भवतीति वा` इति। अनेन योगः प्रत्याख्यायते। यो हि कुमारीं प्राप्तवानसौ तत्र भवति। ततस्च <<तत्र भवः>> [[4.3.53]] इति शैषिके भवार्थेऽणन्तं कौमारशब्दं व्युत्पद्येत,ततः पुंयगोलक्षणे ङीषि सति हि कुमारीत्येतत् सिद्धम्। स्वरकृतो विशेषो नास्त्येव। तथा हि अणन्तान्ङीष्यपि कृते <<यस्येति च>> [[6.4.148]] इति लोपे च <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्युदात्तेन ङीपा भवितव्यम्। ङीष् प्रत्ययस्वरेणाद्युदात्त एव। ननु चैवं सति कौमारस्य याऽन्यापि स्त्रीकौमारव्यपदेशस्य कारणं सापि कौमारीति प्रसज्यते? नैष दोषः; प्रत्यासत्तेर्हि या तस् प्रत्यासन्ना सैव तस्य कौमारीति भविष्यति। का पुनस्तस्य प्रत्यासन्ना? या कौमारे व्यपदेशस्य हेतुः। यस्यामसौ भवन् कौमार इत्युच्यते सैव, नान्या। यद्यपि व्यासादयोऽपि कुमार्या भवन्ति तथापि तेष्वण्, न भविष्यति; अनभिधानात्। एतच्चावश्यमनभिधानमाश्रयणीयमिति; इतरथा हि क्रियमाणेऽपि निपातने <<तत्र भवः>> [[4.3.53]] इत्यनेनाण् स्यादेव॥", "42014": "", "42015": "`समुदायेन च` इत्यादिना प्रकृतिप्रत्ययोपाधित्वं व्रतस्य दर्शयति। `शास्त्रितः` शब्दः <<वाचि यमो व्रते>> [[3.2.40]] इत्यत्र व्युत्पादितः॥", "42016": "", "42017": "", "42018": "", "42019": "`{ओदस्वित्यम् इति मु।पाठः} औदइआत्कम्` इति। `इसुसुक्तान्तात् कः` [[7.3.51]] ॥", "42020": "`क्षैरेयी` इति। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्॥", "42021": "`ततश्चेद्विवक्षा भवति` इति। तत इति प्रत्ययान्तो निर्दिश्यते। एतदुक्तं भवति - यदि प्रत्ययान्ताल्लोकेऽस्य विवक्षा भवत्येवं प्रत्ययो भवति; नान्यथेत्यर्थः। `प्रत्ययान्तेन च` इत्यादिना संज्ञायाः समुदायोपाधित्वं स्पष्टीकरोति। `एषा संज्ञा` इति। या प्रत्ययान्तेन गम्यते। `पौषी` इति। <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यण्, तदन्तान्ङीप्।`इह न भवति` इति। संज्ञाया अनवगम्यमानत्वात्। न हि दशरात्रस्य प्रत्ययान्ताः संज्ञा, नापि भृतकमासस्य। किं तत् तुल्यं फलमित्याह - `प्रयोगानुसरणम्` इति। प्रयोगानुसरणं प्रयोगोपलक्षणमित्यर्थः। संज्ञाग्रहणे ह्रेतत् क्रियते - प्रयोगमुपलक्ष्य यत्र प्रयोगो दृश्यते मासार्धमाससंवत्सरेषु तत्र प्रत्यय उत्पादयितुव्यः, न तु भृतकमासादौ। इति करणेनाप्येतदेव क्रियते। तथा हि - प्रत्ययान्ताद्यदि लोकस्यार्थविवक्षा भवति, एवं हि प्रत्यय उत्पादयितव्यः, नान्यथेति। एवमर्थमितिकरण उपादीयते, ततश्च लोकविवक्षा मासार्धमाससंवत्सरविषया भवति, एवं हि न भृतकमासादिविषया। तस्मात् प्रोयगानुसरणम्, उभयोरपि फलं तुल्यमेव। `संज्ञा` इत्यादि। ननु च यथा संज्ञाशब्दः प्रयोगानुसरणफलतया लोके प्रसिद्धः, तथेतिकरणोऽपि, तत्किमर्थमिह तस्य तेन तुल्यत्वमेव ज्ञायते? इत्याह - `न ह्रयम्` इत्यादि। तथा हि - लोकेऽयं संज्ञाशब्दः प्रयोगानुसरणफलत्वेन यथा प्रसिद्धः, न तथेतिकरणः। तस्मादस्य तेन तुल्यता ज्ञापितेति भावः। `संज्ञार्थत्वेट इत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। संज्ञया तुल्योऽर्थो यस्य स संज्ञार्थः। समासेन गम्यमानत्वात् तुल्यशब्दो न प्रयुज्यते, यथा `रुच्यर्थानाम्` [[1.4.33]] इत्यत्र रुचिना समानशब्द इति भावः। संज्ञार्थस्य भावः = संज्ञार्थत्वम्। अर्थशब्दश्चायं प्रयोजनवचनः। `तदुपपन्नं भवति` इति। यत एव संज्ञाशब्देनेतिकरणस्य तुल्यार्थता ज्ञापिता तेन यत्र यत्र प्रयोगानुसारणार्थं इतिकरणः, ततस्ततश्च विवक्षा भवतीत्युच्यते - तदुपपन्नं भवतीति; इतकरणस्य संज्ञाप्रयोजनत्वात्।`पूर्णमासादण्` इति। पूर्णो मासो यस्यं तिथाविति तत्रार्थे बहुव्रीहिः। अस्मादेव निपतानादण्। पूर्णमासस्येयं `पौर्णमासी`। <<तस्येदम्>> [[4.3.120]] इत्यण्। तिथिविशेषस्येयं संज्ञा। व्यत्पत्तिस्तु यथाकथञ्चित् कर्तव्याः॥बाल-मनोरमाक्षीराड्ढञ् 1203, 4.2.21 ।बाल-मनोरमासास्मिन्पौर्णमासीति 1204, इतिशब्दादिति। एतच्च भाष्ये स्थितम्। पौषीति। पुष्येण युक्ता पौषी पौर्णमासी, सा यस्मिन्मासे स पौषो मासः। पौषीशब्दादणि `यस्येति चे`ति ईकारलोपः। एवं मघाभिर्युक्ता पौर्णमासी माघी, सा यस्मिन्स माघो मासः। तथा फाल्गुन इत्यादि। संज्ञायां किम्?। पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे।", "42022": "", "42023": "", "42024": "`तस्मिन्नभिधेये` इति। यागसम्प्रदानभूतदेवतास्वामिनीके पुरोडाशादौ। एष चाभिधेयविशेषः। सामान्योक्तावपीतीत्यस्येहानुवृत्तेर्लभ्यते। `आदियत्यम्, बार्हस्पत्यम्` इति। `दित्यदित्यादित्यपत्युत्तरपदात्` [[4.1.85]] इत्यादिना ण्यः। यागस्य देवतेहाभिप्रेता।ऐन्द्रो मन्त्र इति च प्रयोगे कस्यचित् पुरोडाशादिकस्य देयस्याभावादिन्द्रस्य सम्प्रदानत्वं नास्ति। अतो नासौ देवदेति प्रत्ययेनात्र न भवितव्यमिति मन्यते। `मंन्त्रस्तुत्यम्` इति। यथा देवता पूजार्हा तथा मन्त्रस्तुत्यमपि वस्तु, ततो देवतासाधम्र्यात् तदि देवतेत्युपचरन्ति विद्वांसः। इन्द्रश्च मन्त्रस्तुत्यो भवति, तस्मादसम्प्रदानभूतमपि तं देवतेत्युचपरन्ति। दैवतोपचारं तत्र कुर्वन्तीत्यर्थः। नन्वेमपि नैवात्र प्रत्ययेन भवितव्यम्; मुख्ये सति गौणस्याश्रयणस्यायुक्तत्वात्? नैष दोषः;यथैव हि कश्चिदेनकेनैव यत्नेन ओतो धावतीति तन्त्रेण वाक्यद्वयमुच्चारयति, तथेहाप्याचार्येण द्वे वाक्ये तन्त्रेणोच्चारिते। तत्रैकं मुख्यार्थम्; अपरं गौणार्थं भविष्यति।`कथम्` इत्यादि। अग्नेर्हि न मुख्यं देवतात्वम्, नापि गौणम्। तत्र मुख्यं तावन्नास्ति;देयाभावेनासम्प्रदानभूतत्वात्। गौणमपि नास्ति; मन्त्रशब्दाभावेन मन्त्रस्तुल्यतथानुपात्तत्वात्। तस्मादत्र प्रत्ययेन न भवितव्यमिति भावः। `उपमानाद्भविष्यति` इति। देवतास्वामिनीक एवात्र प्रत्यय उपपद्यते। यस्त्वर्थान्तरे प्रत्ययान्तप्रयोगः स आग्नेय इवाग्नेय इत्युपमानाद्भविष्यति, यथा - काषायौ गर्गभस्य कर्णाविति। ननु च सास्मिन् पौर्णमासीति सेति प्रकृतमेव। तत्किमर्थं पुनरिह समर्थविभक्तिर्निर्देश्यत इत्यत आहु - `सेति प्रकृते` इत्यादि। यदिदं सेति प्रकृतं तत्संज्ञासम्बद्धमिति, तदनुवृत्तौ संज्ञाग्रहणस्याप्यनुवृत्तिः स्यात्। तस्मात् तन्निवृत्त्यर्थं पुनरिह समर्थविभक्तिनिर्दिश्यत इति॥बाल-मनोरमाअर्द्देः संनिविभ्यः 871, 4.2.24 अर्द्देः संनिविभ्यः। समर्ण इति। समर्द् त इति स्थिते `रदाभ्या`मिति निष्ठातस्य पूर्वदकारस्य च नत्वं। णत्वम्। बाल-मनोरमासाऽस्य देवता 1207, 4.2.24 साऽस्य देवता। अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः। ऐन्द्रं हविरिति। इन्द्रात्मकदेवतासम्बन्धीत्यर्थः। पाशुपतमिति। पशुपतिर्देवता अस्येति विग्रहः। ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्त्रयमित्याद्यनुपपन्नमित्यत आह -त्यज्यमानद्रव्ये इति। `हविश्शेषमृत्विग्भ्यो ददाति`, विप्राय गां ददाती`त्यादौ ऋत्विग्विप्रादेर्देवतात्वव्यावृत्तये विशेषग्रहणम्। त्यज्यमानहविस्साध्योऽस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारस्तदाश्रयो देवतेति यावत्। मन्त्रस्तुत्या चेति। `अग्निमीडे पुरोहित`मित्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः। ऐन्द्रो मन्त्र इति। इन्द्रस्तुत्यको मन्त्र इत्यर्थः। ननु `आग्नेयो वै ब्राआहृणो देवतया` इत्यत्र कथं देवतातद्धितः। अत्र अग्नेर्हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्य चाऽभावादित्यत आह -आग्नेयो वै इति। शैषिकेऽर्थे इति। `शेषे` इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः। अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धस्तदभिमानिको ब्राआहृण इति बोधः।", "42025": "तकारो मुखसुखार्थः, न दीर्घनिवृत्त्यर्थः। भाव्यमानेमाणा सवर्णानामग्रहणात्। सत्यपि सवर्णग्रहण आन्तरतम्याद् ह्रस्वस्य ह्रस्व एव भविष्यति न दीर्घः। ` प्रजापतेर्वाचकः` इति। अनेनासर्वनामत्वमस्य दर्शयति। इकारस्य <<यस्येति च>> [[6.4.148]] इति लोपो न भवति, विधानसामर्थ्यात्। `कायम्` इति। वृद्ध्यायादेशौ॥", "42026": "", "42027": "अपोनपात्, अपान्नपादिति यद्येते देवतानामधेयेतत् कथमेतद्विलक्षणं प्रकृतिरूपं सूत्रे श्रूयते? इत्याह -`तयोस्तु प्रत्ययसन्नियोगेन` इत्यादि॥", "42028": "अथ किमर्थं योगविभागः क्रियते, न `अपोनप्तृ - अपान्नप्तृभ्यां घच्छौ` इत्येकयोग एव क्रियते? इत्याह - `योगविभागः` इत्यादि। एकयोगे हि द्वे प्रकृती, प्रत्ययावपि द्वावेव, समसंख्यत्वात् संख्यातानुदेशः स्यात्, अतस्तन्निवृत्तये योगविभागः क्रियते।`छ प्रकरणे` इत्यादि। पैङ्गाक्षीपुत्रादिभ्यश्छप्रकरणे छस्योपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः , तेन पैङ्गाक्षीपुत्रादिभ्यश्छो भवतीति॥", "42029": "अथ `महेन्द्रादण् च` इत्येव कस्मान्नोक्तम्? चकाराद्घच्छौ भविष्यतः, एवमुच्यमाने द्वेष्यमपि विज्ञायते -अनन्तरं छ एव चकारेणात्र कृष्यत इति। तस्मात् तथा मा विज्ञायीति घग्रहणम्॥", "42030": "`सौमी` इति। <<हलस्तद्धितस्य>> [[6.4.150]] इति यलोपः॥", "42031": "`वायव्यम्। ऋतव्यम्` इति। <<ओर्गुणः>> [[6.4.146]] ,<<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः। `पित्र्यम्` इति। `रीङृतः` [[7.4.27]] इति रीङ्, यस्येति [[6.4.49]] लोपः॥", "42032": "`अणो ण्यस्य चापवादः` इति। वास्तोष्पतिशब्दात् `दित्यदित्यादिभ्य` [[4.1.85]] इत्यादिना प्राप्तस्य ण्य्स्यापवादः। शेषेभ्यस्त्वौत्सर्गिकस्याणः। वास्तुनः पतिर्वास्तोष्पत्तिः। वास्तुशब्दस्य नपुंसकस्य पुंल्लिङ्गता, षष्ठर्थेऽलुक् च निपातनात्। `षष्ठ्याः पतिपुत्रपृष्ठ` [[8.3.53]] इत्यादिना षत्वम्। `द्यावापृथिव्यौ` इति। <<दिवो द्यावा>> [[6.3.29]] इति द्यावादेशः। `शुनासीरीयम्` इति। <<देवताद्वन्द्वे च>> [[6.3.26]] इत्यानङ्। `अग्नीषोमीयम्` इति। <<ईदग्नेः सोमवरुणयोः>> [[6.3.27]] इतीत्त्वम्; <<अग्नेः स्तुत्स्तोमसोमाः>> [[8.3.82]] इति षत्वम्॥", "42033": "", "42034": "बहुवचनग्रहणेन स्वरूपग्रहणे निरस्ते, कालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह - `कालविशेषवाचिभ्यः` इत्यादि। `वत्करणम्` इत्यादि। सर्वस्य सादृश्यस्य परिग्रहो यथा स्यादित्येवमर्थ वत्करणम्। `कालेभ्यो भवः` इत्युच्यमाने यदि तावत् कालग्रहणं भवप्रत्ययैः सम्बध्यते? भवेऽर्थे कालेभ्यो विधास्यन्ते ये प्रत्ययास्ते <<सास्य देवता>> [[4.2.24]] इत्येतस्मिन्नर्थे भवन्ति, तदा च देवताप्रकृतिरविशेषिता स्यात्। एवञ्च देवतामात्रवाचिनः प्रातिपदिकादविशेषेण प्रत्ययाः प्रसज्येरन्। अथ देवताप्रकृतिभिः कालग्रहणं सम्बध्यते? भवे ये विधास्यन्ते ते प्रत्ययाः कालेभ्यो देवताभ्यः प्रसज्येरन्। अथाप्युभयेषां सन्निधानाद्विशेष्यभेदेन वाक्यभेदाच्च प्रत्ययैः प्रकृतिभिश्च सम्बध्यते - कालेभ्यो भवेऽर्थे विधास्यन्ते ये प्रत्ययास्ते कालेभ्यो देवताभ्यो भवन्तीति? एवमपि यः कश्चित् कालप्रकृतिः प्रत्ययो यतः कुतश्चित् कालाद्देवतायाः स्यात्, ऋतुभ्योऽण् मुहूर्तादिभ्योऽपि स्यात्। वतौ तु सति तस्य सादृश्यविधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवार्थे विधास्यन्ते, इहापि ताभ्य ए प्रकृतिभ्यस्तेनैव व#इशेषणेन त एव प्रत्यया भवन्तीति न बवत्यनिष्टप्रसङ्गः। `{वासन्तम् -काशिका} वासन्तः`इति। `सन्धिवेलादि` [[4.3.16]] सूत्रेणाण्। `{प्रावृषेण्यम् -काशिका} प्रावृषेण्यः` इति। <<प्रावृष एण्यः>> [[4.3.17]] ॥", "42035": "", "42036": "`पितामही,मातामही` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्॥", "42037": "`काकम्, शौकम्, बाकम्` इति। काकशुकबकशब्दा आद्युदात्ताः।`प्राणिनां कुपूर्वाणाम्` (फि।सू।2।30) इत्यनेन। अस्यायमर्थः - प्राणिविशेषवाचिनां शब्दानां आदिभूताः कवर्गात् तेषामुदात्तो भवतीति॥", "42038": "अथाण्ग्रहणं किमर्थम्, न भिक्षादिभ्यो यथाविहितमेवोच्येत? इत्यत आह - `अण्ग्रहणम्` इत्यादि। भिक्षाशब्दोऽयम् <<गुरोश्च हलः>> [[3.3.103]] इत्यकारप्रत्ययान्तत्वादन्तोदात्तः। तत्र <<अनुदात्तादेरञ्>> [[4.2.44]] इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। ननु च यद्यत्राण् स्यात् पुनर्वचनमनर्थकं स्यात्? नैतदस्ति; परत्वादचित्तलक्षणष्ठक् प्राप्नोति, अतस्तद्बाधनर्थं पुनर्वचनं स्यात्। अञ्प्रत्ययस्तु स्यादेव, अण्ग्रहणात् पुनरणेवेति न भवत्येष दोषः। `गार्भिणम्` इति। गर्भिणीनां समूहो `भस्याऽढे तद्धिते` (वा।731)। `सिद्धत्वात् प्रत्ययविधौ` [[4.2.37]] पुंवद्भावेन स्त्रीप्रत्ययनिवृत्तिः, ततोऽण्, तस्मिन् <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः प्राप्तः, <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावान्न भवति। `तस्यग्रहण` इति। युवतिशब्दस्य यदि पुंवद्भावो न भवति, तदा तस्य प्रत्ययान्तत्वात् <<अनुदात्तादेरञ्>> [[4.2.44]] इत्यञि प्राप्ते तद्बाधनार्थमिहाण्ग्रहममर्थवद्भवति। यदि पुंवद्भावः स्यात् तदा तदनर्थकं स्यात्। तथा हि -`सिद्धश्च` प्रत्ययविधौ` (वा। 4.2.39) इति वचनादनुत्पन्न एव तद्धिते बुद्धिस्थे पुंवद्भावेन भवितव्यम्। युव शब्दस्य `कनिन् यृवृषितक्षिराजिधन्विद्युप्रतिदिवः` (द।उ।6।51) इति कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वम्। तत्र यदि पुंवद्भावः स्यादुत्सर्गलक्षणेवाण् सिद्ध इतीह ग्रहणमनर्थकं स्यात्। तस्मान्ना भूदस्सयानर्थक्यमिति तस्यग्रहणसामर्थ्यादेव पुंवद्भावो न भवति, तेन यौवतमिति सिद्धं भवति॥", "42039": "`अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्रते` इति। यद्येवम्, गोत्रग्रहणेनैतस्य सिद्धत्वाद्राजन्यमनुष्ययोरुपादानमनर्थकम्? नैतदस्ति; न हि तौ गोत्रप्रत्ययान्तौ, जातेः प्रत्ययार्थत्वात्। यद्येवम्, लोपस्य प्राप्तिरेव नास्ति, तत्र यदुक्तम् - `प्रकृत्याके राजन्यमनुष्ययुवानः` (वा।814) इति यलोपो न भवतीति, तदनर्थकं स्यात्? एतत् पुनरेकीयमतमाश्रित्योक्तम्। केचिदाचार्या राजन्यमनुष्ययोरपत्यप्रत्ययान्तत्वमिच्छन्ति, अतस्तन्मतमाश्रित्यैदुक्तमित्यदोषः, तन्मतेन तर्हि राजन्यमनुष्ययोग्र्रहणमनर्थकं स्यात्? ज्ञापनार्थत्वात्। तेनैतद्ज्ञाप्यते - राजन्यमनुष्ययोर्यकारसय् किञ्चिदपत्याश्रितं कार्यं न भवतीति। किं पुनस्तत्? आपत्यव्यपदेशम्। तेन राजन्यकम्, `मानुष्यकमिति - अत्रापि <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति यलोपो न भवतीति। तथा सूत्रोपात्त एव राजन्यमनुष्ययोः प्रकृतिभावः `प्रकृत्याके राजन्यमनुष्ययुवानः` (वा।814) इत्यनेनाख्यायत इति वेदितव्यम्।`वृद्धाच्चेति वक्तव्यम्` इति। वृद्धश्बदाद्वुञ् भवतीत्येदर्थमित्यर्थः। तत्रेदं व्याख्यानम् - इह पुनरुत्तरसूत्राच्चकारोऽनुवर्तते सिंहावलोकितन्यायेन, स चानुक्तसमुच्चयार्थः, तेन वृद्धशब्दाद्वुञ् भवतीति। योगश्चायं यथायोगमणञोरपवादः॥", "42040": "`गणिकायाश्च यञ्वक्तव्यः` (इति)। वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - इहाप्युत्तरसूत्राच्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन गणिकाशब्दादपि यञ् भवतीति, वुञ् न भवतीति, अनभिधानात्॥", "42041": "कवचिञ्शब्दो मत्वर्थीयेनिप्रत्ययान्तः,प्रत्ययस्वरेणान्तोदात्तः। तस्मादनुदात्तादि [[4.2.43]] लक्षणेऽञि प्राप्ते वचनम्॥", "42042": "`पृष्टादुपसंख्यानम्` इति। पृष्ठशब्दाद्यन्प्रत्ययस्योपसंख्यानम् = व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन पृष्ठशब्दादपि भविष्यतीति। `अहीनः` इति। <<अह्नष्टखोरेव>> [[6.4.145]] टिलोपः। `आह्नः` इति। <<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपः। ननु चाचित्तलक्षणेन ठका भवितव्यम्, तत्कथमाह्न इति भवति? इत्याह - `खण्डिकादिषु ` इत्यादि।`णस्वक्तव्यः` इति। सकारः `सिति च` [[1.4.16]] इति विशेषणार्थः। तेन पार्(ामित्यत्र भत्वाभावात् <<ओर्गुणः>> [[6.4.146]] न भवति॥", "42043": "ग्रामशब्दादचित्तलक्षणे ठकि प्राप्ते। जनशब्दो ञित्स्वरेणाद्युदात्तः; घञन्तत्वात्। तथा बन्धुशब्दोऽपि नित्स्वरेणाद्युदात्त एव। तथा हि स `धान्ये नित्` (द।उ।1।94)इति वर्तमाने `{शृस्वृस्निहित्रप्यसि - द।उ।} शृस्वस्निहितप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च` (द।उ।1।95) इत्यनेन व्युत्पादित उप्रत्ययान्तः। आद्युदात्तत्वादणि प्राप्ते। सहायशब्दोऽपि `लघावन्ते बह्वषो गुरुः` (फि।सू।2।42) इति मध्योदात्तः। तत्र अनुदात्तादेरञि प्राप्ते तलो विधानम्।`गजाच्चेति वक्तव्यम्` इति। गजशब्दात् तल् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं चेह चकारस्यानुवृत्तिमाश्रित्य कर्तव्यम्॥", "42044": "`कापोतम्, मायूरम्` इति। कपोतमयूरशब्दौ `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फि।सू।2।42) इति मध्योदात्तौ`। `तैत्तरम्` इति। तित्तिरिशब्दः कित्` (द।उ।1।48) इति कित्प्रत्ययान्तः। तरतेः {सन्वल्लुक् इति। प्रांउ।पाठः} सन्वत्तुक् चाभ्यासस्येति प्रत्ययस्वरेणान्तोदात्तः। ननु च सन्वद्भावादाद्युदात्तः प्राप्नोति? <<उणादयो बहुलम्>> [[3.3.1]] इति बहुलवचनात् स्वरे सन्वद्भावो न भविष्यतीत्यदोषः॥`आद्युदात्तार्थमचित्तार्थञ्च वचनम्` इति। असत्येतस्मिन्नाद्युदात्तेभ्योऽण् स्यात्, अचितेब्योऽचित्तलक्षणष्ठक् प्रसज्येत। `क्षुद्रकाश्चमालवाश्चेति क्षत्तरियद्वन्द्वः` इति।क्षुद्रकस्यापत्यानि बहूनि <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] , मालवस्यापत्यानि बहूनि। <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] । तयोः `तद्राजस्य` [[2.4.62]] इति बहुषु लुक्, पश्चाद्द्वन्द्वः। `ततः पूर्वेणाञि सिद्धे` इति। समासान्तोदात्तत्वे कृते द्वन्द्वसमासस्यानुदात्तादित्वात्। वचनं गोत्रवुञो बाधनार्थम्। <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्>> [[4.2.39]] इत्यादिना गोत्रलक्षणो वुञ्प्राप्नोति, तद्बाधनार्थं क्षुद्रकलृमालवकस्येह गणे पाठः।`ननु च` इत्यादि। परत्वादेवाञ् वुञं बाधिष्यत इत्यतो नार्थो वुञो बाधनार्थेनानेन वचनेनेति भावः। एतच्च गोत्रत्वमभ्युपेत्योक्तम्। इदानीं गोत्रत्वमेव न भवतीति दर्शयितुमाह - `न च` इत्यादि। गोत्रसमुच्चयोऽयम्। न च गोत्रसमुदायो गोत्रग्रहणेन गृह्रते, यथा जनपदसमुदायो न जनपदग्रहणेन। तथा च काशयश्च कोशलाश्च काशिकोशलाः, तेषु भवाः काशिकोशलीयाः। जनपदत्वाभावात् `{जनपदवध्योश्च -मु।पाठः} जनपदतदवध्योश्च` [[4.2.123]] इति वुञ् न भवति, `वृद्धाश्छः` [[4.2.113]] एव तु भवति। स्यादेतत् - यद्यपि गोत्रसमुदायो गोत्रं न भवति, तदवयुस्तु भवति, क्षुद्रकमालवकशब्दोऽवयवो गोत्रम्, अतस्तदन्तविधिना तदन्ताद्गोत्रसमुदःयादपि वुञ् प्राप्नोति? अत आह - `न च` इत्यादि। न हि सर्वस्तदन्तविधिर्भवतीति। तथा हि - <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यत्रोक्तम् -`समासप्रत्ययविधौ प्रतिषेधः`, `उगिद्वर्णग्रहणवर्जम्` (वा।12,13) इति। प्रत्ययविधिश्चायम्। येषु तत्र च तदन्तविधिरिष्यते ते तत्रैव `भयाद्यादिग्रहणम्` (वा।303) इत्यादिना परिगणिताः, न चास्य तत्र परिगणनम्। ततो नास्ति तदन्तविधिः। `एवं तर्हि` इत्यादि। यदयं क्षुद्रमालवकग्रहणं करोति वुञ्बाधनर्थाम्, तज्ज्ञापयति - वुञि पूर्वविप्रतिषेधो भवति, न परविप्रतिषेधः। `सामूहिकेषु च तदन्तविधिरस्ति` इति। किमेतस्य ज्ञापने प्रयोजनमित्याह - `औपगवकम्, कापटवकम्` इति। एतद् वुञ्पूर्वविप्रतिषेधज्ञापनस्य प्रोजनम्। असति ह्रेतस्मिञ्ज्ञापने परिविप्रतिषेधेन <<अनुदात्तादेरञ्>> [[4.2.44]] इत्यञ् स्यात्। वुञस्तु यत्राद्युदात्तत्वं सोऽवकाशः - ग्लौचुकायनकमिति। ग्लुचुकायनशब्दो हि `प्राचामवृद्धात् फिन् बहुलम्` [[4.1.160]] इति फिन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः॥ `वानहस्तिकम्,गोथेनुकम्` इति। तदन्तविधिज्ञापनस्य प्रयोजनम्। असत्येतस्मिञ्ज्ञापने <<अचित्तहस्तिधेनोष्ठक्>> [[4.2.47]] इति धेनुहस्तिशब्दाभ्यां विधीयमानष्ठक् न तदन्तात् स्यात्।`{क्षुद्रकमालवात् - काशिका, पदमञ्जरी च।} क्षुद्रकमालवकात्` इति। गणे `क्षुद्रकमालवात् सेनासंज्ञायाम्` (ग।सू।82) इति पठते, तत्र यद्ययमेको योगः स्यात्, एकेन यत्नेन च ज्ञापनं नियमश्च न लभ्यते। तस्मादत्र योगविभागः कर्तव्यः। तत्र क्षुद्रकमालवादित्येको योगः, सेनासंज्ञायामिति द्वितीयः। तत्र पूर्वो योगो ज्ञापनार्थः, उत्तरो नियमार्थः। `पुनरस्यैव` इति। क्षुद्रकमालवादित्यस्यैव योगस्य। `क्षौद्रकमालवी` इति। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्। `क्षौद्रकमालवकमन्यत्` इति। तदन्तविधिनात्र वुञ् भवति।`अञ्सिद्धेः` इत्यादि। क्षुद्रकमालशब्दात् <<अनुदात्तादेरञ्>> [[4.2.44]] इत्यञ् सिद्धः। तत्कोऽर्थः किं प्रयोजनं तस्य गणपाठेन?न किञ्चिदित्यर्थः। स्यादेतत् -यो गोत्रलक्षणो वुञ् स्यादेतस्तद्बाधनार्थः पाठः? इत्याह - `गोत्राद्वुञ् विधीयते` (इति)। न च क्षुद्रकमालवशब्दो गोत्रम्, तत्कुतस्ततो वुञ्प्राप्तिः? `तदन्तात्` इत्यादि। यद्यपि क्षुद्रकमालवशब्दो गोत्रसमुदायो गोत्रं न भवति, तदवयवस्तु भवति, तेन तदन्तविधिना प्राप्नोत्येव। `न च सर्वतः` इति। न च तदन्तविधिः सर्वत्रैव भवति। परिगणितेष्वेव कार्येषु तदन्तविधिरिष्यते, न चेदं तत्र परिगण्यते, तत्कुतस्तदन्तविधिना वुञ्प्राप्तिः। `ज्ञापकं स्यात्` इत्यादि। इदं हि क्षुद्रकमालवग्रहणं ज्ञापनार्थं भवेत्। एतज्ज्ञापयति - सामूहिकेषु तदन्तविधिरस्तीति। एवं कृत्वाऽषडपिशलेर्विधिरुपपन्नो भवति। विधीयतेऽनेनेति विधिः, स पुनः `धेनोरनञः` (वा।423) इति, एतद्धि तत्सूत्रम्। अस्यायमर्थः - धेनुशब्दः समूहेऽर्थे ठकमुत्पादयति, न चेद्धेनुशब्दो नञ उत्तरो भवतीति। नञ्पूर्वपदो न भवतीति यावत्। यदि तत्र सामूहिकेषु तदन्तविधिर्न स्यात् `अनञः` इति वचनं नोपपपद्यते। असति तदन्तविधौ धेनुशब्दादुच्यमानः प्रत्ययः, कः प्रसङ्गो यदधेनुशब्दात् स्यात् ! तदेतदनञिति वचनं परमर्थवद्भवति यदि सामूहिकेषु तदन्तविधिर्भवति, नान्यथा। प्रयोजनान्तरमाह -`सेनायाम्` इत्यादि। सेनासंज्ञायामेव क्षुद्रकमालशब्दादञ् भवतीत्येष नियमो यता स्यादित्येवमर्थस्तस्य गणे पाठ इत्यर्थः। `यथा` इत्यादि। चेति समुच्चये। पूर्वविप्रतिषेधेन वुञाऽञो बाधनं यथा स्यादित्येवमर्थो गणे पाठः।`{खण्डिका -काशिका} खण्डिक` इति। खण्डिकशब्दो मत्वर्थीयठन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। `वल { संवरणे सञ्चलने च` - धातुपाठः-} संवरणे` (धातुपाठः-491) इत्यस्मात् <<उणादयो बहुलम्>> [[3.3.1]] इत्यवन्प्रत्यये डलयोरेकत्वस्मरणाल्लकारस्य डकारादेशे टापि वडवेति भवति। भिक्षुकशब्दोऽपि कुत्सार्थविवक्षायां कन्नन्तत्वात् पूर्वपदाद्युदात्तः। शुकोलूकयोरपि `प्राणिना कुपूर्वाणाम्` (फि।सू।1।30) इति कुपूर्वादिरुदात्त एव। आञ्शब्दः `कनिन् युवृषि` (द।उ।6।51) इत्यतः कनिन्ग्रहणेऽनुवर्तमाने `आन्नुक्षन्पूषन्प्लीहन्क्लेदन्तस्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघवन्` (द।उ।6।55) इति कनिन्प्रत्ययान्तो निपातितः,तेनसावपि पूर्ववदाद्युदात्तः। युगवरत्राशब्दयोरचितार्थः। संहतविगृहीतार्थं युगवरत्राग्रहणं वर्णयन्त - यौगम्, वारत्रम्, योगवरत्रमिति॥", "42045": "", "42046": "`गोतर्चरणाद्वुञित्यारभ्य` इति। ननु च तत्र धर्मग्रहमं नास्ति, तत्कथं धर्मवदित्यतिदेशः प्रयुज्यते? इत्याह - `तत्रेदम्` इत्यादि। इदमेव धर्मवदिति वचनं लिङ्गभूतं गमयति - `चरणाद्धर्माम्नाययोः` (वा।476) इत्येतद्वचनं शेषभूतमिति। न हि तेन विनाऽदेश उपपद्यते। `वतिः सादृश्यार्थः` इति। असति हि वतौ यदि चरणग्रहणं धर्मप्रत्ययैरभिसम्बध्यते - चरणेभ्यो धर्मेऽभ्यो ये प्रत्यया अभिधास्यन्ते ते भवन्ति <<तस्य समूहः>> [[4.2.37]] इत्येतस्मिन्नर्थ इति, समूहप्रकृतिर्न विशेषिता स्यात्। एवञ्चेह प्रकृतिमात्राद्धर्मप्रत्ययाः प्रसज्येरन्। अथ प्रकृतिः सम्बध्यते - धर्मे ये विधास्यन्ते प्रत्ययास्ते भवन्ति। `चरणेभ्यः समूहः` इत्येतस्मिन्नर्थे, एवमपि धर्मप्रत्ययान विशेषिताः स्युः। ततश्चाचरणेभ्योऽपि ये धर्मे विधास्यन्ते प्रत्ययास्तेऽपीह चरणेभ्य आपद्येरन्। अथाप्युभयसन्निधानादुभयं विशेष्यते, तेन वाक्यभेदं कृत्वा प्रत्ययैः प्रकृतिभिः सम्बध्यते - चरणेभ्यो धर्मेऽथ ये प्रत्यया विधास्यन्ते ते समूहे भवन्ति चरणेभ्य इति? एवमपि कश्चित् चरणप्रकृतिकः प्रत्ययो यतः कुतश्चिच्चरणात् समूहे स्यात्। <<कौपिञ्जलहास्तिपदादण्>> [[4.3.132]] छन्दोग#आदिभ्योऽपि स्यात्। वतौ तु तस्य सादृश्ये विधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यश्चरणविशेषणेन ये प्रत्ययाः विहिताः , इहापि ताभ्यः प्रकृतिस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टमापद्यते। तस्मात् सर्वसादृश्यपरिग्रहार्थं वत्करणं कर्तव्यम्। `\tकाठकम्, कालापकम्` इति। <<गोत्रचरणाद्वुञ्>> [[4.3.126]] । `छान्दोग्यम्, औक्थिक्यम्` इति। `छन्दोगोक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः` [[4.3.129]] इति ञ्यः। `आथर्वणम्` इति। <<कौपिञ्जलहास्तिपदादण्>> [[4.3.132]] ,<<आथर्वणिकस्येकलोपश्च>> [[4.3.133]] इत्यण्, इकलोपश्च। एते प्रत्यया यथा चरणेभ्यो धर्मे भवन्ति, तथा समूहेऽपि॥", "42047": "`अचित` इति। अर्थप्रधानत्वान्निर्देशस्यार्थस्येदं ग्रहणम्, न स्वरूपस्य, तेनाचित्तवाचिभ्यष्ठग्विज्ञायत इत्याह - `अचित्तवाचिभ्यः शब्देभ्यः` इति। हस्तिधेनुशब्दयोश्च शब्दप्रधानत्वान्निर्देशस्य स्वरूपग्रहणम्। अत एव `हस्तिधेनुशब्दाभ्याम्` इति।`{धेनोरनञ इति वक्तव्यम् - इति वार्तिकपाठः।} अधेनोरिति वक्तव्यम्` इति। धेनुशब्दादनञ्पूर्वाट्ठग् भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - वक्ष्यमाणमिहान्यतरस्यांग्रहणमुभयोरपि योगयोः शेषो विज्ञायते, व्यवस्थिविभाषा च।तेन धेनुशब्दादनञ्पूर्वादेव भवतीति, न नञ्पूर्वादिति। `आधेनवम्` इति। <<उत्सादिभ्योऽञ्>> [[4.1.86]] । ननु च धेनुशब्दस्तत्र पठते, तत्कथमधेनुशब्दाद्भवतीति?तत्रापि तदन्तविधेः सम्भवात्। तत् कथं विज्ञायते? वष्कयास इति वष्कयशब्दस्य समासे प्रतिषेधात्। वष्कयशब्दाद्धि प्रत्ययविधानम्, गोवष्कयशब्दान्न प्राप्नोति,किं समासप्रतिषेधेन? इतः प्रतिषेधाद्विज्ञायते - अस्ति तत्र तदन्तविधिरिति॥", "42048": "केशशब्दादचित्तलक्षमे ठकि प्राप्ते वचनमिदम्। अआशब्दादप्यणि सूत्रमिदमारभ्यते। अन्यतरस्यांग्रहमाट्ठगणावपि भवतः॥", "42049": "अचित्तलक्षणके कठि प्राप्ते वचनमिदम्॥", "42050": "गोशब्दादणि प्राप्ते, खलरथाब्यामचित्तलक्षणे ठकीदं वचनम्। अत्र पाशादिष्वेव खलादीनां पाठः कस्मान्न कृतः? इत्याह - `पाशादिष्वपाठ उत्तरार्थः` इति। उत्तरसूत्र इनित्रकटचः खलादिभ्य एव यथा स्युः, पाशादिभ्यो मा भूदिति॥", "42051": "`खलादिभ्य इनिर्वक्तव्यः` इति। वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन खलादिभ्य इनिप्रत्ययो भविष्यति। आदिशब्दश्चायं प्रकारे, खलप्रकार इत्यर्थः। किं पुनस्ते खलप्रकाराः? येब्य इनिर्दृश्यते। यदि तर्हि खलादिभ्य इनिर्भवति, वैषम्याद्यथासंख्यं न प्राप्नोति? वाक्यभेदाददोः। एकं वाक्यं यथासंख्यं न भवति, इह द्वे वाक्ये इति। इनित्रकटचः खलगोरथेभ्यो भवन्तीत्येकं वाक्यम्; चकारश्चानुक्तसमुच्चयार्थः, तः खलादिभ्य इनिर्भवतीति द्वितीयम्। द्वितीये तु वाक्ये खलशब्दस्य तत्र प्रकारोपलक्षणत्वं वेदितव्यम्, न तु प्रकृतित्वम्॥", "42052": "`योऽसौ विषयो देशश्चेत् स भवति` इति। ननु च यो विषयः स देश एव भवति, किं तद्विशेषणेन देशे ग्रहणेन? इत्याह - `विषयशब्दोऽयम्` इत्यादि। `अत्यन्तशीलिते` इति। अत्यन्ताभ्यस्त इत्यर्थः।", "42053": "`आकृतिगणश्चायम्` इति। अपरिसमाप्ततां राजन्यादेर्दर्शयति।आदिशब्दश्चायं प्रकारार्थः॥", "42054": "", "42055": "`छन्दसः` इति। न स्वरूपग्रहणम्, नापि मन्त्रब्राआहृणयोः। कस्य तर्हि? अक्षराणामियत्तावचनश्छन्दशब्दोऽस्ति, यस्य जगत्यादयो विशेषाः, तस्येदं ग्रहणम्। तस्यैव हि प्रगाथ इत्यादौ सम्बन्धः, नेतरस्य। तेन पङ्क्त्यादिभ्यः प्रत्ययो भवतीत्युक्तं भवति।`{प्रगथनेन -काशिका} प्रग्रन्थेन` इति। उच्चारणविशेषणेन प्रग्रन्थात् प्रकर्षाद्गायनर्थाद्वेति। एतेन यन्निमित्तकः प्रगाथशब्दस्तां क्रियां दर्शयति। प्रगाथशब्दोऽयं यदा <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति कर्मणि घञन्तो व्युत्पाद्यते - प्रग्रवयतेऽसौ प्रगाथ इति, पृषोदरादिपाठाद्ग्रन्थे रेफानुनासिकयोर्लोपश्च , तदा प्रग्रन्थनक्रियानिमित्तको भवति। यदा तु `कै गै शब्दे` (धातुपाठः-916,917) इत्यस्मात् <<उणादयो बहुलम्>> [[3.3.1]] इति प्रगाथस्थन्प्रत्ययान्तो व्युत्पाद्यते, तदा गायनक्रियानिमित्तो भवति।`नुपंसके` इत्यादि। नपुंसकलिङ्गे स्वार्थ एव च्छन्दसः प्रत्ययस्योपसंख्यानम्। तत्रेदं व्याख्यानम् - इति करणो विवक्षार्थः। तेन यत्र प्रत्ययान्ताच्छिष्टानां विवक्षा भवति तत्र प्रत्ययेन भवितव्यम्। नपुंसकलिङ्गे स्वार्थेऽपि च सा भवति, अतस्तत्रापि प्रत्ययो भवति। अवश्यं चैतदेव विज्ञेयम्। यो हि मन्यते - `सर्वातिप्रसङ्गनिवृत्तिरितिकरणेन क्रियते` इति, तस्यासावनर्थक एव स्यात्; सर्वातिप्रसङ्गानानुपाधिभिर्निरस्तत्वात्॥", "42056": "अत्र `संग्रामे` इति प्रत्ययार्थ इति, सप्तम्यन्तत्वात्। `प्रयोजनयोद्धृभ्यः` इति पञ्चम्यन्तत्वात् प्रकृतिनिर्देशः, ततश्च <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्येतद्विरुध्यते; प्रथमस्य प्रत्ययार्थत्वेन द्वितीयस्य प्रकृतित्वेनोपादीयमानत्वादित्यस्य चोद्यस्य निरासायाह - `सोऽस्येति समर्थविभक्तिः प्रत्ययार्थश्चानुवर्तते` इति। एतेनैतद्दर्शयति - `प्रयोजनयोद्धृभ्यः` इत्येतदेवमर्थं यस्मात् पूर्वसूत्रादेव स इति प्रथमं तदिहानुवर्तते, तद्वशेषणं तु प्रयोजनयोद्धृभ्य इति। प्रत्ययाथोऽप्यस्येति पूर्वसूत्रादनुवर्तते, तद्विशेषणं संग्रामः, तत्रो नास्ति विरोधः; पूर्वसूत्रे यत् प्रथमानिर्दिष्टं तत एव प्रत्ययविधानादिति॥", "42057": "", "42058": "`क्रियेति प्रकृतिविशेषणम्` इति। यत्र तद्घञन्तं क्रियावाचि चेद्भवतीति। तेन भावे यो घञ् तदन्तात् प्रत्ययो भवतीत्युक्तं भवति। ननु च भावे यो घञ् तेनैव तदन्तं क्रियावाचि? यस्माद्धात्वर्थस्य सिद्धता नाम यो धर्मस्तत्र घञादिभिर्भवितव्यमित्युक्तं प्राक्, धर्मधर्मिणोर्भेदस्याविवितत्वात् क्रियाधर्मोऽपि क्रियाशब्दनोक्त इत्यदोषः। `इतिकरणो विवक्षार्थः`इति। ननु च पर्वसूत्रादेवेतिकरणोऽनुवरितिष्यते,तत्क पुनरिह तस्योपादानम्? इतिकरणस्येह प्रकरणेऽनधिकारतां दर्शयितुं पुनरुपादानम्। तेन <<तदधीते तद्वेद>> [[4.2.59]] इत्यत्रास्येतिकरणस्याननुवृत्तौ विवक्षानियमाभावादध्येतृवेदितृमात्रे प्रत्ययः सिद्धो भवतीत्येके। वैचित्र्यार्थमितिकरणोपादानमित्यपरे। `श्यैनम्पाता` इति। `शल हुल पत्लृ गतौ` (धातुपाठः-843, 844,845) भावे घञ्, श्येनस्य पात इति षष्ठीसमासः। ञे विहिते <<श्येनतिलस्य पाते ञे>> [[6.3.71]] इत मुम्। `प्राकारः` इति। करोतेः प्रपूर्वात् <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति कर्मणि घञ्। <<उपसर्गस्य घञ्यमनुष्ये बहुलम्>> [[6.3.122]] इति प्रशब्दस्य दीर्घः। भवतीदं घञन्तम्; न तु क्रियावाचि; प्राकारस् द्रव्यत्वात्।`अथ`इत्यादि चोद्यम्। `क्रीडायामित्यनेन तत्सम्बद्धम्` इत्यादि परिहारः। स्यादेतत्नुवर्ततां क्रीडा, तस्याञ्चेदं प्रत्यविधानमिष्यत इत्यत आह - `सामान्येन च` इत्यादि॥", "42059": "`वैयाकरणः` इति। `नन य्वाभ्याम्` [[7.3.3]] इत्यादिना वृद्धिप्रतिषेधः,ऐजागमश्च। `द्विस्तद्दग्रहणम्` इत्यादि। यदि `तदधीते वेद` इत्येवोच्येत प्रत्ययार्थद्वस्य द्वितीयासमर्थे समुच्चयो विज्ञायते, ततश्च यस्त्वधीते वेत्ति च तत्रैव स्यात्; यस्त्वधीते केवलं न वेत्ति, वेत्ति वा केवलं नाधीते तत्र न स्यात्। द्विस्तद्ग्रहणे तु वाक्यभेदादधीयाने विदुषि च प्रत्येकं प्रत्ययः सिध्यति। तदर्थं द्विस्तद्ग्रहणम्। नैतद्द्विस्तद्ग्रहणस्य प्रयोजनम्, यथैव हि `ते न दीव्यति खनति जयति जितम्` [[4.4.2]] इत्यत्र सकृत् समर्थविभक्त्युपादानेऽपि प्रत्ययार्थचतुष्टयेन तृतीयासमर्थेन समुच्चयो न विज्ञायते,तथेहापि न विज्ञास्यते। तेन यथा दीव्यतिप्रभृतिषु प्रत्ययो भवति, तथेहापि प्रत्येकमधीयाने विदुषि च भविष्यतीति? न ब्राऊमः - इहैव द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति। `कुतस्तर्हि? <<क्रतूक्थादिसूत्रान्ताट्ठक्>> [[4.2.60]] , <<वसन्तादिभ्यष्ठक्>> [[4.2.63]] इत्यत्र च। किं कारणं तत्र न स्यात्? क्रतुशब्दः कर्मनामधेयः,वसन्तादयोऽप्यृतुवचनाः, तेषामध्ययनं नोपपद्यते। तत्सहचरिते ग्रन्थे स्यात्, स च तत्र गोण इति न गृह्रते। मुख्य एवार्थे वेदने सम्भवतीति तेभ्यो विदुष्येण प्रत्ययः स्यात्, नाध्येतरि। पुनर्द्विस्तद्ग्रहणाद्गौणस्यापि ग्रहणं भवतीति प्रत्येकमध्येतृविदुषोरत्र ठक्प्रत्ययो भवति॥क्रतुशब्दः कर्मनामधेयः, तस्याध्यनवेदने द्वे न सम्भवत इति साहचर्यात् तदर्थो ग्रन्थो गृह्रते, न तु क्रतुनामा क्रतुरस्तीति तद्विशेषा येऽग्निष्टोमादयस्तद्रथो ग्रन्थो गृह्रते, तत्र चाह - `क्रतुविशेषवाचिभ्यः` इति। अग्निष्टोममधीत इत्यग्निष्टोमेन सहचरितं तदर्थग्रन्थमधीत इत्यर्थः।`सूत्रान्तादकल्पादेरिष्यते` इति। किमिष्यत एव? ततो न तत् शस्यते, लभ्यते च। कुतः? वेत्यनुवृत्तेव्र्यवस्थितविभाषाविज्ञानात्। `किं तर्हि? सामलक्षण औक्थिक्ये वर्तमाने` इति। उक्थसंज्ञकानां साम्नलक्षणं व्याख्याग्रन्थ औक्थिक्यः, `{छन्दोगौक्थिक्य` इतिमु।पाठः।} छन्दोगौक्थिकय` [[4.3.129]] इत्यादिना ञ्यः। तत्रौक्थिक्ये सामलक्षणेग्रन्थे वर्तमान उक्थशब्दः प्रत्ययमुत्पादयति। कुत एतत्? गौणेन सह क्रतुशब्देन निर्देशात्। औक्थिक्ये उक्थशब्दस्य वृत्तिस्तादथ्र्याद्भवति। भवति च तादथ्र्यात् ताच्छब्द्यम्, यथा - प्रदीपार्था मल्लिका प्रदीप इति। औक्थिक्यं योऽधीते कथं तत्र भवितव्यम्? इत्यत आङ - `औक्थिक्यशब्दाच्च` इति। तत्रैव कारणमाह - `अनभिधानात्` इति।`विद्यालक्षणकल्पसूत्रान्तात्` (ग।सू।84), इत्यस्यातिप्रसक्तस्यापवादमाह - `विद्या च`इत्यादि। विद्याशब्दोऽनङ्गक्षत्रधर्मसंसर्गत्रिपूर्व एव प्रत्ययमुत्पादयति, नाङ्गादिपूर्व इत्यर्थः। `त्रैविद्यः` इति। त्र्यवयवा विद्या, शाकपार्थिवादित्वादुत्तरपदलोपी समासः। त्रिविद्यामधीते त्रैविद्यः। यावक्रीतमाख्यानधीते `यावक्रीतिकः`। प्रियङ्गुमधीते `प्रैयङ्गविकः`। वासवदत्तामाख्ययिकामधीते `वासवदत्तिकः`। सुमनोत्तरामधीते `सौमनोत्तरिकः।`सर्वसादेर्द्विगोश्च लः` इति। सर्वादेः सादेर्द्विगोरुत्पन्नस्य ठको लोपो भवतीत्यर्थः। ननु च <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्येवं सिद्धः? सत्यमेतत्; इह तु कैश्चित् `विद्यालक्षणकल्पसूत्रान्तात्` (ग।सू।84) इत्यादिना प्रतिपदं प्रत्ययो विधीयते। तद् द्वेष्यमपि जायेत। प्रतिपदविधानान्न लुक्, ततो लुग्वचनम्।`अनुसूर्लक्ष्यलक्षणे च` इति। अनुसूशब्दः प्रत्ययमुत्पादयति। लक्ष्यलक्षणे च शब्दरूपे प्रत्ययमुत्पादयतः। `आनुसुकः` इति। `इसुसुक्तान्तात् कः` [[7.3.51]] इति कः, `केऽणः` [[7.4.13]] इति ह्रस्वः।`इकन बहुलं पदोत्तरपदात्` इति। पदशब्द उत्तरपदं यस्य स तथोक्तः।`शतषष्टेः षिकन् पथः`इति। शतषष्टिशब्दाभ्यामुत्तरस्मात् पथः षिकन् प्रत्ययो भवति। षकारो ङीषर्थः, नकारः स्वरार्थः। एतत्सर्वमुक्थादिषु पाठादेव सिद्धम्। यदपीह किञ्चिन्न पठते, तदपि च बहुलग्रहणेन संगृहीतम्। उक्थादिष्वपि षिकन् बहुलं पदोत्तरपदाच्चेति पठते॥", "42060": "", "42061": "", "42062": "`ब्राआहृणसदृसोऽयं ग्रन्थोऽनुब्राआहृणम्` इति। यथार्थऽव्ययीभावं दर्शयति। ननु योऽनुब्राआहृणमधीते तस्यानुब्राआहृणमस्तीति तत्र मत्वर्थीयेनैवेनिना सिद्धम्, तत् किमर्थमिदम्? अण्बाधनार्थम्। यदीदं नोच्येत <<तदधीते तद्वेद>> [[4.2.59]] इत्यण् प्रसज्येत॥", "42063": "`{वसन्तसहचरितोऽयं ग्र्नथो वसन्तः-काशिका} वसन्तसहचरितो ग्रन्थो वसन्तः`इति। यो वसन्ते पठते, नियोगेन यत्र च वसन्तो वण्र्यते स वसन्त सहचरितो भवति। `वर्षाशरदम्` इति। वर्षाश्च शरच्च वर्षाशरदम्। `द्वन्द्वाच्चुदषहान्तात् समाहारे` [[5.4.106]] इति टच्। समासान्तेन निर्देशः॥", "42064": "युक्तो निर्देशो यदि प्रोक्तनामा ग्रन्थो व्याकरणादिर्भवति, न चासावस्ति; अन्यार्थेन ततः परः सम्भवतीत्येतं दोषमाकर्त्तुमाह - `प्रोक्तसहचरितः` इत्यादि। साहचर्यात् सोऽयमित्यभेदोपचारेण प्रोक्तार्थे यो वहितः प्रत्ययः स प्रोक्तशब्देनोक्त इति दर्शयति। `पाणिनीयः` इति। <<वृद्धाच्छः>> [[4.2.114]] तदन्तात् <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्। तस्य लुक् `पाणिनीयः`। आपिशलिना प्रोक्तमित्यण्, तस्य लुक् - `आपिशलः`। कः पुनरत्र विशेषोऽर्थो लुकि सति, यावता तदेव रूपम्? इत्याह - `स्त्रियाम्` इत्यादि। असति लुकि `टिड्ढाणञ्` [[4.1.15]] इति ङीप् स्यात्, सोऽणः स्वरेणान्तोदात्तः। लुकि हि सति टाब्भवति, स्वरेण तु मध्योदात्तः। आपिशलिशब्दाल्लुकि सति स्वरे नास्ति विशेषः। सत्यपि हि लुक्यन्तोदात्तत्वेन भवितव्यम्। स्त्रियान्तु पूर्वोक्तो विशेषो वर्तते - न हि लुकि सति ङीब्भवति; सत्यप्यणि तत्रैव `अनुपसर्जनात्` [[4.1.14]] इत्यधिकारात् प्रतिषेधात्, प्रोक्तार्थविहितस्य चाण इहोपसर्जनत्वात्॥", "42065": "कोपधादिति वचनात् स्वरूपग्रहणं न भवतीत्यतः सूत्रवाचिनो ग्रहणं विज्ञायत इत्याह - `सूत्रवाचिनः प्रतिपादिकात्` इति। `अष्टकम्` इति। अष्टावध्यायाः परिमाणमस्य। <<तदस्य परिमाणम्>> [[5.1.57]] इत्यनुवर्तमाने <<संख्यायाः संज्ञासंघसूत्राध्ययनेषु>> [[5.1.58]] इति च `सख्याया अतिशदन्तायाः कन्` [[5.1.22]] इति कन्।`संख्याप्रकृतेरिति वक्तव्यम्` इति। संख्या प्कृतिर्यस्य प्रत्ययस्य स संख्याप्रकृतिः। तदन्तात् कोपधादुत्पन्नस्य लुब्भवतीत्येतदर्थरूपं वक्तव्यम्, व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् - वेति वर्तते, सा च व्यवस्थितविभाषा, तेन संख्याप्रकृतेरेव भविष्यति, नान्यस्मादिति।`{चातुष्टयः - काशिका, चतुष्टयः-पदमञ्जरी।}चातुष्टयम्` इति। चत्वारोऽवयवा अस्येति `संख्याया अवयवे तयप्` [[5.2.42]] , <<ह्रस्वात् तादौ तद्धिते>> [[8.3.101]] इति मूर्धन्यः, षत्वं भवति। एतत् संख्याप्रकृतिप्रत्ययान्तम्, न तु कोपधम्, किं तर्हि? योपधम्॥", "42066": "`प्रोक्तग्रहणमनुवर्तते` इति। तच्चेहार्थात् प्रथमान्तं विज्ञायते छन्दोब्राआहृणानीत्यस्य समानाधिकरणार्थम्, अत आह - छन्दांसि ब्राआहृणानि च प्रोक्तप्रत्ययान्तानीति भवन्ति` (इति)। स्वरूपग्रहणमिह न भवति। तथा हि - प्रोक्तग्रहणमिहानुवर्तते, न च च्छन्दोब्राआहृणशब्दौ प्रोक्तप्रत्ययान्तौ। तस्माच्छन्दोब्राआहृणवाचिनो ये शब्दाः प्रोक्तप्रत्ययान्तास्ते गृह्यन्ते। किमर्थं पुनरिदमुच्यते? इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता लभ्यते। तथा हि क्वचित् तदन्तस्य स्वातन्त्र्यमुपलभ्यते, यता - पाणिनिना प्रोक्तं पाणिनीयं शास्त्रम्। प्रोक्तार्थ एव वृत्तिः स्वातन्त्र्यम्। पाणिनीय शब्दस्य चात्र प्रोक्तार्थ एव वृत्तिः। क्वचिदुपाध्यन्तयोगः, यथा - पाणिनीयं महत् भवत्सु विहितमिति। क्वचिद्वाक्यम् - पाणिनीयमधीत इति। क्वचिद्वृत्तिः। पाणिनीय इति। तदिह छन्दोब्राआहृणानामध्येतृवेदितृविषया वृत्तिर्यथा स्यात्। प्रकारान्तरं मा भूदित्येवमर्थमिदमुच्यते। `अध्येतृवेदितृ` इति। अध्येतृवेदितृप्रत्ययो विषयेषामिति बहुव्रीहिः। `{अनन्यभावो -काशिका, पदमञ्जरी च} अन्यत्रभावो विषयार्थः` इति। यथा मत्स्यानां जलं विषय इत्यत्रानन्यत्रभावे विषयशब्दो वर्तते, तथेहापि। एतेन यद्यपि ग्रामसमुदायादिष्वर्थेषु विषयशब्दस्य वृत्तिः, तथापीहानन्यत्रभावे वर्तमानः संगृह्रत इति दर्शयति। `तेन`इत्यादिना अनन्यत्रभाववृत्तिशब्दस्य फलं दर्शयति। एवं ह्यत्रन्यत्राभावो भवति यदि स्वातन्त्र्यादि न भवति। उपाध्यन्तरयोगो महत्त्वादिना विशेषेण सम्बद्धः कठ इति। `कठेन प्रोक्तम्` इति। `कलापिऔशभ्यायनान्तवासिभ्यश्च` [[4.3.104]] इति णिनिः, तस्य <<कठचरकाल्लुक्>> [[4.3.107]] , ततः कठेन प्रोक्तमधीते तद्वेदेति [[4.2.58]] पुनरण्, तस्यापि <<प्रोक्ताल्लुक्>> [[4.2.64]] इति लुक्। `मौदाः, पैप्पलादाः` इति। <<कलापिवैशम्पायनान्तेवासिभ्यश्च>> [[4.3.104]] इति णिनिः-मोदेन प्रोक्तमिति, <<कलापिनोऽण्>> [[4.3.108]] इत्यण्, तदन्तात् <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] इति लुक्। `आचार्भिनः` इति। ऋचाभेन प्रोक्तमिति `कलापिवैशम्यायनान्तेवासिभ्यश्च` [[4.3.104]] इति णिनिः, तदन्तात् <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्। `वाजसनेयिनः` इति। वाजसनेयेन प्रोक्तमिति। <<शौनकादिभ्यश्छन्दसि>> [[4.3.106]] इति णिनिः, तदन्तात् <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य लुक्। `ताण्डिनः` इति। ताण्ड्यशब्दाद्गर्गादि [[4.1.105]] यञन्तात् प्रोक्तार्थे `पुराणप्रोक्तेषु ब्राआहृणकल्पेषु` [[4.3.105]] इति णिनिः, <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इतियलोपः। ततः <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य लुक्। `भाल्लविनः` इति। भाल्लविशब्दादिढन्तात् प्रोक्तार्थे पूर्ववण्णिनिः,तदन्तात् तद्वेद [[4.2.58]] इत्यण्, तस्य लुक्। शाटआयनिनः` इति। शाटशब्दाद्गर्गादि [[4.1.105]] यञन्तात् <<यञिञोश्च>> [[4.1.101]] इति फक्,ततः प्रोक्तार्थे पूर्ववण्णिनिः, तदन्तात् <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य लुक्। `ऐतरेयिणः` इति।ऐतरेयशब्दाच्लुभ्रादिढगन्तात् [[4.1.123]] पूर्ववण्णिनिः, ततः `तदधीते` [[4.2.58]] इत्यण्, तस्यु लुक्। `ब्राआहृणविशेषप्रतिपत्त्यर्थम्` इति। ब्राआहृणविशेषः पुराणप्रोक्तत्वम्। तस्य प्रतीतिः = प्रतिपत्तिर्यथा स्यादित्येवमर्थं ब्राआहृणग्रहणम्। `याज्ञवल्क्यानि` इति। याज्ञवल्क्यशब्दाद्गर्गादि [[4.1.105]] यञन्तात् प्रोक्तार्थे <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यण्। `सौलभनि` इति सुलभेन प्रोक्तानीति। पूर्ववत् <<कलापिनोऽण्>> [[4.3.108]] इत्यण्। अत्र स्वातन्त्र्यं भवति। न हीह पुराणप्रोक्तत्वमस्ति; इदानीन्तेन प्रोक्तत्वात्। `काश्यपिनऋः, कौशिकिनः`इति। कश्यपेन प्रोक्तः कल्पः, कौशिकेन प्रोक्कत इति। <<काश्यपकौशिकाभ्यामृषिभ्यां णिनिः>> [[4.3.103]] , तदन्तात् `तदधीते` [[4.2.58]] इत्यण्, तस्य लुक्। `पारशरिणः, शैलालिनः` इति। पाराशर्येण प्रोक्तं सूत्रम्, शिलालिना प्रोक्तं सूत्रम् - <<पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः>> [[4.3.110]] इत्यण्, तस्य लुक्। `कर्मन्दिनः, कृशाइआनः` इति। कर्मन्देन प्रोक्तं सूत्रम्, कृशाओन प्रोक्तं सूत्रमिति `कर्मन्दकृशाआआदिनिः` [[4.3.111]] तदन्तात् <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य लुक्।`पैङ्गी कल्पः`इति। पिङ्गेन प्रोक्तः कल्पः - `पुराणप्रोक्त` [[4.3.105]] इत्यादिना णिनिः। तत्र स्वातन्त्र्यमेव भवति, न च तद्विषयता॥", "42067": "", "42068": "`चतुष्र्वपि` इति। अनन्तरातीतेऽस्मिन् वक्ष्यमाणयोश्च योगयोः। `कर्तरि च`इति। लक्ष्यानुरोधेन क्वचिद्धेतौ क्वचित् कर्तरि च - सहरुओणेति हेतौ,कुशाम्बेनेति कर्तरि। यदा हेतौ तदा वृत्तेरकर्मकत्वान्निर्वृत्त इति कर्तरि निष्ठा, यदा कर्तरि तदाऽन्तर्भावितव्यमर्थत्वाता कर्मणि। अकर्मका अप्यन्तर्भावितण्यर्थाः सकर्मका भवन्ति॥", "42069": "", "42070": "", "42071": "`यथायथम्` इति। यथास्वम्। तत्र प्रथमे प्रथमासमर्थविभक्तियुक्तात्। द्वितीये तृतीयासमर्थविभक्तियुक्तात्। तृतीयचतुर्थयोः षष्ठीसमर्थविभक्तियुक्तात्। `नद्यास्तु परत्वान्मतुबेव भवति` इति। नद्यां मतुप्` [[4.2.84]] इत्यनेन॥", "42072": "`मालवतम्` इति। यदि बह्वजिति, न भवत्येव दोषः॥", "42073": "", "42074": "", "42075": "", "42076": "", "42077": "`उवर्मान्तलक्षणस्य` इत्यादि। य उवर्णान्तास्तेभ्यः `ओरञ्` [[4.2.70]] इति प्राप्तस्याञोऽपवादः। शेषेभ्यश्च <<बह्वचः कूपेषु>> [[4.2.73]] इत्यादिना प्राप्तस्य कूपलक्षण्स्य। अथाण्ग्रहणं किमर्थम्, सुबास्त्वादिभ्यो यताविहितमेवोच्येत। पुनर्वचनं यो विहितो न च प्राप्नोति तदर्तं विज्ञायते। अणेव च विहितो न प्राप्नोति; अपवादेन बाधित्वा।अथ स भविष्यीत्यत आह - `अण्ग्रहणम्` इत्यादि। असति ह्रण्ग्रहणे `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।10) इति नदीमतुपा सह सम्प्रसारणायां परत्वान्नदीपमतुप् स्यात्। अणो ग्रहणादणेव भवति। तस्मान्मतुपो बाधनार्थण्ग्रहणम्॥", "42078": "`कोऽयं निर्देशः`इति। कुत्सितोऽयं निर्देश इत्यर्थः। कुत्सितं तु लक्षणातिक्रान्तत्वात्। तदेव लक्षणातिक्रान्तत्वं दर्शयितुमाह `यावता`इत्यादि। सर्वावस्था च केवलस्य तदन्तस्य च प्रतिपत्तिः प्रकृतत्वेन यथा स्यादित्येवमर्थमुच्यते। यदि `रोण्याः` इत्यादिनिर्देशः क्रियेत तदा `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न` (व्या।प।89) इति केवलादेव स्यात, न तदन्तात्। रोणीति शास्त्रानपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिहोच्यते, तदस्याः परिभाषाया अनपेक्षणादिह तदन्तापि प्रत्ययः सिद्धो भवति। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न चेदं प्रातिपदिकम्; स्त्रीप्रत्ययान्तत्वात्। अथ मतम् - `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इति प्रातिपदिकस्य तदन्तविधेः प्रतिषिध्यमानः स्त्रीप्रत्ययान्तस्यापि प्रतिषिध्यत इति,एतच्च यत्र हि प्रातिपदिकस्य स्वरूपग्रहणं तद्विषया परिभाषेति प्राग् ज्ञापितमेतत्? एवं तर्हि तस्य ज्ञापनस्य प्रायिकत्वं दर्शयति। तेन क्वचिदस्वरूपग्रहणेऽप्येषा परिभाषा प्रवर्तते। तेन कुमारीमाचष्टे कुमारयतीत्यत्र `जातिष्ठवत् प्रातिपदिकस्य` (वा।813) इतीष्ठवद्भावः सिद्धो भवति॥", "42079": "", "42080": "`औत्सिर्गिकोऽपि तत्रेष्यते` इति। यद्येवम्, तस्य श्रवणं प्राप्नोतीत्यत आह - `तस्य च` इत्यादि। `तथा चोक्तम्` इत्यादि। तदेव द्रढयति - औत्सर्गिक इत्येव। शिरीषाणामदूरभवो शिरीषाः, तस्य वनं शिरीषवनमिति भाष्यकारवचनाल्लभ्यते। विशेषविहितानांहि लुपा न भवितव्यम्। अत औत्सर्गिकस्य लुब्भवतीति विज्ञायते॥", "42081": "", "42082": "", "42083": "`पाठसामर्थ्यात्ित्यादि। यदि नित्यो लुप् स्यात्, गणयोरस्य पाठोऽनर्थकः स्यात्। तस्मात् पाठसमाथ्र्यादेव पक्षे श्रवणं भविष्यतीत्यत आह। `एवं तर्हि` इत्यादिना वाघणस्य ज्ञापकं दर्शयति। `शर्करा` इति। औत्सर्गिकस्य लुप्। `शार्करम्` इति। त्स्यैव पक्षे श्रवणम्। `शर्करकम्` इति। कुमुदादित्वाट्ठच्। `शार्करकम्` इति। वराहादित्वात् कक्। शार्करिकम्, शर्करीयम्` इति। उत्तरसूत्रेण ठक्छौ॥", "42084": "", "42085": "`उदुम्बरावती`इति। <<मतौ बह्वचोऽनजिरादीनाम्>> [[6.3.119]] इति दीर्घः॥", "42086": "", "42087": "कुमुदशब्दाट्ठच्ठकोः प्राप्तयोः। नडशब्दादपि <<नडशादाड्ड्वलच्>> [[4.2.88]] इति `नडादीनां कुक्च` 4.2.102) इति। अस्मश्च विधौ प्राप्ते वेतसशब्दादपि मतुब् विधीयते। `महिषाच्च` इत्यादि। `महिषशब्दान्मतुब् विधीयते` इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्राच्चकारोऽनुवर्तते, स चानुक्तसमच्चयार्थः। तेन महिषशब्दादपि भविष्यतीति॥", "42088": "", "42089": "", "42090": "", "42091": "`क्रुञ्चाया ह्रस्वत्वञ्च` इति। क्रुञ्चाशब्दस्य कुग्भवति ह्रस्वत्वञ्च - `क्रौञ्चकीयम्` इति। `तिक्षन्नलोपश्च` इति। तक्षन्नित्यस्य कुगागमो भवति, नलोपश्च - `तक्षकीयम्` इति।", "42092": "`उपयुक्तादन्यः शेषः` इत्येतद्ग्रहणकवाक्यम्। तदेव `अपत्यादिभ्यः`इत्यादिना विवृणोति।अपत्यादयो हि चातुरथ्र्यपर्यन्ताः प्रत्ययविधौ विनियुक्ताः, तस्मात् तेभ्यो योऽन्यो जातादिरर्थः,स शेषः। ननु च निवृत्ता अपत्यादयः, तेभ्यश्चान्तरेषु जातादिषि येषु घादयस्ततोऽपत्यादिषु नैव ते प्राप्नुवन्तीति तत्क तन्निवृत्त्यर्थेन शेषाधिकारेण? इत्य आह - `तस्येदम्` इत्यादि। जातादिष्वर्थेषु तस्येदमित्येषोऽर्थः पठते। तच्चापत्यादीनां सामान्यम्। सामान्ये च विधीयमानस्तद्विशेषेऽपि विधीयते। तदुपलक्षणत्वात् सामान्यस्य। अतस्तस्येदं विशेषत्वाज्जाताद्यन्तःपातिष्वपत्यादिषु घादयः प्राप्नुवन्ति। तस्मात् तेषु मा भूवन्निति शेषाधिकारः क्रियते।`किञ्च` इत्यादिना प्रयोजनान्तरं दर्शयति। असति हि शेषाधिकारे घादीनां प्रथमार्थेनैव सम्बन्धमनुभवतां तत्रैव कृतार्थता विज्ञायेत। तत्र द्वितीयादिष्वर्थेषु प्राग्दीव्यतीया एवाणादयः स्युः, न तु घादयः। शेषशब्दस्तूपयुक्तादन्यतया जातादीनर्थानेकीकृत्य शक्नोत्यभिधातुम् - `सर्वत्र घादयः सिध्यन्तीति। अतः साकल्यार्थं वा शेषवचनम्। `लक्षमं चाधिकारश्च, इति। इह लक्षणस्य विधायकत्वाल्लक्ष्यतेऽनेनेति लक्षणमिति कृत्वा; उत्तरत्राधिकारः स्वरितत्वात्। तत्र यदाऽस्य लक्षणम्,चाक्षुषादयः सिध्यन्ति। यदा स्वधिकारता, तदा सर्वेषु जातादिष्वर्थेषु घादयो भवन्ति। यदि तर्हि शेष इतिलक्षणमपीदमनेनैव यथा ग्रहणादिष्वर्थेषु प्रत्ययो भवति, तथा जातादिष्वपि भविष्यतीति जाताद्यनुक्रमणमनर्थकम्? न; अपवादविधानार्थत्वात्। यानि त्वनपवादार्थानि जातनिवृत्तलब्धक्रीतकुशलाः -इत्येवमादीनि तानि शेषग्रहणस्यैव प्रपञ्चो वेदितव्यः॥", "42093": "राष्ट्रशब्दात् <<वृद्धाच्छः>> [[4.2.114]] इति च्छे प्राप्ते।अवारपारशब्दादणि घखौ विधीयेते। अवारस्य पारमवारपारमिति षष्ठीसमासः। राजदन्तादिषु दर्शनात् पारावारमित्यपि पक्षे भवति। विगृहीताद्विपरीताच्च लभ्यते। वक्तव्यमेवैतत्। अथ वा - एकशेषो विज्ञास्यते, तत्रैकः समुदायारेथः, अपरोऽवयवार्थो भविष्यति। विपरीतस्यापि `एकार्थानां विरूपाणाम्` (1.2.64।वा।23) इत्येकशेषो न विरुध्यते, था - वक्रदण्डश्च कुटिलदण्डश्च कुटिलदण्डाविति, यथा च यङ्लुकाविति। ननु च तस्यैवं प्रकृतयो भवन्ति, पञ्च राष्ट्रादिशब्दाः,प्रत्ययौ तु द्वौ - इति वैषम्यात् संख्यातानुदेशो न सिध्यति? नैष दोषः;निर्देशापेक्षं हि यथासंख्यत्वम्। निर्देशश्च द्वयोरेव तदपेक्षया प्रकृते यथासंख्यत्वम्। एवं पञ्चाद्यभेद उपजायते, न स यथासंख्यं बाधते। यथा वुञादीनाञ्च गणापेक्षया यथासंख्यं प्रवृत्ते तु यथासंख्येन प्रत्ययोत्पत्तिवेलायां गणेषु यद्यपि प्रातिपदिकरूपाण्यसमसंख्यानि भवन्ति, तथात्रापि यथासंख्यं न हीयते। कुतः पुनरवगतम् - एकशेषोऽयमिति? व्याख्यानात्।`प्रकृतिविशेषोपादानमात्रेण` इति। मात्रशब्दो जाताद्यर्थविभक्तिनिर्देशस्य च व्यवच्छेदाय॥", "42094": "वृद्धलक्षणे छे प्राप्ते वचनम्॥", "42095": "कत्त्र्यादिषु यद्वृद्धं पठते ततश्छे प्राप्ते शेषेभ्यस्त्वणीति योगोऽयमारभ्यते। कत्त्रिशब्दश्च तत्पुरुषः - कुत्सितास्त्रयः, <<कोः कत् तत्पुरुषेऽचि>> [[6.3.101]] इतियोगविभागात् कद्भावः। अत एव निपातनाद्बहुव्रीहिर्वा - कुत्सितास्त्रयो यस्याः कत्त्रिः। `कुडआया यलोपश्च` इति। कुडज्ञाशब्दाड् ढञ् भवति यलोपश्च -कौडेयकः।ये तु `कुल्याया यलोपश्च` इति पठन्ति तेषां कौलेयकः॥", "42096": "`अणोऽपवादो योगः॥", "42097": "यान्यत्रावृद्धानि तेभ्योऽणि प्राप्तेष वृद्धेभ्यस्तु वाराणसीत्येवमादिभ्यश्छे प्राप्तेऽपवादः। केषाञ्चित् <<रोपधेतोः प्राचाम्>> [[4.2.123]] इति वुञि प्राप्ते ढगारभ्यते। `पौरेयम्` इति। पुरि भवम्। वने भवं `वानेयम्`। `गैरेयम्` इति। गिरौ भवम्। `तदुभयमपि दर्सनं प्रमाणभूतम् इति। उभयथाऽप्याचार्येण शिष्याणां प्रतिपादित्वात्।गणे नदीत्येतत् स्वरूपेण ग्रहणम्, न संज्ञाग्रहणार्थम्। संज्ञाग्रहणे हि महृदीनां पाठोऽनर्थकः स्यात्।", "42098": "पश्चात्पुरसोरव्ययत्वात् साहचर्याद्दक्षिणाशब्दोऽपि <<दक्षिणादाच्>> [[5.3.36]] इत्यजन्तमध्ययमेव गृह्रते। एवं च <<अव्ययात्त्यप्>> [[4.2.104]] इत्यत्र परिगणनात् त्यपः प्राप्तिर्नास्तीत्यणोऽपवादोऽयं योगः॥", "42099": "वृद्धा [[4.2.113]] दिति छे प्राप्ते कापिशीशब्दात् ष्फग्विधीयते।`बाह्लो` इत्यादि। बाह्लीत्यादिभ्यः ष्फग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - उत्तरसूत्रादिह चकारः सिंहावलोकितन्यायेनानुवर्तते, तस्यानुक्तसमुच्चयार्थत्वात् बाह्ल्यादिभ्योऽपि ष्फग्भवतीति॥", "42100": "<<ओर्देशे ठञ्>> [[4.2.119]] इति ठञि <<जनपदतदवध्योश्च>> [[4.2.124]] इति जनपदलक्षणे वुञि <<कोपधादण्>> [[4.2.132]] इत्यणि प्राप्ते वचनम्। `{कच्छादिपाठादमनुष्येऽणापि -काशिका,पदमञ्जरी च।} कच्छादिपाठादणिप सिद्धः` इति। <<कच्छादिभ्यश्च>> [[4.2.133]] इत्यत्र <<कोपधादण्>> [[4.2.132]] इत्यण् ग्रहणानुवृत्तेः। `नञिवयुक्तन्यायेन`इति। नञ्युक्ते चेवयुक्ते च तत्सदृशसम्प्रत्ययो भवति। इह च मनुष्यशब्दो नञ्युक्तः, तस्मान्नेह मनुष्यन्नेह मनुष्यप्रतिषेध्यः क्रियते। अपि च मनुष्यसदृशे प्राणिन्येव प्रवृत्तिः, तेन मनुष्यसदृशे प्राणिनि ष्फगणौ भवतः। अप्राणिनि तु कच्छादिपाठादणेव भवति, न ष्पक् - `राङ्कवः कम्बलः`इति। `विशेष विहितेन` इत्यादि। यदीहाप्यण्न क्रियेत,तदा`{कच्छादिभ्यश्च इत्येव सूत्रम्।} कच्छादिभ्योऽण्` [[4.2.132]] इत्यणो राङ्कवः कम्बल इत्यत्र सावकाशत्वात् प्राणिनि विशेषविहितेन ष्फका तस्य बाधनं स्यात्। तस्मादेष दोषो मा भूदित्यणपि क्रियते॥", "42101": "अणि प्राप्ते यद् विधीयते। प्रागित्यादयः शब्दा अञ्चतेः `ऋत्विक्` [[3.2.59]] इत्यादिना क्विनि कृते सत्यात्मानं लभन्ते। ते च द्विविधाः - अव्ययसंज्ञका,अनव्ययसंज्ञकाश्च। यदा त्वस्तातिप्रत्ययान्ता भवन्ति तदा <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यव्ययसंज्ञाविधानादव्ययसंज्ञकाः,अन्यदा त्वनव्ययसंज्ञकाः। तेषामिह विशेषस्यानुपादानादुभयेषामपि ग्रहणम्। `प्राच्यम्, `{अवाच्यम् -इतिकाशिकापाठः,पदमञ्जरीपाठश्च। }अपाच्यम्` इति। `अचः` [[6.4.138]] इत्यकारलोपः, `चौ` [[6.3.137]] इति दीर्घः। `उदीच्यम्` इति।`उद ईत्` [[6.4.139]] इतीकारः। `प्राक्तनम्` इति। प्राक्शब्दात् `दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिक्` [[5.3.27]] इत्यादिनाऽस्तातिः, तस्य <<अञ्चेर्लुक्>> [[5.3.30]] इति लुक्, ततोऽनेन यति प्राप्ते `सायञ्चिरम्` [[4.3.23]] इत्यादिना टउटउलौ भवतः। यतस्तु - यश्च कालवाची सोऽवकाशः॥", "42102": "अणपवादोऽयं योगः॥", "42103": "`वर्णुः` इति। नदोऽभिधीयते। रुआओतसि च कन्था न सम्भवीति सामीपिकमधिकरणं विज्ञायते, अत आह - `तत्समीपो देशो वर्णुः` इति। वर्णुशब्दात् <<अदूरभवश्च>> [[4.2.70]] इत्यत्रार्थे <<सुवास्त्वादिभ्योऽण्>> [[4.2.77]] इत्यण्, तस्य <<जनपदे लुप्>> [[4.2.81]] इति लुपि कृते वर्णुरिति भवति। ननु च प्रतिपदविधानात् प्रत्ययस्य लुब्न भवति? नैवम्; सुवास्त्वादिपाठो हि जनपदादान्यस्मिन् प्रत्ययार्थे कृतार्थः -`वार्णवो ग्रामो नगरमिति, न तु जनपदे। तत्र तु परत्वाल्लोपेन भवितव्यम्। `तद्धिषयार्थ`इति। विषयग्रहणेन वर्णादिति सप्तम्या विषयसप्तमीत्वं दर्शयति। स वर्णुदेशो विषयो यस्य तद्विषयार्थः। सा पुनः कन्थैव॥", "42104": "`अमेह` इत्यादि। परिगणनम्। एतच्चोत्तरसूत्रस्थस्यान्यतरस्यांग्रहणस्यभोर्योगयोः विज्ञायते व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अमाशब्दः समीवाची, स्वरादिपाठादव्ययत्वम्। इहेत्यादीनां <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इति। अमा भवोऽमात्यः।`औपरिष्टः` इति। उपरिष्टाद्भवतीत्यणि कृते `अव्ययानां भमात्रे टिलोपो वक्तव्यः` (वा।842) इति टिलोपः।परतो भवः `पारस्तः`। परतः शब्दः <<विभाषा परावराभ्याम्>> [[5.3.29]] इत्यसुजन्तः। `आरातीयः` इति। अत्र टिलोपो न भवति; `बहिषष्टिलोपश्च` (वा।378) इत्यत्रानित्यत्वस्य ज्ञापितत्वात्।`त्यब्नेध्र्रुवे` इति। निशब्दाध्रुवे वाच्ये त्यब्भवति। नियते सर्वकाले भवो नित्यः।`निसो गते` इति। निःशब्दाद्गते वाच्ये त्यब्भवति। `निष्टः` इति। <<ह्रस्वात् तादौ तद्धिते>> [[8.3.101]] इति मूर्धन्यः। एवमादविष्ट इत्यत्रापि भवति॥", "42105": "ऐषमःप्रभृ-तीनि कालवाचीनि प्रातिपदिकान्यव्ययानि। `सायञ्चिरम्`\t [[4.3.23]] इत्यादिना परत्वाट्टउटउलोः प्राप्तयोरिदं वचनम्। `शोवस्तिकम्` इति। `द्वारादीनाञ्च` [[7.3.4]] इत्यैजागमः॥", "42106": "अथ तीररूप्योत्तरादित्येवं कस्मान्नोक्तम्, एवं हि लघु सूत्रं भवतीति? अत आह - `तीररूप्यान्तात्` इत्यादि। यदीह तीररूप्यान्तादित्युज्येत, बहुच्पूर्वादपि स्यात् - बहुतीरे जात इति, भवति ह्रेतत् तीरान्तम्। उत्तरपदग्रहणे ह्रेषोऽतिप्रसङ्गो न भवति, न ह्रेतत्, तीरोत्तरपदम्, यस्मात् समासे सत्येतद्भवति। पूर्वपदमुत्तरपदमिति न्यायेन नायं समासः॥", "42107": "`पौर्वशालः`इति। पूर्वस्यां शालायां भवः पौर्वशालः। `तद्धितार्थः` [[2.1.50]] इत्यादिना तद्धितार्थे समासः, ततः प्रत्ययः।अथ पदग्रहणं किमर्थम्? `न दिक्पूर्वात्` इत्येवोच्येत? इत्यत आह - `पदग्रहणम्` इत्यादि। असति हि पदग्रहण स्वरूपग्रहणं स्यात्। तथा च दिग्गजः, दिग्नागः, दिग्दाहः - इत्येवमादिः प्रकृतिर्विज्ञायते। पदग्रहणे तु सति दिग्विशेषो गृह्रते,कथम्? पदग्रहणसामर्थ्याद्व्याधिकरणे बहुव्रीहिर्विज्ञायते - दिशः पूर्वपदं यस्य। दिश इति च वाचकापेक्षया षष्ठी विज्ञायते। तेनेह तदभिधायी पूर्वादिदिक्शब्दो गृह्रते।", "42108": "`पौर्वमद्रः` इति। पूर्ववत् तद्धितार्थे [[2.1.50]] समासः, ततोऽणि प्राप्ते,<<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] इतिच वृञि, <<मद्रवृज्योः कन्>> [[4.2.131]] इति कन्यञ् विधीयते॥", "42109": "`शैवपुरम्, माहानगरम्` इति। शिवपुरमहानगरशब्दौ समासस्वरेणान्तोदात्तौ।`माथुरम्` इति। मथुराशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। मध्यदेशग्रामस्तु, तेनाणेव भवति। `ध्वाजम्` इति। ध्वजीशब्दः पिप्पल्यादित्वान्ङीषन्तः।गौरादिषु हि प्पिल्यादयः पठन्ते,तेनासौ प्रत्ययस्वरेणान्तोदात्तः। उदीच्यग्रामस्य बह्वजन्तो भवति। `धानशब्द उदात्तः` इति। <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति धानशब्दस्य ल्युडन्तस्य प्रकृतिभावात्॥", "42110": "`उदीच्यग्रामलक्षणस्याञोऽपवादः` इति। प्रस्थोत्तरपदादीनामुदीच्यग्रानत्वात्। `माद्रीप्रस्थः, माहकीप्रस्थः` इति। अत्र प्रकृतिः समासस्वरेणान्तोदात्ता। अथोत्तरपदग्रहणं किमर्थम्, न प्रस्थान्तादित्येवोच्येत? नैवं शक्यम्; तदिहापि प्रसज्येत -उत्तमकर्णीप्रस्थः। तत्राप्युत्तरपदग्रहणान्न भवति। न ह्यत्र प्रस्थशब्द उत्तरपदम्, किं तर्हि? कर्णीप्रस्थशब्दः। `ततष्ठञ्ञिठयोरपवादः`इति <<वाहीकग्रामेभ्यश्च>> [[4.2.117]] इति प्राप्तयोः। अथ वाहीकशब्दः किमर्तमिह पठते, यावता कोपधत्वादेवाण् सिद्धः? अत्राह - `वाहीकशब्दः` इत्यादि। यदि वाहीकशब्द इह न पठते, परत्वात् <<वृद्धाच्छः>> [[4.2.114]] इति च्छः स्यात्। कोपधस्य तु निलीक इत्यत्रावृद्धमवकाशः। तस्मात्परमपि च्छं बाधित्वाऽण् यथा स्यादिति कोपधोऽपि वाहीकशब्दः पठते।अथाण्ग्रहणं किमर्थम्, न यावता यथाविहितमेवोच्येत?न; पुनर्विधानादणेव भवतीति विज्ञायते। अपवादस्य विधाने पुनर्विधानमनर्थकमित्याह -`अजग्रहमम्` इत्यादि। यदत्र वृद्धं वाहीकग्रामः,तस्मात् <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यतोऽणि प्राप्ते <<वृद्धाच्छः>> [[4.2.114]] प्राप्नोति, तस्मिन् <<वाहीकग्रामेभ्यश्च>> [[4.2.117]] इति ठञ्ञिठौ, तौ परत्वात् बाधित्वा यद्यत्राण्ग्रहणं न क्रियेत तदा पुनर्विधानाच्छ एव स्यात्। अण्ग्रहणादेव भवति - गोष्ठआं भवं `गौषठम्` इति। तस्मात् बाधकमपि बाधित्वाऽणेव यथा स्यादित्येवमर्थमण्ग्रहणम्। कोपधग्रहणमिहाजनपदार्थम्। जनपदतदवधि` [[4.2.123]] <<कोपधादण्>> [[4.2.132]] इत्यनेन सिद्धः। यकृल्लोमशब्दः पलद्यादिषु पठते, तस्य नलोप निपात्यते,अन्यथा `अन्` [[6.4.167]] इति प्रकृतिभावे सति यकृल्लोम्नि भवः याकृल्लोम इति न सिध्येत्॥", "42111": "`गोत्रग्रहणमिह न प्रत्ययार्थम्` इति। शेषाधिकारात्। यदि हि प्रत्ययार्थः स्यात्, शेषाधिकारो वाच्येत। `{न च -काशिका पदमञ्जरी च} न प्रकृतिविशेषणम्`िति)। असम्भवात्। न हि कण्वादीनां परमप्रकृतिरूपाणामेव गोत्रार्थत्वं सम्भवति। तर्हि गोत्रग्रहणं सम्बध्येतेत्येवमर्थं पृच्छति। `एवम्` इत्यादिना प्रत्ययविधिविशेषणं गोत्रग्रहणमिति दर्शयित्वा तेन गोत्रप्रत्ययान्तेभ्यः कण्वादिभ्योऽण् भवतीति दर्शयति। `छस्यापवादः` इति। गोत्रप्रत्ययान्तानां कण्वादीनां वृद्धत्वात्। `काण्वाः, गौकक्षाः`इति। कण्वगोकक्षशब्दाभ्यां गोत्रापत्ये गर्गादि [[4.1.105]] इत्वाद्यञ्, तदन्तादण्, `आपत्यस्य` [[6.4.151]] इत्यादिना यलोपः। `काण्वः` इति। <<सास्य देवता>> [[4.2.24]] इत्यण्॥", "42112": "दाक्ष्यादिभ्यः `अत इञ्` [[4.1.95]] इतीञन्तेभ्योऽण्। `सौतङ्गमीयम्` इति। सुतङ्गमेन निर्वृत्तमिति <<वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः>> [[4.2.80]] इत्यादिना सुतङ्गमशब्दाच्चातुरर्थिक इञ्॥", "42113": "`पैङ्गीयाः, प्रौष्ठीयाः`इति। प्राच्यगोत्रोदाहरणम्। `काशीयाः,पाशीयाः`इति। भरतगोत्रोदाहरणम्। `कथम्` इत्यादि चोद्यम्। `नैतदस्ति` इति परिहारः। उभयञ्चैतत्,तदुदाहरणम्। उभयञ्चैतदनुगतार्थम्। ननु च भरताः प्राच्या एव,ततः प्राच्यग्रहणेनैव तेषां ग्रहणं भविष्यति, तत्किमर्थं तेषांस्वशब्देनोपादानम्? इत्यत आह - `ज्ञापकादन्यत्र` इत्यादि। क्वान्यत्र? `बह्वच इञः प्राच्यभरतेषु` [[2.4.66]] इत्यत्र॥", "42114": "`अव्ययतीर`इत्यादि। तत्राव्ययविधिं बाधते - आराद्भव आरातीयः। तीरोत्तर एव विधिः,तं च वायसतीरे भवो वायसतीरीयः। रूपोत्तरपदात्तु छं बाधित्वा <<धन्वयोपधाद्वुञ्>> [[4.2.121]] इति योपधलक्षणो वुञ् भवति - मणिरूप्ये भवो माणिरूप्यक इति। उदीच्यग्रामविदिं बाधते - वाडवाक्षे भवो वाडवाक्षीयः, साडलपुरे भवः साडलपुरीयः। कोपधलक्षमम् -औदके भव औदकीयः, चौल्लुके भवः चौल्लुकीयः। तेषां तु विधीनामवृद्धोऽवकाशः॥बाल-मनोरमावृद्धाच्छः 1318, 4.2.124 वृद्धाच्छः। वृद्धसंज्ञकाच्छः स्याज्जातादिष्वर्थेषु। अणोऽपवादः। शालीय इति। शालायां जात इत्यादिरर्थः। एवं तदीयः।बाल-मनोरमाभवतष्ठक्छसौ 1320, 4.2.124 भवतष्ठक्छसौ। भावत्क इति। `इसुसुक्तान्तात्कः`। ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह -जश्त्वमिति। `सिति चे`ति पदत्वेन भत्वस्य बाधादिति भावः। ननु `भावत` इति कथमण्प्रत्ययः, `त्यदादीनि चे`ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह -वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति। त्यदादिषु `भातेर्डवतु`रिति डवत्वन्तस्यैव पाठादिति भावः।", "42115": "`सकारः पदसंज्ञार्थः` इति। `सिति च` [[1.4.16]] इति पदसंज्ञा यथा स्यात्। तस्याञ्च सत्यां भवदीयमदित्यत्र <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वं भवति। `भावत्कः` इति। `इशुसुक्तान्तात् कः` [[7.3.51]] । `अवृद्धात्तु भवतः` इति। शत्रन्तादिति॥", "42116": "", "42117": "", "42118": "", "42119": "`नैषादकर्षुकः। शावरजम्बुकः` इति। निषादकर्षूवरजम्बूशब्दाभ्यां ठञ्, `इसुसुक्तान्तात् कः` [[7.3.51]] , `केऽणः` [[7.4.13]] इति ह्रस्वः। ननु च ठञ् प्रकृत एव, स एवेहानुकृष्यते, तत्क ठञ्ग्रहणेन? इत्यत आह - `ठञ्ञिठयोः` इति। यथैव हि ठञ् प्रकृतः, एवं ञिठोऽपि। तत्र द्वयोरपि प्रकरणे ठञ् चानुवर्तिष्यते, नेतर इत्येतन्न लभ्यते। तस्मात् ञिठस्य निवृत्तये पुनष्ठञ्ग्रहणं कृतम्। ननु चास्वरितत्वादेव ञिठो नानुवर्तिष्यते? सत्यमेतत्; तदेवास्वरितत्वं ज्ञापयितुं ञिठस्य ठञ्ग्रहणं कृतम्। तच्चास्वरितत्वमाख्यायते मन्दबुद्धीनामनुग्रहाय॥", "42120": "`आढकजम्बुकः` इति। पूर्ववत् कादेशो ह्रस्वत्वञ्च॥", "42121": "धन्वनोऽर्थस्य ग्रहणम्, न स्वरूपस्य; वृद्धाधिकारात्। न हि धन्वशब्दो वृद्धः। पारेधन्वनि जातः पारेधन्वकः, <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः। ऐरावते जात ऐरावततकः॥", "42122": "`वृद्धादित्येव` इति। यदि तर्हि वृद्धादित्यनुवर्तते वृद्धाधिकारादेव स्वरूपग्रहणाभावात् कथं तदन्तविधिर्भवति, नहि प्रस्थादेः केवलस्य वृद्धत्वं सम्भवति, किं तर्हि? तदन्तस्य, तत्किमन्तग्रहणेन? मैवम्; सत्यपि वृद्धाधिकारे यथा धन्वेति वृद्धग्रहणं हि देशस्य विशेषणं तथेहापि स्यात्, तन्निवृत्त्यर्थमन्तग्रहणं कृतम्॥", "42123": "`ईकारान्ताच्च` इति।कतं पुनज्र्ञायते - दीर्घस्येदं ग्रहणम्, न ह्रस्वस्येति? सामर्थ्यात्। प्राग्ग्रहणं हि देशस्य विशेषणम्। वृद्धादिति वर्तते, न च वृद्धमिकारान्तं प्राग्देशवाच्यस्ति, तस्माद्दीर्घस्येदं ग्रहणमिति विज्ञायते। एकचक्राशब्दस्य तु `एङ् प्राचाम्` [[1.1.74]] इति वृद्धसंज्ञा।अथ तपरकरणं किमर्थम्, नेह किञ्चित्तस्य व्यावर्त्त्यमस्तीत्यत आह - `तपरकरणं विस्पष्टार्थम्ट (इति)। असति हि तस्मिन् रोपध इति स्थिते गुणे कृते विभक्तौ च रोपधयोरिति निर्देशः स्यात्। तत्रैव सन्देहः स्यात् -किं रोपधस्येदं ग्रहणम्? उत रोपधस्येकारान्तस्येति? तपरकरणे तु सति सन्देहो न भवति। ईरोपधादिति नोक्तम्, वैचित्र्यार्थम्॥", "42124": "`तदवधेरपि` इत्यादि। `जनपदतदवध्योश्च` इत्यत्र तच्छब्देन सन्निहितत्वाज्जनपद एवपरामृश्यते। न चायं षष्ठीसमासः। षष्टीसमासे ह्रजनपदोऽपि योऽवधिस्ततोऽपि वुञ् प्रसज्येत। छ एव तस्येष्यते - मौञ्जी नाम वाहीकानामवधिग्र्रामः, तत्र भवो मौञ्जीय इति। तस्मात् समानाधिकरण एवायं समासः - सएव जनपदोऽवधिर्मर्यादा तदवधिरिति। तेन जनपदावधिरेव एव गृह्यन्ते, न ग्रामः।`किमर्थं तर्हि तदवधिग्रहणम्` इति। यदि तदवधिरपि जनपद एव गृह्रते,निरर्थकं तर्हि तस्य ग्रहणम्, `जनपदाच्च` इत्येतावदेव वक्तव्यमित्यभिप्रायः। `बाधकबाधनार्थम्` इति। गर्तोत्तरपदाद्वक्ष्यमाणश्छ एव परत्वाद्विशेषविहितत्वाच्च बाधकः, तस्य बाधनार्थं तदवधिग्रहणम्।तेनहि त्रिगर्तेषु भवस्त्रैगर्तक इत्यत्रोत्तरसूत्रेण गर्तत्तोत्तरपदाच्छं बाधित्वा वुञेव भवति॥", "42125": "`अण्छयोरपवादः` इति। अवृद्धादणोऽपवादः, वृद्धाच्छस्य। अथ विषयग्रहणं किमर्थम्, विनापि तेन विशेषो लभ्यत एव। कथम्? इह जनपदतदवधिशब्दाभ्यां समानाधिकरणत्वाद्वहुवचनशब्दो न पारिभाषिको विज्ञायते,किं तर्हि? अन्वर्थः - बहूनामर्थानां वचनो यो जनपदस्तदवधिश्चेति। यश्च बहूनामर्थानां वचनः सोऽर्थान् बहून् ब्राऊवन् सामर्थ्यादेव बहुवचनविषयो भवति? इत्याह - `विषयग्रहणम्` इत्यादि। अनन्यत्रभावः कथं नाम लभ्यत इत्येवमर्थं विषयग्रहणम्। अनन्यत्रभावः किमर्थमिष्यत इत्याह - जनपदैकदेशः क्रियते। वर्तनी च वर्तनी च वर्तनी च वर्तन्यः,तद्बहूनां वाचको भवति। ततश्च यदि विषयघणं न क्रियते ततो वर्तनीषु भव इति वुञ् स्यात्। विषयग्रहणे तु सति न भवति, अनन्यत्रभावो विषयः। तेनैवं विज्ञायते - बहुवचनं न यो व्यभचरति। यश्चैकशेषः स बहूवचनं व्यभिचरति, तस्यहि विवक्षाभावे बहुत्वात्। द्वयोरपि च कदाचिद्वृत्तेः।`अपिग्रहणम्` इति। अपिग्रहणं हि वृद्धादपि यथा स्यादित्येवमर्थं क्रियते। वृद्धात्पूर्वेणैव सिद्धः प्रत्ययः, तत् किमपिग्रहणेन? `तक्रकौण्डिन्यायेन` इति। यथा `ब्राआहृणेभ्यो दधि दीयता तक्रं कौण्डिन्याय` इति सामान्येन वृत्तस्य दधिदानस्य विशेषे वर्तमानेन तक्रदानेन बाधा क्रियते, तथेहापि बहुवचनविषये च सामान्येन प्रवृत्तस्य पूर्वयोगस्य बहुवचनविषये वर्तमानेनानेन योगेन बाधा विज्ञायते। तस्माद्वृद्धादपि यथा स्यादित्यपि शब्देन समुच्चीयते॥", "42126": "", "42127": "`अणादेरपवादः`इति। आदिशब्देन कच्छादीनां ग्रहणम्। तत्र देशवचना अवृद्धा येधूमादयस्तेभ्योऽणोऽपवादः। ये तु वृद्धास्तेभ्यश्छस्। य उदीच्यग्रामास्तेभ्योऽणः। ये बाहीकग्रामास्तेभ्यष्ठञ्ञिठयोः। `तस्य योपधत्वादेव वुञि सिद्धे` इति। <<धन्वयोपधाद्वुञ्>> [[4.2.121]] इत्यनेन। `जनपदलक्षणे वुञि सिद्धे` इति। <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] इत्यादिना। `कूलात् सौवीरेषु` इति। कुलशब्दाद्वृञ् भवति सौवीरेषु। कौलको भवति सौवीरश्चेत, कौलोऽन्यत्॥", "42128": "`नागरा ब्राआहृणाः` इति। अण्। ननु च `नगर,माहिष्मती` [[4.2.94]] इति नगरशब्दः कत्त्र्यादिषु पठते, ततो ढकञा भवितव्यम्, तत्कथं नागरा इति प्रत्युदाह्यियत इत्याह - `कत्त्र्यादिषु` इति। द्विविधो नगरशब्दः - जातिवचनः, संज्ञावचनश्च। तयोः कत्त्र्यादिषु माहिष्मतीशब्देन साहचर्यात् संज्ञाशब्दः पठते। तत्र जातिशब्दान्नागरा इति प्रत्युदाहृतम्। संज्ञाशब्दे तु नागरेयक इति प्रत्युदाहर्तव्यम्॥", "42129": "`औपसंख्यानिकस्य णस्यापवादः` इति। `अरण्याण्यः` (वा।437) इत्युपसंख्यानात्प्राप्तस्य। `पथ्यध्यायन्याय` इत्यादि। एषु पथ्यादिषु वुञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<धूमादिभ्यश्च>> [[4.2.127]] इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः,तेन पथ्यादिषु वुञ्भवति।`वागोमयेषु` इति। गोमयेषु वाच्येषु वा वुञ्भवतीति। स तु तस्यैव चकारस्यानुक्तसमुच्चयार्थस्यानुवृत्तेर्वक्ष्यमाणस्य विभाषाग्रहणस्योभयोः शेषभूतत्वाल्लभ्यते। यदि तर्हि वक्ष्यमाणं विभाषाग्रहणमुभयोर्योगयोः शेषभूतं पथ्यादिष्वपि विकल्पेन विधिः स्यात्? नैष दोषः; व्यवस्थितविभाषा हि सा, तेन गोमयाद्विकल्पेन विधिर्भवति, पथ्यादिषु नित्यमिति॥", "42130": "`सैषा युगन्थरार्था विभाषा` इति।न कुरुशब्दार्था। तत्र कच्छादिपाठाद्विनापि विभाषाग्रहणेनाणा भवितव्यम्। ननु युगन्धरशब्दादप्यणि <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] इति नित्यएव वुञि प्राप्ते वचननित्यार्थं भविष्यति, नित्ये हि वुञि पुनरारम्भोऽनर्थक- स्यात्, तस्माद्युगन्धरार्थाऽपि विभाषा न प्रसज्येत? नैतत् पुनरारम्भो विपर्ययेणापि शक्यते समर्थयितुम्। जनपदलक्षणो [[4.2.123]] यो वुञ् स विभाषा,अयं तु नित्य इति।अस्मात्तु युगन्धरार्थं विभाषाग्रहणं कर्तव्यम्। मनुष्यतत्स्थयोस्तु कुरुशब्दान्नित्य एव वुढ्भवति, कच्छादिषु पाठसामर्थ्यात्। अन्यथानयैव विभाषया वुञणोः सिद्धत्वात् कच्चादिपाठोऽर्थकः स्यात्; अनवकाशत्वात्॥", "42131": "`जनपदवुञोऽपवादः`इति। <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] इत्यादिप्राप्तस्य। मद्रवृज्योः कन्निति ञ्यन्तस्य परनिपातः <<द्वन्द्वे घि>> [[2.2.32]] इत्यस्य विधेरनित्यत्वज्ञापनार्थम्। तेन धूमाग्नी इत्येवमादि सिद्धं भवति॥", "42132": "`जनपदवुञोऽपवादः` इति। पूर्वत्प्रप्तस्य। किं पुनर्देशादन्यत्र वर्तमानो नेष्यते, यो देशे वर्तते? इत्याह - `अन्यत्रेत्यादि पूर्वेण` इति।`प्रस्थोत्तरपदात्` [[4.2.109]] इति सूत्रेण।अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमेवोच्येत, यथाविहितमुच्यमानेऽणपवादो वुञ् स्यादिति चेत्? न; वुञ्विधाने हि वचनमनर्थकं स्यात्,तेन विना वुञः सिद्धत्वात्। तस्माद्वचनसामर्थ्याद्विहितोऽणेव प्राप्नोति। अन्येन बाधित्वा अत एवाण् अतएवाण् भविष्यतीति। स हि <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति विहितो बाधितश्च वुञैवेत्यत आह - `अण्ग्रहणम्` इत्यादि। `इक्ष्वाकुषु जातः`इति। इक्ष्वाकुशब्दादोर्देशे ठञ् [[4.2.118]] प्राप्तः, तस्मिन् जनपदवुञा बाधिते यदीहाज्ग्रहणं न क्रियते तदा पुनर्वचनाद्वुञेव भवति, अण्ग्रहणादणेव भवति। `ऐक्ष्वाकः` इति। `दाण्डिनायनहास्तिनायन` [[6.4.174]] इत्यादाविक्ष्वाकुशब्दस्योकारस्य लोपो निपातितः॥", "42133": "`वुञादेरपवादः` इति। आदिशब्देन ठञः। तत्र ये जनपदबहुवचनविषयास्तेभ्यो वुञः प्राप्तस्यापवादः। सिन्धुवर्णुशब्दाभ्यामोर्देशे ठञः [[4.2.118]] । `कच्छशब्दो न बहुवचनविषयः` इति। तेन <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] इत्यादिना बाधकस्य वुञोऽप्राप्तावेव सामान्येनाण्सिद्ध एवेति दर्शयति। यद्येवम्, किमर्थं तस्य पाठः? इत्याह - `तस्य` इत्यादि। उत्तरसूत्रेण वुञ् मनुष्यतस्त्थयोर्यथा स्यादित्यवमर्थः कच्छस्येह पाठः, न त्वनर्थकः। `कोपधादेवाण् सिद्धः`इति। पूर्वसूत्रेणेति। `इहग्रहणमुत्तरार्थम्` इति। उत्तरसूत्र वुञ् यथा स्यात्॥", "42134": "", "42135": "`साल्वः` इति। कच्छादिपाठादण्॥", "42136": "", "42137": "अवृद्धार्थ वचनम्। वृद्धात्तु `वृद्धाच्छः` (4.2.113) इत्यनेनैव सिद्धमिति। सति तु वृद्धावपि परत्वादनेनैव भवितव्यम्। `अनोऽपवादः` इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। `वाहीकग्रामलक्षणञ्च` इत्यादि। यद् गर्तोत्तरपदं वाहीकवाचि ततो वाहीकग्रामलक्षणौ ठञ्ञिठौ बाधित्तवात् परत्वाच्छ एव भवति, तस्य गर्तोत्तरपदमवकाश इति। अथोत्तरपदग्रहणं किमर्थम्, न गर्तान्तादित्येवोच्येत? इत्याह - `उत्तरपदग्रहणम्` इत्यादि। यदि गर्तान्तादित्युच्येत तदा बहुगर्त इत्येतस्मादपि बहुच्पूर्वात् स्यात्, भवति ह्रेतद्गर्तान्तम्। उत्तरपदग्रहणे तु सति न भवति, न ह्रेतद्गर्तोत्तरपदम्। समासे हि सत्येतद्भवति - पूर्वपदमुत्तरपदमिति॥", "42138": "", "42139": "", "42140": "", "42141": "`कोपधलक्षणस्य च` इत्यादि। अकेकान्तात् `कोपधादण्` (4.2.131) इत्यणि प्राप्तेऽणोऽपवादः। कोपधादपि वाहीकग्रामलक्षणस्य ठ()ञो ञिठस्य च। `रोपधेतोः प्राचाम्` इति। `अकेकान्तग्रहणे कोपधग्रहणम्` इति। इह सूत्रेऽकेकान्तग्रहणमपनीय कोपधग्रहणं कर्तव्यम्। कोपधादित्येवं वक्तव्यमित्यर्थः॥", "42142": "`वाहीकग्रामलक्षणस्य` इति। ठञ्ञिठयोश्च। अन्तग्रहणेनैव सिद्ध सत्त्युत्तरपदग्रहणं वैचित्र्यार्थम्॥", "42143": "", "42144": "`पार्वतीयानि फलानि` इति। ननु चामनुष्यशब्दो रक्षःपिशाचादिष्वेव रूढः तथा हि `सभा, राजाऽमनुष्यपूर्वा` (2.4.23) इत्यत्र `इह कस्मान् भवति -काष्ठसभेति, तत्रेदमुक्तम् -`अमनुष्यशब्दो रूढिरूपेण रक्षः पिशाचादिष्वेव वर्तते` इति, तत्कथं `अमनुष्ये` इत्युच्यमाने फलादिष्वभिधेयेषु भवति?नैष द्वोषः;द्वौ ह्रमनुष्यशब्दौ - रूढः, व्युत्पन्नश्च। तत्र `सभा राजाऽमनुष्यपूर्वा` (2.4.23) इत्यत्र रूढिशब्दस्य ग्रहणम्, इह त्वितरस्य मनुष्यादन्य वर्तमानस्य॥", "42145": "`भारद्वाजशब्दोऽपि देशवचन एव,न गोत्रशब्दः`इति। देश एव भारद्वाजे कृकणपर्णशब्दवृत्तेः सम्भवात्॥", "43001": "`तत्र वषम्याद्यथासंख्यं न भवति` इति। द्वे हि प्रकृती, प्रत्ययाश्च त्रय इति वैषम्यम्। ननु च?ञ्छावेवानेन विधीयेते, अण्प्रत्ययस्त्वन्यतरस्यांग्रहणेन यथाप्राप्तस्याभ्यनुज्ञाने कृते शास्त्रादेव भवति, तत्कृतो वैषम्यम्? छोऽपि तर्हि तेनैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव। सोऽपि स्वशास्त्रादेव `वृद्धाच्छःट [[4.2.114]] इत्येतस्माद्भवतीति? एवमपि वैषम्यम्। सर्वथा नास्ति यथासंख्यप्रसङ्ग॥", "43002": "`तस्मिन्निति साक्षद्विहितः खञ् निर्दिश्यते` इति। तस्मिन्नित्युक्ते प्रागेव तत्रैव प्रतीत्युत्पत्तेः। तत्र पुनः कारणं साक्षाद्विहित्वम्ानन्तर्याच्च खञः, तस्यैव युक्तः। ननु च पूर्वसूत्रे?ञ्चेति चकारेण च्छोऽनुकृष्यते,वाचकदेशश्च वाच्य इति खञश्छ एवानन्तरो भवति। स्यादनन्तरो यदि चकारस्तस्य वाचकः स्यात्, न चासौ तस्य वाचकः। स हि समीपवर्तिनः पदार्थान्तरस्य सहायतामात्रमाचष्टे। खञः सहायतामाख्याय निवृत्ते चकारे सा सहायता प्रकरणाच्छेनैव विज्ञायते। तस्माच्चकारश्छस्य वाचको न भवतीति नासौ तादृशः।तत्कृतयोस्तस्यानन्तर्य `निमित्तयोः` इत्यादि। द्वे हि निमित्ते - खञणौ, निमित्तनावपि द्वावेवादेशौ, ततः समानत्वद्यथासंख्येनात्र भवितव्यमिति मन्यमानस् प्रश्नः। `योगविभागः इत्यादि` परिहारः।`युष्मदीयः, अस्मदीयः` इति। यदि `तस्मिन्नणि च` इति नोच्येत तो यथा पूर्वसूत्रविहितयोः खञणोरिमावादेशौ भवतस्तथा च्छेऽपि स्याताम्। तस्मस्तु सति न भवतः॥", "43003": "पूर्वेण युष्माकास्माकयोः प्राप्तयोः <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति त्वमयोरेकवचनेतवकममकावादेशौ विधीयेते। `एकवचनपरयोः` इति। एकवचनं परं याभ्यां ते तथोक्ते। `निमित्तयोस्तु` इत्यादि। यथा पूर्व एव सूत्रे योगविभागान्निमित्तयोरादेशौ प्रति यथासंख्यत्वं न भवति, तथेहापि न भविष्यति। तस्य च यथासंख्याभावस्य पूर्वसूत्र एव योगविभागो हेतुः। तेन हि पूर्वत्र निमित्ते निवृत्ते यथासंख्ये कृते तस्मादिहाप्यनुवर्तते। ते निवृत्ते यथासंख्ये एवानुवर्तेते; अजहद्धर्मत्वादधिकाराणाम्। तस्मादिहापि पूर्वकयोगविभागाद्यवासंख्यभावः। इह सर्वविधिभ्यो लुग्विधिर्वलवानित्येकवचनस्य लुकि कृते युष्मदस्मदोरेकवचनपरता न सम्भवतीति प्रत्ययलोपलक्षणेन समर्थयितव्या। तदपि प्रत्ययलोपलक्षमं प्रतिषेधलक्षणं प्रतिषेधयितुमाह - `ननु च` इत्यादि। `वचनात्` इत्यादि परिहारः। यदि हि प्रत्ययलोपलक्षणं न स्यादिदं वचनमपार्थकं स्यादित्यभिप्रायः। ननु च यस्यैवक वचनपरता सम्भवति तस्य विशेषणार्थमेकवचनं स्यात्, कस्यैकवचनपरता सम्भवति? निमित्तस्य खञादेः। निमित्ते त्वेकवचनपरत्वेन विशेष्यमाणे सतीहैव स्याताम् - यौष्माकः पुत्रः, आस्माकः पुत्रः; अत्र ह्रेकवचनपरत्वम्, तद्धि तस्योपपद्यते; इह च न स्याताम् - तावकाः पुत्राः, मामकाः पुत्रा इति। न ह्यत्र निमित्तस्यैकवचनपरता सम्भवतीति? नैतदस्ति; युष्मदस्मदी पूर्वसूत्रे विशेषे अभूताम्। तथा हि - खञ्यणि च परतो युष्मदस्मदोरिति खञण्परता तयोः, अत एव युष्मदस्मदी विशेष्येते। तदिहापि तथाभूते एवानुवर्तेते; अजहद्धर्मत्वादधिकाराणामिति तयोरेवैकवचनपरत्वं विशेषणं युक्तम्। अथ वा तवकममकयोर्विधेयत्वेन प्राधान्यात् तयोरेवैतद्विशेषणं युक्तम्। तयोरेव तद्विशेषणं भवत् स्थानिद्वारकमेव भवति। यदि स्थानिनोरेकवचनपरता, एवमादेशौ स्थानिवत्त्वादेकवचनपरौ भवतः। तदनेनापि प्रकारेण युष्मदस्मदोरेकवचनविशेषणं युक्तम्। न तु कथञ्चिन्निमित्तस्य खञादेः।`अथ वा` इत्यादि। पुर्वं पारिभाषिकमेकवचनमाश्रित्य व्याख्यातम्, इदानीं त्वर्तमाश्रित्य व्याचष्टे - एकोऽर्थ उच्यते येन तदेकवचनम्। अत्र तु व्याख्याने `एकवचने` इति नेदं सप्तम्येकवचनम्। किं तर्हि? प्रथमाद्विवचनान्तम्॥", "43004": "", "43005": "`ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति` (व्या।प।89) इतितदन्तविधिप्रतिषेधात् पूर्वेणाप्राप्तावयमारम्भः। तत्राधमोत्तमशब्दौ निन्दाप्रशंसावचनौ, तत्पूर्वादणि प्राप्ते सत्यमारम्भः। परावरशब्दौ यावदिक्छब्दौ तत्पूर्वादप्यण्येव। यौ तु दिक्छब्दौ तत्पूर्वादुत्तरसूत्रेण ठञि यति च। कथं पुनः `परावराधमोत्तमेभ्यः` इत्युच्यमाने परावरादिपूर्वता शक्या विज्ञातुम्? इत्याह - `अर्धादिति वर्तते` इत्यादि। इह हि पूर्वसूत्रादर्धादित्यनुवर्तते। तत्र परावराधमोत्तमेभ्यः परो योऽर्धशब्दः - इत्येवं विशेषमाणेऽद्र्धशब्दसामर्थ्यादेव तस्य परावरादिपूर्वता विज्ञास्यते, तत्क पूर्वग्रहणेन? `तत्र` इति। परावरयोरदिक्शब्दयोः। `परेण` इति। उत्तरसूत्रेण ठञ्यतौ स्यातामिति। यदि पूर्वग्रहणं न क्रियेतेत्यभिप्रायः। `अस्मात्` इत्यादि। परावरादिपूर्वादेव यथा स्यादित्येतदेव हि पूर्वग्रहणस्य प्रयोजनम्। तेन हि पूर्वं कार्यं भवति, न परमित्येषोऽर्थः सूच्यते। तस्मात् दिक्शब्दपक्षेऽपि परावरपूर्वाद्यदेव भवति॥", "43006": "`पौर्वार्द्धिकम्` इति। पूर्वस्मिन्नर्थे जातः। `\tतद्धितार्थ` [[2.1.50]] इत्यादिना समासः,ततस्तद्धितः। अथ पदग्रहणं किमर्थम्, दिक्पूर्वादित्येवोच्येत? इत्याह - `पदग्रहणम्` इत्यादि। असति हि पदग्रहणे स्वरूपविधिः स्यात्, ततश्च दिगर्द्धे जात इत्यत्रैव स्यात्। पदग्रहणे तु सति यन्नाम किञ्चिद्दिक्सम्बन्धिः पूर्वपदं तस्य ग्रहणमुपपन्नं भवति॥", "43007": "`यतोऽपवादौ` इति। पूर्वेण प्राप्तस्य। `पौर्वार्धाः` इति।पूर्ववत्समासः। नन्वत्र पूर्वस्मिन्नर्द्धे ग्रामस्येति ग्राममपेक्षमाणस्यार्धशब्दस्यासामर्थ्यात् समासो नोपपद्यते? नैष दोषः; प्रधानमात्रार्द्धं भवति। प्रधानस्य सापेक्षस्यापि समासः - इत्येतत् <<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> [[2.1.56]] इत्यत्र ज्ञापितम्॥", "43008": "मध्यशब्दो यो गहादिषु पृथिवीमध्यवचनः `मध्यमध्यमञ्चाण् चरणे` (ग।सू,।99) इति पठते, ततस्तु तत एव विधिर्भवति। यस्त्वन्यस्तस्येह ग्रहणं वेदितव्यम्॥", "43009": "न्याय्यं युक्तमित्यादिभिः पर्यायैः साम्प्रतिकशब्दार्थमाचष्टे -`{साम्प्रतिकम् -न्याय्यम्, युक्तम्, उचितम्, सममुच्यते -काशिका,पदमञ्जरी च} साम्प्रतिकं न्याय्यमुच्यते` (इति)। तथा हि प्रयोगो दृश्यते न बाह्रं प्राप्तमित्येवं वर्त्तितव्यमसाम्प्रतमिति। अत्र न्याय्यः प्रतिषेधः प्रतीयते। साम्प्रतमेव साम्प्रतिकम्। विनयादेराकृतिगणत्वात् `विनयादिभ्यश्च` [[5.4.34]] इति ठक्॥", "43010": "`अनुसमुद्रम्` इति। समुद्रं समयाऽनुसमुद्रम्। <<अनुर्यत्समया>> [[2.1.15]] इत्यव्ययीभावः। `अणो मनुष्यवुञश्चापवादः` इति। <<कच्छादिभ्यश्च>> [[4.2.133]] इति प्राप्तस्याणः। <<मनुष्यतत्स्थयोर्वुञ्>> [[4.2.134]] इति प्राप्तस्य वुञः॥", "43011": "`कालविशेषवाचिनः` इति। अनेन कालादित्यर्थग्रहणम्, न स्वरूपस्येति। यदि हि स्वरूपगर्हणं स्यात्, सन्धिवेलादि [[4.3.16]] सूत्रेणाणो विधानमनर्थकं स्यात्; <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेनैव सिद्धत्वात्। इह त्वर्थग्रहणे ठञ्बाधनार्थत्वात् तस्यानर्थक्यं भवति। तस्मादर्थग्रहणमेतत्।इह केचिच्छब्दा मुख्यया वृत्त्या काले वर्तन्ते - मासोऽर्धमास इति,केचिद्गौण्या वृत्त्या - कदम्बपुष्पसाहचर्यात् कालः कदम्बपुष्पः,व्रीहिपलालेन साहचर्यात् कालो व्रीहिपलाल इति; तेषामिहोभयेषामपि ग्रहणम्। अत एवाह - `यथा कथञ्चित्` इति। येन केनचित्प्रकारेणेत्यर्थः। `गुणवृत्त्याऽपि` इति। अनेन यथाकथञ्चिदित्यस्यार्थं विस्पष्टीकरोति। औपचारिकी, वृत्तिः, अप्रधानभूता वृत्तिरित्यर्थः। अपिशब्दान्मुख्यायपि वृत्त्या। ननु च मुख्ये सति गौणस्य ग्रहणमयुक्तम्, गौणमुख्ययोर्मुख्ये, कार्यसम्प्रत्ययात् (व्या।प।4)? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति - गौणस्यापि कालस्य ग्रहणमिति, यदयं सन्धिवेलादिसूत्रे [[4.3.16]] प्रकृतेन कालग्रहणेन नक्षत्राणि विशिनष्टि। न हि मुख्यार्थः कालो नक्षत्राणां विशेषणमुपपद्यते। तेषु मुख्यस्य कालत्वस्यासम्भवात्॥", "43012": "`ऋत्वणोऽपवादः`इति। सन्धिवेलादिसूत्रेण [[4.3.16]] प्राप्तस्य। `{श्राद्ध इति न कर्म गृह्रते` इत्येव मूलपाठो दृश्यते।`श्राद्ध इति कर्म गृह्रते - पदमञ्जरी।} श्राद्धं इति न कर्म गृह्रते` इति। क्रियाविशेषः कश्चित् शास्त्रोक्तेन विधिना साध्यः श्राद्धग्रहणेन गृह्रते, न तु श्रद्धावान् पुरुषः। कुत एतत्? तस्य प्रत्ययेनानाभिधानात्। शारदिकशब्देन ह्रभिधानशक्तिस्वाभाव्यात् कर्मण एवाभिधानम्, न पुरुषस्य॥", "43013": "", "43014": "", "43015": "तस्य {तस्य चेतीति मूलपाठः;पदमञ्जरीश्च।} वेति। ठञः। कुत एतत्? तस्य विधीयमानतया प्राधान्यात्, प्रधाने च कार्यसम्प्रत्ययात्। स च तुडागम इकादेशे कृते भवतीति वेदितव्यम्। ननु सन्नियोगशिष्टत्वात् तुटस्तेनैव तावद्भवितव्यम्, पश्चादङ्गसंज्ञायामभिनिर्वृत्तायामिकादेशेन? नैतदस्ति; उपेदशावस्थायामेव हीकादेशे कृते न भवितव्यम्, ज्ञापकात्। यदयं <<वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः>> [[4.2.80]] इति प्रत्ययस्वरार्थमनुबन्धं चकारं करोति। प्रत्ययसंज्ञायाः सन्नियोगाद्धि प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदात्तत्वम्, किञ्चित्करणेन? तस्माच्चित्करणाद्विज्ञायते - सन्नियोगशिष्टेभ्योऽपि पूर्वमिकादेशो भवति। तेन ठग्ग्रहणान्यङ्गसंज्ञाभूतानीकमेव बोधयन्तीति तुडपि तस्यैव भविष्यतीति विज्ञायते। `एताभ्याम्` इत्यादि। आःशब्दोऽयमव्ययं कालवाची। तेन यदा ठञ्त्यपौ न भवतः,तदा `सायञ्चिरम्` [[4.3.23]] इत्यादिना टउटउलौ अपि भवतः॥", "43016": "`ठञोऽपवाद-ट इति। <<कालाट्ठञ्>> [[4.3.11]] इति प्राप्तस्य। अथाण्ग्रहणं किमर्थम्, यथाविहितमेवोच्येत,तेनैवमुच्यमाने न प्राप्नोतीत्याशङ्कनीयम्, यदि ठञ् स्यात् पुनर्वचनमनर्थकं स्यात्, तस्माद्वचनप्रामाण्याद्यो विहितो न स प्राप्नोति, ठञ्प्रत्ययेन बाधितत्वात् स एव भविष्यति, स वाच्य? इत्यत आह - `अण्ग्रहणम्` इत्यादि। सन्धिवेलादिषु पौर्णमासीशब्दो वृद्धः पठते। स्वातिरिति नक्षत्रशब्दो वृद्धोऽस्ति। तत्र यद्यण्ग्रहणं न क्रियेत, ताभ्यां परत्वाट्ठञा छे बाधिते पुनर्वचनाच्छ एव स्यात्। तस्मात् तनपि बाधित्वा वृद्धादणेव यथा स्यादित्येवमर्थं पुनरण्ग्रहणम्। `तैषम्, पौषम्` इति। तिष्यपुष्पशब्दाभ्यां <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यण्, तस्याणो <<लुबविशेषे>> [[4.2.4]] इति लुप्, ततोऽनेनाण्, तिष्यपुष्ययोर्नक्षत्राणि` (वा।808) इति यलोपः।`संवत्सरात्फलपर्वणोः`इति। संवत्सरशब्दादण्भवति फले पर्वणि चाभिधेये। सांवत्सरं फलम्, सावंत्सरं पर्व वा। सांवत्सरिकमन्यत्॥", "43017": "अथ किमर्थं प्रत्यये मूर्धन्यः पठते, न `रषाभ्याम्` [[8.4.1]] इत्येनैव णत्वं भविष्यति? नैवं शक्यम्, इह हि न स्यात् - प्रावृषेणिति पदान्तत्वात्॥", "43018": "अथ किमर्थं ठग्विधानम्,कालाट् [[4.3.11]] ठञैव सिद्धत्वात्ुभयत्रापि तदेव रूपमिति? नैवम्; ठकि सति प्रत्ययस्वरेणान्तोदात्तत्वं स्यात्, ठञि तु सति <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तत्वम्॥", "43019": "", "43020": "", "43021": "`योगविभाग उत्तरार्थः` इति। `सर्वत्राण् च तर्लोपश्च` [[4.3.22]] इति वक्ष्यति, स हेमन्तशब्दस्यैव यथा स्यात्, वसन्तस्य मा भूत्। यदि `हेमन्तवसनताभ्याम्` इत्येकयोगः क्रियेत, ततो वसन्तस्यापि स्यात्; तस्य ह्रुत्तरत्रानुवृत्तेः॥", "43022": "छन्दसि पूर्वेण ठञि प्राप्ते भाषायामपि ऋत्वणि चैतदुच्यते। `सर्वत्रग्रहणम्` इत्यादिनि सर्वत्रग्रहणस्य प्रयोजनमाचष्टे। `छन्दसि भाषायाञ्च` इत्यादिना छन्दोऽधिकारनिवृत्तेः फलं दर्शयति। `ननु च` इत्यादि। अस्वरित्वादेव च्छन्दसीति नानुवर्तिष्यते, ततो नार्थश्छनदोऽधिकारनिवृत्त्यर्थेन सर्वत्रग्रहणेनेत्यभिप्रायः। `सैव` इत्यादिना यासावस्वरितत्वादननुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते। किमर्थमित्याह - `प्रयत्नादिक्येन` इत्यादि। प्रत्यत्नाधिक्यमेतदेव शब्देनाख्यातम्। तेन हेतुना पूर्वसूत्रेऽपि सर्वत्रशब्दस्य सम्बन्धो यथा स्यादित्येवमर्थः शब्देनाख्यायते। कस्मात् पुनः पूर्वसूत्रेऽपि सर्वत्रग्रहणस्य सम्बन्ध इष्यते? इत्याह - `हैमन्तिकमिति हि` इत्यादि। हिशब्दो हेतौ। आचार्या हि हैमन्तिकमिति भाषायां ठञं स्मसन्ति। स चैवं भाषायामपि सिद्ध्यति, यदि पूर्वसूत्रेऽपि सर्वत्र ग्रहणस्य सम्बन्धो भवति। तत्र हि सति पूर्वसूत्रस्यायमर्थो भवति - हेमन्ताच्च सर्वत्र च्छन्दसि भाषायामपि ठञ् भवतीति। `कः पुनरनयोरणो विशेषः`इति। न कश्चिदिति भावः। `ऋत्वणि हि` इत्यादिना विशेषं दर्शयति। `हैमन्ती` इति। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्। `तदेवम्` इत्यादि। यत एव पूर्वसूत्रेण ठञ् भवत्यनेनाण् तलोपसहितः,तेन त्रीणि रूपाणि भवन्ति॥", "43023": "<<कालाट्ठञ्>> [[4.3.11]] इति ठञि प्राप्ते सायमादिभ्यः टउटउलौ विधीयेते, तयोश्च तुडागमः। ठञपवादत्वाच्च् टउटउलोः। ठञैव च्छस्य बाधित्वादेताभ्यां पुनश्छस्य सम्प्रधारणैव नास्ति। तेन वृद्धादपि टउटउलावेव भवतः - प्राक्तनमिति। `तयोश्च` इत्यादि। यद्यनादिष्टयोस्तुट् स्यात् तदा युरूपौ प्रत्ययौ न भवत इत्यनादेशो न स्यात्। तस्मादादिष्टयोस्तयोः कृतादेशयोस्तुडागमः। एतच्च <<घकालतनेषु कालनाम्नः>> [[6.3.17]] इति निर्देशाल्लभ्यते। न ह्रनादिष्टयोस्तुड्विधानेन तनशब्द उपपद्यते। अथ प्रत्ययोष्टित्करणं किमर्थम्, न तुट एव टित्त्वेन प्रत्ययोरपि टित्त्वं विज्ञास्यत इति, यतस्तद्ग्रहणेन ग्रहणादागमानाम्? नैतदस्ति; युक्तं यत् प्रत्ययधर्मा आगमे भवन्ति तस्य प्रत्ययभक्तत्वात्, नत्वागयधर्मा प्रत्यये। तस्माट्टित्कार्यार्थं प्रत्ययोरपि टित्त्वमासज्यते। `स्यतेरन्तकर्मणः` इति। `षोऽन्तकर्मणि` (धातुपाठः-1147) इत्यस्य। `प्राह्णे प्रगे इत्येकारान्तम्` इति। निपात्यत इति सम्बन्धः। ननु च <<घकालतनेषु कालनाम्नः>> [[6.3.17]] इति सप्तम्या अलुकैव सिद्धम्, तदपार्थकं निपातनम्? यत्र तर्हि सप्तम्यर्थो नास्ति तदर्थं निपानम् - ग्राह्णः स#ओढोऽस्य प्राह्णेतनः, प्रगः सोढोऽस्य प्रगेतन इति। अत्र हि <<तदस्य सोढम्>> [[4.3.52]] इति प्रथमासमर्थात्प्रत्ययविधानात्सप्तम्यर्थो नास्ति। तदभावत्सप्तम्यपि नास्त्येव।`चिरपरुत्परारिभ्यस्त्नो वक्तव्यः` इति। व्याख्येय इत्यर्थः। व्याख्यानं तु <<तद्धिताः>> [[4.1.76]] इत्यत्रैव कृतम्। एवमुत्तरत्रापि वेदितव्यम्। चिरशब्दस्य सूत्रे चोपादानाट्टउलावपि भवतः। `प्रगस्य च्छन्दसि गलोपश्च` इति।वक्तव्य इति सम्बन्धः। वक्तव्यशब्दस्य स एवार्थः। व्याख्यानात् त्विहापि `प्रत्नपूर्वविओमात् थाल् च्छन्दसि` [[5.3.111]] इतिनिपातनमाश्रित्य कर्तव्यम्।`अन्ताच्चेति वक्तव्यम्` (इति)। अन्तशब्दाड्डिमज्भवतीत्येतदर्तरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। डिमचो डित्करणं पश्चादित्यस्य टिलोपार्थम्। ननु च `अव्ययानां भमात्रे टिलोपो वक्तव्यः` (वा।842) इत्यनेनैव सिद्धम्? न सिध्यति; अनित्यत्वात् तस्य। यथा आरातीय इत्यत्र न भवति, तथेहापि न भवतीति कस्यचिद्भ्रानति स्यात्, अतस्तन्निरासार्थं डित्करणम्॥", "43024": "`{पूर्वाह्णेतनम् -काशिका} पूर्वाह्णेतनः` इति। अह्नः पूर्वो भाग इति पूर्वादिसूत्रेणै [[2.2.1]] कदेशिसमासः। `राजहःसखिभ्यष्टच्` [[5.4.91]] इति टच् समासान्तः, <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यह्नादेशः,`अह्नोऽदन्तात्` [[8.4.7]] इति णत्वम्। यदाऽपत्यम्यन्तात् प्रत्ययस्तदा पूर्वाह्णतन इति भवितव्यमिति; सप्तम्यभावात्। सप्तम्यभावस्तु प्रथमासमर्थात् तद्धितोत्पत्तेः॥", "43025": "`अणादयो घादयश्च` इति। एकेनादिशब्देनाणादीनामिहोत्सर्गाणां ग्रहणम्, द्वितीयेन घादीनां शेषाधिकारविहितानाम्। रुआऔघ्नः,माथुरः` इति। `प्राग्दीदीव्यतोऽण्` [[4.1.83]] । `औत्सः, औदपानः` इति। <<उत्सादिभ्योऽञ्>> [[4.1.86]] । `राष्ट्रियः,अवारपारीणः` इति। <<राष्ट्रावारपाराद्घखौ>> [[4.2.93]] । `शाकलिकः, मालविकः` इति। <<वाहीकग्रामेभ्यश्च>> [[4.2.117]] इति ठञ्ञिठौ। `कात्त्रेयकः, औम्भेयकः` इति। <<कत्र्यादिभ्यो ढकञ्>> [[4.2.95]] ॥", "43026": "`एण्यस्यापवादः` इति। <<प्रावृष एण्यः>> [[4.3.17]] इति प्राप्तस्य॥", "43027": "`समुदायेन चेत्संज्ञा गम्यते` इति। अनेन समुदायोपाधित्वं संज्ञाया दर्शयति।प्रकृतिप्रत्ययसमुदायेन चेत्संज्ञा गम्यते इत्यर्थः। यद्येवम्, शारदका दर्भा इतिदर्भशब्दस्य प्रयोगो न प्राप्नोति, प्रत्ययान्तेनाभिहितत्वात्? नैष दोषः; यथैव हि शारदकशब्दो दर्भविशेषस्य नामधेयं तथा मुद्गविशेषस्यापि। तत्रासति दर्भशब्दप्रयोगेऽनेकार्थसाधारणत्वात् कस्य नामधेयमिति सन्देहः स्यात् - कोऽर्थः शारदकशब्दे विवक्षित इति। तस्मादसन्देहार्थो दर्भशब्दो उपादीयते। `संज्ञाधिकारम्` इत्यादि। `केचित्` इति वचनात् केचिन्नानृवर्तयन्तीत्युक्तं भवति॥`पूर्वाह्णकः,अपराह्णकः` इति। पूर्ववदेकदेशिसमासादिकं कार्यं विधेयम् - <<विभाषा पूर्वाह्णापराह्णाभ्याम्>> [[4.3.24]] इति, तत्र टउटउल्विधिश्च। `आद्र्रकः, मूलकः` इति। <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यागतस्यार्थः <<लुबविशेषे>> [[4.2.4]] इति लुप् ततो वुन्। `निशाप्रदोषाभ्याम्िति। ठञ्विधेः। `ठञादय एव ` आदिशब्देन टउटउलादयो गृह्यन्ते॥", "43028": "", "43029": "`एकदेशाविकृतस्य` इत्यादि। <<अमावस्यदन्यतरस्याम्>> [[3.1.122]] इत्यत्र ण्यत्यवृद्धिरेव निपात्यते। अवृद्धिस्तु वृद्धेरेकादेशभूततया विकारो भवतीत्येकदेशविवृतममावस्याशब्दस्योपपद्यते। ये तु सन्धिवेलादिषु ह्रस्वोपधमधीयते, तेषां वृद्ध्युपधस्य ग्रहणं न प्राप्नोति, न हि विकृतिः प्रकृतिं गृह्णाति। तस्माद्दीर्घ एव पाठो युक्तः॥।", "43030": "", "43031": "अथ योग विभागः किमर्थः,न `अमावास्या अ च वा` इत्येवोच्येत, चकारो वुनोऽनुकर्षार्थो भविष्यति, वावचनञ्चोभयोर्विकल्पार्थम्, तेन ताभ्यां मुक्कतेऽणपि भविष्यति? अस्त्येतत्; किन्त्वेकयोगे सति <<सिन्ध्वपकराभ्यां कन्>> [[4.3.32]] इति कन्नेव विकल्पेन कस्यचिद्भ्रान्तिः स्यात्; अतस्तन्निवृत्त्यर्थं योगविभागे हि सति व्यवधानतया विकल्पस्य कन् नित्यो विज्ञायते॥", "43032": "", "43033": "", "43034": "नक्षत्राणः श्रवणे प्राप्ते लुगुच्यते। ननु च <<नक्षत्रेभ्यो बहुलम्>> [[4.3.37]] इत्यनेनैव लुग्भविष्यति? सत्यमेतत्; तस्यैवायं प्रपञ्चः। उत्तरावपि योगौ प्रपञ्चौ तस्यैव वेदितव्यौ।श्रविष्ठादयश्चैते <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यनेनानगतस्याणः <<लुबविशेषे>> [[4.2.4]] इति कृते लुबन्ता वेदितव्याः।` स्त्रीप्रत्ययस्यापि` <<लुक् तद्धितलुकि>> [[1.2.49]] इति लुग्भवति` इति। ये स्त्रीप्रत्ययान्तास्तेषामुपसंख्यानमिति प्रतिपादनमित्य्रथः। तच्चोपरिष्टात् करिष्यते। चित्रायाष्टापो लुकि कृते पुनष्टाप् क्रियते।`गौरादित्वान्ङीष्` इति। रेवतीरोहिणीत्यत्र।`फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ` इति। स्त्रियामित्यपेक्ष्यते। तयोस्तु विधानसामर्थ्यान्न लुग्भवतिष। टस्य टकारो ङीबर्थः, अनो नकार आद्युदात्तार्थः। वक्तव्यशब्दो व्याख्येये वर्तते। व्याख्यानं तु कृतमेव च।`श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः` इति। अत्र स्त्रियामिति नोपपद्यते। णकारो वृद्ध्यर्थः। वक्तव्यशब्दस्य स एवार्थः। व्याख्यानमपि करिष्यते च। कृतमेव॥", "43035": "गोशालखरशालयोह्र्यस्वान्तयोः पाठान्नपुंसकयोग्र्रहणं विज्ञायते। नपुंसकलिङ्गता तु `विभाषा सेनासुरा` [[2.4.25]] इत्यादिना। यद्यपि नपुंसकयोग्र्रहणम्, तथापि प्रतिपदिकग्रगणे लिङ्गविशिष्टस्यापि ग्रहणं भविष्यतीति स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव। उदाहरणेऽप्यौत्सर्गिस्याणौ लुक्॥", "43036": "वत्सशालशब्दो नपुंसकलिङ्गो गृह्रते। कुत एतस्व्यप्तेव्र्यायात;नपुंसकलिङ्गस्य हि ग्रहणे लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुग्न सिध्यति; न तु स्त्रीलिङ्गस्य ग्रहणे नपुंसकात्।\t`बहुलग्रहणस्यायं प्रपञ्चः` इति। वत्सशालशब्दो यद्यपि नक्षत्रवचनो न भवति, तथापि बहुलवचनात् ततोऽपि लुग्भविष्यतीत्यभिप्रायः॥", "43037": "`रोहिणः`इत्यादौ नक्षत्राणः पक्षे लुक्। `मृगशिराः`इति। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः।`मार्गशीर्षः`इति। <<ये च तद्धिते>> [[6.1.61]] इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाच्छिरसः शीर्षभावः। अथ बहुलग्रहणं किमर्थम्? नपूर्वसूत्रादेव वाग्रहणमनुवर्तिष्यते? इदं प्रयोजनम् - न क्वचिदन्यदेव यथा स्यात्, तेन फल्गुन्यषाढाभ्यां टानौ सिद्धौ भवतः। श्रविष्ठाषाढाभ्याञ्छणपीति॥", "43038": "`ननु च` इत्यादि। जन्मवद्वस्तु जातशब्दस्यार्थः, कृतस्यापि जन्मास्त्येव, तस्माद्यद्यत्र कृतं जातमपि तत्तत्र भवति। `यच्च क्रीतम्` इत्यादि। प्राप्तं लब्धमुच्यते। क्रीतं प्राप्तमपपि तद्भवत्येव, तस्मात् क्रीतं लब्धमपि भवति। `शब्दस्यार्थस्याभिन्नत्वात्` इति।स्वजन्मन्यनुभूतकर्त्तृभावो जातशब्दस्यार्थः। जातशब्दस्यैव विशेषोपलक्षितपरव्यापारो स्वजन्मनिष्पत्तौ कृतशब्दस्यार्थः। प्राप्तिसामान्यं लब्धशब्दस्यार्थः। प्राप्तिविशेषो यस्य मूलहेतुका प्राप्तिः। स क्रीतशब्दस्यार्थः। न च सामान्यविशेषयोरेकार्थता युक्ता। मा भूत्पर्यायप्रसङ्ग इति भिद्यते शब्दार्थः। `वस्तुमात्रेण` इति। क्रीतलब्धयोर्यदाधारभूतं व्सतुमात्रं तस्याभिन्नरूपत्वात्क्रीतं लब्धं भवति। मात्रग्रहणं शब्दार्थव्यवच्छेदार्थम्। अत एवाह - `शब्दार्थस्तु भिद्यत एव` (इति)। न हि येन रूपेण क्रीतशब्देन तत्प्रत्याय्यते तेनैव लब्धशब्देन। एवं जातकृतशब्दयोर्वस्तुत्वेनाभिन्नत्वम्। शब्दार्थद्वारेण तु भिन्नार्थत्वमेव। अन्येनैव हि रूपेण जातशब्देन तद्वस्तु प्रत्याय्यते, अन्येन कृतशब्देन॥", "43039": "`प्रायभवग्रहणमनर्थकम्` इति। वैचित्र्यादन्यस्यार्थस्याभावादनर्थमित्युच्यते। वैचित्र्येण तु सार्थकमेव। कस्मात् पुनरर्थकमिति? `तत्र भवेन कृतार्थत्वात्` इति। यत् `प्रायभवः`इत्यस्य साध्यम्, तस्य <<तत्र भवः>> [[4.3.53]] इत्यनेनैव साधितत्वादितिभावः। यो हि राज्ये प्रायेण भवति तत्रासौ भवत्येव। ततश्च तत्र भवे तस्यान्तर्भावात् <<तत्र भवः>> [[4.3.53]] इत्यनेनैव कृतं सम्पादनम्रिति किं प्रायभवग्रहणेन? `अनित्यभवः` इत्यादिना परस्योत्तरमाशङ्कते।स्यादेतत् - अनित्यभवः प्रायभवो नित्यभवस्तत्र भव इति, तस्मात् तत्र भवेन प्रायभव्सयासंग्रहान्न सिध्यति? इत्याशङ्क्याह - `मुक्तसंशयेन तुल्यम्` इति। मुक्तस्त्यक्तः संशयो येन तत् मुक्तसंशयम्।न्याय्यस्तत्र भवोऽयमिति यो निश्चितस्तेन तुल्यं भवति। तथा हि - रुआघ्ने भवो देवदत्तः रुआऔघ्न इत्युच्यते, न चासौ रुआउघ्ने सदा भवति, अवश्यं हि कदाचिदुदग्देसादीनपक्रामति, अथ च तत्रभवप्रत्ययो भवति। यदि च नित्यभवस्तत्र भवः? जिह्वामूले भवो वर्णः जिह्वामूलीय इत्यत्र `तत्र भवःर` [[4.3.53]] इत्यधिकारे जिह्वामूलाङ्गुलेश्छः` (4।3।क62) इति च्छो न स्यात्, न हि वर्णो नित्यं जिह्वामूले भवति। तस्मात् प्रायभव कककककककककस्य तत्रभवान्तर्भवात् ततो न ण्यतिरिच्यत इत्नर्थकं प्रयभवग्रहणम्॥", "43040": "", "43041": "`अवकॢप्तिः`इत्यादि। अवकॢप्ति = सम्भावना। प्रमाणानतिरेकः = आधारप्रमाणादाधेयप्रमाणस्यानतिरिक्तता, यस्यां सत्यां रुआवमाधेयमाधारमनुप्रविशति। `रुआउध्ने सम्भवति` (इति)। यस्तु रुआउध्ने सम्भाव्यते, रुआउघ्नप्रमाणान्नातिरिच्यते, तदनुप्रवशात् स सेनादिकोऽर्थ एवमुच्यते॥", "43042": "`कौशेयं वस्त्रम्` इति। ननु च वरुआं कौशेयं न सम्भवति, किन्तु कृमिः, ततश्च कृमावेव स्यात्, न वस्त्रे; अपि च विशेषानभिधानात् खड्गसम्बन्धिनोऽपि कोशात् प्रत्ययः प्रसज्येतेत्याह - `रूढिरेषा` इत्यादि। रूढिशब्दो हि यथाकथञ्चिदुत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिदवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, स च तैलपानक्रियारहित एव क्वचित् प्राणिविशेषे वर्तते। सस्माद्यद्यपि न कृमौ। अथ खङ्गकोशादुत्पत्तौ को दोषः, येन ततः प्रत्ययो नेष्यते? खङ्गस्याबिधानं प्राप्नोति। स हि तत्र सम्भवतीति चेत्? इतरस्मादपि तर्हि कोशात् प्रत्ययोत्पत्तौ च कृमेरभिधानं प्राप्नोति, स हि तत्र सम्भवति। अथ तत्रापि रूढिवशाद्वस्त्रस्याभिधानम्, न कृमेः। इतरस्मादपि तर्हि कोशादुत्पत्तौ वरुआस्याभिधानं न खङ्गस्य? एवं मनयते - यद्यपि सम्भूताधिकारे कोशाड्ढञ् विधीयते, तथापि कौशेयशब्दान्न सम्भवोऽर्थ प्रतीयते, अपि तु विकारोऽर्थः; रूढिवशात्। कौशेयं वरुआमितिकोशविकारो वरुआमित्यर्थः। तथा च वार्त्तिककारेणोक्तम् - `विकारे कोशाड्ढञ्, `{सम्भूतार्थानुपपत्तिः -वा।पाठः`} सम्भूतार्थानुपपत्तेः` (वा। 1,2 [[4.3.42]] इति। विकारस्च कौशेयशब्दात् कृमिकोशस्य प्रतीयते, न खङ्गकोशस्य ; रूढिवशात्। तस्माद्यस्य विकारः प्रतीयते तदभिधायिन एव कोशशब्दाद्युक्कतः प्रत्ययः नेतरस्मात्॥", "43043": "कालादिति स्वर्यते, प्रकृतीरुत्तरा विशेषयितुम्। न च स्वरूपग्रहणे सत्युत्तराः प्रकृतयः शक्या विशेषयितुम्; स्वरूपस्याधारणत्वात्। तस्मादर्थग्रहणमेवैतत्। तेनकालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह - `कालविशेषवाचिब्यः` इत्यादि। `हैमनः` इति। <<सर्वत्राण् च तलोपश्च>> [[4.3.22]] । `शैशिरः` इत्यादौ सन्धिवेलादिसूत्रेण [[4.3.16]] ऋत्वण्॥बाल-मनोरमाकालात्साधुपुष्फ्यत्पच्यमानेषु 1397, 4.3.45 कालात्साधुपुष्प्यत्। तत्रेत्येव साधुः, पुष्प्यत्, पच्यमानमित्यर्थेषु सप्तम्यन्ताद्यथधाविहितं प्रत्ययाः स्युरित्यर्थः। `पुष्प विकसने` इति दैवादिकाल्लटः शतरि `पुष्प्य`दिति भवति। हैमनः प्रावार इति। `सर्वत्राऽण्च तलोपश्चे`त्यणितलोपः। वासन्त्य इति। `टिड्ढे`ति ङीप्। `शारदा` इत्यत्र ऋत्वण्। `तत्र भवः` इति यावत्कालादित्यनुवर्तते। बाल-मनोरमाउप्ते च 1398, 4.3.45 उप्ते च। तत्रेत्येव। कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः। उप्यन्त इति। `डु वप् बीजसन्ताने`। भूतकालस्त्वविवक्षित इति भावः।", "43044": "`योगविभाग उत्तरार्थः` इति। उत्तरत्र वुञ् उप्त एव यथा स्यात्; साध्वादिषु मा भूत्॥", "43045": "`ठञोऽपवादः` इति। `कालाटठ्ञ्` [[4.3.11]] प्राप्तस्य। ननु च कालाट्ठञ् विहितः। न चाआयुजीशब्दः कालवाची, ततः कुतष्ठञ्? इत्याशङ्क्य कालवाचित्वमाआयुजीशब्दस्य प्रतिपादयितुमाह - `अइआनीभ्यां युक्ता` इत्यादि॥", "43046": "", "43047": "", "43048": "कथं पुनः कलापादयः शब्दाः काले वर्तन्ते, यावता मयूरादिषु तेषां वृत्तिः प्रसिद्धेत्यत आह - `कालाप्यादयः शब्दाः` इत्यादि। एवमेव विषयं स्पष्टीकरोति - `यस्मिन्काले` इत्यादि। अआत्थशब्दोऽत्र वृक्षविशेषे रूढः। तेन सर्व एव कालः सम्बध्यत इति तद्द्वारेण कालविशेषो न संज्ञायते। तस्मादआत्थफलसहचारिणि कालेऽआत्थशब्दो वर्तत इति दर्शयितुमाह - `यस्मान्नआत्थाः फलन्ति` इत्यादि। अआत्थशब्दो यद्यपि वृक्षे वर्तते, तथापि फले वर्तते एव॥", "43049": "`अण्ठञोरपवादः` इति। ग्रीष्मशब्दादृत्वणोरपवादः। अनरसमाशब्दात् कालाट्ठञः। अवरा चासौ समा चेत्यवरसमा॥", "43050": "कालाट्ठञि प्राप्ते वचनम्। तेन ठञ् न वक्तव्य इति। वुञि विकल्पिते विनापि ठञ्ग्रहणेन पक्षे यथाप्राप्तं ठञेव भवतीत्यभिप्रायः। `ठञ्ग्रहणम्` इत्यादि। तत्र यद्यत्र ठञ्ग्रहणं न क्रियेत `सन्धिवेला` [[4.3.16]] इत्यादिषु `संवत्सरात्फलपर्वणोः` (ग।सू।104) इति पाठात् सन्धिवेलाद्यणष्ठञपवादत्वादणत्वेन काले विवक्षिते वुञा मुक्तेऽणेव स्यात्। ठञ्ग्रहणादणमपि बाधित्वा ठञेव भवति॥", "43051": "`नैशिकः,नैशः। प्रादोषिकः, प्रादोषः` इति। निशाप्रदोषाभ्यां [[4.3.14]] ठञ्। तेन मुक्ते पक्ष ऋत्वणेव भवति॥", "43052": "कालादिति वर्तते, न च कालो जीयते, तस्मान्निसासहचरितमिहाध्ययनं गौण्या वृत्त्या निशेत्येवमादिभिरभिधीयत इति विज्ञायते। अत एवाह - `निशासहचरितमध्ययनं निशा` इति॥", "43053": "", "43054": "`अणश्छस्य चापवादःर` इति। यद्दिगादिषु वृद्धं वाप्यादि ततश्छस्यापवादः, शेषेभ्यस्त्वणः प्राग्दीव्यतीयस्य।अथ मुखजघनयोश्च किमर्थः पाठो दिगादिषु , यावता शरीरावयवात् ताभ्यामुत्तरसूत्रेणैव [[4.3.55]] भविष्यति? इत्याह - `मुखजघनयोः` इति। सेनावयववाचिनौ हि यौ मुखजघनशब्दौ तौ शरीरवयववाचिनौ न भवतः। पाणिपादाद्यवयवस्वभावं हि शरीरम्, न चैवमात्मिका सेना; किं तर्हि? रथादिसमुदायात्मिका। `उदकात्संज्ञायाम्` इति। उदकशब्दात् संज्ञायां गम्यमानायां यद्भवति - उदक्या स्त्री, रजस्वलोच्यते। न चात्र प्रकृत्यर्थः प्रत्ययार्थो वा विद्यते। सा च तयोरविद्यमानता संज्ञाग्रहणेन विज्ञायते। संज्ञायामन्यत्र - औदको मत्स्य इति, अत्राणेव भवति॥", "43055": "`अणोऽपवादः` इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। यस्तु पादादिवृद्धस्ततः परत्वाद्यत् छं बाधते॥", "43056": "दृतिकुक्षिभ्यां शरीरावयत्वाद्यति प्राप्ते;कुक्षिशब्दो धूमादष्वपि पठते, तस्मात् <<धूमादिभ्यश्च>> [[4.2.127]] इति वुञि प्राप्ते; शेषेभ्यस्त्वणि ढञि विधीयते।अस्तिशब्दस्तिङन्तो मा विज्ञायीत्यत आह - `अस्तिशब्दः` इत्यादि। `विभक्तिस्वरप्रतिरूपकाश्चेति निपाता भवन्ति` इति निपातसंज्ञकं तिङन्तसदृशं प्रातिपदिकमेतत्, न तिङन्तः। एतच्च तिङन्तेन समानार्थम्, यथा - अस्तिक्षीरा ब्राआहृणीति। भिन्नार्थश्च यथा धने वर्तते, यथा - अस्तिमानिति। धनवानिति गम्यते। तदिह विशेषस्यानभिधानादुभयस्यापि ग्रहणम्॥", "43057": "बहुवचननिर्देशाद्बहुवचनान्तात् प्रत्ययेन भवितव्यम्, अन्यथा ह्रेकवचेनैव निर्देशं कुर्यादिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - `ग्रीवाशब्दःर` इत्यादि। अर्थविशेषाद्बहुवचननिर्देशः कुतः, न तु बहुवचनान्तादेव यथा स्यादिति दर्शयति॥", "43058": "`बहिर्देव` इत्यादि। बहुर्देवपञ्चजनेभ्यश्च ञ्यो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - चकारोऽत्र वर्तते, तेन बहिरादिभ्योऽपि ञ्यो भविष्यतीति॥", "43059": "`किं तर्हि` इत्यादि। कथं पुनरव्ययीभावादिति सामान्येनोच्यमानः प्रत्ययः परिमुखादेरेव? इत्यत आह - `परिमुखादीनाञ्च` इत्यादि। चशब्दो हेतौ। न ह्रन्तत् कार्यमस्ति परिमुखादिगणपाठस्य। तत्र यद्यप्येतदपि न स्यात्, विध्यर्थमेव तस्य स्यात्, तस्मात् परिमुखादेरेव भवति, न सर्वस्मादव्ययीभावात्। यद्येवम्, परिमुखादेरित्येवं वक्तव्यमित्याह - `तेषाम्` इत्यादि। यदि हि परिमुखादेरित्युच्यते, ततोऽसत्यव्ययीभावग्रहणे तत्पुरुषेभ्योऽपि परिमुखादिभ्यः प्रत्ययः स्यात्, तस्मस्तु सति न भवति - परिगतं मुखं परिमुखमिति प्रादिसमासः, तत्र भवः परिमुखः; अणेव भवति। अपि चोत्तरार्धमव्ययीभावग्रहणमवश्यमेव कर्तव्यम् - <<अन्तःपूर्वपदाट्ठञ्>> [[4.3.60]] । `ग्रामात्पर्यनुपूर्वात्` [[4.3.61]] इत्यव्ययीभावाद्यथा स्यात्। `पारिहनव्यम्` इति। `ओर्गुणःर` [[6.4.146]] , <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः। `औपकूलम्` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिनाऽव्ययीभावः। एष च परिमुखादिषु न पठत इत्यणेव भवति। अत्र पिरमुखमिति कथमव्ययीभावः? यावता अपपरिबहिरञ्चवः पञ्चम्या [[2.1.11]] समस्यन्ते, पञ्चमी च परिणा कर्मप्रवचनीयेन योगे भवति, कर्मप्रवचनीयसंज्ञा तु <<अपपरी वर्जने>> [[1.4.88]] इत्यनेन, न च परिमुखे वर्जनं गम्यते, किं तर्हि? सर्वतोभावः? एवं तर्हि `अव्ययम्` [[2.1.6]] इति योगविभागव्ययीभावो भविष्यति।अन्ये तु येऽत्र परिहनुप्रभृतयोऽव्ययीभावाः, ते <<अपपरिबहिरञ्चवः पञ्चम्या>> [[2.1.12]] इत्यनेनैव भवन्ति। अत्र येष्वपि वर्जनं न गम्यते, ततस्तेष्वयि `अव्ययम्` [[2.1.6]] इति योगविभागेनैव। ये तूपसीरादय उपपूर्वाः, ते सामीप्ये `अव्ययम्` [[2.1.6]] इत्यादिना। `अनुगङ्गम्` इति। <<यस्य चायामः>> [[2.1.16]] इत्यव्ययभावः। अन्ये तु येऽनुसीरादयोऽनुपूर्वास्ते पश्चादर्थेऽव्ययमित्यादिना॥", "43060": "`अन्तःशब्दो विभक्त्यर्थे समस्यते` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना। विभक्त्यर्थस्त्वधिकरणम्, अन्तःशब्दस्याधिकरणप्रधानत्वात्।समानशब्दाट्ठञ्वक्तव्यः` इति। वक्तव्यशब्दो व्याख्येये। तत्रेदं व्याख्यानम् - इहान्तःपूर्वादित्येवं सिद्धे यदधिकं पदग्रहणं तदधिकमिह कार्यं भवतीत्येवमर्थं क्रियते, तेन समानशब्दादपि इञ् भवतीति। एतेन शब्दान्तरादेव।अध्यात्मादिभ्य ऊध्र्वन्दमादूध्र्वदेहाल्लोकोत्तरपदाच्च ठञ् भवतीति वेदितव्यम्। `आध्यात्मिकम्` इति। `आध्यात्मिकम्` इति। आत्मन्यधि अध्यात्मम्, विभक्त्यिर्थेऽव्ययीभावः। `अनुशतिकादीनाञ्च` [[7.3.20]] इत्युभयपदवृद्धिः। `अध्यात्मादिराकृतिगणश्चायम्` इति। यद्येवम्, `समानशब्दाट्ठञ् वक्तव्यः` (वा।454) इत्यद्यनर्थकम्, अध्यात्मादिभ्यश्चेत्यनेनैव सिद्धत्वात्? नानर्थक्; अस्यैव प्रपञ्चार्थत्वात्। अध्यात्मादिरेव तत् प्रपञ्च्यते। ननु चाकारान्त ऊध्र्वशब्दः, तत् कुत इह मकारान्तत्वमायातमित्ाह - `ऊध्र्वशब्देन` इत्यादि।`ऐहलौकिकः, पारलौकिकः` इति। पूर्ववदुभयपदवृद्धिः।`मुखतीयम्, पार्(ातीयम्` इति। <<अपादाने चाहीयरुहोः>> [[5.4.45]] इति तसिः। `आद्यादिभ्य उपसंख्यानम्` (वा।634) इत्यौपसंख्यानिको वा। `अव्ययानां भमात्रे टिलोपः` (वा।842) इत्यनेन टिलोपः। `मण्नीयौ च प्रत्ययौ वक्तव्यौ` इति। मध्यशब्दादित्यपेक्षते।`मध्यो मध्यं दिनण् चास्मात्` इति। मध्यशब्दो मध्यम्भावमापद्यते, दिनण् चास्मात् प्रत्ययो भवति। `स्थाम्नः` इति। स्थामशब्दान्तात् प्रातिपदिकात्। अआस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरदित्वात् सकारस्य तकारः। अआत्थाम्नि भव इत्यण्, तस्य लुक्।`आजिनान्ताच्च` इति। लुगिति सम्बध्यते। `वृकाजिनः` इति। अणो लुक्। `समानस्य` इति। आनन्तर्यलक्षणा षष्ठी। समानशब्दादनन्तरष्ठञिष्यत इत्यर्थः। `समानस्य` इति। आनन्तर्यलक्षणा षष्ठी। समानशब्दादनन्तरष्ठञिष्यत इत्यर्थः। `अध्यात्मादिषु` इति। वैषयिकेऽधिकरणे सप्तमी। अध्यात्मादिविषये ठञिष्यत इत्यर्थः। `कुग्जनस्य परस्य च` इति। चकारादीयश्च प्रत्ययः। `ऊध्र्वन्दमाच्च देहाच्च` इति। ऊध्र्वशब्दात् परस्मात् दमशब्दादूध्र्वशब्दाद्देशशब्दाच्च ठगिष्यत इत्यर्थः। `ईयः कार्योऽथ मध्यस्य` इति। अथशब्दः समुच्चये। मध्यशब्दस्यानन्तर ईयः कार्य इत्यर्थः। `मण्मीयौ प्रत्ययौ तथा` इति। मध्यशब्दादित्यपेक्ष्यते। मण्मीयौ मध्यशब्दस्यान्तरौ कर्तव्यौ। `अजिनात्तथा` इति। अजिनान्तात् लुग्वक्तव्य इत्यर्थः॥", "43061": "`पारिग्रामिकम्` इति। `{ग्रामशब्दान्तादव्ययीभावात् परि -काशिका।}` ग्रामात् परि` इति। <<अपपरिबहिरञ्चवः पञ्चम्या>> [[2.1.12]] इत्यव्ययीभावः। `आनुग्रामिकम्िति। अत्रापि <<अनुर्यत्समया>> [[2.1.15]] ॥", "43062": "`यतोऽपवादः` इति।` शरीरवयवाच्च` [[4.3.55]] इति प्राप्तस्य॥", "43063": "", "43064": "`छे प्राप्ते` इति। पूर्वसूत्रेण॥", "43065": "कर्णिकाशब्दश्चाभरणविशेषे रूढः। रूढिशब्देषु च नावश्यमपि कर्णसम्बन्धेन भवितव्यम्॥", "43066": "`{ तस्य व्याख्याने- इति सूत्रभागः}तस्य व्याख्यानम्` इति। व्याख्यायतेऽनेनेति व्याख्यानम्, करणे ल्युट्। चकारात् `तत्र भवे च` इति। ननु च व्याख्यानं प्रत्ययार्थः, तस्य समीपे चकारः श्रूयत इति प्रत्ययार्थमात्रस्यैव समानजातीयस्य तेनानुकर्षणं न्याय्यम्, न तु समर्थविभक्तेरपि; समानजातीयस्य तु चकारः समुच्चयं करोति, यथा - <<केदाराद्यञ् च>> [[4.2.40]] इति; प्रत्ययसमीपवर्त्तिना चकारेण प्रत्यय एव समुच्चीयते, यथा - <<ठञ् कवचिनश्च>> [[4.2.41]] पादानात् पूर्वस्याः समर्थविभक्तेर्निवृत्तौ सत्यां भवार्थेऽपि षष्टीसामर्थ्यादेव प्रत्ययो युक्तः - तदयुक्तमुक्तम्; तत्र भवे चेति, तस्य भवे चेति वक्तुं युक्तम्? इत्यत आङ - `वाक्यार्थसमीपे` इत्यादि। इहेतिरकरणेन तस्य व्याख्यान इत्येषोऽर्थः प्रत्यवमृश्यते। न तु व्याख्यानप्रत्ययार्थः। तस्मादितिकरणान्ततरमुच्चारितश्चकारस्तत्प्रत्ययवमृष्टस्य वाक्यार्थस्यैव समीपे श्रूयमाणस्तुल्यजातयीमेव वाक्यार्थं समुच्चिनोति। तेन भवार्थे सप्तमीसामर्थ्यादेव एव कृतः; अन्यथा हि `तस्य व्याख्याने च` इत्येवं ब्राऊयात्। कः पुनरसौ वाक्यार्थ इत्याह - `तत्र भवे` इति।\t`न तु पाटलीपुत्रशब्दो व्याख्यातव्यनाम` इति। ननु च पाटलिपुत्रः कोशलया व्याख्यायते, नियतं तेन व्याख्यातव्येन भवितव्यम्, अन्यथा तस्य व्याख्यानी सुकोशला न स्यात्। तस्य व्याख्यानस्य पाटलिपुत्रशब्दो व्याख्यातव्यनाम भवतीति भावः? नैतदस्ति; यदीह व्याख्यातव्यमभिप्रेतम्, न तस्यैतन्नाम भवतीति भावः। किञ्चेह व्याख्यातव्यमभिप्रेतम्? यद्व्याख्यातव्यतया लोके प्रसिद्धतरम्। कुत एतत्? व्याख्यातव्यनामग्रहणात्। इह हि व्याख्यातव्यनामग्रहणं व्याख्यातव्यार्थं तु न कर्तव्यमेव;विनापि हि तेन व्याख्याव्यनाम्न एव प्रत्ययसिद्धेः। तथा हि `तस्य ` इति तस्य प्रतियोगिव्याख्यानमुपात्तम्। तच्च व्याख्यातव्यस्यैव सम्भवति, नान्यस्य। तस्माद्यद्यत्तसय् व्याख्यातव्यं सामर्थ्यात्तदेव तस्येत्यनेन षष्ठन्तेनोपादीयत इति विज्ञायते। ततश्चान्तरेणापि व्याख्याव्यनामग्रहणं व्याख्यातव्यनामाभिधायिन एव प्रत्ययो भविष्यतीति किं व्याख्यातव्यनामग्रहणेन? तत् क्रियते व्याख्यतव्यतया लोके यः प्रसिद्धस्तदभिधायिन एव प्रत्ययो यथा स्यादित्येवमर्थम्। व्याकरणादयो ग्रन्थविशेषा लोके प्रसिद्धाः, न ते पाटलिपुत्रादयः। एवमपि नामग्रहणं न कर्तव्यम्, व्याख्यतव्यग्रहणसामर्थ्यादेव हि व्याख्यातव्यतया प्रसिद्धतरेभ्यः प्रत्ययो लभ्यत एव? नैतदस्ति;व्याख्याने हि प्रत्ययार्थे व्याख्यानादेव व्याख्यातव्यवाचिनः प्रत्यये सिद्धे पुनव्र्याख्यातव्यग्रहणसामर्थ्याद व्याख्यातव्यतया ये प्रसिद्धास्तेब्यः प्रत्ययो लभ्यते, न तु तत्र भवे; तत्र सामर्थ्याभावात्। भवेऽपि चार्थे तत्र व्याख्यातया प्रसिद्धतराः, तदभिधायिभ्य एव प्रत्यय इष्यत इति; न तु यतः कुतश्चित्। तस्माद्भवाधिकारे रूढउपसंग्रहार्थं नामग्रहणं कर्तव्यम्।अथ किमर्थं भवव्याख्यानयोर्युगपदधिकारः क्रियते? इत्याह - `भवव्याख्यानयोः` इत्यादि। ठञादीनपवादानत्राभिधास्यामीत्येवमर्थो युगपदनयोरधिकारः। ननु किमुच्यते - अपवादविधानार्थं इति; प्रकृतानामणादीनां प्रत्ययानामर्थनिर्देशो यथा स्यात्? इत्यत आह - `कृतनिर्दशौ हि तौ` इति। कृतनिर्देशौ हि तावर्थौ। एकः `तत्र भवः` इति, अपरः `तस्येदम्` इति। तस्येदंविशेषत्वाद्व्याख्यानस्य॥", "43067": "", "43068": "`अनन्तोदात्तार्थ आरम्भः` इति। यद्येवम्, राजसूयिकम्, वाजपेयिकमित्येतदेवोपदाहरणद्वयं युक्तम्। राजसूयवाजपेयशब्दयोः कृदन्तोत्तरपदयोः प्रकृतिस्वरेण मध्योदात्तत्वादुत्तरपदं चाद्युदात्तमत्र। एकं व्याबन्तत्वात् कृत्स्वरेण, अपरं `यतोऽनाचः` [[6.1.207]] इति। समासे च कृते <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति प्रकृतिभावेनाद्युदात्तमेवनावतिष्ठते; `{आग्निष्टोमिकः, नावयज्ञिकः -काशिका} आग्निष्टोमिकं नावयज्ञिकम्` इति। एतदुदादहरणद्वयमयुक्तम्, अग्निष्टोमनवयज्ञशब्दाभ्यां प्रत्ययस्वरेणान्तोदात्ताभ्यामनेनाप्राप्तेः? न हि पूर्वेणानेन वा ठञि विशेषः। क्रतुसाहचर्यादत्रोदाहृतम्। शब्दः साहचर्याद्वर्तत इति विज्ञायते॥", "43069": "", "43070": "पुरोडाशस्येदमित्यन्तोदात्तः। तस्माद्बह्वचोऽन्तोदात्ताट्ठञि [[4.3.67]] प्राप्ते। पुरोडाशस्तु `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फि।सू।2।42) इति मध्यादात्तः। अस्मादणि प्राप्ते ष्ठन् विधीयते। वकारो ङीषर्थः, नकार आद्युदात्तार्थः। तेषां संस्कारो मन्त्रः पौरोडाश इति। `पुरोडाशसहचरितःर` इति। सामर्थ्यात् साहचर्याद्वा पुरोडाशा येन मन्त्रण संस्क्रियन्ते पुरोडाशशब्दो वर्तते, न पुरोडाशेषु। कृत एतत्? व्याख्यातव्यनामग्रहणानुवृत्तेः। न हि पुरोडाशा व्याख्यातव्यतया प्रसिद्धतराः॥", "43071": "", "43072": "`अणोरपवादः` इति। आदिशब्देन ठञः। तत्र य ऋकारान्ता उद्गातृप्रभृतयो बह्वचोऽन्तोदात्तस्तेभ्यष्ठञोऽपवादः। ब्राआहृणप्रथमाध्वरेभ्योऽपि ठञ एव। तेऽपि बर्वचः प्रातिपदिकस्वरेणान्तोदात्ताः। नामाख्यातशब्दादपि समस्तात् तस्यैव। सोऽपि बह्वच्, समासस्वरेणान्तोदात्तश्च। परिशिष्टेभ्योऽणः। `पांशुकम्, पाञ्चहोतृकम्` इति। `इसुसुक्तान्तात् कः` [[7.3.51]] । पञ्चहोतृचतुर्होतृशब्दाविगन्ते `द्विगौ` [[6.2.29]] इतिपूर्वपदप्रकृतिस्वरेणाद्युदात्तौ। पूर्वपदं हि `न्रः संख्यायाः` (फि।सू।2।28) इत्युदात्तम्। पुरश्चरणशब्दोल्युडन्तः कृदुत्तरपदप्रकृतिस्वरेण [[6.2.138]] मध्योदात्तः। आख्यातशब्दः <<गतिरनन्तरः>> [[6.2.49]] इत्याद्युदात्तः।`सङ्गातविगुहीतार्थम्` इति। तच्चैकशेषसमासाश्रयणाल्लभ्यत इति वेदितव्यम्॥", "43073": "`ठञोरपवादःर` इति। आदिशब्देन ठकश्छस्य च। तत्र ये बह्वचोऽन्तोदात्तस्तेभ्यष्ठञः। विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षमस्य ठकः। व्याकरणशब्दाद्वृद्धाच्छस्य। अण्ग्रहणं किमर्थम्? न ऋययनादिभ्यो ता विहितमेवोच्येत, न चैवं सत्यपवादाः ष्ठनादयः स्युरिति सम्भाव्यते; अपवादविधानस्य हि वैयथ्र्यं स्यात्। तस्माद्वचनप्रामाण्यद्यो विहितो न च प्राप्नोत्यन्येन बाधितत्वात् स एव भविष्यति, स चाणेव? इत्यत आह - `अण्ग्रहणम्` इत्यादि। तत्र यद्यण्ग्रहणं न क्रियेत्, तदा यदत्र वृद्धमन्तोदात्तं ठञा बाधिते पुर्वचनाच्छ एव भविष्यति। तस्माच्छस्य बाधकसय् बाधनार्थमण्ग्रहणम्। तेन वास्तुविद्य इति सिद्धं भवति। वास्तुविद्याशब्दो वृद्धः,समासस्वेरमाअन्तोदात्तश्च।`ऋगयन` इत्यादि। ऋगयनमिति। ऋगयनशब्दो भावसाधन ऋचामयनम्,यद्यपि भावे ल्युट्, तथाप्यभदोपचारात् तद्वति ग्रन्थे व्याख्यातव्ये वर्तते, स च <<अनो भावकर्मवचनः>> [[6.2.150]] इत्यन्तोदात्तः। यैस्तु करणे ल्युटं कृत्वाऋगयनशब्दो व्युत्पाद्यते, तेषां स कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तो न गणे पाठं प्रयोजयति ततः <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्येव सिद्धः। पदव्याख्यानशब्दः <<मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः>> [[6.2.151]] इत्यन्तोदात्तः। `{नास्ति - काशिकायां पदमञ्जर्यां च।} मान` इति। मनोर्धातोर्यदा घञ् तदा <<थाथघञ्क्ताजबित्रकाणाम्>> [[6.2.144]] इत्यन्तोदात्तः। अथ मिनातेर्ल्युट्,तदा <<अनो भावकर्मवचनः>> [[6.2.150]] इत्यन्तोदात्तः। `छन्दोभावः` इति। `गतिकारकोपपदात्` कृत्` [[6.2.138]] इति कृत्स्वरेणान्तोदात्तः। भाषाशब्द <<गुरोश्च हलः>> [[3.3.103]] इत्यकारप्रत्ययान्तो व्युत्पादितः। `छन्दोविचिति` इति। <<मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः>> [[6.2.151]] इत्यादिनान्तोदात्तः। पुनरुक्तशब्दः <<थाथघञ्क्ताजबित्रकाणाम्>> [[6.2.144]] इत्यन्तोदात्तः। `{ नास्ति -काशिकायाम्` } निरुक्तः` <<संज्ञायामनाचितादीनाम्>> [[6.2.146]] इत्यन्तोदात्तः, व्याकरणशब्दो ल्युडन्तो मध्योदात्तः। निगमशब्दः `गोचरसञ्चर` [[3.3.119]] इत्यादिसूत्रे घप्रत्ययान्तो निपातितः प्रत्यस्वरेणान्तोदात्तः। वास्तुविद्याशब्दोऽङ्गविद्या {क्षत्त्रविद्या -काशिका पदमञ्जरी च।} क्षत्त्रियविद्येत्येते च समासस्वरेणान्तोदात्ताः। उत्पात्, `{उत्पाद -काशिका` } उदपाद -इत्येतौ थाथादि [[6.2.143]] सूत्रेणान्तोदात्तौ। संवत्सर इति। `अशेः सर` (द।उ।8।50) इत्यनुवृत्तौ `वसेः संपूर्वाच्चित्` (द।उ।8।51,52) इत्येवं व्युत्पादतित्वात् संवत्सरशब्दोऽन्तोदात्तः। मृह्रतेर्धातोः क्तः, क्ते ऊरागमः, तेन `मुहूर्त` इत्यन्तोदात्तः। `निमित्त` शब्दोऽपि प्रातिपदिकस्वरेण। `उपनिषत्` इति। उपनिपूर्वात् सदेः क्विप्। कृत्स्वरेणान्तोदात्तः॥", "43074": "अथ `रुआउघ्नादगच्छन् वृक्षमूलादागतः` इति। अत्र वृक्षमूलशब्दात् प्रत्ययः कस्मान्न भवति? इत्याह - `मुख्यम्` इत्यादि। मुख्यं प्रधानं विवक्षितम्, तदिह परिगृह्रते; न तु नान्तरीयकप्रधानम्, न हि मुख्ये सतीतरस्याप्रधानस्य ग्रहणं युक्तम्; मुक्ये कार्यसम्प्रत्ययात्॥", "43075": "", "43076": "`आयस्थानठकोऽपवादः` इति। बाहुल्यादेवमुक्तम्; यस्मात् कृकणशब्दोऽत्र पठते। तत्र हि <<कृकणपर्णाद्भारद्वाजे>> [[4.2.145]] इति प्राप्तस्य च्छस्यापवादः। तीर्थशब्दश्चेह धूमादिषु पठते, ततः <<धूमादिभ्यश्च>> [[4.2.127]] इति प्राप्तस्य वुञोऽपवादः। अथाण्ग्रहणं किमर्थम्, न शुण्डिकादिभ्यो यथाविहितमेवोच्येत, न चैवं पठमानेऽपवाद एव स्यादित्याशङ्कनीयम्; अपवादविधाने हि वचनवैयथ्र्यं स्यात्, तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति? इत्यत आह - `अण्ग्रहणम्` इत्यादि। `उदपान` शब्दोऽत्र पठत आयस्थानवचनम्, उत्सादिष्वसौ पठते; तत्रासत्यग्रहण आयस्थानठकं बाधित्वा <<उत्सादिभ्योऽञ्>> [[4.1.86]] इत्यञेव स्यात्। तस्मात् तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। तेनोदपान इत्यत्राण्सिद्धो भवति॥", "43077": "", "43078": "'तपरकरणं मुखसुखार्थम्' इति। अथ दीर्घनिवृत्त्यर्थं कस्मान्न भवति? असम्भवात्। न हि विद्यायोनिसम्बन्धिषु किञ्चिदृकारान्तं प्रातिपदिकमस्ति यन्निवृत्त्यर्थस्तकारः स्यात्॥", "43079": "`पित्र्यम्` इति। `रीङ ऋतः` [[7.4.27]] इत रीङ, यस्यति [[6.4.148]] लोपः॥", "43080": "यदि गोत्रादङ्कवत्प्रत्ययविधिर्भवतीत्युच्यतेऽण एवातिदेशः प्राप्नोति, न वुञः। यस्मादण्विधावेवाङ्गग्रहणमस्ति। `सङ्घाङ्कलक्षण` [[4.3.127]] इत्यादौ सूत्रेण वुञ्विधौ <<गोत्रचरणाद्वुञ्>> [[4.3.126]] इत्यत्र? इत्याह - `अङ्कग्रहणेन्` इत्यादि। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकग्रहणमुपधातसामान्यस्योपलक्षणम्, एवमिहाप्यङ्कग्रहणं <<तस्येदम्>> [[4.3.120]] इत्यस्य। तेनायं सूत्रार्थो भवति - यथा <<तस्येदम्>> [[4.3.120]] इत्यत्र प्रत्ययो भवति, तथा <<तत आगतः>> [[4.3.74]] इत्यत्रापि। तेन वुञोऽप्यतिदेश उपपद्यते। नन्वेवमप्यणोऽतिदेशो न प्राप्नोति, न हि तद्विधौ गोत्रग्रहणमस्ति? पूर्वसूत्राद्गोत्रग्रहणमनुवर्तत इत्यदोषः। `सङ्घाङ्कलक्षण` [[4.3.127]] #एइत्यादिना येन सूत्रेणाण् विहितस्तद्दर्शयति॥", "43081": "`समादगतम्` इति। समाद्धेतोरागतमस्यार्थः। केन पुनरिह पञ्चमी? असमादेव ज्ञापकात्। यदयं पञ्चम्यन्तात् प्रत्ययमाह ततो ज्ञायते - हेतौ पञ्चमी भवति॥", "43082": "`योगविभागो यथासंख्यानिरासार्थः` इति। ननु चान्यतरस्यांग्रहणेनौत्सर्गिकेऽभ्यनुज्ञायमाने वैषम्याद्यथासंख्यस्य प्राप्तेरेव नास्ति? सत्यमेतत्; यस्तु रूप्यमयटोरपूर्वत्वाद्विधीयमानपेक्षया यथासंख्यत्वं मन्येत,तं प्रति योगविभागः क्रियते॥", "43083": "`{प्रथमतः -काशिका`} प्रथम उपलभ्यत इत्यर्थः` इति। प्रथम इत्यनेन प्रशब्दस्यार्थमाचष्टे। `उपलभ्यते` इत्यनेनापि भवतेः। अनेकार्थत्वाद्धातूनां भवतिरिहोपलब्धौ भवतिरिहोपलब्धौ वर्तते। `हिमवतः प्रभवति` इति। <<भुवः प्रभवः>> [[1.4.31]] इति हिमवतोऽपादानसंज्ञा॥बाल-मनोरमाहेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः 1440, 4.3.85 हेतुमनुष्येभ्यः। `तत आगत` इत्येव। हेतुभ्य उदाहरति -समादागतमित्यादि। मनुष्यवाचिन उदाहरति -देवदत्तरूप्यमिति। बाल-मनोरमाप्रभवति 1442, 4.3.85 प्रभवति। तत इत्येवेति। `आगत` इति तु निवृत्तम्। प्रभवतीत्यर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। प्रभवः-प्रथमप्रकाशः। हिमवतः प्रभवतीति। हिमवति प्रथमं प्रकाशत इत्यर्थः। `भुवः प्रभवः` इत्यापादानत्वम्। बाल-मनोरमाअभिनिष्क्रामति द्वारम् 1445, 4.3.85 अभिनिष्क्रामति द्वारम्। कान्येति। कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः।", "43084": "`तत्र तु संस्क्रियते` इति। तुशब्दोऽवधारणे। संस्क्रियते एव च तत्र विदूरे नगरे, न ततः प्रभवति।`वालवायो विदूरञ्च` इति। वालवायशब्द एव प्रत्ययमुत्पादयति, न विदूरशब्दः। प्रभवतिशब्दस्य प्रथमत उपलभ्यत इत्यर्थः। प्रभवति च वालवाये पर्वते। तस्माद्यतः प्रभवति तद्वाची वालवायशब्दः प्रकृतित्वेनाक्षिप्यते। यथा विश्रवणरवणा इत्यादेशावेव शिवादिषु पठएते। अपत्याधिकारात्तु येन तयोरपत्यापत्यवत्ससम्बन्धः स एव प्रकृतित्वेनाक्षिप्यते विश्रवस्शब्दः। विश्रवसोऽपत्यं वैश्रवणः, रावणः।अथ वा प्रकृत्यन्तरमेव विदूरशब्दो वालवाये वर्तते। विदूरात् भवति वालवायात् पर्वतात् प्रभवतीत्यर्थः। एवं स्थिते यो ब्राऊयात् - नैव तत्र वालवाये प्रसिद्धो विदूरशब्द इति,तं प्रत्याह - `जित्वरीवदूपाचरेत्` इति। यथा वणिज एव वासाणसी नगरीं `जित्वरी` इत्युच्चारयन्ति मङ्गलार्थम्, न लोकाः, एवं वैयाकरणा एव वालवायं विदूरमित्युच्चारयन्ति। नियतदेशपुरुषविषया अपि रूढयो भवन्तीत्येतज्जित्वरीवदित्यनेन कथयति॥", "43085": "पथो निष्क्रियत्वाद्गमेः कर्तत्वं नोपपद्यत इत्याह - `तत्स्थेषु` इत्यादि। पुरुषवृत्तिर्गमनं पथ्युपचर्यत इति दर्शयति। `अथ वा` इत्यादि। प्राप्तावत्र गमिर्वर्तते। अस्ति च प्रत्यक्षगम्यैव रुआउघ्नादीनां पथोऽस्यैवानन्तर्यलक्षणा प्राप्तिः॥", "43086": "कथं पुनः करणत्वेन प्रसिद्धं द्वारं स्वातन्त्रेणैव विवक्ष्यते?इत्याह - `यथा` इत्यादि। यथा च्छेदनक्रियायामसिः करणत्वेन प्रसिद्धौऽपि स्वातन्त्र्येण विवक्ष्यते।ननु चेतनावतोऽभिनिष्क्रमणं भवति, चेतनावता प्रयुक्तस्य वा - देवदत्तोऽभिनिष्क्रामतीति, न च द्वारं चेतनावता प्रयुक्तम्, तस्मान्नोपपद्यते तस्याभिनिष्क्रमणम्? नैष दोषः; अचेतनेष्वप्यभिनिष्क्रामतीति व्यवहारो दृश्यते, तद्यथा अनेन गुहामुखेन वायुरभिनिष्क्रामतीति। निष्क्रीयत्वात् तर्हि नोपपद्यते? तत्स्थेषु निष्क्रामत्सु द्वारमभिनिष्क्रमतीत्युपचर्यत इत्यदोषः॥", "43087": "ननु `कृते` इति कर्मणि निष्ठा, ततश्च तयाऽभिहितत्वात् कर्मणो द्वितीया न प्राप्नोति? इत्याह - `अधिकृत्येत्येतपेक्षया द्वितीया` इति। ल्यबन्तेन या क्रियाऽभिधीयते तदपेक्षया द्वितीया, न च तस्या यत्कर्म तत्केनचिदभिहितम्। निष्ठया हि ग्रन्थात्मकमेव कर्माभिहितम्, न तु ल्यबन्तक्रियाया यत्कर्म सुभद्रादिकं तदपि। गिरिमित्त्रमधिकृत्य कृतो `गैरिमित्त्रः`। ययातिमधिकृत्य `यायातः`।`लुप्` इत्यादि। आख्यायिकायै इति तादर्थ्ये चतुर्थी। आख्यायिकार्थमाख्यायिकामभिधातुं प्रत्ययस्य लुग्भवतीत्यर्थः॥", "43088": "`यमसभम्` इति। `सभाराजा` [[2.4.23]] इत्यादिना नुपंसकलिङ्गता। यदीन्द्रजननादावेव शिशुक्रन्दादयो द्रष्टव्याः,तत्किमर्थं पृथग्ग्रहणम्? इत्यत आह - `प्रपञ्चार्थम्` इत्यादि। `एवञ्च सति` इत्यादि। चशब्दो हेतौ। यस्मादिन्द्रजननादेराकृतिगणस्य तदन्तर्भूतानामेव शिशुक्रन्दादीनां प्रपञ्चार्थं ग्रहणम्; तस्मादेवमर्थऽस्मिन् स्थिते देवासुरादीनां प्रतिषेधो न वक्तव्यः, प्राप्त्यभावात्। येभ्य एव च्छप्रत्ययोऽयं दृश्यते, त एवेन्द्रजननादयः, न च देवासुरादिभ्यो दृश्यते॥", "43089": "", "43090": "`तत्सम्बन्धाद्देशोऽप्यभिजन उच्यते` इति। यथा यष्टीः प्रवेदशयेति यष्टिसम्बन्धाद्यष्टिशब्दः पुरुषे वर्तते, तथाऽभिजनशब्दो देशे वर्तते। कः पुनरसौ योऽभिजनसम्बन्धादभिजन उच्यते? इत्यत आह - `यस्मिन्` इत्यादि। `इह देशवाचिनः` इत्यादि। कथं पुनर्मुख्येऽभिजने गौणात् प्रत्ययो भवति? इत्याह - `निवासप्रत्यासत्तेः` इति। निवासो [[4.3.89]] ऽनुकृष्यते तेनाभिजनो विशेष्यते निवासो योऽभिजन इति। तस्माद्देशवाचिन एव प्रत्ययो भवति, न बन्धुभ्यः ; तेषामनिवसत्वात्।निवासाभिजनयोः को विशेषः? नास्त्येव कश्चिद्विशेषः, अभिजनस्य निवासभूतत्वादिति मन्यते। `यत्र` इत्यादि। विशेषं दर्शयति।`योगविभाग उत्तरार्थः` इति। उत्तरेषु योगेष्वभिजनप्रत्यया यथा स्युः, निवासे मा भूवन्निति॥", "43091": "`आयुधजीविभ्यः` इति। तादभ्य चतुर्थीति पञ्चमीं निराकरोति। यदि ह्रेषां पञ्चमी स्यात्, आयुधजीविभ्य एव पर्वतेऽभिधेये छो भवतीत्येष सूत्रार्थः स्यात्, न चेष्यते; तस्मात् एवैषा चतुर्थी, न पञ्चमीति। `साङ्काश्यकाः` इति। <<धन्वयोपधाद्वुञ्>> [[4.2.121]] ॥", "43092": "`अणादेरपवादः` इति। आदिशब्देन छादेः। अत्र ये शण्डिकादीन् पर्वातनाचक्षते तेषां मतेन पूर्वसूत्रेण प्राप्तस्य छस्यापवादः। ये तु जनपदशब्दाः, तेषां <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] इति प्राप्तस्य वुञः। शण्डिकशब्दात् <<कोपधादण्>> [[4.2.132]] इति प्राप्तस्याणः॥", "43093": "`प्रभृतयः` इति। प्रभृतिशब्देन मधु, वसन्त, कम्बोज, साल्व,कश्मीर - इत्येते गृह्यन्ते। {गन्धार इति मु।पाठः गन्धारि इति प्राचीनमुद्रित पाठः।}किष्किन्धा, `{नास्ति गण पाठे}सारदि, `{उरस काशिका}उरस्, दरत् - इत्येतेषाम् <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] इत्यादिना वुञि प्राप्ते वचनम्। तक्षशिलादिष्वपि कौमेदुर, काण्डवारण, ग्रामणी - इत्येतेषां <<वृद्धाच्छः>> [[4.2.114]] इति छे प्राप्ते। शेषाणां <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यणि॥", "43094": "", "43095": "`भज्यते सेव्यत इति भक्तिः` इति। `भज सेवायाम्` (धातुपाठः-998) इत्येतस्मात् कर्मसाधनः क्तिन्॥", "43096": "ननु च देशकालयोरचित्तयोः प्रतिषेधान्नञिवयुक्तन्यायेन (व्या।प।65) प्रकृतिचेतनैव विज्ञास्यते, तत्किमचित्तग्रहणेन? नैतदस्ति; विना हि तेनादेशकालादिति न ज्ञायते - किमयं प्रकृतिनिर्देशः, उत देशकालयोः प्रतिषेध इति? तत्रानिष्टमपि विज्ञायते - अदेशशब्दात् , कालशब्दाच्चेति। अचित्तग्रहणे तु सति तेनातिप्रसङ्गे सत्यदेशकालादिति प्रतिषेधो विज्ञायते। अस्मादेव च प्रतिषेधादचित्तादिति स्वरूपग्रहणं न भवति। स्वरूपग्रहणे हि देशकालाभ्यां प्रसङ्गो प्रतिषेधं न कुर्यात्॥", "43097": "ननु च पूर्वसूत्रादेव ठगनुवर्तिष्यते, तेनापि हि महांराजिक इति सिध्यत्येव, तत्कथं ठञ् प्रत्ययान्तरं क्रियते? इत्याह - `प्रत्यययान्तरकरणम्` इत्यादि। ञित्स्वरेणाद्युदात्तत्वं यथा स्यादिति प्रत्ययान्तरकरणम्। ठकि हि सति तद्धितस्य `कितः` [[6.1.159]] इत्यन्तोदात्तत्वं स्यात्॥बाल-मनोरमासुधातुरकङ् च 1081, 4.3.99 सुधातुरकङ् च। चादिञिति। सुधातृशब्दात्षष्ठन्तादपत्येऽर्थे इञ्प्रत्ययः, प्रकृतेरकङादेशश्चेत्यर्थः। अकङो ङकार इत्, अकार उच्चारणार्थः। `ङिच्चे`त्यन्तादेशः। तदाह -सौधातकिरिति।व्यासेति। व्यास, वरुड, निषाद, चण्डाल, बिम्ब-एभ्यश्च इञि प्रकृतेरकङादेश इत्यर्थः। बाल-मनोरमामहाराजाट्ठञ् 1456, 4.3.99 महाराजाट्ठञ्। `सोऽस्य भक्तिरित्यर्थे` इति शेषः। माहाराजिक इति। महाराजो भक्तिरस्येति विग्रहः।", "43098": "वासुदेवशब्दाद्वृद्धाच्छस्यापवादः। अर्जुनशब्दादौत्सर्गिकस्याणः। ननु चार्जुनशब्द क्षत्त्रियाख्यः,तस्मादुत्तरसूत्रेण प्राप्तस्य वुञोऽपवादो युक्तः? एवं मन्यते - बहुलग्रहणं तत्र क्रियते, तेनार्जुनशब्दाद्नुञ्प्रत्ययस्य प्राप्तिरेव नास्ति, तस्मादस्मादणेव स्यात्, अतस्तदपवादो न्याय्यः।`ननु च` इत्यादि चोद्यम्। स्यादेतत् - वुञ्वुनोर्विशेषोऽस्ति, अतो वासुदेवशब्दाद्वुन् विधीयते? इत्याह - `न चात्र` इत्यादि। वासुदेवशब्दस्य च वुञि वुनि वा सति नास्ति कश्चिद्विशेष इति। तथा ह्रुभयत्र तदेवरूपम्, स एव स्वरः। योऽपि वुञि सति पुंवद्भावप्रतिषेधः <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इति,स वुन्यपि लभ्यत एव <<न कोपधायाः>> [[6.3.37]] इति। `संज्ञेषः` इत्यादिना, यदुक्तम् - `ननु च वासुदेवशब्दाद्गोत्रक्षत्रियाख्येभ्यः` [[4.3.99]] इति वुञस्त्येव` इति, तन्निराकरोति। गोत्रक्षत्त्रियाख्येभ्यो वुञ् विधीयते। न च वासुदेवशब्दो गोत्राख्यं प्रातिपदिकम्, नापि क्षत्त्रियाख्यम्, तत्कुतो इत्यनेन `अल्पाच्तरम्` [[2.2.34]] इत्यनेन वार्जुशब्दस्य पूर्वनिपातमकुर्वतैतद्विज्ञापितम् -अभ्यर्हितं पूर्वं निपतति। तेन मातापितरौ, श्रद्धमेधे, दीक्षातपसी - इत्यत्र शास्त्रादेवाभ्यार्हितस्य पूर्वनिपातः सिद्धो भवति। अभ्यर्हितत्वं तु वासुदेवशब्दस्य देवताविशेषत्वात्॥", "43099": "`ग्लौचुकायनकः। म्लौचुकायनकः` इति। ग्लुचुकम्लुचुकशब्दाभ्यां `प्राचावृद्धात् फिन्` [[4.1.160]] तदन्ताद्वुञ्। आख्याग्रहणं किमर्थम्? न गोत्रक्षत्त्रियेभ्य इत्येवोच्येत? इत्यत आह - `आख्याग्रहणम्` इत्यादि। यद्याख्याग्रहणं न क्रियेत, ततो येऽपि यथाकथञ्चित् क्षत्त्रिये वर्तन्ते तेभ्योऽपि स्यात्, नेष्यते; तस्मात् प्रसिद्धक्षत्त्रियपिरग्रहार्थमाख्याग्रहणं क्रियते। तेनह न भवति - विद्वान् क्षत्त्रियो भक्तिरस्येति। न विद्वच्छब्दः क्षत्त्रियशब्द इति प्रसिद्धः। क्षत्त्रियशब्दस्य तु सामानाधिकरण्यात् क्षत्त्रिये वृत्तिर्गम्यते। `पाणिनीयः` इति। पाणिनोऽपत्यमित्यण्; `गाथिविदथ` [[6.4.165]] इत्यादिना प्रकृतिभावः, पाणिनो भक्तिरस्येति <<वृद्धाच्छः>> [[4.2.114]] `पाणिनीयः`। पौरवो भक्तिरस्येति `पौरवीयः`॥", "43100": "`{नास्ति -काशिका}एकशब्दाः` इति। एतेन समानशब्दोऽयमेकवाचीति दर्शयति। `प्रत्ययः प्रकृतिश्च` इति। सर्वशब्देन योऽर्थ उपात्तस्तमाचष्टे। `तद्वत् अङ्गा क्षत्त्रिया भक्तिरस्य` इति। अङ्गादिभ्यः क्षत्त्रियेभ्यो बहुष्वपत्येषु <<द्व्यञ्मगधकलिङ्गसूरमसादण्>> [[4.1.170]] इत्यादिना विहितस्याणः `तद्राजस्य` [[2.4.62]] इत्यादिना लुक् क्रियते। बहुवचनेऽङ्गदयो जनपदिनो जनपदेन समानशब्दा भवन्ति। अत्र जनपदवृत्तिभ्योऽङ्गादिभ्यो यथा `सोऽस्य भक्तिः` [[4.3.95]] इत्येतस्मिन् विषये <<जनपदतदवध्योश्च>> [[4.2.124]] इति वुञ् भवति, तथा जनपदवृत्तिभ्योऽपि -`पञ्चाला ब्राआहृणाः`इति। यदा पञ्चालनिवासिषु साहचर्यात् पञ्चालादिशब्दो वर्तते, तदा भवन्ति ब्राआहृणा जनपदेन बहुवचने समानशब्दाः, न तु ते जनपदिनः। तेनातिदेशाभावादणेव भवति - `पाञ्चालः`।`सर्वग्रहणम्` इत्यादि। यदि सर्वग्रहणं न क्रियते, तदा प्रत्ययस्य विधीयमानतया प्राधान्यात् प्रधाने कार्यसम्प्रत्ययात् तस्यैवातिदेशः स्यात्, न प्रकृतेः। तस्माद्यथा प्रकृतेरप्यतिदेशो भवति तदर्थं सर्वग्रहणं क्रियते। `स च` इत्यादि। स च प्रकृत्यतिदेशः सर्वगर्हणं द्व्येकयोरेव प्रयोजयति, न बहुषु। जनपदशब्दो नात्र वृद्धः, तस्मादवृद्धो जनपदशब्दो दृश्यते। बहुवचने तु `तद्राजस्य बहुषु तेनैवास्त्रियाम्` [[2.4.62]] इति लुकि कृते विनाप्यतिदेशेनावृद्धः, अत एव भवतीति तत्र प्रकृत्यतिदेशोऽनर्थकः। ततो नेतदर्थं सर्वग्रहणं कर्तव्यम्। `वृद्धिनिमित्तेषु` इत्यादि। वृद्धिनिमित्तेषु वुञादिष्वादिष्टायामवृद्धायां प्रकृतौ पुनर्वृद्धिभावात्। `प्रकृतिनिह्र्यासेकृते` इति सर्वग्रहणात्प्रकृत्यदेशेन निर्हासः। निह्र्यासोऽल्पतयाऽपक्षय इत्यर्थः। `माद्रः` इति। एताञ्च प्रकृतिमपेक्ष्य मद्र इत्येषा प्रकृतिरल्पा भवति। `वार्ज्यःर` इत्येताञ्च वृजिरिति। ननु वतेः सर्वसादृशस्यार्थत्वनाद्वतिनिर्देशेनैव प्रकृतेरतिदेशो भविष्यतीति, तत्क सर्वग्रहणेन? नैतदस्ति; यतैव तत्र सर्वसादृश्यार्थे वतौ न प्रत्यार्थो देवतार्थेऽतिदिश्यते, तथेहापि जनपदरूपं जनपदिनि नातिदिश्यते। कस्मात् पुनस्तत्र प्रत्ययार्थो नातिदिश्यते? वतिना तयोर्भेदस्य प्रतिपादितत्वात्। वतिर्हि सादृश्ये रिधीयते, सादृस्यं च भेदाश्रयम्; यदि भवार्थस्यापि देवतार्थतया विपरिणामः स्यात्, तदा वतिरेव न स्यात्। तस्मादन्यस्य कार्यस्य सादृस्यं वतिराचष्टे, प्रत्ययार्थयोस्तु भेदम्, इहापि च जनपदजनपदिनोर्भेदमाचष्ट इति। असति सर्वग्रहणे जनपदरूपं जनपदरूपं जनपदिनि न लभ्यते। तस्मात् सर्वग्रहणं क्रियते।`बहुलग्रहणम्` इत्यादि। समानशब्दताया विषयप्रदर्शनं लक्षणम्। तदर्थं बहुवचनग्रहणम्। `अन्यथा हि` इत्यादि। बहुवचनग्रहणं न क्रियेतेत्यर्थः। `तत्रैव` इति। बहुवचने। बहुवचन एव तद्राजप्रत्ययस्य लुकि कृते समानशब्दता भवति, यतश्च तत्रैवातिदेशः स्यात्। `एकवचनद्विवचनयोर्न स्यात्` इति। तत्र समानशब्दतया अभावात्। `बहुवचने तु` इत्ादि। बहुवचनग्रहणे तु सति बहुवचने ये जनपदेन समानशब्दास्तेषां यत्र वा तत्र वातिदेशे विज्ञायमाने द्व्येकयोरप्यसौ सिद्धो भवति॥", "43101": "`प्रकर्षेणोक्तम्` इति। प्रकर्षः = अतिशयः,तेन व्याख्यातं तदध्यापितं वा `प्रोक्तम्` इत्युच्यते। `न तु कृतम्` इति। न तु कृतमुत्पादितं प्रोषतमित्युच्यते। कस्मादित्याह - <<कृते ग्रन्थे>> [[4.3.116]] इति गतार्थत्वात्। कथं माथुरीत्यण्, यावता वृधाच्छेनैव भवितव्यम्? नैष दोषः; <<कलापिनोऽण्>> [[4.3.108]] इत्यत्राण्ग्रहणस्यान्येभ्यो भवतीत्येतत् प्रयोजनं वक्ष्यति, तेन माथुरशब्दादप्यण्भवति। `पाणिनीयम्` इति। पाणिशब्दात् <<वृद्धाच्छः>> [[4.2.114]] इति च्छः। `आपिशलम्,कालकृत्स्नम्` इति। आपिशलिकाशकृत्स्निशब्दाभ्यां `इञश्च` [[4.2.111]] इत्यण्॥", "43102": "`तैत्तिरीयाः` इति। छण्प्रत्ययः, तेभ्यः `तदधीते` [[4.2.58]] इत्यण्, तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] इति लुक्। `छन्दोब्राआहृणानि च तद्विषयाणि` (4.2.67 इति तद्विषयता।`छन्दसि` इत्यादि। कथं पुनश्चछन्दसि लभ्यते? न हि च्छन्दोग्रहणमस्तीत्याह - `शौनकादिभ्यः` इत्यादि॥", "43103": "`णकार उत्तरत्र वृद्ध्यर्थः` इति। उत्तरेषु योगेषु वृद्धिर्यथा स्यात्। इह हि णकारस्य प्रयोजनं नास्ति, तस्य हि वृद्धिरेव प्रयोजनम्। काश्यपकौशिकशब्दौ वृद्धिमन्तौ। `तस्यापि च` इत्यादि। ननु च च्छन्दोब्राआहृणादीनां तद्विषयता युक्ता, तत्कथं कल्पस्यापि सा भवति? इत्याह - `शौनकादिभ्यः` इत्यादि। स्यादेतत् - यद्यपीदं न सिद्ध्यत्येव। न हि शौनकादिभ्यश्छन्दसि` [[4.3.106]] इत्यत्रानुवर्तते, तथापि छन्दोब्राआहृणादीनां तद्विषयतोच्यमाना कल्पस्य न सिध्यत्येव। नहि शौनकादिसूत्रा [[4.3.106]] नुवृत्तौ सत्यामस्य योगसय् कल्पश्छन्दोभावं ब्राआहृणभावमापद्यत इत्याह - `छन्दोऽधिकारविहितानञ्च` इत्यादि। कथं पुनरिष्यमाणाऽपि छन्दोऽधिकारविहितानां स्वर्यते। तेन <<शौनकादिभ्यश्छन्दसि>> [[4.3.106]] इतीदम्प्रकृतयो विहिताः प्रोक्तप्रत्ययाः, तेषां सर्वेषामेव कल्पादावपि तद्विषयता भवति। अथ गुणकल्पनया कल्पादीनामपि छन्दस्त्वं विवक्ष्यते। ननुच <<छन्दोब्राह्मणानि च तद्विषयाणि>> [[4.2.66]] इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् तेनैव प्रागेव कल्पादेस्तद्विषयता प्रतिपादिता, तत्किमर्थं पुनरनेन प्रकारेण प्रतिपाद्यते। तत्र वा कल्पादेस्तद्विषयताप्रतिपादनार्थश्चकारः कर्तव्यः, अयं वा प्रकार आश्रयितव्य इति विकल्पप्रदर्शनार्थम्।`इदानीन्तनेन` इत्यादि। इदानीन्तनो यः काश्यपः स काश्यपगोत्रप्रभवत्वात् काश्यप इत्युच्यते, तथेदानीन्तनो यः कौशिकः स कौशिकगोत्रप्रभवत्वात् कौशिक इत्युच्यते; तत्र यदि ऋषिग्रहणं ऋषिशब्दादेव, तथा हि प्रवराध्याये ये पठन्ते त ऋषय इति, इमावपि तत्र पठएते एव? नैष दोषः; विशेषणोपादानसामर्थ्यादयमृषिशब्दः क्रियाशब्दो विज्ञायते - ऋषिर्दर्शनादिति। तेन यावनन्यपुरुषसाधारणेनौपदेशिकेन दर्शनेन तद्व्नतौ काश्यपकौशिकशब्दौ तत इदं प्रत्ययविधानम्; न चेदानीन्तनौ काश्यपकौशिकशब्दावेवंविधौ, ताभ्यां छ एव भवति॥", "43104": "अभिधानेऽभियोपचारात् कलापिवैशम्पायनान्तेवास्यभिधायिनः शब्दा इह कलापिवैशम्पायनान्तेवासिशब्देन निर्दिष्टाः। अत एवाह - `कलाप्यन्तेवासिनाम्` इति।ननु च ये व्यवहिताः शिष्यशिष्याः, ते कलापिवैशम्पायनान्तेवासिन एव भवन्ति, तदयुक्तमुक्तम् - कलाप्यन्तेवासिनश्चत्वारः,वैशम्पायनान्तेवासिनो नव? इत्याह - `प्रत्यक्षकारिणःर` इत्यादि। करोतिरत्राध्ययने वर्तते। यैः साक्षादधीतं ते प्रत्यक्षकारिणः। इहान्तेवासिनो गृह्यन्ते चैतावन्त एवेति। किमत्रायुक्तम्? कुत इह साक्षात्कारिणो गृह्यन्ते, न हि व्यवहिता इत्यत्र हेतुं पृच्छति। `कलापिखाण्डायनग्रहणात्` इति। हेतुनिर्देशः। `{तथा हि -काशिका}तथा च` इत्यादि। अस्यैव विवरणम्। वैशम्पायनसय् कलाप्यन्तेवासी, तस्य येऽन्तेवासिनस्ते वैशम्पायनान्तेवासिनो भवन्त्येव। यदि तत्र ये व्यवहितास्तेऽप्यन्तेवासिनो गृह्रेरन् कलापिग्रहणमनर्थकं स्यात्, `वैशम्पायनान्तेवासिभ्यः` इत्येवं ब्राऊयात्। तथा वैशम्पायनान्तेवासी खाण्डायनः;तत्र यदि व्यवहिता अपिगृह्रेरन्, ततो वैशम्पायनान्तेवासित्वादनेनैव सूत्रेण सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फल एव स्यात्।\tतस्मादिहापि कलापिग्रहणं शौनकादिषु खाण्डायनशब्दस्य पाठ एतदुभयमपि साक्षात्कारिग्रहणस्य लिङ्गं ज्ञापकम्। `हारिद्रविणः` इत्यादि। हरिद्रुप्रभृतिभ्यः प्रोक्तार्थे णिनिः,तदन्तात् <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य `प्रोक्ताल्लुक्` `उलपेन चतुर्थेन` इति। सहार्थे तृतीया। `कालापकम्` इति। कलापिन इदं कालापकम्, `गोत्रचरणाद् वुञ्` [[4.3.126]] । ननु च `धर्माम्नाययोर्वुञ्` (वा।476), न चेमे शिव्या धर्माम्नायाः,तत्कथं वुञ्? एवं तर्ह्रुपमानाद्भविष्यतीति। कालापकमिव धर्मवच्छिष्या उच्यन्ते। यथा धर्मः कलापिसम्बन्धी, तथा शिष्या इत्युच्यत उपमानार्थः। `आलम्बिर्नाम प्राचां देशः, तत्रोत्पन्नः `चरकः`। एवं `पलङ्गकमलावुभौ`। प्राचामेवत्रयः। एते प्राच्याः वैशम्पायनशिष्याः `ऋचाभारुणिताण्डआश्च मध्यमीयास्त्रयोऽपेर` चरकाः। मध्यदेशे भवा मध्यमीयाः। गहादिषु `मध्यमध्यमञ्चाण् चरणे` (ग।सू।99) इति पठते। तस्यायमर्थः - मध्यशब्दो मध्यमभावमापद्यते, छप्रत्ययश्च ततो भवति, चरणे तु प्रत्ययार्थेऽण् च भवतीति। तत्र यदा ऋचाभादीनां चरणत्वं न विवक्ष्यते,तदा छे कृते मध्यमीया इति भवति। चरणविवक्षायां त्वणि कृते माध्यमा इति भवति। उदक्षु भवा उदीच्याः, <<द्युप्रागपागुदक्प्रतीचो यत्>> [[4.2.101]] इत्यादिना यत्। उदीच्येषु मध्ये श्यामायनिश्चरकः।कठकलापिनावप्युदीच्येषु चरकौ, अपरस्याप्युक्तम् - <<कलापिनोऽण्>> [[4.3.108]] इति। ननु च वैशम्पायनान्तेवासिनां कठेनैव चरक इत्येषाख्या, तत्कथं चरक इत्युच्यत? इत्याह - `चरक इति वैशम्पायनस्य` इत्यादि। यद्यपि तेषां चरक इत्याख्यानं न भवति, तद्गुरोस्तु वैशम्पायनस्य भवति, तत्सम्बन्धेन तच्छिष्या अपि तथोच्यन्ते॥", "43105": "`भाल्लविनः`इति। भाल्लवः, शाटआयनः,ऐतरेय - इत्येतेभ्यः प्रोक्तार्थे णिनिः। तदन्तात् `तदधीते` [[4.2.58]] इत्युत्पन्नस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] <<छन्दोब्राह्मणानि च तद्विषयाणि>> [[4.2.66]] इत्यादिना तद्विषयता। `पैङ्गी` इति। `आरुणपराजी` इति। पिङ्गारुणपराजशब्दाभ्यां णिनिः। `याज्ञवल्कानि` इति। `आश्मरथः` इति। याज्ञवल्क्यआरव्यशब्दाभ्यां गर्गादियञन्ताभ्यां <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्युत्पन्नस्य, `आपत्यस्य` [[6.4.151]] इत्यादिना यलोपः। ननु याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव ब्राआहृणानि, ब्राआहृणान्तरैः पुराणप्रोक्तेस्तुल्यत्वात्? इत्याह - `याज्ञवल्क्य` इत्यादि। आख्यानेषु ह्रेषा वार्ता - याज्ञवल्क्यादयोऽपरकालाः प्रवक्तारोऽन्येभ्यः प्रवक्तृभ्यः। तथा च वस्तुत्वमनपेक्ष्य व्यवहरति सूत्रकार इत्यदोषः। `तद्विषयता कस्मान्न भवति` (इति)। <<छन्दोब्राह्मणानि च तद्विषयाणि>> [[4.2.66]] इत्यादिनेति भावः। `प्रतिपदम्` इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) हि प्रतिपदं विशेषणम्। ब्राआहृणमुच्चार्य ब्राआहृणेषु यः प्रत्ययो विहितस्तस्य तद्विषयता विधीयते। तस्मात् तद्विषयतास्य न भवति। कल्पेषु तर्हि कस्मान्न भवति; यथा - काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिन इत्यत्र? `न चायम्` इत्यादि। छन्दोऽधिकारे ये योगस्तद्विहितस्य प्रत्ययस्य तद्विषयता भवति, न चायं योगश्छन्दोऽधिकारमनुवर्तते;तेनैतद्विहितस्य प्रत्ययस्याध्येतृवेदितृविषयता कल्पेषु न भवति - पैङ्गी कल्पः, आरुणपराजी कल्द इति।पुराण इति कोऽयं शब्दः, यावता `सांयचिरम्` [[4.3.23]] इत्यादिना टउटउलोः सन्नियोगेन तुटि कृते पुरातनमिति भवितव्यम्? इत्यत आह - `पुराण इति निपातनात् तुडभावः (इति)। यद्येवम्, न भवति पुरातनम्? इत्याह - `{न वा काशिका}न च` इत्यादि। ननु `बाधकान्यपि निपातनानि` (वी।प।वृ।109) इत्यतो भवितव्यमेव वाचकेनेति? अवाचकान्यपि (नी।प।वृ।110)। अबाधकान्यपि भवन्ति, एतच्च <<शदेरगतौ तः>> [[7.3.42]] इत्यत्र प्रतिपादितम्॥", "43106": "`छाणोरपवादः` इति। ये वृद्धास्तेभ्यश्छस्यापवादः, शेषेभ्यस्त्वणः। `शौनकिनः। वाजसनेयिनः` इति। शौनकेन प्रोक्तं वाजसनेयेन प्रोक्तमिति णिनिः। तदन्तात् [[4.2.58]] इत्यण्, तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] , पूर्ववत् तद्विषयता।`केवलाद्धि` इत्यादि। तत् संहतार्थमित्यत्रायं हेतुः। यस्मात् केवलात् कठाल्लकं वक्ष्यति, तस्मात् कठशाठ इति यदत्र पठते तत्संहतार्थम्॥", "43107": "`कठाः, चरकाः` इति। प्रोक्तप्रत्ययस्य लुकि कृते यो ह्रध्येतर्यण् भवति तस्यापि प्रोक्ताल्लुक् [[4.2.63]] । पूर्ववत् तद्विषयता॥", "43108": "`कालापाः`इति। पूर्ववत् प्रोक्तप्रत्ययान्तादध्येतर्युत्पन्नस्याणो लुक्, तद्विषयता च। `अथ` इत्यादि। ननु चासत्यण्ग्रहणे यथा प्राप्ते विधीयमाने णिनेरेवापवादः स्यात्? नैतदस्ति; एवं हि वचनमनर्थकं स्यात्। तस्माद्यो विहितो न च प्राप्नोत्यनेन कबाधितत्वात् स एव भविष्यति, स चाणेव। `एवमादि` इति। आदिशब्देन मौदाः,पैप्पलादाः, शाकलाः, जाजलाः - इत्येतेषां ग्रहणम्। असत, त्वच्ग्रहणे सर्वमेव न सिध्येत्; <<वृद्धाच्छः>> [[4.2.114]] इति छेनाण औत्सर्गिकस्य बाधितत्वात्॥", "43109": "`छागलेयिनः` इति। इहापि पूर्ववदेवाध्येतर्युत्पन्नस्याणो लुक् च तद्विषयता। एवमुत्तरयोर्योगयोर्वेदितव्यः॥", "43110": "`यथासंख्यम्` इत्यादि। पाराशर्याद्भिक्षुसूत्रे प्रत्ययः शिलालिनो नटसूत्रे। `तद्विषयता चात्रेष्यते` इति। कथं पुनरिष्यमाणापि सा लभ्यते? इत्याह - `तदर्थम्` #इत्यादि। ननु चानुवर्तमानच्छन्दोहणेनैव तद्विषयता प्राप्नोति? न; भिक्षुवनटसूत्िरयोरच्छन्दसत्वादित्याह - `गुणकल्पनया च` इत्यादि। छन्दसस्तूपचारनिमित्तं यो धर्मः स इह गुणोऽभिप्रेतः, तद्धेतुका कल्पना। यथा छन्दो यदर्थमधीयते तथा सूत्रमपि तद्धेतुं सम्पादयति। भिक्षुनटयोरित्येवमादिकया गुणकल्पनया भिक्षुनटसूत्रयोश्छन्दस्त्वमौपचारिकम्। `पाराशरिणः` इति। पाराशर्यशबिदो गर्गादिषु वञन्तः, <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति यलोपः। `शैलालिनः` इति। <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः।`पाराशरम्` इति। <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यण्। `शैलालम्` इति। औत्सर्गिकोऽण्, `नान्तस्य टिलोपे सबह्यहृचारिपीठ` (वा।798) इत्यादिना टिलोपः॥", "43111": "", "43112": "`तेन`इति। `तुल्यार्थैरतुलोपमाभ्याम्` [[2.3.72]] इति तृतीया। `सौदामनी` इति। `अन्` [[6.4.167]] इति प्रकृतिभावाट्टिलोपाद्यभावः।ननु च तेनेति प्रकृतमेव,तत्किमर्थं पुनरिह तृतीया समर्थविभक्तिरुपादीयते? इत्याह - `तेनेति प्रकृते` इत्यादि। पूर्वत्र हि तेनेति छन्दोऽधिकारसम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्माच्छन्दोऽधिकारनिवृत्तयेपुनरिह तृतीया समर्थविभक्तिरुपादीयते। किमर्थः पुनश्छन्दोऽधिकारः पूर्वत्र क्रियते? इत्याह - `पूर्वत्र` इत्यादि। पूर्वेषु योगेषु च्छन्दोऽधिकारात् तद्विषयता साध्यते। तस्मात् तत्र च्छन्दोऽधिकारः कर्तव्यः। तस्मस्तु क्रियमाणे तन्निवृत्त्यर्थं इह च यत्न आस्थेयः छन्दस्येव प्रत्ययः स्यात्॥", "43113": "", "43114": "", "43115": "`अकालकम्` इति। कालपरिभाषारहितमित्यर्थः॥", "43116": "कः पुनः कृतोपज्ञयोर्विशेषः, येनोपज्ञायत इति प्रकृते सति कृतग्रहणं क्रियते? इत्याह् - `उत्पादितम्` इत्यादि॥", "43117": "बाल-मनोरमासंज्ञायाम् 1476, 4.3.119 संज्ञायां। तेनेत्येवेति। तेन कृतमित्यर्थे संज्ञायां तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। `ग्रन्थे` इति नानुवर्तते। तदाह -अग्रन्थार्थमिति। बाल-मनोरमासङ्घाङ्कलक्षणेष्वञ्यञिञामण् 1486, 4.3.119 सङ्घाङ्क। यञन्तात्, अञन्तात्, इञन्ताच्च सङ्गे अङ्के लक्षणे च इदन्त्वेन विवक्षितेऽणित्यर्थः। छस्यापवादः। घोषेति। `सङ्घाङ्कलक्षणघोषेषु` इति सूत्रं कर्तव्यमित्यर्थः। तथाच तिरुआः प्रकृतयः, प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम्। गार्ग इति। सङ्घोऽङ्को घोषो वे`ति शेषः। गार्गमिति। `लक्षण`मिति शेषः। एवं दाक्ष दाक्षमित्यत्रापि नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यर्त आह -परम्परेति। यथा गवादिनिष्ठस्तप्तमुद्राविशेषोऽङ्कः। तस्य हि गोद्वारा स्वामिसम्बन्धः। साक्षादिति। विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः। वैदी विद्या। `घोष आभीरपल्ली स्या`दित्यमरः।", "43118": "", "43119": "`स्वरे विशेषः` इति। अणि हि प्रत्ययस्वरेणान्तोदात्तत्वं स्यात्। अञि तु सति ञित्स्वरेणाद्युदात्तत्वं भवति॥", "43120": "`तस्य` इति। पुंल्लिङ्गेनायं निर्देशः, पुंस्येव स्यात्, न द्विवचनबहुवचनान्तात्; प्रत्यक्षवाचिनश्च स्यात्; नापि विशेषवाचिनः; तच्छब्दस्य परोक्षवस्तुमात्रवाचित्वात्। प्रत्ययार्थोऽपीदमित्येकवचनेन नपुंसकलिङ्गेन निर्दिष्ट इत्येकस्मिन्नर्थे स्यात् - नपुंसक एव,नान्यत्र; परोक्षे न स्यात्; इदमः प्रत्यक्षवाचित्वात्? इत्येतत्? सर्वमाशङ्क्याह -`प्रकृतिप्रत्ययार्थयोः` इत्यादि। प्रकृतौ षष्ठर्थमात्रं विवक्षितम्। प्रत्ययार्थेऽपि षष्ठर्थसम्बन्धिमात्रम्, येन विना षष्ठर्थो न सम्पद्यते। `यदपरम्` इत्यादिना मात्रशब्देन यद्व्यवच्छिन्नं तद्दर्शयति। आदिशब्देन सामान्यभिधायित्वं गृह्रते। अस्य तु सर्वत्र विवक्षाकारणम् <<तस्यापत्यम्>> [[4.1.92]] इत्यत्रैवक्तम्। अथेह कस्मान्न भवति - देवदत्तस्यानन्तरम्, देवदत्तस्य समीपत्यादि? `अनन्तरादिषु` इत्यादि। `अनभिधानात्` इति। प्रत्ययान्तेनानन्तरादीनामप्रत्यायनमित्यर्थः।`संवहेस्तुः`इति। वहेस्त्रन्तादित्यर्थः। `सांवाहित्रम्` इति। सम्पूर्वाद्वहेस्तुरिट् च, यणादेशः। `सिद्ध एवात्राण्` इति। <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेन। यद्येवं किमर्थमुपसंख्यानम्? इत्याह - `इडर्थम्` इत्यादि। उपसंख्याने ह्रसतीडागमो न स्यात्, `एकाच उपदेशेऽनुदात्तात्` [[7.2.10]] इतीट्प्रतिषेधात्।`अग्नीघः` इत्यादि। अग्नीघ इत्येतस्माच्छरणे गृहे वाच्ये रण् वक्तव्यः, भसंज्ञा च वक्तव्या, भसंज्ञायाञ्च सत्यां पदसंज्ञाभावाज्जशत्वं न भवति।`समिधाम्` इत्यादि। आधीयन्ते येन मन्त्रविशेषेण समिधस्तस्मिन् सनिधामाधानविशेषे समिच्छब्दात् वण्यण् प्रत्ययो वक्तव्यः = व्याख्येयः। व्याख्यानं तु -`हविर्निवाससामिधेनीषु` [[3.1.129]] इत्येतन्निर्देशमाश्रित्य वक्तव्यम्। `सामिधेनी` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्, <<हलस्तद्धितस्य>> [[6.4.150]] इति यलोपः॥", "43121": "`नान्यत्र` इति। सन्नाहादौ॥", "43122": "", "43123": "`पत्राद्वाह्रे` (वा।474) इत्यवधारणमत्र द्रष्टव्यम् - पत्त्राद्वाह्र एवेति। अन्यत्र कस्मान्न भवत? अनभिधानात्। अथ किमर्थं न पूर्वेण सहैकयोग एव क्रियते - `पत्त्रपूर्वपत्राध्वर्युपरिषदोऽञ्` इति? नैवं शक्यम्; एवं हि पूर्वपत्त्रपूर्वात् प्रातिपदिकादन्यतोऽपि प्रसज्येत। योगविभागे पूर्वस्मिन् योगे रथादित्यनुवृत्ते रथ एव पत्त्रपूर्वग्रहणेन विशेष्यत इति न भवत्यतिप्रसङ्गः। एकयोगे तु रथाद्यनुवृत्तौ सत्यां यथा पत्त्रपूर्वतया रथो विशेष्यते, तथा पत्त्रादिभिरपि रथ एव निशेष्यते इत्यनिष्टं स्यात्। तस्माद्योगविभाग एव न्याय्यः॥", "43124": "", "43125": "`बाभ्रण्यशालङ्कायनिका` इति। वुन्नन्तः स्वभावादेव स्त्रियां वर्तत इति टाप् , `प्रत्ययस्थात्` [[7.3.44]] इत्यादिनेत्त्वम्॥", "43126": "वुनि प्रकृते वुञ्विधानं वृद्ध्यर्थम्। तच्चावृद्धा एव गोत्रचरणशब्दाः प्रयोजयन्ति, न वृद्धाः। तेषु हि वुञि वुनि वा सति न कश्चिद्विशेषः। `ग्लौचुकायनकः` इति। `प्राचामवृद्धात् फिन् बहुलम्` [[4.1.160]] इति फिन्, तदन्ताद्वुञ्।`चरणात्` इत्यादि। चरणाद्धर्माम्नाययोरेवेष्यते, नान्यत्र; अनभिधानादिति॥", "43127": "तेन वैषम्याद्यथासंख्यं न भवति। असति तु घोषग्रहणे, अञादयस्त्रयः सङ्घादयोऽपि तत्र इति समानाद्यथासंख्यं स्यात्? घोषे च प्रत्ययो न स्यात्। `बैदः` इति। `अनृष` [[4.1.104]] इत्यादिनाञ्; तदन्तादण्। अङ्कलक्षमयोः को विशेष इति? नास्त्येव कश्चिद्विशेषः। पर्यायत्वादङ्कलक्षमयोरिति मन्यते। `लक्षणम्` इत्यादिना विशेषं दर्शयति। लक्षणं चिह्नं लक्ष्यस्यैव स्वम्, नान्यस्य; यथा विद्या बिदानाम्। बिदानामेव हि लक्षणानां सम्बन्धिनाम् नान्यस्य कस्यचित्। अङ्कस्तु गवादिस्थो न गवादीनां सम्भवति। किं तर्हि? ततोऽन्येषाम्, गवादिस्वामिनाम्। अथ किमर्थं गित्करणं प्रत्ययस्य, यावताञन्ताद्यञन्ताः प्रकृतयो वृद्धा एव? अत आह - `णित्करणम्` इत्यादि। बैदी विद्येत्यत्र ङीब् यथा स्यात्। इह च बैदीविद्य इत्यत्र <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इति पुंवद्भावप्रतिषेधो यथा स्यात्। एवमर्थं णित्करणम्,न वृद्ध्यर्थम्॥", "43128": "`वुञोऽपवादः` इति। चरणलक्षमस्य शाकलशब्दस्य चरणलक्षणत्वात्। `शाकलाः` इति। शाकल्यशब्दाद्गर्गादियञन्तात् <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इति प्रोक्तार्थेऽ ण्। `आपत्यस्य च तद्धितेनाति` [[6.4.151]] इति यलोपः। शाकल इति स्थिते <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य प्रोक्ताल्लुक् [[4.2.63]] -शाकलाः, तेषां सङ्घः शाकलः, शाकलक इति वा॥", "43129": "`वुञणोरपवादः` इति। छन्दोगादिभ्यश्चरणलणस्य वुञोऽपवादः। नटादौत्सर्गिकस्याणः॥", "43130": "`दण्डप्रधाना माणवा दण्डमाणवाः` इति। मद्यमपदलोपिसमासं दर्शयति। स पुनर्मयूख्यंसकादित्वाद्वेतिव्यः। मयूरव्यंसकादेराकृतिगणत्वात्। `वुञ्प्रत्ययो न भवति` इति। एतेन वुञोऽयं प्रतिषेध इति दर्शयति। कथं पुनज्र्ञायते वुञोऽयं प्रतिषेध? इत्याह - `गोत्रग्रहणम्` इत्यादि। इह हि गोत्रग्रहणमनुवर्तते <<गोत्रचरणाद्वुञ्>> [[4.3.126]] इत्यतः, तेनायमर्थो भवति - <<तस्येदम्>> [[4.3.120]] इत्येतस्मिन्नर्थे यः प्रत्ययो गोत्रात् प्राप्नोति स दण्डमाणवान्तेवासिषु न भवतीति, गोत्रे वुञेव प्राप्नोतीति, अतस्तस्यैवायं प्रतिषेधो विधीयते। गौकक्ष्यशब्दाद्गर्गादियञन्तात् <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यण्, पूर्ववद्यलोपः। `दाक्षाः` इति। दाक्षिप्लाक्षिमाहकिब्यः `इञश्च` [[4.2.111]] इत्यण्॥", "43131": "", "43132": "`प्रकृतेरवस्थान्तरम्` इति। प्रकृतेः कारणस्यावस्थान्तरम् = अनयथात्वम्। `अप्राणी` इति। प्राणिनः <<प्राणिरजतादिभ्योऽञ्>> [[4.3.154]] अञं वक्ष्यति। `आद्युदात्तम्` इति। <<अनुदात्तादेश्च>> [[4.3.140]] इत्यञं वक्ष्यति। `अवृद्धम्` इति। वृद्धान्मयटं वक्ष्यति -<<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]] इति, यस्य च नान्यत् प्रतिपदं विधानमिति - गोपयसोर्यत्` [[4.3.158]] इत्येवमादि। ननु च `अन्` [[6.4.167]] इति प्रकृतिभावेन भवितव्यम्, तत्कथमाश्म इति भवति? इत्याह - `अश्मनो विकार इति टिलोपः` इति। टिलोपार्थमआमनो विकार इत्येतदुपसंख्यानं कृतम्। `नित्सरेवाद्युदात्ता एते` इति। अश्मादयः शब्दाः। तत्राश्मभस्मशब्दौ मनिन्प्रत्ययान्तत्वान्नत्स्वरेणाद्युदात्तौ। मृत्तिकाशब्दोऽपि तिकन्प्रत्ययान्तत्वात् - <<मृदस्तिकन्>> [[5.4.39]] इति। अथ तस्येति वचनं किमर्थम्, यावता तस्यग्रहणं प्रकृतमेव? इत्याह - `{तस्यप्रकरणम् - प्राचीन मुद्रित वा} तस्य प्रकरणम्` इत्यादि। तद्धि प्रकृतं तस्येति वचनं शैषिकैर्घादिभिः {सम्बद्ध -मु।पाठः} सम्बद्धम्। अतस्तदनुवृत्तौ तेऽप्यनुवर्तेरन्। अस्मस्तु तस्यग्रहणे क्रियमाणे पूर्वकं तस्येति वचनं निवर्तते। तस्मात् प्रकृतेऽपि तस्येति वचने शैषिक निवृत्त्यर्थं पुनस्तस्येत्युच्यत इति। ननु च प्रधानं घादयः, विधीयमानत्वात्; तस्येति तु वचनप्रधानम्, तदर्थत्वात्; तत्रायुक्ता गुणे निवर्तमाने प्रधानस्य निवृत्तिः प्रसज्येत, यथैव हि प्रकृतं तस्येति वचनं घादिभिः सम्बद्धं तथा अणादिभिरपि? नैष दोषः, उभयेषां हि निवृत्ती निष्पलः सूत्रस्यारम्भः स्यात्। विधेयस्य कस्यचिदभावात्, तस्मान्न भवत्युभयेषां निवृत्तिः। ननु चारम्भसामर्थ्यादुभयेषामन्यतमेषां निवृत्तिरित्येतावद्विज्ञायते। तत्क घादयो निवर्तन्ते? उताणादयः? सन्देह एव। सन्देहमात्रमेतत्, सर्वसन्देहेष्विदमुपतिष्ठते - `व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्` (व्या।प।75) इति। घादयो निवर्तन्त इत्येवं व्याख्यास्यामः, स्वरितत्वादणादीनामनुवृत्तिर्भविष्यति। ननु चास्वरित्वाद्धादीनामनुवृत्तिः, सैव तु तस्येति वचनेनाख्यायते शैषिकनिवृत्त्यर्थम्। `विकारावयवयोः` इत्यादिना विशेषं दर्शयति। केन पुनविकारावयवयोर्घादयः प्राप्नुवन्ति? <<तस्येदम्>> [[4.3.120]] इत्यनेनच तस्येदंविशेषत्वात् तयोः। `हालः,सैरः` इति। यदि शैषिका अनुवर्तेरंस्ततो हलसीरशब्दाभ्यां <<हलसीराट्ठक्>> [[4.4.81]] इति ठक् स्यात्। तन्निवृत्तौ त्वणेव भवति॥", "43133": "`मौर्वं काण्डम्` इति। मूर्वाशब्दादवयवे प्रत्ययः। `मौर्व भस्म` इति। विकारे।`इत उत्तरम्` इत्यादिना वक्ष्यमाणानां प्रत्ययानां विषयविभागं दर्शयति। `कथम्` इति। केन प्रकारेणायं विभागो लभ्यते। प्रत्यक्षमर्थं पृच्छति - `द्वयमपि`इत्यादि। यतो हेतोरेष विषयविभागो लभ्यते तद्दर्शयति। ततर् फलपाकान्ता ओषधः,पुष्पवन्तः फलवन्तश्च वृक्षाः, तद्विशेषा वनस्पतयः फलवन्त एव। तत्र वनस्पतिग्रहणेन वृक्षविशेषास्ततोऽन्येन गृह्यन्ते। वृक्षग्रहणे तु वनस्पतेरपि ग्रहणं विज्ञेयम्। `विकारावयवयोः` इत्यादि। युगपदधिकारे ह्रणादीन् वक्ष्यामीत्येवमर्थो युगपदधिकारः। अणादीनामर्थनिर्देशार्थोऽपि कस्मान्न भवति? इत्याह - `कृतनिर्देशो हि तौ` इति। कृतनिर्देशो हि तावर्थौ <<तस्येदम्>> [[4.3.120]] इत्यनेनैव;तस्येदं विशेषत्वात् तयोः॥", "43134": "`अञ्मयटोरपवादः` इति। यदत्रानुदात्तादि तस्मात् <<अनुदात्तादेश्च>> [[4.3.140]] इति प्राप्तस्याञोऽपवादः। यद्वृद्धं ततः <<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]] इति मयटः। तत्र बिल्वशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते `बिल्वतिष्ययोर्वान्तस्वरितत्वम्` (फि।सू।1।23) इति स्वरितत्वं भवति, उदात्तो वा। `व्रीहिमुद्ग` शब्दौ घृतादित्वादन्तोदात्तौ। `मसूरगोधूम` शब्दौ `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फि।सू।2।42) इति मध्योदात्तौ। एवं `गवेधुका` शब्दोऽपि। इषेः क्सुः, `इक्षुः`। प्रत्ययस्वरेणान्तोदात्तः। `वेणुः` शब्दोऽपि <<विभाषा वेण्विन्धानयोः>> [[6.1.215]] इतिपक्षेऽन्तोदात्त एव। `कर्पासीपाटली` शब्दौ `जातेरस्त्रीविषयादयोपधात्` इति ङीषन्तौ। ङीष्प्रत्ययान्तत्वान्ङीष्प्त्ययस्वरेणान्तोदात्तौ। `कर्कन्धू` शब्दः `अन्दूदृग्भूजम्बूकफेलूकर्कन्धूदिधिषूः` (द।उ।1।176) इति निपातनान्मध्योदात्तः। `कुटीर` शब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः। सर्व एते <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनुदात्तादयः। तेनाञ्बाधनार्थं ग्रहणमिति। अथाण्ग्रहणं किमर्थम्, न बिल्वादिभ्यो यथाविहितमेवोच्येत? नैवं शक्यम्; पाटलीशब्दो ह्यत्र वृद्धः पठते, तस्मादञो बाधके मयटि प्राप्ते पुनर्वचनादञेव स्यात्। अण्ग्रहणात् त्वणेव भवति। तस्मादण्ग्रहणं क्रियते॥`यथायोगम्` इति। प्राण्योषधिवृक्षेभ्यो विकारावयवयोः, अन्येभ्यस्तु विकारमात्र इत्येषो यतायोगार्थः। `अञोऽपवादः` इति। `ओरञ्` [[4.3.137]] , `अनुदात्तादेः` [[4.3.138]] इत्येताभ्यां प्राप्तस्य। `तित्तिडीकमाण्डूक दर्दुरूकमधूक`शब्दाः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्ताः,तेनानुदात्तादयो भवन्ति॥", "43135": "", "43136": "`ओरञोऽपवादः` इति। अनुदात्तत्वात्। `अप्राण्यादि` इति। आदिशब्देनौषधित्वमवृक्षत्वं च गृह्रते॥", "43137": "`अनुदात्तादेरन्यदिहोदाहरणम्` इति। अनुदात्तादेरुत्तरसूत्रेणैव सिद्धत्वात्। `दैवदारवम्, भाद्रदारवम्` इति। देवदारुभद्रदारुशब्दौ `पीतद्रवर्थानाम्` (फि।सू।2।37) इत्याद्युदात्तौ। तस्यायमर्थः -पीतद्रुः अर्थो येषां ते पीतद्रवर्थाः, तेषां पीतद्रवर्थवचनानामादिरुदायो भवति॥`दाधित्थम्` इत्यादि। दध्नि तिष्ठतीति, कपौ तिष्ठतीति -सुपि स्थः` [[3.2.4]] इति कः,<<अतो लोपः>> [[6.4.48]] इत्यकारलोपः, पृषोदरादित्वात् सकारस्य तकारः,उपपदसमासः, समासस्वरेणान्तोदात्तौ। तेन दधित्थकपित्थशब्दावनुदात्तादी भवतः॥", "43138": "", "43139": "`उभयत्रविभाषेयम्` इति। प्राप्ते चाप्राप्ते च। तामेवोभयत्रविभाषां स्पष्टीकर्त्तुमाह - `पलाशखदिर` इत्यादि। पलाशशब्दो धृतादित्वादन्तोदात्तः,खदिरशब्दोऽपि तित्स्वरेण। `इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिसिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्` (द।उ।8।26) इत्यनुवर्तमाने `अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराःर` (द।उ।8।27) इति किरच्प्रत्ययान्तो निपातितः। शिंशपाशब्दः `पान्तानां गुर्वादीनाम्` (फिट्।3।55) इति मध्योदात्तः। तस्यायमर्थः - पाशब्दान्तानां गुर्वादीनां द्वितीयमुदात्तं भवतीति। अथख `द्वितीयं प्रागीषात्` (फि।सू।3।50) इत्यत्रानुवर्तते, `स्पदि किञ्चिच्चलने` (धातुपाठः-14) अस्मात् `अनुदात्तादेश्च हलादेः` [[3.2.149]] इति युच् - स्पन्दनः, चित्स्वरेणान्तोदात्तः। `कृशृगृटिपटि{शौटिभ्यः -द।उ।}शटिभ्य ईरन्` (द।उ।8।72) करीर शब्दो नित्स्वरेणाद्युदात्तः। `कृशृगृकटिपटि{शौटिभ्यः द।उ।}शटिभ्य ईरन्` (द।उ।8।72) करीर शब्दो नित्स्वरेणाद्युदात्तः। `कृह्मभ्यामीषन्` (द।उ।9।9), `शृपृभ्यां {कित् -द।उ।}किच्च` (द।उ।9।10) इति शिरीषशब्दोऽपि नित्स्वरेणाद्युदात्तः। विकङ्गतपूलासयवासाश्च `ग्रामादीनां च` (फि।सू। 2।38) इत्याद्युदात्ताः॥", "43140": "`अञोऽपवादः` इति। शमीशब्दसय् गौरादित्वान्ङीषन्तस्य प्रत्ययस्वरेणान्तोदात्तस्यानुदात्तादित्वात्। टकारो ङीबर्थः॥", "43141": "`एतयोः` इति। `किमनेन`इत्यादि चोद्यम्। `ये विशेषप्रत्ययाः` इत्यादि परिहारः। आदिशब्देन <<उष्ट्राद्वुञ्>> [[4.3.157]] इत्येवमादयो गृह्यन्ते। यदि ह्रेतयोरिति नोच्येत, ततो य इति उत्तरे विशेषाः प्रत्ययाः अञादयः तैः सह सम्प्रसारणायां परत्वात् त एव स्युः। `एतयोः` इत्युच्यमाने तु विशेषप्रत्ययेष्वपि पक्षे भवन्ति, तेन कपोतमयमित्यादि सिद्धं भवति। अथ क्रियमाणे `एतयोः`इत्येतस्मिन्, कथमवादविषये मयड्? भवति? एतयोरित्यस्य द्वितीयविधानार्थत्वान्मयट्प्रत्ययो विकारावयवयोर्भवति। एकम् - विधानमेतयोरिति, मयड्भवतीति - द्वितीयम्। तत्र यद्येतदद्वितीयं विधानं तदा प्रापणार्थम्। तेन यत्रापि विशेषप्रत्ययैर्बाधितो विज्ञायते। तस्माद्वाग्रहणं कर्तव्यम्॥", "43142": "", "43143": "`गव्यम्` इति। गोरिदमित्यर्थविवक्षायां `सर्वत्र गोरजादिप्रसङ्गे यत्` (वा।383) इति यत्, <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः। `पुरीषं न विकारो नाप्यवयवः`इति। प्रकृतत्वाद्गोरिति गम्यते। ततर्विकारस्तावन्न भवति ; प्रकृतेरवस्थान्तरं पुरीषम्; {गोधर्मानन्वयादोदनवस्तूपकास्य -प्रांउ।पाठः} गोधर्मानन्वयात्। वस्तूपकारस्य समुदायस्यैकदेशो ह्रारम्भकोऽवयवो भवति, यथा -हस्तादि शरीरस्य; न चैवं गोः पुरीषम्। क्व तर्हीदं विधानमित्याह -`तस्येदं विषये` इति। गवा भावितत्वात् पुरी स्य, तत् तस्याः कार्यमिति तस्येदनर्थो भवति। तस्मात् तत्रैवेदं मयटो विधानम्। विकारावयवयोस्तर्हि केन भवितव्यम्? इत्याह - `विकारावयवोस्तु` इत्यादि॥", "43144": "`अणोऽपवादः` इति। पिष्टशब्दोऽयं <<निष्ठा च द्व्यजनात्>> [[6.1.205]] इत्याद्युदात्तः, तेन तस्मादौत्सर्गिकः प्राप्नोति, ततस्तस्यायमपवादः॥", "43145": "`मयटोऽपवादःरट इति। पूर्वसूत्रेण प्राप्तस्य। ननु च संज्ञायां कनं वक्ष्यत्येव, तदपार्थकं तद्विधानम्? नैतदस्ति; स ह्रल्पादिष्वर्थेषु, अयं तु विकारे। तदिदं सार्थकम्; अर्थभेदात्॥", "43146": "", "43147": "`तिलयवशब्दावाद्युदात्तौ` इति। तस्मादण्प्राप्नोति, अतस्तस्यायमपवादः। आद्युदात्तत्वं तु तयोः `तृणधान्यानां {गर्मुत् - द।उ। ग्रो मुट् च` पं।उ।}द्व्यषाम्` (फिट्।2।27) इत्यनेनैव भवितव्यम्। अस्यायमर्थः - तृणधान्यानां द्व्यचामादिरुदात्तो भवतीति।`यावकःर` इति। विकारेऽण्। तदन्तात्तु <<यावादिभ्यः कन्>> [[5.4.29]] इति कन्॥", "43148": "", "43149": "`मौञ्जम्` इति। मुञ्जाशब्दस्य पूर्वपदाद्युदात्तत्वेन तस्मादौत्सर्गिक एवाण्। `गार्मुत्म्` इति। `मुग्रोरुतिःट (पं।उ।1।96), `{गर्मुत् - द।उ। ग्रो मुट् च` (पं।उ।} गोर्मुट् च` (पं।उ।1।97) इति प्रत्ययस्वरेण गर्मुच्छब्दोऽन्तोदात्तः। तस्मात् <<अनुदात्तादेश्च>> [[4.3.140]] इत्यञ्। `ब्राआर्ध्री`इति। `वृधिवपभ्यां रन्` (द।उ।8।45) ब्राध्र्रशब्दो नित्स्वरेणाद्युदात्तः, तस्मात् <<प्राग्दीव्यतोऽण्>> [[4.1.83]] , `टिड्ढाणञ्` [[4.1.15]] इति ङीप्। `बैल्वम्` इति। <<बिल्वादिभ्योऽण्>> [[4.3.136]] ।अथ मतुषा निर्देशः किमर्थः? न नोद्वध्र्रबिल्वादित्येवोच्येतेत्यत आह - `मतुब्निर्देशः`इति।<<नोत्वद्वर्ध्रबिल्वात्>> [[4.3.151]] इत्युच्यमान उदिति वर्णग्रहणं स्यात्। अत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतीति तस्मात्तन्निषेधाय मतुब्निर्देशः। कः पुनस्तदन्तविधौ सति दोषः स्यादित्यत आह - `इहै व` इत्यादि। एवकारेण मुञ्जादिभ्यो न स्यादिति दर्शयति। `वैष्णवी` इति। बिल्वादित्वादण्॥", "43150": "`मयडादीनामपवादः` इति। आदिशब्देनाञः।प्रकृतिभेदात् तयोर्बहुत्वस्य विवक्षित्वाद् द्वयोरपि बहुवचनम्। तत्र तालश्यामाकशब्दाभ्यां वृद्धलक्षणसय् मयटोऽपवादः। बर्हिणो विकारोऽवयवो वेति <<प्राणिरजतादिभ्योऽञ्>> [[4.3.154]] इत्यनेन बार्हिणशब्दोऽपि विकारावयवप्रत्यान्तः, तेन तस्मादञ् <<ञितश्च तत्प्रत्ययात्>> [[4.3.155]] इति प्राप्तस्याञोऽपवादः। शेषेभ्यस्त्विन्द्रालिशादिभ्योऽनुदात्तादिलक्षणस्याञः। लिशिदृशिभ्यामिन्द्र उपपदे `कप्रकरणे मूलविभुजादिब्य उपसंख्यानम्` (वा।232) इति कप्रत्ययः। <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घत्वम्। <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति कृत्स्वरेणान्तोदात्तौ `इन्द्रालिशेन्द्रादृश` शब्दो। `इन्द्रा घु` शब्दः समासस्वरेणान्तोदात्तः। `चप सान्त्वने` (धातुपाठः-399) `पचाद्यच्` चपशब्दोऽन्तोदात्तः। पीयूक्षाशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्यादात्तः। यद्यप्यस्य टापि कृते `लघावन्ते` (फि।सू।2।42) नास्ति, प्राक्तु टापो विद्यत एव, तस्यामेवावस्थायां मध्योदात्तत्वं भवति।`तालाद्धनुषि` इति पठते। तालशब्दादण् प्रत्ययो भवति धनुष्यभिधेय इति। तालं धनुः, तालमयमन्यत्। अथाण्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? नैवं शक्यम्; बार्हिशब्दाद्वृदिद्धिलक्षणो मयट् <<ञितश्च तत्प्रत्ययात्>> [[4.3.155]] इत्यणा बाधितः। तत्रारम्भसामर्थ्यादन्मयडेव स्यात्। `श्यामाक`-शब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः। तस्मात् <<अनुदात्तादेरञ्>> [[4.2.44]] । परत्वाद्वृद्धलक्षणेन मयटा बाधित इतिपुनरारम्भसामर्थ्यादञेव स्यात्। अण्ग्रहमादणेव भवति॥", "43151": "`बहुवचननिर्देशात्` इत्यादि। यदि स्वरूपग्रहणमभीष्टं स्यात् तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यादिति भावः। `मयडादीनाम्` इति। आदि शब्दोनाञो ग्रहणम्। बहुवचनं तु पूर्ववत्। तत्र ये वृद्धा हाटकजातरूपप्रभृतयः, तेभ्यो मयटोऽपवादः। ये तु तपनीयप्रभृतयोऽनुदात्तादयस्तेभ्योऽञः। `तापनीयम्` इति। तपनीयशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः॥", "43152": "`अणादीनामपवादः` इति। आदिशब्देन मयट् परिगृह्रते। बहुवचनं तु पूर्ववत्। तत्र ये प्राणिशब्दा आद्युदात्तास्तेभ्योऽणपवाद इति। ये तु वृद्धास्तेभ्यो मयट् परिगृह्रते। रजतादिष्वपि यदाद्युदात्तं तस्मादणोऽपवादः। यत्पुनरनुवात्तादि तस्मान्मयटः। ततो हि <<अनुदात्तादेश्च>> [[4.3.140]] इत्यनेनैवाञि सिद्धे पुनर्वचनमञेव यथा स्यात्, <<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> [[4.3.143]] इत्यादिना मयड् मा भूदित्येवमर्थम्। तत्र `रजतं` घृतादिपाठादन्तोदात्तम्। `सीस, लोह` इति। `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तम्। अस्यायमर्थः - नपुंसकविषयस्य शब्दस्यानिसन्तस्यादिरुदात्तो भवतीति। नबिति नपुंसकस्य संज्ञा। अन्त्यात् पूर्वमित्यनुवर्तमाने `शिशृमानोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च` (फि।सू।3।64) इत्युदुम्बरेऽन्त्यात् पूर्वमक्षरमुदात्तम्। नीलदारुरोहितबिभीतक - इत्येतेषां `लघावन्ते` (फि।सू।242) इत्यादिना मध्यादात्तत्वम्। पीतदारुशब्दमपि केचित् पठन्ति। स `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तः। `तरतेर्ड्रिः` (पं।उ।5।66) इति ड्रिप्रत्ययान्तत्वात् त्रिशब्दस्य प्रत्ययस्वरेणाद्युदात्तत्वम्। त्रयः कण्टका अस्येति बहुव्रीहिः। <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इति त्रिकण्टकशब्द आद्युदात्तः। `{कण्वं प्रांउ।पाठः} कण्टं करोतीति कर्मण्यण्। `{कण्वकार प्रांउ।पाठः} कण्टकारशब्दः कृत्स्वरेणान्तोदात्तः॥", "43153": "`मयटोऽपवादः` इति। वृद्धलक्षमस्य सर्वस्य ञित्प्रत्ययान्तस्य वृद्धत्वात्।`एते प्रत्यया गृह्यन्ते` इति। ननु चैकानुबन्धपरिभाषया ष्ट्लञो ग्रहणं न प्राप्नोति? नैष दोषः; `ञितश्च` इति हि चकारस्तत्समुच्चयार्थः। तेन तस्यापि ग्रहणं भविष्यति। ओरञो [[4.3.137]] ग्रहणेन <<अनुदात्तादेश्च>> [[4.3.140]] <<पलाशादिभ्यो वा>> [[4.3.141]] इत्येतत्सूत्रग्रहणं वेदितव्यम्; अभिन्नत्वात्। य एवं `ओरञ्` [[4.3.137]] इत्यनेनाञ्विहितः स एवास्मिन् सूत्रद्वयेऽनुवर्तते। `दैवदारवस्य विकारोऽवयवो वा` इत्यादिना यथायोगमेषां प्रत्ययानामुदाहरणादीनि दर्शयति। `कांस्यम् पारशवम्` इति। कंसाय हितमिति `प्राक् क्रीताच्छ-` [[5.1.1]] कंसीयः। परशवे हितमित्युगवादित्वा [[5.1.2]] द्यत्। परशव्यस्य विकारोऽवयवो वेति <<कंसीयपरशव्ययोर्यञञौ लुक् च>> [[4.3.168]] इति यथासंख्यं यञञौ भवतः, छयतोश्च लुक् - कांस्यम्, पारशवः; तयोर्विकारोऽवयवो वेत्येनेनाञ्। `बैल्वमयम्` इति। बिल्वशब्दो <<बिल्वादिभ्योऽण्>> [[4.3.136]] इत्यणन्तः। ततो वृद्धलक्षमे मयडेव भवति। `वैदमयम्` इति। `अनृष` [[4.1.104]] इत्यादिनाञ् - वैदः। भवत्ययमञ्प्रत्ययो ञित्, न तु विकारावयवलक्षमः,तेन मयडेव भवति॥", "43154": "`अणादीनामपवादः` इति। आदिशब्देनाञादीनां ग्रहणम्। `संख्यापि परिमाणग्रहणेन गृह्रते` इति। कथं पुनरेतल्लभ्यते, यावता परिमाणशब्दः प्रस्थादिषु रूढः, न संख्यायाम्? नैष दोषः; यथैव हि प्रस्थादिपरिच्छेदहेतुस्तथा संख्यापि। अत उपमानात् संख्यायामपि परिमाणशब्दो वर्तिष्यते परिमाणमिव परिमाणमिति। नन्वेवं मुख्ये सति गौणग्रहणमयुक्तम्? अयमत्र दोषः - इह हि तन्त्रेण द्वौ परिमाणशब्दावुच्चारितौ, तत्र द्वितीयं पदमुदात्तम्, तेन संख्यापि गृह्रते। `नैष्किकम्` इति। प्राग्वतेष्ठञ्` [[5.1.18]] । `शत्यः, शतिकः` इति। <<शताच्च ठन्यतावशते>> [[5.1.21]] । `सहरुआम्` इति। `शतमानविंशतिकसहरुआवतनादण्` [[5.1.27]] ।`अध्यर्धपूर्व` [[5.1.28]] इत्यादिना सादृशष्यार्थे वतौ सति यदिष्टं सम्पद्यते तद्दर्शयति। आदिशब्देन प्रकृत्यादिपरिग्रहः। `द्विसहरुआम्` इति। द्वयोः सहरुआयोर्विकार इति तद्धितार्थे द्विगुः। `प्राग्वतेः संख्यापूर्वपदात् तदन्तविधिरलुकि` (5.1.20 वा।) इति तदन्तविधिरभ्यनुज्ञानाद्यथा क्रीतार्थे <<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इति पक्षे लुग्भवति, ततेहापि। `द्विसाहरुआम्` इति। `संख्यायाः संवत्सरपूर्वस्य` [[7.3.15]] इत्युत्तरपदवृद्धिः। `दविनिष्कः` इति। यथा क्रीतार्थे निष्कशब्दात् प्राग्वतेष्ठञ् [[5.1.18]] भवति तस्य `द्वित्रिपूर्वान्निष्कात्` [[5.1.30]] इति पक्षे लुक्, तथेहापि। `द्विनैष्किकम्` इति। `परिमाणान्तस्यासंज्ञान्नाणयोः` [[7.3.17]] इत्युत्तरपदवृद्धिर्भवति॥", "43155": "", "43156": "उमाशब्दस्तृणधान्यमित्याह (फि।सू।2।27) नाद्युदात्तः, ऊर्णाशब्दोऽपि प्रातिपदिकस्वरेणान्तोदात्तः, ताभ्यां यथासंख्यमणञोः प्राप्तयोर्विभाषा वुञारभ्यते॥", "43157": "`पुंसस्त्वञेद भवति` इति। यदिह पुंसो ढञ् स्यात् पुंल्लिङ्गेनैव निर्देशं कुर्यादिति। पुंल्लिङ्ग न हि निर्देशे प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येणीशब्दादपि प्रत्ययो लभ्यत एव। तस्मात् स्त्रीलिङ्गनिर्देशादेव पुंसोऽञ् भवति, न ढञ्॥", "43158": "`मयड्विषये तु विधीयते` इति। अजादिप्रसङ्ग इति वचनात्। मयटोऽनजादित्वात् तद्विषये न प्राप्नोतीत्यतस्तत्र गोशब्दाद्विधीयते। पयःशब्दस्तु पिबतेरित्यसुन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः, तस्मात् प्राग्दीव्यतोऽण्` [[4.1.83]] इत्यण् प्राप्नोति। अतस्तदपवादोऽयं यद्विधीयते॥", "43159": "", "43160": "", "43161": "", "43162": "", "43163": "`अञस्तु भवत्येव` इति। तस्य लुकि सति विधानमनर्थकं भवति; अश्रूयमाणत्वात्। `जम्बूनि` इति। लुकि कृतेऽभिधेयलिङ्गं नपुंसकं भवति। `ह्रस्वो नुपंसके प्रातिपदिकस्य` [[1.2.47]] इति, `जश्शसोः शिः` (7।120),नुम्, <<नोपधायाः>> [[6.4.7]] इति दीर्घः॥", "43164": "कः पुनर्लुपि सति विशेषो यतो लुकि प्रकृते स विधीयते? इत्याह - `युक्तवद्भावो विशेषः` इति। लुपि सति युक्तवद्भावो भवति <<लुपि युक्तवद्व्यक्तिवचने>> [[1.2.51]] इति, लुपि सत्येव विशेष इति। `जम्बूः फलम्` इति। अत्र युक्तवद्भावेन प्रकृतिगतमेव लिङ्गं भवति, तेन नपुंसकलिङ्गं न प्रवर्तते।`लुप्प्रकरणे` इत्यादि। फलपाकेन शुष्यन्तीति फलपाकशुषः। `अन्येभ्योऽपि दृश्यते` (3।3130) इति क्विप्। `व्रीहयः, मुद्गाः` इति। बिल्वादिभ्योऽणो [[4.3.134]] लुप्। `यवाः, माषाः`इति। अत औत्सर्गिकस्याणः। एते `तृणधान्यानाम्` (फि।सू।2।27) इत्यादिनाद्युदात्ताः।`पुष्पमूलेषु बहुलम्` इति। पुष्पमूलेषु चाभिधेयेषु बहुलं लुब्भवति। मल्लिका,वनमल्लिका, जातिः, विदारी, अंशुमती, बृहती -अत्रानुदात्तादिलक्षणस्याञो लुप्। मल्लिकानवमल्लिकाशब्दौ `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फि।सू।2।42) इति मध्योदात्तौ। जातिशब्दश्च `क्विच्क्तौ च संज्ञायाम्` [[3.3.174]] इति क्तिच्प्रत्ययान्तत्वादन्तोदात्तः। बदरीबृहतीशब्दावपि गौरादिङीषन्तत्वादन्तोदात्तावेव। अंशुमतीशब्दः <<उगितश्च>> [[6.3.45]] इति ङीबन्तः। अंशुशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वान्मध्योदात्तः। `पाटलानि` इति। बिल्वादित्वादण्। `शाल्वानि मूलानि` इति। शाल्वानीत्यनुदात्तादिलक्षमोऽढ। शाल्वशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। शाल्व इति =शाक इति यस्य प्रसिद्धिः। `क्वचिदन्यदपि` इति। लुपोऽन्यत्रापि क्वचित् कार्यं भवति। तत्पुर्लुक्लुपोरभावश्च। `कदम्बकम्` इत्यादावनुदात्तलक्षणस्याञो लुक्। कदम्बादयः शब्दा `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्ताः। `बल्वानि` इति। अत्रोभयाभावः। <<बिल्वादिभ्योऽण्>> [[4.3.136]] । एतत्तु सर्व हरीतक्यादिपाठादेव सिद्धमिति नापूर्व वक्तव्यम्। यतो हरीतक्यादिषु `येषाञ्च फलपाक निमित्तः शोषः; पुष्पमूलेष#उ बहुलम्` [[4.3.165]] इति पठन्ते॥", "43165": "हरीतक्यादिषु कण्टकारिका,गर्गारिका, शेफालिका - इत्येते <<संज्ञायां कन्>> [[5.3.87]] इति कन्नन्तत्वान्नित्स्वरेणाद्युदात्ताः। तेनैव तेभ्य औत्सर्गिकस्याणो लुप्। शेषेभ्यस्त्वनुदात्तादिलक्षणस्याञः, सर्वे तेऽन्तोदात्तत्वादनुदात्तादयः। तत्र काला, द्राक्षा, ध्राक्षा - इत्येतेभ्यः प्राग्ये पठन्ते ते ङीषन्तत्वादन्तोदात्ताः तत्र ओतपाकी, अर्जुनपाकी - इत्येतौ `पाककर्णपर्ण` [[4.1.64]] इत्यादिना ङीषन्तौ। शेषेभ्यस्तु गौरादित्वात् `गौरादिभ्यश्च` [[4.1.41]] । कालाद्राक्षाध्राक्षाशब्देभ्यः प्रातिपदिकस्वरेणान्तोदात्तेभ्यष्टाप्, सवर्णदीर्घत्वम्, <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इत्युदात्तत्वम्। अतः कालादयोऽप्यन्तोदात्ताः॥", "43166": "`कंसीयः`इति। उणादौ कंसशब्दः सप्रत्ययान्तो व्युत्पादितः। पशुशब्दोऽपि `पृथिविव्या {धृषिह्मषभ्यः -द।उ।} धृषिभ्यः कुःरक` (द।उ।1।108) इत्यनुवर्तमाने `आङ्परयोः खनिशृभ्यां {डिच्च -द।उ।, तिच्चेति प्रांउंयासपाठः} णिच्च` (द।उ।1।118) इति कुप्रत्ययान्तः। तदनयोरपि धातुप्रत्यययोर्लुक्कस्मान्न भवति? इत्याह - `प्रातिपदिकाधिकारात्` इत्यादि। प्रातिपदिकादिति वर्तते, तेन प्रातिपदिकेभ्यो यो विहितस्तस्य लुग्भवति। ने चेमौ प्रातिपदिकाद्विहितौ, किं तर्हि? धातोः, अतोऽनयोर्लुग्न प्रवर्तते। `अनुदात्तत्वादेव` इति। परशव्यशब्दो हि <<तित्स्वरितम्>> [[6.1.185]] इत्यन्तस्वरितः। `तेनानुदात्तादिः` इति। `ईतीति तत्र वर्तते` इति। `यस्यते च` [[6.4.148]] इत्यतः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांचतुर्थाध्याये तृतीयः पादः", "43167": "हरीतक्यादिषु कण्टकारिका,गर्गारिका, शेफालिका - इत्येते <<संज्ञायां कन्>> [[5.3.87]] इति कन्नन्तत्वान्नित्स्वरेणाद्युदात्ताः। तेनैव तेभ्य औत्सर्गिकस्याणो लुप्। शेषेभ्यस्त्वनुदात्तादिलक्षणस्याञः, सर्वे तेऽन्तोदात्तत्वादनुदात्तादयः। तत्र काला, द्राक्षा, ध्राक्षा - इत्येतेभ्यः प्राग्ये पठन्ते ते ङीषन्तत्वादन्तोदात्ताः तत्र ओतपाकी, अर्जुनपाकी - इत्येतौ `पाककर्णपर्ण` [[4.1.64]] इत्यादिना ङीषन्तौ। शेषेभ्यस्तु गौरादित्वात् `गौरादिभ्यश्च` [[4.1.41]] । कालाद्राक्षाध्राक्षाशब्देभ्यः प्रातिपदिकस्वरेणान्तोदात्तेभ्यष्टाप्, सवर्णदीर्घत्वम्, <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इत्युदात्तत्वम्। अतः कालादयोऽप्यन्तोदात्ताः॥", "43168": "`कंसीयः`इति। उणादौ कंसशब्दः सप्रत्ययान्तो व्युत्पादितः। पशुशब्दोऽपि `पृथिविव्या {धृषिह्मषभ्यः -द।उ।} धृषिभ्यः कुःरक` (द।उ।1।108) इत्यनुवर्तमाने `आङ्परयोः खनिशृभ्यां {डिच्च -द।उ।, तिच्चेति प्रांउंयासपाठः} णिच्च` (द।उ।1।118) इति कुप्रत्ययान्तः। तदनयोरपि धातुप्रत्यययोर्लुक्कस्मान्न भवति? इत्याह - `प्रातिपदिकाधिकारात्` इत्यादि। प्रातिपदिकादिति वर्तते, तेन प्रातिपदिकेभ्यो यो विहितस्तस्य लुग्भवति। ने चेमौ प्रातिपदिकाद्विहितौ, किं तर्हि? धातोः, अतोऽनयोर्लुग्न प्रवर्तते। `अनुदात्तत्वादेव` इति। परशव्यशब्दो हि <<तित्स्वरितम्>> [[6.1.185]] इत्यन्तस्वरितः। `तेनानुदात्तादिः` इति। `ईतीति तत्र वर्तते` इति। `यस्यते च` [[6.4.148]] इत्यतः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांचतुर्थाध्याये तृतीयः पादः", "44001": "अथ प्राग्ग्रहणं किमर्थम्? अर्थविशेषे प्रत्ययान्तरेणापवादेन निवर्तितस्य ठक उत्तरस्मिन् ग्रन्थान्तरे पुनरुपस्थानं यथा स्यादित्यवेमर्थम्। तद्यथा - <<संस्कृतम्>> [[4.4.3]] इत्येतस्मिन्नर्थविशेषे `कुलत्थकोपधात्` [[4.4.4]] इत्यणा निवर्त्तितस्योत्तरत्रार्थान्तरे `तरति` [[4.4.5]] इत्येतस्मिन्नर्थे पुनरुपस्थानं यथा स्यादिति।`ठक्प्रकरणे` इत्यादि। तदिति कर्माभिधायिभ्य आहेत्येतस्मिन्नर्थे माशब्दादिभ्यष्ठक उपसंख्यानन्। `वाक्यादेतत् प्रत्ययविधानम्` इति। स एव हि वाक्यार्थ इति नावमृष्टः कर्मबावमुपगतः। तदाहेति निर्दिश्यते -तदभिदायिन एव वाक्यात् प्रत्यय इति। पदसमुदायो हि वाक्यमिति। `मा` इत्येतस्य च `शब्द` इत्येतस्य च पदस्य यः पदस्य यः समुदायस्तद्वाक्यम्। एवमन्यत्रापि वेदितव्यम्।कथं पुनः प्रातिपदिकाधिकारे वाक्यात्प्रत्ययविधिः? इत्यत आह - `प्रभूतादिभ्यः` इति। पुनर्वचनात्। यदि ह्रनेनापि प्रातिपदिकादेव प्रत्ययविधिः स्यादेवं सति `{आहेति प्रभूतादिभ्यः - प्रांउ।पाठः} आहौ प्रभूतादिभ्यः` (वा।483) इति पुनरुपसंख्यानमनर्थकं स्यात्; अनेनैव सिद्धत्वात्। प्रभूतादयोऽपि हि माशब्दादयो भविष्यन्ति, ते च कर्माभिधायिन एव प्रत्ययमुत्पादयन्ति; क्रियाविशेषणाभिधायित्वात्। क्रियाविशेषणानां हि कर्मत्वं `तत्प्रत्यनुपूर्वमीपलोमकूलम्` [[4.4.28]] इत्यत्र प्रतिपादयिष्यते - प्रत्ययार्थोऽप्यहेति। स एव तस्मादाहेति प्रभूतादिभ्य इतिपुनर्वचनाद्वाक्यादेव प्रत्यविधानं विज्ञायते। `क्रियाविशेषणात्` इति। प्रभूतादिशब्दः क्रियाविशेषणाभिधायित्वादभिधानेऽभिधेयोपचारं कृत्वा क्रियाविशेषमशब्देनोक्तः॥", "44002": "`तेन` इति प्रत्येकमभिसम्बध्यते। `सर्वत्र करणे तृतीया` इति। दीव्यतीत्यादौ कर्तरि लकार इति तेनैव कर्त्तुरभिहितत्वात् कर्तरि तृतीया नोपपद्यते। तस्मात् करण एव तृतीया। अथ हेतौ तृतीया कस्मान्न भवति? अनभिधानात्। जितमित्यत्र कर्मणि निष्ठाविधानाद्यद्यपि कर्तर्यपि तृतीया सम्भवति, तथापि दीव्यतीत्यादिभिः साहचर्यात् करण एव तृतीया विज्ञायते। देवदत्तेन जितमित्यत्र कर्तरि तृतीया; तेन वाक्यमेव भवति; न प्रत्ययः।इह सूत्रे दीव्यतीत्यादिनैकवचनान्तेनैकसंख्यस्य प्रत्ययार्थस्य वर्तमानेन च कालेन निर्देशः। ततश्चैकस्मिन्नेव प्रत्ययार्थे प्रत्यय स्यात्, न द्विबह्वोः। तथा वर्तमान एव काले, न भूतभविष्यतोरिति यश्चोदयेत्, तं इत्याह - `प्रत्ययार्थे संख्याकालयोरविवक्षा` इति। अविवक्षातु तयोर्नान्तरीयकत्वात्। अवश्यं हि यया कयाचित् संख्यया येन केनचित् कालेन निर्देशः कर्तव्य इति। न तौ प्रधानम्, न च तयोर्विवक्षेति। यदि तर्हि संख्याकालयोरविवक्षेति साधनस्याप्यविवक्षा प्राप्नोति, एकप्रकरणत्वात्? नैष दोषः; यस्य हि विवक्षामन्तरेम द्वितीयस्य पदस्योच्चारणमनर्थकं भवति तन्नियोगतो विवक्षितव्यम्। दीव्यतीत्यादिष्वन्वर्थमात्रे विवक्ष्यमाणे द्वितीयस्य पदस्योच्चारणमनर्थकमापद्येतेति न युक्ता साधनस्याप्यविवक्षा।इह दीव्यतीत्येवमादौ `क्रियाप्रधानमाख्यातम्` इति क्रियैव पदेन प्राधान्येनाख्यायते, कर्ता तु गुणीभूतः, तद्धितस्तु -आक्षिक इति प्राधान्येन कर्तारमेवात्र वक्ति, क्रिया तु गुणभावेन, एतच्चायुक्तम्; आख्यातेषूत्पन्नैः प्रत्ययैर्यथाऽसौ तिङन्तेनाभिधीयते, तथैव प्रत्ययान्तेनापि युक्तोऽभिधातुमिति यश्चोदयेत्, इत्याह - `क्रियाप्रधानत्वेऽपि च` इत्यादि। अभिधानस्वभावश्चायम्, येन क्रियाप्राधान्यस्याप्यनुविधीयमानस्तद्धितः कर्त्तुप्रधानो भवति। तस्मात् कर्त्तृत्वभावोऽत्रापेक्षितव्यः। न हि स्वभावोऽपि न हि स्वाभावोऽपि पर्यनुयोगमर्हति॥", "44003": "योगविभाग उत्तरार्थः - <<कुलत्थकोपधादण्>> [[4.4.4]] इत्ययमपवादः संस्कृत एव यथा स्यात्, `दीव्यति` इत्यादौ मा भूदित्येवमर्थो योगविभागः॥", "44004": "", "44005": "", "44006": "`स्वरे विशेषः`इति। ठकि हि सति तद्धितस्य `कितःर` [[6.1.159]] इत्यन्तोदात्तत्वं स्यात्। ठञि सति ञित्सरेणाद्युदात्तत्वं भवति॥", "44007": "इह प्रकरणे केषुचित् संहितिकः षकारो दृष्टः, केषुचित्प्रत्ययस्यैवानुबन्धः;तदिह ठगधिकारे न ज्ञायते - कः सांहितिकः? कः प्रत्ययानुबन्धः? इति। अतोऽसन्देहार्थं परिगणनं कृतम्। तच्च `आकर्षात्पर्पादिभ्यः` इत्यादिना श्लोकेन करोति। <<आकर्षात् ष्ठल्>> [[4.4.9]] , `पर्गादिभ्यष्ठन्` [[4.4.10]] , `भस्त्रादिभ्यष्ठन्` [[4.4.16]] , `कसुसीददशैकदशात् ष्ठन्ष्ठचौ` [[4.4.31]] , <<आवसथात् ष्ठल्>> [[4.4.74]] , <<किशरादिभ्यः ष्ठन्>> [[4.4.53]] इति वितः षडेते। ननु च <<अन्यतो ङीष्>> [[4.1.40]] इत्यादयोऽन्येभ्योऽपि वितः सन्त्येव। तत्किमुच्यते षडेते? इत्यत आह - `ठगधिकारे` इत्यादि। ठकः प्रकृतत्वात् तदधिकारे ये षितः त एव परिगृह्रन्त इति दर्शयति।नन्वेवमपि सति सप्त भवन्ति, कुसादादि [[4.4.31]] सूत्रे षित्प्रत्ययद्वयविधानात्? इत्यत्राह - `विधिवाक्यापेक्षं तु षट्त्वम्` इति। षितः प्रत्ययानां सप्तत्वात्। एतेनैव योगाः षितः प्रयुक्ताः। षित्प्रत्ययार्थाः षडेते योगा इत्यर्थः॥", "44008": "", "44009": "`लकारः स्वरार्थः` इति। लिति प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। `षकारो ङीषर्थः` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष् यथा स्यात्। `आकर्षिकी` इति। `स्वर्णपरीक्षार्थो निकषोपल उच्यते` इति। आकृष्यते स्वर्णमिति कृत्वा।", "44010": "पर्पादिषु `पादः पच्च` इति पठते, तस्याययमर्थः - पादशब्दात् ष्ठन् प्रत्ययो भवति तत्सन्नयोगेन चपदित्ययमादेशः पदिकः, पदिकी। यद्येवं <<पद् यत्यतदर्थे>> [[6.3.53]] इति `पद्भाव इके चरतावुपसंख्यानम्` (वा।740) इतिकस्मादुपसंख्यायते? नैष दोषः; <<पादः पत्>> [[6.4.130]] इत्यस्यापौराणिकत्वात्॥", "44011": "`ष्वागणिकः`इति। शुनां गणः आगणः। ननु च आञ्शब्दो द्वारादिषु पठत इति `द्वारादीनाञ्च` [[7.3.4]] इति वृद्धिप्रतिषेधेनैवागमेन भवितव्यम्, तत्र तदादिविधेरिष्टत्वात्, तत्कथं आआगणिक इति भवति? इत्याह - `आआदेरिञिट इत्यादि। द्वारादिकार्ये च प्रतिषिद्धे सत्यादिवृद्धिरेव भवति॥", "44012": "", "44013": "`क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्` इति। इह तन्त्रेण क्रयविक्रयशब्दावुच्चारितौ;तत्रैकस्य सङ्घातार्थं ग्रहणम्, अपरस्य तु विगृहीतार्थं वेदितव्यम्॥", "44014": "", "44015": "", "44016": "भस्त्रादिषु `शीर्षेभार` इति पठते। तत्रास्मादेव निपातनाच्छिरसः शीर्षभावः, `सप्तमी` [[2.1.39]] इति योगविभागात्समासः, <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति पक्षे सप्तम्या अलुक्॥", "44017": "`पर्याहारे` इति। परितः स ह्यियत इति पर्याहारः, मण्डलादिकमुच्यते॥", "44018": "", "44019": "", "44020": "`डिवतः क्त्रिरित्ययं त्रिशब्दो गृह्रते` इति। संख्याशब्दः कस्मान्न गृह्रते??नभिधानात्। न हि त्रिरित्युच्यते विवक्षितार्थस्य प्रतीतिर्भवति। `उप्त्रिमम्` इति। <<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम्।`नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्` इति। केवलस्य त्रिप्रत्ययान्तस्य मप्प्रत्ययरहितस्य प्रयोगः स्वातन्त्र्यम्, तन्निवृत्त्यर्थं नित्यग्रहणम्। स्वातन्त्रनिवृत्त्यर्थे नित्यग्रहणे सति योऽर्थः सम्पद्यते तं `{त्र्यन्तः - मु।पाठः} त्र्यन्तम्` इत्यादिना दर्शयति। `विषयान्तरे` इत्यादिना यदेवकारस्य व्यवच्छेद्यं तदाचष्टे। मप्प्रत्ययविषयार्थादन्यविषये यत्र प्रत्ययो न भवति तद्वि यान्तरम्। नित्यग्रहणं तन्निवृत्तिर्यथा स्यादित्येवमर्थं वेदितव्यम्॥", "44021": "`अपमित्य` इति। <<उदीचां माङो व्यतीहारे>> [[3.4.19]] इति क्त्वा, तस्य ल्यबादेशे कृते,अपमित्येति भवति। तस्य च <<क्त्वातोसुन्कसुनः>> [[1.1.40]] इत्यव्ययसंज्ञा। तेन तृतीयासमर्थविभक्त्याधिकारेऽप्यविभक्तिकादेवास्मात् प्रत्ययविधिः॥ननु च <<संस्कृतम्>> [[4.4.3]] इत्येव संसृष्टे प्रत्यययो भविष्यति, यत् पुनर्येन संसृष्टं तत्तेन संस्कृतं भवति? नैतत्; सतो ह्रुत्कर्षाधानं संस्कारः,एकभावः संसर्गः। न च तत्रोत्कर्षेण भवितव्यम्, स्वशुचिद्रव्यसंसर्गे स्वप्रकर्ष एव भवति, नोत्कर्षः। संसर्गमात्रे प्रत्यय इष्यते; तस्मात् संसृष्ट इति वक्तव्यमेव; एतदेव क्रियताम्; किं <<संस्कृतम्>> [[4.4.3]] इत्यनेन? असत्यपि संसर्गे यत्र संस्कृतमस्ति तत्रापि प्रत्यय इष्यते - वैद्यिकः, न विद्यया संसर्ग उपपद्यते; संसर्गो द्रव्ययोरेव भवति, यथा -दण्डपुरुषयोः। मूर्तिमतस्तद्धर्मत्वात्, रन तु विद्या मूर्त्तिमती। कुलत्थकोलधादणो [[4.4.4]] विधानार्थं संस्कृतग्रहणं कर्तव्यम्। न हि संसृष्टमात्रे प्रत्यय इष्यते; किन्तु तत्कृतगुणाधाने॥", "44022": "", "44023": "ननु च चूर्णेन ये संसृष्टास्तेषां चूर्णमस्ति, तत्र मत्वर्थीयेनैवेनिना सिद्धमिति तदपार्थकमिदम्? नैतत् ; अस्तिविवक्षायां मत्वर्थीयेन सिद्धं स्यात्, संसृष्टविवक्षायां पुनर्न सिध्यति, त हि ठक् स्यात्। ठको बाधनार्थत्वे कुतोऽस्यानर्थक्यम्॥", "44024": "`द्रव्यवाची` इत्यादि। लवणशब्दोऽयमस्त्येव गुणवचनो यो रसविशेषे वर्तते, रसस्य गुणत्वात्। अस्ति द्रव्यवचनः, यथा -पञ्च लवणानीति। तत्र यो गुणवचनः स लुकं न प्रयोजनयति। गुणैर्हि यद्यपि द्रव्यं न संसृज्यते, तथापि गुणशब्दाः `सोऽयम्` इत्यभेदेन सम्बन्धाद्द्रव्ये वर्तन्ते, यथा - शुक्लः पटः, {क्षारम् - मुद्रितः पाठः} क्षौरम्, अम्लं दधीति; तथा लवणशब्दोऽपि वर्तिष्यते, ततः किं लुका? अवश्यं तदेवं विज्ञायम्, अन्यथा हि मधुरादिभ्योऽपि लुग्वक्तव्यः स्यात्। द्रव्यशब्दास्त्वन्यत्र सोऽयमित्यभेदसमर्थनान्न वर्तन्ते। तस्माद्द्रव्यवाची लवणशब्दो लुकं प्रयोजयति॥", "44025": "", "44026": "`व्यञ्जनैःर` इति। बहुवचननिर्देशः स्वरूपविधिनिरासार्थः। तेनेत्यधिकारादेव तृतीयायां समर्थविभक्तौ वर्तमानायां तृतीयानुवादः सुखप्रतिपत्तये। <<संसृष्टे>> [[4.4.22]] इति वर्तमान उपसिक्तस्यैतत् प्रयोजनम् - ओदनादौ यथा स्यात्। इह मा भूत् - सूपेन संसृष्टा स्थालीति। उदकेनोदसिक्त ओदन इति। उदकं व्यञ्जनं न भवति; व्यञ्जनशब्दस्य सूपादावेव रूढत्वात्। ननु यद्व्यञ्जनैरुपसिक्तं तत्तैः संस्कृतं भवति; तत्र संस्कृतमेव सिद्धम्? न सिध्यति; सतो ह्रुत्कर्षावानं संस्कारः, न चासौ सर्वत्रोपसिक्तः सम्भवति। तथा हि - व्यपगते स्वादुरसै प्रतिभावापन्नैरुपसिक्तेष्वोदनादिष्वपकर्ष एव भवति, नोत्कर्षः। उपसिक्तमात्रेऽपि चेष्यते। तस्मात् प्राक् तस्य पृथगारम्भः॥", "44027": "`वर्तते` इति। चेष्टत इत्यर्थः। `तत्प्रक्रियाविशेषणम्` इत्यादि। अनेन हि वृत्त्यर्थस्य कर्तव्यतामाचष्ट। वर्तत इति वर्तमानं करोत्यर्थः। स हि वृत्त्यर्थः कर्तव्यतया सम्बध्यमानः कर्म सम्पद्यते। तत्सामानादिकरण्याच्च तद्विशेषणमपि कर्तव्यतया युज्यते। तदपि कर्म च प्रसक्तम्। क्रियाविशेषणस्यैवाकर्मकेऽपि धातौ कर्मत्वमाख्यातम्। तदित्यनेन द्वितीयासमर्थविभक्तौ लब्धायामपि द्वितीयान्ता इह प्रकृतयो निर्दिष्टा विस्पष्टार्थम्; अन्यथा प्रत्ययविधौ पञ्चमी न्याय्येति तदन्ता एव निर्दिश्येरन्॥", "44028": "`प्रातीपिकः` इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। `ऋक्पूरब्धूःपथामानक्षे` [[5.4.74]] इत्यकारः समासान्तः। एवञ्च <<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> [[6.3.97]] इतीत्त्वम्। अपरत्र तु <<ऊदनोर्देशे>> [[6.3.98]] इति देशादन्यत्रोत्त्वमेव, ततष्ठक्। `{प्रातिलोमिकः, आनलोमिकः -काशिका,पदमञ्जरी च।} प्रातिलोमिकम्, आनुलोमिकम्` इति। प्रतिगतानि लोमान्यस्य , अनुगतानि लोमान्यस्येति बहुव्रीहिः। `अच् प्रत्यनु` [[5.4.75]] इत्यादिनाऽच् समासान्तः॥", "44029": "`पञ्चम्ययाङ्परिभिः` [[2.3.10]] इति पञ्चमी। <<अपपरिबहिरञ्चवः पञ्चम्या>> [[2.1.12]] इत्यव्ययीभावसमासः, ततष्ठक्। स्वाभिमुखं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः। सर्वतोभावे वा परिः, तस्य <<कुगतिप्रादयः>> [[2.2.18]] इति प्रादिसमासः। यतो यतः स्वामिनो मुखं वर्तते ततस्ततो यः सेवको वर्तते स पारिमुखिकः॥", "44030": "`द्विगुणम्` इति। तादथ्र्यात् ताच्छब्द्यं दर्शयति। आद्विगुणार्थे वस्तुनि द्विगुणशब्दं वर्तयित्वा तत्र प्रत्ययं कुर्वतः कोऽभिप्रायः? एवं मन्यते - द्वैगुणिक इति उत्तमर्ण उच्यते, न चासौ द्विगुणं प्रयच्छति, किं तर्हि? स्कन्दयित्वा द्विगुणं गृह्णाति; अन्यथा हि विपर्यये सति प्रसस्यमेव स्यात्, न तु गह्र्रम्। यदैकस्मिन्नर्थे तादथ्र्याद्द्विगुणशब्दो वर्तते तदैकमेव द्विगुणार्थं प्रयच्छतो द्विगुणमेव भवतीति गह्र्रमिति। गर्हा पुनरिह प्रतिषिद्धस्य शास्त्रेण दीयमानस्य प्रत्यवायहेतुत्वाद्वेतितव्या। `प्रकृत्यन्तरम्` इत्यापिनोपसंख्यानं प्रत्याचष्टे`। तत्रापि तादथ्र्याद्वृद्ध्यर्थं यद्दीयते तद्वृधुधिशब्देनोच्यते। ननु च तत्प्रत्याख्याने वृद्धिशब्दात् प्रत्यये सति वार्धिक इत्यपि स्यात्? नैष दोषः; अव्यविकन्यायेन हि वृद्धिशब्देन वाक्यमेव भवति। वृधुषिशब्देन वाक्यं वृत्तिश्च॥", "44031": "तत्रापि कुसीदार्थे वस्तुनि दशैकादशार्थेषु च दशसु दशैकादशशब्दं वर्तयित्वा ततः प्रत्ययः। सर्वतः पूर्ववदभिप्रायो वेदितव्यः। दश चैकादश चेति समानाधिकरणसमासः। ननु च भिन्नविषययोः सामानाधिकरण्यं नोपपद्यते? दशैकादशशभ्दोऽप्येकादशार्थेषु दशस्वेवोपचराद्वर्तत इत्यदोषः। यो दश प्रयच्छत्येकादश एव स्युरिति स दशैकादश इत्युच्यते। दशैकादशादिति निर्देशादकारान्तत्वं निपात्यते; किमर्थम्? वाक्येऽप्यकारान्तत्वश्रवणार्थ दशैकादशान् प्रयच्छतीति॥", "44032": "`उञ्छति` इति। उद्धुनोतीत्यर्थः॥", "44033": "", "44034": "तदित्यनेनैव द्वितीयासमर्थविभक्तौ लब्धायां शब्ददर्दुरमिति द्वितीयानिर्देशो लौकिकवाक्यप्रदर्शनार्थः। शब्ददर्दुरं करोतीत्येद्व्यावहारिकं वाक्यम्। अस्य प्रतिग्रहो यत्र लोके व्यवहारस्तत्र प्रत्ययो भवति नान्यत्रेत्यर्थ सूचयते, तेन शब्दं करोति रवर इत्यत्र न भवति। लोके स शाब्दिक इत्युच्यते यः शब्दं वेत्ति; वैयाकरण एव शब्दं वेत्ति, तेन तत्रैव प्रत्ययो भवति, न खरे। च असौ वैयाकरणः प्रत्ययप्रकृत्यादिना सर्वं शब्दं जानाति॥", "44035": "`स्वरूपस्य पर्यायाणाञ्च तद्विशेषणानाञ्च ग्रहमिष्यते` इति। कथं पुनरिष्यमाणमपि पर्यायादीनां ग्रहणं लभ्यते? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्देशे स्वरूपस्य ग्रहणं भवति, नार्थप्रधान इति प्रतिपादितमेतत् प्राक्। यदि तर्हि पर्यायाणामपि ग्रहणम्, अजिहृआन् हन्त्यनिमिषान् हन्तीत्यत्रापि प्राप्नोति? नैष दोषः इह द्वितीयासमर्थविभक्तौ लब्धायां पुनर्दितीयासमर्थविभक्तिनिर्देशो लौकिकवाक्यप्रदर्शनार्थः। असय् परिग्रहः - यत्र लौकिकवाक्यव्यवहारस्तत्र प्रत्ययो भवति नान्यत्रेत्यस्यार्थस्य सूचनार्थम्, तेनाजिहृआन् हन्तीत्यादौ प्रत्ययो न भवति। अजिहृआन् हन्त्यनिमिषान् हन्तीत्यस्यार्थस्य विवक्षायामाजिहिऋकः, आनिमिषिक इति लोके न व्यवहारोऽस्ति। तत्र पक्षिषु `पाक्षिकःर` इतचि स्वरूपस्योदाहरणम्। `शाकुनिकः` इति पर्यायस्य। `मायूरिकः, तैत्तिरिकः` इति। विशेषस्य। मत्स्येषु `मात्स्यिकःर` इति स्वरूपस्य। `मैनिकःर` इति पर्यायस्य। `शाफरिकःर, शाकुलिकः`इति विशेषस्य। मृगेषु `मार्गिकः` इति स्वरूपस्य। `हारिणिकःर` इति पर्यायस्य। `सौकरिकः, सारङ्गिकः` इति विशेषस्य॥", "44036": "यथा परिमुखञ्चेति परिमुखशब्दस्याव्ययीभावत्वं तत्पुरुषत्वञ्च, तथेहापि परिपन्थशब्दस्य तद्द्वयं वेदितव्यम्। `तदिति द्वितीयासमर्थात्` इति। ननु च तिष्ठतिरयमकर्मकः तत्कथं द्वितीयया सह सम्बन्धः? नैष दोषः; अकर्मणामपि हि {कालभावाध्वनां मुद्रितपाठः} कालभावाध्नः कर्मसंज्ञां प्रतिपद्यन्ते। तथा चोक्तम् - `कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम्` (वा।1.3.51) इति। `पारिपन्थिकश्चौरः` इत्यव्ययीभावः। चौरो यः पन्थानं वर्णयित्वा तिष्ठति स पारिपन्थिकशब्देनोच्यते। तत्पुरुषपक्षे तु यश्चौरः पथो व्याप्य तिष्ठति स परिपन्थिक उच्यते।`चकारः` इत्यादि। तिष्ठति चेत्यत्र प्रत्ययार्थसमनन्तरमेव चकारो द्रष्टव्यः, तेन समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति। अथ प्रकृतेरेव समुच्चयः कस्मान्न विज्ञायते? कर्मत्वानुपपत्तेः। तत्र हि द्वितीया समर्थविभक्तिरनुवर्तते, तिष्ठतेश्चाकर्मकत्वात् प्रकृताया मत्स्यादेः प्कृतेः कर्मभावो नोपपद्यते। कालभावाध्वनामेव ह्रकर्मकाणां कर्मसंज्ञेष्यते, न मत्स्यादीनाम्।लौकिकवाक्यप्रदर्शनार्थं तदेतद्द्वितीयोच्चारणं करोतीत्याह - `{परिपथशब्दपर्यायः - काशिका}परिपथपर्यायः` इति। किमेतस्य ज्ञापने प्रयोजनमित्याह - `स विषयान्तरे` इत्यादि। असति ह्रस्मिन् ज्ञापने ठक्प्रत्ययसन्नियोगेन प्रकृतिर्निर्दिश्यमाना प्रत्ययाभावेन प्रसज्यते। ज्ञापने तु सति यत्रापि प्रत्ययो न भवति तत्रापि प्रयोग उपपद्यते॥", "44037": "दण्डभावो माथो दण्डमाथः = ऋजुः पन्था उच्यते, तं धावति `दाण्डमाथिकः`। शुल्कस्य माथः शुल्कमाथः, `शौल्कमथिकः`। पदस्य पश्चादनुपदम्, पश्चादर्थेऽव्यीभावः, अनुपदं धावति - `आनुपदिकः`। प्रत्यासत्या धावतीत्यर्थः। द्वितीयायां समर्थविभक्तौ लब्धायां पुनर्द्वितीयानिर्देशः `इष्टाद्द्वितीयान्ताद्यथा स्यात्, अनिष्टान्मा भूत्` इत्येवमर्थम्। तेन यः <<अनुर्यत्समया>> [[2.1.15]] <<यस्य चायामः>> [[2.1.16]] `कुगतिप्रदायः` [[2.2.18]] इत्यादिभिर्योगैरनुशब्दस्य समासः, ततो न भवति॥", "44038": "`आर्तायनम्` इति। परित्राणार्थमीयते गम्यत इत्ययनम्, आर्तानामयनमार्तायनम्। शरणमित्यर्थः॥", "44039": "पदग्रहणेन स्वरूपमेव गृह्रते, न सुप्तिङन्तं पदम्। अत एवाह - `पदशब्द उत्तरपदं यस्य` इति। एतच्च द्वितीयायां लौकिकरवाक्यप्रदर्शनार्थत्वाद्द्वितीयानिर्देशाल्लभ्यते। पदोत्तरपदं गृह्णातीत्येतल्लौकिकं वाक्यम्। अस्य प्रदर्शनेनैतत् सूचितम् - लौकिकस्य हि पदस्य ग्रहणम्, न पारिभाषिकस्येति।अथ पदान्तादित्येव कस्मान्नोक्तम्? इत्याह - `पदान्तादिति नोक्तम्` इत्यादि। गतार्थम्। पदमेवोत्तरपदं यस्य तस्माद्यथा स्यात्। इह तु श्लोकपादपदं गृह्णातीति भवतीति केचित्॥", "44040": "कण्ठं कण्ठं प्रति प्रतिकण्ठम्, यथार्थेऽव्ययीभावः, आभिमुख्ये वा <<लक्षणेनाभिप्रती आभिमुख्ये>> [[2.1.14]] इति। कण्ठस्याभिमुख्य इति। कण्ठस्याभिमुख्यं प्रतिकण्ठम्, प्रातिकण्ठिकः स उच्यते सर्व कण्ठं यो गृह्णाति, यो वा कण्ठमाभिमुख्येन गृह्णाति। द्वितीयासमर्थप्रकरणे पुनर्द्वितीयान्त प्रकृतिनिर्देश इष्टाद्यथा स्यात्, अनिष्टान्मा भूत्। तेन प्रतिगतः कण्ठमिति <<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषो यः प्रतिकण्ठशब्दस्ततो न भवति॥", "44041": "`चरतिरासेवायाम्` इति। आसेवा = पौनःपुन्यम्।`अधर्माच्च वक्तव्यम्` इति। अधर्मशब्दाच्चरतीत्येतस्मिन्नर्थे ठग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रादिह चकारऽनुवर्तते, स चानुक्तसमुच्चयार्थो वेदितव्यः, तेनाधर्मादपि भविष्यति॥", "44042": "`प्रतिपधिकम्` इति। पूर्ववद्वीप्सायाम्, आभिमुख्ये वाऽव्ययीभावः। पन्थानं पन्थानं प्रति प्रतिपथम्। आभिमुख्ये - पथ आभिमुख्यं प्रतिपथम्। यः सर्वान् पथ एति, आभिमुख्येन वा पन्थानमेति स प्रातिपदिक इति चाभिधीयते॥", "44043": "`समवायः समूह उच्यते, न सम्प्रसारणा` इति। कुत एतत्? तत्र समवैतीत्यस्य प्रत्ययार्थस्यायोगात्। आगत्य तदेकदेशीभवतीति समवैतिशब्दस्यार्थः। सम्प्रधारणा चामूर्तिः, चैतसिको धर्मः, न च तदेकदेशीभवितुं शक्यते। तस्मात् समूह एव समवायशब्दस्यार्थः, नैतीत्यस्यार्थः। एतीति वर्तमाने समवैतीति वचनमर्थविशेषप्रतिपत्त्यर्थम्। एतीति प्राप्तिमात्रं कुर्वन्नुच्यते। समवैतीत्यागत्य तदेकदेशीभवतीति॥", "44044": "", "44045": "", "44046": "`अभिधेयनियमार्थः` इति। अभिधेये सेवकविशेषे च प्रत्ययान्तस्य नियमः। तत्रैव वृत्तिर्यथा स्यादित्येवमर्थम्। `न तु रूढर्थम्` इति। लालाटिककौक्कुटिकशब्दयो रूढआमेकत्वात्।`तदनेन` इत्यादि। यत एव सर्वावयवेब्यो ललाटं दूरे दृश्यते, तस्मादनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुपश्लेषो लभ्यते। न त्वत्र ललाटार्थो दर्शनं चास्ति। यादृशश्चानुपश्लेषो विवक्षितः, तं `कार्येष्वनुपस्थायित्वम्` इत्यनेन दर्शयति।`कुक्कुटीशब्देनापि` इत्यादि। कक्कुटआ ह्रल्पदेशविषयः पातो भवति। तदनेन कुक्कुटीपातदेशस्याल्पता लक्ष्यते। न त्वत्र कुक्कुटर्थो देशश्च विद्यते॥", "44047": "", "44048": "", "44049": "", "44050": "", "44051": "अपूपाः पण्यमस्येत्यापूपिकः।अथ यथा वाक्ये पण्यशब्दो युज्यते तथा वृत्तावपि कस्मान्न युज्यते? इत्याह - `पण्यम्` इति। `विशेषणम्` इत्यादि। अथ य एवमवेक्ष्यमाणः पण्यार्थं वृत्तावन्तर्भावयति तेन गतार्थत्वात् पण्यशब्दो न प्रयुज्यते॥", "44052": "", "44053": "", "44054": "`शलालुकः`इति। `इसुसुक्तान्तात् कः` [[7.3.51]] ॥", "44055": "`शिल्पं कौशलम्` इति। क्रियाभ्यासपूर्वको ज्ञानविशेषः। `मृदङ्गवादनं शिल्पमस्य` इति। मृदङ्गो वाद्यते येन शिल्पेन तन्मृदङ्गवादनम्। ननु च मृदङ्गवादनं शिल्पं यस्येति विगृह्र प्रत्यय उत्पद्यमानो मृदङ्गवादनशब्दादेव प्राप्नोति, न तु मृदङ्गशब्दात्, ततो मार्दङ्गवादनिक इति भवितव्यम्, तत्कथं मार्दङ्गिक इति भवति? इत्याह - `मृदङ्गवादनम्` इत्यादि। मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः। न चायं नियमः - येन विग्रहः क्रियते, तत एव प्रत्ययेन भवितव्यमिति। यथा ह्रवेरिदं मांसमाविकम्, मांसमित्यविशब्देन विग्रहः क्रियतेऽविकशब्दादेव प्रत्ययो भवति, तथेहापि मृदङ्गवादनशब्देन विग्रहः क्रियते, प्रत्ययस्तु मृदङ्शब्दाद्भवति। तेन तत्र गतार्थत्वाच्छिल्पशब्दो न प्रयुज्यत इत्यभिप्रायः॥", "44056": "", "44057": "`धानुष्कः` इति। कादेशः `इणः षः` [[8.3.39]] इति विसर्जनीयस्य षत्वम्॥", "44058": "", "44059": "अथ दीर्घोच्चारणं किमर्थम्, इकगेव नोच्येत, इकक्यपि सवर्णदीर्घत्वे कृते शाक्तीको याष्टीक इति सिध्यत्येव? न सिध्यति; इकारस्य <<यस्येति च>> [[6.4.148]] इति लोपेन भवितव्यम्। तत्कुतः सवर्णदीर्घत्वम्? इकारोच्चारणसामर्थ्यादेव लोपो न भविष्यति। ननु चावग्रहनिवृत्तिरिकारस्य प्रयोजनं स्यात्? नैतत्; यदि ह्रेतत् प्रयोजनं स्यात् सूत्रारम्भोऽनर्थखः स्यात्; ठकाप्यनवग्रहस्य सिद्धत्वात्? नानर्थकः ; वाक्यनिवृत्त्यर्थत्वात्। एवमपि प्रत्ययग्रहणमनर्थकं स्यात्, ठक्प्रत्ययो हि प्रकृतः , तत्रैतावदेन वक्तव्यम् - शक्कतियष्टओरिति। एवं पुनर्विधानां वाक्यनिवृत्त्यर्थं भविष्यति, किमीकग्विधानेन? तस्मादिकग्ग्रहणसामर्थ्याल्लोपो न भविष्यति। एवमपि ठकैव <<यस्येति च>> [[6.4.148]] इति लोपाभावेनानवग्रहे सिद्धे हीकग्ग्रहणमधिकविधानार्थं प्रतीयते। तेन <<यस्येति च>> [[6.4.148]] इति लोपो न भवति। यथा तस्मादकः सवर्णे [[6.1.97]] दीर्घोऽपि न स्यादिति विगृहीतमेव श्रूयेत। तस्मादीकग्वक्तव्यः॥", "44060": "`किं तर्हि परलोकोऽस्तीति {यस्य मतिः - काशिका} मतिर्यस्य` इति। कथं पुनरसति विशेषोपादान एतल्लभ्यते? इत्याह - `तदेतत्` इत्यादि। अभिधानशक्तिस्वाभाव्याल्लभ्यते। ननु चास्तीति तिङन्तम्, नास्तीति वाक्यम्। अत एताभ्यां न प्राप्नोति प्रत्ययः, प्रातिपदिकाधिकारात् (4.1.1।)? इत्यत आह - `अस्तिनास्तिशब्दौ` इत्यादि। अभ्युपगम्यापि तिङन्तत्वं वाक्यत्वञ्च परिहारान्तरमाह - `वचनादाख्याताद्वाक्याच्च प्रत्ययः` इति॥", "44061": "`अपूपभक्षणं शीलमस्य` इति। शीलविषयत्वादुपाचारात् तथा व्यपदेशः। भक्षणक्रिया तद्विषयञ्च शीलं तद्धितवृत्तावन्तर्भवति। तेन तत्र प्रतीयमानत्वाद्भक्षणशीलशब्दौ न प्रयुज्येते इति भावः॥", "44062": "छत्त्रशीलत्वं शिष्यस्य प्रतिपादयितुमाह - `छादनादपवारणाच्छत्त्रम्` इत्यादि। अपवारिणादित्यनेन च्छादनादित्यस्यार्थं व्यक्तीकरोति। आच्छादयति हि यत् तच्छत्रमित्युच्यते , तेन शिष्योऽपि गुरुकार्यतत्परो गुरुर्यानि च्छिद्राणि गोपयति तेषामावरणाय प्रवृत्तस्तत्र युक्तः सच्छत्रसहचरितां क्रियामाचरँश्छत्त्रशीलो भवति।`स्थाशब्दोऽत्र पठते, स चोपसर्गपूर्वो गृह्रते` इति। ततश्च तस्य <<आतश्चोपसर्गे>> [[3.3.106]] इत्यङ्प्रत्ययमुत्पाद्याप्युत्पादितत्वात्। केवलस्य तु पाठः सर्वोपसर्गसंग्रहार्थः।`चुरा` इति, पठते, तत्र निपातनादकारप्रत्ययो गुणाभावश्च॥", "44063": "क्रियया यद्व्याप्यमानमीप्सिततममनीप्सिततमं वा तत् कर्म। इह त्वनीप्सिततमं गम्यते। अत एवाह - `यस्याध्ययनप्रयुक्तस्य` इत्यादि। न हि कस्यचिदध्ययने युक्तस्य परीक्षाकाले पठतः स्खलितपाठरूपमीप्सितं भवति। अध्ययनशब्दो भावसाधनः, कर्मसाधनो वा। अधीतम्, अधीयते, वाऽध्ययनम्। वृत्तं = भूतम्ुत्पन्नमित्यर्थः।`एकमन्यत्ित्यादि। सम्यक् पाठापेक्षयान्योऽर्थो वेदितव्यः। `द्वैयन्यिकः; त्रैयन्यिकः` इति। `न य्वाभ्यां पदान्ताभ्याम्` [[7.3.3]] इत्यैजागमः। `अध्ययने कर्म वृत्तमित्येतत् सर्वं तद्धितवृत्तावन्तर्भवति` इति। तेन तत्राध्ययनवृत्तशब्दोऽवगतार्थत्वान्न प्रयुज्यत इति भावः॥", "44064": "`द्वादशान्यिकः` इति। द्वादशशब्दो बह्वच्पूर्वपदम्। द्वौ च दश चेति द्वन्द्वः। <<द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः>> [[6.3.47]] इत्यात्त्वम्, ततो द्वादशान्यानीति विगृह्र `तद्धितार्थे` 92.1.52) इति समासः। ननु चैकादेशे कृते पूर्वोत्तरपदाभावात् बह्वच्पूर्वपदं न भवति, न चान्तादिवद्भावोऽस्ति - `उभयत आश्रये नान्तादिवत्` (व्या।प।51) नैष दोषः; <<नेन्द्रस्य परस्य>> [[7.3.22]] इति ज्ञापकादेशादेशात् पूर्वं प्रत्ययः। `तत्रोदशान्यिकः` इति। त्रयश्च दश चेति द्वन्द्वः, <<त्रेस्त्रयः>> [[7.1.53]] इति त्रय आदेशः। अन्यशब्दोऽत्र सम्यक् पाठापेक्षयापपाठे वर्तत इत्यत आह - `चतुर्दशापपाठाःर` इत्यादि। कथं पुनज्र्ञायतेऽपाठेऽन्यशब्दो वर्तते? इत्याह - `उदात्ते` इत्यादि। उदात्ते कर्तव्येऽनुदात्तकरणमपपाठः। तत्र य उदात्ते कर्तव्येऽनुदात्तं करोति स यस्मादन्यं करोषीत्युच्यते ततो ज्ञायतेऽन्यशब्दोऽपपाठे वर्तत इति॥", "44065": "ननु हितशब्दयोगे चतुथ्र्या भवितव्यम्, `हितयोगे चतुर्थी भवति` (वा। 123) इत्युपसंख्यानात्, `तस्मैहितम्` [[5.1.5]] इति निर्देशात्? `सामर्थ्याद्विभक्तिविपरिणामो भविष्यति` इति। सामर्थ्य पुनस्तदेवोपसंख्यानम्। लिङ्गञ्च - हितार्था क्रिया तद्धितवृत्तान्तर्भवति, तेन न प्रयुज्यत इति॥", "44066": "ननु च `तदसय् पण्यम्` [[4.4.51]] इत्यतस्तदिति प्रथमा समर्थविभक्तिरनुवर्तिष्यते, तदपार्थकं पुनः प्रथमासमर्थविभक्त्युपादानाम्; `अस्मै` इति प्रत्ययार्थोप्यपार्थक एव। तथा हि `अस्य` [[4.4.51]] इत्यनुवर्तते, तत्र `दीयतौ` इति इत्यभिसम्बन्धात्त्तु सम्परदानत्वेन भवितव्यम्। ततश्च शेषसम्बन्धे निवृत्ते चतुथ्र्यमत्र विपरिणम्यते, तस्मात् `दीयते नियुक्तम्` इत्येतावदेव वक्तव्यम्? अत्रोच्यते - समर्थविभक्त्युपादानं तावत् पूर्वसूत्रे समर्थविभक्तिविशेषः प्रत्ययनुत्पादयतीत्यस्य् सूचनार्थम्। तेनेह न भवति - दुःखमस्याध्यने वृत्तम्, अजयोऽस्याध्ययने वृत्त इति। अपपाठ एव हि वृत्ते प्रत्यय इष्यते। दीयमाने न सर्वस्मात् चतुर्थी - अरेः पृष्ठं ददातीति। स च षष्ठआ एव विषयोऽर्थः। षष्ठर्थं एव प्रत्ययो विज्ञायते, चतुथ्र्यन्ताद्यथा स्यात्। एवं `अस्मै` इति प्रत्ययार्थो निर्दिश्यते॥", "44067": "`अथ ठञेव कस्मान्नोक्तः` इति। एव हि लघु सूत्रं भवतीति भावः। स्यादेतत् - ठञ्टिठनोर्विशेषोऽस्ति, अतष्टिन्नुक्तो न ठञ्? इत्यत आह - `न ह्यत्र` इत्यादि। द्व्योरप्यनयोर्वृद्धत्वान्नास्ति विशेषः। योऽपि `वृद्धिनिमित्तस्य` [[6.3.38]] इत्यादिना ठञि पुंवद्भावप्रतिषेधः, तसय् <<न कोपधायाः>> [[6.3.37]] इति टिठ्न्नप्यभावान्नात्र ठञ्टिठनोः कश्चिद्विशेषोऽस्ति। `मांसौदन` इत्यादिना विशेषं दर्शयति।`केचित्` इति वचनाद्विगृहीतग्रहणं केचिन्नेच्छनतीत्येतदुक्तं भवति। तन्मते ठञेव वक्तव्यः। टिठत्वचनं वैचित्र्यार्थ वेदितव्यम्॥", "44068": "", "44069": "अथ <<तत्र नियुक्तः>> [[4.4.69]] इति वर्तमाने पुनर्नियुक्तग्रहणं कस्मात् क्रियते? अर्थभेदात्। न तस्य ह्रकव्यभिचारलक्षणो नित्यभावोऽर्थः। अस्य तु ततोऽन्य एवार्थो यदाह - `नियुतोऽधिकृतः` इत्यादि॥", "44070": "", "44071": "अध्येतुं शीलमस्येत्यध्यायी, ताच्छीलिको णिनिः। `अध्ययनस्य यौ देशकालौ शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते` इति। अप्रतिषिद्धाभ्यां देशकालशब्दाभ्यामन्यत्वात् पर्युदासवृत्त्याऽभक्ष्यास्पर्शनीयवदध्ययनस्येति। अत आह - तस्याध्यायिना प्रत्ययार्थेन सन्निधापितत्वात्। न हि विनाध्ययनेनाध्याय्युपपद्यते॥", "44072": "अल्पाच्तरस्य प्रस्तारशब्दस्य च पूर्वनिपातमकुर्वन्नेतत् सूचयति - अन्यदपि कार्यं लक्षणप्राप्तं न भवति। तेन कठिनान्तशब्दस्य ग्रहणं न भवतीति कठिनशब्दान्तं प्रातिपदिकं गृह्रते। `{हरतिरयम् - प्रांउ। पाठः} व्यवहरतिरयमस्ति पणिना समानार्थः - यस्य `व्यवह्मपणोः समर्थयोः` [[2.3.57]] इत्यत्र ग्रहणम्, अस्ति विवादे - व्यवहारे परिह्मतमिति, अस्ति च विक्षेपे शलाकां व्यवहरतीति, अस्ति च लौकिके क्रियातत्वे - लौकिको व्यवहार इति। इह तु क्रियातत्त्वे वर्तमानस्य ग्रहणमित्येतद्दर्शयितुमाह -`व्यवहारः क्रियातत्त्वम्` इति। क्रियाया अविपरीतस्वभावत्वादि क्रियातत्त्वम्। `यथा` इत्यादि। लौकिको व्यवहार इत्यत्र यथा व्यवहारः क्रियातत्त्वे वर्तते, तथेहापि दर्शयति। क्रियातत्त्वे वर्तमानस्य ग्रहणम्। `तत्र` [[4.4.69]] इतिसप्तम्यधिकारे सप्तमीनिर्देशात् प्रसिद्ध्युपसंग्रहणं लभ्यते। `वांशकठिनिकश्छक्रचरःर` इति। यश्चक्रचरः सन्ननुष्ठेयां क्रियां शास्त्रोक्तमविगीता वंशकठिनेऽनुतिष्ठति स एवमुच्यते॥", "44073": "निकटे समीप इत्यर्थः। यत्र शास्त्रतो निकटवासस्तत्रायायं विधिः। एतच्च सप्तम्यां समर्थविभक्तौ लब्धायां पुनः सप्तमीनिर्देशात् प्रसिद्ध्युपसंग्रहणेन लभ्यते। स ह्रेवमर्थः कृतः - इष्टे सप्तम्यन्ते यथा स्यात्, अनिष्टान्मा भूत्। स पुनः शास्त्रतो निकटवास आरण्यकस्य भिक्षोरिति दर्शयति - `आरण्यकेन भिक्षुणा` इत्यादि॥", "44074": "", "44075": "", "44076": "तदिति द्वितीयामर्थविभक्तौ लब्धायां रथादीनां द्वितीयानिर्देश इष्टाद्यथा स्यात्, अनिष्टान्मा भूत्। तेनेहव भवति - गौर्युग्य इति; इह न भवति - युगं वहति राजा कलिं द्वापरं वेति। तथा प्रासज्यत इति प्रासङ्गः, यत् काष्ठं वहनकाले वत्सानां कण्ठाअसज्यते तत्प्रासङ्गः, तं वहति प्रासङ्ग्यः। इह न भवति - प्रसङ्गादागतं प्रासङ्गम्। `युग्यञ्च पत्त्रे` [[3.1.121]] इति निपातनाद्युग्यशब्दे सिद्धे युगग्रहणं स्वरार्थम्। न युग्यमयुग्यमित्यत्र नञो गुणप्रतिषेधे <<नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः>> [[6.2.155]] इत्यतो नञ इत्यनुवर्तमाने <<ययतोश्चातदर्थे>> [[6.2.156]] इति नञ उत्तरस्यान्तोदात्तत्वं यथा स्यात्। तेन न ह्रेकस्वरो लभ्यते। तस्य क्यबन्तत्वात्॥", "44077": "अथ `धुरो ठक् च` इत्येवं कस्मान्नोक्तम्, चकारः समुच्चयार्थः, यथाभिहिते प्रत्यये विज्ञायमाने यदेव भविष्यति? नैतदेवम्; यो हि धुरं वहति धुसोऽसौ वोढा भवति।तस्य यथाविहिते प्रत्यये विज्ञायमाने <<तस्येदम्>> [[4.3.120]] इत्यणपि स्यात्। यद्गर्हणात् तस्येदंविवक्षायामपि यदेव भवति॥", "44078": "`सर्वधुरम्` इति। सर्वा चासौ धूश्चेति `पूर्वकालैक` [[2.1.48]] इत्यादिना समासः। `ऋक्पूरब्धूः` [[5.4.74]] इत्यादिना समासान्तः।`स्त्रीलिङ्गे न्याय्ये` इति। तत्पुरुषस्योत्तरपदार्थप्रधानत्वात् `परवलिह्घं द्वन्द्वतत्पुरुषयोः` [[2.4.26]] इति धूःशब्दस्य यल्लिङ्गं तदेव न्याय्यमिति। तत्र `सर्वधुरायाः` इति सूत्रे कर्तव्ये यतः सर्वधुरादिति नपुंसकलिङ्गेन निर्देशः स शब्दरूपापेक्षः, अर्थापेक्षे हि निर्देशे परवल्लिङ्गता भवति। अयन्तु शब्दरूपापेक्षः,शब्दरूपञ्च नपुंसकमिति नपुंसकेनैव निर्देशो युक्तः। अर्थविवक्षायां तु स्त्रीलिङ्गमेव भवति - सर्वधुरां वहतीति॥", "44079": "`एकधुरात्` इत्ययमपि शब्दरूपापेक्षया निर्देशः। अर्थापेक्षया हि परवल्लिङ्गता भवति। अत्रापि पूर्ववत् समाससमासान्तौ वेदितव्यौ। वचनसामर्थ्यात्पक्षे लुग्विधीयते। यदि हि नित्यो लुक् स्यात्, खस्य विधानमनर्थकं स्यात्, यत एव हि लुकं विदध्यात्।ननु चैकधुरशब्दात् केनचिद्विहितो न स्यात्, तस्य कथं लुक् शक्यते विज्ञातुम्? लुग्वचनादेव यतोऽपि विधिरनुगम्यत इत्यदोषः॥", "44080": "रथशकटहलसीरेभ्यः प्रत्ययविधानमनर्थकम्, <<तस्येदम्>> [[4.3.120]] इत्यनेनैव सिद्धत्वात्। शब्दभेदाद्विधानमिति चेदन्यो हि शब्दो रथं वहतीति, अन्यो हि रथस्य वोढेति। तदाऽर्थाश्रयत्वात् प्रत्ययविधानस्यार्थसामान्यात् सिद्धम्। न हि कश्चिद्रव्यमित्युक्ते रथस्यायमित्येवावैति, वहत्यर्थः प्रतीयते। तस्मात् स्यादेव रथाद्यत्॥बाल-मनोरमाशकटादण 1612, 4.4.80 शकटादण्। द्वितीयान्ताच्छकटशब्दाद्वहतीत्यर्थे अण् स्यादित्यर्थः। यतोऽपवादः। बाल-मनोरमाअगारान्ताट्ठन् 1601, 4.4.80 अगारान्ताट्ठन्। तत्र नियुक्त इत्येव। नित्त्वान्नादिवृद्धिः। तदाह -देवगारिक इति।", "44081": "शकटादणेवोत्सर्गः कर्तव्यः। एवञ्च वाक्यं करिष्यामः; यता - रथस्य वोञा रथ्य इति। न तत् विधीयते; तत्र प्रत्ययविधाने <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यनेन लुक् प्राप्नोति। अनेन पुनर्न प्राप्नोति, कस्मात्? `प्रागादीव्यतोऽण्` [[4.1.83]] #इत्यधिकारात्। ननु च क्रियामाणेऽपीह द्विगोरण् प्रत्ययो न प्राप्नोति, `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति` (व्या।प।89) इति? न; एतदेव हि <<शकटादण्>> [[4.4.80]] इत्यवमादिकं ज्ञापकं भवति तदन्तविधेरिति। तेन द्वैहलिकः, द्वैशकटः , द्वैसीरिक इत्येवमादिकं सिद्धं भवति॥", "44082": "अस्त्यत्र यर्भ इति `{इन् इत्येव सूत्रम् - द।उ।}\tइन् सर्वधातुभ्यः` (द।उ।1।46) जनयतीति वा। `अत्र कृदिकारादक्तिनः` (ग।सू।50) `सर्वतोऽक्तिन्नर्थात्` (ग।सू।51) इति ङीप् - जनी, तां वहन्ति जन्याः = जामातुर्वयस्याः। विवाहमानिताभिधीयते। केचित्तु कर्तरि जायतेऽस्यां गर्भ इति <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति ल्युटि जननशब्दाच्च ङीपि नकाराकारयोर्लोपेन साधयन्ति। ननु च जनीशब्दादेव यद्विधेयः? सर्वकालार्थं निपातनमित्येके॥", "44083": "`पद्याः` इति। <<पद् यत्यतदर्थे>> [[6.3.53]] इतिपादशब्दस्य पद्भावः। `ऊरव्याः` इति। <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः।`ननु च` इत्यादि। धनुरत्र प्रकृत्यर्थः, प्रत्ययार्थेन वाह्रं करणमपेक्ष्यते, तेन सापेक्षमसमर्थं भवतीत्यसामर्थ्यम्? ननु चट व्यधनमेवात्र सापेक्षम्, क्रियया करणं सम्बध्यत इति कृत्वा, तच्च व्यधनं क्रियाप्रधानत्वादाख्यातस्य प्रधानं बवति, प्रधानस् सापेक्षस्य भवत्येव वृत्तिः, यथा - राजुपुरषोऽयमभिरूप इति? नैतदस्ति; यद्यपि क्रियाप्रधानमाख्यातम्, तथापीह प्रत्ययार्थं एव प्रधानम्। प्रत्ययार्थस्य साधनं व्यद्धा। तथा च प्रागुक्तम् - `क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितेः स्वभावात् साधनप्रधानः` इति। अथ क्रियाद्वारेण व्यद्धुरपि करणं प्रत्यपेक्षा भवतीति कल्प्यते, तथा च सति प्रकृत्यर्थस्यापि क्रियाद्वारेणैव करणं प्रत्यपेक्षा भवतीति केन वार्यते ! न हि पादौ विध्यति धनुषेति करणविवक्षायां व्यधनमात्रस्य पादौ कर्म धनुष्करणविशिष्टस्य। तस्माद्व्यधनस्यापि क्रियाकरणे प्रत्यपेक्षेत्यसाम्रथ्यात्प्रत्ययो न भविष्यति। `अनभिधानाच्च` इति। अत्रैवोचपपत्त्यनतरम्। कथं पुनरुपपत्त्यन्तरमित्याह - `न हि` इत्यादि। धनुषा पद्य इत्युक्ते धनुष पद्यं प्रत्युपलक्षणभावः सम्भाव्यते, यथा -शिखया परिव्राजकमद्राक्षीदित्त्र शिखया परिव्राजकं प्रति। धनुषा सह दृष्टः पद्य इत्येषोऽप्यर्थश्चाशङ्क्यते। न तु पादौ विध्यति धनुषेत्ययमर्थो विवक्षितः प्रतीयते। `एवं तर्हि ` इत्यादिना क्रियाविशेषणपरो धनुषेति निर्देशः; न धनुषः करणत्वप्रतिषेधः। प्रतिषेधे प्रधानमिति दर्शयति -`तेन` इत्यादिना। क्रियत एव धनुषः प्रतिषेधः, तेन क्रिया विशेष्यते। तेन चौरं विध्यतीत्यादौ न भविष्यति। सम्भाव्यते हि चौरादिव्यधनक्रियया धनुषः करणत्वम्॥", "44084": "कथं पुनरत्र द्वितीया समर्थविभक्तिः, यावता `कर्त्तृकर्मणोः कृति` [[2.3.65]] इति षष्ठआ भवितव्यम्? इत्याह - `लब्धेति तृन्नन्तम्` इत्यादि। तृन्नन्तस्य हि प्रयोगे `न लोकाव्ययनिष्षाखलर्थतृनाम्` [[2.3.69]] इति षष्ठीप्रतिषेधेन द्वितीया भवति॥", "44085": "", "44086": "वशः = कामः, इच्छा। वसेर्धातोरत एव निपातनादप्रत्ययः। द्वितीयासमर्थविभक्तौ प्रकृतायां वशमिति द्वितीयानिर्देश इष्टे विषये द्वितीयान्ताद्यथा स्यात्, अनिष्टान्मा भूत्। तेनेहैव भवति - वशं गतः, इच्छाप्राप्तः, विधेय इत्यत्रैव भवति॥", "44087": "कर्मणः कृतैवाभिहितत्वाद्द्वितीया न सम्भवति। न च द्वितीयाप्रथमाभ्यामन्यत्र विभक्तौ पदमिति रूपमुपपद्यते। तस्मात् प्रथमान्तमेवैतदिति निश्चित्याह - `निर्देशादेव` इत्यादि॥", "44088": "आवर्हणमावर्हः, उत्पादनमित्यर्थः। वृहेराङपूर्वाद्भावे घञ्, आवर्होऽस्यास्तीत्यावर्हीति। द्वितीयाविभक्तिरिह नास्ति। न च प्रथमाद्वितीयाभ्यामन्यस्यां विभक्तौ मूलमित्येतद्रूपमुपपद्यते। तस्मात् प्रथमान्तमेवैतत्। निर्देशादेव प्रथमा समर्थविभक्तिरुपपद्यते इति मत्वाह - `मूलशब्दात् प्रथमासमर्थात्` इति॥", "44089": "`यश्च प्रत्ययः` इति। किमर्थं पुनर्यप्रत्ययो निपात्यते? इत्याह - `अन्तोदात्तो ह्रयमपीष्यते` इति। यति सति तित्स्वरेणान्तस्वरितत्वात्। अन्तोदात्तश्चेष्यते। तस्माद्यप्रत्यय एव न्याय्यः। न केवलं संज्ञाविषय एवेष्यते; अपि त्वन्तोदात्तोऽपीत्येषोऽपिशब्दस्यार्थः॥", "44090": "`संयुक्ते` इति। सम्बद्ध इत्यर्थः।`अन्यस्यापि` इत्यादि। यथैव हि गृहपतिर्यजनमानो गार्हपत्ये कार्यं करोति, तथा दक्षिणाग्नावाहवनीये च। तस्मादन्यस्यापि दक्षिणादेर्गृहपतिना संयोगोऽस्ति। यद्येवम्, अतिप्रसङ्गोऽन्यत्र प्राप्नोति? इत्याह - `तत्र् संज्ञाधिकारात्` इत्यादि। अभिधेयनियमार्थं संज्ञाग्रहणमनुवर्तते, तेनेह न भवत्यतिप्रसङ्गः॥", "44091": "", "44092": "", "44093": "प्रत्ययार्थसामर्थ्यलभ्या` इति। `निर्मिते` इति प्रत्ययार्थः। तत्र च्छन्दसः करणत्वमिति सामर्थ्यात् तृतीया समर्थविभक्तिर्लभ्यते। छन्दःशब्दोऽयं वेदे त्रिष्टुवादौ, इच्छायाश्च वर्तते; इह त्विच्छायां वर्तमानो गृह्रते, अत एवाह - `इच्छाया कृतः` इति। इच्छावृत्तिस्तु संज्ञाग्रहणस्याभिधेयनियमार्थस्यानुवृत्तेर्लभ्यते॥", "44094": "`संज्ञाधिकारादभिधेयनियमः` इति। तेनोरसा निर्मितं सुखमित्यादौ न भवतीति भावः॥", "44095": "`ह्मद्यः` इति। <<हृदयस्य हृल्लेखयदण्लासेषु>> [[6.3.50]] इत्यादिना ह्मद्भावः॥", "44096": "ऋषिशब्दोऽयमस्त्येव गुणवति पुरुषविशेषे, अस्ति च वेदे;इह संज्ञाधिकारादेव न मनुष्यग्रहणमिति दर्शयति - `ऋषिर्वेदो गृह्रते (इति)॥", "44097": "`{प्रत्ययार्थसामर्थ्याल्लब्धा -मुद्रितः पाठः।} प्रत्ययार्थसामर्थ्यालभ्या` इति। करणादयः प्रत्ययार्थाः। तत्र करणादयः शब्दा भावे करणे च व्युत्पाद्यन्त इति सामर्थ्यादेवोपलभ्यमाना षष्ठीविभक्तिर्विज्ञायते। यद्यपि कर्षशब्दः परिमाणवचनोऽप्यस्ति, तथापि करणादीनां साहचर्यात् क्रियाशब्द एव गृह्रते। करणशब्दो भावसाधनः। यदा तु करणसाधनः, तदा क्रियतेऽनेनेति करणम्, `रथसीताहलेभ्यो यद्विधौ` (वा।473) इति तदन्तविधिरत्रेष्यते। तस्योदाहरणम् - `द्विहल्यः` इति दर्शयति। `भावसाधनञ्च` इति। अत्रापि पूर्ववद्विभागो वेदितव्यः॥", "44098": "`सामन्यः` इति। <<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिभावः। साधुरिह निपुणः, योग्य इति भावः॥", "44099": "जनं जनं प्रति प्रतिजनम्, `यथार्थेऽव्ययम्` [[2.1.6]] इत्यव्ययीभावः। `परस्यकुलम्, अमुष्यकुलम्` इति। निपातनादलुक्। <<षष्ठ्या आक्रोशे>> [[6.3.21]] इति वा यदा परकुलत्वेनाक्रुश्यते।`यत्र` इत्यादि। `प्रतिजन` , `सर्वजन` इत्येवमादिषु केषुचिद्धितार्थ एव प्रतीयते, न तु प्रवीणो योग्यशब्दस्यार्थः। तेन तत्र वचनसामर्थ्यात् परेऽपि प्राक्क्रीतीयाः प्रत्यया बाध्यन्ते। अन्यथा हि वचनमनर्थकं स्यात्॥", "44100": "", "44101": "", "44102": "", "44103": "", "44104": "", "44105": "`स्वरे विशेषः` इति। यति सति <<यतोऽनावः>> [[6.1.213]] इत्याद्युदात्तं स्यात्, ये तु सति प्रत्ययस्वरेणान्तोदात्तं स्यात्॥", "44106": "", "44107": "वसतीति वासी। निपातनादेव णिनिः, ग्रहादिलक्षणो वा। अथ वा - वसनं वासः, सोऽस्यास्तीति वासी, मत्वर्थीय इति। अथ `तत्र` [[4.4.98]] इति वर्तमाने पुनः `समानतीर्थेट इति सप्तम्युपादानं किमर्थम्? प्रकृतित्वेनेष्ठात् सप्तम्यन्ताद्यथा स्यात्; अनिष्टान्मा भूत्। एतेन गुरुवचनो यस्तीर्थशब्दस्तदन्तात् सप्तमीसमर्थात् प्रत्ययो भवति, न तु यः प्रयोगादिवचनस्तदन्तात्। अमुमेवार्थं चेतसि कृत्वाऽऽह - `तीर्थशब्देन गुरुरुच्यते` इति॥", "44108": "`ओकारश्चोदात्तः` इति। यतः स्वरे प्राप्त ओकारस्योदात्तत्वं विधीयते। `शयितः स्थित इत्यर्थः`(इति)। अनेकार्थत्वात् तस्य स्थितावपि वृत्तेः; तथा हि - जलाशय इति। समानोदर्यः` इति। समानञ्च तदुदरञ्चेति समानाधिकरणसमासं कृत्वा ततः प्रत्ययः॥", "44109": "एकदेशविकृतस्यानन्यत्वात् सोदर्शशब्दादपि पूर्वेण यत्येव प्राप्ते यो विधीयते। <<विभाषोदरे>> [[6.3.88]] इति विषयसप्तमीति मत्वाऽऽह - `यकारादौ प्रत्यये` इत्यादि। `ओ चोदात्त इति नानुवर्तते` इति। प्रत्यय विधानसामर्थ्याद्य उदात्तः॥", "44110": "`अणादीनां घादीनाञ्चापवादः` इति। <<तत्र भवः>> [[4.3.53]] इति प्राप्तानाम्। यद्येवम्, यता बाधितत्वाच्छन्दसि तेषामभावः स्यात्, ततश्च मुञ्जावत्यं मौञ्जावतं वेत्येवमादि न सिध्यति? इत्याह - `सति दर्शने` इत्यादि। कथं पुनरेवं लभ्यते? इत्याह - `सर्वविधीनाम्` इत्यादि। सर्वविधिव्यभिचारस्तु <<बहुलं छन्दसि>> [[7.4.78]] इति बहुलग्रहणाल्लभ्यते। मुञ्जावान् नाम पर्वतः, तत्र भवोऽसौ मौञ्जावतः॥", "44111": "", "44112": "", "44113": "डडडयोः स्वरे विशेषः। डति हि सति <<तित्स्वरितम्>> [[6.1.185]] इत्यन्तस्वरितः स्यात्, डए तु प्रत्ययस्वरेणान्तोदात्तत्वं भवति॥", "44114": "समानो गर्भः, समानो यूथ इति कर्मधारयः। `णु स्तुतौ` (धातुपाठः-1035) , भावेक्तः, समानं नुतमस्येति बहुव्रीहिः। समानञ्च तन्नुतञ्चेति कर्मधारयो वा। `स्वरे विशेषः` इति। यति सति <<तित्स्वरितम्>> [[6.1.185]] इत्यन्तस्वरितत्वं स्यात्, यनिसति नित्स्वरेणाद्युदात्तत्वं स्यात्। `सर्वत्र समानस्य च्छन्दसि` इति। <<समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु>> [[6.3.84]] इत्यस्योपलक्षणपर एकदेश उपात्तः॥", "44115": "", "44116": "`सामान्येन यद्विहितः` इति। `भवे च्छन्दसि` [[4.4.109]] इत्यनेन। अथ यद्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? नैवं शक्यम्; `अग्रश्चाड्डिमच्` (वा। 448) इत्येवामग्रशब्दाड्डिमजप्युक्तः, तत्र यथा विहिते प्रत्यय उच्यमाने डिमचपि स्यात्। तस्माद्यद्ग्रहणं कर्तव्यम्॥", "44117": "`स्वरे विशेषः` इति। घे विहितेऽन्तोदात्तत्वं स्यात्, घनि तु सत्याद्युदात्तत्वं भवति॥", "44118": "ननु च `अजाद्यन्तम्` [[2.2.33]] `अल्पाच्तरम्` [[2.2.34]] इत्यभ्रशब्दस्य पूर्वनिपातेन भवितव्यम्, तत्कथमपूर्वनिपातः? इत्याह - `अम्रशब्दस्य` इत्यादि॥", "44119": "", "44120": "भावे <<तस्येदम्>> [[4.3.120]] इत्यणि प्राप्ते <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इति ष्यञि यतो विधाम्। येषां <<सख्युर्यः>> [[5.1.126]] इत्यत्र `दूतवणिग्भ्याञ्च` (वा।540) इत्युपसंख्यायते, तेषां कर्मणि ये प्राप्ते॥", "44121": "`निर्देशादेव समर्थविभक्तिः` (इति)। सा पुनः षष्ठी `कर्त्तुकर्मणोः कृति` [[2.3.65]] इति कर्मणि द्रष्टव्या। योग्यतामात्रे विवक्षिते हन्यतेऽनयेति हननी, करणे ल्युट्, `टिड्ढाणञ्` [[4.1.15]] इति ङीप्। ननु च रक्षीयातुशब्दयोर्द्वित्वाद्द्विवचनेन भवितव्यम्, तत्कथमिदमुक्तम्? वचनसामर्थ्यात् सम्भावनमेव स्तुतिरिति दर्शयितुमाह - `बहुवचनम्` इत्यादि। योगश्चायं <<तस्येदम्>> [[4.3.120]] इत्यणि प्राप्ते वेदितव्यः॥", "44122": "`षष्ठीसममर्थेभ्यः` इति। सामर्थ्याद्धि षष्ठयेव समर्थविभक्तिर्विज्ञायते। यथा हि - `{शंस - प्रांउ।पाठ}शंसु स्तुतौ` (धा।या।728) इत्यतोऽस्मादेव निपातनाद्भावे क्यप्प्रत्ययः; <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति बहुलवचनात्। तत्रावश्यं कृद्योगलक्षणया षष्ठआ भवितव्यम्। अयमपि योगः पूर्ववदणि प्राप्ते वेदितव्यः॥", "44123": "`षष्ठीसमर्थात्` इति। `असुरस्य` इति निर्देशादेव षष्ठी समर्थविभक्तर्लभ्यते। `स्वम्` इति। आत्मीयमित्यर्थः। `अणोऽपवादः` इति। <<तस्येदम्>> [[4.3.120]] इति प्राप्तस्य॥", "44124": "मायायां नेति वक्तव्येऽण्ग्रहणं विस्पष्टार्थम्॥", "44125": "स विवक्षितोऽवयवोऽस्मिन्निति तद्वान्। कः पुनरसौ? समुदायः। अत एवाह - `तद्वानित्यवयवेन समुदायो निर्दिश्यते` इति। एतेनैकदेशादिदं प्रत्ययविधानमित्युक्तं भवति। `\tवर्चःशब्दोऽस्मिन् मन्त्रेऽस्ति` इत्यादिना तत्समुदायं प्रदर्शयति। `चयनवचनः` इति। चिनोतेरेव करणे लुप्। `तेजस्या`इति। तेजःशब्दोऽस्य मन्त्स्यास्तीति तेजस्वानुपधानमन्त्रः। शेषं विग्रहवाक्यादि पूर्ववत्। मन्त्रादेव, समुदायान्मा भत्। यद्यपि समुदायः प्रातिपदिकमं न भवति, तथापि वचनसामर्थ्यापि स्यात्। किं तर्हि वचनान्न लभ्यत इत्यभिप्रायः।`इतिकरणो नियमार्थः` इति। असतीहेतिकरणे मन्त्रे बहूनां सम्भवे सर्वेण पदेन तद्वान् मन्त्रो गृह्रते। अस्मस्तु सति तेन नियमार्थेन येनैव पदेन तद्वता मन्त्रेणेष्टकोपलक्ष्यते,तेनैव सर्वो मन्त्रो गृह्रत इत्येतदुपपन्नं भवति।अथ मतुब्ग्रहणं किमर्थम्, यावता मतुबन्तादयं विधीयते, तत्र प्रत्ययस्य लुग् विज्ञायमानो विधानसामर्थ्याच्च मतुप एव भविष्यतीत्यपार्थकं मतुब्ग्रहणं? नैवम्; उत्तरत्र `अइआमानण्` [[4.4.125]] इत्यतर्ह्रुपवानमात्रावयवे द्वौ मत्वर्थीयौ - इनिमतुपौ, तत्रासति मतुब्ग्रहणे लुक् स्यात्; अस्मिन् सति मतुप एव भवति॥", "44126": "`आइआनीः` इति। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्॥", "44127": "`मूर्धन्वतीः` इति। <<उगितश्च>> [[6.3.45]] इति ङीप्। वयस्यास्ता मूर्धन्वत्यश्चेति वयस्वामनुपधानो मन्त्रः, तासामिति वयस्याः। मूर्धन्वानुपधानो मन्त्रः, तासामिति मूर्धन्दत्यः।`यत्रि` इत्यादि। न ह्रेवंविधो यासामुपधानो मन्त्रस्ततो वयस्यात्विति वचनात्। अत्र मूर्धशब्द एवास्ति, न वयः शब्दः, ततो न भवति -मूर्धन्वत्य इति।`वक्तव्ये` इति। तद्वानित्यधिकारान्मतुबन्तान्मर्धशब्दात्प्रत्ययेन भवितव्यम्। अतः `मूर्धन्वतःर` इति युक्तं वक्तुम्, तन्मतुपो भाविनं लुकं चेतसि कृत्वा। एवंलघु सूत्रं भवति॥", "44128": "मत्वर्थे मासतन्वोरिति प्रत्ययार्थविशेषणम्। मत्वर्थग्रहणादेव प्रथमा समर्थविभक्तिरस्त्युपाधिका लभ्यते? इत्याह - `प्रथमसमर्थादस्त्युपाधिकात्` इति।`{अनन्तरार्थेव वा - काशिका} अनन्तरार्थे च` इति। न केवलं मत्वर्थ एव त्ययो वक्तव्यः।`ननु च तप) प्रभृतीनां प्रत्ययार्थमासादिवचनानामभिधेयलिङ्गवचनानि भवन्तीति पुंल्लिङ्गता प्राप्वोति, तस्याञ्च सत्यां <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घेण भवितव्यम्; तत्कथं तपश्च सहश्च नभश्चेति प्रयोगः? इत्यत आह -`नपुंसकलिङ्गं छान्दसत्वात्` इति। अयं हि च्छान्दसः प्रयोगः। तत्रेति पुंल्लिङ्गेऽभिधेये नपुंसकलिङ्गमुपपद्यते। <<व्यत्ययो बहुलम्>> [[3.1.85]] इति लिङ्गव्यत्ययस्य च्छन्दसि विधानात्। इडस्मिन्मासेऽस्तीति `इषः`। ऊर्घस्मिन् मासेऽस्तीति `ऊर्जःर`। शुगस्मिन् मासेऽस्तीति `शूचिः` शुग् वास्मिन् मासेऽस्तीति `शुक्रः`। <<चोः कुः>> [[8.2.30]] इति कुत्वम्।\tअर्थग्रहणं किमर्थम्, यावता `मतौ छः सूक्तसाम्नोः` (52।59) इत्यत्र यथा `मतौ` इत्युच्यमानो मत्वर्थे प्रत्यय उच्यते, तथेहापि लभ्यते, तस्मात् `मतौ` इत्येवं कस्मान्नोक्तम्? सत्यमेतत्; विस्पष्टार्थमर्थग्रहणम्॥", "44129": "", "44130": "असन्तत्वात् <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इति विनिप्रत्यये प्राप्ते मतुपोऽपवादैः सह समावेशात् मतुपि यत्खौ विधीयेते। अथ यद्ग्रहणं किमर्थम्, ननु `ओजसोऽहनि ख च` इत्येवोच्येत, चकारेण यथाविहिते प्रत्यये विज्ञायमाने यदिति च भविष्यति? नैवं शक्यम्; चकारेण हि सन्देहः स्यात् - किमनेनानन्तरसूत्रविहितो ञोऽनुकृष्यते? अथ प्रकृतो यदिति? तस्मादसन्देहार्थं यद्ग्रहणं कर्तव्यम्॥", "44131": "लित्करणं स्वरार्थम्॥", "44132": "`योगविभागः` इत्यादि। यदि पूर्वसूत्र एव खग्रहणं क्रियते; द्वे प्रकृती प्रत्ययावपि द्वावेवेति सामर्थ्याद्यथासंख्यं प्रसज्येत। तस्मात् तन्निरासार्थो योगविभागः।ननु <<यथासंख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यत्र इह कस्मान्न भवति - `वेशोयशञादेर्भगाद्यल् ख च` इति दर्शयितवा स्वरितेन लिङ्गेन यथासंख्यमित्युक्तम्? तदेकयोगतामभ्युपेत्य। भवतु नामैकयोगः, तथापि यथासंख्यं न भवतीति दर्शनार्थम्, तत कुतो यथासंख्य निरासार्थो योगविभाग? अत आह - `उत्तरार्थश्च` इति॥", "44133": "`पूर्वः कृत मिनयौ च` इति। ख एव यथा स्यात्, यन्मा भूत्। `पूर्वैरिति बहुवचनान्तेन ` इत्यादि। `पथिभिः पूर्वैःर` इत्येवमादिभिर्वेदवाक्यैः पूर्वपुरुषकृतत्वेनयदा प्रशंसां प्रतिपादयितुं निष्ठा साध्वेव शक्यते विज्ञातुम्, तदा पूर्वपुरुषाभिधायिनः पूर्वशब्दात् प्रत्यय उपपद्यते। तस्मात् पूर्वैरिति बहुवचनान्तेन पूर्वपुरुषा अभिधीयन्ते। छन्दसामर्थपरत्वाद्बहुवचनस्य।तेन पूर्वपुरुषाणां पन्था आस्थितः सम्पद्यत इति दर्शयितुमाह", "44134": "", "44135": "", "44136": "शब्दे कार्यासम्भवात् मतुप्शब्देन मत्वर्थो लक्ष्यत इत्याह - `मत्वर्थे` इत्यादि। मत्वर्थे च प्र प्रथमासमर्थादस्त्युपाधिकात् प्रत्ययो विज्ञायत इत्याह - `सहरुआमस्य विद्यते` इति॥", "44137": "`तदर्हति` [[5.1.62]] इत्यर्हार्थे ठकि प्राप्ते यो विधीयते। `स्वरे विशेषः` इति। यत्याद्युदात्तत्वं स्यात्। यप्रत्यये तु सत्यन्तोदात्तत्वं भवति॥", "44138": "`{नास्तीयं पंक्तिः - काशिका, पदमञ्जरी च}रूप्यमयटोऽपवादो योगः` इति। `मय इति मयडर्थो लक्ष्यते` इति। शब्दे कार्यासम्भवादिति भावः। `तत्र यथायोगं समर्थविभक्तिःर` इति। तत्रागतार्थ पञ्चमी, विकारावयवयोः षष्ठी। प्रकृतवचने प्रथमेति यथायोगार्थः॥", "44139": "मयडर्थ आगते प्रकृतवचने यथायोगं रूप्यमयटोः प्राप्तयोर्यद्विधीयते। तत्र मयटो हि <<द्व्यचश्छन्दसि>> [[4.3.150]] इति प्राप्तस्य <<नोत्वद्वर्ध्रबिल्वात्>> [[4.3.151]] इति प्रतिषेध उच्यते॥", "44140": "", "44141": "", "44142": "", "44143": "", "44144": "", "51001": "विधिः, अधिकारः, परिभाषा वेति त्रयमत्र सम्भाव्यते। यथा चैतत्? त्रितयमपि निर्दोषम्, तथा <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यत्र दर्शतम्। यद्येवम्, काशिकाकारेण कस्मान्न सूचितम्? एकदेशानुस्मरणेन सर्वस्य सूचितत्वादित्यभिप्रायः। अथ प्रागिति कोऽयं निर्देशः, यावता प्रपूर्वस्याञ्चतेः क्विनि नलोपादिके विहिते `उगिदचाम्? [[7.1.70]] ति नुमि, संयोगान्तलोपे च, <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति नकारस्य ङकारे प्राङिति भवितव्यम्? अथेदृशी व्युत्पत्तिराश्रीयेत, यावता `अञ्चतेश्चोपसंख्यानम्? (वा।336) इति कृते ङीपि प्राच्यां दिशि वसतीति `दिक्शब्देभ्यः सप्तमी` [[5.3.27]] इत्यादिना अस्तातिः, तस्य <<अञ्चेर्लुक्>> [[5.3.30]] इति लुक्, `लुक्तद्धितलुकि` [[1.2.49]] इति ङीपोऽपि `तसिलादिस्तद्धित एधाच्पर्यन्तः` इत्यव्ययत्वे `अव्ययात्` [[2.4.82]] इति सोर्लुकि <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणप्रतिषेधात्? सर्वनामस्थानाभावे नुमोऽप्यभावः, ततः कुत्वे सति प्रागिति सम्पद्यते? यस्तु मन्यते - `आद्येऽपि पक्षे क्रियाविशेषणत्वान्नपुंसकत्वम्, क्रियाविशेषणानां यथा नपुंसकत्वम्, कर्मभावश्च; तथा `करणे च स्तोकाल्पकृत्छ्र` [[2.3.33]] इत्यत्र प्रतिपादितम्, तत्र कर्मणि द्वितीयायाः `स्वमोर्नपुंसकात्` [[7.1.23]] इति लुकि कृते पूर्ववन्नुमभावः` इति, तन्मते द्वितीयैकवचनान्तं पदं सञ्जायते। तदेवमितरस्मिन्? पक्षे `षष्ठतसर्थप्रत्ययेन` [[2.3.30]] इति षष्ठआ भवितव्यम्, तत्कथं `क्रातात्` इति पञ्चमीनिर्देशः? नै तदस्ति; यावता `अन्यारादितरर्तेदिक्शब्दः` [[2.3.29]] इत्यत्रेदमुक्तम्दिक्शब्दत्वादेव सिद्धेऽञ्चूत्तरपदग्रहणं `षष्ठतसर्थ` इत्यनेन प्राप्तां षष्ठीमपि बाधित्वा पञ्चम्येव यथा स्यादिति कुतः षष्ठीप्रसङ्गः। अतो व्यवस्थितमिदम् - प्रक्? क्रीतादिति।अथ प्राग्वचनं किम्, न `क्रीताच्छः` इत्येवोच्येत? नैतदस्ति; एवं ह्रु च्यमाने क्रीतशब्द एव प्रकृतित्वेन ज्ञायेत, ततश्च क्रीतशब्दादेव प्रत्ययः स्यात्। तस्मात् क्रीतादित्यवधिद्योतनार्थं प्रागिति वक्तव्यम्। तह्र्रयमर्थः `प्राग्घितात्` [[4.4.75]] इत्यतः प्रकृतेन प्राग्ग्रहणेन हि सम्बध्यते। एवं तत्रैतत्? स्यात् - तद्धि `भवे च्छन्दसि` [[4.4.109]] इति, तेन च्छन्दोऽधिकारसय निवृत्तेः। तर्हि हि `प्राग्दीव्यतः` [[4.1.83]] इत्यतः प्रकृतत्वात्? तेनापि च वहतेरित्येवमादिकं सम्बध्येत, यथा - `स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्` [[4.1.87]] इति? नैतदस्ति; एवं हि <<सोमाट्ट्यण्>> [[4.2.30]] इत्यादौ यत्र पञ्चमी श्रूयते तत्र सर्वत्र प्राग्वचनेन सम्बन्धे न ज्ञायते - को विधिः, का च प्रकृतिरिति स्यात्। येषामवधित्वमिष्यते, तेषामेव प्राक्शब्दमधीतवानिति। इह तु प्रकृतेन प्राग्वचनेन सम्बध्यते। तननु च विपर्ययः कसमान्न भवति - भवनादिति प्रकृतिः स्त्रीपुंसाभ्यामित्यवधिनिर्देश इति? नैतदस्ति; अवदेरकत्वादेकवचनेन निर्देसो न्याय्यः प्रकृतिनिर्देशे तु द्वे एव प्रकृती परस्परापेक्षे इति द्विवचनमुपपद्यते। ननु च विशदमिदमुदितमप्यर्थज्ञानम्। स्वरित लिङ्गादधिकाराणामासङ्ग इत्येतद्भवता विस्मृतम्, तदेवम्? `सोमाट्टण्` [[4.2.30]] इत्यादौ कः प्राग्वचनसम्बन्धप्रसङ्ग इति नार्थः प्राग्ग्रहणेन? सत्यमेतत्; किन्तु स्वरितत्वास्वरितत्वख्यापनपरम्परया मन्दधियो मोहमासादयन्तीति तत्प्रतिपत्त्यर्थं प्राग्ग्रहणं कर्तव्यम्। `अवत्सीयः` इति। विकल्पनात्? त्रयमत्र सम्भवति - अनुत्पन्ने प्रत्यये नञास्य सम्बन्ध इति, उत्पन्ने वा संसर्गः, उत्पत्तिकाल एवेति। तत्राद्ये पक्षे वत्सदन्यस्मै हितमितौष्टाभिधानं न प्राप्नोति। न चापि चतुर्थी; हितार्थस्य प्रतिषिध्यमानत्वत्। तृतीये तु पक्षे यता दोषो न भवति तथा प्रतिविधीयते। तत्र वत्सहितशब्दयोः पदान्तरनिरपेक्षयोः क्रियापदेन भवतिनानुगम्मानत्वात्, न च ब्राआहृसम्बन्धोऽन्तरङ्गसम्बन्धं निवर्तयितुं शक्नोति। अत एव न देवदत्ताय गां ददातीति सम्प्रदाने चतुर्थी भवति; कर्मणाभिप्राप्तेरन्तरङ्गत्वादिति। तथानेन च क्रमेण यत्रापि प्राप्तिर्न विद्यते, केवलं त्विच्छामात्रमेव, अत्रापि कर्मसंज्ञा प्रवर्तते, तद्यथा-ग्रामं गन्तुमिच्छामि न कश्चित्? सहायोऽस्तीति। यदप्युच्यते-असामर्थ्यात्तद्धितेन न भवितव्यमिति, तदेतदप्यसारम्; यदयम्, <<नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः>> [[6.2.155]] इति तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वर्तमानानि पराण्यन्तोदात्तानि भवन्तीति तद्धितग्रहणमनर्थकं स्यात्। अथ किमर्थमियानवधिरुपादीयते, न हि तत्र तावदस्य व्यापारोऽस्ति; प्रत्ययान्तरैर्बाधितत्वात्। लघुत्वात्? `प्राक्ठञश्छः` इति वक्तव्यम्? इत्यत आह-`अर्थोऽवधित्वेन` इत्यादि। कः पुनरर्थमवधित्वेनाङ्गीकुर्वतो गुण इति चेत्? अयमभिप्रायः-`प्राक्ठञश्छः` इत्युच्यमाने प्राक्? ठञो याः प्रकृतयस्ताभ्यश्छो भवतीत्यर्थः स्यात्। ततश्चाधिकारस्य प्रतियोगोपस्थानादपवादविषये छप्रत्ययः प्रसज्येत। अर्थे त्ववधित्वेनोपादीयमाने प्राक्? क्रीताद्येऽर्थास्तेषु च्छो भवतीत्ययमर्थः सम्पद्यते, ततोऽतिप्रसङ्गो न भवति। तेन समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादश्छं बाधते। ननु च `प्राक्? ठञः` इत्युच्यमानेऽपवादविषयेऽपि च्छो न भविष्यत्येव; ज्ञापकात्, यदयं <<विभाषा हविरपूपादिभ्यः>> [[5.1.4]] इति विभाषाग्रहणं शास्ति; इतरथा ह्रधिकाराच्छोऽपि लभ्ध एवेति विभाषाग्रहणमनर्थकं स्यात्? सत्यमेतत्; किन्तु ज्ञापकद्वारेणार्थप्रतिपत्तौ सत्यां प्रतिपत्तिगौरवं स्यात्। तस्मात्? सुखप्रतिपत्त्यर्थमर्थोऽवधित्वेनोक्तः। अन्ये पुनराहुः - गृहीत इति `आशंसायां भूतवच्य` [[3.3.132]] इत्यनेन भविष्यति निष्ठाप्रत्यय इति। तेनायमर्थः सम्पद्यते-वत्सीयादिरूपसिद्ध्यर्थमर्थमवधिं ग्रहीष्यामीति। अतः शालातुरीयेण `प्राक्? ठञश्छः` इति नोक्तम्; अन्यथा हि प्रत्ययावधित्वे प्रतिपदोक्ता अन्तरङ्गा इत्युपात्ताभ्यः प्रकृतिभ्य एव प्रत्ययः स्यादित्याशंक्येत। अन्ये पुनरन्यथा वर्णयन्ति-`परिखया ढञ्` [[5.1.17]] इत्यत्र `छयतोः पूर्णोऽवधिः` इत्यभिधास्यति; ततश्च तेन क्रीतमिति वक्ष्यतीत्युच्यते, ततश्चेदं विरुद्धमित्याह-`अर्थोऽवधित्वेन` इत्यादि। गतार्थम्। नैयायिक इत्याह-`क्वचिदथोऽवधित्वेन गृह्रते, यता-`आर्हात्` [[5.1.19]] `भवनात्` [[4.1.87]] । इति, क्वचित्? प्रत्ययः प्राग्वहतेः - <<आ च त्वात्>> [[5.1.120]] इति, क्वचित्? प्रकृतिः - `आकडारात्` [[1.4.1]] `प्राक्कडारात्` [[2.1.3]] इति, क्वचिदेकदेशः - <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति, क्वचिन्निरवधिः प्रत्ययः - `ङ्याप्प्रातिपदिकात्` [[4.1.1]] इति; तेनायमात्मनो वैचित्र्यमाचार्यो दर्शयतीत्यवसीयते` इति। अथ क्रीतशब्दादेव पूर्वेण च्छप्रत्ययो भवतीत्येवं कस्मान्न विज्ञायते, यथा-`विभाषा सुपो बहुच्? पुरस्तात्तु` [[5.3.68]] इति? अनभिधानात्। न हि क्रीतशब्दात्? पुरस्तादुत्पद्यमानेन प्रत्ययेन कस्यचिदर्थस्याभिधानमस्ति। न चापि <<तेन क्रीतम्>> [[5.1.37]] इति निर्देश उपपद्यते। तत्रैवमपि प्राक्? क्रीतशब्दादेव प्रत्ययो भवतीत्येव कस्मान्न विकल्प्यते? अनभिधानादेव। न हि तत उत्पन्नेन प्रत्ययेन विवक्षितोऽर्थोऽवगम्यते। अर्थान्तरं भवादिकम्, तत्र च वृद्धलक्षणश्छ एव सिद्ध इत्यनर्थकमिदं स्यात्। तस्मात्? प्रागुदितमेव प्रयोजनं न्याय्यम्॥", "51002": "उगिति प्रत्याहारग्रहणं वा स्यात्? उवर्णग्रहणं वा? तत्राद्ये पक्षेऽयं वाक्यार्थो जायते-उगन्तेभ्यः प्रातिपदिकेभ्योऽवादिभ्योऽवकारादिभ्योऽवसुप्रभृतिभ्य इति। वकारादीन्? वर्जयित्वेत्यर्थः। ननु चैवं सति पञ्चम्या निर्देशः स्यात्? नैष दोषः; `सुपां सुलुक्` [[7.1.39]] इति लुका निर्दष्टत्वात्। एवं तर्हि प्रातिपदिकेषु गवादिपाठसामर्थ्यात्? प्रत्याहारग्रहणं न भवति; अन्यथा हि गवादीनां पाठोऽनर्थकः स्यात्। एतत्? सर्वं मनसि कृत्वाऽऽह-`उवर्णान्तात्` इति। सर्वत्रग्रहणे तदन्तविधेरभ्युपगमादित्यभिप्रायः। `शङ्कव्यम्` इति। <<ओर्गुणः>> [[6.4.146]] <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः। `सनङगुः` इत्यादि। चर्मविकारलक्षणस्याञोऽव काशाः - वाध्र्रम्, वारत्रम्, उवर्णान्तलक्षणस्य यतोऽवकाशः - शङ्कव्यम्? पिचव्यमिति; सनङगुर्नाम चर्मविकारः, तत्रोभयप्राप्तौ परत्वात्? <<चर्मणोऽञ्>> [[5.1.15]] इत्यञ्? प्राप्नोति `तथा` इत्यादि। `अन्नविकारेभ्यश्च` इति। अपूपादिलक्षणास्य प्क्षीकस्य यतोऽवकाशः - अपूप्यास्तण्डुलाः, अपूपीया इति, उवर्णान्तलक्षणस्य स एव; चरुर्नाम हविर्विशेषः; सक्तुश्चान्नविकारः, तत उभयप्रसङ्गे परत्वात्? <<विभाषा हविरपूपादिभ्यः>> [[5.1.4]] इति हविर्लक्षणोऽन्नविकारलक्षणश्च विधिः प्राप्नोति। तदेवं सनङ्गुशब्दादञ्? प्राप्तः, चरुसक्तुशब्दाभ्यां विकल्पेन यत्, नित्यश्चेष्यते, तदर्थं पूर्वविप्रतिषेधो भाषितव्य इति। <<ओर्गुणः>> [[6.4.146]] , <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः। `सनङ्गव्यम्` इत्यादि। एतच्चेष्टवाचित्वात्? परशब्दस्य लभ्यत इत्यवगन्तव्यम्। `गवादिषु नाबि नभञ्चेति पठते` इति। अत्र कस्यचिदियमाशङ्का स्यात् - भसंज्ञाप्रतिषेदो विधियत ति, ततश्च यस्येति लोपेन भवितव्यमित्यत आह - `नाभिशब्दो यत्प्रत्ययम्` इति। शरीरावयवो यो नाभिशब्दस्तत्र कथं भवितव्यमित्याह - `यस्तु` इत्यादि। ततः शरीरावयवाद्यति कृते परत्वात्? `नाभ्यं तैलम्` इति। ननु च शरीरावयवलक्षणे यति सति नभभावः कस्मान्न भवतीतियाह-`गवादिषु यता` इत्यादि। स हि गवादियता सह विहितः। तेन `सन्नियोगशिष्टानामन्यतराबाव उभयोरप्यभावः` (व्य।प।48) इति नभभावो न भवति। `शुनः` इत्यादि। आन्नित्येतस्य सम्प्रसारणे कृतेऽन्नन्तताऽस्तीति <<नस्तद्धिते>> [[6.4.144]] इति टिलोपेन भाव्यमेवेति। एवं तर्हि सम्प्रसारणसामर्थ्यान्न भवति? नैतदस्ति; `यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्तु विदेर्निमित्तमेव नासौ बाध्यते` (व्या।पा।56) इति तदवस्थो दोषः। दीर्घविधानसामर्थ्यादिति चेत्? एवमपि पक्षे स्यात्। एवं तह्र्रन्यथा व्याख्यायते। इह चकारद्वयं पठते - सम्प्रसारणञ्ज, वा दीर्घत्वञ्चेति। द्वितीयश्चकारी भिन्नक्रमः सम्प्रसारणसमीपे द्रष्टव्यः। स च समुच्यार्थोऽन्यस्य समुच्चेतव्यस्याभावात्? तदेव समुच्चिनोति। तत्र सम्प्रसारणमेकेन क्रियते द्वितीयेन तद्रूपस्यैवावस्थितिरिति। `तत्सन्नियोगेन` इत्यादि। तदित्यनेन दीर्घत्वं प्रत्यवमृश्यते। तेन दीर्घत्वेन यत एवान्तोदात्तत्वं भवति; अन्यथा <<यतोऽनावः>> [[6.1.213]] इत्याद्युदात्तत्वं स्यात्। `ऊधसोऽनङ्? च` इति। ऊधःशब्दस्यानङादेशो भवति, चकाराद्यच्य। `ऊधन्यः`। पूर्ववत्? प्रकृतिभावः॥", "51003": "ननु `अपरिमाणविस्ताचितकम्बल्येभ्यः` [[4.1.22]] इति निपातनादेव कम्बल्य इति सिध्यति कम्बल्यं हि परिंमाणविशेषः, इतरथा हि कम्बल्यशब्दस्य तत्र ग्रहणमनर्थकं स्यात्, परिमाणविशेषस्य कम्बल्यशब्दो नामदेयम्; अयमपि प्रत्ययः संज्ञायां विधीयमानस्तत्रैव भवति, नान्यत्र; नह्यत्र कम्बल्यशब्दः संज्ञा, तस्मान्नार्थोऽनेन? नैतदस्ति; निपातनेन हि कम्बल्यशब्दः परिमाणे साधुरित्येतावत्? प्रतीयते, न तु यदन्तोऽयमिति। ततश्चान्तस्वरितत्वं न स्यात्। तस्मात्? स्वरितत्वपरिज्ञानार्थमिदं कर्तव्यम्। अनन्तरश्रुतस्य यतोऽनुकर्षणार्थश्चकारः। ननु स्वरितत्वादेव यद्भविष्यति? छोऽपि तर्हि स्यात्। ननु च च्छस्य सन्निधाने प्रकृतिमात्राच्छ उक्त इति नियमार्थमिदं स्यात्, तच्चानिष्टम्, यत्? पुनर्नियतविषय इति तत्सम्बन्धे विध्यर्थता, विधिनियमयोश्च विधेरेव ज्यायान्? नैतदस्ति; छस्यापि सम्बन्धे विध्यर्थता सम्भवति। कथं संज्ञायामित्युच्यते, संज्ञा चानुपात्तावयवार्थापि भति, तत्रानवयवार्थानामप्राक्क्रीतीयत्वाद्धिताद्यर्थाभावे छप्रत्ययार्थमेतत्? स्यात्, तस्माच्चकरो यत्प्रत्ययानुकर्षणार्थः कर्तव्यः? न कर्तव्यः; इष्टतोऽप्यधिकाराणां प्रवृत्तिनिवृत्ती भवत इति यत एवानुवृत्तिर्भविष्यति, न तु च्छस्य। एवं तर्हि चकार उगवादिभ्य इत्यनुकर्षणार्थः। किमर्थमिदम्? सनङ्ग्वादिभ्यः परत्वादञादयः प्राप्नुवन्ति तद्बाधनार्थमिति। अथ गवादिष्वेव `कम्बलाच्च संज्ञायाम्` इति कस्मान्न पठति? तत्र पाठे न कश्चिद्गुरुलाघवकृतो विशेष इति यत्किञ्चिदेतदिति॥", "51004": "हविःशब्दो गवादिषु पठते, तेन तस्मान्नित्यं यता भवितव्यम्। अत्र हविंर्विशेषाणां ग्रहणम्, नस्वरूपस्येति; उगवादिसूत्रे स्वरूपपरिभाषाया उपस्थानात्। न हि तत्र सोपतिष्ठमाना केनचिनिंनवार्यते, तेन स्वरूपस्यैव ग्रहणम्। तत्र स्वरूपग्रहणे सतीह स्वरूपपरिभाषा नोपतिष्ठते; अन्यथा हि यद्यत्रापि स्वरूपग्रहणं स्यात्, ततः स्वतन्त्र एकस्मात्? शब्दात्? नित्यश्च यतो विधिः स्यादनित्यश्चेत्युभयमेकत्र नोपपद्यत इति न भवति विपर्ययः। अथ वा-हविःशब्दस्येहि पृथगुपादानादर्थप्रधानत्वमवसीयते, अन्यथा ह्रपूपादिष्वेव पठेदिति। `अन्नविकारेभ्यश्च` इति। अन्नविकारः=अन्नप्रकाराः, ते च प्रत्ययमुत्पादयन्ति विभाषा-उदन्याः, उदनीया इति। यद्येवम्, अपूपादीनां किण्वपर्यन्तानामत्र विकारत्वादेव सिद्धत्वात्? पाठोऽनर्थको जायते? यदा तर्हि केनचिदाकारसादृश्येनापूपादयोऽर्थान्तरे उपचर्यन्ते, तदर्थमेषां पाठः। किंञ्चान्नविकारग्रहणेनापूपादिषु प्रत्यमिच्छत इहापि स्यात् - यवापूपाः, व्रीहितण्डुला इति। प्रतिपदपाठे तु ग्रहणवत्त्वात्? तदन्दविधिः पर्युदस्तो भवति। ननु च <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यसमासग्रहणाद्भवितव्यमेवात्र तदन्तविधिना, एतेनासमासग्रहणेन पूर्वत्र तदन्तविधिरस्तीत्येषोऽर्थः प्रतिपाद्यते? सत्यमेतत्; अपूपादिषु प्रतिपदपाठसामर्थ्यान्न भविष्यति॥", "51005": "एतदेव ज्ञापकम्-हितयोगे चतुथ्र्यस्तीति। तेन यदुक्तम्-`हितयोगे चतुर्थी वक्तव्या` (वा। 123) इत्येतदुपपननं भवति॥", "51006": "शीर्यत इति शरीरम्, तेन घटादेरपि ग्रहणं भविष्यतीत्यत आह - `शरीरं प्राणिकायः` इति। एतेन रूढिरियमिति दर्शयति। गवादावेति शरीरावयववाचिनः। तत्र तु याः प्रकृतयस्ताभ्योऽनेनापि पूर्वेणापि वा यति विशे षो नास्त्येव। यत्र विशेषः - `नाभि नभञ्च` (ग।सू।106) इति, स विशेषस्तत्रैव वेदितव्य एव॥", "51007": "खलादीनां वृषपर्यन्तानां `यस्येति` [[6.4.148]] लोपः। `ब्राहृण्यम्` इति। `न संयोगाद्वमन्तात्` [[6.4.137]] इति प्रतिषेधात्? <<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपो न भवति। <<नस्तद्धिते>> [[6.4.144]] इति टिलोपोऽपि न भवित; <<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिभावात्। वृषशब्दोऽयमत्राकारान्तो गृह्रते, न तु ब्राआहृणशब्दोऽकारान्त इति। ननु चाशङ्का वृषशब्दे युक्ता-नलोपे सति किमयमकारान्तः? आहोस्विन्नकारान्तः? इति, ब्राहृन्शब्दाच्च यतो निवृत्तिप्रसङ्गाद्? ब्राहृञ्शब्दादपि यचच प्रत्ययो निवर्तत इति भावः। अत एवाह - `छप्रत्ययोऽपि` इत्यादि। यत्प्रत्ययापेक्षयापिरयम् - न केवलं यत्प्रत्ययो न भवति, अपि तु च्छप्रत्ययोऽपीति। ब्राआहृणशब्दाच्छप्रत्ययाभावो योज्यः। ननु चाभ्यामिहानुपादनाद्? यत्प्रत्ययो न भवति, <<तस्मै हितम्>> [[5.1.5]] इति च्छप्रत्ययस्तु कस्मान्न भवति? इत्याह-`अनभिधानात्` इति। न हीह वृषीयम्, ब्राआहृणीयमित्युक्ते विवक्षितोऽर्थः प्रतीयते; यतोऽर्थप्रतिपादनं प्रति नियता एव शब्दशक्तयो भवन्तीति क्वचित्? प्रत्ययान्तेनार्थस्याभिधानम्ष क्वचिद्वाक्येनेति। अतो वाक्यमेवावतिष्ठते-`वृष्णे हितम्, ब्राआहृणेभ्यो हितम्` इति। वाक्यसमधिगम्यस्यार्थस्य तद्धितेनानभिधानादितदि यावत्॥", "51008": "अजशब्दोऽयमिह पुंल्लिङ्ग उपात्तः; अविशब्दस्य ध्यन्तशब्दस्यापूर्वनिपातात्। आबन्तस्य ग्रहणे हृदिशब्दस्य पूर्वनिपातः स्यात्। अदन्तस्य ग्रहणे `द्वन्द्वे धि` [[2.2.32]] इत्येतस्य बाधितत्वात्? `अजाद्यदन्तम्` [[2.2.33]] इत्यजब्दस्य पूर्वनिपातो युज्यते। तस्मात्? पुंल्लिङ्गस्य ग्रहणम्। तथा व `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इति स्त्रीलिङ्गादपि प्रत्ययो भवत्येव-अजाभ्यो हितमजथ्यम्। <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इति पुंवद्भावः। परिसंख्यायन्ते हि तत्र तसिलादयः, तेषाञ्च मध्ये परिसंख्यातौ", "51009": "अयात्मन्नित्यत्र नलोपः कस्मान्न कृतः, यावता द्वन्द्वेनायं निर्देशः क्रियते, तत्र <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नलोपः प्राप्नोति? इत्यत आह-`आत्मन्` इत्यादि। आत्मन्नित्येव भवत्येषा प्राकृतिरिति ज्ञापनार्थं नलोपो न कृतः। कः पुनरेवं सति विशेषः? इत्याह-`तेन` इत्यादि। गतार्थम्। यद्येवम्, विआजनशब्देन ह्रुत्तरपदस्य सम्बन्धः प्राप्नोति? एवं मन्यते-आत्मन्निति नलोपाबावेन प्रत्येकं वाक्यपरिसमाप्तेव्र्यभिचारस्य दर्शितत्वात्? ततः प्रत्यासतेर्भोगशब्देनैव सम्बध्यते, न तु विआजनशब्देनेति नासति दोषः। `कर्मधारयादेवेष्यते` इति। वार्यपारम्पर्योपदेशात्। विभावाग्रहणानुवृत्तेव्र्यवस्थितविबाषाविज्ञानाद्वेदं वेदितव्यम्। विआस्य जनो विआजनः, विआओ जनोऽस्येति विआजन इति समासेन भवितव्यम्। यथा खो न भवति तथा च्छोऽपि न भवतीत्याशङ्क्याह-`बहुव्रीहिस्तु` इत्यादि।`उपसंख्यानम्` इति। प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-इह हि भोगसमासादिति वाक्तव्ये उत्तरपदग्रहणमधिकविधानार्थम्। न चैवं सति बहुपूर्वादीषदसमाप्तौ भोगो बहुभोग इत्यस्मात्? खः स्यादित्याशङ्कनीयम्; बहुच्प्रच्प्रत्ययस्य समासाबावात्। ततोऽत्रि छेनैव भवितव्यम् - बहुभोगीय इति। तेन पञ्चजनादपि भविष्यति। संज्ञाशब्दश्चायम्; <<दिक्संख्ये संज्ञायाम्>> [[2.1.50]] इति समासः। तथा सर्वजनादपि वेदितव्यः। `तत्पुरुषादेव` इति। विशेषानभिधानेऽपि महाजनादिति निर्देशादेव समानाधिकरणादेव भोगशब्दोऽयं भावसाधनः - भुक्तिर्भोग इति, कर्मसाधनो वा - भुज्यत इति भोग इति। अयमव्युत्पन्नः शरीरवाचीस, तस्येह ग्रहणमित्याह - `भोगशब्दः` इत्यादि। भोगशब्दः शरीरमेव प्रतिपादयतीत्यर्थः। यत्र वर्तमानोऽयं साक्षात्? सम्बन्धमाह, तत्रैव खप्रत्ययमासादयति। वर्तते च क्रियायां द्रव्ये च। तथा हि - यद्यपि भुजिक्रियया द्रव्येण च सम्बन्धोऽस्ति, तथापि शरीरेण मुख्यः सम्बन्ध इति ततो भवति प्रत्ययः। यथा राजाचार्याभ्यां वाक्यमेव भवति, तथेहापि भवितव्र्यामिति यश्चोदयेत्, तं प्रत्याह - `आचार्यादणत्वम्` इति। क्षुभ्नादिपाठात्। `केवलाभ्यां वाक्यमेव भवत#इ` इति। छप्रत्ययो न भवति, अनर्भिधानादेव॥", "51010": "`सर्वाण्णस्य वावचनम्` इति। अभिधानेऽभिधेयोपचाराद्वेति विकल्प्माह। इहापि विभाषाग्रहणानुवृत्तेरेव वेदितव्यम्। न च सर्वपुरुषाभ्यां विकल्प आशङ्का; व्यवस्थितविभाषात्वात्। `पुरुषाद्वध` इति। तत्र वधे - <<तस्येदम्>> [[4.3.120]] इत्यणोऽपवादः, विकारे - <<प्राणिरजतादिभ्योऽञ्>> [[4.3.154]] इत्यञः, समूहेऽपि - <<तस्य समूहः>> [[4.2.37]] इत्यणः। `तेन कृते ग्रन्थे` [`कृते ग्रन्थे` इत्येव पाणिनीयं सूत्रम्] [[4.3.116]] इत्यण एव॥", "51011": "उभयस्मिन्? ञित्करणं स्वरार्थम्। चरके वृद्ध्यर्थं च। माणवे तु <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इति पुंवद्भावप्रतिषेधार्थम्। माणवीना बार्यां यस्य स माणवीनाभार्य इति॥", "51012": "तस्मै इदं तदर्थम्, `चतुर्थी तदर्थ` [[2.1.35]] इत्यादिना समासः। एतदेव वचनं ज्ञापकम् - अर्थोत्तरपदे समासे समुदायार्थस्य लिङ्गं भवति, न च परवल्लिङ्गतेतिं। एतेन यदुक्तं - `अर्थेन नित्यसमासः सर्वलिङ्गता च वक्तव्या` (वा।78) इति सा सिद्धा भवति। `प्रकृतिरुपादानकारणम्` इति। समानजातीयमभिन्नसन्तानवृत्ति कारणमुपादनकारणमित्युच्यते। उपादीयत इत्युपादानम्, बहुलवचनात्? कर्मणि ल्युट्, तस्य कारणमिति षष्ठीसमासः। `तस्यैव व` इत्यादि। तस्यैवोपादानकारणस्योत्तरभाव्यस्थाविशेषो विकृतिः। `विकृतिवाचिनः` इत्यादि। ननु च <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इति वचनात्तदर्थमिति प्रथमं निर्दिष्टत्वात्? प्रकृतेश्च तदर्थत्वात्? तद्वाचिन एव प्रत्ययः प्राप्नोति? नैष दोषः; प्रथमस्य चाप्रथमस्य च कार्यप्राप्तौ प्रथमादेव यथा स्यादित्येवमर्थं प्रथमग्रहणं नियमार्थं कृतम्। इह तु प्रथमात्? प्राप्तिरेव नास्ति। `प्रकृतौ` इति। सप्तम्या प्रकृतेः प्रत्ययार्थत्वेन सम्पादितत्वात्। `विकृतेः` इति। पञ्चम्या विकृतेः प्रकृतित्वेन तस्मान्नायमस्य विषय इति विकृतिवाचिन एव प्रत्ययो भवति। `विकृत्यर्थायाम्` इति। अनेन तदर्थमित्यत्र सुब्व्यत्ययेन सप्तम्याः स्थाने प्रथमा, लिङ्गव्यत्ययेन च स्त्रीलिङ्गस्य स्थाने नपुंसकलिङ्गं कृतमिति दर्शयति। ननु च छन्दसि व्यत्यय उक्तः, नेदं छन्दः, तत्कुतो व्यत्ययः? `छन्दोवत्सूत्राणि भवन्ति` (म।भा।1.1.1) इत्यदोषः। `तदर्थग्रहणेन` इत्यादि। इह प्रकृत्यन्तरनिवृत्तिः - यवानां धानाः, धानानां सक्तव इति। क्वचिद्विकारस्य प्रकृतिसम्बन्धः - धानानां यवाः, सक्तूनां धाना इति। क्वचित्? प्रकृतेरनन्यार्थता, यथा - काष्ठानामङ्गाराः। प्रकृतेरनन्यार्थताख्यानार्थेन यदिष्टं सम्पद्यते, तद्दर्शयति - `प्रत्ययार्थस्य च` इत्यादि। इह विकृत्यर्थायां प्रकृतौ प्रत्यय उच्यते। तस्य तस्मात्? तादर्थ्ये चतुर्थ्येव शक्यते प्रतिबोधयितुम्। अतः प्रत्ययार्थस्य तदर्थत्वेन सामर्थ्याच्चतुर्थी समर्थविभक्तिर्लभ्यते। `केचित्तु` इत्यादि। तेषां वचनलभ्यैवु चतुर्थी समर्थविभक्तिः।`तदर्थम्` इति। किमिति षष्ठी प्रत्युदाह्यियते? षष्ठति तादथ्र्यं ब्रूते, यथा - गुरोरिदं गुर्वर्थमिति। तथा सति षष्ठपि समर्थविभक्तिर्भवति। अङ्गाराणां काष्ठानीति प्रत्युदाहरणं तु प्रकृत्यन्तरनिवृत्त्या, तया यवादेः समर्थ्येते। अङ्गारेभ्यः काष्ठानि, प्राकारेभ्य इष्टका इति। इदमसति तदर्थग्रहणे न ज्ञायते किमर्थं विवक्षितमिति। तस्मादनन्यार्थता प्रकृतेर्विवक्षितेति। एतत्? प्रयोजनं प्रतिपादयितुं तदर्थग्रहणं कृतमिति भावः। तथा च प्रकृत्यन्तरनिवृत्या प्रकृतिरेव सम्बध्यमाना व्यतिरिच्यत इति यवादेरेव व्यतिरेकविभक्तिर्भवति। ये तु चतुर्थींमनुवर्तयन्ति, तेषां तदरथग्रहणं चतर्थीविशेषणं विज्ञायते - तादर्थ्ये चतुर्थीति। तत्र मूत्राय कल्पते यवागूरिति प्रत्युदाहरणम्। तेषां चतुथ्र्यनुवृत्तिरपार्थिका; तदर्थग्रहणेनैव गतार्थत्वात्। तथा च या तादथ्र्यसमानार्था षष्ठी सा चासत्यां विशेष्यते। `या काचित्` इतचि। न तूपादानकारणभूतापीत्यर्थः। स्यादेतत् - कूपः प्रकृतिरुदकस्य न भवत्येव; ततस्तन्निवृत्त्यर्थं विकृतिग्रहणं न कर्तव्यमित्यत आह - `भवति च` इत्यादि। चशब्दोवधारणे। ननु चान्येभ्य एव स्वकारणेभ्य उदकमुत्पाद्यते, तत्कथं कूपस्तस्य प्रकृतिः? इत्याह - `तत्रोत्पादनात्` इति। यथैव हि प्रयाजादीनां धर्माणामुत्पत्त्याधारभूतौ दर्शपौर्णमासौ प्रकृतौ भवतः, एवमुदकस्योत्पत्त्याधारभूतत्वात्? कूपः प्रकृतिर्भवति। यद्येवम्, उदकमपि तस्य विकृतिः? इत्याह - `ननु` इत्यादि। अत्रैवोपपत्तिमाह - `अत्यन्तभेदात्` इति। विकारो हि प्रकृतेरुत्तरमवस्थान्तरमिति ततो नात्यन्तभिन्नो भवति, यथा - काष्ठानामङ्गाराः। ते हि पार्थिवेनाभिन्नसन्तानवर्त्तित्वेन काष्ठेभ्यो नात्यन्तं भिद्यन्ते। उदकं तु भिन्नस्वभावत्वाद्भिन्नसन्तानवर्त्तित्वाच्च कूपादत्यन्तं भिन्नम्। अतो न तस्योत्तरमवस्तान्तरमिति न भवति विकृतिः। `न तु कोशी तस्य प्रकृतिः` इति। अतत्कारणत्वात्, अनुत्पत्त्याधारभूतत्वाच्च। ननु च प्रकृतिर्विकृतिरिति सम्बन्धिशब्दावेतौ। सम्बन्धिशब्दश्च नियत एव प्रतियोगिनि प्रतीतिमुपजनयति, यथा हि - `मातरिवर्त्तितव्यम्` इत्युक्ते न चोच्यते `स्वस्यां मातरि` इति, या यस्या माता तस्यामिति प्रतीयते। एवं सति कूपलक्षणायां प्रकृतौ विकृत्यर्थायां प्रत्ययार्थत्वेन विवक्षितायामसत्यपि विकृतग्रहणे तस्यैव कूपस्य या या विकृतिस्तत एव प्रत्ययो विज्ञायते। तथा च विकारवाचिनोऽसिशब्दात्? प्रत्यये विधित्सिते यस्यासौ प्रकृतिस्तस्यामेव तदर्थायां प्रकृतावसत्यपि प्रकृतिग्रहणे प्रत्ययो विज्ञायते। तस्मादन्यतरोपादानेऽपि सर्वमिष्टं सम्पद्यते। न किञ्चिदनिष्टमापद्यत इत्याह - `तदर्थं द्वयोरपि` इत्यादि। अनेनैवं मन्यते - स्यादेतदेव यदासौ प्रकृतिविकृतिशब्दौ नियोगतः सम्बन्धिशब्दौ, न चेमौ नियोगतः सम्बन्धिशब्दौ। तथा हिं, विपूर्वस्तावदयं करोतिंरस्त्येवापकारे - देवदत्तोऽस्थित्यै विकरोतीति; अस्ति चेष्टानानात्वे - विकुर्वते च्छात्रा इति; अस्त्यनौचित्ये - विकृतिरेषा स्त्रीणां यत्? स्वातन्त्र्यमिति। अस्ति कार्ये - तन्तुनां पटो विकार इति। तता प्रपूर्वोऽप्ययमस्ति कारणे - तन्तवः प्रकृतिः पटस्येति; अस्त चौदासीन्ये - सत्त्वानां प्रकृतिरिति। तान्युच्यन्ते यान्यनारम्भकाणि; अस्ति दोषापगमे - प्रकृतिस्तोऽयमिति। अस्ति स्वभ्वे-प्रकृत्याऽभिरूप इति; अस्ति धर्माणामुत्पत्त्याधारे, यथा-दर्शपौर्णमासौ धर्माणां प्रकृतिस्थोऽयमिति। असति स्वभावे-प्रकृत्याऽभिरूप इति; अस्ति धर्माणामुत्पत्त्याधारे, यथा-दर्शपौर्णमासौ धर्माणां प्रकृतिरिति। तदेवमर्थबहुत्वादनयोः सर्म्बान्धत्वमनैकान्तिकमिति, अतोऽन्यतरग्रहणे न सिध्यति। न चान्यतरेण शक्यते वक्तुं विवक्षितः प्रकृतिविकारभावः। अयमुपादानकारणस्य तदुत्तरावस्थाभूतस्य च यो विकारः स इह वेदितव्यः। यदि तु विपूर्वः करोतिरनेकार्थः, <<तस्य विकारः>> [[4.3.134]] इत्यत्रापि सन्देहापगमाय तर्हि प्रयतितव्यम्? सत्यमेतत्; शैलीयमाचार्यस्य यस्य क्वचिदभिधानमाश्रयति, क्वचन्न्यायम्, क्वचिद्वचनमिति तत्? सर्वमुच्यते। तेन सर्वं प्रत्याय्यते॥", "51013": "यदा छदिश्चर्मविकारो विवक्ष्यते तदापि ढञेवेष्यते - छादिषेयं चर्मेति। ननु च परत्वात्? <<चर्मणोऽञ्>> [[5.1.15]] इत्यञ्? प्राप्नोति? नैष दोषः; `चर्मणोऽञ्` इत्यत्र छदिषो ढञनुवर्त्तिष्यते। यथा छदिःशब्दाद्वलिशब्दाच्चतुर्थीसमर्थात्? प्रकृतिविकारभावे प्रत्यय उपजायते, तथोपधिंशब्दादपि भवतिव्यमित्याशङ्क्याह - `उपधिशब्दात्` इत्यादि। अत्र युक्तिमाह - `उपधीयते` इत्यादि। तेन `कर्मण्युपसर्गे घोः किः` इति दर्शयति। तेन च द्रव्यस्यानासादितोत्तरावस्थस्याभिधानम्। यद्युपधिंशब्दाद्विकृतिवाचिनः स्यात्, एवमर्थान्तरे स्यात्। न चासौ प्रकृतिविशेषे भवति। न तूपधिशब्दाद्वाच्यस्य प्रत्यान्तरस्य प्रकृतिविकारभावोऽस्ति, अबेदात्। तथा हि - यदेव रथाङ्गमुपधिशब्देनोच्यते तदेवानासादितोत्तरावस्थमौपधेयशब्देनापि। स्यादेतत् - यदा भावसाधन उपधिंशब्द उपधानमुपधिरिति तदा नास्ति भेदः, क्रियाभिधानात्; यदाप्युपधिशब्देन क्रियाद्रव्यस्य विकार उच्यते तदौपधेयशब्देन च तत्प्रकृति द्रव्यम्, अतः प्रकृतिविशेषे परप्रत्ययौ भविष्यतीति? एतच्चायुक्तम्; न हि क्रियाद्रव्यस्य विकारो युज्यते; अत्यन्तभेदात्। तस्मात्? स्थार्थं एवोपधिंशब्दात्? प्रत्ययो विज्ञायते॥", "51014": "`चर्मण्यपि` इत्यादि। ञ्यस्यावकगाशः - औपानह्रो मुञ्जः, अञोऽवकाशः - वाध्र्रम्, वारत्रम्; चर्मणि प्रकृतित्वेन विवक्षिते सत्युभयप्राप्तौ पूर्वविप्रतिषेधेन ञ्य एव भवति - औपानह्रं चर्मेति॥", "51015": "`चर्मणः` इति पञ्चमी वा स्यात्? षष्ठी वा? यदि पञ्चमी, चर्मण एव प्रत्ययो भवेत्, न चर्मविकारवाचिभ्यः। एतच्च कुतो लभ्यते? अनभिधानात्। तथा हि प्रकृतिविशेष एव प्रत्यय इष्यते। न च चर्मशब्दादुत्पन्ने प्रत्यये विवक्षितार्थस्याभिधानमस्ति। तस्मान्नेयं पञ्चमी, अपि तु षष्ठी॥", "51016": "द्वितीयाशङ्कामपनिनीषुराह - `तत्` इत्यादि। अस्तेरकर्मकत्वादित्यभिप्रायः। अवयवार्थपूर्वत्वादवयव्यर्थस्येत्याह - `अस्य` इत्यादि। करोतीति करणः। कर्तरि बहुलवचनाल्लयुट्। इतिश्चासौ करणश्चेति कर्मधारयः। `सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे` [[3.3.154]] । ननु च प्राकारीया इष्टकाः, प्रासादीयं दार्विति च पूर्वेणैव सिद्धम्, तथा हि - यासामिष्टकानां यस्य च दारुणो बहुत्वेन प्राकारः प्रासादश्च सम्भाव्यते, तासामिष्टकानां तस्य च दारुणो यथासंख्येन प्राकारप्रासादौ विकारौ भवतः, तादथ्र्याच्चेष्टकानां दारूणाञ्चास्तीवेत्यत आह - `प्रकृतिविकार` इत्यादि। गतार्थम्। `द्विस्तद्ग्रहणम्` इत्यादि। इत्येष न्यायोऽनेन प्रदश्र्यते। <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यादौ नैकः प्रत्ययार्थः। तत्र तत्समुदायेन समर्थविभक्तेः सम्बन्धो विज्ञायते। ततश्च यत्र द्वाभ्यां प्रत्ययार्थाभ्यां समर्थविभक्तेः सम्बन्धः सम्भवति - शाखावान्? वृक्ष इत्यादौ, तत्रैव तत्? स्यात्। यत्र त्वन्यतरेणैव सम्बन्धः - गोमान् देवदत्तः, वृक्षवान्? पर्वत इत्यादौ, तत्र न स्यात्। अस्मस्तु न्याये प्रदर्शिशते सर्वत्र भवति॥", "51017": "परिखाशब्देन चात्र खेयमुच्यते॥", "51018": "प्राग्वचनं <<शीर्षच्छेदाद्यच्च>> [[5.1.65]] , <<दण्डादिभ्यः>> [[5.1.66]] इत्येवमादिनाधिकारवता ठञि विच्चिन्ने <<पारायणतुरायणचान्द्रायणं वर्तयति>> [[5.1.72]] इत्येवमादावर्थनिर्देशे ठञेव यथा स्यादित्येवमर्थम्॥", "51019": "`तदर्हति` [[5.1.62]] इत्येको विधिः, <<तदर्हम्>> [[5.1.117]] इति द्वितीयः, तत्? कस्येहावधित्वेनोपादानम्? इत्याह - `तदर्हति` इत्यादि। इतरस्य ग्रहणं कस्मान्न भवति? एवं मन्यते यदि तस्य ग्रहणभिप्रेतं स्यात्? `प्राग्वतेः` [[5.1.18]] इत्यनेनैव सम्बन्धं कुर्यात्, न `आर्हात्` इत्यनेन। ननु च वत्यर्थेऽपि नैतदस्ति; यद्यपि वत्यर्थेऽपि ठगधिक्रियते, तथापि तत्र तेन न भवितव्यम्; प्रतिपदविहितेन वतिना बाधितत्वात्, अनभिधानाद्वा। तस्मादर्हतिशब्दैकदेशस्यैवार्हशब्दस्यावधित्वं न्याय्यम्। `गोपुच्छादीन्? वर्जयित्वा` इति। कथं पुनरेतज्ज्ञायते - अगोपुच्छादिति प्रतिषेधोऽयमिति? अन्यस्यार्थस्येहासम्भवात्। ननु चायमर्थः स्यात् - अगोपुच्छशब्दात्? संख्यायाः परिमाणाच्चेति? अशक्योऽयमर्थं इह सम्भावयितुम्। यदि ह्रयमर्थः स्यात्, निष्कादिभ्यः परिमाणादेव सिद्धत्वात्? पुनर्वचनमनर्थकं स्यात्। ननु च नियमार्थं पुनर्वचनं स्यात् - असमास एव यथा स्यादिति? नैतदस्ति; न हि विधौ सति नियमार्थता युक्ता। नियमे हि सत्यवक्तव्यस्य त्यागाच्छब्दबाधनम्। किञ्च, सिद्धञ्च पुनर्वचनमुपादीयत इति, उक्तानुवादे दोषश्च। विधौ तु न शब्दबाधनम्, नानुवाद#ओष इतदि। विधिनियमसम्भवविचारे विधिनैव युक्तं भवितुम्। तस्मादन्यस्येहार्थस्यासम्भवात्? `अगोपुच्छात्` इति प्रतिषदोऽयमिति विज्ञायते। ज्ञापकात्प्रकृतरतर न विवक्ष्यते, यदयम्? <<लोकसर्वलोकाट्ठञ्>> [[5.1.44]] इति ठको निवृत्त्यर्थं ठञं करोति। `अभिविधावयमाकारः` इति। मर्यादायां हि वर्तमानस्याकारस्यात्र ग्रहणमनर्थकं स्यात्, प्राग्ग्रहणानुवृत्त्यैव सिद्धत्वात्। अभिविधिवृत्तेराकारस्य ग्रहणे सत यदिष्टं सम्पद्यते, तद्दर्शयितुमाह - `अर्हत्यर्थेऽपि ठग्भवति` इति। `भेदगणनं संख्या` ति। भिद्यन्त इति भेदाः, भिन्नाः पदार्थाः, ते गण्यन्ते संख्यायन्ते परिच्छिद्यन्ते येन तद्भेदगणनम्, एकत्वादि। संख्याभेदे हि सति पदार्थनुसङ्कल्पनमेकत्वादिभिः क्रियते। एकत्वसंख्याऽपि बहुषु सन्निवेशितेषु भेदमेकमसहायमाह। `गुरुत्वमानमुन्मानम्` इति। सुवर्णादेर्वस्तुनो गुरुत्वमुत्क्षिप्यते, येन तदुन्मानं तुलादि। `आयाममानं प्रमाणम्` इति। तिर्यगभिमुखस्य वस्तुनो येनायामपरिच्छेदः क्रियते तत्? प्रमाणम्, वितस्त्यादि। `आरोहपरणाहमानं परिमाणम्` इति। आरोहतः परिणाहतश्च मीयते व्रीह्राद्यर्थो येन तत्परिमाणम्। आरोहः उच्छ्रायः, परिणाहः विस्तारः। संख्यापरिमाणयोर्भेदे पृष्टे यदुन्मानादीनां विशेषप्रदर्शनं तत्प्रसङ्गेन तद्विषयस्याज्ञानस्यापनयनार्थम्। संग्रहेण किलशब्द एवमादिमतमाचार्याणामित्यर्थं सूचयति। `सर्वतः` इति। आरोहतः परिणाहतश्चेत्यर्थः। `संख्या बाह्रा तु सर्वतः` इति। उन्मानात्? परिमाणात्? प्रमाणाच्च संख्या बाह्रा; तत्रानन्तर्भावात्॥", "51020": "`ठञोऽपवादः` इति। येन नाप्राप्तित्यायेन (व्या।प।49)। निष्कादिभ्यो द्रोणपर्यन्तेभ्यः परिमाणशब्दत्वात्? षष्ठिशब्दस्य संख्याशब्दत्वाट्ठकि पर्युदस्ते ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। `तेदन्ताप्रतिषेधस्य` इति तदन्तविधेरप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्? प्रत्ययो विज्ञायते, एवं तर्हि `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शा।प।65) इति केवलेभ्य- प्रत्ययो नोपपद्यते? नैष दोषः; असमासगरहणेन हि ग्रहणवत्परिभाषाया (व्या।प।89) निवृत्तिराख्याता, निवृत्तायाञ्च <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति तदन्ताद्भवति। तत्र च `स्वस्य च रूपस्य` (काशिका।1.1.73) इति प्रकृतत्वात्? केवलादपि भवति। यत्तु मन्यते-`अपूर्वोपादानसामर्थ्यात्? केवलादिति लाघवार्थं केवलानां पाठः स्यात्` इति, यत्किञ्चदेतत्। `इत उत्तरञ्च` इत्यादि। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न` (व्या।प।89) इति प्रतिषिध्यते? अस्याः परिभाषाया अनित्यत्वात्। अनित्यत्वं तु तस्या गर्गादिषु `वाजासे` इति समासे प्रत्ययप्रतिषेधाद्गम्यते। नित्यत्वे हि वाजशब्दादुत्पद्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति प्रतिषेधं कुर्यात्। `द्विशूर्पम्` इति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा। न तावदेषा लुगन्ता प्रकृतिरिति संख्यापूर्वपदादपि <<शूर्पादञन्यतरस्याम्>> [[5.1.26]] इत्यञेव क्रियते, तस्य `अव्यद्र्धपूर्वद्विगोर्लुगसंज्ञायाम्` [[5.1.28]] इति लुक्। `द्विशौर्पिकम्` इति। <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इत्युत्तरपदवृद्धिः। यदुक्तम् - `संख्यापूर्वपदानां तदन्तविधिरितीष्यते` इति, यच्चोक्तम् - `लुगन्तायास्तु प्रकृतेर्नेष्यते` इति, तदुभयमाप्तागमेन स्थिरीकर्त्तुमाह - `तथा चोक्तम्` इत्यादि॥`कनोऽपवादः` इति। उत्तरसूत्रेण प्राप्तस्य। `शतिकम्` इति। <<तदस्य परिमाणम्>> [[5.1.57]] इति वर्तमाने <<संख्यायाः संज्ञासंघसूत्राध्ययनेषु>> [[5.1.58]] इति सङ्घे प्रत्ययार्थे विविक्षित उत्तरसूत्रेण कन्नेव भवति। `प्रत्ययार्थोऽत्र सङ्घः` इति। शतमध्यायानां परिमाणं यस्य निदानख्यग्रन्थस्य, स चेह प्रत्ययार्थः। स च शतसंख्याव्यवच्छिन्नाव्यायसमुदायात्मक इति सङ्घ एव परत्ययार्तो भवति। `शतमेव वस्तुतः` इति। अव्यायशतस्यानन्यार्थत्वात् ततस्च प्रकृत्यर्थात्? न भिद्यते। तदेव ह्रध्यायानां शतं प्रकृत्याभिधीयते, प्रत्ययान्तेनापि तदेवेति नेह प्रकृत्यर्थात्? प्रत्ययार्थभेदः। तदेतेन यत्र चाव्यतिरिक्तः प्रकृत्यार्थात्? प्रत्ययार्थस्तत्र प्रतिषेधो भविष्यति। न च व्यतिरिक्त इत्येतदाख्यातम्। ननु च `सङ्घे चानौत्तराधर्ये` [[3.3.42]] , <<संख्यायाः संज्ञासंघसूत्राध्ययनेषु>> [[5.1.58]] इत्यत्र च प्राणिसमूहे सङ्घशब्दो गृह्रते, ततर कथं ग्रन्थविषयो गृह्रते\/ उपचारेणेत्यदोषः। यदि वा संख्यासूत्रे संज्ञाशब्दसाहचर्याद्विशिष्टः सङ्घो गृह्रते। `सङ्घे चानौत्तराधर्ये` इत्यत्रापि <<छन्दोनाम्नि च>> [[8.3.94]] इत्यतो नामग्रहणानुवृत्तेः प्राणिसङ्घो गृह्रते। इह तु यत्वाभावाद्? गन्थस्यापि ग्रहणमित्यविशेषः। `इह तु` इत्यादि। ननु च शतेऽभिधेये प्रतिषेधेन भवितव्यम्, इह च शतद्यं शाटकशतम्, शतिकं शाटकशतमित्युक्ते शतं प्रतीयत एव, तत्किमिति प्रतिषेधो न भवति? इत्याह - `वाक्येन` इत्यादि। शत्यशतिकशब्दौ हि सायान्यशब्दौ, सामान्यशब्दाश्च न प्रकरणादिकमन्तरेण विशेषे वर्तन्ते। तेन यावच्छाटकशतिमित्येतत्पदान्तरं न प्रयुज्यते, तावत्? प्रत्ययार्थस्य शतत्वं नावसीयते। तस्मात्? पदान्तरसन्निधौ गम्यमानत्वात्? पदान्तरार्थो भवति, न प्रत्यायार्थः। `न श्रुत्या` इति। गम्यत इति सम्बन्धः। यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रत्ययार्थस्य शतताऽऽख्यायते, तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते, यथा - प्रत्युदाहरणे शतं परिमाणमस्य शतकमित्युक्ते गम्यत एवैतत् - प्रत्ययार्थोऽपि शतमेवेति। इह तु वाक्याच्छतत्वं प्रतीयते। न च पदसंस्कारकाले वाक्यार्थस्तयाङ्गभावोऽस्ति। तदा तस्योपसर्जनत्वात्? प्रकृत्यर्थादतिरिक्ते प्रत्ययार्थे प्रतिषेधो भवति, न तु व्यतिरिक्तवाक्यगम्य इति। तदाप्तवचनेन द्रढयितुमाह - `तथा चोक्तम्` इत्यादि। शतप्रतिषेधे कर्तव्ये प्रकृत्यर्थादन्यस्य प्रत्ययार्थस्य शतत्वेऽप्रतिषेध इत्येतदुक्तं भवति। तत्रान्यत्? प्रकृत्यर्थः शतम्, अन्यत्? प्रत्ययार्थः शतम्। तत्र विधिरेव भवति; न प्रतिषेध इति। केन पनः समासे प्राप्नोति, यतस्तत्प्रतिषेदार्थोऽसमासानुकर्षणार्थश्चकारः क्रियते? इत्याह - `प्राग्वतेः` इत्यादि॥", "51021": "", "51022": "`पञ्चकः पटः` इति। लौकिक्याः संख्याया उदाहरणम्। `बहुकः` इत्यादि। परिभाषितायाः। `चत्वारिंशत्कः` इति। `इसुसुक्तान्तात्? कः` [[7.3.51]] । `अर्थवर्तास्तशब्दस्य ग्रहणात्` इति। अर्थवद्ग्रहणपरिभाषया (व्या।प।1।)। `डतेः पर्युदासो न भवति` इति। शब्दापेक्षयाऽवयवषष्ठीति। प्रत्ययस्य य एकदेशस्तिशब्दस्तस्य पर्युदासो न भवति, न ह्रयमर्थवान्। `कतिकः` इति। किं परिमाणमेषामिति <<किमः संख्यापरिमाणे डति च>> [[5.2.41]] इति डतिः, `टेः` [[6.4.143]] इति टिलोपः। कतिभिः क्रीतमिति विगृह्र कन्। यद्यर्थवतस्तिशब्दस्य ग्रहणम्, नवतेर्यस्तिशब्दस्तस्यापि पर्युदासो न प्राप्नोति; नवतिशब्द एव हि समुदायः संख्याविशेषेणार्थवान्, न तदेकदेशस्तिशब्दः? नैष दोषः; नवतिशब्दे यो नवशब्दः सोऽनेकार्थः। तथा च संख्याविशेषावगतमतो नवशब्दात्? परो यस्तिशब्दस्तत एत विज्ञायते; तद्भावे भावात्। अशीतिशब्दस्य तर्हि तिशब्दस्य पर्युदासो न प्राप्नोति, नासावर्थवान्? नापि ततः पूर्वो योऽशीशब्दस्तस्य कश्चिदर्थोऽस्ति, समुदाय एव तु संक्याविशेषेणार्थवान्? नैतदस्ति; यद्यप्यशी-इतिशब्दस्य न कश्चनार्थः प्रकाशते, तथापि प्रतिज्ञायते। अशीतिशब्दो ह्रेवं व्युत्पाद्यते - अष्टानां दशानामशीभावः, तिशब्दश्च प्रत्ययः। य एवाष्टानां दशानामार्थः सोऽशीशब्दस्य, यस्तु संखघ्याविशेषः सोऽयं तिशब्दस्यैवेति, ततस्तस्य नानर्थक्यम्। एवमपि विशतेः प्रतिषेधो न सिध्यति? स ह्रेवं व्युत्पाद्यते - द्वयोर्दशतोर्विन्भावः, शतिंश्च प्रत्यः। तत्र शतिप्रत्ययात्? पूर्वस्य भागस्य द्वयोर्दशतोर्योऽर्थः स एव प्रतिज्ञायते शतिप्रत्ययस्य, संखायविशेषः, तिशब्दस्य न कश्चित्। इष्टमेव तत्। संग्राहितः कन्? विंशतेः - `तदिंवशतिकम्` इति। अथ `अतिशदन्तायाः` इत्यत्रान्तग्रहणं किमर्थम्, अतिशच्छब्दस्य न प्राग्वतीयत्वात्? प्रत्ययग्रहणपरिभाषयैव (पु।प।ल।वृ।44) तदन्तविधिर्भविष्यति\/ एवदेव तर्हि प्रयोजनम् - अनयचा परिभाषया तदन्तविधिर्मा भूदिति। किञ्च स्यात्? इहैकसप्तत्या क्रीत इति प्रतिषेधो न स्यात्; एकसप्तदशतस्तिप्रत्ययस्याविधानात्। अन्तग्रहणे तु क्रियमाणे सति समुदायस्यान्ते तिशब्दः श्रुयत इत्यत्रापि प्रतिषेधः सिद्धो भवति॥", "51023": "`वत्वन्तस्य संख्यात्वात्` इति। बहुगणसूत्रेण [[1.1.22]] संख्यासंज्ञाविंधानत्। `तस्य` इत्यादि। कथं पुनस्तस्यानेनागमः शक्यो विज्ञातुम्, यावता नेह कन्ग्रहणम्? यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः? नैष दोषः, `वतोः` इति पञ्चमी `कन्` इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति। `तावत्कः` इति। तत्परिमाणमस्येति `यत्तदेतेभ्यः परिमाणे वतुप्` [[5.2.39]] , <<आ सर्वनाम्नः>> [[6.3.91]] इत्यात्वम्॥", "51024": "`विंशकः` इति। <<ति विंशतेर्डिति>> [[6.4.142]] इति तिशब्दस्य लोपः, अतो गुणे [[6.1.94]] पररूपत्वम्। यस्येति [[6.4.148]] लोपो न भवति; `असिध्दवदत्रा भात्` [[6.4.22]] इति लोपस्यासिद्ध्त्वात्। नन्विहान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञा, तत्कथं पररूपत्वम्? एवं तह्र्रसिद्धत्वस्यानित्यत्वाद्? यस्येति लोपो भविष्यतीत्यदोषः। `कथं पुनरत्र कन्` इति। तिंरशत्क इत्यधिकृत्य प्रश्नः विंशतिक इत्यत्रार्थवतस्तिशब्दस्य ग्रहणात्? पर्युदासो न प्रवर्तत इति तमधिकृत्यास्य प्रश्नस्योपन्यासो नोपपद्यते। `योगवभागः करिष्यते`इति। तिंरशदर्थमित्यभिप्रायः॥", "51025": "`ठञोऽपवादः` इति। न ठकः, कंसशब्दस्य परिमाणवाचित्वात्॥", "51026": "`ठञोऽपवादः` इति। न ठकः, शूर्पशब्दस्य परिमाणवाचित्वात्॥", "51027": "`ठक्ठञोरपवादः` [`ठञोऽपवादः` इति मुद्रितः पाठः] इति। शतमानं परिमाणम्, सहरुआं संख्या, तेनैताभां ठग्न प्राप्नोतीति ठञोऽपवादः। विंसत्या क्रीतं `विंशातिकम्` इति। तच्च परमाणमपि सम्भवति। तत्र परिमाणाट्ठञोऽपवादः, अपरिमाणट्ठकः, वसनशब्दाट्ठगपवादः॥", "51028": "`अध्यरधकसम्` इति। अध्यर्धेन कंसेन क्रीतमिति तद्धितार्थे समासः। `प्राग्वतेः संख्यापूर्वदपानां तदन्तविधिरलुकि` (म।भा। 2।346) इति `कंसाट्टिठन्? [[5.1.25]] इति टिठन्, तस्य लुक्। `द्विकंसम्` इति। `अध्यर्धशूर्पम्` इति। शूर्पादञन्यतरस्याम्` [[5.1.26]] इत्यञ्; ठञन्यतरस्याम्, तस्य लुक्। यद्यतिर द्विगोः परस्यार्हीयस्य लुग्विधीयते, विशेषानुपादनात्? तद्धितलुगन्तादपि द्विगोः परस्य प्राप्नोति - द्वाब्यां शूर्पाभ्यां क्रीतः पटो द्विशूर्पः पटः, द्विशूर्पेण पटेन क्रीतमिति द्विशौर्पिकमिति? नैष दोषः; वक्ष्यमाणं विभाषाग्रहणं पूर्वेणापि सम्बध्यते। व्यवस्थितविभाषा सा। तेन तद्धितलुगन्ताद्द्विगोः परस्य न भविष्यति - द्विशौर्पिकमिति। प्राग्वतीये ठञि कृते <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इत्युत्तरपदवृद्धिः। `पाञ्चलोहितिकम्, पाञ्चकलापिकम्` इति। कस्याचित्? परिमाणविशेषस्य नामधेये एते। पञ्च लोहिन्यः परिमाणमस्येति, पञ्च कपालाः परिमाणमस्येति विगृह्र तद्धितार्थे समासः, <<तदस्य परिमाणम्>> [[5.1.57]] इति ठञ्, `भस्याऽढे तद्धिते` (वा।731) इति पुंवद्बावाल्लोहिनीशब्दस्येकारनकारनिवृत्तिः। `अध्यर्धशब्दः संख्यैव` इति। अभिधानेऽभिधेयोपचारं कृत्वा, `अध्यर्धशब्दः संख्यैव` इत्युक्तम्। यथैव ह्रेकादिका लौकिकसंख्या, एवमध्यर्धंशब्दोऽपि। `स किमर्थं भेदनोपादीयते` [`सः` नास्ति - कासिका] इति। संख्याया इति शेषः। इह हि द्वगोरध्यर्धपूर्वस्य भेदेनोपादनादध्यर्धपूर्वस्य भेदेन संख्याया उपादानं भवतीति। अतस्तस्याध्यर्धशब्दस्य भेदेनोपादानस्य प्रयोजनं दर्शयितुं पृच्छति। `ज्ञापकार्थम्` इत्यादिना प्रयोजनमाचष्टे। किं पुनरस्य संख्याकार्यं न भवतीत्याह - `संख्यायाः` इत्यादि॥", "51029": "`अध्यर्धसहरुआम्` इति। `शतमानविंशतिक` [[5.1.27]] इत्यादिना विहितस्याणो लुक्। `अध्यर्धसाहरुआम्` इति। <<संख्यायाः संवत्सरसंख्यस्य च>> [[7.3.15]] इत्युत्तरपदवृद्धिः। `सुवर्णशत्मानयोरुपसंख्यानम्` इति। उपसंख्यानं प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम् - `विस्ताच्च` [[5.1.31]] इत्यतः सिंहावलोकितन्यायेन चकारोऽत्रोपतिष्ठते, स चानुक्तसमुच्चयार्थः, तेन सुवर्णशतमानयोरपि विष्यति। `अध्यर्धसुवर्णम्` इति। ठञो लुक्, `अद्यर्धशतमानम्` इति। `शतमान` [[5.1.27]] इत्यादि-विहितस्याणः। `अध्यर्धशतमानम्` इति। `परिमाणान्तस्य` [[7.3.17]] इत्यादिनोत्तरपदवृद्धिः। ननु च सुवर्णमुन्मानम्, न परिमाणम्, तत्कुतस्तस्य बुद्धिः? नैष दोषः; उत्तरपदवृद्धौ हयुन्मानमपि परिमाणमिति गृह्रते। कगुतो ज्ञायते? `असंज्ञाशाणयोः` [[7.3.17]] इति शाणशब्दस्य प्रतिषेधात्। यदि तर्हि तत्रोन्मानं न गृह्रेत, तदा शाणस्योन्मानार्थस्य प्राप्तिरेव नास्तीति प्रतिषेधं न कुर्यात्। अध्यर्धपूर्वद्विगुभ्यां कार्षापणसहरुआयोर्यथासंख्यं कस्मान् भवति? लक्षणव्यभिचारेण तदभावस्य सूचितत्वात्। इह तावत्? `अध्यर्धपूर्वद्विगोः` [[5.1.28]] इति निर्देशेऽल्पाच्तरत्वाद्? ध्यन्तत्वाच्च द्विगुशब्दस्य पूर्वनिपातः प्राप्नोति, `कार्षापणसहरुआआभ्याम्` इत्यत्राल्पाच्तरत्वात्? सहरुआशब्दस्य? तावेतौ निर्देशौ लक्षणान्तरनिरपेक्षतां बोधयन्तौ यतासंख्यपरिभाषाया अप्यभावं बोधयत इति न भवति यथासंख्यपरिभाषा॥", "51030": "अध्यर्धपूर्वग्रहणमस्वरितत्वान्नोपतिष्ठते। `द्विनिष्कम्` इति। द्वाभ्यां निष्काभ्यां क्रीतमिति असमाने ठको विधानादत्र ठञ्, तस्य लुक्। `द्विनैष्किकम्` इति। `परिमाणान्तस्य` [[7.3.17]] इत्यादिनोत्तरपदवृद्धिः। `बहुपूर्वाच्च` इति। बहुपूर्वद्द्विगोर्निष्कशब्दान्तादार्हीयस्य प्रत्ययस्य विभाषा लुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `द्वित्रिभ्यां निष्कात्` इत्येव सिद्धे पूर्वग्रहणमधिकं कुर्वतै तत्? सूचितम् - `अन्यदप्यधिकं किञ्चिदस्ति` इति। तेन बहुपूर्वादपि भवति॥", "51031": "`द्वित्रिपूर्वादिति चकारेणानुकृष्यते` इति। ननु च स्वरितत्वादेव द्वित्रिग्रहणमनुवर्त्तिष्यते, स्वरितत्वे सत्यधिकारपरिमाणं न ज्ञायत इति चेत्? वार्तमेतत्। व्याख्यानतोऽदिकारपरमाणं विज्ञास्यते? एवं तर्हि स्वरितत्वादेव द्वित्रिपूर्वग्रहणस्यानुवृत्तौ सिद्धायां यत्तदनुकर्षणार्थं चकरमधिकं करोति, तेनैतत्? सूचयति - अन्यदप्यत्र किञ्चिदधिकं भवतीति। तेन बहुपूर्वादपि विभाषा लुक्? सिद्धो भवति। `बहिबिस्तम्` इति। `द्विबिस्तम्` इति द्वौ विस्तो परिमाणमस्येति ठञ्, तस्य लुक्। `द्विबैस्तिकम्` इति। उत्तरपदवृद्धिः॥", "51032": "`द्वित्रिपूर्वग्रहणं निवृत्तम्; पूर्वत्र चानुकृष्टत्वात्, अस्वरितत्वाद्वा। शतमानादिसूत्रेण [[5.1.27]] अणि प्राप्ते तस्य लुकि खो विधीयते। `विधानसामर्थ्यादस्य लुग्न भवति` इति। यदि लुक्? स्यात्, खविधानमनर्थकं स्यात्। न ह्रणः खस्य च लुकि सति कश्चिद्विसेषोऽस्ति॥", "51033": "", "51034": "पणपादमाषेभ्यः <<असमासे निष्कादिभ्यः>> [[5.1.20]] इति असमासे ठको विधानाट्ठञि प्राप्ते तस्य लुकि शतशब्दादप्यसमासे <<शताच्च ठन्यतावशते>> [[5.1.21]] इति ठन्यतोर्विधानात्? समासे संख्यालक्षणे कनि यद्? विधीयते। `द्विपाद्यम्` इत्यादि। ननु पद्भावः कस्मान्न भवति `पद्यत्यतदर्थे` [[6.3.53]] इति? सत्यम्; <<पादस्य पदाज्यातिगोपहतेषु>> [[6.3.52]] इत्यत्र प्राण्यङ्गस्यैव पद्भावविधानात्। कृत एतत्? `आज्याति` इत्यादिना गतिवचनेन सम्बन्धस्तस्यैवोपपद्यते; न परिमाणशब्दस्य। स एव प्राण्यङ्गवाच्युत्तरसूत्रेऽप्यनुवर्तिष्यत इति तस्यैव पद्भाव इष्यते। स्यादेतत् - अयमपीह पादशब्दः प्राण्यङ्गवाची, अतो भवितव्यमेवेह पद्भावेन? इत्यत आह - `पद्भावो न भवति` इति। <<पद् यत्यतदर्थे>> [[6.3.53]] इति पद्भावः प्राप्नोति, स न भवति। किं कारणमित्याह - `प्राण्यङ्गस्य` इत्यादि। <<पादस्य पदाज्यातिगोपहतेषु>> [[6.3.52]] इत्यत्र प्राण्यङ्गस्य पादस्य ग्रहणम्। `इदं तु परिमाणग्रहणम्` [`परिमाणम्-काशिका] इति। पणादिभिः परिमाणैः साहचर्यात्? परिमाणं पादो गृह्रते, न प्राण्यङ्गमिति पद्भावस्याप्रसङ्गः॥", "51035": "", "51036": "", "51037": "`साप्ततिकम्, आशीतिकम्` इति। <<प्राग्वतेष्ठञ्>> [[5.1.18]] `नैष्किकम्`; पाणिकम्` इति। <<असमासे निष्कादिभ्यः>> [[5.1.20]] इति ठक्। `शत्यम्, शतिकम्` इत। <<असमासे निष्कादिभ्यः>> [[5.1.20]] इति ठक्। `शत्यम्, शतिकम्` इति। <<शताच्च ठन्यतावशते>> [[5.1.21]] इति। `द्विकम्, त्रिकम्` इति। <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] । सामान्यार्थाभिधाने तेनेति तृतीयोपादनादिह कस्मान्न भवति - देवदत्तेन क्रीतम्, पाणिना क्रितम्? इत्यत आह - `तेन` इत्यादि। करणे तृतीया। परिमूल्यात्? ततः प्रत्ययेन भवितव्यम्। `अन्यत्र` इति। अन्यतर मूल्यात्? करणे तृतीया भवति। `अनभिधानात्` इति। न हि या कर्तरि तृतीया याप्यमूल्यात्? करणे तृतीयोत्पद्यते, तदन्तादुत्पन्नः प्रत्यायो विवक्षितं वस्तु प्रतिपादयितुमलं सम्भवति। तथा ह - दैवदत्तिकं पाणिकमिति चोक्ते, देवदत्तेन कत्र्रा क्रीतम्? पाणिना करणेन क्रीतमित्येषोऽर्थो नावसीयते। देवदत्तेनेति कर्तरि तृतीया, पाणिनेति करणे। तदेतदुक्तं भवति - प्रगत्यासन्नविनिमयद्रव्यसम्बन्धानभिधानादिति। `अनभिधानादेव` इति। न हि प्रास्थिकमित्युक्ते, प्रस्थाभ्यां क्रीतं प्रश्थैर्वा क्रीतमित्येषोऽवगम्यते। तत्र पुनरभिधाने को हेतुः? शब्दशक्तिरीदृशी, किमत्रान्येन हेतुना! अपि च प्रस्थादयः शब्दा अर्थतस्तु परिमाणानामर्थानां वाचका इति तेषामभिधेयस्य प्रचये प्रवृत्तिसम्भवे को हेतुः? नन्वेवं वाक्येऽपि प्रचयो नोपपद्येत? नैष दोषः; वाक्ये हि प्रचयस्य वाचिका विभक्तिरस्तीति प्रचयाभिधानं न विरुध्यते। वृत्तौ तु न कश्चित्? प्रचयमाचष्ट इति नासौ वृत्तिविषये युज्यते। यदि तर्हि द्विवचनबहुवचनान्तात्? प्रत्ययेन न भवितव्यम्, एवं सति द्वाभ्यां क्रीतं द्विकम्, त्रिभिः क्रीतं त्रिकमित्येवमादि न सिध्यतीत्यत आह - `यत्र तु` इत्यादि। अनभिधानं द्विवचनान्तात्? प्रत्ययानुत्पत्तेर्हेतुः। तच्चाभिधानं क्व न भवति? यत्र प्रकृत्यर्थस्य संख्याभेदावगमो नास्तीति; प्रमाणाभावात्। इह तु प्रमाणमस्त्येव किञ्चित्। द्व्यादय एव शब्दाः प्रकृतित्वेनोपात्ताः। ते हि स्वप्रवृत्तिनिमित्तभूतयैव संख्ययाऽवच्छिन्नं वस्तु प्रतिपादयन्ति। अतः स्वार्थस्य संख्याविसेषावगमे प्रमाणम्। तेनात्रानभिधानादित्येष हेतुनस्तिति भवति प्रत्ययः। `तथा` इत्यादि। यथा त्रिकमित्यादौ प्रकृत्यर्थसंख्यानभावोपगमे प्रमाणसम्भवाद्बहुवचनान्तादपि प्रत्ययो भवति, तथा मौद्गिकमित्यादावपि मुद्गादिशब्दप्रकृतिरत्र स्वार्थस्य संख्यावगमे प्रमाणमित्येतद्दर्शयितुमाह - `न ह्रेकेन` इत्यादि। मुद्गादिनैकय व्यक्त्या क्रयो न भवतीति विनापि विभक्त्या मुद्गादिशब्दानुवृत्तौ बहुत्वं गम्यते। तत्र प्रमाणं भवति। एकग्रहण त्रयानुपयोगिनोद्र्वयोरप्युपलक्षणं वेदितव्यम्॥", "51038": "`महाभूतानाम्` [महाभूतपरिणामः=उत्पात्तः - काशिका] इति। पृथिव्यप्तेजोवाय्वाकाशानाम्। `साहरुआम्` इति। शतमानादिसूत्रेण [[5.1.27]] अण्॥", "51039": "`ठञादीनामपवादः` इति। अदिशब्देन ठगादीनां ग्रहण्। ननु च संख्यापरिमाणयोः पर्युदासात्? कनष्ठकोऽपवाद इति वक्तुं शक्यते, तत्कस्माट्ठञादीनामित्युच्यते? ठञादीनामित्ययमतद्गुणसंविज्ञानो बहुव्रीहिद्र्रष्टव्यः। अनयैवापेक्षयोक्तम् - अआस्य निमित्तमाइआकमिति। ठक्, प्रत्युदाहृतः। सर्वप्रत्ययसम्भवः, तद्बाधनार्थमिदमुक्तम्। `पञ्चकम्, अष्टकम्` इति। संख्यालक्षणः कन्? [[5.1.22]] । `प्रास्थिकः` इति। प्राग्वतीयष्ठञ्, [[5.1.18]] ॥", "51040": "", "51041": "", "51042": "<<तस्य निमित्तं संयोगोत्पातौ>> [[5.1.38]] इत्यतस्तस्यग्रहणमनुवर्तते, तत्किमर्थं पुनस्तस्यनिर्देशः? इत्याह - षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः` इत्यादि। `प्रत्ययार्थस्य` इति। निमित्तस्य। `अन्यथा` इति। यदि षष्ठीनिर्देशः प्रत्ययार्थै निवृत्त्यर्थो न क्रियते, ततो यथा संयोग उत्पातश्च प्रत्ययार्थविशेषणम्, तथेआरोऽपि तस्यैव विशेषणं सम्भाव्येत। तथा चेआरविशिष्टे निमित्त एव प्रत्ययः स्यात्॥", "51043": "ईआरानुकर्वणार्थश्चकारः। इतिकरणो विवक्षार्थः॥", "51044": "सर्वत्र ठञ्ग्रहणं ठको निवृत्त्यर्थम्, अन्यथा हि प्रकृतिमात्रनिर्देशे क्रियमाणे `आर्हात्` [[5.1.19]] इति ठक्प्रसज्येत॥", "51045": "`अप्यतेऽस्मिन्? वापः` इति। अधिकरणसाधनः `हलश्च` [[3.3.121]] इति घञ्॥", "51046": "`पात्रशब्दः परिमाणवाची` इति। `ठञोऽपवादः` इति। अत्रेयं युक्तिः - यदि ह्रपरिमाणवाची स्यात्? तदार्हीयस्य ठकोऽपवादः, न ठञः। `पात्रिकी` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्॥", "51047": "ननु च वृद्ध्यादीनां बहुत्वाख्यानेनैव बहुवचनं तेन भवितव्यमितित कथं दीयत इत्येकवचनान्तेन तस्य निर्देशः? इत्याह - `दीयत इत्येकवचनम्` इत्यादि। यदि समुदितैर्वृद्ध्यादिभिः सम्बन्धः क्रियते तर्हि स्याद्बहुवचनम्। न च तैः समुदितैःस क्रियते, किं तर्हि? प्रत्येकम्, अत एकवचनमेव। वृद्धिशब्द इह लौकिको धनविशेषवाची गृह्रते, न च संज्ञापदम्, आयादिभिर्धनविशेषवाचिभिः सह निर्देशात्। अत एवाह - `तत्र` इत्यादि। उत्तमर्णस्य यद्धनं तस्मादतिरिक्तमधिकं धनमधमर्णेन यद्दातव्यं तद्वृद्धिः। `ग्रामादिषु` इति। आदिशब्देन क्षेत्रादि। `पटादीनाम्` इत्यादि। पटादीनां व्यवह्यियमाणानामुपादानं सूत्रादि। तस्य यन्मूल्यं तस्मादतिरिक्तं द्रव्यं पटादिविक्रयेण यल्लभ्यते स लाभ-। `रक्षानिर्वेशः` इति। वणिजां रक्षाकारी राज्ञो भागो रक्षानिर्वेश इत्युच्यते। ननु चासावपयायः, तदपार्थकं शुल्कस्य पृथगुपादानम्? नैतदस्ति; पञ्चास्मिन्? ग्राम आय इत्यायं प्रति ग्रामस्याधिकरणभावः; उत्पद्यमानस्यायस्याधेयबावात्। शुल्के तु न सम्भवति। पञ्चास्मिन्? शते शुल्का इति शतं न शुल्कस्याधिकरणम्, किं तर्हि? इयतापरिच्छेदः शतेन शुल्कस्य क्रियते। तस्मादस्य भिन्नत्वात्? शुल्कः पृथगुक्तः। `सिद्धं तु` इत्यादि। विवक्षातः कारकाणि भवन्तीति सम्प्रदानाख्ये चाधिकरणत्वेन विवक्षेत्याह - `समम्` इत्यादि। गतार्थम्॥", "51048": "", "51049": "`ठञोऽपवादः` इति। न ठकः; भागशब्दस्य परिमाणत्वात्। ननु चाङ्गमात्रवचनोऽपि भागशब्दोऽस्ति? सत्यमस्ति; न तु तस्येह ग्रहणम्। तस्य हि ग्रहणे वृद्ध्यादिभिः सम्बन्दो नोपपद्यते। परिमाणवचनस्तु प्रसिद्धो रूपकांशे वर्तत इति वृद्ध्यादिभिः सम्बन्धः उपपद्यते॥", "51050": "`प्रकृतिविशेषणम्` इत्यादि। प्रकृतेः प्रातिपदिकस्य। `भाराद्वंशादिभ्य इत्यर्थः` इति। अत्रार्थे वंशादय एव शुद्धाः प्रत्ययमुत्पादयन्ति। ननु च वंशादयः शब्दाः, भार इत्यपि शब्द एव; न च शब्द शब्दान्तरस्य समानाधिकरणं विशेषणमुपपद्यते, तत्कथं भारभूतेभ्यो वंशादिभ्य इत्येषोऽर्थो भवति? इत्याह - `भारशब्दोऽर्थद्वारेण` इत्यादि। वंशादीनांमर्थस्य भारशब्दस्यार्थो मुख्यं विशेषणम्, अर्थद्वारेण तु वंशादीनां भारशपब्दस्य चोपचरितम्। अर्थधर्मेण शब्दोऽपि तथा व्यपदिश्यत इत्यर्थः॥", "51051": "पूर्वेण ठकि प्राप्ते तदपवादौ ठन्कनौ विधीयते॥", "51052": "`प्रमाणानतिरेकः` इति। प्रमाणादनाधिक्यमित्यर्थः। `ननु च` इत्यादि। तथा हि - सक्थालीप्रस्थं पचति; तत्रावश्यं प्रस्थस्य सम्भवेन भवितव्यम्; न ह्रन्यथा शक्यते पक्तुमित्यभिप्रायः। `नास्त्यत्र नियोगः` इति। व्यभिचारमाह - `प्रस्थं पचति ब्राआहृणी` इति। अत्र हि पाक एव गम्यते, न सम्भवः॥ `ठञोऽपवादः` इति। आञकादीनां परिमाणकत्वात्? पूर्वेम प्राप्तस्य॥", "51053": "", "51054": "पूर्वेण ठन्खयोः प्राप्तयोस्ततश्च लुकीदमुच्यते। `विधानसामर्थ्यादनयोर्लुग्न भवति` इति। यदि ह्यत्रापि लुक्? स्यात्, विधानमनर्थकं स्यात्। `ठञस्तु पक्षेऽनुज्ञातस्य` इति। अन्यतरस्यांग्रहणेन। `द्व्याढकी` इति। ठञो लुक्पक्षे <<द्विगोः>> [[4.1.21]] इति ङीप्। `द्व्याचिता` इति। `अपरिमाण` [[4.1.22]] इत्यादिना ङीप्प्रतिषेधे टाप्॥", "51055": "`चातूरूप्यम्` इति। एकं खे रूपम्, ष्ठनि द्वितोयम्, लुकोऽपि विकल्पितत्वाट्ठञोऽलुकि तृतीयम्, लुकि चतुर्थम्। ननु च कुलिजशब्दसय परिमाणवाचित्वात्? `परिमाणान्तस्य` [[7.3.17]] इत्युत्तरपदवृद्धिः कस्मान्न भवति? इत्यत आआह - `परिमाणान्तस्य` इति। `परिमाणान्तस्यासंज्ञाशाणकुलिजात्` इत्येवैतत्? सूत्रं प्रत्येतव्यमिति दर्शयति॥", "51056": "<<वस्नद्रव्याभ्यां ठन्कनौ>> [[5.1.51]] इत्यत्रापि वस्नशब्देन मूल्यमुच्यते॥", "51057": "`प्रास्थिको राशिः` इत्यादौ सर्वत्र ठञ्। `द्विषाष्टिकः` इत्यादि। `संख्यायायाः संवत्सरसंख्यस्य च` [[7.3.15]] इत्युत्तरपदवृद्धिः। `पुनर्विधानसामर्थ्यात्` इत्यादिना पुनर्विधानफलं दर्शयति। `द्विषाष्टिकः` इत्यादौ द्विः प्रत्यविधानम्, तत्र पूर्वसूत्रात्? समर्थविभक्तेः प्रत्यायार्थसयानुवृत्तेः प्रथमं प्रत्ययो विधीयते, तस्य `अध्यर्धपूर्व` [[5.1.28]] सूत्रेण लुग्भवति। नन्विह च यः सूत्रे समर्थविभक्तेः प्रत्ययार्थस्य चोपादनात्? पुनर्विधीयते तस्यापि पुनर्विधानमनर्थकं स्यात्॥", "51058": "`परिमाणोपाधिकात्` इति। परिमाणमुपाधिर्विशेषणं न सम्भवति, न हि शब्दः परिमाणं शब्दस्य सम्भवतीति? तदर्थस्य विशेषणं विज्ञास्यत इत्यदोषः। ननु चार्थस्यापि न सम्भवति, संख्या हि नैव परिमाणम्? नैष दोषः; नात्र रूढः परिमाणशब्दो गृह्रते, किं तर्हि? क्रियाशब्दः - परिमायते येन तत्? परिमाणमिति। संख्यायापि च परिमीयत इति सापि परिमाणम्। नन्वेवमपि विशेषणमनर्थकम्; न ह्रपरिच्छेदिका संख्यास्ति, सञ्चक्षाणा हि संख्योच्यते? सतद्यम्; परिच्छेदिकैव संख्या, सा तु स्वस्याभिदेयं परिच्छिनत्तीति षष्ठर्थमवश्यं न परिच्छिनत्ति। पञ्चास्य सङ्घस्य पुत्रा इति नात्र सह्घस्येयत्ता प्रतीयते। इह तु पञ्चसंख्या परिमाणमस्य सङ्घस्येति भवतीयत्ताप्रतीतिः सङ्घस्य। तस्मादुपपन्नं संख्यायाः परिमाणं विशेषणम्। `तत्र` इत्यादि। पञ्चशब्दोऽयं संख्येय एव वर्तते, न कदाचिदपि संख्यानमात्रे। ततश्च य एव संख्येयाः पञ्चत्वसंख्ययावच्छिन्नाः पञ्चशब्देनोच्यन्ते, प्रत्ययान्तेनापि त एव न हि तेषां भिन्नानामत्र संख्येयान्तरं परिमाणं प्रत्ययवाक्यं सम्भवपति। तस्मात्? संज्ञायां स्वार्थं एव प्रत्ययो वाच्यः। तथा चाह वार्त्तिककारः - `संज्ञायां स्वार्थे उत्पद्यते` इति। `पञ्चकोऽधीतः` इति पाठापेक्षया पुंल्लिङ्गः। `अधीतिरध्ययनम्` इति। अनेन भावसाधनमध्ययनशब्दं दर्शयति। यद्यधीयत इत्यध्ययनं कर्मसाधनोऽद्ययनशब्दः स्यात्, सूत्रग्रहणं पृथग्वक्तव्यं न स्यात्; अध्ययनग्रहणेनैव सिद्धत्वात्, सूत्रमप्यधीयत एव। `पञ्चावृत्त्यः` इति पाठे पुनः क्रियात्मिकाः पञ्च वारा इत्यादिना पर्यायान्तरेण पञ्चावृत्त्य इत्यस्यैवार्थं व्यक्तीकरोति। `स्तोमे डविधिः` इति। अत्रापि च्छन्दसीति सम्बध्यते। मन्त्रसमुदायः स्तोमः। `एकविंशः` इति। <<अतो गुणे>> [[6.1.97]] पररूपत्वं च, `ति विंशतेर्डिति [[6.4.142]] इति तिशब्दलोपः।`शन्शतोः` इत्यादि। शन्नित्येवमन्ताच्छन्दसि डिनिर्वक्तव्यः॥", "51059": "`अपदत्वं च` इति। पदनिबन्धनस्य जशत्वादेः कार्यस्य प्रतिषेधार्थमिहैते विंशत्यादयः परिमाणे निपात्यन्ते। <<तदस्य परिमाणम्>> [[5.1.57]] इत्यधिकारे निपातनात्। एवञ्च गवां विंशतिरिति षष्ठी व्यतिरेकनिबन्धना न प्राप्नोति।विंशतिशब्देन हि तान्येव गोद्रव्याणि गृह्यन्ते, न तदधिकं किञ्चिदर्थान्तरम्। बहुवचनं प्रसजति तेषां बहुत्वादिति यश्चोदयेत्, तं प्रत्याह - `विंशत्यादयः` इत्यादि। यथाकथञ्चित्प्रकारेण। विनाप्यवयवार्थेनेति यावत्। रूपमात्रं प्रधानम्, नावयवार्थः। यस्त्वेषामर्थः स लोकत एव व्यवतिष्ठत इत्यभिप्रायः। `नात्राभिनिवेष्टव्यम्` इति। संख्यापरिमाणोपाधिकः प्रकृत्यर्थः। `परिमाणमात्रं प्रत्ययाः` इति नायमत्राभिनिवेशः कर्तव्य इत्यर्थः। अनभिनिवेशस्य कारणमाह - `तथा हि` इत्यादि। स्यादेतत् - `अत्राप्यवयवार्थोऽस्ति` इत्यत आह - `न च` इत्यादि। ब्राआहृआणानां पंक्तिरित्युक्ते संख्यापरिमाणोपाधिकः प्रकृत्यर्थः, परिमाणो वा कश्टचित्; प्रत्ययार्थो हि न गम्यते, किं तर्हि? सन्निवेशविशेषः संस्थानात्मको गुण एव प्रतीयते। तथा हि - तस्य सन्निवेशविशेषस्यानवगमे तावत्स्येव ब्राआहृणेषु पंक्तिरिति न प्रयुज्यते। तदेवं गुणशब्दत्वादिंवशत्यादीनां गवां विंशतिरिति सिध्यति षष्ठी; विंशतिशब्दस्य संख्यानवृत्तित्वात्। यदि तर्हि गुणशब्दा एते, विंशतिगवि इति द्रव्यशब्देन सामानाधिकरण्यं न प्राप्नोति? गुणिन्यत्र वृत्तिः, गुणमात्रे न ततोऽयमदोष इति। वक्तव्यः स हेतुः यत एतेषा क्वचिद्गुणमात्रे वृत्तिर्भवति, क्वचिद्गुणिनि। बहुवचनप्रसङ्गाच्च गुणिनि वृत्तिरित्येतदेव दुःस्थम्; बहुत्वाद्गुणिनाम्। इह च विंशतिः कुण्डानीति नपुंसकलिङ्गं प्राप्नोति, विंशतिब्र्राआहृणा इति पुंल्लिङ्गम्, गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति, यथा - शुक्लः कम्बलः, शुक्लं वस्त्रम्, शुक्ला शाटीति। यदासौ द्रव्यमाश्रित्य भवति गुणः, तस्य लिङ्गवचनं यत्? तद्गुणवचनस्यापि भवति, यथा - गुणशब्दत्वेऽप्येषामाश्रीयमाणे न भवत्येव दोषप्रसङ्गान्मुक्तिः? इत्यत आह - `या चैषाम्` इत्तयादि। न केवलमर्थाभिदानं स्वाभाविकम्, किन्त्वेतदपीत्यपिशब्देन दर्शयति। यत्र द्रव्येण गुणिनैषामभिधेयो गुणो विशेष्यते, तत्र स्वभावादेव गुणमात्रे वृत्तिः। यत्र त्वेत उपसर्जनीभूतस्वार्थास्तेन स्वार्थेन द्रव्यं विशेषयन्ति तत्रैषां स्वभावत एव गुणिनि वृत्तिः। `स्वलिङ्गसंख्यानुविधानं च` इति। गुणिन्यणि वर्तमानानां ययोर्लिङ्गसंख्ययोर्यदनुविधानमनुवर्तमानमेतदपि सर्वं स्वाभाविकम्। अन्येषामपि, गुणशब्दानामपि क्वचित्? स्वभावत एव गुणिनि वृत्तिर्भवति, तद्यथा-शुक्लः पट इत्यत्र शुक्लशब्दस्य। क्वचिद्गुणमात्रे, यथा - अस्यैव शुक्लो गुणः पटस्येत्यत्र। अन्येषामपि केषाञ्चित्? शब्दानां स्वाभाविकं स्वलिङ्गसंख्यानुविधानं दृश्यत एव, तद्यथा - वेदाः प्रमाणम्, श्रुतयः प्रमाणमिति। तस्मात्? स्वाभाविकत्वाद्गुणमात्रे गुणिनि च वृत्तेः स्वलिङ्गसंख्यानुविधानस्य च न भवति यथक्तदोषप्रसङ्गः। यदा हि स्वभावत इति संख्यानमात्रे गुणे गुणमात्रे वृत्तिः तदा व्यतिरेकनिबन्धना षष्ठी भवति। यदा तु गुणिनि, तदा तयोरपि च द्रव्यशब्दत्वाकत्? सामानाधिकरण्यमपि भवति। द्रव्येऽपि वर्तमानानां स्वाभाविकं स्वलिङ्गसंख्यानुविधानम्। अथ सहरुआआदयोऽपि कस्मान्न व्युत्पाद्यन्ते? इत्याह - `सहरुआआदयोऽपि` इत्यादि। एवञ्जातीयका एवम्प्रकारा विंशत्यादिभिः सदृशा इत्यर्थः। तेषामपि गुणवत्त्वात्? तद्वदेव विंशात्यादिवदेव द्रष्टव्याः। विंशात्यादय इव तेऽपि प्रकृत्यादिविभागेन व्युत्पाद्यन्त इत्यर्थः। यद्येवम्, किमर्थं विंशत्यादय एव सूत्रे उपात्ताः? इत्याह्म#ऋ`उदाहरणमात्रम्` इत्यादि। उदाहरणमात्रं विंशत्यादिग्रहणम्, अन्येऽप्येवञ्जातीयाः सहरुआआदयस्तथैव व्युत्पाद्याः॥", "51060": "ननु च `सङ्घ` इत्यनुवर्त्तिष्यते, किं वर्गग्रहणेन? नैतदस्ति; सङ्घशब्दो हि प्राणिसमुदाये रूढः। वर्गशब्दस्तु समूहमात्रे इति वर्गग्रहणं कर्तव्यम्॥", "51061": "संख्यालक्षणे कनि प्राप्ते सप्तञ्शब्दाच्छन्दस्यञ्विधानम्॥", "51062": "तिंरशच्छब्दात्? `विंशतितिंरशद्भ्याम्` [[5.1.24]] इति योगविबागेन कनि प्राप्ते चत्वारिंशच्छब्दादपि <<प्राग्वतेष्ठञ्>> [[5.1.18]] इति ठञि प्राप्तेऽयमारभ्यते। `अभिधेये सप्तम्येषा` इत्यादि। विषयसप्तम्यामस्यां ब्राआहृणविषयश्चेत्? प्रयोगो भवतीत्येषोऽर्थः स्यात्, तथा चान्यत्र प्रत्ययान्तस्य प्रयोगो न स्यात्, तस्मान्न विषयसप्तम्येषा। एतच्च संज्ञाग्रहणादेव विज्ञायते। न हि ब्राआहृणग्रहणात्? तिंरशच्चत्वारिंशतौ डण्णन्तौ कस्यचित्? पदार्थस्य संज्ञिनौ स्तः, ब्राआहृणानां तु विद्यते॥", "51063": "`औतच्छत्रिकः, वास्त्रयुग्मिकः` इत्यादिषु ठक्। `आर्हात्? [[5.1.19]] इत्यभिविधौ चायमाकार इति॥", "51064": "`नित्यग्रहणम्` इति। अथ विभाषाया निवृत्त्यर्थं नित्यग्रहणेन कस्मान्न विज्ञयते? अशक्यं तन्निवृत्त्यर्थं विज्ञातुम्। विनापि नित्यग्रहणेन महाविभाषानिवृत्तिः शक्यते विज्ञातुम्। तथा हि - छेदादिभ्यः पूर्वेणैव ठकि सिद्धे पुनर्वचनादेव नित्यविधिर्भविष्यति, किं नित्यग्रहणेन? ततो नित्यग्रहणमहन्यहन्यर्हत्वात्? `तदर्हति` [[5.1.62]] इत्यस्यार्थस्य विशेषणं विज्ञायते। तथा च जातमारम्भस्य प्रयोजनमिति वाक्यं न निवर्तते। `विरागो विरङ्गञ्च` इति। विरागशब्दष्ठकमुत्पादयति विरङ्गादेशं चापद्यते। नित्यं विरागमर्हति वैरङ्गिकः। प्रत्ययसन्नियोगेन चायसादेश इति प्रत्ययाभावाद्वाक्ये न भवति॥", "51065": "प्रत्ययसन्नियोगेन शीर्षभावः, तेन वाक्ये प्रत्ययाभावान्न भवतीति भावः॥", "51066": "दण्डशब्दोऽयमस्ति क्रियावचनः - द्डनं दण्ड इति, अस्ति द्रव्यवचनः; विशेषाभावाद्द्वयोरपि ग्रहणम्॥", "51067": "यदनुवर्तते, नानन्तरो यः; यत एव स्वरितत्वात्॥", "51068": "`ठक्ठञोरपवादः` इति। ननु च पात्रं भाजनम्, न परिमाणम्, अतस्तद्वाचिनष्ठक्? प्राप्नोति, तस्यैवापवादो युक्तः, तत्किमुच्यते ठक्ठञोरपवादः? इत्याह - `पात्रं परिमाणमप्यस्ति` इति। न केवलं भाजनमित्यपिशब्देन दर्शयति। तत्र यदा परिमाणे पात्रशब्दो वर्तते, तदा ठञोऽपवादः; यदा भाजने, तदा ठकः। पात्रं स्थाल्यादि। कोऽर्थः? चण्डालादिर्बाह्रश्च पात्रं परिमाणमर्हति। येन भुक्ते पुनर्न संस्कारेण भाजनं शुध्यति स पात्रियः, पात्र्य इति चोच्यते॥", "51069": "`चकाराद्यच्च` इति। अथानन्तरस्य यतः समुच्चयः कस्मान्न भवति? एवं मन्यते - स्वरतत्वं प्रतिज्ञातमिति। अनन्तराच्च स्वरित आसन्नतरः। स च प्रतियोगमुपतिष्ठमानो वाक्यशेष एव भवति। तस्माद्यत एव समुच्चयो युक्त इति। यो गौर्निर्गुणत्वात्? खलकणाद्यनर्हः स कडङ्गर्यः कडङ्गरीय इति चोच्यते। माषादीनां खलेष्ववस्करणालकाष्ठमतिदुर्जरं बुसाद्यपि कडङ्गरमुच्यते। अथात्र यथासंख्यं कस्मान्न भवति, अस्ति हि तस्य प्राप्तिः, प्रकृतिप्रत्ययानां साम्यात; तथा हि - द्वे प्रकृतौ, द्वौ प्रत्ययौ? इत्यत आह - `अल्पाच्तरस्य` इत्यादि। दक्षिणशब्दस्याल्पाच्तरस्य पूर्वनिपाते प्राप्ते योऽयमिह परनिपातः स लक्षणानपेक्षतां निर्देशस्य दर्शयन्? लक्षणव्यभिचारस्यचिह्नं भवति। अतस्तेन चिह्नेन यथा-संख्याभावं सूचयति सूत्रकारः। तेन न भवति यथासंख्यम्॥", "51070": "`छयतावनुवर्तेते` इति। ननु चानुकृष्टमुत्तरत्र नानुवर्तत इति चानुकृष्टस्य यतः पुनरिह चकारेणानु-वृत्तिर्नोपपद्यते? नैष दोषः; अनित्या ह्रेषा परिभाषा। कथं ज्ञायते? <<एकाजुत्तरपदे णः>> [[8.4.12]] इत्यत्र णे प्रकृते पुनर्णग्रहणात्। तद्धि <<वा भावकरणयोः>> [[8.4.10]] इत्यनुवर्तमानस्य विकल्पस्य निवृत्त्यर्थं क्रियते। यदि चेयं नित्या स्यातद्, पूर्वसूत्रे चानुकृष्टत्वादेव हि तस्यानुवृत्तिर्न भवति। अथ वा - चकारोप्यत्रानु-वर्तते यतोऽनुकर्षणार्थः। तेन पूर्वत्र चानुकृष्टस्यापि तस्य पुनरिह चकारेणानुकृष्यमाणस्यानुवृत्तिर्भविष्यति। `स्थालीबिलकडङ्गरदक्षिणाच्छ च` इत्येकयोगे कर्तव्ये यदिदं योगविभागकरणं तत्स्थालीबिलाद्विशेषे वर्तमानात्? प्रत्ययो यथा स्यादित्येवमर्थम्। तेन स्थालोमुख एव वर्तमानः स्थालीविलशब्दः प्रत्ययमुत्पादयति। न तु स्थालीसम्बन्धिनि च्छिद्रमात्रे वर्तमानः॥", "51071": "द्वितीयाप्रकरणे पुनर्द्वितोयोच्चारणमिष्टविषये द्वितीयान्ताद्यथा स्यादित्येवमर्थम्। तेन यद्यपि पारायणं गुरुणा शिष्येण च गम्यते तथापि शिष्य एव प्रत्ययो भवति, न गुरौ। तथा तुरायणो यागो यद्यपि यजमानेन याजकैश्च वर्त्त्यते तथापि यजमान एव प्रत्ययो भवति, न याजके॥", "51072": "", "51073": "अत्रापि द्वितीयाप्रकरणे पुनर्द्वितीयोच्चारणमिष्टविषये द्वितीयान्ताद्यथा स्यादित्येवमर्थम्। तेन यद्यपि द्वे अपि कर्तृकर्मणी संशयमापन्ने, तथापि यद्विषयः संशय उत्पद्यते तत्रैव कर्मणि स्थाण्वादौ प्रत्ययो भवति, न तु संशयस्य कर्तरि पुरुषे; अनभिधानात्॥", "51074": "`क्रोशशतयोजनशतयोरुपसंख्यानम्` इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तथा ततोऽभिगमन-मर्हतीति चेत्यादावपि वाक्ये। तत्रेदं प्रतिपादनम् - इह द्वितीयाधिकारे पुनरद्वितीयोच्चारणमधिकं तु कुर्वतैतत्? सूचितम् - अन्यदप्यत्र किञ्चिदधिकं भवति। तेन सर्वमेतद्गदितं कार्यमुपपन्नं भवति॥", "51075": "", "51076": "`नित्यग्रहणम्` इत्यादि। अथ वाक्यनिवृत्त्यर्थं कस्मान्न भवति? पन्थशब्दस्य वाक्यासमवायित्वात्। स हि प्रत्ययसन्नियोगेन विधीयते, न वाक्येन समवैति। ननु च पथिन्शब्देन वाक्यं मा भूदित्येवमर्थं नित्यग्रहणं स्यात्? नैतदस्ति; यदि तदेवमर्थं स्यात्? पूर्वसूत्र एव कृतं स्यात् - यत्र पथिन्शब्दः श्रुयते। इह तु करणे प्रत्ययार्थविशेषणं विज्ञायते॥", "51077": "`चकारः प्रत्ययार्थ` इति। प्रत्ययार्थसमीपे श्रूयमाणत्वात्। गच्छतीत्यत्र पूर्वं द्वितीयान्तात्? प्रत्यय उत्पन्नः। तदिहापि तत एव प्रत्ययेन भवितव्यमिति भ्रान्तिः स्यात्। अतस्तां निराकर्त्तुमाह - `अत्रापि` इत्यादि। चकारो ह्रर्थात्? परः श्रूयमाणोऽत्रार्थमात्रस्यैव गच्छतोत्यस्यानुकर्षकः प्रतीयते, न तु विभक्तेरपि; सम्बन्धाभावात्। तस्मात्? स इहानुवृत्तः सन्निहितया समर्थविभक्त्या सम्बध्यमानस्तृतीयासमर्थादेव प्रत्ययमुत्पादयतीति भावः। `वारिजङ्गल` इत्यादि। वार्यादयः पूर्वपदं यस्य तत्? तथोक्तम्। एतयोरेवार्थयोरुपसंक्यानम्। `मधुकमरिचयोः` इत्यादि। मधुकमरिचयोरभिधेययोः स्थलात्? परो यः पथिन्शब्दः, तदन्तादाहृते वक्तव्यः॥", "51078": "कालादिति स्वरूपग्रहणं न भवति, कुतः? पृथगस्य योगस्यारम्भात्। कालशब्दस्यापि यदि स्वरूपग्रहणम भीष्टं स्यादिमं पृथग्योगमकृत्वोत्तरसूत्रे कालशब्दादेव तृतीयामुच्चारयेत् - कालेन निर्वृत्तमिति। एवं हि निर्देशादेव तृतीयासमर्थात्? प्रत्ययो विज्ञायते। उत्तरसूत्रे च कालशब्दः स्वरितत्वादनुवर्त्तिष्यत इति सिद्धमिष्टम्। अतो न कर्तव्य एवायं पृथग्योगः। स एव क्रियतेऽर्थग्रहणं तदिति दर्शयितुम्॥", "51079": "`आह्निकः` [आह्निकम्-काशिका] इति। <<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपः। टिलोपस्तु <<अह्नष्टखोरेव>> [[6.4.145]] इति नियमादिह न भवति॥", "51080": "<<कालाध्वनोरत्यन्तसंयोगे>> [[2.3.5]] इति द्वितीया। `तमधीष्टः` इत्यादौ कर्मणि द्वितीया नोपपद्यते; अध्येष्यमाणादि हि पुरुषादिकर्मानयानिष्टयाभिहितम्, न चान्या क्रियाऽस्ति यस्यां मासादि कर्म स्यात्।`ननु च` इत्यादिना, यदुक्तम् - <<कालाध्वनोरत्यन्तसंयोगे>> [[2.3.5]] द्वितीयेति तद्विघटयति। तेन कथं मासो व्याप्यत इति? न कथञ्चित्। विघटत इत्यर्थः। यद्धि मुहूर्त्तं क्रियते, तेन मुहूर्तेन मासैकदेशो व्याप्यते, न तु सकलो मासः। `क्रियार्थे` इति। अध्ययनादिक्रियार्थे। तदर्थं हि ते क्रियेते। `फलभूतया क्रियया` इति। अध्ययनादिकया। `ताब्यामेव व्याप्त इत्युच्यते` इति। तदन्यव्यापारस्य तत्रोपचारात्। यथा `चौरेण ग्रामो दग्धः` इत्युक्ते न चौरेण ग्रामो दह्रते, अपि तु तदाहृतेनाग्निना। उपचारेण तु तथा व्यपदेशः॥", "51081": "`सामर्थ्याद्भूत्? एवात्राभिसम्बध्यते` इति। वयसि भूतार्थस्यैव सम्भवादिति भावः। भाव्यर्थोऽपि तत्र सम्भवतीति चिन्त्यमेतत्। अथ तु नेष्यते, पुनरभिधानं शरणमाश्रयितव्यम्। खञो ञित्करणं स्वरार्थम्, वृद्ध्यर्थञ्च। ननु च वृद्ध एव मासशब्दः? सत्यं वृद्धोऽयम्, तथापि वृद्धस्यापि वृद्धिरेषितव्या। मासीनाभार्य इति <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इति पुंवद्भावप्रतिषेदो यथा स्यात्॥", "51082": "`प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि` इति (काशिका। 5.1.20) तदन्तविदेरभ्यनुज्ञानाद्द्विगोरपि - । ययः पित्करणननुदात्तार्थम्। अन्यथा मासशब्दान्तात्? प्रत्यये विहिते सिति शिष्टत्वात्? `इगन्तकाल` [[6.2.29]] इति द्विगावेवेति स्वरबाधनात्? प्रत्ययस्वरः स्यात्, - स्यात्। प्रत्ययेऽनुदात्तार्थे पिति `इगन्त` [[6.2.29]] इति पूर्वपदप्रकृतिस्वरः सिद्धो भवति॥", "51083": "षण्मासशब्दो द्विगुः। तस्मात्? पूर्वेण यपि प्राप्ते वचनम्। `स चकारेण समुच्चेतव्यः` इति। यद्येवम्, कथमनन्तरो यब्भवति? इत्याह - `स्वरितत्वाच्चानुवर्त्तिष्यते` इति। तेनानुवृत्तिसामर्थ्यादनन्तरो यब्भवतीति मन्यते॥", "51084": "", "51085": "", "51086": "`पूर्वेण` इत्यादि। कथं पुनः समाशब्दाद्विधीयमानः प्रत्ययस्तदन्ताद्द्विगोः प्राप्नोति? इत्यत आह - `प्राग्वतेः` इत्यादि। गतार्थम्॥", "51087": "`द्व्यहीनः` इति। <<अह्नष्टखोरेव>> [[6.4.145]] इति टिलोपः। विभाषानुवर्तते, तेन व्यवस्थितविभाषात्वान्न टज्भविष्यति। `द्वैयह्निकः, त्रैयह्निकः` इति। `न य्वाभ्याम्` [[7.3.3]] इत्यादिनैजागमः, वृद्धिप्रतिषेधश्च॥", "51088": "`भाविनि तु त्रैवर्षिकः` इति। तत्र हि `अभविष्यति` [[7.3.16]] इति वचनात्। इहादिवृद्धिरेव भवति॥", "51089": "यदि चित्तवति प्रत्ययार्थे नित्यं लुग्भवति, <<वर्षस्याभविष्यति>> [[7.3.16]] इत्यत्र यद्वक्ष्यति - `द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतोति द्विवार्षिको मनुष्यः` इत, तद्विरुध्यते; न हि नित्ये लुक्यधीष्टभृतयोरुत्पन्नस्य प्रत्ययस्य चित्तवत्यभिधेय एवं रूपमुपपद्यते? नैष दोषः; भूत एवास्योत्पन्नस्य प्रत्ययस्य चित्तवति नित्यं लुगिष्यते, न सर्वत्र। कुत एतत्? नित्यग्रहणात्। इह नित्यग्रहणमनर्थकमेव। आरम्भसामर्थ्यादेव नित्यो लुग्भविष्यतीति किं नियमग्रहणेन? तत्? क्रियते विशिष्टेऽर्थे नित्यो लुग्यथा स्यादित्येवमर्थम्। स पुनर्विशिष्टो भूत एव॥", "51090": "`बहुवचवान्तस्य निर्देशाद्बहुवचन एव षष्टिकशब्दस्य साधुत्वम्, नान्यत्र` इति यश्चोदयेत्, तं प्रत्याह - `बहुवचनमतन्त्रम्` इति। अप्रधानमित्यचर्थः। अप्रधानत्वं तु तस्य नान्तरीयकत्वात्। अवश्यं हि येन केनचिद्वचनेन निर्देशः कर्तव्यः। यद्येवम्, एकवचनेन निर्देशः कस्मान्न कृतः, एवं हि लघुर्भवति? सत्यम्; वैचित्र्यार्थं बहुवचनेन कृतः। यदि `षष्टिरात्रेण पच्यन्ते` इत्यस्मिन्नयं एतन्निपातनं, मुद्गादिष्वतिप्रसङ्गः, तेऽपि हि षष्टिरात्रेणपच्यन्ते? इत्यत आह - `संज्ञैषा` इत्यातदि। धान्यविशेष एव हिं षष्टिकशब्दः संज्ञात्वेन रूढः। तेनाभिधानाम्मुद्गादिष्वतिप्रसङ्गो न भवति॥", "51091": "", "51092": "", "51093": "`परिजय्यः` इति। परिः सर्वतोभावे। शक्यार्थे कृत्यः। सर्वतः शक्यो जेतुं `परिजय्यः` `लभ्यः` इति, `कार्य्यः` इति। अत्रापि शक्यार्थ एव कृत्यौ। मासेन शक्यो लब्यो मासिकः पटः। मासेन शक्यं कर्तु सुकरं वा मासिकं चान्द्रायणम्। <<तेन निर्वृत्तम्>> [[5.1.79]] <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इति विभक्तितद्वये प्रकृते पुनस्तेनेति तृतीयोपादनां द्वितीयानिवृत्त्यर्थम्॥", "51094": "`द्वाभ्यामपि सम्बध्यते` इति। समर्थविभक्त्या, प्रत्ययार्थेन च। कथं सम्बध्यते? इत्याह - `कालस्य` इत्यादि। इह हि द्वितीयाऽत्यन्तसंयोगे।सा हियः कालस्य व्यापकस्तमपेक्षते, नान्तरयकत्वात्। न हि तेन विनाऽत्यन्तसंयोग उपपद्यते। ब्राहृचर्यं च `कालस्य व्यापकम्` इति। `व्यापकम्` इति। व्यापकमपेक्षमाणायां विभक्तौ ब्राहृचर्यसम्बन्धो भवति। कथं प्रत्ययार्थेन सम्बध्यते? इत्यत आह - `प्रत्ययार्थस्य च स्वम्` इति। प्रत्ययार्थः प्रतियोगि वसक्तु स्वमपेक्षते।प्रकृतत्वाच्च ब्राहृचर्यस्यैव प्रतियोगित्वं विज्ञायते, तद्धि तस्य स्वं भवति। अतः प्रतियोग्यपेक्षायां प्रत्ययार्थस्यापि ब्राहृचर्येण सम्बन्धो भवति। `पूर्वत्र` इत्यादिना पूर्वोत्तरयोर्वृत्त्योर्विशेषं दर्शयति। किं पुनरत्र प्रमाणमित्याह - `द्वयमपि` इत्यादि। कथं पुनद्र्धयमपि प्रमाणमित्याह - `उभयथा` इत्यादि। उभयस्मिन्नपि ह्यत्रार्थे सूत्रमेतदाचार्येण प्रणीतम्। द्वयमपि प्रमाणम्। `महानाम्न्यादिभ्य` इति। ब्राहृचर्यं एवार्थ इदमुपसंख्यानाम्। `तच्चरति` इत्यादि। तदिति द्वितीयासमर्थेभ्यो महानाम्न्यादिभ्यः शब्देभ्यः `चरति` इत्येतस्मिन्नर्थे इदं ठञ उपसंख्यानम्। `तत्सहचरितं व्रतं तच्छब्देनोच्यते` इति। भवति हि साहचर्यात्? ताच्छब्द्यम्, यथा - यष्टीः प्रवेशयेति। अथ ऋच एवोच्यन्त इत्येवं कस्मान्न विज्ञायेते? चरणार्थस्यायोगात्। ब्राहृचर्य हि चर्यते। `चतुर्मासाण्ण्यो यज्ञे` इत्यादि। चतुमसिशब्दात्? तत्रेति सप्तमीसमर्थाद्भव इत्येतस्मिन्नर्थे यज्ञे विषये ण्यो वक्तव्यः। `संज्ञायामण्वक्तव्यः` इति। चतुर्मासाद्भव इत्येतदपेक्षते। इदञ्च यज्ञादन्यत्रोपसंख्यानम्। ननु च `तत्र भवः [[4.3.53]] इत्यनेनाणाभवत्येव, किमर्थमुपसंख्यायते? सत्यमस्ति; तस्य तु द्विगोर्लुगनपत्ये` [[4.1.88]] इति लुक्प्रप्नोति। अतो लुग्बाधनार्थं तस्योपसंख्यानम्॥", "51095": "अथाख्याग्रहणं किमर्थम्? न यज्ञेब्य इत्युच्येत? इत्यत आह - `आख्याग्रहणम्` इत्यादि। यज्ञानमधेयमात्रादकालवाचिनोऽपि प्रत्ययो यथा स्यादित्येवमर्थमाक्याग्रहणमिति। `इतरथा हि` इत्यादि। यद्याख्याग्रहणं न क्रियोतेत्यर्थः। ननु चैकाहद्वादशाहादयो नैव कालशब्दाः, तत्कुतस्तेषामेवात्रग्रहणप्रसङ्गः? अथाकालवाचिनामप्येषां ग्रहणं सम्भवति? एवं सत्यग्निष्टोमादीनामपि भविष्यतीत्यपार्थकमाख्याग्रहणम्? इत्यत आह - `प्राग्वतेः` इत्यादि। यद्यप्येते कालशब्दा न भवन्ति, तथापि प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिरभ्यनुज्ञातः। तेन सत्यपि कालाधिकारेऽप्यस्ति तेषु ग्रहणप्रसङ्गः। तथा च तत्र वचनस्य चरितार्थत्वादग्निष्टोमादिभ्यो न स्यात्, तेभ्योऽपि यथा स्यादित्याख्याग्रहणम्। ननु चैवमपि सूत्रमनर्थकम्, या ह्रग्निष्टोमस्य दक्षिणा साप्यग्निष्टोमे भवति। तत्र <<बह्वचोऽन्तोदात्ताट्ठञ्>> [[4.3.67]] <<क्रतुयज्ञेभ्यश्च>> [[4.3.68]] इत्येव ठञ्? सिद्धः। इदमपि सूत्रं ठञर्थमेवारभ्यते? सत्यमेतत्, किन्तु भावर्थे <<तस्येदम्>> [[4.3.120]] इति विवक्षिते तदा परत्वादणादयः स्युरिति युक्तं विधानम्। अपि च यज्ञाख्येभ्यस्तेन ठञिष्यते। ग्रहणवता प्रातिपदिकेन तदन्तविध्यभावात्? संख्यापूर्वपदेभ्यष्ठञ्? न लभ्येत - द्वयोर्वाजपेययोर्भवा दक्षिणा द्वैवाजपेयिकीति। अनेन च विधानेन `प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि` (काशिका। 5.1.20) इति ठञ्? सिद्धो भवति। अथापि कथञ्चित्? तदन्तविधिर्भवार्थे लभ्यते, तथापि <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति लुक्प्रसज्येत। तस्माद्युक्तः सूत्रारम्भः।", "51096": "`यथा मासे भवं मासिकम्` इत्यादि। <<कालाट्ठञ्>> [[4.3.11]] इति। `प्रावृषेण्यम्` इति। <<प्रावृष एण्यः>> [[4.3.17]] । `वासन्तं शारदम्` इति। सन्धिवेलादिसूत्रे [[4.3.16]] णाण्। `हैमनम्` इति। <<हेमन्ताच्च>> [[4.3.21]] इति, `सर्वत्राण्च तलोपश्च` [[4.3.22]] इति। वतिः सादृश्यार्थः। <<कालेभ्यो भववत्>> [[4.2.34]] इत्यत्रैतद्व्याख्यातम्। तत एवानुगन्तव्यम्। चकारः कालादित्यनुकर्षणार्थः, तेन चानुकृष्टत्वादुत्तरत्र नानुवर्तते, अत आह - `कालाधिकारस्य पूर्णोऽवधिः` इत्यादि। ननु च यन्मासे दीयते कार्यं च तन्मासे भवति; मासाधारत्वात्? तत्सत्तायाः। अतः <<तत्र भवः>> [[4.3.53]] इत्यनेनाणैव सिद्धमिति किमतिदेशेन? एवं तेन सत्यपि भवत्यर्थे कार्यदीयमानयोः कार्यतां दीयमानताञ्च कालान्तात्? तैः प्रत्ययैरपि ख्याययितुमतिदेशः। किञ्चानेन च तत्र भवानामपि न। तेन सति तस्मिन्? तदन्तविधेरिष्टत्वाद्द्वयोर्मासयोर्दीयते कार्यं वा - द्वैमासिकमिति। अथापि कथञ्चिद्भवार्थेऽपि तदन्तविधिर्गृह्रते, एवमपि <<द्विगोः>> [[4.1.21]] इति लुक्? स्यात्। ननु चात्रापि विधाने सत्यतिदेशादेव लुक्? प्राप्नोति? वचनसामर्थ्यान्? प्रत्ययमात्रस्यातिदेशो विज्ञास्यते, न सर्वकार्याणामित्यदोषः॥", "51097": "व्युष्टशब्दोऽयं कालशब्दः। तत्साहचर्यान्नित्यशब्दोऽपि कालशब्द एव गृह्रते। नाकाशादिवचनः। तेन तत्र सप्तम्यपवादः `कालध्वनोरत्यन्तसंयोगे` [[2.3.5]] इति द्वितीया भवति। तेन सप्तम्यधिकारेऽपि नित्यशब्दाद्द्वितीयासमर्थादेव प्रत्ययः। नित्यं दीयते `नैत्यम्`। सर्वकाले दीयते इत्यर्थः। `अण्प्रकरणे` इत्यादि। पदेतत्? कात्यायनेनोक्तम्? `अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्` (वा।532) इत्येतन्न वक्तव्यम्। कथं तह्र्रण्? स्यात्? व्युष्टादिष्वेवाग्निपदादयः पठितव्या। अथाण्ग्रहणं किमर्थम्, यावता भववत्` [[5.1.95]] इत्येतदिहानुवर्तते, तेनैवात्राणपि भविष्यति? नैवं शक्यम्; एवं हि सति व्युष्टनित्यशब्दाभ्यां <<कालाट्ठञ्>> [[4.3.11]] इति ठञ्? स्यात्; नैष दोषः; तत्र पुनरारम्भसामर्थ्याद्यष्ठञा बाधितः स एव भविष्यति। कः पुनरसौ? अणेव। एवमपि तीर्थशब्दात्? द्व्यजृद्ब्राआहृणादि [[4.3.72]] सूत्रेण ठग्विहित इति ततष्ठगेव स्यात्। ये चात्र प्रवेशनादयोऽन्तोदात्ताः; तेभ्यष्ठञ्? स्यात्? `ब्राह्वचोऽन्तोदात्ताट्ठञ् [[4.3.97]] इति; तेभ्यो भवार्थे ठञो विहितत्वात्। तस्मादण्ग्रहणं कर्तव्यम्॥", "51098": "`यथासंख्यं नेष्यते` इति। अल्पाच्तरस्य हस्तशब्दस्य परनिपातो लक्षणव्यभिचारस्य वचनहेतुः। `तृतीयार्थमात्रञ्चात्र सम्भवति` इति। तृतीयार्थस्य गम्यमानत्वात्। तथा हि - यथाकथाच दत्तमित्युक्ते, अनादरेण दत्तमिति गम्यते। `न तृतीयासमर्थविभक्तिः` इति। यथाकथाचशब्दसय वाक्यत्वात्। प्रत्यस्तु वचनसामर्थ्याद्वाक्यादपि भवत्येव॥", "51099": "`गुणोत्कर्षः सम्पत्तिः` इति। सम्पादिनीत्यत्र प्रकृतिभागस्यार्थमाचष्टे। पूर्वावस्थाया गुणातिरेको गुणोत्कर्षः। `आवश्यके णिनिः` इति। अवश्यं सम्पद्यत इति `आवश्यकाधमर्णयोर्णिनिः` [[3.3.170]] । `विशेषतशोभते` इति। शोभनाख्यस्य गुणस्य पूर्वावस्थाया उत्कर्षादतिरिच्यमानत्वात्॥", "51100": "`कण्र्यम्` इति। <<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिभावः॥", "51101": "`सक्तुमांसौदनाद्विगृहीतादपि` इति। अपिशब्दात्, सङ्घातादपि। साक्तुमांसौदनिकः। साक्तुकः। मांसिकः। औदनिकः॥", "51102": "", "51103": "", "51104": "अथ किमर्थं तदिति समर्थविभक्तिर्निर्दिश्यते; यावता समय इति निर्देशादेव सा दृश्यते? इत्यत्राह - `समर्थविभक्तिनिर्देश उत्तरार्थः` इति। `ऋतोरण्` [[5.1.104]] इन्येवमादौ प्रथमासमर्थाद्यथा स्यादिति उत्तरार्थञ्च क्रियमाणोऽत्रापि विस्पष्टार्थो भविष्यतीत्यत्रैव कृतः; नोत्तरत्र॥", "51105": "वसन्तोऽस्य पुष्पदेरृतुः प्राप्तः, स तस्य जनकत्वात्? प्रयोजको भवतीति <<प्रयोजनम्>> [[5.1.109]] इति ठञि प्राप्ते सत्ययमारभ्यते॥", "51106": "घसः सकारः `सिति च` [[1.4.16]] इति पदसंज्ञार्थः। तेन पदत्वेन भत्वे निरस्ते `ऋत्विय` इति। अत्र <<ओर्गुणः>> [[6.4.146]] इति गुणो न भवति॥", "51107": "", "51108": "`प्रकृष्टम्` इति। <<नपुंसके भावे क्तः>> [[3.3.114]] । कालस्य दीर्घत्वमिह प्रकृष्टशब्देनोच्यते। अथ ठञ्ग्रहणं किमर्थम्, यावता प्रकृत एव ठञ्, तत्र प्रकृष्टमित्येतावदेव वक्तव्यम्? इत्याह - `ठञ्ग्रहणं विस्पष्टार्थम्` इति। असति हि ठञ्ग्रहणे यतोऽनन्तरत्वात्? स एव विधीयत इति कस्यचिद्भ्रान्तिः स्यात्। तस्मान्मन्दबुद्धि प्रवक्तारं प्रति विस्पष्टार्थं ग्रहणम्॥", "51109": "प्रयोजयतीति प्रयोजनम्। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्तरि ल्युट्॥", "51110": "ठञपवादो योगः। मन्थोऽवक्षारो विलोडनदण्डो वा॥", "51111": "`विशिपूरी` इत्यादि। `विश प्रवेशने` (धातुपाठः-1824), `पूरी आप्यायने` (धातुपाठः-1803), `पत्लृ गतौ` (दा।पा। 845) `रुह बीजजन्मनि` (धातुपाठः- 859) - एताः प्रकृतयो यस्यानस्य <<युवोरनाकौ>> [[7.1.1]] इति युस्थाने विहितस्यानः, तस्माद्विद्यमानपूर्वपदाच्छ उपसंख्येयः। केवलस्यानस्य सपूर्वपदत्वं न सम्भवतीति तस्य शब्दस्येदं विशेषणं विज्ञायते। गृहप्रवेशनं प्रयोजनं यस्य तत्र गृहप्रवेशनशब्दो विशिप्रकृत्यनन्तः, गृहशब्देन च सपूर्वपदः। यदि तर्हि विश्यादिप्रकृत्यनन्ताच्छशब्दाच्छ उपसंख्यायते, अनुप्रवचनादिषु संवेशनारोहणादीनां पाठोऽनर्थकः; तस्यैव प्रपञ्चार्थत्वात्॥", "51112": "अथ पदग्रहणं किमर्थम्, सपूर्वादित्येवोच्येत? इत्यत आह - `पदग्रहणम्` इत्यादि। असति हि पदग्रहणे, ईषदसमाप्तं समापनं बहुसमापनं तत्? प्रयोजनमस्येति तत्रापि प्राप्नोति; भवति ह्रयं समापनशब्दः सपूर्वः। पदग्रहणे तु सति न भवति; बहुचप्रत्ययस्यापदत्वात्॥", "51113": "`चौरे नियमार्थम्` इति। प्रकृतत्वाच्च ठञ एव। एवं ब्राउवता ठञान्तमेतन्निपात्यत इत्युक्तं भवति। ननु च टकारानुबन्ध एवमर्थमासङ्ग्यते, ङीव्यता स्यादिति, स चात्र ठञन्तत्वादेव सिद्धः, तत्? किमर्थं टकारः? इत्यत आह - `टकारः` इत्यादि। असति हिटकारे, यथा ङीब्भवति तथा ञित्स्वरोऽपि - आद्युदात्तत्वं स्यात्। `कार्यावधारणार्थष्टकारः` क्रियते, तेन ङीबेव भवति, न ञित्स्वरः। `अपर इकट्प्रत्ययं वृदिंध च निपातयन्ति` इति। तेषां ङीबर्थ एव टकारः। एकश्बदोऽसहायर्थः, स चासहायवाची द्रष्टव्यः। असहयग्रहणं चौरस्य स्वार्थे, न तूपलक्षणं प्रयोजनम्॥", "51114": "आदिः=जन्म, अन्तः=विनाशः, तयोर्वचनमाद्यन्तवचनम्। तस्मिन्? सत्येतन्निपातनम्। `समानकालावाद्यन्तावस्य` इति। ननु चोत्पदनविनाशयोरयौगपद्यात्? समनकालत्वं न सम्भवति, न ह्रनेन जन्मनाशयोरेककालता प्रतिपद्यते, किं तर्हि? विद्युदादेरनवस्थायित्वप्रदर्शनपरत्वादस्येत्यत आह - `उत्पादानन्तरं विनाशिनीत्यर्थः` इति। `आकालाट्ठंश्च` इति। यदा ठन्? तदा - आकालिका। यदा ठञ्? तदा - आकालिकी। आकालशब्दश्चायं <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इत्यव्ययीभावः। आ कालादाकालम् - <<कुगतिप्रादयः>> [[2.2.18]] इति, तत्पुरुषो वा - आवृत्तः काल आकाल इति॥", "51115": "`तुल्यम्` इति। कर्मपदमेतत्, क्रियाविशेषणत्वात्। प्रतिपादितं हि प्राक्? क्रियाविशेषणानां कर्मत्वम्? <<स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन>> [[2.1.39]] इति सूत्रे। `ब्राआहृणेन तुल्यं वर्तते ब्राआहृणवत्` इति। का पुनरत्र क्रिया? ब्राआहृणेन तुल्यं वर्तते क्षत्रियादिगता अध्ययनादिका। ननु च तस्या ब्राआहृणनिष्ठयाऽध्ययनादिक्रिययैव तुल्यता। न च तां ब्राआहृणशब्द आह। किं तर्हि? जातिं द्रव्यं वा। न च ताभ्यां क्रियया तुल्यत्वम्; स्वभावभेदात्। यत्र हि किञ्चित् सामान्यम्, कश्चिद्विशेषः, स विषयस्तुल्यतायाः इह त्वत्यन्तभेद एव? नैष दोषः; यद्यपि ब्राआहृणादिशब्दैः क्रिया नोच्यते, तथाप्यभिधेयसम्बन्धेन प्रतीयते, यथा - `गुडः` इत्युक्ते गुडेनानभिधीयमाना अपि माधुर्यादयः। तत्र ब्राआहृणादिशब्देन योऽर्थ उच्यते तेन तुल्यत्वं क्रियाया न सम्भवति। उच्यते चेदं वचनसामर्थ्यात्। यासावभिधेयन ब्राआहृणेन क्रिया गम्यते तया तुलप्याता विज्ञास्यते। ननु च तृतीयासमर्थविभक्तिवाच्यया क्रिययैव प्रत्ययार्थक्रियायास्तुल्यता, तस्याश्च घञन्तोऽवकाशः - तैलपाकेन तुल्यो घृतपाक इत्यादि? नैषोऽस्त्यवकाशः; घात्वर्थो हि क्रिया, सा च पूर्वापरीभूता। अथ वा - असत्त्वभूता। न च तस्यां घञादयो भवन्ति, क्व तर्हि? तस्यैव धात्वर्थस्य धर्मे सिद्धतायामेव। घात्वर्थस्यापि घञादिस्थाया भिद्यते। तत्कथं घञादीनामर्थः क्रियेति शक्यते वक्तुम्? न च तया घञादिवाच्यसिद्धतया द्रव्यगतायास्तुल्यता। न हि द्रव्यभूतेनासत्त्वभूतस्य वस्तुतुल्यतोपपद्यत इत्यतो नास्ति वचनस्यावकाशः। यदि तर्हि क्रिया घञादिभिर्नाभिधीयते - कर्तुं गमनम्, भोक्तुं पाकः, करकस्य व्रजतीति `तुमुण्णवुलौ क्रियायं क्रियार्थायाम्` [[3.3.10]] इति तुमुण्ण्वुलौ न प्राप्नुतः? नैष दोषः; यदत्र प्रकृतिरूपं तस्य क्रियैवार्थ इति तदाश्रयौ तुमुण्ण्वुलौ भविष्यत इत्यलमतिप्रसङ्गेन॥", "51116": "अथ कियर्थमिवेत्युच्यते, न वत्यर्थे सादृश्ये भविष्यति? भविष्यति? नैतदस्ति; न हि तुल्यग्रहणं शक्यमिहानुवर्तयितुम्। तद्धि क्रियाविशेषणत्वात्? कर्म, तत्र यदीह तस्यानुवृत्तिः स्यात्? तथाभूतस्यैव स्यात्। ततश्च कर्मण्येव तुल्ये प्रत्ययः स्यात्, तथा च - मथुरायामिव मथुरावत्? स्लुध्ने प्रासाद इत्यादि न सिध्येत्। तस्मादिवेति वक्तव्यम्। अक्रियार्थश्चायमारम्भः॥", "51117": "अरहतीत्यर्थः। क्रियाग्रहणमिहानुवर्तते, ततोऽस्यामेवर्हणक्रियायां कर्तृभूतायां प्रत्ययो विधीयत इति। यत्रासौ प्रत्ययार्थत्वेन विवक्ष्यते, तत्र वाक्यमेव भवति - ब्राआहृणमर्हतीति॥", "51118": "उपसर्गाः प्रादयः, ते चैवमात्मकाः। यत्र क्रियावाची शब्दः प्रयुज्यते, तत्र क्रियाया विशेषका भवन्ति - आगच्छति, प्रगच्छतीति। यत्र न प्रयुज्यते, तत्र समाधनक्रियावाचकाः - सङ्कटः, उत्कट इति। क्रियावाची शब्दः प्रादीनां वत्यन्तानां प्रयोगे न प्रयुज्यते। तेन साधनो धात्वर्थेः स्वार्थः। तेन साधने धात्वर्थे वर्तमानादुपसर्गात्? प्रत्ययो विज्ञायति इत्याह - `समाधने धात्वर्थे` इति। यदि ह्रेवमात्मका उपसर्गाः, धात्वर्थग्रहणं न कर्तव्यम्? सत्यमेतत्; तत्? क्रियते विस्पष्टार्थम्। `उद्वतः, निवतः` इति। उच्छब्दात्? निश्बदात् समाधने धात्वर्थे वतिः। ननु च वतेरव्ययसंज्ञकत्वाद्विभक्तेर्लुक्? प्राप्नोति, स कस्मान्न भवति? अव्ययसंज्ञाया अनित्यत्वात्। अनित्यत्वं तु तस्याः `सत्यमेतत्; तत्? क्रियते विस्पष्टार्थम्। `उद्वतः, निवतः` इति। उच्छब्दात्? निशब्दात्? समाधने धात्वर्थे वतिः। ननु च वतेरवययसंज्ञकतवाद्विभक्तेर्लुक्? प्राप्नोति, स कस्मान्न भवति? अव्ययसंज्ञाया अनित्यत्वात्। अनित्यत्वं तु तस्याः `सर्वमिदं काण्डं स्वरादावपिं पठते` इत्यादिनाऽव्ययसंज्ञाप्रकरण एव प्रतिपादितम्॥", "51119": "भवतेरनेकार्थत्वाद्भवाशब्दोऽयमभिप्रायादिष्वनेकेषु वर्तते। तत्र न ज्ञायते-कोऽत्रार्तो भावशब्देन विवक्षितः? इत्यतस्तत्परिज्ञानार्थमाह - `भवतोऽस्मात्` इति। यस्माद्गोत्रादेर्विशेषणत्वाद्विशेष्ये गवादौ गौरित्येवमादिकः शब्दो भवति, गोत्वाकारवती च बुद्धिस्तेन योऽर्थो गवादेः शब्दस्य प्रवृत्तनिमित्तं स भावशब्देनोच्यते। तथा चोक्तम् - `यस्य गणस्य भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ` इति। गुण इति विशेषणमिहोच्यते, द्रव्यं विशेष्यम्। यस्य विशेषणस्य भावाद्विद्यमानत्वाद्विशेष्ये शब्दस्य निवेशः प्रवृत्तिर्भवति, तदभिधाने त्वतलादयः प्रत्यायः भवन्ति। तत्? पनः शब्दानां प्रवृत्तिनिमित्तमनेकप्रकारम्; जातिशब्दानां जातिः - अआत्वमिति, गुणशब्दानां गुणः - शुक्लत्वमिति, क्रियाशब्दानां क्रिया-पाचकत्वमिति। केचित्तु क्रियाकारकसम्बन्धं क्रियाशब्दानां प्रवृत्तिनिमित्तमिच्छन्ति। यदृच्छाशब्दानां संज्ञासंज्ञिसम्बन्धित्वमिति संक्षेपेणैतदुक्तम्। विस्तरेण तु भाष्यादावुक्तमिति तत एवानुगन्तव्यम्। अथ नानात्वमित्यादौ कथं प्रत्ययो भवति? कथङ्कारं न भवितव्यम्? षष्ठीसमर्थात् प्रत्ययविधानात्, नानेत्येवमादीनाञ्चाव्ययानां षष्ठर्थेनायोगात्, अयोगास्तु तेषामसत्त्ववाचित्वात्? नैष दोषः; ससत्त्वभूतोऽप्यर्थः शब्दान्तरेण प्रत्यवमृष्टः षष्ठरेथेन प्रयुज्यते - नानेत्यस्य भाव इति। तञ्च प्रत्यवमृष्टार्थं वृत्तिरेव गमयतीति नानुपपन्ना षष्टीसमर्थता॥", "51120": "`प्रथिमा` इति। `तुरिष्टेमेयस्सु` [[6.4.154]] इति, `टेः` [[6.4.155]] इति टिलोपः। `र ऋतोहलादेर्लघोः` [[6.4.161]] इति ऋकारस्य रेफः, <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति दीर्घः। `पार्थवम्` इति। <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इत्यण्। `अपवादैः` इत्यादि। इमनिच्प्रभृतीनपवादस्त्वितलोर्वक्ष्यति, तैः सह तयोः समावेशः। एकविषयता यथा स्यादित्येवमर्थमिदम्। ननु च स्वरितत्वादनुवर्तमानावनुवृत्तिसामर्थ्यादेवापवादविषयेऽपि भविष्यतः? नैतदस्ति; अस्ति ह्रनुवृत्तेः प्रयोजनम्, किंम्? <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इति कर्मण्यपि यथा स्याताम्; इतरथा हि भावे विधीयमानौ कर्मणि न स्याताम्। `कर्मणि च` इत्यादि। ननु चानुवृत्तिसामर्थ्यादेव कर्मण्यपि भविष्यतः? नैतदस्ति; अस्ति ह्रन्यदनुवृत्तेः प्रयोजनम्, किम्? अपवादविषयेऽपि यथा स्याताम्। तस्मसत्वसति न स्याताम्, अस्मस्तु सत्येतदुभयमपि लभ्यते। `चकारः` इत्यादि। यदि चकारो न क्रियेत ततोऽत्रैव प्रकरणे येऽपवादास्तैरेव समावेशः स्यात्, न नञ्स्नञ्भ्याम्; तयोरन्यतर विहितत्वात्। चकारे त्वपवादसमुच्चयार्थे सति सर्वापवादविषये त्वतलौ लभ्येते। तेन स्त्रीपुंसाभ्यामपि सिद्धौ भवतः। यद्येवम्, अन्येष्वर्थेषु सावकाशौ नञ्स्नञौ भावे न सिध्यतः, त्वल्लभ्यां बाध्यमानत्वात्? नैषः दोषः; `भवनात्` इत्यवध्युपादानसामर्थ्याद्भावेऽपि भविष्यतः; इतरथा हि भावमेव विधित्वेनोपाददीत॥", "51121": "अधिकारोऽयम्। तेनोत्तरेषां भावप्रत्ययानां प्रतिषेधो विज्ञायते; न त्वतलोरिति मत्वाऽऽ-`इत उत्तरे ये भावप्रत्ययाः` इत्यादि। न तु <<पृथ्वादिभ्य इमनिज्वा>> [[5.1.122]] इत्येवमादिंभिर्योगैः परिगणिताभ्य एव प्रकृतिभ्यः प्रत्ययो विधीयते। न च तत्र काचित्? प्रकृतिर्नञ्पूर्वा गृह्रते, न च तदन्तविधिरस्ति; ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। तस्मात् तत्र नञ्पूर्वात्? प्राप्तिर्नास्तीति नास्त्यस्योपयोगः? सत्यम्; यत्र त्वन्तग्रहण् - <<पत्यन्तपुरोहितादिभ्यो यक्>> [[5.1.128]] इत्येवमादिषु योगेष्वस्ति, यत्र च स्वरूपग्रहणं नास्ति <<योपधाद्गुरूपोत्तमाद्वुञ्>> [[5.1.132]] इत्येवमादिषु, तत्र नञ्पूर्वादपि प्राप्तिरस्तीति प्रतिषेधः क्रियते। `अपतित्वम्` इति। नञ्समासे कृत उत्तरकालं पत्यन्तादभावविवक्षायां <<पत्यन्तपुरोहितादिभ्यो यक्>> [[5.1.128]] इत्यादिना यग्न भवति। `अपटुत्वम्` इति। `इगन्त` [[5.1.131]] इत्यण्? न भवति। `अरमणीयत्वम्` इति। `योपदात्` [[5.1.132]] इत्यादिना वुञ्? न भवति। नास्य पटवः सन्तीत्यपटुरिति बहुव्रीहिरयम्, तेनास्मादिगन्तलक्षणोऽण्? भवति - `आपटवम्` इति। `आचतुर्यम्` इति। ब्राआहृणादित्वात्? ष्यञ्। ननु च नञ्समासा ब्राआहृणादिषु न षठन्ते, तत्कुतस्तेन ष्यञ्? नैष दोषः; आकृतिगणो हि ब्राआहृणादिरिष्यते। अचतुरादिप्रतिषेध एवाकृतिग्रहणस्य ज्ञापकम्॥", "51122": "पृथ्वादिषु य इगन्ता लघुपूर्वाः पृथुमृदुप्रभृतयः, तेषामणि प्राप्ते; ये गुणशब्दाः खण्ड चण्ड - इत्येवमादयः, तेषां ष्यञि; ये वयोवचनाः - बाल वत्स - इत्येवमादयः, तेषां <<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> [[5.1.129]] इत्यादिनाञि सर्वेषामपवाद इमनिज्विधीयते। `वावचनम्` इत्यादि। आदिशब्देनष्यञादीनामुपसंग्रहः। वाक्यार्थं तु वावचनं न भवति; महाविभाषयैव वाक्यस्य सिद्धत्वात्॥", "51123": "बहुवचनं प्रतेयकमभिसम्बध्यते - वर्णेभ्यो दृढादिभ्यश्चेति; तेन बहुवचननिर्देशाद्वर्णशब्देन वर्णवाचिनां ग्रहणमिति विज्ञायते, न स्वरूपग्रहणे तु वर्णशब्दमपि दृढादिषु एवाधीयीत। वर्णशब्दश्च गुणविशेषस्य वाचकः; न ब्राआहृणादीनाम्। कुतः? दृढादिभिर्गुणवचनैः साहचर्यात्। अत एवाह-दृढादिभिः साहचर्याद्रूपविशेषा एव शुक्लादयः प्रत्ययमुत्पादयन्ति, न तु स्वरूपशब्दाः, नापि तत्पर्यायाः। कथम्? दृढादयो हि गुणा उपसर्जनं द्रव्ये वर्तन्ते। तत्साहचर्याद्वर्णशब्दा अपि तत्सदृसा एव गृह्यन्ते। न वर्णश्बदस्य तत्पर्यायाणां वा तादृशी वृत्तिरस्ति; गुणमात्रवचनत्वात्। वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमिमनिजर्थम्। यद्येवम्, ष्यञ्ग्रहणनर्थकम्, इमनिजेव विधेयः, स च विभाषयैव प्रकृतः? तदुच्यते; अवस्यं ष्यञ्ग्रहणमुत्तरार्थ कर्तव्यम्। तत्र वा क्रियत इह वेति नास्ति विशेषः। `शुक्लिमा` इति। पूर्ववट्टिलोपः। `द्रढिमा` इति। पूर्वदृकारस्य रभावः। `औचितो, यथाकामी` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्। <<हलस्तद्धितस्य>> [[6.4.150]] इति यलोपः। `वेयतिलाभमतिमनःशारदानाम्` इति पठते। तस्यायमर्थः - विशब्दादुत्तरेषां यातादीनां प्रत्ययाभवन्तीति। वियातत्वम्, वियातता, वियातिमा, वैयात्यम्। विलाभता, विलाभत्वम्, वैलाभ्यम्, विलाभिमा। विमतित्वम्, विमतिता, वैमत्यम्, विमतिमा, `इगन्तात्` [[5.1.130]] इत्यण्, वैमतम्। विमनसत्वम्, विमनस्ता, विमनिमा, वैमनस्याम्। विशारदत्वम्, विशारदता, वैशारद्यम्, विशारदिमा। `समो मतिमनसोः` इति। सम उत्तरयोर्मतिमनसोः प्रत्ययो भवति। संमतिता, संमतित्वम्, संमतिमा, सांमत्यम्। संमनस्त्वम्। संमनस्ता, संमनिमा, सांमनस्यम्॥", "51124": "<<तस्येदम्>> [[4.3.120]] इति शैषिकेषु प्राप्तेषु कर्मणि ष्यञ्विधानम्, चकारद्भावे च। `कर्मशब्दः क्रियावचनः` इत। साधनकर्मवचनशङ्कामपाकरोति। ये हि जडादिशब्दाः गुणशब्दाः, गुमवचनाः, ब्राआहृणादयश्च तेषां साधनकर्मणा सम्बन्दो न सम्भवति; क्रियावाचकत्वाभावात्। तस्मात्? क्रियाशब्द एव कर्मशब्दः। `ब्राआहृणादिराकृतिगणः` इति। अवृत्कृतत्वात्। `आदिशब्दः प्रकारे` [`प्रकारवचनः` - काशिका, पदमञ्जरी च] इति। एवं प्रकारेभ्यः ष्यञ्? भवतीत्येवमर्थमादिशब्दः प्रकरवचनत्वं बोधयति। यद्येवम्, गुणवचनग्रहणं प्रातिपदिकेषु च ब्राआहृणादीनामनुक्रमणमनर्थकं स्यात्? नानर्थकम्; प्रपञ्चार्थ हि तत्? स्वार्थे विधानार्थञ्च। तत्र ब्राआहृणशब्दात्? <<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> [[5.1.129]] इति जातिवचनत्वादञि प्राप्ते तद्बाधनार्थं ष्यञ्विधीयते। माणववाडवाभ्यां गोत्रलक्षणे वुञि। `अर्हतो नुम्? च` इति। अस्य नुमर्थः पाठः - अर्हन्त्यम्। चोरधूर्ताभ्यां मनोज्ञादित्वाद्वुञि प्राप्ते। आराधय, विराधय, अपराधय - इत्येतेभ्योऽपत्यविवक्षायां <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] , तस्य <<कम्बोजाल्लुक्>> [[4.1.175]] इति लुक्। ततो गोत्रवुञि प्राप्ते पाठः। एकभवादीनामन्यभावपर्यन्तानां स्वार्थे विधानार्थम्। अक्षेत्रज्ञशब्दस्य ` नञ्पूर्वात्` [[5.1.120]] इति प्रतिषेधे प्राप्ते। प्राग्बालिशशब्दात्? कुशलादीनां युदादित्वादणि प्राप्ते। बालिशशब्दो वयोवचनः, तस्माद्वयोलक्षणेऽञि प्राप्ते। अनीआरशब्दस्य `न नञ्पूर्वात्` [[5.1.120]] इति प्रतिषेधे प्राप्ते। `अलस` इति बहुव्रीहिः ष्यञमुत्पादयति, तत्पुरुषात्तु, `न नञ्पूर्वात्` [[5.1.120]] इति प्रतिषेधेन भवितव्यम्; तस्य प्रपञ्चार्थः पाठः। राजन्शब्दस्य पुरोहितदित्वाद्यकि प्राप्ते। `संवादिन्` `संवेशिन्`, `बहुभाषिन्, `शीर्षधातिन्`, `सयस्थ`, `परमस्थ`, `दुष्पुरुष` - इत्येवमादीनां नञ्पूर्वार्थः पाठः। `गणपति`, `अधिपति` - इत्येतयोः पत्यन्तलक्षणे यकि प्राप्ते। `गडुल`, `दायाद`, `विशस्ति` - इत्येतेषां त्वतलोर्निवृत्त्यर्थः। शेषाणां प्रपञ्चार्थः। गुणवचना एके राशिः, ब्राआहृणादयो द्वितीयः, ताभ्यां भावे कर्मणि यथासंख्यं प्राप्नोति, तत्? कस्मान्न भवति? ब्राहृणादिशब्दस्याल्पाच्तरस्य परनिपातात्। स हि लक्षणे निरपेक्षतां निर्देशस्य ज्ञापयन्? यथासंक्यलक्षणानपेक्षतामपि बोधयति, तेन यथासंख्यं न भवति॥", "51125": "", "51126": "`दूतवणिग्भ्याञ्च` इत्यादि। दूतवणिग्भ्यां यो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः - `दूतवणिग्भ्याञ्च` इत्यादि। दूतवणिग्भ्यामपि भवति॥", "51127": "कपिशब्दात्? <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इत्यणि प्राप्त इदं विधीयते। `यथासंख्यम्` इत्यादि। तत्र <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यत्र यतासंख्याभावः प्रतिपादितः। इहापि प्रतिपाद्यते। तत्रेदं प्रतिपादनम् - अत्र चकारोऽनुवर्तते, स चैकस्याः प्रकृतेर्भावे कर्मणि च ढग्विंधिं समुच्चिनोति। तेन यथांसंख्यं न भवति; अन्यथा हि समुच्ययो नोपपद्यते। अस्वरितत्वाद्वा यथासंख्यं न भविष्यति, प्रतिपादितं हि पूर्वम् - `स्वरितत्वेन यथासंख्यं भवति` इति। न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायते॥", "51128": "पत्यन्तात्? पूर्ववदणि प्राप्ते, पुरोहितादिषु राजशब्दराद्ब्राआहृणादिपाठात्? ष्यञि, शेषेब्यस्त्वतलोर्यग्विधीयते। `राजासे` इति। राजशब्दादसे=असमासे यग्भवति - राज्यमिति। समासे तु ब्राआहृणादित्वात्? ष्यञेव भवति - आधिराज्यमिति। ननु च केवलो राजशब्दो ब्राआहृणादिषु पठते, तेत्कथमधिराजशब्दात्? तदन्तविधिना; एतदेव ज्ञापकमस इति वचने - अस्तौहि प्रकरणे राजशब्देन तदन्तविधिरिति। इह पत्यन्तपुरोहितादी इति द्वौ राशी, अर्थावपि भावकर्मणी द्वावेवेति साम्याद्यथासंख्यं प्राप्नोति; तदस्वरितत्वात्? पूर्ववन्न भवति॥", "51129": "प्राणबृतः प्राणिन उच्यन्ते, तेषां जातिः प्राणभृज्जातिरित्यर्थः। तद्वाचिनो यतासम्भवं त्वतलादिष्वञ्विधीयते। प्राणभृद्ग्रहणात्? तृणादिशब्देभ्यो न भवति-तृणत्वम्, तुणतेति। जातिग्रहणाद्देवदत्तादिशब्देभ्यो न भवति - देवदत्तत्वम्, देवदत्तता। यदिगन्तं लघुपूर्वं च तस्मात्? परत्वादण्भवति। `तैत्तिरम्` इति। वयोवचनादपि यथायोगं त्वतलादिष्वेव प्राप्तेष्वञ्विधानम्। वचनग्रहणं स्वरूपविधिनिरासार्थम्; अन्यथा वयःशब्दादेव स्यात्। तत्रोद्गात्रादिषु `उद्गात्, उन्नतृ, अध्वयुइत्येतेषामृत्विग्वचनात्? <<होत्राभ्यश्छः>> [[5.1.135]] इति च्छे प्राप्ते सत्यञर्थः पाठः। सुष्ठु, दुष्ठु, वधू - इत्येतेषां लघुपूर्वलक्षणेऽपि प्राप्ते। `सुभगमन्त्रे` इति। सुभगशब्दो मन्त्रविषयेऽञमुत्पादयति - महते सौभागाय। `सर्वे विधयश्छन्दसि विकल्प्यन्ते` (पु।प।वृ। 56) इति। `ह्मद्भगसिन्ध्वन्त` [[7.3.19]] इत्युत्तरपदवृद्धिर्न भवति। मन्त्र इति किम्? सौभाग्यम्, ब्राआहृणादित्वात्। शेषणामिह पाठस्त्वतलोः प्राप्तयोः॥", "51130": "हायनान्तात्? त्वतलोः प्राप्तयोरण्विधानम्। ननु च <<तस्येदम्>> [[4.3.120]] इत्यनेन हायनान्तादण सिद्धः? न सिध्यति; परत्वात्? त्वतल्भ्यां बाध्यते - आषाढहायणस्य भावः कर्म वा आषाढहायण इति <<वृद्धाच्छः>> [[4.2.114]] प्रसज्येत। तस्माद्युक्तं हायनान्तादण्विधानम्। `यौवनम्` इति। `अन्` [[6.4.167]] इति प्रकृतिभावः। युवादिषु युवशब्दस्य वयोलक्षणं बधित्वा मनोज्ञादित्वाद्वुञि प्राप्ते पाठः। स्थविरशब्दस्य वयोलक्षणेऽञि होतृशब्दस्याप्युद्गात्रादित्वादञेव। `पुरुषासे` इति। पुरुषशब्दादसमासेऽण्। भवति - पौरुषम्। अस इति किम्? राजपुरुषत्वम्। अस्य <<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> [[5.1.129]] इत्यप्राप्ते पाठः। कमणाडलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतलोर्बाधनार्थः पाठः। `ह्मदयासे` इति। ह्मदयशब्दादसमासेऽण्? भवति। हाद्र्दम्, <<हृदयस्य हृल्लेखयदण्लासेषु>> [[6.3.50]] इति ह्मद्भावः। अस इति किम्? ह्मदयशब्दादसमासेऽण्? भवति। हाद्र्दम्,<<हृदयस्य हृल्लेखयदण्लासेषु>> [[6.3.50]] इति ह्मद्भावः। अस इति किम्? परमह्मदयत्वम्। कुशलादीनां क्षेत्रज्ञपर्यन्तानां ब्राआहृणादित्वात्? ष्यञि प्राप्ते पाठः, शेषाणां तु त्वतलोः। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात्? समासादण्प्राप्तिरेव नास्ति, तदपर्थकः `पुरुषासे`, `ह्मदयासे` इति च प्रतिषेधः? नापार्थकः, एषा हि विषयसप्तमी - समासे चिकीर्षिते विषयभूत एव पुरुषशब्दह्मदयशब्दाविति। यदि प्रतिषेधो नोच्येत, ततो नञ्समासस्य भावप्रत्ययस्य चाणो युगपत्प्रसङ्गे परत्वादणेव स्यात्। प्रतिषेधात्तु समास एव तावद्भवति। ततो यस्य भावप्रत्ययस्य निमित्तमस्ति स उत्पद्यते। कश्चासौ? त्वतलौ - अपुरुषत्वम्, अपुरुषता; अह्मदयत्वम्, अह्मदयता। इह हायनान्त एकरशिः, युवादिद्र्व#इतीयः; अर्थावपि द्वावेव - भावकर्मणी, तेन सामर्थ्याद्यथासंख्यं प्राप्नोति; तदल्पाच्तरस्य युवादिशब्दस्य परनिपातलक्षव्यभिचारचिह्नान्न भवति। अस्वरितत्वाद्वा॥", "51131": "`इगन्तात्` इति। इक्? अन्तो यस्येति बहुव्रीहिः। प्रातिपदिकमन्यपदार्थः। `लघुपूर्वग्रहणे` इत्यादि। अथेगेव कस्मान्न विशेष्यते? तस्य बहुव्रीह्रर्थे गुणभूतत्वाद्विशेषणेन सम्बन्धस्य कर्त्तुमशक्यत्वात्। पूर्वशब्दोऽयं व्यवस्थाशब्दत्वादपरमपेक्षते। इह चापरस्यानिर्दिष्टत्वान्न ज्ञायते - कुतो लघुः पूर्वः? तत्परिज्ञानाय पृच्छति - `कुतः पुनरसौ लघुः पूर्वः` इति। प्रत्यासत्तिन्यायमाश्रित्याह - `सन्निधानात्` इत्यादि। सन्निधानं त्विह सूत्रे इकः; श्रुतत्वात्। `तेन` इति। अन्तभूतेन लघुपूर्वेणेकान्तग्रहणमितिरिच्यत इति; निष्फलत्वात्। यतो हि `लघुपूर्वात्` इत्युक्ते च प्रातिपदिकस्य तदन्तविधो सति सामर्थ्यादेव तस्यान्तत्वं लभ्यत इत्यपार्थकमन्तग्रहणमस्मिन्? व्याख्याने। पूर्वके तु विधाने, अन्तग्रहणेऽसति `लघुपूर्वेग्वतः` इत्येव विधिनिर्देशो विज्ञायते, ततश्चानन्तस्यापीको विधित्वं स्यात्। तदा लशुनलकुटप्रभृतिभ्योऽपि प्रत्ययप्रसङ्ग इत्येवमर्थमन्तग्रहणम्। `कथं काव्यम्` इति। अन्यथा भवितव्यम्; कविशब्दस्य लघुपूर्वोगन्तत्वादित्यभिप्रायः॥", "51132": "त्वतलादिषु प्राप्तेषु वुञ्विधीयते। उत्तमशब्दोऽयमिहाव्युत्पन्नं प्रातिपदिकं गृह्रते; तत्स्वभावात्? त्रिप्रभृतीनामन्त्यमाहेति मत्वाऽऽह - `त्रिप्रभृतीनामन्त्यम्` इत्यादि। तमप्रत्ययान्तस्य तु ग्रहणे सति `अणिओरनार्षयोः` [[4.1.78]] इत्यादौ सुतारे यो दोष उक्तः, स इहापि तदनुसारेण वेदितव्यः। उत्तमस्य समीपमुपोत्तमम्, `अव्ययं विभक्तिसमीप` [[2.1.6]] इत्यव्ययीभावः॥", "51133": "द्वन्द्वात्? त्वतलादिषु प्राप्तेषु वुञ्विधीयते। मनोज्ञादिषु यो गुणवचनस्तस्मात्? ष्यञि, चौरधूर्तशब्दाभ्यामपि ब्राआहृणादित्वात्? ष्यञ्येव; युवशब्दाद्यवादित्वादणि, शेषेभ्यस्त्वतलोः। `अमुष्यपुत्रः` इति। निपातनाद्विभक्तेरलुक्। इह द्वन्द्वमनोज्ञादी द्वौ राशी, प्रत्ययार्थावपि भावकर्मणी द्वावेव - इति यथासंख्यं प्र्प्नोति, तत्पूर्ववदस्वरितत्वान्न भवति। अथ वा - चकारोऽत्र समुच्चयार्थः क्रियते। तस्य चान्यत्समुच्चेतव्यं नास्तीति वुञ्विधिमेव प्रत्येकं भावकर्मणोः समुच्चिनोति। तेनैकस्माद्राशेर्भावे कर्मणि च वुञ्? भवति, न तु यथासंख्यम्; अन्यथा हि समुच्चयो नोपपद्यते॥", "51134": "अपत्यनिमित्ता समाख्या गोत्रख्या, सा च प्रवराध्याये पठते। या च वेदाध्ययनप्रयुक्तान्? पुरुषानाचष्टे सा चरणशब्दस्याख्या। `गोत्रञ्च चरणैः सह` (म।भा।, 2।225) इति पारिभाषिकं गोत्रचरणयोर्जातित्वमिति <<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> [[5.1.129]] इत्यादिनाऽञि प्राप्ते वुञो विधानम्। इह गोत्रचरणवाचिनी द्वे प्रातिपदिके, अर्थावपि द्वावेव - तत्र यथासंख्यं प्राप्नोति, तत्? पूर्वपदस्वरितत्वान्न भवति। अत एवाह - `प्रत्येकं भावकर्मणोरर्थयोः` इति। `श्लाघादिषु विषयभूतेषु` इति। तथा हि न भावः श्लाघादीनामन्यतमोऽपि भवितुमर्हति। शब्दप्रवृत्तिनिमित्तं भावः। न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमित्तं भवति। कर्मापि नैव श्लाघादिस्वभावं भवति। न हि गोत्रचरणानां श्लाघादयः कर्मतया रूढाः, यथा - अग्नेस्तापादयः; क्रियारूपत्वात्तेषाम्। साध्यतया भावकर्मणोः प्रत्ययार्थतया विषयभूतेषु वुञ्? भवति। `तदवेतस्तत्प्राप्तः` इति। इणोऽत्र गत्यर्थत्वात्। `तज्ज्ञातो वा` इति। अवपूर्वस्येणो ज्ञानेऽपि वृत्तिसम्भवात्। तच्छब्देन चेह गोत्रचरणयोः सम्बन्धिनी भावकर्मणैइ प्रतिनिर्दिश्येते। `गार्गिकया` इति। <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति यलोपः॥", "51135": "त्वतलोः प्राप्तयोश्छो विधीयते॥", "51136": "`नेति वक्तये` इति। छप्रत्ययेऽप्यपवादे प्रतिषिद्धे त्वप्रत्ययः। `तस्य भावस्त्वतर्लौ [[5.1.118]] इत्येव सिध्यति। तस्मान्नेत्येव वक्तव्ये यदेतद्वचनं तत्त्वेन तलो बाधनं यथा स्यादित्येवमर्थम्। यदि नेत्युच्यते; तदा च्छे प्रतिषिद्धे यथा त्वो भवति तथा तलपि स्यात्। त्ववचने तु तलो बाधा सिद्धा भवति॥ इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्य प्रथमः पादः॥ - - - अथ पञ्चमोऽध्यायःद्वितीयः पादः", "52001": "`भवन्ति जायन्तेऽस्मिन्निति भवनम्` इति। अधिकरणे ल्युट्। जायन्त उत्पद्यन्त इत्यर्थः। एतेनोत्पत्तिवचनो भवतिरत्र गृह्रते, न सत्तावचनः तस्य हि ग्रहणे सत्यन्यत्र चोत्पन्नानां यत्र स्थापनं पश्चाद्यत्र स्थाप्यन्ते तत्रापि प्रसज्येत। यदि तद्ध्युत्पत्तिवचनो भवतिर्गृह्रते, क्षेत्रग्रहणमनर्थकं स्यात्। तत्र मुद्गानां भवनं कुसूल इत्यत्र मा भूदित्येवमर्थं क्रियते। न चोत्पत्तिवचनस्य भवतेग्र्रहणे सति कुसूले प्रसङ्गः, न ह्रसौ मुद्गादीनामुत्पत्तेरधिकरणम्, किं तर्हि? सत्तायाः; नैतदस्ति; सति हि क्षेत्रग्रहणे भवतिरत्रोत्पत्तिवचनो भवति। कथम्? क्षेत्रशब्दो ह्रयंधान्यानामुत्पत्त्याधारमाचष्टे। तेन तस्य ग्रहमे सति सत्तां प्रति न भूमिः क्षेत्रव्यपदेशमासादयतीति युक्तं तदुत्पत्तौ भवतिर्वर्तत इति। क्षेत्रग्रहणे त्वसति, भवतिः सत्तावचनोऽपि गृह्रते। तथा कुसूलेऽपि प्रसज्येत। अपि च - भवनशब्दो रूढआ गृहवचनोऽपयस्ति, सोऽपि क्षेत्रशब्देन निवत्र्यत इति। अथ कथं षषठी समर्थविभक्तिरुपादीयते, यावता <<तस्य भावस्त्वतलौ>> [[5.1.119]] इत्यतः षष्ठीसमर्थविभक्तिरनुवर्तत इति ततैव सिद्धम्। एवं तह्र्रेतज्ज्ञापयति - पूर्वे प्रत्यय#आ नावश्यं षष्ठीसमर्थाद्भवन्तीति। तेन <<होत्राभ्यश्छः>> [[5.1.135]] इति। होत्रायाः प्रथमासमर्थयाः स्वार्थे च्छः सिद्धो भवति - होत्रैव होत्रीयमिति। एवञ्च चतुर्वर्णादिभ्यः प्रथमासमर्थेभ्यः स्वार्थेष्यञ्? सिद्धो भवति॥", "52002": "", "52003": "", "52004": "`खञि प्राप्ते वचनम्, पक्षे सोऽपि भवति` इति। युक्तं यत्? पक्षे तिलमाषाणुभ्यः खञ्? भवतीति; तेषां धान्यत्वात्। उमाभङ्गयोस्त्वधान्यत्वात्? खञ्? पाक्षिको न युक्तः। यदेव हि `तिलाश्च मे यवाश्च मे` इत्यादिषु वेदवाक्येषु पठते तदेव धान्यम्। यावादय एवु मन्त्रे पठन्ते, नोमाभङ्गे। यदि तयोरपि धान्यत्वं स्यात्? ते अपि पठयाताम्, ततोऽवगम्यते न तयोर्दान्यत्वाम्, एवञ्च न खञस्ताभ्यां प्राप्तिरस्ति, यतः सोऽपि पक्षे स्यादित्येवाह - `उमाभङ्गयोः` इत्यादि। शणसप्तदशमुद्गानि धान्यानीति स्मृतिः। तत्र शणादिषु मध्य उमाभङ्गे अपि धान्यत्वेन संख्यायेते इति तयोर्धान्यत्वमाश्रितमेव। यस्तु पुनर्वेदे तयोरपाठः; स वैदिककर्मण्यनुपयोगात्। अतो न तत्रापाठादधान्यत्वमित्यभिप्रायः॥", "52005": "इह कृतः प्रत्ययार्थः। तत्र चर्मणः करणत्वं स्यात्, कर्तृत्वं वा। तत्र यदि करणत्वं तदा नियतं करणलक्षणया तृतीयया भवितव्यम्। अथ कर्त्तृत्वमेव `न लोक` [[2.3.69]] इत्यादिना षष्ठआं प्रतिषिद्धायां कर्त्तृलक्षणा तृतीयैव। तस्मात्? प्रत्ययार्थसामर्थ्यालभ्या तृतीया समर्थविभक्तिरिति मत्वाऽऽह - `तृतीयासमर्थात्` इति। स च सर्वचर्मण इति निर्देशः सर्वशब्दस्य चर्मशब्देन समासं कृत्वा कृतः। ततः `चर्मणैवास्य सम्बन्धो न हयन्यता समास उपपद्यते` इति यो मन्यते, तं प्रत्याह - `सर्वशब्दश्चात्र` इत्यादि। यद्येवम्, असामर्थ्यात्? समासो न प्राप्नोति? इत्यत आह - `तत्रायम्` इत्यादि। अस्मादेव निपातनादित्यभिप्रायः। अथ चर्मणैवभिसम्बन्धः कस्मान्न विज्ञायते? इत्याह - `सर्वश्चर्मणा कृतः` इति। अत्र हि वाक्यार्थे तद्धितवृत्तिरिष्यति। तथा ह्रयमेव वाक्यार्थस्तद्धितानुगतः प्रतीयते। अस्मश्चार्थे वाक्यार्थ एवं तद्धितवृत्तिर्लभ्यते, यदि सर्वशब्दः कृतेन सम्बध्यते न चर्मणा। यदि सर्वशब्दश्चर्मणा सम्बध्यते, सर्वचर्मणा इति षष्ठीसमासो वा स्यात्, कर्मधारयो वा; तत्र षष्ठीसमासे तद्धितान्तात्? सर्वसम्बन्धिना चर्मणा कृत इत्येषोऽर्थः प्रतीयते। कर्मधारये तु सर्वचर्मणा कृत इत्येषोऽर्थः। न चायं द्विष्प्रकारो यस्तद्धितान्तादवसीयते, अपि तु सर्वचर्मणा कृत इत्ययमेव। तस्मादशक्यः सर्वशब्दस्य चर्मणा सम्बन्धो विज्ञातुमिति कृतेनैव सम्बन्धो युक्तः॥", "52006": "`दृश्यतेऽस्मिन्निति दर्शनः` इति। अधिकरणे ल्युट्। `यथामुखम्` इति। `यथाऽसादृश्ये` [[2.1.7]] इत्यव्ययीभावः। मुखस्य सदृशं यथामुखम्। किं पुनस्तत्? आदर्शाश्रयं प्रतिबिम्बम्। ननु च `असादृश्ये` इति प्रतिषेधान्नात्र समासेन भवितव्यम्? इत्यत आह - `निपातनात्` इत्यादि। समासश्चायं पूर्वपदार्थप्रधानः। पूर्वपदं चासत्त्ववचनमिति प्रथमासमर्थादेव प्रत्यय उपपद्यते। अथ वा - <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इति ज्ञापकादव्ययीभावाद्द्वितीयादयो भवन्तीत्यतो द्वितीयासामर्थ्यात्? प्रत्य उपपद्यते। `यथामुखं यतामुखीनः` इति। मुखसदृस्य दर्शनः` इति। कर्मणि षष्ठी। यत्राऽऽदर्शादौ सर्व मुखं दृश्यते स एवमुच्यते॥", "52007": "अथ सूत्र द्वितीयान्तप्रकृत्युच्चारणं किमर्थम्? तदिति द्वितीयासामर्थ्यात्? प्रत्ययो यथा स्यात्। अथ वा - पथ्यङ्गकर्मपत्त्रपात्रमिति नैवेयं द्वितीया, न हि व्याप्नोतिक्रियया पथ्यादयः सम्बध्यन्ते, किं तर्हि? सर्वादि। तस्मात्? तस्यैव कर्मत्वम्, न पथ्यादीनां तदवयवानाम्। तत्? कुतः? न सा द्वितीया, सुब्व्यत्ययेन पञ्चम्याः स्थाने प्रथमा त्वेषा। तस्मात्? समाहारद्वन्द्वस्य नपुंसकलिङ्गत्वात्? `अतोऽम्` [[2.4.83]] इत्यभ्भावः कृतः। `परिशिष्टम्` इति। `सर्वादेः पथ्यङ्गकर्मपत्त्रपात्रम्` इत्येतच्च। सर्वादेः प्रातिपदिकस्य पथ्यादयश्चादौ न भवन्ति। ततः सामर्थ्यात्? तदन्तविधिर्विज्ञायत इत्याह - `पथ्यङ्गकर्मपत्त्रपात्रान्तात्` इति। `सर्वपथीनः` इति। सर्वश्चासौ पन्थाश्चेति `पूर्वकाल` [[2.1.48]] इत्यादिना समासः, `ऋक्पूरब्धूःपथामानक्षे` [[5.4.74]] इत्यकारः समासान्तस्तदतः। ननु च समासान्ते कृते पथ्यन्तमेव न भवति? यदत्र पथ्यन्तं तदाश्रयो विधरिर्भवतीत्यदोषः। ननु च व्यवधानान्न प्राप्नोति? अन्तग्रहणात्? समासान्ताः समासग्रहणेन गृह्रन्त इति नास्ति व्यवधानम्॥", "52008": "`तयोरव्ययीभावः` इति। <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इत्यनन। `शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यातम्` इति। प्राप्तियोग्यतामुपादाय हि योग्योऽसावाप्रपदाच्छरीरं प्राप्तुम्। अथ व्याप्तिप्राप्त्योः को विशेषः, येन व्याप्नोतीति कृते प्राप्नोतीत्युक्तम्? सम्बन्धमात्रं प्राप्तिः, सम्बन्ध एव साकल्येन व्याप्तिरित्येव विशेषः॥", "52009": "`अनुरायामे` इत्तयादि। यदायामे तदा <<यस्य चायामः>> [[2.1.16]] इति समास-। यदा सादृश्ये तदा `यतार्ते यदव्ययम्` तेन `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना। यता पदमायतं तथा च `बद्धोपानदनुपदीना`। सादृश्ये यथानुपदं तता बद्धाऽनुपदीना। `पदप्रमाणेत्यर्थः` इति। यदाप्यनु सादृश्ये, तदाप्ययमर्थ वेदितव्यः, तुल्यप्रमाणतयैव सादृश्यम्। `अयः प्रदक्षिणम्` इति। अयनमयः, गमनमित्यर्थः। प्रदक्षिणं गमनमय इत्युच्येत। `अनयः प्रसव्यम्` इति। अयविपरीतं प्रसव्यमनय इत्युच्यते। एवमवयवार्थं दर्शयित्वा समुदायार्थं दर्शयितुमाह - `प्रदक्षिणप्रसव्यगामिनाम्` इत्यादि। बहुवचनमयानयनिमित्तप्रदर्शनार्थम्। यदि शाराः प्रदक्षिणं प्रसव्यं च गच्छन्त्येवमयानयौ भक्तः, नान्यथा। तत्रात्मोयाः शाराः प्रदक्षिणं गच्छन्ति, परकीयाः प्रसव्यम्। तेषामेवङ्गामिनां यानिस्थानानि तेषां यस्मिन्? प्रदक्षिणप्रसव्यगमनात्मके गतिविशेषे सति परैर्विपक्षभूतैः शारैरसमावेशः=अनध्यासनमनाक्रमणं सोऽयानय इत्युच्यते; न तु प्रदक्षिणप्रसव्यगमनमात्रे स एवायम्। एवंरूपोऽयानयो यदा समहायैः शारौः पदान्यधिष्ठीयन्ते तदा वेदितव्यः। ससहायानामेव हि शाराणां पदानि परैर्न शक्यन्त#एऽध्यासितुम्। असहायानां तु शक्यत एव। `फलकशिरसि स्थितः` इति। यत्र फलकेऽङ्कऽक्षैर्दीव्यन्ति तस्य शिरोभूतं यत्र स्थानं किंतवानां प्रसिद्धं तत्र स्थितः शारः `अयानयीनः` इत्युच्यते; तत्रैवायानयीनशब्दस्य रूढत्वात्। अपरे तु, नेयो नेतव्यः, न नोतस्ततः। तत्र `शिरसि स्थितः` इत्यर्थानुपपत्तेः `फलकशिरसि स्थाप्यते` इत्यर्थ इति ग्रन्थेन भवितव्यमित्याहुः। नीतो वा नेयः; तदुपलक्षणत्वात्। भाविन्यावस्थयोक्तः। अयानयसम्बन्धित्वेऽपि सर्वेषां विशेष्यादेव प्रत्ययोत्पत्तिरुक्तैव। सत्यपि द्वितीयाधिकारे पुनर्द्वितीयोच्चारणं दृष्टाद्द्धितीयान्ताद्यथा स्यादित्येवमर्थम्। तेन विशिष्टार्थनेयवचनादयानयशब्दाद्द्धितीयान्तातद्? प्रत्ययो भवति, न नेयवचनमात्रात्। स एव विशिष्टो यो नयः प्रदक्षिणप्रसव्यगामीत्यादिना ग्रन्थेन दर्शितः। अथायान्य इति कोऽयं शब्दः, यदि ह्रयं समाहारे द्वन्द्वः, तस्य नपुंसकत्वादयानयमिति भवितव्यम्? अथेतरेतरयोगे, द्व्यर्थत्वादयानयाविति भवितव्यम्? नायं द्वन्द्वः, किं तर्हि? मयूरव्यंसकादित्वात्? तत्पुरुषः - अयसहितोऽनयोऽयानय इति। अथ बद्धाभक्षयतिनेयेष्विति कथं तिङन्तस्य द्वन्द्वः? कः पुनराहायं द्वन्द्व इति? यदि न द्वन्द्वः, कथं नेयेष्विति बहुवचनम्? सौत्रत्वान्निर्देशस्य। सुब्व्यत्ययेन वा च्छन्दस्येकवचनस्य स्थाने बहुवचनमुपपन्नम्। ननु च्छन्दसि सुब्व्यत्यय उक्तः, नेदं छन्दः? `छन्दोवत्सूत्राणि भवन्ति` (म।भा। 1-1-1) इत्यदोषः। अथ वा; द्वन्द्व एवायम्, न तु तिङन्तस्य। न हि भक्षयतिशब्दोऽयं तिङन्तः। किं तर्हि? तिङन्तप्रतिरूपको निपातस्तिङन्तेन समानार्थः, यथा - अस्तिक्षीरा ब्राआहृणीत्यत्रास्तिशब्दः॥", "52010": "कथं पुनरप्रत्ययसन्नियोगेन निपातनस्य विना प्रत्ययेन दर्शनमुपपद्यते? इत्याह - `तच्छब्दान्तरमेव द्रष्टव्यम्` इति॥", "52011": "`गामी` इति। `आवश्यकाधमण्र्ययोर्णिनिः` [[3.3.170]] इत्यावश्यकार्थे णिनिः। भविष्यति चायं काले गामिशब्दो वर्तते, यदाह - `गमिष्यतीति गामी`। सा च भविष्यति वृत्तिः <<भविष्यति गम्यादयः>> [[3.3.3]] इति वचनाल्लभ्यते; इत्याह - `भविष्यति` इत्यादि। `अकेनोर्भविष्यदाधमण्र्ययोरिति षष्ठीप्रतिषेधः` इति। तेन द्वितीयासमर्थतोपपद्यत इत्यभिप्रायः। कृद्योगा हि षष्ठी द्वितीयाया अपवादः, तेन षष्ठीप्रतिषेधे हि सति द्वितीययैव भवितव्यम्। `अवारपारम्` इति। अवारस्य पारमिति षष्ठीसमासोऽयम्। वा च षष्ठ्याः पूर्वनिपातो वक्तव्यः। तेन पक्षे पारावारमित्यपि भवति। `विगृहीतादपि` इति। [`भवति`-मुद्रितः पाठः] `विपरीताच्च` इति। कथं पुनरधिकारादेव द्वितीयासमर्थविभक्तौ लब्धायामिहाधिकं द्वितीयोपादानं कृतम्? एतेन तदधिकस्य विधिर्भवतीति सूचितम्। तेन विगृहीताद्विपरीताच्च प्रत्यय उपपद्यते। `अत्यन्तम्` इति। अन्तस्याभावोऽत्ययो वेति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिनाऽव्ययीभावः। अथ वा - अन्तमतिक्रान्तमिति `कुगति` [[2.2.18]] इत्यादिना तत्परुषः। क्रियाविशेषणञ्चैतत्। `भृशं गन्तेत्यर्थः` इति। भृशार्थत्वेन लोकेऽत्यन्तशब्दस्य प्रसिद्धत्वात्। `अनुकामम्` इति। कामसदृशमनुकामम्। कामनुरूपमित्यर्थः। यथार्थेऽव्ययीभावः। इदमपि क्रियाविशेषणमेव॥", "52012": "`समां समास` इति। <<नित्यवीप्सयोः>> [[8.1.4]] इति वीप्सायां द्विर्वचनम्। अत आह - `समांसमामिति वीप्सा` इति। `सुबन्तसमुदायः प्रकृतिः` इति। प्रातिपदिकाधिकारे वचनसामर्थ्यात्। `गर्भं धारयतीत्यर्थः` इति। अनेकार्थत्वाद्धातूनाम्। `पूर्वपदे सुपोऽलुग्वक्तव्यः` इति। तद्धित उत्पन्ने <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञायां सत्यां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्? प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः। `गर्भविमोचनेऽपि विजनिर्वर्तत इत्याहुः` इति। तदेवं मन्यते - यदा गर्भधारणे वर्तते तदत्यन्तसंयोगे द्विकतीयैवात्र, न सप्तमी। गर्भविमोचने विजनावुपपद्यते सप्तमी। `यलोपमात्रम्` इति। न हि गर्भविमोचनेन सकला समा व्याप्यत इति मात्रशब्देन सर्वस्या विभक्तेर्लोपो न भवतीति दर्शयति। `परिशिष्टस्य` इति। आम्शब्दस्य।`अनुत्पत्तौ` इति। तद्धितस्य। `उत्तरपदस्य च` इति। चकारात्? पूर्वपदस्य लोपो वक्तव्य इति यकारस्य प्रत्ययसन्नियोगेन विधीयमानो लोपस्तदभावे न प्राप्नोतीति पक्ष उपसंख्यायते॥", "52013": "`अवष्टब्धे विजन आसन्ने प्रसवे` इति। अत्र पूर्वयोः पदयोरुत्तराभ्यां यथाक्रममर्थाख्यानम्॥", "52014": "", "52015": "", "52016": "", "52017": "`अभ्यमित्रात्` इति। अमित्रस्याभिमुखमभ्यमित्रम्। <<लक्षणेनाभिप्रती आभिमुख्ये>> [[2.1.14]] इत्यव्ययीभावः। क्रियाविशेषणञ्चैतत्। तेन द्वितीयैव समर्थविभक्तर्भवति॥", "52018": "`भूतपूर्वं चरट्` [[5.3.53]] इति प्राप्ते खञ्? विधीयते। `गावस्तिष्ठन्त्यस्मिन्निति गोष्ठम्` इति। `सुपिस्थः` [[3.2.4]] इति कः, `अम्बाम्बगोभूमि` [[8.3.97]] इत्यादिना मूर्धन्यः। `भूतपूर्वे` इति। पूर्वं भूत इति भूतपूर्वः। `सुप्सुपा` [[2.1.4]] इति समासः। `भूतपूर्वग्रहणं तस्यैव विशेषणम्` इति। अर्थद्वारकं वेदितव्यम्, यथा - `धातोः कर्मणः समान` [[3.1.7]] इत्यादिसूत्रे कर्मत्वम्, समानकर्त्तृकत्वञ्च॥", "52019": "`एकाहेन गम्यत इति एकाहगमः` इति। `अकर्तरि च` [[3.3.19]] इत्यादिना घञ्, निपातनान्न वृद्धिः। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। `आआईनानि शतं पतित्वा` इति। एकाहेन यानि गम्यन्ते योजनानि तेषां शतं गत्वेत्यर्थः। शतं संख्येये वर्तमानं स्वसंख्योपादान एव स्वभावाद्वर्तते। तेनाआईनानि शतमित्याआईनशब्देन बह्वर्थप्रवृत्तिसामानादिकरण्येऽप्येऽप्येकवचनान्तमेव प्रयुज्यते॥", "52020": "`यथाकथञ्चित्` इति। येन केनचित्? प्रकारेण। नावयवार्थे प्रत्यभिनिवेशः कर्तव्य इति दर्शयति - `उत्तरपदलोश्च` इति। उत्तरपदं प्रवेशनशब्दोऽवतरणशब्दश्च, तस्य लोपः। `शालीनो जडः` इति। स हि जाडआत्? प्रतिवचनमपि दातुं शक्तोऽप्यार्यैराद्रियमाणो न शक्नोति तत्र स्थातुम् - जनता पश्यतीति, अतः शालाप्रवेशनमर्हति। शालाशब्दोऽयमिहि कुटीरवचनः। `कौपीनं पापम्` इति। तद्धि लोके निन्द्यत्वादकाय्र्यत्वाच्चाकाय्र्यम्, तल्लोके कूपेऽवतरणं प्रवेशनमर्हतीत्युच्यते। तत्सामर्थ्याच्छरीरावयवः कश्चित्कौपीनशब्देनोच्यते। यदपि तस्य शरीरावयवस्याच्छादनार्थं वासः, तदपि तत्सम्बन्धात्? प्रव्रजितादीनां कौपीनमित्युच्यते॥", "52021": "`नानाजातीयाः` इति। अनेकजातीयाः। `अनियतवृत्तयः` इति। अनियतक्रियाः। `तेषां कर्म व्रातम्` इति। व्रातसाहचर्यात्? तदपि व्रातमित्युच्यते। अथ वा - व्रातानामिदमित्यर्थविवक्षायां छे प्राप्ते, अस्मादेव निपातनादण्? भवति। तत्पुनः कर्म भारवहनादि। `तत्र नेष्यते` इति। कथं पुनरिष्यमाणोऽपि न भवति प्रकृतायां महाविभाषायां व्यवस्थितविभाषात्वात्॥", "52022": "`साप्तपदीनमिति निपात्यते` इति। किं पुनरत्र निपात्यते? प्रत्ययः प्रत्ययार्थश्च प्रकृतः। खञ्प्रत्ययार्थश्चावाप्तिः। सप्तभिः पदैरवाप्यत इति तद्धितार्थे समासः। ततः सप्तपदशब्दात्खञ्।`कथम्` इत्यादि। सख्युभविः कर्म वा सख्याम्। तत्र यदि साप्तपदीनमिति निपत्यते, सखिशब्देन सामानादिकरण्यं न प्राप्नोति, न हि सख्यमेव सखा भवतीति प्रष्टुरभिप्रायः। `गुणप्रधानः` इत्यादि। गुणो भावः कर्म वा प्रधानं यस्य स तथोक्तः। स यदा च गुणमात्रे मुख्यया वृत्त्या वर्तते तदा गुणप्रधानो वेदितव्यः। `तदा सख्यशब्देन सामानाधिकरण्यं भवति` इति। द्वयोरप्येकार्थवृत्तित्वात्। `यदा तु` इत्यादि। लक्षणा उपचारः। धर्मधर्मिणोरभेनोपचारेण गौण्या वृत्त्या तद्धिति संख्यावति पुरुषे वर्तते तदानेनैव समानाधिकरणो भवति। यथा यदा शुक्लशब्दो गुणमात्रे वर्तते तदा द्रव्यशब्देन समानाधिकरणो न भवति - पटस्य शुक्ल इति, यदा त्वसौ त्वमित्यभिसम्बन्धात्? पटे वर्तते तदा सामानाधिकरण्यं भवति - शुक्लः पद इति; तथेहापि वेदितव्यम्॥", "52023": "`ह्रोगोदोहस्य हियङ्ग्वादेशः` इति। ह्रोगोदोहस्य हियङ्गशब्द आदेश इत्यर्थः। ह्रौ गोदोहनं ह्रोगोदोहः, `सुप्सुपा` [[2.1.4]] इति समासः। `विकारे खञ्प्रत्ययः` इति। <<तस्य विकारः>> [[4.3.134]] इति प्राप्तसयाणोऽपवाद इति॥", "52024": "अणोऽपवादौ। <<तस्येदम्>> [[4.3.120]] इत्यणि प्राप्ते कुणबदयो विधीयन्ते। जकारस्य प्रयोजनाभावात्? `धुटू` [[1.3.7]] इतीत्संज्ञा न भवति॥", "52025": "`एकयोगनिर्दिष्टानाम्` इति। स्वरितत्वेनादिशब्दानामनुवृत्तिर्भवति। स्वरितत्वप्रतिज्ञाप्रतिबद्धत्वात्। एकयोगनिर्दिष्टानामपि यत्र प्रतिज्ञायते स्वरितत्वं तत्रैव भवति, नान्यत्र। तेनैकयोगनिर्दिष्टनामप्येकदेशस्यानुवृत्तिरुपपद्यते॥", "52026": "`विद्याचुञ्चुः, विद्याचणः` इति। अथ `चुटू` [[1.3.7]] इति चकारस्येत्संज्ञा कस्मान्न भवति? उक्तोऽस्य हेतुस्तत्रैव - पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थमिति॥", "52027": "`स्वार्थे नानाञौ प्रत्ययौ भवतः` इति। `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (सी।प। 125) इति कृत्वा। ञकारस्त्वाद्युदात्तार्थः॥ बाल-मनोरमाविनञ्भ्यां नानाञौ नसह 1805, 5.2.27 विनञ्भ्यां। `नसहे`ति सङ्घातः पृथक्त्वे वर्तते। प्रकृतिविशेषणमिदम्। तदाह - असहार्थे इति। तस्य विवरणं - पृथग्भावे इति। वर्तमानाभ्यामित्यनन्तरं `विनञ्भ्या`मिति शेषः। स्वार्थ इति। प्रत्ययार्थस्य अनिर्देशादिति भावः। प्रत्ययाविति। `यथासङ्ख्यं नानाञा`विति शेषः। विनेति। वेर्नाप्रत्यये रूपम्। पृथगित्यर्थः। नानेति। नञो नाञि आदिवृद्धौ रूपम्। पृथगित्यर्थः। `नसहे`त्यस्य प्रत्ययार्थत्वे तु नेत्यनेन न सहेति गम्येत। एवं सति नाना न न सह, किंतु सहैवेत्यर्थः स्यात्, `द्वौ नञौ` प्रकृतमर्थं गमयतः` इति न्यायादिति भाष्ये स्पष्टम्।बाल-मनोरमावेः विनञ्भ्यां नानाञौ नसह 1806, 5.2.27 वैः शालच्छङ्कटचौ। क्रियाविशिष्टेति। क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययो स्त इति यावत्। इदं च भाष्ये स्पष्यटम्।", "52028": "`ससाधनक्रियावचनात्` इत्यादि। उक्तमेतत् - उपसर्गा ह्रेवमात्मका भवन्ति यत्र कश्चित्? क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषणमाहुः। यत्र न प्रयुज्यते तत्र ससाधनक्रियामिति। इह न कश्चित्? क्रियावाची शब्दः प्रयुज्यते, तस्मात् ससाधनक्रियावाचिन उपसर्गात्? प्रत्ययो भवति। स च भवन्? `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (सी।प। 125) इत्यनिर्दिष्टार्थत्वात्? स्वार्थे भवति। `विगते शृङ्गे` इति। एतेन विगमनक्रियायां शृङ्गसाधनायां विशब्दो वर्तत इति दर्शयति। यदि ससाधनायां क्रियायां प्रत्ययः, विशालो गौर्विशङ्कटो गौरिति न सिध्यति, न हि गौरिह विगमनस्य साधनम्, किं तर्हि? शृङ्गे? इत्यत आह - `तद्योगात्` इत्यादि। यथा सास्नाद्यवयवयोगादवयवधर्मेण गौः सास्नेत्युच्यते, तथा विशालविशङ्कटशृङ्गयोगाद्गौस्तथेत्युच्यते। `परमार्थतस्तु` इत्यादि। समुदायो व्युत्पत्यर्थः। अतोऽत्र न केवलं ससाधनक्रिया नास्ति, अपि च साधनमिपि नास्ति। तस्माद्गुणशपब्दा विशालादयः परमार्थतो लोके प्रसिद्धाः यथा - शुक्लादयः शब्दाः। तेन नात्र विशालीदिषु प्रकृतिप्रत्ययार्थयोरभिनिवेशः कर्तव्यः। तदेवं परमार्थतोऽनर्थकाः। वेः शालच्छङ्कटचावप्यनर्थकावेव विधीयते इत्युक्तं भवति। `एते` इति। व्युत्पादयिष्यमाणान्? सङ्कटादीन्? बुद्धौ कृत्वा बहुवचनं कृतम्, तेऽपि हि गुणशब्दा एव॥", "52029": "ससाधनक्रियावचनादुपसर्गात् स्वार्थे प्रत्यय इति सर्वं पूर्ववदेव वेदितव्यम्। `अलाबूतिलोमा` इत्यादि। अलाबूप्रभृतिभ्यो रजस्यभिधेये कटच्प्रत्ययस्योपसंख्यानं कर्तव्यम्। विकारप्रत्ययानामपवादः; अलाबूप्रभृतीनां यद्रजस्तस्य तद्विकारत्वात्। `गोष्ठादयः` इत्यादि। आदिशब्दः प्रकारे। पशुनामानि गोशब्दादीनि, तेभ्यः स्थानादिष्वभिधेयेषु गोष्ठजादयः प्रत्यया वक्तव्याः। <<तस्येदम्>> [[4.3.120]] इत्यर्थविवक्षायां स्थानादिषु गोष्ठजादयो विधीयन्ते। ननु <<तद्धिताः>> [[4.1.76]] इति बहुवचनेनैव संगृहीतं सङ्घाते कटजित्यादि सर्वम्? सत्यम्; अनन्तरोक्तस्यैव वाक्यस्य प्रपञ्चोऽयम्। `अविकटम्` इति। अत्र <<तस्य समूहः>> [[4.2.37]] इति सामूहिके प्रत्ययो कटट्। `अविपटम्` इति। प्रकीर्णानामवीनां विस्तार उच्यते। द्वावुष्टौ `उष्ट्रगोयुगम्`। षङ् हस्तिनो `हस्तिषङ्गवम्`इङ्गुदस्य स्नेह `इङ्गुदतैलम्`। तिलस्य `रसास्तिलतैलम्`। `भवने क्षेत्रे` इत्यादि। इक्षूणां भवनं क्षेत्र `मिक्षुशाकटम्`। `इक्षुशाकिनम्`। मूलस्य भवनं क्षेत्रं `मूलशाकटम्`। मूलशाकिनम्॥", "52030": "", "52031": "`नमनं नतम्` इति। भावे निष्ठां दर्शयति। `नासिकायाः सम्बन्धिनी` इति। अनेनापि नासिकाया इत्यपि सम्बन्धलक्षमा षष्टी। यदि नासिकायाः सम्बन्धिनि नते वाच्य एते प्रत्ययाः, कथं तदेतेन नासिका पुरुषश्चाभिधीयते? इत्याह - `तद्योगात्` इति॥", "52032": "`कथं निबिडाः` इति। तद्योगोऽत्र नास्ति। अतस्तद्योगाभावात्? तथाभिधानं नोपपद्यत इत्यभिप्रायः। `उपमानाद्भविष्यति` इति। निविडतया नासिकया तुल्याः केशा वस्त्राणि च निबिडतया। तेनोपमानात्? तदुभयं निबिडशब्दवाच्यं भविष्यति॥", "52033": "`संज्ञाधिकाराच्च` इति। `नते नासिकायाः` [[5.2.31]] इत्यादिसूत्रात्? संज्ञाधिकारानुवृत्तेः। `नियतविषयम्` इति। पर्वतविषयमेवासन्नारूढं गृह्रते। तेन वृक्षस्यासन्नम्, प्लक्षस्यारूढमित्यतर न भवतीति भावः। अथोपत्यका, अधित्यकेत्यत्र `प्रत्ययस्थात्? कात्? पूर्वस्य` [[7.3.44]] इत्यनेनेत्त्वं कस्मान्न भवति? इत्यत आह - `प्रत्ययस्थात्? कात्` इति। यद्यत्रेत्त्वं स्यात्? संज्ञारूपं न सिध्येत्; नोपत्यिकाधित्यिकेत्येवंरूपा संज्ञा। तस्मात्? संज्ञाधिकारादित्त्वं न भवति॥", "52034": "", "52035": "`कर्मणि` इत्यनेन कर्मणीति स्वरूपग्रहणं दर्शयिति। अथ पारिबाषिकस्य कर्मणो ग्रहणं कस्मान्न भवति? असम्भवात्। असम्भवस्तु घटतेरकर्मकत्वात्। `अठच्प्रत्ययेऽकारोच्चारणं ठस्येकादेशनिवृत्त्यर्थम्॥", "52036": "तारकादिषु `बुभुक्षापिपासा` शब्दौ पठएते, तयोः किमर्थः पाठः, यावता सन्नन्ताभ्यां निष्ठायामिटि च कृते बुभुक्षितः, पिपासितो देवदत्त इति भवति? सत्यम्; भूते विधानाद्वर्तमाने न सिध्यति। अनेन तु वर्तमानेऽपि सिध्यति। तस्माद्युक्तस्तयोः पाठः। `गर्भादप्राणिनि` इति। गर्भशब्दादप्राणिन्यभिधेय इतच्प्रत्ययो भवति। गर्भिताः शालयः। अप्राणिनीति किम्? गर्भः सञ्जातोऽस्या गर्भिणी गौः॥", "52037": "प्रमाणशब्दस्य सम्बन्धिशब्दत्वात्प्रत्ययार्थो विज्ञायते। `प्रथमश्च द्वितीयश्च` इत्यादि। द्वयसज्दध्नचौ ऊध्र्वमान इष्येते। उपरि निक्षिप्य यत्र मीयते, न तिय्र्यक्? समन्ततो वा, तदूध्र्वमानम्। `अविशेषेण` इति। प्रमाणे परिमाण उन्माने वाऽविशेषेण सर्वत्र मात्रज्भवतीति। `प्रस्थमात्रमित्यपि भवति` इति। अपिशब्दाद्वितस्तिमात्रमित्यपि भवतीति।`प्रमाणे लोः` इति। लुकश्चायं पूर्वाचार्यविहिता संज्ञा। अयं मात्रच उत्पन्नस्य लुगुच्यते; न द्वयसज्दध्नयोः। तयोरूध्र्वमाने विधानात्। अस्मिन्नर्थ उत्पत्तिरपि नास्ति। `द्विगोर्नित्यम्` इति। द्विगोरप्रमाणत्वात्। सत्यपि च प्रमाणान्तत्वे तदन्तविदेरभावात्। पूर्वेण प्राप्त एव लुगुच्यते। `नित्यग्रहणं किम्` इति। न हि विकल्पः प्रकृतो यन्निवृत्त्यर्थं नित्यग्रहणं क्रियते। न च पूर्वस्य विधेर्विकल्पेन प्रवृतिंत ज्ञापयितुमिह नित्यग्रहणं कर्तुं युक्तम्। न ह्रसौ विबाषयेष्यत इत्यभिप्रायः। `संशये`, इत्यादिना नित्यग्रहणस्य प्रयोजनमाह। श्रवणं प्रादः, `कृत्वल्युटो बहुलम्` [[3.3.113]] इति भावे घञ्` श्रावोऽस्यास्तीति श्रावी, स पुनर्वक्ष्यमाणो मात्रच्प्रत्ययः प्रमाणसम्बन्धेनोच्यते। `स्तोमे डट्` इत्यादि। पञ्चदशाहानि परिमाणमस्य यज्ञस्य `पञ्चदशः`। `पञ्चदशी` इति। टित्त्वान्ङीप्। `शन्शतोर्डिनिः` इति। स्तोमे चान्यत्राविशेषेणायं विधिः। `विं शिनः` इति। डिनिः, <<ति विंशतेर्डिति>> [[6.4.142]] इति तिलोपः, यस्येति लोपश्च। `शममात्रं दिष्टिमात्रमिति। प्रमाणस्योदाहरणद्वयम्। `प्रस्थामात्रम्, कुडवमात्रमिति` परिमाणस्य। पञ्चमात्रम्, दशमात्रमिति संख्यायाः। यत्रैतन्न निर्णीयते शमं स्याद्वा न वेति तत्र शममात्रमिति प्रयुच्यते। एवमन्यत्रापि यथायोगं वेदितव्यम्॥", "52038": "`हास्तिनम्` इति। `हनण्यनपत्ये` [[6.4.164]] इति प्रकृतिभावः। `द्विपुरुषी इति। `पुरुषात्? प्रमाणेऽन्यतरसयाम्` [[4.1.24]] इति ङीप्। `द्विहस्तिनो इति। अत्र ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ङीप्॥", "52039": "`यावान्` इति। <<आ सर्वनाम्नः>> [[6.3.91]] इत्यकारः। उगिदचाम्` [[7.1.70]] इति नुम्, <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणशब्दौ पर्यायाविति मत्यमानो पश्चोदयेत् - अत्र कस्मात्? परिमाणग्रहणं क्रियते, यावता प्रमाणग्रहणमनुवर्तत एवेति? तं प्रत्याह - `प्रमाणे इति वर्तमाने` इत्यादि। स पुनरनयोः प्रमाणपरिमाणयोर्भेदः `परिमाणं तु सर्वतः, आयामस्तु प्रमाणं स्यात्` इति प्रागेव व्याख्यातः।`डावतावर्थवैशेष्यात्` इति। `डावतौ` इति पूर्वाचार्यसंज्ञाप्रतिपादितापेक्षोऽयं निर्देशः, ते हि यत्तदेतेब्यो डावतुमेव प्रत्ययं कृतवन्तः। विशिष्यत इति विशेषः, विशेषस्य भावो वैशेष्यम्। अर्थस्य वैशेष्यमर्थस्य विशिष्टत्वमित्यर्थः। प्रमाणशपब्दस्यान्योऽर्थः, परिमाणशब्दस्य चान्योऽर्थ इति भिन्नार्थत्वमनयोः; तस्मादर्थवैशेष्याड्डावतौ विधातव्ये परिमाणशब्दस्य निर्देशः पृथगुच्यते। उच्यत इति क्रियत इत्यर्थः। किमर्थः पृथिग्निर्देशः क्रियते? इत्याह-`मात्राद्यप्रतिघाताय` इति। पृथिग्निर्देशेनार्थबेदे सिद्धे सति मात्रजादीनां बाधा मा बूदित्येवमर्थः पृथग्निर्देशः क्रियत इत्याह। अथैकत्वे तु प्रकृतिसामान्ये मात्रजादयो विधीयमाना उत्सर्गा भवन्ति, प्रकृतिविशेषात्? तु वतुब्? विधीयमानोऽपवादौ भवति, `अपवादेनोत्सर्गो बाध्यते` इति यत्तदेतेभ्यो मात्र जादयो न स्युः, ततश्च तत्प्रमाणमस्य तन्मात्रमित्यादि न सिध्येत्, अर्थभेद्युत्सर्गापवादभावो नास्तीति न भवत्येष दोषप्रसङ्गः। किञ्च - `भावः सिद्धश्च डावतोः` इति। `डावतोः` इति पञ्चमी। अर्थभेदे सति वतुप्प्रत्ययान्तान्मात्रजादीनामुत्पत्तिश्च सिद्धा भवति। परिमाणे वतुब्? भवति - यत्? परिमाणमस्य यावानिति। तदन्तात्? परिमाणे मात्रजादयो भवन्ति - यावत्? परिमाणमस्य यावन्मात्रम्। अथैकत्वे तु `उक्तार्थानामप्रयोगः` (व्या।प।60) ति मतुपाऽबिहितत्वादस्यार्थस्य तदन्तान्मात्रजादयो न स्यु-। `त्वावतः, मावतः` इति। मपर्यन्तयोर्युष्मदस्मदोः <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति त्वामादेशौ पूर्ववदात्त्वम्॥", "52040": "`कियान्। इयान्` इति। <<इदङ्किमोरीश्की>> [[6.3.90]] इति किमः की। `इदम ईश्` इति। `यस्येति` [[6.4.148]] लोपः। केन पुनः किमिदम्भ्यां विहितस्य वतुपो वकारस्य घत्वं विधीयते? इत्याह - `अथ वा` इत्यादि। `योगविबागेन वा` इति। `किमिदम्भ्याम्` इत्येतावता योगेन वतुपं विधाय ततः `वो घः` इत्यनेन वतुपो वकारस्य घत्वं विधीयते। अथ वग्रहणं किमर्थम्, यावता <<आदेः परस्य>> [[1.1.54]] इति वकारस्यैव घो विधीयते, ननु चानेकाल्त्वात्? सर्वादेशः प्राप्नोति? नैष दोषः, अकारो ह्यत्रोच्चारणार्थो वर्णमात्रमेव, न त्वादेशः। कुतः पुनरेतद्विज्ञेयम्? व्याख्यानात्। तर्हि वकार एवं लघीयानिति युक्तं तस्य स्थानित्वेनोपादनम्। वकारे त्वस्थानिन्युपात्तै यद्यपि समुदायादेशः, तथापि न दोषः; द्वयोरकारयोः पररूपं भविष्यति॥", "52041": "`संख्यायाः परिमाणम्` इति। कृद्योगलक्षणा कर्मणि षष्ठी। परिमितिः परिमाणम्। संख्यापरिच्छेद इत्यर्थः। परिच्छेद ति भावे घञ्। `संख्यापरिच्छेदे वर्तमानात्` इति। परिच्छेदोपाधिकायां संख्यायां वर्तमानादित्येषोऽर्थो विवक्षितः। यथा ह्रयमेवार्थोऽस्य वचनस्योत्तरत्र तथा व्यक्तीकरिष्यते। तस्य वकारस्य घत्वमिति; `वो घः` इत्यनुवृत्तेः। `पृच्छ्यमानत्वात्` इति। यदा संख्यायाः परिच्छेदे किंशब्दो वर्तते। कदा च वर्तते? यदा संख्या परिपृच्छ्यमाना भवति। न ह्रपरिपृच्छ्यमानायाः परिच्छेद उपपद्यते। यदा च परिपृटच्छ्यमाना भवति, तदा च किंशब्दः परिच्छेदविशिष्टायां वर्तत इति पृच्छ्यमानत्वात्? `परिच्छेदोपादिकायां संख्यायां वर्तमानात्? किमः प्रत्ययो भवतीति विज्ञायते। परिच्छेद उपाधिविशेषणभूतो यस्याः सा परिच्छेदोपाधिका। परिचछेदविशेषणेति यावत्। तदनेन संक्यापरिच्छेदे वर्तमानात्? किम इत्यस्य योऽर्थोऽभिमतः स व्यक्तीकृतः। `कति` इति। जसः <<षड्भ्यो लुक्>> [[7.1.22]] इति लुक्। `अथ वा` इत्यादि। अत्र च व्याख्याने `संख्यापरिमाणे` इति कर्मधारयः, निपातनादुपसर्जनस्यायं परनिपातः। परिमाणशब्दश्च परिमीयतेऽनेनेति करणसाधनः। `एवमात्मिकैव` इति। अस्यार्थं परिच्छेदस्वभावेत्यनेन विस्पष्टीकरोति। परिच्छिद्यतेऽनेनेति परिच्छेदः, स स्वभावो यस्याः सा तथोक्ता। `यत्र` इत्यादिना यदर्थं परिमाणग्रहणेन संख्या विशेष्यते तद्दर्शयति। स्यादेतत् - नास्त्येव स विशेषो यत्र संख्यायाः परिच्छेदस्वभावो नास्ति, तदपार्थकं विशेषणमिति? अत आह - `क्षेपे हि` इत्यादि। `केयमेषां संख्या दशानाम्` इति। नात्र संख्या परिच्छेदकत्वेन विवक्षिता। न ह्यत्र परिच्छेदोऽस्ति; क्षेपपरत्वाद्वाक्यस्य। किंशब्दोऽत्र क्षेपे वर्तते, न प्रश्ने॥", "52042": "`चतुष्टयी` इति। चतुरो रेफस्य <<विसर्जनीयस्य सः>> [[8.3.34]] इति सः; तस्यापि <<ह्रस्वात् तादौ तद्धिते>> [[8.3.101]] इति मूर्धन्यः, `टिड्ढाणञ्` [[4.1.15]] इत्यादिना ङीप्॥", "52043": "तयप्रत्ययग्रहणं किमर्थम्, यावता प्रकृत एवासावनुवर्त्तिष्यते? इत्याह - `तयग्रहणम्` इत्यादि। यदि तयब्ग्रहणं न क्रियते, तदा तयप्रत्ययादन्य एवायमयच्? प्रत्ययो विज्ञायेत, न तयबादेशः। किं पुनः स्याद्यदि प्रत्ययान्तरं स्यात्? तयष्काय्र्यमयचो न स्यात्। किं तत्? <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> [[1.1.33]] इत्यादिना जसि विभाषा सर्वनामसंज्ञा - द्वये, द्वयाः; `टिड्ढाणञ्` [[4.1.15]] इति ङोप् - द्वयो। ननु च पूर्वसूत्रेणैव विहितस्य तस्य इह चादेशार्थानुवृत्तिर्विज्ञायते। प्रयोजनान्तराभावात्, `द्वित्रिभ्याम्` इति। पञ्चमीनिर्देशः <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति षष्ठन्तं सम्पादयिष्यते, अतोनेनान्तरेणापि तयब्ग्रहणं तयप्स्थानित्वं लभ्यत एव? नैतदस्ति; यद्यनुवृततिस्तयपोऽन्यार्या न स्यात्, ततोऽनुवृत्तिसमथ्र्यात्? तयपः स्थानित्वं विज्ञायेत। तस्य त्वनुवृत्तिरुत्तरार्थिपि भवति। <<उभादुदात्तो नित्यम्>> [[5.2.44]] इत्यव योगविबागेन तयब्विधातव्यः। न चानुवर्तमानः शक्यते विधातुम्। अत उत्तरार्थायामनुवृत्तौ सत्यां तयप्स्थानित्वमयुक्तमिति तयब्ग्रहणं क्रियते॥", "52044": "`वचनसामर्थ्यात्` इत्यादि। यद्यन्तोदात्तः स्यादुदात्तवचनमनर्थकं स्यात्। अयचि च कृते चित्स्वरेणैव `सतिशिष्टस्वरो बलीयान्` (वा। 6.1.164) इत्यन्तोदात्तत्वस्य सिद्धत्वात्। आद्युदात्तत्वं ह्रन्यथा न सिध्यतीति तद्रथं क्रियसाणमर्थबद्वचनं भवतीति। `यदि लौकिको संख्या` इति। द्वित्रादिवत्। पूर्वेण योगेन तययो विधानम्, तस्यापरेण योगेन नित्यमयजादेशो विधीयते। `उभये देदमनुष्याः` इति। उभाववयवौ येषामित्युभये। कथं बहुत्वे देवमनुष्याणां द्वाववयवौ भवतः? यद्यप्यत्र बहुत्वमस्ति, द्वित्वमपि तु प्रातिपदिकयोरस्त्येव; अत्र हि द्वौ राशी समुदायस्यावयवौ - एको देवनां राशिः, अपरो मनुष्याणामित्यदोषः॥ बाल-मनोरमातदस्मिन्नधिकमिति दशान्ताड्डः 1822, 5.2.44 अथ मत्वर्थीयाः - तदस्मिन्नधिकं तदधिकमस्मिन्निति विग्रहे प्रथमान्ताद्दशन्शब्दान्तात्समासादस्मिन्नित्यर्थे डप्रत्ययः स्यादित्यर्थः। प्रत्ययविधौ तदन्तविधिप्रतिषेधादन्तग्रहम्। अत एव निर्देशात्पञ्चम्यर्थे सप्तमीत्याहुः। `औपश्लेषिकेऽधिकरणे सप्तमी`ति भाष्यम्। `सामीपिकमधिकरण`मिति कैयटः। एकादश माषा अधिका अस्मिन्निति। अस्मादित्यर्थः। अस्मिन् उपश्लिष्टा इति वा। न च व्यपदेशिवत्त्वे केवलदशन्शब्दादपि स्यादिति शङ्क्यं, व्यपदेशिद्भावोऽप्रातिपदिकेने`त्युक्तेः। बाल-मनोरमाउभादुदात्तो नित्यम् 569, 5.2.44 उभादुदात्तो नित्यं। स चोदात्त इति। आद्युदात्त इत्यर्थः। अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम्। अत्र `अयच्प्रत्यय एव विधीयते, नतु तयप आदेशः` इति स्थानिवत्सूत्रभाष्ये स्पष्टम्। `तयप आदेश` इति मूलं तु वार्तिकानुरोधेन।**** इति बालमनोरमायाम् पाञ्चमिकाः। ****अथ परस्मैपदप्रक्रिया।अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते - शेषात्कर्तरीति।", "52045": "`प्रत्ययार्थेन च` इत्यादि। यथाजातीयः प्रत्ययार्थस्तथाजातीय एव यदि प्रकृत्यर्थो वति एवं प्रत्यय इत्यते, नान्यथा। प्रत्ययार्थेन प्रकृत्यर्थस्य तुल्यजातीयत्वं दर्शयितुमुदाहरणमुपन्यस्यति - `एकादश कार्षापणाः` इति। प्रकृत्यर्थोऽप्येकादश कार्षापणा एवेति प्रकृत्यर्थः प्रत्ययार्थेन समानजातीयः। `इह तु न` इत्यादि। अत्र हि कार्षापणशतं प्रत्ययार्थः। प्रकृत्यर्थस्त्वेकादश माषाः। ते च कार्षापणेभ्यो विजातीया इति न भवति प्रत्ययः। `शतसहरुआयोश्चैवेष्यते` इति। यत्? `तदस्मिन्` तस्मश्च शते सहरुओ वा प्रत्यय इष्यते; नान्यतर तिंरशत्यादौ। कथं पुनरनुपात्तमेव सूत्रे लभ्यते? इत्याह - `इति करणो विवक्षार्थः` इत्यादि। `कथम्` इत्यादि। यदि शते सहरुओ वाधिकिनि प्रत्ययेन भवितव्यम्, इह प्रत्ययो न प्राप्नोति - एकादशं शतसहरुआमिति। अत्र हि शतसहरुआं संख्यान्तरञ्चाधिकम्, न शतं नापि सहरुआमित्यभिप्रायः। `शतानाम्` इत्यादि। अनेन शतसहरुआस्य संख्यान्तरं निरस्याति। यदा शतशब्दः षष्ठन्तः सहरुआशब्देन समस्यते तदा शतानां सहरुआं शतसहरुआशब्देनोच्यते। यदा तु सहरुआशब्दः षष्ठन्तशब्देन समस्यते, तदा सहरुआआणाअं शतं शतसहरुआशब्देनोच्यते। ननु च सहरुआशब्दस्य पष्ठन्तस्य समासे सहरुआशतमिति भवितव्यम्? राजदन्तादिषु दर्शनात्? तस्य परनिपातो भविष्यतीत्यदोषः। `तत्र शतसहरुआयोरित्येव सिद्धम्` इति। शतसहरुआवाच्यस्यार्थस्य शतसहरुआयोरेवान्तर्भावात्। `अधिके` इत्यादि। लोके प्रत्ययार्थेन समानजातावधिके शतसहरुआयोरेव प्रत्ययाख्यं कार्यमिष्टम्। यदा त्वसमानजात्यधिकं भवति, न च शतं सहरुआं वा प्रत्ययार्थेन विवक्षितम्, तदा नेष्यते। अथैकादशं शतसहरुआमित्यत्र कस्याधिक्ये सति डः कर्तव्यः? इत्याह - `यस्य` इत्यादि। संख्या संख्यानम्, गणनमित्यर्थः। यस्य संख्या, तस्याधिक्ये डः कर्तव्यः। कस्य च संख्या भवति? अधिकत्वं संख्यायते यस्य। यदा शतानि संक्यायते तदा - शतानां सहरुआमिति शतसहरुआम्, तदा शताधिक्ये डः कर्तव्यः। एकादशाधिकान्स्मिन्? सहरुआ एकादशं शतसहरुआमिति। यदा तु सहरुआआणि संख्यायते - सहरुआआणां शतं सहरुआशत्मिति, तदा सहरुआआधिक्ये डः कर्तव्यः। एकादशसहरुआआण्यधिकान्यस्मिन्नेकादशं शतसहरुआमिति। अथ किमर्थं तदिति प्रथमासमर्थविभक्तिरुपादीयते? यावता `तदस्य सञ्जातम्` [[5.2.36]] इत्यनुवर्तत एव, तत्र प्रत्ययार्थ एवास्मिन्निति निर्देष्टव्यः? नैवं शक्यम्; तदनुवृत्तौ हि तत्सम्बन्धस्यास्येति प्रत्यार्थस्याप्यनुवृत्तिः प्रसज्येत। न च षष्ठीसप्तम्यर्थयोर्विरोधः; ततोऽस्मिन्निति निर्देशात्? पूर्वः प्रत्ययार्थो न निवर्तते, तस्यां त्वनुवृत्तौ षष्ठर्थेऽपि प्रत्ययः स्यात्। तस्मादस्येति निवृत्त्यर्थं पुनस्तदिति प्रथमासमर्थविभक्तिरुपादीयते। यद्येवम्, अस्येति प्रत्ययार्थस्य निवृत्तत्वात्? <<संख्याया गुणस्य निमाने मयट्>> [[5.2.47]] इत्यत्र षष्ठर्थे प्रत्ययो न प्राप्नोति। इह निवृत्तस्यापि मण्डूकप्लुतिन्यायेनानुवृत्तिर्भविष्यतीत्यदोषः। अन्ये तु ज्ञापकं तदित्यस्य वर्णयन्ति। तदिति प्रकृते यत्? तदित्याह, तज्ज्ञापयति - `तदस्य सञ्जातम्` [[5.2.36]] इत्यादौ सूत्रे यन्निर्दिष्टं तदिहानुवर्तमानमप्यङ्गभावं न यातीति षष्ठर्थे प्रत्ययो न भवति॥", "52046": "ननु च <<पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्>> [[5.1.59]] इत्यादौ सूत्रे तिंरशदादयः शब्दाः शत्प्रत्ययान्ताः, ततश्च प्रत्ययग्रहणपरिभाषयैव तदन्तात्? प्रत्ययो लभ्यते, तत्? किमन्तग्रहणेन? इत्याह - `शद्ग्रहणेऽन्तग्रहणम्` इत्यादि। यद्यन्तग्रहणं न क्रियेत, तदा प्रत्ययग्रहणपरिभाषया यस्मात्? स विहितस्तदादेरेव स्यान्; नाधिकात्। अतोऽधिकादपि यथा स्यादित्येवमर्थमन्तग्रहणम्। यदि तर्हि यस्मात्? प्रत्ययो विहितस्तदादेरधिकार्थमन्तग्रहणं केवलान्न प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन केवलादपि भविष्यति। `संख्याग्रहणञ्च कर्तव्यम्` इति। संख्या गृह्रते येन तत्? संख्याग्रहणं कर्तव्यम्। किं पुनः कर्तव्यम्? व्याख्यानम्। तत्रैवं व्याख्यानम् - `संख्याया अवयवे तयप्` [[5.2.42]] इत्यतः संख्याया इत्यनुवर्तते, तेन संख्याधिकादेव भविष्यति, नान्याधिकात्। `विंशतेश्च` इत्यादि। विंशतिशब्दाच्च तदन्ताच्च प्रातिपदिकाङ्डप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् - विंशतिशब्दात्तावत्? साक्षात्? सूत्रोपात्तात प्रत्ययो भवति, तदन्तादपि; चकारस्यानुक्तसमुच्चयार्थत्वादिति। `संख्याग्रहणं च` इत्यादौ पूर्व एवार्थः। व्याख्यानमपि पूर्वकमेव॥", "52047": "`गुणो येन निमीयते` इति। परिवर्त्त्यते, विक्रीयत इत्यर्थः। `सोऽपि` इत्यादि। न हि तस्य भागत्वमन्तरेण निमेयस्य गुण इत्येव निर्दिष्टस्य भागत्वमध्यवसातुं शक्यम्। यदा हि मूलस्य भागत्वं नास्ति, भागव्यपदेशो न प्रवर्तत एव। तेन यद्यपि निमानस्य भागता नोक्ता, तथापि सामर्थ्यात्? सा प्रतीयते। `यवानां द्वौ भागौ निमानमस्य` इति। ननु चोभयत्रापि परिवर्तनम्, तथापि मूल्य एव निमानशब्दो रूढ इति यन्मूल्यत्वेन विवक्षितं तदेव निमानं भवति, नेतरत्। `यवानाम्` इति। भागापेक्षया षष्ठी। यद्येवम्, परापेक्ष उवश्चिच्छब्दे तद्धितस्य वृत्तिर्विरुध्यते। ननूदइआद्भागे प्रत्ययः, नोदइआति, तत्कथं द्विमयमुदइआदिति प्रत्ययान्तस्योदइआच्छब्देन सामानाधिकरण्यम्? इत्यत आह - `भागेऽपि तु` इत्यादि। अत्र पुनरभिधानशक्तिस्वाभाव्यं हेतुः। यथैवाणादयोऽपत्यापत्यवत्सम्बन्धेऽपि विधीयमाना अभिधानशक्तिस्वाभाव्यात्? प्राधान्येन सम्बन्धिनमाचक्षते - औपगवो दाक्षिरिति, तथायमपि भागे विधीमानो भागवन्तमुदइआदादिकमाचष्टे। `गुणस्येति चैकत्वं विवक्षितम्` इति। गुणस्येति यैकसंख्या सा विवक्षिता। ननु च `तद्धिताः [[4.1.76]] इति निर्देशेऽपि बहुवचनमप्रमाणम्, तस्याविवक्षितत्वात्` इत्युक्तम्, तत्कथमिहैकत्वविवक्षा युज्यते? नैष दोषः; इह हि षष्ठीसमासं कृत्वा गुणनिमान एव कर्तव्यम्, एवं हि लघु सूत्रं भवति। सोऽयमेवं वक्तव्ये सति यद्गुणस्येत्येकवचनमुच्चारयति, तेनैतत्? सूचयति - विवक्षितमत्रैकत्वमिति तेनेत्यादिनैकत्वविवक्षायाः फलं दर्शयति। एकत्वविवक्षायां ह्रेतत्? प्रयोजनम् - एकस्य गुणस्य निमाने वर्तमानाद्यथा स्यात्। `द्वौ भागौ यवानां त्रय उदइआतः` इति। अत्र त्रयाणां भागानां निमाने द्विशब्दो वर्तत इति न भवति प्रत्ययः। ननु च सत्यामप्येकत्वविवक्षायां नैवान्न प्रत्ययेन भवितव्यम्, यतः `भूयसश्च वाचिकायाः संख्यायाः प्रत्यय इष्यते` इति वचनम्। न ह्यत्र द्विशब्दो भूयसो वाचकः? एवं तर्हि यवानां यौ द्वौ भागौ, ताविह निमेयत्वेन विवक्ष्येते। ये त्रय उदइआतो भागास्ते निमानत्वेन। तत्र यद्येकत्वविवक्षा न स्यात्? तदा त्रिषूदइआद्गुणेषु वर्तमानात्? प्रत्ययः स्यात्। भूयसश्चेत्यपि प्रत्ययार्थात्? प्रकृत्यर्थस्य भूयसो वाचिकायाः प्रत्यय इष्यते, नान्यतः। `इह न भवति` इति। अनभिषानात्। `तदस्मिन्नधिकम्` [[5.2.45]] इत्यादेः सूत्रादितिकरणानुवृत्तेर्वा। यदि भूयसो वाचिकायाः संख्याया इष्यते यवानां द्वौ भागौ निमानमस्येत्यत्र न प्राप्नोति? इत्यत आह - `भूयस इति च` इत्यादि। एवमपि हि प्राप्नोति - द्वौ यवानामष्यद्र्ध उदइआत इति, अस्ति ह्यत्र प्रत्यर्थात्? प्रकृत्यर्थस्याधिक्यम्? इत्यत आह - `गुणशब्दः` इत्यादि। गुणशब्दो ह्रयं भागवचनोऽपि समतामपि तस्य भागस्य ब्रूते, न चाष्यद्र्धशपब्देन समभाग उच्यते। `निमेये चापि दृश्यते` इति। केन पुनर्विहितो दृश्यते? अनेनैव। कथम्? द्वे अत्र वाक्ये; तत्रैकस्मिन्? वाक्ये निमानशब्दः करणसाधनः - निमीयतेऽनेनेति निमानम्; द्वितीये तु कर्मसाधनो निमीयत इति निमानम्; <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्मणि ल्युट्। यदा करणसाधनस्तदा गुणस्येति कर्मणि षष्टी, यदा तु कर्मसाधनस्तदा कर्तरि। गुणो हि निमानक्रियाकरणमिति कर्त्तृत्वेन विवक्ष्यते। भवति हि करणस्य कर्त्तृत्वेन विवक्षा, यथा - साध्यसिश्छिनत्तीति। तत्रैकेन वाक्येन निमाने पर्तमानायाः संख्याया निमेयेऽभिधेये प्रत्ययो विधीयते। अपरेण निमेये वर्तमानाया निमानेऽभिधेयेऽपि प्रत्ययोऽभिधीयते। वाक्यभेदस्य च संख्याग्रहणं निबन्धनम् - `संख्याया अवयवे तयप्` [[5.2.42]] इत्यतः। एवञ्च संख्याग्रहणमनुवर्तते। इदमिह द्वितीयम्। तत्र यद्यत्रैकं वाक्यं स्याद्द्वितीयं संख्याग्रहणमनर्थकं स्यात्, सौत्रानुमिताभ्यां तु द्वे वाक्ये क्रियमाणे तदर्थवद्भवति। तस्माद्द्वे अत्र वाक्ये। `द्वौ व्रीहियवौ` इत्यादि। अत्र नोदइआद्भागस्य द्वौ व्रीहियवौ निमानत्वेन विवक्षितौ, किं तर्हि? उदइआतः। एवं `द्वौगुणौ` इत्यादि। अत्र प्रथमासमर्थो गुणस्य निमानेन वर्तते। न हि क्षीरस्य भागद्वयेन तैलस्य भागो निमीयते। मयटष्टित्करणं ङीबर्थम् - द्वौ गुडस्यैको द्राक्षाया द्विमयी द्राक्षेति॥", "52048": "इह द्वे संख्याग्रहणे अनुवर्तते, तत्र चैकेन `संख्यावाचिनः प्रातिपदिकात्` इति ब्राउवता प्रकृतिर्विशेषिता। द्वितीयेन तु प्रत्ययार्थ विशेषयितुमाह - `येन` इत्यादि। संख्यानशब्दं समुच्चारयन्? संख्नावचनः संख्यानशब्देन प्रत्ययार्थो विशेष्यते इति दर्शयति। द्विविधो हि संख्याशबदः - संख्यानवचनः, संख्येयवचनश्च। तत्र यदि संख्येयवचनेन प्रत्ययार्थो विशेष्यते, तदायमर्थः स्यात् - संख्येयं मुष्टआदिकं येन पूर्यते द्रव्यान्तरेणातिरिक्तं क्रियते स च पूरण इति, ततश्च पञ्चानां मुष्टिकाणां घट इत्यत्रापि स्यात्। तस्मात्संख्यावचनेनैव प्रत्ययार्थो विशेषयित्तुं युक्तः। `सम्पद्यते` इति। पूय्र्यत इत्यस्यार्थमाचष्टे। एतेनैतद्दर्शयति - संख्यावचनेन प्रत्ययार्थो विशेष्यते। न मुष्टिकाणामिव द्रव्याणां द्रव्यान्तरेणातिरिक्तकरणं संख्यायाः पूरणम्, किं तर्हि? सम्पत्तिरेवेति। `इह न भवति` इत्यादि। न हि घट उपजाते पञ्चत्वसंख्या मुष्टिकाणा सम्पदयते। किं तर्हि? तत्र पञ्चसंख्यकानामेव द्रव्यान्तरेणातिरिक्तता॥", "52049": "`डटो मडागमो भवति` इति। अथ प्रत्यय एव नान्तात्? मट्? कस्मान्न भवति? नर्हति प्रत्ययो भवितुम्। प्रत्यये हि तस्मिन्? सति डटोऽनुवृत्तिरपार्थिका स्यात्, स हि पूर्वमेव विहितः, न च विहितस्यानुवृत्तिर्विधानार्थोपपद्यत इति। आगमार्थे च सा विज्ञायते। ननु च पञ्चम इत्यादौ न कश्चिद्विशेषः - मट आगमत्वे, प्रत्ययत्वे वा; तदेव हि रूपम्, स एव हि स्वरः, किञ्चानुवृत्तेन, मट एव प्रत्ययत्वमस्तु? सत्यम्, इह नास्ति विशेषः; विंशतितम इत्यादौ तु विद्यते। तथा हि <<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> [[5.2.56]] इति मट्प्रत्ययः स्यात्। [`मयट्` मुद्रितपाठः] विंशतितमप्रभृतयः शब्दाः प्रत्ययस्वरेण मध्योदात्ताः स्युः। डटि तु प्रत्यये सति तस्याद्युदात्तत्वे कृते ततश्चागमानुदात्तत्वे चान्तोदात्ता भवन्ति। तस्मादुतरार्थेऽनुवर्तमानस्येहापि डट एव प्रत्ययत्वं विज्ञायते। कथं पुनर्डटो मडागमः शक्यो विधातुम्, यावता प्रथमानिर्दिष्टं प्रकृतं डड्ग्रहणम्, षष्ठीनिर्दिष्टेन चेहार्थः? इत्यादि - `नान्तात्` इत्यादि। यद्यपि प्रथमान्तं डड्ग्रहणं प्रकृतम्, तथापि डट आगमसम्बन्धेन <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति नान्तादित्येषा पञ्चमी डडिति प्रथमायाः षष्ठीं प्रकलपयतत्यदोषः। `पञ्चमः` इति। टिलोपोऽत्र न भवति; मटि कृते सत्यभसंज्ञकत्वात्। ननु च परत्वाट्टिलोपेनैव तावद्भवितव्यम्? नैतदस्ति; अन्तरङ्गो ह्रागमः, स हि प्रत्ययसन्नियोगेनोच्यते। टिलोपस्तूत्पन्ने प्रत्यये भसंज्ञाया सत्यां प्रकृतिप्रत्ययावाश्रित्य भवतीति बहिरङ्गो भवति। `एकादशानां पूरणा एकादशः` इति। कथं पुनरस्मात्प्राप्तिः, यावता संख्याग्रहणमनुवर्तते, संख्यासम्दायोऽपि हि संख्याग्रहणेन गृह्रते - संख्यायतेऽनयेति कृतवा। अवश्यं चैतदेवं विज्ञेयम्; अन्यथाऽदशतया न स्यात्॥", "52050": "", "52051": "`तदिह सप्तम्या` इत्यादि। पूरणाधिकारे ह्रयं विधीयमानो डट्सन्नियोगन विधीयते। तत्र यद्यपि सप्तमौ नास्ति, तथापि डटि परतो विज्ञायते। तेनार्थाद्विभक्तिवपरिणामो भवतीति डडिति यद्वत्तेत तदिह सप्तम्या विपरिणम्यते। `कतिपयशब्दो न संख्या` इति। लौकिकत्वाभावात्? संख्या न भवति; लोकेऽस्य संख्यात्वेनाप्रसिद्धत्वात्। शास्त्रीयोऽपि न भवति; शास्त्रे संख्यासंज्ञाऽविधानात्। यदि न संख्या, कंथमस्य डट्, यत्र परतस्थुग्विधीयते? इत्याह - `तस्य` इत्यादि। यदेतड्डटि परतः कतिपयशब्दस्य थुग्विधानं तत एव ज्ञापकाड्डट्प्रत्ययोऽस्य भवतीत्यवसीयते। `षष्ठः` इति। ष्ट्त्वम्। टिलोपोऽत्र न भवति। थुग्विधानसामर्थ्यात्। आगमस्य पूर्वान्तकरणं भसंज्ञार्थम्। यदि परादिः क्रियते ततो भसंज्ञा न स्यात्, तथा चासत्याम्, <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा स्यात्। ततश्च षष्ठ इत्यत्र जश्त्वं प्रसज्येत। `चतुर्थः` इति। अत्र रेफस्य <<विसर्जनीयस्य सः>> [[8.3.34]] इति सत्वम्। पूर्वान्ते तु संज्ञायां सत्यां न भवति॥", "52052": "", "52053": "", "52054": "`द्विशब्दात्? तीयप्रत्ययो भवति` इति। अथ द्विशब्दादुत्तरस्य डटस्तीयादेशः कस्मादेव न भवति? ज्ञापकत्वात्। यदयम्? <<कर्मणि द्वितीया>> [[2.3.2]] इति टापा निर्देशं करोति, तज्ज्ञापयति - नायमादेश इति। यद्येवमनेनैव सिद्धत्वात्? प्रत्ययविधानमनर्थकम्? न; स्वरार्थत्वात्। निपातनाद्धि प्रातिपदिकस्वरेणान्तोदात्तः स्यात्। तीयप्रत्यये तु प्रत्ययस्वरेण मध्योदात्तो भवति। किञ्च, यदि प्रत्ययो न विधीयते `बाधकान्यपि निपातनानि भवन्ति` (नी।प।बृ। 109) इति डडपि स्यात्। यदि पुनरयं डडादेशः स्यात्, तर्हि किं स्यात्? डट्स्वरेण तीयशब्दोऽन्तोदात्तः स्यात्, स्त्रियां च टित्त्वान्डीप्, ततश्च द्वितीयेति निर्देशो नोपपद्यते॥", "52055": "`अण इति तत्र वर्तते` इति। <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यतः। ननु च परेण णकारेणाण्ग्रहण ऋकारोऽप्यण्? भविष्यति? इत्यत आह - `पूर्वेण च` इत्यादि। अत्र `त्रेस्तु च` इत्येवं कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्, एवं ह्रुच्यमाने सन्देहः स्यात्? - किमयमादेशः, उत्त प्रत्यय? इति॥", "52056": "`विंशत्यादिभ्यः परस्य` इत्यादि। ननु च तीयप्रत्ययेन डड्? व्यवहितः, तत्कथं तमडागमः शक्यो विज्ञातुम्? अत आह - `पूरणाधिकारात्` इति। पूरणार्थे यो विहितसतस्य विंशत्यादिभ्यः परस्य तमङ्विधीयते, स नान्यो डटः सम्भवतीति डडेव विज्ञायते। `विंशात्यादयो लौकिकाः संख्याशब्दा गुह्रन्ते` इति। व्याप्तेन्र्यायात्। ते पुनर्विशत्येकविंशतिप्रभृतयः संगृहीता भवन्ति। किं पुनः स्याद्यदि पड्क्त्यादिसूत्रे [[5.1.58]] तेषामसन्निविष्टत्वात्।", "52057": "`शतादिग्रणम्` इत्यादि। संख्यादिभ्यः शतादिभ्यो यथा स्यादित्येवमर्थं शतादिग्रहणम्। अथ नित्यग्रहणं किमर्थम्, यावताऽऽरम्भसामर्थ्यादेव नित्यो विधिर्भविष्यति? भवेच्छतादिभ्य आरम्भसामर्थ्यादित्येवम्। मासादिभ्यस्त्वन्यतरस्यांग्रहणातुवृत्तेर्विभाषा स्यात्। ननु चास्वरितत्वादेव निवर्त्तिष्यतेऽन्यतरस्यांग्रहणम्? विस्पष्टार्थ तर्हि नित्यग्रहणम्॥", "52058": "प्राक्शतात्? षष्टआदायो विज्ञेयाः। शतादीनां स्वशब्देन तमटो विधानात्॥", "52059": "`मतौ` इति मत्वर्थ उच्यते; साहचर्यात्। `मत्वर्थेन` इत्यादि। समर्थविभक्तिः प्रथमा, प्रकृतिविशेषणम् - अस्तित्वम्, प्रत्ययार्थः - अस्यास्मिन्निति च, सर्वमेतन्मत्वर्थग्रहणेन `आक्षिप्यते` इति। सन्निधाप्यते, उपस्थाप्यत इत्यर्थः। युक्तं यन्मतुब्ग्रहणे प्रत्ययार्थ आक्षिप्यते; तस्य तद्विषयत्वात्। समर्थविभक्त्यादि कथमाक्षिप्यते? अर्थसाहचर्यात्॥अथ वा प्रधानानुवृत्तित्वाद्द्गुणानाम्, प्राधान्येन प्रत्ययार्थ उपस्थापिते प्रत्ययसामर्थ्यात्? तदपि गुणभूतमुपस्थाप्यत एव। इहास्यवामादिशब्दोऽनेकपदान्तत्वाद्वाक्यम्। वाक्यस्य चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञा नास्ति, अतस्तेभ्यो न प्राप्नोति; अप्रातिपदिकत्वादिति यश्चोदयेत्, तं प्रत्याह-`अनुकरणशब्दाश्च` इत्यादि। अनुकरणग्रहणेन च वाक्यत्वमस्यवामप्रभृतीनां निरस्यति। न ह्रनुकरणशब्दानामवयवभूतानि पदानि सन्ति, तत्कुतस्तेषां वाक्यत्वम्? यतः प्रातिपदिकसंज्ञा न स्यात्। `स्वरूपमात्रप्रधानाः` इत्यनेनार्थवत्त्वं तेषां दर्शयति। अनर्थकत्वे ह्रर्थवतः प्रातिपदिकसंज्ञाविधानात्? प्रातिपदिकत्वं न स्यात्। तथा च स एव प्रत्ययाभावः प्रसज्येत। मात्रशब्दोऽर्थान्तरव्यवच्छेदाय। स्वरूपमात्रं प्रधानमभिधेयं येषां ते तथोक्ताः। चशब्दो यस्मादर्थे। यस्मादनुकरणशब्दाः स्वरूपमात्रप्रधानाः प्रत्ययमुत्पादयन्ति, तेनानेकदादपि प्रत्ययाख्यं कार्यं सिद्धम्; तस्य प्रातिपदिकत्वात्। अप्रातिपदकत्वञ्च वाक्यत्वादनर्थकत्वाद्वा भवेत्। न चास्यवामप्रभृतीनां वाक्यत्वम्; अनुकरणशब्दत्वात्। नाप्यनर्थकत्वम्; स्वरूपमात्रेणार्थवत्त्वात्। यदि ह्रस्यवामेत्यादावनुकरणशब्देनानेकानि पदान्यस्यावयवभूतानि सन्ति तत्कथं तेनानेकपदादपि सिद्धमित्युक्तम्? परप्रसिद्ध्या पदस्य। अस्यवामादयोऽप्येवम्। एषामनेकावयवाः प्रसिद्धाः; तस्मात्? तत्प्रसिद्ध्यैवमुक्तम्; न तु विद्यमानानेकपदत्वात्। अथ कथमनुकरणशब्दाः स्वरूपमात्रप्रदाना भवन्ति, यावतानुकार्यमेव तेषामभिधेयम्, अतस्तदेव प्रधानस्वरूपम्? नैतदस्ति; इह हि प्रथमासमर्थादस्तिना समानाधिकरणात्? प्रत्ययो विधीयते। अनुकरणशब्दाश्चानुक्रियमाणेनार्थेनार्थवन्तोऽपि प्रत्यवमृष्टा इतिकरणेन शब्दशब्देन वा प्रथमासमर्थास्तिसमानाधिकरणा भवन्ति। अर्थे हि गुणीभूतानां प्रथमासमर्थत्वमस्त्युपाधिकत्वञ्च नोपपद्यते। तथा ह्रस्यवामोऽस्मिन्नस्तीत्युक्तेऽनुकरणप्रत्यायितस्यानुकार्यस्यैव शत्त्दस्य प्रथमासमर्थत्वमस्त्युपाधिकत्वञ्च गम्यते, न त्वनुकरणशब्दस्य। तस्मादितिकरणेन शब्दशब्देन वाऽवश्यम्भावो प्रत्यवमर्शः। अस्यवाम इत्यस्मिन्नस्त्यवामशब्दो वास्मिन्नस्तीति भेदानुक्रियमाणपदार्थता निवर्तते, स्वरूपपदार्थतैवानुजायते। नन्वेवं सति मत्वर्थो नोपपद्यते, अनुकार्या ह्राम्नायशब्दाः सूक्तसाम्नोः सन्ति, न तु तदनुकरणशब्दा लौकिकादयः? नैष देषः; वाक्य स्वातन्त्र्यहेतोरितिकरणादेः सन्निधौ तेन प्रत्यवमृश्यमाना अनुकरणशब्दाः स्वरूपेणार्थवन्तो भवन्ति, वृत्तौ त्वनुकार्येणैव; तत्र स्वातन्त्र्यहेतोरितिकरणादेरभावात्। वृत्तावेव सूक्तसामनी समत्वर्थवत्तया वक्तुमिष्टे, न वाक्य इति किमत्र नोपपद्यते! अस्यवामशब्दोऽस्मिन्नस्त्यस्यवामीयम्। कयाषुभाशब्दोऽस्मिन्नस्ति `कयाषुभीयम्`। योगश्चायं मत्वर्थीयानामपवादः॥", "52060": "अनन्तरसूत्रे सूक्तसाम्नोरेव च्छस्य विहितत्वात्? प्रकरणान्तरे च क्वचिदध्यायानुवाकयोश्छस्याविधानात्? पृच्छति - `केन पुनः` इत्यादि। न ह्रसतस्तस्य लुगुपपद्यते, आह एवायं लुकम्। अत एतदेव लुग्वचनं ज्ञापयति - अध्यायानुवाकयोश्छस्य विधानमस्तीति। `विकल्पेन च` इत्यादि। चशब्दोऽवधारणे, विकल्पेनैवेत्यर्थः। कथं पुनर्विकल्पेन लभ्यते? <<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> [[5.2.56]] इत्यन्यरस्यांग्रहणानुवृत्तेः। यद्येवम्, पूर्वत्रापि विकल्पेन विधिः प्राप्नोति? भण्ड्कप्लुतिन्यायेनानुवृत्तिर्भविष्यतीत्यदोषः॥", "52061": "पूर्वेण च्छे तस्य च पक्षे लुकि प्राप्ते विमुक्तादिभ्योऽण्विधीयते॥", "52062": "<<अध्यायानुवाकयोर्लुक्>> [[5.2.60]] इति च्छस्य च लुकि प्राप्ते गोषदादिभ्यो वुनारभ्यते॥", "52063": "<<कृतलब्धक्रीतकुशलाः>> [[4.3.38]] इत्यणि प्राप्ते वुन्? विधीयते॥", "52064": "आकर्षादिषु यद्वृद्धं ततश्छे प्राप्ते शेषेभ्यस्त्वणि कन्विधीयते। प्रत्ययान्तरकरणम् - यदत्रोकारान्तं तस्यात्र गुणो मा भूत्, यच्चेकारान्तं तस्य `यस्येति` [[6.4.148]] लोपो मा भूदित्येवमर्थम्। वुनि तु सति तदुभयं प्रसज्येत। तत पुनरिहाशिष्टं प्रसज्येत। तस्य पुनर्वनि कनि वा सति न कश्चिद्विशेष इति न तत्प्रत्ययान्तरं प्रयोजयति॥", "52065": "`धने कामः` इति। धनविषय इच्छेत्यर्थः॥", "52066": "`प्रसिते` इति। यद्यपि सिनोतिरयं `षिञ्? बन्धने` (धा। पा। 1477) इति बन्धने पठते, तथाप्यनेकार्थत्वादिहासक्तौ वर्तते। `केशेषु प्रसितः` इति। <<प्रसितोत्सुकाभ्यां तृतीया च>> [[2.3.44]] इति सप्तमी। आसक्तिश्च क्रियाविषयो धर्म इति केशादिस्थानबला क्रिया केशादिशब्देनोच्यते। अत एवाह - `केशादिरचनायां प्रसक्त एवमुच्यते` इति। `बहुवचनं स्वाङ्गसमुदायादपि यथा स्यात्` इति। असति हि तस्मिन्, यथा जनपदसमुदायो जनपदग्रहणेन न गृह्रते, तथा स्वाङ्गसमुदायोऽपि स्वाङ्ग्रहणेन नेति स्वाङ्गसमुदायान्न स्यात्, तस्मस्तु सति भवति; अन्यथा तस्य प्रयोजनाभावात्। स्वरूपविधिनिरासस्तस्य प्रयोजनमिति चेत्? न; `अद्रवम्` (काशिका 4.1.54) इत्यादिना स्वाङ्गस्य परिभाषितत्वेन स्वरूपविधेरसम्भवात्॥", "52067": "पूर्वेण कनि प्राप्ते ठग्विधीयते। `आद्यूनोऽविजिगीषुः` इति। `विवोऽविजिगीषायाम्` [[8.2.49]] इत्यविजिगीषायामेव विवो निष्ठातकारस्य नत्वविधानात्। `उदरकः` पूर्वेण कनेन भवति॥", "52068": "`सस्येन इति सहयोगलक्षणे तृतीया, इत्थम्भूतलक्षणे वा। `सस्यशब्दोऽयं गुणवाची` इति। सस्यशब्दो ह्रयं धान्यवचनोऽप्यस्ति, यथा - शालिः सस्यम्, यवाः सस्यमिति; तस्य ग्रहणं मा विज्ञायीत्येवमर्थमिदमुक्तम् - `इदमभिधानम्` इति। सस्यक इत्येतत्? कन्प्रत्यान्तम्॥", "52069": "`कर्मणि द्वितीयैव भवति` इति। कर्मणि द्वितीयायां प्राप्तायां कृद्योगलक्षणा तदपवादा षष्ठआरभ्यते। तस्याश्चावश्यके णिनिप्रत्यये `अकेनोर्भविष्यदाधमण्र्ययोः` [[2.3.70]] इति प्रतिषेधः। तेन निरपवादाद्द्वितीयैव भवति॥", "52070": "`अचिरापह्मतम्` इति। अचिरशब्दोऽल्पकालवचनः, तस्यापह्मतशब्देनापह्मतो गतः कालोऽस्येति <<कालाः परिमाणिना>> [[2.2.5]] इति समासः। `पञ्चमीसमर्थात्` इति। निर्देशादेव। न हीह काचित्? प्रकृता विभक्तिरनुवर्तते, पञ्चमीनिर्देशश्च श्रुयते, तस्मान्निर्देशादेव पञ्चमीसमर्थात्? प्रत्ययो विज्ञायते। सा पुनः पञ्चम्यपहरतेरपायवचनत्वात्? तद्योगेन तन्त्रमपादानमेव भवतीत्यपादानलक्षणा वेदितव्या॥", "52071": "किमर्थं पुनरिवम्, यावता संज्ञायां व्युत्पाद्यते, संज्ञायामेव तु ब्राआहृणकोष्णिके? न; विषयान्तरेऽपि। तमेव विषयं दर्शयितुमाह - `यत्र` इत्यादि। गतार्थम्॥", "52072": "`क्रियाविशेषणात्` इति। क्रियाविशेषणस्य हि कर्मत्वं प्रतिपादितम्। `कारिणि` इति। ताच्छील्ये णिनिः। तस्य च प्रयोगे षष्ठी प्रतिषिद्धा, तस्मात्? कर्मणि द्वितीययैव भवितव्यम्। क्रियाविशेषणाच्छीतादिशब्दाद्द्वितीयासमर्थात्प्रत्ययो विज्ञायते। तेन नेह शोतोष्णशब्दो स्पर्शविषये वर्तमानौ प्रत्ययमुत्पादयतः। क्व तर्हि? मान्द्ये, शैघ्र्ये च; यस्मादावश्यके णिनिः। न स पदार्थोऽस्ति यः शीतोष्णस्पर्शौ नियोगतः करोति। तुषारातपावपि हि नावश्यं कुरुतः; प्रतिबन्धसम्भवात्। कर्त्तृशक्तिस्तु पदार्थानां नियतेति सा शक्तिः कर्त्तृत्वे कश्चिन्नियोगतो मन्दं करोति, कश्चित्? शीघ्रमिति युज्यत एवावश्यकत्वम्॥", "52073": "`अध्यारूढशब्दस्योत्तरपदलोपः` इति। उत्तरपदमारूढशब्दस्तस्य लोपो निपात्यते। कथं पुनरधिको द्रोणः खार्यामित्यस्य प्रथमान्तस्य द्रोणशब्दस्य प्रयोगः, अधिका खारी द्रोणेनेति तृतीयान्तस्य च? इत्यत आह - `कर्तरि कर्मणि च` इत्यादि। `गत्यर्थकर्मकश्लिष` [[3.4.72]] इत्यादिना सूत्रेण रुहेः कर्तरि कर्मणि च क्तो विहितः, तेन कर्तरि कर्तरि कर्मणि चाध्यरूढशब्दो वर्तते, ततश्च तस्यार्थे व्युत्पाद्यमानोऽधिकशब्दोऽपि तत्पर्यायो भवंस्तयोरेवार्थयोर्भवति। तत्र यदा कर्तरि वर्तते तदा द्रोणशब्दात्? प्रथमा भवति, न तृतीया। यदा कर्मणि वर्तते तदा कर्त्तुरनभिहितत्वादधिकशब्देन द्रोणशब्दात्? तृतीया भवति। कर्मणस्त्वभिहितत्वात्? खारीशब्दात्? प्रथमैव भवति, न द्वितीया। `अधिका खारी द्रोणेन` इति। ननु चाधिको द्रोणः खार्यामस्यामित्यत्र कर्मणोऽनभिहितत्वात्? खारीशब्दाद्द्वितीया प्राप्नोति? नैष दोषः; यदयम्? `यस्मादधिकम्? [[2.3.9]] `तदस्मिन्नधिकम्` [[5.2.45]] इति च निर्देशं करोति तज्ज्ञापयति - अधिकशब्देन योगे पञ्चमीसप्तम्यावेव विभक्ती भवत इति॥", "52074": "`अनुकः` इति। अनुशब्दात्? कन्। `अभिकोऽभीकः` इति। अत्राप्यभिशब्दात्॥", "52075": "निर्देशादेव तृतीयासमर्थविभक्तिर्लभ्यत इत्याह - `पार्(ाशब्दात्? तृतीयासमर्थात्` इति॥", "52076": "`अयःशूलदण्डाजिनाभ्याम्` इति। तृतीयान्तनिर्देशादेवार्थात्? तृतीया समर्थविभक्तिलंभ्यत इत्याह - `तृतीयासमर्थातभ्याम्? इति॥", "52077": "पूरणप्रत्ययान्तानां सामान्यनिर्देशोऽयम्। अथ स्वरूपग्रहणं कस्मान्न भवति? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्देशे स्वरूपग्रहणं भवतीत्युक्तम्। कथं प्रत्ययः स्वार्थे भवतीति? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति (पु। प। पा। 90) कृत्वा। `द्विकं, त्रिकम्` इति। तीयस्य लुक्। `चतुष्कम्` इति। पूरणप्रत्ययस्य डटः सथुकश्च लुक्, चतूरेफस्य `विसर्जनीयस्य सः [[8.3.34]] , तस्य `इदुपधस्य चाप्रत्ययस्य` [[8.3.41]] , इति षत्वम्। `तावतिथेन` इत्यादि। पूरणप्रत्यान्तात्? प्रातिपदिकात्? तृतीयासमर्थाद्गृह्णातीत्येतस्मिन्नर्थे कन्प्रत्ययो भवतीति वक्तव्यम्। पूरणप्रत्ययस्य च नित्यं लुक्। `षट्कः` इति। षकारस्य जश्तवं डकारः, तस्यापि चर्त्व टकारः। अत्र च डटः सथुको लुक्। `पञ्चकः` इति। अत्रापि डटः। अथेह कस्मान्न भवतीति - द्वितीयेन हस्तेन दण्डं गृह्णाति? इत्याह - `इतिकरणो विवक्षार्थः` इत्यादि। सुबोषम्॥", "52078": "", "52079": "ननु च न शृङ्खलमात्रेण करभो बध्यते, किं तर्हि? रज्जवादिकेन च, तत्कथं शृङ्खलं बन्धनमुच्यते? इत्याह - `यद्यपि` इत्यादि। यद्यपि तत्र रज्ज्वादिकमप्यपरमस्ति, तथापि शृङ्खलमस्य तन्त्रीकरणं प्रति साधनं भवत्येव, न हि तेन तद्भवति। ततः शृङ्खलं बन्धनमुच्यते। रज्ज्वादिकमपि यदि बन्धनं भवति, भवतु! न ह्यत्रावधार्यते - शृङ्खलमेवेति॥", "52080": "`ससाधनक्रियावचनात्` इति। साधनम्=मनः; क्रिया=गमनम्; सह तेन गमनक्रिया। तद्वचनात्? ससाधने गमने वर्तमानादित्यर्थः। `तद्वति` इति। तच्छब्देन क्रिया प्रत्यवमृश्यते। ससाधनक्रियावतीत्यर्थः। `उत्सुकः` इति। उत्कष्टित इत्यर्थः॥", "52081": "`अर्थलभ्या` इत्यादि। अर्थोऽधिकरणादिः। तेनात्र सप्तमीप्रभृतिरनुक्तापि समर्थविभक्तिर्लभ्यते। `प्रयोजनं कारणशब्देनोव्यते कालग्रहणं पृथङ्न कर्तव्यम्, कालोऽपि रोगस्य कारणं भवति? नैतदस्ति; न ह्रवश्यं कालो रोगस्य कारणं भवति। तत्र यदा ह्रसौ रोगस्य कारणं न भवति, तथापि ततो यथा स्यादित्येवमर्थं कालग्रहणम्। `द्वितोयेऽह्नि भवो द्वितीयकः` इति। तत्र कारणान्तराद्वातादेः कुतश्चिद्भवतो ज्वरस्य कालः केवलमधिकरणभावेन विवक्षितः, न तु हेतुभावेन। कथं पुनः कालादन्यतः प्रत्ययो द्वितीयादिभ्यः शब्देभ्यो भवति, न ह्रेते कालशब्दाः प्रसिद्धाः, सामान्यशब्दा ह्रेते, शब्दान्तरसन्निधानात्? तु काले वृत्तिरेषां गम्यते? नैष दोषः; वाक्ये ह्रेषां शब्दान्तरसन्निधौ कलि वृत्तिः, वृत्तिगतश्च प्रकृत्यर्थः प्रत्ययानां विशेषणम्; सन्निहितत्वात्। न वाक्यगतः; विप्रकर्षात्। `विषपुष्पैर्जनितः` इति। तृतीया। `उष्णं कार्यमस्य` इति। अत्र कार्यकारणसम्बन्धो विवक्षितः। स चेदंशब्दादेवोत्पन्नया षष्टआभिहित इत्युष्णशब्दात्? प्रथमैव भवति। इह कालप्रयोजनविशेषवाचिभ्यः प्रत्ययोऽभिहितः, न कालप्रयोजनशब्दाभ्याम्; कालविशेषवाचिभ्यो भवन्? क्रियायाः कर्तरि ज्वरे प्रयोजनविशेषवाचिभ्यः प्रयोजनमिति; कार्यकारणविवक्षायाञ्च कार्यसम्बन्धिनि। न चायं प्रकारनियमः सूत्रे उक्तः, तत्कथं लभ्यते? इत्यत आह - `उत्तरसूत्रादिह संज्ञाग्रहणमपकृष्यते` इति। तेन तस्मिन्? सत्ययमर्थो भवति - प्रत्ययान्तश्चेत्? संज्ञा भवति, तस्मश्चार्थे सति प्रत्ययान्तं यदि संज्ञा भवत्येवं प्रत्य उत्पद्यते, नान्यथेति। संज्ञाग्रहणसन्निधानादिह सर्वप्रकारोऽयं नियमो लभ्यते। न हि विना तेन प्रकारेम प्रत्ययान्तं संज्ञा भवति। ननु चोत्तरसूत्रे संज्ञाग्रहणं तस्यैव शेषभूतम्, तत्कथं ततोऽपक्रष्ट शक्यते? नैष दोषः; उभयोरपि योगयोस्तच्छेषभूतम्। कथम्? योगविभागः करिष्यते - `तदस्मिन्नन्नं प्राये` ततः `संज्ञायाम्` इति; तेन संज्ञाग्रहणमुभयेषां शेषो विज्ञास्यते॥", "52082": "`अन्नं चेत्प्रायविषयम्` इति। प्रायो विषयो यस्य तत्तथोक्तम्। विषयग्रहणे `प्राये` इति सप्तम्या विषयसप्तमीत्वं दर्शयि। `प्रत्ययो भवति` इति। अन्यथा गुडापूपाः प्रायेणान्नमिति ववक्षायाः कारकाणि भवन्तीतिप्रायस्य विषयभूतस्य करणत्वेन विवक्षितत्वात् तृतीया। `गुडापूपिका` इति `प्रत्ययस्थात् कात् पूर्वस्यातः` [[7.3.44]] इतीत्त्वम्।`वटकेभ्य इनिर्वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - इह संज्ञाग्रहणस्य प्रत्ययान्तोपाधिकत्वाद्यत्र प्रत्ययान्तं संज्ञा भवति तत्र प्रत्ययेन भवितव्यम्। न च वटकशब्दः कन्प्रत्ययान्तः कस्यचित् संज्ञा, तेन ततः कन् न भविंष्यति तर्स्मिश्चासति मत्वर्थीय इनिर्भविष्यतीति। `वटकिनो` इति। `ऋम्नेभ्यो ङीप्` [[4.1.5]] ॥", "52083": "संज्ञाग्रहणेन पूर्वेण कनः प्राप्तावसत्यां वाक्येनाभिधाने प्राप्ते मत्वर्थीये मतुबादाविदमुच्यते। `व्कौल्माणी` इति। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्॥", "52084": "`नकारः स्वरार्थः` इति। ननु च नकार इद् यस्य तर्स्मिन्निति परतः स्वर उच्यते, न च समुदायानुबन्धे नकारे नित्परत्वमस्ति? नैष दोषः; न एवेत् नित्, तत्पुरुषोऽयम्। तेन नकार इत्संज्ञे परतः पूर्वस्य स्वरो भविष्यति। किं पुनरत्र निपात्यते? इत्याह - `छन्दोऽधीते` इति। अस्य वाक्यस्यार्थे श्रोतिंरयन्निति निपात्यते। `छन्दसो वा` इत्यादि। पूर्वत्र वाक्यार्थे पदमविद्यमानप्रकृतिप्रत्ययविभागं निपातितम्; इदानीं तु प्रकृतिप्रत्ययौ निपात्येते तदवीत इत्यस्मिन्नर्थे। अत्र यद्यपि निदित बहुव्रीहिः, तथापि स्वरः सिध्यत्येव; घन्प्रत्ययस्य नितः परस्य विद्यमानत्वात्।`कथम्` इत्यादि। यदि च्छब्दःशब्दस्य श्रोत्रशब्द आदेशो घंश्च प्रत्ययः `तदधीते` इत्यस्मिन्नर्थे निपात्यते, निपातनेन बाधितत्वादत्रार्थे च्छान्दस इति न सिष्यतीत्यभिप्रायः॥", "52085": "`श्राद्धशब्द` इत्यादि। शास्त्रोक्तेन विधिना निष्पाद्यस्य कस्यचिवेव क्रियाविशेषस्य श्राद्धशब्दः संज्ञा। कर्मशब्दोऽयं क्रियावाची। श्रद्धा यत्र कर्मष्यस्ति तच्छ्राद्धम्, <<प्रज्ञाश्रद्धार्चाभ्यो णः>> [[5.2.101]] इति णप्रत्ययः। `तत्साधने` इत्यादि। भूक्तत्वं कर्मणो विशेषणं न सम्भवतीति तत्साधने भवतादौ वर्त्तित्वा श्राद्धं प्रत्ययमुत्यादयतीति विज्ञायते। तत्साधाने तु तस्य वृत्तिः, तादथ्र्यात्; यथा - प्रदीपार्थायां मल्लिकायां प्रदीयपशब्दस्य। `समानकालग्रहणम्` इति। समानः कालो गृह्रते येन तत्समानकालग्रहणम्। व्याख्यानं कर्तव्यमित्यर्थः। किमर्थम्? इत्याह - `अद्य भुक्ते` इत्यादि। यस्मिन्नहनि श्राद्धमनेन भुक्तं तस्मिन्नेव श्राद्धिक इति स्यात्ष अद्य भक्ते आओ मा भूदित्येवमर्थम्। तत्रेदं व्याख्यानम् - इहापि वेत्यनुवर्तते, सा च व्यवस्थितविभाषा, तेन यस्मिन्नेवाहनि श्राद्धं भुक्तं तस्मिन्नेवेष्यते; नान्यत्रेति॥", "52086": "`पूर्व गतं पीतं भूक्तम्` इति। पूर्वशब्दोऽत्र क्रियाविशेषणत्वात्? कर्म भवतीति द्वितीयासमर्थात्? प्रत्ययो विज्ञायते। `पूर्वो` इति। `सौ च` [[6.4.13]] इति दीर्घः॥", "52087": "सहशब्दो विद्यमानवचनः। अत एवाह - `विद्यमानं पूर्वम्` इति। <<वोपसर्जनस्य>> [[6.3.82]] इति सहस्य सभावः। `कृतपूर्वो कटमिति` ननु च निष्ठआ कर्मणोऽभिहितत्वाद्द्वितीयाऽतर न प्रापनोति? नैष दोषः; नेयं कर्मणि निष्ठा, किं तर्हि? भावे। यदापि कर्मणि तदापि न दोषः; निष्ठया हि सामान्यं कर्माभिहितम्, न विशेषकर्म। तस्माद्विशेषकर्मणोऽनभिहितत्वाद्द्वितीया भविष्यति। ननु च पूर्वं कृतमित्यनेकपदावयवत्वाच्च वाक्यमिदम्। वाक्यस्य चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञा नास्ति। तत्कथमतः प्रत्ययः? इत्याह - `सुप्सुपा` इत्यादि। `योगद्वयेन च` इत्यादि। यदि `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शाक। प। 65) इत्येषा परिभाषा न स्यात्? तदा `सपूर्वात्पूर्वादिनिः` इत्येकयोगं कुर्यात्? किं योगविभागेन! एकयोगे हि सति केवलादपि व्यपदेशिवद्भावेन प्रत्ययो भविष्यति। तदेवमेकयोगेन सिद्धे यत्? <<पूर्वादिनिः>> [[5.2.86]] इति पृथग्योगं करोति, तज्ज्ञापयति - अस्तीयं परिभाषा `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शाक। प। 65) इति। यदि वा `ग्रहणवता` (व्या। प। 89) इत्यादिका परिभाषा न स्यात्? `सपूर्वाच्च` इतीमं योगं न कुर्यात्। <<पूर्वादिनिः>> [[5.2.86]] इत्यनेनैव हि कृतपूर्वीत्यादावपि भविष्यति तदन्तविधिना। तदेयं पूर्वयोगेणैव पूर्वशब्दादपि सिद्धे प्रत्यये यत्? `सपूर्वाच्च` इतीमं योगं करोति तज्ज्ञापयति - अस्तीयं परिभाषा `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न भवति` (व्या। प। 89) इति॥", "52088": "`इष्टो यज्ञे` इति। कथं पुनरत्र सपतमी; यावता यज्ञस्य कर्मतायां द्वितीयया भवितव्यम्? इत्याह - `क्तस्येन्विषयस्य` इत्यादि।", "52089": "किं पुनरत्रेवं निपात्यते? पर्यवस्थातृशब्दं व्यवस्थाप्य तदवयवस्यावस्थातृशब्दस्य पम्थ आदेश एकत्र क्रियते, अपरत्र तस्यैव परिशब्दः, पश्चादिनिप्रत्ययः॥", "52090": "`अनुपदी` इति। पश्चात्? पदस्यानुपदम्, पश्चादर्थेऽव्ययीभावः। तस्मादिनिप्रत्ययो निपात्यते॥", "52091": "`संज्ञाग्रहणम्` इत्यादि। विशिष्ट एवाभिधधेये प्रत्ययान्तस्य वृत्तिरभिधेयनियमः` (वा। 802) इति टिलोपः। `संज्ञग्रहणम्` इत्यादि। असति हि संज्ञाग्रहणे यथोग्रहणे यथोपद्रष्टा साक्षिशब्देनोच्यते, तथा दाता ग्रहीता चोच्येयाताम्, एतावपि हि द्रष्टारौ भवत एव। संज्ञाग्रहणादुपद्रष्टैवोच्यते। दातृग्रहीतृभ्यां योऽन्यो द्रष्टा समीपे स उपद्रष्टा। ननु च `स्वामीआराधिपतिदायादसाक्षि` [[2.3.39]] इति निपातनादेव साक्षिशब्दः साधुर्भाविष्यति, अभिधेयनियमोऽपि लौकिकत्वादस्य पदस्य लोकोक्त एव विज्ञास्यते, तदपार्थकमिदम्? नैतदस्ति; न हि तस्मिन्? निपातने साक्षिशब्दस्य नकारान्तता शक्यते व्यवसातुम्, प्रमाणाभावात्। लोके न स्वाभिधेये प्रतीयमाने प्रतिपत्तिगौरवं स्यात्। तस्मान्नकारान्तताप्रतिपत्तिगौरवपरिहारार्थं चेदमुच्यते॥", "52092": "चिकित्स्य इति शक्यार्थे कृत्यः। `वाक्यार्थे` इत्यादि। `परक्षेत्रे चिकित्स्यः` इत्यस्य वाक्यस्यार्थे क्षेत्रिय इत्येतत्? पदवचनमविद्यमानप्रकृतिप्रत्ययविभागं निपात्यते। चकारोऽन्तोदात्तार्थः। `परक्षेत्राद्वा` इत्यादि। वाशब्दः प्रकारान्तरं द्योतयति। अथ वा - परक्षेत्रशब्दात्? तत्रेति सप्तमीसमर्थात्? चिकिस्य इत्यत्रार्थे प्रत्ययो निपात्यते, परशब्दस्य च लोपः। `परक्षेत्रं जन्मान्तरशरीरम्` इति। इहत्याच्छरीरादन्यत्वादसाध्य इत्यनेन परशब्दस्यार्थं दर्शयति। सस्यार्थं हि यत्? क्षेत्रं संस्कृतं तदनुत्पाद्यत्वात्? तृणानां परक्षेत्रं भवति। `सर्वं चैतत्? प्रमाणम्` इति। सर्वस्याचार्येण प्रतिपादितत्वतात्॥", "52093": "`रूढिरेषा` इत्यनेननावयवार्थं त्याजयति। कथं पुनर्जायते रूढिरेषा? इत्याह - `तथा च` इत्यादि। यद्येषा रूढिर्न स्यात्, व्युत्पत्तेरनियमो न स्यात्; अरूढिशब्देषु नियतत्वादेव तदर्थस्य। रूढिशब्दे त्वस्मिन्? युज्यते व्युत्पत्तेरनियमः। रूढिशब्दानां हि यथाकथञ्चिद्व्युत्पत्तिः क्रियते परिकल्पितेनावयवार्थेन। कथं पुनरात्मा चक्षुरादिना करणेन शक्योऽनुमातुम्? इत्याह - `नाकर्त्तृकम्` इत्यादि। अनेनाविनाभावं दर्शयति। इतिकरणओ हेतौ। यस्मात्? करणादीनां प्रवृत्तिर्निवृत्तिर्वा कत्र्रधीना, तस्माद्यत्र तानि तत्रावश्यं कत्र्रा भवितव्यम्। चक्षुरादिना करणेनाविना भावेनालिङ्गेनात्माऽनुमीयते। कथं पुनस्तदात्मना सेवितम्? इत्याह - `तद्द्वारेण` इत्यादि। द्वारेम हि विषयेष्वात्मनो ज्ञानमुत्पद्यते। तस्माद्विषयान्? ज्ञातुमात्मा चक्षुरादीनद्रियं सेवते। `यथायथम्? इति। यथास्वम्। यो यस्येन्द्रियस्य विषयस्तत्? तस्मै दत्तम्। `इतिकरणः प्रकारार्थः` इति। एवं प्रकारान्तरेणापि व्युत्पत्तिः कर्त्तव्येत्येतदितिकरणः प्रकारर्थं द्योतयति अत एवाह - `सत् सम्भवे` इत्यादि। इन्द्रेण विषया नीयन्ते सम्बध्यन्त इतीन्द्रियमित्येवमादिका सति सम्भवे तथा व्युत्पत्तिः कर्तव्या।`वाशब्दः` इत्यादि। असति हि वाशब्दे `इन्द्रलिङ्गम्` इत्येवमादीनां विकल्पप्रकाराणा पारतन्त्र्यं विज्ञायेत। परस्परापेक्षाया समुच्चिताया एव व्युत्पत्तेः कारणमिति। वाशब्दस्तविन्द्रलिङ्गमितीन्द्रदृष्टमिति चेत्येवं सम्बध्यमानस्तेषां स्वातन्त्र्यं दर्शयति। तेनैकैकः प्रकारः प्रकारान्तरनिरपेक्षो व्युत्पत्तादङ्गभावमुपयाति॥", "52094": "`प्रत्ययार्थो` इति। ननु च यद्? यस्य भवति तत तस्मिन्नस्ति, यद्यस्मिन्नस्ति तत्? तस्य भवति, यथा - वृक्षे शाखा, वृक्षस्य शाखेति; तत्रान्यतरनिर्देशेनैव सिद्धम्, तत्किमर्थं द्वौ निर्दिश्येते? नैतदस्ति; न हि षष्ठीसप्तम्यर्थयोरवश्यम्भावो समावेशः, तथा हि गावो गङ्गायां भवन्ति, न च ते तस्याः; तथा देशान्तरगतोऽपि पुत्रो देवदत्तस्य च भवति, न चासौ तत्र। तस्मादुभावपि निर्देष्टव्यौ। `अस्तीति प्रकृतिविशेषणम्` इति। ननु च सम्भवे व्यभिचारे च विशेष्यविशेषणभावो भवति नीलोत्पलवत्, न चास्तित्वस्य व्यभिचारोऽस्ति, यथोक्तम् - `न सत्तां पदार्थो व्यभिचरति` इति। तस्या व्यवच्छेद्याभावादपार्थकमिदं विशेषणम्? नैतदस्ति; विशेषणोपादानसामर्थ्यादेव विशिष्टैव सत्ता विशेषणत्वेनोपात्ता, न सत्तामात्रमिति प्रतीयते। सा पुनर्विशिष्टसत्ता सप्प्रतिसत्तैव। अस्ति च तस्या व्यभिचार इति प्रसज्यत एव विशेष्यविशेषणभावः। किं पुनः सम्प्रतिसत्ता विशेषणत्वेनोपात्ता? तस्यामेव प्रत्ययो यथा स्यात्? भूतभविष्यत्सत्तायां मा भूदित्येवमर्थम्। तेन गावोऽस्यासन्, गावोऽस्य भवितार इत्यतर्न भवति। ननु च गोमानासीत, गोमान्? भवितेति भूतभविष्यत्सत्ताय#आ#ं मतुपं विधाय कथं प्रयुज्यते? नैष दोषः, धातुसम्बन्धेऽयथाकालोक्तानामपि प्रत्ययानां साधुत्वविधानादेवं प्रयुज्यचे; न भूतभविष्यत्सत्तायां प्रत्ययविधानात्। `अस्त्यर्थोपाधिकं चेद्भवतीत्यर्थः` इति। वत्र्मानसत्ताविशिष्टं यदि तत्र भवतीत्यर्थः। `गोमान्` इति। `उगिदचाम्` [[7.1.70]] इति नुम्। हल्ङ्यादिसंयोगान्तलोपौ। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्धः। `वृक्ष वान्` इति `मादुपधायाश्च` [[8.2.9]] इत्यादिना वत्वम्।`विषयनियमः` इति। विषये प्रत्ययस्य भावो विषयनियमः। स पुनर्विशिष्टविषयो भूमादिरिति दर्शयन्नाह - `भूमनिन्दा` इत्यादि। बहोर्भावो भूमा। `पृथ्वादिभ्य इमनिच्` इतीमनिच्। `बहोर्लोपो भू च वहोः` [[6.4.158]] इति भूभावः, इकारलोपश्च। गावो बहवोऽस्य सन्तीति गोमान्। एकस्य द्वयोर्वा विद्यमानत्वेऽपि गोमानिति न व्यपदिश्यते। निन्दायां-ककुदावर्तीति। निष्फलत्वान्निन्दितः। प्रशंसायाम् - प्रशस्तं रूपं यस्यास्ति रहूपवानित्युच्यते। नित्ययोगे-क्षीरमेषामस्तीति क्षीरिणो वृक्षाः। नित्यः क्षीरसम्बन्धो येषां त उच्यन्ते। `अतिशायने उदरिणी कन्या` इति। यस्या अतिशयेनोदरमस्ति सैवमुच्यते। `संसर्गे दण्डी` इति। दण्डसंसर्ग उच्यते। तेनेह गृहस्थिते विद्यमानेऽपि दण्डे दण्डीति नाभिधीयते॥", "52095": "`अन्यनिवृत्त्यर्थम्` इति। अन्यस्येनिप्रभृतेर्मत्वर्थीयस्य निवृत्तिरर्थः प्रयोजनं यस्य तत्तथोक्तम्। `कथम्` इत्यादि। रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम्। ततो रूपिणी कन्येत्यादि न सिध्यतीति भावऋः। `प्रायिकम्` इत्यादि। अन्यनिवृत्तेर्बाहुल्येनार्थः - सोऽस्यास्तीति प्रायिकमेव युक्तं भवतीति। बाहुल्येनास्यान्यनिवृत्तित्वेन रूपणीत्यादौ क्वचिदन्योऽपि भवतीति कथं पुनरस्य प्रायिकत्वं लभ्यते? इत्याह - `इतिकरणः` इत्यादि। इतिकरणश्चेह विवक्षार्थोऽनुवर्ते। तेन यतद्र तु मतुबन्तादेव लोकस्य विवक्षा भवति, तत्र तेनान्यनिवृत्तिः क्रियते; न सर्वत्र। `अथ वा` इत्यादि। परिहारान्तरम्। आदिशब्देन चक्षुरादीन्द्रियपरिग्रहः। गुणादिति गणे पठते। च गुणग्रहणं सर्वेषामेव रसादीनां विशेषणम्। तेन ये रसनादीन्द्रियग्राह्राः। `तेषामेवायं पाठः` इति। गुणवचनान्तेभ्यो रसनादीन्द्रियग्राह्रेभ्योऽन्यनिवृत्तिरनेन क्रियते, नान्येभ्य-। स्यादेतत् - रूपिणीत्यादावपीन्द्रियग्रह्रा ये गुणास्तेभ्यो मत्वर्थीय उत्पन्नः? इत्याह - `रूपिणो, रूपिकः` इत्यादि। रूपिणी, रूपिक इत्यत्र शोभागुणो गम्यते, न चक्षुग्र्राह्रेण रूपेण। `रसिको नटः` इत्यत्रापि भावगुणो गम्यते, न तु रसनेन्द्रियग्राह्रेण गुणेन। भावाः शृङ्गारवीरबीभत्सादयो रचनाधर्माः।`एकाचः` इति। एकाक्षरादिति। एकोऽज्? यस्य तस्मान्मतुबेव भवतीति - धीमान्, स्ववानिति॥", "52096": "`कणिकालः` इति। कणिकादिशब्दोऽयं प्राण्यङ्गस्य वाचकः, नालङ्कारविशेषस्य। प्राण्यङ्गादेव हीष्यते, अत आह - `प्राण्यङ्गादिति वक्तव्यम्` इति। प्राण्यङ्गत्वादेवाकारान्तल्लज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - इतिकरणो विवक्षार्थोऽनुवर्तते। तेन प्राण्यङ्गदेव भविष्यतीति, नान्यस्मात्। अनभिधानाद्वाऽप्राण्यङ्गान्न भविष्यतीति। ननु चैकाचो लचः प्रत्ययस्वरेणान्तोदात्तत्वं सिद्धम्, तत्किमर्थं चकारः? इत्याह - `प्रत्ययस्वरेणैव` इत्यादि। चूडालशब्दात्? प्रथमैकवचनान्तात्? परतोऽसिशब्दे व्यवस्थिते तस्य <<तिङ्ङतिङः>> [[8.1.28]] इति निघातः, सोः <<ससजुषो रुः>> [[8.2.66]] इति रुत्वम्, <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्वम्,ाद्गुणः` [[6.1.84]] , तस्य च <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इत्युदात्तत्वम्, <<एङः पदान्तादति>> [[6.1.109]] इति पररूपमेकादेशः। असति तु वकारे `स्वरितो वानुदात्तेऽपदादौ` [[8.2.6]] इति स्वरितः स्यात्। अतस्तद्बाधनार्थ चकारः क्रियते॥", "52097": "यद्यन्यतरस्यांग्रहणेन लज्विकल्पेत, तेन पक्षे यथाप्राप्तमेव स्यादित्यकारान्तात्? सिध्मादेरिनिठनौ स्याताम्। अत इमं दोषं परिहर्तुमाह - `अन्यतरस्यांग्रहणेन` इत्यादि। अनेकार्थत्वान्निपातानामन्यतरस्यामिह समुच्चते वर्तते। तथा च वार्तिककारेणोक्तम् - `अन्यतरस्यामिति समुच्चयः` इति। मतुबिह स्वरितत्वात्? सन्निहित इति स एव समुच्चीयते, न तु यथाप्राप्तं प्रत्ययान्तरमित्येके। अन्ये त्वाहुः - `अन्यतरस्यांग्रहणं विकल्पार्थमेव। न चेनिठनावुभौ क्रियेते; तयोर्महाविभाषयैव सिद्धत्वात्। तर्हि प्रत्ययान्तरं पक्षे विधीयते? तदपि न; यथाप्राप्तमापादयित्तुं सन्निहितप्रत्यासत्तेः मतुबेव। तदेवमन्यतरस्यांग्रहणे सति मतुबेव विकल्प्यत इत्यभिप्रायेणान्यतरस्यांग्रहणेन समुच्चीयत इत्युक्तम्` इति। `न तु प्रत्ययो विकल्प्यते` इति। ननु च लचो भावाभावौ क्रियेते इत्यर्थः। `तस्मात्` इत्यादि। यत एवमन्यतरस्यांग्रहणेन मतुप्? समुच्चीयते, न तु प्रत्ययो विकल्प्यते, तस्माद्येऽत्राकारान्ताः पठन्ते तेभ्य इनिठनौ न भवतः। `पाष्णश्रमन्योर्दीर्घश्च` इति। पाष्ण, धमनि इति शब्दाभ्यां लज्भवति, तयोश्च दीर्घः - पार्ष्णीलः, धमनीलः। `वातदन्तबलललाटानामूङ् च` इति। वातादीनां, तस्य च लच ऊङगगमः। वातूलः। दन्तूलः। बलूलः। ललाटूलः। `जटाघटाकलाः क्षेपे` गम्यमाने। जटालः, घटालः, कलालः। क्षेप इति किम्? जटावान्। `क्षुद्रजन्तूपतापाच्च` इति। क्षुद्रजन्तूपतापाच्च` इति। क्षुद्रजन्तुः=नकुलादिः। उपतापः=रोगः॥`कामवति बलवति चार्थे` इति। मत्वन्तयोर्निर्देशेन कामबशब्दावर्शाअद्यकारान्तावुपात्ताविति दर्शयति। ननु च वत्सांसशब्दौ नैव कामबलयोर्वर्तेते, किं तर्हि? वयोविशेषे प्राण्यङ्गविशेषे च, तत्कथं ताभ्यां कामवान्? बलवांश्चोच्यते? इत्याह - `वृत्तिविषये` इत्यादि। कथमेतज्ज्ञायते? इत्याह - `न ह्यत्र` इत्यादि। वत्सशब्दस्य वाक्ये यो वयोविशेषलक्षणोऽर्थः प्रसिद्धः, अंसशब्दस्य च यः प्राण्यङ्गलक्षणविषयः स यस्मादत्र वृत्तौ न विद्यते न ज्ञायत इत्यर्थः। अथ वा - न विद्यत इति नास्तीत्यर्थः। अनेन वाक्ये यौ तयोरथा प्रसिद्धौ वयःप्राण्यङ्गविशेषात्मकौ, तयोर्वृत्तावभावो दर्शितः। इदानीं यौ तयोरभिमतावर्थो तयोर्भावं दर्शयितुमाह - `वत्सलः` इत्यादि। `स्नेहवान्` इति। कामवानित्यर्थः। तदेवं यस्माद्वत्सांसशब्दयोर्वाक्ये वयःप्राण्यङ्गलक्षणोऽर्थो न विद्यते, ततश्चवत्सलांसलशब्दाभ्यां यथोक्तः स्नेहवान्? बलवांश्चोच्यते, ततो ज्ञायते - वत्सांसशब्दौ वृत्तिविषये कामबलयोर्वर्तमानौ तद्वति प्रत्ययमुत्पादयत इति। अन्यतरस्यांग्रहणं सर्वत्र चात्र प्रकरणे मतुप्समुच्चयार्थे वर्तते। ततो मतुपा भवितव्यमिति यो मन्यते, तं प्रत्याह - `न चायम्` इत्यादि। अनेनैव च हेतुना वाक्यमपि न भवतीति वेदितव्यम्। व्काये हि नैवायमर्थः सम्भवति", "52098": "", "52099": "", "52100": "पामादिषु `अङ्गात्` इति पठते, तत्र कल्याणग्रहणमङ्गविशेषणम्। कल्याणानि शोभनान्यङ्गान्यस्याः सन्तीत्यङ्गना। कल्याम इति किम्? अङ्गवती। `शीकीपलालीदद्रवां ह्रस्वत्वञ्च` इति। शाक्यादीनाञ्च प्रत्ययो भवति ह्रस्वत्वञ्च - शाकिनः, पलालिनः दद्रुणः। महच्छाकं शाकी, महापलालं पलालौति केचित्। नानाजातीयानां शाकानां समाहारः शाकी, पलालानां समाहारः पलालीति। `विष्वक्` इत्यादि। विष्वक्शब्दान्न प्रत्ययो भवति, उत्तरपदलोपश्च। स चाकृतसन्धेः अकृतयणादेशस्य। विष्वञ्चतीति विषुशब्द उपपदेऽञ्चते; `ऋत्विक्` [[3.2.59]] इत्यादिना क्विन्, अनुनासिकलोपः, ततो विषु+अच्? इति स्थिते विष्वञ्चो यस्य सन्तीति न प्रत्ययः, अकृतयणादेशस्योत्तरपदलोपः - विषुण इति भवति। विषुणशब्दोऽयं निपात्यते। नानार्थे वर्तते। `लक्ष्म्या अच्च` इति। लक्ष्माशब्दान्नप्रत्यो भवति, अकारश्चान्तादेशः लक्ष्मीरस्यास्तीति लक्ष्मणः। `जटा घट` इत्यादि। जटादिभ्यः क्षेपे गम्यमान इलच्प्रत्ययः। जटिलः, घटिलः, कलिलः। क्षेप इति किम्? जटावान्, घटावान्, कलावान्॥", "52101": "प्रज्ञाशब्दान्मतुपि पिच्छादिपाठादिलचि च प्राप्ते, इतरेभ्यस्तु मतुपि णो विधीयते॥", "52102": "अत्र सूत्रे द्वे प्रकृती उपात्ते, प्रत्ययार्थावपि द्वावेव प्रकृतावनुवर्तेते। तथा च <<वत्सांसाभ्यां कामबले>> [[5.2.98]] <<सिकताशर्कराभ्यां च>> [[5.2.104]] इत्येवमादिष्वपि केषुचिद्योगेषु यथासंख्येन भवितव्यमिति यो मन्यते, तं प्रत्याह - `प्रत्ययार्थयोस्तु` इति। कस्मात्? पुनरिष्यमाणमपि न भवति? <<वत्सांसाभ्यां कामबले>> [[5.2.98]] इत्यत्रांशशब्दस्य परनिपाताल्लक्षमव्यभिचारचिह्यात्। अंसशब्दस्य हि `अजाद्यदन्तम्` [[2.2.33]] इति पूर्वनिपाते बलशब्दस्यापि `लध्वक्षरं पूर्वं निपतति` (वा। 108) इत्यस्मिन्? प्राप्ते योऽयं परनिपातः स लक्षणान्तरनिरपेक्षतां दर्शयन्निह मतुप्प्रकारणे यथासंख्यं लक्षणस्य व्यभिचारयति। तेन प्रत्ययर्थयोः सर्वत्र मतुप्प्रकरणे यथासंख्यं न भवति। प्रकरण इत्येतत्? कुतः? प्रकरणापेक्षत्वाल्लक्षणव्यभिचारचिह्नस्य। एतदपि कुतः? व्याख्यानात्। द्वयोर्लक्षणव्यभिचारचिह्नयोरुपादानाद्वा योगापेक्षतायां त्वन्यतरस्यैवोपादानं कुर्यात्। `असन्तत्वात्` इति। तपःशब्दादसन्तत्वात्? <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इत्येवमादिना विनिप्रत्यये सिद्धे सहरुआशब्दाच्चाकारान्तत्वात् <<अत इनिठनौ>> [[5.2.115]] इतीनिप्रत्यये सिद्धे, पुनरिवं विधानं वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम्। `सहरुआआत्तु` इत्यादि। <<अत इनिठनौ>> [[5.2.115]] इति ठन्नपि प्राप्नोति, सोऽपि बाध्यते। एतन सहरुआशब्दात्? ठनो बाधानमिति पुनर्वचनमिति दर्शयति॥", "52103": "`अण्प्रकरणे` इत्यादि ज्योत्स्नादिराकृतिगणः। येभ्यो मतुबर्थेऽण्? दृश्यते ते ज्योत्स्नादयो द्रष्टव्याः। उपसंख्यानशब्दश्चायं प्रतिपादने वर्तते। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन ज्योत्स्नादिब्योऽपि भविष्यतीति। `कौण्डलः` इति। कुण्डले योर्हति स एवमुच्यते। अन्यस्तु कुण्डलीत्येव भवति॥", "52104": "`आदेश इहोदाहरणम्` इति। देश उत्तरसूत्रेण लुबिलचोर्विधास्यमानत्वात्॥", "52105": "", "52106": "अकारान्तत्वादिनिठनोः प्राप्तयोः <<तुन्दादिभ्य इलच् च>> [[5.2.117]] `स्वाङ्गात्` इति पाठादिलचि दन्तशब्दादुरज्विधीयते॥", "52107": "यथासम्भवं मतुपीनिठनोश्च प्राप्तयोरूषादिभ्यो रो विधीयते। `मधुरः` इति। मधुशब्दोऽत्र रसविशेषे वर्तते। `रप्रकरणे` इत्यादि। उपसंख्यानशब्दः प्रतिपादने वर्तते। तत्रेदं प्रतिपादनम् - <<देशे लुबिलचौ च>> [[5.2.105]] इत्यतश्चकारोऽत्र वर्तते, स चानुक्तसमुच्चयार्थः। तेन मुखप्रभृतिभ्योऽपि रो भवति। `नगपाण्डुपांशु` [`नगपांशुपाण्डुभ्यः काशिका] इत्यादि। नगपांशुप्रभृतिभ्यश्च रो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तामेव चकारस्यानुवृत्तिमाश्रित्य कर्तव्यम्॥", "52108": "द्यौश्च द्रुश्च द्युद्रू, ताभ्यां मतुपि प्राप्ते मो विधीयते। धौरस्यास्तीति द्युमः, <<दिव उत्>> [[6.1.131]] इत्युत्त्वम्। केचित् - `द्युशब्द प्रकृत्यन्तरमह्नो नामधेयम्, तत इदं प्रत्ययविधानम्` इत्याहुः। `रूढिषु मतुप्? पुनर्न विकल्प्यते` इति। रूढिशब्दार्थस्य मतुपाऽनभिधानात्॥", "52109": "इनिठनोः प्राप्तयोर्मतुपि चेदमारभ्यते। ननु च प्रकृतमन्यतरस्यांग्रहणमस्त्येव, तत्किमर्थं पुनरिवं क्रियते? इत्याह - `ननु च प्रकृतम्` इत्यादि। `वप्रकरणे` इत्यादि। इतिकरणो हेतौ। केशशब्दाद्यथा वप्रत्ययः, एवमन्येभ्योऽपि तथा वप्रत्ययो दृश्यते, तस्माद्वक्तव्यं व्याख्येयम्। तथा व्याख्यानं कर्तव्यं यथासावन्येभ्यो भवतीत्यर्थः। तत्रेदं व्याख्यानम् - इहापि स एव चकारोऽनुक्तसमुच्चयार्थोऽनुवर्तते, तेनान्येभ्योऽपि भवतीत्यर्थः।", "52110": "`ह्रस्वादपि भवति` इति। कथं पुनर्दीर्घस्य ग्रहणे ह्रस्वादपि भवतीति? `तत्र तुल्या हि` हत्यादि। यादृशी दीर्घस्येह संहिता ह्रस्वग्रहणेऽपि तादृश्येव दृश्यते। तस्मात्? ह्रस्वस्यापि ग्रहणमिह न विरुध्यत इति भावः। तत्र चैतत्? स्यात् - यद्यपि तुल्या संहिता, तथापि कृतयणादेशोऽयमेक एव शब्दः, तस्य स्वरूप इत्यन्यतरस्य परिग्रहणेन भवितव्यम्। तत्र यदि दीर्घत्य ग्रहणं ह्रस्वान्न प्राप्नोति, अथ ह्रस्वस्य ग्रहणं दीर्घन्न प्राप्नोतीत्यत आह - `उभयथा` इति। उभयप्रकारं ह्राचार्येण प्रणीतं सूत्रम्। तस्मादुभयोरपि ग्रहणमित्यदोषः। अथ संज्ञाग्रहणं किम्, यावतेतिकरणस्य चानुवृत्तेरसंज्ञायां न भविष्यति, यथा द्युद्रभ्यां मप्रत्ययः? एवं तर्हि तस्यैवेतिकरणस्य प्रपञ्चः संज्ञाग्रहणमिति द्रष्टव्यम्॥", "52111": "इनिठनोरपवादोऽयम्॥", "52112": "रजःशब्दात्? <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इति विनौ प्राप्ते, इतरेभ्यस्तु मतुपि वलज्विधीयते। `वलच्प्रकरणे` इत्यादि। वप्रत्ययस्य व्याख्यानेनेदमपि व्याख्यातप्रायम्। अत्र `वले` [[6.3.118]] इति दीर्घत्वं कस्मान्न भवति? `वनगिर्योः संज्ञायाम्` [[6.3.116]] इत्यतः संज्ञाग्रहणानुवृत्तेः॥", "52113": "दन्तशब्दादिनिठनोः प्राप्तयोर्वलज्विधीयते। शिखाशब्दादिनिप्रत्ययो वक्ष्यते <<व्रीह्यादिभ्यश्च>> [[5.2.116]] इत्यत्र `शिखादिभ्य इनिर्वाच्यः` (म। भा। 2।398) इति। अदेशार्थं शिखाग्रहणम्, शिखावला स्थूणेत्यत्र यथा स्यात्। देशे तु <<शिखाया वलच्>> [[4.2.89]] इत्यनेनैव चातुरर्थिक एव सिद्धः। यद्येवम्, इदमेव वक्तव्यम्, किं तेन? नैतदस्ति; तदपि हि वक्तव्यमेव - निर्वृत्तादिष्वर्थेषु यथा स्यात्। अत्रापि संज्ञाग्रहणं तस्यै वार्थस्यानुवादार्थम्। इतिकरणानुवृर्त्त्यवाभिधेयनियमसिद्धेः॥", "52114": "`स्त्रीत्वमतन्त्रम्` इति। अप्रधानम्, अविवक्षितत्वात्? स्त्रीलिङ्गनिर्देशस्तु वैचित्र्यार्थः॥", "52115": "अत इत्यकारस्तपरो गृह्रते। अत एवाह - `अकारान्तात्` इत्यादि। अथाच्छब्दस्य स्वरूपग्रहणं कस्मान्न विज्ञायते - अच्छब्दात्? प्रातिपदिकादिति? अदित्ययुक्तं स्वरूपग्रहणं भवितुम्; स्वरूपग्रहणे हि रसादिभ्यो मतुपो विधानमनर्थकं स्यात्। स हीनिठनोर्बाधनार्थं विधीयते। न चेह स्वरूपग्रहणे तेभ्यस्तौ प्रत्ययौ प्राप्नुत इति किं तद्विधानार्थेन मतुपो विधानेन!`तपरकरणं किम्? श्रद्धावान्` (इति)। ननु च व्रीह्रादिषु मालादय आकारान्ताः पठन्ते, ते च नियमार्था भविष्यन्ति - एतेब्य एवाकारान्तेभ्य इति? नैतदस्ति; तुल्यजातीयस्यैवं नियमः स्यात्, डाप्चाबन्ताभ्यां स्यातामेवेतीनिठनौ। तस्मादकारस्तपरः कर्तव्यः। `कार्यी, इति। कृत इनिः। `तण्डुलिकः` इति। जातेरिनिठनौ॥", "52116": "`शिखादिभ्यः` इत्यादि। उभयत्रादिशब्दः प्रकारे। शिष्टप्रयोगे येभ्य इनिरेव दृश्यते, ते शिखादयो द्रष्टव्याः, ते हि तेभ्यष्ठनं विहितवन्तः। एष तु विषयविभाग इतिकरणानुवृत्तेरेव गृह्रते। `वाच्य` इति। अस्य तु व्याख्येय इत्यर्थः। `यवखदादिषु` इति विषयसप्तमी। `एवं तर्हि` इत्यादि। तुन्दादिषु व्रीहिशब्दस्य स्वरूपग्रहणे सतीह तस्य ग्रहणमनर्थकं ज्ञायत इति सामध्र्यात्? तत्र व्रीहिग्रहणेनार्थग्रहणं विज्ञायते। अर्थग्रहणे सति यदिष्टं सिध्यति तद्दर्शयितुमाह - `शालयोऽस्य सन्ति शालिकः` इत्यादि। `शीर्षान्नञः` इति। नञ उत्तरलस्य शीर्षन्नित्येतस्य प्रत्ययो भवति। निपातनाच्छिरसः शीर्षभावः - अशीर्षी, अशीर्षिकः। अन्ये तु शीर्षन्निति शब्दान्तरं पठन्ति। तस्य तु पाठो भाषायामपि यथा स्यादित्येवमर्थः। अन्यथा <<शीर्षंश्छन्दसि>> [[6.1.60]] इति विधानात्? भाषायाम्? अशीर्षिकः, अशीर्षवानिति न स्यात्॥", "52117": "यथासम्भवं मतुबादिषु प्राप्तेष्विदमारभ्यते। `चकारादिनिठनौ मतुप्च` इति। एतेन प्रत्ययचतुष्टयं तुन्दादिभ्यस्त्विनिठनावपि।`स्वाङ्गाद्विवृद्धौ` इति। स्वाङ्गद्विवृद्धौ वर्तमानात्? प्रत्ययो भवति। वृद्धौ महान्तौ कर्णावस्य स्तः - कर्णिलः, कर्णिकः, कर्णी, कर्णवान्॥", "52118": "मतुबादिषु प्राप्तेषु ठञ्विधीयते। स च समानाधिकरणतत्पुरुषादेकपूर्वाद्भवति, न तु सर्वत एकपूर्वात्। एतच्चेतिकरणातुवृत्तेर्लभ्यते। एकञ्च तच्छतं चैकशतम्, तदस्यास्तीति ऐकशतिकः। षष्ठीतत्पुरुषे - एकशतवान्।`कथम्` इत्यादि। यदि `अतः` [[5.2.114]] इत्येतदनुवर्तते, गोशकटीशब्दान्न सिध्यति, तस्यानकारान्तत्वादिति भावः। `ततो भविष्यति` इति। तदन्ताद्भविष्यतीत्यभिप्रायः। एषोऽर्थः - एकगोपूर्वाददन्तात्। प्रातिपदिकाट्ठञ्? विधीयत इति सामर्थ्याल्लभ्यते। अथ वा - ततो हेतोर्भविष्यतीत्यदोषः। `अवश्यं च` इत्यादिः असत्यां ह्रत इत्यनुवृत्तौ द्वन्द्वोपतापगह्र्रादिषु (5.2.129; 5.2.116) योगेषु चित्रकललाटिकादिशब्देभ्योऽपि प्रत्ययः स्यात्। `नित्यग्रहणम्` इत्यादि। असति हि नित्यगरहणेऽन्यतरस्यांग्रहणं मतुप्समुच्चयार्थं सर्वत्रानुवर्तत इति मतुबति स्यात्। तस्मादबाधनार्थं नित्यग्रहणम्। `कथमेकद्रव्यवत्त्वात्` इति। यदि नित्यग्रहणं मतुब्बाधनार्थम्, एवम्, न ह्रेक द्रव्यवत्त्वादित्यत्रैकपूर्वाद्द्रव्यशब्दान्मतुप्? सिध्यतीति मन्यते। `एकेन` इत्यादि। एकशब्दस्य द्रव्यवत्त्वादित्यनेन `सुप्सुपा` [[2.1.4]] इति समासं कृत्वा साधुत्वमस्य प्रतिपादनीयमित्यर्थः॥", "52119": "", "52120": "", "52121": "", "52122": "`द्वयोभयह्मदयानि` इत्यादि। अवधारणमिह द्रष्टव्यम्। द्वयादीन्येव दीर्घत्वं प्रयोजयन्ति, नेतराणि; स्वत एव दीर्घत्वात्। `तदेतत्सर्वं बहुलग्रहणेन सम्पद्यते` इति। वक्तव्यशपब्दस्तु व्याख्याने वर्तते इत्यभिप्रायः॥", "52123": "`ऊर्णायुः` इति। पदत्वेन भसंज्ञाभावाद्यस्येति लोपो न भवति॥", "52124": "अथ मिनिरेव कस्मान्नोच्यते? जश्त्वे कृते वाग्ग्मीति सिध्यति; ननु च <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्यनुनासिकः प्राप्नोति? नैष दोषः; व्यवस्थितविभाषां विज्ञास्यते। एवं तर्हि गकारमधिकं कुर्वन्नेतत्? सूचवति - ग्मिनिरयमिति। यः सम्यग्बहु भावते तत्रापि वक्ष्यमाणावालजाटचौ बाधित्वा ग्मिनिरेव भवति। एवं ह्रषिकं भवति यद्यपवादविषयेऽपि क्वचिद्भवति, नान्या। एवञ्चा लजाटचौ कुत्सितं यो बहु भावते तत्रैव पारिशेष्याद्भवत इति वेदितव्यम्॥", "52125": "`कुत्सिते` इति। वक्तव्यशब्दस्तु व्याख्याने वर्तत इत्यभिप्रायः। `वक्तव्यम्` इति। कुत्सितं यो बहुभाषते तत्रालजाटचौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं पूर्वसूत्र एव कृतम्॥", "52126": "`एकाचः` इति रसादिषु [[5.2.94]] पाठान्मतुपि प्राप्त इदमारभ्यते। `ऐआर्यवाचिनः इति। धनवचनोऽयं स्वशब्द ऐआर्यवाची। तथा च-धनयोगादैआर्यं तदुच्यते।`स्ववान्` इति। आत्मादावर्थान्तरे स्वशब्दो वर्तते॥", "52127": "यथासम्भवं मतुबादिष्वज्विधीयते। `आकृतिगणश्चायम्` इति। अवृत्कृतत्वात्। आदिशब्दश्चायं प्रकारे। `स्वाङ्गाद्धीनात्` इति। हीनस्वाङ्गवृत्तेः प्रातिपदिकादज्भवति - खञ्जः पादोऽस्तीति शुक्लम्। ननु च शुक्लशब्दो गुणवचनः, तत्राभेदोपचारेणाप्येतत्? सिध्यति? एवं तर्हि द्रव्यवृत्तेरपि वर्णवाचिनः प्रातिपदिकाद्यथा स्यादित्येवमर्थं वर्णग्रहणं कृतम्। शुक्लगुणयुक्ताः प्रासादाः शुक्लाः, तेऽस्मिन्? सन्ति शुक्लं नगरम्। प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारोऽर्शोऽस्यास्तीति `स्वरितो वानुदात्तेऽपदादौ` [[8.2.6]] इति स्वरितबाधनार्थः॥", "52128": "`तद्विषयेब्यः` इति। तच्छब्देनोपतापगर्हावेव परामृश्येते। ते उपतापगर्हे विषयो येषामिति बहुव्रीहिः। प्राणिस्थवाचिनां सर्वेषामेव द्वन्द्वादीनामिवं विशेषणम्। `प्राण्यङ्गान्नेष्यते` इति। कथं पुनरिष्यमाणोऽपि न भवति? चकारानुवृत्तेः। `सिद्धे प्रत्यये` इति। <<अत इनिठनौ>> [[5.2.115]] इत्यनेनैव। `ठनादिबाधनार्थम्` इति। इनिरेव यता स्यात्, ठनादिर्मा भूदित्येवमर्थं पुनर्वचनम्। आदिशब्देन मतुब्? गृह्रते। इत उत्तरे योगा नियमार्था वेदितव्याः॥", "52129": "`वातातिसाराभ्याम्` इति। यद्यपि पञ्चमी, तथाप्यर्थाद्विभक्तिविपरिणामो भवति। आगमसम्बन्धे षष्ठीभावेन विपरिणम्यते। अत एवाह - `तस्यन्नियोगेन च तयोः कुगागमः` इति। अथ प्रत्ययस्यैवागमः कस्मान्न भवति? कुगागमवता प्रत्ययेनार्थंस्यानभिधानात्। स्वरूपं न सिध्यतीति च।`पिशाचाच्चेति वक्तव्यम्` इति। पिशाचशब्दादिनिप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<बहुलं छन्दसि>> [[7.4.78]] इत्यतो बहुलग्रहणमनुवर्तते, तेन पिशाचशब्दादपि भविष्यति॥", "52130": "`वयसि द्योत्ये` इति। कथं पुनर्वयो द्योत्यते, यदि पञ्चमादयः शब्दाः काले वर्तमानाः प्रत्ययमुत्पादयन्ति। अत एव तेषां काले वृतिंत दर्शयितुमाह - `पञ्चमो मासोऽस्यास्ति` इति। `सिद्धे सति` इत्यादि। पूरणप्रत्ययानामकारन्तत्वादिनिः सिद्ध एव, तस्मिन्? सिद्धे पुनरिवं वचनं नियमार्थं ज्ञायत इति। `इनिरेव भवति` इति। नियमस्य स्वरूपं दर्शयति॥", "52131": "`इनिप्रत्ययो नियम्यते` इति। पूर्ववन्नियमो वेदितव्यः। `तदिह` इत्यादि। यतो व्रीहृदिषु मालाशब्दः पठते, तस्माद्यदिह क्षेपे मालाशब्दस्य पुनर्वचनं तन्मतुपो बाधनार्थम्, न तु ठनः। सुखादिभ्य इति नोच्यत इति; अनेनैव निवर्त्तितत्वात्। मालाशब्दो हि शिखादिषु, तत्रान्तर्भाविनः क्षेपादन्यत्रेनिर्भवत्येव। शिखादित्वान्मतुप्? च; मतुपस्तस्यान्यतरस्यांग्रहणेन समुच्चितत्वात् - माली, मालावानिति॥", "52132": "", "52133": "हस्तेन हस्तमात्रं प्रतीयते, न त जातिः। पुरुषशब्दप्रयोगात्? पुरुषजातिर्गम्यते॥", "52134": "`समुदायेन चेद्ब्राहृचारी भष्यते` इति। एतेन समुदायोपाधित्वं ब्राहृचारिणो दर्शयति। विद्याग्रहणार्थ यदोपनीयते ततः सेवितव्यो यो नियमविशेषस्तद्ब्राहृआ, तच्चरति ब्राहृचारी, आवश्यके णिनिः। तत्र नियमविशेषचरणे ब्राआहृणादीनामेव त्रयाणां वर्णानामधिकारः, न शूद्रस्येत्याह - `ब्राहृचारीति त्रैवर्णिकोऽभिप्रेतः` इति। त्रिषु वर्णेषु भवः, तत्रान्तर्भूतत्वात्? त्रैवणिकः। किं पुनः कारणं स एवाभिप्रेत इत्याह - `स हि` इत्यादि॥", "52135": "इह कस्मान्न भवति - पुष्कराणि पद्मान्यस्मिन्? देशे सन्तीति? इतिकरणानुवृत्तेः।`अर्थाच्चासन्निहिते` इति। असन्निहितग्रहणे तस्य चास्तित्वेन विरोधः। यदि ह्रसन्निहितोऽर्थः, न नाम विद्यते; यदि विद्यते, कथमसन्निहितः? तस्माद्विशेषणोपादानादस्तोत्येतद्विशेषणमुत्सृज्यासन्निधानोपाधिकादर्थात्? प्रत्ययो विधीयते। अभिधानशक्तिस्वाभाव्याच्च। `अर्थी` इति। अभिलाषवानेवोच्यते। न सर्वोऽसन्निहितोऽर्थः प्रत्ययान्तेन तद्विमर्शादसन्निहितवान्, अतः प्रत्ययो वक्तव्यः? न वक्तव्यः, कथं पुनरनुच्यमानो लभ्यते? <<बहुलं छन्दसि>> [[7.4.78]] इत्यतो बहुलग्रहणेन यथा `अष्ट्रामेखलाद्वयोभयरजाह्मदयादीनां दीर्घश्च` (बा। 586) इत्येवमादिकं कार्यं सम्पाद्यते, तथेदमपि। `तदन्ताच्च` इत्यादि। असन्निहितमित्यनुवर्तते, असन्निहितोपाधिकादर्थादिनिप्रत्ययो भवतीत्येतदर्थंरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतप्रायम्।", "52136": "`यद्यन्यतरस्यांग्रहणेन प्रत्ययो विकल्प्यते - बलादिभ्यो मतुब्विकल्पो भवतीति, ततो मतुपा मुक्ते यथाप्राप्तमिनिठनावपि स्याताम्, इनिरेव चेष्यते, स कथमिनिरेव लभ्यते, यद्यन्यतरस्यांग्रहणेनेनिः समुच्चीयते, न मतुबिति विकल्पेन? इत्येवं चेतसि कृत्वाह - `अन्यतरस्यांग्रहणेन` इत्यादि। ननु यदीनिटनौ द्वावपि स्याताम्, सूत्रारम्भोऽनर्थकः स्यात्, विनाऽप्यनेन प्रत्ययस्य सिद्धत्वात्, तस्मान्मतुपोऽपि विकल्पस्यानेन दोषः? नैतदस्त; आरम्भसामर्थ्यादिनिठनोरन्यतरो भवतीत्येषोऽर्थो लभ्यते, न त्विनिरेव। तस्मादिनिसमुच्चयार्थमेवान्यतरस्यांग्रहणं कर्तव्यम्॥", "52137": "`प्रथिमिनी, दामिनी` इति। प्रथिमिन्, दामिन् - इत्येताभ्यामिनिः, <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः, `ऋन्नेभ्यो डीप्` [[4.1.5]] इति ङीप्। अत्रापि संज्ञाग्रहणमितिकरणस्यैव प्रपञ्चः॥", "52138": "`उदकसुखयोर्वाचको` इति। यथासंख्यं कमित्युदयकस्य वाचकः, शमिति सुखस्य। `शंयुः` इति। <<मोऽनुस्वारः>> [[8.3.23]] , तस्य <<वा पदान्तस्य>> [[8.4.59]] इति परसवर्णः, मस्यानुनासिको यकारः। तेनानुस्वारपरसवर्णौ सिद्धौ भवतः` इति। तयोः पदाधिकारे विधानात्। यदि पुनः पदसंज्ञा न स्यात्, ततस्तस्यामसत्यां पदनिबन्धनयोरनुस्वारपरसवर्णयोरभावात् - कम्युः, शम्युरित्यनिष्टं रूपं सम्पद्यते॥", "52139": "तुन्दिशब्दात्? तुन्दादिषु `स्वाङ्गाद्विवृद्धौ` [[5.2.116]] इति पाठादिलचीनिठनोर्मतुपि प्राप्ते, बलेः पामादिपाठान्ने मतुपि, वटेर्मतुप्येव बो विधीयते॥", "52140": "`अहमिति शब्दान्तरम्` इति। अस्मदः <<त्वाहौ सौ>> [[7.2.94]] इति, त्यदाद्यत्वे च कृते यच्छब्दरूपं सम्पद्यते, तस्मादन्य एवाहमव्युत्पन्नः शब्दः, न तु तदित्येवं शब्दान्यत्वं दर्शयित्वाऽर्थान्तरं दर्शयितुमाह - `अहङ्कारे वर्तते` इति। `अहंयुः, शुभंयुः` इति। पूर्ववदनुस्वारपरसवर्णौ॥ इति श्रीबोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्य द्वितीयः पादः* * *अथ पञ्चमोऽध्यायःतृतीयः पादः\tबाल-मनोरमाअहंशुभमोर्युस् 1920, 5.2.140 अहंशुभमोर्युस्। अहंयुः पुंस्त्वमार्षम्। वटिभ इति। `वट वेष्टने`। वटनं वटिः। सोऽस्यास्तीति विग्रहः। बाल-मनोरमाअहंशुभमोर्युस् 481, 5.2.140 अहंशुभमोर्युस्। अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह - अहमित्यादीति। सित्त्वं पदत्वार्थम्। तेन पदत्वादनुस्वारे परसवर्णः सिध्यति। ***** इति बालमनोरमायम् मत्वर्थीयाः। *****अथ नामधातुप्रक्रिया।", "53001": "`विभक्तिसंज्ञास्ते वेदिव्याः` इति। विभक्तिरित्येष शब्दः संज्ञा येषां ते तथोक्ताः। ननु च विभक्तिशब्दः सुप्तिङां संज्ञा, संज्ञा च प्रदेशवाक्येषूच्चारिता संज्ञिनं प्रत्याययतीति सुप्तिङां विभक्तिसंज्ञाविधानमनर्थकं स्यात्। यथा वृद्धिशब्दः स्वाभिधेये लौकिकेऽर्थे गुणीभूतोऽप्यादैच्? प्रति संज्ञात्वमनुभवति, तथा विभक्तिशब्दोऽपि तसिलादीन्? प्रति संज्ञात्वेन वेदितव्यः। अथ तत्रैव कस्मान्नोच्यते - `सुपो विभक्तिश्च प्राग्दिशश्च` इति, एवं सति पुनर्विभक्तिग्रहणं कर्तव्यं न भवति? नैवं शक्यम्; एवं हि न्यासे सति `कुत आरब्य प्राग्दिशीयाः? इति न ज्ञायते। किञ्च `दिगादिभ्यो यत्` [[4.3.54]] , <<तेनैकदिक्>> [[4.3.112]] इति चानेकं शास्त्रे दिग्ग्रहणमित्यवधिरपि सन्दिह्रेत। `किंसर्वनामबहुभ्यः` [[5.3.2]] इत्येवमादेश्च कारह्रस्यावधिदर्शनार्थं पुनरिह `प्राग्दिशः` इति वाच्यमेव स्यात्। तस्माद्यथान्यासमेव साध। `ततः, यतः` इति। <<अष्टन आ विभक्तौ>> [[7.2.84]] इत्यनुवर्तमाने <<त्यदादीनामः>> [[7.2.102]] इत्यत्वम्, <<न विभक्तौ तुस्माः>> [[1.3.4]] इति सकारस्येत्संज्ञाप्रतिषेषः, <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यव्ययत्वाद्विभक्त#एर्लुक्। `कुतः` इति। `कि तिहोः` [[7.2.104]] इति किमः कुभावः। `त्यदादिविधयः` इति। त्यदादयोऽत्र दिभक्तिनिबन्धनाः। `ततः` इति। त्यदादिविधेरत्वस्योदाहरणम्। `इह इति। इदमो विभक्तिस्वरस्य। इदमः सप्तम्यन्तात्? <<इदमो हः>> [[5.3.11]] इति हप्रत्ययः, <<इदम इश्>> [[5.3.3]] इतीशादेशः। <<ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः>> [[6.1.171]] इति इदमः परस्योदातत्वं विभक्तित्वे सति सिद्धं भवति। अत्र तु प्रत्ययस्वरेणैव सिद्धमाद्युदात्तत्वम्। तस्माच्चोदाहरणदिगियं प्रदर्शित। इदं त्वत्रोदाहारणं युक्तम् - `इतः` इति। इवमस्तसिल्, पूर्ववदिश्। अतच्र ह्रसति विभक्तित्वे लिति प्रत्ययात्? पूर्वपदाद्युदात्तत्वं [`पूर्वमाद्युदात्तत्वं`-मुद्रितपाठः (वाराणसी-1967)] स्यात्। तस्मिस्तु `ऊडिदम्` [[6.1.165]] इत्यादिनेदमः परस्य तस आद्युदात्तत्वं सिद्धं भवति। ननु च सत्यपि विभक्तित्वे परत्वाल्लित्स्वरेण भवितव्यम्? नैष दोषः; `लिति` [[6.1.187]] इत्यत्र हि `ऊजिदम्` [[6.1.165]] इत्यादिकं सूत्रमनुवर्त्तिष्यते लित्स्वरबाधनार्थम्। नन्वेवमपि नैव विभक्तेरुदात्तत्वं सिध्यति? तत्र हि <<सावेकाचस्तृतीयादिर्विभक्तिः>> [[6.1.168]] इत्यतस्तृतीयादिग्रहणमनुवर्तते, न च तसिलादयस्तृतीयादिगरहणेन गृह्यन्ते। तृतीयैकवचनमारन्य आ पञ्चमाध्यायपरिसमाप्तेर्यावान्? प्रत्ययो विभक्तिसंज्ञः सर्वोऽसौ तृतीयादिः। `अतः परम्` इत्यादि। सामर्थ्यं हि नाम सम्बन्धार्थता; सा च प्रतियोगिनमपेक्षत एव यन सहैकार्थीभावो भवति तस्मिन्? प्रतियोगिनि सति, नान्यथा। प्राथम्यमपि प्रतियोग्यपेक्षमेव। द्वितीयं हि प्रतियोगिनमपेभ्य प्रथममित्युच्यते। इत उत्तरं प्रत्ययाः प्रकृत्यर्थ एव भवन्तीति, न तद्विषौ द्वितीयस्य प्रतियोगिनः सम्भवः; तदभावात्? सामर्थ्यप्राथम्ययोरपि नास्त्येव सम्भवः; तयोः प्रतियोग्यपेक्षत्वात्। यतश्चैतदेवम्, ततः `सामर्थ्याधिकारः प्रथमग्रहणञ्च नोपयुज्यते` इति द्वयमपि निवृत्त्म्। यद्येवम्; वावचनस्यापि निवृत्तिः प्राप्नोति, एकयोगनिर्दिष्टत्वात्? इत्याह - `वावचनं तु वर्तत एव` इति। तस्य स्वरितत्वादिति भावः। `तेन विकल्पेन` इत्यादि। तेनोत्तरसूत्रे वाग्रहणानुवृत्तेः फलं दर्शयति॥", "53002": "`कुत्र` इति। <<सप्तम्यास्त्रल्>> [[5.3.10]] , पूर्ववत्? कुभावः। `प्रकृतिपरिसंख्यानम्` इति। प्रकृतिपरिगणनम्। `वैयाकरणपाशः` इति। `याप्ये पाशप्` [[5.3.47]] । अयं चावधेः परो व्य इत्यन्याभ्योऽपि प्रकृतिभ्यो भवति। `सर्वनामत्वादेव सिद्धे` इति। सर्वनामत्वं किमः सर्वादिषु पाठात्। `किमो ग्रहणम्` इत्यादि। किंशब्दोऽयं द्व्यादिषु पठत इति तस्य `द्व्यादिभ्यः` इति पर्युदासः क्रियते। तस्मात्? सर्वनाम्नोऽपि स्वशब्देनोपादानम्। यद्येवं द्विशब्दात्? पूर्वं किंशब्दः पठितव्यः, एवं हि तस्य पृथग्ग्रहणं न कर्तव्यमेव भवति? सत्यमेतत्; न सूत्रकारस्येह गणपाठ इति नासावुपालम्भमर्हति। अपि च त्यदादीनां यद्यत्परं तत्तच्छिष्यत इति किमः सर्वैरेव त्यदादिभिः सह विवक्षायां शेय इष्यते - `त्वञ्च कश्च` कौ, भवांश्च कश्च कौ; स चैवं पाठे न सिध्यतीति यथान्यासमेवास्तु। `बहुग्रहणे संख्याग्रहणम्` इति। कथमिह सर्वनामसंज्ञया सर्वादयः संज्ञिनो निर्दिश्यन्ते? तस्मात्? तैः सह निदेशाद्बहुशब्दस्यापि बहुगणादि [[1.1.22]] सूत्रेण यस्य संख्यासंज्ञा विहिता तस्यैव संज्ञिता तस्यैव संज्ञिनो ग्रहणं विज्ञायते। `बहोः सूपात्` इति। अत्र वैपुल्यवाची बहुशब्दः॥", "53003": "`शकारः सर्वादेशार्थः` इति। असकति हि तस्मिन्? <<अलोऽन्त्यस्य>> [[1.1.52]] स्यात्। ततश्चेद्रूपस्य हलि लोपे [[7.2.113]] कृते, `आद्गुणे` [[6.1.84]] चैतः, एहेत्यनिष्टं रूपं स्यात्। ननु चेदमस्त्यदाद्यत्वे [[7.2.102]] कृतेऽतो गुणे [[6.1.94]] पररूपत्वे चेद्रूपलोपे चान्त्यस्याप्यादेश इतः, इहेति सिध्यत्येव? सिध्येद्यदि प्राक्? त्यदाद्यत्वं लभ्येत; न तु तल्लभ्यम्, इत्वमेव हि तावदन्तरङ्गं स्यात्। इत्वं हि तसिलादिप्रत्ययंमात्रमपेक्षत इत्यन्तरङ्गम्, त्याद्यत्वमङ्गसंज्ञां परस्य प्रत्ययस्य विभ्कितत्वं चापेक्षत इति बहिरङ्गम्, तस्माच्छाकरः कर्तव्यः॥", "53004": "`रथोः` इति वर्णयोरिवं ग्रहणम्। तत्र `यस्मिन्? विधिस्तदादावल्ग्रहणे` (वा। 14) इति रेफादौ थकारादौ च कार्यं विज्ञायत इत्यादि - `रेफादौ` इत्यादि। रेफस्याकार उच्चारणार्थ इति कथं ज्ञायते? इदमः परस्य प्राग्दिशीयस्याकारवतो रेफस्याभावात्॥", "53005": "`शकारः सर्वादेशार्थः` इति। ननु चान्त्यस्य स भवन्? यदि तावदकृते त्यदाद्यत्वे भवति ततो दकारस्य भवन्ननर्थकः प्रसज्येत, त्यदाद्यत्वेनापि हि तस्याकारो लभ्यत एव; अथ त्यदाद्यत्वे कृतेऽकारस्य स्थाने भवन्ननर्थक एव प्रसज्यते न ह्रकारस्याकारवचने प्रयोजनमस्ति, कृतवांश्च; तत्र वचनादसत्यपि शकारे सर्वादेशो भविष्यति? नैतदस्ति; अस्ति ह्रकारस्याकारवचने प्रयोजनम्। किम्? अतः, अत्रेत्यत्र योऽन्यः प्राप्नोति स मा भृदिति। कः पुनरसौ? लिति प्रत्ययात्? पूर्वस्योदात्तः। तस्माच्छकारः कर्तव्यः। `थमुः [थमुप्रत्ययः पुनरेतद उपसंख्येयः - काशिका] पुनरुपसंख्येयः` इति। तस्याविद्यमानत्वत्। उपसंख्येय इति प्रतिपाद्य इत्यर्थः। तत्रेदं प्रतिपादनम् - एत एव थकारादावादेशवचनं ज्ञापयति - भवत्येतदस्थमुरिति। कुतो नु खल्वेतत्? ज्ञापकात्। थमु भैविष्यति, न पुनर्थं एवासौ <<प्रकारवचने थाल्>> [[5.3.23]] इत्यविशेषविहितस्थकारादिस्तस्मिन्नेवादेशः स्यात्? नैष दोषः; इदमस्थकारादिविशेष इष्यते। `एतदः` इत्यत्त्रापि ह्रेदम इत्यनुवर्तते, तच्च नादेशविधानार्थम्; आदेशस्य पूर्वमेव विहितत्वात्। तस्मात्? प्रत्यविशेषणं विज्ञायते। तत एतेन थकारादि विशेषयिष्यामः - इदम इत्येवं यो विहित इदंशब्देनैव यो विहितस्थकारादिरिति, थमुरेव चैवं विहितः, न थालिति युक्तमुक्तमादेशवचनं ज्ञापयति - भवत्येवैतदस्थमुरिति॥", "53006": "`दीति` दकारादियं सप्तमी। तत्र दकारमात्रस्य प्राग्दिशीयस्याभावात्? `यस्मिन्विधिस्तदादावल्ग्रहणे` (वा। 14) इत्यतो दकारादौ विधिज्र्ञायत इत्याह - `प्राग्दिशीये दकारादौ` इत्यादि। `सर्वदा ब्राआहृआणी` इति। <<आतोऽनुपसर्गे कः>> [[3.2.3]] , ततष्टाप्॥ बाल-मनोरमाआत्मनश्च 948, 5.3.6 तत्रात्मनश्चेत्यंशं व्याक्यातु पृथगुपादत्ते - आत्मनश्चेति। चकारात्तृतीयाया अलुगिति चानुकृष्यत इत्याह - आत्मनस्तृतीयाया अलुगिति। `उत्तरपदे परे` इति शेषः। पूरण इति वक्तव्यमिति। नाऽत्र पूरणशब्दो गृह्रते, किंतु स्वरितत्वबलेन पूरणाधिकारविहितप्रत्ययग्रहणात् `प्रत्ययग्रहणे` इति तदन्तविधिरित्यभिप्रेत्याह - पूरणप्रत्ययान्ते इति। आत्मनापञ्चम इति आत्मा पञ्चम इत्यर्थः। प्रकृत्यादित्वात्प्रथमार्थे तृतीया। यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः। करणे तृतीया। करोतिक्रियान्तर्भावेण तस्याः `तृतीया तत्कृते`ति समासः। पक्षद्वयमपीदं भाष्ये स्थितम्। ननु सङ्खर्षणप्रद्युम्नाऽनिरुद्धास्त्रयो विष्णुव्यूहाः। जनार्दनस्तु एषां नियन्तेति विष्णुपुराणादौ स्थितम्। तत्रेदमाहुः पौराणिकाः - `जनार्दनस्त्वात्मचतुर्थ एवे`ति। तत्र तृतीयाया अलुकि `आत्मनाचतुर्थ` इति भवितव्यमित्यत आह - जनार्दनास्त्विति। बहुव्रीहिरिति। आत्मा चतुर्थो यस्येति विग्रहे बहुव्रीहिरित्यर्थः। एकस्याप्यौपाधिकभेदं परिकल्प्य वृत्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः। तदिदं भाष्ये स्पष्टम्। बाल-मनोरमासर्वस्य सोऽन्यतरस्यां दि 1927, 5.3.6 सर्वस्य सो। `दि` इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम्। `यस्मिन्विधि`रिति तदादिविधिः। तदाह - प्राग्दिशीये दकाराविति। सदा इत्युदाहरणम्।", "53007": "`तसिल प्रत्ययो भवति` इति। आदेशा एवामी तसिलादयः पञ्चम्यादीनां स्थाने कस्मात्र क्रियन्ते, एवं हि विभक्तितसंज्ञा न कर्तव्या भवति? अशक्या एत आदेशाः कर्तुम्; आदेशत्वे ह्रेषामव्यायात्? त्यपि [[4.2.103]] - ततस्त्यः, यतस्त्य इत्यत्र <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति लुक्। लभन्ते हि स्थानिवद्भावेन सुबादेशाः सुबाश्रयं कार्यम्। तत इति, <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनुदात्तः। कुत इति, `धेङिति` [[7.3.111]] इति गुणः। एतर्हीति, `सुपि च` [[7.3.102]] इति दीर्घः। तत्रेति, `बहुवचनेझल्येत्? [[7.3.103]] इत्येत्वम्। कुत्रेति, <<अच्च घेः>> [[7.3.119]] इत्यौत्त्वम्। ततः, तत्रेति, <<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इति स्मात्स्मिनौ। तस्मान्नादेशा अमी क्रियन्ते। यद्येवम्, `तसु उपक्षये` (धा। पा। 1212) इत्यस्मात्? तस्यन्नित्यत्र धातुरूपस्य पञ्चम्याः परस्य `तसेश्च` [[5.3.8]] इति तसिलादेशः प्राप्नोति? नैष दोषः; स्वार्थिकविज्ञानान्न भविष्यति। स्वार्थिका ह्रेते तसिलादयः, तन्मध्ये तसिलादेशो विधीयमानस्तथा विज्ञायते यथा स्वार्थे क्रियामाणः, स्वार्थिकत्वं नातिक्रामति। `अपादाने चाहीयरूहोः` [[5.4.45]] इत्यनेन विहितस्तस्य स्व#आर्थिकस्य साथाने भवंस्तसिलपि स्वार्थिक एव भवति। धातुस्तु प्रातिपदिकादर्थान्तरे वर्तत इति तदादेशो भवंस्तसिल्? स्वार्थिको न भवति॥", "53008": "`कुत आगत` इति। <<अपादाने चाहीयरुहोः>> [[5.4.45]] इति परत्वात्? तसौ कृते तस्यानेन तसिल्। ननु च कृतेऽपि तसिलि तदेव रूपम्, तत्किमर्थमादिश्यते? इत्याह - `तसेस्तसिल्ववचनम्` इत्यादि॥", "53009": "`सर्वोभयार्ते वर्तमानाभ्यामिष्यते` इति। तेनेह न भवति - परिषिञ्चिति, अभियातीति। अत्र चानभिदानं हेतुः।य अत वा - `सर्वस्य` [[5.3.6]] इत्यादेः सूत्रादन्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन सर्वोभयार्थं एव वर्तमानाभ्यां भवति, नान्यत्र॥", "53010": "", "53011": "", "53012": "`क्व` इति। `क्वाति` [[7.2.105]] इति किमः क्वादेशः `न विभक्तौ तुस्माः [[1.3.4]] इति प्रतिषेधस्य `इवमस्थमुः` [[5.3.24]] ) इत्युकारेणानित्यत्वस्य ज्ञपितत्वादित्संज्ञा तकारस्य। दानीमस्तु प्रतिषेधान्नास्तीत्संज्ञा; प्रयोजनाभावाच्च॥", "53013": "", "53014": "`पञ्चमीसप्तम्यपेक्षमितरत्वम्` इति। तदनन्तरमितरशब्दस्य ज्ञातत्वात्। अथ दृशिग्रहणं किमर्थम्, यावता `इतराभ्योऽपि` इत्येतावतैव सिद्धम्? इत्याह - `दृशिग्रहणम्` इत्यादि। प्रायिको विधिर्यता स्यादित्येवमर्थं वृशिग्रहणम्। तस्मिस्तु सति शिष्टप्रयोगेऽनुगम्यमाने यत्र दृश्यते तत्र भवति, नान्यत्रेत्येषोऽर्थो लभ्यते। तेन प्रायिकत्वं विधेः सिध्यति। `तेन` इत्यादि। दृशिग्रहणे तु सति यत्रेतराभ्यः शिष्टप्रयोगो दृश्यते ताभ्य एव तसिलादिभिर्भवितव्यम्। भवदादियोग एवेतराभ्यो दृश्यन्ते, तेनेतरत्रैव तद्विधानम्। यदि ह्रन्येभ्योऽपि तसिलादयो भवन्ति, पूर्वं पञ्चमीसप्तमीभ्यां विधानमनर्थकम्? नैतदस्ति; नियोगतो हि ताभ्यामिष्यते, इतराभ्यो भवदादियोगे। एतच्च पूर्वस्मिन्? विधावस्मिश्च सत्युभयं लभ्यत इति कुत आनर्थक्यम्!॥", "53015": "`सप्तम्या इत्यनुवर्तते` इति। तस्याः स्वरितत्वात्। `न त्वितराभ्यः` इति। तद्विफर्ययात्। `त्रलादेरपवादः` इति। यतासम्भवम्। तत्र किंशब्दात्? `किमोऽत्` [[5.3.12]] इति प्राप्तस्यात्प्रत्ययस्यापवादः। केषाञ्चिन्मतेन तरलोऽपि। तच्छब्दादपि `तयोदर्दाहिलौ च च्छन्दसि` [[5.3.20]] इति। शेषेभ्यस्तु त्रलः। `कदा` इति। किमः कादेशः॥", "53016": "`हस्यापवादः` इति। <<इदमो हः>> [[5.3.11]] इति प्राप्तस्य। `लकारः स्वरार्थः` इति। `लिति` [[6.1.193]] प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। ननु च यथा इत इत्यत्र - `ऊडिदम्` [[6.1.165]] इत्यादिना विभक्तिस्वरो भवति, तथेहापि तेनैव भवितव्यम्? नैतदस्ति; तथा हि युक्तमित इत्यत्र यद्विभक्तिस्वरो भवतीति; तसिलो लित्त्वस्य परितः, अभित इत्यतर चरितार्थत्वात्, अस्य तु हिलो लित्करणमकृतार्थम्। तद्यदि विभक्तिस्वरेम बाध्येत तस्यानर्थक्यं स्यात्। तस्माल्लित्स्वर एव भवति॥", "53017": "", "53018": "दानीञ्चेति योगविभाग उत्तरार्थः - <<तदो दा च>> [[5.3.19]] इत्यत्र दानीमेव यथा स्यात्, पूर्वसूत्रविहितः प्रत्ययो मा भूदिति॥", "53019": "`अनर्थकम्` इति। वैचित्र्यार्थम्। अन्यस्याभावादनर्थकं वैचित्र्येण सार्थकमेव। `विहितत्वात्` इति। `सर्वैकान्य` [[5.3.15]] इत्यादिना॥", "53020": "`इदा`। <<इदम इश्>> [[5.3.3]] । तथा वर्णव्यत्ययेन दकारस्य धकारः। `इदानीं, तदानीं इति। दानीम्प्रत्ययस्योदाहरणम्॥", "53021": "तसिलादिषु प्राप्तेषु हिल्प्रत्ययो विधीयते। `कहि` इति। <<किमः कः>> [[7.2.103]] । `कदा, यदा, तदा` इति। `सर्वैकान्यकियत्तदः काले दा` [[5.3.15]] ॥", "53022": "`समानेऽहनि सद्यः` इति। निमित्तनिमित्तिनोः समाने साधारणेऽहनि निपातनमेतत्। तद्यथा - सद्यः प्राणहरणं मर्मणि ताडनमिति। यस्मिन्नेवाहनि मर्मणि ताडनं तस्मिन्नेवाहनि प्राणरणमित्यर्थः। `उदारी च` इति। उच्च आरिश्चेति उदारी। `परस्मादेद्यवि` इति। परशब्दादेद्यविप्रत्ययो भवत्यहन्यभिधेये॥", "53023": "`सामान्यस्य [`सायास्य विशेषो भेदकः=प्रकारः`-काशिका]", "53024": "", "53025": "`योगविभाग उत्तरार्थः` इति। `था हेतौ च` [[5.3.26]] इति वक्ष्यति, स किम एव यथा स्यात्, इदमो मा भूदिति॥", "53026": "", "53027": "`दिग्देशकालेषु वर्तमानेभ्यः` इति। कथं पुनर्थे दिशां शब्दास्ते देशे काले वर्तन्ते? स्वभावात्। यथैव हि ते दिश स्वबावादेव वर्तन्ते, न हेत्वन्तरात्,; तथा देशकालयोरपि। यद्यवम्, त्रिषु वर्तमानाः कथं दिशा व्यपदिश्यन्ते - दिक्शब्देभ्य इति? कथं तर्हि व्यपदेष्टव्यम्, दिग्देशकालशब्देभ्य इति? नैतदस्ति; एवं हि व्यपदेशस्यैतत्? फलम् - ऐन्द्रआं दिशि निवसतीत्यत्र मा भूदिति। एतच्चान्यतमेनापि लभ्यत इत्यनेनैव व्यापदेशो युक्तः, येन व्यपदेशाल्लधु सूत्रं भवति। दिशा च व्यपदेशे लघु भवति, दिक्शब्दस्याल्पाच्तरत्वादिति दिशां तेन व्यपदेशः। एवमपि दिक्शब्दस्य दिशि वृत्तेः विशेषणमयुक्तम्, अवस्यं हि दिक्शब्दो दिशि वर्तते, तत्रैवं कर्तव्यम् - देशकालयोरिति? नैतदस्ति; एवं ह्रु च्यमाने सत्युपलक्षणमेव हि दिक्शब्दः स्यात्, प्रत्यस्तु देशकालवृत्तिभ्य एव स्यात्, न दिग्वृत्तिभ्यः। दिग्ग्रहणे तु तेभ्योऽपि भवति। इह तिरुआओ विभक्तयः, त्रयश्चार्था दिगादयः, तत्र साम्याद्यथासंख्येन भवितव्यम् - इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तामपाकर्तुमाह - `यथासंख्यमत्र नेष्यते` इति। तत्कथमिहेकवचननिर्देशे कर्तव्ये बहुवचननिर्देशः? प्रत्येकं दिगादिवृत्तेर्बहुलविभक्त्यन्तात्? प्रत्ययः कर्तव्य इति सूचनार्थः। एवञ्चायं बहुलविभक्त्यन्तात्? प्रत्ययः कृतो भवति, यदि दिग्वृत्तेरपि सप्तमीपञ्चमीप्रथमान्तादेव भवति - देशवृत्तेरपि, कालवृत्तेरपि। अथ वा-`था हेतौ च` [[5.3.26]] इत्यतश्चकारोऽनुवर्तते, स च श्रुतिमेव समुच्चिनोति। तेन दिगादिवृत्तेः प्रत्येकं सप्तमीपञ्चमीप्रथमान्तात्? प्रत्ययो भवति, न यतासंख्यम्! यथासंख्यं हि समुच्चयो विरुध्यतेत। अथ वा - `स्वरितत्वे सति यथासंख्यं भवति` इत्युक्तम्, न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायेत, तेन यथासंक्यं न भविष्यति।`पुरस्तावधस्तात्` इति। पूर्वाधरशब्दाभ्यामस्तातिः। <<अस्ताति च>> [[5.3.40]] इति वक्ष्यमाणेन यथासंख्यं पुर्, अध - इत्येतौ पूर्वाधरशब्दयोरादेशौ। `ऐन्द्रआं दिशि वसति` इति। ऐन्द्रीशब्दः सामान्येनेन्द्रसम्बन्धिवस्तुमात्रमाचष्टे, दिक्शब्दसन्निधौ तु दिशि वर्तते, तेन दिक्शब्द इति लोके न प्रसिद्ध इतदि न भवत्यतः प्रत्ययः। `पूर्वं ग्रामं गतः` इति। पूर्वशब्दोऽत्र ग्रामस्य देशात्मकत्वाद्देशे वर्तते, न त्वत्र सप्तम्यादिविभक्त्यन्तः, किं तु द्वितीयान्त। `पूर्वस्मिन्? गुरौ वसति` इति पूर्वशब्दोऽत्र दिगाद्युपलक्षिते गुरौ वर्तते, न दिगादिषु॥", "53028": "`अकारो विशेषणार्थः` इति। यद्यत्राकारो न क्रियते, तदा `षष्ठी तसर्थप्रत्ययेन` [[2.3.30]] इति सूत्रं कर्तव्यम्, एवञ्च सति तसिलोऽपि ग्रहणं स्यात्। ततश्च ततो हेतुनेत्यत्रापि तृतीयां बाधित्वा षष्ठी स्यात्। तस्मादकारो विशेषणार्थः कर्तव्यः। अथ यदा दक्षिणोत्तरशब्दौ दिशि वर्तेते, तदा टाप्श्रवणं मा भूदित्येवमर्थोऽकारः कस्मान्न भवति? `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः` (वा। 104) इति पुंवद्वचनेनैव टापो निवर्त्तितत्वात्। ननु चासत्यकारे प्रत्ययस्वरेम सिद्धत्वाच्चकारोऽपि नैव कर्तव्यः, तत्र, `एकानुबन्धकग्रहणे तु न द्व्यनुबन्धकस्य` (व्या। प। 52) इति तसिलो ग्रहणं न भविष्यति? एवमपि <<प्रतियोगे पञ्चम्यास्तसिः>> [[5.4.44]] , <<तेनैकदिक्>> [[4.3.112]] , `तसिश्च` [[4.3.113]] इत्यन्यतरग्रहणं स्यात्। तस्माद्विशेषणार्थश्चकारः कर्तव्यः॥", "53029": "", "53030": "", "53031": "", "53032": "`आतिश्च प्रत्ययः` इति। अयमप्यस्तातेरपवादः। `दक्षिणपश्चादुत्तरपश्चात्` इति। दक्षिणापरस्यां दिशि वसतीति दक्षिणपश्चात्? एवमुत्तरपश्चात्। `अर्धोत्तरपदस्य च` इति अपरस्येति सम्बध्यते। `विनापि पूर्वपदेन पश्चभावो वक्तव्यः` इति। अपरस्यार्द्धोत्तरपदस्येति प्रकृतेन सम्बन्धनीयम्। अत्र सर्वत्र वक्तव्यशब्दो व्याख्याने दर्तते। तत्रेदं व्याख्यानम् - उत्तरसत्रात्? सिंहावलोकितेन चकारोऽत्रावतिष्ठते, स चानुक्तसमुच्चायार्थः। तेन दिक्पूर्वपदस्यापरशब्दस्य पश्चभाव इत्येवमादिकं कार्यं सिद्धं भवति॥", "53033": "", "53034": "उत्तरदक्षिणाभ्यां <<दक्षिणोत्तराभ्यामतसुच्>> [[5.3.28]] <<एनबन्यतरस्यामदूरेऽपञ्चम्याः>> [[5.3.35]] , <<दक्षिणादाच्>> [[5.3.36]] , <<आहि च दूरे>> [[5.3.37]] , <<उत्तराच्च>> [[5.3.38]] इत्येभिर्योगैरतसुजादिषु प्राप्तेष्वधरादप्यस्तातावातिर्विधीयते, तस्यास्तातिर्बाध्यत एव। अतसुजादयस्तु वचनात्पक्षे भवन्त्येव। अत्र च यद्यप्युत्तरादीनां सप्तम्यादीनां च विभक्तीनां दिगादीनां चोपाधीनां त्रित्वम्, तथापि यथासंख्यं न भवति। कुतः? तदर्थस्य स्वरितत्वस्याप्रतिज्ञानात्। लध्वक्षरस्याधरशब्दस्यापूर्वनिपाताल्लक्षणव्यभिचारचिह्नाद्वाऽस्य लक्षणान्तरनिरपेक्षतां दर्शयन्? यथासंख्यलक्षणमिह नापेक्ष्यत इति सूचयति। तेन विभक्तिभिस्तावद्यथासंख्यं न भवति। उपाधिभिस्तु दक्षिणशब्दस्य काले वृत्त्यसम्भवाच्च॥", "53035": "`अदूरे चेदवधिमानवधेर्भवति` इति। कथं पुनरेवं विशेषो लभ्यते, यावता सूत्रेऽवधिशब्दो न श्रूयते, नाप्यवधिमान्? दिकशब्दानामवध्यपेक्षा प्रवृत्तिर्भवति। अवधिमानष्यवधिमपेक्ष्य भवतीति सामर्थ्यादनुक्तीऽप्येष विशेषो लभ्यत इति। `अधस्ताद्वसति` इति। <<अस्ताति च>> [[5.3.40]] इति वक्ष्यमाणेनास्तातौ परतोऽधरशब्दस्यादेशः। `प्रागसेः` इति। `असि पुरधवश्चैषाम्` [[5.3.39]] इति वक्ष्यमाणः। केचिद्दिक्शब्दमात्रात्? प्रत्ययं मन्यन्त इति तेषां मतेन पूर्वेण वसतीत्याद्यपि भवति। यदि दिक्शब्दमात्रात्? प्रत्यो भवतीत्यञ्चात्यन्तादपि स्यात्? भवतु, <<अञ्चेर्लुक्>> [[5.3.30]] इति लुम्भविष्यति? नैतदस्ति; `मध्येऽपवादाः पूर्वान्? विधीन्? बाधन्ते` (व्या। प। 10) इत्यस्तातेरेवात्रानेन लुक्, नान्यस्य। एवं तह्र्रन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेनाञ्चत्यन्तान्न भविष्यति। पकारः <<एनपा द्वितीया>> [[2.3.31]] इति विशेषणार्थः, स्वरार्थश्च॥", "53036": "तद्युक्तात्। संदिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे अण्णित्यर्थः। कर्मैव कार्मणमिति। `अ`न्निति प्रकृतिभावान्न टिलोपः। दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते। तदाह - वाचिकं श्रुत्वेति।", "53037": "", "53038": "`आजाही प्रत्ययौ भक्तः` इति। ननु चानन्तर्यादाहिरेव प्राप्नोति? नन; चकारोऽत्र क्रियते, स हि व्यवहितमप्याचं समुच्चिनोति। तेनाऽऽजपि भविष्यतीति॥", "53039": "पूर्वादस्तातौ प्राप्तेस्ताताववारादपि विभाषातसुचीदमारभ्यते। अथ `एषाम्` इति किमर्थमिदमुच्यते, यावता येयं पूर्वादिषु षष्ठी सैव प्रत्ययं विधाय स्थाने षष्ठी विज्ञायते, सम्बन्धभेदाच्च षष्ठर्थभेदः? सत्यमेतत्; तथापि सुखप्रतिपत्त्यर्थमेषामित्युक्तम्॥", "53040": "ननु चासिना बधितत्वात्? पूर्वादिभ्योऽस्तातिना न भवितव्यम्? इत्याह - `इदमेव` इत्यादि। गतार्थम्॥", "53041": "", "53042": "`प्रकारवचने च जातीयर्` [[5.3.69]] इति, तस्यायमपवादः। `विधा=प्रकारः` इत्यक्तः <<प्रकारवचने थाल्>> [[5.3.23]] इत्यत्र, स च द्रव्यगुणविशेषोऽप्यस्ति; तत्र यदि सोऽपि गृह्रेत द्रव्यगुणयोर्लिङ्गसंख्याभ्यां यीगाद्वा प्त्ययान्तमलिङ्गमसंख्यं च न स्यात्। एवञ्च तस्याव्ययत्वं न स्यात्, तच्चेष्टम्; तथा हि - धाप्रत्ययोऽव्ययेषु पठते - तसिलादिस्तद्धित एधाच्पर्यन्त इति। क्रियाविषये तु तस्मिन्? गृह्रमाणे न दोषः; क्रियायाः सर्वदा लिङ्गसंख्याभ्यामयोगादित्येतत्? चेतसि कृत्वाऽऽह - `स च` इत्यादि। क्रियाधातुवाच्यो विक्लेदनादिरर्थः, स च विषयोऽस्य स तथोक्तः। कथं पुनः सामान्योक्तौ विशेषस्य ग्रहणं लभ्यते? अर्थग्रहणस्य ह्रेतदेव प्रयोजनम् - प्रकारविशेषणं यथा स्यादिति, अन्यथा हि `विधायाम्` इत्येवं हि ब्राऊयात्। यदि तर्हि प्रकारः क्रियाविषयो गृह्रते, नवधा द्रव्यम्? नदधा गुण इत्यत्र न प्राप्नोति? नैष दोषः? अत्रापि क्रियाऽव्याहर्ततव्या। नवधा द्रव्यम्, नवधा गुण उपपाद्य विगृह्रते चेति॥", "53043": "", "53044": "`ऐकध्यं कुरु` इति। अधिकरणविचाल उदाहरणम्। ऐकध्यं भुङ्क्ते` इति। विधार्थे। अत्र धाग्रहणमनुवर्तते, न च तत्र विध्यर्था वृत्तियुक्ता; पूर्वमेव विहितत्वात्। तस्मादनुवृत्तिसामर्थ्यात्? स्थानित्वं धाप्रत्ययस्य विज्ञायत इत्याह - `प्रकरणादेव लब्धे` इति। धाप्रत्ययस्य स्थानित्व इति शेषः। किं पुनः कारणमसति धाग्रहणे विधार्थे विहितस्य न भवति? इत्याह - `अनन्तरस्यैव हि` इत्यादि। असति हि पुनर्धाग्रहणे `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या। प। 19) इत्यधिकरणविचालार्थे यो विहितस्तस्यैव स्यात्, न तु विधार्थे यो विहितस्तस्य। पुनर्धाग्रहणे तु सति धामात्रस्यादेशः सिद्धो भवति॥", "53045": "`मतिद्वैधानि` इति। ननु च स्वार्थिकाः प्रकृतिधरहृआननुवर्तन्त इति लिङ्गसंख्याभ्यामत्र न भवितव्यम्? नैव दोषः; अतिवर्तन्ते हि कदाचित्? स्वार्थिकाः प्रकृतिधर्मान्? यथा - चत्वार एव वर्णाश्चातुर्वण्र्यमिति॥", "53046": "", "53047": "याप्यशब्दोऽयं गमयितव्ये वर्तते - ग्रामान्तरात्? याप्य इति; अस्त्यशक्यप्रतीकारे - याप्यो रोग इति, अस्ति कुत्सिते - याप्योऽयमिति, कुत्सित इति गम्यते। पाशप्प्रत्ययान्तात्? कुत्सित एव प्रतीयत इति तदभिधायिन एव याप्यशब्दस्येवं ग्रहणं युक्ततम्। अत एवाह - `याप्यः कुत्सित इत्युच्यते` इति याप्यन्ते=अपनीयन्ते तस्माद्गुणा इति याप्यः, <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इत्यपादाने कृत्यः। `तत्र कस्मान्न भवति` इति। यद्यप्यसौ व्याकरणे प्रवीणः तथापि दुःशीलत्वाद्भवितव्यमेव तत्रेत्यभिप्रायः। `यस्य` इत्यादि। गुणो विशेषणम्? द्रव्यं विशेष्यम्, तत्र द्रव्ये यद्यपि बहवो गुणाः सन्ति, तथापि यस्य गुणस्य भावे द्रव्ये शब्दो निविशते वर्तते प्रत्यासत्तेस्तस्यैव कुत्सायां शब्देन भवितव्यम्; न तु वैयाकरणस्य दुःशीलत्वं प्रवृत्तिनिमित्तम्। किं तर्हि? व्याकरणस्य परिज्ञानम्, अध्ययनं वा। न चेह दुःशीलत्वेन भवितव्यं प्रत्ययेन॥", "53048": "`पूरणप्रत्ययो यस्तीयः` इति। <<तस्य पूरणे डट्>> [[5.2.48]] इति पूरणाधिकारे विहितत्वात्, पूरणाभिधेयत्वाद्वा। उपचारेम प्रत्योऽपि तीयः पूरण इत्युच्ये। `भागे` इति। अंश इत्यर्थः। किमर्थं पुनरिदम्, यावता कृतेऽप्यनि रूपं तदेव? इत्याह - `स्वरार्थं वचनम्िति। विभागे नित्स्वरेणाद्युदात्तं यथा स्यात्। `पूरणग्रहणमुत्तरार्थम्` इति। उत्तरत्र पूरणप्रत्ययान्तात्प्रत्ययो यथा स्यात्। तस्य च व्यवच्छेदाय क्रियमाणं पूरणमिहाप्यर्थवत्? स्यात्, स च नास्तीति नेहार्थता तस्योपपद्यते। ननु च `मुखपार्(ातसेरीयः`, (वा। 460) `पार्(ातीयः` इत्यपूरणोऽपि सोऽस्ति? इत्यत आह - `मुखतीयादिरनर्थकः` इति। अर्थवद्ग्रहणपरिभाषया (व्या।प। 1) अर्थवानिह तीयो गृह्रते, न च मुखतीयादिरनर्थवान्। अतः सत्यपि पूरणग्रहणे तस्य ग्रहणंन भविष्यतीति भावः॥", "53049": "", "53050": "यथासंख्ये हि षष्ठादन्यथा प्राप्तं चेत्यन्। न च पूर्वेणैव सिद्ध इति षष्ठग्रहमनर्थकं स्यात्। तस्मादुभयाभ्यामुभयं भवति॥", "53051": "चकाराद्यथाप्राप्तं चेति॥", "53052": "`आकिनिचः कनो वा लुग्विज्ञायते` इति। प्रत्यासत्तेः। न तु प्रकारणान्तरविहितस्य; विप्रकर्षात्। `स च` इत्यादि यदि नित्यः स्यात्? तद्विधानमनर्थकं स्यात्। तस्माद्विधानसामर्थ्यात्? पक्षे भवति। किं पुनः कारणमसहायग्रहणं संख्याशब्दनिरासार्थं क्रियते? इत्याह - `तदुपादाने हि` इत्यादि। असत्यसहायग्रहणे संख्यावाचिनोऽप्येकशब्दस्य ग्रहणं स्यात्। तस्मिस्तु सति द्विबह्नोर्न स्यात्। न हि द्वयोर्बहुषु वा चैकत्वसंख्या विद्यते। असहायता तु शतस्यापि भवति; तुल्यजातीयान्यस्याभावात् - शतमसहायमिति। तेना सहायार्थस्य ग्रहणे द्विबह्वोरपि प्रत्ययः सिध्यति। अथ कस्मादाकिनिज्वधीयते, न अकनिजित्येवोच्येत, अत्रापि सवर्णदीर्घत्वेनेष्टं सिध्यत्येव? न सिध्यति; <<अतो गुणे>> [[6.1.97]] पररूपत्वम्, यस्येति [[6.4.148]] लोपश्च प्राप्नोति। अकारोच्चारणसामर्थ्यान्न भविष्यति? नैतदस्ति; अस्ति ह्रकारोच्चारणस्य प्रयोजनम्। किम्? भसंज्ञायामन्यः पदसंज्ञानिबन्धनोऽवग्रहो मा भूदिति। तस्मादाकिनिजेव विषेयः॥", "53053": "किमर्थं पुनरेतौ समानार्थो शब्दावुपदिश्येते, नान्यतर एवोपदिश्येत? नैवं शक्यम्; इह ह्रतिक्रान्तकालविशिष्टेऽर्थे वर्तमानात्? प्रत्यग्रहमिष्यते, स चातिक्रान्तः कालोऽन्यतरोक्तौ नैव गृह्रते। तथा हि - भूतशब्दो वर्तमानेऽप्यर्थे वर्तते, यथा - भूतवानिति, पूर्वशब्दस्तु दिग्देशयोरपि। तस्मादन्यतरोक्तावतिक्रान्तकालो न प्रतीयते। अत एवाऽऽह - `भूतपूर्वशब्दोऽतिक्रान्तकालवचनः` इति। अथ चकारस्य `चुट्` [[1.3.7]] इतीत्संज्ञा कस्मान्न भवति? अनित्यत्वात्तस्य विधेः। अनित्यत्वं तु तत्रैव प्रतिपादितम्॥", "53054": "इह षष्ठन्तं यत्त्द्विशेषणं परार्थत्वादप्रधानम्, इतरत्? पुनस्तेनैवोपक्रियमाणत्वाद्विशेष्यं प्रधानम्। प्रधानेन च कार्यसम्प्रत्यय इतदि यता षष्ठन्तात्? प्रत्यविधाने सम्प्रतति षष्ठन्तप्रतियोगिनि प्रधाने प्रत्ययो विज्ञायतो, म प्रकृत्यर्थे; तथा भूतपूर्वग्रहणं तस्यैव ज्ञायते, न प्रकृत्यर्थस्येत्येतदालोच्याऽऽह - `षष्ठन्तात्` इत्यादि। प्रत्ययार्थस्तु षष्ठन्तस्य यः प्रतियोगी स वेदितव्यः॥", "53055": "`अतिशायनम्` इति। ल्युट्। यद्यपि शेतिः केवलः स्वप्ने वर्तते, तथाप्यतिपूरह्वस्य प्रकर्षे वृत्तिः, अत एवाऽऽह - `प्रकर्षः` इति। ननु चातिशयनमिति भवितव्यम्? इत्याह - `निपातनाद्दीर्घत्वम्` इति। निपातनं त्वतिशायनशब्दस्य कथम्? साधुत्वं विज्ञायते इत्येवमर्थम्। `प्रकृतिविशेषणं चैतत्` इति। प्रत्ययाशङ्कां निराकरोति। प्रकृत्यर्थविशेषणं स्वाथिकानां द्योत्यं भवतीति न वाच्यम्; तस्य प्रकृतिवाच्यत्वाकत्। `पटिष्ठः, लघिष्ठः` इति। <<तुरिष्ठेमेयस्सु>> [[6.4.154]] इति टिलोपः। `गरिष्ठः` इति। `प्रियस्थिरस्फिरोरुबहुलगुरु` [[6.4.157]] इत्यादिना गुरुशब्दस्य गरादेशः। `प्रकर्षप्रत्ययान्तादपरेण प्रत्ययेन न भवितव्यम्, एकेनैव प्रत्ययस्य द्योतितत्वात्` इति यो मन्यते, तं प्रत्याह - `यदा च` इति। यत्र प्रथमे प्रकर्षे आतिशायनिको विहितः`; तत्र तेनैव द्योतितत्वाद्द्वितीयो मा भूत प्रकर्षप्रत्ययः। प्रकर्षान्तरत्वे आतिशायनप्रत्ययान्ताद्युक्तमेवापरेणातिशायिकेन प्रत्ययेन भवितुम्, तदद्योतितत्वादिति भावः। इष्ठनि परतः <<प्रशस्यस्य श्रः>> [[5.3.60]] , पूर्वेण सह <<आद्गुणः>> [[6.1.87]] । इष्ठन्प्रत्यान्तात्? तमप्प्रकर्षप्रत्ययः। अत्र प्रतियोग्यपेक्षो यः प्रकर्षः पूर्वस्मात्? प्रकर्षात्? स प्रकर्ष इष्ठन्प्रत्ययेन द्योतितः। ननु च नास्यातिशायिकस्य विधायकं वाक्यमस्ति, येन तस्मिन्? विहिते तदन्तादपरः प्रकर्ष आतिशायानिको विधीयेत, इदमेव ह्रेकं वाक्यम्, तत्रानेनैव विधीयमाने प्रकर्षप्रत्ययो तदन्तायाः प्रकृतेरसम्भव इत्ययुक्त आतिशायिकादपरस्यातिशायिकस्य भावः? नैष दोषः; इह विधीयमानप्रतत्ययभेदाद्द्वे एते वाक्ये, तत्रैकेनेष्ठन्? विधीयते, अपरेण तु तदन्तात्? तमप्॥", "53056": "", "53057": "`द्वयोरर्थयोर्वचनं द्विवचनम्` इति। एतेनान्वर्थस्य द्विवचनस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति यदि हि पारिभाषिकं द्विवचनं, गृह्रेत, `अस्माकं च देवदत्तस्य देवदत्तोऽभिरूपतरः इत्यत्र प्रत्ययो न स्यात्; पारिभाषिकतस्य द्विवचनस्याभावात्। अन्वर्थस्य तु ग्रहणे सति भवति द्व्यर्थतोपपदस्य। तथा हि - अस्माकमित्यनेनैकोऽर्थ उच्यते, एकस्मिन्नेवार्थे <<अस्मदो द्वयोश्च>> [[1.2.59]] इति बहुवचनस्य विधीनात्। देवदत्तस्येत्यनेनापि द्वितीयोऽर्थ उच्यत इति भवत्येव तदन्वर्थद्विवचनमुपपदम्। तदेवमन्वर्थस्य ग्रहणे सर्वत्र सिध्यतीति तस्येदं ग्रहणं युक्तमिति मन्यते। `विभक्तव्यः` इति। पृथक्? कर्तव्य इत्यर्थः। यः पुनरतिशय्यमानस्तस्योपपदत्वम्, नातिशयितुः; ततः प्रत्यविधानात्। ननु च `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यति कृते विभाग्य इति भवितव्यम्, कथं विभज्य इति निर्देश उपपद्यते? इत्याह - `निपातनाद्यद्भवति` इति। इह द्वे उपपदे, एवं प्रकृती च प्रत्ययावपि द्वावेव, ततश्च यथासंख्येन भवितव्यमिति कस्यचिद्भान्तिः स्यात्, अतस्तन्निरासार्थमाह - `यथासंख्याम्`चारचिह्नात्। स हि लक्षणान्तरनिरपेक्षतां दर्शयन्? यथासंख्यलक्षणमपीह नापेक्षेतेति सूचयति। `पटीयान्? इति। पूर्ववट्टिलोपः, <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। (6.1.70; 8.2.23)। `माथुराः पाटलिपुत्रकेभ्य आढतराः` इति <<पञ्चमी विभक्ते>> [[2.3.42]] इत्यनेन पञ्चमी। पाटलिंपुत्रकेभ्य इत्येदत्र विभज्योपपदम्, पाटलिपुत्रका हि माथुरेभ्यो विभज्यन्ते=पृथक्? क्रियन्ते। ननू चैतदपि `द्विवचनोपपदे` इत्येव सिद्धम्, अस्ति ह्यत्र द्विवचनमुपपदम्, तथा हि - माथुराणामेको राशिः, अपरः पाटलिपुत्रकाणाम्, तौ च द्विवचनेनोच्येते, तस्माद्विभज्यग्रहणमनर्थकम्? नैतदस्ति; यद्यप्यत्र राश्यपेक्षा द्व्यर्थताऽस्ति, तथापि नासौ शब्देनोपादीयते। किं तर्हि? अवयवभेदः। अत एव माथुराः पाटलिपुत्रकेभ्य इति बहुवचनम्। इह राश्यपेक्षापि द्व्यर्थता नास्तीति - साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः सुकुमारतरा इति। तस्माद्विभज्यग्रहणमपि कर्तव्यम्॥", "53058": "`पाचकतरः` इति। कर्तृशक्तिमतो द्रव्यस्याभिधानाद्द्रव्यवचनोऽयं पाचकशब्दः। अथैवकारः किमर्थः, यावता सिद्धे विधिरारभ्यमाणो विनापि तेन नियमार्थो भवतिइत्याह-`एवकारः` इत्यादि। असति ह्रेवकारे विपरीतमवषारणं विज्ञायते - अजादी एव गुणवचनादिति, ततश्च यत एवकारस्ततोऽन्यत्रावधारणमिति प्रकृतिनियमः स्यात्। एवं च गुणवचनस्याजाद्योनियतत्वात्? ततस्तरबादिर्नं स्यात्। एवकारे तु प्रकृत्यनन्तरमुच्चार्यमाणे सति प्रत्ययार्थनियमोऽयं भवति न प्रकृतिनियम इति पटुतरः, पटुतम इति सिद्धं भवति। एतयोरपि सिद्ध्यर्थं `गुणवचनादिष्ठन्नीयसुनौ` इति सूत्रं न कृतम्। तदा विध्यर्थत्वादेतौ तरप्तमपोरपवादत्वाद्बाधकाविति तयोरभावे पटुतरः, पटुतम इति न सिध्येत्॥", "53059": "`करिप्ठः` इति। कर्त्तृशब्दात्? तृन्नन्तादिष्ठन्, <<तुरिष्ठेमेयस्सु>> [[6.4.154]] इति तृशब्दलोपः। `दोहीयसी` इति। दोग्ध्रीशब्दात्? तृन्नन्तादीयसुन्, तृशब्दस्य लोपे कृते निमित्ताभावाद्घत्वादिनिवर्तते, <<उगितश्च>> [[6.3.45]] इति ङीप्॥", "53060": "ननु चाजीदी इति प्रथमान्तम्, तत्कथमजाद्योः परत आदेशो लभ्यते? इत्याह - `अजादी` इतचि। `तद्विषयः` इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। <<अजादी गुणवचनादेव>> [[5.3.58]] इतत्यनेन यो नियमः स तद्विषये न प्रवर्तत इति दर्शयति। `एवमुत्तरेष्वपि` इति। <<वृद्धस्य च>> [[5.3.62]] इत्येवमादिषु। अयमनयोः अयमनयोः श्रेयानिति द्विवचनोपपद ईयसुन्? अयमस्मात्? श्रेयानिति विभज्योपपदे। पूर्वत्र निर्धारणे षष्ठी [[2.3.41]] , उत्तरत्र <<पञ्चमी विभक्ते>> [[2.3.42]] इति पञ्चमी॥", "53061": "योगविभागो यथासंख्यनिवृत्त्यर्थः, उत्तरार्थश्च। उत्तरत्र वृद्धशब्दस्य ज्यादेश एव यथा स्यात्, श्रादेशो मा भूविति॥", "53062": "`वृद्धशब्दस्य` इति। `वृद्ध` इत्येतस्य शब्दस्येत्यर्थः। एतेन `वृद्धस्य` इति स्वरूपग्रहणं दर्शयति। ननु च वृद्धशब्दश्च संज्ञा कृता - <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इति, अतस्तत्प्रत्यायितस्यैव संज्ञिनो ग्रहणं न स्वरूपस्य, <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इति वचनात्? नैष दोषः, `प्रशस्यस्य` इत्येतदिहानुवर्तते, तेन वृद्धशब्दो विशेष्यते - प्रशस्यस्य वृद्धस्येति। स्वरूपग्रहणे वयोऽधिके च शब्दार्थे प्रशस्यता युज्यते, न पारिभाषिकग्रहणे। अथ वा - स्थानेऽन्तरतमपरिभाषया [[1.1.49]] ज्यशब्दस्य योऽन्तरतमः स एव स्थानो विज्ञायते, अन्तरतमश्च तस्य वृद्धशब्द एव, तेन तस्यैव ग्रहणं युक्तम्। `तयोश्च` इत्यादि। यथा <<प्रशस्यस्य श्रः>> [[5.3.60]] इत्यत्र नियमाभावेनाजाद्योः प्रत्यययोः सत्त्वं ज्ञापितम्, तथेहापि ज्ञाप्यते। नियमाभावस्त्वजाद्योः परतः पूर्ववदादेशविषानादेव वेदितव्यः॥", "53063": "`निमित्त्योः` इत्यादि। निमित्तौ प्रत्ययौ, तयोः परत आदेशविधानात्। कस्मात्? पुनरिष्यमाणो न भवति? अल्पाच्यतस्य परनिपातात्। स हि लक्षणान्तरानपेक्षतामाचष्टे। तेन यथासंख्यलक्षणमपीह नापेक्ष्यते। यद्येवम्, स्थान्यादेशयोरपि यथासंख्यं न प्राप्नोति? मा भूद्यथासंख्यम्, आन्तरतम्याद्व्यवस्था भविष्यति। ननु च व्यवस्थाकारि चेल्लक्षणान्तरं नापेक्ष्यते, स्थानेऽन्तरतमपरिभाषापि [[1.1.50]] न प्राप्नोति? नैतदस्ति; निर्वेशान्यथात्वं हि निर्देशकृता व्यावस्था नास्तीत्येतदेव बोधयति, या त्वर्थकृता व्यवस्था तां न निवर्तयति। अपि चादेशप्रतिपत्तये <<षष्ठी स्थानेयोगा>> [[1.1.49]] इत्येषा परिभाषा नियोगतोऽपेक्षणौया। तच्छेषभूता `स्थानेऽन्तरतमः [[1.1.49]] इति परिभाषा कथं शक्या नापेक्षितुम्॥", "53064": "अत्रापि निमित्तयोर्यथासंख्यं नेष्यते, तस्य ह्रभावः `अजाद्यदन्तम्` [[2.2.33]] इत्यल्पशब्दास्य पूर्वनिपाते परनिपाताल्लक्षणानपेक्षाच्चिह्निल्लभ्यते, युवेति स्वरूपगरहणमिष्यते, न जीवत्त्वं वंशस्य। कस्मात्? इहापि `प्रशस्यस्य` [[5.3.60]] इत्येतदनुवर्तते, तेन युवशब्दो विशेषयितव्यः - प्रशस्यस्य यून इति। स्वरूपग्रहणे सर्वलोकाभिमतयौवनाख्यवयःसम्बन्धे शब्दार्थे प्रशंसोपपद्यते, न पारिभाषिकग्रहणे। अथ वा - स्थानेऽन्तरतमपरिभाषया [[1.1.49]] कन्नित्यादेशस्य योऽन्तरतमः स एव स्थानिति विज्ञायते, अन्तरतमश्च युवशब्द एव। तस्मात् स्वरूपस्यैव ग्रहणं युक्तम्। `अन्यतरस्यां` ग्रहणमिहाल्पशब्द एव प्रयोजयति, न युवशब्दः, तस्य विनापि तेन विकल्पः सिद्ध एव; `स्थूलटूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः` [[6.4.156]] इति वचनात्। न हि नित्य आदेशे यणादेः परस्य लोपः सम्भवति, नापि पूर्वभागो गुणभाक्। `यविष्ठः, यवीयान्` इति। स्थूलदूरादिसूत्रेण [[6.4.156]] यणादेः परं लुप्यते, पूर्वस्य च गुणो भवति॥", "53065": "मतुपा साहचर्यात्? मत्वर्थीय एव विनिप्रत्ययो गृह्रते - <<तपःसहस्राभ्यां विनीनी>> [[5.2.102]] , <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इति; आभ्यां चैतदेव लुग्वचनमजाद्योभविं ज्ञापयति। `रुआग्विणौ`। इति। अस्मायादिसूत्रेम [[5.2.120]] विनिः। `रुआजिष्ठः` इति। <<प्रकृत्यैकाच्>> [[6.4.163]] इति प्रकृतिभावाट्टिलोपाभावः॥", "53066": "`स्वार्थिकाश्च` इत्यादि। प्रकृत्यर्थविशेषणं प्रसंसादि, तस्य द्योतकाः स्वार्थिका भवन्ति, न त्वथन्तिरस्य वाचकाः। यदि प्रशंसायां वर्त्त्मानाद्रूपब्विधीयते, निन्दायां वर्तमानान्न प्राप्नोति-वृषषलरूपोऽयम्, चौररूपोऽयमिति। वृषलादयो हि शब्दाः सदा निन्दावचनाः; न कदाचित्प्रशंसायां वर्तन्ते, यथा काकादयः शब्दाः? इत्यत आह - `प्रकृत्यर्थस्य` इत्यादि। प्रकृत्यर्थस्य वैशिष्टं परिपूर्णत्वम्, तस्मिन्? सति प्रशंसा भवति। एवञ्च यदा वृषलादिशब्दानामपि पदार्थस्य परिपूर्णता भवति, तदा ते प्रशंसायां वर्तन्ते इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्णता भवति, तदा ते प्रशंसायां वर्तन्ते इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्रणतां दर्शयति। वृषलशब्दस्य हि शूद्रो वाच्यः। स यदा पलाण्ड्वादिकमपि साधुजनगहितमभ्यवहरति तदा प रपूर्णत्वं तस्य शूद्रत्वम्। शूद्रः=सर्वाशी, सर्वविक्रयीति। चौरशब्दार्थस्यापि सुगुप्तवस्त्वपहारेण परिपूर्णता भवति। ननु च `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते` (व्या।प।74) इति प्रकृत्यर्थस्य ये लिङ्गवचने ते स्वार्थिकप्रत्ययान्तस्यापि भवत इति भावः। ततश्च पचतोरूपम्, पचन्तिरूपमित्यत्र द्विवचनबहवचनाभ्यां भवितव्यम्? इत्यत आह - `क्रियाप्रधानम्` इत्यादि। आख्यातस्य यद्यपि क्रिया साधनञ्चोभयं वाच्यम्, तथापि तस्य क्रियैव प्रधानमर्थः। यश्च प्रधानं प्रकृत्यर्थस्तस्यैव लिङ्गवचनं स्वार्थिकैरनुवर्तयितुं युक्तम्। क्रियाप्रधानमेकैव च क्रिया। तेन रूपप्प्रत्ययान्तादाख्याताद्द्विवचनबहवचने न भवतः। नपुंसकलिङ्गमपि तर्हि न स्यात्, क्रियाया अलिङ्गत्वात्? इत्यत आह - `नपुंसकलिङ्गं तु` इत्यादि। तत्रैव हेतुमाह - `लोकाश्रयत्वाल्लिङ्गस्य` इति। यदि तर्हि ह्रोका क्रिया, पचतः, पचन्तीति द्विवचनबहुवचने न सिध्यतः? नैष दोषः; यद्यपि ह्रेका क्रिया, साधनं ह्रनेकम्, अतस्तदाश्रये द्विवचनबहुवचने भविष्यतः। रूपप्प्रत्ययान्तात्? तर्हि स्याताम्? तिङ्न्तेनोक्तत्वान्न भविष्यतः। एकवचनं तु भविष्यति; तस्यौत्सर्गिरकत्वात्, `एकवचनमुत्सर्गतः करिष्यते` इति वचनात्॥", "53067": "", "53068": "विभाषाग्रहणेनेह बहुच्? सम्बध्यते, न पुरस्तादित्येतत्; तेन बहुचः पूर्वत्वं न विक्ल्प्यत इति नित्यमेव तद्भवति, अत एवाह - `स तु पुरस्तादेव` इति। एवकारेम तुशब्दस्यावधारणार्थतां दर्शयति। यदि पुनस्तुशब्दोऽ वधारणार्थो न क्रियते, ततो न ज्ञायते - किं विभाषाग्रहणेन बहुच्? सम्बध्यते, अथ पुरस्तादितयेतदिति! तु शब्देन त्ववधारणार्थेन पुरस्तादितत्येतस्मिन्? नियमिते पारिशेष्याद्विभाषावचने बहुजेवाभिसम्बध्यत इति विज्ञायते। `चित्करणमन्तोदात्तार्थम्` इति। कस्य पुनरन्तोदात्तत्वं चित्कराद्भवति? सप्रकृतेः समुदायस्य;`चितः सप्रकृतेर्ब ह्वकजर्थम्` (वा।6.1.169) इति वचनात्। यद्येवम्, पटव इति सुबन्तादुत्पत्तौ जस उदात्तत्वं प्राप्नोति? नैष दोषः; बहुच्युत्पन्ने सति `अर्थवदधातुरप्रत्ययः प्रातिपदिकम्? [[1.2.45]] इति प्रातिपदिकसंज्ञायां कृतायाम्, `सुपो धातुप्रातिपादिकयोः` [[2.4.71]] इति सुब्लुक्? तावत्? क्रियते, तस्मिन्? कृते पश्चादुदात्तत्वं क्रियमाणं पटुशब्दे य उकारस्तस्य भवति। यस्तु पुनः प्रातिपदिकसंज्ञायां कृतायां सुब्लुकि च कृते अन्यो जस्? उत्पद्यते, तस्योदात्तत्वं नाशह्कनीयम्, न ह्रसौ प्रकृत्येकदेशः। ननु चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति बहुच्पूर्वस्य प्रातिपदिकसंज्ञया न भवितव्यम्? नैष दोषः; तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयकानां समासः। कथञ्जातीयकानां समासः? भदसंसर्गवताम्। भेदसंसर्गौ च पृथगर्थानामेव भवतः। द्योतकानाञ्च पृथगर्थवत्ता न सम्भवति। अथ कस्मात्? सुब्लुक्? तावत्? क्रियते, पश्चादन्तोदात्तत्वम्, यावता परत्वादन्तोदात्तत्वे नै व पूर्वं युक्तं भवितुम्? नैतदस्ति; नित्यो हि लुक्, कृताकृतप्रसङ्गित्वात्। स हि कृतेऽप्यन्तोदात्तत्वे प्राप्नोति, अकृतेऽपि; अन्तोदात्तत्वं त्वन्यस्य लुकि कृते प्राप्नोति। अन्यस्याकृते शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति, तस्माल्लुगेव तावत्? क्रियते। `बहुगुडा द्राक्षा` इति। कथं पुनरत्रेषदसमाप्तिः, यावता गुडशब्देन गुडजातिरुच्यते, तदाधारो वा द्रव्यम्। तत्र जातिस्तावदेका, निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता, द्रव्यमपि यत्? तया सम्बद्धं तत्? सर्वतः पूर्णत्वात्? समाप्तमेव। तस्मादीषदसमाप्तिरयुक्तमिह विशेणम्, असम्भवात्? सामानाधिकरण्यं च बहुगुडा द्राक्षेति द्राक्षाशब्देन न प्राप्नेति, तस्यार्थान्तरत्वात्? स्त्रीलिङ्गमपि `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते` (व्या। प। 74) इति नोपपद्यते? नैष दोषः; इह शब्दादुच्चारिताद्द्वयं प्रतीयते - शब्दोऽर्थः, जातिद्र्रव्यञ्च; अभिधेयसम्बन्धेनाशब्दार्थभूता अपि गुणाः, यत्रैतदुभयमस्ति तत्र समाप्तिः। यत्र त्वन्यतरन्नास्ति तत्रेह गुडशब्दो गुडजातिहीने माधुर्यादिगुणहीने वा द्रव्ये वर्तते इत्युपपद्यत ईषदसमान्तिः सामानाधिकरण्यमप्युपद्यत एव। कथम्? यदा तावज्जातिहीने केनचित्? साधम्र्येण द्राक्षादिशब्दाभिधेये वर्त्तित्वा गुडशब्दः प्रत्ययमुत्पदयत, तदा द्राक्षाशब्देन सामानाधिकरण्यं भवति; उभयोरेकार्थवृत्तित्वात्। यदा तु गुणहीने गुडजीतीय एव, तदापि सामानाधिकरण्यम्, गौर्वाहीक इति यथा, तथा भविष्यति गुणहीनोऽपि गुडशब्दः। गुडो बहुगुडशब्देनोत्त्यते, तेन च तुल्या द्राक्षेति साऽपि बहुगुडशब्देनाभिदायिष्यते। स्त्रीलिङ्गमपि चोपपद्यते; तस्य लोकाश्रयत्वात्। अपि च `स्वार्थिकाः प्रकृतेलिंङ्गवचनान्यनुवर्तन्ते (व्या। प। 74) इति प्रायिकमेतत। तेन कदाचिदतिवर्ततन्तेऽपि, यथा कुटीरः, शमीर इति। <<कुटीशमीशुण्डाभ्यो रः>> [[5.3.88]] इति स्वार्थिकश्च। `विभाषावचनात्` इत्यादिना विभाषाग्रहणस्य प्रयोजनमाचष्टे। असति हि विभाषाग्रहणे तिडन्तेषु कृतावकाशाः कल्पबादयो बहुचा सुबन्ताद्विशेषविहितेन बाध्येरन्? तस्मिस्तु सतदि पक्षे तेऽपि भवन्ति। ननु च भिन्नदेशेन बहुचा नास्ति तेषां विरोधः, तत्कुतो बाधा? असत्यां वा बाधायां कृतेऽपि बहुचि तैर्भवितव्यमेव, परदशस्यानवष्टब्धत्वात्? नैतदस्ति; न ह्रवश्यं देशकृत एव सामान्यविशेषयोर्विरोधो भवति, किं तर्हि? अर्थकृतोऽपि। बहुचश्च कल्पबादिभिः समानोर्थ इति बहुचा द्योतितत्वात्? तस्यार्थस्य कल्पबादयो न भवविष्यन्ति। न हि द्योतिते पुनर्द्योतनमस्ति, यथाभिहिते नाभिधातव्यम्। अथ सुब्ग्रहणं किमर्थम्, यावता प्रातिपदिकग्रहणमनुवर्तते, न च प्रातिपदिकात्? सुबन्ताद्वा बहुच उत्पत्तौ कश्चिद्विशेषोऽस्ति? अत आह - `सुब्ग्रहणम्` इत्यादि। असति हि सुब्ग्रहणे `तिङश्च` [[5.3.56]] इति प्रकृतत्वात्? ततो हि प्रत्ययः स्यात्। अतस्तन्निवृत्त्यर्थं सुबग्रहणम्॥", "53069": "`तस्य वचने` इति। उक्तौ, द्योतन इत्यर्थः। `प्रकारवति चायम्` इत्यादिना थाल्जातीयरोर्विषयभेदं दर्शयति। विषयभेदे सति विशेषविहितेनापि ताला जातीयरो बाधनं न भवति। थाल्प्रत्यान्तात्? जातीयर्? सिद्धो भवति - कथञ्जातीय इति॥", "53070": "तिङन्तादयं प्रत्ययो नेष्यते। `अकजिष्यते` इति। कथं पुनरेतयोर्भावाभावौ लभ्येते? इत्याह - `तिङश्चेत्यनुवृत्तम्` इत्यादि। उत्तरत्रैवेत्यवधारणेन त्विहानुवृत्तमपि कप्रत्ययेन सम्बन्धनीयमिति दर्शयति। तच्च पूर्वसूत्राद्वचनग्रहणेऽप्यनुवर्तमाने यत उत्पद्यमानेन प्रत्ययेनाज्ञातादेरर्थस्य वचनं भवति, तत्रैव तेन भवितव्यम्। न च तिङ्न्तादुत्पद्यमानेनापि कप्रत्ययेन सोऽर्थः शक्यते द्योतयितुं, अकचा तु शक्यते। तस्मात्? `तिङ्श्च` [[5.3.56]] इत्येतदनुवृत्तमुत्तरसूत्रेणाकचा सम्बन्धनीयम्, नेह कप्रत्ययेन। प्राग्ग्रहणमपिद्योतनार्थम्, इवग्रहणमवध्यर्थम्; अन्यथाधिकारपरिमाणं न ज्ञायते॥", "53071": "`कस्यापवादः` इति। ननु च भिन्नदेशत्वात्? काकचोर्विरोधो नास्ति, न चासति विरोधे बाध्यबाधकभावः, ततः कथं कस्यापवादः? नैष दोषः; नैवावश्यं देशकृत एव विरोधो भवति, अपि त्वर्थकृतोऽपीत्युक्तम् - `अकच्प्रत्ययेन समानोर्थः` इति। अकचा द्योतिततवात्? तस्यार्थस्य कप्रत्ययो न भविष्यति। यद्यत्र प्रातिपदिकादित्यनुवृत्तेः प्रातिपदिकस्य प्राक्? टेरकज्विधीयते, त्वयका मयकेत्यादि न सिध्यति? अथ सुप इति प्राक्? टेर्विधीयेत, एवमपि युष्मकाभिरिति न सिष्यति? इत्यत आह - `प्रातिपदिकात्सुपः` इति। `द्वयमपि` इत्यादि। ननु च द्वयानुवृत्तावपि क्वचित्? सुबन्तस्यैव प्राक्टेर्भवति, क्वचित्? प्रातिपदिकस्य - इत्येषा व्यवस्था न लभ्यते? इत्याह - `तत्र` इत्यादि। वचनग्रहणं व्यवस्थार्थमिहानुवर्तते। तेन यत्र प्रातिपदिकस्य प्राक्टेरुत्पद्यमानेनार्थद्योतनं शक्यते कर्तुम्, तत्र प्रातिपदिकस्य प्राक्? टेर्भवति; यत्र सुबन्तादुत्पन्नेनार्थद्योतनं शक्यं सम्पादयितुं, तत्र सुबन्तस्यैव। अकचश्चित्करणमन्तोदात्तार्थम्। तद्धि सप्रकृतेः समुदायस्य। तथा च वक्ष्यति - `चितः सप्रकृतेर्बह्वकजर्थम्` (वा। 6.1.169)। `तूष्णीमः काम्प्रत्ययो वक्तव्यः` इति। यथासम्भवं कुत्सादिष्वर्थेषु। चकारो देशविध्यर्थः। `शीले को मलोपश्च` इति। शीलमिति न स्वभाव एवोच्यते, किं तर्हि? नियमोऽपि। तथा हि - शीलवान्? भिक्षुरित्यभिधीयते, यः सम्यङ्नियममनुपालयतीति। तेन योऽपि नियमपरतया वाचं नियमयति सोऽपि तूष्णीक उच्यते॥", "53072": "`अकच्सन्नियोगेन` इत्यादि। कथं पुनरकच्सन्नियोगेनेत्येष विशेषो लभ्यते, यावता न सूत्रे तदुक्तम्? इत्याह - `चकारः` इत्यादि। चकारस्यैतदेव प्रयोजनम् - अकच्सन्नियोगेन ककारस्य दकारो यथा स्यादिति भावः॥", "53073": "`अज्ञातविशेषोऽज्ञातः` इति। यदि यस्यात्यन्तमज्ञानं सोऽज्ञातः स्यात्, एवं सति सर्वथा वस्तुविज्ञाना भावे प्रकृतिरेव न स्यात्, न हि सर्वथाऽविज्ञातोऽर्थः प्रयोगमर्हति; तस्मात्? स्वेन रूपेण ज्ञातस्य यस्य धर्मान्तरत्वमज्ञातं स इहाज्ञातोऽभिमत इति ज्ञायते - अविज्ञातविशेषोऽज्ञात इति। अस्यैवार्थं विस्पष्टीकर्त्तुमाह - `स्वेन` इत्यादि। स्वरूपमआत्वादि, विशेषरूपं स्वस्वामिसम्बन्धादि॥", "53074": "", "53075": "", "53076": "`कारुण्णेन` इत्यादि। अभ्युपपत्तिरनुग्रह एव। `स्वपितकि, आसितकि` इति। <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इट्, अदादित्वाच्छपो लुक्॥", "53077": "`सामदानादिरूपायो नीतिः` इति। आदिशब्देन भेददण्डयोग्र्रहणम्; तौत्वनुकम्पायां न सम्भवत इति सामदानादिरेकैव नीतिर्गुह्रते, `एहकि` इति। इण आङपूर्वाल्लोण्मध्यमपुरुषैकवचनस्य `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः। ननु पूर्वेणैवात्रापि प्रत्ययः सिद्धः, अत्रापयनुकम्पा गम्यत एव, तत किमर्थम्? इत्याह - `पूर्वेणैव` इत्यादि। प्रत्यासन्नोऽनुकम्पासम्बन्धो यस्यानुकम्पयमानस्य स तथोक्तः। प्रत्यासन्नत्वं तु सम्बन्धसर्यानुकम्प्यानंप्रति; तदाश्रयत्वादनुकम्पायां विधीयमानः प्रत्यासत्तेर्यस्यानुकम्पया प्रत्यासन्नः सम्बन्धस्ततः एव युक्तो विधातुमिति पूर्वेमानुकम्प्यमानादेव प्रत्यो विहितः, न तु व्यवहितात्? पुनर्घानादेः। अतः सम्प्रति ततोऽपि यथा स्यादित्येवमर्थमिदम्। `व्यवहितात्` इति। विप्रकृष्टादित्यर्थः। विप्रृष्टत्वमतदाश्रयत्वादनुकम्पायाः। न हि तस्यां धानादिराश्रयः, किं तर्हि? अनुकम्प्यमानो देवदत्तादिः॥", "53078": "`देविकः` इति। `यज्ञिकः` इति। `ठाजावूध्र्वं द्वितीयादचः` [[5.3.83]] इति दत्तशब्दस्य लोपे कृते <<यस्येति च>> [[6.4.148]] इत्यकारलोपः। प्रत्युदाहरणे सर्वत्र क एव वेदितव्यः। `मद्रबाहुकः` इति। मद्रौ बाहू यस्य स मद्रबाहुः। नेदं मनुष्यनाम, किं तर्हि? विशेषणम्। मनुष्यग्रहणं किमर्थम्? देवहस्तको हस्तीत्यत्र मा भूत्। नाम ग्रहणं किमर्थम्? मृगकः, मत्स्यक इत्यत्र मा भूत्॥", "53079": "`देवियः` इति। घन्? पूर्ववल्लोपः। `देविलः` इति इलच्। `देविकः` इति। ठन्। `देवदत्तकः` इति कः॥", "53080": "उपड इत्यादौ उपेन्द्रदत्तशब्दात्प्रत्ययः। विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह - `वेत्येव हि` इत्यादि। अत्र हे वेत्यनुवर्तते, तस्मात्तेनैव विकल्पस्य सम्पादितत्वात्? तदर्थग्रहणं नोपपद्यते॥", "53081": "`नामग्रहणम्` इति। असति हि नामग्रहणे जातिस्वरूपग्रहणं स्यात्। अतः स्वरूपग्रवणं मा भूदित्येवमर्थं जातिग्रहणम्॥", "53082": "`व्याघ्राजिनो नाम कश्चित्` इति। व्याघ्रस्याजिनम्, व्याघ्राजिनमिवाजिनं यस्येति व्याघ्राजिनः। `सप्तम्युपमानपूर्वस्य बहुव्रीहिरुत्तरपदलोपश्च` (वा। 99) इति बहुव्रीहावुत्तरपदलोपे कृते व्याघ्राजिन इत्येष शब्दः सम्पद्यते। अथाजिनलोपश्चेत्येवं कस्मान्नोक्तम्, किमुत्तरपदग्रहणेन? नैवं शक्यम्; व्याघ्रमहाजिनौ नामकश्चित्, सोऽनुकम्पितः - व्माघ्रक इत्यत्राजिनशब्दस्य लोप उच्यमाने महच्छब्दस्य निवृत्तिर्न स्यात्। उत्तरपदस्यतु लोपे विधीयमाने भवति। तस्माद्यथान्यासमेवास्तु। महदजिनं महाजिनम्, व्याघ्रस्य महाजिनमिव महाजिनमस्येति पूर्ववदुत्तरपदलोपी बहुव्रीहिः, ततः कन्॥", "53083": "`अस्मिन्? प्रकरणे` इत्यादि। अनेनास्मिन्? प्रकरणे यौ विहितौ ठाजादी तत्र लोपी भवति, यौ तु प्रकरणान्तरे तत्र न भवतीति दर्शयति। एतच्चैतत्प्रकरण विहितयोष्ठाजाद्योरिहानुवुत्तेर्लभ्यते। अथोध्र्वग्रहणं किमर्थम्, यावता `द्वितीयादचः` इति पञ्चमी, तस्मादन्तरेणाप्यूष्र्वग्रहणम्, <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यूध्र्वं यच्छब्दरूपं तस्यैव लोपो भविष्यति? इत्यत आह - `उध्र्वंग्रहणम्` इत्यादि। असत्यूध्र्वंग्रहणे <<आदेः परस्य>> [[1.1.54]] इति द्वितीयादचो यः परस्तस्यादेर्लोपः स्यात्, तस्मिस्तदु सति सर्वे निवर्तते। अतः सर्वस्य लोपो यथा स्यादित्येवमर्थमूध्र्वंग्रहणम्। अथ ठग्रहणं किमर्थम्, यावता ठस्येकादेशे कृतेऽजादावित्येव सिद्धम्? इत्यत आह - `ठग्रहणम्` इत्यादि। उको द्वितीयत्वे सत्यकृत एवेकादेशे ठावस्थायामेव द्वितीयादूध्र्वस्य लोपे कृते `इसुसुक्तान्तात्? कः` [[7.3.51]] इति कविधिर्यथा स्यादित्येवमर्थं ठग्रहणम्। तत्रैतत्? स्यात्? चोद्यम् - इकादेशे कृतेऽजादिलक्षते च द्वितीयादूध्र्वस्य लोपे स्थानिवद्भावाट्ठग्रहणेन ग्रहणात्? कादेशो भविष्यति? इत्याह - `अजादिलक्षणे हि` इत्यादि। इहादेशविधौ तत्र ठग्रहणं वर्णग्रहणं स्यात्, सङ्घातग्रहणं वा; तत्र वर्णग्रहणेऽल्विधित्वात्? स्थानिवद्भावो नोपपद्यते। सह्घातग्रहणे यद्यप्युपपद्यते, तथापि `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इत्यजादित्वसन्निपातकृतमुकः ठप्रत्ययेनानन्तय्र्यमिति तदजादित्वविघातं न कुर्यात्। ततश्च यथा - मथितं पण्यमस्य माथितिक इत्यत्र यस्येति [[6.4.148]] लोपे सत्यपि तकारेण ठस्यानन्तर्य्ये कादेशो न भवति, तता वायुदत्तो वायुक इति न स्यात्। तस्मादुको द्वितीयत्वे कविधानार्थं ठग्रहणम्। `उवर्णाल्लः` इति। तस्य च लोप इत्यर्थः। स चादेरेव भवति, न सर्वस्य। अथवा - ल इत्यादेशएवायं सर्वे लस्य विधीयते। च चानेकाल्त्वात्सर्वस्यैव भवति।`द्वितीयादचः` इति। द्वितीयलोपे कर्तव्ये सन्ध्यक्षरस्य द्वितीयत्वं भवति यदा, तदादेः शब्दरूपस्य लोपो भवतीति वक्तव्यम्। सन्ध्यक्षरादूध्र्वस्य लोपोऽपि प्राप्ते सन्ध्यक्षरस्यैकाक्षरपूर्वपदानामित्यादि द्वितीयादच ऊष्र्वस्य लोपः उक्तः, तदपवादः। `एकाक्षर` इति। अक्षरशब्दश्चायमच्यपि वर्तते। एकाक्षरमेकाच पूर्वंपदं येषां ते, तेषामुत्तरपदलोपो वक्तव्यः। `वागाशीः` इति। वाच्याशीरस्येति कृत्वा वैयधिकरण्ये बहुव्रीहिः। अनुकम्पितो बागाशीरिति विगृह्रठचि कृते द्वितीयादच ऊध्र्वस्य लोपः स्यात्। तस्मिन्? सति वाच्ा+इक इति स्थिते यस्येति [[6.4.148]] लोपे कृते <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावात्पदसंज्ञा न स्यात्। तस्मात्? तस्यान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञा, <<चोः कुः>> [[8.2.30]] इति कुत्वम् - वागिक इति स्यात्। आशीःशब्दस्य तस्य परलोपे कृते तस्यानजादेशात्वात्? स्थानिवद्भावो नास्तीति भसंज्ञा भवत्येव, ततस्तया पदसंज्ञाया निषिद्वायां पदनिबन्धनकुत्वादि न भवतीति वाचिक इति सिध्यति। `कथम्` इत्यादि। यद्येकाक्षरपूर्वपदानामुत्तरपदस्य लोप उच्यते, षडिक इति न सिध्यति। अत्राप्युत्तरलोपे कृते भसंज्ञायानुपजातायां पदसंज्ञायां बाधितायाम्? <<झलां जशोऽन्ते>> [[8.2.39]] इति षषः षकारस्य जश्त्वे कृते षडिक इति न सिध्यति॥", "53084": "`स चाकृतसन्धीनाम्` इति। यद्यस्वरसन्धौ लोपो भवत्येवं सिध्यति, नान्यथा। तस्मादकृतस्वरसन्धीनामेव शेवलादीनां लोपो भवतीति वक्तव्यम्॥", "53085": "", "53086": "`दीर्घप्रतियोगी ह्रस्वः` इति। स पुनर्यमपेक्ष्य दीर्घो भवति स वेदितव्यः। ननु च दीर्घत्वापचये सति ह्रस्वो भवति; यत्र दीर्घत्वापचयस्तत्राल्पतास्तीति पूर्वेणैव सिद्धम्? न सिध्यति; न ह्रयं नियोगः - यत्र दीर्घस्यापचयस्तत्राल्पत्वेन भवितव्यमिति, तथा हि - सत्यप्यपचये महत्त्वगुणयुक्तं यद्वस्तु तदमहदेव भवति, न चाल्पम्॥", "53087": "", "53088": "`कुटीरः। शमीरः` इति। स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनृवर्तते इति प्रकृतिगतेनैव स्त्रीलिङ्गेन भवितव्यम्, न पुल्लिङ्गेन? इत्यत आह - `स्वार्थिकत्वेऽपि` इत्यादि॥", "53089": "", "53090": "", "53091": "यदि तनुत्वे वत्सादिशब्देभ्यः प्रत्ययो विधीयते, ये शरीरे कृशा वत्सादयस्तत्राप्यविशेषेण प्रत्ययः प्रसज्येत, विशेषानुपादानात्? इत्यत आह - `यस्य गुणस्य` इत्यादि। गुणो विशेषणम्, विशेष्यं द्रव्यम्। वत्सादिशब्दानां प्रवृत्तिनिमित्तं वयोविशेषादि। यस्मिन्? सति वत्सादयः शब्दा द्रव्ये विशेष्ये निविशन्ते=प्रवर्तते, तस्यैव वत्सादिशब्दस्य प्रवृत्तिनिमित्त्स्य तनुत्वे प्रत्यो भवति, न तनुत्वमात्रे; तत्? पुनः प्रत्यासत्तेः। वत्सादिभ्यः प्रकृतिभ्यः प्रत्यये विधीयमाने अन्यत्? प्रवृत्तिनिमित्तं न प्रत्यासन्नम, ततस्तस्यैव तनुत्वे युक्तं प्रत्ययेन भवितव्यम्।`तस्य तनुत्वं द्वितीयवयसः प्राप्तिः` इति। तृतीयवयःप्राप्तिकाले द्वितीयस्य वयसः। उक्षशब्दस्य प्रवृत्तिनिमित्तस्य निश्चितं तनुत्वमवशिष्यते। `तस्य तनुत्वमन्यपितृकता` इति। गर्दभपितृक्तेत्यर्थः। तर्हि गर्दभादआआयामुत्पन्नोऽआतर इत्युच्येते। `तस्य तनुत्वं भारोद्वहर्ने मन्दशक्तिता` इति। भारोद्वहनं प्रति यःसमर्थो न स्यात्? स ऋषभतर इत्युच्यते। यदा तु तस्य भारोद्वहने सामर्थ्यं मन्दं भवति=हीयते, तदा तनुत्वं भवति॥", "53092": "`निर्धार्यमार्णेभ्यः प्रत्ययः` इति। `निर्धार्यमाणवाचिभ्यः इत्येतत्? कुतो लभ्यते? तत एवोत्पन्ने प्रत्यये निधरिणस्य गम्यमानत्वत्। `महाविभाषा` इत्यादि। `समर्थानां प्रथमात्` [[4.1.82]] `निषरिणे` इचि। विषये प्रत्ययो यथा स्यात्। `द्वयोरिति समुदायान्निर्धारणविभक्तिः#ः` इति। षष्ठी, सप्तमी वा। सा पुनस्तस्य `यतश्च निर्धारणम्? [[2.3.41]] इत्येनेन। `#एकस्येति निर्देशः निर्धार्यमाणनिर्देशः` इति। एकस्मिन्निर्षार्यमाणे यथा स्यात्। ननु च समुदायादेकदेशस्य पृथक्? करणं निर्धारणम्, द्वयोरित्यवयवसमुदायो निर्दिष्टो यत एकदेशो निर्धारयितव्यः, स चैकदेशे निर्धारयितव्ये एक एव सम्भवति; अतोऽन्तरेणाप्येकग्रहणमेकस्यैव निर्धारणं भविष्यतीति निष्फलमेकग्रहणम्? नैतदेवम्; असति हि तस्मिन्? द्वयोरिति कर्मणि षष्ठी विज्ञायते, द्वौ चेन्निर्षार्येते कुतश्चिदिति, ततश्चेहापि प्रत्ययः स्यात् - अस्मिन्? ग्रामे कौ देवदत्तयज्ञदत्ताविति। तस्मादेकग्रहणं कर्तव्यम्॥", "53093": "`जातिपरिप्रश्नविषयेभ्यः` इति। जातिपरिप्रश्नो यथासम्भवं येषां ते तथोक्ताः। `कतमो भवतां कटः` इति। `गोत्रञ्च चरणैः सह` (म। भा। 2।225) इति तस्य जातित्वम्। सा च कठजातिः किं शब्देन परिपृच्छ्यते। किंशब्दोऽत्र जातिपरिप्रश्नविषयो भवति। `यतमो भवतां कठस्ततम आगच्छतु` इति। यत्तच्छब्दाविह जातिविषयावेव, न परिप्रश्नविषयो भवति। `यतमो भवतां कठस्ततम आगच्छतु` इति। यत्तच्छब्दाविह जातिविषयावेव, न परिप्रश्नविषयौ; असंभवात्, न हि ताभ्यां परिप्रश्नः क्रियते, किं तर्हि? किंशब्देन। अत एव वक्ष्यति - `परिप्रश्नग्रहणं किम एव विशेषणम्, न यत्तदोः, असम्भवात्` इति। `वावचनमकजर्थम्` इति। पक्षेऽकजपि यथा स्यात्। यद्येवम्? वाक्यं न सिध्यति, यदा हि डतमज्? न भवत्यकचैव भवितव्यम्? इत्यत आह - `महाविभाषा` इत्यादि। अत्र च महीविबाषा प्रत्ययविकल्पार्थाऽनुवर्तते, तया प्रत्यये विकल्पिते पक्षे वाक्यमपि भविष्यति। `जातिग्रहणं तु सर्वैः सम्बध्यते` इति। जातिः सवत्रैव भवति, तत्र जात्यादिना किं शब्दे विशेष्यमाणे सामध्र्यादेव तस्य परिप्रश्नविषयत्वं लभ्यते? नैतदस्ति; स हि क्षेपेऽपि वर्तते। तत्रासति परिप्रश्नग्रहणे यदा आतौ क्षेपे वर्तते, तदा प्रत्ययः स्यात्॥", "53094": "`स्वस्मिन्? विषये` इति। आत्मीये विषये। तत्र द्वयोरेकस्य निर्वारणं डतरचो विषयः बहूनामेकस्य निर्धारणे डतमचः। चकारोऽनुकर्षणार्थः। असति हि तस्मिन्? `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या। प। 19) इति डतमजेव स्यात्; द्वयोनिर्धारणे द्वयोरेकस्य डतरजित्यनुवृत्तेः, बहूनां निर्धारणे डतमजित्यनुवृत्तेः। विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह - `विकल्पोऽनुवर्तत एव` इति। अनन्तरसूत्राद्वेत्यनुवर्तत एवेति विक्लप इत्युक्तम्, तेनैव प्रत्ययविकल्पः सिद्धः। तसमात्? पूजार्थमेव प्राग्ग्रहणम्, न दिकल्पार्थम्॥", "53095": "`व्याकरणकेन` इत्यादि। कथं पुनव्र्याकरणमवक्षेपणम्, तस्याध्ययनं शास्त्रविहितम्, वेदाङ्गत्वात्? तथापि यत्राञये तदवक्षेपणमुपसंहरति, तं प्रति तस्यावक्षेपणत्वमुपपद्यते; दोषहेतुत्वात्। `परस्य` इत्यादिना <<कुत्सिते>> [[5.3.74]] इत्यवक्षेपणे कन्नित्यस्य विभागं दर्शयति॥", "53096": "`तद्विशेषणं प्रतिकृतिग्रहणम्` इति। प्रतकृतिविषयं यत्र सादृश्यं तत्र प्रयोगो यथा स्यात्। गौरिवगवय इत्यत्रास्ति सादृश्यम्, न तु प्रतिकृतिविषयम्; न हि गौर्गवयप्रतिकृतिः। काष्ठादिमयं हि यत्? प्रतिच्छन्देकं तत्? प्रकृतिच्यते॥", "53097": "", "53098": "चञ्चे इति तृणपुरुष उच्यते। सादृश्याच्च मनुष्यश्चञ्चा। `लुपि युक्तवद्व्यक्तियचने` [[1.2.51]] इति प्रकृतिगतमेव लिङ्गं भवति। ननु च `मनुष्यलूपि प्रतिषेधः` (वा।21) इति वचनाद्युक्तवद्भावो न प्राप्नोति? नैतदस्ति; विशेषणानां प्रतिषेधः, न लुबन्तस्य॥", "53099": "", "53100": "`देवपद्यः` इति। देवानां पन्था इति षष्ठीसमासः। `ऋक्पः [[5.4.74]] इत्यादिनाकारः समासान्तः, कन्, तस्य सुप्॥", "53101": "`इतः प्रभति` इत्यादि। तत्र प्रतिकृतौ <<इवे प्रतिकृतौ>> [[5.3.96]] इति कनि प्राप्ते, इतः प्रभृति प्रत्यया भवन्ति। अप्रतिकृतौ तवसंज्ञायां वाक्येनैवाभिधाने प्राप्ते। संज्ञायां तु प्रतिकृतावप्रकृतौ च ढञेव; वस्तिः=वृतिविकारः। `वास्तेयी` इति `टिङ्ढाणञ्` [[4.1.15]] इति ङीप्॥", "53102": "", "53103": "", "53104": "", "53105": "", "53106": "`इदार्थविषयात्? समासात्` इति। इवशब्दस्यार्थ इवार्थः=सादृश्यं विषयो यस्य स तथोक्तः। यदि इवार्थविषयात्? समासाच्छो विधीयते, शस्त्रोश्यामा, पुरुषव्याघ्र इत्यत्रापि प्रप्नोति? नैष दोषः, न ह्यत्र समास इवार्थे वर्तते, किं तर्हि? पूर्वपदमुत्तरपदं वा - शस्त्रीव श्यामा, पुरुषोऽयं व्याघ्र इवेति। अथाप्येकदेशस्येवार्थे वर्तमानत्वात्? समासोऽणीवार्थं उच्यते, तथापि समासेनैवोक्तत्वान्न भविष्यति, यस्तु समासः स क इवार्थे वर्तेते? समासार्थावपर इवार्थो यत्रास्ति तत्रायं प्रत्य उक्तः। `परस्मिन्निवायं एव` इति। `इव` इत्यभिकारात्। `अतर्कितोपनतम्` इति। अबुद्धिपूर्वमुपस्थितमित्यर्थः। `चित्रिकरणम्` इति।विस्मयकरणमित्यर्थः। `तत्कथम्` इति। केन प्रकारेणातर्कितोपनतं चित्रीकरणमिति? - इममर्थं पृच्छति - तत्कमित्यादि। `समासश्चायम्` इत्यादि। यदेतदिवार्थविषयात्? समासात्? प्रत्ययविधानम्, अत एव ज्ञापकादवसीयते - समासो भवति। कथं पुनरेतज्ज्ञापकमिति? आह - `न ह्रस्य` इत्यादि। इवार्थविषयस्य समाससामान्यस्य लक्षणं नास्तीति। तस्माद्यदेतत्? ततः प्रत्ययविधानम्, एतदेव तद्भावस्य ज्ञापकमुपपद्यते। अथ वा - किं पुनः कारणं ज्ञापकेन तद्भावः प्रतिपाद्यत इति? आह - `न ह्रस्य` इत्यादि। `स चैवं विषय एव` इति। इवार्थविषय एवेत्यर्थः॥", "53107": "", "53108": "", "53109": "`अन्यतरस्यांग्रहणेन` इत्यादि। पूर्वसूत्रेण [[5.3.108]] विहितत्वाट्ठगेवानन्तरः। अन्यतरस्यांग्रहणं समुच्चयार्थम्। अतस्तेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति स एव प्राप्यते॥", "53110": "`इमथ` इति। इमेतीदमा समानार्थं प्रकृत्यन्तरमस्ति। तत इदं प्रत्ययविषानम्॥", "53111": "", "53112": "`पूर्वात्? इति। पूर्वशब्दोऽवयववाची। ग्रामणीः पूर्वो यस्य तत्? ग्रामणीपूर्वम्। प्रतिषेधेन च स्वरूपग्रहणं भवतीति विज्ञायते। पूगशब्देन स्वरूपे गृह्रमाणे ग्रामणीपूर्वतः प्राप्तिरेव नास्ति; ग्रहणवता प्रातिपादिकेन (व्या।प।89) तदन्तविधः प्रतिषेधात्। `लोहष्वजाः` इति कन्। अत्र देवदत्तशब्दः पूर्वग्रामणीरवयव इति न प्रत्ययः॥", "53113": "आयुधजीवि। बाहीकेष्विति। बाहीकाख्यग्रामविशेषेष्वित्यर्थः। क्षौद्रक्य इति। क्षुद्रको नाम कश्चिदायुधजीविनां बाहीक देशवासिनां सङ्घः। स एव क्षौद्रक्यः। मालव्य इति। मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनांसङ्घः। स एव मालव्यः। टित्त्वान्ङीबिति। एवं च अस्त्रियामिति नात्र सम्बध्यत इति भावः। तद्विशेषेति। व्याख्यानादिति भावः।", "53114": "`वाहीकेषु` इति। निर्धारणे [[2.3.41]] सप्तमी। `वाहोकेषु मध्ये य आयुधजीविसङ्घः` इति। निधरिम्ञ्च समानजातीयस्यैव भवतत्यायुधजीविसङ्घोऽपि वाहीक एव विज्ञायते। अथ वा - देशवाचिनो वाहोकशब्दादधिकरण एवैषा सप्तमी; वाहिकदेशविशेष आयुधजीविसङ्घो वसतीति।`ब्राआहृणे तद्विशेषग्रहणम्` इति। अथ स्वरूपग्रहणं कस्मान्न भवति? अत एव प्रतिषेधात्। यदि स्वरूपग्रहणं स्यात्, ब्राआहृणप्रतिषेधोऽनर्थकः स्यात्। प्राप्तिपूर्वको हि प्रतिषेधो भवति। ब्राआहृणशब्द आयुधजीविसङ्घो वाहीकेषु न विद्यत इति किं ब्राआहृणप्रतिषेधेन! ब्राआहृणविशेषवाचितस्तु ये गोपालप्रभृतयः शब्दास्तद्वाच्या आयुध जीविङ्घा वाहीकेषु भवन्ति; तत्र यदि प्रतिषेधो न क्रियेत, तदा तेभ्योऽपि स्यात्। अतस्तन्निवृत्त्यर्थोऽर्थवान्? विशेषग्रहणे प्रतिषेधो भवति। तस्मात् - `ब्राआहृणे तद्विशेषग्रहणम्, राजन्ये तु स्वरूपाग्रहणमेव` इति। तद्वाच्यस्यायुधजीविसङ्घस्य वाहीकेषु सत्त्वात्; `स्व रूपं शब्दस्याशब्दसंज्ञा` इति वचनाच्च। `तेन` इत्यादि। यस्माद्? ङीबर्थोत्र टकारः कृतस्तेन `अस्त्रियाम्` [[5.3.113]] इति नानुवर्तते। तदनुवृत्तौ ञ्यट्प्रत्ययान्तं स्त्रियां न भवतीति ङीबर्थं टित्करणनर्थकं स्यात्। तस्मादस्त्रियामिति निवृत्तम्, अतः स्त्रियामपि भवति। `कौण्डीबृसी` `क्षौद्रकी` इति। <<हलस्तद्धितस्य>> [[6.4.150]] इति यकारलोपः॥", "53115": "यदि वाहीकेषु वृकशब्दस्य वाच्य आयुधजीविसङ्घो भवति, ततो ञ्यटि प्राप्तेऽन्यत्राप्ताप्त एव कस्मिश्चित्? प्रत्ययविधानं वेदितव्यम्। `वृकाविव` इति। वृकशब्दोऽत्र जातिवचनः॥", "53116": "`तेषु चेयं स्मृतिः` इति त्रिगर्तषष्ठाः स्मय्र्यन्ते ज्ञायन्तेऽनयेति स्मृतिः। सा पुनः - `आहुस्त्रिगर्तषष्ठान्` इति। अयमेवाप्तप्रणीतश्लोकः एषु च त्रिगर्तषष्ठेषु प्रथमपञ्चमौ शिवाद्यणन्तौ, शेषास्त्विञन्ताः। केचिदतद्धितान्तमेव पञ्चमं पठन्ति। तेषां ब्राहृगुप्तशब्दादेव च्छो भवति॥", "53117": "किगर्थ पुनरिह यौधेयादयः पठन्ते, यावता लुक्प्रतिषेधार्थं चतुर्थे यौधेयादयः समाम्नाता एव, त एव चेह गृह्यन्ते? सत्यमेतत्; विचित्रा हि गणानां कृतिर्गणकारेस्येति पुनः पठिताः। पर्(ाआदिषु सत्वच्छशब्दो पठते। स च सत्वच्छब्दपरकृतिर्मतुप्प्रत्ययान्तो वेदितव्यः॥", "53118": "`अभिजितोऽपत्यमित्यण्` इति। `प्राग्दीष्यतोऽण्` [[4.1.83]] इत्यौत्सर्गिकः। एवमुत्त्रत्रापि। `गोत्रप्रत्ययस्याणो ग्रहणमिष्यते` इति। तत्कथं जातिनाम्न इत्यनुवर्तते? तेनाणन्तं यज्जातिनाम तदेव ग्रहीष्यते। यश्च गोत्र्रऽण्? विहितस्तदन्तमेव जातिनाम भवति; `गोत्रं च चरणैः सह` (म। भा। 2।225) इति आतित्वात्। `आभिजितो मुहूततत्त्#ं#ः, आभिजीतः स्थालीपाकः` इति। एकत्र <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यण्, अपरत्र <<सास्य देवता>> [[4.2.24]] इति॥", "53119": "इति श्रीबोधिसत्त्वदेशीपाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां पञ्चमस्याध्यायस्यतृतीय पादः॥* * *अथ पञ्चमोऽध्यायःचतुर्थः पादः", "54001": "प्रतिपदिकादिति वर्तते, तस्य विशेषणं पादशतस्यग्रहणम्, विशेषणेन तदन्तविधिर्भवतदीत्याह - `पादशतान्तस्य` इति। आदिशब्दोऽवयववचनः। न च संख्याशब्दः पदशतशब्दयोरवयव उपपद्यते; पृथाग्भावादनारंभकत्वात्। न हि पृथग्भूतमनारम्भकं शब्दान्तरस्यावयवो युज्यते, यथा घटशब्दः पटशब्दस्य। विपरिते तु युज्यते, यथा - पटस्य समुदायात्मनः तन्त्वादिकारणं समदेशमवयदमाहः। तस्मात्? `संख्यादेः` इत्येतदपि प्रातिपदिकस्य विज्ञायते, न पादशतशब्दयोरित्याह - `संख्यादेः` इत्यादि। आनन्तय्र्यलक्षणा चेयं षष्ठो, यथा - गापोष्टकं [[3.2.8]] इति गापोष्टक्प्रत्ययो भवतीत्यनन्तरमिति शेषः। `तत्सन्नियोगेन च` इति। चकारस्य सन्नियोगार्थत्वात्। `अन्तस्य` इति। अलोऽन्त्यपरिभाषया [[1.1.51]] । `पुनः` इत्यादि। निमित्ते भवो नैमित्तिकः, अध्यात्मादित्वाट्ठञ् (वा। 456), न नैमित्तिकोऽनैमित्तिकः। लोपः स्यावित्येवमर्थं पुनर्लोपवचनम्। वुनापि सह लोपो विधीयमानः परनिमित्तं नापेक्षत इत्यनैमित्तिको भवति। यस्येति [[6.4.148]] लोपः। `परनिमित्तकः` इति। ईति तद्धिते च परस्मिन्निमित्ते विधानात्? तस्य स्थानिवद्भावात्, <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति लोपस्य स्थानिवद्भावेन पाच्छब्दरूपस्य विहितत्वात्। अनच्को हि पाच्छब्दः स्थान्युपात्तः, तस्य चानच्कत्वं स्थानिवद्भावे सति हीयते। अस्य त्वनैमित्तिकत्वान्न स्थानिवद्भाव इति पद्भावो भवतीति भावः। `द्वौ द्वौ पादौ` इति। पीप्सायां द्विर्वचनं भवति॥", "54002": "`दमनं दण्डः` इति। ननु दण्डशब्दोऽयं यष्टआदावपि वर्तते? सत्यम्; तथापीह दमने वर्तमानस्य ग्रहणं युक्तम्, दमनस्यैव प्रत्ययान्तेन गम्यमानत्वात्। `दानं व्यवसर्गः` इति। यद्येवम्, तत्? पूर्वयोग उदाहृतं दत्तं तदा चोपपद्यते यद्ययं योगोऽधिकविधानार्थो भवति; न त्वपवादः; तस्मान्नार्थोऽनेन योगेन? इत्यत आह - `अवीप्सार्थः` इत्यादि। तेन दानमात्रेऽनेन वुन्। दानवीप्सायां पूर्वयोगेन पुनर्भवत्येव॥", "54003": "`जातयरोऽपवादः` इति। एतेन यथा प्रकारवचने विधीयमानो जातीयर्? प्रकारवति न प्रकारमात्रे, तथायमपीति दर्शयति; अन्यथा हि जातीयरोयं विषयभेदादपवादो नोपपद्यते, अथ किमर्थ <<प्रकारवचने जातीयर्>> [[5.3.69]] इत्यस्यैवानन्तरं स्थूलादिभ्यः कन्? न विधीयते? किं कृतं भवति? कन्? प्रकारवचनं न वक्तव्यं भवति? नैवं शक्यम्; स्थूलादीनां हि प्रकारस्याज्ञातादीनां च युगपद्विवक्षायां परत्वात्? के कृते कन्न स्यात्; शब्दान्तरत्वात्। अथापि स्यात्? एवमपि स्थूलक इत्याद्युदात्तत्वं स्यात्, इह तु कनो विधाने परत्वात्? परत्वात्? कनि कृति ततः क इत्यन्तोदात्तत्वं सिद्धं भवति। `चञ्चद्बृहतोः` इत्यादि। स्थालादिषु चञ्चद्बृहतोरपाठात्? तन्न प्राप्नोति। तस्मादुपसंख्यानं प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेन चञ्चद्बृहतोरपि भविष्यतीति। `स्थालाणुमाषेषु` इति। केचिदेताश्चतरुआः प्रकृतस्य इति वर्णयन्ति। स्थूलकः अणुकः। माषकः। इषुकः। अपरे तु स्थूलाणुशब्दौ प्रकृती, माषेष्वित्ययं तपाधिनिर्देश इत्याहः। अन्ये त्वानन्तय्र्यादणुशपब्दस्यैव माषग्रहणं विशेषणमाचक्षते। आद्यमेव दर्शनं न्याय्यम्; तथा हि - स्थूलकादयः तद्विशेषमम्। कृष्णकास्तिलाः। `यव व्रीहिषु` इति। यव इति प्रकृतिः, व्रीहिष्विति तद्विशेषणम्। यवको व्रीहिः। `पाद्यकालवदाताः सुरायाम्` इति। अपरे पुनरानन्तय्र्यदवदातशब्दस्य सुराग्रहणं विशेषणं पाद्यकालयोर्न विशेषणत्वं भवतीत्याहुः। `गोमूत्रादाच्छादने` [`गोमूत्र आच्छादने`-काशिका] इति। गोमूत्रशब्दः प्रकृतिः, आच्छादने इति तद्विशेषणम्। गोमूत्रप्रकारकमाच्छादनं गोमूत्रकम्। `सुराहौ` [`सुराया अहौ`-काशिका] इति। सुरेति प्रकृतिः अहाविति विशेषणम्। सुरावर्णोऽहिरिति सुरकः। `जीर्णशालिषु` इति। पत्रमूले इत्येते शब्दरूपे समस्तव्यस्ते प्रत्ययमुत्पादयतः - पत्रकम्, मूलकम्॥", "54004": "`अशेषसम्बन्धः` इति। अशेषस्य स्वेन सम्बन्धिना भेदनादीनां व्याप्तिरित्यर्थः। `भिन्नकम्` इति। न तु यस्याशेषस्य भेदेन सम्बन्धः, अपि त्वेकदेशस्य तद्भिन्नकमित्युच्यते। भिन्नमित्यत्राशेषसम्बन्ध एव गम्यते। यद्यशेषं भिदिक्रियाव्याप्तं घटादि तद्भिन्नमित्यभिधीयते॥", "54005": "`सामिवचने` इति। साम्युच्यते येन तत्? सामिवचनम्। `सामिकृतम्` इति। बहुव्रीहिः, विशेषणसमासो वा। `प्रकृत्याभिहितत्वात्` इति। प्रतिषेधानर्थस्ये हेतुः। अनत्यन्तगतिं गमयितुं कन्? विधीयते। सा च सामिशब्देनैव गमितेति कनः प्राप्तिरेव नास्ति। अतोऽनर्थकः प्रतिषेधः। स्वार्थमात्रेणैव कनो विधायकं लक्षणमस्तीति मन्यमान आह - `केन पुनः` इत्यादि। यदेतत् प्रतिषेधवचनम्, एतदेव ज्ञापयति - भवति स्वार्थे कन्? इति, अन्यथा प्रतिषेषवचनमनर्थकं स्यात्। अर्धकृतम्। नेमिकृतम्॥", "54006": "`कन्ननुवर्तते` इति। स्वरितत्वात्। `न प्रतिषेधः` इति। विपर्ययात्। `बृहतिका` इति। केऽणः` [[7.4.13]] इति ह्रस्वः॥", "54007": "`अविद्यमानानि षडक्षीण्यस्मिन्निति बहुव्रीहिः` इति। ततः `बहुव्रीहौ सक्थ्यक्ष्णोः [[5.4.113]] इति षच्। राजशब्दात्? सप्तमी। राजन्यथीति विगृह्र <<सप्तमी शौण्डैः>> [[2.1.40]] इति समासः।`तमबादयः` इति। `अतिशायेन तमबिष्ठनौ` [[5.3.55]] इत्येवमादयः। `प्राक्? कनः` इति। <<युवाल्पयोः कनन्यतरस्याम्>> [[5.3.64]] इत्ययम्। `ञ्यादयः` इति। `पूगाञ्ञ्योऽग्रामणीपूर्वात्? [[5.3.112]] इत्यादयः। `प्राग्वृनः` इति। `पादशतस्य` [[5.4.1]] इत्यादिसूत्रेण विहितत्वात्। `आमादयः` इति। `किमेत्तिङव्ययघात्` [[5.4.11]] इत्येवमादयः। `प्राङ्मयटः` इति। <<तत्प्रकृतवचने मयट्>> [[5.4.21]] इत्यतः। `बृहतीजात्यन्ताः` इति। `बृहत्या आच्छदने` [[5.4.6]] इत्येतत्? सूत्रं कनमुपलक्षयति। जात्यन्तशब्देनापि <<जात्यन्ताच्छ बन्धुनि>> [[5.4.9]] इत्येतत्। बहुवचननिर्देशोऽषडक्षादिसूत्राविहितस्य परिग्रहार्थः॥", "54008": "", "54009": "", "54010": "`सस्थानेन` इति। करणे तृतीया। स्थानेन स्थानवाच्येनार्थेन तुल्यपर्यायेण स्थानान्तं यद्यर्थवद्भवत्येवं प्रत्ययो भवति, नान्यथा। कथं पुनः स्थानशब्देन तुल्यत्वमुच्यते? इत्याह - `समानम्` इत्यादि। यस्य समानं स्थानं स सस्थान इत्युच्यते। यश्चैवंविधं स यदपेक्षं तस्य समानं स्थानं स तेन तुल्यो भवतीति। `पितृस्थानीयः` इति। पितृस्थानमिव स्थानं यस्येति `सप्तम्युपमान` (वा। 99) इत्यादिनोत्तरपदलोपो बहुव्रीहिः। `गोस्थानम` इति। षष्ठीतत्पुरुषोऽयम्। भवति ह्रेतत्? स्थानान्तं प्रातिपदिकम्, न तु स्थानेन तुल्यार्थेनार्थक्तः। यथा स्थानान्तात्? प्रत्ययो भवति, तथा तत्पुरुषेणापि स्वस्थानशब्देनार्थ उपस्थापिते तेनार्थेनार्थवतः स्थानात्? प्रत्ययेन भवितव्यम्; विशेषानुपादानात्। ततश्च तुल्यञ्च तत् स्तानान्तं प्रतिपदिकं स्थानवाच्येनार्थेनार्थवदितियश्चोदयेत्? तं प्रत्याह - `इतिकरणो विवक्षार्थः` इति। इतिकरणो ह्यत्र विवक्षार्थः क्रियते, तेनायमर्थो लभ्यतेततश्चेद्विवक्षा भवतीति। बहुव्रीह्रर्थेनार्थवतः स्थानात्? प्रत्ययोत्पत्तौ लोकस्य विवक्षा भवति, न तत्पुरुषार्थेनार्थवतः। तस्मात्? स्थानान्तस्यार्थमुत्पादयितुं बहुव्रीहिरेव स्थानशब्दार्थमुत्पादयति; न तु तत्पुरुषः। तेन न भवत्यतिप्रसङ्गः। `चच्छब्दः स्मबन्धार्थः` इति। स्थानान्तस्य सस्थानसम्बन्धो यथा स्यादित्येवमर्थं चेच्छब्दः; अन्यथा प्रत्ययं प्रति पञ्चस्या स्थानान्तस्य निर्देशात्? स्थानान्तस्य सस्थानेन सम्बन्धो न स्यात्। न हि पञ्चम्यन्तेन तस्य सम्बन्धः शक्यते कर्त्तुम्। चेच्छब्दे तु स चेत्? स्थानेनार्थवद्वतीत्युपपद्यते, न तु सम्बन्धः। `द्वयोर्विभाषयोर्मध्ये नित्यविधयः` इति। यदि नित्या न स्युः, पूर्वैव विभाषोत्तरत्रानुवर्त्तिष्यत इत्युत्तरं विभाषाग्रहणमनर्थकं स्यात्॥", "54011": "`अद्रव्यप्रकर्षे` इति। ननु च द्रव्यस्य न प्रकर्षोऽस्ति; तथा च भाष्ये उक्तम् - `न वै द्रव्यस्य प्रकर्षोऽस्ति` इति, अतः प्रतिषेधोऽनर्थकः? इत्यत आह - `यद्यपि` इत्यादि। दृश्यते चाधेयधर्मस्याधार उपचारः, यथा - मञ्चाः ऋशन्तीति। तस्मादाधाराधेययोः क्रियागुणयोर्धर्मः प्रकर्षः। स यदाधारद्रव्य उपचर्यते तदासौ द्रव्यधर्मत्वादुपचारेण द्रव्यधर्मो भवति। अतोऽयं प्रतिषेधः क्रियते। `क्रियागुणयोरेव` इत्यादि। क्रियाया गुणस्य प्रकर्षो यदा द्रव्ये नोपचयंते क्रियागुणयोरेव प्रकर्षः, तत्रैव प्रत्ययः। यदि तु द्रव्ये उपचर्यते ततो द्रव्यप्रकर्ष इति वचनात्। `किन्तराम्` इति। वस्तुनो बहवो विशेषाः, तत्र प्रश्नः किंशब्दार्थः। `पूर्वाह्णेतराम्` इति। <<घकालतनेषु कालनाम्नः>> [[6.3.17]] इति सम्पम्या अलुक्। ननु च पूर्वाह्णः कालः, कालश्च द्रव्यम्, द्रव्यप्रकर्षे प्रत्ययेन न भवित्व्यम्; अद्रव्यप्रकर्ष इति प्रतिषेधात्? नैव दोषः; न ह्यत्र प्रातिपदिकार्थः प्रकर्षे वर्तते, किं तर्हि? विभक्त्यर्थः, स च गुम एव; द्रव्यशक्तिस्वरूपत्वात्? कारकाणाम्। अथ वा - वचनसामर्थ्यात्? कालप्रकर्षे भवति। न हि कालादन्यस्यस्मादेकारात्? परो घ#ओ भवति। `कालनाम्नः` इति परतः सप्तम्या अलुग्विधानात्। `उच्चैस्तराम्` इति॥", "54012": "", "54013": "`अनुगदतीत्यनुगादी` इति। ग्रहादित्वाण्णिनिः। आवाश्यके वा, ताच्छील्ये वा, अस्मादेव निपातनाच्च॥", "54014": "`व्यावक्रोशी` इति। `क्रश आह्वाने` (धा। पा। 856) इत्यस्माण्णच, लघूपधगुणः, णजन्तादञ्। स च कृदग्रहणपरिभाषया (व्या। प। 126) सगतिकाद्बवति। तेन सगतिकमेवेह प्रतिपदिकसंज्ञां प्रतिपद्यते, न कर्मव्यतिहार इति प्रतिषेधादेव वृद्धिप्रतिषेधयोरादिवृद्धिरेव भवति। `टिङ्ढाणञ्` [[4.1.15]] इति ङीप्। `व्यावहासी` इति। `अत उपदायाः` [[7.2.116]] इति वृद्धिः। `ततः` इति। णजन्तादिति यावत्। `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते (जै।प।वृ। 95) इति कृत्वा। `एवं तर्हि` इत्यादिना स्त्रीग्रहणं ज्ञापकं दर्शयति। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनम्। `अतिवर्तन्तेऽपि` इति। व्यभिचरन्त्यपीत्यर्थः। अपिशब्दादनुवर्तन्तेऽणीति। यदि स्वार्थिकानां प्रकृतितो लिङ्गवचनानुवृत्तिव्यभिचारो ज्ञाप्यते, ततो गुडादिभ्यः पुंलिङ्गाद्यनुगतेभ्यश्च स्वार्थे कल्पबादयो भवति, तेषां पुंल्लिङ्गवचनं च तदैव भवेत्? ततश्च गुडकल्पा द्रक्षेत्येवमादि नोपपद्यते। तस्मस्तु ज्ञापिते लिङ्गान्तरञ्च भवतीति। तेन सर्वमेतदुपपन्नं भवति। आदिशब्देनापि तैलकल्पा, चातुर्वण्र्यम्, त्रैलोक्यमित्येवमादीनां ग्रहणम्॥", "54015": "`सांराविणम्` इति। `रु शब्दे` (धा। पा। 1034) इत्येतस्मादिनुण्, <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः, इनुणन्तादण्। स च पूर्ववत्? सगतेरेव भवति। <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावः। `सांकूटिनम्` इति। `कूट दाहे` (धा। पा। 1890) इति, `मृजूष्? शुद्धौ` (धा। पा। 1066), <<मृजेर्वृद्धिः>> [[7.2.114]] , `शमित्याष्टाभ्यो घिनुण्` [[3.2.141]] । घकारे लुप्ते यद्यपीनुण्? भवति, तथापि तस्मादण्? न भवति; `स्थानान्ताद्विभाषा` [[5.4.10]] इत्यतो विवक्षार्थस्येतिकरणस्यानुवृत्तेः॥", "54016": "`विसारी` इति। पूर्ववण्णिनिः। `वैसारिणः` इति। पूर्ववत्प्रकृतिभावः॥", "54017": "`पौनःपुन्यमभ्यावृत्तिः` इति। पौनः पुन्येनात्र साहचर्यादेककर्त्तृकाणां तुल्यजातीयानां सोपलक्ष्यते, अत एवाह - `एककर्त्तृकाणाम्` इत्यादि। एककर्त्तृकाणामित्यत्र हि संख्येयानुकृष्ट उपसंख्यातगुणस्तन्मात्रे वर्तते। संख्याशब्देऽत एव व्यतिरेकनिबन्धना षष्ठी भवति। क्रियागणनमभ्यावृत्तिर्भवत्येव। `पञ्चकृत्वो भुङ्क्ते` इति। क्रियायाः पञ्चोत्पत्तीः करोतीत्यर्थः। `भूरीन्? वारान्? भुङ्क्ते` इति। यदि संख्याग्रहणं न क्रियते, ततो यथा पञ्चादिभ्यः संख्याशब्देभ्यः प्रत्ययो भवति, तथा भूय्र्यादिभ्योऽपि स्यात्; संख्याग्रहणान्न भवति। `अभ्यावृत्तिः क्रियाया एव सम्भवति` इत्यादी। ननु च द्रव्यगुणयोरपि सम्भवति - पुनः पुनर्दण्डी, पुनः पुनः स्थूल इत्यादि? नैतदस्ति; अत्र सामर्थ्यात्? क्रियाभ्यावृत्तिः - पुनः पुनर्दण्डी भवति, पुनःपुनः स्थूलो भवतीति। तस्मादभ्यावृत्तिः क्रियाया एव सम्भवति, न द्रव्यगुणयोरपि। पुनः पुनर्दण्डीति - अत्र सामर्थ्याल्लभ्या क्रियेति क्रियाग्रहणं न कर्तव्यम्। `एकस्य सकृच्चेत्यत्र` इत्यादि। एकशब्देन ह्रेकैव क्रियाव्यक्तिराख्यायते। न चैकस्यां क्रियाव्यक्तावभ्यावृत्तिः सम्भवति, किं तर्हि? अनेकासु क्रियाव्यक्तिषु। तथा च प्रागुक्तम् - एककर्त्तृकाणामित्यादि। तस्मादेकस्य सकृच्च क्रियैव गण्यते, नाभ्यावृत्तिः। तस्मादसति क्रियाग्रहणे एकशब्दात्? क्रियागणने प्रत्ययो न लभ्यते। तस्मादुत्तरार्थं क्रियाग्रहणं कर्तव्यम्। `पञ्चपाकाः` इति। `क्रियागणने` इत्येतावत्युच्यमानेऽत्रापि स्यात्, अस्ति ह्यत्र क्रियागणनम्। अभ्यावृत्तिर्हि भिन्नकालानां क्रियाणां भवति, इह त्वभिन्नकाला एव पाका गण्यन्ते, अतस्तद्व्यावृत्तिः। ननु च क्रियाप्यत्र नास्त्येव, धात्वर्थस्य सिद्धताख्यो यो धर्मस्तस्मिन्? घञो विधानात्? नैष दोषः; सापि सिद्धता क्रियाप्रदेशेषु क्रियागरहणेन गृह्रत एव; धर्मधर्मिणोर्भेदस्याविवक्षितत्वात्। अन्यथा कारकस्य गतिः, कारकस्य व्रज्येत्यत्र `तुमुन्ण्वुणौ क्रियायां क्रियार्थायाम्` [[3.3.10]] इति ण्वुल्? न स्यात्। `अक्रियमाणे` इत्यादि। द्विविधाः संख्येयेवर्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात्। `शतं वारान्? भुङ्क्ते शतकृत्वो भुङ्क्ते` इति। अत्र सोऽयमित्यभिसम्बन्धेन क्रियाभ्यावृत्तौ संख्येये शतशब्दो वर्तते। अत एव सामानाधिकरण्यम्। शतं वारानिति संख्याने पर्तमानेभ्यो न स्यादिति दर्शयितुमाह - `इह न स्यात्` इति। कुत एतदित्याह - `संख्यानमात्रवृत्तित्वात्` इति। मात्रशब्दः संख्येयं विहाय शतं वाराणामिति स्यात्॥", "54018": "`चतुर्भुक्तम्` इति। `रात्? सस्य` [[8.2.24]] इति सकारलोपः। `चकारः स्वरार्थः` इति। प्रकृतेरन्तोदात्तत्वं यता स्यादिति। प्रत्ययस्य तु चकारः स्वरार्थं नोपपद्यते; तस्यानच्कत्वात्। चतुःशब्दमेव प्रकृतं प्रति चकारस्य स्वरार्थत्वम्, नोत्तरयोः; तयोरुदात्तत्वात्। चतुःशब्दस्तु `चतेरुरन्` (द।उ।8।78) इत्युरन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः॥", "54019": "`सकृद्भुक्तम्` इति। `संयोगान्तस्य` [[8.2.23]] इति प्रत्ययसकारलोपः। चकारोऽन्तोदात्तार्थः। असति तु तस्मिन `इण्भीकापाशल्यतिमर्चिभ्यः कन्` (द।उ। 3।21) इति कन्प्रत्ययान्तत्वान्नित्स्वरेणैकशब्द आद्युदात्त इति स्थानिवद्भादादेशोऽप्याद्युदात्त एव स्यात्, चित्त्वादन्तोदात्तो भवति। अथैकः पाक इत्यत्र कस्मान्न भवति, अस्ति ह्यत्र क्रियागणनम्? इत्याह - `एकः पाकः` इत्यादि॥ बहुशब्देऽपि सामान्य एव; प्रकारेऽपि वृत्तेः। तत्रानेकक्रियाभ्यावृत्तेरविप्रकर्ष एव तावन्न्याय्यः, प्रकरणाद्यपेक्षश्च। कृत्वसुजापि न शक्नोत्यस्मिन्? विषये वर्त्तितुम्। तस्माद्विभाषाग्रहणं न कर्तव्यम्॥", "54020": "", "54021": "`प्राचुर्येण प्रस्तुतं प्रकृतम्` इति। कृतः पुनरयं विशेषो लभ्यते, यावता प्रस्तुतमात्रवचनः प्रकृतशब्दः वचनग्रहणादिह प्रकृत इति वक्तव्ये वचनग्रहणम् - यादृशस्य लोके प्रकृतस्य मयटो वचनं प्रत्ययान्तेन दृष्टं तत्रैव मयडथा स्यादित्येवमर्थम्। लोके च मयट्प्रत्ययान्तं रन्नमयादिशब्दैः प्रकृतस्य प्राचुर्यमुच्यत इति वचनग्रहणादेव विशेषो लभ्यते। `अपरे तु` इत्यादि। अत्र प्रकृत्यर्थादर्थान्तर एव प्रत्ययः। प्रकृतशब्देन प्रस्तुतमात्रमुच्यते। न तु प्राचुय्र्यविशिष्टं प्रकृतमित्येष विशेषः।`उभयथा` इत्यादि। उभयथाप्यस्मिन्नर्थे सूत्रस्य प्रणयनादित्यर्थः॥", "54022": "", "54023": "`उपदेशपारम्पर्ये वर्तते` इति। ह स्मोपाध्यायः कथयति, इति ह स्म पिता कययतीत्यत्रैवा प्रयोगदर्शनात्॥", "54024": "`चतुर्थोसमर्थात्` इति। तादर्थ्ये चतुर्थी; उपसंख्यानात्। `चतुर्थी तदर्थार्थ` [[2.1.35]] इति चतुर्थे भवतीति ज्ञापकाद्वा। `तादर्थ्ये चतुथ्र्या भवितव्यम्` इति चतुर्थीसमर्थात्? प्रत्ययो विज्ञायते। तदर्थ एव तादथ्र्यमिति स्वार्थे ष्यञं दर्शयति। कथं पुनः स्वार्थे ष्यञ्? इत्याह - `चातुर्व ष्र्यादि` इत्यादिना। चातुवैण्र्यादिसिद्ध्यर्थ स्वार्थे ष्यज उपसंख्यानं कृतम्, अयं तु चातुर्वण्र्यादित्वात्? स्वार्थे ष्यञ। `अग्निदेवतायै` इति। अग्निश्चासौ देवतः चेति विशेषणसमासः॥", "54025": "`छब्दस्यः` इति। सप्तवशाक्षरसमाहाराभिषायिनश्छप्दःशब्दात्? स्वार्थे यत्प्रत्ययो भवति। `द्वितीयाबहुवचनस्यालुक्` इति। अप्शब्दाद्द्वितीयाबहुवचनान्ताद्यति कृते `सुपो धातुप्रातपदिकयोः` [[2.4.71]] इति सुपो लुकि", "54026": "", "54027": "", "54028": "", "54029": "`ऋतौ` इत्यादि। उष्णशीते शब्दरूपे कनमुत्पादयत ऋतावभिधेये - उष्णक ऋतुः शीतक ऋतुः। अन्यत्र उष्णः, शीत इत्येव भवति। `पशौ लुनवियाते` इति। लूनवियाते शब्दरपे कनमुत्पादयतः पशावभिधेये - लूनकः पशुः, वियातकः पशुः। पशोरन्यत्र लूनम्, वियातम्। `अणु निपुणे` इति। अणुशब्दो निपुणार्थः कनमुत्पादयति - पुत्रकः। अन्यत्र पुत्रः। `स्नात वेदसमाप्तौ` इति। स्नातशब्दः कनमुत्पादयति वेदसमाप्तौ विवक्षितायाम्। यस्य वेदः समाप्तः स स्नातक इत्युच्यते। वेदसमाप्तावपिति किम्? नद्यां स्नातः। `शून्य रिक्ते` इति। शून्यशब्दः कनमुत्पादयति रिक्ते तच्छेऽभिधेये - शून्यकः, तुक्छ इत्यर्थः। अन्यत्र शून्यम्। `दान कुत्सिते` इति। दानशब्दः कुत्सिते कनमुत्पादयति - कृत्सितं दानं दानकम्। अन्यत्र तु दानम्। `तेनु सूत्रे` इति। तनुशब्दः प्रत्यमुत्पादयति सूत्रे - तनुकम्। अन्यत्र तनुः। `ईयसश्च` इति। ईयस्प्रत्यान्तात्? कन्? भवति - शेयस्कः। `कुमारीक्रीडनकानि च` इति। कुमारीणां यानि क्रीडनकानि तानि कनमुत्पादयन्ति - कन्दुकम्॥", "54030": "", "54031": "", "54032": "`लाक्षादिना रक्ते` इति। ननु च लाक्षादिना य आधीयते लोहितो वर्णः, तस्यानित्यत्वात्? पूर्वसूत्रेणैव सिद्धम्? यदा हि ते योगविशेषेण तथाविधं स्थैर्यमुत्पद्यते; यतः स्वाश्रयं न जहाति तदा नित्यत्वान्न प्राप्नोति, तदर्थमिदमुच्यते॥", "54033": "", "54034": "`उपायाध्यस्वत्वञ्च` इति। उपायशब्दठकमुत्पादयति, ह्रस्वत्वञ्च प्रतिपद्यते - औपयिकः॥", "54035": "`व्याह्मतः` इति। उक्त इत्यर्थः। `अन्येन` इति। सन्देष्ट्रा। न हि पूर्वं सा वाक्? संदिष्टा। तेन हि पूर्वं सन्दिशता सन्देशवाक्? भवति। यया सन्दिष्टोऽर्थोऽभिधीयते, सा च सन्देशवागुच्यते॥", "54036": "`कर्मशब्दात्` इति। एतेन कर्मण इति स्वरूपस्य ग्रहणम्, नेप्सिततमस्येति दर्शयति। ननु च कर्मशब्दस्य संज्ञाशब्दत्वादीप्सिततमस्यैव ग्रहणं युक्तम्, न स्वरूपस्येति? नैतदस्ति; इह हि `स्थानान्तात्` [[5.4.10]] इत्यादेः सूत्रादितिकरणोऽनुवर्तते, तेनायमर्थो लभ्यते - ततश्चेद्विवक्षा भवतीति। कर्मशब्दाच्च प्रत्ययोत्पत्तौ लोके विवक्षा भवति, नेप्सिततमात्। न हि तत उत्पन्नेनाणा व्याह्मतार्थवाचा युक्तं कर्म शक्यते द्योतयितुम्, कर्मशब्दात्तूत्पन्नेन शक्यते। तस्मात्? स्वरूपस्यैव ग्रहणं युक्तम्। `कार्मणम्` इति। `अन्` [[6.4.16]] इति प्रकृतिभावः। `तथैव` इति। यथैव व्याह्मतार्थया वाचा प्रतिपादितम् - एवं कर्तव्यमिति, तेनैव प्रकारेणेत्यर्थः। `अण्प्रकरणे` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेवं प्रतिपादनम् - प्रज्ञादेराकृतिगणत्वात्? कुलालादयस्तत्रैव द्रष्टष्याः। तेन <<प्रज्ञादिभ्यश्च>> [[5.4.38]] इत्यण्? भविष्यतीति। यद्येवम्, भाषायामपि स्यात्? नैष दोषः; `विभाषा बहोः` [[5.4.20]] इत्यादिसूत्राद्विभाषेत्यनुवर्तते, सा च व्यवस्थितविभाषा छन्दस्येव भविष्यति, न भाषायामिति। `सान्नाय` [सान्नय्य-काशिका, पदमञ्जरी च] इत्यादि। सान्नायानुजावरानुषूकानुष्टुभचातुष्प्राश्यराक्षोध्ववैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाश्छन्दसि भाषायाञ्चेष्यन्ते। तस्मात्सान्नायादयः। एषां प्रकृतयः प्रज्ञादिष्वेव द्रष्टव्याः। अत्र चाग्रायणाग्रहायण - इत्यत्रेकारान्ताभ्यामाग्रायण्यग्रहायणीशब्दाभ्यामन्यत्राकारान्तेभ्योऽनुजावरादिभ्यः प्रत्ययः। सान्नाय्यशब्दस्य चेहान्तोदात्तार्थ ग्रहणम्। रूपं तु `पाय्यसान्नाय्य` [[3.1.129]] इति निपातनादेव सिद्धम्॥ष", "54037": "`औषधं पिबति` इति। फलादौ वर्तमानादोषधिशब्दात्? प्रत्ययः, स च जातिर्न भवति; `आकृतिग्रहणा जातिः` (काशिका। 4.1.63) इत्यादेर्लक्षणस्याभावात्। ओषधयः क्षेत्रे रूढा भवन्ति। अत्र फलपाकान्ता जातिः, तत्रौषधिशब्दो वर्तते॥", "54038": "`प्रजानातीति प्रज्ञः` इति। <<इगुपधज्ञाप्रीकिरः कः>> [[3.1.135]] । ननु च यः प्रजानाति तस्य प्रज्ञास्तीति <<प्रज्ञाश्रद्धार्चाभ्यो णः>> [[5.2.101]] इति मत्वर्थेनैव णेन सिद्धम्, तत्? किमर्थं प्रज्ञाशब्दादण्? विधीयत इति? अस्य चोद्यस्य निराकरणाय स्त्रियां विशेषं दर्शयन्नाह - `स्त्रो प्राज्ञी` इत्यादि। `विदेः शत्रन्तस्य ग्रहणम्` इति। न तु <<विदेः शतुर्वसुः>> [[7.1.36]] इत्यादि। `श्रोत्र शरीरे` इति। शरीरे यः श्रोत्रशब्दो वर्तते तस्मादण्? भवति-श्रौत्रम्। अन्यत्र शोत्रम्। `जुह्वत्` इति। जुह्वच्छब्दात्? कृष्णमृगे वर्तमानादण भवति - जौह्वतः। जुह्वदित्येवान्यत्र। अन्ये `कृष्ण मृगे` इति पृथक्? पठन्ति। कृष्णशब्दादण्? भवति मृगेऽभिधेये - कार्ष्णो मृगः, कृष्ण एवान्यत्र। जुह्वच्छबदादविशेषेणास्मिन्? पाठे प्रत्ययः। `सत्वन्तु` इति। सच्छब्दो यो मतुप्प्रत्ययान्तः सः सत्वानेव सात्वतः। `प्रज्ञादिरयमाकृतिगणः। तामेवास्याकृतिगणतां बोधयितुमनुक्तसमुच्चयार्थश्चाकाः कृतः। तेन कुलालकुक्कुटादिभ्योऽण्? सिद्धो भवति।", "54039": "किमर्थं पुनस्तिकन्? विधीयते, न तकन्नेव विधीयेत, नित्यश्च स्त्रीप्रत्ययोऽयम्, तत्र टापि कृते `प्रत्ययस्थात्? कात्` [[7.3.44]] इतीत्त्वेनैव सिद्धम्? यत्र तर्हि लुग्भावः क्रियते, तत्र न सिद्ध्येत् - पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिक इति। तत्र हि `अष्यद्र्धपर्वद्विगोः` [[5.1.28]] इत्यादिनाऽऽर्हीयस्य ठको लुकि कृते `लुक्? तद्धितलुकि` [[1.2.49]] इति स्त्रीप्रत्ययस्यापि लुक्। तत्र यदि तकन्? विधीयते, तदा टापोऽभावादिकारो न न श्रूयेत, प्रक्रयागौरवं स्यात्; इकगारस्य शास्त्रान्तरेण विधीयमानत्वात्॥", "54040": "", "54041": "", "54042": "`इत्येवमादीनि` इति। आदिशब्देनापादानादिकरणविषयोदाहरणपरिभाषाग्रहणम् - बहुभ्यो ह्यत्रागच्छति बहुश आगच्छतति, अल्पश आगच्छतीति। बहुशो निदधाति। `बहूनां स्वामी` इत्यत्र शेषस्य विवक्षितकारकाभिधायी बहुशब्दो न भवति। `अर्थग्रहणात्` इत्यादि। असति ह्रर्थग्रहणे बहवल्पशब्दाभ्यामेव प्रत्ययः स्यात्?। तस्मस्तु सति पर्यायेभ्योऽपि भवति। `बह्वल्पार्थात्` इत्यादि। वह्वल्पार्थात्? प्रत्यये विधातव्ये मङ्गलवचटनं कर्तव्यम्। भङ्गलवचनेन चेह व्याख्यानमुच्यते, व्याख्यायते तेनेति कृत्वा। कथं पुनः कारणस्य मङ्गलवचनं कर्तव्यम्? इत्याह - `यत्र` इत्यादि। तत्रेदं व्याख्यानम् - इह प्रशंसाग्रहणमनुवर्तते, प्रशंशायां प्रत्ययेन भवितव्यम्, तच्छाभ्युदयिकेषु। बहुशो ददाति, नाल्पशः - एवं प्रशंसा भवति। इदमेव वचनमाभ्युदयिकेषु बहुशो लोके दानविषयेषु; अन्यता तेनास्य ग्रहणान्वृत्तेर्मङ्गले गम्यमाने प्रत्ययो न भवतीति। अथ वा - इहापीतिकरणानुवृत्तेर्मङगल एव भवति, नान्यत्रेति। शसः सकारस्येत्संज्ञा न भवति; प्रयोजनाभावात्॥", "54043": "प्रतियोगे। विहितेति। `प्रतिः प्रतिनिधिप्रतिदानयो`रिति प्रते कर्मप्रवचनीयत्वे तद्योगे `प्रतिनिधिप्रतिदाने च यस्मा`दिति पञ्चमी विहितेत्यर्थः। प्रद्यचुम्नः कृष्णतः प्रतीति। कृष्णस्य प्रतिनिधिरित्यर्थः। आद्यादिभ्य इति। अयं सार्वविभक्तिकस्तसिः। अपादाने चाऽहोयरुहोः। `अहीयरूहो`रिति छेदः। `हीयते` इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य `हीये`त्यनुकरणम्। हीयरुहोः संबन्धि यन्न भवति तन्मिन्नपादाने इत्यर्थः। अतिग्रहा व्यथने अतिक्रम्य ग्रह इति। लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः। चारित्रेणेति। चरित्रमेव चारित्रम्, तेन हेतुना इतरविलक्षणत्वेन दृश्यते इत्यर्थः। फलितमाह - अन्यानतिक्रम्य वर्तत इति। `व्यथ भयसंचलनयो`रिति चलनार्थाल्ल्युटि व्यथनशब्दः। तदाह - अव्यथनमचलनमिति। क्षेपे इति। `उदाह्यियते` इति शेषः। क्षेपो निन्दा। हीयमानपापयोगाच्च। हीयमानेति। हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः। ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह - क्षेपस्याऽविवक्षायामिति। तत्त्वकथने इत्यर्थः। षष्टआ व्याश्रये ष। नानापक्षसमाश्रयणे इति। सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत्। पक्षः - स्वीयत्वेन परिग्रहः। देवा अर्जुनतोऽभवन्निति। अर्जुनस्य पक्षे आसन्नित्यर्थः। रोगाच्चा। रोगस्य प्रतीकारः - चिकित्सा। प्रवाहिकात इति। विषूचिकाप्रतीकारमित्यर्थः।", "54044": "`प्रद्युम्नो वासुदेवतः प्रति` इति। `प्रतिनिधिप्रतिदाने च यस्मात्` [[2.3.11]] इति पञ्चमी, ततस्तसिः। तसेरिकारो मुखमुखार्थः। ननु च सकारस्येत्संज्ञा मा भूदित्येवमर्थः स्यात्? नैतदस्ति; प्रयोजनाभावादेव हि तस्येत्संज्ञा न भविष्यति। `आद्यादिभ्य उपसंख्यनम्` इति। आद्यादिभ्यसतसेरुपसंख्यानमिति प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन आद्यादिभास्तसिर्भविष्यतीति। अनुक्तसमुच्चयार्थत्वे चकारस्य `तस्यादित उदात्तमर्धह्रस्वम्` [[1.2.32]] इति निर्देशः॥", "54045": "`ग्रामादागच्छति` इति। `घ्रुवमपायेऽपादानम्` [[1.4.24]] इत्यपादानसंज्ञा। `चौरेभ्यो बिभेति` इति। `भित्रार्थानां भयहेतुः` [[1.4.25]] इति। `अध्ययनात्? पराजयते` इति। <<पराजेरसोढः>> [[1.4.26]] इति। `सार्थाद्धीयते` इति। `ओहाक्? त्यागे` (धा। पा। 1090), लः कर्मण्यात्मनपदम्, यक्, `घुमास्था` [[6.4.66]] इत्यादिसूत्रेणेत्त्वम्। ननु चाकर्त्तृकं कर्म नास्ति, `कर्त्तुरीप्सिततमं कर्म` [[1.4.49]] इति वचनात्; सार्थश्चात्र न कर्म, किं तर्हि? अपादानम्? नैष दोषः; कर्मसंज्ञायां हि कर्त्तृग्रहणं स्वातन्त्र्योपलक्षणार्थम्। कृत एतत्? क्रियाविशेषणत्वात्। कर्तरि च द्वयमस्ति - स्वातन्त्रयम्, कर्तृसंज्ञा च। तत्र संज्ञायाः क्रियाविशेषणत्वं नोपपद्यते। यद्धि तस्याः कारणं तेनैव सा युक्ता विशेषयितुम्। न च तस्याः कर्त्तृसंज्ञा कारणम्, किं तर्हि? स्वातन्त्र्यम्;तस्य कर्त्तृस्वरूपत्वात्। भवति क्रियां प्रति यदा कारणभावः; कर्मणा च नैव क्रिया विशेष्यते, तदायमर्थो भवति - स्वातन्त्र्यस्य क्रियाया यदीप्सिततमं तत्कर्मसंज्ञं भवतीति। सार्थस्यापि देवदत्तेन तस्याभिधानम्। तस्य तस्मस्त्वसत्यपादानमपि न स्यादेव। तस्माद्देवदत्तः कर्म। जहातेरेव सार्थस्यापादानेन भवितव्यम्। तत्रापादानस्यापि सतः सार्थस्य हानक्रियायां यत्? स्वातन्त्र्यं तत्क्रियाविवक्षयैव देवदत्तस्य कर्मसंज्ञा भवति। अथ किमर्थं यका निर्देशः क्रियते, न `हारुहोः` इत्येवोच्येत? इत्यत आह - `विकारनिर्देशः` इत्यादि। विक्रियते तस्मिन्? रूपमिति विकारः, स पुनरिह यगेव - हीयेति। तत्र हि धुमास्तादिसूत्रेमेकारस्य [[6.4.66]] विधानात्? विक्रियते जहाते रूपम्। अथ वा - विकृतिः=विकारः, तेन विकारेण निर्देशः। कथं नाम? जहातेः प्रतिपत्तिर्यथा स्यात्, जिहीतेर्मा भूदित्येवमर्थम्; अन्यथा हि जीहीतेरपि ग्रहणं स्यात्। विकारनिर्देशे तु यस्येदृशं रूपं तस्यैव ग्रहणं भवतीति न भवत्येष प्रसङ्गः। `भूमित उज्जिहोते` इति। जिहीतेरिहाग्रहणात्? तत्सम्बन्धिनोऽपादानाद्भवत्येव। हाङो ङित्वादात्मनेपदम्, `भृजामित्` [[7.4.76]] इत्यभ्यासस्येत्त्वम्, <<ई हल्यघोः>> [[6.4.113]] इति धातोरीत्त्वम्। `कथं मन्त्रो हीनः स्वरतो वर्णतो वा` इति? यदाह - जहातेः प्रतिषेधः क्रियते ततस्तस्मिन्न प्राप्नेती त्यभिप्रायः। `नैषा पञ्चमी` इति। पञ्चम्या अविहितत्वा।, उपचारेण तसिः, नैषा पञ्चमीत्युक्तम्। किं तर्हि? तृतीयेति। अत्रापि तृतीयाया विहितत्वात्। तृतीयेत्युक्तस्तसिः। तेनैतत्? सूचयति - नायमिह तसिरनेन सूत्रेण पञ्चम्या विहितः, किं तर्हि? `अतिग्रहाव्यथनक्षे पेष्वकर्तरि तृतीयायाः` [[5.4.46]] इत्यनुवर्तमानं `हीयमानपापयोगच्च` [[5.4.47]] इति तृतीयाया इति। सा च तृतीया हेतौ करणे वा द्रष्टव्या॥", "54046": "`अतिक्रम्य` इति। अनेनातिशब्दोऽत्रातिक्रमे वर्तत इति दर्शयति। `अचलनमध्यथनम्` इति। `व्यथभयचलनयोः` (धातुपाठः- 764) इति पठते, तस्येह चलने वृत्तिमाचष्टे। वृत्तेनेति हेतौ करणे वा तृतीया॥", "54047": "`वृत्तेन हीयते, वृत्ततः पापः` इत्यत्र वृत्तस्य हीयमानेन पापेन योगे तृतीया हेतौ, करणे वा। क्षेपविवक्षायामिदमुदाहरणं कस्मान्न भवति? इत्याह - `क्षेपस्य च` इत्यादि॥", "54048": "", "54049": "`प्रवाहिकातः` इति। प्रवाहिकाशब्दात्? प्रतीकारापेक्षया षष्ठी, ततस्तसिः॥", "54050": "`कारणस्य विकाररूपेणाभूतस्य` इति। कारणम्=प्रकृतिः, तस्यैवोत्तरमवस्थान्तरम्=विकारः। तेन विकाररूपेणाभूतस्याजातस्येत्यर्थः। कुतः पुनरयमभूततद्भावविशेषो लभ्यते? अभूतग्रहणादिह हि भावः=जन्म, सत्ता वा। यदि हि सत्ता भावः स्यात्, भ्वस्तिभ्यामेव सम्बन्धः स्यात्, न करोतिना। न हि यत्? क्रियते सा सत्ता। धातुत्रयोपादाने च सति यस्मिन्नर्थे गृह्रमाणे त्रिभिरपि धातुभिर्योगोऽस्ति स एवाश्रयितुं युक्तः; स च जन्मैव, न सत्ता। कृगरहणादेष विशेषो लभ्यते। `तदात्मना भावः` इति। तच्छब्देन विकारः परामृश्यते, स एव विकारः; आत्मा=स्वभावः, तेन विकारात्मा=अभूततद्भावः। अपि तु लब्धसत्ताकस्यैव कारणस्य प्रागप्रतिपन्नविकारस्योत्तरकालविकारभूमावाप्तिरभूततद्भाव इत्युक्तं भवति। तेन यत्र प्रकृतिर्न विवक्ष्यते, तत्र प्रत्यो न भवति, यथाशुक्लं करोतीति प्रत्युदाहरणे। न हि प्रकृतावत्र विवक्षितायामेवंविधोऽभूततद्भावो गम्यते। तच्छब्देन प्रकृतिविकारयोरभेदविवक्षा प्रतिपाद्यते। तेन यत्र प्रकृतिविकाररूपमापद्यमाना तस्मादभिन्ना विवक्ष्यते, तत्रैव प्रत्ययो भवति; न तु यत्र कारणतः कार्यस्य भेदो विवक्ष्यते। यत्र तु भेवः, यथा - पटं करोतीति, न तत्र। `सम्पद्यतेः कर्ता सम्पद्यकर्ता` इति। कथं पुनस्तिङ्न्तेन समासः? कथं च तिङो लोपः? सौत्रत्वात्? निर्देशस्य सत्त्वात् सर्वमिदमुपपद्यते। अथ वा - सम्पूर्वात्? पदेरत एव निपातनाद्यत्प्रत्ययः, तदन्तस्यायं विशेषमसमासः। तत्? तिङ्न्तस्य वृत्तिकरणे त्वर्थप्रदर्शनमात्रं कृतम्; न पुनरेतद्विग्रहवाक्यम्। `सम्पत्तिः` इति वक्तव्ये, `सम्पद्यकर्तेरि` इत्युक्तं वैचित्र्यार्थम्? `शूक्लीकरोति` इति। <<अस्य च्वौ>> [[7.4.32]] इतीत्त्वे `च्वौ` [[7.4.26]] इति दीर्घत्वम्। चव्यन्तस्याव्ययत्वात्? सोर्लोपः। `नात्र प्रकृतिविवक्षिता` इति। विकारमात्रस्य विवक्षितत्वात्। यत्र च प्रकृतिर्न विवक्ष्वते, नात्राभूततद्भावो गम्यत इति न भवति प्रत्ययः। `अभूततद्भावसामत्र्याल्लब्धमेव` इत्यादि। यो ह्रविकाररूपेण भूतो विकारात्माना भवति, स नियोगतस्तेन रपेण सम्पद्यमानः सम्पद्यकर्ता भवतीत्येतत्? सामर्थ्यात्? स्वरूपान्तरेण सम्पद्यते। तत् कर्त्तृसंज्ञकमेव भवतीति नायं नियोगत इत्यभिप्रायेणाह - `कारकान्तरसम्पत्तौ मा भूत्` इति। `अदेवगृहे` इत्यादि। अत्र देवगृहस्य देवताराधनत्वेनाभूतस्य प्रागुत्तरकालं देवतादेयसम्बन्धेन तदात्मकत्वमापद्यमानस्य भवत्ययमभूततद्भावः; स त्वधिकरणस्य, न कर्त्तुः। तथा हि - तद्रूपान्तरमापद्यमानमपि न कर्त्तृसंज्ञम्, किं तर्हि? अधिकरणसंज्ञमेव; अन्यथा सप्तमी न स्यात्। च्वौ इकार उच्चारणार्थः। चकारः प्रकृतदेरन्तोदात्तार्थऋः। वकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः॥", "54051": "`अत्र विशेषणसम्बन्धात्` इत्यादि। अभूततद्भावादीनि सर्वाणि विशेषणानीह पूर्वसूत्रादनुवर्तन्ते। तस्मात्? सर्वविशेषणसम्बन्धात्? पूर्वेणैवारुःप्रभृतिभ्यः प्रत्ययः सिद्ध इति नासौ दिधीयते, लोपमात्रं तु न प्राप्नोति। अतस्तदर्थ वचनम्। यदि पुनरनेनैव प्रत्ययविधिः स्यातद्, दुर्मनीकरोतीत्यादौ प्रत्ययो न स्यात्; ग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधात्? (व्या।प। 89) पूर्वेण तु तदन्तादपि भवति; तत्र ग्रहणवत्प्रातिपदिकस्याभावात्। `उन्मनीकरोति` इत्येवमादौ बहुव्रीहेः प्रत्ययः॥", "54052": "`विभाषाग्रहणं च्वेः प्रापकम्` इति। समुच्चयार्थत्वात्। समुच्चयार्थत्वं त्वनेकार्थत्वान्निपातस्य। यद्येवम्, चकार एव कस्मान्नोह्रः? वैचित्र्यात्? सूत्रकृतेः।अथ प्रत्ययदिकल्पार्थमेवेति विभाषाग्रहणं कस्मान्न भवति? इत्याह - `प्रत्ययविकल्पस्तु` इत्यादि॥", "54053": "`स तु कृभ्वस्तिभिरेव योगे भवति` इति। कृभ्वस्तिभिरित्येव योग इत्यनेन सम्बन्धस्यव तस्येहानुवृत्तेः। अभिविधेः कार्त्स्न्यस्य चावश्यं विशेषेण भवितव्यम्; अन्यथा सूत्रद्वयारम्भो निष्फलः स्यात्, एकेनैव सिद्धत्वात्।स च विशेषो न ज्ञायते, इत्यतस्तत्? पृच्छति - `अताभिविधेः` इत्यादि। `यथास्यां सेनायाम्` इत्यादि। अथ शेषाणां शस्त्राणामेकदेशेन ह्रात्मना सम्बन्धमात्रं विवक्षितम्, न सर्वात्मना विकाररूपापत्तिः। `वर्षासु सर्व लवणमुदकसात्सम्पद्यते` इति। अत्रापि सर्वासां लवणव्यक्तीनामेकदेशेनोदकात्मताविकारेण सम्बन्धमात्रं विवक्षितम्। न त्वेकस्य सर्वात्मना विकाररूपापत्तिः। `कात्स्न्यं तु` इत्यादि। यत्र ह्रेकस्यापि द्रव्यस्य सर्वात्मना विकाररूपापत्तिः, न त्वेकदेशेन, तत्र कार्त्स्न्य भवति। तत्र यदि पूर्वो योगो नारब्येत, यत्रैकद्रव्यविशेषविषयं कात्स्न्यं तत्र प्रत्ययोगो न स्यात्; अभिविधेरभावात्। अथायं नारभ्येत? यत्र सर्वाः प्रकृतय एकदेशेन विकारमापद्यन्ते न स्यत्। तस्मादुभयमारब्धध्यम्॥", "54054": "`तदधीनं तदायत्तम्` इति। तस्यायत्तं तदायत्तम्। तच्छब्देन स्वामिसामान्यमुच्यते। अधीनशब्देनापीशितव्यसामान्यम्। अनन्तरोक्तमेवार्थं विस्पष्टीकर्त्तुमाह - `तत्स्वमिकमित्यर्थः` इति। स स्वामी यस्य तत्? तत्स्वामिकम्। अत्राप्यन्यपदार्थप्रधानत्वादृबहुव्रीहिः। ईशितव्यस्य चान्यपदार्थत्वात्? तस्य प्रधानभावः। स्वामिनस्तु तदुपलक्षणत्वाद्गुणभावः। `स्वामिसामान्यम्` इत्यादि। स्वामिसामान्यम्ीआरसामान्यम्, ईशितव्यसामान्यमिततततत्येतदुभयं तदधीनशब्देनोच्यते। कथं कृत्वा? इह `अधिरीश्वरे` [[1.4.96]] इत्यधिशब्दस्य कर्मप्रवचनीयसंज्ञा, तेन योगे `यस्मादधिकं यस्य चेआर` [[2.3.9]] इति च सप्तमी। स चेआर ईशितव्यापेक्षित इति सामर्थ्यादीशितव्याभिधानमधिशब्देन योगे भवति। अदिशब्दश्चायं शौण्डादिषु पठते, तत्र <<सप्तमी शौण्डैः>> [[2.1.40]] इति समासे कृते पूर्वपदस्य स्वाभिसामान्यमर्थो भवति, उत्तरपदस्य चेशितव्यसामान्यम्। अवडक्षादिसूत्रेण [[5.4.7]] खप्रत्यये कृते स एवायमर्थो भवति, तस्य तत्स्वामिकत्वादित्येवं च कृत्वा। स्वामिसामान्यमीशितव्यासामान्यं तदधीनशब्देनोच्यते। तत्र स्वामिसामान्यं प्रकृत्यर्थः, ईशितव्यसामान्यं तु प्रत्यायर्थ इत्यत आह - `स्वामिविशेषवाचिनः` इत्यादि॥", "54055": "`राजसाद्भवति राष्टम्` इति। पूर्वेण सातिरेव भवति॥", "54056": "अथ बहुलग्रहणं किमर्थम्, यावता `दिभाषा साति कार्त्स्न्ये` [[5.4.52]] इत्यत्र विभाषाग्रहमनुवर्त्तिष्यत एव, विकल्पेन प्रत्ययो भविष्यति? इत्याह - `बहुलग्रहणादन्यत्रापि लभ्यते` इति। तस्माद्विभाषायां प्रकृतायां यद्बहुलवचनं कृतम्, तदन्यत्रापि यथा स्यादित्यभिप्रयः॥", "54057": "`अव्यकतस्यानुकरणमव्यक्तानुकरणम्` इति। यद्यप्यनुकरणे वर्णविशेषो रूपेण न प्रकाशते, तथापि ध्वनेः समानतया तन्मात्रसादृश्येन स तवनुक्रियत इति तस्याप्यनुकरणमित्युच्यते। द्व्यजर्द्धं भवति तस्मात्? प्रत्ययो भवति, यस्य न ततोऽपि न्यूनतरमेकाज्भवति। यद्यकृते द्विवचने यस्य द्व्यजवराद्र्धता ततो डाज्भवतीति ज्ञायते, ततः पटदित्यादेर्न स्यात्; न ह्यत्र द्व्यजवरमर्द्धं भवतीत्येतच्छेतसि कृत्वाऽऽह - `यस्य च` इत्यादि। नन्वेवं सति डाचि परभूते तदाश्रये द्विर्वचने कृते द्व्यजवराद्र्धता भवति, तस्याञ्च सत्यां डाजितीतरेतराश्रयः प्रसजति। इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्पन्ते? इत्याह - `डाचि बहुलम्` इत्यादि। यद्येषा परसप्तमी स्यात्, स्यादेष दोषः; न चैषा परसप्तमी, किं तर्हि? विषयसप्तमी। `पटपटाकरोति` इति। पटच्छब्दाड्डाचि विवक्षिते विषयभूते बुद्धिस्थेऽनुत्पन्न एव पूर्वं तावद्द्विवैचनं पटच्छब्दस्य क्रियते, तस्मिन्? कृते द्व्यजवराद्र्धतायामुपजातायां डाचि टिलोपः, <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इति पूर्वस्य तकारस्य पररपत्वलम्, `दमदमाकरोति` इति। वमच्छब्दस्य पूर्ववद्द्धिर्वचनम्, ततो डाच्। `दृषत्करोति` इति। अत्रापि द्विर्वचने कृते द्व्यजवराद्र्धत भवतीति। नाव्यक्तस्येदमनुकरणम्। `श्रत्करोति` इति। भवत्येतदव्यक्तानुकरणम्, न द्व्यजवराद्र्धम्। कृतेऽपि ह्यत्र द्विर्वचने एकाजवरमर्द्धं सम्पद्यते। `खरटखरटाकरोति` इति। खरटवित्येतस्यानुकरणस्यात्र पटदित्येतस्यानुकरणस्येव पूर्ववद्द्धिर्वचनम्, ततो डाच्। यदि `द्व्यजद्र्धम्` एतावदुच्येत, इह प्रत्ययो न स्यात्, न ह्यत्र द्व्यजद्र्धतास्ति। अवरग्रहणे तु सतीहापि भवति। तत्र हि द्व्यचोऽद्र्धाद्यस्य न्यूनतरमद्र्ध तत एव प्रत्ययेन भवितव्यम्, अन्यतस्तु सर्वतो भवितव्यमेव; अन्यथाऽवरग्रहणमनर्थकमेवेति द्व्यजद्र्धादित्येवं ब्रायात्। `पटिति करोति` इति। <<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इत्यच्छब्दस्य पररूपत्वम्। यद्यत्र डाच्? स्यात्, तस्य डाजन्तस्य परमिति शब्दमुच्चार्य करोतिरनन्तरः स्यादिति, न च तत्परम्; तच्चानिष्टम्। अथ चकारः किमर्थः, यावलतान्तोदात्तत्वं कृत्वादस्य प्रत्ययस्वरेणैव सिद्धम्? इत्यत आह - `चकारः` इत्यादि। पटपटा असि इति स्थिते <<तिङ्ङतिङः>> [[8.1.28]] इत्यसिशब्दस्य निघाते कृते `स्वरितो वानुदात्तेऽपदादौ` [[8.2.6]] इति स्वरित एकादेशः प्राप्नेति, न च स्वरित इष्यते, तदर्थ चकारः। `स्वार्थिको विज्ञेयः` इति। व्यतिरिक्तस्यार्थस्याभावात्। केन पुनः स्वार्थिको यकारः? अनेनैव निपातनेन॥", "54058": "ननु कृभ्बस्तियोग इत्यतः करोतिरनुवर्तते, तत्? किमर्थं कञ्ग्रहणम्? इत्यादि। धातुत्र्यं प्रकृतम्, तत्रासति कृञ्ग्रहणे यथा कृञो भवति, तथा भ्वस्त्योरपि स्यात्। तस्मात्? कृञो ग्रहणं भ्वस्तिनिवृत्त्यर्थम्॥`संक्यायाः` इति सामीप्यसम्बन्धे षष्ठी। `गुणान्तायाः` इति प्रत्ययविधौ संख्यावाचिनः शब्दस्येत्यनेन संख्याशब्दस्य षष्ठन्ततां दर्शयति। अन्तशब्दोऽवयववचनोऽप्यस्ति, तस्येह ग्रहणे संख्याशब्देन सम्बन्धो न स्यात्, न हि संख्याशब्दस्य गुणशब्दोऽवयव उपपद्यते - इति मत्वा सामीप्यवचनोऽयमन्त शब्द इति दर्शयन्नाह - `गुणशब्दोऽन्ते समीपे` इति। `यत्र` इति। अनेन प्रकृतिनिर्द्दिश्यते। `सा` इत्यादि। सा प्रकृतिः संख्या गुणान्तेनाभिधीयत इत्यर्थः। गुणशब्दोऽन्ते यस्य स तथोक्तः। `तादृशात्` इत्यादिना तथाभूतात्? संख्याशब्दात्? सामीप्यवर्त्तिगुणशब्दादित्यर्थः। ननु च सामीप्यवचनान्तशब्दे संख्यायाः पूर्वः परो वा गुण इति विशेषो नावधाय्र्यते, तथा च यत्राप्यसौ पूर्वस्तत्रापि स्यात्? नैष दोषः; सामीप्येऽयं वर्तमानो नियतदेशमेव पराश्रयं वा यत्? सामीप्यं तदाचष्टे, न सामीप्यमात्रम्; यथा - अवयवे वर्तमानो नावयवमात्रमभिधत्ते, किं तर्हि? विशिष्टवेशमेवादयवम् - `द्विगुणं विलेखनं करोति` इति॥", "54059": "", "54060": "", "54061": "सह त्पत्रेण सपत्त्रः। निर्गतं पत्त्रं यस्मान्निष्पत्त्रः। अतिपीडनम्तिबाधनम्॥", "54062": "`निकुष्लान्? करोति` इति। निर्दिष्टं कुलं यस्येति स निष्कुलः। कुलशब्दोऽत्र बन्धुषु वर्तते॥ `आराध्यचित्तानुवर्तनम्` इति। स्वाम्यादेरनभिमतानुष्ठानेनाभिमताननुष्ठानेन वा चित्तस्य पीडनं दुःखम्=प्रातिलोम्यम्। तदपि प्राणिधर्म एव॥", "54063": "", "54064": "`स्वाम्यादेश्चित्तपीडनम्` इति। स्वाम्यादेरनभिमतानुष्ठानेनाभिमताननुष्ठानेन वा चित्तस्य पीडनं दुःखम्=प्रातिलोम्यम्। तदपि प्राणिधर्म एव॥", "54065": "`शूलाकरोति मांसम्` इति। पचतीत्यर्थः॥", "54066": "", "54067": "`मद्राकरोति` इति। मङ्गलपूर्वं मुण्डनं करोतीत्यर्थः। `भद्राच्चेति वक्तव्यम्` इति। भद्रशब्दाच्च डाज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<समयाच्च यापनायाम्>> [[5.4.60]] इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन भद्रादपि भविष्यतीति॥", "54068": "`समासान्ताः` इत्ययमधिकारः` इति। वक्ष्यमाणेन `बहुव्रीहौ संख्येये डजबहुगणात्` [[5.4.73]] इत्यादिना बहुव्रीह्रादित्वेन समासविशेषाद्विधास्यन्ते; यत्रापि बहुव्रीह्रादिग्रहणं नास्ति, तत्र सङ्घातः प्रकृतित्वेन निर्दिश्यते। यता - `अच्? प्रत्यन्ववपूर्वात्? सामलोम्नः` [[5.4.75]] इति, ततश्च सामर्थ्यादेव समासान्ताः प्रत्याय विज्ञास्यन्ते, तत्क समासग्रहणेन? यत्रैतदुभयं नास्ति - यथा - `ऋक्पूरब्धूःपथामानक्षे` [[5.4.74]] इति, तदर्थं समासान्तग्रहणं क्रियते। अन्तशब्दोऽयं सामीप्यवचनोऽप्यस्ति, यदि तस्येह ग्रहणं स्यात्? प्रत्ययपरत्वेनैव डजादीनां सामीप्यस्य सिद्धत्वादन्तशब्दोऽनर्थकः स्यादिति मत्वाऽऽह - अवयववचनोऽयमन्तशब्दो गृह्रत इति दर्शयन्नाह - अवयवा इति अस्य पर्यायेण वृतिंत कर्तुमाह - `एकदेशाः` इति। एकदेशशब्दमिहाश्रयता प्राक्समासविधेः समासार्थादुत्तरपदात्? वक्ष्यमाणाः प्रत्यया भवन्ति, पश्चात्? समासः - इत्युक्तं भवति। एवं हि ते समासस्यैकदेशा भवन्ति यदि प्राक्? समासवृत्तेः स्यात्। समासान्तान्? कृत्वा पश्चात्? तदन्तेन समासः क्रियते। एवञ्च तैः सह समाससंज्ञा बवतीत्युपपद्यते डजादीनां समासावयवत्वम्। अतश्चैतदेवं विज्ञेयम्। योऽभिमन्यतेसमासे कृते डजादिभिर्भवितव्यमिति, तस्य `न कपि` [[7.4.14]] इत्यत्र यद्वक्ष्यति वृत्तिकारः - `समासार्थे ह्रु त्तरपदे कपि कृते पश्चात्? समासेन भक्तिव्यम्` इति, तद्विरुध्यते। ननु च समासार्थादुत्तरपदाड्डजादिषु कृतेषु पश्चात्? तदन्तेन समासः क्रियते - इत्यस्मिन्नपि पक्षे समानो दोषः, यतः <<पथो विभाषा>> [[5.4.72]] इत्येवमादिषु नञः परो यः पथिन्शब्दस्तदन्तात्? तत्पुरुषाद्विभाषा समासान्तो भवतीत्येवमादयो निर्देशा विरुध्यन्त एव? नैतदस्ति; तदविरोधस्य `ङ्याप्प्रातिपदिकात्` [[4.1.1]] इत्यत्र प्रतिपादितत्वात्। `तद्ग्रहणेन गृह्यन्ते` इति तच्छब्देन समासः प्रत्यवमृश्यते। समासावयवत्वे सति तेषामपि तदनुप्रदेशो भवति। अतस्ते। समासग्रहणेन गृह्रन्त इति। अथ समासावयवत्वे प्रत्ययस्य किं प्रयोजनम्? इत्याह - `प्रयोजनम्` इत्यादि। `अधिराजम्, उपराजम्` इति। यताक्रमं विभक्त्यर्थे सामीप्येऽव्ययीभावः। <<अव्ययीभावे शरत्प्रभृतिभ्यः>> [[5.4.107]] , `अनश्च` [[5.4.108]] इति टजन्तस्याव्ययीभावग्रहणेन ग्रहणात्? <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इति विभक्तेरलुक्, अमन्तभावश्च भवति। द्वे पुरी समाह्मते इति <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति समातः। स च <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसंज्ञः, `ऋक्पूरब्धूःपथाम्` [[5.4.74]] इत्यकारप्रत्ययान्तस्य द्विगुग्रहणेन ग्रहणावकारान्तात्? <<द्विगोः>> [[4.1.21]] इति ङीप्? सिद्धो भवति। कोशनिषदिनीति। कोशश्च निषच्चेति समाहारद्वन्द्वः, `द्वन्द्वाच्चुदषहान्तात्? समाहारे` [[5.4.106]] इति टच्? तस्य द्वन्द्वग्रहणेन ग्रहणात्? कोशनिषदमस्या अस्तीति <<द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः>> [[5.2.128]] प्राणिस्थादिनिर्भवति, `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ङीप्। रुआक्त्वचिनीति। पूर्वेण तुल्यम्। `विधुरः` प्रधुरः` इति। विगतो धुरः, प्रगतो धुर इति <<कुगतिप्रादयः>> [[2.2.18]] इति प्रादितत्पुरुषसमासः। पूर्ववदकारस्येह तत्पुरुषग्रहणेन ग्रहणात्? `तत्पुरुषे तुल्यार्थतृतीया` [[6.2.2]] इत्यादिना पूर्वपदप्रकृतिस्वरः सिद्धो भवति। पूर्वपदं पुनरतर निपात आद्युदात्तः। असति तु समासान्तत्वे प्रत्ययस्वरेणान्तोदात्तता स्यात्। `उच्चैर्धुरः, नीचैर्धुरः` इति। उच्चैर्धूरस्येति नीचैर्धूरस्येति बहुव्रीहिः। पूर्ववदकारप्रत्ययः, तस्य बहुव्रीहिग्रहणेन ग्रहणात्? `बहुव्रीहौ प्रकृतया पूर्वपदम्` [[6.2.1]] इति पूर्वपदप्रकृतिस्वरो भवति। पूर्वपदप्रकृतिस्वरस्त्विहान्तोदात्तः। सनुतर्, उच्चैस्, नीचैस्, शनैस, ऋधक्, ऋते, युगपत्, आरात्, पृथगित्येते सनुतर्प्रभृतयोऽन्तोदात्ताः, स्वरादिषु पाठात्॥", "54069": "`सुराजा, अतिराजा` इति। शोभनो राजा, अतिशयितः राजेति विगृह्र `कुगतिप्रादयः [[2.2.18]] इति समासः। `सुगौः` इति। पूर्ववत्समासः। अत्र <<गोरतद्धितलुकि>> [[5.4.92]] इति टच्? प्राप्नोति; अस्माद्वचनान्न भवति। `परमराजः, परमगवः` इति। <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इति समासः। `सुसक्थः` इति। `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच्` [[5.4.113]] इति षच्॥", "54070": "`किंराजा` इति। निन्दितो राजेति विगृह्र <<किं क्षेपे>> [[2.1.64]] इति समासः। किंराज इत्यत्र प्रश्ने किंशब्दः, न क्षेपे, षष्ठीसमासः। ननु `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्` (व्या।प।3) इति प्रतिपदोक्तो यः किमः समासः <<किं क्षेपे>> [[2.1.64]] इत्यनेन विहितः स एव ग्रहीष्यत इति क्षेपग्रहणमनर्थकम्? एवं तर्हि क्षेपग्रहणेनै तदेव ज्ञापयति - इयं परिभाषा नावतिष्ठत इति। तेन बहुव्रीहावपि प्रतिषेधः सिद्धो भवति - निन्दिता धूरस्य किन्धुरं शकटम्, निर्धरं शकटमिति॥", "54071": "`अराजा` इति। तत्पुरुषऽयम्। `अनृचो माणवकः, अधुरं शकटम्` इति। द्वावपि बहुव्रीहि। पूर्ववदकारः॥", "54072": "अपथम्` इत्यत्र पूर्ववदकारः। `अपथं नपुंसकम्` [[2.4.30]] इति नपुंसकलिङ्गता॥", "54073": "बहुव्रीहाविति सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमी। `संख्याव्ययासन्न` [[2.2.25]] इत्यादिना यो बहुव्रीहिः, तस्येदं ग्रहणमिति। तस्यैव संख्येये वृत्तिः। यत्तर्हि वार्थे वर्तते - द्वित्राः, पञ्चषा इति, यश्च सुजर्थे - द्विदशाः, त्रिदशा इति, तत्र न प्राप्नोति? नैष दोषः; तावपि संख्येये वर्तत एव; संख्येयतयैव वार्थस्य सुजर्थस्य चाभिधानात्। दशानां च समीपे उपदशाः। विशतेः समीपे उपविंशाः। विशतेः समीपे उपविंशाः। `तिविंशतेडिति` [[6.4.142]] इति तिलोपः, द्वयोरप्यकारयोः <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। दशानामासन्ना `आसन्नदशाः`। दशानामदूरा `अदूरदशाः` दशानामधिका `अधिकदशाः` द्वौ वा त्रयो वा `द्वित्रा`। पञ्च वा षङ्वा `पञ्चषाः`। सर्वत्र `संख्याव्ययासन्न` [[2.2.24]] इत्यादिना बहुव्रीहिः। `चित्रगुः इति। <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वः। ननु च नञिवयुक्तन्यायेन (व्या।प।65) बहुगणपरतिषेधात्? तत्सदृशविज्ञानेन संख्योत्तरपद एव बहुव्रीहिविज्ञास्यते, एवञ्च चित्रगुप्रभृतिषु प्राप्तिरेव नास्तीति किं संख्याग्रहणेन? स्यादेतदेवं यदि बहुशब्दः संख्येयपदमेव स्यात्; स च वैपुल्यवचनोऽप्यस्ति, तेनासति संख्येयग्रहणे संख्योत्तरपदग्रहणं न स्यात्। `उपबहवः, उपगणाः` इति पूर्ववद्वहुव्रीहीः। `अत्र` इत्यादि। उपगणा इत्यत्र सत्यसति वा डाचि रूपं प्रति विशेषो नास्तीति। स्वरे तु विद्यते - डचि हि सत्यन्तोदात्तत्वं स्यात्, तस्मिन्नसति पूर्वपदप्रकृतिभावेनाद्युदात्तं भवति। `संख्यायाः` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्पुरुषस्य संख्यावाचि यदुत्तरपदं ततो डचः प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - <<संख्यायाश्च गुणान्तायाः>> [[5.4.59]] इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः तेन संख्यायास्तुत्पुरुषस्य डज्भविष्यतीति। `निस्त्रशाद्यर्थम्? इति। आदिशब्दः प्रकारे। `निस्त्रिशाः`[`निस्त्रशानि, निस्त्रशः` इत्येव मूलोपात्ते पदे] इति। <<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषः। डचश्चित्करणमन्तोदात्तार्थम्। अन्यथा हि प्रत्ययस्य समासैकदेशत्वात्? प्रत्यस्वरो बहुव्रीहिस्वरेण बाध्यते॥", "54074": "`सामर्थ्यात्` इति। यस्य येन सम्बन्धोऽस्ति तत्? तस्य विशेषणं भवति; धुर #एव चाक्षेम सम्बन्धोऽस्ति, नेतरेषाम्। अतः समथ्र्यात्? तस्यैवानक्ष इत्येतद्विशेषणं विज्ञायते, न ऋगादीनाम्। `अनक्षे` इति च षष्ठर्थे सप्तमी सुब्ब्यत्ययेन। अत एवाह - `अनक्षसम्बन्धिनी` इत्यादि। अक्षेण सम्बन्धोऽवयवावयविलक्षणः, सोऽस्या अस्तीत्यक्षस्मबन्धिनी। सा धूर्यस्यां तस्या न भवति। अथैवं कस्मान्न विज्ञायते - अक्षेऽभिधेये न भवतीति? अशक्यमेवं विज्ञातुम्; एवं हि विज्ञायमान इहैव प्रतिषेधः स्यात् - दृढा धूरस्याक्षस्य दृढधूरक्ष इति। इह तु न स्यात् - अक्षस्य धूरक्षधूरिति, एवं तर्हि विज्ञायते - अक्षे पूर्वपदे न भवतीति? एवमप्यशक्यं विज्ञातुम्; तथा ह्रेवं विज्ञायमान इहैव प्रतिषेधः स्यात् - अक्षधूरिति। इह तु न स्यात् - दृढधूरक्ष इति। यथा वृत्ति कारेम व्याख्यातं तथोभत्रापि भवति। अक्षसम्बन्धिनी या धूः, तदन्तत्वात्? समासस्य। `अद्र्धर्चः` इति। ऋचोद्र्धमिति `अर्धं नपुंसकम्` [[2.2.2]] इति समासः। `अद्र्धर्चा पुंसि च [[2.4.31]] इति नपुंसकलिङ्गता च। `बहवृचः` इति। बहव ऋचोऽस्य सन्तीति बहुव्रीहिः। `ललाटपुरम्` इति। षष्ठीतत्पुरुषोऽयम्। अथ वा - ललाटं पूरिवेति <<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> [[2.1.56]] इत्यादिना समासः। `नान्दीपुरम्` इति। षष्ठीसमासः। यद्यप्यकारान्तेन पुरशब्देन समासे कृत एतत्? सिध्यति, तथापि व्यञ्जनान्तेन पूःशब्देन यदि समासः क्रियते, तदा व्यञ्जनान्तस्य श्रवणं मा भूदित्येवमर्थं पुरो ग्रहणम्। `द्वीपम्` इति `अन्तरीपम्` इति `समीपम्` इति। द्विर्गता आपोऽस्मिन्, अन्तर्गता आपोऽस्मिन्, सङ्गता आपोस्मिन्निति बहुव्रीहिः। <<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> [[6.3.97]] इतीत्त्वम्। `राजधूरा` इति। षष्ठीसमासः। `महाधुरः` इति। बहुव्रीहिः, <<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इत्यात्त्वम्, `स्त्रियाः पुंवत्` [[6.3.33]] इत्यादिना पुंवद्भावः। `स्थलपथः, जलपथः` इति षष्ठीसमासः। सप्तमीति [[2.1.40]] योगविभागात्? सपतमीसमासो वा। ऋगन्तस्य यो बहुव्रीहिर्नञ्पूर्वपदः, तस्य माणवक एवाभिधेये प्रत्यय इष्यते, यो बहुपूर्वपदो बहुव्रीहिरृगन्तः, तस्य चरणा ख्यायामेव इष्यत इति दर्शयति - `अनृचो माणवको ज्ञेयः` इत्यादि। एतच्च <<पथो विभाषा>> [[5.4.72]] इत्यतो विभाषाग्रहानुवृत्तेव्र्यवस्थितविभाषात्वं चोपलभ्यमिति वेदितव्यम्। `अनृक्कः, बहवृक्कः` इति। <<शेषाद्विभाषा>> [[5.4.154]] इति कप। <<चोः कुः>> [[8.2.30]] इति कुत्वम् - चकारस्य ककारः॥", "54075": "`प्रतिसामम्` इति। प्रतिगतं साम प्रतिसामम्। प्रादिसमासः। प्रतिगतं वा सामास्येति बहुव्रीहिः। गतशब्दो गतार्थत्वाद्वृत्तौ न प्रयुज्यते। अथ वा - साम प्रतीति यथार्थे `अव्ययं विभक्ति` [[2.1.6]] इत्यादिनाव्ययीभावः। अनुगतं सामानेनेति बहुव्रीहिर्वा। `अवसामम्` इति। पूर्वेण तुल्यम्। `अनुलोमम्` इत्यादौ पूर्वेण तुल्यम्। `वलोमम्` इत्यादि पूर्ववतप्रादिसमासादयो वेदितव्याः। `कृष्णोदक्पाण्डुपूर्वायाः` इति। कृष्णोदक्पाण्डुशब्दाः पूर्वे यस्या भूमेस्तस्या अच्प्रत्ययः स्मृतः। कृष्णा भूमिरस्मिन्? देशे कृष्णभूमो देशः। उदीची भूमिरस्मिन्? देश उदग्भूमः। पाण्डुर्मूमिरस्मिन्? पाण्डुभूमः। गोदावय्र्याश्च नद्याश्चाच्प्रत्ययः स्मृतः ते चेन्नदगोदवर्यौ संख्याया उत्तरे भवतः। पञ्चानां गोदावरीणां समाहारः; <<नदीभिश्च>> [[2.1.20]] इति समाहारेऽव्ययीभावः - पञ्चगोदावरम्, पञ्चनदम्। `भूमेरपि` इत्यादि। न केवलं नदीगीदावरीभ्याम्, अपि तु भूमेरपि संख्यापूर्वाया इष्यते। `द्विभूमः` इत्यादौ सर्वत्र बहुव्रीहिः। `तत्` इत्यादि। एतत्? कृष्णभूमाद्यपि योगविभागं कृत्वाऽऽचार्याः साधयन्ति॥", "54076": "`अदर्शनात्` इति प्रतिषेधः क्रियते। `कबराक्षम्, गवाक्षम्` इति। रूढिउब्दावेतौ, नात्रावयवार्थेऽभिनिवेशः कार्यः। कबराक्षं गवाक्षमिति न सिध्यतीत्यभिप्रायः। स्यादेतत् - दर्शनप्रतिषेधात्? सिद्धमेतत्, दृश्यतेऽनेनेति; न दर्शनम्, न च कबराक्षेम दृश्यते, नापि गवाक्षेण? इत्यत आह - `तेनापि` इत्यादि। दर्शनश्ब्दोऽयं चक्षुषि प्राण्यङ्गे प्रसिद्धः। तथा हि दर्शनं प्रयुङ्क्ते चक्षुग्र्राह्रमपि। तस्मात्? प्रसिद्धिवशेन चक्षुष्पर्यायो दर्शनशब्दः, स इहाश्रीयते॥बाल-मनोरमाअक्ष्णोऽदर्शनात् 931, 5.4.76 अक्ष्णोऽदर्शनात्। `अदर्शना`दिति च्छेदः। दृश्यतेऽनेनेति दर्शनं - चक्षुः। करणे ल्युट्। अचक्षुर्वाचिन इति फलितम्। तदाह - अचक्षुःपर्यायादिति। गवामक्षीवेति। अक्षिशब्दस्तत्सदृशे लाक्षणिकैति सूचयितुमिवशब्दः प्रयुज्यते। मुख्यवृत्त्या चक्षुर्वाचकत्वाऽभावादच्। पुंस्त्वं लोकात्।बाल-मनोरमातत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः 776, 5.4.76 अथ तत्पुरुषेष्वसाधारणसमासान्तान् वक्तुमुपक्रमते - तत्पुरुषस्याङ्गुलेः। `अच्प्रत्यन्ववपूर्वा`दित्यतोऽजित्यनुवर्तते, `समासान्त` इत्यधिकृतम्। तेन समासस्य अन्तावयव इति लभ्यते। प्रत्ययः परश्च इत्यधिकारादच्प्रत्ययस्य तत्पुरुषात्परत्वेऽपि तस्य तदवयवत्वादङ्गुलेरित्यवयवषष्ठी। अङ्गुलेरिति तत्पुरुषविशेषणं, तदान्तविधिः। तदाह संख्याव्ययादेरिति। सङ्ख्या च अव्ययं च सङ्ख्याव्यये, ते आदी यस्येति विग्रहः। द्व्यङ्गुलमिति। तद्धितार्थ` इति द्विगुः। प्रमामे द्वयसज्दघ्नञ्मात्रचः `प्रमाणेलो द्विगोर्नित्य`मिति लुक्। द्व्यङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे `यस्येति चे`ति इकारलोपः। निरङ्गुलमिति। `निरादयः क्रान्ताद्यर्थे` इति समासः अच् इलोपः।", "54077": "`समासे व्यवस्थाऽपि` इत्यादि। समासव्यवस्था=समासनियमः - क्वचिद्वहुव्रीहिरेव, क्वचिद्द्वन्द्व इत्येवमादिका निपातनादेव वेदितव्या; व्यवस्थाभेदस्यान्यस्याभावात्। अपिशब्दादन्यदपि टिलोपादि कार्यं निपातनादेव वेदितव्यम्। `सप्तम्यर्थवृत्तयोः` इत्यादिना हि सप्तम्यर्थवृत्तयोरव्यययोराधेयप्रधानयोः समासो विद्यते। तस्मान्निपातनादेव च भवतीति वेदितवयम्। अपिशब्दात्? समासोऽपि निपातनादेव। `अहर्दिवम्` इति। <<रोऽसुपि>> [[8.2.69]] इति नकारस्य रेफः। `ननु च` इत्यादि। अर्थगत्यर्थो हि शब्दप्रयोगः। पर्यायणाञ्चंकेनैवार्थस्योक्तत्वात्? द्वितीयस्य प्रयोगो न सम्भवति। अहर्दिवाशब्दौ पर्यायौ, तत्? कथमनयोद्र्वन्द्वः! न कथञ्चिदिति भावः। वीप्साद्योतनार्थमुक्तस्यापि प्रयोगो न विरुध्यत इति मन्यमान आह - `वीप्सायाम्` इत्यादि। चार्थ उत्पद्यमानो द्वन्द्वो वीप्सायां न प्राप्नोतीत्यतो निपात्यते। एको। एकोऽव्ययीभावः। `साकल्ये` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना। `सरजसम्` इति। <<अव्ययीभावे चाकाले>> [[6.3.81]] इति सहस्य सभावः।`निःश्रेयसम्` इति। प्रादिसमासः। `निश्रेयस्कः` इति। निश्चितं श्रेयोऽनेनेति बहुव्रीहिः, <<शेषाद्विभाषा>> [[5.4.154]] इति कप्। `ऋग्यजुरुन्मुग्धः` इति। य उन्मुग्धत्वादृचो यजूंषि मन्यते स ऋग्यजुरिति बहुव्रीहिणोच्यते। `ततोऽव्ययीभावः` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना सामीप्ये। `टिलोपाभावः` इत्यादि। उपशुन इत्यत्र <<नस्तद्धिते>> [[6.4.144]] इति टिलोपाभावो निपातनादेव। आयुवमघोनामतद्धिते` [[6.4.133]] इति तद्धितादन्यत्र सम्प्रसारणमुच्यमानं तद्धिते न प्राप्नोतीति तदेव निपातनादेव भवतीति। `चतुरोच्प्रकरणे` इत्यादि। त्रिशब्दादुपशब्दात्? परो यश्चतुरशब्दस्तस्मादच उपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। तत्? पूर्वमिव योगविभागमाश्रित्य कर्तव्यम्। त्रयो वा चत्वारो वा `त्रिचतुराः` इति। चतुर्णा समीपे `उपचतुराः`। `संख्याव्ययासन्न` [[2.2.25]] इत्यादिना बहुव्रीहिः। तत्र `बहुव्रीहौ संख्येये डजबहुगणात्` [[5.4.73]] इति डचि प्राप्तेऽज्विधीयते॥", "54078": "`ब्राहृवर्चसम्, हस्तिवर्चसम्` इति। षष्ठीसमासौ। वर्चःशब्दोऽयं दीप्तिवचनः। `पल्यराजशब्दाभ्याञ्चेति वक्तव्यम्` [`पल्यराजभ्याम् - काशिका] (इति)। पल्यशब्दाद्राजशब्दाच्च परो यो वर्चस्शब्दस्तस्माच्चाज्भवतीत्येवमर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं चास्य पूर्वमेव योगविभागमाश्रित्य कर्तव्यम्॥", "54079": "`अवतमसम्` इति। अवहीनं तमसा, अवहीनं वा तम इति प्रादिसमासो वाऽयम्। एवं सङ्गतं तमसा, सङ्गतं तमः - `सन्तमसम्`। अन्धं करोतीति णिच्, तदन्तात्, अन्धयतीत्यन्धम्। अन्धञ्च तत्? तमश्चेति `अन्धतमसम्`। यदन्धं तमः करोतीति तदेवमुच्यते॥", "54080": "`आओवसीयम्। आःश्रेयसम्` इति। आओवसीयः, आः श्रेय इति विगृह्र मयूरव्यंसकादित्वात्? समासः। `स्वभावाच्च` इत्यादि। यद्यपि आःशब्दोऽन्यत्र कालविशेषे वर्तते, तथापीह समास उत्तरपदार्थस्य प्रशंसां स्तुतिमाशीर्विषयां प्रतिपादयति। कुतः? स्वभावात्। शब्दानां ह्रर्थाभिधानं स्वाभाविकम्। तत्र स्वभाव एवात्र हेतुः। `आओवसीयसमित्यस्यैवायं पर्यायः` इति। अस्येत्यनेन च आःश्रेयसमित्येष शब्दो निर्दिश्यते॥", "54081": "`अनुरहसम्` इति। रहःशब्दोऽयमप्रकाशे वर्तते। अनुगतं रहसः, अनुगतं रह इति वा प्रादिसमासः। अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। `अवरहसम्` इति। अवहीनं रहसाऽवहीनं रह इति वा प्रादिसमासः। अवहीनं वा रहोऽस्मिन्निति बहुव्रीहिः। तप्तञ्च तद्रहश्चेति `तप्तरहसम्` विशेषणसमासः। यदुत्पन्नं रहो लोते न केनचिदवगम्यते, तत्? तप्तरहसमित्युच्यते। तपतमिव तप्तम्, यथैव ह्रग्निना तप्तं न केनचिदवगम्यते, तथेदमिति॥", "54082": "`सप्तमीस्थात्` इति। सप्तम्यां तिष्ठतीति सप्तमीस्थः, <<सुपि स्थः>> [[3.2.4]] इति कप्रत्ययः। यश्च सप्तम्यर्थे वर्तते, एवं सप्तमीस्थो भवतीत्याह - `सप्तम्यर्थे वर्तते` इति। `प्रतिगतमुरः प्रत्युरः` इति। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा। 91) इति समासः॥", "54083": "`आयामेऽभिधेये` इति। आयामः=दैष्र्यम्। मत्वर्थीयाकारान्तश्चायम्। आयामे चेत्यभिदेय इत्यर्थः। अन्यताऽनुगवं यानमिति सामानाधिकरण्यं न स्यात्। यानम्ायामः। `अनुगवं यानम्` इति। गावो यथा तथा यानमायातमित्यर्थः। `गवां पश्चात्` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिनाव्ययीभावः पश्चादर्थे च। पूर्ववद्गोशब्दस्य ह्रस्वः। अनुशब्दात्प्रत्यये विधातव्ये यदनुगवमिति निपातनं तत्प्रसिद्ध्युपसंग्रहार्थम्। तेन यद्गवा बाह्रं गोभिश्च तुल्यामामं तत्रैव भवति, नान्यत्र॥", "54084": "द्विस्तावा त्रिस्तावा वेदिः। [[6.4.148]] लोपे कृते तावच्छब्शदस्य टिलोपो निपात्यते। `समासश्च` इति। द्वित्रिशब्दयोर्निपात्यते। `यावतो प्रकृतौ` इत्यादिना नपातनस्य फलं दर्शयति। प्रकृतिविकृतिशब्दौ कार्यविशेषवचनौ। कर्मविशेषे हि कश्चित्? यागाख्यः प्रकृतिशब्देनोच्यते, कश्चिद्विकृतितश्बदेन॥", "54085": "`प्राध्वम्` इति। प्रादिसमामः। तत्र प्राध्वमिति `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा।91) इति समासः। निष्क्रान्तमध्वन इति `निरादयः क्रान्ताद्यर्थे पञ्चम्या` (वा।95)`अत्यध्वम्` इति। प्राध्वमित्यनेन तुल्यमेतत्। उपसर्गश्चात्र न गत्युपलक्षणम्। कुत एतत्? क्रियायोगाभावात्॥", "54086": "`मात्रचो लोपः` इति। `प्रमाणे द्वयसच्` [[5.2.37]] इत्यादिना विहितस्य। `निरङ्गुलम्` इति। निरध्वमित्यनेन तुल्यमेतत्। `अत्यङ्गुलम्` इति। एतदप्यत्यध्वमित्यनेन तुल्यम्। `पञ्चाङ्गुलिः` इति बहुव्रीहिः॥", "54087": "`अहग्र्रहणं द्वान्द्वार्थम्` इति। इष्टिरियम्। न तत्पुरुषार्थम्; मुख्यार्थे तत्पुरुषस्यासम्भवात्। द्वन्द्वार्थे पदार्थं प्रत्याश्रयः। तथा हि - यद्यहर्गुणा रात्रिरहः शब्देनीच्यते, रात्रिगुणं वाहो रात्रिशब्देन गौण्या कल्पनया, तदाहश्च रात्रिश्चेति समानाधिकरणस्तत्पुरुषः सम्भवत्येव। तस्मादिष्टिरियम्। एतावदुक्तं स्यात् - द्वन्द्व इष्यत इति। अत्र च ज्ञापकम् - <<हेमन्तशिशिरावहोरात्रे च च्छन्दसि>> [[2.4.28]] इति द्वन्द्वे समासन्तस्य रात्रिशब्दस्य निपातनम्। `अहोरात्रः` इति। <<रात्राह्नाहाः पुंसि>> [[2.4.29]] इति पुंल्लिङ्गता। `अहन्` [[8.2.68]] इति `रूपरात्रिरथन्तरेषूपसंख्यानम्` (वा। 924) इति नकारस्य रुत्वाद्गुणः। `सर्वरात्रः` इति। <<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> [[2.1.49]] इत्यादिना समानाधिकरणस्तत्पुरुषः। `द्विरात्रः` इति <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इत्यादिना समाहारे द्विगुः, <<द्विगुश्च>> [[2.1.23]] इति तत्पुरुषसंज्ञा। `अतिरात्रः` इति। अत्यध्वमित्यनेन तुल्यमेत्। `नीरात्रः` इति। `रोरि` [[8.3.14]] इति रेफलोपः। <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः॥", "54088": "`राजाहःसखिभ्यष्टच्? इति टच्प्रत्ययं वक्ष्यति` इति। अथ परकृत एवाचि कस्मादादेशो न विज्ञायते? अशक्यस्तत्रायं विज्ञातुम्, न ह्रहःशब्दातात्? तत्पुरुषात्? केनचिदज्विहितः, तत्? कथमादेशस्य निमित्तं स्यात्। अथ `अच्? [[5.4.75]] इति योगविभागेनाज्विधीयते? एवमप्येतद्वचनेमनर्थकं स्यात्; अचि कृते `अल्लोऽपोनः` [[6.4.134]] इत्यनेनाह्नादेशस्य सिद्धत्वात्। न च टिलोपः प्राप्नोतीति मन्तव्यम्; <<अह्नष्टखोरेव>> [[6.4.145]] इति नियमात्। तस्मादच्येव टिलोपापवादोऽयम्। आदेशोऽयमयुक्तः। किं पुनस्तत्? सामर्थ्यम्, यतोऽहःशब्दः पूर्वत्वेन नाश्रीयते? इत्याह - `न ह्रहःशब्दात्` - इत्यादि। `द्व्यह्नः` इति। द्वयोरह्नोर्भव इति <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इत्यादिना समासः, `तत्र भवः [[4.3.53]] इत्यण्, तस्य <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति लुक्। `आत्यह्नः` इति। अत्यध्ववत्समासः। `निरह्नः` इति। अत्रापि निरध्ववत्? समासः। `सर्वाह्णः` इति। विशेषणसमासः। प्रतिषेधं वक्ष्यतीति। `उत्तर्मकाभ्याञ्च` [[5.4.90]] इति॥", "54089": "`द्व्यहः` इति। <<अह्नष्टखोरेव>> [[6.4.145]] इति टिलोपः॥", "54090": "`पुण्याहम्` [`पुण्याहः` - काशिका] इति। विशेषणम्? [[2.1.56]] इत्यादिना समासः। `एकाहः` इति। अत्रापि `पूर्वकालैक` [[2.1.48]] इत्यादिना। कथं पुनः `उत्तमैकाभ्याम्` पुण्यशब्दात्? प्रतिषेधो लभ्यते? इत्यत आह - `उत्तमशब्दोऽन्त्यवचनः` इत्यादि। `अहःसर्वेकदेश` [[5.4.87]] इत्यादौ सूत्रे पुण्यशखब्दस्यान्ते नदिष्टत्वात्। `अग्त्यः` इति। उत्तमशब्देऽपि प्रतिषेधार्थ इहान्त्यवचन उपात्तः। तस्मात्? पुण्यशब्दमाचष्टे। अथ पुण्यग्रहणमेव कस्मान्न कृतम्, लरघु ह्रेवं सूत्रं भवति? इत्याह - `पुण्यग्रहणमेव` इत्यादि। वैचित्र्यं हि सूत्रकृतेरिष्यते, तच्चोत्तमग्रहणे सति सम्पद्यते। यस्माद्वैचित्र्यार्थमुत्तमग्रहणं कृतम् न पुण्यग्रहणम्। `केचि` इत्यादि। पुण्यग्रहणे कर्तव्ये यदुत्तमग्रहणं कृतं तत्प्रयोजनम् - उत्तमशब्दस्यापि संखक्यातस्य प्रतिषेधप्रतिपत्तिर्यथा स्यादित्येवं केचिद्वर्णयन्ति। भवति तत्सामीप्यात्? ताच्छब्द्यम् - गङ्गायां घोष इत्यादि। तस्माच्छक्त उत्तमशब्दः सामीप्यादुपोत्तमशब्दमभिधातुमिति तेषामभिप्रायः। `तेन` इत्यादिना प्रतिषेधस्योपोत्तमशब्दप्रतिपत्तेः पलं दर्शयति॥", "54091": "`परमाहः, उत्तमाहः` इति <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना कर्मधारयः। `मद्रराजः` इति। षष्ठीतत्पुरुषः। कथं पुना राजशब्दग्रहणे राज्ञीशब्दस्य प्राप्नोति? इत्यत आह - `लिङ्गविष्टिपरिभाषया` इत्यीदि। `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इत्येवा लिङ्गविशिष्टपरिभाषा। `लध्वक्षरस्य` इति। सवर्णदीर्घोऽर्थः प्रयोजनं यस्य प्रथमप्रयोगसर्य स तथोक्तः। अत्रह लध्वक्षरं पूर्व निपततीति सख्युरह्नो वा पूर्वानिपाते प्राप्ते योऽहशब्दस्य परनिपातः स राजशब्दस्य सवर्णदीर्धार्थः। प्रयोगस्तु क्वचिन्नैतज्ज्ञापयति - अकारवत एव राजशब्दाट्टज्? भवति। ईकारान्तान्न, ईकारस्याकारेण सवर्णदोर्घान्तस्या सम्भवात्॥", "54092": "पञ्चगवमिति। `तद्धितार्थ` [[2.1.50]] इति समाहारे द्विगुः। `पञ्चगुः` इत्यत्रापि तद्धिनार्थे। `राजगवम्` इति। षष्ठीसमासः। <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुपो लुक्। `राजगवीयति` इति। <<सुप आत्मनः क्यच्>> [[3.1.8]] , सुब्लुक्, <<क्यचि च>> [[7.4.33]] इतीत्त्वम्। अस्त्यत्र लुक्, स तु सुपः; न तद्धितस्य। परव्यत्ययेनात्र पञ्चम्यर्थे सप्तमी। कुत एतत्? पञ्चम्यन्तेन गोशब्देन सामानाधिकरण्यात्॥", "54093": "स चेदुरःशब्दोऽग्रस्याख्या भवतीत्येनेन दर्शितम्। `अआओरसम्` इति। षष्ठीसमासः। अआआनां प्रधानमित्यर्थः। `हस्त्युरसम्, रथोरसम्` इति॥", "54094": "`उपानसम्` इति। उपगतमन इति प्रादिसमासः। `महानसम्` इति। महदन इति <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना कर्मधारयसमासः। `अमृताश्मः, पिण्डाश्मः` इति। विशेषणसमासौ। एवं `कालायसम्` `लोहितायसम्` इति। `मण्डूकसरसम्, जलसरसम्` इति। षष्ठीसमासौ। `सदनः` इति। महानसवत्समासः॥", "54095": "`बहूनां साधारण इत्यर्थः` इति। ग्रामशब्दस्य जनपदसमुदाये वृत्तेः। `कौटतक्षः` इति। पूर्ववत्समासः॥", "54096": "`अतिआः` इति। प्रादिसमासः॥", "54097": "`आकर्शआः` इति। अत्र आआ उपमानम्। `अआआ लोष्टः` इति। अत्राआशब्दोऽप्राणिनि लोष्टे वर्तते, न तूपमानम्। `वानरआआ` इति। उपमितं व्याघ्रादिभिः` इति समासः। अत्र प्राणिनि वानरओति शब्दो वर्तते॥", "54098": "`उत्तरसक्थम्` इति। उत्तरं सक्थ्न इति पूर्वापरादिशूत्रेण [[2.1.57]] समासः। अथ वा - उत्तरं सक्थीति विशेषणसमासः। `मृगसक्थम्` इति। षष्ठीसमासः। `पूर्वसक्थम्` इति। उत्तरसक्थमित्यनेन तुल्यमेतत्। `फलकसक्थम्` इति। `विशेषणम्` [[2.1.56]] इत्यादिना समासः॥", "54099": "`द्विनावम्? त्रिनावम्` इति। <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इत्यादिना द्विगुः। `द्विनावधनः` इति। द्वे नावौ धनं यस्येति बहुव्रीहौ कृते पूर्वयोः पदयोस्तेनैव सूत्रेणोत्तरपदे द्विगुः। पञ्चनावप्रियम्? इति। पूर्वेण तुल्यमेतत्? द्विनावरूप्यम्, द्विनावमयम्` इति। तेनैव सूत्रेम तद्धितार्थे द्विगुः। पूर्ववद्रूप्यमयटौ। `राजनौः` इति। षष्ठीसमासः। `पञ्चनौः` इति आर्हीयस्य [[5.1.19]] ठकः `अध्यर्धपूर्वं` [[5.1.28]] इत्यादिना लुक्॥", "54100": "`अर्धनावम्` इति। ननु च `परवल्लिङ्गं द्वन्दतत्पुरुषयोः` [[2.4.26]] इति स्त्रीलिङ्गेनात्र भवितव्यमिति? अत आह - `परवल्लिह्गं न भवति` इत्यादि॥", "54101": "`द्विखारि` इति। `त्रिखारि` इति। पूर्ववदुपसर्जनह्रस्वः। क्वचिदर्धखारीति पाठः। अत्रैचोरुपसर्जनह्रस्वत्वे कृते `सर्वतोऽक्तिन्नर्थादित्येके` (ग। सू।51) इति बह्वादिपाठान्? ङीष॥", "54102": "`द्वाब्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः` इति। पूर्ववदर्हीयस्य लुक्। `देव्यञ्जलिप्रियः` इति। पूर्ववदुत्तरपदे द्विगुः॥", "54103": "`हस्तिचर्म` इत्यादयः षष्ठीसमासाः। `सुत्रामाणम्` इति। शोभनस्त्रामा इति प्रादिसमासः, <<अन्येषामपि दृश्यते>> [[6.3.137]] इति पूर्वपदस्य दीर्घः, द्वितीयै कवचनम्? `सर्वनामस्थाने च` [[6.4.8]] इत्यादिनोपधादीर्घत्वम्, `अट्? कुप्वाङ्` [[8.4.2]] इत्यादिना णत्वम्। `अनेहसाम्` इति। अनेहःशब्दात्? पुंल्लिङ्गात्? षष्ठीबहुवचनम्। वावचनमित्यनुवर्तत इति शेषः। वावचनशब्देनेह प्राग्ग्रहणं विवक्षितम्; तेन विकल्प्य उच्यन्ते, प्रत्याय्यते प्रत्ययोऽनेनेति कृत्वा। तदेतदुक्तं भवति - ` `खार्याः प्राचम्` [[5.4.101]] इत्यतः प्राग्ग्रहणमनुवर्तते` इति। प्राग्ग्रहणानुवृत्तौ तु यदिष्टं सिध्यति तद्दर्शयति - `ब्राहृसाम` इति। `देवच्छन्दः` इति। उभयत्र षष्ठीसमासः॥", "54104": "`जानपदाख्यायाम्` इति। भावप्रधानोऽत्र जानपदशब्दः। अत एव वृत्तावाह - `समासेन चेद्ब्राहृणो जानपदत्वमाख्यायते` इति। भवति हि भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशः, यथा - <<द्व्येकयोर्द्विवचनैकवचने>> [[1.4.22]] इति। कथं पुनब्र्राहृणो जानपदत्वं शक्यं विशेषयितुम्, यावतैकमिह ब्राहृग्रहणम्, तेन च समासो विशेषितः? नैतदस्ति; तन्त्रेण द्वौ ब्राहृशब्दावृच्चरितौ - तत्रैकेन समासो विशेष्यते, अपरेण जानपदत्वम्, यस्य तत्पुरुषस्य जनपदशब्दः पुर्वपदम्। पूर्ववत्? समासः॥", "54105": "", "54106": "", "54107": "", "54108": "`उपराजम्, प्रतिराजम्` इति। उपशरदं प्रतिशरदमितिवदव्ययीभावः। `अव्यात्मम्` इति। आत्मन्यधीति विभक्त्यर्थे। `प्रत्यात्मम्` इति। पूर्ववदाभिमुख्ये॥", "54109": "", "54110": "नदीग्रहणेन स्वरूपं गृह्रते, न संज्ञा। यदि संज्ञा गृह्रेत, पौर्णमास्याग्रहायणीग्रहणं न कुर्यात्। ननु च नियमार्थमेतत्? स्यात्? ईकारान्तस्यापि नद्योः पौर्णमास्याग्रहायण्योरेव भवतीति? नैतदस्ति; यद्येतत्? प्रयोजनं स्यात्? `पौर्णमास्याग्रहायणी` इत्येवं ब्राऊयात्। `तस्मात्` स्वरपग्रहणमिति। `उपनदि` इति <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वः॥", "54111": "", "54112": "`अन्तगिरम्` इति। गिरेरन्तरित विभक्त्यर्थेऽव्ययीभावः। अन्तः शब्दो हि सप्तम्यर्थवृत्तित्वाद्विभक्त्यर्थे वर्तते। विकल्पार्थमेव सेनकग्रहणं कस्मान्न भवति? इत्याह - `विकल्पोऽनुवर्तत एव` इति। विकल्पार्थत्वात्। विकल्प्यते वानेन सः। अन्यतरस्यांग्रहणं विकल्प इत्युक्तम्, तदिह <<नपुंसकादन्यतरस्याम्>> [[5.4.109]] इत्यतोऽनुवर्तते। तस्मात्? तेनैव विकल्पस्य सिद्धत्वात्? पूजार्थमेव सेनकग्रहणमुक्तम्, न विकल्पार्थम्। ननु च `विभाषयोद्र्वयोर्मध्ये नित्या विधयो भवन्ति` (का। प। वृ। 11) इति पूर्वस्य विधेनित्यतां सम्पादयितुं विकल्पार्थमेव सेनकग्रहणं स्यात्\t? नैतदस्ति; यदि हि पूर्वो विधिनित्यः स्यात्, झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्, `झयः` [[5.4.111]] इत्यनेनैव सिद्धत्वात्। तस्मान्न विकल्पार्थं सेनकग्रहणम्; पूजार्थमेव॥", "54113": "", "54114": "", "54115": "", "54116": "", "54117": "", "54118": "`संज्ञायामिति समुदायोपाधिः` इति। एतेन यदि प्रकृतिप्रत्ययसमुदायः कस्याचित्? संज्ञा भवत्येवं प्रत्ययो भवति, नान्यथेति दर्शयति। `द्रुणसः` इति। `पूर्वपदात्? संज्ञायामगः` [[8.4.3]] इति णत्वम्। वर्ध्रे भवा स्त्री वार्ध्री, सा नासिका यस्य स `वार्ध्रीणसः` इति। <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इति पुंवद्भावप्रतिषेधः। गौरिव नासिकास्य गोनसः। अच श्चित्करणं बहुव्रीहिस्वरबाधनार्थम्। `खरणाः खुरणाः` इति। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। शितर्नासिकास्य `शितिनाः`। अहिरिव नासिकास्य `अहिनाः`। अर्चेव नासिकास्य `अर्चनाः`। <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इति ह्रस्वः॥", "54119": "उपसर्गग्रहणं प्राद्युपलक्षणार्थम्; नासिकां प्रति क्रियायोगाभावात्। `वेर्ग्रो वक्तव्यः` इति। विशब्दात्? परस्य नासिकाया ग्रशब्द आदेशो भवतीति वक्तव्यम्। विग्रः। प्रत्ययोऽजेव॥", "54120": "`टिलोपादिकम्` इति। आदिशब्देन सुशब्दश्च कर्मविशेषणं गृह्रते। `शोभनं प्रातरस्य` इति। शोभनमित्येतदिह कर्मणो विशेषणम्। शोभनं प्रातःकाले कर्मास्येत्यर्थः। एवमुत्तरत्रापि शोभनमित्येतत्कर्मणो विशेषणं वेदिव्यम्।", "54121": "`अकारान्तोऽपि हलशब्दोऽस्ति; तत्र यदा तेन समासः तदा हल इति भविष्यति, यदा त्विकारान्तेन तदा हलिरिति, तदनर्थकं हलिग्रहणम्? नानर्थकम्; भिन्नार्थत्वात्। तेन यो महद्धलं हलिः, तस्मिन्? विषये विवक्षिते, अहल इति न सिध्यति, अहल इति यदाकारान्तेन समासः क्रियते, पूर्ववत्? प्रकृतेभावेनाद्युदात्तत्वं चेष्यते, <<शेषाद्विभाषा>> [[5.4.154]] इति कप्? प्रसज्येत। तस्माद्युक्तं हलिग्रहणम्॥", "54122": "`एवं तर्हि नित्यग्रहणेनान्यत्रापि सूच्यते` इति। ग्रन्ताधिक्यादर्थाधिक्यं भवतीति कृत्वा। असिचश्चित्करणं दुष्प्रजाः, दुर्मेधा इत्यन्तोदात्तत्वं यथा स्यात्? अप्रजाः, इत्यादौ तु नार्थश्चित्करणेन; <<नञ्सुभ्याम्>> [[6.2.172]] इत्यनेनैवोत्तरपदान्तोदात्तत्वस्य सिद्धत्वात्॥", "54123": "", "54124": "`असमस्तः` [नास्ति - काशिकायाम्] इति। असमासः क्रियत इत्यर्थः। `परमस्वधर्मः` इति। स्वश्चासौ धर्मश्चेति स्वधर्मः, परमश्चासौ स्वधर्मश्चेति परमस्वधर्मः। `यद्येवम्? इत्यादि। यदि केवलग्रहणेन धर्मो विशेष्यते परमस्वधर्मश्चेति न, परमस्वधरहृएति स्यात्। `केवलात्? पूर्वपदात्` इति। धर्मस्य असहायात्? पूर्वपदादित्यर्थः। `न पदसमुदायात्` इति। परमो धर्म इति प्रकृतेन सम्बन्धः। अत्र व्याख्याने त्रिपदे बहुव्रीहौ न भवति प्रसङ्गः, पदसमुदायाद्धि परमो धर्मशब्दो न केवलात्? पूर्वपदात्। अनिचश्चित्करणं पूर्वपदप्रकृतिस्वरं बाधित्वाऽन्तोदात्तमेव यथा स्यात्॥", "54125": "जम्भवचनेन तृणमिव जम्भोऽस्य, सोम इव जम्भोऽस्येति विग्रहीतव्यमिति। ननु तृणं जम्भोऽस्य, सोमो जम्भोऽस्येत्येवं विग्रहीतव्यम्, न हि तृणं जम्भः, न च सोमः। अभ्यवहारह्रवचने तु - तृं जम्भोऽस्य, सोमोजम्भोऽस्येत्यवमेव विहग्रहः कार्यः; तृणसोमयोरभ्यवहारह्थत्वात्॥", "54126": "", "54127": "`तत्र तेनेदमिति सरूपे` इत्ययं बहुव्रीहिर्गृह्रते` इति। अस्यैव कर्मध्यतिहारे वृत्तेः `केशाकेशि` (इति) <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घः। तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठादव्ययीभावसंज्ञा, अव्ययीभावश्च समासोऽव्ययसंज्ञो भवतीति। तेन सुब्लुग्भवतीति भावः। इचश्चित्करणं विशेषार्थम्। यदि ह्यत्र चकारो न क्रियते, तदा तिष्ठद्गुप्रभृतिष्वपीकारमात्रं पठएत, तदेकारमात्रस्यापि ग्रहणं स्यात्॥", "54128": "`द्विदण्डआदिभ्य इति तादथ्र्य एषा चतुर्थी` इत्यादि। द्विदण्डआदयो हि प्रतपदिकेष्विच्प्रत्ययान्ता एव पठन्त इति तेभ्यः पुनरिज्विधातुं न शक्यते, विधीयमानोऽपि निष्प्योजनः स्यात्, तस्मान्नेयं पञ्चमी, किं तर्हि? तादर्थ्ये चतुर्थी। द्विदण्डआद्यर्थमिच्परत्ययो भवतीत्यनेन तादथ्र्यं दर्शयति। अस्यैवार्थं विस्पष्टीकर्त्तुमाह - `तत्तथा भवति` इत्यादि। एवं ब्राउवाणेन `द्विदण्डआदिभ्यः प्रत्ययो भवति, न द्विदण्डादिभ्यः` इत्युक्तम्। एवं ते सिध्यन्ति; नान्यथा। अथ किमर्थं समुदायानां निपातनशुद्धा एव प्रकृतीः प्रातिपदिकेषु पठित्वा ततः प्रत्ययो दिधीयते? इत्यत आह - `समुदायनिपातनाच्च` इत्यादि। प्रातिपदिकेषु प्रकृतीः पठित्वा ताभ्यः प्रत्ययमात्रं विधीयते, ततो नियमः स्यात् - समुदायनिपातनाद्यत्रारथविशेषे ते प्रसिद्धास्तत्रैव विशेष्यन्ते। तत्रैव भवन्तीत्यर्थः। `द्विदण्डि प्रहरति` इति। द्वौ द्डौ यस्मिन्? प्रहरणे। `इह भवति` इति। द्विदण्डीत्येतच्छब्दरूपमत्रार्थे साधुर्न भवतीत्यर्थः। `बहुव्रीह्रेधिकारात्? तत्पुरुषान्न क्वचित्? प्रत्ययविधानं स्यात्। समुदायनिपातनात्? तु क्वचित्? तत्पुरुषादपि भवति। यदा प्रत्ययस्य लोपो भवत्यव्ययोभावसंज्ञा, तदा न प्रप्नोतीत्यत आह - `प्रत्ययलक्षणेन` इत्यादि॥", "54129": "`जानुशब्दस्यादेशो भवति` इति। कथं पुनज्र्ञायते - आदेशोऽयम्? न प्रत्यम इति? यदि प्रत्ययः स्यात्, `जानुनः` इत्येकवचनेनैव निर्द्देशं कुर्यात्; षष्ठीद्विवचनेनैव निर्देशः कृतः। तस्मादावेशोऽयं न प्रत्यय इति विज्ञायते। षष्ठीद्विवचनेन निर्देशोऽसन्देहार्थः कृतः - स्थानषष्ठीत्वमसन्दिग्धं यता विज्ञायेतेति। जानुन इत्युच्चमानं सन्देहः स्यात् - किमियं षष्ठी, उत पञ्चमीति॥", "54130": "", "54131": "`अनङादेशोऽयं भवति` इति। कथं पुनर्विज्ञायते - आदेशोऽयं न प्रत्यय इति\t? यद्येष प्रत्ययः स्यात्? ङित्करणमनर्थकं स्यात्? आदेशो ह्रस्मिन्नन्त्यादेशार्थं ङित्त्वमर्थवद्भवति। तस्मान्ङित्त्वादेवायमादेशो भवतीति विज्ञायते। `कुण्डोध्नी` इति। अनङि कृते <<अतो गुणे>> [[6.1.97]] पररूपत्वम्, <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इति ङीष्? <<अल्लोपोऽनः>> [[6.4.134]] । `स्त्रीग्रहणं कर्तव्यम्` इति। स्त्री गृह्रते येनाभिधेयनित्यत्वेन ततः स्त्रीग्रहणं कर्तव्यम्। एतदुक्तं भवति - तथा व्याख्यानं कर्तव्यं यथा स्त्रियामभिधेयायामनङ् भवतीति। तत्रेदं व्याख्यानम् - `ऊध्र्वाद्विभाषा` [[5.4.130]] इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यस्थितविभाषा, तेन स्त्रियामेव भवति, नान्यत्रेति। अनङ्ऽकारादित्वमुत्तरार्थम्। इह विनापि तेन सिध्यत्येव॥", "54132": "`शाङ्गधन्वा` इति। अनङि कृते यणादेशः, `सर्वनामस्थाने च` [[6.4.8]] इति दीर्घः॥", "54133": "", "54134": "`निङादेशो भवति` इति। आदेशत्वमस्य पूर्ववद्? ङित्त्वादेव विज्ञायते। `युवजानिः` इति। लोपो व्योर्वलि` [[6.1.64]] इति यलोपः। `स्त्रियाः पुंवत्` [[6.3.33]] इति पुंवद्भावः॥", "54135": "`इका आदेशो भवति` इति। कथं पुनज्र्ञायते - आदेशोऽयं न प्रत्यय इति? `गन्धस्य` इति षष्ठआ निर्देशात्। यदि हि प्रत्ययः स्यात्? असन्दिग्धार्थं `गन्धात्` इति पञ्चम्या निर्देशं कुर्यात्, षष्ठआ तु निर्देशः। तस्मादादेशोऽयमिति विज्ञायते। `गन्धस्येत्त्वे` इत्यादि। गन्धो द्विविधः। गुणो गन्धः, सोऽन्यपदार्थस्यैकान्तो न भवति। यस्तु शोभनो गन्दोऽस्येति सुगन्ध आपणिक इति तत्र द्रव्यगन्धो गन्धशब्देनोच्यते, तच्चापणिकस्यैकदेशो भवति। तत्र गुणगन्धे यथा स्यात्, द्रव्यगन्धे मा भूदित्येवमर्थं गन्धस्येत्त्वे विधेये तदेकान्तग्रहणं कर्तव्यम्। तदित्यनेन बहुव्रीह्रर्थः सामर्थ्यान्निर्दिश्यते। तस्यैकान्त एकदेशो वा धर्मोऽवयवस्तदेकान्तः संगृह्रते। येन तदेकान्तग्रहणं कर्तव्यम्। एतदुक्तं भवति - तादृशं व्याख्यानं कर्तव्यं येनेत्त्वविधाविह गन्धोऽन्यपदार्थस्यैकदेशात्? तत आश्रयितव्य इति। तत्रेदं व्याख्यानम् - <<वा संज्ञायाम्>> [[5.4.133]] इत्यतो वाग्रहममनुवर्तते, सा च व्यवस्थितविभाषा। तेन यत्र गन्धोऽन्यपदार्थस्यैकदेशभूतस्तत्रैवेत्त्वं भवति, नान्यत्रेति। अथ वा - अस्त्ययं गन्धशब्दो द्रव्यवचनः - गन्धान्? विक्रीणीत इति। अस्ति गुणवचनो यथा - गन्धवती पृथिवी। तत्र गुणवचनस्येदं ग्रहणम्, न द्रव्यवचनस्य। तस्माद्द्रव्यवचनो बहवचनान्त एव द्रव्ये वर्तते - गन्धान विक्रीणीते, गन्धाः पण्यमस्येति। इह गन्धस्येत्यकवचनेनैव निर्देशः। तस्मादवसीयते - गुणवचनस्येदं ग्रहणमिति। गुणवचनस्य तु ग्रहणे तत्र गुणो गन्धोऽन्यपदार्थस्यैकदेशो भवति, तेन तदेकान्तभूतस्यैव गन्धस्येत्त्वं भवति॥", "54136": "", "54137": "", "54138": "`लोपो भवति समासान्तः` इति। किं पुनः स्यात्? समासान्तो न स्यात्? <<आदेः परस्य>> [[1.1.54]] इत्यादेरेव स्यात्। समासान्तत्वे सत्यन्तशब्दोऽयं नियतदेशमेवावयवमाचष्ट इत्यन्तस्यैव भवति। एवञ्च समासान्तो भवति यद्यन्तस्य भवति, नान्यथा। ननु च लोपस्याभावरूपबत्वात्? समन्सान्तो नोपपद्यते? इत्याह - `स्थानिद्वारेण` इत्यादि। स्थानिनोऽकारस्य समासान्तत्वादुपचारेण लोपोऽपि समासान्त उच्यत इति दर्शयति॥", "54139": "`कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठन्ते` इति। यद्येवम्, कथमिदं नेतव्यम्? इत्याह - `तत्रैवम्` इत्यादि। तत्र तेषु कुम्भपदीप्रभृतिषु कृतपादलोपेषु पठितेष्वेवं व्याख्येयमित्यर्थः। कुम्भपद्यादिविषयेय यथा कुम्भपद्यादयः सम्भवन्तीति। किमर्थं पुनः समुदाया एव पठन्ते, न कुम्भपदादीन्? शब्दान्? प्रातिपदिकेषु पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत? इत्याह - `समुदायपाठस्य च` इत्यादि। यदि कुम्भादिभ्यः परस्य पादस्य स लोप उच्येत, `कृतपादलोपाः समुदाया एव न पठएरन्` इति नियमो न लभ्येत। ततस्त्रिष्वपि लिङ्गेषु स्युः, स्त्रियामेव चेष्यन्ते। समुदायपाठे सति स्त्रियां ङीप्प्रत्यय एव विषयभूते भवति। `नान्यदा` इति। `कुम्भपदी` इति। <<पादोऽन्यतरस्याम्>> [[4.1.8]] इति ङीपि विषयभूते पादस्य लोपः ततो ङीप्, तस्मिन्? <<पादः पत्>> [[6.4.130]] इति पद्भावः। `यच्चेहोपमानपूर्वम्` इति - कुम्भपदी, जालपदीत्येवमादि। `संख्यापूर्वपदञ्च` इति - एकपदी शतपदीत्येवमादि। `तस्य सिद्धे` इति। उपमानपूर्वस्य पूर्वेणैव सिद्धे संख्यापूर्वस्य तूत्तरेण। `अष्टापदी` इत्यस्मिन्? पठते। तत्र निपातनं दीर्घत्वार्थम्। <<अष्टनः संज्ञायाम्>> [[6.3.125]] इति वा॥", "54140": "अनुपमानार्थमिदम्॥", "54141": "`द्विदन्` इति। ऋकारस्योगित्कार्यार्थत्वात्? `उगिदचाम्? [[7.1.70]] इति नुम्; हल्ङ्यादिसंयोगान्तलोपौ (6.1.70, 8.2.23) `सुदन्तो दाक्षिणात्यः` ति। शोभनत्वमिह गम्यते, न वयः॥", "54142": "अवयोऽर्थम्, असंख्यापूर्वपदार्थञ्च वचनम्। `उभयतोदतः` इति। शासन्तमेतत्॥", "54143": "अच्छन्दोऽपर्थमेतत्। अय इव दन्ता अस्या `अयोदती` इति। शासन्तमेतत्॥ `समदन्ती` इति। `नासिकोदर` [[4.1.55]] इत्यादिना ङीष्॥", "54144": "`स्त्रियाम्` इति निवृत्तम्। रोकः=रोचनम्, दीप्तिः। `रुच दीप्तौ` (धा। पा।745), भावे घञ्, `चजोः कुघिण्ण्यतोः` [[7.3.52]] इति कुत्वम्। अविद्यमानो रोकोऽस्येत्यरोकशब्दस्य व्युत्पतिंत ह्मदि कृत्वा तस्यार्थं दर्शयितुमाह - `अरोको निर्दीप्तिः` इति॥", "54145": "", "54146": "`कालादिकृता` इति। आदिशब्देनाहारादयो गृह्यन्ते॥", "54147": "अनवस्थार्थमिदम्। पर्वतेऽन्यपदार्ते मुख्यं ककुटं न सम्भवति; उच्यते चेदम् - त्रिककुत्? पर्वत इति। तत्र सामर्थ्यात्ककुदाकारे पर्वतशिखरे सादृश्यात्? ककुदशब्दो वर्तते, तस्येदं ग्रहणं ककुदाकाराणि शृङ्गाणि तस्य सर्वस्य त्रिककुदभिधानं प्राप्नोति? अत - `न च` इत्यादि। `उच्यते` इति प्रकृतेन सम्बन्धः। `संज्ञैषा` इत्यादि। एतेन यस्यैषा संज्ञा त्रिककुच्छब्देनोच्यत इति तद्दर्शयति। एतच्च निपातनात्? <<स्त्रियां संज्ञायाम्>> [[5.4.143]] इत्यतः संज्ञाग्रहणानुवृत्तेर्लभ्यते। ननु चाभिधेयनियमोऽपि तत एव लभ्यत इति पर्वतग्रहणं न कर्तव्यम्? नैतदस्ति; शैलीयमाचार्यस्य यत्? प्रसद्धेष्वपि नित्यरेष्वभिधेयनिमित्तमाचष्टे, यथा - <<पुष्यसिद्ध्यौ नक्षत्रे>> [[3.1.116]] इति,किं पुनर्यत्र प्रसिद्धिर्नास्ति! सा तु लौकिकी॥", "54148": "`उत्काकुत्, विकाकुत्` इति। अन्त्यस्य लोपे कृते <<वाऽवसाने>> [[8.4.56]] इति चर्त्वम्। ननु च <<आदेः परस्य>> [[1.1.54]] इत्यादिलोपेन भवितव्यम्, तत्कथमन्त्यस्य भवति? अन्त्यवचनो ह्रवयववचनोऽपि, स नियतदेशावयवमाचष्ट इत्युक्तम्। तत्र यद्यादेः स्यात्, समासान्तता नोपपद्यते॥", "54149": "", "54150": "", "54151": "", "54152": "`इदमपि पूर्ववत्? कपि सिद्धे नित्यार्थमेव। `बहुदण्डिकः` इति। <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नलोपः॥", "54153": "", "54154": "शेषः कबपेक्षो वा स्यात् - यस्माद्बहुव्रीहेः कब्न विहितः स शेष इति? समासान्तापेक्षो वा - यस्माद्बहुव्रीहेः समासान्तो न विहितः स शेष इति? तत्र यदि कबपेक्षः शेषः स्यात् - अनृचः, व्याघ्रपात्, सुगन्धिरित्यत्रापि स्यात्। न ह्रतः केनचित्? कब्विहित इति कबपेक्षे शेषे दोषं दृष्ट्वा समासान्तापेक्षया शेष इति दर्शयन्नाह - `यस्माद्बहुव्रीहेः समासान्तो न भवति स शेषः` इति। कथं ज्ञायते - समासान्तापेक्षः शेष इति? शेषग्रहणात्। तत्र यदि कबपेक्षः शेषः स्यात्, शेषग्रहणनर्थकं स्यात्। आरम्भसामर्थ्यादेव हि शेषविषय एव विकल्पो भविष्यति; अन्यथा यदि यतोऽपि पूर्वेविधिवाक्यैः कब्विहितस्ततोऽप्यनेन विभाषा विधीयते, विधिवाक्यानामानर्थक्यमापद्येत। तस्माच्छेषग्रहणात्? समासान्तापेक्षः शेषो विज्ञायते। `बहूखट्वकः` इति <<आपोऽन्यतरस्याम्>> [[7.4.15]] इति ह्रस्वः। `बहुखट्वः` इत्यत्रापि <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति। `कथम्` इत्यादि। यदि समासान्तापेक्षः शेषः; अनृक्कं साम, बह्? वृक्कं सूक्तमित्यत्र कब्न सिध्यतीत्यभिप्रायः। `विशेषे स इष्यते` इति। स ह्रकारः समासान्तो विशेषे माणवे चरणाख्यायां चेष्यत इति तत्राकारो विहितः। न चापि तत्रैव विशेष कब्विहितः, किं तर्हि? विषयान्तरे - सामनि, सूक्ते च। तत्र बहुव्रीहेः समासान्तापेक्षः शेषः। तेन च प्रियपथः, प्रियमधुर इति `ऋक्पूरब्धूः` [[5.4.74]] इत्यादिनाऽकारः समासान्तः। अथ किमर्थं शेषग्रहणम्, यावता याभ्यः प्रकृतिभ्यः समासान्ता विहिताः, ताभ्यस्त एव बाधका भविष्यन्ति? नैतदस्ति; निरवकाशा हि विषयो बाधका भविष्यन्ति, सावकाशाश्च समासान्ताः। कोऽवकाशः? प्रतिपदोपात्तप्रकृतयः; याभ्यः समासान्ता अर्थविशेषे समासविशेषं प्रति प्रतिपदमुपादाय विहिताः सोऽवुकाशः; विशेष प्रकृतिभ्यः प्रसङ्गे सत्युभयप्राप्तौ परत्वात्? कप्रत्ययः स्यात्। तस्माच्छेषग्रहणं कर्तव्यम्॥", "54155": "", "54156": "`सर्वा प्राप्तिः प्रतिषिध्यते` इति। ननु `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या। प। 19) इति शेषलक्षणस्यैव कपः प्रतिषेधः प्राप्नोति? नैष दोषः; कबत्रानुवर्तते, न शेषादिति। तेनायं कब्मात्रस्य प्रतिषेधो भविष्यति। `बहवः श्रेयांसः` इति। `द्विवचनविभज्योपपदे` [[5.3.57]] इत्यादिनेयसुन्, <<प्रशस्यस्य श्रः>> [[5.3.60]] इति श्रः। `ह्रस्वत्वमपि न भवति` इति। <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वत्वं प्राप्नोति, तदपि न भवति। कस्मान्न भवति? इत्याह - `ईयसो बहुव्रीहेः` इत्यादिना। नात्र पुंवद्वचनेन स्त्रीप्रत्ययस्य निवृत्तिरभिप्रेता, किं तर्हि? ह्रस्वत्वप्रकरणात्? तदभावः। एतदुक्तं भवति - यथा पुंवद्भावे सतीकारस्य ह्रस्वोनभवति एवमीयसः परस्य स्त्रीप्रत्ययस्यापि न भवति॥", "54157": "`नद्युतश्च` [[5.4.153]] इति प्राप्तस्य कपोऽयं प्रतिषेधः। `वदि अभिवादनस्तुत्योः` (धातुपाठः-11) इति यद्यपि वदिरभिवादने वर्तते, तथापीह स्तुतावेव वर्तमान आश्रीयते, अत एवाह - `वन्दितः स्तुतः` इति॥ `अयमपि पूर्ववत्? प्राप्तस्य कपः प्रतिषेधः॥", "54158": "", "54159": "", "54160": "इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्यचतुर्थः पादः॥समाप्तश्चायं पञ्चमोऽध्यायः* * *षष्ठोऽध्यायःप्रथमः पादः", "61001": "इह केचित्? स्वार्था एव विधयो भवन्ति, न पदार्थाः, तद्यथा - `अण्कुटिलिकायाः` [[4.4.18]] इति कुटिलिकाशब्दादण्? विधीयमानः स्वार्थो भवति। केचित्? पुनः स्वार्थाः, परार्थश्च तद्यथा - <<पदरुजविशस्पृशो घञ्>> [[3.3.16]] इति पदादिभ्यो घञ्? विधीयमानः स्वार्थो भवति, स्वरितलिङ्गासङ्गादुत्तरेषु योगेष्वनुवर्तमानः परार्थश्च। केचित्? पुनः परार्था एवाधिकारा भवन्ति, न स्वार्थाः, यथा - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इति; तत्? किमयं स्वार्थ एव? अथोभयार्थ एवाधिकारः? उत परार्थ एवेति सन्देहापनयनाय परार्थतामेवास्य दर्शयितुमाह - `एकाचेति च` इत्यादि। एतद्ग्रहणकं वाक्यम्, अस्य च `इत उत्तरम्` इत्यादि। विवरणम्। सिंहावलोकितन्यायेन पूर्वत्राप्यधिकाराणामनुवृत्तिर्भवति, अतस्तन्निवृत्तिरस्वरितत्वाद्विज्ञेया। कस्य पुनः `एकाचो द्वे भवतः` इत्येवं तद्वेदितव्यम्? इत्यत यद्येषा धातोरेव्? समानाधिकरणा षष्ठी स्यात्, तदा पचादीनामेव द्विर्वचनं स्यात्, न जागर्त्त्यादीनाम्, न हि तत्रैकाचेति मन्यमानो नैषैकाचेति सामानाधिकरणा षष्ठी - धातोरेकाचेति, अपि त्ववयवयोगा - धातोर्योऽवयव एकाचेति दर्शयितुमाह - `धातोरवयवस्य` इति। `जजागार` इत्यत्र जागित्येतद्द्विरुच्यतदे, `पपाच` इत्यत्र पच्छब्दः; पूर्वत्र <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः, उत्तरत्र <<अत उपधायाः>> [[7.2.116]] इति। `इयाय` इति। `इण्? गर्तौ (धातुपाठः-1045) <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धौ कृतायां <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थानिवद्भावादिकारो द्विरुच्यते, आयादेशः, `अभ्यासस्यासवर्णो` [[6.4.78]] इतीयङ्। `आर इति। `ऋ गतौ` (धा। पा। 1098) ऋ इत्येतस्य द्विर्वचनम्, `उरत्` [[7.4.66]] इत्यत्त्वम्? रपरत्वम्, <<अत आदेः>> [[7.4.70]] इति दीर्घः, सर्वर्णदीर्घत्वञ्च। एकाचेति तत्पुरुषोऽयं वा स्यात्? एकश्चासावच्चेति एकाच्, बहुव्रीहिर्वा एकोऽञ्? यस्येति? तत्र यद्ययं तत्पुरुषः स्यात्, इणादीनामेव द्विरुक्तिः स्यात् - इयाय आरेत्येवमादौ; पचादीनां तु पपाचेत्यादौ न स्यात्, तेषामज्झल्समुदायात्मकत्वादित्येतन्मनसि कृत्वाऽऽह - `एकाचेति बहुव्रीहनिर्देशोऽयम्` इति। बहुव्रीहिणा विवक्षितस्यार्थस्य निर्देशः=कथनम्। बहुव्रीहेर्निर्देशः=कथनम्, उच्चारणं वा बहुव्रीहिनिर्देशः। कुतः पुनरेतदवसितम् - बहुव्रीहेनिर्देशोऽयमिति? `हलादिः शेषः`, [[7.4.60]] <<शर्पूर्वाः खयः>> [[7.4.61]] इत्येवमादिलिङ्गात्। ननु च तत्पुरुषस्यापि लिङ्गमस्ति - <<दीर्घ इणः किति>> [[7.4.69]] इतीणोऽभ्यासस्य दीर्घविधानम्? नैतदस्ति; बहुव्रीहावपि ह्रस्मिन्? व्यपदेशिवद्भावादिणो द्विर्वचनेऽभ्यासस्य दीर्घविधानमुपपद्यत एव, न तु तत्पुरुषेऽस्मिन्? हलादिशेषादिकार्यमुपपद्यतेः पचादीनामज्झल्समुदायानां द्विर्वचनानुपपत्तेः। तस्माद्बहुव्रीहेरेव लिङ्गमस्ति, न तत्पुरुषस्येति बहुव्रीहिनिर्देश एवायम्। यद्येवम्; बहुव्रीहेरेवान्यपदार्थप्रधानत्वादुपलक्षणविनिर्मुक्तस्य शुद्धस्यैवान्यार्थस्य बहुव्रीहिणाभिधानादचावयवेन य उपलक्षितोऽन्यपदार्थस्तस्यैवानच्कस्य द्विर्वचनं प्राप्नोति, न तूपलक्षणभूतस्यापि। न ह्रुपलक्षणं कार्योपयोगि भवति। तथा हि यथा चित्रगुरानीयतामित्युक्ते यस्य चित्रागावः सन्ति स एव आनीयते, न तूपलक्षमभूता गावोऽपि। अत एव तस्य निरासाय तद्गुणसंविज्ञानोऽयं बहुव्रीहिरित दर्शयन्नाह - `तत्र` इत्यादि। `समुदायः समासार्थः` इति। सह तेनोपलक्षणभूतेनाचावयवेन समुदाय एवान्यपदार्थ इत्यर्थः। `उभ्यन्तरश्च` इति। तदन्तर्भूत इत्यर्थः। चशब्दोऽवधारणे। अभ्यन्तर एवेत्यर्थः। इतिकरणो हेतौ। यस्मात्? समुदाये समासार्थेऽवयवोऽभ्यन्तरो भवति, तस्मात्? साच्कस्यैव द्विर्वचनं भवति। लोकेऽपि क्वचिदुपलक्षणस्य समासेऽन्तर्भावात्? कार्योपयोगित्वं दृष्टमेव, यथा शुकलवाससमानयेत्युक्ते सहैव शुक्लेन वाससानीयते। पचित्यत्र यनैवाचा समुदाय एकाच्? तेनैव तदवयवोऽप्यच्छब्दः पशब्दश्चेति, ततआआवयवानिमपि प्रत्येकं द्विर्वचनं प्राप्नोति। यथा यनैव हस्तेनावयवेन बाहुर्हस्तवान्? भवति, तेनैव देवदत्तोऽपि हस्तवान्? भवति; तथा पचतौ घातौ येनैवाकारेम पच्छब्दः समुदाय एकाच्? तेनैव तदवयवोऽप्यच्छब्दः पशब्दश्तेति। ततश्चावयवानमपि प्रत्येकं द्विर्वचनं प्राप्नोत्येव। द्विर्वचनञ्च कायिण एकाचः, सामान्येन निर्देशात्। एवञ्च समुदायस्य तदवयवनाञ्चैकाचां पृथग्द्विर्वचने कृतेऽन्ष्यटं रूपं स्यात्, अत एतद्द्वेष्यमपाकर्तुमाह - `तत्र` इत्यादि। तेषु समुदायेष्वेकाक्षु मध्ये पृथगवयवैकाचो न द्विरुच्यन्ते। किं तर्हि? समुदायैकाजेव। अवयवैकाजिति कर्मधारयः। `समुदायैकाच्` इति। अयमपि कर्मधारय एव। कुतः पुनरयं सामान्याभिधाने विशेषो लभ्यते? इत्यत आह - `तथा हि` इत्यादि। यद्यपि समुदायीऽवयवश्चैकाच्, तथापि यस्य द्विर्वचने कृते सर्वेषामनुग्रहो भवति तस्यैव द्विर्वचनं युक्तम्। एवं शास्त्रहानिनं भवति; सर्वेषामेव शास्त्रविहितकार्यस्य निष्पत्तेः। अयमेवानुग्रहो या शास्त्रविहितकार्यस्य निष्पत्तिः। समुदायस्यैव द्विर्वचने कृते सर्वेषामनुग्रहो भवति। यथा वृक्षः प्रचलन्? सहावयवैः प्रचलति, तथैकयैव शास्त्रप्रवृत्त्या समुदायो द्विरुच्यमानः सहावयवैद्विरुच्यते, न हि विनावयवैः समुदायो द्विर्वक्तुं शक्यते; तस्य तदात्मकत्वात्। अवयवानां तु द्विर्वचनं नैकया प्रवृत्त्या सर्वेषां कर्त्तु शक्यते। न तद्द्विरुक्तौ सर्वेषामनुग्रहो भवति। कथम्? सर्वेषां हि तेषामेकाज्व्यपदेश एकोऽजिति हेतुः; तत्र यदा येनाचैकोऽवयव एकाजिति व्यपदिष्यते, तदा तेनैव तस्याक्षिप्तत्वान्न शक्यतेऽपर एकाजिति व्यपदेष्टुम्। ततश्चैकस्य द्विर्वचने विधित्सिते तदेदानीं तेनाचा य एकगाच्? कश्चिदवयवस्तस्यैव द्विर्वचनं स्यात्, नेतरस्य; अनच्कत्वात्। अत्रैतत्? स्यात्? `एकाचः` [[6.1.1]] इति सर्वेषां पष्ठआ निर्दिष्टत्वात्? सर्वेषामेव तेषां द्विर्वचनं कर्तव्यम्, न च तद्युगपत्? सम्भवति, अत एकस्य तावत्? क्रियते। एकस्मिन्? कृते पुनः प्रवृत्त्यन्तरेणापरस्यापि करिष्यत` इति? एतच्च न; यस्य ह्रवयवस्य पूर्वं द्विर्वचनं कृतं तेनैव सहाचो द्विरुक्तत्वान्न युज्यते पुनस्तस्यावयवान्तरेम द्विर्वचनं कर्त्तुम्। अकृतद्विरुक्तस्य हि द्विर्वचनं क्रियते, न द्विरुक्तस्य; अन्यथा ह्रनवस्था स्यात्। `अनभ्यासस्य` [[6.1.8]] इति वचनाच्चायुक्तमेवैकस्मिन्नवयवे द्विरुक्तेऽपरस्य द्विर्वचनं कर्तुम्। अतो नावयवद्विर्वचने सर्वेषामनुग्रहः सम्भवति। तत्र यस्य द्विर्वचनं न सम्भवति तस्य शास्त्रहानिः स्यात्। तदयुक्तमवयवानां प्रत्येकं द्विर्वचनम्। अथैषां युगपदवयवानां द्विर्वचनं न सम्भवतीति प्रयोगान्तरे पर्यायेण करिष्यते पूर्वोक्तदोषपरिहारार्थम्? एवमपि यदा पचेरच्छब्दस्य द्विर्वचनं स्यात्, तदा पपाचेत्येवमादि न सिध्येत्। किञ्च `णिजिर्? शौचपोषणयोः` (धातुपाठः-1093) इत्यस्त्राल्लट्, झि, शप्, तस्य जुहोत्यादित्वात्? श्लुः, `श्लौ` [[6.1.10]] इति द्वर्वचनम्। तत्र यदि निशब्दमात्रस्य द्विर्वचनं क्रियते तदा `णिजां त्रयाणाम्` [[7.4.75]] इति गुणः। अत्रेदानीम्? `अदभ्यस्तात्` [[7.1.4]] इत्यदादेश इष्यते - तेनिजतीति रूपं यथा स्यादित्येवमर्थम्, स च न प्राप्नोति; जकारेण व्यवहितत्वात्। न हि जकारस्याभ्यस्तसंज्ञा, किं तर्हि? निशब्दस्य; द्विरुक्तत्वात्, जकारस्य चाद्विरुक्तत्वात्। अनेनिजुरिति - अत्र लङादेशस्य झेः `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति जुस्? न प्राप्नोति; पूर्वस्मादेव हेतोः। नेनिजदित्यत्र <<नाभ्यस्ताच्छतुः>> [[7.1.78]] इति नुम्प्रतिषधो न स्यात्, अत एव हेतोः। न च शक्यते वक्तुम् - वचनसामर्थ्याद्व्यवधानेऽपि भविष्यतीति; यदा समुदायस्य द्विर्वचनं तदा वचनस्य सावकाशत्वात्। यदा त्विकारसहितस्य जकारसय द्विर्वचनं तदा नेनिजतीत्यादिकं रूपमेव न स्यात्। तस्मादयुक्तमवयवानां द्विर्वचनम्। अतः समुदाय एव द्विर्वक्तव्यः। अथ पपाचेत्यत्र कथं द्विर्वचनम्, यावता `एकाचो द्वे प्रथमस्य [[6.1.1]] इत्युच्यते, न चात्रैकाचः प्रथमव्यपदेशोऽस्ति, प्रथमशब्दो ह्रप्रथमापेक्षो भवति, सम्बन्धिशब्दत्वात्; सत्स्वनेकेषु यस्मात्? पूर्वो नास्ति स प्रथमः, यः पुनरेक एव नासौ प्रथमव्यपदेशं लभते, एकश्चात्रैकाच्। तेनात्र द्विर्वचनं न स्यात्, जजागारेत्यादावेव स्यात्? इयाय, आरेत्यत्रापि कथं द्विर्वचनम्, यावतैकाचस्तदुच्यते, न चैकाच्त्वमस्ति, अज्व्यतिरिक्तस्यानच एकाज्व्यपदेशहेतोरभावात्? इत्यत आह - `पपाचेत्यत्र` इत्यादि। एकसंख्याव्यवच्छिन्नस्वरसम्बनधहेतुको व्यपदेशः, स यस्यास्ति स व्यपदेशी। जागर्त्त्यादिषु धातुषु जागित्येवमादिः। `तेन तुल्यं वर्तते` [[5.1.114]] इति व्यपदेशिवत्, तस्य भावो व्यपदेशिवद्भावः। एकाच्त्वमपीत्यपिशब्दादद्वितीयत्वमपीति। ततोऽनेन जजागारेत्यत्र यथा वास्तवे प्रथमत्वे जाग्? इत्येतस्य प्रथमस्यैकाचो द्विर्वचनं भवति, तथा परमार्थतो सत्यपि प्रथमत्वे प्रथमस्यैकाचो द्विर्वचनं भवति व्यपदेशिवद्भावेन पपाचेत्यत्र पच्छब्दस्य। इयाय, आरेत्यत्राप्यसति वास्तव एकाच्त्वे द्वितीयत्वे च व्यपदेशिवद्भावेन द्विर्वचनं भवति; यथा - अटिटिषतीत्यत्र वस्तुत एवैकाचो द्वितीयस्य टिशब्दस्येति।न चै तद्वक्तव्यम् - `यस्मादप्रथमस्यापि पच्? इत्येवम्प्रकारस्य व्यपदेशिवद्भावेन द्विर्वचनं भवति` इति। अत्र `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इति वचनं ज्ञापकम्, असत्यपि वास्तव एकाच्त्वे द्वितीयत्वे च पुनव्र्यपदेशिवद्भावेन चेण्प्रभृतनां द्विर्वचनं भवतति। अत्राभ्यासस्य दीर्घविधानार्थम्? <<दीर्घ इणः किति>> [[7.4.69]] इति वचनं ज्ञापकम्। इह `आदशभ्यः संख्याः संख्येये वर्तन्ते न तु संख्यानमात्रे` इति द्विशब्दोऽत्र संख्येये वर्तते। तच्च संख्येयं शब्दरूपं वा स्यात्? उच्चारणं वा? तत्र यदि शब्दरूपं संख्येयं स्यात्? तदा `द्वे` इत्यनेन द्विशब्दरूपे भाव्यमानतया निर्दिश्येते इति। अत एकाच इत्यस्य च स्चाने योगलक्षणः सम्बन्धो भवति, अतः `स्थाने द्विर्वचनम्` इत्येष पक्षो भवति। तदैकाचेति स्थानषष्ठी जायते। अथ पुनरुच्चारणं सख्येयं तदा स्थान्यादेशसम्बन्धो न भवति। उच्चारणं नाम शब्दानुगतो धर्मः। यद्यसावदेशो विदीयते तदा निवृत्तिधर्मा स्थानी भवतीति शपब्दस्य स्थानिनो निवृत्त्या भवितव्यम्, ततश्चोच्चारणमपि न स्यात्; तस्य तद्धर्मत्वात्। तस्मादुच्चारणे संख्येये स्थाने द्विर्वचनं न सम्भवतीति `द्विष्प्रयोगो द्विर्वचनम्` इत्येष पक्षो भवतीति। तदैकाचेति `कर्त्तृकर्मणोः कृति` [[2.3.65]] इति कर्मणि षष्ठी, सा ह्रैकाजुच्चारणक्रियया व्याप्तुमिष्टतमत्वात्? कर्म भवति। तत्र यदि `स्थाने द्विर्वचनम्` इत्येष पक्ष आश्रीयेत, तदा जिघांसतीत हन्तः कुत्वं न स्यात्। समुदायस्य हि सन्नन्तस्य समुदायः सन्नन्त आदेशः, तत्र कृत आश्रीयेत, तदा जीघांसतीति हन्तेः कुत्वं न स्यात्। समुदायस्य हि सन्नन्तस्य समुदायः सन्नन्त आदेशः, तत्र कृत एतन्नास्ति। अयं प्रत्ययः इयं प्रकृतिरिति सन्दिग्धत्वात्? प्रकृतिप्रत्ययस्य हन्तिर्नष्टो भवतीति <<अभ्यासाच्च>> [[7.3.55]] इति कुत्वं हन्तिहकारस्य न स्यादितीमं स्थानेद्विर्वचनपक्षे दोषं दृष्ट्वा द्विष्प्रयोगो द्विर्वचनमिति पक्षमाश्रित्याह - `द्विष्प्रयोगश्च` इत्यादि। चकारोऽवधारणे। द्विष्प्रयोग एवेत्यर्थः। न स्थाने द्विष्प्रयोग इत्यर्थः। अथ द्विष्प्रयोगद्विर्वचने कथमयं दोषो न भवति? इत्याह - `आवृत्तिसंख्या हि` इत्यादि। पुनः पुनरुच्चारणम्ावृत्तिः। तत्? पुनः संख्याव्यवस्थितस्यैव धातोर्विधीयते। `तेन` इत्यादि। यस्मादावृत्तिः सख्याव्यवस्थितस्यैव धातोर्विधीयते, तेन स एव शब्दो व्यवस्थित एव द्विरुच्चार्यते, न तु तस्य स्ताने शब्दान्तरं विधीयत इति कुतः पुनः पूर्वोक्तदोषाव सरप्रसङ्गः!यदि तर्ही द्विष्प्रयोगो द्विर्वचनमित्येष पक्ष आक्षीयते, एवं च सति <<वस्वेकाजाद्घसाम्>> [[7.2.67]] इत्यत्रादिवान्, आशिवान्, पेचिवान्, शेकिवान्, इत्युदाहृत्य यद्वक्ष्यति - `धात्वभ्यासयोरेकादेशे कृत एवाभ्यासलोपयोः कृतयोः कृतद्विर्वचना एत एकाचो न भवन्ति` इति, तन्न युज्यते; अकृतेऽपि धात्वभ्यासयोरेकादेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचनानामष्येषामेकाच्त्वात्। स्थाने द्विर्वचने हि शब्दान्तरमेवा नेकाजादिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्, न तु द्विष्प्रयोगपक्षे। तत्र हि स एव शब्दो द्विरुच्चार्यते। न चासौ शतकृत्वोऽप्युच्चार्यमाम एकाच्त्वं जहाति, किं पुनर्द्विरुच्यमानः। यदपि नियमस्य व्यवच्छेद्यचं दर्शयितुं बिभिद्वानित्यादि तत्रोपन्यसिष्यति, तदप्ययुक्तमेव; भिविप्रभृतीनामेव यथोक्तादेव हेतोः कृतद्विर्वचनानामप्येकाच्त्वात्। यदप्याद्ग्रहणमनेकाजर्थमित्यभिधास्यति, तदप्ययुक्तमेव; तत एव हेतोराकारान्तानां कृतद्विर्वचनानामप्यनेकाच्त्वानुपपत्तेः। तस्मात्? स्थाने कृतद्विर्वचनपक्षोऽप्यङ्गीकर्तव्यः। एवं तह्र्रन्यथा व्याख्यायते। इह पक्षद्वयं पूर्वोक्तं, सम्भवति। तत्र किं द्विष्प्रयोगो द्विर्वचनमित्येष पक्ष आश्रीयते? उत स्थाने द्विर्वचनपक्षः - इति प्रश्नावसर इदमाह - `द्विष्प्रयोगश्च द्विर्वचनम्` इति। चकारः स्थाने द्विर्वचनमित्यमुमर्थं द्योतयति। ननु च <<षष्ठी स्थानेयोगा>> [[1.1.49]] इति वचनात्? स्थाने द्विर्वचनपक्षेमात्र [द्विर्वचनपक्षे नात्र - मुद्रितः पाठः] भवितुं युक्तम्, तत्? कथं द्विष्प्रयोगपक्षोऽप्युपपद्यत इत्यत आह - `आवृत्तिसंख्या हि` इत्यादि। यदि शब्दान्तरं तस्य स्थाने विधीयते तदा स्थान्यादेशसम्बन्धे प्रतिस्थाने द्विर्वचनमित्येष पक्षो जायत इत्यक्तम्। यदा त्वावृत्तिसंख्या विधीयते तदेतरः पक्षो भवतीति। एदपि प्रतिपादितं प्राक्। तस्मात्? द्विष्प्रयोगपक्षो यदाङ्ग#ईकर्तुमिष्यते, तदावृत्तिसंख्या द्वे इति विधीयते, तेन स एव शब्दो द्विरुच्चार्यते, न तु शब्दान्तरं तस्य स्थाने विदीयते। तस्माद्द्विष्प्रयोगद्विर्वचनपक्षोऽप्यङ्गीकर्तव्यः। अथ कथं स्थाने द्विर्वचनमित्येषोऽपि पक्ष आश्रीयते, यावता जिघांसतीत्यत्र हन्तेर्हकारस्य कुत्वं न प्राप्नोतीत्युक्तम्? नैष दोषः; उच्यते चेदम् - अब्यासाच्च [[7.3.55]] हन्तेः कुत्वं भवतीति। न च तस्य स्थाने शब्दान्तर एवादेशे कृते हन्तिरस्ति। तत्र वचनसामर्थ्यादादेशैकदेशे हन्तिप्रतिरूपके हन्तिशब्दो विज्ञास्यते। अन्ये त्वनयोः पक्षयोर्दोषा य आशङ्क्यन्ते ते भाष्य एवोत्क्षिप्य प्रतिक्षिप्ताः। इह त्वतिविस्तरग्रन्थभयान्न लिख्यन्ते॥", "61002": "`प्रथमद्विर्वचनापवादोऽयम्` इति। ननु च <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यनेन प्रथमस्यैकाचो द्विर्वचनं विधीयते, <<अजादेर्द्वितीयस्य>> [[6.1.2]] इत्यनेन तु द्वितीयस्य; तत्? कथमन्यस्योच्यमानमिदमन्यस्य बाधकं स्यात्? सति खलु सम्भवे बाधकं भवति, अस्ति च सम्भवो यदुभयं स्यात्। स्यादेतत् -घातोरित्येषा षष्ठी, तसया द्वितीयेनैकाचा प्रथमेन च सम्बन्धो नोपपद्यते, अतो नास्त्युभयसम्भव इति? एतच्च नास्ति; अन्यद्धि वाक्यं प्रथमद्विर्वचनस्य विधायकम्, अन्यचच द्वितीयद्विर्वचनस्य। तत्र वाक्यबेदे च सति किमिति सम्बन्धो नोपपद्यते, तस्मात्? कृतेऽपि द्वितीयद्विर्वचने प्रथमद्विर्वचनं सम्भवत्येवेत्युक्तं बाधनम्? नैष दोषः; इह द्वीपम्, अन्तरीपमित्यत्र <<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> [[6.3.97]] इतीत्त्वम्, <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनैनान्तस्यालः प्राप्तम्? <<आदेः परस्य>> [[1.1.54]] इत्यनेनादेर्विधीयते, तत्र यथा सत्यपि सम्भवेऽनन्त्यविकारोन्त्यविकारं बाधते, तथा द्वितीयद्विर्वचनं प्रथमद्विर्वचनं बाधिष्यते। यदि तर्हि प्रथमस्यैकाचो द्विर्वचनमनेन बाध्यते, व्यञ्जनस्यापि प्रथमद्विवचनसम्बन्धिनो द्विर्वचनं बाध्येत। तद्यथाभूतस्यैव प्रसङ्गस्तथाभूतस्यैव द्विर्वचननिवृत्तिर्भवति। किम्भूतस्य च प्रथमद्विर्वचनस्य प्रसङ्गः? सव्यञ्जनस्य। तत्र यथा प्रथमस्यैकाचो द्विर्वचनं न भवति, एवमेकाज्व्यपदेशिनो व्यञ्जनस्यापि न स्यात्? नैष दोषः; यदयं <<न न्द्राः संयोगादयः>> [[6.1.3]] इति प्रतिषेधं शास्ति, तज्ज्ञापयति -व्यञ्जनस्य द्विर्वचननिवृत्तिर्न भवति। अन्यता हि नदराणां द्विर्वचनप्रतिषेधोऽनर्थकः स्यात्, प्राप्त्यभावात्। `अटिटिषति; अशिशिषति` इति। अटेरशेश्च सनीटि कृते टिष्शबदः, शिष्शब्दश्च द्विरुच्यते। `अरिरिषति` इति अर्त्तेः सन्निङ्गुणरपरत्वेषु कृतेषु रिष्शब्दो द्विरुच्यते। `स्थानिवद्भावः प्राप्नोति` इति। <<सन्यङोः>> [[6.1.9]] इत्यनेन सन्नन्तस्य द्विर्वचनमुच्यते, इट्? च सम्भक्तः। तस्मादसौ द्विर्वचनस्य निमित्तमित्यभिप्रायः। स्थानिवद्बावे च सति रेफरहितस्येषो द्विर्वचने कृते सवर्णदीर्घत्वे चारीषतीत्यनिष्टं रूपं स्यात्। `कार्यी` इति। द्विरुक्तिरेव कार्यम्, तदस्यास्तीति कार्यी। स्यादेतत् -यद्यप्यसौ कार्यी तथापि कार्ये। स्यादेतत् -यद्यप्यसौ कार्यी तथापि कार्यं प्रति निमित्तमेवेत्यादह -`न च` इत्यादि। कथं पुनज्र्ञायते एतत्? कार्यी निमित्तत्वेनाश्रीयते इति? अत आह -`तथा हि` इत्यादि। तथा हीति यस्मादित्यर्थे। इतिकरणः प्रकारे। यस्मात्? क्ङिन्निमित्तयोः गुणवृद्ध्योः <<क्ङिति च>> [[1.1.5]] इति प्रतिषेधो विधीयमानः शयितेत्येवम्प्रकारविषये न भवति, ततो ज्ञायते -न हि कार्यी निमित्तत्वेनाश्रीयत इति। यदि ह्राश्रीयेत, तदा शीङो ङित्वात्? तन्निमित्ताच्च गुणवृद्ध्योः <<क्ङिति च>> [[1.1.5]] इति विधीयमानः शयितेत्यत्र गुणप्रतिषेधश्च स्यात्, शायक इत्यत्र वृद्धिप्रतिषेधश्च। ननु च येन विना यन्न भवति तत्? तस्य निमित्तम्, यथा -वृष्टेर्मेघः। यथा च प्रत्ययेन विना गुणवृद्धी न भवतस्तथा कार्येणापि; तत्? कथं शीङो गुणबुद्धिप्रतिषेधो नेह भवति? इत्यत आह -`न हि कार्यिणः` इत्यादि। अत्राश्रीयत इत्यध्याहर्यम्। सत्यम्, कार्यपि शीङ्निमितम्, तस्य गुणं प्रति वृदिंध द्रष्टव्यम्। इतिकरणोऽनन्तरोऽस्यप्रतिविधानस्य स्वरूपं दर्शयति। कथं पुनज्र्ञायत#ए -न हि कार्यी निमित्तत्वेनाश्रीयत इति? `दीधीवेवीटाम्` गुणवृद्ध्योः <<क्ङिति च>> [[1.1.5]] इति फार्यो प्रतिषेधः सिद्ध #एवेति तयोर्गुणप्रतिषेधोऽनर्थकः स्यात्। `अत्र केचिदजादेरिति कर्मधारयात्? पञ्चमीमिच्छन्ति` इति। `अच्चासावादिश्चेत्यजादिः, तस्मादजादेः` इति। एवं वर्णयन्तः कर्मधारयात्? पञ्चमीमिच्छन्ति। यदि तर्हि कर्मधारयादियं पञ्चमी तेषां द्वितीयग्रहणमनर्थकम्; यस्मात्? तृतीयस्य प्राप्तिरेव नास्ति। येषां बहुव्रीहेरियं षष्ठभिमता, तेषामक्रियमाणे द्वितीयग्रहणे तृतीयस्यापि द्विर्वचनं प्राप्तिरेव नास्ति। येषां बहुव्रीहेरियं षष्ठभिमता, तेषामक्रियमाणे द्वितीयग्रहणे तृतीयस्यापि द्विर्वचनं प्राप्नोतीति तन्निवृत्त्यर्थं युक्तं द्वितीयग्रहणम्। येषां च कर्मधारयादियं पञ्चम्यभिमता तेषां द्वितीय ग्रहणमनर्थकम्; <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यनेनानन्तरस्यैव द्वितीयस्य भविष्यति, न तृतीयस्य, व्यवहितत्वात्? इत्यत आह -तेषाम्` इत्यादि॥", "61003": "`तदन्तर्भावात्` इति। अवयवानां समुदायाभ्यन्तरत्वात्? तदन्तभविः। `अवयवभूताः` इति। आदिशब्दस्य नियतदेशावयववाचित्वाद्विशिष्टदेशावयवभूता इत्येषोऽर्थो वेदितव्यः। `अन्दिविषति` इति। `उन्दी क्लेदने`, (धा।प।1457) सनीट च कृते दिष्शब्दस्य द्विर्वचनम्। `अड्डिडिषति` इति। `अद्ड अभियोगे (धातुपाठः-348) इत्यत्र यः संयोगः स दकारादिः, तस्य ष्टुत्वेन दकारस्य डकारः, ष्टुत्वञ्च द्विर्वचनेऽसिद्धम्, तेन सनीटि कृते विष्शब्दो द्विरुच्यते ततः ष्टुत्वम्। `अर्चिचिषति` इति `अर्च पूजायाम्` (धातुपाठः-204), चिष्शब्दस्य द्विर्वचनम्। `ईचिक्षिषते` इति। `ईक्ष दर्शने` (धातुपाठः-610) सनीटि च कृते क्षिष्शब्दस्य द्विर्वचनम्? <<हलादिः शेषः>> [[7.4.60]] , <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्। `प्राणिणिषति` इति। `आस प्राणने` (धातुपाठः-1069), `अन च` (धातुपाठः-1070) प्रपूर्वः। `दिद्रासति` इति। `द्रा कुत्सितायाङ्गतौ` (धातुपाठः-1054)। `केचिदजादेः` इत्यादि। तेषां मतेनाजादेरुत्तरे ये नकारादयः संयोगादिभूतास्ते न द्विरुच्यन्त इति शूत्रार्थः। किं पुनस्तदनुवर्तनस्य प्रयोजनम्? इत्यत आह -`तस्य` इत्यादि। दकारस्तु द्विरुच्यत एवेति कर्मधारयपञ्चम्यन्तानुवृत्तौ हि <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यनन्तराणामेव नकारादीनां द्विर्वचनप्रतिषेधेन भवितव्यम्; निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्। दकारस्तत्र यद्यपि रेफदकारयोर्यः संयोगस्तदादिभूतः, तथापि नकारेण व्यवहितः। तस्माद्दकारोऽपि द्विरुच्यत एव। `इन्दिद्रीयिषति` इति। इन्द्रशब्दात्? क्वचि कृते <<क्यचि च>> [[7.4.33]] इतीत्त्वम्, क्यजन्तात्? सन्, इट्, <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। `उब्जिजिषति` इति। `उब्ज आर्जवे` (धातुपाठः-1303)। `यदा बकारोपध उब्जरुपदिश्यते तदायं प्रतिषेधो वक्तव्यः। दकारोपदेशे तु न वक्तव्यः `न न्द्राः` इत्यनेनैव सिद्धत्वात्। `बत्वं तु तदा दकारस्य विधातव्यम्` इति। उब्जित, उब्जिजिषतीति यथा स्यात्। तदपि बतद्वमकुत्वविषये विधातव्यम्; अन्यथाऽभ्युद्गः, समुद्ग इति न सिध्येत्। दकारोपधस्यैव युक्तः पाठः। बत्वमात्रं वक्तव्यम्? तदपि न वक्तवयम्; तत्र <<भुजन्युब्जौ पाण्युपतापयोः>> [[7.3.61]] इति निपातनादेव लिङ्गाव्? बत्वं लभ्यते। न चाभ्युद्गः, समुद्ग इत्यत्रापि प्रसज्येत, अकृत्वविषयत्वान्निपातनस्य; यत्र कुत्वं नास्ति तत्रैव बत्वं विज्ञायते, न तु कुत्वविषये। `यकारपरस्य` इत्यादि। यकारः परो यस्मात्? तस्य प्रतिषेधो न स्यादित्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्र कैश्चिदेवं व्याख्यायते -बहिरङ्गो रेफः, `गुणोऽर्त्तिसंयोगाद्योः` [[7.4.29]] `यङि च` [[7.4.30]] इति गुणोऽङ्गस्य विधीयमानो यङि भवति बहिरङ्गः, तदाश्रितो रेफोऽपि बहिरह्ग एव, ततश्च सोऽन्तरङ्गे प्रतिषेऽसद्धः। तस्मात्? तसय द्विर्वचनप्रतिषेधो न भवतीति। यद्येवम्, इन्दिदिषतीति नुमोऽपि प्रतिषेधो न प्राप्नोतीति? नैष दोषः; वक्ष्यति ह्रेतत् -नुम्विषावुपदेशिवद्वचनमिति। नैयायिकास्त्वन्यथा वर्णयन्ति -<<न न्द्राः संयोगादयः>> [[6.1.3]] इति। तैः किमुक्तम्? संयोगात्? पूर्वे नकारादयो न द्विरुच्यन्ते स चेद्भवति यकारान्तः संयोगः` इति तेनाराय्र्यत इत्यत्र संयोगस्य यकारान्तत्वात्? प्रतिषेधो न भवतीति। `अराय्र्यते` इति। `यङि च` [[7.4.30]] इति गुणे रपत्वे च र्यशब्दस्य द्विवचनम्, हलादिशेषः [[7.4.60]] <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घः। ननु चार्तेरहलादित्वाद्यङा न भवितव्यम्, स हि `धातोरेकाचः` [[3.1.22]] इत्यादिना हलादेरेव धातोर्विधीयते? इत्याह -`अर्त्तेः` इत्यादि। `व्यञ्जनस्य` इति। ईष्र्यतेव्र्यञ्जनं यदेकाच्? द्विर्वचनं कर्तव्यम्। तच्च व्यञ्जनं यकारः, तस्येटि कृते साच्कस्यैव द्विर्वचनं कर्तव्यमम्। `एकाचः` इति। सनः। स हीटि कृते तृतीय एकाज्? भवति। तस्य द्विर्वचने कृते `सन्यतः` [[7.4.79]] इतीत्त्वम्। पूर्वं पूर्वमिणमाश्रित्य सर्वसकाराणां षत्वम्। `कण्डूयियिषति` इति। `असूयियिषति` इति। `कण्डूञ्`, `असूञ्` इति कण्ड्वादिषु पठएते, ततः <<कण्ड्वादिभ्यो यक्>> [[3.1.27]] ।`वा नामधातूनाम्` इति। सुब्धातुर्नामधातुरभिधीयते। `अआईयियिषति` इति। अआशब्दात्? क्यजन्तात्? सनीटि च कृते यिष्शब्दस्य द्विर्वचनम्। `आशिआईयिषति` इति। आईशब्दस्य द्विर्वचनम्, ह्रस्वत्वम्, हलादिशेषः [[7.4.60]] । `यथेष्टम्` इति। प्रथमादीनामन्यतरस्य यस्येष्यते तस्य कर्तव्यमिति॥", "61004": "अभ्यासशब्दोऽयमावृत्तिवचनो लोके प्रसिद्ध एव। सा चावृततिः प्रथमस्य नास्तीत्यभ्यासप्रदेशेषु परस्य ग्रहणे प्राप्ते पूर्वस्य ग्रहणं यथा स्यावित्येवमर्थं तस्याभ्याससंज्ञा विधीयते। पूर्वशब्दोऽवयववचनः, यथा -पूर्वं कायस्य पशोरिति। अवयवाश्चावयविनो भवन्ति, स चेह यद्यपि न निर्दिश्यते, तथापि `द्वे` [[6.1.1]] इत्युनुवृत्तेस्तद्वाच्यस्यैवार्थस्य पूर्वो विज्ञायत इत्याह -`द्वे इति प्रथमन्तं यदनुवर्तते` इत्यादि। ननु च `द्वे` इति प्रथमन्तमनुवर्तते, षष्ठन्तेन चेहार्थः, न ह्रटन्यथा पूर्वशब्देन सम्भन्धः शक्यते दर्शयितुमित्यत आह -`तदर्थात्` इत्यादि। अर्थाद्विभक्तिविपरिणामो भवतीति। तदिह षष्ठन्तं जयत इत्यर्थः। अथ पुनरत्रावयवावयविलक्षणा षष्ठी भवति, यथा वृक्षस्य शाखेति? एवमपि यदि `द्वे` इत्यनुवृत्तेद्र्वयोर्यः पूर्वस्तस्याभ्याससंज्ञा विधीयते तदा <<सर्वस्य द्वे>> [[8.1.1]] इत्यत्रापि प्रकारणे ये द्वे विहिते तयोर्यः पूर्वस्तस्याप्यभ्याससंज्ञा प्राप्नोतीत्यत आह -`तत्र` इत्यादि`। `पूर्वोऽवयवः` इति। पूर्वशब्दो व्यवस्थावचनोऽप्यस्ति, अतस्तद्व्यवच्छेदार्थमवयवग्रहणम्, पपाचेत्यत्राभ्याससंज्ञायां सत्यां `ह्रस्वः [[7.4.59]] इत्यभ्यासस्य ह्रस्वत्वम्, हलादिशेषः [[7.4.60]] , प्रकृतिचरां प्रकृतिचरो भवन्तीति चर्त्वम्। `पिपक्षति` इति। `जुहोति` इति पूर्ववद्धकारस्य चुत्वम्, तस्य <<अभ्यासे चर्च>> [[8.4.54]] चकारः। `अपिपचत्` इति। पचेण्र्यन्ताच्च्लेश्चङ्, णिलोपः, `णौ चङ्युपधाया ह्रस्वः` [[7.4.1]] द्विर्वचनम्, `सन्वल्लघुनि` [[7.4.93]] इतीत्त्वम्, <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घः। सर्वाण्यभ्याससंज्ञायाः प्रयोजनान्येतानि॥", "61005": "इह उभेग्रहणं संज्ञिनिर्देशार्थं क्रियते। स च संज्ञिनिर्देशः `द्वे` [[6.1.1]] इत्यनुवृत्तेरन्तरेणाप्युभेग्रहणं प्रकल्प्यत एव, तत्? किमर्थं द्वे इत्यनुवर्तमान उभेग्रहणं क्रियते? इत्यत आह - `द्वे इत्यनुवर्तमाने` इत्यादि। यद्युभेग्रहणं न क्रियेत, तदा प्रत्येकमभ्यस्तसंज्ञा प्रवर्तते। प्रत्येकमपि हि तयोः प्रवर्तमानासौ प्रवृत्तैव भवति। तथा हि द्वावानीयेयातामित्युक्ते प्रत्येकमप्यानयनेन तावानीतौ भवतः। तस्मात्? समुदाये संज्ञायाः प्रवृत्तिर्यथा स्यादेकैकस्य मा भूदित्येवमर्थमुभेग्रहणम्। `समुदिते` इति। सहिते समुदाभूते इत्यर्थः। ननु च यत्राभ्यासः श्रूयते तत्रैव यथा स्यात्, यत्र तु न श्रूयते तत्र मा भूत। ईप्सन्ति, ईप्सन्, ऐप्सन्नित्यादौ विषये मा भूदित्येवमर्थमुभेग्रहणं स्यात्? नैतदस्ति; अभ्यासग्रहणं ह्रनुवर्तते, तत्रैवमभिसम्बन्धः क्रियते - द्वे अभ्यस्तसंज्ञे भवतः, अभ्यासश्चेदस्तीति। एवच्च सति विनाप्यभेग्रहणं यत्राभ्यासः श्रूयते, तत्रैव भविष्यति, नान्यत्र। तस्माद्वृत्तिकारोपदर्शितमेवोभेग्रहणस्य प्रयोजनं युक्तम्। `ददति` इति। ददातेर्लट्, झि, शप्, <<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] `श्लौ` [[6.1.10]] इति द्विर्वचनम्। अत्राब्यस्तसंज्ञायां सत्यां `श्नाभ्यस्तयोरातः` [[6.4.112]] इत्याकारलोपः, `अदभ्यस्तात्` [[7.1.4]] इति झेरदादेशः। `दधातु` [`दधतु` - काशिका] इति। लोट्, `एरुः` [[3.4.86]] `समुदाय उदात्तत्वं यथा स्यात्` इति। उभेग्रहणे ह्रसति प्रत्यकमभ्यस्तसंज्ञा स्यात्। तस्मात्? <<अभ्यस्तानामादिः>> [[6.1.189]] इत्याद्युदात्तमपि प्रत्येकं स्यात्। अथपि <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति नास्ति यौगपद्यसम्भवः, एवमपि पर्यायेण स्यात्? तस्मात्? `अम्यस्तानामादिः` [[6.1.189]] इत्येतत्? कार्यं समुदाये यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूदित्येवमर्थमुभेग्रहणम्॥", "61006": "`जक्षित्यादयः` इति। एष निदशो जक्षेः श्तिबन्तस्यादिशब्देन बहुव्रीहावपि कृते भवति, द्वन्द्वेऽपि -यदा जक्षेरनजन्तस्येत्यादिशब्दस्य च द्वन्द्वः क्रियते। वाक्येऽपि यदानयोरनन्तरोक्तयोरुभयोरपि प्रयोगो भवति, तदा तत्र बहुव्रीहौ गृह्रमाणे यदि तद्गुणसंविज्ञानोऽयं बहुव्रीहिराश्रीयेत, तदा वेवीङो ग्रहणं न स्यात्; अथातद्गुणसंविज्ञानोऽयम्, तदा जक्षेर्न स्यादितीमं बहुव्रीहेराश्रयणे दोषं दृष्ट्वेतरयोः पक्षरोरन्यतरमाश्रित्याह -`जक्षित्ययं धातुरित्यादयश्च` इत्यादि अत्रेतिशब्देऽतिक्रान्तप्रत्यवमर्शी। जक्षित्ययं धातुरनन्तरमतिक्रान्त इति स एव तेन प्रत्यवमृश्यते। इति आदिर्येषां त इत्यादयः, जक्षादय इत्यर्थः। ते पुनर्जागृप्रभृतयो वेवीङ्पर्यन्ताः। `सेयं सप्तानां धातूनामभ्यस्तसंज्ञा` इति। जक्षित्येतदुपलक्षितानां जागर्तिप्रभृतीनां षष्णां जक्षितिरित्येतस्य च सप्तमस्य तेभ्यः पृथग्निर्दिष्टस्य। ननु च दीध्यते, वेव्यत इत्यत्रादादेशः <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यनेनैव सिद्धः, शेषं चाभ्यस्त कार्यमाकारलोपादिकम्? तच्च दीधीवेव्योर्न सम्भवत्येव, तत्राकारलोपस्तावदाकारस्याभावान्न सम्भवति; जुस्भावोऽपि झेरभावात्, नुम्प्रतिषेधोऽपि ङित्वादात्मनेपदित्वाच्छतुः, तत्? किमर्थमनयोरभ्यस्तसंज्ञा विधीयते? इत्याह -`दीध्यते वेव्यते` इत्यादि। `दीष्यदिति च शतरि` इत्यादिना प्रयोजनान्तरमपि दर्शयति। आत्मनेपदित्वादनयोव्र्यत्ययेन विना शता न सम्भवतीति व्यत्यग्रहणम्॥", "61007": "आदिशब्दोऽयमस्त्येव व्यवस्थायाम्, अस्ति च प्रकारे, तत्र यदि व्यवस्थायां वर्तमानो गृह्रेत, तदा `तुज पिज हिंसायाम्` (धातुपाठः-1566,1567) इत्यत आरभ्य ये पठितास्तेषामेव ग्रहणं स्यात्; एवञ्च सौत्राणां गणान्तरपठितानाञ्च दीर्घो न स्यादित्येतदालोच्याह -`तुजादीनाम्` इत्यादि। `प्रकार आदिशब्दः` इति। स च प्रकारोऽनिर्दिष्टत्वान्न ज्ञायत इति पृच्छति -`कश्च प्रकारः` इति। तुजो दीर्घत्वमित्यादिना प्रकारार्थत्वं दर्शयति। `ये तथाभूताः` इति। अनन्तरोक्तप्रकारमापन्ना इत्यर्थः। `दीर्घः साधुर्भवति` इति। एतेन सत एव दीर्घस्य साधुत्वमात्रमनेन क्रियते। न त्वपूर्वो दीर्घ इति दर्शयति। `तूतुजानः` इति। लिट्। एतच्च प्रकारवाचिन आदिशब्दस्य परिग्रहाल्लभ्यते, तस्य कनाच्। `मामहानः` इति। `मह पूजायाम्` (धा।प।730) शेषं पूर्ववत्। `दधान` [उदाहरणमिदं नास्ति -काशिका] इति। `डुधाञ्? धारणपोषणयोः` (धातुपाठः-1092)। `मीमाय` इति। `डुमिञ्? प्रक्षेपणे`, (धातुपाठः-1250) लिट्? णल्। `दधार` इति। `धृञ्? धारणे` (धातुपाठः-900) `तूनाव` इति। `तु` इति सौत्रो धातुः; `तुरुस्तुशम्यम` [[7.3.95]] इत्यादिसूत्रे पठितत्वात्। `दीर्घश्चैषाम्` इत्यादिना यस्य सत एव साधुत्वमनेन क्रियते, स च दीर्घश्छन्दस्येव दृश्यते, न भाषायाम्। तत्रापि च्छन्दसि विषये प्रत्ययविषये कानजादौ, न प्रत्ययमात्रे। `ततोऽन्यत्र न भवति` इति। यथोक्ताद्विषयादन्यत्र न भवतीत्यर्थः। तुजेश्छन्दसि कानचि दृष्टः, ततोऽन्यत्र भाषायां छन्दस्यपि कानजादौ प्रत्ययान्तरे न भवति। यच्चैवं तेनास्यान्यत्राव्यापारः। सत एव दीर्घस्य साधुत्वमात्रमनेन विधीयते। न चान्यत्र दीर्घोऽस्ति यस्यानेन विधीयेत साधुत्वम्। एतच्च प्रकारवाचिन आदिशब्दाल्लभ्यत इति। `तुतोज` इति। भाषायां प्रयोगः। यदि तर्हि च्छन्दसि सत एव दीर्घस्य साधुत्वमनेन विधीयते, <<व्यत्ययो बहुलम्>> [[3.1.85]] इत्यनेन सुब्ब्यत्ययस्य विहितत्वादपार्थकमेतत्? नापार्थकम्; तस्यैव प्रपञ्चार्थत्वात्॥", "61008": "<<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इति, <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति चानुवर्तते। धातोरित्यवयवयोगा षष्ठी। सामानादिकरण्ये हि प्रथमस्य द्वितीयस्येति च सम्बन्धो नोपपद्यते। `अनभ्यासस्य` इति च प्रतिषेधाच्च। सामानाधिकरण्ये हि प्रतिषधोऽनर्थकः स्यात्, न ह्रभ्यासवानेकाज धातुः सम्भवति। `यथायोगम्` इति। हलादेः प्रथमस्यैकाचोऽवयवस्य, अजादेस्तु द्वितीयस्येत्येष यथायोगार्थः। `प्रोर्णनाव` इति। `ऊर्णुञ्? आच्छादने` (धातुपाठः-1039) <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति नुशब्दस्य द्विर्वचनम्। रेफस्य तु `न न्द्राः` [[6.1.3]] इति प्रतिषेधान्न भवति। ननु चोर्णोतेरिजादित्वात्? <<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इत्यामि कृते `आमः` [[2.4.81]] इति लेर्लुक्, `कृञ्चानुप्रयुज्यते लिटि` [[3.1.40]] इति कृञो लिट्परस्यानुप्रयोगः, ततश्च प्रोर्णुवाञ्चकारेति भविष्यति, तत्कथं प्रोर्णनावेति? अत आह -`वाच्य ऊर्णोः` इत्यादि। नुवद्भावेन यथा नौतेराम्? न भवति, तथोर्णोतेरपीति दर्शयति। `विशृण्विरे` इति। `श्रु श्रवणे` (धातुपाठः-942) `लिटस्तझयोरेशिरैच्? [[3.4.81]] इति इरेच्। <<छन्दस्युभयथा>> [[6.4.86]] इति लिटः सार्वधातुकत्वम्, ततः <<श्रुवः शृ च>> [[3.1.74]] इति श्नुः शृभावश्च। <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इति यणादेशः। `सुन्विरे` इति। `षुञ्? अभिषवे` (धातुपाठः-1247)। धातुग्रहणादिह विकरणस्य द्विर्वचनं न भवति। यतस्तत्र धातुस्तस्य विकरणेन व्यवहितत्वान्न भवतीत्येके। छन्दसत्वादित्यपरे, `सर्वे विधयश्छन्दसि विकल्प्यन्ते` (पु।प।पा।35) इति। एतच्च `व्यवहितत्वान्नभवतीत्येके। छन्दसत्वादित्यपरे, `सर्वे विधयश्छन्दसि विकल्प्यन्ते` (पु।प।पा।35) इति। एतच्च <<व्यत्ययो बहुलम्>> [[3.1.85]] इत्यस्माद्बहुलग्रहणाल्लभ्यते। एवञ्च कृत्वा `द्विर्वचनप्रकरणे छन्दसि वा` (वा। 656) इत्येतन्न कर्तव्यं भवति। `नोनाव` इति। `णु स्तोतौ` (धातुपाठः-1035), यङ्, द्विर्वचनम्, `गुणो यङ्लुकोः [[7.4.82]] इति गुणः, `नोनूय` इति गुणः, `नोनूय` इति स्थिते <<यङोऽचि च>> [[2.4.74]] इति यङो लुक्, लिट्। `अमन्त्रे` [[3.1.35]] इति निषेधाद्न भवति। `सस्मिमिक्षुः` इति। `मिह सेचने` (धातुपाठः-992), अतः सम्पूर्वात्? सन्? `हो ढः` [[8.2.31]] इति ढत्वम्, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्, `एकाचः` [[7.2.10]] इत्यादिनेट्प्रतिषेधः <<हलन्ताच्च>> [[1.2.10]] इति कित्वाद्गुणः, द्विर्वचनम्, षत्वम्; सम्मिमिक्ष इति स्थिते लिट्, `अमन्त्रे` [[3.1.35]] इति प्रतिषेधादाम्, न भवति। झि, तस्य उस्, अतो लोपः` [[6.4.48]] । `जागार` इति। लिट्। `दाति` इति। श्लुः। वेति वचनात्? पक्षे जजागार, ददातीत्यपि भवति॥", "61009": "", "61010": "`श्लौ परतः` इति। ननु च प्रत्ययादर्शननं श्लुः, तच्चाभावरूपम्, न चाभावे पौर्वापर्यमस्ति, तदुयुक्तमुक्तम्? श्लौ परत इति? स्थानिनः परत्त्वात्त्स्यापि तद्द्वारेण पौर्वापर्यमौपचारिकं गृहीत्वैव युक्तमुक्तमित्यदोषः॥", "61011": "", "61012": "`अविशेषेण निपात्यन्ते` इति। विशेषानुपादानात्। `अनिट्त्वं च` इति। <<वस्वेकाजाद्घसाम्>> [[7.2.67]] इतीट्? प्राप्नोति, अतस्तदभावो निपात्यते। ननु च कृतद्विर्वचनानामेकाचामिङ् विधास्यते, अयंचाकृतद्विर्वचनमेकाज्? भवति; अकृतद्विर्वचनत्वात्, तदयुक्तमनिट्त्वनिपातनम्? नैतदस्ति; लिटि हि श्रूयमाणैकाजुपलक्षणार्थं तत्र कृतद्विर्वचनग्रहणं कृतम्। अस्ति चात्र लिटि श्रूयमाणैकाच्त्वमिति कात्रायुक्तता? `परस्मैपदम्` इति। सहेरात्मनेपदित्वात्? परस्मैपदं न प्राप्नोतीत्यतस्तन्निपात्यते। किं पुनः समाथ्र्यमित्याह -`हलादिशेषः` इत्यादि। यदि हलादिशेषः स्यात्, एवञ्च सत्यामाकारादेशमेव कुर्यात्, न हि हलादिशेषे सत्यागमस्यादेशस्य वा विशोषोऽस्ति। णिलुक्चेति। <<णेरनिटि>> [[6.4.51]] इति णिलोपे सिद्धे लुग्वचनं प्रत्ययलक्षणेनोपधावृद्धिर्माभूदित्येवमर्थम्। लोपे हि सति प्रत्यलक्षमेनोपधावृद्धिः स्यात्, लुकि तु <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रतिषेधान्न भवति॥", "61013": "सम्प्रसारणमिति यण्स्थानिकस्येक एषा संज्ञा विहिता, वाक्यार्थस्य च। `इग्यणः` [[1.1.44]] इति योऽयं वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणस्तस्य तत्र चेदमुक्तमनुवादे वर्ण उपतिष्ठते, विधौ तु वाक्यार्थ इति; विधिश्चायम्, अतो वाक्यार्थस्यैवोपस्थानमित्याह -`यणः स्थाने` इत्यादि। `ततश्चापि विहिते` इति। `यङ्श्चाप्` [[4.1.74]] इत्येनेन। `इभ्यापुत्रः` इति। इभमैइतीति <<दण्डादिभ्यः>> [[5.1.66]] । `क्षत्रियापुत्रः` इति। क्षतत्रस्यापत्यमिति `क्षत्रात्? धः` [[4.1.138]] इति धः। `ष्यङः` इति प्रत्ययग्रहणमिदम्, तत्र प्रत्यग्रहणपरिभाषाया (पु।प।वृ।44) अपस्थानाद्? यस्मात्? स विहितस्तदादेस्तदन्तस्येति तदादितदन्तग्रहणमिहैव स्यात् -कारीषगन्धीपुत्र इति, इह तु न स्यात् -परमकारोषगन्धीपुत्र इति; कारीषगन्धशब्दाद्धि ष्यङ् विहितः, न परमकारीषगन्धशब्दात्? अत इदं द्वेष्यमपाकर्त्तु माह -`ष्यङिति स्त्रीप्रत्ययग्रहणम्` इति <<स्त्रियाम्>> [[4.1.3]] इत्यधिकृत्य विहितत्वात्। स्त्रीत्वं स्थानिवद्बावेन च प्रत्ययत्वं ष्यङः, न हि तस्यान्यथा स्त्रीप्रत्ययत्वमुपपद्यते; आदेशपक्षस्य च तत्राश्रितत्वात्। यदि स्त्रीप्रत्ययग्रहणमेतत्; ततश्च किमिति? तदादिनियमो न भवति; यतोऽधिकस्याप्यत्र ग्रहणं स्यात्, अतिप्रसङ्गो वा। असति हि नियमे यथेह भवति -परमकारीषगन्धीपुत्र इति, तथेहापि स्यात् -अतिकारीषग्न्ध्यापुत्र इति, अत आह -`नस्त्रीप्रत्यये च` इत्यादि। प्रत्यग्रहणपरिभाषाया `न स्त्रीप्रत्यये चानुपसर्जने` (पु।प।वृ।45) इत्ययमपवादः कृतः। तेन यत्रानुपसर्जनः स्त्रीप्रत्ययस्तत्रैषा प्रत्ययग्रहणपरिभाषां न प्रवर्तत इति तदादिनियमो नास्ति, तेन परमकारीषन्धीपुत्र इत्यत्र भवत्येव। अत्र हि परमाचासौ कारीषगन्ध्य#आ चेति <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना समासः, स्त्रीप्रत्ययस्य प्राधान्यम्, `स्त्रियाः पुंवत्` [[6.3.33]] इत्यादिना पुंवद्भावः। यत्र तूपसर्जनं स्त्रीप्रत्ययस्तत्रानुपर्जन इति वचनादुपतिष्ठत एवैषा परिभावा। तेन भवत्येवात्र तदादिनियमः। तेनेह न भवति -अतिकारीषन्ध्यापुत्र इति। अत्र हि कारीषगन्ध्यामतिक्रान्त इति प्रादिसमासः। अत्र योसावतिक्रान्तः स प्रधानम्, कारिषगन्ध्या तूपसर्जनम्। अत एव <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वो भवति। पुत्रपत्योः सम्प्रससारणे तदादावतिप्रसङ्गः। इहापि प्राप्नोति -कारीषगन्ध्यापुत्रकुलमिति। तथा हि -पुत्रपत्योरिति सप्तमी कार्यिण आनन्तर्यमाचष्टे, ततश्च शुद्धयोस्तदादौ चाविशिष्टम्। अथापि कथञ्चित्? तदादौ न स्यात्, एवमपि <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति तदन्तेऽतिप्रसङ्ग इहापि प्राप्नोति -करीषगन्ध्या परमपुत्र इति।विधिविधानविधिभाजां त्रयाणां सन्निधाने तदन्तर्विधिर्भवति। ते चेह सन्ति -विधिः सम्प्रसारणम्, विधिभाक्? ष्यङ्, विधानं पतिपुत्रशब्दौ। इह च तत्पुरुषेमाव्यभिचारात्? सन्निधापितं यदुत्तरपदं तत्? पुत्रपतिशब्दाभ्यां विशेष्यते, विशेषणेन च तदन्तर्विधिर्भवतीति पुत्रशब्दान्ते पतिशब्दान्ते चोत्तरपदे सम्प्रसारणं भवतीति कस्यचित्? भ्रान्तिः स्यात्, अस्तां निराकर्त्तुमाह -`पुत्रपत्योः` इत्यादि। एवं मन्यते -तत्पुरुषोऽत्र पुत्रपत्योः ष्यङ्श्चाधिकरणभूतो निर्दिश्यमानस्तत्पुरुषावयवत्वं पुत्रपत्योः ख्यापयति, तद्यथा -वृक्षे शाखेति। वृक्षः शाखाया अधिकरणत्वेन निर्दिश्यमानः शाखायाः वृक्षावयवत्वं बोधयति; तत्र प्रत्यासत्तेः। यत्र तत्पुरुषे ष्यङ् कार्यभागवयवः स्थितः, तस्यैव तत्पुरुषस्य याववयवौ पुत्रपती तयोरेव ग्रहणम्, न तु पुत्रपत्यादावुत्तरपदे यौ पुत्रपतिशब्दौ तौ तस्यैव ष्यङः पूर्वपदस्य तत्परुरुषस्यावयवौ। अति तु तत्पुरुषान्तरस्यापि पुत्रकुलशब्दस्य पतिकुलशब्तदस्य च। तस्मात्? तदादौ तावन्न भवत्यतिप्रसंगः। तदन्तेऽपि न भवत्येव; यस्मादिह पुत्रपतिग्रहणं यच्च ततपुरुषेण सन्धापितमुत्तरपदं तयोर्विशेषणविशेष्यभावं प्रति कामचारः। तत्र यदीहोत्तरपदं पुत्रपतिशब्दाभ्यां विशिष्येत तदा स्यात्? तदन्तविधिः, विशेषणेन तदन्तविधिर्भवतीति कृत्वा। न चेह ताभ्यां तद्विशिष्यते, अपि तु तावेव तेन; ततश्च तदन्तरविधेरभावात्? केवलयोरेवेदं विशेषणं भवतीति कुतस्तदन्तोऽतिप्रसङ्ग? ननु च यद्युत्तरपदेन पुत्रपती विशिष्येते तेन तयोस्तदन्तता विज्ञायते, ततश्चोत्तरपदपदान्तयोरेव ग्रहणं, न केवलयोः, एवञ्च तदादावतिप्रसङ्गः? नैतदस्ति; न हि पुत्रपतिशब्दावुत्तरपदान्तौ सम्भवतः। यस्मादयमन्तशब्दोऽवयववचनः। न च पुत्रपतिशब्दयोरहुत्तरपदमवयवः। किं तर्हि? समासस्य, न च तौ समासौ। तस्मानन्नैवं विज्ञायते - उत्तरपदान्तयोःस पुत्रपतिशब्दयोरिति, किं तर्हि? पुत्रपत्योरेवोत्तरपदयोः केवलयोरिति। <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति तदन्तविधिनाऽत्र ष्यङन्तस्य सम्प्रसारणं विज्ञायते, ततश्च वाराहीपुत्र इत्यत्र वकारसयापि सभ्प्रसारणं प्राप्नोतीत्यत आह -`ष्यङ्न्ते च` इत्यादि। तत्रैव कारणमाह -`निर्दिश्यमानस्य` इत्यादि। सम्प्रसारणगरहणमुत्तरार्थम्। अति हिकारग्रहणेनापि सिध्यत्येव। तां चोत्तरार्थतां तत्रैव दर्शयिष्यामः। तामेवोत्तरार्थतां सूचयन्नाह -`सम्प्रसारणम्` इत्यादि॥बाल-मनोरमाष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे 988, 6.1.13 ष्यङः संप्रसारणं। प्रत्ययग्रहणपरिभाषया `ष्यङ` इति तदन्तग्रहणम्। तदाह -ष्यङन्तस्य पूर्वपदस्येति। तस्य सूत्रस्य उत्तरपदाधिकारस्थत्वेऽपि तत्पुरुषग्रहणेन पूर्वपदलाभ इति भावः। उत्तरपदयोरिति। इदमपि तत्पुरुषपदलभ्यम्। यद्वा उत्तरपदाधिकारेण पूर्वपदमाक्षिप्यते। बाल-मनोरमासंप्रसारणं पुत्रपत्योस्तत्पुरुषे 989, 6.1.13 संप्रसारणस्य दीर्घ इति। `ढ्रलोपे` इत्यतस्तदनुवृत्तेरिति भावः। उत्तरपदे इति। `अलुगुत्तरपदे` इति तदधिकारादिति भावः। कौमुदगन्ध्यायाः पुत्र इति। विग्रहवाक्यमिदम्। कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः। `सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः` इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च। `उपमानाच्चे`तीत्त्वम्। कुमुदगन्धेरपत्यं स्त्रीत्यर्थे तस्यापत्यमित्यण्। `अणिञोरनार्षयो`रिति तस्य ष्यङादेशः। `यस्येति चे`तीकारलोपः। आदिवृद्धिः। `यङ्श्चाप्। कौमुदगन्ध्याशब्द इति भावः। कौमुदगन्ध्यायाः पुत्र इति। षष्ठीसमासः। सुब्लुकि `कौमुदगन्ध्या-पुत्र` इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः। तस्य, तदुत्तराऽऽकारस्य च `संप्रसारणाच्चे`ति पूर्वरूपेण इकारे `संप्रसारणस्ये`ति दीर्घे `कौमुदगन्धीपुत्र` इति रूपमिति भावः। `हलः` इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हलः संप्रसारमनिमित्तनिरूपिताङ्गावयवत्वाऽभावात्।कौमुदगन्धीपतिरिति। कौमुदगन्ध्यायाः पतिरिति विग्रहः। पूर्ववत्प्रक्रिया। `इको ह्रस्वोऽङ्यो गालवस्ये`ति पाक्षिकं ह्रस्वम#आशङ्क्याह -व्यवस्थितविभाषया ह्रस्वो नेति। अत्र तु व्याख्यानमेव शरणम्। स्यादेतत्। करीषं -गोमहिषादिषुरीषम्, करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री -कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं, तस्य दीर्घश्चेति स्थितिः। अत्र संप्रसारणं दुर्लभम्। ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य ष्यङन्तत्वाऽभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह -स्त्रीप्रत्यये चेति। ष्यः स्त्रियां विहितत्वात्स स्त्रीप्रत्ययः। ततश्च `स्त्रीप्रत्यये चानुपसर्जने ने`ति परभाषया तदादिनियमाऽभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यङन्त एवेति तत्र संप्रसारणे दीर्घे च `परमकारीषगन्धीपुत्र` इति रूपमिति भावः। इयं परिभाषा `ष्यङः संप्रसारण`मिति प्रकृत सूत्रेभाष्ये पठिता। तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह -उपसर्जने त्विति। कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः, `अत्यादयः`इति समासे, उपसर्जनह्रस्वः। तस्य पुत्रोऽतिकारीषगन्ध्यपुत्रः। अत्र `स्त्रीप्रत्यये तदादिनियमो ने`ति निषेध#ओ न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः। ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव। अतस्तत्र तदादिनियमसत्त्वादतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः।", "61014": "`बन्धुनीति नपुंसकनिर्देशः` इत्यादि। बन्धुनीति शब्दरूपापेक्षया नपुंसकलिङ्गन निर्देशः कृत इत्यर्थः। किं पुनः कारणमेवं व्याख्यायते? इत्याह - `पुलिङ्गाभिधेयोऽयम्` इत्यादि। ननु बन्धाविति पुलिङ्गेनैव निर्देशः कस्मान्न कृतः\/ पर्यायेषु मा भूत्। एवं हि क्रियमाणेऽर्थप्रधानोऽयं निर्देश इत्यादिः स्यात्, ततश्च पर्यायेष्वपि प्रसज्येत। अर्थप्रधाने निर्देशे स्वरूपपरिभाषा नोपतिष्ठत इत्युक्तम्। `मातच्` इत्यादि। ननु च मातजिति शब्दरूपं नास्त्येव, न ह्रस्य स्वतन्त्रस्य क्वचित्? प्रयोगो लभ्यते, कथं तत्र सम्प्रसारणं कर्त्तं शक्यम्? इत्यत आह `अस्मादेव` इत्यादि। `तत्र` इत्यादि। यदि च <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इति बहुव्रीहिस्वरः स्यात्, चित्करणमनर्थकं स्यात्। तस्मान्मा भूत्? तस्यानर्थक्यमिति चित्कारणसामर्थ्याम्? बहुव्रीहिस्वर` `चितः` [[6.1.157]] इत्यन्तोदात्तत्वं विधीयमानं बाधते। ननु च मातृशब्दो बहुव्रीहावुत्तरपदं न सम्भवत्येव, `नद्युतश्च` [[5.4.153]] इति नित्यं कपा भवितव्यम्, तत्? कथं तत्रोत्तरपदे बहुव्रीहौ ष्यङः सम्प्रसारणमुपपद्यते? इत्याह - `मातृमातृकयोश्च` इत्यादि। यदि च नित्यं कप्? स्यात्? मातृमातृकयोर्भेदेनोपादानं न कुर्यात्, कृतञ्च। तस्माद्भेदेनोपादानात्? कब्? विकल्पेन क्रियते, न केवलं मातजादेश इत्यपिशब्दस्यार्थः॥", "61015": "आदिशब्दोऽयं यजिनैव सम्बध्य इति, न वच्यादिभिः प्रत्येकम्। यदि हि प्रत्येकमभिसम्बन्धोऽभिमतः स्यात्? `वच भाषणे` (धातुपाठः-1063) इत्यधीत्य `ञिष्वप्? शये` (धातुपाठः-1068) इत्यधीयताम्, तत्र वच्यादीनामित्येवं स्वपेरपि सिध्यतीति पृथगुपादानं न कर्तव्यं जायते। नन्वेवम्, <<रुदश्च पञ्चभ्यः>> [[7.3.98]] इत्यत्र स्वपेग्र्रहणं च स्यात्? नैष दोषः; शक्यते हि रुदादीनामादौ स्वपिमधीत्य `स्वपश्च पञ्चभ्यः` इत्येवं सूत्रं प्रणेतुम्। तस्माद्युक्तमुक्तम् - यजिनैव सम्बध्यत इति। वचेः स्वपिना साहचय्र्याद्धातुनिर्देशार्थ इकारः, न विशेषणार्थः। तेन च ब्राञादेशस्यैव ग्रहणं भवतीत्याह - `वच परिभाषणे, ब्राउवो वचिरिति च` इति। `उक्तः` इति। <<सम्प्रसारणाच्च>> [[6.1.108]] इति परपर्वत्वम्। `इष्टः` इति। व्रश्चादिना [[8.2.36]] षत्वम्, ततः ष्टुत्वम्। `ऊढः` इति। `हो ढः` [[8.2.31]] इति ढत्वम्, <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्, <<ढो ढे लोपः>> [[8.3.13]] इति ढकारलोपः, <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घत्वम्। `उषितम्` इति। `शासिवसिघसीनाञ्च` [[8.3.60]] इति षत्वम्। `संवीतः आहूतः, शूनः` इति। `हलः` [[6.4.2]] इती दीर्घः। `शूनः` इत्यत्र <<ओदितश्च>> [[8.2.45]] निष्ठानत्वम्। अथेह कस्मान्न भवति - वाचमिच्छति वाचा तरतीति ठक्? वाच्यति वाचिक इति? यद्यपि वचेः `क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसप्रसारणञ्च` (वा।288) इति वा दीर्घः कृतः, तथापि `एकदेशविकृतमनन्यवद्भवति` इत्यस्ति प्राप्तिरित्याह - `धातोः` इत्यादि। यत्र धातुः सामान्यवाचिना धातुशब्देन नोपादीयते, अपि तु स्वशब्देनैव, तत्र तत्प्रत्यये दातोरित्येवं यो विहितः प्रत्ययस्तत्रैव कार्यं विज्ञायते। एतच्च भ्रौणहत्येति निपातनं कुर्वन्? ज्ञापयति - तद्धितत्वार्थ निपातनम्। यदि च धातोः स्वरूपग्रहणे तत्प्रत्यय एव कार्यं न विज्ञायेत, तत्वनिपातनमनर्थकं स्यात्। <<हनस्तोऽचिण्णलोः>> [[7.3.32]] इत्यनेनैव तत्वस्य सिद्धत्वात्। `वाच्यति वाचिकः` इत्यत्र यद्यपि `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति, तथापि धातोरित्येवं नासौ प्रत्ययो विहितः। तथा ह्रेकत्र सुप इत्येवं प्रत्ययो विहितः - <<सुप आत्मनः क्यच्>> [[3.1.8]] इति, इतरत्र च `प्रातिपदिकात्` इत्येवं ङ्याप्प्रातिपदिकाधिकारात्? (4.1.1।)। तस्मादिह वचेः स्वरूपग्रहणात्? तत्प्रत्यय एव कार्यसंविज्ञानं न भवति॥", "61016": "`गृहीतम्` इति। `ग्रहोऽलिटि` [[7.2.37]] इति दीर्घः। `जरीगृह्रते` इति। यङि सम्प्रसारणं द्विर्वचनम्। `रीगृदुपधस्य` [[7.4.90]] इति रीगागमः। वयिरयमस्त्येवात्मनेपदी -`अय वय गतौ (धातुपाठः-474,475) अस्ति च परस्मैपदी -`वेत्रो वयिः` [[2.4.42]] इति; तत्र ग्रह्रादिभिरनात्मनेपदिभिः साहचर्यादनात्मनेपदी गृह्रते? इत्याह -`वयिर्लिटि` इत्यादि। तस्माच्च परस्य लिटः `असंयोगाल्लिट्? कित्` [[1.2.5]] इति कित्त्वेन भवितव्यम्? इत्यत आह -`तस्य` इत्यादि। `यद्येवम्` इति। यदि वेञादेशस्य वयेग्र्रहणमित्यर्थः। `यजादिषु वेञ्? पठते` इति। ततश्च पूर्वसूत्रेणैव तस्य स्थानिवद्भावात्? सम्प्रसारणं सिद्धमित्यभिप्रायः। `नैवं शक्यम्` इति। विज्ञातुमिति शेषः। नानयोपपत्त्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। किं कारणम्? इत्याह -`लिटि तस्य` इत्यादि। स्यादेतत् -विधिप्रतिषेधयोर्विरोधादेकत्र विधिरेव भविष्यति, न प्रतिषेध इति? अत आह -`अत्र यतैव` इत्यादि। स्यादेतत् -विधिप्रतिषेधयोर्विरोधादेकत्र विधिरेव भविष्यति, न प्रतिषेध इति? अत आह -`अत्र यथैव` इत्यादि। यदि विरोधादेकत्रासम्भवः, पर्यायोऽस्तु, न तु द्वयोरन्यत्र चरितार्थत्वादेकेनैव भवितव्यम्। नापरेणेत्येषोऽर्थो लभ्यत इति भवाः। `नैष दोषः` इति। कथं नैष दोषः? इत्यत आह -`लिटि` इत्यादि। `लिटि वयो यः` इति यकारस्य सम्प्रसारणप्रतिषेधो लिङ्गम् -विधो वेञोग्रहणेन वयिग्रहणं भवतीत्यस्यार्थस्य। असति विधौ ग्रहणे प्राप्तेरसम्भवात्? प्रतिषेधोऽनर्थकः स्यात्। वेञ इत्यत्र प्रतिषेधे वयेग्र्रहणं न भवतीति अत्राप्येतदेव प्रतिषेधवचनं लिङ्गम्। सति हि वेञ्ग्रहणे वेञ इत्यनेनैव प्रतिषेधस्य सिद्धत्त्वात्, पनः <<लिटि वयो यः>> [[6.1.38]] इति। अनन्तरोक्तमर्थमभ्यनुजानाति। यदि सत्यमेतत्, तर्हि किमर्थं वयिग्रहणम्? इत्याह -`एष एव` इत्यादि। तेन स्पष्टीकरणार्थं वयिग्रहणमित्याचष्टे। `विध्यति` इति। दिवादित्वाच्छ्यन्। `उष्टः` इति। तसन्तमेतत्, अदादित्वाच्छपो लुक्? व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, ष्टुत्वम्। `विचति` इति। तुदादित्वाच्छः।वृक्ण इति पूर्ववन्नत्वम्, `स्कोः` [[8.2.29]] इति सलोपः। `झलादिर्निष्ठा न भवति` इति। तेनात्र षत्वं न भवतीति भावः। झलाचौ हि तद्विधीयते; <<झलो झलि>> [[8.2.26]] इत्यतो झल्ग्रहणानुवृत्तेः। `कृत्वे तु कर्तव्ये तदसिद्धमेव` इति। न हि यथा षत्वादौ निष्ठादेशस्य सिद्धत्वमुच्यते, तथा कुत्वेऽपि, तेन तत्? प्रवर्तत एव। `वृश्चति` इति। पूर्ववच्छः। `वरीवृश्च्यते` इति। `रीगृत्वत इति वक्तव्यम्` (वा।880) इति रीगागमः। `पृष्टः` इति। पूर्ववत्? षत्वम्। `यजयाच` [[3.3.90]] इत्यादिना नङि विहिते प्रश्न इत्यत्र सम्प्रसारणं कस्मान्न भवति? इत्यत आह -`नङि` इत्यादि। `भृष्टः` इति। पूर्ववत्? षत्वम्। `भृज्जति` इति। पूर्ववच्छः। `बरीभृज्यते` इति। पूर्ववद् रीक्। `सकालस्य` इत्यादि। ननु स्खोः संयोगाद्योरन्ते च` [[8.2.29]] इति तस्य लोपेन भवितव्यम्?? नैतदस्ति; झलि पदान्ते च स उच्यत इति॥", "61017": "`उवयिथ` इति। क्रादिनियमादिट्? प्राप्तः <<उपदेशेऽत्वतः>> [[7.2.62]] इति प्रतिषिद्धः <<ऋतो भारद्वाजस्य>> [[7.2.63]] इति नियमात्? पुनर्भवति। `ग्रहेरविशेषः` इति। यस्मात्? सति सम्प्रसारणे हलादिशेषेण [[7.4.60]] रेफनिवृत्तौ जग्राहेति ग्रहेर्यद्रूपं भवति, सत्यपि सम्प्रसारण उरत्वरपरत्वहलादिशेषेष्वपि कृतेषु तदेव भवति। `जिज्यौ` इति। <<आत औ णलः>> [[7.1.34]] । `जिज्यथ` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। `वृश्चतेः सत्यसति वा योगे नास्ति विशेषः` इति। यद्यन्यार्थो योग आरभ्यते न वृश्चत्यर्थः, ततो वृश्चत्यर्थमेतद्वचनं न भवतीति सत्यप्येतस्मिन्नन्यार्थवचने वृश्चतेरभ्यासस्य नैव सम्प्रसारणेन भवितव्यम्। न ह्रसति तदर्थे वचने केनचित्? प्रकारेण सम्प्रसारणमुपपद्यत इत्यभिप्रायः ततश्चासत्यस्मिन्? योगे वव्रश्चेति यद्रूपं भवति सत्यपि तदेवेति नास्ति वृश्चतेर्विशेषः। एतच्च वृत्तिकारमतेनोक्तम्। भाष्यकारमतेन त्वाह -`योगारम्बे` इत्यादि। तस्यायं भावः -सति वचऽनेन्यार्थो क्रियमाणे तस्य वृश्चत्यर्थतापि भवति; वृश्चतेरहपि ग्रह्रादिष्वन्तर्भावात्। ततश्च तदर्थोऽप्ययं योगारम्भ इति तदभ्यासस्यापि सम्प्रसारणेन भवितव्यमिति तुशब्दो वृत्तिकारमताद्विशेषं दर्शयति। `यदि सम्प्रसारणमकृत्वा` इत्यादि। ननु चोभयग्रहमस्य प्रयोजनं वक्ष्यति -हलादिशेषं [[7.4.60]] परमपि बाधित्व#आ सम्प्रसारणमेव यथा स्यादितदि, तत्? कुतोऽस्य पक्षस्य सम्भवः? उभयग्रहणरहिते योगे सतीत्यभिप्रायः। `अथ रेफस्य` इत्यादि। उभयग्रहणसहिते योगे सतीति भावः। `उरदत्वस्य स्थानिवद्भावात्` इति। केन पुनः स्थानिवद्भावः? <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति। कः पुनरसौ? प्रत्ययोऽचः परः, यन्निमित्तमोरत्वं स्यात्। अह्गस्य योऽभ्यास इति विज्ञायमाने सामर्थ्यात्? प्रत्यय आश्रितो भवति; विना तेनाह्गव्यपदेशाभावात्? वृत्तिकारमतं चेषितव्यम्; अन्यथा तत्रोभयग्रहणाभावात्? हलादिशेषेण [[7.4.60]] प्रागेव सम्प्रसारणाद्रेफे निवर्त्तिते वकारस्य सम्प्रसारणं स्यात्। ततश्च उव्रश्चेत्यनिष्टं रूपं स्यात्। `पृच्छतिभृज्जत्यीरविशेषः` इति। ग्रहेरिव वेदितव्यः। `अकिदर्थम्` इत्यादि। किं पुनः कारणमकिदर्थं मिदं व्याख्येयम्? इत्यत आह -`किति` इत्यादि। यस्मात्? किति परत्वात्? सम्प्रसारण कृते कृतसम्प्रसारणस्य पुनः प्रसङ्गविज्ञानाद्द्विर्वचने कृतेऽन्तरेणाप्येतद्वचनम्, ऊचतुरित्यादि सिद्ध्यत्येव। तस्मान्नेदं किदर्थम्, अपि त्वकिदर्थमेवेति। अथ किमर्थमुभयेषामित्युच्यते, यावता स्वरितलिङ्गासङ्गादेवोभयेषामित्यस्यानुवृत्तिर्भविष्यति? न चानुवृत्तौ सत्यां ङिति वच्यादीनामपि सम्प्रसारणं प्राप्नोतीत्येतच्च नाशङ्कनीयम्; यदि वच्यादीनामपि ङिति सम्प्रसारणं स्याद्योगविभागोऽनर्थकः स्यात्; मण्डूकप्लुतिन्यायेन वा व्रच्यादीनामनुवृत्तिर्भविष्यति, तत्कुतोऽस्य दोषस्यावसरः? इत्याह -`अधिकारादेव` इत्यादि। अधिकारादेवोभयग्रहणे सिद्धे पुनरुभयेषांग्रहणात्? पुनःश्रुतिर्भवति। तस्याश्चैतदेव प्रयोजनम् - यत्र सम्प्रसारणं चान्यच्च प्राप्नोति तत्र सम्प्रसारणमेव यथा स्यात्, मा भूदन्यदिति। तेन विव्याध, विव्यधिथ इत्यत्र हलादिशेषं [[7.4.60]] परमपि बाधित्वा सम्प्रसारणमेव भवति; अन्यथात्र परत्वात्? प्राक्? प्रवर्तमानेन हलादिशेषेण यकारस्य निवृत्तौ कृतायां वकारस्य सम्प्रसारणमापद्येत, ततश्च -उव्याध उव्यधिथेत्यनिष्टं रूपं स्यात्॥", "61018": "`स्वापेः` इति। `आप्लृ व्याप्तौ` (धातुपाठः- 1260) इत्यस्यापि सुपर्वस्येका निर्देशः सम्भवति, अतस्तद्ग्रहणाशङ्कानिराकरणायाह - `स्वपेण्र्यन्तस्य ग्रहणम्` इति। ण्यन्तस्य ग्रहणं चङ्ग्रहणाद्विज्ञायते, न ह्रण्यन्ताच्चङ्? सम्भवति। `असूषुपत्` इति। <<हेतुमति च>> [[3.1.26]] इति णिच्। `द्विर्वचनात् पर्वमत्र सम्प्रसारणम्` इति। परत्वात्। `स्वाप्यते` इति। कर्मणि लकारः, <<सार्वधातुके यक्>> [[3.1.67]] । `स्वापितम्` इति। <<निष्ठायां सेटि>> [[6.4.52]] इति णिलोपः। ननु च ग्रह्रादि [[6.1.16]] सूत्रात्? ङितोत्यनुवर्तते, न च स्वापेश्चङोऽन्यो ङिदस्ति, तत्र सामर्थ्याचचङ्येव भविष्यतीति न कर्तव्यमेव चङ्ग्रहणम्? इत्यत आह - `ङितिति केवलम्` इत्यादि। ग्रह्रादिसूत्रे ह्रुभयं सन्निहितम् - किद्ग्रहणम्, ङिद्ग्रहणञ्च, तत्रोभयोरविशेषेण सन्निधाने ङिद्ग्रहणमेवानुवर्तते, न किद्ग्रहणमिति मन्दधिया दुर्बोधम्। अतः सुखप्रतिपत्त्ये मन्दबुद्धेश्चङ्ग्रहणं क्रियत इति भावः॥", "61019": "`स्वप्नक्` इति। <<स्वपितृषोर्नजिङ्>> [[3.2.172]] ॥", "61020": "", "61021": "अथ किमर्थं दीर्घोच्चारणम्, यावता ह्रस्वादेशेऽपि `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घत्वेन चेकीयत इति सिद्धत्येव? इत्याह -`दीर्घोच्चारणम्` इत्यादि। कथं पुनः `यङि च` [[7.4.30]] इत्युच्यमाने आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन स्यात्। अथापि <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणं प्रतिषिध्यते? एवमप्यस्मादेव दीर्घोच्चारमाद्यङ्लुकि भवतीति विज्ञायते, अन्यथा तदपार्थकं स्यात्!`चेकीतः` इति। तसन्तमेतत्। <<यङोऽचि च>> [[2.4.74]] इति यङो लुक्॥", "61022": "`स्फातिः` इति। <<स्त्रियां क्तिन्>> [[3.3.94]] वलि [[6.1.64]] यलोपः। `स्फातीभवति` इति। स्फायतेर्निष्ठान्ताच्चवौ कृते `अस्य च्वौ [[7.4.32]] इतीत्वे सतीदं रूपं भवतीति मन्यमानो यश्चोदयेत् - अथ कथं स्फातीभवतीत्येतद्रूपम्, यावताऽत्रापि निष्ठायामस्मिन्नादेशे स्फीतिभवतीत्येवं भवितव्यमिति? तं प्रत्याह - `स्फातीभवतीत्येतदपि` इत्यादि। एतदपि स्फातिशब्दात्? क्तिन्नन्ताच्च्वौ कृते `च्वौ च` [[7.4.26]] इति दीर्घत्वे च क्तिन्नन्तस्यैव रूपम्। अतो न भवत्येष दोषप्रसङ्गः॥", "61023": "`सामान्येन ग्रहणम्` ति। द्वयोरप्यात्त्वे कृते पूर्वस्य `धात्वादेः षः सः [[6.1.62]] इति सत्वे समानत्वाद्रूपस्य। लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) च नेहोपतदिष्ठते; उभयोलक्षिणिकत्वात्। अथात्र -<<संयोगादेरातो धातोर्यण्वतः>> [[8.2.43]] इति निष्ठानत्वं कस्मान्न भवति? इत्यत आह -`सम्प्रसारणे` इत्यादि। न त्वस्य पूर्वत्रासिद्धत्वात्? पूर्वं सम्प्रसारणं क्रियत इति, तत्र कृते च यण्वत्ता नास्तीति नत्वं न भवति। `प्रस्त्य इत्येवं सिद्धे` इति। ननु चैवमुच्यमाने प्रशब्दस्यापि सम्प्रसारणं स्यात्, ततश्च प्रस्तीत इति रूपं स्यात्, तत्? किमुच्यते -प्रस्त्य इत्येवं सिद्ध इति? `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इति न भवत्येष दोष इति मन्यते। `इहापि यथा स्यात्` इति। कस्मात्? पुनर्न प्राप्नोति? संशब्देन व्यवहितत्वात्। किं पूर्वग्रहणे क्रियमाणे शब्दार्थं एव तथाविदो भवति येनात्रापि भवति? अथ ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीत्याभिप्रायेणाह -`तत्? कथम्` इति। प्रथमकल्पं दर्शन्नाह -`प्रपूर्वस्य` इति। `षष्ठर्थे बहुव्रीहिः` इति। पूर्वशब्दोऽयमवयववचन इति षष्ठर्थे बहुव्रीहिर्भवति। अवयववाचिनि पूर्वशब्दे धातुरन्यपदार्थो नोपपद्यते। न हि धातोः प्रशब्दोऽयमवयवो भवति, अपि तु धातूपसर्गसमुदायस्य। तस्मात्? स एवान्यपदार्थो युक्त इत्याह -`प्रः पूर्वो यस्य` इत्यादि। `तदवयवस्य` इति। तस्यावयवस्तदवयव इति षष्ठीसमासः। तच्छब्देन धातूपसर्गसमुदायः परामृश्यते। `व्यधिकरणषष्ठ्यौ` इति। `प्रपूर्वस्य` इति। स्त्यावयवापेक्षया योऽयमवयवावयविसम्बन्धस्तत्र षष्ठी, `स्त्यः` इत्येषा तु यणवयवापेक्षया यः सम्बन्धस्तत्र। तेन भिन्नाभिदेयत्वात्? `सत्यः`, `प्रवूर्वस्य` इति व्यधिकरणे षष्ठ्यौ। स्यादेवम्, प्रसंस्तीत इत्यत्र प्रपूर्वसमुदायावयवः स्त्याशब्दो न सम्भवति इत्यत आह -`तत्र` इत्यादि॥", "61024": "`द्रवमूर्त्तौ द्रवकाठिन्ये` इति। अनेन द्रवमूर्त्तिशब्दस्यार्थमाचष्टे। द्रवावस्थाया उत्तरोऽवस्थाविशेषः काठिन्याख्योऽत्र द्रवमूर्त्तिशब्देनोच्यते। `स्पर्शे च` इति। रूपादिसहचरितो गुणः स्पर्श इत्युच्यते। `शीतमुदकम्` इति। कथं पुनरत्र सामानाधिकरण्यम्, यावता शीतशब्देन गुणविशेषोऽभिधीयते। वाय्वादिशब्देन तु द्रव्यविशेष इत्यत आह -`गुणमात्रे` इत्यादि। यथा -शुक्लादिशब्दा कदाचिद्गुणमात्रे वर्तन्ते, यता -पटस्य शुक्ल इति; कदाचित्तु तद्वति द्रव्ये सोऽयमित्यभेदसम्बन्धतद्वान्मतुब्लोपान्मत्वर्थीयाकारप्रत्ययान्तत्वाद्वा शुक्लः पट इति, तथा शीतशब्दोऽपि। तेन यदा तद्वति द्रव्ये वर्तते, तदोभयोरेकद्रव्ये निवेशितत्वादुपपद्यते सामानाधिकरण्यमिति भावः। `संश्यानः` इति। `संयोगादेः` [[8.2.43]] इत्यादिना नत्वम्॥", "61025": "", "61026": "`सेयमुभयत्र विभाषा` इति। द्रवमूर्त्तिस्पर्शविषये पूर्वेण प्राप्ते, अन्यत्राप्राप्ते। अथ पूर्वग्रहणं किमर्थम्, न `विभाषाऽभ्यवाभ्याम्` इत्येवोच्येत? अत आह - `पूर्वग्रहणस्य` इत्यादि। क्रियमाणे पूर्वग्रहणे कस्मादेवात्र न भवतीत्याह - `न किल` इत्यादि। अयं हि द्विविधोऽपि समुदायो नाभिपूर्वः; नाप्यवपूर्वः, किं तर्हि? सम्पूर्वः। तेन पूर्वग्रहणादत्र न भवति। क्रियमाणेऽपि पूर्वग्रहणे प्राप्नोत्येवेति मन्यमानः किलशब्दमरुचिसूचनार्थं प्रयुक्तवान्। तामेव प्राप्ति दर्शयन्नाह - `योऽत्र` इत्यादि। समूशब्दात्? परो यो धातूपसर्गसमुदायस्तदाश्रयो विकल्पः कस्मान्न भवति, भवति ह्रसावब्यवपूर्व इत्यस्ति प्राप्ति? अत आह - `यत्नान्तरमास्थेयम्` इति। विभाषाग्रहणमिह क्रियते, सा च व्यवस्थितविभाषा विज्ञायते, तेनेह न भवतीति यतनान्तरम्। `पूर्वग्रहणस्य चान्यत्प्रयोजनं वक्तव्यम्` इति। तत्? पुनरभिसंशीनम्, अभिसंश्यानम्, अवसंशीनम्, अवसंश्यानम् - इत्यत्रापि विकल्पो यथा स्यादित्येवं तद्वेदितव्यम्। एतच्च पूर्वग्रहणए क्रियमाणे यतोपपद्यते तथा <<स्त्यः प्रपूर्वस्य>> [[6.1.23]] इत्यत्र `प्रपूर्वस्येति षष्ठर्थे बहुव्रीहिः` इत्य#आदिना व्याख्यातम्॥", "61027": "``श्रा पाके` इत्यस्य धातोः` इति। `श्रा पाके` (धातुपाठः-1053) इत्यदादौ पठते घटादौ (धातुपाठः-810) च मित्संज्ञार्थम्। कैश्चिच्चुरादावपि, `श्रै पाके` (धातुपाठः-919) इति भ्वादौ, तत्रेहाविशेषेण ग्रहणं प्राप्तम्। श्रायतेरपि हि कृतात्त्वस्यैतद्रूपं भवत्येव। निपातनाच्च लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) प्रतिबन्धं न करोति। `णन्तस्याण्यन्तस्य च` इति। विशेषानुपादानात्। तथा चोक्तम् - श्राश्रप्योः शृतमिति।यदि विभाषेत्यनुवर्तते क्षीरहविषोरपि पक्षे श्राणम्, श्रपितमिति स्यात्; ताभ्यामन्यत्रापि पक्षे शृतमिति प्रसज्येत? इत्यत आह - `व्यवस्थितविभाषेयम्` इति। `यदापि` इत्यादि। प्रयोजकव्यापारः प्रेषणाध्येषणादिः कार्ये कारणोपचारं कृत्वा प्रयोजकशब्देनोक्तः। स हि प्राकृतादर्थाद्बाह्रो भवति, तत्र तस्यानन्तर्भावात्। तत्र यदा <<हेतुमति च>> [[3.1.26]] इति द्वितीयो णिजुत्पद्यते, तदापि क्षीरहविषोरपि निपातनमेतन्नेष्यते; व्यवस्थितविभाषाविज्ञानादेव। तथा चोक्तम् - श्रपेः शृतमन्यत्र हतोरिति। हेतुमाण्णिचोऽन्यत्रेत्यर्थः। द्वितीयग्रहणं यदैकमेव भवति, तदेष्टत्त्वाच्? श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति तत्प्रयोजको हेतुश्च` [[1.4.55]] इति चकाराद्देवदत्तयज्ञदत्तयोः कर्त्तृ संज्ञाविधानादुभयत्रापि कर्तरि तृतीया। `श्रपितम्` इति। श्रातेर्णिच कृते `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्, `मितां ह्रस्वः` [[6.4.92]] क्षीरं स्वयमेव श्राति स्म - तद्यदा देवदत्तदेन प्रयुज्यते स्म तदा `हेतुमति च [[3.1.26]] इति प्रथमो णिच्। सोऽपि श्रपयन्? यदा यज्ञदत्तेन प्रयुज्यते स्म तदा द्वितीयः। <<णेरनिटि>> [[6.4.51]] इति पूर्वस्य णेर्लोपः, ततः क्षीरे प्रयोज्ये कर्मणि निष्ठा - शृतमिति। `ण्यन्तस्याण्यान्तस्य च निपात्येते` इति प्रतिज्ञाते सति युक्तं ण्यन्तस्याप्येतन्निपातनम् - येषां श्रातिश्चुरादावपि पठते इत्यभ्युपगमः। ये तु चुरादावस्य पाठं न प्रतिजानते तेषां कथं ण्यन्तस्येतन्निपातनं युज्यते, न च शक्यते वक्तुम् - तेषामपि हेतुमण्ण्यन्तरयैतन्निपातनं युज्यते; `श्रपेः शृतमन्यत्र हेतौः` इति भाष्यकारवचनादिति यश्चोदयेत्, तं प्रत्याह - `श्रातिरयम्` इत्यादि। कर्मभावापन्नेऽपि योऽर्थः सौकय्र्यात्? स्वातन्त्र्येण विवक्ष्यते स कर्मकर्ता, कर्म कर्ता भवतीति कृत्वा। कर्म चासौ कर्ता चेति विशेषणसमासः, स यस्य विषयः स कर्मकर्त्तृविषयः। अर्थद्वारकं चेदं विशेषणं पचेः कर्मकर्त्तृविषयत्वं वेदितव्यम्। तस्य योऽर्थः पच्यमानकर्त्तृकत्वं विक्लेदनमात्रं तत्रायमकर्मकः - श्रातिर्वर्तते। यदा तु स ण्यन्तो भवति तदा प्राकृतं पच्यर्थमाह। प्रकृतौ भवः प्राकृतः, स पुनर्यः प्रकृत्यन्तस्य पचेरर्थः पक्तृकर्त्तृको विक्लेदनोपसंहारादिः स इह वेदितव्यः। देवदत्तादिपक्तृकर्तृकं प्राकृतं पाकाख्यं पच्यर्थमाहेत्यर्थः। तत्र द्वयोरपि शृतमिष्यत इति योऽण्यन्तः श्रातिः कर्मकर्तृविषयेण पचिना समानार्थस्त्रत्रापीष्यते। योऽपि ण्यन्तः प्राकृतं पच्यर्थमाह तत्रापीष्यते। तत्र शृतं क्षीरं स्वयमेवेति प्रथमस्योदाहरणम्। शृतं क्षीरं देवदत्तेनेति द्वितीयस्य। ननु च `श्रपेः शृतमन्यत्र हेतोः` इति भाष्ये उक्तम्, तत्? कथं द्वयोरपीष्यते? एवं मन्यते - यदिदं भाष्ये उक्तम् - `श्रपेः शृतमन्यत्र हेतोः` इति, तत्र `अन्यत्र हेतोः` इत्यनेन सर्वस्य हेतुमण्णिचः पर्युदासो न विधित्सितः अन्यथा विप्रतिषिद्धमिदं स्यात्, असति हि श्रातेश्चुरादौ पाठे यदि श्रपेः शृतमिति निपात्यते, कथमन्यत्र हेतोरिति पर्युदासः! अथान्यत्र हेतोरिति पर्युदासो न तर्हि श्रपेः शृतमिति निपातनमुपपद्यते। न हि श्रातेश्चुरादावसत पाठे श्रातेर्हेतुमण्णिचं त्यत्क्वाऽन्यस्ततो णिजस्ति। तस्माद्यस्य हेतुमण्णिचो न केनचित्? प्रकारेण स्वार्थिकत्वमुपपद्यते स एव भाष्यकारस्य पर्युदासविषयत्वेनाभीष्टः। स पुनर्यो बाह्रे प्रयोजके द्वितीयो णिजुत्पद्यते स विज्ञेयः। यस्य तु केनचित्? प्रकारेण स्वार्थिकत्वमुपपद्यते, स एव भाष्यकारस्य पर्युदासविषयत्वेन न प्रकल्प्यते, तस्यैतन्निपातनमिष्टमेव। स पुनर्यस्मिन्नुत्पन्ने श्रातिः प्राकृतं पच्यर्थमाह स विज्ञेयः, शक्यते हि तस्य पचिना प्रकृत्यर्थेन समानार्थत्वात्? स्वार्थिकत्वमुपचारेणाभिधातुमिति। तदेवमिह पाठेऽपि चुरादौ श्रातेण्र्यन्तस्याप्येतन्निपातनं युज्यत एवेति॥", "61028": "`पीनम्` इति। <<ओदितश्च>> [[8.2.45]] इति निष्ठानत्वम्। `इत्यमपि` इत्यादि। अपिशब्देन न केवलं पूर्वसूत्रे या विभाषा सैव व्यवस्थितविभाषा, अपि त्वेषापीति दर्शयति। तेन किं सिद्धं भवति? इत्याह -`तेन` इत्यादि। सोपसर्गस्य तु नैव भवतीत्यस्यापवादमाह -`आङ्पूर्वस्य` इत्यादि। नित्यश्चायमन्धूधसोः पीभावः। व्यवस्थितविभाषैव॥", "61029": "`विभाषेति निवृत्तम्` इति। उत्तरसूत्रे पुनर्विभाषाग्रहणात्। अन्यथापीदमेव तत्रानुवर्त्तिष्यत इति तन्न कुर्यात्। अत एवोच्यते -द्वयोर्दिभाषयार्मध्ये ये विधयस्ते नित्या भवन्तीति। `प्यायः पीत्येतच्चशब्देनानुकृष्यते` इति। इतरथा हि सम्प्रसारणस्य प्रकृतत्वाल्लिङ्यङोः प्यायः सम्प्रसारणं विज्ञायेत। चशब्दे तु सत्यनन्तरेणैवपीभावेन सम्बन्धः सुखमवसीयते। नाप्राप्ते द्विर्वचने पीभावो विधीयते। तेन तस्य बाधकं प्राप्नोतीति कस्यचिदाशङ्का स्यात्। अतस्तां निराकर्त्तुमाह -`परत्वात्` इत्यादि। विरोधे हि सति बाधा स्यात्, इह तु विरोधो नास्ति। अतः परत्वात्? पीभावे कृते पुनःप्रसङ्गवज्ञानात्? सिद्धमिति द्विर्वचनं भवतीति॥", "61030": "`शुशाव` इति। लिटि णलि सम्प्रसारणे कृते वृद्ध्यावादेशौ। `शिआआय` इति। यदा न सम्प्रसारणं तदा वृद्ध्यायादेशौ। `शुशुवतुः, शिइआयतुः, इति। यदा सम्प्रसारणं तदोवङ्, अन्यदेयङ्। `अप्राप्तम्` इति। केनचिवविहितत्वात्। `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इत्युभयत्रोभयग्रहणादन्यत्? कार्यं प्रवर्तमानमपास्याभ्यासस्य सम्प्रसारणमेव यथा स्यादित्येतदुभयेषांग्रहणस्य प्रयोजनमुक्तम्। ततश्चेयमपि विकल्पं बाधित्वा नित्यं सम्प्रसारण मेव स्यादिति कस्यचिद्भ्रान्तिः स्यात्? अतस्तां निराकर्त्तुमाह - `यदा च` इत्यादि। अत्र आयतेर्विभाषा सम्प्रसारणमुच्यते, यदि कदाचिद्धातोर्न सम्प्रसारणं भवति तदाब्यासस्य स्यात्? ततश्च आयतेः सम्प्रसारणं पाक्षिकं न कृतं स्यात्। स्यादेतत् - लिट्परस्य शक्यतेरिदं विकल्पेन कार्यं विधीयते, तस्य च तदस्त्येवेति? असम्यगेतत्; द्विष्प्रयोगे हि द्विर्वचने क्रियामात्रं भिद्यते, न धातुरूपमिति कुतः पूर्वपरयोः कार्यसम्बन्धं प्रति भेदः? तस्माद्यदा धातोर्न भवति तदाभ्यासस्यापि न भवत्येव॥", "61031": "`णौ च संश्चङोः` इति भिन्नाधिकरणे सप्तम्यौ - संश्चङोः परतो यो णिस्तस्मण्णौ परतो यः आयतिरिति। `शुशावयिषति` इति। आयतेर्णिच्, सन्, सम्प्रसारणम्, वृद्धिरावादेशः `शु` इत्येतस्य द्विर्वचनम्। `अशूशवत्` इति। लुङ्, च्लेश्चङ्, सम्प्रसारणादिकम्, पूर्ववण्णिलोपः, `णौ चङि` [[7.4.1]] इति ह्रस्वः, द्विर्वचनम्, <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घः। ननु च आयतेर्णिचि तदन्ताच्च सनि कृते चङि चान्तरङ्गत्वात्? पूर्ववृद्ध्यायादेशाब्यां भवितव्यम्, ततः सम्प्रसारणेन। तथा च सति शुशुययिषतीति सन्परे णौ भवितव्यम्, चङ्परे तु - अशूशुयदिति, तत्? कथं शुशावयिषति, अशूशवदिति चोदाहृतम्? इत्याह - `सम्प्रसारणम्` इत्यादि। आदिशब्देनायावेशः परिगृह्रते। सम्प्रसारणाश्रयं पुनरत्र <<सम्प्रसारणाच्च>> [[6.1.108]] इति परपूर्वत्वम्। `तेनापि वृद्ध्यादिकं बाध्यते` इति। नन्वेवमपि वृद्ध्यावादेशयोः कृतयोः शावित्यस्य द्विर्वचनं प्राप्नोति न केनचित्? णौ स्थानिवद्भावो विहितः? इत्यत आह - `ओः पुयण्ज्यपरे` इत्यादि। यत्र चैतज्ज्ञापकं तथा तस्यैव वृत्तावुपपादयिष्यामः॥", "61032": "", "61033": "", "61034": "", "61035": "`निचिक्यु` इति। `एरनेकाचः` [[6.4.82]] इत्यादिना यणादेशः। `निचाय्य` इति। ल्यबन्तमेतत्। दीर्घोच्चारणं चिकीवानित्यत्र दीर्घस्य श्रवणार्थम्। इदं क्वसौ रूपम्॥", "61036": "`अकारलोपश्च` इति। धातोरवयवो योऽकारस्तस्य निपातनाल्लोपः। `अपास्पद्धैथाम्` इति। अपाकारस्य `आटश्च` [[6.1.87]] इति सवर्णदीर्घत्वम्। `विषयविभागमिच्छति` इति। स च निपातनसामर्थ्यालल्लभ्यत इति वेदितव्यम्। यदिक्वचिदप्येकस्मिन्? श्राभावो दृश्यते, तदर्थं तर्हि यत्नान्तरमास्थेयम्। न हि श्राता इत्यनेनैतदपि सिद्धयति; सूत्रे बहुवचननिर्देशात्। अत आह -`तस्य` इत्यादि॥", "61037": "येषां सम्प्रसारमुक्तं तेषां यावन्तो यणः सम्भवन्ति तेषां सर्वेषां सम्प्रसारणं प्राप्तमिति प्रतिषेधोऽयमारभ्यते। ननु चालोऽन्त्यपरिभाषया [[1.1.51]] अन्त्यस्यैव भविष्यति, नानन्त्यस्य? नैतदस्ति; न ह्रनया परिभाषया शक्यमिहोपस्थातुम्। विचस्वपियजादीनामन्त्यस्य यणोऽसम्भवात्। एवं तर्हि `अनन्त्यविकारेऽन्त्यसदेशस्य`(व्या।प।63) इत्यन्त्यसदेशस्य कार्यं भविष्यति -अन्त्यसदेशो यो यण्? तस्यैव कार्यं भविष्यति, नैतरस्य? नैषास्ति परिभाषा; प्रयोजनाभावात्। यदाह -तस्याः परिभाषाया सन्ति प्रयोजनातीति। तस्मात्? कर्तव्यमेतत्? सूत्रम्। ननु च पूर्वपरयोरेकयोगलक्षणं सम्प्रसारहणम्, ततो यदि तत्? परस्याभिनिर्वृत्तं तदा पूर्वस्याप्यभिनिर्वृत्तमेव, न चाभिनिर्वृत्तस्य निवृत्तिः शक्यते कर्त्तुम्, नाप्यनभिनिर्वृत्तस्य निमित्तत्वेनाश्रयणं युज्यते, ततोऽस्मादेव प्रतिषेधवचनात्? तत्? परस्य तावत्? क्रियते; तत्र कृते तु पूर्वस्यापि प्राप्तं प्रतिषिध्यते। अथ सम्प्रसारणमित्यनुवर्तमाने पुनः सम्प्रसारणं किमर्थम्? इत्याह -`सम्प्रसारणम्` इत्यादि। असति पुनः सम्प्रसारणग्रहणे `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या। प।19) इति प्रकृतस्यैव सम्प्रसारणस्य प्रतिषेधः स्यात्, न विदेशस्थस्य। तस्माद्विदेशस्थस्यापि भिन्नप्रकारणविहितस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः सम्प्रसारणग्रहणम्। `यूनो यूना` इति। सम्प्रसारणे कृते परपूर्वत्वे कृते च <<अकः सवर्णे दीर्घः>> [[6.1.101]] । ननु च क्रियमाणेऽपि पुनः सम्प्रसारणग्रहणे तत्र प्रतिषेधो न स्यात्, सवर्णदीर्घत्वस्य पूर्वविधौ स्थानिवद्भावे सत्युकारव्यवहितत्वात्? अत आह -`सम्प्रसारणग्रहणसामर्थ्यदेव` इत्यादि। यदि स्थानिवद्भावः स्यात्, अनर्थकं पुनः सम्प्रसारणग्रहणं स्यादित्यभिप्रायः। अभ्युपेत्य पुनः परिहारान्तरमाह -`सति वा` इत्यादि। सम्प्रसारणग्रहणसामर्थ्यादेवात्राश्रूयमाणोऽपिशास्तरान्तरेण स्थानिवद्भावमापन्नो योऽज्? व्यवधानं करोति, तन्मात्रेण व्यवधानं नाश्रयिष्यते -मा भूत्? सम्प्रसारणग्रहणमनर्थकमिति। ननु च `यूनश्च कुत्सायाम्? [[4.1.165]] , `वृद्धो यूना` [[1.2.65]] इति निपातनादेव यूनः, यूनेत्यत्र सम्प्रसारणं न भविष्यति, तत्? किमेतन्निवृत्त्यर्थेन पुनः सम्प्रसारणग्रहणेन? नैतदस्ति; अबाधकन्यपि निपातनानि भवन्तीत्युक्तम्। अपि चैतद्विषयमेव निपातनं विज्ञायते, तथा च -यूनः, यूना यूनीत्यत्र सम्प्रसारणं स्यादेवेति। `आरेवान्` इति। रयिरस्यास्तीति मतुप्। सम्प्रसारणे कृते `आद्गुणः`; [[6.1.84]] , <<छन्दसीरः>> [[8.2.15]] इति वत्वम्॥", "61038": "वयेद्र्वौ यणौ, तत्र पूर्वण वकारस्य सम्प्रसारणप्रतिषेधे प्राप्ते यकारस्यानेन सम्प्रसारणं लिटि प्रतिषिद्ध्यते। तत्र प्रतिषिद्धे यकारः सम्प्रसारणभाग्न भवतीति वकारस्य सम्प्रसारणं भवति धातोरभ्यासस्य च; तत्र धातोग्र्रह्रादिसूत्रेण [[6.1.16]] अभ्यासस्य `लिटब्यासस्योभयेषाम्` [[6.1.17]] इत्यनेन। अथ किमर्थं लिह्ग्रहणम्, यावता वयेरादेशस्य लिटोऽन्यत्र सम्भवो नास्ति, तद्विधौ `लिटन्यतरस्याम्` [[2.4.40]] इत्यतो लिङ्ग्रहणानुवृत्तेः, तत्सामर्थ्यादेव लिटि भविष्यति? इत्यत आह -`लिङ्ग्रहणमुत्तरार्थम्` इति। `वेञः` [[6.1.39]] इति प्रतिषेधो लिटि यथा स्यादित्येवमर्थं लिङ्ग्रहणम्॥", "61039": "", "61040": "", "61041": "", "61042": "", "61043": "`योगविभाग उत्तरार्थः` इति। उत्तरत्र व्येञ एव विभाषा सम्प्रसारणं यथा स्यात्, `ज्या` इत्यस्य मा भूदित्येवमर्थो योगविभागः॥", "61044": "", "61045": "`धातोरिति वर्तते` इति। <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यत; तस्य च धातोरेवैचेति विशेषणम्, विशेषमेन च तदन्तविधिर्भवतीत्याह - `एजन्तो यो धातुः` इति। `उपदेशे` इति। आद्युच्चारणे गणपाठ इत्यार्थः। `चेता, स्तोता` इति। ननु च लक्षणप्रतिपदोक्तपरिभाषयैवात्र (व्या।प।3) न भविष्यति, तत्? किमुपदेशग्रहणेन? एवं तर्हि उपदेशग्रहणमतेतज्ज्ञापयति - अनित्यैषा परिभाषेति। एतेन `अर्त्तिह्यी` [[7.3.36]] इत्यादिसूत्रे लाक्षणिकस्याप्याकारस्य ग्रहणे सति क्रापयतीत्यादावपि पुक्? सिद्धो भवति। `श इद्? यस्य सोऽयं शित्` इति। यश्च <<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्येशादेशः स शिद्भवति, ततश्च शिति प्रतिषेधे क्रियमाण एश्यप्यात्त्वं न प्राप्नोति। अत्रायादेशे कृते स्थानिवद्भावेन `ग्लै` इत्यस्य द्विर्वचने `जग्लाय` इत्यनिष्टं रूपं स्यात् - इति मन्यमान आह - `कथम्` इत्यादि। `ग्लै इत्यादौ <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। `नैवम्` इत्यादिना परिहारः। श एव इत्? शिदिति विज्ञायमाने सत्यल्ग्रहणमेव भवति। तत्र `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) परिभाषया शिदादौ प्रत्यये प्रतिषेधेन भवितव्यम्, न चैश्? शिदादिः; किं तर्हि? श#इदन्तः शिदन्तस्यैवोच्चारणात्। तस्मादत्रैशि प्रतिषेधो न भवति। अशितीति पर्युदासो वा? प्रसज्यप्रतिषेधो वा? तत्र यदि पर्युदासः, तदा शितोऽन्यदात्त्वनिमित्तमाश्रितं स्यात्। एवञ्च यावदात्त्वस्य निमित्तं न भवति तावदात्त्वेन भवितव्यमिति; अनाकारान्तत्वात्। `सुगलः` इत्यादावाकारान्तलक्षणः कप्रत्ययो न स्यादित्येच्चेतसिकृत्वाऽऽह - `अशति` इत्यादि। तेन किं सिद्धं भवति? इत्याह - `तेन` इत्यादि। प्रसज्यप्रतिषेधे ह्रात्त्वस्य शिति प्रतिषेधः क्रियते, न तु किञ्चिन्निमित्त्माश्रीयत इति तदनैमित्तिकं भवति। अतः प्रागेव प्रत्ययोत्पत्तेरात्त्वं भवतीत्याकारान्तलक्षण) प्रत्ययः सिद्ध्यति, तेन `सुग्लः` इत्यादि। सिद्धं भवति। आदिशब्देन सुग्लः, सुग्ला - इत्यादेग्र्रहणम्। तत्र हि स्त्रियाम्? `आतश्चोपसर्गे [[3.3.106]] इत्यङ्॥", "61046": "`व्येञ् संवरणे` (धातुपाठः-1007)। अथालिटीति कस्मान्न ज्ञायते, तुल्या हि संहिता? नैतदस्ति; यदि ह्रेवं स्यात्, `लिटि व्यः` इति नियम एव कृतः स्यात् -लिटएवात्त्वम्, नान्यत्रेति। लक्ष्यस्थित्या च विपरीतनियमो भविष्यति। द्विवचनबहुवचनयोः सम्प्रसारणे पूर्वरूपत्व आत्त्वे च सत्यसति वा नास्ति विशेष इत्येकवचनान्तमुदाहृतम्। `संविव्ययिर्थः` इति। थलि वलादिलक्षणस्येटः `एकाचः` [[7.2.10]] इत्यादिना प्रतिषेधः। पुनरपि क्रादिनियमार्थः प्राप्तः, सोऽपि `अचस्तास्वत्? [[7.2.61]] इत्यादिना प्रतिषिद्धः, पुनः <<ऋतो भारद्वाजस्य>> [[7.2.63]] इति नियमाद्विकल्पे प्राप्ते `इडर्त्तिव्ययतीनाम्` [[7.2.66]] इति नित्यं क्रियते॥", "61047": "`विस्फारः, विस्फालः` इति। भावे घञ्, `हलश्च` [[3.3.121]] इति करणाधिकरणयोर्वा॥", "61048": "`डुक्रीञ्? द्रव्यविनिमये` (धातुपाठः-1473) `इङ् अध्ययने` (धातुपाठः-1046) `जि जये` (धातुपाठः-561)। अनुपदेशार्थ आरम्भः। क्रापयतीत्यादावात्वे कृते `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्। किमर्थमिदमुच्यते, न `क्रप कुत्सायां गतौ` (धातुपाठः-771), `जप जल्प व्यक्तायां वाचि` (धातुपाठः-397,398), `आप्लु व्याप्तौ (धातुपाठः-1260) इत्यस्य चाधिपूर्वस्य णिचि कृते क्रापयतीत्यादिकं रूपं सिद्धम्, अनेकार्थत्वाद्धातुनां क्रोणात्याद्यर्थे क्रपादयो वर्त्तिष्यन्ते? उच्यते; क्रीणात्यादीनां णिचि प्रयोगान्तरनिवृत्त्यर्थम्। अथ करोतेः` ईङ्? गतौ` (धातुपाठः-1143) इत्यस्य ग्रहणं कस्मान्न विज्ञायते? उच्यते; करोतेस्तावन्न सम्भवति, एच इत्यधिकारात्। अत एव वृत्तिकृता `एचः` इत्यनुवर्त्तितम्। वचनसामर्थ्याद्वा तस्य हि वृद्ध्यैवात्त्वं सिद्धम्? नैतदस्ति; नियमार्थहि स्यात् - आत्त्वमेव, न पुना रपरत्वामिति? नैतदस्ति; `विधिनियमसम्भवे विधिरेव ज्यायान्` (व्या।प।130) इति क्रीणातेरेव ग्रहणम्। न करोतेः, तस्य नियमार्थत्वात्। क्रीणातेस्तु विध्यर्थत्वात्। `ईङ् गतौ` (धातुपाठः-1143) इत्यस्यापि ग्रहणं न सम्भवति; जयतिना हरस्वान्तेन साहचय्र्यात्। इङ्? ह्रस्वान्तो ग्रहीष्यते, न दीर्घान्तः; शब्दपरविप्रतिषेधात्। जयतिना साहचय्र्यम्, न क्रीणातिना। व्याख्यानतो वा विशेषोऽवसेयः॥", "61049": "`अन्नं साध्यति` इति। अन्नं निष्पादयतीत्यर्थः। अत्र हि सिधिः पारलौकिकेर्थे ज्ञानविशेषे वर्तत इति। अस्यार्थं -`तापसः सिध्यति` इत्यादिना स्पष्टीकरोति। `उपसंहारन्` इति। निष्पादयन्नित्यर्थः। `इह कस्मान्न भवति` इत्यादि। एवं मन्यन्ते -ब्राआहृणेभ्यो दास्यामीत्यनेनाभिप्रायेण योऽन्नं साधयति स जमान्तरे भवन्? फलमभ्युदयलक्षणं प्राप्नोति, तस्मात्? पारलौकिकेऽर्थे सिधिरत्र वर्तत इति पर्युदासेन भवितव्यमिति। सिध्यतेरत्रार्थो निष्पत्तिरित्यादिनेहलोकार्थतां त्वस्य दर्शयति। `तस्याः प्रयोजनमन्नम्` इति। अन्नमुद्दिश्य प्रवृत्तत्वात्। `तस्य` इति। अन्नस्य। `न पुनः सिद्धिरेवेति` इति। अर्ताल्लिङ्गविपरिणामं कृत्वा न पुनः सिद्धिरेव पारलौकिकीति सम्बन्धनीयम्। सिद्धिर्निष्पत्तिरित्यर्थः। इतिकरणो हेतौ। यस्मात्? सिद्धो धातुर्वर्तते। अत्र सिद्धिः पारलौकिकी न भवति, तस्मान्नात्रात्वं पर्युदस्यते। स्यादेतत्? यद्यपि साक्षाद्धातुः परलोकार्थो न भवति, पारम्पर्येण तु भवत्येव, तस्माद्भवितव्यमेव प्रतिषेधेन इत्याह -`साक्षात्` इत्यादि। यदि साक्षादव्यवधानेन परलोकार्थो यः सिद्ध्यतेरर्थः, तत्रापि पारलौकिक इतीदं वचनं न कृतार्थं स्यात्, तदा पारम्पर्येणापि यः परलोकार्थस्तत्र व्याप्रियेत -मा भूद्वचनवैयथ्र्यमिति। इदं तु ज्ञानविशेषे साक्षात्? परलोकार्थे सिध्यत्यर्थे चरितार्थम्, ततो नोत्सहत एवंविधविषयमवगाहितुम्। न शक्नोत्येवम्प्रकारे विषये नि,#एधः प्रवर्त्तितुमित्यर्थः। अथ सिद्ध्यतेः श्यना निर्देशः किमर्थः, न सिधेरित्येवोच्येत, एवं हि लघु सूत्रं भवति? इत्याह -`सिद्ध्यतेः` इत्यादि॥", "61050": "`उपदेश` [[6.1.44]] इत्यनुवृत्तेः प्रागेव प्रत्ययोत्पत्तेरात्त्वेन भवितव्यमिति, अत आत्वविधानकाले ल्यपः परत्वं न सम्भवतीति तस्माल्ल्यपीति विषयसप्तमीयं विज्ञायत इत्याह -`ल्यपि विषये` इति। एचेति यद्यपि प्रकृतविशेषणं प्रागासीत्, तथापीहोपदेशाधिकारान्मीनातिप्रभृतीनां चोपदेशावस्थायामेचोऽसम्भवात्? सामर्थ्याद्विषयविशेषणं विज्ञायत इत्याह -`एचश्च विषये` इति। `उपदेशे` इत्यस्य प्रागित्यादिनार्थमाचष्टे। `प्रमाय` इति। `समासेऽनञ्` [[7.1.37]] इति ल्यप्। कः पुनरुपदेशावस्थायामेवात्त्वविधानेऽर्थः सम्पद्यते, यदर्थमुपदेशावस्थायामात्त्वं क्रियते? इत्याह -`उपदेश एव` इत्यादि। इवर्णान्तलक्षणः `एरच्` [[3.3.56]] इत्यच, आकारान्तलक्षणः <<आतो युच्>> [[3.3.128]] `उपदायः` इति। उपदेश एवात्त्वे कृते सत्यचो निमित्तं विहितमित्युसर्ग एव `भावे` [[3.3.18]] इति घञ्? सिद्धो भवति। `आतो युक्? चिष्कृतोः` [[7.3.33]] इति युक्। `ईषदुपदानम्` इति। उपदेशावस्थायामात्त्वे खलपवादो युच्? सिद्धो भवति॥", "61051": "`तयोरुभयोरपि यका निर्देशः स्मर्यते` इति। आचार्यैः। अथ दैवादिकस्यायं श्यना निर्देशः कस्मान्न विज्ञायते? अत एव निर्देशात्। यदि दैवादिक एवात्र निर्देष्टुमभीष्टः स्यात्, अनुबन्धेन लीङ इति निर्देशं कुर्यात्। तस्मात्? साधारणेनागन्तुकेन यकायमुभयोर्निर्देशः। `ईषत्प्रमयः` इति। `ईषद्दुःसुषु` [[3.3.126]] इत्यादिना खल्। `निमयो वर्तते` इति। `एरच्` [[3.3.56]] इत्यच्। `अत्र तु लियो व्यवस्थितविभाषया विज्ञानात्? सिद्धम्` इति। `लियः` इत्युपलक्षणमात्रम्, इतरयोरपि सिद्ध एव; विभाषाग्रहणस्य पूर्वेणापि सूत्रेण सम्बन्धात्। व्यवस्थितविभाषाविज्ञानात्? प्रलम्भनशालीनीकरणयोश्च णौ नित्यमात्त्वं भवति। व्यवस्थितविभाषाविज्ञानादेव। `उल्लापयते, अपलापयते` इति। `लियः सम्माननशालीनीकरणयोः` [[1.3.70]] इत्यात्मनेपदम्॥", "61052": "`चिखाद` इति। `पुगन्तलघूपधस्य` [[7.3.86]] इति गुणे कृत आकारः। यदि खादिरपि खिदेरर्थे वर्तते, ततोऽयं योगः शक्योऽकर्त्तुम्; खादेस्तु - चखादेति भविष्यति, खिदेस्तु - चिखेदेति॥", "61053": "`अपगारमपगारम्` इति। `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्वित्वम्॥", "61054": "<<क्रीङ्जीनां णौ>> [[6.1.48]] इत्यत्र प्रदेश इदं नोक्तम्; नित्यं मा भूदित्येवमर्थम्॥", "61055": "यदि `वा गतिगन्धनयोः (धातुपाठः-1050) इत्ययं धातुः प्रजने वर्तते, ततः शक्यतेऽपि योगोऽवक्तुम्; वातेर्हि -वापयतीति भविष्यति, वीयतेस्तु -वाययतीति॥", "61056": "`हतुभये` इति। <<पञ्चमी भयेन>> [[2.1.37]] इति पञ्चमीसमासोऽयमित्याह -`ततो यद्भयम्` इति। किं पुनस्ततो भयम्? इत्याह -`स यस्य भयस्य` इत्यादि। अथात्त्वपक्षे षुगागमः कस्मान्न भवति? अस्ति ह्यत्रापि प्राप्तिः -`एकदेशविकृतमनन्यवद्भवति` (व्या।प।16) इत्यत आह -`स च` इत्यादि। <<भियो हेतुभये षुक्>> [[7.3.40]] इत्यत्र हि भी+ई इ त ईकारेण प्रश्लिष्टस्य निर्देशः कृतः -ईकारान्तस्यैव षुग्? यथा स्यात्, आकारान्तस्य मा भूदीति। तथा लियो ग्रहणम्, तस्याप्यात्त्वपक्षे `लीलोर्नुक्लुकावन्यतरस्यां स्नेहविपातने` [[7.3.39]] इति नुग्न भवति। ईकारप्रश्लेषनिर्देशादेवेति प्रसङ्गेन व्युत्पादितम्॥", "61057": "`भयशब्देन धात्वर्थसाम्यात्` इत्यादि। यश्च बिभेतरर्थो यश्च स्मयतेः, तौ द्वापि सदृशौ; चित्तविकार स्वभावतया। द्वावपि तौ चित्तसंक्षोभलक्षणौ, अतो द्वयोरपि यत्? सामान्यं तत्? सादृश्यम्। तस्माद्भयशब्देनात्र स्मयतेरर्थोऽभिधीयते। दृश्यते हि सादृश्यादर्थान्तरेऽपि शब्दानां वृत्तिः, यथा - सिंहो माणवक इति। किं पुनः कारणमेवं व्याख्यायते? इत्याह - `न हि` इत्यादि। <<बिभेतेर्हेतुभये>> [[6.1.56]] इत्यनुवर्तते। उच्यते चेदं विशेषणम्। न च मुख्ये भये स्मयतेर्वृत्तिस्ति। तत्र सामर्थ्यात्? केनचित्? सादृश्येन स्मयत्यर्थ एव भयशब्देनात्राभिधीयत इति विज्ञायते॥", "61058": "`रुआष्टा, द्रष्टा` इति। उमागमे कृते यणादेशः, व्रश्चादि [[8.2.36]] सूत्रेण षत्वम्। `लघूपधगुणापवादौऽयम्` इत्यादि। ननु चासति सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यादिति, तत्र गुणे कृतेऽमागमो भविष्यति? नैतदेवम्; सामान्यविहितो गुणः विशेषविहितस्त्वमागमः, सामान्यविहितस्य च विशेषविहितो बाधको भवति, यथा - ब्राआह्रणेभ्यो दधिदीयतां तक्रं कौण्जन्यायेति। यथा सामान्यविहितस्य दधिदानस्य विशेषविहितं तक्रदानं बाधकं भवति तथेहापि युक्ताऽमागममेन गुणस्य बाधा। `अरुआआक्षीत्, अद्राक्षीत्` इति। <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्, `अस्ति सिचोऽपृक्ते` [[7.3.96]] इतीट्, <<वदव्रजहलन्तस्याचः>> [[7.2.3]] इति वृद्धिः, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्। `वृद्धिरमिकृते भवति` इति। अथ प्रागेव वृद्धिः कस्मान्न भवति? इत्याह - `पूर्वन्तु बाध्यते` इति। यथैव हि विशेषविहितत्वादमागमेन सामान्यविहितो गुणो बाध्यते, तथा वृद्धिरपि सामान्यविहितैवामागमे कृते पश्चात्? पुनःप्रसह्गविज्ञानात्? सिद्धमिति सापि भवति। गुणस्त्वमागमे कृते न भवति; निमित्तस्य विहितत्वात्। न ह्रमागमे कृत उपधा लघ्वी गुणभाविन्युपपद्यते। अथेह कस्मान्न भवति - रज्जुसृङ्भ्याम्, देवदृग्भ्यामिति; सत्यपि धात्वधिकारे `क्विबन्ता धातुत्वं न जहति (व्या।प।132) इति भ्याम्प्रत्ययमकितमाश्रित्यामागमः प्राप्नोति? इत्यत आह - `धातोः` इत्यादि॥", "61059": "", "61060": "किं पुनः कारणमादेशो नेष्यते? इत्याह - `सोऽपि हि` इत्यादि। यतः शिरःशब्दोऽपि च्छन्दति प्रयुच्यते, ततो नायमादेशः प्रयुज्यते। आदेशे हि सति शिरःशब्दस्य च्छन्दसि विषये प्रयोगो न स्यात्, निवृत्तिधर्मत्वात्? स्थानिनः। यद्यन्यतरस्यांग्रहणमिहानुवर्तते तदादेशेऽप्यदोषः। `शीर्षा` इति। <<नोपधायाः>> [[6.4.7]] इति दीर्धः। क्वचित्? शीष्र्णेति पठते, तत्? तृतीयान्तं द्रष्टव्यम्। <<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपः। `शीर्ष्णः` इति। षष्ठएकवचनान्तमेतत्॥", "61061": "", "61062": "", "61063": "इहापि शस्प्रभृतयो निमित्तत्वेनोपादीयन्ते, ते च प्रकृत्या विना नोपपद्यन्त इति भावः। तेषु प्रकृत्यन्तराद्विहितेषु विधीयमानाः पदादय आदेशा विज्ञायन्ते। न च स्थानिनोऽनुपादानादियमेनादेशप्रसङ्गः, यतस्तेष्वादिश्यमानेषु शस्प्रभृतयोऽनुरूपमेव पादादिकां स्वार्थिकीं प्रकृतिमाक्षिपन्तीत्याह -`पाददन्तनासिका` इत्यादि। पदित्याद्युदाहरणेषु पदो दत इति शसन्ते। `यूष्णः, दोष्णः, यक्नः, शक्नः` ति षष्ठएकवचनान्तानि। <<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपः। `मासि, निशि, आसनि` इति सप्तम्येकवचनान्तानि। आसनीत्यत्र `विभाषाङिश्योः` [[6.4.136]] इति पक्षेऽकारलोपो न भवति। शेषाणि तृतीयैकवचनान्तानि। `पादौ, नासिके` इति प्रथमाद्विवचनान्ते। कस्मात्? पुनरन्यतरस्यामित्येतदनुवर्तयन्ति? इत्याह -`तेन पादादयोऽपि` इत्यादि। यस्मात्? पादादयोऽपि प्रयुज्यन्ते तस्मादन्यतरस्यामित्यनुवर्तयन्ति।व्यवस्थावाचिनि प्रभृतिशब्द आश्रोयमाणे शस्प्रभृतिभ्योऽन्यत्रादेशो न सिध्यतीत्यभिप्रायेणाह -`प्रकारार्थे प्रभृतिशब्दः` इति। `दोषणी` इति। केचिदाहुः -प्रथमाद्विवचने दोषन्नादेशः, औङः शीभावः। अन्ये त्वाहुः -दोषणीति ङीबन्तमेतत्, ङीपि विषयभूते दोषन्नादेशः, ततः `ऋन्नेभ्यो ङीप्` [[4.1.5]] ।`नस्यम्` इति। हितार्थे `शरीरावयवाद्यत्` [[5.1.6]] । `नस्तः` इति। <<अपादाने चाहीयरुहोः>> [[5.4.45]] तसिः। `नःक्षुद्रः` इति। नासिका क्षुद्रा यस्येति बहुव्रीहिः। `नासिक्यो वर्णः` इति। भवार्थे `शरीरावयवात्` [[5.1.6]] इति यत्। नासिक्यं नगरमिति अत्र हितार्थे यत्॥", "61064": "`सिञ्चिति` इति। <<शे मुचादीनाम्>> [[7.1.59]] इति नुम्। `षोडश` इति। षट्? वा दश वास्येति `संख्यायाव्यय` [[2.2.25]] इत्यादिना बहुव्रीहिः, `संख्येये ङच्` [[5.4.73]] इत्यादिना समासान्तो ङच्। `षोडन्` इति। षट्? दन्ता अस्येति बहव्रीहिः, <<वयसि दन्तस्य दतृ>> [[5.4.141]] इति दन्तशब्दस्य दत्रादेशः। `षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च` (वा।765) इति षष उत्वम्, उत्तरपदादेश्च ष्टुत्वम् -डकारः। `षण्डः` इति। प्रातिपदिकान्तमेतदव्युत्पन्नम्। `षडिकः इति। अनुकम्पितः षडङ्गुलिदत्त इति `बह्वचो मनुष्यनाम्नष्ठच्` [[5.3.78]] इति ठच्? ठाजादावूध्र्वं द्वितीयादचः` [[5.3.83]] इत्यङ्गुलिदत्तशब्दस्य लोपः। ननु च `लिटि धातोः` [[6.1.8]] इत्यतोऽत्र धातुग्रहणमनुवर्त्तिष्यते, तदिह किं पुनर्धातुग्रहणेन? एवं तरह्हि एतज्ज्ञापयति -तन्निवृत्तमिति। तस्य ह्रनुवृत्तौ `लोपो व्योर्वलि [[6.1.64]] इत्ययमपि लोपो धात्ववयवस्यैव विज्ञायते। क्नूयी (धा।पा485), क्तः -क्नूतः क्ष्मयी (धातुपाठः-486), क्तः -क्ष्मात इत्यत्रैव स्यात्; गौधरः, पचेरन्नित्यत्र न स्यात्। नन्वेवमपि धातुग्रहणमनर्थकमेव, यस्मादुपदेश इति वर्तत एव, न च प्रातिपदिकानामुपदेशः, केषां तर्हि उपदेशः? धातूनाम्? नैतदस्ति; उपदेशाधिकारो।युपदेशग्रहणेन षकारो विशिष्यते, षषश्च षकार उपदेशो भवति। `षष उत्त्वं दतृदशधासूत्तरपदादेः (वा।765) इति सूत्रे पाठात्। तस्मात्? धातुग्रहणं कर्तव्यम्। `कषति` इति। भ्वादौ कषसिधेत्यादिहिसार्थो धातुवर्गे पठते। `लषति` इति। `लष कान्तो`(धातुपाठः-888) अनयोरादिगारहणस्य भवति। ननु चोपदेशसामर्थ्यादेवात्र न भविष्यतीति, अन्यथा ह्रुपदेशस्य वैयथ्र्य स्यात्? नैतस्ति; अस्ति ह्रन्यतूपदेशस्य प्रयोजनम्। किं तत्? -<<शेषे विभाषाऽकखादावषान्त उपदेशे>> [[8.4.18]] इत्यत्र केषेग्र्रहणं मा भूत; लेषतुः, लेषुरिति षत्वं यथा स्यात्। किमर्थं पुनः षादयो उपद्ष्टाः, न सादयो ह्रुपदिश्येरन्, एवं ह्रेतत्? सूत्रं न कर्तवयं भवति? इत्यत आह -`आदेशप्रत्ययोः` इत्यादि। षत्वव्यवस्थां=षत्वनियमः। <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन सहादीनामेव षत्वव्यवस्था यथा स्थादित्येवमर्थम्। षादपः केचिदुपदिष्टाः अन्यथा सहादीनां षत्वार्थ यत्नान्तरं कर्तव्यं स्यात्। तच्च गुरु भवतीत्यभिप्रायः। यद्यपि षकारादिषु सन्देहो न भवति, सकारादिषु च भवत्येव। अत्र हि न ज्ञायते -किं षोपदेशा एव सन्तः <<धात्वादेः षः सः>> [[6.1.64]] इत्यनेन कृतसत्वा उच्चारिताः? उत सकारादय एव? इति सन्दिह्र पृच्छति -`के पुनस्ते` इति। `ये यथा पठन्ते` इति। षादयो ये यथा पठन्ते सन्निधानात्? त एव षोपदेशा अवगन्तव्याः। `अज्दन्त्यपराः` इत्यादि। अज्दन्त्यौ परौ येषामिति तेऽब्दन्त्यपराः। परशब्दोऽत्रावयवे वर्तते। तच्चाच्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्? सकारापेक्षं विज्ञायते। `स्मिस्विदिस्वञ्जिस्वपयश्च` इति। `ष्मिङीषद्धमने` (धातुपाठः-948), `ञिष्विदा गात्रप्रक्षरणे` (धातुपाठः-1188), `ष्वन्ज परिष्वङ्गे` (धातुपाठः-976) `ञिष्वप्? शये` (धातुपाठः-1068) एते स्वरूपेणाख्यायन्ते; मकारवकारयोरज्दन्त्यत्वाभावात्। केचित् स्मिस्वदिस्वदिस्वञ्जिस्वपयश्चेति स्विदिस्थाने स्वदिं पठन्ति, तेषां `तेषां स्वद [`ष्वद` -धातुपाठः ] स्वर्द आस्वादने` (धातुपाठः-18,19) इति स्वदिरपि षोपदेश एव। `सृपिसृजिस्तृस्त्यासेकृसृवर्जम्` इति। `गम्लु सुप्लृ गतौ (धातुपाठः-982,983), `सृज विसर्गे (धातुपाठः-1178), `स्तृञ्? आच्छादने` (धातुपाठः-1252), `ष्ट स्त्यै शब्दसङ्घातयोः`, (धातुपाठः-911,910) `सेक [सेकृ, रुओक -धातुपाठः-] सेकृ श्रकि श्लकि गत्यर्थाः` (धातुपाठः-81,82,84,85), `सृ गतौ` (धातुपाठः-935) एतान्? वर्जयित्वा येऽन्येऽज्दन्तत्यपरास्ते षोपदेशाः। `सुब्धातु` इत्यादि। सुब्धातुः क्यजाद्यन्तः। `ष्ठिच्? निरसने` (धातुपाठः-560), `ष्वक्क [अत्रत्याःधातवः केचन धातुपाठे न सन्ति] वुक्क मक्कतिक्क टिक्क टीक्क वगि लगि गत्यर्थाः -एषां प्रतिषेधो वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -सुब्धातौतावत्? षोडीयतीत्यादौ नैव धात्वादिः षकारः, तथा ह्रादिरवयवः। आरम्भकश्चावयवो भवति, सुब्दातुः सबन्तेन क्यचा चारभ्यते। न च षकारेणापि वर्णान्तरेणेति कुतस्तस्य षकारादित्वम्? सहादयस्तु षकारादिभिरेव वर्णेरारभ्यन्त इति युक्तं तेषां षकारादित्वम्। ष्ठिवेरपि निपातनान्न भवति, किं तन्निपातनम्? `ष्टिवुक्लमुचमां शिति` [[7.3.75]] इति। यस्य हि सत्वं भवति तमयं प्रदेशेषु कृतसत्बमेवोच्चारयति यथा प्रदेशे -`स्थाध्वोरिच्च` [[1.2.17]] इति। ष्वक्केरप्यज्दन्त्यपरा इत्यनेन निवर्त्तितत्वान्न भवति। वकारस्य दन्त्यौष्ठत्वादज्दन्त्यग्रहणेन न गृह्रते। अथ वा यादित्यात्? ष्ठिवुष्वक्कोर्न भविष्यति, यकारस्तु लुप्तनिर्दिष्टत्वान्न श्रूयते। अथ वा -अन्यतरस्यांग्रहणमत्रानुवर्तते सा च व्यवस्थितविभाषा विज्ञायते, तेन सुब्धात्वादीनां न भवतीति। `षष्ठीवति` इति। `ष्ठिवुक्लमुचमां शिति` [[7.3.75]] इति दीर्घः। `ष्वक्कते` इति। अनुदात्तेत्त्वादात्मनेपदम्। अथ ष्ठिवो द्वितीयवर्णः किं ठकार इष्यते? उत थकारः? यदि ठकारस्तदा सिद्धम् -टेष्ठीष्यत इति, न सिध्यति -तेष्ठीव्यत इति, <<अभ्यासे चर्च>> [[8.4.54]] इति टकार एवान्तरतमष्ठकारस्य स्थाने प्राप्नोतीति कृत्वा; अथ थकारस्तदा सिद्धम् -तेष्ठीव्यत इति, एतन्न सिध्यति -टेष्ठीव्यत इति, आन्तरतम्याद्विधीयमानस्थकारस्य स्थाने तकार एव प्राप्नोतीत्यत आह -`ष्ठिवु इत्येतस्य` इत्यादि। ब्यासस्य द्वैरूप्यं यथा स्यादिति। केचिदाचार्येम शिष्या `ठकारोऽयम्` इत्युपदिष्टाः। अपरे पुनः `थकारोऽयं ष्टुत्वेन ठकारः श्रूयते` इतीममर्थं ग्राहिताः। उभयं चैतत्? प्रयोजनम्। अन्ये पुनरहुः -ष्ठिवुर्दिवादिष्वपि पुनरधीयते, तत्रैकस्य द्वितोयस्थाकारः, अपरस्य तु ठकार इति। तेष्ठीव्यत इति <<शर्पूर्वाः खयः>> [[7.4.61]] शेषः॥", "61065": "`सुब्धातोरयमपि नेष्यते` इति। पूर्वस्मदेव हेतोः। `उपसर्गादसमासेऽपि` इत्यादि। अत्र पूर्वानुसारेण पूर्वपक्षो विज्ञेयः। `नृतीनन्दि` इत्यादि। `नृती गात्रविक्षे#एपे` (धातुपाठः-1116), `टुनदि समृद्धौ` (धातुपाठः-67), `नर्द गद्र्द शब्दे` (धातुपाठः-56,57), `नक्क वक्क [`धक्क` -घातुपाठः] नाशने` (धातुपाठः-1593,1594), `नट अवस्यन्दने` [अवस्पन्दने -घातुपाठः] (धाचपा।1545) चुरादिणिजन्तः, `नाथृ नाधृ याञ्चोपतापैआर्याशीःषु` (धातुपाठः-6।7), `नृ नये` (धातुपाठः-809,1495)॥", "61066": "`लिटि धातोः` [[6.1.8]] इत्यस्य धातुग्रहणस्य दृष्टानुवृत्तिसामर्थ्यादिहाप्यनुवृत्तिरिति मन्यमानस्य धातोरेवायं वलि व्यलोपो विधीयत इति कस्याचिद्भ्रान्तिः स्यात्, अतस्तं निरकर्त्तुमाह -`धातोरिति यत्? प्रकृतम्` इत्यादि। `दिदिवान्` इति। दिवेः क्वसौ रूपम्। `ऊयी` इति। `ऊयी तन्तुसन्ताने (धातुपाठः-483) `क्नूयो` इति। `क्नूयी शब्दे` (धातुपाठः-485) `गौदेरः` इति। <<गोधाया ढ्रक्>> [[4.1.129]] ढस्यैयादेशः, यकारलोपः। `पचेरन्` इति। सीयुडकारस्य लोपः। `जीवेः` इति। `जीव प्राणधारणे` (धातुपाठः-562) इत्यस्य। `रिउआवेः` इति। `रिउआवु गतिशोषणयोः` (धातुपाठः-1109) इत्येतस्य। `आरुओमाणम्` इति। औणादिकोऽयं मनिन्। कथं पुनरेतदिहोदाहरणम्, यावता परत्वात्? `वार्णादाङ्गं बलीयो भवति` (व्या।प।39) इति बलीयस्त्वात्? `च्छवोः शूडनुनासिके च` [[6.4.19]] इत्यादिनोठादेशेनात्र भवितव्यम्? इत्यत आह -`उणादयो बहुलम्` इत्यादि। बहुलग्रहणस्य सर्वविधिव्यभिचारार्थत्वान्न भवत्येष दोषप्रसङ्ग इति।पश्चाल्लोपग्रहणे क्रियमाणे पकारात्? परेणाध्यर्धमात्रोच्चारयितव्या भवति, अकगारो हि मात्रा, विसजं नीयस्त्वर्धमात्रः। पूर्वं तु लोपग्रहणे क्रियमाणे मात्राद्वयमुच्चारयितव्यं जायते; ओकारस्य द्विमात्रिकत्वात्। तत्र लाघवार्थं पश्चादेव लोपग्रहणं कर्त्तु युक्तम्, तत्? किं पूर्वं क्रियते? इत्यत आह -`पूर्वम्` इत्यादि। अन्यस्तु पूर्व कार्यिनिर्देशो युक्तः, पश्चात्? कर्यनिर्देश इति पूर्व व्योग्र्रहणे कर्तव्ये किमर्थ लोपग्रहणं क्रियत इति पूर्वपक्षं वर्णयति, स चायुक्तः `लुगणिञोः` [[2.4.58]] इत्यत्र कार्यस्यापि पूर्व निदशात्। `वेरपृक्तलोपात्` इत्यादि। कण्डूयतेर्लोलूयतेश्च क्विपि कृते वलि लोपात्? परत्वात्? कृताकृतप्रसङ्गित्वेन नित्यत्वाच्च पूर्वं वेरपृक्तलोप एव स्यात्। अस्मश्च सति निमित्ताभावात्? वर्णाश्रये प्रत्ययलक्षणाभाद्ववलि लोपो न स्यात्? तस्मात्? पूर्वं लोपग्रहणं क्रियते -वलि लोप एव पूर्वं यथा स्यात्। पूर्वं लोपग्रहणे ह्रयमर्थः सूच्यते -वेरृक्तलोपत्? पूर्व वलि लोप एव कर्तव्यमिति। `कण्डूः` इति। <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। क्विलुगुपधात्वचङ्गपरनिह्यसिकुत्वेषु न स्थानिवत्` (1.1.59 वा।2) इत्यकारस्य स्थानिवद्भावो न भवति वलि लोपः। अथ व्रश्चकः, व्रश्चन इत्यत्र रेफे वलि परतो वकगारलोपः कस्मान्न भवति? इत्याह -`व्रश्चादीनाम्` इत्यादि। यद्येषामपि लोपः स्यात्, वकारोच्चारणमनर्थकं स्यात्। अतश्चोच्चारणसामर्थ्याद्व्रश्चादीनां वलि लोपो न भवति। स्यादेतत् -वृश्चति, वव्रश्चेत्यत्र सम्प्रसारणे हलादिशेषे च वकारस्य श्रवणं यथा स्यात्, तत्? कुत उपदेशस्य वैयर्थ्यम्? अत आह -`वृश्चति` इत्यादि। यथा व्रश्चक इत्यादौ लोपस्य प्राप्तिः, एवं वृश्चतीत्यादावपि सम्प्रसारणादौ कार्ये कृतेऽपि; तस्य बहिरङ्गत्वेनासिद्धत्वात्। तत्र सम्प्रसारणं ङित्प्रत्ययापेक्षत्वात्? बहिरङ्गम्। हलादिशेषेऽभ्यासापेक्षत्वाद्बहिरङ्गः, वलि यलोपस्तु वर्णमात्राश्रयत्वादन्तरङ्गः। तस्मात्? सर्वत्रैव व्रश्चेर्वकारलोपः प्राप्नोति। क्रियते चास्यो पदेशः, अत उपदेशसामर्थ्यान्न भविष्यतीति तदेवावस्थितम्॥", "61067": "`वेः` इत्यादि। क्विबादेरन्यस्य वेरपृक्तसंज्ञकसयाभावात्? क्विबादय एव गृह्यन्ते, कथं पुनर्वेरित्युच्यमाने क्विबादीनां सामान्येन ग्रहणमुपपद्यते, यावता प्रकारादयस्येषां विशेषा अनुबन्धाः सन्ति? इति चोद्यनिरासाये दमुक्तम् -`विशेषाननुबन्धानुत्सृज्य` इति। `ब्राह्रहा, भ्रूणहा` इति। `सौ च` [[6.4.13]] इति दीर्घः `घृतस्पृक्` इति। <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम्। `अर्धभाक्`इति। <<चोः कुः>> [[8.2.30]] इति कुत्वम्। दर्विरित्यादौ <<उणादयो बहुलम्>> [[3.3.1]] इति बहुलग्रहणादेव लोपो न भवतीति शक्यते वक्तुम्, अतः प्रपञ्चार्थम्। वैचित्र्यार्थं वाऽपृक्तग्रहणम्॥", "61068": "यदि लोप इति इहानुवर्तमानं शास्त्रीयेणार्थेनैवार्थवत्? स्यात् तदा तेन हलित्यस्य प्रथमान्तस्य सामानाधिकरण्येन सम्बन्धो नोपपद्यते। शास्त्रीयस्य हि लोपशब्दस्यार्थः - दर्शनाभावः=आदर्शनम्, न च हलदर्शनं भवति। न च `हल्ङ्याब्भ्यः` इति पञ्चमी हलिति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति। सामर्थ्याद्वा हलित्यस्य षष्ठन्ततया विपरिणामो भविष्यति, अतः षष्ठन्तस्य लोपशब्देन सम्बन्धो भवष्यतीति शक्यं प्रकल्पयितुम्; अकृतार्थत्वात्? प्रथमायाः षष्ठीभावस्यानुपपत्तेरित्येतदालोच्याह -`तदिह` इत्यादि। `लुप्यत इति लोपः`। कर्मणि घञ्। एतेन लौकिकार्थेनार्थवत्त्वं लोपशब्दस्य दर्शयति। लुप्यत इति निरुध्यत इत्यर्थः। लौकिकेनार्थेनार्थवता कर्मसाधनेन लोपशब्देन हलित्येतस्य विशेषणविशेष्यबाव उपपद्यते। लोपशब्देन हि लुप्यमानं वर्णमात्रमुच्यते। ` सुतिस्यपृक्तं हल्` इति। अनेन च तदेव विशिष्यते। `दीर्घात्` इति। एतच्च ङ्यापोरेव विशेषणम्; सम्भवाव्यभिचारात्, न तु हलन्तस्य; असम्भवात्। `उखारुआत्; पर्णध्वत्? इति। `रुआन्सु ध्वन्सु अधःपतने;, (धातुपाठः-754,755) उखायां रुआंसते पर्णानि ध्वंसत इति क्विप्? `अनिदिताम्` [[8.4.55]] चर्त्वम् -तकारः। `कुमारी` ति। <<वयसि प्रथमे>> [[4.1.20]] इति ङीष्। `गौरी` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्। `शाङ्र्गरवी` इति। <<शार्ङ्गरवाद्यञो ङीन्>> [[4.1.73]] इति डाप्। `कारीषगन्ध्या इति। `यङ्श्चाप्` [[4.1.74]] । `हलन्तादेव तिलोपः सिलोपश्च` इति। ननु ङ्याबन्तादित्येकारेण दर्शयति, न हि ङ्याबन्तात्? परौ तिसी सम्भवतः, धातोरेव परस्य लकारस्य तयोर्विधानात्। `अबिभर्भवान्` इति। गुणे रपरत्वे च कृते तिलोपः। `अजागर्भवान्` इति। <<जाग्रोऽविचिण्णल्ङित्सु>> [[7.3.85]] इति गुणः। भवानित्यनुप्रयोगस्तिशब्दाभिव्यक्तये। `अभिनः` इति। भिदेर्लङ् `दश्च` [[8.2.75]] इति रुत्वम्, <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्त्वम्, इनमोऽकारेण सह `आद्? गुणः, [[6.1.84]] <<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपत्वम्। `ग्रामणीः` इति। ग्रामं नयतीति `सत्सूद्विष` [[3.2.61]] इत्यादिना क्विप्। `निष्कौशाम्बिः` इति निर्गतः कौशाम्ब्या इति प्रादिसमासः, <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वत्वम्। `अतिखटवः` इति। खट्वामतिक्रान्त इति पूर्ववत्? समासे कृते ह्रस्वः। `अभैत्सीत्` इति। `वदव्रज` [[7.2.3]] इति वृद्धिः, अपृक्त इट्। ननु सीति सामान्येन निदशात्? सिचोऽपि गरहणम्, अतो न युक्तमिदं प्रत्युदाहरणम्? अत आह -`तिसहचरितस्य` इत्यादि। तिङ्तिशब्देन साहचर्यात्? तिङ् एव सेग्र्रहणम्, न सिचेति किमत्रायुक्तम्। `बिभेद` इति। णलोऽकारोऽत्र भवत्यपृकतः, न तु हल्? इति नासौ लुप्यते। `संयोगान्तलोपेनैव सिद्धम्` इति। राजेत्यादिकमुदाहरणमिति शेषः। कथं पुनर्न सिध्यति? इत्यत आह -`राजा, तक्षा` इत्यादि। यथा पचन्नित्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न भवति; तथा राजा, तक्षेत्यादावपि न स्यात्। संयोगान्तलोपासिद्धत्वं चात्र पारम्पर्येण हेतुः। तस्मिन्? सति हि सौ परतः पूर्वस्य पदसंज्ञा न भवति; `असर्वनामस्थाने` [[1.4.17]] इति प्रतिषेधात्। तस्यां चासत्यां पदस्येत्युच्यमानो नलोपो न स्यात्, नलोपे चासति राजेत्यादिकं रूपं न सिध्येत्। `दत्वम्` इति। न स्यादिति प्रकृतेन सम्बन्धनीयम्। दत्वमपि हि संयोगान्तलोपस्यासिद्धत्वादसत्यां पदसंज्ञायां न स्यात्। अथ वा -संयोगान्तलोपोऽत्र न प्रवर्तत एव, तस्य `स्कोःसंयोगाद्योरन्ते च` [[8.2.29]] इति संयोगादिलोपोऽपवादभूत इति स एव स्यात्, यथा -काष्ठं तक्ष्णोतीति काष्ठतङित्यत्र। तस्मश्च सति विभक्तिसकारस्य रुत्वविसर्गौ स्यातामिति कुतो दत्त्वम्! `उत्त्वम्` इति। न स्यादित्यपेक्षते, एतदपि संयोगान्तलोपस्यासिद्धत्वात्। अलब्धपदव्यपदेशस्य न स्यात्। `रात्सस्य` [[8.2.24]] इति `नियमात्` इति। <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेनैव सिद्धेः। `रात्सस्य` [[8.2.24]] इति `नियमात्` इति। <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेनैव सिद्धेः। `रात्सस्य` [[8.2.24]] इति नियमार्थमिदम् -रात्सस्यैव लोपो यथा स्यात्, नान्यस्येति। ततश्चाबिभर्भवानित्यत्र तकारस्य लोप एव न स्यात्। तस्मात्? संयोगान्तलोपेन न सिध्यतीति हलन्ताल्लोप उच्यते। अस्यैवार्थस्य सुखोपग्रहणार्थं `संयोगान्तस्यलोपे हि` इत्यादि। सङ्ग्रहश्लोकस्योपन्यासः। हिशब्दो हेतौ। यस्मात्? संयोगान्तलोप आश्रीयमाणे नलोपादिकं कार्यं न सिध्यतीति। किञ्च -ते=तव, भवतः संयोगान्तलोपवादिनः रात्तु रेफात्तु परस्य तकारस्याबिभर्भवानजगर्भवानित्यत्र नैव लोपः स्यात्। तस्माद्वलन्तात्? सुतिसीनां लोपो विधीयते॥", "61069": "`हलिति च` इति। वर्तत इत्यपेक्षते। यदि हलिति नानुवर्तेत, तदा हे कुण्ड+सु इति स्थिते लोपात्? परत्वादम्भावे कृते <<आदेः परस्य>> [[1.1.54]] इत्यकारलोपे `सुपि च` [[7.3.102]] इति दीर्घत्वे च हे कुण्डमित्यनिष्टं रूपं स्यादित्यभिप्रायः। `अपृक्तमिति नाधिक्रियते` इति। यदि ह्रपृक्तमिहानुवर्तेत, तर्हि हे कुण्डेत्यत्र लोपो न स्यात्; अपृक्तसंज्ञाया अभावादिति भावः। कथं पुनज्र्ञायते -अपुक्त इह नानुवर्तते? इत्याह -`तथा च` इत्यादि। तथा चेति हितौ। यस्मात् पूर्वसूत्रेऽपृक्तग्रहणं कृतमतोऽवसीयते -नात्र प्रकरणेऽपृक्तग्रहणस्यानुवृत्तिरस्तौति; अन्यथा हि <<वेरपृक्तस्य>> [[6.1.67]] इत्यत एवापृक्तग्रहणमनुवर्त्तिष्यत इति पुनरपृक्तग्रहणं पूर्वसूत्रे न क्रियेतेति। `स चेत्? सम्बुद्धेर्भवति` इति। यदि सम्बुद्धेः सम्बद्धो भवतीत्यर्थः। एतेन सम्बुद्धेरित्यस्यावयवषष्ठन्ततां दर्शयति। `हे अग्ने, हे वायो` इति। `ह्रस्वस्य गुणः` [[7.3.108]] । `हे नदि, हे वधु` इति। `अम्बार्थनद्योह्र्यस्वः` [[7.3.107]] इति ह्रस्वत्वम्। `हल्मात्रस्य मकारस्य लोपः` इति। हलित्यनुवृत्तेः। हे कतरदित्यत्रैकादेशे कृते ह्रस्वात्? सम्बुद्धेर्हल्? भवतीति तस्य लोपः कस्मान्न भवति? इत्याह -`हे कतरत्` इत्यादि। `अद्ड्डतरादिभ्यः` [[7.1.25]] इत्यत्र द्विडकारनिर्देशात्? डिच्छब्द आदेशो भवतीति डित्वाट्? टिलोपे ह्यसवो नास्तीति न भवति लोपः। अथैङ्ग्रहणं किमर्थम्, यावता हे अग्ने इत्यादावपि प्रागेव सम्बुद्धिगुणाद्? ह्रस्वादित्येवं लोपे न भवितव्यम्? इत्यत आह -`एङ्ग्रहणम्` इत्यादि। नित्यत्वात्? परत्वाच्च सम्बुद्धिगुमो बलीयानिति तनैव तावत्? भवितव्यम्, तत्र कृते ह्रस्वात्? परः सम्बुद्धेर्हल्? न सम्भवतीति लोपो न प्राप्नोति, अत एङ्ग्रहणं क्रियते। ननु च विहितविशेषणं विज्ञास्यते -ह्रस्वाद्विहितायाः सम्बुद्धेरिति? नैतदस्ति; एका हीयं पञ्चमी, तत्र यदि ह्रस्वाद्विहिति विशेषणं विज्ञायते तदैङन्तादपि विज्ञायेत। तथा च -हे गौरित्यत्रापि स्यात्। तस्मादेङ्ग्रहणं कर्तव्यम्॥", "61070": "`जस्शसोः शिः` [[7.1.20]] इति यः शिरादेशस्तस्यायं लोपो विधीयते। `या क्षेत्रा, या वना` इति। शेर्लोपे कृते प्रत्यलक्षणेन <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुम्, <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति दीर्घः, `नलोपः प्रातिपदिकान्तस्य [[8.2.7]] इति नलोपः। वेति कर्तव्ये बहुलग्रहणं सर्वविधिव्यभिचारार्थम्। `तेन सर्वे विधयश्छन्दसि विक्ल्प्यन्ते` (पु।प।वृ।56), इत्युपपन्नं भवति॥", "61071": "कृतात्र प्रत्ययेन धातुरुपस्थाप्यते, ह्रस्वेन च स एव विशेष्यते, च तदन्तविधिर्भवतीत्यतो ह्रस्वान्तो धातुरागमी विज्ञायत इत्याह -`ह्रस्वान्तस्य धातोः` इत्यादि। `अग्निचित्` इति। <<अग्नौ चेः>> [[3.2.91]] इति क्विप्। `सोमसुत्` इति। <<सोमे सुञः>> [[3.2.90]] इत्युभयत्रोपपदसमासः। `प्रकृत्य`इत्यादौ प्रादिसमासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] इति ल्यप्। अथ ग्रामं नयतीति -ग्रामणि ब्राआहमणकुलमित्यत्र नपुंसकह्रस्वत्वे कृते ह्रस्वाश्रयस्तुक्? कस्मान्न भवति? इत्याह -`ग्रामणि ब्राआहृणकुलम्` इत्यादि। ह्रस्वत्वं हि नपुंसकार्थवृत्तिप्रातिपदिकमपेक्षत इति बहिरङ्गम्, अन्तरङ्गस्तु तुक्; वर्णमात्रापेक्षताव्त्। `आसिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इति तुग्नात्र भवति॥", "61072": "`संहितायाम्` इति विषयसप्तमीयम्। तेन यदि कार्यिनिमित्तयोः संहिता विषयभूता भवति, तह्र्रेवं वक्ष्यमाणं कार्यं भवति; नान्यर्थेति वेदितव्यम्।", "61073": "`छे` इति यद्यप्यकारवतश्छकारादेषा सप्तमी तथापि च्छकार एव केवलस्तुको निमित्तम्, अकारस्तूच्चारणार्थः। एतच्च <<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इत्याम्प्रतिषेधादवसीयते। यदि ह्रकारसहितश्छकारस्तुको निमित्तं स्यात्, तदा ऋच्छेस्तुगभावादसति गुरुमत्वं आमः प्रसङ्गो नास्तीति प्रतिषेधं न कुर्यात्। `इच्छति` इति। <<इषुगमियमां छः>> [[7.3.77]] तुक्? चुत्वम्। पूर्वस्मस्तुग्विधौ ह्रस्वान्त आगमी, अतः स एवात्रागमीति कस्य चिद्? भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `ह्रस्व एव` इत्यादि। एवं मन्यते - ह्रस्वानुकर्षणार्थश्चकारोऽत्र क्रियते - ह्यसव एवागमी यथा स्यात्, तदन्तो मा भूदित्येवमर्थम्`; अन्यथा स्वरितत्वादनन्तरत्त्वाच्च पूर्वसूत्रे य आगमी, स एवेहापि विज्ञास्यत इत्यनर्थकश्चकारः स्यात्, ह्रस्व एवागमिनि सति किमिष्टं सिध्यति, यतस्तदर्तोऽयं यत्नः क्रियते? इत्याह - `तेन` इत्यादि। यदि ह्रस्वान्तस्य तुक्? स्यात्? तदा चिच्छिदतुरित्यादौ तस्याभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। ह्रस्वे त्वागमिनि नायमभ्यासस्य हलिति न भवत्येव दोषः। कथं पुनह्र्यस्व आगमिनि तुगब्यासग्रहणेन गृह्रते? इत्याह - `नावयवावयवः` इत्यादि। इतिकरणो हेतौ। यस्मादवयवस्य योऽवयवः स समुदायस्यावयवो न भवति। तस्मात्? ह्रस्व एवागमिनि तुकोऽभ्यासग्रहणेन न ग्रहणं भवति। नावयवावयवः समुदायस्यावयवो भवतीत्यत्र चैतत्? सूत्रविहितस्तुगित्याभिप्रायो वेदितव्यः। यदि ह्रविशेषेणावयवावयवः समुदायावयवो न स्यात्, एवं सति `शेरते` इत्यत्र रुङागमः सावैधातुकस्याव्यवस्य झादेशस्यातोऽवय इति सोऽपि समुदायस्य सार्वधातुकस्यावयवो न स्यात्। ततः <<शीङः सार्वधातुके गुणः>> [[7.4.21]] इति गुणो न स्यात्; रुटा सार्वधातुकस्य व्यवहितत्वात्? स ह्रवयव उक्तस्तमेव व्यवदध्यात्, स समुदायं तु न व्यवदधात्येव। तस्मात्? पूर्वोक्त एवाभिप्रायो वृत्तिकारस्य वेदितव्यः। कस्मात्? पुनरेतत्? सत्रविहितोऽवयवावयवः समुदायस्यावयवो न भवति? ह्रस्वानुकर्षणार्थचकारकरण सामर्थ्यात्। स हि चकारो ह्रस्वानुकर्षणार्थ एवमर्थः क्रियते - ह्रस्वमात्र आगमिनि तुकोऽभ्यासग्रहणेनाग्रहणाद्धलादिशेषेण निवृत्तिर्मा भूदिति। यदि चैतत्सूत्रविहितोऽप्यवयवायवः समुदायावयवः स्यात्, तदा ह्रस्वेऽप्यागमिनि तुकस्तु तदवयवयस्याप्यभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्त्या भवितव्यमिति चकारो ह्रस्वानुकर्षणार्थो निष्फलः स्यात्। तस्मादयमेव तुगवयवावयवः समुदायावयवो न भवति, अन्यस्तु भवत्येव। युक्तं चैतत्। तथा हि बाहोर्योऽवयवो हस्तः स देवदत्तस्याप्यवयवो भवत्येव, अन्यथा हस्तावन्? देवदत्त इति प्रयोगो न स्यात्।", "61074": "", "61075": "", "61076": "", "61077": "`इको यणादेशो भवति` इति। इकां यणां च साम्यात्? यथासंख्यं भवतीति वेदितव्यम्। यश्च सवर्णोऽच्? तत्र दीर्घविधानसामर्थ्यात्? असवर्णेऽचि यणादेशो विज्ञायत इति। इक इति किम्? वागत्रेत्यत्र कुत्वादेव सिद्धत्वाद्यणादेशो मा भूदिति। अचीति किम्? दधि करोति। `प्लुतपूर्वस्य` इति। प्लुतः पूर्वो यस्मात्? स प्लुतपूर्वः। वक्तव्यः=व्याख्येयः। तत्रेदं व्याख्यानम् -`इको यणचि` इत्यत्र तन्त्रेण द्वौ योगावृच्चारितौ; तत्रैको यणादेशार्थः, अपरस्त्विकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थो भविष्यतीति। भो यिदम् -भो+इ+इदमिति स्थिते `गुरोरनृतोऽनन्तस्याप्येकैकस्य प्राचाम्` [[8.2.86]] इत्यनेन दूराद्धूतेऽर्थे भोशब्दस्य प्लुतः कृतः, ततः सवर्णदीर्घत्वे प्राप्ते यणादेशः॥", "61078": "`कयेते, ययेते` इति। के+एते, ये+एत इति स्थितेऽयादेशः। `वायाववरुणद्धि` इति। वायौ+अवरुणद्धीति स्थित आवादेशः॥", "61079": "यीति दर्णग्रहणम्, तेन `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इति यकारादौ प्रत्यये कार्यं विज्ञायत इत्यत आह -`यकारादौ प्रत्यये` इति। यद्यपीह स्थानी न निर्दिष्टः, तथाप्यावादेश ओकारस्य स्थाने, आवादेशोऽयौकारस्थ स्थाने भवतीति वेदितव्यम्। कथम्? पूर्वयोगे हि यद्धर्मा वान्त आदेशो दृष्टः, इहापि तदद्धर्मेवानुवर्तते। कश्च पूर्वयोगे तद्धर्मा दृष्टः? अवादेशस्यौकारस्य स्थानित्वम्। आवादेशस्याप्यौकारस्य स्थानित्वम्, अत इहापि स्वधर्ममजहतोऽनुवृत्तस्य वान्तादेशस्य पूर्वक एव स्थानि विज्ञायते। `बाभ्रव्यः` इति। बभ्रूशपब्दादपत्येऽर्थे `मधूबभ्व्रोब्र्राआहृणकौशिकयोः [[4.1.106]] इति यञ्? `ओर्गुण-` [[6.4.140]] इति गुणः। `माण्डव्यः` इति। <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ्। `शङ्कव्यम्` इति। शङ्कुशब्दात्? `तस्मै गुणः। `माण्डव्यः` इति। <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ्। `शङ्कव्यम्` इति। शङ्कुशब्दात्? <<तस्मै हितम्>> [[5.1.5]] इति <<उगवादिभ्यो यत्>> [[5.1.2]] इति यत्। `नाव्यः` इति। नावा तर्यत इति `नौवयोधर्मविष` [[4.4.91]] इत्यादिना यत्। `रैयति` इति। <<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्। `गोयानम्` इति। षष्ठीसमासः। `गोर्यूतो छन्दसि` इत्यादि। वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थो वेदितव्यः। तत्रेदं व्याख्यानम् -`वान्तो यि` इति योगविभागोऽत्रि क्रियते तेन गोशब्दस्य यूतौ परतश्चन्दसि विषयेऽवादेशो भवति।`अध्वपरिमाणे च` इति। `गौर्यूतौ` इति वर्तते। तत्रापि वक्तव्यशब्दस्य स एवार्थः। व्याख्यानमपि तदेव। इदं च सामान्येन वचनम्, तेन भाषायामध्वपरिमाणे भवति॥", "61080": "पूर्वेणैव सिद्धे नियमार्थं वचनम्। `तन्निमित्तस्य` इति। तच्छब्देन यकारादिप्रत्ययः प्रत्यवमृश्यते, स निमित्तं यस्य स तथोक्तः। `लव्यम्` इति। `अचो यत्` [[3.1.97]] इति यत्? तमेव वकारमाश्रित्य `सार्वधातुकार्थधातकयोः` [[7.3.84]] इत्योकारो विधीयमानस्तन्निमित्तो भवति। `अवश्यलाव्यम्` इति। <<ओरावश्यके>> [[3.1.125]] इति ण्यत्, <<मयूरव्यंसकादयश्च>> [[2.1.72]] इति समासः, `लुम्पेदवश्यमः कृत्ये` (काशिका।6.1.149) इति मकारलोपः। अत्रापि ण्यतमाश्रित्य <<अचो ञ्णिति>> [[7.2.115]] इति विधीयमान औकारस्तन्निमित्तो भवतति। `प्रातिपदिकसय नियमो मा भूत्` इति। असति हि धातुग्रहणे प्रातिपदिकस्यापि नियमः स्यात्। ननु च प्रातिपदिकस्यापि नियम एतन्निमित्त्स्यैव भवति, नातनिमित्तस्येत्यर्थः स्यात, तथा च - पूर्वसूत्रस्यारम्भोऽनर्थकः स्यात्, निर्विषयत्वात्? नैष दोषः; यो हि धातोरिति किमिति पृच्छति स पूर्वयोगस्यारम्भं पृथङ्? नेच्छत्येव। स ह्रेवं मन्यते - <<वान्तो यि प्रत्यये>> [[6.1.79]] तन्निमित्तस्यैवेत्येको योगः कर्तव्य इति। तत्र को दोष इति प्रातिपदिकनियमे सति यदि कश्चिद्दोष आपद्येत ततस्तन्निवृत्तये क्रियमाणं धातुग्रहणं शोभत इत्यभिप्रायः। `बाभ्रव्य इत्यत्रैव स्यात्` इति। एतस्तन्निमित्तत्वात्। `इह तु न स्यात् - गव्यम्, नाव्यम्` इति। अतन्निमित्तत्वादेचः। `उपोयते` इति। वेञ एच आत्वे कृत उपपूर्वाल्लट्, <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्, <<सार्वधातुके यक्>> [[3.1.67]] इति यक्, यजादित्वात्? सस्प्रसारणम्, <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति दीर्घः, उपाकारेण सह <<आद्गुणः>> [[6.1.87]] `औयत` इति। तस्यैव धातोर्लङ्, पूर्ववदात्मनेपदादि, आडजादीनाम्` [[6.4.72]] इत्यट्, `आटश्च` [[6.1.87]] इति वृद्धिः। अयमौकारः पूर्वक ओकारश्च एतदुभयमप्यतन्निमित्तम्, एतस्य मा भूदित्येवमर्थं तन्निमित्तगर्हणम्। ननु चान्तरङ्गो यणादेशो वर्णमात्राश्रयत्वात्, बहिरङ्गस्त्वेकादेश उभयपदाश्रयत्वात्, ततश्च `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यसिद्धत्वादेवात्र न भविष्यति? एवं तह्र्रोतज्ज्ञापयति - नेयमिह परिभाषोपतिष्ठत इति। तेनाक्षद्यूरित्यत्र बहिङ्गोऽप्यूडादेशोऽन्तरङ्गे यणादेशे कर्तव्ये नासिद्धो भवति। अन्यथा यद्ययमर्थो न ज्ञाप्येत तदाक्षैर्दीव्यतति क्विपि कृते `च्छ्वोः शुड - नुनासिके च` [[6.4.19]] इत्यूडादेशे कृते तस्यासिद्धत्वात्? यणादेशो न स्यात्। `लौयमानिः` इति। लूयमानस्यायत्यमित्यर्थे `अत इञ्` [[4.1.95]] इतीञ्? <<तद्धितेष्वचामादेः>> [[7.2.117]] इति वृद्धिः, सा च तद्धितनिमित्ता, न तु यकारादिप्रत्ययनिमित्ता। सिद्धे हि विधिरारभ्यमाणः विनाप्येवकारकारणं नियमार्थो भविष्यतीत्यभिप्रायेणाह - `एवकारः किम्` इति। इष्टतोऽवधारणार्थमेवकारकारणं क्रियत इति दर्शयन्नाह - `धात्ववधारणम्` इत्यादि। एवकारे तन्निमित्तशब्दानन्तरमुच्चार्यमाणे यत एवकारकारणं ततोऽन्यत्रावधारणार्थमिति धात्वधारणं भवति। असति ह्रेवकारकारणे धातेरेव तन्निमित्तस्येति तन्निमित्तावधारणमप्यनिष्टं विज्ञायेत। तस्माद्धात्ववधारणं यथा स्यात्, तन्निमित्तावधारणं मा भूदित्येवमर्थमेवकारकारणम्। किं पुनर्धात्ववधारणे सतीष्टं रूपं सिध्यति यतस्तदिष्यते? इत्यत आह - `तन्निमित्त्स्य हि` इत्यादि। धात्ववधारणे हि सति तन्निमित्त्स्यानियतत्वादधातोश्च भवति बाभ्रव्य इति धातोश्च भवति - लव्यम्, अवश्यलाव्यमिति। यदि तन्निमित्तावधारणं कृतं स्यात्? तदा धातोरेव तन्निमित्तस्येति। ततो बाभ्रव्य इत्यत्र न स्यात्, न हि बभ्रूशब्दो धातुः। तस्माद्वात्ववधारणमितीष्यते॥", "61081": "``क्षि` `जि` इत्येतयोर्धात्वोः` इति। क्षिग्रहणेन `क्षि क्षये` (धातुपाठः-236) `क्षि वासगत्योः` (धातुपाठः-1407) क्षिष्? [`क्षीष हिंसायाम्` -धातुपाठः। `क्षि हिंसायाम्` (1276) -धातुपाठः] हिंसायाम्? (धातुपाठः-1506) इत्येषां ग्रहणम्, जिग्रणे तु `जि जये (धातुपाठः-561) इत्येतस्य। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इत्यनया परिभाषया `क्षिष्? हिंसायाम्` इत्यस्य ग्रहणं न प्राप्नोति? नैष दोषः निपातनात्? भविष्यति। किं हि निपातनान्न लभ्यते? यथैव हि ततोऽन्यदलाक्षिकं कार्यं किञ्चिद्भविष्यति, तथेदमपि स्यात्। अर्थग्रहणं कर्मण्यपबि यता स्यात्; अन्यथा शकेरकर्मकत्वात्? भाव एव निपातनं विज्ञायते -क्षय्यं देवदत्तेनेति। कर्मणि तु न स्यात् -क्षय्यो व्यधिरिति, न ह्रकर्मकेभ्यः कर्मणि कृत्यप्रत्यय उपपद्यते। अर्थग्रहणेन तु कृत्यार्थ उपलक्ष्यते। कृत्याश्च कर्मण्यपि विहिताः, तेन तत्रापि निपातनाद्विज्ञायते॥", "61082": "`क्रय्यः` इति। अत्र प्रत्ययार्थश्च कर्म विदयते; कर्मणि कृत्यविधानात्। प्रकृत्यर्थश्च विनिमयः, क्रीणातेर्विनिमयार्थत्वात्। तत्र प्रत्ययार्थः प्रधानम्, `प्रकृतिप्रत्यौ प्रत्ययार्थं सह ब्राऊतः` इति कृत्वा। प्रकृत्यर्थस्तूपसर्जनम्, प्रतत्ययार्थविशेषणमिति कृत्वा। तत्र यदि प्रधानत्वात्? तदित्यनेन प्रत्यार्थो निर्दिश्येत तदायमर्थः स्यात् -स क्रय्योऽर्थो यस्य शब्दस्य स तदर्थः, तस्मिन्नभिधेये ऋय्य इत्येष शब्दो निपात्यत इति? अयुक्तश्चायम्; न ह्यत्र क्रय्यशब्दस्य क्रय्यार्थः कश्चिच्छब्दोऽभिधेयोऽस्ति, ततस्तस्याप्रतीतेः। अथैवं विज्ञायेत -स एवार्थस्तदर्थ इति? एवमपि तदर्थग्रहणमनर्थकम्। अवश्यमेव हि क्रय्यशब्दो यत्प्रत्ययान्तस्तस्मिन्? यत्प्रत्ययार्थे वर्तते। तस्मात्? तच्छब्देन प्रधाननिर्देशे सति तदर्थग्रहणस्यानर्थक्यम्। अतो गुणभूतोऽपि प्रकृत्यर्थो निर्दिश्यत इति मत्वाऽऽह -`तदर्थे क्रयार्थं यत्? तस्मिन्नभिधेये` इति। तस्मै इदं तदर्थम्। क्रयार्थमित्यनेन क्रीणात्यर्थस्तच्छब्देन निर्दिश्यत इति दर्शयति। क्रयणं क्रयः, विनियम इत्यर्थः। क्रयार्थमित्यत्रापि चतुर्थीसमास एव -क्रयाय इदं क्रयार्थम्। `क्रायार्थ यः प्रसारितः` इति। विनिमयार्थं य उपन्यस्त इत्यर्थः। `क्रेयं नो धान्यम्` इति। क्रेतव्यम्=ग्रहीतव्यम्, स्वीकर्तव्यमितद्यर्थः। `न चास्ति क्रव्यम्` इति। न चात्र क्रयार्थमुपन्यस्तं धान्यमस्तीत्यर्थः।", "61083": "`वी इत्येतस्य` इति। गतिप्रजनादिषु यो वी पठते तस्य, `अजेव्र्यघञपोः` [[2.4.56]] इत्यजेर्यो वी आदेशस्तस्य वा। `ह्यदय्या आप उपसंख्यानम्` इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। ह्यदय्या हत्यस्य प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन ह्यदय्या इत्यपि भविष्यतीति॥", "61084": "अथ पूर्वपरग्रहणं किमर्थम्, यावता <<आद्गुणः>> [[6.1.87]] इत्यादादादित्येषा पञ्चमी अचीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति; <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति वचनात्। तथाचीत्येषा सप्तम्यादित्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति; <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति वचनात्। तत्रान्तरेणापि पूर्वपरग्रहणं पूर्वपरयोद्र्वयोरपि भविष्यति? इत्याह -`पूर्वपरग्रहणम्` इत्यादि। किं पुनः कारणमसति पूर्वपरग्रहणे द्वयोरपि युगपदादेशो न सिध्यति? इत्यत आह -`एकस्यैव हि` इत्यादि। एवं मन्यते -अचत्येषा सप्तमी यणादेशादिविधौ चरितार्था; आदित्येषां तु पञ्चमी न क्वचिच्चरितार्था, अतः सा सप्तम्याः षष्ठीत्वं प्रकल्पयेत्। तत्रासति पूर्वपरग्रहणेऽच एव स्थाने गुणः स्यत्। <<वृद्धिरेचि>> [[6.1.88]] इत्यत्र च गणविधावादिति पञ्चमी कृतार्थे ति तस्या एचीति सप्तम्यकृतार्था षष्ठीत्वं प्रकल्पयेत्। एवं च वृद्धिरवर्णस्यैव प्रसज्येत। <<उपसर्गादृति धातौ>> [[6.1.91]] इत्यतर द्वयोरपि पञ्चमीसप्तम्योरकृतार्थत्वात्? पर्यायेण परस्परं षष्ठीपरकल्पनेति पर्यायेणैव वृद्धिः स्यात्। यत्? पुनः परस्याभिमतं पञ्चमी सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति, सप्तम्यपि पञ्चम्याः, ततोऽन्तरेणापि पर्वपरग्रहणं द्व्योरप्यादेशो भविष्यतीति? तन्निरासायाह -`नोभे` इत्यादि। निवृत्तिधर्मा हि स्थानी भवति, श्रूयमाणस्य च षष्ठीप्रकल्पनं प्रति निमित्तभावः। कथं पूर्वपरौ निवर्तेयाताम्? षष्ठीप्रकल्पनं च प्रति निमित्तभावमुपगच्छेतातम्? अत एवानिवृत्तेर्निमित्तभावस्य चासम्भवान्नोभे सप्तमीपञ्चम्यौ युगयत्प्रकल्पिके भवतः। तस्मादेकस्यैव स्यात्, नोभयोः। अथैकग्रहणं किमर्थम्, यावता `भ्रस्जो रोपधयो रमन्यतरस्याम्` [[6.4.47]] इत्यत्र विनाप्येकग्रहणमेक एव सम्भवति, तथाप्यत्रैकग्रहणेन विनाप्येक एव भवष्यतीत्याह -`एकम्` इत्यादि। रमागमेन हि मित्वात्? `मिदचोन्त्यात्परः` [[1.1.47]] इत्यचोऽन्त्यात्? परेण भवितव्यम्। न च द्वयो रमोर्भृज्जातवचोऽन्त्यात्? परेण सम्भवोऽस्ति। ततो युक्तं तद्विनाप्येकग्रहणम्। एक एव रम्? भवतीति गुणादिस्त्वादेशः। सम्भवति च स्थानिभेदे सत्येकैकस्य स्थानिनो गुणादिः पृथगादेशः तत्रासत्येकग्रहणे पृथगादेशः स्यात्। तस्मात्? पूर्वपरयोद्र्वयोः स्थानिनोः पृथगदेशो मा भूदित्येवमर्थमेकग्रहणम्। असति पुनरेकग्रहम आदेशश्च द्वयं प्राप्नोतीत्यमुमर्थं सोपपत्तिकं प्रतिपादयितुमाह -`स्थानिभेदाद्धि` इत्यादि। यता <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इति स्थानिभेदाद्धेतोर्भिन्नं छिन्नमित्येवमादिषु द्वावेवादेशौ भवतः, तथा खट्वेन्द्र इत्येवमादिष्वपि द्वावादेशौ स्याताम्॥", "61085": "अन्तादिवदित्युक्ते न ज्ञायते - कोऽस्यातिदेशस्यार्थ इत्यतस्तत्परिज्ञानायाह - `यथा` इत्यादि। `इत्येषोऽतिदेशस्यार्थः` इति। इतिशब्द्वोऽतिक्रान्तप्रत्यवमर्शी-अतिदिश्येऽनेनेत्यतिदेशः, स पुनः `अन्तदिवच्च` इत्येष एव योग इत्येषोऽनन्तरोक्तोऽस्यातिदेशस्यार्थ इत्यर्थः। `वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते` इति। कथमेतज्ज्ञायते? इत्याह - `तथाहि` इत्यादि। `ओभिस ऐस्? [[7.1.9]] इत्यकारवर्णाश्रयो विधिः; तत्र कर्तव्ये खट्वाभिरित्यत्र सवर्णदीर्घत्वं पूर्वस्यानतवन्न भवति। <<आत औ णलः>> [[7.1.34]] इत्याकारवर्णाश्रयोऽयं विधिः। तत्र कर्तव्ये वर्णाश्रये जुहावेत्यत्र <<अभ्यस्तस्य च>> [[6.1.33]] इति ह्वयतेः सम्प्रसारणे कृते यत्? पूर्वरूपत्वमाकारस्य तन्नादिवद्भवकति। एङः पदान्तादति` [[6.1.105]] इत्येष विधिरेङ्वर्णाश्रयः। तत्र कर्तव्ये - अस्यै अआ इत्यत्र `आटश्च` [[6.1.87]] इति वृद्धिः परस्यादिवन्न भवति, तदभावादायादेशः, <<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारलोपः, तत्? किमेतद्वक्तव्यम् - वर्णाश्रये नान्तादिवदिति? न वक्तवयम्। कथम्? अताद्रूप्यातिदेशात्। नेह ताद्रूप्यमतिदिश्यते, रूपाश्रयाश्चैते विषयः, तेनाताद्रूप्यान्न भविष्यन्ति। किमर्थं पुनरयमन्तादिवद्भावो विधीयते, यावता पूर्वपरावुक्तावेकादेशस्य स्थानिनौ, अत्र स्थानिवद्भावादेव तदाश्रयं कार्यं भविष्यति? इत्यत आह - `पूर्वपरसमुदाय एकादेशस्य स्थानी` इति। कथं ज्ञायते? इत्याह - `स हि` इत्यादि। येन हि यो निवर्त्त्यत आदेशेन स तस्य स्थानीति, तद्यथा - <<अस्तेर्भूः>> [[2.4.52]] इति। अत्र भूवोऽस्तिः, समुदायश्चेहैकादेशेन निर्वर्त्त्यत इति स एव तस्य स्थानी, न पूर्वपरौ समुदायिनौ। स्यादेतत् - अवयवस्य समुदायाभ्यान्तरत्वात्? समुदाय आदेशेन निवर्त्त्यमानेऽवयवावपि निवर्त्त्येते, तस्मात्? तयोरपि स्थानित्वम्? इत्यत आह - `तत्र` इत्यादि। इतिकरणौ द्वावपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्? स्थानित्वं तदानुमानिकम्, समुदाय एकादेशस्य आदेशेन निवर्त्त्यमाने तयोरपि निवर्तनं नान्तरीयकमिति कृत्वा। न हि विनावयवनिवर्तनेन समुदायः शक्यते निवर्तयितुम्, तस्य तदात्मकत्वात्। समुदायस्य तु प्रत्यक्षंस्थानित्वम्। `पूर्वपरयोः` इति स्थानषष्ठन्तस्य साक्षाच्? श्रवणात्? `श्रुतानुमितयोः श्रौतः सम्बन्धो गरीयान्` (चां।प।पा।49) इति <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इत्यनेन यस्य प्रत्यक्षं साक्षात्? श्रुतम्, स्थानित्वं तदाश्रयमेव कार्यमादेशे विधीयते। अवयवयोश्चानुमानिकं स्थानित्वं न प्रत्यक्षम्, अतस्तदाश्रयं कार्यं नातिदिश्यते। तेन तदाश्रयं कार्यं स्थानिवद्भावादेशे न प्राप्नोति, इष्यते च। तदर्थमयमन्ताविवद्बावो विधीयते॥", "61086": "इहासिद्धवचनेनकादेशस्याभावो वा क्रियते? तत्कार्यसामर्थ्य वा प्रतिपाद्यते? सिद्धमपि हि वस्तु सिद्धकार्यं कर्तुमसामर्थ्यादसिद्धमित्युच्यते, यथा - पुत्रकार्यकरणेऽसामर्थ्यात्? पुत्रोऽप्यपुत्र इति। तत्र यद्यनेनैकादेशस्याभावः क्रियते तदाधीत्येत्यत्र तुग्न स्यात्, न हीह ह्रस्वोऽस्ति; एकादेशेन निवर्त्तितत्त्वात्। न चासिद्धवचनेनैकादेशे निवर्त्तिते ह्रस्वस्य प्रादुर्बावो भवति, न हि देवदत्तस्य हन्तरि हते पुनर्देवदत्तस्य प्रादुर्भावो भवतीतिममाद्ये पक्षे दोषं दृष्ट्वा कार्यसामर्थ्यमेकादेशस्यासिद्धत्वश्रुत्या प्रत्याय्यत इति दर्शयन्नाह - `सिद्धकार्यं न करोतीत्यर्थः` इति। सिद्धस्य निष्पन्नस्य यत्? कार्यं तदेकादेशः सिद्धो निष्पन्नोऽपि न करोतीत्ययमस्य वचनस्यार्थः। `असिद्धवचनम्` इत्यादिना सूत्रस्य प्रयोजनमाचष्टे। आदेशे च कृते यत्कार्यं तद्धेतुकं प्राप्नोति तदादेशलक्षणम्, आदेशो लक्षणं निमित्तमस्येति कृत्वा। तस्य प्रतिषेधो यथा स्यादित्येवमर्थमसिद्धवचनम्। उतसृज्यते निवर्त्त्यत इत्युत्सर्गः, स्थान्यभिधीयते। उत्सर्गो लक्षणं यस्य तदुत्सर्गलक्षणम्, तद्भावो यथा स्यादित्येवमर्थञ्चासिद्धवचनम्। `कोऽसिचत्` इति। सिचेर्लुहि च्लिः, <<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लेरङ्, किंशब्दात्? परस्य सकारस्य रुत्वम्? <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्त्वम्, <<आद्गुणः>> [[6.1.87]] इति गुणः, <<एङः पदान्तादति>> [[6.1.109]] इति परपूर्वत्वम्, `परं प्रत्यादिवद्भावात्` इत्यादि। असिचदित्यत्र योऽकारस्तं प्रत्येकादेशस्य <<अन्तादिवच्च>> [[6.1.85]] इत्यनेनादिवद्भावः। अयञ्चापदादित्वे हेतुः। `असिद्धत्त्वान्न भवति` इति। असिद्धत्त्वे हि सति सकारोऽत्रादिरेव पदस्य भवति, तेन `सात्पदद्योः` [[8.3.111]] इति षत्वप्रतिषेधो भवति। `कोऽस्य` इति। इदमः षष्ठएकवचनम्, <<त्यदादीनामः>> [[7.2.102]] इत्यत्वम्, `टाङसिङ्सामिनात्स्याः` [[7.1.12]] इति स्यभावः <<हलि लोपः>> [[7.2.113]] इतीद्रूपस्य लोपः। शेषं पूर्ववत्। एतदादेशलक्षणप्रतिषेधस्योदाहरणम्। उत्सर्गलक्षणभावस्य तु `अधीत्य, प्रेत्य` इति। ननु च बहिरङ्ग एकादेशो द्विपदाश्रयत्वात्; अन्तरङ्गादेव षत्वतुकौ, एकपदाश्रयत्वात्, तत्र `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यनया परिभाषयैवात्रासिद्धत्वं भविष्यतीति निरर्थकमिदं वचनम्? एवं तर्हि सैव परिभाषाऽत्र प्रकरणे षत्वतुकोनियम्यते। तेनाक्षद्यूरित्यत्र बहिरङ्गलक्षणोऽप्यूडादेशोऽन्तरङ्गयणादेशे कर्तव्ये नासिद्धो भवति। `सम्प्रसारण` इत्यादि। सम्प्रसारणे ङौ इटि च य एकादेशस्तस्यासिद्धत्वपरतिषेदो वक्तव्यः। `ब्राहृहूषु` इति। ब्राहृआणं ह्वयतीति क्विप्, यजादित्वात्? सम्प्रसारणम्, <<सम्प्रसारणाच्च>> [[6.1.108]] ति परपूर्वत्वम्, `हलः` [[6.4.2]] इति दीर्घः। सप्तमीबहुवचनम्। `परिवीषु` इति वेञः परिपूर्वसय पूर्ववत्? क्विदादिषु कृतेषु रूपम्। `अपचेच्छत्रम्` इति। पचेर्लङ्युत्तमपुरुषैकवचनमिट्, `कर्तरि शप्` [[3.1.68]] इति शप; `आदगुणः` [[6.1.84]] इति गुणः॥", "61087": "`तवल्कारः; खट्वल्कारः` इति। कथं पुनरत्र लपरत्वम्? इत्याह -`ऌकारस्य स्थाने` इत्यादि। एतच्च `ऌकारऋकारयोः सवर्णसज्ञा वक्तव्या` (वा।3) इत्युपसंख्यानात्? `उरण्? रपरः` [[1.1.50]] इत्यत्र रप्रत्याहारग्रहणाल्लभ्यते। उक्तं ह्रक्षरसमम्नाये -`हकारादिषु वर्णोष्वकार उच्चारणार्थः, लकारे त्वनुनासिक इत्संज्ञकः प्रतिज्ञायते` इति। तत्र रेफादारभ्य लणकारेण प्रत्याहारे सति ऌकारस्य ऋकारग्रहणेन गृहीतस्य स्थानेऽण्? विधीयमानो लपरः सम्पद्यते॥", "61088": "", "61089": "सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तौ च सम्भवव्यभिचारावेतादेव धातौ स्तः, नेतरत्रेत्याह -`तदेतदेज्ग्रहणम्` इत्यादि। `प्रष्ठौहः` इति। प्रष्ठं बहतीति <<छन्दसि सहः>> [[3.2.63]] इति `वहश्च` [[3.2.64]] इति ण्विप्रत्ययः <<वाह ऊठ्>> [[6.4.132]] इत्यूठ्? सम्प्रसारणसंज्ञकः, <<सम्प्रसारणाच्च>> [[6.1.108]] इति परपूर्वत्वम्, ततो वृद्धिः। `एत्येधत्योरेङि पररूपापवादः` इति वृद्धिर्विधीयत इति प्रकृतेन सम्बन्धः। अथ <<ओमाङोश्च>> [[6.1.95]] इत्यस्याप्याङि पररूपापवादो वृद्धिः कस्मान्न भवति, नाप्राप्ते हि पररूप इयं वृद्धिरारभ्यत इति मा यथैङि पररूपं बाधते तथाङि पररूपमपि बाधेत, ततश्चेहापि स्यात् -आ+इतः=एतः, उप+एतः=उपेतः? इत्यत आह -`ओमाङोश्चेत्येतत्` इत्यादि। अत्रैव कारणमाह -`येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति` (इति)। नाप्रप्त एङि पररूपे इयं वृद्धिरारभ्यत इति युक्तं यत्? तस्य बाधिका भवति। आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे उप+एति=उपैतीति -अत्र त्वप्राप्ते। तस्मादेषा वृद्धिराङि पररूपत्वं न बाधते। `पुरस्तादपवादाः` इत्यादिना परीहारान्तरमाह -`पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।प।9) इति, इयं च वृद्धिः पुरस्तादपवादः, अस्याश्चैहि पररूपमेवानन्तरम्, अतस्तदेव तया बाध्यते, नाङि पररूपम्, तस्यान्तरत्वात्। `अक्षात्` इत्यादि। `वक्तव्या` इति। व्याख्येयेत्यर्थः। तत्रेदं व्याख्यानम् -उत्तरसूत्रे चकारोऽधिकविधानार्थः। तेनाक्षशब्दादूहिनीशब्दे परतो वृद्धिर्भविष्यतीति। एवमुत्तरत्रापि वक्तव्यशब्दस्यार्थः, व्याख्यानमप्येवमेव वेदितव्यम्। अक्षाणामूहः, सोऽस्यास्तीति मत्वर्थीयः इनिः। `ऋन्नेब्यो ङीप्` [[4.1.5]] इति ङीप् -`अक्षौहिणो`।`स्वैरम्` इति। `ईर गतौ` (धातुपाठः-1018) ईरणमीरः, भावे घञ्? स्वस्य ईरः स्वैरः। क्रियविशेषणत्वात्? स्वैरमिति वृत्तौ नपुंसकलिङ्गेन निर्देशः। क्रिया तु काचिदत्राध्याहर्तव्या। अथ वा स्व ईरो यस्य कुलस्य तत्? स्वैरं कुलम्। नपुंसकस्य कुलादेरन्यपदार्थत्वान्नपुंसकलिङ्गत्वम्। `स्वैरी` [स्वैरिणी -काशिका] इति। स्वमीरितुं शीलमस्येति <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति णिनिः। ऊढ, ऊढिरिति शब्दौ निष्ठाक्तिन्नन्तौ। `प्रैषः` इति। `इष गतिरहिसादानेषु` (धातुपाठः-1127) `इषु इच्छायाम्` (धातुपाठः-1351) इति वा, अभ्यां प्रपूर्वाभ्यां यदा घञ्? तदा प्रैषः, यदा तु ण्यत्? तदा प्रैष्य इति। `सुखार्त्तः` इति। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः॥", "61090": "`एक्षत` इति। `ईक्ष दर्शने` (धातुपाठः-610) इति लङ्। `ऐक्षिष्ट` इति। लुङ्। `ऐक्षिष्यत` इति। लृङ्। `औम्भीत्` इति। `उभ उम्भ पूरणे` (धातुपाठः-1319,1320) इति लुङ्, इट्, अस्तिसिचोऽयुक्ते` [[7.3.96]] इतीट्। `ईटि` [[8.2.28]] इति सिचो लोपः। `औब्जीत्` इति। `उब्ज आर्जवे` (धातुपाठः-1303)। `आध्र्नोत्` इति। `ऋषु वृद्धौ` (धातुपाठः-1271) इति लङ्, <<स्वादिभ्यः श्नुः>> [[3.1.73]] इति श्नुः। `चकारोऽधिकविधानार्थः` इति। न तु वृद्धेरनुकर्षणार्थः; तदनुवृत्तेः स्वरितत्वादेव सिद्धत्वादित्यभिप्रायः। अधिकविधानार्थ इत्यस्यार्थं वाक्यान्तरेण त्रिस्पष्टीकर्त्तुमाह - `उस्योमाङोश्चेति पररूपबाधनार्थः` इति। उसिओमि आङि च यत्? पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः। चकारेम हि द्विर्वृद्धिविधानं विज्ञापयति। तत्र यद्द्वितीयं विधानं तद्? बाधकबाधनार्थं भवति। तेन <<उस्यपदान्तात्>> [[6.1.96]] इति यत्पररूपं प्राप्नोति, यच्च <<ओमाङोश्च>> [[6.1.95]] इति तदपि बाधित्वा वृद्धिरेव भवति। `औरुआईयत्` `औङ्कारीयत्` इति। उरुआशब्दादोङ्कारशब्दाच्च <<सुप आत्मनः क्यच्>> [[3.1.8]] , <<क्यचि च>> [[7.4.33]] इतीत्त्वम्, क्यजन्ताल्लुङ्, आट्? <<उस्यपदान्तात्>> [[6.1.96]] इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्वृद्धिरेव भवति। `औढीयत्` इति। ओढाशब्दात्? क्यजन्तल्लुङ्, आडागमे कृते <<ओमाङोश्च>> [[6.1.95]] इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्वृद्धिरेव भवति॥", "61091": "`उपाच्र्छति` इति। `ऋच्छ गतन्द्रियप्रलयमूर्तिभावेषु` (धा।प।1296) `प्रगता ऋच्छका अस्माद्देशात्? प्रच्छको देशः` इति। अत्र `यं प्रति क्रियायुक्ता प्रादयस्तं प्रत गत्यपसर्गसंज्ञका भवन्ति` इति गमिं प्रति प्रशब्दो गत्युपसर्गसंज्ञकः, न ऋच्छतिं परतीति भवति प्रत्युदाहरणमिदम्। `वा सुप्यापिशलेरिति विकल्पः स्यत्` इति। एतेनोत्तरार्थतां तपरकरणस्य दर्शयति। अथ धातग्रहणं किमर्थम्, यावत सम्बन्धिशब्दा हि नियतं प्रत्ययोगिनमुपस्थापयन्ति, तद्यथा -पुत्रादशब्दाः, उपसर्गश्चायं धात्वपेक्षत्वात्? सम्बन्धिशब्दः तत्रोपसर्गग्रहणादेव धातुग्रहणं सिध्यति? अत आह -`उपसर्गग्रहणादेव` इत्यादि। यदि धातुग्रहणं न क्रयेत, तदा पराच्र्छतीत्यत्र `ऋत्यकः` [[6.1.128]] इति परत्वात्? शाकल्यस्य मतेन परकृतवद्भावः ल्यात्। तस्मात् तस्य शाकल्यस्य प्रकृतिवद्भावस्य निवृत्त्यर्थं धातुग्रहणं क्रियते। कथं पुनः क्रियमाणे धातग्रहणे शाकल्यस्य प्रकृतवद्भावनिवृत्तिर्लभ्यते? योगविभागकारणात्। सति हि धातुग्रहणे योगविभागः क्रियते -उपसर्गावृत्ति वृद्धिर्भवतीति; ततो धाताविति, इहोपसर्गादिति वर्तते। ततो द्वितीयो योगो बाधकबाधनार्थो विज्ञायते। अथ <<उपसर्गाच्छन्दसि धात्वर्थे>> [[5.1.118]] इत्यत्र यथा प्राद्युपलक्षणार्थमुपसर्गग्रहणं विज्ञायते, तथेहापि कस्मान्न विज्ञायेत? अशक्यत्वात्। `उपसर्गाच्छन्दसि धात्वर्थे` इत्यत्र हि धातोरुपस्थानं न सम्भवतीति युक्तं प्राद्युपलक्षणार्थमुपसर्गग्रहणम्। इह हि धातोरुपस्थानं सम्भवतीत्ययुक्तम्॥", "61092": "धातावित्यनुवर्तते, सुपीति चोच्यते, न च सुबन्तो धातुरस्ति, तत्र समथ्र्याद्धात्वेकदेशे वर्तमानं सुपत्येतदिह विशेषणं विज्ञायते, इत्याह -`सुबन्तावयवे धातौ` इत्यादि। `उपाल्कारीयति` इति। कथं पुनरृतीतयुच्यमाने लुकारे वृद्धिः प्रवर्तते? इत्याह -`ऋकारऌकारयोः` इत्यादि। ऋकारऌकारयोः सवर्णसंज्ञा विहितेति ऋकारो गृह्रमाण ऌकारमपि ग्राहयतीति तत्रापि वृद्धिर्भवति। `आपिशलिग्रहणं पूजार्थम्` इति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह - `वेत्युच्यत एव` इति। यद्यप्याचार्यग्रहणेनैव पूजा, विकल्पश्चोभयं सम्पद्यते; तथाप्याचार्यग्रहणस्य प्राधान्येन पूजां ख्यापयितुं वाग्रहणं कृतमिति भावः॥", "61093": "`गाम्पश्य` इति। कथं पुनरेतदुदह्मतम्, यावता `गोतो णित्` [[7.1.90]] इति णित्त्वे सति परत्वात्? वृद्ध्यात्र भवितव्यम्? इत्यत आह -`द्योशब्दोऽप्योकारान्तः` इत्यादि। तपरकरणं हि वर्णनिर्देशेषु प्रसिद्धमिति `गोतः` इति तपरनिर्देश ओकारान्तोपलक्षमार्थो विज्ञायते, ततश्च द्योशब्दादपि परं सर्वनामस्थानं णिद्वद्भवति। यद्येवम्, तत्? किमिति वृद्धर्नात्र भवति? इत्याह -`तेन` इत्यादि। यदि द्योशब्दात्? परस्य सर्वनामस्थानस्य णित्त्वं न स्यात्, ततो द्यां पश्येत्यत्र सावकाशमात्वं गां पश्येत्यत्र परत्वाद्वृद्ध्या बाध्येत। यदि तु द्योशब्दादपि परं सर्वनामस्थानं णिद्भवतीति, तदा द्यां पश्येत्यत्र वृद्धिः प्राप्नोत्येव। ततो नाप्राप्तायां वृद्धाविदमात्वं विधीयमानमनवकाशत्वाद्वृदिंध बाधते। ततश्च युकतमेव गां पश्येत्येतदुदाहरणम्। अथेहाप्यचिनवम्, असुनवमित्यत्र चिनोतेः सुनोतेश्च लङि मिपि विकरणस्य गुणे कृते मिपः `तस्थस्थमिपाम्` [[3.4.101]] इत्यादिनाम्भावे चौकारस्यात्वं कस्मान्न भवति? इत्याह -`अमि` इत्यादि। शसा साहचर्यात्? सुबधिकाराद्वा सुप एवाम इदं ग्रहणम्। अतो नात्रात्वस्य प्रसङ्गः। चित्रगुं पश्येत्यत्र तु ह्रस्वत्वे कृत ओकाराभावात्? <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इति स्थानिवद्भावप्रतिषेधादात्वं न भवति॥", "61094": "`उपेलयति` इति। `इल प्रेरणे` (धातुपाठः-1660) चुरादिणिच्। `प्रोखतीति। `उख नख` (धा। पा। 128,134) इत्युखिर्गत्यर्थो भ्यादौ पठते। यदि `वा सुपि` [[6.1.89]] इत्यनुवर्तयन्ति, एवं सति तेन सहास्यैकवाक्यतायां सुबधातोरेवानेन विकल्पेन पररूपं क्रियते, असुपि तु पररूपं न स्यादेवेत्याह - `तच्च` इत्यादि। एकवाक्यत्वे हि सत्येष दोषः स्यात्। न चात्रैकवाक्यता, किं तर्हि? वाक्यभेदः। तेन तदिहानुवर्तमानं सुब्धातावेव विकल्पं करोति, इतरतर तु नित्यमेव पररूपं प्रवर्तते। तत्रावर्णान्तादुपसर्गादसुबन्तावयवे धातावेङादौ पूर्वपरयोः पररूपमेकादेशो भवतीत्येकं वाक्यम्, अवर्णान्तादुपसर्गात्? सुबन्तावयवे धातावेङादौ पूर्वपरमोर्वा पररूपमेकादेशो भवतीति द्वितीयम्। तत्र पूर्वेण वाक्येनासुबन्तावयवे धातावुपेलयतत्यादौ नित्यं पररूपं दिधीयते। द्वितीयेन तु सुबन्तावयवे धातावुपेङकीयतीत्येवमादौ विकल्पेन पररूपं विधीयते। वाक्यभेदस्तु `एङि पररूपम्` इति तन्त्रेण सूत्रद्वयोच्चारणाल्लभ्यते। सूत्रद्वये तूच्चार्यमाणे सत्येक एव <<वा सुप्यापिशलेः>> [[6.1.92]] इत्येदनुवर्तमानमपि लभ्यानुरोधान्नाभिसम्बध्यते, द्वितीये तु सम्बध्यत एव। तेन वाक्यद्वयं पूर्वोक्तं सम्पद्यते। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानाम् - उत्तरसूत्रे चकारोऽधिकविधानार्थः, तेन शकन्ध्वादिषु पररूपं भविष्यतीति। उत्तरत्राप वक्तव्यशब्दस्यायमर्थो व्याख्यानं चैतददेव वेदितव्यम्। `एवे चानियोगे` इति। नियोगः=नियोजनम्, व्यापारणमित्यर्थः। न नियोगोऽनियोगः=अनवकॢप्तिः। तत्रैवशब्दे पररूपं वेदितव्यम्। एवशब्दोऽनियमे वर्तते। यदा तमेव केवलं नियमं व्यापारेणाविशिष्टं ब्रूते तदा पररूपं भवति। यदा तु व्यापारेम विशिष्टं तदा वृद्धिरेव। `बिम्बोष्ठी` इति। `नासिकोदरौष्ठ` [[4.1.55]] इति ङीष्। `तिष्ठ देवदत्तौष्ठं पश्य` इति वाक्यमेतत्? न तु समासः। देवदत्तशब्दात्? <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सोर्लोपः॥", "61095": "`अद्योढा` इति। अद्य+ओढा। ननु च `आदगुणः` [[6.1.87]] इत्यनेनाङो निवर्त्तितत्वादिदमाङ उदाहरणं युज्यते? आङ्माङोरेकादेशस्त्वाङ्ग्रहणेन गुह्रत इत्यदोषः। पूर्वमेव हीदमुक्तम् -`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यो भवति लभतेऽसावन्यतरव्यपदेशम्` इति। किमर्थं पुनराङो ग्रहणम्, यावता प्रागेवाङः पूर्वेम सह <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घत्वे कृते ततः परेण सह <<आद्गुणः>> [[6.1.87]] इति गुणे चाद्योढेत्यादि सिद्धमेव? न सिध्यति, यतः `धातूपसर्गयोः कार्यमन्तरङ्गम्` (व्या।वृ।37) इति पूर्वमाद्गुणेन भवितव्यम्, तथा च सति वृद्धिः स्यात्। अत आङोऽपि ग्रहणं कर्तव्यम्। `इह त्वकः सवर्णे दीर्घत्वं बाध्यते` इति। अस्य विधेरविशेषविहितत्वात्, अकः सवरणे दीर्घस्य च सामान्यविहितत्वात्। विशेषविहितोऽपि सामान्यविहितस्य बाधको भवतीति प्रतिपादितमेतत्॥", "61096": "`भिन्द्युः` इति। भिदेर्लिङ्, झि, यासुट्? <<झेर्जुस्>> [[3.4.108]] इति जुस्, श्नम्, <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः, `लिङः सलोपोऽनन्तयस्य` [[7.2.79]] इति सकारलोपः, भिन्द्या+उसिति स्थितेऽनेन पररूपत्वम्। `अदुः` इति। ददातेर्लुङ्, झि, `आतः` [[3.4.110]] इति झेर्जस्, `गातिस्थाट [[2.4.77]] इति सिचो लुक्, अदा+उसिति स्थितेऽनेन पररूपत्वम्। `कोरुआआ, कोषिता` इति। ननु चात्रैकस्मिन्? प्रत्युदाहरणे `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यनया परिभाषयैव न भविष्यति, उरुआआशब्दो हि समुदायोऽर्थवान्, न तूसित्येष तदवयवः। द्वितीये तु `लक्षणप्रतपदोक्तयोः प्रतपदोकतस्यैव ग्रहणं न तु लाक्षणिकस्य` (व्या।प।3) इत्यनया परिभाषयाऽपि न भविष्यति, लाक्षणिको हि तत्रोस्? तथा हि वसेर्निष्ठायां <<वसतिक्षुधोरिट्>> [[7.2.52]] यजादित्वात्? सम्प्रसारणे कृते -उषितेति, तत्र पररूपं न सम्पद्यते, तत्? किमपदान्तादित्यनेन? एवं तह्र्रेतदतिरिच्यमानमपदान्तग्रहममर्थवदनर्थवत्त्वादिकं विशेषमनपेक्ष्योस्मात्रे पररूपं भवतीत्यमुमर्थं द्योतयति। तेन नानर्थके `उस्यपदान्तात्` इत्येतद्भवति। भिन्द्युरित्यत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। लाक्षणिकेऽपि भवतीति -बभुषः पश्येति। `भा दीप्तौ`, (धातुपाठः-1051) लिटः क्वसुः; शस्, <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति सम्प्रसारणम्; <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम्, बभा उस अस्? इति स्थितेऽनेन पररूपत्वम्। एतत्? सार्वधातुकपक्ष उदाहरणं वेदितव्यम्। अर्धधातुकपक्षे ह्रकारलोपेनैव सिद्धम्। सानुबन्धकेऽपि भवति -अधुर#इति। क्व तर्हि स्यात्? बभूरिति। ननु चानर्थक्ये सत्यपदान्तग्रहणस्यायमर्थः परिकल्प्येत, अस्ति चास्योक्तसूत्रे प्रयोजनम्, किं तत्? अपदान्ताद्यथा स्यादिह मा भूदिति -दण्डाग्रमिति? नैतदस्ति; यद्येतदेव प्रयोजनमभिमतं स्यात्, तदोत्तरसूत्र एवेदं कुर्यात्। इह करणात्तु यथोक्तार्थप्रतिपादनपरतैव तस्यावगम्यते। अधिकाराच्चोत्तरार्थतापि भवत्येव। कोषितेत्यत्र `वसतिक्षूधोः` [[7.2.52]] इतीट्, `शासवसिघसीनां च` [[8.3.60]] इति षत्वम्, तस्य चासिद्धत्वात्? पररूपत्वप्राप्तिर्वेदितव्या। `चऋः` इति। कृत्रो लिटउसि रूपम्। `अबिभयुः` इति। `ञिभी भये` (धा।प।1084) लङ्, शप्, <<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति श्लुः, द्विर्वचनम्, `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुस्? `जुसि च` [[7.3.83]] इति गुणः॥", "61097": "`पचे, यजे`- इत्यत्र <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धिः प्राप्नोति, तेन तस्या एव पररूपत्वमपबाद इत्यभिप्रायः। `आद्गुमः` [[6.1.84]] इत्यत आदित्यनुवर्तत एवेति मन्यमान आह - `अत इति किम्` इति। दीर्घनिवृत्यर्थ इह तपरस्याकारस्य निर्देशः क्रियत इति दर्शयितुमाह - `यान्ति, वान्ति` इति। `अपचे` इति। लङ्यात्मनेपदोत्तमपुरुषैकवचन इट्, अतर <<आद्गुणः>> [[6.1.87]] । पररूपे तु सति स गुणो न लभ्यते॥", "61098": "", "61099": "", "61100": "", "61101": "", "61102": "प्रथमशब्दोऽयं सन्निवेशविशेषापेक्षेऽभिधेये वर्तते। परेष्वभिसमीक्षितेषु यस्मात्पूर्वो नास्ति स प्रथमशब्दाभिधेयः। इह च `प्रथमयोः` इति सामान्येन निर्देशान्न ज्ञायते - कयोः प्रथमयोरिवं ग्रहणमित्यतस्तत्परिज्ञानायाह - `प्रथमाशब्दः` इत्यादि। प्रथमशब्दोऽयमिह शास्त्रे विभक्तिविशेष रूढः, सुपां यदाद्यं त्रिकं तत्र प्रसिद्धः। तथा हि - `सपूर्वयोः प्रथमयोर्विभाषा` [[8.1.26]] , `सप्तमीपञ्चमीप्रथमाभ्यः` [[5.3.27]] इत्येवमादिषु निर्देशेषु प्रथमाशब्देन स एव विभक्तिविशेषो निर्दिष्टः। तस्माद्रूढिशब्दत्वादिह प्रथमाशब्दो विभक्तिविशेषे वर्तत इति विज्ञायते। ननु च स्त्रीलिङ्गो यः प्रथमाशब्दः स इह शास्त्रे विभक्तिविशेषे रूढः, अस्य च स्त्रीलिङ्गतैव सन्दिग्धा? नैतदस्ति; प्रथमशब्दोपादानादेव स्त्रीलिङ्गोऽयमुपात्त इत्यवसीयते। यदि हि पुंल्लिङ्गस्येदमुपादानं स्यादेयं सति प्रत्ययग्रहणेव स्यात्। यदि च प्रत्ययग्रहणमभीष्टं स्यात्? तदौजसोरित्येवं ब्राऊयात्। न चैवमुच्यमाने द्वितीयासम्बन्धिनोऽप्यौकारस्य ग्रहणप्रसङ्गः; इह जसा साहचर्यात्? प्रथमासम्बन्धिन एवौकारस्य ग्रहणं विज्ञास्यते। तस्मात्? स्त्रीलिङ्गस्येदं ग्रहममित्यसन्दिग्धमेतत्। ननु च यदि प्रथमाशब्दोऽयमिह शास्त्रे विभक्तिविशेषे रूढः, एवं सति विभक्तिविशेष एक इत्येकवचनेनैव भवितव्यम्, तत्? कथं प्रथमयोरिति द्विवचनम्? इत्यत आह - `तत्साहचर्यात्` इत्यादि। तेन प्रथमाख्येन विभक्तिविशेषेण साहचर्याद्द्वितीयापि विभक्तिः प्रथमेत्युक्ता, ततश्च द्वित्वाद्द्विवचनमेव न्याय्यम्। तदेतेन प्रथमयोरिति विभक्त्योरिदं गरहणं न प्रतद्यययोरिति दर्शयति। `वृक्षाः `लक्षाः` इति। कथमिदमुदाहृतम्? यावता <<अतो गुणे>> [[6.1.97]] इत्यनेन पररूपेणात्र भवितव्यम्? तद्धि नाप्रापते वभक्त्यन्तर आरभ्यमाणं यथाऽकः सवर्णे दीर्घत्वं बाधते, तथा `प्रथमयोः पूर्वसवर्णः` इति दीर्घत्वमपि बाधेत? इत्यत आह - `अतो गुणे` इत्यादि। अत्रैवोपपत्तिमाह - `पुरस्तात्` इत्यादि। इतिकरणो हेतौ। यस्मात्? `पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।प।9) इति तस्मात्? <<अतो गुणे>> [[6.1.97]] पररूपम्? <<अकः सवर्णे दीर्घः>> [[6.1.101]] दीर्घत्वं बाधते; तस्यैव तदनन्तरत्वात्। `प्रथमयोः पूर्वसवर्मः` इति दीर्घत्वं तु न बाध्यते; विपर्ययात्। `अग्नी इत्यत्र` इत्यादि। असति पूर्वगरहणे अग्नी इतयत्र पर्वपरसमुदयः स्थानी, तस्य चान्तरतमो दीर्घ आदेशो नास्तीत्यवयवान्तरतमो यस्तेन भवितव्यम्। अवयवौ चात्र द्वौ - पूर्वः, परश्चेति; तत्र च पूर्वस्यैव भवितव्यमिति नियमो न लभ्यते, नियमकरणाभावादिति तयोः पर्यायेण भवन्नादेशः पक्षे परसवर्णो वा स्यात्। अतस्तन्निवृत्यर्थं पूर्वग्रहणम्। सवर्णग्रहणं तु विप्रतिषेधनिरासार्थम्। असति हि तस्मिन्? दीर्घ इत्यनुवर्तमानेऽग्नी इत्यत्र विप्रतिषिद्धित्वमापद्येत यदि पूर्वो न दीर्घः; अथ दीर्घो न पूर्वः। यदि पूर्वो न दीर्घः; अथ दीर्घो न पूर्वः। यदि च पूर्वशब्देन पूर्वाकृतिरुच्येत्, दीर्घादनुवृत्तेः पूर्वस्येति षष्ठी वा क्रियेत। तथा च सवर्णग्रहणं शक्यमकर्तम्। क्रियमाणं वा तत्? सुखप्रतिपत्यर्थ वेदितव्यम्। `दीर्घग्रहणं त्रिमात्रे स्थानिनि` इत्यादि। अग्नि औ+इति स्थिते, असति दीर्घग्रहण एकादेशः क्रियमाणः स्थानिन आन्तरतम्यात्? त्रिमात्रः प्राप्नोति; स्थानिनस्त्रिमात्रकत्वात्। तथा हि - अग्निशब्दस्येकार एकमात्रः औकारो द्विमात्र इत्येतत्समुदायात्मकश्चात्र स्थानी। तस्मात्? त्रिमात्रे स्थानिन्यन्तरतमस्त्रिमात्र आदेशो मा भूदित्येवमर्थं दीर्घग्रहणम्। दीर्घग्रहणे हि सति तेनादेशे विशिष्यमाणे त्रिमात्रस्यादेशप्रसङ्गो न भवति; द्विमात्रस्यैव दीर्घसंज्ञाविधानात्॥", "61103": "`तस्मात्? पूर्वसवर्णदीर्घात्` इति। एतेन तस्मादित्यनेनान्तरः पूर्वसवर्णदीर्घो निर्दिष्ट इति दर्शयति। `शसोऽवयवस्य सकारस्य` इति। अनेन शस इति सकारावयवापेक्षयावयवषष्ठीति पुंसीति प्रत्ययार्थस्येदं वा विशेषणम् -`पुंसां [पुंसि -मु। पाठः] चेद्बहुत्वे शसुत्पन्न इति। प्रकृतिविशेषणं वा -पुंशब्दाच्चेत्? परः शसिति। तत्र यदा प्रत्ययार्थस्य विशेषमं तवा `सर्व एते` इत्यादेरयं पूर्वपक्षः -वृक्षान्, अग्नीनित्यादिकं युक्तमुदाहरणम्; पुसां बहुत्वेऽत्र शस उत्पन्नत्वात्। षण्डकान्? पण्डकानिति -एतदुदाहरणद्वयमयुक्तम्, न ह्रतर पुंसां बहत्वे शस्? उत्पन्नः, किं तर्हि? नपुंसकानामित्यत आह -`सर्व एते` इत्यादि। सर्वग्रहणेन न केवलं वृक्षादयः शब्दा पुंल्लिङ्गेन सामान्यविशेषेण विशिष्टं स्वार्थं प्रतिपादयन्ति, अपि तु षण्डकपण्डकशब्दावपीति दर्शयति। स्वार्थः पनरेषा पुंस्त्वेन सामान्यविशेषेणावच्छिन्नं वृक्षादिकं द्रव्यम्। तदेवं यतः सर्व एते पुंल्लिङ्गविशिष्टार्थाभिधायिनः, तेनैतेभ्य उत्पद्यमानः शस्? पुंसामेव बहुत्वे उत्पद्यत इति पूर्वपक्षो निराकृतो भवति। यदा तु प्रकृतिविशेषणं तदायं पूर्वपक्षः -वृक्षानित्यादिकमित्युदाहरणमुपपद्यते, तत्र हि पुंशब्दात्? परः शस्? भवति; स्थूरान्, अररकानिति इदमुदाहरणद्वयं नोपपद्यते; तथा हि स्थूराया अपत्यानि अररकाया अपत्यानीति <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ्, <<यञञोश्च>> [[2.4.64]] इति लुकि कृते स्त्रीप्रत्ययस्यापि `लुक्? तद्धितलकि` [[1.2.49]] इति लुक् -स्थूर, अररक, इत्येताभ्यां स्त्रीशब्दाभ्यामुत्पन्नोऽत्रि शस्? स्त्रीशब्दाभ्यां परो भवति, न नपुंसकशब्दाभ्याम्? इत्यत आह -`सर्व एते` इत्यादि। प्रकृतिरेव ह्यत्र तद्धितलुगन्ता प्रत्ययार्थे वर्तते, स च प्रत्ययार्थः, पुंल्लिङ्गेन विशिष्टः। तस्मान्न केवलं वृक्षादयः शब्दाः पुंल्लिङ्गेन विशिष्टं वृक्षादिकं स्वार्थं प्रतिपादयन्ति, अपि तु स्थूराररकशब्दावपीति पूर्वपक्षः प्रतिक्षिप्तो भवति। अयं तर्हि प्रत्ययार्थविशेषणपक्षे दोषः -चञ्चेव चञ्चा पुमांस इति। <<इवे प्रतिकृतौ>> [[5.3.96]] कन्? <<लुम्मनुष्ये>> [[5.3.98]] इति लुप्; यदा लुबन्ताच्चञ्चाशब्दात्? पुसां बहुत्वे शस्? उत्पद्यते तदा चञ्चाः पश्येत्यत्र नत्वं प्राप्नोति? इत्यत आह -`इह तु` इत्यादि। नैव ह्यत्र पुंबहुत्वे शस्? उत्पन्नः, किं तर्हि? स्त्रीबहुत्वे; पुंसोऽपि युक्ततद्भावेन स्त्रीत्वातिदेशात्। ततोऽत्र नत्वं न भवति। दीर्घग्रहणं प्रकृतम्, तस्य चेहार्थवशेन पञ्चम्यन्तस्योपस्थाने सत्यन्तरेणापि तस्मादित्येतद्ववचनं दीर्घादेवोत्तरस्य शसो नत्वं भविष्यतीत्यभिप्रायेणाह -`इह तु` इत्यादि। नैव ह्यत्र पुंबहुत्वे शस्? उत्पन्नः, किं तर्हि? स्त्रीबहुत्वे; पुंसोऽपि युक्तवद्भावेन स्त्रीत्वातिदेशात्। ततोऽत्र नत्वं न भवति। दीर्घग्रहणं प्रकृतम्, तस्य चेहार्थवशेन पञ्चम्यन्तस्योपसथाने सत्यन्तरेणापि तस्मादित्येतद्ववचनं दीर्घादेवोत्तरस्य शसो नत्वं भविष्यतीत्यभिप्रायेणाह -`तस्मादिति किम्` इति। `एतान्? गाश्चरतः पश्च` इति। <<औतोऽम्शसोः>> [[6.1.93]] इत्यात्वम्। यद्यनन्तरदीर्घप्रत्यवमर्शी तच्छब्देनोपादीयेत, तदाऽविशेषेण दीर्घमात्रान्नत्वं विधीयमानम् -एतान्? गाश्चरतः पश्येत्यत्रापि स्यात्, भवति ह्रयमाकारो दीर्घः। तस्मात्? तच्छब्दे तु न दोषः; न ह्रयमननतरसूत्रविहित आकारः॥", "61104": "`खट्वे` इति। `औङ आपः` [[7.1.18]] इति शीभावः। `कुण्डे` इति। अत्रापि <<नपुंसकाच्च>> [[7.1.19]] इति, तत्र कृते <<आद्गुणः>> [[6.1.87]] इति गुणः॥", "61105": "`आत्` इति नानुवर्तते, तेनाऽयं दीर्घामात्रात्? पूर्वसवर्णस्य प्रतिषेधः। अथ खट्वा इत्यत्र कथं <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घत्वम्? दीर्घादिति वचनं स्पष्टार्थम्। ननु चासति तस्मिन्? वृक्षा इत्यत्रापि स्यात्? नैतदस्ति; यदि ह्यत्रापि स्यात्, तदा पूर्वसत्रे `इचि` इत्येतदपार्थकं स्यात्। इह तर्हि स्यात् -अग्नये इति? इष्टत्वाददोषः। अत्र हि परत्वात्? `जसि च` [[7.3.109]] इति गुण एव भवति। उत्तरार्थ तर्हि स्यात् -<<वा छन्दसि>> [[6.1.106]] इति दीर्घाद्यथा स्यात्? नैतदस्ति; वाग्रहणस्य तत्र व्यवस्थितविभाषाविज्ञानात् -दीर्घादेव भविष्यति न ह्रस्वात्। `जसि च` [[7.3.109]] इत्येतदपि स्पष्टार्थमेव। ननु चासति `जसि च` इत्येतस्मिन्? युवतीः पश्य, पद्धतीः पश्येत्यादौ शस्यपि प्रतिषेधः स्यात्? ज्ञापकान्न भविष्यति, यदयं <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति पुंग्रहणं करोति, तज्ज्ञापयति -शसि प्रतिषेधो न भवतीति। तद्धि नपुंसके पूर्वसवर्णदीर्घत्वासम्भवात्? स्त्रीनिवृत्त्यर्थमेव क्रियते। यदि च स्तिरियामप्ययं युवतीः पश्येत्यादौ प्रतिषेधः स्यात्, तदा पूर्वसवर्णदीर्घत्वाभावान्नत्वस्य प्रतिप्तिरेव नास्तीति किं पुंग्रहणेन? उत्तरार्थं तर्हि जस्ग्रहणम्? नैतदस्ति; वाग्रहणस्य तत्र व्यवस्थितविभाषात्वविज्ञानादेव जसोऽन्यत्र न भविष्यति॥", "61106": "`मारुतीः` इति। मरुद्देवता आसामिति <<सास्य देवता>> [[4.2.24]] इत्यण्? `टिड्ढाणञ्` [[4.1.15]] इति ङीप्; सवर्णदीर्घत्वम्। `वाराहीः` [वाराही - काशिका पदमंजरी च] इति। वराहस्य विकार ति <<अवयवे च प्राण्योषधिवृक्षेभ्यः>> [[4.3.135]] इत्यण्, पूर्ववन्ङीप्। `उपानही` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्॥", "61107": "पूर्वसवर्णदीर्घत्वे प्राप्ते वचनमिदम्। दीर्घ इति चेहानुवर्तते, अन्यथा हीदं वचनमनर्थकं स्यात्। अथ पूर्वग्रहणं किमर्थम्, यावता प्रकृतं यत्? पूर्वंग्रहणं तदेवेहानुवर्त्तिष्यत इति? अत आह -`पूर्वग्रहणम्` इत्यादि। यथाजातीयकः पूर्वस्तथाजातीयक एव यथा स्यादित्येवमर्थं पूर्वग्रहणम्। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह -`पूर्वसवर्णान्तरतमो मा भूत्` इति। पूर्वसवर्णश्चासावन्तरतमश्चेति कर्मधारयः। असति हि पूर्वग्रहणे यत्? पूर्वकं पूर्वग्रहणं तेनैवानुवर्त्तितव्यम्, तस्मिश्चानुवर्तमाने ततसम्बद्धं सव्रणग्रहणपि अनुवर्तेत, तथा च <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यनया परिभाषया पूर्वस्य यः सवर्णः स एव परसज्येत। किं पुनरेवं सत्यनिष्टं स्यात्, वृक्षमित्यादौ द्विमात्रस्य स्थानिनो द्विमात्र एव स्यादिति चेत्? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्, <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन सिद्धत्वादित्यत आह -`कुमारिमित्यत्र हि` इत्यादि। कुमारीशब्दस्येकारो द्विमात्रः, अमोऽकारो मात्रिकः; तत्समुदायात्मकश्चात्र स्थानी, तत्र पूर्वसवर्णो विधीयमानस्त्रिमात्रलस्य स्थानिनोऽन्तरतमस्त्रिमात्र एव स्यात्, पूर्वग्रहणे तु सति यथाजातीयक एव पूर्वः, तथाजातीयक एव द्विमात्रो भवति। `वा छन्दसीत्येव` इत्यादि। यदि तरहि <<वा छन्दसि>> [[6.1.106]] इत्यनुवर्तते, तेन सहास्यैकवाक्यतायां भाषायां परपूर्वत्वं न सिध्यति? नैतदस्ति; यस्मात्? तदिहानुवर्तमानं पूर्ववद्वाक्यभेदेन च्छन्दस्येव विकल्पं करोति, न भाषायाम्॥", "61108": "सम्प्रसारणस्य यणादेशो मा भूदित्येवमर्थमिदं परपूर्वत्वं विधीयते। यदि चात्र यणादेशः स्यात्, तदा संप्रसारणविधानामनर्थकं स्यात्? तस्मात्। सम्प्रसारणविधानसामर्थ्यादेव यणादेशो न भविष्यति, तत्? किमर्थमिदं विधीयते? इत्याह -`सभ्प्रसारणविधानसामर्थ्यात्` इत्यादि। सम्प्रसारणविधानसामर्थ्याद्यणादेशो न भवतीति विगृहीतस्याकृतसंहिताकार्यस्य श्रवणं प्राप्नोति, तस्मान्मा भूदेष दोष इति परपूर्वत्वं विधीयते। `वा च्छन्दसीत्येव` इत्यादि। अत्रापि पूर्ववद्वाक्यभेदो द्रष्टव्यः; अन्यथा भाषायां न स्यात्। `यज्यमानः` [यज्यमानौ -काशिका] इति। परपूर्वत्वाभावपक्षे यणादेशः। कथं पुनरत्र यणादेशः, यावता विगृहीतस्यैव ग्रहणेन भवितव्यम्, इदानीमेव ह्रुक्तम् -सम्प्रसारणविधानसामर्थ्याद्विगृहीतस्यैव श्रवणे प्राप्ते परपूर्वत्वं विधीयते? इत्यत आह -परपूर्वत्वविधाने` इत्यादि। अनारब्धे हि परपूर्वत्वे विगृहीतस्यैव श्रवणं प्राप्नोति, मा भूत्? सम्प्रसारणस्य वैय्यथ्र्यमिति कृत्वा। सति तु परपूर्वत्वे यत्र परपूर्वत्वम् -इष्टमित्यादौ, तत्रार्थवत्? सम्प्रसारणम्। अतः परपूर्वत्वाभावपक्षे यणादेशो भवत्येव। अथेह कस्मान्न भवति -शकह्वौ शकह्वर्थमिति; अत्र हि शकं ह्वयतीति क्विप्, यजादित्वात्? सम्प्रसारणम्, परपूर्वत्वम्, तस्य `अग्तादिवच्च` [[6.1.85]] इति सम्प्रसारणग्रहणेन ग्रहणात्? सम्प्रसारणासम्प्रसारणयोरेकादेशस्य सम्प्रसारणस्य व्यपदेशभावत्वात्, औकारेऽर्थशब्दे च परतो व्यवस्थिते <<सम्प्रसारणाच्च>> [[6.1.108]] इति परपूर्वत्वं प्राप्नोति? इत्यत आह -`अन्तरङ्गे चाचि` इत्यादि। योऽयं ह्वयतेरेचः स्थाने विहित आकारः स सम्प्रसारणस्यान्तरङ्गः प्रत्यासन्नः; उभयोरप्येकधात्वन्तर्गतत्वात्। औकारोऽर्थशब्दाकारश्च विप्रकृष्टः। विप्रकृष्टस्तु देशतः कालतश्च, यदाह -`ब्राआह्रे` इति। यस्य धातोः सम्प्रसारणमवयवः, तत्रानन्तर्भावाद्बाह्रः। कालतश्च, यदाह -`पश्चात्? सन्निपतिते` इति। पूर्वरूपविधानकालादुतरकालं सन्निहित इत्यर्थः। तत्र सन्निकृष्टविप्रकृष्टयोरचोः प्रत्यासत्तेरन्तरङ्गो योऽच्? तत्रेदं वचनं प्रवर्तते, ततर चरितार्थमिति विप्रकृष्ट औकारादौ पश्चात्? सन्निहते न भवति॥", "61109": "`अग्नेऽत्र` इति। <<सम्बुद्धौ च>> [[7.3.106]] इति गुणः॥", "61110": "`एङ उत्तरयोः` इत्यादि। एङ उत्तरौ यौ ङसिङसौ तयोः सम्बन्ध्यवयवो योऽत्? तस्मिन्? परत इत्यर्थः। `अग्नेरागच्छति` इति। `घेङिति` [[7.3.111]] इति गुणः। अथ कस्मादत्र यथासंख्यं न भवति, एङावपि हि द्वौ, ङसिङ्सावपि द्वावेवेति प्राप्नोति? नैष दोषः, न ह्यत्र ङसिङसोः परतः कार्यं विधीयते, किं तर्हि? तत्सम्बन्धिन इति, स चैक एव। अथापि सम्बन्धिभेदेन भेदः स्यात्? एवमप्यदोषः, चकारोऽत्र समुच्चायर्थः क्रियते। एवं च समुच्चयो भवति यद्यकैकस्यैङो ङसिङसोः प्रत्येकमपि परतः परपूर्वत्वं भवति; नान्यथा। <<ईदग्नेः सोमवरुणयोः>> [[6.3.27]] , <<ओरावश्यके>> [[3.1.125]] इति च निर्देशस्तदभावं ज्ञापयति। लक्षणव्यभिचारचिह्नेन वा। अल्पाच्तरस्य ङसः परनिपातेन यथासंख्याभावोऽवसीयते॥", "61111": "`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने` इत्यादि। किं पुनर्होतुरित्यादावनिष्टं स्याद्यदि रपरत्वं न क्रियेत? न किञ्चित्; न्यायतस्तु प्राप्नोति रपरत्वमपि, तदवश्यं कर्तव्यम्। तमेव न्यायं न्यां दर्शयितुम् -`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने` इत्युक्तम्। ऋत इति तपकरणं दिर्घनिवृत्त्यर्थम्। तेन `उन्योर्ग्रः` [[3.3.29]] <<प्रे स्त्रोऽयज्ञे>> [[3.3.32]] इत्यादौ न भवति। उदित्येतदपि तपरकरणं दीर्घनिवृत्त्यर्थमेव, आन्तरतम्याद्द्विमात्रस्य स्थाने द्विमात्र एव प्राप्नोति। ननु च `भाव्यमनोऽण्? सवर्णान्? न गृह्णाति`(व्या।प।35) इति सवर्णानां ग्रहणं न भविष्यतीति तत्? किमेतन्निवृत्यर्थेन तपरकरणेन? एवं तह्र्रेतज्ज्ञापयति -भवत्यत्र ह्रुकरेम भाव्यमानेन सवर्णस्य ग्रहणमिति। तेनामू, अमूभ्यामित्यत्र <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति दीर्घस्य स्थाने दीर्घ ऊकारो भवति॥", "61112": "`ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणम्` इति। यमादेशे कृते तुल्यं रूपमिति विशेषाभावात्। अथ कस्मादत्राकारान्तयोरेव ख्यशब्दत्यशब्दयोरिदं ग्रहणं न भवति? केवलस्य ख्यशब्दस्य त्यशब्दस्यासम्भवादिति चेत्? न; यदि केवलौ न स्तः, तदन्तानां तर्हि मुख्यगोसंख्यादीनामपत्य गार्हपत्यादीनाञ्च ग्रहणमस्तु? नैतदस्ति; एवं हि -<<सख्युरसम्बुद्धौ>> [[7.1.92]] , <<पत्युर्नो यज्ञसंयोगे>> [[4.1.33]] इति निर्देशौ नोपपद्येयाताम्। `सह खेन वर्तत इति सखः` इति। <<तेन सहेति तुल्ययोगे>> [[2.2.28]] इति बहुव्रीहिः, <<वोपसर्जनस्य>> [[6.3.82]] इति सहस्य सभावः। `सखीयति` इति। <<क्यचि च>> [[7.4.33]] इतीत्त्वम्। `सखीः` इति। क्विप्? <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारस्य च। `लुनम्` इति। `ल्वादिभ्य` [[8.2.44]] इति निष्ठानत्वम्। ननु च नायं तीशब्दः, तत्कथं तस्योदमुदाहरणमित्यत आह -`निष्ठानत्वम्` इत्यादि। अथेह कस्मान्न भवति -अतसखेरागच्छति, सेनापतेरागच्छतीति, असति ह्यत्रापि खिशब्दः तिशब्दश्च? इत्यत आह -`विकृतनिर्देशात्` इत्यादि। योऽयं ख्यत्यादित्यागन्तुकेनाकारेम यणादेशं कृत्वा विकृतनिर्देशः कृतस्तस्यैतदेव प्रयोजनम् -यत्र यणादेशः, तत्रैव यथा स्यात्। न चात्र यणादेशोऽस्ति, अतो न भवति, अन्यथा हि विकृतनिर्देशोऽनर्थकः स्यात्। ननु च लध्वर्थः स्यात्, अन्यथा हि `खितिखीतीभ्यः` इत्युच्यमाने गौरवं स्यात्? एवं मन्यते -यदि यतर यण्? न भवति, तत्रापि भवितव्यम्, तदा खीतीभ्यामित्येवं ब्राऊयात्। न चैवमुच्यमाने ह्रस्वन्ताभ्यान्न प्राप्नोति; खिशब्दात्? `सख्युर्यः`, [[5.1.126]] तिशब्दात्? <<पत्युर्नो यज्ञसंयोगे>> [[4.1.33]] इति निर्देशाभ्यामेव सिद्धेः अत्र हि सखिपतिशब्दयोग्र्रहणम्, न सखीपतीशब्दयोः। न हीह पतीशब्दस्य यज्ञेन संयोगोऽस्ति, नापि `सह खेन वर्तते` इत्यादिना प्रकारेम व्युत्पादितो यः सखीशब्दस्तत उत्पन्नो यः प्रत्ययः स प्रकृत्यर्थाभिधाने समर्थो भवति; यतोऽभिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति। तस्माद्विकृतनिर्देशस्य पूर्वोक्तमेव प्रयोजनमिति। अथ स यणादेशोऽतर कस्मान्न भवति यस्मिन्? सत्युत्त्वेन भवितव्यम्? `घेङिति` [[7.3.111]] इति गुणेन बाधितत्वादिति चेत्? न; `शेषो ध्यसखिः [[1.4.7]] इति धिसंज्ञाप्रतिषेधादिति चेत्यत आह -`सखीशब्दस्य` इत्यादि। अत्र च `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति` (व्या।प।89) इति प्रतिषेधो हेतुः।परस्येति किमर्थम्? पूर्वपरयोर्मा भूत्। इतश्चारभ्य पूर्वपरयोरित्येतन्नानुवर्तते॥", "61113": "`उकारानुबन्धकस्य` इति। यदि रुशब्दः समुदायः स्थानो स्यात्, तदा महातरुवनमित्यत्रापि `हशि च` [[6.1.110]] इत्युत्वं प्रसज्येत। किञ्च <<ससजुषो रुः>> [[8.2.66]] इत्युकारानुबन्धकरणमनर्थकं स्यात्। तत्र ह्रु कारोऽस्य सूत्रसय विशेषणार्थः क्रियते, स इह समुदाये स्थानिन्यनर्थको जायते। तस्मादुकारानुबन्धवत इदं ग्रहणम्। ननु चोत्त्वे कर्तव्ये <<पूर्वत्रासिद्धम्>> [[8.2.1]] इति रुत्त्वमसिद्धम्, तदसतो रोः कथमुत्त्वं शक्यते विधातुम्? इत्यत आह -`रुत्वमप्याश्रयात्? सिद्धम्` इति। यदि रुत्वमसिद्धं स्यात्, तदा स्थानित्वेन रोराश्रयणमनर्थकं स्यात्; कस्यचिदुकारानुबन्धविशिष्टस्य रोरसम्भवात्। तस्मादाश्रयादेव रोरसिद्धत्वं नास्तीति। `तस्यापि` इति। यत्रापि परतो रोरुत्त्वमुच्यते तस्य `सुरुआओता 3 अत्र` इति <<दूराद्धूते च>> [[8.2.84]] इति प्लुतः। `देवदत्ता 3 अत्र` इति। अत्रापि `गुरोऽनृतोऽनन्तस्याप्येकैकसय प्राचाम्` [[8.2.86]] इत्यनेन। अथ किमर्थं `अप्लुतादप्लुते` इत्युच्यते? न ह्रतोऽतीति च तपरकरणस्य वर्णस्य निर्देशे क्रियमाणे प्लुतात्परस्य प्लुते वा परतः प्राप्नोति? इत्यत आह -`प्लुतस्य` इत्यादि। ननु च सिद्धः प्लुतः स्वरसन्धिषु, यदयम्? `प्लुतप्रगृह्रा आचि` [[6.1.125]] इति प्रकृतिभावं शास्ति? एवं मन्यते -प्रकृतिभाव एवैतज्ज्ञापकं स्यात्। अथापि कथञ्चित्? स्वरसन्धिविषयं ज्ञापकं स्यात्, तथा रोदत्त्वं स्वरसन्धिर्न भवति। अथापि संहिता काय्र्यविषयं ज्ञापकं स्यात्, तथापि रोरुत्त्वं मंहिताकार्य्यं न भवति। येन हि वर्णाः सन्धीयन्ते तत्? संहिताकार्यम्, न चोत्त्वेन वर्णाः संहिता भवन्ति; पुनरप्याद्गुणाद्यपेक्षणादिति॥", "61114": "पूर्वत्रातीत्यनुवृत्तेर्हश्युत्त्वमप्राप्तमेवानेन विधीयते। चकारः `अप्लुतात्? [[6.1.109]] इत्यस्यानुकर्षणार्थः। तेनेह न भवति - सुरुआओता 3 वेहीति॥", "61115": "`प्रकृत्या` इति। करणे तृतीया। `अन्तःपादम्` इति। सप्तम्यन्तमेतत्। विभक्त्यर्थेऽव्ययीभावं विधाय ततः सप्तमी, तस्याः `तृतीयासप्तम्योर्बहुलम्` [[2.4.84]] इत्यम्भावः कृतः। `एङः` इत्यादि। पञ्चम्यन्तस्यैङः प्रकृत्या भवतीत्यनेन सम्बन्धो नोपपद्यते। तस्मादिहार्थादेङ्ग्रहणं प्रथमान्तमुपजायते। `प्रकृतिः` इत्यादिना प्रकृतिशब्दस्यामाचष्टे। प्रकृतिशब्दो हि लोके स्वभावे प्रयुज्यते, यता -दुस्त्यजा प्रकृतिरिति, कारणेऽपि यथा -दध्नः क्षीरं प्रकृति रति, तदिहापि स एवार्थस्तस्य विज्ञायते। अन्तरित्यव्ययमधिकरणभूतमिति। अत एवान्तः-पादमित्यव्ययीभावो भवति। `पादशब्देन` इत्यादि। कथं पुनरृक्पादस्यैव ग्रहणं लभ्यते, यावता पादशब्दः सामान्यवाची? एवं मन्यते - <<वा छन्दसि>> [[6.1.106]] इत्यतः छन्दोग्रहणमिह मण्डूकप्लुतिन्यायेनानुवर्तते, तेन ऋक्पादस्यैव ग्रहणं विज्ञायते। अथ <<सर्वत्र विभाषा गोः>> [[6.1.122]] इत्यतः सूत्रात्? प्राक्छन्दस्येव कार्यं विज्ञायते। एवं हि तत्र सर्वत्रगरहणमर्थवद्भवति यदि च्छन्दसि पूर्वं विधानं भवति। एवमवयवानापर्थमाख्याय `अवकारयकार` इत्यादिना समुदायस्यार्थमाचष्टे। अविद्यमानौ वकारयकारौ यस्य स तथोक्तः। `स्वभावेन` इत्यादि। यदा प्रकृतिशब्दः स्वबावे वर्तमानो गृह्रते, तदायमर्थः -एङ्? स्वभावेन भवति। स्वभावपरत्यागेन संहिताकार्यं नोपपद्यत इति। यदा तु कारणे वर्तमानस्य प्रकृतिशब्दस्य परिग्रहस्तदायमर्थः -एङ्? कारणात्मना भवतीति। कारणं परपूर्वत्वादेः कार्यस्यैङ, तस्य य आत्मा स्वरूपं तेनैवात्मनैङ्? भवतीत्येतदुक्तं भवति -प्राक्? संहिताकार्याद्यदेङो रूपं तेनैव तदवतिष्ठत इति। अनन्तरोक्तमेवार्थद्वयं स्पष्टीकर्त्तुमाह -न `विकारमापद्यते` इति। एवं हि स्वभावेन भवति, यदि स्वभावादन्दथालक्षणा विकारावस्था नोत्पद्येत। तदैवं कारणात्मनापि भवति, यदि विकारभावं नोत्पद्यते। यदि कार्यात्मना न विपरिणमतीत्यर्थः। `नो चेन्निमित्तकायणौ` इति। निमित्तं परत्वविशिष्टोऽकारः। तत्र हि परतः प्रकृतिभावो विधीयते। कार्यी त्वेङ्, तस्य हि कार्यं प्रकृतिभावोऽस्ति। `ते अग्रे अश्चमायुञ्जन्` इति। अस्य ऋक्पादस्य मध्ये य एङ् एकारस्तेशब्देऽग्रेशब्दे च तसय तदनन्तरे प्रकृतिभावत्? <<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपं न भवति, अयादेशश्च। `उपप्रयन्तो अध्वरम्` इति। अत्रापि प्रयन्त इति शब्दौकारस्यैङोऽध्वरशब्दस्यानन्तरे प्रकृतभावात्? पूर्वरूपं न भवति, अवादेशश्च। एवं `सुजाते अआ` इत्यादावपि प्रकृतिभावात्? पूर्वरूपा दकार्यस्याभावो वेदितव्यः। `एतेऽर्चयन्ति` इति। अत्रेते शब्दे य एङ् एकारः स पदान्ते वर्तते। तदनन्तरस्त्वकारः पादादौ, न पादमध्ये। `तेऽवदन्` इति। अत्र तेशब्दे य एङ् तस्य प्रकृतिभावो न भवति; तदनन्तरस्यातो वकारपरत्वात्। `अवदन्` इति। वदतेर्लङि प्रथमपुरुषबहुवचनान्तम्। `तेऽयजान्` इति। अत्रापि तेशब्दे य एङ् तस्य प्रकृतिभावो न भवति। तदनन्तरस्यातो यकारपरत्वात्। `अन्वग्नि` इत्यादि। सर्वमत्रास्ति, न त्वनुशब्द उकार एङ् भवति, नास्य प्रकृतिभावः। `केचित्` इत्यादि। यदि तर्हि `नान्तःपादमव्यपरे` इति सूत्रं पठन्ति, एवं सति परपूर्वस्यैव प्रतिषेधः कृतः स्यात्, नायवोः; तथा हि -परपूर्वत्वमेङोऽनन्तरविहितम्? इत्यत्? आह -`ते संहितायाम्` इत्यादि। यदि परपूर्वत्वं संहिताकार्यं विशेषणमपेक्ष्यायं प्रतिषेधः क्रियते, तदायं दोषः स्यात्। यदा तु संहिताधिकारविहितं कार्यंमात्रमपेक्ष्य प्रतिषेधो विधीयते, तदा सर्वस्यैव संहिताधिकारविहितस्य कार्यस्य प्रतिषेधो युक्त इति तेषां भावः॥", "61116": "`नो अव्यात्` इति। अस्मादो द्वितीयबहुवचनान्तस्य <<बहुवचनस्य वस्नसौ>> [[8.1.21]] इति नसि रुत्वे <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्त्वे `आद्? गुणः` [[6.1.84]] इति गुणे कृते `नो` इति भवति। `अव रक्षणे` (धा।प।600) इत्यस्मादाशिषि लिङि यासुटि तिपि `इतश्च` [[3.4.97]] इतीकारलोपे <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकरलोपे च कृते `अव्यात्` इति भवति। `अवद्यात` इति। अवद्यशब्दोऽयं पञ्चम्येकवचनान्तः। `अवक्रमुः` इति। अवपूर्वात्? क्रमेर्लिटउसि रूपमेतत्। अन्ये तु लुङि वर्णयन्ति - <<बहुलं छन्दसि>> [[7.4.78]] इति च्लेः श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, जुस्भावश्छान्दसः। `अवन्तु` इति। अवतेर्लोट्, झेरन्तादेशः, `एरुः` [[3.4.76]] इत्युत्त्वम्। `अवस्यवः` इति। अवतेः `सर्वधातभ्योऽसुन्` (द।उ।9।49) इति असुन् - अवस्? इति, ततः <<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्, तदन्तात्? <<क्याच्छन्दसि>> [[3.2.170]] इत्युप्रत्ययः, ततो जस्, `जसि च` [[7.3.109]] इति गुणः - ओकारः, <<एचोऽयवायावः>> [[6.1.78]] इत्यवादेशः॥", "61117": "`उरो अन्तरिक्षम्` इति। उरःशब्दस्योत्त्वम्, `आद्? गुणः` इति गुणः। `ओकारान्तमुरोशब्दं [`उकारान्तमुरुशब्द` -काशिका] सम्बुद्ध्यन्तमधीयते` इति। उरुशब्दस्य <<सम्बुद्धौ च>> [[7.3.106]] इति गुणे कृते `उरो` इति भवति॥", "61118": "आपो -इत्येवमादीनि सर्वाण्येतान्यनुकरणान्यविभक्तिकानि; `सुपां सुलुक्` [[7.1.39]] इत्यादिना तेभ्य उत्पन्नाया विभक्तेर्लुप्तत्वात्। अत्रापो इति प्रथमाबहुवचनान्तस्यानुकारणम्। `जुषाणो` इति। प्रथमैक वचनान्तस्य। `वृष्णो` इति। षष्ठएकवचनान्तस्य। `वषिष्ठे` इति। सप्तम्येकवचनान्तस्य। `अम्ब, अम्बाले` इत्येतयोर्विशेषणम्। अम्बिकेशब्दात्? पूर्वे अम्बिकेपूर्वे, अस्मादेव निपातनात् समासः। ननु च `अम्बे` इति सम्बुद्ध्यन्तस्यानुकरणम्? ततश्च <<अम्बाऽर्थनद्योर्ह्रस्वः>> [[7.3.107]] इति ह्रस्वेनैत्त्वापवादेन भवितव्यम्, तत्? कथमम्बे इत्यत्रैत्त्वम्? इत्यत आह -`अस्मादेव` इत्यादि। अम्बाले अम्बिके -इत्येतयोस्तु युक्तमेवैत्त्वम्। वक्ष्यति हि ह्रस्वविधाने -`अम्बार्थं द्व्यक्षरं यदि` (वा। 7.3.107) इति॥", "61119": "`अङ्ग इत्यादौ च` इति। इतिकरणेनान्तरोक्तोऽङ्गशब्दः प्रत्यवमुश्यते। `तदादौ चाकारे` इति। समानाधिकरणे सप्तम्यौ। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिकरणस्यार्थमाचष्टे -तदादाविति। अङ्गशब्दादावित्यर्थः। `यः पूर्वः` इति। `एङ्` इति सम्बध्यते। चकारोऽङ्गशब्दस्यादौ योऽकारसतत्राप परतः पूर्वस्यैङः प्रकृतिभावो यथा स्यादिति समुच्चयार्थः क्रियते। तत्र ह्रसत्यङ्गशब्दाकारे परतोऽङ्गशब्दस्य य एङ् तस्यैव प्रकृतिभावः स्यात्। यस्त्वङ्गशब्दे परतोऽनङ्गशब्दस्यैङ् तत्र न स्यात्। `प्राणो अङ्गे` इत्यादि। अत्र प्राणो-शब्दे य एङ् अङ्गशब्दादावकारे प्रकृत्या भवति। `अङ्ग अङ्गे अदीध्यत्` इति। अत्राङ्गशब्दे य एङ् तस्याङ्गशब्दादावकारेऽदीध्यच्छब्दादौ प्रकृतिभावो भवति॥", "61120": "`कुधपरे` इति। अकारविशेषममेतत्। कुधौ परौ यस्मात्? स तथोक्तः। धकारेऽकार उच्चारणार्थः। `अयं सो अग्निः` इति। अग्निशब्दः `अङ्गेर्निर्नलोपश्च` [अङ्गेर्नलोपश्च - द।उ।] (द।उ।1।20) इति निप्रत्ययान्तो व्युत्पादित इति प्रत्ययस्वरेणान्तोदात्तः, शषोऽनुदात्त इत्यकारस्यानुदात्तत्वम्। `अयं सो अध्वरः` इति। अध्वरशब्दोऽपि प्रातिपदिकस्वरेणान्तोदात्तः, तदादिरप्यकारोऽनुदात्त एव। `आद्युदात्तो निपात्यते` इति। ऋडज्त्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुकरशुक्लगौरवनरेरामलाः (द।उ।8।46) इत्यनेन। `सोऽयम्` इति। अयंशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, तस्यादिरनुदात्तः॥", "61121": "`यद्रुद्रेभ्योऽवपथाः` इति। अटः स्वरेणाद्युवात्तोऽयमवपथाःशब्दः॥", "61122": "", "61123": "`अतीति निवृत्तम्` इति। यद्यपीत्यनुवर्तेत तदा गवौदनादौ न स्यात्, तस्मादतीत्येतदस्वरितत्वा न्निवृतम्। हल्यपि तर्हि प्राप्नोति? इत्यत आह -`अचीत्येतत्पुनरनुवर्तते` इति। <<इको यणचि>> [[6.1.77]] इत्यतः; सा पुनस्तस्यानुवृत्तिर्मण्डूकपलुतिन्यायेन वेदितव्या। न हि <<सम्प्रसारणाच्च>> [[6.1.108]] इत्यतः परेण ये योगा अस्माद्योगात्? पूर्वं तेषु `अति` इत्यस्यानुवृत्तिरस्ति। तथा च पूर्वमुक्तम् -`अचीति चायमधिकारः <<सम्प्रसारणाच्च>> [[6.1.108]] इति यावत` इति। `गवाग्रहम्, गवाजिनम्` इति। बहुव्रीहिः, तत्पुरुषो वा। `गवोष्ट्रम्` इति द्वन्द्वः। `आद्युदात्तश्चायम्` इत्यादि। इह गावोऽग्रमस्येति बहुव्रीहौ कृते पूर्वपदप्रकृतिस्वरत्वं च च प्राप्नोति, अवङादेशश्च, तत्रान्तरङ्गत्वादवङ्भवति, स च भवन्? प्रातिपदेकस्वरेणान्तोदात्तस्य गोशब्दस्य स्थान आन्तरयतोऽन्तोदात्त एव स्यात्। तस्मिन्? सति पश्चात्? प्रकृतिस्वरे कृतेऽन्तोदात्तत्वं पूर्वपदस्यापद्येत, आद्युदात्तश्चेष्यते, तस्मादाद्युदात्तोऽयमादेशो निपात्यते। यद्येवम्, तत्पुरुषादावपि स एव निपातनस्वरः प्राप्नोति? इत्यत आह -`अन्यत्र तु` इत्यादि। अन्यत्रेति -तत्पुरुषे, द्वन्द्वे च। गोशब्दस्यायमादेश इति तत्सम्बन्ध्येव शब्दान्तरं निपातनस्वरेण बाध्यते, न समासस्वरः। तस्माद्वहुव्रीहेरन्यत्र तत्पुरषादौ समासान्तोदात्तत्वेन निपातनस्वरो बाध्यते, `स्फोटायनग्रहणं पूजार्थम्` इति। किं पुनः कारणं विकल्पार्थं न भवति? इत्याह -विभाषेत्येव हि वर्तते` इति। किमर्थं पुनरवङ् विधीयते? अगेव न विधीयेत, तत्रापि ह्रवादेशेन सिध्यत्येव? सिध्यति; <<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपत्वं प्राप्नोति। ननु चाकि विहिते सति तदन्तो न भवति? आगमस्य तद्ग्रहणेन ग्रहणात्।न ह्रोकारस्य प्राक्? प्रवृत्ता पदान्तता नास्तीति शक्यं वक्तुम्॥", "61124": "`इन्द्रशब्दस्थे` इति। य इन्द्रशब्दे तिष्ठति स इन्दरशब्दस्यः, स पुनर्य इन्द्रशब्दस्थावयवः स वेदितव्यः। पूर्वेण विकल्पः सिद्ध एव, तत्रारम्भसामव्र्यादेव नित्ये विधावस्मल्लब्धे नित्यग्रहणमुत्तरार्थम्॥", "61125": "`देवदत्ता 3 अत्र त्वसि` इति। <<दूराद्धूते च>> [[8.2.84]] इति प्लुतः। ननु च <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यसिद्धः प्लुतः, तदसतसतसय कथं शक्यते परकृतिभावो विधातुम्? इत्यत आह -`आश्रयात्` इत्यादि। आश्रयणमाश्रयः। तदेतत्? प्रकृतिभावकार्यं विधातुं प्लुतस्य कार्यिण आश्रयणम्। अस्मादेवात्र प्रकृतिभावे कर्तव्ये सिद्धः प्लुतः, अन्यथा तस्य कार्यित्वेनाश्रयणमनर्थकं स्यात्। `अग्नी` इत्यादि। `ईदूदेद्द्विवचनम्` [[1.1.11]] इत्यादिना अत्र प्रगृह्रसंज्ञा। अथाचीति किमर्थम्, यावताऽचीत्यनुवर्तत एव? इत्यत आह -`अचीत्यनुवर्तमाने` इत्यादि। आदेशस्य निमित्तं योऽच्? तस्य परकृतिभावनिमित्तत्वेन परिग्रहो यथा स्यादित्येवमर्थं पुनरज्ग्रहणम्। आदेशस्त्वत्र यत्राचि प्रकृतिभावः -जानु+उ अस्य रुजति जानू अत्य रुजतीति। न हि ज नुशब्दे य उकारो यश्च तदनन्तरः प्रगृह्रसंज्ञकस्तयोः सवर्णदीर्घत्वं प्रति प्रगृह्रसंज्ञकादुकारात परस्याकारस्य निमित्तभावः। इह च न भवति -जान्वस्य रुजतीति। तेन पूर्वपरयोरुकारयोर्य एकादेशः, स यद्यपि <<अन्तादिवच्च>> [[6.1.85]] इत्यादिवद्भावात्? प्रगृह्रसंज्ञकोकारग्रहणेन गृह्रते, तथापि यणादेशोऽकारे परतो भवत्येव। न ह्यत्राप्यकार एकादेशनिमित्तम्। यदि तु विशिष्टाच्परिग्रहार्थं पुनरज्ग्रहणं न क्रियते, तदाऽञ्मात्रे प्रकृतिभावो विधीयमान इहापि स्यादेव। प्रगृह्रसंज्ञा पुनरकारपूरवस्योकारस्य <<निपात एकाजनाङ्>> [[1.1.14]] इत्यनेन। `नित्यगरहणम्` इत्यादि। यदि नित्यग्रहणमिहानुवर्तते, तदाग्नी+इतीत्यादौ अस्य विधेः कृतार्थत्वात्त वायू+अत्रेत्यादौ परत्वाच्छाकलौ विधिः प्रसज्येत। तस्मात्? प्रकृतिभाव एव यथा स्यात् -इत्येवमर्थं नित्यग्रहणमिहानुवर्तते॥", "61126": "`आङः` इति। ङिद्विशिष्टस्याकरस्योपादानम्। ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः` -तस्यैव ग्रहणं यथा स्यात्, वाक्यस्मरणयोर्यः तस्य मा भूदित्येवमर्थम्। असति प्रकृतिभावे विहितेऽप्याङोऽनुनासिकत्वे स्यादेव स्वरसग्धिः। अनुनासिकविधानं त्वादेशस्य सानुनासिकत्वार्थं स्यादित्येतन्मनसि कृत्वाऽऽह -`न च प्रकृत्या भवति` इति। `आतरत्` इति। तरतेराङपूर्वाल्लङ्, अडागमः, अटा सह सवर्णदीर्घत्वम्॥", "61127": "`ह्रस्वश्च तस्येकः स्थाने भवति` इति। यद्येवम्, `प्रकृत्या` [[6.1.111]] इत्यस्यानुकर्षणार्थश्चकारो न कर्तव्यः, ह्रस्वविधानसामर्थ्यादेव हि स्वरसन्धिर्न भविष्यति? अत्रैतत्? स्यात् -दीर्घाणामेव ह्रस्वविधानसामर्थ्यात्? स्वरसन्धिर्न स्यात्। ह्रस्वानां तु स्यादेव, न हि तेषां ह्रस्वा भवन्ति। प्रयोजनाभावादित्येतच्च नास्ति; ह्रस्वानामपि हि स्वरसन्धिबाधनार्थं ह्रस्वो भवत्येव। कृतकारि खल्विदं शास्त्रम्, पर्जन्यवत्; नाकृतकारि दहनवत्। एवं तर्हि चकारेणैतदाख्यायते -क्वचिद्? ईषा+अक्षादौ प्रकृतिभाव एव भवति, न ह्रस्वत्वमिति। तेन यदुक्तामीषा अक्षादौ प्रकृतभावमात्रमिति, तन्न वक्तव्यं भवति। यणादेशेन सह विकल्पार्थं शाकल्यग्रहणं कस्मान्न भवति? इत्याह -`आरम्भसामर्थ्यादेव हि` इत्यादि। यणादेशस्य ह्रसवर्ण एवाज्विषयः; सवर्णे तु <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घविधानात्। अयमपि च शाकलो ह्रस्वो विधीयते। अत एवास्मिन्? विषय आरम्भसामर्थ्यादेवास्य विधेर्यणादेशेन सह विकल्पः सिद्ध इति न तदर्थमाचार्यग्रहणम्। `सिन्नित्यसमासयोः` इत्यादि। एकापि सप्तमी द्विधा भिद्यते; अपेक्षाभेदात्। सिदपेक्षया परसप्तमी, नित्ससमासापेक्षया विषयसप्तमी। सिच्च नित्यसमासश्चेति द्वन्द्वः -स इद्यस्य स सित्। नित्याधिकारे विहितः समासो नित्यसमासः। शाकल्यस्यायं विधिः शाकलः -<<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यण्? <<यस्येति च>> [[6.4.148]] इत्यकारलोपः, <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति यकारलोपः। शाकलस्य प्रतिषेधः शाकलप्रतिषेधः। `वक्तव्य` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्, <<सर्वत्र विभाषा गोः>> [[6.1.122]] इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन सिन्नित्यसमासयोः शाकलप्रतिषेधो भविष्यति। `ऋत्वियः` इति। ऋतुः प्राप्तोऽस्येति `ऋतोरण्` [[5.1.104]] <<छन्दसि घस्>> [[5.1.106]] इति घस्। `व्याकरणम्` इति। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। अत्र हि <<नित्यं क्रीडाजीविकयोः>> [[2.2.17]] इत्यतो नित्यग्रहणानुवृत्तेर्नितयसमासोऽयम्। `कुमार्यर्थम` इति। कुमार्या इदं कुमार्यर्थमिति। `अर्थशब्देन सह` समासवचनं सर्वलिङ्गता च` (वा।78) इत्ययमपि नित्यसमास एव। सर्वत्र शाकलविधौ प्रतिषिद्धे यणादेशो भवत्येव॥", "61128": "`सवर्णार्थमनिगर्थञ्च वचनम्` इति। अन्यत्र पूर्वेणैव सिद्धत्वात्। यदि सवर्णार्थं वचनम्, कथं तर्हि खट्वश्र्य इत्युदाहरणम्, न ह्यत्र सवर्णोऽच्परः नैतदस्ति; `अनिगर्थञ्च` इति यदुक्तं तस्योदाहरणम्। अत एवाक इत्युपात्तं सूत्रे; अन्यथेक इत्यनुवर्तनीयं स्यात्। सत्यस्मिन्? योगे सवर्णार्थेऽप्यकोऽनेनैव युक्तो ह्रस्वप्रकृतिभावो परत्वादत्यस्योदाहरणस्योपन्यासः॥", "61129": "ऋषौ=वेदे भव आर्षः, तस्मादन्यो लौकिकोऽनार्षः। `समुदायात्` इति। वाक्यादित्यर्थः। कुत एतत? पदरहितस्य वक्यस्याप्रयोगात्। वाक्यस्य च समुदयात्मकत्वात्। `अवच्छिद्य` इति। पृथक्? कृत्वेत्यर्थः। `स्वरूपे व्यवस्थाप्यते` [स्वरूपेऽवस्थाप्यते - काशिका] इति। शब्दपदात्मकतायां व्यवस्थाप्यत इत्यर्थः। `अप्लुतवत्` इति। अप्लुतेन तुल्यं वर्तत इत्यप्लुतवत्। येन साधम्र्येणाप्लुतवद्भवति तद्दर्शयितुमाह - `प्लुतकार्यम्` इत्यादि। तदनेन प्लुतकार्यस्यार्थं प्रतिषेधः, न तु प्लुतस्येति दर्शितं भवति। `सुश्लोका 3` इति। <<दूराद्धूते च>> [[8.2.84]] इति प्लुतः। `सुश्लोका` इति। प्लुतकार्यस्याकरणादेकादेशो भवत्येव। ननु चैकादेशेनापि न भवितव्यम्, तस्यापि प्लुतकार्यत्वात्? नैतदस्ति; एवं हि वचनस्य वैयथ्र्यं स्यात्। तस्मात्? प्लुतसंशब्दनेनैव प्लुतस्य यत्कार्यं विहितं तस्यैव प्रतिषेधः, न सर्वस्य प्लृतकार्यस्य। न चैकादेश एवं विहितः। `वत्करणं किम्` इति। कार्यमात्रस्य प्रतिषेधे सति प्लुतस्य धवणं यथा स्यादित्येवमर्थं वत्करणं स्यात्। सत्यपि च कार्यमात्रस्य प्रकृतिभावस्य प्रतिषेधेनैव प्लुतश्रुत्या भवितव्यम्; एकदेशेन निवर्त्तितत्वात्। तत्? कस्मात्? प्लुतस्यैव प्रतिषेधो न क्रियत इत्यभिप्रायः। प्लुतप्रतिषेधे वक्ष्यमाणं दोषं चेतसि कृत्वाऽऽह - `प्लुत इत्युच्यमाने` इत्यादि। `तत्र को दोषः` इति। यो वत्करणे सति न भवतीति भावः। `प्रगृह्राश्रये` इत्यादि। प्रगृह्र आश्रयो यस्य तस्मिन्? प्रतिभावे सति प्रगृह्रसंज्ञको यः प्लुतस्तस्य श्रवणं न स्यात्, यदि प्लुत एव प्रतिषिध्येत। वत्करणे तु सति प्लुतकार्यस्यायं प्रतिषेधो भवति न प्लुतस्यैव। तत्र प्लुताश्रये प्रकृतिभावे प्रतिषिद्धेऽपि प्रगृह्राश्रयस्याप्रतिषिद्धत्वादसत्येकादेश एव दोषो न भवति। `अग्नी इति`। `इदूदेद्द्विवचनम्` [[1.1.11]] इत्यादिना प्रगृहयसंज्ञा, `गुरोरनृत` [[8.2.86]] इत्यादिना प्लुतः॥", "61130": "`अचि परतः` इति। एतेन `उपस्थिते` इत्येतन्निवृत्तम्; अस्वरितत्वादिति सूचयति। `अस्तु ही 3` इति। `असु क्षेपणे`, (धातुपाठः-1209) लोट्, सिप्। `सेह्र्रपिच्च` [[3.4.87]] इति सेहिः, व्यत्यनेन श्लुः। `क्षियाशीः-प्रैषेषु तिङाकाङ्क्षम्` [[8.2.104]] इति प्लुतः। `तदुपस्थिते निवृत्त्यर्थम्` इति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यं प्रापतत्वात्। `अनुयस्थिते प्राप्त्यर्थम्` इति। तत्र केनचिदप्राप्तत्वात्। `ईकारात्` इत्यादि। कथं पुनरिकारादन्यत्रापीष्यमाणोऽप्येषोऽप्लुतवदभावो लभ्यते? <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इत्यतोऽनुवृत्तस्य चकारस्यानुक्तसमुच्चयार्थत्वात्॥", "61131": "`सानुबन्धकत्वात्` इति। कस्य धातोरनन्तरम्? प्रकृतत्वात्? तस्यैव। दीव्यतिर्घातुः सानुबन्धः, प्रतिपदिकं तु दिवित्येतन्निरनुबन्धकम्, निरनुबन्धकस्य च सूत्र उपादानम्; तस्मात्? `निरनुबन्धकस्य ग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति प्रातिपदिकस्येदं ग्रहणम्, न धातोरिति। `द्युकामः` इति। दिविकामोऽस्येति बहुव्रीहिः, दिवं कामयत इति वा। `शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः` (वा।229) इति णप्रत्ययः। `द्युमान` इति। द्यौरस्यास्तीति <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] । `विमलद्यु दिनम्` इति। विमला द्यौरस्मिन्निति बहुव्रीहिः। `अक्षद्यूभ्याम्, अक्षद्यूभिः` इति। अक्षशब्द उपपदे दीव्यतेर्धातोः क्विप्, `च्छ्षोः शूडनुनासिके च` [[6.4.19]] इत्यूठ्। अथ तपकरणं किमर्थम्, यावता यद्यपि `ऋत उत्` [[6.1.111]] इत्यत्र तपकरणेन `भाव्यमानोऽप्युकारः सवर्णान्? गृह्लाति` (चां।प।पा।44) इति ज्ञापितम्, तथाप्यत्रान्तर्यतोऽद्र्धमात्राकालस्य व्यजञ्जनस्य मात्रिक एव भविष्यति; न दीर्घः? इत्यत आह -`तपकरणम्` इत्यादि। यद्यप्यनेन दीर्गो न प्राप्नोति, लक्षणान्तरेण तु द्युभ्यां द्युभिः -इत्यत्रोठ्? प्राप्नोति, अतः स मा भूदित्येवमर्थं तपरकरणम्। स्यादेतत्। ननु चोठ्प्राप्तिरेव नास्ति, किं तन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह -`द्युभ्याम्, द्युभिः` इति। `अत्र हि` इत्यादि। उत्त्वस्यावकाशो यत्र झलादिः क्विप्परो न विद्यते -विमलद्यु दिनमिति, ऊठोऽवकाशः -अक्षद्यूभ्यामिति; द्युभ्यामित्यादावुभयप्रसङ्गे परत्वादूठ् प्राप्नोति, तपरकरणादुत्त्वमेव भवति। यदि तर्हि प्राप्तस्योठो निवृत्त्ये तपरकरणं क्रियते, एवं सति `चछ्वोः शूडनुनासिके च` [[6.4.19]] इत्यतर कथं `द्युभ्याम्? द्युभिः` इति परेण चोदिते यद्वक्ष्यति -`ऊठि कृते `दिव उत्` इति परत्वान्मात्राकालो भविष्यति` इति, तद्विरुध्यते; तस्योठि कृतेऽभिनिवृत्ते तस्य स्थाने मात्राकाल उकारो भविष्यतीत्ययमर्थः? नास्ति विरोधः; `ऊठि कृते` इत्यस्य हि ग्रन्थस्य पूर्वेण चोद्यग्रन्थेन सह सम्बन्धः, नेतरेण परिहारग्रन्थेन। तत्र `केचिदत्र क्ङितीति नानुवर्तयन्ति` इत्यस्मिन्? दर्शनान्तरे उपन्यस्ते `कथं द्युभ्यां द्युभिरित्यूठि कृते` इति देश्यम्। तत्रायं चोदयितुरभिप्रायः -यदि क्ङितीति नानुवर्तेत, तदा द्युभ्यां द्युभिरितयतराप्यूडेव कर्तवयः, ततश्चोठि कृते कथं द्युभ्यां द्युभिरिति सिध्यति, यावता द्यूभ्यां द्यूभिरिति भवितव्यमित्यस्य देश्यस्य `दिव उत्` इति तपरत्वान्मात्राकालो भविष्यतीत्येष परिहारः। अत्राप्ययं परिहर्तरभिप्रायः -तपरकरणस्यैतदेव प्रयोजनम् -ऊठ्? मा भूदति; अन्यथा तदनर्थकं स्यात्, तस्मादुत्त्वमेव कर्तव्यम्? न तूड्भाव इति। ये तु `क्ङिति` इत्यनुवर्तयन्ति, तेषां तपरकरणं विस्पष्टार्थम्॥", "61132": "", "61133": "", "61134": "", "61135": "", "61136": "", "61137": "`सम्पूर्वस्य क्वचिदभूषणेऽपीष्यते` इति। कथं पुनरिष्यमाणो लभ्यते? <<संस्कृतं भक्षाः>> [[4.2.16]] इत्याचार्यप्रवृत्तेलिङ्गात्॥", "61138": "`समवायः समुदायः` इति। समवपूर्वादिमो भावे `एरच्` [[3.3.56]] इत्यच्। समवाय इति सङ्घात्? इत्यर्थः। `समुदित इत्यर्थः` इति। भावे निष्ठा॥", "61139": "`सतः` इत्यादि। लब्धसत्ताकस्यार्थस्य पुर्वोत्पन्नोभ्यो गुणेभ्यो योऽन्यो गुणस्तद्गुणान्तरम्, तदाधीयत उत्पाद्यते येन तद्गुणान्तराधानम्। तत्पुनः किमर्थम्? इत्याह - `आधिक्याय` इत्यादि। किं तत्? इत्याह - `समीहा` इति। तदेवं विद्यमानस्य वस्तन आधिक्याय वृद्धये वृद्धस्य चैव तादवस्थ्याय तस्या वृद्धावस्थाया अपरिहाणाय गुणान्तराधानं ययाधीयते समीहयां चेष्टया स प्रतियत्न इत्युच्यते। `विकृतम्` इति। जातविक्रियमित्यर्थः। `गम्यमानार्थस्य वाक्यस्य स्वरपेण` इति। `समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते` (व्या प।सू।85) इति प्रतीयमानोऽर्थः प्रकरणादिवाक्यस्यैकदेशो वाक्यशब्देनोक्तः। गम्यमानार्थस्यापि सुखप्रतिपत्तये स्वरूपेणोपादानं वाक्याध्याहारः॥", "61140": "`लवनविषये` इत्यादि। अनेन लवनं किरतेर्नाभिधेयतया विशेषणम्, अपि तु तदर्थस्य विषयभावनेति दर्शयति। केन पुनरत्र णमुल्, यावता `आभीक्ष्ण्ये णमुल्? च` [[3.4.22]] इत्यादिना शास्त्रेण स आभीक्ष्ण्यादावप्यर्थे विधीयते। न चात्र सोऽर्तो विवक्षितः, नापि प्रतीयत इत्याह - `णमुलत्र` इत्यादि। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेव व्याख्यानम् - `कृत्यल्युटो बहुलम्? [[3.3.113]] इत्यतो बहुलवचनात्? भविष्यति॥", "61141": "`हिंसायां विषये` इति। एतेन किरतेर्नाभिधेयत्वेन हिंसा विशेषणम्। अपि तु तदर्थस्य विषयभावेनेति दर्शयति। `प्रतिस्कीर्णम्` इति। `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, रपरत्वञ्च, `रदाभ्याम्` [[8.2.42]] इत्यादिना निष्ठानत्वम्, `हलि च` [[8.2.77]] इती दीर्घत्वम्। `तथा` इत्यादिना किरतेरर्थस्य हिंसाविषयतां दर्शयति। `अनुबध्नाति` इति। अनुगच्छतीत्यर्थः॥", "61142": "`तस्मिन्? विषये` इत्यादि। अनेनाप्यालेखनं किरतेर्नाभिधेयतया विशेषणम्, अपि तु तदर्थस्य विषयभावेनेति दर्शयति। `अपस्किरते` इति। <<तुदादिभ्यः शः>> [[3.1.77]] इति शः, पूर्ववदित्वं रपत्वम्। `आलिख्य` इत्यादिना लेखनस्य किरत्यर्थस्य विषयतामुद्भावयति। आलिख्येति आकृष्येत्यर्थः। चतुष्पाच्छकुनिसाधनस्य लेखनस्य सामान्येनोपादानादिहापि प्राप्नोति -अपकिरति आऔदनपिण्डमाशित इति, अत इदमालेखनविशेषणमाह -`हर्षजीविका` इत्यादि। हर्षः=प्रमोदः। जीविका=प्राणधारणोपायः। कुलायः=आश्रमः। किं पुनः कारणं हर्षादष्वात्मनेपदं भवति, न त्विह प्रत्युदाहरणे? इत्याह -`हर्षजीविकाकुलायकरणेष्वेव` इत्यादि।", "61143": "ननु च सूत्रे नपुंसकलिङ्गेन निर्देशान्नपुंसकलिङ्गतायां फलजातावेव भवितव्यम्, नान्यलिङ्गतायाम्, औषधजातौ बहुवचन एव भवितव्यम्, नान्यत्र, बहुवचनेन निर्देशात्; तत्? कथं कुस्तुम्बुवरित्यत्र पुल्लिङ्गतयामेकवचने च भवति? इत्यत आह -`सूत्रनिर्देशे` इत्यादि। नपुंसकग्रहणमुपलक्षणमात्रम्। बहुवचनमपि ह्रतन्त्रमेव सूत्रे। तथा चोक्तम् -`सूत्रे [सूत्रनिर्देशे नपुंसकलिङ्गमविवक्षितम् -काशिका। पदमंजरी च] लिङ्गवचनमतन्त्रम्? `तस्याविवक्षितत्वात्` [नास्ति -काशिका] इति॥", "61144": "`अपरस्पराः` इति। अपरे च परे चेति द्वन्द्वः। सन्ततशब्दाद्भावप्रत्यय उत्पन्ने सान्तत्यमिति भवितव्यमित्यभिप्रायेणाय -`किमिदम्` इत्यादि। सततशब्दादेवायं भावप्रत्य उत्पन्न इति दर्शयन्नाह -`सततस्य भावः` इत्यादि। `कथं सततम्` इति। एवं मन्यते -समो मकारलोपस्य लक्षणं तावदिह शास्त्रे नास्ति। अथ सातत्य इत्येतदेव निपातनम्, ततशब्दे परतः समो मकारस्य लोपो भविष्यतीत्यस्यार्थस्य ज्ञापनं कल्प्येत, एवं सति सन्ततमिति न सिध्यति? इत्यत आह -`समस्तते विकल्पेन` इत्यादि। अयमभिप्रायः -सातत्यशब्दं पूर्वाचार्यलक्षणप्रसिद्धमुच्चारयता पूर्वाचार्यलक्षणमप्याश्रितम्। अतस्तेन समो मकारस्यात्र लोपो विधीयते। एतञ्च कृत्वाऽवश्यम्प्रभृतीनामपि कृत्यादिषु लोपः सिद्धो भवति। अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति -`लुम्पेत्` इत्यादि। अन्त्यमिति शेषः। अवश्यंशब्दस्य कृत्यप्रत्ययान्ते परतो लुम्पेत्? अन्त्यलोपमस्य कुर्यादित्यर्थः। अवश्यकर्तव्यम्। तुमुन्प्रत्ययान्तस्याप्यान्त्यं लुम्पेत्, काममनसोश्च शब्दयोः परतः -कर्त्तुं कामोऽस्येति कर्त्तुकामः, हर्त्तु मनोऽस्येति हर्त्तुमनाः। सम्शब्दस्य चान्त्यं लुम्पेद्विकल्पेन हिततयोः शब्दयोः परतः -सहितम्, सततम्, सन्ततम्। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। मांसशब्दस्यान्त्यं लुम्पेत्, क्व? पचि। `डुपचष्? पाके` (धातुपाठः-996) इत्येतस्मिन्? धातौ। किं विशिष्टे? `युङ्घञोः` इति। ल्युटि घञि च प्रत्यये परतो यः पचिस्तस्मिन्नित्यर्थः। अत्रापि वाग्रहणं सम्बध्यते। मांस्पचनम्, मांसपचनम्। मांस्पाकः, मांसपाकः। `कृद्योगा च षष्ठी समस्यते` (वा।86) इति समासः। समासेऽयं लोपः पूर्वाचार्याणामभिप्रायः, संहितायां च। तेन वाक्ये विच्छिद्यपाठे न भवति॥", "61145": "`तस्य च षत्वम्` इति। अनादेशप्रत्ययसकारत्वात्? सुटः षत्वं न प्राप्नोतीत्यतस्तदपि निपात्यते। `गावः पद्यन्ते` इत्यादिना देशस्य सेवितत्वं दर्शयति। `असेविते` इत्यादि। ननु च गोष्पदशब्दः सूत्र उपात्तः, तत्? कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्यियते? इत्याह -`असेविते` इत्यादि। ननु च गोष्पदशब्दः सूत्र उपातः, तत्? कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्यियते? इत्याह -`असेविते` इत्यादि। क्रियते चेदमसेवितग्रहणम्, न च तत्र गोष्पदशब्दः सम्भवति; तस्मादसेवितेऽगोष्पदार्थं निपातनं विज्ञायते। `यद्येवम्` इति। यद्यसेवितेऽगोष्पदार्थं निपातनमित्यर्थः। `नार्थ एतेन` इति। असेवितग्रहणेन। कथं तेन विना सिध्यति? इत्याह -`गोष्पदप्रतिषेधात्`त्यादि। `सत्यमेवैतत्` इति। गोष्पदपरतिषेधादित्यादि यदुक्तं तस्य सत्यतामाह, न तु `नार्थं एतेन` इत्यस्यार्थः। यदि तर्हि सत्यमेवैतत्` तत्? किमर्थं सेवितग्रहणमिह क्रियते? इत्याह -`यत्र तु` इत्यादि। नञ्समासेऽगोष्पद इत्येष तत्पुरुषः स्वभावादुत्तरपदर्थसदृशमर्थमाचष्टे` अब्राआहृणवत्। ततश्च न गोष्पदमगोष्पदमिति तत्पुरुषे कृते यत्र सेवितसय सेवनस्य प्रसङ्गोऽस्ति तत्रैवागोष्पदमित्येतत्? तथापि भवति` इति। अपिशब्दो न केवलं यत्र सेवतप्रसङ्गोऽस्ति तत्रैवागोष्पदमित्यमुमर्थं द्योतयति। कस्मात्? पुनरत्रासेवितग्रहणात्। तत्राऽपि भवतीत्यत आह -`यानि हि` इति। `एवम्` इति। असेवितग्रहणार्थकः प्रकारः प्रत्यवमृश्यते। असेवितग्रहणे हि सति मा भूत्? तस्य वैयथ्र्यमित बहुव्रीहिरयं भावसाधनेनासेवितशब्देन विज्ञास्यते। अविद्यमानं सेवितमस्मिन्निति बहुव्रीहिश्चात्यन्ताभावेऽपि भवतीति येषु गवामत्यन्तासम्भवस्तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति। `गोष्पदपूरम्` इति। <<वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्>> [[3.4.32]] इति णमुल्। ननु च गोष्पदमिति षष्ठीसमासोऽयम्, तस्य च गोसम्बन्धि पदमर्थः, न तु प्रमाणम्, तत्? कथं गोष्पदमात्रं क्षेत्रमित्यादि उदाहरणं प्रमाणे युज्यतदे? इत्यत आह -`नात्र` इत्यादि। न ह्यत्र स्वार्थप्रतिपादनार्थमेव गोष्पदमित्युपादीयते। किं तर्हि? क्षेत्रादेरियत्तां परिच्छेत्तुम्। तस्मात्? क्षेत्रादेरियत्ता तेन परिच्छिद्यते= प्रमीयत इति भवति प्रमाणम्। न चात्र प्रमाणशब्देनायाम उच्यते, किं तर्हि? परिच्छेदमात्रम्। कुत एतत्? निपातनसामर्थ्यात्। निपातनं हि वस्त्वप्रसिद्धमप्युपादत्ते॥", "61146": "`आत्मयापनाय` इति। आत्मयापनम्=प्राणधारणम्। तदर्थं यत्? स्थापनं तत्? प्रतिष्ठेत्युच्यते। `आसपदम्` इति। आङः परस्य पदस्य सुट्? निपात्यते। `आपदम्` इति। <<आङ् मर्यादावचने>> [[1.4.89]] इत्याङः कर्मप्रवचनीयत्वम्, तद्योगे `पञ्चम्यपाङ्? परिभिः` [[2.3.10]] इति पञ्चमी, तदन्तेन <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इत्यव्ययीभावसमासः॥", "61147": "यद्यनित्येऽशाआतिक आश्चर्यमिति निपात्यते, ततो, घटादिष्वपि स्यादित्येतं दोषं परिजिहीर्षुराह -`अनित्यतया` इत्यादि। अद्भुतम्=चित्रमित्युच्यते। यल्लोकेऽद्भुतं तच्चित्रम्, तस्य भावोऽद्भुतत्वम्। तस्य चान्यत्राभावादनित्यता विषयभूता, न हि तत्र ततोऽन्यत्र सम्भवति। तस्मात्? तया विषयभूतयाऽद्भुतत्वमुपलक्ष्यते। `आशस्चर्यं यदि स भुञ्जीत` इति। `अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि` [[3.3.145]] इत्यनवकॢप्तावसम्भावनायां लिङ्। भोजनं कस्यचिद्विशिष्टकालादावदृष्टपूर्वम्। अतस्तत्र भवत्? तदद्भुतं भवति॥", "61148": "", "61149": "`रथावयवः` इति। अनेनादिशब्दस्थावयववचनमाचष्टे॥", "61150": "ननु च `विष्किरः शकुनौ वा` इत्येतावतैव सुङ्विक्लपः सिद्धः, तत्र किमर्थं विकिरग्रहणम्? इत्यत आह -`शकुनावेव विकिरशब्दस्य प्रयोगो यथा स्यादन्यत्र मा भूदित्येवमर्थं विकिराग्रहणम्` (इति)॥", "61151": "", "61152": "", "61153": "", "61154": "", "61155": "", "61156": "", "61157": "पारस्करप्रभृतयो रूढिशब्दा यथाकथञ्चिद्वयुत्पाद्याः। नात्रावयवार्थं प्रत्यभिनिवेष्टव्यम्। पारं करोतीति परस्करः <<कृञो हेतुताच्छील्यानुलोम्येषु>> [[3.2.20]] इति टः। रयं पातीति `रथस्पा`। `आतोनुपसर्गे कः` [[3.2.3]] । कार्य करोतीति करोतेःर्डुः, कार्यस्य च किरादेशः -`किष्कुः`। किमप्यन्तर्दघातीति दधातेः पूर्ववत्? कः, किमो र्द्विर्वचनम्, पूर्वस्य च मकारस्य लोपः -`किष्किन्धा`। `तद्बृहतोः` इत्यादि। तत्, बृहत् -इत्येतयोर्यथाक्रमं करपतिशब्दयोः परतश्चोरे देवतायाञ्चाभिधेयायां सुङ्? भवति, अन्त्यस्य च तकारस्य लोपः। तत्? करोतीति `किं यत्तद्बहुषु` (वा।242) इत्यज्विधानम्, तसकरश्चौरः, तत्करोऽन्यः। बृहतां पतिर्बृहस्पतिर्देवता, बृहत्पतिरन्यः। अथ किमर्थं चौरदेवतयोरित्युपाधिरुपादीयते, यावता संज्ञाग्रहणादेव तत्परिग्रहः सिद्धः, न ह्रन्यस्य तस्करबृहसपतिशब्दौ संज्ञा? इत्यत आह -`संज्ञाग्रहणम्` इत्यादि। `प्रात्तुम्पतौ` इत्यादि। `तुप तुम्प तृप्तौ` (धातुपाठः-1309,1360) इति परतः प्रशब्दात्? परस्य सुङ्भवति गवि कर्तरि। `प्रस्तुम्पति गौः`। प्रतुम्पत्येवान्यः `यदुक्तम्` इति भाष्ये। यदि तर्हि पारस्करपरभृतिराकृतिगणः, <<प्रतिष्कशश्च कशेः>> [[6.1.152]] इत्यारभ्य पूर्वं सूत्रं न पठितव्यम्, तस्याप्यनेनैव सङ्ग्रहात्? सत्यमेतत्; प्रपञ्चार्थं तु पठितव्यम्॥", "61158": "`एकवर्जम्` इति। एकं वर्जयित्वेत्यर्थः। `द्वितीयायाञ्च` [[3.4.53]] इति णमुल्प्रत्ययः। यद्ययमधिकारार्थः स्यात्, तत्? षाष्ठिक एव स्वरः सङ्गृहीतः स्यात्। ये त्वन्ये स्वराः <<समानोदरे शयित ओ चोदात्तः>> [[4.4.108]] , <<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> [[7.1.75]] इत्येवमादयः सप्ताध्याय्याम्, ते न संगृहीता स्युः। परिभाषायां त्वस्यां तेऽपि संगृहीता भवन्ति। सा ह्रेकदेशे स्थितापि सकलं शास्त्रमभिज्वलयति, यथा वेश्म प्रदीप इवेत्यालोच्याह - `परिभाषेयम्` इति। विध्यङ्गशेषभूता चेयम्। परिभाषा हि कार्यवाक्यानां शेषभावगता। यस्य पदादयवस्य स्वरित उदात्तो वा विधीयते तत्र शेषमनुदात्तं भवति। `स्वरविधिविषया` इति। स्वरविधिर्विषयोऽस्या इति विग्रहः। `यत्रान्यः` इति। अनुदात्तापेक्षमन्यत्वम्। `तत्रानुदात्तं पदम्` इति। ननु च <<नीचैरनुदात्तः>> [[1.2.30]] इत्यनुदात्तशब्दो विशिष्टगुणेऽवसङ्गीतः, तत्राज्झललक्षणञ्च पदम्, पदशब्दस्यार्थस्तत्? कथमत्र सामानाधिकरण्यम्? नैष दोषः; अनुदात्ताच्कमनुदात्तं पदमिहाभिमतम्, तेन पद एवानुदात्तशब्दो वर्तते। कथम्? मत्वर्थीयाकारान्तत्वात्। अनुदात्ता अस्य सन्तीत्यनुदात्तम्। अर्श आदेराकृतिगणत्वादत्राच्। एकवर्जमित्युक्तम्, स त्वेको न ज्ञायते यो वर्जनीयः, तस्याभिव्यक्तये पृच्छति - `कः पुनः` इत्यादि। यस्य चोदात्तः स्वरतो वा विधीयते स एवाको वज्र्यते। यदि ह्रसावपि न वज्र्यते तस्य तत्? स्वरविधानमन्रथकं स्यात्। `गोपायति, धूपायति` इति। `गुपू रक्षणे` (धातुपाठः-395) `धीप सन्तापे` (धातुपाठः-396) `गुपूधूप` [[3.1.28]] इत्यादिनाऽऽयपरत्ययान्तस्य `सनाद्यन्ता धातवः [[3.1.32]] इति धातुसंज्ञा, `धातोः` [[6.1.156]] इति धातोश्चान्तोदात्तत्वम्, आयप्रत्ययान्तस्यान्त्ययकाराकारस्य धातुस्वरत्वम्। `धातुस्वरं श्नास्वरो बाधते` इति। सतिशिष्टस्वरत्वात्, सतिशिष्टसय वलीयस्त्वात्। तथा ह्रु कतम् - `सतिशिष्टस्वरो बलीयानिति वक्तव्यम्`। (वा।6.1.174) इति। `लुनाति, पुनाति` इति। `प्वादीनां ह्रस्वः` [[7.3.80]] इति ह्रस्वः। श्नाप्रत्ययस्य च प्रत्ययस्वरेणाद्युदात्तत्वम्। `श्नास्वरम्` इति। बाधत इति सम्बध्यते। ननु परत्वात्? तिबादिषु कृतेषु विकरणैर्भवितव्यम्, अतः सति सार्वधातुकस्वरे श्नास्वरस्य शिष्यमाणत्वात्? तस्य सतिशिष्टत्वम्; एवञ्च श्नास्वरेणैव बाधा युक्ता ततस्वरस्य? एवं मन्यते यत्? <<तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः>> [[6.1.186]] इत्यादिना तासेः परस्य लसार्वधातुकत्वं शास्ति तज्ज्ञापयति - शिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरेण बाध्यत इति। `लुनीतः, पुनीतः` इति। `ई हल्यधोः [[6.4.113]] इतीत्वम्। `तस्स्वरमाम्स्वरः` इति। बाधत इति सम्बन्धः। बाधकत्वे तस्य हेतुः सतिशिष्टत्वमेव। `लुनीतस्तराम्` इति। `तिङ्श्च` [[5.3.56]] इति तसन्तात्तरप्, तदन्तात्? `किमेतिङ्व्यय` [[5.4.11]] इत्यादिनाऽऽमुप्रत्ययः। किमर्थं पुनरयमेकवर्जपदस्वरो विधीयते? इत्याह - `आगमस्य` इत्यादि। आगमादीनां पृथक्? स्वरो मा मुदित्येवमर्थमेकं वर्जयित्वा पदानुदात्त्वं विधीयते। `आगमस्वरः प्रकृतिस्वरं वाधते` इति। सत्यस्मिन्नेकवर्जं पदं स्वरे। असति तवस्मिन्? परकृतेरागमस्य च पृथगेव स्वरः स्यात्। `चत्वारः` इति। प्रकृतिस्वरः पुनराद्युदात्तत्वम्। तथा हि `चतेरुरन` (द।उ।8।78) इत्युरन्प्रत्ययान्तश्चतुःशब्दो व्युत्पाद्यत इति स नित्स्वरेणाद्युदात्तो भवति। `अनङ्वाहः` इति। अनुडुहोऽप्येवं व्युत्पत्तिः क्रियते। `अन प्राणने` (धातुपाठः-1070) अस्मात्? `सर्वधातुभ्योऽसुन्` (द।उ।9।49) इत्यसुन्प्रत्ययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्? `उश्चानसः` (द।उ।9।49) इत्यसुन्परतययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्? `उश्चानसः` (द।उ।9।107) इत्यनस्युपपदे वहेर्धातोः क्विप्, अनश्चोकारादेशः। वहेर्यजादित्वात्? सम्प्रसारणम्, उपपदसमासः, `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्। तस्मादनुडुहोऽप्येवं व्युत्पादितस्य स्यादाद्युदात्तत्वम्। विकारः=आदेशः। `अनङ्स्वरः प्रकृते` इति। दध्यसथिशब्दावाद्युदात्तौ। तथा हि `असु क्षेपणे` (धातुपाठः-1209) `असिसञ्जिभ्यां क्थिन्` (द।उ।1।10) इति क्थिन्प्रत्ययान्तत्वान्नित्स्वरेणास्थिशब्द आद्युदात्तः। दधिशब्दोऽपि किन्प्रत्ययान्तत्वादाद्युदात्त एव। धाधातोः `आदृगमहनजनः किकिनौ लिट्? च` [[3.2.171]] इति किन्प्रत्ययः, तत्र द्विर्वचने कृत आकारलोपे च दधीति भवति। `अस्थिदधि` [[7.1.75]] इत्यादिनाऽनङि कृते तस्य यः स्वरः स च कर्तवयः, तस्याप्यसत्यस्मिन्नस्थिदधिशब्दयोरनङश्च प्रथगेवोदात्तत्वं तु स्यात्। अस्मस्तु सत्यनङ एव भवति। `प्रकृतेः` इत्यादि। `गोपायति, धूपायति` इति। अत्र प्रकृतेर्गुपेर्धूपेश्च `धातोः` [[6.1.156]] इत्यन्तोदात्त्त्वे आयप्रत्ययादेरप्याकारस्य प्रत्ययाद्युदात्तत्वम्। गोपायधूपायशब्दयोरपि <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां कृतायाम्? `धातोः` [[6.1.156]] इत्यन्तोदात्तमेव प्राप्नोति। एवं पृथक्? स्वरप्रसंगे यकाराकारस्यैव धातुस्वरो भवति, न गुपिधूप्योः, नापि प्रत्ययाकारस्य। `कर्तव्यम्` इति। धातोरन्तोदात्तत्वे प्रत्ययस्याद्युदात्तत्वे च प्राप्ते प्रत्ययाद्युदात्तत्वमेव भवति, न तु धातुस्वरः। अथानियमेनैकस्वरस्य वर्जयमानता कस्मान्न भवति, न ह्यत्र सूत्रे कश्चिद्व्यवस्थाहेतुरुपात्तः, न च विना व्यवस्थाहेतुना सा लभ्यते? इत्याह - `परनित्यान्तरङ्ग` इत्यादि। यत्र परादिस्वराः प्राप्नुवन्ति, तद्विपक्षाश्च, तत्र परादीनां बलीयस्त्वात्? तत एव वर्जयं न, इतरे तु निवर्त्त्यन्ते। यत्र तु परनित्यान्तरङ्गापवादेऽपि क्वचिदिष्टं न सिध्यति, तत्र सतिशिष्टेन व्यवस्था भवति, तस्य हि वलीयसत्वमुक्तम्। अतः सतिशिष्टेतरस्वरप्राप्तौ सतिशिष्ट एव वज्र्यते, मेतरः। कथं पुनः सतिशिष्टे न व्यवस्था? इत्यत आह - `यो हि` इत्यादि। कथमेतज्ज्ञायते? इत्याह - `तथा हि` इत्यादि। `गोपायति` इति। अत्रायप्रत्ययस्य प्रत्ययस्वरेणाद्युदात्तत्वम्। स च स्वरो धातुस्वरस्यापवादोऽपि सन्नायप्रत्ययान्तस्य धातुसंज्ञायां कृतायां पुनस्तेन धातुस्वरेण सतिशिष्टेन बाध्यते। `कार्ष्णोत्तरासङ्गपुत्रः` इति। बहुव्रीहिं कृत्वा तत्पुरुषः कर्तव्यः। `बहुव्रीहिस्वरः` इति। `बहुव्रीहौ प्रकृत्या` [[6.2.1]] इत्यादिनोक्तः। पूर्वकं ज्ञापकं चेतस कृत्वाऽऽह - `विकरणस्वरस्तु` इत्यादि। `विभक्तिस्वरात्` इत्यादि। `निपाता आद्युदात्ताः` (फि।सू।4।80) इति नञुदात्तः। तत्र तत्पुरुष समासे कृते `तत्पुरेषे तुल्यार्थं` [[6.2.2]] इत्यदिवा प्रकृतस्वरादुदात्तत्वमेव भवति। यदा तु नञ्स्वराद्विभक्तिसवरः प्राप्नोति नञ्स्वरश्चेष्यते, तस्माद्विभक्तिस्वरो `बलीयानिति वक्तव्यम्। बलीयस्त्वे सति किं भवति? इत्याह - `अतिस्तर इत्यत्र` इत्यादि। <<तिसृभ्यो जसः>> [[6.1.166]] इत्यनेन विभक्तेरुदात्तत्वं विधीयते। तद्बलीयस्त्वात्? सतिशिष्टमपि नञ्सवरेण बाध्यते। विभक्तस्वरस्य तु - तिरुआः, त्रिसृष्वित्येषोऽवकाशः। `विभक्तिनिमित्तस्वराच्च` इत्यादि। विभक्तिर्निमित्तं यस्य स स्वरो विभक्तिनिमित्तस्वरः। `यस्य विभक्तिर्निमित्तमामः` इति। आमो विभक्तिनिमित्तत्वं, <<पथिमथोः सर्वनामस्थाने>> [[6.1.199]] इत्यतः सर्वनामस्थानग्रहणानुवृत्तेः। तस्य `यदुदात्तत्वम्` इत्यादिना बलीयस्त्वस्य फलं दर्शयति। विभक्तिनिमित्तस्वरस्य - चत्वारः, अनङ्वाह इतत्येषोऽवकाशः। `वाक्ये हि` इत्यादि। देवदत्तशब्द आमन्त्रितस्वरेणाद्युदात्तत्वम्, गोशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः, तस्य <<औतोऽम्शसोः>> [[6.1.93]] इत्याकारोऽपि स्थानिवद्भावेनोदात्त एव। तथा विभक्त्या सहैकादेशेऽपि <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इति वचनात्। अभिशब्दोऽन्तोदात्तः, तस्य `निपाता आद्युदात्ताः` (फि।सू।4।80), `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तविधाने वर्जितत्वात्? प्रातिपदिकस्वर एव भवति। आङुपसर्गस्वरेणाद्युदात्तः। अजित्येष तु लोडन्तः `तिङ्ङतिङ` [[8.1.28]] इति निधातेनानुदात्तः। शुक्लशब्दो हि प्रातिपदिकस्वरेणान्तोदात्त इति तस्य <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इति टापा सहैकादेशे कृतेऽन्तोदात्त एव भवति। एवममिपूरवत्वे कृते वेदितव्यम्। तदेवं पदग्रहणाद्वाक्य एकैकस्मिन्? पदे पृथगेव स्वरो भवति। यद्यनुदात्तं पदमेकवर्जं भवति, एवं सति यावत्? पदसंज्ञा न भवति तावदेकं वर्जयित्वा परिशिष्टस्यानुदात्तत्वेन भवितव्यम्, ततश्च कुवल्या विकारः, कौवलमित्यत्र <<अनुदात्तादेश्च>> [[4.3.140]] इत्येनेनाञ्प्रत्ययो न स्यात्। यत कुवलशब्दोयं `ग्रामदीनाञ्च` (फि।सू।2।38) इत्याद्युदात्तः, गौरादित्वान्ङीषि विहतेऽपि पदव्यपदेशाभावादाद्युदात्तत्वं न परित्यजतीत्याह - `परिमाणार्थं चेदम्` इत्यादि। पदमत्र गौणमभिप्रेतम्? न मुख्यम्; अन्यथा पदाधिकारे सति पुनः पदग्रहणमनर्थकं स्यात्। तस्मादुत्तरकालं यस्य पदसंज्ञा भविष्यति, तदिह पदमभिप्रेतमिति वेदितव्यम्। असति पदग्रहणे न ज्ञायते - कियतामचामनुदात्तत्वं भवतीति। पदग्रहणे तु सत्येकस्मिन्? पदे यावन्तोऽचस्तावतामनुदात्तत्वं भवतीत्येषोऽर्थो ज्ञायते, तस्मात्? परमाणार्थमिति। नतु सुबन्तस्य तिङ्न्तस्य वा प्रतिपादनार्थम्। तेन प्रागेव पदव्यदैशादनुदात्तत्वेन भवितव्यमिति न भवति पूर्वोक्तदोषप्रसङ्गः। स्यादेतत् - यद्यपि पदमित्यनेन मुख्यं पदं न प्रत्याय्यते, तथापि पदाधिकारेण तदिह सन्निधाप्यत इति तदवस्थ एव स दोषः? इत्यत आह - `पदाधिकारस्य निवृतिंत करोति` इति। एतत्? पदग्रहणं गौणमर्थं प्रतिपादयन्? मुख्यपदधिकारं निवर्तयति। तेन किमिष्टं भवति? इत्याह - `तेन` इत्यादि। `तथा च` इति। एवं च सतीत्यर्थः प्रागेव पदवयपदेशात् स्वरविधानतुल्यकालमेव परिशिष्टतस्यानुदात्तत्वं भवतीति। अमुमेवार्थं द्रढयितमाह - `गर्भिणी` इत्यादि। गर्भोऽस्या अस्तीतीनिः, `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ङीप्। गर्भशब्दोऽयं कुवलशब्दवदाद्युदात्तः। तत्र यदीनिप्रत्ययस्योदात्तत्वसमकालमेवानुदात्तत्वं भवति ततो गर्भिणीशब्दस्यानुदाततादित्वात्? `अनुदाततादेरञ्? [[4.2.44]] इत्यञ्? प्राप्नोतीति तद्बाधनार्थं युज्यते तस्य भिक्षादिषु पाठः। तस्य तूत्तरकालं पदसंज्ञायामुपजातायामवशिष्टस्यानुदात्तत्वं स्यात्। एवं सति गर्भिणी शब्द आद्युदात्तः स्यात्। ततश्चाणो बाधनार्त भिक्षादिषु न पठएत, पठते च। तस्मात्? ततो विज्ञायते - प्रागेव पदव्यपदेशात्? स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यभिप्रायः। किं पुनः कारणं लब्धायां पदसंज्ञायामवशिष्टस्यानुदात्त्त्वे विधीयमाने कुवलशब्दावञ्? न सिध्यति, कथञ्च गर्भिणीशब्दस्यानुदात्तादिलक्षमस्याञो बाधनार्थो भिक्षादिषु पाठः प्रागेव पदवयपदेशात्? स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यस्यार्थस्य ज्ञापकः? इत्याह - `कुवलगर्भशब्दौ` इत्यादि। आद्युदात्त्त्वे ह्रनयोर्यदि पदसंज्ञायां सत्यामवशिष्टस्यानुदात्तत्वं स्यात्, कुवलीशब्दस्य च स्यात्? ततश्च कुवलीशब्दाद्विकारेऽर्थेऽञ्? न स्यात्। गर्भिणीशब्दस्याद्युदात्तत्वादञ्? प्राप्नोति, ततस्तद्बाधनर्थं भिक्षादिषु न पठएत, पठते च, तस्मादवसीयते - प्रागेव पदव्यपदेशादवशिष्टस्यानुदात्तत्वं भवति॥", "61159": "`प्रस्कण्वहरिश्चन्द्रौ` इति। प्रकृष्टः कण्वोऽस्येति प्रसकण्वः। हरिश्चन्द्रोऽस्येति हरिश्चन्द्रः। व्युत्पत्तिमातरमेतत्? कृतम्, न त्वत्रावयवार्थोऽस्ति। रूढिशब्दौ ह्रेतौ प्रत्यस्तमितावयवार्थौ क्वचिदेव ऋषिविशेषे वर्तेते। ननु च हरिश्चन्द्रे `ह्रस्वाच्चन्द्रोत्तरपदे` [[6.1.151]] इत्यनेनैव सुट्? सिद्धः, तत्किमर्थं हरिश्चन्द्रग्रहणम्? इत्यत आह -`हरिश्चन्द्रग्रहणम्` इत्यादि। `प्रकण्वः` इति। प्रगतः कण्वोऽस्मादिति प्रकण्वः। हरिरिव चन्द्रोऽस्येति हरिचन्द्रः॥", "61160": "`उञ्छः, म्लेच्छः, जञ्जः, जल्पः` इति। `उछि उञ्छे (धातुपाठः-295) `म्लेच्छ अव्यक्तायां वाचि` (धातुपाठः-1662), `जज जजि युद्धे` (धातुपाठः-242,243), `जप जल्प व्यक्तायां वाचि` (धातुपाठः-397,398)। जञ्जेः कुत्वाभावो निपातनात्। `जपो व्यध इत्यवन्तौ` इति। तत्र `व्यघजपोरनुपसर्गे` [[3.3.61]] इत्यबन्तत्वम्। बधशब्दो हि <<हनश्च वधः>> [[3.3.76]] इति। `तयोर्धातुसवरः प्राप्तः` इति। `धातोः` [[6.1.156]] इत्युदात्तत्वम्। `व्यधः` इति। `व्यध ताडने` (धातुपाठः-1181)। अत्रापि व्यधजपोरित्यबन्तत्वम्, पूर्ववद्धातुस्वरः प्राप्तः। `कालविशेषे` इति। कृतद्वापरादौ। `रथाद्युपकरणे च` इति। आदिशब्देन हलादेग्र्रहणम्। `गरः` इति। `गृ निगरणे` (धातुपाठः-1410)। `ऋदोरप्` [[3.3.57]] इत्यबन्तः। `विषम्` इत्यनेन दूष्यशब्दस्य विशेषे वृतिंत दर्शयति। `अन्यत्राद्युदात्त एव` इति। धातुस्वरेण। `वेदवेगवेष्टबन्धाः` इति। `विद ज्ञाने (धातुपाठः-1064) `विचिर्? पृथगभावे` (धातुपाठः-1442) `वेष्ट वेष्टने` (धायपा।255) `बन्ध बन्धने` (धातुपाठः-1508)। एभ्यो यथायोगं पर्याद्युपसर्गपूर्वेभ्यः क्विप्, प्रादसमासः। `अन्यत्र मध्योदात्तः` इति। वर्तनिशब्दो हि `अर्त्तिसृघृ` (द।उ।1।2) इत्यतोऽनिप्रत्ययेऽनुवर्तमाने `वृतेश्च` (द।3.1.6) इत्यनेन `वृतु वर्तने (धातुपाठः-758) इत्येतस्मादनिप्रत्ययमुत्पाद्य व्युत्पाद्यते। तस्मात्? प्रत्ययस्वरेण मध्योदात्तो भवति। `दरः` इति। `दृ विदारणे` (धातुपाठः-1493) ऋकारान्तत्वादबन्तः। `साम्बतापौ भावग्रर्हायाम्` इति। सहाम्बया वर्तत इति साम्बः, <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इति प्रकृतिस्वरेण सहशब्दस्य `निपाता आद्युदात्ताः` (फि।सू।4।80) इत्युदात्तत्वे प्राप्ते भावगर्हायामन्तोदात्तत्वं विधीयते। साम्बो भिक्षते। भिक्षणमत्र भावग्रर्हा। तपनं तापः `तप सन्तापे` (धातुपाठः-985) इत्यस्माद्घञ्। आद्युदात्तत्वे प्राप्ते वचनम्। तापो दस्यूनां धार्मिकेषु भावगर्हायामिति किम्? साम्बस्तिष्टति, तापो महान्? ग्रीष्मस्य। अनयोराद्युदात्तत्वमेव। `उत्तमशआत्तमौ` इति। एतौ तमप्प्रत्ययान्तो। पित्त्वात्? प्रत्ययस्यानुदात्तत्वे उच्छब्दस्य `निपाता आद्युदात्ताः` (फि।सू।4।80) इत्युदात्तत्वमित्यत आद्युदात्तत्वे प्राप्तेऽन्तोदात्तार्थमुत्तमशब्दः पठते। शआच्छब्दोऽपि प्रतिपदिकस्वरेणान्तोदात्तः, ततो मध्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थमेव पठते। `सर्वत्र` इति। भावगर्हायाम्, अन्यत्र च। `भक्ष -मन्थ` इत्यादि। `भक्ष भक्षणे` (धातुपाठः-1557), [भक्ष अदने -धातुपाठः-] `मन्थ विलोडने` (धातुपाठः-42) `भुजकौटिल्ये` (धातुपाठः-1417), [भुजो -धातुपाठः-] `दिह उपचये` (धातुपाठः-1015)। ननु भक्षिश्चुरादित्वाण्ण्यन्त इति तत्? `एरच्` [[3.3.56]] इत्यचा भवितव्यम्, तत्? कथमसौ घञन्तः? इत्याह -`भक्षिण्र्यन्तोऽपि` इत्यादि। अत्रैव कारणमाह -`एरजण्यन्तानाम्` इति॥", "61161": "`कुमारौ` इति। <<वयसि प्रथमे>> [[4.1.20]] इति ङीप्, <<यस्येति च>> [[6.4.148]] इत्यकारलोपः। `कुमारशब्दोऽन्तोदात्तः` इति। प्रातपदिकस्वरेण। एवमुत्तरत्राप्यन्तोदाततता वेदितव्या। `ङीप्` इति। `अनुदात्तः` इति। पित्त्वात्। `प्रासङ्ग्यः` इति। `तद्वहति` [[4.4.76]] इत्यादिना प्राग्घितीयो यत्। `प्रसङ्गशब्दः` इत्यादि। `षन्ज सङ्गे` (धातुपाठः-987) इत्यस्माद्घञमुत्पाद्य प्रासङ्गशब्दो व्युत्पाद्यते, तस्य <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति `तत्पुरुषे` [[6.2.122]] इति वरत्तमाने <<थाथघञ्क्ताजबित्रकाणाम्>> [[6.2.144]] इत्यन्तोदात्तत्वं विहितम्, अतो।सावन्तोदात्तः। `नैतदस्ति` इति। `उदात्तो लुप्तते` इति यदुक्तं तस्य प्रतिषेधः। कस्मान्नैतदस्तीत्याह -`स्वरिते हि` इत्यादि। स्वरविधिसमकालमेव शिष्टस्यानुदात्तत्त्वं भवतीति प्रातिपदिकमेतत्। तस्मात्? स्वरिते विधीयमाने परिशिष्टस्यानुदात्तत्वेन भवितव्यम्। तत्? कुत उदात्तलोपः? न कुतश्चिदित्यर्थः। `तदेतत्` इत्यादि। यस्मादेवमनुदात्तग्रहणस्य प्रत्युदाहरणं न सम्भवति, तस्मादनुदात्तग्रहणमेतदादेरनुदात्तस्योदात्तत्वं यथा स्यादित्येवमर्थम्; अन्यथा ह्रस्यानर्थक्यमेव स्यात्। किं पुनः कारणमादेरनुदात्तस्योदात्तो न सिध्यति, यतस्तदर्थमनुदात्तग्रहणं क्रियते? इत्यत आह -`अन्त इति हि` इत्यादि। अवधारणमात्रं द्रष्टष्यम्। अन्तस्यैव स्यात्, नादेरित्यर्थः। क्व पुनरादेरुदात्तार्थमनुदात्तग्रहणं क्रियते? इत्याह -`मा हि धुक्षाताम्` इत्यादि। दुहेर्लुङ्, आत्मनेपदमातामाथाम्, ततश्च <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति च्लेः क्सादेशः, `तास्यानुदात्त` [[6.1.180]] इत्यादिना लसार्वधातुकस्यानुदात्तत्वम्, <<क्सस्याचि>> [[7.3.72]] इत्यकारलोपः, क्सस्याकारः प्रत्ययस्वरेणोदात्तः, <<दादेर्धातोर्घः>> [[8.2.32]] `खरि च` [[8.4.54]] इति चर्त्वम्, घकारस्य ककारः, षत्वम्। अत्रासत्यनुदात्तग्रहण आतामाथामाकारस्यादिभूतस्यानुदात्तत्वं न स्यात्, सति त्वस्मिन्नाकारस्यादिभूतस्योदात्तत्वं स्यात्। हिशब्दस्य प्रयोगे `हि च` [[8.1.34]] इति निघातप्रतिषेधो न स्यात्। निघाते हि तिङ्न्तस्यासत्युदात्तलोपो न स्यात्। माङ्प्रयोगोऽप्यटः <<न माङ्योगे>> [[6.4.74]] इति प्रतिषेधो यथा स्यात्। अटि हि तस्योदात्तत्वाच्छेषस्यानुदात्तत्वं स्यात्, तथा च सत्यनुदात्तस्थाकारलोपः स्यात्, नोदात्तस्य। `भृगवः` इति। भृगोरपत्यानि `ऋष्यन्धकवृष्णि` [[4.1.114]] इत्यादिना ऋष्यण, तस्य `अत्रिभृगुकुत्स` [[2.4.65]] इत्यादिना बहुषु लुक्। ननु चात्रापि विभक्तावुत्पन्नायामुदात्तस्य लोपः, तस्मादिहापि भवितव्यमेव? इत्यत आह -`प्राक्? सुबुत्पत्तेः` इत्यादि। न हि गोत्रप्रत्ययस्य लुग्विधौ विभक्तिर्निमित्तत्वेनाश्रीयते। तस्मात्? प्रागेव गोत्रप्रत्ययस्य लुक्, ततो नात्रानुवात्तत्वम्। `बैदी, और्वी` इति। विदस्यापत्यम्, उर्वस्यापत्यमिति `अनृष्यानन्तर्य्ये बिदादिभ्योऽञ्` [[4.1.104]] इत्यञ्, ञित्स्वरेणाद्युदात्तः `टिढ्ढाणञ्` [[4.1.15]] इति ङीप्॥", "61162": "`ऊर्णोति` इति। अदादित्वाच्छपो लुक्॥", "61163": "`भङगुरम्` इत्यादौ प्रत्ययस्वरस्यापवादोऽन्तोदात्तत्वं विधीयते। `कुण्डिनाः` इति। अत्र तु स्थानिवद्भावः स्वरस्य। कुण्डिनोशब्दस्यायमादेशः, स च प्रत्ययस्वरेण मध्योदात्त इति तदादेशोऽपि मध्योदात्त एव सात्। कुण्डमस्यास्तीतीनिः, तदन्तात्? स्त्रियां `ऋन्नेभ्यो ङीप्` [[4.1.5]] इती ङीप्। कुण्डिन्या अपत्यानि बहुनीति गर्गादित्वात्? यञ्? [[4.1.105]] , तस्य बहुषु लुक्। परिशिष्टस्य कुण्डिनजादेशः। `चिति प्रत्यये` इत्यादि। कथं पुनः प्रकृतिप्रत्ययसमुदायस्यान्तोदात्तत्वं लभ्यते? यथा लभ्यते तथाख्यायते -इह चित इति समुदायसम्बन्धेऽवयवादेषा षष्ठी। चितोऽवयवस्य सम्बन्धी यः समुदायः तस्यान्तोदात्तत्वं भवतीत्यर्थः। अथ वा चित इति मत्वर्थीयाच्प्रत्ययान्तमेतत् -चिदस्यास्तीति चितः, तस्यान्तोदात्तत्वं भवतीत्यर्थः। तेन प्रकृतिप्रत्ययसमुदायस्यान्तोदात्तत्वं सिध्यति। यदि तर्हि चित इति मत्वर्थीयाकारप्रत्ययान्तमेतत्, तर्हि सुब्व्यत्ययेन षष्ठ्याः प्रसङ्गे प्रथमा भविष्यति। `बहुपटवः` इति। ईषदसमाप्ताः पटव इति `विभावा सुपो बहुच्? पुरस्तात्तु` [[5.3.68]] इति बहुच्। `उच्चकैः` इति। `अव्ययसर्वनाम्नामकच्? प्राक्टेः [[5.3.72]] इत्यकच्॥", "61164": "`कौञ्जायनाः` इति। `कुञ्जादिभ्यश्च्फञ्` [[4.1.98]] इति च्फञन्तात्? <<व्रातच्फञोरस्त्रियाम्>> [[5.3.113]] इत्यागतस्य अप्रत्ययस्य `तद्राजस्य बहुषु` [[2.4.62]] इत्यादिना लुक्। `किमर्थम्` इति। पुर्वेणैव सिद्धमिति मन्यमानस्य प्रश्नः। `परमपि` इत्यादि। च्फञो हि चकारः <<व्रातच्फञोरस्त्रियाम्>> [[5.3.113]] इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्धौ। यद्येवं नोच्येत तदा परत्वान्ञित्स्वरः स्यात्। तस्मात्तमपि बाधित्वान्तोदात्तत्वमेव यथा स्यादित्येवमर्थं क्रियते॥", "61165": "प्रत्ययस्वरस्यापवादोऽयम्। `आक्षिकः, शालाकिकः` इति। `तेन दीव्यति` [[4.4.2]] इत्यर्थे ठक्॥", "61166": "`तिरुआस्तष्ठन्ति` इति। <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति तिरुआआदेशः, <<अचि र ऋतः>> [[7.2.100]] इति ऋकारस्य रादेशः। `उदात्तस्वरितयोः` इत्यादि। त्रिशब्दः प्रातपदिकस्वरेणान्तोदात्त इति तदादेशोऽपि तिसृशब्दोऽन्तोदात्त एव। तत्र ऋकारस्यान्तोदात्तस्य स्थाने विहितो रफ उदात्तयण्? न भवति। ततः परस्य जसः `उदात्तस्वरितयोः` [[8.2.4]] इत्यादिना स्वरितः प्राप्नोति, अतोऽस्यायमपवादः। अथ जस्ग्रहमं किमर्थम्, तिसृकेऽप्यत्र मा भूदिति चेत्? स्यादेतत् -त्रिशब्दात्? संज्ञायां कनि कृते तत्र च `तिसृभावे कन्युपसंख्यानम्` (वा।837) इति तिरुआआदेशे तिसृकेत्यत्रापि स्यात्? असति जस्ग्रहण इति नैतदस्ति; नित्स्वरोऽत्र बाधको भविष्यति। नाप्रापते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव `अनुदात्तौ सुप्तितौ` [[3.1.4]] इत्येतत्स्वरं बाधते तथा नित्स्वरमिति चेत्? नैतदस्ति; यस्माद्येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते `अनुदात्तौ सुप्तितौ` [[3.1.4]] इत्येतस्मिन्? तिसृस्वर आरभ्यते, नित्स्वरे पुनः प्राप्ते चाप्राप्ते च। अथ वा मध्येऽपवादाः पूर्वान्? विधीन्? बाधन्ते` (व्या।प।10) इत्येव तिसृस्वरे `अनुदात्तौ सुप्तितौ` [[3.1.4]] एत्येतं बाधिष्यते, न नित्स्वरम्। शसादिनिवृत्त्यर्थं तर्हि जस्ग्रहणमिति चेत्? एतदपि नास्ति; शसि तावद्भवितव्यमेवान्तोदात्तेन -`उदात्तयणो हल्पूर्वात्? [[6.1.168]] इति। अन्यानि सर्वाणि बहुवचनानि हलादीनि, तत्र <<षट्त्रिचतुर्भ्यो हलादिः>> [[6.1.179]] इति। अन्यानि सर्वाणि बहुवचनानि हलादीनि, तत्र <<षट्त्रिचतुर्भ्यो हलादिः>> [[6.1.179]] इति <<झल्युपोत्तमम्>> [[6.1.180]] इत्युदात्तत्वेन भव#इतव्यम्। बहुवचनविषयत्वाच्च तिसृशब्दसय द्विवचनैकवचने न स्तः। तत्रान्तरेण जस्ग्रहणं जस एव भविष्यतीत्यत आह -`जस्ग्रहणम्` इत्यादि। एके भाष्यकारादयः। असति जस्ग्रहणे तिसृ अतिक्रान्ताविति प्रादिसमासे कृते अतितिरुआआवित्यत्रापि स्यात्, तन्मा भूदित्येष दोष इत्युपसमस्तार्थं जस्ग्रहणमिच्छन्ति॥", "61167": "`चतेरुरन्` (द।उ।8।78) इत्युरन्प्रत्ययान्तत्वाच्चतुःशब्द आद्युदात्तः, तस्य हि शसि परतोऽनेनान्तो दात्तत्वं विधीयते। अथेह कस्मान्न भवति - चतरुआः पश्येति, चतरुआआदेशेऽपि चतुरः कृते स्थानिवद्भावेन न प्राप्नोति? इत्यत आह - `चतरुआआदेश` इत्यादि। चतरुआआदेश कृत आद्युदाततनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधक इत्याद्युदात्तत्वनिपातनाच्यतन्नः पश्येत्यत्रायं स्वरो न भवति। अथ वा पुरावात्? <<अचि र ऋतः>> [[7.2.100]] इति रादेशे कृत ऋकारसय तावन्न भवितव्यम्। अकारस्यापि <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति यणादेशस्य स्थानिवद्भावदृकारेम व्यवधाने सति न भवितव्यमेव। ननु च `न पदान्तद्विर्वचन` [[1.1.58]] इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः? नैतदस्ति; उक्तं हि तत्र `स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` (का।वृ।1.1.59) इति, न चायं लोपाजादेशः॥", "61168": "साविति प्रथमैकवचनस्येदं ग्रहणं स्यात्? सप्तमीबहुवचनस्य वा? उभयोर्वा? तत्र यदि प्रथमैकवचनस्य ग्रहणं स्यात्, त्वाया त्वयि इत्यत्रापि स्यात्। भवति हि युष्मच्छब्दसय <<त्वाहौ सौ>> [[7.2.94]] इति त्वादेशे कृते प्रथमैकवचने परत एकाच्त्वम्। सामान्येनोभयग्रहणेऽप्येष दोषः। सप्तमीबहुवचनस्य ग्रहणे नायं दोषः प्रसज्येत्, युष्मास्वित्यत्र युष्मच्छब्दस्यानेकाच्त्वमित्येतत्? सर्वं ह्मदि कृत्वाऽऽह -`साविति सप्तमीबहुवचनस्य ग्रहणम्` इति। `याद्भ्याम्` इति। याच्छब्दाच्छत्रन्तात्? तृतीया। `राज्ञे` इति। भवति राजञ्शब्दो भसंज्ञके परतो लोपे कृत एकाच्, न तुल सौ राजस्विति; तत्रानेकाच्त्वात्? `वाक्तरा, वाक्तमा` इति। तरप्तमबिति भवति वा तृतीयादिः, न तु विभक्तिः। अथ कस्मात्? सप्तमीबहुवचनग्रहणम्? इत्याह -`सप्तमीबहुवचनस्य` इत्यादि। `त्वया त्वयि` इति। युष्मदस्मदोः <<मपर्यन्तस्य>> [[7.2.91]] <<त्वमावेकवचने>> [[7.2.97]] इति त्वादेशः। परिशिष्टस्य `योऽचि` [[7.2.89]] इति यकारः॥", "61169": "", "61170": "`इन्द्रो दधीचः` इति। दध्यञ्चतीति `ऋत्विक्` [[3.2.59]] इत्यादिना क्विन्? अनुनासिकलोपः, षष्ठएकवचनम्, `अचः` [[6.4.138]] इत्यकारलोपः, `चौ` [[6.3.137]] इति दीर्घः। `तृतीयादिः` इत्यादि। यदि सर्वनामस्थानग्रहणं क्रियते तदा शसो न स्यात्; तस्यातृतीयादित्वात्। अथापि तृतीयादिग्रहणं निवर्त्त्यत, एवमपि सर्वनामस्थानेऽपि स्यात्। `प्रतीचः` इति। पूर्वेण तुल्यम्॥", "61171": "`प्रष्ठौहः` इति। `वहश्च` [[3.2.64]] इति ण्विः, <<वाह ऊठ्>> [[6.4.132]] इत्यूठ्, <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धिः। `ऊठ्युपधाग्रहणम्` इति। उपदाभूत ऊड्? गृह्रते येन तदुपधाग्रहणम्` इति व्याख्यानं कर्तव्यमित्यर्थः। किमर्थम्? इत्यत आह - `इह मा भूत्` इति। तत्रैदं व्याख्यानम् - `अन्तोदात्तात्` [[6.1.163]] इत्यादिसुत्रादिहान्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते, तेनोपधाभूतादेव भवितव्यमिति तस्यैव ग्रहणं युक्तमिति। `अक्षद्युवा` इति। अक्षैर्दीष्यतीति क्विप्? `च्छ्ञोः शूडनुनासिके च` [[6.4.19]] इति वकारस्योठ्, यणादेशः। `आभ्याम्` इति। इदमस्त्यदाद्यत्वम्, <<हलि लोपः>> [[7.2.113]] इतीद्रूपस्य लोपः। `अथो आभ्याम्` इति। <<इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ>> [[2.4.32]] इत्यशादेशः। `निश्पर्यन्ता इह गृह्यन्ते` इति। एतदपि पूर्ववद्व्यवस्थितविभाषया लभ्यते, तस्यां हि सत्यां निश्पर्यन्तेभ्य एव भवितव्यम्। तेषामेव ग्रहणं युक्तमिति त एव गृह्यन्ते। `निपदः` इति। शसि परतः पादस्य पदादेशः। `दतः` इति। अत्रापि दन्तशब्दस्य ददादेशः। `आसन्` इति। अत्रासन्शब्दस्य सप्तम्येकवचनेऽसन्नित्ययमादेशः। `उदन्` इति। अत्रापयुदकशब्दस्योदन्नादेश-। `अद्भिः` इति। पकारस्य तकारः, तस्य जश्त्वम् - दकारः। `राभ्याम्` इति। <<रायो हलि>> [[7.2.85]] इत्यात्त्वम्॥", "61172": "`अष्टाभिः` इत्यादि। <<अष्टन आ विभक्तौ>> [[7.2.84]] इत्यात्त्वम्। `अष्टसु` इति। ननु चात्रापि भवितव्यमेवात्वेन, न हि तद्विधौ विकल्पप्रतिपादकं वचनमस्ति, नापि प्रकृतम्? इत्यत आह -`इदमेव` इत्यादि। यदि हि नित्यमात्वं स्यादिह दीर्घग्रहणमनर्थकं स्यात्, व्यावर्त्त्याभावात्, कृतात्वस्य च षट्संज्ञामिति? इदमेव हि दीर्घग्रहणमष्टनो ज्ञापयतीति सम्बन्धनीयम्। कथं पुनज्र्ञापयति? इत्याह -`अन्यथा हि` इत्यादि। दीर्घग्रहणं ह्रेवमर्थं क्रियते -यत्रात्वं नास्ति तत्रायं स्वरो मा भूदिति। यदि कृत्वपात्वसयाष्टनः षट्संज्ञा न स्यात्, तदात्वपक्षे षट्संज्ञायामसत्यां सावकाशोऽष्टनः स्वरः, तत्रापि षट्स्वरः प्राप्नोतीति कृत्वा। ततश्च यदि दीर्घग्रहणं न क्रियेत, तदानवकाशत्वाद्यदात्वपक्षेऽष्टनः स्वरो न भवति, तदेतरस्मिन्नपि पक्षे स्यात्। अतस्तन्निवृत्त्ये दीर्घग्रहणं क्रियमाणमर्थवद्भवति। कृतात्वस्याष्टनः षट्संज्ञायाम् -अष्टानामित्यत्र `षट्चतुभ्र्यश्च` [[7.1.55]] इति नुट्? सिद्धो भवति॥", "61173": "`तुदति, नुदति` इति। तुदादित्वाच्छः। `लुनती, पुनती` इति। `श्नाभ्यसतयोरातः` [[6.4.112]] इत्याकारलोपः। प्रत्ययस्वरेण शत्रन्तमिहान्तोदात्तं वेदितव्यम्। `तस्य` इत्यादि। कथं पुनरिष्यमाणमपि न भवति? <<न मु ने>> [[8.2.3]] इत्यत्र नेति योगविभागात्। `बृहन्महतोः` इत्यादि। उपसंख्यानशब्दस्य प्रतिपदनमर्थः। तत्रेदं प्रतिपादनम् -`डआश्छन्दसि` [[6.1.172]] इत्यतः सिंहावलोकितन्यायेन बहुलग्रहणमुपतिष्ठते, तेन बृहन्महद्भ्यामपि भवतीति॥", "61174": "<<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>> [[8.2.4]] इति प्राप्ते वचनम्। `तृन्नन्तोऽयमाद्युदातः` इति। नित्स्वरेण। `बहुतितवा` इति। वहवस्तितवो यस्या इति बहुव्रीहिः, तया बहुतितवेति। तितौशब्दोऽयं <<बहोर्नञ्वदुत्तरपदभूम्नि>> [[6.2.175]] इत्यन्तोदात्तः। `नकारग्रहणं कर्तव्यम्` इति। नकारो गृह्रते येन तन्नकारग्रहणं व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - इहापि पूर्ववद्बहुलग्रहणमनुवर्तते। तेनोदात्तस्य स्थाने यो नकारस्ततोऽपि न भविष्यतीति। अथ वा - नकारस्यात्र प्रश्लेषः - हल्पूर्वात्? <<नोङ्धात्वोः>> [[6.1.175]] इति, तथा चायमर्थो भवति - उदात्तयण उदात्तनकारच्चेति। तेनोदात्तनकारादपि भविष्यतीति। `वाक्पत्नी` इति। पतिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। तत्र <<विभाषा सपूर्वस्य>> [[4.1.34]] इति नकारान्तादेशः, `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ङीप्॥", "61175": "`ब्राहृबन्ध्वा` इति। ब्राहृआ बन्धुरस्या इति विगृह्र बहुव्रीहिः। तस्मात्? `ऊङुतः` [[4.1.66]] इत्यूङ्। `तेन सह य एकादेशः सोऽप्युदात्तः` इति। <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इति वचनात्। `स्वर्यते` इति। स्वरितः क्रियत इत्यर्थः। `कुदुत्तरपद` इत्यादि। ऊकारोऽत्र दातुस्वरेणान्तोदात्तः। सः <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्युदाततस्तिष्ठति प्रकृतिस्वरेण॥", "61176": "पित्वान्मतुपोऽनुदात्तत्वे प्राप्तेऽयं विधिरारभ्यते। `अक्षण्वता` इति। अक्षमस्यास्तीति मतुप्, <<छन्दस्यपि दृश्यते>> [[7.1.76]] इत्यनङ्, <<अनो नुट्>> [[8.2.16]] इति नुडागमः, पूर्वसय नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति लोपः। `शीर्षण्वता` इति। शीर्षन्निति `शीर्षञ्शब्दः` शीर्षश्चन्दसि` [[6.1.59]] इति निपातितः। `वसुशब्द आद्युदात्तः` इति। स हि `भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः` (द।उ।1।92) इति वर्तमाने `धान्ये नित्` (द।उ।1।94) इत्यतो निद्ग्रहणे `शृस्वृस्विहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च` (द।उ।1।95) इति व्युत्पाद्यते। तेन नित्स्वरेणाद्युदात्तो भवति। अथेह कस्मान्न भवति - मरुतोऽस्य सन्ति मरुत्वानिति, मरुच्छब्दोऽपि `मृग्रेरुतिः (द।उ।6।1) इत्युतिप्रत्ययान्तत्वात्? प्रत्ययस्वरेणान्तोदात्त इत्यस्त्यत्र प्राप्तिः, अतो नकारेम व्यवधानान्न भवतीति चेत्? न; तस्य लुप्तत्वात्। अथापि स्वरसिद्धौ नलोपस्यासिद्धत्वम्? एवमपि `स्वरविधौ व्यञ्जनमविद्यमानवत्` (व्या।पा।37) इति नास्ति व्यवधानम्? इत्यत आह - `स्वरिविधौ` इत्यादि। कथं पुनज्र्ञायते - नाश्रीयत इति? नुङ्ग्रहणात्। नुडागमो ह्रयं मतुप एव भक्त इति तद्ग्रहणेनैव गृह्रते। यद्येषा परिभाषाऽऽश्रीयेत, तदा नकारस्य व्यञ्जनस्याविद्यमानत्वाद्? ह्रस्वादित्येव सिध्यति नुङ्ग्रहणं न कुर्यात्, कृतं च। ततो ज्ञायते - नेयमिह परिभाषाश्रीयत इति। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। उत्तरत्रापि वक्तव्यशब्दस्यायमेवार्थः। व्याख्यानं तु पूर्ववद्बहुलग्रहणानुवृत्तिमाश्रित्य कर्तव्यम्॥", "61177": "`नाम्` इति। सनुट्कस्य षष्ठीबहुवचनस्य ग्रहणम्। किं पुनः कारणं मतुपा ह्रस्वो विशेष्यते? इत्याह -`अन्यथा हि` इत्यादि। सम्प्रति भवः साम्प्रतिकः, अध्यात्मादित्वट्ठञ्। `तिसृणाम्` इति। अत्र <<न तिसृचतसृ>> [[6.4.4]] इति दीर्घत्वप्रतिषेधात्? साम्प्रतिकः, अध्यात्मादित्वट्ठञ्। `तिसृणाम्` इति। अत्र <<न तिसृचतसृ>> [[6.4.4]] इति दीर्घत्वप्रतिषेधात्? साम्प्रतिक एव ह्रस्वो विद्यते। न तु साम्प्रतिके सति भूतपूर्वगतिर्युक्ता। अत्र यदि मतुपा ह्रस्वो न विशेष्येत? इह नैव स्यात् -अग्नीनामिति। `नामि` [[6.4.3]] इति दीर्घत्वे कृते न स्यात्; ह्रस्वाभावात्। तस्माद्भूतपूर्वेऽपि ह्रस्वो यथा स्यादित्येवमर्थं मतुपा ह्रस्वो विशेष्यते। `धेन्वाम्, शकट्याम्` इति। यदि सनुट्कस्य ग्रहणं न क्रियेत तदानीं सप्तम्यादेशस्याप्यामो ग्रहणं स्यात्, ततश्च धेन्वामित्यादावपि स्यात्। सनुट्कस्य ग्रहणे तुन भवति, तस्मिन्नसति धेनुशकटिशब्दयोः प्रातिपदिकस्वरेणान्तोदात्तयोरन्त्यस्य यणादेशे कृते <<उदात्तयणो हल्पूर्वात्>> [[6.1.174]] इत्यादनान्तोदात्तो नित्यो भवति। `त्रपूणाम्` इति। त्रपुशब्दो वसुशब्दवदाद्युदात्तः॥", "61178": "", "61179": "`अन्तोदात्तादित्येतन्निवृत्तम्` इति। यद्येतदनुवर्तेत, पञ्चानाम्, सप्तानाम्, चतुर्णामित्यत्र न स्यात्। पञ्चादीनां शब्दादीनां `न्रः संख्यायाः (फि।सू।2।28) इत्युदात्तत्वात्? `न्रः` इति रेफनकारान्तयोः संख्याशब्दयोग्र्रहणम्॥", "61180": "`त्रिप्रभृतीनामन्त्यमुत्तमम्` इति। उत्तमशब्दस्याव्युत्पन्नस्येह ग्रहणम्। स च स्वभावात्? त्रिप्रभृतीनामन्त्यमाहेति कृत्वा। `तत्समीपे यत्? तदुपोत्तमम्` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादिनाऽव्ययीभावः॥", "61181": "पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम्॥", "61182": "`सौ` इति। प्रथमैकवचनस्य सुशब्दस्य ग्रहणं वा स्यात्? सप्तमी बहुवचनस्य वा? तत्र यदि सप्तमीबहुवचनस्य ग्रहणं स्यात्, केभ्यः, तेभ्य इत्यत्र न स्यात्, किंतच्छब्दयोः सप्तमीबहुवचने परतो नावर्णान्तत्वमुपपद्यते; कृतेऽपि त्यादाद्यत्वे `बहुवचने झल्येत्? [[7.3.103]] इत्येत्त्वविधानात्। प्रथमैकवचनस्य तु ग्रहणे सत्यत्रापि भवति। तस्मादसप्तम्यां एव ग्रहणं युक्तमिति मत्वाऽऽह -`प्रथमैकवचने यदवर्णान्तम्` इति। अनन्तरमिह प्रतिषेध्यं न भवतीति सर्वस्य षाष्ठिकस्वरस्य प्रतिषेधोऽयं विज्ञायत इतत्याह -`इत्येतेभ्यो यदुक्तं तन्न भवति` इति। शोभना गावोऽस्येति सुगुः, `गोस्त्रियोः` [[1.2.48]] इत्यादिना ह्रस्वः, <<नञ्सुभ्याम्>> [[6.2.172]] इत्युत्तरपदस्यान्तोदात्तत्वम्। `शुना` इति `आयुवमघोनामतद्धिते` [[6.4.133]] इति सम्प्रसारणम्। `पूर्ववत्? प्राप्तिः` इति। शुना, आभ्यामित्यत्र <<सावेकाचस्तृतीयादिर्विभक्तिः>> [[6.1.168]] इत्यादिना प्राप्तिः। `परमशुना` इति। अत्राति <<अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे>> [[6.1.169]] इत्यन्तोदात्तत्वं तु समासस्वरेण। `राजा, परमराजः` इति। अत्रापि पूर्ववत्प्राप्तिः। `अञ्चतिः क्विन्नन्तः` इति। यद्येवम्, तर्हि तत्र नकारलोपेन न भवितव्यं तस्यैव सनकारस्य ग्रहणं कर्तव्यम्। किमर्थं सनकारस्य ग्रहणम्? इत्याह -`तस्य` इत्यादि। एतदपि किमर्थम्? इत्याह -`यत्रास्य` इत्यादि। ननु च सर्वत्रैव लोपेन भवितव्यम्, तत्? कथं नलोपस्याभावः इत्याह -`नाञ्चेः` इत्यादि। `प्राञ्चा` इति। पूर्ववत्? प्रापतिः। प्राञ्चतीति क्विन्। `प्राचा` इति। पूर्ववल्लोपदीर्घत्वे। `क्रुञ्चा` इति। `क्रुच क्रुञ्च कौटिल्याल्पीभावयोः` [ कुत्व क्रुच्च कौटिल्याल्पीभावयोः -धातुपाठः-] (धातुपाठः-185,186), क्विन्? क्रुञ्चेति निपातनान्नलोपाभावः। `परमक्रुञ्चा` इति। समासस्वरेणान्तोदात्तत्वम्। `परमकृता` इति। अत्रापि। `कृतिर्वा` इति। `कृती छेदने` (धातुपाठः-1435) इत्येषः॥", "61183": "", "61184": "नृशब्दात्? <<सावेकाचस्तृतीयादिर्विभक्तिः>> [[6.1.168]] इति, `न गोआन्सावर्ण` [[6.1.176]] इति नित्ये प्रतिषेधे च प्राप्ते विभाषेयमारभ्यते॥", "61185": "`चिकीष्र्यम्, जिहीष्र्यम्` इति, `न गोआन्सावर्ण` [[6.1.176]] इति नित्ये प्रतिषेधे च प्राप्ते विभाषेयमारभ्यते॥", "61186": "तासिप्रभृतीनां समाहारद्वन्द्वेन निर्देशः। `अद्रुपदेशात्` इति। उपदिश्यत इत्युपदेशः, शास्त्रवाक्येषु खिलपाठे च यः प्रथममुच्चार्यते स इत्यर्थः। अच्चासावुपदेशश्चेत्यदुपदेशः। कर्मसाधनस्योपदेशशब्दस्याश्रयणम्, भावसाधनस्य वा, नानेन सामानाधिकरण्यानुपपत्तेः। `लसार्वधातुकम्` इति। षष्ठीसमासः। `अदुपदेशात्` इति। पूर्ववत्? कर्मसाधनेनोपदेशशब्देन कर्मधारयः। वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतित्यकारन्तोपदेशादित्यर्थः। `कर्ता` इति। करोतेर्लुट्, आत्मनेपदपरथमपुरुषः, तस्य डारौरसः। एकवचने टेर्लोपः। द्विवचनबहुवचनयोः `रि च` [[7.4.51]] इति सकारस्य। `आस्ते` इत्येवमादिषु `शेते` इत्येवंपर्यन्तेष्वदादित्वाच्छपो लुक्। `वस्ते` इति। `वस आच्छादने` (धातुपाठः-1023)। `सूते` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031)। `शेते` इति। शीङः सार्वधातुके गुणः` [[7.4.21]] इति गुणः। `तुदतः नुदतः` इति। तसन्ते एते। एवं `पचतः, पठतः` इत्येते अपि। ननु च व्यञ्जनान्तोऽयमुपदेशे शप्, नकारान्तः, तत्? कथमिहानुदात्तत्वं भवति? इत्याह -`अनुबन्धस्य` इत्यादि। एकान्तः=एकदेशः; नैकान्तोऽनेकान्तः, तद्ग्रहणेन गृह्रत इति यावत्, अनेकान्तस्य भावोऽनेकान्तत्वम्। ततो हेतोरकारान्तोपदेश एव शप्, न व्यञ्जनान्तः। तेन पचते -इत्यादावनुदात्तत्वं भवतीति भावः। अकारान्तत्वं तु शबकारस्य व्यपदेशिवद्भावात्। `पचमानः, यजमानः` इति। शानच्। कथं पुनरिहानुदात्तत्वम्, यावता मुकाऽत्र व्यवधानम्? इत्याह -`यद्यत्र` इत्यादि। मुगागमोऽयमकारमात्रस्य वा स्यात्? अकारान्ताङ्गस्य वा? तत्र यद्यकारमात्रस्य तदाऽदुपदेशग्रहणेनैव तस्य ग्रहणमिति लसर्वधातुकमदुपदेशादनन्तरमेव भवति, व्यवधानाभावात्, न हि स्वावयवो व्यवधायको भवति। तेनान्तरङ्गत्वात्? सिद्धो निघातः। `अथ` इत्यादिना द्वितीये पक्षे निधातस्यासिद्धत्वात्? प्रतिपादयति -`तथापि` इति। एवमपीत्यर्थः। लसर्वधातुकस्येत्यस्य सिद्धो निघात इति वक्ष्यमाणेन सम्बन्धः। `असिद्धः` इत्यस्यापि मुगित्यनेन प्रकृतेन। इतिकरणो हेतौ। तदयमर्थः -यस्माल्लसार्वधातुकानुदात्ते बहिरङ्गत्वान्म#उगसिद्धः, तस्मादेवमपि सार्वधातुकस्यानुदात्तत्वम्। बहिरङ्गत्वं तु मुको बह्वपेक्षत्वात्। स ह्रकारान्तविशिष्टमङ्गमाश्रयति, आनञ्च प्रत्ययविशेषम्। अङ्गावयवमदुपदेशं लसार्वधातुकामात्रं निधातः। तस्मादसावन्तरङ्गः। स्वरविधित्वाच्च, उकग्तं हि स्वरविधेर्भाव्येऽन्तरह्गत्त्वम्। ननु चाद्ये पक्षे मुकि कृते निघातो न सिध्यति, अदुपदेशादिति तपरकरणात्, मुकि च कृते कालस्यातिरिच्यमानत्वात्? नैष दोषः; यद्यवमपि कृतेऽर्धमात्राधिका भवति, तथाप्युपदेशग्रहणात्? सिध्यत्येव, उपदेशे मात्रिकस्यैवोच्चारणात्। `चित्स्वरोऽप्यनेन` इत्यादि। चित्स्वरस्यावकाशः -<<चलनशब्दार्थादकर्मकाद्युच्>> [[3.2.148]] चलनम्, चोपनमिति, तास्यादिभ्योऽनुदात्तस्यावकाशः -आस्ते, शेत इति; इहोभयं प्राप्नोति -पचमानो यजमान इति परत्वाल्लसार्वधातुकानुदात्तत्वमेव चित्स्वरं बाघित्वा प्रवर्तते। `चिनुतः, चिन्वन्ति` इति। नु <<सार्वधातुकमपित्>> [[1.2.4]] इति श्नुरपि ङिदेव, तत्कथमिदं प्रत्युदाहरणमुपपद्यते? इत्याह -`ङिदयम्` इत्यादि। <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन पूर्वस्य कार्यमतिदिश्यते, न परस्य। तथा चोक्तम् -सिद्धं तु पूर्वस्य कार्यातिदेशादिति। तस्मात्? पूर्वस्य कार्यं प्रति ङित्वं भवति, न तु परस्येत किमत्र नोपपद्यते। `इह च` इत्यादि। पचावः पचामः इत्यत्र हि <<अतो दीर्घो यञि>> [[7.3.101]] इति दीर्घत्वे कृते न स्यात्? असत्युपदेशग्रहणे। तस्मस्तु सति शबकारोऽपि मात्रिक एवोपदिष्ट इति यद्यप्युत्तरकाल दीर्घत्वं भवति तथापि निघातो न भवतीति। `इह च मा भूदिति -हतः; हथ` इति। अत्र `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनाऽनुनासिकलोपे सत्युपदेशात्परं लसार्वधातुकं भवति, तत्रासत्युपदेशग्रहण इहापि स्यात्। अस्मिस्तु सति न भवति, न हि हन्तिरवर्णान्त उपदिश्यते। किं तर्हि? व्यञ्जनान्तः। `पचमानाः` इति। <<ताच्छील्यवयोवचनशक्तिषु चानश्>> [[3.2.129]] न च स लादेशः, अपि तु प्रत्ययः। लसर्वधातुकत्वं त्वस्य न विद्यते। `शिश्ये` इति। शीङो ह्रात्मनेपदे रूपम्, `एरनेकाचः` [[6.4.82]] इत्यादिना यणादेशः। `लिट्? च` [[3.4.115]] इत्यार्धधातुकमेतत्। `शिश्याते` इति। लिटआतामि रूपम्। नानुदात्तत्वम्, असार्वधातुकसंज्ञाविधानात्। `ह्यु ते, यदधीते` इति। `ह्यु ङ्? अपनयने` (धातुपाठः-1082) `इङ्? अध्ययने` (धातुपाठः-1046) यच्छब्दस्य प्रयोगः `निपातैयैद्यदि` [[8.1.30]] इति निघातप्रतिषेधो यथा स्यात्॥", "61187": "`मा हि कार्ष्टाम्` इति। हेः, माङश्च प्रयोगो प्रयोजनं पूर्वमेवोक्तम्। `अपरोऽन्तोदात्तः` इति। प्रत्ययस्वरेण। `अपरो मध्योदात्तः` इति। प्रत्ययस्वरेणैव। ननु च वलादिरिह प्रत्ययः, इट्? चागमः, आगमानां चानुदात्तत्वं भवति, तस्मादिहाप्यन्तोदात्तेनैव भवितव्यम्, तत्? कथं मध्योदात्तत्वम्? इत्याह - `सिचश्चित्कारणात्` इत्यादि। सिचश्चित्करणेनानुदात्तत्वे बाधिते चित्स्वर एव भवतीति युक्तं मध्योदात्तत्वम्। `सिच आद्युदात्त` इत्यादि। सिच आद्युदात्तत्वे कर्तव्येऽनिटो विद्यमानो सिचः परो यश्चित्प्रत्ययस्तस्योदात्तत्वं वक्तव्यम्। `मा हि कार्षम्` इति। पक्षे सर्वानुदात्तं पदं मा भूदित्येवमर्थमिदम्। पक्षे तूदात्तत्वेन मुक्ते सर्वानुदात्तमेव पदं भवति॥", "61188": "`सार्वधातुकग्रहणम्` इत्यादि। `अचि` इत्येतत्? सप्तम्यन्तं लसार्वधातुकस्य समानाधिकरणं विशषणम्, न च प्रथमान्तस्य सप्तम्यन्तेन सामानाधिकरण्यमुपपद्यते। तस्मात्? `अचि` इत्यनेन सम्बन्धाद्विविशेषणविशेष्यलक्षणाल्लसार्वधातुकग्रहणादित्याह -`सप्तम्यन्तमुपजायते। `स्वपादिरा वृत्करणात्` इति। यद्यप्येतदेवम्, तथापि `ञिष्वप्? शये` (धातुपाठः-1068) `आस प्राणने` (धातुपाठः-1069), `अन च` (धातुपाठः-1070) इत्येत एव ये, ते इह स्वपादिग्रहणेन गृह्यन्ते। परेऽपि ये जक्षित्यादयोऽभ्यस्तसंज्ञाः, तेषु परत्वात्? <<अभ्यस्तानामादिः>> [[6.1.189]] इत्यनेन नित्यमाद्युदात्तत्वं भवति। `हिंसन्ति` इति। `तृह हिसि हिंसायाम्` (धातुपाठः-1455,1456), रुधादित्वाच्? श्नम्, <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः <<श्नान्नलोपः>> [[6.4.23]] इति परस्य नकारस्य। `स्वप्यात्` इति। लिङ्? अदादित्वाच्छपो लुक्। `स्वपितः` इति। <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इतीट्॥", "61189": "प्रत्ययस्वरेण प्राप्ते तदपवादोऽभ्यस्तानां धातूनामादेर्विधीयते। दधतीत्यादौ `श्नाभ्यस्तयोरातः` [[6.4.112]] इत्याकारलोपः, <<उभे अभ्यस्तम्>> [[6.1.5]] इत्यभ्यस्तसंज्ञा। `जक्षति, जाग्रति` इति। अत्रापि <<जक्षित्यादयः षट्>> [[6.1.6]] इति सर्वत्र `अदभ्यस्तात्` [[7.1.4]] इति झेरदादेशः। `जक्षितः` इति। पूर्ववदिट्। अथादिग्रहणं किमर्थम्, यावता `आदिः सिचोन्यतरस्याम्` [[6.1.187]] इत्यत आदिरित्यनुवर्तते? इत्यत आह - `आदिरिति वर्तमाने इत्यादि। पूर्वकं ह्रादिग्रहणमन्यतरस्यांग्रहणेन सम्बद्धम्, अतस्तनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मान्नित्यर्थं पुनरादिग्रहणं क्रियते॥", "61190": "अनजाद्यर्थमिदम्। अजादौ त्वनुदात्ते पूर्वणैव सिद्धम्। `जिहीते, मिमीते` इति। अत्र `तास्यनुदात्तेत्` [[6.1.180]] इत्यादिना लसार्वधातुकस्यानुदात्तत्वम्। `भृञामित्` [[7.4.76]] इत्यभ्यासस्येत्त्वम्। `अनुदात्ते` इति शास्त्रीयस्यानुदात्तस्यायं निर्देश इति कस्यचिद्भ्रान्तिः स्यात्? अतस्तन्निरासार्थमाह -`अनुदात्त ति बहुव्रीहिनिर्देशः` इति अविद्यमानमुदात्तमस्मिन्नित्यनुदात्तम्। किमर्थं पुनर्बहुव्रीहिनिर्देशः? इत्याह -`लोपपणादेशार्थः` इति। लोपयणादेशयोः कृतयोरप्याद्युदात्तत्वं यथा स्यात्। `मा हि स्म दधात्। दधात्यत्र` इति। स्मशब्दस्य प्रयोगः स्मोत्तरे लङ्? यथा स्यात्। अत्र यदि शास्त्रीयस्यायं निर्देशः स्यात्, `इतश्च` [[3.4.100]] इतीकारलापे कृते यणादेशे चोदात्तं न स्यात्, शास्त्रीयस्यानुदात्तस्याभावात्। बहुव्रीहिनिर्देशे चात्रापि भवति; उदात्तस्येहाविद्यमानत्वात्॥", "61191": "`इष्शीभ्यां वन्? (द।उ।8।126) इति प्रकृत्य `सर्वनीधृधरिष्वलष्वशिवपट्वप्रेष्वा अस्वतन्त्रे` [`सर्वनिधृष्वरिष्वलिष्पशिपह्रस्वपद्वप्रहेष्वा अतन्त्रे` -द।उ।] (द।उ।8।127) इति सर्वशब्दोऽन्तोदात्तो निपातितः। तेन तस्य सुप्याद्युदात्तत्वं विधीयते। अन्तोदात्तत्वनिपातनं तु सर्वस्य विकारः सार्वं इत्यत्र <<अनुदात्तादेरञ्>> [[4.2.44]] यथा स्यात्। `प्रत्ययलक्षणेनापि` इत्यादि। कथं पुनरिष्यमाणोऽपि लभ्यते, यावता सर्वस्तोम इत्यत्र <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति लुमता लुप्तम्, ततश्च <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षलस्य प्रतिषेधेन भवितव्यम्? नैष दोषः; पूर्वसूत्राच्चकारोऽनुवर्तते, स च समुच्चयार्थः। तेन प्रतिषेधविषयेऽप्येष स्वरो भविष्यति। `सर्वस्वरोऽनकच्कस्य` इत्यादि। योऽयं सर्वशब्दस्य स्वरो विधीयते स तस्याविद्यमानाकच्कस्य भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -<<आदिः सिचोऽन्यतरस्याम्>> [[6.1.187]] इत्यतोऽन्य तरस्यांग्रहणमिह मण्डूकप्लुतिन्यायेनानुर्तते, सा च व्यवस्थितविभाषा, तेनानकच्कस्य भवति॥", "61192": "<<अनुदात्ते च>> [[6.1.190]] इत्याद्युदात्ते प्राप्ते प्रत्ययात्? पूर्वस्य भीह्यप्रभृतीनामुदात्तो विधीयते।", "61193": "`लकारेत्संज्ञके` इति। लकार इत्संज्ञको यस्य स तथोक्तः। `चिकीर्षकः` इति। सन्नन्ताण्ण्वुल्। तत्र <<अतो लोपः>> [[6.4.48]] इत्कारलोपे कृते ण्वुलः पूर्वस्येकारस्योदात्तत्वम्। `भौरिकविधम्` इति <<भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ>> [[4.2.54]] इति विधल्प्रत्ययः। भौरिकिर्विषयो देश इति `ऐषुकारिभक्तम्` ऐषुकारिर्विषयो देश इति। पूर्वसूत्रेणैव भक्तल्प्रत्ययः॥", "61194": "लित्स्वरे प्राप्ते णमुलि परत आद्युदात्तत्वं विकल्पेन विधीयते। तेन मुक्ते पक्षे लित्स्वरोऽपि भवत्येव। अनेकाचश्च धातवो विकल्पं प्रयोजयन्तीति। ये त्वेकाचस्तेषां लित्स्वरेणानेन वा विशेषो नास्ति। `लोलुयं लोलूयम्, `पोपूयम्पोपूयम्` इति। यदन्ताण्णमुल्, तस्य `आभीक्ष्णे द्वे भवतः` (वा।887) इति द्विर्दचनम्। `अनुदात्तं च [[8.1.3]] इत्याम्रेडितस्यानुदात्तत्वम्॥", "61195": "`कर्तृयकि` इति। सार्वधातुकं कर्तृशब्देनोक्तम्। अभिधानेऽभिधेयोपचारात्। तत्र यः कर्तरि यक्? स कर्तृयक्, `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः। `लूयते केदारः स्वयमेव` इति। लुनाति केदारं देवदत्तः, केदारो लवनक्रियया व्याप्तुमिष्टतमत्वात्? कर्म। यदा तु सौकार्यात्? तस्यैव कर्त्तृत्वं विवक्ष्यते तदाऽसौ कर्ता भवति; `कर्मवत्? कर्मणा तुल्यक्रियः` [[3.1.87]] इत्यतिदेशात्? यगात्मनेपदञ्च। `स्तीर्यते` इति। `स्तृ आच्छादने` (धातुपाठः-1252) [स्तृञ्? आचछादने -धातुपाठः-] <<ॠत इद्धातोः>> [[7.1.100]] , `हलि च` [[8.2.77]] इती दीर्घः। `लसार्वधातुकनिघाते कृते` इति। `अदुपदेशभक्तयक एव स्वरो भवति` इति। प्रत्ययलक्षणः। अथेह कथं भवति -जायते स्वयमेव, सायते स्वयमेव, खायते स्वयमेवेति, यावता <<ये विभाषा>> [[6.4.43]] इत्यात्वे कृते सत्युत्तरकालं जनादयोऽजन्ता भवन्ति, न तूपदेश? इत्याह -`जनादनाम्` इत्यादि। जनादीनां ह्रात्वविधावनुदात्तोपदेशग्रहणमनुवर्तते। तेन तेषामुपदेश एवात्त्वं द्रष्टव्यम्। `जायते स्वयमेव` इति। कथं पुनरकर्मकर्ता, यावता जनिरकर्मकः? अन्तर्भावितण्यर्थं सकर्मको भवतीत्यदोषः। `लूयते केदारो देवदत्तेन` इति। अत्र शुद्धकर्मण्यात्मनेपदविधानात्? कर्तृयग्न भवति॥", "61196": "`अन्यतरस्याम्` [[6.1.188]] इत्यनुवर्तमाने वाग्रहणं कार्यिणो विकल्पार्थम्। अन्यतरस्यांग्रहणेन कार्यं विकल्प्यते वाग्रहणेन तु कार्यिणः। तेनेडादयः पर्यायेण कार्य प्रतिपद्यन्ते। `लुलविथ` इति। क्रादिनियमादिट्। `ययाथ` इति। `अचस्तास्वत्थल्यनिटो नित्यम्` [[7.2.61]] इतीटो वा प्रतिषेधः॥", "61197": "`वासुदेवकः` इति। वासुदेवे भक्तिरस्येत्यर्थे वुन्। अथेह गर्गा, विदा इति <<यञञोश्च>> [[2.4.64]] इति बहुषु लुकि कृते, चञ्चेव चञ्चेत्यत्र च <<इवे प्रतिकृतौ>> [[5.3.96]] इत्युत्पन्नस्य कनः <<लुम्मनुष्ये>> [[5.3.98]] इति लुपि कृते कस्मान्न भवति, लुप्तेऽपि प्रत्यये `प्रत्ययलोपे प्रत्ययलक्षणम्? [[1.1.62]] इत्यस्ति प्राप्ति? इत्यत आह - `प्रत्ययलक्षणमत्र नेष्यते` इति। तत्? कथं पुनरिष्यमाणो न भवति? <<संज्ञायामुपमानम्>> [[6.1.204]] इत्यत्र वक्ष्यमाणाज्ज्ञापकात्। अथ वा <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन यन्नाम किञ्चिदङ्गस्य कार्यमङ्गाधिकारे विहितमेव, तेन प्रतिषेधादिह प्रत्ययलक्षणं स्वीकार्यं न भविष्यति। एवमुत्तरात्रापि प्रत्ययलक्षणाभावो वेदितव्यः। `यञि कनि च लुप्ते` इति। चकाराद्विदाधञि च॥", "61198": "`देवदत्त्` इति। ददातेः <<क्तिच्क्तौ च संज्ञायाम्>> [[3.3.174]] इत्याशिवि क्तः, `वो वद्? घोः` [[7.4.46]] इति धातोर्ददादेशः। दत्तशब्दस्य देवशब्देन <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। `सपिरागच्छ` इति। `स्वमोर्नपुंसकात्` [[7.1.23]] इति विभक्तेर्लुक्। `सप्तागच्छत` इति। अत्रापि `षङ्भ्यो लुक्` [[7.1.22]] इति च॥", "61199": "`पथिमथिशब्दो` इत्यादि। `गमेरिनिः` (द।उ।6।57) इत्यत इनिप्रत्यये वर्तमाने `मन्थः` (द।उ।6।62) इतीनिप्रत्ययः, अतो मथिञ्शब्दो व्युत्पाद्यते, `परमे कित्` (द।उ।6।61) इत्यतः किद्ग्रहणानुवृत्तेर्मनथेरनुनासिकलोपः। `पतस्थ च` (द।उ।6।63) इति पथिञ्शब्दोऽपीनित्प्रत्ययान्त इति तेनेतौ प्रत्ययस्वरेणान्तोदात्तौ। `पन्थाः` इति। <<पथिमथ्यृभुक्षामात्>> [[7.1.85]] इत्यकरान्तादेशः। `इतोऽत्? सर्वनामस्थाने` [[7.1.86]] इतीकारस्यात्त्वम्, <<थो न्थः>> [[7.1.87]] इति थस्य न्थादेशः।`पथः पश्य` इति। <<भस्य टेर्लोपः>> [[7.1.88]] इति टिलोपः। तत्र कृते <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्यन्तोदात्तत्वम्। `पथिप्रियः` इति। पन्थाः प्रियो यस्येति बहुव्रीहिः। `वा प्रियस्य` (वा।114) इति प्रियशब्दस्य पक्षे परनिपातः॥", "61200": "`कर्तवा` [`कर्तवै` इति काशिका, पदमञ्जरी च] इति। `कृत्यार्थे तवैकेन्केन्यतावनः` [[3.4.14]] इति तवैप्रत्ययः। किं पुनः कारणं पर्यायनिवृत्तये यत्नः क्रियते? इत्याह -`एकवर्जम्` इत्यादि॥", "61201": "`क्षयः` इति। `क्षि निवासगत्योः` (धातुपाठः-1407) इत्यस्येदं रूपमिति॥", "61202": "`जयः` इति। `जि ज्रि अभिभवे` (धातुपाठः-946,947) इत्यस्य जयते रूपमेतत्। `जयो ब्राआहृणानाम्` इति। भावे `एरच्` [[3.3.56]] ॥", "61203": "`वृषः, जनः, ज्वरः, ग्रहः, हयः, गयः` इति। `वृषु मृषु सेचने` (धातुपाठः-706,707) `जनी प्रादुर्भावे` (धातुपाठः-1149) `ज्वर रोगे` (धातुपाठः-776) `ग्रह उपादाने` (धातुपाठः-1533) `हि गतौ` (धातुपाठः-1257) `कै गै` शब्दे` (धातुपाठः-916,917) `सर्वं एतेऽच्प्रत्ययान्ताः` इति। पचादित्वात्। एतेन चित्स्वरे प्राप्ते पाठ एषामिति दर्शयति। `नयः, तयः, अयः, अंशः, वेदः, सूदः, अशः` इति। `णीञ्? प्रापणे` (धातुपाठः-901) `तायृ सन्तानपालनयोः` (धातुपाठः-489) क्वचित्? `तयः` इत्यस्य स्थाने `चयः` इति पठते, स चिनोतेद्र्रष्टव्यः। `इण्? गतौ` (धातुपाठः-1045)। अथ वा अय वय मय चय (धातुपाठः-474)-478) इत्यादेः। `अंश समाधाने` (धातुपाठः-1918), `विद ज्ञाने` `(धातुपाठः-1064) `षूद रक्षणे` (धातुपाठः-1717) `अश भोजने` (धातुपाठः-1523)। `सूदः -इगुपधेति कप्रत्ययान्तः` इति। `एतेऽपि` इति यदुक्तम्, तस्यायमपवादः। `गुह` इति। `गुहू संवरणे` (धातुपाठः-896)।`शमरणौ संज्ञायाम्` इति। `शम्? उपशमे` (धातुपाठः-1201) `अण रण` (धातुपाठः-444,445) इति शब्दार्थः। संज्ञाया अन्यत्रान्तोदात्तादेव भवतः। `सम्मतौ भावकर्मणोः` इति। शमरणादिति वर्तते। सम्मतावर्थे विवक्षिते शमरणौ भावकर्मणोर्यथाक्रममाद्युदात्तौ भवतः। `मन्त्रः` इति। `मत्रि गुप्तभाषणे` (धातुपाठः-1679) केचित्तु -`सम्मतौ भावकर्मणोर्मणोर्मन्त्रः` इति पठन्ति। तस्य मन्त्रे विषयीभूत इत्येषोऽर्थो वेदितव्यः। `शान्तिः` इति। `शमु उपशमे` (धातुपाठः-1201) <<क्तिच्क्तौ च संज्ञायाम्>> [[3.3.174]] इति क्तिच्। `कामः, यामः` इति। `कमु कार्तौ` (धातुपाठः-443) `यम उपरमे` (धा।पा984)। `घञन्तौ` इति। `कर्षात्वतो धञोऽन्त उदात्तः` [[6.1.159]] इत्येतस्मिन्? प्राप्तेऽस्य पाठः। `कल्पः` इति। `कृपू सामर्थ्ये` (धातुपाठः-762)। `पादः` इति। `पद गतौ` (धातुपाठः-1169)। `वृषादिराकृतिगणः` इति। तदेव चाकृतिगणत्वं ज्ञापयितुं चकारः कृतः॥", "61204": "`यद्येवम्` इति। यदि कनो लुबित्यर्थः, कनोऽपु लुपि सत्यपि प्रत्ययलक्षणेनैव सिद्धमेषां हि नित्स्वरेणाद्युदात्तत्वम्, तदपार्थकमित्यभिप्रायः। `एतदेव` इत्यादि। यदि हि क्वचित्? स्वरविधौ प्रत्ययलक्षणं स्यात्, कर्तव्यमेवेदं वचनं स्यात्। प्रत्ययलक्षणेन सिद्धत्वात्, कृतञ्च। तस्मादेतज्ज्ञापयति - प्रत्ययलक्षणं स्यात्, कर्तव्यमेवेदं वचनं स्यात्। प्रत्ययलक्षणेन सिद्धत्वात्, कृतञ्च। तस्मादेतज्ज्ञापयति - प्रत्ययलक्षणमिह स्वरविधौ न भवतीति। क्वचिद्ग्रहणं क्वचित्तु भवतीति प्रदर्शनार्थम्, तथा हि <<सर्वस्य सुपि>> [[6.1.191]] इत्यत्रोक्तम् - प्रत्ययलक्षणेनाप्ययं स्वर इष्यत इति। `तथा च` इत्यादिना ज्ञापनस्य प्रयोजनमाह। `अग्निर्माणवकः` इति। भवत्यग्निशब्द उपमानम्। तथा ह्रग्निरेवेति गम्यते, नासौ माणवकस्य संज्ञा॥", "61205": "`गुप्तः` इति `गुपू रक्षणे` (धातुपाठः-395)। `बुद्धः` इति। `बुध अवगमने` (धातुपाठः-858)। `देवः` इति। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। भीमशब्दोऽपि मगन्तत्वात्? प्रत्यस्वरेण। `इषियुधि` (द।उ।7।31) इत्याद्यधिकृत्य `भियः षुग्वा` (द।उ।7।35) इति मक्प्रत्ययान्तो व्युत्पाद्यते। `चिन्तितः` इति। `चिति स्मृत्याम्` (धातुपाठः-1535), चौरादिकः, <<निष्ठायां सेटि>> [[6.4.52]] इति णिलोपः। `रक्षितः` इति। `रक्ष पालने` (धातुपाठः-658)। `त्रातः, आप्तः` इति। `त्रैङ पालने` (धातुपाठः-965), `आप्लृ व्यातौ` (धातुपाठः-1260)॥", "61206": "`शुष्कः` इति। `शुष शोषणे` (धातुपाठः-1183) <<शुषः कः>> [[8.2.51]] इति क्तस्य कादेशः। `धृष्टः` इति। ञिधृषा प्रागल्भ्ये` (धातुपाठः-1269) ष्टुत्वम्। कत्वष्टुत्वयोरसिद्धत्वादिह निष्ठान्तत्वं वेदितव्यम्। `असंज्ञार्थं आरम्भः` इति। संज्ञायां पूर्वेणैव सिद्धत्वात्॥", "61207": "`अशेः` इति। `अश भोजने` (धातुपाठः-1523) इत्यस्मात् कर्तरि क्तो निपात्यते। `गत्यर्थाकर्मक` [[3.4.72]] इत्यादिना। `पूर्ववत्? कर्मणि क्तः` [`पूर्वत्र` - काशिका] इति। `तयोरेव` [[3.4.70]] इत्यादिना। `उत्तरत्र भावे` इति। `नपुंसके` `भावे क्तः` [[3.3.114]] इति॥", "61208": "`रिक्तः` इति। `रिचिर्? विरेचने` (धातुपाठः-1441)। प्रत्ययस्वरे प्राप्त आदेर्विभाषोदात्तत्वं विधीयते। `संज्ञायाम्` इत्यादि। <<निष्ठा च द्व्यजनात्>> [[6.1.205]] इत्यस्यावकाशः -दत्तः, गुप्त इति। अस्यावकशोऽसंज्ञायाम् -रिक्तो घट इति; यदा तु रिक्तशब्दः कस्यचित्? संज्ञा भवति तदोभयोः प्राप्तौ पूर्वविप्रतिषेधेन <<निष्ठा च द्व्यजनात्>> [[6.1.205]] इति नित्यमाद्युदात्तो भवति। न च पूर्वविप्रतिषेधो वक्तव्यः, परशब्दस्येष्टवाचित्वात्॥", "61209": "`जुष्टः` इति। `जुषी प्रीतिसेवनयोः` (धातुपाठः-1288)। `अर्पितः` इति। अर्तेर्णिच, `अर्त्तिह्रो` [[7.3.36]] इत्यादिना पुक्॥", "61210": "`केचिदत्र` इत्यादि। किं पुनः कारणं जुष्टशब्द एवावनुवर्तयन्ति? इत्याह -`अर्पितशब्दस्य` इत्यादि। अत्रापि किं कारणम्? इत्याह -`अन्तोदात्तोऽपि` इत्यादि। तमेवान्तोदात्तस्य पाठमन्त्रं दर्शयितुमाह -`तस्मिन्? साकं त्रिशता` इत्यादि। आरम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं विस्पष्टार्थम्, उत्तरार्थं च॥", "61211": "`युष्मदस्मदी मदिक्प्रत्ययान्ते` इति। `युष्यसिभ्यां मदिक्` (द।उ।6।50) मदिक्प्रत्ययमुत्पाद्य तयोष्र्युत्पादनात्। एतेन युष्मदस्मदोः प्रत्ययस्वरेणाअन्तोदात्तत्वं दर्शयति। `तव ममौ ङसि` [[7.2.96]] इति युष्मदस्मदोर्मपर्यन्तस्य तवममौ, शेषे लोपे [[7.2.90]] कृते `अतो गृणे` [[6.1.94]] पररूपत्वम्। युष्मदस्मदोरादेशस्य स्थानिवद्भावादन्तोदात्तत्वम्। एवं च यो ह्रशादेशेन सहैकादेशः, सोऽपि <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इत्युदात्त एवेत्यनेन क्रमेण विभक्तिस्वरे प्राप्त इदमुच्यते॥", "61212": "`तुभ्यम्, मह्रम्` इति। <<ङे प्रथमयोरम्>> [[7.1.28]] इत्यम्भावः, `तुम्यमह्रौ ङयि` [[7.2.95]] इति युष्मदस्मदोस्तुभ्यमह्रावादेशौ। किमर्थं पृथगयं योगः क्रियते? इत्यत आह -`पृथग्योगकरणम्` इत्यादि। एकयोगे हि कार्यिणोः, निमित्तयोश्च समानत्वाद्यथासंख्यमत्र भवितव्यमिति कस्यचिदाशङ्का स्यात्। अतः पृथग्योगकरणं यथासंख्यनिरासार्थमिति प्रदर्शनार्थम्। ततश्चास्वरितत्वादेव यतासंख्यं न भविष्यति। आशङ्कातः कस्यचिन्मन्दबुद्धेः स्यादिति तन्निरासार्थं पृथग्योगकरणम्। अयमपि पूर्ववदेव विभक्तिस्वरापवादः॥", "61213": "`कण्ठम्, ओष्ठम्` इति। भावार्थे तद्धितः। `नाव्यम्` इति। नावा तार्यमित्यस्मिन्नर्थे `नौवयोधर्म` [[4.4.91]] इत्यादिना यत्। अत्र <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशे कृते व्यञ्जनस्य स्वरविधावविद्यमानत्वात्? ततः पूर्वस्य स्यादिति नावः प्रतिषेधः क्रियते। `ललाटम्` इति। `शरीरावयवाद्यत्` [[5.1.6]] इति यत्॥", "61214": "`ईड स्तुतौ` (धातुपाठः-1667) `वदि अभिवादनस्तुत्योः` (धातुपाठः-11) `वृङ्? सम्भक्तौ` (धातुपाठः-1509) `शंस स्तुतौ` (धातुपाठः-728) [शंसु -धातुपाठः-] `दुह प्रपूरणे` (धातुपाठः-1014) -एतेभ्यो धातुभ्यः `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यत्? प्रत्ययः। कस्मिन्? पुनः प्राप्त इदमारभ्यते? इत्याह -`द्व्यनुबन्धकत्वात्` इत्यादि। अथ कथं पुनर्वार्यमित्यत्र ण्यत्प्रत्ययः, यावता `एतिस्तुशासु` [[3.1.109]] इत्यादिना विशेषविहितेन क्यपा भवितव्यम्? इत्याह -`वार्यम्` इत्यादि। ननु च वृङोऽपि क्यपैव भवितव्यम्। `वृ` इति सामान्यनिर्देशात्? इत्याह -`क्यब्विधौ हि` इत्यादि॥", "61215": "`णुप्रत्ययान्त` इति। तद्विधौ `स्थो णुः` (द।उ।1।147) इत्यतो णुग्रहणानुवृत्ते। `यदि चानशन्तः` [`यदा - काशिका] इति। `ताच्छील्यवयोवचनशक्तिषु चानश्? [[3.2.129]] इत्यनेन। `अथ शानजन्तः` इति। `लट) शतृशानचो` [[3.2.124]] इत्यादिना। `लसार्वधातुकनिघाते कृते` इति। `तास्यनुदात्तेत्` [[6.1.180]] इत्यादिना। इन्धाने` इति। अस्यानुदात्तत्वात्। `उदात्तनिवृत्तिस्वरेण` इति। <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्यनेन। `वेणुः` इत्यादि। <<संज्ञायामुपमानम्>> [[6.1.204]] इत्यस्यावकाशः - चञ्चा, वर्घ्रिकेति, अस्या विभाषाया अवकाशः - अनुपमानो वेणुशब्दः शुष्को वने वेणुरिति वेति, यदा वेणुरिवेत्युपमानवेणुशब्दः कस्यचित्? संज्ञा भवति तदा <<संज्ञायामुपमानम्>> [[6.1.204]] इति तस्याद्युदात्तत्वमिष्यते, तच्च पूर्वविप्रतिषेधाल्लभ्यते॥", "61216": "`कुह विस्मापने`, (धातुपाठः-1901) `शठ आठ सम्यगवभाषणे` (धातुपाठः-1854,1855) - एतौ चौरादिकौ। `श्रथ श्लथ क्रथ वलथ हिंसार्थाः` (धा।पा799,801,802)॥", "61217": "", "61218": "`मा हि चीकरताम्` इति। <<सन्वल्लघुनि चङ्परेऽनग्लोपे>> [[7.4.93]] इत्यभ्यासस्येत्त्वम्। `अटि प्रतिषिद्धे` इति। यद्यटः प्रतिषेधो यस्य तस्यैव स्वरः स्याद्धात्वकारस्य। `हि च` इति `निघातः` इति। प्रतिषिद्ध इत्यपेक्षते। यदि निघातो न प्रतिषिध्येत, तदा चङन्तस्योदात्तस्याभाव एव स्यात्। `मा हि दधत्` इति। <<विभाषा धेट्श्व्योः>> [[3.1.49]] इति च्लेश्चङ्॥", "61219": "`उदुम्बरावती` इति। उदुम्बरा अस्यां सन्तीति चातुरर्थिको मतुप्, <<मतौ बह्वचोऽनजिरादीनाम्>> [[6.3.119]] इति दीर्घत्वम्। `शरावती` इति। अत्र <<शरादीनां च>> [[6.3.120]] इति। `मतोरिति किम्? गवादिनी` इति। `मतोः` इत्यस्मिन्ननुच्यमाने तत्सम्बद्धं पूर्वग्रहणमपि नोच्येत, संज्ञाशब्दस्याकारमात्र स्योदात्तत्वं प्रसज्येत। पूर्वग्रहणं मतोरनन्तरस्यास्य यथा स्यात्। इह मा भूत् - सानुमतीति। लक्षणप्रतिपदोक्त परिभाषया (व्या।प।3) चेहैव स्यात् - श्यमावती, उदुम्बरावतीत्यादि न स्यात्। पूर्वग्रहणात्? पूर्वमात्रस्य भवति॥", "61220": "`अजिरवती` इत्यादि। पूर्ववन्मतुप्। `पित्त्वादनुदात्तत्वं प्राप्तम्` इति। अतसतस्यायमपवाद इति शेषः। अथावत्या इत्युच्यमाने राजवतीत्येतस्मान्न भवति, अस्ति ह्रेतदपि नलोपे कृतेऽवतीशब्दान्तम्? इत्याह -`स्वरविधौ` इत्यादि। कथमुदाहरणम्, यावत मतोर्वत्वस्यासिद्धत्वादत्रादतीशब्दान्तत्वं नास्ति? इत्याह -`वत्वं पुनः` -इत्यादि। पुनःशब्देन नलोपाद्विशेषं दर्शयति। लोपो ह्रसिद्धः, वत्वं पुनः सिद्धम्। कुतः? आश्रयात्। आश्रयः स्वरविधौ निमित्तत्वेनोपादानमित्यर्थः। अवतीशब्दस्यान्तोदात्तत्वं ब्राउवता वत्वमाश्रितम्, तस्मादाश्रयात्तस्य सिद्धत्वम्, अन्यथैव वचनमनर्थकं स्यात्। न हि वत्वस्य सिद्धत्वमन्तरेणावतीशब्दान्तं किञ्चिदस्ति॥", "61221": "अयमपि पित्त्वानुदात्तस्यैवापवादः `अहीवती` इत्यादि। <<शरादीनां च>> [[6.3.120]] इति दीर्घः, <<संज्ञायाम्>> [[8.2.11]] इति च वत्वम्॥", "61222": "`उदात्तनिवृत्तिस्वरापवादोऽयम्` इति। `दधीचः` इति। दध्यञ्चतीति क्विन्, <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्युत्तरपदप्रकृतिस्वरेणाञ्चेरकार उदात्तः। विभक्तावजादावसर्वनामस्थाने `अचः` [[6.4.138]] इत्यकारलोपे कृते <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्युदात्तनिवृत्तिस्वरः प्राप्नोति, अतस्यस्याय मपवादः। `चावतद्धिते` इत्यादि। यदिदमञ्चेः पूर्वस्यान्तोदात्तत्वं विधीयते, तदा तद्धितं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानञ्चेदम् -अन्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा, तेन तद्धिते न भविष्यतीति॥", "61223": "`राजपुरुषः` इत्यादिषूदहरणेषु समासपदानां तस्मस्तस्मिन्? स्वरे प्राप्ते सतीदमारभ्यते, स आख्यायते। राजशब्दे तावत्? `कनिन्? युवृषितक्षिराजि` (द।उ।6।51) इति कनिन्प्रत्ययान्तत्वात्? नित्स्वरेणाद्युदात्तत्वम्। एवं पुरुषेऽपि, स हि `पुरः कुषन्` (द।उ।6।51) इति कुषन्प्रत्ययान्तो व्युत्पाद्यते। ब्राहृण इदमिति <<तस्येदम्>> [[4.3.120]] इति ब्राआहृणशब्दोऽणन्तः प्रत्ययस्वरेणान्तोदात्तः। `कलस्तृपश्च` (दा।उ।8।107) इति `बृषादिभ्यश्चित्` (द।उ।8।109) बहुलवचनात्? `कमेर्बुक्` (द।उ।8।114) इति कम्बलशब्दो व्युत्पाद्यते, तेनायं चित्स्वरेणान्तोदात्तः। कन्यशब्दोऽन्तस्वरित; `अध्न्यादयश्च` (द।उ।8।14) इति निपात्यते। अथ वा -`कनी [`कन` -धातुपाठः-] दीप्तिकान्तिगतिषु` (धातुपाठः-460) इत्यस्मात्? `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यत्, <<कन्यायाः कनीन च>> [[4.1.116]] इति निपातनात्? वृद्ध्यभावः। तित्स्वरेणायमन्तस्वरितः सम्पद्यते। स्वनशब्दः <<स्वनहसोर्वा>> [[3.3.62]] इत्यबन्तत्वात्? धातुस्वरेणाद्युदात्तः। पटत्? पटद्? ष्यन्यत इति पटहशब्दः पृषोदरादित्वादन्तोदात्तः। शब्दशब्दः `शाशपिभ्यां ददनौ` (द।उ6।48) इति दन्प्रत्ययान्तत्वान्नित्स्वर#एणाद्युदात्तः। पचादिषु `नदट्` इति पठते, तेन `टिड्ढाणञ्` [[4.1.15]] इति ङीपि कृते तत्र च <<यस्येति च>> [[6.4.148]] इत्यकारलोपे कृत उदात्तनिवृत्तिस्वरेणान्तोदात्तो नदीशब्दो भवति। घोशब्दो घञन्तत्वान्? ञित्स्वरेणाद्युदात्तः। पृषत्समिच्छब्दौ प्रातिपदिकस्दरेणान्तोदात्तौ। अथ राजपृषत्, ब्राआहृणसमिदित्यत्र कथमन्तो भवति, यावता योऽत्र समासस्यान्तो नासौ स्वरभाक्? यस्तु तस्मात्? पूर्वः स तकारेण व्यवहितः? इत्याह -`स्वरविधौ` इतद्यादि। `हलन्तेऽपि` इति। समासस्येदं विशेषणम्। `अन्तोदात्तत्वम्` इति। समासे येऽचः पूर्वे तदपेक्षया परस्याचोऽन्तत्वं वेदित्वयम्। तेन `नानपदस्वरस्यापवादः` इति। समासे हि पदानां पृथक्? स्वरो भवति। यदिवं नोच्येत ततो नानापृथक्पदानां स्वरः प्राप्नोति। अतस्तदपवादोऽयमुच्यते॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां षष्ठाध्यायस्यप्रथमः पादः॥- - - अथ षष्ठोऽध्यायःद्वितीयः पादः", "62001": "`पूर्वपदग्रहणम्` इत्यादि। प्रकृतिभावो ह्यत्र तस्य यूज्यते विधातुम्, यस्यानुदात्तलक्षणो विकारः प्राप्नोति। नच पूर्वपदस्याज्झल्समुदायस्यासौ प्राप्नोति, किं तर्हि? स्वरितस्य, उदात्तस्य वा। तत्र यदीह पूर्वपदग्रहणं पूर्वपद एव वर्तते, अपार्थकमेवेदं वचनं स्यात्! तस्मात्? पूर्वपदस्ये स्वर उदात्ते स्वरिते वा पूर्वपदग्रहणं वर्तत इति विज्ञायते। भवति हि तात्स्थ्यात्? ताच्छब्द्यम्, यथा -`मञ्चाः क्रोशन्ति` इति। `स्वभावेनावतिष्ठते` इति। अनेन प्रकृत्या भवतीतयस्यार्थमाचष्टे। तमेव वाक्यान्तरेण स्पष्टीकर्त्तुमाह -`विकारमनुदात्तत्वमापद्यते` इति। कथं पनरनुदात्तलक्षणो विकारः प्राप्नोति, यन्निवृत्तये प्रकृतिभावोऽयमारभ्यते? इत्याह -`समासान्तोदात्तत्वे हि सति` इत्यादि। `समासान्तोदात्तत्वापवादोऽयम्` इति। नाप्राप्ते तस्मिन्नारम्भात्। `कृष्णो मृगः` इति। कृष्णगृणत्वात्। `आद्युदात्तः` इति। ञित्स्वरेण। `तत्र च` इत्यादि। तत्र `स्तुवो दीर्घश्च` (द।उ7।4) इति दीर्घग्रहणमनुवर्तते। `सुशृभ्यां निच्च` (द।उ।7।6) [सृशृभ्यामूर्च -द।उ।] इत्यतो निच्चेति च। `तेनाद्युदात्तः` इति। नित्स्वरेण। `कृदुत्तरपद` इत्यादि। ब्राहृचारीति `व्रते` [[3.2.80]] इति णिनिः, उपपदसमासः। तत्र <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति ब्राहृचारीति शब्दः कृत्स्वरेणान्तोदात्तः। `स्नातकशब्दः कन्प्रत्ययान्तः` [स्नातशब्दः -मुद्रितः पाठः - काशिका] इति। क्षोत्रियँश्छन्दोऽदीते` [[5.2.73]] इति निपात्यते, तेन नित्सवरेणाद्युदात्तः। `मनुष्यशब्दस्तित्स्वरितमिति` इति। `मनोर्जातावञ्यतौ षुक्च` [[4.1.161]] इति यत्प्रत्ययान्तत्वात्। `उदात्तग्रहणम्` इत्यादि। तत्रोदात्तग्रहणम्? <<कर्षात्वतो घञोऽन्त उदात्तः>> [[6.1.159]] इत्यतोऽनुवर्तते। `स्वरितग्रहणम्` इति। `तित्? स्वरितम्` (6.1.1।85) इत्यतः। ततः किं सिद्धं भवति? इत्याह -`तेन` इत्यादि। उदात्तसरितानुवृत्तेह्र्रेतदेव प्रयोजनम् -यत्रोदात्तः स्वरितो वास्ति तत्रैव यता स्यात्। समशब्दो हि `सुनोतेर्डमप्` () इति डमप्प्रत्ययान्तो व्युत्पाद्यते, तेन धातोष्टिलोपे कृते प्रत्ययस्य पित्त्वात्? सर्वानुदात्तो भवति॥", "62002": "`यतोऽनाव इत्याद्युदात्तः` इति। `नौवयोधर्म` [[4.4.91]] इत्यादिना यत्प्रत्ययान्तस्य तुल्यशब्दस्य व्युत्पादितत्वात् - तुलया सम्मितं तुल्यमिति। `सदृक्शब्दः` इत्यादि। `त्यादादिषु दृशोऽनालोचने कञ्च` [[3.2.60]] इत्यत्र `समानान्ययोश्चेति वक्तव्यम्` (वा।261) इत्युपसंख्यानं कृतम्, तेन सदृक्छब्दः कन्नन्तः। <<दृग्दृशवतुषु>> [[6.3.89]] इति समानस्य सभावः। `सदृशशब्दोऽपि` इत्यादि। कृदुत्तरपदप्रकृतिस्वरेणेत्यपेक्षते। `इकारः प्रत्ययः` [इकारप्रत्ययः - काशिका] इति। तत्र `अत्र इः` (द।उ।1।67) इत्यत इकार प्रत्ययानुवृत्तेः। `कित्` इति। `भुजेः किच्च` (द।उ।1।71) इत्यतः किद्ग्रहणानुवृत्तेः। `सप्रत्ययान्तोऽक्षशब्दः` इति। `अशेर्देवने` (द।उ।9।24) इत्यत्र `वृतृवदिहनिकमिकषिभ्यः सः` (द।उ।9।21) [`कमिकषियुमुचिभ्यः` - द।उ।] इत्यतः सप्रत्ययानुवृत्तेः। `नब्विषयस्य` इति। नपुंसकलिङ्गविषयस्येत्यर्थः। `मध्योदात्तत्वञ्च` इति। `न्यग्रोधस्य च केवलस्य` इति। निपातनादित्यनेन सम्बन्धः। `अब्राआहृणः` इति। नञ्समासः। `कुब्राहृणः` इत्यादौ <<कुगतिप्रादयः>> [[2.2.18]] इति। `एतान्यव्ययान्याद्युदात्तानि` इति। `निपाता आद्युदात्ताः` (फि।सू।80) इति वचनात्, एषां च निपातत्वात्। तत्र न्कुशब्दयोः `चादयो।सत्वे` [[1.4.57]] इति चादिषु पाठान्निपातत्वम्, निरतिशब्दयोस्तु <<प्रादयः>> [[1.4.58]] इति, तयोः प्रादिषु पाठात्। `अव्यये` इत्यादि। अव्यये पूर्वपदे प्रकृतिभावे कर्तव्ये नञ्प्रभृतीनामेव भवतीत्येतदर्थरूपं व्याख्येयम्। तत्रेदं व्याख्यानम् - <<चङ्यन्यतरस्याम्>> [[6.1.218]] इत्यतोऽनयतरस्यांग्रहणमनुवर्तते; सा च व्यवस्थितविभाषा, तेन नञ्कुनिपातानामेव भविष्यतीति। `स्वात्वाकालकः` इति। <<मयूरव्यंसकादयश्च>> [[2.1.72]] समासः <<क्त्वातोसुन्कसुनः>> [[1.1.40]] इति पूर्वपदस्याव्ययत्वम्। `मुहूर्तसुखम्` इत्यादौ <<कालाध्वनोरत्यन्तसंयोगे>> [[2.3.5]] इति द्वितीया। `सर्वरात्रशब्दोऽप्यच्प्रत्यान्तः` इति। सर्वा च रात्रिश्चेति `पूर्वकालैक` [[2.1.48]] इत्यादिना समासे `अहः सर्वैक` [[5.4.87]] इत्यादिनाचप्रत्ययविधानात्॥", "62003": "`रुहे रश्च लो वा` इति। अत्र `ह्मश्याभ्यामितन्` (द।उ।6।12) इतीतनोऽनुवर्तनात्। `परमकृष्णः` इति। अत्र समासान्तोदात्तत्वमेव॥", "62004": "`शम्बगाधम्` इति। गाध्यत इति गाधः, `गाधृ `प्रतिष्ठालिप्सयोः` (धातुपाठः-4) [प्रतिष्ठालिप्सयोग्र्रन्थे च -धातुपाठः-] अर्धर्चादित्वात्? [[2.4.31]] पक्षे नपुंसकत्वम्। `अर्तिलूधूसू` इति। अनेन सूत्रैकदेशेन <<अर्तिलूधूसूखनसहचर इत्रः>> [[3.2.184]] इत्येतत्सूत्रमुपलक्ष्यते। `मध्योदात्तः` इति। प्रत्ययस्वरेण। `अशूप्रुषि` इति। `अशूप्रुषिलटिकणिघटिविशिभ्यः कन्` (द।उ।8।125) [अशूप्रुषिप्लुषिलटिकटिकणिखटिविशिभ्य) क्वन् -द।उ।] इति सूत्रमुपलक्षयति। ननु चायामः=प्रमाणम्, `आयामस्तु प्रमाणं स्यात्` इति वचनात्; न च शम्बगाधमित्यादिस्तत्पुरुषः प्रमाणवाची, किं तर्हि, इयत्तावाची? इत्याह -`प्रमाणम्` इत्यादि। इयतो भाव इयत्ता, सा परिच्छिद्यते येन स इयत्तापरिच्छेदः, स एवात्र प्रमाणं वेदितव्यम्। न पुनरायाम एव। तत्? कथम्? प्रमीयतेऽनेनेति प्रमाणमिति क्रियाशब्दोऽत्र प्रमाणशब्दो गृह्रते, न तु रूढिशब्दः; लक्ष्यानुरोधात्। तेन येनेयत्ता परिच्छिद्यते तत्? सर्वं प्रमाणम्। `स्वरव्यङ्ग्यं च` इति। अस्य स्वरे योऽयं प्रकृतिभावो विधीयते तेन व्यङ्ग्यं द्योत्यमित्यर्थ-। `एतेषाम्` इति। शम्बगाधादीनाम्॥", "62005": "दायः=भागः, अंश इत्यर्थः। दायमादत्त इति दायादः। मूलविभुजादित्वात्? कः (वा।232)। दायादस्य कर्म दायाद्यम्। किं पुनस्तत्? दाय एव। स हि दायादिरादीयमानः कर्म भवति। `उदात्त इति च तन्न वर्तते` इति। `मन्त्रे वृष` [[3.3.96]] इत्यादेः सूत्रात्। ननु च निपूर्वः सूत्रे धातुरुदात्तः तत्? कथं केवलाद्भवति? इत्याह -`बहुलवचनात्` इत्यादि। यदि `स्वामीआराधिपति` [[2.3.39]] इत्यादिना षष्ठी विधीयते। सप्तम्येव हि विधातव्या, न षष्ठी, तस्याः `शेषे` [[2.3.50]] इत्येव सिद्धत्वात्? इत्यत आह -`तस्यास्तु` इत्यादि। यदि सप्तम्येव विधीयते, ततोऽसौ विशेषविहितत्वात्? षष्ठआ बाधिका विज्ञायेत, न त्वेवं विज्ञायेतेति पुनरनयैव शेषलक्षणषष्ठभ्यनुज्ञायते, न त्वपूर्वा विधीयते। तेनाप्रतिपदविहितत्वाद्भवत्येव समासः। `परमदायादः` इति। अत्र पूर्वपदं पूजावाचि, न दायाद्यवाचि॥", "62006": "कार्यसिदिंध प्रतिवध्नाति विहन्तीति प्रतिबन्धि। ताच्छील्य आवश्यके वा णिनिः। `विशेषणसमासे कृते` इति। ननु च विशेषणसमासः सामानाधिकरण्ये भवति; न चेदं सामानाधिकरण्यम्, कथं पुनरत्र पूर्वपदं प्रतिबन्धि भवति? इत्याह -`गमनम्` इत्यादि। अचिरकालभाविनि गमने कार्यसिद्धिर्निष्पद्यते। `कृच्छ्रयोगि च` इति। कृच्छ्रम्=दुःखम्, तद्योगिनि गमने गन्ता प्राप्यमर्थं दुःखेनाभिहन्यमानो न प्राप्नोति तस्माच्चिरकालभावि कृच्छ्रयोगि वा यद्? गमनं तत्? कार्यसिद्धेः प्रतिबन्धि जायते॥", "62007": "`व्याजः` इति। छद्मेत्यर्थः। `मूत्रपदेन` इति। मूत्रव्याजेनेत्यर्थः। `ष्ट्रन्प्रत्ययान्तः` इति। `सिविमुच्योष्टेरूच्च` (द।उ।8।83) [षिविमुच्योष्टेरू च-द।उ।] इत्यत्र ष्ट्रन्नित्यस्यानुवृत्तेः। `मूत्रयतेः` इति। `मूत्र पररुआवणे` (धातुपाठः-1909)। उच्चारशब्दोऽपि घञन्तः। ``थाथादि` इत्यादि। `घञन्तत्वात्॥", "62008": "`कुडआदिहेतुके` इत्याद। कुडआदिहेतुके वर्तन्ते; कार्ये कारणोपचारात्। भवति कारणे कार्योपचारः, यथा -`सर्वमिदं पुरातनं कर्म भुजयते` इति। `कवतेः` इति। `कु शब्दे (धातुपाठः-1042)। `आद्युदात्तः` इति। <<यतोऽनावः>> [[6.1.213]] इत्यनेन। `डक्प्रत्ययांन्तोऽन्तोदात्त इत्यपरे` इति। ते `कवतेडर्क्` (द।उ।8।20) इति सूत्रमधीयते॥", "62009": "`रज्जुशारदम्, `दृषच्छारदम्` [दृषच्छारदाः -काशिका] इति। योगविभागात्? समासः। `शारदशब्दोऽय प्रत्यग्रवाची` इति। प्रत्यग्रम्भिनवम्, अचिरकालभावीत्यर्थः। एतेन नानार्थवाचित्वं शारदशब्दस्य दर्शयति। `नित्यसमासः` इति। महाविभाषायाः प्रकृताया व्यवस्थितविभाषात्वात्। `अनुपहतम्` इति। रजोभिः। अनुपहतत्वं तु सद्यौद्धृतत्वात्। `उप्रत्ययान्तः` इति। `सृजेरसुं च` (द।उ।1।100) इत्यत्र `भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः` (द।उ।1।92) [भृमृशीतृचरित्सरितनिमिमस्जिब्यः उः -द।उ।] इत्यत उकारप्रत्ययानुवृत्तेः। `अदिप्रत्ययान्तः` [अदिक्प्रत्ययान्तः -मुद्रितकाशिका, आदिप्रत्ययान्तः -मुद्रितन्यासः] इति। `दृणातेः षुग्? ह्रस्वश्च` (द।उ।6।45) इत्यत्र `शृदृभसोऽदिः` (द।उ।6।42) इत्यतोऽदिप्रत्ययानुवृत्तेः।`परमशारदम्` इति। शरदि भवं शारदम्। `सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्` [[4.3.16]] इति सूत्रेणोत्पन्नोऽयं शब्दः॥", "62010": "`जातिवाचिनो नियतविषयाः` इति। नियतो विषयो येषामिति विग्रहः। नियतविषयत्वं तु जातिविशेषत्व एव वर्तमानत्वात्। अध्वर्युप्रभृतीनाम्? `गोत्रञ्च चरणैः` (का।वृ।4.1.63) इति चरणत्वाज्जातित्वम्। `यत्प्रत्ययान्तः` इति। <<द्युप्रागपागुदक्प्रतीचो यत्>> [[4.2.101]] इति। `कठशब्दः पचाद्यचि व्युत्पादितः` इति। `कठ कृच्छ्रजीवने` (धातुपाठः-333) इत्यस्मात्। `तदेवम्` इति। यस्मादेदं कालापशब्दोऽणन्तः, तस्मात्? प्रत्ययस्वरेणान्तोदात्तः। `ठकि सत्यन्तोदात्तः` इति। `कितः` [[6.1.159]] इत्यनेन॥", "62011": "`पितृसदृशः` इति। `तुल्यार्थेः` [[2.3.72]] इत्यादिना षष्ठी, तृतीया च, <<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> [[2.1.31]] इत्यादिना समासः। `पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ` इति। `नप्तृनेष्टृत्वष्टृहोतृपोतृभातृजामातृपितृदुहितृ` (द।उ।2।3) इत्यत्र। अथ सदृशग्रहणं किमर्थम्, यावता मातृसादृश पितृसदृश इत्यत्र `तत्पुरुषे तुल्यार्थं` [[6.2.2]] इत्येव सिद्धम्? इत्यत आह -`षष्ठीसमासार्थञ्च` इत्यादि। तुल्यार्थे हि प्रयोगे षष्ठपि विधीयते। तत्र यदा मातृसदृश इति षष्ठीसमासः क्रियते, तदपि यथा स्यादित्येवमर्थं सदृशग्रहणम्। सति त्वस्यारम्भे तृतीयासमानसेऽपि सदृशग्रहणं कर्तव्यमित्यत आह -`इह` इत्यादि। `दास्याः सदृशः, वृषल्याः सदृस` इति अत्र <<षष्ठ्या आक्रोशे>> [[6.3.21]] इत्यलुकि कृते षष्ठीसमासस्तत्सदृशग्रहणं प्रयोजयति; अलुकि सति रूपविशेषस्य विद्यमानत्वात्। यदि षष्ठीसमासार्थं सदृशग्रहणमिह क्रियते, तृतीयासमासो न कर्तवयः; विशेषाभावात्? नैतदस्ति; तत्रापि हि कर्तव्य एव यत्र षष्ठर्थे नास्ति तदर्थः, यथा -विद्यया सदृशो विद्यासदृश इति, न ह्यत्र षष्ठर्थो विद्यते, किं तर्हि? तृतीयार्थः, विद्यया हेतुना सदृश इत्यर्थः। `अत्र` इत्यादि। तत्र दासीशब्दस्य ङीबुदात्तनिवृत्तिस्वरेणान्तोदात्तार्थः। `दशि सेवने` (धातुपाठः-1786) [दसि आप्यायने -धा।पा] इति, `दंशेष्टटनौ न आ च` (द।उ।9।103) इति टप्रत्ययान्तो नकारस्य चाकारादेशः। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्, `यस्येति` [[6.4.148]] लोपः <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्युदात्तत्वम्। वृषलीशब्दः `जातेरस्त्रीविषयात्` [[4.1.63]] इति ङीषन्तोऽन्तोदात्तो भवति प्रत्ययस्वरेण॥", "62012": "`प्राच्यसप्तशमः` इति। षष्ठीसमासः। `प्राच्यशब्द आद्युदात्तः` इति। यत्प्रत्ययान्तत्वात्? `यतोऽनावः [[6.1.207]] इति। `गान्धारिशब्दः कर्दमादित्वादाद्युदात्तो मध्योदात्तो वा` इति। `कर्दमादीनाञ्च` (फि।सू।3।10) इत्यत्रादिग्रहणं चानुवर्तते, तत्र यदादेरुदात्तो विधीयते तदाऽऽद्युदात्तो भवति; यदा तु द्वितीयस्य तदा मध्योदात्तः।", "62013": "गमनीयम्=गन्तव्यम्। पण्यम्=व्यवहर्तव्यमिति। `मद्रवाणिजः` इति। मद्रेषु यो व्यवहरति स एवमुच्यते। `सप्तमीसमासः` [सप्तमीसमासाः - काशिका] इति। `सप्तमी` [[2.1.39]] इति योगविभागात्। `रक्प्रत्ययान्तत्वात्` इति। `स्फयितञ्चि` (द।3.8.31) इत्यादिना मदे रकं विधाय व्युत्पादितत्वात्॥", "62014": "`तुल्यप्रमाणे वर्तते` [तुल्यप्रमाणं -मुद्रिपाठः] इति। तुल्यं प्रमाणं यस्येति विग्रहः। `अस्वपदविग्रहः` इति स्वपदविग्रहः कस्मान्न भवति? ताशं हि -वाक्यं कर्तव्यं यथा समासार्थः प्रतीयते। `भक्षामात्रम्` इति। अस्य च भिक्षायास्तुल्यप्रमाणमित्येषोऽर्थः। न चायं स्वपदविग्रहेण शक्यः प्रतिपादयितुम्; मात्रशब्दस्य तुल्यप्रमाणवृत्तित्वात्। स हि समास एव तुल्यप्रमाणे वर्तते, न वाक्ये। अत एवोक्तम् -`मात्रशब्दोऽयं वृत्तिविषयः` इत्यादि। वृत्तिरिह समासवृत्तिरेव विषयः। `अप्रत्ययाऽन्तोदात्तः` [अप्रत्ययान्तोदात्तः -काशिकामुद्रितः पाठः] इति। टापा सहैकदेश उदात्तनोदात्तत्वात्।", "62015": "`तत्र सुखप्रियशब्दौ` इत्यादि। तच्छब्देन सुखप्रिययोः प्रत्यवमर्शः, तयोः सुशप्रिययोः हेतुरायत्याम्=जन्मान्तरे प्रीतिकरः। तत्र सुखप्रियशब्दौ वर्तते। किं कारणमेवं व्याख्यायते? इत्याह -`तद्धि हितम्` इत्यादि। हि तदा चेत्यर्थः। तत्पुरुषे प्रकृतिभावोच्यं विधीयते। एष हि तत्पुरुषो हितवाची भवति, यदि सुखप्रियशब्दावृत्तरपदे हितहोतौ वर्तते। हितञ्च किम्? यदायत्यां प्रीति करोति। कथं पुनः सुखाप्रियशब्दौ तद्धेतौ वर्तते कारणे कार्योपचारात्, यथा -नड्वलोदकं पादरोग इति॥", "62016": "अथ प्रीतौ चेतीदं ग्रहणं किमर्थम्, यावता सुखप्रिययोः प्रीत्यव्यभिचारात्। एवं प्रीतौ गम्यमानायां भविष्यति? इत्यत आह -`सुखप्रिययोः प्रीति` [प्रीत्येत्यादि -मुद्रितः पाठः] इत्यादि। प्रीतिग्रहणमन्तरेणापि सिद्धे सुखप्रिययोः प्रीत्यव्यभिचाराद्यदिह प्रीतिग्रहणं क्रियते, तदतिशयिता या प्रीतिस्तस्या यथा स्यादित्येवमर्थम्। `ब्राआहृणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ` इति। ब्राआहृणशब्दोऽणन्तः। छात्रशब्दः `छत्त्रादिभ्यो णः` [[4.4.62]] इति णप्रत्ययान्तः। `कन्याशब्दः स्वरितान्तः` इति। अध्न्यादिषु (द।उ।8।14) तथा भूतस्यैव पाठात्। `राजसुखं राजप्रीयम्` इति। अत्र यद्यपि सुखप्रिययोः प्रीत्यव्यभिचारित्वात्? प्रीतिर्गम्यते, तथाप्यतिशयेन या प्रीतिः सा न गम्यत इति भवति प्रत्युदाहरणम्॥", "62017": "", "62018": "`धान्यमन्तःस्वरितम्` इति। ण्यदन्तत्वात्? तित्सवरेण। `वृषल्या भर्तेत्यर्थः` इति। वृषल्याः कामयितेति यावत्॥", "62019": "`भुवः संज्ञान्तरयोः` [[3.2.179]] इति क्विपा भूशब्दो धातुस्वरेणान्तोदात्तः। एवं वाक्शब्दः, वचः `क्विब्वचिप्रच्छि` (द।उ।10।2) इत्यादिना क्विप्। `चित्` इति। `चितौ संज्ञाने` (धातुपाठः-39) इत्यस्मात्? <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्। `नृतिशृध्योः कूः` (द।उ।1।174) इत्यधिकृत्य `अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः (द।उ।1।176) दिधिषूशब्दः कूप्रत्ययान्तोऽन्तोदात्त इति॥", "62020": "", "62021": "`शकि शङ्कायाम्` (धातुपाठः-86) इत्येतस्मात्? <<गुरोश्च हलः>> [[3.3.103]] इत्यकारप्रत्ययः। केचित्तु घञन्तसय शङ्कशब्दस्य ग्रहणमिति वर्णयन्ति। `बाधु लोडने` (धातुपाठः-5) इत्यस्मादाङ्पूर्वात्? धञि `आबाधः`। अत्यर्थमन्तिकं `नेदीयः`। अन्तिकशब्दस्य <<अन्तिकबाढयोर्नेदसाधौ>> [[5.3.63]] इतीयसुनि परतोनेदादेशः। `अस्तित्वाध्यवसायः` इति। असतित्वनिश्चय इत्यर्थः। `गमनाशङ्कम्` इति। षष्ठीसमासः। क्रियाविशेषणत्वान्नपुंसकलिङ्गम्, लोकाश्रयत्वाद्वा लिङ्गस्य॥", "62022": "`आढओ भूतपूर्वः` इति। यः पूर्वमाढ आसीत्? स एवमुच्यते। समासे गम्यमानार्थत्वाद्भूतशब्दो न प्रयज्यते, यथा -दध्योदन इत्यत्रोपसिक्तशब्दः। `परमपूर्वः` इति। अत्र <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना समासः। `अत्र परमश्चासौ पूर्वश्चेति समासः` इति। इतिकरणोऽर्थनिर्देशार्थः। परमश्चसौ पूर्वश्चेति योऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदाहरणे समास इत्यर्थः। `न तु परमो भूतः` इति। तुशब्दोऽवधारणे। परमो भूतपूर्व इति योऽयं वाक्यार्थः परमपूर्वकाललक्षणः, तस्मिन्नेवातर समास इत्यर्थः। किं कारणम्? इत्याह -`तथा च` इत्यादि। चशब्दो हि हीत्यर्थे। अयं समासो न भवति। एवं सत्यदाहरणमेवेदं भवति, न प्रत्युदाहरणम्, पूर्वशब्दस्य भूतपूर्ववाचित्वात्। यस्तु प्रायेण पुस्तकेषु पाठोऽत्र `परमश्चासौ भूतपूर्वश्चेति विग्रहो न तु परमो भूतपूर्वः` इति; स प्रमादपाठो वेदितव्यः; वाक्यद्वयेऽपि भूतपूर्वयोर्गम्यमानत्वात्॥", "62023": "सह विषया सविधः, <<तेन सहेति तुल्ययोगे>> [[2.2.28]] इति बहुव्रीहिः, <<वोपसर्जनस्य>> [[6.3.82]] इति सहसय सभावः। एवं सनीडादिष्वपि बहुव्रीहिः सभावश्च वेदितव्यः। मद्रसविधमित्यादयः षष्ठीसमासाः। ननु च सह विषयेत्येवमादावर्थे सविधादयः शब्दा व्युत्पाद्यन्ते, तत् कथमेषां सामीप्ये वृत्तिः? इत्याह -`सह विषयेत्यवमादिका` इत्यादि। आदिशब्देन सह नीडेन सह मर्यादयेत्येवमादीनां ग्रहणम्। एवकारोऽवधारणार्थोऽभिधेयव्यवच्छेदं करोति -व्युत्पत्तिनिमित्तमेव, नाभिधेयमिति। `समीपवाचिनस्त्वेते` इति। अत्रापि तुशब्दोऽवधारणार्थ एव। वसमीपवाचिन एव, न तु सह विधयेत्येवमादिवाक्यार्थवाचिन इति॥", "62024": "`विस्पष्टकटुकम्` इति। कटुशब्दात्? <<संज्ञायां कन्>> [[5.3.87]] । `सुप्सेति समासः` इति। अथ `विशेषणं विशेष्येण बहुलम्` [[2.1.57]] इति विस्पष्टकटुकमित्यत्र विगृह्र कस्मात्? कर्मधारय एव न क्रियते? इत्याह -`विस्पष्टादयो ह्यत्र` इत्यादि। कर्मधारयो हि सामानाधिकरण्ये सति भवति। न चेह सामानाधिकरण्यमस्ति। तस्माद्विस्पष्टादयोऽत्र कटुकादेः शब्दस्य यत्? प्रवृत्तिनिमित्तं कटुकत्वादि तस्य विशेषणम्, न तद्वतो द्रव्यस्य। कटुकादिभिश्च शब्दैः कटुकत्वलक्षणो [कटुकस्यास्तिलक्षणो यस्यास्ति -इति मुद्रितः पाठः] गुणो यस्यास्ति तद्गुणवद्द्रव्यमभिधीयते। ततो वैयधिकरण्ये नास्ति कर्मधारायः। तस्माद्यथोक्तेन विधिना समासोऽत्रि कर्तव्यः। `विस्पष्टः` [विस्पष्टशब्दः -काशिका] इति। `स्पश बाधनस्पर्शनयोः` (धातुपाठः-887) इत्यस्य निष्ठायाम्? `दस्तस्पष्टच्छन्नज्ञप्ताः` [वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः -पा।सू।] [[7.2.27]] इति स्पष्टशब्दो निपतितः, तस्य विशब्देन गतसमासः। `विचित्रशब्दः` इत्यादि। `चित्र चित्री करणे` (धातुपाठः-1917) चुरादि, तस्माद्घञ, विशेषेण चित्रं विचित्रम्, प्रादिसमासः। `अव्ययस्वरेण` इति। `तत्पुरुषे तुल्यार्थं` [[6.2.2]] इत्यादिना विहितेन। अवययं पुनरत्र विशब्दः, तस्य च `निपाता आद्युदात्ताः` (फि।सू।4।80) इत्याद्युदात्तत्वम्। `विचित्तशब्दम्` इति। चिती संज्ञाने` (धातुपाठः-39) इत्यस्य निष्ठायां चित्तम्। विगतं चित्तमस्येति बहुव्रीहि। `बहुव्रीहिस्वरेण` इति। `चिती संज्ञाने` (धातुपाठः-39) इत्यस्य निष्ठायां चित्तम्। विगतं चित्तमस्येति बहुव्रीहि। `बहुव्रीहिस्वरेण` इति। `बहुव्रीहौ प्रकृत्या` [[6.2.1]] इति विहितेन। `व्यक्तशब्दः` इत्यादि। अञ्जेर्विपूर्वस्य निष्ठायां गतिस्वर उदात्तः, तत्रेकारस्य स्थाने यो यण्? स उदात्तयण्? भवति, ततः परस्यकारस्यानुदात्तस्य स्वरितः। `सम्पन्नशब्द` इत्यादि। पदेः सम्पूर्वस्य निष्ठायां सम्पन्नशब्दः कर्तरि चेति। `पटुपण्डितशब्दौ प्रत्ययस्वरेण` इति। अन्तोदात्तग्रहणमेकवचनान्तं यत्? प्रकृतं तस्य विपरिणामं कृत्वाऽन्तोदात्ताविति सम्बन्धः कर्तव्यः। पाटयतेः `फलिपाटिनमिजनीनां गुक्? पाटिनाकिधश्च` [फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च -द।उ।] (द।उ।1।103) इत्युप्रत्ययः, पटिशब्दश्चादेशः -पटुः। `पडि गतौ` (धातुपाठः-281) अस्मान्निष्ठायां `पण्डितः`। `कुशलः` इति। कुशाँल्लातीति `लाऽऽदाने` (धातुपाठः-1058) इत्यस्मात्? <<आतोऽनुपसर्गे कः>> [[3.2.3]] इति कः, उपपदसमासः, <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्युत्तरपदप्रकृतिस्वरः। `चपलशब्दश्चित्स्वरेण` इति। अन्तोदत्त इत्यपेक्षते। कथमयमन्तोदात्तश्चित्स्वरेण? इत्याह -`कलस्तृपश्च` (द।उ।8।107) इत्यतः कलप्रत्ययान्तो व्युत्पाद्यते। तत्र `बृषादिभ्यश्चित्` (द।उ।8।109) इत्यतश्चिद्ग्रहणमनुवर्तते। तेन चित्स्वरेणान्तोदात्तः। `निपुणशब्दः` इत्यादि। `अन्तोदात्तः` इति। प्रकृतेन सम्बन्धः। `पुणेः` इति `पुण कर्मणि शुने` (धातुपाठः-1333) इत्यस्मात्? `इगुपधाज्ञाप्रीकिरः कः [[3.1.135]] इति कप्रत्ययः॥", "62025": "`गमनश्रेष्ठम्` इति। `ल्युट्? च` [[3.3.115]] इति ल्युट्; विशेषणसमासः। अतिशयेन प्रशस्यः श्रेयः। दृष्ठन्नीयसुनोः <<प्रशस्यस्य श्रः>> [[5.3.60]] इति श्रादेशः। `वचनज्येष्ठम्` इति। अत्रापि। तयोरेव प्रत्यययोः परतः प्रशस्यशब्दस्य ज्यादेशः। `गमनकनिष्ठम्, गमनकनीयः` इति। इष्ठन्नीयसुनोः परतो युवशब्दस्याल्यशब्दस्य च <<युवाल्पयोः कनन्यतरस्याम्>> [[5.3.64]] इति कनादेशः। ननु च `श्रज्यकनाम्` इति कथम्? इतिकरणो हेतौ। यस्माच्छ्रज्यकनामिहादेशानां ग्रहणं ते चाजादौ प्रत्यये प्रशस्यादीनां विधीयन्त इति केवलानामसम्भवः। तस्मात्? सामर्थ्यात्? तद्वदुत्तरपदं गृह्रते॥", "62026": "`कुमारश्रमणा` इति। `प्रातपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।पा।21) इति कुमारीशब्दोऽत्र समस्यते। एवं हि श्रमणशब्देन स्त्रीलिङ्गेन सामानादिकरण्यमुपपद्यते; नान्यथा। `कुमारशब्दोऽन्तोदात्तः` इति। `कुमार क्रीडायाम्` (धातुपाठः-1877) इत्यस्मात्? पचाद्यचि व्युत्पादितत्वात्। `केचित्? पुनः` इत्यादि। कथं पुनर्लक्षणप्रतिपदोक्तपरिभाषायां (व्या।प।3) सत्यामविशेषेणेति लभ्यते? एवं मन्यते -चकारोऽत्र क्रियते। स चास्यैव विधेः समुच्चयार्थः। तेन सर्वत्राविशेषेण भवति। एवं हि समुच्चयो भवति, नान्यथेति। ये तु <<कुमारः श्रमणादिभिः>> [[2.1.70]] इत्यत्रैव समासमिच्छन्ति, ते पूर्वविध्यपेक्षया चकारमिह समुच्चयार्थं वर्णयन्ति॥", "62027": "`प्रतिगत एनसा` इति। अनेन `अवादयः क्रुष्टाद्यर्थे तृतीयया` (वा।92) इति तत्पुरुषत्वं प्रत्येनःशब्दस्य दर्शयति। `प्रतिगतमेनो वा यस्य` इति। अनेन बहुव्रीहित्वम्। `कुमारप्रत्येनाः` इति। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। ननु च नेह सूत्र उदात्तग्रहणमस्ति, तत्? कथमुदात्तस्वरो लभ्यते? इत्याह -`उदात्त इत्येतदिह` इत्यादि। किं पुनस्तत्सामर्थ्यम्? इत्याह -`पूर्वपद` इत्यादि। न हि प्रकृतिस्वरादन्य एव स्वर उच्यते। किं तर्हि? प्रकृतिस्वर एव; यतः प्रकृत्येति वर्तते। तत्रैवमभिसम्बन्धः क्रियते -प्रकृतिभावेन कमारशब्दस्य यः स्वरः प्राप्तः स आदेर्भवतीति। एवञ्च सामर्थ्यादुदात्तो लभ्यते। स एव हि कुमारशब्दस्य प्रकृतिभावेन स्वरः॥", "62028": "", "62029": "`तद्धितार्थे द्विगोर्यप्` इति। <<मासाद्वयसि यत्खञौ>> [[5.1.81]] इत्यनुवर्तमाने <<द्विगोर्यप्>> [[5.1.82]] इति यप्। `ठञो लुक्` इति। प्राग्वतीयस्य। `पञ्चकपलः` इति। पञ्चसु कपालेषु संस्कृतः पुरोडाश इति <<संस्कृतं भक्षाः>> [[4.2.16]] इत्यण्, तस्य <<द्विगोः>> [[4.1.21]] इत्यादिना लुक्। `एते समासाः` इति। पञ्चकपाल इत्येवमादयो दशशरावपर्यन्ताः। `कृताष्प्रत्ययलोपा` इति। कृतोऽण्प्रत्ययलोपो येषां ते तथोक्ताः। पञ्चदशशब्दावत्र `ग्रः संख्यायाः` (फि।सू।2।28) इत्युदात्तौ। `पञ्चाआः` इति। तद्धितार्थे समासः। `आर्हादगोपुच्छ` [[5.1.19]] इत्यादिना ठक्। `अध्यर्धपूर्व` [[5.1.28]] इत्यादिना लुक्। पञ्च शरावाण्यस्मिन्निति बहुव्रीहिः। अथेह कथं भवति - पञ्चारत्न्यो दशारत्न्य इति, यवाता यणादेशे कृते गुणे च नात्रेगन्तमुत्तरपदम्? इत्याह - `पञ्चारत्न्यः` इत्यादि। यद्? यण्गुणौ ह्रजादौ विभक्तौ परत इति ताविह बहिरङ्गौ, स्वरस्त्वन्तरङ्ग; प्राग्विभक्त्युत्पत्तेर्भावात्, `असिद्धं बहिरङ्गमन्तरङ्गे` (व्य।प।42)। तेन पञ्चारत्न्य इत्यत्रापि द्विगुस्वर इगन्तलक्षणः प्रवर्तते। `स्थानिवद्भावाद्वा` इति। <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति पूर्वस्वरे कर्तव्यो यो गुणः स्थानिवद्भावेनेगन्तलक्षणः प्रवर्तते। ननु च स्वरविधौ `न पदन्त` [[1.1.58]] इत्यादिना स्थानिवद्भावः प्रतिषिध्यते? नैतदस्ति; `स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` इत्युक्तत्वात्? (का।1.1.59) न चैवमिको यण्गुणौ लोपाजादेशौ। `पञ्चारत्न्यः` इति। अरत्निशब्दोऽत्र `कृदिकारादक्तिनः` (ग।सू।50) `सर्वतोऽक्तिन्नर्थादित्येके` (ग।सू।51) इति बह्वादिषु पाठान्ङीषन्तः। इहापि पूर्ववत्? तद्धितार्थे द्विगुः, मात्रचस्तु लोपः॥", "62030": "पूर्वोणेगन्तादिषूत्तरपदेषु बहुशब्दस्यापि नित्यं प्रकृतिस्वरे प्राप्ते विकल्पोऽयमुच्यते। `बहुरत्निः` इति। पूर्ववत्? समासादि। `बहुमास्यः` इति। पूर्ववद्यप्। बहुकपालादयः समासाः, इहपि <<संस्कृतं भक्षाः>> [[4.2.16]] इत्यत्रापि तद्धितार्थे कृतेऽण्प्रत्ययलोपा द्रष्टव्याः। `बहुशब्दोऽन्तोदात्तः` इति। स हि `कुभ्र्रश्च` (द।उ।1।107) इत्यनुवर्तमाने `बहि महि वृद्धौ` (धातुपाठः-633,634) इत्यस्मात्। `लन्धिब्र्राह्रोर्नलोपश्च` (द।उ।1।114) इति कुप्रत्ययं विधाय व्युत्पाद्यते, तेन प्रत्ययस्वरेणान्तोदात्तः। `यत्र यणादेशः` इति। बह्वरत्निरित्यत्र॥", "62031": "अबह्वर्थोऽयमारम्भः। `पञ्चदिष्टिः` इति। पञ्चारत्निरित्यनेन तुल्यम्॥", "62032": "`साङ्काश्यसिद्धः` इति। <<सिद्धशुष्कपक्वबन्धैश्च>> [[2.1.41]] इति समासः। `साङ्काश्यकाम्पिल्यशब्दौण्यप्रत्ययान्तत्वात्` इति। `वुच्छण्` [[4.2.79]] इत्यादिना सङ्काशादिलक्षणं चातुरार्थिकप्रत्ययं विधाय व्युत्पादितत्वात्। `ऊकशब्दः` इत्यादि। `कृदाधारार्चिकलिभ्यः कः (द।उ।3।18) इत्यधिकृत्य `सृदृभूशुषिमुषिभ्य कक्` [कित् - द।उंउद्रितः पाठः] (द।उ।उ।19) इति कक्प्रत्ययः किद्? विधीयमानोऽवतेरपि भवतीति। तनोकशब्दः कक्प्रत्ययान्तः। `ज्वरत्वर` [[6.4.20]] इत्यादिना वतेरूठ्। `निधनशब्दो निघाञः क्युप्रत्यये मध्योदात्तः` इति। निधनशब्दोऽयं `कृपृवृजिमन्दि निधाञः क्युः` (द।उ।5।26) [`निधाञ्भ्यः` मुद्रितः पाठः - द।उ। सप्तम्येकवचने <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमं कृत्वा शब्दरूपापेक्षया नपुंसकलिङ्गं वेदितव्यम्। क्युरित्येतस्मिन्? शब्दरूपे प्रत्ययसंज्ञकं इत्यर्थः। `कुम्भीकलसीशब्दौ ङीपन्तौ` इति। तेनान्तोदात्ताविति भावः। ङीषन्तता तु `जातेरस्त्रीविषयात्` [[4.1.63]] इत्यादिना विहितेन ङीषा वेदितव्यमा। `भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः` इति। `ष्ट्रन्` (द।उ।8।79) इति वर्तमाने `भ्रस्जिगमिनमिहनिविष्यशां वृद्धिश्च` [`विश्यशां` इति मुद्रितन्यासपाठः]", "62033": "", "62034": "राजन्यवाचीनि यान्यसमस्तानि बहुवचनान्तानि तदवयवको यो द्वन्द्वः स राजन्यबहुवचनद्वन्दव इत्युक्तः। `आआफल्कचैत्रकरोधकाः` इति। आआफल्काश्च चैत्रकाश्च रोधकाश्चेति द्वन्द्वः। तत्र रोधकशब्दमपेक्ष्य चैत्रकशब्दस्य पूर्वपदत्वम्, चैत्रकशब्दमपेक्ष्य आआफल्कशब्दस्य, तयोरपि प्रकृतिभावः। अत एव तयोद्र्वयोरपि स्वरं दर्शयितुमाह -`आआफल्कशपब्दश्चैत्रकशब्दश्च` इत्यादि। `शिनिशब्द आद्युदात्तः` इति। स हि -`वीज्याज्वरिभ्योनिः` (द।उ।1।18) इति निप्रत्ययेऽनुवर्तमाने `वहिश्रिश्रुद्रुग्लाहात्वरिभ्यो नित्` (द।उ।1।21) [वहिश्रियुश्रुग्लाहात्वरिभ्यो -द।उ।] इति विधीयमाने शीङोऽपि भवति। बहुलवचनाद्? ह्रस्वत्वं च तत एव। तेनाद्युदात्तो भविता नित्स्वरेण। `तदपत्येषु` इति। तस्य शिनेः श्रत्त्रियस्य यान्यपत्यानि तेष्वित्यर्थः। `अभेदेन` इति। उपचरेणेत्यर्थः। `हैमायनाः` इति। <<यञिञोश्च>> [[4.1.101]] इति फक्। ननु च राजन्यशब्दोऽयं क्षत्रियजातिवचनः, तथा चोक्तम् -`राज्ञोऽपत्ये जातिग्रहणम्` (वा।392) इति; राजन्यो भवति क्षत्रियश्चेत्` इति। यश्चान्धकवृष्णिषु वर्तते द्वन्द्वः स तु क्षत्रियवाचिनामेव भवति; अन्धकवृष्णीनां क्षत्रियत्वात्। ततश्च द्वैप्यहैमायना इत्युक्तं प्रत्युदाहरणम्। अयमपि हि राजन्यवाचिनामेव द्वन्द्वः; अन्धकवृष्णिषु वर्तमानत्वदित्यत आह -`अन्धकवृष्णयः` इत्यादि। `अन्धकवृष्णिषु` इत्येतावतैव क्षत्रियग्रहणे सिद्धे यद्राजन्यग्रहणं क्रियते, तस्यैतत्? प्रयोजनम् -विशिष्टा येऽभिषिक्तवंश्यास्तेषां ग्रहणं यथा स्यादित्येवमर्थम्। विद्यया जन्मना वा प्राणिनामेकलक्षणः सन्तानः=वंशः, इह तु जन्मना य एकलक्षणः सोऽभिप्रेतः, तत्र भवो वंश्यः, दिगादित्वात्? [[4.3.54]] । यत्। तत्रैतत्? स्यात्। द्वैप्यहैमायना अप्यभिषिक्तवंश्य एव क्षत्त्त्रियाः? इत्यत आह -`एते च` इत्यादि। `सङ्कर्षणवासुदेवौ` इति। सङ्कर्षणश्च वासुदेवश्चेत्येकवचनान्तयोरयं द्वन्द्वः। `वृष्णिकुमाराः` इति। तत्पुरुषोऽयम्। `कुरुपाञ्चालाः` इति। अत्र सर्वमस्ति, तथाप्यन्धकवृष्णिग्रहणान्न भवति; तत्रावृत्तेः॥", "62035": "`एकादश` इति। एकश्च दश चेति द्वन्द्वः। `द्वादश` इति द्व्यष्टनः संख्यायामबहुव्रीह्रशीत्योः [[6.3.46]] इत्यात्तवम्॥", "62036": "आचार्य उपसर्जनं प्रधानं यस्य स ततोक्तः। अन्ते वसतीत्यन्तेवासी। गौणश्चायं निर्देशः। द्वन्द्वस्य यान्यवयवभूतानि तान्याचार्योपसर्जनवाचीनि। तस्मादन्तेवासिवाचित्वाच्चाभिधेय उपचारेण तान्याचार्योपसर्जनान्तेवासिशब्दाभ्यामुच्यन्ते। तदवयवोऽपि द्वन्द्वावयवधर्मेणाचार्योपसर्जनान्तेवासीति चोच्यते। `आपिशलिराचार्यः` इति। `अत इञ्` [[4.1.95]] । `आपिशलिरेव वा छात्रा आपिशालाः` इति। पूर्ववदण्। `उभयथा` इत्यादि। उभयप्रकारेणापि व्युत्पत्तावचार्योपसर्जनश्चान्तेवासी भवति। तथा हि - उभयतर शिष्या एव प्रधानभूता एवमुच्यन्ते, आचार्यस्तु तद्विशेषणत्वादुयसर्जनीभूतः। आपिशलशब्दोऽणन्तत्वात्? प्रत्ययसवरेणान्तोदात्तः। पाणिनिना प्रोक्तमिति <<वृद्धाच्छः>> [[4.2.114]] `तदधीते` [[4.2.58]] इत्यण्, तस्य लुक्। पाणिनीयशब्दः प्रत्ययस्वरेण मध्योदात्तः। `पाणिनीयरौढीयाः` इति। रोढस्यापत्यं रौढिः, `अत इञ्` [[4.1.95]] रौढेराचार्यस्य च्छात्रा इति `इञश्च` [[4.2.111]] इत्यणः प्रापतस्य `न द्व्यचः` [[4.2.112]] इति प्रतिषेधे कृते <<वृद्धाच्छः>> [[4.2.114]] । अथ वा - रौढिना प्रोक्तं रौढियम्, ततश्च `तदधीते` [[4.2.58]] इत्यण्, तस्य पूर्ववल्लुक् - रौढीयाः। रौढीयशब्दोऽपि पूर्ववन्मध्योदात्तः। काशकृत्स्नेन प्रोक्तमित्यण्? तदधीयते काशकृत्स्नाः, पूर्ववदणो लुक्। `छान्दसवैयाकरणाः` इति। भवत्ययमन्तेवासिना द्वन्द्वः, न त्वाचार्योपसर्जनः। त्र ह्रन्तेवासिन एव छान्दसवैयाकरणाभ्यामुच्यन्ते, न त्वाचार्योपसर्जनीभूताः। छन्दोऽधीयते च्छान्दसाः, व्याकरणमधीयत इति वैयाकरणाः। तत्र ते च यत आचार्यादधीयते तस्यान्तेवासिनः। `आपिशलपाणिनीये शास्त्रे` इति। आपिशलिना प्रोक्तमापिशलम्। पाणिनिना प्रोक्तं पाणिनीयम्। यत्र शास्त्रे प्राधान्येनोच्येत तत्र प्रत्ययस्य विधानादाचार्यः प्रधानभूतः; तद्विशेषणत्वात्। आचार्यत्वं तस्येह शास्तरापेक्षम्। न ह्राचार्यतान्तेवास्यपेक्षैव भवति, अपि तु शासत्रापेक्षापि॥", "62037": "`अणन्तावेतौ` इति। तेन प्रत्ययस्वरेणान्तोदात्ताविति भावः। उत्तरत्राप्यणन्तस्यानोदात्तता वेदितव्या। `सौवर्णिरिञन्तः` [`सावर्णिः -काशिका] इति। ञित्स्वरेणाद्युदात्त इत्यभिप्रायः। एवमुत्तरत्रापीञन्तस्याद्युदात्तत वेदितव्या। माण्डूकेयशब्दः `ढक्? च मण्डूकात्` [[4.1.119]] इति ढगन्तः। `अवन्तेः` इत्यादि। अवन्तेरपत्यानि बहुनीति <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] इति ञ्यङ्, तस्य `तद्राजस्य` [[2.4.62]] इत्यादिना लुक्। अवन्तीनां निवासो जनपदः <<तस्य निवासः>> [[4.2.69]] इति चातुर्थिकोऽण्। तस्य <<जनपदे लुप्>> [[4.2.81]] इति लुप्। `अवन्तयः, तथाश्मकाः` इति। यथावन्तय इति कृतस्तथाश्मका इत्यत्रापि। अत्र क्षत्त्रियवाचिनो जनपदवाचिनश्च शब्दाः। तद्धितेऽपत्येषु यो बहुषत्पद्यते तदन्ताचच निवासे चातुरर्थिकः। तस्य लुप्? कृतः। तथाश्मका इत्यत्रापि। एतावन्मात्रमतिदिश्यते। अश्मकस्यापत्यानि बहूनि, <<साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्>> [[4.1.173]] इत्यादिनेञ्, तस्य लुक्? पूर्ववत्, तेषां निवासेऽण्, तस्य पूर्ववल्लुप्। अवन्तिशब्दो घृतादित्वादन्तोदात्त इत्येके। चित्स्वरेणेत्यपरे, ते हि `भुवो झिच्` (पं।उ।330) बहुलवचनादवतेरपि झिज्भवतीति वर्णयन्ति। `युवद्वन्द्वोऽयम्` इति युदसंज्ञकप्रत्ययान्तयोरयं द्वन्द्व इत्यर्थः। `फैलः` इति। <<पीलाया वा>> [[4.1.118]] इत्यण्। `श्यायर्णशब्दो बिदादिः` इति तेन ततोऽप्त्यविवक्षायामञ्? भवतीति भवाः। `स्त्री` इति। `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] । `श्यापर्णेयः` इति। <<स्त्रीभ्यो ढक्>> [[4.1.120]] । `बहुचचनमतन्त्रम्` इति। अविवक्षितत्वात्। `तेन` इत्यादिना बहुवचनाविवक्षायाः फलं दर्शयति। `कपिरन्तोदात्तः` इति। प्रातिपदिकस्वरेण। `तेन` इत्यादि। यस्मात्? कपिशब्दोऽयं लुगन्त; तेन बहुवचनमत्राश्रीयत एव। `ऋष्यण्` इति। `ऋष्यन्धक` [[4.1.114]] इत्यादिना। `यूनि य इञ्` इति। `अत इञ्` (श्र4.1.95) इत्यनेन। `पाञ्चाली` इति। <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] इत्यञ्। तदन्तात्? पूर्ववन्ङीप्। `पाञ्चालेयी` [पाञ्चालेयः -काशिका] पूर्ववड्ढक्। एवं `वार्चलयी` इत्यत्रापि। `शाकल्यः` इति। गर्गादित्वात्? यञ्। शाकल्यशब्दो ञित्स्वरेणाद्युदात्तः। `शणकबाभ्रवाः` इति। शणं करोतीति `कै गै शब्दे` (धातुपाठः-916,917) इत्यस्माद्धात्तोः <<आतोऽनुपसर्गे कः>> [[3.2.3]] , तेन प्रत्ययस्वरेण शणकशब्दोऽन्तोदात्तः। `बाभ्रवः` इति। <<ओर्गुणः>> [[6.4.146]] । `आर्चाभिनः` इति। प्रोक्तार्थे णिनिः, तस्मादध्येतर्यण्, तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] इति लुक्। एवमुत्तरत्रापि प्रोक्तप्रत्ययान्तादध्येतृप्रत्ययस्य लुग्वेदितव्यः। `मुद्गलः कण्वादिः` इति। गर्गाद्यन्तर्गणः। `तदपत्यस्य` इति। मौद्गलाः` इति। मौद्गल्यशब्दात्? <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यण्, <<यस्येति च>> [[6.4.148]] इत्यकारलोपः। `आपत्यस्य च तद्धेतेऽनाति` [[6.4.151]] इति यकारस्य। आर्चाभिशब्दः प्रत्ययस्वरेणान्तोदात्तः। `कुन्ते सुराष्ट्रस्य` इत्यादि। `कमु कान्तौ` (धातुपाठः-443) इत्यस्मात्? पूर्ववत्? क्तिच्, बहुलवचनादुत्त्वम्। कुन्ति शोभनं राष्ट्रमस्येति सुराष्ट्रः। कुन्तेरपत्यानि बहूनि <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]] ; सुराष्ट्रस्यापत्यानि बहूनि, जनपदशब्दादिना [[4.1.166]] अण्, तयोः `तद्राजस्य` [[2.4.62]] इत्यादिना बहुषु लुक्। ततः कुन्तीनां निवासो जनपदः <<तस्य निवासः>> [[4.2.69]] इति चातुरर्थिकोऽण्, `तस्य जनपदे लुप्` [[4.2.80]] इति लुप्। कुन्तयश्च सुराष्ट्राश्च कुन्तिसुराष्ट्राः। एवं कुन्तेः सुराष्ट्रस्य चापत्येषु बहुषु तन्निवासे जनपदद्वन्द्वादयं भवति। कुन्तिशब्दाश्चित्स्वरेणान्तोदात्तः। `चिन्तिसुराष्ट्राः` इति। चिन्तिशब्दोऽप्यान्तोदात्त एव। सोऽपि `चिति समृत्याम्` (धातुपाठः-1535) इत्यस्मात्। क्तिच्प्रत्ययान्तः। केचिदवन्तिकुन्तिशब्दौ <<क्तिच्क्तौ च संज्ञायाम्>> [[3.3.174]] इति क्तिच्प्रत्ययान्तौ व्युत्पादयन्ति। `पचाद्यन्प्रत्ययान्तौ` इति। `तडि हर्षे` (धा।प।280) इत्यस्मात्? केवलादवपूर्वाच्च पचाद्यच्। `वष्टि भागुरिरल्लोपमवाप्योरुपसरगयोः` इत्यवशब्दाकारस्य लोपः। `यञो लुक्? क्रियते` इति। <<यञञोश्च>> [[2.4.64]] इति। `अविमत्तकामविद्धा` इति। `मदी हर्षे` (धातुपाठः-1208) इत्यस्माद्विपूर्वान्निष्ठा -विमत्तः, न विमत्तोऽविमत्त इति। `तत्पुरुषे तुल्यार्थं` (6.2.2।) इत्यादिना पूर्वपदसय प्रकृतिभावे कृते नञ्स्वरेणाद्युदात्तः। `बह्वचः` इति। अनेन सूत्रैकदेशेन `बह्वच इञः प्राचयभरतेषु` [[2.4.66]] इत्येतत्? सूत्रमुपलक्षयति। `शलङ्कु शलङ्कञ्च` इति। नडादिष्वेतत् पठते। अस्यायमर्थः -शलङ्कुशब्दः फकमुत्पादयति शलङ्कादेशञ्चापद्यत इति। `बाभ्रवदानच्युताः` इति। ब्राभ्रोरपत्यं बाभ्रवः, अणन्तः। दानच्युतशब्दादिञो बह्वचो लुगिति पूर्ववत्। `कठकालपाः` इति। कठशब्दः पचाद्यचि व्युत्पादितत्वादन्तोदात्तः। लोकाक्षस्यापत्यं `लौकाक्षि)` तसय च्छात्रा `लौकाक्षाः`। `स्त्रीकुमाम्` इति। `सत्यायतेर्ड्रट्` (पं।उ।4।165) तदन्तात्? `टिड्ढाणञ्` [[4.1.15]] इति ङीप्, तत्र प्रतद्ययस्वरेणान्तोदात्ताकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः, <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इति ङीप उदात्तत्वे कृते स्त्रीशब्दो ह्रुदात्तः। `तस्य च्छात्रा मीदाः` इति। `इञश्च` [[4.2.111]] इत्यण्। `तथा पैप्पलादाः` इति। पिप्पलावस्यापत्यं पौप्यलादिः, तस्य च्छात्राः पैप्पलादाः। `वत्सजरत्` इति। `वृतृवदिहनिकमिकषिभ्यः सः` (द।उ।9।21) [वृतृवदिहिनिकमिकषियुमुचिभ्यः सः -द।उ।] इति वदेः सः, अनेन वतसशब्दोऽन्तोदात्तः, <<जीर्यतेरतृन्>> [[3.2.104]] । जरत्, तयोद्र्वन्द्वः। `सौश्रुतपर्थवाः` इति। सुश्रुतस्य छात्राः सौश्रुताः। `पृथोश्छात्राः पार्थवाः` इति। उभयत्र <<तस्येदम्>> [[4.3.120]] इत्यण्। `जरामृत्यु` इति। जृषित्येतस्मात्? <<षिद्भिदादिभ्योऽङ्>> [[3.3.104]] इत्यङ्, जरा, तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्। म्रियतेः `भृजडिमृङ्भ्यां युक्त्युकौ` (द।उ।1।135) इति त्युक्, मृत्युः॥", "62038": "`महच्छब्दोऽन्तोदात्तः` इति। `वर्तमाने पृषद्बृहन्महत्` (द।उ।6।5) इत्यन्तोदात्तस्य तस्योणादिषु निपातनात्। अथेह कस्मान्न भवति। महतो व्रीहिर्महद्व्रीहिः? इत्यात आह -`तस्य` इत्यादि। एतच्च लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) लभ्यते। अथ किमर्थं प्रवृद्धशब्द इह पठते, यावता निष्ठान्तोऽसौ, तत्र <<कर्मधारयेऽनिष्ठा>> [[6.2.46]] इति वक्ष्यमाणेनैव सिदधम्? इत्यत आह -`कर्मधारयेऽनिष्ठ` इत्यादि। तथैव हि परिभाषया <<श्रेण्यादयः कृतादिभिः>> [[2.1.59]] इति तेन प्रतिपदोक्तेनायं समासः। तत्र `कर्षारयेऽनिष्ठा` [[6.2.46]] इत्यनेन प्रकृतिबावस्याविधिः। न च महाप्रवृद्ध इत्ययं प्रतिपदोक्तेन निष्ठान्तेन कर्मधारयः; तत्र यदि प्रवृद्धशब्दोऽत्र न पठते, तत्र परतः प्रकृतिभावो न स्यात्। तस्मात्? तस्येह पाठः क्रियते। योगश्चायं समासस्वरस्यापवादः॥", "62039": "`क्षुधं लातीति क्षुल्लः` इति। <<आतोऽनुपसर्गे कः>> [[3.2.3]] इति कप्रत्ययः। `तोर्लि` [[8.4.59]] इति परसवर्णः॥", "62040": "`सर्वधातुभ्यः ष्ट्रन्` (पं।उ।4।158) इत्यस्मात्? ष्ट्रन्नितयनुवरतमाने उषिखनिभ्यां कित्? (पं।उ।4।161) इत्येवं व्युत्पादितत्वात्॥", "62041": "`गोः सादः` इत्यनेन वाक्यशेषेण गोसादशब्दस्य षष्ठीसमासत्वं दर्शयति। `गां सादयतीति च` [वा -काशिका] इति। एतेनाप्युपदसमासत्वम्; सवेर्विशरणार्थत्वात्? गोशब्दे कर्मण्युपपदे कृते गोसाद इति भवति। गोशब्दः `गमेर्डोस्` (द।उ।2।11) [गमेर्डोः -पं।उ;द।उ।] इति डोस्प्रत्ययान्तत्वात्? प्रत्ययसवरेणान्तोदात्तः॥", "62042": "अत्र `कुरुगार्हपत` इत्येवमादयः पण्यकम्बलपरयन्ताः समस्ता-। तत्र कुरुगार्हपत -रिषतगुरु -इत्येतावविभक्तिकौ। इतरे तु असूतजरतीतयेवमादयः प्रथमैकवचनान्ताः। सा च प्रथमा सुबध्यत्ययेन षष्ठ्याः स्थाने वेदितव्या। `दासीभाराणाम्` इति बहुवचनं गणस्य सूचनार्थम्। अत एवाह -`दासाभारादीनां च` इति। `कुरुशब्दः कुप्रत्ययान्तः` इति। `कुभ्र्रश्च` (द।उ।1।107) इत्यतः `कु` इत्यधिकृत्य `कृग्रोरुचच` (द।उ।1।109) इति कुप्रत्ययान्तत्वेन व्युत्पादितत्वात्।`कुरुवृज्योर्गार्हपत इति वक्तव्यम्` इति। कुरुवृजिशब्दयोर्गार्हपतशब्द उत्तरपदे प्रकृतिभावो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -कुरुशब्दस्य तावत्? `कुरुगार्हपत` [[6.2.42]] इति सूतद्र एवोपादानाद्भविष्यति। वृजिशब्दस्यापि चकारस्येहानुक्तसमुच्चयार्थत्वादिति। `वृजिशब्द आद्युदात्तः` इति। वृजेरिन्। `इगुपधात्? किच्च` (द।उ।1।48) इत्येवं व्युत्पादितत्वात्। `रिक्तगुरुः` इति। रिक्तगुरुशब्दस्य समानाधिकरणसमासतां दर्शयति। एवं `असूता जरती` इत्यनेनाप्यस्यासूतजरतीशब्दस्य। `अश्लौला दृढरूपा` इत्यनेनाश्लीलदृढरूपशब्दसाय। न सूतेत्यसूताशब्दोऽपि नञ्स्वरेणाद्युदात्तः। एवमश्लीलाशब्दोऽपि। न श्लीलाऽश्लीला। `सिध्मादेराकृतिगणत्वाल्लच्` इति। <<सिध्मादिभ्यश्च>> [[5.2.97]] इति <<प्राणिस्थादातो लजन्यतरस्याम्>> [[5.2.96]] इत्यतो लजितयस्यानुवृत्तेः। `कपिलकादित्वाच्च लत्वम्` इति। <<कृपो रो लः>> [[8.2.18]] इत्यत्र `कपिलकादीनाञ्चोपसंख्यानम्` (वा।915) इति लत्वस्योपसंख्यानात्। कथं पुनज्र्ञायते - श्रीर्यस्यास्ति तच्श्लीलशब्देनीच्यते? इत्याह -`अश्लीलदृढरूपा` इत्यादि। न श्लीलमश्लीलमिति अश्लोलशब्दस्यार्थः प्रतिषिध्यते। तत्र यदि श्लीलशब्दस्य श्रीर्यस्यास्ति स इत्यर्थो न स्यादश्लीलदृढरूपेत्यत्र निःश्रीका नोच्येत, उच्यते च, ततो ज्ञायते श्रीमदद्वस्तु श्लीलशब्देनोच्यत इति। `संख्थानमात्रेण शोभना` इति। दृढत्वाच्च संस्थानस्य। श्रीरहितत्वाच्च संस्थानमात्रेण शोभना। मात्रशब्दः श्रीमत्ताया व्यवच्छेदकः। `लावण्यरहिता` इत्यनेन निःश्रीकेत्यस्यार्थं विस्पष्टीकरोति। `पारे वडवेव पारेवडवा` इति। केन पुनरत्र समासः? न हीवार्थे समासस्य किञ्चिल्लक्षणमस्ति। अथापि कथञ्तित्? समासः स्यात्। एवमपि <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति विभक्तिलोपः कस्मान्न भवति? इत्याह -`निपातनादेव` इत्यादि। `तितिलिनोऽपत्यम्` इति एतेनापत्यार्थे तितिलिञ्शब्दात्? तद्धितोत्पत्तिमिह दर्शयति। `छात्त्रा वा` [छात्त्रो वा तैतिलः -काशिका] इति। तितिलन इत्यपेश्रते। एतेनापि <<तस्येदम्>> [[4.3.120]] इत्यर्थे तैतिला इति। पूर्ववदुपसंख्यानाट्टिलोपः। `यदन्तत्वात्` इति। `अवद्यपण्य` [[3.1.101]] इति यदन्तस्य निपातनात्। `आद्युदात्तः` इति। <<यतोऽनावः>> [[6.1.213]] इत्यनेन। `पण्यकम्बलः संज्ञायामिति वक्त्व्यम्` [`संज्ञायां वक्तव्यम्` इति मुद्रितः पाठः] इति। पण्यकम्बलशब्दः संज्ञायां पूर्वपदप्रकृतिसवरो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः, तत्रेदं व्याख्यानम् -<<पूगेष्वन्यतरस्याम्>> [[6.2.28]] इत्यतो मण्डूकप्लुतिन्यायेनान्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। संज्ञायामेव पण्यकम्बलशब्दः पूरग्वपदप्रकृतिस्वरो भवति, नान्यत्रेति। `अन्यत्र समासान्तोदात्तत्वमेव` इति। ननु च पण्यशब्दोऽयं कृत्यप्रत्ययान्तः `तत्पुरुषे` [[6.2.2]] इत्यादिना तवस्मिन्? पणितव्ये पूर्वपदस्य प्रकृतिसवरेणैव भवितव्यम्, तत्? कथं समासन्तोदात्तत्वम्? इत्याह -`प्रतिपदोक्ते हि` इत्यादि। <<कृत्यतुल्याख्या अजात्या>> [[2.1.68]] इति यः कृत्यसमासः प्रतिपदोक्तः तत्र `द्वितीयाकृत्याः` [[6.2.2]] इति पूर्वपदस्य प्रकृतिभावो विहितः। न चायं प्रतिपदोक्तः समासः। `विशेषणं विशेष्येण [[2.1.56]] इति समान्येन विहितत्वात्। कुत एतत्? कम्बलशब्दस्य जातिशब्दत्वात्। `द्वितीयाकृत्या` इत्यनेन सूत्रैकदेशेन `तत्पुरुषे तुल्यार्थ` इत्यादिकं सूत्रमुपलक्षयति। `दासीभारः` इति। दासीशब्दः पूर्वमुक्तस्वर। `देवहूतिः` इति। पचाद्यजन्तत्वादन्तोदात्तः। `ओषशब्दो घञन्तत्वात्` इति। `उष दाहे` (दा।पा।696) इत्यस्य घञि व्युत्पादितत्वात्। `चन्द्रे माङो डित्` [चन्द्रे मो डित् -द।उ।,पं।उ। -`चन्द्रे मोऽसिः` -काशिकामुद्रितः पाठः] (द।उ।9।88) इत्यसिपरत्ययान्तोऽयम्। `मिथुनेऽसिः पूर्ववच्च सर्वम्` (द।उ।9।82) इत्यतोऽसिप्रत्ययस्यानुवृत्तेः। `चन्द्रशब्दस्तु रक्प्रत्ययान्तत्वात्` इति। `स्फायितञ्चि` (द।उ।8।31) इत्यादिना सूत्रेण रक्प्रत्ययान्तत्वेन व्युत्पादितत्वात्। `स सर्वो दासीभारादिषु द्रष्टव्यः` इति। दासीभारादेराकृतिगणत्वात्॥", "62043": "`तदर्थे` इति। तस्मै इदम्, चतुथ्र्यन्तम्, तस्य योर्थस्तदर्थ इत्यर्थः। कथं पुनर्यूपशब्द आद्युदात्त? इत्याह - `कुसुयुभ्याञ्च` इत्यादि। `पानीविषिभ्यः पः` (द।उ।7।2) इत्यतः `पः` इत्यनुवर्तमाने `कुसुयुभ्याञ्च` (द।उ।7।5) [कुयुभ्याञ्च - मुद्रितः पाठः] इति यूपशब्दः पप्रत्ययान्तो व्युत्पाद्यते। तत्र `सुशृभ्यां निच्च` (पं।उ।3।26) इत्यतो निदिति वर्तते, तेनादयुदात्तो भवति। दीर्घत्वं तु `स्तुवो दीर्घश्च` (पं।उ।3।25) इत्यतो दीर्घग्रहणानुवृत्तेः। `कलप्रत्ययान्तः` इति। `वृषादिभ्यश्चित्? (द।उ।8।109) इत्यत्र `कलस्तृपशच` (द।उ।8।107) इत्यतः कलप्रत्ययानुवृत्तेः। `रथशब्द आद्युदात्तः` इति। हनिकुषिनीरमिकाशिभ्यः क्थन्` (द।उ।8।107) इत्यतः कलप्रत्ययानुवृत्तेः। `रथशब्द आद्युदत्तः` इति। `हनिकुषिनीरमिकाशिभ्यः क्थन्` (द।उ।8।107) इत्यतः कलप्रत्ययानुवृत्तेः। `रथशब्द आद्युदात्तः` इति। `हनिकुषिनीरमिकाशिभ्यः क्थन्` (द।उ।6।27) इति कथन्प्रत्ययान्तत्वात्। `वल्लीशब्दो ङीषः स्वरेणान्तोदात्तः` इति। ङीष्प्रत्ययस्तु गौरादित्वात्। [[4.1.41]] वेदितव्यः। `प्रकृतिविकारभावे` इत्यादि। कथं पुनः सामान्येनोच्यमानः प्रकृतिविकारभावे लभ्यते? पूर्ववदन्यतरस्यांग्रहणानुवृत्तेः। तस्य च व्यवस्थितविभाषात्वाद्वक्ष्यमाणज्ञापकात्॥", "62044": "`मातृपितृशब्दावन्तोदात्तौ` इति। `नप्तृनेष्ट्ट` (द।उ।2।3) इत्यादौ तृजन्तयोस्तयोर्निपातितत्वात्। `लित्स्वरेण मध्योदात्तः` इति। `देवात्? तल्` [[5.4.27]] इति तल्प्रत्ययन्तत्वात्। किमर्थं पुनरेतत्, न `चतुर्थी तदथे` [[6.2.43]] इत्येवं सिद्धम्, अर्थशब्दोऽपि तदर्थमेवोत्तरपदं भवति? इत्याह -`तदर्थविशेषा एव` इत्यादि। एवं मन्यते -अर्थशब्दोऽपि वृत्तौ विशेषवाची भवतीति। युक्तञ्चैतत्। तदा मात्रर्थमित्युक्ते मात्रादिभ्यो व्यावृत्तरूपं विशिष्टमेव मात्रर्थं वस्तु प्रतीयते। `अआधासः` इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति॥", "62045": "`अआशब्द आद्युदात्तः` इति। क्वन्परत्ययान्तत्वत्। `मनुष्यशब्दोऽन्तस्वरितः` इति। `मनोर्धातावञ्यतौ षुक्च` [[4.1.161]] इति यत्प्रत्ययान्तत्वात्। `परिशिष्टमन्तोदात्तम्` इति। तत्? पुनर्गोशब्दः, तापसशब्दश्च। तत्र `गमेर्डोस्` (द।उ।2।11) [गोमर्डोः -द।उ; पं।उ।] इति डोस्प्रत्ययान्तत्वाद्गोशब्दः प्रत्ययस्वरेणान्तोदात्तः। तापसशब्दोऽपयण्प्रत्ययान्तत्वात्। स हि `तपःसहरुआआभ्यां विनीनी` [[5.2.102]] `अण्? च` [[5.2.102]] इत्यण्प्रत्ययान्तो व्युत्पाद्यते। अथ `गोरक्षितम्` इति कथमिदमस्योदाहरणम्, यावता गोभ्यो रक्षिमिति तादर्थ्ये चतुर्थी, तत्र हि योगत उत्तरपदेन भवितवयम्? इत्यत आह -`गोभ्यो रक्षितम्` इत्यादि। न ह्यत्र गवार्थं रक्षित इत्येषोऽर्थो विवक्षितः, किं तर्हि? गोभ्यो रक्षितं दीयते इत्येतदध्याहार्यम्। तस्मात्? सम्प्रदान एषा चतुर्थी, तत्? कुतस्तादथ्र्यम्!॥", "62046": "`श्रेणिकृताः` इत्यादि। <<श्रेण्यादयः कृतादिभिः>> [[2.1.59]] इति समासः। `श्रेणिशब्द आद्युदात्तः` इति। नित्स्वरेण। स हि `वीज्याज्वरिभ्यो निः` (द।उ।1।18) इत्यतो निरिति वर्तमाने `वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्` (द।उ।1।21) [`वहिश्रियुश्रुग्लाहात्वरिभ्यो नित्` द।उ।] इत्येवं व्युत्पाद्यते, तेनाद्युदात्तः। `पूगशब्दोऽन्तोदात्तः` इति। `मुदिग्रोर्गग्गौ` (द।उ।3।66) इति बहुलवचनात्? पूञोऽपि गक्। तेन प्रत्ययस्वरेणान्तोदात्तः। `कृताकृतम्` इति। कृतञ्च तदकृतं चेति <<क्तेन नञ्विशिष्टेनानञ्>> [[2.1.60]] इति समासः। एकदेशस्य कृतत्वात्? कृतम्, तदैवैकदेशस्याकृतत्वादकृतम्॥", "62047": "हीनम्=त्यक्तम्, न हीनमहीनम्। `कष्टशब्दोऽन्तोदात्तः` इति। क्तप्रत्ययान्तत्वात्? प्रत्ययस्वरेण। `कृच्छ्रगहनयोः कष` [[7.2.22]] इतीट्प्रतिषेधः। `बहुविरीहिस्वरेणाद्युदात्तः` इति। त्रिशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः। तत्र `बहुव्रीहौ प्रकृत्या` [[6.2.1]] इति प्रकृतिस्वरे कृते बहुव्रीहिस्वरेण त्रिशकलशब्द आद्युदात्तः। ग्रामशब्दोऽपि आद्युदात्त एव। तथा ह्रसौ `अर्तिस्तुसुहुसृधुक्षि` (द।उ।7।26) इत्यतो मन्परतययेऽनुवर्तमाने `अवतेष्टिलोपश्च` (द।उ।7।27) `ग्रसतेरा च` (द।उ।7।28) इति मन्प्रत्ययान्तो व्युत्पाद्यते। `कान्तारातीतः` इति। कान्तारमतीतवान्, त्यक्तवानित्यर्थः। कान्तारातीतशब्दोऽत्रि हीनशब्दवची।`द्वितीयानुपसर्ग इति वक्तव्यम्` इति। द्वितीयान्तमनुपसर्गे क्तन्ते प्रकृतिस्वरं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि तस्यैवान्यतरस्यांग्रहणस्यानुवृतिंत व्यवस्थितविभाषात्वं चाश्रित्य कर्तव्यम्॥", "62048": "`तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्येव सिद्धे पूर्वपदप्रकृतिस्वरे च कृत्सवरेण थाथादिस्वरेण [[6.2.143]] बाधिते तत्प्रतिपादनार्थ वचनम्। `अहिहतः` इति। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। `अहिरन्तोदात्तो व्युत्पादतः` इति। आङ्पूर्वाद्धन्तेः `जनिघसिभ्यामिण्` (द।उ।1।58) इति वर्तमाने `वातेर्डिचच` इति डिदिति च `आङिश्रिहनिभ्यां ह्रस्वश्च` (द।उ।1।66) इत्यनेनाहिरिणन्तो व्युत्पादितः। `केचिदादयुदात्तमिच्छन्ति` इति। ते `समाने ख्यः स चोदात्तः` (पं।उ।4।136) इत्युदात्तग्रहणमप्यनुवर्तयन्ति। `रक्प्रत्ययान्तः` इति। `स्फायितञ्चि` (द।उ।8।31) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्पादितत्वात्। `महाराजष्टच्प्रत्ययान्तः` इति। `स्फायितञ्चि` (द।उ।8।31) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्वादितत्वात्। `महाराजष्टच्परत्ययान्तः` इति। `राजाहःसखिभ्यष्टच्` [[5.4.91]] इति टच्प्रत्ययान्तत्वात्। `दात्रलूना` इति। <<धः कर्मणि ष्ट्रन्>> [[3.2.181]] इत्यनुवर्तमाने `दाम्नीशस्` [[3.2.182]] इत्यादिना ष्ट्रन्? प्रत्ययान्तो दात्रशब्दो व्युत्पाद्यते, तेनाद्युदात्तः। सर्वत्र `तयोरेव कृत्यतखलार्थाः` [[3.4.70]] इति कर्मणि क्तः॥", "62049": "`प्रकृतः` इति। कुगतिप्रादयः` [[2.2.18]] इति समासः। प्रादयोऽबिवर्जिता आद्युदात्तगणे निपात्यन्ते, तेन प्रशब्द आद्युदात्तः। `अभ्युद्धृतः` इति। अत्र अभिशब्दस्यानन्तरस्य न भवति; अत्रोच्छशब्दस्य क्तान्तेन समासं कृत्वा पश्चादभिशब्दस्योद्धृशब्देन समासः कर्तव्यः। अथ वा -<<कुगतिप्रादयः>> [[2.2.18]] इत्यत्र सुब्ग्रहणस्य निवर्तितत्वादनेकसर्यापि समासो भवति। `समुदाहृतः` इति। अत्रापि समुदोरन्तरयोर्न भवति। `कारकपूर्वस्य ति` इत्यादि। दूरादागत इत्यत्राङी गतिसमासे कृते सत्यनेन प्रकृतिस्वरः, तत उदात्तो भवति। ततो दूरादागत इति <<स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन>> [[2.1.39]] इत्यादिना पञ्चमीसमासः, तस्मिन्? कृते <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति वर्तमाने `थाथघञ्` [[6.2.143]] इत्यादिनोततरपदस्यान्तोदत्तत्वं विधीयते। स च गतिस्वरे सति विधीयत इति शिष्टत्वेन स एव भवति। <<पञ्चम्याः स्तोकादिभ्यः>> [[6.3.2]] इत्यलुक्। अथ कथं `समुद्घृतः` इत्यादि प्रत्युदाहरणमुपपद्यते, यावता `कृद्ग्रहणे गतकारकपूर्वस्यापि ग्रहणम्` (व्या।प।126) इति गतिरिह निष्ठाग्रहणेनैव गृह्रते, एवञ्चानन्तर एव समुद्धृत इत्यत्र सम्शब्दः, समुदाहृत इत्यत्रापि समुच्छब्दौ? इत्यत आह -`अनन्तरग्रहणसामर्थ्यात्` इति। अनन्तरगरहणेन ह्रेवमर्थः क्रियते -समुद्धृतमित्यादौ मा भूदिति। यदि परिबाषेयमिहश्रीयतेत, तदा हि उद्धृत इत्यादौ गतिरनन्तर एवेति व्यावत्र्याभावादनन्तरग्रहणमपार्थकं स्यात्।`प्रकृतः कटं देवदत्तः` इति। <<आदिकर्मणि क्तः कर्तरि च>> [[3.4.71]] इति करत्तरि हि क्वप्रत्ययः॥", "62050": "`प्रकर्तुम्` इति। तुमुन्। `प्रकर्तेति तृन्नन्तः` इति। तृजन्ताशङ्कां निराकरोति। `कृत्स्वरबाधनार्थम्` इत्यादि। अव्ययस्वरापवादः <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति कृत्स्वरः प्राप्नोति, अतस्तद्बाधनार्थं वचनम्। `प्रजल्पाकः` इति। `जल्पभिक्ष` [[3.2.155]] इत्यादिना षाकन्। `तृजन्तः` इति। तृन्नन्ताशङ्कां निराकरोति। अथ निद्ग्रहणं किमर्थम्? प्रकृष्टमृष्टमृत्तिका प्रभृत्तिका इत्यतर मा भूदिति चेत्? नैतदस्ति; तथा हि -यत्क्रयायुक्ताः प्रादयः तं प्रति गत्युपसर्गसंज्ञकाः भवन्ति, (जै।प।वृ।99) मृत्तिकाशब्दश्चायं नामधेयत्वात्? क्रियावची न भवति, तेन तं प्रत्युपसर्गसंज्ञा नास्त्येव? इत्यत आह -`कृद्ग्रहणम्` इत्यादि। `कृति` इत्यनेन संज्ञासम्बन्धकालो लक्ष्यते, तेन कृत्संज्ञावेलायां यस्तादिरित्येषोऽर्थः सम्पद्यत इति कृद्ग्रहणमुपदेशे ताद्यर्थं भवति; कृत्संज्ञाप्रतिपत्तिकालस्योपदेशकालत्वात्। तस्मात्? पुनरुपदेशे यस्तादिस्तदर्थं यत्नः क्रियत इत्याह -`इह` इत्यादि। यदि तदुपदेशग्रहणं ताद्यर्थ न क्रियेत, तदा प्रलपितेत्यत्र न स्यात्; इटा तादिताया विहतत्वात्। यस्मश्च सतद्युपदेश एव तादिर्भतीति यद्यप्युत्तरकालं तादिता विहन्यते, तथापि भवत्येव। `आगन्तुः` इति। `सितनिगमिमसि` (द।उ।1।122) इत्यादना तन्? प्रत्ययः॥", "62051": "`अन्त उदात्तो भवति` इति। कथं पुनरुदात्तो भवतीत्येषो लभ्यते, नेहोदात्तग्रहणमस्ति? न ह्यत्रापूर्व एव स्वरो विधीयते, किं तर्हि? <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति प्रकृतिभावेनादेर्यः स्वरः प्राप्नोति न एव, तत्? कथं प्रकृत्येति वर्तते? तत्रैवमभिसम्बन्धः क्रियते -तवापरत्ययान्तस्य यः प्राप्नोति सोऽन्त्यस्य भवतीति। स चोदात्त एवेति समाथ्र्यादुदात्तो लभ्यते। युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम्। `अन्वेतवा` [आम्वेतवै -काशिका] इति। अनुपूर्वादेतेः `कृत्यार्थे `तवैकेन्केन्यत्वनः` [[3.4.14]] इति तवैप्रत्ययः, गुणः। `परिपातवा` [परिपातवै -काशिका] इति। परिपूर्वात्? विबातेः। `अभिचरितवा` [अभिचरितवै -काशिका] इति। अभिपूर्वाच्चरतेः। `अभिरन्तोदात्तः` इति। प्रातिपदकस्वरेण।", "62052": "`वप्रत्यये` इति। वकारः प्रत्ययो यस्य स तथोक्तः। `प्राङ्` इत्यादि। प्राञ्चीतीति `ऋत्विक्` [[3.2.59]] इत्यादिना क्विन्प्रत्ययः, स च वकारमात्र एव; ककारादीनामनुबन्धत्वात्; तेषां चानैकान्तत्वात्। `उगिदचाम्` [[7.1.70]] इति नुम्, एकवचने हल्ङ्यादि [[6.1.66]] संयोगान्तलोपौ [[8.2.23]] , `क्विन्? प्रत्ययस्य कुः` [[8.2.62]] इति नकारस्य कुत्वं ङ्कारः। द्विवचनबहुवचनयोस्तु <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वं ञकारः। उपसर्गाकारेण सह <<अकः सवर्णे दीर्घः>> [[6.1.101]] । `पराङ्` इत्यादि। पराशब्द आद्युदात्तः। तेन `स्वरितो वानुदात्ते पदादौ` [`स्वरिते वाऽनुदातेऽपदादौ` इति मुद्रितः पाठः -न्यासः काशिका, पदमंजरी च] [[8.2.6]] इत्येष विधिर्न भवति। `प्रत्यङ्` इति। अत्र प्रतिशब्दस्येगन्तत्वात्? परकृतिभावो न भवति। ननु च यणादेशे कृते सोऽप्यनिगन्त एष? स्थानिवद्भावादिगन्तव्यपदेशः कृतेऽपि यणादेशे भविष्यतीत्यदीषः। स्वरविधौ स्थानिवद्भावः प्रतिषिध्यत इति चेत्? नैतदस्ति; `स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवत्, अन्यस्तु स्थानिवदेव` (का।वृ।1.1.59) इत्युक्तमेतत्। `उदञ्चनः` इति। ल्युट्। अत्राप्युत्तरपदप्रकृतिस्वर एव भवति। `चोरनिगन्तोऽञ्चतौ` इत्यादि। चोरित्यनेन `चौ` [[6.1.216]] इत्यनेन यदन्तोदात्तत्वं विधीयते तदुपलक्षयति। चोरितयस्यावकाशः -दधीचः, यत्र गतिर्न भवति; अनिगन्तसवरस्यावकाशो यत्राञ्चतेरकारनकारौ न लुप्येते -पराङ्, पराञ्चादिति; इहोभयं प्राप्नोति -पराचः पराचेति अनिगन्तः स्वरो वति विप्रतिषेधेन। प्रतिषेधशब्दस्तत्राध्याहार्यः॥", "62053": "इगन्तार्थोऽयमारम्भः। `उदाततसवरितयोः` इत्यादि। निरुदात्तः `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इति, तेन तदकारस्थाने यो यणादेशः स उदात्तयण्। तेन `उदात्तस्वरितयोः` [[8.2.4]] इत्यादिना ततः परमञ्चतेरकारः स्वरितो भवति। अध्यङित्यादौ तु न भवति; आदेशाद्युदात्तत्वात्, यणादेश उदत्तयण्? न भवतीति कृत्वा॥ समासस्वरापवादोऽयं योगः। `ईषत्कडारः` इति। <<ईषदकृता>> [[2.2.7]] इति समासः। यदायं प्रकृतिभावो न भवति, तदा समासान्तोदात्तत्वमेव भवति। `ईषद्भेद इत्येवमादौ कृत्स्वर एव भवति` इति। परत्वादिति भावः। आदिशब्देन ईषत्कर इत्यादीनां ग्रहणम्। `ईषद्दुःसुषु` [[3.3.126]] इत्यादिना खल्॥", "62054": "", "62055": "हिरण्यपरिमाणं परिमाणवद् हिरण्यमित्यर्थः। इह तु तद्वाचिशब्दरूपं गृह्रते। `द्विसुवर्णधनम्` इति। सुवर्णशब्दो हिरण्यपरिमाणविशेषवाची। द्वे सुवर्णे परिमाणमस्येति `तद्धितार्थ` [[2.1.50]] इति समासः। <<तदस्य परिमाणम्>> [[5.1.57]] इति <<प्राग्वतेष्ठञ्>> [[5.1.18]] `अध्यर्धपूर्व` (5.1.28 इत्यादिना लुक्, ततो धनशब्देन सह कर्मधारयः। द्विसुवर्णशब्दः समासस्वरेणान्तोदात्तः। `बहुव्रीहावपि` इत्यादि। यद्वा -द्विसुवर्ण धनं यस्येति बहुव्रीहिः; तदपि परत्वाद्विकल्प एव भवति; न तु `बहुव्रीहौ प्रकृत्या` [[6.2.1]] इत्येष नित्यो विधिः। `प्रस्थधनम्` इति। अयमपि कर्मधारयः। बहुव्रीहिर्वा। प्रस्थशब्दो भवति परिमाणं, न तु हिरण्यस्य, किं तर्हि? धान्यादेः। `काञ्चनधनम्` इति। यदि परिमाणग्रहणं न क्रियेत, तदा `हिरण्यम्` इत्येताददुच्यमान इहापि स्यात्; काञ्चनशब्दस्य हिरण्यवाचित्वात्। हिरण्यवाच्यपि परिमाणवाची न भवतीति न भवत्येष प्रसङ्गः। अयमपि समासस्वरापवादो योगः॥", "62056": "`अचिरोपश्लेषः` इति। अचिरकालसम्बन्ध इत्यर्थ-। अस्यैवार्थ प्रसिद्धतरार्थेन प्रदर्शयतुमाह -`अभिनवत्वम्` इति। `प्रथमवैयाकरणः` इति। प्रथमश्च वैयाकरणश्चेति `पूर्वापर` [[2.1.57]] इत्यादिना समासः। तत्र यत्तद्वैयाकरणत्वं व्याकरणस्याध्येतृत्वम्। अनेनाचिरकालसम्बन्धोऽध्येतुर्गम्यते। अभिनववैयाकरणादिनाऽचिरकालोपसम्पत्तिमुदाहरणे दर्शयति। `आद्यो मुख्यो यः सः` इति। अनेनापि प्रत्युदाहरणविषयस्य प्रथमशब्दस्यान्यार्थतां च पक्षेऽचिरोपसम्पत्तेरभावं च। अयमपि समासस्वरापवादो योगः। एवमुत्तरेऽपि॥", "62057": "`किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्` [[5.3.92]] `वा बूनां जातिपरिप्रश्ने डतमच्` [[5.3.93]] इति कतरकतमशब्दौ व्युत्पाद्येते, तेन तौ चित्स्वरेणान्तोदात्तौ। `कतरकठः` इति। <<कतरकतमौ जातिपरिप्रश्ने>> [[2.1.63]] इति समानाधिकरणसमासः। एतदर्थमपि कर्मधारयग्रहणं कस्मान्न भवति? इत्याह -`इह तु` इत्यादि। कतरकतमशब्दयोर्हि यः प्रतिपदसमासः स एव लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) विज्ञायते। स च कर्मधारय एव। तस्मात्? प्रतिपदोक्तत्वादेवैतत्समासस्य कर्मधारयत्वम्। तस्मन्नैतदर्थं कर्मधारयग्रहणमुपपद्यते॥", "62058": "`आर्यब्राआहृणः` इति। आर्यश्चासौ ब्राआहृणश्चेति विशेषणसमासः। `आर्यशब्दो ण्यदन्तः` इति। `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यति व्युत्पादितत्वात्। `अन्तस्वरितः` इति। तित्स्वरेण। प्रत्युदाहरणे तु समासान्तोदात्तत्वमेव भवति॥", "62059": "राजब्राआहृणम्` [`राजब्राआहृणः` -काशिका] इति। पूर्ववत्? समासः। प्रत्युदाहरणेऽपि पूर्ववत्। राजशब्दः क्वनिन्प्रत्ययान्तत्वादाद्युदात्तः। `पृथग्योगकरणमुत्तरार्थम्` इति। उत्तरो विधी राजशब्दस्यैव यथा स्यात्। आर्यशब्दस्य मा भूदिति॥", "62060": "`राज्ञ) प्रत्येनाः` इति। <<षष्ठ्या आक्रोशे>> [[6.3.21]] इति विभक्तेरलुक्॥", "62061": "नित्यशब्द आभीक्ष्ण्ये, न कूटस्थे। कुत एतत्? क्त इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः। क्रियापाश्च कौटस्थ्यं नोपपद्यते; क्षणिकत्वात्? क्रियायाः। तस्यास्तु पौनःपुन्याद्यपेक्षया युक्तमाभीक्ष्ण्यम्। `कालाः [[2.1.27]] इति द्वितीयासमासोऽयम्` इति। द्वितीया तु <<कालाध्वनोरत्यन्तसंयोगे>> [[2.3.5]] इति। अथ वा -कर्मण्येव। कर्मसंज्ञा तु `कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम्` (म।भा।1.4.51) इति वचनात्। `नित्यशब्दः` इत्यादि। अनेन `ध्रुव उपसंक्यानम्` (वा।434) इति नेर्नित्यशब्दो व्युत्पाद्यते त्यदन्तः। ततश्च त्यपः पित्त्वेनानुदात्तत्वान्नेश्चोदात्तत्वादाद्युदात्तो भवति। `सततमिति यदा कर्मणि क्तस्तदा थाथादिस्वरेणान्तोदात्तः` इति -अयुक्तोऽयं पाठः। यदा हि कर्मणि क्तस्तदा <<गतिरनन्तरः>> [[6.2.49]] इति गतेः प्रकृतिभावे सत्याद्युदात्तेन सततशब्देन भवितव्यम्। तस्मात्? `सततमिति यदा भावे क्तस्तदा थाथादि [[6.2.143]] स्वरेणान्तोदात्तः` इत्ययं तत्रानवद्यः पाठो वेदितव्यः। तथा हि सततशब्दोऽपि थाथादिस्वरेणान्तोदात्तः [[6.2.143]] । भावे हीयं निष्ठेति गतिस्वरो न भवतीत्युक्तम्। यदा तु क्रमणि क्तस्तदा तु गतिस्वरेण सततशब्द द्युदात्त एव भवति। `समो वा हितततयोः` (वपा।6.1.149) इति समो मकारलोपः। `मुहूर्तप्रहसितः` इति। अत्र थाथादिस्वर [[6.2.144]] एव भवति प्रहसित इति हसेरकर्मक्तावत्? कर्तरि क्तः। समासस्वरे द्वितीयापूर्वपदप्रकृतिसवरेण बाधिते सति थाथादिस्वरः प्राप्नोति। अतस्तदपदादो योगः॥", "62062": "सप्तमीनिर्दिष्टग्रहणमनुवर्तते। तेन शिल्पिनीत्यर्थग्रहणम्। ग्राम इति स्वरूपग्रहणमेव। `ग्रामनापितः` इति। षष्ठीसमासः समासस्वरापवादो योगः। एवमुत्तरोऽपि॥", "62063": "`कर्मधारये` इत्यादि। राजनापितः` इति। कर्मधारयोऽयं वा स्यात्, षष्ठीतत्पुरुषो वा? तत्र यदा कर्मधारयस्तदा राजशब्दस्य नापित उपचारेण वृत्तिः। उपचारस्तु राजगुणारोपनिबन्धनः, अतस्तेनैवोत्तरपदस्य प्रशंसा भवति। कथं पुनर्नापितः षष्ठीसमासेन राजनापितशब्देनोच्यते? इत्याह `राजयोग्यतया तस्य` इत्यादि। स हि स्वकर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति। अतोऽपि राजनापित इति षष्ठीसमासेनोच्यते। अत्र पक्षे तस्यैव योग्यतयोत्तरपदस्य प्रशंसा वेदितव्या॥", "62064": "`अदिः` इत्यादिनाद्यधिकारस्यावधिं दर्शयति। `उदात्तः` इत्यादिनाप्युदात्ताधिकारस्य॥", "62065": "हारीत्यावश्यके णिनिः। सप्तमीत्यनेन साहचर्याधारीति स्वरूपग्रहणं न भवति। अत एवाह -`हारिवाचि पर्वपदम्` इति। `धम्र्ये` इत्यत्रापि स्वरूपग्रहणं न भवति; अहरण इति प्रतिषेधात्। अत एवाह -`धम्र्यवाचिनि` इति। `आचारनियतम्` इति। आचारे नियतमिति; ततोऽन्यत्राभावत्। आचारे नियतम्, आचारेण वा नियतमाचारनियतम्। यदाचारवशादवश्यकर्तव्यं तदाचारनियतं भवति। कथं पुनराचारनियतं धर्मयमुच्यते? इत्याह -`धर्मो ह्रनुवृत्तः` इत्यादि। अनुवृत्त इति व्यवस्थित इत्यर्थः। `तस्मात्` इति। धर्मादनपेतमिति। अनुगतमित्यर्थः। `तेन` इति। धर्मेण। `प्राप्तम्` इति। लभ्यमित्यर्थः। उभयथाप्यर्थे `नौवयोधर्म` [[4.4.91]] इत्यादिना यत्। इतिकरणो हिशब्दश्च हेतौ। यस्मादाचारविशेषो धर्म उच्यते, यच्च तस्माद्धर्मादनपेतम्। यद्वा तेन प्राप्यं तद्धम्र्यम्। तेनाचारनियतं धम्र्यमित्युच्यते। <<संज्ञायाम्>> [[8.2.11]] इति सप्तमीसगासः` इति। यद्येवम्, विभक्तेर्लुक्? प्राप्नोति? इत्यत आह -`कारनाम्नि च` इत्यादि। `याज्ञिकाआः` इत्यादौ तु षष्ठीसमासः। `क्वचित्` इत्यादिना स्तूपेशाण इत्याद्युदाहरणेषु शाणादेर्यस्याचारनियततां दर्शयत्? उत्तरपदस्य धम्र्यवाचित्वं दर्शयति -`याज्ञिकादीनामआआदि` इति। क्वचिदयमाचारे व्यवस्थित इत्यनेन दातव्यमित्यनेन च सम्बन्धः। याज्ञिकादयो हि हारिणः, ते देयमआआदिकं स्वीकुर्वन्ति। `स्तम्बेरमः` इति। म्तम्बकर्णयो रमिजपोः` [[3.2.13]] इत्यच्, उपपदसमासः, <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति विभक्तेरलुग्भवति। अत्र स्तम्बेरम इत्यत्र स्तम्ब इत्येत्? सप्तम्यन्तम्, न तु रमशब्दो धम्र्यवाची। `कर्मकरवर्द्धितकः` इति। अत्र कर्मकरो हारी भवति, स हि वर्द्धितकं स्वीकरोति। न तु वर्द्धितकशब्दो धम्र्यवाची। न हि क्वचिदयमाचारो व्यवस्थितः कर्मकराय वर्द्धितको दातव्य इति। `वडवाया अयं वाडवः` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। `बीजनिषेकात्` इति। गर्भाधानम्=बीजनिषेकः। अत्र वाडवोऽआओ हारी स हि हरणं देयं स्वीकरोति। हरणम्=देयं धम्र्यम्। क्वचिदयमाचारो व्यवस्थितः -येनाओन वडवायां गर्भ आधीयते तस्य बीजनिषेकादुत्तरकलं शरीरपुष्टर्थं योग्याशनादिकं दातव्यमिति। तेन हरणशब्दो धम्र्यवाची भवति। तथाप्यहरण इति प्रतिषेधान्न भवति। ततश्च कृत्स्वरे प्राप्ते <<अनो भावकर्मवचनः>> [[6.2.150]] इत्युत्तरपदं ल्युडन्तमन्तोदात्तं भवति। ननु च परत्वादेवायं स्वरो भविष्यति, तत्? किमहरण इति प्रतिषेधेन? इत्यत आह -`परोऽपि` इत्यादि। तेनेत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। `वाडवहार्यम्` इति। `ऋहलोण्र्यत्` [[3.1.124]] इति हरतेण्र्यत् -हार्यम्, तत्? पुनस्तदेव ग्रहणम्। वाडवस्य हार्यं वाडवहार्यम्। तत्र यदि ज्ञापनार्थमनन्तरोक्तस्यार्थस्य हरणप्रतिषेधो न क्रियेत, तदा परत्वात्? `गतिकारकोपपदात्? कृत्? [[6.2.138]] इति कृत्स्वरेणोत्तरपदस्यान्तस्वरितत्वं स्यात्। अस्मस्तु सत्ययमेव हारिस्वरो भवति। स्तूपेशाण इत्यादौ यत्र सम्पम्यन्तं पूर्वपदं तत्र <<समासस्य>> [[6.1.223]] इत्यस्यापवादे `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदप्रकृतित्वरे प्राप्ते पूर्ववदाद्युदात्तमिदमुच्यते। पूर्वपदानि च प्रायेणान्तोदात्तानि, तथा हि -`स्टूप समुच्छ्राये` (धातुपाठः-1672) इत्यस्य चौरादिकस्य पचाद्यचि स्तूपशब्दो व्युत्पाद्यते, तेनाऽसावन्तोदात्तः। सप्तम्या सहैकदेशे विकृतेऽन्तोदात्त एव भवति। <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इति। `मकि मण्डने` (धातुपाठः-89) इत्येतस्मात्? `उणादयो बहुलम्`, [[3.3.1]] इत्युणादित्वम्, नलोपश्च, तेन मकुटशब्द आद्युदात्तः। `हल विलेखने` (धातुपाठः-837) इत्येतस्मात्? <<खनो घ च>> [[3.3.125]] इति घित्करणेनान्यतोऽदि घो भवतीति ज्ञापितत्वाद्घप्रत्ययः। तेन हलशब्दोऽन्तोदात्तः। `दृ? विदारणे` (धातुपाठः-1493) इत्यस्मात्? `शृदृभसोऽदिः` (द।उ।6।42) इति, `दृणातेः षुग्? ह्यसवश्च` (द।उ।6।45) इति दृषच्छब्दो व्युत्पाद्यते, तेन सोऽप्यन्तोदात्तः। `याज्ञिकाआः` इत्यादयः षष्ठीसमासाः। तत्र समासस्वरे प्राप्ते हारिवाचिनः पूर्वपवस्याद्युदात्तत्वं यथा स्यादित्येवमर्थमिदम्। अत्र च पूर्वपदानामुत्तरपदानां चासमासावस्थायां यः स्वरः स नाऽऽख्यायते; समासे कृते तस्य प्रयोगसमवायित्वात्। नापि समासे कृते तस्य प्राप्तिरसति। स `प्रकृतिभावेन तस्मिन्? प्राप्ते सतीदमारभ्यते` इत्यस्यार्थस्य प्रदर्शनार्थमाख्यायते। अत एव च पूर्वत्रापि नाख्यातः॥", "62066": "युक्तः=समाहितः, कार्ये तत्पर इत्युच्यते। `गोबल्लवः` इति। अधिकारनाम, सोऽस्यास्तीति `वप्रकरणेऽन्येभ्योऽपि दृश्यते (वा।580) इति वप्रत्ययः, गवां बल्लव इति षष्ठीसमासः। अत्रापि समासस्वर एव प्राप्ते पूर्वपदाद्युदात्तत्वं विधीयते। `गोमणिन्दः` इति। मणिं ददातीति <<आतोऽनुपसर्गे कः>> [[3.2.3]] , <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति विभ्क्तेरलुक्, ततो गवां मणिन्द इति षष्ठीसमासः। अत्रापि समासस्वर एव प्राप्तेऽयं विधिः। `गोसंख्यः` इति। गां सञ्चष्ट इति <<समि ख्यः>> [[3.2.7]] इति कः, उपपदसमासः `गतिकारकोपपदात्` [[6.2.139]] इति कृत्स्वरे प्राप्ते पूर्वपदस्योदात्तार्थमिहापि वचनम्! ननु च परत्वात्? थाथादिस्वरः [[6.2.143]] प्राप्नोति, तस्माद्गोबल्लवादौ कथमिदं वचनमिति, युक्तस्वरं कृत्सवर एव बाधेत? एवं तर्हि पूर्वविप्रतिषेधो वक्तव्यः; परशब्दस्येष्टवाचित्वात्। गोबल्लव इत्येवमादयः समासाः सर्वे युक्तवाचिन इति दर्शयन्नाह -`युक्त इति समाहितः` इत्यादि। अनेन `युज समाधौ` (धा।प।1177) इत्यस्य निष्ठायां युक्त इत्येतद्दर्शयति॥", "62067": "अध्यक्षशब्दोऽपि समासे युक्तवाच्येव, तत्र पूर्वेण नित्यमाद्युदात्तत्वे प्राप्ते विभाषेयमारभ्यते। आद्युदात्तत्वेन मुक्ते समासान्तोदात्तत्वमेव भवति। गवामध्यक्ष इति षष्ठीसमासः॥", "62068": "पापमिति स्वरूपग्रहणम्। शिल्पिनीत्यत्रार्थग्रहणम्। अर्थग्रहणं किमर्थम्, ग्रामशिल्पिनीत्यत्र शिल्पिग्रहणादर्थग्रहणं प्रसिद्धम्, अत इहाप्यर्थग्रहणं विज्ञायते? नित्यं समासस्वरे प्राप्ते विकल्पेन पूर्वपदस्याद्युदात्तत्वं विधीयते, तेनमुक्ते समासस्वर एव भवति। अथेह कस्मान्न भवति -पापस्य नापित इति? अत आह -`पापशब्दस्य प्रतिपदोक्तः` इति। `तस्मात्? षष्ठी समासे न भवति` इति। प्रतिपदोक्ते हि समासे सति लक्षण प्रतिपदोक्तपरिभाषया (व्या।प।3) तस्यैव ग्रहणं भविष्यति; नान्यस्य॥", "62069": "`गोत्राधिकारादन्यत्र गोत्रग्रहणे लोकिकं गोत्रं गृहते` (का।वृ।4.2.40) इत्युक्तम्। लोके चापत्यमात्रे प्रसिद्धम्, तेनेह तस्यैव ग्रहणम्, न तु पारिभाषिकस्य। अन्तेवासी=शिष्यः। तत्रान्तेवसिग्रहणादर्थग्रहणं प्रसिद्धम्। अत इहाप्यर्थ एव गृह्रते, न स्वरूपम्। माणवब्राआहृणयोः स्वरूपमेव। मनोरयं माणवः, अस्मादेव निपातनाण्णत्वम्। `अबाधकान्यपि निपातनानि भवन्ति` (पु।प।वृ।99) इति पक्षे मानव इत्यपि भवति। ब्राहृणोऽयं ब्राआहृणः। यस्तु `अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः` (का।वृ।4.1.161) इति माणवकशब्दो व्युत्पाद्यते, यश्च ब्राहृणोऽपत्यं ब्राआहृण इत्यर्थे ब्राआहृणशब्दः तयोर्गोत्रग्रहणेनैव सिद्धम्। क्षेपः निन्दा। `जङ्घावात्स्यः` इति। `सुप्? सुपा` [[2.1.4]] इति समासः। कथं पुनरत्र क्षेपः? इत्याह -`यो जङ्घादानम्` इत्यादि। जङ्घादानं किमप्याचारनियतं देयमुच्यते, तद्ददान्यहमित्यतोऽभिप्रायेण वात्स्यः सम्पद्यते। वात्स्योऽहमित्यभ्युपगच्छति यः सः जङ्घावात्स्य इत्येवं निन्द्यते। अवात्स्यस्यापि सतो जङ्घादानं प्रति वात्स्यत्वाभ्युपगमात्। वात्स्यशब्दोऽयं गर्गादिः। `भार्यासौश्रुतः` इति। सुश्रुतोऽपत्यं सौश्रुत इत्यण्, भार्याप्रधानः सौश्रुतो भार्यासौश्रुतः। `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इति समासः। सुश्रुतस्य भार्याप्रधानतयेत्यनेन समानाधिकरणेनात्र समास इति दर्शयति। सुश्रुतोऽपत्यमित्यनेनापि सौश्रुतस्याण्प्रत्ययान्तत्वम्। `वशाब्राआहृकृतेयः` इति। तेनैवोपसंख्यानेन समासः। अत्रापि वशाप्रधानतया ब्राहृकृतापत्यस्य क्षेपः। `कुमारीदीक्षाः` इति। `सुप्? सुपा` [[2.1.4]] इति समासः। एवं `कम्बलचारायणीयाः` इत्यत्रापि। दाक्षिणा प्रोक्तं दाक्षं शास्त्रम्। `इञश्च` [[4.2.111]] इत्यण्, दाक्षमधीयते तद्वेत्तीति वा पुनरण्, तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] इति लुक्। चरशब्दो नडादिः, चरस्यापत्यं चारायणः, तेन प्रोक्तं चारायणीयम्। <<वृद्धाच्छः>> [[4.2.114]] , `तदधीते` [[4.2.58]] इति पूर्ववदण्। पाणिना प्रोक्तं पाणनीयम्, ततः पूर्ववदध्येतर्यण्? तस्य च लुक्। `कमार्यादिलाभकामाः` इति। आदिशब्देन कम्बलौदनादीनां ग्रहणम्। अत्रापि `सुप्? सुपा` [[2.1.4]] इति समासः। तेनैवोपसंख्यानेन वा कुमारीलाभकामा दाक्षाः कुमारीदाक्षाः। `भिक्षामाणवः` इति। पूर्ववत्? समासः। भिक्षालाभकामो माणवो भिक्षामाणवः। `दासीब्राआहृणः` इति। दास्याः कामयिता ब्राआहृणो दासीब्राआहृणः। एवं `वृषलीब्राआहृणः` इति। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति बहुलवचनादकृतापि समासः। `तृतीया` [[2.3.18]] इति योगविभागाद्वा। `दासीश्रोत्रियः` इति। दासीब्राआहृण इत्यनेन तुल्यम्। समासस्वरापवायो योगः॥", "62070": "अङ्गशब्दोऽयं कारणवाची। आरम्भकं यत्? तदङ्गमुच्यते। अङ्गानीति बहुवचनं स्वरूपविधिनिरासार्थम्। सुरावज्र्यं मद्यम्=मैरेयमित्यभिधीयते। `गुडमैरेयः, मधुमैरेयः` इति। ष्ठासमासः। `गुडविकारस्य मैरयस्य गुडोऽङ्गम्` इति। तत्कारणत्वात्। अयमपि समासस्वरापवादो योगः॥", "62071": "आख्याग्रहणं स्वरूपविधिनिरासार्थम्। ननु च बहुवचनादेव स्वरूपविधिर्न भविष्यति? नैतदस्ति; बहुवचनं ह्रेतदर्थस्यैव बहुत्वमाचक्षीत -बह्वर्थवृत्तिर्यो भक्तशब्द इति। अपि च बहुवचनेन स्वरूपविधौ बाधितेऽन्नादय एव ये भक्तशब्देन समासार्थपर्यायास्ते गृह्रेरन्, न तु भकतविशेषवाचिनो भिक्षादयः। आख्याग्रहणे तु स्वरूपविदौ बाधिते बहुवचनेन तद्विशेषाणां ग्रहणं सम्पद्यते। तस्मा इदं तदर्थम्। तच्छब्देन भक्ताख्यानामर्थो निर्दिश्यते। `भिक्षाकंसः` इत्येवमादयः `चतुर्थी तदर्थार्थ` [[2.1.35]] इति चतुर्थीसमासाः। ननु च प्रकृतिविकृतिग्रहणं तत्र चोद्यते, न चेह प्रकृतिविकारभावः? सत्यमेतत्; इदमेव तु वचनं ज्ञापकम् -भक्ताख्यायां तादथ्र्यमात्रे चतुर्थी समस्यत इति। `समशनं समाशः` इति। `अशू भोजने` (धातुपाठः-1523) [अश भोजने -धा।पा] इत्यस्मात्? सम्पूर्वाद्भावे घञ्। `क्रियामात्रमुच्यते` इति। मात्रशब्देन भक्तव्यवच्छेदं करोति। `अत्र पूर्वपदमन्तोदात्तम्` इति। भिक्षाशब्दः <<गुरोश्च हलः>> [[3.3.103]] इति भिक्षेरप्रत्ययं कृत्वा व्युत्पाद्यते, श्राणाशब्दोऽपि `श्रै पाके` (धातुपाठः-919) इत्यस्मात्? क्तप्रत्ययम्। तेन द्वावपि प्रत्ययस्वरेणान्तोदात्तौ। `बहुव्रीहौ प्रकृत्या` [[6.2.1]] इति प्रकृतिभावेनान्तोदात्तादेव भवतः। समाससवरापवादो योगः॥", "62072": "उपमानशब्दोऽयं गवादिभिः प्रत्येकमभिमसम्बध्यते; अन्यथैकवचनान्तस्य बहुवचनान्तैः समानाधिकरणेन विशेष्यविशेषणभावो न स्यात्। थ वा सुब्व्यत्यये बहुवचनस्यैव स्थान इदमेकवचनं द्रष्टव्यम्। `धान्यगवः` इति। <<गोरतद्धितलुकि>> [[5.4.92]] टच समासान्तः। अत्र चित्स्वरे प्राप्ते पूर्वपदस्याद्युदात्ततवं विधीयते। `भिक्षाबिडालः` इत्येवमादौ समासस्वरे। उपमानार्थोऽपि` इत्यादि। योऽयमत्रोदाहरणे उपमानार्थः सम्भवति, स तत्र योजयितव्यः। `यथाप्रसिद्धि च` इति। यस्योपमानस्यार्थस्य च लोके प्रसिद्धिः स तथा योजयितव्यः। तत्र दिङ्मात्रमुपमानार्थयोजनस्य दर्शयितुमाह -गवाकृतिः=गोसंस्थानम्, तया सन्निवेशितं गोर्यत्संस्थानं तेन सन्निवेशितं व्यवस्थापितं धान्यगवशब्देनोच्यते; तुल्याकृतित्वात्। एवमन्यत्रापि यत्? किञ्चित्? सादृश्यं योज्यम्। यथा गोरचनाविशेषावयवानामेवं यस्य हिरण्यस्य तद्धिरण्यं हिरण्यगवशब्देनोच्यते। यथा बिडाला अल्पप्रमाणास्तथा हि भिक्षा, यथा वा बिडालाः क्वचिद्भवन्ति न सर्वत्र तथा भिक्षापि। एवं श्राणाबिडालयोः सादृश्यमेवञ्जातीयकं योजयितव्यम्। सिंहाकृत्या सन्निविष्टं तृणं तृणसिंहः। यथा सैन्धवं शुक्लमेवं सक्तुः सक्तुस#ऐन्धवः। एवं पानसैन्धवः॥", "62073": "`अके इति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (नी।प।वृ।31) तदन्तस्य ग्रहणं विज्ञायत इत्याह -`अकप्रत्ययान्त उत्तरपदे` इति। `जीविकावाचिनि` इति। जीविका=जीवकः तद्वाचिनीत्यर्थः। जीविकाशब्दो ह्रर्शाअदेराकृतिगणत्वान्मत्वर्थीयाकारान्तः सूत्र उपात्तः। अत एव वृत्तौ दन्तलेखनादिभिर्येषां जीविका त एवमुच्यन्त इत्याह -`दन्तलेखलः` इति। लिकेर्ण्वुल्, षष्ठीसमासः। षष्ठी पुनः <<कर्तृकर्मणोः कृति>> [[2.3.65]] इति कर्मणि। `अवस्करशोधकः` इति। `शुध शौचकर्मणि` (धातुपाठः-1191) [`शौचे` -धातुपाठः-] इत्यस्माण्ण्यन्ताण्ण्वुल्। `रमणीयकारकः` इत्यत्रापि करोतेः। `रमणीयकर्ता` इति। पूर्ववत्? समासः। अत्र <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति प्रकृतिभावेनोत्तरपदमन्तोदात्तम्। `इक्षुभक्षिकाम्` इत्यादि। `पर्यायर्हणोत्पत्तिषु ण्वच्` [[3.3.111]] इति भक्षयतेर्ण्वुच्। अत्र `षष्ठी` [[2.2.8]] इति समासलक्षणेनैव समासः। अत्रापि पूर्ववदुत्तरपदमन्तोदात्तम्। कृत्स्वरापवादो योगः। एवमुत्तरत्रापि योगाः। `युक्तारोह्रादयश्च` [[6.2.81]] इत्यतः प्राक्? कृत्स्वरापवादो वेदितव्यः॥", "62074": "", "62075": "`छत्त्रधारः` इति। <<कर्मण्यण्>> [[3.2.1]] ।॥किमर्थं पुनरिदम्, यावता युक्तोऽभिमतः, तद्वाची न भवति? `नियुक्तोऽधिकृतः` इत्यादि। <<युक्ते च>> [[6.2.66]] इत्यनेन हि यः कर्तव्ये युक्तः समाहितः तस्य पूर्वपदस्याद्युदात्तत्वम्, तेनाधिकृतवाचिनि न सिध्यति। तस्मादधिकृतच्छत्त्रादिषु यः सहिनियुक्तोऽभिप्रेतः, स च कस्मश्चिच्छत्त्रधारणे तत्परो न भवति तेन च्छत्रधार इत्यादिसमासो यादृशः <<युक्ते च>> [[6.2.66]] इत्यत्र युक्तोऽभिमतस्तद्वाची न भवति। `नियुक्तोऽधिकृतः` इत्यनेन `युजिर्? योगे` (धातुपाठः-1444) इत्यस्य निष्ठायां नियुक्त इत्येतद्रूपमिति दर्शयति।\t`काण्डलावः` इति। अत्र काण्डलवनक्रियां प्रति कर्तृत्वमात्रं गम्यते, नादिकृतत्वम्। तेनेष स्वरो न भवति॥", "62076": "अनियुक्तार्थ वचनम्। `अकृञः` इति। शिल्पिवशेषे प्रतिषेधं वक्ष्यामीत्येवमर्थञ्च। `तन्तुवायः` इति। `वेञ्? तन्तुसन्ताने` (धातुपाठः-1006) इति। तन्तून्? वयतीति ह्वावामश्च` [[3.2.2]] इत्यण्, `आतो युक्? चिण्कृतोः` [[7.3.33]] इति युक्। `अयस्कारः` ति। `अतः कृकमि` [[8.3.46]] इत्यादिना विसर्जनीयस्य सकारः। प्रत्युदाहरणेषु कृत्स्वर एव भवति॥", "62077": "", "62078": "`गोपालः` इति। `पा रक्षणे` (धातुपाठः-1056), पूर्ववदण्। `अनियुक्तार्थ आरम्भः` इति। नियुक्ते <<अणि नियुक्ते>> [[6.2.75]] इत्यनेनैव सिद्धत्वात्। `गोरक्षः` इति। `रक्ष पालने` (धातुपाठः-658)॥", "62079": "`पूष्पहारी` इति हरतेः `व्रते` [[3.2.80]] <<बहुलमाभीक्ष्ण्ये>> [[3.2.81]] इति वा णिनिः॥", "62080": "`शब्दार्थप्रकृतौ` इति। शब्दार्थः प्रकृतिर्यस्मिन्निति बहुव्रीहिः। `उपमानं नियम्यते` ति। यत एवकारस्ततोऽन्यत्रावधारणं भवति। इह च शब्दार्थप्रकृतेरेवकारः, तस्मादुपमाननियमो भवति, अतस्तन्नियम्यते। `उष्ट्रकोशी` इति। `क्रुश आह्वाने` (धातुपाठः-856) [आह्वाने रोदने च -धातुपाठः-] इत्यस्मात्? `कर्तर्युपमाने` [[3.2.79]] इति णिनिः। णिनिनैव सादृश्यस्योक्तत्वाद्वृत्ताविवशब्दो न प्रयुज्यते। `ध्वाङ्क्षरावी` इति। `रु शब्दे` (धातुपाठः-1034) पूर्वलक्षणाण्णिनिः। `खरनादी` इति। `णद अव्यक्ते शब्दे` (धातुपाठः-54)।`उपमानग्रहणम्` इत्यादि। यद्युपमानग्रहणं न क्रियते, तदा पूर्वस्य योगस्यास्य च विषयविभागो न ज्ञायेत। यदि योगविभागकरणसामर्थ्याद्विषयान्तरम्य कल्प्येत, तथापीष्टो विषयविभागो न ज्ञायेत। उपमानग्रहणे तु सति पूर्वस्य सामान्यं विषयः, अस्य तु विशेष उपमानमिति विषयविभागो निश्चीयेत। तेन विषयविभागार्थमुपमानग्रहणम्। `वृकवञ्ची` इति। `वञ्चु प्रलम्भने` (धातुपाठः-1703)। `वृकप्रेक्षी` इति। `ईक्ष दर्शने` (धातुपाठः-610) प्रपूर्वः। अत्र कृत्स्वर एव भवति। `प्रकृतिरेव` इत्यादि। यदि प्रकृतिग्रहणं न क्रियेत, तदा शब्दार्थात्? परो यो णिनिस्तदन्त उत्तरपद इत्येवं विज्ञायेत? ततश्च गर्दभोच्चारी कोकिलाभिव्याहारीत्यस्यापि स्यात्; भवति ह्यत्रापि धातूपसर्गसमुदायाच्छब्दार्थात्? परो णिनिः, अतस्तदन्तमुततरपदम्। तस्मादिह मा भूदिति प्रकृतिग्रहणं क्रियते, तेनेह न भवति। प्रकृतिग्रहणे सति यत्रोपसर्गनिरपेक्षा गत्यर्थत्वात्, हरतेश्च हरणार्थत्वात्। यद्वा -योऽत्र शब्दार्थो धातूपसर्गसमुदायः, न तस्माण्णिनेर्विधानम्। यदि पूर्वेणैव सिद्धे नियमार्थं वचनम्, एवं सिद्धे विधिरारभ्यमाणो नियमाय भवतीत्यनर्थकमेवकारकरणम्? इत्याह -`एवकारकरणम्` इत्यादि। असति ह्रेवकार उपमान एव शब्दार्थप्रकृतावित्येवमवधारणं स्यात्, ततश्च शब्दार्थप्रकृतिरेव नियम्येत -शब्दार्थप्रकृतौ यदि भवत्युपमान एव भवति, नानुपमान इति। ततश्चानुपमाने न स्यात्। तस्मादुपमानावधारणं यथा स्यादित्येवमर्थमेवकारः क्रियते। किं कारणम्? इत्याह -`शब्दार्थप्रकृतौ तु` इत्यादि। तुशब्दो हेतौ। तस्मात्? शब्दार्थप्रकृतावुपमानमनुपमानं चाद्युदात्तं भवति। तस्मादुपमानावधारणार्थमेवकारकरणम्। उपमाननियमे हि सति शब्दार्थप्रकृतेरनियतत्वात्? तत्राविशेषेण सर्वस्याद्युदात्तत्वं लभ्यते। `सिंहविनर्दी` इति। उपमानस्योदाहणम्। `पुष्कलजल्पी` इति। अनुपमानस्य। पुष्कलजल्पीत्यत्र `व्रत्ते` [[3.2.80]] <<बहुलमाभीक्ष्ण्ये>> [[3.2.81]] इति वा णिनिः॥", "62081": "", "62082": "कृत्स्वरापवादो योगः। `कृटीजः` इति। कुटआं जात इति `सप्तम्यां जनेर्डः [[3.2.97]] इति डप्रत्ययः॥", "62083": "अयमपि कृत्स्वरपबादो योगः।`दग्धजानि` इति। अत्र कृत्स्वर एव भवति॥", "62084": "`निवसन्तशब्दोऽयमौणादिको गृह्रते। `जृविशिभ्यां झच्` (द।उ।6।17) इति वर्तमाने `तृभूवहिवसिभासिसाधिगतिमण्डिजिनन्दिभ्यश्च` (द।उ।6।19) [तृभृवहिवसिभासिसाधिगाडिमण्डिजिवन्दिभ्यश्च -द।उ।] इति वसेर्निपूर्वाज्झच्। निवसतीति निवसन्तः। केचिच्छन्नन्तस्य वसच्छब्दसय ग्रहणं वर्णयन्ति। `मल्लग्रामः` इति। षष्ठीसमासः। `देवग्रामः` इति। वाटकपरिक्षिप्ते गृहसमुदाये ग्रामशब्दो वर्तते। तस्माद्देवस्वामिक इत्यर्थः। एतेन स्वस्वामिभावसम्बन्धा या साऽत्र षष्ठी समस्यते, न तु क्रियावाससम्बन्धेति दर्शयति; अन्यथा देवशब्दः पूर्वपद निवसन्तवाच्येव स्यादित्यभिप्रायः। `दाक्ष्यादयो निवसन्ति यस्मिन्` इत्यादिना प्रत्युदाहरणे पूर्वपदस्य निवसन्तवाचित्वं दर्शयति॥", "62085": "समाससवरापवादो योगः। एवमुत्तरेऽपि। `न भूताधिकसञ्जीव` [[6.2.91]] इत्यादेः सूत्राद्ये योगास्त समासस्वरापवादा द्रष्टव्याः। `दाक्षीघोषः`इत्येवमादयः षष्ठीसमासाः। `यानयत्र` इत्यादि। कथं पुनरेतललभ्यते, यावताऽनिवसन्त इति प्रकृतम्? इत्यत आह -`अनिवसन्तः` इति। `अपरे` इत्यादि। तेषां मतेन यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीन्यप्युदात्ता भवन्ति॥", "62086": "`यदा शालान्तः` इत्यादि। `विभाषा सेनासुरा` [[2.4.25]] इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम्? इह च शालाशब्दस्य स्त्रीलिङ्गस्य ग्रहणम्। तत्र यथा समासो नपुंसकलिङ्गो न भवति तथा <<तत्पुरुषे शालायां नपुंसके>> [[6.2.123]] इत्यनेन परत्वादुत्तरपदाद्युदात्तत्वेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्। अतस्तन्निरासाय `यदा शालान्तः` इत्यादेग्र्रन्थस्योपन्यासः। यो नपुंसकलिङ्गः शालान्ततत्पुरुषो न भवति सोऽस्यावकाशः -छात्त्रिशाला, ऐलिशालेति। यस्तु नपुंसकलिङ्गो न छात्त्रादिपूर्वपदस्तत्पुरुषः स `शालायां नपुंसके` [[6.2.122]] इत्यस्यावकाशः -ब्राआहृणशालम्, क्षत्त्रियशालमिति; इहोभयं प्राप्नोति -छात्त्रिशालमिति, पूर्वविप्रतिषेधेनायमेव स्वरो भवति॥", "62087": "प्रस्थशब्दो यदि व्युत्पाद्यते `घञर्थे कविधानं स्थास्नपाव्यधिहनियुध्यर्थम्` (वा।306) इति, तदा थाथादिस्वरे [[6.2.143]] प्राप्ते। अथ न व्युत्पाद्यते, तदा समासान्तोदात्तत्वे। `इन्द्रप्रस्थः` इत्यादयः षष्ठीसमासाः॥", "62088": "", "62089": "`सुह्रनगरम्` इत्यादयोऽपि षष्ठीसमासा एव। किमर्थं प्राचामित्येवं नोच्यते, [नोच्येत -मुद्रितः पाठः] लधु हि प्राचामिति वचनमनुदीचामिति वचनात्? नैवं शक्यम्; मध्यदेशनगरे विराटनगरमित्यत्र न स्यात्। पूर्वपदाद्युदात्तत्वे प्राप्ते प्रतिषेधोऽमुच्यते, न समास एव भवति॥", "62090": "", "62091": "`मद्राश्मग्रहणम्` इत्यादि। उभयत्रापि द्व्यच्? त्र्यजिति च प्राप्तिरस्ति। तस्मात्? सङ्घातार्थं विगृहीतार्थञ्च वचनम्। कथं पुनः संघातविगृहीतार्थत्वं लभ्यते? एकाशेषं कृत्वा मद्राश्म इति निर्देशात्। मद्राश्मा च मद्राश्मानौ चेत्येकशेषः। एकशेषे सति मद्रशब्दस्य केवलस्य, मद्रशब्दस्य च सङ्घातस्य प्रतिषेध उपपद्यते। आद्युदात्तस्य प्रकरणमित्याद्युदात्तप्रकरणम्, प्रकान्तम्। तत्र दिवोदासा दीनां छन्दस्याद्युदात्तो भवतीत्येत दर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानां तु -<<युक्ते च>> [[6.2.66]] इत्येवमादौ येऽस्मिन्? प्रकरणे चकाराः, तेषामन्यतमस्यानुक्तसमुच्चयार्थतामाश्रित्य कर्तव्यम्॥", "62092": "", "62093": "`गुणकार्त्स्न्ये` इति। गुणकार्त्स्न्य गुणस्य सर्वत्राभावः। `सर्वओतः` इति। `पूर्वकालैक` [[2.1.48]] इत्यादिना समानाधिकरणसमासः। अत्र समुदायगुणस्य सर्वत्र भावः। न तु तदवयवे तत्र सर्वशब्दो वर्तत इति गुणकार्त्स्न्यस्य वृत्तिर्भवति। `परमओतः` इति। कथं पुनरत्र गुणकार्त्स्न्ये परमशब्दो वर्तते, यावतासौ प्रकर्षवाची, अन्यश्च प्रकर्षः, अन्यच्च गुणकार्त्स्न्यम्? इत्यत आह -`आश्रयव्याप्त्या` इत्यादि। इतिकरणो हेतौ। यस्मादाश्रयव्याप्त्या परमत्वमुत्कर्षे भवति, नान्यथा। एवं हि तस्योत्कर्ष उपपद्यते यदि सर्वमाश्रयं व्याप्नोति। तस्माद्गुणकार्त्स्न्यं इह परमशब्दो वर्तते। `सर्वसौवर्णः, सर्वराजतः` इति। सुवर्णस्य विकारः सौवर्णः, रजतस्य विकारो राजतः -नात्र गुणकार्त्स्न्यम्, किं तर्हि? जातियुक्तस्य विकारवषयं कार्त्स्न्यम्। सर्व हि विकारद्रव्यं प्रकृतिभावेन व्याप्नोतीति द्रव्यकार्त्स्न्यमिह, तत्र च सर्वशब्दो वर्तते। `सर्वेषां ओततरः सर्वओतः` इति। अत्र गुणकार्त्स्न्ये। कथं पुनरत्र समासः, यावता `पूरणगणसुहित` [[2.2.11]] इत्यादिना गुणवचनेन षष्ठीसमासः प्रतिषिद्धः? अथापि कथञ्चित्? समासः स्यात्, एवमपि ओततरशब्देन समासे कृते सर्वओततरमिति वक्तव्यम्? इत्यत आह -`गुणात्? तरेण समासः` इत्यादि। औपसंख्यानिकाविह समासतरलोपाविति दर्शयति। समासस्वरापवादो योगः। एवमुत्तरेऽपि योगाः। <<न हास्तिनफलकमार्देयाः>> [[6.2.101]] इत्यतः प्राक्? समासस्वरापवादो वेदितव्यः॥", "62094": "`अञ्जनागिरिः` इत्येवमादयः षष्ठीसमासाः। अञ्जनभञ्जनशब्दयोः `वनगिर्योः संज्ञायाम्` [[6.3.116]] इति दीर्घत्वम्। `शापिण्डिमौण्डिशब्दौ` इञन्तौ। `चिखिल्लिशब्दः` मत्वर्थीयेनिप्रत्ययान्तः॥", "62095": "`वृद्धकुमारी` इति। <<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति समासः। `जरत्कुमारी` इति। जरती चासौ कुमारी चेति `पूर्वकाल` [[2.1.48]] इत्यादिना समासः। उभयत्र <<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इत्यादिना पुंवद्भावः। ननु च कुमारीशब्दः प्रथमे वयसि वर्तते, तथा हि <<वयसि प्रथमे>> [[4.1.20]] इति ङीबत्र विहितः, वृद्धाजरतीशब्दौ चरमे वयसि वर्तते, तत्कथमिह सामानाधिकरण्यम्? इत्यत आह - `कुमारीशब्दः पुंसा सहासम्प्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तः` इति। असम्प्रयोगः=असम्बन्धः। तन्मात्रप्रवृत्तिनिवृत्तिसमुदायावयवः सामान्ये प्रवृत्तः। कुमारीशब्दो यथा वृद्धादिभिः वयोविशेषवचनैर्विशेष्यते तदा तैः समानाधिकरणो भवति। वयोविशेषोऽन्त्यं वयः। कथं पुनर्विशेषवचनं सामान्ये वर्तते? वयोग्रहणसामर्थ्यात्। यदि वृद्धकुमारीशब्दः प्रथमे वयसि वर्तते वयोग्रहणमनर्थकं स्यात्। यतर कुमारीशब्दः प्रयुज्यते प्रथमवयोवाची, तत्र नियोगतो वयो गम्यत एवेति किं वयोग्रहणेन! तस्माद्वयोग्रहणसामर्थ्यात्? यथोक्तेन प्रकारेण वयःसामान्ये प्रवर्तते। वयोग्रहणेन हि तस्माद्विशेषादपनीयासौ सामान्यवृत्तिराश्रीयते। `तच्च वय इह गृह्रते` इति। यत्र वर्तमानो विशेषवचनैः सह समानाधिकरणो भवति, तच्च वयो गृह्रते। चशब्दादन्यच्च यौवनादीनकुमारत्वमेवेति, न प्रथमवय इत्यर्थः। `परमकुमारी` इति। अत्र समासात्? पूज्यमानता; पूज्यमानत्वं तु दर्शनीयत्वात्। दर्शनीया कन्येत्यर्थः। न ह्यत्र समासो वयोऽभिधानपरः। नापयुत्तरपदं वयःसामान्ये वर्तते॥", "62096": "`मिश्रम्` इति। द्रव्यान्तरसम्पृक्तमित्यर्थः। `गुडमिश्रम्` इति। शाकपार्थिवादित्वा(वा।83)दुत्तरपदलोपिसमासः। `शीतोदकम्` इति। विशेषणसमासः। पूर्वपदमत्र गुणोपसर्जनमुदकं ब्रूते। उत्तरपदमपि जात्युपसर्जनम्। तथैव तेनैकमेव वस्तु जातिगुणाब्यामुच्यत इति केवलोदकवाचिसमासः॥", "62097": "`गर्गत्रिरात्रादयः` षष्ठीसमासाः। तिसृणां रात्रीणां समाहारस्त्रिरत्रः। `अहःसर्वेकदेश [[5.4.87]] इत्यादिनाच्? समासान्तः। `अतिरात्रः` इति। रात्रिमतिक्रान्त इति प्रादिसमासः॥", "62098": "`गोपालसभम्` इत्येवमादयोऽपि षष्ठीसमासाः, `सभाराजाऽमनुष्यपूर्वा` [[2.4.23]] इति नपुंसकत्वम्। `राजसभा, ब्राआहृणसभा` इत्यत्र `अमनुष्यपूर्वा` इति प्रतिषेधान्नपुंसकता न भवति।अथेह कस्मान्न भवति -रमणीया सभाऽस्य ब्राआहृणकुलस्य रमणीयसभम्? इत्यत आह -`प्रतिपदोक्तम्` इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) यत्? प्रतिपदोक्तं नपुंसकं तदिह गृह्रते। न चेह तथाविधं नपुंसकत्वम्। अत्र तु `अभिधेयवल्लिङ्गवचनानि भवन्ति` (व्या।प।73) इति ब्राआहृणकुलस्याभिधेयस्य नपुंसकत्वात्। न तत्? प्रतिपदोक्तम्॥", "62099": "`ललाटपुरम्` इत्येवमादयः षष्टीसमासाः॥", "62100": "`अरिष्टपुरम्? गौडपुरम्` इति। एतावपि षष्ठीसमासावेव। `पूर्वग्रहणं किम्` इति। एवं मन्यते -अरिष्टगौडयोरिति वक्तव्यम्, एवमप्युच्यमानेऽरिष्टगोडयोः पुरशब्द उत्तरपदेऽन्तोदात्ततवं सिध्यत्येवेति। `इहापि यथा स्यात्` इति। यदि पूर्वग्रहणं न क्रियेत्? तदारिष्टं श्रितस्तस्य पुरमरिष्टश्रितपुरमिति। गौडानां भृत्या गौडशब्दौ। पूर्वग्रहणे तु सति बहुव्रीहिर्लभ्यते -अरिष्टगौडौ पूर्वौ यस्मिन्? समासे सोऽरिष्टगौडपूर्व इति। तेनारिष्टश्रितपुरम्, गौडभृत्यपुरमित्यत्रापि यदुत्तरपदं तस्याप्यन्तोदात्तत्वं भवत्येव। अत्रापि ह्ररिष्टशब्दो गौडशब्दश्च पूर्वः। पूर्वश्चायमवयववचनः॥", "62101": "", "62102": "`कुसूलबिलम्` इत्येवमादयः षष्ठीसमासाः। समासस्वरापवादो योगः। एवमुत्तरेऽपि `बहुव्रीहौ विआं संज्ञायाम्` [[6.2.106]] इत्यतः प्राग्योगाः समासस्वरापवादाः वेदितव्याः॥", "62103": "`पूर्वेषुकामशमी` इति। <<दिक्संख्ये संज्ञायाम्>> [[2.1.50]] इति समासः। एवं `अपरेषुकामशमी` इत्यत्रापि। `पूर्वकृष्णमृत्तिका` इति। पूर्वा चासौ कृष्ममृत्तिका चेति `पूर्वापर` [[2.1.57]] इत्यादिना समासः। एवं `अपरकृष्णमृत्तिका` इत्येवमादावपि। अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम्। <<अधिकृत्य कृते ग्रन्थे>> [[4.3.87]] इत्यण्। अथ यता -चानराटे रूपग्रहणं तथा ग्रामादिष्वपि कस्मान्न भवति? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्देशस्य स्वरूपग्रहणं भवतीत्युक्तम्। इह चानराट एव शब्दप्रधानो निर्देश, ग्रामादिष्वर्थप्रधान एव। अथ शब्दग्रहणं किमर्थम्, न दिगित्येवोच्यते? इत्यत आह -`शब्दग्रहणम्` इत्यादि। असति हि शब्दग्रहणे पूर्वाधिरामम्, पूर्वयायातमित्यत्र न स्यात्। कस्मात्िह कालवाची पूर्वशब्दः। दिग्वाचिशब्दग्रहणे सति दिक्शब्दमात्रग्रहणं भवति। तस्मात्? कालवाचिनोऽपि दिक्शब्दस्य परिग्रहो यथा स्यादित्येवमर्थं शब्दग्रहणम्॥", "62104": "`आचार्योपसर्जनश्च` इति। सुपां सुर्भवतीति सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्, एतच्चान्तेवासिविशेषणम्। `आचार्योपसर्जनान्तेवाचिन्युत्तरपदे` इति। आचार्य उपसर्जनम्प्रधानं यस्य अन्तेवासिनः स तथोक्तः। आचार्योपसर्जनश्चान्तेवासी चाचार्योपसर्जनान्तेवासी, तं वक्तुं शीलं यस्योत्तरपदस्य तदाचार्योपसर्जनान्तेवासिवाचि। `पूर्वपाणिनीयाः` इति। `पूर्वापर` [[2.1.57]] इत्यादिना समासः पाणिनेराचार्यस्यान्तेवासिनः पाणिनीयाः, अत्रान्तेवासिनः प्राधान्येनोच्यन्ते प्रत्ययान्तेन; आचार्यस्तु तद्विशेषणत्वादुपसर्जनभावेनेत्याचर्योपसर्जनान्तेवासिवाच्युत्तरपदं भवति। `पूर्वकाशकृत्स्नाः` इति। काशकृत्स्नस्येमे काशकृत्स्नाः, औत्सर्गिकोऽण्।`पूर्वपाणिनीयं शास्त्रम्` इति। पाणिना प्रोक्तं पाणिनीयम्, अत्राचार्योपसर्जनशास्त्रवाच्युत्तरपदम्, न त्वाचार्योपसर्जनान्तेवासिवाचि॥", "62105": "`उत्तरपदवृद्धौ` इति। उत्तरपदाधिकारविहिता वृद्धिरुत्तरपदवृद्धिः, इह तु तद्वदुत्तरपदं गृह्रते। तमेवार्थं दर्शयितुमाह -`उत्तरपदस्योत्येवम्` इत्यादि। कथं पुनरुत्तरपदवृदधावित्युच्यमान एषोऽर्थः शक्यते विज्ञातुम्? तदुच्यते; उत्तरपदं स्वर्यते, स्वरितेनाधिकारो लक्ष्यते, तेनोत्तरपदस्येत्यधिकृत्य या विहिता वृद्धिस्तास्यास्तावद्ग्रहणं विज्ञायते। पूर्वपदस्येदमन्तोदात्तत्वं विधीयते। पूर्वपदं च सम्बन्धिशब्दत्वादुत्तरपदमुपस्थापयति। न च वृद्धिमात्र उत्तरपदमुपपद्यत इति सामर्थ्याद्वृद्धिशब्दसाहचर्यादुत्तरपदं वृद्धिमुपलक्षयति। तेनोत्तरपदाधिकारे वृद्धिमत्युत्तरपद एष स्वरो भवतीति विज्ञायते। `सर्वपाञ्चालकः` इति। `पूर्वकालैक` [[2.1.48]] इत्यादिना समासः। `पूर्वपाञ्चालकः` इत्यादौ `पूर्वापर` [[2.1.57]] इत्यादिना। `जनपदलक्षणो वृञ्प्रत्ययः` इति। <<धन्वयोपधाद्वुञ्>> [[4.2.121]] इत्यनुवर्तमाने <<जनपदतदवध्योश्च>> [[4.2.124]] इत्यतो जनपदग्रहणे च <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]] इत्यनेन वञ्।`सुसर्वाद्र्धात्` इत्यादि। `सर्वपाञ्चालकः` इति। `सुसर्वर्धाज्जनपदस्य` [[7.3.12]] इत्युत्तरपदवृद्धिः। `पूर्वपाञ्चालकः` इत्यादौ तु <<दिशोऽमद्राणाम्>> [[7.3.13]] इति। एषा चोत्तरपदाधिकारविहिता, तत्र चोत्तरपदस्येत्यनुवृत्तेः। किं पुनः कारणमुत्तरपदाधिकार उत्तरपदग्रहणेन लक्ष्यत इत्येवं विज्ञायते? इत्याह -`अधिकार लक्षणात्` इत्यादि। यद्युत्तरपदग्रहणेनोत्तरपदाधिकारो लक्ष्येत, तदा वृद्धिमात्रवत्युत्तरपदे वैतद्वुञो ह्रु वात्तत्वं भवतीत्युक्तं स्यात्। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्। अधिकारलक्षणे तु न भवति, न ह्रुदात्तत्वं भवतीत्युक्तं स्यात्। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्। अधिकारलक्षणे तु न भवति, न ह्रुत्तरपदाधिकारविहिता वृद्धिः। `भासृ दीप्तौ` (धातुपाठः-624) भासत इति भासः, पचाद्यच्। करोतीति कारकः, ण्वुल्, <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः, सा चोत्तरपदाधिकारविहिता न भवति॥", "62106": "`पूर्वपदकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम्` इति। `बहुव्रीहौ प्रकृत्या` [[6.2.1]] । इत्यादिना विओ च ते देवा विआवेवा इति विशेषणसमासः, तत्पुरुषोऽयम्। अत्र समासान्तोदात्तत्वमेव भवति। `विआदेवः` इति। अत्र पूर्वपदप्रकृतिस्परत्वेनाद्यदात्तत्वमेव भवति। विआशब्दसय क्वन्प्रत्ययन्तस्य नित्स्वरेणाद्युदात्तत्वम्। `विआआमित्रः` इति। `बहुवरीहौ विआं संज्ञायाम्` [[6.2.106]] इति पूर्वपदान्तोदात्तस्यावकाशः -विआदेवः, विआयशा इति। <<संज्ञायां मित्राजिनयोः>> [[6.2.165]] इत्युत्तरपदान्तोदात्तत्वस्यावकाशः -कुलमित्त्रम्, कुलाजिनमिति; विआआमित्त्रः, विआआजिन इत्यत्रोभयं प्राप्नोति, <<संज्ञायां मित्राजिनयोः>> [[6.2.165]] इत्येतत्तु भवति विप्रतिषेधेन॥", "62107": "", "62108": "", "62109": "`बन्धुनि` इति। शब्दरूपापेक्षया नपुंसकलिङ्गनिर्देशः, अन्यथा बन्धुशब्दस्य पुंल्लिङ्गत्वात्? `बन्धौ` इति निर्देशं कुर्यात्। `गार्गीबन्धुः, वात्सीबन्धुः` इति। गर्गवत्सशब्दाभ्यां गर्गादित्वात्? [[4.1.105]] यञ्? तदन्तात्? `यञश्च` [[4.1.16]] इति ङीप्। गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदात्तौ। `ब्राहृबन्धुः` इति। अत्र प्रकृतिभाव एव भवति पूर्वपदस्य। ब्राहृशब्दश्चायं `मनिन्` (द।उ।6।73) इत्यनुवर्तमाने `बृहेर्नोऽच्च` (द।उ।6।74) इति भनिन्प्रत्ययान्तो व्युत्पाद्यते, तेनाद्युदात्तः। `गार्गीप्रियः` इति। गार्गीशब्दोऽपि प्रकृतिभावेनाद्युदात्त एव भवति॥", "62110": "`प्रक्षालितपादः` इति। `क्षल शौचकर्मणि` (धातुपाठः-1597) अस्माण्णयन्तात्? क्तः। पक्षालितशब्दः <<गतिरनन्तरः>> [[6.2.49]] इत्याद्युदात्तः। `प्रधौतमुखम्` इति। `धावु गतिशुद्ध्योः` (धातुपाठः-601) अस्मात्? क्तः। <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इत्यूठ्, <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धिः। `यदि मुखशब्दः` इत्यादि। मुखशब्दोऽयं स्वाङ्गवाच्यपि। तत्र यद्ययमिह स्वाङ्गवाची तदानेन पूर्वपदान्तोदात्तत्वमेव। मुक्ते पक्षे <<मुखं स्वाङ्गम्>> [[6.2.167]] इत्युत्तरपदाद्युदात्तत्वं भवति। अत्र निष्ठोपसर्गपूर्वमन्यतरस्यांग्रहणानुवृत्तेर्यदाऽन्तोदान्तत्वं भवति तदा <<गतिरनन्तरः>> [[6.2.49]] इत्येतत्। तेन स्वाङ्गवाचिनि मुखशब्दे त्रयः स्वरा भवन्ति। अनेन पूर्वपदान्तोदात्तत्वम्, <<मुखं स्वाङ्गम्>> [[6.2.167]] इत्यनेनोत्तरपदन्तोदात्तत्वम्, <<गतिरनन्तरः>> [[6.2.49]] इति प्रकृतिभावात्? पूर्वपदस्याद्युदात्तत्वम्। `न चेत्` इत्यादि। यदि मुखशब्दोऽत्र स्वाङ्गावची न भवति तदा <<मुखं स्वाङ्गम्>> [[6.2.167]] इत्यस्यायं विषयो न भवतौति <<गतिरनन्तरः>> [[6.2.49]] इति विधिना मुक्ते प्रवर्तते। तेन स्वाङ्गवाचिनि मुखशब्दे द्वौ स्वरौ भवतः -पूर्वपदस्याद्युदात्तत्वम्, अन्तोदात्तत्वञ्च। `प्रसेचकमुखम्` [प्रसेचकमुखः -काशिका] इति। अत्र पूर्वपदप्रकृतिस्वर एव भवति। प्रसिच्यत इति प्रसेचकः <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्मणि ण्वुल्, <<कुगतिप्रादयः>> [[2.2.18]] इति समासः, `तत्पुरुषे तुल्यार्थे` [[6.2.2]] इत्यादिनाऽव्ययप्रकृतिभावः। तेन प्रसेचकशब्द आद्युदात्त इति। `शुष्कमुखः` इति। <<शुषः कः>> [[8.2.51]] इति निष्ठायां कादेशः। प्रत्ययस्वरेण शुष्कशब्दोऽन्तोदात्तः। बहुव्रीबौ प्रकृतिभावेन नित्यमेवान्तोदात्तो भवति॥", "62111": "", "62112": "वर्णम्=शुकलादि, लक्ष्यतेऽनेनेति लक्षणम्=चिह्नम्, वर्णञ्च लक्षणञ्च वर्णलक्षणम्। द्वन्द्व एकवद्भावः। अर्थग्रहणं चेह वर्णलक्षणयोः; अर्थप्रधानत्वान्निर्देशस्य। `ओतकर्णः कृष्णकर्णः` इति। ओतकृष्णशब्दावन्तोदात्तौ। तथा हि -`शिता वर्णे` (धातुपाठः-742) इत्यस्मात्? पचाद्यचि ओतशब्दो व्युत्पाद्यते। कृष्मशब्दोऽपि `इण्सिञ्चिदीङ्युष्यविभ्यो नक्` (द।उ।5।35) [इण्सिञ्दीङुष्वविभ्यो नक् -द।उ।] इत्यनुवर्तमाने `कृषेर्वर्णे` (द।उ।5।37) इति नक्प्रत्यये। `दात्राकर्णः` इति। <<धः कर्मणि ष्ट्रन्>> [[3.2.181]] इति वर्तमाने `दाम्नीशस्` [[3.2.182]] इत्यादिना ष्ट्रन्प्रत्ययः, तेन दात्रशब्द आद्युदात्तः। `शङ्कूकर्णः इति। `कृग्रोरुच्च` (द।उ।1।109) [कृग्रोरुच्च -द।उ।] इत्यनुवर्तमाने `खरुशङ्कुपीयुनीलङ्गुलिगु (द।उ।1।120) इति कुप्रत्ययान्तः शङ्कुशब्दोऽन्तोदात्तो निपात्यते। `धापृवस्यज्यतिभ्यो नः` (द।उ।5।39) इत्यधिकृत्य `कृवृच्छसिद्रूपन्यनिस्वपिभ्यो नित्` (द।उ।5।42) [कृवृजृसिद्रुपन्यनिस्वपिभ्यो नित् -द।उ] इति कर्णशब्दो व्युत्पाद्यते, भिन्नच्छिन्नद्ररुआउवस्वस्तिकस्य` [[6.3.114]] इति सूत्रमुपलक्षयति।`ओतपादः` इत्यादि। पूर्वपदस्य प्रकृतिस्वर एव भवति। अथेह कस्मान्न भवति -स्थूलकर्ण इति, स्थूलेनापि हि कर्णेन लक्ष्यत एव ततश्च लक्षणादित्येव सिद्धम्? इत्यत आह -`पशूनां विभागज्ञापनार्थम्` इत्यादि। तेन स्थूलकर्ण इत्यत्र न भवतीति भावः। कथं पुनः सामान्येनोक्तौ विशेषसय ग्रहणं लभ्यते? वर्णग्रहणाज्ज्ञापकात्। यदि लक्षणमात्रस्येह ग्रहणभिमतं स्याद्वर्णग्रहणं न क्रियेत, वर्णो हि लक्षणं भवत्येव। तेनापि लक्ष्यत इति कृत्वा, कृतश्च। तस्मात्? तदेव ज्ञापयति -विशिष्टमिह लक्षणं गुह्रत इति। यत्? पुनर्विशिष्टं व्याख्यानात्? तद्विज्ञेयम्। `ओतपादः` इति। `इआता वर्णे` (धातुपाठः-742) इत्यस्मातद्? पचाद्यचि ओतशब्दो व्युत्पाद्यते, तेनान्तोदात्तोऽयम्। `कूटशृङ्गः` इति। `कूट दाहे` (धातुपाठः-1890) [कूट परितापे (परिदाहे इत्यन्ये) धातुपाठः-] इति, अस्मादिगुपधलक्षणः [[3.1.135]] कः, तेन कूटशब्दोऽप्यन्तोदात्त एव। `शोभनकर्णः` इति। `शुभ शुम्भ शोभार्थे` (धातुपाठः-1321,1322) अस्मात्? <<अनुदात्तेतश्च हलादेः>> [[3.2.149]] इति युच्। चित्स्वरेण शोभनशब्दोऽप्यन्तोदात्तः। पूर्वपदप्रकृतिस्वरापदादो योगः। एवमुत्तरेऽपि योगाः प्रागव्ययीभावसंशब्दनात्। तेन सर्वत्र प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरः प्रत्युदाहार्यः॥", "62113": "`कुञ्चि कर्णः, मणिकर्णः` इति। `कुचि शब्दे तारे` (धातुपाठः-184) [कुच -धातुपाठः-] `अण रण वण भण मण` (धातुपाठः-444।448) इति मणिर्भ्वादौ पठते आभ्याम्? `सर्वधातुभ्य इन्` (पं।उ।4।117) `इगुपधात्? कित्` (पंउ।4।119) इतीन्प्रत्ययः, किच्च। तेन कुञ्चि। तेन कुञ्चिमणिशब्दावाद्युदात्तौ। `गोकर्णः` इति। गौरिव कर्णोऽस्येति विग्रहः। गोशब्द उक्तस्वरः। `खरकर्णः` इति। खरस्येत्यादि विग्रहः। खमस्यास्तीति `रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्? (वा।577) इति रप्रत्ययः, तेन खरशब्दोऽन्तोदात्तः॥", "62114": "`कणेष्ठः` (पं।उ।1।105) इति ठप्रत्ययान्तत्वात्? कण्ठशब्दोऽन्तोदात्तः। `डित्यपृष्ठगूथयूथप्रोथाः` (द।उ।6।37) [तिथ -द।उ; पं।उ।] इति पृष्ठशब्दोऽन्तोदात्तो निपात्यते। `इण्शीभ्यां वन्` (द।उ।8।126) इत्यतो वन्प्रत्ययेऽनुवर्तमाने `शेवयह्वजिह्वाग्रीवाप्वमावाः` (द।उ।8।128) इति ग्रीवाशब्दोऽन्तोदात्तो निपात्यते। अत्यन्तं हनित गच्छतीति हन्तेर्यङ्, द्विर्वचनम्, नुगतोऽनुनासिकान्तस्य` [[7.4.85]] इति नुक्, <<अभ्यासाच्च>> [[7.3.55]] इति कुत्वम्, जङ्घन्य इति स्थिते पचाद्यच्? <<यङोऽचि च>> [[2.4.74]] इति यङो लुक्; टाप्, चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः। अथ वा -`हन्तेरच्? जङ्घ च` [[2.4.74]] इति यङो लुक्; टाप्, चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः। अथ वा -`हन्तेरच्? जङ्घ च` (पं।उ।5।31) [`अच्? तस्य जङ्घ च -पं।उ।] इति हन्तेरच्प्रत्ययो जङ्घ इत्ययमादेश इत्येवं वा जङ्घशब्दो व्युत्पाद्यते। एषां कण्ठादीनां समाहारे द्वन्द्वः। `शितिकण्ठः` इति। `सर्वधातुभ्य इन्` (पं।उ।4।117) इति वर्तमानं `क्रमितमिशाडिस्तम्भामत इच्च` (पं।उ।4।121) [शति -पं।उ।] इति शितिशब्द आद्युदात्तः। `नीलकण्ठः` इति। `नील वर्णे` (धातुपाठः-522), [`नील वर्णे -धा।प।] अस्मात्? घञ्, तेन नीलशब्दोऽप्याद्युदात्तः। `खरकण्ठः` इति। खरस्येव कण्ठोऽस्येति विग्रहः। खमस्यास्तीति `रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानात्? (वा।577) रप्रत्ययः, तेन खरोऽन्तोदात्तः। `उष्ट्रकण्ठः` इति। उष्ट्रस्येव कण्ठोऽस्येति `ष्ट्रन्` (द।उ।8।79) इति वर्तमाने `उषखनिब्यां कित्` (द।उ।8।82) इति `उष दाहे` (धातुपाठः-696) इत्यस्मात्? ष्ट्रन्, किच्च। तेनोष्ट्रशब्द आद्युदात्तः। `काण्डपृष्ठः` इति। काण्डं पृष्ठमस्येति काण्डशब्दः `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्युदात्तः। `नाकपृष्ठम्` इति। नास्याकमस्तीति `न भ्राट्` [[6.3.74]] इत्यादिना प्रकृतिभावान्नलोपाभावः। <<नञ्सुभ्याम्>> [[6.2.172]] इत्युत्तरपदान्तोदात्तविधानान्नाकशब्दोऽन्तोदात्तः `गोपृष्ठम्` इ। गोरिव पृष्ठमस्येति। गोशब्द उक्तस्वरः। `अजपृष्ठम्` इति। अजस्येव पृष्ठमस्येति `अज गतिक्षेपणयोः` (धातुपाठः-230) अस्मात्? पचाद्यच्। अजादिष्वजाशब्दस्य पाठाद्वीभावो न भवति। चित्स्वरेणाजशब्दोऽन्तोदात्तः। `सुगरीवः` इति। शोभना ग्रीवाऽस्येति `निपाता आद्युदात्ताः` (फि।सू।4।80) इति सुशब्द आद्युदात्तः। `नीलग्रीवः` इति। नीला ग्रीवाऽस्येति `नील वर्णे` (धातुपाठः-522) [`नील वर्णे -धा।प।] अस्मात्? घञ्। तेन नीलशब्द आद्युदात्तः। `दशग्रीवः` इति। दश ग्रीवा अस्येति दशशब्दः `न्रः संख्यायाः` (फि।सू2।28) इत्याद्युदात्तः। `अआग्रीवः` इति। अआस्येव ग्रीवाऽस्येति। गोशब्दोऽआशब्दश्चोक्तस्वरः। `नारीजङ्घः` इति। नारी जङ्घा यस्येति। शङ्र्गरवादिषु `नृनरयोश्च` (ग।सू।57) इति पठयन्ते, तेनाद्युदात्तः। `तालजङ्घः` इति। तालो जङ्घा यस्येति `तल प्रतिष्ठाकरणे (धातुपाठः-1598) [प्रतिष्ठायाम् -धातुपाठः-] चुरादिः, तस्मात्? वचाद्यच्। तेन तालशब्दोऽन्तोदात्तः। `गोजङ्घः` इति। एण्या इव जङ्घा यस्येति। एणीशब्दः `जातेरस्त्रीविषयात्` [[4.1.63]] इति ङीषन्तः। तेनान्तोदात्तः॥", "62115": "`उद्गतशृङ्गः` इति। `गन्गम्यद्योः` (पं उ।1।122) इत्यधिकृत्य `भृञः किन्नुट्? च` (पं।उ।1।124) इति च `शृणातेह्र्यस्वश्च` (पं।उ।1।125) इति गन्प्रत्ययान्तः शृङ्गशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः। उद्गतशब्दस्थाथादि [[6.2.143]] स्वरेणान्तोदात्तः। `द्व्यङ्गुलशृङ्गः` इति। द्वे अङ्गुली प्रमाणमस्येति तद्धितार्थे द्विगुः `प्रमाणे द्वयसच्` [[5.2.37]] इत्यादिना विहितस्य मात्रच आगतस्य लोपः। `प्रमाणे लो द्विगोर्नित्यम्` (वा।558,559) इति <<तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः>> [[5.4.86]] इत्यच्? समासान्तः। तेन द्व्यङ्गुलशब्दोऽन्तोदात्तः। द्व्यङ्गुलं शृङ्गमस्येति। `त्त्रङ्गुलशृङ्गः` इति। पूर्वेण तुल्यम्। `अत्र` इत्यादि। आदिशब्देन द्व्यङ्गुलाविग्रहणम्। `ऋष्यशृङ्गः` इति। ऋष्यं शृङ्गंयस्येति। `अध्र्यादयश्च` इत्याद्युदात्त ऋष्यशब्दो निपात्यते। `मेषशृङ्गः` इति। मेषस्येव शृङ्गो यस्येति `मिष स्वर्धायाम्` (धातुपाठः-1352), अस्मात्? पचाद्यच्। तेन मेषशब्दोऽन्तोदात्तः। `स्थूलशृङ्गः` इति। स्थूलशब्दः प्रातिपदिकस्वरेणान्तोदात्तः॥", "62116": "`अजरः` इति। जरणं जरः `ऋदोरप्` [[3.3.57]] । तेनायं धातुस्वरेणाद्युदात्तः। अविद्यमानो जरोऽस्येति। `अमरः` इति। मरणं मरः, <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इत्यप्। तेनायमपि पूर्ववदाद्युदात्तः। `अमित्त्रः` इति। `अमिचिमिदिशसिभ्यः क्त्रः` (द।उ।8।86) इदि मिदेः क्त्रः। तेन मित्त्रशब्दोऽन्तोदात्तः। `अमृतः` इति। `मृङ् प्राणत्यागे` (धातुपाठः-1403) मरणम्=मृतम्। <<नपुंसके भावे क्तः>> [[3.3.114]] । तेन मृतशब्दोऽन्तोदात्तः। `ब्राआहृणमित्त्रः` इति। ब्राआहृणशब्दोऽणन्तत्वादन्तोदात्तः। अत्र पूर्वपदप्रकृतिस्वर एव भवति। `अशत्रुः` इति। `रुशातिभ्यां (द।उ।1।159) इति क्रुन्नन्तः शत्रुशब्द आद्युदात्तः। <<नञ्सुभ्याम्>> [[6.2.172]] इत्युत्तरपदान्तोदात्ततवापवादो योगः। एवमुत्तरेऽपि योगः प्राक्? <<कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे>> [[6.2.121]] इत्यतः द्रष्टव्याः॥", "62117": "`सुकर्मा` इति। `कृदृचरिभ्यो मनिन्` (द।उ।6।73) [`मनिन्` इत्येव द।उ।पाठः; `सर्वधातुभ्यो मनिन्` इति।पं।उ।पाठ -4।144] `सर्वनामस्थाने च` [[6.4.8]] इति दीर्घः। `सुप्रथिमा` इति। पृथोर्भावः प्रथिमा, `पृथ्वादिभ्यः` [[5.1.121]] इतीमनिच्। <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इति ऋकारस्य रेफः। `सुपयाः` इति। `असुन्` (द।उ।9।49) इति वर्तमाने `पिबतेरिच्च` (द।उ।9।50) [पिबतेरि च -द।उ।] इति पयःशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः। `अत्वसन्तस्य` [[6.4.14]] इति दीर्घः। `सुयशाः` इति। `अश भोजने` (धातुपाठः-1523) [`अशू भोजने` -मुद्रितः पाठः] `अशर्देवने युट्? च` (द।उ।9।24;पं।उ।3।65) [पंचपारिवशपाद्युणाद्योरुभयत्रापि `यूट्? च` इति नास्ति] इत्यसुन्येव यशःशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः, पूर्ववद्दीर्घः। `सुरुआओताः` इति। `सर्वधातुब्योऽसुन्? (पं।उ।4।188) इति वर्तमाने `रुआऊरिभ्यां तुट्? च` (द।उ।9।62) [रुआऊरीभ्यां -पं।उ।द।उ।] इति। `सुरुआत्? सुध्वत्` इति। रुआन्सुध्वनसुभ्यां क्विप्? `वसुरुआंसु` [[8.2.72]] इत्यादिना दत्त्वम्, तस्यासिद्धत्वादवासन्तत्वम्। `सुराजा, सुतक्षा` इति। राजन्, तक्षन्निति कनिन्नन्तः। `सुलोमा` इति। लुनातेर्मनिनि लोमेति। `सुधा` इति। `उष दाहे` (दा।पा।696) `मिथुनेऽसिः` (पं।उ।4।222) इति वर्तमाने `उषः कित्` (पं।उ।4।234) इति कित्। अथ कथं सुप्रथिमेत्यतर सुरुआओताः, सुरुआत्, सुध्वदित्येतेषु चोत्तरपदमाद्युदात्तं भवति, यावतार्थवतोर्मनसोरर्थवद्ग्रहणपरिभाषयेह ग्रहणम्, न चेह तावर्थवन्तौ? इत्यत आह -`अनिनस्मन्` इत्यादि। `अनिनस्मन्? ग्रहणान्यनर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति` (व्या।पा।129) इति ब्राउवता वाक्यकारेणानिनस्मन्प्रभृतीनामनर्थकानामपि ग्रहणं भवतीत्युक्तं भवति। अन्यथाप्येतत्? तदन्तविधेः प्रदर्शनार्थं स्यात्। `कपि तु परत्वात्` इत्यादि। `सोर्मनसी` [[6.2.116]] इति सूत्रस्यावकाशः -सुकर्माः, सुवयाः, <<कपि पूर्वम्>> [[6.2.173]] इत्यस्यावकाशः -अयवकः, सुयवक इति, <<शेषाद्विभाषा>> [[5.4.154]] इति कप्। इहोभयं प्राप्नोति -सुकर्मकः, सुरुआओतस्क इति, <<कपि पूर्वम्>> [[6.2.173]] इत्येतद्भवति विप्रतिषेधेन॥", "62118": "कृञः क्रतुः, तेन नित्स्वरेण क्रतुराद्युदात्तः। दृशीकप्रतीकशब्दौ `अध्र्यादयश्च` इत्याद्युदात्तौ। सूपूर्वस्यत्वरतेः क्तिन्। <<तादौ च निति कृत्यतौ>> [[6.2.50]] इति गतिस्वरेम प्रतूर्तिशब्द [`प्रपूर्त्ति` क्रत्व दिषु पठते -काशिका] आद्युदात्तः, `ज्बरत्वर` [[6.4.20]] इत्यादिनोठ्। जुहोतेः `अचो यत्` [[3.1.97]] <<यतोऽनावः>> [[6.1.213]] इत्याद्युदात्तो भवति हव्यशब्दः। भजेः `खनो घ च` इति घः। अत्र हि घित्करणेन ज्ञापितम् -अन्येभ्योऽपि धो भवतीति। वृषादित्वाद्भगशब्द आद्युदात्तः।", "62119": "`नित्स्वरेणाआरथशब्दावाद्युदात्तौ` इति। अआशब्दस्य `अशिपुषि` (पं।उ।1।151) [`अशूप्रुपि॥॥`पं।उ।] इत्यादिना क्वन्प्रत्ययान्तस्य व्युत्पादितत्वात्। रथशब्दस्यापि `हनिकुषिनीरमिकाशिभ्यः क्थन्` (द।उ।6।27) इति क्थन्प्रत्ययान्तस्य। `बाहुशब्दः प्रत्ययस्वरेणान्तोदात्तः` इति। `कुभ्र्रश्च` (द।उ।1।107) इत्यतः कुरिति वर्तमाने `अर्जिदृशिकम्यमिपशिबाधामृजिपसितुग्दीर्घहकारश्च` (द।उ।1।112) [अर्जिदृशिकम्यमिपशिबाधामृजितुग्धुग्दीर्घहकारश्च - द।उ।] इति कुप्रत्ययान्तस्य व्युत्पादितत्वात्। `सुहिरण्यः` इति। हिरण्यशब्दः `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तः॥", "62120": "`स्फायितञ्चि` (द।उ।8।31) इत्यादिनाऽजे रकिप्रत्यये वीरशब्दो व्युत्पाद्यते। तेनान्तोदात्तः। अथ वा -`वीर विक्रान्तौ` (धातुपाठः-1903) इत्यस्य पचाद्यचि व्युत्पादितत्वात्। `वीर्यमिति यत्प्रत्ययान्तम्` इति। वीरे साधुः, <<तत्र साधुः>> [[4.4.98]] इति प्राग्घितीयो यत्। अथ वा -वीर इत्यसमाच्चौरादिकादस्मादेव निपातनात् `अचो यत्` [[3.1.97]] , तेन वीर्यमिति यत्प्रत्ययान्तम्। एवं सति <<यतोऽनावः>> [[6.1.213]] इत्याद्युदात्तत्वं प्राप्नोति? इत्यत आह -`तत्र` इत्यादि। कथं पुनर्वीर्यग्रहणं ज्ञापकम्? इत्याह -`तत्र हि` इत्यादि। यद्याद्युदात्तं स्यात्? तदा <<आद्युदात्तं द्व्यच् छन्दसि>> [[6.2.119]] इत्यनेनैव सिद्धं स्यात्। ततश्चेह वीर्यग्रहणं न कुर्यात्, कृतञ्च; तस्मात्? तदेव ज्ञापयति -वीर्यशब्दस्य यदन्तस्याप्याद्युदात्तत्वं न भवतीति। तस्मिन्नसति <<तित्स्वरितम्>> [[6.1.185]] इत्यन्तस्वरितमेव भवति॥", "62121": "`कूल संवरणे` (धातुपाठः-525), [`कूल आवरणे -धातुपाठः-] `पार तीर कर्मसमाप्तौ` (धा।प।1911,1912), `तूल निष्कर्षे` (धातुपाठः-527), `मूल प्रतिष्ठायाम्` (धातुपाठः-529) -एभ्यो घञ्, तेनैते कूलादय आद्युदात्तः। `शुल हुल पत्लृ गतौ` -(धातुपाठः-843,844,845) अस्माद्घञ्। शालाप्याद्युदात्ता। स्त्रीत्वम्? <<तत्पुरुषे शालायां नपुंसके>> [[6.2.123]] इति निपातनात्। `तृवदिहनिकमिकसिभ्यः सः` (द।उ।9।21,पं।उ।3।62) [वृतृवदिहनिकमिकषियुमुचिभ्यः सः -द।उ; वृतृवदिनिकमिकषिभ्यः सः -पं।उ।] इति `अशेर्देवने` (द।उ।9।24) इति च सप्रत्ययान्तत्वादक्षशब्दोऽन्तोदात्तः। योऽपि `अक्ष्णोऽदर्शनात्` [[5.4.76]] इत्यचि समासान्ते कृतेऽक्षशब्दः सम्पद्यते, सोऽप चित्स्वरेणान्तोदात्तः, तस्यापीह ग्रहणम्। `षमु वैकल्ये` -(धातुपाठः-829) [षम अवैकल्ये -धातुपाठः-] अस्मात्? पचाद्यच्, तेन समोऽन्तोदात्तः। यस्तु सर्वादिषु समशब्दः सोऽनुदात्तस्तत्रैव पठते, तस्यापीह ग्रहणम्। `उपकूलम्` इति। कूलस्य समीपमिति `अव्ययं विभक्ति` [[2.1.6]] इत्यादिनाव्ययीभावः। `परिकूलम्` इति। <<अपपरी वर्जने>> [[1.4.88]] इति परिशब्दः कर्मप्रवचनीयसंज्ञ)। तेन योगे <<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] इति क#ऊलात्? पञ्चमी। <<अपपरिबहिरञ्चवः पञ्चम्या>> [[2.1.12]] इत्यव्ययीभावः। `सुषमम्` इत्यादौ `सुषमादिषु च` [[8.3.98]] इति षत्वम्, तस्यासिद्धत्वात्? समशब्द एवायम्। `तिष्ठद्गुप्रभृतिष्वेते पठन्ते` इति। तेन <<तिष्ठद्गुप्रभृतीनि च>> [[2.1.17]] इत्येतेऽव्ययीभावा इति दर्शयति। `उपकुम्भम्` इति। अत्र समासान्तोदात्तत्वमेव। `परमकूलम्, उत्तमकूलम्` इति। परमं कूलमस्योत्तमं कूलमस्येति बहुव्रीहिः। अत्र पूर्वपदप्रकृतिस्वर एव भवति। यौ तु तत्पुरुषौ परमकूलोत्तमकूलशब्दौ, तत्र बहुव्रीह्रधिकारादेव न भविष्यतीति तन्निवृत्त्यर्थमव्ययीभावग्रहणमयुक्तम्।`पर्यादिभ्यः` इत्यादि। `परिप्रत्युपापा वज्र्यमानाहोरात्रावयवेषु` [[6.2.33]] इत्यस्यावकाशो यत्र कूलादयो न सन्ति। परिंत्रिगर्तमिति, कूलादीनामाद्युदात्तस्यावकाशो यत्र पर्यादयो विद्यन्ते - अपकूलमिति; परिकूलमित्यत्र तूभयं प्राप्नोति, तत्र विप्रतिषेधेनेदमेवाद्युदात्तत्वं भवति। समासस्वरापवादो योगः। एवमुत्तरेऽपि `नाचार्यराज` [[6.2.133]] इत्यादे सूत्रात्? प्राक्॥", "62122": "`वृतृवदिहनिकमिकषिभ्यः सः` (पं।उ।3।62) इति कमेः सः, तेन कंसोऽन्तोदात्तः। `मन्थ विलोड्ने` (दा।पा।42) अस्मात्? <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति घञ्, तेन मन्थ आद्युदात्तः। `पानीविषिब्यः पः` (पं।उ।3।23) इति वर्तमाने `सुशृब्यां निच्च` (पं।उ।3।26) इति शृणातेः पः निच्च। बाहुलकादूत्त्वं च। अथ वा -`शूर्प माने` (धातुपाठः-1612) असमाद्घञ्, तेन शूर्पशब्द आद्युदात्तः। पाय्यशब्दो ण्यति `पाय्यसान्नाय्य` [[3.1.129]] इति निपात्यते तेनायमन्तस्वरितः। कुण्डशब्दः पूर्वमेवोक्तस्वरः। `द्विकंसः` इति। द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः, ततः प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्? <<कंसाट्टिठन्>> [[5.1.25]] इति टिठन्, तस्य चापि `अध्यद्र्धपूर्व` [[5.1.28]] इत्यादिना लुक्। `त्रिकंसः` इति। पूर्वेण तुल्यम्। `द्विमन्थः` इति। `आर्हादगोपुच्छ` [[5.1.19]] इत्यादिना ठक्। शेषं समासादि पूर्ववत्। `द्विशूर्पः` इतिष `शूर्पादन्यतरस्याम्` [[5.1.26]] इत्यञ्। शेषं पूर्ववत्। `द्विपाय्यः` इति। प्राग्वती यष्ठञ्। शेषं पूर्ववत्। `द्विकाण्डम्` [द्विकाण्डः -काशिका] इति। द्वे काण्डे प्रमाणमस्येति `प्रमाणे द्वयसच्` [[5.2.37]] इत्यादिना मात्रजादयः, तेषाम्? `प्रमाणे लो द्विगोर्नित्यम्` (वा।558, 559) इति लोपः, समासः पूर्ववत्। `परमकंसः` इति। अत्र समासस्वर एव भवति।", "62123": "शालशब्दः `कूलतीर` [[6.2.120]] इत्यत्रोक्तस्वरः। `ब्राआहृणशालम्, क्षत्त्रियशालम्` इति ब्राआहृणशब्दोऽणन्तत्वादन्तोदात्तः। क्षत्रियशब्दस्तु मध्योदात्तः, `क्षत्राद्? धः` [[4.1.138]] इति घप्रत्ययान्तत्वात्। `दृढशालम्` इति। बहुव्रीहिरयम्, तेन पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम्। ननु च लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) `विभाषा सेना` [[2.4.25]] इति प्रतिपदोक्ता या नपुंसकलिङ्गता सैव ग्रहिष्यते। न हि दृढशालमित्यत्र प्रतिपदोक्ता नपुंसकता, किं तर्हि? अभिधेयवशेन लक्षणोक्ता `अभिधेयवल्लिङ्गवचनानि भवन्ति` (व्या।प।73) इति। तत्? किमेतन्निवृत्यर्थेन तत्पुरुषग्रहणेन? एवं तर्ह्रु त्तरार्थं तत्पुरुषग्रहणम्। `चेलखेट कटुककाण्डं गर्हायाम्` [[6.2.126]] इत्यनेन दधि च तत्? कटुकं चेति दधिकटुकमित्यत्रैव यथा स्यात्। दधिकटुकम्, `उदइआत्कटुकम्` इति। उत्तरार्थं तु तत्क्रियमाणं विस्पष्टार्थत्वमुपपादयतीत्येतदर्थमपि भवति। लक्षणप्रतिपदोक्तपरिबाषा (व्या।प।3) चेह नाश्रयितव्या भवति -एतदर्थं तत्पुरुषग्रहणस्य दृढशालमित्येतत्? प्रत्युदाहरणमुपन्यस्तम्॥", "62124": "कथि `क्लेशने` () अस्मात्? <<गुरोश्च हलः>> [[3.3.103]] इत्यकारः, तेन कन्थान्तोदात्ता। `सौशमिकन्थम्` इति। शोभनः शमोऽस्य शुशमः <<तस्यापत्यम्>> [[4.1.92]] इत्यत इञ्। तेनाद्युदात्तः सौशमिशब्दः। `आह्वकन्थम्` इति। आङ्पूर्वस्य ह्वयतेः <<आतश्चोपसर्गे>> [[3.3.106]] इति कः, तेनाह्वशब्दस्याथादिस्वरेणा [[6.2.143]] न्तोदात्तः। `चप्पकन्थम्` इति। `चप सान्त्वने` (धातुपाठः-399), अस्मात्? `पानी विषिभ्यः पः` (द।उ।7।2) इति बहुलवचनाच्चपोऽपि भवति। तेन चप्पशब्दोऽन्तोदात्तः॥", "62125": "पूर्वेणोत्तरपदस्य सिद्धेऽयं पूर्वपदस्याद्युदात्तत्वार्थ आरम्भः। चिनोतेः क्विप्? चित्। हन्तेः पचाद्यच्? हनः। निपातनात्? तलोपो णत्वं च चिहणः। `मल मल्ल धारणे` - (दा।पा।493,494) आभ्यां रप्रत्ययः, लस्य निपातनात्? तलोपो णत्वं च चिहणः। `मल मल्ल धारणे` - (धातुपाठः-493,494) आभ्यां रप्रत्ययः, लस्य निपातनात्? डत्वम्। मडरमडडरशब्दौ मद्योदात्तौ। विगता तुला तस्य स वितुलः, तस्यायं वैतुलः। अणन्तत्वादन्तोदात्तः। पटदिति कायतीति `कै गै शब्दे` (धातुपाठः-916,917) <<आतोऽनुपसर्गे कः>> [[3.2.3]] पटत्कोऽन्तोदात्तः। चित्तमादत्त इति `ला आदाने` (धातुपाठः-1058) इत्यस्मादाङ्पूर्वादस्मादेव निपातनात्? कः - चित्तालः, तस्यापत्यमिति `अत इञ्? [[4.1.95]] चैत्तालिः, स कर्मावस्य चैत्तालिकर्णः। बहुव्रीहिरयं पूर्वपदप्रकृतिस्वरेणाद्युदात्तः। पूर्वपदं हि ञित्स्वरेणाद्युदात्त्म्। अन्ये त्विञन्तं चैत्तालिकर्णिरिति समुदायमधीयते। `कुक वृक आदाने` (धातुपाठः-91,92) अस्मात्? क्विप् - कुक्; `कुट कौटिल्ये` (धातुपाठः-1366) इत्यस्मादिगुपधलक्षणः कः, कुटः, कुकः, कुटः, कुक्कुटः। समासस्वरेणान्तोदात्तः। चिनोतेः क्विप्, चित्, कणतेः पचद्यचि कणः, चितः कणाश्च#इक्कणः, तकारस्य ककारो निपातनात्। चित्करण इत्यपरे पठन्ति। चिहणादयश्चैते मुष्यनामधेयानि चेति स्मर्यते। अथादिग्रहणं किमर्थम्? यावतादिरनुवर्तत एव? इत्यत आह - `आदिरिति वर्तमाने` इत्यादि। पूर्वकं ह्रादिगरहणमुत्तरपदाभिसम्बद्धम्। पूर्वपदानां चिहणादीनामाद्युदात्तत्वमिष्यते। तस्मात्? पूर्वपदभूतानां तेषामाद्युदात्तत्वं यथा स्यादित्येवमर्थं पुनरादिगरहणम्॥", "62126": "`वेलृ चेलृ केलृ चलने` (धा।पा 535,536,537) अस्मात्? संज्ञायां घञ्, चेलम्=वस्त्रमुच्यते। `खिट उत्त्रासने` (धातुपाठः-302) [त्रासे-धातुपाठः-] अस्मादपि भावे घञ् -खेटः, तृणनामैतत्। ञित्स्वरेण चेलखेटशब्दावाद्युदात्तौ। कटुशब्दात्? संज्ञायां कन्? [[4.3.145]] , गुणवचनमेतदाद्युदात्तम्। काण्डमप्याद्युदात्तमेवेत्युक्तम्। `चेलादीनां सादुश्येन पुत्रादीनां गर्हा` इति। यता चेलमकुलीनेन तन्तुवायेनोपजनितमेवं पुत्रोप्यकुलीनजो यः स `पुत्रचेलम्` इत्युच्यते। यथा काण्डं सत्वपीडाकरमेवं भूतमपि। तत्र पुत्रशब्दः प्रत्ययस्वरेणान्तोदात्तः। स हि `अमिचिमिदिशसिभ्यः क्यः (द।उ।8।86,पं।उ।4।163) इत्यनुवर्तमाने `पुरो ह्रस्वश्च (द।उ।8।87,पं।उ।4।164) [पूञो ह्रस्वश्च -द।उ।,पुवो ह्रस्वश्च -पं।उ।] इति पुत्रशब्दः क्तप्रत्ययान्तो व्युत्पाद्यते। भार्याशब्दः `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यदन्तत्वादन्तस्वरितः। `णह बन्धने` (दा।पा।1166) अस्मादुपपूर्वात्? क्विप्? <<नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ>> [[6.3.116]] इत्यादिना पूर्वपदस्य दीर्घत्वम्, `नहो धः` [[8.2.34]] इति नकारस्य धकारः, तस्य चर्त्वम् -तकारः। उपानच्छब्दः कृत्स्वरेणान्तोदात्तः। नगा अस्मिन्? विद्यन्त इति <<नगरात् कुत्सनप्रावीण्ययोः>> [[4.2.128]] इत्यस्मादेद निपातनाद्रप्रत्ययः, तेन नगरमन्तोदात्तम्। दधीति `आदृगम` [[3.2.171]] इत्यादिन क्विन्प्रत्ययान्तो दधातेव्र्युत्पाद्यते, तेनाद्युदात्तः। उदकेन शूयत इत्युदइआत्, क्विप्। `क्विब्वचिप्रच्छि` (द।उ।10।2) इत्यादिना बहुलवचनाद्दीर्धोऽस्य न भवति। <<उदकस्योदः संज्ञायाम्>> [[6.3.57]] इत्युदभावः, कृत्स्वरेणान्तादात्तः। बूतशब्दोऽपि निष्ठान्तत्वादन्तोदात्तः। प्रजाशब्दः <<उपसर्गे च संज्ञायाम्>> [[3.2.99]] इति डप्रत्ययान्तः, -कतेन कृत्स्वरेणान्तोदात्तः। `परमचेलम्` इति। अत्र पूजा गम्यते, न गर्हा॥", "62127": "`सुसूदागृधिभ्यः क्रन्` (द।उ।8।42,पं।उ।2।25)[सुसूदाञ्गृधिब्यः क्रन् -द।उ।,पं।उ।] इति वर्तमाने -`शुसिचिमीनां दीर्घश्च` (द।उ।8।43,पं।उ।2।26) इति क्रन्प्रत्ययान्तश्चीरशब्दः, तेनाद्युदात्तः। `वस्त्रचीरम्` इति। पूर्ववद्व्याघ्रादित्वात्? समासः। वसेराच्छादनार्थात्? ष्ट्रन्? वस्त्रम्, तेनाद्युदात्तम्। `कम्बलचीरम्` इति। `घृतादीनाञ्च` (फि।सू।1।21) इति कम्बलशब्दोऽन्तोदात्तः॥", "62128": "`पल रक्षणे` (धातुपाठः-839), [पल गतौ -धातुपाठः-] `कलस्तृपश्च` (द।उ।8।107) इति वर्तमाने `वृषादिभ्यश्चित्` (द।उ।8।109) इति कलप्रत्ययस्य चित्वात्? पलशब्दोऽन्तोदात्तः। `रोदेर्णिलुक्? च` (द।उ।8।39) इति विद्यमाने `बहुलमन्यत्रापि संज्ञाच्छन्दसोः (द।उ।8।40) इति बहुलवचनाण्णिलुक्, च। `पानी विषिभ्यः पः` (द।उ।7।2) इत्यधिकृत्य `स्तुवो दीर्घश्च` (द।उ।7।4) इति च `सुशृभ्यां निच्च` (द।उ।7।6) [मुशृम्यामूर्च -द।उ।] इति सूपशब्दः पप्रत्ययान्तो व्युत्पाद्यते, तेनाद्युदात्तः। `इण्भीकापाशल्यतिमर्चिभ्यः कन्` (द।उ।3।21) इति बहुलवचनात्? `शो तनूकरणे` (धातुपाठः-1270) अस्मादिगुपधलक्षणः कः, तेन गुडशब्दोऽन्तोदात्तः। `धृ `क्षरणे` (धातुपाठः-1096) इत्यस्मात्? `अञ्चिघृसिभ्यः क्तः` (द।उ।6।9) ति क्तः, तेन घृतमन्तोदात्तम्। `मुदिग्रोर्गग्गौ` (द।उ।3।66) इति मुदेर्गक्? तेन मुद्गोऽन्तोदात्तः॥", "62129": "कूलशब्द उक्तस्वरः, `षूद क्षरणे` (धातुपाठः-1717) इत्यस्मात्? `इगुपदात्? कः` [[3.1.135]] , तेन सूदोऽन्तोदात्तः। `स्थल स्थाने` () इत्यस्मात्? पचाद्यच्, तेन स्थलमन्तोदात्तम्। कर्षशब्दः `कर्षात्वतो धञोऽन्त उदात्तः` इत्यन्तोदात्तः। `दाक्षिकूलम्` इत्यादि। दाक्षिमाहकिशब्दाविञन्तावाद्युदातौ। देवशब्दः पचाद्यजन्तत्वादाद्युदात्तः। भाजीशब्दो जानपदादिसूत्रेण [[4.1.42]] ङीषन्तत्वादन्तोदात्तः। दाण्डायनशब्दो नडादित्वात्? [[4.1.99]] फगन्तः, तेन `कितः` [[6.1.159]] इत्यन्तोदात्तः। ननु च सूत्रे स्थलशब्द उपात्तः, तत्कथं स्थलीशब्द उत्तरपदमाद्युदात्तं चोदाह्यियते? इत्याह -`स्थलग्रहणम्` इत्यादि॥", "62130": "राज्ञो भावः, कर्म वा राज्यम्, ष्यन्तत्वादाद्युदत्तम्। ब्राआहृणक्षत्रियशब्दौ उक्तस्वरौ। `चेलराज्य` इत्यादि। चेलराज्यस्वरस्यावकाशः -भार्याचेलम्, ब्राआहृणराज्यमिति, `तत्पुरुषे तुल्यार्थ` [[6.1.2]] इत्यादिना विहितस्य स्वरस्यावकाशः -निष्कौशाम्बिरिति; इहोभयं प्राप्नोति -कुचेलम्, कुराजयमिति, अव्ययस्वरो भवति पूर्वप्रतिषेधेन। आदिशब्देन वग्र्यादिस्वरपरिग्रहः॥", "62131": "वग्र्यादयो दिगादियदन्ताः। तेषु ये द्व्यचस्ते <<यतोऽनावः>> [[6.1.213]] इत्याद्युदात्ताः। परिशिष्टास्तु <<तित्स्वरितम्>> [[6.1.185]] इत्यन्तस्वरिताः। वसुदेवस्यापत्यम्? `ऋष्यन्धक` [[4.1.114]] इत्यादिनाण्, तेन वासुदेवशब्दोऽन्तोदात्तः। `अरज अर्जने` (धातुपाठः-224) इत्यस्माच्चुरादिणिजन्तात्? `अजेर्णिलुक्? च` (द।उ।5।57) इत्युनण्प्रत्ययः। तेनार्जुनो मध्योदात्तः। `इत्येवमादयः` इति। आदिशब्देन पक्षशब्दात्? परे ये पठन्ते तेषां ग्रहणम्॥", "62132": "`कौनटिपुत्रः` इति। पुत्रशब्द उक्तस्वरहः। कुनटस्यापत्यं कौनटिः, तेनायमाद्युदात्तः। दामकमाहिषकशब्दावपि कन्नन्तावाद्युदात्तौ। `गार्गीपुत्रः, वात्सीपुत्रः` इति। गार्गयवात्स्यशब्दाभ्याम्? `यञश्च` [[4.1.16]] इति ङीप्। तेन गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदातौ। सर्वत्रास्मस्तत्पुरुषाधिकारे प्रत्युदाहरणे <<समासस्य>> [[6.1.223]] इत्यन्तोदात्तत्वं वेदितव्यम्॥", "62133": "पूर्वेणाचार्यादिभ्योऽपि परस्य पुत्रशब्दस्याद्युदात्तत्वे प्राप्ते प्रतिषेधोऽयमुच्यते। तथा च समासान्तोदात्तत्वमेव भवति। `आख्याग्रहात्` इत्यादि। आख्याग्रहणमाचार्यादिभिः प्रत्येकमभिसम्बध्यते। तथा चाख्याग्रहणेऽनिरस्ते तस्याचार्यादेः पर्यायाणं विशेषणाञ्च ग्रहणं भवति। `आचार्यपुत्रः` इति स्वरूपस्योदाहरणम्। `उपाध्यायपुत्रः` इति पर्यायस्य। `शाकटायनपुत्रः` इति विशेषस्य। `राजपुत्रः` इति स्वरूपस्य। `ईआरपुत्रः` इति पर्यायस्य। `नन्दपुत्रः` इति विशेषस्य। `ऋत्विक्पुत्रः` इति स्वरूपस्य। `याजकपुत्रः` इति पर्यायस्य। `होतुःपुत्रः` इति विशेषस्य। `संयुक्तपुत्रः` इति स्वरूपस्य। `सम्बन्धिपुत्रः` इति पर्यायस्य। `स्यालपुत्रः` इति। विशेषस्य। `ज्ञातिपुत्रः` इति स्वरूपस्य। `भ्रातुष्पुत्रः` इति विशेषस्य। `कस्यादिषु च` [[8.3.48]] इति षत्वम्। तत्राचार्यशब्दः कृत्स्वरेणान्तस्वरितः। स हि चरेराङ्पूर्वस्य ण्यति व्युत्पाद्यते। उपाध्यायशब्दोऽन्तोदात्तस्थाथादिस्वरेण [[6.2.143]] , स `इङश्च` [[3.3.21]] इति घञन्तो व्युत्पाद्यते। राजशब्द आद्युदत्तः, कनिन्प्रत्ययान्तत्वात्। ईआरशब्दोऽन्तोदात्तः; `स्थेशभास` [[3.2.175]] इत्यादिना वरच्प्रत्ययान्तत्वात्। नन्दशब्दोऽप्यन्तोदात्तः; अजन्तत्वात्। ऋत्विक्शब्दः `ऋत्विग्दधृक्` [[3.2.59]] इत्यादिना क्विन्? प्रत्ययान्तः। कृत्स्वरेणान्तोदात्तः। याजकशब्दो ण्वुलन्तः, तेन लित्स्वरेणाद्युदात्तः। होतृशब्दस्तृन्नन्तत्वादाद्युदात्तः। संयुक्तशब्दः `गतिरन्तरः` [[6.2.49]] इत्याद्युदात्तः। `स्यल वितर्कगे` () अस्माच्चुरादिणिजन्तात्त्? पचाद्यचि स्यालशब्दोऽन्तोदात्तः। `ज्ञा` इत्यस्मात्? <<क्तिच्क्तौ च संज्ञायाम्>> [[3.3.174]] इति ज्ञातिशब्दोऽन्तोदात्तः। `तृन्स्तृचौ शंसिक्षदादिभ्यः` (द।उ।2।1) इति प्रकृत्य भातृशब्दस्तृन्न्नन्तो व्युत्पाद्यते, तेनाद्युदात्तः। संयुक्तशब्दोऽयमस्त्येव रूढिशब्दो यो विवाहकृतेन सम्बन्धेन स्यालआशुरादिषु वर्तते, अस्ति क्रियाशब्दो यः सर्वत्र केनचित्? सम्बन्धेन वर्तते; तत्रेह रूढिशब्दस्य ग्रहणम्। कुत एतत्? आचार्यानीनां पृथग्ग्रहणात्। यदि हि क्रियाशब्दस्य ग्रहणं स्यात्, तदा संयुक्तग्रहणेनैव निषिद्धत्त्वादाचार्यादीनां पृथग्ग्रहणं न कुर्यात्। तेऽपि हि विद्यादिकृतेन सम्बन्धेन संयुक्ता भवन्त्येव। तस्माद्रूढिशब्दस्य ग्रहणम्। तेन क्रियाशब्दो यः संयुक्तशब्दस्तस्मात्? प्रतिषेदो न भवति॥", "62134": "`चूरी दाहे` (धातुपाठः-1158), अस्मान्निष्ठा, ते चूर्णमन्तोदात्तम्। करिणः पातीति <<आतोऽनुपसर्गे कः>> [[3.2.3]] पकारस्य पक्षे वकारो निपात्यते -करिपः, करिवः। कृत्स्वरेण थाथादिस्वरेण वान्तोदात्तः। `महेरितण्? च` (द।उ।5।19) बहुलवचनाच्छकेरपि भवति, शाकिनम्, प्रत्ययस्वरेण मद्योदात्तम्। `शकादिभ्योऽटच्` (द।उ।5।2;पं।उ।4।81) [शकादिभ्योऽटन् -।दौ;पं।उ।] शकटम्। तद्वहतीति शकटवण्? शाकटम्। प्रत्ययस्वरेणान्तोदात्तः। द्राग्द्रूतं क्षीयत इति द्राक्षा, पृषोदरादित्वात्। अन्तोदात्तोऽयं शब्दः। `तुस ह्यस ह्लस रसशब्दे` (धातुपाठः-710, 711,712,713), ततो बहुलवचनात्? `हसिमृग्रिणवामिदमिलूपूधुर्वीभ्यस्तन्` (द।उ।6।7,पं।उ।3।86) [हसिमृग्रिण्वमिदमितमिलूपूधूर्विभ्यस्तन् -द।उ; हसिमृगरण्वामिदमूलपूर्विभ्यस्तन् -पं।उ।] इति तन्, निपातनाद्दीर्घश्च। तूस्तमाद्युदात्तम्। `कुत्सितं दुनोतीति `क्विबवचिप्रच्छि` इत्यादौ सूत्रे (वा।288) क्विबिति योगविभागः। `दुदु उपतापे` (दा।पा।1256) इत्यस्मादपि क्विप्, `बहुलवचनात्? अनित्यत्वाद्वागमशासनस्य` (व्या।प।99) तुगभावः, पूर्वपदस्य च बहुलवचनादेव मुम् -कुन्दु, तन्मिमीत इति `माङ्माने` (दा।पा।1088) इत्यस्मात्? कः, कुन्दुमोऽन्तोदात्तः। `उषिकुटिदलिकचिखजिभ्यः कपन्` (द।उ।7।9) तेन दलप आद्युदात्तः। `अत्यविचमितमिनमि` (द।उ।9।44) इत्यादिनाऽसच् -चमसः, ततो जातिलक्षणो ङीष्? [[4.1.63]] चमसी। `चक तृप्तौ` (धातुपाठः-783) इत्यस्मात्? कविप्, चक्। `कनी दीप्तिकान्तिगतिषु` (धातुपाठः-460) [कन दीप्तिकान्तिगतिषु -धातुपाठः-] तस्मादच्, कनः। चककनः। चोलस्यापत्यं चौलः, <<द्व्यञ्मगधकलिङ्गसूरमसादण्>> [[4.1.170]] इत्यादिनाऽण्। एते चूर्णादयः। `मुद्गचूर्णम्` इति। `मुदि ग्रोर्गग्गौ` (द।उ।3।66) इति मुद्गोऽन्तोदात्तः। `मसूरचूर्णम्` इति। `मसेरूरन्` (द।उ।8।95) मसूर आद्युदात्तः। `मत्स्यचूर्णम्` इति। मत्स्यः प्रातिपदिकस्वरेणान्तोदात्तः। `तत्रोयग्रह इति षष्ठन्तमेव` इति। अनेन तुल्यार्थतां सूत्रयोर्दर्शयति। कथं पुनरुपग्रहः षष्ठन्तमेव गृह्रते? इत्याह -`पूर्वाचार्योपचारेण` इति। पूर्वाचार्या हि षष्ठन्तमुपग्रह इत्येवमुपचरन्ति स्म। तेनेह पूर्वा चार्योपचारेण हेतुना षष्ठन्तमेवोपग्रह इति गृह्रते। समासस्वरापवादो योगः एवमुत्तरेऽपि त्रयः॥", "62135": "`चेलखेटकटुककाण्डम्` [[6.2.126]] इत्यादिषु चतुर्षु योगेषु सन्निविष्टानि काण्डादीनि षट्? गृह्यन्ते। यद्येवं तैरेव योगैरेषामाद्युदात्तत्वं सिद्धम्, तत्किमर्थमिदम्? यत्र तैर्विहित ततोऽन्यत्रापि यथा स्यात्? प्राणिषष्ठआश्च मा भूदित्येवमर्थञ्च। `दर्भकाण्डम्` इति। `दृदलिभ्यां भः` (पं।उ।3।151) इति भप्रत्ययान्तो दर्भशब्दोऽन्तोदात्तः। `तृणधान्यानाञ्च द्व्यषाम्` (फि।सू।2।27) इति वा। `शरकाण्डम्` इति। शरशब्दोऽप्यनन्तरेणैव `द्व्यषाम्` इत्याद्युदात्तः। एवं कुशशब्दोऽपि। तथा तिलशब्दोऽपि। पललमूलकशब्दावुक्तस्वरौ। नदडति पचादिषु पठते, तेन टित्त्वान्नदशब्दान्ङीप्? <<यस्येति च>> [[6.4.148]] इत्यकारलोपः, <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इति ङीप उदात्तत्वम्। तेन नदीशब्दोऽन्तोदात्तः। `पाटलापालङ्काम्बासागरार्थानाम्` (फि।सू।1।2) इति फिषा समुद्रशब्दोऽन्तोदात्तः। `राजसूदः` इति। शूदशब्दः षङ्भ्यः परः पठते। तेनात्र समासान्तोदात्तत्वमेव भवति। सर्वे च ते दर्भकाण्डादयः षष्ठीसमासाः॥", "62136": "`कुण्डशब्देऽत्रि कुण्डसादृश्येतन वने वर्तते` इति। यथा कुण्जं कस्यचिदुदकादेराश्रयस्तथा वनमपि। अतः कुण्जसादृश्येनात्र कुण्डशब्दो वने वर्तते। भवति हि सादृश्येन ताच्छब्द्यं यथा -अग्निमणिवक इति। `मृत्कुण्डम्` इति। अत्र कुण्ड आकारविसेषो मृद्विकारे वर्तते, न वने। तेन समासान्तोदात्तत्वमेव भवति॥", "62137": "भगालमित्यर्थग्रहणम्; अर्थप्रधानत्वान्निर्देशस्य, अर्थप्रधाने हि निर्देश स्वरूपग्रहणं न भवतीत्युक्तम्। अर्थग्रहणे च सति तद्वाचिनामेतत्? कार्यं विज्ञायते। अत एवाह -`भगालवाचि` इत्यादि। `कुम्भीभागालम्` इति। कुम्भीशब्दः `जातेरस्त्रीविषयादयोषदात्` [[4.1.63]] इति ङीषन्तत्वादन्तोदात्तः। `भगालादयो मध्योदात्ताः` इति। `लगावन्ते द्वयोश्च बहवषो गुरुः` (फि।सू।2।42) इति फिषैषामाकारस्योदात्तत्वविधानात्॥", "62138": "`शितिपादः` इति। शितिशब्दः `वर्णानां तणतिनितान्तानाम्` (फि।सू।2।33) इति फिषाद्युदात्तः। `अंसौष्ठशब्दौ` इत्यादि। `अम रोगे` (धातुपाठः-1720) इत्यस्मात्? `अमः सन्` (पं।उ।5।21) इति सन्प्रत्ययार्न्तोऽसशब्दो व्यत्पाद्यते। ओष्ठशब्दोऽपि `उषिकुषिगर्त्तिब्यस्थन्` (द।उ।6।29) इति थन्प्रत्ययान्तः। तेनैतौ प्रत्ययस्य नित्वादाद्युदात्तौ। `दर्शनीयपादः` इति। दर्शनीयशब्दोऽनीयर्? प्रत्ययन्तः। तेन <<उपोत्तमं रिति>> [[6.1.217]] इति मध्योदात्तः। ततोऽत्र पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरेष्वपि प्रत्युदाहरणेषु। कथं पुनः ककुदशब्दो नित्यं बह्वज्? न भवति? इत्याह -`ककुदस्यावस्थायां लोपः` इत्यादि। `शितिललाटः` इति। `लल ईप्सायाम्` (धातुपाठः-1687), अस्मात्? <<उणादयो बहुलम्>> [[3.3.1]] इत्याटप्रत्ययः, तेन ललाटशब्दो मद्योदात्तः। `शितिपादः` इति। शितेः पाद इत्यत्र समासस्वर एव भवति। `शितिभसत्` इति `शृदृभसोदिः` (द।उ।6।42) इति भसच्छब्दो व्युत्पाद्यते। ततोऽयमन्तोदात्त-॥", "62139": "`प्रकारकः, प्रहारकः` इति। ण्वुल्। `प्रकरम्` इत्यादिषु ल्युट्। `ईषत्करः` इत्यादिषु `ईषद्दुःसुषु` इति खल्। यदत्राव्ययपूर्वपदं तत्र `तत्पुरुषे तुल्यार्थ` [[2.2.17]] इति समासः। `कारकात्` इति। षष्ठी तु `कर्त्तुकर्मणोः कृति` [[2.3.65]] इति कर्मणि कारके वेदितव्या। इध्मादयो हि व्रश्चनक्रियाया व्याप्तुमिष्टतमत्वात्? कर्मबावमनुभवन्ति। `ईषत्करः` इत्यादौ तु <<उपपदमतिङ्>> [[2.2.19]] इति समासः। तत्र प्रशब्दः `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तः। इध्मशब्दो हि `इषियुधीन्धि` (द।उ।7।31) इत्यादिना मक्प्रत्ययान्तत्वादन्तोदात्तः। `शो तनूकरणे` (दा।पा।1145), पलं श्यतोति [श्यतोति -मुद्रीतः पाठः] <<आतोऽनुपसर्गे कः>> [[3.2.3]] । पलाशः कृत्स्वरेणथाथादिस्वरेण [[6.2.143]] वान्तोदात्तः। शदेर्णिजन्तस्य `शदेरगतौ तः [[7.3.42]] इति तकारे कृते ल्युटि `शातनः` इति भवति। `श्मनि श्रयतेर्डन्` (द।उ।1।161) इति लत्वे कृते `कल्पनः` इति भवति। ईषच्छब्दोऽन्तोदात्तः; स्वरादिषु तथाभूतेषु तथांभूतस्यैव पाठात्। सुदुरावाद्युदात्तौ; प्रादिषु तथाभूतयोः पाठात्। `सर्वत्रैवात्र लित्स्वरः` इति। स पुनः प्रत्ययात्? पूर्वस्योदात्तत्वम्। `देवदत्तस्येति सेषलक्षणा षष्ठी` इति। कर्मणि षष्ठीत्वं निराकरोति। कर्मषष्ठआं ह्रस्यां कारकमेव देवदत्तः स्यात्, तथा च प्रत्युदाहरणं नोपपद्यते। अथ कारकग्रहणं किमर्थम्, निर्गतः कौशाम्ब्या निष्कौशाम्बिरित्यत्र मा भूदिति चेत्? नैतदस्ति; तथा हि -यात्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति (जै।प।वृ।99), न हि कौशाम्बीशब्दः क्रियावाची, तत्? कुतस्तं प्रति निसोऽत्र गतिसंज्ञा? इत्यत आह -`कृद्ग्रहणं विस्पष्टार्थम्` इति। यदि तर्हि कृद्ग्रहणं क्रियते, प्रपचतितरामित्यत्र परकृतिसवरो न प्राप्नोति। ततश्च समासस्वरं बाधित्वाव्ययस्वर एव स्यात्? इत्यत आह -`प्रपचतितराम्` इत्यादि। अत्र हि पचतिशब्दादतिशयविवक्षायां तरप्तपमौ। ततसतरबाद्यन्ते <<कुगतिप्रादयः>> [[2.2.18]] इति प्रशबदस्य समासः। समासे तु कृते पूर्वपदस्य `तत्पुरुषं तुल्यार्थ` [[6.2.2]] इत्यादिना प्रकृतिस्वरः। पश्चात्? `किमेत्तिङ्व्यय` [[5.4.11]] इत्यादिनामुः। आमन्तसय च <<आद्युदात्तश्च>> [[3.1.3]] इति प्रत्ययसवरः प्राप्रः, सोऽव्ययसवरे सति सतिशिष्टः, सतशिष्टस्य च बलीयस्त्वमुक्तम्। तेन यद्यप्यनेनामन्तस्य कृद्ग्रहणे क्रियमाणे सति प्रकृतिस्वरो भवति, तथाप्याम्स्वरो भवत्येव; तस्य सतिशिष्टत्वात्। अथ कथं तरवाद्यन्तेन समासः? कथं च न स्यात्? `गतिकारकोपपदादीनां कृद्धिः सह समासवचनं प्राक्सुब#उत्पत्तेः` (है।प।पा।88) इति वचनात्? नैष दोषः; अत्र हि द्वे दर्शने गतिकारकोपपदात्? कृद्भिरेव समासो भवति, स च प्राक्? सुबुत्पत्तेरित्येकं दर्शनम्; गतिकारकोपपदानामविशेषेण समासो भवति, कृद्भिस्तु प्राक्? सुबुत्पत्तेरिति द्वितीयम्। तत्र द्वितये दर्शने युज्यत एव तरबाद्यन्तेन समासः। तत्र कृद्ग्रहणं विस्पष्टार्थमित्यनेन सम्बद्धम्। एक आचार्याः कृद्ग्रहणं विस्पष्टार्थमित्येव व्याचक्षत इत्यर्थः। `प्रपचति देश्याद्यर्थ तु` इत्यादि। तुशब्दः पूर्वस्माद्? व्याख्यानाद्विशेषद्योतनाय। प्रपचतिदेश्य आदिर्यस्य स प्रपचतिदेश्यादिः। आदिशब्देन प्रपचतिदेशीय इत्यस्य ग्रहणम्। प्रपचतिदेश्यादावर्थः प्रयोजनं यस्य तत्? प्रपचतिदेश्याद्यर्थम्। `कृद्ग्रहणं दृश्यते` इति। एवं <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> [[5.3.67]] इत्यत्र `तिङ्श्च` [[5.3.56]] इत्यनुवृत्तेः प्रपचतिशब्दाद्? देश्यदेशीयरौ। तदन्तेन च प्रशब्दस्य गतिसमासे कृद्ग्रहणं न क्रियेत। तथा प्रपचतिदेश्यः, प्रपचति वेशीय इत्यत्राप्युत्तरपदस्य प्रकृतिस्वरः स्यात्, न चेष्यते। तस्मादिह मा भूदित्येवमर्थं कृद्ग्रहणं दृश्यत एव। तस्मादेतन्न विस्पष्टार्थम्। तदपि तु प्रपचतिदेश्य इत्यादौ विषये मा भूदित्येवमर्थ मित्यभिप्रायः॥", "62140": "वनशब्दः `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तः। पतिशब्दोऽपि प्रत्ययस्वरेण। स `पातेर्डतिः` (द।उ।1।27) इति डतिप्रत्ययान्तः। `बृहदित्यन्तोदात्तम्? इत्यादि। बृहच्छब्दः `वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च` (द।उ।65) इति केवलमन्तोदात्तो यद्यपि निपात्यते, तथापि बृहस्पतिरित्यत्राद्युदात्तत्वं निपातयति। `तनोतेरौणादिक ऊप्रत्ययः` इति। `कषिचमितनिषनिसर्जिखर्जिभ्यौउः` (पं।उ।1।82) इत्यनेन तनू शब्दोऽन्तोदात्तः। न पाति न पालयतीत्यनेन `पा रक्षणे` (धातुपाठः-1056) इत्यसमान्नपादित्येतन्निपात्यत इति दर्शयति। न पातयतीत्यनेनापि। <<नलोपो नञः>> [[6.3.73]] ति नलोपः प्राप्नोति, `नभ्रान्नपात्` [[6.3.74]] इत्यादिना प्रकृतिभावान्न भवति।\t `नरा अस्मिन्नासीनाः शंसन्ति` इति। एतेनाधिकरणसाधनं शंसशब्दं दर्शयति। एवं शंसन्तीत्यनेनापि कर्मसाधनम्। `शंस स्तुतौ` (धातुपाठः-728) इत्यस्मात्? `अंकर्तरि च कारके` [[3.3.19]] इति घञ्। `अबन्तः` इति। `ऋदोरप्` [[3.3.57]] इत्यनेन। `शुनःशेपः` इति। बहुव्रीहिरयम्। तेनात्र पूर्वपदस्य प्रकृतिभावे प्राप्ते वचनम्। `उभावाद्युदात्तौ` इति। तत्र आञ्शब्दः `आन्नुक्षन्` (द।उ।6।55) इत्यादिना कनिन्प्रत्ययान्तो व्युत्पाद्यते। शेपशब्दो `वृङ्शीङभ्यां रूपस्वाङ्गयोः पुट्? च्` (द।उ।9।61) इत्यसुन्प्रत्ययान्तो व्युत्पाद्यते, तेन द्वावपि तावाद्युदात्तौ। `शण्डपर्कशब्दौ` इति। `शडि रुजायाम्` (धातुपाठः-279) इत्यस्य घञि शण्ड इति भवति। `पृची सम्पर्के` (धातुपाठः-1462) इत्यस्यापि तत्रैव परक इति भवति। `तृष्णाशब्द आद्युदात्तः` इति। स हि तृषेर्निष्ठायां व्युत्पद्यते। तेन <<निष्ठा च द्व्यजनात्>> [[6.1.205]] इत्याद्युदात्तः। `वम्बशब्दः` इति। `लवि अवरुआंसने` (धातुपाठः-379) [लबि अवरुआंसने च -धातुपाठः-] अस्य पचाद्यचि व्युत्पादित्वादस्मादेव निपातनाद्वत्त्वम्। `विआवयःशब्दः` इति। विआं वयो यस्येति बहुव्रीहिः। तत्र `बहुव्रीहौ विआं संज्ञायाम्` [[6.2.106]] इति विआशब्दोऽन्तोदात्तः। `तयोः` इति। वम्बविआयःशब्दयोः। `मृङो विच्प्रत्ययः` [मृञः -काशिका। मृडः -पदमञ्जरी] इति। <<विजुपे छन्दसि>> [[3.2.73]] इत्यतो विजित्यनुवर्तमाने <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] [दृश्यन्ते -काशिका।] इति विच्। `मृत्युशब्दोऽन्तोदात्तः` इति। `भुजीमृङ्भ्यां युक्त्युकौ` (द।उ।1।135) इति त्युक्प्रत्ययान्तत्वात्।`द्वन्द्वानाम्` इत्यादि। येऽत्र द्वन्द्वाः, तेषामदेवताद्वन्द्वार्थः पाठः। देवताद्वन्द्वे हि <<देवताद्वन्द्वे च>> [[6.2.141]] इत्यनेनैव सिद्धम्। `अनुदत्ताद्युत्तरपदार्थश्च` इति। द्वन्द्वानां पाठः। यदि हि तेषामिह पाठो न स्यात्, तदा <<नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु>> [[6.2.142]] इति प्रतिषेदादन्तोदात्तत्वं स्यात्॥", "62141": "`इन्द्रासोमौ` इति। `देवताद्वन्द्वे च` इति पूर्वपदस्यानङ्। `ऋज्रेन्द्र` इत्यादि। `वृधिवपिभ्यां रन्` (द।उ।8।45), इत्यतो रन्नित्यनुवर्तगाने `ऋज्रेन्द्रः` (द।उ।8।46) इतीन्द्रशब्दो रन्प्रत्ययान्तो निपात्यते, तेनाद्युदात्तः। `सोम इति मन्प्रत्ययान्तः` इति। तेन सोऽप्याद्युदात्त एवेत्यभिप्रायः। मन्प्रत्ययान्तत्वं च तस्य `षुञ्? अभिषवे` (धातुपाठः-1247) इत्यस्मात्? `अर्त्तिस्तुसुहुरुआउ` (द।उ।7।26) इत्यादिना मन्प्रत्ययमुत्पाद्य व्युत्पादितत्वात्। `वरुण उनन्प्रत्ययान्तः` इति। `कृवृदारिभ्य उनन्` पं।उ।3।53) इति। बृहस्पतिशब्दो हि वनस्पत्यादिषु पठते, तत्र च पूर्वोत्तरपदयोर्युगपदाद्युदात्तत्वं विधीयते, तेन द्वावुदात्तौ। `तेनेन्द्राबृहस्पती इत्यत्र तत्र उदात्ताः` इति। इन्द्रशब्दादयः। `प्लक्षन्यग्रोधौ` इति। अत्र समासान्तोदात्तत्वमेव भवति। एवं `अग्निष्टोमः` इत्यत्रापि। षष्ठीसमासश्चायम्। समासस्वरापवादो योगः॥", "62142": "`अग्निवायुशब्दावन्तोदात्तौ` इति। अग्निशब्दः `वीज्याज्वरिभ्यो निः` (द।उ।1।18) इति वर्तमाने `अङ्गेर्नलोपश्च` (द।उ।1।20) इति निप्रत्ययान्तः। वायुशब्दोऽपि `कृवापाजि` (द।उ।1।86) इत्यादिनोण्प्रत्ययान्तः, तेन प्रत्ययस्वरेण द्वावप्यन्तोदात्तौ। अथोत्तरपदग्रहणं किमर्थम्, यावता `अनुदात्तादौ` इति सप्तम्येवात्रानुदात्तादेरपदत्त्वं बोधयिष्यति? इत्यत आह -`उत्तरपदग्रहणम्` इत्यादि। इह हि प्रकरणे द्वन्द्वः सप्तम्या निर्दिष्टः, नोत्तरपदम्। तत्रानुदात्तादाविति सप्तमी द्वग्द्वस्यैव विशेषणमापद्यते -अनुदात्तादौ द्वन्द्वः। उत्तरपदग्रहणे तु सति द्वन्द्वे सप्तम्यांविहितायामनुदात्ता(दा) वित्येतदुत्तरपदस्य विशेषणं सम्पद्यते। तस्मादुत्तरपदविशेषणमेतद्यथा स्तात्, द्वन्द्वविशेषणं मा भूदित्येवमर्थमुत्तरपदग्रहणम्। `अनुदात्तादौ` इति। असत्येतस्मिन्नविशेषणे विधिरपि देवताद्वन्द्व उच्यते, प्रतिषेधोऽपि, ततश्च तयोर्विषयविबागो न स्यात्; एवञ्च समानविषयत्वाद्विकल्पः प्रसज्येत। अनुदत्तादावित्यस्मस्तु सति यत्रानुदात्ताद्युत्तरपदो देवताद्वन्द्वस्तग्त्र प्रतिषेधः स्यात्, ततोऽन्यस्तु विधिरिति विधिप्रतिषेधयोर्विषयविभागो भवति। अतो विषयविबागार्थमनुदात्तादावित्युच्यते। `पृथिवीशब्दो ङीष्प्रत्ययान्तः` इति। गौरादिषु पाठात्। `रोदेर्णिलुक्? च` इति। `रुदिर्? अश्रुविमोचने` (धातुपाठः-1067) इत्यस्माण्ण्यन्तात्? `स्फायितञ्चि` (द।उ।8।31) इत्यादि -सूत्रद्रगित्यनुवर्तमाने `रोदेर्णिलुक्? च` (द।उ।8।39) इति रक्, तेन रुद्रोऽन्तोदात्तः। `शुक्रामन्थिनौ` इति। शुक्रशब्दः `ऋजेन्द्रः` (द।उ।8।46) इत्यादिना रन्प्रत्ययान्तः, तेनाद्युदात्तः॥", "62143": "", "62144": "`अत्र कृदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्` इति। यदीदं नारभ्येतेति भावः। `उपसर्गे वसेः इत्यथप्रत्ययः` इति। तत्र `शीङ्शपिरुगमिवञ्चि` (द।उ।6।38) इत्यादिनाऽथप्रत्यया नुवृत्तेः कृदुत्तरपदप्रकृतिसवरत्वेन मध्योदात्तमुत्तरपदं स्यात्। `दूरादागतः` इति। गमेः क्तः, `अनुदात्तोपदेश` [[6.4.37]] इत्यादिनाऽनुनासिकलोपः, आगतशब्देन <<स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन>> [[2.1.39]] इत्यादिना समासः, <<पञ्चम्याः स्तोकादिभ्यः>> [[6.3.2]] इत्यलुक्। `शुष्कः` [विशुष्कः -काशिका, पदमञ्जरी च] इति। <<शुषः कः>> [[8.2.51]] इति कादेशः। उभयत्रात्र कर्मणि निष्ठा। तत्र <<गतिरनन्तरः>> [[6.2.49]] इति प्राप्ते तदपवाद उत्तरपदान्तोदात्तत्वं विधीयते। यदा तु कर्तरि क्तः, तदा तु कृत्स्वरेणोत्तरपदस्य प्रकृतिभावे सत्यन्तोदात्तत्वं सिद्धमेव। ननु च शुषिरकर्मकः, तस्य कुतः कर्मणि निष्ठा? अन्तरभावितण्यर्थः सकर्मको भवतीत्यदोषः। `आतपशुष्कम्` [आतपशुष्कः -काशिका, पदमञ्जरी च] इति। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। अत्र `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदं पूर्वपदप्रकृतिस्वरं स्यात्। पूर्वपदं पुनरत्र पचाद्यजन्तत्वात्? कृत्स्वरेणान्तोदात्तः। `प्रक्षयः, प्रजयः` इति। `एरच्` [[3.3.56]] ननु च कृदुत्तरपदप्रकृतिस्वरत्वेनैवात्रोत्तरपदान्तोदात्तत्वं भविष्यति? इत्यत आह -`क्षयो निवासे` इत्यादि। यदा <<क्षयो निवासे>> [[6.1.201]] <<जयः करणम्>> [[6.1.202]] इति चादयुदात्तौ क्षयजयशब्दौ भवतः, तदा कृत्स्वरेण मध्योदात्तत्वं स्यात्। `प्रलवित्रम्, प्रसवित्रम्` इति। `अर्तिलूधूसूखन` [[3.2.184]] इत्यादिनेत्रः। अत्र कृत्स्वरे सति प्रत्ययस्वरं स्यात्। तेनोत्तरपदं मध्योदात्तं स्यात्। `गोवृषः` इति। `पृषु वृषु मृषु सेचने` (धातुपाठः-705,706,707), अत्र <<उपपदमतिङ्>> [[2.2.19]] इति समासः <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्युत्तरपदाद्युदात्तत्वं स्यात्। `सुस्तुतम्` इति। <<सुः पूजायाम्>> [[1.4.94]] , <<अतिरतिक्रमणे च>> [[1.4.95]] इति स्वती कर्मप्रवचनीयसंज्ञौ। `अत्राव्ययस्वर एव भवति` इति। `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना॥", "62145": "`सुपीतम्` इति। `घुमास्था` [[6.4.66]] इत्यादिसूत्रेणेत्त्वम्। `वृकावलुप्तम्` इति। `लुप्लृच्छेदने` (धातुपाठः-1431)। `शशप्लुतम्` इति। `च्युङ् जयुङ्? प्रुङ्? प्लुङ्? गतौ` (धातुपाठः-955,956,957,958)। `सिंहविनर्दितम्` इति। `नर्द शब्दे` (धातुपाठः-56) सर्वत्र <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। वृकैरिवावप्लुतमित्यादिर्विग्रहः॥", "62146": "`उपहूतः` इति। ह्वेञो निष्ठा, `वचिस्वपि` [[6.1.15]] इत्यादिना संप्रसारणम्, `हलपः` [[6.4.2]] इति दीर्घः। `परिजग्धः` इति। <<अदो जग्धिर्ल्यप्ति किति>> [[2.4.36]] इत्यदेर्जग्धिरादेशः। `झषस्ततोर्धोऽधः` [[8.2.40]] इति घत्वम्। `कर्मणि क्तः` इति। भवतेरकर्मकत्वात्? कर्मनिष्ठा नोपपद्यत इति सम्भूत इति कर्तरीयं निष्ठेति कस्यचिद्भ्रमः स्यात्, अतस्तन्निराकरणायाह -`सम्भूतः` इति। अनेकार्थत्वाद्धातूनां भवतिरत्र प्राप्तौ वर्तते। ये च प्राप्त्यर्थास्ते नियोगतः प्राप्त्यैव कर्मणा सकर्मका सकर्मका भवन्ति। यथा -`णीञ्? प्रापणे` (धातुपाठः-901) इत्येवमादयः। तास्मात्? प्राप्त्यर्थाद्भवतेः सम्भूत इत्यत्र कर्मणि क्त-। किं पुनः कारणं कर्मणि क्त इष्यते? इत्याह -`गतिरनन्तर इत्यत्र कर्मणीत्यनुवर्तते` (इति। ततः किम्? इत्याह -`तद्बाधनार्थं चेदम्` इति। <<गतिरनन्तरः>> [[6.2.49]] इत्यत्र हि कर्मणीत्यनुवर्तते। इदं च सूत्रं, तत्? <<गतिरनन्तरः>> [[6.2.49]] इत्यस्यैव बाधनार्थम्। एवं चैतद्गतिस्वरस्य बाधकं भवति, यदि कर्मणि क्तो विहितः। तदन्तस्योत्तरपदस्यानेनान्तोदात्तत्वं विधीयते, नान्यथा। तस्मात्? सम्भूत इत्यत्र कर्मणि क्तो द्रष्टव्य इत्यभिप्रायः। `धनुष्खाता` इति। `खन्? अवदारणे` (धातुपाठः-878) `जनसनखनाम्` [[6.4.42]] इत्यात्तवम्। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। एवं `कुद्दालखाता` इत्येवमादादपि। धनुःशब्दः `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदातद्तः। कुद्दालशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः। `हस्तिमृदिता` इति। `मृद क्षोदे` (धातुपाठः-1515), हस्तिशब्द <<हस्ताज्जातौ>> [[5.2.133]] इतीनिपरतययान्ततवादन्तोदात्तः। `आस्थापितम्` इति। तिष्ठतेर्णिटच्, `अर्तिह्यी` [[7.3.36]] इत्यादिना पुक्। `परिगृहीतम्` (इति। <<ग्रहोऽलिटि दीर्घः>> [[7.2.37]] । `निरुक्तम्` (इति)। `वच परिभाषणे` (धातुपाठः-1842), `वचिस्वपि` [[6.1.15]] इत्यादिना सम्प्रसारणम्, <<चोः कुः>> [[8.2.30]] । `प्रतिपन्नम्` इति। `पद गतौ` (धातुपाठः-1169), `रदाभ्याम्` [[8.2.42]] , इति नत्वम्। `प्रश्लिष्टम्` इति। `ष्लिष आलिङ्गने` (धातुपाठः-1186)। `उपद्रूतम्` इति। `दु द्रु गतौ` (धातुपाठः-944),945) `स्थितम्` इति। `द्यतिस्यति` [[7.4.40]] इत्यादिनेत्त्वम्। `संहिता` इति। दधातेर्हिरादेशः॥", "62147": "गतिस्वरे प्राप्त इदं वचनम्। `प्रवृद्धम्` इति `वृधु वृद्धौ` (धातुपाठः-759) `प्रयुता` [प्रयुंक्ताः -काशिका] इति। `युमिश्रणे` (धातुपाठः-1033) -`अवहितम्` इति। पूर्ववद्दधातेर्हिरादेशः। `खट्वारूढः` इति। `रुह बीजजन्मनि` (धातुपाठः-859), `झषस्ततोर्धोऽधः` [[8.2.40]] , <<ढो ढे लोपः>> [[8.3.13]] <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] , <<खट्वा क्षेपे>> [[2.1.26]] इति समासः। असय <<अहीने द्वितीया>> [[6.2.47]] इति पूर्वपदप्रकृतिस्वरे प्राप्त इह पाठः। `कविशस्तः` इति। `शसु हिंसायाम्` (धातुपाठः-727), <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। अस्यापि <<तृतीया कर्मणि>> [[6.2.48]] इति पूर्वपदप्रकृतिस्वर एव। `यानादीनाम्` इति। आदिशब्देन वृषादीनां ग्रहणम्। यानादीनामर्थानां य इह पाठः, स प्रवृद्धादीनांयानादिष्वर्तेषु प्रायो बाहुल्येन या वृत्तिस्तस्याः प्रदर्शनार्थम्। न तु प्रवृद्धस्य यानवृषलयोरवार्थयोरन्तोदात्तत्वं भवति। प्रयुक्तशब्दस्य सक्तुष्वेवतीत्येवमादिषु विषयियमार्थः। तेन किं भविष्यति? इत्याह -`यानादिभ्योऽन्यत्रापि` इत्यादि। `विषयनियमार्थ इत्येके` इति। तेषामनेन यानादिभ्योऽन्यत्र न भवितव्यम्। `असंज्ञार्थोऽयमारम्भः` इति। संज्ञायां पूर्वेणैव सिद्धत्वात्। `आकृतिगणश्च प्रवृद्धादिद्र्रष्टव्यः` इति। कुत एत्? अकृतिगणतां तस्य सूचयितुमनुक्तसमुच्चयार्थस्य चकारस्येह करणात्; आकृतिगणत्वे यत्? सिद्धं भवति, तद्दर्शयितुमाह -`पुनरुत्स्यूतं वासः` इत्यादि। `षिवु तन्तुसन्ताने` (धातुपाठः-1108) `चछ्वोः शूडनुनासिके च` [[6.4.19]] इत्यूठ्, यणादेशः। `पुनर्निष्कृतः` इति। `इदुदुपधस्य चाप्रत्ययस्य` [[8.3.41]] इति विसर्जनीयस्य षत्वम्॥", "62148": "", "62149": "इतिकरणोऽर्थनिर्देशार्थः। `आपन्नः` इति। प्राप्त इत्यर्थः। `सुप्तप्रलपितम्` इति। `रप लप व्यक्तायां वाचि` (धातुपाठः-401,402), अत्र सुप्तत्वं प्रकारमापन्नम्, तेन प्रलपितं कृतम्, तत्र समासो वर्तते। `उन्मत्तप्रलपितम्` इति। अत्राप्युन्मत्तत्वं प्रकारमापन्नं तेन प्रलपितं कृतम्। `प्रमत्तगीतम्` इति। अत्रापि प्रमत्तत्वं प्रकारमापन्नं तेन गीतं कृतम्। `कै गै शब्दे` (धातुपाठः-916,917), `घुमास्था` [[6.4.66]] इत्यादिसूत्रेणेत्त्वम्। `विपन्नश्रुतम्` इति। अत्रापि विपन्नत्वं प्रकारमापन्नं तेन श्रुतं कृतम्। सर्वत्र <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। तत्र सुप्तशब्दः प्रत्ययस्वरेणान्तोदात्तः। प्रलपितशब्दो यदि कर्मणि निष्ठा, ततः `गतिरन्तरः` [[6.2.49]] इति गतिस्वरेणाद्युदात्तः; अथ भावे, ततस्थाथादि [[6.2.143]] स्वरेणान्तोदात्तः। एवमुत्पन्नप्रकारा आपन्नविपन्नादिशब्दा अपि थाथादिस्वरेणै [[6.2.143]] वान्तोदात्ताः। <<गतिरनन्तरः>> [[6.2.49]] इत्येतत्त्विह न प्रवर्तते; तत्र कर्मणीत्यनुवृत्तेः। इहाकर्मकाद्धातोः कर्मणि क्तप्रत्ययस्यानुपपत्तेः। गीतश्रुतशब्दौ सुप्तशब्दवदन्तोदात्तौ। अथ कथमेतान्युदाहरणाध्युपलभ्यन्ते, य#आवतेत्यम्भूतेन कृतमित्येतस्मिन्नर्थ एतत्? कार्यमुच्यते, न चायमत्रार्थः सम्भवति, प्रलपितादीनामकृतार्थत्वात्? प्रकृते प्रलपनादौ करोतेरप्रवृत्तेः। अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, न प्रलपनादौ। कस्मान्न प्रलपनादिकृतम्? इत्येतच्चोद्यमपाकर्त्तुमाह -`कृतमिति क्रियासामान्याम्` इत्यादि। न हि करोतिरभूतप्रादुर्भाव एव वर्तते? किं तर्हि? क्रियासामान्येऽपि। तच्च क्रियासामान्यं प्रलपनादप्यस्ति। तेन तेन प्रलपनाद्यपि कृतं भवति। `तृतीया कर्मणीत्यस्य` इति। पूर्वपदप्रकृतिस्वरभाव इति। यदीत्यादिना यदा भावे निष्ठा, तदास्यानुपयोगं दर्शयति॥", "62150": "`कारकात्` [[6.2.147]] इति वर्तते, `अनः` इति प्रत्ययग्रहणपरिभाषया (पु।प।वृ।44) तदन्तस्य ग्रहणं विज्ञायते? इत्याह - `अनप्रत्ययान्तम्` इत्यादि। `ओदनभोजनम्` इत्यादौ सर्वत्र षष्ठीसमासः। षष्ठी तु कृद्योगलक्षणा कर्मणि। `राजभोजनाः` इत्यादौ तु कर्तरि। ओदनशब्दः `लघावन्ते` (फि।सू।2।42) इत्याद्युदात्तः। भोजनमित्यादिकं तूत्तरपदं लित्स्वरेणाद्युदात्तम्। पयःशब्दः `नब्विषयस्य` (फि।सू।2।42) इत्याद्युदात्तः। भोजनमित्यादिकं तूत्तरपदं लित्स्वरेणाद्युदात्तम्। पयःशब्दः `नब्विषयस्य` (फि।सू।2।26) इत्याद्युदात्त एव। चन्दनप्रियङ्गुकाशब्दो द्वन्द्वः, तेन समासस्वरेणान्तोदात्तः। `लेपनम्` इति। `लिप उपदाहे` (धातुपाठः-1433) [लिप उपदेहे - धातुपाठः-] इत्यस्यैवं रूपम्। राजशब्द उक्तस्वरः। आच्छादनशब्दः `छद अपवारणे` (धातुपाठः-1935) इत्यस्य रूपम्। `कर्मणि च येन` इत्यादिनैकेनैव योगेन भाववचनः कर्मवचनश्च ल्युङ्भवतीति दर्शयति। `हस्तहार्यम्` इति। हस्तशब्दः `हसिमृग्रिणवामिदमिपूधुर्वीभ्यस्तन्` (द।उ।6।7।;पं।उ।3।86) [हसिमृग्रिण्वमिदमितमिलूपूधूर्विभ्यस्तन् - द।उ; हसिमृग्रिण्वामिदमलूपूधूर्विभ्यस्तन् - पं।स।] इति स्तत्प्रत्ययान्तः, तेनाद्युदात्तः,। हार्यशब्दस्तु `ऋहलोण्र्यत्` [[3.1.124]] इति ण्यदन्तस्तित्स्वरेणान्तस्वरितः। `दन्तधावनम्` इति। `धावु गतिशुद्धोः` (धातुपाठः-601) इत्यस्मात्करणे ल्युट्। दन्तशब्दः `स्वाङ्गशिटाम्` फि।सू।2।29) इत्याद्युदात्तः। `निदर्शनम्` इति। दृशेर्भावे ल्युट्। `अवलेखनम्` इति। अत्रापि लिखेः। `सर्वेषु प्रत्युदाहरणेषु` इत्यादि। एतेन `गतिकारकोपपदानां कृत्? [[6.2.138]] इत्यस्यायमपवाद इति दर्शयति॥", "62151": "मन्क्तिन्निति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (पु।प।वृ।44) तदवतस्य ग्रहणं विज्ञायते, इत्याह -`मन्नन्तं क्तिन्नन्तञ्च` इति। रथवत्र्मेत्यादयः षष्ठीसमासाः। रथशब्दः क्थन्प्रत्ययान्त आद्युदात्त इत्युक्तम्। `वृतु वर्तने` (धातुपाठः-748) इत्यस्मान्मनिन्। तेन वत्र्मशब्द आद्युदात्तः। शकटशब्दः पयःशब्दश्च नित्त्वादाद्युदात्तः। पाणिन्यापिशलिशब्दाविञन्तत्वात्। कृतिशब्दोऽपि क्तिन्नन्तत्वात्। करणसाधनश्चायं व्याख्यानशब्दो ल्युङन्तः। कृत्स्वरेण मध्योदात्तः। छन्दःशब्दः `सर्वधातुब्योऽसुन्` (पं।उ।4।188) [`असन्` इत्येव सूत्रम् -द।उ।] इति प्रत्ययग्रहणम्। तत्र कृते `चन्देरादेश्च च्छः` (पं उ।4।218) इत्यसुन्प्रत्ययान्तत्वादाद्युदात्तः। अयन्त्यनेनेत्ययनम्, ऋचामयनम्। ऋचामिति कर्णि षष्ठी। ऋगयनशब्दः कृत्स्वरेण मद्योदात्तः। `राजशयनम्` इत्यादि। सेरतेऽस्मिन्निति शयनम्, आसतेऽस्मिन्नित्यासनम्? ताभ्यां राजब्राआहृणशब्दयोः षष्ठीसमासः। राजब्राआहृणशब्दाबुक्तस्वरौ। शयनासनशब्दौ लित्स्वरेणाद्युदात्तौ। अत्र कृद्योगलक्षणा पूर्ववदेव कर्तरि षष्ठी। एवं `गोस्थानमआस्थानम्` इत्यत्रापि। गवाआशब्दावुक्तस्वरौ। तिष्ठत्यस्मिन्निति स्थानम्, लित्स्वरेणाद्युदात्तम्। `ब्राआहृणयाज्यः` इत्यादौ कृद्योगलक्षणा कर्मणि षष्ठी। याजकादिषु ये ण्वुलन्ताः पठन्ते, तेषु येऽनुपसर्गाः -याजकपूजकस्नापका इति, त आद्युदात्तः। ये तु सोपसर्गाः -परिवेषकाध्यापकोद्वर्तकोत्सादका इति, ते कृत्स्वरेण मध्योदात्ताः। होतभर्तृशब्दो तृन्नन्तौ प्रयोजयतः। यौ तु तृजन्तौ तयोः कृत्स्वरेणान्तोदात्त्वं सिद्धम्। `गोक्रीतः, अआक्रीतः` इत्यादि। `कर्तृकरणे कृता [[2.1.31]] इति समासावेतौ। क्रीतशब्दः प्रत्ययस्वरेणान्तोदात्तः। `कृत्स्वरापवादो योगः` इति। क्रीतशब्दादन्येषु मन्क्तितन्व्याख्यानादिषु। क्रीतशब्दे तु `तृतीया कर्मण` [[6.2.48]] इत्यस्येति पूर्वपदप्रकृतिस्वरस्य। `व्याख्यानशयनासनस्थानानामभावकर्मार्थ ग्रहणम्` इति। भावकर्मवचनस्यानन्तस्य <<अनो भावकर्मवचनः>> [[6.2.150]] इत्यनेनैव सिद्धत्वात्। `प्रकृतिः, प्रह्मतिः` इति। अत्र `तुल्यार्थ` [[6.2.2]] इत्यादिना पूरवपदस्य प्रकृतिस्वरत्वमेव भवति। गतिसमासावेतौ॥", "62152": "`अध्यनपुण्यम्` इत्यादि। अध्ययनशब्दो ल्युडन्तः कृत्स्वरेण मध्योदात्तः। पुण्यम्? `नब्विषयस्य` (फि।सू।2।26) इत्याद्युदात्तम्। विद्यतेऽनेऽनेति वेदः, घञ्। तेन वेदशब्दश्चाद्युदात्तः।`तत्पुरुषे तुल्यार्थ` इत्यादि। एतत्? `उणादयोऽव्युत्पन्नानि प्रातिपदिकानि` (है।प।पा।103) इत्येवं पक्षमाश्रित्योक्तम्। इदानीं व्युत्पत्तिलक्षणमाश्रित्याह - `उणादीनां तु` इत्यादि। व्युत्पत्तिपक्षे हि पुण्यशब्दः `पुञो यण्णुग्? ह्रस्वश्च` (पं।उ।5।15) इति यत्प्रत्ययान्तो व्युत्पाद्यते। तत्र यदीद नारभ्येत तदा <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति कृत्स्वरेणाद्युदात्तोऽध्ययनमित्यादौ पुण्यशब्दस्य स्यात्। तस्मात्? तदपदादोऽयमन्तोदात्तविषिरित्यभिप्रायः। `वेदेन पुण्यं वेदपुण्यम्` इति। व्युत्पत्तिपक्षे `तृतीया` [[2.1.30]] इति योगविभागात्? समासः। पूर्वपदपरकृतिस्वरत्वञ्च। अव्युत्पत्तिपक्षे <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः, कृत्स्वरेण पुण्यशब्दस्याद्युदात्तत्वं च॥", "62153": "`माषोनम्` इति। <<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> [[2.1.31]] इत्यादिना तृतीया समासः। एवं `कार्षापणोनम्` इत्यादावपि। `कष खष शिष जष झष शष वष मष` (धातुपाठः-685-692) इत्यस्माद्घञ्, तेन माषशब्द आद्युदात्तः। `इण्सिञ्जिदीङुष्यविभ्यो नक्` (द।उ।5।36) इति, तेनोनशब्दोऽन्तोदात्तः। कार्षस्यापणः कार्षापणः। कार्षापणशब्दः समासस्वरेणान्तोदात्तः। विगतः कलोऽस्येति विकलः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन विकलशब्द आद्युदात्तः। `असिकलहः` इति। `अच इः` (द।उ।1।67) इति वर्तमाने `खनिकष्यञ्ज्यसि` (द।उ।1।68) इत्यादिना सिन्तोदात्तः `कल गतौ` (धातुपाठः-1865), अस्मात्? पचाद्यच्। कलयतीति कलः, कलं हन्तीति `अन्येष्वपि दृस्यते` [[3.2.101]] इति डः। तेन कलहशब्दोऽन्तोदात्तः। `अत्र केचित्` इत्यादि। तह्र्रर्थ इति स्वरूपग्रहणम्, एवं सत्यूनशब्देऽपि स्वरूपग्रहणं प्रसज्येत्, ततश्च तदर्थानामन्येषां ग्रहणं न स्यात्? इत्यत आह -`उनशब्देनैव` इत्यादि। ऊनशब्दोऽन्यमतानां विशेषं दर्शयति। अन्ये हि -अर्थग्रहणे नानर्थकानां ग्रहणं भवतीति मन्यन्ते। केचित्तु-ऊनशब्देनैवार्थनिर्देशार्थेनार्थनिर्देशः प्रयोजनं यस्य स तथोक्तः। शब्दप्रधाने हि निर्देशे स्वरूपग्रहणं [स्वरूपं ग्रहणम् -इति मुद्रितः पाठः] भवतीत्युक्तम्। इह चोन इत्यर्थप्रधाननिर्देशः। तेनोनशब्दोऽर्थनिर्देशार्थः` इत्याहुः। तस्मात्? तत्रैव तदर्थानां ग्रहणम्। इतिकरणो हेतौ। यस्मादूनशब्देनैवार्थनिर्देशार्थन तदर्थानां ग्रहणम्, तस्मादत्र केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। `धान्यार्थः` इति। <<तृतीया तत्कृतार्थेन गुणवचनेन>> [[2.1.30]] इति समासः। `धने धान्ये` (धातुपाठः-1104), अस्माण्ण्यत्। धान्यमन्तस्वरितम्। अथ धाने साधु धान्यम्, `प्राग्धिताद्यत्` [[4.4.75]] तेन <<यतोऽनावः>> [[6.1.213]] इति धान्यमाद्युदात्तम्। अत्रार्थशब्दः `प्रामादीनाञ्च` (फि।सू।2।38) इत्याद्युदात्तः। तृतीयाग्रहणं किमर्थम्? अनूनम्, अकलह इत्यत्र मा भूदिति चेत्? नैतदस्ति;इह हि प्रतिपदोक्तपरिभाषयो(व्या।प।3)नार्थकलहादीनां प्रतिपदोक्तो यः समासः स एव परिगृह्रते। तत्? किमनूमकलह इत्येतन्निवृत्यर्थेन तृतीयाग्रहणेन? इत्यत आह -`प्रतिपदोक्तम्` इत्यादि। गतार्थम्।", "62154": "`गुडमिश्राः` इति। पूर्ववत्? <<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> [[2.1.31]] इत्यादिना समासः। गुडशब्दः `इगुपध` [[3.1.135]] इति `गुड रक्षायाम्` (दा।पा।1370) इत्यस्मात्? कः, तेनान्तोदात्तः। `स्फायितञ्चि` (द।उ।8।31) इत्यादिना रग्विधीयमानो बहुलवचनान्? मिशेरपि रग्भवति, तेन मित्रशब्दोऽन्तोदात्तः। तिलशब्दः `तृणधान्यानाञ्च द्व्यषाम्` (फि।सू।2।27) इत्याद्युदात्तः। प्रमिश्रम्, सन्मिश्रमित्यस्य प्राप्नोति, अतस्तन्निवृत्तयेऽनुपसर्गग्रहणं क्रियते? इत्याह -`इह` इत्यादि। अथ वा -मिश्रशब्देन तृतीयासमास उच्यमानः कथं सोपसर्गे लभ्यते? इत्याह -`इह` इत्यादि। यदि तदिहानुपसर्गग्रहणं क्रियते, तह्र्रन्यत्र मिश्रशब्दग्रहणे सोपसर्गस्य ग्रहणं नास्तीतीहानुपसर्गग्रहणमनर्थकं स्यात्। `तेन` इत्यादि। ज्ञापनस्य प्रयोजनं दर्शयति। `ब्राआहृणमिश्रो राजा` इति। <<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> [[2.1.31]] इत्यादिनैव समासः। `ब्राआहृणैः सह संहितः` इत्यनेन प्रत्युदाहरणे सन्धिं दर्शयति। `ऐकार्थमापन्नः` इति। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। एकः=अभिन्नोऽर्थो यस्य स एकार्थः, तद्भाव ऐकाथ्र्यम्। तदापन्नः प्राप्त इत्यर्थः। कथं पुनज्र्ञायते -सन्धिशब्दस्यायमर्थः? इत्याह -`सन्धिः` इत्यादि। पणबन्धः=परिभाषणम् -यदि मे भवानिदं कुर्यात्? ततोऽहमपि भवत इदं करिष्यामीत्येवञ्जातीयकम्। तेन पणबन्धेन यदैकाथ्र्यं तत्? सन्धिरुच्यते। तस्मात्? प्रत्युदाहरणे सन्धौ सति ब्राआहृणैः सह संहित ऐकाथ्र्यमापन्नः -इत्येषोऽर्थो विज्ञायते। `केचित्? पुनराहुः` इत्यादि। गृह्रमाणो विशेषो यस्यां प्रत्यासत्तौ सा गृह्रमणविशेषा सन्धिरिति केचिदेवमाहुः, तत्रैव स्यात्। एवंविधः सन्धिः प्रत्युदाहरणे नास्तीत्यत आह -`अत्र राज्ञो ब्राआहृणौ सह` इत्यादि। यद्यपि राज्ञा ब्राआहृणैः सह प्रत्यासत्तिः=देशसामीप्यमस्ति, तधापि सत्यामपि तस्यां मूर्तिविभागो मूर्तिविशेषो राज्ञो ब्राआहृणानाञ्च गृह्रत इत्येव। इतिकरणो हेतौ। यत एवम्, तेन ब्राआहृणैः सह मिश्रो राजेति प्रतयुदाह्यियते। `उदाहणेष्वविभागापत्तिरेव` इति। एतेन गृडमिश्रा इत्यादौ तु सन्धेरभावं दर्शयति। यथा हि विलीनेन मिश्रा धानादयो भवन्ति, तथास्य गुडाः, तेषां च मूर्त्तिविभागो न गृह्रते; न तत्र सन्धेरविभागापत्तिरिति। न विभागोऽविभागः, तस्यापत्तिः=प्राप्तिः। यदा पणबन्धेनैकाथ्र्यं सन्धिस्तदोदहरणेषु तस्याभावो वेदितव्यः स हि परिभाषणविशेषणलक्षणः। न चासौ गुडमिश्रेषु धानास्वचेतनेषु विद्यते; तस्य प्राणिधर्मत्वात्॥", "62155": "`सम्पाद्याद्यर्थास्तद्धिताः` इति। तद्धितप्रत्ययाः। तस्मात्? प्रत्ययग्रहणपरिभाषया (पु।प।वृ।44) तदन्तविधिज्र्ञायते। `गुणप्रतषेधे` इति। यस्मिन्? वाक्यार्थे तद्धित उत्पद्यते स तद्धितस्य प्रवृत्तिनिमित्तं विधीयते -यथोक्तम् -`उपकारि सिद्धमङ्गम्, साध्योऽनुपकारकस्त्वङ्गी` इति। अङ्गी, गुण इति पर्यायावेतौ। गुणस्य प्रतिषेधो गुणप्रतिषेधः। एतचच नञो विशेषणम्, गुणप्रतिषेधे चेन्नञ्वर्तत इत्यर्थः। `कार्णवेष्टकिकम्` इति। कर्णवेष्टकभ्यां शोभत इत्यर्थः। <<सम्पादिनि>> [[5.1.99]] इति <<प्राग्वतेष्ठञ्>> [[5.1.18]] , न कर्णवेष्टकिकमकार्णवेष्टकिकमिति। अत्र कर्णवेष्टकाभ्यां सम्पद्यत इति वाक्यार्थे तद्धितान्तस्य प्रवृत्तिनिमित्तं यो गुणस्तस्य प्रतिषेन नञ्वर्तते। तत्? पुनः प्रवृत्तिनिमित्त्वम्। `छैदिकः` इति। छेदमर्हतीति `आर्हादगोपुच्छ` [[5.1.19]] इत्यादिनां ठक्। `वत्सीयः` इति। `प्रक्क्रीताच्छः` [[5.1.1]] । `सान्तापिकः` इति। <<तस्मै प्रभवति संतापादिभ्यः>> [[5.1.101]] इति <<प्राग्वतेष्ठञ्>> [[5.1.18]] । `विगार्दभरथिकः` इति। `तदर्हति` [[5.1.62]] इत्यार्हीयष्ठञ्। विशब्देन प्रादिसमासः। विशब्दोऽयमिह गार्दभरथिक इत्यस्य गुणप्रतिषेधे वर्तते। अत्र `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरत्रापि। नञ्यसति, अस्मिन्? प्रत्युदाहरणेऽपि यत्? पूर्वपदं प्रकृतिस्वरः प्रत्युदाहार्यः। `गार्दभरथिकदन्योऽगार्दभरथिकः` इति। अत्र गार्दभरथिकादन्यत्र नञ्वर्तते, न तु गार्दभरथिकत्वस्य प्रतिषेधे; पर्युदासत्वादस्य। `गुण इति तद्धितार्थप्रवृत्तिनिमित्तम्` इत्यादि। तद्धितार्थः -कर्णवेष्टकाभ्यां सम्पादीत्येवमादिवाक्यार्थः, तत्र यत्? प्रवृत्तिनिमित्तं तद्धितान्तस्य शब्दस्य सम्पादित्वादि तत्? गुण इत्युच्यते। आदिशब्देन तदर्हत्वादेग्र्रहणम्। तद्धितान्तमलमर्थञ्च परिग्रह्रते। `तत्प्रतिषेधः` इत्यादि। तस्य प्रतिषेधो यत्र समास उच्यते तत्रायं विधिः। कथं तसय गुणस्य प्रतिषेध उच्यते? इत्याह -`कर्णवेष्टकाभ्यां न सम्पादि मुखम्` इति। एतेन सर्वेण प्रसज्यपरतिषेधेऽयं विधिः, न पर्युदास इति दर्शयन्नगार्दभरथिक इत्यतर प्रत्युदाहरणेऽस्य विधेरभावं दर्शयति। `पाणिनीयम्` इति। `वृद्धाच्छः` (4.2.125। `अपाणिनीयः` इति। अत्राध्येतर्यर्थे यस्तद्धितस्तदन्तमुत्तरपदम्। न सम्पाद्यर्हहिताद्यमलमर्था ये तद्धितास्तदन्तम्। `वोढा` इति। पूर्ववद्? धत्वढत्वष्टुत्वढलोपा विधेयाः, <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्योत्त्वम्। `अवोढा` इति। अत्राहार्थो य कृदतः स उत्तरपदम्। तेन तद्धितगरहणादन्तोदात्तत्वमुत्तरपदस्य न भवति। अव्ययपूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदप्रकृतस्वरापवादो योगः। एवमुत्तरेऽपि योगा द्रष्टव्याः। `प्राग्बहुव्रीहाविदमेतत्` [[6.2.161]] इत्यादियोगात्॥", "62156": "`पाश्या` इति। प्रत्ययस्वरेणान्तोदात्तत्वम्। `अदन्त्यम्` इति। <<यतोऽनावः>> [[6.1.213]] इत्याद्युदात्तत्वम्। एवम् - `अकण्र्यम्` इत्येतदपि तद्वदेवाद्युदात्तम्। `पाद्यम्` इति। `पादार्धाभ्याञ्च` [[5.4.25]] इति यत्। `दन्त्यादन्यददनत्यम्` इति। अत्र दन्त्यादन्यत्र नञ्? वर्तते, न तु तदन्तस्य प्रतिषेदे। `अदेयम्` इति। <<अर्हे कृत्यतृचश्च>> [[3.3.169]] इत्यत्रार्हार्थे यत्, `ईद्यति` [[6.4.65]] इतीत्त्वम्। अथेह कस्मान्न भवति - वामदेवेन दृष्टं साम वामदेव्यम्? इत्यत आह - `निरनुबन्धक` इत्यादि। गतार्थम्॥", "62157": "`अपचः` इति। पचाद्यच्। `अविक्षिपः` इति। <<इगुपधज्ञाप्रीकिरः कः>> [[3.1.135]] `अपचोऽदीक्षितः` इत्यादि। दीक्षितपरिव्राजकौ शास्त्रे प्रतिषिद्धत्वान्न पचतः; न त्वशक्तत्वात्। तेनात्र व्रतं गम्पते, न त्वशक्तिः॥", "62158": "अत्राक्रोशे दोषवचनमाक्रोशः। अगम्यमानायामप्यशक्तौ यथा स्यादिति वचनम्॥", "62159": "`अदेवदत्तोऽपज्ञदत्तः` इति। देवदत्तयज्ञदत्तशब्दावन्तोदात्तौ। प्रातिपदिकस्वरेण। यो देवदत्तः सन्? तत्? कार्य न करोति स एवमाक्रुश्यते। एवं `अविष्णुमित्त्रः` इत्यत्रापि वेदितव्यम्॥", "62160": "कृत्य, उक, इष्णुजिति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (पु।प।वृ44) तदन्तोपस्थापनं भवति। चार्वादीनि प्रातिपदिकान्येव। `अकर्तव्यम्` इति। यदा तव्यदन्तस्तदा कर्तव्यशब्दोऽन्तस्वरितः। यदा तव्यान्तस्तदा मध्योदात्तः। `अकरणीयम्` इति। अनीयर्प्रत्ययान्तत्वात्? <<उपोत्तमं रिति>> [[6.1.217]] इति रित्स्वरेण मध्योदात्तः करणीयशब्दः। `अनागामृकम्, अनपलाषुकम्` इति। `लषपतपद` [[3.2.154]] इत्यादिनोकञ्। आगामुकापलाषुकशब्दौ कृत्स्वरेण मध्योदात्तौ। `अनलङ्करिष्णुः` इति। `अलंकृञ्` [[3.2.136]] इत्यादिनेष्णुच्। अलङ्करिष्णुशब्दश्चित्स्वरेणान्तोदात्तः। एवं `निराकरिष्णु` शब्दोऽपि। एकानुबन्धकग्रहणपरिभाषया(व्या।प।42)इष्णुज्ग्रहणे द्ब्यनुबन्धकस्य खिष्णुचो ग्रहणेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `इष्णुज्ग्रहणे कर्तरि भुवः` [[3.2.57]] खिष्णुजित्यस्य द्व्यनुबन्धकस्यापि ग्रहणं भवति` इति वक्ष्यमाणेन सम्बन्धः। अत्रैव कारणमाह - `इकारादेर्विधानसामर्थ्यात्` इति। खिष्णुच इकारादेर्विधानस्यैतदेव प्रयोजनम् - इह सूत्रे सामान्येन ग्रहणं यथा स्यात्, अन्यथा तदपार्थकं स्यात्, उदात्तत्वाद्भवत#ए#ः ततः परस्य खिष्णुच इटैवेकारादित्वत्।`अचारुः` इत्यादि। `दृसनिजनिचरिभ्यो ञुण्` (द।उ।1।88) [दृसनिजनिचरिचटिरहिभ्यो ञुण् - द।उ; दृ।उ; दृसनिजनिचरिचटिभ्यो ञुण् - पंउ।] तेनाद्युदात्तश्चारुशब्दः। साद्युशब्दोऽन्तोदात्त; `कृवापा` (द।उ।1।86) इत्यादिनोण्प्रत्ययान्तत्वात्। युधा चरति यौधिकः, <<प्राग्वहतेष्ठक्>> [[4.4.1]] `कितः` [[6.1.159]] इत्यन्तोदात्तः। `अनङ्गमेजयः` इति। अव्ययस्वरेणाद्युदात्तः। अत्र द्वितोये नञ्समासे समासान्तोदात्तत्वमिति नञ्समासः स्यात्। `अत्रापि` इत्यादि। कस्माच्छब्दस्य नञ उत्तरस्याद्युदात्तत्वविधानात्। अत्रापि द्वितीयेन नञ्समासेनान्तोदात्तत्वमिति। वर्तमान, वर्धमान - इत्येदमादयः शानजन्तत्वादन्तोदात्ताः। विकारसदृशशब्दः समासस्वरेणान्तोदात्तः। गृहपतिकशब्दः <<संज्ञायां कन्>> [[5.3.87]] इति कन्नन्तत्वादाद्युदात्तः। `वदेरान्यः` (द।उ।8।9), वदान्यशब्दः प्रत्ययस्वरेण मध्योदात्तः॥", "62161": "तृन्निति प्रत्ययग्रहणम्, तेन पूर्ववत्? तदन्तस्योपस्थानम्। अन्नादीनि प्रातिपदिकानि। `अकर्ता` इति। ताच्छीलिकस्तृन्। तेन नित्स्वरेणाद्युदात्तः कर्त्तृशब्दः। अन्नशब्दोऽपि `नब्विषयस्य` (फि।सू।2।26) इति। `कृत्यसूभ्यां क्स्नः` (द।उ।5।49) इति `तिजेर्दीर्घश्च` (द।उ।5।50) इति तीक्ष्णशब्दोऽन्तोदात्तः। `इन्` (द।उ।1।46) इति वर्तमाने `इगुपधातु कित्` (द।उ।1।48), तेन शुचिशब्द आद्युदात्तः॥", "62162": "`प्रथमपूरणयोः` इति। प्रथमे स्वरूपग्रहणम्। पूरणग्रहणे पूरणेऽर्थे ये प्रत्यया विहितास्ते गृह्यन्ते, प्रथमसाहचर्यात्। अथ वा -पूरणग्रहणं स्वय्र्यते, स्वरितेन चाधिकारगतिर्भवति। तेन <<तस्य पूरणे डट्>> [[5.2.48]] इत्यधिकृत्य ये प्रत्यया विहितास्तेषां ग्रहणं भवति। `इदम्प्रथमः` इति। प्रथमोऽन्तोदात्तः। `प्रथेरमत्` (द।उ।7।46) इत्यमच्परत्ययान्तत्वात्। इदमादयस्त्यदादिष्वन्तोदात्ता निपात्यन्ते; `इदन्द्वितीयः इदन्तृतीयः` इति। द्वेस्तीयः` [[5.2.53]] <<त्रेः सम्प्रसारणं च>> [[5.2.55]] इति तीयप्रत्ययान्तत्वान्मध्योदात्तौ द्वितीय तृतीयशब्दौ। `अनेन प्रथम इदं प्रथमः` इति। अत्र `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदप्रकृतिस्वर एव भवति। `यत्प्रथमः` इति। यत्? प्रथममेषामिति बहुव्रीह्रिः। अत्र `बहुव्रीहौ प्रकृत्या` [[6.2.1]] इति पूर्वपदप्रकृतिस्वर एव भवति। एवमुत्तरेष्वप्यस्मिन्? बहुव्रीह्रधिकारे प्रत्युदाहरणेषु वेदितव्यम्। `इदं प्रधाना इत्यर्थः` इति। एतेनान्तरोक्ते प्रत्युदाहरणे प्रथमशब्दः प्रधानवचनः, न त्वेकसंख्यावचन इति दर्शयन्? गणानाभावं दर्शयति।`उत्तरपदस्य` इत्यादि। इह सूत्रे `प्रथमपूरणयोः` इति त्वन्यविभक्त्योरुत्तरपदनिर्देशः कृतः, न बहुव्रीहिनिर्देशः कृतः। तेनोत्तरपदस्यैव कार्यित्वम्, न बहुव्रीहेः। ततश्च यदा कबुत्पद्यते तदा <<कपि पूर्वम्>> [[6.2.173]] अन्तोदात्तं भवति। कप्प्रत्ययो हि [`कप्रत्ययो हि` -मुद्रितः पाठः] समासाधिकारे विहितत्वात्? समासस्यैवान्तौ भवति, नोत्तरपदस्य। न ह्रुत्तरपदं समासः, तेन `कबुत्तरपदक्रमेण गृह्रते` इत्युत्तरपदस्यान्तोदात्तत्वं विधीयमानं कपो न भवति, किं तर्हि? पूर्वस्य। `इदम्प्रथमकाः` इति। <<शेषाद्विभाषा>> [[5.4.154]] इति कप्। `बहुव्रीहौ परकृत्या` [[6.2.1]] इति पूर्वपदप्रकृतिस्वरापवादौ योगः। एवमुत्तरेऽपि बहुव्रीह्रधिकारेऽस्मिन्? योगा द्रष्टव्याः॥", "62163": "`द्विस्तना, त्रिसतना` इति। द्वित्रिशब्दौ प्रातिपदिकस्वरेणान्तोदात्तौ। `स्तनगदी देवशब्दे` (धातुपाठः-1859,1860) चुरादिरदन्तः, तस्माद्घञ्, तेन स्तनशब्द आद्युदात्तः। `चतुःस्तना` इति। `चरेरुरन्` (द।उ।8।78) इत्युरन्प्रत्ययान्तत्वाच्चतुःशब्द आद्युदात्तः। दर्शनीयशब्दोऽनीयर्प्रत्ययान्तः <<उपोत्तमं रिति>> [[6.1.217]] इति मध्योदात्तः। `द्विशिराः` इति। शिरःशब्दः `नब्विषयस्य` (फि।सू।2।26) इत्याद्युदात्तः॥", "62164": "", "62165": "`देवमित्त्रो ब्राहृमित्त्रः` इति। देवब्राहृशब्दावुक्तस्वरौ। `अमिचिमिदिशसिभ्यः क्त्रः` (द।उ।8।86) इति मित्त्रशब्दोऽन्तोदात्तः। `वृकजिनः` इति। प्रकृतिविकारयोर्भेदस्याविवक्षितत्वाद्वृकविकारे वृकशब्दोऽत्र वर्तते। वृकमजिनमस्य वृकाजिनः। वृकशब्दः `प्राणिनां कुपूर्वाणाम्? (फि।सू।2।30) [`प्राणिनां कुपूर्वम्` -फि।सू।] इत्याद्युदात्तः। `श्यास्त्याह्वेञविभ्य इनच्` (द।उ।5।12) इत्यधिकृत्य `अजेरज च` (द।उ।5।14) इतीनजादेशश्च। तेनाजिनमन्तोदात्तम्। `कूलाजिनः` इति। कु इति निपातः, तस्मिन्नुपपदे `ला आदाने` (धातुपाठः-1058) इत्येतस्मात्? <<अन्येष्वपि दृश्यते>> [[3.2.101]] इत डः, <<अन्येषामपि दृश्यते>> [[6.3.137]] इति पूर्वपदसय दीर्घत्वम्। तेन कूल इत्यन्तोदात्तः। `कृष्णाजिनः` इति। `इण्सिञ्जिदीङुण्यविभ्यो नक्`(द।उ।5।35) इत्यधिकृत्य `कृषेर्वर्णे` (द।उ।5।37) इति नक्। तेन कृष्णोऽन्तोदात्त-। `प्रियमित्त्रः` इति। प्रीणातीति प्रियः, `इगुपध` [[3.1.135]] इत्यादिना कः। तेन प्रियोऽन्तोदात्तः।\t`महाजिनः` इति। `नर्तमाने पृषद्बृहन्महजजगच्छतृवच्च`(द।उ।6।5) इत महच्छब्दोऽन्तोदात्त॥", "62166": "", "62167": "`गौरमुखः` इति। `गुरी उद्यमने` (धातुपाठः-1396) एतस्मादच्। तदन्तदपि प्रज्ञादेरवृत्करणात्? `परज्ञादिभ्यश्च` [[5.4.38]] इत्यण्, तेन गौरोऽन्तोदात्तः। `उदि दृणातेरजलौ [दृणातेरजलौ -मुद्रितः पाठः] पूर्वपदान्त्यलोपश्च` (पं।उ।5।19) इति प्रकृत्य `डित्? खनेर्मुट्? स चोदात्तः` (पं।उ।5।20) इति खनेरजलावित्येतौ प्रत्ययौ भवतः, तौ च डितौ, मुट्? चोदात्तः। तेन मुखशब्द आद्युदात्तः। `भदरमुखः` इति। `ऋजेन्द्र` (द।उ।8।46) इत्यादिसूत्रेण भद्रशब्दो व्युत्पाद्यते। तेन भद्र इत्यन्तोदात्तः। `दीर्घमुखा शला` इति। मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते। `स्वाङ्गमद्रवलक्षणमिह गृह्रते` इति `अद्रवं मूर्त्तिमत्? स्वाङ्गम्` (का।वृ।4.1.54) इत्यादि यत्परिभाषितं स्वाङ्गमद्रवादिलक्षणं तदिह गृह्रते। तेन दीर्घमुखा शालेत्यत्र न भवतीति भावः॥", "62168": "पूर्वेण प्राप्तस्यान्तोदात्तत्वादयं प्रतिषेध उच्यते। `उच्चैर्मुखः` इति। उच्चैरित्येते स्वरादौ पठन्ते, तेऽन्तोदात्ता इति निपात्यन्ते। `प्राङ्मुखः` इति। प्राङित्येतत्? क्विन्नन्तमाद्युदात्तम्, तत्र <<अनिगन्तोऽञ्चतौ वप्रत्यये>> [[6.2.52]] इति पूर्वपदसय प्रकृतिस्वरः। `प्रत्यङमुखः` इति। अत्र कृदुत्तरपदप्रकृतिस्वरः। `गोमुखः महामुखः` इति। गोमहच्छब्दावन्तोदात्तावित्युक्तम्। `स्थूलमुखः` इति। `स्थूल परिबृंहणे` (धातुपाठः-1904), चुरार्दिः, तस्मात्? पचाद्यच्। तेन स्थूलशब्दोऽन्तोदात्तः। `मुष्टिमुखः` इति। मुषेः क्तिच्। तेन मुष्टिशब्दोऽन्तोदात्तः। `पृथुमुखः` इति। `कुभ्र्रश्च` (पं।3.1.23) इत्यधिकृत्य प्रथिम्रदिभ्रस्जां सम्प्रसारणं `सलोपश्च` (पं।उ।1।29) इति कुप्रत्ययः। तेन पृथुरन्तोदात्तः। `वत्समुखः` इति। `वृतृवदिनि` (द।उ।9।21) इत्यादिना सः। तेन वत्सोऽन्तोदात्तः। `गोमुष्टि` इत्यादि। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणोऽपि यः प्राप्नोति सोऽप्यनेन बाध्यते। अस्य प्रतिषेधस्यावकाशो यत्र गवाद्युपमानं न; गौर्मुखमिव यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति सर्वत्र गवाद्युपमेयम्, नोपमानम्। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणस्य विकल्पस्यावकाशो यत्र गवादेरन्यदुपमानम् -सिंहमुखः, व्याघ्रमुख इति। यत्र गवाद्युपमानं तद्? यत्र पूर्वपदं तत्रोभयप्राप्तावुपमानलक्षणं बाधित्वाऽयमेव प्तिषेधो पूर्वप्रतिषेधेन॥", "62169": "", "62170": "`शाङ्गरजग्धः` इति। गुणातेरितेर्वा <<शमि धातोः संज्ञायाम्>> [[3.2.14]] इत्यच्? शङ्गरः, ततोऽपि प्रज्ञादेराकृतिगणत्वादण्। तेन शाङ्गरशब्दोऽन्तोदात्तः। `पलाण्डुभक्षितः` इति। `पल गतौ` (धातुपाठः-839) <<उणादयो बहुलम्>> [[3.3.1]] इत्याण्डुप्रत्ययः तेन पलाण्डुशब्दो मध्योदात्तः। `सुरपीतः` इति। `सुसूधागुधिभ्यः क्रन्` (द।उ।य8।42) इति सुराशब्द आद्युदात्तः। `मासजातः` इति। `मसी परिमाणे` (धातुपाठः-1221) [`परिणामे`धातुपाठः-] अस्माद्घञ्, तेन मास आद्युदात्तः। `संवत्सरजातः` इति। `अशेः सरः` (द।उ।8।50) [`सरन्` -द।उ।प।उ। (3।70)] इत्यधिकृत्य `वसेश्च` (द।उ।8।51) `सम्पूर्वाच्चित्` (द।उ।8।52) इति। तेन संवत्सरोऽन्तोदात्तः। `द्व्यहजातः। त्र्यहजातः` इति। द्वित्रिशब्दावन्तोदाततावित्युकतम्। `सुखजातः` इति। खनतेः सुपूर्वात्? <<अन्येष्वपि दृश्यते>> [[3.2.101]] इति डः। तेन सुखशब्दोऽन्तोदात्तः। एवं दृःखशब्दोऽपि वेदितव्यः। तेन तृप्रशब्दोऽन्तोदात्तः। `कृच्छ्रजातः` इति। `कृतेच्छः क्रू च` (द।उ।8।38,पं।उ।2।21) [`कृते च्छक्? च -द।उ। `कृतेश्छक्रू च` -पं।उ।] इति कृच्छ्रशब्दोऽन्तोदात्तः। `असु क्षेणपे` (धातुपाठः-1209) अस्माद्? `बहुलमन्यत्र#आऽपि` (द।उ।8।40) इति रक्, तेनास्लमन्तोदात्तम्। `वृतृवदहनिकमिकषिब्यः सः` (द।उ।9।21) [कषियुमुचिभ्यः -द।उ।] इति बहुलवचनादमेरपि भवति। अंसो वृषादित्वादाद्युदात्तः। `अलकम्` इति। अलतेः <<पुंसि संज्ञायां घः प्रायेण>> [[3.3.118]] , ततः कन्निति कन्नन्तोऽप्लकशब्दः। तेनाद्युदात्तः। `कृवृदारिभ्य उनन्` (पं।उ।3।53), तेन करुणशब्द आद्युदात्तः। `रञ्जेः क्वुन्` () इति बहुलवचनात्? कृपेरपि भवति। तेन कृपणमाद्युदात्तम्। `सोढः` इति क्तान्तम्। तेनैतदन्तोदात्तम्। पूर्ववद्घत्वढत्वादयः कर्तव्याः। `प्रतीयम्` इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। `ऋक्पूः` [[5.4.74]] इत्यादिनाऽकारः समासान्तः, <<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> [[6.3.97]] इतीत्त्वम्। `पुत्रजातः` इति। अत्र बहुव्रीहिस्वर एव भवति। `अमिचिमिदिशसिभ्यः क्त्रः` (द।उ।8।86) `पुवो ह्रस्वश्च` (पं।3.4.164) तेन पुत्रशब्दोऽन्तोदात्तः। कथं पुनर्जातशब्दस्य परनिपातः, यावता `निष्ठा` [[2.2.36]] इति पूर्वनिपातेनात्र भवितव्यम्? इत्यत आह -`आहिताग्न्यादित्वात्` इत्यादि। पुत्रजातशब्दोऽयमाहितागन्यादिषु षठते, तेन `वाऽऽहितागन्यादिषु` [[2.2.37]] इति जातादिशब्दसय परनिपातः। `वस्त्रच्छन्नः` इति। वस्त्रम्ाच्छादनम्, आच्छाद्यतेऽनेनेति कृत्वा। वस्त्रशब्द उक्तस्वरः। छन्नशब्दः `छद अपवारणे` (धातुपाठः-1833) इत्यस्य ण्यन्तस्य निष्ठायां `वा दन्तशान्त` [[7.2.27]] इत्यादिना निपातितः। `वसनच्छन्नः` इति। वसेराच्छादनार्थाल्ल्युट्। तेन वसनमाद्युदात्तम्। `कुण्डलकृतः` इति। कुण्डशब्दोऽयं `नब्विषयस्य` (फि।सू।2।26) इत्याद्युदात्तः। `कुण्डमितः` इति। `माङ् माने` (धातुपाठः-1142), `द्यतिस्यति` [[7.4.40]] इत्यादिनेत्त्वम्। अथ कथमेतेषु बहुव्रीहिषु `निष्ठा` [[2.2.36]] इत्यनेन निष्ठान्तस्य पर्वनिपातो न भवति? इत्याह -`एतेषु` इत्यादि। यस्मादेतत्? कृतम्, तस्माज्जात्यादिभ्यः परस्यान्तोदात्तत्वबिधानाम्। एतस्मादेव ज्ञापकान्निष्ठान्तस्य पूर्वनिपातो न भवति; अन्यथा ह्रेतदन्तोदात्तत्वविदानं नोपपद्यते॥", "62171": "जातशब्दोऽपि क्तान्त इति तस्यापि जात्यादिभ्यः परस्य पूर्वेण नित्यमन्तोदात्तत्वे विकल्पोऽयमुच्यते। `दन्तजातः` इति। `हसिमृग्रिण्वमिदमि`(द।उ।6।7) इत्यादिना तन् -दन्तः। तेनायमाद्युदात्तः। `स्तनजातः` इति। स्तनशब्द उक्तस्वरः।", "62172": "`अयवो देशः` इत्यादि। यवव्रीहिमाषाः `तृणधान्यानाञ्च द्व्यषाम्` (फि।सू।2।27) इत्याद्युदात्तः। `समासस्य` इत्यादि। इह समासः प्रकृत उत्तरपदं च। तत्र यद्युत्तरपदस्यैतदन्तोदात्तत्वं स्यात्? अनृचो बह्वृच इत्यत्र `ऋक्पूरब्धूः` [[5.4.74]] इत्यादिनाकारे समासान्ते कृते ततः पूर्वस्य ऋक्शब्दस्योत्तरपदस्यान्तोदात्तत्वं प्रसज्येत। समासस्य त्वन्तोदात्तत्वं विधीयमानमकारस्यैव भवति; तस्य समासावयवत्वात्। समासावयवत्वं तु <<समासान्ताः>> [[5.4.68]] इत्याधिकृत्य विधानात्। तस्मात्? समासावयवस्यैतदन्तोदात्तत्वमिष्यते। कथं पुनरिष्यमाणमुपि लभ्यते? <<कपि पूर्वम्>> [[6.2.173]] इत्यत्र पूर्वग्रहणात्। तद्धि पूर्वग्रहणमनेन समास्सयान्तोदात्तत्वं विधीयमानं समासावयवस्य कप एव मा भूदित्येवमर्थं क्रियते। यदि तूभयपदस्यैतदन्तोदात्तत्वं स्यात्, तदान्तरेणापि कपिपूर्वग्रहणं कपिपूर्वस्योत्तरपदस्य सात्, न कपः; न हि कबुत्तरपदस्यावयवः, ततश्च पूर्वग्रहणनर्थकम्। इदं तावत् -`समासान्ताःप्रत्ययाः समासस्यैवावयवाः, नोत्तरपदस्य` इत्येतद्दर्शनमङ्गीकृत्योक्तम्। इदानीं `उत्तरपदस्यापि तेऽवयवाः, इत्येतद्दर्शनमाश्रित्याह -`समासान्ताश्च` इत्यादि। उत्तरपदं चेति शेषः। एतदन्तोदात्तत्वमिष्यत इति प्रकृतेन सम्बन्धः। इतिकरणो हेतौ। अथ वा -उत्तरपदस्यैवैतदन्तोदात्तत्वमिष्यते। कुतः? समासान्ता उत्तरपदावयवा भवन्तीत्यतो हेतोः। तेनानुचः बह्वृच इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति, तच्चोत्तरपदस्य भवेत्। तस्यैव समासान्तस्य भवति, तस्योत्तरपदावयवत्वादिति भावः। सान्तेऽन्तोदात्तत्वं भवति, तच्चोततरपदसय भवेत्। तस्यैव समासान्तस्य भवति, तस्योत्तरपदावयवत्वादिति भावः। यदि हि समासान्ता उत्तरपदावयवा न स्युः, तत उत्तरपदावयवस्यन्तोदात्तत्वं विधीयमानं समासान्तस्य न स्यात्। उत्तरपदावयवत्वे हि समासान्तानां तस्यैव समासान्तस्य भवति। कथं पुनः समासान्तानामुत्तरपदावयवत्वम्? समासार्थादुत्तरपदात्? पूर्वं समासान्तं विधाय पश्चात्? तदन्तेन समासविधानात्। तथा हि `न कपि` [[7.4.14]] इत्यत्र वक्ष्यति `<<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इतययमपि ह्यसवः कपि न भवति। समासार्थे ह्रुत्तरपदे कपि कृते पश्चात्? कबन्तेन सह समासेन भवितव्यममिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति` इति। समासान्तप्रत्ययान्तेन च पदेन यदि समासः क्रियते, तदा `तन्मध्ये पतितास्तद्ग्रहणेन गृह्यन्ते` (व्या।प।21) इति समासान्तः प्रत्ययः उत्तरपदावयवा भवन्ति। यद्यवम्, समासावयवत्वं तेषां नोपपद्यते? नैतदस्ति; अवयवावयवोऽपि हि समुदायावयवो भवति, तथा हि -`देवदत्तायाः सर्वेऽवयवा अलङ्क्रियन्ताम्` इत्युक्ते देवदत्तावयकस्य येऽवयवा अङ्गुल्यादयस्येऽप्यलङ्क्तियन्ते॥", "62173": "पूर्वेण कप एवान्तोदात्तत्वे प्राप्ते कपि पूर्वस्योदात्तत्वमनेन विधीयते। `अकुमारीकः` इत्यादि। <<शेषाद्विभाषा>> [[5.4.154]] इति कप्। कुमारीशब्द उदात्तनिवृत्तिस्वरेणान्तोदात्तः। वृषलीशब्दोऽपि जातिलक्षणेन ङीषा। ब्राहृबन्धूरप्यूङन्तत्वात्? प्रत्ययस्वरेण॥", "62174": "`ह्रस्वोऽन्तोऽस्य` इत्यादि। अनेन ह्रस्वान्त इत्यस्यैव बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वेति दर्शयति। `अयवको देशः` इति। अत्र कपि परतो यव इत्येतत्? ह्रस्वान्तमुत्तरपदम्, अयव इत्ययं वा समासः। तत्रान्त्याद्वकारात्, पूर्वमक्षरं यकाराकार उदात्तो भवति। अनया दिशान्यत्रापरि वेदितव्यम्।अथ पूर्वग्रहणं किम्, यावता <<कपि पूर्वम्>> [[6.2.173]] इत्यतः पूर्वमिति वर्तत एव? इत्यत आह -`पूर्वमिति वर्तमाने` इत्यादि। द्वितीये हि पूर्वग्रहणे क्रियमाणे वाक्यभेदेन प्रवृत्तिभेदो भवति; पूर्वग्रहणसामर्थ्यात्, अन्यथा हि तदपार्थकं स्यात्। तत्रैकय प्रवृत्त्या ह्रस्वन्तेऽन्त्यात्? पूर्वमन्तोदात्तं विथधीयते। अपरया तु ह्रस्वान्तेऽन्त्यात्? पूर्वमन्तोदात्तं न भवतीति नियमः। तेन कपि पूर्वमन्तोदात्तं न भवति। `तेन` इत्यादिना नियमो न स्यात्, तदात्रान्त्यात्? पूर्व उदात्तभावो नास्तीति कपि पूर्वमन्तोदात्तं स्यात्। <<कपि पूर्वम्>> [[6.2.173]] इत्यनेन नियमे तु सति न भवति। तेन <<नञ्सुभ्याम्>> [[6.2.172]] इति कबन्तस्यैवान्तोदात्तत्वं भवति। यथा च स भवति तथात्रैवोपपादितम्॥", "62175": "<<नञ्सुभ्याम्>> [[6.2.172]] इत्यादिभिर्योगैर्नञ उत्तरस्य यत्? स्वरवनिधानं तद्बहोरपि यथा स्यादित्येवमर्थमिदम्। नञ इव नञ्वत्। बहोर्भावो भूमा, पृथ्वादित्वादिमनिच्, <<बहोर्लोपो भू च बहोः>> [[6.4.158]] इति भूभावः। उत्तरपदस्य भूमेति षष्ठीसमासः। अथातिदेशः किमर्थः, न `नञ्सुबहुभ्य उत्तरपदभूम्नि` इत्येवोच्येत; न चैवं योगे क्रियमाणे नञ्स्वोरप्युत्तरपदभूम्नीत्येतद्विशेषणमापाद्यते; सम्भवापेक्षत्वादस्य, यथैव हि<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यत्र दीर्घग्रहणं सम्भवापेक्षं विशेषणं ङ्यापोरेव भवति न हलः; तथैतदपि बहोरेव भविष्यति न नञ्स्वोः, न हि तयोरुत्तरपदार्थबहुत्वे बृत्तिः सम्भवतीति? एवं तर्हि यदपि विदेशस्थं नञोपलक्षितं बहुव्रीहेः स्वरविधानम्, तदप्यस्मादतिदेशाद्यथा स्यादित्येवमर्थोऽयमतिदेशः क्रियते। तेन <<नञो जरमरमित्रमृताः>> [[6.2.116]] इत्युत्तरपदाद्युदात्तत्वमपि बहोरतिदिश्यते। `बहुमनाः` इति। अत्रोत्तरपदबहुत्वे बहुशब्दो न वर्तते॥", "62176": "पूर्वोणातिप्रसक्तोऽतिदेश इति गुणादिना प्रतिषिध्यते -`बहुगुणा रज्जुः` इति। बह्ववयवा इत्यर्थः। `गुण आमन्त्रणे` (धातुपाठः-1894) चुरादिः, तस्माद्घञ्। तेन गुणशब्द आद्युदात्तः। `अशेः सरः` (द।उ।8।50) [`सरन्` -द।उ।(पं।उ।-3।70)] इत्यनेनाक्षरशब्दोऽन्तोदात्तः। छन्दो मीयतेऽनेनेति च्छन्दोमानम्। कृत्स्वरेण छन्दोमाने मानशब्द आद्युदात्तः; तस्य घञन्तत्वात्। शोभनमुक्तं सूक्तम्। प्रादिसमासः। थाथादिस्वरेण [[6.2.143]] सूक्तशब्दोऽन्तोदात्तः। अधीयतेऽस्मादित्यध्यायः। `इङश्च` [[3.3.21]] इति घञ्। सूक्तवदध्यायोऽन्तोदात्तः॥", "62177": "उपसर्गात्? प्राद्युपलक्षणं वेदितव्यम्। स्वङ्गं प्रति क्रियायोगाभावात्। प्रादिग्रहणमेव तु न कृतं वैचित्र्यार्थम्। ध्रुवशब्दोऽयमवयवेप्यस्ति, यथा <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इति, एकस्वरूपेप्यस्ति, यथा ध्रुवमस्य शीलमिति; तदिहैकस्वरूपे वर्तमानो गृह्रत इति दर्शयितुमाह -`ध्रुवमित्येकरूपमुच्यते` इत्यादि। `सततम्` इत्यादिना ध्रुवत्वं पृष्ठस्य दर्शयति। पृष्ठशब्दोऽन्तोदात्तः। `पृषु मृषु वृषु सेचने` (धातुपाठः-705।706,707) इत्यस्य थकि व्युत्पादितत्वात्। `दर्शनीयललाटः` इति। दर्शनीयशब्दः <<उपोत्तमं रिति>> [[6.1.217]] इति मध्योदात्तः। `लल ईप्सायाम्` (धातुपाठः-1687) इत्यस्मात्? <<उणादयो बहुलम्>> [[3.3.1]] इत्याटप्रत्ययः। तेन ललाटशब्दो मध्योदात्तः। `प्रशाखो वृक्षः` इति। <<उणादयो बहुलम्>> [[3.3.1]] इति वचनात्? `शो तनूकरणे` (धातुपाठः-1145) इत्यस्मात्? खः, टाप्, सवर्णदीर्घत्वम्, <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] । तेन शाखाशब्दोऽन्तोदात्तः। उद्बाहुः क्ररीशति` इति। अत्र बाहोरेकरूपता नास्तीत्युध्रुवत्वम्। न ह्रसौ नित्यमूध्र्वबाहुरेव क्रीशति, अपि तु कदाचिदधो बाहुरपि। `उत्पर्शुः` इति। `स्वृशेः आण्शुनौ पृ च`(पं।उ।5।27) [आण्? शुनो पृ च -मु।पाठः] इति शुन्प्रत्ययान्तः पर्शुः। तेनायमाद्युदात्तः॥", "62178": "`समासमात्रे` इति। मात्रग्रहणेन बहुव्रीहेर्निवृत्ति सूचयति। `प्रवणे` इति। यदायं बहुव्रीहिस्तदा प्रकृष्टं प्रकृतं वा वनमस्येति विग्रहः। यदा तु तत्पुरुषः, तदा प्रकृष्टं वनं प्रगतं वा वनमिति विग्रहः। `निर्वणे` इति। अत्रापि यदा बहुव्रीहिः, तदा निर्गतं वनमस्येति विग्रहः। यदा तु तत्पुरुषस्तदा निरगतो वनादिति तत्पुरुषस्तु <<कुगतिप्रादयः>> [[2.2.18]] इति। किं पुनः स्याद्यदि समासमात्रपरिग्रहार्थं समासग्रहणं न क्रियेत? इत्यत आह -`बहुव्रीहावेव हि स्यात्` इति। `रञ्जेः क्युन्`(द।उ।5।24-पं।उ।2।80)। [`रजेः` -द।उ।] बहलवनात्? `वनु याचने` (धातुपाठः-1470) इत्यस्मादपि भवति। तेन वनमाद्युदात्तम्॥", "62179": "`अन्तः` इति स्वरादिष्वन्तोदात्तो निपात्यते। `अन्तर्वणो देशः` इति। अन्तर्वनं यस्मिन्निति बहुव्रीहिः, `वनेऽन्तः` इति शौण्डादिपाठात्? [[2.1.39]] सप्तमीसमासो वा। `प्रनिरन्तरः` [[8.4.5]] इत्यादनना णत्वम्। `अनुपसर्गार्थ आरम्भः` इति। उपसर्गात्? पूर्वेणैव सिद्धत्वात्॥", "62180": "अन्तःशब्दः `हसिमृग्रिण्वमिदमिलूपूधुर्विभ्यस्तन्` (द।उ।6।7) इति तन्प्रत्ययान्तत्वादाद्युदात्तः॥", "62181": "पूर्वेण निविभ्यामप्युततरसयान्तोदात्तत्वे प्राप्ते प्रतिषेधोऽयमुच्यते। `पूर्वपदप्रकृतिस्वरतवे कृते` इति। यदा बहुव्रीहिस्तदा <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इति प्रकृतिस्वरत्वम्। यदा तु तत्पुरुषस्तदा `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना॥", "62182": "`परिकूलम्, परितीरम्` इति। कूलतीरशब्दावुक्तस्वरौ <<कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे>> [[6.2.121]] इत्यादौ सूत्रे। `परिमण्डलम्` इति। परितः=सर्वतो मणाडलं परिमण्डलम्। `मणि भूषायाम्` (धातुपाठः-321) -अस्मात्? `कलस्तृपश्च` (द।उ।8।107) इति बाहुलकात्? कलप्रत्ययः, `वृषादिभ्यश्चित्` (द।उ।8।109) इति च। तेन मण्डलमन्तोदात्तम्। `बहुव्रीहिरयम्` इत्यादि। यदा बहुव्रीहिस्तदा -परितः कूलमस्य, परितस्तीरमस्येति तेन मण्डलमन्तोदात्तम्। `बहुव्रीहिरयम्` इत्यादि। यदा बहुव्रीहिस्तदा -परितः कूलमस्य, परितस्तीरमस्येति विग्रहः। यदा तु प्रादिसमासस्तदा परिगतं कूलम्, परिगतं तीरमिति। यदा पुनरव्ययीभावस्तदा -परि कूलात्, परि तीरादिति। अव्ययीभावस्तु <<अपपरिबहिरञ्चवः पञ्चम्या>> [[2.1.12]] इत्यनेन। परि कूलादिति पञ्चमी `पञ्चम्यपाङपरिभिः` [[2.3.10]] इति कर्मप्रवचनीययोगे। कर्मप्रवचनीयत्वं तु परेः <<अपपरी वर्जने>> [[1.4.88]] इति। युक्तं यद्बहुव्रीहौ तत्पुरुषे चेदमन्तोदात्तत्वं विधीयते; तत्र हि समासान्तोदात्तत्वस्यापवादः, पूर्वपदप्रकृतिस्वरः प्राप्नोति। अव्ययीभावे त्वयुक्तम्; तत्र हि समासान्तोदात्तत्वेनैव सिद्धम्। न हि तस्यापवादः पूर्वपदप्रकृतिस्वरः केनचित्? प्राप्त इत्यत आह -`अव्ययीभावपक्षेऽपि हि` इत्यादि। यदाप्यव्ययीभावपक्षः, तदापि `परिप्रत्युपपा` [[6.2.33]] इत्यादिना पूर्वपदप्रकृतिस्वरः प्राप्तोनेनान्तोदात्तत्वविधानेन बाध्यत इति किमत्रायुक्तम्। `यच्चैवंस्वभावम्` इत्यादि। अभितो भवनं यस्य स्वभावस्तदभितोभाविग्रहणेन गृह्रते, न तु तद्विपरीतस्वभावम्॥", "62183": "`प्रकोष्ठम्` इति। `उषिकुषिगार्तिभ्यस्थन्` (द।उ।6।29) इति कुषेस्थन्। तेन क्रोष्ठशब्द आद्युदात्तः। `प्रगृहम्` इति। `गेहि कः` [[3.1.144]] इति कप्रत्ययः। तेन गृहमन्तोदात्तम्। `प्रद्वारम्? इति। `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इति द्वारमाद्युदात्तम्। `प्रपदम्` इति। पदं द्वारवदेवाद्यटुदात्तम्। `प्रहस्तम्` इति। `हसिमृग्रिण्वमिदमि` (द।उ।6।7) इत्यादिना हसेस्तन्। तेन हस्तशब्द आद्युदात्तः॥", "62184": "`निरुदकम्` इति। निष्क्रान्तमुदकमस्मादिति बहुव्रीहिः, निष्क्रान्तमुदकादिति वा प्रादिसमासः। उदकं कायतीति <<आतोऽनुपसर्गे कः>> [[3.2.3]] , <<उदकस्योदः संज्ञायाम्>> [[6.3.57]] इत्युदभावः। तेनोदकमन्तोदात्तम्। `निरुपलम्` इति। `विटपविष्टपविशिपोलपाः` (द।उ।7।12) इत्युपलशब्दोऽन्तोदात्तो निपात्यते। `निरुपलमित्यन्ये` इति। उपपूर्वाल्लातेः <<आतश्चोपसर्गे>> [[3.3.106]] इति कः। तेनोपलशब्दस्थाथादि [[6.2.143]] स्वरेणाद्युदात्तः। `निर्मक्षिकम्, निर्मशकमित्यदीनाम्` इति। मशकमक्षिकाशब्दा(वा)द्युदात्तान्तोदात्तौ। तत्र हि `अथादिः, प्राक्, शकटेः`(फि।सू।2।24), `अथ द्वितीयः प्रादीषात्` (फि।सू।3।50) [`द्वितीयं` -फि।सू।] इति वर्तते। `एषाम्` इत्यादि। यदि प्रादिसमासस्तदा निर्गतमुदकं निर्गतं वोदकादिति विग्रहः। यदा तु बहुव्रीहिस्तदा निर्गतमुदकमस्मादिति। अथाव्ययीभावोऽप्येषां कस्यान्न भवति? इत्याह -`अव्ययी भावे तु` इत्यादि। बहुव्रीहिप्रादिसमासयोस्तु समासान्तोदात्तत्वेन न सिध्यति। तथा हि -<<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इति समासस्वरापवादः पूर्वपदप्रकृतिस्वरो बहुव्रीहावुक्तः। प्रादिसमासेऽपि `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना। `निष्कालकः` इति। कालशब्दः कन्प्रत्ययान्तत्वादाद्युदात्तः। `निष्कालिकः` इति। निष्क्रान्तः कालिकाया इति प्रादिसमासः। कालीति जानपदादिसूत्रेण [[4.1.42]] [`द्वितीयं` -फि।सू।] ङीषान्तत्वादन्तोदात्तः, ततः स्वार्थिके कनि कृतेऽप्याद्युदात्त एव भवति। `निष्पेषः` इति। `विष्लृ सञ्चूर्णने` (धातुपाठः-1452) अस्माद्घञ्। तेन पेषशब्द आद्युदात्तः। `तरीं पाति` इति। <<आतोऽनुपसर्गे कः>> [[3.2.3]] इति तरीपशब्दोऽन्तोदात्तः। कुत्सितस्तरीप इति कुत्सितग्रहणेन दुस्तरीपशब्दे दुःशब्दः कुत्सायां वर्तत इति दर्शयति। `निस्तरीप इति केचित्` इति। ते च निर्गतस्तरीप इति विगृह्र प्रादिसमासं कुर्वन्ति। `अपरे निस्तरीक इति` इति। पठन्तीति सम्बन्धः। `निरजिनम्` इत्यादि। `अजिनमन्तोदात्तम्` इत्युक्तम्। `परेः` इत्यादि। हस्तपादकेशाः `स्वाङ्गशिटामदन्तानाम्` (फि।सू।2।29) इत्याद्युदात्ताः। शिटाम्=सर्वनाम्नामित्यर्थः। कर्षशब्दः <<कर्षात्वतो घञोऽन्त उदात्तः>> [[6.1.159]] इत्यन्तोदात्तः॥", "62185": "`अभिमुखः` इति। मुखशब्द उक्तस्वरः। अभिशब्दोऽन्तोदात्तः। `बहुव्रीहिरयम्`इत्यादि। यदा बहुव्रीहिस्तदा -अभिगतं मुखमनेनेति विग्रहः। यदा तु प्रादिसमासस्तदा अभिगतो मुखम्, अभिगतो वा मुखेनेति। कस्मादयमव्ययीभावो न भवति? इत्याह -`अव्ययीबावे तु` इत्यादि। `वचनमिदमबहुव्रीह्रर्थम्` इति। यदा मुखं ध्रुवं भवति तदाऽध्रुवार्थम्, अस्वाङ्गार्थ चेति। अध्रुवमस्वाङ्गञ्च मुखं बहुव्रीहावपि यदा भवति। `अभिमुखा शाला` इति। अभिगतं मुखं यस्या इति बहुव्रीहिः। अत्र <<उपसर्गात् स्वाङ्गं ध्रुवमपर्शु>> [[6.2.177]] इति न सिध्यति; मुखशब्दस्यास्वाङ्गवाचित्वात्॥", "62186": "`अव्ययीभावोऽप्यत्र प्रयोजयति` इति। न केवलं बहुव्रीहितत्पुरुषावित्यपिशब्दार्थः। तत्र यदा बहुव्रीहिस्तदा -अपगतं मुखमस्मादिति विग्रहः। यदा तु प्रादिसमासस्तदा अपगतं मुखमिति। यदा पुनरव्ययीभावस्तदा -अपमुखादिति, मुखं वर्जयित्वेत्यर्थः। अव्ययीभावस्तु <<अपपरिबहिरञ्चवः पञ्चम्या>> [[2.1.12]] इत्यनेन। कथं पुनरव्ययीभावः प्रयोजयति, यावता समासान्तोदात्तत्वेनैव सिद्धम्? इत्याह -`तत्रापि हि` इत्यादि। प्रकृतिस्वरत्वमित्यत्राध्याहार्यम्। तत्राप्यव्ययीभाव `परिप्रत्युपापा` [[6.2.33]] इत्यादिना पूर्वपदस्य प्रकृतिस्वरत्वमुक्तं समासस्वरापवादः। तस्मादव्ययीभावोऽपि प्रयोजयति। `योगविबाग उत्तरार्थः` इति। `उत्तरसूत्रेऽपादित्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत्। अव्ययपूर्वादपि प्रकृतिस्वरापवादो योगः। एवमुत्तरेऽपि योगाः `द्वित्रिभ्यां पद्दन्मूर्धसु बहुव्रीहौ` [[6.2.197]] इत्यतो योगात्? प्राग्वेदितव्याः॥", "62187": "स्फिगदीनां नामपर्यन्तानां समाहारे द्वन्द्वः। `सीरनामानि च` इति। हलादीनि। `अपस्फिगम्, अपपूतम्` इति। प्रादिसमासः, बहुव्रीहिर्वा। स्फिगपूतशब्दौ `स्वाङ्गशिटामदन्तानाम्` (फि।सू।2।29) इत्याद्युदात्तौ। केचित्तु स्फिगशब्दं धृतादित्वा(फि।सू।1।21)दन्तोदात्तमिच्छन्ति। `रास्नासास्नास्थूणावीणाः` (द।उ।5।47) इति वीणाशब्द आद्युदात्तो निपात्यते। `अञ्जू` इत्येतदस्मादसुन्। तेनञ्ज आद्युदात्तः। `शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप्` [क्वन् -इति मु। पाठः,] इत्यधिकृत्य `अदेर्धच` [अदेर्धश्च -द।उ।] इत्यध्वा। तेनायमाद्युदात्तः। `उपसर्गादध्वनः` इत्यादि। `अच्प्रत्यन्ववपूर्वात्? सामलोभ्नः` [[5.4.75]] इत्यतोऽझणेऽनुवर्तमाने <<उपसर्गादध्वनः>> [[5.4.85]] इत्यनेनाच्? समासान्तो विधीयते। तेन तस्मिन्? समासान्तेऽच्प्रत्ययस्य चित्त्वादेव सिद्धमन्तोदात्तत्वम्। ननु च नित्यः समासान्तः, तत्? किमुच्यते -यदा समासान्तो नास्तीति? अत आह -`अनित्यश्च` इत्यादि। यदि नित्यः समासान्तः स्यादध्वग्रहणमिह न कृतं स्यात्; अच्प्रत्ययस्य चित्त्वादेवान्तोदात्तस्य सिद्धत्वात्; कृतं च, तस्मादेतदेव ज्ञापयति -`समासान्तविधिरनित्यः` इति। तेन `तत्रोपासितलोकभर्तरि` इत्येवमादयः प्रयोगा उपपन्ना भवन्ति। `प्लुषिकुषिशुषिभ्यः क्सिः` (द।उ।1।11) [`प्लुषिशुषिकुषिभ्यः क्सिः` -द।उ।]", "62188": "", "62189": "`अनुज्येष्ठः` इति। <<वृद्धस्य च>> [[5.3.62]] इतीष्ठनि परतो वृद्धस्य ज्ज्यादेशः। जेष्ठशब्दो नित्सवरेणाणाद्युदात्तः। `अनुमध्यमः` इति। <<मध्यान्मः>> [[4.3.8]] इति मध्यमः, प्रत्ययस्वरेणान्तोदात्तः। `पूर्वपदार्थप्रधानः प्रादिसमसोऽम्` इति। अत्र हि योऽसौ ज्येष्ठमनुगतो मध्यमञ्च स प्राधान्येन प्रादिसमासेनोच्यते, ज्येष्ठमध्यमौ तु गुणभावेन। तस्मात्? पूर्वपदार्थप्रधानोऽयम्। `अनुकनीयान्` इति। ईयसुनि परतो युवशब्दस्य <<युवाल्पयोः कनन्यतरस्याम्>> [[5.3.64]] इति कनादेशः। कनीयशब्दो नित्स्वरेणाद्युदात्त-। `अनुगतो ज्येष्ठोऽनुज्येष्ठः` ति। उत्तरपदार्थप्रधानोऽयम्। तेन प्रधानवाचित्वं ज्येष्ठशब्दस्यास्ति॥", "62190": "`पृ? पालनपूरणयोः` (दा।पा।1489) - अस्मात्? `पुरः कुषन्` (द।उ।9।14) इति कुषन्प्रत्ययः। तेन पुरुषशब्द आद्युदात्तः। `अन्वादिष्टोऽन्वाचितः` इति। अप्रधानशिष्ट इत्यर्थः। यथा भिक्षामट गाञ्यानयेत्यत्र गोरानयनम्, यथा वा - `कर्त्तुः क्यङ्? सलोपश्च` [[3.1.11]] इत्यत्र सलोपः। `कथितानुकथितो वा` इति। यः कथितात्? पश्चात्? कथितः स कथितानुकथितः। यो वा किञ्चित्? पाक्? कथयित्वा पश्चात् कथ्यते कथ्यते स कथितानुकथित इत्युच्यते। `अनुगतः पुरुषोऽनुपुरुषः` इति। यः पश्चाद्भवः पुरुष स एवमुच्यते॥", "62191": "`अकृत्पदे` इति। अकृच्च पदं चाकृत्पदे -प्रथमाद्विवचनान्तमेतत्। `अत्यङ्कुशो नागः` इति। अङ्कुशशब्दः `सानसिपर्णसि` (द।उ।10।17) [सानसिधर्णसिपर्णसि -द।उ। सानासिवर्णसिपर्णसि -पं।उ।पं।उ।4।107) इत्यादिना `अकि लक्षणे` (धातुपाठः-1024) अस्मात्? पचाद्यच्, टाप्, <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] । तेन कशान्तोदात्ता। `अतिपदा शक्वरी` इति। <<खनो घ च>> [[3.3.125]] इति पदेर्घः। घित्करणेन हि ज्ञापितम् -तत्र घोऽन्यस्मादपि भवतीति। तेन पदमन्तोदात्तम्। `अतिकारकः` इति। करोतेर्ण्वुल्। अत्र `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदस्याव्ययस्वरो भवति। `अतेर्धातुलोपः` इति। यत्र धातोर्लोपस्तत्रातेरुत्तरपदमन्तोदात्तं भवतीति वक्तव्यम्। किमर्थम्? इत्याह -`इह` इत्यादि। यद्यतेर्धातुलोप इति नोच्येत, तदिहापि स्यात् -शोभनो गाग्र्योऽतिगाग्र्य इति। भवति ह्यत्रातेरुत्तरपदमकृदन्तम्। इह च न स्यात् -अतिक्रान्तः कारकादतिकारक इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या` (वा।94) इति प्रादिसमासः। अत्र हि कृदन्तः कारकशब्दः उत्तरपदम्। तत्र यद्यतेर्धातुलोप ति नोच्यते तदिहापि न स्यात्। एवं तूच्यमान इहापि भवति, अस्ति ह्यत्र क्रमेर्धातोर्लोपः। लोपः पुनस्तस्य समासे गम्यमानार्थत्वादप्रत्युज्यमानस्यादर्शनम्॥", "62192": "`निधानमप्रकाशता` इति। न निधानमनिधानम्। `निर्मूलम्, न्यक्षम्` इति। `मूल प्रतिष्ठायाम्` (धातुपाठः-529)-अस्मात्? पचाद्यच्। तस्मान्मूलशब्दोऽन्तोदात्तः। `वृतृवदिहनि कमिकषिभ्यः सः` (द।उ।9।21) [कमिकषियुमुचिभ्यः - द।उ।] इत्यधिकृत्य `अशेर्देवने` (द।उ।9।24) इति सप्रत्ययान्तत्वादक्षशब्दोऽप्यन्तोदात्तः। `नितृणम्` इति। `नब्विषयस्य` (फि।सू।2।26) इति तृणमाद्युदात्तम्। `बहुव्रीहिरयम्` इत्यादि। यदा बहुव्रीहिस्तदा - निगतानि मूला न्यस्येति विग्रहः। यदा प्रादिसमासस्तदा निगतं मूलमिति। अव्ययीभावः कस्मादयं न भवति? इत्याह - `अव्ययीभावे तु` इत्यादि। बहुव्रीहौ तु समासान्तोदात्तत्वापवादः `बहुव्रीहौ प्रकृत्या` [[6.2.1]] इत्यादिना पूर्वपदस्य प्रकृतिस्वर उक्तः। तत्पुरुषेऽपि `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना; तेन तयोर्विनाऽनेन वचनेनान्तोदात्तत्वं न सिध्यति। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिदधम्, न हि तत्र तस्यापवादः उक्तः। `निवाग्वृषलः; निदण्डः` इति। अत्र पूर्वपदस्य प्रकृतिस्वर एव भवति। वाक्शब्दः `क्विब्वचिप्रच्छि` (द।उ।10।2) इत्यादिना क्विबन्तो व्युत्पादित आद्युदात्तः। `दमु उपशमे` (धातुपाठः-1203) - अस्मात्? `ञमन्ताङ्ङः` (द।उ।5।7) इति। तेन दण्डशब्दोऽप्यन्तोदात्तः। `निशब्दोऽत्रि निधानार्थं ब्रावीति` इति। अप्रकाशतां ब्रातीतीत्यर्थः। कथं पुनरत्र निशब्दो निधानार्थं ब्रावीति? इत्याह - `प्रादयो हि` इत्यादि। वृत्तिशब्देनेह समासवृत्त्यादिर्गुह्रते। प्रादयो हि स्वभावेनैव वृत्तिविषये ससाधनां क्रियामाहुः। तस्मादिह समासवृत्तौ विषयेयासावप्रकाशनात्मिका क्रिया निधानशब्दवाच्या वाक्साधना, दण्डसाधना च तां निशब्दो ब्रावीति॥", "62193": "पूर्वपदप्रकृतिस्वरापवादो योगः। `प्रत्यंशुः` इति। प्रादिसमासः। `कुभ्र्रश्च` इत्यधिकृत्य `मुगय्वादयश्च` (द।उ।1।121) इत्यंशुशब्दो निपातितः। तेनान्तोदात्तः। जनेर्घञ्। तेन जन आद्युदात्तः। राजञ्शब्दोऽपि कनिन्प्रत्ययान्तत्वात्। `राजशब्दः` इत्यादि। `राजाहःसखिभ्यष्टच्` [[5.4.91]] इति यदाऽनित्यत्वाट्टज्? नास्ति, तदा राजशब्द इह पाठे प्रयोजयति। अथ तस्मिन्? समासान्ते सति कस्मान्न प्रयोजयति? इत्याह -`तस्मिन्? हि सति` इत्यादि। अनित्यत्वं तु समासान्तविधेः पूर्वमेव ज्ञापितम्। राजशब्दस्य चेह पाठः समासान्तविधेरनित्यत्वं ज्ञापयति। `उष दाहे` (धातुपाठः-696) -इत्यस्मात्? ष्ट्रन्। तेन उष्ट्रशबद आद्युदात्तः `शिट सन्तापे` [`खिट त्रासे` -धातुपाठः-] (धातुपाठः-302) -अस्माण्वुल्। तेन खेटकशब्दोऽप्याद्युदात्तः। `अजिरशिशिर` (द।उ।8।27) इत्यादिना किरच्प्रत्ययान्तोऽजिरशब्दो निपातितः। तेनान्तोदात्तः। `द्रो कुत्सायां गतौ` (धातुपाठः-1054) -अस्मादाङ्पूर्वात्? <<आतश्चोपसर्गे>> [[3.3.106]] इत्यङ्? निपातनात्? पूर्वपदस्य रेफान्तता। ततश्चाव्ययरूपहानादसत्यस्मात्? पूर्वपदप्रकृतिस्वरत्वे आर्देत्यन्तोदात्ता भवति। `श्रु श्रवणे` (धातुपाठः-942) इत्यस्माल्ल्युट्। तेन श्रवणशब्दो लित्स्वरेणाद्युदात्तः। `वृतेस्तिकन्` (द।उ।3।28) इति प्रकृते `कृतिभिदिलतिभ्यः कित्` (द।उ।3।29) इति तिकन्, टाप्। तेन कृत्तिकाशब्द आद्युदात्तः। `ऋध` -इत्येतस्मादच्, घञ्? वा। तेनार्धशब्दोऽन्तोदात्तः, आद्युदात्तो वा। `पुर अग्रगमने` (धातुपाठः-1346) -अस्मादिगुपधलक्षणः [[3.1.135]] कः। तेन पुरशब्दोऽन्तोदात्तः। `प्रतिगता अंशवोऽस्य` इत्यादि। अत्र बहुव्रीहौ पूर्वपदप्रकृतिस्वरो भवति॥", "62194": "`उपदेवः` इति। प्रादिसमासोऽयम्। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। `उपसोमः` इति। अतिस्तुसुहुसृ` [[6.4.149]] इत्यादिना मन्। तेन सोमशब्द आद्युदात्तः। `हुडृ हुडृ गतौ` (धा।प।352,353) अस्मात्? पचाद्यच्। तेन होडशब्दोऽन्तोदात्तः। अजिनमन्तोदात्तमित्युक्तम्, अद्व्यजर्थं चास्य ग्रहणम्। गौरशब्दः प्रज्ञद्यणन्तत्वादाद्युदात्तः। तिष्येण युक्तः कालस्तैषः, <<प्राग्दीव्यतोऽण्>> [[4.1.83]] । `सूर्यतिष्य` [[6.4.149]] इति यलोपः। नैषतैटावणन्तौ। तेनान्तोदात्तो। `रट परिभाषणे` (धातुपाठः-297) -अस्मादच्। रलयोरेकत्वाद्रेफस्य लकारः। लटः। `लुट विलोडने` (धातुपाठः-314) -अस्मात्? पचाद्यच्। तेन लटलोटावप्यन्तोदात्तौ। `शवयह्वजिह्वाग्रीवाप्वामीवाः` (द।उ।8।128) इति जिह्वान्तोदात्ता निपत्यते। `इण्सिञ्जि` (द।उ।5।35) [इण्सिञ् -द।उ।पं।उ। (3।2)] इत्यधिकृत्य `कृषेर्वर्णे (द।उ।5।37) इति कृषेर्नक्, टाप्? सवर्णदीर्घत्वम्, `एकादेश उदात्तेनोदात्तः [[8.2.5]] । तेन कृष्णाशब्दोऽन्तोदात्तः। `अध्न्यादयश्च` (द।उ।8।14) इति कन्याशब्दोऽन्तस्वरितो निपात्यते। `गुड घनत्वे` [`गुड रक्षायाम्` -धातुपाठः-] (धातुपाठः-1370) -अस्मादिगपधलक्षणः [[3.1.135]] कः। तेन गुडोऽन्तोदात्तः। कल्पवाहशब्दौ वृषादित्वादन्तोदात्तौ॥", "62195": "`सुस्थण्डिलः` इति। स्थानं स्थिरमस्मिन्निति स्थण्डिलम्। पृषोदरादित्वादाद्युदात्तः। `सुस्फिगाभ्याम्` इति। स्फिगशब्दः आद्युदात्तः। `सुप्रत्यवसितः` इति। प्रत्यवसितशब्दस्थाथादि [[6.2.143]] स्वरेणान्तोदात्तः। ननु च सुशब्देनापि सह समासे कृते थाथादिस्वरेणैवान्तोदात्तत्वं भविष्यति, तत्? किमर्थमुदाहृतम्? एवं मन्यते -सत्यन्यार्थेऽस्यारम्भे परत्वादनेनैवात्राप्यन्तोदात्तत्वं युक्तमिति। यदि सुशब्दोऽत्र पूजायामेव वर्तते, अवक्षेपणं तर्हि कस्यार्थः? इत्याह -`वाक्यार्थस्त्ववक्षेपणम्` इति। अत्रैव कारणमाह -`असूण्या तथाभिधानात्` इति। इह खल्विदानीं `अस्स्व सुस्थण्डिलः` इत्येवम्प्रकारं वाक्यं यस्मादसूयया प्रयुज्यते, तस्माद्वाक्यार्थस्यैवावक्षेपणम्। `सुतृणेषु` इति। अत्र गुणोद्भावनेच्छयाभिधानम्, नासूयया। तेनावक्षेपणं नास्ति, पूजैव तु विद्यते॥", "62196": "`उत्पुच्छः` इति। पुच्छशब्दः `नब्विषयस्य` (फि।सू।2।26) इत्याद्युदात्तः। `सेयमुभयत्र विभाषा भवति` इति। यदोत्पुच्छशब्दोऽच्प्रत्ययान्तो न भवति तदा समासान्तोदात्तत्वम्। यदा समासान्तोदात्तत्वापवादः `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदस्याव्ययस्य प्रकृतिस्वरः, तदा तेनाप्राप्तेस्मिन्नन्तोदात्तत्वे विभाषेयम्। यदा तु पुच्छमुदस्यतीत्यस्यार्थस्य विवक्षायां <<पुच्छभाण्डचीवराण्णिङ्>> [[3.1.20]] ति णिङं विदाय तदन्तादुत्पुच्छयतेः पचाद्यचि कृते उत्पुच्छ इत्येतच्छपब्दरूपं भवति, तदा थाथादिस्वरेण [[6.2.143]] नित्यमन्तोदात्तत्वे प्राप्तेऽयं विकल्पः। तेन प्राप्ते विभाषेयम्। `उदस्तं पुच्छमस्योत्पच्छः` इति। बहुव्रीहिप्रकृतिस्वर एव भवति॥", "62197": "`द्वित्रिभ्याम्` इति। दिग्योगलक्षणा [[2.3.29]] पञ्चमी। `पाद्दन्मूर्धसु` इति। `यस्य च भावेन भावलक्षणम्` [[2.3.37]] इति भावलक्षणा सप्तमी। बहुव्रीहीः कार्यी। अत आह -`द्वि त्रि इत्येताभ्याम्` इत्यादि। `द्विपात्, त्रिपात्` इति। <<पादस्य लोपोऽहस्त्यादिभ्यः>> [[5.4.138]] , <<संख्यासुपूर्वस्य>> [[5.4.140]] इत्यकारलोपः। पादशब्दो घञन्तत्वादाद्युदात्त इति पाच्छब्दश्चाद्युदात्तः एव भवति। `द्विदन्` इति। `वयसि दन्तस्य` [[5.4.141]] इति दत्रादेशः। दन्तशब्द आद्युदात्त इत्युक्तम्। तेन दत्रादेशोऽपि स्थानिवद्भावेनाद्युदात्त एव भवति। `द्विमूर्धा` इति। मूर्धशब्दः `आन्नुक्षन्पूषन्प्लीहन्` (द।उ।6।55) इत्यादिना रन्प्रत्ययान्तो निपात्यते। तेनाद्युदात्तः। `मूर्धन्` इत्यादि। <<द्वित्रिभ्यां ष मूर्ध्नः>> [[5.4.115]] [`षो` इति मु। पाठः] इति षः समासान्तः प्राप्नोति, स न कृतः। तेनात्र नान्त एव मूर्धशब्दः। किं पुनः कारणमकृतसमासान्त एव मूर्धञ्शब्द उपात्तः? इत्यात आह -`तस्य` इत्यादि। यदि कृतसमासान्त उपादीयेत तदा सत्येव समासान्तेऽन्तोवात्तत्वं स्यात्, असति न स्यात्। तस्मादसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यादित्येतत्? प्रयोजनमकृतसमासान्तनिर्देशस्य। ननुच नित्यमेव समासन्तेन भवितव्यम्, तत्? कुतस्तस्यासत्त्वम्? इत्यत आह -`एतदेव` इत्यादि। यदिदमस्य प्रयोजनस्य सम्पादनारथमकृतसमासान्तस्य मूर्धन्शब्दस्योपादनाम्, एतदेव ज्ञापकम् -अनित्यः समासान्तो भवतीति। तेन द्विमूर्धत्यादिप्रयोग उपपन्नो भवति। यदि तह्र्रकृतसमासान्त इह मूर्धन्शब्द उपात्तः, एवं सति यदा समासान्तः क्रियते तदान्तोदात्तेन न भवितव्यम्। कृतसमासान्तस्य शब्दान्तरत्वादित्यत आह -`यद्यपि` इत्यादि। इह हि बहुव्रीहिः कार्यी, तदेकदेशित्वं च समासान्तस्य। एकदेशोऽस्यासतीत्येकदेशी, स बहुव्रीहिरेकदेशी यस्य समासान्तस्य स तदेकदेशी, तद्भावसतदेकदेशित्वम्। एतेन बहुव्रीह्रवयवत्वं समासान्तस्य दर्शयन्? कृतसमासान्तस्य शब्दान्तरत्वं निरस्यति। तदेवं यस्मादिह बहुव्रीहिः कार्यी तदेकदेशित्वञ्च समासान्तस्य, तस्माद्यदापि समासान्तः क्रियते तदापि पक्षेऽन्तोदात्तत्वं भवत्येव। `कल्याणमूर्धा` इति। कल्याणशब्दः `नब्विषयस्य` (फि।सू।2।26) इत्याद्युदात्तः। `द्वयोर्मूर्धा` इति। अत्र नित्यमेव समासान्तोदात्तत्वं भवति॥", "62198": "`सक्थमिति` इति। `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच्` [[5.4.113]] इत्यनेन षच्? समासान्तो यस्य स सक्यिशब्दोऽत्र गृह्रते। `अक्रान्तात्` इति। क्रशब्दो अन्तो यस्य सः क्रान्तः। न क्रान्तोऽक्रान्तः। `गौरसक्यः` इति। गौरशब्दः प्रज्ञाद्यणन्तत्वादन्तोदात्तः। `श्लक्ष्णसक्थः` इति। `कृत्यशूभ्यां क्स्नः` (द।उ।5।49) इति प्रकृते `श्लिषेरच्चोपधायाः` (द।उ।5।51) क्स्नप्रत्ययान्तः श्लक्ष्मशब्दः। तेनान्तोदात्तः। `चक्रसक्थः` इति। `करोतेः किन्? द्वे च` (द।उ।8।103) [`करोतेद्र्वे च` -द।उ।] इति चक्रशब्द आद्युदात्तः॥", "62199": "`परशब्देनात्र सक्थशब्द एव गह्रते` इति। प्रत्यसत्तेः, स हि पूर्वसूत्रे सन्निहितत्वात्? प्रत्यासन्नः। यद्येवुम्, परशब्दग्रहणमनर्थकम्, सक्थशब्द एव ह्यत्रानुवर्त्तिष्यते? नैतदस्ति; बहुव्रीहिग्रहणप्यत्रानुवर्तत इति तस्याप्याद्युदात्तत्वमाशङ्क्येत। `अञ्जिसक्थम्` इति। अञ्जिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। अथाप्यञ्जशब्दाग्मत्वर्थ इनिः क्रियते, एवमप्यन्तोदात्त एव। `लोमशसक्थम्` इति। <<लोमादिपामादिपिच्छादिभ्यः शनेलचः>> [[5.2.100]] इति शप्रत्ययान्तत्त्वाल्लोमशशब्दोऽन्तोदात्तः। `ऋजुबाहुः` इति। `कुभ्र्रश्च` (द।उ।1।107) इत्यधिकृत्य `अर्जिदशिकम्यमिपशिबाधामृजिपसितुग्धुग्दींर्घहकाराश्च` (द।उ।1।112) इति कुप्रत्ययान्तौ ऋजुबाहुशब्दौ। तेनान्तोदात्तौ। `वाक्पतिश्चित्पत्तिः` इति। षष्ठीसमासावेतौ। अत्रोत्तरपदमाद्युदात्तं भवति; बहुलग्रहणात्। विभाषाग्रहणे हि प्रकृते बहुलग्रहणेन यत्? सिध्यति तद्दर्शनार्थमुपन्यस्तः।`व्यत्ययो बहुलं ततः` इति। यत एवं बहुलग्रहणेनानेन कार्य सिध्यति, तेन व्यत्ययो बहुलं भवति। ननु च पूर्वमेव स्वराणां व्यत्ययो विहितः? सत्यमेतत्; तस्यैव तु प्रपञ्चोऽयम्। `परादिरुदाहृतः` इति। वाक्पतिश्चित्पत्तिरिति। अत्र च परग्रहणेनोत्तरपदमुक्तम्। `अन्तोदात्तप्रकरणे` इति। `अन्तः` <<थाथघञ्क्ताजबित्रकाणाम्>> [[6.2.144]] इत्यादौ। `पूर्वपदान्तोदात्तप्रकरणे` इति। `अन्तः` [[6.2.92]] , `सर्वं गुणकात्र्सन्ये [[6.2.93]] इत्यादौ। `पूर्वपदाद्युदात्तप्रकरणे` इति। आदिरुदात्तः -`सप्तमीहारिणौ धम्यऽहरणे` [[6.2.65]] इत्यादौ। `एवमादि सर्व संगृहीतं भवति` इति। बहुलग्रहणेन। यतस्तेन विभाषाग्रहणे प्रकृते बहुलग्रहणं कृतमित्यभिप्रायः। त्रिचक्रादीनां पूर्वमेव पूर्वोत्तरपदस्वर उक्त इति पुनरिह नोच्यते॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायां षष्ठाध्यायस्य द्वितीयः पादः॥- - -अथ षष्ठोऽध्यायःतृतीयः पादः", "63001": "`स्तोकान्मुक्तः, अल्पान्मुक्तः` इति। `करणे स्तोकाल्पकृचछ्रकतिपयस्यासत्ववचनस्य` [[2.3.33]] [`करणे च` -पा।सू।] इति पञ्चमी, <<स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन>> [[2.1.39]] इति समासः। ननु च <<वनं समासे>> [[6.2.178]] इत्यतः समासगरहणमनुवर्तिष्यते, समासे च नियतं सन्निहितमुत्तरपदम्, अतोऽन्तरेणाप्युत्तरपदग्रहणमुत्तरपदं लभ्यत इत्यभिप्रायेणाह -`उत्तरपदमिति किम्` इति। `निःस्तोकः` इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या` (वा।94) इति प्रादिसमासः। एवं मन्यते -असत्युत्तरपदग्रहणे समासे ये स्तोकादय उत्तरपदभूताः पूर्वपदभूता वा, तेभ्य उत्तरस्याः पञ्चभ्या अलुग्भवतीत्येतावन्मात्रं लभ्यते, न तूत्तरपदे परतो ये स्तीकादय इत्येष विशेषः। ततश्च निःस्तोक इत्यत्राप्यलुक्? स्यात्। भवति ह्यत्रापि समासवर्तिनः स्तोकादेः शब्दादुत्तरा पञ्चमीति। नन्वेवमपि न कर्तव्येमेवोत्तरपदग्रहणम्, लक्षणप्रतिपदोक्तपरिभाषया(व्या।प।3) प्रतिपदं `स्तोकादिभ्यः करणे च` [[2.3.33]] इत्यादिसूत्रेण या पञ्चमी विहिता, तस्या एव ग्रहणम्। नतु <<अपादाने पञ्चमी>> [[2.3.28]] इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता, तस्या एव ग्रहणम्। न तु <<अपादाने पञ्चमी>> [[2.3.28]] इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता त्सयाः। अवश्यञ्च सलक्षमप्रतिपदोक्तपरिभाषाऽश्रयितव्याः; अन्यथा हि स्तोकादपेतः स्तोकापेत इत्यत्राप्यलुक्, स्यात्, एवं सति निःस्तोक इत्यत्रालुक्प्राप्तिरेव नास्ति, न ह्यत्र स्तोकशब्दात्? प्रतिपदिविहिता पञ्चमी, किं तर्हि? सामान्यलक्षणविहिता। तत किं तन्निवृत्त्यर्थेनोत्तरपदगरहणेन? इत्याह -`अन्यार्थम्` इत्यादि। आनङाद्यर्थमिदमुत्तरपदगरहणम्। असति चैतस्मिन्? <<आनङ् ऋतो द्वन्द्वे>> [[6.3.25]] इत्यानङ्, `होतापातृभ्याम्` इत्यत्र यथा पूर्वपदस्य भवति, तथोत्तरपदस्यापि स्यात्। तथा <<इको ह्रस्वोऽङ्यो गालवस्य>> [[6.3.61]] इति ह्रस्वो यथेह भवति -`ग्रामणिपुत्रः` इति, तथेहापि स्यात् -`ग्रामणीः` इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्, तदा `ह्रस्वो यथेह भवति -`ग्रामणिपुत्रः` इति, तथेहापि स्यात् -`ग्रामणीः` इति। ननु यद्यनुत्तरपदेऽपि ह्रस्वः स्यात्, तदा `ह्रस्वो यथेह भवति -`ग्रामणिपुत्रः` इति, तथेहापि स्यात् -`ग्रामणीः` इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्, तदा `ह्रस्वो नपुंसके प्रातिपदिकस्य` इति, तथेहापि स्यात्, `ग्रामणीः` इति। ननु यद्यनुत्तरपदेऽपि ह्रस्वः स्यात्, तदा `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्? नानर्थकम्; अनिगन्तार्थत्वान्नित्यार्थत्वाच्च। किञ्च, असत्युत्तरपदग्रहणे कृतम्। यद्येवम्, यदर्थमिदं तद्विधावेव कर्तव्यम्, इह किमर्थ क्रियते? इत्याह -`इहाप्यलुको निवृत्तिम्` इत्यादि। इतिकरणो हेतौ। अन्यार्थं तावदवश्यमिदमुत्तरग्रहणम्। इह तु क्रियमाणे सत्ययं विशेषः -निःस्तोक इत्यतराप्यलुग्? निवृत्तः क्रियते। तेन लक्षणप्रतिपदोक्तपरिभाषा(व्य।प।3) नाश्रयितव्या भवति। अथ कुतः प्रातिमावधिकारौ? इत्याह -`अलुगधिकारः` इत्यादि। विधेयान्तरं विधेयान्तरस्य निवर्तकं भवतीत्यानङ्? विधीयमान उततरपदेऽलुकं निवर्तयति, तस्मात् -`अलगधिकारः प्रागानङः`। उत्तरपदाधिकारः `प्रागङ्गाधिकारात्` इति। उत्तरपदे परतो यत्? कार्यं वीधीयते तस्य सम्बन्धिशब्दत्वात्? पूर्वपदं विधिभाक्। अतोऽङ्गं विधिभाक्त्वेन विज्ञायमानमुत्तरपदाधिकारं निवर्तयति। अङ्गस्य हि यत्? कार्यं तत्? प्रत्यये परतो विधीयते, नोत्तरपदे। न ह्रुत्तरपदेऽङ्गसंज्ञा भवति। अथ वा -उत्तरपद इति सप्तमीनिर्देशादनन्तर एवोत्तरपदे भवितव्यमानङा। यदि चात्र विभक्तेरलुक्? स्यात्? तदा व्यवधानादानन्तर्य न स्यात्। न च व्यवधानेऽपि वचनसामर्थ्यादानङ्स्यादिति शक्यते परिकल्पयितुम्। एवं हि <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति निर्दिष्टग्रहणमानन्तर्यार्थ बाध्येत, अनिष्टं च रूपमापद्येत। न चानिष्टार्था शास्त्रे प्रकॢपतिर्युक्ता। तस्मादलुगधिकारः प्रागानङः। अङ्गस्य प्रत्यये परतोऽभावादुत्तरपदे परतस्तन्न भवत्येव, अत उत्तरपदाधिकारः प्रागङ्गाधिकारात्॥", "63002": "स्तोकादय इति प्रातपदिकगणेषु न पठन्ते। तस्मात्? सूत्रपरिपठिता एवेह ग्रहीतव्या इति दर्शयन्नाह -`स्तोकान्तिकदुरार्थकृच्छ्राणि` इत्यादि। अथ `करणे` च` [[2.3.33]] इत्यादौ सूत्रे ये परिपठिताः स्ताकादयस्ते कस्मान्न गृह्यन्ते? एवं मन्यते -`ङसेः स्तोकादिभ्यः` इति वक्तव्ये `पञ्चम्याः` इति बहुतराक्षरनिर्देशेनैतत्? सूचितम् -येषु स्ताकादिषु गृह्रमाणेषु बहुतरलक्ष्यसंग्रहो भवति ते ग्रहीतव्याः` इति। स्तोकान्तिकदूरार्थकृच्छ्राणीत्येतेष्वेव [`दूरार्थ` इति नास्ति मुद्रिते न्यासपाठे] गृह्रमाणेषु बहुतरलक्ष्यसंग्रहो भवति, तत्रार्थग्रहणात्; न त्वितरेषु। तस्मादेषामेव ग्रहणं न्याव्यमिति। कथं पुनरत्र लुक्? प्राप्नोति, यस्मिन्? प्राप्ते प्रतिषेधोऽयं क्रियते? इत्याह -`समासे कृते` इत्यादि। समासे कृते सति तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकत्वम्, अतः <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुपो लुकि प्राप्ते प्रतिषेधोऽयमुच्यते। किं पुनः कारणमेकवचनान्तानां स्तोकादीनामलुगुदाह्यियते, न द्विवचनबहुवचनान्तानाम्? इत्याह -`द्विवचनबहुवचनान्तानाम्` इत्यादि। वृत्तौ हि विशेषणपदान्येकत्वादिकां संख्यां विहायाभेदैकत्वसंख्यां प्रतिपद्यन्ते। सा पुनः सख्यानमात्रमनुपात्तसंख्याविशेषं सामान्यभूतम्; यत एवमतो विवक्षितार्थानभिधानादद्विवचनबहुवचनान्तनां समासो न भवत्येव। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। `तेन` इत्यादि। यत एवं द्विवचनबहुवचनान्तानां स्तोकादीनां समासो न भवति, तेन स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्त इत्यत्र न कदाचिदैकपद्यमैकस्वर्य च भवति। स्तोकाभ्यामित्यस्माद्धि पदान्मुक्त इत्येतत्? पदमन्यदेवात्यन्तभिन्नम्, तथा स्तेकेभ्य इत्यस्मान्? मुक्त इत्येतत्। स्वरोऽप्यत्रानेक एव। तथा हि -`स्तोकाभ्याम्` इत्येतत्? प्रातिपदिकस्वरेम मध्योदात्तम्, `मुक्तः` इत्येतत्? प्रत्ययस्वरेणान्तोदात्तम्। एवम्? `स्तोकेभ्यो मुक्तः` इत्यत्रापि नानास्वरता वेदितव्या। मूलोदाहरणे तु समासे सत्येकपद्यं भवति, स्वरोऽप्येक एव। तथा हि -थाथादि [[6.2.143]] सूत्रेणात्रान्तोदात्तत्वम्। यदि द्विवचनबहुवचनान्तानां समासो न भवतीह तर्हि कथं भवति -गोषुचरः वर्षासुज इति? विवक्षितार्थाभिधानात्। अनभिधानं ह्रसमासे हेतुरुक्तः, इह तु विवक्षितार्थस्यार्थस्य बहुवचनस्याभिधानमस्त्येव। यत्र ह्रभेदैकत्वसंख्योपजायते, तत्र संख्याविशेषस्याभिधानं न भवति, न चात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिदानादभेदैकत्वसंख्या नोपपद्यते। तथा हि -गोषुचर इत्यत्र गोशब्दोऽप्सु वर्तते, स चापोऽभिदधानो बहुत्वसंख्याविशिष्ट एवाभिदधाति, अप्शब्दवत्। वर्षासुज इति -वर्षाशब्दोऽपि कालविशेषे बहुत्वसंख्याविशिष्ट एव वर्तते। अतः प्रापिपदिकेनैव बहुत्वसंख्याया आश्रितत्वान्नात्राभेदैकत्वसंख्योपजायते। यदि तु जायेत, तदा बहुत्वसंख्या निवर्तेत, ततश्च गोशब्दस्य वर्षाशब्दस्य च यः प्रातिपदिकार्तोऽभिप्रेतः स इह न गम्येत। तस्मान्माभूद्गोशब्दवर्षाशब्दयोरभिप्रेतस्यार्थस्यानवगतिरिति नात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिधानाद् गोषुचरः, वर्षासुज इत्यत्र भवत्येव समासः। `ब्राआह्रणाच्छंसिन उपसंख्यानं कर्तव्यम्` इति। ब्राआहृणाच्छंसीति योऽयं शब्दस्तस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। किं पुनरत्र न सिध्यति? पञ्चमीति। ब्राआहृणशब्देनात्राध्ययनविशेष उच्यते, तं शंसति=कथयति यः सः ब्राआहृणाच्छंसीति ताच्छिलिको णिनिः। अत्र ब्राआहृणशब्दात्? <<कर्मणि द्वितीया>> [[2.3.2]] इति द्वितीयायां प्राप्तायां पञ्चम्युपसंख्येया। अलुक्पुनः <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इत्येव सिद्धः। यदा तु ब्राआहृणादाकृष्यावयवमर्थं वा शंसतीति विवक्ष्यते, तदा पञ्चम्यपि नोपसंख्येया। <<अपादाने पञ्चमी>> [[2.3.28]] इत्येवमेव तस्याः सिद्धत्वात्। कथं पुनरत्रासता पञ्चम्यर्थेन व्युत्पत्तिः क्रियते? इत्याह -`क्रत्विग्विशेष` इत्यादि। रूढिः=प्रसिद्धिः, संज्ञेति यावत्। तस्या इत्यनेन रूढिमात्रं प्रत्यवमृश्यते, न तु ब्राआहृणाच्छंसीत्ययं रूढिशब्दः। रूढिशब्दः कस्याचिदेव ऋत्विग्विशेषस्य वाचकः, तत्रैव तस्य संज्ञात्वेन प्रणीतत्वात्। तस्मात्? तस्याप्यसता सता वावयवार्थेन व्युत्पत्तिः क्रियते। तत्र यदि ब्राआहृणं शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्यापादानस्याभावादसतावयवार्थेन व्युत्पत्तिः क्रियते। यद#आ तु ब्राआहृणादवयबार्थं वा गृहीत्वा शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्य भावात्? सता॥", "63003": "ओजसाकृतमित्यादौ <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इत्यनेन समासः। `अञ्जस उपसंख्यानम्` इति। अञ्जस उत्तरस्यास्तृतीयाया अलुक्? उपसंख्यानम्=प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -<<आज्ञायिनि च>> [[6.3.5]] इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाञ्जःशब्दादुत्तरस्यास्तृतीयाया अलुग्भवतीति। अन्यदपि चात्र प्रत्पादनमुत्तरत्र करिष्यामः।`पुंसानुजः` इत्यादि। पुंसानुजो जनुषान्ध इत्यत्रापि तृतीयाया अलुक्प्रतिपादनं कर्तव्यमित्यर्थः। प्रतिपादनं पूर्ववत्। पुंसा हेतुनानुजः पुंसानुजः। जनुषा हेतुना अन्धः जनुषान्धः। `तृतीया` [[2.1.30]] इति योगविभागात्? समासः। जनुरिति जन्मनो नामधेयमेतत्॥", "63004": "", "63005": "`मनसाज्ञायी` इति। तच्छिलिको णिनिः, `आतो युक्? चिण्कृतोः` [[7.3.33]] इति युगागमः, उपपदसमासः॥", "63006": "पूरणगरहणिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति। तेन पूरणग्रहणधिकृत्य पूरणग्रहणमधिकृत्य पूरणप्रत्यया विहितास्त एव पूरणग्रहणेन गृह्यन्ते, न तु स्वरूपम्। `उत्तरपदे` [[6.3.1]] इत्यनुवर्तते च, ततः प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) पूरणप्रत्ययान्त उत्तरपदे कार्यं विज्ञायत इत्यालोच्याह -`पूरणप्रत्ययान्त उत्तरपदे` इत्यादि। `पञ्चमः` इति। पञ्चानां पूरणः <<तस्य पूरणे डट्>> [[5.2.48]] इति डट्, तस्य <<नान्तादसंख्यादेर्मट्>> [[5.2.49]] । `षष्ठः` इति। षण्णां पूरण इति <<षट्कतिकतिपयचतुरां थुक्>> [[5.2.51]] , ष्टुत्वम्। `आत्मनापञ्चमः` इत्यादौ केन तृतीया, न ह्यत्र करणादिस्तृतीयार्थोऽस्ति, करणादि हि कारकम्, क्रियायाश्च कारक्रं भवति, न चेह काचित्? क्रिया विद्यते? इत्याह -`तृतीयाविधाने` इत्यादि। भवत्वेवम्, तृतीयासमासास्तु कथम्, न ह्यत्र समासलक्षणमस्ति? इत्यत आह -`तृतीयाविधाने` इत्यादि। भवत्वेवम्, तृतीयासमासस्तु कथम्, न ह्यत्र समासलक्षणमस्ति? इत्यत आह -`तृतीयेति च` इत्यादि। अथ वा -<<कर्तृकरणयोस्तृतीया>> [[2.3.18]] इत्यनेनैवात्र तृतीया, <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समास इति दर्शयन्नाह -`आत्मना वा` इत्यादि। अत्र कर्तर करणे वैषा तृतीया -कृतः पञ्चम इति। कृते समासे कृतशब्दो न प्रयज्यते; तदर्थस्य वृत्तावन्तर्भावात्। `कथम्` इत्यादि। अत्राप्यात्मना चतुर्थ इति भवितव्यमिति भावः। `बहुव्रीहिरयम्` इत्यादि परिहारः। तत्पुरुषे ह्रात्मनाचतुर्थ इति स्यात्, न चायं तत्पुरुषः। किं तर्हि? बहुव्रीहिः। स च प्रथमान्तयोरेव पदयोरिति न भवत्यनिष्टप्रसङ्गः। ननु चान्यपदार्थे बहुव्रीहिरुच्यते, अन्यपदार्थश्च व्यतिरिक्तो भवति। यथा चित्रा -गावो यस्य सः चित्रगुरिति, न चेह कश्चिद्व्यतिरिक्तोऽन्यपदार्थोऽस्ति? नैष दोषः; अव्यतिरक्तोऽप्यन्यपदार्थो भवति वयपदेशिवद्भावेन। यथा -शोभनशरीरः शिलापुत्रक इति॥", "63007": "", "63008": "", "63009": "`युधिष्ठिरः` इति। <<संज्ञायाम्>> [[8.2.11]] इति समासः, <<गवियुधिभ्यां स्थिरः>> [[8.3.95]] इति षत्वम्। अथ गविष्ठिर इत्यत्र कथमलुक्, न हि गोशब्दो हलन्तः, नाप्यदन्तः? स्यादेतत् -गो+इ+स्थिर इति स्थितेऽन्तरङ्गत्वादवादेशे कृते हलन्तत्वाद्भविष्यति, एतच्च नास्ति; यतः `अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते` (व्या।प।128) इति, अवश्यं चैतदभ्युपेयम्; अन्यथा हि नद्यां कुक्कुटिका नदीकुक्कुटिक, भूम्यां पाशो भूमिपाश इत्यत्रापि यणादेशे कृतेऽलुक्? प्रसज्येत? इत्यत आह -`गविष्ठिर इत्यत्र तु` इत्यादि। `ह्मद्द्युभ्याम्` इति। असंज्ञार्थमिदम्। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं चोत्तरत्र करिष्यते। अथ वेहापि क्रियते -इहान्तग्रहणं न कर्तव्यम्, विनापि तेन सपतम्या प्रातिपदिके सन्निधापिते हलदन्तता लभ्यत एव, तसमादधिकमिहान्तग्रहणं क्रियते, तदधिकं क्रियमाणमेतत्? सूचयति -अधिकेनायमलुग्भवतीति। तेन क्वचिदसंज्ञायामलुग्भवतीति। `ह्मदिस्पृग्दिविस्पृक्` इति। <<स्पृशोऽनुदके क्विन्>> [[3.2.58]] `क्विन्प्रत्ययस्य कुः` [[8.2.62]] ति शकारस्य खकारः, तस्य <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् -गकारः, तस्यापि <<वाऽवसाने>> [[8.4.56]] इति चर्त्वम् -ककारः। अत्र चायमर्थः -ह्मदयं स्पृशति, दिवं स्पृशतीति। तथा हि भाष्ये उक्तम् -`द्वितीयार्थे सप्तमी चैषा द्रष्टवया, ह्मदयं स्पृशति, दिवं स्पृशतीति `ह्मविस्पृक्, दिविस्पृक` इति। कथं पुनः द्वितीयार्थे सा भवति? अत एव भाष्यकारवचनात्। अथ वा -ह्मदयं यः स्पृशति स ह्मदये स्पृशत्येव, दिवं यः स्पृशति स दिवि स्पृशत्येव अत्र `अधिकरणे` [[2.3.36]] इत्येवं भविष्यति सप्तमी। आख्याग्रहणे प्रकृते पुनः संज्ञाग्रहणं विस्पष्टार्थम्॥", "63010": "वणिग्भिः कर्षकैः पशुपालैश्च राज्ञे देयो भागो रक्षानिबन्धनः=कारः, तस्य नाम कारनाम। `कूपेशाणम्` इत्यादौ `र्संज्ञायाम्` [[2.1.43]] इति समासः। `हलेद्विपदिका` इति। द्वौ द्वौ पादौ देयौ द्विपादिका, `पादशतस्य` [[5.4.1]] इत्यादिना वुन्, अलोन्त्यलोपश्च, <<पादः पत्>> [[6.4.130]] इति पदादेशः। `कारविशेषस्य` इत्यादिनास्य सूत्रस्य नियमार्थतां दर्शयति। नियमविकल्पाः -नियमविशेषा इत्यर्थः। `कारनाम्नि च` इत्यादिना तेषां नियमविकलपानां स्वरूपं दर्शयति। एते च नियमविकल्पाः कारनाम्नि, प्राचाम्, हलादावित्येषां पदानामिह नियमवाक्य उपादानाललभ्यन्ते। यद्याद्यो नियमो नाभिप्रेतः स्यात्? तदा `कारनाम्नि` इति न ब्राऊयात्। एवं यदि द्वितीयो नियममो नाभिप्रेतः स्यात्? तदा `प्राचाम्` इत्येवं नोक्तं स्यात्। तथा यदि तृतीयो नियमो नाभीष्टः स्यात्? `हलादौ` इत्येवं नोक्तं स्यात्। अथ किमर्थं नामग्रहणम्, न पूर्वयोगात्? संज्ञाग्रहणमनुवर्तते? पूर्वयोगे संज्ञाया उपाधेः प्रायिकत्वसूचनार्थं नामग्रहणम्। तेन ह्मदिस्पृक्, दिविस्पृगित्यत्रासंज्ञायामप्यलुक्सिद्धो भवति॥", "63011": "`अन्ताच्चेति वक्तव्यम्` इति। अन्तशब्दाच्चोत्तरस्याः सप्तम्या अलुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वयोगाच्चकारोऽनुवर्तते, स चानुक्तसमुच्चार्थः। तेनान्तशब्दादप्युत्तरस्याः सप्तम्या अलुग्भवतीति॥", "63012": "स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं यत्? तदिह गृह्रते। `कण्ठेकालः` इति बहुव्रीहिः। `व्यधिकरणानामपि `बहुव्रीहिर्भवत्येव` इति बहुव्रीहिः। `समानाधिकरण` (वा।97) इत्येतत्? प्रायकम्। `अक्षशौण्डः` इति। <<सप्तमी शौण्डैः>> [[2.1.40]] इति समासः। `अङ्गुलित्राणजङ्घावलो` सप्तमीतत्पुरुषौ॥", "63013": "`स्वाङ्गात्` [[6.3.11]] इति निवृत्तम्, सामान्येन विधिः। `बन्धे` इति। बध्नातेरेतद्रूपम्। <<नेन्सिद्धबध्नातिषु>> [[6.3.19]] इत्यनेन तत्पुरुषे बध्नातौ प्रतिषेधं वक्ष्यन्ति। तत्र विषयविभागो न ज्ञायते -तत्पुरुषे क्व च प्रतिषेधः? इत्यतस्तत्परिज्ञानार्थमाह -`बन्ध इति धञन्तो गृह्रते` इति। बन्धनं बनधः, भावे घञ्। अनेन धञन्ते बध्नातौ विभाषा। प्रत्ययान्तरे तु प्रतिषेध इति दर्शितं भवति। कथं पुनज्र्ञायते -घञन्तोऽयमिति? आद्युदात्तत्वात्। `हस्तेबन्धः` इति। तत्पुरुषः, बहुव्रीहिर्वा। `उभयत्र` इति। प्राप्ते चाप्राप्ते च कथं पुनरुभयत्र विभाषेयम्? इत्याह -`स्वाङ्गाद्धि` इत्यादि॥", "63014": "`स्तम्बेरमः, कर्णेजपः` इति। `स्तम्बकर्णयो रमिजपोः` [[3.2.13]] इत्यच्, `उपपदमितङ्` [[2.2.19]] इति तत्पुरुषः। `कुरुचरः, मद्रचरः` इति। <<चरेष्टः>> [[3.2.16]] विभाषायां प्रकृतायां बहुलग्रहणं क्वचित्प्रवृत्त्यादीनामर्थानां संग्रहार्थम्। तेनालुक्प्रवृत्तिः क्वचिदेव भवति -`स्तम्बेरमः` इत्यादौ। क्वचिदप्रवृत्तिरेव -`कुरुचरः` इत्यादौ। क्वचिदुभयम् -`सरजिम्, सरोजम्` इत्यादौ। क्वचिदन्यदेव -`ब्राआहृणाच्छंसी` इत्यादौ। सप्तम्या अलुगुक्तः पञ्चम्या अपि भवति। तथा कृदन्त उत्तरपदेऽलुगुक्तस्तद्धितेऽपि भवति -अप्सु भवोऽप्सव्य इति। दिगादित्वाद्यत् -<<ओर्गुणः>> [[6.4.146]] इति गुणः, <<वान्तो यि प्रत्यये>> [[6.1.79]] इति वान्तादेशः।तदेवं सर्वत्र बहुलग्रहणेन सिद्धमिति `ब्राआहृणाच्छंसिन उपसंख्यानम्` (वा।716) इत्यादि। यदुक्तम्, यच्च वक्ष्यते -`अपोयोनियन्मतुषु सप्तम्या अलुक्` (वा।721) इत्यादि, तत्? सर्व न वक्तव्यं भवतीति। यद्येवम्? स्तोकान्मुक्त इत्यादपि सर्वमनेनैव सिद्धमिति `पञ्चम्याः स्ताकादिभ्यः` [[6.3.2]] इति न वक्तव्यं भवति? सत्यमेतत्; अस्यैव प्रपञ्चार्थं तद्वेदितव्यम्। एवञ्च सति सुसंगृहीतं लक्ष्यं भवति। तथा चाह -त एव विषयाः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च॥", "63015": "`प्रावृषिजः` इति। <<सप्तम्यां जनेर्डः>> [[3.2.97]] , `टेः` [[6.4.143]] इति टिलोपः, `अपपदमतिङ` [[2.2.19]] इति समासः॥", "63016": "", "63017": "`घ` इति तरपतमपोर्गहणम्, `काल` इति कालवाचिनः शब्दस्य, `तन` इति टउटउलोरनादेशस्य सतुट्कस्य। `पूर्वाह्णेतराम्` इति। अह्नः पूर्वमिति विगृहय `पूर्वापर` [[2.2.1]] इत्यादिनैकदेशिसमासः। `राजाहः - सखिभ्यष्टच्` [[5.4.91]] इति टच्? समासान्तः, `अह्नोऽहन एतेभ्यः` [[5.4.88]] इत्यह्नादेशः। `अह्नोऽदन्तात्` [[8.4.7]] इति णत्वम्। अस्मश्च पूर्वाह्णे अस्मश्च पूर्वाह्णे, अस्मिस्त्वनयोरतिशयेन पूर्वाह्णे पूर्वाह्णेतर इति। `द्विवचन` [[5.3.57]] इत्यादिना तरप्। `पूर्वाङ्णेतमाम्` इति। `अतिशायने` [[5.3.55]] इत्यादिना तमप्, <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रादिपदिकत्वे सति सुब्लुक्? प्राप्तः पक्षे प्रतिषिध्यते। `पूर्वाह्णेतने` इति। `पूर्वाह्णेतरे` इत्यत्रार्थे <<विभाषा पूर्वाह्णापराह्णाभ्याम्>> [[4.3.24]] इति टउटउलौ तुडागमश्च, `युवोरनाकौ [[7.1.1]] इत्यटनादेशः। `रात्रितरायाम्` इति। अस्याञ्च रात्रावस्याञ्च रात्रावनयोरतिशयेन रात्राविति विग्रहः। ननु च `प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेस्तदन्तस्य` (पु।प।वृ।44) इति तदन्तग्रहणं भवतीति घसंज्ञकप्रत्ययान्ते तनप्रत्ययान्ते चोत्तरपदे परतोऽलुगुदाहर्तवयः, तत्? कस्मात्? प्रत्ययमात्रे स उदाहृतः? इत्याह - `उत्तरपदाधिकारे` इत्यादि। कुतः पुनरेतदित्याह - `लेखग्रहणात्` इत्यादि। <<हृदयस्य हृल्लेखयदण्लासेषु>> [[6.3.50]] इत्यत्राणो लेखशब्दस्य चाणन्तस्य भेदनोपादनम्। तत्र यद्युत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तरविधिरिष्यते तदा लेखग्रहणं न कुर्यात्; अण्ग्रहणेनैव तद्ग्रहणस्य सिद्धत्वात्, क्रियते च। तस्माल्लेखग्रहणाद्विज्ञायते - `उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नेष्यते` (पु।प।26) इति। `तेने` इति। तदन्तविधेरिहानिष्टत्वेन। `काल इति न स्वरूपग्रहम्` इति। नामग्रहणात्। तस्य ह्रेतदेव प्रयोजनम्॥", "63018": "`खेशयः` इति। <<अधिकरणे शेतेः>> [[3.2.15]] इत्यच्। `ग्रामेवासः` इति। वसनं वासः, भावे घञ्। `ग्रामेवासी` इति। ताच्छीलिको णिनिः, व्रते वा। `पूर्वाह्णशयः` इति। ननु च स्वरूपग्रहणे सति कालशय इति प्रत्युदाहार्यम्, नैवेदं स्वरूपग्रहणम्। किं तर्हि? अर्थग्रहणम्। अत एव वृत्तावुक्तम् -`अकालवाचिनः` इति। कथं पुनरर्थग्रहणं लभ्यते? पूर्वसूत्रादिह नामग्रहणानुवृत्तेः। यद्येवम्, तदा नार्थः कालग्रहणेन <<घकालतनेषु कालनाम्नः>> [[6.3.17]] इत्येतदनुवर्तिष्यते, तस्य च नञा सह सम्बन्धं करिष्यामः -कालनाम्नो नेति, तत्रायमर्थः -`नेन्सिद्धबध्नातिषु च` [[6.3.19]] [`नेन्सिद्ध` इति प्राचीनमुद्रितपाठः] इत्यत्र नेति वक्तव्यं न भवति, नेत्येतदेव ह्रनुवर्त्तिष्यते? नैवं शक्यम्; `न शयवासवासिषि` इत्युच्यमाने ह्रलुक एवायं प्रतिषेधो विज्ञायेत, तस्यात्र विधेयतया प्रस्तुतत्वात्। तस्मात्? कालस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं कालग्रहणं कर्तव्यम्। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्॥", "63019": "<<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति प्राप्तस्यालुकोऽयं प्रतिषेधः। `इन्नन्त उत्तरपदे` इति। ननु च `उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नष्यते` (पु।प।26) इति ज्ञापितमेतत्, तत्कथमिह तदन्तमुत्तरपदं गृह्रते? सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्। द्विविध एव हीन्प्रत्ययः - कृत्? तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्। द्विविध एव हीन्प्रत्ययः - कृत्? तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परः सम्भवति। तद्धितोऽपि नैव कश्चित्? सप्तमीसमर्थादुत्पद्यत इत्यसावपि नैव सप्तम्याः परः सम्भवति। तस्मादिन्नन्तमेव गृह्रत युक्तमुक्तमेतत्। `स्थण्डिलवर्ती` इति। `व्रते` [[3.2.80]] इति णिनिः; <<उपपदमतिङ्>> [[2.2.19]] इति समासः। `साङ्काश्यसिद्धः` इति। <<सिद्धशुष्कपक्वबन्धैश्च>> [[2.1.41]] इत्यादिना समासः। `चक्रबद्धः` इति। बद्धशब्दो निष्ठान्तः, `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः। बन्धशब्देन `चक्रबन्धः` इति। `सिद्ध` [[2.1.40]] इत्यादिना समासः। `तत्? पचाद्यचप्रत्ययान्तं द्रष्टव्यम्` इति। अथ बन्ध इत्येतच्छब्दरूपं घञन्तं कस्मान्न गृह्रते? इत्याह `घञन्ते हि` इत्यादि॥", "63020": "अयमपि `तत्पुरुषे` [[6.3.13]] इत्यादिना प्राप्तस्यालुकः प्रतिषेधः। `समस्थः` इति। समे तिष्ठतीति कः <<आतो लोप इटि च>> [[6.4.64]] इत्यकारलोपः।`कृष्णोऽस्याखरेष्ठः` [`कृष्णोऽस्याखरेष्ठा` इति मुद्रितः पाठः `कृष्णोऽस्याखरेष्ठः` काशिका मुद्रितः पाठः - वाराणसी। `कृष्णोभ्यारेष्ठः` - काशिका - सं।प।पाठः] इति। `स्थः कः च` [[3.2.77]] इति क्विप्प्रत्ययः॥", "63021": "`चौरस्यकुलम्` इति। आक्रोशप्रतिपादनपरमेतत्, न त्वनेन तस्य सम्बन्धो विवक्षितः। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। `पश्यतोहरः` इति। पश्यत इति <<षष्ठी चानादरे>> [[2.3.38]] इति षष्ठी। हरतीति हरः पचाद्यच्। `अमुष्य` इति। अदसस्त्यदाद्यत्वम्, <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्युत्त्वमत्वे, उत्त्वस्यासिद्धवात्<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति ङसः स्यादेशः। तथा `अमुष्यकुलिकेति` (इति)। यथा अमुष्यपुत्रिकेत्यत्र भनोज्ञादित्वात्? [[5.1.132]] वुञ्, तथात्रापीत्यर्थः। `देवानाम्प्रियः` इति। प्रीणातीति प्रियः, <<इगुपधज्ञाप्रीकिरः कः>> [[3.1.135]] इति कप्रत्ययः इयङादेशः। `शुनःशेपः` इति। `आयुवमघोनामतद्धिते` [[6.4.133]] इति सम्प्रसारणम्॥", "63022": "", "63023": "विद्या च योनिश्चेति विद्यायोनी, तत्कृतः सम्बन्दो येषां ते विद्यायोनिसम्बन्धाः। कृतशब्दस्य वृत्तावप्रयोगः; गम्यमानार्थत्वात्, यथा - गुडधाना इत्यत्र मिश्रशब्दस्य। `ऋतो विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणं कर्तव्यम्` इति। तदित्यनेन विद्यायोनिसम्बन्धा उभयेऽपि निर्दिश्यन्ते, तेषां पूर्वपदबूतानामुत्तरपदभूतानां च ग्रहणं कर्तव्यम्। गृह्रते येन तत्? ग्रहणम्, येन ते गृह्यन्ते तादृशं व्याख्यानं कर्तव्यमित्यर्थः। किं पुनस्तद्व्याख्यानम्? किमर्थं तत्कर्तव्यम्? इत्याह - `विद्यायोनिवाचिन्येव` इत्यादि। तत्रेदं व्याख्यानम् - इहोङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेनाचार्याणामभिप्राया लक्ष्यन्ते, `ऋतो विद्यायोनिसम्बन्धेभ्यः` इत्येष महान्? सूत्रप्रबन्धः, यदि ह्रविद्यायोनिसम्बन्धवाचिन्युत्तरपदेऽलुगभीष्टः स्यात्, एवं सत्यविद्यायोनिसम्बन्धादित्येवं ब्राऊयात्। अथ वा - सम्बन्धग्रहणमपि न कुर्यात्, न हि किञ्चिदृकारान्तं विद्यावाचि योनिवाचि वाऽसम्बन्धमस्ति, तत्रान्तरेणापि सम्बन्धग्रहणं विद्यायोनिसम्बन्धवाचिन इति विज्ञास्यते, तत्? किं सम्बन्धग्रहणेन! तदेतस्मान्महतः सूत्रप्रबन्धाद्विद्यायोनिसम्बन्धवाचिन्युत्तरपद आचार्यस्यायमलुगभीष्ट इति लक्ष्यत इति। `होतुः` इति। `ऋत उत्` [[6.1.107]] इत्युत्त्वम्, रपरत्वम्, `रात्सस्य` [[8.2.24]] इति सकारलोपः॥", "63024": "", "63025": "`ऋकारान्तानां विद्यायोनिसम्बन्धवाचिनां यो द्वन्द्वः` इत्यादि। अथ ऋकारान्तसय द्वन्द्व आनङ् भवतीत्येवं कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्; इहापि प्रसज्येत - पितृपितामहाविति। ङकारोऽन्त्यादेशार्थः। इह हि वर्णानामुपदेशः - कार्यार्थः, श्रवणार्थो वेति, नकारश्चायं न क्वचित्? श्रूयते, सर्वत्रैव ह्रस्य `नलोपः प्रातपदिकान्तस्य` [[8.2.7]] इति लोपेन भवितव्यम्, नापि किञ्चित्? कार्यमस्योपलभ्यते, तत्? किमर्थं नकारस्योच्चारणम्? इत्याह - `नकारोच्चारणम्` इत्यादि। असति नकार ऋकारस्या स्थानेऽणेव शिष्यते, ततश्च `उरण्? रपरः` [[1.1.50]] इति रपरत्वं स्यात्। नकारे तु सति नायमणेव शिष्यते, अपि तवण्? चानङ् चेति न भवति रपत्वप्रसङ्गः। न हि यत्राण्? अनण्? चेति शिष्यते तत्र रपरत्वं भवति। यथा `सुधातुरकङ्? च` [[4.1.97]] इति सौधातकिरित्यत्र। तस्मादत्र रपरत्वनिवृत्त्यर्थ नकारोच्चारणम्। अथ पितापुत्रौ, मातापुत्रौ इत्यतर कथमानङादेशः, न ह्यत्र ऋकारान्तानां द्वन्द्वः? इत्याह - `पुत्र इत्यत्रानुवर्तते` इति। <<पुत्रेऽन्यतरस्याम्>> [[6.3.22]] इत्यतः पुत्र इत्येतदत्रानुवर्तत इत्यभिप्रायः। यदि तु पुत्र इत्यनुवर्तते, तदा <<विभाषा स्वसृपत्योः>> [[6.3.24]] इत्यत्र पुत्रेऽपि विभाषा प्राप्नोति? नैष दोषः; मण्डूकप्लुतिन्यायेन तदनुवर्तते। अत एवात्रेत्युक्तं तत्रैवानुवर्तते, न पर्वत्रेति प्रतिपादनार्थम्। नन्वेवमपि पुत्रशब्द उत्तरपदे पूर्पदमात्रस्यानङ् प्राप्नति; कार्यिणेहानिर्देशादुत्तरपदशब्देन च पूर्वपदमात्रस्याक्षिप्तत्वात्, न च शक्यते वक्तुम् - ऋत इति वचनादृकारस्य भविष्यतीति, तस्मादेकमिह ऋत इति वचनं द्वन्द्वस्य विशेषणम्, न कार्यिणः? इत्याह - `ऋत इति च` इति। अत्रानुवर्तत इति सम्बन्धः। <<ऋतो विद्यायोनिसम्बन्धेभ्यः>> [[6.3.23]] इत्यत ऋत इत्यनुवर्तते, तत्? कार्यिणो विशेषणं भविष्यति। ननु तत्? पञ्चमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः? नैषदोषः; पुत्र इत्येषा सप्तमी ऋत इत्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति - <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति। नन्वेवमपि विरोधः, तथा हि - यदि पुत्रशब्द उत्तरपदम्, कथं तदा ऋकारान्तानां द्वन्द्वः, ऋकारान्तानां द्वन्द्वो न तर्हि पुत्रशब्द उत्तरपदमिति? नैतदस्ति; अन्य एव हि स द्वन्द्वो यस्य ऋत इत्येतद्विशेषणम्। अन्यशाच स यस्य पुत्रशब्द उत्तरपदमिति कोऽत्र विरोधः॥", "63026": "अनुकारार्थमविद्यायोनिसम्बन्धार्थ च वचनम्। ननु च `आनङृतो द्वन्द्वे` [[6.3.24]] इत्यतो द्वन्द्वगरहणमनुवर्तत एव, तत्? किमर्थमिह पुनद्र्वन्द्वग्रहणम्? इत्याह -`द्वन्द्व इत्यनुवर्तमाने` इत्यादि। पूर्वकं हि द्वन्द्वग्रहणं समासविशेषप्रतिपत्त्यर्थम्, इदं तु प्रसिद्धसाहचर्यार्थम् -येषां लोके वेदे च प्रसिद्धं साहचर्यमेषां पुनः -परिग्रहो यता स्यादित्येवमर्थम्। अथ क्रियमाणेऽपि पुनद्र्वन्द्वग्रहणे कथमयमर्थो लभ्यते? इत्याह -`अत्यन्तसहचरिते` इत्यादि। `द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण` [[8.1.15]] इत्यत्रेदमुच्यते। `अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्येतन्निपात्यते` इति। तेनायमर्थो लभ्यत इति दर्शयति। `वेदे च ये सहवापनिर्दिष्टाः` इति। सहवापः=सहदानम्, तत्र निर्दिष्टाः सहवापनिर्दिष्टाः के पुनरेकहविसम्बन्धिनः? य एकं हूयमानं हविः प्रति सम्प्रदानत्वेन निर्दिष्टा एकत्र मन्त्रे -इन्द्रावरुणाभ्यां छागं हविर्निर्वपामीत्यादौ, ते वेदितव्याः। `उभयत्रि` इत्यादि। पूर्वपदत्व उत्तरपदत्वे च सति वायोरानङादेशस्य प्रतिषेधो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम् -<<विभाषा स्वसृपत्योः>> [[6.3.24]] इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन वायोरुत्तरपदत्वे पूर्वपदत्वे च सति न भविष्यतीति॥", "63027": "आनङादेशापवादोऽयमीकारो विधीयते। तकार उच्चारणार्थः॥", "63028": "`अग्नेः` [[6.3.26]] इत्यनुवर्तते, `देवताद्वन्द्वे` [[6.3.25]] इति च। <<ईदग्नेः सोमवरुणयोः>> [[6.3.27]] इति निवृत्तम्। वृद्धिशब्देन साहचर्यात्? कृतवृद्ध्युत्तरपदं गृह्रते। अत एवाह -`कृतवृद्धावुत्तरपदे` इति। `आग्निवारुणीम्` इति। औत्सर्गिकेऽणि कृते `टिङ्ढाणञ्` [[4.1.5]] इति ङीप्। अत्रापि तकार उच्चारणार्थः॥", "63029": "`देवताद्वन्द्व उत्तरपदे` इति। देवताद्वन्द्वे यदुत्तरपदं तत्र परत इत्यर्थः॥", "63030": "आनङोपवादः। अथाकारः किमर्थमुच्चार्यते, सकारस्येत्संज्ञापरित्राणार्थ इति चेत्? न; प्रयोजनाभावादेवेत्संज्ञा न भविष्यतीत्याह -`अकारणोच्चारणम्` इत्यादि। असति ह्रकारेऽन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां सकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुत्वं विकारः स्यात्, तस्यापि `खरवसानयोर्विसर्जनीवः` [[8.3.15]] तस्यापि `कुप्वोः क पौ च` [[8.3.37]] इत्युपध्मानीयः स्यात्। अकार स्योच्चारणे तु सति न भवति, कथम्? अकारस्योच्चारणेन यद्विकृतस्य सकारस्योपादानं तस्यैतदेव प्रयोजम् -अविकृतस्यास्य प्रयोगो यथा स्यादिति -द्यावा दिवसमित्यादिकम्। वाक्मेतत्।इह च सूत्रे द्वन्द्वग्रहणम्, उत्तरपदग्रहणं चानुवर्तते। द्यावा इत्ययमादेशो वाक्ये न प्राप्नोतीत्याह -`कथम्` इत्यादि। `कर्तव्योऽत्र यत्नः` इति। तत्रायं यत्नः -<<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इत्यतो बहुलग्रहणमनुवर्तते तेन द्यावा इत्ययमादेशश्छन्दसि वाक्येऽपि भविष्यतीति। अथ वा-चकारोत्र क्रियते, तस्यानुक्तसमुच्चयार्थत्वाद्भविष्यति। द्यावाशब्दस्तु स्वरितत्वादेवानुवर्त्तिष्यत इति नार्थस्तदनुकर्षणार्थेन चकारेण। अथ वा -दिक्शब्देन समानार्थो द्यावाशब्दः प्रकृत्यन्तरमस्ति, तस्यायं प्रयोगः। आदेशवचनं तु दिवः प्रयोगनिवृत्त्यर्थमिति॥", "63031": "`आनङोऽपवादः` [नास्तीदं वाक्यं काशिकायाम्] इति एवमुत्तरावपि योगौ। उषासानक्तम्` इति। उषांश्च नक्तञ्चेति विग्रहः॥", "63032": "", "63033": "", "63034": "अत्र त्रयः पक्षाः सम्भाव्यन्ते -`स्त्रियाः` इति स्त्रीशब्देन प्रत्ययग्रहणं वा, अर्थग्रहणं वा, शब्दग्रहणं वेति। तत्र यदि `स्त्रियाः` इति। स्त्रीप्रत्ययग्रहणं स्वर्यते, तदा स्वरितेनाधिकारावगतिः [[1.3.11]] भवतीति स्त्र्यधिकारविहिताः प्रत्यया गृह्यन्ते, यथा -<<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इत्यत्र। अथ तु `स्त्री` इत्यनेन स्त्रीत्वविशिष्टं द्रव्यमभिधीयते, तदार्थग्रहणम्। यदि तु स्त्र्यर्थवाची शब्दः स्त्रीत्यनेनोच्यते, तदा शब्दग्रहणम्। तत्राद्यपक्षेऽयं सूत्रार्थः -भाषितपुंस्कात्परः स्त्रीप्रत्ययोऽनूङुत्तरपदे पुंपद्भवति, निवर्तत इति यावत्, तदा `स्त्रियाः` इति प्रथमार्थे षष्ठा। कथं पुनः पुंवदित्यनेन स्त्रीपरतययस्य निवृत्तिः शक्यते विज्ञातुम्? भवतीति वाक्यशेषाध्याहारात्। अत्र च पक्षे पट्वी भार्याऽस्येति पटुभार्यं इत्यत्र स्त्रीप्रत्ययनिवृत्तेरुत्तरपदनिमित्तायाः पूर्वस्मिन्? यणादेशे विधातव्ये सति <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावे सति यणादेशः स्यात्। इह च -गाग्र्यो वृन्दारिका गर्गवृन्दारिका इत्यत्र `तद्राजस्य बहुषु तेनैवास्त्रियाम्` [[2.4.62]] इत्यनुवर्तमाने <<यञञोश्च>> [[2.4.64]] इति यञो लुग्न प्राप्नोति। पुंवद्भावेन हि स्त्रोप्रत्ययस्य निवृत्तिः क्रियते, न त्वर्थस्य स्त्रीत्वस्य; ततश्चार्थस्यानिवर्तितत्वात्? केन पुनर्यञ्न श्रूयेत -इत्येवमादयः प्रत्ययपक्षे दोषा भाष्ये विस्तरेणोक्ताः। इह चातिग्रन्थविस्तरभयान्नोच्यन्ते। अर्थपक्षे तूत्तरपदे परतो भाषितपुंस्कस्यानूङ्प्रत्ययान्तस्य स्त्रीशब्दस्य योर्थस्तस्य पुमर्थोतिदिश्यते। भाषितपुंस्कादिति पञ्चमी षष्ठर्थे -स्त्र्यर्थः पुंवद्भवतीति। पुमर्थे चातिदिष्टे तद्वचनः शब्दः प्रवर्तते। अत्र पक्षे <<खित्यनव्ययस्य>> [[6.3.66]] इति ह्रस्वत्वस्यास्य च पुंवद्भावस्य विप्रतिषेधो न प्राप्नोति; भिन्नविषयत्वात्। तथा हि -शब्दस्य ह्रस्वत्वम्, अर्थस्य पुंवद्भावः; ततश्च कालिम्मन्येत्यत्र <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति ह्रस्वत्वं न प्राप्नोति, इष्यते च विप्रतिषेधः। तथा हि -पुंवद्भावस्य विप्रतिषेधो न प्राप्नोति; भिन्नविषयत्वात्। तथा हि -शब्दस्य ह्रस्वत्वम्, अर्थस्य पुंवद्भावः; ततश्च कालिम्मन्येत्यत्र <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति ह्रस्वत्वं न प्राप्नोति, इष्यते च विप्रतिषेधः। तथा हि -पुंवद्भावस्यावकाशो यत्र खिदन्तमुत्तरपदं नास्ति -दर्शनीयभायं इति, ह्रस्वस्यावकाशो यत्र पुंवद्भावो नास्ति -कालिम्मन्यः पुमानिति; कालिम्मन्या स्त्रीत्यत्रोभयं प्राप्नोति, तत्र परत्वात्? ह्रस्वत्वं भवति। तदेवमाद्ययोः पक्षयोर्दोषवत्तां मन्यमानस्तृतीयपक्षमाश्रित्याह -`भाषितः पुमान्? येन` इत्यादि। यो ह्रविशेषेण क्वचिद्भाषितपुंस्कः शब्दः स इहाश्रीयेत, तदा द्रोणीभार्य इत्यत्रापि पुंवद्भावः स्यादिति मनसि कृत्वाऽऽह -`समानायमाकृतौ` इत्यादि। `एकस्मिन्? प्रवृत्तिनिमित्ते` इति। अनेन समानायामाकृतावित्यस्यार्थं विस्पष्टीकरोति। आक्रियते=गृह्रते, परिच्छिद्यते येनार्थस्तत्? शब्दस्य प्रवृत्तिनिमित्तं जात्यादिकमिहाकृतिशब्देनोच्यते। `भाषितपुंस्कात्` इत्येतावत्युक्ते `समानायामाकृतौ` इत्येष विशेषो न शक्यो लब्धुमित्यभिप्रायेणाह -`तदेतदेवम्` इत्यादि। तदिति वाक्योपन्यासे। एतस्य वचनस्यार्थरूपमेवम्प्रकारम्। कथं भवति? नैवं कथंचिदित्यर्थः। यदि भाषितपुस्कशब्दस्य बहुव्रिहेः शब्दोऽन्यपदार्थत्वेनाश्रीयेत -भाषितः पुमान्? येन शब्देन स भाषितपुंस्कः शब्द इति, तदा समानायामाकृतावित्येष विशेषो न लभ्यते, सर्व एव हि शब्दः क्वचदाकृतौ पुमांसं भाषित्वाऽऽकृत्यन्तरे स्त्रियं भाषत इति कृत्वा। अर्थे त्वन्यपदार्थत्वेनाश्रीयमाणे लभ्यत एव इत्येष विशेष इत्यालोच्याह -`भाषितः पुमान्? यस्मिन्नर्थे` इत्यादि। शब्दस्य यत्? प्रवृत्तिनिमित्तं जात्यादिकं तदन्यपदार्थः। केन पुनः शब्देन तत्र भाषितः पुमान्? प्रत्यसत्तेर्यत्? तस्य प्रवृत्तनिमित्तं तेनैवेति विज्ञायते; अन्यथा हि भाषितपुंस्कग्रहमनर्थकं स्यात्, व्यवच्छेद्याभावात्। सर्वत्रैवाभिधेये।र्थे येन केनचित्? शब्देन पुमान्? भाष्यते। अन्ततोऽर्थशब्देनापि तस्यार्थस्य भाषितपुंस्कस्य यः प्रातपदिकः शब्द सोऽप्यभिध्यधर्मस्याभिधान उपचरद्भाषितपुंस्क इत्युच्यते। स पुनः प्रत्यासत्तेर्यस्य योऽर्थः प्रवृत्तिनिमित्तं ततर येन पुमान्? भाषत इति स एव वेदितव्यः। यश्च भाषितपुंस्कस्य प्रवृत्तिनिमित्तस्य वाचकः स नियोगत एकस्मिन्? प्रवृत्तिनिमित्ते पुमांसं भाषित्वा स्त्रियं भाषते। यथा मूलोदाहरणेषु -दर्शनीयादयः शब्दा इति, समाथ्र्याद्येन शब्देन समानायामाकृतौ पुमान्? भाषित इत्येष विशेषो लभ्यते। `अनूङ्` इति यद्ययं पर्युदासः स्यात्, ऊङोऽन्योऽनूङिति -ततो नञिवयुक्तन्यायेन (व्या।प।65) तत्सदृशानां टाबादीनां प्रत्ययानां ग्रहणे सति तदन्तस्यैव पुंवद्भावः स्यात्, ऐडविडवृन्दारिका, दारदवृन्दारिकेत्यत्र न स्यात्। इडविडोऽपत्यं स्त्रीति `जनपदशब्दात्? क्षत्रियादञ्` [[4.1.168]] इत्यत्प्र्रत्ययः। दरदोऽपत्यमिति `द्व्यञ्मगध` [[4.1.170]] इत्यादिनाण्? तयोः `अतश्च` [[4.1.177]] इति लुक्, तत इडविट्? चासौ वृन्दारिका चेति, दरच्चासौ वृन्दारिका चेति `वृन्दारकनागकुञ्जरैः` [[2.1.62]] इति समासः, तत्रेदानीं `पुंवत्कर्मधारय` [[6.3.42]] इत्यादिना पुंवद्भावो न प्राप्नोति; ऊङ्सदृशप्रत्ययानतराभावात्, ततश्चेडविट्शब्दस्यैडविडशब्दो दरच्छब्दस्य दारदशब्दो न स्यात्। प्रसज्यप्रतिषेधे सति तु भवति; अत्राऽप्यूङभावस्य भावादित्यालोच्य प्रसजयप्रतिषेधोऽयमिति दर्शयन्नाह -ऊङोऽभावोऽनूङिति। `भाषितपुंस्कादनूङ्` इति। यद्ययमसमासः स्यान्न बहुव्रीहिः, तदायमर्थः स्यात् -भाषितपुस्कादुत्तरस्याविद्यमानोङः स्त्र्यर्थवृत्तेः शब्दस्योत्तरपदे परतः पुंवद्भवतीति। एवञ्च सति यथाभूतार्थवाची स्त्रीशब्दस्तथाभूतार्थवाच्येव पुंशब्दस्यादेशो भवतीति सामर्थ्यादुक्तं भवति, ततश्चानिष्टप्रसङ्गः -अङ्गारका नाम शकुनयः तेषां कालिका नाम स्त्रियः, तत एताश्च कालिकावृन्दारिकाश्चेति समासे कृते सत्येतच्छब्दो भा,#इतपुंस्क इति तस्मादुत्तरस्य कालिकाशब्दस्यानूङोऽर्थतोऽन्तरतमोऽङ्गरकशब्दः पुंशब्दादेशः प्रसज्येत; अन्यस्यान्तरतमस्याभावात्। ततश्चैतदङ्गारकवृन्दारिका इति हि स्यात्, एतत्कालिकावृन्दारिका इतीष्यते। बहुव्रीहौ तु सत्यनिष्टप्रसङ्गो न भवति, तत्र हि भाषितपुंस्कस्य शब्दस्यानूङः पूंवद्भावेन भवितव्यम्, न च कालिकाशब्दो भाषितपुंस्कः -इत्येतत्सर्वमालोच्य बहुव्रीहिरयमिति दर्शयन्नाह -`भाषितपुंस्कादनूङ्? यस्मिन्? स्त्रीशब्दे` इति। `यदि बहुव्रीहिरयम्` [`यदि -नास्ति काशिकायाम्] इति। एवं सति <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति पञ्चम्या लुक्? प्राप्नोति? अत आह -`अलुग्निपातनात्` इत्यादि। ननु चालौकिकत्वादस्य वाक्यस्य निपातनादित्ययमपरीहारः, निपातनं हि लौकिकं भवति, तह्र्रेवं लुकाप्यत्र न भाव्यम्? अथ लुग्भविष्यतीत्येवावसीयतेऽलुगपि भवतीत्यवसीयताम्। `दर्शनीयभार्यः` इति। दर्शनीया भार्याऽस्येति बहुव्रीहिः। <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वत्वमुत्तरपदस्य। दर्शनीयत्वं नामात्र सामान्ये विशेषो दर्शनीयशब्दस्य प्रवृत्तिनिमित्तम्। तमेकमेवार्थमुपादायासी पुंसि स्त्रियां च वर्तते -दर्शनीयो देवदत्तः; दर्शनीया भार्येति। तस्मात्? समानायामाकृतौ दर्शनीयशब्दो भाषितपुंस्को भवति; स्त्रियाञ्च वर्तते, न चास्मादूङ्। अतो भार्याशब्दे स्त्रीलिङ्ग उत्तरपदेऽस्य स्त्रीशब्दस्य `पुंशब्दस्येव रूपं भवति। [`पुंशब्दस्यैव` -मुद्रितः पाठः] एवं `श्लक्ष्णचूडः` इत्यादावपि योजनीयम्। `ग्रामणिदृष्टिः` इति। अत्र सर्वमस्ति, न तु ग्रामणीशब्दः स्त्रियां वर्तते, किं तर्हि? नपुंसक इति न भवति पुंवद्भावः। `द्रोणीभार्यः` इति। द्रोणशब्देन भाषितः पुमान्, न तु समाने प्रवृत्तिनिमित्त। यस्मात्? परिमाणविशेषं प्रवृत्तिनिमित्तमुपादाय पुंसि परिमाणिनि वर्तते। जातिविशेषं तूपादाय स्त्रियां गवादन्यां वर्तते। यत्र गावोऽदन्ति सा गवादनी द्रोणीशब्देनोच्यते। तस्मान्न द्रोणशब्दः समानायामाकृतौ भाषितपुंस्कः। `कथम्` इत्यादि। यदि समानायामाकृतौ यो भाषितपुंस्कस्तस्य पुंवद्भाव उच्यते, एवं च `गर्भिभार्यः` इत्यादौ पुंवद्भावो न प्राप्नोति। गर्भप्रभृतीनां शब्दानां भिन्नायामाकृतौ भाषितपुंस्कत्वादित्यभिप्रायः। अनवयवभूतान्तर्वर्तिवस्तुविशेषसम्बन्धे हि सति स्त्री गर्भिणीत्युच्यते। व्रीहिस्त्वन्तर्वर्त्त्यवयवस्तुविशेषसम्बन्धे सति गर्भीत्युच्यते। तस्मात्? पुंसि स्त्रियां च वर्तमानस्य गर्भिशब्दस्य प्रवृत्तिनिमित्तं भिद्यते। प्रसूतप्रजातशब्दयोरपि प्रवृत्तिनिमित्तं क्रियकृतिर्भिन्ना। स्त्रियां हि वर्तमानौ तौ गर्भविमोक्षणं प्रवृत्तिनिमित्तमुपादय वर्तते, पुंसि तु गर्भाधानम्। `कर्तव्योऽत्र प्रयत्नः` इति। केचिद्व्याचक्षते -उपसंख्यानं कर्तव्यमिति। अपरे पुनराहुः -स्त्रिया पुंवदिति योगविभागः कर्तव्यः। अथ वा -`कर्तव्योऽत्र यत्नः` इत्यनेनेदं दर्शयति -यद्यपि स्त्रियां व्रीहौ च गर्भत्वभेदः, तथापि स नाश्रयितव्यः। यत्तु तत्रावयवानवयवभेदमुत्सृज्य सामान्येनान्तर्वर्त्तिवस्तुविशेषसम्बन्धमात्रम्, तदेवाश्रयितव्यम्। अतस्तदपेक्षया स्त्रियां व्रीहौ च वर्तमानस्य गर्भिशब्दसय तुल्यमेव प्रवृत्तिनिमित्तमिति। एवं प्रसूतप्रजातशब्दयोरप्यपत्याधानविमोक्षणभेदं त्यक्त्वाऽयमपत्यवानियमपत्यवतीत्यपत्यवत्सम्बन्धमात्रमाक्षितमित्येतद्व्याख्यानमि#ईति प्रत्यन्तः कर्तव्य इति। `ब्राहृबन्धूभार्यः` इति। ब्राहृबन्धूशब्दात्? `ऊङुतः` [[4.1.66]] इत्यूङ्। `कल्याणीपञ्चमाः` इति। `अप्? पूरणीप्रमाण्योः` [[5.4.116]] इत्यप्समासान्तः, पञ्चानां पूरणीति डट्, तस्य <<नान्तादसंख्यादेर्मट्>> [[5.2.49]] , ततः `टिड्ढाणञ्` [[4.1.15]] इति ङीपि कृते पञ्चमी भवति। `प्रधानपूरणीग्रहणं कर्तव्यम्` इति। प्रधानं पूरणी गृह्रते येन व्याख्यानेन तद्व्याख्यानं प्रधानपूरणीग्रहणम्, तत्? कर्तव्यम् -प्रधानं या पूरणी तस्यां प्रतिषेधो यथा स्यात्, अप्रधानभूतायां तस्यां मा भूदिति। तत्रेदं व्याख्यानम् -इह `द्वन्द्वे धि` [[2.2.32]] इति प्रियादिशब्दस्य पूर्वनिपाते प्राप्ते परनिपातलक्षणव्यभिचारचिह्नेन सूचितं व्यभिचार्ययं प्रतिषेधः क्वचिदेव वर्तते, न सर्वत्रेति। तेन यत्रैव प्रधानभूता पूरणी तत्रैव भवति, नान्यत्रेति। तेन यत्रासौ भवति तत्र तस्या एव प्रधानभूताया पूरण्या ग्रहणं युक्तम्। क्व पूरण्याः प्राधान्यम्? यत्र तस्याः समासेऽभिधेयत्वेनान्तर्भावः, यथानन्तरोक्तप्रत्युदाहरणे। तत्र ह्रवयवेन विग्रहः। समुदायस्त्ववयवभेदादभिन्नः, समासार्थ एव। `तत्र` इति। यथैवं प्रथमा, द्वितीया, तृतीया, चतुर्थी चाभिधीयते, तथा पञ्चम्यपि। `कल्याणपञ्चमीकः पक्षः` इति। अत्र तु तिरोहितावयवभेदः पक्ष एवान्यपाद्रथः प्रधानम्, पञ्चमी तु रात्रिः। अस्मिन्? पक्षेऽन्यपदार्थोऽनुमेयैव, न त्वभिधेया। यथा वृक्षशब्दे मूलादयः, ततस्तद्वदर्थमप्यनभिधेयत्वादर्थोऽप्रधानम्। अथाप्? समासान्तः कस्मान्न भवति? इत्याह -`अप्पूरणीप्रमाण्यो` इत्यादि। अथ दृढभक्तिः, शोभनभक्तिरित्यादौ कथं पुंवद्भावः यावता प्रियादित्वात्? प्रतिषेधेन भवितव्यम्? इत्याह -`दृढभक्तिरित्येवमादिषु` इत्यादि। अस्त्रीवाचिनः पूर्वपदस्य विवक्षितत्वाद्दृढभक्तिरित्येवमादि लक्ष्यं सिद्धमित्येवं समाधेयम्। द्वेष्यं परिहर्तव्यमित्यर्थः। दृढशब्दोऽत्रादाढर्निवृत्तिपरः प्रयुक्तः। अत्रादाढर्निवृत्तिपरायां चोदनायां लिङ्गविशेषोपादानमनुपकारकमेवेति। अतः स्त्रीत्वमिह न विवक्षितम्। तस्मादस्त्रीलिङ्गस्य दृढशब्दस्यायं प्रयोग इत्यभिप्रायः॥", "63035": "अनुत्तरपदार्थोऽयमारम्भः। `ततः` इति। <<पञ्चम्यास्तसिल्>> [[5.3.7]] । तस्य <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इति विभक्तिसंज्ञकत्वात्? त्यदाद्यत्वम्? टाप्, अनेन पुंवद्भावः। `तत्र` इति। <<सप्तम्यास्त्रल्>> [[5.3.10]] । शेषं पूर्ववत्। `तसिलादिषु` इत्यादि। `तसिलादिष्वाकृत्वसुचः` इत्युच्यमाने तसिलादिष्वनन्तर्भूतेष्वपि क्वचित्? पुंवद्भाव इष्यते, स न प्राप्नोति। तत्रान्तर्भूतेऽपि क्वचिन्नेष्यते, एवं सत्यनिष्टमपि प्राप्नोति। तस्मात्? परिगणनं कर्तव्यम्। तत्र ततसोरुदाहरणमुक्तम्। शेषाणां तूच्यते - इयं षट्वी, इयं पट्वी इयमनयोरतिशयेन पट्वी - `द्विवचन` [[5.3.57]] इत्यादिना तरप् - पटुतरा। इयमासमतिशयेन पट्वी - `अतिशायने` [[5.3.55]] इत्याना तमप् - पटुतमा। पट्वी भूतपूर्वा - <<भूतपूर्वे चरट्>> [[5.3.53]] ङीप्, पटुचरी। पट्वीप्रकारा - प्रकारवचने जातीपर्? [[5.3.69]] - पटुजातीया। ईषदसमाप्ता पट्वी - <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> [[5.3.67]] पटुकल्पा पटुदेश्या, पटुदेशीया। प्रशस्ता पट्वी - `पशंसायां रूपप्` [[5.3.66]] - पटुरूपा। याप्या पट्वी - `याप्ये पाशप्` [[5.3.47]] - पटुपाशा। अजायै हिता - `अजाविम्यां थ्यन्` [[5.1.8]] अजथ्या। थ्यंस्तसिलादिभ्यः पूर्वं पठते। सर्वप्रकरैः सर्वथा, <<प्रकारवचने थाल्>> [[5.3.23]] । तस्यां रात्रौ तदा - <<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]] । अस्यां रात्रौ एतहिं - `इदमोर्हिल्` [[5.3.16]] । तत्रेदमः <<एतेतौ रथोः>> [[5.3.4]] इत्येतादेशः, प्रशस्ता वृकी वृकतिः। प्रशस्ता ज्येष्ठा ज्येष्ठतातिः - `वृकज्येष्ठाभ्यांतिल्तातिलौ च च्छन्दसि` [[5.4.41]] इति तिल्लातिलौ। एतौ च कृत्वासुचः परो पठएति। तसिलादिषु परिगणनं कर्तव्यमिति भाव्यकारस्य मतमेतत्, न तु सूत्रकारस्य। न चासति परिगणने किञ्चिदनिष्टमापद्यते। येषु हि तसिलादिष्वनन्तर्भूतेषु पुंवद्भाव इष्यते, तेषूततरसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्भविष्यति। येषु तसिलादिष्वन्तर्भूतेषु नेष्यते, तत्र <<न कोपधायाः>> [[6.3.37]] इति नेति योगविभागन्न भविष्यतीति।दोषः खल्वपि परिगणने - दरच्छब्दात्? कप्रत्यये दारदिकेत्यत्र पुंवद्भावो न प्राप्नोति; कप्रत्ययस्यापरिगणितत्वात्। `शसि बह्वल्पार्थस्य` इति। शसि प्रत्यये परतः बह्वर्थस्याल्पार्थस्य च पुंवद्भावो वक्तव्यः, व्यख्येय इत्यर्थः। व्याख्यानं तु तस्यैव चकारस्यानुक्तसमुच्चयार्थत्वामाश्रित्य कर्तव्यम्। `भस्याढे तद्धिते` इत्यादि। `हास्तिकम्` इति। <<अचित्तहस्तिधेनोष्ठक्>> [[4.2.47]] इति ठक्। यद्यत्र पुंवद्भावो न स्यात्? तद यस्ये [[6.4.148]] तीकारलोपे कृते तस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावात <<नस्तद्धिते>> [[6.4.144]] इति टिलोपो न स्यात्? पुंवद्भावे तु सति हस्तिशब्द एवायं भवति। ननु च ठक्छसो (वा।732) रित्यनेनैवात्र सिध्यति पुंवद्भावः? न सिध्यति; न सिध्यति; छसा साहचर्यात्? <<भवतष्ठक्छसौ>> [[4.2.115]] [`भवतष्ठक्छसौ` - इति सूत्रम्] इत्यनैव विहितस्य तत्र ठको ग्रहणात्, न सर्वस्य। `कथम्` इत्यादि। यदि च ढे परतः पुंवद्भावस्य प्रतिषेधः क्रियते, तदाग्नायी देवतास्येति <<अग्नेर्ढक्>> [[4.2.33]] इति ढकि कृत आग्नायेय इति भवितव्यम्, तत्कथमाग्नेय इति भवतीत्यभिप्रायः। अग्नेः स्त्रीत्यस्यां विवक्षायां <<वृषाकप्यग्निकुसितकुसीदानामुदात्तः>> [[4.1.37]] इत्यनेनाग्निशब्दान्ङीपि कृत ऐकारे चान्तादेशेऽग्नायीति भवति। `कर्तव्योऽत्र यत्नः` इति। यत्नः केन पुनः कर्तव्यः? यः `भस्याढे तद्धिते` (वा।731) इत्युपसंख्यानमिच्छति। न तु यश्चकारमनुक्तसमुच्चयार्थमुत्तरसूत्रे करोति। स ह्रेवमाह - यत्रैवेष्यते तत्रैव चकारः पुवद्भावं समुचचिनोति, नान्यत्रेति। कः पुनरसौ यत्न इति? कश्चिदाह - `अपत्यग्रहणं ढस्य विशेषणं कर्तव्यम् - योऽपत्येऽढे` इति। तेनायमर्थो भवति - ढस्य तद्धेते पुंवद्भावो भवत्यपत्यार्थप्रत्ययं वर्जयित्वा। न चाग्नेयः, स्थालोपाक इत्यपत्यार्थे ढप्रत्ययः, किन्तु सास्य देवतेत्यर्थे, अतोऽत्र भवत्येव पुंवद्भाव इति। अन्यस्त्वाह - `भस्याढे तद्धिते` (वा।731) इति व्यधिकरणे सप्तम्यौ। यश्चात्र नञ्? सोऽल्पार्थे वर्तते, यथा अल्पलवणा यवागूरलवणेत्युच्यते। तत्रायमर्थो भवति - भस्य तद्धिते पुंवद्भावो वक्तव्योऽल्ये ढप्रात्यय इति। तेनाग्नेयः, स्थालीपाक इत्यत्र पुंवद्भावो भवति। श्यैनेय, रोहिणेय इत्यत्र तु न भवतीति। `ठक्छसोश्च` इत्यादि। अथ ठग्ग्रहणं किमर्थम्, यावता ठस्येकादेशे कृते `भस्याढे तद्धिते` (वा।731) इत्यनेनैव सिद्धः। ठावस्थायामेव यथा स्यादित्येवमर्थम्। किमेवं सति भवति? `इसुसुक्तान्तात्? कः [[7.3.51]] इति कः सिद्धो भवति; अन्यथा हि यदीकादेशे कृते पुंवद्भावः स्यात्? ततो यथा माथितिक इत्यत्रेकादेशो न भवति, तथा भावत्का इत्यत्रापि न स्यात्। `भावत्काः, भवदीयाः` इति। <<भवतष्ठक्छसौ>> [[4.2.115]] इति ठक्छसौ॥", "63036": "`एतायते, श्येतायते` इति। एतश्येतशब्दाभ्यां `वर्णादनुदात्तात्? तोपधात्? तो नः` [[4.1.39]] [`एतओतशब्दाभ्याम्` -मुद्रितः पाठः] इत्यनेन ङीप्, तकारस्य नकारः। एनीवाचरति, श्येनीवाचरति -`कर्त्तुः क्यङ्? सलोपश्च` [[3.1.11]] इति क्यङ्, `अकृत्सार्वधातुकयोः [[7.4.25]] इति दीर्घत्वम्। `अयमस्यां दर्शनीयमानी` [`दर्शनीयमानी अयमस्याः` -काशिका] इति। दर्शनीयामिमां मन्यतेऽयमिति। `मनः` [[3.2.82]] इति णिनिः। `दर्शनीयमाननीयमस्याः` इति। दर्शनीयामिमां मन्यत इति पूर्ववण्णिनिः `ऋन्नेभ्यो ङीप्। [[4.1.5]] इति ङीप्। किं पुनः कारणं स्त्रियां समानाधिकरण इत्यनुवर्तमानेऽस्त्रियामसमानाधिकरणे च मानिन्युत्तरपदे पुंवद्भाव उदाह्यियत इत्याह -`मानिनो ग्रहणम्` इत्यादि। कथमेतज्ज्ञायते? इत्याह -`इह तु` इत्यादि। यद्युत्तरपदं स्त्रियां वर्तते समानाधिकरणं च भवति -दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीत्येवमादौ। तत्र यस्मात्? `स्त्रियां पुंवत्` [[6.3.33]] इत्यनेनैव सिद्धम्, अतो मानिनो गरहणमस्त्र्यर्थम्। असमानाधिकरणाच्चेत्येतदवसीयते; अन्यथा हि तदनर्थकं स्यात्॥", "63037": "पुर्वेण प्रकारेण प्राप्तस्य पुंवद्भावस्यायं प्रतिषेधः। `पाचिकाभार्यः, कारिकाभार्यः` इति। पाचककारक शब्दभ्यां ण्वुलन्ताभ्यां टाप्। `प्रत्ययस्थात्? कात्पूर्वस्यात इदाप्यसुपः` [[7.3.44]] इतीत्त्वम्। अत्र `स्त्रियाः पुंवत्` [[6.3.33]] इत्यादिना प्राप्तिः। `मद्रिकाभार्यः वृजिकाभार्यः` इति। मद्रेषु भवा, वृजिषु भवेति `मद्रवृज्योः कन्? [[4.2.130]] इति कन्। अत्रापि `स्त्रियाः पुंवत्? [[6.3.33]] इत्यादिना प्राप्तिः। `मद्रिकाकल्पा; वृजिकाकल्पा` इति। अत्र <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन प्राप्तिः। `मद्रिकायते` इत्यादौ <<क्यङ्मानिनोश्च>> [[6.3.36]] इति प्राप्तिः। `विलेपिकाया धम्र्यम्` इति। `लिप उपदेहे` (धातुपाठः-1433) इत्यस्माण्ण्वुल्। `वैलेपिकम्` इति। `अण्? महिष्यदिभ्यः` [[4.4.48]] इत्यण्। अत्र `भस्याढे तद्धिते` (वा।731) इति वा प्राप्तिः। `कोपधप्रतिषेधे` इत्यादि। अस्मिन्? कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्। तद्धितसम्बन्धी वुसम्बन्धी ककार उपधा यस्य तत्रैव प्रतिषेधो यथा स्यात्। इह मा भूत् -`पाकभार्यः` इति। पाकशब्दोऽयं `अर्भकपृथुकपाका वयसि` (द।उ।3।50) इत्यनेन कन्प्रत्ययान्तो निपातितः। अत्रासति वुग्रहण इहापि प्रतिषेधः स्यात्। यदि तद्धितवुग्रहणं क्रियते, तर्हि <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यत्र यद्वक्ष्यति -`शुष्कजङ्घ` इत्यत्र -<<शुषः कः>> [[8.2.51]] इत्यस्यासिद्धत्वात्? `न कोपधयाः` [[6.3.36]] इति प्रतिषेधो न प्राप्नोतीत्यसिद्धाधिकारस्य प्रयोजनम्` इति तन्नोपपद्यते, असत्यपि `शुषः कः` इत्यस्यासिद्धत्वेनैवात्र <<न कोपधायाः>> [[6.3.37]] इति प्रतिषेधेन भवितव्यम्, न ह्यत्र तद्धितसम्बन्धो ककारः नापि वुसम्बन्धी? दर्शनभेदमाश्रित्य तथाऽभिधानाददोषः। इदं हि वार्तिककारमतमाश्रित्योक्तम्। तत्? पुनः श्लोकवार्तिककारस्य सूत्रकारमतानुसारिणो दर्शनमाश्रित्य वक्ष्यति॥", "63038": "कथं पुनः संज्ञाशब्दस्य पुंवद्भवस्य प्राप्तिः, यावता भाषितपुंस्कस्य पुंवद्भाव उक्तः, न च यः संज्ञाशब्दः स्त्रियां वर्तते स भाषितपुंस्को भवति, एकद्रव्यनिवेशित्वात्? संज्ञाशब्दानाम्? नैतदस्ति; न ह्रयं नियोग एकद्रव्यनिवेशित्वात संज्ञाशब्दानाम्? नैतदस्ति; न ह्रं नियोग एकद्रव्यनिवेशिभिरेव संज्ञाशब्दैर्भवितव्यमिति। तथा हि -देवदत्तादिशब्दोऽनेकद्रव्यदानक्रियादिसम्बन्दान्नैकवस्तुसंज्ञाभूत एव लरोके प्रयुज्यमान उपलभ्यते, शास्त्रेष्वपि स्वादिशब्दः। या त्वेकद्रव्यनिवेशिनी संज्ञा तां प्रति नैवायं प्रतिषेधः क्रियत इत्यसारं चोद्यम्। ननु भवन्तु संज्ञाशब्दा अनेकार्थवृत्तयः भाषितपुंस्कास्त्वेकस्यामाकृतौ, कथं तर्हि तेषां किञ्चित्? प्रवृत्तिनिमित्तमस्ति, यदृच्छाशब्दत्वात्? एतदप्यसारम्; यतस्तेषामपि केषांचित्? किञ्चित्? प्रवृत्तिनिमित्तमस्त्येव, सप्तपर्णादिशब्दवत्। यत्राप्येतन्नास्ति, तत्रापि स्वरूपमेव प्रवृत्तिनिमित्तमुपादायाभिधेये वर्तन्ते। तत्राभिन्ने प्रवृत्तिनिमित्ते यैर्भाषितः पुमान्? ते भाषितपुंस्का इति किमत्रानुपपन्नम्? `दत्ताभ्र्यः` इति। अत्र यासौ दानक्रियाकृतिस्तस्यामेव दत्ताशब्दो भाषितप#उ#ंस्कः। `गुप्ताभार्यः` इति। अत्रापि गुप्ताशब्दो गोपनक्रियाकृतौ स्वरूपे वा प्रवृत्तिनिमित्ते। उभावपि भाषितपुंस्कशब्दौ `दत्तायते गुप्तायते` इति। कथमेते प्रतिषेधस्योदाहरणे उपन्यस्ते, यावता सत्यपि पुंवद्भावे `अकृत्सार्वधातुकयोदीर्घः` [[7.4.25]] इति दीर्घत्वेनोभयमप्येतत्? सिद्धम्? एवं मन्यते `संज्ञापूर्वो विधिरनित्यः` (व्य।प।64) इति, तत्र यदि पुंवद्भावप्रतिषेधो न स्यात्, तदा दीर्घत्वाभावोऽनुमीयते। तस्मिन्? पक्षे दत्तयते गुप्तयत इत्यपि स्यादिति। `न कोपधासंज्ञापूरणीनाम्` इत्येकस्मिन्नेव योगे कत्तव्ये योगविभागः <<न कोपधायाः>> [[6.3.37]] इत्यस्य प्रतिषेधस्यानित्यत्वज्ञापनार्थः कृतः। तेन यदुक्तम् -`कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्? (वा।733) इति, तन्न कर्तव्यं भवति॥", "63039": "वृद्धिनिमित्तं ञणकाः। `रुआऔध्नीभार्यः` इति। रुआउध्ने भवा, <<तत्र भवः>> [[4.3.53]] इत्यण्। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्। एवं `माथुरीभार्यः` इत्यत्रापि। `मध्यमभार्यः` इति। मध्ये भवा, <<मध्यान्मः>> [[4.3.8]] इति मप्रत्ययः। `काण्डलावभार्यः` इति। काण्डं लुनातीति <<कर्मण्यण्>> [[3.2.1]] पूर्ववन्ङीप्। `तावद्भार्यः` इति। तावच्छब्दात्? तत्परिमाणमस्या इति `यत्तदेतेभ्यः परिमाणे वतुप्` [[5.2.39]] <<आ सर्वनाम्नः>> [[6.3.91]] इति दकारम्याकारः, <<उगितश्च>> [[6.3.45]] इति ङीप्। तावती भार्याऽस्य तावद्भार्यः, यदि वृद्धिनिमित्तस्येति तत्पुरुषो गृह्रेत तदात्रापि प्रतिषेधः स्यात्, भवति हि वतुब्? वृद्धेराकारास्य निमित्तम्। बहुव्रीहिपरिग्रहे तु न दोषः; न हि वतुपि ञकारादिकं वृद्धेर्निमित्तमस्ति। `काषायी` इति। `तेन रक्तम्` [[4.2.1]] इत्यण्। `लौही` इति। <<प्राणिरजतादिभ्योऽञ्>> [[4.3.154]] इत्यञ्, पूर्ववन्? ङीप्। `खादिरेषः` इति। <<पलाशादिभ्यो वा>> [[4.3.141]] इत्यञणोरन्यतरः। खादिरी ईषा यस्य स खादिरेषः॥", "63040": "`दीर्घकेशी` इति। `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` [[4.1.54]] इति ङीष्। `षट्वी` इति। पटुशब्दात्? `वोतो गुणवचनात्` [[4.1.44]] इति ङीष्। `अकेशभार्यः` इति। अविद्यमानाः केशा अस्या अकेशा <<सहनञ्विद्यमानपूर्वाच्च>> [[4.1.57]] इति ङीपि प्रतिषिद्धे टावेव भवति॥", "63041": "`कठीभार्यः` इति। कठशब्दात्? `जातेरस्त्रीविषयादयोपधात्? [[4.1.63]] इति ङीष्। जातित्वं त्वस्य `गोत्रञ्च चरणैः सह` (4.1.63; मा। भा।2।225) इति लक्षणेन।`अयम्` इत्यादि। `भस्याढे तद्धिते` (वा।731) इत्यौपसंख्यानिको यः पुंवद्भावस्तस्यायं प्रतिषेधो नेष्यते। यस्मादस्य प्रतिषेधस्य बाधनार्थमुत्तरसूत्रे पुंवदिति योगविभागः कर्तव्य इत्यभिप्रायः॥", "63042": "ननु च कर्मधारये `स्त्रियाः पुंवत्` [[6.3.33]] इत्यादिना पुंवद्भावः सिद्धः, जातीयदेशीयशब्दयोरपि <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यादिना, तत्? किमर्थोऽयमारंभः? इत्यत आह - `प्रतिषेधार्योऽयमारमभः` इति। परतिषेधविषयः प्रतिषेधशब्देनोक्तः। साहचर्यात्? प्रतिषेधोऽर्थः प्रयोजनं यस्येति स तथोक्तः। यत्र विषये प्रतिषेध उक्तस्तत्र पुंवद्भावः प्रयोजनमित्यर्थः। अथ वा - अर्थशब्दो निवृत्ताविह - वर्तते, यथा - मशकार्थो धूम इति। तेनायमर्थो भवति - प्रतिषेधनिवृत्यर्थोऽयमारम्भ इति।`भाषितपुंस्कादित्येव` इति। यदि `भाषितपुंस्कादनूङ्` [[6.3.33]] इति च नानुवर्तते, तदाऽभाषितपुंस्कार्थमनूङर्थञ्चेदं वचनं स्यात्, न प्रतिषेधार्थम्। एवं च खट्वावृन्दारिका, ब्राहृबन्धूवृन्दारिकेत्यात्रापि पुंवद्भावः स्यात्। तस्माद्भाषितपुंस्कादनूङित्यनुवर्तनीयम्।`कुक्कुटआदीनाम्` इत्यादि। उत्तरपदस्यान्तादेरस्त्रीत्वादसामानाधिकरण्याच्च पुंवद्भावो न प्राप्नोतीत्युपसंख्यायते। `न वा` इत्यनेनोपसंख्यानं प्रत्याचष्टे - न वा वक्तव्यः, कस्मात्? अस्त्रीपूर्वपदस्य विवक्षितत्वात्। अस्त्रीलिङ्गस्य पूर्वपदस्य विवक्षितत्वादित्यभिप्रायः। अस्यैवार्थं विस्पष्टीकर्त्तुमाह - `स्त्रीत्वेन विना` इत्यादि। अत्र हि मयूरादिजात्यन्तरस्या निवृत्तिर्विवक्षिता। जात्यन्तरनिवृत्तिपरायां देशनायां लिङ्गविशेषोपादानमनुपकारकमेव। विनापि तेन जात्यन्तरनिवृत्तिः शक्यत एव कर्तम्। तथा हि - मृगमांसमित्युक्ते अन्तरेणापि लिङ्गविशेषोपादानं जात्यन्तरसय व्यवच्छेद उपपद्यते - मृगजातिसम्बन्धि मांसम्, नान्यजातिसम्बन्धीति। तस्मात्? स्त्रीत्वमत्रानुपकारित्वान्न विवक्षितम्, अतः स्त्रीत्वेन विना पूर्वपदस्यार्थोऽत्रि कुक्कुटाण्डादौ जातिसामान्येन स्त्रीत्वदविशेषविहितो विवक्षित इत्यर्थः। ततश्चास्त्रीलिङ्गा एवात्र कुक्कुटादयः शब्दा अण्डादिभिः शब्दं समस्यन्त इति भावः। कः पुनरसौ पूर्वपदार्थः? कुक्कुटादिजात्या व्यवछिन्नं द्रव्यमात्रम्।`पुंवद्भावात्` इत्यादि। अत्र खिति पुंवद्भावाद्घ्रस्वत्वं विप्रतिषेधेन भवतीति पूर्वमेव व्याख्यातम्। घादिषु तु व्याख्यायते। घादिषु ङ्यो ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा, नर्तकिरूपा, नर्तकिकल्पेति; पुंवद्भावस्यावकाशः - दर्शनीयतरा, दर्शनीयतमां, दर्शनीयरूपा, दर्शनीयकल्पेति; इहोभयं प्राप्नोति - पट्वितरा, पट्वितमा; पट्विरूपा, पट्विकल्पेति; विप्रतिषेधेन ह्रस्वत्वं भवति। `केऽणः` [[7.4.13]] इति ह्रस्वस्यावकाशः - नर्तकिकेति; अज्ञातादावर्थे `प्रागिवात्? कः` [[5.3.70]] पूर्वद्भावस्यावकाशः - दारदिकेति। दरच्छब्दस्यात्र के परतः `तसलादिष्वाकृत्वासुचः` [[6.3.34]] इति पुंवद्भावेन दारदशब्दो भवति। अतष्टापि कृते `प्रत्ययस्थात्? कात्` [[7.3.44]] इत्यादिनेत्त्वमिहोभयं प्राप्नोति। `पट्विका` इति। अत्र विप्रतिषेधेन ह्रस्वत्वं भविष्यति। केन पुनः पुंवद्भावः, यावता तसिलादिषु परिगणनं कृतम्, न च ततर कप्रत्ययः परिगणितः? एतत्? भाष्यकारः प्रष्टव्यो यः परिगणनं करोति, न तु सूत्रकारः। पूर्व यस्य सिद्धयेऽनूङिति प्रसज्यप्रतिषेध आश्रितस्तद्दर्शनार्थमाह - `इह` इत्यादि। `तत्र तद्राजप्रत्ययस्य` इत्यादि। तत्रेडविट्, पृथु इत्येताभ्यां <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] इति विहितस्याञस्तद्राजप्रत्ययस्य `अतश्च` [[4.1.175]] इति लुक्। दरद्? उशिजित्येताभ्यां तु <<द्व्यञ्मगधकलिङ्गसूरमसादण्>> [[4.1.170]] इत्यादिना विहितस्याणः। इडविट्? चासौ वृन्दारिका चेति विगृह्र समास इति। `विशेषण` इत्यादिना, `अत्रैडविडादयः` [नास्ति - काशिका] इति आदिशब्देन दारदः, पारथः, औशिज इत्येते गृह्यन्ते॥", "63043": "चेलडब्राउवगोत्रशब्दानां कुत्सार्थत्वात्? `कुत्सितानि कुत्सनैः [[2.1.52]] इति समासः। मतहतशब्दाभ्यां तु <<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इत्यनेन। चेलडिति पचादौ पठते, टकारो ङीबर्थः। यदि `ब्राउवः` इति पचाद्यजन्तमेतत्? एवं सति `ब्राउवो वचिः` [[2.4.53]] इति वच्यादेशो गुणश्च प्राप्नोति, स कस्मान्न भवतीति? यश्चोदयेतत्, तं प्रत्याह -`वच्यादेशो गुणश्च निपातनान्न भवति` इति। `आमकलकीतरा, कुवलीतरा` इति। आमलककुवलशब्दौ वृक्षे नित्यं स्त्रीलिङ्गै। फले तु नपुंसकलिंगावित्युभावप्यभाषितपुंस्कौ, ताभ्यां गौरादित्वान्ङीष्॥", "63044": "`भाषितपुंस्कादनूङ्` [[6.3.33]] इति निवृत्तम्। `कश्च शेषः` इति। यदि पूर्वसूत्रेण यस्य ह्रस्वो न विहितः स शेषः, ततो यद्भाषितपुंस्कं यच्च भिन्नायामाकृतौ भाषितपुंस्कं नैचाच्? तस्यापि शेषत्वं स्यात्, ततश्चामलकीतरा, द्रोणीतरेत्यत्रापि विकल्पेन ह्रस्वत्वपं स्यात्। न ह्यत्र ह्रस्वत्वं पूर्वसूत्रेण विहितमित्यभिप्रायेणाऽऽह -`अङी च या नदी ङ्यन्तश्च यदेकाच्` इति। एतेन श्रुतापेश्रयाऽत्र शेषत्वामाश्रीयते, न तु यस्य ह्रस्वो न विहितः, तदपेक्षयेति दर्शयति। कथं पुनरेतल्लभ्यते? शेषग्रहणात्। अन्तरेणापि शेषग्रहणं शेषस्यैव विकल्पेन ह्रस्वत्वं भविष्यति। तथा हि यदि ङ्योऽनेकाचो भाषितपुंस्कस्यापि विभाषा ह्रस्वः स्यात्, तदा पूर्वयोग एवेदमन्यतरस्यांग्रहणं कुर्यात्। इह कारणाद्यस्य पूर्वेण ह्रस्वो न विहितस्तस्यैव पाक्षिकं ह्रस्वत्वमन्तरेणापि शेषग्रहणं शेषस्यैव भविष्यतीत्यवसीयत इति किं शेषग्रहणेन? तत्? क्रियते `ङ्योऽनेकाचः` [[6.3.43]] इति पूर्वसूत्रे योऽच्? श्रूयते तदपेक्षया शेषो विज्ञायत इत्येवमर्थम्। न चमलकीतरा, द्रीणीतरेत्यत्र श्रुतापेक्षया शेषत्वमुपपद्यते; ङ्योऽनेकाच्त्वात्। तस्मान्न भवत्यत्र ह्रस्वत्वप्रसङ्गः। `स्त्रीतरा` इति। स्त्यायतेर्डट्? डित्वाट्टिलोपः, वलिलोपश्च [[6.1.64]] , टित्वान्? ङीप्। वक्तवयः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -अन्यतरस्यांग्रहणस्य व्यवस्थितविभाषाविज्ञानात्? कृन्नद्या न भविष्यतीति। `लक्ष्मीतरा` इति। `अवितृस्तृतन्त्रिभ्य ईः` (द।उ।1।82) `र्लक्षेर्मुट्? च`, (द।उ।1।84) इतीकारप्रत्ययान्तो लक्ष्मीशब्दो व्युत्पादितः। कृन्नद्ययं भवति॥", "63045": "`श्रेयसितरा` इति। ईयसुनि परतः <<प्रशस्यस्य श्रः>> [[5.3.60]] इति प्रशस्यशब्दस्य श्रादेशः, <<उगितश्च>> [[6.3.45]] इति ङीप्। `विदुषीतरा` इति। विदेः परस्य लटः शत्रादेशः, तस्य <<विदेः शतुर्वसुः>> [[7.1.36]] इति वस्वादेशः, <<वसोः सम्प्रसारणम्>> [[6.4.131]] परपूर्वत्वम्, पूर्ववन्ङीप्। `पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः` इति। श्रेयस्तरा, विद्बत्तरेति पक्षे यथा स्यात्। `विद्बत्तरा` इति। `वसुरुआंसु` [[8.2.72]] इति सकारस्य दकारः `खरि च` [[8.4.54]] इति तकारः। `प्रकर्षयोगात्` इत्यादिनोपसंख्यानं प्रत्याचष्टे। शब्दानां व्युत्पत्तौ प्रवृत्तौ च न वस्तुसन्निधानं प्रधानं कारणम्, अपि तु विवक्षैव। न चैवं पूर्वं प्रकर्षयोगात्? स्त्रीत्वं विवक्षितम्। तस्मादस्त्रीप्रत्ययान्तादेवातिशायिकेन भवितव्यम्। आतिशायिकप्रत्ययान्तात्तु स्त्रीप्रत्ययेनेति सिद्धं श्रेयस्तरेत्यादि रूपम्। ननु च ङ्याब्ग्रहणं तदन्तात् तद्धितविधानार्थमित्युक्तम्, तत्कथमस्त्रीप्रत्ययान्तात्? तद्धितप्रकर्षप्रत्ययो युज्यते? नैतत; अत्र विषये स्त्रोत्वतद्धितार्थयोर्युगपद्विवक्षामभिप्रेत्य तदुक्तम्, न तु यत्र विषये प्राक्? प्रकर्षार्थेन सम्बन्धात्? स्त्रीत्वस्य विवक्षा नास्ति तमभिप्रेत्येति किमत्र न युज्यते॥", "63046": "`महादेवः, महाब्राआहृणः` इति। <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना कर्मधारयः। `महाबाहुः` इति। बहुव्रीहिः। `लक्षणोक्तत्वात्` इत्यादिना परमतमाविष्कृत्य निराकरोति। स्यादेतत् -उत्तरपदेन समासः सन्निधापितः, समासे हि सत्युत्तरपदं भवति, स च समासो लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) महतो यः प्रतिपदोक्तः <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना साक्षाद्विशेषविहित स एव गृह्रते, न तु यो लाक्षणिकः सामान्यलक्षणोक्तश्च समासः -महत्पुत्र इति? अत्र `षष्ठी` [[2.2.8]] इति सामान्यलक्षणेन विहितत्वात्, तस्मादत्र न भविष्यतीति। यद्येवम्, बहुव्रीहावपि न स्यात्; तस्यापि लाक्षणिकत्वात्। `तदर्थम्` इत्यादि। बहुव्रीहावप्यात्त्वं यता स्यादित्येवमर्थं समानाधिकरणग्रहँ कर्तव्यम्। तत्र सतद्येषा परिभाषा नोपतिष्ठते। यद्युपतिष्ठते समानाधिकरणमनर्थकं स्यात्; महतो यः प्रतिपदोक्तः समासस्तस्य समानाधिकरणपदत्वात्। तस्याश्चानुपस्थाने सति बहुव्रीहावप्यात्त्वं भवति। असति तु समानाधिकरणग्रहणे तया परिभाषयेहोपस्थातव्यम्। ततश्च यता महत्पुत्र इत्यत्र न भवति, तथा बहुव्रीहावपि महाबाहुरित्यत्र न स्यात्। `अमाहन्? महान्? सम्पन्नो महद्भूतश्चन्द्रमा इति यत्रार्थे च्व्यन्तो महच्छब्दो वर्तते तत्रैव भूतशब्दोऽपि, तस्मात्? सामानाधिकरण्ये सतद्यात्त्वेन भवितव्यम्` -इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकत्तुमाह -`अमहान्? महन्` इत्यादि। `महद्भूतः` इति। महच्छब्दात् `अभूततद्भावे` [[5.4.50]] इत्यादिना च्विः, तस्य <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इति गतिसंज्ञकत्वाद्भूतशब्देन <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। `गौणत्वात्` इत्यादि। लोके हि शब्दादुच्चरिताद्गौणमुख्यार्थसम्भवे सति मुख्यार्थंएवं सम्प्रत्ययो भवति, न तु गौणेऽप्रदाने। तथा हि -`गौरानीयताम्` इत्युक्ते सास्नादिमानेवानीयते, न तु बाहीक इति। तस्मादिहापि महच्छब्दादुच्चारितान्मुख्य एव महदर्थे सम्प्रत्ययो भवति, न गौणे। गौणश्चात्र महदर्थः। तदभिधानाच्च महच्छब्दोऽपि गौण इति न भवत्यात्त्वम्। ननु च महत्त्वेन युक्तश्चन्द्रमा महानेव, तदयुक्तं महदर्थस्य गौणत्वम्? नैतदस्ति; सर्वत्रैव हि च्व्यन्तेनार्थ आश्रितपूर्वावस्थ उपचरितोत्तरावस्थ उच्यते, तस्मादिहापि चन्द्रमा अमहत्त्वपूर्वावस्थो महच्छब्देनोच्यमान उपचरितमहत्त्वानुगतोत्तरावस्थ एव उच्यत इति युक्तास्य गौणता। यदि गौणत्वान्महच्छब्दस्यात्त्वमिह न भवति, तदा पुंवद्भावोऽपि न स्यात्, अमहती ब्राआहृणी महती सम्पन्ना महद्भूतेति; वृद्ध्यात्त्वे च गौणस्य गोशब्दख्य न स्याताम्, गौर्वाहीकस्तिष्ठतीति वृद्धिर्न स्यात्? <<गोतो णित्>> [[7.1.90]] इति गौणाद्? गौशब्दात्? परस्य सर्वनामस्थानस्य णित्त्वेऽसति गां वाहीकमानयेत्यत्र <<औतोऽम्शसोः>> [[6.1.93]] इत्यात्त्वं न स्यात्? नैष दोषः; पुंवद्भावस्तावत्? `स्त्रियाः पुंवत्` [[6.3.33]] इति योगविभागाद्भविष्यति। योगविबागश्चावश्यं कर्तव्यो गर्भिभार्य इत्याद्यर्थः, महत्या घासो महाघास इत्याद्यर्थश्च; सोऽन्यार्थः क्रियमाण एतदर्थोऽपि भविष्यति। ननु च क्रियमाणेऽपि योगविभागे नैवात्र पुंवद्भावः प्राप्नोति, महदर्थस्य गौणत्वात्, योगविभागस्य चान्यत्र चरितार्थत्वात्? एवं तर्हि <<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इति सूत्रे द्वितीयः पुंवदिति योगविभागः किष्यते, स गौणार्थो भविष्यति। वृद्ध्यात्त्वाभावदोषोऽपि न प्रसजति; यस्माद्वाक्यात्? तत्र गौणत्वं प्रतीयते। पद्सय तु मुख्य एवार्थः, न च पदसंस्कारवेलायां वाक्यार्थोऽपेक्ष्यते। `महादात्त्वे` इत्यादि। समानाधिकरण आत्त्वपुंवद्भावौ विधीयमानौ व्यधिकरणे न प्राप्नुतः। तस्माद्वयधिकरणेऽप्युत्तरपदे घासादौ महदात्तवस्योपसंख्यानं कर्तव्यम्। उपसंख्यानमित्यस्य प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम् -<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इत्यत्रापि `आत्` इति योगविभागं करिष्यति, तेन महत्या घासो महाघास इत्यादावात्त्वं भविष्यतीति। स चावश्यं योगविभागः कर्तव्यः -अष्टाकपालमित्याद्यर्थम्, सोऽन्यार्थं क्रियमाण एतदर्थोऽपि भवति। `पुंवद्वचनं च` इत्यादि। घासकरविशिष्टेष्वित्यपेक्ष्यते। पुंवद्भावस्य वचनं व्याख्यानं कर्तव्यम्, तच्च पूर्वमेव कृतम्। `अष्टनः कपाले` इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्च प्रतिपादनं पूर्वमेव कृतम्। `अष्टाकापालम्` इति। अष्टसु कपालेषु संस्कृतमिति `तद्धितार्थ` [[2.1.50]] इत्यादिना समासः, <<संस्कृतं भक्षाः>> [[4.2.16]] इत्यण्, तस्य <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति लुक। `अष्टकपालं ब्राआहृणस्य` इति। अष्टानां कपालानां समाहारोष्टकपालम्, समाहारे द्विगुः। अत्र पात्रादित्वात् (वा।159) स्त्रियां न भाष्यते। तेन <<द्विगोः>> [[4.1.21]] इति ङीब्? न भवति। `गवि च युक्ते` इत्यादि। गोशब्दे चोत्तरपेद युक्तार्थे गम्यमानेऽष्टन्शब्दस्यात्त्वस्य प्रतिपादनं कर्तव्यम्। तच्च प्रतिपादनं पूर्वमेव कृतम्। `अष्टागवेन शकटेन` इति। अष्ठौ गावो युक्ता अस्मिन्निति त्रिपदोऽयं बहुव्रीहिः। युक्तशब्दस्तु गम्यमानत्वाद्वतौ न प्रयुज्यते, यथा दध्योदन इत्यत्रोपसिक्तशब्दः। यदि च बहुव्रीहिरयम्, तदा <<गोरतद्धितलुकि>> [[5.4.92]] इति टच्? समासान्तो न प्राप्नोति; तत्पुरुषाधिकारात्? मा भूत्? टच्? `अच्? प्रत्यन्ववपूर्वात्` [[5.4.75]] इत्यत्र अजिति योगविभागात्? भविष्यति, यथा -कृष्णभूमः, पद्यनाम इत्यादौ। अथ वा -अष्टानां गवां समाहारोऽष्टगवम्, अष्टगवेन युक्तमष्टागवम्। न चैवं युक्तशब्दस्य प्रयोगः प्रसजति; पदैकदेशस्य प्रयोगात्, यथा -सत्यभामा भामा, भीमसेनो भीमः, बलभद्रो बल इति। `एकादश` इत्यत्रापि तत एव योगविभागादात्त्वं वेदितव्यम्। योगविभागस्य च लिङ्गम् -`प्रागेकादशभ्यः` [[5.3.49]] इति निर्देशः। `तपकरँ विस्पष्टार्थम्` इति। अथ भिन्नकालानां निवृत्त्यर्थ कस्मान्न भवति? भाव्यमानेनाणा सवर्णानामग्रहणात्। गुणान्तरभिन्नानां तर्हि ग्रहणं कस्मान्न भवति? गुणानामभेदकत्वात्॥", "63047": "संख्यातानुदेशोऽत्र न भवति। यदि हि स्यादष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयथ्र्यं स्यात्। प्रतिषिद्धे ह्रात्त्वे सवर्णदीर्घत्वेन भवितव्यम्। अल्पाच्तरत्वाच्चाशीतिशब्दस्य पूर्वनिपातेकर्तव्ये परनिपातेन लक्षणव्यभिचारचिह्नेन सख्यातानुदेशाभावः सूचितः। `द्वादश` इति। द्वौ च दश चेति द्वन्द्वः। अथ वा द्वाभ्यामधिकादशेति समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इत्युत्तरपदलोपी तत्पुरुष समासः। एवं `द्वाविंशतिः` इत्यादावपि वेदितव्यम्। `द्वौमातुरः` इति। द्वयोर्मात्रोरपत्यमिति विगृह्र तद्धितार्थे समासः, ततः `मातुरुत्संख्यासम्भद्रपूर्वायाः` [[4.1.115]] इत्यण्; उकारश्चान्तादेशः। `द्वित्राः` इति। द्वौ वा त्रयो वेति विगृह्र `सङ्ख्ययाव्यय` [[2.2.25]] इत्यादिना बहुव्रीहिः, `बहुव्रीहौ संख्येये` [[5.4.73]] इत्यादिना डच्? समासान्तः, टिलोपः। `द्विदशाः` इति। पूर्ववड्डच्, बहुव्रीहिः। द्विर्दशेति विग्रहः। सुबर्थेऽयं समासः। अत्र हि दशसम्बन्धिन्यावृत्तिर्दशशब्देन लक्ष्यमाणा द्विशब्देन संख्यायते। तेन द्वौ दशकावित्ययमर्थो वेदितव्यः। समासः सुबर्थं गमयितुं समर्थ इति वृत्तौ सुज्? न प्रयुज्यते। `द्व्यशीतिः` इति। पूर्ववद्द्वन्द्वः; उत्तरपदलोपी वा तत्पुरुषः। `प्राक्? शतात्` इत्यादि। शतात्? प्रागया संख्या तद्वाचिन्युत्तरपदे द्व्यष्टन आत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `विभाषा चत्वरिंशत` [[6.3.48]] इत्यत्र वक्ष्यमाणविभाषाग्रहणं सिंहावलोकिनतन्यायेनेहाप्युपतिष्टते, सा च व्यवस्थितविभाषा। तेन प्राक्? शताद्या संख्या तद्वाचिन्यत्तरपदे भविष्यति। शतादिवाचिनि तु न भविष्यति। एवमुत्तरयोरपि योगयोः प्राक्शतात्? कार्यं भवतीति वेदितव्यम्।", "63048": "", "63049": "सर्वग्रहणं द्व्यष्टनोरपि यथा स्यादित्येवमर्थम्; इतरथा हि `अनन्तरस्या विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति त्रेरेव स्यात्। मण्डुकप्लुतिन्यायेन द्व्यष्टन इत्येतदपीहानुवर्तिष्यते, ततोऽयमदोष इति चेत्? एवं तर्हि विस्पष्टार्थं सर्वग्रहणमिति॥", "63050": "`ह्मल्लेशः`। <<कर्मण्यण्>> [[3.2.1]] `ह्मद्यः` इति। `प्राग्धिताद्? यत्` [[4.4.75]] । `हार्दम्` इति। <<तस्येदम्>> [[4.3.120]] इति प्राग्दीव्यतोऽण्। `ह्मल्लासः` इति। लसनं लासः, भावे घञ्। `कृद्योगा च षष्ठी समस्यते` (वा।86) इति षष्ठीसमासः। `लेख इत्यणन्तस्य ग्रहणम्` इति। एतच्च कात्ययनप्रभृतीनां प्रमाणभूतानां वचनाद्बिज्ञायते। कात्यायनेनोक्तं यत् - `अण्ग्रहणे स्वरूपग्रहणं द्रष्टव्यम्, कृतः? लेखग्रहणात्` इति। भाष्यकृताप्युक्तम् - `सर्वत्रैवोत्तरपदाधिकारे प्रत्ययग्रहणे स्वरपग्रहणं द्रष्टव्यम्, कुतः? लेखगरहणात्` इति। एतच्च वचनद्वयं कथमुपपद्यते? यदि लेख इत्यणन्तस्य ग्रहणं भवति, नान्यथा। अथ घञन्तस्यापि लेखशब्दस्य ग्रहणं कस्मान्न विज्ञायते? इत्याह - `घञि तु` इत्यादि। `एतदेव` इत्यादि। अण्ग्रहणादेव तदन्तस्य लेखशब्दस्य ग्रहणे सिद्धे तस्य पृथग्ग्रहणं क्रियणाणमेतज्ज्ञापयति - उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तं न गृह्रत इति। तेनेह यदण्ग्रहणे घरूपादिसूत्रे च [[6.3.42]] घादिप्रत्ययग्रहणे प्रत्ययमात्रं गृह्रते, न तदन्तविधिरिति भावः॥", "63051": "`सौहाद्र्यम्` इति। शोभनं ह्मदयमस्येति बहुव्रीहिः। ततः ष्यञ्। `ह्मदयशब्देन` इत्यादि। ह्मदयशब्देनेह समानर्थे ह्मच्छब्दे सति यदा ह्मच्छबदस्य प्रयोगः, तदा ह्मच्छोक इति भविष्यति, यदा ह्मदयशब्दसय तदा ह्मदयशोक इति, ततश्च तेनैव प्रकृत्यन्तरेण सिद्धे विकल्पविधानमिदं न कर्तव्यम्। एतत्? क्रियते तु प्रपञ्चार्थम्। स एव सिद्धप्रयोगोऽनेन सूत्रेण कथ्यत इति॥", "63052": "`पदाजिः` इति। `अज गतिक्षेपणयोः` (धातुपाठः-230)। `पदातिः` इति। `अत सातत्यगमने` (धातुपाठः-38)। `अज्यतिभ्याञ्च पादे च` इत्यौणादिक इण्प्रत्ययः` इति। अत्र `जनिघसिभ्यामिण्` (द।उ।1।58) इत्यत इष्ग्रहणानुवृत्तेः। यदौणादिक इण्प्रत्ययः, एवं सति तत्र `अजेव्र्यघञपोः` [[2.4.56]] इति वीभावः कस्मान्न भवति? इत्याह -`तत्र` इत्यादि। `पदगः` इति। `अन्तात्यन्ताध्वदूरपार` [[3.2.48]] इत्यादौ सूत्रे `डप्रकरणऽन्यत्रापि दृश्यते इति वक्तव्यम्` (वा।256) इत्युक्तम्। तेन पादशब्देऽप्युपपदे गमेर्डप्रत्ययः। `पदोपहतः` इति। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः, पूर्वत्र तूपपदसमासः। अकारान्तोऽयमादेशः। प्रथमायाश्च लुकं कृत्वा निर्देश। `पादशब्दोऽयम्` इत्यादि। <<कर्षात्वतो घञोऽन्त उदात्तः>> [[6.1.159]] इत्यन्तोदात्तत्वे प्राप्ते पादशब्दस्य वृषदित्वादाद्युदात्तत्वं विधीयते, ततश्च तस्य स्थाने पदादेशो विधीयमान आन्तरतम्यादाद्युदात्त एव स्यात्? अन्तोदात्तश्चेष्यते। तस्मादान्तोदात्तो निपात्यते उपदेशावस्थायामेव। `तेन` इत्यादिनान्तोदात्तनिपादनस्य फलं दर्शयति। `पदाजिः, पदातिः` इत्यादिनाप्युपदेशग्रहणस्य। यदि <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति प्रकृतस्वरे कृते पदशब्दस्यान्तोदात्ततवं निपात्यते, तदा तस्य सतिशिष्टत्वं स्यात्, ततश्च पदाजिः पदातिः पदग इत्येषु कृत्स्वरो बाध्यते; सतिशिष्टस्वरस्य बलीयस्त्वात। उपदेशावस्थायांत्वन्तोदात्तत्वनिपातने कृत्स्वर एव सतिशिष्टो भवति। अतस्तेन समासस्यैवान्तोदात्तत्वं भवति न पदशब्दस्य॥", "63053": "`पद्याः` इति। <<विध्यत्यधनुषा>> [[4.4.83]] इति यत्। `पाद्यम्` इति। पादशब्दात्? `तादर्थ्ये यत्` [[5.4.24]] इत्यनुवर्तमाने `पादार्घाभ्याञ्च` [[5.4.25]] इति यत्। `पद्भावे` इत्यादि। पद्भावे कर्तव्येऽस्मश्चरत्यर्थे य इक्? तस्मिन्? कृते पद्भावस्योपसंख्यानम्=प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - पदिति योगविबागात्? सिद्धमिति। पर्पादिष्वेव `पादः पच्च्` [[4.4.10]] इति पाठात्? सिद्धमिति वा। `शरीरावयवस्य` [`शरीरावयववचनस्य - काशिका] इत्यादि। कुतः पुनरेतल्लभ्यते? केचिदाहुः - पूर्वसूत्रे सामर्थ्याच्छरीरावयवसय पादशब्दस्य ग्रहणम्। तत्राज्यातिप्रभृतीनि त्रीण्युत्तरपदानि गमनार्थानि, चतुर्थं तु हननार्थम्। तेषु गमनाधिषु प्राण्यङ्गस्यैव पादशब्दस्य करणभावः सम्भवति, नैतरस्य। तस्मात्? तत्र प्राण्यह्गवाचिनः पादशब्दस्य ग्रहणम्, इहपि तदेवानुवर्तत इति युक्तम् - शरीरावयवस्य ग्रहणमिति। यद्येवम्, तदा `ऋचः शे` [[6.3.55]] इत्यत्रापि शरीरावयवस्य ग्रहणं स्यात्? नैष दोषः; ऋक्सम्बन्धिन शरारावयववचनस्यासम्भवात्। चतुर्थभागवचनः पादशब्दोऽत्रि ग्रहिष्यते। `तेन` इत्यादि। यत एवं शरारावयववचनपादशब्दस्येह ग्रहणम्, तेन `पणपादमाष` [[5.1.34]] इत्यादो सूत्रे यः पादशब्दस्तस्य न पदादेशो भवति; न ह्रसौ शरीरावयववचनः, कि तर्हि? परिमाणवचनः। कुत एतत्? पणादिभिः परिमाणवचनैः साहचर्यात्। `द्विपाद्यम्, त्रिपाद्यम्` इति। <<तेन क्रीतम्>> [[5.1.37]] इत्यर्थे यत्प्रत्ययः॥", "63054": "`पद्धिमम्` इति। षष्ठीसमासः। `पत्काषिणः` इति। <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति णिनिः, उपपदसमासः। `पद्धतिः` इति। पादाभ्यां हन्यत इति पद्धतिः। क्तिन्नन्तेन हतिशब्देन <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः॥", "63055": "`शे` इति तद्धितस्य शस्प्रत्ययस्यावयवभूतो यः शशब्दस्तस्येह ग्रहणम्; ऋक्पादात्? परसयासम्भवात्। ननु च पादे शेते इति `अधिकारणे शेतेः` [[3.2.15]] इत्यचि कृते पादश इतयत्र शीङ्सम्बन्धी शशब्दः सम्भवति? नैतदस्ति; न हि ऋक्पाद उपपदे शेतेर्धातोरचा भवितव्यम्; तत्र तु शयनग्सम्भवत्, अनभिधानाद्वा। योऽपि <<लोमादिपामादिपिच्छादिभ्यः शनेलचः>> [[5.2.100]] इति शो विधीयते, सोऽपि नैव ऋक्पादत्? परः सम्भवति; तत्रानभिधानात्। लोमादिषु तस्यापाठाच्च॥", "63056": "घोषशब्दशबदशब्दाब्यां [`घोषशब्दशब्दाभ्यां -मुद्रितः पाठः] षष्ठीसमासः, मिश्रशब्दे च <<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> [[2.1.31]] इत्यादिना तृतीयासमासः। `निष्के चेति वकतव्यम्` इति। निष्कशब्दे चोत्तरपदे पादशब्दस्य पदित्ययमादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -<<हिमकाषिहतिषु च>> [[6.3.54]] इत्यतश्चकारोऽत्रानुवर्तते, स चानुक्तसमुच्चयार्थः। अथ वा -सूत्रे `वा` इति योग विभागः क्रियते तेन निष्के चोत्तरपदे भविष्यतीति॥", "63057": "`उदमेघो नाम यस्योदमेघिः पुत्रः` इति। पितुरप्रसिद्धत्वादुदमेघस्य तदपत्येन समाख्यातुं यस्योदमेघिः पुत्र इत्युक्तम्। एतेन यस्यौदमेघिरपत्यं स उदमेघो वेदितव्यमिति दर्शयति। एवम् - `उदवाहो नाम यस्यौदवाहिः पुत्रः` इत्यत्रापि वेदितव्यम्। उदमेघ इति षष्ठीसमासः, उदकपूर्णो वा मेघः - शाकपार्थिवादित्वा(वा।83) न्मध्यमपदलोपी तत्पुरुषः, उदकं बहतति उदवाहः - <<कर्मण्यण्>> [[3.2.1]] । `वक्तवयः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - इहापि स एव चकारोऽनुवर्तते अनुक्तस मुच्चयार्थः, न चान्यत्? समुच्चेतव्यमस्तीति। उदभावमेवासावुदकशब्दस्य संज्ञायां समुच्चिनोति। तत्र कस्य समुच्चिनोति? यस्य न प्राप्नोति। कस्य न प्राप्नोति? उत्तरपदभूतस्य। तेन संज्ञायामुत्तरपदस्याप्युदकशब्दयोद इत्ययमादेशो भवति। `लोहितोदः, क्षीरोदः` इति बहुव्रीहि-॥", "63058": "", "63059": "यद्येकशब्दः सुख्यावचन इह गृह्रते, तदानर्थकं तस्य ग्रहणं स्यात्। न हि क्वचित्? द्वौ बहवो वा हल आदिभूताः सम्भवन्ति, यद्व्यवच्छेदार्थमेकग्रहणं क्रियते। तस्मादसहायवचनोऽयमेकशब्दः। एवमपि यः कश्चिदविशिष्ट एकोऽसहायो हल्? आदिर्यस्य तदेकहलाद्युत्तरपदं गृह्रेत, तदोदकस्थानमित्यत्रापि स्यात्। अत्रापि हि सकारोऽसहाय एव एकहल्। यद्यनेके वर्णा युगपदुच्चार्येरन्, उच्चरिता वा वर्णा न प्रध्वंसेरन्, तदा ससहायस्यापि स्यादादित्वम्। न चैवम्; यतो वर्णा न युगपदुच्चार्यन्ते, ते चोच्चारितप्रध्वसिनः। तस्मान्नास्त्येव क्वचित्? किंचिदनेकहलादित्वं यद्व्यवच्छेदार्थमेकहलादावित्युच्यते। उक्तं चेदम्। अतोऽस्मादेव वचनाद्विशिष्टमात्रैकहलादित्वं विवक्षितमित्येतत्? सर्वं चेतसि कृत्वा तदेव विशिष्टं दर्शयितुमाह -`एकोऽसहायः` इत्यादि। यश्चातुल्यजातीयेनाप्यचा विनैको हल्? स आदिर्यस्येति तदेकहलादि। तुल्यजातीयेन चव्यवहितेनापि यस्य तदेकहलादीहाश्रीयेत तदा न क्वचित्? स्यात्; तथाविधस्योत्तरपदस्य पूरयितव्यवाचिनोऽभावात्, उच्यते चेदम्। तस्माद्वचनप्रामाण्यात्? तुल्यजातीयेन हलाऽनन्तरेणाव्यवहितेन विना यो वर्तते सोऽसहाय एव#एहैकशब्देनासहायवाचिना विवक्षित इति गम्यते। एवंदिधो हलादिर्यस्य तदेकहालादि। न चैवंविधः स्थानशब्दस्यादिर्हलस्तीत्येकहलादिगरहणेन स्थानशब्दो निवर्तते। `पूरियतव्यवाचिनि` इति। उदकादिना द्रव्येणान्तव्र्याप्तव्यः पूरयितव्य इत्युच्येत। तद्वक्तुं शीलमस्येति ताच्छीलिको णिनिः॥", "63060": "द्रवद्रव्यसंपृक्ताः सक्तवो मन्थ इत्युच्यते। तत्र मन्थशब्दोऽयं यद्यव्युत्पन्नं प्रातिपदिकम्, तदोदकेन मन्थ इति `तृतीया` [[2.1.30]] इति योगविभागात्? समासः। अथ व्युत्पाद्यते -मध्यत इति मन्थः, तदा <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। सकत्वोदनाभ्यां <<अन्नेन व्यञ्जनम्>> [[2.1.34]] इति समासः। बिन्दुवज्रवीवधैः `षष्ठी` [[2.2.8]] इति भारहारगाहैरणन्तैः <<उपपदमतिङ्>> [[2.2.19]] इति॥", "63061": "`ग्रामणिपुत्रः` इति। ग्रामं नयतीती `सत्यूद्विष` [[3.2.61]] इत्यादिना क्विप्। `अग्रग्रामाभ्याञ्च नयतेः` (कात्या।वा।5064) इति णत्वम्। `गार्गीपुत्रः` इति। `यञश्च` [[4.1.16]] इति गाग्र्यशब्दान्ङीप्, <<यस्येति च>> [[6.4.148]] इत्यकारस्य लोपः, <<हलस्तद्धितस्य>> [[6.4.150]] इति यकारस्य च। अथ दिकल्पार्थमेव गालवग्रहणं कस्मान्न भवति? इत्याह -`अन्यतरस्याम्` इत्यादि। `कारीषगन्धीपुत्रः` इति। करीषगन्ध्यायायः पुत्र इति षष्ठीसमासः `ष्यङः सम्प्रसारणम्` [[6.1.13]] इत्यादिना सम्प्रसारणम्, <<सम्प्रसारणाच्च>> [[6.1.108]] इति परपूरवत्वम्, `हलः` [[6.4.2]] (इति) सम्प्रसारणस्य दीर्घः। `इयङुवङ्भाविनाम्` इत्यादि। इयङुवङौ भाविनौ येषां ते तथोच्यन्ते। `श्रीकुलम्` इति। इयङ्भाविन उदाहरणम्। `भ्रूकुलम्` इति। उवङ्भाविनश्च। `कण्डीभूतम्, वृषलीभूतम्` इति। अवप्ययानाम्। काण्डवृषलशब्दाभ्यां `अभूततद्भावे` [[5.4.50]] इत्यादिना च्विः, <<अस्य च्वौ>> [[7.4.32]] इतीत्वम्। `भ्रूकुंसः` इति। भ्रूश्चासौ कुंसश्चेति विशेषणसमासः। एवं `भ्रुकुटिः` इत्यत्रापि। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -पृषोदरादित्वाद्भ्रुकुंसादीनामकारो भविष्यतीति॥", "63062": "`एकरूप्यम्` इति। `हेतुमनुष्यभ्योऽन्यतरस्यां रूप्यः` [[4.3.81]] इति रूप्यः। `एकमयम्` इति। `मयट्? च` [[4.3.82]] इति, मयट्। `एकत्वम्, एकता` इति। <<तस्य भावस्त्वतलौ>> [[5.1.119]] इति त्वतलौ। यदैकशब्दः संख्यापरो भवति तदैतदुदाहरणम्। यदा संख्येयपरो भवति। तदा `त्वलोर्गुणवचनस्य` (वा।730) इति पुंवद्भावेनैव सिद्धम्। ननु च गुणमुक्तवान्? गुणवचनः, यश्च गुणमात्रमभिधाय तद्विशिष्टं द्रव्यमाह स गुणवचनो भवति। तद्यथा -कृष्णः पटः, शुक्लः पट इति; अयं पुनरेकशब्दो न क्वचिदपि द्रव्यव्यतिरिक्तं गुणमाह, सर्वदा संख्येये द्रव्ये वर्तत इति कृत्वा, तत्? कुतोऽसय पुंवद्भावः? अयुक्तमिदमभिधीयते; तथा हि -प्रसिद्धमामाश्रित्यैकादयः संख्येयवचना इत्युच्यन्ते, न त्वेषां संख्याने वृत्तिर्नाभ्युपेयेति। तथा हि -<<द्व्येकयोर्द्विवचनैकवचने>> [[1.4.22]] इत्यत्र त्वेकशब्दः संख्यायामेव प्रयुक्तो न संख्येये द्रव्ये। `लिङ्गविशिष्टस्य` इत्यादि। पुंल्लिङ्गो य एकशब्दः स स्वभावत एव ह्रस्वान्त इति न तद्ग्रहणं प्रयोजयति, अपि तु स्त्रीलिंगविशिष्टस्यैव। तस्यैव हि ह्रस्वत्वं विधीयमानमर्थवद्भवति। ननु नैतस्याप्येकशब्दस्य य एकारस्तस्य ह्रस्वत्वं विधीयमानमर्थवद्भवति, तत्? किमुच्यते लिङ्गविशिष्टस्यैकशब्दस्य ग्रहणं प्रयोजयति? इत्याह -`अचा गृह्रमाणम्` इत्यादि। विशेषणविशेष्यभावं प्रति कामचारः। तथा ह्रुक्तम् -विशेषणविशेष्यभावयोर्यथेष्टत्वादिति। तत्र यदि गृह्रमाणेनैकशब्देनाज्विशिष्यते -एकशब्दस्य योऽजिति, तदैकसम्बन्धिन एकारस्य हरस्वत्वं विधीयमानमर्थवद्भवति। पुंल्लिङ्गस्याप्येकशब्दस्य ग्रहणं प्रयोजति। न चात्र गृह्रमाणेनाज्विशिष्यते; एकारस्य ह्यसवस्यानिष्टत्वात्। न ह्रनिष्टार्था शास्त्रे प्रकॢप्तिर्युक्ता (भो।प।सू।107), तस्मादाचा गृह्रमाण एकशब्दोऽत्र विशिष्यते। तेन लिङ्गविशिष्टस्य ग्रहणम्। एकशब्दस्य ह्रस्वो भवति, किं विशिष्टस्चाचः? अजन्तस्येत्यर्थः। तत्रालोऽन्त्यस्यैव ह्रस्वत्वेन भवितव्यम्, तच्च टाबन्तस्यैव सार्थकम्, न पुंल्लिङ्गस्य; न हि ह्रस्वस्यैव ह्रस्वे विधीयमाने कश्चिदर्थः सिध्यति। इतिकरणो हेतौ। यत एव#आचा गृह्रमाण एकशब्दोऽत्र विशिष्यते, तेन लिङ्गविशिष्टस्य ग्रहणमेकशब्दस्य प्रयोजयति॥", "63063": "`रेवतिपुत्रः` इति षष्ठीसमासः। एवं `रोहिणिपुत्रः` इत्यादावपि। कुमारीं ददातीति `कुमारिदा`। उर्वी ददातीति `उर्विदा`। <<आतोऽनुपसर्गे कः>> [[3.2.3]] । `फाल्गुनी` इत्यादि। फाल्गुनी चासौ पौर्णमासौ चेति फाल्गुनी पौर्णमासौ, `विशेषणम्` [[2.1.56]] इत्यादिना समासः। एवं `जगतीच्छन्दः` इत्यत्रापि।`शिलवहम्, शिलप्रस्थम्` इति। शिलाशब्दसय वहप्रस्थशब्दाभ्यां `षष्ठी` [[2.2.8]] इत्यनेन समासः। `लोमकागृहम्, लोमकाषण्डम्` इति। अत्रापि लोमकाशब्दसय गृहषण्डशब्दाभ्याम्। `अजक्षीरेण इति। अत्राप्यजाशब्दस्य क्षीरशब्देन। `ऊर्णमृत्` [`ऊर्णमृदा` -काशिका। ऊर्णम्रवा -पदमञ्जरी] इति। ऊर्णासहिता मृद्? ऊर्णमृत्। शाकपर्थिवादित्वादुत्तरपदलोपी समासः॥", "63064": "`संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति` इति। एवकारेण संज्ञाया व्यवच्छेदः क्रियते। न हि त्वप्रत्यये ङ्यापोह्र्यस्वत्वे कृते कस्यचित्? संज्ञा गम्यते। तेन संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति॥", "63065": "`इष्टकचितम्` इति। `कर्तृकरणे` [[2.1.31]] इत्यादिना समासः। `इषीकतूलम्` इति। षष्ठीसमासः। `मालभारिणी` इति। मालां भर्त्तुं शीलमस्या इति ताच्छील्ये णिनिः [[3.2.78]] , <<उपपदमतिङ्>> [[2.2.19]] इति समासः। `इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवति` इति। बहुलग्रहणानुवृत्तेरित्यभिप्रायः॥", "63066": "`कालिम्मन्या, हरिणिम्मन्या` इति। कालीमात्मानं मन्यते हरिणीमात्मानं मन्यत इति <<आत्ममाने खश्च>> [[3.2.83]] इति खश्, दिवादित्वाच्छ्यन्, अनेन ह्रस्वत्वम्, उत्तरसूत्रेण मुम्। इहाजन्तस्य ह्रस्वत्वमभ्युपगम्यम्; अन्यथा वाङ्मन्य इत्यत्रापि स्यात्। अजन्तस्य ह्रस्वविधाने सति परत्वान्मुमि कृतेऽनजन्तत्वाध्यस्वो न प्राप्नोतीति यो मन्येत तं प्रत्याह - `मुमा ह्रस्वो न बाध्यते` इति। अत्रैव हेतुमाह - `अन्यथा हि` इत्यादि। ह्रस्वः शिष्यते=विधीयते येन तत्? ह्रस्वशासनं `खित्यनवययस्य\t` इत्येतद्ववचनम्। यदि हि मुमा ह्रस्वो बाध्येत, ततो ह्रस्वशासनामिदमनवकाशं स्यात्, ततस्तस्यानर्थक्यमेव स्यात्। तस्मान्मा भूदेष दोष इति मुमा ह्रस्वो न बाध्यते। तेन विरोधाभावादुभयं भवति - ह्यसवः, मुम्? च। कथं पुनर्मुमा ह्रस्वसय बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम्? विधीयते, ह्रस्वत्वं बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम्? च। कथं पुनर्मुमा ह्रस्वस्य बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम्? विधीयते, ह्रस्वतवं तु सामर्थ्याद्दीर्घस्य, न हि ह्यसवस्य ह्रस्वविधानमर्थवद्भवति, एवं च स्तनन्धयादिषु कृतार्थत्वान्मुमेव ह्रस्वेनापवादेन कालिम्मन्यादिषु बाध्येत? एवं मन्यते - अपवादविषयेऽपि मुमा विधानार्थं मुम्शास्त्रस्यावश्यमावृत्तिः कर्ततव्या; अन्यथा कालिम्मन्येत्यतर मुम्? न स्यात्। ततश्चापवादविषयेऽपि मुमा प्रवर्तमानेन ह्यसवस्य बाधा सम्भाव्येत। अनवकाशत्वं चातएवापवादविषयेऽपि मुम्प्रवृत्तेरिति। अथ कथमत्र खिदन्तस्य गरहणम्, यावता ज्ञापितमेतदुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधीर्नास्ति? (पु।प।पा।26) त्यत आह - `अनवययस्येत्येतदेव` इत्यादि। यद्यत्र खित्प्रत्ययमात्रं गृह्रेत न तदन्तम्, ततोनव्ययस्येति प्रतिषेधोऽपार्थकः स्यात्। न ह्रव्ययात् परः खित्? प्रत्ययः सम्भवति; धातोरेव तस्य विधानात्। ततश्चानर्थकत्वादनव्ययस्येत्येतन्नोक्तं स्यात्। उक्तञ्च - तस्मादेतदेवै तज्ज्ञापयति - खिदन्तस्यात्र ग्रहणमिति॥", "63067": "`अरुन्तुदः` इति। अरुस्तुदतीति `विष्वरुषोस्तुदः` [[3.2.35]] इति खश्? संयोगान्तलोपः, तुदादीत्वाच्छः, अतो गुणे [[6.1.94]] पररूपत्वम्। `द्विषन्तपः` इति। द्विषन्तं तापयतीति <<द्विषत्परयोस्तापेः>> [[3.2.39]] इति खच्, `खचि ह्यसवः` [[6.4.94]] इति ह्रस्वत्वम्। `विद्वन्मन्यः` इति। विद्वांसमात्मानं मन्यत इति, <<आत्ममाने खश्च>> [[3.2.83]] इति खश्, `वसुरुआंसुध्वंस्वनडुहां दः` [[8.2.72]] इति सकारस्य दकारः, <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति तस्य नकारः। अथान्तग्रहणं किमर्थम्, यावता `येन विधस्तदन्तस्य` [[1.1.72]] इत्यनेन तदन्तस्यैव भविष्यति? इत्याह - `अन्तग्रहणम्` इत्यादि। कृतमजन्तकार्यं यस्य स कृताजन्तकार्यं आगमी, तस्यैवविधस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थमन्तग्रहणम्। अन्तग्रहणेन हि कार्यान्तरस्यान्तेऽवसाने मुम्? कर्तवय इत्येषोऽर्थः सूच्यते। अतोऽजन्तकार्ये ह्यसवत्वे कृते पश्चान्मुम्? भवति। ननु च मुमा ह्रस्वो न बाध्यत इत्यनेनैव भविष्यतति सोपपतिकोऽयमर्थः प्रतिपादितः, तत्? किमर्थमेतदन्तग्रहणम्? नैतदस्ति; तेन हि निरवकाशाद्? ह्रस्वशासनस्य मुमा ह्रस्वो न बाध्यत इत्येतावन्मात्रं प्रतपादितम्, न तु कृताजन्तकार्यस्य मुम्? भवतीत्येषोऽर्थः, ततः परत्वान्मुमि कृत सत्यनजन्तस्यापि ह्रस्वत्वं प्रसज्येत। अत्र को दोषः? खित्यन्तहरसवभावी नास्तीति। यथा कालिम्मन्य इत्यत्र मुमि कृते सत्यनजन्तस्यापि ह्रस्वत्वं भवति, तथा वाङ्मन्य इत्यत्र स्यादिति। तस्मादन्तग्रहणं कर्तव्यम्॥", "63068": "अत्र यदि `प्रत्ययवच्च` इत्येतावदुच्येत, तदा गाम्मन्य इत्यत्र <<औतोऽम्शसोः>> [[6.1.93]] इत्यात्त्वं न सात्, इह च स्त्रीम्मन्य इति -अत्रापि <<अमि पूर्वः>> [[6.1.107]] इति पूर्वसवर्णः, इह च नरम्मन्य इति नृशब्दस्य <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः। सामान्यातिदेशे विशेषस्यानतिदेशाद्वचनं त्वियङुवङर्थमेव केवलं स्यात्, इयङुवङावजादौ प्रत्ययमात्रसामान्येन विधीयमानौ सामान्यातिदेशेऽपि भवत इति कृत्वा। `अम्प्रत्ययवच्च` इत्येवमुच्यमाने सत्यात्त्वादयो भवन्ति, तेषामप्यम्प्रत्यय इष्टत्वात्। एतत्? सर्वं बुद्धौ कृत्वाह -`अम्प्रत्ययवच्च` इति। एतदेव विवृणोति -`द्वितीयैकवचनवच्च` इति। कथधं पुनरयमर्थो लभ्यते, यावतैकमम्ग्रहणम्, तेन चाभागमो निरदिश्यते, प्रत्ययवच्चेत्येतदनिष्टं स्यात्। अथ प्रत्ययस्तेन विशिष्यत आगमो न निर्दिष्टः स्यादित्यत आह - `अमिति हि` इत्यादि। एकमपयम्ग्रहणमारभ्यमाणं यस्मादुभयमेतत्? सम्पादयति तस्मादयमर्थो लभ्यत इत्यभिप्रायः। `श्रियम्मन्यः; भ्रूवम्मन्यः` इति। `अचिं श्नुधातु` [[6.4.77]] इत्यादिने यङ्वङौ। `लेखाभ्रुम्मन्यः` इति। पूर्वसूत्रेण मुमागमः। `अथेह` इत्यादि। श्रियमात्मानं ब्राआहृणकुलं मन्यत इत्युपक्रम्य=प्रस्तुत्य खश्प्रत्यये विहिते कथं भवितव्यम् -किं श्रियम्मन्यमति भवितव्यम्, उत श्रिमन्यमिति? कथं पुनरेततपक्षद्वयं सम्भाव्यते, यत एवं पृच्छति? शब्दानां द्विधा प्रवृत्तिदर्शनात्। तथा हि -केषाञ्चित्? स्वलिङ्गापरित्यागेणाप्यर्थान्तरे प्रवृत्तिर्दृष्टा, यथा भूतशब्दस्य -भूतमिथं ब्राआहृणीति; केषाञ्चित्? स्वलिङ्गपितयागेनाऽपि सा दृष्टा, यथा प्रष्ठशब्दस्य -प्रष्ठीति। तत्र श्रीशब्दो ब्राआहृणकुले वर्तमानो यद स्वलिङ्गं न परत्यजति, तदा श्रियम्मन्यमिति भवितव्यम्; अथ स्वलिङ्गं परित्यजय नपुंसकलिङ्गं गृह्णाति तदा `स्वमोर्नपुंसकात्` [[7.1.23]] इत्यमो लुकि कृते `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वत्वे च श्रिमन्यमिति भवितव्यमिति -एवमिमौ द्वावपि पक्षौ सम्भाव्येते। अत उभयपक्षसम्भवे न ज्ञायते -कथं भवितव्यम्? अतस्तत्परिज्ञानार्थं प्रश्नः। `श्रिमन्यमिति भवितव्यमिति भाष्ये व्यवस्थापितम्` [`स्थितम्` -काशिका] इति। ननु च श्रीशब्दोऽयं स्त्रीलिङ्गोऽर्थान्तरेऽपि वर्तमानः स्वलिङ्गमजहदेव वर्तते, तथा च प्रयोगोऽपि दृश्यते -शिरो म#ए श्रीः, यशो मे श्रीरिति; तत्? कथं श्रिमन्यमिति भाष्ये व्यवस्थापितम्? इत्याह -`तत्र` इत्यादि। यथा प्रष्ठादयः शब्दाः पुंयोगात्? स्त्रियां वर्तमानाः परत्यकतस्वलिङ्गा एव वर्तन्ते -प्रष्ठी, प्रवरी, गणकीति; तथा श्रीशब्दोऽप्यत्र कुलविषये वर्तमान इति भाष्यकारस्य मतम्। अतसतन्मतेन `स्वमोर्नपुंसकात्` [[7.1.23]] इत्यमो लुकि कृते -श्रिमन्यमिति। ननु च नाप्राप्ते लुक्ययमारभ्यते, यथैव <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इतीमं लुकं बाधते, तथा `स्वमोर्नपुंसकात्` [[7.1.23]] इतीममपि लुकं बाधेत? अपि च लुगेकपदाश्रयत्वादन्तरङ्गो विपर्ययाच्चामागमो बहिरङ्गः, ततः `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यन्तरङ्गे लुकि कर्तव्ये बहिरङ्गोऽमागमो नास्त्येव, तत् कुतोऽत्र लुक्? नैष दोषः; `मध्येऽपवादाः पूर्वान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।प।10) इति। एवमयममागमः <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इतीमं लुकं बाधिष्यते, न `खमोर्नपुंसकात्` [[7.1.23]] इतीमम्। बहिरङ्गपरिभाषाप्यत्राशक्याऽऽश्रयितुम्, इह हि दोषः स्यात् -अरुन्तुद इति। तदाश्रयणे तु संयोगान्तलोपो न स्यात्। संयोगान्तलोपे चान्तरङ्गे कर्तव्ये बहिरङ्गस्य मुमागमस्यासिद्धत्वेन संयोगान्ततानुपपत्तेः। तस्मात्? प्राप्तनिमित्ता सतीयमिह नाश्रीयते। दोषा एव हि तस्या एवमादयः॥", "63069": "`वाचंयमः` इति। वाचं यच्छतीति `वचि यमो व्रते` [[3.2.40]] इति खच्। तत्र वाक्शब्दसयामन्तता निपात्यते। `पुरन्दरः` इति। `पूःसरवयोर्दारिसहोः` [[3.2.41]] इति खच्, `खचि ह्रस्वः` [[6.4.94]] इति ह्रस्वत्वम्। अत्रापि पूःशब्दस्यामन्तता निपात्यते। चाकारोऽनुक्तसमुच्चयार्थः। तेन `अस्तुसत्यागदसय कारे` (वा।744) इति सर्वं न वक्तव्यं भवति॥", "63070": "`सत्यं करोति` इत्यनेन कर्मण्यणं सूचयति। `सत्यस्य कारः` इत्यनेनापि घञम्। एवं `अगदङ्कारः` इत्यत्राप्यण्घञौ वेदितव्यौ। `अस्तुङ्कारः` इति। भावे घञ्। अस्तुशब्दो विभक्तिप्रतिरूपको निपातोऽभ्युपगमे वर्तते। अस्त्वित्यभ्युपगमस्य करणस्तुङ्कारः। `भक्षङ्कारः` इति। भावे घञ्। `धेनुम्भव्या` इति। `भव्यगेय` [[3.4.68]] इत्यादिना कर्तरि कृत्यः। धेनुश्चासौ भव्या चेति धेनुम्भव्या। `लोकम्पृमः` इति। `पृण प्रीणने`, (धातुपाठः-1329) लोकं पृणतीति मूलविभुजादित्वात्? कः। `अनभ्याशमित्यः` [`अनम्याशमित्यम्` - मुद्रितः पाठः] इति। अनभ्याशं दूरमित्यं गन्तव्यमस्येत्यनभ्याशमित्यः। इन्धनमिन्धः, भावे घञ्। भ्राष्ट्रस्येन्दो `भ्राष्ट्रमिन्धः`। अग्नेरिन्धोऽग्निमिन्धः। `तिमिङ्गिलः` इति। `गृ निगरणे` (धातुपाठः-1410)। तिमिं गिलतीति पर्ववत्? कः, `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, रपरत्वम्, <<अचि विभाषा>> [[8.2.21]] इति लत्वम्। `गिलिगिलः` इति। गिलं गिलतीति पूर्वववत्? कः, इत्त्वादि च। `गिलगिले च` इति। गिलं गिलतीति गिलगिलः। <<आतश्चोपसर्गे>> [[3.3.106]] इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्? कः। पूर्वत्राप्येवं कविधाने न दोषः। तिमीनां गिलगिल इत्यस्मिन्नर्थे विवक्षित इदं वक्तव्यम्। अथ तिमिं गिलतीति तिमिङ्गिलः, तिमिङ्गलं गिलतीत्येधोऽर्थो यदा विवक्ष्यते तदा पूर्वेणैव सिद्धमिति नार्थ एतेन। `उष्ट्रङ्करणम्, भद्रङ्करणम्` इति। षष्ठीसमासौ। `पुत्रट्` इति। टकारो ङीबर्थः। केचित्तु शाङ्र्गरवादिषु पुत्रशब्दं पठन्ति` इति। तान्? प्रति नेदमुपसङ्ख्यानं कर्तव्यम्। `अन्यत्रापि दृश्यते` इति। अनेन शाङ्र्गरवादिषु पुत्रशब्दस्य पाठं द्रढयति॥", "63071": "`ञप्रत्यये परे` इति। ञः प्रत्ययो यस्मादुत्तरपदात्? तत्? तथोक्तम्। `श्यैनम्पाता` इति। पतनं पातः, भावे घञ्, श्येनस्य पातः श्येनपातः। `कृद्योगा च षष्ठी समस्यते` (वा।86) इति समासः, <<घञः साऽस्यां क्रियेति ञः>> [[4.2.58]] ॥", "63072": "`कृदन्त उत्तरदे` इति। कथं पुनस्तदन्तविधिर्लभ्यते, यावता ज्ञापितमेतत् - `उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तर्विधिर्नास्ति` (पु।प।पा।26) इति। रात्रिशब्दादनन्तरस्य कृतयप्रत्ययस्यासम्भवात्? तदन्तविधिरविज्ञायत इति चेत्? अयुक्तमेतत्; सम्भवति हि रातरेरनन्तरः कृत्प्रत्ययः। रात्रिरिवाचरतीति `अचारे सर्वप्रातिपदिकेभ्यः क्विव्? वा` (वा।187) इति क्विप्, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा, तृच्, इट्, गुणायादेशौ - रात्रयितेति। तदेवं सम्भवत्यनन्तरे कृत्प्रत्यये तत्रैव स्यात्? न तदन्ते? नैष दोषः; <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इत्यतोऽन्तग्रहणमनुवर्तते, तेन तदन्त एव कार्यं विज्ञायत इति। एवं तह्र्रचारक्विबन्तस्यापि रात्रिशब्दस्य कृदन्त उत्तरपदे स्यात्। भवतु। अथ तु नेष्यते? व्यवस्थितविभाषाऽङ्गीकर्तव्या। गौणत्वाद्वा रात्रिशब्दस्य न भविष्यति। गौणत्वं पुनः प्राथमकल्पिकादर्थदपेतत्वात्, यथा - वाहीको गौरित्यत्र गोशब्दस्य। `रात्रिञ्चरः` इति। रात्रौ चरतीति <<चरेष्टः>> [[3.2.16]] इति टः, उपपदसमासः। `रात्रिमटः` इति। अटतीत्यटः, पचाद्यच्, `रात्र्यटः` [`रात्रावटः` इति मुद्रितः पाठः] इति। `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः। `अप्राप्तविभाधेयम्` इति। ननु च खिदपि कृदस्ति - रात्रिम्मन्यमिति, अत्र हि <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति नित्यं प्राप्नोति, `रात्रिञ्चरः` इत्यादौ न केनचित्? प्राप्नोति; एवञ्च प्राप्ते चाप्राप्त इयं विभाषा युक्तेत्यत आह - `खिति हि नित्यं मुम्? भवति` इति। पूर्वविप्रतिषेधेनेत्यभिप्रायः। अत्र हि पूर्वविप्रतिषेध आश्रीयते, खिति पूर्वेण नित्यं मुम्भवति। एवञ्च खितोऽन्यदेव कृदन्तमस्य वचनस्यावकाशः। न च केनचित्? तत्र प्राप्नोतीति युक्तमस्याप्राप्तविभाषात्वम्॥", "63073": "सानुबन्धकग्रहणमिह मा भूत् - `पामनपुत्रः` इति। पामान्यस्य सन्तीति <<लोमादिपामादिपिच्छादिभ्यः शनेलचः>> [[5.2.100]] इत्यादिना नप्रत्ययः। तदन्तस्य पुत्रशब्देन षष्ठीसमासः। अथ क्रियमाणे सानुबन्धकग्रहणे स्त्रिया अयमिति `स्त्रिपुंसाभ्याम्` [[4.1.87]] इत्यादिना नञ् - स्त्रैणः, स्त्रैणश्चासावर्थश्चेति स्त्रैणार्थं इत्यत्र कस्मान्न भवति? पूर्वपदभूतस्य नञो ग्रहणात्। कुत एतत्? उत्तरपदस्य सम्बन्धिशब्दत्वात्। पूर्वपदं ह्रपेक्ष्योत्तरपदं सम्भवति। अत उत्तरपदाधिकारात्? पूर्वपदभूतस्यात्र नञो ग्रहणम्। अथ वा - विभाषाग्रहणमनुवर्तते, तस्य व्यवस्थितविभाषात्वविज्ञानान्न भविष्यति। यद्येवम्, पामनपुत्र इत्यत्राप्यत एव न भविष्यतीति नार्थः सानुबन्धकग्रहणेन? एवं तर्हि विस्पष्टार्थं सानुबन्धकग्रहणम्। न च `नस्य` इत्युच्यमाने कश्चिल्लाघवकृतो विशेषो भवति। `अवक्षेपे तिङ्युपसंख्यानं कर्तव्यम्` इति। अवक्षेपः=निन्दा। उत्तरपदे नलोपो विधीयमानस्तिङन्ते न प्राप्नोति, तस्मात्? तस्योपसंख्यानां कर्तव्यम्। ननु चास्त्येवाकारः परतिषेधवाची, `अ मा नो नाः प्रतिषेधवचनाः` इति वचनात्, ततश्च तस्यैवाक्षेपे तिङि प्रयोगो भविष्यतीति किमुपसंख्यानेन? नञोऽपि तह्र्रवक्षेपे तिङि परतः प्रयोगः प्राप्नोति। तस्मादवक्षेपे नञोकृतनलोपस्य प्रयोगनिवुत्त्यर्थमुपसंख्यानं कर्तव्यमिति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - <<वाचंयमपुरंदरौ च>> [[6.3.69]] इत्यतश्चकरोऽनुवर्तते, स चानुक्तसमुच्यार्थः। तेन तिङन्तेऽप्यवक्षेपे गम्यमाने नञो नलोपो भविष्यति॥", "63074": "`नञ एव हि स्यात्` इति। अचीति सप्तमीनिर्देशात्, <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति दतनात्। नञो नुडागमे सत्यनिष्टं रपं स्यात्। तस्माद्ग्रहणे तु सति `उभयनिर्देशे पञ्चमीनिर्देशी बलीयान्` (शाक।प।97) इत्युत्तरपदस्यैव भवति, अतो न भवत्यनिष्टप्रसङ्गः। ननु च यदि नञो नुट्? स्यात्, नलोपवचनमनर्थकं स्यात्? नानर्थकम्; अब्राआहृणः, अवृषल इत्यनजादौ नकारश्रवणं माभूदित्येवमर्थत्वात्। यदि नञो मा भूदित्येवमर्थं `तस्मात्` इत्युच्यते, तर्हि न वाच्यम्, पूर्वान्तो ह्रयं नुक्? करिष्यते? इत्याह - `पूर्वान्ते हि` इति। पूर्वान्ते नुटि क्रियमाणे ङमन्तस्य पदस्य विधीयमानः `ङमो ह्रस्वादचि ङमुण्? नित्यम्` [[8.3.32]] इति नुट्? प्राप्नोति, ततश्च स एवानिष्टप्रसङ्गः। तस्मान्नुडेव कर्तव्यः। अस्मिस्तु क्रियमाणे नञ एव मा भूदित्येवमर्थ तस्माद्ग्रहणम्॥", "63075": "`नभ्राट्` इति। `भ्राजृ दीप्तौ` (धातुपाठः-181) अस्मात्? `भ्राजभ्रास` [[3.2.177]] इत्यादिना क्विप्, जकारस्य `व्रश्च` [[8.2.36]] इत्यादिना षकारः, तस्य जशत्वम् -डकारः, तस्यापि चर्त्वम् -टकारः। `नपात्` इति। नपुंसकत्वादसत्यां सर्वनामस्थानसंज्ञायामुगिल्लक्षणो नुम्? न भवति। `नवेदाः` इति। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। `सत्सु साधवः सत्याः` इति। अनेन <<तत्र साधुः>> [[4.4.98]] इति सच्छब्दात्? प्राग्घितीयं यतं दर्शयति। `औणादिकः किप्रत्ययः` इति। `इगुपधात्? कित्` (द।उ।1।48) इति किप्रत्ययः। `क्षियः` इति। `क्षिष्? हिंसायाम्` (धातुपाठः-1506), [`क्षीष्` -धातुपाठः-] `क्षि निवासगत्योः` (धातुपाठः-1407) इति। `क्षरतेर्वा` इति। `क्षर संञ्चलने` (धातुपाठः-851)। नक्षत्रमिति निपात्यते। किमत्र निपात्यते? यदि क्षियः, तदा त्रप्रत्यय इकारस्यात्त्वम्; यद क्षरतेस्तदापि त्रप्रत्ययो रेफलोपश्च। `नास्मिन्नकमस्तीति नाकम्` इति। कमिति सुखमुच्यते। न कम्=दुःखम्। नास्मिन्नकमस्तीति नाकः=स्वर्गः। रूढिशब्दा ह्रते यथाकथञ्चित्? व्युत्पाद्यन्ते॥", "63076": "एकादिरिति बहुव्रीहिः। `एकान्नविंशतिः` इति। पूर्वं नञो विंशतिशब्देन समासं कृत्वा ततस्तृतीयसमासः कर्तव्यः। किमर्थं पुनरयं पूर्वान्त आदुक्? क्रियते, न परादिरेवादुट्? क्रियेत? तत्राण्यमर्थः - एकस्य चेत्येष आगमिनो दिर्देशो न कर्तव्यो भवति। परादौ हि क्रियमाणे नञेवागमो भवति, स च प्रकृतत्वादेव लक्ष्यते; तत्रायं वक्यार्थो भवति - `एकादिश्च नञ्? प्रकृत्या भवति, आदुट्? च तस्यागमो भवति` इति सिद्धमिष्टम्? इत्याह - `पूर्वान्तोऽयम्` इत्यादि। <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्यत्र हि <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इत्यतः पदन्तादित्यनुवर्तते। तत्र यदि परदिः क्रियते पदान्तताऽस्य न स्यात्, ततश्च पदान्तलक्षणोऽनुनासिकविकल्पो न स्यात्, इष्यते च। तस्माद्विकल्पेन यथा स्यादित्येवमर्थं पूर्वान्त आदुक्? क्रियते। अथ किमर्थमादुक् क्रियते? आदुगेव नोच्येत, अदुक्यपि क्रियमाणेऽकः सवर्णो दीर्घत्वेन [[6.1.101]] सिध्यति? न सिध्यति; <<अतो गुणे>> [[6.1.97]] पररूपत्वं प्राप्नोति, तदपयकारोच्चारणसामर्थ्यान्न भविष्यति, यदि ह्यत्र पररूपत्वं स्याद्दुकमेव विदध्यात्, तर्हि सवर्णदीर्घत्वमप्यकारोच्चारणसामर्थ्यान्न स्यात्? नैतदस्ति; तथा हि - यं विधिं प्रत्युपदेशोऽनर्थकः स्यात्? स विधिर्बाध्यते (व्या।प।56) यस्य तु विधेस्तदेव निमित्तं नासौ विधिर्बाध्यते। पररूपत्वं च प्रत्यकारोच्चारणमनर्थकम्, सवर्मदीर्घत्वं तु प्रति निमित्तमेव। एवं तह्र्रदुगेवायम्। तुल्या हि संहिता॥", "63077": "`गमेर्डप्रत्ययः` इति। `डप्रकरणे अन्यत्रापि दृश्यते` (वा।256) इति वचनात्॥", "63078": "`साआत्थम्` इति। सहाआत्थेनेति <<तेन सहेति तुल्ययोगे>> [[2.2.28]] इति बहुव्रीहिः। `सहयुध्वा, सहकृत्वा` इति। `दृशेः क्वनिप्` [[3.2.94]] इत्यनुवर्तमाने `राजनि युधि कृञः` [[3.2.95]] , `सहे च` [[3.2.96]] इति क्वनिप्, उपपदसमासः, `सर्वनामस्थाने; [[6.4.8]] इति दीर्घः। किं पुनः कारणं सादेश उदात्तो निपात्यते? इत्यत आह -`उदात्तानुदात्तवतो हि` इत्यादि। निपाता आद्युदाता भवन्ति` (फि।सू।4।80) इति सहशब्द आद्युदात्त एव, शेषमनुदात्तम्। तेनासावुदात्तानुदात्तवान्, ततश्चान्तर्यतस्तस्य स्थाने सशब्दः स्वरितः। तस्मान्मा भूदेष दोष इत्युदात्तो निपात्यते। यद्येवम्, अव्ययीभावेऽपि उदात्त एव स्वरः प्राप्नोति? इत्यत आह -`स च निपातस्वरः` इत्यादि। `यत्र` इत्यादि। बहुव्रीहौ तत्पुरुषे वा। <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इति सहेत्येतस्य समासान्तोदात्तत्वापवादः प्रकृतिस्वरत्वं भवति। तत्पुरुषेऽपि `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना। तस्मात्? तत्रैव स निपातस्वरः प्रसज्यते। अव्ययीभावे तु समासान्तोदात्तत्वापवादः प्रकृतिस्वरो न केनचिद्विहित इति ततर समासान्तोदात्तत्वेनैव भवितव्यम्। अतस्तेन बाध्यत एव। `सेष्टि, सपशृबन्धम्` इति। इष्टिरन्तो यस्य पशुबन्धोऽन्तो यस्येति, `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना समासः, अन्तवचने। अत्र परत्वात्? प्रथमसतावन्नपतस्वरः, ततः समासान्तोदात्तत्वम्। तच्च सति निपातस्वरे शिष्यत इति सतिशिष्टम्, अतस्तेन निपातस्वरो बाध्यते; सतिशिष्टस्वरस्य वलयस्त्वात्॥", "63079": "`सकलम्` इति। कला=कालविशेषः, तत्सहचारितो ग्रन्थस्तथोच्यते। सह कलया वर्तत इति सकलम्। एवं `समुहूर्तम्` इत्येतदपि वेदितव्यम्। `ससंग्रहम्` इति। एतदुदाहरणं प्रमादादिदानीन्तनैः कुलेखकैर्लिखितम्, तत्र हि <<अव्ययीभावे चाकाले>> [[6.3.81]] इत्येवं सभावः सिद्धः? इत्याह - तत्र` इत्यादि। कथं पुननं प्राप्नोति, यावता कालमुहूर्तशब्दौ तावत्? साहचर्यादत्र ग्रन्थे वर्तते? एवं मन्यते - प्रकरणादिना वाक्येन ग्रन्थविषयता तयोर्गम्यते। मुख्यस्तु काल एवाभिधेय इति। `सद्रोणा खारी` इत्यादि। `तेन सह` [[2.2.28]] इत्यादिना बहुव्रीहिः॥", "63080": "", "63081": "", "63082": "", "63083": "", "63084": "", "63085": "", "63086": "", "63087": "", "63088": "", "63089": "", "63090": "`द्वयो सहप्रयुक्तयोरप्रधानो यः स द्वितीयः` इति। प्रधानेतरसन्निपाते सत्यप्रधान एव द्वितीयशब्दस्य प्रयोगात्। तथा हि -स्वामिभृत्ययोः सहयुक्तयोर्भृत्य एव स्वामिनं प्रति द्वितीय उच्यते, न तु भृत्यं प्रति स्वामी। `उपाख्यायते यः स उपाख्यः` इति। <<आतश्चोपसर्गे>> [[3.3.106]] इति कः, स च भवन्? <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्मणि भवति। `साग्निः कपोतः` इति। पूर्ववद्बहुव्रीहिः। अत्रागनिसहयुक्तः कपोतः, तयोर्हि साहचर्य लोके प्रसिद्धम्। तत्राग्निरप्रधानः। तथा ह्रग्निः कपोतमनुविधत्ते -यत्र हि कपोतस्तत्राग्निनाऽवश्यं भवितव्यम्, न तु यत्राग्निस्तत्र कपोतेनेति नासावग्निमनुविधत्ते, तेन कपोतस्य प्राधान्यम्। अग्न्यादयः पुनरप्रधाना एव। `अग्न्यादयः` इति। अत्रादिशब्देन पिशाचदयो गृहयन्ते। तेन हि क्वचित्? प्रत्यक्षेण उपलभ्यन्ते, अपि तु कपोतादिभिरविनाभाविभिरनुमीयन्त इत्यनुपाख्या भवन्ति॥", "63091": "`अकालवाचिनि` इति। अनेन `काले` इति नेह सवरूपस्य ग्रहणम्, अपि तु कालविशेषवाचिनां पूर्वाह्णादिशब्दानामिति दर्शयति। कुत एतत पुनरवसितम्? <<ग्रन्थान्ताधिके च>> [[6.3.79]] इत्यत्र ग्रन्थान्तग्रहणात्। अनेन हि कालवाचिन्युत्तरपदे प्रतिषेधः पर्राप्नोति, स मा भूदिति। तत्र ग्रन्थान्तग्रहणं क्रियते, यदि चात्र `काले` इति स्वरूपग्रहणं स्यात्। ततस्तेनैव सकलम्, समुहूर्तमित्यत्र सभावः सिद्ध इति तत्र ग्न्थान्तग्रहणमनर्थकं स्यात्। `सचक्रम्` इति। `अव्ययं विभक्ति` [[2.1.6]] इत्यादना यौगपद्येऽव्ययीभावः। `सधुरम्` इति। `ऋक्पूरब्धूः पथामानक्षे` [[5.4.74]] इत्यकारः समासान्तः। `सहपूर्वाह्णम्` इति। तेनैव सूत्रेव साकल्येऽव्ययीभावः॥", "63092": "यदि `उपसर्जनस्य` इत्येतत्? सहशब्दसय विशेषणं स्यात्? तदाऽतिप्रसङ्गः स्यात्। विशेषानुपादानादिहापि स्यात् -सहयुध्वा, सहकृत्वेति। अत्रापि सहशब्द उपसर्जनम्; <<उपपदमतिङ्>> [[2.2.19]] इति प्रथमा निर्देशात्, अप्राधान्याच्च। अनर्थकञ्च विशेषणं स्यात्; सर्वत्रैव हि समासे सहशब्दस्योपसर्जनत्वात्। समासश्चेहोत्तरपदेन सन्निधापितः, यस्मात्? समासे ह्रुत्तरपदं भवति, अतसतस्यैवेदं विशेषणमिति मन्यमान आह -`उपसरजनसर्वावयवः` इति। उपसर्जनं सर्वोऽवयवो यस्य स तथोक्तः; अवयवधर्मेण समुदायधर्मस्य तथा निर्देशात्, यथा -आढमिदं नगरमिति। यदि कस्यचित्कश्चिदुपसरजनमवयवः कश्चिदनुपसर्जनं सोऽप्युपसर्जनमित्युच्यते, तदाऽतिप्रसङ्गदोषस्तदवस्थः स्यादिति सर्वग्रहणम्। कः पुनरसौ सर्वोपसजेनावयवः समासः? बहुव्रीहिः। ननु द्वन्द्वोऽप्युपसर्जनसर्वावयव एव, तस्यापि ग्रहणं प्राप्नोति? नैष दोषः; न हि सहपदेन तु गुणभावस्तत्रैव प्रयुज्यते। अथ वा -उभयगतिरिह शास्त्रे सम्भवतति लौकिकमप्युपसर्जनमिह गृह्रते। तेन शास्त्रीयोपसर्जनेन लौकिकेन चोपसर्जनीभूताः सर्वोऽवयव यस्य स एवोपसर्जनशब्देन विवक्षित इति विज्ञायते। न चैवंविधो द्वन्द्वः। तस्य ह्रवयवानां शास्त्रीयेणैवोपसर्जनेनोपसर्जत्वम्, न तु लौकिकेन। बहुव्रीहिस्तु लौकिकेनापि। तस्मात्? तस्यैवोपसर्जनग्रहणेन ग्रहणम्। `तदवयवस्य` इति। अनेनोपसर्जनस्येत्येषाऽवयवषष्ठीति दरिशयति। `सपुत्रः` इति। पूर्ववद्बहुवरीहिः। `सहयुष्वा, सहकृत्वा` इति। तत्पुरुषोऽयमुत्तरपदार्थप्रधानः। अथेह कस्मान्न भवति -सहकृत्वप्रियः, प्रियसहकृत्वेऽति, भवति ह्यत्रापि सहशब्दो बहुव्रीह्रवयवः? इत्याह -`इह` इत्यादि। `वा प्रियस्य` (वा।114) इति प्रियशब्दस्य विकल्पेन पूर्वनिपतः। उत्तरपदाधिकारादिह बहुव्रीह्राश्रयणाच्च बहुव्रीहौ यदुत्तरपदं तत्? परं यस्मात्? सहशब्दात्? तसय सभावेन भवितव्यम्। न चेह बहुव्रीहौ यदुत्तरपदं तत्? सहशब्दात्? परम्, शब्दान्तरेण व्यवधानादिति न भवति सभावः॥", "63093": "पूर्वेणातिप्रसक्तस्य सभावस्य प्रकृतिभावेन निवृत्तिः क्रियते। नेति वक्तव्ये प्रकृत्येति वचनं वैचित्र्यार्थम्॥", "63094": "`सगर्भः, सपूथ्यः` इति। समानो गर्भः, समानं यूथमिति विगृह्र <<पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च>> [[2.1.58]] इत्यादिना कर्मधारयः। `साधम्र्यम्` इति। बहुव्रीहेर्भावप्रत्ययः। `सजातीयः` इति। अत्रापि बहुव्रीहेरेव <<जात्यन्ताच्छ बन्धुनि>> [[5.4.9]] इति च्छः। `सस्थानीयः` इति। `स्थानान्ताद्विभाषा सस्थानेनेति चेत्` [[5.4.10]] इति च्छप्रत्ययः॥", "63095": "`सज्योति` इति। समानं ज्योतिरस्येति बहुव्रीहिः। एवं सजनपदादयो वेदितव्याः। तत्पुरुषेऽपि भवितव्यमेव; विशेषानुपातानात्। `सनामा` इति। `सर्वनामस्थाने च` [[6.4.8]] इत्यादिना दीर्घः। `सवयाः` इति। अत्रापि `अत्वसन्तस्य` [[6.4.14]] इति दीर्घ॥", "63096": "चरणशब्दोऽयमध्ययननिमित्तमुपादाय पुरुषादिषु वर्तते। ब्राहृआ चरतीति ब्राहमचारी, `व्रते` [[3.2.80]] इति णिनिः। `सब्राहृचारी` इति। पूर्ववत्? कर्मधारयः। सब्राहृचारीत्यस्यायमर्थोऽभिमतः - समाने ब्राहृणि व्रतं चरतीति। एष चात्रार्थो यथोपपद्यते, तथा दर्शयितुमाह - `ब्राहृ वेदः` इत्यादि। तदध्यनार्थ यद्व्रतं तदपि ब्राह्रेति। तादथ्र्यात्? ताच्छब्द्यम्, यथा - इन्द्रार्था स्थूणा इन्द इति। तच्चरतीति तत्? सम्पादयति, परिपालयतीत्यर्थः। केन पुनरसौ समानः? इत्याह - `समानस्तस्यैव` इत्यादि। तस्यैवेति वेदाख्यस्य ब्राहृणः। इतिकरणो हेतौ। यत एव मुपचारेण लब्धब्राहृव्यपदेशं व्रतं यश्चरति ब्राहृणश्च समानत्वादयः समानः स सब्राहृचारी। तेन सबहृचारीत्यस्यायमर्थो भवति - समाने ब्राहृणि व्रतचारीति। यदि ह्रसमाने ब्राहृणि व्रतं चरेत्? तदा समानत्वं न स्यात्। तथापि ब्राहृआख्यं व्रतं न चरेदेवमपि ब्राहृचारित्वं न स्यात्। तस्माद्यः समाने ब्राहृणि ब्राहृचारी, सोऽवश्यं समाने ब्राहृणि व्रतचारीति भवति। सब्राहृचारीत्ययमस्यर्थः सम्पदयते - समाने ब्राहृणि व्रतचारीति। अथ वा - तस्यैवेत्युपचारेण लब्धब्राहृव्यपदेशस्य व्रतस्यात्र पक्षे परमर्शः। समाने ब्राहृणि इत्यत्र ब्राहृशब्दो वेदे वर्तते, प्रतिवेदं हि भिद्यते, तदध्ययनार्थं यद्व्रतं तत्र यः समाने वेदेऽध्येतव्ये व्रतं चरति स एव सब्राहृचारीत्युच्यते॥ बाल-मनोरमाज्योतिर्जनपदचरणे ब्राहृचारिणि 998, 6.3.96 ज्योतिर्जनपद। अच्छन्दोऽर्थं वचनमिदम्। सज्योतिरिति। समानं ज्योतिर्यस्येति विग्रहः। एवं सजनपद इत्यादीति। सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, सस्थानः, सवर्णः सवयाः, सवचनः, सबन्धुः। बाल-मनोरमाचरणे ब्राहृचारिणि 999, 6.3.96 चरणे ब्राहृचारिणि। समानस्येति स इति चानुवर्तते। `उत्तरपदे` इत्यधिकृतम्। तदाह - ब्राहृचारिण्युत्तरपदे समानस्य सः स्यादिति। `चरणे` इति सप्तमी समानस्येत्यत्राऽन्वेति। चरणे विद्यमानस्येत्यर्थः। फलितमाह - चरणे समानत्वेन गम्यमाने इति। तत्र चरणपदं व्याचष्टे - चरणः शाखेति। वैदिकप्रसिद्धिरेवात्र मूलम्। ब्राहृचारिपदं निर्वक्तुमाह - ब्राहृ वेद इति। `वेदस्तत्त्वं तपो ब्राहृए`त्यमरः। तच्चरणार्थमिति। तस्य=वेदस्य, चरणम्ध्ययनं तच्चरणं, व्रतमपि ब्राहृशब्देन विवक्षितमित्यर्थः। गौण्या वृत्त्ये`ति शेषः। तच्चरतीति। तद्व्रतं चरति=अनुतिष्ठतीत्यर्थे ब्राहृचारिशब्द इत्यर्थः। `सुप्यजातौ` इति णिनिः। समानस्य स इति। `समानो ब्राहृचारी`ति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति `सब्राहृचारी`ति रूपमित्यर्थः। समानत्वं च वेदद्वारा बोध्यम्। तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः। भाष्ये तु समाने ब्राहृणि व्रतं चरतीत्यर्थे चरेर्णिनिव्र्रतशब्दस्य लोपश्चाऽत्र निपात्यत इत्युक्तम्।", "63097": "`सतीर्थ्यः` इति। पूर्ववत्? कर्मधारयं कृत्वा तद्धितः कर्तव्यः। समाने तीर्थे वसतीति सतीर्थ्यः॥", "63098": "", "63099": "समानमात्मानं पश्यतीति सदृक्, उपपदसमासः, <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम्। कथं पुनरिह कञ्क्विनौ, यावता त्यदादिषूपपदेषु तौ विहितौ, न च समानशब्दस्त्यदादिषु पठते? इत्यत आह -`त्यदादिषु` इत्यादि। `वृक्षे चेति वक्तव्यम्` इति। दृक्षशब्दे चोत्तरपदे समानस्य सभावो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वकाद्योगविभागाद्? दृक्षिऽपि भविष्यतीति। अत एव तत्र [[6.3.83]] वृत्ति कृतोक्तम् -एवमादयः सिद्धा भवन्तीति। केन पुनरतर दृशेः क्सप्रत्ययो विहितो येन दृक्षशब्द उत्तरपदं भवति? इत्यत आह -`दृशेः क्सप्रत्ययोऽपि` इत्यादि। `तत्रैव` इति। `त्यदादिषु` [[3.2.60]] इत्यादौ सूत्रे। अथ वतुग्रहणं किमर्थम्, यावता समानशब्दादुत्तरो वतुप्? न सम्भवत्येव, स हि `यत्तदेतेभ्यः परिमाणे वतुप्` [[5.2.39]] इति यदादिभ्य एव विहतः? इत्याह -`वतुब्ग्रहणमुत्तरार्थम्` इति॥", "63100": "शकारः सर्वादेशार्थः। इदमिव पश्यतीति `ईदृक्? इदृशः`। पूर्ववत्? कञ्किवनौ। किमिव यश्यतीति `कीदृक्? कीदृशः`। व्युत्पत्तिमात्रार्थो विग्रहः कृतः। नात्रावयवार्थो विग्रहवाक्योपदर्शितो विद्यते। तथा हीदृग्? ईदृश इत्यनेन तुल्य इत्येषोऽर्थः समुदायादेव प्रतीयते। कीदृक्, कीदृश इत्यत्रापि केन तुल्य इति। किं परिमाणमस्येति `कयान`। इदं परिमाणमस्येति `इयान्`। <<किमिदंभ्यां वो घः>> [[5.2.40]] इति वतुपो घत्वम्, तस्येयादेशे कृते <<यस्येति च>> [[6.4.148]] इतीकारलोपः। ननु च वतुपो वकारस्येयादेशोऽनेन विधीयते, न तु वतुप्? किमिदंभ्यां विधीयते? एवं मन्यते -वतुबस्मादादेशवचनाद्विज्ञायते, न ह्रन्यद्वतुपो लक्षणमस्ति। न चासतो वतुपो घादेशः शक्यो विज्ञातुमिति॥", "63101": "`दृक्षे चेति वक्तव्यम्` इति। दृक्षशब्दे परतः सर्वनाम्न आत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -उत्तरसूत्रादिह सिंहावलोकितन्यायेन चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेन दृक्षशब्दे चोत्तरपदे भविष्यतीति। अथ किमर्थो दीर्घो विधीयते, न, ह्रस्व एव विधीयताम्, ह्रस्वेऽप्यादेशे सवर्णदीर्घत्वेन सिध्यति? न; यस्मात्? <<अतो गुणे>> [[6.1.97]] पररूपत्वं प्राप्नोति। न च शक्यते वक्तुम् -अकारोच्चारणसामर्थान्न भविष्यतति; अकारविधेर्दकारनिवर्तनार्थत्वात् लोपविधौ हि गौरवं स्यात्। किञ्च -त्वादृक्, त्वादृश इत्यत्र दीर्घश्रवणं न स्यात्। तस्माद्दीर्घ एव विधेयः॥", "63102": "`विष्वद्रङ्` इति। विष्वगञ्चतीति ऋत्विगादिसूत्रेण [[3.2.59]] क्विन्, `उगिदचाम्` [[7.1.70]] इति नुम्, हल्ङ्यादिसंयोगान्तलोपौ, <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम्। `अद्रिसध्र्योरन्तोदात्तनिपातम्` इत्यादि। विष्वद्रङित्यत्रानेनाद्रआदेशे कृते सध्य्रङित्यत्र सहस्य सध्य्रादे देशे च <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति प्रकृतिस्वरेणोत्तरपदसर्यान्तोदात्तत्वं प्राप्नोति, स्वरितत्वं चेष्यते। तस्मादुत्तरपदान्तोदात्ततवविधानार्थमिहाद्रिसध्य्रारेन्तोदात्तत्वं निपात्यते। तेन शेषं भवत्यनुदात्तम्। तत्र यणादेशे कृते सति <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>> [[8.2.4]] इति स्वरितत्वमुत्तरपदस्य सिद्धम्। अथ वप्रत्ययगरहणं किमर्थम्, यावता `अञ्चतौ` इत्युक्ते केवल एवाञ्चतावुत्तरपदे कार्येण भवितव्यम्। वप्रत्ययान्त एवाञ्चतिः केवलमुत्तरपदं भवति। तत्रैतद्वक्तव्यमञ्चतावित्याह -`वप्रत्ययग्रहणम्` इत्यादि। अन्यत्र धातुग्रहणे, धात्वादेः प्रकृतिपरतययसमुदायस्य प्रतिपत्तिः=प्रतीतिर्यथा स्यादित्येवमर्थं वप्रत्ययग्रहणम्। अनेन ह्रयमर्थो विज्ञाप्यते -इतोऽन्यत्र धातुगरहणे सति न केवलं धातुरेव गृह्रते, अपि तु धात्वादिः शब्द इति। तेनायस्कृतम्, अयस्कार इत्यत्र `अतः कृकमि` [[8.3.46]] इत्यादिना विसरजनीयस्य सकारः सिद्धो भवति। यदि पुनरयमर्थो न विज्ञाप्येत, तदा करोतेरेव केवलस्य ग्रहणं स्यात्; ततो यत्र करोतेः केवलस्य प्रत्ययरहितस्य प्रयोगस्तत्रैव स्यात् -अयस्कृदिति। अत्र तुगागमः करोतेरेव भकतत्वात्? तद्ग्रहणेनैव गृह्रत इति करोतेरेव केवलस्य प्रयोगः। `अआआची` इति। अआमञ्चतीति क्विन्, `अञ्चतेश्चोपसंख्यानम्` (वा।336) इति ङीप्, `अचः` [[6.4.138]] इत्यकारलोपः `चौ` [[6.3.137]] इति दीर्घः। `विष्वग्युक्` इति। विष्वगयुनक्तीति `सत्सूद्विष` [[3.2.61]] इत्यादिना क्विप्। `विष्वगञ्चनम्` इति। `ल्युट्? च` [[3.3.115]] इति ल्युट्। `छन्दसि` इत्यादि। छन्दसि विषये स्त्रियामभिधेयायां बहुलमद्रआदेशे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -<<विभाषोदरे>> [[6.3.88]] इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। इह वा चकारोऽनुक्तसमुच्चयार्थः, तेन च्छन्दसि विषये विष्वगावेरन्यत्रापि क्वचिदद्रआदेशो भवतीति, क्वचिन्न भवत्येव। ननु च सर्वनाम्नोऽनुकर्षणार्थश्चकारः? नैतदस्ति; स्वरितत्वादेव हि सर्वनाम्नोऽनुवृत्तिर्भविष्यति। `विआआची` इत्यादि। विआघृतकिंशब्देषूपपदेष्वञ्चतेः पूर्ववत्? क्विन्, ङीबादिकार्यञ्च॥", "63103": "", "63104": "", "63105": "`सध्रीचा` इति। पूर्ववदकारलोपः, दीर्घत्वं च॥", "63106": "`सधमादः` इति। सह मादेन वर्तत इति `तेन सह` [[2.2.28]] इत्यादिना बहुव्रीहिः, मादशब्दो घञन्तः। ननु च <<मदोऽनुपसर्गे>> [[3.3.67]] इत्यपा भवितव्यम्? नैष दोषः; तत्र हि <<स्वनहसोर्वा>> [[3.3.62]] इत्यतो वाग्रहणमनुवर्तते, सां च व्यवस्थितविभाषा। तेन छन्दसि घञेव भविष्यति। अथ एव निर्देशाद्वा। `सधस्थः` [`सधस्थाः` - काशिका मुद्रितः पाठः, `सधस्था` - (काशिका) सं।पं। मुद्रितपाठः] इति। सह तिष्ठीति <<सुपि स्थः>> [[3.2.4]] इति कः॥", "63107": "`द्वीपम्` इति। द्विर्गता आपोऽस्मिन्नित्यस्वपदविग्रहो बहुव्रीहिः। यथा -शोभनं मुखमस्याः सुमुखीति। `ऋक्पूरब्धूः` [[5.4.74]] इत्यादिनाऽकारः समासान्तः। अन्तर्गता आपोऽस्मिन्नित्यन्तरीपम्। सङ्गता विगता निर्गता आपोऽस्मिन्निति सपीपम्, वीपम्, नीपम्। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। उत्तरत्रापि वक्तवयशब्दस्यायमेवार्थः। व्याख्यानं त्विहापि पूर्ववत्? `विभाषोदरे` इत्यतो विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषात्वाल्लभ्यते। अन्यदपि चत्र व्याख्यानं करिष्यामः। `अप्शब्दं प्रति` इत्यादि। इह यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति अप्शब्दसय तु क्रियात्वं न सम्भवति; द्रव्यवचित्वात्। तस्मात्? तं प्रति नास्ति कस्यचिदुपसर्गसंज्ञेति। क्रियते चेदमुपसर्गग्रहणम्। तत्सामर्थ्याद्यत्र प्रादेरन्यत्रोपसरगतवं दृष्टं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते। यद्येवम्, अन्तशब्दस्य ग्रहणं न कर्तव्यम्, यथैव हि प्रादय उपसर्गग्रहणेन लक्ष्यन्ते तथान्तःशब्दोऽपि, तस्याङ्कविधिणत्वेपूपसर्गत्वं दृष्टमेव? एवं तह्र्रन्तग्र्रहणेन ज्ञाप्यते -उपसर्गग्रहणोपलक्षितमीत्त्वमनित्यमिति। तेन समापम्, परापम्, प्रापमिति सिद्धं भवति॥", "63108": "`अनूपः` इति। अनुगता आपोऽस्मिन्निति विग्रहः, पूर्ववत्? समासान्तः, सवर्णदीर्घः। अथ दीर्घोच्चारणं किमर्थम्, यावता ह्रस्वोऽपि विहितेऽकः सवर्णे दीर्घत्वेनानूप इति सिध्यत्येव? अत आह -`दीर्घोच्चारणम्` इत्यादि। असति दीर्घोच्चारणे संहितायामेव दीर्घत्वं स्यात्, नावग्रहे। तस्मादवग्रहेऽपि यथा स्यादित्येवमर्थ दीर्घोच्चारणम्॥", "63109": "`अन्याशीरन्यदाशीः` इत्यादि। विग्रहविशेषेण सर्वत्र विशेषणसमासं दर्शयति `अन्येनास्थितोऽन्यदस्थितः` इति। <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति समासः। `दृगागमोऽविशेषेण` इत्यादि। कारकशब्दे छप्रत्यये परतोऽविशेषेण सामान्येन दुगागमः कर्तव्यः। अन्येष्वाशीरादिषु सप्तसूत्तरपदेषु षष्ठीतृतीयास्थयोर्नेष्टो नाभिमतः। किं पुनरस्यार्थस्य लिङ्गं यतोऽयमवसीयते? इत्यत आह - `अस्य च` इत्यादि। अषष्ठीतृतीयास्थस्येत्येवं सिद्धे द्विर्नञुपादानमस्य प्रतिषेधस्यानित्यत्वे लिङ्गम्। तेन क्वचित्? षष्ठीतृतीयास्थस्यापि समासे दुगागमो भवत्येव॥", "63110": "`अन्यार्थः` इति। अन्यस्मै इदमिति `चतुर्थी तदर्थार्थ` [[2.1.35]] इत्यादिना समासः॥", "63111": "`कदजः` इति। कुत्सितोऽज इति <<कुगतिप्रादयः>> [[2.2.18]] इति समासः कूष्ट्रो राजेति बहुव्रीहिः। `कद्भावे` इत्यादि। अजादावत्तरपदे कद्भाव उच्यमानस्त्रिशब्द उत्तरपदे न प्राप्नोति। तस्मात् त्रिशब्दादुत्तरपदात्? पूर्वो यः कुशब्दः, तस्य कद्भावस्योपसंख्यानम्=प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् -उत्तरसूत्रे चकारः क्रियते, सचानुक्तसमुच्चयार्थः। तेन त्रिशपब्देऽप्युत्तरपदे परतः कद्भावो भविष्यतीति॥", "63112": "अनजाद्यर्थोऽयं योगः। एवमुत्तरत्रापि॥", "63113": "", "63114": "अनीषदर्थ आरम्भः। `कापथः` इति। कुत्सितः पन्थाः कापथः, `ऋक्पूः` [[5.4.74]] इत्यादिनाकारः समासान्तः। `काक्षः` इति। कुत्सितोऽक्ष इति तत्पुरुषः। अथ वा - कुत्सिते अक्षिणी अस्येति बहुव्रीहिः, `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच्` [[5.4.113]] इति षच्? समासान्तः॥", "63115": "ईषन्मधुरं `कामधुरम्` इति। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। `कुशब्दः पापार्थः` इत्येतत्तु प्रायिकमुपाधिवचनमित्युक्तम्। तत्र प्रायिकत्वे चैतदेव कादेशवचनं ज्ञापकम्। `काम्लम्` इति। ननु चात्र `कोः कत्तत्पुषषे` [[6.3.101]] इति कदादेशेन भवितव्यम्? इत्यत आह - `अजादावपि` इत्यादि॥", "63116": "`अप्राप्ते विभाषेऽयम्` इति। ईषदर्थस्य निवृत्तत्वात्। ननु चानीषदर्थे केनचिदप्राप्ते, ईषदर्थे पूर्वेण प्राप्त इत्युभयत्र विभाषेऽयं युक्तेत्याह -`ईषदर्थे तु पूर्वविप्रतिषेधेन` इत्यादि। <<ईषदर्थे>> [[6.3.105]] इत्यस्यावकाश ईषन्मधुरं कामधुम्, `विभाषा पुरुषे` इत्यस्यावकाशः -कुत्सितः पुरुषः कापुरुष इति; इह चोभयं प्राप्नोति -ईषत्पुरुषः कापुरुष इति। अत्रेषदर्थ इत्यनेनैव भवति पूर्वविपरतिषेधेन॥", "63117": "", "63118": "`वलच्प्रत्ययो गृह्रते, न प्रातिपदिकम्` इति। एतच्च वक्ष्यमाणस्येह बहुलग्रहणस्य सिंहावलोकितन्याायेनोपस्थानाल्लभ्यत इत्येके। अनन्तरं वक्ष्यमाणेन मतुपा प्रत्ययेन साहचर्याच्चेत्यपरे ॥", "63119": "`आदिशब्दः प्रकारवचनः` इति। यद्यत्रादिशब्दो व्यवस्थावचन आश्रीयेत, ततो, यान्येव गणे पठन्ते तेषामेव साधुत्वं स्यात्, नान्येषाम्। प्रकारवचन आदिशब्द आश्रीयमाणे सत्यपरिपठितानामपिमपि साधुभावो भवतीत्येतत्? सर्व चेतसि कृत्वाऽऽविशब्दोऽयं प्रकारवचन इति दर्शयन्नाह - `पृषोदरप्रकाराणि` इत्यादि। प्रकारः=सादृश्यम्। अतस्तद्दर्शयितुमाह - `येषु` इत्यादि। यथा पृषोदरशब्दे लोपकार्यं शास्त्रेणाविहितं दृश्यते, तथान्यत्रापि लोपादिकार्यं शास्त्रेणाविहितं दृश्यते। तानि च पृषोदरप्रकाराणि भवन्ति। `यथोपदिष्टम्` इति। `यथाऽसादृश्यते` [[2.1.7]] इति वीपसायामव्ययीभावः। अत एवास्य विवरणं करोति - `यानि यान्युपदिष्टानि` इत्यादि। दिशिस्त्रोच्चारणक्रियः। उपदिष्टान्युच्चारितानीत्तयर्थः। कैः पुनरुपदिष्टानि? शिष्टैः। शिष्टाः पुनराचारनिवासादिना वेदितव्याः। `तानि तथैवानुमन्तव्यानि` इति। यथा तैः प्रयुक्तानि तथैव तानि साधुत्वेनानुमन्तव्यानीत्यर्थः। यदि शिष्टाः शब्देषु प्रमाणं तद किमनयाऽष्टाध्याय्या, शिष्टवचनादेव हि शब्दानां साधुत्वं विज्ञास्यते? उच्यते; शिष्टपरिज्ञानार्थाऽष्टाध्यायी। अष्टाध्यायीमधीयानोऽनधीताष्टाध्यायीकमपि येऽस्यामष्टाध्याय्यां विहिताः शब्दास्तान्? प्रयञ्जानं पश्यन्नेवमध्यवस्यति - शिष्टोऽयमिति, न चासावष्टाध्यायीमधीतवान्, अथ च तस्यां ये व्युत्पादिताः शब्दास्तान्? प्रयुङ्क्ते, नूनमयमन्यानपि जानाति - इत्येषा शिष्टपरिज्ञानार्थाऽष्टाध्यायी। `एवमन्येऽपि` इत्यादि। कप्यआमहीशब्देपूपपदेषु <<सुपि स्थः>> [[3.2.4]] इति तिष्ठतेः कप्रत्ययः। सकारस्य तकारः क्रियते। महीशब्दस्यापि ह्रस्वत्वम्। `दक्षिणतारम्` इति। षष्ठीसमासः। `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः` (वा।104) इति पुंवद्भावः। अथ वा - दक्षिणशब्दस्यायं तीरशब्देन षष्ठीसमासः।`वाचोवादे` इति। वाक्यशब्दस्य वादशब्द उत्तरपदे परतो डकारादेशो भवति। उत्तरपदस्य च वादशब्दस्य वल इत्ययमादेशो भवतीञि प्रत्यये परत इति। वाचं वदतीति <<कर्मण्यण्>> [[3.2.1]] - वाग्वाद, तस्यापत्यम्? ` अत इञ्` [[4.1.95]] वाङ्वलिः। `षष उत्वम्` इत्यादि। षष्शब्दस्योत्वं भवति दतृ, दश-इत्येतयोरुत्तरपदयोः, उत्तरपदादेः ष्टुत्वं च। षङ्? दन्ता यस्येति बहुव्रीहिः। `वयस दन्तस्य दतृ` [[5.4.141]] इति दत्रादेशः - षोडन्। षट्? च दश चेति द्वन्द्वः - षोडश। `धासु वा` इति। उत्वत्यैवायं विकल्पः। ष्टुत्वं तु नित्यमेव भवति। `षोढा, षङ्धा` इति। <<अधिकरणविचाले च>> [[5.3.43]] इति धाप्रत्ययः। अथ किमर्थं धास्विति बहुवचननिर्देशः क्रियते? इत्याह - `बहुवचननिर्देशः` इत्यादि। `षङ्धा` इति। धाञो धेटो वा स्त्रियां <<आतोऽनुपसर्गे कः>> [[3.2.3]] इति कप्रत्ययः। `दाश्यते` इतिष `दाशृ दाने` (धातुपाठः-882), नाश्यते` इति, `णश अदर्शने` (धातुपाठः-1194), `दभ्यते` इति, `दम्भ [`दम्भु दम्भने` (1270) इति धातु पाठः] दम्भे - एतेभ्यः कर्मणि घञ्। दुर्शशब्दस्य दाशशब्दादिभिः प्रादिसमासे - दूडाशः दूणाशः, दूडभः। `दम्भेरनुनासिकलोपः` इत्यादि। यदेतत्? `दाशनाशदभध्येषु` (काचवृ।6.3.120) इत्यत्र कृतानुनासिकलोपस्य दम्भेरुच्चारणं तन्निपातनम्, तत एवात्र दम्भेरनुनासिलोपो भवति। पीद उपवसनं येषां ते `पीवोपवसनाः` एवं `पयोपवसनाः`। उभयत्र सकारलोपः। `वर्णागमः` इति। निरुक्तशास्त्रे ये शब्दा व्युत्पाद्यन्ते तेषां पूषोदरादित्वादेव साधुत्वमिष्यति इतीमं श्लोकमाह - `वर्णागमः` इत्यादि। अपूर्वस्य वर्णस्यागमो वर्णागमः - नकारादेरपूर्वस्य वर्णस्य प्राप्तिः, यथा - को जीर्यते कुञ्जर इति। अत्र कुशब्दसय नुगागमः क्रियते। वर्णविपर्ययः - वर्णस्थानव्यत्यासः, यथा `हिसि हिंसायाम्` (धातुपाठः-1456), हिनस्तीति सिंह इत्यत्र पचाद्यचि कृते हकारसकारयोः स्थानव्यत्यासः। वर्णविकारः - वर्णस्य रूपान्तरापत्तिः, यथा - षोडन्निति। अत्र ,खारस्योत्वरूपापत्तिः। दकारस्य च डकाररूपापत्तिः। वर्णनाशः - वर्णस्य लोपः, यथा पृषोदर इति। अत्र तकारस्य लोपः। अर्थातिशयः=अर्थविशेषः, प्रसिद्धादर्थादर्थान्तरम्, तेन धातोर्योगः=सम्बनधः, यथा मह्रां रोतीति मयूरः। अत्र रौते रमणेनार्थेनातिशयेन योगः। एतत्? पञ्चविधं पञ्चप्रकारं निरुक्तम्, निश्चयेनोच्यतेऽर्थोऽनेनेति निरुक्तम्॥", "63120": "`द्व्योरह्नोर्भवः` इति। भवार्थविवक्षायां `तद्धितार्थ` [[2.1.50]] इति समासः, ततः <<कालाट्ठञ्>> [[4.3.11]] इति ठञ्, तस्य `द्विगोर्लृगनपत्ये` [[4.1.88]] इति लुक्, `राजाहःसखिभ्यष्टच्` [[5.4.91]] इति टच्? समासान्तः, `अह्नोऽह्न एतेब्यः` [[5.4.88]] इत्यह्नादेशः। `द्रह्नि` इति। विभाषा ङिश्योः` [[6.4.136]] इत्यकारलोपः पाक्षिकः। `द्व्यह्नः` इति। `आद्? गुणः` [[6.1.84]] । `व्यह्नः` इति प्रादिसमासः। शेषं पूर्ववत्। `सायाह्नः` इति। एकदेशिसमासोऽयम्। तत्रेदं चोद्यमाशङ्क्यते -ननु च `पूर्वापराधरोत्तरम्` [[2.2.1]] इत्यादिना समासो विहितः, न च सायंशब्दस्तत्र पठते, तत्कथमिह सायंशब्दसायहःशब्देन समासः सम्भवतीति? एतन्निराकर्त्तुमाह -`एकदेशिसमासः पूर्वादिभ्योऽन्यस्यापि` इत्यादि। तत्पुरुषसमासे <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यनेनाह्नादेशो विधीयते, `एतेभ्यः` इत्यनेन च `तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः? [[5.4.86]] इति, तथा `अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः` [[5.4.87]] इति प्रक्रान्ताः संख्याव्ययादयः प्रत्यवमृश्यन्ते। तत्र यदि पूर्वादय एवैकदेशिना समस्येरन्, तदा न सायंशब्दः `एतेभ्यः` इत्यनेन प्रत्यवमृश्येत; तस्य संख्यादिष्वपरिपठितत्वात्। ततश्च सायंशब्दात्? परस्याह्यादेशो न स्यात्। एवञ्च सायम्पूर्वस्याह्नशब्दस्याभावात्? तस्येह ग्रहणं न क्रियेत, कृतञ्च, तस्मादेतदेव सायम्पूर्वस्याह्नशब्दस्य ग्रहणं ज्ञापयति -पूर्वादिभ्योऽन्यस्याप्येकदेशिसमासो भवतीति। तेन `मध्यमह्नो मध्याह्नः` इति सिद्धं भवति। `पूर्वाह्णे` इति। `अह्नोऽदन्तात्` [[8.4.7]] इति णत्वम्। `संख्याविसायेभ्यः` इत्येव वक्तव्ये पूर्वशब्दस्याधिकस्य ग्रहणं तदधिककार्यवधानसूचनार्थम्। तेन सायाह्न इत्यत्र मकारलोपः सिद्धो भवति॥", "63121": "`ढ्रलोपे` इति तत्पुरुषोऽयं वा स्यात्, बहुव्रीहिर्वा? तत्र यदि तत्पुरुषः स्यात् - ढ्रयोर्लोपो ढ्रलोप इति, तदाणः पूर्वत्वं नोपपद्यते; लोपस्याभावरूपत्वात्, अभावे च पौर्वापर्यासम्भवात्। अथापि स्थानिद्वारकं पोर्वापर्यमाश्रित्य पूर्वत्वमुच्यते, करणीयः - इत्यत्रापयनीयरो रेफस्य लोपे कृते पूर्वस्य दीर्घत्वं स्यादितीमं दोषं दृष्ट्वा बहुव्रीहिरयमिति दर्शयन्नाह - `ढकाररेफयोर्लोपो यस्मिन्` इत्यादि। गमकत्वाद्वैयधिकरण्येऽपि बहुव्रीहिर्भवत्येव, यथा - काण्ठेकाल इति। `लीढम्` इति। `लिह आस्वादने`, (धातुपाठः-1066) `निष्ठा, `हो ढः` [[8.2.31]] `झषस्तथोर्दोऽधः` [[8.2.40]] ष्टुना ष्टुः` [[8.4.40]] `ढोढे लोपः` [[8.3.13]] - इत्येतो विधयः कर्तव्याः। `मीढम्` इति। `मिह सेचने` (धातुपाठः-992)। `उपगूढम्` इति। `गुहू संवरणे (धातुपाठः-896)। `मूढः` इति। `मुह वैचित्ये` (धातुपाठः-1198)। `नीरक्तम्` इति। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः, `रो रि` [[8.3.14]] इति रेफस्य लोपः। अथ पूर्वग्रहणं किमर्थम्, यावता `ढ्रलोपे` इति। सप्तम्या निर्देशः, तत्रान्तरेणापि पूर्वग्रहं <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति पूर्वस्यैव भविष्यति? इत्यत आह - `पूर्वग्रहणम्` इत्यादि। असति पूर्वग्रहणे, उत्तरपदाधिकारादुत्तरपद एव स्यात् - `नीरक्तम्` इत्यादौ, अनुत्तरपदे न स्यात् - `लीढम्` इत्यादौ। यद्यपि ढलोपस्योत्तरपदेऽसम्भवादनुत्तरपदेऽपि वचनप्रामण्याद्दीर्घत्वं स्यात्, रलोपे त्वनुत्तरपदे न प्राप्नोति; उत्तरपदे रलोपस्य सम्भवात्। तस्मादनुत्तरपदेऽपि पूर्वमात्रस्याणो दीर्घो यथा स्यादिति पूर्वग्रहणम्। `आतृढम्` इति। `तृहू तृन्हू हिंसार्थौ` (धातुपाठः-1348,1350)। `आदृढम्` इति क्वचित् पाठः। `दृह दृहि दृहि वृद्धौ` (धातुपाठः-733-736) इत्यस्य निष्ठायां किलेदं रूपम्, एतत्तु नोपपद्यते; दृहेः सेट्त्वात्? तस्येटा भवितव्यम्। अथापि कथञ्चिन्न स्यात्, एवमपि <<दादेर्धातोर्घः>> [[8.2.32]] इति घत्वेन भवितव्यम्। स्थूलबलवद्विवक्षायां <<दृढः स्थूलबलयोः>> [[7.2.20]] इति निर्देशादुभयं न भविष्यतीति चेत्? दीर्घत्वमप्यत एव तर्हि न स्यात्। केचिदत्रानित्यत्वादागमशासनस्याभावमिटो वर्णयन्ति। `वा द्रुह` [[8.2.33]] इत्यादौ सूत्रे `वा` इति योगविभागात्? पक्षे घत्वस्याभावः। `आवृढम्` इति। वृहू उद्यमनस् (धातुपाठः-1347)॥", "63122": "`ऊढः, ऊढवान्` इति। यजादित्वात्? सम्प्रसारणम्। <<सम्प्रसारणाच्च>> [[6.1.108]] इति परपर्वत्वम्, दीर्घत्वं च। तत्रेदानीमसत्यवर्णग्रहणे ऊकारस्याप्योत्त्वं स्यात्। ननु च सम्परसारणादिभ्यः परत्वादोत्त्वेन भवितव्यम्, तथा च भाव्ये `उभयोर्नित्ययोः परत्वादोत्त्वेन भवितव्यम्, आत्वे कृते सम्प्रसारणम्, सम्प्रसारणे कृते सम्परसारणपरपूर्वत्वम्, कृतकार्यत्वात्? पुनरोत्त्वं न भविष्यति` इति। तस्माद्भवितव्यमेवौत्त्वेन, तस्मिन्? सति पश्चा सम्प्रसारणादिभिः। न चैवं किञ्चिदनिष्टमापद्यत इति नार्थो वर्णग्रहणेन। एवं तह्र्रवर्णग्रहणं कुर्वन्नेतज्ज्ञापयति -क्वचित्? `सम्प्रसारणं तदाश्रयञ्च कार्यं बलीयो भवतीति। तेन यदुक्तम् -`सम्प्रसारणं सम्प्रसारणाश्रयञ्च कार्यं बलीयो भवति` (पु।प।वृ।103) इति तदुपपन्नं भवति। `वर्णग्रहणं किम्` इति। `ओदस्य` इतावत्यपि सति सोढा, सोढुमित्यादि सिध्यत्येवेत्यभिप्रायः। `कृतायामपि` इत्यादि। उत्पूर्वाद्वहेर्लृङि च्लिः, <<च्लेः सिच्>> [[3.1.44]] तसस्ताम्, थसस्तम्? अडागमः, ढत्वादेरसिद्धत्वात्? ततः पूर्वम्? `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः, ततो ढत्वादि। अथेदानीमसति वर्णग्रहणे मात्रिकस्याकारस्योच्यमानमोत्त्वं दीर्घस्य न स्यात्, वर्णग्रहणाद्वर्णमात्रस्य भवतीति सिद्धम् -उदवोढाम्, उदवोढमिति? ननु च <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यकारो गृह्रमाण आकारमपि ग्राहयिष्यति, तत्? किं वर्णग्रहणेन? इत्यत आह -`तादपि परः` इत्यादि। <<तपरस्तत्कालस्य>> [[1.1.70]] इत्यत्र तादपि परस्तपर इत्ययमपि समास आश्रितः खट्वैडका, खट्वैतिकायनः -इत्येवमादिषु त्रिमात्रिके चतुर्मात्रिके वर्तमानस्यैकारस्य वृद्धिसंज्ञा मा भूदित्येवमर्थम्। तत्रासति वर्णग्रहणेऽकरस्य तपरत्वादाकारो न गृह्रेत्? ततश्च तस्योत्त्वं न स्यात्। तस्मादवर्णमात्रस्य यथा स्यादित्येवमर्थ वर्णग्रहणं कर्तवयम्। तादपि परस्तपरः -इत्यस्य च समासस्यैतदेव वर्णग्रहणं ज्ञापकं वेदितव्यम्॥", "63123": "साढ्वेत्यादौ ओत्त्वाभावो निपात्यते। दीर्घस्तु <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यादिनैव सिद्धः॥", "63124": "`उत्तरपदे` [[6.3.1]] इति वर्तते उत्तरपदं च समासे भवति, तत्र चान्तरेणापि वचनं नित्यमेव संहितया भवितव्यम्, तस्मादुत्तरपदे परतो वक्ष्यमाणानां यत्? कार्यं न तदर्थताधिकारस्योपपद्यत इति यदनुत्तरपदे कार्यं तदर्थमेवायमधिकारः। तेन यैर्योगैरुत्तरपदे कार्यं विधीयते तानुल्लङ्घ्य तेन योगेनानुत्तरपदे कार्यं विधीयते तत्रास्योपयोगं दर्शयन्नाह -`वक्ष्यति द्व्यचोऽतस्तिङः` इत्यादि। `विद्मा हि त्वा` इत्यादि। विदेर्लोटि मसः <<स उत्तमस्य>> [[3.4.98]] इति सकारलोपः, अदादित्वाच्छापो लुक्॥", "63125": "लक्ष्यतेऽनेन स्वामिविशेषस्य सम्बन्ध इति लक्षणम्=चिह्नम्। `दात्राकर्णः` इति। दात्रमिव दात्रम्, सादृश्यात्तदाकारं चिह्नमुच्यते। दात्रं कर्णे यस्य स दात्राकर्णः। एवमुत्तरत्रापि बहुव्रीहिरेव वेदितव्यः। द्वौ गुणौ यस्य स द्विगुणः। तदाकरमपि चिह्नं द्विगुणम्। गुणशब्दोऽयं बन्धनवचनः। द्वयोरङ्गुल्योः समाहारो द्व्यङ्गुलम्, `तत्पुरुषस्याङ्गुलेः` [[5.4.86]] इत्यादिना च समासान्तः, द्व्यङ्गुलाकारमपि चिह्नं द्व्यङ्गुलम्। `तदिह लक्षणं गृह्रते` इति। कुत एतत्? लक्षणग्रहणाद्यदिह सामान्येन येन केनचिल्लक्ष्यते तललक्षणं गृह्रेत चिह्नस्येत्येवं ब्राऊयात्, लघु ह्रेवं सूत्रं भवति। तस्माच्चिह्नग्रहणे कर्तवये यल्लक्षणग्रहणं कृतं तेन लक्षणविशेषोऽत्र ग्राह्रः, न तु लक्षणमात्रमित्यस्यार्थस्य प्रतिपादनं कृतमिति लक्ष्यते। तथा चोक्तम् -इङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेन वेहा चार्याणामभिप्राया लक्षन्त इति। ननु च लक्षणग्रहणेन लक्षणविशेषोऽत्राभिमतः, न तु लक्षणमात्रमित्येतावन्मात्रं गम्यते, स तु विशेषो न वृत्तिकारेणोपदर्शितः कुतोऽवसेयः? आचार्याणं स्वीकरणात्। `शोभनकर्णः` इति। यद्यप्यनेनापि लक्ष्यते, न त्व#एवंविधस्य लक्षणस्येह ग्रहणम्। नापि शोभनत्वं लोके लक्षणत्वेन प्रतीयत इति भवत्येतत्प्रत्युदाहरणम्॥", "63126": "`णह बन्धने` (धातुपाठः-1166)। उपनह्रत इति `उपानत्` सम्पदादित्वात्? क्विप्? `नहो धः` [[8.2.34]] इति धत्वम्, ततो जश्त्वम्, चर्त्वञ्च। परिणह्रतीति `परिणत्`। `#उपसर्गादसमासे` [[8.4.14]] इत्यादिना णत्वम्। निवर्तत इति `नीवृत्`। <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्। एवमुत्तरत्रापि क्विबेव वेदितव्यः। `वृषु सेचने` (धातुपाठः-706) प्रवर्षतीति `प्रावृट्`। षकारस्य जश्त्वम् -डकारः, तस्य चर्त्वेटकारः। `व्यध ताडने` (धातुपाठः-1181), मर्माणि विध्यतीति `मर्मावित्` ग्रह्रादिसूत्रेण [[6.1.16]] सम्प्रसारणम्। `रुच दीप्तौ` [`रुच दीप्तावभिप्रीतौ च` -धातुपाठः-] (धातुपाठः-745), निरोचणं `नीरुक्`। <<चोः कुः>> [[8.2.30]] इति कुत्वम्। ऋतिं सहत इति `ऋतीषट्`। `सहेः पृतनर्ताभ्याञ्ज` [[8.3.109]] इत्यत्र `सहेः` इति योगविभागादनुक्तसमुच्चयार्थत्वाद्वा चकारस्य षत्वम्। परितनोतीति `परीतत्`। अनुनासिकलोपे कृते तुक्।केन पुनरत्रानुनासिकलोपः? इत्याह -`गमः क्वौ` इत्यादि। गतिकारकयोरेवेष्यत इति। तदर्थम्? <<विभाषा पुरुषे>> [[6.3.106]] इत्यतो विभाषाग्रहणनुवर्तते, सा च व्यवस्थितविभाषा विज्ञेया॥", "63127": "`कोटरावणम्` इति। षष्टीसमासः। `वनं पुरुगा` [[8.4.4]] इत्यादिना णत्वम्॥", "63128": "`विश्वावसुः` इति। विश्वं वसु यस्येति बहुव्रीहिः। `विश्वाराट्` इति। विश्वस्मिन्? राजत इति `सत्सूद्विष` [[3.2.61]] इत्यादिना क्विप्, व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, तस्य `झलां जशोन्ते` [[8.2.39]] इति जश्त्वम् -डकारः, डकारस्यापि चर्त्वम् -टकारः।`यत्रास्यैतद्रूपम्` इति। क्व पुनरस्यैतद्रूपम्? यत्र पदसंज्ञा; पदाधिकारे षकारादीनां विधानात्। `विश्वराजौ, विश्वराजः` इति। अत्र पदसंज्ञा नास्ति, `असर्वनामस्थाने` [[1.4.17]] इति प्रतिषेधात्॥", "63129": "`व्रीहिमती` इत्यादौ पूर्ववन्मतुप्। `वलयवती` इत्यत्र तु <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] ॥", "63130": "अबह्वर्थोऽयमारम्भः। `शरावती` इति। <<नद्यां मतुप्>> [[4.2.85]] इति मतुप्॥", "63131": "`ऋषीवहः` [`ऋषीवहम्` - काशिका] इति। षष्ठीसमासः। वहशब्दः पचाद्यजन्तः। `अपील्वादीनाम्` इत्यादि। यदेतदिको दीर्घविधानं तत्? पील्वादीनां न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् - इहापि तदेव बहुलग्रहणं पूर्ववदुपतिष्ठते, तेन पीलुशब्दादन्येषामपि केषाञ्चिद्दीर्घत्वं न भविष्यतीति॥", "63132": "उपसर्गात्? केवलं घञ्प्रत्ययो न सम्भवति, अतो घञन्त उत्तरपदे कार्यं वज्ञायत इत्याह - `घञन्त उत्तरपदे` इत्यादि। `वीक्लेदः` इति। `क्लिद आद्र्रीभावे` (धातुपाठः-1242), [`क्लिदू` - धातुपाठः-] `अकर्तरि च कारके` [[3.3.19]] इत्यादिना घञ्। `वीमार्गः` इति। `मृजू` शूद्धौ` (धातुपाठः-1066), <<मृजेर्वृद्धिः>> [[7.2.114]] , `चजोः कु घिण्यतोः` [[7.3.52]] इति कुत्वम्। `प्रसेवः` इति। `षिवु तन्तुसन्ताने` (धातुपाठः-1108)। `कृत्रिमम्` इति। करणेन निर्वृत्तं कृत्रिमम्। पुरुषव्यापारादिभिर्निर्वृत्तमित्यर्थः। `निषादः` इति। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-854), निषीदत्यस्मिन्? पापमिति निषादः। `हलश्च` [[3.3.121]] इति घञ्॥", "63133": "`नीकाशः` इति। `कासृ दीप्तौ` (धातुपाठः-647)। `पचाद्यजन्तोऽयं काशशब्दः न तु घञन्तः` इति। तत्र पूर्वेणैव सिद्धमित्यभिप्रायः। `पूर्वेणैव सिद्धे नियमार्थमेतत् - इक एव काशे नान्यस्य` इति क्वचिद्? ग्रन्थः, एष तु नोपपद्यते; घञि पूर्वेण दीर्घविधानात्, एतस्य च काशशब्दस्य पचाद्यजन्तत्वात्। अथ बहुलग्रहणात्? पचाद्यजन्तेऽपि पूर्वेणैव सिद्धमित्युच्यते, तथा च तत एव बहुलग्रहणादिकोऽन्यस्यन भविष्यतीति न करत्तव्यमेवेदं सूत्रम्। क्रियमाणञ्च पूर्वस्यैव प्रपञ्चार्थ द्रष्टव्यम्॥", "63134": "`दा` इत्येतस्य यस्तकारादिरादेशः` इति। एतेन स्थान्यादेशसम्बन्धे `दः` इत्येषा षष्ठीति विज्ञायते। `वीत्तम्` इति। ददातेर्निष्ठायां रूपम्। ननु चत्र तकारादिरादेशः परो न सम्भवत्येव, तथा हि - यस्तावत्? <<अच उपसर्गात्तः>> [[7.4.47]] इति तकार सः <<अलोऽन्त्यस्य>> [[1.1.52]] इति वचनादन्त्यस्य क्रियते, स च वर्णान्तरो व्यवधानादनन्तरस्तकारः परो न सम्भवति; योऽपि `खरि च` [[8.4.54]] इति दकारसय तकारो विधीयते, सोऽपिन सम्भवत्येव; दीर्घत्वे कर्तव्ये चर्त्वस्यासिद्धत्वेनाविद्यमानत्वादित्यत आह - `अच उपसर्गात्तः` इत्यादि। आश्रयणमाश्रयः=अङ्गीकरणम्। `दा` इत्यत्र यसतकारादिरादेशः, तस्मिन्? परत इगन्तस्योपसर्गस्य दीर्घो भवतीति ब्राउवता चर्त्वमाश्रितम्, न ह्रन्यथा तकारादिरादेशः परः सम्भवति। तस्मात्? चर्त्वस्याश्रयणात्? सिद्धम्। अतस्तकारादिरादेशो भवतीति। `नितीर्णम्` इति। `तृ? प्लवनतरणयोः` (दा।पा।969) `ऋत इद्? धातोः` [[7.1.100]] इतीत्त्वम्, `हलि च` [[8.2.77]] इति दीर्घः। `अट्कुप्वाङ्` [[8.4.2]] इत्यादिना णत्वम्। `सुदत्तम्` इति। `दो दद्घोः` [[7.4.46]] इत्यत्र - `अवदत्तं विदत्तं च प्रादत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तमिति चेष्यते`॥त्यनयेष्टआ ददातेर्ददादेश-॥", "63135": "`अष्टावक्रः` इति। अष्टौ वक्राण्यस्येति बहुव्रीहिः॥`अष्टाकपालम्` इति। अष्टसु कपलेषु संस्कृतमिति <<संस्कृतम्>> [[4.4.3]] इत्यण्, तस्य `द्विगोर्लुगनपत्ये [[4.1.88]] इति लुक्। `अष्टाहिरण्या` इति। बहुव्रीहिः। `पादस्य लोपे कृते` इति। <<पादस्य लोपोऽहस्त्यादिभ्यः>> [[5.4.138]] इत्यनेन। `गविच युक्ते` इत्यादि। `वक्तव्यम्` इति। अस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽत्रक्रियते, सचानुक्तसमुच्चयार्थः। तेन गवि च युक्ते भाषायामप्यष्टनो दीर्घो भवति॥", "63136": "", "63137": "`एकचितीकः` इति। एका चितिरस्येति बहुव्रीहिः, ततः `स्त्रियाः पुंवत्` [[6.3.33]] इत्यादिना पुंवद्भावः, <<शेषाद्विभाषा>> [[5.4.154]] इति कप्॥", "63138": "", "63139": "", "64001": "`अधिकारोऽयम्` इति। स्वरितलिङ्गासङ्गात्। इह केचित्? प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारो युक्त इति मन्यन्ते। एवं हि <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यस्मिन्? सत्रे लुग्ग्रहणं न कर्तव्यं भवति; यङ्लुक्यापि प्रत्ययलक्षणेन गुणस्य सिद्धत्वात्। यदि पुनरा सप्तमाध्यायपरिसमाप्तेरयमङ्गाधिकारः स्यात्, ततोऽवश्यं लुग्ग्रहणं कर्तव्यम्, न ह्रन्यथा यङ्लुकि गुणः सिध्यति; <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रतिषेधादित्येदं तेषामभिप्रायः। वृत्तिकारस्तु -यदि प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारः स्यात्, ततो वव्रश्चेत्यत्र वृश्चतेर्लिटि द्विर्ववचने कृते हलादिशेषात्? प्राक्? सम्प्रसारणं पूर्वप्रतिषेधेन, `उभयेषाम्` इति वचनसामर्थ्याद्धापरमपि हलादिशेषं बाधित्वा सम्प्रसारणं स्यात्, ततश्च <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपत्वे `उरत्` [[7.4.66]] इत्यत्त्वे रपरत्वे हलादिशेषे च कृते वकारस्यापि सम्प्रसारणं प्रसज्येत। आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सति `उरत्` [[7.4.66]] इत्यस्य परनिमित्तत्वात्? प्रत्ययो निमित्तत्वेनाश्रीयते। तेन परनिमित्तत्वादुरदत्तवस्य सम्परसारणम्` [[6.1.36]] इति वकारस्य सम्प्रसारणं प्रतिषिध्यते। प्रागभ्यासविकारेभ्यः पुनरङ्गाधिकारे सत्यपरनिमित्तत्वा दुरदत्त्वसय स्थानिवद्भावो न स्यात्, ततश्च <<न सम्प्रसारणे सम्प्रसारणम्>> [[6.1.37]] इत्यस्य प्रतिषेधस्याभावाद्वकारसय समप्रसारणं स्यादेव। ततश्चोव्रश्चेत्यनिष्टं रूपं स्यात्। तस्मादा सप्तमाध्यायपरसमाप्तेरङ्गाधिकारो युक्तः, न तु प्रागभ्यासविकारेभ्य इति मन्यमान आह -`आ सप्तमाध्यायपरिसमाप्तेः` इति। सप्तमाध्यायपरिसमाप्तेस्तु परेण `पदस्य` [[8.1.16]] इत्यधिकृतय कार्यं विधीयते। तेन तत्राङ्गाधिकारो नानुवर्तते। `ह्वेञ्? स्पर्धायाम्` [ह्वेञ्? स्पर्धायां शब्दे च -धातुपाठः-] (धातुपाठः-1008) निष्ठा, यजादीत्वात्? सम्प्रसारणम्। `जीनः` इति। `\tज्या वयोहानौ` (धातुपाठः-1499) ग्रह्रादिसूत्रेण [[6.1.16]] सम्प्रसारणम्, <<ल्वादिभ्यः>> [[8.2.44]] इति निष्ठानत्वम्। `संवीतः` इति। `व्येञ्? संवरणे` (धातुपाठः-1007) वच्यादिना [[6.1.15]] सम्प्रसारणम्। `निरुतम्, दुरुतम्` इति। `वेञ्? तन्तुसन्ताने` (धातुपाठः-1006) पूर्ववत्? सम्प्रसारणम्। असत्यङ्गाधिकारे निर्दुरोरवयवो यो हल्? ततोऽप्युत्तरस्य सम्प्रसारणस्य दीर्घः स्यात्। अङ्गाधिकारे पुनरङ्गावयवो यो हल्? तदुत्तरं यत्? सम्प्रसारणं तदन्तस्याङ्गस्य दीर्घत्वं विज्ञायत इति न भवति दीर्घत्वप्रसङ्गः। न ह्यत्राङ्गावयवाद्धल उत्तरं सम्प्रसारणम्। `अग्नीनाम्` इति। `ह्रस्वनद्यापो नुट्` [[7.1.54]] । `क्रिमिणां पश्य पामनां पश्य` इति। क्रियमोऽस्यां सन्तीति, पामानोऽस्यां सन्तीति `लोमादि` [[5.2.99]] इत्यादिना नप्रत्ययः, ततष्टाप्, द्वितीयैकवचनम्। <<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपत्वम्। यद्यङ्गस्येति नाधिक्रियते, ततोऽत्रापि क्रिमिशब्दस्य पामशब्दसय च नामि परतो दीर्घत्वं स्यात्। अङ्गाधिकारे तु न दोषः, न ह्यत्र क्रिमिपामशब्दयोर्नामि परतोऽङ्गत्वमस्ति, अपि तु नप्रत्यये `ब्राआहृणभिस्सा, ओदनभिस्सिटा` इति। भिस्साभिस्सिटाशब्दौ टाबन्तौ। तत्रैक ओदनस्य वाचकः, अपरस्तु तद्दग्धिकायाः। ताभ्यां यथाक्रमं ब्राआहृणौदनशब्दयोः षष्ठीसमासः। तत्रासत्यङ्गाधिकारे अनङ्गाब्यामपि ब्राआहृणौदनशब्दाभ्यां परस्य भिस ऐस्भावः प्रसज्येत। ननु च `तर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इति वचनाद्यथा क्रिमिणां पश्य, पामनां पश्येत्यत्र दीर्घत्वं न भविष्यति, तथा ब्राआहृणभिस्सौदनभिस्सिटेत्यत्राप्यैस्भावः, न ह्यत्र नामोऽर्थवत्त्वम्, नापि भिसः, तत्? किं तन्निवृत्यर्थेनाङ्गाधिकारेण? इत्याह -`अङ्गाधिकारः` इत्यादि। `नामिदीर्घत्वाद्यपि` इत्यादि। आदशब्देन <<अतो भिस ऐस्>> [[7.1.9]] इत्यैस्? गृह्रते। इतिकरणो हेतौ। यस्मादसत्यङ्गाधिकारे `हलः` [[6.4.2]] इति दीर्घत्वं यथा हूतः जीन इत्यत्र भवति, तथा निरुतम्, दुरतमित्यत्रापि स्यात्। <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घत्वं यथा चिकीर्षतीत्यत्र भवति, तथा दधि सनोति, मधु सनोतीत्यत्रापि स्यात्। <<एर्लिङि>> [[6.4.67]] `वान्यस्य संयोगादेः` [[6.4.68]] इत्येत्त्वं यथा ग्लेयादित्यत्र भवति, तथा निर्यायात्? निर्वायादित्यत्रापि भवेत्। तस्मादेवमाद्यर्थोऽवश्यकर्तव्योऽङ्गाधिकारः। सोऽन्यार्थः क्रियमाणो नामि दीर्घत्वाद्यपि व्यवस्थापयति=विषयान्तराद्व्यावर्त्त्याभिमते विषये नियमति। तेन तदर्थमेषा परिभाषा नाश्रयितव्या भवति। अगत्या हि खलु परिभाषाऽऽश्रीयत इति भावः। ननु <<षष्ठी स्थानेयोगा>> [[1.1.49]] इति वचनादङ्गस्येति स्थानषष्ठीयम्, ततश्च `अतो भिसाइस` [[7.1.9]] इत्येतत्? पञ्चम्यन्तेनाङ्गस्येत्येतत्षष्ठन्तस्य समानाधिकरणत्वं न स्यात्; भिन्नविभक्तिकत्वात्। तथा च सत्यकारान्तात्? परस्य भिस्सेत्यत्रस्यैस्भावः प्रसज्येत `ऊदुपघाया गोहः` [[6.4.89]] इत्यत्र `गोहः` इत्यस्याः स्थानषष्ठआ <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्तेऽल्युपसंहारादुपधागरहणसामर्थ्याच्छ गोहश्चान्त्यस्य स्यादूत्त्वम्। उपधामात्रस्य च <<शास इदङ्हलोः>> [[6.4.34]] इत्यत्रापि शास इति स्थानषष्ठीत्वेन विज्ञातायाः षष्ठआ अन्तेऽल्युपसंहारादुपधाग्रहणानुवृत्तिसामर्थ्याच्च शासश्चान्त्यस्येत्त्वम्, उपधामात्रस्य चेत्येतद्देश्यमपाकर्त्तुमाह -`अङ्गस्येति सम्बन्धसामान्य एषा षष्ठी` इत्यादि। सम्बन्धसामान्ये=अविशेषितसम्बन्धमात्रे। तत्रानेकसम्बन्धानुग्रहार्थमनाश्रितविशेषं सम्बन्धसामान्यमुपादाय प्रवृत्ता सत्युत्तरेषु भिन्नार्थेषु लक्षमवाक्येषु यथायोगं विशेषेष्ववतिष्ठते। सा क्वचित्? स्थाने योगा भवति, यथा <<हन्तेर्जः>> [[6.4.36]] इत्येवमादौ। क्वचिन्निमित्तनिमित्तिसम्बन्धविषया, यथा -<<युवोरनाकौ>> [[7.1.1]] इत्यादौ। यथैव हि देवदत्तस्येत्येका षष्ठभेदेन प्रवृत्ता ज्ञात्यवयवादिषु सम्बन्धभेदैर्भिद्यमाना जन्यजनकभावाद्यैः सम्बन्धविशेषे यथायोगमुपतिष्ठते -देवदत्तस्य पुत्रः पाणिः कम्बल इति, तथाङ्गस्येत्येषापि। तत्र यस्मिन्? वाक्ये <<शास इदङ्हलोः>> [[6.4.34]] इत्येवमादौ सम्बन्धिविशेषो विद्यते -अवयवोऽन्यो वा, तत्र यथायोगमवयवादिसम्बन्धे षष्ठी वेदतव्या। यत्र न विद्यते तत्र स्थाने षष्ठी, यथा -<<हन्तेर्जः>> [[6.4.36]] इतयवमादौ। कथं पुनरेषा सम्बन्धसामान्ये षष्ठीति लभ्यते, यावता <<षष्ठी स्थानेयोगा>> [[1.1.49]] इत्युक्तम्? एवं मन्यते -न हि सर्वा षष्ठी स्थानेयोगा भवति, अपि तु यस्याः कलादिकं लिङ्गं प्रतिज्ञायते; अन्यथा हि `उदीचामातः साथाने` इति स्थानग्रहणमनर्थकं स्यात्। तस्माद्विशिष्टैव या षष्ठी यस्याः कलादिकं लिङ्गं प्रतिज्ञायते सा स्थानेयोगेत्युक्तम्। न चास्याः कलादिकं लिङ्गं प्रतिज्ञायते। ततो नेयं स्थानेयोगा भवितुमर्हति। `अथ वा` इत्यादि। अङ्गशब्दस्य प्रातिपदिकस्य योऽर्थस्तन्मात्रधिक्रियते, न त्वेङ्स्येत्येतच्छब्दरूपम्। मात्रशब्दो विभक्त्यर्थव्यवच्छेदाय। अत एवाह -`अविवक्षितविभक्त्यर्थम्` इति। न विवक्षितो विभक्त्यर्थी यस्मिन्नर्थमात्रे तत्? तथोक्तम्। यतश्चेतदेवं तेन षष्ठी स्थानेयोगेति। नात्रेयं परिभाषोपतिष्ठते। अनेकसम्बन्धप्रसङ्गे हि सम्बन्धान्तरव्यवच्छेदार्थमेषा प्रणीता। ततो यत्र सम्बन्धो विवक्ष्यते तत्रैव नियमार्थमुपतिष्ठते, न चात्र कश्चित्? सम्बन्धः षष्ठआ विवक्षितः केवलं निर्देशार्थ एवास्याः प्रयोगः। अवश्यं हि यथा कयाचिद्विभक्त्या निर्देशः कर्तव्य इति षष्ठआं निर्देशः कृतः। ननु च स्वरितेनाधिकारः, स च शब्दधर्मः, नार्थधर्मः, तत्? कथं स्वरितरहितोऽर्थः शक्यतोऽधिकर्त्तुम्? नैष दोषः; अङ्गशब्दप्रतिपादितो योऽर्थः स शब्दात्मक एव। तथा हि यस्मात्? प्रत्ययविविस्तदादेः शब्दस्याङ्गसंज्ञा विहिता। `तदुत्तरत्र यथायोगं विपरिणम्यते` इत्यादि। अर्थवशात्? क्वचित्? षष्ठन्तत्वेनैव क्वचिद्विभक्त्यन्तरत्वेन, यथा -आढओ र्बधवेयो देवदेत्तः, उच्चान्यस्य गृहाणि, आमन्त्रयस्वैनं देवदत्तमिति। तेन `अतो भिस ऐस्? [[7.1.9]] इत्यत्र पञ्चम्यन्ततया विभक्तिविपरिणामे हि सत्यकारान्तादङ्गादुत्तरस्य भिस ऐसादेशो भवतीत्येवमाद्यर्थरूपं सम्पन्नं भवति। आदिशब्देन युष्मदस्मद्भ्यामुत्तरस्य ङसोऽश्? भवतीति परिगृह्रते। पिशब्दादवयवषष्ठआदयोऽपि परिसम्पन्ना भवन्ति। पूर्वत्र तु परिहारे `अतो भिस्? ऐस्` [[7.1.9]] इत्यत्रात्? इत्येषा निमित्तनिमित्तिसम्बन्दे षष्ठी द्रष्टव्या। तत्रायं सूत्रार्थः -अकारान्तस्याङ्गस्य यी भिस्? तस्यैस्भवतीति। तेन ब्राआहृणभिस्सेत्येवमादौ न भवति। अङ्गस्य हि को भिम्? यस्तस्य निमित्तम्। कस्तस्य पुनर्निमित्तम्? भिस्? परभूते यस्मिन्नङ्गमित्येषं भवति। कस्मश्चैतद्भवति? प्रत्यये। न च ब्राआहृणभिस्सेत्येवमादौ भिस्प्रत्यय इति कुतस्तस्यैस्प्रसङ्गः॥", "64002": "अण्ग्रहणं सम्प्रसारणग्रहणं दीर्घग्रहणञ्चैतत्? तरयमनुवर्तते। कुतः पुनः प्रकृतमण्ग्रहणम्? <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यतः। ननु तत्? <<इकः काशे>> [[6.3.123]] इतीग्ग्रहणेन व्यवच्छिन्नम्, तत्? कथमिहानुवर्तते? नैष दोषः, इग्ग्रहणेन ह्रणेव विशिष्यते -अण्णिगित। ततो विरोधाभावन्नेग्ग्रहणेनाण्ग्रहणं व्यवच्छिद्यते। ननु च यदीग्ग्रहणेनाण्ग्रहणं विशिष्यते, तदा -`अवाचा, स्वराचा` इत्यत्र दीर्घत्वं न स्यात्। `चौ` [[6.3.137]] इत्त्राण्ग्रहणमेवात्रानुवर्त्तिष्यते, इग्ग्रहणं तु निवृत्तमित्येषोऽपयदोषः। अथ वा -यद्यपीग्ग्रहणेनाण्ग्रहणं व्यवच्छिन्नम्, तथापीह मण्डूकप्लुतिन्यायेनानुवर्तते। ननु यथा `शेषे` [[4.2.91]] इत्येतल्लक्षणं विधिरधिकारश्च, तथा <<अङ्गस्य>> [[6.4.1]] इत्येतदपि, ततश्चानेनैव हूतः, जीन इत्यादेः सिद्धत्वादपार्थकं `हलः` इत्येतद्वचनम्। अतो न कर्तव्यमेवेति मन्यमान आह -`हल इति किम्` इति। किमर्थं `हलः` इत्येतत्? सूत्रमारभ्यत इत्यर्थ। `उतः, उतवान्` इति। असत्यस्मिन्? सूत्रे सन्प्रसारणान्तस्याङ्गस्य दीर्घो भवतीत्युच्यमान इहापि दीर्घत्वं स्यात्। भवति ह्रेतदपि व्यपदेशिवद्भावेन सम्प्रसारणान्तमङ्गम्, तस्मात् `हलः` इति सूत्रं कर्तव्यम्। `विद्धः` विचितः` इति। `व्यध ताडने` (धातुपाठः-1181) `व्यच व्याजीकरणे` (दा।पा।1293) निष्ठा, ग्रह्रादिसूत्रेण [[6.1.16]] सम्प्रसारणम्। सम्प्रसारणान्तस्याङ्गस्य ग्रहणादिह न भवति दीर्घः। यद्यपि <<विध्यत्यधनुषा>> [[4.4.83]] `ग्रहिज्यावयिव्यधिवष्टिविचति` [[6.1.16]] इति निर्देशात्? हलन्तस्य यत्? सम्प्रसारणं तस्य दीर्घो न भविष्यतीति विज्ञायते, तथापि ज्ञापकद्वारेणास्मिन्नर्थे प्रतिपाद्यमाने प्रतिपत्तिगौरवं स्यादित्येतत्परिहारार्थं सम्प्रसारणान्तस्येत्युक्तम्। `तृतीयः` इति। <<द्वेस्तीयः>> [[5.2.54]] इति <<त्रेः सम्प्रसारणं च>> [[5.2.55]] इति तीयप्रत्ययः सम्प्रसारणञ्च। सर्वमात्रास्ति, न त्वण्? कस्मान्नास्त्यण्? यस्मात्? `ढ्रलोपे<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यत इहाण्ग्रहणमनुवर्तते, तत्र च पूर्वेणैव णकारेण प्रत्याहारग्रहणम्, न च तत्र ऋकारः सन्निविष्ट इति भवत्येव प्रत्युदाहरणम्। `तृतीयेति वा` इत्यादि। अथ वा `अण` इत्येतन्निवृत्तमेव। तथाप्यत्र न भवत्येव दीर्घः; `कर्त्तुकरणयीस्तृतीया` [[2.3.18]] इति निपातनात्। `हलः` इत्येतसय त्रयोऽर्थाः सम्भाव्यन्ते, हल उत्तरस्य सम्प्रसारणान्तस्याङग्सय् दीर्घो भवति -अयमेकोऽर्थः, अङ्गवयवाद्धल उत्तरस्य सम्प्रसारणस्य दीर्घो भवति -इति द्वितीयः, तृतीयस्तु वृत्तिकारेणैव दर्शितः। तत्र यदि प्रथमः पक्ष आश्रीयते, तदा निरुतम्, दुरुतमित्यत्रापि स्यात्। भवति ह्रेतदपि हल उत्तरं समप्रसारणान्तमङ्गम्। अथ द्वितीयस्तदा विद्धः, विचित इत्यत्रापि स्यात्। अत्राप्याङ्गवयवाद्धल उत्तरं सम्प्रसारणमिति। अथ <<विध्यत्यधनुषा>> [[4.4.83]] , `ग्रहिज्यावयिव्यधिवष्टिविचति` [[6.1.16]] इति निर्देशान्न भविष्यति? ततश्च ज्ञापकद्वारेणैवंविधे दीर्घत्वाभावे प्रतिपत्तिगौरवं स्यादेव। तस्मादेतस्यैव दोषस्य परिजिहीर्षया तृतीयोऽर्थो वृत्तिकारेण द्रशितः। अत्रापि देश्यमिदमाशङ्क्यते -ननु चायमर्थोऽस्य सूत्रस्य नोपपद्यत एव, यस्मादङ्गस्येत्येकमङ्गग्रहणं प्रकृतम्। तच्च हलो विशेषणं वा स्यात्, अङ्गस्य कार्यप्रतिपत्त्यर्थं वा। तत्र यदि पूर्वकः पक्ष आश्रीयते तदाङ्गविशिष्ट सम्प्रसारणान्तस्याङ्गस्येति यावद्दीर्घो न लभ्यते। अथ द्वितीयस्तदा हल्? विशेषितो न स्यात्। तस्माद्द्वितीयमङ्गग्रहणं कर्तव्यं स्यात्। न ह्र#एकेन शक्यमेतदुभयं प्रतिपादयितुम्। अतोऽस्य देश्यस्य निरासायाऽऽवृत्तिन्यायमाश्रित्याह -`अङ्गग्रहणम्` इत्यादि। एकमपि हि वस्त्वावर्त्त्यमानमनेकत्रोपयुज्यते। यथैकं भाजनमसहभुजामनेकेषां भुजिक्रियायाम्, तथेदमङ्गग्रहणमावर्त्त्यते। तत्रानावृत्तेन हल्? विशिष्यते, आवृत्तेन त्वङ्गस्य दीर्घत्वं भवतीत्युभयथार्थप्रतिपत्तिर्भवति॥", "64003": "", "64004": "`तिसृ, चतसृ` इति `सुपां सुलुक्` [[7.1.39]] इति षष्ठीद्विवचनस्य लुकं कृत्वा निर्देशः कृतः। `तिसृणाम्, चतसृणाम्` इति। <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति तिसृचतरुआआदेशौ भवतः। ननु चात्र दीर्घत्वस्य प्राप्तिरेव नास्ति। तत्? किं प्रतिषेधेनेति? तथा ह्यत्रादेशयोः कृतयोरुभयं प्राप्नोति -नुडागमः, <<अचि र ऋतः>> [[7.2.100]] इति रेफादेशश्च, तत्र परत्वाद्रेफादेशे सत्यनजन्तमङ्गं भवति। अजन्तस्य दीर्घत्वेन भवितव्यम्, दीर्घग्रहणेन `अचश्च` [[1.2.28]] इत्यस्या उपस्थापितत्वादित्यत आह -`इदमेव` इत्यादि। यद्यत्र रेफादेशः स्यादयं प्रतिषेधो न कृतः स्यात्, कृतश्च, तस्मादयं प्रतिषेधो ज्ञापयति -<<अचि र ऋतः>> [[7.2.100]] इत्यस्मात्? पूर्वविप्रतिषेधेन नुडागमो भवतीति। तेन `नुमचिरऋत ज्वद्भावेभ्यो नुड्? भवति पूर्वविप्रतिषेधेन` इत्येतदुक्तं भवति॥", "64005": "वेति वक्तव्ये `उभयथा` इति वचनं वैचित्र्यार्थम्॥", "64006": "`केचिदेतचछन्दसीति नानुवर्तयन्ति` इति। त एवं मन्यन्ते -यद्ययं योगश्चन्दस्येव स्यात्? `छन्दसि नृ चोभयथा` इत्येकयोगमेव कुर्यात्। चकारो हि तिसृचतरुआओरनुकर्षणार्थः। तत्रैकयोगेनैव सिद्धे पृथग्योगकरणान्निश्चीयते -भाषायामप्येष योग इति॥", "64007": "अनजन्तार्थ आरम्भः। न इति षष्ठएकवचनान्तम्, सौत्रत्वन्निर्देशस्य यकारलोपस्यासिद्धत्वमनाश्रित्य <<आद्गुणः>> [[6.1.87]] कृतः। न इति वर्णग्रहणम्, तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयन्तीति नकारान्तस्याङ्गस्योपधायाः तस्या दीर्घत्वं विज्ञायत इत्याह -`नकारान्तस्याङ्गस्य` इति। `पञ्चानाम्` इति। <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः॥", "64008": "", "64009": "अत्र दीर्घग्रहणेन `अचश्च` [[1.2.28]] इत्यस्याः परिभाषाया उपस्थाने सत्यच्? सन्निधापितः। <<नोपधायाः>> [[6.4.7]] इत्यधिकारादुपधापि। `षपूर्वस्य` इति। षः पूर्वो यस्मादिति बहुव्रीहिः। तत्र यद्युपधाऽन्यपदार्थत्वेनाश्रीयेत, `षपूर्वस्य` इत्यस्त्रीलिङ्गेन निर्देशो नोपपद्यते, तस्मादजत्रान्यपदार्थत्वेनाश्रीयत इत्याह - `षपूर्वस्याचः` इत्यादि। `उपधायाः` इत्येतदचः समानाधिकरणं विशेषणम्। ऋभुक्षाणाम्` इति। ऋभृक्षोऽस्यास्तीति द्वितीयैकवचनम्, `पथिमथ्यृभुक्षाणाम्` [[7.1.85]] इत्यनुवर्तमाने `इतोऽत्सर्वनामस्थाने` [[7.1.86]] इत्यत्त्वम्। पूर्वग्रहणमुत्तरार्थम्। इह तु `वा षो निगमे` इत्येतावत्युच्यमाने षकारात्? परस्याचः <<नोपधायाः>> [[6.4.7]] इति विकल्पेन दीर्घत्वं लक्ष्यत एव॥", "64010": "सकारेऽकार उच्चारणार्थः। सोन्तोऽस्य स तथोक्तः। `सान्त` इत्यविभक्तिकोऽयं निर्देशः, तत्रोत्पन्नायाः षष्ठआ लुप्तत्वात्। `सकारान्तस्य संयोगो नकारो महतश्च` इति। तत्रापि नकार इत्यपेक्षते। सकारान्तस्य महतश्चेति द्वे अप्यवयवषष्ठ्यौ, सान्तसंयोगो यो नकारोऽवयवो महच्छब्दस्य च योऽवयव इत्यर्थः। एतेन सान्तसंयोगो महच्छब्दश्चोभयमप्येतन्नकारस्य विशेषणमिति दर्शयति। `तस्योपधायाः` इति। तस्येत्यनेन नकारः प्रत्यवमृश्यते। तस्य नकारस्य सम्बन्धिन्या उपधाया इत्यर्थः। एतैनापि नकार उपधाया विशेषणमित्याचष्टे। कः पुनर्नकारस्योपधायाश्च सम्बन्धः येनासौ तस्येति व्यपदिश्यते? निमित्तनिमित्तिभावः। अन्तयनकारापेक्षया हि पर्वत्वे सत्यन्तनकारात्? पूर्वो वर्ण उपधा भवति। तस्मान्नकारो निमित्तम्, उपरधा निमित्तनौ। अथ वा -समीपसमीपिलक्षणः सम्बन्धः, एतेन नकारसमीपवर्त्तिन्या उपधाया इत्यर्थः। `श्रेयान्` इति। प्रशस्योऽयम्, प्रशस्योऽयम्, अनयोरयम्प्रकर्षेण प्रशस्य इति <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इतीयसुन्, <<प्रशस्यस्य श्रः>> [[5.3.60]] इति श्रादेशः, <<प्रकृत्यैकाच्>> [[6.4.163]] इति प्रकृतिवद्भावाट्टिलोपः, <<यस्येति च>> [[6.4.148]] इति लोपश्च न भवति। `उगिदचाम्` [[7.1.70]] इत्यादिना नुम्, हल्ङ्यादि [[6.1.66]] संयोगान्त [[8.2.23]] लोपौ। `श्रेयांसि, पयांसि` इति। पूर्ववज्जसः शिभावः <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुम्। कथं पुनरत्र नकारात्? पूर्वस्योपधात्वम्, यावता `अलोन्त्यात्पूर्व उपधा` [[1.1.65]] इत्यलां सन्निविष्टानां योऽन्त्योऽल्? ततः पूर्वस्योपधासंज्ञा विहिता। न चात्र नकारोऽन्त्यः, किं तर्हि? सकारः? नैष दीषः; अपेक्षितं ह्रन्त्यत्वम्। तत्? सकारात्? पूर्वे ये वर्णास्तेषां नकारोऽन्त्य इति। ततः पूर्वो वर्ण उपधा भवति। यद्येवम्, तक्षको रक्षक इत्यत्रापि सकारात्? पूर्वे ये वर्णास्तेषां ककारोऽन्त्य इति, ततः पूर्वोऽवर्ण उपधा स्यात्, ततश्च `अत उपधायाः, [[7.2.116]] इति वृद्धिः स्यात्? नैतदस्ति; अङ्गस्य योऽकार उपधा तस्या वृद्धिर्विधीयते। न चात्राकारोऽङ्गस्यीपधा, अतो न भविष्यतीति -एतचचाशक्यं वक्तुम्, अकारस्याङ्गावयवत्वात्। पाचक इत्यादावप्यङ्गावयवत्वादकारोऽङ्गस्योपधेत्युच्यते, तस्मात्? प्राप्नोत्येव वृद्धिः? नैष दोषः, <<अत उपधायाः>> [[7.2.116]] इत्यत्र हि `ञ्णिति` [[7.2.115]] इत्यनुवर्तते, तेनोपधा विशिष्यते -ञिति प्रत्यये परतो योपधेति, तत्र `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।49) इत्येकेन वर्णेन व्यवधानमाश्रोयते, न पुनरनेकेन। तक्षकः, रक्षक इत्यत्रानेकेन वर्णेन व्यवधानम्? अतो न भवति वृद्धिप्रसङ्गः। इह तु सूत्रेन सर्वनामस्थानेनोपधा विशिष्यते, किं तर्हि? संयोगः -तेन सर्वनामस्थाने परतो यः संयोग इति। तेन यत्र संयोगादनन्तरं सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्, तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्, तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानेन संयोगसय विशेषणात्? हंसौ, हंसा इत्यत्र दीर्घत्वं न भवति। न ह्यत्र संयोगादनन्तरं सर्वनामस्थानमस्ति, अकारेण व्यवधानात्। अथेह कस्मान्न भवति -हंसमाचष्ट इति, `तदाचष्टे` (वा।201) इति णिच्? णाविष्ठवत्? कार्यं प्रातिपदिकस्य (वा।813) इति टिलोपः, हंसयतेः क्विप् -हन्, हंसौ हंस इति? <<वा षपूर्वस्य निगमे>> [[6.4.9]] इत्यतो वाग्रहणानुवृत्तेः। न चैवं सति सर्वत्र विकल्पप्रसङ्गः; व्यवस्थितविभाषात्वात्। एतेन `हिसि हिंसायाम्` (धातुपाठः-1829) इत्यस्य क्विबन्तस्य सुहिन्? सुहिंसौ सुहिंस इत्यत्र दीर्घत्वाभावो वेदितव्यः। यस्त्वाह -`इदितो नुम्? धातोः` [[7.1.58]] इत्यनेन नित्यो नुम्; नुम्विधावुपदेशिवद्वचनात्, ततो नुमः पृथक्सिद्धत्वं नास्ति, अत्र तु सिद्धानां सम्बन्धः समवायो भवति, न तु संयोगः। तेन संयोगाभावादिह दीर्घत्वं न भवति तन्मतेन संयोगान्तलोपोऽपि सुहन्नित्यत्र न स्यात्। नेह वैशेषिकशास्त्रप्रसिद्धोऽयं संयोगो गृह्रते अपि तु `हलोऽन्तराः संयोगः` [[1.1.7]] इति हलान्नैरन्तर्यलक्षण इह शास्त्रे प्रसिद्धः संयोग एव। स चेहास्त्येवेत्यसारः परिहारः। `महान्` इति। `वर्तमाने पृषद्वृहन्महज्जगच्छतृवच्च` (द।उ।6।5) इति निपातनसूत्रेण शतृवदित्यतिदेशादुगित्कार्यं नुम्। सान्तमहत इति किम्? बृहन्ति॥", "64011": "`आपः` इति। अप्शब्दस्य बहुत्वादेकवचनद्विवचने न सम्भवत इति बहुवचनमुपन्यस्तम्। `बह्वाम्पि` इति। बहव आप एष्विति बहुव्रीहिः। तदन्तविधेरिष्टत्वात्? तदन्तस्यापि दीर्घत्वं भवति। तथा हि <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यत्र सूत्रे `कानि पुनरत्र प्रयोजनानि` इति प्रश्ने इदमुक्तं प्रयोजनम् -महदपस्वसृनप्तृनेष्टृत्वष्टृ इति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते यावता `ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते` (व्या।पा।89)? नैष दोषः; `सर्वनामस्थाने चासम्बृद्धौ` [[6.4.8]] इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेन तदन्तस्यापि दीर्घत्वं भविष्यति। `केचित्` इति वचनात्? केचिन्नेच्छन्तीत्युक्तम्। तन्मतेन बह्वम्पीत्येवं भवति। कस्मात्? पुनरत्र `ऋक्पूरब्धूःपथामानक्षे` [[5.4.74]] इत्यनेनाकारः समासान्तो न क्रियते? इत्याह -`तत्र समासान्तो विधिरनित्यः` इत्यादि। इयञ्च परिभाषा <<स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च>> [[6.2.187]] इत्यत्राध्वग्रहणेन ज्ञापिता। यथाध्वग्रहणं ज्ञापकं तथा तत्रैदोक्तम्। नन्वेवमपि बह्वाम्पीति नैव सम्भवति, तथा हि -बह्वप्+शि इति स्थितेऽनेन दीर्घत्वं प्राप्नोति, `नपुसकस्य झलचः` [[7.1.72]] इति नुम्? च, तत्र कृतकृतप्रङ्गित्वेन नित्यत्वात्? परत्वाच्च नुम्? कर्तव्यः, तस्मिन्? कृत उपधाया अदीर्घभाविनीत्वाद्दीर्घत्वं न प्राप्नोति? इत्यत आह -`नित्यमपि च` इत्यादि। नित्यमपीत्यपिशब्दात्? परमपि। कथं पुनरिष्यमाणं नुममकृत्वा दीर्घत्वं लक्ष्यते? <<वा षपूर्वस्य निगमे>> [[6.4.9]] इत्यतः पूर्वग्रहणानुवृत्तेः। तस्यैतदेव प्रयोजनम् -यदन्यत्? कार्यं प्राप्नोति तदकृत्वा दीर्घत्वमेव पूर्व कर्तव्यमिति। अन्यस्त्वाह -<<नपुंसकस्य झलचः>> [[7.1.72]] इति नुम्? विधीयते, नपुंसकञ्चार्थधर्मः, अर्थे च शब्दानुशासनेऽस्मिन्? कार्याभावान्नपुंसकामिधायी शब्दो नुम्विधावाश्रयणीयः। तञ्च शब्दं ग्रहीतुं प्रयोगोऽनुगमनीय इति नुमो बहिरङ्गत्वम्। अयं तु दीर्घः साक्षादप्शब्दमुच्चार्य विधीयमानो यथोच्चारितस्यैव क्रियमाणोऽल्पाश्रयत्वादन्तरङ्ग इति पूर्वं दीर्घः प्रवर्तते, पश्चान्नुमिति। एतच्चायुक्तम्, अनेन हि न्यायेन बह्वाम्पीति न सिध्येत्। एवदपि कैश्चिदिष्यते -अस्य च न्यायस्य साधारणत्वादिहापि पर्वमेव दीर्घत्वेन भवितव्यम्, पश्चान्नुमा। पूर्वस्मस्तु परिहारे न दोषः। ये हि बह्वम्पीतीच्छन्ति ते पूर्वग्रहणमिह नानुवर्तयन्ति। `कर्तारः` इति। तच्छीलादावर्थे तृन्निति <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः। `जनापवादान्` इति। द्वितीयान्तस्यानुप्रयोगस्तृन्नन्ततां दर्शयितुम्। तृनो हि प्रयोगे `न लोकाव्ययनिष्ठा` [[2.3.69]] इत्यादिना षष्ठआं प्रतिषिद्धायाम्, द्वितीयैव भवति। एकवचनं नोदाहृतम्। तत्र `ऋदुशनस्पुरुदंशोऽनेहसाञ्च` [[7.1.94]] इत्यनङादेशे कृते <<नोपधायाः>> [[6.4.7]] `सर्वनामस्थाने च` [[6.4.8]] इत्यादिना दीर्घस्य सिद्धत्वात्। `कटस्य` इति षष्ठन्तस्यानुप्रयोगस्तृचोऽभिव्यक्तये। तस्य प्रयोगे कर्मणि षष्ठी भवति `कर्त्तृ कर्मणोः कृति` [[2.3.65]] इत्यनेन। अथ यथा <<तुरिष्ठेमेयस्सु>> [[6.4.154]] इत्यत्र तुरिति तृंस्तृचोर्यत्? समानं रूपं तस्यैव ग्रहणं कृतम्, न तु तयोर्भेदेन, ततेहापि किमर्थं न कृताम्? <<अर्वणस्त्रसावनञः>> [[6.4.127]] इत्यर्वादेशस्य तृशब्दस्य ग्रहणं मा भूदित्येवमर्थमिति चेत्, नैतत्? प्रयोजनम्; अर्थवद्ग्रहणपरिभाषयैव (व्या।प।1) हि तस्य ग्रहणं न भविष्यति। एवं तृंस्तृचोर्भेदेनोपादानमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्। तेन `अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च प्रयोजयन्ति` (व्या।प।129) इत्युपपन्नं भवति। अथ वा -`सामान्यनिर्देशे क्वचिद्विशेष एव गृह्रते` इति ज्ञापनार्थम्। तेन <<न कोपधायाः>> [[6.3.37]] इत्यत्र सामान्योक्तावपि तद्धितवुसम्बन्ध्येव ककारो गृह्रते, न ककारमात्रम्।अथ नप्त्रादीनां ग्रहणं किमर्थम्, यावता ते हि केचित्? तृजन्ता व्युत्पाद्यन्ते केचित्? तृन्नन्ताः। तत्र तृस्तृज्ग्रहणेनैव सिदधम्? इत्याह -`नप्त्रादीनाम्` इत्यादि। केचिदार्या नप्त्रादीन्यक्ष्युत्पन्नानि प्रातिपदिकानीच्छन्ति, केचिद्व्युत्पन्नानि। तत्रैषा व्युत्पत्तिः -नप्त्रिति नमेस्तृचि मकारस्य पकारो निपात्यते। नेष्ट्रति -नयतेस्तृचि षुक्? च। त्वष्ट्रिति -त्विषेस्तत्रैवाकार उप(धाया अनिट्त्वञ्च। क्षित्रिति -क्षदेस्तृच्। होतृपोत्रिति-जृहोतेः पुनातेश्च स एव। प्रशास्त्रिति -शासेः [तृन्तृचौ शंसिक्षदादिब्यः संज्ञायां चानिटौ -पं।उ।2।94] प्रपूर्वाच्छसिक्षदादिभ्यः संज्ञायां चानिट्त्वञ्चेति तृन्ननिट्त्वञ्च। तत्राव्युत्पत्तिपक्ष एषां तृन्तृजन्तत्वाभावात्? तृंस्तृज्ग्रहणेन ग्रहणं न भवतीति विध्यर्थ पृथगुपादानम्। व्युत्पत्तिपक्षे तु तृंस्तृजन्तादेव सिद्धे नियमार्थम् -एषामेव संज्ञाशब्दानां यथा स्यात्, अन्ये य एवम्भूताः संज्ञाशब्दास्तेषां मा भूदिति। तेन मातरौ मातरः इत्यादौ न भवति। अथ प्रशास्तृणामित्यत्र केन णत्वम्, `रषाभ्याम्` [[8.4.1]] इत्यादिनेति चेत्? न; यस्मात्? `रषाभ्याम्` इत्युच्यते, न च#आत्र रषौ स्तः। एवं तह्र्रेष निर्देशी ज्ञापयति -यतो विहितं णत्वं ततोऽन्यत्रापि भवतीति। तेन मातृणाम्? पितृणाम्, ग्रामणीः अग्रणोरित्यादौ णत्वं सिद्धं भवति। ततश्च रषाभ्यां णत्वे `ऋवर्णाच्चचेति वक्तव्यम्` (वा।946) न वक्तव्यं भवति॥", "64012": "`अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति` (व्या।प।129) इतीन्ग्रहणेन तदन्तं गृह्रते। इतरेभ्योऽपि केवलेभ्यः शिनं भवतीति। तथा हि -हन्निति हन्तेः क्यिबन्तस्येदं ग्रहणम्, न च केवलस्य हन्तेः क्विब्दृश्यते। इतरौ तु पुंल्लिङ्गौ। नपुंसकादुत्तरयोः जस्शसोः शिर्विधीयते। तस्मात्? तैरपि सामर्थात्तदन्तविधिर्विज्ञायत इत्याह -`इन्, हन्, पूषन्, अर्यमन्? इत्येवमन्तानामङ्गानाम्` इति। `बहुदण्डीनि` इति। दण्ड एषामस्तीति मत्वर्थीय इनिः, बहवो दण्डिनः एषां सन्तीति बहुव्रीहिः, ततो जश्शसौ, तयोश्च पूर्ववच्छिभावः, अनेन दीर्घत्वम्। ननु चेन्नितिप्रत्ययग्रहणम्, तत्र `प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेसतदन्तस्य च ग्रहणं भवति` (भो।प।सू।7) इति दण्डिनीत्यत्रैव दीर्घत्वेन भवितव्यम्, न तु बहुदण्डीनीत्यत्र? नेतदस्ति; यत्र हि प्रत्ययस्यैव ग्रहणं तत्रैवेयं परिभाषा, नेदं प्रत्ययस्यैव ग्रहणम्, अपि तु प्रस्ययाप्रत्यययोः; अन्यथा वाच एषां सन्तीति <<वाचो ग्मिनिः>> [[5.2.124]] वाग्मीनि, रुआज एषां सन्तीति <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] `रुआग्विणीत्येवमादौ न स्यात्। तस्मान्नात्रासौ परिभाषोपतिष्ठते। `बहुबृत्रहाणि` इति। बृत्रं हतवन्तः `ब्राहमभ्रुणवृत्रेषु क्विप्` [[3.2.87]] बहवो वृत्रहणो येषु तानि बहुवृत्रहाणि। `प्रातपदिकान्तनुम्विभाक्तिषु च [[8.4.11]] इति णत्वम्। बहवः पूषणो येषु तानिबहुपूषाणि। बहवोऽर्यमणो येषु तानि बह्वर्यमाणि। ननु <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन दीर्घत्वं सिद्धम्, तत्? किमर्थोऽयमारम्भः? इत्यत आह -`सिद्धे सत्यारम्भः` इत्यादि। युक्तोऽसय नियमार्थः आरम्भः, किन्त्वारभ्यमाणेऽप्येतस्मिन्? नियमर्थे भ्रूणहनीत्यत्र <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घत्वं प्राप्नोत्येव, तथा ह्रयं शौ सर्वनामस्थाने नियम आरभ्यते। अत्र यथा विशिष्टायाः प्रकृतेर्नियम आरभ्यमाणः प्रकृत्यन्तरस्य न भवति -प्रतामौ, प्रताम इति, तथा सर्वनामसंज्ञाविशिष्टे शित्प्रत्यय आरभ्यमाणः सर्वनामस्थान एव स्यात्, अन्यत्र न स्यात्; तुल्यजातीयापेक्षत्वान्नियमस्य। ततश्चासरवनामस्थाने नियमाभावाद्दीर्घत्वं स्यादेवेत्यत आह -`दीर्घविधिः` इत्यादि श्लोकम्। य इह शास्त्र इन्नन्तादीनां दीर्घत्विवधानं तं विनियम्य तस्य नियमं कृत्वा। कव विनियम्य? सुटि। सर्वनामस्थानोपलक्षणमेतत्? सङ्ग्रहणम्। सर्वनामस्थान इत्यर्थः। ततः किं कुर्यात्? इत्यत आह -`शौ नियमम्` इत्यादि। सर्वनामस्थाने नियमं कृत्वा पुनः शौ नियमं कुर्यात्। एवकारोऽवधारणार्थः, स तु भिन्नक्रमः, विदध्यादित्यस्यानन्तरं द्रष्टव्यः सुविद्धान्=सुपण्डितः। कथं पुनरेकेन योगेन द्वौ नियमौ शक्येते कर्त्तुम्? एवं मन्यते -इमं योगं विभज्य द्वौ योगौ कर्तव्याविति। `इन्हन्पूषार्यम्णाम्` इत्येको योगः, ततः `शौ` इति द्वितीयः। सर्वनामग्रहणं चात्रानुवर्तते। तत्र पूर्वयोगः -दर्घविधिर्य इहेन्प्रभृतीनां तं विधिं विनियम्य सुटीत्यनेन दर्शितः। द्वितीयस्तु `शौ नियमं पुनरेव विदध्यात्` इत्यनेन। तत्र पूर्वेण योगेन दीर्घत्वं भवेत्। <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इत्यनेन वा दीर्घत्वं विनियम्यते -इन्प्रभृतीनां सर्वनामस्थान एव दीर्घत्वम्, नान्यत्र। तेन सप्तम्यां दीर्घो न भवति -वृत्रहणि, भ्रूणहनीत्यत्र। द्वितीयेन तु शौ नियम्यते, तत्रापि सर्वनामस्थाने शावेव दीर्घो भवति, नान्यत्रेति। तेन बहुवृत्रहाणीत्यत्र भवति, वृत्रहण इत्यत्र न भवति। एवं योगद्वयेन नियमद्वये क्रियमाणे सति योऽर्थः सम्पद्यते तं दर्शयितुमाह -`भ्रूणहनि` इति। `तथास्य न दुष्येत्` इति। तथैवं योगद्वये कृतेऽस्य पाणिनेः भ्रूणहनीत्येतच्छब्दरूपं नैव दुष्येन्नासिद्धत्वदोषवद्भववतीत्यर्थः। इतिकरणो हेतौ। यस्मादेवं योगद्वयेन नियमद्वये क्रियमाणे भ्रूणहनीत्येतन्न दुष्येत; तस्माद्दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटि शौ नियमं सुविद्धान्? पुनर्विदध्यात्। द्वितीयस्त्वितिकरणो भ्रूणहनीत्येतस्य स्वरूपपदार्थकतां द्योतयति। एवं योगद्वयेन भ्रूणहनीत्यत्र दीर्घत्वं परिह्मत्यैकस्मिन्? योगे परिहर्त्तुमाह -`शास्मि` इत्यादि। शास्मि=उपदशामि तमपरमुपायम्, येनैकस्मिन्? योगे सति भ्रूणहनौ, भ्रूणहन इति न दुष्यति। नापि भ्रूणहनीत्येतत्। कः पुनरसावुपायः? इत्याह -`निवर्त्त्य` इत्यादि। सुटीत्येकयोगेन सर्वनामस्थानं लक्ष्यते। `सर्वनामस्थाने` इति यदेतत्प्रकृतं तं निवर्त्त्य। `अविशेषे` इति। नास्य विशेषो विद्यत इत्यविशेषः; तस्मिन्नविशेषे=अनाश्रितविशेषे प्रत्ययमात्रे शौ इत्येवं तं नियमं कुरु। एवं वा नियमं कुर्वित्यर्थः। वाशब्दः पक्षान्तरत्वमस्य परीहारस्य द्योतयति। अपिशब्दो भ्रूणहनीत्यत्रापि पक्षान्तर आश्रीयमाणे न दुष्यति? शावेव दीर्घत्वस्य नियतत्वात्। इन्प्रभृतोनां यदि दीर्घत्वं भवति तदा शावेव प्रत्यये, नान्यत्रेति। निवर्त्त्य सुटीत्यनेन शास्त्रीयस्याधिकारस्य निवृत्तिर्दर्शिता। निवृत्ते तु तस्मिन्? यदि लौकिकोऽधिकारोऽपेक्षालक्षण आश्रीयते तदा पूर्ववत्? भ्रूणहनीत्यत्र स्यादेव दीर्घत्वम्। अतो लौकिकाधारनिरासायाह -`असमीक्ष्य` इति। सुटीत्यनेनास्य सम्बन्ध-। सर्वनामस्थानमपेक्ष्येत्यरेथः। एवं सर्वनामस्थानग्रहणनिवृत्तेऽनपेक्षिते च प्रत्ययमात्रापेक्षया शावित्ययं नियमः प्रत्ययमात्रं नियमयति, न तु तुल्यजातीयं सर्वनामस्थानमेव। तेन न केवलमन्यत्र सर्वनामस्थाने दीर्घो न भवति, अपि तु भ्रूणहनीत्यत्रापि। यदि तर्हि प्रत्ययमाश्रित्य सर्वनामस्थानविषयमनपेक्ष्य शौ नियमः, एवं हि सति दीर्घत्वस्य शावेव नियतत्वाद्यथा भ्रूणहनीत्यत्र न भवतिष तथाचारे क्यङ्यपि <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति दीर्घत्वं न स्यात्, ततश्च भ्रूणहेवाचरतीति `कर्त्तुः क्यङ्? सलोपश्च` [[3.1.11]] इति क्यङि विहिते भ्रूणहयत इत्यनिष्टं रूपमापद्येतेत्यत आह -`दीर्घविधेः` इत्यादि। <<नोपधायाः>> [[6.4.7]] इत्यत उपधाग्रहणमनुवर्तते, तेन न सर्वस्य दीर्घविधेरयं नियमः, अपि तूपधादीर्घविधेः। न च `अकृत्सार्वधातुकयोः` [[7.4.25]] इत्युपधादीर्घविधिः, किं तर्हि? अजन्तदीर्घविधिः। तस्मादयमत्र प्रवर्तत एव। हन्त! `यि दीर्घविधौ च न दोषः` इति। यकारादौ प्रत्यये क्पङि दोषो न भवतीत्यर्थः। हन्तेति निपातो वचनारम्भेऽभिमुखीकरणे वा वर्तते। अन्ये तु `हन्तयि दीर्घविधौ च न दोषः` इति पठन्ति। त एवं व्याचक्षते -हन्तर्यो हन्तियः, `पञ्चमी` [[2.1.36]] इति योगविभागात्समासः, तस्मिन्? हन्तियि। सप्तम्येकवचनमेतत्। हन्तेर्धातोर्यकारादिर्यः प्रत्य इति। तत्र दीर्घविधौ न दोषः। चकारः पूर्वत्र परीहारे वक्ष्यमाणे च। अत एवोपधानियमाद्धन्तेर्यकारादौ प्रत्यये न दोष इत्यस्यार्थस्य द्योतनाय। सम्प्रति सर्वनामस्थानग्रहणेऽनुवर्तमाने, असति च योगविभागे भ्रूणहनीत्यत्र यथा दीर्घत्वं न भवति तथा तद्दर्शयितुमाह -`सुटपि वा` इत्यादि। वाशब्दोऽत्र पक्षान्तरं द्योतयति। अपिशब्दो भिन्नक्रमः `अप्रकृतप्रतिषेधे` इत्यस्यानन्तरं द्रष्टव्यः। अत्रापि सुटीत्येतत्? सर्वनामस्थानोपलक्षणार्थं वेदितव्यम्। नास्य विद्यतेऽवकाशः। व्यावृत्तिविषयो व्यवच्छेद्य इत्यनवकाशः। प्रकृतात्? सर्वनामस्थानदन्यदप्रकृतम्। सर्वनासस्थानव्यतिरिक्तं प्रत्ययान्तरमप्रकृतम्, तत्र दीर्घत्वस्य प्रतिषेधोऽप्रकृतप्रतिषेधः। अप्रकृते प्रतिषेधोऽप्रकृतप्रतिषेधः। `सप्तमी` [[2.1.39]] इति योगविभागात्समासः। `अप्रकृतप्रतिषेधे` इति। विषयसप्तमीयम्। अयं तादत्? पूर्वार्धस्यावयवार्थः। समुदायार्थस्तूच्यते -अथ वाऽनुवर्तमानेऽपि सर्वनामस्थानग्रहणे तत्र शावित्यस्य नियमस्य किञ्चिद्व्यावत्त्यमस्तीत्यनवकाशः सन्? सामर्थ्याद कृतप्रतिषेधेऽपि कर्तव्यता विषयभूते प्रवर्तते=व्याप्रियते। अपिशब्दादन्यत्रापि सर्वनामस्थाने। कथं पुनरवकाशः? इत्याह -`यस्य हि` इत्यादि। यस्येति शावित्यपेक्षया षष्ठी। हिशब्दो यस्मादर्थे। द्विविधं हि सर्वनामस्थानम् -स#उट्, शिश्च। तयोः पूर्वं स्त्रीपुंसयोः सम्बन्धि, न नपुंसकस्य; <<सुडनपुंसकस्य>> [[1.1.43]] इति वचनात्। इतरत्? पुनर्नपुंसकस्य; तत एव तस्य विधानात्। तत्र यत्सम्बन्धिनि शौ सर्वनामस्थाने शावित्ययं नियमः क्रियते, सुटि नैतत्। सुटि सर्वनामस्थाने परतस्तन्नपुंसकं न भवतीत्यर्थः। अनेन सुटः सर्वनामस्थानस्यानपुंसकसम्बन्धित्वमाख्यातम्। तेन न तत्र भवेद्विनियम्यम्। यस्मादेव सुट्? सर्वनामस्थानं नपुंसकस्य सम्बन्धि न भवति, तेन कारणेन तत्रानपुंसकसम्बन्धिनि सर्वनामस्थाने शावित्यस्य नियमस्य विनियम्यं व्यावत्त्यं नास्तीति नपुंसकसम्बन्धिनि हि क्रियमाणो नियमो युक्तः। अनपुंसकसम्बन्धिन्येवास्मिन्? सर्वनामस्थाने तुल्यजातीये निवृतिंत कुर्यात्। न च शिव्यतिरिक्तं नपुंसकसम्बन्धि सर्वनामस्थानमस्ति, ततो नास्ति तुल्यजातीये व्यावर्त्त्यम्। शौ नियमस्येति तस्यानवकाशत्वम्। तस्मादप्रकृतप्रतिषेधेऽपि व्याप्रियते। `हन्तेरनुनासिकस्य` इत्यादिना कारिकात्रयस्यापि यथाप्रधानमर्थमाचष्टे। तत्र हन्तेरनुनासिकस्येत्यादिना `भ्रूणहनीति तथास्य न दुष्येत्` इत्यस्यार्थ आख्यातः। `योगविभागः` इत्यादिना `दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटि` इत्यस्य। `ततः` इत्यादिना `शौ नियमं पुनरेव विदध्यात्` इत्यस्य। `सर्वनामस्थान` इत्यादिना द्वितीयश्लोकपूर्वार्धस्य। `यस्तु` इत्यादिनोत्तरार्धस्य। `अथ वा` इत्यादिना `सुटपि वा प्रकृतेरनवकाशः` इत्यस्य। `सामर्थ्यात्` इति। सामर्थ्याम्नवकाशत्वम्। `अविशेषेण नियमः` इत्यनेन `शौ नियमोऽप्रकृतप्रतिषेधे` इत्यस्य। अविशेषेणेति सामान्येन, न प्रकृत एव, अपि तु प्रत्ययमात्र इत्यर्थः। यस्त्वप्रकृतपरतिषेधारथतामेवास्य नियमस्य व्याचष्टे तस्यैव तद्वचनमविशेषेणेत्यनेन वृत्तिकारवचनेन विरुध्यते। एवं ह्रविशेषेण नियमो भवति यदि सर्वत्र प्रकृते चाप्रकृते च प्रत्ययमात्रे भवति। अथ तु प्रकृतं परितयज्याप्रकृत एव स्यात्? ततो विशेषेणैव स्यात्, नाविशेषेण। अविशेषेण वास्मिन्नियमे सत्यनेनैव सर्वत्र दीर्घत्वस्य निवर्त्तितत्वात्? `सौ च` [[6.4.13]] इत्ययं योगो विध्यर्थो वेदितव्यः। सामर्थ्यादविशेषेण नियम इत्युक्तम्। अतस्तत्सामर्थ्यं दर्शयन्? `शिशब्दे हि` इत्यादिना `यस्य हि शौ नियमः` इत्यस्यार्थमाचष्टे। यत्र शिशब्दे नियमः क्रियते स यस्मान्नपुंसकस्य सर्वनामस्थानं न स्त्रीपुंसयोः; नपुंसकादुत्तरयोर्जश्शसोः व्यादेशस्य विधानात्। `न च तस्यान्यत्? सर्वनामस्थानमस्ति` इति। अनेन सुटः सर्वनामस्थानस्य नपुंसकसम्बन्धित्वं दर्शयति। इतिकरणो हेतौ। यत एवं नियमो विधीयते नपुंसकसम्बन्ध#इनि शौ सर्वनामस्थाने तज्जातीयमन्यत्? सर्वनामस्थानं हि नास्ति। तस्मात्? तुल्यजातीयव्यवचछेद्यस्यासम्भवादविशेषेम नियमः। `तत्र तु` इत्यादि। तुशब्दोऽवधारणार्थो भिन्नक्रमश्च नेत्यस्यानन्तरं द्रष्टव्यः। तत्रैतस्मिन्नियमे क्रियमाण इन्नादीनां नपुंसकस्येत्येतद्विशेषणं नैवाश्रीयते। अनाश्रीयमाणे च तस्मिन्नेषोऽर्थः सम्पद्यते -इन्नादीनां शावेव दीर्घो भवति, नान्यत्रेति। तेनानपुंसकस्यापि भ्रूणहनीत्यत्र नियमेन व्यावर्त्तितत्वाद्दीर्घो न भवति। यदि नपुंसकस्येत्येतद्विशेषमं तेषामाश्रीयते, ततोऽयमर्थः स्यात् -इन्प्रभृतीनां नपुंसकानां शावेव दीर्घो भवति, नान्यत्रेति। ततश्च नपुंसक एव नियमः स्यात्। तत्र को दोषः? भ्रूणहनि ब्राआहृणकुले इत्यत्रैव दीर्घनिवृत्तिः स्यात्, भ्रूणहनि ब्राआहृणे इत्यत्र न स्यात्। तस्मात्? तद्दोषपरिजिहीर्षया नपुंसकस्येत्येतद्विशेषणं नाश्रीयते। यद्येवम्, यदुक्तम् -`अनवकाशः शौ नियमः` इति, तन्नोपपद्यते, अनाश्रिते ह्रेतस्मिन्? विशेषणे तेषामनाश्रितविशेषणानां नपुंसकानामनपुंसकाताञ्च सम्बन्धिनि शौ सर्वनामस्थाने नियमः स्यात्, तथाभूतानाञ्च तेषामन्यदपि सुट्सर्वनामस्थानमस्त्येव, ततश्च तुल्यजातीयवयवच्छेदविषये सति कुतो नियमस्यानवकाशत्वम्? नैतदस्ति; नियमविधानवेलायां तेषां नपुंसकत्वं विशेषणं यद्यपि नाश्रीयत#ए, तथापि तेषां नपुंसकादेव शेर्विधानान्नपुंसकस्य निमित्तभावः, शेस्तु निमित्तिभाव इति निमित्तनिमित्तिभावलक्षणेन सम्बन्धेन शेः सर्वनामस्थानस्य नपुंसकसम्बन्धित्वं विद्यत एव। न चान्यन्नपुंसकसम्बन्धि सरवनामस्थानं विद्यत इत्युपपन्नमेतत् -अनवकाशः शौ नियम इति। ननु चात्र नपुंसकस्येति न प्रकृतम्, नाप्युपात्तम्, ततश्च तदाश्रयणशङ्का नास्त्येवेति तन्निवृत्तये न युक्तमिदम्, तत्र तु `नपुंसकस्य` इत्येतन्नाश्रीयते? इत्यत आह -`सर्वनामस्थानसंज्ञाविधाने तु` इत्यादि। तुशब्दो हेतौ। यतो नपुंसकेनोत्पादितस्य विशब्दस्य <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा विधीयते, तस्मात्? सर्वनामस्थानसंज्ञाविधानं प्रति नपुंसकमिति निमित्तभावमापद्यते। तदेवं निमित्तभावोपयमनं नपुंसकस्य सर्वनामस्थानसंज्ञाविधाने व्यापारः। तस्माद्यत्र शिशब्दः सर्वनामस्थानसंज्ञकस्तत्रावश्यं नपुंसकेनोपस्थातव्यम्। इह तु सर्वनामस्थानग्रहणानुवृत्तेः सर्वनामस्थानसंज्ञकस्य शिशब्दस्य ग्रहणम्। ततो नपुंसकं सामर्थ्यात्? सन्निहितम्। तेन सम्भाव्यते तदाश्रयणमित्यभिप्रायः॥", "64013": "पूर्वेण नियमेन सौ दीर्घत्वं न प्राप्नोतीति विध्यर्थोऽयमारम्भः। चकार इन्प्रभृतीनामनुकर्षणार्थः॥", "64014": "`अत्र कृते दीर्घत्वे नुमागमः` इति। कथं पुनरेतल्लभ्यते, यावता कृताकृतप्रसङ्गित्वात्? परत्वाच्च नुमैव भवितव्यं पूर्वमित्याह - `यदि हि` इत्यादि। इह दीर्घग्रहणेन `अचश्च` [[1.2.28]] इत्युपस्थापिते सत्यज्लक्षणाया उपधाया दीर्गो विधीयते। यदि च परत्वान्नित्यत्वान्नुम्? प्राग्विधीयते, अच उपधात्वं विहन्येत। तस्माद्वचनसामर्थ्याद्दीर्घः प्राग्भवति, ततो नुमागमः। `सुपयाः, सुयक्षाः, `सुरुआओताः` [`सुश्रोताः - काशिका] इति। `असुन्` (द।उ।9।49) इति वर्तमाने `पिबतेरिच्च` (द।उ।9।50) [`पिबतेरि च` - द।उ।] इति, `अशेर्देवने युट्? च` (द।उ।9।51) [`अशेर्धने` - द।उ।] `रुआउरिभ्यां तुट्? च` (द।उ।9।62) [रुआरीभ्यां - द।उ।] इति - एते यथाक्रममसुन्परत्ययान्ता पयोयशःरुआओतःशब्दा व्युत्पद्यन्ते। `पिण्डग्रः, चर्मवः` इति। `ग्रसु ग्लसु अदने` (धातुपाठः-630,631), `वस आच्छादने` (धातुपाठः-1023), `अन्येम्योऽपि दृश्यते` [[3.2.178]] इति क्विप्। ननु चार्थवद्ग्रहणपरिभाषया(व्या।प।1)ऽर्थवानेवासित्ययं गृह्रते, यथा मूलोदाहरणेषु, पयःप्रभृतीनामसुन्प्रत्ययान्तत्वात्? प्रत्ययार्थेनार्थवानसौ, न तथा प्रत्युदाहरणयोः, धात्ववयवस्तत्र दोर्घत्वस्यापरसङ्गादपार्थकोऽदातोरिति प्रतिषेधः? इत्यत आह - `अनर्थकोऽपि` इत्यादि। कथमेतल्लभ्यते? इत्याह - `अनिनस्मन्ग्रहणानि` इत्यादि। अथेह कथं दीर्घत्वम् - गोमन्तमिच्छति गोमत्यति, `सुपाअत्मनः क्यच्` [[3.1.8]] गोमत्यतेरप्रत्ययो गोमानिति, कथञ्च न स्यात्? अधातोरिति प्रतिषेधात्? अस्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वात्? नैतदस्ति; `अधातोः` इति प्रतिषेध आनन्तय्र्यादनन्तरस्यैव, नान्तरस्य। अथ वा चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेनेह धातोरपि भविष्यते। अथान्तग्रहणं किमर्थम्, यावता <<अङ्गस्य>> [[6.4.1]] इत्यनुवर्तते, तत्र गृह्रमाणेनातुशब्देनासशब्देन च प्रकृतेऽङ्गे विशिष्यमाणे विशेषणेन च तदन्तविधिर्भवतीत्यन्तरे#आप्यन्तग्रहणं तदन्तस्यैव दीर्घत्वं भविष्यति? इत्यत आह - `अन्तग्रहणम्` इत्यादि। उपेशः=लक्षमदाक्यानि, गणपाठः, प्रातिपदिकपाठ। प्रयुज्यत इति प्रयोगः, कर्मणि घञ्। उपदेशे प्रयोग उपदेशप्रयोग इति। `सप्तमो` [[2.1.40]] इति योगविभागात्? समासः। तदयमस्य वाक्यस्यार्थः - उपदेशे प्रयुज्यते यच्छब्दरूपं तदेकदेशस्याप्यत्वन्तस्य परिग्रहो यथास्या दित्येवमर्थमन्तग्रहणमिति। कस्य पुनरसत्यन्तग्रहण उपदेशे प्रयोगैकदेशस्य ग्रहणं न स्यात्, यतस्तत्परिग्रहार्थमन्तग्रहणं क्रियते? इत्याह - `अन्यथा हि` इत्यादि। किं कारणं न स्यात्? इत्याह - `उपदेशे रूपनिग्र्रहहेतौ` इत्यादि। निग्र्रहणं निग्रहः=निश्चय इत्यर्थः। रूपस्य स्वरूपस्य शब्दस्य निग्र्रहो निश्चयनो रूपनिग्र्रहः, तस्य हेतू रूपनिग्र्रहहेतुः। उपदेशग्रहणमुपलक्षममात्रम्। लौकिकोऽपि हि प्रयोगो गृह्रते। उपदेशाद्धि शब्दरूपं निश्चीयते, लौकिकाद्वा प्रयोगात्। मतुप्चायं लौकिके प्रयोगे नात्वन्तः श्रयते, नाप्युपदेशे, अतोऽत्वन्ततया नावधार्यते। ततश्चानवधार्यमाणत्वान्न गृह्रते। अन्तग्रहणे च सत्यन्तग्रहण सामर्थ्यादत्वन्तमात्रग्रहणे विज्ञायमाने यो ह्रुपदेशे प्रयोगैकदेशभूतस्तस्यापि ग्रहणं भवतीत्युपपद्यते मतुपो ग्रहणम्॥", "64015": "`क्विप्प्रत्यये परतो झलादौ च क्ङिति` इति। अत्र `क्ङिति` इत्येतज्झलादावित्यनेनैव सम्बध्यते, न तु क्विप्प्रत्ययेन; यतः सम्भवव्यभिचारे हि विशेष्यविशेषणभावो भवति। कित्त्वङित्त्वयोस्तु सम्भव्यभिचारा वुभावपि झलादौ स्तः, न तु क्वौ। तथा हि कित्त्वस्य क्वावव्यभिचारः, ङित्त्वस्य तवसम्भवः। `प्रशान्? प्रतान्? प्रदान्` इति। `शमु उपशमे` (धातुपाठः-1201), `तमु कांक्षायाम्` (धातुपाठः-1202), `दमु उपशमे` (धातुपाठः-1203) -एतेभ्यः प्रपूर्वेभ्यः क्विपि <<मो नो धातोः>> [[8.2.64]] इति नत्वम्। `शंशान्तः` इति। शमेर्यङः, द्विवचनम्, `नृगतोऽनुनासिकान्तस्य` [[7.4.85]] इति नुक्, <<यङोऽचि च>> [[2.4.74]] इति यङो लुक्, लट्, तस्, तस्य <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वम्, `चर्करीतञ्च` (धातुपाठः-1081) इत्यदादौ पाठाददादित्वाच्छपो लुक्॥", "64016": "`उपधायाः` [[6.4.7]] इति निवृत्तम्, अत एव वृत्तौ `उपधायाः` इति नोक्तम्। कः पुनस्तदनुवृत्तौ दोषः स्यात्? व्यञ्जनस्यापि दीर्घत्वं प्रसज्येत। चिकीर्षति, तुष्टूषतीत्यत्र हि यथा `अचः` [[1.2.28]] इति वचनादचो भवति, तथा `उपधायाः` इति वचनादनचोऽपि स्यात्। यद्येवम्, हनिगम्योरच्युपधाया दीर्घत्वं न स्यात्, कस्य तर्हि स्यात्? <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्त्यस्य? नैतदस्ति; अत्र हि दीर्घग्रहणेन यत्? `अचः` [[1.2.28]] इत्युपस्थापितं तद्धनिगमिभ्यां विशेषयिष्यामः -अचो दीर्घो भवति स चेद्धनिगम्योरिति। यद्येवम्, अभ्यासस्यापि स्यात्? नैतत्; कृतदीर्घस्यैव द्विर्वचनविधानात्। कुत एतत्? द्विर्वचनात्? दीर्घस्य परत्वात्। `तुष्टूषति` इति। `शर्पूर्वाः खयः शेषः` [`शेषः` इति सूत्रे नास्ति -7.4.61] [[7.4.61]] । `चिकीर्षति` इति। `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, रपरत्वम्, `हलि च` [[8.2.77]] इति दीर्घः, अभ्यासस्य <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्। `जिघांसति` इति। <<अभ्यासाच्च>> [[7.3.55]] इति हन्तेः कुत्वम् -घकारः, अभ्यासस्य पूर्ववच्चुत्वम् -झकारः, तस्य <<अभ्यासे चर्च>> [[8.4.54]] इति जकारः। `अधिजिघांसते` इति। `इङश्च` [[2.4.48]] इतीङो गमिरादेशः, `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। `सञ्जिगांसते` इति। अत्रापि `पूर्ववत्सनः` [[1.3.62]] इति तङ। गमेह्र्रसनन्तात्? `समो गम्युच्छि` [[1.3.29]] इत्यादिनात्मनेपदं विहितम्। इङोऽपि `अनुदात्तङितः` [[1.3.12]] इत्यादिना। यदि गमेरिङादेशस्येति वचनं, तत्कथं छन्दस्यनिङादेशस्यापि स्वर्गं लोकं समजिगांसदित्यत्र दीर्घत्वं दृश्यते? इत्याह -छन्दसि यदनिङादेशस्यापि` इत्यादि। `समजिगांसत्` इति। गमेः सनन्ताल्लुङ, `गमेरिट्? पस्मैपदेषु [[7.2.58]] इतीडागमो न भवति; `न वृद्भ्यश्चतुभ्र्यः` [[7.2.59]] इत्यत्र नेति योगविभागात्। `इह` इत्यादिना यदुक्तं `गमेरिङादेशस्य` (वा।775) इति, तत्प्रत्याचष्टे। `सनि` इति प्रथमो योगः, हनिगम्योस्तु दीर्घविधानाय `हनिगम्योः` इति द्वितीयो योगः कत्तव्य इत्यभिप्रायः। कथं पुनरेतावति योगे क्रियमाणेऽजन्तस्यैव दीर्घत्वं सिध्यति? इत्यत आह -`तत्र` इत्यादि। `गृह्रमाणस्य` इति। कृद्योगे कर्मणि षष्ठी। `विशेषणे`इति। भावे ल्युट्। विशेषणमनजनतव्यवच्छेदाय। यत्र ह्रस्वदीर्घप्लुताः शिष्यनेते तत्र `अचश्च` [[1.2.28]] इत्येतदुपतिष्टते, तत्राङ्गस्य दीर्घो भवति, किंविशिष्टस्याचः? एवमचा गृह्रमाणस्याङ्गस्य विशेषणे व्यवच्छेदे सति विनाऽप्यज्ग्रहणेनान्तस्यैव दीर्घत्वं सिद्धम्, यथा -`अकृत्सार्वधातुकयोः` [[7.4.25]] इत्यत्र। तस्मादपार्थकत्वान्न कर्तव्यमेव। किमर्थं तद्धि क्रियते? इत्याह -`तत्क्रियते` इति। प्रवर्तनं प्रवृत्तिः=व्यापारः, तस्य भेदो नानात्वम्। प्रवृत्तिभेदश्चैकस्यां सत्यामावृत्तो न सम्भवतीत्यावृत्तिरभ्युपगन्तव्या। ननु च `अचश्च` [[1.2.28]] इत्यस्योपश्ताने सति द्वे अज्ग्रहणे भवत इति किमित्यावृत्तिराश्रीयते? नैतदस्ति; असति ह्रजग्रहणे `अचश्च` [[1.2.28]] इत्यस्योपस्थानं भवति। अत्राजग्रहणे तु सति निर्दिष्टस्थानिकत्वात्? `अचश्च` [[1.2.28]] इत्येतन्नोपतिष्टते, यथा <<अचो ञ्णिति>> [[7.2.115]] इत्यत्रेक्परिभाषा `अजन्तस्याङ्गस्य` इत्यादिना प्रवृत्तिभेदेनाङ्गमचा गमिञ्च विशेषयति। `ततो न वक्तव्यमिदम्` इति। अज्गरहणेनैवैतत्प्रतिपाद्यस्यार्थस्यासिद्धत्वात्। न हीङादेशमुक्त्वाऽन्यो गमिरचः स्थाने सम्भवति॥", "64017": "`तनोतेरुपसंख्यानात्` इति। `तनिपतिदरिद्राणाम्` (कात्या।वा।5059-7.2.49) इत्यस्मात्। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। प्रकृतिगरहणपरिभाषाया (व्या।प।77) तदन्तादपि विकल्पः सम्भवेत् - तन्तंसति॥ बाल-मनोरमाआ च हौ 329, 6.4.17 `आ` इति लुप्तप्रथमाकम्। जहातेरिति। `जहातेश्चे`त्यतस्तदनुवृत्तेरिति भावः। चादिदीताविति। `इद्दरिद्रस्ये`त्यतः, `ई हल्यघो`रित्यतश्च तयोरिह चकारेणानुकर्षादिति भावः। जहितात् - जहीतात् जहितम् - जहीतम् जहित - जहीत। जहानि जहाव जहाम। लङ्याह - अजहादिति। अजहिताम् - अजहीतामजहुः। अजहा इति। अजहितम् - अजहीतमजहित-अजहीत। अजहामजहिव-अजहीव अजहिम - अजहीम। बाल-मनोरमातनोतेर्विभाषा 450, 6.4.17 तनोतेर्विभाषा। उपधाया दीर्घ इति। `नोपधायायाः` इत्यतो `ढ्रलोपे` इत्यतश्च तदनुवृत्तेरिति भावः। झलादौ सनीति। `अज्झने`त्यतस्तदनुवर्तते। तत्र झलादाविति भाष्ये स्थितमिति भावः। आशङ्कायामिति। आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः। आआ मुमूर्षतीति। शङ्कितमरणो भवतीत्यर्थः। कूलं पिपतिषतीति। शङ्कितपतनं भवतीत्यर्थः। `तनिपती`ति इट्पक्षे रूपम्। पतेःसनि इडभावपक्षे त्वाह -", "64018": "`अनुनासिकस्य क्विझलोः` [[6.4.15]] इत्यादिना नित्ये प्राप्ते विकल्पार्थ वचनम्। `उपधायाः` इति। कुत एतत्? `अचश्च` [[1.2.28]] इत्यस्योपस्थानादुपधाया एव क्रमोऽच्त्वात्। `क्रमित्वा` इति। <<उदितो वा>> [[7.2.56]] इति पक्ष इडागमः। `प्रक्रम्य` इति। `समासेऽनञ्पूर्वेक्त्वो ल्यप्` [[7.1.37]] । ननु दीर्घत्वं कत्वाप्रत्ययमपेक्षत इत्यन्तरङ्गम्। ल्यबादेशस्त्वनेकपदाश्रयत्वात्? समासमपेक्षमाणो बहिरङ्गो भवति। तत्रान्तरङ्गत्वाल्लयबदेशात्? प्रागेव झलादौ दीर्घत्वं कस्मान्न भवति? इत्याह -`बहिरङ्गोऽपि` इत्यादि। <<अदो जग्धिर्ल्यप्ति किति>> [[2.4.36]] इत्यत्र ज्ञापितमेतत् -`बहिरङ्गो ल्यबादेशोऽन्तरङ्गान्? विधीन्? बाधते` इति॥", "64019": "यदि केवलस्य च्छकारमात्रस्य ग्रहणं क्रियते, तदा `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413) इत्यस्य क्तप्रत्यये कृतेऽन्तरङ्गत्वात्? `च्छे च` [[6.1.71]] इति तुकि कृते छकारमात्रस्य शकारादेशे कृते पृट्ष्ट इत्यनिष्टं रूपं स्यात्। सतुक्कसय ग्रहणे तु सति स्थान्यन्तर्भावात्? तुगप्यादेशेन निवर्त्त्यत इति न भवत्येव दोषप्रसङ्ग इत्येतदालोच्य सतुक्कस्य ग्रहणमिति दर्शयितुमा -``छ` इत्येतस्य सतुक्कस्य` इति। सतुक्कस्य ग्रहणं `यजयाचयतविच्छप्रच्छिरक्षो नङः` [[3.3.90]] इति ङित्करणादवगम्यते। तस्य हि ङित्करणस्यैतत्प्रयोजनम् -विश्न इत्यत्र `पुगन्तलघूपधस्य` [[7.3.86]] इति गणो मा भूदिति; यदि चात्र तुग्रहितः केवल एव च्छकारः स्थानित्वेन परिगृह्रते तदा तुकि कृते छकारमात्रस्य सकारे कृते गुरूपधत्वादेव गुणोन भविष्यतीति ङित्करणमनर्थकं स्यात्। सतुक्कस्य तु ग्रहणे कृते तुकि सतुककस्यैव शकारादेशः क्रियते, ततश्च लध्व्यामुपधायां समुपजातायां गुणः प्राप्नोतीति तत्प्रतिषेधार्यं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्; सतुपजातायां गुणः प्राप्नोतीति तत्प्रतिषधार्थं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्; सतुपजातायां गुणः प्रप्नोतीति तत्प्रतिषेधार्थं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्; सतुक्कस्याप्यादेशे कृते निष्ठितमङ्गं भवति, प्रयोगार्हत्वात्। तत्र `अङ्गवृत्ते पुनरङ्गवृत्तावविधिर्निष्ठितस्य` (व्या।प।38) इत्यनया परिभाषया गुणो न भविष्यतीति। तस्मात्? सतुक्कस्याप्यादेशे क्रियमाणे सति ङित्करणमनर्थकमेव, कथं तेन सतुक्कस्य ग्रहणमवसीयते? एवं तर्हि `ननौ पृष्टपरतिवचने [[3.2.120]] इति निर्देशात्? सतुक्कस्य ग्रहणमवसीयते। तुग्रहितस्य ग्रहणे पृट्ष्टेत्येवं यथोक्त प्राक्। नङस्तु ङित्करणं `अनित्यमागमशासनम्` (व्या।प।99) इति ज्ञापनार्थम्। अनित्यत्वे हि तस्य यदा तुगभावस्तदाऽसति ङित्करणे गुणः प्रसज्येत। ननु चासति प्रयोजने ज्ञापकं भवति, अस्ति च तस्य ङित्करणस्य प्रयोडजनम्, किं तत्? ग्रह्रादिसूत्रेण [[6.1.16]] प्रच्छेः सम्प्रसारणं यथा स्यादिति? नैतदस्ति; न हि प्रच्छेर्नङि सम्प्रसारणमिष्यते। कथमेतज्ज्ञायते? <<प्रश्ने चासन्नकाले>> [[3.2.117]] इति निर्देशात्। तदेतत्? ङित्करणम्? `अनित्यमागमशासनम्` (व्या।प।99) इत्यस्य ज्ञापकमेव। अथ तु सतुक्कस्यापि ग्रहणे कथं सतुक्कस्यादेशो भवति, य#आवता <<अलोऽन्त्यस्य>> [[1.1.52]] इति वचनादन्त्यस्यैव स्यात्? नैतदस्ति; सतुक्कस्य ग्रहणसामथ्र्यान्न भविष्यति। एवमपि तदन्तस्याङ्गस्य स्यात्। `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इति तदन्तस्य न भविष्यति। `प्रश्नः` विश्न` इति। `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413) `विच्छ गतौ` (धातुपाठः-1423) `यजयाच` [[3.3.90]] इति नङ्।`अन्तरङ्गत्वात्` इत्यादि। `छे च` [[6.1.73]] इति ह्रस्वस्य वर्णस्य तुग्विधीयत इति वर्णाश्रयत्वात्? तुगन्तरङ्गः, शकारस्त्वङ्गाश्रयः। तत्राङ्गस्यैव तावद्? प्रत्ययाश्रयत्वाद्बहिरङ्गत्वम्। किं पुनस्तदाश्रयस्य शकारस्य। ननु च `वार्णादाङ्गं बलीयः` (व्या।प।39) इति शकारस्यैव बलीयस्त्वम्? नैतदस्ति; यत्र ह्राङ्गवार्णयोर्युगपदेकनिमित्तमाश्रित्य प्राप्तिस्तत्रास्या उपस्थानं भवति। यथा `इयाय` इत्यत्र यमेवाकारमाश्रित्य <<इको यणचि>> [[6.1.77]] इत्यभ्यासेकारकस्य यणादेशः प्राप्नोति, तमेवाकारमाश्रित्य <<अभ्यासस्यासवर्णे>> [[6.4.78]] इतीयङपि। तत्र युगपदेकत्रोभयप्राप्तौ `वार्णादाङ्गं बलीयः` (व्या।प।39) इत्यस्या उपस्थाने सत्यङ्गकार्यमिङेव भवति। इह तु प्रागेव नङुत्पत्तेश्छकारमाश्रित्य तुक्प्राप्नोति, उत्तरकालं नङि विहिते तदाश्रः शकार इति भिन्नाश्रयत्वम्, अतो नेयमुपतिष्टते। `सिदेः` इति। `षिवु तन्तुसन्ताने` (धा।प।1108) इत्यस्य। `औणादिके नप्रत्यये` इति। `धापृवस्यजतिभ्यो नः` (द।उ।5।39) इति वादिभ्यो विधीयमानो नप्रत्ययो बहुलवनात्? सिवेरपि भवति। केनचित्`सिवेष्ठेर्यू च` (द।उ।4।5) [`सिवेष्टेरूच` -इत्युत्त्वम्] इत्यनेन सूनशब्दस्य व्युत्पत्तये नकारो विधीयते, दीर्घोच्चारणसामर्थ्यात्? तत्र गुणो न भवति। ये तु स्योनशब्दव्युत्पत्तय एवेदं सूत्रं वर्णयन्ति, तेषां दीर्घोच्चारणमनर्थकं स्यात्। त न हि ह्रस्वस्य दीर्घस्य वा गुणे कृते कश्चिद्विशेषोऽस्ति। `लघूपधगुणात्? पूर्वमूठ्? क्रियते` इति। `अन्तरङ्गत्वात्` इति। वक्ष्यमाणो हेतुरिहापि द्रष्टव्यः। गुणो ह्रार्धधातुकमङ्गसम्बन्धिनीञ्चोपधां लध्वीमिग्लक्षणां विशिष्टामेवाश्रयति। ऊडादेशस्त्वनुनासिकादिं प्रत्ययमङ्गसम्बन्धिताविशिष्टं वकारमात्रम्?। तस्माद्गुणो बहिरङ्गः। ऊडादेशस्त्वन्तरङ्गः। अतोऽन्तरङ्गत्वाल्लधूपधगुणात्? पूर्वमेवोठ्? क्रियते। ततर कृतेऽन्तरङ्गत्वाद्यणादेश इति लघूपधगूणात्? पूर्व क्रियत इति प्रकृतेन सम्बन्धः। अन्तरङ्गत्वं तु वर्णाश्रयत्वाद्यणादेशस्य। ननु च `वर्णादाङ्गं बलीयः` (व्या।प।39) इत्याङ्गस्य गुणस्यैव बलीयस्त्वम्, ततः स एव यणादेशात्? पूर्वं कस्मान्न क्रियते? इत्याह -`नानाश्रयत्वात्` इत्यादि। यत्र ह्रुभावप्याङ्गवार्णौ विधी एकं निमित्तमाश्रित्य प्राप्नुतस्तत्रेयमुपतिष्ठत इत्युक्तम्। इह तु यणादेश ऊडाश्रयः, गुणस्त्वार्धधातुकाश्रय इति भिन्नाश्रयत्वम्। अतो नैयं परिभाषोपतिष्टते। `शब्दप्राट्` इति। शब्दं पृच्छतीति `क्विब्वचि` (वा।288) इत्यादिना क्विप्, दीर्घश्च, वश्चादिसूत्रेण [[8.2.36]] शकारस्य षकारः, तस्यापि जश्तवं डकारः, तस्यापि चर्त्वं टकारः। `गोविट्` इति। `विच्छ गतौ` (दा।पा।1423) गां विच्छतीति क्विप्। `क्विप्च` [[3.2.76]] इत्यनेन। तथा `अक्षुद्यः, हिरण्यष्ठ्यूः` इत्यत्रापि दिविष्ठिविभ्याम्। ननु यणादेशोऽन्तरङ्गो वर्णाश्रयत्वात्। ऊडादेशस्तु प्रत्ययाश्रयत्वाद्बहिरङ्गः, तत्र `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति यणादेशनात्र न भवितव्यम्? इत्यतद आह -`असिद्धं बहिरङ्गमन्तरङ्गे` इत्यादि। यत्र द्वयोरचोरानन्तर्य्यं तत्रैषा प्रतिषिध्यते `नाजानन्तर्ये बहिष्ट्वपरकॢप्तिः` (व्या।प।44) इति। अस्या अयमर्थः -अचोरानन्तर्ये सति बहिरङ्गपरिभाषा न प्रकल्पते, न भवतीत्यर्थः। अत्रार्थे ज्ञापकम् -<<षत्वतुकोरसिद्धः>> [[6.1.86]] इति तुकि कर्तव्येऽसिद्धवचनम्। तस्य ह्रेतदेव प्रयोजनम् -अधीत्येत्यत्र सवर्णदीर्घस्यासिद्धत्वाद्ध्रस्वलक्षणस्तुग्यथा स्यादिति। यदि चाचोरानन्तर्ये बहिरङ्गपरिभाषा स्यात्? तदैकपदाश्रयत्वादन्तरङ्गे तुकि कर्तव्ये पदद्वयाश्रयत्वाद्बहिरङ्गस्यैकादेस्यासिद्धत्वं भविष्यतीति किमसिद्धवचनेन? तदैकपदाश्रयत्वादन्तरङ्गे तुकि कर्तव्ये पद्द्वयाश्रयत्वाद्बहिरङ्गस्यैकादेस्यासिद्धत्वं भविष्यतीति किमसिद्धवचनेन? तत्क्रियतेजानन्तर्ये बहिरङ्गपरिभाषा नास्तीति ज्ञापनार्थम्। `हिरण्यष्ठ्यूः` इत्यत्र <<धात्वादेः षः सः>> [[6.1.64]] इति सत्वं न भवति; `सुब्धातुष्टिवुष्वष्कतीनं प्रतिषेधो वक्तव्यः` (वा।671) इति वचनात्। `पृष्टः` इति। ग्रह्रादिसूतद्रेण [[6.1.16]] सम्प्रसारणम्, पूर्ववत् षत्वं ष्टुत्वञ्च। `द्युभ्याम्` इति। <<दिव उत्>> [[6.1.131]] इत्युत्तवम्। `येऽत्र क्ङितीति नानुवर्तयन्ति तेषामन्यत्राप्यनेन विधिना भवितव्यम्, ततः द्युभ्याम्, द्युभिरिति न सिध्यतीति मन्यमान आह -`कथं द्युभ्याम्, द्युभिरिति ऊठि कृते` इति। ऊठि कृते न किञ्चित्? सिध्यतीत्यर्थः। `दिव उदिति तपरत्वान्मात्राकालो भविष्यति` इति। <<दिव उत्>> [[6.1.131]] इत्यत्र तपरकरणं न कर्तव्यम्। यद्यपि हि `भाव्यमान उकारः सवर्णान्? गृह्णाति` (चान्द्र प।44), तथाप्यान्तरतम्यादर्धमात्राकालस्य व्यञ्जनस्य मात्राकाल एवोकारो भविष्यति। न दीर्घ इति किं तन्निवृत्त्यर्थेन तपरकरणेन? तक्रियते लक्षणान्तरेणापि यो दीर्घः प्राप्नोति स मा भूदित्येवमर्थम्। तेनात्र <<दिव उत्>> [[6.1.131]] इत्यनेनैव तपरत्वान्मात्राकालो भविष्यति, अन्यथा यदि <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इत्यनेन दीर्घः स्यात्? ततो निष्फलं <<दिव उत्>> [[6.1.131]] इत्यत्र तपरकरणं स्यात्; व्यावर्त्त्याभावात्। अथ वा `ऊठि कृते` इत्युत्तरेण परिहारग्रन्थेन सम्बध्यते। तत्रायमर्थः -क्रियतां नाम सामान्येन क्ङिति चाखिति चोठ्। कृतेऽपि तत्र `एकादेशविकृतमनन्यवद्भवति` (व्या।प।16) इति तस्यैव स्थाने <<दिव उत्>> [[6.1.131]] इत्यनेन तपरत्वाद्ध्रस्वो भविष्यति। एतदेव हि तस्य प्रयोजनम् -ऊठ्स्थाने भवन्? मात्रिको यथा स्यात्, आन्तरतम्याद्दीर्घो मा भूदिति। अस्मश्च व्याख्याने यदुकग्तम् -`दिव उदिति तपकरणमूठो निवृत्त्यर्वम्, द्युभ्याम्, द्युभिरित्यत्र परत्वादूठ्? प्राप्नोति` इति तद्विरुध्यते। न हि तेनोत्त्वस्योठः स्थान्यादेशभाव उपपद्यते, किं तर्हि? बाध्यबाधकभावः। तथा हि तस्यायम्रथो वण्र्यते -ऊठो निवृत्त्यर्थ बाधनार्थ तपरकरणम्। असति हि तस्मिन्? परत्वाटूठ्? प्राप्नोति, तस्मात्? तद्बाधनार्थं तपरकरणम्। परमप्यूठं बाधित्वाऽनेनैवमात्रिक उकारो यथा स्यादिति नास्ति विरोधः। ये हि स्थान्यादेशभावमिच्छन्ति त एवं ग्रन्थं व्याचक्षते। ऊठो निवृत्त्यर्थ स्थानिभूतस्योठो निवृत्त्यर्थमित्यर्थः। ऊडादेशे कृत ऊठ्स्थितिमतो निवृत्तिर्यथा स्यादित्येवमर्थं तपरकरणमित्यर्थः। परत्वादूठ्? प्राप्नोतीत्यत्र विहितश्च। श्रुतिमानित्यध्याहाय्र्यम्। तदेतदुक्तं भवति -अत्र हि परत्वादूड्विहितः सन्? श्रतिमानेव प्राप्नोति, निवृत्तिमांश्चेष्यते। तस्मात्? तस्य निवृत्तये तपरत्वमिति। अतपरेऽप्यादेशे विधीयमाने सत्यूठो निवृत्तिर्भवत्येव; निवृत्तिधर्मत्वात्? स्थानिनः। उच्यते चेदं तपरकरणसूठो निवृत्त्यर्थमिति। तत्र वचनसामथ्र्याद्यस्यां निवृत्तौ सत्यां विशेषो भवति तदर्थं तपरकरणमिति विज्ञायते। ततश्च सामथ्र्यादिदमुक्तम् -भवत्यूठो ह्रस्वादेशार्थं तपरकरणमिति। यतस्तपर आदेशे सत्यूठो या निवृत्तिः क्रियते तस्यां सत्यां विशेषो भवति। नातपरे। अतपरे ह्रादेशे सत्यान्तरतम्याद्दीर्घस्य दीर्घ एव स्यादिति कुतो विशेषः। किं पुनः किद्ग्रहणे निवृत्ते सतीष्टं सिध्यति, यदर्तं केचिदत्र क्ङितीति नानुवर्तयन्तीत्याह -`छशां षः इत्यत्र` इत्यादि। क्ङिद्ग्रहणे निवृत्ते सत्यविशेषेण क्ङिति चाक्ङिति चानेने च्छकारस्य शकारो विधीयते, तेन व्रश्चादिसूत्रे [[8.2.66]] छग्रहणं न कर्तव्यं भवेत्। शकारस्य षत्वविधानेनैव सर्वस्य षत्वस्याभावाच्छकारस्य षत्वविधानार्थं व्रश्चादिसूत्रे [[8.2.36]] छग्रहणं कर्तव्यमेव। अथ तेषां कथं प्रष्ठेति सिध्यति, यावता तुकि कृते छकारमात्रस्य षत्वे प्रट्ष्टेत्यनिष्टं रूपं प्राप्नोति? नैष दोषः, ते हि व्रश्चादिसूत्रे [[8.2.36]] सतुक्कस्य च्छकारस्य ग्रहणमिच्छन्ति। ऊडयं यदि टित्? स्यात्? <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यादौ स्यात्। तत्र यद्यपि वकारस्य वलि लोपे कृते सत्यक्षद्यूरित्यादि सिध्यति, जूरित्यादि तु न सिध्ये। टित्त्वे हि सति ज्वरत्वरादि [[6.4.20]] सूत्रेणैको वकारात्? पूर्वमूडपरोऽकारादिति द्वावूठौ स्याताम्। तस्मादूठष्ठित्त्वमङ्गीकर्तव्यम्? न टित्त्वम्। तस्यापि ठित्त्वस्य यदि प्रयोजनं न स्याद्वैयथ्र्य स्यादित्येतच्चेतसि कृत्वोडादेशस्य यट्ठित्त्वं तस्य प्रयोजनं दर्शयितुमाह -`ऊठष्ठित्करणम्` इत्यादि। एवं ब्राऊवता <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यत्रापि ठित एव ग्रहणं भवति। एवं ह्रूठष्ठित्करणस्य विशेषणार्थतोपपद्यते, यदि तत्रापि ठित एव ग्रहणं भवति, नान्यथा। यद्यत्र ठकारोऽनुबन्धो न क्रियते तदा <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यत्रापि न कर्तव्यम्; ठकारानुबन्धवत ऊकारस्य क्वचिदसम्भवात्। एवञ्चोच्यमाने प्रौउहते, प्रोहत इत्यत्रापि वृद्धिः स्यात्। तस्माद्विशेषणार्थं ठित्करणं क्रियते। ठकारस्य तु श्रवणं न भवति; कृतचर्त्वस्य निर्देशात्। यदि तर्हि ठिदयम्, <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यत्रापि ठित एव ग्रहणम्, एवं सति <<वाह ऊठ्>> [[6.4.132]] इत्यस्य तत्र ग्रहण#ं न स्यात्, ततश्च प्रष्ठौह इत्यत्र वृद्धिर्न स्यादित्यत आह -`वाह ऊठित्ययमपि` इत्यादि। ठकारस्यापि पूर्ववदेवाश्रवणम्॥ बाल-मनोरमाध्वसोरेद्धावभ्यासलोपश्च 302, 6.4.19 ध्वसोरेद्धौ। घुस अस् अनयोद्र्वन्द्वः। एत् -हौ इति च्छेदः। ननु अस् हि इति स्थिते `हुझल्भ्यो हेर्धि`रिति। धित्वं परत्वाद्बाधित्वा परत्वाद्बाधित्वा `ध्वसो`रिति सकारस्य एत्त्वे हुझल्भ्यः परत्वाऽभावात्कथं धिभाव इत्यत आह -आभीयत्वेनेति। तथा च अ ए धीति स्थिते आह - श्नसोरिति। नन्वाशिषि अस् हि इति स्थिते तातङ बाधित्वा परत्वादेत्त्वं प्राप्नोतीत्यत आह - तातङ्पक्षे एत्त्वं नेति। कुत इत्यत आह - परेणेति। ननु कृते तातङि तस्य स्थानिवत्त्वेन हित्वात्तस्मिन्परे `ध्वसो`रित्येत्त्वं कुतो नेत्यत आह - सकृद्गताविति। सकृत् = एकवारं, गतौ = प्रवृत्तौ, विप्रतिषेधे = विरोधे सति, यद्बाधितमेव भवति, नतु पुनः प्रवर्तत इति तदर्थः। लङस्तिपि विशेषमाह -अस्तिसिचेति। इकारलोपे आटि वृद्धौ `अस्तिसिचः` इति ईडागम इत्यर्थः। ननु तसादौ ङिति परत्वादाडागमात्प्राक् `श्नसो`रित्यल्लोपे सति अजादित्वाऽभावात्कथमाडित्यत आह - श्नसोरल्लोपस्याभीयत्वेनेति। आस्तामिति। अत्र कृते आडागमे तस्य लोपनिवृत्त्यर्थं `श्नसोरल्लोपः` इति तपरकरणम्। वस्तुतस्तु आट आभीयत्वेनाऽसिद्धत्वादेव लोपे न भवतीति `श्नसोरल्लोपः` इत्यत्र तपरकरणं व्यर्थमिति भाष्ये स्पष्टम्। आसन्निति। आसीः आस्तम्। आस्त। आसम्। आस्व आस्म। विधिलिङ्याह - स्यादिति। स्याताम् स्युरित्यादि। आशीर्लिङि आर्धधातुकत्वाद्भूभावं मत्वाह - भूयादिति। लुङि तु सिचि भूभावे `गातिस्थे`ति सिचो लुकं मत्वाह - अभूदिति। तत्र `अस्तिसिचोऽपृक्ते` इति ईडागममाशङ्क्य आह - सिचोऽस्तेश्चेति। इह भूभावे सति अस्तेरश्रूयमाणत्वादीण्नेति भावः। बाल-मनोरमाच्छ्वोः शूडनुनासिके च 388, 6.4.19 च्छ्वोः शूडनुनासिके च। च्छ् व् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम्। छकारात्प्राक्तुकः श्चुत्वेन चकारस्य निर्देशः। `शूठ` इति छेदः। श् ऊठ् अनयोः समाहारद्वन्द्वात्प्रथमा। चकारेण क्विझलोः क्ङितीत्यनुवर्तते। तदाह - सतुक्कस्येत्यादि। यथा विश्नः प्रश्नः। विच्छधातोः प्रच्छधातोश्च औणादिके नङ्प्रत्यये अन्तरङ्गत्वात् `छे चे`ति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः। वकारस्य ऊठमुदाहरति - खौनातीति। खव् ना तीति स्थिते वकारस्य ऊठ, ठकार इत् `एत्येधत्यूठ्सु` इति वृद्धिरिति भावः। खौनीतः खौनन्तीत्यादि। खव् ना हि इति स्थिते `हलः श्नश्शानज्झौ`इतिशानजादेशमाशङ्क्याअह - शानचः परत्वादिति। हेठ चेति। हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः। ग्रह उपादाने इति। अदुपधः। स्वरितेत्त्वादुभयपदी। किति ङिति च संप्रसारणं स्मारयति - ग्रहिज्येति। गृह्णाति गृह्णीते इति। श्नाप्रत्ययस्य ङित्त्वाद्रेफस्य संप्रसारणे पूर्वरूपमिति भावः। णलि द्वित्वे कृते `लिटभ्यासस्ये`ति संप्रसारणे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासचुत्वे उपधावृद्धिः। जग्राह।अतुसादौ क्ङति परत्वात् `ग्रहिज्ये`ति संप्रसारणे कृते द्वित्वादि। जगृहतुः जगृहुः। जग्रहिथ। जगृहुथुः जगृह। जग्राह-जग्रह जगृहिव जगृहिम। जगृहे जगृहाते जगृहिरे। जगृहिषे जगृहाथे जगृहिढ्वे-जगृहिध्वे। जगृहे जगृहिवहे जगृहिमहे।", "64020": "रिउआव्यविमवां वकारसय पूर्णेणैव सिद्धम्। उपधायास्तु न सिध्यतीति तदर्थमेषां ग्रहणम्। ज्वरत्वरयोस्तु वकारस्यापि पूर्वेण न सिध्यति; अनयोरकाररेफाभ्यां झलादेः क्विपश्च व्यवधानात्। तस्मात्? तयोर्वकारार्थमुपधार्थञ्च ग्रहणम्। `जूः, जुरौ, जुरः` इति। `ज्वर रोगे` (धातुपाठः-776) वकारस्योपधायाश्चोठि कृते <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपत्वम्। `जर्त्तिः` इति। क्तिन्। `तूः` इति। `ञि त्वरा सम्भ्रमे` (धातुपाठः-775) `तूर्णः`[`तूर्त्तिः -काशिका-`तूर्णः` इति नास्ति] इति। `रदाब्यां निष्ठातो नः` [[8.2.42]] इति नत्वम्। `स्रूः इति। `रिउआवुगतिशोषणयोः` (धातुपाठः-1109)। सवरणदीर्घः। `रुआउवौ, रुआउवः` इति। `अचि श्नुधातु` [[6.4.77]] इत्यादिनोवङ। `ऊः` इति। `अव रक्षणे` [रक्षण कान्तिप्रीतितृपत्यवगमप्रवेशश्रवणस्वणस्वम्यर्थयाचनक्रियेच्छादीप्त्यवापत्यालिङ्गनहिंसादानभागवृद्धिषु -धा।पा] (धातुपाठः-600)। `मूः` इति। `मव बन्धने` (धातुपाठः-599)।इह ज्वरादिसम्बन्धिन्या उपदाया ऊङ्विधीयते, उपधा चालोऽन्त्यात्पूर्वो वर्णः, अन्त्यत्वञ्चापेक्षितम्; तत्र यथा -श्रेयान्, श्रेयांसावित्यत्र सकारात्? पूर्वे ये वर्णास्तेषामन्त्यो यो नकारस्तस्मात्? पूर्वो वर्ण उपदा, तथा ज्वरादीनामपि यो पूर्वौ वर्णौ तयोर्योऽन्त्यो वर्णस्तस्मात्? पूर्व उपधा, सा च ज्वरादीनां सम्बन्धिनी; तदवयवत्वात्, ततश्च तस्या अप्युपदाया ऊठा भवितव्यमिति कस्याचित्? भ्रान्तिः स्यात्। अतस्तां निराकर्तुं यस्या उपदाया ऊठा भवितव्यं तां दर्शयितुमाह -`ज्वरत्वरयोरुपधा वकारात्परा` इत्यादि। यस्या उपधाया ऊठा भवितव्यम्, सोहोपधाशब्देन विवक्षिता। किं पुनः कारणस्या वृत्तिकारोपदर्शिताया उपधाया ऊङ्भवति, नान्यस्याः? क्वझल्भ्यां क्ङिता चोपधाविशेषणात्। अत्र क्विप्प्रत्ययेन झलादिना क्ङिता चोपधा विशिष्यते -ज्वरादीनां योपधा क्वौ झलादौ च परतस्तस्या उपधाया ऊङ्भवतीति। अत्र `येन नाव्यवधानं तेन व्यवहितेऽपि` (व्या।प।46) इत्यादिना यत्रैकेन वर्णेन व्यवधानं वृत्तिकारेणोक्ताया उपदायाः सम्भवति, तस्या एवोङ्भवति,", "64021": "`मूर्छा` इति। `मुर्छा मोहसमुच्छ्राययोः` (धातुपाठः-212)। `हूर्छा` इति। `हुर्छा कौटिल्ये` (धातुपाठः-211) कथं पुनरत्र च्छकारलोपो भवति, यावता नात्र सूत्रे छकार उपात्तः; योऽपि प्रकृतः सोऽपि सतुक्कः, नात्र तुगस्ति, न हि रेफस्य च्छे क्वचित्? तुग्विहितः? इत्याह -`राल्लोपे सतुक्कस्य` इत्यादि। उत्तरत्रानुवृत्तिर्यथा स्यादिति पूर्वसूत्रे च्छकारस्य स्वरितत्वं प्रतिज्ञातम्, न च रः परः सतुक्कः सम्भवति। तत्र समाथ्र्यात्? तुग्रहित एवानुवर्तते। अथ वा -पूर्वसूत्रे द्विच्छकानिर्देशः; तत्रैकः सतुक्कः, परस्तुग्रहितः। सम्भवति चागमशासनस्यानित्यत्वाद्धा तुग्रहितश्छकारः। एवञ्च कृत्वा यदुक्तम् -नङो ङित्त्वं गुणप्रतिषेधार्थमिति, तदुपपन्नं भवति। तदेवं यद्यपि पूर्वसूत्रे छकारौ प्रकृतौ, तथापि रेपात्? परः सतुक्को न सम्भवति। केवलो यस्तुग्रहितः स एवानुवर्तते। `तूः, धूः` इति। `तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः` (धातुपाठः-570-573)॥", "64022": "`असिद्धवद्भवतीत्येवं वेदितव्यम्` इति। सिद्धशब्दोऽयं परिनिष्पन्नवचनः। यथा -`सिद्ध ओदनः` इति। न सिद्धमसिद्धम्, सिद्धकार्याकरणसाधम्र्येणासिद्धेन तुल्यं वर्तत इत्यसिद्धवत्। किं पुनस्तत्? प्राधान्यात्? कार्यमित्येके; शास्त्रं हि कार्यार्थम्, अतः शास्त्रापेक्षया कार्यस्य प्राधान्यम्; व्याप्तेन्र्यायात्। शास्त्रस्यावधित्वेनोपादानाच्च शास्त्रस्यासिद्धवदभावो युक्तः, अन्यथा हि कार्यमेव किञ्चिदवधित्वेनोपादीयेत। अथाभाट्ग्रहणं किमर्थम्, यावता स्वरितलिङ्गासङ्गादन्तरेणाप्याभाद्ग्रहणमा पादपरिसमाप्तेरसिद्धवदित्यनुवर्त्तिष्यते? इत्याह -`आ भादिति विषयनिर्देशः` इति। असति ह्रा भाद्ग्रहणे न ज्ञायते -कस्मिन्? कर्तव्य इदं प्रकरणमसिद्धवद्भवति; तस्मादा भादिति विषयनिर्देशः क्रियते -आ भसंशब्दनाद्यद्वक्ष्यते तस्मिन्? कर्तव्यतया विषयभूतेऽसिद्धवद्भवतीत्यस्यार्थस्य परिज्ञानाय। यद्येवम्, अत्रेत्येतपदार्थकलमेतद्विषयनिर्देशार्थं क्रियते, स च विषय आ भादित्यनेनैव निर्दिष्टः? इत्यत आह -`अत्र` इत्यादि। समान एव आश्रयो निमित्तं यस्य तत्? समानाश्रयम्, तस्य भावः समानाश्रयत्वम्। तस्य प्रसिद्धये परिज्ञानायात्रग्रहणम्, तच्चेदत्रेति भवतीति वाक्शेषः। तदित्यनेन यस्यासिद्धवद्भावो विधीयते तन्निर्दिश्यते। अत्रेत्यनेनापि यत्र ततोऽन्यदाभाच्छास्त्रीयं तत्? तदाश्रयमेव भवतीति। असिद्धवदिति वक्ष्यमाणेनाभिसम्बध्यते। तदित्यनेन यत्रा भाच्छास्त्रीयं विधीयते तस्य परामर्शः। स आश्रयो निमित्तं यस्य तत्? तदाश्रयम्। एवकारोऽवधारणार्थः। तदेवासिद्धवद्भवतीति यावत्। `व्याश्रयस्तु नासिद्धवद्भवति` इति। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति। यत्र तदाभाच्छास्त्रोयं कार्यं विधीयते ततो भिन्नोऽर्थान्तरभूत आश्रयो यस्य तत्? तथोच्यत इत्यर्थ इति। इतिकरणेनानन्तरं व्याख्यातोऽर्थः प्रत्यवमृश्यते। अत्रग्रहणे समानाश्रयत्वप्रसिद्ध्यर्थे सतद्येषोऽस्य सूत्रस्यार्थः सम्पद्यत इति यावत्। किमर्थं पुनरसिद्धवद्भवतीत्यत आह -`असिद्धवचनम्` इत्यादि। उत्सर्गशब्देन स्थान्यत्रोपदिश्यते, उत्सृजयत आदेशेन निवर्त्त्यत इति कृत्वा। उत्सर्गसाधम्र्याद्वोत्सर्गः। यथा ह्रुत्सर्गस्य सामान्येन प्रवृत्तस्य सतः कुतश्चिद्विसेषान्निवृत्तिर्भवति, एवं स्थानिनोऽप्यादेशात्। उत्सर्गौ लक्षणम्=निमित्तं यस्य तदुत्सर्गलक्षणम्? आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्, तयोर्यथाक्रमं भावप्रतिषेधौ यथा स्यातम् -इत्येवमर्थमसिद्धवचनम्। `एधि, शाधि` इति। उत्सर्गलक्षणभावस्योदाहरणम्। `अस भूवि` (धातुपाठः-1065), `शास अनुशिष्टौ` (धातुपाठः-1075), [`शासु` धातुपाठः-] लोट्, सिप्, `सेह्र्रपिच्च` [[3.4.87]] इति हरादेशः, अदादित्वाच्छपो लुक्, श्नसोरल्लोपः` [[6.4.111]] इत्यकारलोपः। परत्वान्नित्यत्वाच्च घिभावात्? पूर्वं `ध्वसोरेद्धावभ्यासलोपश्च` [[6.4.119]] इत्येत्त्वम्। शासेरपि नित्यत्वात्? `शा हौ` [[6.4.35]] इति शादेशः पूर्वं घिभावात्? तयोरेत्त्वशाभावयोः <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति झलन्तलक्षणं धित्वं न प्राप्नोति, निमित्ताभावात्। असिद्धत्वाद्भवति। `आगहि, जहि` इति। आदेशलक्षणप्रतिषेधस्योदाहरणम्। अगाहीति -गमेराङपूर्वाल्लोट्, सिप्, तस्य हिरादेशः, <<बहुलं छन्दसि>> [[7.4.78]] इति शपो लुक्, `अनुदात्तोपदेश` [[6.4.36]] इत्यादिनानुनासिकलोपः। जहीति -हन्तेरलोडादि पूर्ववत्, अदादित्वाच्छपो लुक्, <<हन्तेर्जः>> [[6.4.36]] इति जभावः। अत्रेदानीमनुनासिकलोपजादेशयोरुत्तरकालं <<अतो हेः>> [[6.4.105]] इति हेर्लोपः प्राप्नोति; असिद्धत्वान्न भवति। `अभाजि` इति। `भन्जो आमर्दने` (धातुपाठः-1453) लुङः, कर्मण्यात्मनेपदम्, `चिण्बावकर्मणोः` [[3.1.66]] इति च्लेश्चिण्, <<चिणो लुक्>> [[6.4.104]] इति तकारलोपः, <<भञ्जेश्च चिणि>> [[6.4.33]] इत्युनुनासिकलोपः। तस्य समानाश्रयस्यापि वृद्धावनाबाच्छास्त्रीयायां कर्तव्यायामा भादिति वचनादसिद्धत्वं न भवति। `रागः` इति। रञ्जेर्घञ्, <<घञि च भावकरणयोः>> [[6.4.27]] इत्यनुनासिकलोपः। तस्यापि समानाश्रयायमपि साप्तमिक्यां वृद्धौ कर्तव्यायामा भादति वचनादसिद्धत्वं न भवति। `पपुषः चिच्युषः लुलुवुषः` इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्, <<वसोः सम्प्रसारणम्>> [[6.4.131]] तस्य व्याश्रयत्वात्? इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्, <<वसोः सम्प्रसारणम्>> [[6.4.131]] तस्य व्याश्रयत्वात्? <<आतो लोप इटि च>> [[6.4.64]] इत्यकारलोपः, `एरनेकाचोऽसंयोगपूर्वसय` [[6.4.82]] इति यणादेशे `अचि इन्? धातु` [[6.4.77]] इत्यादिनोवङादेशे च कर्तव्येऽसिद्धवत्त्वं न भवति। ननु च `उस्यपदान्तात्` [[6.1.96]] इत्यनेनैव पररुपेण सरवं सिद्धम्? नैतदस्ति; प्रतिपदोक्तस्य ह्रुस्शब्दस्य तत्र ग्रहणम्, लाक्षणिकोश्चात्रोस्। कथं पुनरत्र व्याश्रयत्वमित्याह -`आल्लोपादीनि हि` [`हि` -नास्ति काशिकायाम्] इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्थे। नन्वेवमपि `असिद्धं बहरङ्गमन्तरङ्ग` (व्या।प।42) इति अन्तरङ्गेष्वाल्लोपादिषु बहिरङ्गस्य समप्रसारणस्यासिद्धत्वादाल्लोपादयो न प्राप्नुवन्त्येव। तत्र हि विभक्तेः, पूर्वो वसवन्तो भागः, तदाश्रया लोपादय इति, सम्प्रसारणं तु विभक्त्याश्रयम्, प्रकृत्याश्रयञ्चान्तरङ्गम्, प्रत्ययाश्रयं च बहिरङ्गमित्याह -`असिद्धं बहिरङ्गम्` इत्यादि। `एतदपि` इति। एतदपीति वचनापेक्षया नपुंसकेन निर्वेशः। `एषा हि` इत्यादिना परिभाषाया अप्रवृत्तौ कारणमाह। यत्रान्तरङ्गबहिरङ्गयोर्युगपदुपस्थानं तत्रैषा परिभाषा प्रवर्तते, अन्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धतामापादयितुम्। इयञ्च परिभाषा <<वाह ऊठ्>> [[6.4.132]] इत्यत्राभाच्छास्त्रे ज्ञापितत्वादाभाच्छास्त्रीया। अतोऽस्यां कर्तव्यायां `असिद्धवदत्रा भात्` [[6.4.22]] इति `वसोः सम्प्रसारण` [[6.4.131]] स्याल्लोपादीनाञ्चासिद्धत्वादन्तरङ्गबहिरङ्गयोयुर्गपदुपस्थानं नास्तीति न प्रवर्तते। तदप्रवृत्तौ नास्ति बहिरङ्गसम्प्रसारणस्यासिद्धत्वम्। तेन भवन्त्येवाल्लोपदयः।`वुग्युटौ` इत्यादि। वुग्युडित्येतौ यथा क्रममुवङि यणि च कर्तव्ये सिद्धौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -इह वतिग्रहणं न कर्तव्यम्, विनापि तेनातिदेशः सिद्ध एव, यथा -<<षत्वतुकोरसिद्धः>> [[6.1.86]] , `पूर्वतरासिद्धम्` [[8.2.1]] इति च। तत्? क्रियते क्वचित्? स्वाश्रयमपि सिद्धं यथा स्यादित्येवमर्थम्। तेन वुग्यृटावुवङ्यणोः सिद्धौ भविष्यतः। `बभूव` इति। `भवतेरः` [[7.4.73]] इत्यभ्यासस्यात्वम्, `भुवो वुग्लुङलिटोः` [[6.4.88]] इति वुक्। तत्र यद्यसिद्धं स्यात्? `अचिश्नुधातु` [[6.4.77]] इत्यादिना उवङ स्यात्, तस्य सिद्धत्वान्न भवति। `उपदिदीये` इति। `दीङः क्षये` (धातुपाठः-1134) लिट्? तस्य `लिटस्तझयोः` [[3.4.81]] इत्यादिनेशु, `दीङो युडचि क्ङिचि` [[6.4.63]] इति युट्। तस्यापि यद्यसिद्धत्वं स्यात्? `एरनेकोचोऽसंयोगपूर्वस्य` [[6.4.82]] इति यणादेशः स्यात्। सिद्धत्वान्न भवति। आ भादित्याङ मर्यादायां वा स्यात्? अभिविधौ वा? तत्र यद्याद्य पक्ष आश्रीयत भाधिकारीयस्यासिद्धत्वं न स्यात्। ततश्च `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यस्याः परिभाषाया अनाभाच्छास्त्रीयत्वादस्थां प्रवर्तमानायां वसोः सम्प्रसारणस्याल्लोपादीनां चासिद्धत्वं न स्यात्। एवमपि वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवर्तमानया वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवर्तमानया वसोः सम्प्रसारणस्यासिद्धत्वे उत्पादितेऽन्तरङ्गत्वादल्लोपादयः पपुषः, चिच्युषः, लुलुवष इत्यत्र न स्युः? इतोमं मर्यादापक्षे दोषं वृष्ट्वा द्वितीयं पक्षमाश्रित्याह -`आ भादित्ययमभिविधावाङ्` इति। गतार्थश्च॥", "64023": "अन्यस्य श्नशब्दस्यासम्भवादसत्यपि श्नमो मकारस्य श्रवणे सामर्थ्यात्? श्नम एव ग्रहणं विज्ञायते, इत्यत आह -`श्नमयमुत्सृष्टमुकारः` इति। उत्सृष्टः=परित्यक्तो मकारो यस्य स तथोक्तः। `अनक्ति` इत्यादि। `अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु` (धातुपाठः-1458) `भन्जो आमर्दने` (धातुपाठः-1453) `हिसि हिंसायाम्`, (धातुपाठः-1456) अस्योदित्त्वान्नुम्, रुधादित्वात्? श्नम्। शकारवतोग्रहणमेतदर्थं क्रियते -`नन्दिता, नन्दकः` इत्यत्र मा भूदिति, एतच्चाप्रयोजनम्; `प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्` (व्या।प।72) इत्यनया परिभाषयाऽत्र न भविष्यति। ज्ञापकाच्च, यदयं नन्दिनन्दनशब्दौ क्षुभ्नादिषु पठति, तज्ज्ञापयति -नन्देर्नकारलोपो न भवतीति। सामान्यापेक्षञ्च ज्ञापकम्, तेन `नन्दिता, नन्दकः` इत्यत्रापि न भविष्यति। तस्मात्? `नान्न लोपः` इत्येवं वक्तव्यमित्यभिप्रायेणाह -`शकारवतो ग्रहणं किम्` इति। `यज्ञानाम्, यत्नानाम्` इति। `यजयाच` [[3.3.90]] इति नङ्, तदन्तात्? षष्ठीबहुवचनम्, नुट्। यदि शकारवतो ग्रहणं न क्रियेत तदा तत्र नलोपः स्यादेव। स्यादेतत् -दीर्घे कृते `नात्` इति व्यपदेशाभावान्न भविष्यतीति? अत आह -`सुपि च` इत्यादि। `सुपि च` [[7.3.102]] इत्यर्थ दीर्घोऽजादेशः, तस्य नकारलोपपूर्वविधौ कर्तव्ये <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावेन तद्रूपतामापन्ने परात्वाद्दीर्घत्वे यदि कृतेऽपि शकारविशिष्टस्य ग्रहणं न क्रियते तदा स्यादेवात्र नलोपः। कृताकृतप्रसङ्गित्वाच्च। दीर्घत्वं तु नकारलोपे कृते निमित्तविहितत्वान्न प्राप्नोतीति तदनित्यम्। ननु च पूर्वविधौ स्थानिवद्भाव उक्तः, न चायं पूर्वविधिः? नैष दोषः; अयमपि पूर्ववधिरेव। `पूर्वस्माद्? विधिः पूर्वविधिः` इत्यस्यापि समामस्य तत्राश्रयणात्। अथ क्रियमाणेऽपि शकारवतो ग्रहणे कस्मादिह न भवति -`विआआनाम्, प्रश्नानाम्` इति, भवति ह्यत्रापि शकारवान्नकारः? इत्याह -`विश्नानां प्रश्नानामित्यत्र` इत्यादि। इह हि लक्षणप्रतिपदोकतपरिभाषया (व्या।प।3।) प्रतपदोक्तो यः साक्षान्निर्दिष्टः श्नशब्दस्तस्य ग्रहणम्, न तु लाक्षणिकस्य। `विश्नानाम्, परश्नानाम्` इत्यत्र हि <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति शकारे कृते श्नशब्दः सम्पद्यते, स च लाक्षमिकः। तस्मात्? ततः परस्य लोपो न भवति। <<राल्लोपः>> [[6.4.21]] इत्यतो मण्डूकप्लुतिन्यायेन लोपग्रहणानुवृत्तौ सत्यां सिद्धायां यत्? पुनर्लोपग्रहणं क्रियते तद्? योग वेभागार्थम्। `श्नान्न` इत्येको योगः, अत्र च नेत्यविभक्तिकोऽयं निर्देशः, लोपग्रहणञ्चानुवर्तते, तेनायमर्थो भवति -श्नादुत्तरस्य नकारस्य लोपो भवतीति; ततः `लोपः` इति द्वितीयो योगः, ततः `श्नान्न` इत्यतो नेत्यनुवर्तते -इष्टे विषये नकारलोपो यथा स्यादिति। तेन लङ्गिकम्पिप्रभृतीनामुपतापशरीरविकारादिषु नलोपः सिद्धो भवति॥", "64024": "इद्? इद्? येषां त इदितः, न इदितोऽनिदित इति षष्ठीबहुवचनस्य स्थाने सुब्व्यत्येनैकवचनम्, तच्चानिदितां विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्यत आह - `हलान्तानाम्` इत्यादि। `उपधाया नकारस्य` इति। उपधाया इत्येतन्नकारस्य विशेषणम्। `रुआस्तः, ध्वलस्तः` इति। `रुआन्सु ध्वन्सु अधः [`अवन्नंसने` - धा।पा] पतने (धा।प।754,755) निष्ठा। `रुआस्यते, ध्वस्यते` इति। भावे कर्मणि वा लकार। `सनीरुआस्यते दनीध्वस्यते` इति। यङन्ते एते। `नीग्वञ्चु` [[7.4.84]] इत्यादिनाभ्यासस्य नीगागमः। `नन्द्यते` इति। `टु णदि समृद्धौ` (धातुपाठः-67) [`टु नदि` - धातुपाठः-] `नानन्द्यते` इति। यङन्तम्। <<दीर्घोऽकितः>> [[7.4.83]] इत्यभ्यासस्य दीर्घः। `नेनीयते` इति। नयतेः `गणो यङ्लुकोः` [[7.4.82]] इति गुणोऽभ्यासस्य। `नह्रते` इति। `णह बन्धने` (धातुपाठः-1166)। `लङ्गिकम्प्योः` इत्यादि। लङ्गिकम्प्योरिदित्त्वान्नलोपो न प्राप्नोति, अतस्तयोरुपतापशरीरविकारयोरुपसंख्यानं कर्तव्यम्। उपसंख्यानाम्=प्रतिपादनम्। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु कृतमेव। उपतापः=व्याधिः। शरीरविकारः=शरीरस्यान्यथात्वम्। स पुनरिहोपतापादनयो गृह्रते, अन्यथा `उपताप` इत्येवं सिद्धे शरीरविकारग्रहणमनर्थकं स्यात्। `विलगितः` इति। `अगि वगि लगि` गत्यार्थाः। (धातुपाठः-146,147,145)। `उपतापे विलङ्गितः` इत्येव प्रयोगो मा भूदित्येवमर्थं लङ्गर्ल्लोपो विधीयते, न तु रूपसिद्ध्यर्थम्; `लगे सङ्गे` (धातुपाठः-786) इत्यस्य प्रकृत्यन्तरस्य तस्य सिद्धत्वात्। `रञ्जेर्णौ` इत्यादि। अक्ङिदर्थं वचनम्। मृगरमणम्=मृगक्रीडा। `रजयतिः मृगान्` इति। रममाणान्? मृगान्? प्रयुङ्क्ते इत्यर्थः। `रजनरजकरजःसूपसंख्यानम्` इति। अत्र भूयः प्रतिपादनं क्रियते। <<घञि च भावकरणयोः>> [[6.4.27]] इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेन रजकादिषु प्रतिपाद्येषु रञ्जेः ष्वुन्नादिप्रत्यये परतो नलोपो भवति। `रजकः` इति। <<शिल्पिनि ष्वुन्>> [[3.1.145]] । `रजनम्` इति। ल्युट्। `रजः` इति। `सार्वधातुभ्योऽसुन्` (द।उ।9।49)[`असुन्` - द।#उ।] इत्यसुन्।`घिनुणि च` इत्यादि। `रागी` इति। सम्पृचान्वादिसूत्रेण [[3.2.142]] घिनुण्, `चजो कु घिण्ण्यतोः` [[7.3.52]] इति कुत्वम्। `त्यज रज भज` इति निपातनात्? सिद्धम्` इति। यतोऽयमक्ङिति निमित्ते सम्पृचादिसूत्रे [[3.2.142]] रञ्जेरनुनासिकलोपं कृत्वा निर्देशं करोति, तज्ज्ञापयति - घिनुप्यति नलोपो भवतीति। ननु च <<रञ्जेश्च>> [[6.4.26]] इति लक्षणेनैव शपि नलोपोऽभिनिर्वृत्तः? न तदस्ति; यथैव `इन्धिभवतिभ्याञ्च` [[1.2.6]] इत्यागन्तुकेनेकारेणेन्धेर्निर्देशः, तथेहाप्यागन्तुकेनाकारेण, न तु शपा। न हि `इन्धिभवतिभ्याञ्च` [[1.2.6]] इत्यत्रेका निर्देशः, अन्यथा हि `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः स्यात्॥", "64025": "`दंश दंशने` (धा।प।989), `ष्वन्ज परिष्वङ्गे (धातुपाठः-976)। `परिष्वजते` इति। `उपसर्गात्? सुनोति` [[8.3.65]] इत्यादिना षत्वम्॥", "64026": "अथ पृथग्योगकरणं किमर्थम्, न पूर्वयोग एव रञ्जेग्र्रहणं क्रियते? इत्याह -`पृथग्योगकरणम्` इत्यादि। उत्तरसूत्रे रञ्जेरेवानुवृत्तिर्यथा स्यात्? दंशप्रभृतीनां मा भूदिति॥", "64027": "`रज्यतेऽनेनेति रागः` इति। `हलश्च` [[3.3.121]] इति घञ्। एवं `रङ्गः` इत्यत्रापि॥", "64028": "जवः=वेगः, गतिविशेषः। `वृद्ध्यभावश्च` इति। `अत उपधायाः` इति। नलोपे कृते `अत उपधायाः` इति वृद्धिः प्राप्नोति, अतस्तदभावो निपात्यते। ननु च <<न धातुलोप आर्धधातुके>> [[1.1.4]] इत्यनेनैव वृद्धिप्रतिषेधः सिद्धः, तत्? किमर्थं वृद्ध्यभावो निपात्यते? इत्याह -`इक्प्रकरणात्` इत्यादि। तत्र <<इको गुणवृद्धी>> [[1.1.3]] इत्यत `इक्` इति परकृतमनुवर्तते, तेनेग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चेयमिन्लक्षणा वृद्धिः, किन्तूपधालक्षणा। न चेयमुपधालक्षणा वृद्धिरिग्लाक्षणा भवति, निर्दिष्टस्थानिकत्वात्। तेन नास्त्यत्र तस्याः प्रतिषेधः। `गोस्यदः` इति। भावे धञ्। गवां स्यद इति गोस्यदः, `कृद्योगा षष्ठी समस्यते` (धा।86) इति समासः। `तैलस्यन्दः` इति। तैलस्य रुआवणमित्यर्थः। `स्यन्दू रुआवणे`[`प्ररुआवणे` धातुपाठः-] (धातुपाठः-761)॥", "64029": "`अवोदः` इति। उपसर्गेण सह <<आद्गुणः>> [[6.1.87]] । `न धातुलोपः` [[1.1.4]] इत्यादिना प्रतिषेधो न भवति; अनिग्लक्षणत्वाद्गुणस्य। `गुणश्च निपात्यते` इति। ननु च `पुगन्तलधूपधस्य` [[7.3.86]] इत्येवं गुणः सिद्धः। तत्? किमर्थं निपात्यते? इत्याह -`न धातुलोपः` इत्यादि। `औणादिके मन्प्रत्ययः` इति। `अर्त्तिसतुसुहुसृधृक्षिक्षुभायावापदयक्षिनौब्यो मन्` (द।उ।7।26) [अर्त्तिस्तुसुहुसृधृक्षिक्षुभायापदियक्षिनीभ्यो मन् -द।उ।] इत्यर्त्त्यादिभ्यो विधीयमानो बहुलवचनादुन्देरपि भवति। `श्रन्तेः` इति। `श्रन्थ मोचनप्रतिहर्षणयोः` (धा।प।1510) इत्यस्य॥", "64030": "`अनिदिताम्` [[6.4.24]] इत्यनेन प्राप्तस्य नलोपस्यायं प्रतिषेधः। एतस्मादेव प्रतिषेधान्नकारोऽयं इतचुत्वो निर्दिश्यत इति गम्यते। अथ `नाञ्चेरिटि` इत्येव कस्मान्नोक्तम्? एवमपि ह्रुच्यमाने पूजायमेव प्रतषेधो लभ्येत, तथा हि - पूजायामेवाञ्चतेरिङ् विहितः? अशक्यमेवं वक्तुम्, <<अञ्चेः पूजायाम्>> [[7.2.53]] इत्यनेन क्त्वानिष्ठयोर्नित्यमिङ विहितः। यस्तु क्त्वाप्रत्ययः <<उदितो वा>> [[7.2.56]] इति पाक्षिक इडागमः, स पूजायामपि भवति, तत्रैवमुच्यमाने यदा क्त्वाप्रत्ययस्य पूजायामिण्न स्यात्, तदा प्रतिषेधो न स्यात्। `गुरुमङ्क्त्वा` इति। `न` इत्येतत्प्रतिषेधवचनमुत्तरार्थम्। इह `अञ्चेरपूजायाम्` इत्युच्यमाने सतीष्टं सिद्ध्यत्येव। `अञ्चिता अस्य गुरवः` इति। `मतिबुद्धि` [[3.2.188]] इत्यादना क्तः। <<क्तस्य च वर्तमाने>> [[2.3.67]] इति षष्ठी। `यस्य विभाषेतीट्प्रतिषेधः` इति। अञ्चितेः <<उदितो वा>> [[7.2.56]] इति विकप्लेनेङविधानात्॥", "64031": "`स्कन्त्वा` इति। `स्कन्दिर गतिशोषणयोः` (धा।प।979) `पक्षे इडागमः` इति। `स्वरति` [[7.2.44]] इत्यादिना। `कित्त्वप्रतिषेधान्नलोपभावः` इति। `अनिदिताम्` [[6.4.24]] इत्यादिना हि क्ङिति नलोपो विधीयते। सेट्क्त्वाप्रत्ययस्य <<न क्त्वा सेट्>> [[1.2.18]] इति कित्त्वप्रतिषेधः कृतः, ततश्चेडागमपक्षे कित्त्वाभावादेव नलोपाभाव इति नासाविमं योगं प्रयोजयति। तेन न सेट्क्त्वापरत्ययस्योदाहरणं प्रदर्शितमित्यभिप्रायः॥", "64032": "`नष्ट्वा, नंष्ट्वा` इति। नशेः व्रश्चादि [[8.2.36]] सूत्रेण षत्वम्, ष्टुत्वम्। <<मस्जिनशोर्झलि>> [[7.1.60]] इति मुमागमः। `ज` इति वर्णग्रहणम्, तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतत्यन्तरेणाप्यन्तग्रहणेन तदन्तविधौ सिद्धे, यदिहान्तग्रहणं क्रियते तद्धिस्पष्टार्थम्, यत्त्वाह - अनुपधाया अपि पक्षे लोपस्य प्रतिषेधार्थमन्तग्रहणम्, तद्यथा - `भक्त्वा, भङ्क्त्वा` इति, तन्न; केन पुनरनुपधाभूतस्य नकारस्या लोपः प्राप्नोति, यतोऽसौ पक्षे प्रतिषिध्यते। उपधानकारस्य लोप उक्तः, न चायमुपधानकारः। एवं तर्हि विधि विषयादन्यत्रापि क्वचिल्लोपो नकारस्य भवतीति ज्ञापयति। तेनैतत्? सिद्धं भवित - `मग्नः, मग्नदान्` इति। ततश्चैतद्रथं `मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गलोपार्थम्` इत्येतन्न वक्तव्यं भवति। तत्र यदीदं नोच्येत, तदा यस्मिन्? पक्षे क्त्वाप्रत्ययेन लोपो न भवति, तस्मिन्? पक्षे <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सलोपोऽपि न स्यात्; असंयोगादित्वात्। तस्माद्वक्तव्यमेवेदम् - `मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति` इति। ततश्चानुपधाभूतस्य नकारस्य लोपभाविनोऽसम्भवादनुपधाभूतस्य नकारस्य लोपप्रतिषेधो यथा स्यादेवमर्थमन्तग्रहणं न युज्यते॥", "64033": "चकारः `विभाषा` [[6.4.32]] इत्यनुकर्षणार्थः। `अभाजि` इति। पूर्वमेव व्युत्पादितम्। `अप्राप्तोऽयं नकारलोपः` इति। क्ङिति नलोपविधानात्, चिणश्चाक्ङित्वात्। अतः प्रतिषेध्याभाबान्नति नानुवर्तते। तेन विधिरेवायमित्यभिप्रायः॥", "64034": "`अन्वशिषत्` इति। <<सर्त्तिशास्त्यर्तिभ्यश्च>> [[3.1.56]] इति च्लेरङादेशः `शिष्वः, शिष्मः` इति। वस्मसोरुदाहरणे, अदादित्वाच्छपो लुक्। `शासति` इति। <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यभ्यस्तसंज्ञा, `अदभ्यस्तात्` [[7.1.4]] इति झेरदादेशः। `शशासतुः, शशासुः` इति। लिटतुस्युसि रूपे। `क्वौ च शासः` इति। क्वौ परतः शासेरित्त्वं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् -यद्यपि कृताकृतप्रसङ्गित्वेन नित्यत्वादत्र पूर्वमित्त्वात्? क्विब्लोपस्य विधानम्, तथापि लुप्तेऽपि तस्मिन्? प्रत्ययलक्षणेनात्रेत्त्वं भविष्यति। `वर्णाश्रये प्रत्ययलक्षणं नास्ति` (व्या।प।96) इत्येतत्तु प्रायिकम्। तथा हि -वर्णश्रयेऽपि क्वचिद्भवति। तद्यथा -`अतृणेट्` इति। अत्र `तृ ह इम्` [[7.3.92]] इतीमागमः। अथ वा वर्णाश्रयमेवेदमित्त्वं न भवति। कथम्? अङ्गग्रहणेनात्र प्रत्ययः सन्निधापितः। स हल्ग्रहणेन विशिष्यते। अत एव वृत्तावुक्तम् -`हलादौ क्ङिति` इति। तेन यद्यपि क्विब्? वर्णात्मकः प्रत्ययः, तथापि नासौ वर्णरूपत्वेनाश्रीयते, किं तर्हि? प्रत्ययरूपत्वेन।`आर्यशीः` इति। सकारस्य रुत्वे कृते `र्वोरुपधाया दीर्घः` [[8.2.76]] इति दीर्घः।अथ `आशास्ते, आशास्यमानः` इत्यत्र कथमित्त्वं न भवति? इत्याह -`यस्माच्छासेः` इत्यादि द्वाविमौ शासी -एकः परस्मैपदी, अपरस्त्वात्मनेपदी, तत्र यस्मात्? शासेरङ् विहितं तस्येवं ग्रहणम्। स च `शासु अनुशिष्टौ` (धातुपाठः-1075) इत्यस्य `सत्तिशास्त्यर्त्तिभ्यश्च` [[3.1.56]] इति विधीयते, तत्र `परस्मैपदेषु` [[3.1.55]] इत्यनुवर्तते, अस्यैव परस्मैपदे सम्भवात्। कथं पुनः सामान्येनोपादाने परस्मैपदिन एव विज्ञायते? अङः संसर्गात्। संसर्गे हि सति विशेषपरिच्छेदो भवति, तथा हि -`सकिशोरा धेनुरानीयताम्` इत्युक्ते किशोरेण संसर्गाद्? वडवायामेव सम्प्रत्ययो भवति। इह शासेरित्त्वं प्रत्यङ निमित्तत्वेनोपात्तः, अतस्तेन संसर्गाद्? विशिष्ठ एव परस्मैपदी शासिः प्रतीयते। ननु चाङेवात्र केवलो निमित्तत्वेन नोपात्तः, किं तर्हि? हलपि, स चात्मनेपदिनोऽपि सम्भवति, तत्? कुतोऽङ्संसर्गाद्? विशिष्टस्य शासेः प्रतीति? नैतदस्ति; साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सन्निहितः सम्बन्धी तत्रैव प्रत्ययो जायते। तथा हि `वृद्धानां किशोरणाञ्च मध्ये धेनवोऽनुबध्यन्ताम्` इत्युक्ते बडवा एव प्रतीयन्ते। तस्मादङहलोरुपदानेऽपि यस्मादङ विहितस्तस्यैव ग्रहणं युक्तम्।यदि तर्हि यतोऽङ विहितस्तस्येदं ग्रहणम्, एवं सति यथाशास्ते, आशास्यमान इत्यत्र न भवति, तथा क्विप्प्रत्ययेऽपि न स्यात्? इत्यत आह -`क्विप्प्रत्यये ति` इत्यादि। `क्षियासीः` इत्यादि। अथ वा नैव तस्या ह्रपि क्विष्प्रत्यय इत्येवं वक्तव्यमिति। विक्लपर्थो वाशब्दः। अथ तशब्दः किमर्थः, आन्तरतम्याद्दीर्घो मा भूदिति चेत्? नैतदस्ति; `भाव्यमानोऽण्? सवर्णान्न गृह्णाति` (व्या।प।35) इति न भविष्यति? एवं तर्हि विस्पष्टार्थः। अथासन्देहार्थः कस्मान्न भवति? `शास यङङलोः` इत्युच्यमाने सन्देहः स्यात् -किमयमिकारः कृतयणादेशो निर्दिष्टः? आहोस्विदीकारः? अथ वा यकार इति? नास्ति सन्देहः, यदयम्? <<तदशिष्यं संज्ञाप्रमाणत्वात्>> [[1.2.53]] इति निर्देशं करोति, ततो निश्चीयते -इकारोयम्, न हीकारः, नापि यकार इति॥", "64035": "यद्यत्र `उपधायाः` [[6.4.24]] इति वर्तते, ततो यथा पूर्वसूत्रे `शासः` [[6.4.34]] इत्यवयवभूता षष्ठी, तथेहापि स्यात्? एवञ्चोपधाया एवायमादेशः, प्रसज्येत, सर्वादेशश्चेष्यत इति मनसि कृत्वाह -`उपधाया इति निवृत्तम्` इति। तद्धि उपधागरहणं क्ङिद्ग्रहणेन सम्बद्धम्, इह च क्ङिद्ग्रहणं निवृत्तम्। तस्मात्? `उपधायाः` [[6.4.24]] इत्यस्यापि निवृत्तिर्भवति। `क्ङिति` इत्येतदपि निवृत्तम्` इति। `अनुदात्तोपदेश` [[6.4.37]] इत्यादौ सूत्रे पुनः क्ङिद्ग्रहणात्। `तेन` इत्यादिना क्ङिद्ग्रहणे निवृत्ते यदिष्टं सम्पद्यते तद्दर्शयति -यद्यत्र `क्ङिति` [[6.4.24]] इत्येतदनुवर्तेतततो `वा च्छन्दसि` [[3.4.88]] इति यसमिन्पक्षे हेरपित्त्वं न भवति तस्मिन्? पक्षे <<सार्वधातुकमपित्>> [[1.2.4]] इति वचनात्? ङित्त्वं नास्तीति शाभावो न स्यात्। क्ङिद्ग्रहणे तु निवृत्तेऽपित्त्वपक्षेऽपि भवत्येव। स्यादेतत् -व्यवस्थितविभाषाविज्ञानाच्छास उत्तरस्य हेः पित्त्वं न भविष्यति, ततो नार्थः क्ङिद्ग्रहणेन निवर्त्तितेन? इत्यत आह -`शाधीत्येतत्` इत्यादि। यदि शास उत्तरस्य हेः पक्षे पित्त्वं न स्यात्, तदा शाधीत्येतत्? सतिशिष्टत्वेन प्रत्ययस्वरेणान्तोदात्तमेव स्यात्। आद्युदात्तमपि च्छन्दसीष्यते। तच्च हेः पित्त्वे सति धातुस्वरेण सम्पद्यते, नान्यथा। तस्मादवश्यं च्छन्दसि यक्षे पित्त्वं विधेयम्। अथ `आ हौ` इत्येवं कस्मान्नोक्तम्, अकोरेऽपि हि <<अलोऽन्त्यस्य>> [[1.1.52]] इति सकारस्य विहिते सवर्णदीर्घत्वेन शाधीत्येतत्? सिद्धं भवति? न सिद्ध्यति; पूर्वसूत्रेणोपधाया इत्त्वं स्यात्। न चायं तस्य बाधको युज्यते; असति च सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात्, अत्रास्ति सम्भवः। तस्मादकारेऽन्त्यस्य विहित उपधाया इत्त्वं स्यादेव॥ `हन्तेः` इति। स्पिपा निर्देशो यङलुग्निवृत्त्यर्थः -`जङ्घहि`॥", "64036": "", "64037": "`अनुनासिक` इति षष्ठआ बहुवचनस्य लुकं कृत्वाऽविभक्तिकोऽयं निर्देशः। अत एवाह -`अनुनासिकान्तानाम्` इति। <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घत्वे प्राप्ते लोपोऽयं विधीयते। अत्र लोपे कृते दीर्घत्वं न प्राप्नोति; विहितनिमित्तत्वात्। `यमि रमि गमि नमि हनि मन्यतयः` इति -`यम उपरमे` (धातुपाठः-984) `रमु क्रीडायाम्` (धातुपाठः-853) `गन्लृ सृप्लृ गतौ` (धातुपाठः-982,983) `णम पह्वत्वे` (धातुपाठः-981) [प्रह्वत्वे शब्दे च -धा।पा] `हन हिंसागत्योः` (धातुपाठः-1012) `मन ज्ञाने` (धातुपाठः-1176)।`वतिः` इति। `वन षण सम्भक्तौ` (धातुपाठः-463,464)। `तितुत्रतथ` [[7.2.9]] इत्यादिनेट्प्रतिषेधः। `क्तिनि` इत्यनेन क्तिन्येव वनतेरुदाहरणं सम्भवति, नान्यत्रेति दर्शयति। किं कारमम्? इत्याह -`क्तिचि तु` इत्यादि। क्तिचि तु <<न क्तिचि दीर्घश्च>> [[6.4.39]] इति प्रतिषेधं वक्ष्यति। ये त्वन्ये झलादयः प्रत्ययास्तेष्वपीटा भवितव्यम्, ततो झलादित्वाभावाद्वनतेरनुनासिकलोपं प्रति ते निमित्तभावं नोपयान्तीति पारिशेष्यात्? क्तिन्येव वनतेरनुनासिकलोपेन भवितव्यम्। `सनोतेरात्त्वं वक्ष्यति` इति। तेन तस्यानुनासिकलोपोदाहरणं न भवतीति भावः। आत्त्वं पुनः `जनसनखनाम्` [[6.4.42]] इत्यादिना वक्ष्यति। `क्षतः` इति। `क्षणु हिंसायाम्` (धातुपाठः-1465)। `ऋतः` इति -`ऋणु गतौ` (धातुपाठः-1467)। `तृतः` इति। `तृणु दाने` [`अदने` धातुपाठः-] (धातुपाठः-1468)। `घृतः` इति। `घृणु दीप्तौ` (धातुपाठः-1469) `वतः` इति। `वनु याचने` (धातुपाठः-1470) `मतः` इति। `मनु अवबोधने` (धातुपाठः-1471) `अतत, अतथा` इति। तनोतेर्लुङ। आत्मनेपदप्रथममध्यमैकपुरुषवचने। <<तनादिभ्यस्तथासोः>> [[2.4.79]] इति सिचो लुक्। `शान्तः, तान्तः, दान्तः` ति। शमितमिदमीनां रूपाणि। एते नानुदात्तोपदेशाः। `इह च` इत्यादि। गमिरमिभ्यां क्तिनि कृते तयोर्नित्स्वरेणाद्युदात्तत्वेऽनुदात्तत्वाभावादसत्युपदेशग्रहणे लोपो न स्यात्, अस्मस्तु सति भवति। किञ्च -असत्युपदेशग्रहणे शान्तः, दान्त इत्यत्रापि स्यात्। भवति हि शमिः सतिशिष्टप्रत्ययस्वरे कृते <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति शेषस्यानुदात्तत्वेऽनुदात्तः। उपदेशग्रहणात्तु न भवति, न ह्रमुपदेशेऽनुदात्तः॥", "64038": "अझलाद्यर्थ आरम्भः। `प्रयत्य` इति। प्रादसमासे कृते `समासेऽनञ्पूर्वे क्त्वो ल्यप्? [[7.1.37]] <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] ॥", "64039": "`यन्तिः` इत्यादि। `क्तिच्कतौ च संज्ञायाम्` [[3.3.174]] इति क्तिच्। अत्र चानुदात्तोपदेशादिप्रहणमनुवर्तते, तेन `कान्तिः शान्तिः` इत्यत्र धीर्घप्रतिषेधो न भवति। अनुनासकलोपस्य त्वत्र प्राप्तिरेव नास्ति; उदात्तोपदेशत्वात्। `अनुनासिकलोपे प्रतिषिद्धे` इत्यादिना दीर्घग्रहणस्य प्रयोजनमाचष्ठे। ननु च प्रकरणापेक्षया यदस्मिनप्रकरणे विहितं तन्न भवतीति विज्ञायमानेऽन्तरेणापि दीर्घग्रहणं दीर्घस्यापि प्रतिषेधो भविष्यति, तत्? किं दीर्घग्रहणेन? एवं तह्र्रतज्ज्ञापयति - अस्तीयं परिभाषा `अनन्तरसय विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति॥", "64040": "अयमप्यझलाद्यर्थ आरम्भः। `अध्वगतो हरयः` इति। अध्वानं गच्छन्तीति क्विप्, तदन्तज्जस्। `गमादीनाम्` इत्यादि। गमादीनामनुनासिकलोपः क्वौ भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्राच्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन गमादीनां भविष्यति, न तु गमेरेव केवलस्येति। `संयत्` इति। संपूर्वाद्? यमेः क्विप्। `परितत्` इति। परिपूर्वात्? तनोतेः, <<नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ>> [[6.3.116]] इत्यादिना दीर्घः। `ऊ च` इत्यादि। चकारादनुनासिकलोपः। क्वचिद्? `ऊङ च` इति पठते, तत्र ङकारस्य प्रयोजनं चिन्त्यम्। अलोऽन्त्यपरिभाषयैवात्र भविष्यति। `अग्रेगूः` इति। गमेः, भ्रमेश्चानुनासिकलोपे कृतेऽकारस्योकारः॥", "64041": "`अब्जाः` इति। अप्सु जायत इत्युपपदसमासः, पकारस्य जश्त्वम् -बकारः। `गोषा` इति। `षणु दाने` (धातुपाठः-1464) `विजवा` इति। `जन जनने` (धातुपाठः-1105), `जनी प्रादुर्भावे` (धातुपाठः-1149) इति वा। `अग्रेगाव` [`अग्रेजावा` इति काशिका पाठः] इति। <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति सप्तम्या अलुक्। अथानुनासिकग्रहणं किमर्थम्, यावतानुदात्तोपदेशेत्यादेः [[6.4.37]] सूत्रादनुनासिकगरहणमनुवर्तत एव? इत्याह -`अनुनासकस्येति वर्तमाने` -इत्यादि। तद्धि प्रकृतमनुनासिकग्रहणमनुदात्तोपदेशग्रहणेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्माददमन्यदनुनासिकग्रहणं क्रियते -अनुनासिकमात्रस्य यथा स्यात्। अथेह दीर्घोच्चारणं किमर्थम्? ह्रस्व एवोच्येत, ह्रस्वेऽपि कृते सत्यकः सवर्णे दीर्घत्वेन सिद्ध्यत्येव; <<अतो गुणे>> [[6.1.97]] पररूपत्त्वं प्राप्नोति, अतो न सिद्धयतीत्येतन्नाशङ्कनीयम्, अकारविधानसामर्थ्यात्; यदि हि `अतो गुणे` पररूपत्वं स्यात्, तदा प्रकृतं लोपग्रहणमेव विदध्यात्? ततो ह्रस्व एव कर्तर्व्यः। नैतदस्ति; ह्यत्वे हि सति `घुण धूर्णने` (धातुपाठः-437) [`भ्रमणे` -धातुपाठः-] इत्यस्माद्वनिपि विहिते `ध्वावा` इति न सिद्ध्येत्? ततो दीर्घस्यैव विधानं युक्तम्॥", "64042": "`झलि क्ङिति चानुवर्तते` इति। यथाक्रमं सनो झलश्च विशेषणम्? सूत्रोपात्तेन तु झल्ग्रहणेन न शक्यते सन्? विशेषयितुम्, विशेषणं ह्रप्राधानं भवति, विशेष्यन्तु प्रधानम्। `सञ्झलोः` इति चार्य द्वन्द्वः। तत्र सर्वेषां द्वन्द्वपदानां प्राधान्यादन्योऽन्यं प्रधानगुणभावो नोपपद्यते। सन्ग्रहणञ्चाक्ङिदर्थम्। `तदिह` इत्यादि। यस्मात्? सनोतेः पक्ष इडागमस्तस्मात्? तत एव परो झलादिः सन्? सम्भवतीति तदर्थमेव सन्ग्रहणम्, न तु जनखनार्थम्। न हि ताभ्यां परो झलादिः सन्? सम्भवति, तयोर्नित्यं सेट्त्वात्। यद्येवं, सनोतेः सनि कृतार्थत्वादात्त्वं न स्यात्, अन्यत्र निष्ठादौ झलादौ क्ङितिप्रत्यये `अनुदात्तोपदेशः` [[6.4.37]] इत्यादिना नलोपः स्यात्? इत्यत आह -`अन्यत्र` इत्यादि। सनोतेस्तनोत्यादिषु पाठस्यावकाशोऽन्यत्? तनादिकं कार्यम् -<<तनादिभ्यस्तथासोः>> [[2.4.79]] इत्यादि, आत्त्वविधौ च सन्ग्रहणस्यावकाशः -सन्, सिषासतीति; इहोभयं प्राप्नोति -सातः, सातवानिति। अत्रानुनासिकलोपं बाधित्वाऽऽत्त्वं भवति विप्रतिषेधेन। ननु चोभयः सिद्धयोर्विप्रतिषेधो भवति, इह च `असिद्धवदत्रा भात्` [[6.4.22]] इत्युभयमप्यसिद्धम्, तत्? कुतो विप्रतिषेधः? इत्यत आह -`घुमास्थागा` इत्यादि। कथं कृत्वा ज्ञापकम्? हल्ग्रहणस्यैतदेव प्रयोजनम् -हलादावीत्त्वं यथा स्यात्, इह मा भूत् -<<आतोऽनुपसर्गे कः>> [[3.2.3]] गोदाः, कम्बलद इति यदि चात्र विप्रतिषेधः? इत्यत आह -`घुमास्थागा` इत्यादि। कथं कृत्वा ज्ञापकम्? हल्ग्रहणस्यैतदेव प्रयोजनम् -हलादावीत्त्वं यथ#आ स्यात्, इह मा भूत् -<<आतोऽनुपसर्गे कः>> [[3.2.3]] गोदः, कम्बलद इति। यदि चात्र विप्रतिषेधो न स्याद्? हल्ग्रहणमनर्थकं स्यात्। अस्त्वत्रेत्त्वम्, तस्यासिद्धत्वाल्लोपो भविष्यत। पश्यति त्वाचार्यः -भवतीह प्रकरणे विप्रतिषेध इति; यतो हल्ग्रहणं करोति। ननु चासति हल्ग्रहणेऽजादावपीत्त्वं स्यात्, ततश्चेपङः प्रसज्येतेत्यनिष्टं रूपमापद्येत। तस्मादनिष्टनिवृत्त्यर्थत्वाद्धल्ग्रहणस्य न युज्यते ज्ञापकत्वम्? नैष दोषः; असिद्धत्वादेवेत्त्वस्येयङादेशो न भविष्यति। व्यवस्थार्थं तर्हि हल्ग्रहणं स्यात्, असति हि तस्मिन्नीत्त्वस्यासिद्धत्वा दाल्लोपः, आकारलोपस्यासिद्धत्वादीत्त्वमीति चक्रवद्व्यवस्था स्यात्? एतदप्यप्रयोजनम्, यदि व्यवस्थार्थं हल्ग्रहणं स्यात्, नैवायं हल्ग्रहहँ कुर्वीत। अविशेषेणेकारमुक्त्वा तस्याजादौ लोपमपवादं विदध्यात्। तत्? कथमिदमस्तु <<आतो लोप इटि च>> [[6.4.64]] इति? ततः `धुमास्थागापाजहातिसाम्` [[6.4.66]] आकारलोपो भवतीटयजादौ च क्ङिति। किमर्थमिदम्? प्रत्ययमात्रे ध्वादीनां यदीत्त्वं वक्ष्यते, तस्यायमिटजादौ च क्ङित्यपदादः, ततः `ईत्` [[6.4.68]] इतीत्त्वं भवति घादीनामनचि क्ङिति, ततः <<एर्लिङि>> [[6.4.67]] `दान्यस्य संयोगादेः` [[6.4.68]] <<न ल्यपि>> [[6.4.69]] , <<मयतेरिदन्यतरस्याम्>> [[6.4.70]] ; ततो यतीत्त्वं भवति -सोऽयमेव लगीयसा न्यासेन सिद्धे यद्धल्ग्रहणं करोति, तज्ज्ञापयत्याचार्यः -`भवतीह विप्रतिषेधः` इति॥", "64043": "असज्झलाद्यर्थ आरम्भः। `जायते, जन्यते` इति। भावे लकारः। `जाजायते` इति। यङ्, <<दीर्घोऽकितः>> [[7.4.83]] इत्यभ्यासस्य दीर्घत्वम्। `जञ्जन्यते` इति। <<नुगतोऽनुनासिकान्तस्य>> [[7.4.85]] नुगागमः `सायते, सन्यते` इति। भावे कर्मणि वा लकारः। जनेः श्यन्यपि विभाषाऽऽत्त्वेन भवितव्यमिति कस्यचिद्? भ्रान्ति स्यात्, अतस्तां निराकर्तुमाह -`जनेः श्यनि` इत्यादि। जनेर्दिवादित्वात्? श्यनि विहिते सत्युमयं प्राप्नोति, अनेन विभाषाऽऽत्त्वम्, <<ज्ञाजनोर्जा>> [[7.3.79]] इति जाभावश्च, तत्र जादेशस्यानवकाशत्वात्? स एव नित्यं भवति। तेन श्यनि `जायते` इत्येवं नित्यं भवति, न तु कदाचित्? `जन्यते` इति॥", "64044": "", "64045": "अस्यग्रहणमनन्तरस्य क्तिचो लोपो मा भूत; व्यवहितस्यापि नलोपो यथा स्यादित्येवमर्थम्। अथ क्रियमाणेऽप्यस्यग्रहणे कस्मादेव क्तिचो लोपो न भवति? अस्यग्रहणसामर्थ्यात्। अथान्यतरस्यांग्रहणं किमर्थम्, यावता `विभाषा` [[6.4.46]] इत्यनुवर्तते? इत्याह -`अन्यतरस्यांग्रहणम्` इत्यादि। कथं पुनर्विभाषाग्रहणस्य निवृत्तिराशङ्क्यते, यतो विस्पष्टार्थमन्यतरस्यांग्रहँ कृतम्? इत्याह -`यकारसम्भन्धं हि` [ये सम्बबद्धं हि -काशिका] इत्यादि। तद्विभाषाग्रहणं यकारादिप्रत्ययस्य सम्बन्धेन। इह च `ये` इत्येतस्मिन्? निवृत्ते क्तिचो निमित्तान्तरस्योपादानातदतस्तान्निवृत्तौ विभाषाग्रहणमपि निवृत्तमिति कस्यचिदाशङ्का स्यात्, अतो विस्पष्टार्थमन्यतस्यांग्रहणं क्रियते॥", "64046": "`चिकीर्षिता` इति। सन्नन्तात्? तुच्। `भवति, भवतः` इति। `आर्धधातुके` इत्यधिकारात्? सार्वधातुकेऽत्र शपो लोपो न भवति। यद्यत्र शपो लोपो मा भूदित्येवमर्थ आर्धधातुकाधिकारः क्रियते, तर्हि न कर्तव्यः, ज्ञापकादेव शपो लोपो न भविष्यति, आचार्यप्रवृत्तिज्र्ञापयति -`नानेन शपो लोपो भवति` इति यदयम्? <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपो लुकं शस्ति? इत्यत आह -`अदिप्रभृतिभ्यः` इत्यादि। इतिकरणो हेतौ। असति हि प्रयोजने ज्ञापकं भवति। अस्ति चादिप्रभृतिभ्यः शपो लुग्वचनस्य प्रयोजनम्। किं तत्? `वित्तः` इत्यत्र गुणो मा भूत्। यदि `वित्तः` इत्यत्र लोपः स्यात्, प्रत्ययलक्षणेन `पुगन्तलघूपधस्य` [[7.3.86]] इति गुणः स्यात्। `मृष्टः` इत्यत्र <<मृजेर्वृद्धिः>> [[7.2.114]] लुकि तु सति न भवति, <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणप्रतिषेधात्। तस्माददिप्रभृतिभ्यः शपो लुग्वचनं प्रत्ययलक्षमप्रतिषेधार्थं स्यादिति न ज्ञापकं शपो लोपाभावस्य। `बेभिदिता` इति। यङो लोपः। `बेभिद्यते` इत्यत्र शपि सार्वधातुके न भवति।`कारणा` इति। <<ण्यासश्रन्थो युच्>> [[3.3.107]] । `कारयति` इति शपि सार्वधातुके न भवति। `पपतुः, पपुः`। `ववतुः` ववुः` इति। अतुसुसौ। पातेर्वातेश्च <<आतो लोप इटि च>> [[6.4.64]] इत्यकारलोपः।`दीयते धीयते` इति। आर्धधातुके यकीत्त्वम्। `अदाताम्? अधाताम्` इति। लुङ, `तस्थस्थ` [[3.4.101]] इति तसस्ताम्; `गातिस्था` [[2.4.77]] इत्यादिना सिचो लुक्। `स्नायात्, स्नेयात्` इति। स्नातेराशिषि लिङ, तस्य <<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकसंज्ञा, यासुट्, `स्कोः संयोगाद्योः` [[8.2.29]] इत्यादिना सकारलोपः। `आशीर्लिङोऽक्यत्र न भवति` इति। आशीर्लिङोऽन्यद्? विष्यादिलिङः, तत्र न भवति; तस्य सार्वधातुकसंज्ञकत्वात्। तेन तत्र नित्यं `स्नायात्` इत्येवं भवति। अत्र <<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः। `कारिषीष्ट` इति। आशिषि लिङः, सीयुट्, <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्, `सुट्? तिथोः` [[3.4.107]] इति सुट्? चिण्वद्भावाद्वृद्धिः। `क्रियेत` इति। विष्यादिलिङः। पूर्ववदात्मनेपदम्, सार्वधातुके यक्, सीयुडीकरेण सह <<आद्गुणः>> [[6.1.87]] <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः, `रिङशयग्लिङक्षु` [[7.4.28]] इति रिङादेशः। अत्र चिण्वद्भादेन यो दोषः स्यात्? तं `यगन्तस्य` इत्यादिना दर्शयति। यद्यत्र चिण्वद्भावात्? वृद्धिः स्यात्, ततश्च `आतो युक्? चिण्कृतोः` [[7.3.33]] इति युक्? प्रसज्येत। `अतो लोपो यलोपश्च` इत्यादि। आर्धधातुकाधिकारप्रयोजनसंग्रहश्लोकः। गतार्थः। नन्वत्र `भ्रस्जो रोपधयो रमन्यतरस्याम्` [[6.4.47]] इति रम्, <<दीङो युडचि क्ङिति>> [[6.4.63]] इति युडार्धधातुकाधिकार एव विधास्यते, तत्? कस्मात्? तौ तत्र प्रयोजनत्वेन नोपात्तौ? एवं मन्यते -भ्रस्जो रम्भाव आर्धधातुकाधिकारं न प्रयोजयति, स, तु तुदादौ पठते, ततः सार्वधातुके परतः शेन भवितव्यम्। शे च सति पूर्वविप्रतिषेधाद्? ग्रहिजयादि [[6.1.16]] सूत्रेण सम्प्रसारणेन भवितव्यम्। युडपि नैव प्रयोजयति, दीङो हि दिवादित्वात्? सार्वधातुके श्यना भवितव्यम्। ततोऽजादित्वाभावादेव युडागमस्याभाव एव। `आर्धधातुके` इति यदार्धधातुकसामान्यं विवक्ष्यते, तदा सामान्ये पौर्वापर्यासम्भवात्? विषयसप्तमीयम्। यदार्धधातुकव्यक्तिस्तदा परसप्तमी। प्रतिपादितञ्चास्मभिः `न धातुलोपः` [[1.1.4]] इत्यत्र ज्ञापकद्वारेण परसप्तमीत्वं विषयसप्तमीत्वञ्चास्येति॥", "64047": "रमयं यदि रेफोपधयोः स्थाने स्यात्? मित्त्वमनर्थकं स्यात्? अथायं रमागमोऽचोऽन्यात्? परो भवति रेफोपधयोः अवणमापद्येत? इत्येतच्चोद्यमाशङ्क्याह -`रोपधयोः` इत्यादि। मित्त्वाद्रमनेनावश्यमचोऽन्त्यात्? परेण भवितव्यम्, अन्यथा तदनर्थकं स्यात्। तत्र यदि रेफोपधयोः श्रवणं स्यात्? `रोपधयोः` इति षष्ठीनिर्देशोऽनर्थकः स्यात्। तस्मात्? षष्ठीनिर्देश एव तयोर्निवृत्तिमाचष्टे। तस्या ह्रेतदेव प्रयोजनम् -षष्ठआ निर्दिरुयमानस्य यो धर्मो निवृत्तिः, सा यथा स्यात्। न ह्रन्यत्? षष्ठीनिर्देशस्य प्रयोजनमस्ति। तस्मान्मित्त्वादचोऽन्त्यापरो भवति रम। षष्ठीनिर्देशसामर्थ्याद्? रेफोपधे स्थानिधर्मनिवृतिंत प्रतिपद्येते। `भ्रष्टा` इति। `भ्रस्ज पाके` (धातुपाठः-1284) व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्। `भ्रज्जनम्` इति। सकारस्य जश्त्वम् -दकारः, तस्यापि श्चुत्वम् -जकारः। अथेह कस्मान्न भवति -भृष्टः, भृष्टवान्? इत्याह -`भृष्टः, भृष्टवान्` इत्यादि। रमोऽवकाशः -भर्ष्टा, भ्रष्टाः सुम्प्रसारणस्यावकाशः -`भृज्जति` इति, इहोभयं प्राप्नोति -भृष्टा, भृष्टवानिति, ग्रह्रादिसूत्रेण [[6.1.16]] सम्प्रसारणमेव भवति पूर्वविप्रतिषेधेन। पूर्वविप्रतिषेधश्चेष्टवाचित्वात्? परशब्दस्य लभ्यते। `बरीभृज्यते` इति। यङ्। `रीगृदुपधस्य` [[7.4.90]] इति रोगागमः। `अत्र उपदेश` [[6.4.45]] इत्यतो हि यदन्तरस्यांग्रहणं प्रकृतं, तत्? सनादिसम्बद्धम्, इह च सनादेर्निवृत्तिः। अतस्तन्निवृत्तौ तस्यापि निवृत्तिराशङ्क्येत। अनन्तरयोगस्य चान्यार्थत्वात्, तत्रान्यतरस्यांग्रहणस्य प्रयोजनाभावात्। अथ भ्रस्जो भर्जेत्येवं कस्मान्नोक्ततम्? अशक्यमेवं वक्तुम्। एवं ह्रुच्यमाने `प्रकृतिग्रहणे यङलुगन्तस्यापि ग्रहणं भवति` (व्या।प।77) इति यङ्लुगन्तादार्थधातुक उत्पन्ने सत्यभ्यासस्य भ्रस्जो भर्ज्जादेशः स्यात्? नैष दोषः; उपदेशग्रहणेन भ्रज्जिं विशेषयिष्यामः -`उपदेश यो भ्रज्जिः` इति। श्तिपा निर्देशोऽत्र वा करिष्यते -भृज्जतेर्भजं इति; तेन यङःलुगन्तस्य ग्रहणं न भविष्यति। एतमपि `भुज्जयते` इत्यत्र प्राप्नोति, भवति ह्यत्रोपदेशे भ्रस्जिरिति? नैतदस्ति; अत्र हि पूर्वविप्रतिषेधात्? सम्प्रसारणेन भवितव्यम्, यथा -भृष्ट इत्यत्र। एवं तर्हि वैचित्र्यार्थ तथा नोक्तम्॥", "64048": "`धिनुतः, कृणुतः` इति। `हिवि दिवि धिवि प्राणनार्थाः` (धातुपाठः-591,592,593), `कृवि हिंसाकरणयोः` (धातुपाठः-598) इदित्वान्नुम्, लट्, तस्, <<धिन्विकृण्व्योर च>> [[3.1.80]] इत्युप्रत्ययः, अकारश्चान्तादेशः, तस्यानेन लोपः। अथ तपकरणं किमर्थम्, यावता धातेत्यत्र मा भूत्? ननु च <<आतो लोप इटि च>> [[6.4.64]] इति नियमार्थ भविष्यति -आकारस्येटएवाजादौ क्ङिति लोपो भवति? नैतद्सित; विपरीतनियमोऽपि सम्भाव्येत -आत एवेटि क्ङिति नान्यस्येति। तथा च चिकीर्षितेत्यत्र न स्यात्। तस्माद्? विपरीतनियमसम्भावनानिवृत्त्यर्थ तपरकरणम्। विस्पष्टार्थं वा। `वृद्धिदीर्धाभ्याम्` इत्यादि। <<अचो ञ्णिति>> [[7.2.115]] इत्यस्यावकाश -कारयति, हारयति, अतो लोपस्यावकाशः -चिकीर्षिता, जिहीर्षितेति; इहोमयं प्राप्नोति -चिकीर्षकः, जिहीर्षक इति, अतो लोप एव भवति पूर्वविप्रतिषेधेन। <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इत्यस्यावकाशः - चीयते, लूयत इति, अतो लोपस्यावकाशः स एव; इहोभयं प्राप्नोति -चिकीष्र्यते, जिहीष्र्यत इति, लोप एव भवति पूर्वविप्रतिषेधेन॥", "64049": "`बेभिदिता` इति। यङ्न्तादार्धधातुकं तृच्, तस्मिन्? परतो यशब्दस्य लोपः। `यस्य` इतीदं वर्णनिर्देशो वा स्यात्? यकाराकारग्रहणं वा? तत्र यद्याद्यः पक्ष आश्रीयेत तदोर्ष्यिता, मव्यितेत्यत्रापि स्यादिति द्वितीयं पक्षमाश्रीत्याह -`यस्येति सङ्घातग्रहणम्` इति। कुत एतत्? निर्देशात्। यदि वर्णग्रहणं स्यात्, तदा `यो हलः` इत्येवं ब्राऊयात्। यदि तर्हि सङ्घातग्रहणम्? एवं तर्हि <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्त्यस्य स्यादित्यत आह -`तत्रालोऽन्त्यस्य` इत्यादि। कस्मान्न प्रवर्तते? इत्याह -`अतो लोपः` इत्यादि। पूर्वेणाप्यलोऽन्त्यस्य लोपः सिद्धः, तत्रारम्भसामर्थ्यात्? सर्वस्य भवति। `हल इति वा` इत्यादिना परीहारान्तरमाह। `हलः` इति पञ्चमीनिर्देशः, तत्र `हल उत्तरो यो यशब्दस्तस्य लोपः` इत्युच्यमाने <<आदेः परस्य>> [[1.1.54]] इति वचनाद्? यकारस्यैवनेन लोपो भवति। अकारस्य तु <<अतो लोपः>> [[6.4.48]] इत्यनेन। `ईर्ष्यिता, मव्यित`[`भव्यिता` इति न्यासमद्रितपाठः] इति। `सूक्ष्र्यं इक्ष्यं ईष्र्य ईष्र्यार्थाः` (धातुपाठः-509,510,511), `मव्य बन्धने` (धातुपाठः-508)। अत्र सङ्घातात्मको यशब्दो न भवतीति न प्रवर्तते लोपः। `लोलुयिता` इति। यङः, `गुणो यङलुकोः` [[7.4.82]] इति गणः॥", "64050": "`क्य` इति क्यच्क्यङोरुत्सृष्टानुबन्धयोः सामान्येन ग्रहणम्; विशेषानुपादानात्। `समिधमिवात्मानमाचरति` इति। वेति वाशब्दः समुच्चये वर्तमानः समिदिवाचरतीत्यमुमर्थं ग्राहयति। `यथायोगम्` इति। यदात्मनः समिधमिच्छतीत्यर्थो विवक्ष्यते, तदा <<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्? कर्तव्यः, यदा समिधमिवात्मानामाचरतीति तदा <<उपमानादाचारे>> [[3.1.10]] इति क्यजेव, यदा समिदिवाचरतीति तदा `कर्तुः क्यङ्? सलोपश्च` [[3.1.11]] इति क्यङ् -इत्येष यथायोगशब्दार्थः॥", "64051": "`णेः` इति। णिङणिचोर्विशेषकरावनुबन्धावुबन्धावुत्सृज्य यत्? समान्यं णिमात्रं तस्य ग्रहणम्। इयङादिभिः सर्वस्य विषयस्यावष्टब्धत्वादनवकाशीऽयं णिलोपस्तेषामपवादोऽयं विज्ञायत इत्यत आह -`इयङ्यण्` इत्यादि। `अततक्षत्, अररक्षत्` इति। तक्षिरक्षिभ्यां हेतुमण्णिच्, तदन्तालुङ्? `णिश्रिदुरुआउभ्यः [[3.1.48]] इत्यादिना च्लेश्चङ्, ङित्त्वाद्? गुणस्य प्रसङ्ग एव नास्तीतीयङादेशः स्यात्। अतस्तस्यापवादो णिलोपः। `आटिटत्, आशिशत्`। अटशिभ्यां पूर्वं णिजादिषु कृतेषु <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति टिशब्दशिशब्दौ द्विरुच्येते। अत्र `एरनेकाचः` [[6.4.82]] इत्यादिना प्राप्तस्य यणादेशस्यायमपवादः। `कारणा, हारणा` इति। अत्र <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति प्राप्तस्य गुणस्य। `कारकः, हारकः` इति। अत्र <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धेः। `कार्यते, हार्यते` इति। अत्र `अकृत्सार्वधातुकयोः` [[7.4.25]] इति प्राप्तस्य दीर्घस्य। `ज्ञीप्सति` इति। <<अज्झनगमां सनि>> [[6.4.16]] इति प्राप्तस्य दीर्घस्यैव। जानातेर्णिचि `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्, `मारणतोषणनिशामनेषु ज्ञा` (धातुपाठः-811) इति घटादिपाठात्? `घटादयो मितः` (ग।सू।धातुपाठः-817) इति मित्संज्ञा, `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वत्वम्, <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यभ्यासलोपः। `कारयिता, हारयिता` इति। `अनिटि` इति वचनादिह न भवति। `अनिटि` इति शक्यमकर्तुम्। कथम्? <<निष्ठायां सेटि>> [[6.4.52]] इति नियमार्थं भविष्यति -निष्ठायामेव सेटि, नान्यत्रेति? अयुक्तमेतत्, विपरीतनियमोऽप्याशङ्क्येत -`सेटएव निष्ठायाम्` इति। तथा च सति `कारयिता` इत्यत्र स्यादेव णिलोपः। तस्माद्विपरीतनियमाशङ्कानिरासार्थं `अनिटि` इत्युक्तम्॥", "64052": "`गणितम्, लक्षितम्` इति। `गण संख्याने` (धातुपाठः-1853) `लक्ष दर्शनाङ्कनयोः` (धातुपाठः-1538)। `संज्ञपितः पशुः` इति। ननु चात्र यदि `सेटि` इति वचनादनेन न भवितव्यम्, तदा पूर्वसूत्रेण कस्मान्न भवति? इत्याह - `सेङ्ग्रहणसामर्थ्यात्` इत्यादि। यदि ह्रनिटि पूर्वेण णिलोपः स्यात्? सेङ्ग्रहणमनर्थकं स्यात्, `निष्ठायाम्` इत्येवं ब्राऊयात्, आरम्भसामर्थ्यादेव हि सेङर्थो भविष्यति। तस्मात्? सेङ्ग्रहणसामर्थ्यात्? पूर्वेणापि `संज्ञापितः पशुः` इत्यत्र णिलोपो न भवति। कथं पुनरत्र सेङ्? निष्ठा न भवति? इत्याह - `सनीवन्तर्ध` इत्यादि। `अथ` इत्यादि। अथ <<यस्य विभाषा>> [[7.2.15]] इत्यत्र `एकाच उपदेशेऽनुदात्तात्` [[7.2.10]] इत्यत्र एकाज्ग्रहणमनुवर्तते, ततोऽनेकाच्त्वाज्ज्ञपेः प्रतिषेधाभावाद्? भवितव्यमिडागमेन निष्ठायाम्। तस्मात्? सेङ्ग्रहणमनर्थकं स्यात्; व्यावर्त्त्याभावात्। ननु च `ज्ञप्तः` इत्यत्र मा भूदित्येवमर्थं सेङ्ग्रहणं भविष्यति? नैतदस्ति; क्रियमाणेऽपि सेङ्ग्रहणे <<वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः>> [[7.2.27]] इति निपातानादत्र भवितव्यमेव णिलोपेन। यदि तह्र्रनर्थकं सेङ्ग्रहणम्, तत्? किमर्थं क्रियते? इत्याह - `तत्? क्रियते` इत्यादि। पूर्वमिडागमे कृते सेटि निष्ठायां जातायां पश्चाण्णिलोपो यथा स्यादित्येवमर्थं सेङ्ग्रहणं कृतम्। कः पुनरकृत इटि णिलोपे सति दोषः स्यात्, यन्निवृत्त्यर्थं पूर्वमिडागम इष्यते? इत्याह - `अकृते हि` इत्यादि। असति सेङ्ग्रहणे कारित इति स्थिते णिलोपः प्राप्नोति, इट्? च्, तत्र कृताकृतप्रसङ्गित्वेन णिलोपेनैव भवितव्यम्; णिलोपे च सत्येकदेशविकृतसयानन्यत्वात्? स एवायं करोतिरिति `एकाच उपदेशेऽनुदात्तात्` [[7.2.10]] इतीट्प्रतिषेधः प्रसज्येत, ततश्च `कारितम्` इत्येतन्न सिद्ध्येत्। तस्मात्? सेङ्ग्रहणं कर्तव्यम्॥", "64053": "`इङादौ णिलोपो निपात्यते` इति। `जनिता` इति तृजन्तम्, तत्र `अनिटि` इति प्रतिषेधादिडादौ न न प्राप्नौति, अतो निपात्यते। ह्यसवत्वन्तु `जनीजृष्क्नसुरञ्जोऽमन्ताश्च` (ग।सू।धातुपाठः-817) इति मित्संज्ञकत्वात्? `मितां ह्रस्वः` [[6.4.92]] इत्यनेनैव सिद्धम्॥", "64054": "`शमितः` इत्यत्र पूर्धवद्? ह्रस्वत्वम्। <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः, हल्ङ्यादिना [[6.1.66]] सुलोपः, रेफस्य विसर्गः। `तृचि सम्बुद्ध्यन्तमेतत्` इति। निष्ठान्तमेतदिति कस्यचिदाशङ्का स्यात्, अतस्तां निराकर्तुमिदमुक्तम्। `शमयितः` इत्येतदपि तृचि सम्बुद्ध्यन्तम्॥", "64055": "`कारयाञ्चकार` इति। `कास्प्रत्ययात्` [[3.1.35]] इत्यादिनाम्, `आमः` [[2.4.81]] इति लेर्लुक्, `कृञ्च` [[3.1.40]] इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः द्विर्वचनमब्यासकार्यम्। `गण्डयन्तः, मण्डयन्तः` इति। `गडि सेचने` (धातुपाठः-777) [`गड` धातुपाठः-(गडि वदनैकदेशे -धा।65,361)] `मडि भूषायाम्` (धातुपाठः-321), हेतुमण्णिच्, गडेर्घटादित्वाम्मित्त्वे सति पूर्ववद्? ह्रस्वत्वम्। `जृवृषिब्यां झच्` (द।उ।6।17)[`जृविशिभ्यां -द।उ।] इत्यनुवर्तमाने `तृभूवहिवसभासिसाधिगमिमण्डिजिनन्दिभ्यश्च` (द।उ।6।19) [तृभूवहिवसिभासिसाधिगडिमण्डिजिवन्दिभ्यश्च -द।उ।] इति झच्, अन्तादेशः। `स्पृहयालुः, गृहयालुः` इति। `स्पृह ईप्सायाम्` (धातुपाठः-1871) `गृह ग्रहणे` (धातुपाठः-1899) चौरादिकावदन्तौ, <<अतो लोपः>> [[6.4.48]] इत्यकरलोपः, तस्य स्थानिवत्त्वाल्लधूपधगुणाभावः, `स्पृहि गृहि` [[3.2.158]] इत्यादिनाऽऽलुच्। `स्पृहयाय्यः` इति। `तनुदक्षिस्पृहिगृहिभ्य [श्रुदक्षिस्पृहिगृहिभ्य आय्यः -पं।उ।] आय्यः` (पंउ।3।96) इति आय्यप्रत्ययः। `स्तनयित्नुः` इति। `स्तत गदी देवशब्दे` (धातुपाठः-1859,1860) चुरादावदन्तः, <<अतो लोपः>> [[6.4.48]] । तत्रकारलोपस्य स्थानिवद्भावात्? <<अत उपधायाः>> [[7.2.116]] इति वृद्धिर्न भवति। `स्तनिह्मषिपुषिगदिमदिभ्यो णेरित्नुच्` [स्तनिह्मषिपुषिगदिमदिधुषिगन्धिमडिजनिनदिभ्यो णेरित्नुच् -द।उ।] (द।उ।1।140) इतीलुष्प्रत्ययः। `पोषयिष्णवः, पारयिष्णवः` इति। `पुष पुष्टौ` (धा।प।700) हेतुमाण्णिच्, `पार तीर कर्मसमाप्तौ` (धातुपाठः-1911,1912), चुरादिणिच्, <<णेश्छन्दसि>> [[3.2.137]] इतीष्णुच्। अथ `न` इत्येवं कस्मान्नोक्तम्, णिलोपे हि प्रतिषिद्धे गुण एव स्यात्, तत्र <<एचोऽयवायावः>> [[6.1.78]] इत्ययादेशो भविष्यति; लधु चैवं सूत्रं भवति, `अय` इत्युच्यमाने मात्राधिक्येन सूत्रं गुरु भवतीति मत्वाऽऽह -`न इतिवक्तव्ये` इत्यादि। `ल्यपि लघुपूर्वात्` [[6.4.56]] इत्यत्र गुणाभावादयादेशो न स्याद्यदि नेत्युच्यते। तस्मादुत्तरार्थमयादेशवचनम्॥", "64056": "`लधूपूर्वात्` इति। लघुः पूर्वो यस्मादिति बहुव्रीहिः। वर्णोऽन्यपदार्थः। `प्रणमप्य, प्रतमय्य, प्रदमय्य, प्रशमय्य` इति। अत्र नमादीनां मित्त्वात्? पूर्ववद्? ह्रस्वत्वे कृते मकारो लघूपूर्वः। `प्रवेभिदय्य गतः` इति। भिदेर्यङन्ताण्णिच्। <<यस्य हलः>> [[6.4.49]] इति यकालोपः। अत्रापि दकारो लघूपूर्वः। `प्रगणय्य` इति। `गण संख्याने` (धातुपाठः-1853), चुरादावन्तः पूर्धवदल्लोपः। अत्रापि णकारो लघूपूर्वः। ननु ह्रस्वादय एवा भाच्छास्त्रीयाः, अयादेशोऽपि; तत्र `असिद्धवदत्रा भात्` [[6.4.22]] इति ह्लस्वादीनामसिद्धत्वाल्लधुपूर्वत्वं मकारादेर्वर्णस्य नोपपद्यते? इत्यत आह -`ह्रस्वयलोपाल्लोपानाम्` इत्यादि। कथमसमानाश्रयत्वम्? इत्याह -`ह्रस्वादयो हि` इत्यादि। अथ पूर्वग्रहणं किमर्थम्, न लघोरित्येवोच्येत? अशक्यमेवं वक्तुम्; एवमुच्यमाने लघोरुत्तरस्य णेर्ल्यप्ययादेशो भवतीत्येष वाक्यार्थः। तथा च `प्रतमय्य` इत्यादौ न स्यात्, हला व्यवधानात्। क्व तरहि स्यात्? `प्रगणय्य` इत्यादौ। ननु चात्राप्यतो लोपे कृते लघोरुत्तरो णिनं सम्भवत्येव, तत्र वचनसामर्थ्याद्ध्यवधानमाश्रयिष्यते? नैतदेवम्; वचनसामर्थ्याद्भूतपूर्वगतिराश्रायिष्यते। कृत एतल्लभ्यते -वचनसामर्थ्याद्ध्यवधानमाश्रयितव्यम्, न तु भूतपूर्वगतिरिति? भूतपूर्वगतावाश्रीयमाणायां `प्रगणय्य` इत्यादादेव स्यात्, `प्रणमय्य गतः` इत्यादौ तु न स्यात्। तस्मात्? पूर्वग्रहणं कर्तव्यम्॥", "64057": "`प्रापय्य` इति। `आप्लृ लम्भने` (धा।प।1839), `आप्लृ व्याप्तौ` (धातुपाठः-1260) द्वयोरपि ग्रहणम्। पूर्धकश्चुरादिः, अपरः स्वादिः। अथ `अध्याप्य गतः` इत्यतर कस्मान्न भवति, अत्रापि <<क्रीङ्जीनां णौ>> [[6.1.48]] इतीङ आत्त्वे कृते `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्याप उत्तरो णिर्भवति? इत्यत आह -`इङादेशस्य` इत्यादि। यद्येवम्, `अप आचष्टे` इत्यप्शब्दाण्णिचि कृते `प्रापय्य` इत्यादि न स्यात्, लाक्षणिकत्वादेव मा भूदनेन, पूर्वेण सूत्रेण भविष्यति, ननु चैकादेशे कृते सत्यलघुपूर्वत्वान्न प्राप्नोति? एकादेशस्यासिद्धत्वान्न दोषः। कथम्? `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।पा।42) इति बहिरङ्गत्वन्त्वेकादेशस्य द्विपदाश्रयत्वात्। अयादेशस्य पुनर्णिमात्राश्रयत्वादन्तरङ्गत्वम्॥", "64058": "`यु मिश्रणे` (धातुपाठः-1033) [मिश्रणेऽमिश्रणे च -धातुपाठः-] `प्लुङः गतौ` (धातुपाठः-958) अनयोर्धात्वोस्तुकि प्राप्ते दीर्घाथं वचनम्॥", "64059": "`छन्दसि` इति निवृत्तम्। `क्षियः` इति `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति `क्षि क्षये` (धातुपाठः-236) `क्षि निवासगत्योः` (धातुपाठः-1407) इत्यनयोग्र्रहणम्, न `क्षिष्? हिंसायाम्` (धातुपाठः-1506) [`क्षीष्` -धातुपाठः-] इत्यस्य॥", "64060": "`ष्यतः कृत्यस्यार्थो भावकर्मणी` इति। तयोरेव कृत्यक्तखलर्थाः` [[3.4.70]] इति वचनात्। `ताभ्यामन्यत्र` इति। कर्तर्यधिकरणे च। `आक्षीणः` इति। `क्षियो दीर्घात्` [[8.2.46]] इति निष्ठानत्वम्। `अकरमकात्? क्षियः कर्तरि क्तप्रत्ययोऽयम्` इति। `गत्यर्थ` [[3.4.72]] इत्यादिना। `प्रक्षीणमिदं देवदत्तस्य` इति। <<अधिकरणवाचिनश्च>> [[2.3.68]] इति कर्तरि षष्ठी। `अधिकरणे` इति। क्तप्रत्ययोऽयमिति प्रकृतेन सम्बन्धः। प्रक्षीयतेस्मिन्निति प्रक्षीणम् - अधिकरणभूतं द्रव्यमुच्यते। `क्षितमिति भावे` इति। अस्यापि पूर्ववत्सम्बन्धः। कर्मणि न प्रत्युदाहरति; क्षियोऽकर्मकत्वात्॥", "64061": "`क्षितायुः` इति। पूर्ववत्? कर्तरि क्तः। एवमुतरत्रापि। `क्षितकः` इति। अनुकम्पायां कन्। आकोशदैन्याभ्यामन्यत्र पूर्वेण नित्यं भवति। अण्यदर्थ इति किम्? क्षितं जाल्मस्य, क्षितकमस्य तपस्विनः॥", "64062": "`स्यसिच्सीयुट्तासिषु` इति सप्तम्या प्रतियोगिनो निर्देशाच्चिणीव चिण्वदिति सप्तमीसमर्थाद्वतिर्विज्ञायते, यथा -मथुरावत्? पाटलिपुत्रे प्रकार इति। `भावकर्मविषयेषु` इति। अनेन `भावकर्मणोः इत्यस्य विषयसप्तमीत्वं दर्शयति। भावकर्मणी विषयौ येषान्ते तथोक्ताः के पुनः स्यादयो भावकर्मविषयाः? ये स्यादयो लादेशेन भावकर्मणोर्विवक्षितयोर्भवतन्ति। चकारोऽत्र सन्नियोगार्थः क्रियते। तेन यदा चिण्वद्भावो इत्यादि। `कस्य` इति। षष्ठीनिर्दिष्टस्य ह्रागमा भवन्ति, स्यादयश्चेह सप्तम्या निर्दिष्टाः; न चान्य आगमीश्रूयत इति प्रश्नः। यद्यपि ते सप्तम्या निर्दिष्टाः, न चान्य आगमी श्रूयत इति प्रश्नः। यद्यपि ते सप्तम्या निर्दिष्टाः, तथापि यथा <<हनश्च वधः>> [[3.3.76]] इति पञ्चमी निर्दिष्टोऽपि हन्तिः प्रत्ययमुत्पाद्यदेशेन सम्बन्धमनुभवन्? षष्ठन्ततां प्रतिपद्यते तथा स्यादयोऽपि यदागमेन सम्बन्धमनुभवन्ति तदा षष्ठन्ततां प्रतिपद्यन्त इत्यभिप्रायेणाह -`स्यसिच्` इत्यादि। अत्रैव हेतमाह -`ते हि प्रकृताः` इत्यादि। इडयमागमलिङ्गः, तस्यावश्यमागमिना भवितव्यम्, तत्? किमश्रुतानामागमित्वं परिकल्प्य, तस्यैव विधीयतामुत प्रकृतानामेव स्यादीनाम#इति? युक्तं यत्? प्रकृतानामेव विधीयते; अश्रुतप्रकल्पनाया गरीयस्त्वात्। ननु चाङ्गमपि प्रकृतम्, तस्य कस्मान्न क्रियते? इत्यत आह -`अङ्गस्य` इत्यादि। अङ्गस्य न क्रियते, लक्ष्यविरोधात्। यद्यङ्गस्य स्यात्, तदेटि कृते लक्ष्यावरधादनिष्टं स्यात्। न ह्रनण्टार्था शास्त्रे प्रकॢप्तिरयुक्ता। तस्मान्मा भूल्लक्ष्यविरोध इति यद्यप्यङ्गमपि प्रकृतम्, तथापि स्यादीनामेव क्रियते, नाङ्गस्य। इह द्वौ पक्षौ सम्भवतः -चिण्निमित्तं यत्कार्यं, यदाहत्य चिणि विधीयते तद्वातिदिश्यते। यद्वा चिणियद्दृष्टं चिण्णिमत्तमचिण्णिमित्त्ञ्च तत्? सामान्येन। तत्र यदि पर्वकः पक्ष आश्रीयेत, तदा `आतो युक्? चिण्कृतोः` [[7.3.33]] इति युगागमः। `विण्णमुलोर्दोर्घोऽन्यतरस्याम्` [[6.4.93]] इति दीर्घत्वञ्च -एते द्वे एवाङ्गकार्येऽतिविश्ये स्याताम्। नान्यात्? वृद्ध्यादिकम्, न हि तदाहत्य चिणि विधीयते। आहत्य=उच्चार्येत्यर्थः। यद्धि साक्षाच्चिणं निमित्तमुपादाय विधीयते तच्चिण्याहत्य विधीयते, न चैवं वृद्ध्यादिकं विधीयते। अथ द्वितीयस्ततो न भवत्येष दोषप्रसङ्गः; वृद्ध्यादीनामपि चिणि दृष्टत्वात्। यदि चिणि यद्दृष्टं तदतिदिश्यते, तर्हि हनिणिङामादेशा अपि प्राप्नुवन्ति, तेषामपि तत्र दृष्टत्वादिति? अनेनाभिप्रायेणाह -`कानि पुनः` इत्यादि। द्वितीये पक्षे यो दोषस्तमुत्तरत्र परिहरिष्यामीति चेतसि कृत्वा चिणि यद्दृष्टं कार्यं तन्निमित्तमितरद्वा तदिह सामान्येन निर्दिश्यत इति दर्शयन्नस्य योगस्य यानि प्रयोजनानि तेषां संग्रहश्लोकसमाह -`वृद्धिश्चिण्वत्` इत्यादि। `चायिष्यते` इत्यत्र वृद्धिः प्रयोजनम्। चिनोतेर्लुट्, स्यप्रगतययः। <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्, अत्रेदानीं चिण्वद्भावाद्? वृद्धिर्भवति यथा -चिणि <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिर्भवत्य चायीति, एवमुत्तरत्रापि चिण्वदित्येतस्य प्रत्येकमभिसम्बन्धं कृत्वा यथायोगमतिदेशो योजनीयः। `अचायिष्यते` इति। लुङः, शेषं पूर्ववत्। युक्? च प्रयोजनम् -`दायिष्यते` इत्यत्र। दीर्घश्चोक्तो यो मितां वा चिणोति स च। प्रयोजनं शमिष्यते, शामिष्यत इत्यत्र। शमेः `जनिजृष्क्नसुरञ्जोऽमन्ताश्च` (धातुपाठः-817) इति मित्संज्ञा, स च ण्यन्तः <<सनाद्यन्ता धातवः>> [[3.1.32]] इत्यत्रोपदिष्ट इत्युपदेशेऽजन्तो भवति। यत्तु हन्तेः `हो हन्तेञ्चिन्नेषु` [[7.3.54]] इति कुत्वं विधास्यते, तच्च प्रयोजनं `घानिष्यते` इत्यत्र। हनिष्यत इत्यत्र तु <<ऋद्धनोः स्ये>> [[7.2.70]] इतीट्। सन्त्येतानि प्रयोजनानि, किन्त्वनेनेटि कृते शमिष्यते, शमिष्यत इत्यत्र <<णेरनिटि>> [[6.4.51]] इति णिलोपो न सिद्ध्यतिः सेट्त्वात्। अत आह -`इट्? चासिद्धः` इत्यादि। `असिद्धवदत्रा भात्` [[6.4.22]] इत्यसिद्धेऽयं चिण्वदिट्, तेन णिलोपो भविष्यति। स्यादेतत् -येऽनुदात्तोपदेशाश्चिनोत्यादयस्तेभ्यः परेषां स्यादीनामनेनेङ्विधीयत इति युक्तमसिद्धत्वम्, ये तूदात्तोपदेशाः शमिप्रभृतयस्तेम्यः परत्वात्? `आर्धधातुकस्येङ्वलादेः` [[7.2.35]] इति वल्निमित्तेनेटा भवितव्यम्, स च सिद्ध एव; तस्मस्तु तदवस्थ एव दोषः? इत्यत आह -`नित्यश्चायम्` इत्यादि। कृताकृतप्रसङ्गी यो विधिः स नित्यः -इत्येतदाश्रित्यायं चिण्वदिण्नित्यः। कृतेऽपि हि वलादित्वस्य विहितत्वात्। `वल्निमित्तो विधाती` इति। वल्? निमित्तं कारणं यस्य स तथोक्तः। विघातोऽस्यास्तीति विघाती। विघातः=निमित्ताभावादप्रवृत्तिः। तदेवं नित्यत्वादुदात्तेभ्योऽप्यनेनैव चिण्वदिटा भवितव्यम्, अयञ्चासिद्ध इति न भवति णिलोपाभावप्रसङ्गः। `ग्राहिष्यते` इति। <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः प्रयोजनम्। अथेह <<ग्रहोऽलिटि दीर्घः>> [[7.2.37]] इति दीर्घः कस्मान्न भवति? इत्याह -`ग्रहोऽलिटि` इत्यादि। वलादिलक्षणस्तत्रेट्? प्रकृत इति तस्यैव दीर्घो विज्ञायते, नान्यस्य। `द्रक्ष्यते` इति। `सृजिदृशोर्झल्यमकिति [[6.1.57]] इत्यमागमः, व्रश्चादिना [[8.2.36]] षत्वम्? `षङोः कः सि` [[8.2.41]] इति कत्वम्? `इण्कोः [[8.3.57]] इति षत्वम्। `दर्शिष्यते` इति। `पुगन्तलघूपधस्य` [[7.3.86]] इत्यनेनात्र गुणः सिद्ध्यत्येव। इडर्थस्तु चिण्वद्भावो विधीयते। `अचेषाताम्` इति। आताम्, सिचि रूपम्। `अदिषाताम्` इति। `स्थाध्वोरिच्च` [[1.2.17]] इतीत्त्वम्, सिचश्च कित्वम्। `अवधिषाताम्` इति। <<आत्मनेपदेष्वन्यतरस्याम्>> [[3.1.54]] इति वधादेशः। `अदृक्षाताम्` इति। `लिङसिचावात्मनेपदेषु` [[1.2.11]] इति कित्त्वम्। तेनामागमगुणौ न भवतः, षत्वादि पूर्ववत्। `चेता` इति। लुट्, तासिः, <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति डादेशः, टिलोपः। `द्रष्टा` इति। पूर्ववदमादिः। `चेतव्यम्` इति। कर्मणि तव्यः। `चेष्यति` इति। अत्र कर्तुर्लादेशेन विवक्षित्वात्? कर्तृविषयः स्यप्रत्ययः। `गुणे कृते रपरत्वे च न प्राप्नोति` इति। कृ ष्यत इति स्थिते गुणः प्राप्नोति, चिण्वद्भावश्च; तत्र परत्वाद्गुणः, तत्र कृते रपरत्वम्। यद्युपदेशग्रहणं न क्रियेत ततोऽनजन्तत्वादिह न स्यात्। उपदेशग्रहणाद्भवति। यद्यपि करोतिरुत्तरकालमनजन्तः, उपदेशे त्वजन्त एव। यदि चिणि यद्दृष्टं कार्यं तदतिदिष्टं हनिणिङादेशा अपि प्राप्नुवन्ति। तेषामपि तन्न दृष्टत्वात्? इत्यत आह -`अङ्गाधिकारविहितम्` इत्यादि। `अङ्गस्य` इत्यधिकारे सति प्रत्यसत्तेरङ्गाधिकारे विहितं कार्यं यच्चिणि दृश्यते सामान्येन तदतिदिश्यते, न तु यद्विप्रकृष्टं प्रकरणान्तरविहितम्। न च हनिणिङामादेशा अङ्गाधिकारे विहिताः, अपि तु प्रकरणान्तरे। तस्मान् तेऽतिदिश्यन्त इति न भवन्ति तत्र। `धानिष्यते` इत्यत्र `लुङि च` [[2.4.43]] इत्यनेन विहितो वधादेशो न भवति। `आयिष्यते` इति। <<इणो गा लुङि>> [[2.4.45]] इत्यनेन विहितो गादेशः। `अध्यायिष्यते` इति। अत्र <<विभाषा लुङ्लृङोः>> [[2.4.50]] इत्यनेन विहितौ गाङादेशः। एवमपि स्यादिभ्यः परस्य प्रत्ययस्य लुक्? प्राप्नोति; अङ्गाधिकारे चिण उत्तरसय प्रत्ययस्य `चिणोलुक्` [[6.4.104]] इति लुग्विधानात्? नैष दोषः; इह हि सप्तमीसमर्थाद्विहितस्य वतेराश्रयणम्। तेन चिणि यद्दृष्टं कार्यं पूर्वस्य सम्भवति तदतिदिश्यते, न तूत्तरस्य यत्? कार्यं तदपि॥", "64063": "`उपदिदीये` इति। `दीङ क्षये` (धातुपाठः-1134), `असंयोगाल्लिट्? कित्` [[1.2.5]] इति कित्त्वम्, लिटस्तझयोरेशिरेचौ। `दीङः` इति षष्टीयं वा स्यात्, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्यते; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह -`दीङ इति पञ्चमीनिर्देशात्` इत्यादि। पञ्चमीनिर्देशे हि सति `उभयनिर्देश पञ्चमनिर्देशो बलीयान्` (शाक।प।97) इति `दीङः` इति पञ्चम्याः `अचि` इति सम्पम्याः षष्ठीत्वे प्रकल्पते <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यजादेरादिर्युडागमो भवति। `अचि` इति सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र `एरनेकाचः` [[6.4.82]] इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्, ततश्चोपदिदीय इति न सिद्ध्येत्, `उपदिद्ये` इत्यनिष्टं रूपं प्राप्नोति, अत आह -`विधानसामर्थ्यात्` इत्यादि। यदि यणादेशे कर्तव्ये युटोऽसिद्धत्वं स्यात्, तदा युटो विधानमनर्थकं स्यात्; विशेषाभावात्। कथं पुनर्विशेषाभावः, यावताऽसति हि युटएकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्। `उपदेदीयते` इति। `दीङ क्षये` (धातुपाठः-1134), `असंयोगाल्लिट्? कित्` [[1.2.5]] इति कित्त्वम्, लिटस्तझयोरेशिरेचो।`दीङः` इति षष्टीयं वा स्यात्, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्येत; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह -`दीङ इति पञ्चमीनिर्देशात्` इत्यादि। पञ्चमीनिर्देशे हि सति `उभयनिर्देश पञ्चमीनिर्देशो बलीयान्` (शाक।प।97) इति `दीङः` इति पञ्चम्याः `अचि` इति सप्तम्याः षष्ठीत्वे प्रकल्पिते <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यजादेरादिर्युडागमो भवति। `अचि` इति। सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र `एरनेकाचः` [[6.4.82]] इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्, ततश्चोपदिदीय इति न सिद्ध्येत्, `उपदिद्ये` इत्यनिष्टं रूपं प्राप्नोति। अत आह -`विधानसामर्थ्यात्` इत्यादि। यदि यणादेशे कर्तव्ये पुटोऽसिद्धत्वं स्यात्, तदा युटो विधानमनर्थकं स्यात्; विशेषाभावात्। कथं पुनर्विशेषाभावः, यावताऽसति हि युटएकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य का हला श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्। `उपदेदीयते` इति। यङः। `उपदानम्` इति। ल्युट्, <<मीनातिमिनोतिदीङां ल्यपि च>> [[6.1.50]] इत्यात्त्वम्। `दीङ` इत्यनुबन्धनिर्देशो यङलुकि मा भूदित्येवमर्थः -देद्यतु, देद्युरिति। ननु चात्र `कास्प्रत्ययादाममन्त्रे` [[3.1.35]] इत्यामा भवितव्यम्, तेनाक्ङित्वादेव न भविष्यति? सत्यमेतत्; अमन्त्रे न भविष्यति, मन्त्रे तु स्यादेव; तत्रामोऽभावात्। अथ यङ्लुगन्तस्य मन्त्रे प्रयोगो न दृश्यते, तदा विस्पष्टार्थम्॥", "64064": "`इटजादावार्धधातुके क्ङिति च` इति। `अजादावार्धधातुके` इति प्रत्येकमभिसम्बध्यते -इटजादावार्धधातुके, क्ङिति चाजादावार्धधातुक इति। इङ्ग्रहणमक्ङिदर्थम्। `पपिथ` इति। पातेः विबतेर्वा लिट्, सिप्, `परस्मैपदानाम्` [[3.4.82]] इत्यादिना तस्य थल्? <<ऋतो भारद्वाजस्य>> [[7.2.63]] इति नियमादिट्। `गोदः` इति। <<आतोऽनुपसर्गे कः>> [[3.2.3]] । `व्यत्यरे, व्यत्यले` ति। `कर्तरि कर्मव्यतीहारे` [[1.3.14]] इत्यात्मनेपदम्? उत्तमपुरुषैकवचनम् -इट्, तस्य <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वम्। तत्रार्धधातुकत्वं नास्तीति न भवति लोपः। `ग्लायते` इति। भावे लकारः। `दासीय` इति। आशिषि लिङः, आत्मनेपदोत्तमैकवचनम्, तस्य `इटोऽत्` [[3.4.106]] इत्यदादेशः। अत्र सीयुटस्तद्भक्तत्वादिटोजादित्वं नास्तीति सत्यपयार्धधातुकाजादीत्वे लोपाभावः॥", "64065": "`क्ङिति` इत्युत्तरार्थमनुवर्तमानमपीह नाभिसम्बध्यते; यत क्ङित्त्वासम्भवात्। तकार उच्चारणार्थः; अनण्त्वादेव हि सवर्णग्रहणं न भविष्यति। असत्यपि वा जातिपक्षे सवर्णग्रहण आन्तरम्याद्दीर्घ एव भविष्यति; न ह्रस्वः। दीर्घोच्चारणमुत्तरार्थम्। इह तु गुणेन भवितव्यम्। न चात्र दीर्घस्य ह्रस्वस्य वा गुणे कृते कश्चिद्विविशेषोऽस्ति। `देयम्` इति। `अचो यत्` [[3.1.97]] ॥", "64066": "`दीयते` इति। कर्मणि लकारः। `देदीयते` इति। यङः। अथ मेति कस्येदं ग्रहणम्, किम्? `मेङ्? प्रणिदाने` (धातुपाठः-961) इत्यस्य भौवादिकस्य? उत्त `माङ्? माने` (धातुपाठः-1088) [`माने शब्दे च` - धातुपाठः-] इत्यस्य जौहोत्यादिकस्य? आहोस्वित्? `मा माने` (धातुपाठः-1062) इत्यस्यादादिकस्य? तत्र केचिदाहुः - `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इत्यादादिकस्य ग्रहणम्। अन्ये त्वाहुः - `लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्` (व्या।प।50) इत्यलुग्विकरणयोर्माङमेङोरिति। अपरे ब्राउवते - `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति त्रयाणामपीति; एतदेव वृत्तिकारस्याभिमतमिति लक्ष्यते। तथा हि - `पातेरिह ग्रहणं नास्ति, लुग्विकरणत्वात्` इति। ब्राउवता `पा रक्षणे (धातुपाठः-1056) इत्यस्य ग्रहणाभावः स्वयमेवोक्तः। यदि चात्रालुग्विकरणयोर्लुग्विकरणस्य वा ग्रहणमभिमतं स्यात्, तदपि प्रतिपादयेत्, न च प्रतिपादितम्, अतोऽवगम्यते - त्रयाणामापि ग्रहणमभिमतमिति। `गा` इति। `गाङ गतौ` (धातुपाठः-950) `के गै शब्दे` (धातुपाठः-916,917) एतौ भौवादिकौ; `गा स्तुतौ छन्दसि` (धातुपाठः-1106) [`छन्दसि` नास्ति - धापा।] इति जौहोत्यादिकः, <<इणो गा लुङि>> [[2.4.45]] इतीण#ओ गादेशः, `इण्वादिक इति वक्तव्यम्` (वा।167) इतीको गादेशः `गाङ्? लिटि` [[2.4.49]] , `विभाषा लुङ्लृङो [[2.4.50]] इति चेङो गाङादेशः - एषां पूर्ववत्? सर्वेषामविशेषेण ग्रहणम्। सत्यपि सर्वेषां ग्रहणे यस्य क्ङिदार्धधातुकपरं सम्भवति तस्यैवेत्त्वं भवति, नेतरस्य; निमित्ताभावात्। `गीयते, जेगीयते` इति। भौवादिकयोरुदाहरणे। `अध्यगीष्ट` इत्यादि। इङो गाङ्, गाङ्कुटादि [[1.2.1]] सूत्रेण सिचो ङित्त्वम्, <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः। अथ किमर्थं `जहाति` इति स्तिपा सिर्देशः क्रियते, न हेत्येवोच्येत? इत्यत आह - `जहातेः` इत्यादि। यदि हेति निर्देशः क्रियते, तदा जिहातेः `ओ हाङ गतौ` (धातुपाठः-1089) इत्यस्यापि स्यात्, जहातीति निर्देशे तु न भवति। अत्र हिनिर्देशे सात यस्यैतद्रूपं भवति तस्यैव ग्रहणेन भवितव्यम्। कस्य चैतद्रूपम्? `ओ हाक्? त्यागे` (धातुपाठः-1090) इत्यस्य, इतरसय `भृञामित्` [[7.4.76]] इत्यभ्यालस्येत्त्वे कृते जिहातीति रूपं भवतीति। कामं हागित्यपि निर्देशे न भवति जिहीतेः प्रसङ्गः, वैचित्र्यार्थस्तु न तथा निर्देशः कृतः। `अवसीयते` इति। `षोऽन्तकर्मणि` (धातुपाठः-1147)।`ददतुः` इत्यादि। ननु चात्र <<अतो लोपः>> [[6.4.48]] इत्यादिनाकारलोपो भविष्यति, तत्? किमेतन्निवृत्त्यर्थेन हलीत्यनेन? इत्यत आह - `आतो लोपाद्धि` इत्यादि। आतो लोपस्यावकाशः - ययतुः, ययुरिति, ईत्त्वस्यावकाशः - दीयते, धीयत इति; इहोभय प्राप्नोति - ददतुः ददुरिति। तत्र यदि हल्ग्रहणं न क्रियेत, तदा परत्वादीत्त्वं स्यात्। ननु सिद्धयोद्र्वयोर्विप्रतिषेध उपपद्यते, इह तु `असिद्धवदत्रा भात्` [[6.4.22]] इति द्वयोरप्यसिद्धत्वम्, तत्? कुतो विप्रतिषेधः, अस्मश्च सति परत्वादीत्त्वं स्यादिति न युक्तं वक्तुम्, तथा हि - <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्युक्तम्? अत आह - `एतदेव` इत्यादि। यद्यत्र विप्रतिषेधे कर्तव्येऽसिद्धत्वं स्यात्, हल्ग्रहणमनर्थकं स्यात्। भवत्वत्रेत्त्वम्, तस्यासिद्धत्वात <<अतो लोपः>> [[6.4.48]] भविष्यति, तत्? किं हल्ग्रहणेन? तदेतत्कथमर्थवद्भवति? यदि विप्रतिषेधे कर्तव्ये सिद्धत्वं स्यात्? नान्यथा॥", "64067": "`पूर्वेणेत्त्वे प्राप्त एत्वं विधीयते। `मेयात्` इति। `मा माने` (धातुपाठः-1062) इत्यस्येदम्दाहरणम्, न तु माङ् मेङोः, तयोह्र्रात्मनेपदित्वात्परस्मैपदं न सम्भवति। `गेयात्` इति। `कै गै` (धातुपाठः-916,917) इत्यस्योदाहरणम्, न तु गाङः; तस्य परस्मैपदासम्भवात्। नापीणिगिङादेशानाम्; तेषामपि लिङ्यसम्भवात्। इङादेशस्य तु पूर्वस्माच्च हेतोः॥", "64068": "`अन्यस्येति किं? `स्थेयात्` इति। यद्यन्यस्येति न क्रियेत, तदा पूर्वयागोऽन्येषु ध्वादिषु सावकाशः, अयमपि ग्लायादित्यादिषु; स्थेयादित्यत्रोभयप्राप्तौ परत्वादनेन विकल्पः स्यादित्यन्यग्रहणम्। यदि पूर्वयोगस्तिष्ठत्यर्थोऽप्यारभ्येत तदा तदर्थस्य तस्यारम्भसामर्थ्यात्? पूर्वेण नित्यमेत्त्वं भविष्यति, अन्यथां तदर्थस्य तस्यारम्भो निष्फलः स्यादिति शक्यमन्यग्रहणमकर्तुम्। तत्? क्रियते विस्पष्टार्थम्॥", "64069": "वेति निवृत्तम्; उत्तरसूत्रे पुनरन्यतस्यांग्रहणात्। `यदुक्तम्` इति। ईत्त्वम्, न पुनरनन्तरमेत्त्वम्; तस्य ल्यपि प्राप्त्यभावात्। प्रतिषेधस्य च प्राप्तिपूर्वकत्वात्॥", "64070": "<<न ल्यपि>> [[6.4.69]] इति प्रतिषेधादाकारस्य श्रवणे प्राप्ते सतीत्त्वमारभ्यते। `अपमित्य` इति। `मेङ्? प्रणिदाने` (धातुपाठः-961)। `उदीचां माङी व्यतीहारे` [[3.4.19]] इति क्त्वा, इत्त्वे कृते तुक्। ननु च <<अपमित्ययाचिताभ्यां कक्कनौ>> [[4.4.21]] इति निपातनात्? सिद्धमेतत्? तदपार्थकोऽयमारम्भः? नैतदस्ति; `चाधकान्यपि निपातनानि भवन्ति` (नी।प।वृ।109) इति पक्षे अपमायेति न स्यात्। `माङ्? माने` (धातुपाठः-1088) [`माने शब्दे च` - धातुपाठः-] इत्यस्य भविष्यतीति चेत्? न; अर्थभेदात्। अथापि `अबाधकान्यपि निपातनानि` (नौ।प।वृ।110) स्युः? एवमप्यारब्धव्यमेवेदमसन्देहार्थम्? असति ह्रस्मिन्? सन्देहः स्यात् - किं मयतेरिदं निपातनम्, अथ धात्वन्तरस्येति। उपसर्गनियमश्च विज्ञायेत - अपपूर्वस्यैवेति। अस्मस्तु सत्यन्योपसर्गस्यापि भवतीत्येतदर्थो युक्त आरम्भः॥", "64071": "`उदात्तश्च स भवति` इति। आगमानुदात्तत्वे प्राप्त उदात्तत्वं विधीयते। एतच्चोदात्तवचनम्? अभेदका इह शास्त्रे गुणाः` (पु।प।वृ।57) इत्यस्यार्थस्य ज्ञापकम्। कथं कृत्वा? यदि च भेदका गुणाः स्युः, तदोदात्तयुक्तेनैवाटं समुच्चारयेत्। पश्यत्वाचार्यः -`अभेदका इह शास्त्रे गुणाः` इति, यतः स्वरान्तरनिवृत्त्यर्थमुदात्तवचनं कृतवान्। किमेतस्य ज्ञापनेन प्रयोजनम्? <<वृद्धिरादैच्>> [[1.1.1]] इत्यत्रोदात्तादिभेदभिन्नानामपि वृद्धिसंज्ञा सिध्यतीति॥", "64072": "`ऐक्षिष्ट, ऐहिष्ट` इति। `ईक्ष दर्शने` (धातुपाठः-610) `ईह चेष्टायाम्` (धातुपाठः-632) -अनुदात्तेतौ, `आटश्च` [[6.1.87]] इति वृद्धिः। `औब्जीत्? `औम्भीत्` इति। `उब्ज आर्जने` (धातुपाठः-1303), `उभ उन्भपूरणे` (धातुपाठः-1319,1320), `आर्धधातुकस्येट्` [[7.2.35]] , `अस्ति सिचोऽपृक्ते` [[7.3.96]] इतीट्? `इट ईटि` [[8.2.28]] इति सिचो लोपः। अथैज्यत, औप्यत, औह्रतेत्यत्र कथमाट्; यतो यजिवपिवहिभ्यो लङः विहितः कर्मणि, ते च हलादयः, नाजादयः। न च शक्यते वक्तुम् -सम्प्रसारणे कृतेऽजादित्वं भविष्यतीति। यस्मात्? प्रागेव लादेशात्? परत्वादडागमेन भवितव्यम्, ततो लादेशेन, ततो यका, ततः सम्प्रसारणेन? इत्यत आह -`इह` इत्यादि। यद्यप्यडागमः परः, तथाप्यन्तरङ्गत्वादादेशस्य पूर्व स एव क्रियते। लादेशो हि धातोर्विहितं लकारमात्रमपेक्ष्य भवतीत्यन्तरङ्गः। अडागमस्तु लकारविशेषम्; अङ्गस्य विधीयमानत्वात्। अङ्गञ्च प्रत्ययमपेक्षत इति बरिरङ्गः। पूर्वोत्पत्तिनियित्तोपलक्षणमात्रं चेहान्तरङ्गत्वम्, तेन नित्यत्वमप्युक्तं भवति। लादेशो हि नित्यः, कृतेऽप्यटि प्राप्नोति, अकृतेऽपि; अडागमस्त्वनित्यः, शब्दान्तरप्रप्तेः। कृते हि लादेशे नित्यत्वाद्विकरणेन भवितव्यम्। विकरणे च कृते विकरणान्तरस्याङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य। तस्मादन्तरङ्गत्वान्नित्यत्वाच्चाडागमात्पूर्वं लादेशः क्रियते। `तत्र कृते` इति। लादेशे कृते। `विकरणः` इति। यक्। `नित्यत्वात्` इति। कृताकृतप्रसङ्गित्वेन विकरणस्य नित्यत्वम्। स हि कृतेऽप्यटि प्राप्नोति, अकृतेऽपि। स्यादेतत् -अडागमोऽपि कृते विकरणे प्राप्नोति अकृतेऽपि, अतस्तस्यापि नित्यत्वम्, तत्रोभयोर्नित्यत्वे परत्वादडागम एव पूर्वं भविष्यति? इत्यत आह -`शब्दान्तरप्राप्तिः` इत्यादि। कथं पुनः शब्दान्तरप्राप्तिः? इत्याह -`कृते हि` इत्यादि। अङ्गस्याडागमो विधीयते; कृते च विकरणे तदादिग्रहणस्य स्यादिति नुमर्थत्वाद्विकरणान्तमङ्गे भवति, अकृते तु धातुमात्रम्। अन्यच्च विकरणान्तादङ्गाद्धातुमात्रमङ्गम्, अतोऽन्यस्य कृते प्राप्नोति, अकृते त्वन्यस्य इति स्फुटैव शब्दान्तरप्राप्तिः, तत्रैतत्स्यात्। विकरणस्यापि शब्दान्तरप्राप्तेरेवानित्यत्वम्, तथा हि -तेनापि कृते सत्यडागमे तदादेर्धातोर्भवितव्यम्; अकृते धातुमात्रादित्यत आह -`शब्दान्तरस्य च` इत्यीदि। यद्यप्यटः कृताकृतयोरेवावस्थयोर्विकरमः शब्दान्तरात्? प्राप्नोति, तथापि न तस्यानित्यत्वमुपपद्यते, यस्मात्? `शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति` (व्या।प।100) इत्येषा हि शास्त्रव्यवस्था; न तु `शब्दान्तरात्? प्राप्नुवन्? विधिरनित्यः` इत्येषा। न च विकरणः कस्यचिच्छब्दस्यागम आदेशो वा विधीयते; यतः `शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यः` स्यात्। तथा हि -सार्वधातुके परे धातोः परः प्रत्ययो विधीयते, न तु तस्यागमः, आदेशो वेति कुतो विकरणस्यानित्यत्वम्। विकरणे तर्हि कृते सम्प्रसारणात्पूर्वमाडागमो भविष्यति? इत्यत आह -`विकरणे कृते सम्प्रसारणम्` इत्यादि। नित्यत्वन्तु सम्प्रसारणस्य पूर्ववत्; कृताकृतप्रसङ्गित्वात्। आडागमस्तु कृते सम्प्रसारणे प्राप्नोति, कृते हि सम्प्रसारणेऽजादित्वादाटा भवितव्यमित्यनित्योऽयमाडागमः॥", "64073": "`यतो विहितस्ततोऽन्यत्रापि भवति` इति। अपिशब्दात्? तत्रापि। `आवः` इति। गुणे रपरत्वपे च कृते तिपो हलङ्यादिना [[6.1.66]] लोपः, रेफस्य विसर्जनीयः। `तथा` इत्यादि। यथा `आवः` इति `मन्त्रे घसह्वर` [[2.4.80]] इत्यादिना लेर्लुकि कृते भवति, तथानगिति लेर्लुकि कृते नशेर्भवतीत्यर्थः। तत्र `नर्शर्वा` [[8.2.63]] इति कुत्वम्। `आयुनक्` इति। `युजिर्? योगे` (धातुपाठः-1444) रुधादित्वात्? श्नम्, <<चोः कुः>> [[8.2.30]] इति कुत्वम् - गकारः, तस्य चर्त्वम् - ककारः। `बहुलं छन्दस्यामाङ्योगेऽपि` [[6.4.75]] इति वक्ष्यति, तस्यैवायं प्रपञ्चः॥", "64074": "`अनन्तरस्य वा विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इत्याट एवायं प्रतिषेध इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह -`माङ्योगे लुङलङलृङक्षु परतो यदुक्तं तन्न भवति` इति। एतोनोभयोरप्यडाटोः प्रतिषेध इति दर्शयति। उभावपि तौ लृङ्लङ्लृङ्क्षूक्तौ। कथं पुनद्र्वयोरपि प्रतिषेधो लभ्यते? आटाप्यत्रानुवृत्तेः। न च तस्मिन्ननुवर्तमाने सत्यजादीनामष्यट्? प्राप्नोतीत्येष दोषः प्रसज्यते; मण्डूकपलुतिन्यायेनात्राटोऽनुवृत्तेः। योगविभागाद्वा, अयमटोऽपि प्रतिषेध इत्यवसीयते; यदि ह्राट एव प्रतिषेधोऽभिमतः स्यात्? तदा `आडजादीनां न माङ्योगे` इत्येकमेव योगं कुर्यात। अथ वा -`लुङ्लङ्लृङ्क्षु` [[6.4.71]] इत्येतावन्मात्रमनुवर्तते, तेन लुडादिषु यदुक्तं तस्य सर्वस्य प्रतिषेधो न विज्ञायते। न चैवमतिप्रसङ्ग; यतः प्रत्यागन्तेरस्मिन्नेव लुङलङ्लृङ्प्रकरणे यत्? कार्यं विहितं तस्यैव प्रतिषेधो लभ्यते, न सर्वस्य प्रकरणान्तरविहितस्य। अत्र तु प्रकरणेऽडाटावेव विहितौ, अतस्तयोरेव प्रतिषेधः। `मा भवान्? कार्षीत्` इति। `माङि लुङ`, [[3.3.175]] इति लुङः। `मा स्म करोत्` इति। `स्मोत्तरे लङः च` [[3.3.176]] इति लङः। `माङ्` इति ङ्कारानुबन्धवत उपादानम् -अस्मादादेशी यो माशब्दस्तस्य ग्रहणं मा भूदित्येवमर्थम्; अन्यथा `भवान्? सुखिनं मात्राकार्षींत्` इत्यत्रापि प्रतिषेधः स्यादिति केचित्। लाक्षणिकत्वादेवास्मदादेशस्याग्रहणमित्ययुक्तमेतत्। निपात एव त्वनयोऽङिन्माशब्दोऽस्ति -`मा बालिपथमन्वगाः`। `मा भवतु तस्य पापम्` इति तु यस्य प्रयोगस्तद्योगे प्रतिषेधो मा भूदित्येवमर्थं ङिद्विशिष्टस्य ग्रहणम्। योगग्रहणन्तु -योगमात्रे प्रतिषेधो यथा स्यादिति, तेन व्यवहितेऽपि भवति॥`अमाङ्योगेऽपि न भवतः` इत्यादिना माङ्योगेऽपीत्यस्यार्थमाचष्टे। अत्र च वाक्यद्वयेऽपि `बहुलं छन्दसि` इत्येतत्सम्बध्यते। `बहुलं छन्दसि` इत्येतावतैव सिद्धेऽमाङ्योगेऽपीति वचनं विस्पष्टार्थम्। अनुच्यमाने ह्रेस्मिन्? माङ्योगसय प्रकृतत्वात्? तत्रैव छन्दसि बहुलमडाटौ न भवत इत्याशंक्येत। `जनिष्ठाः` इति। जनेर्लुङ्, थास, इट्, षत्वम्? ष्टुत्वञ्च। `ऊनयीत्, अर्दयीत्` इति। `ऊन परिहाणे` (धातुपाठः-1888) `अद्र्द हिंसायाम्` (धातुपाठः-1828) चुरादी। `ह्रन्तक्षण` [[7.2.5]] इत्यादिना वृद्धिप्रतिषेधः। `इट ईटि` [[8.2.28]] इति सिचो लोपः, गुणायादेशौ। `अवाप्सुः` इति। `आप्लु व्याप्तौ` (धातुपाठः-1260) अवपूर्वः। `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुसादेशः। `मा अभित्थाः` इति। भिदेस्थास्, <<झलो झलि>> [[8.2.26]] इति सिचो लोपः। `माऽऽवः` इति। पूर्वमेव व्युत्पादितम्॥", "64075": "", "64076": "`दध्रे` इति। दधातेर्लिट्, `लिटस्थझयोरेशिरेच्` [[3.4.81]] इतोरेच्। तस्यानेन रयादेशः <<अतो लोपः>> [[6.4.48]] इत्याकारलोपः। `परिददृश्रे` इति। दृशः परिपूर्याल्लिडादिरातोलोपदर्ज विधेयः। अथ `दध्रे इत्यत्र कथमातो लोपः? यावता `दवा+हरे` इति स्थित आकारलोपः प्राप्नोति? रेभावश्च, तत्र परत्वाद्रेभावः; तस्मिन्? कृतेऽनजादित्वादाकारलोपो न प्राप्नोति? अत आह -`धाञो रेभावस्यासिद्धत्वात्` इत्यादि असिद्धत्वन्तु `सिद्धवदत्रा भात्` [[6.4.22]] इत्यनेन। `चक्रिरे` इति। कृञो रूपम्। ननु च रेभावे कृते दृशिप्रभृतयो ये लिटि सेटो धातवः, क्रादिमियमात्? तेभ्यो र इत्यस्येटि कृते ददृश्रे इति रूपं न सिद्धयेत्? ददृशिर इत्यादिना रूपेण भवितव्यम्, न च शक्यते वक्तुम् -रेभावविधानसामर्थ्यादिङ् न भविष्यति; रेभावस्थ क्रादिषु चारितार्थत्वात्? तेब्यो हि परस्य लिटः `कृसृ` [[7.2.13]] इत्यादिनेट्प्रतिषेधः? इत्यत आह -`अत्र` इत्यादि। कथं पुना रेभावो लभ्यते? इत्याह -`तदर्थञ्च` इत्यादि। इटि कृते पुना रेभावो यता स्यादित्येवमर्थमिरेश्च इरेश्चेत्येकशेषं कृत्वेरयोरिति द्विवचनेन निर्देशः। तेन यश्च झस्थान इरेच्? शब्दः क्रियते, यश्चेरे इत्यस्येटि कृते सत्युत्तरकालमिरेशब्दः सम्पद्यते, तयोरपि रेभावः सिद्धो भवति॥", "64077": "`आर्धधातुके` इति निवृत्तम्। कुतः? <<समः क्ष्णुवः>> [[1.3.65]] , `क्षियः [[6.4.59]] इति निर्देशात्। ह्रस्वयोरिवर्णोयोरिदं ग्रहणम्। कु एतत्? तत एव निर्देशात्। अत्राण्? गृह्रमाणः सवर्णान्? ग्राहयतीति ह्रस्वौ गृहयमाणौ दीर्घावपि ग्राहयतः, तेन तदन्तस्यापि भवतः। `अचि` इति वर्णग्रहणम्? तत्र `यस्मिन्विधिस्तदादावलगरहणे` (व्या।प।127) इत्यजादौ विज्ञायत इत्याह -`अजादौ प्रत्यये` इति। प्रत्यय इत्येतत्? कृतो लभ्यते, अङ्गधिकारात्। अङ्गाधिकारो ह्रस्ति, प्रत्यसन्निधापितत्वात्। प्रत्यये हि परतोऽङ्गसंज्ञा विधीयते। यद्यजदौ प्रत्यय इयङुवङौ भवतः, नियौ, लुवौ -इत्यतर न प्राप्नुतः। अत्र ह्रजेव प्रत्ययः, न त्वजादिः? अत्रापि व्यपदेशिवद्भावे, नाजादित्वमस्तीत्यदोषः। `इवर्णोवर्णान्तस्य` इति। धातोरेवेदं विशेषणम्, नेतरयोः; व्यभिचाराभावात्, असम्भवाच्च। इवर्णोवर्णान्तता चाङ्गस्य ताभ्यां विशेषणाल्लभ्यते। इयङुवङोङकारोऽन्तादेशार्थः। असति त्वस्मिन्ननेकाल्वात्? सर्वस्याङ्गस्य स्याताम्। ननु च `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इत्यन्तरेणापि ङ्कारमन्तवस्यैव भवतः? एवं तर्हि विस्पष्टार्थम्। `आप्नुवन्ति, राध्नुवन्ति` इति। `आप्लु व्याप्तौ` (धातुपाठः-1260), `राध साध संसिदौ` (धातुपाठः-1262,1263) स्वादित्वाच्श्नुः। शकारवतो ग्रहणं किमर्थम्? `दभाभ्यां नुः` (द।उ।य1।143) दानुः, भानुरित्यत्र मा भूत्। `चिक्षियतुः, चिक्षियुः` इति। त्रयाणामपि क्षिधातूनामन्यतमस्य रूपम्। `नियौ, नियः, `लुवौ, लुवः` इति। अत्र `क्विदन्ता धातूत्वं न जहति` (व्या।प।132) इति धातुत्वं वेदितव्यम्। तत्र नयतेः `सत्यूद्विष` [[3.2.61]] इत्यादिना क्विप्। लुनातेस्तु <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इत्यनेन।`इयङुवङ्भ्याम्` इत्यादि। गुणस्यावकाशः -चेतव्यम्, स्तोतव्यमित्यादि, इयङ्वङोः -चिक्षियतुः, चिक्षियुः, लुलुवतुः, लुलुवुरिति; इहोभयं प्राप्नोति -चयनम्, लवनमिति। विप्रतिषेधेन गुण एव भवति। वृद्धेरवकाशः -सखायौ, सखायः, गावौ, गाव इति; इयङुवङोः स एव; इहोभयं प्राप्नोति -चायकः, लावक इति। वृद्धिरेव भवति विप्रतिषेधेन। `इयङुवङ्प्रकरणे` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् -<<बहुलं छन्दसि>> [[7.4.78]] इत्यादेः सूत्राद्बहुलग्रहणमनुवर्तते। तेन तन्वदीनां छन्दसि विकल्पेनेयङुवङौ भविष्यतः। `तन्वम्` इति। यत्रोवङ् नास्ति, तत्रामि परपूर्वत्वमपि नास्ति; बहुलवचनादेव। `विध्वम्, विषुवम्` इति। सूधातोः क्विप्; `उपसर्गा सुनोति` [[8.3.65]] इत्यादिना षत्वम्। `स्वर्गः, सुवर्गः` इति। `सु` इत्येतस्मादर्गशब्दे परत उवङादेशः। योगश्चायं यणादेशापवादः॥", "64078": "`इयेष, उवोष` इति। `इषु इच्छायाम्` (धातुपाठः-1351) [`इष` -धातुपाठः-] `उष दाहे` (धातुपाठः-696) -आभ्यां लिट्? णल्। अत्र च द्विर्वचनं प्राप्नोति, <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणश्च, तत्र परत्वाद्गुणः -एष, ओष इति स्थिते <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थानिवद्भावादिषुषित्येतयोर्द्विर्वचनम्, तत इयङ्वङौ। ननु च तयोः कर्तव्ययोः `अचः परस्मिन्? पूर्वविधौ` [[1.1.57]] इति स्थानिवद्भावात्सवर्णता नास्ति? नैतदस्ति; यो ह्रनादिष्ठादचः पूर्वस्तस्य विधी कर्तव्ये स्थानिवद्भावेन भवितव्यम्, आदिष्टाच्चात्राचः पूर्व एषोऽभ्यासः, तत्? कुतेऽत्र स्थानिवद्भावः। `इयर्ति` इति। `ऋ गतो` (धातुपाठः-1098) जुहोत्यादित्वाच्छपः श्लुः, अभ्यासस्य `उरत्` [[7.4.66]] इत्यत्त्वम्, `अर्तिपिपर्त्त्योश्च` [[7.4.77]] इतीत्त्वम्, तत इयङादेशः।\t`ईयतुः, ईयुः` इति। `ऊवतुः उवुः` इति। `असंयोगाल्लिट्? कित्` [[1.2.5]] इति। कित्त्वाद्गुणाभावः, तेन सवर्णोऽज्न भवति।`इयाज` इति। `उवाप` इति। यजिवप्योः `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इति सम्प्रसारणम्॥", "64079": "`स्त्रियाः` इति। <<आण्नद्याः>> [[7.3.112]] , `जातेरस्त्रीविषयादयोपधात्` [[4.1.63]] इति निर्देशान्नेदं स्त्रीप्रत्ययानां ग्रहणम्, नापि स्त्र्यर्थवृत्तेः शब्दस्येति निश्चित्य स्त्रीशब्दस्यैव स्वरूपेण ग्रहणमिति दर्शयितुमाह -`स्त्री इत्येतस्य` इत्यादि। इतिकरणः स्त्रीशब्दस्य स्वरूपपदार्थता दर्शयति। अथ षष्ठीबहुवचने कस्मान्न भवतीत्याह -`स्त्रीणाम्` इत्यादि। परत्वात्? षष्ठीबहुवचने नुटा भवितव्यम्, तस्मश्च सत्यजादिः परः प्रत्ययो न भवतीतीयङ न प्रवर्तते। अथ किमर्थं पृथग्योगः क्रियते? न, `अचि श्नुधातुस्त्रीभ्रुवाम्` इत्येक एव योगः क्रियेतेति? अत आह -`प्रथग्योगकरणम्` इत्यादि। <<वाऽम्शसोः>> [[6.4.80]] इत्यत्र स्त्रीशब्दस्यैव विकल्पो यथा स्यात्, धातुभ्रुवोर्माभूदित्येवमर्थं पृथग्योगकरणम्॥", "64080": "", "64081": "अत्र पक्षद्वयं सम्भाव्यते -`इणः` इति प्रत्याहारग्रहणं स्यात्, धातुग्रहणं वा? तत्र `एरच्` [[3.3.56]] इति, <<ओरावश्यके>> [[3.1.125]] इति, `उरत्` [[7.4.66]] इत्यवमादिभ्यो निर्देशेभ्य एव नेदं प्रत्याहारग्रहणम्। अतः परिशेष्याद्धातुग्रहणमेवेदं विज्ञायते। णकारोच्चारणमिगिङोर्निवृत्त्यर्थम्। ये तु `इण्वदिकः` (वा।167) इति सामान्येनातिदेशमिच्छन्ति, तेषामिङ एव निवृत्त्यर्थम्। इकस्त्वधियन्तीति भवितव्यमेव यणा। अथ `नेणः` इत्येव कस्मान्नोक्तम्, इयङादेशेऽचि प्रतिषिद्धे सति <<इको यणचि>> [[6.1.77]] इति यण्? भविष्यति? सत्यमेतत्; उत्तरार्थन्तु यण्ग्रहणम्। `यन्ति` इत्यद्युदाहरणेष्वदादित्वाच्छपो लुक्। `आयन्` इति। लङ्? झोऽन्तादेशे संयोगान्तलोपः, असिद्धत्वादजादित्वादाट्। अथेह कस्मान्न भवति -अयनम्? आयक इति? अत आह -`इयङादेशापवादोऽयम्` इति। ननु यथेयङि प्राप्तोऽयमारभ्यते, तथा गुणवृद्ध्योरपि, तत्? कुत एतल्लभ्यते -अयमियङोऽपवादः, न गुणवृद्ध्योरित्याह -`मध्येऽपवादाः` इत्यादि। इतिकरणो हेतौ। यस्मात्? `मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्` (व्या।प।10), तस्मादियङ एव पूर्वस्य विधेरयमपवादः, न तु परयोर्गुणवृद्ध्योः यतश्चैतदेवं तेन गुणवृद्धिभ्यां तु परत्वाद्बाध्यते। अस्यावकाशः -यन्ति, यन्त्विति। `गुणवृद्ध्योः -चयनम्, चायक इति; अयनम्, आयक इत्यत्रोभयं प्राप्नोति। परत्वाद्यणं बाधित्वा गुणवृद्धी भवतः॥", "64082": "`तेन संयोगो विशेष्यते` इति। ननु चान्यपदार्थे गूणीभूतत्वादुपसर्जनमत्र संयोगः। नचोपसर्जनं विशेषणेन सम्बन्धमनुभवति। तथा हि शोभनो राजपुरुष इत्युक्ते पुरुषस्येव प्रधानस्य शोभनत्वेन योगो गम्यते, नोपसर्जनस्य राज्ञः; नैतदस्ति; धातोरित्यनुवृत्तिसामर्थ्यादुपसर्जनमपि संयोगविशेषणेन सम्बन्धमनुभविष्यति, अन्यथा धात्वानुवृत्तिरपार्थिका स्यात्। न त्विवर्णविशेषणार्थं धातुग्रहणमिहानुवृत्तं स्यात्? नैतदस्ति; यदधातोरिवर्णान्तं तस्य हि भवितव्यमेव यणादेशेन <<इको यणचि>> [[6.1.77]] इत्यनेनेन। `निन्यतु; निन्युः` इति। नयतोर्लिट्। इयङादेशे प्राप्ते यणादेशः। `उन्न्यौ उन्न्यः` इति। उन्नयतीति <<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इत्यादिना क्विप्। एवं `ग्रामण्यौ, ग्रामण्यः` इत्यत्रापि। `अग्रग्रामाभ्याञ्च` (वा) इति णत्वम्। `असंयोगपूर्वग्रहणम्` इत्यादि। यद्येरिति। नोच्येत, ततोऽसंयोगपूर्वङ्गस्य विशेषणं स्यात्, एवञ्च यवक्रियौ, यवक्रिय इत्यत्रापि स्यात्। भवति ह्रेतदंसयोगपूर्वमङ्गम्, तस्मात्? `एः` इत्युच्यते। असंयोगपूर्वग्रहणमिकारस्य विशेषणं यथा स्यादङ्गस्य मा भूदित्येवमर्थम्। ननु च `य्वोः` इति प्रकृतम्, तत्र यद्येरिति नोच्येत, तदोवर्णान्तस्यापि स्यात्; ततश्च लुलुवतुः, लुलुवुरिति न सिद्ध्येत्। तस्मादुवर्णान्तस्य मा भूदित्येवमर्थमेरिति स्यादित्यत आह -`लुलुवतुः, लुलुवुः` इत्यादि। इहैरोरित्युच्यमाने, अनेनैवोवर्णस्यापि सिद्धे सति <<ओः सुपि>> [[6.4.83]] इति नियमर्थं स्यात् -उवर्णान्तस्य यदि भवति तदा सुप्येव, नान्यत्रेति। ततश्चास्मादेव नियमात्? ल्लुलुवतुः, लुलुवुरिति सिद्ध्यतीति एरित्येतदुवर्णान्तनिवृत्त्यर्थं नोपपद्यते। तस्मात्? पूर्वोक्तमेवास्य प्रयोजनं युक्तम्। `यवक्रियौ यवक्रियः` इति। यवान्? क्रीणातीति <<अन्येभ्योऽपि दृश्यते>> [[3.2.178]] इति क्विप्। अत्रेकारस्य धात्ववयवसंयोगपूर्वत्वान्न भवति। `इहापि न स्यात्` इति। यदि धातुना संयोगो न विशिष्येतेति शेषः। क्वचिदिहापि यथा स्यादिति पाठः। तत्र प्रकृतत्वाद्यणादेश इति विज्ञायते। यदि धातुनासंयोगो न विशिष्येत, तदा धात्ववयवोऽधात्ववयवो वा संयोगः पूर्वो यस्माद्भवति तदन्तस्य न भवतीति विज्ञायते। ततश्चोन्न्यौ, उन्न्य इत्यत्रापि न स्यात्; संयोगपूर्वत्वादिवर्णस्य। धातुना संयोगे विशेषिते तु भवति। न ह्यत्रेवर्णो धात्ववयवसंयोगपूर्वः। तस्मादिहापि यथा स्यादिदि धातुना संयोगो विशिष्यतदे। `गतिकारकाभ्याम्` इत्यादि। अथ कथमिदं पुनरिष्यमाणमपि न भवति? पूर्वग्रहणात्। इह पूर्वग्रहणं न कर्त्त्यम्, `एरनेकाचोऽसंयोगात्` इत्येवोच्येत। तत्र, धात्ववयवसंयोगाद्य इवर्णः परो न भवति तदन्तस्याङ्गस्य यण्भवति -इत्येवं विज्ञायमाने सिद्ध्यत्येवेष्टमिति किं पूर्वग्रहणेन? तत्? क्रियते पूर्वाचार्यैः -यस्य विहितोऽयं यण्? तस्यैव कर्तव्यो नान्यस्येत्यस्यार्थस्य सूचनार्थम्। पूर्वाचार्याश्च क्विबन्तस्य गतिकारकपूर्वस्यैव कृतवन्तः, नान्यस्येति। तस्मादिहापि गतिकारकाभ्यामन्यपूर्वस्य न क्रियते। अथ वा `वाम्शसोः` [[6.4.80]] इत्यतो मण्डूकप्लुतिन्यायेन `वा इत्यनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन गतिकारकाभ्यामन्यपूर्वस्य न भविष्यतीति। अस्मश्च व्याख्याने पूर्वग्रहणं विस्पष्टार्थं वेदितव्यम्। `परमनियौ` इति। <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना समासः। अत्र परमशब्दो न गतिः, न च कारकमिति तत्? पूर्वस्य न भवति॥", "64083": "`खलप्वौ` इति। खलं पुनातीति <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्। `शतस्वौ` इति। अत्रापि शतं सूत्र इति <<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इत्यादिना क्विप्। `सकृल्ल्वौ` इति। `तोर्लि` [[8.4.59]] इति परसवर्णः। `कटप्रुवौ` इति। `प्रूङ्? गतौ` (धातुपाठः-957), [`प्रुङ्` -धातुपाठः-] `क्विब्? वचप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च` इति क्विप्, दीर्घत्वञ्च। `ओः` इति स्पष्टार्थम्। अनुकारान्तनिवृत्यर्थन्तु न युज्यते; `य्वोः इत्यनुवृत्तेः। इकारस्य च पूर्वेणैव सिद्धो यण् -उन्न्यौ; ग्रामण्याविति॥", "64084": "<<न भूसुधियोः>> [[6.4.85]] इति प्रतिषेधे प्राप्ते तदपवादोऽयमारभ्यते। `वर्षाभ्यौ` इति। वर्षाशब्दाद्भवतेः क्विप्। `पुनर्भ्वश्चेति वक्तव्यम्` इति। `नपुनर्भ्वित्येतस्याचि सुपि यणादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽत्रि क्रियते, स चानुक्तसमुच्चयार्थः। तेन पुनर्भ्वित्यस्यापि भविष्यतीति। `कारापूर्वस्यापीष्यते` इति। सोऽपि तत एव चकाराद्भवतीति वेदितव्यम्॥", "64085": "भ्रूग्रहणेन तदन्तस्य ग्रहणम्, न केवलस्य। केवलस्य ह्रेकाचो यणादेशप्रापत्यसम्भवादनर्थकं वचनं स्यात्। उवङादेशप्रतिषेधार्थत्वान्नानर्थकमिति चत्? न; एवं हि <<वर्षाभ्वश्च>> [[6.4.84]] इति यणादेशविधानमनर्थकं स्यात्, यदि ह्रयं यणादेशस्य प्रतिषेधः स्यात् -एवं हि तत्? सर्थकं भवति, नान्यथा? नैतदस्ति; उवङपरतिषेधार्थेऽपि ह्रस्मस्तन्नियमार्थं स्यात्। एवं तर्हि यणो यत्रानुवृत्तिस्तस्यैवायं प्रतिषेधो युज्यते। स चानेकाचो विहित इति केवलस्य ग्रहणं न प्राप्नोतीति युक्तमुक्तम् -भूग्रहणेन तदन्तस्य ग्रहणमिति। `प्रतिभुवौ, प्रतिभुवः` इति। `भुवः संज्ञान्तरयोः` [[3.2.179]] इति क्विप्। `सुधियौ` इति। शोभनं ध्यायतीति <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्, `ध्यायतेः सम्प्रसारणञ्च` (वा।292) इत्युपसंख्यानात्? सम्प्रसारणम्॥", "64086": "", "64087": "`यण्` [[6.4.81]] इति, `अनेकाचोऽसंयोगपूर्वस्य` [[6.4.82]] , `ओः` [[6.4.83]] इति चानुवर्तेते। ननु च `हुरित्येतत्? श्नुप्रत्ययान्तञ्चाङ्गमुकारान्ततां न व्यभिचरत्येव, तत्? किमर्थम्? `ओः` इतीहानुवर्तते? असंयोगपूर्वग्रहणमुकारस्य विशेषणं यथा स्यादित्येवमर्थम्; अन्यथा `हुश्नुवोरेवैतद्विशेषणं विज्ञायेत। ततश्च `तक्ष्णुवन्ति` इत्यादावेव प्रतिषेधो विज्ञायेत। `राध्नुवन्ति` इत्यादौ तु यणादेशः स्यादेव। जुहोतेरपि - `जुह्वति` इत्यत्र संयोगपूर्वत्वाद्यणादेशो न स्यात्। ननु च धातुग्रहणमनुवर्तते, तत्रैवं विज्ञास्यते - धात्ववयवः संयोगः पूर्वः `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति कृत्वा। अन्यथाप्यवयववचनं पूर्वशब्दमाश्रित्यैवं विज्ञायते - धात्ववयवः संयोगो यस्य पूर्वो न भवतीति? एवमपि राध्नुवन्तीत्यत्र यणादेशः स्यात्, न ह्यत्र श्नुप्रत्ययस्य धात्ववयवः संयोगपूर्वः। तस्मात्? `ओ` इत्येतदनुवर्तनीयम्, तद्विशेषणे हुश्नुवौ। तत्रासंयोगपूर्वग्रहणं श्नुप्रत्ययस्याववस्योकारस्य विशेषणं वेदितव्यम्, जुहोत्यवयवस्य; तस्याव्यभिचारात्। `श्नुप्रत्ययान्तस्यासंयोगपूर्वस्य` इति। व्यधिकरणे षष्ठ्यौ। श्नुप्रत्ययान्तस्याङ्गस्य योऽवयवोऽसंयोगपूर्व उकारः, तस्येत्यर्थः। `अनेकाचः` इत्येतज्जुहोतेः श्नुप्रत्ययान्तस्य समान्धिकरणं विशेषणं वेदितव्यम्। `सार्वधातुके` इति जुहोत्यर्थम्, न श्नुप्रत्ययान्तार्थम्; अव्यभिचारात्। `जुह्वति` इति। `अदभ्यस्तात्` [[7.1.4]] इत्यदादेशः। `योयुवति, रोरुवति` इति। `यु` `रु` इत्येताभ्यां यङ, तस्य <<यङोऽचि च>> [[2.4.74]] इति लुक्, <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यभ्यासस्य गुणः, पूर्ववज्झेरवादेशः। `इदमेव` इत्यादि। कथं पुनरिदं ज्ञापकम्? इत्याह - छन्दसि` इत्यादि। यदि च्छन्दस्येव यङ्लुक्? स्यात्, तदा `चन्दस्युभयथा` [[6.4.86]] इत्यार्धधातुकत्वादेव योयुवति, रोरुवतीत्यत्र न भविष्यतीत्यनर्थकमेव हुश्नुग्रहणं स्यात्। यदा तु भाषायामपि यङ्लुगस्ति, तदार्धधातुकत्वाभावादसति हुश्नुग्रहणे योयुवतीत्यदौ प्राप्नोतीति तन्निवृत्त्यर्थमुपपद्यते हुश्नुग्रहणम्। तस्मादेतदेव ज्ञापयति - भाषायमपि यङ्लुङस्तीति। तेन बेभिदीति, चेच्छिदीतीत्यादि भाषायामप्युपपन्नं भवति। स्यादेतत् - यङ्लुगान्तादन्यत्? यदुवर्णान्तमनेकाच्? संयोगपूर्वं तन्निवृत्त्यर्थमेतद्भविष्यतीति? नेदं ज्ञापकमित्यत आह - `न च` इत्यादि। ननु चेदं विद्यते - युवन्? अरुवन्निति? नैतदस्ति; यद्यप्येतदसंयोगपूर्वम्, अनेकाज्न भवति; अटोऽसिद्धत्वात्॥", "64088": "`अभूवन्` इति। `गातिस्था` [[2.4.77]] इत्यादिना सिचो लुक्। झेरन्तादेशे कृते संयोगान्तलोपः। `अभूवम्` इति। `तस्थस्थ` [[3.4.101]] इत्यादिना मिपोऽम्भावः। `बभूव` इत्यादि। `भवतेरः` [[7.4.73]] इत्यभ्यासस्यात्त्वम्। `इन्धिभवतिभ्याञ्च` [[1.2.6]] इति लिटः कित्त्वम्, तेन गुणबुद्धी न भवतः। किमर्थं पुनर्भवेतेः परस्य लिटः कित्त्वमारभ्यते, यावता `एकदेशविकृतमनन्यवद्भवति` (व्या।प।16) इति कृतयोरपि गुणवृद्ध्योर्वुक्? प्राप्नोत्यकृतयोरपि, वुकि कृतेऽनिगन्तत्वादलघूपधत्वादनजन्तत्वाच्च नास्ति गुणवृद्ध्योः प्राप्तिः, ततः कृताकृतप्रसङ्गित्वेन नित्यत्वाद्वुकि कृते गुणवृद्ध्योः प्राप्तिरेव नास्तीत्यनर्थकं कित्त्वम्? नैतदस्ति; वुगप्यनित्य एव, न ह्रसौ कृतयोर्गुणवृद्ध्योः प्राप्नोति, ओरित्यनुवृत्तेरुवर्णान्तस्य वुका भवितव्यमिति कृत्वा। अत्रोभयोरनित्ययोः परत्वात्? गुणवृद्धी स्याताम्। तस्मात्? कित्त्वमारब्धव्यम्। किमर्थं पुनः ओरित्यनुवर्तते? बोभाव, बोभवेति गुणवृद्ध्योः कृतयोर्वृङ मा भूदित्येवमर्थम्। ननु च कित्त्वे सत्यत्रापि गुणवृद्धिभ्यां न भवितव्यम्? नैतदस्ति; न हि यङलुगन्ताद्? भवतेः परस्य लिटः कित्वं भवति, `इन्धिभवतिभ्याञ्च` [[1.2.6]] इत्यत्र भवतीति श्तिपा निर्देशात्॥", "64089": "`निगूहयति` इति। `गुहू संवरणे` (धातुपाठः-896), हेतुमाण्णिच्। `निगूहकः` इति। ण्वुल्। `साधुनिगूहि` इति। <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति णिनिः। `निगूहं निगूहम्` इति। `आभीक्ष्ण्ये णमुल्? च` [[3.4.22]] इति णमुल्, `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `निगूहः` इति। भावे घञ्। `अलोऽन्यस्य मा भूत्` इति। उत्तरत्र इत्यभिप्रायः। इह त्वोरित्यनुवत्र्य विनाप्युपधाग्रहणेन शक्यत एवायमर्थः प्रतिपादयितुमित्येतदेव मनसि कृत्वा परं पृष्टवान् - `उपधाग्रहणं किं? इति; इत्तरार्थञ्चोपधाग्रहणं क्रियमाणमत्राप्यलोऽन्त्यस्य विधिं निवर्तयति। तेन प्रयोजनाभावात्? ओरित्येतन्नानुवर्तते। अथ किमर्थम्? `गोहः` इति विकृतनिर्देशः क्रियते, न `गुहः` इत्येवोच्येत, लघु ह्रेवं सूत्रं भवति? इत्याह - `गोह इति विकृतग्रहणम्` इत्यादि। ऊत्त्वस्य विशिष्टविषयो यथा स्यादित्येवमर्थम्। `गोह` इति विकृतस्य कृतोकारस्थ ग्रहणमित्यर्थः। एतदेव व्यक्तीकर्त्तुमाह - `यत्र` इत्यादि। अस्य कश्चिदमुमर्थमाचष्टे। एतदुक्तं भवति - गुणे कृते ऊत्त्वेन भवितव्यमिति लक्ष्यते; एतच्चायुक्तम्; एवं हि व्याख्यायमाने `अयादेशप्रतिषेधार्थं `निगूह्र गतः` इति `केचिदिच्छन्ति` इत्युक्त्वा यद्वक्ष्यति - `उत्त्वस्यासिद्धत्वात्? `ल्यपि लघूपूर्वात्` [[6.4.56]] इति णेरयादेशः स्यात्` इति, तन्नोपपद्यते। यदि गूणं कृत्वोकारस्योत्त्वं विधीयते, ततश्च सत्यूकारस्यासिद्धत्वेनैव लघुपूर्वत्वमुपपद्यते, ओकारपूर्वत्वात्; तत्? कुत ऊकारस्यासिद्धत्वेऽयादेशप्रसङ्गः? तस्मादयमत्रार्थः - यस्मिन्? विषये गुहेर्गोह इत्येतद्रूपं सम्भाव्यते तत्र यथा स्यात्। यत्र प्रत्यये गुणः सम्भवति तस्मिन्? कृतेऽकृत एव गुणे यथा स्यात्, अन्यत्र मा भूदिति। तस्माद्विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्? गुणविषये सम्मुखीभूत एवाकृत एव गुण ऊत्वेन भवितव्यम्। एवञ्च सति `ऊत्तवस्यासिद्धत्वात्` इत्यादिकः प्रसङ्गग्रन्थो युज्यते, नान्यथा। ननु च गुणनिमित्ते प्रत्यय उत्पन्ने परत्वाद्? गुणेनैव भवितव्यम्, तत्कथमकृत एव गुण ऊत्त्वं भवेत्? कृताकृतप्रसङ्गित्वात्। तद्धि कृते गुणे प्राप्नोत्यकृतेऽपि, विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्। न तूत्त्वे कृते गुणः प्राप्नोति, अलघूपधत्वात्। तस्माद्? गुणात्? पूर्वमूत्त्वेन नित्यत्वाद्भवितव्यम्। अत एव दीर्घोच्चारणमर्थवद्भवति, नान्यथा। यदि गुणे कृते सत्ययमादेशः स्यात्, दीर्घोच्चारणमनर्थकं स्यात्। आन्तरतम्यादेव दीर्घस्य दीर्घो भविष्यति। ज्ञापितं हि `दिव उत्` [[6.1.131]] इति तपकरमेन - `भाव्यमानोऽप्युकारः सवर्णान्? गृह्णति` (चान्द्र।प।44) इति। यदन्यत्? प्राप्नोति तन्निवृत्त्यर्थं दीर्घोच्चारणमिति चेत्? स्यादेतत् - `अजुगूहत्` इत्यत्र `णौ चङ्यपधायाः` [[7.4.1]] इति ह्रस्वो मा भूदित्येवमर्थं दीर्घोच्चारणमिति। कुतः पुनरेष नियमोऽत्र ह्रस्वत्वेन न भवितव्यमिति? न हीह कात्यायनस्य भाव्यकारस्य वा वचनमस्ति, नापि शिष्टप्रयोगः, यत एष निश्चयः स्यात्। `यथालक्षणमप्रयुक्तेषु` इति चोच्यत। तस्मात्? `अजूगुहत्` इत्येवं भवितव्यम्। यदि गुणे कृतेऽयमादेशः क्रियेत, ततः किमनिष्टं स्यात्? दीर्घोच्चारणमनर्थकं स्यात्। अत्रापि दीर्घोच्चारणं वैचित्त्र्यार्थं प्रकल्प्येत? एवमपि प्रक्रियागौरवं स्यात्। तस्माद्दीर्घोच्चारणसामर्थ्यादकृत एव गुण ऊत्त्वेन भवितव्यम्। `निगूह्र गतः` इति। ण्यन्तात्? कत्वा, प्रादिसमासः। `समासोऽनञ्पूर्व` [[7.1.37]] इत्यादिना क्त्वो ल्यप्। `तत्र व्याश्रयत्वात्` इत्यादि। एतेनायादेशप्रतिषेधार्थतां विकृतिनिर्देशस्य प्रत्याचष्टे। कथं पुनव्र्याश्रयत्वम्? इत्याह - `णावूत्त्वम्` इत्यादि। `निगोढा` इति। तृच्। `हो ढः` [[8.2.31]] , <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्, <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्त्वम्, <<ढो ढे लोपः>> [[8.3.13]] ॥", "64090": "`दीषयति` इति। `दुष वैकृत्ये` (धातुपाठः-1185)। अथ किमर्थम्? `दोषः` इति विकृतस्य ग्रहणम्, न `दुषः` इत्येवोच्येत, विषयावधारणार्थमिति चेत्? न; णाविति साक्षाद्विषयस्य निर्देशादित्यत आह - `विकृतग्रहणम्` इत्यादि पूर्वसूत्रे हि `गोङः` इत्युक्तम्, अत्र यदि `दूषः` इत्येवोच्येत, प्रक्रमस्यारम्भस्य भेदः स्यात्, अभेदश्चेष्यते। अतदस्तदर्थं विकृतस्य ग्रहणम्। किमर्थं पुनः प्रक्रमस्याभेद इत्यते? अत्यल्पमिदं पृच्छ्यते, वैचित्त्र्यस्यापि नाम प्रयोजनं प्रष्टव्यम्। वैचित्त्र्यस्य ह्रयं प्रकारः - प्रक्रमाभेद इति, किं तदर्थेन प्रश्नपरिश्रमेण!॥", "64091": "पूर्वेण नित्ये प्राप्ते विकल्पोऽयमारभ्यते। `चित्तविरागे` इति। चित्त्स्याप्रीतता। `चित्तं दोषयति` इति। चित्तदमप्रीतं विमुखं करोतीत्यर्थः। `चित्तविराग इति किम्? साधनं दूषयत - अत्र पूर्वेण नित्यं भवति। णावित्येव - चित्तस्य दोषः। भावे घञ्॥", "64092": "`एवमादिना` इति। आदिशब्देन `जनीजृष्कनसुरञ्जोऽमन्ताश्च` (धातुपाठः-817) इत्येवमादिग्रहणम्। `घटयति` व्यथयति` जनयति` इति। `घट चेष्टायाम्` (धातुपाठः-763) `व्यथ भयचलनयोः (धातुपाठः-764) `जनौ प्रादुर्भावे` (धातुपाठः-1149)। ननु च जनेः <<जनिवध्योश्च>> [[7.3.35]] इति वृद्धिः प्रतिषिध्यते, तदयुक्तमिदमुदाहरणम्, मित्सज्ञाप्यापार्थिका? नैतदस्ति; चिण्कृतोर्हि स वृद्धिप्रतिषेधः, तत्र हि `आतो युक्? चिण्कृतोः` [[7.3.33]] #इत्यनुवर्तते। `रजयित` इति। `रञ्जेर्णौ मृगरमण उपसंख्यानम्` (वा।778)। इत्यनुनासिकलोपे कृते <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः। तस्यानेन ह्रस्वः। `शमयति` इति। शमेरमन्तत्वान्मित्त्वम्। अस्यापि `नोदात्तोपदेश` [[7.3.34]] इत्यादिना वृद्धिप्रतिषेधश्चिण्कृतोरेव। `ज्ञापयति` इति। `ज्ञा अवबोधने` (धातुपाठः-1507) इत्यस्य क्र्यादिपरिपठितस्य `मारणतोषणनिशामनेषु (धातुपाठः-811) ज्ञा, मिच्च` इति मित्संज्ञा, `अर्तिह्यी` [[7.3.36]] इत्यादिना पुकि कृते ह्रस्वः। `केचिदत्र` इत्यादि। `क्रमु पादविक्षेपे` (धातुपाठः-437)इत्यस्यामन्तत्वान्मित्संज्ञा, तस्य च ह्रस्वत्वे संक्रामयति, उत्क्रामयतीति न सिद्ध्येत्। तस्मादेतत्सिद्धये <<वा चित्तविरागे>> [[6.4.91]] इत्यतो वाग्रहणमनुवर्तयन्ति। तस्मश्चानुवर्तमाने सर्वत्र विकल्पः प्रसज्येतेत्यतिप्रसङ्गपरिहारार्थं `सा च व्यवस्थितविभाषा` इति। व्याचक्षते। अथ `मितामत्` इत्येवं कस्मान्नोक्तम्, लघु ह्रेवं सूत्रं भवति? अशक्यमेवं वक्तुम्, `वेष्ट वेष्टने` (धातुपाठः-255) इति घटादौ पठते, तत्रैवमुच्यमाने तस्याप्कारः प्रसज्येत्, `ह्रस्वः` इत्युच्यमाने <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इतीकारः सिद्धो भवति॥", "64093": "`णौ` इति वर्तते, चिण्णमुलौ च तद्विशेषणे। `अशमि` इति। शमेण्र्यन्ताल्लुङ, `चिण्? भावकर्मणोः` [[3.1.66]] इति च्लेश्चिण्, <<चिणो लुक्>> [[6.4.104]] इति तशब्दस्य लुक्? णेरनिटि` [[6.4.51]] इति णिलोपः। `शर्मशममम्, शामंशामम्` इति। पूर्ववण्णमुल्दिविर्वचने। `दीर्घग्रहणं किम्` इति। एवं मन्यते - ह्रस्वस्यैवानन्तरसय प्रकृतस्य विकल्पमात्रं विषेयम्, एवमप्यभीष्टं सिद्ध्यत्येव। तथा हि - यस्मिन्? पक्षे ह्रस्वो विधीयते, तस्मिन्नशमीत्यादि सिद्ध्यति। यस्मस्तु ह्रस्वो न विधीयते, तत्र <<अत उपधायाः>> [[7.2.116]] इति दीर्घे वृद्धिसंज्ञके विहिते तेनैव रूपेणावस्थानात्? `अशामि` इत्यादि सिद्ध्यतीत्यभिप्रायः। इतरस्तु दीर्घग्रहणमन्तरेण यन्न सिद्ध्यति, तद्दर्शयति - `शमयन्तं प्रयुङक्ते` इत्यादिना। शमेण्र्यन्तात्? पुनः प्रयोजकविवक्षायां द्वितीयो णिच्, तत्र पूर्वस्य णेर्लोपः, लुङ, चिण्। पक्षे दीर्घत्वम्। `अशमि, अशामि, शमंशमम्, शामंशामम्` इति। द्वितीयणिजन्तण्णमुलि कृते पक्षे दीर्घत्वम्। `शंशमयतेः` इत्यादि। अत्यर्थं शाम्यतीति यङ्, द्विर्वचनम्, <<नुगतोऽनुनासिकान्तस्य>> [[7.4.85]] इति नुक् - `शंशम्य` इति। स्थिते हेतुमण्णिच्, <<अतो लोपः>> [[6.4.48]] इत्यकारस्य लोपः, <<यस्य हलः>> [[6.4.49]] इति यकारस्य, शंशमीति स्थिते यदा ततः परश्चिण्भवति, तदा पक्षे दीर्घत्वे कृतेऽशंशम्यशंशामीति भवति। यद तु णमुल्? तदा शंशमंशंमम्? शंशामंशंशाममिति, तत्र योऽसो णौ णिर्लुप्यते, यश्च यङोऽकारस्तयोर्दीर्धग्रहणे सति <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावो न भवति; `न पदान्त` [[1.1.57]] इत्यादिना प्रतिषेधात्। तेनासति व्यवधाने दीर्घः सिद्धो भवति। स्यादेतत् - ह्रस्वविकल्पे विधीयमाने यस्मिन्? पक्षे ह्रस्वो नास्ति तस्मिन्पक्षे स्वरूपेणैवावस्थितो दीर्घः स्यात्? इत्यत आह - `ह्रस्वविकल्पे तु` इत्यादि। न हि ह्रस्वे विधातव्ये केनचित्? स्थानिवद्भावः प्रतिषिध्यते। तत्र ह्रस्वविकल्पे विधीयमाने णेर्लोपस्य यङ्कारस्य च स्थानिवद्भावः स्यादेव। ततश्च स्थानिवद्भावाद्विकल्पेन ह्रस्वत्वं न स्यात्। चिण्णमृल्परे हि णौ परतो मितामङ्गानां ह्रस्वत्वं विधेयम्। यश्चात्र णिश्चिण्णमुल्परो न तत्र मिदङ्गम्; पूर्वेम णिचा व्यवधानात्। यस्मश्च णौ मिदङ्गं नासौ चिण्णमुल्परः; परेण चिणा व्यवधानात्। तस्मान्नायमस्य योगस्य विषय इति पाक्षिकं ह्रस्वत्वमनेन न स्यात्। पूर्वेणैव योगेन नित्यं स्यात्, ततश्च दीर्घो न स्यात्।`णिण्यन्ते` इत्यादि। णेणिरन्तः समीपो यस्मिन्? स णिण्यन्तः। अथ वा णेणिः णिणिः सोऽन्तो यस्य स णिण्यन्तः। अस्मिन्? पक्षेऽन्तशब्दोऽवयववचनः। `यङण्यन्ते त्वसिद्धिरेव` इति। यङ्ण्यन्तशब्दस्यापि पूर्ववद्? द्विधा व्युत्पत्तिः। कस्यासिद्धिः? प्रकृतत्वाद्दीर्घस्येति वेदितव्यम्। एवकारेणैतद्दर्शयति - णिण्यन्ते स्यादपि केनचित्? प्रकारेण दीर्घस्य सिद्धिः, यङ्ण्यन्ते त्ववसिद्धिरेव। न केनचित्? प्रकारेण सिद्धिरित्यर्थः। कथ पुनर्णिण्यन्ते सिद्धिर्भवति? णिजातेराश्रयणात्। णिजातिविवक्षायां हि यद्यपि णिलोपस्य स्थानिवद्भावः, तथापि नास्तिव्यवधानम्; जातेरेकत्वात्। न हि तत्रैव तस्या व्यवधानमुपपद्यते। तेन व्यवधानाभावाण्णिण्यन्ते दीर्घस्य सिद्धिः। अथ वैतदेवकारेण दर्शयति - णिण्यन्ते पूर्वं णिचमाश्रित्य <<अत उपधायाः>> [[7.2.116]] इति वृद्धि विधानादस्ति दीर्घस्य सिद्धिः, तस्यास्तु ह्रस्वत्वेन निवृत्तिः क्रियते, न तु सर्वथा नास्त्येव। यङ्ण्यन्ते तु सर्वथैव दीर्घसिद्धेरभावः, तत्र वृद्धेरसम्भवादिति। स्यादेतत् - विक्लपे दीर्घत्वे विधीयमानेऽपि नैवाऽत्र दीर्घः सिध्यति। `असिद्धवदत्रा भात्` [[6.4.22]] इति णियङोर्लोपस्यासिद्धत्वादित्यत आह - `व्याश्रयत्वात्` इत्यादि। कथं पुनध्र्याश्रयत्वम्? इत्याह - `णौ हि` इत्यादि। अन्यतरस्यांग्रहणं विस्पष्टार्थम्; शक्यते हि <<वा चित्तविरागे>> [[6.4.91]] इत्यतो मण्डूकप्लुतिन्याथेन वाग्रहणमनुवर्तयितुम्॥", "64094": "`द्विषन्तपः, परन्तपः` इति। `द्विषत्परयोस्तापे` [[3.2.39]] इति खच्, <<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुम्। `पुरन्दरः` इति। <<पूःसर्वयोर्दारिसहोः>> [[3.2.41]] इति खच्, `वाचंमपुरन्दरौ च` [[6.3.68]] इति निपातनान्मुमागमः। ह्रस्वग्रहणं विस्पष्टार्थम्, शक्यते `मितां ह्रस्वः` [[6.4.92]] इत्यतो मण्डूकप्लुतिन्यायेन ह्रस्वग्रहणमनुवर्तयितुम्॥", "64095": "`प्रह्लन्नः` इति। `ह्लादी सुखे च` (धातुपाठः-27) `रदाभ्याम्` [[8.2.42]] इत्यादिना नत्त्वम्। `प्रह्लादयति` इति हेतुमण्णिच्॥", "64096": "`उरश्छदः` इति। `छद अपवारणे` (धातुपाठः-1935), चुरादिणिच्, <<पुंसि संज्ञायां घः प्रायेण>> [[3.3.118]] इति घः। `उरसश्छदः` इति विगृह्र `कृद्योगा च षष्ठी समस्यते` (वा।86) इति समासः। ननु च णिलोपस्य `असिद्धवदत्रा भात्` [[6.4.22]] इत्यसिद्धत्वात्? <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावाद्वा ह्रस्वभाविन्यज्लक्षणोपधा न सम्भवति, तत्? कथं ह्रस्वत्त्वं प्रवर्तते? इत्याह - `णिलोपस्य` इत्यादि। यद्यत्र णिलोपस्यासिद्धत्वं स्थानिवद्भावो वा स्यात्, तदा वचनमनर्थकं स्यात्। तस्माद्वचनसमथ्र्यादुभयमपि न भवति, तेन ह्रस्वभाविन्युपधा भवति। `अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्` इति। ननु च त्रिप्रभृतयो यत्र सन्ति तत्र द्वावपि स्तः, ततश्चाद्व्युपसर्गस्येत्येवं सिद्धम्? इत्यत आह - `उत्तरा हि` इत्यादि। यद्यपि त्रिप्रभृतिषु द्वावपि स्तः, तथापि न ताविह द्विशब्देनोपात्तौ; यत उत्तरा हि संख्या पूर्वसंख्याया यः कृतो व्यपदेशस्तदभिधानं निवर्तयति। कथं ज्ञायते? इत्याह - `न हि` इत्यादि। यद्युत्तरा संख्या पूर्वसंख्याकृतव्यपदेशं न निवर्तयेत्, तदा त्रिपुत्रोऽपि लोके द्विपुत्र इत्यभिधीयेत, न चाभिधीयते। तथा हि `द्विपुत्रः आनीयताम्` इत्युक्ते नैव त्रिपुत्र आनीयते, अपि तु यस्यं द्वादेव पुत्रौ स एव। अद्विप्रभृतीत्यादेश्च वाक्यस्यायमर्थः - अद्धिप्रभृत्युपसर्गस्य छादेह्र्यस्वत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - द्विशब्दोऽत्रानेकोपलक्षणार्थम्, द्व्युपसर्गस्यानेकोपसर्गस्येति यावत्। अद्व्युपसर्गस्येते च प्रसज्यप्रतिषेधोऽयम्। तेनायमर्यो भवति - छादेरङ्गस्यानेकोपसर्गस्य घप्रत्यये परत उपधाह्रस्वो न भवतीति। केन पुनः प्राप्तस्य ह्रस्वस्यानेन प्रतिषेधः क्रियते? एतस्मादेव प्रतिषेधाद्विधायकं वाक्यमनुमीयते। योगविभागाद्व#आ - `छादेर्घे` इति। यदि च द्विशब्दोऽत्रानेकोपलक्षणार्थः, योगविभागश्चाभ्युपेयेतैवं तदा पर्युदासेऽप्यदोषः। कथम्? द्व्युपसर्गादनेकोपसर्गादन्योऽद्व्युपसर्गः=एकोपसर्गः, तस्य ह्रस्वत्त्वं भवति। किमर्थमिदम्, न `छादेर्घे` इत्यनेनैव सिद्धम्? सिद्धे सत्यारम्भो नियमार्थः - एकोपसर्गस्यैव भवति, नान्यस्येति। यद्येदम्? `उरश्छदः` इत्यत्र न प्राप्नोति? नैष दोषः, एवं हि योगविभागोऽनर्थकः स्यात्। तुल्यजातीयापेक्षत्वान्नियमस्य, सोपसर्गस्य नियमः क्रियमामः सोपसर्गस्येव ह्रस्वत्वं निवर्तयति, नानुपसर्गस्य। तेन `उत्तरश्छदः` इत्यत्र प्रवर्तत एव॥", "64097": "चकारश्चादेरनुकर्षणार्थः। `छदिः` इति। `अचिशुचिहुसृपिच्छादिच्छदिभ्य इसिः` (द।उ।9।30) इतीसिप्रत्ययः। `छद्म` इति। `सर्वधातुभ्यो मनिन्` (पं।उ।4।156) इति मिन्। `छत्त्रम्` इति। `सर्वधातुभ्यः ष्ट्रन्` (द।उ।8।79) इति ष्ट्रन्। योगविभागोऽनेकोपसर्गस्यापि यथा स्यात् -समुपातिच्छदिरिति॥", "64098": "`अनङि` इति अजादावयं प्रतिषेधः, तेन तत्तुल्येऽजादावेव प्रत्यये कार्यं विज्ञायते, इत्याह -`अजादौ प्रत्यये` इति। `जध्नतुः, जध्नुः` इति। <<अभ्यासाच्च>> [[7.3.55]] इति कुत्वम्। `जज्ञतुः, जज्ञुः` इति। `जन जनने` (धातुपाठः-1105), परस्मैपदी जौहोत्यादिकः, <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्। `जज्ञे` इति। `जनि प्रादुर्भावे` (धातुपाठः-1149) आत्मनेपदी दिवादिः, <<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्येश्। `जक्षतुः` इति। अदेः `लिटन्यतरस्याम्` [[2.4.40]] इति घस्लादेशः, `खरि च` [[8.4.54]] इति घकारस्य ककारः, `शासिवसिधसीनाञ्च` [[8.3.60]] इति षत्वम्। अथ वा -`घरलृ अदने` (धातुपाठः-715) इत्यस्यैतद्रूपम्। `अक्षन्` इति। लुङ्, `लुङ्सनोर्घस्लृ` [[2.4.37]] इति घस्लादेशः, `मन्त्रे घसह्वर` [[2.4.80]] इत्यादिना लेर्लुक्, झेरन्तादेशः, संयोगान्तलोपः। शेषं पूर्ववत्। `अधसत्, अगमत्` इति। पुषादिसूत्रेण [[3.1.55]] अङ॥", "64099": "`वितत्निरे` इति। अत्र यद्युपधालोपस्यासिद्धत्वम्? तथापि लोपविधानसामर्थ्यात्? `अत एकहल्मध्ये` [[6.4.120]] इत्यादिनैत्वाभ्यासलोपौ न भवतः। `पप्तिमा` इति। लिट्? क्रादिनियमादिट्॥", "64100": "`धत्वं तकारस्य` इति। <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति। `जश्त्वं धकारस्य` इति। <<झलां जश् झशि>> [[8.4.53]] इति। `समासे कृते` इति। <<पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च>> [[2.1.58]] इत्यादिना। `समानस्य सभावः` इति। `समानस्य च्छन्दसि` [[6.3.83]] इत्यादिना। यदि द्विर्वचनात्पूर्वमुपधालोपः क्रियते, तदैकाच्त्वाभावाद्द्विर्वचनं न प्राप्नोति? इत्यत् आह -`छान्दसत्वात्` इत्यादि। `बन्धाम्` इति। छान्दसमेतत्। तत्र <<बहुलं छन्दसि>> [[7.4.78]] इति वचनाद्बहुलं विषयो भवन्ति। तेन यद्यपि परत्वान्नित्यन्तावच्च द्विर्वचनात्? पूर्वमुपधालोपः प्रप्नोति, तथापि स तथा न क्रियते। द्विर्वचनात्? पूर्वं न क्रियत इति भावः। `बप्सति` इति। भसेः परस्य झेरदादेशः, शपः श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, अभ्यासकार्यम्, उपधालोपे कृते भकारस्य चर्त्वम् -पकारः। `बस्ति` इति। तिपि रूपम्॥", "64101": "`हलादेः` इति। कुतः पुनर्हल्ग्रहणं प्रकृतं येन हिशब्दो विशिष्यते? अनन्तरसूत्रादिति चेत्? न; तद्धि सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः। `हुझल्भ्यः` इत्येषा पञ्चमी `हलि` [[6.4.100]] इत्येतस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति। <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति वचनादित्यदोषः। `भिन्धि` इति। <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः। `क्रीणीहि` इति। `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः <<ई हल्यघोः>> [[6.4.113]] इत्तीत्त्वम्। `जुहुताम्` इति। लोट्, तसस्ताम्। `रुदिहि, स्वपिहि` इति। अदादित्वाच्छपो लुक्, <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इतीट्। अथेह कस्मान्न भवति -`जुहुतात्? त्वम्` इति? आह -`इह` इत्यादि। धिभावस्यावकाशोऽनाशिषि -झुहुधीति। तातङोऽवकाशः -जीवतात्? त्वमिति; आशिषि लोटि उभयप्राप्तौ परत्वात्तातङेव भवति। अथ कृतेऽपि तस्मस्तस्य स्थानिवद्भावात्? पुनः प्रसङ्गविज्ञानाद्धिभावः कस्मान्न भवति? इत्याह -`तत्र` इत्यादि। यद्येवम्, भिन्धकि, छिन्धकीत्यत्र परत्वाद्धिभावे सत्यनन्तरोक्तादेव हेतोरकज्न स्यात्? इत्यत आह -`भिन्धकि, छिन्दकि` इत्यादि। व्यक्तौ हि पदार्थे `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव` (व्या।प।40) इत्येतत्? प्रवर्तते। जातौ च `पुनःप्रसङ्गविज्ञानात्? सिद्धम्` (व्या।प।41) इति <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यत्र प्रतिपादितम्। पाणिनेस्तूभयं मतम्, लक्ष्यानुरोधात्क्वचित्? किञ्चिदाश्रीयते। तत्र तातङविधौ व्यक्तिपदार्थस्याश्रयणात्? `सकृद्गतौ विप्रतिषेधे यद्? बाधितं तद्बाधितमेव` इत्यस्या उपस्थानम्; अकज्विधौ तु जातेः पदार्थस्याश्रयणात्? `पुनःप्रसङ्गविज्ञानात्सिद्धम्` इत्यस्याः। `भिन्धकि` इति। `अव्ययसर्वनाम्नाम्` [[5.3.71]] इत्यादिनाकच्। तत्र `तिङश्च` [[5.3.56]] इत्यनुवर्तते॥", "64102": "`श्रुणुधी` इति। <<श्रुवः शृ च>> [[3.1.74]] इति श्नुप्रत्ययः, शृभावश्च। `पूर्द्धि` इति। `पृ? पालनपूरणयोः` (धातुपाठः-1086), `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वम्, `हलि च` [[8.2.77]] इति दीर्घः। `उपरुणस्कृधि` इति। उरु अस्माकं कृधीति स्थिते <<बहुवचनस्य वस्नसौ>> [[8.1.21]] इत्यस्मदो नसादेशः, <<नश्च धातुस्थोरुषुभ्यः>> [[8.4.27]] इति णत्वम्, सकारस्य रुत्वम्, विसर्जनीयः। तस्य `अतः कृकमि` [[8.3.46]] इत्यादिना सत्वम्। `अपावृधि` इति। वृङो वृञो वा रूपम्। वृङोऽपि हि <<व्यत्ययो बहुलम्>> [[3.1.85]] इति च्छन्दसि परस्मैपदं भवत्येव। अथ शृणुधीत्यत्र `उतश्च प्रत्ययादसंयोगपूर्वात्` [[6.4.106]] इत्यनेन लुक्? कस्मान्न भवति? इत्याह -`शृणुधीत्यत्र` इत्यादि। यद्यत्र लुक्? स्यात्? धिमावस्यानर्थस्यं स्यादिति भावः। <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घत्वमपावृधीत्यत्र। ननु च श्रुधत्यत्र <<श्रुवः शृ च>> [[3.1.74]] इति शृभावेन इनुप्रत्ययेन च भवितव्यम्, पूर्धीत्यत्र क्र्यादित्वात्? श्नाप्रत्ययेन, उरुणस्कृधीत्यत्र `तनादिकृञ्भ्यः उः` [[3.1.79]] इत्युप्रत्ययेन; अपावृधीत्यतत्र यदि वृङ तदा क्र्यादित्वात्? श्नाप्रत्ययेन, अथ वृञ्? तदा स्वादित्वात्? श्नुप्रत्ययेन; एवञ्चैतानि रूपाणि न सिध्यन्ति? इत्यत आह -`अतोऽन्यतर` इत्यादि। शृणुधीत्येतस्मादुदाहरणादन्येषूदाहरणेषु <<व्यत्ययो बहुलम्>> [[3.1.85]] इति शप्, तस्यापि <<बहुलं छन्दसि>> [[7.4.78]] इति लुक्॥", "64103": "`वा छन्दसि` इत्यादि। <<सार्वधातुकमपित्>> [[1.2.4]] इत्यपितः सार्वधातुकस्य ङित्त्वं विधीयते, छन्दसि विषये <<वा छन्दसि>> [[6.1.106]] इत्यनेन हेर्यदपित्त्वं तद्विकल्प्यते। तेन पक्षे तस्य ङित्त्वं न भवति। अथ रारन्धीति कथं परस्मैपदम्, यावता रमिरयमात्मत्मनेपदी? कथं वात्र शपः श्रवणं न भवति? कथञ्चाब्यासस्य दीर्घत्वम्, कथञ्च `अनुदात्तोपदेश` [[6.4.37]] इत्यादिना मकारलोपो न भवति? इत्याह - `रारन्धि` इत्यादि। `शपः श्लुः` इति ब्राउवामेन `श्लौ` [[6.1.10]] इति द्विर्वचनमित्युक्तं भवति। मकारलोपाभावस्त्वङित्त्वादे सिद्ध इति नासौ यत्नसाध्य इत्यभिप्रायः। `यमेः शपः` इति। `बहुलं छन्दसि [[2.4.73]] इत्यनेन। `योतेः शपः श्लुः` इति। <<बहुलं छन्दसि>> [[7.4.78]] इत्यनेन॥", "64104": "`चिण उत्तरस्य प्रत्ययस्य` इति। अथ प्रत्ययस्यैतत्कुतो लभ्यते? <<अङ्गस्य>> [[6.4.1]] इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात्। यदि चिण उत्तरसय प्रत्ययस्य लुग्भवति, अकारितराम्, अकारितमामित्यत्र तरप्तममोर्लुक्? कस्मान्न भवति? इत्याह - `अकारितराम्` इत्यादि। योऽसौ तशब्दस्य लुक्, तस्य तरप्तमपोर्लुकि कर्तव्ये `असिद्धवदत्राभात्` [[6.4.22]] इत्यसिद्धत्वम्। अतस्तशब्देन व्यवदानाच्चिणोऽनन्तरौ तरप्तमपौ न भवत इति तयोर्लुग्न भवति। ननु चान्यस्यान्यास्मेन्नसिद्धवचनादेकस्य तत्रैवासिद्धत्वं नोपपद्यते? इत्यत आह - `चिणो लुगित्येतत्` इत्यादि। `चिणो लुक्` इत्यभेदेनापि श्रुतमिदं लक्षणं विषयस्य लक्ष्यस्य भेदाद्भिद्यते, व्यक्तौ पदर्थे प्रतिव्यक्ति लक्षणं भिद्यत इति कृत्वा, तेन भेदे सत्युपपद्यत एवासिद्धत्वम्। अकारि, अहारीति स्थिते अतिशयविवक्षायां तरप्तमपौ `तिङश्च` [[5.3.56]] इत्यनेन, तदन्तात् <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यामौ कृते, अकारितमाम्, अकारितमामिति भवति॥", "64105": "`गच्छ` इति। गमेर्लोट्, <<इषुगमियमां छः>> [[7.3.77]] इति छत्वम्। `धाव` इति। `धावु गतिशुद्ध्योः` (धातुपाठः-601) अथ वा सर्त्तेः `पाघ्रा` [[7.3.78]] इत्यादिना धावादेशः। `युहि, रुहि` इति। अदावित्वाच्छपो लुक्। `लुनोहि, पुनीह` इति। `प्वादीनां ह्रस्वः` [[7.3.80]] इति ह्रस्वत्वम्, `ई हल्यधोः` [[6.4.113]] इतीत्त्वम्। ननु चेत्त्वे कृते सत्यनकारान्तत्वान्न भविष्यति, ततः किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह - `ईत्वसय` इत्यादि। असिद्धत्वान्तु पूर्ववत्॥", "64106": "`उकारो योऽसंयोगपूर्वः` इति। अविद्यमानः संयोगः पूर्वो यस्मास्त तथोक्तः। एतेनासंयोगपूर्वग्रहणमकारविशेषणमिति दर्शयति। स एवं विध उकारः प्रत्ययस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह -`तदन्तात्` इत्यादि। किमर्थं पुनस्तदन्तदिधिरब्युपगम्यते? `सुन्? चिन्वित्यत्र यथा स्यात् अस्त्वेतत्? प्रयोजनम्, अयं तु दोषः -तनु, कुर्वित्यत्र न प्राप्नोति, अत्र ह्रुकार एव प्रत्ययः न तदन्तः? अत्रापि व्यपदेशिवद्भावेन तदन्तत्त्वं प्रत्ययस्यास्तीत्यदोषः। `कुरु` इति। धातोर्गुणे रपरत्वे च कृते `अत उत्सार्वधातुके` [[6.4.110]] इत्युत्त्वम्। `तरुणुहि` इति। `तूनूकरणे तक्षः` [[3.1.76]] इति श्नुः।`च्छन्दोवावचनम्` इति। अभिधानेऽभिधेयोपचाराद्वार्थो विकल्पो वाशब्देन विवक्षितः। उच्यते व्याख्यायतेऽनेनेति वचनम्, वार्थस्य वचनं वावचनम्, छन्दसि वावचनं छन्दोवावचनमिति `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः। `छन्दसि वेति वक्तव्यम्` इति। छन्दसि विषये विकल्पेनायं विधिर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -उत्तरसूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषः, सा च व्यवस्थितविभाषा। तेन छन्दसि विषये विकल्पेनायं विधिर्भवतीति। `धिनुहि, कृणुहि` इति। `हिवि दिवि, धिवि, प्रीणनार्थाः` (धातुपाठः-591-593), `कृवि हिंसाकरणयोः` (धातुपाठः-598) इदित्वान्नुम्, <<धिन्विकृण्व्योर च>> [[3.1.80]] इत्युप्रत्ययः, अकारश्चान्तादेशः, तस्य `अतो लोपः [[6.4.48]] इति लोपः॥", "64107": "`योऽयमुकारोऽसंयोगपूर्वः` इति। एतेनास्येत्यनेन प्रकृत उकारः प्रत्यवमृश्यत इति दर्शयति। ननु च `अतः` [[6.4.106]] इत्यनुवृत्तेरुकारस्यैव लोपो विज्ञास्यते, तत्किम्? `अस्य` इत्यनेन? षष्ठीप्रकॢप्त्यर्थमस्येत्येतदिति चेत्? न; `म्वोः` इत्येषैव हि सप्तम्यकृतार्था `उतः` इत्यस्याः पञ्चम्याः पूर्वयोगे कृतार्थायाः षष्ठीत्वं प्रकल्पयिष्यति, <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति वचनात्। स्यादेतत्। यदि `म्वोः` इत्येषा सप्तमी विज्ञायते, एतदेव तु न विज्ञायते -किमियं षष्ठी उत सप्तमीति? तस्मात्? षष्ठीप्रकॢप्यर्थमस्येत्युक्तम्। `लुगित्त्यनुवर्तमाने` इत्यादि। यदि प्रकृत एव लुक्? क्रियते तदा सर्वस्यैव प्रत्ययस्य लुक्? स्यात्, नान्त्यस्य; यतः प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तु प्रत्ययावयवस्यादर्शनस्य। सर्वस्य तु लुकि कृते `सुन्वः सुन्मः` इति न सिध्यति? लोपग्रहणाददोषः। तत्र ह्रुकारमात्रस्य लोपः <<अलोऽन्त्यस्य>> [[1.1.52]] इति वचनात्। तस्मादन्त्यस्य लोपार्थं लोपग्रहणम्। किञ्च कुर्वः कुमं इत्यत्र गुणो लुकि सति न स्यात्; <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणाप्रतिषेधात्। लोप#ए तु सति भवति। ततो गुणार्थमपि लोपग्रहणं कर्तव्यम्॥", "64108": "`करोतेरुकारप्रत्ययस्य` इति। ननु चकारेण पूर्वसूत्र उकारोऽनुकृष्टः, `चानुकृष्टञ्चोत्तरत्र नानुवर्तते` (व्या।प।76) तत्? कथमुकारस्य लोपो लभ्यते? नैवम्; पूर्वसूत्रे ह्रुकारस्य सन्निधानमस्येत्यनेनैव लभ्यत इति तत्र तस्य चकारेण याऽनुकृष्टिः सैतदर्थैव वेदितव्या। `उकारलोपस्य` इत्यादिना कुर्वः कुमं इत्यत्र सोपपत्तिकां दीर्घप्राप्त दर्शयति, <<न भकुर्छुराम्>> [[8.2.79]] इत्यनेन च तत्प्रतिषेधम्। नित्यग्रहणं विस्पष्टार्थम्। आरम्भसामर्थ्यादेव हि नित्यो विधिर्भविष्यति॥", "64109": "`चकारो लोपस्यानुकर्षणार्थः॥", "64110": "`उकारप्रत्ययान्तस्य` इत्यादि। उकारः प्रत्ययोऽन्तो यस्य स तथोक्तः। उकारप्रत्ययान्तश्च करोतिः सार्वधातुकत्त्वं न व्यभिचरति, अनेनाभिप्रायेणाह -`सार्वधातुकग्रहणं किम्` इति? `भूतपूर्वेऽपि` इत्यादि। असति सार्वधातुकग्रहणे करोतेरुकारप्रत्ययान्तस्य क्ङिति प्रत्यये परत उत्त्वमुच्यमानं यत्र क्ङित्? सार्वधातुकं परभूतं तत्रैव स्यात् -कुरुतः, कुर्वन्तीत्यादिषु; कुर्वित्र हेर्लुकि कृते क्ङित्प्रत्ययस्याभावात्? <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणप्रतिषेधात्तु न स्यात्। तस्माद्भूतपूर्वेऽपि सार्वधातुके यथा स्यादित्येवमर्थं सार्वधातुक्ग्रहण्। अथ तपरकरणं किमर्थम्, यावता यद्यपि भाव्यमान उकारः सवर्णानां ग्राहको भवति, तथाप्यान्तरतम्यान्मात्रिकस्थ स्थाने मात्रिक एव भविष्यति? इत्यत आह -तपरकरणम्` इत्यादि। असति हि तपरकरण उकारप्रत्ययमाश्रित्य <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे कृते रपरत्वे च यदुत्त्वं तस्योकारस्य <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणः स्यात्। तस्मात्? तपरकरणं क्रियते -ह्रस्वस्यैव श्रवुणं यथा स्यात्, लक्षमान्तरेण यो दीर्घः। प्राप्नोति स मा भूदिति॥", "64111": "`रुन्धः` इति। <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः। `स्तः` इति। अदादित्वाच्छपो लुक्। अथ श्नसोरिति कोऽयं निर्देशः, यावता <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घत्वे कृते `श्नसोः` इति निर्देशेन भवितव्यम्? इत्याह -`श्नसोरित्याकारस्य पररूपत्वम्` इत्यादि। अत्र तपरकरणं किमर्थम्, आस्ताम्, आसन्नित्यत्राडागमस्य मा भूदिति चेत्? नैतदस्ति; इह हि लङि कृते लावस्थायामाडागमात्पूर्वमन्तरङ्गत्वाल्लादेशः क्रियते। तत्र कृते विकरणः कृताकृतप्रसाङ्गित्वादाडागमं बाधते। आडागमस्य त्वशब्दान्तरप्राप्तेरनित्यत्वम्। तथा हि कृते विकरणे विकरणान्तस्याङ्गस्य तेन भवितव्यम्, अकृते धातुमात्रस्य। कृते विकरणे यद्यप्याडागमाकारलोपयोद्र्वयोरपि कृताकृतप्रसङ्गित्वेन नित्यत्वम्, तथापि परत्वादकारलोपः क्रियते, तस्मिन्? कृते तस्यासिद्धत्वादाट्, तस्यासिद्धत्वादेव च लोपो न भविष्यतीति किं तपरकरणेन? एवं तह्र्रेतज्ज्ञापयति -`आबाच्छास्त्रीयमसिद्धत्वमनित्यम्` इति। तेन `वुग्युटावुवङयणोः सिद्धौ भवतः` इत्येतद्वक्तव्यं न वक्तव्यं भवति॥", "64112": "`लुनते` इति। <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यादेशः। `लुनताम्` इति। लोट्? `आमेतः` [[3.4.90]] । `अलुनत` इति। लङ। मिमते` इति। `माङ माने` (धातुपाठः-1088) [`माने शेब्दे च` -धातुपाठः-] अभ्यासस्य `भृञामित्` [[7.4.76]] इतीत्त्वम्। एवं `सञ्जिहते` इत्यत्रापि `ओहाङ गतौ` (धातुपाठः-1089) इत्यस्य। `बिभ्रति` इति। पूर्वादित्वम्। `अलुनात्` इति। ननु चासति क्ङितीत्यस्मिन्नीत्वेनात्र भवितव्यम्, तत्? कुतो लोपस्य प्रसङ्ग? नैतदस्ति; ईत्त्वमपि हि क्ङितीत्यनुवत्र्यम्, तत्र यदि `क्ङिति` इति नानुवर्तते तदा स्यादेव लोपः। नन्वाद्ग्रहणं किमर्थम्, `श्नाभ्यस्तयोरतः` इत्येवोच्येत, एवं ह्रेकमात्रया लघु भवति? इत्यत आह -`आद्ग्रहणं स्पष्टार्थम्। जगर्तेः <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यभ्यस्तसंज्ञायामपि ऋकारलोपो न भवति -जाग्रतीति। एतच्च श्नेत्यकारान्तेन साहचर्यादभ्यस्तस्याकारान्तस्यैव ग्रहणाल्लभ्यते॥", "64113": "`लुनीतः, पुनीतः; `लुनीथ, पुनीथ` इति। तस्थसौ। `मिमीते` इति। आत्मनेपदैकवचनम्। `मिमीषे` इति। `थासः स` [[3.4.80]] । `मिमीध्वम्` इति। ध्वम्। `लुनन्ति, पुनन्ति` इति। झिप्रत्ययः। ननु च यद्यप्यजादावपीत्त्वं स्यात्, लोपोऽनवकाशः स्यात्? अतोऽनवकाशत्वाल्लोप ईत्त्वं बाधिध्यते, तत्? किं `हलि` इत्यनेन? नैतदस्ति; असति हल्ग्रहणे वचनादुभयं स्यात्। घुसंज्ञकेष्वाल्लोपः प्रसज्येत। तस्मात्? `हलि` इति वक्तव्यम्। `दत्त्#H` इति। `खरि च` [[8.4.54]] इति चत्त्र्वम्। `धत्तः` इति। धाञो द्विर्वचने कृते <<अभ्यासे चर्च>> [[8.4.54]] इत्यभ्यासस्य जशत्वे च <<दधस्तथोश्च>> [[8.2.38]] इति भष्भावेन दकारस्य धकारः, धातोस्त्वाकारलोपे कृते जश्त्वचर्त्त्वे॥", "64114": "`दरिद्रति` इति। <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यभ्यस्तसंज्ञा, तेनाभ्यस्तलक्षण आकारलोपो भवति। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -<<श्नसोरल्लोपः>> [[6.4.111]] इत्यतो मण्डूकल्पुतिन्यायेन लोपग्रहणमनुवर्त्त्य सार्वधातुके, हलि, क्ङितत्येतान्? विशेषान्? निवर्त्त्य दरिद्रातेः सामान्येनेत्त्वलोपौ विधातव्यौ। न चैवं सति तौ सङ्करेम प्रसजतः, यस्माद्वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतम्। सा च व्यवस्थितविभाषा। तेन यत्रैवेष्यते यत्? तत्? तत्रैव भविष्यति, नान्यत्रेति। `सिद्धश्च प्रत्ययविधौ` इति। तथासौ कर्तव्यौ यथा प्रत्ययविधौ=प्रत्ययविधानकाले, सिद्धः=निष्पन्नो भवति। एतदुक्तं भवति -आर्धधातुके प्रत्यये विषयभूतेऽनुत्पन्ने एव लोपः कर्तव्य इति। एवं ह्रसौ प्रत्ययविधौ सिद्धो भवति, नान्यथा। `सिद्धश्च प्रत्ययविधौ` इत्यस्योपादाने यत्? फलं तद्? `आकारान्तलक्षणः` इत्यादिना दर्शयति। यद्यार्धधातुक उत्पन्ने सति लोपः क्रियते, तदा `श्याद्व्यधारुआउ` [[3.1.141]] इति सूत्रेण णप्रत्ययः स्यात्; दरिद्रातेराकारान्तत्वात्। ततश्च `आतो युक्? चिम्कृतोः` [[7.3.33]] इति युकि कृते, `दरिद्राय` इत्यनिष्टं रूपं स्यात्। `सिद्धश्च प्रत्ययविधौ` इत्युच्यमाने तु प्रागेव प्रत्ययोत्पत्तेर्लोपः, तस्मिन्? स्यनाकारान्तत्वात्? पचाद्यजेव भवति। तेन `दरिद्रः` इतीष्टं सिद्धं भवति। `न दरिद्रायके लोपः` इत्यादिना श्लोकेन यत्रार्धधातुके लोपो नेष्यते यत्र विकल्पेन चेष्यते कैश्चित्, तद्दर्शयति। `दरिद्रायके` इत्यत्र ण्वुलन्ते शब्दे सिसाधयिषिते लोपो नेष्यते। दरिद्रातीति दरिद्रायाक इति। पूर्ववद्युक्। `दरिद्राणे` इति। अत्रापि ल्युङते लोपो नेष्यते। `दिदरिद्रासतीत्येके` इति। सनि कृते द्विर्वचनम्, अभ्यासकार्यम्। `दिदरिद्रिषतीति वा` इति। `सनीवन्तर्ध` [[7.2.49]] इत्यत्र `तनिपतिदरिद्राणाम्` इत्युपसंख्यानाद्विकल्पेनेट्। `अद्यतन्याम्` इति। लुङीत्यर्थः `लुङोऽद्यतनि` इति पूर्वाचार्यसंज्ञा। `अदरिद्रासौत्` इति। `यमरमनमातां सक्? च` [[7.2.73]] इति सगिटौ, `अस्ति सिचोऽपृक्ते` [[7.3.96]] इतीट्, `इट ईटि` [[8.2.28]] इति सिचो लोपः। ननु च <<आतो धातोः>> [[6.4.140]] इत्याकारालोपे कृते दरिद्र इति निर्देशेन भवितव्यम्, तत्? कथं दरिद्रस्येति निर्देश इत्याह -`दरिद्रस्येति निर्देशः` इत्यादि। `छन्दोवत्सूत्राणि भवन्ति` इत्यतः <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इति बहुलवचनाच्छान्दसमिह ह्रस्वत्वम्। तपकरणं विस्पष्टार्थम्। भाव्यमानतया सवर्णाग्रहणादेव दीर्घो न भविष्यति॥", "64115": "`हलादौ सार्वधातुके क्ङिति परतः` इति। यद्यप्येते विशेषाः पूर्वस्मिन्निवर्तिताः, तथापीह मण्डूकप्लुतिन्यायेनानुवर्तन्त इत्यभिप्रायः। `बिभीतः` इति। `ञि भी भये` (दा।पा।1084) जुहोत्यादित्वाच्छपः श्लुः। हलादावित्येव -बिभ्यतीति। इत्त्वविधानसामर्थ्यादेव `एरनेकाचः` [[6.4.82]] इति यणादेशो न स्यात्। सार्वधातुक इत्येव -भीतः, भीतवान्। क्ङितीति किम्? बिभेति॥", "64116": "ईत्त्वापवाद इत्त्वमारभ्यते; अन्यतरस्यांग्रहणानुवृत्तेः। पक्षे तदपि भवत्येव। सार्वधातुक इत्येव -हीनः, हीनवान्। इह केचित्? `सार्वधातुके` [[6.4.110]] इत्यस्यानुवृतिंत प्रत्याचक्षते। कथम्? `हलि परत ईत्त्वेत्त्वे प्राप्नुतः, द्विर्वचनं च; तत्र यदि परत्वादीत्त्वेत्त्वे स्यातां ततश्चेवर्णन्तताभ्यासस्य स्यात्; तस्मादभ्यस्त ग्रहणमनुवर्तनीयम्, तस्मश्चानुवर्तमाने सार्वधातुकानुवृत्तिरपार्थिका` इति। एतच्चायुक्तम्; अन्तरङ्गत्वात्। `द्विर्वचनेनैव प्रागीत्त्वेत्त्वाभ्यां भवितव्यम्, तत्? कुतोऽभ्यासस्येवर्णान्तताप्रसङ्गः! अन्तरङ्गत्वन्तु द्विर्वचनस्याल्पापेक्षत्वात्। तद्धि श्लुमात्रमपेक्षते। इत्त्वेत्त्वयोश्च बह्वपेक्षत्वाद्बहिरङ्गता, बहवपेक्षा च; तयोः पुनरङ्गस्य हलादौ क्ङिति सार्वधातुके विधानात्। जहातेरिति निर्देशात्? जिहीत इत्यतद्र जिहातेर्न भवति। `पृथग्योगकरणमुत्तरार्थम्` इति। `आच हौ` [[6.4.117]] इत्येष विधिर्जहातेरेव यता स्यात्, बिभेतेर्मा भूदिति॥", "64117": "चकार इत्त्वान्यतरस्यांग्रहणयोरनुकर्षणार्थः॥", "64118": "", "64119": "`अभ्यासलोपश्च` इति धुसंज्ञकार्थमभ्यासलोपग्रहणम्; न त्वस्त्यर्थम्; अस्तेरभ्यासम्भवात्। `देहि चेहि` इति। दाञ्धाञोरेते रूपे। अन्येषान्तु घुसंज्ञकानामुदाहरणं न सम्भवति; विकरणेन हेव्र्यवधानात्। असम्भवाच्च यथायोगम्। तत्र `दो` इत्येतस्य श्यना हिशब्दो व्यवधीयते, दणो धेटस्तु शापा, देङः पुनरात्मनेपदित्वाद हेरसम्भवः। `एधि` इति। सकारस्यैत्त्वे कृते तस्यासिद्धत्वात्? `हुझलभ्यो हेर्धिः [[6.4.101]] इति धिभावः। ननु च <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यलामन्त्यस्य लोपेन भवितव्यम्, तत्? कथं सर्वस्याभ्यासस्य लोपो भवति? इत्यत आह -`शिदयम्` इत्यादि। `लोपश्च` इत्यत्र द्वौ शकारौ निर्दिष्टौ। तत्रैको लोपस्य समबन्धी, द्वितीयस्तु विभक्तेः। यश्च लोपस्य सम्बन्धी तस्येत्संज्ञा प्रतिज्ञायत इति शिदयं लोपो भवति। तेन सर्वस्याभ्यासस्थ लोपो भवति। `आ च हौ` [[6.4.117]] इत्यतो होग्रहणं मण्डूकप्लुतिन्यायेन शक्यतेऽनुवर्तयुतुम्। तत्रन्यतरस्यांग्रहणेन सम्बद्धमिति तदनुवृत्तौ `अन्यतरस्याम्` इत्येतस्याप्यनुवृत्तिरित्याशङ्का स्यात्, अतस्तन्निवृत्त्यर्थं `हौ` इत्युक्तम्। चकारस्य सन्नियोगर्थत्वाल्लोपो भवत्येत्त्वञ्च॥", "64120": "`एकहल्मध्ये` इति। एकशब्दोऽयमसहायवाची। एकश्च एकश्च एकौ, एकौ च तौ हलौ चेत्येकहलौ, एकहलोर्मध्य इति द्विवचनान्तस्य षष्ठीसमासः। द्व्योरेव हि हलोर्मध्यं सम्भवति, नैकस्य। अत्र यदि लिटआदशो न विशिष्यते ततो नेमतुः, नेमु; सेहे सेहाते, सेहिर इत्यत्र न स्यात्। अस्तिह्यत्राप्यङ्गस्यादेश आदिरित्येतच्चेतसि कृत्वा लिटआदेशं विशेषयितुमाह -`लिटि परतः` इत्यादि। लिटि परभूते य आदेशो विधीयते स आदियंस्याङ्गस्य नास्तीत्यर्थः। `तस्य` इति। तस्यैवंविधस्याङ्गस्येत्यर्थः। तस्येति चाङ्गस्य योऽकार इत्यनेन सम्बन्धः। अवयवषष्ठी चेयम्, तस्यैवंविधस्याङ्गस्य योऽकारोऽवयवस्तस्येत्यर्थः। `एक हल्मध्ये` इत्यस्येदं विवरणम् -`असहाययो र्हलोर्मध्ये` इति। तत्येत्यनन्तरोक्तोऽकारः सम्बध्यते। तस्याङ्गस्यावयवस्याकारस्येत्यर्थः। स्थानषष्ठी चेम् -तस्य स्थान एकार आदेशो भवति। `रेणतुः, रेणुः` इति। `अण रण` (धातुपाठः-444,445) इति `रणिः शब्दार्थः` पठते। `येमतुः, येमुः` इति। `यम उपरमे` (धातुपाठः-984)। `देमतुः, देमुः` इति। `दमु उपशमे` (धातुपाठः-1203)। `रराशे`[ररासे -काशिका।] इति। `राशृ शब्दे` [राशृ शब्दे -धातुपाठः-] (धातुपाठः-626) आत्मनेपदी। `शश्रमतुः शश्रमुः` इति। `श्रमु तपसि खेदे च` (धातुपाठः-1204)।केचित्तु ततक्षतुः, ततक्षुरित्येतदेकहल्यध्यस्य प्रत्युदाहरणं पठन्ति; एतच्चायुक्तम्; क्ङितीत्यनुवर्तते, न च पक्षेः परस्य लिटः कित्त्वमस्ति। `असंयोगात्` इति प्रतिषेधात्?। `तत्सरतुः, तत्सरुः` इति। `त्सर छद्मगतौ` (धातुपाठः-554)। `चकणतुः, चकणुः` इति। `अण रण वण भण क्वण कण शब्दार्थाः` (धातुपाठः-444,445,446,447,450449)। तत्र कणतिर्भ्वादौ पठते। `जगणतुः, जगणुः` इति। `गण संख्याने` (धा।प।1853) चुरादौ पठते। ननु च चौरादिकत्वाण्णिचि कृते <<कास्प्रत्ययादाममन्त्रे लिटि>> [[3.1.35]] इत्यामा भवितव्यम्? `अनित्यण्यन्ताश्चुरादयः` (है।प।पा।97) इत्यदोषः। अनित्यण्यन्तत्वन्तु तेषां सप्तमे ज्ञापयिष्यते। `बभणतुः` इति। भणतिर्भ्वादौ पठते शब्दार्थ एव।`नेमतुः` इति। `णम प्रह्वत्वे शब्दे` (धातुपाठः-981)। `णो नः` [[6.1.63]] इति नत्वम्। `सेहे` इति। `षह मर्षणे` (धातुपाठः-852) <<धात्वादेः षः सः>> [[6.1.64]] इति सत्वम्। कथं पुनर्नत्वे सत्वे च लिटयादेशादी न भवतः? इत्यत आह -`अनैमित्तिके नत्वसत्वे` इत्यादि। नत्वसत्वविधाने हि न किञ्चिन्निमित्तमाश्रीयत इत्यनैमित्तिके एते भवतः, ततश्च प्रागेव लिडुत्पत्तेस्ताभ्यां भवितव्यम्। तेन तदादि यदङ्गं तल्लिटआदेशादि न भवति। यदि तर्हि लिटाऽदेशो विशिष्यत एवं सत्यङ्गमविशेषितं स्यात्, ततश्च पक्वः पक्ववानित्यत्रापि प्रसज्येत, पचेरपि ह्रङ्गस्य लिटि परभूते य आदेशः क्रियते स इहाप्यादिर्नास्ति? नैतदस्ति; अभ्यासलोपसन्नियोगेन ह्रेत्त्वमुच्यते। तेन यत्रैवाभ्यासलोपः तत्रैवैत्त्वेन भवितव्यम्। न चात्राभ्यासलोपः; असम्भवात्। इह तर्हि स्यात् -पापच्यत इति? अयमप्यदोषः; इह परत्वात्? <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घो भविष्यति। ह्रस्वहलादिशेषावुत्सर्गौ, तयोर्दीर्घत्वमेत्त्वञ्चापवादः। तत्र दीर्घस्यावकाशः -बाभास्यते, एत्वस्यावकाशः - पेचतुः, पेचुरिति; इहोभ्यं प्राप्नोति -पापच्यत इति, अपवादविप्रतिषेधे सति परत्वाद्दीर्घत्वं भविष्यति। अथ बभणतुः, बभणुरित्यत्रेत्त्वं कस्मान्न भवति, <<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वे कृत आदेशादित्वादिति चेत्? न; एत्त्वे कर्तव्ये जश्त्वस्यासिद्धत्वात्। तस्माद्भवितव्यमेवैत्त्वेन। विप्रतिषेधस्य तु यत्र `कुहोश्चुः [[7.4.62]] इति श्चुत्वं क्रियते -चकणतुः, चकणुः, जहसतुः, जहसुरित्यादाववकशः स्यादित्यत आह -`इह` इत्यादि। कथमेतज्ज्ञायते -नास्त्यसिद्धत्वम्? इत्याह -`तथा च` इत्यादि। तदैव `तृफलभजत्रपश्च` [[6.4.122]] इति फलिभज्योरेत्त्वमुपपद्यते यदि जश्त्वचत्वंयोरसिद्धत्वं न भवति, नान्यथा। अनादेशादित्वादनेनैवैत्त्वस्य सिद्धत्वात्? तन्नोपपद्यते। तस्मात्? फलिभज्योरेत्त्वविधानाददसीयते -जश्त्वचत्त्र्वयोरसिद्धत्वमिह नास्तीति। `रूपाभेदे च` इत्यादि। `शब्दरूपस्य स्थानिनोऽबेदे सति य आदेशः स इह नाश्रीयते` इत्यस्यार्थस्य <<न शसददवादिगुणानाम्>> [[6.4.126]] इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। <<अभ्यासे चर्च>> [[8.4.54]] इत्यनेन प्रकृतिजशां प्रकृतिजशः, प्रकृतिचरां प्रकृतिचरो भवन्तीति शसः शकारस्य शकारो भवति, ददेर्दकारस्यापि दकार; तेनोभावपि तावादेशादी भवतः। तत्र यदि स्थान्यभेदे सति य आदेशः सोऽपीहाश्रीयेत, तत आदेशाद#इत्वादेव न भविष्यतीति शसिद्योरेत्त्वप्रतिषेधो न विधीयेत; विहितश्च, तस्मादेतदेव प्रतिषेधवचनं ज्ञापयति -रूपाभेदे सति य आदेशः स इह नाश्रीयत इति। यदि तह्र्राश्रीयत किं स्यात्? इत्यत आह -`अन्यथा हि` इत्यादि। अन्यथा योऽपि रूपाभेदादादेशः स्थानिनाभिन्नरूपः सोऽपीहाश्रयेत, ततो यथा चकणतुरित्येवमादीनामेत्त्वं न भवति, तथा पेचतुः, पेचुरित्येवमादीनामपि प्रकृतिजश्चरादीनां न स्यात्। प्रकृतिजशः प्रकृतिचरश्चादयो येषान्ते तथोक्ताः। `अहं पपठ, अहं पपच` इति। अत्र स्थानिवद्भावेन पित्त्वात्? कित्त्वं नास्ति, तेनैत्त्वाभ्यासलोपौ न भवतः। वृद्धिरपि न भवति; <<णलुत्तमो वा>> [[7.1.91]] इति पक्षे णित्त्वाभावात्। णित्त्वपक्षे तु परत्वाद्वृद्ध्या बाधित्वादेत्त्वादेत्त्वाभायासलोपाभ्यां न भवितव्यम्, इत्यणित्त्वपक्ष एवोदाहृतम्। `दम्भेः` इति। किं पुनः कारणं दम्भेरेत्त्वं न भवति, यावता `लिटनादेशाध्रेतदङ्गम्। `अनिदिताम्` [[6.4.24]] इत्यादिना न लोपे कृत एकहल्मध्य एवाकारः? इत्यत आह -`नलोपस्य` इत्यादि। `ग्रन्थिश्रन्थिदम्भिस्वञ्जीनाम्` (वा।17) इति सूत्रे [] दम्भेः परस्य लिटः कित्त्वमुक्तम्, तस्मिन्? सति य उपधाया लोपस्तस्य `असिद्धवदत्रा भात्` [[6.4.22]] इत्यसिद्धत्वान्न प्राप्नोति। तस्माद्दम्भेरेत्त्वं वक्तव्यम्। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -`श्नसोरल्लोपः [[6.4.111]] इत्यत्रा भाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वं ज्ञापितम्, तेन दम्भेरेत्त्वे कर्तव्ये लोपस्यासिद्ध्त्त्वं न भवति, ततश्च दम्भेर्लिटत्त्वं भविष्यतीति। अथ वा `अत एकहल्मध्ये` [[6.4.120]] इत्यत्र `अतः` इति योगविभागः कर्तव्यः, तेन यत्र यत्रेत्त्वमिष्यते तत्र तत्र भविष्यतीति। एवञ्च कृत्वा `नशिमन्योरलिटएत्त्वम्` (वा।793) इत्याद्यपि नोपसंख्येयम्; योगविभागेनैव सिद्धत्वात्। वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थ इति सर्वत्र वेदितव्यम्। `अनेशम्` इति। `तस्थस्थ` [[3.4.101]] इत्यादिना मिपोऽम्भावः। अथ `मेनका` इत्यत्र `प्रत्ययस्थात्` [[7.3.44]] इत्यादिनेत्त्वं कस्मान्न भवति? इत्याह -`क्षिपकादिषु` इत्यादि। क्षिपकादिष्वित्त्वस्य प्रतिषेधो वक्ष्यते। अस्य च क्षिपकादिषु प्रक्षेपः, तेनेत्त्वं न क्रियते। `चानशि` इति। `तच्छील्यवयोवचनशक्तिषु चानश` [[3.2.129]] `मुक्? न क्रियते` इति। <<आने मुक्>> [[7.2.82]] इति मुक्? प्राप्नोति, स न भवति `अनित्यमागमशासनम्` (व्या।पा।95) इति कृत्वा। छान्दसत्वाद्वा -`सर्वे विधयश्छन्दसि विकल्प्यन्ते` (भो।प।99) इति। `छान्दसं ह्रस्वत्वम्` इति। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्` [[6.3.63]] इति ङ्यापोर्विधीयमानं ह्रस्वत्वं बहुलवचात्? `पेरिरन्नित्यत्रापि वति। पचेर्लिङ्, सीयुट्, झस्य रन्, शप्, <<आद्गुणः>> [[6.1.87]] । पचेरन्निति प्राप्त एत्त्वे ह्रस्वत्त्वे च कृते पेचिरन्निति भवति॥", "64121": "", "64122": "`तेरतुः तेरुः` इति। `ऋच्छत्यृताम्` [[7.4.11]] इति गुणः। `फेलतुः, फेलुः` इति। `फल निष्पत्तौ` (धातुपाठः-530), `ञि फला विशरणे` (धातुपाठः-516) इति च। `तरतेर्गुणार्थम्` इति। <<न शसददवादिगुणानाम्>> [[6.4.126]] इति प्रतिषेधं वक्ष्यति। अतस्त्रतेरिदं वचनं गुण इत्येवमभिनिवृत्तस्यापि यथा स्यादित्येवमर्थम्। `श्रन्थेश्चेति वक्तव्यम्` इति। `ग्रन्थ श्रन्थ सन्दर्थे` (धातुपाठः-1511,1512) इत्यस्याप्येत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽतत्र क्यिये, स चानुक्तसमुच्चयार्थः, तेन श्रन्थेरपि भविष्यतीति। `श्रेथतुः, श्रेथुः` इति पूर्ववदुपसंख्यानेन लिटः कित्त्वे नकारलोपः॥", "64123": "", "64124": "`जृ? वयोहानौ` (धातुपाठः-1494) [`जृ -मु।पाठः] इत्यस्य गुणार्थं वचनम्। भ्रमेरादेशार्थम्, अनेकहल्मध्यार्थञ्च त्रसेश्चानेकहल्मध्यर्थम्। `जजरतुः` इति। पूर्ववद्गुणः॥", "64125": "बहुवचननिर्देशादाद्यर्थो गम्यते। अत आह -`फणादीनाम्` इत्यादि। `फण गतौ` (धातुपाठः-821) `राजृ दीप्तौ` (धातुपाठः-822) `टु भ्राजृ टु भ्राशृ टु भ्लाशृ दीप्तौ` (धातुपाठः-823-825)। `स्यमु स्वन ध्वन शब्दे` (धातुपाठः-826-828) इत्येते ध्वनवर्जिताः फणादयः सप्त। तत्राद्यस्य नित्ये प्राप्ते विकल्पार्थं वचनम्, इतरेषामप्राप्ते। तत्र राजृप्रभृतीनां चतुर्णामवर्णस्यैत्त्वस्य प्रतिप्रत्तये <<राधो हिंसायाम्>> [[6.4.123]] इत्यत्र `अत इत्येतदिहोपस्थितम्` इत्यादिना यदुक्तं तद्यथासम्भवं वेदितव्यम्॥", "64126": "अत्र यदि गुण इत्येनेन यस्यैत्त्वं विहितं स एत्राकार उच्यते, ततोऽयमर्थः -अकारस्य गुणस्य न भवतीति। तथा चैत्त्वविधिरनवकाश एव स्यादित्येतद्बुद्धौ कृत्वा नात्र गुणेनाकार एवोच्यते, अपि तु गुणशब्दभिनिर्वृत्त इति दर्शयन्नाह -`गुण इत्येवमभिनिर्वृत्तस्य च` इत्यादि। गुणशब्दमुच्चार्य योऽभिनिर्वृत्तः शब्दस्तस्य सम्बन्धी योऽकारस्तस्य स्थान एत्त्वं न भवतीत्यर्थः। तत्सम्बन्धित्वं पुनस्तस्य तत्स्थानिकत्वात्? तदवयवत्वाच्च यद्यायोगं वेदितव्यम्। तदेवं गुणशब्दाभिनिर्वृत्तस्य सम्बन्ध्यकारः प्रतिषेधस्य निमित्तम्, इतरस्तु विधेरित्येव विधिप्रतिषेधयोर्विषयविभागः। `विशशसतुः` इति। `शसु हिंसायाम्` (धातुपाठः-727)। `दददे` इति। `दद दाने` धातुपाठः-17)। `ववमतुः` इति। `टु वम उद्गिरणे` (धातुपाठः-849) `विशशरतुः` इति। `शृ हिंसायाम्` (धातुपाठः-1488)। `गुणशब्दभिनिर्वृत्तस्य` इत्यादिना यदुक्तं तस्यार्थमुदाहरणे दर्शयति। `विशशरतुः` इत्यत्रारित्ययं शब्दो गुणशब्दाभिनिर्वृत्तः। तत्सम्बन्ध्यकारस्य तदेकदेशात्वात्। `लुलविथ` इति। अत्राप्योकारो गुणशब्दाभिनिर्वृत्तः तत्सम्बन्ध्यकारस्य तत्स्थानिकत्वात्। ननु `विशशरतुः` इत्यत्राकारमात्रं ग#उणशब्देनाभिनिर्वृत्तम्, नाऽर्शब्दः! नैतदस्ति; रेफस्य गुणभक्तत्वात्। तथा च भाष्यम् -`अर्भवति गुणो भवति, आर्भवति वृद्धिर्भवति -रेफसहितो गुणवृद्धिसंज्ञो भवति` इति॥", "64127": "`त्` इत्ययमादेशो भवति` इति। `नानुबन्धकृतमनेकाल्त्वम्` (व्या।प।14) इत्यन्तस्य भवति; एकाल्त्वात्, कारस्यानुबन्धत्वात्। उकारस्यानुबन्धत्वात्? प्रथमैकवचनं सुशब्दो गृह्रते, तेन सप्तमीबहुवचने भवत्येव -अर्वत्स्वित। स च नञ उत्तरो न भवतीति चेदिति यत्? प्रकृतं तदिहापि सम्बध्यते। `अर्वन्तौ` इति। ऋकारस्योगित्कार्यार्थत्वात्? `उगिदचाम्` [[7.1.70]] इति नुम्। `अर्वति` इति। <<उगितश्च>> [[6.3.45]] इति ङीप्। `आर्वतम्` इति। अपत्यार्थविवक्षायामण्। ननु च नञिवयुक्तन्यायेन (व्या।प।65) सादृश्यात्? सोरन्यत्र विभक्तादेव भवितव्यम्? नैतत्; असाविति प्रसज्यप्रतिषेधोऽयम्। अत एव वृत्तिकृतोक्तम् -`सुश्चेत्? ततः परो न भवति` इति। अन्यथा सोरन्यो यः सुप्? स चेत्? ततः परो भवतीति ब्राऊयात्। अथापि पर्युदासः? एवमप्यदोषः; अनित्यत्वान्नञिवयुक्तपरिभाषायाः। अनित्यत्वन्तु तस्याः <<ओषधेश्च विभक्तावप्रथमायाम्>> [[6.3.132]] इत्यत्र विभक्तिग्रहणाद्विज्ञायते। यदि हि सा नित्या स्यात्, प्रथमापर्युदासेन विभरक्तावेव भविष्यतीति विक्तक्तिग्रहणं न कुर्यात्। कुर्वन्नपि तज्ज्ञापयति -अनित्येयं परिभाषेति॥", "64128": "मधवेति सुव्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। `मधोनः` इति। `आयुवमधोनाम्` [[6.4.133]] इति समप्रसारणम्, परपूर्वत्वम्, <<आद्गुणः>> [[6.1.87]] । ननु च मघोऽस्यास्तीति मत्वर्थविवक्षायां `छन्दसीवनिपो वकतव्यौ` (वा।582) इति वनिप्रत्ययान्तोऽयं मघवन्शब्दः। तत्र वनिपः सम्प्रसारणे भसंज्ञायां सत्याम्, <<यस्येति च>> [[6.4.148]] इति लोपेन भवितव्यम्, ततश्च `मधुनः` इत्यनिष्टं रूपं स्यात्? नैतत्; अन्येव हीदमव्युत्पन्नं प्रातिपदिकम्, तथा हि भावायामपि तस्य प्रयोगो दृश्यते। अथापि वनिप्प्रत्ययान्तः स्यात्? एवमपि बहुलवचनात्? `यस्येति` [[6.4.148]] इति लोपो न भविष्यतीत्यदोषः। `मघोनी` इति। `ऋन्नेभ्यो ङीप्` [[4.1.5]] । `माघवनम्` इति। पूर्ववदण्। `अन्` [[6.4.67]] इति प्रकृतिवद्भावः॥", "64129": "", "64130": "`पादः` इति। `पादशब्दो लुप्ताकारो गृह्रते` इति। अथ पादयतेः क्विबन्तस्य यः पाच्छब्दः सम्पद्यते स कस्मान्न गृह्रते? तस्यासम्भवात्। पादयतेर्हि क्विप्? <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इत्यनेन स्यात्? स च `दृश्यते` इति वचनान्न भवति। यत्र लोके क्विबन्तप्रोयगो दृश्यते तत्र यथा स्यादित्येवमर्थं हि तत्र `दुश्यते` इत्तयुक्तम्, न च पादयतेः क्विबन्तस्य प्रयोगो दृश्यते? पादशब्दस्य समास एवाकारो लुप्यते, तेन सामर्थ्यात्? तदन्तस्याङ्गस्य कार्यं विज्ञायत इत्याह -`तदन्तस्याङ्गस्य` इत्यादि। यदि तर्हि पाच्छब्दन्तस्याङ्गस्य पदित्ययमादेशो विज्ञायेत, एवं तर्हि <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति सर्वस्य तदन्तस्य प्राप्नोतीत्याह -`स च` इत्यादि। `द्विपदः` इति। द्वौ पादवस्येति बहुव्रीहिः। <<संख्यासुपूर्वस्य>> [[5.4.140]] इत्यकारलोपः। `द्विपदिकाम्` इति। द्वौ द्वौ पादौ ददातीति `पादशतस्य` [[5.4.1]] इत्यादिना वुन्। `वैयाघ्रपद्यः` इति। व्याघ्रस्येव पादावस्येति बहुव्रीहिः, <<पादस्य लोपोऽहस्त्यादिभ्यः>> [[5.4.138]] इत्यकारलोपः, व्याघ्रपदोऽपत्यमिति गर्गादित्वाद्यञ्॥", "64131": "प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) तदन्तस्य कार्यं विज्ञायत इत्याह -`वस्वन्तस्य, इत्यादि। `विदुषः` इति। <<विदेः शतुर्वसुः>> [[7.1.36]] । `पेचषः` इति। <<क्वसुश्च>> [[3.2.107]] इति लिटः क्वमुः, `अत एकहल्मध्ये` [[6.4.120]] इत्यादिनैत्तवाभ्यासलोपौ। `पपुषः` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। ननु चाकारलोपे कर्तव्ये सम्प्रसारणमसिद्धम्, तत्? कुतोऽत्राकारलोपः? इत्याह -`आकारलोपे कर्तव्ये` इत्यादि। आकारलोपः सम्प्रसारणे, तत्तु विभक्ताविति वयाश्रयत्वम्, अतो नास्त्यसिद्धत्वम्। ननु च एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इति, `तदनुबन्धकग्रहणे नातदनुबन्धकस्य` (व्या।प।54) इति वा न क्वसोरिह ग्रहणेन भवितव्यम्, तत्? कथं पपुषः, पेचुष इत्यत्र सम्प्रसारणं भवति? इत्याह -`वसुग्रहणे` इत्यादि। एतत्तु शत्रादेशस्य वसोरुकारानुबन्धकरणाद्वेदितव्यम्। उकारानुबन्धस्य ह्रेतदेव फलम् -इह सामान्येन ग्रहणं यथा स्यात्। ननु चोगत्त्वार्थं तत्? स्यात्? नैतत्; उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात्॥", "64132": "`वाहः` इति। वहिरयं ण्विप्रत्ययान्तः, स चास्मात्सोपपदादेव ण्विर्विहितः। तेन सामर्थ्यात्? तदन्तविधिर्विज्ञायत इत्याह - `वाह इत्येवमन्तस्य` इत्यादि। `ऊडित्येतत्` इति। ठिदयमूकारः। <<एत्येधत्यूठ्सु>> [[6.1.89]] इति विशेषणार्थः। `सम्प्रसारणं भवति` इति। सम्प्रसारणमित्येष विशेषः कुतो लभ्यते। पूर्वसूत्रात्? सम्प्रसारणमित्यस्यानुवृत्तेः। किमर्थं पुनः सम्प्रसारणमनुवार्यते? स्थानिनियमार्थम्। यद्येतन्नानुवत्र्यते, यण एव स्थाने <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति भवितव्यम्। `प्रष्ठौहः` इति। प्रष्ठं वहतीति <<भजो ण्विः>> [[3.2.62]] इत्यनुवर्तमाने `वहश्च` [[3.2.64]] इति ण्विः। अथ किमर्थमूठ्? क्रियते, न `वाह` इत्येतावदेव सूत्रं कर्तव्यमित्यभिप्रायः। `सम्प्रसरण एव कृते` इति। पूर्वसत्रात्? समप्रसारणग्रहणानुवृत्तेः। `गुणे च` इति। कृत इति सम्बन्धः। गुणस्तु <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति लुप्तेऽपि ण्वौ प्रत्यलक्षणेन। ननु च `अङ्गवृत्ते पुनरङ्गवृत्तावविधि निष्ठितस्य` (व्या।प।38) इति सम्प्रसारणे कृते गुणेन न भवितव्यम्? `निष्ठितस्य` इति। `वचनाददोषः। निष्ठा हि शब्दस्य परिसमाप्तिः, सा च तदा भवति यदा शब्दसय प्रयोगार्हता भवति। न च यावद्गुणादिसंस्कारो न क्रियते तावदस्य प्रयोगार्हता भवति। तस्मात्? कृतेऽपि सम्प्रसारणे भवत्येव गुणः, तत्रेतत्? स्यात्। यद्यूड् न क्रियते, तदा शार्लि वहति, दितिं वहति, शाल्युहः, दित्यूह इत्येवमाद्यनकारन्ते शालिदितिशब्द उपपदे वहेर्ण्वि प्रत्यये विहिते सति न सिद्ध्यतीत्यत आह - `अनकारान्ते चोपपदे` इत्यादि। `वहश्च` [[3.2.64]] इत्यनेन <<छन्दसि सहः>> [[3.2.63]] इत्यतोऽत्र छन्दोग्रहणानुवृत्तेश्छन्दस्येव ण्विर्विधीयते, दृष्टार्थविधिश्छन्दसि, अकारान्त एव चोपपदे प्रष्ठादौ वहेश्छन्दसि ण्विर्दृश्यते न त्वकारान्ते शाल्यादौ। कथं पुनरनेन बहिरङ्गपरिभाषा ज्ञाप्यते? इत्याह - `तस्यां हि` इत्यादि। बहिरङ्गत्त्वं पुनः सम्प्रसारणस्य बाह्राजादिप्रत्ययनिमित्तां भसंज्ञामाश्रित्य प्रवृत्तात्वात्। गुणस्य त्वन्तरङ्गत्त्वम्; अबाहृप्रत्यये प्रवृत्तत्वात्। किं पुनरस्याः परिभाषायाः ज्ञापनेनप्रयोजनम्? पचावेदम्, यजावेदमित्यत्रः सिद्धत्त्वं बहिरङ्गलक्षणस्य। अतोऽन्तरङ्गलक्षणमेत ऐत्वं न भवति; बहिरङ्गलक्षणत्वाद्गुणस्य। बहिरङ्गत्वन्तु पदद्वयाश्रितत्वात्। ऐत्वस्य त्वन्तरङ्गत्वं विपर्ययात्॥", "64133": "`यूनः` इति। सम्प्रसारणे कृते परपूर्वत्वे च सवर्णदीर्घत्वम्। `शौवम्` इति। <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः। `यौवनम्` इति। यूनो भाव इति <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] इत्यण्, `अन्` [[6.4.167]] इति प्रकृतिभावात्? `टेः` [[6.4.143]] इति टिलोपाल्लोपौ न भवतः। `माघवनम्` इति -मघवा देवताऽस्येति <<सास्य देवता>> [[4.2.24]] इत्यण्, पूर्ववत्प्रकृतिभावः। `शौवम्` इत्येतद्व्युत्पादयितुमाह -`शुनो विकारः` इत्यादि। युवशब्दस्य तिप्रत्ययान्तस्यापि `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति सम्प्रसारणं प्राप्नोति। मधवन्नित्यस्यापि त्रित्यादेशे कृते `एकदेशविकृतमनन्यवद्भवति` (व्या।प।16) इति तकारान्तस्यापि प्राप्नोति। तत्? कथं न भवति? इत्याह -`आआदीनाम्` इत्यादि। `तदर्थम्` इति। नकारान्तानामेव यथा स्यात्, अनकारान्तानां मा भूदित्येवमर्थम्। `अन इत्युभयोः शेषः` इति। अन इत्यस्योभयोर्योगयोः शेषत्वेऽवयवत्वे सत्यन इत्यनेन सम्प्रसारणशेषस्यातिदेश इति न भवति॥", "64134": "", "64135": "`अन्` [[6.4.167]] इति प्रकृतिभावेनाल्लोपस्य निवृत्तिर्मा भूदित्येवमर्थ वचनम्। `औक्ष्णः, ताक्ष्णः` इति। उक्षन्, तक्षन्, इत्येताभ्यामपत्यार्थेऽण्। `भ्रौणाध्नः` इति। भ्रूणं हतवानिति `ब्राहृभ्रूणवृत्रेषु हनः` [[3.2.87]] [`ब्राहृभ्रूणवृत्रेषु क्विप्` इति सूत्रम्] इति क्विप्, तदन्तादण्, <<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इति कुत्वम्। `धार्तराज्ञः` इति। घृतराजशब्दाद्बहुव्रीहेरण्। `सामनः, वैमनः` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्, `उभावपि न भवतिः` इति। अल्लोपटिलोपावुभावपि चापेक्ष्य प्रकृतिभावस्य विधानात्। `ताक्षण्यः` इति। `कुर्वादिब्यो ण्यः` [[4.1.151]] इति ण्ये प्रकृते सेनान्तलक्षणकारित्वाण्ण्यप्रत्ययः` [[4.1.152]] , <<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिभावः॥", "64136": "`शीशब्दे च` इति। एतेन <<नपुंसकाच्च>> [[7.1.19]] इति यो विहितः शोशब्दस्तस्येदं ग्रहणम्, न तु <<जश्शसोः शिः>> [[7.1.20]] इति यो विहितः शिशब्दस्तस्येदं ग्रहणमिति दर्शयति। कुतः पुनरेतज्ज्ञायते? शिशब्दे भसंज्ञाया अभावात्॥", "64137": "`प्रति दीव्ना` इति। `हलि च` [[8.2.77]] इति दीर्घः। अथान्तग्रहणं किमर्थम्, न `दमः` इत्येवोच्येत, वकारमकाराभ्यां संयोगेन विशिष्यमाणेन च तदन्तविधिर्भवतीत्यन्तरेणाप्यन्तग्रहणं तदन्तविधिर्लभ्यत एव? सत्ययेतत्, विस्पष्टार्थमन्तग्रहणम्॥", "64138": "`अच इत्ययमञ्चतिर्लुप्तनकारो गृह्रते` इति। कुत एतत्, प्रत्याहारः कस्मान्न गृह्रते? `अल्लोपः` [[6.4.134]] इत्यानुवृत्तेर्न शक्यते प्रत्याहारो ग्रहीतुम्। प्रत्याहारग्रहणे सति तेनाकारो विशिध्येत, तथा चानर्थकं प्रत्याहारग्रहणं स्यात्। न ह्रकारोऽचत्वं व्यभिचरति। ननु चाङ्गं प्रकृतम्, तत्? प्रत्याहारेण विशिष्यते -अजन्तस्याङ्गस्येति? न; एवं सत्यजन्तस्याङ्गस्याल्लोपो भवतीत्येष सूत्रार्थः स्यात्। तथा च <<यस्येति च>> [[6.4.148]] इति लोपोऽनर्थकः स्यात्; अनेनैव सिद्धत्वात्। अपि च <<द्युप्रागपागुदक्प्रतीचो यत्>> [[4.2.101]] इत्येत्रमादिनिर्देशो लिङ्गं ह्यत्राप्रत्याहारग्रहणस्य। यदि हि प्रत्याहारग्रहण स्यात्, अत्राञ्चतेग्र्रहणं न स्यात्, न ह्रेतदजन्तमङ्गम्। अत एव निर्देशात्? पचाद्यजपि न गृह्रते। न ह्रेतत्? पचाद्यजन्तमङ्गम्। `दधीचः` इति। दध्यञ्चतीति ऋत्विगादिना [[3.2.59]] क्विन्, `आनिदिताम्` [[6.4.24]] इत्यादिनानुनासिकलोपः; `चौ` [[6.3.137]] इति दीर्घः॥", "64139": "", "64140": "`कीलालपः` इति। <<विजुपे छन्दसि>> [[3.2.73]] इति विचि प्रकृते <<आतो मनिन्क्वनिब्वनिपश्च>> [[3.2.74]] इति विच्। `नियेः` इति। क्विप्? इयङ॥", "64141": "`आङ` इति तृतीयैकवचनस्यैषा संज्ञा पूर्वाचार्यैर्विहिता। `आङोऽन्यत्रापि दृश्यते` इति। `मन्त्रेषु` इति बहुवचननिर्देशादेतल्लभ्यते। बहुवचननिर्देशेन ह्रयमर्थः सूचितः -बहुविषयोऽयं निर्देश इति। एवञ्च बहुविषयो भवति यद्याङोऽन्यत्रापि क्वचिद्भवति, नान्यथा। `त्मान्यासमञ्जत` इति। सप्तम्येकवचने। अत्रादिलोपः। आदिग्रहणमुत्तरार्थम्। इह तु पूर्वसूत्रात्? `आतः` [[6.4.140]] इत्यनुवृत्तेरन्तरेणाप्यादिग्रहणमादेरेवलोपो भवतीति शक्यते विज्ञातुम्॥", "64142": "`विंशकः` इति। `विंशतिर्त्रिशद्भ्यां ड्वुनसंज्ञायाम्` [[5.1.24]] इति ड्वुन्, तिशब्दस्य लोपे कृते अतो गुणे` [[6.1.94]] पररूपत्वम्। `विंशं शतम्` इति। विंशतिरधिकाऽस्मिन्निति `शदन्तर्विशतेश्च` [[5.2.46]] इति डप्रत्ययः। `विंशः, एकविंशः` इति। तस्य पूरणे डट्? [[5.1.47]] । तिग्रहणमनत्यस्य मा भूदित्येवमर्थम्॥", "64143": "`कुमुद्वान्` इत्यादि। कमुदनडवेतसेभ्यश्चातुरर्थिको ड्मतुप्? [[4.2.86]] । `उपसरजः` इति। <<सप्तम्यां जनेर्डः>> [[3.2.97]] एवं `मन्दुरजः` इत्यत्रापि। अत्र हि <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इति पूर्वपदस्य ह्रस्वत्वम्। `तिंरशकः` इति। पूर्ववत्? ड्वुन्। ननु च `भस्य` [[6.4.129]] इत्यनुवर्तते, न च ड्मतुपि डप्रत्यये च धातोर्विहिते पूर्वस्य भसंज्ञा प्राप्नोति, उभयोरनजादित्वात्? अस्वादित्वाच्च यथायोगम्, तत्? कथमत्र लोपो भवति? इत्याह -`डित्यभस्यापि` इत्यादि। यदि टिलोपो न स्यात्, तदा डित्त्वमनर्थकं स्यात्। अथैवं कस्मान्न विज्ञातुम्। एवं तर्हि <<प्रावृट्शरत्कालदिवां जे>> [[6.3.15]] इति कृतटिलोपस्य जनेर्निर्देशो नोपपद्येत? तस्मादत एव निर्देशादवसीयते -भवति धातुप्रत्ययडकारस्येत्संज्ञेति। तस्याञ्चासत्यां यदि टिलोपो न स्यात्, तस्यास्तदा वैयथ्र्यं स्यात्। ड्मतुपोऽपि यदि डकारस्य लोपो न स्यात्, तदन्तेन तन्नामादेशो न गम्येत, तत्र च <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]] इति वर्तते। तस्मादवश्यं तत्रापि डकारस्येत्संज्ञया भवितव्यम्, तस्याञ्च तत्सामर्थ्याट्टिलोपेन॥", "64144": "`सात्वतः` इति। सत्वतोऽपत्यमित्यण्। `नान्तस्य टिलोपः` इत्यादि। किं पुनः कारणं न सिद्ध्यति यत उपसंख्यानं कर्तव्यम्? इत्याह -`अत्र य इन्नन्ताः` इत्यादि। ये त्वन्नन्तास्तेषामन्` [[6.4.167]] इति प्रकृतिभावः प्राप्त इति प्रकृतेन सम्बन्धः। `साब्राहृचारः` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। `पीठसर्पिणः` इति। इम इति प्रकृतेन सम्बन्धः। `पैठसर्पाः` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। `पीठसर्पिणः` इति। इम इति प्रकृतेन सम्बन्धः। `पैठसर्पाः` इति। पूर्ववदण्। `कालापाः` इति। पूर्ववत्प्रोक्तार्थे `कलापिवैशम्यायनान्तेवासिभ्यश्च` [[4.3.104]] इति वैशम्पायनान्तेवासित्वाण्णिनिप्रत्यये प्राप्ते तदपवादः <<कलापिनोऽण्>> [[4.3.108]] , ततः <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तस्य <<प्रोक्ताल्लुक्>> [[4.2.64]] इति लुक्, <<छन्दोब्राह्मणानि च तद्विषयाणि>> [[4.2.66]] इत्यध्येतृवेदितृविषयता। `कोथुमाः` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। `तत्कृतो ग्रन्थ उपचारात्` इत्यादि। उपचारस्य तु तत्कृतत्वात्र निबन्धनम्। भवति हि तत्कृतत्वे तदुपचारः, यथा सर्वमिदं पुराणं कर्म शुभाशुभं भुज्यत इति। अथ कस्मादुपचार आश्रीयते, न <<अधिकृत्य कृते ग्रन्थे>> [[4.3.87]] इत्येवमादिशैषिकार्थविवक्षायां तद्धित एव क्रियेत? इत्यत आह -`शैषिकेष्वर्थेषु` इत्यादि। तैतिलिजाजलिशब्दौ वृद्धसंज्ञकौ, तयोर्वृद्धत्वात्? शैषिकेष्वथषु विधीयमानोऽसौ तद्धितः <<वृद्धाच्छः>> [[4.2.114]] इति छः प्रसज्येत। तस्मश्च सति `तैतिलाः, जाजलाः` इति न सिद्ध्येत्, तस्मान्मा भूदेष दोष इत्युपचार आश्रितः। `एवम्` इत्यनेनान्तरोक्तां व्युत्पतिंत दर्शयति छप्रत्ययनिवृत्तये। लाङ्गलिशब्दस्याप्येवं व्युत्पत्तिः कर्तव्या। लाङ्गलिः आचार्यः, तत्कृती ग्रन्थ उपचारात्? लाङ्गलशब्देनाभिधीयते। `लाङ्गलाः` इति। `शिखण्डाः` इत्याद्युदाहरणत्रयेऽपि <<तस्येदम्>> [[4.3.120]] इत्यण्। `आश्मः` इति। अत्रापि <<तस्य विकारः>> [[4.3.134]] इत्यण्। `आश्मनोऽन्यत्र` इति। अत्रापि <<तस्येदम्>> [[4.3.120]] इत्यत्रार्थाभिधाने। `चार्मः` इत्यत्रापि <<तस्येदम्>> [[4.3.120]] इत्यणेव।`चर्मणोऽन्यः` इति। चर्मणो विकार इति। `शौवः` इति। `द्वारादीनाञ्च` [[7.3.4]] इत्यैजागमः। सायम्प्रातिकायः प्रातिपदिकेषु न पठन्त इत्यतः पृच्छति -`के पुनः सामम्प्रातिकादयः इति। सायम्प्रातिकप्रकारा इत्यनेन प्रकारवचनतामादिशब्दस्य दर्शयति।ननु च `सायञ्चिरम्` [[4.3.23]] इत्यादिनाऽव्ययेभ्यष्टउल्भ्यां भवितव्यम्, तत्? कथं ठञ्? भवति? इत्याह -`टउटउलौ तु नेष्येते` इति। अनभिधानात्। अत्र च सर्वत्रोपसंक्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् -मन्त्रेष्वित्यादेः [[6.4.141]] सूत्रादादिग्रहणमनुवर्तते, तद्धितग्रहणञ्चेदमर्थमेव कृतम्। तदनुवृत्तौ चायमर्थो भवति -नान्तादीनां तद्धिते परतष्टिलोपो भवतीति। आदिशब्देन सायम्प्रातिकादयो गृह्यन्ते। तेन सर्वत्र टिलोपः सिद्धो भवति। `इत्येवमादिषु न दृश्यते टिलोपः` इति। एतेनारातीयः इत्येवमादीनामसायम्प्प्रातिकत्वं दर्शयति। अथ `शाआतः` इत्यत्र कथमण्, यावता `कालट्ठञ` [[4.3.11]] इति ठञा भवितव्यम्? नैतदस्ति; `कालट्ठञ्` [[4.3.11]] इत्यत्र `कालात्` इति योगविभागः कर्तव्यः, तेन शआच्छब्दाद्यथादिहितमण्? भवति। न च योगविभागेन ठञ्? बाध्यते; `येषाञ्च विरोधः शाआतिकः` [[2.4.9]] इति निपातनात्। तेन पक्षे ठञपि भवत्येव। टउटउलौ तु शाआतशब्दान्नेष्येते, अनभिधानादेव। अथ `शाआतिकः` इत्यत्र `इसुसुक्तान्तात्कः` [[7.3.51]] इति ठञः कादेशः कस्मान्न भवति? अत एव निर्देशात्॥", "64145": "`द्व्यहः` इति। <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति समासः, `राजहःसखिभ्यष्टच्` [[5.4.91]] इति टच्? समासान्तः। अत्र `अह्नोह्न एतेभ्यः` [[5.4.88]] इत्यह्नादेशः प्राप्तः स च <<न संख्यादेः समाहारे>> [[5.4.89]] इति प्रतिषेधान्न भवति। `द्व्यहीनः` इति। तद्धितार्थे `समायाः` [[5.1.84]] इति वर्तमाने <<रात्र्यहस्संवत्सराच्च>> [[5.1.87]] इति खः। केन पुनरहीन इत्यत्र खप्रत्ययः? इत्याह -`अह्नः समूहे खो वक्तव्वः` इति। ननु च अह्नो नकारान्तत्वात्? पूर्वेणैव सिद्धष्टिलोपः, तत्? किमर्थोऽयमारम्भः? इत्याह -`सिद्धे सति` इत्यादि। `आह्निकम्` इति। आर्हीयष्ठक्। यदि सिद्धे सति नियमर्थोऽयमारम्भः, एवं सत्येवग्रहणमनर्थकं स्यात्, विनापि तेन सिद्धे सत्यारम्बो नियमार्थो विज्ञास्यते? इत्याह -`एवकारकरणं विस्पष्टार्थम्` इति। अथ विपरीतनियमाशङ्कानिरासार्थं कस्मान्न भवति? इत्याह -`अह्न एव` इत्यादि। यद्यह्न एव टखोः -इत्येव विपरीतनियमः स्यात्, एवं सत्यन्यस्य खे टिलोपप्रसङ्ग एव नास्ति। `आत्माध्वानो खे` [[6.4.169]] इति प्रकृतिवद्भावविधानमनर्थकं स्यादित्यभिप्रायः॥", "64146": "`बाभ्रष्यः` इति। `मधुबभ्व्रोब्र्राआह्रणकौशिकयोः` [[4.1.106]] इति बभ्रुशब्दादपत्यार्थे यञ्। `माण्डव्यः` इति। अत्रापि गर्गादित्वात्। <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यवादेशः। `शङ्कव्यम्` इत्यदौ <<तस्मै हितम्>> [[5.1.5]] इत्यस्मिन्नर्थे <<उगवादिभ्यो यत्>> [[5.1.2]] । `औपगवः, कापटवः` इति। अत्राप्यपत्यार्थेऽण्। तद्धित इत्येव -`वोतो गुणवचनात्` [[4.1.44]] इति ङीष्, पट्वी। `ओरोत्` इति वक्तव्ये` इत्यादि। एवमुच्यमाने लघु सूत्रं भवतीति भावः। `स्वायम्भुवः` इति। स्वयं भवतीति क्विप् -स्वयम्भूः, स्वयम्भुव इतमित्यण्। संज्ञापूर्वकस्य विधेरनित्यत्वादत्र गुणो न भवति, तस्मिंश्चासत्युवङेव क्रियते॥", "64147": "`कामण्डलेयः, शैतबाहेयः` इति। <<चतुष्पाद्भ्यो ढञ्>> [[4.1.135]] इति ढञ्। एवं `जाम्बेयः` इत्यत्रापि। `माद्रबाहेयः` इति। मद्रबाहुशब्दात्? `बाह्वन्तात्? संज्ञायाम्` [[4.1.67]] इत्यूङ, तदन्तात्? <<स्त्रीभ्यो ढक्>> [[4.1.120]] । `काद्रवेयः` इति। `कद्रूकमण्डल्वोश्छन्दसि संज्ञायाम्` (4.1.71,72) इत्यूङ तदन्तात्? पूर्ववङ्ढक्॥", "64148": "अत्र यस्येति यकारस्येदं ग्रहणं वा स्यात्, इवर्णावर्णयोर्वा? अत्र यदि यकारस्येदं ग्रहणं स्यात्, उत्तरसूत्रे पुनर्यग्रहणं न कुर्यात्, एतदेव हि तत्रानुवर्त्तिष्यते। तस्मादिवर्णावर्णयोरिदं ग्रहणम्। तत्र वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतीति तदन्तविधिर्विज्ञायते -इत्यतच्चेतसि कृत्वाऽऽह -`इवर्णावर्णान्तस्य` इत्यादि। `दाक्षी, प्लाक्षी` इति। दाक्षिप्लाक्षिशब्दाभ्यां <<इतो मनुष्यजातेः>> [[4.1.65]] इति ङीष्। `सखी` इत्यत्रापि `सख्यशिआईति भाषायाम्` [[4.1.62]] इति निपातनात्। ननु चात्र सवर्णदीर्घत्वेनाप्येतत्? सिद्धम्, तत्? किमर्थमत्र लोप विधीयते? इत्यत आह -`सवर्णदीर्घत्वे हि` इत्यादि। `अतिक्रान्ता सखी एनम्` इति `प्रादिभ्यो धातुजस्य` (वा।101) इति बहुव्रीहिरुत्तरपदलोपश्च, उपसर्जनह्रस्वत्वम्। तत्र यदि सवर्णदीर्घत्त्वं क्रियेत, न तु लोपस्तदा सखीकारेकारयोरेकादेशः सखिशब्दस्यान्तवद्भवतीति `शेषो ध्यसखि` [[1.4.7]] इतचि धिसंज्ञायाः प्रतिषेधः स्यात्। ततश्चातिसखेरागनच्छतीति `घेङिति` [[7.3.111]] इति गुणो न स्यात्। लोपे सत्युपसर्जनह्रस्वत्वे सति यद्यपि प्रविशिष्टं रूपम्, तथापि लाक्षणिकम्। अतो लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) तन्न गृह्रत इति न भवति प्रतिषेधः। तस्माल्लोप एव कर्तव्यः। `दौलेयः` इत्युदाहरणत्रये `इतश्टचानिञः` [[4.1.122]] इत्यपत्यार्थे ढक्। `कुमारी इति। <<वयसि प्रथमे>> [[4.1.20]] इति ङीप्। `गौरी` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्। `शाङ्र्गरवी` इति। `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] । `बालाकिः सौमित्रिः` इति। बालकसुमित्राभ्यां बह्वादित्वादिञ्। `यस्येत्यादौ` इति। आदिशब्देनोत्तरो विधिः परिगृह्रते। वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -<<विभाषा ङिश्योः>> [[6.4.136]] इत्येतत्सूत्राद्विभाषाग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। तेन चानेन सूत्रेण लोपो विधीयते, यश्चोत्तरसूत्रेण, तावुभावपि न भवत इति। `काण्डे, कुडये` इति। `औङ आपः` [[7.1.18]] इति, <<नपुंसकाच्च>> [[7.1.19]] इति शोभाव इति, तत्र यस्येत्यकारलोपः प्राप्नोति। `सौर्ये` इति। <<तेनैकदिक्>> [[4.3.112]] इति सूर्यशब्दादण्, तदन्तादौङः शीभावः, तत्रानेनाकारलोपः प्राप्नोति, उत्तरसूत्रेम यकारलोपश्च। `इयङ्वङभ्याम्` इत्यादि। इयङुवङोरवकाशः -श्रियौ, श्रियः, भ्रुवौ भ्रुवः, लोपस्यावकाशः -कामण्डलेयः, माद्रबाहेय इति; वात्सप्रेयः, लैखाभ्रेय इत्यत्रोभयं प्राप्नोति, लोपो भवति विप्रतिषेधेन। `वत्सप्रीः` इति। क्विबन्तमेतत्॥", "64149": "यद्यत्र भसंज्ञया सूर्यादयो विशिष्येरन् - `सूर्यादीनां भसंज्ञकानामिति, तदा सौरी, बलाकेत्यत्र लोपो न स्यात्। न हि सूर्यशब्द इह भसंज्ञक इति, किं तर्हि? अन्येदवाणन्तं शब्दान्तरमिति बुद्धौ निधायानाश्रितरूपभेदस्य लोपेन सम्बन्धः सूर्यादिभिः सम्बन्धिभिर्यकारो विशिष्यत इति दर्शयन्नाह - `सूर्यतिव्यागस्त्यमत्स्य - `इत्येतेवाम्` इत्यादि। `भस्य` इति। भसंज्ञकस्य। यो यकार उपधा, तस्य लोपो भवति स चेद्यकारः सूर्यादीनां सम्बन्धी भवति - अयमतरार्थो विवक्षितः। ते तु सूर्यादयो भत्वेन न विशिष्यतन्ते। तेन यदापि तेषां भसंज्ञा न भवति, तदापि तस्योपधायकारस्य लोपो भवत्येव यद्यसौ यकारः सूर्यादीनां सम्बन्धी भवति। `सौरी, बलाका` इति। ननु चात्राकारलोपस्य व्याश्रयत्वेनासिद्धत्वं नास्तीत्युपधायकारो न भवतीत्येतदुक्तम्? इत्याह - `अणि यो यस्येति लोपः` इत्यादि। अत्र हि द्वौ यस्येतिलापौ - एकोऽणिपरतः, अपर ईकारे। तत्र प्रथमो व्याश्रयः, तथा हि - लोपोऽणमाश्रित्य भवति, यलोपस्त्वीकारम्? अतो व्याश्रयत्वादसिद्धत्वाभावस्तस्य युक्तः। इतरस्त्वीकारमाश्रित्य भवति समानाश्रय एव, ततश्च तस्यासिद्धत्त्वादुपधायकारो भवति। `भस्याणन्तस्य` इत्तयादिना सूत्रार्थमुदाहरणे दर्शयति। `तैषम्, तैषी` इति। <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यण्, `टिड्ढाणञ्` [[4.1.15]] इति ङीप्। `ऋषित्वादणि कृते` इति। `ऋष्यन्धक` [[4.1.114]] इत्यादिना `मत्स्यचरी` इति। मत्स्यो भूतपूर्वः - <<भूतपूर्वे चरट्>> [[5.3.53]] पूर्ववन्ङीप्। भवत्यत्र मत्स्यचर इति भसंज्ञकमत्स्यसम्बन्धी यकारः, नत्वसौ भसंज्ञकस्योपदेति लोपो न प्रवर्तते। अथ किमर्थं यग्रहणम्, यावता सूर्यादिभिरूपधायां विशिष्यमाणायामन्तरेणापि यग्रहणं यकारस्योपधाभूतस्य लोपो विज्ञास्यते, यकार एव हि तेषामुपधा, न तु वर्णान्तरम्? इत्यत आह - `यग्रहणमुत्तरार्थम्` इति। `वक्तव्यम्` इति व्याख्येयमित्यर्थः। व्याख्यानन्त्विहापि पूर्ववद्विभाषामाश्रित्य कर्तव्यम्। `मात्स्यम्` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। `सौरीयम्` इति। अणन्तात्? <<वृद्धाच्छः>> [[4.2.114]] । एवं `आगस्तीयम्` इति। `सौर्यम्` इति। सूर्यो देवतऽस्येति `सा।डस्य देवता [[4.2.23]] इत्यण्। `आगस्त्यः` इति। अपत्यार्थे ऋष्यण्। `नक्षत्राणि` इति। नक्षत्रसम्बन्धो योऽण्? तस्मिन्नित्यर्थः। `ककारादेः शब्दस्य` इति। ककारस्याकारस्येत्यर्थः। `आद्युदात्तत्वञ्च` इति। प्रत्ययस्वरेणान्तोदात्तत्वे प्राप्ते सत्याद्युदात्तार्थं वचनम्। `अन्तितः` इति। <<अपादाने चाहीयरुहोः>> [[5.4.45]] इति तसिः। `तादेश्च` इति। तिकशब्दस्येत्यर्थ। चकारात्? कादेश्च। `अन्तमः` इति। अतिशायने तमप्` [[5.3.55]] । `अन्तिषत्` इति। `सत्सूद्विष` [[3.2.61]] इत्यादिना क्विप्। `ये च` इति। दृश्यत इति प्रकृतेन सम्बन्धः। `अन्तिमः` इति। <<भवे छन्दसि>> [[4.4.110]] इति यः, <<तत्र साधुः>> [[4.4.98]] इति वा। केचित्? सर्वमेव लोपविधानं छन्दस्येवेच्छन्ति॥", "64150": "`तद्धित इति निवृत्तम्` इति। उत्तरसूत्रे तद्धितग्रहणात्। तेनायमीत्येव विधिः। `गार्गी` इत्यादि। गर्गादिशब्देभ्यो यञन्तेभ्यः `यञश्च` [[4.1.16]] इति ङीप्। `कारिकेयी` इति। <<स्त्रीभ्यो ढक्>> [[4.1.120]] , तदन्तात्? `टिङ्ढाणञ्` [[4.1.15]] इति ङीप्। `वैधी` इति। <<पुंयोगादाख्यायाम्>> [[4.1.48]] इति ङीष्॥", "64151": "`गार्गकम्` इति। <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्>> [[4.2.39]] इत्यादिना गाग्र्यशब्दाद्वुञ्, तत्र यञो लोपः। `साङ्काख्यकः` इति। `काम्पिल्यकः` इति। पूर्ववत्? सङ्काशकम्पिलशब्दाभ्याञ्चातुरार्थिकः `दुञ्छण्` [[4.2.79]] इत्यादिना ण्यः, तदन्ताज्जातादौ शैषिकेऽर्थे <<धन्वयोपधाद्वुञ्>> [[4.2.121]] इति वुञ्। अथ तद्धितग्रहणं किमर्थम्, <<नस्तद्धिते>> [[6.4.144]] इति तद्धितग्रहणमनुवर्त्तिष्यते? इत्यत आह - `तद्धितग्रहणम्` इत्यादि। सोमी देवतस्येति <<सोमाट्ट्यण्>> [[4.2.30]] , `टिङ्ढाणञ` [[4.1.15]] इति ङीप्। तत्र परतोऽनपत्ययकारस्यापि <<हलस्तद्धितस्य>> [[6.4.150]] इत्यनेन लोपो यथा स्यादित्येवमर्थं तद्धितग्रहणम्; अन्यथा यदि तदेव प्रकृतं तद्धितग्रहणमिहानुर्तेत, तदा तत्सम्बन्द्धमीद्ग्रहणमनुवर्तेत। तथा चोभयमिहानुवर्तमानं पूर्वयागेऽप्यनुवर्तत। तथा च पूर्वेणैव योगेन सिद्धे सत्युभयत्र तद्धित ई, ति च नियमार्थोऽयमारम्भः स्यात् - आपत्यस्येवानाकारादौ तद्धिते लोपो भवति ईति च नानापत्ये च। एवञ्च यथानपत्यस्य साङ्कश्यक इत्यत्र लोपो न भविष्यति, तथा सौमी इष्टिरित्यत्रापि न स्यात्; नियमेन व्यवर्त्तितत्वात्। इह तु तद्धितग्रहणे क्रियमाणे पूर्वयोगे तद्धितग्रहणस्य निवृत्तिराख्यायते। तेन पर्वयोगेन तद्धितमात्रस्य यकारस्यानपत्यस्य चापत्यस्य चाविशेषेण लोपो विदीयते। सौमी इष्टिरित्यत्रापि लोपो यथा स्यादित्येवमर्थं तद्धितग्रहणम्। ननु च यद्युभयत्र तद्धित इति चायं नियमः स्यात्? सूत्रद्वयस्यार्थोऽपार्थकः स्यात्। `हल आपत्यस्यानाति` इत्येकमेव योगं कुर्यात्। तस्मात्? सूत्रद्वयस्यारम्भसामर्थ्यादन्यतरस्यैवेहानुवृत्तिर्भवतिष्यति, न तूभयस्यापि। इह त्वेतावान्? सन्देहः स्यात् - किं तद्धितग्रहणमिहानुवर्तते, उतेद्ग्रहणमिति? अत्रापि तद्धितग्रहणमनुवर्तते, नेद्ग्रहणमिति; व्याख्यानात्। सरवसन्देहेष्विदमुपतिष्ठते `भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्` (पु।प।वृ 120) इति। तद्धितग्रहणे च केवल इहानुवर्तमाने तद्धितविषय एवायं नियमो भविष्यति, न त्वीद्विषय इति। तथा चासत्यपि पुनरिह तद्धितग्रहण इति नियमाभावात्? पूर्वसूत्रेण सौमी इष्टिरित्यत्रापि लोपः सिद्ध्यत्येव। तत्? कथमिदमुक्तम् - तद्धितग्रहणीत्यनपत्यस्यापि लोपार्थमिति? सुखेन लोपः प्रतीयत इत्येतदर्थमिदमित्यभिप्रायो द्रष्टव्यः। ततश्चायमत्रार्थः सम्पद्यते - प्रतिपत्तिगौरवपरीहारार्थं तद्धितग्रहणम्।`गाग्र्यायणः` इति। <<यञिञोश्च>> [[4.1.101]] इति फक्। `कारकेयिः` इति। कारिकाया अपत्यमिति `स्त्रीब्यो ढक्` [[4.1.120]] , ततस्तस्यापत्यम्, `अत इञ्` [[4.1.95]] कारिकेयिः॥", "64152": "अतद्धितार्थोऽयमारम्भः। `क्य` इति क्यच्क्यङोः सामान्येन ग्रहणम्। `गार्गीयतीति। <<सुप आत्मनः क्यच्>> [[3.1.8]] , <<क्यचि च>> [[7.4.33]] इतीत्त्वम्। `गार्गीयः` इति। `कर्त्तुः क्यङ सलोपश्च` [[3.1.11]] इति क्यङ, `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः। `गार्गीभूतः` इति। `अभूततद्भावे` [[5.4.50]] इति च्विः, <<अस्य च्वौ>> [[7.4.32]] इतीत्त्वम्॥", "64153": "`बिल्वकदिभ्यः` इति। आगन्तुकेनाकारेण निर्देशः। `बिल्वकीया` इति। <<उत्करादिभ्यश्छः>> [[4.2.90]] <<नडादीनां कुक् च>> [[4.2.91]] इति चातुरर्थिकश्छः, कुगागमः। `बैल्वकाः` इति। `प्राग्दीष्यतेऽण्` [[4.1.83]] । अथ छग्रहणं किमर्थम्, यावता कृतकुगागमा बिल्वकीदयो गृहीताः, एभ्यश्छप्रत्ययः सम्भवतीत्यन्तरेणापि छग्रहणं छस्यैव लोपो भवितव्यतीति? अत आह -`छग्रहणम्` इत्यादि। यदि छग्रहणं न क्रियेत, तदा सन्नियोगशिष्टपरिभाषया (ह।भा।14) छकारे निवर्तमाने कुको निवृत्तिः स्यात्। तस्याश्च परिभाषया एतेदेव छग्रहणं ज्ञापकम्। अथ लुग्ग्रहणं किमर्थम्, प्रकृत एव लोपो विधीयते? इत्यत आह -`लुग्ग्रहणम्` इत्यादि। यकारग्रहणमेकदेशोपलक्षणार्थं द्रष्टव्यम्। स हि लोप उपधाया इत्यनेन सम्बद्ध इति तस्मिन्ननुवर्तमाने `य उपधायाः` [[6.4.149]] इत्येतदप्युनुवर्तेत, छस्येयादेशे कृते यकारमात्रस्य स्यात्। अथापि `उपधायाः` इत्येतन्नानुवर्तेत? एवमपि <<आदेः परस्य>> [[1.1.54]] इतीकारमात्रस्य स्यात्। `लुग्ग्रहणम्` इति। लुगिति प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्ययस्यैकदेशस्यादर्शनस्येति। लुग्ग्रहणे सति सर्वस्यैव लुक्? सिद्ध्यति। तद्रथं हि लुग्ग्रहणम्॥", "64154": "`तुः` इति। विसेषकराननुबन्धानुत्सृज्य तृंस्तृचोः सामान्येन ग्रहणम्। `करिष्ठः` इति। करोतेस्तृन्। तदन्तादतिशायन इष्ठन्, तृशब्दस्य लोपः। `विजयिष्ठः` इति। विपूर्वाज्जयतेस्तृन्। `वहिष्ठः` इति। अत्रापि वहेस्तृन्। तदन्तादिष्ठन्, `हो ढः` [[8.2.31]] इति ढत्वम्। तृशब्दस्य लोपे कर्तव्ये <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यसिद्धम्, तेन पूर्वलोप एव क्रियते, तस्मिन्? कृते झलि यदान्ते च विधीयमानं ढत्वं निमित्ताभावान्न प्रवर्तेते। `दोहीयसी` इति। दुहेस्तृजन्तादीयसुन्, <<उगितश्च>> [[6.3.45]] इति ङीप्। अत्रापि लोपे कर्तव्ये `दादेर्धातोर्धः` [[8.2.32]] इत्येतदप्यसिद्धमिति पूर्वं लोपः, तस्मिन्? सति पूर्ववद्धत्वं न प्रवर्तते। अथ <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्त्यस्यायं लोपः कस्मान्न भवति? इत्याह - `सर्वस्य` इत्यादि। तत्रैव कारणमाह - `अन्त्यस्य` इत्यादि। यद्यन्त्यस्य स्याद्वचनवैयथ्र्यमापद्येत; `अन्त्यस्य टेः` इत्येवं सिद्धत्वात्। तस्मादन्त्यलोपवचने प्रयोजनं नास्तीति सर्वस्य तृशब्दस्य लोपो यता स्यादित्येवमर्थमिदं वचनं विज्ञायते। यदि तर्हि तृशब्दस्य लोपार्थं वचनमनन्तरो लुगेव कस्मान्न विधीयते, एवं तर्हि सर्वस्य सुखमेव लोपोऽवसीयते, प्रत्ययादर्शनस्य लुग्विधानात्? इत्यत आह - `लुगित्येतत्तु` इत्यादि। कः पुनस्तत्र सति दोषः स्यात्? इत्यत आब - `तथा हि` इत्यादि। यदि लुगित्येतदिहानुवर्तत, ततः `अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते` (व्या।प।128) इति कृत्वा पूर्वं लुका भवितव्यम्, ततश्च <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणनिषेधः स्यात्; करिष्ठः, विजयिष्ठ इत्यत्रार्धदातुकलक्षणो गुणो न स्यात्। तस्मान्मा भूदेष दोष इति लुगित्येतदिहानुवर्तते। अथेमनिज्ग्रहणं किमर्थम्, यावता तृशब्दात्? पर इमानिज्न सम्भवति। तथापि <<पृथ्वादिभ्य इमनिज्वा>> [[5.1.122]] <<वर्णदृढादिभ्यः ष्यञ् च>> [[5.1.123]] इत्यनेन योगद्वयेन स विहितः, न तृशब्दान्तं किञ्चित्? पृथ्वादिषु दृढादिषु वा मध्ये पठते, नापि वर्णवाच्यस्तीत्यत आह - `इतरौ तु` इत्यादी॥", "64155": "`णाविष्ठवत्` इति। <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इष्ठनि पुंवद्भाव उक्तः, <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इति रभावः, `टेः` इति टिलोपः, `स्थूलदूरयुवह्रस्व` [[6.4.156]] इत्यादिना यणादिपरस्य लोपः, पूर्वस्य च गुणः, <<विन्मतोर्लुक्>> [[5.3.65]] इति लुक्, <<युवाल्पयोः कनन्यतरस्याम्>> [[5.3.64]] इति कन्। `प्रियस्थिर` [[6.4.157]] इत्यादिना प्रादय आदेशाः -एतानि कार्याणि यथेष्ठनि भवन्ति, तथा णावपि यथा स्युरिति णाविष्ठवत्? प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम्। प्रातिपदिकग्रहणं शक्यमकर्त्तुम्, अन्यस्यातिदेशस्यासम्भवात्। वतिरिह सादृश्यार्थः, तेन यस्येष्ठनि यत्कार्यं विवक्षितं ततोऽन्यस्यातिदेशस्यासम्भवात्? तद्व्यवच्छेदार्थ प्रातिपदिकग्रहणं न कर्तव्यम्। तत्? क्रियते विसपष्टार्थम्। केचित्तु ब्राउवते प्रत्ययस्य कार्याणामतिदेशो मा भूदित्येवमर्थं प्रातिपदिकग्रहणं न कर्तव्यम्। तत्? क्रियते विस्पष्टार्थम्। केचित्तु ब्राउवते प्रत्ययस्य कार्याणामतिदेशो मा भूदित्येवमर्थं प्रातिपदिकग्रहण्, तेन बहुमाचष्टे बहयतत्यत्र <<इष्ठस्य यिट् च>> [[6.4.159]] इति यिण्ण भवति? एतच्चायुक्तम्; इष्ठवदित्यत्र हि सप्तमी समर्थाद्वतिर्दिहितः, णादिति प्रतियोगिनि सपतमीश्रवणात्। तेनेष्ठनि यत्कार्यं विहितं तदतिदिश्यते, न त्विष्ठस्य यत्कार्यं तदपि। न च यिङ्? इष्ठनि यत्? कार्यम्, अपि त्विष्ठन एव। तस्यैह प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन प्रातिपदिकग्रहणेन! `एनीम्` इति। एतच्छब्दात्? `वर्णादनुदात्तात्तोपधात्` [[4.1.39]] इत्यादिना ङीष्, तकारस्य च नकारः। `एतयति` इति। णौ कृते पुंवद्भावेन ङीष्नकारावुभावपि निवर्तेते। ननु च ङीषा व्यवहितोऽत्र णिरिति णावतिदेशः क्रियमाणस्तद्व्यवधाने न प्राप्नोतीति? नैष दोषः; इष्ठन्यपि हि ङोपा व्यवधानएव प्रातिपदकस्य पुंवद्भावः। तस्मादिहापि व्यवधानेऽपि तद्वदेव भविष्यति।`रुआग्विणम्` इति। <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इति विनिः। रुआजयतीत्यत्र `संज्ञापूर्वको विधिरनित्यः` (व्या।प।64) इति <<अत उपधायाः>> [[7.2.116]] इति वृद्धिर्न भवति। `अह्गवृत्ते पुनरङ्गवृत्तावविधिर्निष्ठितस्य` (व्या।प।38) इति वपा। प्रापयतीत्येवमादौ भवत्येवानिष्ठितत्वात्। अत्र `अर्त्तिह्रो` [[7.3.36]] इत्यादिना पुक्। ननु भारद्वाजीयपाठे प्रादयो न सिद्ध्यन्ति; अपि तु रुआजयति वसयतीति लुक्, कनयतीत्यत्र च कन्नित्यत आह -`तदेतदुभयमप्युदाहरणमात्रम्` इत्यादि। तदेतद्भावद्वाजीयपाठे अन्येषाञ्च प्रयोजनमुपदर्शितम्, न त्वेतदुदाहरणमात्रपरिगणनम्। एतावदेव प्रयोजनमिति यस्मात्? प्रादयोऽपीष्यन्ते। ननु `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च` (धातुपाठः-ग।सू।186) इति चुरादिगण एव पठते, तत्? कस्मात्? पुनरिह णाविष्ठवद्भाव उच्यते? अस्यैव प्रपञ्चार्थमित्येके। गणे वा स वक्तव्यः। `असौ इतरः` इति विकल्पप्रदर्शनार्थमित्यन्ये॥", "64156": "यद्यपि पूर्वं भावसाधनो लोपशब्द उपात्तः, तथापीह कर्मसाधनो गृह्रते; यणादिपरिमिति निर्देशात्। भावसाधने हि तस्मिन्? `कर्त्तृकर्मणओः कृति` [[2.3.65]] इति षष्ठी स्यात्। कर्मसाधने तु कर्मणस्तेनैषाभिहितत्वात्? प्रथमैव युज्यत इति मन्यमानो लापशब्दस्य कर्मशब्दस्य कर्मसाधनतां दर्शयन्नाह - `यणादिपरं लुप्यते` इति। कथं पुनस्तस्यैव भावसाधनस्य सतः कर्मसाधनतोपपद्यते? कः पुनराह - `तस्यैव` इति! प्रतिसूत्रं ह्रनुवर्तमानो लोपशब्दो भिद्यते। ननु च यणादौ परस्मिन्? लुप्ते सामर्थ्यात्? तत्पूर्वस्यैव गुणो विज्ञास्यते, तत्? किमर्थं पूर्वग्रहणम्? इत्याह - `पूर्वग्रहणं विस्पष्टार्थम्` ति॥", "64157": "किं पुनः कारणं प्रियोरुगुरुदीर्घाणामेवेमनिजुदाह्यियते, नान्येषाम्? इत्याह -`प्रियोरुबहुलगुरुदीर्घाः` इत्यादि। `प्रियादिभ्य एवेमनिच्? सम्भवति, नान्येभ्यः` इत्येवम्परमेतद्वाक्यमित्यर्थः। अन्यथा यद्यपि प्रियादय एव पृथ्त्रादिषु पठन्ते, वर्णावाचिनो वा स्युः, तदोदाह्यियेतेमनिच्? तेषामित्यकारणमेदिमनिचोऽत्रोदाहरणं स्यात्॥", "64158": "`बहोरुत्तरेषाम्` इति। एतेन प्रथमस्य बहोः पञ्चम्यन्ततां दर्शयति, तस्य च वहोरित्यनेनापि द्वितीयस्य षष्ठन्तताम्। `भूयान्` इति। <<आदेः परस्य>> [[1.1.54]] इतीकारस्यव लोपः। अथ किमर्थं बहोरिति पुनग्र्रहणम्? इत्याह -`बहोरिति पनः` इत्यादि। असति हि बहोरिति ग्रहणे बहुशब्दस्य स्थानित्वं न प्रतीयेत; पञ्चम्यन्तेन निर्देशात्। तस्मात्? स्थानित्वप्रतिपत्तये पुनर्बहोरित्यच्यते। `अन्यथा हि` इत्यादि। यदि बहोः इति नोच्येत, तदा प्रत्ययानामेव भूभावः स्यात्; <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति वचनात्। ननु पृथग्निर्देशादेव प्रत्ययानां न भविष्यति, अन्यथा `भूलोपौ` इत्ययं ब्राऊयात्? नैतदस्ति; अस्ति ह्रन्यत्? पृथग्निर्देशस्य प्रयोजनम्। किम्? पृथक्स्थानिकौ यथा स्ताताम्, आदेर्मा भूतामिति। यदि `भूलोपौ` इत्येवमुच्येत, तदा <<आदेः परस्य>> [[1.1.54]] इत्याद्यस्यैव वर्णस्य पर्यायेण भूलोपो स्यातामिति। अतो भिन्नस्थानिकौ यता स्यातामित्येवमर्थः पृथग्योगनिर्देशः स्यात्। तस्माद्युक्तमुक्तम् -`अन्यथा हि प्रत्ययानामेव भूभावः स्यात्` इति। चकारोऽत्र सन्नियोगार्थः॥", "64159": "`लोपापवादो यिङागमः` इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। `तस्मिन्निकार उच्चारणार्थः` इति। प्रयोजनान्तराभावात्। चकारः `बहोश्च भूः` इत्यनुकर्षणार्थः॥", "64160": "`ज्यायान्` इति। <<प्रशस्यस्य श्रः>> [[5.3.60]] `ज्य च` [[5.3.61]] इति ज्यादेशः। `लोपस्य यिट्? च` इयादि। यद्यत्र लोपो यिटा न व्यवधीयते तदा तेनैव ज्यायानित्येतत्? सिद्ध्यतीति कृत्वाऽऽदिति नोच्येतेत्यभिप्रायः। कथं पुनरादित्यनुच्यमाने लोपेन सिद्धयति? इत्यत आह -`लोपे हि सति` इत्यादि। अथ दीर्घोच्चारणं किमर्थम्, यावतान्तरतम्यादेव दीर्घस्य दीर्घ एव भविष्यति? नैतदस्ति; न हि `भाव्यमानोऽण्? सवर्णान्? न गृह्णाति` (व्या।प।35) इति॥", "64161": "`कर्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -उत्तरसूत्रे यद्विभाषाग्रहणं तदिहापि सम्बध्यते, सा च व्यवस्थितविभाषा, तेन पृथ्वादीनामेव भविष्यति। यद्येवम्, `हलादेर्लघोः` इत्येतन्न कर्तव्यम्, व्यवस्थितविभाषया हलादेर्लघोश्च भविष्यति? सत्यमेतत्; तद्विस्पटार्थं क्रियते। `तत इह न भवति` इत्यादि। अक्रियमाणे तु परिगणने कृतयतीत्यादावपीष्ठवद्बावेन स्यादेवेति भावः॥", "64162": "", "64163": "`रुआजिष्ठः` इति। अत्र प्रकृतिवद्भावेन टिलोपो न भवति। ननु च <<विन्मतोर्लुक्>> [[5.3.65]] टिलोपं बाधिष्यते, नाप्राप्ते त्वस्मस्त्वस्यारम्भात्? नैतदस्ति; द्वौ टिलोपौ -एको विन्मत्वन्तस्य, अन्यो लुकि कृते सत्यवशिष्टस्य; तत्र योऽसौ विन्मत्वन्तस्य टिलोपस्तस्मिन्नाप्राप्ते लुगारभ्यत इति युक्तं यदसौ तं बाधते। यस्त्ववशिष्टस्य टिलोपस्तस्य प्राग्लुक्प्राप्त्यसम्भवादप्राप्त एव तस्मिन्नारभ्यमाणः कथं पश्चादुपजातप्राप्तिकं लोपं बाधेत। तस्मादारब्धव्यमिदम्। `प्रकृत्याके राजन्य` इत्यादि। किं वक्तव्यमेतत्? न; कथं तर्हि `तुरिष्ठेमेयस्तु` [[6.4.154]] इत्येतन्निवृत्तम्। सामान्येनयं प्रकृतिवद्भावो विधेयः, विभाषति चानुवर्तते, सा च व्यवस्थितविभाषा। तेन यत्र यत्रेष्यते तत्र सर्वत्र भविष्यति, यत्र तु नेष्यते तत्र न भविष्यत्येव। एवम्? <<इनण्यनपत्ये>> [[6.4.164]] इत्येवमादिकं प्रकृतिभावविधानमनर्थकं स्यादिति चेत्? न; प्रपञ्चार्थत्वात्। `राजन्यकम्` इति। `राज्ञोऽपत्यम्` इति। `राज्ञोऽपत्यम्` इति `राजरुषसुराद्यत्` [[4.1.137]] तस्मात्समूहेर्थे <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्>> [[4.2.39]] इत्यादिनात्र वुञ्। `मानुष्यकम्` इति। मनोरपत्यमिति <<मनोर्जातावञ्यतौ षुक् च>> [[4.1.161]] इति येषां मतेऽपत्यार्थे यत्, तेषां पूर्वसूत्रेण वुञि कृते लोपः प्राप्नोति, स प्रकृतिबावान्निवर्तते। येषान्तु मतेन जातिमात्रे यत्, नापत्ये, तेषां नार्थः प्रकृतिभावेन; अनापत्ययकारत्वादेव हि लोपो न भविष्यति॥", "64164": "`साङकूटिनम्, सांराविणम्, साम्मार्जिनम्` इति। `कूट दाहे` (धातुपाठः-1890), [परितापे (परिदाहे) -धातुपाठः-] `रु शब्दे` (धातुपाठः-1034), `मृजू शुद्धौ` (धातुपाठः-1066) `अभिविधौ भावे इनुण्` [[3.3.44]] , <<मृजेर्वृद्धिः>> [[7.2.114]] सांकूटिन्, सांराविन्, सांमार्जिन् -इति स्थिते <<अणिनुणः>> [[5.4.15]] इति स्वर्थेऽण्। `मैधावः` इति। <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इत्यादिना विनिः, तदन्तात्? प्राग्दीव्यतोऽणपत्यार्थे॥", "64165": "अपत्यार्थोऽयमारम्भः; अनपत्ये पूरर्वेणैव सिद्धत्वात्। इन्नन्तत्वादेषाम्॥", "64166": "अयमप्यपत्यार्थ आरम्भः। `शाङ्खिनः` इति। शङ्खमद्रवज्रशब्देभ्यो मत्वर्थे इतिः, तदन्तात्? पूर्ववदण्॥", "64167": "`अनपत्ये` इति। निवृत्तम्। सामान्येनाष्मत्रे विधिः। `सामनः, वैमनः` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। `सौत्वनः` इति। `षुञ्? अभिषवे` (धातुपाठः-1247) <<सुयजोर्ङ्वनिप्>> [[3.2.103]] इति ङवनिप, <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] ॥", "64168": "`सामन्यः, वेमन्यः` इति। <<तत्र साधुः>> [[4.4.98]] इति यत्॥", "64169": "`आत्मनीनम्` इति। `आत्मन्विआजनभोगोत्तरपदात्? खः` [[5.1.9]] । `अध्वनीनम्` इति। अत्रापि `अद्वने यत्खौ` [[5.2.16]] इति खप्रत्ययः। `प्रत्यात्मम्` इति। आत्मानं प्रतीति `अव्ययं विभक्ति` [[2.1.6]] इत्यादिना यथार्थेऽव्ययीभावः। ततः `अनश्च` [[5.4.108]] इति टच्। `प्राध्वम्` इति। प्रगतमध्वानमिति प्रादिसमासः, <<उपसर्गादध्वनः>> [[5.4.85]] इत्यच्॥", "64170": "`चार्मणः` इति। `परिवृत्तो रथः` [[4.2.9]] इत्यर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] । `वा हितनाम्न इति वक्तव्यम्` इति। हितनामशब्दस्य व प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्य्रथः। तत्रेदं व्याख्यानम् -इहापि तदेव विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन हितनाम्नो वा प्रतिषेधो भविष्यति॥", "64171": "यद्येतदेकमेव सूत्रं स्यात् ततो निममार्थ वा स्मात्? विध्यर्थं वा? यद्यपत्य इति वर्तते, ततोऽनन्तर सूत्रेणैव प्रकृतिभावे प्रतिषिद्धे <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः सिद्ध्यत्येव, सिद्धे सत्येतन्नियमार्थ भविष्यति -`अजातावेवापत्यार्थे यथा स्यात्` इति। तथा च <<तस्येदम्>> [[4.3.120]] इत्यणि विहिते ब्राआहृओ गर्भः, ब्राआहृमस्त्रम्, ब्राआहृं हविः, ब्राआहृई ओषधिरिति न सिद्ध्यति; अपत्याणोऽभावात्। अथापत्य इति निवृत्तम्, ततो विध्यर्थमेव भविष्यति। अपत्ये हि पूर्वसूत्रेण प्रकृतिबावः प्रतिषिद्धः, ततश्च `अन्` [[6.4.167]] इतीति प्रकृतिभावे प्राप्तेऽजातो ब्राआहृ इत्येतट्टिलोपार्थं निपात्यते। एवञ्च विध्यर्थेऽस्मिन्? सिद्धम् - ब्राआहृओ गर्भः, ब्राआहृणस्त्रम्, ब्राआहृं हविरिति; ब्राहृण इयं ब्राआहृई ओषदिरित्येतत्तु न सिद्ध्येत्; `अजातौ` इति प्रतिषेधात्। अपत्ये जातौ च <<न मपूर्वोऽपत्येऽवर्मणः>> [[6.4.170]] ) इति प्रकृतिभावे प्रतिषिद्धे सति <<नस्तद्धिते>> [[6.4.144]] इति भवति टिलोपः -ब्राआहृओ नारद इति, तथेहापि स्यात् -ब्राहृणोऽपत्यमिति ब्राआहृण इति। एवमेकयोगे दोषप्रसङ्गमभिवीक्ष्य तत्? परिजिहीर्षुराह -`य#ओगविभाघोऽत्र क्रियते` इति। योगविभागे सति यदि `अपत्ये` इत्यनुवृत्तेरपत्य एव टिलोपो निपात्यते, पूर्ववत्? सिद्धे सति नियमार्थमेव निपातनं स्यात्, ततश्च स दोषस्तदवस्थ एव स्यात्, यः प्राङनियमपक्षे उक्तः। तथा च योगविभागकरणमनर्थकं स्यात्। तस्मादपत्याधिकारोऽपि योगविभागकरणसामर्थ्यादपत्यादन्यतर `ब्राआह्मः` इत्येतन्निपात्यते। एवमनपत्येऽपि `ब्राआह्मः` इति निपातनात्? `ब्राआहृओ गर्भः, ब्राआहृस्त्रम्, ब्राआहृ हविरित्येतत्? सिद्ध्यति। ततः `अजातौ` इत्ययं द्वितीयो योगः। <<न मपूर्वोऽपत्येऽवर्मणः>> [[6.4.170]] इति प्रकृतिभावे प्रतिषिद्धे यः <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः, स मा भूदित्येवमर्थोऽपत्य इत्येवेति। एतेनास्मिन्द्वितीये योगे `अपत्ये` इत्यनुवर्तत इत्याचष्टे। `अजातौ` इति च प्रसज्यप्रतिषेधोऽयम्। तत्र जातेरपत्यार्थेन सम्बन्धः, नञ्सतु भवतिना। तमेवार्थं वृत्तौ दर्शयन्नाह -`अपत्ये जातावणि ब्राआहृण इति लोपो न भवति` इति। जातिविशिष्टे।पत्ये विवक्षितेऽणि परतो ब्राआहृण इत्यत्र टिलोपो न भवतीत्यर्थः। अपत्य इत्येव -`ब्राहृओ ओषधिः` इति। प्रत्युदाहणव्याजेन योगविभागे जातिमात्रविवक्ष्यां ब्राआहृई ओषधिरित्येतदपि सिद्धं भवतीति दर्शयति॥", "64172": "`यद्येवम्` इति। यदि णकारोऽत्र प्रत्ययः, एवं सति किमर्थमिदम्? नैवास्य प्रयोजनं किञ्चिदित्यर्थः। किं कारणम्? इत्याह -`नस्तद्धित इत्येवं हि` इत्यादि। यद्धि लक्षणेन न प्राप्नोति तदर्थं निपातनमारभ्यते, इह तु `नस्तद्धिने` [[6.4.144]] इत्येवं सिद्धः, न हि णे केनचित्? प्रकृतिभाव उक्तो यतस्तत्र टिलोपातनमारभ्यमाणमिदमर्थवत्स्यात्। अणि हि प्रकृतिभावोऽणन्तस्योक्तः, न तु णे। अनन्तरोक्तमर्थमभ्युपगच्छति -यदि सत्यम्, किमर्थमिदमित्याह -`ज्ञापकार्थम्` इत्यादि। `अण्कृतानि` इत्यादि। अणि कृतानि कार्याणि अष्कृतानि, `सप्तमौ` [[2.1.39]] इति योगाविभागात्समासः। अथ वा अणा कृतानि `कर्तृकरणे कृता बहुलम्? [[2.1.31]] इति समासः। `किमेतस्य ज्ञापनेन प्रयोजनम्? इत्याह -`तेन` इत्यादि। चुरा शीलमस्याः, तपः शीलमस्या इति `छत्त्रादिभ्यो णः` [[4.4.62]] इति णः, तदन्तन्ङीप्। `ताच्छीलिके णः` इत्यस्यार्थस्य ज्ञापितत्वात्? `तदस्यां प्रहरणमिति क्रीडायां णः` [[4.2.57]] इति दण्डात्? णे दाण्डेति -अण्कृतं कार्यं न भवति। यदि तर्हि ताच्छीलकेष्वण्कृतमिष्येत, अणेव छत्त्रादिभ्यः कस्मान्नोच्येत, तत्राप्ययमर्थः -ज्ञापनार्थं निपातनं कर्तव्यं न भवति? युक्तमेतदुक्तवानसि; वैचित्र्यार्थ त्वण्कृतः। `कार्मणम्` इति। `तद्युक्तात्? कर्मणोऽण्` [[5.4.36]] इत्यण्। कर्मणा युक्तं कार्मणमिति॥", "64173": "`औक्षं पदम्` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्॥", "64174": "`उपचाराद्? ग्रन्थोऽप्यथर्वन्नित्युच्यते` इति। उपचारस्य तु तत्प्रोक्तत्वमेव निबन्धनम्। `आथर्वणिकः` इति। <<वसन्तादिभ्यष्ठक्>> [[4.2.63]] । `भ्रौणहत्यम्` इति। भ्रणं हतवानिति `ब्राहृभ्रूणवृत्रेषु क्विप्` [[3.2.87]] , तदन्तात्? ष्यञ्। `हरस्तोऽचिण्णलोः` [[7.3.32]] इत्यनेनैव तकारः सिद्धः, तत्क निपात्यते? इत्याह -`इनस्तोऽचिण्णलोः` इत्यादि। `धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यसम्प्रत्यय एव` (जै।वृ।31)। `धातोः` [[6.1.156]] इत्येवं यो विहितः प्रत्ययः, तत्र कार्यं विज्ञायत इत्यर्थः। न च ष्यञ्प्रत्ययो धातुप्रत्ययः, किं तर्हि? प्रातिपदिकप्रत्ययः तेन तत्र <<हनस्तोऽचिण्णलोः>> [[7.3.32]] इति तकारो न प्राप्नोति, अतो निपात्यते। कथं पुनर्विज्ञापते -धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं भवतीति? नैतदस्ति; <<न क्वादेः>> [[7.3.59]] इत्यत्र हि नेति योगदिभागादपि शक्यते कुत्वनिवृत्तिः कर्त्तुम्। `भ्रौणध्नः वत्र्रध्नः` इति। अपत्यार्थेऽण्। इक्ष्वाकुशब्दाद्यदा <<जनपदशब्दात् क्षत्रियादञ्>> [[4.1.168]] इत्यादिनाञ्? भवति, तदैक्ष्वाकशब्दो ञित्स्वरेणाद्युदात्तः। यदा तु `कोपधात्` [[4.2.131]] इति शैषिकोऽण्, तदान्तोदात्तः। ननु चैवंविधसूत्र एकस्योपादानेऽपरस्य ग्रहणं न सिद्ध्यति, तस्मादुभयोरपि स्वरभिन्नयोरुपादानं कर्तव्यम् -`एआकः, ऐक्ष्वकः` इति। एतच्चोद्यमपाकर्त्तुमाह -`स्वरसर्वनाम्ना` इत्यादि। उदात्तादीनां स्वराणा मविभागेनोच्चारणम्, एकश्रुतिः। सा च स्वराणां सर्वनामेव सर्वनाम यथैव हि <<तस्यापत्यम्>> [[4.1.92]] इत्यादौ निर्देश उपगुप्रभृतीन्विशेषान्विभागेन प्रतिपदयति, ततैकश्रुतिरप्युदात्तादीन्स्वरविशेषान्। तथात्रायमैक्ष्वाकशब्दः पठते -नाप्याद्युदात्तो नाप्यन्तोदात्तः, तस्य त्वेवं पठितस्य प्रत्ययविशेषात्स्वरविशेषो भवति -यदाञ्? तदान्तादोत्तः। `इत्यादेशापवादः` इति। केकयादि [[7.3.2]] सूत्रेणेयादेशः प्राप्नोति, तदपवादो लोपो निपात्यते। <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। `अथ किमर्थम्` इति। येनाभिप्रायेण पृष्टवांस्तं स्वयमेवाविष्कर्त्तुमाह -`ततोऽञि कृते] इत्यादि। `सिद्धम्` इति। रूपस्वरूपयोरभेदात्। `यलोपार्थश्च` इत्यादिना बिदादिषु पाठे यो गुणस्तं दर्शयति। `यस्कादिषु च` इत्यादि। तत्र हि तस्य बहुषु गोत्रप्रत्ययस्य लुग्यथा स्यादित्येवमर्थः पाठः। स च लुग्बिदादिषु पाठे सति <<यञञोश्च>> [[2.4.64]] इत्यनेनैव सिद्ध्यतीति नार्थो यस्कादिषु पाठेन। `मैत्रेयः सङ्घः` इत्यादि। एतेन बिदादिषु पाठे यो दोषस्तं दर्शयति। बिदादिषु पाठे सति सर्वमेतदुपपद्यते यदुक्तवानासि; किन्तु मैत्रेयशब्दादञन्तात्? `सङ्घाङ्कलक्षण` [[4.3.127]] इत्यादिनाण्प्रत्ययः स्यात्, ततो मैत्रेय इत्यनिष्टं रूपं स्यात्, न तु मैत्रेयक इत्यभीष्टम्। ढञन्तात्? तु <<गोत्रचरणाद्वुञ्>> [[4.3.126]] भवतीति मैत्रेयक इत्यभीष्टं सिद्ध्यति। `हिरण्मयः` इति। <<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> [[4.3.143]] इति मयट्॥", "64175": "`ऋत्व्यम्, वास्त्व्यम्` इति। <<भवे छन्दसि>> [[4.4.110]] इति यत्। `वास्त्वम्` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। एवं `माध्वी` इत्यत्रापि। `हिरण्ययः` इति। पूर्ववन्मयट्॥इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरहणपञ्जिकायां षष्ठाध्यायस्य चतुर्थः पादः॥श्रीबोधिसत्त्वदेशीयाचार्थजिनेन्द्रबुद्धिपादविरचितान्यासापरपर्यायाकाशिकाविवरणपञ्जिकाख्याकाशिकाव्याख्या- - -सप्तमोऽध्यायःप्रथमः पादः", "71001": "शास्त्रस्य लाघवार्थमिह, युवू प्रत्ययावुपदिष्टौ, तयोः स्थानेऽनाकावादेशौ विधीयते। यदि हि यत्र यत्र युवोरुपदेशस्तत्र तत्रानाकावादेशो विधियेयाताम्, तदा शास्त्रस्य गौरवं स्यात्; तयोः प्रभूतवर्णसमुदायात्मकत्वात्। इह युवोरनुनासिकयणोः प्रत्यययोरिदं ग्रहणम्, न च तथाविधावननुबन्धकौ युवू शास्त्रे सम्भवतः; तत्र सामर्थ्याद्विशेषकराननुबन्धानुत्सृज्य सामान्येन तयोग्र्रहणं विज्ञायते? इत्याह - `युवु - इत्येतयोरुत्सृष्टविशेषणयोः` इति। इदं ग्रहणमिति वक्ष्यमाणेन सम्बन्धः। विशेषणं यद्योयोगं लकारादि, तदुत्सृष्टं परित्यक्तं ययोस्तौ यथोक्तौ। एतेन `युवो` इति ल्युडादीनां सामान्येन निर्देश इति दर्शयति। यद्यत्र युवोरित्याविशेषेण ग्रहणं स्यात्? तदा `यु मिश्रणे` (धातुपाठः-1033) [`यु मिश्रणेऽमिश्रणें च` - धातुपाठः-] युतः, युतवान्, युत्वा; `दिषु क्रीडादौ (धातुपाठः-1107) द्यूतः, धूतवान्, धूत्वा; <<ऊर्णाया युस्>> [[5.2.123]] ऊर्णायुरित्येवमादावप्यनाकौ स्याताम्, अतोऽस्यातिप्रसङ्गनिरासायाह - `अनुनासिकयणोः` इति। अनुनासिको यण्ययोरिति बहुव्रीहिः। सन्ति हि यणः सानुनासिकाः निरनुनासकाश्च, तत्र हि ययोरनुनासिको यण्? तयोरिदं ग्रहणम्। अनुनासिकयणौ च यौ युवू तौ प्रत्ययावेव, नाप्रत्ययाविति दर्शयितुमाह - `प्रत्यययोः` इति। अन्ये ,त्वप्रत्ययनिवृत्त्यर्थं प्रत्यययोरित्युक्तमिति वर्णयन्ति, तदयुक्तम्; अनुनासिकयणोरित्यनेनैवाप्रत्ययनिवृत्तेः सिद्धत्वात्। तन ह्रप्रत्ययावनुनासिकयणौ युवू शास्त्रे स्तः। तस्मादनुनासिकयणौ यो यूवू तौ प्रत्ययावेव, नाप्रत्ययाविति सम्भवप्रदर्शनार्थं प्रत्यययोरित्युक्तमिति विज्ञायते। अनुनासिकयणोश्च प्रत्ययोग्र्रहणे सत्यङ्गस्येति सम्बन्धलक्षणेयं षष्ठी वित्रेया। ङ्गसम्बन्धिनोर्युवोरिति सम्बन्धः। स पुनर्निमित्तिनिमित्तभावलक्षणः। प्रत्ययनिमित्तो ह्रङ्गस्यात्मलाभ इत्यङ्गं निमित्ति, प्रत्ययो निमित्तम्। `योरनो वोरकः` इति। अनेन यथाक्रमं स्थान्यादेशसम्बन्धमाचष्टे`। `नन्द्यादिभ्यो ल्युः` इति। `नन्दिग्रहि` [[3.1.134]] इत्यादिना। `नन्दनः, रमणः` इति। `टु नदि समुद्धौ` (धातुपाठः-67), `रमु `क्रीडायाम्` (धातुपाठः-853)। हेतुमति णिच्, तदन्ताल्लयुः। `सायन्तनः` इति। सायमादिभ्यष्टउटलादिति। `सायञ्चिरम्` [[4.3.23]] इत्यादिना। जातादौ शैषिकेऽर्थे तद्धितः। `वासुदेवकः, अर्जुनकः` इति। वसुदेवस्यापत्यं वासुदेवः, वासुदेवो भक्तिरसयेत#इ `वसुदेवार्जुनाभ्यां वुन्` [[4.3.98]] इति वुन् - वासुदेवकः, अर्जुनकः। ऊर्णा अस्य सन्तीत्यूर्णायुः, तत्रानुनासिकयणत्वाभावान्न भवति। किं पुनः कारणमेवमादीनीं यणोऽनुनासिकत्वं नास्ति? इत्याह - `एवमादीनाम्` इत्यादि। `प्रतिज्ञानुनासिक्याः पाणिनीयाः` इति। यत्र तैरनुनासिकत्वं प्रतज्ञायते तत्रैव भवति, नान्यत्र। न च युस्प्रभृतीनां तैस्तत्? प्रतिज्ञायते, लक्ष्यानुरोधात्। तेन तेषां यणोऽनुनासिकत्वं न भवति। आदिशब्देन <<अहंशुभमोर्युस्>> [[5.2.140]] इत्येवमादयो गृह्यन्ते। ननु च `अहंशुभमोर्युस्` <<कंशंभ्यां बभयुस्तितुतयसः>> [[5.2.138]] इत्यतर, सित्करणादेव न भविष्यति, सित्करणं हि पदसंज्ञार्यम्, पदसंज्ञा चानुस्वारार्था - तस्यां सत्यां <<मोऽनुस्वारः>> [[8.3.23]] इत्यनुस्वारो यथा स्यात्। यदि चात्रानादेशः स्यात्? तदा सित्करणमनर्थकं स्यात्, न ह्रनादेशे कृतेऽनुस्वारो भवति, तद्विधौ <<हलि सर्वेषाम्>> [[8.3.22]] इत्यतो हलीत्यनुवृत्तेः। आदेशे कृते न भवति; हलादित्वाभावात्? नैतदस्ति; वचनसामर्थ्यादजादावप्यनुस्वारः स्यात्। सित्करणस्यान्यदपि प्रयोजनम् - पदसंज्ञा। तत्प्रजनम् - भसंज्ञाबाधः। भसंज्ञायामध्ययानां भमात्रे टिलोपः स्यात्। अवग्रहार्थे वा सित्करणं स्यात्, कुतस्यानर्थक्यम्!इह युवोरिति निर्देशे समाहारे वा द्वन्द्व आश्रीयते, इतरेतरयोगे वा; तत्र पूर्वस्मिन्? पक्षे षष्ठएकवचने कृते `स नपुंसकम्` [[2.4.17]] इति नपुंसकत्वात्? <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमा भवितव्यम्, ततश्च `युवुनः` इति निर्द्देशः स्यात्। इतरस्मस्तु पक्ष ओसि परतो यणादेशे कृते युष्वोरिति द्वितीयवकारश्रवणमापद्येत? इत्येतच्चोद्यनिरासायाह - `इह युवोरिति निर्देशः` इत्यादि। `अनित्यमागमशासनम्` इति। आगमानां शासनम्=विधानम्, तदनित्यमिति; क्वचित्? तदभावात्। अथ वा - आगमाः शिष्यन्ते विधीयन्ते येन शास्त्रेण तदागमशासनं शास्त्रम्, तदनित्यम्, अविद्यमानं नित्यं कार्यमस्येति कृत्वा। अनित्यता पुनरागमशासनस्य <<घोर्लोपो लेटि वा>> [[7.3.70]] इत्यत्र वाग्रहणाल्लिङ्गाद्विज्ञायते। तद्धि ददद्, ददादित्यत्र नित्यं घोर्लोपो मा भूदित्येवमर्थं क्रियते। यदि च नित्यमागमशासनं स्याद्वाग्रहणमनर्थकं स्यात्। भवतु नित्यो लोपः, सत्यपि तस्मिन्? <<लेटोऽडाटौ>> [[3.4.94]] इत्यटि कृते ददद्? ददादिति सिद्ध्यत्येव। अनित्यत्वे त्वागमशासनस्याडागमाभावान्न सिध्यति। ततो वावचनमर्थवद्भवति। `नपुंसकलिङ्गता वा` इत्यादि। अथ वा नपुंसकलिङ्गतैवात्र नास्ति। किं कारणम्(ित्याह - `लिङ्गमशिष्यम्` इत्यादि। लिङ्गस्य हि लोकधर्मत्वाल्लोक एवाश्रयः। तस्माल्लोकत एव सिद्धत्वात्? तदश्रिष्यं न विधातव्यम्। लिङ्गशास्त्रमेवात्र तादथ्र्याल्लिङ्गशब्देनोच्यते। लिङ्गार्थ शास्त्रमशिष्यं न कर्तव्यम्, तत्साध्यस्य लिङ्गस्य लोकाश्रयत्वात्। तदनेन `स नपुंसकम्` [[2.4.17]] इत्यादेः प्रत्याख्यानं दर्शयति। तस्मश्च प्रत्याख्याते सति तद्द्वारेण तस्य नपुंसकत्वं न भवतीति कुतो नुम्प्रसङ्गः! `इतरेतरपक्षे तु च्छान्दसत्वाद्वर्णलोपः` इति। `छन्दोवत्? सूत्राणि भवन्ति` इति। छान्दसत्वम्। तेन यथेष्कर्तारमध्वर इत्यत्र निसो नकारलोपः तथेहापि वकारस्यापि लोपो द्रष्टव्यः॥", "71002": "फादयोऽपीह शास्त्रे लाघवार्थमुपदिष्टाः, ततस्तेषामायन्नादय आदेश विधीयन्ते। तेन च विधीयमानाः फकारादेर्हल्मात्रस्य भवन्तीति वेदितव्यम्। कुत एतत्? अन्ते घामित्यनच्कनिर्द्देशात्; इतरथा हि घानामित्येवं ब्राऊयात्। अन्यत्र त्वागन्तुकोऽकार उच्चारणार्थ एव। अत एव प्रत्ययादौ वर्तमानस्य फादेव्र्यञ्जनमात्रस्य स्थानित्वेनोपादानान्निरनुबन्धकपरिभाषात्र (व्या।प।53) नोपतिष्ठते; सर्वत्र हि फादयो निरनुबन्धकाः। यत्र चोभयं सम्भवति तत्रैवास्या उपस्थानम्, `नाडायनः` इति। <<नडादिभ्यः फक्>> [[4.1.99]] अपत्यार्थे फक्प्रत्ययः। उत्तरेष्वप्युदाहरणेष्वीयादेशोदाहरणादन्यत्रापत्यार्थे वेदितव्यः। `सौपर्येणः, वैनतेयः` इति। सुपर्णाविनताभ्यां ढक्। `आठकुलीनः` इति। `अपूर्वपदादन्यतरस्यां यङ्ढकञौ` [[4.1.140]] इत्यत्रापूर्वपदादिति वचनात्? `कुलात्खः` [[4.1.139]] इत्यनेन सपूर्वपदादपि खो भवति। `गार्गीयः, वात्सीयः` इति। गाम्र्यवात्स्यशब्दाभ्यां यञन्ताभ्यां `तस्येदम्` इत्यर्थविवक्षायां छः, <<यस्येति च>> [[6.4.148]] इत्यकारालोपः, <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति यकारलाह्_> `फक्कति, ढौकते` इति। `फक्क नीचैर्गतौ` (धातुपाठः-116), `ढोकृ गतौ` (धातुपाठः-98), `खनु अवदारणे` (धातुपाठः-878), `छिदिर्? द्वैधीकरणे` (धातुपाठः-1440), `घूण घूर्ण भ्रमणे`[`घुण` - धातुपाठः-] (धातुपाठः-437,438)-इत्येतेषां रूपाणि। ढौकतिधूर्णत्योरनुदात्तेत्त्वादात्मनेपदम्। `ऊरुदध्नम्, जानुदध्नम्` इति। ऊरू प्रमाणमस्य `प्रमाणे द्वयसच्` [[5.2.37]] इत्यादिना दध्नच्। इहैत आयन्नादयोऽह्गाधिकारे विधीयमानाः प्रकृतिप्रत्ययावपेक्ष्य भवतीति बहिरङ्गाः, प्रत्ययाद्युदात्तत्वं तु प्रकृत्यनपेक्षत्वात्? प्रत्ययमात्रमाश्रित्य भवतीत्यन्तरङ्गम्; ततो बहिरङ्गा यावदायन्नादयो न भवन्ति तावदेव प्रत्ययाद्युदात्तत्वेन भवितव्यम्, तस्मिन्? कृते सत्यादेशा भवन्तो यत्र स्वरार्थोऽनुबन्धो न विधीयते <<शिलाया ढः>> [[5.3.102]] , <<वृद्धाच्छः>> [[4.2.114]] इत्यादौ तत्रानियतस्वराः प्राप्नुदन्तीत्यस्य चोद्यस्य निरासायाह - `इहैत आयन्नादयः` इत्यादि। अयमभिप्रायः-आयन्नादयोऽप्यन्तरङ्गा एव। यदि हि <<अङ्गस्य>> [[6.4.1]] इत्यत्राभिसम्बध्यते तदा स्यात्? तेषां प्रकृतिप्रत्ययापेक्षया बहिरङ्गत्वम्। न चात्र तदभिसम्बध्यते; प्रयोजना भावात्। तथा हि - अङ्गस्य निमित्तं ये प्रत्ययास्तदादीनां फादीनामायन्नादयो यथा स्युः, अन्येषां मा भूवन्नित्येतत्? प्रयोजनम्। एतच्च विनाप्यङ्गाधिकारं सामर्थ्यादेव लभ्यते। न हि फादीनां मद्ये सोऽस्ति प्रत्ययो योऽङ्गस्य निमित्त न भवति। तस्मात्? प्रयोजनाभावादङ्गस्येत्येतन्नाभिसम्बध्यते। तेन स्थानिमात्रमेवादेशा अपेक्षन्ते, न प्रकृतिमिति तेऽप्यन्तरङ्गा एव। ततश्च परत्वात्? प्रत्ययोपदेशकाले तैरेव तावद्भवितव्यम्, ततश्च प्रत्ययाद्युदात्तत्वेनेति प्रत्ययोपदेशकाल एवायन्नदयो भवन्तीति तेषु कृतेषु प्रत्ययाद्युदात्तत्वं भवतीति। अत्र ज्ञापकमप्याह - `तथा च` इत्यादि। एवञ्चेत्यर्थः। घचश्चित्कारणस्यैतत्? प्रयोजनम् - `चितः` [[6.1.157]] इत्यन्तोदात्तत्वं यथा स्यात्। यदि च प्रत्ययोपदेशावस्थायामेवायन्नादयो भवन्ति, एवं सति घचश्चित्करणमर्थवद्भवति; नान्यथा। अन्यथा हि यद्युपदेशादस्थाया उत्तरकालमेते स्युस्ततो यत्रैवासति चित्करण उदात्तत्वं भवति, धकाराकारे सत्यपि चित्करणे तत्रैव तेन भवितव्यमिति चित्करणमनर्थकं स्यात्। तस्माच्चित्करणादवसीयते - प्रत्ययोपदेशकाल एवैत आयन्नाद्यादेशास्तावद्भवन्ति, पश्चात्? प्रत्ययाद्युदात्तत्वमिति भावः। ननु च व्यञ्जनस्यैते विधीयन्ते, तच्च व्यञ्जनमस्वरम्, एवाञ्चावश्यं येन केनचित्? स्वरेण भवितव्यम्, उदात्तादिगुणरहितस्याचोऽसम्भवात्। तत्र स्थानिनः स्वराभावादान्तरतम्यं नास्तीति स्थानेन्तरतमपरिभाषया [[1.1.49]] अनुपस्थाने सत्यनियतस्वरैरेभिर्भवितव्यम्, ततश्च यदि चित्त्वं न स्यात्, पश्चाद्विधीयमानानामेषां यदाद्युदात्तस्वरो भवति तदा स एव स्वरः प्रसज्येत; सतिशिष्टत्वात्। तस्मात्? तमपि सतिशिष्टस्वरं बाधित्वाऽन्तोदात्तत्वं यथा स्यादित्येवमर्थं घचश्चित्करणम्। ततः कुतो ज्ञापकत्वमेतच्चिन्त्यम्। अथ `शमेः खः` (प्।उ।1।104) शङ्खः, `षणो ढः` (पं।उ।4।104) षण्ढः - इत्येवमादीनां कस्मादादेशा न भवन्ति? इत्याह - `शङ्खः, षण्ढः` इत्यादि। <<लशक्वतद्धिते>> [[1.3.8]] , `चूटू` [[1.3.7]] इतीत्संज्ञापि बहुलवचनादेव न भवतीति वेदितव्यम्। `ऋतेरीयङ` इत्यादि। यदयं `ऋतेरीयङ` [[3.1.29]] इतीयङं शास्ति तज्ज्ञापयति - धातुप्रत्ययानामायन्नादयो न सन्तीति। यदि हि स्युः, `ऋतेश्छङ` इति। ब्राऊयात्। ननु सिद्धे विधिरारभ्यमाणो ज्ञापकाय भवतीति? न च च्छङा सिध्यतीति, छङि हि सति वलादिलक्षण इट्? प्रसज्येत, ततश्चानादित्वादादेशो न स्यात्? नैतदस्ति; यस्मादन्तरङ्गत्वादादेशेनैव भवितव्यम्। अन्तरङ्गत्वन्तु तस्योपदेशावस्थायामेव विधीयमानत्वात्। आदेशे च कृते वलादित्वाभावादिट्प्रसङ्गो नास्ति। तदेतदीयङ्वचनं ज्ञपकमेव। `एजेः खश्` इत्यादि। तु शब्दः शङ्खः, षण्ढ इत्येदमादिभ्यो विशेषप्रदर्शनार्थः। यत्रेत्संज्ञा नास्ति - शङ्खादौ, तत्रादेशप्रसङ्गे सति तन्निरासार्थं बहुलवचनमिति, <<ऋतेरीयङ्>> [[3.1.29]] इति वावचनमुपन्यस्तम्। <<एजेः खश्>> [[3.2.28]] इत्येवमादौ तु <<लशक्वतद्धिते>> [[1.3.8]] इतीत्संज्ञया भवितव्यमित्यादेशप्रसङ्गो नास्त्येव। ततो न तत्र तदभावार्थं बहुलवचनम्, `ऋतेरीयङ` इति वावचनमुपन्यसनीयमिति भावः। आदिशब्देन `प्रियवसे वदः खच्` [[3.2.38]] , <<पुंसि संज्ञायां घः प्रायेण>> [[3.3.118]] इत्येवमादीनां ग्रहणम्। स्यादेतत् - अनवकाशं खकारघकारयोरादेशवचनम्, अतस्तेन बाध्यमानेत्संज्ञा कथमत्र स्यात्? इत्याह - `तद्धिते` इत्यादि। <<खित्यनव्ययस्य>> [[6.3.66]] इति ह्रस्वविधानम्, <<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति कुत्वविधानं ज्ञापकम् - न ह्रादेशविधानेनेत्संज्ञायां बाधितायां तदुपपद्यते; खितो घितश्चात्यन्तासम्भवात्। `आयन्नीनोर्नकारस्य` इत्यादि। आयन्नीनोर्नकारोऽन्ते वर्तत इति तस्य <<हलन्त्यम्>> [[1.3.3]] इतीत्संज्ञा प्राप्नोति, तस्याञ्च स्त्यां <<तस्य लोपः>> [[1.3.9]] इति कृते नाडायनः, आढकुलीन इत्यादि न सिध्यति। तस्मादायरुआईनोर्नकारस्येत्संज्ञायां प्राप्तायां तत्प्रतिविधानं कर्तव्यम्। स्यादेतत्। प्रयोजनाभावादेवेत्संज्ञा न भविष्यति? इत्यत आह - `नित्कार्थं हि` इत्यादि। तत्पुनः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्याद्युदात्तत्वम्। प्रतविधानं पुनरत्र `प्राचामवृद्धात्? फिन्? बहुलम्` [[4.1.160]] इत्यत्र फिनो नकारानुबन्धकरणम्। तस्यांतत्? प्रयोजनम् - नित्त्वादाद्युदात्तत्वं यथा स्यात्। तत्र यद्यायन्नीनोर्नकारस्येत्संज्ञा स्यात्, नित्त्वे सत्याद्युदात्तत्वस्य सिद्धत्वात्? फिनो नित्करणमनवर्थकं स्यात्। ननु <<फेश्छ च>> [[4.1.149]] इत्यततर सामान्यग्रहणार्थं स्यात्, तस्मिन्नसति निरनु बन्धकपरिभाषयास्यैव ग्रहणं स्यात्, न फिञः? नैतदस्ति; तत्र हि `वृद्धाट्ठक्? सौवीरेषु बहुलम्` [[4.1.148]] इति बहुलग्रहणानुवृत्तेः फिञ एव ग्रहणमिष्यते, न फिनः। तदेतत्? फिनो नित्करणमित्संज्ञाभावस्य ज्ञापकमेव। योगपक्षं चेदं ज्ञापकम् - अनेन योगेन विहितस्यादेशस्य यो नकारस्तस्मेत्संज्ञा न भवतीति। तेनेनोऽपि नकारस्येत्संज्ञाऽभावो न भवति सिद्धः॥", "71003": "`प्रत्ययग्रहणमनुवर्तते` इति। अनन्तरसूत्रात्। यद्येवम्, एकयोगनिर्दिष्टत्वादादिग्रहणमप्यनुवर्तेत, ततश्च शयान्तै - इत्यत्र न स्यात्, चकारस्यादित्वाभावात्? इत्यत आह - `आदिग्रहणं निवृत्तम्` इति। एवं मन्यते - स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः, तच्च स्वरितत्वं प्रतिज्ञाधर्मः - `प्रतिज्ञास्वरिताः पाणिनीयाः` इति - यत्रैव तैः स्वरितत्वं प्रतिज्ञायते तत्रैव भवति, नान्यत्रेति। तेनैकयोगनिर्द्दिष्टानामप्येकतरस्यानुवृत्तिर्न विरुध्यते। इह च प्रत्ययस्यैव स्वरितत्वं प्रतिज्ञायते, नादिग्रहणस्य। तेन सत्यप्येकयोगनिर्द्दिष्टत्वे प्रत्ययग्रहणमनुवर्तते। `आदिग्रहणं निवृत्तम्` इति। `अन्त इत्ययमादेशो भवति` इति। अकारसहित एवादेशः करणीयः। अकारः - तकारेत्संज्ञा मा भूदित्येवमर्थः। स च जरन्तः, वेशन्त इत्यत्र। कुर्वन्तीत्यादौ <<न विभक्तौ तुस्माः>> [[1.3.4]] इति प्रतिषेधादेवेत्संज्ञा न भवति। अथ तु <<उणादयो बहुलम्>> [[3.3.1]] इति वचनाज्जरन्तः, वेशन्त इत्यादौ न भवति? तथा च सत्यकार उच्चारणार्थः। <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यस्यानित्यत्वज्ञापकार्थं वाऽकारोच्चारणम्। `तेन किमोऽत्` [[5.3.12]] इत्यादीनां तकारेत्संज्ञा भवति। `कुर्वन्ति` इति। `अत उत्सार्वधातुके` [[6.4.110]] इत्युत्त्वम्। `शयान्तै` इति। शीङः <<लिङर्थे लेट्>> [[3.4.7]] , <<लेटोऽडाटौ>> [[3.4.94]] इत्याट्, टेरेत्त्वम्, `एत ऐ` [[3.4.93]] इत्यनुवर्तमाने `वैतोऽयन्त्र` [[3.4.96]] इत्यैत्त्वम्। `उज्झिता` इति। `उज्झ उत्सर्गे` (धातुपाठः-1304) तृच्। `ऋदुशनस्` [[7.1.94]] इत्यादिनानङ्, <<नोपधायाः>> [[6.4.7]] `सर्वनामस्थाने च` [[6.4.8]] इति दीर्घः। `उज्झितुम्` इति। तुमुन्। `उज्झितव्यम्` इति। तव्यः। `अस्मिन्नपि` इत्यादि। ननु चान्तरङ्गत्वात्? प्रत्ययाद्युदात्तत्वेन प्राग्भवितव्यम्, पश्चादादेशेन? नैवम्; अन्तादेशस्याप्यन्तरङ्गत्वात्। अन्तरङ्गत्वं तु तस्यायन्नादिवद्वेदितव्यम्। उभयोरन्तरङ्गत्वात्? पूर्वमन्तादेशः, पश्चात्? प्रत्ययाद्युदात्तत्वम्। अत्रैव ज्ञापकमाह - `तथा च` इत्यादि। एतच्च `<<घच्छौ च>> [[4.4.117]] इति घचश्चित्करणमनर्थवद्भवति` - इत्येतद्वाख्यानेन व्याख्यातमिति। प्रत्ययाद्युदात्तत्वात्? पूर्वमन्तादेशस्य भावे सति द्विषन्तीत्यत्र मध्योदात्तत्वम्; अन्यथाऽन्तोदात्तता स्यात्। सा चानिष्टेति पूर्वमन्तादेशः क्रियते॥", "71004": "अनात्मनेपदार्थं आरम्भः; आत्मनेपदेषूत्तरसूत्रेणैव सिद्धत्वात्। `ददति` इति। `श्नाब्यास्तयोरातः` [[6.4.112]] इत्याकारलोपः। `ददतु` इति। लोट्, `एरुः` [[3.4.86]] इत्युत्वम्। जक्षति, जाग्रतीत्यत्र <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यभ्यस्तसंज्ञः। युक्तं जक्षित्यादिकमुदाहरणम्, ददतीत्याद्ययुक्तम्; अत्र झकारस्यात्मलाभकालसमनन्तरमेव ताददन्तरङ्गत्वादन्तादेशेन भवितव्यम्, ततः शपः श्लुः, `श्लौ [[6.1.10]] इति द्विर्वचनम्, ततोऽभ्यस्तसंज्ञा तदा झकारस्य स्थानिनोऽभावादद्भादो न प्राप्नोति। न च शक्यते वक्तुम् - स्थानिवद्भावाद्भविष्यति। न ह्यत्र स्थानिवद्भावोऽस्ति; अल्विधित्वात्। नापि बहिरङ्गोऽनवकाशत्वादन्तादेशं बाधित्वाऽदादेशो भविष्यतीति युक्तं परिकल्पयितुम्। जक्षित्यादिषूपदेशावस्थायामेव लब्धाभ्यस्तसंज्ञकेषु तस्य सावकाशत्वादिति चोद्यमपाकर्तुमाह - `अन्तादेशापवादोऽयम्` इति। अन्तादेशस्य सामान्येन सर्वत्र प्रसक्तस्यायमद्भावोऽपवाद आरभ्यते। न चापवादविषयमुत्सर्गोऽवगाहते। तथा चोक्तम् - `पूर्वमपवादाः प्रवर्तन्ते पश्चादुत्सर्गाः, परिह्मत्यापवादविषयमुत्सर्गः प्रवर्तते` (पु।प।56) इति। अत एव तर्हि जुस्भावो न स्यात्। यथैव ह्रन्तादेशस्य सामान्येन प्रवृत्तस्य विशेषोऽद्भाव आरभ्यमाणोऽपवादः, तथा जुत्भावस्यापीत्याह - `जुसादेशेन तु बाध्यते` इति। `जुसादेशस्यानवकाशत्वादित्यदादेशो बाध्यते। `अददुः` इति। लङ्, `सिजभ्यस्तविधिभ्यश्च` [[3.4.109]] इति झेर्जुस्। `अजागरुः` इति। जागर्तेर्या गुणप्राप्तिस्तस्याः `अविचिण्णल्ङित्सु` [[7.3.85]] इति प्रतिषेधल्लक्षणान्तरेण, `जुसिच` [[7.3.83]] इत्यनेन गुणः। `अत्राप्यादेशे कृते प्रत्ययाद्युदात्तत्वं भवति` इति। तेन पुनत इत्यादिकं पदं मध्योदत्तं भवतीति भावः। यदि तु विपर्ययः स्यात्, अन्तरङ्गत्वात्प्रत्ययाद्युदात्तत्वे कृते व्यञ्जनमात्रस्याद्भावो विधीयमानोऽनियतस्वरः प्रसज्येत। तत्र यदासावनुदात्तः स्यात्, तदा पुनत इत्यादेः पदस्यान्तोदात्तता प्रसज्येत; यदा स्वरितस्तदा मध्यस्वरितता, मध्योदात्तता चेष्यते। ननु च प्रत्ययाद्युदात्तत्वं प्रत्ययमात्रापेक्षयाऽन्तरङ्गम्, आदेशस्तुप्रकृतिप्रत्ययापेक्षत्वाद्बहिरङ्गः। `अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलीयः` (व्या।प।94) इति प्रत्ययाद्युदात्तत्वेनैव पूर्वं भवितुं युक्तम्, पश्चादादेशेनेति, तत्कथमुच्यते - अदादेशे कृते प्रत्ययाद्युदात्तत्वं भवतीति? नैतदस्ति उक्तं हि `उपदेशिवद्वचनं कर्तव्यम्` इति। किञ्च - आदेशो नित्यः, कृताकृतप्रसङ्गित्वात्। स हि कृते प्रत्ययाद्युदात्तत्वं पुनरनित्यम्, शब्दान्तरप्राप्त्या। तथा ह्रकृतेऽदादेशे झेरिकारस्य प्राप्नोति, कृते स्वदादेशाकारस्य `शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति` (व्या।प।106)। `नित्यानित्ययोर्नित्यं बलीयः` (व्या।प।93) इति बलीयस्त्वमस्य। तदेतन्नित्यत्वादनयोर्बलपीयसोः परत्वाददादेशेन पूर्वं भवितव्यम्, ततः प्रत्यायाद्युदात्तत्वेन। तस्मात्? सुष्ठूक्तम् - आदेसे कृते प्रत्ययाद्युदात्तत्वं भवतीति॥", "71005": "`चिन्चेते` इति। लट्, स्वरितत्वादात्मनेपदम्। `चिन्वताम्` इति। लेट्, झः टेरेत्त्वम्, `आमेतः` [[3.4.90]] । `अचिन्वत` इति। लङ्, अडागमः, <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इति यणादेशः। `पुनते, लुनते` इति। पूर्ववदाकारलोपः। `च्यवन्ते, प्लवन्ते` इति। अत्र शपि कृतेऽनकारान्तादङ्गादुत्तरो झकारो न भवति। ननु परत्वाददादेशेन भवितव्यम्, पश्चाद्विकरणेन? इत्यत आह - `नित्यत्वादतद्र` इत्यादि। नित्यत्वं तु कुताकृतप्रसङ्गित्वात्। विकरणो हि कृतेऽप्यदादेशे प्राप्नोत्यकृतेऽपि, न तु तस्मिन्? कृतेऽद्भावस्य प्राप्तिरस्तीत्यनित्यत्वमस्य। `अनकारान्तेन` इत्यादि। प्रत्ययः कस्मादनकारान्तेनाङ्गेन न विशिष्यते? इति मन्यमान आह - `इह` इत्यादि। यदि प्रत्ययो विशिष्येत शयान्तं - इत्यत्रापि स्यात्, भवति ह्यत्राप्यनकारान्तादङ्गादुत्तरो झप्रत्ययः। आटा व्यवहितत्वान्न भवतीति चेत्? न; तस्य तद्भक्तत्वान्न हि तदेकदेशेन व्यवधानं युक्तम्। झकारे तु विशिष्यमाणे न दोषः; आटा व्यवहितत्वात्। समुदायभक्तो ह्राट्? समुदायमेव न व्यवदध्यात्। अवयवं तु व्यवदधात्येव; न ह्रवयवोऽवयवान्तरस्याव्यवधायको दृष्टः। `तङ्यनतः`, `झस्यानतः` इति वा वक्तव्ये `आत्मनेपदेष्वनतः` इति वैचित्र्यार्थम्॥", "71006": "`झादेशस्यातो रुडागमो भवति` इति। ननु न चेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्देशेन चेहार्थः, तत्? कथं झादेशस्यातो रुडागमो भवतीति शक्यं विज्ञातुम्? नैतदस्ति; <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति शीङ इत्येषा पञ्चमी अदित्यस्याः प्रथमायाः षष्ठीत्वं परिकलपयिष्यतीत्यदोषः। `शेरते` इति। `शूङः सार्वधातुके गुणः` [[7.4.21]] । ननु चात्र रुटा व्यवहितं सार्वधातुकम्, तत्कुतो गुणः, न ह्रयं सार्वधातुकभक्तस्तत्? कथं व्यवधायको न स्यात्, अचछब्दस्य सार्वधातुकावयवस्यायमवयव इति तद्ग्रहणेन गृह्रते, न सार्वधातुकग्रहणेन; अवयवावयवस्य समुदायानवयवत्वात्; तथा हि - `छे च` [[6.1.73]] इत्यत्रोक्तम् - `नावयवावयवः समुदायावयवो भवति` इति? नैष दोषः; अवयवावयवोऽपि समुदायावयवो भवत्येव। तथा हि - देवदत्तोऽलंक्तियतामित्युक्ते देवदत्तस्य येऽवयवा हस्तपादायस्तवयवाश्चङ्गुल्यादयोऽलंक्रियन्ते। तस्मात्? सार्वधातुकावयवस्याच्छब्दस्य योऽवयवो रुडागयः, सोऽपि सार्वधातुकावयव इति तद्ग्रहणेन गृह्रते, अतो नास्ति व्यवधानम्।यत्पुनः `छे च` [[6.1.71]] इत्यत्रोक्तम् - नावयवावयवः समुदायावयवो भवतीति, तत्? तत्सूत्रविहितमेव तुगागममभिप्रेत्योक्तम्, स तुगवयवावयवोऽपि समुदायग्रहणेन न गृह्रत इति कृत्वा। कस्मात्? पुनर्न गृह्रते? ह्रस्वानुकर्षणसामर्थ्यात्। तत्र हि चकारेण ह्रस्वोऽनुकृष्यते - ह्रस्वमात्रस्यागमित्वं यथा स्यात्, ह्रस्वन्तस्य मा भूदिति। यदि ह्रस्वान्तस्यागमित्वं स्यात्, चिच्छिदतुः, चिच्छिदुरित्यत्र तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। यदि च तत्सूत्रविहितस्तुगवयवावयवः समुदायग्रहणेन न गृह्रते, तदा ह्रस्वमात्रस्यायमित्वे हलादिशेषेण निवृत्तिः स्यादेव; ह्रस्ववयवस्य तुकोऽभ्यासग्रहणेन ग्रहणात्। ततश्च ह्रस्वानुकर्षणमनर्थकं स्यात्। अथ किमर्थमदादेशस्य रुङ्? विधीयते, न झकारस्य विधीयताम्, तत्रायमर्थः - अत #इति षष्ठी प्रकल्पयितव्या न भवति; झ इत्यस्य षष्ठन्तस्य प्रकृतत्वात्? अत आह - `रुडयम्` इत्यादि। यदि ककारमनुबन्धमासन्य पूर्वान्तः क्रियत, तदा शेरत इत्यत्र गुणो न स्यात्; अनिगन्तत्वात्। तस्मान्मा भूदेष दोष इति रुडयं परादिः क्रियते; परादिरपि क्रियमाणो यदि झकारस्यैव स्यात्? किमनिष्टं स्यात्? इत्याह - `यदि` इत्यादि। झकारस्यैव रुट्? स्यात्? तदाऽदादेशो न स्यात्। ततो यथा शयान्तै - इत्यत्राटा व्यवहितत्वाददादेशो न भवति; तथा शेरते इत्यत्रापि न स्यात्; रुटा व्यवहितत्वात्। तस्मादस्य दोषस्य परिहारार्थम् - अत एव रुडागमो विधीयते, न झकारस्येति केचिद्व्याचक्षते, एतच्चासम्यक्; झकारस्य क्रियमाणो रुट्? तस्यैव भक्तो भवति, तत्कथं तेन व्यवधानं भवेत्! न हि स्वावयवेन व्यवदधात्येव। तस्मादसद्व्याख्यनमेतदित्यन्यथा व्याख्यायते - अदादेशो न स्यादित्यत्र झकारस्येत्येतदपेक्षते, तदयमर्थो भवति - यदि रुडागमो झकारस्यैव स्यात्? तदादादेशस्तस्यैव न स्यात्। कस्य तर्हि स्यात्? तस्यैव रुटः स्यात्; <<आदेः परस्य>> [[1.1.54]] इति वचनात्। अनेकाल्त्वेऽपि सर्वादेशो न भवति; रुट आनर्थक्यप्रसङ्गात्। रुटो विधानसामर्थ्यान्न भविष्यतीति चेत्? नैतदस्ति; उत्तरार्थ रुङविधानंस्यात्। <<बहुलं छन्दसि>> [[7.4.78]] इत्यत्र रुजागमो यथा स्यात्। न हृदृश्रन्नित्यतटा सिध्यति। तस्माज्ताकश्रवणं रुङ्विधेः प्रयोजनम्। तदेतस्य दोषस्य निरासायादादेशस्य रुङ्विधीयते; न झकार्सय। `शीङः` इत्यनुबन्धेन निर्देशे यङ्लुग्निवृत्त्यर्थः - व्यतिशेस्यत इति॥", "71007": "`संविद्रते, संविदते` इति। `विद ज्ञाने` (धातुपाठः-1064)। `समोभ्यृच्छि` [[1.3.29]] इत्यादिनाऽत्मनेपदम्, अदादित्वाच्छपो लुक्। `संविद्रताम्, संविदताम्` इति। लोट्। देरेत्त्वे कृते `आमेतः` [[3.4.90]] इत्याम्। `वेत्तेरिति लुग्विकरणस्य ग्रहणं किम्` इति। एवं मन्यते - विधेरिति सामान्यनिर्देशेन सर्वविदीनां ग्रहणमस्तु, लघु ह्रेवं सूत्रं भवति, सत्यपि सर्वविधीनां ग्रहणे लुग्विकरणादेव भविष्यति, नान्यतः, विकरणेन व्यवधानात्। यद्यविशेषेण विदीनां ग्रहण स्यात्? `विद विचारणे` (धातुपाठः-1450) इत्यस्मादपि रौधादिकात्? स्यात्, न ह्यत्र विकरणो व्यवधायकः; धात्वन्तःपातित्वात्? इत्यत आह - `इह` इत्यादि। `विन्ते, विन्दाते, विन्दते` इति। अनुदात्तेत्त्वादात्मनेपदम्, <<श्नसोरल्लोपः>> [[6.4.111]] । अत्र तु `विन्दते` इति बहुवचनान्तं प्रत्युदाहरणम्। एकवचनद्विवचनयोरुपन्यासो विदेर्विचारणार्थस्य रूपमिति प्रदर्शनार्थः; अन्यथा `विन्दते` इत्येताचत्युच्यमाने लाभार्वस्य विदेरेकवचनान्तमिदं रूपमिति कस्यचिद्भ्रान्तिः स्यात्। श्तिपा निर्देशाद्यङ्लुकि न भवति - संवेविदते, व्यतिवेविदते॥ `अदुह्य` इति। स्वरिरेत्त्वादात्मनेपदम्। ननु च विभाषाग्रहणानुवृत्तेरेवादुह्यतेत्यादि सिद्धम्, किं बहुलवचनेनेति यश्चोदयेत्? तं प्रत्याह - `बहुलवचनात्` इत्यादि। विभाषानुवृत्त्या हि विकल्पमात्रं लभ्यते, न त्वन्यत्रापि भवति। बहुलवचनादन्यत्रापि भवति। तेन विभाषायां प्रकृतायां बहुलवचनमिति भावः। `अदृश्रन्` इति। दृशेर्लुङ्, झेरन्तादेशः, `इरितो वाट [[3.1.57]] इति च्लेरङ्, तस्य रुट्? `इतश्च` [[3.4.100]] इतीकारलोपः, `संयोगन्तस्य` [[8.2.23]] इति तकारस्य च, <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। अथात्र `ऋवृशोरङि` [[7.4.16]] इति गुण कस्मान्न भवति? <<क्ङिति च>> [[1.1.5]] इति प्रतिषेधादिति चेत्? न; तसय ङित्येव विधानात्। सार्वधतुकस्य ङितमाश्रित्य प्रतिषेधः प्राप्नोतीति चेत्? न; एकादेशः पूर्वविधौ स्थानिवद्भवतीति यश्चोदयेत्, तं प्रत्याह - `ऋदृशोऽङि गुणः` इति॥", "71008": "", "71009": "", "71010": "बहुलग्रहणं विस्पष्टार्थम्। शक्यते हि मण्डूकप्लुतिन्यायेन बहुलग्रहणमनुवर्तयितुम्॥", "71011": "अविद्यमानः ककारो ययोस्तवकौ। `एभिः` इति। इदमस्त्यदाद्यत्वम्, `बहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वम्, <<हलि लोपः>> [[7.2.113]] इतीद्रूपस्य लोपः। `अमीभिः` इति। अदस एत्त्वे कृते `एत ईदवहुवचने` [[8.2.81]] इतीत्त्वम्, दस्य च मत्वम्। `इमकैः` इति। `अव्ययसर्वनाम्नामकच्प्रक्टोः` [[5.3.71]] इत्यकच्, `दश्च` [[7.2.109]] इति दकारस्य मत्वम्। `अमुकैः इति। `अदसोऽसोर्दादु दो मः` [[8.2.80]] इति मत्वोत्वे। अथ `नेदमदसोः` इत्येवं कस्मान्नोक्तम्, किमकोरत्यनेन, अकोरित्यनुच्यमाने सककारयोरपि अतिषेधः स्यादिति चेत्? नैतदस्ति; इदमदसोर्हि प्रतिषेध उच्यमानः कः प्रसह्गो या सककारयोः स्यात्? नैव प्राप्नोति शब्दान्तरत्वादित्याह - `अकोरित्येत्` इत्यादि। ज्ञापकस्य प्रयोजनम् - अकज्वतां सर्वनामसंज्ञा सर्वादीनाम्, स्वरादीनाञ्चाव्ययसंज्ञा। अथ `इदमदसोः कात्` इति कस्मान्नोक्तम्, तत्र पूवणैव सिद्धे नियमार्थ भविष्यति - इदमदसोः सम्बन्धो यो भिस्? तस्य कादेव परस्यैस्? भवति, इत्येवं विज्ञायमाने नियमे सर्वमभीष्टं नियमे सर्वमभीष्टं सिध्यत्येव, लघु च सूत्रं भविष्यति? सत्यमेतत्; किन्त्वस्मिन्? सूत्रविन्यासे `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते` (व्या।प।21) इत्येषा न ज्ञापिता स्यात्। विपरीतनियमोऽपि भन्दधीभिराशङ्क्येत - इदमदसोरेव कादिति। तत्रायं नियमार्थः स्यात् - इदमदसोरेव यः ककारस्तस्मात्? परस्य भिस ऐस्भवतीति। ततो विआकैः, सर्वकैरित्यत्र न स्यात्; नियमेन व्यावर्त्तितत्वात्। इह च स्यादेव - एभिः, अमीभिरिति। नियमेनाव्यावर्त्तितत्वात्। तस्माद्यथान्यासमेवास्तु॥", "71012": "`अतिजरसिना` इत्यादि। पूर्ववत्? समासे कृते ह्रस्वत्वे च जरसादेशः। `केचित्` इति। सूत्रकारमतानुसारिणः। यदि ह्रतिजरसिनेत्येतत्? सूत्रकारस्य साधुत्वेनाभिमतं न स्यात्, टेत्येतस्य नादेशमेव कुर्यात्। तत्राप्येत्वे कृते वृक्षेणेत्यादि सिध्यति। कथमेतत्वमिति चेत्? एवमेत्त्वविधौ योगविभागः करिष्यते। इदमस्ति - `बहुवचने झल्येत्` [[7.3.103]] , ततः `ओसि च` [[7.3.104]] , ततः <<आङि चापः>> [[7.3.105]] इति; तत्राङीति योगविभागः कर्तव्यः - आङि परतोऽत एत्वं भवति - वृक्षेण, प्लक्षेण; ततः `आपः`, <<सम्बुद्धौ च>> [[7.3.106]] इति। ननु च नादेशे सतीदम इद्रूपस्य हलि लोपः प्रसज्येत, ततश्चानेनेति न सिध्यति? नैष दोषः; <<हलि लोपः>> [[7.2.113]] इत्यत्र <<जराया जरसन्यतरस्याम्>> [[7.2.101]] इत्यतोऽन्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्तितविभाषा विज्ञायते तेन नादेशे कृते सतीद्रूपस्य लोपो न भवति। तदेवं नादेशेनैव वृक्षेणेत्यादि। सिध्यति। ततः स एव कर्तव्यः, नेनादेशः; कृतश्चासौ, अतोऽवगम्यते - नूनं सूतद्रकारस्याति जरसिनेत्येतत्साधुत्वेनाभिमतम्, यस्य सिद्ध्यर्थमिनादेशं कृतवानितिति। तथा यद्यतिजरसादित्यस्य साधुत्वमभीष्टं न स्यात्? ङसेरद्भावं विदध्यात्। तत्रापि अकः सवर्णे दीर्घत्वेन [[6.1.97]] वृक्षादित्येवमादि सिद्ध्यत्येव। ननु चाकः सवर्णावपवादः <<अतो गुणे>> [[6.1.97]] पररूपत्वं प्राप्नोति, तत्? कथं सिद्ध्यति? नैतदस्ति; अकारोच्चारणसामर्थ्यान्न भविष्यति पररूपम्, अन्यथा तकारमेव विदध्यात्। अत्र हि <<आदेः परस्य>> [[1.1.54]] इत्यकारस्य तकारे विहिते संयोगान्तलोपे वृक्षादित्येवमादि सिध्यत्येव। अत्र हि <<आदेः परस्य>> [[1.1.54]] इत्यकारस्य तकारे विहिते संयोगान्तलोपे वृक्षादित्येवमादि सिध्यत्येव। तस्मादकारोच्चरणसामर्थ्यात्? पररूपत्वं न भविष्यतीत्यद्भावो विधेयः, किमाद्भावेनेति? विहितश्चाद्भावः, ततोऽवसीयते - नूनमतिजरसादित्यस्य साधुत्वं सूत्रकारस्याभिमतं यत्सिद्ध्यर्थमाद्भावं विहितवानिति। एवं सूत्रकारस्य मतमनुसरन्तः केचिदतिजरसिना, अतिजरसादित्यस्य साधुत्वमिच्छन्ति। `यथा तु` इत्यादि। भाष्ये हि - `अथ किमर्थमिनादेश उच्यते, न नादेश एवोच्येत` इत्येवं ग्रन्थसन्दर्भेणेनादेशं प्रत्यख्याय नादेश एव व्यवस्थापितः। `अथ किमर्थमादिप्युच्यते, न अदेवोच्येत` इत्येवमादिना ग्रन्थसन्दर्भेण आदादेशं प्रत्याख्याय अदादेश एव व्यवस्थापितः। यदि चातिजरसिना, अतिजरसादित्यस्य साधुत्वमिष्टं स्यादिनादेशमाद्भावं च भाष्यकृन्न प्रत्याचक्षीत। न हि प्रयोजने सति प्रत्याख्यानं युक्तम्, कृतञ्च तयोः प्रत्याख्यानम्, ततोऽवगम्यते - `नैतदिव्यते` इति॥", "71013": "`ङेः` इति। चतुथ्र्यकवचनस्येदं ग्रहणम्। कस्मान्न भवति सप्तम्येकवचनस्य ग्रहणम्? यदि हि तस्य ग्रहणं स्यात्, तदा - अत्यन्तसंयोगे, भावे अपवर्गे, कारकमध्ये - इत्येवमादि न सिद्ध्यति। तस्मादेतेभ्यो निर्देशेभ्यो नेदमिह सप्तम्येकवचनस्य ग्रहणम्। अतः परिशेष्याच्चतुर्थ्येकवचनस्य ग्रहणं न निश्चीयत इति। <<तस्मै हितम्>> [[5.1.5]] इति निर्देशाच्च लिङ्गादत्तरत्राप्येतदेवानुवर्तते। `वृक्षाय` इति। `सुपि च` [[7.3.102]] इति दीर्घः।ननु `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इति परिभाषया उपस्थाने सति सन्निपातलक्षणो यविधिरकारविधातं प्रति निमित्तं नोपपद्यते, कुतो दीर्घत्वम्? इत्याह - `सन्निपातलक्षणः` इत्यादि। अनित्यत्वं त्वस्याः प्रागेव प्रतिपादितम्। अथ ङकारोच्चारणं किमर्थम्? एकारमात्रस्य ग्रहणं मा भूदिति। यदि स्यात्, पचे, यजे - इत्येवमादावपि स्यात्। ननु च <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे कृते निमित्ताभावान्न भविष्यति? नैतदस्ति; नाप्राप्ते ह्रतो गुणे पररूपत्वेऽयमादेश उच्यते; स यथा वृक्षाय इत्यत्र <<अतो गुणे>> [[6.1.97]] पररूपत्वं बाधते तथा पचे, यजे - इत्यत्रापि बाधेत प्रतिपदोक्तस्येकारस्य ग्रहणादिह न भविष्यतीति चेत्? न; अस्याप्येकारस्य प्रतिपदोक्तत्वात्। <<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति निर्द्देशादेकारः प्रतिपदोक्तो भवति। तस्माद्विशेषणार्थो ङकार कर्तव्यः॥", "71014": "`भवते` इति। त्यदाद्यत्वं न भवति। `द्विपर्यन्तास्त्यदादयः` (वा।7.2.102) इति भवच्छब्दस्य त्यदादित्वाभावादकारान्तता न भवति। `अथो अत्र` इत्यादि चोद्यम्। अत्र इदम्? ए इति स्थिते `इदमोऽन्वादेशे` [[2.4.32]] इत्यशादेशे कृते परमपि स्मैभावं बाधित्वा नित्यत्वादेकादेशोऽकः सवर्णे दीर्घत्वं [[6.1.97]] प्राप्नोति। नित्यत्वं पुनरस्य कृताकृतप्रसङ्गित्वात्। एकादेशे च कृतेऽनकारान्तत्वात्? स्मैबावो न प्राप्नोति। `तत्र` इत्यादि परीहारः। तत्रैकादेशे प्राप्तेऽन्तरङ्गत्वात्? पूर्वं स्मैभावो विधीयते, पश्चादेकादेशः। अन्तरङ्गत्वं तु स्मैभावस्यैकपदाश्रयत्वात्। एकादेशस्य द्विपदाश्रयत्वात्? बहिरङ्गत्वम्॥", "71015": "ङेरल्पाच्तरस्य पूर्वनिपाते प्राप्ते परनिपातो वैचित्र्यार्थः॥", "71016": "पूर्वेण नित्यं प्राप्तयोः स्मात्स्मिनोर्विकल्पार्थ वचनम्। ननु च <<पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्>> [[1.1.34]] , <<स्वमज्ञातिधनाख्यायाम्>> [[1.1.35]] , <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति नवैव सूत्रे पूर्वादीनि पठन्ते, तदपार्थकं नवग्रहणम्, नैतदस्ति; न हीह सूत्रपरिपठितानि पूर्वादीनि गृह्यन्ते, किं तर्हि? गणपठितानि। कुत एतत्? जसि हि सूत्रपरिपठितानां तेषां सर्वनामसंज्ञा, न ङसिङ्योः। `सर्वनाम्नः` [[7.1.14]] चेतीहानुवर्तते, किं प्रयोजनम्? विद्यमाने स्वे यजते, स्वाद्? बिभेतीत्यत्र मा भूत्। तस्मात्? गणपरिपठितान्येव पूर्वादीनि गृह्यन्ते; तत्रासति नवग्रहणे त्यदादिभ्योऽपि स्यात्। तस्मान्नवग्रहणं कर्तव्यम्॥", "71017": "युष्मदस्मदोः षष्ठी। षष्ठआदिविशिष्योरिति। षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः। षष्ठआदिविशिष्टयोरिति यावत्। षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति, `पदस्ये`त्यधिकारविरोधात्। पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम्। न हि षष्ठआदिविभक्तिषु परतः पत्वमस्ति। भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात्। स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते।", "71018": "<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धौ प्राप्तायामयमारम्भः। `औङः` इति प्रथमाद्वितीयाद्विवचनयोः सामान्येन ग्रहणम्। `आपः` इति टाड्डाप्चापाम्। `खट्वे` इति। `अजाद्यतष्टाप्` [[4.1.4]] तिष्ठतः, पश्येति यथाक्रममनुप्रयोगयोरुपन्यासः प्रथमान्ततां द्वितीयान्तताञ्च प्रतिपादयितुम्च अन्यथा खट्वे इत्युभयत्र रूपस्य तुल्यत्वात्? प्रथमान्ततादौ विशेषे सन्देहः स्यात्। `बहुराजे` इति। करीषस्येव गन्धोऽस्येति बहुव्रीहिः, <<उपमानाच्च>> [[5.4.137]] इतीच्। करीषगन्धेरपत्यमित्यण्, तस्य `अणिञोः` [[4.1.78]] इत्यादिना ष्यङादेशः। `यङश्चाप्` [[4.1.74]] इति चाप्। `औकारोऽयम्` इत्यादि। शीविधौ=शीविधाने। औकारोऽयं स्थानी ङिद्गृहीतो ङकारानुवन्ध उपात्त इत्यर्थः। ङकार इद्यस्य स ङित्। ङिच्चास्माकं वैयाकरणानां मतेन शास्त्र औकारो नास्ति। ततः कोऽयं प्रकारः, किंशब्द कुत्सायां वर्तते। कुत्सितोऽयं सूत्रप्रणयनप्रकार इत्यर्थः। कुत्सितत्वं त्वसत एवोपादनात्। ङकारासञ्जनप्रयोजनप्रदर्शनद्वारेण कुत्सितत्वं सूत्रप्रणयनस्य निरकर्त्तुमाह - `सामान्यार्थः` इति। यदि ह्रौकारोऽनुबन्धरहितः स्थानित्वेनोपादीयेत, ततः `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति द्वितीयाद्विवचनं न गृह्रेत। अथ त्सय टकारोऽनुबन्ध उपादीयेत, एवमपि प्रथमाद्विवचनं न गृह्रेत। तस्मात्? सामान्येन द्वयोरपि ग्रहणं यथा स्यादित्येवमर्थं ङकार आसज्यते। ननु च द्वितीयाद्विवचने यष्टकारो नासौतस्यानुबन्धः, कस्य तर्हि? समुदायस्य। प्रत्याहरार्था हि येऽनुबन्धास्ते समुदायानुबन्धा एव विज्ञायन्ते, यथा - महिङो ङकारः, सुपश्च पकारः। तस्मान्निरनुबन्धकग्रहणे द्वयोरप्नुबन्धकत्वात्? सामान्येन ग्रहणं भविष्यति, तत्? कि ङकारेण? नैतदस्ति; समुदायानुबन्धकत्वेषऽवयवानुबन्धकत्वमपि ह्रेषां प्रतिज्ञायते। न हि समुदायानुबन्धकत्वे प्रत्ययानुबन्धकत्वं विरुध्यते। हत्संज्ञको ह्रनुबन्ध उच्यते, हलश्चान्त्यस्येत्संज्ञा निधीयते। औटश्च टकारो यथा समुदायं प्रतयन्तस्तथा प्रत्ययं प्रत्यपि। तस्मात्? तस्य <<हलन्त्यम्>> [[1.3.3]] इतीत्संज्ञायां विहितायां यथासौ समुदायं प्रत्यनुबन्धस्तथा प्रत्ययमपि। प्रयोजनाभावात्? प्रत्ययानुबन्धकत्वमनुपपन्नमिति चेत्? न; इहास्ति प्रयोजनम् - द्वितीयाद्विवचनस्य सानुबन्धकत्वं यथा स्यात्। यदि तर्हि प्रत्ययानुबन्धस्तदा सत्यपि ङकारासञ्जने `तदनुबन्धकग्रहणे नातदनुबन्धकस्य` (व्या।प।54) इति `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इति च प्रथमाद्विवचनस्यैव ग्रहणं स्यात्, तस्य हि ङकार एवैकोऽनुबन्धः; द्वितीयाद्विवचनसय तु स चान्योऽपि टकारः? नैष दोषः, ङकारोच्चारणसामर्थ्याद्द्वितीयाद्विवचनमपि ग्रहीष्यते। अन्तरेणैव ङकारं प्रथमाद्विवचनस्यैव ग्रहणे सिद्धे ङकार उपदिश्यते सामान्यार्थः। यदि च सत्यपि ङकारे प्रथमाद्विवचनमेव गृह्रते ङकारोऽनर्थकः स्यात्। कथं पुनरस्य ङ्कारस्येत्संज्ञा, यावतोपदेशे योऽन्त्यो हल्? तस्येत्संज्ञा विहिता, न चायमुपदेशेऽन्त्यः? भवतु वा तस्येत्संज्ञा, टकारस्य औटस्तर्हि न स्यात्; कथं ह्रेकस्मिन्नुपदेशे द्वावन्त्यौ स्याताम्? नैष दोषः, औङिति वचनात्। द्वयोरप्यौकारयोरौङित्ययमादेशो विज्ञायते, तस्य चोपदेशोऽस्ति यथा `चक्षिङः ख्याञ्` [[2.4.54]] इति ञकार उपदेशेऽन्त्य इति, यथा तस्येत्संज्ञा तथा ङकारस्यापि। टकारस्य तु पूर्वमेव क्रमेणेत्संज्ञा लोपश्च क्रियत इति नास्ति द#ओषः। यश्चासावादेश औकारः स एव शोभाषस्य स्थानित्वेननोपात्त इति वेदितव्यम्। `तस्य च` इत्यादिना - ङकारासञ्जने यो दोषः प्राप्नोति तं दर्शयति। अनुबन्धभूतसय ङकारस्योपादानमासञ्जनम्। ङिति यत्? कार्यं तत्? `ङित्कार्यम्` - `सप्तमी` [[2.1.39]] इति योगविभागात्समासः। तत्पनः कार्यं `याडापः` [[7.3.113]] इति आट्। यदि सामान्यार्थोऽयं ङकार आसज्यते, एवं सति ङकारस्यासञ्जने ङिति यत्कार्यं तत्? ते=तव सूत्रकारस्य मतेन `श्यां प्रसक्तं` प्राप्तम्, `स दोषः`। `याडापः` [[7.3.113]] इति याडागमे सति खट्वे - इति रूपं न सिध्येत्। अत श्यामिति कथमामाटौ स्याताम्? कथञ्च न स्याताम्? अनदीत्वात्; अनदीत्वं च तस्यास्त्र्याख्यत्वात्? नैतदस्ति; यथैव हि खट्वादयः स्त्रियां वर्तन्ते तथा शीशब्दोऽपि। तथा चाह लिङ्गकारिकाकारः - `ईदूदन्तं यच्चैकाच्? शरद्दरद्दृषत्प्रावृषश्च` इति। तस्मात्? स्त्र्याख्यत्यादयमपि नदीसंज्ञक एव; श्रुतितामानाधिकरण्यात्। श्रुतौ वर्तमानः शीशब्दो नदोसंज्ञां प्रतिपद्यते। श्रुतिः स्वरूपमेव। `ङित्त्वे` इत्यादि। `याडापः` [[7.3.113]] इत्यत्र `धेर्ङिति` [[7.3.111]] इत्यतो ङिद्ग्रहणमनुवर्तते। तत्र ङिदिति नायं बहुव्रीहिः - ङकार इद्? यस्य स ङिदिति, किं तर्हि? तत्पुरुषः - ङकार एव इद्? ङित्। तस्मादौकारो यो ङित्? तस्मिन्नभ्युपेते सति ङितीत्यस्मिन्निर्देशे ङकारस्येत्संज्ञकस्य वर्णमात्रसक्य निर्देशं विद्यादवगच्छेत्? प्राज्ञः। मात्रशब्दस्ततोऽन्यव्यवच्छेदाय। यदि ङितीत्यत्र ङकारस्य वर्णमात्रस्य निर्द्देशो न ङकारानुबन्धस्य प्रत्ययस्य तत्? किमिति श्यां ङित्कार्यं न भवति? इत्याह - `वर्णे` इत्यादि। वर्णे परभूते यत्? कार्यं विधीयते तत्? `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इति परिभाषया तदादौ वर्णादौ विद्यात्। ततश्च यत्र ङकार आदावित्संज्ञकस्तत्रैव भवितव्यं याटा, न श्याम्। न ह्यत्रादौ ङकारः, क्व तर्हि? अन्ते। एवमयं ङित्त्वमभ्युपेत्य परीहार उक्तः। इदानीं ङित्त्वमनभ्युपेत्य परोहारान्तरमाह - `वर्णश्चायम्` इत्यादि। वार्थे चशब्दः। वर्णो वायमिति यावत्। औङित्यौवर्णौऽयमुपत्तः प्रत्यविशेषणार्थः, न तु प्रत्ययः। अह्गाधिकारादादन्तात्? परो यः सामर्थ्यप्राप्तः प्रत्ययः स औकारेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीति। तेनायमर्थो जायते - औकारान्तेऽस्य प्रत्ययस्येति। औकारान्तत्वं व्यपदेशिवद्भावात्। ङकारश्चायं नानुबन्धः, मुखसुखार्थस्त्वयम्, यथा - `ऋदोरप्` [[3.3.57]] इत्यत्र दकारः। वर्णरूपतया च तथौकारस्य ग्रहणे सति द्वयोरप्यौकारयोः शीभावः सिद्धौ भवति। प्रत्ययग्रहणे हि निरनुबन्धक (व्या।प।53) परिभाषोपतिष्ठते, न चेह प्रत्ययग्रहणम्। किं तर्हि? वर्णमात्रस्य। ननु च द्वावप्येतौ प्रत्ययौ, तत्किमिति नोपतिष्टते? सत्यम्; यद्यपि तौ प्रत्यौ, तथधापि नात्र शास्त्रे प्रत्यरूपेणौकार उपात्तः? किं तर्हि? वर्णरूपेणेति, अतस्तस्या नेहोपस्थानम्। ङित्त्वमनभ्युपेत्य परीहारान्तरमाह - `निर्द्देशोऽयम्` इत्यादि। नेह व्याकरण औकारसय ङकारोऽनुवग्ध उपादीयते। पूर्वाचार्याणां तु सूत्रे द्वे अप्येते द्विवचने ङिती पठएते। तथा हि `आबौटावौङ्` इति तत्र सूत्रपाठः। अतस्तत्सत्रानुरोधेनायं निर्द्देशः, तस्येह ग्रहणं यथा स्यात्। तस्मान्ङित्त्वाभावान्नास्ति ङित्कार्यस्य प्रसङ्गः। न हि पूर्वाचार्यसूत्रानुरोधेनेहानुबन्धकार्याणि क्रियन्ते। `तेन ङित्त्वेऽप्यदोषः` इति। किं पुनर्यत्र नास्त्येव ङित्त्वमित्यपि शब्दस्यार्थः। तदेतदुक्तं भवति - ङित्त्वेऽब्युपेते सति ङित्त्वे विद्याद्वर्णनिर्देशमात्रम्। `वर्णे यत्स्यात्? तच्च विद्यात्तदादौ` इत्येवं ङित्कारयप्रसङ्गनिरासाय यस्मातद्? परीहार उक्तः। यस्माद्वर्णश्चायमित्यनेन, `निर्देशोऽयं पूर्वसूत्रेण वा स्यात्` इत्यनेन चौकारयोङित्त्वभावः प्रतिपादितः। तेन हेतुना सत्यपि ङित्त्वेऽप्यदोषः। किं पुनर्नास्त्येव यत्र ङित्त्वमिति॥", "71019": "`दधिनी` इति। <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुम्॥", "71020": "बहुवचनस्य वस्नसौ। उक्तविधयोरिति। षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः।", "71021": "`कृताकारोऽष्टन्शब्दो गृह्रते` इति। यत्रात्वं तत्रौश्त्वं यथा स्यादित्यभिप्रायः। `अष्टौ तिष्ठन्ति` इति। आत्वे कृत औश्त्वम्। `अष्ट तिष्ठन्ति` इति। अत्रात्वाभावादौश्त्वं न भवति। कथं पुनरत्रात्वाभावः, यावता न तत्रात्वविधौ विकल्पस्य प्रतिपादकं किञ्चिदन्यतरस्यांग्रहणादिकमसति? इत्याह - `एतदेव` इत्यादि। कृतात्वनिर्देशस्थैतदेव प्रयोजनम् - यत्रात्वं तत्रैवौशत्वं यथा स्यात्, अन्यत्र मा भूदिति। यदि च नित्यमात्वं स्यात्? तदा कृतात्वस्य निर्देशोऽनर्थकः स्यात्; व्यवर्त्त्याभावात्? `अष्टनः` इत्येवं ब्राऊयात्। तदेवं लघुनिर्देशे सम्भवति सति यत्? कृतात्वस्य निर्देशो गरीयान्? क्रियते, तज्ज्ञापयति - विकल्पेनात्वं भवतीति। यद्यपि चायमर्थः <<अष्टनो दीर्घात्>> [[6.1.172]] इत्यत्रापि ज्ञापितः, तथापि विस्मरणशीलानामनुग्रहाय पुनरिह ज्ञाप्यते। अथाष्टपुत्रः, अष्टभार्य इत्यत्र कस्मान्न भवति, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति लुका बाधितत्वादिति चेत्? न; इहापि तर्हि न स्यात् - अष्टौ तिष्टन्ति, अष्टौ पश्येति। `षङ्भ्यो लुक्? [[7.1.22]] इति लुका बाधितत्वात्। अथौश्भावस्य लुगपवादत्वादत्र लुक्रं बाधित्वा स एव भवति। पूर्वत्रापि तर्हि स एव स्तात्, अत एव हेतोः? इत्याह - `षङ्भ्यो लुगित्यस्यापवादोऽयम्` इति। अत्रैवोपपत्तिमाह - `नाप्राप्ते` इत्यादि। `षङ्भ्यो लुक्` [[7.1.22]] इत्यसमासे प्राप्नोति - अष्टौ तिष्ठन्तीत्यादौ, समासे च - अष्टपुत्र इत्यादौ। तस्मान्नाप्राप्ते अष्टभार्यः - इत्यत्र सुब्लुकैव भवितव्यमित्यौशत्वं न भवति। `तदन्तग्रहणम्` इत्यादि। किं पुनरिष्यमाणमपि लभ्यते? `अङ्गाधिकारे तस्य तदुत्तरपदस्य च` (पु।प।वृ।85) इति वचनात्। अथ वा - अष्टाभ्य इत्यर्थप्रधाननिर्देशोऽयं बहुवचननिर्द्देशादवसीयते। शब्दप्रधाने हि निर्देशे `अष्टनः` ब्राऊयात्। अर्थाच्च शब्दद्वारेणैव जश्शसोः परत्वं विज्ञायत इति केवलाच्चाष्टनो भवति। तदन्ताच्चातदन्तेऽपि हि शब्दद्वेरेणार्थात्? परौ जश्शसौ भवत इति। यदि तदन्तग्रहणमत्रेष्यते, प्रियाष्टन इत्यत्रापि प्राप्नोति? अत आह - `प्रियाष्टनः` इत्यादि। प्रिया अष्टौ येषामिति बहुव्रीहिः। ननु च विकल्पेनात्वम्। तत्र यदात्वं न भवति तदा मा भूदौश्त्वम्; यदात्वं तदा स्यादेव; व्यवस्थितविभाषयात्रात्वं न भविष्यतीत्यदोषः॥", "71022": "`पञ्च, सप्त` इति। <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नलोपः। `षट्परधानात्? तदन्तादपि भवति` इति। अत्र पूर्वको हेतुर्वकतव्यः। `यत्र तु` इत्यादि। अर्थस्येदं ग्रहणं बहुलवचनादवसितम्। स चार्थो द्विविधः - प्रधानोऽप्रधानश्च। तत्र `प्रदाने कार्यसम्प्रत्ययः` (व्या।प।120) इति यत्रार्थस्य प्राधान्यं तत्रैव भवति, न तु यत्रार्थस्याप्राधान्यं तत्र। एष च हेतुः प्रियाष्टान इत्यत्रौश्त्वाभावेऽपि वेदितव्यः। `प्रियषषः` इति। प्रियाषडेषामिति बहुव्रीहिः। अत्रान्यपदार्थस्य प्राधान्यम्, षडर्थस्तु तत्र गुणभावादप्रधानः॥", "71023": "`सु` इति यद्यपि सप्तमीबहुवचनमस्ति, तथाप्यमा द्वितीयैकवचनेन सहचर्यात्प्रथमैकवचनमेव गृह्रते। तदब्राआहृणकुलमित्यत्र परत्वात्? त्यदादयत्वेनैव भवितव्यम्, त्यदाद्यत्वे कृते लुग्न प्राप्नोति; `अतोऽम्, [[7.1.24]] इत्यम्भावप्रसङ्गात्, तस्मात्त्यदाद्यत्वात्प्राग्? लुग्वक्तव्यः? इत्याह - `तद्ब्राआहृणकुलमित्यत्र` इत्यादि। लुकोऽवकाशः - दधि, मध्वित्यत्र, त्यदाद्यत्वस्यावकाशः - ब्राआहृण इति; इहोभयं प्राप्नोति - तदब्राआहृणकुलमिति, लुग्भवति पूर्वविप्रतिषेधेन। न च पूर्वविप्रतिषेधो वक्तव्यः; इष्टवाचित्वात्परशब्दस्य। `नित्यत्वाद्वा` इति। वाशब्दः समुच्चये। यद्यपि लुक्, त्यदाद्यत्वञ्चोभयं प्राप्नोति, तथापि लुक एव नित्यत्वं विज्ञायते। कुतः? सामर्थात्। `लुका त्यदाद्यत्वे बाध्यते` इत्यत्र हीदं हेत्वन्तरमुक्तम्। एवञ्चेदमत्रार्थे हेत्वन्तरं सम्भवति यदि लुको नित्यत्वं भवति, नान्यथा, नित्यत्वं पुनः कृताकृतप्रसङ्गित्वात्। त्यदाद्यत्वं हि विभक्तावुच्यमानं कृते लुकि विभक्त्यभावान्न प्राप्नोति। प्रत्ययलक्षणेन चास्य प्राप्तिनं युक्ता; <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रतिषेधात्। लुक्पुनः कृते त्यदाद्यत्वे प्राप्नोत्यकृतेऽपि। ननु च कृते त्यदाद्यत्वे लुकः प्राप्तिरेव नास्ति; `अतोऽम्` [[7.1.24]] इत्यपवादविधानात्। तस्मात्सोऽप्यनित्य एव? इत्याह - `लुको हि` इत्यादि। असति `अतोऽम्` [[7.1.24]] इति लक्षणेऽकारान्तमप्यङ्गं लुको निमित्तमासीत्, तदनेन लक्षणेनोपजायमानेनापवादविधानाल्लुकं प्रत्यनिमित्तभावमापद्यते। लुग्निमित्ताभावापादनमेव विघातः। `न पुनस्त्यदाद्यत्वेन` इति। लुको निमित्तभावो विहन्यत इति सम्बन्धनीयम्। यदि `अतोऽम्` [[7.1.24]] इत्यपवादविधायि लक्षणान्तरं न स्यात्, कृते त्यदाद्यत्वे स्यादेवाकारान्तमङ्गं लुको निमित्तम्। तच्च `अतोऽम्` [[7.1.24]] इत्यपवादेनैव लुको निमित्तं व्याहन्यते, न पुनस्त्यदाद्यत्वेन। यद्येवम्? तत्किमित्यनित्यो लुग्न भवति? इत्याह - `यस्य च` इत्यादि। लक्षणान्तरत्वं लक्षणान्तरत्वं पुनरम्भावशास्त्रस्य त्यदाद्यत्वशास्त्रापेक्षया वेदितव्यम्॥", "71024": "पूर्वेण प्रापतसय लुकोऽयमपवादः। तपरकरणं मुखसुखार्थम्; न तु दीर्घनिवृत्त्यर्थम्। दीर्घस्याभावात्। अभावस्तु `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वविधानात्। अथ किमर्थमम्भाव उच्यते, न मकारादेश एवोच्येत? न चैवम्; <<आदेः परस्य>> [[1.1.54]] इति द्वितीयैकवचनाकारस्य मकारे कृते द्वयोर्मकारयोः श्रलणं प्राप्नोति; एकस्य संयोगान्तलोपेनापह्मतत्वात्। नापि `सुपि च` [[7.3.102]] इति यञादौ सुपि विधीयमानं दीर्घत्वं प्राप्नोति; `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इति वचनात्। अकारान्तसन्निपाते हि मकारविधिः, स कथमकारविघातस्य निमित्तं स्यात्? एवं तर्हि मकारादेशे विघातव्येऽमा देशं कुर्वन्नेतज्ज्ञापयति - नित्यैषा परिभाषेति। तेनातिजरसात्, अतिजरसैरिति जरसादेशः सिद्धो भवति॥", "71025": "द्विडाकारोऽयं निद्र्दशः - तत्रैको डतरसम्बन्धी द्वितीयस्त्वादेशम्बन्धी। डतरादयश्चैते सर्वाद्यन्तःपातिनो गृह्यन्ते; न तु `द्वयोरेकस्य डतरच्` [[5.3.92]] इत्येवमादयः प्रत्ययाः। कुत एतत्? नेतराच्छन्दसि` [[7.1.26]] इति प्रतिषेधात्। प्रत्ययग्रहणे हीतरशब्दात्? प्राप्तेरेव नास्तीति प्रतिषेधोऽनर्थकः स्यात्। तेषां डतरादीनां मध्येऽन्त्यानि त्रीणि प्रातिपदिकानि; डतरडतमौ च प्रत्ययौ; तत्र प्रत्यग्रहणपरिभाषया (भो।प।सू।7) तदन्तयोग्र्रहणं भवति। `कतरत्` इति। `किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्` [[5.3.92]] । `कतमत्` इति। `वा बहुनां जातिपरिप्रश्ने डतमच्` [[5.3.93]] । `कतरत्? तिष्ठतीत्यत्र` इत्यादि। असति हि ङित्करणे कतरत्? तिष्ठतीत्यत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनुवर्तमाने <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घः स्यात्, अतः स मा भूदित्येवमर्थं ङित्करणं क्रियते। अत्र हि कृते दीर्घत्वप्रसङ्गो न भवति; टिलोपेनाऽकोऽपह्मतत्वात्। किं पुनः कारणम् - प्रथमैकवचनस्यैव ङित्करणस्य दीर्घाभावः प्रयोजनमुच्यते, न तु द्वितीयैकवचनस्य? इत्यत आह - `इह तु` इत्यादि। अमो हि स्थाने य आदेशस्तस्य <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इति स्थानिवद्भावादमि पूर्वत्वेनापि सिध्यति - कतरदित्येतत्, तस्मात्? तत्र ङित्करणस्य दीर्घत्वाभावः प्रयोजनमिति नोच्यते। `तकारादेश एव कस्मान्न क्रियते` इति। यद्यत्र दीर्घत्वं नेष्यते तदा तकारादेश एव कर्तव्यः। तत्राप्ययमर्थः - दीर्घनिवृत्त्यर्थं ङित्करणं न कर्तव्यमिति। `हे कतरत्` इत्यादि। यदि तकारादेश एव क्रियते तदा तस्य स्थानिवद्भावेन सम्बुद्धिभावोऽस्तीति <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति लोपः प्राप्नोति, अतः स मा भूदित्येवमर्थं तकारादेशो न क्रियते। `अपृक्तश्च` इत्यादि। <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यतश्चेदपृक्तग्रहणं सम्बुद्धिलोपेऽनुवर्तते तदामो दोषः - हे कुण्डेत्यत्र। निवृत्तेऽपृक्ताधिकारे डतरादिषु दोषः - हे कतरदिति। तस्माड्डित्करणादेवाकारलोपे कृते ह्यसवाभावान्न लोपः, न च दीर्घतेति॥", "71026": "पूर्वेणाद्डादेशस्य प्रसकतस्यायं प्रतिषेधः। अथ `अतोऽम्` [[7.1.24]] इत्यस्यानन्तरं `\tइतराच्छन्दसि` इति कस्मान्नोक्तम्, एवं हि नेति प्रतिषेधः कर्तव्यो न भवति, अमादेशोऽद्डादेशस्यापवादो भविष्यति? इत्याह - `अतोऽमित्यस्मादनन्तरम्` इत्यादि। `योगविभागार्थम्` इति। नेत्येकयोगविभागो यथा स्यादिति। किमर्थं पुनर्योगविभाग इष्यते? इत्याह - `एकतराद्धि` इत्यादि। एकशब्दाद्धि सर्वत्र प्रतिषेध इष्यते, स च नेति योगविभागाल्लभ्यते। तस्माद्योगविभाग इष्यते। स च यथान्यासे सिध्यति; नान्यथेति `नेतराच्छन्दसि` इत्युच्यते॥", "71027": "यदि <<शेषे लोपः>> [[7.2.90]] इत्यन्तलोपः, तदास्य भावे प्राप्त इदं वचनम्। अथ टिलोपः, तदा विभक्तेः श्रवणप्राप्त आदेशार्थं वचनम्। `तद स्वम्, मम स्वम्` इति। `तदममौ ङसि` [[7.2.96]] इति मपर्यन्तयोर्युष्मदस्मदोस्तवममादेशौ भवतः। <<शेषे लोपः>> [[7.2.90]] इति दकरलोपे कृते <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। `शित्करणं सर्वादेशार्थम्` इति। असति शित्करणे <<आदेः परस्य>> [[1.1.54]] इत्याकारस्यादेशोऽकारः स्यात्। ननु चाकारस्याकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शित्करणं सर्वादेशो भविष्यति, अन्तस्य वा। तत्र द्वयोरकारयोरतो गुणे पररूपत्वेनेष्टं सिध्यति? अत आह - `अन्यथा हि` इत्यादि। अन्यथा यदि शित्करणं न स्यात्? तदाऽऽदेश इति योऽयं व्यपदेशस्तस्य या प्रकॢप्तिः=निष्पत्तिस्तदर्थमादेरेव स्यात्; <<आदेः परस्य>> [[1.1.54]] इति वचनात्। स्यादेतत् - यद्यादेशव्यपदेशप्रकॢप्तितः कश्चिदर्थः सम्पद्यते तदा स्यात्? तदर्थमादेरेव वचनम्, न च ततः कश्चिदर्थः सम्पद्यते तस्मादयुक्तमेवेति? इत्यत आह - `ततश्च` इत्यादि। चशब्दो हेतौ। लिङ्? सम्भावनायाम्। तत आदेशव्यपदेशप्रकॢप्तेः `योऽचि` [[7.2.82]] इति कार्यं न स्यात्। एतद्धि यत्र विभक्तावादेशो नास्ति तत्र विधीयते; `अनादेशे` [[7.2.86]] इत्यधिकारात्। तस्मात्? प्रयोजनवत्यादेशवयपदेशप्रकॢप्तिरिति तदर्थमादेरेव स्यात्, ततश्चेटं रूपं न सिध्येत्। तस्मात्? सर्वादिशार्थः शकारः कर्तव्यः॥", "71028": "`ङे इत्यविभक्तिकोऽयं निर्देशः` (इति)। `सुपां सुलुक्` [[7.1.39]] इति षष्ठआ लुप्तत्वात्। प्रथमयोरिति षष्ठीद्विवचनान्तम् - प्रथमा च प्रथमा च ते प्रथमे, तयोः प्रथमयोः। षष्ठीनिर्देशस्योभयत्र तुल्यत्वात्? प्रथमयोः प्रत्यययोः स्वौकारयोग्र्रहणमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - `विभक्त्योः` इति। एतदेव स्पष्टीकर्तुमाह - `प्रथमाद्वितीययोः` इति। कथं पुनर्द्वितीया प्रथमाशब्देनोच्यते? उपदेशे प्रथमासामीप्यात्। भवति हि सामीप्यात्? ताच्छब्द्यम्, यथा - गङ्गायां घोष इति। अथ विभक्त्योरिदं ग्रहणं न प्रत्ययोः - इति कुतोऽयं निश्चयः? लिङ्गात्। तत्पुनर्लिङ्गं `द्वितायायाञ्च` [[7.2.87]] इत्यत्त्वविधानम्। तद्ध्यादेशार्थमुच्यते; अनादेशे हि `युष्मदस्मदोरनादेशे` नान्यथा। ननु च `योऽचि` [[7.2.89]] इति यत्वबाधनार्थम्? `द्वितीयायाञ्च` [[7.2.87]] इत्याद्वचनं स्यात्? नैतदस्ति; तदर्थे द्विवचने यकारमेव विशेषणं विदध्यात् - `योऽच्यद्वितीयायाम्` इति, `योऽच्यनचि` इति वा द्रूयात। अतो द्वितीयायामात्त्वविधानं ज्ञापकमेवैतद्विभक्तिग्रहणस्य। `तभ्यम्, मह्रम्` इति। मपर्यन्तयोर्युष्मदस्मदोस्तभ्यमह्रावादेशौ। <<शेषे लोपः>> [[7.2.90]] , <<अमि पूर्वः>> [[6.1.107]] । `त्वम्, अहम्` इति। <<त्वाहौ सौ>> [[7.2.94]] । `युवाम्, आवाम्? इति। `युववौ द्विवचने` [[7.2.92]] इति युवावौ, `प्रथायश्च` [[7.2.88]] इत्यादिनाऽत्त्वम्। `यूयम्, वयम्` इति। <<यूयवयौ जसि>> [[7.2.93]] । `त्वाम्, माम्` इति। त्वमावेकवचने` [[7.2.97]] , `द्वितीयायाञ्च` [[7.2.87]] इत्यात्त्वम्। अथ किमर्थममादेश उच्यते, न मकार एवोच्यते? स चैकाल्त्वादादेर्भविष्यति, तत्र परस्य संयोगान्तलोपेन सिद्धम्, <<शेषे लोपः>> [[7.2.90]] इति टिलोपान्न सिध्यतीति चेत्? नैष दोषः; सेषे लोपो यद्यपि टिलोपः स्यात्, तथापि <<त्वाहौ सौ>> [[7.2.94]] इत्येवमादीनामकारान्तत्वात्? सिद्ध्यत्येव; ते चावश्यकमकारान्ता विधेयाः, अन्तोदात्तत्वं यथा स्यात्। न च मकारादेशे `सुचि च` [[7.3.102]] इति दीर्घत्वं प्राप्नोति; `अङ्गवृत्ते पुनरङ्गवृत्ताविधिर्निष्ठितस्य` (व्या।प।38) इति वचनात्। एवं तर्हि वैचित्र्यार्थममादेशविधानम्। अथ वा - मकार एवादेशः, अकारस्तूच्चारणार्थः; न ह्रन्यथास्मिन्निर्देश आदावन्ते वाऽकारमकृत्वा मकार उचचारयितुं शक्यते। `ङेत्सुटोः` इति। वक्तव्ये `ङे प्रथमयोः` इति वचनं वैचित्र्यार्थम्॥", "71029": "पूर्वेणामादेशे प्राप्ते शसो न विधीयते। `युष्मान्? ब्राआहृणान्। अस्मान्? ब्राआहृणान्` इति। <<आदेः परस्य>> [[1.1.54]] इत्यकारस्य नकारः, संयोगान्तलोपः, पूरववदात्त्वम्। ननु चैतदुदाहरणद्वयममादेशे कृत आत्त्वे च <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घत्वे च <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति नत्वेमैव सिध्यति? नैतदस्ति; न ह्यत्र पूर्वसवरणदीर्घत्वं प्राप्नोति, अमिपूर्वत्वेन बाधितत्वात्॥", "71030": "`युष्मभ्यम्, अस्मभ्यम्` इति। <<शेषे लोपः>> [[7.2.90]] इत्यन्तलोपः। यदि भ्यमादेशोऽयम्, एवं सति तत्र विहिते शेषेलोपे च `बहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वं प्राप्नोति, ततश्चानिष्टरूपमापद्येत? इत्यत आह - `भ्यमादेशे कृते` इत्यादि। वर्तनं वृत्तम्, अङ्गे वृत्तं यस्य तदङ्गवृत्तं कार्यम्, तस्मिन्नङ्गवृत्ते कार्ये पुनरत्तरकालमङ्गवृत्तावपरस्य कार्यस्य प्राप्तौ तस्य कार्यस्यादिधिः;=अविधानम्। निष्ठितस्येत्यनेन यत्समम्बन्धिनः कार्यस्याविधिर्भवति तदङ्गं विशिष्यते। निष्ठितम्=परिसमाप्तम्, प्रयोगार्हमङ्गम्। तत्सम्बन्धिनः कार्यस्याविधिर्भवति, नान्यसम्बन्धिन इत्यर्थः। `केचित्` इत्यादि। तेषामन्त्यलोपे कृते <<अतो गुणे>> [[6.1.97]] पररूपत्वं भवति। `येषां तु` इत्यादि। यैः <<शेषे लोपः>> [[7.2.90]] इत्यन्तलोपः क्रियते, तेषां मतभेदः - ते हि केचिद्भ्यमादेशमिच्छन्ति, केचिदभ्यमादेशम्। येषां तु शेषेलोपष्टिलोपः तेषां मतेनायमभ्यमादेश एव, न भ्यमादेशः; अन्यथा युष्मब्यमिति न सिध्येवितयभिप्रायः। यदि तर्हि शेषेलोपष्टिलोपः, एवं सति <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्यनेनाभ्यम्शब्दस्यान्तोदात्तत्वं स्यात्? इत्यत आह - `उदात्तनिवृत्तिस्वरश्च` इत्यादि। पूर्वपक्षवादिनोदात्तनिवृत्तिस्वरविधौ <<कर्षात्वतो घञोऽन्त उदात्तः>> [[6.1.159]] इत्यतोऽन्तग्रहणमनुवर्तत इति मन्यमानेन चोदितन्। उत्तरपक्षवादिना तु `अन्तग्रहणं तत्र निवृत्तमुच्चारणक्रमप्रतयासत्त्या चादेरेवोदात्तत्वेन भवितुं युक्तम्` इति। मन्यमानेन परिह्मतम्॥", "71031": "पूर्वेण प्राप्तस्य भ्यमोऽयमपवादः॥", "71032": "चकारोदादेशानुकर्षणार्थः, भ्यसपेक्षया समुच्चयार्थो वा। `ङसेश्च` इति। वक्तव्ये, एकवचनक्तेति वचनं वैचित्र्यार्थम्॥", "71033": "`सम इति षष्ठीबहुवचनमागतसुट्कं परिगृह्रते` इति। युष्मदस्मद्भ्यामुत्तरस्यान्यस्य सामशब्दस्यासम्भवात्। आगतः सम्प्राप्तः सुट्? यत्र येन वा तत्तथोक्तम्। `अथ` इत्यादौ वाक्य `आगतसुट्कः` इत्याम्प्रत्ययापेक्षया पुंल्लिङ्गत्वं वेदितव्यम्! `अथ किमर्थमागतसुट्कः परिगृह्रते` इति पृष्टस्य ससुट्कस्यादेशो यथा स्यादिति प्रतिवचनमाशह्क्याह - `न हि` इत्यादि। <<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इत्यत्र <<आज्जसेरसुक्>> [[7.1.50]] इत्यत आदिति वर्तते, तेनाकारान्तात्? सर्वनाम्नः सुङ्? विधीयते। अकारान्तता च युष्मदस्मदोः <<शेषे लोपः>> [[7.2.90]] इत्यन्तलोपे सति भवति। शेषेलोपेनाप्याकमादेशे कृते भवितव्यम्। तस्मादादेशविधानकाले सुण्न विद्यते। ततश्च ससुट्कस्यादेशो यथा स्यादित्येतत्प्रयोजनं नोपपद्यत इत्यन्यद्वक्तवयमित्यभिप्रायेणाह - `तस्यैव` इत्यादि। यद्यसुट्को गृह्रते `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इत्यसुट्कस्यैवादेशः स्यात्। एवञ्चाभिनिवृत्ते स्थान्यादेशभावे पश्चाद्भवतः सुटः केन निवृत्तिः स्यात्? इष्यते च तस्यापि निवृत्तिः। अतस्तस्य भाविनोऽपि निवृत्तिर्यथा स्यादित्येवमर्थं समुट्को गृह्रते। ननु च युष्मदस्मद्भ्यामुत्तरस्यामः सुडेव न प्राप्नोति, अकाराद्धि सर्वनाम्नः सुङ्? विधीयते, युष्मदस्मादोश्च त्यदाद्यत्वं नास्ति, `द्विपर्यन्तास्त्यदादयः` इति त्यदाद्यत्वस्याभावाच्छेषेलोपस्य च टिलोपादकारान्तता न सम्भवति; अतो भाविनोऽपि सुटो निवृत्तिर्नैव प्रयोजनमुपपद्यते? एतच्चोद्यमपाकर्त्तुम्? ``शेषे लोपः` इत्यन्तलोपः` इति ह्मदि कृत्वाऽऽह - `कृते हि` इत्यादि। अथ क्रियमाणे समुट्कस्य ग्रहणे कथमसौ निवर्तते, शास्त्रान्तराद्धि प्रसक्तस्य शास्त्रेण निवृत्तिः क्रियते, न चादेशविधानकले सुट्प्रसङ्गोऽस्ति? इत्याह - `स च स्थान्यन्तर्भूतत्वात्` इत्यादि। यद्यादेशविधानकाले सुटः प्रसङ्गः सम्भवेत्? ततो भावी न निवर्तते, न चासावादेशकाले सम्भवति। तस्माद्भाविनः सुटः ससुट्कग्रहणेन स्थान्यन्तर्भूतत्वाद्यस्यामवस्थायां तस्य प्राप्तिस्तस्यां प्रसक्तः स निवर्तते; मन्यथा हि तस्य स्थान्यन्तर्भावोऽनर्थकः स्यात्। स्यादेतत् - यदि <<शेषे लोपः>> [[7.2.90]] इत्यन्तलोपस्ततः समुटकस्योपादानमर्थवद्भवति, यदा तु सेषेलोपष्टिलोपस्तदा नार्थः कस्मान्नाश्रीयते, तस्यानुपपत्तेः। अनुपपत्तिस्तु लक्षणाभावात्। अन्त्यलोपस्यास्यैतदेवास्ति लक्षणमिति स एवाश्रितः। यद्येवम्, युष्मद्ब्राआहृणीभ्योगच्छतीत्यन्त्यलोपे सति `अजाद्यतष्टाप्` [[4.1.4]] इति टाप्प्रसज्येत? `अलिङ्गे युष्मदस्मदी` इति नैषोऽस्तप्रसङ्गः। `दीर्घोच्चारणम्` इत्यादि। ननु चाकम्यपि अकः सवर्णदीर्घत्वे [[6.1.101]] न सिध्यत्येव? न; सिध्यति। `अतो गणे` [[6.1.97]] इति पररूपत्वमपवादः प्राप्नोतीति चेत्? न; अकारोच्चारणसामर्थ्यात्। यदि अतो गुणे` [[6.1.97]] पररूपत्वं स्यात्? तदाकारोच्चारणमनर्थकं स्यात्, कमित्येव ब्रायादित्यत आह - `अकमि तु` इत्यादि। तुशब्दो दीर्घोच्चारणापेक्षया समुच्चयार्थः। इतिकरणो हेतौ। यदि ह्रकारोच्चारणस्य प्रयोजनं न स्यात्, शक्यते वक्तुम् - अकारोचचारणसामर्थ्यान्न भविष्यतीति; अस्ति च तसय प्रयोजनम्, किं तत्? `ब्राहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वं मा भूत्। तस्मात्? सत्यप्यकारोच्चारण एतत्त्वनिवृत्त्यर्थे <<अतो गुणे>> [[6.1.97]] पररूपत्वं स्यात्, न सवर्णदीर्घत्वम्। अतस्तदर्थं दीर्घोच्चारणं क्रियते॥", "71034": "`तस्यौ` इति। <<शर्पूर्वाः खयः>> [[7.4.61]] इति खयः शेषः। `जग्लौ` इति। `कहोश्चुः` [[7.4.62]] इति चुत्वम्। इह `पा` इत्यादिभ्यो णलि परत्रवस्थिते युगपत्? त्रीणि कार्याणि प्राप्नुवन्ति - द्विवचनम्, एकादेशः, औत्वञ्च। तेषाञ्च तथा प्राप्तानां युगपत्प्रवृत्तिः सम्भवतीति सामर्थ्यात्? प्राप्तः क्रम आश्रीयते। तत्र येन क्रमेण तानि कर्तव्यानि, तं दर्शयितुमाह - `अत्र` इत्यादि। अत्रेत्यनेन पपवित्यादीन्युदहरणानि प्रत्ययमुश्यन्ते। यदि द्विर्वचनादेकादेशः पूर्वं क्रियते तदा <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धावेकादेशे कृते निमित्तनिमित्तिनोविंशेषाभावाल्लिटि परतः पूर्वस्योचयमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम् - स्थानिवद्भावो द्विर्वचनमिति। केन पुनरत्र स्थानिवद्भावः? <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽपि परतः पूर्वस्योच्यमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम् - स्थानिवद्भावो द्विर्वचनमिति। केन पुनरतर स्थानिवद्भावः? <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽचि परतः पूर्वसय स्थानिवद्भाव उच्यते, न चात्र द्विर्वचननिमित्तं परमचं पश्यामः। अत्र क्चिदाहुः - अचीत्युपलक्षणम्, अचि य आदेशो दृष्टः स द्विर्वचने कर्तव्ये स्थानिवद्भवतीतीमं सूत्रार्थमाश्रित्यैतदुक्तम्। इह सम्प्रत्यनच्परत्वेऽप्येकादेशकरणकालेऽचः परस्य निमित्तभावेनश्रयणादच्ययमादेशः कृतः। तस्माद्भवितव्यं स्थानिवद्भावेन। अन्ये त्वाहु - `एकादेशः पूर्वविधौ स्थानिवद्भवतीति वक्तव्यम्` इत्यनयेष्टआ स्थानिवद्भावः। <<द्विर्वचनेऽचि>> [[1.1.59]] इति योगाविभागाद्वा स्थानिवद्भावः इत्यपरे। कथं पुनरयमेषां कार्याणां क्रम उपलभ्यते? इत्यत आह - `एकादेशात्` इत्यादि। पा+अ इति स्थितेऽकः सवर्णे दीर्घत्वं [[6.1.97]] प्राप्नोति, औत्वञ्च। तत्रैकादेशः - दण्डाग्रमित्यादौ सावकाशः, औत्वं तु न क्वचित्? सावकाशम्; अतस्तावदनवकाशत्वात्? प्रागौत्वं क्रियते, ततर कृते वृद्धिः प्रापनोति, द्ववचनञ्च, तत्र परत्वाद्वृद्धिर्भवति। द्विवचनं हि - पपाचेत्यादौ सावकाशम्, वृद्धेस्त्ववकाशः - खट्वैडकेत्यादौ। अतो वृद्धौ कृतायां पश्चाद्भवति द्विर्वचनं स्थानिवद्भावेन!`णलः` इति। णकारोच्चारणं प्रत्ययग्रहणं यथा स्यात्। णलो णकारोच्चारणे हि णल्प्रत्ययोऽस्तीति तस्य ग्रहणं भवति। तस्मश्चासत्यल इत्युच्यमाने सत्यल्प्रत्ययस्याभावात्? प्रत्याहारग्रहणं विज्ञायेत। लकारोच्चारणं `श्याद्व्यध` [[3.1.141]] इत्यादिना विहितस्य णप्रत्ययस्य ग्रहणं मा भूदित्येवमर्थम्। अथ `एकवचनस्य` [[7.1.32]] इत्यनुवर्तते? तथा सति मुखसुखार्थम्॥", "71035": "`जोवताद्भवान्` इति। <<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लोट्? तिप्, शप्? `एरुः` [[3.4.86]] इत्युत्वम्, तस्य तुशब्दस्य तातङ्। जीवतात्त्वम्` इति। सिप्, `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः; तस्य तातङ्। `जीव त्वम्` इति। <<अतो हेः>> [[6.4.105]] इति हेर्लुक्। अथ जीवतात्? त्वमित्यत्र स्थानिवद्भावेन तातङो हिग्रहणेन ग्रहणाल्लुक्कस्मान्न भवति? `हुझल्भ्यो हेर्घिः [[6.4.101]] इत्यतो हेरित्यनुवर्तमाने पुनः <<अतो हेः>> [[6.4.105]] इति ग्रहणात्। तस्य ह्रेतत्? प्रयोजनम् - हिरूपावस्थितस्यैव हेर्लुग्यथा स्यात्। स्थानिवद्भावेन यच्छब्दान्तरं हिग्रहणेन गृह्रते तस्य मा भूत्। अथ `ङिच्च` [[1.1.53]] इति वचनात्? तातङ्यमन्त्यस्य कस्मान्न भवति? इत्याह - `ङित्करणम्` इत्यादि। गणप्रतिषेधार्थम् - ब्राऊयात्? भवानित्यत्र। वृद्धिप्रतिषेधार्थम् - मृष्टादित्यत्र। इतिकरणो हेतौ। यस्माद्गुणवृद्धिप्रतिषेधार्थं ङित्करणं तस्मात्सर्वादेशस्तातङ् भवति। यदि हि तस्यान्यत्? प्रयोजनं न स्यात्, स्यादेवान्त्यस्य तातङ्। अस्ति च तस्यान्यत्? प्रयोजनं गुणवृद्धिप्रतषेधः। तस्मिन्? सति किं `ङिच्च` [[1.1.52]] इत्यन्त्यस्य भवतु, अथ <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वस्य वा? तत्र परत्वात्? सर्वादेशेनैव युक्तं भवितुम्। तस्मात्? <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वस्य वा? तत्र परत्वात्? सर्दादेशेनैव युक्तं भवितुम्। तस्मात्? <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वस्यैव स्यादिति सर्वादेशो भवति। ननु च तुस्थानिकस्य तातङः स्थानिवदभावेन पित्त्वं प्राप्नोति; ततश्च हलि पिति सार्वधातुके यता ब्रावीत्वित्यत्रेङ् भवति, तथा ब्राऊताद्भवानित्यत्राणीटा भवितव्यम्? - एतच्चोद्यमपाकर्तमाह - `ङित्त्वाच्च` इत्यादि। अस्येति तातङः। किं कारणं निवर्तते? इत्याह - `ङिच्च` इत्यादि। चकारो हेतौ। तुस्थानिकस्य तातङो नाप्राप्ते पित्त्वे ङित्त्वमारभ्यत इति ङित्त्वेन हि पित्त्वं बाध्यते। तथासौ ङिद्भवत यदि स्थानिवद्भावेन प्राप्तं पित्त्वं निवर्तते। `तेन` इत्यादि। यत एवं पित्त्वं निवर्तते तेन पित्त्वाश्रय ईण्न भवति। ग्रामं गच्छतु भवान्। त्वं गच्छेति। `लोट्? च` [[3.3.62]] इति बिध्यादौ लोट्॥", "71036": "यद्यपि विदेरिति सामान्यनिर्देशोऽयम्, तथधापि ज्ञानार्थस्य ग्रहणं विज्ञायते। तस्यैव हि शतानन्तरः सम्भवति, नान्येषां विदीनाम्। तत्र सत्ताविचारणार्थयोः शतुरसम्भव एव; आत्मनेपदित्वम्। लाभार्थस्य तूभययदित्वात्? सम्भवत्यसौ, न त्वनन्तरः; शप्रत्ययेन व्यवधानात्। ज्ञानार्थस्य तु लुग्विकरणत्वाच्छतुर्विकरणकृतं व्यवधानं नास्ति, अतस्तस्यैव ग्रहणमित्याह - `विद ज्ञाने` इति। `विद्वान्` इति। उगित्त्वान्नुम्, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः। अन्यतरस्यांग्रहणमनुवर्तते। तेन पक्षे विदन्, विदन्तौ, विदन्त इत्याद्यपि भवति। एचच गम्यमानत्वाद्वृत्तौ नोक्तम्। अथ किमर्थमुकारोऽनुबन्धः क्रियते, नुमाद्युगित्कार्यं यथा स्यादिति चेत्? न; तस्य स्थानिवद्भावेनैव सिद्धत्वादित्यत आह - `स्थानिवद्भावात्` इत्यादि। `क्वसोऽपि` इति। अपिशब्दादस्यापि। असत्युकारे सामान्यार्थे क्वसोरेव ग्रहणं स्यात्, नान्यस्य। अथ <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति सूत्रं क्रियत एवास्यैव ग्रहणार्थम्, न क्वसोः; ननु च सत्यप्युकारकरणे सामान्यग्रहणं नोपपद्यते, एकानुबन्धकपरि(व्या।प।52) भा,यास्यैव ग्रहणं स्यात्, न क्वसोः? इत्याह - `एकानुबन्धकग्रहणे` इत्यादि। एतत्? परिभाषासूत्रम्। न भवति। नोपतिष्ठत इत्यर्थः। किं कारणं न भवति? इत्याह - `तथा च सति` इत्यादि। एवञ्च सतीत्यर्थः। यदि क्रियमाणेऽप्युकार एकानुबन्धपरिभाषोपतिष्ठते, एवं सत्युकारकरणमनर्थकं स्यात्। विनाऽपि तेन `वसः सम्प्रसारणम्` इत्युच्यमाने केवलस्यास्य ग्रहणं लभ्यत एव। तस्मादुकारकरणसामर्थ्यादियं परिभाषा नोपतिष्ठते॥", "71037": "`अनञ्पूर्वे` इति। न नञ्? अनञ्? अनञ्? पूर्वो यस्य सोऽनञ्पूर्वः। `प्रकृत्य` इत्यादि। `समानकर्त्तुकयोः पूर्वकाले` [[3.4.21]] क्त्वा, <<कुगतिप्रादयः>> [[2.2.18]] इति समासः, <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुक्। `पार्(ातःकृत्य` इति। `स्वाङ्गे तस्प्रत्यये कृभ्वोः [[3.4.61]] इति क्त्वा, `तृतीयाप्रभृतीन्यन्यतरस्याम्` (2.2.210 इति समासः। `नानाकृत्य` इति। `नाधार्थप्रत्यये च्व्यर्थे` [[3.4.62]] इति क्त्वा, पूर्ववत्समासः। `कृत्वा, ह्मत्वा` इति। एतत् प्रत्युदाहरणम्। अत्र कृत्वाशब्दोऽनञ्पूर्वोऽस्ति; किन्तु समासो न भवतीति ल्यबभावः। `परमकृत्वा, उत्तमकृत्वा` इति। `सन्प्रहत्` [[2.1.60]] इत्यादिना समासः। कथं पुनरनेन समासः? कथञ्चं न स्यात्? सामानाधिकरण्याभावात्? वार्तमेतत्; कर्तरि क्त्वा विहितः, स एव च परमोत्तमशब्दाभ्यां विशिष्यते, तत्? कथं सामानाधिकरण्याभावः! अथ क्रियाविशेषणत्वं तयोराश्रित्य सामानाधिकरण्यभाव उच्यते, एवमपि <<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इत्यतो बहुलग्रहणानुवृत्तेरसामानाधिकरण्येऽपि समासो भवति। ननु चानञ्पूर्वावेतौ समासौ, तत्? कथमेतत्प्रत्युदाहरणमुपपद्यते? इत्याह - `अनञ्` इत्यादि। अनञिति नायं प्रसज्येपरतिषेधः, किं तर्हि? पर्युदासः - नञोऽन्यदनञ्। तत्र नञिवयुक्तन्यायेन (व्या।प।65) नञो यदन्यन्नञ्सदृशमव्ययं तदनञिति परिगृह्रते। तेन कारणेन नञव्ययमनव्ययञ्च परमशब्दादिकमुभयमप्येतदनञ्? न भवति, न तत्राव्ययेन नञा सादृश्यमस्ति। अत्यन्ताभेदादनव्ययत्वाच्च यथाक्रमम्। तस्माद्? यथा अकृत्वा, अहत्वेत्येतत्? प्रत्युदाहरणमुपपन्नरूपम्, एवं परमकृत्वा, उत्तमकृत्वेयपि। यदि तर्हि अनञिति नञ्सदृशमध्ययं परिगृह्रते - स्नात्वाकालकः, पीत्वास्थिरक इत्यादावपि स्यात्, अस्ति ह्यत्रापि नञ्सदृशमध्ययं पूर्वपदम्; क्त्वाप्रत्ययस्याव्ययत्वादित्याह - `स्नात्वाकालकः` इत्यादि। मयूरव्यंसकादिषु समाससंज्ञार्थमेते समुदायाः पठन्ते, तस्मान्निपातनाल्ल्यबादेशो न भवति। `अथ वा` इत्यादि। `समासे` इत्यधिकरणसप्तम्यां सत्यां स्नात्वाकालकादिषु ल्यबादेशप्रसङ्गो भवतीति। तथा ह्रधिकरणसप्तम्यामयमर्थो भवति - समासेऽनञ्पूर्वे यः क्त्वा वर्तते तस्य ल्यब्भवति। एवञ्च सति देशविशेषपरिग्रहाभावाद्यथा समासस्यान्ते वर्तमानस्य क्त्वो ल्यब्भवति, तथा मध्येऽपि स्यात्। तस्मान्न चेयमधिकरणसप्तमी, किं तर्हि? निर्घारणसप्तमी। तस्मश्च पक्षे `समासे` इति जातावेकवचनम्, यथा - `कारके` [[1.4.23]] इति। अथ वा <<व्यत्ययो बहुलम्>> [[3.1.85]] इति सुब्व्यत्ययेन बहुवचनस्य स्थान एकवचनं वेदितव्यम्। `तेन` इत्यादि। यतो निर्धारण इयं सप्तमी, तेन क्त्वान्तः समास एव गृह्रते, न समासावयवः - स्नात्वेति। निर्घारणं हि समानजातीयस्यैव भवति, यथा - कृष्णा गवां सम्पन्नक्षीरतमेत्युक्ते गौरेव निर्धार्यमाणा प्रतीयते, तथाऽत्रापि `समासोऽनञ्पूर्वे` इत्युक्ते समासेष्वनञ्पूर्वेषु मद्ये यः क्त्वान्तः समासः स एव निर्धायमाणः प्रतीयते। तेन समासस्यैव क्त्वान्तस्य ग्रहणमिति तस्यैव ल्यबादेशेन भवितव्यम्, न च स्नात्वाकालकादिषु क्त्वान्तः समासः। स्नात्वाकालकादयो यद्यपि समासाः, न तु क्त्वान्ता इति ल्यबादेशो न भवति। स च समासः <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति तदन्तविधिना क्त्वान्तो गृह्रते। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणेन (व्या।प।126) वा प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) तदन्तग्रहणं न शक्यते वक्तुम्। न हि क्त्वाप्रत्ययः समासादुत्पद्यते। तत्र यदि कृद्ग्रहणपरिभाषया (व्या।प।126) तदन्तो गृह्रते, नानाकृत्येत्यत्र न स्यात्; न ह्रयं गतिकारकपूर्वः। इहैव तु स्यात् - प्रकृत्य, पार्(ातःकृत्येति। असिति ह्यत्रापि गतिः कारकश्च पूर्वोऽवयवः, <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन तदन्तविधौ गम्यमाने सर्वत्र भवतीति मन्यमान आह - `स च` इत्यादि। अत्रैवोपपत्तिमाह - `तथा च` इत्यादि। यस्मात्? <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन क्त्वान्तः समासो गृह्रते, एवञ्च कृत्वा `अनञ्पूर्वे` इत्युच्यते। <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन क्त्वान्तः समासो गृह्रते, एवञ्च कृत्वा `अनञ्पूर्वे, इत्युच्यते। <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन हि सामान्येन तदन्तविधौ सति नञ्पूर्वस्यापि प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थम्? `अनञ्पूर्वे` इति युक्तमुक्तम्। यदि कृद्ग्रहणपरिभा,या (व्या।प।126) क्त्वान्तः समासो गृह्रते, तदा गतिकारकपूर्वस्यैव ग्रहणं स्यात्। एवञ्च गतिकारकपूर्वस्य ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति। `नञ्? न गतिर्न च कारकम्` इति। अतो हेतोर्यथैव परमकृत्वेत्यत्र प्रसङ्गो नास्ति, परमशब्दस्यागतित्वादकारकत्वाच्च्; तथाऽकृत्वेत्यत्रापि, नञोऽगतित्वादकारकत्वाच्च। ततश्च प्रसङ्गाभावात्? `अनञ्पूर्वे` इति न वक्तव्यं स्यात्, उक्तञ्च। तदेतस्मादनञ्पूर्व इति वचनात्? `येन विधिस्तदन्तस्य [[1.1.71]] इत्यनेन क्त्वान्तः समासो गृह्रते, न तु कृद्गहणपरिभाषयेति स्थितमेतत्।`प्रधाय` इति। अत्रान्तरङ्गत्वात्? `दघातेर्हिः` [[7.4.42]] इति हिः प्राप्नोति। `प्रस्थाय` इति - अत्रापि <<द्यतिस्यतिमास्थामित्ति किति>> [[7.4.40]] इतीत्त्वम्। `प्रखन्य` इति। `जनसनखनाम्` [[6.4.42]] इत्यात्त्वम्। `प्रणभ्य` इति। <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घः। `आपृच्छ्य` इति <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति शत्वम्। `प्रतिदीव्य` इति। तेनैवोट्। `प्रपठ` इति। `आर्थधातुकस्येङ् वलादेः` [[7.2.35]] इतीट्। अन्तरङ्गत्वं पनरेषामेकपदाश्रयत्वात्। ल्यबादेशस्य तु बहिरह्गत्वम्, समर्थानेकपदाश्रयसमासापेक्षत्वात्। हिप्रभृतिषु कृतेषु प्रधायेत्यादीनि रूपाणि न सिध्यन्ति? इति यश्चोदयेत्, तं प्रत्याह - `प्रधाय` इत्यादि। `ज्ञापितमेतत्` इति। `अदो जग्घिर्ल्यप्ति किति` [[2.4.36]] इत्यत्र। अथ पूर्वग्रहणं किमर्थम्। नानञोत्येवमुच्येत? नैवं शक्यम्; अनञोत्युच्यमाने बहुव्रीहिरयं स्यात् - अविद्यमानो नञ्? यत्रासावनञिति। ततश्चेहापि न स्यात् - स्त्रैणीकृत्येति। स्त्रिया इदं स्त्रैणम्, `स्त्रीपुंसाभ्यां,नञ्स्नञौ भवनात्` [[4.1.87]] इति नञ्। तदन्तात्? `अभूततद्भावे` [[5.4.50]] इत्यादिना च्विः, <<अस्य च्वौ>> [[7.4.32]] इतीत्त्वम्। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। पूर्वग्रहणे तु सति पूर्वशब्द आदिभूतावयवमाचष्टे। तेन यत्र समासादिभूतो नञ्? तत्र न ल्यपा भवितव्यम्, तत्र स्त्रैणीकृत्येत्यत्र भवत्येव। न ह्यत्र समासादिभूतो नञवयवः, किं त्रिह? मध्यभूतः। लित्करणम् - प्रतिकीष्र्येत्यत्र लित्प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। प्रकृत्येत्येवमादावृदात्तार्थं लित्करणं नोपपद्यते, धातुस्वरेणैव पूर्वस्योदात्तत्वं सिध्यति। तस्मादनेकाझवयव एव धार्लित्त्वं प्रयोजयति॥", "71038": "`परिधापयित्वा, प्रत्यर्ययित्वा` इति। दधातेः, अर्तेश्च हेतुमण्णिच्, `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्? `पुगन्तलघूपपधस्य` [[7.3.86]] इति गुणः, क्त्वा, इट्? अयादेशः। `उद्धृत्य` इति। `ह्मञ्? हरणे` (धातुपाठः-899), <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति हकारस्य धकारः। `वा छन्दसि` इति। वक्तव्ये `क्त्वापि छन्दसि` इति। वचनमसमासेऽपि यथा स्यात् - अच्र्य तान्? देवान्? गत इति॥", "71039": "`पन्थाः` इति। पथिन्नित्येतस्माज्जस्, तस्य सुः, `पथिमथ्यृभुक्षामात्` [[7.1.85]] इत्यात्त्वम्, `इतोऽत्सर्वनामस्थाने` [[7.1.86]] इतीकारस्यात्त्वम्, <<थो न्थः>> [[7.1.87]] इति न्थादेशः। `सुपाम्` इत्यादिना सुपां स्थाने सुप आदेशा भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रादपिशब्दोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन सुपामन्येऽपि सुपो भवन्ति। `धुरि दक्षिणायाः` इति। सप्तम्येकवचनस्य स्थान पञ्चम्येकवचनम्, षष्ठएकवचनं वा। `तिङाम्` इत्यादि। तिङाञ्च तिङो भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वपदेव वक्तव्यम्। `आद्र्रे चर्मन्` इति। सप्तम्येकवचनस्य चर्मन्शब्दाल्लुक्। `यत्` इति। अत्रापि यच्छब्दात्, तच्छब्दाच्च। `धीती` इत्यादि। `धीति-मति-सुष्टुतिशब्देभ्यः परसय तृतीयैकवचनस्य पूर्वसवर्ण इकारः, उभयोरकः सवर्णे [[6.1.97]] दीर्घत्वम्। `उभा` इति। उभशब्दात्प्रथमाद्विवचनस्याकारः। <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्येकादेशः। `न ताद्? ब्राआहृणाद्? निन्दामि` इति। तच्छब्दाद्? ब्राआहृणशब्दाच्च द्वितीयैकवचनस्यात्। निशब्दे परतः <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति तकारस्य नकारादेशः। `युष्मे, अस्मे` इति। युष्मदस्मच्छब्दाभ्यां परस्य च जसः `शे` [[1.1.13]] इत्ययमादेशः। शकारः सर्वादेशार्थः। अथेह `यूयषयौ जसि` [[7.2.93]] इति यूयवयादेशौ कस्मान्न भवतः? इत्याह-`यूयादेशः` इत्यादि। `उरुया, धृष्णुया` इति। उरुधृष्णुशब्दाभ्यां परस्य तृतीयैकवचनस्य यादेशः। `नाभा` इति। नाभिशब्दात्? सप्तम्ये कवचन्सय डादेशः डकारष्टिलोपार्थः। `अनुष्टआ` इति। अनुष्टुप्शब्दात्? तृतीयैकवचनस्य डआदेशः। `साधुया` इति। साधुशब्दात्? परस्य प्रथमैकवचनस्य याजादेशः। चकारोऽन्तोदात्तार्थः। `सोर्लुकि प्राप्ते इति। याजित्ययमादेशो विधीयत इति शेषः। लुक्प्राप्तिस्तु `स्वमोर्नपुंसकात्` [[7.1.23]] इत्यनेन। `वसन्ता` इति। वकन्तशब्दात्? परस्य सप्तम्येकवचनस्यालित्ययमादेशः। लित्करणं लित्प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। `उपसंख्यानम्` इति। प्रतिपादनमस्यार्थः। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं त्वपिशब्दमाश्रित्य कर्तव्यम्। उर्विया, दार्विया` इति। उरुदारुशब्दाभ्यां परस्य तृतीयैकवचनस्येयादेशः। `सुक्षेत्रिया` इति। सुक्षेत्रिन्नित्यादेर्मत्वर्थीयेनिप्रत्ययान्तात्? परस्य तृतीयैकवचनस्य ङियाजादेशः। डकारष्टिलोपार्थः। चकारोऽन्तोदात्तार्थः। `सरसी` इति। सरःशब्दात्? सप्तम्येकवचनस्य ईकारः। `प्रबाहवा` इति। प्रबाहुशब्दात्? तृतीयैकवचनस्याङादेशः, `घेङिति` [[7.3.111]] इति गुणः, अवादेशः। ननु च `ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ॥` (म।भा।3।247)इत्युक्तम्, न चेहादौ ङकारः, तत्? कथं गुणः? ङित्करणसामर्थ्याद्भविष्यतीत्यदोषः। `स्वप्नया` इति। स्वप्नशब्दात्? परस्य तृतीयैकवचनस्यायाच्, <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। चकारः स्वरार्थः। `नावया` इति। मौशब्दात्? परस्य तृतीयैकवचनस्यायारादेशः। रेफः <<उपोत्तमं रिति>> [[6.1.217]] इत्युपोत्तमाकारस्योदात्तत्वार्थः॥", "71040": "`अमिति मिबादेशो गृह्रते` इति द्वितीयैकवचनाशङ्कां निराकारोति। द्वितीयैकवचनस्याग्रहणम्; छन्दसि यथादृष्टानुविधानात्। अपिशब्दानुवृत्तेर्वा, तदनुवृत्तौ ह्रेषं सम्बन्धः क्रियते - अमो मश्च भवति, अपिशब्दात्? क्वचिच्छ्रवणमपीति। `वधीम्` इति। हन्तेर्लुङ, `चलेः सिच्` [[3.1.44]] सिप्, तस्य `तस्थस्थ` [[3.4.101]] इत्यादिनाऽम्, तस्य मशादेशः - अकार उच्चारणार्थः, `लुङि च` [[2.4.43]] इति हन्तेर्वधादेशा, `आर्धधातुकस्य` [[7.2.35]] इत्यादिनेट्? <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्? `इट ईटि [[8.2.28]] इति सिचो लोपः, सवर्णदीर्घतद्वलम्। `क्रमीम्` इति। `क्रमु पादविक्षेपे` (धातुपाठः-473) सर्वं पूर्ववत्। अयमत्र विशेषः - <<स्नुक्रमोरनात्मनेपदनिमित्ते>> [[7.2.36]] इतीट्। अवधिवम्, अक्रमिषमिति प्राप्ते। `शित्ककरणं सर्वादेशार्थम्` इति। असति तस्मिन्? <<अलोऽन्त्यस्य>> [[1.1.52]] स्यादिति भावः। ननु च मकारस्य मकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शकारं सर्वादेशो भविष्यति? इत्याह - `मकारस्य` इत्यादि। अस्ति हि मकारविधाने प्रयोजनम्। किं तत्? <<मोऽनुस्वारः>> [[8.3.23]] प्राप्नोति; स मा भूदिति। सत्येतस्मिन्? प्रयोजने यदि शकारो न क्रियेत, तदाऽन्त्यस्यैव स्यात्, न स्यात्, न सर्वस्य। तस्मात्? सर्वादेशार्थः शकारः कर्तव्यः॥", "71041": "`अदुह्य` इति। दुहेर्लङ, अदादित्वाच्छपो लुक्, <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यादेशः, <<बहुलं छन्दसि>> [[7.4.78]] इति रुट्, तकारलोपे कृते द्वयोरकारयोः <<अतो गुणे>> [[6.1.97]] परूपत्वम्। दुह्याम्` इति। लोट्, बहुवचनं झः, टेरेत्वम्, आमादेशः, झादेशस्याते रुडागमः, पूर्वच्छपो लुक्, तकारलोपे कृते `अकः सवर्णे दीर्घः, [[6.1.10]] । `शये` इति। लट्, एकवचनान्तः, <<शीङः सार्वधातुके गुणः>> [[7.4.21]] , शपो लुक्। `दुहाम्` इति। लोट्? एकवचनान्तः, टेरेत्त्वम्, `आमेतः` [[3.4.90]] इत्याम्। `दुग्धाम्` इति। `दादेर्धातोर्धः [[8.2.32]] , <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति धकारस्या गकारः। `अपीत्यधिकरात्` इत्यादि। `क्त्वादि छन्दसि` [[7.1.38]] इत्यतोऽपीत्यनुवर्तते, तत्रैवमभिसम्बन्धः क्रियते - लोपो भवति श्रवणमपीति; तेन कुरुत इत्यत्र न भवति। करोतेर्गुणे कृते `अत उत्सार्वधातुके` [[6.4.110]] इत्युत्त्वम्। यदि अपिशब्दानुवृत्तेः क्वचिच्छ्रवणमिप भवति, अत एव हेतोः परस्मैपदेषु न भवतीति किमात्मनेपदग्रहणेन? एवं तर्हि विस्पष्टार्थमात्मनेपदग्रहणम्॥", "71042": "`वारयध्वात्` इति। वृञो वृङो वा हेतुमण्णिजन्तात्? `वृञ्? आवरणे` (धातुपाठः-1813) इत्यस्माद्वा चुरादिणायन्ताल्लोट्, तस्य ध्वम्, तस्य ध्वात्। `वारयध्वम्` इति। टेरेत्त्वे कृते <<सवाभ्यां वामौ>> [[3.4.91]] इत्यमादेशः॥", "71043": "", "71044": "`लोण्मध्यमपुरुषबहुवचनस्य` इति। अथ प्रथमपुरुषस्पैकवचनं कस्मान्न भवति? छन्दसि यथादृष्टानु विधानात्, अपिशब्दानुवृत्तेर्वा। `कृणुतात्` इति। `कृवि हिंसाकरणयोः` (धातुपाठः-598) इत्यस्यैदित्त्वान्नुम्, <<धिन्विकृण्व्योर च>> [[3.1.80]] इत्युप्रत्ययः, अकारश्चान्तादेशः, अतो लोपः [[6.4.48]] । `संसृजतात्` इति। सृजेस्तुदादित्वाच्छः। `गमयतात्` इति। णिच्, `मितां ह्रस्वः` [[6.4.92]] ॥", "71045": "`शृणोतेः` इति। <<श्रुवः शृ च>> [[3.1.74]] इति श्नुप्रत्ययः, शृभावश्च। पित्त्वे ङित्त्वाभावाद्गुणः। `सुनोत` इति। `स्वदिभ्यः श्नुः` [[3.1.73]] । `दधातन` इति। दधातेः `श्लौ` [[6.1.10]] इति द्विर्वचनम्। अत्रापि पूर्वलत्? ङित्त्वाभावात्? `श्नाब्यस्तयोरातः` [[6.4.112]] इत्याकारलोपो न भवति। `धत्त` इति। <<दधस्तथोश्च>> [[8.2.38]] इत्यभ्यासादकारस्य धकारः। धातोरकारलोपे कृते <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम् - डकारः, तस्य `खरि च` [[8.4.54]] इति चर्त्वम् - तकारः। `जुजुष्टन` इति। इषेरिच्छार्थात्? पूर्ववच्छः, <<बहुलं छन्दसि>> [[7.4.78]] इति तस्य लुक्। `यदिच्छत` इति। <<इषुगमियमां छः>> [[7.3.77]] । चकार स्तस्येत्यस्येहानुकर्षणार्थः॥", "71046": "`इदन्तः` इति। तकारोऽसन्देहार्थः। असति हि तकारे यणादेशे कृते `यन्तः` इति भवितव्यम्, तत्र सन्देहः स्यात् - किमयं यकारान्तः, उतेकारान्त इति। इद्? अन्तो यस्य इदन्तः। मसित्ययं शब्दोऽन्यपदार्थः। सकारान्तमसीत्यविभक्तिकोऽयं निर्द्देशः; `सुपां सुलुक्` [[7.1.39]] इति प्रथमैकवचनस्य लुप्तत्वात्। इकार उच्चारणार्थः। भसीत्ययं शब्द इकारान्तो भवतीत्यस्यार्थं `मसः सकारान्तस्य` इत्यादिना व्यक्तीकरोति। `सकारान्तस्य` इत्यनेन मन्त्रं वोचेमेत्यत्राकारान्तस्य न भवतीति दर्शयति। कथं पुनः सकारान्तस्योपादानेऽसकारान्तस्य प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्। यद्येवम्, कस्मान्न भवति? छन्दसि यथादृष्टानुविधानात्। अपौत्यधिकाराद्वा। `वोचेम` इति। वचेः परस्याशिषि लिङो मस्, यासुट्, `लिङ्याशिषि` [[3.1.86]] इत्यङ्, <<अतो येयः>> [[7.2.80]] इतीयादेशः, वचेः परस्याशिषि लिङो मस्, यासुट्? `लिङ्याशिषि` [[3.1.86]] इत्यङ्,तो येयः` [[7.2.80]] इतीयादेशः, `वच उम्` [[7.4.20]] इत्युमागमः। <<छन्दस्युभयथा>> [[6.4.86]] इति सार्वधातुकत्वात्? <<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सलोपः, <<नित्यं ङितः>> [[3.4.99]] इत्युत्तमस्य सलोपः, <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारसय च, `आदगुणः` [[6.1.84]] । `आगम इकारो भवति` इति। कथम्पुनरयमागमः? कथञ्च न स्यात्? आगमलिङ्गाभावात्। टित्त्व - कित्त्व-मित्त्वान्यागमलिङ्गानि, अत्र चैषामेकमपि नास्ति, ततो नासावागमः, यथा - <<अस्तेर्भूः>> [[2.4.52]] इति भूभावः। यद्येवम्, `न य्वाभ्यां पदान्ताभ्यां पूर्वौ च ताभ्यामैच्` [[7.3.3]] इत्यैजागमो न स्यात्। अथ पूर्वग्रहणात्? तस्यागमत्वमवसीयते? अस्याप्यन्तग्रहणादवसीयताम्। यथैव हि पूर्वशब्दोऽवयववचनो नियतदेशमदयवमाचष्टे, तथान्तशब्दोऽपीति समानमेतत्। `स च तस्यान्तो भवति` इति। अन्त एकदेशोऽवयव इति यावत्। अत एवासौ तद्गरहणेन गृह्रत इत्याह - `तद्ग्रहणेन च प्रयोजनम् - पृथक्? स्वरनिवृत्तिरिति; `तिङ्ङतिङा` [[8.1.28]] इति निघातश्च। `मस इक्` इति नोक्तम्; असन्देहार्थम्। एवं ह्रुच्यमाने सन्देहः स्यात् - किमिगागमः, उत प्रत्याहार इति। `दीपयामसि, जम्भयमसि` इति। `दीपी दृप्तौ` (धातुपाठः-1150),जभि जृभी गात्रविनामे`[`जभी, जृभि - धा।पा] (धातुपाठः-388,389) - आभ्यां णायन्ताभ्यां लट्, <<रधिजभोरचि>> [[7.1.61]] इति लुम्। क्वचित्? भञ्जयामसीति पाठः। स च `भञ्जो आमर्दने` (धातुपाठः-1453) इत्यस्य ण्यक्तस्य वेदितव्यम्॥", "71047": "`दत्त्वाय` इति। `दो दद्? घोः` [[7.4.46]] इति ददादेशः। `क्त्वापि छन्दसि` इत्यादि। एवमुच्यमाने द्विः क्त्वाग्रहणं न कर्तव्यमिति भावः। `समास इत्यत्रानुवर्तते` इति। `समासेऽनञ्पूर्वे` [[7.1.37]] इत्यतः। यदि तस्यानन्तरमिदमुच्यते, तत्रापि समासग्रहणमनुवर्तत इत्याशङ्का स्यात्, ततस्तस्यानुवृत्तिनिवृत्त्यर्थं तस्यानन्तरमिदं नोक्तमित्यभिप्रायः॥", "71048": "`इष्ट्वीनम्` इति। वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्। `पीत्वीनम्` इति। `धुमास्था` [[6.4.66]] इत्यादिनेत्त्वम्। एतच्चेतिकरणादाद्यर्थाच्चकरास्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। अनयोरन्यतरोपादानेनैव सिद्ध उभयोरुपादानं वैचित्र्यार्थम्॥", "71049": "`स्नात्वी, पीत्वी` इति। आकारस्य स्थान ईत्त्वन्निपात्यते। ननु च स्नात्व्यादयः शब्दाः प्रातिपदिकगणे न पठन्ते, तत्कथं ते वेदितव्याः? कथं चादिशब्देन ते शक्या लक्षयितुम्? इत्याह `प्रकारार्थोऽयमादिशब्दः` इति। एवम्प्रकारा य एतत्सदृशाः शब्दास्ते स्नात्व्यादयो वेदितव्यः॥", "71050": "जसेरिति पूर्वाचार्यनिर्द्देशः। पूर्वाचार्या हि जसिरित्येवं विहतवन्तः। `ये पूर्वासो ये परास इत्यत्र` इत्यादि चोद्यम्। एतच्च जातौ पदार्थे। तत्रान्यत्र चरितार्थत्वाच्छास्त्रयोस्तुल्यबलयोर्विरोधे सति परस्पर प्रतिबन्धादप्रवृत्तौ प्राप्तायां <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति क्रियते - विप्रतिषेधे परं भवति, तत्र कृते यदि पूर्वमपि प्राप्नोति तदपि भवतीति जातिपदार्थः पुन प्रसङ्गविज्ञानस्य विषयः। `सकृत्` इत्यादिना परीहारः। एव च ष्यक्तो पदार्थेऽन्यत्राकृतार्थत्वाद्द्वयोरपि शास्त्रयोरीदृशे विषये पर्यायेण प्रवृत्तौ प्राप्तायामयं नियम आरभ्यते - विप्रतिषेधे परमेव भवति, न पूर्वमिति। तेन पुनः प्रसङ्गविज्ञानाभावाद्बाधितः शोभावो न भवति। न ह्रसति पुनःप्रसङ्गे यद्वाधितं तदुत्सहते पुनर्भवितुम्॥", "71051": "`आत्मप्रीतौ` इति। विषयसप्तमीयम्। अत एवाह - `आत्मप्रीतिविषये क्यचि` इति। आत्मप्रीतिर्विषयो यस्य क्यचः स तथोक्तः। `अआस्यति` इति। आत्मनोऽआमिच्छतीति `सुपः आत्मनः क्यच्` [[3.1.8]] अनेनासुक्, अतो गुणे` [[6.1.94]] पररूपत्वम्। एवं `क्षीरस्यति` इत्यादावपि वेदितव्यम्। सर्वत्रात्मप्रीतिविषये क्यच्। यो ह्रात्मनोऽआआदिकमिच्छति स नियोगत आत्मनः प्रोत्यर्थमिच्छति। यद्येवम्, इच्छायां क्यच्विधीयमानः सर्वत्रात्मप्रीतिविषये भविष्यतीतीच्छायां वक्तव्यम्? प्रसिद्ध्युपसंग्रहार्थमात्मप्रीताविति लौकिकस्यार्थस्योपादानम्, तेन यत्रात्मप्रीतावसुग्लोके प्रयुज्यते तत्रैव भवति, नान्यत्र। तेनाआवृषयोर्मैथुनेच्छायां क्षीरलवणयोर्लालसायामित्युपपन्नं भवति। `अआईयति` इति। अआमिवाचरतीति <<उपमानादाचारे>> [[3.1.10]] इति क्यच्, <<क्यचि च>> [[7.4.33]] इतीत्त्वम्। `अआवृषयोः` इत्यादि। `\tअआवृष्योर्मेथुनेच्छायामसुग्भवति` इत्येतदर्थरूपं व्याख्येयमित्यर्थः। `क्षीरलवणयोः` इत्यादि। वक्तव्यमित्येतदपेक्षते। `क्षोरलवणयोर्लालसायामसुग्भवति` इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। `अन्यत्रात्मप्रीतावपि न भवति` इति। आत्मनोऽआआदिकमिच्छत्यआईयतीति। लवणीयति। `तृष्णातरेकः` इति। तृष्णाया अतिरेकः=अतिशयः, प्रकर्षः, अधिक्यमित्यर्थ-॥", "71052": "`ह्रस्वनद्यापो नुट्` [[7.1.54]] इति प्राप्ते वचनम्। `आमीति षष्ठीबहुवचनं परिगृह्रते` इति। इह बहव आमः सम्भवन्ति - षष्ठीबहुवचनम्, <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति, `किमेत्तिङव्ययधादाम्वद्रव्यप्रकर्षे` [[5.4.11]] इति, <<कास्प्रत्ययादाममन्त्रे लिटि>> [[3.1.35]] इत्याम्; एतेषां यदि सर्वेषां ग्रहणं स्यात्? तदा सर्वेषाम्? `ह्रस्वनद्यापो नुट्` [[7.1.54]] इति नुट्? प्रसज्येत, तत्राप्येतदेवाम्ग्रहणमनुवर्तते, षष्ठीबहुवचनस्यैवेष्यते अतस्तदेव गृह्रत इत्याह - `तस्य हि परत्वात्` इत्यादि। सुटो नुटश्च षष्ठीबहुवचनमवकाशः, आट्प्रभृतीनां तु चतुरर्थ्येकवचनादिः ङेराम्नद्याम्नीभ्यः` [[7.3.116]] इति परत्वादाडादयो भवन्ति। तत्र <<आण्नद्याः>> [[7.3.112]] इत्याट् - कुमार्यामिति। `याडापः` [[7.3.113]] इति याट् - खट्वायामिति। `तर्वनाम्नः स्याङ्ढ्रस्वश्च` [[7.3.114]] इति स्याट् - सर्वस्यामिति। यस्तर्हि घान्तादाम्? विधीयते यश्च लिटआम्? तौ कस्मान्न गृह्रेते? इत्याह - `यश्च किम्` इत्यादि। तयोह्र्रको घान्ताद्विधीयतेऽपरो घातोः। न च घान्तस्य सर्वनामसंज्ञा, नापि घातोरिति। न तौ सर्वनाम्नः परौ सम्भवत इति न गृह्रेते। अथ तु सर्वनाम्नः परौ न सम्भवत इति कृत्वैतदर्थं तयोग्र्रहणमनुपपन्नम्, तथाऽप्युत्तरार्थं तूपपद्यते, विद्येते तौ हि हरस्वान्तात्? परौ - पचतितराम्, पचतितमाम्, चिकीर्षाञ्चकार, कारायाञ्चकार? इत्यत आह - `सानुबन्धकादिति वा तौ न गृह्रेते` इति। निरनुबन्धकपरिभाषयेति भावः। तत्र घादामोरुकारोऽनुबन्धः, इतरस्य त्वकारः। तथा चोक्तदम् - आमोऽमित्त्वमदन्तत्वादिति। `उत्तरार्थः` इत्यादि। <<त्रेस्त्रयः>> [[7.1.53]] इत्यामि परतो यथा स्यात्। एतदर्तोऽप्यामीति सप्तमीनिर्द्देशः कस्मान्न भवति, अस्ति ह्यत्रापि प्रयोजनम् - आमि परतः सर्वनाम्नः सुङ्? यथा स्यात्? इत्यत आह - `इह तु` इत्यादि। `उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान्` (शाक।प।97) इति <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति `सर्वनाम्नः` इत्यनया पञ्चम्या आमीत्यस्याः सप्तम्याः षष्ठआं परिकल्पितामाम एव सुटा भवितव्यमिति नास्तीह निर्द्देशस्य प्रयोजनम्॥", "71053": "<<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति प्राप्ते वचनम्। `त्रयाणाम्` इति। `सुपि च` [[7.3.102]] इति दीर्घः। ननु च `णिजां त्रयाणां गुणः श्लौ` [[7.4.75]] इति निपातनादेव सिद्धम्, तत्किमर्थमिदमारभ्यते? एवं सिद्धे सतीदमारभ्यमाणमेतज्ज्ञापयति - `अबाधकान्यपि निपातनानि भवन्ति (पु।प।वृ।99) इति, तेन पुरातनमिति सिद्धं भवति; अन्यथा `पुराणप्रोक्तेषु` [[4.3.105]] इति निपातनेन बाधित्त्वान्न सिध्यति।`त्रीणामपीष्यते छन्दसि` इति। एतच्चापीत्यधिकाराद्वा, `सर्वे विघयश्छन्दसि विकल्प्यन्ते (पु।प।वृ।56) इति वा लभ्यते॥", "71054": "`कुमारीणाम्` इति। <<वयसि प्रथमे>> [[4.1.20]] इति ङीष्। `गौरीणाम्` इति। <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्। `शाङ्र्गरवीणाम्` इति। `शाङ्र्गरवाद्यञो ङीन्` [[4.1.73]] इति ङीन्। `लक्ष्मीणाम्` इति। `अवितृस्तृतन्त्रिभ्य ईः` (पं।उ। 3-158) इत्यनुवृत्तौ `लक्षेर्मुट्? च` (पं।उ।3।160) इतीर्मुट्? च। `ब्राहृबन्धूनम्` इति। ब्राहृआ बन्धुरासामिति बहुव्रीहिः। `ऊङुतः [[4.1.66]] इत्यूङ्। `खट्वानाम्` इति। `अजाद्यतष्टाप्` [[4.1.4]] । `बहुराजानाम्` इति। `डाबुभाभ्यामन्यतरस्याम्` [[4.1.13]] इति डाप्। `कारीषगन्ध्यानाम्` इति। कारीषगन्धेरपत्यमित्यण। तस्य `अणिञोरनार्षयोः` [[4.1.78]] इत्यादिना ष्यङादेशः, `यङ्श्चाप्` [[4.1.74]] इति चाप्॥", "71055": "`पञ्चानाम्` इति। <<नोपधायाः>> [[6.4.7]] इति दीर्घः, `नलोपः प्रातिपदकान्तस्य` [[8.2.7]] इति नलोपः। `षष्णाम्` इति। <<झलां जशोऽन्ते>> [[8.2.39]] इति षकारस्य डकारः, <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति डकारस्य णकारः, <<ष्टुना ष्टुः>> [[8.4.41]] इति नकारस्य णकारः। <<ष्णान्ता षट्>> [[1.1.24]] इति रेफान्ताया अपि संख्यायाः कस्मान्न विहिता षट्संज्ञेति, एवं सतीह चुतुग्र्रहणं न कर्तव्यं भवति? इत्याह - `रेफान्तायाः` इत्यादि। गतार्थम्। `बहुवचननिर्देशात्` इत्यादि। यदि हि शब्दस्य प्रधानस्य ग्रहणं स्यात्, तदेतरेतवयोगपक्षे `षट्चतुभ्र्याम्` इति द्विवचने निर्देशं कुर्यात्? समाहारपक्षे त्वे कवचनेन `षट्चतुरः` इति बहुवचनेन तु निर्देशः कृतः। तस्माद्बहुवचननिर्देशात्? संख्याप्रधानस्यैव षठ्संज्ञकस्य चतुःशब्दस्य च ग्रहणम्। तस्य चेदं प्रयोजनम् - यत्र संखक्यायाः प्राधान्यम्, तेन तदन्तादपि भवति। अर्थप्रधाने हि निर्देशेऽर्थग्रहणेतद्भवति, अर्थाच्च शब्दद्वारेणैवामः परत्वं विज्ञायते। अतः केवलेभ्यः षद्चतुर्भ्यो भवति, तदन्ताच्च। तदन्तादपि शब्दद्वारेणैवामः परत्वं भवत्येव। `उपसर्जनोभूतायास्तु` इत्यादि। बहुवचननिर्देशाद्वि संख्यार्थस्येदं ग्रहणम्। स चार्थो द्विविधः - प्रधानः अप्रधानश्च। तत्र प्रधाने कार्यसम्प्रत्ययाद्यत्र संख्यायाः प्राधान्यं तत्र तदन्तादपि भवति। यत्र तूपसर्जनीभूता संख्या तत्र न भवति - प्रियषषामित्यादौ। अन्यपदार्थस्य ह्यत्र प्राधान्यम्, संख्यायास्त्वप्राधान्यम्। `प्रियपञ्च्ञाम` इति। अल्लोपे [[6.4.134]] कृते <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्॥", "71056": "श्रीग्रामण्योरिति सम्बन्धलक्षणा षष्ठी। `नित्यार्थं `वचनम्` इति। श्रीशब्दस्य, न तु ग्रामणीशब्दस्य। तस्तु तु प्राप्त्यर्थमेव। यथैव हि भाषायां नदीसंज्ञापक्षे `ह्रस्वनद्यापो नुट्` [[7.1.54]] इति सिध्यति तथा छन्दस्यपि। तस्मान्नित्य यथा स्यादित्येवमर्थम्। असति ह्रस्मिन्? यदा नदीसंज्ञा, तदैव स्यात्, नान्यदा। `यदा सूताश्च` इत्यादि। एतेनैतद्दर्शयति - यदा सूतशब्दस्य ग्रामणीशब्देन सह कर्मधारयः क्रियते तदा सूतग्रामणीशब्दो न ह्रस्वान्तः न नद्यन्तः, नाप्याबन्त इति न प्राप्नोति, इष्यते च, ततो यथा स्यादित्यवमर्थं वचनम्। यदा सूतग्रामणीशब्दयोः `सर्वो द्वन्द्वो विभाषयैकवद्भवति` (पु।प।वृ।50) इत्येकवद्भावी द्वन्द्वः, तदा <<स नपुंसकम्>> [[2.4.17]] इति नपुंसकत्वात्, `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वत्वं कृत्वा बहूनां सूतग्रामणीशब्दानामेकशेषञ्च, ततः षष्ठीबहुवचनं विधीयते। तदा ह्रस्वान्तत्वादेव सिद्धमिति नार्थस्तवर्थेन वचनेन॥", "71057": "`ऋक्पादान्ते वर्तमानात्` इति। छन्दसि ऋक्पाद एव सम्भवति, न श्लोकपाद इति ऋक्पादग्रहणम्॥ `कुण्डिता, हुण्डता` इति। `कुडि दाहे` (धातुपाठः-270), `हुडि सङ्घाते` (धातुपाठः-269) - आभ्यां तृच्, इट्, `ऋदुशनस्` [[7.1.94]] इत्यादिनानङ्।`किमयं धातूपदेशावस्थायामेव नुमु विधीयते? इत्याह - `कुण्डा, हुणडा` इत्यादि। यदि प्रत्यय उत्पन्ने नुम्? स्यात्, तद प्रत्ययविघधानवेलायं कुडिडुडओरगुरुत्वात्? क्तिन्नेव स्यात्, न त्वकारप्रत्ययः, स चेध्यते। तस्मात्? तदर्थं धातूपदेशावस्थायामेव नुम्? भवतीत्यवसीयते। कथं पुनर्धातूपदेशावस्थायां नुम्? भवतीत्यवसीयते, यावतात्रोपदेशग्रहणं नास्ति? इत्याह - `तथा हि` इत्यादि। `धिन्विकृण्ष्योर च` [[3.1.80]] इत्युप्रत्ययविधानकाले नुमनुषक्तयोग्र्रहणं सनुम्कयोरेव प्रकृततवं यथा स्यात्। एवं सनुम्कयोः परकृतत्वं भवति यद्युपदेशावस्थायामेव नुम्? भवति, नान्यथा। तस्मान्नुमनुषक्तयोग्र्रहणाज्ज्ञापकादवसीयते - धातूपदेशावस्थायामेव नुम्? भवतात्। तस्य ह्रतत्? प्रयोजनम् - उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम्? भवतीति। तस्य ह्रतत्? प्रयोजनम् - उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम भवितव्यम्, तत्र लक्षणवशादेव `धिन्विकृच्च्योर च` [[3.1.80]] इति नुमनुषक्तयोग्र्रहणम्, तत्कथमस्यार्थस्य ग्रहणं ज्ञापकम्? नैतदस्ति; न हि <<धिन्विकृण्व्योर च>> [[3.1.80]] इत्ययमिका निर्देशः, स हि `रोगाख्यायां ष्वुल्? बहुलम्` [[3.3.108]] इति बहुलवचनेन सन्निधानात्? क्वचिदेव भवति न सर्वत्र। एवञ्च <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] इत्येवमादयो निर्देशा उपपद्यन्ते। तस्मात्? `धिन्विकृण्व्योः` [[3.1.80]] इति नायमिका निर्द्देशः, किं तर्हि? उच्चारणार्थेनेकारेण, यथा - `इन्धिभवतिभ्याम्` [[1.2.6]] इत्यत्रेकारेण निर्द्देशः; अन्यथा `अनिदिताम्` [[6.4.24]] इत्यादिनानुनासिकलोपः स्यात्। अथापि हि `धिन्विकृण्व्योः` [[3.1.80]] इतीका निर्देशः स्यात्, एवमपि यदि धातूपदेशावस्थायामेव नुम्भवतीत्ययमर्थो ज्ञापयितुं नाभीष्टः स्यात्, ततो लाघवार्थमनितयत्वादागमशासनस्य नुममकृत्वैव निर्द्देशं कुर्यात्, यथा - <<युवोरनाकौ>> [[7.1.1]] इत्यत्र द्वन्द्वैकवद्भावपक्ष उक्तम्। तस्मान्नुमनुषक्तयोग्र्रहणं ज्ञापकमेव धातुग्रहणादप्यवसीयते। नुमुपदेशावस्थायामेव भवतीति दर्शयितुमाह - `धातुग्रहणं च` इत्यादि। धातुसंज्ञाप्रवृत्तिकालो धातूपदेशकालः, तत्रैव नुम्? भवतीत्येवमर्थमिह धातुग्रहणं क्रियते। तस्मादतोऽपि धातुग्रहणादुपदेशवस्थाया मेव नुम्? भवतीति ज्ञायते, न ह्रन्यद्धातुग्रहणस्य प्रयोजनमस्तीत्यभिप्रायः। ननु च भेत्ता, अभैत्सोदित्यत्राघात्वोस्तासिस्चोरिदितीर्नुम्? मा भूदित्येवमर्थं धातुग्रहणं स्यात्? इत्याह - `तासिसिचोः` इत्यादि। यदि तासिसिचोरिदित्कार्यं स्यात्, तदेकारस्येत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायेत, न चास्ति प्रयोजनमिति न प्रतिज्ञायते; ततश्च निरनुनासिकोऽप्रतिलब्धेत्संज्ञक उच्चारणार्थं एवानयोरिकारः पठत इति नुमः प्रसङ्ग एव नास्ति, तत्? किं तन्निवृत्त्यर्थेन धातुग्रहणेन! ननु चारंस्त, अमंस्त, मन्त#आ, संगन्तेत्यत्र `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपो मा भूदित्येवमर्थं तासिसिचोरिदित्कार्यम्, तत्? किमुच्यते इदित्कार्यं तासिसिचोर्नास्ति? इत्यत आह - `अरंस्त, अमंस्त` इत्यादि। <<हनः सिच्>> [[1.2.14]] इति कित्त्वविधावस्यैतत्प्रयोजनम् - आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिज्न्तस्यानुनासिकलोपः सार्वधातुकङित्त्वमाश्रित्य स्यात्? <<हनः सिच्>> [[1.2.14]] इति कित्त्वमनर्थकं स्यात्, प्रयोजनाभावात्? नैतदस्ति; अस्ति ह्रन्यत्? कित्त्वविधानस्य प्रयोजनम् - `अनुदात्तोपदेश` [[6.4.37]] इत्यादिना सिच्यनुनासिकलोपो यथा स्यादिति; `अनिदताम्` [[6.4.24]] इत्यादिना सिजन्तस्य सार्वधातुके मा भूदिति। कः पुनरत्र विशेषः - सार्वधातुके ङिति वा? सिचि किति वा? अयमस्ति विशेषः - समानाश्रये सिच्यनुनासिकलोपस्यासिद्धत्वादतो लोपो [[6.4.48]] न भवति; सार्वधातुके तूपधालोपे तस्य व्याश्रयत्वेनासिद्धत्वाभावादतो लोपः स्यादेव। नैषोऽस्ति विशेषः; अतो लोपविधौ `अनुदात्तोपदेश` [[6.4.37]] इत्यादेः सूत्रादुपदेशग्रहणमनुवर्तते, तेनार्थधातुकोपदेशे यदकारान्तमङ्गं तस्य लोपो विज्ञायते; न चाहतेत्यत्रोपदेशेन्कारान्तमेतत्। तस्मात्? <<हनः सिच्>> [[1.2.14]] इति कित्त्वविधानसामर्थ्यादरंस्तेत्यादौ नकारलोपो न भवति। तदेवं सिच इदित्कार्यं न भवतीति प्रतिपादितम्। इदानीं तासेरप्यनुनासिकलोपाभाव इदित्कार्यं न भवतीति प्रतिपादयितुमाह - `मन्ता` इत्यादि। नकारलोपो न भवतीति प्रकृतेन सम्बन्धः। उपधानकारस्य `अनिदिताम्` [[6.4.24]] इत्यादिना लोप उच्यते। न च मक्तेत्यत्र नकार उपधा भवति; टिलोपस्यासिद्धत्वात्। तस्मात्? तासेरपीदित्कार्यं न विद्यते। ततश्च युक्तमुक्तम् - `तासिसिचोरिदित्कार्य नास्ति` इति। अथ नुमागम इदित्कार्यं कस्मान्न भवति? अनिष्टत्वात्। न ह्रनिष्टं कार्यं शास्त्रे परिकल्पयितुं युक्तम्। यदि तर्हि तासेर्निरनुनासिक इकारः उच्चारणार्थः, एवं तर्हि <<स्यतासी लृलुटोः>> [[3.1.33]] इत्यत्र यदुक्तम् - `इदित्करणमनुनासिकलोपप्रतिबन्धर्थम्`, तत्कथं न विरुध्यते? यथा न विरुध्यते तदा तत्रैवोक्तम्। अथ भिदिरित्येवमादीनां नुम्? कस्मान्न भवति, स्ति ह्रेषामपीकार इत्संज्ञकः? इत्याह - `हरिताम्` इत्यादि। भिदिर्प्रभृतयो हीरितः, न त्विदितः; यस्मात्? `इर उपसंख्यानम्` (1.3.7।वा) इति रेफेकारस्य समुदायस्य तेषामित्संज्ञा, न प्रत्येकमवयवस्य। तत्रेदितामुच्यमानो नुम्? कः प्रसङ्गो यदिरितां स्यात्!स्यादेतत् - <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इतीत्संज्ञेकारस्य, <<हलन्त्यम्>> [[1.3.3]] इति रेफस्य, तस्मादस्त्येव तेषामिदित्त्वम्? इत्याह - `अवयवस्यापि` इति। गतार्थम्॥", "71058": "", "71059": "मुचादयस्तुदादौ पठन्ते `मुच्लृ मोक्षणे` (धातुपाठः-1430) इत्यतः प्रभृत्या गणपरिसमाप्तेः।`मोक्ता` इति। तृच्, `एकाचः` [[7.2.10]] इतीट्प्रतषेधः, `चो कुः` [[8.2.30]] इति कुत्वम्। `के पुनस्तृम्फादयः` इति। एवं मन्यते - तृम्फादिषु तृफादयो निरनुषङ्गा अपि गणे पठन्ते - `तृफतृन्फ तृप्तौ` (धातुपाठः-1307,1308) इत्येवमादयः। तत्र यदि तेऽपि तृफादिग्रहणेन गृह्रेरन्, तृफतीत्यादि रूपं नोपपद्यत इत्यत आह - `ये तत्र सानुषङ्गाः पठन्ते, ते तृम्फादयः` इति। आदिशब्दोऽयं प्रकारार्थः, प्रकारस्तु सादृश्यम्, तस्मात्? तृम्फतिना सानुषङ्गेण ये सदृशाः, त एवादिग्रहणेनोपलक्ष्यन्त इत्यभिप्रायः। `सानुषङ्गाः` इति। नकारोऽनुषङ्गः, तेन सह वर्तन्त इति सदृशाः, त एवादिग्रहणेनोपलक्ष्यन्त इत्यभिप्रायः। `सानुषङ्गाः` इति नकारोऽनुषङ्गः, तेन सह वर्तन्त इति सानु,ङ्गाः। यदि तर्हि ये सानुवङ्गाः पठन्ते ते तृम्फादयः, तेषां नुमि कृते परस्यानुस्वारे कृते तस्य परसवर्णे द्वयोर्नकारयोः श्रवणं प्राप्नोति? इत्यत आह्म - `तेषाम्` इत्यादि। कृते हि नकारलोपे नुम्? विधीयते। अतो न भवत्येव दोष इति भावः। अथ सोऽपि नुम्? कस्मान्न लुप्यते? इत्याह - `स च` इत्यादि। यदि सोऽपि लुप्येत, नुमो विधानमनर्थकमेव स्यादिति मन्यते। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - `धातोः` [[7.1.58]] इत्यनुवर्तते, `शे` इति योगविभ#आगः क्रियते, तेन तृ-म्फादीनाञ्च नुम्? भविष्यति। मुचादीनामित्येवमनर्थकं स्यात्, `शे` इत्यनेन सिद्धत्वात्? नानर्थकम्, `शे` इत्यस्यासर्वविषयत्वज्ञापनार्थत्वात्। एवपं ह्रतिप्रसङ्गो न भवति। कथं मुचादिष्वेव तृम्फादयो न पठिताः? येऽत्र निरनुषङ्गाः पठन्ते तेषां नुमागमो मा भूदित्येवमर्थम्॥", "71060": "`मङ्क्ता` इति। `टुमस्जो शुद्धौ` (धातुपाठः-1415), तृच्, पूर्ववदिडभावः, कुत्वञ्च, अन्त्याज्जकारात्? पूर्वो नुम्, `स्कोः` [[8.2.29]] इत्यादिना सकारलोपः, अनुस्वत्रपरसवर्णो। `नेष्टा` इति। <<रधादिभ्यश्च>> [[7.2.45]] इति यदेण्नास्ति तदायं नुम्, व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, ष्टुत्वम्। इट्पक्षे झलादित्वाभावान्नुम्? नास्ति - नशितेति। `मज्जनम्, नशनम्` इति। ल्युट्, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम् - सकारस्य दकारः, तस्य चत्वं जकार-। `मस्जेः` इत्यादि। यदि मस्जेरन्त्यादचः परो नुम्? स्यात्, असंयोगदित्वात्? मलोपो न प्राप्नोति, अनुपधत्वान्न नलोपः, स चेष्यते; अन्यथा मग्नो मानवानिति न सिध्यत्। तस्मादन्त्यात्पूर्वमाचार्या मस्जेर्नुममिच्छन्ति। कथं पुनरिष्यमाणोऽप्ययमर्थो लभ्यते? नशेरल्पाच्तरस्य पूर्वनिपातलक्षमव्यभिचारचिह्नात्। स हि लक्षणनिरपेक्षतां सूचयन्? <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्येतदपीह लक्षणं नापेश्रत इति सचयति। तस्मश्चानपेक्षिते लक्ष्यानुरोधाद्यत्र मस्जेर्नुमि कृते सतीष्टं सिध्यति तत्रैव विधीयते। तेन मस्जेरन्त्यास्पर्वं नुम्? सिद्धो भवति। `मग्नः` इति। <<ओदितश्च>> [[8.2.45]] इति निष्ठानत्वम्॥", "71061": "`रन्धयति` इति। `रध हिंसासंराद्ध्याः` (धातुपाठः-1193) हेतुमण्णिच्। `रब्धकः` इति ण्वुल। `साधुरन्धी` इति। <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति णिनिः। `रन्धंरन्धम्` इति। `आभीक्षण्ये। णमुल्` [[3.4.22]] , `आभीक्षण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `रन्धो वर्तते` इति। भावे घञ्। अथ रन्धयतीत्यादिषु परत्वात्? <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः प्राप्नोति, सा कस्मान्न भवति? इत्यत आह - `परापि सती` इत्यादि। नित्यत्वं पनः कृताकृतप्रसङ्गित्वान्नुमः। स हि कृतायां वृद्धौ प्राप्नोत्यकृतायामपीति नित्यः; वृदधिस्तु नुमि कृते न प्राप्नोत्यकारस्यानुपधत्वादित्यनित्या। `रद्धा` इति। <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः, धातुधकारस्य जश्त्वम् - दकारः॥", "71062": "पूर्वेण प्राप्तस्य नुमः प्रतिषेध उच्यते। `रधिता` इत्यादि। <<रधादिभ्यश्च>> [[7.2.45]] इतीट्। `ररन्धिव, ररन्धिम` इति। क्रादिनियमादिट्? [[7.2.13]] `परस्मैपदानाम्` [[3.4.82]] इत्यादिना वस्मसोर्वमादेशौ।ननु रधिरयमसंयोगान्तः पठते, तत्र `असंयोगाल्लिट्? कित्` [[1.2.5]] इति कित्त्वे `अनिदिताम्` [[6.4.24]] इति नलोपः प्राप्नोति, स कस्मान्न भवति? इत्याह - `नुमि कृते` इत्यादि। `उपदेशावस्थायामेव नुम्? भवति` इत्युक्तमेतत्, तेनोपदेशावस्थायामेव नुमि कृते संयोगान्तत्वं जातमिति कित्त्वं नास्तीति न भवति नलोपः। `अथ क्वसौ कथं भवितव्यम्` इति। किं रराध्वानिति भवितव्यम्, उत रेधिवानिति पृच्छति। अपर आह - `रेधिवात्` इति। लिटः <<क्वसुश्च>> [[3.2.107]] इति क्वसुः, द्विर्वचनम्, `अत एकहल्मध्ये` [[6.4.120]] इत्यादिनैत्त्वांभ्यासलोपौ, <<वस्वेकाजाद्घसाम्>> [[7.2.67]] इतीट्? नुम्, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः। `कथम्` इत्यादि। एवं मन्यते - यदेङ्? भवति तस्मश्च नुमा भवितव्यम्, नुमि च सत्येकहल्मध्यता नास्तीत्येत्त्वेऽब्यासलोपयोः पुनः प्रत्यापत्त्या भवितव्यम्, ततश्च कृतद्विर्वचन एकाण्न भवतीतीटा न भवितव्यम्; तस्माद्ररध्वानिति युक्तं भवितुमिति। इतरस्तु कृतसयापि नुमोऽत्रि लोपेन भवितव्यम्, ततश्चैकहल्मध्यताभावो नोपपद्यते, कुतः पुनरेत्त्वाभ्यासलोपयोः प्रत्यापत्तिः? इत्याह - `एत्त्वाभ्यासलोपयोः कृतयोः` इत्यादि। कृतद्विर्वचनानामेकाचां क्वसोरिङ् विधीयते। `ततो नुमागमः` इति। अचि तद्विधानात्? तस्यौपदेशिकत्त्वाश्रयो लोप इत्यौपदेशिकग्रहणान्नुमि कृते संयोगान्तत्वादातिदेशिकस्य कित्त्वस्यासम्भवात्। `अथ` इत्यादि। इटि `नेटि` [[7.2.4]] इत्युच्यमाने पुर्वेण सिद्धे सति नियमर्थमेतद्भविष्यति - लिटएवेडादौ, नान्यस्मिन्निडादाविति। तेन ररन्धिव, ररन्धिमेत्यादौ भविष्यति, न रधितेत्येवमादौ। तस्मादिटिलिटीति कस्मान्नोक्तम्, एवं सतीष्टं सिध्यति, लघु च सूत्रं भवतीति भावः। `लिटएव` इति। नियमस्वरूपं दर्शयति। `नान्यत्र` इत्यनेनापि तस्य व्यवच्छेद्यम्। यतो हेतोर्नियमो न क्रियते, तं दर्शयितुमाह - `विपरीतम्` इत्यादि। `इटएव लिटि` इति। विपरीतनियमसय स्वरूपकथनम्। `नान्यत्र` इत्यनेनापि तद्ध्यवच्छेद्यं दर्शयति। कस्माद्विपरीतमवधारणं नेष्यते? इत्याह - `तथा हि` इत्यादि। इटएव लिटीत्यस्य नियमस्यानिडादिर्ल्लिङ्व्यावर्त्त्य इतीडादावेव लिटि भवति, नानिडादाविति। ततश्चानिडादित्वाद्ररन्धेत्यत्र नुम्? न स्यात्। रधितेत्यत्र पूर्वेम स्यादेव; नियमेनाव्यावर्त्तितत्वात्। तस्मात्तद्दोषपरिजिहीर्षया नियमो न क्रियते॥", "71063": "`आरेभे` इति। `रभ राभस्ये` (धातुपाठः-974) लिट्, अनुदात्तेत्त्वादत्मनेपदम्। <<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्येशू, पूर्ववदेत्त्वाभ्यासलोपौ॥", "71064": "`पृथग्योगकरणमुत्तरार्थम्` इति। उत्तरत्रूत्रेण लभेरेव कार्यं यथा स्यात्। रभेर्मा भूदिति। यदि `रभिलभ्योरशव्लिटोः` इत्येको योगः क्रियते, ततो रभिरित्यनुवृत्तिरुत्तरत्र स्यात्। अतश्च तस्याप्युत्तरत्र कार्यं प्रसज्येत॥", "71065": "`यकारादौ प्रत्यय` इति। अनेन `यि` इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयन्? यकारादौ प्रत्यये ववयभूतेऽनुत्पन्न एव नुम्? भवतीति दर्शयति। `प्राक्` इत्यादिना विषयसप्तम्यां सत्यां यदिष्टं सम्पद्यते तदाचष्टे। परसप्तम्यां हि पूर्वं प्रत्ययेन भवितव्यम्, पश्चान्नुमा, ततश्च `अदुपधात्` [[3.1.98]] इति यत्? प्रसज्येत। विषयसप्तम्यां तु प्रागुत्पन्नेन नुमाऽदुपधत्वस्य विहतत्वात्? `ऋहलोण्र्यत्` [[3.1.124]] इत ण्यदेव भवति। कः पुनण्र्यति यत वा विशेषः; यावतोभयत्रापि तदेव रूपमिति, व्यत्प्रत्ययेऽपि वृद्ध्या न भवितव्यम्, तथा च प्रागुक्तम् - `परापि सती वृद्धिर्नित्यत्वाभुमा बाध्यते` इति? अत आह - `तत्र` इत्यादि। तत्र ण्यति सति तित्स्वरितत्वात्? <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति प्रकृतिस्वरः; तेनालम्भ्य इत्युदाहरणमन्त्यस्वरितं भवति। यति तु <<यतोऽनावः>> [[6.1.213]] इत्याद्युदात्तत्वे सति प्रकृतिवद्भावेनाप्युदात्तत्वमित्यस्ति विशेषः। `लभ्यम्` इति। यदन्तमेतत्। `एवमालभ्य` इत्येतदपि। आलभ्यत इति भावे कर्मणि वा लकारः। `अनुषङ्गलोपः क्रियते` इति। `अनिदताम्` [[6.4.24]] इत्यादिना॥", "71066": "`प्रशंसायाम्` इति। उपलभ्य इति स्तुतौ। अतिप्रशंस्य इत्यर्थः। `उपलभ्यम्` इति। प्रप्तव्यमित्यर्थः॥", "71067": "`ईषत्प्रलम्भः` इति `ईषद्दुःसुषु` [[3.3.126]] इत्यादिना खल्। `दुष्प्रलम्भः` इति। `इदुदुपधस्य` [[8.3.41]] इत्यादिना षत्वम्। `विप्रलम्भः` इति। भावे घञ्। ननु च `लभेश्च` [[7.1.64]] इत्यनेन नुम्? सिद्धः, तत्किमर्थोऽयमारम्भः? इत्याह - `सिद्धे` इत्यादि। `अन्यत्र न भवति` इति तद्व्यवच्छेद्यम्। `उपसर्गात्? खल्घञोरेव` इत्येष तु विपरीतनियमोऽत्र न सम्भावनियः; <<गृधिवञ्च्योः प्रलम्भने>> [[1.3.69]] इति निर्देशात्॥", "71068": "`उपसृष्टस्य` इति। उपसर्गेण सम्बद्धस्येत्यर्थः, `सुलाभः` इति। सुशब्दोऽयमाधिक्यार्थः, नाकृच्छ्रार्थः, यथा - सुषिक्तं नाम किं तवात्रेत। `दुर्लाभः` इति। `दुशब्दो निन्दार्थः, न कृच्छ्रार्थः, यथा - दुब्र्राह्रण इति। तेन घञेव भवति, न खल्। `सुदुम्र्यामिति तृतीयां मत्वा केवलग्रहणं क्रियते` इति। `सुदिभ्र्याम्` इति। तृतीयायामभ्युपेतायां सुदुभ्र्यामुपसृष्टस्य लभेर्नुम्? न भवतीत्येषोऽर्थः सम्पद्यते। व्यवहितेनाऽप्युपसृष्टो भवत्येव। तत्रासति केवलग्रहणे सुप्रलम्भः, दुष्प्रलम्भ इत्यत्रापि प्रतिषेधः स्यात्। तस्मात्? तृतयायामभ्युपेतायां केवलग्रहणं क्रियते। अथ पञ्चत्र्यां केवलग्रहणं कस्मान्न क्रियेतेति प्रश्नावसरत आह - `पच्चम्यां हि` इत्यादि। पञ्चम्यां ह्रस्यां निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादनन्तरस्यैव प्रतिषेधेन भवितव्यम्, इह च प्रशब्देन व्यवधानम्, अतः प्रसङ्ग एव नास्ति, तत्? किं केवलग्रहणेन? यद्येवम्? न कर्तव्यमेव केवलग्रहणम्, पञ्चमीमेनां प्रतिज्ञास्याम इति? नैतदस्ति; सुप्रलम्भः दुष्प्रलम्भ इति - प्रत्युदाहणद्वयमभिप्रेत्यैतदुक्तम्। `पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः` इति। अतिसुलम्भ इत्यत्र यदाभिशब्दोऽप्युपसर्गस्तदा ह्रसति केवलग्रहणे प्रतिषेधः प्रसज्येत; अव्यवधानात्। तस्मात्? सर्वधा केवलग्रहणस्य कर्तव्यत्वात्, कमव्यतिक्रमे च प्रयोजनाभावात्? तृतीयैवेषा युक्ता प्रतिज्ञातुम्। अतिसुलभमित्यत्रातिनोपर्गेन सुशब्देन लभिरुपसृष्टः, तस्मात्? प्रतिषेधेन भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `अतिसुलभमित्यत्र` इत्यादि। कर्मप्रवचनीयत्वं पुनरतिशब्दस्य <<अतिरतिक्रमणे च>> [[1.4.95]] इति कर्मप्रवचनीसंज्ञाविधानात्। यस्य कर्मप्रवचनीयसंज्ञा तस्योपसर्गसंज्ञा नास्ति; एकसंज्ञाधिकारात्, कर्मप्रववनायसंज्ञयोपसर्गसंज्ञाया बाधतत्वात्। कथं पुनः कर्मप्रचवनीयस्य हि तस्यापि केवलत्वमुपपद्यते? एवं मन्यते - केवग्रहणात्? स्वशब्दोपात्तादन्यत्? तुल्यजातीयमेव व्यवच्छेद्यम्, न तु विजातीयम्। तथा हि - `केवलभ्यां विझातीयेन कर्कटादिना सहितौ प्रविशत एव। अत एवान्योपसर्गरहिताभ्यामित्यनेन तुल्यजातीयनिवृत्तयर्थता केवलग्रहणस्य दर्शिता। यदि तु सर्वस्य तुल्यजातीयस्य विजातीयस्यापि केवलग्रहणेन निवृत्तिः कर्त्तु शक्यते, तदोपसर्गगरहणमनर्थकं स्यात्, अन्यरहिताभ्यामित्येवं ब्राऊयात्। तस्माद्विजातीयेन केवलग्रहणेन निवृत्तिः कर्त्तु शक्यते, तदोपसर्गग्रहणमनर्थकं स्यात्, अन्यरहिताभ्यामित्येवं ब्राऊयात्। तस्माद्विजातीयेन सहितावपि तौ केवलावेवेत्यतिसुलभमित्यत्र कर्मप्रवचनीयसहितेनापि सुशब्देनोपसृष्टस्य भवत्येव प्रतिषेधः। यत्र तर्हि पूजातिक्रमणाभ्यामन्यत्र वृत्तिः, अतिशब्दसय तत्र कर्मप्रवचनीयसंज्ञा न भवति, तदा कथम्? इत्याह - `यदा तु` इत्यादि। पञ्चमीनिर्देशेऽप्येवमर्थं केवलग्रहणं कर्तव्यमिति; अन्यथा ह्यत्र व्यवधानाभावात्? प्रतिषेधः प्रसज्येतेत्यभिप्रायः। ननु च प्रसुलम्भः - इत्येवमर्थं केवलग्रहणं कर्तव्यम्? नैतदस्ति; उक्तं हि भाषेय - `नैषोऽस्ति प्रयोगः` इति॥", "71069": "`अलाभि` इति। लुङ्, `चिण्भावकर्मणोः` [[3.1.66]] इति चिण्, <<चिणो लुक्>> [[6.4.104]] इति तकारसय लुक्। `अनुपसृष्टस्य` इति। उपसर्गेणासम्बदधस्येत्यर्थः॥", "71070": "उगिति प्रत्याहारग्रहणम् - उक्? इद्? येषां तान्युगिन्ति, अङ्गविशेषणञ्चैतत्, अत आह - `उगितामङ्गानाम्` इति। अजिति प्रत्याहारस्य ग्रहणमेवेदं वा स्यात्, अञ्चतेर्वा लुप्तनकारस्य? तत्र यदि प्रत्याहारग्रहणं स्यात्, <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यत्र सूत्रे पुनरज्ग्रहणं न कुर्यात्, तद्धि प्रत्याहाग्रहणम्, नाञ्चेः; झला साहचर्यात्। तस्मादञ्चतेरिदं ग्रहणमित्यालोच्याह - `अञ्चतेश्च` इत्यादि। `भवान्` इति। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। `श्रेयान्` इति। प्रशस्यशब्दात्? <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इतीयसुन्, <<प्रशस्यस्य श्रः>> [[5.3.60]] इति श्रादेशः, <<प्रकृत्यैकाच्>> [[6.4.163]] इति प्रकृतिवद्भावाट्टिलोपाभावः, <<आद्गुणः>> [[6.1.87]] , <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः। ननु चात्र नाङ्गमुगित्, किं तर्हि? प्रत्ययः? नैतदस्ति; अङ्गमप्युगिदेव। कथम्? अवयवावयवेनापि समुदायस्य सम्बन्धो भवत्येव, यथा - देवैदत्तस्याङ्गुलिरित्यत्र देवदत्तस्यावयवस्य हस्तस्य योऽवयवोऽङ्गुलिस्तेन देवदत्तस्य सम्बन्धः। तस्मादिहापि प्रत्ययस्यावयवो य उक्? इत्संज्ञकस्तेनाङ्गस्यापि सम्बन्धोऽस्त्येवेत्यङ्गमप्युगिदेव। `प्राङ्` इति। प्राञ्चतति ऋत्विगादिसूत्रण [[3.2.59]] क्विन्, नुम्हल्ङ्यादि [[6.1.66]] संयोगान्तलोपौ [[8.2.23]] , <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम् - नकारस्य ङकारः। `प्राञ्चौ, प्राञ्चः` इति। चुत्वम् - नकारस्य ञकारः। अथाञ्चतिग्रहणं किमर्थम्, यावतोगित्त्वादेव तस्य नुम्? सिद्धः? इत्यत आह - `अञ्चतिग्रहणम्` इत्यादि। उखारुआत्, पर्णध्वत्` इति। `रुआऊन्सु ध्वन्सु `अधः पतने` (धातुपाठः-754,755), [`अवरुआंसने` - धातुपाठः-] उखायां रुआंसते, पर्णानि ध्वंसते। `क्विप्च` [[3.2.76]] इति क्विप्, नलोपः, `वसुरुआंसुध्वंस्वनडुहां दः` [[8.2.72]] इति सकारस्य दकारः, तस्य <<वाऽवसाने>> [[8.4.56]] चर्त्वम् - तकारः।`अधातोरिति किम्` इति। अञ्चतिग्रहणादेव नियमार्थाद्धातेर्न भवतीत्यभिप्रायः। अधातोरिति नायं प्रसज्यप्रतिषेधः, किं तर्हि? पर्युदास इति मन्यमान आह - `अधातुभूतपूर्वस्यापि यथा स्यात्` इति। पूर्वपक्षवादिनाऽधातोरिति प्रसज्यप्रतषेधोऽयमिति मन्यमानेन चोदितम्। सिद्धान्तवादिना पर्युदासेन परिह्मतम्। `गोमत्यति` इति। गोमच्छब्दात् `सुप आत्मनः क्यच्ट [[3.1.8]] । `गोमत्यतेरप्रत्ययः` इति। अश्रावी प्रत्ययोऽप्रत्ययः, स पुनः क्विप्, <<अतो लोपः>> [[6.4.48]] इति दीर्घः - गोमान्। कस्मात्? पुनरसत्यधातुग्रहणेऽत्र न सिध्यतीत्यत आह - `अत्र हि` इत्यादि। असत्यधातुग्रहणेऽञ्चतिग्रहणान्नियमाद्यथोखरुआदित्यादौ न भवति, तथात्रापि न स्यात्। भवति ह्रयमपि धातुः - सतद्यपि धातुत्वे क्विबन्तत्वे `क्विबन्ता धातुत्वं न जहति` (व्य।प।132) इति कृत्वा। तस्मादधातुग्रहणं क्रियते - योऽप्यवस्थान्तरेऽधातुरासीत्? तस्य गरहणं यथा स्यात्। अथ गोमानिति कथमत्र दीर्घत्वम्? कथं च न स्यात्? अधातोरिति प्रतिषेधः, नात्वन्तस्य। अत्र ह्रधातोरिति किम्? पिण्डं प्रसत इति पिण्डग्रः, चर्म वस्त इति चर्मवः - इत्यसन्तस्यैव प्रत्युदाहरणमुपनयस्तम्, नात्वन्तस्य। अथ वा - चकारन्तत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन क्वचिद्धातोरयीति भविष्यति॥", "71071": "", "71072": "`पर्यासि, श्रोयांसि` इति। <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः। `बहुपुरि, बहुधुरि` इति। बह्व्यः पुरः, बह्व्यो धुरो येषामिति बहुव्रीहिः। `ऋक्पुरब्धूः पथामानक्षे` [[5.4.74]] इत्यकारः समासान्तो न भवति - `समासान्तविधिरनित्यः` (व्या।प।94) इति कृत्वा। `विमलदिवि` इति। विमला द्यौर्येषामिति तानि। विमलदिवि वकारो दन्त्यौष्ठओ झल्? न भवति, झलः पूर्वेण पठितत्वात्। `चत्वारि` इति। <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्याम्। इह यदुगिन्नपुंसकं झलन्तं नुमि कृते `उगिदचाम्` [[7.1.70]] इत्यादिना द्वितीयो नुम्? प्राप्नोति; सम्भवति हि विधानकालेनेकस्य परत्वम्, यथा - पचतीत्यत्र लकारविकरणयोरेकस्माद्धातोरिति। अत्र तुदन्ति, नदन्तीत्यत्र परसय नुमोऽनुस्वारे कृते तसय परसवर्णे च द्वयोर्नकारयोः श्रवणमापद्येत? भवतु नाम, हल्परस्य व्यञ्जनस्यैकस्यानेकस्य श्रुतिं प्रति नास्ति विशेषः शक्यते वक्तुम्। इह त्वस्ति विशेषः - कुर्वन्ति, कृषन्तीत्यत्र परस्य नुमोऽनुस्वारसवर्णयोः कृतयोः पूर्वस्याझल्परत्वादनुस्वारपरसवर्णौ न स्त इति अट्कुप्वादिना [[8.4.2]] णत्वं प्राप्नोति। एकस्मस्तु नुमि तस्यानुस्वारे परसवर्णे कृते न भवति णत्वप्रसङ्गः; परसवर्णस्यासिद्धत्वात्। तस्मादुगिल्लक्षणस्य नुमः प्रतिषेधो वक्तव्य इत्याह - `उगितो झलन्तस्य` इत्यादि। झलन्तलक्षणस्य नुमोऽवकाशो यदनुगिन्नपुंसकम् - सर्पीषीति, उगिल्लक्षणस्यावकाशो यदुगिदनपुंसकम् - गोमान्? यवमानिति; यदुगिज्झलन्तं नपुंसकं तस्योभयप्रसङ्गे सति परत्वादनेनैव नुमा भवितव्यम्, तस्मिन्? सति पुनरुगिल्लक्षणो नुम्? न भवति - `सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव` (व्य।प।40) इति कृत्वा। `भूयांसि` इत#इ। बहुशब्दादीयसुन्, <<बहोर्लोपो भू च बहोः>> [[6.4.158]] इतीकारस्य लोपः, बहोश्च भूभावः। `कुर्वन्ति, कृषन्ति` इति। शत्रन्तात्? <<जश्शसोः शिः>> [[7.1.20]] इति शिभावः। `बहुर्जि` इत्यादि। बहूर्जीत्यस्मिन्? नुभः प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - <<विभाषा चिण्णमुलोः>> [[7.1.69]] इति विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा, तेन बहूर्जीत्यत्र न भवति। `उर्ज बलप्राणधारणयोः (धातुपाठः-1549) [`बलप्राणनयोः` धातुपाठः-] इत्येतस्मात्? `भ्राजभ्रास` [[3.2.177]] इत्यादिना क्विप्, बहव ऊर्जो बलानि येषां तानि बहूर्जि ब्राआहृणकुलानि। `अन्त्यात्पूर्वम्` इति। अन्त्यो जकारः, तस्मात्पूर्वं नुममिच्छन्ति केचित् - बहूर्ञ्जीति॥", "71073": "`विभक्तौ` इति वचनात्? `सर्वनामस्थाने` [[7.1.70]] इति निवृत्तम्। `अचीति किम्` इति। एवं मन्यते - त्रपुभ्याम्, त्रपुभिरित्यत्र व्यञ्जनादौ मा भूदित्येवमर्थमज्ग्रहणं क्रियते, एतच्चाप्रयोजनम्; अस्त्वन्न नुम्, <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति लोपो भविष्यति। इतरो विदिताभिप्राय आह - `उत्तरार्थम्` इति। <<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> [[7.1.75]] इत्यजादौ यथा स्यात्, इह मा भूत् - अस्थिभ्याम्, अस्थिभिरिति, एवमर्थमज्ग्रहणम्। इहासय करणस्य यत्प्रयोजनं तन्मया पृष्टम्, अतस्तदेव कथ्यताम्? इत्यभिप्रायेणाह - `यद्येवम्` इत्यादि। इतरो विदिताभिप्राय आह - `इह तु करणस्य` इत्यादि। त्रपुशब्दात्? सम्बोधने प्रथमैकवचने कृते यद्यचीति नोच्येत, तदात्रापि नुम्? स्यात्, तदत्र नुम्? मा भूदित्येवमर्थमचीत्युच्यते। स्यादेतत् - भवतु नाम नुम्, तस्य `स्वमोर्नपुंसकात्` [[7.1.23]] इति सोर्लुकि कृते <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नलोपो भविष्यति? इत्याह - `न ङिसम्बुद्ध्योः इत्यादि। `ननु च` इत्यादि। एवकारोऽत्र भिन्नक्रमः प्रतिषेधानन्तरं द्रष्टव्यः। स चौपचारिकमपि दिभक्तेरस्तित्वम्? <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रतिषेधान्नास्तीति प्रतिपादयति। द्विविधं हि विभक्तोरस्तित्वम् - मुख्यम्, औपचारिकञ्च। तत्र मुख्यं श्रूयमाणाया विभक्तेर्भवति, इतरत्? तु लुप्ताया अपि। कार्यस्यास्तित्वाद्विभक्तेरप्युपचारेणास्तित्वमुच्यते, यथा - अस्त्यतीतं कर्मेति तत्रातीतेन कर्मणा यदाहितं फलदानसामर्थ्यं तस्यस्तित्वात्? तत्? कर्मान्तीत्युच्यते। तदिह <<स्वमोर्नपुंसकात्>> [[7.1.23]] इति विभक्तेर्लप्तत्वान्मुख्यं तावदस्तित्वं नास्ति। <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणप्रतिषेधादौपचारिकमपि नास्त्वेव। तत्र विभक्तावुच्यमानो नुम्? कः प्रसङ्गो यः सर्वथैवासत्यां विभक्तौ हे त्रपो इत्यत्र स्यात्! नैव प्राप्नोति; तस्मान्नैतदज्ग्रहणस्य प्रयोजनम्। `एतदेव` इत्यादि। यदि ह्यत्र प्रत्ययलोपलक्षमप्रतिषेधः स्यात्, अज्ग्रहणमनर्थकं स्यात्, कुतश्च, तस्मादेतदेवाज्ग्रहणं ज्ञापयति - प्रत्ययलोपलक्षणप्रतिषेधोऽत्रेगन्ते नपुंसके सम्बुद्धिविषये नास्तीति। `तथा च` इत्यादिना ज्ञापकस्य प्रयोजनमाह। सम्बुद्धिविषयो गणः <<सम्बुद्धौ च>> [[7.3.106]] इति वर्तमाने यः `ह्रस्वस्य गुणः` [[7.3.108]] इत्यनेन गुणः स वेदितव्यः। `तौम्बुरवं चूर्णम्` इति। तुम्बुरुणो विकारः `औरञ्? [[4.2.70]] , <<ओर्गुणः>> [[6.4.146]] । क्वचित् - `इकोऽचि व्यञ्जने मा भूवस्तु लोपः स्वरः कथम्` इत्यादिकं श्लोकद्वयं पठते। <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यत्राचीति किमर्थमुच्यते, न `इको विभक्तौ` इत्येवोच्येत? प्रयोजनमाह - `व्यञ्जने मा भूत्` इति। प्रकरणान्नुमिति विज्ञायते। त्रपुभ्याम्, त्रपुभिरित्यत्र व्यञ्जनादौ मा भूदित्येवर्थमज्ग्रहणं क्रियते। यद्येवम्, नार्थस्तेन, व्यञ्जनादौ नुमस्तु, न च तस्य श्रवणं प्रसज्यते; यस्मात्? `नलोपः प्रातपदिकान्तस्य` [[8.2.7]] इति नलोपो भविष्यति। पञ्चत्रपुभ्याम्, पञ्चत्रपुभिरित्यत्र कथं स्वरः? पञ्चभिस्त्रपुभिः क्रीताभ्यां क्रीतैर्वेति <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति तद्धितार्थे समास; <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसंज्ञा, `आर्हादगोपुच्छ` [[5.1.19]] इत्यादिना ठक्, तस्य `अध्यद्र्धपूर्वद्विगोर्लुगसंज्ञायाम्` [[5.1.28]] इति लुक्, ततो विभक्तो नुम्, नकारलोपः, तस्य `नलोपः सुप्सवरसंज्ञातुग्विधिषु कृति` (8.2.2।) इत्यसिद्धत्वात्? <<इगन्तकालकपालभगालशरावेषु द्विगौ>> [[6.2.29]] इत्यनेन पूर्वपदप्रकृतिस्वरो न प्राप्नोति; अनिगन्तत्वात्? `भ्रः संख्यायाः` (फि।सू।2।28) इत्याद्युदात्तत्वं स्यात्। `भ्रः` इति नकाररेफान्तयोग्रहणमिति। `खरो षै` इत्यादि। वैशब्दोऽक्षमायाम्। पञ्चत्रपुण इत्यत्र श्रूयमाणे नुमि स्वरो भवति। `लुप्ते किं न भविष्यति`? (इति)। भविष्यत्येवेत्यर्थः। किं पुनः कारणं श्रूयमाणे नुमि स्वरो भवति? स्वरविधौ व्यञ्जनस्यादिद्यमानत्वात्। अथ वा - समुदायभक्तो ह्रसौ नुम्? नोत्सतेऽवयवस्य त्रपुशब्दस्येगन्ततां विहिन्तुम्। इह तर्हि रायमतिक्रान्ताभ्यां ब्राआहृणकुलाभ्याम् - अतिराभ्यामिति <<कुगतिप्रादयः>> [[2.2.18]] इति समासे कृते `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वत्वे च कृते यदि व्यञ्जनादौ नुम्? स्यात्, तदा तस्य लोपे कृते नलोपस्यासिद्धत्वात्? <<रायो हलि>> [[7.2.85]] इति हलादावुच्यमानमात्वं न प्राप्नोति, नुमा व्यवदानात्, समुदायभक्तोऽसौ समुदायमेव न व्यवदव्यात्, अवयवं तु व्यवदधात्येव। तथा प्रियास्तिरुआओऽनयोब्र्राआहृणकुलयोरिति बहुव्रीहौ कृते प्रियतिसृभ्यामिति - यदि व्यञ्जनादौ नुम्? स्यात्, तदा <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इत्यनेन तिरुआआदेशो न प्राप्नोति, समुदायभक्तेन नुमा त्रिशब्दस्य व्यवधानात्? नैतदस्ति; `रायात्वं तिसृबावं [`तिसृभावश्च` - मूलपाठः] च व्यवधानान्नुमापि हि` (इति)। भवतीति शेषः। व्यवधानादिति ल्यब्लोपे पञ्चमी, यथा - प्रासादात्? प्रेक्षत इति। प्रासादमारुह्रेत्यर्थः। तदयमर्थः - नुमा व्यवधानमपि प्राप्य राय आत्त्वं तिसृभावञ्च भवतीति। कस्मात्? पुनर्व्य्रवधाने तौ भवतः`? <<रायो हलि>> [[7.2.85]] इत्यत्र रायो या विहिता विभक्तिः, त्रिशब्दाच्च या विहिता विभक्तिस्तस्यामिति विहितविशेषणपक्षस्य तत्रश्रयणात्। अथ वा - किं व्यवधानचिन्तया, परत्वादेव हि तौ भविष्यतः, तयोस्तु कृतयोः `सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव` (व्या।प।40) इति पुनर्नुम्? न भवति। नुम्परत्वमनङ्गीकृत्य `व्यवधानान्नुमापि हि` इत्युक्तम्। अत एवापिशब्दः पक्षान्तरद्योतनाय प्रयुक्तः। व्यवधाने च यथा भवति, तथोक्तमेव। एवं तर्हि नुम्नुटोर्विप्रतिषेधार्थमज्ग्रहणमिति नुटि कृते नुम्न क्रियते। `ह्रस्वनद्यायो नुट्` [[7.1.54]] इति अस्यावकाशः - अग्नीनाम्, वायूनमिति, इगन्तनुमोऽव काशः - त्रपुणे, जतुन इति; इहोभयं प्राप्नोति - त्रपूणाम्, जतूनामिति, पूर्वविप्रतिषेधे नुडागमो भवति, नुटि च सति `नामि` [[6.4.3]] इति दीर्घत्वं प्राप्नोति, अस्मस्तु सत#इ न स्यात्; अनजन्तत्वात्, यथा - वर्मणामित्यत्र। स चायं विप्रतिषेधोऽज्ग्रहणे सत्युपपद्यते। नुटि कृते नुम्? न प्राप्नोति; अनजादित्वात्। नुम्यपि कृते नुण्न प्राप्नोति, ह्रस्वान्ताभावादित्येवमभयोस्तुल्ययोर्विप्रतिषेध उपपद्यते। अक्रियमाणेऽज्ग्रहणे नुटि कृतेप्यकृतेऽपि हलादावजादौ च नुमा भवितव्यमिति तस्य नित्यत्वम्। नुमि कृते ह्रस्वान्तत्वाभावान्नुटा न भवितव्यमिति तस्यानित्यत्वम्। नित्यानित्ययोश्चातुल्यबलत्वादयुक्तो विप्रतिषेध इति नित्यत्वान्नुमैव भवितव्यमिति। तस्मादज्ग्रहणं विप्रतिषेधार्थमिति। अत्र परीहारान्तरमाह - `नुड् वाच्यः` इति। लाघवार्थम्। नुडर्थः पूर्वविप्रतिषेधः। तादध्र्यन्नुदित्युक्तः। क्रियमाणेऽप्यज्ग्रहणे विप्रतिषेदेन नुमेव प्राप्नोति, ततोऽवश्यं पूर्वविप्रतिषेधेन नुड्? वाच्यः - `नुमचिरतृज्वद्भावेभ्यो नुङ्? भवति पूर्वविप्रतिषेधेन` (वा।11;7.1.96) इति। क्रियमाणेऽप्यज्ग्रहणे पूर्ववप्रतिषेधो वक्तव्यः। अक्रियमाणे तस्मस्तेनैव यत्नेन नुड्? भविष्यतीति किं यत्नद्वयेन, तस्मादज्ग्रहणमनर्थकम्? ननु चेष्टवाची परशब्दः, इष्टवाचित्वाद्भविष्यति, अलं यत्नेन\/ असदेतत्, अवश्यं पूर्वविप्रतिषेधः परिगणयतव्यः, अन्यथेदमिष्टमिदमनिष्टमित्येतदेव न ज्ञायते। ननु च त्रपूणामित्यत्र पूर्वविप्रतषेधेन नुटि कृते नुम्? मा भूदित्येवमर्थमज्ग्रहणं कर्तव्यम्? नैतदस्ति; अस्त्वत्र नुम्? तस्य लोपो भविष्यति। नलोपस्य दीर्घविधावसिद्धत्वात्? `नामि` [[6.4.3]] इति दीर्घत्वमनजन्तत्वान्न स्यादिति चेत्? मा भूदनेन, <<नोपधायाः>> [[6.4.7]] इत्यनेन भविष्यति। इह तर्हि शुचीनामित्यतर <<इन्हन्पूषार्यम्णां शौ>> [[6.4.12]] इति नियमाद्दीर्घत्वं न स्यात्? नैतदस्ति; लक्षणप्रतिपदोक्तपरिभाषया (व्य।प।3) प्रतिपदोक्तस्येन्नन्तस्य स न#इयमः। अयञ्च नुमि कृते सतोन्नन्त इति लाक्षणिकत्वादेवास्य नियमेन प्रत्याख्यानं करिष्यते। एवं प्रत्याख्यातेऽज्ग्रहणे अत उत्तरतोऽज्ग्रहणस्य प्रयोजनं दर्शयितु माह - `उत्तरार्थं तु` इति। तुशब्दस्तह्र्रर्ते। तर्हिशब्दः पक्षान्तरोपन्यासे। यद्येतत्? प्रयोजनं नोपपद्यते, उत्तरार्थं तह्र्रज्ग्रहणं कर्तव्यम्। `इह तु करणस्य यत्प्रयोजनं तदुच्यताम्? इत्याह - `इह` इत्यादि। अपिशब्दोऽत्र गम्यमानार्थत्वान्न प्रयुक्तः। इहापि प्रयोजनमस्ति, किं पुनस्तत्? इत्याह - `त्रपो` इति। हे त्रपो इत्यस्योदाहरणस्य साधुत्वार्थमज्ग्रहणम्। अक्रियमाणे त्वज्ग्रहणे प्रत्ययलोपलक्षणमिहास्तीति न ज्ञाप्येत; यतश्च हे त्रपो इत्यत्र लुपतायां सम्बुद्धावुच्यमानो गुणो न स्यात्, अज्ग्रहणे सत्यत्रापि प्रत्ययलोपलक्षणो भवति। तस्मादेतदर्थमज्ग्रहणं कर्तव्यम्, उत्तरार्थञ्च॥", "71074": "`इगन्तं नपुंसकम्` इति। नपुंसकस्येक इत्यनुवर्तते। तच्च यद्यपि षष्ठन्तं प्रकृतम्, तथाप्येतदर्थाद्विभक्तिविपरिणामो भवतीति प्रथमान्तं सम्पद्यते। `पुंवद्भवति` इति। अस्यार्थं स्पष्टीकर्त्तुमाह - `यथा` इत्यादि। कथं पुनः `पुंवद्भवति` इत्यनेन प्रतिषेधातिदेशः शक्यते वक्तुम्। एवं मन्यते - पुंसि तृतीयादिष्वजादिषु न किञ्चित्? कार्यं विधीयते यन्नपुंसकेऽतिदश्येत। तस्मान्नपुंसकाश्रयस्य कार्यस्य पुंस्यभावात्? प्रतिषेधातिदेश एवायं विज्ञायते। एवमपि नुम्? एव प्रकृतस्याभावातिदेशः पक्षे स्यात्, ह्रस्वस्य; तस्याप्रकृतत्वात्, ततश्च ह्रस्वाश्रयाणि गुण नाभाव नुडौत्त्वात्त्वानि प्रसज्येरन् - <<घेर्ङिति>> [[7.3.111]] इत्यौत्त्वात्त्वम् - ग्रामण्यां ब्राआहृणकुल इति? नैतदस्ति; नुमभावमात्रातिदेशे ह्रतिदेश एवानरथकः स्यात्। नुम एव गालवस्य मतेन प्रतिषेधं कुर्यात्। तस्मादतिदेशासामर्थ्याद्? ह्रस्वाभावोऽप्यतिदिश्यते। `ग्रामणीब्र्राआहृणः, ग्रामाणि ब्राआहृणकुलम्` इति। भाषितपुंस्कत्वदर्शनार्थमिदमुक्तम्, न तूदाहरणम्। इदमत्रोदाहरणम् - `ग्रामण्या ब्राआहृणकुलेन` इति। अत्र पुंवद्भावेन ह्रस्वो न भवति, नुमपि। `एरनेकाचः` [[6.4.82]] इति ह्रस्वत्वम्, <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति नाभावः। `ग्रामणीनाम्` इति। पूर्वविप्रतिषेधेन नुटि कृते `नामि` [[6.4.3]] इति दीर्घत्वम्। न्नुचिशब्दस्य तृतीयैकवचनं नोदाहृतम्; विशेषाभावात्। सत्यसति वा पुंवद्भावे <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति नाभावेन भवितव्यम्। `शुचये` इति। पुंवद्भावपक्षे न नुम्, <<घेर्ङिति>> [[7.3.111]] इति गुणः। `शुचिने` इति। पुंवद्भावाभावपक्षे नुम्। `ग्रामणिनी ब्राआहृणकुले` इति। पुंवद्भावाभावादिह ह्रस्वनुमौ भवतः। `त्रपुणे, जतुने` इति। सर्वकालं नपुंसकत्वमेवानयोरिति भाषितपुंस्कत्वाभावः। तेनात्र पुंवदेभावाभावान्नुम्भवत्येव। `इह कस्मान्न भवति` इति। भाषितपुंस्कशब्दस्य बहुव्रीहेः शब्दोऽन्यपदार्थः। पोलुशब्दश्चायं पुंसि वृक्षे वर्त्तित्वा पीलोर्विकारः फलमिति विवक्षिते सति `ओरञ्` [[4.2.70]] इत्यागतस्याञः <<फले लुक्>> [[4.3.163]] इति लुक्? क्रियते, तदा नपुंसके फले वर्तत इति भाषितपुंस्को भवति, न चेह कश्चिद्विशेष उपात्तः, तस्माद्भवितव्यमेदात्र पुंवद्भावेनेति मन्यमानस्य प्रश्नः। `समानायामाकृतौ` इत्यत्तरम्। अस्यैवार्थं स्पष्टीकर्त्तुमाह `तुल्य प्रवृत्तिनिमित्ते` इति। अत्र `तस्य पुंवद्भावो विधीयते` इत्यध्याहार्यम्। आक्रियेते व्युत्पाद्येते परिच्छिद्येते अनया वृद्धिशब्दादिति `आकृतिः`। शब्दस्य प्रवृत्तिकारणमिहाकृतिरभिप्रेता, न सन्निदेशः, नापि जातिमात्रम्। तस्मस्तु तुल्ये प्रवृत्तिनिमित्ते यद्भाषितपुंस्कं तस्य पुंवद्भावो विधीयते। तथा च - ग्रामणीशब्दस्य, शचिशब्दस्य च समासे प्रवृत्तिनिमत्ते पुंवद्भाव उदाहृतः, यथा - ग्रामणीशब्दस्य पुंसि नपुंसके च वर्तमानस्य ग्रामनयनं प्रति कर्त्तुत्वं समानाकृतिः प्रवृत्तिनिमित्तम्। शुचिशब्दस्यापि शुचित्वं गुणः तत्रैवैतत्? स्यात्। इहापि समानैवाकृतिः? इत्याह - `इह तु` इत्यादि। तु शब्द#ओ ग्रामणीशब्दादेर्विशेषं दर्शयति। अनेन पीलुशब्दस्य भिन्नायामाकृतौ भाषितपुंस्कत्वं दर्शयति। वृक्षाकृतिः=वृक्षजातिः। फलाकृतिः=फलजातिः। तदेवं समानायामाकृतौ यद्भाषितपुंस्कं तस्य पुंदद्भावो विधीयते। न तु पीलुशब्दः समानायमाकृतौ भाषितपुंस्क इति न भवति तस्य पुंवद्भावः। `तदेतदेवम्` इत्यादि। यदेतदुक्तम् - `समानायमाकृतौ` इत्यादि, तदेतदेवम्प्रकारमर्थरूपं कथम्भवति? न कथञ्चिदित्यर्थः। `समानायामाकृतौ` इत्यस्य विशेषस्यानुपादानादित्यभिप्रायः। `भाषितपुंस्कग्रहणात्` इत्यादिना यथैतदेव भवति तथा दर्शयति। शब्दे ह्रन्यपदार्थे समाश्रीयमाणे सत्येतन्नोपपद्यते। न चात्र शब्दोऽन्यपदार्थत्वेनाश्रितः, किं तर्हि? अर्थः। सोऽपि न सर्वः, अपि तु प्रत्यासत्तेर्यस्य शब्दस्य यत्? प्रवृत्तिनिमित्तं स एव विज्ञायत इति स एव भाषितपुंस्कशब्दोनोच्यते; अन्यथा सर्व एव ह्रर्थो भाषितपुंस्को भवति, अन्ततोऽर्थशब्देनापि भाषितपुंस्कत्वसम्भवात्। तत्र यदि येन केनचिच्छब्देन यो भाषितपुंस्कः स इहाश्रीयते, तदा भाषितपुंस्कग्रहणमनर्थकं स्यात्; व्यावर्त्त्याभावात्। तस्माद्यस्य नपुंसकाभिधायिनः शब्दस्य पुंवद्भाव इह विधातुमिष्टस्तेनैव स्वमिन्? प्रवृत्तिनिमित्ते पुमान्? भाषितः, स एव भाषितपुंत्कोऽत्राक्षीयते। `तेद्योगात्` इत्यादि। तेन प्रवृत्तिनिमित्तलक्षणेनार्थेन योगात्? सम्बन्धादभिधेयं यन्नपुंसकं तदपि भाषितपुंस्कमितयुच्यते। भवति हि तद्योगात्? ताच्छब्द्यम्, यथा - यष्टीः प्रवेशयेति। योगः पुनरत्र समवायसमवायिलक्षणः; शब्दप्रवृत्तिनिमित्तस्यार्थस्य नपुंसकेन समवायात्। `यत्? तस्य` इत्यादि। तस्य नपुंसकस्य यत्? प्रतिपादकं शब्दरूपं तदापि भाषितपुंत्केन नपुंसकेन योगाद्भाषितपुंस्कमित्युच्यते। योगः पुनरनयोर्वाच्यवाचकभावः। तत्र यद्यपि सूत्रेऽर्थो भाषितपुंस्कशब्देनोपात्तः, तथाऽप्यर्थे कार्यासम्भवात्? यथोक्तन प्रकारेण यो भाषितपुंस्कः शब्दस्तस्यैवायं पुंवद्भावो विधीयते, एवञ्च स विधीयमानः समानायामाकृतौ यो भवितपुंस्कः शब्दः सामर्थ्यात्? तस्य भवतीति विज्ञायते। यो ह्रेवं भाषितपुंस्केन शब्दप्रवृत्तिनिमित्तेन सम्बद्धं नपुंसकमाह स नियोगतः समानायामाकृतौ भाषितपुंस्को भवति। यथा स एव ग्रामणीशब्दः, शुचिशब्दश्च। पीलुशब्देन यत्र भाषितः पुमान्? प्रवृत्तिनिमित्ते वृक्षाकृतौ न तत्सम्बद्धमसौ नपुंसकमाह। किं तर्हि? फलाकृतिसम्बन्धम्। तस्मात्? पीलुशब्दो न समानायामाकृतौ भाषितपुंस्क इति न भवति तस्य पुंवद्भावः। `कीलालपा` इति। `अतो मनिन्क्वनिब्वनिपश्च` [[3.2.74]] इति विच्। कोलालपाशब्दोऽयं समानायामाकृतौ भाषितपुंस्कः - उभयत्रापि वर्तमानः कीलालपात्वं प्रवृत्तिनिमित्तमादाय प्रवर्तत इति कृत्वा। इगन्तस्तु न भवतीति न भवति पुंवद्भाव; तेन ह्रस्वत्वं भवत्येव। तस्मिन्? सतदि <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इतीनादेशे कृते कीलालपेनेति भवति। यदि पुनरत्र पुंवद्भावः स्यात्? तदा ह्रस्वत्वं न स्यात्, ततश्च <<आतो धातोः>> [[6.4.140]] इत्यकारलोपे कृते कोलालापेति स्यात्॥", "71075": "<<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमि प्राप्तेऽस्ध्यादीनामनङ विधीयते। ङकारोऽन्त्यादेशार्थः। अकार उच्चारणार्थः। अस्थ्यादयश्चैते `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्ताः, शेषमनुदात्तम्। तत्रानङ्? विधीयमानः स्थानिवद्भावादनुदात्तत्वं प्राप्नोतीत्युदात्तत्वामुच्यते - नब्विषयस्येति। नपुंसकविषयस्येत्यर्थः। `अस्थ्ना` इति। अनङि कृते <<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपः। `एतैः` इत्यादि। कथं पुनरोतल्लभ्यते, यावता प्रकृतस्यास्थ्यादिभिर्विशेषणाद्विशेषणेन तदन्तविधिरिति विज्ञानात्? `अङ्गाधिकारे तस्य सदुत्तरपदस्य` (पु।प।वृ।85) इति वचनाद्वा यद्यपि तदन्तविधिर्भवति, तथापि सत्यपि तस्मिन्नस्थ्याद्यन्तत्यानपुंसकस्य ग्रहणं नोपपद्यते, नपुसकस्येत्यनुवृत्तेः? नैष दोषः; न ह्यत्र नपुंसकेनाङ्गं विशिष्यते, अपि तु श्रुतत्वादस्थ्यादय एव। एवञ्च तदन्तस्याङ्गस्य लिङ्गान्तरेपि वर्तमानस्यास्थ्यादीनां नपुंसकत्वं विद्यत एव। तेन नपुंसके ये वर्तन्तेऽस्थ्यादयस्तदन्तस्यानपुंसकेऽपि वर्तमानस्य ग्रहणमुपपन्नं भवति। यदि तर्हि तदन्तस्य ग्रहणम्, केवलानां न सिध्यति? अयमप्यदोषः; व्यदेशिवद्भावात्? केवलानां न भविष्यति। `व्यपदेशिवद्भावोऽयतिपदिकेन` (शाक।प।65) इत्येषा परिभाषा प्रत्ययविधिविषयेतीह नोपतिष्ठत एव। नपुंसकेनास्थ्यादिविशेषणं किम्? यदा ते पदुच्छाशब्दाः सन्तोऽपि लिङ्गान्तरे वर्तन्ते तदा मा भूत् - दधिर्नाम कश्चित्? तेन दधिनेति॥", "71076": "`यतो विहितः` इत्यादिनाऽपिशब्दस्य सर्वोपाषिण्यभिचारार्थतां दर्शयति। `अस्थभिः` इति। अनङि कृते नलोपः। `अस्थान्युत्कृत्य` इति। शस्यनङ्। `अक्षण्वता` इति। अत्रापि मतुपि <<अनो नुट्>> [[8.2.16]] इति नुल्यम्। द्वितीयान्तमेतत्। `यदनस्थः` इति। अस्थि यस्य नास्तीति सावनङ, `सर्वनामस्थाने च` [[6.4.8]] इति दीर्घः॥", "71077": "चकारश्छन्दसीत्यनुकर्षणार्थः। `अक्षी ते` इति अक्षि औ इति स्थिते <<नपुंसकाच्च>> [[7.1.19]] इति शीभावः, ईकारे कृते <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इती दीर्घः, <<दीर्घाज्जसि च>> [[6.1.105]] इति प्रतिषिद्धोऽपि छान्दसत्वाद्भवति। ननु सवर्णे दीर्घत्वेनाऽप्येतत्? सिद्ध्यति? यद्यपि रूपं सिद्ध्यति, उदात्तत्वं तु न सिध्यति। एतेनोदत्त ईकारो विधीयते। अथ वा - रूपमपि न सिध्यति। पूर्वसवर्णाद्धि परत्वात्? पूर्वं नुमि कृते नैव सवर्णदीर्घः स्यात्। अथाक्षी इत्यत्र <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुम्? कस्मान्न भवति? इत्याह - `अक्षी इत्यत्र` इत्यादि। नुमोऽवकाशः - त्रपुणे, जतुन इति इकरस्यावकाशः - अक्षीभ्यमिति; प्रथमाद्विवचन उभयप्रसङ्गे परत्वादीकार एव भवति। अथेदानोमीकारे कृते पुनःप्रसङ्गविज्ञानान्नुम्? कस्मान्न भवति? इत्याह - `सकृद्गतो इति॥", "71078": "`उदत्त, ददत्तौ` इति। `श्नभ्यस्तयोरात्तः` [[6.4.112]] इत्याकारलोपः। अक्षितिजागर्त्त्याः <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यभ्यस्तसंज्ञा। कथं पुनरयं नुमः प्रतिषेधो विज्ञायते, यावता `अनन्तस्य विधिर्वा भवति प्रतिषेधो षा` (व्या।प।19) इतीकारस्य प्रतिषेधो युक्तः? इत्याह - `शतुरनन्तरः` इत्यादि। लक्षणान्तरेण विहितस्य प्रतषेधो भवति, न तु शतुरनन्तर ईकारः केनचिद्विहितः। अङ्गस्येति वर्तते, न च नुमोऽन्यत्? कार्यं शतुः सम्भवति। अतः सामर्थ्याद्व्य वहितस्यापि `उगिवचाम्` [[7.1.70]] इति नुमः प्रतिषेधो विज्ञायत इति॥", "71079": "शतुप्रत्ययमात्रं नपुंसके न वर्तत इत्यभ्यस्तादह्गादुसरो यः शता तदन्तस्य नपुंसकस्य विकल्पो विज्ञायत इत्याह - `अभ्यास्तादङ्गात्` इत्यादि॥", "71080": "`तदुन्ती कुले` इति। <<नपुंसकाच्च>> [[7.1.19]] इति शीभावः। `तुदती ब्राआहृणी` इति। <<उगितश्च>> [[6.3.45]] इति ङीप्, `याती ब्राआहृणी` इति। अवादित्वाच्छपो लुक्, <<उगितश्च>> [[6.3.45]] इति ङीप्। `करिष्यन्ती कुले` इति। `लृटः सद्वा` [[3.3.14]] इति शत्रादेशः, <<ऋद्धनोः स्ये>> [[7.2.70]] इतीट्। `अत्रान्तरङ्गत्वात्` इत्यादि चोद्यम्। अकारान्तादङ्गात्? परे शतरि व्यवस्थिते ईकारे च किं नुम्? क्रियताम्? उत्तैकादेशः? अत्रान्तरङ्गत्वात्? <<अतो गुणे>> [[6.1.97]] पररूपमेकादेशः। अन्तरङ्गत्वं पुनस्तस्य वर्णाश्रयत्वाकत्? नुमस्तु बह्वपेक्षत्वाद्बहिरङ्गत्वम्। स ह्रकरान्तमङ्गं शतृप्रत्ययान्तं ततश्च परतः शीनद्योर्भावमपेक्षते। `वार्णादाङ्गम्` (व्य।प।39) इत्यादीह नास्ति; भिन्नकालत्वात् - शीनद्योर्हि परभावे सति नुम्? प्राप्नोति, एकादेशस्तु ततः प्रागेव। `यत्र च वार्णाङ्गयोर्युगपत्? प्राप्तिः, तत्रेयमुपतिष्ठते` इत्युक्तं प्राक्। व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति शक्यते वक्तुम्। भेदे हि सत्यवध्यवश्रिमतोरिदमस्मादुत्तरमिदञ्च पूर्वमित्येव व्यवहारो भवति, नान्यथा। स्यादेतत् - <<अन्तादिवच्च>> [[6.1.85]] इत्यन्तादिवदभावेनैकादेशः पूर्वं प्रत्यन्तवद्भवति परञ्च प्रत्यादिवदित्येकादेशस्य पूर्वं प्रत्यन्तत्त्वात्? परञ्च प्रत्यादिवत्त्वाद्युज्यत एवावर्णादङ्गादुत्तरस्य शतुः? इत्याह - `उभयत आश्रये` इत्यादि। अत्र ह्रकारान्तमङ्गं शता चोभयमाश्रितम्। `उभयत आश्रये` इत्यादि। अत्र ह्रकारन्तमङ्गं शता चोभयमाश्र#इतम्। `उभयत आश्रये नान्तादिवत्` (व्या।प।51) इति नास्त्यन्तादिवद्भावः। न ह्रेकस्यैकदा पूर्वं प्रत्यन्तवद्भावः परञ्च प्रत्यादिवद्भाव उपपद्यते। तथा हि - यदि पूर्वं प्रत्यन्तवद्भवति, तदा शतृरूपं न सम्पद्यते; अथ परं प्रत्यादिवद्भवति, तदाऽकारान्तताऽङ्गस्य न परिकल्प्यते; उच्यते चेदमाच्छीनद्योर्नुमिति, न चवर्णान्तादङ्गादुत्तरः शता क्वचित् सम्भवति; तत्र वचनप्रामाण्याद्भूतपूर्वगतदिराश्रीयते - अवर्णान्तादुत्तरो यः शत पूर्वमासीदिति। अत आह - `भूतपूर्वगत्या` इत्यादि। यदि हि भूतपूर्वगतिराश्रीयते, अवती, ध्नतीत्यादावतिप्रसङ्गः स्यात्; अत्राप्यवर्णान्तादङ्गादुत्तरः शता पूर्वमासीत्? इत्याह - `अत्र केचित्समाधिमाहुः` इति। समाधिः=परीहारः। परीहारश्च - शतुरवयव इति। शतुरवयवस्तकारः। तत्रेह शतृशब्दो वर्तते, यथा - पटो दन्ध इत्यत्र पटावयवे पटशब्दः, समुदायेषु प्रवृत्ताः शब्दाः क्वचिदवयेष्वपि वर्तन्त इति। स च शत्रवयव एकादेशे हि कृतेऽवर्णान्तादङ्गादुत्तरो भवतीति `अन्तरङ्गत्वादेकादेशे कृते` इत्यादिना यत्? कृतञ्चोद्यं तत्? परिह्मतं भवति। किं पुनरनच्कसय तकारस्य नुम्? रुथञ्च नुम्? स्यात्? कथञ्च न स्यात्? <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति वचनात्। मा भूत्? तकारस्य, तदन्तस्य भविष्यति। एवञ्च सूत्रार्थं वर्णयिष्यामः - अवर्णान्तादङ्गादुत्तरो यः शत्रवयवस्तदन्तस्याङ्गस्य नुम्? भवतीति। अङ्गग्रहणञ्च द्विरावर्तयिष्यामः - अवर्णान्तादङ्गदुत्तरो यः शत्रवयवस्तदन्तस्याङ्गस्य नुम्? भवतीति। अङ्गग्रहणञ्च द्विरावर्तयिण्यामः - शत्रवयवविशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थञ्च। कथं पुनस्तुदतीत्यादी तकारात्? पूर्वस्याङ्गत्वम्, यावता यतः प्रत्ययो विहितस्तदादेः प्रत्यये परतोऽङ्गसंज्ञा, न च तकारः प्रत्ययः असत्याञ्चाङ्गसंज्ञायां यदुक्तमवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति तन्नोपपद्यते? नैष दोषः; यथैव हि शत्रवयवे शतृशबदो वर्तते, तथाङ्गवयवे तकारात्? पूर्वस्मिन्नङ्गशब्दः। किं पुनस्तदङ्गम्? यस्यावयवः शत्रन्तम्। तस्य हि शौनद्योः परतोऽङ्गत्संज्ञा विधीयते। इहापि तर्हि कस्मान्न भवति - अदती, ध्नतीति, अत्रापि ह्रवर्णान्तादङ्गादुत्तरः शत्रवयदो भवति? यद्यत्रापि स्यात्, आदिति विशेषणमनर्थकं स्यात्, शीनद्योरित्येवं ब्राऊयात्। यत्र च शीनद्योः परतः शत्रन्तमङ्गं भवति, तत्र नियोगत एवाकारान्तादङ्गादुसरो शत्रवयवो भवति। तस्मात्? `आतः` इति विशेषणोपादानसामर्थ्यात्? विशेषपरिग्रहो विज्ञायते - शत्रवयवदकारात्? पूर्षो योऽकारस्तदन्तादुत्तरो यः शत्रवयव इति नेह नुमः प्रसङ्गः। `अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ` इति। अत्रापि पूर्ववदङ्गावयवेऽङ्गशब्दो वर्तते। ननु च तुदन्तीत्यादाववर्णान्तादङ्गादुत्तरे शीनद्यौ न सम्भवत एव; तकारेण व्यवधानात्? इत्याह - `तत्र येन` इत्यादि। गतार्थम्। अथ नुम्यनुवर्तमाने किमर्थ पुनर्नुम्ग्रहणम्? नेति, वेति च प्रकृतम्। तत्र नुम्ग्रहणमन्तरेणानिष्टमपि विज्ञायते - शीनद्योर्विभाषा नुमवर्णान्तान्न भवतीति। किञ्च स्यात्? कुर्वती, तन्वतीत्यत्र विभाषा स्यात्, करिष्यन्तीत्यत्र न स्यात्। केन पुनः प्राप्तस्य नुमः शोनद्योः प्रतिषेधः क्रियते? एतदेव ज्ञापयति - अस्तिशीनद्योर्दिभाषा नुमिति। नुम्ग्रहणे तु क्रियमाणे विधिरेवायं विज्ञायत इत्यदोषः॥", "71081": "", "71082": "", "71083": "`ईदृङ्, कीदृङ्` [नास्ति - काशिकायाम्] इति। `त्यदादिधु` [[3.2.60]] इत्यादिना क्विन्, <<इदङ्किमोरीश्की>> [[6.3.90]] इतीश्की - आदेशो, हल्ङ्यादिसंयोगान्तलोपौ (6.1.70,8.2.23), <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वाम्। `यावृङ्, तादृङ्` इति। <<आ सर्वनाम्नः>> [[6.3.91]] इत्यात्वम्। `सदृङ्` इति। `दृग्दुशवतुषु` [[6.3.88]] इति समानस्य सभावः॥", "71084": "`द्यौः` इति। औत्त्वे कृते यणादेशः। इहाक्षद्यूरित्यक्षैर्दीष्यतीति क्विपि कृते तदाश्रये चान्तरङ्गत्वात्? `च्छ्वोः शूजनुनासिके च` [[6.4.19]] इत्युठ्। एकदेशविकृतसयानन्यत्वाद्दिव्शब्दं एवायमित्यूकगारस्योत्त्वं प्राप्नोति, तत्? कस्मान्न भवति? इत्याह - `दिविति प्रातिपदिकम्` इत्यादि। अस्त्येवायं दिव्शब्दो धातुः, अस्ति चाव्युत्पन्नं प्रातिपदिकम्। तत्र धातुः सानुबन्धकः, अस्य <<उदितो वा>> [[7.2.56]] इत्युदित्कार्यम्। प्रातिपदिकं तु निरनुबन्धकम्, न हि तस्य किञ्चिदनुबन्धकार्यमस्ति। तत्र निरनुबन्धकपरिभाषया (व्या।प।56) धातुरिह गृह्रते। तेनान्नद्युरित्यत्र न भवत्योत्त्वप्रसङ्गः। तकारो मुखसुखार्थः॥", "71085": "हल्ङ्यादिलोपे प्राप्ते नलोपे चात्त्वं विधीयते। `पन्थाः` इति। <<थो न्थः>> [[7.1.87]] इति न्यादेशः, `इतिऽसर्वनामस्थाने` [[7.1.86]] इत्यत्त्वम्। ननु चास्य स्थान्यनुनासिको नकारः, तत्र <<तपरस्तत्कालस्य>> [[1.1.70]] इति सवर्णानां ग्रहणे सत्यान्तरतम्यादनुनासिकेनैवाकारेण भवितव्यम्। किमिह शुद्धोऽयमुदाह्यियते? इत्याह - `स्थानिन्यनुनासिकेऽपि` इत्यादि। अत्रैव कारणमाह - `भाव्यमानः` इत्यादि। यदि च तपरेणापि भाव्यमानेनाणा सवर्णानां ग्रहणं न भवति, एवं सति `विङ्वनोरनुनासिकस्यात्` [[6.4.41]] इत्यत्रापि न स्यात्, तथा <<जनसनखनां सञ्झलोः>> [[6.4.42]] इत्यत्रानुनासिकाकारो न स्यात्। एवं तर्हि नैवायमाकारस्तपरः, किं तर्हि? दकारः। दकारस्तु मुखसुखार्थः, स चर्त्वभूतत्वान्न श्रूयते। स्यादेतत् - यद्यपि भाव्यमानोऽण्? सवर्णान्न गृह्णातीति (व्या।प।35) सवर्णानां ग्रहणं न भविष्यति, तथाप्यनुनासिकविशिष्टस्योच्चारणादनुनासिकेनैव युक्तं भवितुम्? इत्याह - `शुद्धो हि` इत्यादि। अयं ह्रकारः शुद्धो निरनुनासिक उच्यते तस्माच्छुद्ध एवेति नानुनासिकविशिष्टः। अथायं किमर्थं दीर्घ उच्यते, न ह्रस्व एव क्रियताम्, अत्रापि `अकः सवर्णे` [[6.1.101]] इति दीर्घत्वेन सिध्यत्येव? न सिध्यति; <<अतो गुणे>> [[6.1.97]] इति पररूपत्वं स्यात्। अकारोच्चारणसामर्थ्यान्न भविष्यतीति चेत्? न; अस्ति ह्रन्यदकारोच्चारणस्य प्रयोजनम्। किं तत्? नकारस्य श्रवणं न स्यादिति। लोपो हि क्रियमाणे गौरवं स्यात्, तस्माद्दीर्घो विधीयते॥", "71086": "अथ `आत्` [[7.1.85]] इत्यनुवर्तमाने किमर्थमद्वचनम्, ह्रस्वस्य श्रवणं यथा स्यादिति चेत्? नैतत्; कृते हि ह्रस्वत्वे सौ परतौऽकः सवर्णे दीर्घत्वेन [[6.1.97]] भवितव्यमन्यत्र <<नोपधायाः>> [[6.4.7]] इत्यनेन, तत्कुतो ह्रस्वस्य श्रवणम्? इत्याह - `आदिति वर्तमाने` इत्यादि। षपूर्वोऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्। कथं पुनरिवं षपूर्वार्थं भवति? इत्याह - `ऋभुक्षणम्` इत्यादि। यदि प्रकृतो दीर्घ एव विधीयते, तदा ऋभुक्षमिन्द्रमित्यत्र ह्रस्वस्य श्रवणं न स्यात्। ह्रस्वविधाने तु <<वा षपूर्वस्य निगमे>> [[6.4.9]] इति दीर्घविधानात्? पक्षे भवति। स्थानिन्यादेशे च तपरकरणं मुखसुखार्थमित्येके। पथीरित्यत्र दीर्घनिवृत्त्यर्थमितयन्ये। पन्थानमिच्छति <<सुप आत्मनः क्यच्>> [[3.1.8]] , `अकृत्सार्वधातुकयोः` [[7.4.25]] दीर्घः - पथीयति; पथीयतेः क्विप्, <<अतो लोपः>> [[6.4.48]] इत्यल्लोपः, <<क्यस्य विभाषा>> [[6.4.50]] इति यकारसय लोपः - पथीः॥", "71087": "थः, न्थः - इति द्वावपि स्थान्यादेशावनच्कौ। यत्त्त्वन्थ इत्यत्राकारः श्रूयते स उच्चारणार्थः। सत्यप्यादेशस्यानेकाल्त्वे `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इति थकारमात्रस्यादेशो विज्ञायते, न सर्वस्य॥", "71088": "`सर्वनामस्थाने` इत्यादि। <<यचि भम्>> [[1.4.18]] प्रत्यत्र <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यतः `असर्वनामस्थाने` इत्यनुवर्तमाने भसंज्ञा विहिता, तत्र यदि सर्वनामस्थाने परतः पथ्यादीनां टिलोपः स्यात्, तदा भसंज्ञकास्ते न स्युः, अथ भसंज्ञकास्ते स्युस्तदा सर्वनामसथानं परं तेब्यो न स्यादिति भसंज्ञकानां सर्वनामस्थानस्य च सहानवस्थानलक्षणो विरोधः। तस्माद्यद्यप्युत्तरार्थं सर्वनामस्थानग्रहणमनुवर्तते, तथापीह नाभिसम्बध्यते॥", "71089": "असुङो ङकारोऽन्त्यादेशार्थः। उकार उगित्कार्यार्थः। `पुमान्` इति। `उगिदचाम्` [[7.1.70]] इत्यादिना नुम्, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। `इह परमपुमान्` इत्यादि। परमश्चासौ पुमांश्चेति <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यादिना समासे कृते यावद्विभक्तिर्नोत्पद्यते तावदसुङादेशेन न भवितव्यम्; तस्य तदाश्रयत्वात्। समासान्तोदात्तत्वं तु न किञ्चिदपेक्षत इति अन्तरङ्गत्वात्? प्रागेव विभक्तेरन्तोदात्तत्वं भवति। पश्चादुत्पन्नायां विभक्तावसुङ् अस्वरस्य व्यञ्जनस्य स्याने भवन्न नियतस्वरः स्यात्? ततश्चानिष्टोऽपि स्वरः प्राप्नोति, अन्तोदात्तमेव चोत्तरपदमिष्यते, आद्युदात्तत्वं प्राप्नोति। `तदर्थम्` इत्यादि। अर्थशब्दो निवृत्तिवाची, यथा - मशकार्थो धूम इति। तदर्थं तस्यानिष्टस्य स्वरसय निवृत्त्यर्थमुपदेशिवद्ववचनं कर्तव्यम्, अकृते समासान्तोदात्तत्वं उपदेशावस्थायामेव विभक्त्युत्पत्तेः प्रागसुङ्? यथा स्यात्। तेनासुङि पूर्वं कृते पश्चात्? समासान्तोदात्तत्वेन परमपुमानित्ययं शब्दोऽन्तोदात्तो भवति। यद्येवम्, पुमानित्ययं शब्दोऽप्यन्तोदात्तः स्यात्, उपदेशावस्थायामेवासुङि कृते पश्चात्? प्रातिपदिकस्वरेण भवितव्यम्? इत्याह - `पुमानित्ययं पुनः` इत्यादि। पुम्स्शब्दोऽयं पुनातेः `मुक्सुनो ह्रस्वश्च` (द।उ।9।48) [पातेः डुम्सुन्-द।उ। पातेडुस्सुन्? पं।उ।4।177] इति मुक्सुन्प्रत्ययान्तो व्युतपादितः। तेन नित्स्वरेणायमाद्युदात्तो भवति, नान्तोदात्तः॥", "71090": "णिदिति संज्ञा वाऽनेन क्रियते - गोतः परं सर्वनामस्थानं णिद्भवति, णित्संज्ञं भवतीत्यर्थः; अथ वा - गोतः परस्य सर्वनामस्थधानस्य णकार इत्संज्ञको भाव्यते, तेन गोतः परसक्य सर्वनामस्थानस्य णकार इत्संज्ञको भवतीति; आदेशो वा विधीयते - गोतः परस्य सर्वनामस्थानस्य णिणकारानुबन्धवानादेशो भवति; अतिदेशो क्रियते - गोतः णिद्भवति, णिद्वद्भवतीत्यर्थः, विनापि वतिना वत्यर्थो गम्यते, यथा - गाङकुटादिसूत्रे [[1.2.1]] । तत्राद्ये पशे संज्ञोच्चारिता संज्ञिनं प्रत्याययतीति णित्प्रदेशेषु कृत्रिमत्वादस्यैव सर्वनामस्थानस्य ग्रहणं प्राप्नोति, न ण्वुलादीनाम्। द्वितीये तु णकार इत्संज्ञकः सर्वनामस्थानस्य प्रसज्येत। तृतीये तु पुनर्णित्? सर्वनामस्थानं न क्वचिद्दृष्टमिति। य एवैते ष्वुलादयस्य एवादेशाः प्रसज्येरन्नित्येते दोषा आद्येषु त्रिषु पक्षेषु यथाक्रमं प्रतिविधेयाः। तत्प्रतिविधाने प्रतिपत्तिगौरवं स्यात्, अतिदेशपक्षे तु न किञ्चित्? प्रतिविधेयम्, अतः स एव साधुरिति। तमेवाश्रित्याह - `गोशब्दात्` इत्यादि। `णित्कार्यम्` इत्यादिना णिद्भवतीत्यस्यार्थं व्याचक्षणः कार्यातिदेशोऽयमित्याचष्टे। गौरिति वृद्धिर्णित्कार्यम्। `चित्रगुः` इति। यत्र बहुव्रीहौ कृते <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वः। तत्रासति तपरकरणे `अङ्गाधिकारे तस्य तदुत्तरपदस्य` (पु।प।वृ।85) इति वचनात्तदन्तविधिमभ्युपगम्य स्थानिवद्भावेन गोशब्दान्तमेतदङ्गं भवतीति णिद्भावः प्राप्नोति। तपकरणे तु ततकालनियमे सति न भवति; भिन्नकालत्वात्। <<तपरस्तत्कालस्य>> [[1.1.70]] इत्यत्राण्ग्रहणस्य निवृत्तत्वादनणोऽपि तत्कालनियमो भवत्येव। `कथम्` इत्यादि। सत्यपि तपरकरणं `ह्रस्वस्य गुणः` [[7.3.108]] , `जसि च` [[7.3.109]] इति सम्बुद्धिजसोर्गुणे कृते हे चित्रगो, हे चित्रगव इत्यत्र प्राप्नोति। तत्कालत्वादित्यभिप्रायः। ननु च लक्षमप्रतिपदोक्तपरिभाषया (व्या।प।3) न भविष्यति? नैतदस्ति; यत्र हि स्थानिवद्भावस्तत्रैवा नोपतिष्ठते; अध्यया हि स्थानिवद्भावोऽनर्थकः स्यात्। `अङ्गवृत्ते पुन` इत्यादि परीहारः। एष तु हे चित्रगवित्यत्र परीहारः, न तु चित्रगव इत्यत्र; अनिष्ठितत्वात्। अवादेशे हि कृते निष्ठितत्वमत्र भविष्यति, न च गुणमात्रे; अप्रयोगार्हत्वात्। अत एवाव्यापकत्वादस्य परीहारस्यापरितुष्यन्? परिहारान्तरमाह - `अथ वा` इत्यादि। स्यादेतत् - अत्रापि गोः सम्बन्धि सर्वनामस्थानमानन्तर्यलक्षणेन भवति सम्बन्धेनेति\/ अत आह - `यच्च` इत्यादि। यद्यानन्तर्यलक्षणेन गोः सम्बन्धि सर्वनामस्थानं गृह्रते तदा षष्ठआश्रयणामनर्थकं स्यात्, पञ्चम्येवाश्रयितव्येति; क्रमव्यतिक्रमे प्रयोजनाभावात्। तस्मात्? षष्ठआश्रयणसामर्थ्याद्गोशब्दस्यार्थस्य य एकात्वादयस्तेषु यत्सर्वनामस्थानं तद्गोः सर्वनामस्थानमित्युच्यते। तत्? पुनर्गोशब्दस्यैकत्वादीनां वेदितव्यम्। आदिशब्देन द्वित्वादिपरि ग्राहः। तत्रैतत्? स्यात् - चित्रगुशब्दादपि यत्? सर्वनामस्थानं तद्गोशब्दस्यार्थस्यैकत्वादिषु वर्तते? इत्याह - `चित्रगुशब्दात्` इत्यादि। यदि यद्गोः सम्बन्धि सर्वनामस्थानं तस्य णिद्भावो विधीयते, तदा तपरकरणमनर्थकं स्यात्, तद्धि चित्रगुरित्यादौ मा भूदित्येवमर्थं क्रियते। न चात्र प्राप्तिः, न ह्यत्र गोः सम्बन्धि सर्वनामस्थानम्, किं तर्हि? अन्यपदार्थस्येत्याह - `तपरकरणं` तु इत्यादि। `केचित्` इत्यादि। किमर्थं पुनस्त एवं पठन्ति? इत्याह - `द्योशब्दोऽपि` इत्यादि। य त्वेदं न पठन्ति `गोतः` इति, तेषां द्योशब्दात्? परस्य सर्वनामस्थानस्य णिद्भावो न सिध्यतीत्याह - `गोत इत्येतदेव` इत्यादि। कथं पुनरेतदोकारान्तोपलक्षणार्थं शक्यं विज्ञातुम्? इत्याह - `वर्णनिर्देशेषु` इत्यादि। यथा <<वृद्धिरादैच्>> [[1.1.1]] , `अदेङ्गुणः` [[1.1.2]] इत्यवमादिषु योगेषु वर्णस्तपरो निर्दिश्यत इति तपरकरणं वर्णनिर्देशेषु हि प्रसिद्धम्। तस्मादिहापि तपरनिर्देशात्? `गोतः` इत्येतदोकारान्तोपलक्षणं द्रष्टव्यमिति। अतो वचनात्? तपरकरणं वर्णनिर्देशार्थ मेवेत्यस्यैवौकारान्तोपलक्षणार्थं विज्ञायते॥", "71091": "`णित्कार्यं वा भवतोत्यर्थः` इति। अनेन णित्कार्यस्य पक्षेऽबावाण्णिद्वा भवतीत्युच्यते, न तु णित्त्वस्यैव प्रतिषेध इति दर्शयति। न तु णल उपदेशावस्थायां सिद्धं णित्त्वं तद्वचनशतेनापि शक्यं तिषेद्धुमिति भावः। `चकार, चकर` इति। यदा णित्त्वं तदा <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः, अन्यदार्धधातुकलक्षणो गुणः। `पपाच, पपच` इति। यदा णित्त्वं तदा `अकत उपधायाः` [[7.2.116]] इति वृद्धिः, अन्यदा तदभावः॥", "71092": "`असम्बुद्धौ` इति पर्युदासः - सम्बुद्धेरन्याऽसम्बुद्धिः। `हे सखे` इति। `ह्रस्वस्य गणः` [[7.3.108]] इति गुणः॥", "71093": "पूर्वेण णित्त्वे प्राप्तेऽनङ्? विधीयते। तस्य ङकारोऽन्त्यादेशार्थः। अकार उच्चारणार्थः। `सखा` इति। <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति दीर्घः, हल्ङ्यादिसुलोपः, [[6.1.66]] , <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारस्य। आकारे विदातव्येऽनङ्वचनं सोर्लोपो यथा स्यात्। अकारविधाने तस्य लोपो न स्यात्, यथा - पन्था इति॥", "71094": "ऋकारान्तस्य <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणे प्राप्ते। इतरेषामपि हल्ङ्यादिलोपे [[6.1.66]] कृते रुत्वविसर्जनीयसान्तदीर्घेषु प्राप्तेषु। `उशनसः सम्बुद्धावपि पक्ष इष्यते` इति। तत्कथम्? चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः। तेन तम्बुद्धावप्युशनसोऽनङ्? भविष्यति। यद्येवम्, नित्यं स्यात्? नैतत्; <<णलुत्तमो वा>> [[7.1.91]] इत्यधिकारात्? पक्षे भविष्यति। व्यवस्थित विभाषाविज्ञानाच्चान्येषां नित्यम्।`नलोपप्रतिषेधोऽपि पक्ष इष्यते` इति। कथमेतल्लभ्यते? तत्र हि स्वरितो वाऽनुदात्ते पदादौ` [[8.2.6]] इत्यतौ वेत्यनुवर्तते, तेनैवं विज्ञायत - न ङिसम्बुद्ध्योर्नलोपप्रतिषेधो वा भवतीति। व्यवस्थितविभाषादिज्ञानाच्चोशनसः सम्बुद्धिनकारस्य लोपो वा भविष्यति। अन्येषां तु नित्यमेव लोपो न भविष्यतीति। `तथा चोक्तम्` इत्यादिनाऽनन्तरोक्तमर्थमागमवचनन द्रढयति। `सान्तम्` इति। यदाऽनङ न क्रियते। `नान्तम्` इति। न तु नलोपः। `अदन्तम्` इति। यदा नलोपः क्रियते। `तपरकरणमसन्देहार्थम्` इति। असति हि तस्मिन्नुशनसि परतो यणादेशे कृते सन्देहः स्यात् - किमृकारन्तस्य ग्रहणम्? उत्त रेफान्तस्येति॥", "71095": "`क्रोष्टुशपब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः` इति। `क्रुश आह्वाने` (धा।856)[`अह्वाने रोदने च` - धातुपाठः-] इत्येतस्मात्? `सितनिगमिमसिसच्यविघाञ्कृशिभ्यस्तुन्` (द।उ।1।122)[`पसि` - द।उ] इति तुन्प्रत्ययान्तस्य संज्ञायां व्युत्पादितत्वात्। संज्ञा पुनरियं जम्बुकस्य। `तृज्वद्भवति` इति। तृचा तुल्यं वर्तत इति तृज्वत्। `रूपातिदेशोऽयम्` इति वक्षयति। तत्र `तृज्वद्भवति` इत्युक्ते तृच्छब्दसय यद्रूपं तदतिदिश्यत इति कस्यचिद्भ्रान्तिः स्यात्? अतस्तां निराकर्त्तुमाह - `तृजन्तसय यद्रूपम्` इत्यादि। एतच्च `प्रत्ययग्रहणे यस्मात्म विहितस्तदादेस्तदन्तस्य ग्रहणं भवति` (पु।प।वृ।44) इत्यतो लभ्यते। यद्यपि शास्त्रातिदेशेऽप्यदोषो बहुधा भाव्ये प्रदर्शिताः - तस्यादुष्टत्वेन प्रातिपादनात्, कार्यातिदेशोऽपयदीषवानेव व्याख्यातः - तस्य शास्त्रातिदेशेनाभिन्नत्वात्; तथापि शास्त्रातिदेशकार्यातिदेशयोररूपार्थत्वाद्रूपे गुणाभावः। रूपस्य तु प्राधान्यम्; ताभ्यां तस्य संस्कार्यत्वात्। अतो रूपातिदेशोऽयं युक्त इत्याह - `रूपातिदेशोऽयम्` इत्यादि। यदि तर्हि तृजन्तस्य यद्रूपं तत्? क्रोष्टुशब्दस्यातिदिश्यते तदा यत्किञ्चिदेव तृजन्तस्य रूपम् - वक्तृ, पक्तृ - इत्येवमाद्यपि प्राप्नोति? अत आह - `प्रत्यासत्तेश्च` इत्यादि। इह धात्वन्तरस्य पचतिप्रभृते स्तृजन्तस्य रूपमस्ति, क्रुशेरपि, तत्? किमश्रुतसय धातोस्तृजन्तस्य यद्रूपं तदतिदिश्यते, उत्त श्रुतस्य क्रुशेरिति? तत्र श्रुतस्यैव यद्रूपं तदेवातिदेष्टुं इति। चकारोच्चारणसामर्थ्यात्? स्वरोऽप्यतिविश्यते। अन्यथा `तृवत्` इत्येव ब्राऊयादिति भावः। `क्रोष्टा` इति। तृज्वद्भावे कृते पूर्वसूत्रेणानङ्। `क्रोष्टारौ` क्रोष्टारः` इति। <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः, रपरत्वम्, अप्त्रादिसूत्रेण [[6.4.11]] दीर्घः। `क्रोष्टन्` इति। <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घः। <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति नत्वम्॥", "71096": "`क्रीष्ट्रीभिः` इति। तृज्वद्भावे कृते यणादेशः। केन पुनः क्रोष्टुशब्दादीकारः, तृज्वद्भावे कृते `ऋन्नेभ्यो ङीप्` [[4.1.5]] इत्यनेनेति चेत्? न; अनुदात्तत्वप्रसङ्गादित्यत आह - `क्रोष्टुशब्दं केचित्` इत्यादि। `पञ्चभिः क्रोष्ट्रीभिः क्रीतैः` इति। <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति समासः। `आर्हादगोपुच्छ` [[5.1.19]] इत्यादिना ठक्, तस्य `अध्यद्र्धपूर्व` [[5.1.28]] इत्यादिना लक्, `लुक्तद्धितलुकि` [[1.2.49]] इति स्त्रीप्रत्ययस्य लुक्, तस्मल्लुप्ते ये ङीष्प्रत्यये कृते तृज्वद्भावं कुर्वन्ति तेषां तृजवद्भावो न भवति, तस्मात्? `प्रतिविषेयम्` इति। प्रतिविधानं कर्तव्यमित्यर्थः। तत्रेदं प्रतिविधानम् - चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन लुप्तेऽपि स्त्रीप्रत्यये भविष्यति। ये तर्हि गौरादिषु न पठन्ति तेषामीकारः कथम्? इत्याह - `गौरादिषु` इत्यादि। तेषां पञ्चक्रोष्टुभिरित्यत्र न किञ्चित्? प्रतिविधेयम्; परस्य स्त्रीप्रत्ययस्य निमित्तत्वेनानाश्रितत्वात्। ननु च तेषामपि स्त्रीप्रत्ययस्य लुप्तत्वादसस्यामङ्गसंज्ञायामङ्गस्योच्यमानस्तृण्वद्भावो न प्राप्नोतीति प्रतिविधेयमेव? नैतदस्ति; लुप्ते हि स्त्रीप्रत्यये प्रत्ययलक्षणेनाङ्गसंज्ञा भवत्येव। <<न लुमताङ्गस्य>> [[1.1.63]] इति यः प्रतिषेधः सोऽङ्गाधिकार विहितस्यैव कार्यस्य। न चाङ्गसंज्ञाऽङ्गाधिकारे विहिता। `कृतेऽतिदेशे` इत्यादि। `इकोऽचि विभक्तौ [[7.1.73]] इत्यनुवृत्तेर्विभक्तावुत्पन्नायां तदाश्रयायाञ्चाङ्गसंज्ञायां स्त्रियां वर्तमानस्य क्रोष्टुशब्दस्यातिदेशः क्रियते। तस्मिन्? कृते ऋकारान्तत्वात्? `ऋन्नेभ्यो ङीप्` [[4.1.5]] इति ङीब्भवति। ननु च ङीप्प्रत्यये कृतेऽन्तोदात्तः क्रोष्ट्रीशब्दो न सिध्यति? इत्याह - `तत्र` इत्यादि। क्रोष्ट्रीशब्दोऽन्तोदात्तोऽतिदिश्यत इति तृसम्बन्धिन ऋकारस्य स्थाने यणादेशो भवन्नुदात्तयण्? भवति, ततश्च <<शतुरनुमो नद्यजादी>> [[6.1.173]] इत्यनुवर्तमाने <<उदात्तयणो हल्पूर्वात्>> [[6.1.174]] इत्यन्तोदात्तो भवति क्रोष्ट्रीशब्दः॥", "71097": "<<स्त्रियाम्>> [[4.1.3]] इति नानुवर्तते, तेनेयमप्राप्तविभाषा। `क्रोष्टुना` इति। <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति नाभावः। `क्रोष्टवे` इति। <<घेर्ङिति>> [[7.3.111]] इति गुणः। `क्रोष्टुः` इति। `ऋत उत्` [[6.1.107]] इत्युत्त्वम्, रपरत्वम्, `रात्? सस्य` [[8.2.24]] इति सलोपः। `क्रोष्टोः` इति। पूर्ववद्गुणः, <<ङसिङसोश्च>> [[6.1.110]] इति पूर्वरूपत्वम्? `क्रोष्टरि इति। <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः। `क्रीष्टौ` इति। <<अच्च घेः>> [[7.3.119]] इत्यत्त्वम्, औत्त्वञ्च। `तृज्वद्भावात्` इत्यादि। तृज्वद्भावस्यावकाशः - पुंसि क्रोष्ट्रो इति, नुमोऽवकाशः - त्रपुणे, जतुन इति; प्रियक्रोष्टुने वनायेत्यत्रोभयप्रसङ्गे सति नुम्भवति पूर्वविप्रतिषेधेनेति। नुटोऽवकाशः - अग्नीनाम्, वायूनामिति, तृज्वद्भावस्यावकाशः स एव; क्रोष्ट्रनामित्यत्रोभयप्रसङ्गे सति नुङ्? भवति पूर्वविप्रतिषेधेनेति। पूर्वविप्रतिषेधस्तु परशब्दस्येष्टवाचित्वा ल्लभ्यते॥", "71098": "`सर्वनामस्थाने` [[7.1.86]] इति स्वर्यते, न `तृतीयादिषु` [[7.1.97]] इति। `आगमा अनुदात्ता भवन्ति` (व्या।प।105) इत्यनुदात्तत्वे प्राप्ते, उदात्तत्वार्थं वचनम्। `तदन्तविधिरत्रेष्यते` इति। `अङ्गाधिकारे तस्य तदुत्तरपदस्य` (पु।प।वृ।85) इति वचनात्। `प्रियचत्वाः` इति। बहुव्रीहिः। `सर्वनामसंख्ययोरुपसंख्यानम्` (वा।113) इति संख्यायाः पूर्वनिपाते प्राप्ते `वा प्रियस्य` (वा।114) इति प्रियशब्दस्य पूर्वनिपातः॥", "71099": "पूर्वेणामि प्राप्ते वचनम्। `हे प्रियचत्वः। हे प्रियानढवन्` इति। अत्र चतुःशब्दस्य केवलस्य सम्बुद्धिर्न भवतीति दतन्तस्योदाहरणम्। अनजुहस्तु यद्यपि केवलस्य सम्भवति, तथापि तदन्तविधिरत्रेष्यत इति तदन्तस्योदाहरणम्॥", "71100": "`किरिति, गिरति` इति। `कृ? विक्षेपे` (धातुपाठः-1409), `गु निगरणे` (धातुपाठः-1410)। <<तुदादिभ्यः शः>> [[3.1.77]] । `आस्तीर्णम्` इति। `स्तृ? आच्छादने` (धातुपाठः-1484),[स्तृञ् - धातुपाठः-] `रदाभ्याम्` [[8.2.42]] इति नत्वम्, `रषाभ्याम्` [[8.4.1]] इति णत्वम्, `हलि च` [[8.2.77]] इति दीर्घः। `विशीर्णम्` इति। `शृ? हिंसायाम्` (धातुपाठः-1488)। `मातृणाम्, पितृणाम्` इति। `नामि` [[6.4.3]] इति दीर्घः। सत्यपि ऋकारान्तत्वेऽधातुत्वादिह न भवति। ननु च लक्षणप्रतिपदोक्तपरिभाषयै (व्या।प।3) वत्र न भविष्यति, तत्किमेतन्निवृत्त्यर्थेन धातुग्रहणेन? इत्याह - `लाक्षणिकस्यापि` इत्यादि। किमर्थं पनर्लाक्षणिकस्य ग्रहणम्? इत्याह - `चिक्रीर्वति` इत्यादि। कथं पुनरिष्यमाणमपि लाक्षणिकस्यात्र ग्रहणं लभ्यते? अत एव धातुग्रहणाज्ज्ञापकात्। तस्य ह्रेतत्? प्रयोजनम् - मातृणाम्, पितृणामित्यत्र मा भूदिति। यदीह लाक्षणिकस्य ग्रहणं न स्यात्? तदा मातृणाम्, पितृणामित्यादौ लाक्षणिकत्वादेव न भविष्यतीति धातुग्रहणमनर्थकम्। तस्माल्लाक्षिकस्याप्यत्र ग्रहणम्। तेन चिकीर्षतीत्येव मादिषु <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घत्वे सत्यपि भवत्येव। तपरकरणमसन्देहार्थम्। `र` इत्युच्यमाने सन्देहः स्यात् - किमयं रेफस्य निर्देशः? उत्त यणादेश ॠकारस्येति?", "71101": "ॠकारान्तस्य धातोरित्त्वमुक्तम्। उपधाभूतस्य धातोॠकारस्य न प्राप्नोति, इष्यते; तदर्थमेतत्। `कीर्तयति` इति। `कृत संशब्दने` (धातुपाठः-1656) चुरादौ ण्यन्तः। ननु च `ऊतियूतिजूतिसातिहेतिकीर्त यश्च` [[3.3.97]] इति निपातनादेवेत्त्वं भविष्यतीति कथं तदर्थो योगरम्भः? नैतदस्ति; क्तिन्विषय एव निपातनं स्यात्। एवं तर्हि पूर्वयोगे धातुना ॠकारं विशेषयिष्यामः, अत्र तत्स्थस्येति? एतदपि नास्ति; एवं सति ॠकारमिच्छति ॠकारीयतीत्यत्रापि स्यात्। तस्माद्वक्तव्यमिदम्। `कृतश्च` इति वक्तव्ये `उपधायाश्च` इति वचनं वैचित्र्यार्थम्। `कृतश्च` इत्युच्यमाने तकारस्य स्यात्? नैतदन्ति; `ॠतः` इति पूर्वसूत्रे विशेषणत्वेन प्रककृतम्; न शक्यते तद्धि विशेष्यत्वेन विवक्षितुमिति। तस्य `उपधाया ॠकारस्येकारादेशो भवति` इत्येष वृत्तिग्रन्थो विरुध्यते। अत्र हि ऋकारस्य विशेष्यता दर्शिता। तस्माद्यथाङ्गस्यैतत्? क्वचिद्विशेषणम्; तथा `ॠतः` इत्येतदपि पूर्वसूत्रे विशेषणम्, इह तु विशेष्यम्॥", "71102": "`ॠत इद्धातोः] [[7.1.100]] इतीत्त्वे प्राप्त उत्त्वं विधीयते। `पूर्त्तः` [`पूर्त्ताः` - काशिका, पदमञ्जरी च] इति। `पृ? पालनपूरणयोः` (धातुपाठः-1086), क्तः। `न ध्याख्या` [[8.2.57]] इत्यादिना प्रतिविषद्धत्वान्न निष्ठानत्वं भवति। `वुवूर्षति` इति। `वृ? वरणे` (धातुपाठः-1490)। `मुमूर्षति` इति। `मृ? हिंसायाम्` (धातुपाठः-1492)। `सूस्वूर्षति` इति। `स्थृ? शब्दोपतापयोः` (धातुपाठः-932), <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घत्वं ऋकारान्तत्वमस्य। अथेह कथमुत्त्वम् - `वृङ्? सम्भक्तौ` (धातुपाठः-1509), `वृञ्? वरणे` (धातुपाठः-1254) - प्रावुवूर्षते, प्रावुवूर्षतीति, न ह्यत्र ऋकार ओष्ठपूर्वः किं तर्हि? दन्त्योष्ठपूर्वं इति? तदेतदाह - `दन्त्यौष्ठपुर्वोऽप्योष्ठपूर्वो भवति` इत्यादि। यो ह्रुभयस्थाने निष्पद्यते लभतेऽसावन्यतरव्यपदेशम्। तेन दन्त्यौष्ठओ यो भवति सोऽप्योष्ठओ भवत्येव। दन्त्यौष्ठपूर्वोऽपयोष्ठपूर्व एव। अथ समीर्णमित्यत्र कस्मान्नि भवति, अस्ति ह्यत्राप्योष्ठग्रपूर्वता? इत्याह - `ओष्ठओ ह्यत्र` इत्यादि। ओष्ठओ ह्यत्राङ्गावयवोऽपि। तत्रेह प्रत्यासत्तेरङ्गावयवो गृह्रते, नोपसर्गवयवः। प्रत्यासन्नत्वं पुनाप्रसङ्गस्य प्रकृतत्वात्? उपसर्गस्य तु नास्ति प्रत्यासन्नत्वम्; विपर्ययात्। `इत्त्वोत्त्वाभ्याम्` इत्यादि। इत्त्वोत्त्वयोरवकाशः - आस्तीर्णम्, पूर्त इति; गुणवृद्ध्योरवकाशः - चयनम्, चायक इति; इहोमयं प्राप्नोति - आस्तरणम्, आस्तारकः, निपरणम्, निपारक इति, अत्र गुणवृद्धी भवतो विप्रतिषेधेन॥", "71103": "`ततुरिः, जगुरिः` इति। तरतेर्गिरतेश्च `आदृगमहनजनः किकिनौ लिट्? च` [[3.2.171]] इति किकिनोरन्यतरः, ततश्चोत्त्वे <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थानिवद्भावात् `तृ? गृ`, इति द्विरच्यते, `उरत्` [[7.4.66]] इत्यत्त्वम्। `पप्रितमम्, वव्रितमम्` इति। `पृ, वृ` इत्येतयोः किकिनोरन्यतरः, यथदेशः। किप्रत्ययान्तात्? `अतिशायने तमप्` [[5.3.55]] इत्यादिना तमप्॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां सप्तमाध्यायस्यप्रथमः पादः॥ - - -अथ सप्तमाध्यायःद्वितीयः पादः", "72001": "<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे प्राप्ते वचनमिदमारभ्यते। सिचीति, परस्मैपदेष्विति च द्वे अप्येति परसप्तम्यौ; तत्र सिचोऽङ्गापेक्षं परत्वं, परस्मैपदानां तु सिजपेक्षम्। `परस्मैपदपरे` इति। परस्मैपदं परं यस्मात्? स तथोक्तः। `इगन्तस्य` इति। `इको गुणबृद्धी` [[1.1.3]] इत्यस्योपस्थाने सतीकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह - `इगन्तस्याङ्गस्य वृद्धिर्भवति` इति। `अचैषीत्, अनैषीत्` इति। `चिञ्? चयने` (धातुपाठः-1251), `णोञ्? प्रापणे` (धातुपाठः-91), भूते लुङ्, <<च्लेः सिच्>> [[3.1.44]] , `एकाचः` [[7.2.10]] इत्यादिनेट्प्रतिषेधः, अडागमः, <<नित्यं ङितः>> [[3.4.99]] इत्यनुवर्तमाने `इतश्च` [[3.4.100]] इतीकारलोपः, `अस्तिसिचोऽपुक्ते` [[7.3.96]] इतीट्, `इष्कोः` [[8.3.57]] इत्यनुवर्तमाने <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्। `अलावीत्? अपावीत्` इति। `पूर्ववल्लुङ, `आर्धधातुकस्येङ्वलादेः` [[7.2.35]] इतीट्? पूर्ववदीट्, `इट ईटि` [[8.2.28]] इति सिचो लोपः। `अकार्षात्` इति। उदाहरणं सुबोधम्। ननु चात्रान्तरङ्गत्वाद्गुणेन भवितव्यम्, अन्तरङ्गत्वं पुनस्तस्यार्धधातुकापेक्षात्वात्; वृद्धेस्त्वाद्गुणविशेषं परस्मैपदपरं सिचमपेक्ष्य बहिरङ्गत्वम्? अत आह - `अन्तरङ्गमपि` इत्यादि। यद्यन्तरङ्गत्वाद्णः स्यात्, तदैतद्वचनमनर्थकं स्यात्। तस्माद्वचनसामर्थ्याद्वहिरङ्गापि वृद्धिर्गुणं बाधते। यद्येवम्, तर्हि यथा वचन सामर्थ्याद्वृद्धिरन्तरङ्गमपि गुणं बाधते, तथोवङादेशमपि बाधेत ततश्च न्यनुवीत्, न्यधुवीदिति न सिध्येत्? इत्यत आह - `व्यनुवीन्न्यधुवीत्` इत्यादि। यत्र हि वृद्धेः प्रतिषेधो नास्ति, तत्र वचनसामर्थ्याद्विध्यन्तरं बाधित्वाऽसौ प्रवर्तते। इह तु ङित्त्वे सति <<क्ङिति च>> [[1.1.5]] इति वृद्धिः प्रतिषिध्यते, प्रतिषिद्धा च सतो नोत्सहत उपङादेशं बाधितुम्। तेन तस्यां प्रतिषिद्धायां `अचि श्नुधातु` [[6.4.77]] इत्यादिनोवङादेशः क्रियते। ङित्त्वं पुनरत्र `णू स्तवने` (धातुपाठः-1397), `धू विधूनने` (धातुपाठः-1398) इत्येतयोः कुटादिषु पाठाद्गाङकुटादिसूत्रेण [[1.2.1]] यथा सामर्थ्याद्वृद्ध्या गुणो बाध्यते, तथा प्रतिषेधोऽपि बाध्येत एव? नैतदस्ति; गुणे हि नाप्राप्ते वृद्धिरारभ्यते, प्रतिषेधे तु प्राप्ते चाप्राप्ते च। तत्र येन नाप्राप्ति नान्येन (व्या।प।49) गुणस्यैव बाधा युक्ता, न प्रतिषेधस्य। `अच्योष्ट, अप्लोष्ट` इति। `च्युङ्? छ्युङ्? ज्युङ्? (न स्तः - धातुपाठे) इयुङ्? प्रुङ्? प्लुङ्? गतौ` (धातुपाठः-955,956,957)", "72002": "अन्तशब्दोऽयमस्त्यवयववचनः, यथा वस्त्रान्तः, वसनान्त इति। अस्ति च समीपवाची, यथा - उदकान्तं प्रियं प्रोथमनुव्रजेदिति। उदकसमोपमित्यर्थः। अत्रावयववाचिनोऽन्तशब्दस्य ग्रहणे इहान्तग्रहणमनर्थकं स्यात्? तस्य ह्रुपादनस्यैतत्? प्रयोजनम् - रेफलकारान्तस्य यथा स्यादिति। एतच्च <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेनैव सिध्यति। तस्मात्? समीपवाचिन एव ग्रहणमिति मत्वाऽऽह - `रेफलकारो यावतोऽन्तौ= समीपी` इति। यदि तर्हि ल्रावन्तौ यस्य समीपावत इत्यनेन निर्दिश्यते वृद्धिभाग्? न निर्दिष्टः स्यात्। एवञ्च <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्त्यस्य स्यात्; अकारसमीपभूतस्य ल्रान्तस्यान्त्यस्य वृद्धिभाज इकोऽभावादित्यत आह - `अत एव स्थाने` इति। एवं मन्यते - अकारस्य श्रुतत्वादकारस्यैव स्थाने वृद्धिर्विज्ञायत इति। `अक्षारीत्` इत्यादि। `क्षर सञ्चलने` (धातुपाठः-851), `त्सर छद्मगतौ` (धातुपाठः-554), `ज्वल दीप्तौ` (धातुपाठः-804), `ह्वल ह्रल चलने` (धातुपाठः-805,806) इत्येतेषां रूपाणि। `अतो हलादेर्लघोरित्यस्य विकल्पस्यायमपवादः` इति। एतेन नियमार्थतामस्य योगस्य दर्शयति। `न्यखोरीत्, न्यमीलीत्` इत्यादि। `खुर छेदने` (वा।यां।1342), `मील श्मील स्मील श्मील निमेषणे` (धातुपाठः-517-520)। `मा भवानटीत्, मा भवानशीत्` इति। `अट पट गतौ` (धातुपाठः-295,296), `अशभोजने` (धातुपाठः-1523) <<न माङ्योगे>> [[6.4.74]] इत्याट्प्रतिषेधार्थो माङ्योगः। `भवान्` इति। अयं सन्देहनिरासार्थः; अतोऽन्यत्र विशेषाभावात्। `अवभ्रीत्` इति। `अभ्र वभ्र मभ्र चर गत्यर्थाः` (धातुपाठः-556-559)। `अआल्लीत्` इति। `आलआल्ल आशुगमने` (धातुपाठः-549,550)। `न तावतः समीपौ` इति। भकारलकाराभ्यां व्यवधानादिति॥", "72003": "अनिगन्तार्थोऽयमारम्भः। अथ वदिव्रज्योग्र्रहणं किमर्थम्, यावता हलन्तत्वादेव वृद्धिः सिध्यति? इत्यत आह - `विकलपबाधनार्थम्` इत्यादि। `अतो हलादेः` [[7.2.7]] विकल्पं वक्ष्यति, तस्य बाधो यथा स्यात्। `अपाक्षीत्` इति। `डुपचष्? पाके` (धातुपाठः-996), <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `अभैस्तीत्` इति। `भिदिर्? विदारणे (धातुपाठः-1439), `खरि च` [[8.4.54]] इति चर्त्वम् - दकारस्य तकारः। `अरौत्सीत्` इति। `रुधिर आवरणे` (धातुपाठः-1438)। `अत्र` इत्यादि। `वदिव्रज्योः इत्येको योगः, `अचः` इति द्वितीयः; एवं योगविभागे सति हलन्तग्रहणमन्तरेणापीष्टं सिध्यत्येव। `कथम्` इति। असम्भावयतः प्रश्नः। `वदिव्रव्योः` इत्यादिना यथा योगविभागे सति सिध्यति तथा दर्शयति। तत्र प्रथमयोगे पूर्वसूत्रात्? `अतः` इति स्थान्यनुवर्तते। तेनावादीत्, अव्राजीदित्येतावत्सिध्यति। ततो यदचेति द्वितीयं सूत्रम्, तत्र विशेषणविशेष्यभावयोर्यथेष्टत्वात्? प्रकृतेनाङ्गेनाजिविशिध्यते - अङ्गस्य योऽजिति। तेनाङ्गस्याचो यत्र तत्रावस्थितस्य सिचि परतो वृद्धिर्भवति। अपाक्षीदित्याद्यपि सिध्यति। यद्येवम्, योगविभाग एव कर्तव्यः, किं हल्ग्रहणेन? इत्यत आह - `तदेतत्` इत्यादि। हल्समुदयपरिग्रहः किमर्थो यतसतदर्थोऽयं यत्नः क्रियते? इत्याह - `इहापि` इत्यादि। `अराङ्क्षीत्` इति। `रञ्ज रागे` (धातुपाठः-1167)। `असाङ्क्षीत्` इति। `षन्ज सङ्गे` (धातुपाठः-987)। ननु चाङ्गस्य योऽच्? तस्य सिचि परतो वृद्धिरुच्यते, न चात्राङ्गसम्बन्धिनोऽचोनन्तरः परः सिच्? सम्भवति यस्यानेन वृद्धिर्विधीयते। तथा ह्रकारान्तस्याङ्गस्य तावत्? <<अतो लोपः>> [[6.4.48]] इति लोपेन भवितव्यम्। न च वचनादतो लोपं वृद्धिर्बाधिष्यत इति शक्यते वक्तुम्; यदि ह्रकारान्तस्यैव वृद्धिः स्यात्? प्रत्याहारग्रहणमनर्थकं स्यात्, `अतः` इत्येवं ब्राऊयात्। अथ वा - तदपि सम्भवति। अकारान्तस्य तु कामं संभवति यावाप्रभृतेः। न तु तस्यास्ति विशेषः सत्यां वा वृद्धावसत्यां वा। इगन्तस्य पुनः `सिचि वृद्धिः` [[7.2.1]] इत्यादिनैव वृद्धिर्विहिता। सन्ध्यक्षराणां च नास्त्येव; <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्त्वविधानात्। उदवोढाम्, उदवोढमित्यत्रास्तीति चेत्? न; ढलोपस्यासिद्धत्वात्। तदयं न क्यचिदचोऽनन्तरः परस्मैपदपरः सिच्? सम्भवति। उच्यते चेदं वचनम्; ततो `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) यथाऽपाक्षीदित्यादौ वृद्धिर्भवति, तथाऽराङ्क्षीदित्यादावपि वृद्धिर्भविष्यति, ततो नार्थो हल्ग्रहणेन? इत्यत आह - `अन्यथा हि` इत्यादि। एकेन वर्णेन सर्वत्र व्यवधानमस्ति। हल्समुदायेन क्यचिदेवाराङ्क्षीदित्यादौ। अपाक्षीदित्यदौ नास्ति, तत्रसति हलग्रहणेऽनन्तरोक्तया नीत्या यत्रैकेन वर्णेन व्यवधानमस्ति - अपाक्षीदित्यादौ, तत्रैव स्यात्, यत्र त्वर्नेकवर्णेन व्यवधानमस्ति - अराङ्क्षीदित्यादौ, तत्र न स्यात्, यथाऽपिपठिषीदित्यादौ आदययोरचोर्व्यवधानान्न भवति। हल्ग्रहणे तु सति हल्समुदायेन व्यवधानेऽपि भवति; हल्ग्रहणसामर्थ्यात्। उदवोढाम्, उदवोढमित्यत्र वहेर्वृद्धिः कस्मान्न भवति, ढलोपे कृतेऽहलन्तादिति चेत्? न; ढलोपस्यासिद्धत्वादिति यश्चोदयेत्, तं प्रत्याह - क्रियते एवात्र वृद्धिः। तस्यास्त्वोत्त्वं विधीयत इति दर्शयितुमाह - `उदवोढाम्` इत्यादि। आदिशब्देन धात्वादयो गृह्यन्ते। वहेरुत्पूर्वाल्लुङ्, तस्थसौ, तयोः `तस्थस्थमिपाम्` [[3.4.101]] इत्यादिना तान्तमादेशौ यथाक्रमम्, हलन्तलक्षणा वृद्धिः, `हो ढः` [[8.2.31]] इति ढत्वम्, <<झलो झलि>> [[8.2.26]] इति सिचो लोपः, `झषस्तथोर्घोऽधः` [[8.2.40]] इति षत्वम्, <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्। <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्योत्त्वम्। तत्र ह्रोत्त्वे पुनर्वृद्धिः कस्मान्न भवति? इत्याह - `तत्र कृते पुनः` इत्यादि। एकं ह्यत्र वृद्धिशास्त्रम्, तेन च प्रागेव कृता वृद्धिरिति कृतकार्यत्वाद्वृद्धिशास्त्रस्य, पुनस्तन्न व्याप्रियत इति न भवति पुनर्वृद्धिः। सौढामित्रिरित्यत्र तर्हि कथमोत्त्वे कृते वृद्धिर्भवति? इत्याह - `यत्र तु` इत्यादि। यत्र प्राग्वृद्धिः कृता तत्र कृतार्थत्वाद्वृद्धिशास्त्रस्य पुनर्न व्याप्रियत इति न भवति वृद्धिः, सोढामित्रिरित्यत्र तु न कृता वृद्धिः। तस्मादकृतार्थत्वाद्वृद्धिशास्त्रं व्याप्रियत इति भवत्येव वृद्धिः। सा च भव्त्योकारस्य भवति, नाकरस्य वृद्धिरिति; वृद्धिविधानकाल ओकारस्यैव वृद्धिभाजः सन्निहितत्वात्। सहेर्निष्ठा, तत्र ढत्वादिषु कृतेषु सोढ इति भवति, सोढोऽमित्रोऽनेनेति सोढामित्रः, तस्यापत्यमिति `अत इञ्` [[4.1.95]] , `तद्धितेष्वचामाने` [[7.2.117]] वृद्धिः। <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्येव सिद्धे तदन्तत्वेऽन्तग्रहणमसन्देहार्थम्। `हलोऽचः` इत्युच्यमाने सन्देहः स्यात् - किमजन्तस्याङ्गस्य हलो वृद्धिर्भवति? उत हलन्तस्याचेति॥", "72004": "हलन्तस्याचेति या वृद्धिः प्राप्ता सा हलन्तलक्षणा वृद्धिरनेन प्रतिषिध्यते ‘अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा’ (व्या।प।१९) इति कृत्वा। ‘अदेवीत्, असेवीत्’ इति। ‘दिवु क्रीडादौ’ (धातुपाठः-११०७), ‘षिवु तन्तुसन्ताने’ [‘षिवु’- दा।पा।] (धातुपाठः-११०८)। वृद्धौ प्रतिषिद्धायां ‘पुगन्तलघूपधस्य’ ७.३.८६ इति गुणः। ‘अकोषीदमोषीत्’ इति। ‘कुष निष्कर्षे’ (धातुपाठः-१५१८), ‘मुष स्तेये’ (धातुपाठः-१५३०)। ‘नन्वत्रैतदन्तरङ्गत्वात्’ [नन्वत्रैतदप्यन्तरङ्गत्वात् - काशिका] इति चोद्यम्। ‘नैतदेवम्’ इति परिहारः। उभयञ्चैतद्गतार्थम्॥", "72005": "`अग्रहीत्` इति। ग्रह उपादाने` (धातुपाठः- 1533)। `अस्यमीत्` इति। `स्थमु स्वन ध्वन शब्दे`(धातुपाठः-826)-828) `अवमीत्` इति। `टु वम उद्गिरणे` (धातुपाठः-849)। `अद्यतीत्` इति। `व्ययवित्तसमुत्सर्गे` (धातुपाठः-1932) `अक्षणीत्` इति। `क्षणु हिंसायाम्` (धातुपाठः-1465) अआसीदिति। `आसप्राणने` (दा।पा।1069)। `अजागरीत्` इति। `जागृ निद्राक्षये` (धातुपाठः-1072)। `औनयीत्? ऐलयीत्` `ऊन परिहाणे` (धातुपाठः-1888), [परिहरणे - धातुपाठः-] `ईल प्रेरणे` (धातुपाठः-1660), [`इल` - धातुपाठः-] चुरादिणिच्। `नोनयति` [[3.1.51]] इत्यादिना चङि प्रतिषिद्धे सिजेव भवति, <<आडजादीनाम्>> [[6.4.72]] इत्याट्, `आटश्च` [[6.1.87]] इति वृद्धिः। `अआयीत्` इति। `टु ओश्यि गतिवृद्द्योः` (धातुपाठः-1010)। `अरगीत्, अलगीत्? इति। `रगे लगे सङ्गे [रगे शंकायाम् - धातुपाठः-] (धातुपाठः-785,786)। `अस्थागीत्` इति। `स्थगे संवरणे` (धातुपाठः-790) [`ष्टगे` - धातुपाठः-] `अकखीत्` इति। `कखे हसने` (धातुपाठः-784)। `सा च नेटीति न प्रतिषिध्यते` इति। अनन्तराया हलन्तक्षणाया वृद्धेः प्रतिषेधः, न पूर्वस्याः। अथ किमर्थं णिइआग्रहणम्, यावतान्तरङ्गत्वादेवात्र गुणेन भवितव्यम्, कृते गुणेऽयादेशेन, ततश्च यकारान्तत्वादेव तथोः प्रतिषेधो भविष्यति? इत्याह - `न च` इत्यादि। इदमन्तरङ्गत्वं सिच्यभ्युपेत्योक्तम्। इदानीमन्तरङ्गत्वमेव सिचि नास्तीति दर्शयितमाह - `यदि` इत्यादि। किं कारणं णिइआग्रहणमनर्थकं स्यात्? इत्यात आह - `गुणायादेशयोः` इति। यदि तर्हि सिच्यन्तरङ्गत्वं नास्ति, यदुक्तं `अन्तरङ्गमपि गुणमेषा वृद्धिर्वचनाद्वाधते` इति तद्विरुध्यते? नास्ति विरोधः, अध्यारोप्यो तथाभिधानात्। `अथ` इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। अथ जागृग्रहणं किमर्थमिति पृष्टस्य किं कारणं जागृग्रहणं न कर्तव्यमिति प्रश्नावसरे येनाभिप्रायेण पृष्टवांस्तमाविष्कर्त्तुमाह - `जाग्रोऽविचिण्` इत्यादि। यथा जागरयतीत्यादौ <<अचो ञ्णिति>> [[7.2.115]] इति प्राप्तां वृदिंध जागर्तर्गुणो बाधते तथा सिचिवृद्धिमपि बाधिध्यते, वृद्ध्यपवादत्वाद्गुणशास्त्रसय। `गृणे कत` इत्यादि। अकृते हि गणे या सिचि वृद्धिः प्राप्नोति सापवादत्वाद्गुणेन बाध्यते; अकृतार्थत्वाद्गुणशास्त्रस्य। न च साऽनेन वचनेन बाधिष्यते; किं तर्हि? गुणे कृते रपरत्वे च <<अतो ल्रान्तस्य>> [[7.2.2]] इत्युत्तरकालं या वृद्धि प्राप्नोति तस्याः प्रतिषेधो विधीयते, न च शक्या गुणेन बाधितुं सा। न हि <<जाग्रोऽविचिण्णल्ङित्सु>> [[7.3.85]] इति शास्त्रं पुनः प्रवर्त्तितुमुत्सहते; कृतार्थत्वात्। न चान्यद्गुणलक्षणमस्त्युत्तरकालवृद्धेर्बाधकम्। तत्र यदि जागग्रहणं न क्रियते, <<अतो ल्रान्तस्य>> [[7.2.2]] इति वृद्धि स्यात्। `अथ` इत्यादि चोदकः। यदि गुणेऽपि कृते पुनर्वृद्धिः स्यात्, वृद्धिविषये गुणविधानमनर्थकं स्यात्। तस्मात्? गुणविधानसामर्थ्याद्यापि गुणे कृते रपरत्वे च पश्चात्? <<अतो ल्रान्तस्य>> [[7.2.2]] इति वृद्धिः प्राप्नोति सा प्रतिषिध्यते, यथा - जागरयतीत्यत्र। गुणे कृते रपरत्वे च या प्राप्नोति <<अत उपधायाः>> [[7.2.116]] इत्युत्तरकालभादिनी वृद्धिः, साऽपि न भवति; गुणेन बाधितत्वात्। `तथा च` इत्यादि। गुणाविधानसामर्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते; अन्यथा हि गूणे कृते रपरत्वे च `अत उपधायाः` इत्युत्तरकालभाविनी वृद्धिः, साऽपि न भवति; गणेन बाधितत्वात्। `तथा च` इत्यादि। गुणविधानसामर्थ्यादुतरकालभाविन्यपि वृद्धिर्गुणेन बाध्यत इति, तदेव द्रढयति। एवञ्च चिण्णलोः प्रतिषेधोऽर्थवान्? भवति यद्युत्तरकालभाविन्यपि वृद्धिर्बाध्यते; अन्यथा हि गुणे कृते रपरत्वे च <<अत उपधायाः>> [[7.2.116]] इति वृद्ध्या भवितव्यम्। चिण्णलोर्यः प्रतिषेधः क्रियते सोऽनर्थकः स्यात्। तस्मादुत्तरकालभाविन्यपि वृद्धिर्गुणेन बाध्यत इति स्थिमेतत्। ततश्च शक्यमेव जागृग्रहणमकर्तम्। एवं प्रत्याख्याते जागृग्रहणे, इतर आह - `तत्? क्रियते` इत्यादि। य एवं प्रतिपत्तुं न शक्तः, तं प्रति विस्पष्टार्थं जागृग्रहणं क्रियते॥", "72006": "नित्यं वृद्धिप्रसङ्गे प्राप्ते विकल्पार्थं वचनम्॥ `नेटि` [[7.2.4]] इति प्रतिषेधे प्राप्ते विकल्पार्थमिदमारभ्यते। `अकणीत्, अकाणीत्` इति। `अण रण वण कण भण क्वण` (धातुपाठः-444-446,449,447,450) इति भ्वादौ पठते। `अरणीत्? अराणीत्` इति। रणिरपि तत्रैव।`न्यकुटीत्` इति। `कुट कौटिल्ये (धातुपाठः-1366)। `न्यपुटीत्` इति। `पुट संश्लेषणे` (धातुपाठः-1367) ननु चात्र कुटादित्वान्ङित्त्वे सति <<क्ङिति च>> [[1.1.5]] इति प्रतिषेधो भविष्यति, ततो नैतन्नियुयर्थम्? `अतः इत्येतत्? कर्तव्यम्? इत्यत आह - `अत इत्येतस्मिन्नसति` इत्यादि। यदि `अतः` इति नोच्येत, ततोऽवश्यम्? <<वदव्रजहलन्तस्याचः>> [[7.2.3]] इत्यनुवर्तयितव्यम्; अन्यथा ह्रनिर्दिष्टस्थानिकत्वादिक एव लघोर्विकल्पेन वृद्धिः स्यात् - अदेवीदित्यादौ, अकाणीदित्यादौ त्वकारस्य न स्यात्। अज्ग्रहणानुवृत्तौ तु सत्यामज्लक्षमेयं वृद्धिः स्यात्, नेग्लक्षणा; निर्द्दिष्टस्थानिकत्वात्। यत्र हि स्थानी न निर्द्दिश्यते स इग्लक्षणाया वृद्धेर्विषयः, न तु यत्र स्थानो निर्दिश्यते सोऽपि, ततश्च <<क्ङिति च>> [[1.1.5]] इति प्रतिषेधो न स्यात्; तत्र `इकः` इत्यधिकारात्। तस्मान्न्यकुटीत्, न्यपुटीदित्यत्र विकल्पेन वृद्धिर्मा भूदित्येवमर्थमत इति वक्तव्यम्। `अतक्षीत्, अरक्षीत्` इति। `तक्षू त्वक्षू तनूकरणे` (धातुपाठः-655,656), `रक्ष पालने` (धातुपाठः-658)। इह सिच आनन्तर्येऽकारस्य वृद्धिरुच्यते, न क्वचिदनन्तरः सिच्? सम्भवति। तत्र `येन नाव्यवचानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) इति व्यवधानेऽपि वृद्ध्या भवितव्यम्। एवं यथा अकाणीदित्यत्र लघोरकारस्य भवति, तथा अचकासीदित्यत्रापि लघोरकारस्य वृद्ध्या भदितव्यमेव? इत्यनेनाभिप्रायेणाह - `अथेह कस्मान्न भवत्यचकासीत्` इति। `चकासृ दीप्तौ` (धातुपाठः-1074)। `येन` इत्यादि परीहारः। `हला व्यवधानमाश्रितम्` इति। हलन्तस्येत्यनुवृत्तेरित्यभिप्रायः।लघोरिति किमिति येनैवं पृष्टम्, स एवं लघुग्रहणं प्रत्याचिख्यासुराह - `अथ पुनः` इत्यादि। यद्येवं परिकल्प्यते, वचनप्रामाण्यद्धला व्यवधानमाश्रीयते, न त्वचा, `अतो लघोः` इति वक्तव्यम्, अन्यथा ह्रतक्षीदित्यादावपि स्यात्? अत्र हि हला व्यवधानम्, नाचा। अथ पुनरिवं परिकल्प्यते - `येन नाव्यवधानं तेन व्यवहतेऽपि वचनप्रामाण्यात` (व्या।प।46) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति नार्थो लघोरित्यनेनेति, न ह्रेवं परिकल्प्यमानेऽतक्षीदित्यादौ प्राप्नोति यद्यनेकेन वर्णेन व्यवधानम्? इत्यत आह - `तत्? क्रियते` इत्यादि॥", "72007": "", "72008": "`आर्धधातुकस्येड्वलादेः [[7.2.35]] इतीटं वक्ष्यति, तस्य यत्र प्रकृतिलक्षणः परतिषेधो नास्ति तत्रानेन प्रतिषेधः क्रियते। पुरस्तात्? प्रतिषेधकाण्डस्य प्रयोजनं क्रादिनियमसूत्रे [[7.2.13]] वक्ष्यति। `ईशिता` इत्यादि प्रत्ययान्तरे त्विटो भावेन `एकाच उपदेशेऽनुदात्तात्` [[7.2.10]] इति यः प्रकृतिनिमित्तकः प्रतिषेधस्तदभावमेवाचष्टे। `ईआरः` इति। `ईश ऐआर्ये` (धातुपाठः-1020), `स्थेशभास` [[3.2.175]] इत्यादिना वरच्। `दीप्रः` इति। `दीपी दीप्तौ` (धातुपाठः-1150), `नमिकम्यि` [[3.2.167]] इत्यादिना रः। `भस्म` इति। `भस भर्सनदीप्त्योः` (धातुपाठः-1100)। <<आतो मनिन्क्वनिब्वनिपश्च>> [[3.2.74]] इत्यादौ <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति मनिन्। `याच्ञा` इति। `टु याचृ याच्ञायाम्` (धातुपाठः-863)। `यजयाच` [[7.3.66]] इत्यादिना नङ्। `वरमनादौ प्रयोजनम्` इति यदुक्तं तत्र प्ररिगणनत्वमवधार्य य एवं चोदयेत् - यदि वरमनादाविति परिगणनं क्रियते तदा `षणु दाने` (धातुपाठः-1464), `ञमन्ताड्डः` (पं।उ।1।104) - षण्डः, `शमः खः` (पं।उ।1।113) - शङ्ख इत्यादौ प्रतिषेधो न प्राप्नोतीति - तं प्रति नेदं परिगणनमिति दर्शयितुमाह - `वरमनादावित्युदाहरणम्` इति। `अथ तत्र` इत्यादि। तत्रौणादिके डप्रत्यये समाधीयेतेति परिगणनपक्षभादि चोद्यं परिह्यियत इत्यर्थः। `सम्बवोदाहरणप्रदर्शनार्थमेतत्` इति। अत्रापि न परिगणनमेतदिति सम्बध्यते। प्रतिषेधस्य सम्भव उदाह्यियते। यत्र कृति प्रतिषेधः सम्भवति तस्य प्रदर्शनार्थमेतदुक्तं भवति। यत्र वसादौ कृतीद्प्रतिषेधः सम्भवति, तस्य प्रदर्शनार्थं वरमनादावित्युक्तम्, न पुनरेतत्? परिगणनमिति। `रुरुदिव, रुरुदिम` इति। अत्र कृद्ग्रहणादार्धधातुकस्येटो न भवति प्रतिषेधः॥", "72009": "", "72010": "`अनुदात्तात्` इति। बहुव्रीहिरयम् - नास्योदात्तोऽस्तीत्यनुदात्तः। अन्वर्थशब्दोऽयमनुदात्तशब्दः। शास्त्रीये ह्रनुदात्ते गृह्रमाण एकवर्णा एव धातवो गृह्रेरन्। तथा चान्येवां धातूनामनुदात्तप्रतिज्ञानमनर्थकं स्यात्। इह चेकाज्ग्रहममुपदेशविशेषणम्। `उपदेशे` इति। प्रकृतिपाठ इत्यर्थः। `अनुदात्तश्च` इति। उपदेश इत्यपेक्षते; तेनोपदेशग्रहणमुभयविशेषणमिति दर्शयति। तस्य प्रयोजनं प्रत्युदाहरणेष्वाविष्करिष्यति। `ये तथा गणे पठन्ते` इति। एतेन गणपाठादेव ते वेदितव्या इति दर्शयति। `त एव` इत्यादिना द्वितीयं परिज्ञानहेतुमाह। काः पुनस्ता अनिट्कारिकाः? इत्याह - `अनिट्स्वरान्तः` इत्यादि। यावातन् कश्चित्? स्वरान्तोऽजन्तो धातुः स सर्वोऽनिङ्भवतोत्येतददृश्यताम्, अवगम्यताम्। अनिडिति बहुव्रीहिः - नास्मादिडस्तीति। `अनिट्? स्वरान्तः` इत्यस्योत्सर्गस्यापवादमाह - `इमांस्तु` इत्यादि। इमांस्त्वदन्तादीन्? वक्ष्यमाणान्? सेटः प्रवदन्ति। इटा सह वर्तन्त इति सेटः। के वदन्ति? तद्विदः सेडनिड्विद इत्यर्थः। `अदन्तम्` इति बहुव्रीहिः - अकारस्तपरोऽन्तो यस्य स तथोक्तः। तपरकरणं दीर्घनिवृत्त्यर्थम्। `ॠदन्तम्` इति। अयमपि बहुव्रीहिः। तपरकरणमसन्देहार्थम्। रन्तमित्युच्यमाने, किमयं रेफस्य निर्देशः? उत्त ॠकारस्य? इति सन्देह - स्यात्। `ॠतां च` इति। ॠतामिति निर्धारणे षष्ठी। ऋकारान्तानां मध्ये वृङवृञो सेटौ प्रवदन्ति। तपरकरणं पादपरणार्थम्। पूर्वमृकारान्तग्रहणागेन हि ह्रस्वस्य ग्रहणमिहावसीयते। `इआडीङिवर्णेषु` इति। निर्घारणे सप्तमी। इवर्णान्तेषु, मध्ये इआडीङौ सेटौ प्रवदन्त। `टु ओइआ गतिवृद्ध्योः` (धातुपाठः-1010), `डीङ्? विहायसागतौ` (धातुपाठः-968)। `अथ शीङ्श्रिञावपि` इति। `अथेत्यानन्तर्ये। अनयोः पूर्वक्तयोरनन्तरं शीङ्श्रिञावपि सेटौ प्रवदन्ति। `घीङ्? स्वप्ने` (धातुपाठः-1032), `श्रिञ्? सेवायाम्` (धातुपाठः-897)। `गणस्थम्` इति। स्वरूपख्यानमेतत्, न तु विशेषणम् - गणनिवृत्त्यर्थमिति; तस्यासम्भवात्। `ऊन्तम्` इति। `लूञ्? छेदने` (दा।पा।1483), `पूञ्? पवने` (धातुपाठः-1482) इत्येवमादयः। `उत्ताञ्च` इति। निर्धारणषष्ठी। `रु शब्दे` (धातुपाठः-1034), `स्नु प्ररुआवणे`[ष्णु - धातुपाठः-] (धातुपाठः-1038)। `क्षुवं तथोर्णोतिम्` इत्यादि। `टु क्षु शब्दे` (धातुपाठः-1036), `ऊर्णुञ्? आच्छादने` (धातुपाठः-1039), `यु मिश्रण` (धातुपाठः-1033), [मिश्रणेऽमिश्रणे च - धातुपाठः-] `णु स्तुतौ` (धातुपाठः-1035), `क्ष्णु तेजने` (धातुपाठः-1037)। `आवधिष्ट` इति। आङ्पूर्वाद्धन्तेर्लुङ्, `आङोयमहनः` [[1.3.28]] इत्यात्मनेपदम्; <<आत्मनेपदेष्वन्यतरस्याम्>> [[3.1.54]] इति वधादेशः। स चावधीदित्यत्र वृद्धिर्मा भूदित्येवमर्थमदन्तः पठते। इट्, <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः।अथ किमर्थमूर्णोतिरुदात्त उपदिश्यते? इट्प्रतिषेधो मा भूदिति चेत्? नैतदस्ति; एकाचो हीट्प्रतिषेध उच्यते, न चास्यैकाचत्वमस्ति? इत्यत आह - `वाच्य ऊर्णोर्णुवद्भावः` इति। `एकाच्त्वम्` इति। पदान्तस्यापि कुत्वाभावः, कुत्वस्यानित्यत्वात्। अनित्यत्वं तु `बह्वच्पूर्वपदात्` [[4.4.64]] , `अल्पाच्तरम्` [[2.2.34]] इति निर्देशाद्वेदितव्यम्। `इति` इत्येवमर्थः। `निपुणम्` इति। सम्यगविपरीतमित्यर्थः। क्रियाविशेषणञ्चैतत्। `समुच्चिताः` इति। उदात्तानुदात्तसङ्कीर्णाद्धातुराशेः पृथग्व्यवस्थिता इत्यर्थः। `ततः` इति। स्वरान्तधातुसमुच्चयनादुत्तरकालम्। `हलन्तानपि निबोधत`, अवगच्छतेत्यर्थः। `शकिस्तु` इत्यादि। `शक्लृ शक्तौ` (धातुपाठः-1261)। `घसिश्च` इत्यादि। ननु चादिं हदिमित्यादेः स्वरूपग्रहणे सति तस्य स्थाने `लुङ्सनोर्थस्लृ` [[2.4.37]] इति विहितस्य घस्लादेशस्यापि स्यानिवद्भावेनानिट्त्वं सिध्यत्येव, तत्किमर्थं घसिः पृथगुपादीयते? इत्याह - `घसिः प्रकृत्यन्तरमस्ति` इति। अन्यदेव हीदं धात्वन्तरं `घस्लु अदने` (धातुपाठः-715) इत्यदादौ पठते, तस्येदं ग्रहणम्, न त्वादेशस्य। `प्रसारणी` इति। प्रसारणम्=सम्प्रसारणम्, तदस्यास्तीति प्रसारणी। `वसिता` इति। `वस आच्छादने` (धातुपाठः-1023)। `वस निवासे` इत्यस्य सम्प्रसारणं विहितम्` इति। वाच्यादिसूत्रेण [[6.1.15]] । एतेन निवासार्थो वसिः प्रसारणी, न त्वाच्छादनार्थं इति दर्शयति। `रभिश्च` इत्यादि। `रभ राभस्ये` (धातुपाठः-974) `यभ मैथुने (धातुपाठः-980) `डु लभष्? प्राप्तो` (धातुपाठः-975)। `यमिञंमन्तेषु` इत्यादि। `ञम्` इति ञकारादारभ्य अमो मकारेण प्रत्याहरग्रहणम्। `यम उपरमे` (धातुपाठः-984), `रमु क्रीडायाम्` (धातुपाठः-853), `मन ज्ञाने` (धातुपाठः-1176), `णम प्रह्वत्वे शब्दे च` (धातुपाठः-981), `हन हिंसागत्योः` (धातुपाठः-1012), `गम्लृ सृप्लृ गतौ` (धातुपाठः-982,983)। `श्यनिपठते` इति। श्यन्ग्रहणेन साहचर्यात्? दिवादिर्लक्ष्यते। दिवादौ पठत इत्यर्थः। `प्रतिषेधदाचिनाम्` इति। प्रतिषेधं वक्तुं शीलं येषां ते तथोक्ताः धातव एव ह्रनुदात्तलिङ्गानुषक्ताः प्रतिषेधं प्रतिपादयन्तति प्रतिषेधवाचिन उच्यन्ते। अथ वा - इट्प्रतिषेधमात्मविषयमाचार्येण वाचयन्त्यभिधापयन्तीति प्रतिषेधवाचिन इत्युच्यन्ते। एवञ्चात्र सम्बन्धः कर्तव्यः - ञमन्तेषु मध्ये ये परतिषेधवाचिनो धातवस्तेषां मध्ये यमिरनिडिष्यते। `रमिश्च` इत्यादि। अथ वा - प्रतिषेधवाचिनामित्यत्र मतेनेत्यध्याहार्यम्। तत्रैवं सम्बन्ध कर्तव्यः - इट्प्रतिषेधवाचिनामाचार्याणां मतेन यमिर्ञमन्तेष्वनिडेक इष्यत इति। `मनुतेः` इति। `मनु अवबोधने` (धातुपाठः-1471) इत्येतस्य तानादिकस्य। `दिहिः` इत्यादि। `दिह उपचये` (धातुपाठः-1015), `दुह प्रपूरणे` (धातुपाठः-1014), `मिह सेचने` (धातुपाठः-992) `रुह जन्मनि प्रादुर्भावे` (दा।पा।859), `वह प्रापणे` (धातुपाठः-1004), `णह बन्धने` (धातुपाठः-1166), `दह भस्मीकरणे` (धातुपाठः-991), `लिह आस्वादने` (धातुपाठः-1016)। `मुक्तसंशयाः` इति। मुक्तः= त्यक्तः संशयो येषु यैर्वा ते तथोक्ताः। `प्रविभज्य कीर्त्तिताः` इति। सेडनिङ्विभागेन व्यवस्थाप्य कीर्त्तिता इत्यर्थः। `देग्धा, दोग्धा` इति। `दादेर्धातोर्धः` [[8.2.32]] इति धत्वम्, <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वमित्येते विधयः कर्तव्याः। `मेढा, `आरोढा` इति। `हो ढः` [[8.2.31]] इति ढत्वम्, पूर्ववद्धत्वम्, `ष्टुन ष्टुः` [[8.4.40]] ष्टुत्वम्, <<ढो ढे लोपः>> [[8.3.13]] इति डलोपः। `वोढा` इति। पूर्ववड्ढत्वादि; <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्योत्त्वम्। `नद्धा` इति। `नहो धः` [[8.2.34]] इति धत्वम्, पूर्ववज्जश्तवम्। `तन्नान्तरे` इति। आपिशले व्याकरणे। `सहेर्विकल्पस्तकरादौ` इति। `तीषसह` [[7.2.48]] इत्यादिना तकारादौ सहेर्विकल्प उक्तः। `मुहिरपि रधादौ पठते` इति। एतेन मुहेरपि <<रधादिभ्यश्च>> [[7.2.45]] इति विकल्पं दर्शयति। `तेन तौ ससंशयौ सविकल्पौ` इति। एतेन विकल्पात्मकेन संशयेन तौ ससंशयौ न तु सन्देहात्मकेनेति दर्शयति। `इतरौ` इति। रिहिलुही। `कैश्चिदभ्युपगम्येते` इति। आपिशलिप्रभृतिभिः। `स्वरूपेणैव ससंशयौ` इति। स्वरूपेणेति स्वभावेन। ससंशयौ=ससन्देहौ। संशयो ह्रतर सन्देहे वर्तते। सन्देहस्तु - धातुष्वपाठात्। अथ च कैश्चिदभ्युपगमाच्च। तयोश्चैको हिंसायां वर्तमानोऽब्युपगम्यते, अपरस्तु गाध्र्ये। `दिशिं दृशिम्` इत्यादि। `दिश अतिसर्जने` (धातुपाठः-1283) `दृशिर्? प्रेक्षणे` (धातुपाठः-988), `दन्श दशने` (धातुपाठः-981) `अथो शब्दः पादपूरणे। मृश आमद्र्दने` (धातुपाठः-1425),[`आमर्शने` - धातुपाठः-] `स्पृश संस्पर्शे`[`संस्पर्शने` - धातुपाठः-] (धातुपाठः-1422) `रुश रिश हिंसायाम्` (धातुपाठः-1419,1420), `क्रूश आह्वानेग रोदने च` (धातुपाठः-856), `विश प्रवेशने` (धातुपाठः-1424), `लिश अल्पीभावे` (धातुपाठः-1179)। `पुराणगाः` इति। पुराणम्=व्याकरणम्, चिरन्तनत्वात्ष तदगायन्त्यधीयते येते पुराणगाः। `पाठेषु` इति अनिट्कारिकापाठेषु, धातुपाठेषु वा। `नेतरान्` इति। `स्पश बाधनस्पर्शनयोः` (धातुपाठः-887) इत्येमादीनिति। `देष्टा` इति। व्रश्चादिसूत्रे [[8.2.36]] षत्वम्। `अनुदात्तस्य` [[6.1.58]] इत्यादिना मृशिप्रभृतीनामनुदात्तेट्प्रतिषेधादधिकं कथं दर्शयति।`रुधिः सराधिः` इत्यादि। सह राधिना वर्तत इति सराधिः। `रुधिर्? आवरणे` (धातुपाठः-1438), `राध साध संसिद्धौ` (धातुपाठः-1162,1163)। `राधोऽकर्मकाद्वृद्धौ` इति। द्वयोरपि ग्रहणमिष्यते, विशेषाभावात्। `युध सम्प्रहारे` (धातुपाठः-1190), `शुध शौचे` (दा।पा।1191), `बुध अवगमने` (धातुपाठः-1172), `व्यध ताडने` (धातुपाठः-1181), `सिधु संराद्धौ`[`षिधु` - धातुपाठः-] (धातुपाठः-1192)। `नेतरे` इति। इन्धिप्रभृतयः। `न्याय्यविकरणयोः` इति शब्विकरणयोरित्यर्थः। `बुध बोधने` (धातुपाठः-875), [`बुधिर्` - धातुपाठः-] `षिधु गत्याम्` (धातुपाठः-47)[`विध` - धातुपाठः-] इत्येतयोः। `निष्ठायामपि` इत्यादि। अथ कतं बुधेर्भौवादिकस्य प्रति,#एध आशङ्कितः? सिधेरुदित्त्वेन प्रतिषिद्धत्वात्। `उदित्तो वा` [[7.2.56]] इति कत्वाप्रत्यये विकल्पविधानात्? <<यस्य विभाषा>> [[7.2.15]] इति निष्ठायां प्रतिषेधेन भवितव्यमिति युक्ता प्रतिषेधाशङ्का। बुधेस्तु न किञ्चिन्निष्ठायां प्रतिषेधाशङ्काकारणमस्ति। तस्याप्यस्ति - इह भौवादिकदैवादिकयोर्बुध्योरर्थरूपे समाने, अतश्चार्थरूपसाम्यादुपजातभ्रान्तिः प्रतिपत्ता; एक एवायं धातुः, विकरणद्वयार्थमुभयोर्गणयोः पाठः, तस्य चार्धधातुक इडप्युक्तः, अनेन सूत्रेणेट्प्रतिषेधोऽपीत्येकविषयत्वाद्विधिप्रतिषेधयोः पर्यायप्रतिपत्तो विभाषेट्त्वम्, अतः <<यस्य विभाषा>> [[7.2.15]] इति निष्ठायां प्रतिषेधे न भवितव्यमिति कैश्चिन्मन्यते। तस्मात्? तन्मतमाशङ्क्येदमुक्तम् - निष्ठायामपीत्यादि। एवं मन्यते - अन्य एव भौदादिको बुधिर्यस्येङविधिः, अन्यश्च वैवादिको यस्येट्प्रतिषेधः; तस्मात्? भिन्नविषयत्वाद्विधिप्रतिषेधयोर्विभाषेट्त्वं नोपपद्यत इति। अथ सिषेर्निष्ठाया प्रतिषेधाभावः कथमुक्तः, यावतीदिस्वात्? तस्य <<उदितो वा>> [[7.2.56]] इति विभाषेट्त्वात्? <<यस्य विभाषा>> [[7.2.15]] इति निष्ठायां भवितव्यमेव प्रतिषेधेन? एवं मन्यते - सिधेरुदित्त्वमनार्षमेव, यद तस्योदित्त्वं स्यात्, भ्वादौ पाठोऽनर्थकः स्यात्; यदनेन साध्यं रूपं तस्य `षिधू शात्रे` (धातुपाठः-48) [`शास्त्रे माङ्गल्ये च` - धा।पा] इत्यनेनैव सिद्धत्वात्। अनुदित्त्वे तु तस्य सिधितमित्येतत्सिद्धयेऽर्थवान्? पाठो भवति। न ह्रेतत्? `षिधू शास्त्रे` इत्यतेन सिध्यतीति। ऊदित्त्वेनास्य `स्वरितसूति` [[7.2.44]] इत्यादिना विभाषितेटः <<यस्य विभाषा>> [[7.2.15]] इति निष्ठायामिट्प्रतिषेधात्। तस्माद्? भ्वादिपाठादेव सिद्धे सिधेरुदित्त्वमनार्षमेव। `शिर्षि पिषिम्` इत्यादि। `शिष्लृ विशरणे` (धातुपाठः-1451), [`विशेषणे` - धातुपाठः-] `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452), `शुष शोषणे` (धातुपाठः-1183), `पुष पुष्टौ` (धातुपाठः-1182), `त्विष दीप्तौ` (धातुपाठः-1001)। `जिषु विषु मिषु सेचने` (धातुपाठः-697,698,699), `श्रिषु श्लिषु प्रषु प्लुषु दाहे` (धातुपाठः-701-704) - द्वयोरपि ग्रहणम्। `तुष तुष्टौ` (धातुपाठः-1184), [`प्रीतौ` - धातुपाठः-(तूष तुष्टो - धातुपाठः-674)] `दुष वैकृत्ये` (धातुपाठः-1185), `द्विष अप्रीतौ` (धातुपाठः-1013), `कृष विलेखने` (धातुपाठः-1286) - भौवादिकतौदादिकौ। `पुष्यति` इति। श्यना निर्देशो भौवादिककैयादिकयोर्निवृत्त्यर्थः। शुष्यतिप्रभृतीनां तु वृत्तभङ्गपरिहारार्थः। `क्रष्टा, कर्ष्टा` इति। पूर्ववद्विकल्पेनामागमः। `तपिं तिपिम्` इत्यादि। `तप सन्तापे` (धातुपाठः-985), `तप ऐश्यर्ये` [दाहे ऐआर्ये वा - धातुपाठः-] (धातुपाठः-984) - द्वयोरपि ग्रहणम्। `तिपृ तेपृ ष्टेपृ क्षरणार्थाः, (धातुपाठः-362,363,365), `आप्लृ व्याप्तौ` (धातुपाठः-1260), `टु वपबीजतन्तुसन्ताने` (धापा।1003),[डु वप बीजतन्तुसन्ताने, छेदनेऽपि - धातुपाठः-] `ञि ष्वप्? शये` [`ष्वप` - धातुपाठः-] (धातुपाठः-1068), `लिप उपदाहे` (धातुपाठः-1433), `लुप्लू छेदने` (धातुपाठः-1431), `तृप पीणने` (धातुपाठः-1195), `हप हर्णणमोचनयोः` (धातुपाठः-1196), [`हर्षमोहनयो-धातुपाठः-] `गम्लृ सृप्लृ गतौ` (धातुपाठः-982,983)। `स्वरेण नीचेन` इति। अनुदात्तेनेत्यर्थः। `शप आक्रोशे` (धातुपाठः-1000), `शप उपालम्भे` [`आक्रोशे` - धातुपाठः-] (धातुपाठः-1168) - उभयोरपि ग्रहणम्। `छुप स्पर्शे` (धातुपाठः-1418), `क्षिप प्रेरणे` (धातुपाठः-1285)। तृप्यति दृप्यत्योरनुदात्तेत्त्वममागमार्थम्, `अनुदात्तस्य` [[6.1.58]] इत्यादिना पक्षेऽमागमो यथा स्यात्। इद्प्रतिषेधार्थं कस्मान्न भवति? इत्याह - `इट्? त्वनयोः` इत्यादि। `तुदादिषु यौ तृपिदृपी` इति। `तृप तृम्प तृप्तौ`[`तृन्फ` - धातुपाठः-] (धातुपाठः-1307,1308), दृप उपक्लेशे`[`उल्लकेशे - धातुपाठः-] (धातुपाठः-1313) इत्येतौ। `अदिं हदिम्` इत्यादि। `अद भक्षणे` (धातुपाठः-1011),`हद पुरोषोत्सर्गे` (धातुपाठः-977), `स्कन्दिर्गतिशोषणयोः` (धातुपाठः-959), `भिदिर्? विदारणे` (धातुपाठः-1439), `छिदिर्? द्वैधीकरणे` (धा।श।1440), `क्षुदिर्? सम्पेषणे` (धातुपाठः-1443), `शद्लु शातने` (धातुपाठः-855), `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-854), `ञि ष्विदा गात्रप्रक्षरणे` (धातुपाठः-1188), `पद गतौ` (धातुपाठः-1169)। `खिद दैन्ये` (धातुपाठः-1170), `खिद परिद्याते` (धातुपाठः-1282), `विद सत्तायाम्` (धातुपाठः-1188), `पद गतौ` (धातुपाठः-1169), `विद विचारणे` (धातुपाठः-1450)। `ञिष्विदेत्यस्य ग्रहणं मा भूत्` इति। `ञिष्विदा स्नेहमोचनयोः (धातुपाठः-744) [`स्नेहनमोचनयोः - धातुपाठः-] इत्यस्य। `अन्यविकरणनिवृत्त्यर्थः` इति। `विद ज्ञाने` (धातुपाठः-1064) इति लग्विकरणस्य, `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य शविकरणस्य च निवृत्त्यर्थः। `विद वेदनाख्यानविवासेषु` (धातुपाठः-1708) [`चेतनाख्यानविवासेषु` - धातुपाठः-] इत्यस्य चौरादिकस्यानेकाच्त्वा देवाप्रसङ्गः। `पचिं वचिम्` इत्यादि। `डु पचष्? पाके` (धातुपाठः-996)। `वच परिभाषणे` (धातुपाठः-1063), `व्रुवो वचिः` [[2.4.53]] इति च द्वयोरपि ग्रहणम्। सौत्रोऽप्युपदेशो भवत्येव। `विचिर्? पृथग्भावे` (धातुपाठः-1442), `विचिर्? विवेचने` (धा।1094), [`विजिर्? पृथग्भावे` - धातुपाठः-] `रन्ज रागे` (धातुपाठः-999), `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413), `णिजिर्? शौचपोषणयोः` (धातुपाठः-1093), `षिचिर्? क्षरणे` (धातुपाठः-1434),[`षिच` - धातुपाठः-] `मुच्लृमोक्षणे` (धातुपाठः-1430), `भज सेवायाम्` (धातुपाठः-998), `भन्जो आमर्दने` (धातुपाठः-1453), `भ्रस्ज पाके` (धातुपाठः-1444), `युज समाधौ` (धातुपाठः-1177) - द्वयोरपि ग्रहणम्। `रुजो भङ्गे` (धातुपाठः-1416), `षन्ज सङ्गे` (धातुपाठः-987), `टु मस्जो शुद्धौ` (धातुपाठः-1415)। `भुज पालनाभ्यवहारयोः` (धातुपाठः-1454), `भुजो कौटिल्य` (धातुपाठः-1417) - द्वरोरपि ग्रहणम्। `ष्वञ्ज परिष्वङ्गे` (धातुपाठः-976)। कृतानुनासिकलोपस्य निर्देशो वृत्तभङ्गपरीहारार्थः। `सृज विसर्गे` (धातुपाठः-1414)। `मृजू शुद्धौ` (धातुपाठः-1066) आदादिकः। `मृज शौचालङ्कारयोः` (धातुपाठः-1848) [`मृजू` - धातुपाठः-] इति चौरादिकोप्यस्ति, सोऽपि यदा `आ धुषाद्वा` (धातुपाठः-1805) अनन्तरम्) इति णिजनास्त#इ, तदा शक्य एव ग्रहीतुम्। यदा त्वस्ति, तदाऽनेकाच्त्वादेवेट्प्रतिषेधाप्रसङ्गः। `मृजिरयम्` इत्यादिनप्रतिषेधार्थतां मृजेरिह निरस्यति। `अमागमोऽप्यस्य` इत्यादि। अनेनामागमार्थताम्। `तदिह` इत्यादि। यत एव हि प्रयोजनद्वयं न सम्भवति, तत्समादिहास्य पाठे प्रयोजनं चिन्त्यम्। तत्र केचिदाहुः - यद्यप्यमागमो न दृश्यते, तथाप्यसौ कर्तव्य एव अन्यथा ह्रस्य पाठोऽनर्थकः स्यात्। न हि यन्न दृश्यते तेन न भवितव्यमेव, अन्यता हि `यथालक्षणमप्रयुक्तेषु` इत्येतद्वचनमप्रयुज्यमानं स्यात्। अन्ये तु वर्णयन्ति - मृजेनिरुपपदात्, क्विबन्ताद्विकारावयवविवक्षायां माजं इति <<अनुदात्तादेरञ्>> [[4.2.44]] इत्यञ्? यथा स्यात् - इत्येतत्? प्रयोजनमिति; एतच्चायुक्तम्; एकाच्त्वाद्धि नित्यं मयटा भवितव्यम्। तथा हि - <<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]] इत्यत्र नित्यग्रहणं किमर्थम्, यावताऽऽरम्भसामर्थ्यादेव नित्यं भविष्यति? इति चोदेते, इदमुक्तम् - `एकाचो नित्यं मयटमिच्छन्तीति तदर्थमेतत्? क्रियते - त्वङ्मयं वाङ्मयम्` इति। `केचित्` इत्यादि। केचित्? प्रयोजनमपश्यन्तो मृजेः स्थाने विजिं पठन्ति। किं करणमित्याह - `निजादिषु हि` इत्यादि। `विजिर्? प्रथग्भावे` (धातुपाठः-1094) इति निजादिषु विजिः पठते, स यस्मादनिडिष्यते तस्मान्भृजिमपनीय तस्य स्थाने विजिं पठन्ति। कथं ज्ञायतेऽसावनिडिष्यते? इत्याह - `तथा च` इत्यादि। `तन्त्रान्तरे`[`ग्रन्थान्तरे - इति पाठान्तरम्] इति। आपिशलिष्याकरणे। अथ `सुजिविजी` इत्यस्मिन्? पाठे `ओविजी भयचलनयोः` (धातुपाठः-1289) इत्यस्य ग्रहणं कस्मान्न भवति? ईदित्त्वात्। तद्ध्येवमर्थं क्रियते - `आओदितो निष्ठायाम्` [[7.2.14]] इतीट्प्रतिषेधो यथा स्यात्। यदि च तस्यापीह ग्रहणं स्यादनेनैव सिद्धत्वादीदित्त्वमनर्थकं स्यात्। `अवधीत्` इति। `लुङि च` [[2.4.43]] इति वाधादेशोऽदन्तः। स चानुदत्तस्यादेशः स्थानिवद्भावेनैव भवति। उपदेशेऽनुदात्त एकाच उपदेशो न भवतीति न भवति प्रतिषेधः। कथं पुनरयमेकाज्भवति? इत्याह - `वृद्धिनिवृत्त्यर्थम्` इत्यादि। यदि हृदन्तो वधिर्नोपदिश्येत, <<अतो हलादेर्लघोः>> [[7.2.7]] इति विकल्पेन वृद्धिः स्यात्। अदन्ते तु सति न भवति, तत्र `येन च्यवधानमाश्रियम्। अदन्तत्वे तु सति वधेरकारलोपस्य पुर्वविधौ स्थानिवद्भावेनापि व्यवधानं भवति, न केवलं हलैव। याऽपि हलन्तलक्षणा वृद्धिः, साऽप्यदन्तत्वे सति न भवत्येव;अकारलोपस्य स्थानिवद्भावादहलन्तत्वात्। तस्माद्वृत्त्यर्थमदन्तो वधिरुपदिश्यते। ननु यद्यप्यदन्त उपदिश्यते, तथापि स्थानिवद्भावेनैकाजिति व्यपदेशे सति भवितव्यमेव प्रतिषेधेन? `नतदस्ति; एवं ह्रेकाज्ग्रहणमनर्थकं स्यात्। तथा हि - जागृदरद्राचकात्प्रभृतीनामुदात्तत्वात्? नैकाज्ग्रहणं ते प्रयोजयन्ति। सनाद्यन्तानां धातूनामुपदेशत्वं नास्ति; लाक्षणिकत्वात्समुदायस्य। न चान्योऽनेकाज्? धातुरूपदेशेऽनुदात्तोऽस्ति य एकाज्ग्रहणं प्रयोजयति। न चास्मिन्? व्यपदेशे कर्तव्ये स्थानिवद्भावेऽस्ति; अल्विधित्वात्। `इह च यता स्यात्` इति। असत्युपदेशग्रहणे` एकाचो धातोरनुदात्तादिडागमो न भवतीत्येव सूत्रार्थः; एवञ्च लविष्यति, पविष्यतीत्यत्रेडागमो न स्यात्। भवत्यत्र प्रत्ययस्वरे कृते शेषानुदात्तत्वे धातुरनुदात्तः। तथा च - कर्ता कटान्, कर्त्तुमिच्छतीत्यत्र त्विडागमः स्यादेव; तृनि तुमुनि च कृते नित्स्वरेण धातोरुदात्तत्वात्। उपदोशग्रहणे तु सति तेनाद्यावस्था विशेष्यत इति न भवत्येव दोषप्रसङ्गः। यद्यप्युत्तरकालं लुनातिपुनाती अनुदात्तौ, तथाप्युपदेशावस्थायामुदात्तावेव। तथा यद्यप्यत्तरकालं करोतिरुदात्तः, तथाप्युपदेशवस्थायामनुदात्त एव। अथ बिभिच्छब्दस्य प्रकृतेपाठो नास्ति, नाप्येकाच्त्वम्; तथापि भिदेस्तूभयमिदमस्ति। `द्विष्प्रयोगो द्विर्वचनम्` इत्ययमपि तत्र पक्ष आश्रितः, तेन भिदिरेव तत्र द्विरुच्यते, तस्य चोभयविशेषणविशिष्टत्वात्? सिध्यत्येव प्रतिषेधः॥", "72011": "उदात्तार्थं आरम्भः। `लूनः` इति। `ल्वादिभ्यश्च` [[8.2.44]] इति नत्वम्। `तीर्णः` इति। अत्रापि `रदाभ्याम्` [[8.2.42]] इति। `केचित्` इत्यादि `ग्लाजिस्थस्च क्स्नुः` [[3.2.139]] इति `भुवश्चेति वक्तव्यम्` [[3.2.138]] [`भुवश्च` - इति सूत्रम्] इत्यत्र भवतेः क्स्नुप्रत्यये गिति कृते सति विधीयमानस्वाद्? गितीट्प्रतिषेधो न प्राप्नोति, ततश्च भूष्णुरिति न सिध्येत्। तस्माद्? भूष्णुरित्यत्रेट्प्रतिषेधार्थं केचित्? आभूति - व्याङिप्रभृतयः `श्रयुकः किति` इत्यत्र द्विककारनिर्देशेव हेतुना चर्त्वभूतो गकारः प्रश्लिष्ट इत्येवमाचक्षते। यदि चर्त्वभूतो गकारः प्रश्लिष्टः, एवं सति <<ससजुषो रुः>> [[8.2.66]] इति रुत्वे कृते चर्त्वस्यासिद्धत्वात्? `हशि च` [[6.1.114]] इति रोरुत्वेन भवितव्यम्? न तु विसर्जनीयेन, ततश्च `श्रयुकः किति` इति निर्देशो न युज्यते? इत्येतच्चोद्यं निराकर्त्तुमाह - `सौत्रत्वान्निर्देशस्य` इत्यादि। चर्त्वभूतस्यासिद्धत्वमनाश्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृत इति वर्णयन्ति। किमर्थं पुनस्ते क्स्नुप्रत्येय गित्त्वं प्रतिजानते, यस्मिन्? सतीदं व्याख्यानं कर्तव्यं जायते? स्थास्नुशब्दस्य सिद्ध्यर्थम्। एवं हि ते मन्यन्ते - क्स्नोः कित्त्वे सति `धुमास्थागादि` [[6.4.66]] सूत्रेण तिष्ठतेरीत्त्वं स्यात्, ततश्च स्थास्नुरिति न स#इद्ध्येदिति। `ग्लाजिस्थश्च क्स्नु इत्यत्र` इत्यादि। गित्त्वे हि सति क्स्नोरट्प्रतिषेधार्थमेवं व्याख्यायते, न च तस्य गित्त्वम्। किं तर्हि? कित्त्वमेव। न च कित्त्वे सतीत्त्वं प्रसज्यते, यस्मात्? <<ग्लाजिस्थश्च क्स्नुः>> [[3.2.139]] इत्यत्र स्था+आ इत्यकारप्रश्लेषः कृतः। तिष्ठतेः क्स्नुप्रत्ययान्तस्याकारान्तस्याकारान्ततैव यथा स्यातद्, ईकारान्तता मा भूदित्येवमर्थः। आकाराप्रश्लेषे हि सतीत्त्वापवादस्तिष्ठतेराकारादेशो भवति, अतस्तेन बाधित्वादीत्त्वं न प्रवर्तते। तदेवं कित्त्वे सत्यकरप्रश्लेषात्? स्थास्नुशब्दस्य सिद्धत्वात्? न किञ्चिदेतत्। एतद्व्यास्यानमसारमित्यर्थः। `तीर्णम्` इत्यत्रापि किं पुनः कारणमसत्युपदेशग्रहणेऽत्रि न स्यात्, यावता तरतिरयमुगन्तः पठते? इत्याह - `इत्त्वे हि` इत्यादि। `ऋत्? इद्धातोः` [[7.1.100]] इतीत्त्वे च कृत उगन्तता विहतेत्यसत्युपदेशग्रहणे न स्यात्, तस्मस्तु सति भवति। यद्यप्युत्तरकालं तरतिरुगन्तो न भवति, तथाप्युपदेश एव। `मा भूदेवम्` इत्यादि। चोदकः। `कस्य पुनः` इत्यादोतरः। `ॠतः`[`कृतः` इति मुद्रितः पाठः] इति चोदकः। `यद्येवम्` इत्यादीतरः। `स्थानिवद्भावात्` इति। अल्विधित्वं पुनरुगिति प्रत्याहारग्रहणात्। `तस्मात्` इति। आह - यस्मादेदमसत्युपदेशग्रहणे तीर्ण इत्यत्र प्रतिषेधो न प्राप्नोति, तस्मादुपदेश इत्यनुवर्तनीयम्। `तथा च सति` इत्यादि। उपदेशेऽनुवर्तमाने सतीत्यर्थः। `जागरित इत्यत्रापि प्राप्नोति` इति। जागर्तेरुपदेशावस्थायामुगन्तत्वात्। `तदर्थम्` इति। जागरित इत्यादाविट्प्रतिषेधप्राप्तिनिवृत्त्यर्थम्; अर्थशब्दस्य निवृत्तिवाचित्वात्। यदि तर्हि `एकाचः` [[7.2.10]] इत्यनुवर्तते, प्रोर्णुतः, प्रोर्णुतवनित्यत्रेट्प्रतिषेधो न प्राप्नोति; ऊरणोतेरनेकाण्त्वात्? इत्यत आह - `वाच्य ऊर्णोर्णुवत्` इत्यादि। अस्याः कारिकायाः पूर्वमेवार्थो व्याख्यात इति न पुनव्र्याख्यायते॥", "72012": "ग्रहेः सनि चित्यमिटि प्राप्ते गुहेरप्यूदित्त्वात्? `स्वरति` [[7.2.44]] इत्यादिसूत्रेण विकल्पे प्राप्तेऽस्यारम्भः। चकारः `उकः` [[7.2.11]] इत्यनुकर्षणार्थः। ननु च <<इको झल्>> [[1.2.9]] इत्युगन्तानां किदेव सन्? तत्र पूर्वेणैव प्रतिषेधः सिद्धः किमुक इत्यनुकर्षणार्थेन चकारेण? नैतदस्ति; न हीट्प्रतिषेधमन्तरेण सनो झलादित्वमुपपद्यते, कुतः कित्त्वम्! अनेन त्विटि प्रतिषिद्धे झलादित्वं सनो जायते, पश्चाद्गुणप्रतिषेधार्थं कित्त्वमिति क्रमः। `जिघृश्रति` इति। `रुदविद` [[1.2.8]] इत्यादिना सनः कित्त्वे सति ग्रह्रादि [[6.1.16]] सूत्रेण सम्प्रसारणम्, `हो ढः` [[8.2.31]] इति ढत्वम्, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्, `इण्कोः` [[8.2.57]] इति षत्वम्, `एकाचो वशो भष्` [[8.2.37]] इत्यादिना भष्भावेन गकारस्य घकारः, द्विर्वचनम्, अभ्यासकार्यम्। `जुधुक्षति` इति। `रुदविद` [[1.2.8]] इत्यादिना सनः कित्त्वे सति ग्रह्रादि [[6.1.16]] सूत्रेण सम्प्रसरणम्, `हो ढः` [[8.2.31]] इति ढत्वम्, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्, द्विर्वचनम्, अभ्यासकार्यम्। `जुघुक्षते` [`जुधुक्षति` - काशिका, पदमञ्जरी च] इति। `गुहू संवरणे` (धातुपाठः-896), `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। `रुरूषति` इति। <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः। अथ चकारेण यथेगन्तमनुकृष्यते, तथा चैकयोगनिर्दिष्टः श्रयतिरप्यनुकृष्येत? इत्यत आह - `श्रिस्वृयूर्णुरभज्ञपि` इत्यादि। श्रयतेः `सनीदन्तर्घ` [[7.2.49]] इतीटो विकल्पं विधास्यतीत्यतस्तस्येहानुवत्तिरपार्थिकेति नानुकृष्यते।", "72013": "`सकृव, चकृम` इति। `परस्मैपदानाम्` [[3.4.82]] इत्यादिना वस्मसोर्वमादेशौ। `क्रादय एव` इति। नियमस्य स्वरूपं दर्शयति। `लिटएव क्रादयोऽनिटः` इत्येष तु विपरीतनियमो नाशङ्कनीयः; <<कृतलब्धक्रीतकुशलाः>> [[4.3.38]] इति <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यादिनिर्देशात्। केन पुनस्तेषामिट्प्रतिषेधः सिद्धः, यतः सिद्धे सत्यारम्भो नियमार्थ उच्यते? इत्यत आह - `अनुदात्तोपदेशानाम्` इत्यादि। अनुदात्तोपदेशा वृङ्वृञ्भ्यामन्ये करोत्यादयः, तेषामेव `अचः` [[7.2.10]] इत्यादिना प्रकृत्याश्रयः प्रतिषेधः सिद्धः। वृङ्वृञोस्तु `श्रयुकः किति` [[7.2.11]] इति प्रत्ययाश्रयः, न तु प्रकृत्याश्रयः; तयोरुदात्तत्वात्। `तत्` इत्यादि। यत एव तेषां यथायोगं प्रकृत्याश्रयः प्रत्ययाश्रयश्च प्रतिषेधः सिद्धः, तस्मादुभयस्यापि प्रतिषेधस्य प्रयुक्तस्यायं नियम इत्यर्थः। धात्वन्तरेभ्यो व्यवच्छिद्य करोत्यादीनां प्रतिषेधस्थेह नियमो वेदितव्यः। `कथं पुनरेतद्वृञं प्रति थलि नियमार्थमुपपद्यते? सति हि प्रतिषेधे नियमो भवति। वृञस्थलीट्प्रतिषधः। तस्य हि नात्र प्रकृत्याश्रयः प्रतिषेधः सिद्धः; उदात्तत्वात्। नापि प्रत्ययाश्रयः; थलः कित्त्वाभावात्। तस्मात्? वृञं प्रति थलीट्प्रतिषेधार्थतैव युक्ता, न नियमार्थता? इत्यत आह - `वृञो हि` इत्यादि। व्यवस्था=नियमः। <<बभूथाततन्थजगृम्भववर्थेति निगमे>> [[7.2.64]] इति निपातनाट्वृञो निगम एव थलीट्प्रतिषेधेन भवितव्यम्, न भाषायाम्। यत एवं व्यवस्था तस्मान्नायं वृञस्थलीट्प्रतिषेधः; अन्यथा ववर्थेति निपातनस्य वैयथ्र्यं स्यात्। तस्मात्? प्रतिषेधाभावात्? वृञोऽप्येतत्? सूत्रं नियमार्थमेव विज्ञायत इत्येकान्त एषः। `स्तुद्रुरुआउश्रुवां तु` इत्यादि। अपिशब्दः आर्धधातुकलक्षणोऽपि य इट्? प्राप्नोति सोऽपि नेष्यत इति दर्शनार्थः। कथं पुनरिष्यमाणोऽपि लभ्यते, पुरस्तात्, प्रतिषेधकाण्डस्य बलीयस्त्वात्। इह च `न वृद्भ्याश्चतुभ्र्यः` [[7.2.59]] इत्यस्यानन्तरमिदं प्रतिषेधकाण्डं कर्त्तुं युक्तम्। एवं द्विष्प्रतिषेधाश्रयणं न कर्तव्यं स्यात्। यदयं पुरस्तात्? प्रतिषेधं करोति, तस्यैतत्? प्रयोजनम् - इष्मात्रस्यानाश्रितविशेषविधानस्य प्रतिषेधो विज्ञायते, पुरस्तात्? प्रतिषेधे क्रियमाणे सति विशेषमनाश्रित्येण्मात्रस्यायमपवादो भवति। तेन यावानिट्? प्राप्तस्तस्य सर्वस्य प्रतिषेधो भवति सिद्धः। अन्यस्त्वाह - `नेटि` [[7.2.4]] इत्यनुवर्तमाने पुनरिङ्ग्रहणसामर्थ्यात्, पुनः प्रतिषेधसामर्थ्याच्च इण्मान्नस्य प्रतिषेधो विज्ञायते। `कुञोऽसुट्कस्येति वक्तव्यम्` इति। करोतेरविद्यमानसुटः षतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? ससुट्कस्येडागमो यथा स्यात्। तत्रेदं व्याख्यानम् - <<द्वन्द्वे घि>> [[2.2.32]] इत्यनेन स्तुप्रभृतीनामन्यतमस्य घिसंज्ञकस्य पूर्वनिपातमकृत्वैतत्? सूचितम् - यतेह पूर्वनिपातलक्षणं व्यभिचरति स्वविषये न प्रवर्तते, तथेदमपीति। तेन यदा करोतिः ससुट्कः, तत्र न प्रवर्तत इति। `सञ्चस्करिव, सञ्चस्करिम` इति। <<सम्पर्युपेभ्यः करोतौ भूषणे>> [[6.1.137]] इति सुडित्यनुवर्तमाने <<अडभ्यासव्यवायेऽपि>> [[6.1.136]] इति सुट् क्रियते। `ऋतो भारद्वाजस्य [[7.2.63]] इत्येतदप्यसुयट्कस्यैवेष्यते` इति। `कृञः` इति सम्बध्यते। कथं पुनरसुट्कस्यैव भवतीति लभ्यते? यथा लभ्यते तच्च श्रूयताम् - तत्र हि <<उदितो वा>> [[7.2.56]] इत्यतो वेत्यनुवर्तते मण्डूकल्पुतिन्यायेन, सा च व्यवस्थितविभाषा, तेनासुट्कस्यैव भवतीति॥", "72014": "`शूनः` इति। वच्यादि [[6.1.15]] सूत्रेण सम्प्रसारणम्, `हलः` [[6.4.2]] इति दीर्घः। `लग्नः` इति। नत्वस्यासिद्धत्वात्? <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `उड्डीनः` इति। `ङिङ्? विहायसा गतौ` (धातुपाठः-1135)। `ननु ङीङ उदात्तत्वान्निष्ठायामिट् प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः; हि उड्डयित इत्यनिष्टं रूपं स्यादिति यो मन्येत, तं प्रत्याह - `ङीङः` इत्यादि। `ओदिताम्` इति। स्वादीनामित्यर्थः। `स्वादय ओदितः` इति वचनात। स्वादयः `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031) इत्यादयः। कथं कृत्वा ज्ञापकः? इत्याह - `स हि` इत्यादि। स्वदीनां ह्रोदितां मध्ये तस्यैवमर्थः पाठः - निष्ठातकारस्यौदित उत्तरस्य नत्वं यथा स्यात्। स्यादेतत् - इटपि कृते नत्वं भविष्यति? इत्याह - `नतवं च` इत्यादि। <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थस्यानुवृत्तेरोदितो धातोरनन्तरस्य निष्ठातकारस्य नत्वं विधीयते। तत्र यदि ङीङ परस्या निष्ठाया इट्? स्यात्, तदा सत्यप्योदित्त्वे इटा व्यवहितत्वान्नत्वेन न भवितव्यम्। नित्योदितां मध्ये तस्य पाठोऽनर्थकत्वान्न कृतः स्यात्, स चास्ति; तस्मात्? स एव पाठो ज्ञापकः? नैतदस्ति; एवं ह्रानन्तर्यपरिभाषा बाधिता भवति, शास्त्रं चानिष्टं स्यात्, एतच्चायुक्तम्; न ह्रनिष्टार्था शास्त्रे प्रकॢप्ति(भो प।सू।107) रस्ति। तस्माद्यथानन्तर्यपरिभाषा न बाध्यते शास्त्रञ्च नानिष्टं भवति, ओद#इतां मध्ये ङीङ पाठश्च सफलो भवति - स प्रकरोऽभ्युपगन्तव्यः। ततश्चौदितां मध्ये ङीङः पाटो ज्ञापक एव। अपरः प्रकारः - <<ओदितश्च>> [[8.2.45]] इत्यत्रौदित इत्येतद्द्विरावर्तयिष्यते <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यस्याः परिभाषाया द्विरुपस्थानार्थम्, तत्रास्या यद्द्वितौयमुपस्थानं तस्यैतत्? प्रयोजनम् - ङीङोऽप्यनन्तरस्यैव निष्ठातकारस्य नत्वं यथा स्यादिति। यदि च ङीङो निष्ठायामिट्? स्यात्? इटा व्यवहितत्वान्नत्वं न स्यात्। न च शक्यते वक्तुम् - व्यवधानेऽपि पाठसामर्थ्याद्भविष्यतीति। एवं हि परिभाषाया द्विरुपस्थानमनर्थकं स्यात्? एतच्चायुक्तम्; तस्मादोदितां मध्ये ङीङः पाठो ज्ञापक एव। इआग्रहणं शक्यमकर्तुम्, ओदित्करणादेव निष्ठायामिण्न भविष्यति, ओदित्त्वं हि नत्वार्थं क्रियते, नत्वं च निष्ठातोऽनन्तरस्य विधीयते; यदि च ततः परस्या निष्ठाया इट्? स्यात्? ओदित्त्वमनर्थकं स्यात्? वैचित्र्यार्थं इआग्रहणं वेदितव्यम्॥", "72015": "`विधूतः` इति। `धूञ्? कम्पने` (धातुपाठः-1836) `गूढः` इति। `गूहू संवरणे` (धातुपाठः-986)। ढत्वादिषु कृतेषु <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यादिना दीर्घः। अतेह कस्मात्? प्रतिषेधो न भवति - पतित - पतित इति, भवति हि पतिर्विभाषितेट्? `सनीवन्तर्घ` [[7.2.49]] इत्यत्र `तनिपतिदरद्राणामुपसंख्यानम्` इति विकप्लेनोपसंख्यानात्? इत्यत आह - `द्वितीयाश्रित` इत्यादि॥", "72016": "भावादिकर्मणोरनन्तरं विभाषां वक्ष्यति, ततोऽन्यत्र कर्तरि कर्मणि चायं प्रतिषेधो विज्ञायते। `आआस्तः` इत। `आआस प्राणने` (धातुपाठः-1069)। `वान्तः` इति। `टु वम अद्गिरणे` (धातुपाठः-849)। <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घः। `योगविभागकरणं किमर्थम्` इति। पृष्टस्य `आदितश्च विभाषा भावादिकर्मणोः` इति। यद्येकयोगः क्रियते, ततो भावादिकर्मभ्यामन्यत्र प्रतिषेधो न स्यादिति प्रतिवचनमात्रङ्क्याह - `आदितश्च` इत्यादि। `आदितश्च विभाषा भावादिकर्मणोः` इत्येकयोगे भावादकर्मणोर्विभाषायां विहितायां ततोऽन्यत्र कत्र्रादौ <<यस्य विभाषा>> [[7.2.15]] इति प्रतिषेधो भविष्यति, तस्मादपार्थक योगविभागकरणम्। `ज्ञापनार्थम्` इत्यादिनाऽपार्थकत्वं परिहरति। `यदुपाधेर्विभाषा तदुपाधेः` इति। उभयत्रापि बहुव्रीहिः। उपाधिः=विशेषणम्। स चैतदर्थं उपाधिर्विज्र्ञेयः। यदि यदुपाधार्विभाषा तदस्योपाधेरपि प्रतिषेधः स्यात्, तदा योगविभागां न कुर्यात्। एकयोगेनापि भावादिकर्मणोर्विहिते विकल्पे ततोऽन्यत्र <<यस्य विभाषा>> [[7.2.15]] इति प्रतिषेधो लभ्यत एव, कृतश्च योगविभागः, तस्मादेतेन योगविभागकरणेन सूचितम् - यदुपाधेर्विभाषा तदुपाधेर्निषेध इति। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। अत्र विदेर्लाभार्थस्य विभाषेति विशिना तौदादिकेन साहचर्चाल्लाभार्थस्य तौदादीकस्य ग्रहणम्। <<यस्य विभाषा>> [[7.2.15]] इति च तस्यैव प्रतिषेधो भवति, नान्यस्य। यदि यदुपाधेर्विभाषा तदुपाधेर्निषेध इति ज्ञाप्यते, `जृव्रश्चोः क्त्विः` [[7.2.55]] , <<उदितो वा>> [[7.2.56]] इति क्त्वाप्रत्यये भावविषये विभाषिते <<यस्य विभाषा>> [[7.2.15]] इति भावविषय एव निष्ठायामिट्प्रतिषेधः स्यात्, न कर्त्तृकर्मणोः? नैष दोषः; आश्रीयमाणो हि धर्मो भेदको भवति। न च क्त्वाप्रत्यये निष्ठायां वा भिन्नमभिधेयं निमित्तत्वेनाश्रितम्। तस्माद्भवत्येवात्र प्रतिषेधः। अत्र लिङ्गम् - <<तेन निर्वृत्तम्>> [[5.1.79]] इति निद्र्दशः॥", "72017": "`मिन्नमनेन` इति। <<नपुंसके भावे क्तः>> [[3.3.114]] । `मेदितम्` इति। `निष्ठा शीङ` [[1.2.19]] इत्यादिना कित्त्वप्रतिषेधे गुणः। `प्रमिन्नः` इति। प्रशब्द आदिकर्म द्योतयति। `आदिकर्म` इति। आदिभूतक्रियाक्षण इति। तस्मिन्? भूतत्वेन विवक्षिते यः क्तः स पुनः <<आदिकर्मणि क्तः कर्तरि च>> [[3.4.71]] इत्यनेन कर्तरि कारके भवति। शक्तो घटः कर्त्तुम्, शकिको घटः कर्त्तुमित्यस्य सिद्धये विभावेति योगविभागोऽत्र कर्तव्यः। तत्र `आदितः` [[7.2.16]] इति नानुवरत्तनीयम्। `भावादिकर्मणोः` इत्यत्र द्वितीये योगेऽनुवर्तमीयमेव॥", "72018": "`क्षुब्धः` इति। `क्षुभ सञ्चलने` (धातुपाठः-1239) इत्यस्येडभावो निपात्यते। `मन्थाभिधानं चेत्` इति। समुदायेन चेन्मन्थोऽभिधीयते। मन्थ इति द्रवद्रव्यसम्पृक्ताः सक्तव उच्यन्ते। `क्षुग्धो मन्थः` इति। चलितो मन्थ इत्यर्थः। `क्षुभितं मन्तेन` इति। नात्र मन्थोऽभीधीयते, किं तर्हि? तत्साधनं चलनम्। अथ मन्थाभिधाने क्षुब्धशब्दो निपात्यते, क्षुब्धा गिरिनटी, क्षुब्धा सेना, क्षुब्धः समुद्रः - इत्यादि। नोपपद्यते? इत्यत आह - `क्षुब्धा गिरिनदी` इत्तयादि। चलितमन्थसाधम्र्याद्गिरिनद्यादिषु तथा व्यवपेश इति दर्शयति। यथा क्षुब्धत्वं मन्थस्य चलनं प्रति साधनभावः, तथा गिरिनद्यादेरर्थस्य चलनं प्रति साधनभावः क्षुब्धमन्थसाधम्र्यात्? क्षुब्धशब्देन व्यपदिश्यते, यथा गोसाधम्र्याद्गोशब्देन वाहीक उच्यते। `स्वान्तम्, ध्वान्तम्` इति। `स्वन ध्वन शब्दे` (धातुपाठः-827,828)। इडभावो निपात्यते। एवमुत्तरेष्वप्युदाहरणेषु वेदितव्यम्। बाह्रेषु विषयेष्वविक्षिप्तमनाकुलं मनः=स्वःन्तमुच्यते। <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घः। `स्वनितं मनसा` इति। मनः कर्त्तृकं स्वननमुच्यते, न तु मनः। `ध्वनितं तमसा` इति। अत्रापि तमःकर्त्तृकं ध्वननमुच्यते, न तमः। `लग्नः` इति। `रगे लगे सङ्गे` (धातुपाठः-785,786)[`रगे शङ्कायाम्` - धातुपाठः-] निष्ठानत्वं निपात्यते। `स्वरश्चेत्` इति। स्वरशपब्दोऽत्र ध्वनौ वर्तते। `फाष्टम्` इति। `फण गतौ` (धातुपाठः-821)। पूर्ववद्दीर्घः ष्टुत्वञ्च। कः पुनरयमनायासो नाम? इत्याह - `यदशृतम्` इत्यादि। अशृतमित्यपक्वम्। अपिष्टमित्यचूर्णितम्। उदकसम्पर्कः उदकसंयोगः। मात्रशब्देन निष्पीडनादेव्र्यवच्छेदः। `विभक्तरसम्` इति। पृथग्भूतरसमित्यर्थः। ईषदुष्णं कोष्णम्। `तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते` इति। आयासः प्रयत्नाधिक्यम्, तद्यस्मिन्न विद्यते सोऽल्पप्रयत्नासाध्योऽनायासः। तेनेह यदशृतत्वादिविशिष्टं वस्तु तदल्पप्रयत्नासाध्यत्वादनायासेन लक्ष्यते। तदनेनानायासोपलक्षतो यो वस्तुविशेषस्तत्र फाष्टमिति निपात्यते, न त्वनायास एव। नान्यत्रापि सर्वत्रानायसोपलक्षित इति दर्शयति। अयं चार्थो निपातनसामर्थ्याल्लभ्यते। यथैव ह्रन्यत्? किञ्चिदिडभावादिकं निपतनसामर्थ्याल्लभ्यते तथाऽर्थविशेषेऽपि। `बाढम्` इति। अत्र पूर्वदद्? ढत्वादिकार्यम्॥", "72019": "`वियातस्य भावो वैयात्यम्` इति। यातम्=यातिः, प्राप्तिः विरूपं यातं यस्यासन्मार्गविषयत्वात्? स वियातः=अविनीत इत्युच्यते; तद्भावो वैयात्यम्। ब्राआहृणादित्वात्? [[5.1.123]] ष्यञ्। `षुष्टः` इति। `ञि धृषा प्रगल्भ्ये` (धातुपाठः-1269)। `विश्तः` इति। `शसु हिंसायाम्` (धातुपाठः-727), शसेरपि `उदतो वा` [[7.2.56]] इति विकल्पविधानात्? <<यस्य विभाषा>> [[7.2.15]] इतीट्प्रतिषेधः सिद्ध एवेति सम्बध्यते। यदि तर्हि सिद्ध एव प्रतिषेधः तत्? किमर्थं वचनम्? इत्याह - `नियमार्थम्` इत्यादि। वैयात्य एव वर्तमानोर्यथा स्यात्, अन्यत्र मा भूत्। अथ धृषेः `विभाषा भादिवादिकर्मणोः` [[7.2.17]] इति विकल्पे प्राप्ते नित्यार्थ वचनमिति कस्मान्न भवति? इत्याह - `भावादिकर्णणोरप , इत्यादि। अत्र चाभित्रानशक्तिस्वाभाव्यं हेतः। `धार्षितः` इति। `धर्षितः इति। पूर्ववत्? कित्त्वे प्रतिषिद्दे गूणः॥", "72020": "`बलवति` इति मतुबन्तनिद्र्दशेनार्शाअदित्वात्? सूत्रे मत्वर्थीयाकारान्तो बलशब्दो निर्द्दिष्ट इति दर्शयति। `दृंहेः` इति। `दृहि वृद्धौ` (धातुपाठः-834) इत्यस्य। `अथ वा - दृहिः प्रकृत्यन्तरमस्ति` इति। `दृह दृहि दृद्धौ` (धातुपाठः-733,734), इति कैश्चित्? पाठात्। `नकारस्याभावात्` इति। नकारस्योपदेशाभावादनिदित्त्वाच्च नकारस्योपदेशाभावादनिदित्त्वाच्च नकारस्याभावादिति। अथ हकारलोपः किमर्थं निपात्यते? नाढकार एव निपात्यताम्, परस्य च धत्वे ष्टुत्वे कृते, ढो ढे लोपे च कृते सिद्धं दृढ इति। अत्राप्ययमर्थः - परस्य ढत्वं निपातयितव्यं न भवति, ष्टुनैव सिद्धत्वात्? इत्यत आह - `हलोपनिपातनम्` इत्यादि। यदि हकारस्य ढकारो निपात्यते तदा <<ढो ढे लोपः>> [[8.3.13]] , तस्य <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यसिद्धत्वं स्यात्, सिद्धश्चासाविष्यते। तस्मात्? पूर्वत्रासिद्धत्वनिवृत्तये हलोपो निपात्यते, न ढकार इति। कः पुनरसिद्धत्वे दोषो यत्परिहाराय पूर्वत्रासिद्धत्वनिवृत्त्यर्थं हकारलोपो निपात्यते, न ढकारः? इत्यत आह - `ढलोपे` इत्यादि। यदि हि ढकारो निपात्यते, तदा <<ढो ढे लोपः>> [[8.3.13]] कर्तव्यः, तस्मस्तु सति लोपे द्रढिमेत्यादौ <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इति रोफो न स्यात्; ढलोपस्यासिद्धत्वे <<संयोगे गुरु>> [[1.4.11]] इति गुरुसंज्ञायामुपजातायां लघुसंज्ञाया बाधितत्वात्। `द्रढिमा` इति। <<वर्णदृढादिभ्यः ष्यञ् च>> [[5.1.123]] इतीमनिच्, `तुरिष्ठेयाःसु` [[6.4.154]] इति टिलोपः। `द्रढीयान्` इति। `द्विवचनविभज्योपपरदे तरबीयसुनौ` [[5.3.57]] इतीयसुन्प्रत्ययः। `द्रढयति` इति। द्रढमाचष्ट इति `तत्करोति तद#आचष्टे` (धातुपाठः-ग।सू।187) इति णिच्, `णाविष्ठवत्? कार्यं प्रातिपदिकस्य` (दा।813) इतीष्ठवद्भावेन रेफटिलोपौ। `परिद्रढय्य गतः` इति। दृढमाचष्टे इति णिच्। रभावे कृते ण्यन्तस्य परिणा योगः, ततः क्त्वा, प्रादिसमासः, `समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] इति ल्यप्। `पारिद्रढी कन्या` इति। परिद्रढशब्दादिञ्, <<इतो मनुष्यजातेः>> [[4.1.65]] इति ङीष्। `ष्यङ्? प्रसज्येत` इति। `अणिञोरनार्षयोर्गुरूपोत्तमयोः` [[4.1.78]] इत्यादिना। `दृंहितम्` इति। दृंहेः प्रत्युदाहरणम्। `दृहितम्` इति दृहेः॥", "72021": "`पूर्वेण समानम्` इति। निपातनस्येडभावादेस्तुल्यत्वात्। यथैव हि पूर्वस्मिन्? सूत्रे क्तप्रत्यये कृते हकारनकारस्योर्लोप इडभावश्च परस्य ढत्वं निपातितम्, तथेहापि तत्सर्व निपात्यते। `वृंहेर्निपातनम्` इति। `वृहि वृद्धौ` [`बृहि` - धातुपाठः-] (धातुपाठः-736) इत्यस्य। `वृहिश्च यदि प्रकृत्यन्तरमस्ति ततस्तस्यापि` इति। निपातनमेतदिति कृतेन सम्बन्धः। प्रकृत्यन्तरास्तित्वं तु `वृह वृद्धौ`[`बृह` - धातुपाठः-] (धातुपाठः-735) इति कैश्चिदुक्तम्। `तदेव प्रयोजनम्` इति। पूर्वत्रासिद्धत्वनिवृत्तिः। `परिव्रझयति` इति। अत्र ढलोपे सति पूर्ववद्रेफो न स्यात्। `परिव्रढय्य गतः` इति। हलोपनिपातने तु भवन्त्येते दोषाः। `परिव्रढमाचष्टे` इत्यादि। कथं पुनः परिवृढशब्देन विग्रहे कृते णिचो वृ शब्दादेवोत्पततिर्लभ्यते? इत्याह - `संग्रामयतेः` इत्यादि। `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च` (धातुपाठः-ग।सू।186) इत्यनेनैव णिचि सिद्धे `संग्रामे` इत्यस्य सोपसर्गस्य गणे यः पाठः स नियमार्थः - संग्रामयतेरेव सोपसर्गाण्णिजुत्पत्तिर्यथा स्यात्, अन्यत्र मा भूदिति। तदेवं संग्रामयतेरेव यस्मात्? सोपसर्गाण्णिजुत्पत्तिरिष्यते, नान्यस्मात्। तस्माद्? यद्यपि `परिवृढमाचष्टे` इति विग्रहः क्रियते, तथापि वृढशब्दाण्णिजुत्पत्तौ सत्यां लकारो भवन्नयं णिज्? यतो विहितस्तदादेरेव भवति प्रत्ययग्रहणपरिभाषया; <<सनाद्यन्ता धातवः>> [[3.1.32]] इति तदादेरेव धातुसंज्ञाविधानात्। तेन परेस्तिङन्तग्रहणेनाग्रहणात्? ततोऽतङन्तात्? पदात्? परस्य तिङन्तस्य पदस्य परिव्रढयतीत्यत्र <<तिङ्ङतिङः>> [[8.1.28]] इति निघातस्वरः सिद्धो भवति। यदि पुनः परिवृढशब्दाण्णिजत्पद्यते तदा लकारोऽपि निघातो न स्यात्। किञ्च - यदा वृढशब्दाण्णिजुत्पद्यते न परिवृढशब्दात्, तदा क्त्वाप्रत्ययोऽपि वृढशब्दाण्णिजन्ताद्भवति। तेन परिशब्दस्य क्तान्तेन सम्रथेन शब्दान्तरेण <<कुगतिप्रादयः>> [[2.2.18]] इति समासे कृते परिव्रढय्येत्यत्र ल्यबादेशः सिद्धो भवति। परिवृढशब्दाण्णिजुत्पत्तौ क्त्वाप्रत्ययोऽपि परिवृढशब्दादेव णिजन्तादुत्पद्यते, ततः समासो न स्यात्; कुगतिप्रादयः समर्थेन शब्दान्तरेण समस्यन्ते, न चात्र परेः परं क्तान्तं शब्दान्तरमस्ति। एकमेव हीदं क्तान्तं परिणा सह शब्दरूपम्; तत्रैव परिशब्दस्यान्तर्भावात्। असति च समासे <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यादिना ल्यबादेशो न स्यात्। `परिवृंहितम्` इति। वृंहेः प्रत्युदाहरणम्। `परिवृहितम्` इति। वृहेः॥", "72022": "`कष्टः` इति। कषिशिषीत्यादिहिंसार्थधातुवर्गे कषिः पठते। किं पुनः कृच्छ्रं नाम? इत्याह - `कृच्छ्रं दुःखम्` इति। यद्येवम्, दुःखे प्राणिधर्मे प्रतिषेध उच्यमानोऽग्न्यादौ न सिध्यते? इत्याह - `तत्कारणमप्यग्न्यादिकं कृच्छ्रमुच्यते` इति। कारणे कार्योपचारात्, यथा - नङ्वलोदकं पादरोग इति। चिन्त्यं पुनरेतत्? किं मुख्ये सति गौणस्य ग्रहणं युक्तम्? उत नेति? यदि तु कृच्छ्रशब्दाण्णिजन्तात्? पचाद्यचमुत्वाद्य कृच्छ्रयतीति कृच्छ्र इत्येवं व्युत्पाद्यते, तदा कृच्छ्रशब्दोऽपि मुख्येऽगन्यादावपीति न किञ्चिच्चिन्त्यम्; न चास्यां व्युत्पत्तौ तत्कारणमप्यगन्यादिकं कृच्छ्रमित्युच्यत इत्येतद्विरुध्यते। यद्धि कृच्छ्रयति तन्नियोगत एव दुःखस्य कारणं भवति॥", "72023": "`विशब्दनं प्रतिज्ञानम्` इति। स्वाभिप्रायस्य शब्देनाविष्करणमित्यर्थः। `सामान्येन ग्रहणम्` इति। विशेषानुपादानात्। यदि `घुषिरविशब्देने` (धातुपाठः-1726) [`घुषिर्? विशब्देने - धातुपाठः-]इति चुरादौ पठते एवं सति णिचा भवितव्यम्, न च णिजन्तस्येटि सत्यसति वा कश्चिद्विशेषोऽस्ति। तथा हि - इटि सति <<निष्ठायां सेटि>> [[6.4.52]] इति णिलोपे कृते घोषितमिति यद्रूपं भवत्यसत्यपीटि णिलोपाभावात्? तदेव। न च तदन्ताविट्प्रतिषेधस्य प्रप्तिरस्ति; `एकाचः` [[7.2.10]] इत्यधिकारात्। भौवादिकस्य (धातुपाठः-653) [`घुषिर्? अविश्बदेन` - धातुपाठः-] घुषेर्विशब्दने वृत्तिरेव नास्ति; शब्दशक्तिस्वाभाव्यात्; तत्क विशब्दनप्रतिषेधेन? इत्यत आह - `विशब्दनप्रतिषेधः` इत्यादि। यदि च नित्यो णिच्? स्यात्, तदा यथोक्तया रीत्या प्रतिषेधोऽनर्थकः स्यात्, ततश्च न कर्तव्य एव स्यात्, कृतश्च, तस्मादयमेव प्रतिषेधो ज्ञापयित - चुरादिणिज्विशब्दनार्थस्यानित्य इति। `जुघुषुः` इति। अनित्यप्रतिज्ञाप्रयोजनम्। असति ह्रनित्यत्वे घोषयाञ्चक्रुरिति स्यात्॥", "72024": "`अर्देः` इति। `अर्द गतौ याचने च` (धातुपाठः-55)॥", "72025": "`विदूरं विप्रकृष्टम्` इति। विशेषेणातिशयेन दूरं विदूरमिति कृत्वा, ततोऽन्यदविदूरम्। तत्? पुनर्यदासन्नं यच्चादूरं न त्वतिविप्रकृष्टं तदिति वेदितव्यम्। `तस्य भाव आदिदूर्यम्` इति। ब्राआहृणादित्वात्? [[5.1.123]] ष्यञ्। ननु च `न नञ्पूर्वात्? तत्पुरुषात्` [[5.1.121]] इत्युत्तरस्य भावप्रत्ययस्य प्रतिषिद्धत्वात्? ष्यञा न भवितव्यम्? इत्यत आह - `एतस्मादेव` इत्यादि। उत्तरत्वं तु भावप्रत्ययस्य त्वतलापेक्षया वेदितव्यम्॥", "72026": "`अध्ययनम्` इति। `कृत्यल्युटो बहूलम्` [[3.3.113]] इति ल्युट्। अधीयत इत्यध्ययनम् - कर्मसाधनोऽध्ययनशब्दः। भावसाधने हि वृत्तो गुणो देवदत्तेनेति न स्यात्, वृत्तं गुणस्य देवदत्तेनेति स्यात्। निष्ठाविशेषणञ्चैतत्। अध्येतव्याभिधायिन्यां निष्ठायामित्यर्थः। `णिलुक्? च` इति। णिलुग्निपातनं प्रत्ययलक्षण प्रतिषेधार्थम्। लोपे हि प्रत्ययलक्षणेन गुणः स्यात्। लुकि सति <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणप्रतिषेधाद्गुणो न स्यात्। `वृत्तो गुणः` इति। गुणः कश्चिदेवाध्ययनविशेष इहोच्यते। `वृत्तिरयमकर्मकः` इति। दृतं गुणस्य, वृत्तं पारायणस्येति भावे निष्ठादर्शनात्। अकर्मकाणां हि भावे निष्ठा भवति, न सकर्मकाणाम्। `स ण्यर्थे` इत्यादि। सोऽन्तर्भावितण्यर्थो यदा भवति तदा प्रकृत्यन्तो ण्यर्थे वर्तमानः सकर्मको भवति, यथा - वद्र्धन्तु त्वां सुष्टुतय इत्यत्र वृधिः। कथमेतद्विज्ञायते? इत्याह - `तेन निर्वृत्तम्` इत्यादि। न चैतद्वक्तव्यम् - अकर्मका इति। `धातवः सोपसर्गाः सकर्मका भवन्ति` इति सोपसर्गत्वादिह वृत्तेः सकर्मकत्वम्। न तु ण्यर्थवृत्तित्वादिति कृतो ण्यर्थावगतिः? यदि सोपसर्गात्वादिह वृत्तेः सकर्मकत्वं स्यान्न ण्यर्थवृत्तित्वात्, ततो यथानुभूतः क्मबलो देवदत्तदेनेत्यत्र ण्यर्थो न गम्यते, तथा तेन निर्वृत्तः इत्यत्रापि न गम्येत; गम्यते च, तस्माण्णयर्थवृत्तित्वादेव वृत्तेः सकर्मकत्वम्। यदा च ण्यर्थवृत्तर्भवति तदा प्रयोजकव्यापारापेक्षयाऽस्य कर्ता कर्मभावभापद्यत इति। तेन प्रयोज्येन कर्मणा सकर्मको भवति। `तद्वदिहापि` इत्यादि। यस्मादेवाकर्मकोऽपि स न प्रकृत्यन्त एव ण्यर्थे वर्तमानः सकर्मको भवति तस्माद्वृत्तो गुणो देवदत्तेनेत्यत्रापि ण्यर्थवृत्तेरेव कर्मणि क्तप्रत्ययो भविष्यति। ततश्च निपातनमनर्थकं स्यात्। विनाऽपि तेन सिद्धत्वात्। कथमिति चेत्? वृत्तेः क्वाप्रत्यये <<उदितो वा>> [[7.2.56]] इतीङ्विकल्पे कृते निष्ठायाम्, <<यस्य विभाषा>> [[7.2.15]] इति प्रतिषेधात्। यद्येवम्, किमर्थं तदित्याह - `तत्? क्रियते` इत्यादि। कदाचिण्ण्यर्थोऽन्तर्भावितण्यर्थतया प्रकृत्यैवाभिधीयते, तत्र यदि निपातनं न क्रियेत, तदाध्ययनेऽपि वर्त्तितमिति स्यात्। तस्मादेतन्निवृत्त्यर्थं तदित्येके प्रतिपन्नः। `अपरे तु` इत्यादि। अन्ये तु वत्तितो गुण इत्यपीच्छन्ति। ण्यन्तस्याण्यन्तस्य च - वृत्तो गुण इति। तन्मतेन निपातनं न कर्तव्यमेव। क्रियमाणं वैचित्र्यार्थं वेदितव्यम्॥", "72027": "`दान्तः, शान्तः` इति। `शमु दमु उपशमे` (धातुपाठः-1201,1203)। हेतुमण्णिच्, णिलुगिट्प्रतिषेधयोः कृतयोः <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति दीर्घः। ननु च णिलोपस्य स्थानिवद्भावाद्व्यवधाने सति न प्राप्नोति? नैतदस्ति; न हि निपातनेन लोपे सति तस्य परनिमित्तत्वव्यपदेशो विद्यते, तत्? कुतः स्थानिवद्भावः! `न पदान्त` [[1.1.57]] इत्यादिना दीर्घविधौ स्थानिवद्भावप्रतिषेधाच्च। `दमितः, शमितः` इति। `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वत्वम्। `पूर्णः` इति। `पूरी आप्यायने` (धातुपाठः-1803)। दिवादिश्चुरादिश्च। `दस्तः` इति। `तसु उत्क्षेपे` (धातुपाठः-1212) [`उपक्षये` - धातुपाठः-] `दसु च` (धातुपाठः-1213)। अत्रोपधा ह्रस्वत्वमपि निपात्यते। `स्पष्टश्छन्नः` इति। `स्पश बाधनस्पर्शनयोः (धातुपाठः-887), `छद अपवारणे` (धातुपाठः- 1935)। अत्रापयुपधाह्रस्वत्वमपि निपात्यते। ज्ञप्त इति। `ज्ञप मारणतोषणनिशामनेषु` (धातुपाठः-1624)[`ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - धातुपाठः-] इति चुरादिः, `मारणतोषणनिशामनेषु ज्ञा मिच्च` (धातुपाठः-811) इति घटादिश्च, ततो णिच्। `इट्प्रतिषेधो णिलुक्च` इति। चकारात्? क्वचिदुपधाह्रस्वत्वमपि निपात्यते॥", "72028": "`रुष रोषे` (धातुपाठः-1670), `अम गत्यादिषु` (धातुपाठः-465)। `अम रोगे` (धातुपाठः-1720) इत्येतस्य चौरादिकस्य ग्रहणं न भविष्यति; एकाच [[7.2.10]] इत्यधिकारात्। `ञि त्वरा सम्भ्रमे` (धातुपाठः-775) सम्पूर्वः। पूर्वोक्तो धुषिः। आङ्पूर्वः पूर्वोक्त एव स्वनिः। `आस्वान्तः` इति। पूर्ववद्दीर्घः। `तूर्णः` इति। `ज्वरत्वररुआव्यविमवामुपधायाः` [[6.4.20]] इत्यूठ्। `सम्पूर्व` इत्यादि। `घुषिर्? अविशब्देने` (धातुपाठः-653) इत्यस्यावकाशोऽसम्पूर्वत्वे सत्यविशब्देन - घुष्टा रज्जुः, धुष्टौ पादाविति। अस्य च वचनस्यावकाशः सम्पूर्वत्वे सति विशब्दने - संघुषितं वाक्यमाह, संघुष्टं वाक्यमाहेति; सम्पूर्वत्वे सत्यविशब्दन उभयप्राप्तौ परत्वादनेन विक्लपो भवति - संघुष्टौ दन्तौ, संघुषितौ दन्ताविति। `आङ्पूर्वस्य` इत्यादि। `क्षुब्धस्वान्त` [[7.2.18]] इति स्वनरिट्प्रतिषेधस्यावकाशः। अनाङपूर्वत्वे सति मनोऽभिधाने स्वान्तं मन इत्यस्यावकाशः, आङ्पूर्वत्वे सतयमनोऽभिधानम्। `आस्वन्तो देवदत्तः, आस्वनितो देवदत्तः` इति। आङ्पूर्वत्वे सति मनोऽभिधाने स्वान्तं मन इत्यस्यावकाशः, आङ्पूर्वत्वे सत्यमनोऽभिधानम्। `आस्वन्तो देवदत्तः, आस्वनितो देवदत्तः` इति। आङ्पूर्वत्वे सति मोनऽभिधाने परत्वादयमेव विकलपो भवति - आस्वान्तं मनः, आस्वनितं मनः॥", "72029": "", "72030": "`चायतेः` इति। चायृ पूजानिशामनयोः` (धातुपाठः-880) इति। अयं योगो यश्चिनोतेरपूर्वसय पूजायां वृतिंत न प्रतिपद्यते तं प्रत्यारभ्यते। यस्तु प्रतिपद्यते तं प्रति नारब्धब्ध एव। तथा हि - चिनोतेरपचित इति भविष्यतीति, चायतेस्त्ववचायित इति। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तेत्रेदं व्याख्यानम् - चकारोऽत्र क्रियते। स चानुक्तसमुच्चयार्थः। तेनापचितिरित्येतदपि निपात्यत इति। एतच्च निपातयता चायतेः क्तिनि नित्यं चिभावो वक्तव्यः॥", "72031": "`ह्वृ कौटिल्ये` (धातुपाठः-931) इत्येतस्यानुदात्तत्वादिट्प्रतिषेधोऽस्त्येवेत्यादेशार्थ वचनम्॥", "72032": "`ह्यु` इत्येतस्यादेशस्याभावो निपात्यते` इति। पूर्वसूत्रेण प्राप्तस्य। बहुवचननिर्देशो बहवचन एव निपातनं यथा स्यात्। तेन क्चनान्तरे हि अपरिह्युतः, अपरिह्यु, अपरिह्युतावित्येव भवति॥", "72033": "`इडागमो गुणश्च निपात्यते` इति। चकारात्? `ह्यु` इत्येतस्यादेशाभावश्च॥", "72034": "`ग्रसु स्कन्भु स्तन्भु इत्येतेषाम्` इत्यादि। `ग्रसु ग्लसु अदने` (धातुपाठः-630,631), `स्कन्भु`, `स्तन्भु` [[3.1.82]] इत्येतौ सौत्रौ धातू; `स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च` [[3.1.82]] इति सूत्रे पाठात्। `स्कभितम्, स्तभितम्` इति। `अनिदिताम्` [[6.4.24]] इत्यनुनासिकसलोपः। `स्कब्धभ्, स्तब्धम्` इति। <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम्। `उत्तभितम्` इति। <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति पूर्वसवर्णः। `अन्योपसर्गपूर्वः स्तभितशब्दो न भवतीतीति। यदि स्यात्, उत्पूर्वस्य निपातनमनर्थकं स्यात्। `चतेः, कसेश्च` इति। `चते चदे याचने` (धातुपाठः-865,866), `कस गतौ` (धातुपाठः-860)। ननु सूत्रे विकस्तशब्दाद्वहुवचनं श्रूयते, ततश्च कथमसौ वृत्तादेकवचनान्त उदह्मतः? इत्यत आह - `निपातनं बहुत्वापेक्षम्। विकस्ता इति बहुवचनम्` इति। सूत्रे ग्रसितादीनि निपातनानि कृतद्वन्द्वानि, अतस्तदपेक्षया बहुवचनं कृतम्। वृत्तौ त्वसमस्त एक एवायं विकस्तशब्दः। न चैतदर्थस्य बहुवचनं विवक्षिम्, अत एकवचनान्त एवोदाहृतः। `अपरेषु` इति। विशस्तृप्रभृतिषु। `प्रत्येकं विभक्तिनिर्देशः` इति। बहुत्वाभावाद्बहुवचनम्, तेन तत्र न कृतमित्यभिप्रायः। शसेर्विपूर्वस्य शंसेः शासेश्चेति। `शसु हिसायाम्` (धातुपाठः-727), `शन्सु स्तुतौ` (धातुपाठः-728) `शासु अनुशिष्टौ` (धातुपाठः-1075)। `तरीतारम्? वरीतारम्` इति। `वृतो वा` [[7.2.38]] इति दीर्घः। `वरूत्रीः` इति। <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्, तदन्ताज्जस्, <<वा छन्दसि>> [[6.1.106]] इति पूर्वसवर्णदीर्घः। जसि पूर्वसवर्णोच्चारणम्` इत्यादि। ननु यणादेशे कृते वरूत्र्य इति भवितव्यम्, कथं `वरूत्रयः` इति भवति? इत्याह - `छान्दसम्` इत्यादि। छान्दसत्वेन हि ह्रस्वत्वे कृते `जसि च` [[7.3.109]] इति यणादेशापवदो गुणो विधीयते। `प्रपञ्चार्थम्` इति। विस्तरेणान्वाख्यानमित्यर्थः। तथा हि `पचिर्विस्तारवचने` (धातुपाठः-1651) इति तस्यैवाजन्तस्य प्रपञ्चेति भवति। प्रपञ्चस्तु विस्पष्टार्थः। विस्तरेण ह्रन्वाख्यानं स्पष्टं भवति। अथ वरूत्रीशब्दस्य सिध्यर्थ निपातनं कस्मान्न भवति? इत्याह - `वख्तृशब्दो हि` इत्यादि। ज्वलतेरिति `ज्वल दीप्तौ` (धातुपाठः-831), `क्षर सञ्चलने` (धातुपाठः-851), `टु वम उद्गिरणे` (धातुपाठः-849) `अम गत्यादिषु (धातुपाठः-465)। `इतिकरणं प्रदर्शनार्थम्` इति एवम्प्रकारस्याम्यस्यापि प्रदर्शनार्थमितिकरणम्। तेन किं सिद्धं भवति? इत्याह - `तेन क्वचित्` इत्यादि। चकारस्श्छन्दसीत्यनुकर्षणार्थः। तेन चानुकृष्टत्वान्नोत्तरत्राभिसम्बध्यते। तेनोत्तरत्र विधानमविशेषेण भवति॥", "72035": "`आस्ते, शेते, वस्ते` इति। `आस उपवेशने` (धातुपाठः-1021), `शीङ्? स्वप्ने` (धातुपाठः-1032), `दस आच्छादने` (धातुपाठः-1023)। अदादित्वाच्छपो लुक्, <<शीङः सार्वधातुके गुणः>> [[7.4.21]] । आर्धधातुकग्रहणादिह - सार्वधातुकस्येण्न भवतीति। ननु च <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इत्येतन्नियमार्थ विज्ञायते - `रुदादिभ्य एव सार्वधातुकस्य नान्येभ्य` इति। `रुदादिभ्यः सार्वधातुकस्यैव` इत्येषा तु विपरीतनियमाशङ्का न कर्तव्या। यदि ह्रेवंविधो नियमः स्यात्, तदा रुदादेः परस्य सन इडागमो न स्यात्; नियमेन व्यावर्त्तितत्वात्। ततश्च `रुदविद` [[1.2.8]] इत्यत्र रुदिग्रहणमनर्थकं स्यात्; <<हलन्ताच्च>> [[1.2.10]] इति कित्त्वस्य सिद्धत्वात्। तस्मान्नात्र विपरीतनियमाशङ्का। `रुदादिभ्य एव सार्वधातुकस्य, नान्येभ्यः` इत्येष नियमो भविष्यति, ततो नार्थः सार्वधातुकनिवृत्त्यर्थेनार्धधातुकग्रहणेन? इत्यत आह - `रुदादिभ्यः` इत्यादि। <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इत्येतस्मिन्नियमार्थे विज्ञायमाने कश्चिन्मन्दबुद्धिः प्रतिपत्ता विपरीतनियमं सम्भावयेत्, तत्रानन्तरोक्तया नीत्याऽभिमतनियमे प्रतिपद्यमाने `प्रतिपत्तिगौरवं भवति` इति। इतिकरणो हेतौ। यत एव <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इत्येतस्मिन्नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवति, अतो हेतोरार्धधातुकग्रहणं कस्मान्न भवति? नार्हतीत्येवमर्थं भवितुम्। यदि ह्रङ्गस्य स्यात्, `एकाच उपदेशेऽनुदात्तात्` [[7.2.10]] इति प्रत्ययस्येट्प्रतिषेधोऽनर्थकः स्यात्; प्राप्त्यभावा। <<न क्त्वा सेट्>> [[1.2.18]] , `निष्ठा शीङ्` [[1.2.19]] इति वचनाच्च। न ह्रस्येडागमे सति क्त्वानिष्ठयोः सेट्त्वमुपपद्यते। इह तर्हि वृक्षात्वम्, वृक्षतेति प्रातिपदिकप्रत्ययस्य मा भूदित्येवमर्थं कस्मान्न भवति? एवमर्थमपि नार्हति भवितुम्, `ऋत इद्धातोः` [[7.1.100]] इत्यतः `धातोः` इत्यनुवर्तते। नन्वेवमपि लूभ्याम्, लूभिरित्यत्र प्राप्नोतीत्येव, न ह्यत्र प्रकृतेः प्रतिपदिकत्वेन धातुत्वं विहन्यते `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति कृत्वा, तस्मादिह मा भूदित्येवमर्थमार्धधातुकग्रहणं युक्तम्? नैतदस्ति; <<ॠत इद्धातोः>> [[7.1.100]] इत्यत्र हि स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणम्। अत इहापि `धातो` रित्यनुवर्तमानं तथाभूतमेवानुवर्तते। तेन `धातोः` इत्येवंविहितस्येङ्विधानात्? लूभ्याम्, लूभिरित्यत्रासत्यार्धधातुकग्रहण इटः प्रसङ्गो न भवति। तथा जुगुप्सत इत्येवमादावपि; न ह्यत्र धातोरित्येवं सन्? विहितः, किं तर्हि? गुपादीन्? धातून्? स्वरूपेणोपादाय। तस्मादेतन्निवृत्त्यर्थमप्यार्धधातुकग्रहणं न भवतीति वेदितव्यम्। `ऋत इद्धातोः` [[7.1.100]] इत्यत्र स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणं स्यात्। तदा तस्यापि `ऋतः` इति विशेषणं न परिकल्प्येत। तस्य धातुशब्देऽसम्भवात्? तदर्थस्य विशेषणं विज्ञायत इत्यदोवः। अथ वा - तत्र तन्त्रेण द्वे धादुग्रहण उपात्ते; तत्रैकमर्थपदात्मकम्, अपरं स्वरूपपदात्मकम्। तत्र यदर्थपदात्मकं तत्र तस्योपयोगः, अपरस्य त्वत्रेति न कश्चिद्दोषः। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थमेवार्धधातुकग्रहणम्। अथेङ्ग्रहणं किमर्थम्, यावता <<नेड् वशि कृति>> [[7.2.8]] इत्यत इङ्ग्रहणमनुवरत्तते? इत्याह - `इडिति वर्तमाने` इत्यादि। तद्धिड्ग्रहणं प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तन्निवृत्यर्थ पुनरिड्ग्रहणं क्रियते। ननु च प्राप्तौ सत्यां प्रतिषेधः स्यात्, न च वलादेरार्धधातुकस्य केनचिदिट्प्राप्नोति, अतः प्राप्त्यभावादेव विधिरयं विज्ञास्यते, न प्रतिषेधः? नैतदस्ति; एतस्मादेव प्रतिषेधवचनाद्विधिरप्यनुमीयते। नूनमार्धधातुकस्येङ्विधिरस्तीति येन वलादेः प्रतिषेधं शास्ति। पुनरिड्ग्रहणात्? तु विधिरेष विज्ञास्यते॥", "72036": "`स्नु प्ररुआवणे` [`ष्णु` - धातुपाठः-] (धातुपाठः-1038), `क्रमु पादविक्षेपे` (धातुपाठः-473) - अनयोरुदात्तत्वादिटि सिद्धे नियमार्थं वचनम् - अनात्मनेपदविषय एवानयोर्यथा स्यात्, अन्यत्रा मा भूदिति। ननु च स्नोतेरुगन्तत्त्वात्? किति सनि च प्रतिषेधविधानात्? तस्य वचनं विद्यर्थमपि सम्भवति? नैतदस्ति; `आर्धधातुकस्येड्वलादेः` [[7.2.35]] इत्यनुवर्तते। तेनास्याः प्राप्तेर्विषये योगोऽयमिति विज्ञायते। न चास्याः प्राप्तेः सन्कितौ विषयौ; तयोरपवादविषयत्वात्। आत्मनेपदनिमित्ते इति प्रथमाद्विवचनान्तम्। स्नुक्रमोरेतद्विशेषणमिति दर्शयितुमाह - `न चेत्` इत्यादि। `क्व च तावात्मनेपदनिमित्ते` इति। किं यत्रात्मनेपदं प्रति योग्यतामात्रमपि तयोरस्ति तत्रापि तावात्मनेपदनिमित्ते? उत यत्र तदाश्रयमात्मनेपदं भवति तत्र? एवमर्थ पृच्छति - `यत्र` इत्यादि। अत्रैवं व्याख्यानम् - यत्र तदाश्रयमात्मनेपदं सम्भवति तत्र तावात्मनेपदनिमित्ते। किं पुनस्तद्? यत्र तदाश्रयमात्मनेपदं भवति? इत्याह - `भावकर्मकर्त्तृकर्मकर्मव्यतीहारः, क्रमेश्च` इति। एषु हि स्तुक्रम्याश्रयमात्मनेपदं भवति। आदिशब्देन सर्गादिपरिग्रहः। निमित्तम्=कारणम्। न चाकुर्वत्? कार्य#ं कारणं भवति। यत्र त्वकुर्वत्यपि कार्यं कुसूलस्य बीजादौ कारणमपि व्यपदेशः, तत्रासौ योग्यतयौपचारिकः। तस्माद्यत्र स्नुक्रमावाश्रित्यात्मनेपदं भवति, तत्रैव भावकर्मादौ तयोरात्मनेपदनिमित्तं मुख्यं विज्ञायते। `तेन` इत्यादि। यस्मादेवं यत्र तावाश्रित्यात्मनेपदं भवति तत्र तयोरात्मनेपदनिमित्तत्वम्। तेन सत्यात्मनेपदे प्रतिषेधोऽयं भवति, नासति। न ह्रसत्यात्मनेपदे तयोर्मुख्यमात्मनेपदनिमित्तत्वमुपपद्यते। ततश्च प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यमित्यत्र यद्यप्यात्मनेपदयोग्यत्वात्? स्नुक्रमावात्मनेपदस्य निमित्तव्यपदेशमासादयतः, तथापि प्रतिषेधो न भवति। न ह्यत्र मुख्यमात्मनेपदनिमित्तत्वम्; आत्मनेपदाभावात्।`प्राप्नोषीष्टेति। आशिषि लिङ्? सीयुट्, <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनपदम्, `सुट्तिथोः` [[3.4.107]] इति सुट्, षत्वम्, ष्टुत्वम्। `प्रक्रंसीष्ट` इति। अत्र `प्रोपाभ्यां समर्थाभ्याम` [[1.3.42]] इति कर्तर्थात्मनेपदम्। `प्रस्नोष्यते` इति। `लृट्? शेषे च` [[3.3.13]] इति लृट्। `प्रचिक्रंसते` [नास्तीदमुदाहरणं काशिकायाम्। `प्रचिक्रंसिष्यते` इत्येवास्ति] इति। सन्, `पूर्ववत्सनः` [[1.3.62]] इत्यात्मानेपदम्। `सर्वत्रैव` इत्यादि। युक्तं प्रक्रंसीष्ट, प्रस्नीषीष्टेत्यादौ स्नुक्रमोरात्मनेपदस्य निमित्तत्वम्, तस्मादात्मनेपदस्य विधानात्; प्रचिक्रंसत इत्यत्र तु कथं क्रमिरात्मनेपदस्य निमित्तम्, न ह्यत्र क्रमिमाश्रित्यात्मनेपदं भवति, किं तर्हि? सनन्तं धात्वन्तरम्? इत्याह - `सनन्तादपि` इत्यादि। सनन्तादपि हि यदात्मनेपदं विधीयते `पूर्ववत्सनः` [[1.3.62]] इत्यनेन। तेन तत्रापि पूर्ववदिति वचनात्? पूर्व धातुस्वरूपमात्मनेपदस्य निमित्तमाश्रीयत इति। यद्यपि सनन्तादात्मनेपदं विधीयते तथापि क्रमेस्तत्र निमित्ताभावोऽस्त्येवेत्यभिप्रायः। अथ निमित्तग्रहणं किमर्थमुपादीयते, न `आत्मनेपदे` इत्येवोच्यते? इत्यत आह - `निमित्तग्रहणम्` इत्यादि। सीयुट्? आदिर्यस्य स सीयुडादिः, तदात्मनेपदे परं यस्मात्? स तत्परः स्यप्रत्ययः, स परो यस्मात्? स तत्परपरः सन्प्रत्ययः; तयोः प्रतिषेदो यथा स्यादित्यवमर्थं निमित्तग्रहणम्। तत्र सीयुडादेः प्रतिषेधार्थम् - प्रस्नोषीष्ट, प्रक्रंसीष्टेति; तत्परपरस्य च प्रतिषेधार्थम् - प्रचिक्रंसिष्यत इति; अत्र हि निमित्तग्रहणं न क्रियते, तदा `आत्मनेपदे` इत्येषा परसप्तमी विज्ञायेत। न च प्रस्नीषीष्ट, प्रक्रंसीष्टेत्यात्मनेपदे परत आर्धधातुकमस्ति तथा ह्रात्मनेपदस्यागमः सीयुट्, तदेकदेशात्वदात्मनेपदे परत उच्चार्थमाणः प्रतिषेधो न स्यात्। प्रचिक्रंसिष्यत इत्यत्र `आत्मनेपदे` इत्येतस्यां परसप्तम्यां विज्ञायमानायां <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्? स्येन व्यवधाने सति सन इट्प्रतिषेधो न स्यात्? निमित्तग्रहणे तु सति भवति। अस्ति ह्यत्र सर्वत्र स्नुक्रमोर्यथायोगमात्मनेपदं प्रति निमित्तभावः। तस्मान्निमित्तग्रहणं कर्तव्यम्। प्रस्नवित्रीयत इत्यत स्नौतेरात्मनेपदं परं चोपलब्धम्; अतः स्नौतिरात्मनेपदसय निमित्तमिति प्रतिषेधेन भवितश्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - इह प्रस्नवितेवाचरति` इत्यादि। क्वचित्? `प्रस्नवितारमिवाचरति` इति पाठः, स तु नोपपद्यते। न हि कर्मणः क्यङ्? विधीयते, किं तर्हि? सुबन्तात्? कर्त्तुः। तस्मात्? प्रमादकृतोऽयं पाठः। प्रस्नवितेवाचरतीति तृजन्तात्, `कर्त्तुः क्यङ सलोपश्च` [[3.1.11]] इति क्यङ्, `रीङृतः` [[7.4.27]] इति रीङ्। क्यङन्तादातमनेपदं विधीयमानं ङित इत्येवं विधीयते। स च स्नौतिर्ङित्? किं तर्हि? क्यङन्तः। तस्मात्? क्यङन्तमेवात्मनेपदनिमित्तं न स्नौतिरिति न भवति प्रतिषेधः। `क्रमेस्तु` इत्यादि। निमित्तग्रहणात्? सत्येवात्मनेपदे प्रतिषेधेन भवितव्यम्, नासतीति। कर्तरि कृति प्रतिषेधो न प्राप्नोतीत्युपसंख्यायते। `प्रक्रान्ता, उपक्रान्ता` इति। <<प्रोपाभ्यां समर्थाभ्याम्>> [[1.3.42]] इति प्रोपाम्यामुपसुष्टात्? क्रमेरात्मनेपदवषानादिह क्रमेरात्मनेपदस्य विषयः। `आत्मनेपदविषयः` [आत्मनेपदविषयात् - मूलम्] इति। आत्मनेपदं विषयो यस्य स आत्मनेपदविषयः। `प्रक्रमितव्यम्, उपक्रमितव्यम्` इति। <<तयोरेव कृत्यक्तखलर्थाः>> [[3.4.70]] इति भावे कर्मणि कृत्यः। `निष्क्रमिता` इति। `इदुदुपषस्य` [[8.3.41]] इति विसर्जनीयस्य षत्वम्। निष्फूर्वात्? क्रमेरात्मनेपदस्याभावादिहात्मनेपदस्य वषयो न भवति। अथ प्रसुस्नूषति, प्रस्नुतः, प्रस्नुतवानित्यत्र कस्मान्न भवति, न ह्यत्र स्नौतिरात्मनेपदविषयः? इत्यात आह - `स्नौतेः` इत्यादि। ननु `श्रयुकः किति` [[7.2.11]] , <<सनि ग्रहगुहोश्च>> [[7.2.12]] इतीट्प्रतिषेधस्य धात्वन्तरमुगन्तमवकाश इति परत्वादिदैवात्र भवितव्यम्, न प्रतिषेधेन? नैतदस्ति; उक्तं हि पुरस्तात्? प्रतिषेधकाण्जस्य बलीयस्त्वात्? प्रयोजनमिण्मात्रस्थानाश्रितविशेषविधानस्य प्रतिषेधो यथा स्यादिति॥", "72037": "`ग्रह उत्तरस्य` `ग्रह` इति पञ्चमीं दर्शयति। यद्येवम्, तदेङ्ग्रहणं कर्तव्यम्? न कर्तव्यम्; प्रकृतमेव तदनुवर्तते। तद्धि प्रथमान्तनिर्दिष्टम्, षीष्ठीनिर्देशेन चेहार्थः? नैष दोषखः; `ग्रहः` इत्येषा पञ्चमीति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति; <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति वचनात्। `जगृहिव, जगृहिम्` इति। ग्रह्रादिसूत्रेण [[6.1.16]] सम्प्रसारणम्।तथा ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह - `प्रकृतस्यैव` इत्यादि। आर्धधातुकस्येति यः प्रकृत इट्? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात्। चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते। तत्सहचरित इट्? चिण्वदित्युच्यते। `ग्राहित` इति। <<अनद्यतने लुट्>> [[3.3.15]] , <<स्यतासी लृलुटोः>> [[3.1.33]] इति तासिः, भावकर्मणोः` [[1.3.13]] इत्यात्मनेपदम्, `लुट प्रथमस्य` [[2.4.85]] इत्यादिना डादेशः, टिलोपः, `स्यसिच्सीयुट्तासिषु` [[6.4.62]] इत्यादिनेट्? चिण्वद्भावाद्वृद्धिः। अथ जरीगृहिता, जरीगृहीतुमित्यत्र यङन्तात्? तृनि तुमुनि च यलोपाल्लोपयोः कृतयोर्दीर्घः कस्मान्न भवति? उत्तरसूत्रे वाग्रहणस्योभयोरपि योगयोः शेषभूतत्वाद्व्यवस्थिविभाषाविज्ञानात्। अथ वा - विहितविशेषणपक्षोऽत्र व्याख्यायते। ग्रहेर्थो विहित इट्? तस्य दीर्घो भवति। न चात्र ग्रहेर्विहित इट्? कुतस्तर्हि? यङ्न्तात्। तस्मान्नेह दीर्घस्य प्रसङ्गः। अथ `ग्रह ईडलिटि` इत्येवं कस्मान्नोक्तम्, किं दीर्घग्रहणेन? नैवं शक्याम्; एवं सतीट्कार्यमीटो न स्यात्, ततश्चाग्रहीदित्यत्र `इट ईटि` [[8.2.28]] इति सिचो लोपो न स्यात्, `नेटि` [[7.2.4]] इति प्रतिषेधश्च; इह चाग्रहीढ्वम्, अग्रहीध्वमित्यत्रेटः <<विभाषेटः>> [[8.3.79]] इति मूर्घन्यश्च; दीर्घ इट आदेशे सति तस्य स्थानिवद्भावदिट्कार्यमुपपद्यत इति दीर्घं एव विधीयते॥", "72038": "", "72039": "`वरिषौष्टेत्यादौ [`विवरिषीष्ट` - इति काशिकायामुदाहरणम्]<<लिङ्सिचोरात्मनेपदेषु>> [[7.2.42]] इतीट्। `विस्तरिषीष्ट` इति। कर्मण्यात्मनेपदम्॥", "72040": "`प्रावारिष्टाम्` इति। `तस्थस्थमिपां तान्तन्तामः` [[3.4.101]] इति तसस्ताम्, सामान्यविहित इट्? सिचि वृद्धिः। `प्रावारिषुः` इति। `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुस्। वृङ उदाहरणं नोपन्यस्तम; तस्य परस्मैपदासम्भवात्। `प्रावरिष्ट, प्रावरीष्ट` इति। <<लिङ्सिचोरात्मनेपदेषु>> [[7.2.42]] इतीट्॥", "72041": "`वुवूर्षते` इति। <<इको झल्>> [[1.2.9]] इति सनः कित्त्वम्, <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः, `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्वम्, रपरत्वम्। अतेह कस्मान्न भवति - चिकीर्षति, जिहीर्षतीति, अस्ति दीर्घत्वे कृते प्राप्तिः? इत्यत आह - `चिकीर्षति, जिहिर्षति` इति। गतार्थम्॥", "72042": "वृत उदात्तत्वादिटि प्राप्ते विकल्पार्थ आरम्भः। `आत्मनेपदेषु` इति परसपतमीयम्। सिचश्चैतद्वि शेषणम्। यद्येवम्, लिङ्? विशेषितो न स्यात्, ततश्च लिङ्? परस्मैपदेष्वपि प्रसज्येत? नैतदस्ति; `वलादेः` [[7.2.35]] इत्यधिकारात्, लिङ्श्च परस्मैपदेषु यासुडादित्वाभावात्। `आत्मनेपदपरे` इति। आत्मनेपदं परं यस्मात्? स तथोक्तः। एतच्च सिजित्यनेनैव सम्बध्यते, न लिङित्यनेम; सिचमेव प्रत्यात्मनेपदग्रहणस्य विशेषणभावात्। `वृषीष्ट` इति। `उश्च` [[1.2.12]] इति कित्त्वाद्गुणाभावः। `आस्तीर्षीष्ट`इति। पूर्ववत्? कित्त्वदीर्घत्वादिः। `अवृत` इति। `ह्रस्वादङ्गात्` [[8.2.27]] इति सिचो लोपः॥", "72043": "ऋकारान्तानामनुदात्तत्वात्? प्रतिषेधे प्राप्ते विकल्पार्थ वचनम्। `ध्वृषीष्ट` इति। `ध्वृ हूच्र्छने` (धातुपाठः-139)। <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्। एवमन्यत्राप्यात्मनेपदं वेदितव्यम्। पूर्ववत्? कित्त्वाद्गुणाभावः। `स्मृषीष्ट` इति। `स्मृ चिन्तायाम्? (धातुपाठः-933)। `च्योषीष्ट` इति। `च्युङ् छ्यङ् [नास्ति - धातुपाठः-] ज्युङित्यादि। (धातुपाठः-955,956)। अत्र ङित्त्वात्? कर्तर्यात्मनेपदम्। `अकृषत` इति। <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यदादेशः। अथ संस्कृषीष्ट समस्कृतेत्यत्र कस्मान्न भवति, भवति हि करोतिरत्र `संपर्युपेभ्यः करोतौ भूषणे` [[6.1.137]] इति सुटि कृते संयोगादिः? इत्याह - `संस्कृषोष्ट` इत्यादि। `एकाच उपदेशेऽनुदात्तात्` [[7.2.10]] इत्यत उपदेशग्रहणमनुवर्तते, तेनोपदेशावस्थायां यः संयोगादिस्तत एवैतेन भवितव्यम्, न च करोतिरुपदेशावस्थायां संयोगादिः, किं तर्हि? तत उत्तरम्, अतो न भवति। `अभक्तत्वाच्च` इत्यादि। संस्कृषीष्टेत्यत्रायं परीहारः, न समस्कृतेत्यत्र। अम्र ह्रडागमः `तद्भक्तस्तद्ग्रहणेन गृह्रते` (व्या।प।20) इति अटोऽप्यङ्गग्रहणेन ग्रहणादिति `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते` (व्या।प।21) इति सुटोऽप्यङ्गग्रहणेन ग्रहणात्? करोतिरपि संयोगादिर्भवत्येव। अङ्गाधिकाराच्चाङ्गावयवोऽत्रि संयोगोऽपि गृह्रते; प्रत्यासत्तेः। न च संस्कृषीष्टेत्यत्राङ्गावयवः संयोगादिः, यश्चाङ्गावयवो नासौ संयोगे भवति, तदिह न भवतीट्प्रसङ्गः। अत्र `सम्पुकानां सत्वम्` (वा 936) इति वचनात् समो मकारस्य सकारः, पूर्वस्यानुनासिकः। समस्कृतेत्यत्र पूर्ववत्? सिचो लोपः। चकार आत्मनेपदानुकर्षणार्थः, तेनोत्तरत्र विधिरविशेषेम भवति; चानुकृष्टस्योत्तरत्राननुवृत्तेः॥", "72044": "`स्वृ शब्दोपतापयोः` (धातुपाठः-932), `षूङ् प्राणिगर्भविमोचने` (धातुपाठः-1031) इत्यादादिकः, `षूङ् प्राणिप्रसवे` (धातुपाठः-1132) इति दैवादिकः। `घूञ्? कम्पने` (धातुपाठः-1255,1487,1385) इति स्वादिः, क्र्यादिः, चुरादिश्च। तत्र `एकाचः` [[7.2.10]] इत्यधिकारादाद्ययोग्र्रहणम्, नेतरस्य। ऊदितः - `गाहू विलोडने (धातुपाठः-649), `गुपू रक्षणे` (धातुपाठः-395) इत्यादयः। एतेषां स्वरतेश्चानुदात्तत्वात्? प्रतिषेधे प्राप्ते, इतरेषामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पार्थं वचनम्। `विगाढा` इति। पूर्ववङ्ढत्वादि विधेयम्। अथ वावचनं किमर्थम्? यावता `इट्? सनि वा` [[7.2.41]] इत्यतो वाग्रहणमनुवर्तते? इत्याह - `वेत्यनुवर्तमाने` इत्यादि। तद्धि वाग्रहणं लिङ्सिज्भ्यां सम्बद्धमिति तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तस्मात्? पूर्ववाग्रहणसम्बद्धयोर्लिङ्सिचोर्निवृत्त्यर्थमन्यदिदं वाग्रहणमिति। ननु च लिङ्सिचोरनुवृत्तिः स्यात्। तस्मात्? पूर्ववग्रहणसम्बद्धयोरलिङ्सिचोर्निवृत्त्यर्थमन्दिदं वाग्रहणमिति। ननु च लिङ्सिचोरनुवृत्तौ स्वरतिग्रहण मनर्थकमापद्यते, पूर्वेणैव विकल्पस्य सिद्धत्वात्? नैतदस्ति; वचनप्रामाण्यात्? स्वरतिग्रहणं नित्यार्थं विज्ञायते। अथ वा - स्वरितग्रहणात्? `वा` इत्येतन्निवर्तते। अथ सूतिसूयत्योर्विकरण निर्देशः किमर्थः, न `सू` इत्येबोध्येत? इत्यत आह - `सूतिसूयत्योः` इत्यादि। `सू` इत्युच्यमाने `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति `सू प्रेरणे` (धातुपाठः-1408) [`षू प्रेरणे` - धातुपाठः-] इत्यस्यैव ग्रहणं स्यात्। अतस्तन्निवृत्त्यर्थो विकरण निर्देशः करणीयः। यद्येतत्? प्रयोजनम्, सूङिति निर्देशः कर्तव्यः? नैवं शक्यम्; एवं हि सति निर्देशे क्रियमाणे `लुग्वकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्` (व्या।प।50) इति सूयतेरेव ग्रहणं स्यात्, न सूतेः। अतस्तन्निवृत्तये विकरणनिर्देशः। अस्याः परिभाषाया अस्तित्वेऽयमेव निर्देशो ज्ञापकः। अस्यां ह्रसत्यां `सूङ्` इति निर्देशं कुर्यात्। अथ `धूञ्` इति सानुबन्धकस्य ग्रहणं न क्रियेत, ततो निरनुबन्धकपरिभाषया (व्या।पा।53) `षू विधूनने` (धातुपाठः-1398) इत्यस्यैव ग्रहणं स्यात्, एतच्चानिष्टम्। अतो विधूननार्थस्य निवृत्त्यर्थः सानुबन्धकनिर्देशः। `स्वरतेः` इत्यादि। अस्य विकल्पस्यावकाशः - स्वरिता, स्वर्तेति; ऋद्धनीः स्ये` [[7.2.70]] इत्यस्यावकाशः - करिष्यति, हरिष्यतीति; स्वरतेरस्योभयप्रसङ्गे <<ऋद्धनोः स्ये>> [[7.2.70]] इत्येतद्भवति विप्रतिषेधेन - स्वरिष्यतीति। `किति तु प्रत्यये` इत्यादि। `श्रयुकः किति` [[7.2.11]] इत्यस्यावकाशः - सूतः, सूतदानि, अस्य विकल्पस्यावकाशः - स्वर्ता, स्वरितेति; सोता सविता; धोता, धवितेति; इहोमयप्रसङ्गे `श्रयुकः किति` [[7.2.11]] इति नित्यं [नित्यः - काशिका] प्रतिषेधो भवति पूर्वविप्रतिषेधेन - स्वृत्वा, सूत्वा, धूत्वा`। एतच्च पुरस्तात्? प्रतिषेधकाण्डविधानादेव सिद्धम्। उक्तं हि प्राक्? पुरस्तात्? प्रतिषेधविधानस्य प्रयोजनम् - इण्मात्रस्यानाधितदिधानविशेषस्य प्रतिषेधो यथा स्यादिति। तदेतत्? पुरस्तात्? प्रतिषेधविधानं पूर्वदिप्रतिषेधेन समानफलकत्वादिह पूर्वविप्रतिषेधशब्देनोक्तम्॥", "72045": "`रथ हिंसासंराद्ध्योः` (धातुपाठः-1193), `णश अदर्शने` (धातुपाठः-1194,) `तृप प्रीणने` (धातुपाठः-1195), `दृप हर्षणमोहनयोः` (धा।1196),[`हर्षमोहनयो` - धातुपाठः-] `द्रुह जिघांसायाम्` (धातुपाठः-1197), `मुह वैचित्त्ये` (धातुपाठः-1198), `ण्णुह द्धद्गिरणे` (धातुपाठः-1199) ष्णिह प्रीतौ` (धातुपाठः-1200) - इत्येते रधादयः। एषु तृप्यतिदृप्यत्योरनुदात्तत्वादिट्प्रतिषेधे प्राप्ते शेषाणामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पार्थं वचनम्। `नंष्टा` इति। `मस्जिनशोझंलि` [[7.1.60]] इति नुम्। व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, ष्टुत्वम्। `त्रप्तः` इति। <<अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्>> [[6.1.59]] इत्यम्, यणादेशः। `तर्पिता` इति। लघूपधगुणः। द्रोग्क्षा, मेग्धा, स्नोध्या, स्नेग्धेतीडभावपक्षे `वा द्रुहमुहण्णुहण्णिहाम्` [[8.2.33]] इति घत्वम्, `झषस्तथोर्षोऽधः` [[8.2.40]] इति धत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वं गकारः। `द्रोढा, ञोढा, स्नोढा स्नेढा` इति। पूर्ववङ्ढत्वादि विधेयम्। `क्रादिनियमाल्लिटि रधादिभ्यः परत्वाद्विकल्पं केचिदिच्छन्ति` इति। पक्षे ररध्व, ररध्मेत्याद्यपि यथा स्यात्। `अपरे पुनः` इत्यादि। एतदेव हि पूर्वविधेरिट्प्रतिषेधविधानस्य प्रयोजनम् - प्रतिषेधस्य बलीयस्त्वं यथा स्यादिति। तस्मात्? प्रतिषेधनिययमस्या बलीयस्त्वान्नित्यमिटा भवितव्यम्। तत्र पूर्वेषामयमभिप्रायः - पूर्वविधेरिट्प्रतिषेधविधानसामाथ्र्यात्? प्रतिषेधस्य बलीयस्त्वं भवति, न तु प्रतिषेधनियमस्येति। इतरेषामयमभिप्रायः - प्रतिषेधस्य बलीयस्त्वात्? तद्धर्मस्य नियमस्यापि बलीयस्त्वं भवति, न तु प्रतिषेधस्यैवेति तस्य बलीयस्त्वे सति तत्प्राप्तिः, तेन नित्यमिटा भवितुं युक्तमिति। प्रतिषेधनियमस्तु स एव क्रादिनियमः। `ररन्धिव, ररन्धिम` इति। <<रधिजभोरचि>> [[7.1.61]] इति नुम्॥", "72046": "", "72047": "किमर्थमिडिति वर्तमाने पुनरिङ्ग्रहणं क्रियते? इत्याह - `इड्ग्रहणं नित्यार्थम्` इति। असतीङ्ग्रहणे हि विकल्पस्य प्रकृतत्वात्? पाक्षिक इडविधिः स्यात्। तस्मान्नित्यर्थमिङ्ग्रहणं कर्तव्यम्। ननु च सिद्धा विभावा पूर्वसूत्रेण, आरंभसामर्थ्यादेव नित्योऽयं विधिर्भवतिष्यति? इत्याह - `आरम्भो हि` इत्यादि। पूर्वसूत्रेणेटो विकल्पितत्वान्निष्ठायां, <<यस्य विभाषा>> [[7.2.15]] इति प्रतिषेधे प्राप्ते नित्योऽयमारम्भः। तत्र यदीङ्ग्रहणं न क्रियेत, तदा तस्यैव प्रतिषेधस्यायमारम्बो बाधकः स्यात्, ततश्च विकल्प एव स्यात्, न नित्यो विधिः। तस्मान्नित्यार्थमिङ्ग्रहणं कर्तव्यम्। यदि हि नित्यार्थमिङ्ग्रहणं क्रियेत तदा तेन विकल्पस्य निवर्त्तितत्वादुत्तरत्रापि नित्य एव विधिः स्यादित्यत आह - `तत्रेव` इत्यादि। न चानेनेङ्ग्रहणेन विकल्पः शक्यते निवर्तयितुम्; तस्य स्वरितत्वादिङ्ग्रहणसामर्थ्यात्। अनुवर्तमानेऽपि वाग्रहणे नित्योऽयं विधिर्भवति। या तु तस्यैव विकल्पस्यानुवृत्तिः, सोत्तरार्था। तेनोत्तरत्र विकल्प एव॥", "72048": "`इषु इच्छायाम्` (धातुपाठः-1351),[`इष` - धातुपाठः-] `षह मर्षणे` (धातुपाठः-852); `लुभ गार्द्ध्ये (धातुपाठः-1238), `लुभ विमोहने` (धातुपाठः-1305) - द्वयोरपि ग्रहणम्; विशेषानुपादनात्। `रुष रोषे` (धातुपाठः-1670), `रुष रिष हिंसायाम्` धातुपाठः-1230,1231)। सर्व एषैत उदात्ता इति नित्यामिटि प्राप्ते विकल्पार्थोऽयमारम्भः। `तदर्थम्` इति। इच्छार्थस्यैव विकल्पो यथा स्यादितरयोर्म भूदित्येवमर्थम्। ये तूदितं न पठन्ति, ते `वा` इति प्रकृतस्य व्यवस्थितविभाषाविज्ञानात्? सहिना भौवादिकेन साहचर्याद्वा इच्छार्थस्यैव विकल्पेन भविष्यति, नेतरयोरिति वर्णयन्ति। `सोढा` इति। ढत्वष्टुत्वढलोपेषु कृतेषु <<सहिवहोरोदवर्णस्य>> [[6.3.112]]", "72049": "इवन्तानामिति। `दिवु` (धातुपाठः-1107), `सिवु` (धातुपाठः-1108) इत्येवमादीनाम्। `ऋधु वृद्धौ` (धातुपाठः-1245 `भ्रस्ज पाके` (धातुपाठः-1284), `दम्भे` [`दम्भने` - धातुपाठः-] (धातुपाठः-1270), `श्रिञ्सेवायाम्` (धातुपाठः-897), `स्वृ शब्दोपतापयोः` (धातुपाठः-932), `यू मिश्रणे` [`मिश्रणेऽमिश्रणे च` - धातुपाठः-] (धातुपाठः-1033), `ऊर्णु आच्छादने` (धातुपाठः-1039), `श्रिञ्? भरणे` (), मारणतीषणनिशामनेषु ज्ञपिण्र्यन्तः। `षणु दाने` (धातुपाठः-1464), `वन षण सम्भक्तौ` (धातुपाठः-463,444) - द्वयोरपि ग्रहणम्; विशेषानुपादानात्। अत्र भ्रस्जेरनुदात्तत्वात्, ल्वुयुर्णुभृञां चोगन्तत्वात्? `सनि ग्रहगुहीश्च` [[7.2.12]] इति प्रतिषेधे प्राप्ते, शेषाणामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पोऽयमारभ्यते। `दुद्यूषति` इति। दिवेः सन्, `हलान्तच्च` [[1.2.10]] इति सनः कित्त्वम्, `च्छ्वो शूडनुनासिके` [[6.4.19]] इत्यूठि यणादेशः, द्विर्वचनम् - `द्यूष` इत्येतस्य, <<हलादिः शेषः>> [[7.4.60]] इति चर्त्वम् - धकारस्य दकारः। `विभ्रज्जिषति` इति। <<झलां जश् झशि>> [[8.4.53]] इति सकारस्य दकारः, <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम् - दकारस्य जकारः। `बिभक्र्षति` इति। भ्रस्जो रोपधाया रमन्यतरस्याम्` [[6.4.47]] इत्यकारात्? परो रमागमः `रोपधयोः` इति षष्ठीनिर्देशाद्रेफस्योपधायाश्च सकारस्य निवर्तकः, <<चोः कुः>> [[8.2.30]] इति कुत्वम्, `इण्कोः` [[8.3.57]] इति<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्। `घिप्सति, घीप्सति` इति। <<दम्भ इच्च>> [[7.4.56]] इतीत्त्वमीत्त्वञ्च, `खरि च` [[8.4.54]] इति चर्त्वम्, भकारस्य पकारः, पूर्ववदभ्यासलोपः, `हलान्ताच्च` [[1.2.10]] इति कित्त्वादनुनासिकलोपः। `उच्छिश्रीषति` इति। <<इको झल्>> [[1.2.9]] इति कित्त्वम्, <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घत्वम्, द्विर्वचनमभ्यासकार्यम्। `आदेशप्रत्ययोः` [[8.3.59]] इति षत्वम्, दकारस्य चुत्वम् - चकारः। <<शश्छोऽटि>> [[8.4.63]] इति शकारस्य च्छकारः। `सिस्वरिषति` इति। द्विर्वचनम्? `स्वृ` इत्येतस्य, `उरत्` [[7.4.66]] इत्यत्त्वम्, रपरत्वञ्च। `सुस्वूर्षति` इति। पर्ववद्दीर्घः, `उदोष्ठपूर्वस्य [[7.1.102]] इत्युत्त्वम्, रपरत्वम्, `हलि च` [[8.2.70]] इति दीर्घः, द्विर्वचनम् - `स्वूर्ष` इत्येतस्य, अभ्यासकार्यम्, `आदेशपरत्ययोः` [[8.3.59]] इति षत्वम्। `यियिविषति` इति। <<ओः पुयण्ज्यपरे>> [[7.4.80]] इत्यभ्यासस्येत्त्वम्। `प्रोर्णुनूषति` इति। `अजादेद्वितीयस्य` [[6.1.2]] इति वचनाद्द्वितीयस्यैकाचः `नुस` इत्येतस्य द्विरुक्तिः, रेफस्य पूर्वन्न द्विर्वचनम्। `प्रोर्णुनविषति` इति। इट, पक्षे <<विभाषोर्णोः>> [[1.2.3]] इति यदा ङित्त्वं तदोवङ्, अन्यदा तु गुणः। `भुञित्येतस्य भौवादिकस्य ग्रहणम्` इति। अथ ङुभृञित्यस्य जौहोत्यादिकस्य ग्रहणं कस्मान्न भवति? इत्याह - `शपा निर्देशात्` इत्यादि। यदि जौहोत्यादिकस्य भृञो धारणपोषणार्थस्य ग्रहणमभिमतं स्यात्, तदा `भृ` इत्येवं निर्देशं कुर्यात्, न तु `भर` इति शपानिर्देशम्, कृतश्च शपा निर्देशः, तस्माद्भौवादिकस्य ग्रहणमिति गम्यते। `बुभूर्षति` इति। पूर्वदुत्त्वदीर्घत्वे। `ज्ञीप्सति` इति। `ज्ञा` इत्येतस्माण्णिच्, `अर्त्तिह्रौ` इत्यादिना पुक्, पूर्वदीत्त्वाभ्यासलोपौ। `सिषासति` इति। `जनसनखनां सञ्झलोः` इत्यात्वम्। `केचिदत्र` इत्यादि। केचिदिति वचनात्? केचिन्न पठन्तीत्युक्तं भवति। ये तु न पठन्तितेऽत्र तनिपतिदरिद्राणामुपसंख्यानं कुर्वन्ति। `तितंसति, तितांसति` इति। `तेनोतेर्विभावा` [[6.4.17]] इति पक्षे दीर्घः। `पित्सति` इति। `सनिमीमा` [[7.4.54]] इत्यादिनेसादेशः, अभ्यासलोपः, `स्कोः` [[8.2.29]] इत्यादिना सलोपः। `दिदरिद्रिषति, दिदरिद्रासति` इति। `दरिद्रातेरार्धधातुके` (वा।789) इत्यादिना विकल्पेनाकारलोपः॥", "72050": "`क्लिष्ट्वा` इति। व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्। `क्लिशित्वा` इति। <<रलो व्युपधाद्धलादेः संश्च>> [[1.2.26]] इति कित्त्वम्। `क्त्वाप्रत्यये विकल्पः सिद्ध एव` इति। ऊदित्वात्? `स्वरति` [[7.2.44]] इत्यादिना यदि कत्वाप्रत्यये विकल्पः सिद्ध एव, तत्किमर्थं क्त्वाग्रहणम्? इत्याह - `क्लिश उपताप इत्यस्य तु` इत्यादि। `नित्यमिडागमः प्राप्नोति` इति। उपतापार्थस्य क्लिशेरुदात्तत्वात्। `तदर्थम्` इति। उपतापार्थो यः क्लिशिस्तदर्थम्। सोऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्। अथ वा - उपतापर्थस्य क्लिशेर्यो नित्यमिडागमः प्राप्नोति तदर्थम्, तन्निवृत्यर्थ मित्यर्थः; अर्थशब्दस्य निवृत्तिवचनत्वात्॥", "72051": "उगन्तत्वात्? `श्रयुकः किति` [[7.2.11]] इतीट्प्रतीषेधे प्राप्ते कत्वानिष्ठयोः पक्षे प्राप्त्यर्थं वचनम्। `पवित्वा, पक्तिः, पवितवान्` इति। <<पूङः क्त्वा च>> [[1.2.22]] इति कित्त्वप्रतिषेधाद्गुणो भवत्येव। `पूङः` इति सानुबन्धकस्य ग्रहणं पूञो निवृत्त्यर्थम्॥।", "72052": "`वस निवासे` (धातुपाठः-1005), `क्षुध बुभुक्षायाम्` (धातुपाठः-1190) - अनयोरनुदत्तत्वादिट्प्रतिषेधे प्राप्ते क्त्वानिष्ठयोरिङ्विधनार्थ वचनम्। `उषित्वा` इति। क्त्वा, इट्, <<न क्त्वा सेट्>> [[1.2.18]] इति कित्त्वप्रतिषेधे प्राप्ते `मुडमृव` [[1.2.7]] इत्यादिना कित्त्वम्, वच्यादिसूत्रेण [[6.1.15]] यजादित्वात्? सम्प्रसारणम्, `शासिवसिचसीनां च` [[8.3.60]] इति षत्वम्। `क्षुधित्वा` इति। अत्रापि <<रलो व्युपधाद्धलादेः संश्च>> [[1.2.26]] इति पक्षे कित्त्वम्। `वसतीति विकरणनिर्देशः` इत्यादि। `विकरणनिर्देशो धातुनिर्देशार्थे एव` इत्युक्तम्। अथ `वस आच्छादने` (धातुपाठः-1023) इत्यस्य निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चीदयेत्, तं प्रत्याह - `वस्तेः` इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चोदयेत्, तं प्रत्याह - `वस्तेः` इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्निवृत्त्यर्थः कस्मान्न विज्ञायते? विहितविशेषणपक्षविज्ञानादपि यङ्लुङ्निवृत्तिः शक्यते कर्त्तुमित्यभिप्रायः। अथेडित्यनुवर्तमाने पुनरिङ्ग्रहणं किमर्थम्? इत्याह - `पुनरिङ्ग्रहणं नित्यार्थम्` इति। पूर्वकमिङ्ग्रहणं विकल्पेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मात्तन्निवृत्त्यर्थ पुनरिङ्ग्रहणं कृतम्॥", "72053": "`अञ्चिताः` इति। पूजिता इत्यर्थः। <<मतिबुद्धिपूजार्थेभ्यश्च>> [[3.2.188]] इति क्तप्रत्ययः। `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपो न भवति; <<नाञ्चेः पूजायाम्>> [[6.4.30]] इति प्रतिषेधात्। `अस्य` इति। `क्तस्य च वर्तमाने` [[2.3.67]] इति षष्ठी॥", "72054": "`लुभित्वा, लोभित्वा` इति। `रलो च्युपधात्` [[1.2.26]] इत्यादिना पक्षे कित्ताद्गुणाभावो भवत्येव। `गार्धेये यथाप्राप्तमेव` इति। क्वाप्रत्यये विकल्पः। निष्ठायां <<यस्य विभाषा>> [[7.2.15]] इति नित्यः प्रतिषेध इति॥", "72055": "`जरीत्वा, जरित्वा` इति। `जृ? वयोहानौ` (धातुपाठः-1494) क्रैयादिकः। `वृतो वा` [[7.2.38]] इति पक्षे दीर्घः। यस्तु `जृष वयोहानौ` (धातुपाठः-1130) इति विवादौ पठते, तस्य सानुबन्धकत्वादिह ग्रहणं नास्तीति तस्य जौर्त्वेत्येवं भवति। `व्रश्चित्वा` इति। `ओ व्रश्चू छेदने` (धातुपाठः-1292)। <<न क्त्वा सेट्>> [[1.2.18]] इति प्रतिषेधाद्? ग्रहिज्येत्यादिसूत्रेण [[6.1.16]] सम्प्रसारणं न भवति; किति तसय विधानात्। अथ क्त्वाग्रहणं किमर्थम्, यावता <<क्लिशः क्त्वानिष्ठयोः>> [[7.2.50]] इत्यत एव कत्वाग्रहणमनुवर्तत एव? इत्याह - `क्त्वाग्रहणम्` इत्यादि। तद्धि क्त्वाग्रहणं निष्ठआ सह सम्बद्धम्, अतस्तदनुवृत्तौ तस्या अध्यनुवृत्तिः स्यात्। एवं च सति निष्ठायामपि स्यात्। तस्मात्? निष्ठानिवृत्त्यर्थमन्यदिह क्त्वाग्रहणं क्रियते॥", "72056": "", "72057": "`कृती छेदने` (धातुपाठः-1435) इति तौदादिकः, `कृती वेष्टने` (धातुपाठः-1447) इति रौधादिकः - विशेषानुपादनाद्द्वयोरपि ग्रहणम्। `चृती हिंसासंग्रन्थयोः` [`हिंसाश्रन्थनयोः` - धातुपाठः-] (धातुपाठः-1324), उ छृदिर्? दीप्तिदेवनयोः` (धातुपाठः-1445), `उ तृदिर्? हिंसादानयोः` [`हिंसाऽनादरयोः` - धातुपाठः-] (धातुपाठः-1446)। उकारौ <<उदितो वा>> [[7.2.56]] इति विशेषणार्थो। इकाररेफावपि <<इरितो वा>> [[3.1.57]] इति विशेषणार्थादेव। `नृती गात्रविक्षेपे` (धातुपाठः-1116)। सर्वेवामेषानुदात्तत्वान्नित्यमिटि प्राप्ते सिचोऽन्यत्र सकारादौ विकल्पार्थं वचनम्। `से` इत्येतस्याकारोच्चारणमतन्त्रम्; अविवक्षितत्वात्। तेन स्येऽपरि विकल्पो भवति। अतन्त्रत्वं तु पुनरस्य `असिचि` इति सिचः प्रतिषेधाद्विज्ञेयम्। यदि ह्रतन्त्रमकारोच्चारणम्, एवं सति `स्वसिचि` इत्येवं कस्मान्नोक्तम्? सन्देहभयात्। एवं ह्रुच्यमाने `स्ये सिचि च` इत्येषोऽप्यर्थ आशङ्क्येत। `सेऽसिचि` इत्युच्यमाने तु सप्तमीद्वयोरुपादानात्? सिज्विर्जिते सकारादावित्यभिमतोऽर्थो विज्ञायते। नन्वत्रापि सन्देहः स्यात् - एवमुच्यमाने किमर्थं सिचि न वेति? यदि हि सिच्यपि स्यात्? तदुपादानमनर्थकं स्यात्, सीत्येवं ब्राऊयात्। `कत्स्यैति` इति लृट्। `अकत्स्र्यत्` इति। लुङ्। `चिकृत्सति` इति। सन्, <<हलन्ताच्च>> [[1.2.10]] इति कित्वाद्गुणाभावः॥", "72058": "`गम्लृ गतौ` (धातुपाठः-982)। गमिरयमनुदात्तत्वादनिट्। योऽपि `सनि च` [[2.4.47]] इति `इण्? गतौ` (धातुपाठः-1045) इत्यस्य गमिरादेशः, यश्च `इण्वदिक इति उक्तव्यम्` (वा।167) इति `इक्? स्मरणे` (धातुपाठः-1047) इत्येतस्य, यश्च `इङश्च` [[2.4.48]] इति `इङ्? अध्ययने` (धातुपाठः-1046) इत्येतस्य सोऽपि स्थानिवद्भावादनिडेव स्यात्। तेभ्यः परस्य सकारादेरार्धधातुकस्य सिज्वर्जितस्येडागमो यथा स्यादित्येवमर्थं वचनम्। `गमिष्यति, अगमिष्यत्` इति। अनादेशस्य गमेरुदाहरणम्। `जिगमिषति` इति। एतत्? तस्येणादेशस्य, इगादेशस्य वा।अथेडिते वर्तमाने पुनरिङ्ग्रहणं किमर्थम्? इत्याह - `इङ्ग्रहणं नित्यार्थम्` इति। तद्धि [`तद्धि पूर्वकमिङ्ग्रहण्। `उदितो वा` इति वाग्रहणेन प्रकृतमिङ्ग्रहणं सम्बद्धम्, अतस्तदनुवृत्तौ` इत्यादिः मुद्रितः पाठः] पूर्वकमिङ्ग्रहणं <<उदितो वा>> [[7.2.56]] इति वाग्रहणेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्, तथा च विकल्पेनेट्? प्रसज्येत। तस्मात् तन्निवृत्त्यर्थं पुनरिङ्ग्रहणं क्रियेत। `संगंसीष्ट` इति। सम्पूर्वाद्गमेराशिषि लिङ् सीयुट्, `समो गम्पृच्छि` [[1.3.29]] इत्यादिनाऽऽत्मनेपदम्, <<सुट् तिथोः>> [[3.4.107]] इति सुट्, धत्वम्, ष्टुत्वम्। `सञ्जिर्गसते` इति। `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेषदम्। `अधिजिगांसते` इति। गमेरिङादेशस्य प्रत्युदाहरणम्। अथ सञ्चिगंसत इत्यत्र <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घत्वं कस्मान्न भवति? इत्याह - `गमेरिङादेशस्य` इत्यादि। तद्धि दीर्घत्वमिङादेशस्य गमेरिष्यते, नान्यस्य। तथा हि तत्रोक्तम् - गमेरिङादेशस्येति वक्तव्यमिति। यदि परस्मैपदेष्वित्युच्यते, तदा कृति परस्मैपदलुकि च न प्राप्नोति? इत्याह - `आत्मनेपदेन` इत्यादि। `समानपदस्थस्य` इति। एकपदस्थस्येत्यर्थः। `अन्यत्र सर्वत्रैवेष्यते` इति। एतच्च `कृत्यपि हि` इत्यादिना विसपष्टीकरोति। `सञ्जिगमिषिता, अधिजिगमिषिता` इति। कृत्युदाहरणे द्वे। `जिगमिव त्वमिति` इति। एतत्? परस्मैपदलुकि। सन्नन्तत्वाद्गमेर्लोट्, सिप्, `सेह्र्रपिच्च` [[3.4.87]] इति सेहिंरादेशर#ः, <<अतो हेः>> [[6.4.105]] इति लुक्। कथं पुनः परस्मैपदेष्वित्युच्यमाने कृति परस्मैपदलुकि च लभ्यते? एवं मन्यते - योगविभागः कर्तव्यः; `गमेरिट` इत्येको भागः, तत्र `से` इत्यनुवर्तते - सकारादावार्थधातुके गमेरिडागमो भवति। ततः `परस्मैपदेषु` इति द्वितीयो योगो नियमार्थः। स चायं नियमो यद्यविशेषेण स्यात्? तदा पूर्वयोगोऽनर्थकः स्यात्। तस्मात्? तुल्यजातीयापेक्षया नियमः, तुल्यजातीयश्च तिङ् - सिङ्विषये यदि भयति तदा परस्मैपदेष्वेव, नात्मनेपदेष्विति। ते कृति परस्मैपदलुकि च पूर्वयोगे न भवत्येव; नियमेनाव्यावर्त्तितत्वदिति। `पदशेषकारस्य पनः` इत्यादि। पदशेषकारः पुनरेवं मन्यते - परस्मैपदेष्विति नेयं परसप्तमी, किं तर्हि? विषयसप्तमी, परस्मैपदविषये यो गमिरुपलक्षितः=उपलब्धस्तस्य सकारादावार्धधातुक इड्? भवतीति। एवं च सति योगविभागमन्तरेणापि तन्मतेन परस्मैपदेषु यो गमिरुपलक्षितः, तस्मादसत्यपि परस्मैपदे सर्वत्र कृति परस्मैपदलुकि चेड्? भवत्येव; परस्मैपदपरत्वेन सकारादेरार्धधातुकस्याविशेतत्वात्। तन्मतेन सञ्चिर्गसिता, अधिजिर्गसिता व्याकरणस्येति भवितव्यमिति; सम्पूर्वस्य, अधिपूर्वस्य च गमेः परस्मैपदेष्वनुपलक्षितत्वात्। तथा हि - सम्पूर्वाद्गमेः `समो गम्युच्छि` [[1.3.29]] इत्यादिनाऽऽत्मनेपदं विहितम्। अधिपूर्वादपि स्थानिवद्भावात्? `अनुदात्तङितः` [[1.3.12]] इत्यनेनात्मनेपदमिति॥", "72059": "`वृद्भ्यः` इति बहुवचननिर्देशादाद्यर्थो गम्यते। अत एवाह - `वृदादिभ्यः` इति। `वृतु वर्तने` (धातुपाठः-758), `वृधु वृधौ` (धातुपाठः-759), `शृधु शब्दकुत्सायम्` (दा।पा।760) `स्यन्दू रुआवणे` (धातुपाठः-761) - इत्येते वृदादयश्चत्वार उदात्तः। तत्राद्यानां त्रयाणां नित्यमिटि प्रप्ते, स्यन्देस्तूदित्त्वात्? पाक्षिके प्राप्ते प्रतिषेधोऽयमुच्यते। `वत्स्र्यति` इति। `लृट्? शेषे च` [[3.3.13]] इति लृट्, `वद्भ्याः स्यसनोः` [[1.3.92]] इति विकल्पेन परस्मैपदम्। `विवृत्सति` इति। <<हलन्ताच्च>> [[1.2.10]] इति सनः कित्वाद्गुणाभावः। वृधिशृध्योर्धकारस्य `खरि च` [[8.4.54]] इति चर्त्वम् - तकारः। `चतुभ्र्य इति न वक्तव्यम्` इति। अत्र कारणमाह - `वृत्करणं हि` इत्यादि। तदेव यदि वृदादिपरिसमाप्त्यर्थमपि विज्ञायत इति तन्त्रेणानेकशक्तितो वा शब्दानां न किञ्चिदनिष्टं प्राप्नोति। एवमपि विशायमान इष्टस्यैव सिद्धेरत्यभिप्रायः। एवं प्रत्याख्याते चतुग्र्रहणे, प्रयोजनमाह - `तत्क्रियते` इत्यादि। यदि चतुग्र्रहणं न क्रियेत, तदा स्पन्देरूदिल्लक्षणोऽन्तरङ्गत्वाद्विकल्पः स्यात्। अन्तरङ्गत्वं तु तसय वलाद्यर्धधातुकमात्राश्रयत्वात्। अस्य तु प्रतिषेधस्यार्थधातुकविशेषाश्रयत्वाद्वहरङ्गत्वम्। तस्मादन्तरङ्गमपि स्यन्देरूदिल्लक्षणं विकल्पमयं प्रतिषेधो यथा बाधेतेत्येवमर्थञ्च चतुग्र्रहणं क्रियते। कथं पुनः क्रियमाणेऽपि चतुग्र्रहणे, अयमर्थो लभ्यते? इत्यत आह - `चतुग्र्रहणे` इत्यादि। स स्यन्दिः परः प्रधानो यस्य तत्? तत्परम्, तद्भावस्तात्पर्यम्, तेन तात्पर्येण तत्प्रधानतयेत्यर्थः। `सन्निधापितः` इति। उपस्थापित इत्यर्थः। तस्य चैवं सन्निधापितस्य विकल्पोऽनेन प्रतिषेधेन कथं नाम बाध्येतत्येतदेव प्रयोजनम्। ततश्चतुग्र्रहणादन्तरङ्गमपि विक्लपं प्रतिषेधो बाधते। `अत्रपि` इत्यादि। कथं पुनः `परस्मैपदेषु` [[7.2.58]] इत्यनुवर्तमानेऽन्यत्र सर्वत्र प्रतिषेधो लभ्यते? एवं मन्यते - गमेरित्यनुवर्तते, तत्रैवमभिसम्बन्धः करिष्यते - गमेः सकारादौ येन प्रकारेण इट्? तेनैव प्रकारेण वृदादिब्यो नेडिति। तेन यथा गमेरात्मनेपदवर्जनमन्यत्र सर्वत्रैवेङ् भवति, तथा वृदादिभ्योऽपि प्रतिषेध इति॥", "72060": "`कृपू सामर्थ्ये` (धातुपाठः-762)। तस्मादूदित्त्वाद्विकल्पेनेटि प्राप्ते प्रतिषेधोऽयमारब्यते। `कल्प्ता` इति। लुट्, `लुटि च कॢपः` [[1.3.93]] इति परस्मैपदं विकल्पेन, <<कृपो रो लः>> [[8.2.18]] इति लत्वम्। `चिकॢप्सति` इति। पूर्ववत्कित्त्वम्। `कॢपेरपि` इत्यादि। अयमर्थो वृदादीनामनुवृत्तर्लभ्यते, तदनुवत्तौ सत्यामेवाभिसम्बन्धः करिष्यते - यथा वृदादीना प्रतिषेधो भवति, तथाऽयमपि कॢपेरिति। यदि तर्हि वृददीनां ग्रहणमिहानुवर्तते, तदा वृदादीनामपि तासौ प्रतिषेधः प्राप्नोति? योगविभागकरणसामर्थ्यान्न भविष्यति। यदि वृदादीनामपि तासौ स्यात्, तदा `न वृद्भ्यः पञ्चभ्यस्तासि च` इत्येकरणे कुर्यात्॥", "72061": "क्रादिनियमादिटि प्राप्तेज्जन्तानां तासौ नित्यानिटां थलि प्रतिषेधो विधीयते। `पाता` इत्यादि। लुडुपन्यासस्तासौ नित्यानिट्त्वप्रदर्शनार्थः`; अनिट्त्वं [`अनिट्प्रतिषेधात्` - इत्येव मुद्रितः पाठः] च `एकाचः` [[7.2.10]] इत्यादिनेट्? प्रतषेधात्। `लूत्वा, लुलविथ` इति। तास्वदिति वचनादिह न भवति प्रतिषेधः। तस्मस्वनुच्यमान[`तस्मसत्वनुच्यमान इहापि प्रतिषेध स्यात् - भवति, लुनाति। किति नित्यमनिटः `श्रयुकः किति` इति प्रतिषेधात्` - इति मुद्रितः पाठः] इहापि प्रतिषेधः स्यात्। भवति लुनातिः किति नित्यमनिट्। `श्रयुकः किति` [[7.2.11]] इति प्रतिषेधात्? `पपिव, पपिम` इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। `अनिङ्ग्रहणं नित्यमित्यनेन` इत्यादि। नित्यमित्यनेनानिट्त्वं धातोः कथं नाम विशेष्येतेत्येवमर्थमनिङ्ग्रहणमित्यर्थः। अथ सविता, लुलवथेति तासौ सेटस्थलौट्प्रतिषेधो मा भूदित्येवमर्थमनिड्ग्रहणं कस्मान्न भवति? नार्हत्येवमर्थं भवितुम्। तथा हि - तास्वत्? थलीण्न भवतीत्युच्यते; न च यस्तासौ सेट्? तस्य प्रतिषेधो भवंस्तास्वदिति व्यपदेष्टुं शक्यते, यो ह्रमिजभावस्थलि विधीयते तस्य तासाविडमावेनैव सादृश्यं वतिराचष्टे। एवं तु वतिग्रहणादेव तासौ सेटस्थलि प्रतिषेधो न भविष्यति; अन्यथा वतिना यत्? सादृश्यं समाख्ययते तन्न स्यात्। तस्माद्युक्तमुक्तेमेवानिद्ग्रणस्य प्रयोजनम्। अथाक्रयमाणेऽनिङ्ग्रहणे नित्यमिति कस्य विशेषणं विज्ञायते? प्रतिषेधस्य। ननु च नित्य एव प्रतिषेधः प्रकृतः, तत्र यदि नित्यग्रहणे न प्रतिषेधो विशिष्येत, तदा नित्यग्रहणमनर्थकं स्यात्? नैतदस्ति; पूर्वसूत्रे प्रतिषेधस्यानित्यत्वं यथा स्यादित्येवमर्थं स्यात्। अवं च पूर्वसूत्रेण पक्ष इडागमः स्यादेव। तस्मात्? पूर्वोक्तमेवानिड्ग्रहणस्य प्रयोजनम्। `तासौ विबाषितेट्` इति। स्वरत्यादिसूत्रेम [[7.2.44]] धूञ इङ्? विकल्पितः। तस्य नित्यग्रहणाद्विभाषितेटस्थलि नित्यमिडागमो भवति। असति च नित्यग्रहणे प्रतिषेधः स्यादेव। पाक्षिकेणापीडभावेनानिङ्व्यपदेशो भवत्येव। तथा हि - गुहेर्विभाषितेटोऽपि <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्सो भवत्येव - अधुक्षदिति। अथ वतिना निर्देशः किमर्थः, न तासावित्येवोच्येत? इत्यत आह - `तास्वत्` इत्यादि। असति वतिना निर्देशे योऽपि तासावसन्? असत्त्वाच्च नित्यमनिट्, तस्यापि थलि प्रतिषेधः स्यात्। वतिना निर्देशे तु सति, वतेः सर्वसादृश्यार्थत्वाद्यथाभूतस्य तासाविण्न भवति तथाभूतस्यैव थल्पपीटा न भवितव्यमिति न भवत्येव दोषप्रसङ्गः। यदि हि यस्तासावसत्? असत्त्वाच्च नित्यमनिट्? तस्यापि थलि प्रतिषेधः स्यात्। एवं च सति तसावसत इडभावः, इतरत्र तु सत इति यथाभूतस्य तासादिडभावस्तथाभूतस्थापि थलि न स्यात्। यो हि तासावसन्नसत्त्वाच्च नित्यमनिट्, तस्य थलि प्रतिषेदो न भवति - जघसिथेति - उत्तरसूत्रेणेत्यभिप्राय इत्यत आह - `उत्तरसूत्रेऽपि` इत्यादि। तदेवमुत्तरार्थो वतिना निर्देशोऽयं भवति। इह तु नार्थो वतिनिर्देशेन, अनजन्तत्वादेव घसेर्वयेश्च परतिषेधो न भवतीति। `जघसिथ` इति। `लिटन्यतरस्याम्` (2.4.4।0) इत्यदेर्घस्लादेशः। `उदयिथ` इति। <<वेञो वयिः>> [[2.4.41]] इति वयिरादेशः; `लिटभ्यासस्योभथेषाम्` [[6.1.17]] इति सम्प्रसरणम्। कस्मात्? पूनर्घसेः, वयेश्च तासावसत्त्वान्नित्यानिट्त्वम्? इत्याह - `अदादेशो हि` इत्यादि। नास्तित्वं तयोः पुनस्तासावविधानाद्वेदितव्यम्॥", "72062": "अनजन्तार्थोऽयमारम्भः। `इयष्ठ` [`इयष्ट` इति पदमञ्जरी] इति। पूर्ववदभ्यासस्य सम्प्रसारम्, व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, ष्टुत्वम्। `चकर्षिथ` इति। `कृष विलेखने` (धातुपाठः-990)। भवत्ययमकारवान्, न तूपदेशे, किं तर्हि? पश्चाद्गुणे कृते। उपदेशग्रहमिह शक्यमकर्त्तुम्, शक्यत एव हि `एकाच उपदेशे` [[7.2.10]] इत्यत उपदेशग्रहणमनुवर्तयितुम्? तत्? क्रियते विस्पष्टार्थम्। असति तस्मिन्, पूर्वसूत्रे तस्यानुपयोगान्निवृतिंत मन्यमानः `तासावत्वतः` इत्येवमपि कश्चित्? प्रतिपद्येत। `रराधिथ` इति। `राध साध संसिद्धौ` (धातुपाठः-1262,1263)। `जिघृक्षति` इति। <<सनि ग्रहगुहोश्च>> [[7.2.12]] इतीट्प्रतिषेधाद्भवति नित्यानिट्, न तु तासौ, किं तर्हि? सचि।`आनाञ्जथ` इति। `अन्जू `व्यक्तिभ्रक्षणादिषु` [`व्यक्तिमरषणकान्तिगतिषु` - धातुपाठः-] (धातुपाठः-1458)। <<अत आदेः>> [[7.4.70]] इत्यभ्यासस्य दीर्घः, `तस्मान्नुङ्? द्विहलः` [[7.4.71]] नुट्, भवत्ययं धातुरुपदेशेऽकारवान्, न तु तासौ नित्यानिट्; स्वरत्यादिसूत्रेण [[7.2.44]] विकल्पितेट्कत्वात्॥", "72063": "`सस्मर्थ` इति। `स्मु चिन्तायाम्` (धातुपाठः-933)। `दध्वर्थ` इति। `ध्वृ हूर्छने` (धातुपाठः-939)। ननु यद्यप्यकारान्तानां मद्ये वृङ्वृञावुदात्तौ तत्रापि वृङस्थल्न सम्भवत्येव, आत्मनेपदितत्वात्। वृञस्तु `ववर्थेति निगमे` [[7.2.64]] निपातनाद्भाषायामिटा भवितव्यमेव, तस्मात्? तयोरिट्प्रतिषेधार्थमेतन्नोपपद्यते; ये त्वन्ये ऋकारान्ताः, तेषामनुदत्तत्वात्? तासौ नित्यमनिट्त्वामिति `अचस्तास्वत्? थल्यनिटो नित्यम्` [[7.2.61]] इतीट्प्रतिषेधः सिद्ध एव, परत्वाद्गुणे कृते रपरत्ये चानजन्तत्वान्न सिध्यतीत्येवमेतन्नाशङ्कनीयम्; उपदेशग्रहणस्य पुरस्तादनुकृष्टस्य `अचः` इत्यनेनाभिसम्भन्धात्; अथ वा - `अचः` इति विहितविशेषणा पञ्चमी, तत्रैवं विज्ञास्यामः - अजन्ताद्यो वहितस्थलिति, तस्मादचस्तास्वदित्यनेनैव ऋकारन्तेभ्यः प्रतिषेधः सिद्धः, तत्किमर्थोऽप्यमारम्भः? इत्याह - `सिद्धे सत्यारम्भो नियमार्थः` इति। `नान्येभ्यः` इति। के पुनस्ते? य ऋकारान्तादन्येऽजन्ताः, अनजन्ताश्चोपदेशेऽत्वन्तः। अथैवं कस्मान्नियमो न विज्ञायते - ऋतो भारद्वाज्यैव, नान्येषामाचार्याणामिति? एवं मन्यते - पूर्वसूत्रादयोऽत्वत इति चनुवर्तते, तदनुवृत्तेरेतदेव प्रयोजनम् - अनेन नियमेन सन्निधानात्? तस्यैवाजन्तस्यानुवृत्तस्यात्वतश्च प्रकृतस्य धातोः। तथा च तदनुवृत्तिरपार्थिका स्यात्। तस्मावृत एव भारद्वाजस्येत्ययमेव नियमो विज्ञायत इत्याह - `तत्` इत्यादि। तदिति हेतौ। यस्मादेवंविधोऽत्र नियमः - तस्मादृत एव भारद्वाजस्य प्रतिषेधो भवति, नान्येभ्यो धातुभ्य ति। तेन यद्यपि पूर्वयोगाभ्यां नित्यमिट्प्रतिषेधः कृतः, तथां च सामर्थ्थात्? पूर्वयोगयोरयं विकल्पो भवति। यद्यपि तत्र वाग्रहणम्, आचर्यग्रहणं च क्रियते, तथाप्यर्थाल्लभ्यते। अथ तपरकरणं किमर्थम्, न `उर्भारद्वाजस्य` इत्येवोच्येत? इत्याह - `तपरकरणम्` इत्यादि। यदि ह्रुरित्येवोच्येत, ततोऽण्? सवर्णान्? गृह्णातीति ऋकारान्तानामपि ग्रहणं स्यात्। ततस्तन्निवृत्त्यर्थं तपरकरणम्। किं पुनः स्याद्यद्युकारान्तानां ग्रहणं न स्यात्? इत्यत आह - `तथा हि` इत्यादि। तथेत्येवमर्थे। हिशब्दो यस्मादर्ये। एवं यस्मात्? तपरकरणमन्तरेणापि ऋकारानातानां ग्रहणे सति विध्यर्थमेतत्? सम्भाव्येत। असति हि विधेये नियमो भवति। ऋकारान्तानां ग्रहणे सति तेषामेव प्रतिषेधो विधेयः स्यात्, न हि तेषां पूर्वेण प्रतिषेधः सिद्धः। सर्वेषामृकारान्तानां तासौ नित्यम्; सेट्त्वात्?। तपरकरणे तु सति तकारेण दीर्घनिवृत्तौ कृतायां विधेयताभावान्नियमोऽयं सम्पद्यते॥", "72064": "बभूथेत्यादौ सर्वत्र क्रादिनियमादिटः प्राप्तस्याभावो निपात्यते। `बभूथ` इति। `भवतेरः` [[7.4.73]] इत्यभ्यासस्याकारस्यात्वम्। `बभूविथ` इति। <<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुक्। `आततन्थ` इति। `तनु विस्तारे` (धातुपाठः-1463), आङ्पूर्वः। `अतेनिथ` इति। <<थलि च सेटि>> [[6.4.121]] इत्येत्त्वाभ्यासलोपौ। `जगृभ्म` इति। `भुवो वुग्लुङ्लिटोः` (6।488) इति वुक्। `आततन्थ` इति। `तनु विस्तारे` (धातुपाठः-1463), आङ्पूर्वः। `अतेनिथ` इति। <<थलि च सेटि>> [[6.4.121]] इत्येत्त्वाभ्यासलोपौ। `जगृभ्म` इति। ग्रहेर्लिट्, `परस्मैपदानाम्` [[3.4.82]] इत्यादिना मसो मादेशः, `ग्रहिज्या` [[6.1.16]] इति सूत्रेण सम्प्रसारणम्। `ववपर्थ` इति। `वृञ्? वदणे` (धातुपाठः-1254)॥", "72065": "`सुज विसर्गे` (धातुपाठः-1414), `दृशिर्? प्रेक्षणे` (धातुपाठः-988) - अनयोः क्रादिनियमादिटि नित्यं प्राप्ते विकल्पार्थ वचनम्। `सरुआष्ठ, दद्रष्ठ` इति। व्रश्चादिना [[8.2.36]] षत्वम्, <<सृजिदृशोर्झल्यमकिति>> [[6.1.58]] इत्वम्॥", "72066": "`आदिथ, आरिथ` इति। `अद भक्षणे` (धातुपाठः-1011), `ऋ गतो` (धातुपाठः-1098)। <<अत आदेः>> [[7.4.70]] इत्यभ्यासस्य दीर्घः। `विष्ययिथ` इति। `व्येञ्? संवरणे` (धातुपाठः-1007), लिटभ्यासत्योभयेषाम्` [[6.1.17]] इति सम्प्रसारणम्। कस्मात्? पुनरत्र व्येञः `आदेच उपदेशे` [[6.1.45]] इत्यात्त्वं न भवति? इत्याह - `व्येञो न व्यो लिटि इत्यादि। `अर्तेरपि नित्यं प्रतिषेधः` इति। <<ऋतो भारद्वाजस्य>> [[7.2.63]] इत्यनेन। `अत्रेङ्ग्रणं विस्पष्टार्थम्` इति। ननु च नित्यमिडागमो यथा स्यादित्येवमर्थमिङ्ग्रहणं स्यात्, न हीङ्ग्रहणमन्तरेणायं शक्यत इङ्विधिर्नित्यो विज्ञातम्? इत्याह - `विकल्पवधाने हि` इत्यादि। अनेन हि विकल्पस्यानन्तरस्य वा विधानं क्रियते, पूर्वपरकृतस्य वा नित्यप्रतिषेधस्य? शक्यते ह्रसावपि मण्डूकप्लुतिन्यायेनानुवर्तयुतम्। तत्र यदि पूर्वको विकल्पस्तदाऽर्त्तिव्ययतिग्रहणमनर्थकं स्यात्; <<उपदेशेऽत्वतः>> [[7.2.62]] इत्यनेनैव विकल्पस्य सिद्धत्वात्। अथेतरः, एवं सत्यर्त्तिग्रहणमनर्थकं स्यात्; `ऋतो भारद्वाजस्यैव` [[7.2.63]] इत्यनेनैव प्रतिषेधस्य सिद्धत्वात्। यत एवं न विकल्पस्य विधानमुपपद्यते तेन नापि प्रतिषेधस्य। अस्मादन्तरेणापीङ्ग्रहणं नित्योऽयमिङ्विधिरिति शक्यते विज्ञातुम्। प्रतिपत्तिगौरवं पुनरेवं विज्ञायमाने स्यादिति विस्पष्टार्थमिङ्ग्रहणं क्रियते॥", "72067": "`कृतद्विर्वचनानां धातूनामेकाचाम्` इति। कुत एतदवसितम्? एकाज्ग्रहणसामर्थ्यात्। न हि कश्चिदकृते द्विर्वचनेऽनेकाजस्ति, यन्निवृत्त्यर्थमेकान्ग्रहणं क्रियते। ननु च जागर्त्तिरस्ति, अतस्तन्निवृत्त्यर्थ तत्? स्यात्? नैतदस्ति; न ह्रेकमूदाहरणं प्रति योगारम्भं प्रयोजयति। यद्येतत्? प्रयोजनं स्यात्, `जाग्रो न` इत्येवं ब्राऊयात्। तदाप्ययमर्थः - प्रतिपत्तिगौरवं परिह्मतं भवति। ननु चोर्णोतेर्निवृत्त्यर्थमपि स्यात्? नैतत्; उक्तं हि प्राक् - `वाच्यौउर्णोर्णुवद्भावः` (कारिका।7.2.11) इति। तस्माद्युक्तमुक्तम् - कृतद्विर्वचनानां धातूनामेकाचामिति। `आदिवान्ाशिवान्` इति। `अद भक्षणे` (धातुपाठः-1011), `अश भोजने` (धातुपाठः-1523)। लिटः <<क्वसुश्च>> [[3.2.107]] इति क्वसुः, द्विर्वचनम्, अभ्यासकार्थञ्च, `अत आदेः [[7.4.70]] इति दीर्घत्वम्। सवर्णदीर्घत्वम्, इट्, `उगिदचम्` [[7.2.70]] इति नुम्, `सान्तमहतः` [[6.4.10]] इत्यादिना दीर्घः, हल्ङ्यादि- [[6.1.66]] संयोगान्तलोपौ [[8.2.23]] । `पेचिवन्, शोकिवान्` इति। `अत एकहल्मध्ये` [[6.4.120]] इत्यादिनैत्त्वाभ्यासलोपौ। `धात्वभ्यासयोरेकादेशे कृते` इत्यादि। ननु च षाष्ठिके द्विर्षचनविधौ `द्विष्प्रयोगो द्विर्वचनम्` इत्येव पक्षो वृत्तिकारेणाश्रितः, एवं चाकृते दात्वभ्यासयोरेकदेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचना अप्येत एकाचो भवन्ति। स्थाने द्विर्वचने हि शब्दान्तरमनेकाजतिदिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्, न तु द्विष्प्रयोगे द्विर्वचने; तत्र हि स एव धातुर्द्विरुच्यते, न चासौ शतकृत्वोऽप्युच्चार्यमाण एकाच्त्वं जहाति, किंपुनर्द्धिरुच्यमानः, तत्? क्रिमुच्यते - धात्वभ्यासयोरेकादेश एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्तीति? आवृत्तिकृतमेकाचो बेदमाश्रित्यैवमुक्तमित्यदोषः। भवति हि धर्मभेदादपि धर्मिणो भेदव्यवहारः? तथा हि, वक्तारो वदन्ति - परुद्भावान्? पटुरासीत्, पटुतरश्चैषमः, पटुतमः परारि, सोऽन्य एवासि संवृत्त इति। अथ वा - स्थाने द्विर्वचनपक्षोऽपि तत्राश्रितः, द्विष्प्रयोगश्च द्विर्वचनमिति कृत्वा। चकारात्? स्थाने द्विर्वचनमपीति स्थाने द्विर्वचनपक्षस्यापि तत्र सूचनात्। ये तु तत्पक्षभाविनो दोषस्ते तत्र प्रतिविहिता एव। `तस्थिवान्` इति। `शर्पूर्वाः खथः` [[7.4.61]] इति ख्यः शेषः; `अतो लोप इटि च` [[6.4.64]] इत्याकारलोपः। `जक्षिवान्` इति। पूर्ववददेर्घस्लादेशः, इट्? `गमहन` [[6.4.98]] इत्यादिनोपधालोपः, <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम् - धकारस्य झकारः, <<अभ्यासे चर्च>> [[8.4.54]] इति झकारस्य जकारः। परस्य धकारस्य `खरि च` [[8.4.54]] इति चर्त्वम् - ककारः, `शासिवसि` [[8.3.60]] इत्यादिना षत्वम्। ननु चात्र क्रादिनियमादिडागमः सिद्ध एव, तत् किमर्थोऽयमारम्भः? इत्याह - `सिद्धे` इत्यादि। `क्रादिनियमात्? प्रसक्तः` इत्यादिना `सिद्धे सत्यारम्भो नियमार्थः` (कात।प।59) इत्येतदेव स्पष्टीकरोति। `प्रसक्तः` इति। प्राप्त इत्यर्थः। `नियम्यते` इति। धात्वन्तरेभ्यो व्यावर्त्त्येकाजादिष्वेव व्यवस्थाप्यत इत्यर्थः। अथाद्ग्रहणं किमर्थम्, यावताऽकारान्ता अप्यतो लोपे कृते कृतद्विर्वचना एकाचो भवन्त्येव, तत्रैकाज्ग्रहणेनैव सिद्धम्? इत्याह - `आद्ग्रहणमनेकाज्ग्रहणार्थम्` इति। कथं पुनस्तेषामनेकाच्त्वम्? इत्यत आह - `द्विर्वचने` इत्यादि। इण्निमित्तत्वादाकारलोपस्येटि सति तेषामाकारलोपेन भवितव्यम्, नासति, अतो यावदिण्न क्रियते तावदाकारलोपाभावात्? कृतद्विर्वचना एतेऽनेकाच इत्यसत्याद्ग्रहणे [`इत्यसत्यादिग्रहणे` - इति मुद्रितः पाठः] तेषां ग्रहणं न स्यात्। तस्मादनेकाजर्थमाद्ग्रहणं कर्तव्यम्। यद्येवम्, दरिद्रातेरपीट्? प्रसज्येत? इत्यत आह - `दरिद्रातेस्तु` इत्यादि। दरिद्रातेः क्वसो सम्भव एव नास्ति, यतः `कास्यनेकान्ग्रहणम्` (वा।305) इति वचनाद्दरिद्रातेरामा भवितव्यम्, तस्मश्च सति `आमः` [[2.4.81]] इति लेर्लुका भवितव्यम्? तत्कुतोऽयमिट्प्रसङ्गः! `दरिद्राञ्चकर` इति। `कृञ्चानुप्रयुज्यते` [[3.1.40]] इति लिट्परस्य कृञोऽनुप्रयोगः। अभ्युपगम्यपि दरिद्रातेरामोऽभावं परीहारान्तरमाह - `अथाप्याम्न क्रियते` इत्यादि। आकारान्तानां धातूनामिहेङ्विधीयते। दरद्रातेरार्धधातुके `लोपः सिद्धश्च प्रत्ययविधौ` इति वचनात्? प्रागेव प्रत्ययोत्पत्तेराकारो लुप्त इतीडागमोऽस्मान्निमित्ताभावान्न भवति। क्रियतां नामाद्ग्रहणम्, घसिग्रहणं न कर्तव्यमिति, अस्य द्विर्वचने कृते `घसिभसोहंलि च` [[6.4.100]] इत्युपधालोपे कृते चैकाच इत्येवं सिद्ध इडागमः? इत्याह - `घसेरपि` इत्यादि। `अनच्कत्वात्` इति। द्विर्वचनाभावहेतुः। एकाचो द्विर्वचनमुच्यते; `एकाचः` [[6.1.1]] इत्यधिकारात्। तस्मादुपधालोपे कृतेऽनच्कत्वान्न द्विर्वचनं स्यात्, ततश्च जक्षिवानिति न सिध्यतीत्यभिप्रायः। अथ क्रियमाणेऽपि घसिग्रहणे कस्मादेव दोषो व भवति? इत्याह - `क्रियमाणे` [`नास्ति काशिकायाम्। पदमञ्जर्यां तु `क्रियमाणे तु` इति प्रतीकमुपलभ्यते] इत्यादि। सुबोधम्॥", "72068": "पूर्वस्मान्नियमाद्गमादीनामिङ्? न भवतीति विभाषेयमारभ्यते। `जग्मिवान्` इति। परत्वादिट्? ततः `गमहन` [[6.4.98]] इत्यादिनोपधालोपः, ततो द्विर्वचनम्। `जघन्वानिति, जध्निवान` इति। <<अभ्यासाच्च>> [[7.3.55]] इति कुत्वम् - हकारस्य घकारः। `लाभार्थस्य` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य। `न ज्ञानार्थस्य` इति। `विद ज्ञाने` (धातुपाठः-1064) इत्यस्य। `विद सत्तायाम्` (धातुपाठः-1171), `विद विचारणे` (धातुपाठः-1450) - इत्येतयोश्चात्मनेपदित्वादात्मनेपदेषु क्वसुर्न भवतीत्यनुपन्यासः। `दृशेश्च` इत्यादि। `वृशिर्? प्रेक्षणे` (धातुपाठः-988) इत्यस्माच्च परे क्वसोरिडागमो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `विभाषा` इति योगविभागः क्रियते, तेन दृशेरपि भविष्यतीति। न चैवं सति `गमहनविदविशाम्` इत्यस्यानर्थक्यम्; पूर्वयोगस्यासर्ववषयत्वसूचनात्। एवं ह्रतिप्रसङ्गः परिह्मतो भवति॥", "72069": "`सनोतेः` इति। `षणु दाने` (धातुपाठः-1464) इत्यस्य सनिंपूर्वस्य द्वितीयान्तस्योच्चारणेन नियता मानुपूर्वीमुपलक्षयति। यत्रैषानुपूर्वी नियता तत्रैव यथा स्यात्। इयं चानुपूर्वीं छन्दस्यैव नियतेति तद्विषयमेवैतन्निपानं विज्ञायते। अत एव वृत्तिकृता छान्दसः प्रयोगो दर्शितः। `सेनिवांसम्` इति। पूर्ववदेत्त्वाभ्याम्यासलोपौ। `वस्वेका जाद्धसाम्` [[7.2.67]] इतीट्॥", "72070": "विभाषेति निवृत्तम्। ऋकारान्तानां हन्तेश्चानुदात्तत्वात्? `एकाचः` [[7.2.10]] इत्यादिना प्रतिषिद्धस्येदः स्ये विधानार्थमेतत्। अथ स्वरतेः स्वरत्यादिसूत्रेण [[7.2.44]] पक्ष इट्? अथानेन नित्यमित्याह - `स्वरतेः` स्ये विधानार्थमेतत्। अथ स्वरतेः स्वरत्यादिसूत्रेण [[7.2.44]] पक्ष इट्, अथानेन नित्यामित्याह - `स्वरतेः` इत्यादि। स्वरतेर्धातोर्यत्? स्वरत्यादि [[7.2.44]] सूत्रेण वेट्त्वं विहितं तस्मादनेन स्ये ऋकारान्तेभ्यो विधीयमानं नित्येट्त्वं भवति विप्रतिषधेन। अञ्चार्थः स्वरत्यादिसूत्र उक्तेऽपि विस्मरणशीलानामनुग्रहाय पुनरिहोच्यते। अथ तपरकरणं किमर्थम्? दीर्घाणां मा भूदिति चेत्? नैतदस्ति; उदात्तत्वाद्धि तेषां भवितव्यमेवेटा। एवं तह्र्रसति तपरकरणे यथा <<स्मिपूङ्रञ्ज्वशां सनि>> [[7.2.74]] इत्यत्र स्वरत्यादिसाहचर्यात्? `ऋः` इत्येतस्य धातोग्र्रहणम्, तथेहापि हन्तिना साहचार्यात्? `ऋ` इत्येतस्य धातोग्र्रहणं स्यात्। तपरत्वे तु सति वर्णग्रहणमेतद्विज्ञायते। वर्णनिर्देशे हि तपरत्वं प्रसिद्धम्। वर्णग्रहणे च वर्णग्रहणानि सर्वत्र तदन्तविधिं प्रयोजयन्तीति ऋकारान्तानामिट सिद्धो भवति॥", "72071": "`अन्जू व्यक्तिम्रक्षणकान्तिगतिषु` [`व्यक्तिमर्षणकान्तिगतिषु - धातुपाठः-] (धातुपाठः-1458)। ऊदित्त्वादत्र स्वरत्यादिसूत्रेण [[7.2.44]] विकल्पे प्राप्ते नित्यार्थ वचनम्। `आञ्जीत्` इति। `इतश्च` इतीकारलोपः, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्? `इट ईटि` [[8.2.28]] इति सिचो लोपः, <<आडजादीनाम्>> [[6.4.72]] इत्याट्? `आटश्च` [[6.1.87]] इति वृद्धिः। `आञ्जिष्टाम्` इति। `तस्थस्थमिपाम्` इति झेर्जुस्॥", "72072": "`ष्टुञ्? स्तुतौ` (धातुपाठः-1043), `षुञ्? अभिषवे` (धातुपाठः-1247) - अनयोरनुदात्तत्वात्? प्रतिषेधे प्राप्ते, धूञस्तु स्वरत्यादिसुत्रेण [[7.2.44]] विकल्पे प्राप्ते सतीदमारभ्यते॥", "72073": "`यम उपरमे` (धातुपाठः-984), `रमु क्रीडायाम्` (धातुपाठः-853), `णम प्रह्वत्वे शब्दे च` (धातुपाठः-981)। आकारान्ताः `या प्रापणे` (धातुपाठः-1049) इत्येवमादयः। सर्वेषामनुदत्तत्वादिट्प्रतिषेधे प्राप्तेऽयमारम्भः। अत्र षष्ठीनिर्देशाद्यमादीनां सग्भवति, इट्? पुनरार्धधातुकाधिकारात्? सिच एव। `व्यरंसीत्` इति। <<व्याङ्परिभ्यो रमः>> [[1.3.83]] इति परस्मैपदम्। द्विवचनबहुवचनयोर्युक्तमुदाहरणम्; अस्ति हि तत्र सगिटोः श्रुतौ विशेषः; एकवचनस्य त्वयुक्तम्, विशेषाभावात् - इति यो वेशयेत्, तं प्रति तत्रापि वृद्धिप्रतिषेधो विशेषोऽस्तीति दर्शयितुमाह - `यमादीनाम्` इत्यादि। `आयंस्त` [`अयंस्त` - काशिका, पदमञ्जयमिपि - `आयंस्त` इत्येव प्रतीकीद्धारः] इति। <<आङो यमहनः>> [[1.3.28]] इत्यात्मनेपदम्। `अरंस्त` इति। अत्रापि `अनुदात्त` [[1.3.12]] इत्यादिना॥", "72074": "`ण्मिङ्? ईषद्धसने` (धातुपाठः-948), `पूङ् पवने` (धातुपाठः-966)। अनुबन्धोच्चारणंपूञ्निवृत्त्यर्थम्। `ऋ गतिप्रापणयोः` (दा।पा।936) इति भ्वादिः, `ऋ गतौ` (धातुपाठः-1098) इति जुहोत्यादिः - उभयोरपि ग्रहणम्; विशेषानुपादनात्। ऋकारान्तानां त्वेतद्ग्रहणं न भवति; उत्तरत्र किरत्यादीनामिटो विधानात्। `अन्जू म्रक्षणे` [`व्यक्तिमर्षणकान्तिगतिषु - धातुपाठः-] (धातुपाठः-1458), `अशू व्याप्तौ`[`व्याप्तौ संधे च` - धातुपाठः-] (धातुपाठः-1264)। `अश भोजने` (धातुपाठः-1523) इत्यस्य ग्रहणं न भवति; उदात्तत्वादेवेट्? सिद्ध इति। तत्राञ्जेरशेश्चोदित्त्वाद्विकल्पे प्राप्ते, शेषाणां तूगन्तत्वात्? `सनिग्रहगुहोश्च` [[7.2.12]] इति प्रतिषेधे प्राप्त इदमारभ्यते। `सिस्मियिषते` इति। `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। `पिपविषते` इति। <<ओः पुयण्ज्यपरे>> [[7.4.80]] इत्याभ्यासस्येत्त्वम्। `अरिरिषति` इति। इटि सति गुणे कृतेऽजादेर्द्वितीयस्यैकाचो द्विर्वचनम्। `अञ्जिजिषतीति `अशिशिषति` [`अशिशिषते` - काशिका। नास्ति - मुद्रितग्रन्थे] इति। अञ्जेर्नकारो न द्विरुच्यते; <<न न्द्राः संयोगादयः>> [[6.1.3]] इति निषेधात्॥", "72075": "", "72076": "`रुदिर्? अश्रुविमोचने` (धातुपाठः-1067), `ञि ष्वप्? शये` (धातुपाठः-1068), `आस प्राणने` (धातुपाठः-1069), `अन च` (धातुपाठः-1070), `जक्ष अदने`[`भक्षहसनयोः - धातुपाठः-] (धातुपाठः-1071)। रुदादयोऽदादिषु पठन्ते। `उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्` (शाक।प।97) इति `रुदादिभ्यः` इत्येषा पञ्चमी `सार्वधातुके` इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयति। सप्तमीनिर्देशस्तदूत्तरार्थः। तेन सार्वधातुकस्य वलादेरिङ्? विज्ञायत इत्यत आह - `रुदादिभ्यः पञ्चभ्यः` इत्यादि। `प्राणिति` इति। `अनितेः` [[8.4.19]] इति णत्वम्। `स्वप्ता` इति। सार्वधातुकग्रहणादार्धधातुकस्येण्न भवति। सामान्यलक्षण इण्न भवत्येव; `एकाचः` [[7.2.10]] इति प्रतिषेधात्। अन्येभ्यस्तु रुदादिभ्य उदात्तत्वादार्थधातुकस्यापीटा भवितव्यमेवेति स्वपेरेव प्रत्युदाहरणम्॥", "72077": "`से` इति। `सुपां सुलुक्` [[7.1.39]] इति षष्ठआ लकं कृत्वाऽविभक्तिकोऽयं निर्द्देशः। `ईशिषे` इति। `ईश ऐआर्ये` (धातुपाठः-1020), लट्? अनुदात्तेत्वादात्मनेपदम्, `थासः सेट [[3.4.80]] , अदादित्वाच्छपो लुक्। `ईशिष्व` इति। लोट्, से, `सवभ्यां वामौ` [[3.4.91]] इति वादेशे कृते `एकदेशविकृतमनन्य वद्भवति` (व्या।प।16) इतीहापि भवति॥", "72078": "`ध्वे` इति। पूर्ववदेवाविभक्तिकोऽयं निर्द्देशः। `ईडिध्वे` इति। `ईड स्तुतौ` (धातुपाठः-1019), पूर्ववदात्मनेपदम्, पूर्ववच्छपो लुक्। `ईडिध्वम्` इति। लोट्, <<सवाभ्यां वामौ>> [[3.4.91]] इत्यमादेशः। `जनिष्वम्` इति। पूर्वदातमनेपदम्। छान्दसत्वाच्छ्यनी लृक्? <<बहुलं छन्दसि>> [[7.4.78]] इत्यनेन। `उपधालोपाभावश्च` इति। `गमहन` [[6.4.98]] इत्यादिनोपधालोपः प्राप्नोति, तदभावश्छाब्दसत्वादेव, `सर्वे विधयश्छन्दसि विकल्प्यन्ते` (पु।प।वृ।56) इति। `जन जनन इत्यस्य` इत्यादि। ननु सानुबन्धकत्वादस्यैव[`चानुबन्धकत्वात्` - मुद्रितः पाठः।] ग्रहणेन भवितव्यम्, न पूर्वस्य, उच्चारणार्थोऽकारः, नानुबन्धः? नैष दोषः; इह हि लध्वक्षरत्वाज्जनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातो लक्षणव्यभिचाराय। तेन निरनुबन्धकपरिभाषाया (व्या।प।53) इहानुपस्थानादुभयोरपि ग्रहणं भवति। `व्यतिजज्ञिध्वम्` इति। `कर्तरि कर्मव्यतीहारे` [[1.3.14]] इति आत्मनेपदम्। `तत्र` इत्यादि। तत्रैवं सूत्रपाठे `यस्मिन्? विधिस्तदावावल्ग्रहणे` (व्या।प।127) इति सकारग्रहणे सकारादेः सेशब्दस्य ग्रहणम्। स च सकारादिशब्दः सार्वधातुकसंज्ञाकः सेशब्द एव सम्भवति; अन्यस्याऽसम्भवात्। ननु च स्वशब्दोऽपि सम्भवति? नैतदेवम्; एकदेशविकृतस्यानन्यत्वात्? (व्या।प।16) सोऽपि सेशब्द एव, अतस्तद्ग्रहणेनापि भवितव्यम्। `ये तु `ईडजनोध्र्ये च` इति। सूत्रं पठन्ति, ते `ईशः स` [[7.2.77]] इत्यस्यैव योगस्यानुकर्वणार्थ चकारं कुर्वन्ति। तेनेशेरपि ध्वेशब्द इडागमो भवति। यदि तर्हीशेरपि ध्व इडागम इष्यते, तदा `ईशीडजनां सेध्वयोः` इत्येकमेव सूत्रं कस्मान्न पठन्ति, एवं पृथग्विभक्तिर्नोच्चारयितव्या, चकारश्च न कर्तव्यो भवति? इत्याह - `विचित्रा सूत्रस्य` इत्यादि। `ध्व इति कृतटेरेत्त्वस्य` इत्यादि। कृतटेरेत्त्वस्यैतदेव प्रयोजनम् - यत्र टेरेत्त्वं कृतं तत्रैव यथा स्यात्। न च लङि टेरेत्त्तवमसिति, अतस्तत्रेटा न भवितव्यम्। यद्येवम्, लोटपि न भवितव्यम्, अमादेशे कृते टेरेत्त्वस्याभावात्? इत्याह - `लोटि पुनः` इत्यादि॥", "72079": "`सार्वधातुके यो लिङ्` इति। `सार्वधातुके` [[7.2.76]] इत्येषात्र निर्धारणे सप्तमी, जातावेकवचनम्, यथा `कारके` [[1.4.23]] इति। अथ वा - सुब्व्यत्ययेन बहुवचनस्य परसङ्ग एकवचनम्। परसप्तमीत्येषा न न भवति - सार्वधातुके परतः; पूर्वस्य लिङोऽसम्भवात्। `कुर्यात्` इति। विध्यादिसूत्रेम [[3.3.161]] लिङ्, यासुट्, `इतश्च` [[3.4.100]] इतीकारलोपः, धातोर्गुणः, रपरत्वे `अत उत्? सार्वधातुके` [[6.4.110]] [[3.4.108]] , <<उस्यपदान्तात्>> [[6.1.96]] इति पररूपत्वम्। `कुर्वीत` इति। उकारस्य यणादेशः। `कुर्वीरन्` इति। <<झस्य रन्>> [[3.4.105]] । `कुर्युः` कुर्याः` इति। अत्रानन्त्यग्रहणाज्जुसः सिपश्च न भवति।`क्रियास्ताम्, क्रियासुः` इति। आशिषि लिङ्? [[3.3.173]] , `रिङ्शयग्लिङ्क्षु` [[7.4.28]] इति रिङादेशः। सार्वधातुकग्रहणादार्धधातुके न भवति। आर्धधातुकत्वं च <<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकसंज्ञाविधानात्। `कृषीष्ट, ह्मषीष्ट` इति। `उश्च` [[1.2.12]] इति कित्त्वम्, गुणाभावः॥", "72080": "सार्वधातुकं यत्? प्रकृतं तदर्थादिह विभक्तिविपरिणामेन षष्ठन्तं प्रतिपद्यते। अत एवाह - `अकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य` इति। `पचेत` [`पठेत्` - इति प्राचीनमुद्रितः पाठः] इति। इयादेशे कृतेऽकारेण सह <<आद्गुणः>> [[6.1.87]] , <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः। `चिनुयात्` इति। <<स्वादिभ्यः श्नुः>> [[3.1.73]] `यायात्` इति। अदादित्वाच्छपो लुक्। `चिकीष्र्यात्` इति। सनन्तादाशिषि लिङ्। `ननु चातो लोपेनात्र भवितव्यम्` इति। नार्थोऽनुवृत्तेन सार्वदातुकग्रहणेनेत्यभिप्रायः। `पचेदित्यत्रापि` इत्यादि। यद्यपि पचेदितोदमस्योदाहरणमभिमतम्, तत्रापि <<अतो दीर्घो यञि>> [[7.3.101]] इति दीर्घत्वेन भवितव्यमिति, ततश्च सर्वविषयस्य विध्यन्तरेणावष्टब्धत्वादनवकाशोऽयमियादेशः। तस्मादवश्यमनेन विध्यन्तरं बाधितव्यम्। एवञ्च यथा दीर्घस्यायं बाधकः, तथाऽतो लोपस्यापि स्यात्। तस्मात्? सार्वधातुकग्रहणमनुवर्तयितन्यमिति भावः। `स्यादेतदेवम्` इत्यादि। यदि च दीर्घत्वं `तुरुस्तुन्नम्यमः सार्वधातुके` [[7.3.95]] इत्यतः सार्वधातुकग्रहणमनुवत्त्यं विधीयते, ततश्च स्यादेतदेवं यदुक्तवानसि; इयादेशस्यानवकाशत्वात्। अथ <<भूसुवोस्तिङि>> [[7.3.88]] इति तिङ्ग्रहणमनुवर्त्त्य विधीयते, तदा तिङ्मात्रमभावि दीर्घत्वमिति लिङ्? विधीयमान इत्यादेशे नाप्राप्ते तस्मिन्नयमारभ्यते, ततश्च `येन नाप्राप्ति` (व्या।प।49) न्यायेन तस्यैव बाधको भवति, न त्वतो लोपस्य। इयोऽतो लोपे प्राप्ते चाप्राप्तेऽयमारभ्यते। आर्धधातुके हि प्राप्ते सार्वधातुके त्वप्राप्ते।अथ येय इति कोऽयं निर्द्देशः, अत्र हि `या` इत्येष यः स्थानी तत्र षष्ठआं कृतायामतो या अस्? इय इति स्थिते `आतो लोपः` [[6.4.48]] इति `आतः `धातोः` [[6.4.140]] इति योगविभागाद्वा आकारलोपे कृते `ससजुषोः` [[8.2.66]] इति षष्ठीसकारस्य रुत्वे कृते त्सय `भोभयोअघोअपूर्वस्य योऽशि` [[8.3.17]] इति यकारः। तस्यापि `लोपः शाकस्यस्य` [[8.3.19]] इति लोपे च `य इयः` इति निर्द्देशेन भवितव्यमिति, न तु यत इति। न ह्यत्राद्गुणो भवितुमुत्सहते; <<पूर्वत्रासिद्धम्>> [[8.2.1]] इति यलोपस्यासिद्धत्वात्? इत्यत आह - `येय इत्यविभक्तिकोऽयं निर्द्देशः` इति। येय इत्यस्मिन्? स्थान्यादेशसमुदयेन `या` इति। योऽयं निर्द्देशः सोऽविभक्तिकः; `सुपां सुलुक्` [[7.1.39]] इति विभक्तेर्लुप्तत्वात्। अङ्गीकृत्य च सविभक्तिकत्वं निर्देशस्य परीहारान्तरमाह - `यः` इति। `वा` इत्यादि। कथं पुन लोपस्यासिद्धत्वं शक्यमनाश्रयितुम्? इत्यत्राह - `सौत्रोऽयं निर्देशः` इति। इतिकरणो हेतौ। यस्मात्? `सर्वे विधयश्छन्दसि विकल्प्यन्ते` (पु।प।वु।56) इति `छन्दोवत्? सूत्राणि भवन्ति` (म।भा) इति, तस्मात्, सौत्रत्वादस्य निर्द्देशस्यासिद्धत्वमनाश्रित्य <<आद्गुणः>> [[6.1.87]] कृतः। इत्यादेशेऽकार उच्चारणार्थः॥", "72081": "`आतः`, `ङितः` इति व्यधिकरणे षष्ठ्यौ। आत इयादेशापेक्षया स्थाने षष्ठीति। ङित इति आकारापेक्षयावयवषष्ठी` ङितो ह्रकारमात्रस्यासम्भवात्। ङित इत्येषोऽवचवयोगे षष्ठो विज्ञायते - ङिदवयस्येति ङकार इद्यस्य स ङित्, तस्यावयवो ङिदवयवः। `पचेते` पचेथे` इति। लट्, स्वरितेत्त्वादात्मनेपदम्, आतामथाम्, `सार्वधातुकमपित्` (1।2। 4) इति ङित्त्वम्। `पचोताम्, पचेथाम्` इति। लोट्, टेरेत्त्वे [[3.4.79]] कृते `आमेतः` [[3.4.90]] इत्याम्। ननु च ङिदवयवोऽत्राकारो न भवति, यस्माद्गाङकुटादिसूत्रे [[1.2.1]] ङितीव ङिद्वदित्येवमर्वोऽङ्गौक्रियते, तथा <<सार्वधातुकमपित्>> [[1.2.4]] इत्यत्राप्ययमर्थः, तथा ह्रस्मिन्नपि योगे तदेव ङिद्ग्रहणमनुवर्तते, तस्मश्चार्थेऽङ्गीक्रियमाणे ङिति यत्कार्यं तदपि हि सार्वधातुके परतः पूर्वस्य लक्ष्यते, न तु तस्यैवापित्सार्वधातुकस्यङित्वम्? इत्याह - `सार्वधातुकमपिदित्यत्र` इत्यादि। `पूर्वसूत्र एव` इति। गाङ्कुटादिसूत्रे [[1.2.1]] यद्येवमङ्गीक्रियते - गाङ्कुटादिभ्यः परो योऽञ्णित्प्रत्ययोऽसौ ङिदवद्भवतीति, तदा कुटादिभ्यः परस्य सनो ङित्त्वं भवति, ङित्त्वे सति `अनुदात्तङितः` [[1.3.12]] इत्यादिनाऽऽत्मनेदपं स्यात्, ततश्चोच्चुकुटिपतीति न सिध्येत्। तस्मादेतत्सिध्यर्थं ङितीय ङिद्वदित्यङ्गीक्रियते। `सार्वधातुकमपित्? [[1.2.4]] इत्यत्र तु तत्? सार्वधातुकं ङिद्भवतीत्येषोऽर्थोऽङ्गीक्रियते। तस्माद्युक्तमेवाकारस्य ङिदवयवत्वम्। `पचन्ते, यजन्ते` इति। `भवत्यत्र [`भवत्यङिदवयवो` - मुद्रितपाठः] ङिदवयवोऽक्तादेशस्याकारः, तथाप्यात इति वचनात्र भवति। `पचावहै, पचामहै` इति। लोट्? वहिमहिङौ। आडुत्तमस्य पिच्च` [[3.4.92]] इत्याट्, उत्तमश्च पिद्भवतीति। अत्र पित्त्वान्ङित्त्वं न भवतीति आतो ङिददयवाकारो न भवति। `मिमाते, मिमाथे` इति। `माङ माने` [`माने शब्दे च` - धातुपाठः-] (धातुपाठः-1088), जुहोत्यादित्वाच्छपः श्लुः। `श्लौ` [[6.1.10]] इति द्विर्वचनम्, `भृञायित्` [[7.4.76]] इत्यभ्यासस्येत्त्वम्, `श्नाभ्यस्तयोरातः` [[6.4.112]] इत्याकारलोपः॥", "72082": "`अङ्गस्यातः` इति। व्याधिकरणे षष्ठओ - आङ्गस्य योऽत्? तसय मुगगमो भवतीति। तदिहाद्ग्रहणं तर्हि क्रियताम्? न कर्तव्यम्; <<अतो येयः>> [[7.2.80]] इत्यतोऽत इत्यनुवर्त्तिष्यते। ननु च पञ्चमीनिर्दिष्टं तत्र, षष्ठीनिर्दिष्टेन चेहार्थः? नैतदस्ति; अत इत्येषा तु पञ्चमी तत्रेयादेशे चरितार्था, `आने` इत्येषा तु सप्तम्यकृतार्था। तस्मादान इत्येषा सप्तम्यत इत्यस्याः पञ्चमी तत्रेपादेशे चरतार्था, `आने इत्येषा तु सप्तम्यकृतार्था। तस्मादान इत्येषा सप्तम्यत इत्यस्याः पञ्चम्याः षष्ठीत्वं परिकल्पबयिष्यति, <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति नियमात्। ननु चाकारोवर्णो मकारोऽपि वर्ण एव, मुगयं त्वन्तलिङ्गः, अन्तश्चावयवः, न च वर्णो `वर्णस्यावयवो [`वर्णस्यावयवी - मुद्रित पाठः] युज्यते, तेनानारब्धत्वात्, तस्मादयुक्तमुक्तम् - अतो मुगागमो भवतति? नैष दोषः; सर्वत्रैव हि यस्यागमो विधीयते, यश्चागमो विधीयते तत्समुदायापेक्षयाऽऽदित्वमन्तत्वं वा विधीयते। तस्मादत्तो मुगागमो भवतीत्यस्यार्थोऽयं विवक्षितः - अकारादिरयं समुदायो सकारान्तश्च भवतीति। `पचमानः` इति। लट्, तस्य शानच्। आने परतोऽह्गस्यातो मुगागमो भवतीत्युक्ते समानाधिकरणे एते षष्ठआविति मन्यमानोऽकारान्तस्य आने परतो मुगगगमो भवतीतीदं सूत्रार्थ गृहीत्वा य एवं देशयेत् - यद्यकारान्तमङ्गमागमि, पचमान इत्यत्र `अदुपदेशाल्लसार्वधातुकमनुदात्तम्` [[6.1.180]] इत्यनुदात्तत्वं न स्यात्; अकारस्य मुका व्यवहितत्वात्। अकारो य उपदेश इत्येवं हि ततर व्यवस्थितम्, न त्वकारान्तोऽयमुपदेश इति। न च शक्यते वक्तुम् - अङ्गभक्तोऽयं नुक्, अतो नास्ति व्यवदानमिति; अङ्गभक्तो ह्रयमङ्गमेव न व्यवदध्यात्, अकारं तु व्यवदधात्येव। अवयवो हि समुदायस्य व्यवधायको न भवति। अवयवान्तरस्य तु व्यवधायको भवत्येवेत्यत आह - `अकारमात्रभक्तो ह्रयम्` इत्यादि। मात्रशब्दोऽयमङ्गभक्तत्वव्यवच्छेदाय। अङ्गञ्चात्राकारविशेषणम्। अकार एवागमी, नाङ्गम्। तस्मात्? तदभक्तत्वात्? तदग्रहणेनैव मुग्? गृहयत इति व्यवधानाभावाल्लसार्वधातुकमनुदत्तं भवति। ननु चाकारान्तभक्तेऽपि मुकि भवितव्यमेव <<तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः>> [[6.1.186]] इत्यनुदात्तत्वेन, `स्वरविधौ व्यञ्जनमविद्यमानवत्` (व्या।प।37) इति मुकोऽविद्यमानवत्त्वाद्व्यवधानाभावात्? एवं मन्यते - नैषा परिभाषा भाष्यकारस्य सम्मता। तथा हि - तेनेमां परिबाषां प्रत्याख्यायेयमन्या परिभाषा गृहीता - `हलःस्वरप्राप्तौ [`हल्स्वरप्राप्तौ - नी।प।वृ] व्यञ्जनमविद्यमानवत्` (नी।पा।वृ।68), इति। न चात्र हलः स्वरप्रापतिरस्ति, किं तर्हि? अचः। `यद्येवम्` इत्यादि। यद्यकारभक्तोऽय मुकं तद्ग्रहहणेन गृह्र इत्येवं स्त्यव्यवधायकत्वादेव तस्य पचमान इत्यत्राकारादनन्तरस्यान इति, तस्य <<आतो ङितः>> [[7.2.81]] इतीयदेशः प्राप्नोतीत्यत आत - `तपरकरणनिर्देशान्न भवति` इति। अकारो ह्यत्र मात्राकालस्तपरो निरदिष्टो मुकि सतयर्धमात्रो भवति। अतः कालभेदान्न भविष्यति। अधिकमद्र्ध यस्याः साऽध्यद्र्धा, अध्यद्र्धा मात्रा यस्या सोऽद्यद्र्धमात्रः। लसार्वधातुकमनुदात्तमपि तर्हि न प्राप्नोतीति तद्विधावपि तपरनिर्देशात्। `उपदेशग्रहणम्` इत्यादि। उपदेशग्रहण तत्र क्रियते प्रागवस्थोपलश्रणार्थम्। तेन उपदेशावस्थायां मात्राकालस्तस्य यद्यप्युत्तरकालं मुकि कृते कालभेदोऽस्ति, तथापयुपदेशावस्थायां मात्राकालत्वाद्भवत्येवात्रानुदात्तत्वम्। `तथा च` इत्यादि। यतस्तत्रोपदेशादूध्र्वं सत्यपि कालभेदेऽनुदात्तत्वेन भवितव्यम्, एवञ्च कृत्वा यत्रापि <<अतो दीर्घो यञि>> [[7.3.101]] इति द#ईर्घत्वे कृते कालभेदोऽस्ति - पचाव इत्यादौ, तत्रापि भवति॥", "72083": "`आसः` इति पञ्चम्यकृतार्था `आने` [[7.2.82]] इति पूर्वत्र कृतार्थायाः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति; <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति वचनात्। तेनानस्यैवायमादेशो विधीयते, इत्याह - `आस उत्तरस्यानशब्दस्य` इति। `आसीनः` इति। `आस उपवेशने` (धातुपाठः-1021)। अनुदात्तेत्त्वादात्मनेपदम्; <<आदेः परस्य>> [[1.1.54]] इत्याकारस्येकारः। अदादित्वाच्छयो लुक्। तपरकरणं मुखसुखार्थम्॥", "72084": "`आ इति व्यक्तिनिर्देशोऽयम्` इति। शुद्धाया निरनुनासिकाया आकारस्य व्यक्तेरेव निर्देश इत्यर्थः। अथाकृतिनिर्देशे को दोषः स्यात्, यतस्तत्परीहारार्थो व्यक्तिनिर्देशोऽयमाश्रितः? इत्यत आह - `आकृतिनिर्देशे हि` इत्यादि। जातिरिहाकृतिर्विवक्षिता, न तु संस्थानम्। जातिनिर्देशे सति शुद्धाया जातेर्निर्देष्टुमशक्यत्वात्? तदाधारभूतासु व्यक्तिषु कार्यं विज्ञायते। तत्र यदीह जातिनिर्देश आश्रीयेत, तदा सर्वास्वकारव्यक्तिषु जात्यावारत्वमुपगतासु <<अलोऽन्त्यस्य>> [[1.1.52]] इति नकारस्य विधोपमान आकार आन्तरतम्यादनुनासिकस्य स्थानेऽनुनासिक एव स्यात्। व्यक्तिनिर्देशे त्वेष दोषो न भवति; इत्यादि न सिध्यति, न ह्यत्र विकल्पाभिधायि वचनमस्ति, नपि प्रकृतम्? इत्यत आह - `विकल्पेन` इत्यादि। <<अष्टनो दीर्घात्>> [[6.1.172]] इत्यनेनाष्टनी दीर्घादसर्वनामस्थानाविभक्तेरुदात्तत्वं विधीयते। यदि च नित्यमात्त्वं स्यात्, दीर्घादिति विशेषणं निरर्थकं स्यात्। अष्टाभ्य औश्` [[7.1.21]] इत्यत्र च कृतात्त्वस्य निर्देशोऽनर्थकः स्यात्। व्यवच्छेद्याभावदष्टन इत्येवं ब्राऊयात्। तस्माद्दीर्घग्रहेन कृतात्त्वनिर्देशेन विकल्पेनेदमात्त्वं भवतीति ज्ञ#आपितम्। तेनाष्टभिरित्याद्यपि पक्षे उपात्तः; एकवचननिर्देशात्। अन्यथा हि बह्वर्थत्वादष्टानामित्येवं ब्राऊयात्। तस्मात्? स्वरूपधानोयम्। तत्राङ्गे प्रकृतेऽनेन विशेष्यमाणे तदन्तविधिर्लभ्यते। विशेषणेन हि तदन्तविधिर्भतीत्युक्तम्। `प्रियाष्टा` [नेदमदाहरणं मूले दृश्यते] इति। `सर्वनामस्थाने` [[6.4.8]] इत्यादिना दीर्घः॥", "72085": "", "72086": "`युष्मत्, अस्मत्` इति। `पञ्चम्या अत्` [[7.1.31]] इति पञ्चमीभ्यसोऽदादेशः, <<शेषे लोपः>> [[7.2.90]] इत्यन्तलोपे कृते <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। यदि च हलीत्यधिकारादत्राप्यात्त्वं न स्यात्, तत्? किमर्थमनादेशग्रहणम्? इत्याह - `उत्तरत्र तु` इत्यादि। उत्तरत्र `योऽचि` [[7.2.89]] इति सूत्रेऽनादेशस्य प्रयोजनमिति। यद्येवं तत्रैव कर्तव्यम्, इह किमर्थं क्रियते? विस्पष्टार्थमित्यभिप्रायः॥", "72087": "`त्वाम्, माम्` इति। <<त्वमावेकवचने>> [[7.2.97]] इति त्वमादेशौ। `युवाम्, आवाम्` इति। `यवावौ1 द्विवचने` [[7.2.92]] इति युवावादेशौ। सर्वत्र `ङे प्रथमपोरम्` [[7.1.28]] इत्यम्भावे विभक्तेः कृतोऽमि पूर्ववत्वम्? [[6.1.103]] ॥", "72088": "इदमप्यादेशार्थं वचनम्। `युवयोः, आवयोः` इति। ननु च `योऽचि` [[7.2.89]] इति यत्वमत्र वाधकं भविष्यति? प्रथमाद्विवचनेऽपि तर्हि शेषेलोपो [[7.2.90]] बाधकः स्यात्। तत्र यथा वचनसामर्थ्याच्छेषेलोपोऽनेन बाध्यते, तथा यत्वमपि बाध्येत। `पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।प।9) इति यत्वमपि बाध्येत। तस्मात्? `प्रथमायाः` इति वक्तव्यम्। `त्वम्? अहम्` इति। <<त्वाहौ सौ>> [[7.2.94]] त्वाहावादेशौ। `औ` इति वक्तव्ये प्रथमाया द्विवचनं वैचित्र्यार्थम्॥", "72089": "`युष्मदस्मोदारमादेश इत्यत्र` इत्यादि। <<युष्मदस्मदोरनादेशे>> [[7.2.86]] इत्यत्र यदि पूर्वसूत्राद्? [[7.2.85]] हल्ग्रहणमनुवर्तते, तदाऽविशेषेम विधीयमानं यत्वमुत्सर्गो ज्ञाप्यते। आत्वं तु विभक्तिविशेषे हलादौ विधीयमानमस्याप्यपवादः। एवं चाप्यन्तरेणाप्यज्ग्रहणम्, यकारोऽजादावेवावतिष्ठते, तस्मदचीत्येच्छक्यमकर्त्तुम्? तत्? क्रियते विस्पष्टार्थम्। `स्वद्? गच्छति, मद्? गच्छति` इति। <<एकवचनस्य च>> [[7.1.32]] इति ङसेरदादेशः॥", "72090": "`यान्यद्विवचनानि` इति। एकवचनबहुवचनानीत्यर्थः। `अत्र` इति। पञ्चम्यादिषु विभक्तिषु। `तेषु लोपो विधीयते` इति। तेषामेव शेषत्वात्। `तुभ्यम्, मह्रम्` इति। `तुभ्यमह्रौ ङयि` [[7.2.95]] इति तुभ्यमह्रावादेशौ भवतः। `युष्मभ्यम्` अस्मभ्यम्` इति। <<भ्यसो भ्यम्>> [[7.1.30]] इति भ्यमादेशः। `तव, मम` इति। <<तवममौ ङसि>> [[7.2.96]] इति तवममादेशौ। `युष्माकम्, अस्माकम्` इति। <<साम आकम्>> [[7.1.33]] इति। अथ शेषग्रहणं किमर्थम्, न `लोपः` इत्येवोच्येत, एवमुच्यमाने सत्यविशेषेण लोपः स्यादित्येतच्च नाशङ्कनीयम्, अविशेषेण हि लोपो विधीयमान उत्सर्गो भविष्यति, तस्यानादेशे विभक्तिविशेषे यकाराकारापवादौ, एवञ्चान्तरेणापि शेषग्रहणं शेष एव लोपोऽवस्थाप्यते? इत्यत आह - `शेषग्रहणं विस्पष्टार्थम्` इति। `शेषेलोपे कृते स्त्रियां टाप्? कस्मान्न भवति` इति। अन्त्यलोपे कृते सत्यदन्तत्वात्? `अजाद्यतष्टाप्` [[4.1.4]] इति टापा भवितव्यमिति भावः। `सन्निपात` इत्यादि। विभक्त्यानन्तर्ये हि सति युष्मदस्मदी अकारान्ते समुपजाते। तत्र यदि टापमुत्पादयेयाताम्, तदा विभक्तेरानन्तर्य ताभ्यां विहतं स्यात्। न च यो यत्सन्निपातलक्षणः स तद्विघातस्य निमित्तं भवतीति न भवति टाप्। यद्येवम्, त्यदादिभ्योऽपि न स्यात्? नैष दोषः; यदयम्? <<न यासयोः>> [[7.3.45]] इति निर्देशं करोति, तज्ज्ञापयति - भवति त्यदादिभ्यष्टाविति। अयञ्च स्त्रीलिङ्गत्वं युष्मदस्मदोरभ्युपेत्य परीहार उक्तः। इदानीं स्त्रीलिङ्गाभावादेव टाब्न भवतीति दर्शयितुमाह - `अलिङ्गे` इत्यादि। `केचित्तु शेषेलोपं टिलोपमिच्छन्ति` इति। त्वं ब्राआह्रणी, अहं ब्राआहृणी - इत्यत्र टाब्मा भूदित्येवमर्थम्। युष्मभ्यम्, अस्मभ्यमित्यत्र भ्यमादेशे कृते `बहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वं मा भूदित्येवमर्थञ्च। `कथम्` इति। एवं मन्यते - यत्र विभक्तावाकारो यकारश्च न विहितः स शेषः, तत्र शेषेलोप उचयमानष्टिलोपो न लभ्यते। <<अलोऽन्त्यस्य>> [[1.1.52]] इति परिभाषयाऽन्त्यस्यैव प्राप्नोतीति वक्ष्यमाणादेशापेक्षया शेष इत्यस्यार्थं `ते च` इत्यादिना स्पष्टीकरोति। `मपर्यन्ताद्योऽन्यः स शेषः` इति। स पुनष्टिरेव। अत्रायं शेषोलोपष्टिलोपो भवतीति लोपं प्रति शेषस्याधिकरणविवक्षायां सप्तमी। किमर्थं पुनर्लोप इत्युच्यते, यावता त्यदाद्यत्वेनैव सिद्धम्? न सिध्यति; अत्यदादित्वात्। त्यदादित्वं हि द्वपर्यन्तास्त्यदादयः` इति। तत्र चैतदेव शेषेलोपवचनं ज्ञापकम्। तेन भवच्छब्दस्य त्यदाद्यत्वं न भवति - भवानिति॥", "72091": "`युवकाम्, आवकाम्` इति। `अव्ययसर्वनाम्नामकच्प्राक्टेः` [[5.3.71]] इत्यकच। अत्र यदि मपर्यन्तस्येति नोच्यते, ततोऽवधेरनुपादानात्? साकच्कस्यापि स्यादित्यत आह - `साकच्कस्य सर्वस्य मा भूत्` इति। असति मपर्यन्तग्रहणे, अवधेरनुपादनादनेकाल्वाच्चादेशस्य सर्वस्यैव स्यात्। कः पुनः सर्वादेशे दोषः स्यात्? इत्यत आह - `तथा च` इत्यादि। `अनिष्टं रूपं स्यात्` इति। अकारस्य `योऽचि` [[7.2.89]] इति यकारे कृते त्व्या, म्या इति स्यात्। मपर्यन्तग्रहणे तु सति युष्मदस्मदोर्मपर्यन्तस्य स्थानित्वेनाधिकृतत्वादस्यैव वक्ष्यमाणा आदेशा भवन्तीति न कश्चिद्दोष इति। अथ परिग्रहणं किमर्थम्, न मान्तस्येत्येवोच्यतेत, एवमपि ह्रुचयमानेऽन्तशब्दस्य समीपवचनत्वात्? तद्गुणसंविज्ञानस्य बहुव्रीहेराश्रयणात्? सिद्धमिष्टम्? इत्यत आह - `मान्तस्य` इत्यादि। एतस्मिन्? साकच्कस्यादेशाभावे अथवैतस्मिन्? युवकामावकामित्यादिके शब्दरूपे मान्तस्येत्येवं सिद्धं यत्? परिग्रहणं कृतं तदवधिद्योतनार्थम्। युष्टदस्मदोरवयवसय स्थानिनोऽवधिद्योतनार्थम्। तस्मान्मान्ते युष्मच्छब्दे अस्मच्छब्दे च वक्ष्यमाणं कार्यं मा भूदित्येवमर्थम्। कदा? इत्यादि - `यदा ण्यन्तयोः` इत्यादि। तदाचष्ट इति युष्मदस्मद्भ्यां णिचि कृते `णाविष्ठवत्? कार्यं प्रातपदिकस्य` (वा।813) इतीष्ठवद्भावाट्टिलोपः, ततः क्विप्, तत्र <<णेरनिटि>> [[6.4.51]] इति णिचो लोपे कृते यदा मान्तत्वं विद्यते युष्यदस्मदोस्तदा मा भूदिति। असत्यपि परिग्रहणे मान्स्येत्येन युष्मदस्मदोरित्ययवावस्थानं लभ्यते, ततश्च यत्र मान्ते युष्मदस्मदी, तत्रैव वक्ष्यमाणा आदेशा भवेयुः। परिग्रहणे त्ववधिद्योतनार्थे सति नियोगतो वज्र्यमानेन भवितव्यम्; न हि तेन वनाऽवधिः सम्भवति। तत्र समुदायावयवस्थानीनिर्द्दिश्यते। यत्राच्छब्दो वर्जनीयोऽस्ति तत्रैव भविष्यति, न तु म#आन्तयोरयुष्मदस्मादोरेव। ननु च विभक्तिपरयोर्युष्मदस्मदोरादेशा विधास्यन्ते, न च मान्तवस्थायां विभक्तिपरतस्ति; णिलोपस्य स्थानिवद्भावात्, तत्? किं मान्तस्य निवत्त्यर्थेन परिग्रहणेन? इत्याह - आह - `स्थानिवत्त्वं च` इत्यादि। `क्वौ लुप्ते न स्थानिवत्` (वा।1.1.59) इति वचनात्? स्थानिवद्भावोऽत्र नास्ति। तस्माद्विद्यत एव विभक्तिपरत्वमित्यभिप्रायः॥", "72092": "`द्विवचने` इति। यदीदं पारिभाषिकस्य दविवचनस्य ग्रहणं स्यात्, स्यात्, तदा तस्मिन्? परत एव तावादेशो भवेताम्। तथा च यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसंख्यत्वादेकवचनं बहुवचनं वा समासाद्भवति, तदा न स्यातामिति; यदा युष्मदस्मदी एकत्वे वा बहुत्वे वा वर्तेते समासार्थस्य द्वित्त्वे सति समासाद्द्ववचनं वति, तदा युवादौ स्यातामेव, एतच्चानिष्टम्` इति। द्वयोरर्थयर्वचनमुक्तिः=द्विवचनम्। `द्विवचने ये युष्मदस्मदी` इति। `द्विवचने` इति। विषयसपतमीयम्। तदेव विषयसप्मीत्वमस्या व्यक्तीकर्तुमाह - `द्व्यर्थाभिधानविषये` इति। `द्वयोरर्थयोरभिधानं द्व्यर्थाभिधानम्, तद्विषय ये युष्मदस्मदी ते तथोक्ते। `तयोः` इत्यादि। तयोर्युष्मदस्मदोर्मपर्यन्तावयवः स्थानी, तस्य युवावौ भवतः। `यदा` इत्यादिनार्थग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। यदि तर्हि समासादेकवचनबहुवचनयोरुपजातयोर्द्व्यर्थाभिधानदिषयत्वाद्युष्मदस्मदोर्युवावौ भवतः, एवं सति <<त्वाहौ सौ>> [[7.2.94]] , `यूयववौ जसि` [[7.2.93]] , `तुभ्यमह्रौ ङपि` [[7.2.95]] , `तदममौ ङसि` [[7.2.96]] - इत्येषामपि विषये स्याताम्? इत्यत आह - `यदि त्वाहौ सौ` इत्यादि। `अतियुवामत्यावाम्` इति। `आत्यादयः क्रान्ताद्यर्थे` (वा।91) इति प्रादिसमासः। तत्र योऽसौ युष्मदस्मदर्थञ्चातिक्रान्तः स एकसंख्यावच्छिन्नोऽर्थ इति तत्र यद्यप्येकवचनं भवति, तथापि द्व्यर्थाभिधानविषयत्वाद्युष्मदस्मदोर्युवावौ भवत एव। अत्र हि `द्वितीयायाञ्च` [[7.2.87]] इत्यात्त्वम्। `अतियुवान्, अत्यावान्` इति। `शसो न` [[7.1.29]] इति नत्वम्। `अत्यावया` इति। `योऽचि` [[7.2.89]] इति यत्वम्। `अतियुवाभिरत्यावाभिः` इति। <<युष्मदस्मदोरनादेशे>> [[7.2.86]] इत्यात्त्वम्। `अतियुवभ्यमत्यावभ्यम्` इति। <<भ्यसो भ्यम्>> [[7.1.30]] । `अतियुवदत्यावत्` इति। <<एकवचनस्य च>> [[7.1.32]] इति ङसेरदादेशः। बहुवचनस्य तु `पञ्चम्या अत्` [[7.1.31]] इत्यनेन। `अतियुदाकम्, अत्यावाकम्` इति। <<साम आकम्>> [[7.1.33]] । `अतियुवदत्यावत्` इति। <<एकवचनस्य च>> [[7.1.32]] इति ङसेरदादेशः। बहुवचनस्य तु `पञ्चम्या उत्` [[7.1.31]] इत्यनेन। `अतियुवाकम्, अत्यावाकम्` इति। <<साम आकम्>> [[7.1.33]] `अतियुवयि, अत्यादयि` इति। पूर्ववद्यत्वम्। `अतियुवासु अत्यावासु` इति। पूर्ववदात्त्वम्। `त्वाहादीनां विषये` इत्यादिना यदुक्तं - `यदि त्वहौ [[7.2.94]] इत्यादिनाऽऽदेशान्तरेण न बाध्येते` इति, तद्धिस्पष्टीकरोति - `यदा तु` इत्यादिना। अर्थग्रहणे सति यदिष्टमुपपद्यते तद्दर्शयति - `अतित्वामतमाम्` इति। अत्र यो युष्मदस्मदर्थावतिक्रान्तौ तौ द्विसंख्यौ समासार्थाविति समासाद्यद्यमि द्विवचनं भवति, तथापि युष्मदस्मदोर्द्व्यर्थता नास्तीति युवावौ न भवतः। त्वमावेव भक्तः। <<प्रथमायाश्च द्विवचने भाषायाम्>> [[7.2.88]] इत्यात्त्वम्। अथ वा - द्वितीयाद्विवचनमेतत्, ततः `द्वितीयायाञ्च` [[7.2.87]] इति। `एवसुन्नेयम्` इति। वचनान्तरेष्वप्यादेशाभावं दर्शयति। युष्मानतिक्रान्तौ पश्य अतियुष्माम्, अत्यस्माम्। अतिक्रान्ताभ्यां त्वां कृतमतित्वाभ्याम्, अतिमाभ्याम्। अतिक्रान्ताभ्यां युष्मान्? कृतमतियुष्माभ्यां कृतम्। त्वामतिक्रान्ताभ्यां देहि अतित्वाभ्यां देहि, अतिमाभ्यां देहि। अतिक्रान्ताभ्यां युष्मान्? देहि अतियुष्माभ्यामत्यस्माभ्यां देहि। अतिक्रान्ताभ्यां त्वामागतोऽतिस्याभ्यामागतः, अतिमाभ्यामागतः। अतिक्रान्तभ्यां युष्मानागतोऽतियुष्माभ्यामागतः, अत्यस्माभ्यामागतः। अतिक्रान्तयोस्त्वां स्वमतित्वयोः स्वम्, अतिमयोः स्वम्। युष्मानतिक्रान्तयोः स्वमतयुष्मयोः स्वम्, अत्यस्मयोः स्वम्। अतिक्रान्तयोस्त्वां निधेहि अतित्वयोर्निधेहि, अतिमयोर्निधेहि। अतिक्रान्तयोर्युष्मान्निधेहि, अतियुष्मयोर्निधेहि, अत्यस्मयोर्निदेहि॥", "72093": "`परमयूयम्` इति। `अङ्गाधिकारे तस्य च तदुत्तरपदस्य च` (पु।प।वृ।85) इति वचनादुत्तरपदयोरपि भवतः। अथ वा - `जसि` इति परसप्तमीयम्, तेन समस्तयोरपि जसि परत इति भवतः। परमयूयमित्यादावपि युष्मदस्मद्भ्यां जसः परत्वमस्त्येव॥", "72094": "<<त्वमावेकवचने>> [[7.2.97]] इति वक्ष्यति, तस्यायमपवादः। अथ त्वग्रहणं किमर्थम्, `अहः सौ` इत्येवोच्येत, त्वादेशो हि <<त्वमावेकवचने>> [[7.2.97]] इत्येवं भविष्यति? अशक्यमेवं वक्तुम्; असति त्वग्रहणे युष्मदोऽप्यहादेशः स्यात्। अथ वा - अत्र `अस्मदोऽहः सौ` इतेयवोच्येत? एवमपि गौरवं स्यात्। तस्माद्यथान्या समेवास्तु॥", "72095": "", "72096": "अनन्तरं वक्ष्यमाणयोस्त्वमयोः प्राप्तयोरिवं वचनम्॥", "72097": "`एकवचन इत्यर्थेनिर्देशः` इति। एतेनार्थस्येवं ग्रहणम्, न तु पारिभाषिकस्यैकवचनस्येति दर्शयति। पारिभाषिकस्य तु ग्रहणे यो दोषः स `युवाधौ द्विवचने` [[7.2.92]] इत्यत्रोक्त इत्यभिप्रायः। अर्थग्रहणं त्विह वचनग्रहणाल्लभ्यते। यदीह प्रत्ययग्रहणमभिमतं स्यात्, `एकत्वे` इत्येवं ब्राऊयात्। विभक्ताविति वर्तते, तत्रैवमभिसम्बन्धः करिष्यते - एकत्वे या विभक्तिरिति। अथ वा - एतदिति न ब्राऊयात्; एकवचने हि <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्येनेनैवादेशयोः सिद्धत्वात्। `त्वाम्, माम्` इति। `द्वितीयायाञ्च` [[7.2.87]] इत्यात्त्वम्। `यदा समास एकार्थे` इत्यादिनाऽर्थग्रहणं सति यदिष्टं सिध्यति तद्दर्शयति। यदापि समासात्? संख्यान्तरयुक्ताद्द्विवचनं बहुवचनं वा भवति, तदाप्येकार्थयोर्युष्मदस्मदोरेतावादेशो भवतः। एवं सति <<त्वाहौ सौ>> [[7.2.94]] , `यूय्वयौ जसि` [[7.2.93]] , `तुभ्यमह्रौ ङयि` [[7.2.95]] , <<तवममौ ङसि>> [[7.2.96]] - इत्येषामप्यादेशान्तराणां विषयं स्यातामित्यत आह - `आदेशान्तराणां तु` इत्यादि। पूर्वविप्रतिषेधस्येति वचनं परस्य विप्रतिषेधस्यासम्भवात्। असम्भवस्त्वनयोरेव परत्वात्। पूर्वविप्रतिषेधस्तु परशब्दस्येष्टवाचित्वाल्लभ्यते। तत्र <<त्वाहौ सौ>> [[7.2.94]] इत्यस्यावकाशो यत्रैकार्थे युष्मदस्मदी न भवतः - अतिक्रान्तो युष्मानित्यतित्वमत्यहमिति, त्वमावेकवचन [[7.2.97]] स्यावकाशो यत्रैकार्थाभ्यां विभक्त्यन्तरं भवति - त्वाम्, मामिति; अतिक्रान्तस्त्वामतित्वमतिक्रान्तो मामत्यहमित्यत्रोभयप्रसङ्गे प्राप्ते त्वहौ सौ भवतः पूर्वविप्रतिषेधेन। अन्या दिशाऽऽदेशान्तरेषु प्राप्तेषु पूर्वं विप्रतिषेधो वक्तव्यः। `अतिक्रान्तो त्वामतित्वाम्, अतिमाम्` इति। अत्र यद्यपि समासाद्द्विवचन भवति, तथाप्येकार्थे युष्मदस्मदी इति भवत एव त्वमादेशौ। पारिभाषिकस्य त्व#एकवचनस्य ग्रहणे न स्याताम्; तस्येहाविद्यमानत्वात्। `एवमाद्युदाहर्तव्यम्` इति। अतिक्रान्तौ त्वां पश्यातित्वाम्, अतिमां पश्य। अतित्वाभिरतिमाभिः कृतम्। अतक्रान्ताभ्यां त्वां देह्रतित्वाभ्यामतिमाभ्यां देहि। अतिक्रान्तेभ्यस्त्वां देह्रतित्वभ्यमतिमभ्यं देहि। अतिक्रान्तयोस्त्वां त्वामागतोऽतित्वाभ्यामतिमाब्यामागतः। अतिक्रान्तेभ्यस्त्वामागतोऽतित्वदागतोऽतिमदागतः। अतिक्रान्तयोस्त्वां स्वमतित्वयोः स्वम्, अतिमयोः स्वम्। अतिक्रान्तानां त्वां स्वमतित्वाकं स्वम्, अतिमाकं स्वम्। अतिक्रान्तयोस्त्वां निधेह्रतित्वयोर्निधेहि, अतिमयोर्निधेहि। अतिक्रान्तेषु त्वां निधेह्रतित्वासु निधेहि, अतिमासु निधेहि॥", "72098": "`एकवचने वर्तमानयोः` इति। एकार्थाभिधानविषयोयोरित्यर्थः। `त्वदीयः मदीयः` इति। <<त्यदादीनि च>> [[1.1.74]] इति वृद्धसंज्ञकत्वात्? <<वृद्धाच्छः>> [[4.2.114]] इति च्छप्रत्ययः। `त्वत्तरः, मत्तरः` इति। `द्विवचनविभदज्योपपदे तरबीयसुनौ` [[5.3.57]] इति तरप्। `त्वद्यति, मद्यति` इति। <<सुप आत्मनः क्यच्>> [[3.1.8]] । `त्वद्यते, मद्यते` इति। `कर्त्तुः क्यङ सलोपश्च` [[3.1.11]] इति क्यङ। ननु च पूर्वेणेवदेशौ सिद्धौ, तत्? किमर्थोऽयमारम्बः? इत्यत आह - `विभक्तावित्यधिकारात्` इत्यादि। `ननु च` इत्यादि देशकः। प्रकृतिप्रत्यययोः पूर्वोत्तरपदयोश्च या मध्र्ये वर्तते साऽन्तर्वत्तिनी विभक्तिः। नैवं शक्यम्` इतीतरः। `लुका तस्य भवितव्यम्` इति, अश्यतायां हेतुः। <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति प्रागेवादेशाभ्यां लुका भवितव्यमिति, ततश्च तन्निमित्तावादेशौ न स्यातामित्यभिप्रायः। `बहिरङ्गो लुक्` इत्यादि देशकः। विभक्तिमात्रं ह्रादेशयोराश्रयः लुकस्तु धातुत्वं प्रातिपदिकत्वञ्चापरम्। तदेवं धातुप्रतिपदिकत्वे यथायोगं बाह्रप्रत्ययापेक्षत्वात्? समासापेक्षत्वाच्च बहिरङ्गे किं पुनस्तदपेक्षया लुको बहिरङ्गता? `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यादेशावेव प्रथमं भविष्यतः। `एतदेवेत्यादि` इतरोऽपि। `अन्तरङ्गानपि विथीन्? बहिरङ्गो लुग्न बाधते` इति पूर्वेणैव सिद्धत्वाददेशवचनं न कुर्यात्, कृतञ्च, तदेव ज्ञापयति - `अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते` (व्या।प।128) इति। किमेतस्य ज्ञापकस्य प्रयोजनम्? इत्यत आह - `तेन` इत्यादि। यद्ययमर्थो न ज्ञाप्यते, तदा गोमान्? प्रियोऽस्येति गोमत्प्रिय इत्यन्तरङ्गत्वाल्लुकः प्राक्? `उगिदचाम्` [[7.1.70]] इति नुम्? स्यात्, <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घत्वम्, ततश्च संयोगान्तलोपे [[8.2.23]] कृते गोमान्प्रिय इत्यनिष्टं रूपं प्रसज्येत। अस्मिन्? हयर्थे ज्ञापिते, अन्तरङ्गमपि नुमादिकं बहिरङ्गेण लुका बाध्यत इति न भवत्येष दोषप्रसङ्गः। एकेनादिशब्देन गोमन्तमिच्छति गोमत्यति, गोमानिवाचरति गोमत्यते - इत्यादेग्र्रहणम्। द्वितीयेन दीर्घत्वस्य हल्ङ्यादिलोपस्य [[6.1.64]] । यद्यन्तरङ्गत्वाद्? हल्ङ्यादिलोपः [[6.1.64]] स्यात्, प्रत्ययलक्षणेन नुमादिकं स्यात्, ततश्च तदेवानिष्टं रूपं स्यात्। लुकि च सति <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणप्रतषेधान्न भवति। `एवं च` इत्यादि। यत एवं बहिरङ्गोऽपि लुगन्तरङ्गानपि विधीन्? बाधने, एवञ्च कृत्वा, <<त्वाहौ सौ>> [[7.2.94]] , <<यूयवयौ जसि>> [[7.2.93]] , `तुम्यमह्रौ ङयि` [[7.2.95]] <<तवममौ ङसि>> [[7.2.96]] - इत्येत आदेशाः प्रत्यय उत्तरपदे च परतो न भवन्तीति। `अथ` इत्यादि। असति प्रयोजने ज्ञापकं भवति, अस्ति चास्यत्? प्रयोजनम् - एवां त्वहटीनामादेशान्तराणां बाधनम्। सत्येतस्मिन्? प्रयोजने, एतदर्थमेवेदं युक्तं विज्ञातुम्, न तु ज्ञापनार्थमिति भावः। `लक्ष्यस्थित्यपेक्षया` इति। लक्ष्यस्य व्युत्पाद्यस्य स्थितिः=स्थानं लक्ष्यस्थितिः, तद्विषयेऽपेक्षा=लक्ष्यस्थित्यपेक्षा; तथा हेतु भूतया। नेदमादेशान्तराणां बाधनार्थं विज्ञायते। गोमत्प्रियो गोमत्यतीत्येवमादिकं लक्ष्यं लोके साधुभावेनादस्थितम्। आदेशान्तरबाधनार्थे ह्रेतस्मिन्` विज्ञायमाने न संगृहतं सायत्। ज्ञापनार्थे त्वेतदपि संगृहीतं भवतत्येतद्दर्शयति - `ज्ञापनार्थे ह्रेतस्मिन्` इत्यादि। कथं पुनः सत्येवं प्रयोजने सत्यामपि लक्ष्यस्थित्यपेक्षायां ज्ञापकार्थमेतत्? शक्यं विज्ञातुम्? एवं मन्यते - प्रयोजनमेवैतन्न भवति; मपर्यन्तग्रहणस्य चकारेणानुकर्षणार्थत्वात्। तदनुकर्षणस्यैतदेव प्रयोजनम् - मपर्यन्तयोरादेशौ यथा स्यातामिति। यदि चादेशान्तराणां बाधनार्थमेतत्? स्यात्, अनुकर्षणं तस्यापार्थकं स्यात्। यद्बाधनार्थमेत्? सूत्रं प्रकल्प्यते तान्यादेशान्तराणि मपर्यन्तस्यैव प्रयुक्तानि, नान्यस्य। ततश्चान्तरेणापि मपर्यन्तग्रहणानुवृत्तिमुत्सर्गसमानदेशत्वादपवादानां मपर्यन्तस्यैव भविष्यत इति किं मपर्यन्तस्येत्यनुवर्तनेन! आदेशान्तरामबाधनार्थे ह्रेतस्मिन्? सर्वादेशिवृत्त्यर्थं मपर्यन्तग्रहणमनुवर्तयितुं युक्तम्। तस्मादेतस्मान्मपर्यन्तग्रहणानुवर्तनान्नादेशान्तरबाधनमस्य प्रयोजनम्। अतो ज्ञापकं विज्ञायते। ननु च किमर्थमेषां त्वाहादीनां बाधनार्थमेतन्न विज्ञायत इति परेण देशितम्। तस्यायमभिप्रायः - मपर्यन्तस्येतत्येतन्निवर्त्त्यादेशान्तरबाधनार्थमेतत्? कस्मान्न भवतीति? तत्रायमर्थः - मपर्यन्तग्रहणस्यानुकर्षणार्थश्चकारो न कर्तव्यो भवति। मपर्यन्तग्रहणानुवृत्तावेतदादेशान्तरबाधनार्थं नोपपद्यते, तस्मिन्निवृत्तौ तूपपद्यत एव॥", "72099": "`त्रयः` इति। `जसि च` [[7.3.109]] इति गुणः। `चत्वारः` इति। <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्याम्। `त्रीणि` इति। <<जश्शसोः शिः>> [[7.1.20]] इति शिभावः, <<नपुंसकस्य झलचः>> [[7.1.72]] नुम्, <<नोपधायाः>> [[6.4.7]] , `सरवनामस्थाने चासम्बुद्धौ` [[6.4.8]] इति दीर्घः।`स्त्रियामिति चैतत्? त्रिचतुरोर्विशेषणम्` इति। तयोरेव श्रुतत्वात्। `नाङ्गस्य` इति। एवकारस्य व्यवच्छेद्यं दर्शयति - `तेन` इति। विशेषणविशेष्यभावेन। यदि हि स्त्रियामित्यनेनाङ्गमेव विशेष्यते,[`विशेष्येत` - मुद्रितपाठः] ततो यदा त्रिचतुशब्दौ पुंसि नपुंसके वा वर्तेते, अङ्गं [`अङ्गे` - मुद्रितपाठः] तु स्त्रियाम्, तदाप्येतावादेशौ स्याताम्। `त्रिचतुरोः स्त्रियाम्` इत्यनेन विशेष्यमाणयोर्न भवतः। `प्रियत्रिः` इत्यादि। स्त्रिया अन्यपदार्थत्वादङ्गं स्त्रियां वर्तते, त्रिचतुःशब्दौ लिङ्गान्तरे। यदा त्वङ्गं पुंसि नपुंसके वा वर्तते, त्रिचतुःशब्दौ तु स्त्रियाम्, तदा भवत एव। प्रियास्तिरुआओ बाह्रण्योऽस्येति प्रियतिसा, प्रियतिरुआऔ, प्रियतिस्नः। प्रियतिसृ ब्राआहृणकुलम्, प्रियतिसृणो, प्रियतिसृणि। प्रियचतसृ ब्राआहृणकुलम्, प्रियचतसृणी, प्रियचतसृणि। `तिसृभावे` इत्यादि। त्रिशब्दात्? संज्ञायां कन्` [[5.3.87]] इति कनि कृते विभक्त्यभावान्न प्राप्नोतीतीदमारभ्यते। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतपादनम् - पूर्वसूत्रादिह चकारोऽनवर्तते, स चानुक्तसमुच्चयार्थः। तेन संज्ञायां कन्यपि भविष्यति। `तिसृका` इति। ग्रामस्यैषा संज्ञा। `चतसर्याद्युदात्तत्वनिपातनम्` इति। चतरुआः पश्येत्यत्र <<चतुरः शसि>> [[6.1.167]] इत्यन्तोदात्तत्वं प्राप्नोति, आद्युदात्तञ्चेष्यते, तदर्थमाद्युदात्तत्वनिपातनं कर्तव्यम्। निपातनस्वरेण बाधितत्वादन्तोदात्तत्वं मा भूदित्येवमर्थम्। यथैवं तर्हि निपातनस्वरः शसिस्वरं बाधते, तथा <<षट्त्रिचतुर्भ्यो हलादिः>> [[6.1.179]] इत्यमेन यदविभक्तेराद्युदात्तत्वं विधीयते तदपि बाधेत, ततश्चतसृणामित्यत्राम उदात्तत्वं न स्यत्? इत्यत आह - `चतसृणामित्यत्र तु` इत्यादि। `हलादिग्रहणसामर्थ्यात्` इति। तत्रैवायं हेतुः। हलादिग्रहणं हि तत्राजादिनिवृत्त्यर्थ क्रियते। चतुःशब्दश्चायं हुवचनविषयः। सर्वाणि बहुवचानि प्रथमाद्वितीयाषष्ठीबहुवचनेभ्योऽन्यानि हलादीनि। तत्रामो नुमचिरतृज्वद्भावेभ्यो पूर्वविप्रतिषेधेन नुटि कृते भवितव्यमाद्युदात्तत्वेन; हलादितत्वात्। जसस्तु <<अञ्चेश्छन्दस्यसर्वनामस्थानम्>> [[6.1.170]] इत्यतोऽसर्वनामस्थानग्रहणस्यानुवर्तमानत्वादाद्युदात्तत्वं [`ग्रहणानुवर्तमानत्वात्` - मुद्रितः पाठः] न भवति। तस्माच्छसो मा भूदित्येवमर्थं तत्र हलादिग्रहणं कृतम्। यदि च निपातनस्वरो न भविष्यति। तस्मान्मा भूद्धलादिग्रहणस्य व#ऐयथ्र्यम्। इह हलादिग्रहमसमथ्र्याद्विभक्तिस्वरेण निपाततस्वरो बाध्यत इति, तेन चतसृणामित्यत्रान्तोदात्तत्वं भवति॥", "72100": "किमर्थं पुनरचि रादेश उच्यते, न यणादेशेन सिद्धत्वात्? इत्यत आह - `पूर्वसवर्ण` इत्यादि। असति ह्रेतस्मिन्? सूत्रे शसि <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णः स्यात्, <<ङसिङसोश्च>> [[6.1.110]] `ऋत उत्` [[6.1.107]] इत्युत्त्वञ्च, सर्वनामस्थाने ङौ च <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] गुणः। तस्मादेतेषामपवादोऽयं रेफादेश आरभ्यते। ननु युक्तः पूर्वसवर्णस्योत्त्वस्य चेहायमपवादो रेफादेशः, गुणस्य त्वयुक्तः; यस्मात्, `मध्येपवादाः पूर्वान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।प।10) इति? अत आह - `परमपि` इत्यादि। गुणस्यावकाशः - कर्तारौ, हर्तारौ, कर्तरीति; रेफस्यावकाशः - तिस्लः पश्येति, तिरुआस्तिष्ठन्तीति; प्रियतिरिउआ निधेहीति। अत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन रेफो भवन्? परमपि ङिसर्वनामस्थानगुणं बाधते। `ऋत इति किम्` इति। एवं मन्यते - तिसृचतसृशब्दावहानुवर्त्तिष्येते। तौ च ऋकारान्तावेवेत्यलोऽन्त्यपरिभाषया [[1.1.51]] ऋत एव भविष्यति। तिसृचतस्लोः प्रतिपत्त्यर्थम्` इति। तिसृचतस - इत्येतयोरच्यपि परतस्त्रिचतुरोः स्थाने प्रतिपत्तिः=प्राप्तिर्यथा स्यादित्येवमर्थं `ऋतः` इत्युच्यम्। `अन्यथा हि` इत्यादि। यदि `ऋतः` इति नोच्येत, तदा तयोरेव तिसृचतरुआओरयमपवादो विज्ञायेत, ततश्चाजादौ तौ न स्याताम्॥", "72101": "`नुमो विधानाज्जरसदेशो भवति विप्रतषेधेन` इति। नुमोऽवकाशः - त्रपूणि जतूनि; जरसावेशस्यावकाशः - जरसौ; अतिजरांसि ब्राआहृणकुलानीतयत्रोभयप्रसह्गे विप्रतिषेधेन परो जरसादेशो भवति। यदि हि पूर्वं नुम्? स्यात्, नुमा व्यवहितत्वाज्जरसादेशो न लभ्यते, तथापि विहितविशेषणपाश्रयणेन लभ्यते। एवमपि `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इति जराशब्दस्यादेशे कृते सकारत्? परो नुम्? श्रूयेत। [`श्रूयते` मुद्रित पाठः] अथापि समुस्कस्यादेशः स्यात्? एवमपि कृतकार्यत्वान्नुम्शास्त्रस्य पुनरप्रवृत्तेरादेशे कृते पुनर्नम्न स्यात्, तथानिष्टं रूपं प्रसज्येत। अथेहातिजरसं ब्राआहृणकुलं पश्येति जरसादेशे कृते `स्वमोर्नपुंसकात्` [[7.1.23]] इति सुक्कस्मान्न भवति? इत्यत आह - `इह` इत्यादि। जरामतिक्रान्तमिति प्रादिसमासः, `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वः, द्वितीयैकवचनमम्? इति स्थित एकदेशविकृतस्यानन्यत्वात्(व्या।पा।16)कृतेऽपि ह्रस्वत्वे लुक्, अम्भावः, जरस्भावः - इत्येतानि त्रीणि कार्यामि युगपत्? प्राप्नुवन्ति, तत्र लुगपवादत्वात्? `अतोऽम्` [[7.1.24]] इत्यम्भावेन बाध्यते, अम्भावोऽपि परत्वाज्जरसादेशेन। अथ कृते जरसादेशे लुक्? पुनः कस्मान्न भवति? इत्यत आह - `पुनर्लुक्शास्त्रम्` इत्यादि। न च लुक्शास्त्रं पुनः प्रवर्तते; भ्रष्टावसरत्वात्, तृतीयाबहुवचने किमतजरैब्र्राआहृणकुलैरित्येवं भवितव्यम्; आहोसविदतिजरसम्, अतिजरसैरित्येवम्? इत्यत आह - `अतिजरसम्` इत्यादि। `गोनर्द्दीयमतेन` इति। तथा हि भाष्ये उक्तम् - `गोदर्दीय आह - `इषटमेषैतत्? संगृहीतं भवतीति - अतिजरमतिजरैतिति भवितव्यम्` इति। का पुनरस्य युक्तिः? इत्यत आह - `सन्निपातलक्षण` इत्यादि। यद्यम्भावः, ऐस्भावश्च जरसादेशस्य निमित्तमात्रं स्यात्, अकारान्तताऽङ्गस्य ताभ्यां विहता स्यात्। एतच्चायुक्तम्; तस्मन्निपाते हि तावभिनिर्वृत्तौ नोत्सहेते सां विहन्तुम्। `अन्ये` इति। सूत्रकारमतानुसारिणः। कस्मात्? पुनस्त एवं मन्यन्ते? इत्यत आह - `अनित्यत्वादस्याः` इत्यादि। अनित्यत्वं पुनरस्याः - <<अतो भिस ऐस्>> [[7.1.9]] इत्यत्र प्रतिपादितम्॥", "72102": "`स्यः` इति। <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति तकारस्य सकारः। `त्यः` इति। `जसः सी` [[7.1.17]] इति शीभावः, <<आद्गुणः>> [[6.1.87]] । `इमौ` इति। `दश्च` [[7.2.109]] इति मत्वम्। `असौ` इति। <<अदस औ सुलोपश्च>> [[7.2.107]] । `अमू` इति। `अदसोऽसेर्दादु दो मः` 8.2.80) इति मत्वोत्वे, <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घः। `अमी` इति। <<एत ईद्बहुवचने>> [[8.2.81]] इतीत्त्वम्। अथेह कस्मान्न भवति - भवानिति? अत आह - `द्विपर्यन्तानाम्` इत्यादि। एतच्च <<शेषे लोपः>> [[7.2.90]] इत्यत्र प्राग्वि ज्ञापितम्। `भवान्` इति। `उगिदचाम्` [[7.1.70]] इति नुम्, <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। अथेह संज्ञोपसर्जनीभूतानामपि कस्मान्न भवति त्याददौ - त्यद्? अतिस्यद्, अतित्यदः? इत्यत आह - `संज्ञोपसरजनीभूताः` इत्यादि। सर्वाद्यन्तःपातिनस्त्यदादयः। सर्वादयश्चासंज्ञीभूता अनुपसर्जनीभूतश्च पठन्ते। तथा हि - तेषां `सर्वनामानि` [[1.1.27]] इति महत्याः संज्ञायाः करणस्यैतत्? प्रयोजनम् - सर्वेषां नामभूतानां संज्ञा यथा स्यात्। ये तु कस्याचिदेव संज्ञाभूता उपसर्जनीभूताश्च, तेषां मा भूदिति। तस्मात्? संज्ञोपसर्जनीभूतास्त्यदादयः पाठादेव पर्युदस्ताः, त्यदादिभ्यो बहिष्कृता इत्यर्थः। तस्मादत्यदादित्वात्? तेषां न भवति त्यदादिकार्यम्। `त्यदादिप्रधाने शब्दे तु भवत्येव` इति। त्यदादयः प्रधाना यस्मिन्? शब्दे स त्यदादिप्रधानः, तत्र भवत्येवात्त्वम्; तस्य पाठापदर्युदस्तत्वात्। अपर्युदस्तत्वं तु सर्वनामसंज्ञायस्तदन्तविधेः सर्वादेरभ्युपगमात्॥", "72103": "अथाकार एव किमः कस्मान्न विधीयते, एवं हि लघु सूत्रं भवति, अकारो हि प्रकृतोऽनुवर्तत इति, तत्रैवं सुत्रं कर्तव्यम्, `किमोऽत्` इति? अत आह - `साकच्कस्यादेशो भवति` इति। तेनाकारः किमो न विधीयते` इति। अयं ह्रादेशः `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते` (व्या।पा।21) अकचश्च किम्ग्रहणेन ग्रहणात्? साकच्कस्यापि भवति; तेनाकार एव किमः स्थाने न विधीयते। यदि हि विधीयेत, तदाऽनकच्कस्यादेशे कृते यश्चादकचि कक इत्यनिष्टं रूपं स्यादित्यभिप्रायः। कथं पुनः किमोऽत्त्वे कृते क इति भवति, यावता मकारस्यात्त्वे कृते सतकारस्य यणादेशे कृते क्य इति स्यात्? नैष दोष; इकारस्यापि ह्रत्त्वं विधीयते, यदिह पूर्वसूत्रात्? `अः` इत्यनुवर्तते। नालोऽन्त्यस्यात्वं भवति यत्? पुनरिहाकारग्रहणं क्रियते। तेन `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इतीकारसय, तत्र द्वयोरकारयोः परपूर्वत्वे क इति सिद्धम्। क्यचित्? पाठः `इमः` इति। तत्रायं पूर्वपक्षः - अथाकार एवेमः कस्मान्न विधीयते? लघु ह्रेवं सूत्रं भवति; प्रकृतस्याकारस्येहानुवृत्तेः, तत्रैवं तावत्? सूत्रं कर्तव्यम् - `इमः` इति। न चैवं सति `तिम ष्टिम आद्रीभावे` (धातुपाठः-1123,1124) इत्यस्य क्विबन्तस्य तीन्, तिमौ, तिम इत्यत्रापि प्रसज्येत, त्यदादिभिरिमो विशेषणात् - त्यदादीनां य इमिति? न; `दश्च` [[7.2.109]] इति मत्वे कृत इदम इमौ इम इत्यत्रापि प्रसज्येत। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) नापीम इत्युचयमाने <<अलोऽन्त्यस्य>> [[1.1.52]] इति प्रसज्येतेत्याशङ्कनीयम्, यस्मान्नानर्थकेऽलोन्त्यविधिः (व्या।प।62)? इत्यत आह - `साकच्कस्यापि` इत्यादि। पूर्व एव पाठः साधुतरः। इतरत्र तु पाठ उत्तरसूत्रेण क्वादेश इमः कृते द्वयोः ककारयोश्च संयुक्तयोः श्रवणं प्रसज्येत, तच्चानिष्टम्॥", "72104": "पूर्वस्यायमपवादः। तिशब्दस्य विभक्तेरभावादिकार उच्चारणार्थः। तकारस्यैव प्रयोजनम्। तत्र `यस्मिन्विधिस्तदादावल्ग्रहणे` (व्या।प।127) तकारादेशो विभक्तौ कार्यं विधीयते। अत आह - `तकारादौ` इत्यादि। `कुतः` इति। <<पञ्चम्यास्तसिल्>> [[5.3.7]] । `कुत्र` इति। `किमोऽत्` [[5.3.12]] इत्यत्र परसूत्राद्वाग्रहणं पुरस्तादपकृष्यते। तेन पक्षे <<सप्तम्यास्त्रल्>> [[5.3.10]] इति त्रल्यपि भवति। `कुह` इति। `वा ह च च्छब्दसि` [[5.3.13]] इति हः। एषाञ्च तसिलदीनां <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इति विभक्तिसंज्ञा॥", "72105": "कादेशस्यायमपवादः। `क्व` इति। `किमोऽत्` [[5.3.12]] इत्यत्। अथ किमर्थमादेशान्तरं विधीयते, न प्रकृतः कु एव विधीयताम्, तत्रापि यणादेशो क्वेति सिध्यत्येव; योगविभागश्च न कर्तव्यो भवति, `कुतिहात्सु` इत्येको योगः करिष्यते? इत्यत आह - `आदेशान्तरवचनम्` इत्यादि। कुशब्दे ह्रादेशे सति यणादेशं बाधित्वा <<ओर्गुणः>> [[6.4.146]] इति गुणः स्यात्। तस्मात्? तन्निवृत्त्यर्थं क्वादेश इत्युच्यते। एवमपि प्रत्ययविधावेव `किमो ड्वत्` इति ड्वत्प्रत्ययो विधेयः, तत्रापि टिलोपे कृते क्वेति रूपं सिध्यत्येव। पदसंज्ञायां सत्यां <<झलां जशोऽन्ते>> [[8.2.39]] इति ककारस्य गकारः प्राप्नोतीत्यतो न सिध्यतीति चेत्? नैतदस्ति; `असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इति टिलोपस्यासिद्धत्वाज्जश्त्वं न भवति। टिलोपो हि डिति विधीयते, तेन डितमपेक्षमाणो बहिरङ्गो भवति। जश्त्वं तु पदान्ते विधीयमानं नापरनिमित्तमपेक्षत इत्यन्तरङ्गमित्यत आह - `किमो ड्वदिति प्रत्ययान्तरम्` इत्यादि। यदि डवदिति प्रत्ययान्तरं विधीयेत, साकच्कस्य क्वेति रूपं न सिध्यति। असचि हि कृते ककिमिति स्थिते ड्वत्प्रत्यये परतष्टिलोपे सति कक्वेत्यनिष्टं रूपं स्यत्। अत्प्रत्यये तु क्वादेशो विधीयमानोऽनेकास्त्वात्? साकच्कस्य सर्वादेश एव भवतीति न भवत्यनिष्टरूपप्रसङ्घः। तस्मात्? साकच्कार्थं ड्वदिति न प्रत्ययान्तरं विधीयते। साकच्कोऽर्थः प्रयोजनं यस्य तत्? साकच्कार्थम्॥", "72106": "`सै` इति। किमिदं प्रथमैकवचनस्य ग्रहणम्? उत सप्तमीबहुवचनस्य? आहोस्विदुभयोरपि? तत्र प्रथमैकवचनस्य ग्रहणम्। तथा हि - द्वयोरपि सामान्येन ग्रहणं न भवति। यदि स्यात्, सीत्र्येवं ब्राऊयात्। एवं हि सकारादौ कार्यं विधीयमानं तयोद्र्वयोरपि भविष्यति। तस्मादन्यतरस्य ग्रहणम्। तथा हि - <<स्यश्छन्दसि बहुलम्>> [[6.1.133]] `सोऽचि लोपे चेत्` [[6.1.134]] इत्येवमादेर्निर्देशात्? प्रथमैकवचनस्यैव ग्रहण युक्तम्। `हे स, सा` इति। हे शब्दो निपातसमुदायोऽवधारणार्थे वर्तते। ननु च त्यदाद्यत्वमत्र बाधकं भविष्यति? नैतदस्ति; अनवकाशा हि विधयो बधका भवन्ति। सावकाशं चात्वम्। कोवकाशः? द्विशब्दः-द्वाविति। सत्यपि तस्मिन्नवकाशे यद्यपि सकरस्याप्यनन्त्योवकाशः, तथाप्यन्तस्य परत्वात्? सत्वं स्यात्। ततश्च हे स इत्यत्र <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सोर्लोपो न स्यात्। तत्र हल्ङ्यादिलोपे कृते रुत्वविसर्जनीययोः कृतयोरनिष्टं रूपं स्यात्। सेत्यत्र तु `अजाद्यतष्टाप्` [[4.1.4]] इति स्त्रियां टाब्न स्यात्। तस्मात्? `अनन्त्ययोः` इति वक्तव्यम्॥", "72107": "`सौ` इत्येव। त्यदाद्यत्वापवादोऽदस औत्वं विधीयते। `असौ` इति। पूर्वसूत्रेण दकारस्य सकारः, <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धिः। `यदा च` इत्यादि। `सादुत्वञ्च` इति। चकारः सन्नियोगार्थः। तेन यस्मिन्? पक्षे औत्वप्रतिषेधः, तस्मिन्नेव पक्षे सादुत्तरस्याकारस्योत्त्वं विधीयते। `उत्तरपदमभूतानाम्` इत्यादि। इह परमाहम्, परमानेनेति <<त्वाहौ सौ>> [[7.2.94]] , `इदोऽय्? पुंसि` [[7.2.111]] , <<अनाप्यकः>> [[7.2.112]] इति समासाद्? या विभक्तिः, तस्यामेत आदेशः भवन्तो बहिरङ्गा भवन्ति; प्रागेव तु विभक्त्युत्पत्तेः। अकः सवर्णे दीर्घत्वं प्राप्नुवदन्तरङ्गम्, तस्मात्? पूर्वं तदेव स्यात्, पश्चादादेशाः स्युः; ततश्च परमहम्, परमयम्, परमनेनेत्यनिष्टानि रूपाणि रूपणि स्युः। तस्मादुत्तपदभूतानामकृतसवरसन्धीनां त्यदीदीनामादेशा वक्तव्याः=व्याख्येया इत्यर्थः। आचार्यप्रवृत्तिज्र्ञापयति - पूर्वोत्तरयोः पदयोस्तावत्? कार्यं प्रथमं भवति, पश्चादेकादेश ति। यदयं <<नेन्द्रस्य परस्य>> [[7.3.22]] इति प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? इन्द्रे द्वावचौ, तत्रैकः - <<यस्येति च>> [[6.4.148]] इति लोपेनापह्नियते, अपरः - एकादेशेनेत्यनच्क इन्द्रशब्दः सम्पन्नः, तत्र को वृद्धिप्रसङ्गः! पश्यति त्वाचार्यः - पुर्वोत्तरयोः पदयोस्तावत् कार्यं भवति, पश्चादेकादेश इति; यतः <<नेन्द्रस्य परस्य>> [[7.3.22]] इति वृद्धिप्रतिषेधं शास्ति। तदेतस्माज्ज्ञापकादकृतस्वरसन्धीनामुत्तरपदभूतानां त्यदादीनामादेशा भवन्तीति। `अवसः सोर्भवेदौत्वम्` इत्यादि। अवधारणमत्र द्रष्टव्यम्। अदःशब्दात्? परस्य सोरेवौत्वं भवेत्। भवतु, मा वा भूत्। अदश्शब्दस्य त्यदाद्यत्वे कृते <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धौ कृतायामसाविति सिध्यत्येव, तत्? किमर्थं सुलोपे विधीयते? निरर्थकतवान्नैवं सोर्लोपो विधेयः, औत्वमेव विधेयम्। अत्र दोषमाह - `ह्रस्वाल्लुप्येत सम्बुद्धिः` इति। हेऽसावित्यत्र <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सोर्लोपः प्रसज्येत, ततश्च सम्बुद्धौ हेऽसाविति न सिध्येत्? `न हलः प्रकृतं हि तत्` इति। नायं देषः; हलः सम्बुद्धेर्लोप औत्वे कृतेऽण्? भवति, न हलिति, तत्कुतो लोपप्रसङ्गस्तत्र! तर्हि हल्ग्रहणं कर्तव्यम्? न कर्तव्यम्; यस्मात्? प्रकृतं तत्। <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यतो हल्ग्रहणं प्रकृतमेव। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्देशेन चेहार्थः, तथापि `एङ्? ह्रस्वात्` [[6.1.67]] इति पञ्चमी हलित्यस्याः प्रथमायाः षष्ठीत्वं प्रकलप्यिष्यति; <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति वचनात्। अथं तर्हि दोषः - `आप एत्वं भवेत्? तस्मिन्` इत्यादि। तस्मिन्नोकारे परतस्त्यदाद्यत्वे कृते स्त्रियां टापि - हे असौ ब्राआहृणीत्यतर <<सम्बुद्धौ च>> [[7.3.106]] इत्येत्वं स्यात्, यथा हि हे खट्वे इत्यत्र? `न ज्ञलीत्यनुवर्तनात्` इति। नायं दोषः; `सम्बुद्धो च` [[7.3.106]] इत्यत्र `बहुवचने झल्येत्` [[7.3.103]] इत्यनुवर्तते, तेन झलादौ सम्बुद्धावेत्येन भवितव्यम्। च चौकारे कृते झलादिः सम्बुद्धिर्भवति, किं तर्हि? अजादिः। `प्रत्ययस्थाच्च कादित्त्वं शीभावश्च प्रसज्यते` [`प्रसज्येत` - प्रा। मुद्रितः पाठः] इति। पूर्वकश्चकारः तह्र्रर्थे, इतरः समुच्चये। अयं तर्हि दोषः - असकौ ब्राआहृणीत्यत्राज्ञाताद्यर्थविवक्षायामकचि कृते टापि च `प्रत्ययस्थात्? कात्` [[7.3.44]] इत्यादिना कात्? पूर्वस्येत्वं प्राप्नोति? असौ ब्राआहृणी इत्यत्र `औङ आपः` [[7.1.18]] इत्यनेन शीभावोऽदसस्त्ववयव ओकारे कृते टाबेव नास्तीति नैतद्दोषद्वयं सम्भवति। शीभावदोषश्च पाक्षिको वेदितव्यः, यस्मिन्? पक्षे सामान्यग्रहणार्थो ङकारः प्रत्ययस्यासज्यते। यदा तु पूर्वसूत्रनिर्देशस्तदा द्विवचनयोरेव शीभावः; तयोरेव पूर्वाचार्यैर्ङित्वस्य कृतत्वात्। अन्यस्य प्राप्तिरेव नास्ति; आङित्त्वात्॥", "72108": "अलोऽन्त्यपरिभाषया [[1.1.51]] मकारस्यैवानेन मकारेण भवितव्यम्, न च मकरसय मकारादेशे कृते विशेषोऽस्ति, तत्किमर्थं मकारस्य मकारः इत्युच्यते? - इत्येतच्चोद्यं निराकर्तुमाह - `मकारस्य` इत्यादि। गतार्थम्॥", "72109": "`इदमः` इति वर्तते, `सौ` इति निवृत्तम्; उत्तरसूत्रे पुनः `सौ` इति वचनात्। तेनायं विभक्तिमात्रे दाकारस्य मकारो भवति॥", "72110": "उत्तरसूत्रे पुंसीति वचनात्? स्त्रियामयं यकारः। अथ नपंसके कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्; नपुंसके हि `स्वमोर्नर्पुसकात्` [[7.1.23]] इति सोर्लुका भवितव्यम्। अत्र सावुच्यमानः कथं तस्मत्लुप्ते यकारः स्यात्; प्रत्ययलक्षमेनेति चेत्? न; `न लुमतङ्गस्य` [[1.1.62]] इति प्रत्ययलक्षणप्रतिधेधात्। तस्माद्युक्तमुक्तम् - `स्त्रियामयं यकारः` इति॥", "72111": "", "72112": "`अनेन` इति। त्यदाद्यत्वे पररूपत्वे च कृत इद्रूपस्यानादेशः, <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इतीनादेशः, <<आद्गुणः>> [[6.1.87]] । `अनयोः` इति। `ओसि च` [[7.3.104]] इत्येत्वम्, अनादेशः, सुलोपः। `पकारेण` इति। अथ कपः पकारेण कस्मान्न भवति? प्रयोजनाभावात्। ननु चेहेत्यत्र प्राग्दिशीयायां विभक्तौ <<हलि लोपः>> [[7.2.113]] यथा स्यादितीदमस्ति प्रयोजनम्? <<इदम इश्>> [[5.3.3]] इतीशात्र बाधकेन भवितव्यम्। अत्र च `अमेहक्वतिसित्रेभ्यः` (कारिका 4.2.115) इत्यत्र इहेत्यकृतेद्रूपलोपस्य हकारान्तस्येदमो तिर्देशो लिङ्गम्॥", "72113": "पूर्वेणानादेशे प्राप्ते हलादाविद्रूपस्य लोपो विधीयते। `आभ्याम्` इति। त्यदद्यत्वम्; अतो गुणे [[6.1.94]] पररूपत्वम्, `सुपि ;ट [[7.3.102]] इति दीर्घत्वञ्च। अथालोऽन्त्यपरिभाषया [[1.1.52]] न्त्यस्यायं लोपः कस्मान्न भवति? इत्याह - `नानर्थके` इत्यादि। अभ्युपेत्यानर्थकेऽलोऽन्त्यविधिं परिहारान्तरमाह - `अथ वा` इत्यादि। न चाल्ग्रहणं कर्तव्यम्, यतस्तदनुवर्तते? इत्यत आह - `अनाप्यकः` इत्यादि। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, तथापि हलीति सप्तमी अन्निति षष्ठीत्वं प्रकल्पयिष्यति; <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति वचनात्। एवं परिहारो भाष्यकारमतेन बोद्धव्यः; अस्याः परिभाषया अनङ्गीकरणात्। अत्र दर्शने तु त्रयाणामकराणां पररूपमेकादेशं कृत्वा दीर्घत्वादि विधेयम्॥", "72114": "`मार्ष्टा` इति। `मृजू शृद्धौ` (धातुपाठः-1066) व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, `ष्टुत्वम्। मृजेः क्विबन्ताद्विभक्तावुत्पन्नायां कंसपरिमृङ्भ्याम्, कंसपरिमृङ्भिरित्यत्र वृद्धिः प्राप्नोति, न च क्विबाश्रयः <<क्ङिति च>> [[1.1.5]] इति वृद्धिप्रतिषेधो भवितुमुत्सहते; यस्मात्? क्ङितीति निंमित्तसप्तमी। न चात्र क्विब्निमित्ता वृद्धिः प्राप्नोति, किं तर्हि? विभक्तिनिम्त्ता। तस्मात्? तस्याः प्रतिषेधो वक्तव्य इत्यत आह - `मुजरिति धातुग्रहणम्` इत्यादि। भ्रौणहत्य [[6.4.174]] मिति निपातनेन ज्ञापितोऽयमर्थः - धाताः कार्यमुच्यमानं धातुप्रत्यय एव भवतीति, तेन कंसमृङ्भ्यामित्यत्र न भवति। यो हि धातोरित्येवं विहितः स धातुप्रत्ययः। न च भ्यामादिकं धातोरित्येवं विहितम्, किं तर्हि? प्रातिपदिकादित्येवम्, तस्मान्नासो धातुप्रत्ययः। `कंसपरिमृङ्भ्याम्` इत्यादि। पूर्ववत्? षत्वे कृत षकारस्य जश्त्वं डकारः॥", "72115": "`निश्चायनिष्पावौ` [`एकसतण्डुलनिश्चायः, द्वौ शूर्पनिष्पावौ` - काशिका] इति। निष्पूर्वाच्चिनीतेः, पुनातेश्च <<परिमाणाख्यायां सर्वेभ्यः>> [[3.3.20]] इति धञ्। `इदुपधस्य चाप्रत्ययस्य` [[8.3.41]] इति विसर्जनीयषत्वम्। `कारः, हारः` इति। कृञः ह्मञश्च भावे घञ्। `गौः, गावो गावः` इति। `गोतो णित्` [[7.1.90]] इति सर्वनामस्थानस्य णित्त्वम्। `सखायौ, सखायः` इति। अत्रापि <<सख्युरसम्बुद्धौ>> [[7.1.92]] इति। `जयतेः, यौतेश्च` इति। `जि जये` (धातुपाठः-561), `यु मिश्रणे` [`मिश्रणेऽमिश्रणे च` - धातुपाठः-] (धातुपाठः-1033)। `च्यवतेः` इति। `च्युङ छ्युङ्? ज्युङ्? प्रुङ्? प्लुङ्? गतौ`[नास्ति - धातुपाठः-] (धातुपाठः-955-958)। अज्ग्रहणमनिकोऽपि यथा स्यात् - गोरिति। ननु णित्करणसामर्थ्यादेव तत्र भविष्यति? नैतदस्ति; अस्ति ह्रन्यत्? णित्करणस्य प्रयोजनम्, किं तत्? गावौ, गाव इत्यवादेशे कृते <<अत उपधायाः>> [[7.2.116]] इति वृद्धिर्यथा स्यात्। यद्येवम्, गौरित्यत्रागुणविषये वृद्धिरियं कृतार्थेति कारयतीत्यादिषु परत्वाद्गुणेन बाध्येत? णित्करणसामर्थ्यान्न भविष्यतीति। एतच्चानुत्तरम्; <<णेरनिटि>> [[6.4.51]] इत्येवमादौ णित्करणस्य चरितार्थत्वात्? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति - गुणविषयेऽपि वृद्धिरभवतीति; यदयं जागर्तर्वृद्धिविषये प्रतिषेधविषये च <<जाग्रोऽविचिण्णल्ङित्सु>> [[7.3.85]] इति पुनर्गुम आरभ्यते। यदि हि गुणविषये वृद्धर्न स्यात्, तदा जागरयतीत्यादिषु गुणोऽस्त्येवेति तद्विषये गुणारम्भोऽनर्थकः स्यात्। वृद्धिविषयता चारम्भस्य चिण्णलोः प्रतिषेधाद्विज्ञायते। अथ योगविभागः किमर्थः, न `ञ्णित्यत उपथायाः` इत्येदोच्येत? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने यद्यपि गावो, गाव इत्यत्रावादेशे कृते चायकः, लावक इत्यत्र गुणे कृतेऽयवादेशयोः कृतयोः सिध्यति - गौः, सखायौ; जैत्रमित्यादौ तु न सिध्यति; अयवादेशयोर्गुणस्य च यथायोगमसम्भवात्? स्माद्यथायोगं योगविभागः कर्तव्यः॥", "72116": "पाक इत्यादौ भावे घञ्, <<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति कुत्वम्। `रागः` इति। <<घञि च भावकरणयोः>> [[6.4.27]] इत्यनुनासिकलोपः। `पाचयति` इति। <<हेतुमति च>> [[3.1.26]] इति णिच्। `चकासयति` इति। उपधाग्रहणादिह चकारादकारस्य न भवति। तपरकरणं लाघवार्थम्। असति हि स्मिन्नस्योपधाया इत्युच्यमाने गौरवं स्यात्। दीर्घनिवृत्त्यर्थं तु तपरकरणं न भवति, न दीर्घस्य कृतायां वृद्धौ कश्चिद्विशेषोऽस्ति॥", "72117": "`अचाम्` इति निर्धारणे षष्ठी। `अचामादेरचः स्थाने` इति। ननु चेक्परिभावोपस्थानादिक एव स्थाने वृद्ध्या भवितव्यम्, तस्मादिकः स्थान इत्येवं वक्तव्यम्, न त्वचः स्थान इति? एवं मन्यते - <<अचो ञ्णिति>> [[7.2.115]] इत्यतः स्थानिनिर्देशार्थं द्वितीयमज्ग्रहणमनुवर्तते, तेन यथा <<अचो ञ्णिति>> [[7.2.115]] इत्यत्र स्थानिनिर्देशादिक्परिभाषा नोपतिष्ठते, तथेहापीत्यदोषः। `गार्ग्यः, वात्स्यः` इति। <<गर्गादिभ्यो यञ्>> [[4.1.105]] । `दाक्षिः, प्लाक्षिः` इति। `अत इञ्` [[4.1.95]] । `औपगवः, कापटवः` इति। प्राग्दीव्यतीयोऽण्? [[4.1.83]] ।अथ त्वाष्ट्रः, जागत इत्यतर त्वष्टृजगद्भ्यां `तस्येवम्` [[4.3.120]] इत्यणि कृते यथाक्रमं <<अचो ञ्णिति>> [[7.2.115]] इत्यज्लक्षणा वृद्धिः प्राप्नोति, <<अत उपधायाः>> [[7.2.116]] इत्युपधालक्षणा वृद्धिः कस्मान्न भवति? इत्याह - `अचामादेर्वृद्धिरन्त्योपधावृर्द्धि बाधते` इति। कथं पुनरन्यस्योच्यमानाऽन्यस्य बाधिका स्यात्? ज्ञापकात्। यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति, तज्ज्ञापयति - यत्रादिवृद्धिस्तत्रान्या वृद्धिर्न भवतीति। तस्यानुशतिकादिषु पाठस्यैतत्? प्रयोजनम् - उभयपदवृद्धिर्यथा स्यात्, पुष्करसदोऽपत्यं पौष्करसादिरिति। `बाहवादिभ्यश्च` [[4.1.96]] इतीञ्। यदि चादिवृद्धिरन्यस्या वृद्धेर्बाधिका न स्यात्, उपधालक्षणेनैव वृद्धेः सिद्धत्वात्? पौष्करसादिशब्दस्य, पुष्करसच्छब्दोऽनुशतिकादिषु न पठएत। पश्यत्याचार्यः - यत्रादिपदवृद्धिस्तत्रान्या वृद्धिर्न भवतीति; यतोऽनुशतिकादिषु पुष्करसच्छब्दं पठति। ननु ठगर्थस्तत्र पठः, तत्र ह्रुपधालक्षणा वृद्धिर्न प्राप्नोतीति ठकोऽञ्णित्त्वात् - पुष्करसदा चरतीति पौष्करसादिक इति? नैतदस्ति; यदि पुष्करसच्छब्दाच्चरत्यर्थे ठगुत्पद्यते। कस्मात्? पुनर्नोत्पद्यते? अनभिधानात्। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। तस्माज्ज्ञापक एवानुशतिकादिषु पाठः पुष्करसच्छब्दस्य॥", "72118": "यद्यपि `तद्धितेषु` [[7.2.117]] इति बहुवचनान्तं प्रकृतम्, तथापोहैकवचननिर्देशादेकवचनविषयो बहुवचनस्य विपरिणामेन विज्ञायते, इतयत आह - `किति च तद्धिते परतः` इति। `नाडायनः, जारायणः` इति। <<नडादिभ्यः फक्>> [[4.1.99]] इति फक्। `आक्षिकः, शालाकिकः ति। अक्षिशलाकाशब्दाभ्यां `तेन दीव्यत खनति जयति जितम्` [[4.4.2]] इति ठक्; <<ठस्येकः>> [[7.3.50]] ॥इकि बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायां सप्तमाध्यायस्यद्वितीयः पादः- - -अथ सप्तमोऽध्यायःतृतीयः पादः", "73001": "<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यान्तरतम्यादैकारे वृद्धौ प्राप्तायां देविकादीनामाकारो विधीयते। `अत्र पक्षत्रयं सम्भाव्यते - 1। प्रकृतेनाङ्गेन देविकादयो विशिष्यन्ते - देविकादीनामङ्गानामिति; 2। तैर्वाङ्गम् - `देविकाद्यन्तस्याङ्गस्येति, अथ वा - 3। तैराद्योऽच् - देविकदीनां सम्बन्धिनामचां मध्ये य आदिरजिति। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा देविकाकूले भवाः शालयो दाविकाकूलाः शालय इति न सिध्येत्, न ह्रतर देविकाशब्दोऽङ्गम्, किं तर्हि? देविकाकूलशब्दः। ननु चाङ्गस्येत्यवयवषष्ठी, तत्रैवं विशेषणविशेष्यभावः करिष्यते - अङ्गस्य ये देविकादयोऽवयवभूता इति, भवति चेहावयवोऽङ्गस्य देविकाशब्दः, ततोऽयमोदोष इति चेत्? सत्यमेतत्? किन्त्वतिप्रसङ्गः स्यात्, सुदेविकायां भवः सौदेविकः - इत्यत्रापि स्यात्। अथ द्वितीयपक्ष आश्रीयेत, एवमपि दाविकाकूलाः शालय इति न सिध्येत्। देविकादिभिः प्रकृतेऽङ्गे विशेष्यमाणे विशेषणे च तदन्तविधिरिति देविकाद्यन्तस्याङ्गस्येति भवितव्यम्, न तदादेः। तस्मात्? तदादेरपि यथा स्थादिति यत्नान्तरमास्थेयमिति। तृतीये तु पक्ष आश्रीयमाणे, विनापि यत्नान्तरेण केवलस्य तदादेस्तदन्तस्य भवति। सर्वत्राचामादेरचो देविकादिसम्बन्धित्वात्। अतस्तमेवाश्रित्याह - `देविकाशिंशपादित्यवाड्दीर्घसत्त्रश्रेयस इत्येतेषाम्` इत्यादि। एषां देविकादीनामचां मध्य आदिभूतो योऽज्? वृद्धेरैकारस्य प्रसङ्गे तस्याकारो विधीयते।`पूर्वशांशप` इति। पूर्ववदुत्तरपदस्य वृद्धिः। साप्याकार एव भवतीत्युत्तरपदाधिकारे देविकादीनामनुवृत्तेर्लभ्यते। `वहीनरस्येद्वचनं कर्तव्यम्` इति। अकारस्य या वृद्धिः प्राप्नोति तद्वाधनार्थमेत्। इकारे कृते या वृद्धिः प्राप्नोति सा तु भवत्येव। `केचित्तु` इत्यादि। कुणडवाडवादयः। विहीनो नरः कामक्रोधाभ्यामिति पृषोदरादित्वान्नलोपः, विहीनरस्यापत्यं वैहीनरिः - `अत इञ्` [[4.1.95]] ॥", "73002": "केकयमित्रयुप्रलयानामिति याद्यपेक्षयाऽवयवषष्ठी। यादेरित्येषापीत्यादेशापेक्षया स्थानषष्ठी-य आदिर्यस्य स यादिः। अकारसहितो यकार उकारसहितश्च। केकयादीनां योऽवयवो यादिस्तस्येयादेशो भवति। ननु च मित्रयुशब्दः परमप्रकृतिः, न गोत्रम्; `अपत्यं पोत्रप्रभृति गोत्रम्` [[4.1.162]] इत्यपत्यविशेषस्य गोत्रसंज्ञाविधानात्, तत्कथं गोत्रादुच्यमानः प्रत्ययः परमपरकृतेर्भवति? इत्यत आह - `लौकिकं हि` इत्यादि। किं पुनर्लौकिकं गोत्रम्? इत्यत आह - `लोके च` इत्यादि। इह लौकिकं गोत्रं गृह्रते। लोके च ऋषिशब्दः `गोत्रम्` इत्यभिधीयते। मित्रयुशब्दश्चायमुषिवचनः, तस्मात्? ततोऽपि गोत्रादुच्यमानः प्रत्ययो भवतीति। `प्रालेयम्` इति। `अत आगतः` [[4.3.74]] इत्यण्॥", "73003": "<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यादिना ञ्णिदादौ तद्धिते वृद्धौ प्राप्तायां प्रतिषेधोऽयमुच्यते, तत्सन्नियोगेनैजागमौ भवतः। `यकारादैकारः` इत्यादिना यतासंख्येन सम्बन्धं दर्शयति। `वैयसनम्` इति। `असु क्षेपणे` (धातुपाठः-1209)। विपूर्वाद्विशेषेणास्यते क्षिप्यते येनेति करणे ल्युट्, प्रादिसमासः, यणादेशः, तत, <<तत्र भवः>> [[4.3.53]] इत्यण्। तत्र यकारात्? पदान्तात्? परस्याकारस्य वृद्धिर्न भवति, तस्मात्? पूर्वमैजागमः। `वैयाकरणः` इति। विशेषेणाक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति करणे ल्युट्, व्याकरणमिति, प्रादिसमासः, ततः <<तदधीते तद्वेद>> [[4.2.59]] इत्यण्, तत्र पर्जन्यवल्लक्षणप्रवृत्त्या पदान्ताद्यकारात्? परसय या वृद्धिः प्राप्नोति सा न भवति, तस्मात्? पूर्वमैजागमः। `सौवआः` इति। शोभनोऽआः स्वआः, पूर्ववत्? समासः, ततोऽपत्यर्थे शिवाद्यण्? [[4.1.112]] । अत्र वकारात्? पदान्तात्? परस्य वृद्धिर्न भवति, तस्मात्? पूर्वमैजागमो भवति। `आर्थिः` इति। ना अर्थो यस्य स अर्थः, तस्यापत्यम्? `उत इञ्` [[4.1.95]] । `याष्टकः` इति। `शक्तियष्टओरीकक्` [[4.4.59]] । `याताः` इति। इणः परस्य लटः शत्रादेशः, <<इणो यण्>> [[6.4.81]] इति यण्, ततः <<तस्येदम्>> [[4.3.120]] इत्यण्। तत्रोभयत्रापि यकारस्य पदान्तता भविष्यतः, यथा - `ब्राआहृणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय` इति दधिदानस्य तक्रदानां बाधकम्। अथापि बाधगौ न स्याताम्, तथापि नित्यत्वादैचोः कृतयो पश्चाद्वृर्भवन्ती तयोरेव भविष्यतीति। न चात्र शब्दान्तरप्राप्त्या तयोरप्यैचोरनित्यत्वमाशङ्कनीयम्, न हि तौ शब्दान्तरसय विधीयेते, अपि त्वभकतावेव य्वाभ्यां पूर्वौ। यद्यपि शब्दातन्तरस्य प्राप्तिः स्यात्, तथापि द्वयोरनित्ययोः परत्वादैचोः कृतयोः सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव` (व्या।प।40) इति पुनर्वृद्धिर्न भवति। यद्यपि पुनःप्रसङ्गविज्ञानाद्वृद्धिः स्यात्; तथापीष्टसिद्धिः स्यादेव; विशेषाभावादित्यत आह - `प्रतिषेधवचनम्` इत्यादि। प्रक्लृतिः=प्रकल्पनम्, व्यवस्येत्यर्थः। यत्र य्वाभ्यां परस्य वृद्धेः प्रतिषेधः स एवैचोर्विषयः कथन्नाम प्रकल्पेतव्यवतिष्ठेतेत्येवमर्थः। प्रतिषेध उच्यते, किमर्थं पुनरै चोर्विषयपरकॢप्तिः क्रियते? इत्यत आह - `इह मा भत्` इति। यदि प्रतषेधवचनेनैचोर्विषयन्यवस्था न क्रियेत, तदा दाध्यश्विः, माध्वइआरित्यत्रापि स्यात्। अतो मा भूदेष दोष इति प्रतिषेधवचनेनैचोर्विषयन्यवसथा क्रियते। दधिप्रियोऽआओ दध्यआः मधुप्रियोऽआओ मध्यआः। `सामानाधिकरणाधिकारे शापकपार्थिवादीनां समास उत्तरपदलोपश्च` (वा।83) इति मध्यमपदलोपौ समासः। अथ क्रियमाणे प्रतिषेधवचने कस्मादेवात्र न भवति, यावता य्वाभ्यां परस्य वृद्धिर्नास्ति? इत्यत आह - `न ह्यत्र` इत्यादि। प्रसङ्गे हि सति वृद्धेः प्रतिषेधो भवति, नासति; न चात्र य्वाभ्यां परस्य वृद्धेः प्रसङ्गोऽस्ति, अतः प्रतेषेधो नास्त्येवेत्यभिप्रायः। ननु च `अचामादेः` [[7.2.117]] इत्यनुवर्तते, तेन य्वौ विशिष्येते - अचामादेरचः स्थाने यौ य्वादिति। न च दध्यइआरित्यादावेवंविधौ तौ स्त इति। न चात्रैचो भविष्यतः, अतो नार्थः? नैतदस्ति; एवं हयचामादिग्रहणम्, तेन यदि य्वौ विशिष्येते तदा वृद्धिरविशेषिता स्यात्। ततश्चेहापि वृद्धेः प्रतिषेधः स्यात् - द्वे अशीती भृतो भृतो भावी वा <<प्राग्वतेष्ठञ्>> [[5.1.18]] द्व्याशौतिक इति। अथ वृद्धिर्विशिष्यते - अचामादेरित्येवं वा वृद्धिः, ततो न भवत्येष दोषः। न ह्यत्राचामादेरित्येवं वृद्धिः, किं तर्हि? `संख्याया संवत्सरसंख्यस्य च` [[7.3.15]] इत्येवम्। किं तर्हि य्वौ न विशेषितौ स्याताम्? ततश्च दाध्यइआरित्यादावैचौ स्यातामेव। तस्मात्? तयोर्विषयव्यवस्थार्थं नेति वक्तव्यम्। `उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते` इति। स चोत्तरपदाधिकारेऽस्यानुवर्तमानत्वाल्लभ्यते। `पूर्वत्रैयलिन्दे` इति। अत्र `विशोऽमद्राणाम्` [[7.3.13]] इत्युत्तरपदवृद्धौ प्राप्तायां प्रतिषेधः। यद्युत्तरपदवृद्धेरप्ययं प्रतिषेधः, तदा द्व्याशीतिक इत्यत्रापि <<संख्यायाः संवत्सरसंख्यस्य च>> [[7.3.15]] इति या वृद्धिरुत्तरपदस्य आप्तेत्यस्या अपि प्रतिषेधः स्यादित्यत आह - `यत्र तु` इत्यादि। कथं पुनरिष्यमाणोऽप्यत्र प्रतिषेधो न भवति? उत्तरपदस्याचामाद्येनाचा हि य्वोर्विशेषणत्वात्। उत्तरपदसम्बन्दी योऽचामादिरच्? तस्य स्थाने यो य्वौ ताभ्यामुत्तरपदस्य वृद्धिर्न भवति। न च द्व्याशीतिक इत्यत्रोत्तरपदस्याचामादेरचः स्थाने यकार इति नात्र वृद्धेः प्रतिषेधो भवतीति॥", "73004": "`दौवारिकः` इति। <<तत्र नियुक्तः>> [[4.4.69]] इति ठक्। `द्वारपालस्येदं दौवारपालम्` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। प्रायेण तु पुस्तकेषु `द्वारपालस्येवं दौवारपालिकम्` इति। पाठः, स चायुक्तः; न हि तस्यैद [[4.3.120]] मित्यत्रार्थे द्वारपालशब्दात्? लक्षणेन केनचिट्ठग्विहितः। क्वचित्? पुनः `द्वारपालस्यापत्यं दौवारपालिकः` इति पाठः, तत्र `रेवत्यादिभ्यष्ठक्? [[4.1.146]] इति ठक्। ननु। तत्र द्वारपालीशब्दः पठते, न तु द्वारपालशब्दः? एवं तर्हि मन्यते - द्वारपालशब्दस्तत्र पठितव्यः, स द्वारपालीशब्दमपि ग्राहयिष्यति; `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति। न्यायात्। ये तु तत्र द्वारपालशब्दं न पठन्ति, तेऽपत्यार्थे दौवारपालिरितीञन्तमुदहरन्ति। कथं पुनद्र्वारस्य गणे द्वारपालस्य भवति? अत्रापि द्वारादिभिराद्यचो विशेषणत् - द्वारादीनां शब्दानामचां मध्ये य आदिरजिति। वक्ष्यमाणाद्वा तदादिविधेज्ञपिकात्। `सौवरः` इति। स्वरमधिकृत्य कृतो ग्रन्थ इति `अथिकृत्य कृते ग्रन्थे` [[4.3.87]] इत्यण्। `सौवर्य्यः` इति। `टिड्ढाणञ्` (4.1.1।5) इति ङीप्। `वैयल्कशः` इति। <<तत्र भवः>> [[4.3.53]] इत्यण्। `सौवस्तिकः` इति। `तदाहेति माशब्दादिभ्य उपसंख्यानंम्` (वा।482) इति ठक्। `सोवर्गमनिकः` [`सौवर्गमिकः` - काशिका] इति। `आहौ प्रभूतादिभ्य उपसंख्यानम्` (वा।483) इति ठक्।`पूर्वेणैव सिद्धम्` इति। वकारस्य पदान्तत्वात्? तत्रैतत्? स्यात्। यद्येवं व्युत्पत्तिः क्रियते - स्वोऽध्यायः स्वाध्यायः, तदाऽपदान्तत्वान्न प्राप्नोति, तस्यां व्युत्पत्तावर्थवान्? स्वध्यायशब्दस्य पाठः? इत्यत आह - `अथाप्येवम्` इत्यादि। कथं पुनः स्वशब्दात्? स्वाध्यायशब्दस्य सिध्यति? इत्याह - `तदादावपि हि` इत्यादि। `स्फैयकृतः`[स्फैकृतः - काशिका] इति। <<ऋष्यन्धकवृष्णिकुरुभ्यश्च>> [[4.1.114]] इत्यण्। `सौवादुमृदवः`[सोवादुमृदवम् - काशिका] इति। अत्रापि `तस्यैदम्` [[4.3.120]] इत्यण्। एवं `शौवनम्` इत्यत्रापि। `शौवम्` इति। <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः। `शौवादंष्ट्रः` इति। <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घः॥", "73005": "`नैयग्रोधः` इति। <<तस्य विकारः>> [[4.3.134]] इत्यण्। `न्यग रोहतीति न्यग्रोधः` इति। न्यञ्चतीति ऋत्वि [[3.2.59]] गादिनाऽञ्चतेः क्विन्, <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम् - ककारः, नेर्यणादेशः। न्यक्पूर्वाद्रूहेः पचाद्यच्। तत्र `न्यङ्क्वादीनाञ्च` [[7.3.53]] इति हकारस्य धकारः, <<झलां जशोऽन्ते>> [[8.2.39]] इति ककारस्य गकारः, लघूपधगुणः - एवं यदा न्यग्रोधशब्दो व्युत्पाद्यते तदा पदान्तत्वाद्यकारस्य `न य्वाभ्याम्` [[7.3.3]] इत्यादिनैव सिद्धे नियमार्थंमेतत् - केवलस्यैव यथा स्यात्, तदादेर्मा भूदिति। `अव्युत्पत्तिपक्षे विध्यर्थमेतत्` इति। अपदान्तत्वाद्यकारस्य॥", "73006": "`यदुक्तम्` इति। वृद्धिप्रतिषेधः, ऐजागमश्च। `व्यावक्रोशो` [`व्याक्रोशी` इति मु। पाठः] इत्यादि। `क्रुश आह्वाने` [`आह्वाने रोदने च` - धातुपाठः-] (धातुपाठः-856), `लिख अक्षरविन्यासे` (दा।पा।1365), `चर्च अध्ययने` (धातुपाठः-1712) चुरादिः, `हसे हसने` (धातुपाठः-721) - एभ्यो व्यवपूर्वेभ्यो णच्, तदन्तादञ्। अत्र यथोक्ते कार्ये प्रतिषिद्धे वृद्धिरेव भवति, द्वौ प्रतिषेधो प्रकृत्यर्थं गमयत इति कृत्वा। `टिड्ढाणञ्` [[4.1.15]] इति ङीप्॥", "73007": "`स्वागतिकः` इति। शोभनमागतं स्वागतम्। `तदाहेत्यादौ प्रभूतादिब्य उपसंख्यानम्` (वा।483) इति ठक्। `स्वाध्वरिकः` इति। अत्रापि `चरति` [[4.4.8]] इति ठक्। शोभनोऽध्वरः स्वध्वरः। `स्वाङ्गिः` इत्यादि। `स्वाङ्गिण्र्याडिः` इति। `अत इङ्` [[4.1.95]] । शोभनान्यङ्गान्यस्य स्वङ्गः, विगतान्यङ्गान्यस्य व्यङ्गः, विगतोऽडोऽस्य व्यङः। व्यवहरणं व्यवहारः, भावे घञ्। ननु च व्यवहारशब्दोऽयं क्रमव्यतीहारे वर्तते, तत्र `न कर्मव्यतीहारे` [[7.3.6]] इति प्रतिषेधः सिद्धः, तत्? कस्मादिह पठते? इत्याह - `व्यवहारशब्दोऽयम्` इति। किं पुनर्लौकिकम्? लौकिकं पुनर्वृत्तं येनाचारेण व्यवहाराल्लोके व्यावहारिक इत्युच्यते तद्वेदितव्यम्। `स्वापतेयम्` इति। <<पथ्यतिथिवसतिस्वपतेर्ढञ्>> [[4.4.104]] । कथं पुनरत्र प्राप्तिः, यावता नास्य वकारः पदन्तः? इत्याह - `द्बारादिषु स्वशब्दपाठादस्य प्राप्तिः` इति। तदादिविधिनेत्यभिप्रायः। यता तदादिविधिर्भवति तथा तत्रैवोक्तम्॥", "73008": "`आआभास्त्रिः आआदंष्ट्रिः` इति। ओव भस्त्रा यस्य, शुन इव दंष्ट्रा यस्येति बहुव्रीहिः, उपसर्जनह्रस्वत्वम्। केन पुनः आआदेर्वृद्धिप्रतिषेधः प्राप्नोति; यतोऽयं प्रतिषेध उच्यते, न ह्रस्य वकारः पदानतः? इत्यत आह - `आशब्दो द्रारादिषु पठते` इति। ननु च केवलः आशब्दो द्वारादिषु पठते, तत्र कः प्रसङ्गौ यतस्तदादेः स्यात्! `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इत् तददिविधिर्ति चेत्? नैतदस्ति; सप्तमीनिर्दिष्टै हल्ग्रहणे च सति तदादिविधिर्भवति, न चात्रैतदुभयमस्तीत्यत आह - `तत्र च` इत्यादि। यदि तत्र तदादिविधिर्न स्यात्, तदैतत्? प्रतिषेधवचनमनर्थकं स्यात्; प्राप्त्वभावादित्यभिप्रायः। ज्ञापकसय प्रयोजनम् - शौवादंष्ट्रो मणिरित्यादौ वृद्धिप्रतिषेधः। `इकारादिग्रहणं कर्तव्यम्` इति। इकारादितद्धितो गृह्रते, येन तदिकारादिग्रहणं व्याख्यानं कर्तव्यमित्यर्थः। किमर्थमित्याह - `आआगणिकाद्यर्थम्` इति। आआगणिकादीनामर्थः=प्रयोजनं यस्मस्तत्? तथोक्तम्। अर्थस्तु तेषामादिवृद्धिरेव। तत्रैवं व्याख्यानम् - इञ्ग्रहणमिहेकारादेस्तद्धितस्योपलक्षणार्थम्, तेनान्यत्रापि तद्धिते प्रतिषेधो भवतीति। `तदन्तस्य` इति। इञन्तस्यान्यन्नायीति। कथं पुनरिष्यमाणोऽन्यत्र लभ्यते, यावताऽन्यत्रापि तद्धित उत्पन्न इञः <<यस्येति च>> [[6.4.148]] इति लोपेन भवितव्यम्? नैष दोषः; इञीति नेयं निमित्तसप्तमी, किं तर्हि? परसप्तमी। निमित्तसप्तम्यामण्निमित्ताय वृद्धेः प्रतिषेधस्य प्रतिषेधो न स्यात्। परसप्तम्यां तु यद्यपि लोपः क्रियते, तथापि स्थानिवद्भावात्? प्रतिषेधः सिध्यति। `आआभस्त्रम्` इति। `इञश्च` [[4.2.111]] इत्यण्॥", "73009": "पूर्वेण नित्ये प्राप्ते प्रतिषेधे विकल्प उच्यते। `पदान्तस्य` इति। पदशब्दान्तस्येत्यर्थः। `आआपदम्` इति। शुन इव पदमस्येति आपदः, तस्येदं आआपदम्। `शौवापदम्` इति। <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घः॥", "73010": "अङ्गस्यचामादेरचो वृद्धौ प्राप्तायामिदमुच्यते। ननु च `अवयवादृतौः` [[7.3.11]] इत्यदौ पञ्चमीनिर्देशादन्तरेणाप्युत्तरपदाधिकारं <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्युत्तरपदस्यैव भविष्यति, तत्? किमुत्तरपदाधिकारेण? इतयत आह - `यत्र` - इत्यादि। आदिशब्देन `ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य` [[7.3.19]] , `अनुन्नतिकादीनाञ्च` [[7.3.20]] , `देवताद्वन्द्वे च` [[7.3.21]] - इत्येवमादयो गृह्यन्ते। एषु पञ्चमीनिर्देशाभावादसत्युत्तरपदाधिकारोऽङ्गसयाचामादेरच एव वृद्धिः स्यात्, नोत्तरपदस्य। तस्मात्? तदर्थमुत्तरपदाधिकारः क्रियते।यद्येवम्, इह <<अवयवादृतोः>> [[7.3.11]] इत्येतन्नोपन्यसनीयम्, अत्र पञ्चमीनिर्देशस्य विद्यमानत्वात्? इति चोद्यमाशङ्क्यान्यार्थं क्रियमाणस्य यत्रापि पञ्चमीनिर्देशोऽस्ति, तत्रापि प्रासङ्किकं कार्यंमाह - `पञ्चमीनिर्देशेष्वपि` इत्यादि। प्रयोजनान्तरमपर्याह - `वृद्धेश्च` इत्यादि। उत्तरपदाधिकारे या विहिता वृद्धिरित्येष व्यपदेशो वृद्धेर्यथा स्यादित्यवमक्छञ्चोत्तरपदाधिकारः क्रियते। किं पुनः कारणमेवं वृद्धेरव्यपदेशः प्राथ्र्यते? इत्याह - `उत्तरपदवृद्धौ` इत्यादि। उत्तरपदाधिकारे विहिते वृद्धिमत्युत्तरपदे पूर्वपदस्यान्तोदात्तत्वं यथा स्यादित्येवमर्थम्। `उत्तरपदवृद्धौ सर्वञ्च` [[6.2.105]] इत्यत्रोत्तरपदाधिकारे या विहिता वृद्धिरित्येवं विधायते। एतत्कथं शक्यते विज्ञातुम्? यदि व्यपदेशार्थ उत्तरपदाधिकारः क्रियते, नान्यथा। तस्माद्व्यपदेशार्थश्चोत्तरपदाधिकारः कर्तव्यः॥ बाल-मनोरमाउत्तरपदस्य 1376, 7.3.10 उत्तरपदस्य। अधिकारोऽयमिति। सप्तमे आदिवृद्धिप्रकरणे एतदादिसूत्राणि। बाल-मनोरमानञः शुची�आरक्षेत्रज्ञकुशलनिपुणानाम् 1439, 7.3.10 नञः शुचीआरः। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम्। आशौचम् - आशौचमिति। अशुचेरागतमित्यर्थः। `तत आगत` इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः। उक्त्रपदस्य तु नित्या आदिवृद्धिः। एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः। आनैआर्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ्।", "73011": "`ऋतोः` [नास्ति - मु। पुस्तके] इति। नेदं स्वरूपग्रहणम्, किं तर्हि? अर्थग्रहठणम्। तथा ह्रवययवादित्युच्यते, ऋतोश्चायं एवावयधी भवति। अवयविथ्येनतौ। विज्ञयमानेऽर्थनिर्देशोऽयं विज्ञायते, ततश्चावयववाचिनः पूर्वपदादुत्तरस्यर्त्तुवाचिनः कार्यं विज्ञायत इत्याह - `अवयववाचिनः` इत्यादि। `एकदेशिसमासः` इति। पूर्वापरादिसूत्रेण [[2.2.1]] । ननु ग्रहठणवता प्राप्तिपधेकेन तदन्तविधिः (व्या।प।89) प्रतिषिध्यते, तत्कथं वर्षाहेमन्ताभ्यां प्रत्ययो विधीयमानस्तदन्ताभ्यां लक्ष्यते? इत्याह - `तत्र ऋती वृद्धिमद्विधाववयवानाम्` इति।`पौर्ववर्षिकः` [पौर्ववार्षिकम् - काशिका] इति। पूर्वाश्च ता वर्षाश्चेति विशेषणसमासं कृत्वा भवार्थे तद्धितो विधेयः। पूर्वशब्दोऽत्र कालवाची, न त्ववयववाचीत्यङ्गस्यादिवृद्धिरेव भवतोति। अथात्रापि तदन्तविधिना ठक्? कस्मान्न भवपति? इत्याह - `अवयवपूर्वस्यैव हि` इत्यादि॥", "73012": "`जनपदस्य` इति। नेवं स्वरूपग्रहणम्, उत्तरसूत्रे `अमद्राणाम्` [[7.3.13]] इति निषेधात्। उत्तरसूत्रेहीदमेव जनपदग्रहणमनुवर्तते, ततोऽत्र यदि स्वरूपग्रहणं स्यात्, मद्राणां प्रतिषेधोऽनर्थकः स्यात्, तस्मादर्थस्येदं ग्रहणम्, तेन जनपदवचिनः कार्यं विज्ञायत इत्याह - `सुसर्वार्धं इत्येतेब्य उत्तरस्य जनपदवाचिनः` इत्यादि। `सुपाञ्चालकः` इति। शोभनाः पञ्चाला इति प्रादिसमासः। `सर्वपाञ्चालकः` इति। `पूर्वकालैक` [[2.1.48]] इत्यादिना कर्मधारयः। `अर्धपाञ्चालकः` इति। `अर्ध नपुंसकम्` [[2.2.2]] इत्यर्धशब्देन तत्पुरुषः। सर्वत्र शैषिके जातादावर्थे तद्धितः। कथं जनपदात्? `जनपदतदवद्योश्च` [[4.2.124]] इत्युच्यमानः प्रत्ययस्तदन्ताद्भवति? इत्याह - `सुसर्वार्धदिक्शब्देभ्यः` इत्यादि॥", "73013": "", "73014": "`जनपदस्य` [[7.3.12]] इत्यनुवर्तते, तेन प्राचामित्येतद्देशग्रहणं विज्ञायते न त्वाचार्यग्रहणमिति मात्वाऽऽह - `प्राचां देशे ग्रामाणाम्` इत्यादि। `पुर्वेषुकामशमः` इति। पूर्वा चासाविषुकामशमी चेति <<दिक्संख्ये संज्ञायाम्>> [[2.1.50]] इति समासः, ततो भवार्थे <<दिक्पूर्वपदादसंज्ञायां ञः>> [[4.2.107]] इति। `पूर्वपाटलिपुत्रकः` इति। पूर्वस्मिन्? पाटलिपुत्रे भव इति पूर्ववत्? तद्धितार्थे समासः। <<रोपधेतोः प्राचाम्>> [[4.2.123]] इति वुञ्। ननु चैकमेव पाटलिपुत्रम्, तत्र पाटलिपुत्रान्तरस्य व्यवच्छेद्यस्याभावात्, तत्कथं पूर्वशब्देन पाटलिपुत्रशब्दो विशिष्यते? पाटलिपुत्रैकदेशे पाटलिपुत्रशब्दो वर्तत इत्यदोषः। अथ नगरग्रहणं किमर्थम्, न `ग्रामाणाम्` इत्येवं सिद्धम्, नगरमपि हि ग्रामो भवत्येव; जननिकायनिवासे ग्रामो रूढः, नगरञ्च जननिकायनिवास एव, अतश्च नगरमपि ग्रामः, यतो ये ग्रामे विधयो नेष्यन्ते, नगरेऽपि ते न क्रियन्ते। तथा हि - `अभक्ष्यो ग्राम्यकुक्कुटः`, `अभक्ष्यो ग्राभ्यशूकरः` - इत्युक्ते नागरोऽपि न भक्ष्यते; `ग्रामे नाध्येतव्यम्` इत्युक्ते नगरेऽपि नाधीयते, तस्मान्नगरमपि ग्रामः। एवञ्च कृत्वा - `उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्`, [[4.2.108]] , <<वाहीकग्रामेभ्यश्च>> [[4.2.117]] , `दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु` [[6.2.103]] इत्यत्र ग्रामग्रहणेन नगरग्रहणमपि भवतीत्याह - `ग्रामत्वादेव` इत्यादि। यदि तर्हि नगरमपि ग्रामः, तदा `विशिष्टलिङ्गो नदीदेशोऽग्रामाः` [[2.4.7]] इत्यत्र नगरग्रहणं प्राप्नोति? सत्यमेतत्, तत्र तु नगराणां प्रतिषेधो वक्तव्यः। स एव च सम्बन्धभेदः कुतो हेतोर्भवति, यस्य प्रतिपत्तथे ग्रामनगरयोर्भेदेनोपादानं क्रियते! इत्याह `दिक्पूर्वपदो हि` इत्यादि। यदि हि यथा दिक्पूर्वपदः पूर्वोत्तरसमुदायः पूर्वेषुकामशम्यादिग्र्रामनामधेयम्, तथा नगरनामधेयमपि स्यात्, ततः सम्बन्धो न भिद्येत। यथा च पाटलिपुत्रादिशब्दरूपमुत्तरपदभूतमेव नगरसय वाचकम्, तथा यदि ग्रामनामधेयमपि ग्रामस्य स्यात्, एवमपि सम्बन्धो न भिद्येत? न चैवम्; अन्यादृश एव हि पूर्वोत्तरसमुदयातमको ग्रामवाची शब्दः, अन्यादृशश्चोततरपदात्मको नगरवाची शब्दः। तस्माद्ग्रामनगरयोर्भेदात्? सम्बन्धभेदो भवति। एवं सम्बन्धभेदहेतुं दर्शयित्वा सम्बन्धभेदं दर्शयन्नाह - `तत्र` इत्यादि। `ग्रामवाचिनाम्` इति। पूर्वोषुकमशमीत्येवमादीनाम्। `अवयवस्य` इति। इषुकामशमी-कृष्णमृत्तिकेत्येवमादेः। `दिक्शब्दात्` इति। पुर्वादेः। `इतरत्र तु` इत्यादि। नगरेषु। `देश उत्तरेषां नगराणाम्` इति। अत्र वृद्धिर्भवतीत्यभिसम्बन्धः क्रियत इत्येतदपेक्ष्यते॥ पूर्वेषुकामशन इत्येवमादिषु पूर्वोत्तरपदयोरन्तरङ्गत्वाद्गुणे कृते दिक्शब्दोग्रामश्चोत्तरपदं नास्तीति वृद्धिर्न प्राप्नोति, वृद्धिर्हि तद्धिते कृते तदाश्रयेण भवन्ती बहिरङ्गा भवति। प्रागेव तद्धितोत्पत्तेर्गुणः प्राप्नुवन्नन्तरङ्गो भवति। न च वचनाद्वृद्धिर्भविष्यतीति शक्यते वक्तुम्, यत्र ह्रेकादेशो नास्ति स च वचनस्यावकाशः - पूर्वकार्ष्णमृत्तिक इत्येवमादौ। न चान्ताविवद्भावोऽस्ति; `उभयत आश्रये नान्तादिवत्` (व्या।प।51) इति प्रतिषेधात्। अतोऽत्र पूर्वपदमुत्तरपदञ्चाश्रीयते? इति यश्चोदयेत्, तं प्रत्याह - `पुर्वेषुकामशम इत्येवमादिषु` इत्यादि। यथा <<नेन्द्रस्य परस्य>> [[7.3.22]] इति निर्देशनायमर्थो ज्ञापितः तथा <<अदस औ सुलोपश्च>> [[7.2.107]] इत्यत्र प्रतिपादितः। `ग्रामनगराणाम्` इति बहुवचनं स्वरूपविधिनिरासार्थम्॥", "73015": "`द्विसांवत्सरिकः` इति। पूर्ववत्? तद्धितार्थे समासः। ततः प्राग्वतीयष्ठञ्। `द्विषाष्टिकः, द्विसाप्ततिकः` इति। ननु च <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यत्र कालादिति। [[5.1.77]] वर्तते, न द्विषष्टआदिः कालशब्दः, किं तर्हि? संख्याशब्दः, तत्कथं कालाधिकारविहितं प्रत्ययमुत्पादयति? इत्याह - `द्विषष्टआदिशब्दः` इत्यादि। कालवाचिशब्दस्तत्र कालग्रहणेन गृह्रते, द्विषष्टआदिशब्दो हि यदा वर्षेषु संख्येयेषु वर्तते, तदा कालवाचित्वात्? कालश्ब्दो भवति। ततः कालाधिकारीयं प्रत्ययमुत्यादयति। अथ संवत्सरग्रहणं किमर्थम्, यावतः <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इत्यत्र परिमाणशब्देन परिच्छेदहेतुमात्र गृह्रते, न तु प्रस्थादिवदारोहपरिणाहपरिच्छेदहेतुः, अन्यथा हि शाणप्रतिषेधोऽनर्थकः स्यात्, न हि शाणः परिमाणमारोहपरणाहपरिच्छेदहेतुः, अतः कालोऽपि परिच्छेदहेतुर्भवति, ततश्च सोऽपि परिमाणमिति संवत्सरशब्दस्य `परिमाणस्यासंज्ञाशाणयोः` [[7.3.17]] इत्येव सिद्धम्? इति चोद्यनिरासायाह - `संवत्सरग्रहणम्` इत्यादि। परिमाणग्रहणेन कालपरिमाणस्य ग्रहणं मा भूदित्येवमर्थं संवत्सरग्रहणम्। संवत्सरग्रहणेनासावर्थो ज्ञाप्यते - `परिमाणग्रहणे कालपरिमाणग्रहणं न भवति` इति। ततश्च यत्र परिमाणग्रहणं तत्र कलपरिमाणं न गृह्रते। `तेन` इत्यादिना परिमाणग्रहणे कालपरिमाणस्याग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। `उत्तरपदवृद्धिरन भवति` इति। `परिमाणान्तस्य` [[7.3.17]] इत्यादिना। `द्विवर्षा` इति। द्वे वर्षे भृतो भूतो भावी वा, पूर्ववट्ठक्, तस्य <<वर्षाल्लुक् च>> [[5.1.88]] इत्यनुवर्तमाने <<चित्तवति नित्यम्>> [[5.1.89]] इति लुक्। `पर्युदासो न भवति` इति। ङीप्प्रतिषेधे कर्तव्ये तेन प्रतिषेधः। प्रवर्तत एवेति <<द्विगोः>> [[4.1.21]] इति ङीब्न भवति॥", "73016": "`द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतति दैवार्षिको मनुष्यः` इति। अत्राधीष्टभृतयोस्तद्धित उत्पन्ने भविष्यता प्रतीयते, तस्मात्? तयोरपि प्रतिषेधेन भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - `अधीष्टभृतयोः` इत्यादि। किं पुनः कारणं न भवति? इत्याह - `गम्यते हि` इत्यादि। तत्र यदि शब्दान्तरम्? `द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति` इति प्रयुज्यते, ततो भविष्यत्ता गम्यते, नान्यथा। तस्मान्नासौ तद्धितार्थ इत्यधीष्टभृतयोरभविष्यतीति प्रतिषेधो न भवति। ननु च मनुष्येऽभिधेये <<चित्तवति नित्यम्>> [[5.1.89]] इति ठञो लुका भवितव्यम्, तत्कथं द्विवार्षिको मनुष्य इति सिध्यति? नैष दोषः; न ह्रसावदिशेषेण लुक्, किं तर्हि? विशिष्ट #एव विषये। कथम्? ततर नित्यग्रहणं कर्तव्यम्, पूर्वेणैव सिद्ध आरम्भसामर्थ्यादेव नित्यं लुग्भविष्यतीति, तत्? कृतं विशिष्टे विषये भूते यथा स्यात्, अधोष्टादी मा भूदित्येवमर्थम्। तेनाधीष्टादौ <<वर्षाल्लुक् च>> [[5.1.88]] इति विभाषैव लुग्भवति॥", "73017": "संज्ञायाः परत्वं न सम्भवतीत्यतः संज्ञाशाणयोरिति विषयसप्तमीं दर्शयन्नाह - `संज्ञायां विषये` इत्यादि। `शाणे चोत्तरपदे` इति। विषय इत्यपेक्षते। यद्यप्युत्तरपदस्य[यद्युत्तरपदस्य - मुद्रित पाठः] शाणस्य परत्वमुपपद्यते, तथापि दुर्घटमेकस्याः सप्तम्या विषयसप्तमीत्वम्, परसप्तमीतवञ्चेति। तेन शाणशब्दमप्युत्तरपदं प्रति विषयसप्तम्येषा युक्ता। `द्विकौडविकम्` इति। `प्राग्वतेष्ठञ` [[5.1.18]] । अनार्हीयत्वाच्च प्रत्ययस्य `अध्यर्थपूर्वद्विगोः` [[5.1.28]] इति लुग्न भवति। `द्विसौवर्णिकः` [द्विसौवरणिकम् - काशिका] इति। स एव प्रत्ययः। कथं पुनरत्र वृद्धिः, यावता परिमाणान्तस्येत्युच्यते, सुवर्णञ्च गुरुत्वमानादुन्मानम्, न परिमाणमिति? नैव दोषः; आचार्यप्रवृत्तिज्र्ञायति - `गुरुत्वपरिमाणमपीह परिच्छेदहेतुत्वात्? पूरिमाणं गृह्रते` इति; यदयम्? `असंज्ञाशाणयोः` इति शाणप्रतिषेधमारमते। अथ `अध्यर्धपूर्व` [[5.1.28]] इति लुक्कस्मान्न भवति? इत्याह - `विभावा` इत्यादि। `द्विनैष्किकम्` इति। `असमासे निष्कादिभ्यः` (5।120) इति ठक्। `पाञ्चलोहितिकः` [पाञ्चलोहितिकम् - काशिका] इति। तस्मिन्नेव ठकि कृते `भस्याढे तद्धिते` (वा।731) इति पुंवद्भावेन `वर्णादनुदात्तात्, तोपधात्? तो तः` [[4.1.39]] इत्यनेन विहितयोर्ङीब्नकारयोर्निवृत्ति। `द्वैकुलिजिकम्` [द्वैकुलिजिकः - काशिका] इति। प्राग्वतीयष्ठञ्च॥", "73018": "`संख्यायाः` [[7.3.15]] इति निवृत्तम्। ``जे` इति जातार्थो निर्दिश्यते` इति। जातशब्दैकदेशस्य `जे` इति, तस्यायं प्रयोगः। भवति हि पदैकदेशस्यापि प्रयोगः, यथा - भोमो भीमसेनः, सत्यभामा भामेति। तस्माज्जातशब्दस्यैकदेशस्य प्रयोगेण जातार्थो निर्दिश्यत इति विज्ञेयम्। `प्रोष्ठपदासु` इति। `लुपि युक्ततवद्व्यक्तिवचने` [[1.2.51]] इति युक्तवदभावः। `भद्रयादाः` इति। भद्रपदेन युक्तः काल इति अणादिकार्यं पूर्ववद्विधेयम्॥", "73019": "`सौहार्दम्` इति। तस्येदम्` [[4.3.120]] इत्यण्। यदा सुह्मदयशब्दादण्, तदा <<हृदयस्य हृल्लेखयदण्लासेषु>> [[6.3.50]] इति ह्मद्भावः। `सौहाद्र्यंम्` इति। <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इति ष्यञ्, <<वा शोकष्यञ्रोगेषु>> [[6.3.51]] इति ह्मद्भावः। `सौभागिनेयः, दीर्भागिनयः` इति। `कस्याण्यादीनामिनङ च` [[4.1.126]] इति ढकि कृत इनङादेशः। `सक्तुसिन्धवः` इति। शापकपार्थिवादित्वान्मध्यमपदलोपो समासः। `साक्तुसैन्धवः` इति। ओर्देशे [[4.2.118]] ठञि प्राप्ते <<कच्छादिभ्यश्च>> [[4.2.133]] इत्यण्। ननु च केवलस्तत्र सिन्धुशब्दः पठते, कथं तदन्ताद्भवति? इत्याह - `तेन` इत्यादि। कथं पुनस्तेन सिन्धुशब्देन तदन्तविधिर्लभ्यते, यावता `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति` (व्या।प।89) इति तदन्तविधिः प्रतिषिध्यते? नैष दोषः; चकारस्तत्रानुक्तसमुच्चयार्थः, तेन सिन्धुशब्दात्? तदन्तादपि भवति॥", "73020": "`अनुशतिक` इति। शतेन क्रीतः - <<शताच्च ठन्यतावशते>> [[5.1.21]] इति ठन् - शतिकः, अनुगतः शतिकेनानुशतिकः, ततः <<तस्येदम्>> [[4.3.120]] इत्यण्। आनुशातिकम्, आनुहौडिकम्` इति। `चरति` [[4.4.8]] इति ठक्। `आनुसांवत्सरिकम्` इति। `तत्र च दीयते कार्यं भववत्` [[5.1.96]] इत्यतिदेशात्? `बह्वचोऽन्तोदात्तात्` [[4.3.67]] इति ठञ्। `आङ्गारवैणवः` इति। <<तस्यापत्यम्>> [[4.1.92]] इत्यण्। `आसिहात्यम्` इति। <<तत्र भवः>> [[4.3.53]] इत्यण्। `आस्यहात्यम्` इति। <<विमुक्तादिभ्योऽण्>> [[5.2.61]] । `आस्यहैतिकम्` इति पाठे `तदस्य प्रयोजनम्` [[5.1.108]] इति प्राग्वतीयष्ठञ्। ननु च प्रातिपदिकादिति वर्तते, अस्यहत्यास्यहेतिश्च पदसमुदायोऽयम्, न प्रातिपदिकम्, तत्कथमतः प्रत्ययः? सत्यपि वा प्रत्यये कथं विभक्तेरलुक्? इत्याह - `अत एव` इत्यादि। `वाध्यौगः` इति। `अनुष्यानन्तर्ये बिदादिभ्योऽञ्` [[4.1.104]] । `पौष्करसादिरानुहारतिः` इति। <<बाह्वादिभ्यश्च>> [[4.1.96]] इतीण्। `कौरुकात्यम्` [कौरुकात्यः - काशिका] इति। गरगादित्वादयञ्। `कौरुपाञ्चालः` इति। <<तत्र भवः>> [[4.3.53]] इत्यण्। ननु च जनपदशब्दा <<जनपदतदवध्योश्च>> [[4.2.124]] इति वुञा भवितव्यम्! इत्यत आह - `जनपदसमुदायो जनपदग्रहणेन` इत्यादि। कुरुपञ्चालशब्दो हि जनपदमुदायवचनः, न च जनपदसमुदायो जनपदग्रहणेन गृह्रत इति कुतो वुञ्प्रसङ्गः? `औदकशौद्धिः` इति। `अत इञ्` [[4.1.95]] ।`ऐहलौकिकः, पारलौकिकः` इति। `लोकोत्तरपदस्य` [लोकोत्तरपदाच्च - इति वर्तिकम्](वा।459) इति ठञ्। एतत्? `समानस्य तदादेश्च` इत्येवमादिकायां कारिकायामियमिष्टिरिति पठते। `सार्वलौकिकः` इति। <<लोकसर्वलोकाट्ठञ्>> [[5.1.44]] । `सार्वपौरुषम्` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। `सार्वभौमः` इति। <<सर्वभूमिपृथिवीभ्यामणञौ>> [[5.1.41]] इत्यण, अञ्चा। `प्रायौगिकः` इति। अध्यात्मादित्वात्? (वा।456) ठञ्। `पारस्त्रैणेयः` इति। `कुलटाया व` [[4.1.127]] इतीनङ्। तत्र <<स्त्रीभ्यो ढक्>> [[4.1.120]] <<कल्याण्यादीनामिनङ्>> [[4.1.126]] इत्यनुवर्तते। `राजपौरुष्यम्` इति। ब्राआहृणादित्वात्? [[5.1.123]] ष्यञ्। `सौत्रनाडिः` इति। `अत इञ्` [[4.1.95]] `आभिगामिकः` इति। अभिगममर्हतीत्यार्हीयष्ठक्? [[5.1.62]] । `आधिदैविकम्, आधिभौतिकम्` इति। भवार्थेऽध्यात्मादित्वात्? (वा।456) ठञ्। `चातुर्वेद्यम्` इति। ष्यञ्। स्वार्थिको वक्तव्यश्चातुर्वण्र्यादिसिद्ध्यर्थमिति स्वार्थं एव ष्यञ्॥", "73021": "`आग्निमारुतीम्` इति। अग्निश्च मरुच्चेति द्वन्द्वः, तौ देवते अस्याः - <<सास्य देवता>> [[4.2.24]] इत्यण्; ततः पूर्वोत्तरयोर्वृद्धिः, <<इद्वृद्धौ>> [[6.3.28]] इत्यग्निशब्दस्यानङ्विषय इकारादेशः, `टिड्ढाणञ्` [[4.1.15]] इति ङीप्। `यो देवताद्वन्द्वः सूक्तसम्बन्धी इत्यादि। यः सूक्तं भजते स सूक्तसम्बन्धी, यस्मै हविर्निरूप्यते स हविः सम्बन्धीति। अर्थद्वारकं चेदं द्वन्द्वस्य विशेषणम्। `इह च न भवति` इत्यादि। कथं पनः सामान्योक्तो सत्यामयं विशेषो लभ्यते? एवं मन्यते - <<नेन्द्रस्य परस्य>> [[7.3.22]] इत्यतर नेति योगविभागः कर्तव्यः, तेन सूक्तसम्बन्धिनो हविःसम्बन्धिनश्चान्यत्र न भवतीति। `स्कान्दविशाखः` इति। <<तस्येदम्>> [[4.3.120]] इत्यण्। `ब्राआहृप्रजापत्यम्` इति। `दित्यदित्यादित्यपत्यत्तरपदाण्ण्यः` [[4.1.85]] ।", "73022": "`सैमेन्द्रः, आग्नेन्द्रः` इति। <<सास्य देवता>> [[4.2.24]] इत्यण्, `देवताद्वन्द्वे च` [[7.3.21]] इत्यानङादेशः, पूर्वपदस्याद्गुणः। `ऐन्द्राग्नम्` इति। अत्रापि पूर्ववदणादिकार्यम्। `इन्द्रशब्दे द्वावचौ` इत्यादि। प्रागेवोक्तत्वात्? सुबोधम्॥", "73023": "`ऐन्द्रावरुणम्, मैत्रावरुणम्` इति। `देवताद्वन्द्वे च` [[7.3.21]] इत्यानङि कृते दीर्घात्? परो वरुणशब्दः॥", "73024": "यद्यत्र प्राचामित्यत्राचार्यग्रहणं स्यात्, ततश्चोत्तरसूत्रे [[7.3.26]] `विभाषितम्` इति न ब्राऊयात्ेतदेव विकल्पार्थं प्राचांग्रहणं तत्रानुवर्त्तिष्यते। तस्माद्देशग्रहणं विज्ञायते इत्याह - `प्राचां देशे` इत्यादि। नगरग्रहणेनेह स्वरूपग्रहणम्; <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इति वचनात्॥", "73025": "`उत्तरम्` इत्यनेनोत्तरपदं लक्ष्यते; तस्य चोत्तरपदस्य नित्यं सन्निधानात्? विभाषितत्वं नोपपद्यते। तस्मात्? तत्सम्बन्धिन्या वृद्धेर्विभाषितत्वात्? `विभाषितम्` इत्युक्तम्। अत एवाह - `उत्तरपदस्य विभाषा भवति` इति। वृद्धिरिति प्रकृतेन सम्बन्धः॥", "73026": "`आर्धद्रौणिकम्` इति। `अर्थं नपुंसकम्` [[2.2.2]] इति समासः, <<प्राग्वतेष्ठञ्>> [[5.1.18]] । अथ वावचनं किमर्थम्, न विभाषितमिति [[7.3.25]] पूर्वसूत्रादनुवर्तष्यते, उत्तरमित्यनेन तत्? सम्बद्धम्, अतस्तदनुवृत्तावृत्तरपदस्यैव विकल्पः स्यादिति चेत्? नैतदस्ति; उततरपदमित्येतन्न स्वरिष्यते, तुशब्दश्चेह क्रियते, स नियमर्थो भविष्यति - पूर्वस्यैव भवति, नोत्तरस्येति। एवं तह्र्रकयोगे स्वरतत्वकरणाकरणाद्धि वावचनमेव लधीय इति पुनर्वावचनं क्रियते॥", "73027": "पूर्वेण परिमाणस्य वृद्धिरुच्यमाना अकारस्याचमादेः प्राप्नोतीति प्रतिषिध्यते। पूर्वपदस्य तु विकल्पो भवत्येव; पूर्वस्य त्वित्यनुवृत्तेः। `आर्धप्रस्थिकः` इति। `अर्धं नपुंसकम्` [[2.2.2]] इति समासः, पूर्ववत्? प्रत्ययः।`किञ्च स्यात्` इति। एवं मन्यते - आकारो हि वृद्धिमानेव, ततर नास्ति विशेषः सत्यसति वा वृद्धिपरतिषेधे, तदेव रूपम्, अतोऽसत्यपि तपरकरणे नैव किञ्चिदनिष्टमापद्यत इति। `वृद्धिनिमित्तस्य` इत्यादि। यसति तपरकरणे तत्कालार्थे यदनिष्टमापद्यते तद्दर्शयति। किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात्? इत्यत आह - `यत्र हि` इत्यादि। वृदिंध कुर्वन्नेव हि तद्धितो वृद्धिनिमित्तं भवति। तस्माद्यत्र तद्धिते वृद्धिप्रतिषेधः क्रियते स वृद्धेनिमित्तं न भवति। तेन वृद्धिनिमित्तस्य तद्धितस्य पुंवद्भावो न प्रतिषिध्यत इति पुंवद्भावः स्यात्। क्व? `यथा` इत्यादि। `वैयाकरणी भार्याऽस्य` इति। वृद्धिप्रतिषेधः पुनरत्र `न य्वाभ्याम्` [[7.3.3]] इत्यादिना। अथ परस्येति किमर्थं, पूर्वस्य मा भूदिति? नैतदस्ति; अत इति विशेषणोपादानसामर्थ्यात्? पूर्वस्य न भविष्यति। न हि पूर्वस्यार्धशब्दस्यातोऽन्यो वृद्धिमाक्? सम्भवति, `पूर्वस्य तु वा` [[7.3.26]] इति च विकल्पशासनमनर्थकं स्यात्, यदि तस्य प्रतिषेधः स्यात्। इदं तर्हि प्रयोजनम् - तदन्तविधिर्मा भूदिति? तदन्तदिधौ सतीहापि प्रतिषेधः स्यात् - अर्धद्रौणिकमिति। पूर्वस्तु विधिः - अर्धेन मुष्टिना क्रोतमर्धमौष्टिकम्, आर्धमौष्टिकमित्येवमर्थः स्यात्, परग्रहणे तु सति यदर्धात्? परमनन्तरं तदेवाश्रितं भवतीति नास्ति तदन्तविधिप्रसङ्गः॥", "73028": "प्रवाहणशब्दस्य ढे प्रत्यये परत उत्तरपदस्येति व्यधिकरणे षष्ठ्यौ। प्रवाहणशब्दसय यदुत्तरपदमवयवस्तस्येत्यर्थः। `प्रवाहणेयः` इति। वहेः प्रपूर्वाण्णिच् - प्रवाहयतीति प्रवाहणः। णिजन्तात्? <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कर्तरि ल्युट्, प्रादिसमासः, <<णेर्विभाषा>> [[8.4.30]] इति णत्वम्, ततोऽपत्यार्थे ढक्। किमर्थं पुनरुत्तरपदस्य वृद्धिर्विधीयते, यावता वृद्धिमवेवैतत्? यदप्येवम्, तथापि वृद्धिरविधातव्या; तद्धितस्य वृद्धिनिमित्तत्वात्, <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इति पुंवद्भावप्रतषेधो यथा स्यात्। यदि ह्रुत्तरपदवृद्धिर्न विधीयते, ततो यस्मिन्? पक्षे पूर्वपदे वृद्धिर्न विधीयते तस्मिन्? पक्षे प्रवाहणेयी भार्या अस्येति प्रवाहणेयीभायं इत्यत्र पुंवद्भावप्रतषेधो न स्यात्; वृद्धेरनिमित्तत्वात्? तद्धितस्य। यथा - वैयाकरणभायं इत्यत्र। ननु चासत्यपि वृद्धिनिमित्तत्वे तद्धितस्य` <<जातेश्च>> [[6.3.41]] इति पुंवद्भावप्रतिषेधो भविष्यति, अस्ति ह्यत्रापि `गोत्रं च चरणैः सह` (म।भा।2।225) इति जातित्वम्? एवं तर्हि एतज्ज्ञापयति - अनित्योऽयं प्रतिषेध इति। तेन हस्तिनीनां समूहो हास्तिकमित्यत्र `भस्याढे तद्धिते` (वा।731) इत्यौपसंख्यानिकस्य पुंवद्भावस्य प्रतिषेधो न भवति॥", "73029": "`प्रावाहणेयिः` इति। `अत इञ्` [[4.1.95]] । `प्रावाहणेयकम्` इति। `गोत्रचरणादषुञ्` [[4.3.126]] । अथ किमर्थमिदमुच्यते, यावता ढप्रत्ययन्तस्य प्रवाहणेयशब्दस्योत्तरपदं नित्यं वृद्धिमदेदेति, तदर्थस्तावदारम्भो न युक्तः; पूर्वपदस्य वृद्धेर्विकल्पो यथा स्यादित्येवमर्थोऽपि नैवास्यारम्भो युज्यते; इञादावपि तद्धिते तन्निमित्तां वृदिंध बाधित्वा पूर्वसूत्रेण च निमित्त एव विकल्पो भविष्यति, न हीञादावुतपन्ने तद्धिते ढस्य परत्वमपैति? इत्याह - `बाह्रतद्धित` इत्यादि। बाह्रतद्धिनो निमित्तं यस्याः सा तथोक्ता। बाहृत्वं पुनरित्रदेस्तद्धितस्य प्रावाहणेयशब्देऽनन्तर्भावात्। सैवं बाह्रं तद्धितं निमित्तमाश्रित्य भवन्ती बहिरङ्गा। प्रागेव तु ब्राआहृतद्धितोत्पत्तेर्ढाश्रयो विकल्पो भवन्नन्तरङ्गस्तां बाधितुं न शक्नोति। ततश्च यदीदं नारभ्येत तदा स्यादेव। तस्माद्विकल्पार्थमिदमारभ्यते॥", "73030": "उदाहरणान्युत्तरत्र व्युत्पादयिष्यन्ते। `अत्र केचदहुः` इत्यादि। ग्रहणकवाक्यम्। अस्य `न नञ्पूर्वात्? तत्पुरुषात्` इति विवरणम्। `न नञ्पूर्वात्? तत्पुरुषात्` [[5.1.120]] इति त्वतल्भ्यामन्यो भावप्रत्ययः प्रतिषेध्यते, तत्रोत्तरं भावप्रत्ययमिच्छता शूच्यादिभ्य एव, न तु नञ्समासेभ्य उत्तरो भावप्रत्ययः कर्तव्यः। तस्मिन्? कृते पश्चान्नञ्समासः, ततश्चाङ्गस्यामादेरचो विधीयमाना वृद्धिर्न प्राप्नोति। न हि पूर्वं भावप्रत्यये कृते पश्चान्नञ्समासे नञ्? अङ्गसयाचामादिर्भवति, उत्तरपदस्यैवाङ्गत्वात्; उच्यते चेदं वचनम्, तत्र वचनसामर्थ्यादङ्गस्यापि वृद्धिर्भवति।`तदपरे` इत्यादि। यदुक्तमियं पूर्वपदस्य वृद्धिरप्राप्तैव विभाष विधीयत इति, तदपर आचार्या न क्षमन्ते। किं कारणम्? इत्याह - `भाववचनादन्योऽपि हि` इत्यादि। एवकारो भिन्नक्रमो विद्यत इत्यस्यानन्तरं द्रष्टव्यः। यदि नञ्समासादपत्यादिष्वर्थेषु वृद्धिनिमित्तं भाववचनादपरस्तद्धितो न विद्येत, एवं बहुव्रीहेश्च नञ्समासाद्भाववचनादन्योऽपि न विद्येत; ततो युज्यतेऽशुच्चादिशब्दानामनङ्गत्वादङ्गाधिकारोपमर्दनेन वृद्धिवचनस्याकृतार्थत्वात्। न त्वेतदेवम्; विद्यत एव ह्रन्योऽपत्यादिव्वर्थेषु नञ्समासाद्वृद्धिनिमित्तस्यद्धितः - अकुशलस्यापत्यमाकौशलिः, अकुशलस्येदमाकौशलमिति। बहुव्रीहेश्च नञ्समासाद्भाववचनोऽपि विद्यत एव - नास्य शुचयो विदयन्त इत्यशुचिः, तस्य भावः, <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इत्यण् - आशौचम्। यत एवमन्योऽपि भाववचनात्? तद्धितो नञ्समासाद्धिद्यते, वृद्धिनिमित्तको बहुव्रीहेश्च नञ्समासाद्भाववचनोऽपि विद्यते; तस्मात्? तत्र कृतार्थत्वाद्वचनस्याङ्गाधिकारबाधनं च युच्यते।यदप्युक्तम् - `न नञ्पूर्वात्? तत्पुरुषादित्यृत्तरो भावप्रत्ययः एव`(इति), तदप्ययुक्तमिति दर्शयन्नाह - `अक्षेत्रज्ञोऽनीआरः`[`अक्षेत्रज्ञानीआरौ` - काशिका] इत्यादि। एतौ हि द्वौ शब्दौ बाहृणादिषु तत्पुरुषावेव पठएते, तेनाभ्यां तत्पुरुषाभ्यामेव ष्यञ्? भवति, अन्यथा हि ब्राआहृणादिष्वनयोः पाठस्य वैयथ्र्यं स्यात्। तस्मादङ्गस्यैवेयं वृद्धिर्नित्यं प्राप्ता सती भावप्रत्यये, अन्यत्र च तद्धिते विकल्पेन विधीयते यथायोगम्। ततराशौचमिति यदि तत्पुरुषः क्रियते - न शुचिरशुतचिः, तदा <<तस्येदम्>> [[4.3.120]] इत्यणि कृते वृद्धिः; अथ बहुव्रीहिः - नास्ति शुचिरस्येन्यशुचिः, ततो यदि भावार्थो विवक्ष्यते तदा <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इत्यण्; अथ <<तस्येदम्>> [[4.3.120]] इत्यर्थो विवक्ष्यते, तदा `प्राग्दीवयतोऽण्` [[4.1.83]] इत्यण् - आनैआय्र्यम्, आक्षैत्रज्ञ्यमिति। तत्पुरुषाभ्यां ब्राआहृणादित्वात्? व्यञि कृते वृद्धिः। आकीशलमानैपुणमिति यदि बहुव्रीहिरयापि तत्पुरुषः, उभयथापि <<तस्येदम्>> [[4.3.120]] इत्यणेव। यद्यपि कुशलनिपुणशब्दौ ब्राआहृणादिषु युधादिषु च पठएते तथापि तदन्तात्? तत्पुरुषाद्वहुव्रीहेरपि भावप्रत्ययो नोपपद्यते; तदन्तविधेरभावात्।", "73031": "`ब्राआहृणादिषु नञ्समासावेतौ द्रष्टव्यौ` इति। तेन नञ्समासाभ्यां ष्यञ्? भवतीति भावः। `एतौ` इति। यथातथा - यथापुरशब्दौ। ``यथाऽसावृश्यते` इत्यव्ययीभावसमासौ` इति। ननु च `असादृश्य` [[2.1.7]] इति प्रतिषेधः प्राप्नोति? नैष दोषः; न ह्यत्र सादृश्यं गम्यते। तथा हि - यथातथमिति सत्यमुच्यते, यथा - पुरमिति पुरातनम्। कथं पुनज्र्ञायतेऽवययीभावसमासौ? इत्याह - `तथा हि` इत्यादि। अत्र हि `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति नपुंसकाश्रय ह्रस्वत्वं कृतम्। नपुंसकत्वं चाव्ययीभावस्य विहितम्, तस्मादव्ययीभावसमासाविति ज्ञायते। `भाष्ये तु` इत्यादि। अयथातथाभाव इति ह्रस्वत्वमकृत्वा वाक्यं यथा दर्शितां तथा `सुप्सुपा` [[2.1.4]] इति समासो लक्ष्यते नाव्ययीभावः। अव्ययीभावे हि नपुंसकाश्रयं ह्रस्वत्वं स्यात्। अस्मस्तु पक्षे सौत्रत्वान्निर्देशस्य - `छन्दोवत्सूत्राणि भवन्ति` (म।भा।) इति वर्णव्यत्ययेन दीर्घस्य स्थाने ह्रस्वो वेदितव्यः॥", "73032": "`तद्धितेष्विति निवृत्तम्` इति। अस्वरितत्वात्। `तत्सम्बद्धं कितीत्यपि` इति। निवृत्तमित्यपेक्षते। तत्सम्बद्धत्वं पुनस्तस्य `किति च` [[7.2.118]] इत्यत्र `तद्धितेषु` [[7.2.117]] इत्यनुवृत्तेः। यदि पुनः कितीत्यनुवर्तत, ततो लक्षणे `जायापत्योष्टक्` [[3.2.52]] `अमनुष्यकर्त्तृके च` [[3.2.53]] इति टकि कृते - जायाध्नस्तिलकालक इत्यत्रापि स्यात्। ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्। अतः `तद्धितेषु` [[7.2.117]] इत्येतस्मिन्? निवृत्तेऽपि तदनुवर्तत एव। `घातयति` इति। हेतुमण्णिच्। `हौ हन्तेर्ञ्णिन्नेषु` [[7.3.54]] इति कृत्वम्। `घातकः` इति। ण्दुल। `साधुघाती` इति। <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति णिनिः। `घातंघातम्` इति। `आभीक्ष्ण्ये णमुल्? च` [[3.4.22]] , `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `घातः` इति। भादे घञ्? [[3.3.18]] । `अधानि` इति। लुङ्, `चिण्? भावकर्मणोः` [[3.1.66]] इति चिणादेशश्च; `भावकर्मणोः [[1.3.13]] इत्यात्मनेपदम्, <<चिणो लुक्>> [[6.4.104]] इति तकारस्य लुक्। `जघान` इति। लिट्, तिप्, तस्य णल्, <<अभ्यासाच्च>> [[7.3.55]] इति कुत्वम्-घकारः। अथेह कस्मान्न भवति - वृत्रं हतवानिति। `ब्राहृभ्रूणवृत्रेषु क्विप्` [[3.2.87]] , तदन्तात्? <<तस्येदम्>> [[4.3.120]] इत्यण्, <<षपूर्वहन्धृतराज्ञामणि>> [[6.4.135]] इत्यल्लोपः - वात्र्रध्नः, भ्रौणध्नः? इत्याह - `धातोः` इत्यादि। धातोरित्येवमुच्यार्य यो विहितः प्रत्ययः स धातुप्रत्ययः। धातौः कार्यमुच्यमानं तत्रैव धातुप्रत्यये भवति। एतच्च भौणहत्यमिति निपातनेन [[6.4.174]] ज्ञापितम्। तेन वात्र्रध्नः, भ्रौणध्न इत्यादौ न भवति। न ह्यत्र धातोरित्येवं प्रत्ययो विहितः, किं तर्हि? प्रातपदिकादित्त्येवम्॥", "73033": "`चिणि कृति च` [`च` नास्ति - काशिका] इति। चिण्ग्रहणमकृदर्थम्। अकृत्त्वं तु तस्य द्वितीयधात्वधिकारेऽविहितत्वात्। `अदायि, अधायि` इति। ददातिदधात्योः पूर्ववल्लुङादिकार्यम्। `दायः, धायः` इति। धञ्। `दायकः, धायकः` इति। ष्वुल्। `ददौ, दधौ` इति। <<आत औ णलः>> [[7.1.34]] इत्यौत्वम्। `चौङिः, बालाकिः` इति। चूडाबलाकाभ्यां बाह्वादीञ्। अचामादेरित्यनुवृत्तेरत्र न भविष्यतीति यो मन्येत, तं प्रत्युदाहरणान्तरमाह - `ज्ञा देवता अस्येति ज्ञः` (इति)। <<सास्य देवता>> [[4.2.24]] इत्यण्। अत्र व्यपदेशिवदभावेनाचामादिराकारो भवति। अत्रासति चिण्कृद्ग्रहणे सत्यामप्यचामादेरित्यनुवृत्तौ स्यादेवात्र युक्। `व्यपदेशिवदभावोऽप्रातिपदिकेन` (शाक।प।65) इत्येतच्च प्रत्ययवधिविषय एव ह्रुक्तम्॥", "73034": "`अशमि, अतमि, अदमि` इति। `शमु उपशमे` (धातुपाठः-1201), `तमु काङक्षायाम्` (धातुपाठः-1202), `दमु उपशमे` (धातुपाठः-1203), लुङादि पूर्ववत्। `शमकः` इत्यादौ ण्वुल्। `शमः` इत्यादौ घञ्। `यामकः, रामकः` इति। `यम उपरमे` (धातुपाठः-984), `रमु क्रीडायाम्` (धातुपाठः-856)। अनुदात्तोपदेशावेतौ। अथ कथमुद्यमोपरमौ? इत्याह - `उद्यमोपरमौ` इत्यादि। `अनुगन्तश्यौ` इत्यादि। साधुत्वेनेति शेषः। निपातनादेतो साधुत्वेन वेदितव्यावित्यर्थः।`शमी, तमी, दमीत्यत्र यथा स्यात्` इति। शमादिभ्यः `शमित्यष्टाभ्यो धिनुण्` [[3.2.141]] । असत्युपदेशग्रहणेऽत्र न स्यात्; प्रत्ययस्वरे कृते धातोरनुदात्तत्वात्। उपदेशग्रहणे तु सति तेनाद्यवस्था लक्ष्य इति यद्यप्युततरकालमनुदात्तत्वं भवति, तथापि भवत्येव प्रतिषेधः; उपदेशावस्थायामुदात्तत्वात्। `इह` इत्यादि। यद्युपदेशग्रहर्ण न क्रियते, ततो यामकः, रामक इत्यत्रापि स्यात्; `लिति` [[6.1.193]] इति प्रत्ययात्? पूर्वस्योदात्तत्वविधानात्। उपदेशग्रहणे तु न भवति; उपदेशेऽनुदात्तत्वात्। `अनाचमिकमिवमीनामिति वक्तव्यम्` इति। `कमु कान्तौ` (धातुपाठः-443), `टुवम उद्गिरर्णे` (धातुपाठः-849), `चम छमु, चमु, झमु अदने` (धातुपाठः-469,470,471,472) एषां त्रयाणां धातुनां प्रतिषेधो न भवतोत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - चमेस्तावदनाचमेरिति सूत्र एवोपादानात्? प्रतिषेधो न भवतीति। इतरयोस्तु `धामदेवाङ् डडडऔ` [[4.2.8]] , <<धनहिरण्यात् कामे>> [[5.2.65]] इति निपतनादिति। अथ कथमामः? इत्याह - `आम ति चौरादिकस्य` इत्यादि। `अम रोगे` (धातुपाठः-1720) इत्यस्य चौरादिकस्य णिचि वृद्धौ, `एरच्` [[3.3.56]] इत्यचि कृते-आम इति। न हि णिच्यपि वृद्धेः प्रतिषेधो भवति; तस्याचिण्कृत्त्वात्। अकृत्त्वं तु पूर्ववद्वेदितव्यम्। ननु `जनीजृष्क्ससुरञ्जोऽमन्ताश्च` (धातुपाठः-817 अनन्तरम्? ग।सू।) इति मित्संज्ञायां सत्याम्? `मितां ह्रस्वः` [[6.4.92]] इत्यनेनेह णौ भवितव्यम्? इत्यत आह - `अत्र हि भित्त्वं नास्ति` इति। कथं नास्ति? इत्याह - `नान्ये` इत्यादि। यस्तु भ्वादिः `अम गत्यादिषु` (धातुपाठः-465) पठते, अम इत्येवं तस्य भवितव्यम्। अथ कथं विश्राम इति, न चायमसाधुरिति शक्यते वक्तुम्, यतः `सूर्यविश्रामा भूमिः` इति प्रयोगो द#ऋश्यते? इत्याह - `एवमादिकं प्रयोगम्` इत्यादि॥", "73035": "वधिरयं हनादेशोऽस्ति, तस्यैदं ग्रहणमिति कस्यचिदाशङ्का स्यात्, अतस्तां निराकर्त्तुमाह - `वधिः प्रकृत्यन्तरम्` इत्यादि। प्रकृत्यन्तरमपि भवन्? यदयकारान्तः स्यात्, अनर्थकः प्रतिषेधः स्यात्, धोपधत्वादेव न वृद्धिर्भवतीति मत्वाऽऽह - `व्यञ्जनान्तस्य` इति। कुतः पुनर्विधिः प्रकृत्यन्तरमस्तीत्येतदवसितम्? इत्याह - `भक्षकश्च` इत्यादि। अथ हनादेशस्यैव वधेरयं प्रतिषेधः कस्मान्न भवति? इत्याह - `हनादेशस्य` इत्यादि। `जजान गर्भम्` इत्यादि। छान्दसः प्रयोगः॥", "73036": "अर्तीति श्तिता निर्देशः। ऋकारान्तस्य ग्रहणं मा विज्ञायीति, यथा - <<ऋदृशोऽङि गुणः>> [[7.4.16]] इति। `अर्पयति` इति। हेतुमण्णिच्, `पुगन्तलघूपधस्य` [[7.3.86]] इति गुणः। `ह्येपयति, व्लेपयति` इति। `ह्री लज्जायाम्` (धातुपाठः-1085) `व्लो वरणे (धातुपाठः-1502)। `क्नोपयति, क्ष्मापयति` इति। `क्नूयो शब्दे` (धातुपाठः-4।85), `क्ष्मायी विधूनने` (धातुपाठः-486)। <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः। `द्वयोरपि धात्वोग्र्रहणम्` इति। विसेषाभावात्। रोत्येतस्यापि `री गतिशोषणयोः` (धातुपाठः-1500), `रोङ्? श्रवणे` (धा।प।1138) - इति द्वयोरपि ग्रहणमित्यपेक्ष्यते। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति रीङो ग्रहणं न प्राप्नोति? नैष दोषः; अत्र ह्रल्पाच्तरत्वात्? ह्रोव्ल्यातामन्यतमस्य पूर्वनिपाते कर्तव्ये `अल्पाच्तरम्` [[2.2.34]] इत्येतदनपेक्ष्यार्त्तिशब्दस्य पूर्वं निपातं कुर्वताऽन्यदपि किञ्चिदिह शास्त्रवचनं नापेक्ष्यत इत्येतत्? सूचितम्। तेन निरनुबन्धकपरिभाषा नापेक्ष्यत इति रीङोऽपि ग्रहणं भवति। अथ किमर्थं पुनः पुक् पूर्वान्तः क्रियते, न परादिरेव पुङ्? विधीयताम्; पुटि सति गुणविधौ पुगन्तग्रहणं न कर्तव्यं भवति, <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्येवं सिद्धत्वात्? पुटि; अवश्यं पुड्ग्रहणं कर्तव्यम्, अन्यथा हि <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः स्यादिति चेत्? नैतदस्ति; नाप्राप्ते णिचो वृर्द्धि प्रति निमित्तत्वे पुटं प्रत्यागमित्वमुच्यत इत्युत्तरस्य बाधकं भविष्यतीति नास्ति वृद्धेः प्रसङ्गः। अयं तर्हि परादौ दोषः - दाप्यते, दाप्यत इति - अत्र णेर्लोपेनापह्मतत्वात्? पकारस्य श्रवणं न स्यादिति? एषोऽप्यदोष-; न हि णिलोपः सर्वापहारी भवति, येन णेर्निवृत्तौ पुडागमोऽपि निवर्तत। प्रत्ययलश्रणञ्चास्तीति निवृत्तेऽपि णौ पुटः श्रवणं भविष्यतीत्याह - `पुकः पूर्वान्तकरणम्` इत्यादि। दापयतेर्लुङ्, च्लिः, तस्य `णिश्रिद्रु रुआउभ्यः कर्तर` [[3.1.48]] इति चङि णिलोपः, `णौ चङ्युपधाया ह्रस्वः` [[7.4.1]] इति ह्रस्वत्वम्, `चङि` [[6.1.11]] इति द्विर्वचनम्, `सन्वल्लघुनि चङ्परे` [[7.4.93]] इतीत्त्वम्, <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घत्वम् - अदीदपत्। अत्र यदि पुट्? क्रियते तदा ह्रस्वत्वं न स्यात्; अनुपधात्वात्। पुकि तु सति भवति। अतो ह्रस्वार्थं पुकः पूर्वान्तकरणम्॥", "73037": "`शो तनूकरणे` (धातुपाठः-1145), `छो छेदने` (धातुपाठः-1146), `षोऽन्तकर्मणि` (धातुपाठः-1147), `ह्वेञ्? स्पर्धायाम्` (धातुपाठः-1008), `व्येञ्? संवरणे` (धातुपाठः-1007), `वेञ्? तन्तुसन्ताने` (धातुपाठः-1006), `पा पाने` (धातुपाठः-925), `पै ओवै शोषणे` (धातुपाठः-920,921)-इति द्वयोरपि। एषामाकारान्तत्वात्? पुकि प्राप्ते युको विधानम्। `निशाययति` इत्यादि। <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्त्वम्। `पाग्रणे` `पै ओवै शोषणे` इत्येतस्यापि ग्रहणमिज्छन्ति` इति। यत्र ह्रस्य ग्रहणं नेष्यते, तत्र पिबतेरित्याह; यथा - `लोपः पिबतेरीच्च` [[7.4.4]] इति भावः। अथ `पा रक्षणे` (धातुपाठः-1056) इत्यस्यापि ग्रहणं कस्मान्न भवति? इत्याह - `पा रक्षण इत्यस्य तु` इत्यादि। `लुगागमस्तु तस्य वक्तव्यः` इति। ननु च `पाल रक्षणे` (धातुपाठः-1609) इति चुरादौ पठते, तस्य पालयतीति भविष्यति? सत्यमेतत; पुकस्तु निवृत्त्यर्थो लुगागम उपसंख्यायते, अन्यथा हि पातेः पाययतीति स्यात्। `धूञ्प्रीञोर्नुग्वक्तव्यः` इति। `धूञ्? कम्पने` (धातुपाठः-1835), `प्रीञ्? तर्पणे` (धातुपाठः-1836) इति - एतयोर्नुग्वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - धूञ्? विधूनने` (धातुपाठः-1398), `तृप प्रीणने` (धातुपाठः-1195) इति निपातनादेतयोर्लुग्भविष्यतीति। `एतेऽपि` इति। युगादयः। निशाययतीत्यादिषु <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्त्वम्। न्यशीशयदित्यादीनि अदीदपदित्यनेन तुल्यानि, पूर्ववल्लुङादीनि विधाय व्युत्पाद्यानि। `अदूधनत्` इति। अनकारान्तत्वादिह सन्वद्भावोऽभ्यासस्य नास्तीति। `अपिप्रिणत्` इत्यत्राप्यलघुत्वाद्दीर्घत्वं नास्ति। ननु च शाच्छासाह्वाव्याः - इत्येत एजन्ता गणे पठन्ते, तत्कथमेषां कृतात्त्वानां ग्रहणम्? इत्याह - `शाच्छासाह्वा`[`शाह्वेत्यादि` - मुद्रितपाठः] इत्यादि। कथं पनः कृतात्त्वानां ग्रहणेन पुकः प्राप्तिराख्यायते? आकारान्तानां पुग्विधानात्। `अध्यापयति` इत्यादिना ज्ञापस्य प्रयोजनं दर्शयति। अध्यापयतीति <<क्रीङ्जीनां णौ>> [[6.1.48]] इत्वात्त्वम्। आदिशब्देन जापयतीत्यादीनां ग्रहणम्। यदु पुकः प्राप्तिमाख्यातुं शाप्रभृतीनां कृतात्त्वानां गरहणं कृतम्, तदा वेञोऽपि कृतात्त्वस्यैव ग्रहणं युक्तम्? नैवं शक्यम्, वेत्युच्यमाने `पै ओवै शोषणे` (धातुपाठः-920,921) इत्यस्यापि ग्रहणं स्यात्। तस्मादकृतात्त्वस्यैव वेञो ग्रहणं युक्तम्॥", "73038": "पुकि प्राप्ति जुग्विधीयते। `वा हत्येतस्य` इति। `वा गतिगन्धनयोः` (धातुपाठः-1050) इत्येतस्य। `विधूननेऽर्थे` इति। कम्पन इत्यर्थः। ननु `वज व्रज गतौ` (धातुपाठः-252,253) इत्यस्य धातोण्र्यन्तस्योपवाजयतीति सिद्धम्, तत्किमर्थमेतत्? वातेः पुग्मा भूदित्येवमर्थं जुको विधानम्। `पै ओर्व शोषण इत्येतस्यैतद्रूपम्` इति। ननु च लाक्षणिकस्याकारान्तत्वाम्, अतो जुका न भवितव्यम्? नैतदस्ति; इदानोमेव ह्रुक्तम् - एतस्मिन्? प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा नास्तीति॥", "73039": "`स्नेहविपातनेऽर्थे` इति। किमिदं स्नेहविपातनं नाम? विगच्छतः स्नेहसय पातनं व्यापारणम्। तथा हि - पातेव्र्यन्तस्य भावे ल्युटि कृते वपीतनमिति। `विलीनयति` इति। गुणायादेशौ। अथ <<विभाषा लीयतेः>> [[6.1.51]] इत्यत्त्वे कृत एकदेशविकृतस्यानन्यत्वाद्विलापयतीत्यत्र कस्मान्नुग्भवति? इत्याह - `ली` इत्यादि। ली+ई इति ईकारोऽत्र प्रश्लिष्यते - ईकारान्तस्यैव यथा स्यात्? कृतात्त्वस्य न भवति। `ली इति लीलीङोग्र्रहणम्` इति। ननु च निरनुबन्धकपरिभाषया `ली श्लेषणे` (धातुपाठः-1501) इत्येतस्यैव क्रैयादिकस्य ग्रहणं युक्तम्, न तु `लीङ्? श्लेषणे` (धातुपाठः-1139) इत्येतस्य दैवादिकस्य? एवं मन्यते - एक एवायं धातुर्विकरणद्वयर्थमात्मनेपदार्थञ्च द्विरुपदिश्यते। एवञ्च कृत्वा `लियः सम्माननशलिनोकरणयोश्च` [[1.3.70]] इत्युभाभ्यामात्मनेपदं भवतीति। `ला इति लातेः, कृतात्वस्य च लोयतेः` इति। ग्रहणमिति प्रकृतेन सम्बन्धः॥", "73040": "हेतुः स्वतन्त्रस्य कर्तुः प्रयोजकः। विभेत्यस्मादिति भयः, हेतुश्चासौ भयश्चेति हेतुभयः, तस्मिन्? हेतुभये। `ञिभी भये` (धातुपाठः-1084) इत्यस्य वृद्धौ प्राप्तायां <<बिभेतेर्हेतुभये>> [[6.1.56]] इत्यात्त्वे च प्राप्ते पक्षे णौ धुग्विधीयते। `मुण्डो भीषयते` इति। <<भीस्म्योर्हेतुभये>> [[1.3.68]] इत्यात्मनेपदम्। अथात्त्वे कृते मुण्डो भापयत इत्यत्र कस्मान्न भवति? इत्याह - `अत्रापि` इत्यादि॥", "73041": "`स्फावयति` इति। `स्फायो, ओ प्यायी वृद्धौ` (धातुपाठः-487,488)॥", "73042": "किमर्थं पुनरिदमुच्यते, यावता `शद्लृ शातने` (धातुपाठः-1428) इत्यस्मादेव निपातनात्? तकारो भविष्यतीति? गतेरन्यत्र यथा स्यात्? गतौ मा भूदिति चेत्? न; शातनशब्दो हि गतेरन्यमर्थमाचष्टे। एवं तर्हि एतज्ज्ञापयति - `अबाधकान्यपि निपातनानि भवन्ति` (पु।ल।प।वृ।99) इति। तेन पुराशब्दात्? `सायञ्चिरम्` [[4.3.23]] इत्यादिना विधीयमानयोष्टउटउलोः `पुराणप्रोक्तेषु` [[4.3.105]] इति निपातनेन तुदो बाधनं न भवतीतित। तेन पुरातनमित्यपि सिद्धं भवति॥", "73043": "`रोपयति` इति। `रुह जन्मनि प्रादुर्भावे च` (धातुपाठः-859)। किमर्थं पुनरिदमुच्यते, यावता दिवादिषु `रुप लुप विमोहने` (धातुपाठः-1236,1237) इति रुपिः पठते, तस्य रोपयतीति भविष्यती, रुहेस्तु रोहयतीति? जन्मार्थेऽपि रोपयतीति प्रयोगो यथा स्यात्; अन्यथा हि विमोहनार्थस्यैव स्यात्। अनेकार्थत्वाद्धातूनां रुपिर्जन्मनि वर्त्तिष्यत इति चेत्? नैतदस्ति; अनेकार्था हि धातवः, न तु सर्वार्थाः। न हि रुप्यतीत्युक्ते अन्मार्थः प्रातीयते, किं तर्हि? विमोहनार्थ एव॥", "73044": "`सुपः परो न भवति` इति। सुबन्तात्परो न भवतीत्यर्थः। एवं चार्थः प्रत्ययग्रहणपरिभाषया वेदितव्यः। `जटिलिका, मुण्डिका` इति। अज्ञातादिष्वर्थेषु `प्रागिवात्? कः` [[5.3.70]] । `कारिका, हारिका` इति। ण्वुल्। `एतिका` इति। एतदः `अव्ययसर्वनाम्नाम्` [[5.3.71]] इत्यकच्, त्यादाद्यत्वम्, <<अतो गुणे>> [[6.1.97]] पररूपत्वम्, टाप्, अकः सवर्णे दीर्घत्वम्? [[6.1.97]] । `शका` इति। पचाद्यच्, टाप्। `स्थग्रहण विस्पुष्टार्थम्` इति। अत्र यत्र ककारमात्रं हि प्रत्ययसतत्र मा भूदित्येवमर्थं कस्मान्न भवति? इत्याह - `ककारमात्रं हि` इत्यादि। कादिति वर्णग्रहणम्। अकारस्तूच्चारणार्थः। न तु केवलः ककारः प्रत्ययोऽस्ति यन्निवृत्त्यर्थं स्थग्रहणं स्यात्। `कात्? प्रत्ययात्` इत्युच्यमाने प्रत्ययावयवे प्रत्ययशब्दो वर्त्तिष्यते, अतोऽन्तरेणापि स्थग्रहणं प्रत्ययस्थस्य ककारस्य ग्रहणं शक्यते विज्ञातुम्। तस्माद्वस्पष्टार्थं स्थग्रहणम्। `मण्डना, रमणा` इति। नन्द्यादभ्यो लयुः (3.1.134। `पटुक` मृदुका, गोका, नौका` इति। पूर्ववत् कः। `राका, धाका` इति। `रालाऽदाने` (धातुपाठः-1057,1058) इत्यस्माद्दषातेश्च `कृदाधारार्चिकलिभ्यः कः` (द।उ।3।18) इत्यौणादिकः कप्रत्ययः।`अथ` इत्यादि। चोदतः। `ककारः` इतीतरः। ककरस्य श्रुतत्वात्? तस्यैवापीति विशेषणं युक्तमित्यभिप्रायः। येनाभिप्रायेण चोदकः पृष्टवांस्तमाविष्कर्तुमाह - `यद्येवम्` इत्यादि। यद्यपीत्यनेन ककारो विशिष्यते - आपि परतो यः ककार इति। एवं सति करिकेत्यत्र न प्राप्नोति; ककारस्याकारेणायो व्यवहितत्वात्। `एकादेशे कृते` इत्यादीतरः। व्यवसर्गे हि सति व्यवधानं भवति। न चैकादेशे कृते व्यवसर्गोऽस्तीत्यतो नास्ति व्यवधानम्। `एकादेशः पूर्व` इत्यादि। चोदकः। स्थानिवद्भावस्तु <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन। `वचनात्` इतीतरः। उच्यते चेदं वचनम्, न चाप्यनन्तरं ककारः सकम्भवतीति तत्र वचनसामर्थ्यात् स्थानिवद्भावे कृते नैकेन वर्णेन सर्वत्र व्यवधानमाश्रीयते। यद तर्हि वचनसामर्थ्यात्? कारिकेत्यादौ व्यवधानेऽपि भवति, तदारथकटआ, पुत्रकाम्येत्यत्रापि स्यात्? इत्यत आह - `रथकटआदिषु` इत्यादि। रथानां समूहः <<इनित्रकट्यचश्च>> [[4.2.51]] इति कटच्, ततष्टाप्। पुत्रमिच्छतीति `कम्यच्च` [[3.1.9]] इति काम्यच्प्रत्ययः। `अ प्रत्ययात्` [[3.3.102]] ततष्टाप्। तत्र श्रुतिकृतमनेकेन वर्णेन व्यवधानमितीत्त्वं न भवति। `येन नावयवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) इत्येकेन वर्णेन व्यवधानमाश्रीयते। येन नावयवधानमपि तु सर्वत्र व्यवधानम्, तेनैकेन वर्णेन व्यवहिते भवित्तुं युक्तम्। स्थानिवद्भवकृतमेकेन वर्णेन सर्वत्र वयवधानमस्ति, सङ्घातेन त्वस्ति नास्ति च। तस्मात्? तदिह नाश्रीयते। `सुबन्तादयम्` इति। परिव्राजकशब्दात्? पर आबिति प्रत्ययलक्षणे सुबन्तता वेदितव्या। `प्रसज्यप्रतिषेधश्चायम्` इति। न चेत्सुबन्तादाप्? परो भवति। कः पुनः परयुदासे दोषो यतः स साश्रोयते? इत्याह - `पर्युदासे हि` इत्यादि। यद्ययं पर्युदासः स्यात्? सुपोऽन्योऽसप्, ततश्चोदाप्? परो भवतीति; ततो बहुपरिब्राआजकेत्यत्रापि स्यादेवेत्त्वम्, असुबन्तात्? पूर्वोत्तरपदसमुदायात्? पर आबिति कृत्वा। असुबन्ततवं पुनः समुदायस्य, तस्मात्? सुदनुत्पत्तेः; अवयवाद्धि परिव्राजकशब्दादत्र सुबुत्पत्तिः, न तु समुदायात्। `अविद्यमानः सुब् यस्मिन्? सोऽयमसुबित्ययमपि नाश्रीयते` इति। बहुव्रीहिरपि नाश्रीयत इत्यर्थः। कः पुनस्तदाश्रयणे दोषो यतः स नाश्रीयते? इत्याह - तथा हि` इत्यादि। एवं तर्हीत्यर्थः। बहुव्रीहौ पूर्वोत्तरपदयोः प्रत्ययलक्षणेन सुबन्तव्यपदेशोऽस्तीति नासावसुप, अपि तु विद्यमानसुबेव। तेन बहुचर्मिकेत्यत्र नासुपः पर आबितीत्त्वं न स्यात्। बहूनि चर्माण्यस्यां विद्यन्त इति बहुव्रीहिः। <<शेषाद्विभाषा>> [[5.4.154]] इति कप्, टाप्। `मामिका` इति। ममेयमिति <<तस्येदम्>> [[4.3.120]] इत्यण्? `तवकममकौ` [[4.3.3]] इति ममकादेशः। नन्वणन्तान्ममकशब्दात्? `टिड्ढाणञ्` [[4.1.15]] इति ङीपा भवितव्यम्, तत्? कथं टाब्भवति? `केवलमामकेति नियमात्` इत्यादि। `नरिका` इति। `कै गे शब्दे` (धातुपाठः-916,917)। <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यत्त्वम्, <<आतोऽनुपसर्गे कः>> [[3.2.3]] , ततष्टाप्। `दाक्षिणात्यिका, इहत्यिका` इति। दक्षिणस्यां दिशि भवेत <<दक्षिणापश्चात्पुरसस्त्यक्>> [[4.2.98]] इति त्यक्। इह भवेति <<अव्ययात्त्यप्>> [[4.2.104]] । उभयत्राज्ञातादिष्वर्थेषु <<प्रागिवात्कः>> [[5.3.70]] । उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेवं प्रतिपादनम् - `उदीचामातः, स्थाने` [[7.3.46]] इत्यत्र व्यवस्थितविभाषाविज्ञानात्? त्यक्त्ययोर्नित्यं भविष्यतीति॥", "73045": "येतयेतस्य `उदीचामातः स्थाने` [[7.3.46]] इत्यादिना विकल्पे प्राप्ते, सेत्यस्य पूर्वेण नित्ये प्राप्ते प्रतिषेधोऽयमारभ्यते; प्राप्तिपूर्वकत्वात्? प्रतिषेधस्य। यदा तयोरकज्भवति तदाऽयं प्रतिषेधो विज्ञायते। `यका`, `सका` इति। यत्तदोः पूर्ववदकच्, सुः, त्यदाद्यत्वञ्च। `यासेति निर्देशोऽतन्त्रम्` इति। अप्रधानमित्यर्थः। किं कारणम्? इत्याह - `यत्तदोरुपलक्षणार्थमेतत्` इति। किं कारणमेवं व्याख्यायते? इत्याह - `इहापि` इत्यादि। यासेति प्रथमैकवचनान्तरूपम्। ततर यद्ययं निर्देशस्तन्त्रं स्यात्, प्रथमैकवचनन्तयोग्र्रहणाद्विभक्त्यन्तरे यकाम्, तकामित्यत्र न स्यात्, इष्यते च तत्रापि। तस्मादतन्त्रमयं निर्देशो यत्तदोः प्रातिपदिकयोरुपलक्षणार्थमेतत् - इत्युच्यते। `यासयोरित्त्वप्रतिषेधे` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तदेतदुक्तं भवति - यत्तदोः प्रतिषेध इत्यस्मिन्? क्रियमाणे त्यकन्प्रत्ययान्तस्य त्यकन्प्रत्ययान्तस्य प्रतिषेधप्रतिपादनं कर्तव्यमिति। तत्रेदं प्रतिपादनम् - नेति योगविभागोऽत्र क्रियते, तेन त्यकन्प्रत्ययान्तस्य प्रतिषेधो भविष्यतीति। एवमुत्तरत्राप्युपसंखघ्यानशब्दस्य प्रतिपादनार्थो वेदितव्यः। प्रतिपादनमप्येतदेव योगविबागकरणमाश्रितय कर्तव्यम्। `उपत्यका, अधत्यका` इति। `उपाधिभ्यां त्यकन्नासन्नारूढयोः [[5.2.34]] इति त्यकन्। `पावका` इति। ण्वुल्। `अलोमका` इति। नास्या लोमानि सन्तीति बहुव्रीहिः। <<शेषाद्विभाषा>> [[5.4.154]] इति कप्। `जीवका, नन्दका` ति। <<आशिषि च>> [[3.1.150]] इति वुन्। `देवका, यज्ञका` इति। देवदत्तयज्ञदत्तशब्दाभ्यां `अनुकम्पायां कन्` [[5.3.76]] इति कनि कृते `अनजादौ च विभाषा लोपो वक्तव्यः` (वा। 614) इत्युत्तरपदलोपः। `क्षिपका, ध्रुवका` इति। `क्षिप प्रेरणे` (धातुपाठः-1285), `ध्रुव स्थैर्ये` (धातुपाठः-943), <<इगुपधज्ञाप्रीकिरः कः>> [[3.1.135]] । तदन्तादज्ञाताद्यर्थे `प्रागवात्कः` [[5.3.70]] । `तारका` इति। तरतेर्ण्वुल्। `वर्णका` तान्तवः` इति। तन्तूनां विकार इति `ओरञ्` [[4.3.137]] , <<ओर्गुणः>> [[6.4.146]] । तान्तवः=प्रावरणविशेषः। तत्र वर्णकेत्युपसंख्यातव्या। `वर्ण वर्णक्रियाधिस्तारगुणवचनेषु`[`वर्णं` - नास्ति मुद्रितन्यसपाठे] (धातुपाठः-1938) इति चौरादिको धातुः, ततो ण्वुल् - `वर्णिका` इति। व्याख्यत्रीत्यर्थः। `वर्तका` इति। `वृतु वर्तने` (धातुपाठः-758), ण्वुल्। `वर्त्तिका` इति। अध्येत्रीत्यर्थः। `अष्टका पितृदैवत्ये` इति। पितृदैवत्यम्=वैदिककरमविशेषः, तत्राष्टकेत्युपसंख्यायते। `अशू व्याप्तौ` (धातुपाठः-1264) इत्यस्मात्? `इष्यसिभ्यां तकन्` (द।उ।3-30) इति तकन्प्रत्ययः, व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्, ष्टुत्वम्। `अष्टका` इति। अष्टौ परिमाणमस्या इति <<तदस्य परिमाणम्>> [[5.1.57]] इति `संख्याया अतिशदन्तायाः कम्` [[5.1.22]] । `वा सूतका` इत्यादि। उपसंख्यातशब्दसय प्रतिपादनमर्थः। तत्रैदं प्रतिपादनम् - सूतका, सूतिका - इत्यादयः शब्दा पृषोदरान्तःपातिनः, तेन पृषोदरादित्वादेवायं विकल्पः सिद्धः॥", "73046": "पूर्वेण नित्यमित्त्वे प्राप्ते विकल्पार्थं वचनम्। यकौ पूर्वे। यस्याः सा यकपूर्वा। कोऽन्यपदार्थः? समुदायः। तथा हि, पूर्वशब्दोऽवयवे वर्तते। स चावयवः समुदायस्य भवति, नावयवान्तरस्य। न हि वर्णो वर्णस्यावयवो भवति। अवयवान्तरापेक्षस्तु तस्य पूर्वत्वव्यपदेशः। तत्? पुनरवयान्तरं प्रकृतत्वात्? स्थान्यकार एव विज्ञायते। स्त्रीलिङ्गनिर्देशस्तु तस्य[तस्येत्यारभ्य `तु` इति पर्यन्तं मुद्रितन्यासे नोपलक्ष्यते] समुदायस्यार्थधर्मेण स्त्रीत्वेन वेदितव्यः। प्रयोजनं तु तस्य वक्ष्यते। `आतः स्थाने` इति। योऽकार इति व्यवहितेन सम्बन्धः। `इभ्यिका` इत्यादि। इभ्यादिशब्देभ्यः `प्रागिवात्? कः` [[5.3.70]] , `केऽणः` [[7.4.13]] इति ह्रस्वः। `सांकाश्यिका` इति। <<धन्वयोपधाद्वुञ्>> [[4.2.121]] । नात्रातः स्थानेऽकार इति नित्यमेवेत्त्वम्। अथ स्थानग्रहणं किमर्थम्, यावतात्? इत्येषैव षष्ठी स्थानेयोगं प्रतिपादयिष्यति, <<षष्ठी स्थानेयोगा>> [[1.1.49]] इति वचनात्? इत्यत आह - `स्थानग्रहणम्` इत्यादि॥ अकारस्य स्थाने लक्षणान्तरेण दिहितस्याकारस्य संकीर्तनम्नुवादः। अत्रापि स्थाने सम्बन्धप्रतिपत्तिर्यथा स्यात् - इत्येवमर्थं स्थानग्रहणम्। किं पुनः कारणम् - असति स्थानग्रहणेऽनुवादे सम्बन्धप्रतिपत्तिर्न स्यात्? इत्याह - `आत इत्यनेन` इत्यादि। आदेशविधौ <<अस्तेर्भूः>> [[2.4.52]] इत्येवमादौ <<षष्ठी स्थानेयोगा>> [[1.1.49]] इत्येषा परिभाषोपतिष्ठते, न त्वनुवादे; विधिवाक्यशेषभूतत्वादस्याः। न चात्राकारस्य स्थानेऽकारोऽनेन विधीयते, किं तर्हि? लक्षणान्तरेणाभिनिर्वृत्तोऽनेन विशिष्यते - आतः स्थाने योऽकार इति। तेन नात्र तस्याः परिभाषाया उपसथानमिति तत्र यदि स्थानग्रहणं न क्रियेत, तदातः समीपो योऽकार इति सामीप्पसम्बन्धप्रतिपत्तिः स्यात्। अथ वा पूर्ववत्? प्रश्ने कृत इत्याह - `आत इत्यनेन` इत्यादि। इकारस्य यः स्थानित्वेनोपात्तोऽकारः स आत इत्यनेन विशिष्यते। एवञ्च विशेष्यत्वादकारस्य प्रधान्यम्; आकारस्य विशेषणत्वादप्राधान्यम्। तत्रासति स्थानग्रहमे यद्यप#इ सा परिभाषानुवाद उपतिष्ठेत तथापि प्रधाने कार्यसम्प्रत्ययादात इत्यस्या एव षष्ठ्याः स्थानसम्बन्धो विज्ञायेत, न त्वात इत्यस्याः। स्थानग्रहणे तु सत्यस्या अपि विज्ञायते - एतदर्थं स्थानग्रहणम्। `अइआका` इति। पूर्ववत्? कः, ह्रस्वत्वञ्च। अथ `यकपूर्वायाः` इति स्त्रीलिङ्गेन निर्देशः क्रिमर्थः? इत्याह - `स्त्रीलिङ्गेन निर्देशः। असति तस्मिन्नाकारमात्रस्थाने योऽकारस्तस्य स्थानित्वं विज्ञायेत, ततश्च यातेः शुभम्भद्रंशब्दयोरुपपदतः `विजुपे च्छब्दसि` [[3.2.73]] इति `आतो मनिब्क्वनिब्वनिपश्च` [[3.2.74]] इति विच्। तदन्तात्? कप्रत्यये शुर्भयिका, भद्रंयिका इत्यत्रापि विकल्पः प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थं स्त्रीलिङ्गनिर्देशः। शुभम्भद्रंशब्दौ मकारान्तौ निपातौ। `यकपूर्वायाः` इत्यादि। ग्रहणवाक्याम्। तस्य `धात्वन्तयोर्यकारककारयोः` इत्यादि। विवरणम्। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - व्यवस्थितविभाषाविज्ञानाद्धात्वन्तयोरपि यकारवकारयोरनन्तरस्याकारस्येत्त्वप्रतिषेधः प्राप्नोति, स न भविष्यतीति। `सुनयिका, सुशयिका` इति। णीञ्शीङ्भ्यां `एरच्` [[3.3.56]] इत्यच्। शोभनो नयोऽस्याः, शोभनः शयोऽस्याः - सुनया, सुशया, ततः `प्रागिवात्? कः` [[5.3.70]] , `केऽणः` [[7.4.13]] इति ह्रस्वत्वम्। `सुपाकिका`, `अशोकिका` इति। `डुपचष्? पाके` (धातुपाठः-996), `शुच शोके` (धातुपाठः-183), भावे घञ्। शोभनः पाकोऽस्याः, अविद्यमानः शोकोऽस्या इति बहुव्रीहिः, <<शेषाद्विभाषा>> [[5.4.154]] इति कप्, <<आपोऽन्यतरस्याम्>> [[7.4.15]] इति ह्रस्वत्वम्॥", "73047": "`भस्त्रका, भस्त्रिका` इति। पूर्ववत्? कः। `अभस्त्रका, अभस्त्रिका` इति। पूर्ववत्? कप्रत्ययः, बहुव्रीहिः, ततपुरुषो वा। अथ कस्मादेषा - द्वे नञ्पूर्वे नोदाह्यियेते? इत्याह - `एषाद्वे नञ्पूर्वे न प्रयोजयतः` इति। प्रकृतत्वादित्त्वप्रतिषेधविकल्प इति विज्ञेयम्। `किं कारणम्` इति। अनेन नञ्पूर्वयोरप्रयोजकत्वे कारणं पृच्छति। `अत्र हि` इत्यादिना तत्करं दर्शयति। `सोऽन्तर्वर्तिन्या विभक्त्या` इति। याऽसौ समासार्था विभक्तिस्तया लुप्तयाऽपि प्रत्ययलक्षणेन स आप्सुबन्तादेवैतच्छब्दाद्? द्विशब्दाच्च परः सम्पद्यते, तेनेत्त्वस्य प्राप्तिरेव नास्ति; `असुपः` [[7.3.44]] इति प्रतिषेधात्, तत्क प्रतिषेधविकल्पेन? तस्मादेषाद्वे नञ्पूर्वे न प्रयोजयतः। यद्येवम्, अनयैव युक्त्या स्वशपब्दोऽपि न प्रयोजयेत्? इत्यत आह - `स्वशब्दस्तु` इत्यादि। युक्तं यदेषाद्व नञ्पूर्वे न प्रयोजयतः, अत्र व्यवधानाभावात्? सुबन्तात्? पर आब् भवतीति कृत्वा, न हि प्राक्? टेर्भवन्नकज्? व्यवधायको भवितुमर्हति; स्वशब्दस्तु <<स्वमज्ञातिधनाख्यायाम्>> [[1.1.35]] इति वचनाज्ज्ञातिधनयोरसर्वनामसंज्ञकः, तेन तस्मात्? कप्रत्ययेनैव भवितव्यम्, नाकचा, तत्र यदि नञ्समासं कृत्वा कप्रत्ययः क्रियते, तदन्ताच्च टाप्, तदासौ सुबन्तात्? परो न भवति; कप्रत्ययेन व्यवधानादिति असर्वनामंज्ञकः स्वशब्दो नञ्पूर्वोऽपि विकल्पं प्रयोजयति।\t`भस्त्रेत्ययमभाषितपुंस्कः` इति। स्त्रियामेव सर्वदा वृत्तेः। यद्येवम्, <<अभाषितपुंस्काच्च>> [[7.3.48]] इत्यनेनैव विकल्पः सिद्धः, तत्किमर्थमिहोपादीयते? इत्यत आह - `तस्य` इत्यादि। उपसर्जनमर्थः प्रयोजनं यस्य तत्? तथोक्तम्। यदानुपसर्जनं भस्त्राशब्दो भवति, तदायमभाषितपुंस्क इति सत्यमुत्तरसूत्रेण सिद्धो विकल्पः; तत्रापि नञ्पूर्वाणामित्यनुषृत्तेः। यदा तूपसर्जनं भवति, तदा भाषितपुंस्कत्वं प्रतिपद्यत इति न सिध्यति। तस्मादुपसर्जनस्य भाषितपुंस्कस्यापि यथा स्यादित्येवमर्थमिह भस्त्राशब्दस्य ग्रहणम्। `अभस्त्रका, अभस्त्रिका` इति। `अल्पे` [[5.3.85]] इत्यर्थे `प्रागिवात्? कः` [[5.3.70]] `अत्र` इति। उपन्यस्त उदाहरणे। `उपसर्जनह्रस्वत्वे कृते` इति। अविद्यमाना भस्त्राऽसया इति बहुव्रीहौ कृते <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इत्यनेन। `पुनः` इत्यादि। अभस्त्रशब्दो हि बहुव्रीहिः, स पुंस्यपि वर्तत इति भाषितपुंस्को भवति। तस्माद्यदा टाप्? स भाषितपुंस्कशब्दादुत्पदयते। तसय भाषितपुंस्कादुत्पन्नस्यापि टापो यः `केऽणः` [[7.4.13]] इति ह्रस्वो भवति, नासावभाषितपुंस्काद्विहितस्यातः स्थाने भवति। तस्मादभाषितपुंस्कादित्यनेन न सिध्यति - इत्यभिप्रायः। `नञ्पूर्वाणामपीत्यपिशब्दादन्यपूर्वाणां केवलानां च विधिरयमिष्यते` इति। तत्रोदाहरणमाह - `निर्भस्त्रिका` इत्यादि। निर्गता भस्त्रा यस्याः सा निर्भस्त्रिका। वह्व्यो भस्त्रा यस्याः सा बहुभस्त्रिका। आदिशब्देन सुभस्त्रका, सुभस्त्रिका; भस्त्रका, भस्त्रिका-इत्येवमादीनां ग्रहणम्। यदि तह्र्रन्यपूर्वाणां केवलानां च विधिरिष्यते, तदा `नञ्पूर्वाणाम्` इति वचनमनर्थकं स्यात्। नञादिपूर्वाणां तदन्तविधिना भविष्यति, केवलनाञ्च व्यपदेशिवद्भावेन; `ग्रहणवता प्रतिपदिकेन तदन्तविधिर्न` (व्या।प।89) इति। `व्यपदेशिवद्भावोऽप्रातपदिकेन` (धा।प।पा।65) इति वचनान्न सिध्यतीत्येतच्च नाशङ्कनीयम्, उभे अपि ह्रेते परिभाषे प्रत्ययविधिविषये एवेत्यत आह - `अत्र` इत्यादि। तदन्तवधिना व्यपदेशिवद्भावेनात्र सिद्धस्यैव प्रकरविधेर्नञ्पूर्वाणामपीति वचनानुवादः। किमर्थः? मन्दबुद्धिप्रतपत्त्यर्थः। नञ्पूर्वाणामपीति वचनमन्तरेण यः प्रतिपत्तुमनन्तरोक्तमर्थमसमर्थस्तस्यापि मन्दबुद्धेः प्रतिपत्तिर्यथा स्यादित्येवमर्थम्॥", "73048": "नञ्पूर्वाणामपीत्यनुकर्षणार्थश्चकारः। खट्वका, खट्विका` इति। पूर्ववत्? कः। खट्वाशब्दोऽयमादिष्टलिङ्गो नित्यं स्त्रियामेव वर्तत इति भाषितपुंस्को न भवति। `अखटविका` इति। न खट्वा अखट्वेति नञ्समासः। `परमखट्विका` इत्यादि। <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इत्यापिना समासः। सर्वत्र `कोऽणः` [[7.4.13]] इति ह्रस्वः। बहुव्रीहेर्भाषितपुंस्कत्वादत्र न भवितव्यमनेन विकल्पेनेति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकरत्तुमाह - `बहुव्रीहौ` इत्यादि। कथं पुनरभाषितपुंस्कादित्युच्यमाने बहुव्रीहौ भाषितपुंस्कादपि भवति? इत्याह - `अत्राप्यभाषितपुंस्कात्` इत्यादि। इतिकरणो हेतौ। यद्यपि बहुव्रीहेर्भाषितपुंस्को भवति, तथापि यदा कपि <<आपोऽन्यतरस्याम्>> [[7.4.15]] इति ह्रस्वः क्रियते, तदाऽभाषितपुंस्कादेव विहितस्याकारस्य स्थाने यः स्यादकारस्तस्माद्भवत्येव विकल्पः। अविद्यमाना खट्वाऽस्या इति बहुव्रीहिः, `शेषाद्विभाधा` [[5.4.154]] इति कप्; ततो ह्रस्वः। स चाभाषितपुंस्कादेव विहितस्याकारस्य भवति। तेनाखट्वका, अखट्विकेति विकल्पो भवत्येव। `यदा तु` इत्यादि। अविद्यमाना खट्वाऽस्या इति बहुव्रीहौ कृत उपसर्डजनह्रस्वत्वम्; ततष्टाप्। अल्पा अखट्वेति `प्रागिवत्? कः` [[5.3.70]] - `अखट्विका` इति। अत्र विकल्पो न भविष्यति; भाषितपुंस्कत्वाद्वहुव्रीहेविहितस्यातः स्थानेऽकारस्य विहितत्वात्। प्रादिसमासेऽपि न भवतीति दर्शयन्नाह - `तथा` इत्यादि। `अतिखट्विका` इति। अत्रापि प्रादिसमासे कृते, उपसर्जनह्रस्वत्वे च, पुनस्तत्पुरुषाद्भाषितपुंस्काद्विहितस्यातः स्थाने विहितोऽकार इति न प्रवर्तते विकल्पः॥", "73049": "नञ्पूर्वाणामपीत निवृत्तम्; पूर्वसूत्रे चानुकृष्टत्वात्। इत्त्वापवादोऽयं योगः। `केऽणः` [[7.4.13]] इति ह्रस्वपवादश्च। आचार्यग्रहणं नित्यार्थम्। असति हि तस्मिन्; `उदीचाम्` [[7.3.46]] इत्यधिकाराद्विकल्पः स्यात्। आचार्यग्रहणे तु सति तेन `उदीचाम्` इत्येतस्मिन्निवर्त्तिते, नित्य एष विधिर्भवतीति॥", "73050": "अत्र यद्यविशेषेण ठस्य ग्रहणं स्यात्, पठिता, पठितुमित्यादौ धात्वन्तस्यापि स्यात्। अत एतद्दोषपरिजिहीर्षया प्रत्ययस्य ठस्य ग्रहणम्, न तु ठमात्रस्येति दर्शयितुमाह - `अङ्गस्य निमित्तं यष्ठः` इति। अङ्गस्येति सम्बन्धलक्षणा षष्ठी। अतर यद्यपि धात्ववयवो ह्रङ्गस्य सम्बन्धी भवति, तथापि यदा यतो ह्रङ्गस्यात्मलाभो यस्मिन्नङ्गमित्येतद्भवति, स एव प्रत्यासत्तेरङ्गस्य निमित्तीभूतः सम्बन्धी गृह्रते, न त्वरयवोऽपि। `कश्चाङ्गस्य निमित्तं भवति` इति। एवं मन्यते - यदि सामान्येनाङ्गस्य निमित्तं यत्तदिह गृह्रते धात्वन्तस्य ठस्य स्यादेव, भवन्ति हि अवयवा अङ्गसयावयविनो निमित्तम्; तैस्तस्यारभ्यमाणत्वादित्याह - `प्रत्ययः` इति। अस्यायमभिप्रायः - सत्स्वप्यवयवेषु यावत्प्रत्ययो नोत्पद्यते तावत्तस्यावयविनोऽङ्गात्मलाभो न भवति, तस्मस्तूत्पन्ने सति भवति; तस्मात्प्रत्यय एवाङ्गस्य निमित्तम्, नावयव इति। `आक्षिकः, शालाकिकः` इति। अक्षैर्दीव्यति, [`अक्षैर्दीव्यतीत्यर्थे ठक् - मु। पाठः] शलाकाभिर्दीष्यतीत्यर्थे ठक्। `लावणिकः` इति। अत्रापि लवणं पण्यमस्येति <<लवणाट्ठञ्>> [[4.4.52]] ।इह ठस्येति वर्णमात्रस्य ग्रहणं वा स्यात्? सङ्घातस्य वा? तत्र पूर्वस्मिन पक्षे ठस्येति निर्देशो नोपद्यते; इतरस्मस्त्वोणादिकेऽतिप्रसङ्गः - `कणेष्ठः` (द।उ।5-6) कण्ठ इत्यादौ। इह तु मथितं पण्यमस्येति माथितिक इति ठस्येकादेशे कृते प्रकृतेश्च <<यस्येति च>> [[6.4.148]] इत्यकारलोपे सति तान्ततायामुपजातायामिकादेशस्य स्थानिवद्भावाट्ठग्रहणेन ग्रहणात्? `इसुसुक्तान्तात्? कः` [[7.3.51]] इति कादेशः प्रसज्येतेति यश्चोदयेत्, तं प्रत्याह - `ठगादिषु` इत्यादि। आदिशब्देन ठञादीनां ग्रहणम्, यदि तेषु वर्णमात्रमनच्कप्रत्ययोऽकारस्तूच्चारणार्थः, तदा <<ठस्येकः>> [[7.3.50]] इत्यत्राप्यकार उच्चारणार्थः। एवं वर्णमात्रं स्थानित्वेनोपादीयते। इहाप्यकार उच्चारणार्थ एवेति वर्णमात्रग्रहणेन यो दोषः परस्य चोदयिष्यतः स वर्णमात्रं स्थानित्वेनोपादीयते। इहाप्यकार उच्चारणार्थ एवेति वर्णमात्रग्रहणेन यो दोषः परस्य चोदयिष्यतः स निराकृतः। सत्यपि वर्णमात्रस्य ग्रहणे, आगन्तुकेनोच्चारणार्थेनाकारेण ठस्येति निर्देशस्योपादानात्। `सङ्घातग्रहणे तु` इत्यादि। अथ ठगादिषु सङ्घातः साच्कष्ठशब्दः प्रत्ययः, एवं सत्यत्रापि सूत्रे सङ्घातस्येति स्थानित्वेन ग्रहणं युक्तम्। यस्त्वस्मिन्? पक्षे प्रथमो दोषश्चोदयितुमिष्टः परस्य, तं जिहीर्षुराह - `तत्र` इत्यादि। योऽप्यस्मिन्? पक्षे द्वितीयो दोषस्तं `मथित पण्यमस्य` इत्यादिनाऽऽविष्कृत्य - `सन्निपातलक्षणो विधिः` इत्यादिना परिहरति। अजादिसन्निपातेन तकारान्ततोपजाता, सा नोत्सहतेऽजादित्वं विहन्तुमिति न भवति कादेशः। `यस्येति चेति लोपस्य स्थानिवद्भावाद्वावाद्वा` इति। न भवति कादेश इति प्रकृतेन सम्बन्धः; स्थानिवद्भावेन तकारान्ततया विहतत्वात्। स्थानिवद्भावः पुनः <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यादिना। पूर्वविधौ कर्तव्ये स्थानिवद्भवति, न चात्र पर्वस्य विधिः, किं तर्हि? पूर्वस्मादुत्तरस्य, तत्कुतः स्थानिवद्भावः? इत्याह - `पूर्वस्मादपि` इत्यादि। न केवलं पूर्वस्य विधिः पूर्वविधिरिति षष्ठसमासोऽभिमतः, अपि तु पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽपीत्यभिप्रायः॥", "73051": "पूर्वेणेकादेशे प्राप्त इसाद्यन्तात्? कादेश उच्यते। `सर्पिष्कः` इति। `तदस्य पच्यम्` [[4.4.51]] इति प्राग्वहतीयष्ठक्, रुत्वविसर्जनीयौ, विसर्जनीयस्य <<इसुसोः सामर्थ्ये>> [[8.3.44]] इति षत्वम्। `धानुष्कः` इति। `तदस्य ग्रहणम्` [[4.4.57]] इति ठक्। `याजुष्कः` इति। `तेन दीव्यति` [[4.4.2]] इति ठक्। `नैषादकर्षुकः, शाबरजम्बूकः` इति। निषादकर्ष्वां जातः, शाबरजम्बां जात इति <<ओर्देशे ठञ्>> [[4.2.119]] , `केऽणः` [[7.4.13]] इति ह्रस्वः। `मातृकम्` पैतृकम्` इति। मातुरागतम्, पितुरागतमिति - <<ऋतष्ठञ्>> [[4.3.78]] । `औदइआत्कः` इति। <<उदश्वितोऽन्यतरस्याम्>> [[4.2.19]] इति ठक्। शाकृत्कः, याकृत्कः` इति। शकृता यकृता संसृष्टे [[4.4.22]] इति ठक्। अथेह कस्मान्न भवति - आशिषा चरतीत्याशिषिकः, उषा चरतीत्यौषिकः? इत्याह - `इसुसोः` इत्यादि। `अर्चिसुचिहुसृपिछादिछर्दिभ्य इसिः` (द।उ।9।30), `जनेरुसिः` (द।उ।9।37), `अर्त्तिपृवपियजितनिधनितपिभ्यो नित्` (द।उ।9।39) इत्यादिना प्रकरणेन यौ विहितौ तयोर्लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) प्रतिपदोक्तयोरिसुसोग्र्रहणम्। तेनाशिषिकः, औषिक इत्यत्रापि न भवति; लाक्षणिकत्वादिसुसोः। तथा ह्राङपूर्वात्? `शासु इच्छायाम्` (धातुपाठः-1022) इत्यस्मात्, `वस निवासे` (धातुपाठः-1005) इत्येतस्माच्च केवलात्? क्विपि कृते <<शास इदङ्हलोः>> [[6.4.34]] सम्प्रसारणे परपूर्वत्वे च कृत इसुसति रूपं प्रतिपद्यते। `आशिषिकः, औषिकः` इति। `शासिवसिधसीनां च। [[8.3.60]] इति षत्वम्। तस्य त्वसिद्धत्वात्? कादेश प्राप्तिराशङ्किता। `दोष उपसंख्यानम्` इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - `नञ्पूर्वाणामपि` [[7.3.47]] इत्यतोऽपगरहणमनुवर्तते; स चानुक्तसमुच्चयार्थः, तेन दोषोऽपि भविष्यति॥", "73052": "`पाकः, त्यागः` इति। भावे घञ्। `पाक्यम्, वाक्यम्` इति। ऋहलोर्ण्यत् [[3.1.124]] । ननु चात्र घिण्ण्यतोः कार्यिणोश्चजोः साम्याद्यथासंख्यं प्राप्नोति - चकारस्य घिति, जकारस्य ण्यति, तत्कथं त्यागः, राग इति धिति जकारस्य कुत्वं प्राप्नोति? नैतदस्ति; ज्ञापकादत्र यथासंख्यं न भवति। यत् <<भुजन्युब्जौ पाण्युपतापयोः>> [[7.3.61]] , <<प्रयाजानुयाजौ यज्ञाङ्गे>> [[7.3.62]] इति घञि जकारस्य कुत्वाभावं निपातयति, `तेन रक्तं रागात्` [[4.2.1]] इति च निर्देशं करोति, तज्ज्ञापयति - यथासंख्यमिह न भवतीति ॥", "73053": "अधिण्ण्यदर्थोऽयमारम्भः। `नावञ्चतेरित्युप्रत्ययः` इति। तत्र `भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः` (द।उ।1।92) इत्यनुवृत्तेः। `मद्गुः` इति। `टुमस्जो शुद्धौ` (धातुपाठः-1415), <<झलां जश् झशि>> [[8.4.53]] इति सकारस्य दकारः। `मिमस्जिभ्य उः` इति। अनेन `भृमृशीतृचरि` (द।उ।1।92) इत्यादिकमुपलक्षयति। `भृगुः` इति। `भ्रस्ज पाके` (धातुपाठः-1284)। `प्रथिभ्रदि` (द।उ।1।113) इत्यादिके सूत्रऽत एव सूत्रा(द।उ।1।92)दुप्रत्ययोऽनुवर्तते। `दूरेपाकः`[`दूरेपाकाः` - मु।पाठ] इति। कर्मकर्तरि पचाद्यच्। `उकारान्तावपेर` इति। अधीयत इत्यपेक्ष्यते। `तञ्चतेः` इति। `तन्चु त्वन्चु गतौ` (धातुपाठः-191,192) इति, `वन्चु प्रलम्भने` (धातुपाठः-1703) `स्फायितञ्चिवञ्चि` इति सूत्रैकदेशः `स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपिदृपितृपिवन्युन्दिइआतिवृत्यजिनीपदिमदिमुदिखिदिभिदिछिदिमन्दिचन्दिदहिदसिदम्भिवहवसिवाशिशीङ्हससिधिशुभिभ्यो रक्` (द।उ।8।31) इत्येतत्? सूत्रमुपलक्षयति। `व्यतिषङ्गः` इति। `षन्ज सङ्गे` (धातुपाठः-987) `अवसर्गः` इति। `सृज विसर्गे` (धातुपाठः-1178) पचाद्यच। `मेधः` इति। `मिह सेचने` (धातुपाठः-992)। अजेव। `आपाकः` इति। कर्मोपपदादण्प्रत्ययः `कर्मष्यण्` [[3.2.1]] इत्यनेन। `अर्हतेः` इति। `अर्ह पूजायाम्` (धातुपाठः-740)। `दहेः` इति। `दहभस्मीकरणे` (धातुपाठः-992)। `रुहेः` इति। `रुह बीजजन्मनि प्रादुर्भावे` (धातुपाठः-859)।ननु च न्यङ्क्वादयः कृतकुत्वाः प्रातपदिकगणे पठन्ते, तत्किमर्थमिदम्, यथैव हि कुत्वादन्यत्? कार्यं भवति निपातनात्? तथा कुत्वमपि भविष्यति? तस्यैव प्रातपदिकपाठस्याभ्यनुज्ञानार्थमितदमुच्यते। असति ह्रतस्मिन्? प्रमादपाठो विज्ञायतेत॥", "73054": "`धातयति` इत्याद्युदाहरणानि <<हनस्तोऽचिण्णलोः>> [[7.3.32]] इत्यत्र व्युत्पादितानि। `ध्नन्ति` इति। लट्, झेरन्तादेशः, `गमहन` [[6.4.98]] इत्यादिनोपधालोपः। `ध्नन्तु` इति। लोट्। `अध्वन्` इति। लङ्, `इतश्च` [[3.4.100]] इतीकारलोपः।`प्रहारः, प्रहारकः` इति। हरतेर्घञ्णवुलौ। इह णिन्नग्रहणं हन्तिविशेषणं वा स्यात् - ञ्णिन्नकारपरस्य हन्तेर्यो हकार इति, हकारविशेषणंवा - ञ्णिन्नकारपरसय हकारस्येति स चेद्धन्तेरिति? तत्र यदि पूर्वकः पक्ष आश्रीयेत, ध्नन्त्यादौ न स्यात्, न ह्यत्र नकारपरो हन्तिः; अवयवेन समुदायस्य पौर्वापर्यानुपपत्तेः, अन्यस्य नकारस्याभावात्। अथेतरः पक्ष आश्रीयेत, न क्वचित्? स्यात्, न हि हकारस्य ञ्णिन्नकारपरता सम्भवति। असम्भवस्तु ध्नन्तत्यादावकारलोपस्य पूर्वविधौ स्थानिवद्भावे सत्यकारेण व्यवधानात्, घातयतीत्यादावपि हकारात्? परेण हन्त्यवयवेनानशब्देन व्यवधानात्। अथ वचनसामर्थ्याद्व्यवधानेऽपि कृत्वं स्यात्, एवमपि हननमिच्छतीति `सुप आत्मनः क्यच` [[3.1.8]] , <<क्यचि च>> [[7.4.33]] इतीत्त्वम्, क्यजन्ताण्णवुल्, <<अतो लोपः>> [[6.4.48]] इत्यकारलोपो हननीयक इत्यत्रापि स्यादिति यश्चोदयेत्, तं प्रति पक्षान्तरमाश्रित्याह - `ञ्णित्प्रत्ययोऽत्र हन्तेर्विशेषणम्` इत्याद। न हि सर्वेषां ञ्णिन्नकाराणां हन्त प्रति विशेषणत्वमुपपद्यते, नापि हकारं प्रति। तस्माद्यथासम्भवं किञ्चिदेव कस्यचिद्विशेषणम्। ञ्णित्प्रत्ययस्तु हन्तेः परतः उपपद्यते इति तस्यासौ विशेषणम् - ञ्णिति प्रत्यये परतोऽनन्तरस्य हन्तेरिति। नकारस्तु हन्तेर्विशेषणँ नोपपद्यते; पूर्वोक्तात्? कारणात्। इकारस्य तूपपद्यत इति तस्यैव विशेषणम् - नकारे परतोनन्तरस्य हन्तिहकारस्यानन्तर इति। अयं तु <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वाल्लभ्यते। आनन्तर्याश्रयणे तु - हन्ता, हन्तुमित्यत्राप्यतिप्रसङ्गो निरस्तः। ननु चानन्तर्यमेव हकारस्य णकारेण न सम्भवति, अकारलोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्? इत्यत आह - `तच्च` इत्यादि। `सन्निपातकृतम्` इति। श्रुतिकृतमित्यर्थः। ननु चाश्रितेऽपि सन्निपातकृतानन्तर्ये स्थानिवद्भावशास्त्रेण यत्? कृतमनानन्तर्यं तद्विहन्यादेव कुत्वम्? इत्यत आह - `स्थानिवद्भावशास्त्रकृतं तु` इत्यादि। किं कारणमविधातकम्? इत्याह - `वचनसामर्थ्यात्` इति। यदि स्थानिवद्भावशासतद्रकृतमनानन्तर्य व्यवधायकं बाधकं स्यान्नकारवचनमनर्थकं स्यात्; निरवकाशत्वात्। तस्माद्वचनसामर्थ्यान्न विघातकम्। `यद्यपि` इत्यादिना यौ द्वौ पक्षावुपन्यस्तौ, तत्र द्वितीये पक्षे यो दोषस्तस्य परीहारः। तत्र नकारेण हकारे विशेष्यमाणे यो दोषः स पूर्वमेव परिह्मतः। सम्प्रति तु ञ्णित्प्रत्ययेन हकारे विसेष्यमाणे यो दोषस्तं परिहरति। योऽयं हन्तेरवयवो हकारात्? परोऽकारादिर्नकारान्तः, तेन सर्वत्र ञ्णित्प्रत्ययस्य व्यवधानम्। अननीयशब्देन तु च्यवधानं सम्भवति, न सम्भवति च तत्र `येन नाव्यवधानं तेन व्यवहितेऽति वचनप्रामाण्यात्` (व्या।प।46) इति घातयतीत्यादौ कुत्वं भवति। येन त्वननीयशब्देन व्यवधानं न सम्भवति, सम्भवति च तेन व्यवधाने हननीयक इत्यत्र न भविष्यति। आद्ये तु पक्षे यो दोष उक्तः, स तस्यानभ्युपगमादेवानवसरः। हन्तेः श्तिपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्त्यर्थः। तत्र हि <<अभ्यासाच्च>> [[7.3.55]] इति भवितव्यमेव कुत्वेन॥", "73055": "`जिघांसति` इति। सन्, <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः, द्विर्वचनम्, <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम् - झकारः; <<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वम् - जकारः, `सन्यतः` [[7.4.79]] इत्तीत्त्वम्। `जङ्घन्यते` इति। <<नुगतोऽनुनासिकान्तस्य>> [[7.4.85]] इति नुक्। जघान` इति। उत्तमपुरुषेणलि यदा णित्वं नास्ति तदेदमुदाहरणम्। णित्त्वपक्षे तु पूर्वेणैव सिद्धम्। अग्र हननशब्दात्? क्यचि कृते तदन्तात्? सनि जिहननीयिषतीत्यत्र कस्मान्न भवतीति, भवति ह्रवाभ्यासात्? परो हन्तिहकरः? इत्याह - इहाभ्यासनिमित्तप्रत्यये` इत्यादि। इह `हन्तेः` [[7.3.54]] इत्यनुवर्तते, अङ्गस्येति च। अभ्यासेनाभ्यासनिमित्तं प्रत्ययः सन्निधापितः, तस्य प्रत्ययः विशेषणिमित्तत्वात्, तत्र तेनाभ्यासनिमित्तेन प्रत्ययेन हन्तेरङ्गं विशिष्यते। `अभ्यासनिमित्ते[अभ्यासनिमित्ते प्रत्येये हन्तेरङ्गस्य - काशिका] प्रत्यये यदङ्गं हन्तिः` इति। तेनाप्येवंविधेन हन्तिनाभ्यासो विशिष्यते। यथोक्तविशेषणविशिष्टस्य हन्तेरङ्गस्य योऽभ्यासः - इत्येवं विशेषणविशेष्यभावे सत्यभ्यासनिमित्ते सनादौ प्रत्यये हन्तेरङ्गस्य योऽभ्यासस्तस्मादेव कुत्वेन भवितव्यम्। `तेनेह [`तेन` नास्ति - काशिका] न भवति - `जिहननीयिषति` इति। न ह्रतराभ्यासनिमित्ते प्रत्यये सनि हन्तिरङ्गम्, किं तर्हि? हननीयशब्दः। यस्मस्तु हन्तिरङ्गम्, ल्युटि स नाभ्यासनिमित्त्म्॥", "73056": "`प्रजिघीषति` इति। `हि गतौ` (धातुपाठः-1257) सन्, पूर्ववद्दीर्घत्वम्। `प्रजेधीयते` इति। `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः, द्विर्वचनम्, <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यभ्यासस्य गुणः। `प्रजिघाय` इति। णल्, वृद्ध्यायादेशो। `प्राचीहयत्` इति। हेतुमण्णिच, `णिश्रि` [[3.1.48]] इत्यादिना चङादेशः, `णौ चङ्युपधायाः` [[7.4.1]] इति ह्रस्वः; `चङि` [[6.1.11]] इति द्विर्वचनम्। तच्च `णौ कृतं स्थानिवद्भवति` (चां।प।21) इति हिशब्दसय <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घः। `चङ्यम्यासनिमित्ते` इत्यादि। प्राजीहयदित्यत्र चङ्यभ्यासनिमित्ते परतो यो णिच्? तस्मिन्? हिनोतिरङ्गम्, न तु तस्मिन्नेव चङ्यभ्यासनिमित्ते; इह सूत्रेऽब्यासाधिकारात्। अभ्यासेनाक्षिप्तेऽऽभ्यासनिमित्ते प्रत्यये यदङ्गं हिनोतिरित्येवं विज्ञायते, एवञ्च विज्ञायमाने कः प्रसङ्गो यो व्यधिकस्य चङि स्यात्? नैवं प्राप्नोतीस्यतो नार्थोऽचङीति प्रतिषेधेन। एवं प्रत्याख्याय चङ्ग्रहणम्, तस्य प्रयोजनमाह - `तत्क्रियते` इत्यादि। किं पुनरनेन ज्ञाप्यते? इत्याह - `हेरचङि` इत्यादि। `हेरचङि` इत्यादि। `हेरचङि` इत्यनेन चङोऽन्यत्र सनादौ ण्यधिकस्यापि हिनोतेः कुत्वं भवतीत्येषोऽर्थो ज्ञाप्यते। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। `प्रजिघाययिषति` इति। प्रहाययितुमिच्छतीति ण्यन्तात्? सन्॥", "73057": "`जिगीषति जिगाय` इति। <<आदेः परस्य>> [[1.1.54]] इति परस्यादेर्जकारस्य कुत्वम्, `ज्या वयोहानौ` (धातुपाठः-1499) इत्यस्य लिट्। ग्रहिज्यादिसूत्रेण [[6.1.16]] सम्प्रसारणे कृते परपूर्वत्वे च जिरत्येष रपविशेषो भवति। अतस्तस्यापि कुत्वं प्राप्नोति, जिग्रहणेन ग्रहणात्। न च शक्यते वक्तुम्, `हलः` [[6.4.2]] इति दीर्घत्वे कृते जिग्रहणेन ग्रहणं न भविष्यति, एकदेशविकृतस्यानन्यत्वात्; (व्या।प।16) अन्यथा हि जिगीषतीत्यत्रापि <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घत्वे कृते जिग्रहणेन ग्रहणं न भविष्यति। अथ वा - प्रागेव दीर्घात्? परत्वात्? कुत्वेन भवितव्यमिति यश्चोदयेत्, तं प्रत्याह - `जिनातेः` इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) `जि जये` (धातुपाठः-561) इति यः पठते, तस्यैवेदं प्रतिपदोक्तस्य ग्रहणम्, न जिनातेः। सम्प्रसारणे कृते यज्जीरूपं सम्पदयते, तस्य लाक्षणिकत्वात्। `जिज्यतुः, जिज्युः` इति। `लिट्, अतुस्, उस्, <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणादेशः॥", "73058": "", "73059": "<<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति कुत्वे प्राप्ते प्रतिषेधोऽयमारभ्यते। `कूजः, खजः, गर्जः` इति। `कूज अव्यक्ते शब्दे` (धातुपाठः-223), `खर्ज व्यथने` (धातुपाठः-229) `गर्ज शब्दे` (धातुपाठः-226)॥", "73060": "`समाजः उदाजः` इति। `अज गतिक्षेपणयोः` (धातुपाठः-230)। <<समुदोरजः पशुषु>> [[3.3.69]] इति घञ्। `परिव्राजः, परिव्राज्यम्` इति। `वज व्रज गतौ` (धातुपाठः-252,253)। अथाजेण्र्यति कस्मादुदाहरणं नोपन्यस्तम्? इत्याह - `वीभावस्य` इत्यादि। तत्र `अजेव्र्यघञपोः` [[2.4.56]] इति वीभावस्य विधानमिति; तेन तस्योदाहरणं नोपपद्यते, ततो न दर्शितमित्यभिप्रायः। चकारोऽनुक्तसमुच्चयार्थः, तेन वजेरपि प्रतिषेधो भवति - वाजः, वाच्यमिति॥", "73061": "`भुजः` इति। `भुज पालनाभ्यवहारयोः` (धातुपाठः-1454), `हलश्च` [[3.3.121]] इति धञ्। अत्र `अवे तृस्त्रोर्घञ्` [[3.3.120]] इत्यतो घञनुवर्तते। `न्युब्जः` इति। यदा दकारोपध उच्यते `उद्ज आर्जवे` इति तदा दकारस्य बकारो निपात्यते। अथ वा - `असिद्धेभ उद्जेः` [`इयवरट्` सूत्रस्थमेतत्? वचनं महाभाष्ये] इत्यनयेष्टआ दकारस्य भकारे कृते जश्त्वेन बकारो भवति। यदि तु बकारोपधः `उब्ज आर्जवे` इति तदा समुद्ग इतयतर बकारसय दकारो वक्तव्यः॥", "73062": "`प्रयाजः, अनुयाजः` इति। प्रपूर्वादनुपूर्वाचच यजेः <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति घञ्? तस्मिन्न कुत्वं निपात्यते। `प्रदर्शनार्थम्` इति। अन्यस्याप्येवंप्रकारस्योपलक्षणार्थमित्यर्थः। तेनान्यत्रापि प्रयाजानुयाजप्रकारे यज्ञाङ्गे कुत्वं न भवति। प्रदर्शनार्थता पुनः प्रयाजानुयाजशब्दयोर्यज्ञाङ्गगरहणाद्वेदितव्या, तद्ध्येवमर्थं क्रियते। कथं नाम प्रयाजनृयाजगरहणस्योपलक्षणार्थता प्रतीयेत! [प्रतीयते - प्रांउ। पाठः] अन्यथा हि निपातनसामर्थ्यादेव यज्ञाङ्गविषयता विज्ञायत इति तन्न कर्तव्यमेव स्यात्॥", "73063": "`वञ्चम्` इति। `वञ्चु चञ्चु तञ्चु त्वञ्च म्रुञ्चु म्लञ्चु भ्रुचु म्लुचु गत्यर्थाः (धातुपाठः-189-196)। कर्मणि घञ्। वञ्च्यं वञ्चन्ति गन्तव्यं गच्छन्तीत्यर्थः। `चङ्कम्` इति। `हलश्च` [[3.3.121]] इति घञ्॥", "73064": "`न्योकः` इति। निपूर्वात्? `उच समवाये` (धातुपाठः-1223) इत्यस्मात्? `इगुपधज्ञप्रीकिरः कः` [[3.1.135]] - न्युचतीति न्योकः, निवसतीत्यर्थः। न्युचन्त्यस्मिन्निति `घञर्थे कविधानम्` (वा।306) इति वा कः - न्योकः, निवसन्त्यस्मिन्नित्यर्थः। `किमर्थं पुनः` इत्यादि। एवं मन्यते - रूढिशब्दोऽयम्, नात्र कश्चिदवयवार्थोऽस्ति, व्यत्पत्तिः केवलं कर्तव्या, सा च `हलश्च` [[3.3.121]] इति घञ्यपि कृते भवत्येव, ततो नार्थोऽनेन योगेनेति। `घञि सत्याद्युदात्तः स्यात्` इति। <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन। अथ दिवौकसः, जलौकस इत्यादौ कथं कुत्वम्ष यावता नात्र कप्रत्ययोऽस्ति, नापि धिण्ण्यतौ, किं तर्हि? असुन्निति? अत आह - `दिवौकसः` इत्यादि। गतार्थम्॥", "73065": "`अवश्यपच्यम्` इत्यादि। `डुपचष्? पाके` (धातुपाठः-996), `वच परिभाषणे` (धातुपाठः-1842), `आवश्यकाधमण्र्ययोर्णिनिः` [[3.3.170]] इत्यनुवृत्तौ <<कृत्याश्च>> [[3.3.171]] इत्यावश्यके ण्यत्। मयूरव्यंसकादित्वात्? [[2.1.71]] समासः, `लुभ्येदवश्यमः कृत्ये तुम्काममनसोरपि` (काशिका 6.1.149) इत्यनयेष्टआऽवश्यमो मकारलोपः॥", "73066": "`ण्ये` इत्येव। अनावश्यकार्थमिदम्। `याज्यम्` इत्यादि। `यज देवपूजादौ` (धातुपाठः-1002), `टुयाच्? याच्ञायाम्` (धातुपाठः-863), `रुच दीप्तौ` (धातुपाठः-745), `वच परिभाषणे` (धातुपाठः-1842) प्रपूर्वः, `ऋच स्तुतौ` (धातुपाठः-1302)। कथं पुनॠचेण्र्यत्, यावता `ऋदुपधाच्चाकॢपि चृतेः` [[3.1.110]] इति ण्यदपदादेव क्यपा भवितव्यम्? इत्याह - ऋदुपधात्` इत्यादि। अथ प्रवचिग्रहणं किमर्थम्, यावता <<वचोऽशब्दसंज्ञायाम्>> [[7.3.67]] इत्यनेनैव प्रतिषेधो भविष्यति? इत्याह - `प्रवचिग्रहणं शब्दसंज्ञार्थम्` इति। स्यादेतत्। नास्त्येव कश्चिच्छब्दो यस्य वाच्यमिति नामधेयम्? इत्याह - `प्रवाच्यो नाम` इत्यादि। `अपरे पुनः` इत्यादिना मतान्तरं दर्शयति। `एतत्तु` इति। अविवाक्यमेतद्रूपम्। कः पुनरसौ विशेषः? इत्याह - `दशरात्रस्य` इत्यादि। यस्मिन्? याज्ञिका न विब्राउवते, तस्य दशरात्रस्य यद्दशमाहस्तत्रैवैतच्छशब्दरूपमिष्यते, नान्यत्र। यद्येवम्, अनर्थकं नियमार्थं प्रवचिग्रहणम्, अवश्यं तस्य विशिष्टविषये वुत्तिर्यथा स्यादित्यवमर्थो यत्नः कर्तव्यः, तत एव यत्नात्? तत्र कुत्वमपि भविष्यति? नैतदस्ति; नियमाद्ध्यन्योपसर्गस्य कुत्वप्रतिषेधो निवर्तते। अभिधेयव्यवस्था तु प्रसिद्धिवशादेव विज्ञास्यते। `ण्यति प्रतिषेधे` इत्यादि। ण्यति प्रतिषेधेऽस्मिन्? क्रियमाणे `त्यज हानौ` (धातुपाठः-986) इत्यस्योपसंख्यानं कर्तव्यम्। उपसंख्यानशब्दसय प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - चकारोऽनुक्तसमुच्चयार्थः, तेन त्यजेरपि प्रतिषेधो भविष्यतीति॥", "73067": "", "73068": "प्रपूर्वस्य निपूर्वस्य च `युजिर्? योगे` (धातुपाठः-1444) इत्यस्य ष्यति कुत्वाभावो निपात्यते, स चेण्ण्यच्छक्यार्थे भवति। शक्यार्थे पुनण्र्यत् `शकि लिङ्? च` [[3.3.172]] इत्यनेन वेदितव्यः। तत्र हि <<कृत्याश्च>> [[3.3.171]] इत्यनुवर्तते। अथ किमर्थं पुनर्निपातनम्, यावता `ण्ये` [[7.3.65]] इत्यनुवर्तत एव? तत्र `प्रयुजनियुजोः शक्यर्थे` इति वक्तव्ये निपातनं रूढर्थम्। अगुणभूता यत्र शक्यार्थता तत्र यथा स्यात् - प्रयोज्यो भृत्यः, नियोज्यो दास इति। स्वमिनि प्रयोज्यो नियोज्य इति न भवति। न हि तत्र प्रयोज्यनियोज्यशब्दौ रूढौ, किं तर्हि? गुणभूतादेव॥", "73069": "`भोज्यम्` इति। `भुज पालनाभ्यवहारयोः` (धातुपाठः-1454) इत्यस्य ण्यति भक्ष्येऽभिधेये कुत्वाभावो निपात्यते। `भोज्या यवागूः` इति। ननु च भक्षिरयं खरविशदेऽभ्यवहार्ये वर्तते, न तु द्रवद्रव्ये, यथा - <<संस्कृतं भक्षाः>> [[4.2.16]] इत्यत्र, तत्कथं `भक्ष्ये` इत्युच्यमाने यवाग्वां भवति? इत्याह - `इह भक्ष्यम्` इत्यादि। नावश्यं भक्षिः खरविरादे वर्तते। तथा हि - द्रवद्रव्येऽप्यस्य प्रयोगो द्रृश्यते। यथा - अबभक्षः, वायुभक्षः, वायुभक्ष इति। तस्मादभ्यवहार्यसामान्ये भक्षिर्वर्तत इति यवाग्वामपि भवति। `भुजो भक्ष्ये` इति वक्तव्ये निपातनं रूढर्थम्। अभ्यवहार्ये भक्ष्ये कर्मणि यथा स्यात्? परिपालनीये मा भूत् - भोग्या अपूपाः। पालनीया इत्यर्थः॥", "73070": "`ददन्` इति। `डुदाञ्? दाने` (धातुपाठः-1091), लिङर्थे लेट्? [[3.4.97]] , झेरन्तादेशः, [[7.1.3]] , <<इतश्च लोपः परस्मैपदेषु>> [[3.4.97]] इतीकारलोपः, <<लेटोऽडाटौ>> [[3.4.94]] इत्यट्, शप्, तस्य जुहोत्यादित्वात्? श्लुः `श्लौ` [[6.1.10]] इति द्विर्वचनम्, संयोगान्तलोपः, [[8.2.23]] `ङमो ह्रस्वावचि ङमुण्णित्यम्` [[8.3.32]] इति ङ्मुडागमः। `सोमोददद्गन्धर्वाय` इति। ददातेस्पिप्, शेषं पुर्ववत्। `यदग्निरग्नये ददात्` इति। ददा+आदिति स्थितेऽकः सवर्णे दीर्घत्वम्? [[6.1.97]] शेषं पूर्ववत्। यद्याडागमे [`यद्यडागमे` - प्रांउ।पाठः] कृते सत्यपि लोपे च ददादिति सिध्यति, किमर्थं तर्हि वेत्युच्यते? इत्याह - `तत्र` इत्यादि। स्यादेतत् - विस्ष्टार्थं तर्हि वाग्रहणणयुक्तम्; वदादित्यस्य रूपस्यासिदिंध प्रत्याशङ्काया अभावात्? इत्यत आह - `एषा हि` इत्यादि। सुबोधम्।", "73071": "`निश्यति` इत्यादि। `शो तनूकरणे` (धातुपाठः-1145), `छो छेदने`[`नास्त्ययं धातुः` - मुद्रितग्रन्थे] (धातुपाठः-1146) `दो अवखण्डने` (धातुपाठः-1148) `षो अन्तकर्मणि` (धातुपाठः-1147)। अथ किमर्थं इयनीत्युच्यते, न `शिति` इत्येवोच्येत, एवं ह्रुच्यमाने श्यन्येव लोपो भविष्यति, न ह्रोकारान्ताच्छ्यनोऽन्यच्छित्? सम्भवति, लघु चैवं सूत्रं भवति, तत्रायमप्यर्थः - `ष्ठिवुक्लमुचमां शिति` [[7.3.75]] इत्यत्र शिद्ग्रहणं न कर्तव्यं भवतीत्येतदेव तत्रानुवर्त्तिष्यते? सत्यं सिध्यत्येव, किन्तु प्रतिपत्तिगौरवं स्यात्। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थं श्यनीत्युक्तम्। `ओतः` इति। तपरकरणं मुखसुखार्थम्। न ह्रन्यदस्य निवर्त्त्यं विधेयं वा सम्भवति॥", "73072": "`अधुक्षाताम्, अधुक्षाथाम्` इति। दुहेर्लुङ्, च्लिः, `स्वरितञितः` [[1.3.72]] इत्यात्मनेपदम्, आतामाथाम्, `शाल इगुपधादनिटः क्सः` [[3.1.45]] इति क्सादेशश्च्लेः, तस्यानेन <<अलोऽन्त्यस्य>> [[1.1.52]] लोपः, `दादेर्घातोर्घः` [[8.2.32]] इति हकारस्य धकारः, `एकाचो वशो भष्` [[8.2.37]] इत्यादिना भष् - धकारः, `खरि च` [[8.4.54]] इति चर्त्वम् - धकारस्य ककारः `इण्कोः` [[8.3.57]] इति षत्वम्। `अधिक्षि` इति। उत्तमपुरुषैकवचनमिट्। `अधुक्षत्` इति। तिप्, `इतश्च` [[3.4.100]] इतीकारलोपः। `अधुक्षताम्` इति। `तस्थस्थमिपाम्` [[3.4.101]] इत्यादिना तसस्ताम्। ककारक्त उपादानम्, इह मा भूत् - हंसौ हंसाः, षत्सौ, वत्सा इति॥", "73073": "`दुह प्रपूरणे` (धातुपाठः-1014), `दिह उपचये` (धातुपाठः-1015), `लिह आस्वादने` (धातुपाठः-1016), `गुहू संवरणे` (धातुपाठः-896) - सर्वं एते स्वरितेतः। स्वरितेत्त्वात्? `स्वरितिञितः कत्र्रभिप्राये क्रियाफके` [[1.3.72]] इत्यामनेपदिनः। `अदुग्ध` इति। पूववद्धकरः, `झषस्तथोर्धोऽयः` [[8.2.40]] इति तकारस्य धकारः, <<झलां जश् झशि>> [[8.4.53]] इति धकारस्य गकारः। `अदुग्धाम्` इति। थास्, पूर्ववद्? धत्वादि। `अदुग्ध्वम्` इति। ध्वम्। `अदुह्वहि` इति। वहिः। `अदिग्ध` इति। पूर्ववद्? घत्वादि। `अलीढ` इति। हकारसय `हो ढः` [[8.2.31]] इति ढकारः पूर्ववत्, तकारस्य धत्वं ष्टुत्वञ्च, <<ढो ढे लोपः>> [[8.3.13]] , `ढ्रलोपः पूरवस्य [[6.3.110]] इत्यादिना दीर्घः। `न्यगूढ` इति। एतदपि पूर्वेण तुल्यम्। `व्यत्यपुक्षत` इति। `पुष पुष्टौ` (धातुपाठः-1182) व्यतिपूर्वः। `कर्तरि कर्मण्यतिहारे` [[1.3.14]] इत्यातमनेपदम्, <<षढोः कः सि>> [[8.2.41]] इति षकारस्य ककारः। `अजुक्षामाहि` इति। महिङ। अथ लुग्ग्रहणं किमर्थम्, यावता लोप इत्यनुवर्तत एव? इत्याह - `लोप इति वर्तमाने` इति। यदि लोपग्रहणमनुवर्त्त्य लोपो विधीयते तत्? <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्त्यस्य स्यात्। कि तु सर्वस्यैव भवति; प्रत्ययादर्शनस्य लुक्संज्ञाविधानात्। तस्मात्? सर्वस्य क्सस्य लोपो यथा स्यादित्येवमर्थं लुग्ग्रहणं कृतम्। `वह्रर्थम्` इति। उत्तमपुरुषद्विवचनार्थमित्यर्थः। वहिरर्थः प्रयोजनं यस्य तत्? तथोक्तम्। अथान्यार्थं कस्मान्न भवति? इत्याह - `अन्यत्र तु` इत्यादि। यदात्मनेपदं दन्त्यादि तत्सर्वं झलाद्येव। तत्रान्त्यस्यैवाकारस्य लोपे कृते <<झलो झलि>> [[8.2.26]] इति सकारसय लोपेनेष्टं सिध्यत्येव। स्यादेतत् - अन्यत्रापि लुका विना न सिध्यति; अकारलोपस्य सकारलोपे कर्तव्ये `अचः परस्मिन्? पूर्वविधौ` [[1.1.57]] इति स्थानिवदभावादिति? अत आह - `स्थानिवद्भावोऽप्यकारलोपस्य नास्ति` इति। कस्मान्नास्ति? इत्याह - `पूर्वत्रासिद्धे न स्थानिवत्` इति। तस्मान्नान्यार्थं लुग्ग्रहणम्, अपि तु वह्रर्थमेव। अत्र ह्रझलादित्वात्? <<झलो झलि>> [[8.2.26]] इति सकारलोपो नास्तीति न सिध्यति।`ननु च क्रियमाणेऽपि लुग्ग्रहणे वहौ लुका न भवितव्यमेव, अदन्त्यादित्वात्, न हि दन्त्यौष्ठओ वकारो दन्त्यग्रहणेन गुह्रते? इत्याह - `दन्त्यौष्ठओऽपि` इत्यादि। अत्रैव हेतुमाह - `यदि` इत्यादि। यदि दन्त्यौष्ठ्यौ दकारो दन्त्यग्रहणेन न गृह्रेत्, तदा तावित्येवं ब्राऊयात्, न दन्त्य इति। तावप्युच्यमाने सर्वमिष्टं सिध्यत्येव। न हि तदर्गादन्यद्दन्त्यमात्मनेपदस्यास्ति। तस्माद्दन्त्यौष्ठओऽपि वकारो दन्त्यग्रहणेन गृह्रते। तत्रेदं चोद्यते - यदुक्तम् - `अन्यत्र ह्रन्त्यस्यैव लोपे कृते <<झलो झलि>> [[8.2.26]] इति सकारलोपेनेष्टं सिद्ध्यत्येवेति, तदयुक्तम्; न हि <<झलो झलि>> [[8.2.26]] इत्यनेन सकारमात्रस्य लोपो विधियते, किं तर्हि? सिचः, तथा हि तत्रैव वक्ष्यति - `अयमप सिच एव लोपः`` इति? नैतदस्ति; सिज्ग्रहणस्य च्ल्यादेशस्योपलक्षणार्थत्वाच्च्लेर्थ आदेशस्तत्सम्बन्धिन एव सकारस्य लोपो भवतीत्ययं तत्रार्थो वेदितव्यः॥", "73074": "बहुवचननिर्देशादष्टग्रहणाच्चाद्यर्थो गम्यत इत्याह - `शमादीनाम्` इत्यादि। `शमु उपशमे (धातुपाठः-1201), `तमु काङ्क्षायाम्` (धातुपाठः-1202), `दमु उपशमे` (धातुपाठः-1203), `श्रमु तपसि खेदे च` (धातुपाठः-1204) `क्षमु सहने` (धातुपाठः-1206), `भ्रमु अनवस्थाने` (धातुपाठः-1205), `क्लमु ग्लानौ` (धातुपाठः-1207), `मदी हर्षे` (धातुपाठः-1208) - इत्येतेऽष्टौ शमादयः। `अस्यति` इति। `असु क्षेपणे` (धातुपाठः-1209)। अष्टाभ्यः परेणायं पठते। `भ्रमति` इति। `वा भ्राश` [[3.1.70]] इत्यादिना श्यन्? यस्मिन्? पक्षे नास्ति तत्रेदं प्रत्युदाहरणम्। श्यन्ग्रहणं स्पष्टार्थम्। शक्यते हि <<ओतः श्यनि>> [[7.3.71]] इति यत्? प्रकृतं शन्ग्रहणं तल्लुग्ग्रणेव व्यवहितमपि मण्डूकप्लतिन्यायेनेहानुवर्तयितुम्॥", "73075": "`ष्ठिवु निरसने` (धातुपाठः-1110) `क्लमु ग्लागौ` (धातुपाठः-1207), `चमु छमु जमु झमु अदने` (धातुपाठः-469-472) आङ्पूर्वः। `क्लामति` इति `वा भ्राश` [[3.1.70]] इत्यादिना श्यनोऽभावे शप्। `क्लमिग्रहणं शवर्थम्` (इति। न तु श्यनर्थम्, तत्र पूर्वेणैव सिद्धत्वात्। `चमेराङ्पूर्वस्य` इत्यादिना केवलस्यान्योपसर्गपूर्वस्य वा मा भूदित्येवमर्थं चमेराङ्पूर्वस्य ग्रहणमिति दर्शयति॥", "73076": "`क्रामति` इति। `क्रमु पादविक्षेपे` (धातुपाठः-473)। `आक्रमते` इति। आङ्पूर्वः। <<आङ उद्गमने>> [[1.3.40]] इत्यात्मनेपदम्। `इहोत्क्राम, सङ्क्राम` इत्यादिना चोद्यम्। उत्पूर्वात्? सम्पूर्वाच्च क्रमेर्लोट `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः, तस्य <<अतो हेः>> [[6.4.105]] इति हेर्लुकि कृते <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणनिषेधात्? उत्क्राम सङ्क्राम` इत्यत्र दीर्घत्वं न प्राप्नोति; न ह्रसति प्रत्ययलक्षणे हौ लुप्ते क्रमः परस्मैपदपरता सम्भवति। `नैष दोषः, इत्यादि परीहारः। स्यादेतत्? लुमता लुप्ते क्रमः प्रत्यये हावेव करमिरत्राङ्गमित्याह - `न च क्रमिरङ्गम्` इति। शपा व्यवहितत्वात्। `किं तर्हि? `शपि` इति। शप एव ततो व्यवहितस्य विद्यमानत्वात्॥", "73077": "`इच्छति` इति। <<तुदादिभ्यः शः>> [[3.1.77]] । `गच्छति, यच्छति` इति। `कर्तरि शप्` [[3.1.68]] ।अथ किमर्थम्, `इषु इच्छायाम्` (धातुपाठः-1351) इत्येतस्योदितो ग्रहणम्? इत्याह - `इषेः` इत्यादि। `इष गतौ` (धातुपाठः-1127) इत्यस्य दैवादिकस्येष्यतीत्यत्र मा भूत्। `इष आभीक्ष्ण्ये` (धातुपाठः-1525) इत्यस्य क्रैयादिकसय इष्णातीत्यत्र मा भूदित्येवमर्थमुकारानुबन्ध इषिरिह गृह्रते।ये तर्हीषिमुदितमिह न पठन्ति, तेषामिष्यति, इष्णातीत्यत्रापि प्राप्नोति? इत्यत आह - `ये त्विषिमुदितम्` इत्याद। य इषिमुकारानुबन्धविशिष्टमिह न पठन्ति; त इष्यति, इष्णातीत्यत्र च्छत्वं मा भूदित्येवमर्थम्, <<क्सस्याचि>> [[7.3.72]] इत्यतोऽज्ग्रहणमनुवर्तयन्ति। अनुवर्तमानेऽप्यस्मिन्? यदि तेन शितीत्येतद्विशिष्यते - शित च्छो भवति, किं विशिष्टे? अजादाविति, तदेष्णातेर्लोट्सिपो हीत्यादेशे कृते <<हलः श्नः शानज्झौ>> [[3.1.83]] इति श्नाप्रत्ययस्य शानजादेशे कृते सति इषणेत्यत्र `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इति तदादिविधिना छत्वं स्यादेवेति मन्यमान आह - `तच्च प्रधानमन्ग्रहणं शितीत्यनेन विशिष्यत इति वर्णयन्ति` इति। अचि च्छो भवति स चेच्छिद्भवति। प्राधान्पं पुनरज्ग्रहणस्य विशिष्यमाणत्वादेव। `तथा च सति` इत्यादि। एवमचीत्यस्मिन्? प्रधाने शितीत्यनेन विशिष्यमाणे तदादिविधिर्न भवति। किं कारणम्? इत्याह - `यस्मिन्? विधिः` इत्यादि। न केवलं <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्येतदेव तदन्तविधानं विशेषणेनेष्यते, अपि तु `यस्मिन्विधिस्तददावल्ग्रहणे` (व्या।प।127) इत्येतदेव तदादिविधानं विशेषणेनैवेष्यते। तेन च तदादिविधेरभावादषाणेत्यत्र छत्वं न भवति। असत्यपि तदादिविधौ शानजदेशस्य योऽयमादिराकारस्तत्र शिति परतश्छत्वं कस्मान्न भवति? इत्याह - `न ह्रयम्` इत्यादि। शकारः समुदायानुबन्धः, नाकारस्याचः। तस्मान्नाजेव शित्, अपि तु समुदाय एवेति न भवति च्छत्वम्॥", "73078": "`पा पाने` (धातुपाठः-925), `घ्रा गन्धोपादाने` (धातुपाठः-926) `ध्मा शब्दाग्निसंयोगयोः` (धातुपाठः-927), `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928), `म्ना अभ्यासे` (धातुपाठः-929), `दाण्? दाने` (धातुपाठः-930), `दृशिर प्रेक्षणे` (धातुपाठः-988); `ऋ गतिप्रापणयोः, (धातुपाठः-936), `ऋ सृ गतौ च` (धातुपाठः-1298,1099); `शद्लृ शातने` (धातुपाठः-1428), `षद्लृ वशरणे` (धातुपाठः-1427) तौदादकः, `षद्लृ? विशरणगत्यवसादनेषु` (धातुपाठः-854) भौवादिकः - एषां धातूनां स्थाने यथासंक्यं पिबादय आदेशा भवन्ति। ननु च द्वौ सदी, तत्र वैषम्याद्यथासंख्यं न प्राप्नोति? नैष दोषः; एक एव हि सदिर्विकरणद्वयार्थ द्वियपदिश्यते। `शीयते` इति। <<शदेः शितः>> [[1.3.60]] इत्यात्मनेपदम्।`अथ वा` इत्यादि। `पिबतेर्लघूपघगुणः प्राप्नोति` इत्यत्र परिहारान्तरम्। यद्याद्यदात्तो न निपात्येत, ततो धातुस्वरेणान्तोदात्तत्वे सति <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इति शपा सहैकदेशे सति <<अतो गुणे>> [[6.1.97]] पररूपत्वे उदात्ते कृते पिबतीति मध्योदात्तं पदं स्यात्, आद्युदात्तञ्चेष्यते, तस्मादाद्युदात्तो निपात्यते। स निपातनस्वरो धातुस्वरसय बाधको यथा स्यात्। `सर्त्तः` इत्यादि। वेगः=जवः; स यस्यास्ति स वेगी, तस्य भावो वेगिता, तस्यां गतौ सर्तेर्धावादेशमिच्छन्ति। स च `लुग्वा दुहदिह` [[7.3.73]] इत्यादेः सूत्राद्वाग्रहणानुवृत्तेष्र्यवस्थितविभाषात्वाल्लम्यत इति वेदितव्यम्। अर्त्तिसर्तीति शितपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्त्यर्थः। न हि यङलुकि शित्परः सम्भवति; अदादत्वत्? ततो विहितस्य शपो लुग्वधानात्। <<बहुलं छन्दसि>> [[7.4.78]] इति शपो लग्न भविष्यतीति चेत्? न, छन्दस यथादृष्टानुविधानात्। अर्त्तिप्रभृतेश्छब्दसि यङ्लुकि शबन्तस्य प्रयोगादर्शनात्॥", "73079": "`जनेर्देवादकसय ग्रहणम्` इति। द्वौ जनी - दैवादिकः `जनी प्रादुर्भावे` (धातुपाठः-1149), जौहोत्यादिकः `जन जनने` (धातुपाठः-1105) इति। तत्रैह दैवादिकस्य ग्रहणम्, नेतरस्य। न हि ततः परः शित्? सम्भवति, श्लुविधानात्। दीर्घोच्चारणस्य प्रयोजनमुत्तरत्र वक्ष्यति॥", "73080": "`व्ली गतौ वृदिति यावत्? केचिदिच्छन्ति` इति। तेषां ततः परेण पठितयोः `व्री वरणे` (धातुपाठः-1504), `भ्री भये` (धातुपाठः-1505) - इत्येतयोह्र्यस्वत्वेन न भवितव्यम् - व्रीणाति, भ्रीणातीति। ननु ल्वादीनां परिसमाप्त्यर्थं तद्वृत्करणम्, अन्यथा आ गणान्तात्? तेभ्यो निष्ठानत्वं स्यात्, ल्वादिपरिसमाप्त्यर्थे च तस्मिन्नागणान्ताः प्वादयो युक्ताः? इत्यत आह - `वृत्करणम्` इत्यादि। न ह्रुभयगणपरिसमाप्त्यर्थता केनचिद्विरुध्यत इत्यभिप्रायः।`अपरे` इत्यादि। ल्वादेर्गणस्यानन्तरत्वात्? तत्परिसमाप्त्यर्थतैव वृत्करणस्य युक्तेति भावः। तेषामेवमिच्छतां व्री वरणे, भ्रो भये - इत्येतयोरपि भवितव्यं ह्यसवत्वेन व्रिणाति, भ्रिणातोति; प्वादिषूभयोरन्तर्भावात्। `जानातीत्यत्र ह्रस्वः प्राप्नोति` इति। तल्याप प्वाद्यन्तर्भावादित्याह - `ज्ञाजनोर्जा` इत्यादि। यदि `जा` इत्यादेशे कृते ह्यसवः स्यात्? तदा दीर्घोच्चारणमनर्थकं स्यात्, `ज` इत्येवं ब्राऊयात्। तस्मात्? दीर्घोच्चारणसामर्थ्यज्जानातीत्यत्र ह्रस्वो न भविष्यति। ननु च दीर्घोच्चारणं जन्यर्थं स्यात्, न हि जनेर्ज इत्यादेशे कृते जायत इति रूपं सिध्यति? इत्यत आह - `ज इत्यपि ह्रादेशे कृते` इत्यादि। येषान्तूभयगणपरिसमाप्त्यर्थं वृत्करणं तेषां किमर्थं जा इति दीर्घोच्चारणम्? जानातीत्यत्र दीर्घो यथा स्यात्? नैतदस्ति; <<अतो दीर्घो यञि>> [[7.3.101]] इति दीर्घो भविष्यति? ननु च `अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य` (व्या।प।38) इति न प्राप्नोति? नैतदस्ति; `निष्ठितस्य` इत्युच्यते, न च ज इत्यादेशे कृते निष्ठितमङ्गं भवति; अप्रयोगार्हत्वात्। प्रतिपत्तिलाघवार्थं दीर्घोच्चारणम्॥", "73081": "`प्रमिणन्ति` इति। `हिनु मीना` [[8.4.15]] इति णत्वम्, `श्नाभ्यस्तयोरातः` [[6.4.112]] इत्याकारलोपः। मीनातेरिह विकरणनिर्देशः `मीञ्? हिंसायाम्` (धातुपाठः-1476) इत्यस्य क्रैयादिकस्य ग्रहणं यथा सात्, `मीङ्? हिंसायाम्` (धातुपाठः-1137) इत्यस्य दैवादिकसय ग्रहणं मा भूदित्येवमर्थम्। `मीञः` इति निर्देशो न कृतो वैचित्र्यार्थः॥", "73082": "`ञिमिदा स्नेहने` (धातुपाठः-743,1243) इति भौवादिको दैवादिकश्च, तत्र दिवादेरिह ग्रहणम्; इतरस्व ह्रङित्त्वाच्छपः <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्येवं गुणः सिद्धः। `मिद्यते` इति। <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्, <<सार्वधातुके यक्>> [[3.1.67]] ॥", "73083": "इकात्र सन्निहितेन प्रकृतमङ्गं विशिष्यते, विशेषणेन तदन्तविधिर्भवतीत्यत आह - `इगन्तस्य` इत्यादि। `अजुहवुः` इति। लङ्, `सिजभ्यस्तविदभ्यश्च` [[3.4.109]] इति झेर्जुस्, शपः श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्। `अबिभयुः` इति। `ञिभो भये` (धातुपाठः-1084)। `अबिभरुः` इति। `डु भृञ्? धारणपोषणयोः` (धातुपाठः-1087), `भुञामित्` [[7.4.76]] इत्यभ्यासस्येत्त्वम्। `चिनुयुः सुनुयुः` इति। लिङ्, यासुट्? झेर्जुस्, <<स्वादिभ्यः श्नुः>> [[3.1.73]] <<उस्यपदान्तात्>> [[6.1.96]] इति पररूपत्वाम्। `तत्र नाप्राप्ते` इत्यादि। सार्वाधातुकमाश्रयो यस्यतत्? सार्वधातुकाश्रयम्। ङित्त्वं निमित्तं यस्य प्रतिषेधस्य स तथोक्तः। स सर्वत्रैव जुसि प्राप्नोतीति तस्मिन्नाप्राप्तेऽयं गुण आरभ्यमाणस्तस्यैव बाधको भविष्यति; न तु यस्य यासुडाश्रयं ङित्त्वं निमित्तम्, तस्यापि। अत्र हि प्राप्ते चाप्राप्तेऽयमारभ्यते। चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते। चकारः समुच्चये। नान्यत्? समुच्चेतव्यमस्तीत्यस्यैव लक्षणस्य पुनरावृत्तिमाचष्टे। तेन प्रकृतलक्षणस्यापि प्रतिषेधविषये भवति। `अदीधयुः` इति। `दीधीङ्? दीप्तिदेवनयोः` (धातुपाठः-1076), लङ्? व्यत्ययेन परस्मैपदम्, झिः, <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यभ्यस्तसंज्ञा, `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुस्, अदादित्वाच्छपो लुक्। ततः <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः प्राप्तः, स <<क्ङिति च>> [[1.1.5]] इति प्रतिषिद्धः, सोऽप्यनेन पुनः प्राप्तौ <<दीधीवेवीटाम्>> [[1.1.6]] इति प्रतिषिद्धः समुच्चयार्थत्वाच्चकारस्य भवति॥", "73084": "`चेता, स्तेता` इति। तृच्। `ऋदुशनस्पुरोदंसोऽनेहसाञ्च` [[7.1.94]] इत्यनङ्, `सर्वनामस्थाने` [[6.4.8]] इत्यादिना दीर्घः। `सार्वधातुकार्धधातुकयोरिति किम्`? इति। एवं मन्यते - प्रत्यय इति वक्तव्यम्, सङीति वा, एवं ह्रुच्यमाने भवतीत्यादौ गुणः सिद्ध एव, सङीति प्रत्याहारग्रहणं सनः सकारादारभ्य महिङो ङकारेण। `अग्नित्वम्` इति। <<तस्य भावस्त्वतलौ>> [[5.1.119]] इति त्वप्रत्ययः। `अग्निकाम्यति` इति। <<काम्यच्च>> [[3.1.9]] इति काम्यच्। `यदि इत्यादि। यदि प्रत्यय इत्युच्येत, त्वाकाम्यचोरपि स्यात्। अथापि सङीत्युच्येत, काम्यचि स्यात्; तस्यापि प्रत्याहरेऽन्तर्भावात्॥", "73085": "`जागरयति` इति। णिच्। `जागरकः` इति। ण्वुल्। `साधुजागरी` इति। ताच्छील्ये णिनिः। `जागरञ्जागरम्` इति। `आभीक्ष्ण्ये णमुल्` [[3.4.22]] , `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `जागरो वर्तते` इति। भावे धञ्। एतानि वृद्धिविषय उदाहरणानि। `जागरिता, जगरितवान्` इति प्रतिषेधविषये। किं पूनः कारणं वृद्धिविषये प्रतिषेधविषये चैवोपन्यस्तान्युदाहरणानि? इत्यत आह - `वृद्धिविषये प्रतिषेधविषये च` इत्यादि। वृद्धिप्रतिषेधविषयादन्यत्र पूर्वसूत्रेण गुणः सिद्धो भवति। तस्मादवृद्धिप्रतिषेधविषयेऽयं गुण आरभ्यते, तेन तद्विषयाणामेवोदाहरणानासुपन्यासः। जागरयतीत्यादौ गुणे कृते रपरत्वे च <<अत उपधायाः>> [[7.2.116]] इति वृद्ध्या भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निरकर्त्तुमाह - `तस्मिन्? कृते` इत्यादि। किं पुनः कारणं तस्मिन्? कृते न भवति? इत्याह - `यदि हि` इत्यादि। यद्यस्मिन्? कृतेऽपि गुणे <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः स्यात्, जागरयतीत्यादिकं रूपं न स्यात्, तथा चानर्थको गुणः स्यात्; <<अचो ञ्णिति>> [[7.2.115]] इत्यनयैव वृद्ध्या सिद्धत्वात्। `चिण्णलोश्च` इत्यादि। चिण्णलोः प्रतिषेधस्येतत्? प्रयोजनम् - वृद्धेः श्रवणं यथा स्यात्। यदि तु कृतेऽपि गुणे <<अत उपधायाः>> [[7.2.116]] इति स्यात्, चिण्णलोः प्रतिषेधोऽनर्थकः यात्; अस्त्वत्र गुणः, सत्यपि तस्मिन्? पुनरुपधाया इति वृद्ध्या भवितव्यम्, ततश्च वृद्धेः श्रवत्रं भविष्यतीति। `अजागारि` इति। लुङ्, च्लिः, `चिण्भावकर्मणोः` [[3.1.66]] इति च्लेश्चिण्, <<चिणो लुक्>> [[6.4.104]] इति तकारस्य लुक्। `जागृतः, जागृथः` इति। लट्, तस्थसौ, तयोः <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वम्, अदादित्वाच्छयो लुक्। `वीति केचिदिकारमुच्चारणार्थं वर्णयन्ति` इति। किं पुनरेवं सतीष्टं सिध्यति, यत एवं व्याचक्षते? आह - `क्वसावप` इत्यादि। यदि समुदायस्थ वेः प्रत्ययस्येवं ग्रहणं स्यात्, क्वासौ गुणप्रतिषेधो न स्यात्। यदि त्विकार उच्चारणार्थो वर्णमात्रस्यैवेदं ग्रहणम्, तदा `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इति तदादिविधिना क्वासावपि गुणप्रतिषेधः सिद्धो भवति। `जजागृवान्` इति। लिटः <<क्वसुश्च>> [[3.2.107]] इति क्वसुरादेशः, `उगिदचाम्` [[7.1.70]] इति नुम्, `जजागृवान्` इति। लिटः <<क्वसुश्च>> [[3.2.107]] इति क्वसुरादेशः, `उगिदचाम्` [[7.1.70]] इति नुम्, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। `केचित्` इति वचनात् - अपर उच्चारणार्थं न वर्णयन्तीत्युक्तं भवति। त एवं मन्यन्ते - छान्दसः क्वसुः, लिट्? च छन्दसि सार्वधातुकमपि भवति; <<छन्दस्युभयथा>> [[6.4.86]] इति वचनात्? ततः <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वादेव पर्युदासो भविष्यतीति। `अजागरुः` इत्यादि। एवं मन्यते - <<जाग्रोऽविचिण्णल्ङित्सु>> [[7.3.85]] इति ङित्त्वादेव पर्युदासो भविष्यतीति। `अजागरुः` इत्यादि। एवं मन्यते - `अविचिण्णल्ङित्सु` इति प्रसज्यप्रतिषेधोऽयम् - विचिण्णल्ङितसु न भवतीति, ततश्चाजागरुरित्यत्रापि `जुसि च` [[7.3.83]] इत्यनेनापि प्राप्तस्य गुणस्या प्रतिषेधः प्राप्नोति। एवमहं जजागरेत्यत्र <<णलुत्तमो वा>> [[7.1.91]] इति वचनाण्णित्त्वं यदा नास्ति तदा `सार्वधातुकार्धधातुकायोः` [[7.3.84]] इति गुण इष्यते, सोऽस्मात्? प्रतिषेधान्न प्राप्नोति। `न` अप्रतिषेधात्` इति परिहारः। नायं दोषः; कुतः? अप्रतिषेधात्। अप्रसज्यप्रतिषेधा दित्यर्थः। यदि प्रसज्यप्रतषेधो न भवति, कस्तह्र्रयम्? इत्याह - `अविचिण्णाल्ङित्स्विति पर्युदासोऽयम्` इति। प्रसज्यप्रतिषेधे हि लक्षणान्तरेणापि प्रसक्तस्य प्रतिषेधः स्यात्, न पर्युदासे। तथा हि पर्युदासे विचिण्णल्ङिद्भ्योऽन्यत्र गुणो विधीयते, न तु तेषु विचिण्णलादिषु प्रतिषिध्यते। पर्युदासश्चायम्। तस्माज्जुसि णलि च गुणो भवत्येव। अभ्युपेत्यापि प्रसज्यप्रतिषेधं परहारान्तरमाह - `अथ वा` इत्यादि। `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या। प।19) इत्यानन्तर्यात्? जाग्र इति या प्राप्तिस्तस्या अयं प्रतिषेधः, या तु `जुसि च` [[7.3.83]] इत्यादिना लक्षणान्तरेण प्राप्तिः सा न प्रतिषिध्यते। `अजागरुः` इति। लङ्, <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यभ्यस्तसंज्ञा, `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुस्॥", "73086": "पुगन्तस्याङ्गस्य, लघूपधस्य चेत्युभावपि बहुव्रीही - पुगन्तो यस्य तत्? तथोक्तम्, लध्वी उपधा यस्य तल्लघूपधम्। `भेत्ता, छेत्ता` इति। ननु च प्रत्ययादेर्हलोऽङ्गावयवस्य चानन्तर्ये सति <<संयोगे गुरु>> [[1.4.11]] इति गुरुसंज्ञया लघुसंज्ञायां वाधितायां गुणेनात्र न भवितव्यम्? इत्यत आह - `प्रत्ययादेः` इत्यादि। <<त्रसिगृधिधृषिक्षिपेः क्नुः>> [[3.2.140]] , <<हलन्ताच्च>> [[1.2.10]] इति क्नुसनोः कित्करणस्यैतदेव प्रयोजनम् - गृध्नुः, विभत्सतीत्यादौ गुणो मा भूदिति। यदि प्रत्ययादेर्हलोऽङ्गावयवस्य चानक्तर्ये सति लघूपधगुणो न स्यात्? तयोः कित्त्वं न कुर्यात्, कृतञ्च, तस्मात्? क्नुसनो कित्त्वं कुर्वता - प्रत्ययाङ्गावयवयोर्हलोरानन्तर्येऽपि लघूपधगुणो न व्यावर्त्त्यत इति ज्ञापितमेतत्। ननु च सनः कित्त्वं सिसृक्षतीत्यत्रामागमो मा भूदित्येवमर्थं स्यात्? नैतदस्ति; यदि ह्रेतत्? प्रयोजनमभिमतं स्यात्? तत्रैवं प्रतिषेधं कुर्यात् - सूजदृशोर्झल्यमकित्सनोरिति। तस्मात् सनः कित्करणं ज्ञापकमेव यद लघूपधल्यानेन गुणो विधीयते। एवं सति <<इको गुणवृद्धी>> [[1.1.3]] इत्यस्या उपस्थाने सति यत्र तत्र स्थितस्येको गुणः प्रसज्येत, ततश्चेहापि प्राप्नोति - भिनत्तीति, भवति ह्रतर लघूपधमङ्गम्। न च शक्यते वक्तुम् - <<हलोऽनन्तराः संयोगः>> [[1.1.7]] इति संयोगसंज्ञायां सत्यां लघूपधमेतन्न भवतीति गुणो न भविष्यतीति। यज्ज्ञापितमेतदिदाधीमेव - प्रत्ययादेरङ्गावयवसय च हलोरानन्तर्ये सति लघुपधगुणो न व्यावर्त्त्यत इति? अत आह - `उपधा चात्र` इत्यादि। इक्परिभाषया ह्यत्रकः सनिधापितत्वादिगेवोपधा गृह्रते, तेन भिनत्तीत्यत्र गुणो न भवति; न ह्यत्राङ्गस्येगुपधा, किं तर्हि? अकारः। `अपरे तु` इत्यादिओ। सूत्रार्थ वर्मयन्ती त वक्ष्यमाणेन सम्बन्धः। पुकि अन्तः पुगन्तः - `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः। अन्तशब्दोऽयमवयववचनः, पुकि परतोऽवयव इत्यर्थः। कस्यावयवः? `अङ्गस्य` इत्यनुवृत्तेः पुगिति वचनात्पुगागमवतोऽङ्गस्य। न पुनः पुगन्त इक्परिभाषोपश्तानादिगेव वेदितव्यः। `लध्वी उपधा लघूपधा` इति। विशेषणसमासः। `पुगन्तलघूपधम्` इति। समाहारद्वन्द्वोऽयम्। `सूत्रार्थम्` इति। तूत्रार्थैकदेशे सूत्रार्थशब्दो वर्तते, न ह्रेतावानेव सूत्रार्थः, अपरिसमाप्तत्वात्। अपरिसमाप्तिस्तु पुगन्तस्य तस्याश्च लघूपधाया गुणो भवतीत्यस्य सूत्रार्थस्यैकदेशस्यानभिधानात्। `वर्णयन्ति` इति। व्याचक्षत इति। भिनत्तीत्यत्र गुणो मा भूदित्येवमर्थम्। न ह्यत्र सूत्रार्थे भिनत्तीत्यत्र गुणः प्रसज्येत। बहुव्रीहौ ह्राश्रीयमाणेऽङ्गस्यान्यपदार्थस्य यो नाम कश्चिदिक्? तस्य यत्र तत्रावस्थितस्य गुणः प्रसज्येत। बहुव्रीहौ हयश्रीयमाणोऽङ्गसयान्यपदार्थस्य यो नाम कश्चिदिक्? तस्य यत्र तत्रावस्थितस्य गुणः प्रसज्येत। तत्पुरेषे तु नायं दोषः, तत्र हि लघूपधेग्भ्यामङ्गं विशिष्यते, अतस्तस्या एव गुणो विधीयते - अङ्गस्य या लघ#ऊपधा इक्? तस्या गुणो भवतीति। भिनत्तीत्यत्रयाऽङ्गस्य लघूपधा नासाविक्, यश्चेक्? स यद्यपि लघुर्भवति लघुर्भवति न त्वस्योपधा। तस्मात्? तत्पुरुष आश्रीयमाणे नेह गुणस्य प्रसङ्गः। सार्वधातुकार्धधातुकयोरित्येव - `अगनिचित्त्वम्, अग्निचितकाम्यति`। पुगन्तग्रहणं लघूपधार्थम्॥", "73087": "`नेनिजानि, वेविजानि, परिवेविषाणि` इति`। `णिजिर्? शौचपोवणयोः` (धातुपाठः-1093) `विजिर्? पृथग्भावे` (धातुपाठः-1094) `विषु व्याप्तौ` (धातुपाठः-1095)-एभ्यो लोट्, मिप्? <<मेर्निः>> [[3.4.89]] , <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्यट्, <<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति शपः श्लुः, `शलौ` [[6.1.10]] इति द्विर्वचनम्, <<निजां त्रयाणां गुणः श्लौ>> [[7.4.75]] इत्याभ्यासस्य गुणः। `अनेनिजम्, अवेविजम्, पर्यवेषिषम्` इति। लङ्, `तस्थस्तमिपां तान्तन्तामः` तान्तन्तामः` [[3.4.101]] इति मिपोऽम्भावाः। `वेदानि` इति। `विद ज्ञाने` (धातुपाठः-1064)। `पूर्ववल्लोडादि यथायोगम्, अदादितावाच्छपो लुक्। `नेनेक्ति` इति। लट्, तिप्, <<चोः कुः>> [[8.2.30]] इति कुत्वम्। अथ पिद्ग्रहणं किमर्थम्, यावताऽपिति सार्वधातुके <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्त्वे सति <<क्ङिति च>> [[1.1.5]] इति निषेधेन भवितव्यमिति, न चानयोः प्रतिषेधयोः कश्चिद्विशेषोऽस्ति? इत्यत आह - `पिद्ग्रहणम्` इति। <<तृणह इम्>> [[7.3.92]] इतीमं वक्ष्यति, स पिति यथा स्यात्, अपिति मा भूदित्येवमर्थं पिद्ग्रहणम्। `निनेज` इति। लिट्। स च `लिट्? च` [[3.4.115]] इत्यार्धधातुकसंज्ञकः। `जुहवानि इति। `हु दाने` (धातुपाठः-1083)। पूर्ववल्लोडादि। `अजुहवम्` इति। पूर्ववल्लङादि। अत्र `लघूपधस्य` [[7.3.86]] इत्यनुवृत्तेः `सर्वधातुकार्यधातुकयोः` [[7.3.84]] इतीगन्तस्य यो गुणो विहितस्तस्य प्रतिषेधो न भवति।`बहुलं छन्दसीति वक्तव्यम्` इति। छन्दसि विषये बहुलं गुणप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - इहेदं सूत्रं विभज्य द्वौ योगौ क्रियेते, तत्र `न` इत्येको योगः; `अभ्यस्तस्याचि पिति सार्वधातुके` इति द्वितीयः, तत्र च नेत्यनुवर्तते, यञ्च योगः पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थः। तेन च्छब्दसि बहुलं प्रतिषेधो भविष्यति। `जुजोषत्` इति। `जुषी प्रतिसेवनयोः` (धातुपाठः-1288) लेट्, तिप्; <<लेटोऽडाटौ>> [[3.4.94]] इत्यट्, तुदादित्वाच्छः, तस्य <<बहुलं छन्दसि>> [[7.4.78]] इति श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्। लघूपधगुणः। यद्यभ्यस्तस्याचि पिति सार्वधातुके गुणप्रतिषेध इध्यते, पस्पशाते, चकाशीति, वावशीदित्यत्रोपधाह्यसवत्वमिष्यते, तन्न प्राप्नोति; तस्मादभ्यस्तानामुपधाह्रस्वत्वमेव वक्तव्यम्, न गुणप्रतिषेधः; ह्रस्वत्वे हि नेनिजानीत्येवमादि सिध्यति; पश्पशाते इत्यादि च? इति यश्चोदयेत्, तं प्रत्याह - `पस्पशाते` इत्यादि। हि नेनिजानीत्येवमादि सिध्यति; पस्पशाते इत्यादि च? इति यश्चोदयेत्, तं प्रत्याह - `पस्पशाते` इत्यादि। `स्पशिरिति [`स्पाशिरिति` - प्रांउ।पाठः] गणपरिपठितो धात्वन्तरमस्त्येव, तस्माद्यङ्, तस्य <<यङोऽचि च>> [[2.4.74]] इति लुक्, द्विर्वचनम्, <<शर्पूर्वाः खयः>> [[7.4.61]] इति खयः शेषः; अभ्यासस्य ह्रस्वत्वे कृते <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घः, <<व्यत्ययो बहुलम्>> [[3.1.85]] इति वर्णव्यत्ययेनोपधाया अभ्यासस्य च ह्रस्वः, लेट्, व्यत्ययेनैवात्मनेपदम्, आट्। `चाकशीति` इति। `काशृ दीप्तौ` (धातुपाठः-1162), <<कुहोश्चुः>> [[7.4.62]] इत्यभ्यासस्य चुत्वम्, तिप्, `यङो वा` [[7.3.94]] इतीट्। `वावशीति` इति। `वाशृ शब्दे` (धातुपाठः-1163), शेषं यथायोगं पूर्ववत्। `पस्पशाते इत्यत्राभ्यासह्रस्वत्वं च` इति। चकारादुपधाह्रस्वत्वञ्च। इतरत्र तूपधाह्रस्वत्वमेव, नाभ्यासस्य ह्रस्वत्वम्। `प्रकृत्यन्तराणां वा` इति। `स्पश बाधनस्पर्शनयोः` (धातुपाठः-887), `कश गनिशासनयोः` (धातुपाठः-1024), `वश कान्तौ` (धा।प।1080) - एतानि प्रकृत्यन्तराणि ह्रस्वोपधानि सन्तीति, अत एषामेवैतानि रूपाणि। तस्माद्यथान्यासमेवास्तु॥", "73088": "`अभूत्` इति। `लुङ्, `गातस्था` [[2.4.77]] इत्यादिना सिचो लुक्। `सुवावहै, सुवामहै` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031), लोट्? वहिमहिङौ, टेरेत्वम्, `एत ऐ` [[3.4.93]] , आदित्वाच्छपो लुक्, <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्याट्? `अचि श्नुधातु` [[6.4.77]] इत्यादिनोवङ्। अथ कस्मात्? सूतेरादादिकस्योपन्यासः कृतः, न सुवतिसयत्योस्तौदादिकदैवादिकयोः? इत्यत आह - `सूतेर्लुग्विकरणस्य` इत्यादि। ननु च लुग्विकरणपरिभाषया (व्या।प।50) `षू प्रेरणे` (धातुपाठः-1408) इत्येतस्य शविकरणस्य तौदादिकस्य, `षूङ्? प्राणिप्रसवे` (धातुपाठः-1132) - इत्यस्य दैवादिकसय च ग्रहणं युक्तम्? इत्यत आह - `सुवतिसूयत्योः` इत्यादि। तिङीति सप्तमीनिर्देशादनन्तरे तिङि प्रतिषेधेन भवितव्यम्। न च सुवतिसूयतिभ्यामनन्तरस्तिङ्? सम्भवति, विकरणेन व्यवधानात्। तस्मान्न तयोग्र्रहणमिति सूतेरेव ग्रहणं युक्तमित्यभिप्रायः। स्यादेतत् - वचनप्राणाण्याद्विकरणेन व्यवधानेऽपि प्रतिषेधो भविष्यतीत्यतस्ययोरेव ग्रहणं युक्तमिति? अत आह - `विकरणस्यैव` इत्यादि। तयोर्हि <<सार्वधातुकमपित्>> [[1.2.4]] इति विकरणङित्त्वम्, तत्र <<क्ङिति च>> [[1.1.5]] इत्यनेनैव सिद्धः प्रतिषेध इति निरर्थकं तयोग्र्रहणं स्यात्, अतो न ताविह गृह्रते। `भवति` इति। तिङीति वचनादिहातिङि शपि परतो निषेदो न भवति। `व्यतिभविषीष्ट` इति। आशिषि लिङ्? [[3.3.173]] । स च <<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकसंज्ञकः, सीयुट्, `कर्तरि `कर्तरि कर्मण्यतिहारे` [[1.3.14]] इत्यात्मनेपदम्, सुट्? षत्वम्, ष्टुत्वम्। `अथ` इत्यादि। `प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति` (व्या।प।79) इति यङ्लुकोऽपि ग्रहणे सति तत्रापि प्रतिषेधेन भवितव्यमिति भावः। `बोभवीति` इति। <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यभ्यासस्य गुणः। `ज्ञापकात्` इत्यादि। यदि यङ्लुक्यपि प्रतिषेधः स्यात्, गुणाभावार्थं निपातनं न कुर्यात्, कृतञ्च, तस्मादेव ज्ञापयति - यङलुक्ययं प्रतिषेधो न भवतीति॥", "73089": "गुणे प्राप्त उत्तो वृद्धिरारभ्यते। यौतीत्यादौ पूर्ववच्छपो लुक्। `सुनोति` इति। श्नुः। `यवानि` इति। लोट्। उत्तमपुरुषै कवचनम्। `युतः, रुतः` इति। लट्, तस्। तपरकरणं सूतीत्यत्र मा भूदति। अथ `अपि स्तुयाद्राजानञ्` इत्यत्र कस्मान्न भवति, अस्ति ह्यत्रापि यासुटस्तिङ्भक्तत्वात्? तिङ्ग्रहणेन ग्रहणमिति प्राप्तिः, न च शक्यते वक्तुम् - <<क्ङिति च>> [[1.1.5]] इति प्रतिषेधो भविष्यतीति; यस्मादिग्लक्षणाया वृद्धेः प्रतिषेधोऽसौ, न चेयमिग्लक्षणा; साक्षान्निर्देष्टस्थानिकत्वात्, `यस्या हि वृद्धेः स्थानी न निर्दिश्यते सेग्लक्षणा` इत्युक्तम्? इत्याह - `अपि स्तुयात्` इत्यादि। अत्र हि `यासुट्? परस्मैपदेषूदात्तौ ङिच्च` [[3.4.103]] इति सार्वधातुकं ङित; `ङिच्च पिन्न भवति` इति ङित्त्वेन पित्त्वस्य बाधितत्वात्। तस्मात्? पित्युच्यमाना वृद्धिरिहापि न भवति। अथ `योयोति, रोरोति` इत्यत्र कस्मान्न भवति, लुकि सति भवति ह्रेतदङ्गद्वयमुकारान्तम्? इत्याह - `नाभयस्तस्य` इत्यादि। गतार्थम्। आदिशब्देन नोनोतीत्येवमादीनां[`चोकोतीत्यादीनाम्` - प्रांउ।पाठः] ग्रहणम्॥", "73090": "पूर्वेण नित्यायां वृद्धौ प्राप्तायां विकल्पार्थोऽयमुत्यते। `प्रोर्णोति` इति। पूर्ववच्छपो लुक्। `प्रोर्णवानि` इति। लोडुत्तमपुरुषैकवचनम॥", "73091": "विभाषेति निवृत्तम्। पूर्वेण प्राप्तायाः पाक्षिक्या वृद्धेरयमपवादः। ननु हलत्यनुवर्तत एव, तत्र सामर्थ्यादपृक्त एव भविष्यतीति न तदादी, न हि हलादिसमुदायो हल्? भवति, तत्किमपृक्तग्रहणेन इत्यत आह - `हलीत्यनुवर्तमाने` इत्यादि। अपुक्तग्रहणं ह्रेवमर्थं क्रियते - हलीत्यनुवृत्तेस्तदादौ मा भूदिति। यदि चेयं परिभाषा न स्यात्, अपृक्तग्रहणमनर्थकत्वान्न कुर्यात्। हल्युचयमानो गुणः कः प्रसङ्गो यस्तदादावपि स्यात्? नैव प्राप्नोति; तस्या हलात्मकत्वात्। कृतञ्चेदमपृक्तग्रहणम्, अतस्तोनास्तीयं परिभाषेति ज्ञाप्यते। अथ `नापृक्ते` इत्येवं कस्मान्नोक्तम्, किं गुणग्रहणेन, वृद्धौ प्रतिषिद्धायामुत्सर्गेण गुणेनैव सिध्यति? नैतदस्ति; अन्तरोक्ताया विभाषायाः प्रतिषेधो विज्ञायेत, तथा च नित्यं वृद्धिः स्यात्॥", "73092": "`तृह हिंसायाम्` (धातुपाठः-1455) इति रुधादिः, `तृहू तृभू हिंसार्थाः (धातुपाठः-1348,1350) इति तुदादी - तयोराद्यस्येदं ग्रहणम्, नेतरस्य। तस्य विकरणेन व्यवधावादनन्तरो हल्? न सम्भवतीति। `तृणेढि` इति। `हो ढः` [[7.2.31]] , <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्, <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्, <<ढो ढे लोपः>> [[8.3.13]] , तस्येमागमः, <<आद्गुणः>> [[6.1.87]] । `तृणेक्षि` इति। `धढोः कः सि` [[8.2.41]] इति कत्वम्। `अतृणेट्` इति। लङ्, तिप्, हल्ङ्यादिलोपः [[6.1.66]] , ढत्वे कृते <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् - ढकारस्य डकारः, तस्य `वावसाने` [[8.4.55]] इति चर्त्वम् - टकारः। ननु चात्र लुप्तत्वात्? सार्वधातुकस्येमागमेन न भवितव्यम्, लुप्तोऽपि तत्र प्रत्ययलक्षणेन भविष्यतीति चेत्? न; वर्णाश्रये प्रत्ययलक्षणं नास्तीत्यत आह - `वर्णाश्रये` इत्यादि। एवं मन्यते - `वर्णाश्रये नास्ति प्रत्ययलक्षणम्` (व्या।प।96) इति नानेन सर्वधा वर्णाश्रयस्य प्रत्ययलक्षणस्य प्रतिषेधः क्रियते, किं तर्हि? <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यत्र प्रत्ययग्रहणस्य प्रयोजनं व्याख्यायते। प्रत्यये लुप्ते द्विविधं कार्यं विज्ञायते - प्रत्ययनिमित्तम्, अप्रत्ययनिमित्तञ्च। तत्र यत्? प्रत्ययनिमित्तं तत्? प्रत्ययलोपे यथा स्यात्, इतरन्मा भूदित्येवमर्थम्। तेन गवे हितं गोहितमित्यत्र लुप्तायां विभक्ताववादेशो न भवति। अवादेशस्य ह्रचीत्यधिकाराद्वर्णो निमित्तम्, न प्रत्यय एव। इह त्वङ्गाधकारात्? प्रत्यय एव हलादिराश्रीयत इतीमागमस्य प्रत्ययनिमित्तता। तेनासौ प्रत्ययलक्षणेन भवत्येव। यदि ह्रसौ प्रत्ययनिमित्तस्तत्कथं वर्णाश्रयेऽपयत्रेतयुक्तम्? अतृणेडित्यत्रोदाहरणे त्ययस्य वर्णमात्रत्वात्? प्रत्ययविशेषणत्वेन वी वर्णस्याश्रयणादेवमुक्तम्, न त्वप्रत्ययनिमित्तत्वात्, वर्णस्यापि तकारस्य प्रत्ययत्वापरित्य#आगत्। `तृणहानि` इत्यत्र तदेव लोडुत्तपुरुषैकवचनम्। `तृण्ढः` इति। तस्, `श्नसोरन्लोपः` [[6.4.111]] , पूर्ववड्ढत्वादि, <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णो णकरः। अथ किमर्थमिह तृहीरागतश्नम्को गृह्रते, न तृह इत्येवोच्येत? इत्याह आह - `तृणह` इत्यादि। यद्यागतश्नम्कस्य ग्रहणं न क्रियेत, ततो नाप्राप्ते श्नम्ययमारभ्यते, देशहेतुकश्च तयोर्विरोधोऽस्तीति श्नम णमा बाधा स्यात्। असत्यामपि बाधायामनिष्टा व्यवस्था स्यात् - पूर्वमिम्, पश्चात्? श्नम्; ततश्चानिष्टं रूपं स्यात्। आगतश्नम्कस्य ग्रहणे सश्नम्कस्य तृहेरिमि विधीयमाने समावेशस्तयोर्भवति, इष्टा च व्यवश्था सम्पद्यते - पूर्व श्नम्, पश्चादिम्; तस्मात्? श्नमि कृते सतीमागमो भवेदित्येवमर्थमागतश्नम्कस्तृहिर्ग्रृह्रते॥", "73093": "ब्राउवः` इत्येषा पञ्चम्यकृतार्था पूर्वत्र कृतार्थायाः `सार्वधातुके` इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति तस्मादितयुत्तरस्य` [[1.1.66]] इति वचनात्। तेन हलादेः पितः सार्वधातुकस्यैवायमिड्? विज्ञायत इत्यत आह - `ब्राऊ इत्येतस्मादुत्तरस्य हलादेः` इत्यादि। कथं पूनर्हल आगमित्वेन तदादिर्लभ्यते, `यस्मिने विधिस्तदादावल्ग्रहणे` (व्या।प।127) इत्युच्यते, न तु यस्य विधिरिति, असति हि तदादिविधावब्रावीदित्यादावेव स्यात्, ब्रावीतीत्यादौ न स्यात्? नैष दोषः; उत्तरत्र ह्रपृक्तग्रहणात्? तदादिविधेः सम्भवो गम्यते, अन्यथा ह्रसति तदादिविधौ विनाप्यपृक्तग्रहणेनापृक्त एव भविष्यति, अपृक्तग्रहणमनर्थकं स्यात्। `ब्रावीति` इति। पूर्ववच्छपो लुक्। `ब्रावाणि` इति। तदेव लोडुत्तमपुरुषैकवचनम्। `ब्राऊतः` इति। लट्, तस्॥", "73094": "`लालपीति` इत्यादि। लपिवदिरौतिभ्यो यङ्; पूर्वयोः <<दीर्घोऽकितः>> [[7.4.83]] इत्यभ्यासस्य दीर्घः, रौतेस्तु <<गुणो यङ्लुकोः>> [[7.4.82]] इति गुणः, <<यङोऽचि च>> [[2.4.74]] इति यङो लुक्। `वर्वर्त्ति, चर्कत्ति` इति। वृञ्कृञोर्यङ्लुकि `ऋतश्च` [[7.2.92]] इत्यभ्यासस्य रुगागमः। किं पुनः कारणं यङ्लुक्येवोदाह्यियते, न यङन्ते? इत्याह - `हलादेः` इत्यादि। यङन्ते हि ङित्त्वादात्मनेपदम्, न चात्मनेपदं हलादि पिदस्ति। हलादेः पितः परस्य सार्वधातुकस्याभावान्नेह यङन्तस्योदाहरणम्, किं तर्हि? यङ्लुगन्तस्य। तत्र हि हलादि पित्? सार्वधातुकं सम्भवति, यङ्लुगन्तस्यादादौ `चर्करीतञ्च परस्मैभावम्` इति पाठे सति परस्मैपदित्वात्, तेन यङ्लृक्येवोदाह्यियते। चर्करीतमिति यङ्लुगन्तसय पूर्वाचारयसंज्ञा॥", "73095": "`तु` इति सौत्रो धातुर्वृद्ध्यर्थे इत्येके, हिंसार्थे इत्यपरे। अस्य च लुग्विकरणत्वं स्मर्यते, तच्च `बहुल छन्दसि` [[2.4.73]] इति बहुलग्रहणेन भाषायामपि लुकसम्पादनाल्लभ्यते। `शमीष्पम्` इति। लोट्। `अशमीध्वम्` इति। लङ्। `अभ्यमीति` इति। लोट्। `अशमीध्वम्` इति। लङ्। `अभ्यमीति` इति। `अम गत्यादिषु` (धातुपाठः-465) लट्, तिप्। कथं पुनः शम्यमिभ्यामनन्तरं हलादि सार्वधातुकं सम्भवति, यावता शमेव्र्यवधायकेनैव श्याना भवितव्यम्। अमेरपि शप्? क्रियते? इत्याह - `शध्यमोः` इत्यादि। विकरणस्यात्र लुक्? <<बहुलं छन्दसि>> [[7.4.78]] इत्यमेन। `सार्वधातुकासु` इति। स्त्रीलिङ्गनिर्देशा। स्त्रीलिङ्गस्य सार्वधातुकाशब्दस्यापिशलिना संज्ञात्येन प्रचीतत्वात्। अथ सार्वधातुकग्रहणं किमर्थम्, यावता <<नाभ्यस्तस्याचि पिति सार्वधातुके>> [[7.3.87]] इत्यतः सूत्रात्? सार्वधातुकग्रहणमनुवर्तते? इत्याह - `सार्वधातुक इत्यनुवर्तमाने` इत्यादि। तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्। अतस्तदनुवृत्तौ पिद्ग्रहणमप्यमुवर्तेत तथा चापिति न स्यात्। तस्मादपित्यपि यथा स्यादियेवमर्थं त्सार्वधातुकग्रहणं क्रियते॥", "73096": "`अपृक्ते` इति। सुब्वयत्ययेन षष्ठर्थे सप्तदमी, तेनायमपृक्तस्यैवेट्। अस्तिग्रहणं लङर्थय्। `आसीत्` इति। `अस भुवि` (धातुपाठः-1065), लङ्, अदादित्वाच्छपो लुक्, <<आडजादीनाम्>> [[6.4.72]] इत्याट्। `आटश्च` [[6.1.87]] इति वृद्धिः। `अकार्षीत्` इति। सिचि वृद्धिः। `अलावीत्, अपाधीत्` इति। `इट ईटि` [[8.2.28]] इति सिचो लोपः। `आत्थ` इति। अत्र ब्राउष उत्तरस्य सिपः `ब्राउवः पञ्चानामदित आहोब्राउवः` [[3.4.84]] इति थलि कृते ब्राउवश्चाहादेशे कृते तस्य स्थानिवद्भावे सति ब्राऊञ्ग्रहणेन ग्रहमात्? थलोऽपि सार्वधातुकग्रहणेन ग्रहणादीट्? प्राप्नोति। `अभूत्` इति। अस्तेः सिच्, <<अस्तेर्भूः>> [[2.4.52]] इति भूभावे तस्य स्थानिवद्भावे सत्यस्तिग्रहणेन ग्रहणादीट्? प्राप्नोति, स कस्मान्न भवति? इत्याह - `आहिभुवोः` इत्यादि। `ईटि प्रतिषेधः` इति। आहेर्भुवश्चेटि कर्तव्ये स्थानिवद्बावस्य प्रतिषेधः। तेनेह न भवति - आत्व` इति। `आहस्थः` [[8.2.35]] इति हकारस्य थकारः, तस्य `खरि च` इति तकारः। `अभूत्` इति। `गातिस्था` [[2.4.77]] इति सिचो लुक्॥", "73097": "`सर्वमाः` इति। अस्तेर्लङ्, पूर्ववदाट्, सियो हल्ङ्यादिलोपः [[6.1.66]] , सकारस्य रुत्वविसर्जनीयो।`गोभिरक्षाः प्रत्यञ्चमत्साः` इति। `क्षर सञ्चलने` (धातुपाठः-851), `त्सर च्छद्मगतो` (धातुपाठः-554) इन्ङ्यादिना [[6.1.66]] सिचो लोपः, <<अतो ल्रान्तस्य>> [[7.2.2]] इति वृद्धिः, पूर्ववद्धिसर्जनीयः। `अभैषीः` इति। `ञिभी भये` (धातुपाठः-1084), सिचि वृद्धिः। अथाभैषीर्मा पुत्रकेत्यत्र कथमडागमः, यावता <<न माङ्योगे>> [[6.4.74]] इति प्रतिषिद्धोऽसौ, इह चाक्षाः, अत्सा इत्यत् सिच ईजागमः कस्मान्न भवति? इत्याह - `छाब्दसत्वात्` इत्यादि। अक्षाः, अतसा इत्यत्र चेडागमाभाव इति च्छान्दसत्वादिति प्रकृतेन सम्बन्धः। `वा छन्दसि` इति वक्तव्ये बहुलग्रहमुत्तरार्थम्। उत्तरार्थतां चास्योत्तरत्र प्रतिपादपिष्यामः॥", "73098": "`रुदः` इति सुब्व्यत्ययेन बहुवचनस्यैकवचनम। एतचच `पञ्चभ्यः` इति बहुवचनाद्विज्ञायते। <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इतीटि प्राप्ते तदपवाद ईडागमो विधीयते। `रुदिर्? अश्रुविमोचने` (धा।प।1067), `ञिष्वप्? शये` (धातुपाठः-1068), `आस प्राणने` (धातुपाठः-1069), `अन च` (धातुपाठः-1070), जक्ष भक्षहसनयोः` (धातुपाठः-1071)-इत्येते रुदादय आदादिकाः। `अरोदीत्` इति। लङ्। `प्राणीत्` इति। `अनितेः` [[8.4.19]] इति णत्वम्। `अजागर्भवान्` इति। `अजागर्भवान्` इति। जागर्त्तिः पञ्चभ्यः परेणायं पठते। गुणे रपरत्वे च कृते हल्ङ्यादिलोपः [[6.1.66]] ॥", "73099": "पूर्वेणेटि प्राप्तेऽडागमो विधीयते। गाग्र्यगालवग्रहणं पूजार्थम्, न तु विकल्पार्थम्। अडीटोरादिलिङ्गत्वादेकविषयत्वाच्च न सम्भवति; समुच्चय इत्यन्तरेणाप्याचार्यग्रहणं विकल्पस्य सिद्धत्वात्॥", "73100": "सर्वेषांग्रहणं पूजार्थम्, न तु नित्यार्थम्; गाग्र्यगालवग्रहस्याविकल्पार्थत्वात्॥", "73101": "तपरकरणमुत्तरार्थम्। खट्वाभिरित्यत्र `बहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वं मा भूदित्येवमर्थम्। `अङ्गना` इति। प्रशस्तान्यङ्गान्यस्याः सन्तीति लोमादिना [[5.2.99]] नप्रत्ययः। `केशवः` इति। केशा यस्य सन्तीति <<केशाद्वोऽन्यतरस्याम्>> [[5.2.109]] इति वप्रत्ययः। `केचिदत्र तिङीत्यनुवर्तयन्ति` इति। <<भूसुवोस्तिङि>> [[7.3.88]] इत्यतः। तेषां भववानिति क्वसौ सार्वधातुके दीर्घत्वेन न भवितव्यमिति; क्वसोरतिङन्तत्वात्। `भगवान्` इति। भवतेर्लिट्, कवसुः, <<छन्दस्युभयथा>> [[6.4.86]] इति तस्य पक्षे सार्वधातुकत्वम्, तेन `कर्तरि शप्` [[3.1.68]] भवति, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ (6.1.70; 8.2.23)। आदिति वक्तव्ये दीर्घग्रहणम् - दीर्घ एव यथा स्यात्, यदन्यत्? प्राप्नोति, तन्मा भूदिति। किञ्चान्यत्? प्राप्नोति? <<विचार्यमाणानाम्>> [[8.2.97]] , `अनन्तरस्याप्येकैकस्य प्राचाम्` `प्रश्नाख्यानयोः` [[8.2.105]] इति प्लुतः। अथ प्रकृतोऽजागमः कस्मान्न विधीयते? तत्राप्यकः सवर्णे दीर्घत्वेन [[6.1.97]] वहीति <<क्सस्याचि>> [[7.3.72]] इति लोपः स्यात्, अतिजराभ्यामित्यत्राचीति जरस्भावः स्यात्; तन्निवृत्त्यर्थ दीर्घग्रहमं कृतम्। स चात्र प्लुतः प्रसज्येत॥", "73102": "", "73103": "ननु च वृक्षाणामित्यत्र `नामि` [[6.4.3]] इति दीर्घत्वं बाधकं भविष्यति, तत्? किं तन्निवृत्त्यर्थेन झल्ग्रहणेन? नैतदस्ति; `नामि` [[6.4.3]] इति ह्रग्नीनामित्यत्र सावकाशम्, तत्रासति झल्ग्रहणे दीर्घत्वं बाधित्वा परत्वादेत्त्वमेव स्यात्। `पचध्वम्, यजध्वम्` इति। लोट्? टेरेत्त्वम्, <<सवाभ्यां वामौ>> [[3.4.91]] इत्यामादेशः॥", "73104": "", "73105": "`आङिति पूर्वाचार्यनिर्देशेन` इत्यादि। आचार्या हि पूर्व आङिति तृतीयैकवचननिर्देशं कुर्वन्ति स्म। तस्मात्? तदीयेनाङिति निर्देशेन तृतीयैकवचनं गृह्रते। `खट्वया` इति टाबन्तस्योदाहरणम्। `बहुराजया` इति। जावन्तस्योदाहरणम्। `डाबुभाभ्यामन्यतरस्याम्` [[4.1.13]] इति डाप्। `कारीषगन्ध्यया` इति। चाबन्तस्य। करीषस्येव गन्धोऽस्य <<उपमानाच्च>> [[5.4.137]] इतीत् - करीषगन्धिः, <<तस्यापत्यम्>> [[4.1.92]] इत्यण्, तस्य `अणिञोरनार्षयोः` [[4.1.78]] इत्यादिना व्यङ्, तदन्तात्? `यङश्चाप्` [[4.1.74]] इति चाप्। `कीलालपा` इति। कीलालं पिबतीति `अतो मनिन्क्वनिब्वनिपश्च` [[3.2.74]] इति विच्, तदन्तात्? तृतीयैकवचनम्, <<आतो धातोः>> [[6.4.140]] इत्यकारलोपः।अथेह कस्मान्न भवति - खट्वामतिक्रान्तेनातिखट्वेनेति, उपसर्जनह्रस्वत्वे कृते स्थानिवद्भावात्? तस्य प्राप्नोति? इत्याह - `ङ्याब्ग्रहणम्` इत्यादि। केचिदाहुः - ङ्याब्ग्रहणे दीर्घग्रहणमित्येतद्वचनं कर्तव्यम्, तेन ह्रस्वत्वे कृते न भवति अपरे त्वाहुः - <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति योगविभागः कर्तव्यः, यावच्छास्त्रे ङ्यापोः कार्य तत्? सर्वं दीर्घयोर्यथा स्या ह्रस्वयोर्मा भूदिति; ततः `सुतिस्यपृक्तम्? [[6.1.66]] इति द्वितीयो योगः, तत्र `हल्ङ्याग्भ्यः` इत्यनुवर्तत इति। चकारः `ओप्ति च` [[7.3.104]] इत्यनुकर्षणार्थः॥", "73106": "", "73107": "पूर्वस्यायमपवादः। अम्बार्थाः=मात्रर्थाः। `डलकवतीनाम्` इत्यादि। डलाका यासां श्रुतीनां सन्तीति ता डलकवत्यः। असंयोगावयवभूता डलका इह गृह्यन्ते। अन्यथा हे अक्क, हे अल्ल - इत्यत्रापि स्यात्। वक्तव्यशब्दस्य व्याख्यय इत्येषोऽर्थः। उत्तरयोरपि वक्तव्यशब्दयोरयमेवार्थो वेदितव्यः। तत्रैदं व्याख्यानम् - <<बहुलं छन्दसि>> [[7.4.78]] इत्यतो बहुलग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, तेन सर्वं प्रतिषेधादिकं कार्यमपि भविष्यतीति। `अर्हते` इति। प्रशंसाभाजनभूतायेत्यर्थः। `गार्गोमाता` इति। यो गाग्र्या मात्रा ष्यपदेशेन प्रशंसामर्हति स एवमुच्यते॥", "73108": "ह्रस्वग्रहणं प्रकृताङ्गविशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह - `ह्स्वान्तस्य` इत्यादि। एवमुत्तरत्रापि तदन्तविधिर्वेदितव्यः। अथ हे कुमारि, हे ब्राहृबन्ध्वित्येवमादीनां कस्मान्न भवति? इत्याह - `हे कुमारि` इत्यादि। यदि ह्रस्वत्वे कृते गुणः स्यात्, ह्रस्वकरणमनर्थकं स्यात्। ननु च गुणार्थमेतत्? स्यात्, असति हि तस्मिन्? `ह्रस्वसय गुणः` [[7.3.108]] इति गुणो न स्यात्, अह्रस्वान्तत्वात्? इत्याह - `यदि` इत्यादि। एवं प्रक्रियागौरवं परिह्मतं भवतीति भावः॥", "73109": "`जसादिषु` इत्यादि। आदिशब्दः प्रकारे। जस्प्रकारेषु प्रत्ययेष्वित्यर्थः। `इतः प्रकरणात्` इति। `अम्बार्थनद्योह्र्यस्वः` [[7.3.107]] इत्येवमादिकात्। `छबदसीति वक्तव्यम्` इति। छन्दसि विषये वा कार्यं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तदेव बहुलवचनमाश्रित्य कर्तव्यम्। `अम्बे` इत्यादि। `अम्बार्थनद्योह्र्यस्वः` [[7.3.107]] इति ह्रस्वो न भवति। `दर्वी` इत्यत्र ह्रस्वस्य गुणः। `शतक्रत्वः` इत्यत्रापि `जसि च` [[7.3.109]] इति। `पओ` इति। `धेर्ङिति` [[7.3.111]] इति गुणः। `किकिदीव्या` इति। अत्र <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति नाभावः॥", "73110": "`तपरकरणं मुखसुखार्थम्` इति। न हि ङिसर्वनामस्थानयोर्दीर्घ ऋकारः सम्भवति यस्तपरेण निवर्त्त्येत॥", "73111": "`सख्ये, पत्ये` इति। सखिपतिशब्दौ घिसंज्ञकौ न भवतः; `शेषो ध्यसखि` [[1.4.7]] इति पर्युदासात्; <<पतिः समास एव>> [[1.4.8]] इति नियमाच्च। `पट्वी` इति। `वोतो गुणवचनात्` [[4.1.44]] ङीषु। अत्र गुणो न भवति; `सुपि च` [[7.3.102]] इत्यतः सुपीत्यनुवृत्ते `कुरुतः` इति। करोतेस्तस्, उप्रत्ययः, धातोर्गुणः, रपरत्वम्, `अत उत्? सार्वधातुके` [[6.4.110]] इत्युत्त्वम्। अत्रापि सुपीत्यनुवृत्तेस्तसि परतो विकरणान्तसय न भवति गुणः॥", "73112": "`नद्याः` इति पञ्चमी, सा चाकृतार्था पूर्वत्र कृतार्थाया ङितीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति। तेन ङित एवायमाडागमो विज्ञायते, इत्याह - `नद्यन्तादङ्गादुत्तरस्य` इत्यादि। `कुमार्यै` इत्येवमादौ `आटश्च` [[6.1.87]] इति वृद्धिः। अथ दीर्घोच्चारणं किमर्थम्, न अडेवोच्येत, <<वृद्धिरेचि>> [[6.1.88]] इति वृद्ध्या सवर्णदीर्घत्वेन सिद्ध्यत्येव; कुमार्यै, कुमार्या इत्यत्र <<अतो गुणे>> [[6.1.97]] पररूपत्वं प्राप्नोतीत्येतच्च नाशङ्कनीयम्, पररूपत्वं ह्यत्र वचनसामर्थ्यान्न भविष्यति? नैष दोषः; अस्ति ह्रन्यदवचनस्य प्रयोजनम्। किं तत्? श्रियै, श्रिया इत्यत्र <<सावेकाचस्तृतीयादिर्विभक्तिः>> [[6.1.168]] इत्युदात्तत्वं मा भूत्। आगमा आद्युदात्ता भवन्तीत्यनुदात्तत्वं यथा स्यादिति। शक्यते ह्रेकादेशोन्तादिवद्भावादागमग्रहणेन ग्रहीतुम्। आगमानुदात्तत्वञ्च यथा प्रत्ययस्वरम् - लविता, लवितुमित्यादौ बाधते, तथा विभक्तस्वरमपि बाधेत। तस्मात्? `आटश्च` [[6.1.87]] इति वृद्ध्यर्थमेतत्॥", "73113": "`खट्वायाम्` इति। <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धिः। खट्वाया इत्यत्राकः सवर्णे [[6.1.97]] दीर्घोच्चारणम् - वृद्धिसवर्णदीर्घत्वे यथा स्याताम्, पररूपत्वं मा भूदित्येवमर्थम्। अकारोच्चारणसामर्थ्यान्न भविष्यतीति चेत्? न; अस्ति ह्रन्यदकारोच्चारणस्य प्रयोजनम्। किं तत्? ज्ञायै, ज्ञाया इत्यत्र <<सावेकाचस्तृतीयादिर्विभक्तिः>> [[6.1.168]] इत्यनेनोदात्तत्वं मा भूत्, आगमनुदात्तत्वं यथा स्यादिति। अथ खट्वामतिक्रान्तायातिखट्वायेत्यत्र कस्मान्न भवति, उपसर्जनह्रस्वत्वे कृते तस्य स्थानिवद्भावादाव्ग्रहणेन ग्रहणे सति प्राप्नोति? इत्यत आह - `अतिखट्वाय` इत्यादि। यदा तावत्? `सुपि च` [[7.3.102]] इति दीर्घत्वं न क्रियते, तदा ङ्याव्ग्रहणेन दीर्घग्रहणमित्येतद्ववचनान्न भवति। यदा दीर्घत्वं तदा लाक्षणिकत्वान्न भवति; `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्` (व्या।प।3) इति वचनात्॥", "73114": "याटोऽपवादः। आकारोच्चारणं सर्वस्या इत्यत्र यथा स्यात्, अन्यथा पररूपत्वं प्रसज्येत। अकारोच्चारणसामर्थ्यान्न प्रसज्येत - इत्येतच्च नाशङ्कनीयम्, तद्धि तस्यामित्यत्र <<ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः>> [[6.1.171]] इति विभक्त्युदात्तत्वं मा भूत्, आगमानुदत्तत्वं यथा स्यादित्येवमर्थम्॥", "73115": "असर्वनामार्थं वचनम्। ये तु `वाप्रकरणे तीयस्य ङित्सूपसंख्यानम्` (वा। 6) इति सर्वनामसंज्ञां तीयस्योपसञ्चक्षते त इदं सूत्रं प्रत्याचक्षते; तेनैव सिद्धत्वात्। तच्चोपसंख्यानमवश्यं कर्तव्यम्, स्मायादयो ङिति विकल्पेन यथा स्युरिति - द्वितीयस्मै, द्वितीयाय, द्वितीयस्मिन्, द्वितीय इति। अन्ये त्वनेनैव स्मायादयः सिध्यन्तीत्युपसंख्यानमेव प्रत्याचक्षते। कथम्? `सर्वनाम्नः` इत्येतदिहानुवर्तते, स्याडिति निवृत्तम्, तेनैवमभिसम्बन्धः क्रियते - सर्वनाम्नो ङिति यदुक्तं तद्विभाष द्वितीयातृतीयाभ्यां भवतीति। तेन स्यायादयोऽपयनेनैव भविष्यन्तीति नार्थ उपसंख्यानेन॥", "73116": "`ङेः` इति सप्तम्येकवचनस्य ग्रहणम्। एतच्च `स्त्रियाम्` इत्येवमादिनिर्देशाद्विज्ञायते। `ग्रामण्याम्` इति। ग्रामं नयतीति `सत्सूद्विष` [[3.2.61]] इत्यादिना क्विप्, `अग्रग्रामाभ्याञ्च` इति णत्वम्। <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणादेशः। अथ कुमार्याम्, खट्वायाम्, सर्वस्यामिति कथं सिध्यति, आमि कृते `ह्रस्वनद्यापो नुट्` [[7.1.54]] इति नुडागमेन भवितव्यम्? नैष दोषः; नुटः परत्वादाट् - याट् - स्याटो भवन्ति। तेष कृतेषु नुटः प्राप्तिरेव नास्तीति, न हि द्वयोरादिलिङ्गयोः समुच्चय उपपद्यते॥", "73117": "नदीग्रहणमिहनुवर्तते। तेन चेदुतौ विशिष्यतेते नदीसंककौ यादिदुताविति। यद्येवम्, अनर्थकमिदम्, पूर्वेणैव सिद्धत्वात्? नैतदस्ति; औकरो हि परत्वदुत्तरसूत्रेण स्यात्, अस्मश्च सत्यामेव भवति॥", "73118": "", "73119": "", "73120": "आङ इति स्थान्यन्तरनिर्देशादिहार्थाद्विभक्तिविपरिणामो भवतीति षष्ठन्तं यद्घेरिति प्रकृतं तदिह पञ्चम्यन्तमुपजायत इत्याह - `घेरुत्तरस्य` इत्यादि। अथ किमरथम्? `अस्त्रियाम्` इत्युच्यते, `आङो ना पुंसि` इत्येवोच्येत; एवमुच्यमाने त्रपुणा जतुनेत्येतन्न सिध्यतीत्येतच्च नाशङ्कनीयम्; <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमैव सिद्धत्वात्? इति यो मन्येत, तं निराकर्त्तुम् - `अमुना ब्राआहृणकुलेन इत्यस्योपन्यासः। अत्र हि त्यदाद्यत्वे कृते <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्युत्त्वमत्वे च। तत्र यदि पुंसीत्युच्यते, ततोऽमुनेति नपुंसके न सिध्येत्; मुभावस्यासिद्धत्वात्। नुमोऽभावात्? `अस्त्रियाम्` इत्युच्यमाने नपुंसकेऽपि नाभावो भवतीत्यमुनेति सिद्धं भवति। न हि नाभावे कर्तव्ये मुभावस्यासिद्धत्वम्; <<न मु ने>> [[8.2.3]] इति वचनादत्यभिप्रायः॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायां सप्तमाध्यायस्यतृतीयः पादः- - -अथ सप्तमोऽध्यायःचतुर्थः पादः", "74001": "`चङ्परे णौ परतः` इति। चङ्? परो यस्माण्णेरिति स तथोक्तः। `अचीकरत्` इत्यादि। कृञ्, ह्मञ्, लूञ्, पञित्येतेभ्यो हेतुमण्णिच्, ततो लुङ्, च्लिः,`णिश्रि` [[3.1.48]] इत्यादिना च्लेश्चङ्, <<णेरनिटि>> [[6.4.51]] इति णिलोपः। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, ततो द्विर्वचनम्, ततश्च णौ कृतं सथानिवद्भवतीति कृ, ह्म - इत्यादिकमविकृतधातुरूपमेव द्विरुच्यते। अत्र कृ, ह्म - इत्येतयोरभ्यासस्य `उरत्` [[7.4.66]] इत्यत्त्वे कृते रपरत्वे हलादिशेषे च ततश्च `सब्वल्लधुनि` [[7.4.93]] इत्यादिना सन्वद्भावादित्त्वम्। पू, लू - इत्येतयोरपि ह्रस्वत्वे कृते <<ओः पुयण्ज्यपरे>> [[7.4.80]] इतीत्त्वम्। सर्वत्र <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घत्वम्। `अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः` इत्यादि। अचीकरवित्यादिषूदाहरणेषु कृताकृतप्रसङ्गित्वाद्द्विर्वचनं नित्यमुपधाह्रस्वत्वमपि, तयोरुभयोः परत्वादुपधाह्रस्वत्वं भवति, तत्र कृते द्विर्वचनम् - इत्येष कार्याणां प्रवृत्तिक्रमः। मा भवानटिटदित्यत्र तु द्विर्वचनमेव नित्यम्, न ह्रस्वत्वं तु द्वितीयस्यै काचो द्विर्वचने कृते न प्राप्नोति; परेण टिशब्दरूपेण व्यवधानात्। तस्मान्मा भवानटिटदित्यत्र नित्यत्वाद्द्वितीयस्यैकाचो द्विर्वचनं प्रप्नोति। द्विर्वचने हि सति को दोषः स्यात्? इत्यत आह - `तथा च सति` इत्यादि। एवञ्च द्विर्वचने कृते चङ्परे णौ यदङ्गं तस्य ह्रस्वभाव्याकार उपधा भवति। असति च ह्रस्वत्वे मा भवानटिटदिति रूपं न सिध्यति। मायोग आण्निवृत्त्यर्थः। आटि तु सति नास्ति विशेषः। सत्यसति वा ह्रस्वत्वे `आटश्च` [[6.1.87]] इति वृद्ध्या भवितव्यमिति। भवच्छब्दः सन्देहनिरासार्थः। `नैष दोषः` इति। योऽनन्तरोक्तः स कथं लभ्यते? इत्याह - `ओणेॠदित्करणम्` इत्यादि। `ओणृ अपनयने` (धातुपाठः-454) इत्येतस्य ऋदित्करणस्यैतत्प्रयोजनम् - ऋदित्त्वान्नाग्लोपि [[7.4.2]] इत्यादिना ह्रस्वप्रतिषेधो यथा स्यादिति। यदि च नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन न बाध्यते, तदौणैॠदित्करणमनर्थकं स्यात्। द्विर्वचने हि कृते परेण णिशब्दरूपेण व्यवधानादेव ह्रस्वो न भविष्यति, किमोणेॠदित्करणेनेति? आचार्यप्रवृत्तिज्र्ञापयति - नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यत इति; यत ओणेॠदत्करणं करोति।`णाविति किम्` इति। एवं मन्यते - णिग्रहणे चाकृते लुङ्चङादेशयोः कृतयोर्णिलोपे चाकृते वृद्ध्यावादेशयोश्चाकृतयोः, अलू इ+अत्? इति स्थित ऊकरस्य ह्रस्वो मा भूदत्येवमर्थं वा णिग्रहणं क्रियते? ऊकारस्य वृद्धौ कृतायामौकारसय ह्रस्वो मा भूदित्येवमर्थं वा? एतच्चोभयमप्रयोजनम्; अत्रान्तरङ्गत्वाद्वृद्ध्यावादेशाभ्यामेव भवितव्यम्। अन्तरङ्गत्वं पुनस्तयोर्णिज्मात्राश्रयत्वात्; ह्रस्वस्य च बहिरङ्गत्वं चङाश्रयत्वादिति। `चङ्युपधाया ह्रस्व इत्युच्यमाने` इत्यादि। एतावत्युच्यमानेऽसति णिग्रहणे चङ्परे यदङ्गं तस्योपधाया ह्रस्वो भवतीत्येवमर्थः स्यात्। तथा चानवकाशो ह्रस्वोऽलीलवदित्यत्रान्तरङ्गामपि वृदिंध बाधित्वा वचनसामर्थ्यादृकारस्यैव स्यात्। अथापि कथञ्चिद्? वृद्धिर्न बाध्यते; एवमपि वृद्धौ कृतायामन्तरङ्गमप्यावादेशं बाधित्वौकारस्यैव प्रसज्येत; अन्यथा हि वचनमिदमनर्थकं स्यात्। `अदीदपत्` इति। अत्र ददातेर्णिचि लुङि चङि च कृते अ दा इ+अत्? इति स्थिते वचनप्रामाण्यादनवकाशो ह्रस्वोऽन्तरङ्गमपि पुकं बाधित्वा प्रसज्येत, तसमिंश्च सति पुग्विहतनिमित्तत्वान्न स्यात्। `अपीपचदित्यादौ तु नैव ह्रस्वः स्यात्` इति। चङि परत#ओ यदङ्गं पाचिप्रभृति तदीयाया उपधायाश्चाकारादेरह्रस्वभाविनीत्वात्। आदिशब्दोऽपीपठदित्यादिपरिग्रहार्थः। तस्माण्णाविति वक्तव्यम्। `चङीति किम्` इति। एषोऽभिप्रायः - केवले णौ ह्रस्वो मा भूदित्येवमर्थं चङीत्युच्यते; नैतच्चङग्रहणस्य प्रयोजनमुपपद्यते; यस्मादाचार्यप्रवृत्तिज्र्ञापयति - णावेव केवले ह्रस्वत्वं न भवतीति, यदयम्? `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वत्वं शास्ति। ततः कारयति, हारयतीत्यादौ न भविष्यतीत्यभिप्रायः। यद्येतस्माज्ज्ञापकात्? कारयतीत्यादौ ह्रस्वो न भवति, तदाऽचीकरदित्यत्रापि न स्यात्। अथात्र वचनसामर्थ्याद्भविष्यति? एवमपि कारयतीत्यादौ स्यादेव। न हि `मितां ह्रस्वः` [[6.4.92]] इत्युचयमाने सत्यचीकरदित्यादौ न भवतीत्येव विषयविभागः शक्यते विज्ञातुम्। तस्मात्? चङ्ग्रहणं कर्तव्यम्। `उपधाग्रहणं किम्` इति। एवं मन्यते - अलोऽन्त्यस्य मा भूदित्येवमर्थमुपधाग्रहणं क्रियते, एतच्चाप्रयोजनम्; चङ्परे णौ यदङ्गं तस्याचीकरदित्यादावपि णावन्तरङ्गत्वाद्? वृद्ध्यादिषु कृतेषु ह्रस्वभाव्यजन्त्यो न सम्भवति यत्राजन्ताण्णिजुत्पद्यते, किं पुनरपपठवित्यादौ यत्र हलन्ताण्णिजुत्पद्यते! तस्मादजन्त्यो ह्रस्वभावो नास्तीत्यन्तरेणाप्युपधाग्रहणं वचनादनव्त्यस्यैवोपधाभूतस्य ह्रस्वो भविष्यतीति। `अचकाङ्क्षत्, अववाञ्छत्` इति। `क्राक्षि वाक्षि माक्षि काङ्क्षायाम्` (धातुपाठः-667,668,669)। यद्यप्यजन्तो ह्रस्वभावी नास्ति, तथापि वचनादनन्त्यस्याचोकरदित्यादौ यथा भवति, तथा अचकाङ्क्षदित्यादावपि स्यात्। तस्मान्मा भूदेष दोष इत्युपधाग्रहणं क्रियत इत्यभिप्रायः। ननु चाङ्गस्य योऽच्? तस्य चङ्परे णौ ह्रस्वो विधीयते, तत्र यद्यप्यनन्तरोऽज्? न सम्भवति, तथापि `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) इत्येकेन वर्णेनेति येन नाव्यवधानम्, अपि तु सर्वदा व्यवधानमेव; तेन व्यवहितेऽपि वचनप्रामाण्याद्भवितव्यम्। एकेनैव वर्णेन व्यवधानं सर्वत्र सम्भवति। सङ्घातेन तु व्यवधानं सम्भवति, न सम्भवति च। इहाचकाङ्क्षदित्यादौ सङ्घातेनैव व्यवधानम्, अतो नास्त्येव ह्रस्वप्रसङ्ग इति किमुधाग्रहणेन? इत्याह - `तदेतत्` इत्यादि। उपधाग्रहणमवश्यमुत्तरार्थं कर्तव्यम्। इह तु क्रियमाणे सत्यचकाङ्क्षदित्येवमर्थम्? `येन नाव्यवधानम्` (व्या।प।46) इत्येषा परिभाषा नाश्रयितव्या भवति। उपधाग्रणेनैवात्र ह्रस्वस्य निवर्त्तितत्वादित्येष गुणो लभ्यते। तेनेहैव कृतम्, नोत्ररत्र। `उपधाह्रस्वत्वे णेर्णिचयुपसंख्यानम्` इति। चङ्परे णौ परतो यो णिस्तस्मिन्? परतोऽङ्गस्योपधापा ह्रस्वः उपसंख्येयः। `अवीवदत्` इति। वदेः <<हेतुमति च>> [[3.1.26]] इति णिच्, तदन्ताद्वादितवन्तं प्रयोजितवानिति पुनः <<हेतुमति च>> [[3.1.26]] इति णिच्, ततो लुङादिः,<<णेरनिटि>> [[6.4.51]] इति णिलोपः। किं पुनः कारण न सिध्यति, यावता णिलोपे कृते चङ्परे णावङ्गस्याकारो ह्रस्वभाविन्युपधा भवत्येव? इत्याह - `योऽसो` इत्यादि। `अचः परस्मिन्? पूर्वविधौ` [[1.1.57]] अपि णिलोपस्य ह्रस्वत्वे कर्तव्ये स्थानिवद्भावाण्णिजव्यवधानाद्? ह्रस्वो न प्राप्नोति। तेन वा णिलोपेनाग्लोप्यङ्गमेतद्भवति - तदेतस्माद्धेतोर्न हरसवत्वं प्राप्नोति। अग्लोपीत्यादिनानन्तरवक्ष्यमणिप्रतिषेधात्? [[7.4.4]] `ण्याकृतिनिदशात्? सिद्धम्` इत्युपसंख्यानं प्रत्याचष्टे - `णौ इति। ण्याकृतिरिति णिजातिर्निर्देशयते, न तु णिव्यक्तिः। तेन व्यक्तौ व्यवधानं न भवति, न हि जातौ; एकत्वाण्णिजातेः। न हि तयैव तस्या व्यवधानमुपपद्यते। ननु चोत्तरया ण्याकृत्या जात्याधारभूतया णिव्यक्त्या णिजात्याश्रयेऽपि व्यवधानमुपपद्यत एव? नैतत्; तस्यामपि व्यक्तौ जातेः समवायात्। एवं तादद्व्यवधान#ं ण्याकृत्याश्रये नास्ति। अग्लोपित्वमपि नास्त्येव; न ह्यत्र णिजातिव्यतिरेकेणाऽन्योऽग्विद्यते, यस्य लोपेनाग्लोप्यङ्गं स्यात्। न च ण्याकृतेर्लोपश्च; तस्याः श्रूयमाणत्वात्। न हि श्रूयमाणाया लोपे लपपद्यते; <<अदर्शनं लोपः>> [[1.1.60]] इति वचनात्। ननु च जातिव्यतिरेकेणापि तदाश्रयभूता व्यकतिरग्विद्यत एव; न जातिव्यक्त्योरनन्यत्वमिति सांख्योयसिद्धान्तस्येहाश्रयणात्। अथ वा - ण्याकृतिनिर्देशे सत्युपधाह्रस्वत्वस्य ण्याकृतनिमित्तत्वेना श्रोयते। तेन गोबलीवरदन्यायेन तस्या ण्याकृतेर्निमित्तत्वेनोपात्ताया अन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन विज्ञायते, स चेह नास्ति। तस्माण्ण्याकृतिनिर्देशात्? सिद्धम्॥", "74002": "अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स एषामस्तीति तान्यग्लोपीन्यङ्गानि। `शासु अनुशिष्टौ` (धातुपाठः-1075) ऋदिद्येषां तानि ऋदिन्ति `बाधृ विलोडने` (धातुपाठः-5) इत्येवमादीनि। `अममालत्, अममातरत्` इति। `तत्करोति तदाचष्टे` (ग।सू।187) इति णिच्, `णाविष्ठवत्कार्यं प्रातिपदिकस्य` (वा।813) इतीष्ठवद्भावः, `तुरिष्ठेमेयःसु` [[6.4.154]] इति टिलोपः, ततो लुङादिः। `अतयरराजत्` इत्यादौ, `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च` (ग।सू।186) इति णिच्। `अन्वलुलोमत्` इति। `सत्यापपाशरूप` [[3.1.25]] इत्यादिना णिच्।`अगेव केवलो यत्र` इत्यादि। इह द्विविधमगलोपयङ्गम् - क्वचिदगेव केवलो लुप्यते, अममालदित्यादौक्वचिद्धलचौ, अत्यरराजदित्यादौ। अगेव केवलो यत्र लुप्यते तत्राग्लोपस्य स्थानिवद्भावात्? सिद्धम्। स्थानिवद्भावे सत्यग्लोपस्य व्यवधानादेव ह्यसवप्राप्तिः, तस्मान्न तदर्थमग्लोपीति वचनम्। इतरत्र तु हलचोरुभयोरप्यादेश इति सिध्यति, अस्थानिवद्भावात्। अजादेशसय हि परनिमित्तकस्य स्थानिवद्भाव उक्तः, न तु हलचोरादेशस्य। तस्माद्यत्र हलचोरादेशास्तदर्थमिदं वचनम्। अन्यार्थमेतत्? क्रियमाणं यत्रागेव केवलो लुप्यते तदर्थमपि भविष्यतीति तदर्थमस्योदाहरणमुपन्यस्तम्। `अडुढौकत्` इत। `ककि वकि आकि त्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ रघि लघि गत्यर्थाः` (धातुपाठः-94,95,96,97,98,99,100,101,102,103,104,105,106,107,108)। <<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वम् - डकारः॥", "74003": "भ्राजिरयं भ्वादावनुदात्तेत्? पठते, आत्मनेपदी ऋकारानुबन्धः फणादिषु `टुभ्राजु टुभ्रासु दीप्तौ` (धातुपाठः-823,824) इति पठते, फणादिभ्यः पुरस्ताच्च `एजृभ्रेजृ भ्राजृ दीप्तौ` (धातुपाठः-179,180,181) इति। तन्त्रान्तर्गचकार्यार्थः फणादिष्ववश्यमेवास्य पाठोऽङ्गीकर्तव्य इति तेनैव शबादेरपि गणकार्यस्य सिद्धत्वात्। अन्यत्रास्य पाठोऽनार्ष एव लक्ष्यते। `भासृ दीप्तौ` (धातुपाठः-624), `भा, व्यक्तायां वाचि` (धातुपाठः-612) `दीपी दीप्तौ` (धातुपाठः-150), `जीव प्राणधारणे` (धातुपाठः-562) `मील श्मील स्मील क्ष्मील निमेषणे` (धातुपाठः-517,518,519,520), `पीड अवगाहने` (धातुपाठः-1544) - एषां नित्ये ह्रस्वत्वे प्राप्ते विभाषेयमारभ्यते। `अबिभ्रजत्` इति। यधा ह्रस्वत्वम्, तदा पूर्ववत्सन्वद्बावेनेत्त्वम्। `अबीभवत्` इति। पूर्ववद्दीर्घः।अथ भ्राजभासयोॠदित्करणं किमर्थम्, यावता तयोर्हि ऋदित्करमस्यैतत्? प्रयोजनम् - ऋदित्त्वात्? पूर्वसूत्रेण ह्रस्वप्रतिषेधो यथा स्यादिति। यदि विभाषया च तयोह्र्यस्वत्वं विधीयते तदा ऋदित्करणमस्य वैयव्र्यमेव? इत्यत आह - `भ्राजभासोः` इत्यादि। `अपाणिनीयम्` इति। पाणिनेरिदं पाणिनीयम्, न पाणिनीयमपाणिनौयमिति; तेनानभ्युपगमात्; न तु तेनाकृतत्वात्। अन्यथा हि `बाधृ विलोडने` (धातुपाठः-5) - इत्येवमादीनामपि ऋदित्करणमपाणिनीयं स्यात्। प्रतिपादितं हि पूर्वम्? (4.1.106 तमसूत्रे) - गणकारः पाणिनिर्न भवतीति। तथा च - अन्यो गणकारः अन्यश्च सूत्रकारः॥", "74004": "ह्रस्वत्वे प्राप्ते तदपवादः पिबतेर्लोपो विधौयते, ईकारश्चाभ्यासस्येति। उपधाधिकारादुपधाया एव। पर्यायेण लोपेकारौ मा भूताम् - इत्येवमर्थमध्यासग्रहणम्। `अपीप्यत्` इति। `पा पाने` (धातुपाठः-925), णिच्, `शाच्छासाह्वाव्यावेपाम्` [[7.3.37]] इति युक्। ननु च नित्यत्वात्? परत्वाच्च पूर्वमुपधालोपे कृतेऽनच्कत्वाद्? द्विर्वचनेन न भवितव्यम्? इत्यत आह - `उपधालोपे कृते` इत्यादि। सुबोधम्। पिब्रातेः श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः - अपापयदिति। `पा रक्षणे` (धातुपाठः-1056, `पै ओवै शोषणे` (धातुपाठः-920,921) - इत्येतयोस्तु निवृत्त्यर्थः स नोपपद्यते; तत्र ह्रोकस्य लुग्विकरणत्वादेव न भविष्यति, अपरस्य तु लाक्षणिकत्वात्॥", "74005": "अयमपि ह्रस्वापवादः। `ईच्चाभ्यागस्य` [[7.4.4]] इति निवृत्तम्। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थ एव - अतास्थपदिति॥", "74006": "एषोऽपि ह्रस्वापवादः। अत्रापि श्तिपा निर्देशस्य तदेव प्रयोजनम् - अजाघ्रपदिति॥", "74007": "अत्र ऋकारः स्थानित्वेनोपात्तः, तस्य चान्तरङ्गत्वादिररार एव प्राप्नुवन्ति, न हि बहिरङ्गो ह्रस्वः, तस्मात्? तेषामपवादौ विज्ञायत इत्यत आह - `इररारामपवादः` इति। `उपघायाश्च` [[7.1.101]] इतीकारः, `पुगन्तलघूपघस्य` [[7.3.86]] इति गुणोऽकारः, `मृजेर्बृद्धिः` [[7.2.114]] इत्याकारः - इत्येते च ऋकारस्य स्थाने `उरण्रपरः` [[1.1.50]] इति रपरा भवन्तो यताक्रममिररारो भवन्ति, तेषामपवादः। `अचीकृतत्` इति। `कृत संशब्देने` (धातुपाठः-1653), चुरादिः, णिच्। `अवीवृतत्` इति। `वृतु वर्तने` (धातुपाठः-758) `अमीमृजत्` इति। `मृजू शुद्धौ` (धातुपाठः-1066) हेतुमण्णिच्। ननु चान्तरङ्गत्वादिररार्भिरेव भवितव्यम्, अन्तरङ्गत्वं तु पुनस्तेषां ण्ज्मात्राश्रयत्वात्। ऋकारस्तु चङ्परं णिचमाश्रित्य भवतीति बहिरङ्गः। तत्कथं तेनेररारो बाध्यन्ते? इत्यत आह - `वचनसामर्थ्यात्` इत्यादि। यद्यन्तरङ्गत्वादिररारः स्युः, वचनस्य तदा वैयथ्र्य स्यात्; अनवकाशत्वात्। तस्मादन्तरङ्गा अपि ते बाध्यन्ते। `तपरकरणम्` इत्यादि। असति हि तपरकरणे यत्र दीर्घः स्थानी, तत्रान्तरतम्याद्दीर्घः प्रसज्येत तस्मा द्दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यादित्येवमर्थं तपरकरणम्। ननु `भाष्यमानोऽण्? सवर्णान्न ग्रृह्णाति` (व्या।प।35) इति दीर्घस्यापि स्थानिनो ह्रस्व एव भविष्यति, न दीर्घः? इत्यत आह - `न चायं भाव्यमानः` इत्यादि। किं कारणम्? इत्यत आह - `आदेशान्तरनिवृत्त्यर्थम्` इति। इति। आदेशान्तरमिररारादि; तस्य निवृत्त्यर्थमीकारस्यास्मीयरूपेणैवाभ्यनुज्ञायते, न त्वपूर्व एव ऋकारो विधीयते, तत्कुतोऽस्य भाव्यमानता!॥", "74008": "`अवीवृधत्` इति। `वृधु वृद्धौ` (धातुपाठः-759) हेतुमाण्णिच्, ततो लुङादिः। नित्यग्रहणं पूर्वसूत्रे वेत्येतदनुवृत्तेर्विज्ञापनार्थम्; अन्यथा हि तत्राप्यस्याननुवृत्तिर्विज्ञायेत॥", "74009": "`अवदिग्ये` इत्यादि। `देङ्? रक्षणे` (धातुपाठः-962), लिट्, ङित्त्वादात्मनेपदम्, प्रथपुरुषः, <<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्येशिरेचौ, एरनेकाचः` [[6.4.82]] इत्यादिना यणादेशः। `दयतेरिति देङो ग्रहणम्, न तु दय दान इत्यस्य` इति। ननु च `दय दानगतिरक्षणहिंसादानेषु` (धातुपाठः-481) इत्येतस्य ग्रहणं कस्मान्न भवति? इत्यत आह - `तस्य हि` इत्यादि। लिटीत्युच्यते, न च `दय दाने` (धातुपाठः-481) - इत्येतस्यानन्तरो लिडस्ति; यस्मात्? तस्य <<दयायासश्च>> [[3.1.37]] इत्यनेनाम्? विहितः। ननु च `अमन्त्रे` इति तत्रानुवर्तते, ततो मन्त्र आमोऽभावात्? स्यादेवानन्तर्यम्? एवं मन्यते - यथादृष्टानुविधिश्छन्दसीति। न च `दय दाने` (धातुपाठः-481) इत्येतस्य मन्त्रे दिग्यादेशो दृश्यत इत्यभिप्रायः। इहावदिग्ये - इत्यनवकाशात्वाद्? दिग्यादेसे कृते पश्चाद्? द्विर्वचनेन भवितव्यम्, यथा चख्यावित्यत्र `चक्षिङः ख्याञ्` [[2.4.54]] इति ख्याञादेशस्यानवकाशत्वात्? तत्र कृते पश्चाद्द्विर्वचनम्, तथावदिग्ये इत्यत्रापि दिग्यादेशे कृते पश्चाद्? द्विर्वचन केन बाध्येत? इति यश्चोदयेत् - तं प्रत्याह - `दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते` इति। कथं पुनरिष्यमाणमपि लभ्यते? नित्यग्रहणानुवृत्तेः। इह पूर्वसूत्रान्नित्यग्रहणमनुवर्तते, न चात्र विभाषा प्राप्नोति, यन्निवृत्त्यर्थ नित्यग्रहणं विज्ञायते। तस्मादन्यल्लिटि यत्? कार्यं प्राप्नोति, तन्निवृत्त्यर्थं नित्यग्रहणं विज्ञायते; तेनैवमभिसम्बन्धः करिष्यते - `लिटि प्राप्नुवतां कार्याणां दिग्यादेश एव नित्यं भवति, नान्यत्कार्यम्`। इत्येवं द्विर्वचननिवर्तनं भवति। यणादेशस्तु लिटित्युच्यायं न विधीयत इति <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इत्यचि भवति॥", "74010": "`सस्वरतुः, सस्वरुः` इति। `स्वृ शब्दोपतापयोः` (धातुपाठः-932), `उरत्` [[7.4.66]] इत्यभ्यासस्यात्त्वम्, रपरत्वम्, हलादिशेषः। `दध्वरतुः, दध्वरुः` इति। `ध्वृ हूच्र्छने` (धातुपाठः-939)। `सस्मरतुः, सस्मरुः` इति। `स्मृ आध्याने` (धातुपाठः-807)। ननु च सर्वत्रैव साभ्यासमङ्गम्, न च तत्? संयोगादि? नैष दोषः, `द्विष्प्रयोगो द्विर्वचनम्` इत्येषोऽत्र पक्षः, तत्र परस्याप्यङ्गसंज्ञा भवत्येव। अथापि `स्थाने द्विर्वचनम्` इत्यप्यदोषः; सर्वत्रैव हि लिटभ्यासः संयोगादित्वं विहन्ति, उच्यते चेदं वचनम्, तत्रैवं विज्ञास्यामः - प्राग्द्विर्वचनात्? संयोगादित्वमस्ति, इह च द्विर्वचनात्? प्राक् संयोगादित्वमस्ति। `चिक्षिपतुः, चिक्षिपुः` इति। `क्षि क्षये` (धातुपाठः-236), इयङादेशः। `प्रतिषेधविषयेऽपि` इत्यादि। यः `क्ङिति च` (1।15) इत्यस्य प्रतिषेधस्य विषयो न भवति थलादिः, तत्र <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्येवं गुणः सिद्धः। तस्माद्गुणप्रतिषेधविषयेऽपि यथा स्यादित्ययमारम्भः वृद्धिविषयेऽपि परत्वाद्गुणेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - `वृद्धिविषये तु` इत्यादि। गुणस्यावकाशः - सस्वरतुः, सस्वरुरिति; ञ्णिति वृद्धेरवकाशः - स्वारकः, ध्वारक इति; सत्त्वार, दध्वारेत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन वृद्धिरेव भवति। अथ तपरकरणं किमर्थम्, दीर्घस्यापि मा भूदित्येवमर्थं चेत्? नैतदस्ति; भवितव्यमेव हि दीर्घस्योत्तरसूत्रेण - `स्तृञ्? आच्छादने` (धातुपाठः-1484), आतस्तरतुः, आतस्तरुरिति। ननु चैतस्मात्? तपरकरणान्न प्राप्नोत, सावकाशं चोत्तरवचनमसंयोगादौ - `कृ? विक्षेपे` (धातुपाठः-1409) निचकरतुः, निकरुरिति? यद्येवम्, एवे तर्हि न चेदं तपरकरणम्, किं तर्हि तसिनायं निर्देशः। `संयोगादेः` इत्यादि। इहाङ्गप्रकरणादङ्गं संयोगादित्वेन विशिष्यते। न च करोतेः संयोगाद्यङ्गमिति न प्राप्नोति, तस्मात्? संयोगोपधग्रहणं कर्तव्यमिति करोतेरपि यथा स्याद्गुणः। `सञ्चस्करतुः, सञ्चस्करुः` इति। <<सम्पर्युपेभ्यः करोतौ भूषणे>> [[6.1.137]] इति सुट्, स च <<अडभ्यासव्यवायेऽपि>> [[6.1.136]] इति वचनादभ्यासव्यवायेऽपि भवति। किं पुनः कारणमिह गुणो न सिध्यति, यावता सुटि कृते `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते` (व्या।प।21) इति करोतिः संयोगादर्भवति? इत्यत आह - `अत्र हि` इत्यादि। अनेन सुटो बहिरङ्गतां प्रतिपादयति। बहिरङ्गत्वे हि तस्य `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यन्तरङ्गे गुणे कर्तव्ये बहिरङ्गस्य सुटोऽसिद्धत्वात्? संयोगादित्वं करोतेर्नोपपद्यते। पूर्वं धातुरुपसर्गेण युज्यते पश्चात्? साधनेन` (जै।प।वृ।98) इत्यस्मिन्दर्शने धातूपसर्गयोः कार्यमन्तरङ्गमिति सुटोऽपि धातूपसर्ययोः कार्यत्वादन्तरङ्गता स्यात्। `पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण` (सी।प।128) इत्यस्मिन्? दर्शने सुड्बहिरङ्गो भवति। तथा हि - अस्मिन्? दर्शने निरुपसर्गस्यैव धातोरर्थः साधनेन युज्यत इति साधनाभिधायी पूर्व तावल्लिट्? कर्तव्यः; तत्र कृते तदाश्रये द्विर्वचने कृते पश्चादुपसर्गयोगे `अडभ्यासवयवायेऽपि` [[6.1.136]] इति सुट्? क्रियते। एवञ्च क्रियमाणे ह्रनेकपदाश्रितत्वात्, बह्वपेक्षत्वाच्च सुटो बहिरङ्गता प्रतिपाद्यते। गुणस्तु लिडुत्पत्तिसमनन्तरकालमेव प्राप्नोति, नापरं किञ्चिदपेक्षते; एकपदापेक्षत्वादल्पापेक्षत्वाच्चान्तरङ्गः, ततश्च तस्मिन्? कर्तव्ये सुटोऽसिद्धत्वात्? करोतिः संयोगाद्यङ्गं न भवति। तस्मादसौ न प्राप्नोति। `एवञ्च कृत्वा` इत्यादि। यत एवं सुड्बहिरङ्गः, एवञ्च कृत्वाऽन्तरङ्ग इटि कर्तव्ये तस्यासिद्धत्वादसंयोगादित्वात्? करोतेरुपस्कृषीष्ट, संस्कृषीष्ट - इत्यतर <<ऋतश्च संयोगादेः>> [[7.2.43]] इतीडागमो न भवति। एतेन बहिरङ्गतैव सुटः प्रतिपादिता। ननु चाङ्गाधिकारात्? प्रत्यासत्तेरङ्गावयव एव संयोगो गृह्रते, कात्पूर्वग्रहणेन तत्र ज्ञापितमभक्तत्वं सुटः, ततश्चाभक्तत्वादेवासंयोगादित्वात्? करोतेरिण्न भविष्यति, किमत्र बहिरङ्गत्वेनासिद्धत्वेनोपन्यस्तेन? सत्यमेतत्; एवं मन्यते - भवतु नाम करोतिभक्तत्वं सुटः, तथाप्यसिद्धत्वात्? तस्य संस्कृषीष्ट - इत्यत्रेट्प्रसङ्गो न भविष्यतीति संयोगोपधग्रहणं कर्तव्यमिति। अस्यायमर्थः - संयोगोपधः करोतिरङ्गं गृह्रते येन तत्? संयोगोपधग्रहणव्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानं कर्तव्यम् - चकारोऽत्र क्रियते, स च करोतेः संयोगोपधस्य समुच्चयार्थः। तेन तस्यापि सुटि कृते संयोगोपधस्य गुणो भविष्यतीति॥", "74011": "`ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु` (धातुपाठः-1296)। अर्तेरप्यत्र प्रश्लेषः; बहुवचननिर्देशात्। अत एवाह - `ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ऋकारान्तानां च` इति। ऋकारान्ताः - `कॄ विक्षेपे` (धातुपाठः-1409), `गॄ? निगरणे` (धातुपाठः-1410) इत्येमादयः। `आनर्च्छतुः, आनर्च्छुः` इत्यादि। अतुसुसौ, गुणः, द्विर्वचनम्, अभ्यासकार्यं पूर्ववत्, <<अत आदेः>> [[7.4.70]] इति दीर्घः, `तस्मान्नुड्? द्विहलः` [[7.4.71]] इति नुट्। `आरतुः` आरुः` इति। पूर्ववदभ्यासस्य दीर्घः, ततः पूर्वसवर्णेनेति। `ऋच्छतेरलघूपधत्वात्` इत्यादि। अलघूपघत्वं तु तस्यान्तरङ्गत्वात्। `छे च` [[6.1.71]] इति तुकि कृते <<संयोगे गुरु>> [[1.4.11]] इति गुरुसंज्ञायां सत्यां गुरूपधत्वान्न प्राप्नोतीति वेदितव्यम्। `ऋतां तु` इत्यादि। ऋ ऋतां तु प्रतिषिद्ध एवेति गुणो विधीयत इत्यपेक्ष्यते। गुणप्रतिषेधस्तु तेषां `असंयोगास्लिट्? कित्` [[1.2.5]] इति कित्त्वे सति <<क्ङिति च>> [[1.1.5]] इत्यनेन वेदितव्यः। `वृद्धिविषये तु` इत्यादि। यथा `ऋतश्च संयोगावेः` [[7.4.10]] इति वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते, तथा ऋऋतामपीति। गुणस्यावकाशः - निचकरतुः, निचकरुरिति; वृद्धेरवकाशः - कारकः, हारक इति; निचकार, निजगारेत्यत्र वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते॥", "74012": "`शृ? हिंसायाम्` (धातुपाठः-1488) `दृ? विदारणे` (धातुपाठः-1490) `पृ? पालनपूरणयोः` (धातुपाठः-1489) - एषां पूर्वसूत्रेण नित्यो गुणो भवत्येव। `विशश्रतुः` इति। ह्रस्वत्वे कृते यणादेशः। `ह्रस्ववचनम्` इत्यादि। असति ह्रस्वग्रहणे वाश्चनेन विकल्पिते यस्मिन्? पक्षे गुणो नास्ति तस्मिन्? पक्षे `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वं प्रसज्येत, `उदीष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वञ्च। तस्मात्? तन्निवृत्त्यर्थ ह्रस्व इत्युच्यते? ऋदिति कर्तव्ये ह्रस्वग्रहणमुत्तरार्थम्। केचित्? इत्यादि। कथं पुनरस्य प्रत्याच्यमाने विशश्रतुः - इत्येवमादीनि रूपाणि सिध्यन्ति? इत्याह - `श्रा पाके` इत्यादि। यद्यपि <<आतो लोप इटि च>> [[6.4.64]] इत्यकरलोपे कृते श्रादीनां विशश्रतुरित्येवमादीनि रूपाणि सिध्यन्तीति, तथाप्यर्थमेवो भवति; तदाऽयुत्त्तमस्य प्रत्याख्यानमित्याशङ्क्यानेकार्थत्वाद्धातूनामित्युक्तम्। `तथा च सति` इत्यादिना प्रत्यादिना प्रत्याख्यानं प्रत्याचष्टे। यदि सूत्रस्य प्रत्याख्यानं क्रियते, क्वासौ कृते विशशृषानिति रूपं न सिध्यति, तथा हि - यदि शृणातेह्र्यस्वो न क्रियते, तदा विशशर्वानिति रूपं स्यात्। अथ श्रातेः, विशश्रिवानिति। तस्मादयुकतमस्य प्रत्याख्यानम्॥", "74013": "अणिति पूर्वेम णकारेण प्रत्याहारग्रहणम्; अन्यथा `केऽचः` इत्येवं ब्राऊयात्। अथ वा - अच इत्येतदपि न ब्राऊयात्, अच एव हि हरस्वदीर्घल्पुता भवन्ति। `ज्ञका` इति। जानातीति ज्ञा, <<इगुपधज्ञाप्रीकिरः कः>> [[3.1.135]] , तदन्ताट्टाप। अज्ञाता ज्ञेति `प्रागिवास्? कः` [[5.3.70]] । अथ वा - अनुकम्पिता ज्ञेति <<अनुकम्पायाम्>> [[5.3.76]] इति कन्? कनि कृते तदन्ताट्टाप्। अथेह कस्मान्न भवति - `कृदाधारार्चिकलभ्यः कन्` (द।उ।3।18) इति रातेर्दधातेश्च कन्, तदन्ताट्टाप् - `राका, धाका` इत्यादि। सुबोधम्। निरनुबन्धस्येह ग्रहणान्निरनुबन्धकपरिभाषया कनो ग्रहणेन न [नास्ति - मुद्रिते] भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `न कपि` इत्यादि। यद्येषा परिभाषोपतिष्टते, तदा `न कपि` [[7.4.14]] इति प्रतिषेधोऽनर्थकः स्यात्। सानुबन्धकत्वादेव कपो ग्रहणं ग्रहणं न भविष्यतीत्यभिप्रायः॥", "74014": "`बहुकुमारीकः` इति। बह्व्यः कुमार्यो यस्य सः। <<नद्यृतश्च>> [[5.4.153]] इति कप्; अनुबन्धलोपः। अथात्रास्मिन्? ह्रस्वत्वे प्रतिषिद्ध उपसर्जनह्रस्वत्वं कस्मान्न भवति? अत #एव प्रतिषेधान्न भविष्यतीति चेत्? न; `अनन्तरस्य विधिरावा प्रतिषेधो वा` (व्या।प।19) इत्यनन्तरस्यैव ह्रस्वस्य ह्रयं प्रतिषेधो न सर्वस्य। कपीति वचनसामर्थ्यादुपसर्जनह्रस्वत्वमिति न भविष्यतीति चेत्? यत्र ह्रुपसर्जनह्रस्वत्वस्य प्राप्तिरस्ति, <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वशासने स्त्रीशब्देन स्त्र्यधिकारविहितानां प्रत्ययानां टाबादीनां ग्रहणात्। तस्माद्बहुकुमारीक इत्यत्रोपसर्जनस्य ह्रस्वत्वेन भवितव्यमित्यत आह - `गोस्त्रियोरुपसर्जनस्य` इत्यादि। कस्मान्न भवति? इत्याह - `समासार्थे हि` इत्यादि। उपसर्जनह्रस्वत्वं हि स्त्रीप्रत्ययान्तस्य समासप्रातिपदिकसय विधीयते, तद्धिधाने `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इत्यतः प्रातिपदिकग्रहणानुवृत्तेः समासप्रातिपदिकस्यैव स्त्रीप्रत्ययान्तस्योपसर्जनह्रस्वः स्यात्। न च बहुकुमारीक इत्यादौ स्त्रीप्रत्ययान्तं समासप्रातिपदिसं भवति; यस्मात्? <<समासान्ताः>> [[5.4.68]] इत्यधिकार एवायां कब्विधीयते। `समासान्ताः` इत्यत्रान्तग्रहणस्यैतत्? प्रयोजनम् - समासस्यान्तोऽवचयो यथा स्यादिति, स च कथं समासस्यावयवो भवति? यदि तेन सह समाससंज्ञा भवति। कथञ्च तेन समाससंज्ञा भवति? यद्यकृते समासे समासार्थादुत्तरपदात्? कब्भवति, पश्चात्? कदन्तेन समासो भवति, नान्यथा। तस्मात्? समासान्ताधिकारे कपो विधानात्? समासार्थादुत्तरपदात्? कपि कृते पश्चात्? समासेन भवितव्यम्। ततश्च स्त्रीपरत्ययान्तमिह समासपरातपदेकं न भवतीति न भवत्युपसर्जनह्रस्वत्वम्।", "74015": "`बहुखट्वाकः` इति। <<शेषाद्विभाषा>> [[5.4.154]] इति कप्॥", "74016": "<<क्ङिति च>> [[1.1.5]] इति प्रतिषेधे प्राप्तेऽयं गुणो विधीयते। `अकरत्` इति। कृञो लुड्, च्लिः, `तिप्, <<कृमृदृरुहिभ्यश्छन्दसि>> [[3.1.59]] इति च्लेरङ। `असरत्` इति। `सृ गतौ` (धातुपाठः-935)। `आरत्` इति। `ऋ गतिप्रापणयोः` (धातुपाठः-936), `सर्त्तिशास्त्यर्त्तिभ्यश्च` [[3.1.56]] इति च्लेरङ्, अर्तेरजादित्वादाटि कृते `आटश्च` [[6.1.87]] इति वृद्धिः। `अदर्शत्` इत <<इरितो वा>> [[3.1.57]] इत्यङ्। अथ गुणग्रहणं किमर्थम्। अकार एव नोच्येत? नैवं शक्यम्; अकार इत्युच्यमाने दुशेरन्त्यस्य स्यात्। गुणग्रहणे तु सति संज्ञाविधाने नियम इतीक एव स्थाने भवति॥", "74017": "`आस्थत्` इति। `असु क्षेपणे` (धातुपाठः-1209) `अस्यतिवक्तिखक्यातिभ्योऽङ्` [[3.1.52]] इति च्लेरङादेशः॥", "74018": "`अआत्` इति। `टु ओइआ गतिवृद्ध्योः` (धातुपाठः-1010)। `जृस्तम्भुभ्रुचु` [[3.2.58]] इत्यादिनाङ् द्वयोरकारयोः पररूपत्वम्॥", "74019": "`अपप्तत्` इति। `शल हुल पत्लृ गतौ (धातुपाठः-843,844,845), पुषादिनाङ। मकारो देशविध्यर्थः॥", "74020": "`अवोचत्` इति। `वच परिभाषणे` (धातुपाठः-1842), `अस्यतिक्तिख्यातिभ्यः` [[3.1.52]] इत्यादिनाङ्। मकारसय तदेव प्रयोजनम्॥", "74021": "अप्राप्तविषयत्वाद्गुणविधानस्य ङिति सार्वधातुक एतद्विधानम्। पिति तु सामान्यलक्षणैनैव गुणः सिद्धः। लोट्, <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्याटि - शयै, शयावह इत। तस्माद्यत्र गुणो न प्राप्नोति तत्र विधीयते। `शेरते` इति। अदादित्वाच्छपो लुक्? `त्मनेपदेष्वनतः` [[7.1.5]] इति झकारस्यादादेशः। अत्र <<शीङो रुट्>> [[7.1.6]] रुडागमो भवति। `शिश्ये` इति। लिट्, `लिट्? च` [[3.4.115]] इत्यार्धधातुकसंज्ञा, उत्तमपुरुषस्यैकवचनम्, प्रथमपुरुषस्यैकवचनं वा। यदा प्रथमपुरुस्यैकवचनं तदैश्, पूर्ववदेव द्विर्वचनम्, <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणादेशः; अन्यदेट्, टेरेत्त्वम्। अथ गुणग्रहणं किमर्थम्, न `शीङः सार्वधातुके एत` इत्येंवोच्येत? एवं मन्यते - `शीङः` इति सानबन्धकनिर्देशे षष्ठ्युच्यारिता, निवृत्तिधर्मा चानुबन्धः तस्येत्संज्ञायां लोपेन निवृत्तौ प्राप्तायामयमन्यप्रकारो निवृत्तेरवज्ञायेत। तस्य नान्येत्संज्ञा निवर्त्तिका, किं तर्हि? एकारः। एवं तर्हि ङकारस्य स्थान एकार आपद्यते। तस्माद्गुणग्रहणं त्विकमुपस्थापयति। ङकारस्तु तेनैव हेतुना निवर्तत इति यद्येवम्, ङकारो नोच्चारयिष्यते, `झियः` इति निर्देशः करिष्यते? नैष शक्यम्; एवं हि निर्देशे सति यङ्लुक्यपि स्यात् - शेशीत, शेश्यतीति॥", "74022": "`शय्यते` इति। <<सार्वधातुके यक्>> [[3.1.67]] । `शाशय्यते` इति यङ्, परत्वान्नित्यत्वाच्च द्विर्वचनात्? प्रागयङादेशः, ततः शय्येत्यस्य द्विर्वचनम्, <<दीर्घोऽकितः>> [[7.4.83]] इत्यभ्याससय दीर्घत्वम्। `प्रशय्य` इति। `समानकर्तृकयोः पूर्वकाले क्त्वा` [[3.4.21]] , <<कुगतिप्रादयः>> [[2.2.18]] इति समासः, `समासेऽनञ्पूर्वे क्त्वो ल्यप्` [[7.1.37]] `येम्` इति। `ञचो यत्` [[3.1.97]] । `शय्या` [नास्ति - काशिकायाम्] इति। `सज्ञायां समजनि` [[3.3.99]] इत्यादिना क्यप्॥", "74023": "`समुह्र गतः` इति। `ऊह वितर्के` (धातुपाठः-648)। यद्यपि यजादित्वात्? किति सम्प्रसारणेनैतत् सिध्यति, तथाप्यूहेरपि दीर्घस्याश्रवणं तथा स्यादित्येवमर्थमिदं ह्रस्वविधानम्। `समीह्रते` इति। `ईह चेष्टायाम्` (धातुपाठः-632)। `समूहितः` इति। क्तः। `समूहयोऽयमर्थः` इति। `ऋहलोण्र्यत्` [[3.1.124]] । `अण इत्येव` इत्यादि। `केऽणः` [[7.4.13]] इत्यतोऽण्ग्रहणमनुवर्तते। `आ उह्रते ओह्रते, समोह्रते` इति। ह्रस्वत्वं न भवति। यद्यव्ग्रहणमनुवर्तते, तदा ह्रस्वविधानमनर्थकं स्यात्, उपसर्गादूहतेरुदिति वक्तव्यम्? नानर्थकम्; उत्तारार्थत्वात् - `एतेलिङि` [[7.4.24]] इति वक्ष्यति, तत्र `ह्रस्वः` इत्येतस्यानुवृत्तिर्यथा स्यात्॥", "74024": "`उदियात्` इति। `इण्? गतौ` (धातुपाठः-1045), आशिषि लिङ, <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः। `अभीयात्` इति। सवर्णदीर्घत्वेऽकृते ह्रस्वः। `आशिषि लिङि` इत्यादिना सूत्रस्य विषयं दर्शयति। सार्वधातुके हि लिङि दीर्घत्वमिणो न सम्भवतीति नात्रास्योपयोगः। यत्राकृत्सार्वधातुकयोर्दीर्घत्व [[7.4.25]] मापद्यते; तत्र दीर्घत्वे कृतेऽनेन ह्रस्वो भवति।", "74025": "`भृशायते` इति। <<भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः>> [[3.1.12]] इति क्यङ्। `सुखायते` इति। `सुखादिभ्यः कर्त्तृवेदनायाम्` [[3.1.18]] इति क्ङ्। `चीयते` इति। कर्मणि लकारः, <<सार्वधातुके यक्>> [[3.1.67]] । `चेचीयते` इति। <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यभ्यासस्य गुणः। `तोष्टूयते` इति। `ष्टुञ्? स्तुतौ` (धातुपाठः-1043), <<शर्पूर्वाः खयः>> [[7.4.61]] इति खयः शेषः। `चीयात्, स्तूयात्` इति। आशिषि लिङ्। `प्रकृत्य` इति। पूर्ववल्ल्यप्। स च <<कृदतिङ्>> [[3.1.93]] इति कृत्संज्ञकः। ननु च दीर्घश्रुत्याऽजित्येतस्मिन्नुपस्थिते तेनाङ्गं विशिष्यते तत्र विशेषणेन च तदन्तविधिरित्यजन्तस्याङ्गस्य दीर्घत्वेन भवितव्यमिति, इह <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] तुकि कृतेऽजन्तता नास्ति, ततश्चानजन्ततत्वादेव दीर्घत्वेन भवितव्यमिति, इह <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] तुकि कृतेऽजन्तता नास्ति, ततश्चानजन्तत्वादेव दीर्घत्वं न भविष्यति, किमेतन्निवृत्त्यर्थेनाकृद्ग्रहणेन? इत्यत आह - `परत्वात्` इत्यादि। तुकोऽवकाशः - अग्निचिदिति, दीर्घस्यावकाशः - चीयत इति; प्रकृत्य, प्रह्मतय - इत्यत्रोभयप्राप्तौ सति, असत्यकृद्ग्रहणे परत्वाद्दीर्घत्वेन तुग्बाध्येत। तस्मादकृद्ग्रहणं कर्तव्यम्। `चिनुयात्` इति। विध्यादिलिङ्, स च `तिङशित्सार्वधातुकम्` [[3.4.113]] इति सार्वधातुकसंज्ञकः। `उरुया, धृष्णुया` इति। उरु धुष्णुशब्दयोस्तृतीयैकवचने `सुपां सुलुक्` [[7.1.39]] इत्यादिना याभावः॥", "74026": "`शुचीकरोति` इति। `उभूततद्भावे` [[5.4.50]] इत्यादिना च्विः। चकारः पूर्वापेक्षया समुच्चयार्थः॥", "74027": "यिग्रहणमनुवर्तते, अकृत्सार्वधातुकयोरिति च। `मात्रीयति` इति। <<सुप आत्मनः क्यच्>> [[3.1.8]] । `पित्रीयते` इति। `कर्त्तुः क्यङ् सलोपश्च` [[3.1.11]] इति क्यङ्। `चेक्रीयते` इति। करोतेर्यङ्। `पित्र्यम्` इति। <<पितुर्यच्च>> [[4.3.79]] इति यत्प्रत्ययः; रीङादेशे कृते <<यस्येति च>> [[6.4.148]] इतीकारलोपः। कथं पुनः क्ङितोत्युचयमाने तत्रादेशो भवति? इत्याह - `क्ङितीत्येतदिह निवृत्तम्` इति। यद्येवं यिग्रहणस्यापि निवृत्तिः प्राप्नोति, तदेकयोगनिर्दिष्टत्वात्? नैतदस्ति; स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः। इह च यिग्रहणस्यैव स्वरितत्वं प्रतिज्ञायत इति तदेवानुवर्तते, क्ङिद्ग्रहणस्य स्वरितत्वं न प्रतिज्ञायत इति न तदिहानुवर्तते। `चेकीर्यते` इति। `कृ विक्षेपे` (धातुपाठः-1409), `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वे रपरत्वम्। `हलि च` [[8.2.77]] इति दीर्घः। `निजेगिल्यते` इति। `गृ? निगरणे` (धातुपाठः-1410), `लुपसद` [[3.1.24]] इत्यादिना यङ्, `यो यङि` [[8.2.20]] इति लत्वं रेफस्य। अथ दीर्घग्रहणं किमर्थम्, न रिङित्येवोच्येत, `अकृत्सार्वधातुकयोः` [[7.4.25]] इतिदीर्घत्वेनैव सिद्धमिति, तत्राप्ययमर्थः - उत्तरसूत्रे पुना रिङ्ग्रहणं न कर्तव्यं भवति, एतदेव हि तत्रानुवर्त्तिष्यते? न सिध्यति; नाप्राप्ते दीर्घत्वे रिङारभ्यमाणस्तस्य बाधकः स्यात्। भवतु नाम ऋकारस्य यो दीर्घस्तस्य बाधकः, यस्तु कृत आदेशे स्थान्यन्तरस्य प्राप्नोति तस्य कथं बाधकः, न ह्रस्मिन्? प्राप्ते रिङारभ्यते? एवं तर्हि मन्दधियां सुखप्रतिपत्त्यर्थ दीर्घोच्चारणम्। ङकारोऽन्त्यादेशार्थः॥", "74028": "अत्रापि यिग्रहणम्, अकृत्सार्वधातुकं चानुवर्तते। तत्र सम्भवव्यभिचाराल्लिङ एव विशेषणाम्? न शयकोः। `आद्रियते, आध्रियते` इति। `दृङ्? आदरे` (धातुपाठः-1411), `धृङ्? अवस्थाने` (धातुपाठः-1412) आङ्पूर्वः, तुदादित्वाच्छः। `क्रियात्` इति। `आशिषि लिङ्` [[3.3.173]] । `बिभृयात्` इति। अत्र बिध्यादिलिङ्, जुहोत्यादित्वात्? श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, `भृञामित्` [[7.4.76]] इतीत्त्वमभ्यासस्य। `कृपीष्ट` इति। `आशिषि लिङ्` [[3.3.173]] । `उश्च` [[1.2.12]] इति कित्त्वाद्गुणाभावः॥", "74029": "`ऋ गतिप्रापणयोः` (धातुपाठः-936), `ऋ सृ गतौ` (धातुपाठः-1098,1099) - इत्येतयोर्भोवादिकजौहोत्यादिकयोग्र्रहणम्। `छन्दोवत्? सूत्राणि भवन्ति` (म।भा।) इत्यतः <<बहुलं छन्दसि>> [[7.4.78]] इति शयो लुकं कृत्वाऽर्त्तिति निर्देशः कृतः; अन्यथा हि यद्युच्छतीति निर्देशः क्रियेत, एवं सति जौहोत्यादिकस्य ग्रहणं न स्यात्। अथापीयर्त्तिनिर्देशः क्रियते, एवमपि भौवादिकस्य ग्रहणं न स्यात्। `ऋ` इत्येतन्निर्देशस्तु न कृतः, वैचित्र्यार्थः। पूर्वेण रिङः प्राप्तस्यायमपवादः। `श इत्यसम्भवान्निवृत्तम्` इति। असम्भवस्त्वर्त्तिसंयोगाद्योरशविकरणत्वात्। `अर्यते` इति। यक्। `अर्यात्` इति। आशिषि लिङ्। अथ संस्क्रियते, संस्क्रियादित्यत्र कस्मान्न भवति, भवति हि करोतिरपि सुटि कृते संयोगाद्यङ्गम्? इत्यत आह - `इहेत्यादि। बहिरङ्गत्वं तु सुटो द्विपदाश्रयत्वात्। गुणस्य पुनरन्तरङ्गत्वमेकपदाश्रयत्वात्। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति सुटोऽसिद्धत्वात्? संयोगादित्वमङ्गस्य नास्ति। अथापि कथञ्चित्? सुटसिद्धत्वं स्यात्, एवमप्यभक्तत्वात्? सुटः संयोगादित्वं नास्ति, अतो गुणो न प्रवर्तते। अङ्गाधिकारादङ्गावयवः संयोगो गृह्रते। न ह्यत्राभक्तत्वे सुटोऽङ्गावयवः संयोग उपपद्यते। `इयृयात्` इति। `ऋ गतौ` (धातुपाठः-1098), विध्यादिलिङ्। जुहोत्यादित्वाच्छपः श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, `अर्त्तिपिपर्त्त्योश्च` [[7.4.77]] इत्यभ्यासस्येत्त्वम्, <<अभ्यासस्यासवर्णे>> [[6.4.78]] तीयङ्, `लिङः सलौपोऽनन्त्यस्य` [[7.2.79]] इति सलोपः। `अर्त्तिसंयोगाद्योरत्` इति कर्तव्ये गुण ग्रहणं वैचित्र्यार्थम्॥", "74030": "पूरवेम प्राप्तस्य रीङोऽयमपवादः। `अरार्यते` इति। यङ गुणः, रपरत्वम्। `अजादेर्द्वितीयस्य [[6.1.2]] इति द्विर्वचनम्; हलादिशेषः, <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घत्वम्। ननु चार्तेरहलादित्वाद्यङ न प्राप्नोति? इत्यत आह - `अर्त्तेः` इत्यादि। भवतु नामोपसंख्यानाद्यङ्, रेफादेश्तु द्विर्वचनेन न भवितव्यम्, <<न न्द्राः संयोगादयः>> [[6.1.3]] इति प्रतिषेधात्? इत्यत आह - `न न्द्राः संयोगादयः` इति। उक्तं हि ततर - यकारपरस्य रेफस्य प्रतिषेधो वक्तव्यः। तस्माद्रेफादेर्यं इत्येतस्य द्विर्वचनं भवति। `जङ्घन्यते` इति। <<नुगतोऽनुनासिकान्तस्य>> [[7.4.85]] इति नुक्, <<अभ्यासाच्च>> [[7.3.55]] इति कुत्वम्॥", "74031": "अत्र दीर्घोच्चारणं किमर्थम्, दीर्घो यथा स्यात्, ह्रस्वो मा भूत्? नैतदस्ति; ह्रस्वस्यापि हि विधाने अकृत्सार्वधातुकयोर्दीर्घः` [[7.4.25]] इत्येवं सिध्यति, `च्वौ च` [[7.4.26]] इति यथायोगं दीर्घो भविष्यति? एवं तह्र्रेतज्ज्ञापयति - `संज्ञापूर्वको विधिरनित्यः` (व्या।प।64) इति। तेन स्वायम्भुवमिति सिद्धं भवति॥", "74032": "`च्वौ च` [[7.4.26]] इति दीर्घस्यापवादः॥", "74033": "<<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इत्यस्यायमपवादः। चकारः `अस्य` [[7.4.32]] श्यनुकर्षणार्थः। अथ पृथग्योगकरणं किमर्थम्, नास्य `च्चिक्यचोः` इत्येकयोग एव क्रियताम्? इत्यत आह - `पृथग्योगकरणम्` इत्यादि। `न च्छन्दस्यपुत्रम्य` [[7.4.35]] इत्येवमाद्युत्तरकार्यं क्यचि यथा स्यात्, च्वौ मा भूत् - इत्येवमर्थो योगविभागः कृतः॥", "74034": "भोक्तुमिच्छा बुभुक्षा। पातुमिच्छा पिपासा। गर्धनं गर्धः। अभिकाङ्क्षेत्यर्थः॥", "74035": "`क्यचि यदुक्तं तन्नभवति` इति। किं पुनस्तत्? इत्याह - `दीर्घत्वमीत्वञ्च` इति। ननु च `अनन्तरस्य विधिर्वा भनत प्रतिषेधो वा` (व्या।प।19) इत्यनन्तरस्य ईत्वस्य प्रतिषेधेन भवितव्यम्, न तु व्यवहितस्य दीर्घत्वस्य? नैष दोषः; `अआआधस्यात्` [[7.4.37]] इत्यआआघयोराद्वचनं ज्ञापकम् - दीर्घत्वस्याप्ययं प्रतिषेधो भवतीति; अन्यथा दीर्घत्वेनैव सिद्धत्वादाकारकरणमनर्थकं स्यात्। `मित्रयुः` इति। <<क्याच्छन्दसि>> [[3.2.170]] इत्युप्रत्ययः; <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। `अपुत्रादीनामिति वक्तव्यम्` ति। पुत्रादीनां प्रतिषेधो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - <<क्यचि च>> [[7.4.33]] इत्यस्यानन्तरं पुत्रस्येति वक्तव्यम्, किमर्थमिदम्? `नच्छन्दसि` इति प्रतिषेधं वक्ष्यति तद्बाधनार्थम्। एवं `अपुत्रस्य` इति नञ्? उच्चारयितव्यो न भवति। तदिदं <<क्यचि च>> [[7.4.33]] इत्यस्यानन्तरं पुत्रस्येति वक्तव्ये यदिहापुत्रस्येति वचनं तत्? पूत्रादीनां प्रतिषेधो यथा स्यादित्येवमर्थम्। एतच्च पुत्रस्योपलक्षणत्वाल्लभ्यते॥", "74036": "", "74037": "`एतदेवाद्ववचनं ज्ञापकम्` इत्यादि। कथं कृत्वा ज्ञापकम्? यदि `न च्छन्दसि` [[7.4.35]] इत्यनन्तरस्यैवेत्वस्यायं प्रतिषेधः तदाऽद्वचनमनर्थकं स्यात्, `अकृत्सार्वधातुकयोः` [[7.4.25]] इत्यनेनैव सिद्धत्वात्, कृतञ्च, तस्मादेतज्ज्ञापयति - दीर्घस्याप्ययं प्रतिषेधो भवतीति॥", "74038": "`न च्छन्दसि` [[7.4.35]] इति प्रतिषेधे प्राप्ते देवसुम्नयोरिदमारभ्यत आद्वचनम्। `काठके` इति। यजुष एवैतद्विशेषणम्। कठस्येदं यजुः काठकम् - `गोत्रचरणाद्वञ्` [[4.3.126]] ॥", "74039": "`काव्यन्तः` इति। <<अलोऽन्त्यस्य>> [[1.1.52]] लोपः। क्यजन्ताच्छतृप्रत्ययः, तदन्ताज्जस॥", "74040": "छन्दसि, यजुषि, ऋचीति सर्व निवृत्तम्; तेन सामान्येनायं विधिः। `दो अवखण्डने` (धातुपाठः-1148), `षो अन्तकर्मणि` (धातुपाठः-1147)। `मा माने` (धातुपाठः-1062), `माङ माने` (धातुपाठः-1142), `मेङप्रणिदाने` (धातुपाठः-961) - `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति त्रयाणामपि ग्रहणम्। `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928)। तत्राद्यस्य `दो दद्घोः` [[7.4.46]] इति दत्त्वे प्राप्ते शेषाणां `घुमास्था` [[6.4.66]] इत्यादिसूत्रेण ईत्त्वे प्राप्त इत्त्वं विधीयते॥ `अवदाय` इति। पूर्ववत्? क्त्वो ल्यप्। `अवदाता` इति। तृच्। द्यतिस्यतति श्तिपा निर्देशोऽयं यङलुग्निवृत्त्यर्थः। तेन तयोर्यथाप्राप्तमेव भवति - दादत्तः, दादत्तवान्, सासीतः, सासीतवान्। तपरकरणं मुखसुखार्थम्, न तु दीर्घनिवृत्त्यर्थम्। `भाव्यमानोऽण्? सवर्णान्न गृह्णाति` (व्या।प।35) इति दीर्घस्याप्राप्तेः॥", "74041": "`शो तनूकरणे` (धातुपाठः-1145), `छो छेदने` (धातुपाठः-1146)। `श्यतेरित्त्वं व्रते नित्यम्` इति। ब्रात इति नोत्तरपदं गृह्रते, किं तर्हि? विषयः। व्रतविषये श्यतेर्नित्यमित्त्वं भवति। `संशितो ब्राआहृणः` इति। आचारविशेषे व्रताख्ये यत्नवानेवोच्यते संशितव्रत इति। संशितं यत्नेन सम्यक्? प्रतिपादितं व्रतं यस्य येन वा स एवमुच्यते। ननु च व्रतविषये विधौयमानेनेत्त्वेनैव व्रतस्य द्योतितत्वाद्व्रतशब्दस्य प्रयोगो न प्राप्नोति? नैष दोषः; अन्यत्र हीत्वं भवत्येव, व्रते तु नित्यमाख्यायते, सोऽयं सामान्यशब्दो भवति। अत्र विशेषार्थो व्रतश्ब्दः प्रयुज्यते। परनिपातस्त्वाहितग्न्यादित्वाद्द्रष्टव्यः। `व्यवस्थितविभाषाविज्ञानात्? सिद्धम्? इति। एतदागमवाक्येन द्रढयितुमाह - `देवत्रातः` इत्यादि। `त्रैङ्? पालने` (धातुपाठः-965), क्तः। `नुदविदोन्दत्राघ्रह्यीभ्योऽन्यतरस्याम्` [[8.2.56]] इति संज्ञाविषये नत्वं न भवत्येव - देवैस्त्रातो देवत्रातः, देवशब्दोऽत्र संज्ञोपलक्षणार्थः। केवलस्यापि त्रातशब्दस्य संज्ञायां न नत्वं प्रतिपद्यते। एवं सज्ञाया अन्यत्रोभयं भवति - त्राणः, प्रात इति। `गलः` इति। गिरतेः पचाद्यच्। <<ग्रो यङि>> [[8.2.20]] , <<अचि विभाषा>> [[8.2.21]] इति प्राण्यङ्गे नित्यं लत्वम् - गल इति। विषे तु भवत्येव - गर इति। `ग्राहः` इति। ग्राहेः <<विभाषा ग्रहः>> [[3.1.143]] इति णप्रत्ययः। जलचरे नक्रे नित्यं णप्रत्ययो भवति - ग्राह इति। आदित्यसोमादिषु पचाद्यज्भवत्येव - ग्रह इति। `इतियोगे च सद्विधिर्न भवति` इति। वर्षतीति धावति, हन्तीति पलायते इति - <<लक्षणहेत्वोः क्रियायाः>> [[3.2.126]] इति सत्संज्ञकौ शतृशानचावितियोगे न भवत एव, व्यवस्थितविभाषया। तत्र <<नन्वोर्विभाषा>> [[3.2.121]] इत्यतो विभाषाग्रहणमनुवर्तते - अर्जयन्? वसति, अधीयानो वसति। तत्रासतीति योगे नित्यावेव तौ भवतः। ननु चेतिशब्देनैव हेत्वर्थस्य द्योतितत्वाद्वर्षतीति, हन्तीत्येवमादौ सद्विधिर्न भविष्यति, यत्र त्वितिशब्दो न प्रयुज्यते तत्र भवत्येव - अर्जयन्? वसतीत्यादौ, तदत्र विभाषाधिकारनन्तरेणापि विभाषा लभ्यत एव; अतो विभाषाग्रहणं नानुवर्त्त्यमेव, तस्मादनुदाहरणमेतद्व्यवस्थितविभाषायाः? इदं तर्ह्रुदाहरणम् - करिष्यामीति व्रजतीति। अत्र `लृट्? शेषे च` [[3.3.13]] इति चकारात्? क्रियायामुपपदे क्रियार्थायां लृट्, तस्य लृटः सद्विधिर्न भविष्यतीति; व्यवस्थितविभाषया। अप्रथमासमानाधिकरणेनेतियोगादन्यत्र नित्यं भवति - करिष्यन्तं पश्येति, प्रथमासमानाधिकरणे तु विकल्पः - ब्राआहृणः करिष्यन्? ब्राआहृणः करिष्यतीति।`मिथः` इत्यादि। मिथ इति सहभावेन। देवत्रातगलग्राहादयस्त्राणगरग्रहादिभिः सहैकस्मिन्? विषये विकल्पेन नान्वाख्यायन्त इत्यर्थः। `गवाक्षः` इति। <<सर्वत्र विभाषा गोः>> [[6.1.122]] इत्यनुवर्तमाने `अवङ्? स्फोटायनस्य` [[6.1.123]] इति वातायने नित्यमवङ्? भवति, प्राण्यङ्गो तु गोऽक्षमित्यत्र न भवति; अन्यत्रोभयम् - गवाक्षम्, गोऽक्षमिति। `संशितव्रतः` इति। व्रते नितयमित्त्वम्। अन्यत्र विकल्पेन - निशितम्, निशातं शस्त्रम्। तीक्ष्णमित्यर्थः। तदेतत्? सर्वं व्यवस्थितविभाषया लभ्यते। क्वचिद्विधिरेव, क्वचित्? प्रतिषेध एव, क्वचिदुभयमपीत्येवंविधा विविधार्थे स्थितां विभाषा व्यवस्थितविभाषा। एतच्च विविधमवस्थानमाकृतौ पदार्थे वेदितव्यम्। तत्र हि सर्व लक्ष्यराशिमेकीकृत्याभिसंक्षिप्य तदुभयमुपदिश्यते। विधिः प्रतिषेधश्च जातौ पदार्थ उभयमपि भवतीत्येतावतोऽर्थस्य प्रतिपादने शास्त्रस्य व्यापारः। यस्तु क्वचिदर्थे विधिरेव, क्विचित्? प्रतिषेध एव, क्वचिदुभयमित्यसङ्करेण व्यवस्थानम्, एतच्चाविच्छिन्नाचार्यपारम्पर्योपदेशाल्लभ्यते॥", "74042": "धुमास्था` [[6.4.66]] इति सूत्रेणेत्त्वे प्राप्ते दधातेर्हिरादेशो विधीयते। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। तेन यङ्लुगन्तस्य हिरादेशो न भवति - दाधीतः, दाधीतवान्, दाधीत्वेति॥", "74043": "पूर्ववदीत्त्वे प्राप्ते क्त्वाप्रत्यये हिरादेशो विधीयते। यद्यपि `हि गतौ` (धातुपाठः-1257) इत्यस्यापि हित्वेति सिध्यति, तथापि जहातेरिकारनिवृत्त्यर्थ वचनम्। अथ किमर्थं जहातेरिति श्तिपा निर्देशः, न `हः` एवोच्यते? इत्याह - `जहातेः` इत्यादि। एतेन `ओहाङ्? गतौ` (धातुपाठः-1089) इत्यस्य निवृत्त्ये निर्देशः क्रियत इति दर्शयति। यदि हि `हः` इति निर्देशः स्यात्, तदा तस्य साधारणत्वाज्जिहातेरपि स्यात्। जहातेरिति श्तिपा निर्देशे तु न भवति। अनेन जहातिरेव निर्दिश्यते, न जिहातिः। न हि तस्यैवंविधो निर्देशे यङ्लुगन्तस्य न भवति - जाहात्वेति। ईत्वमप्यत्र न भवति; तद्विधावपि श्तिपा निर्देशात्। अत्र चेटि कृते <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः॥", "74044": "", "74045": "चकारेण छन्दसीत्यनुकृष्यते। `इडागमो वा` इति। यदेडागमस्तदा <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। `सुधितम्` इति, <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। `वसुधितम्` इति। विशेषणसमासः। पूर्ववदाकारलोपः। `नेमधितम्` इति। `सामि` [[2.1.26]] इति द्वितीयासमासः। सामीति तत्रार्थग्रहणमित्युक्तम्। नेमशब्दश्चायं सामिशब्दपर्यायः। `धिष्व` इति। `थासः से` [[3.4.80]] , <<सवाभ्यां वामौ>> [[3.4.91]] इति वकारः। `द्विर्वचनाभावः` इति। `श्लौ` [[6.4.112]] इत्यकारलोपः; घकारस्य `खरि च` [[8.4.54]] इति चर्त्वम् - तकारः, <<दधस्तथोश्च>> [[8.2.38]] इत्यभ्यासस्य भष्भावेन धकारः। `धिषीय` इति। आशिषि लिङ्, `इटोऽत्` [[3.4.106]] इत्यत्त्वम्॥", "74046": "छन्दसीति निवृत्तम्; पूर्वसूत्रे चकारेणानुकृष्टत्वात्। `दत्तः दत्तवान्` इति। क्तक्तवतू। `दत्तिः` इति। क्तिन्। `धीतः, धीतवान्` इति। पूर्ववदीत्त्वम्। अथ <<दधातेर्हिः>> [[7.4.42]] इति हिरादेशः कस्मान्न भवति? इत्यत आह - `घेट एतद्रूपम्` इत्यादि। `धेट्? पाने` (धातुपाठः-902) इत्यस्य रूपम्, न दधातेः। तेन हिरादेशो न भवतीति भावः। `दातम्` इति। `दाप्? लवने` (धातुपाठः-1059) इत्येतस्यैतद्रूपम्; तस्य घुसंज्ञा नास्ति; `अदाप्` [[1.1.19]] इति प्रतिषेधात्। `दो दद्घोः` इति जश्त्वेनायं न्र्देशः, तत्र न ज्ञायते - किं तककारान्तोऽयमादेशः? आहोस्विद्दकारान्तः? उत धकारान्तः? अथ थकारान्त इति वा - इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `अयमादेशः` इत्यादि। कथं ज्ञायते? इत्याह - `एवं ह्रुक्तम्` इत्यादि। यद्ययमादेशस्तकारान्तः स्यात्, सुदत्तेत्यत्र <<इकः काशे>> [[6.3.123]] इत्यनुवर्तमाने `दास्ति` [[6.3.123]] इती दीर्घत्वं स्यात्। अथ दकारान्तः, तदा `रदाभ्याम्` [[8.2.42]] इति निष्ठानत्वं स्यात्। अथ धकारान्तः, तदा `झषस्तथोर्घोऽधः` [[8.2.40]] इति झषन्ताद्धत्वमापद्येत निष्ठातकारस्य। `थान्तेऽदोषः` इति। नञोऽत्र प्रश्लेषः। थान्ते दोषो नास्तोत्यर्थः। `तस्मात्` इत्यादि। यस्मात्? त्रिषु पूर्षकेषु पक्षेषु दोषः, तस्मात्थान्तोऽयमादेशः। उदाहरणे दत्तः, दत्तवानिति `खरि च` [[8.4.54]] इति चर्त्वम - थस्य तः। `यदि तु` इत्यादि। द्वौ पक्षौ भाध्ये `दस्ति` [[6.3.123]] इत्यत्र दर्शितौ - `दा` इत्येतस्मस्तकारादौ, तकारान्ते वेति। तत्र यदि तकारान्ते `दा` इत्येतस्मिन्? दीर्घत्वं भवतीति - एष पक्ष आश्रीयते, तदैव दीर्घत्वप्राप्तिदोषः। यदि तु तकारादौ `दा` इत्येतस्मिन्? दीर्घत्वं भवतीति - एष पक्ष आश्रीयते, तदा तान्तेऽप्यदोषः। यत्र तकारादित्वम्, `दा` इत्येतस्य, तत्र दीर्घत्वं भवत - नीत्तम्, वीत्तमित्यादौ, न तु सुदत्तादौ। तस्मात्? पाक्षिको दीर्घप्राप्तिदोषः। `दान्तधान्तयोरपि` इत्यादि। तकारादिसन्नियोगेन हि दान्तधान्तावादेशाविमौ विहितौ नोत्सहेते तद्विघातनिमित्ततामुपगन्तुम्। तस्माद्दान्तधान्तयोरप्यदोषः। `अवदत्तम्` इत्यादि। आदिकर्मणि=क्रियारम्भे। आदिभूतक्रियाक्षण इत्यर्थः। अत्र <<अच उपसर्गात्तः>> [[7.4.47]] इति तकारादेशे प्राप्त एतेऽवदत्तादयो निपात्यन्ते। `आदिकर्मणि` इति च सर्वेषां विशेषणम्, न तु प्रदत्तमित्यस्यैव। आदिकर्मणोऽन्यत्र `अच उपगर्गात्तः` [[7.4.47]] इति तकारादेशो भवति, न तु दद्भावः - अवत्तम्, वीत्तम्, सूत्तम्, अनूत्तमिति। `अनुपसर्गाः` इत्यादि। अथ वा - अवादयो ददातिं प्रत्युपसर्गसंज्ञका एव न भवन्ति; तद्वाच्यायाः क्रियया अन्या या क्रिया गमिर्वाच्या तद्विषयत्वात् - अवगतं दत्तमवदत्तमित्येवमन्यत्रावगन्तव्यम्। तस्माद्? गमिं प्रत्युपसर्गसंज्ञका एते, न ददातिं प्रति। तथा ह्रुक्तम् - यं प्रति क्रियायृक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति। तस्मादुपसर्गसंज्ञाया अभावान्नैवात्र तकारः प्रसजेदिति किं निपातनेन!॥", "74047": "ददादेशस्यायमपवादः। `त इत्ययमादेशो भवति` इति। अकार उच्चारणार्थः। प्रत्तमित्यादावाकारस्य तकारे कृते दकारस्य चर्त्वम् - तकारः `नीत्तम्` इति। `दस्ति` [[6.3.123]] इति दीर्घत्वम्। `अवदात्तम्` इति। `दैप्? शोधने` (धातुपाठः-924) इत्येतस्यैतद्रूपम्। `आदेरलः प्राप्नोति` इति। <<आदेः परस्य>> [[1.1.54]] इति वचनात्। `अच इत्येतद्द्विरावर्तयितव्यम्` इति। `अचः` इत्येतस्य द्विरावृत्तावचोऽचेति द्वे शब्दरूपे भवतः। तत्रैकं पञ्चम्यन्तम्; अपरं षष्ठन्तम्। तत्रैकेनोपसर्गो विशिष्यते - अजन्तादुपसर्गादिति। इतरेणापि स्थानी निर्दिश्यत इत्येवमाकारस्यायमादेशो भवति। `द्वितकारो वा` इति। अथ वा - `अच उपसर्गात्तः` इति। द्वितकार एव संयोगादेशो निर्दिश्यते, तेनास्यानेकास्त्वात्? सर्वस्यैव भवति, यदि तर्हि द्वितकारकोऽयं निर्देशस्तदा `अपो भि` [[7.4.48]] इत्यनेनापि सर्वादेशः प्राप्नोति, नेकाल्त्वादित्याह - `अषो भि` इत्यादि। `अपो भि` इत्यत्र पञ्चम्यन्तमच इत्यनुवर्तते, तेन सत्यप्यनेकाल्त्वे <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति पकारमात्रस्य भविष्यति, न सर्वस्येति। `द्यतेः` इत्यादि। द्यतेरित्यस्यावकाशः - यत्राजन्त उपसर्गो न भवति - निर्दितम्, दुर्दितमिति; अस्यादेशस्यावकाशः - अजन्तादुपसर्गात्? परो योऽन्यो घुसंज्ञकः - `डुदाञ्? दाने` (धातुपाठः-1091), अवत्तम्, परीत्तमिति; अजन्तादुपसर्गादुत्तरस्य द्यतेरुभयप्रसङ्गे सति तकार एव भवति विप्रतिषेधेन - अवत्तम्, प्रत्तमिति॥", "74048": "`अद्भिः` इति। <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् - तकारस्य दकारः। `द्वितकारपक्षे तु पूर्वस्यापि <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम् - दकारः। <<झरो झरि सवर्णे>> [[8.4.65]] इति पूर्वदकारलोपः। `सुवः` [`स्ववः` इति। काशिका] इत्यादि। सुवस्, स्वतवस्, मास, उवस् - इत्येतेषां च भकारादौ परतस्त इत्ययमादेश इष्यते च्छन्दसि विषये। स च <<व्यत्ययो बहुलम्>> [[3.1.85]] इत्यनेनैव लभ्यत इति वेदितव्यम्॥", "74049": "अत्रापि द्वितकारपक्षेऽनेकाल्त्वात्? सर्वादेशः प्राप्नोति, तस्मात्? `अचः` इति। पञ्चम्यन्तमनुवर्तनीयमिति। अथ वा - `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इति सकारस्यैव भविष्यति। `वत्स्यति` इति। `वसनिवासे` (धातुपाठः-1942)। `जिघत्सति` इति। अदेः सन्, `लुङ्सनोर्घस्लृ` [[2.4.37]] इति तस्य घस्लादेशः। `वक्ष्यति` इति। `वच परिभाषणे` (धातुपाठः-1842), <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `घासः, वासः` इति। भावे घञ्, <<घञपोश्च>> [[2.4.38]] इत्यदेर्घस्लादेशः। `आस्से, वस्से` इति। `आस उपवेशने` (धातुपाठः-1021), `वस आच्छादने` (धातुपाठः-1023), अनुदात्तेत्त्वादात्मनेपदम्, `चासः से` [[3.4.80]] , अदादित्वाच्छपो लुक्। अथ `सः स्यतिङ्` इति कस्मान्नोक्तम्? नैवं शक्यम्; इहापि न स्यात् - व्यतिवत्सीष्ठा इति॥", "74050": "<<अनद्यतने लुट्>> [[3.3.15]] तासिः, सिप्। `कर्तासे` इति। `थासः से` [[3.4.80]] । `त्वमसि` इति। `स भुवि` (धातुपाठः-1065), पूर्ववच्छपो लुक्। `व्यतिसे` इति। `कर्तरि कर्मव्यतीहारे` [[1.3.14]] इत्यात्मनेपदं भवति। `थासः से` [[3.4.80]] , <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः। अथ <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वं कस्मान्न भवति? इत्यत आह - `अस्तेरकारसकारयोः` इत्यादि। अकारसकारयोर्हि लुप्तयोः प्रत्ययमात्रमवशिष्यते, तदेव पदम, अतः <<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधात्? षत्वं न भविष्यतीति भावः॥", "74051": "`कर्तारौ, कर्तारः` इति। लुट्, तस्, झिः, <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति तसो झेश्च यथाक्रमं रौरसौ भवतः। `अध्येतारौ, अध्येतारः` इति। इङो ङित्त्वादत्मनेपदम्? आताम्, झः तयोश्च पूर्ववद्रौरसौ। अस्ते रेफादिप्रत्ययो न सम्भवतीति नास्त्युदाहरणम्। केचित्तु - `व्यतिरे` इत्युदाहरणं दर्शयन्ति; एतच्च च्छब्दस्येवं प्रयोगो यद्यसति ततो युक्तम्, अथ तु नास्त्येवं सत्ययुक्तम्। <<इरयो रे>> [[6.4.76]] इति रेभावश्छन्दसि विधीयते, `यथादृष्टानुविधिश्छन्दसि` (व्या।प।68) इति। चकारः पूर्वापेक्षया समुच्चयार्थः॥", "74052": "`कर्ताहे` इति। कृञो लुट्, आत्मनेपेदम्, उत्तमपुरुषैकवचनम्, इट्, टे#एत्त्वम्। अत्र सकारस्यानेन हः। `व्यतिहे` इति। अस्तेः <<कर्तरि कर्मव्यतिहारे>> [[1.3.14]] इत्यात्मनेपदम्, पूर्ववदकारलोपः। `एति` इति। तपरकरणं सप्तम्यामयादेशपरीहारार्थम्। अयादेशे हि सति सन्देहः स्यात् - कस्यायं निर्देश इति - किमयादेशस्य? अथैकारस्य॥", "74053": "स्वरितत्वाल्लोपोऽनुवर्तते, न त्वनन्तरो हकारः, तस्यास्वरितत्वाप्रतिज्ञानात्। यकारे त्विकार उच्चारणार्थः। यिश्च इवुर्णश्च तौ योवर्णौ तयोः परतः `दीधीङ्? दीप्तिदेवनयोः` (धातुपाठः-1076) `वेवीङ्? वेतिनां तुल्ये` (धातुपाठः-1077) - इत्यनयोर्लोपो भवति, स च <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यन्त्यस्य। यकारादौ श्रवणे प्राप्त इवर्णादौ `एरनेकाचः` [[6.4.82]] इति यणादेशे प्राप्ते लोपवचनमिदम्। `आदीध्य, आवेव्य` इति। ल्यप्। `आदीध्यत, आवेवित` इति। <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्, <<सार्वधातुके यक्>> [[3.1.67]] । `आदीधित, आवेवित` इति। <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्, <<सार्वधातुके यक्>> [[3.1.67]] । `आदीधित, आवेवित` इति। तृच्। `आदीध्यनमादेव्यनम्` इति। ल्युट्, `दौधीवेवीटाम्` [[1.1.6]] इति गुणनिषेधाद्यणादेशः। अत्र यद्यपि निमित्त्योः कार्यिणोः समानत्वम्, तथापि यथासंख्यं न भवति; अस्वरतत्वात्। वर्णग्रहणमिवर्णे श्रूयमाणे यथा स्यात्, इह मा भूत् - आदीधयतेः, आवेवयतेर्णिजन्ताण्णवुल्, आदीध्यकः, आदेव्यकः। अत्र हि नित्यत्वाण्णिलोपे कृते प्रत्ययलोपलक्षणन [[1.1.61]] प्राप्नोति, अतो वर्णग्रहणान्न भवति॥", "74054": "`सः स्यार्धधातुके` [[7.4.49]] इत्यतः सीत्यनुवर्तते, तच्च सोन विशेषणम्। `मीति मीनातिमिनत्योः` इति। `मीञ्? हिंसायाम्` (धातुपाठः-1476), `डुमिञ्? प्रक्षेपणे` (धातुपाठः-1250) - इत्येतयोः। ननु च `मी` इत्येतस्मिन्नुच्चार्यमाणे मिनोतेग्र्रहणं नोपपद्यते? नैवम्; अस्यापि <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घत्वे कृते मीत्येवं रूपं भवति। एवमपि लक्षणप्रतिपदोक्तपिभाषया (व्या।प।3) तस्य ग्रहणं नोपपद्यते? नैतदस्ति; अत्र हि घुसंज्ञकत्वात्? `घु` इत्यस्य पूर्वनिपातमकुर्वतैतत्? सूचितम् - यथा पूर्वनिपात इह नापेक्ष्यते, तथान्यदपि किञ्चिच्छास्त्रीयं वचनमिति। तेनेयं परिभाषा नापेक्ष्यत इति युक्तं मिनोतेरपि ग्रहणम्। `मा हि गामादाग्रहणेष्वविशेषः` इति। मेङप्रभृतीनां पूर्वोक्तानां त्रयाणां ग्रहणम्। `घु` इति घुसंज्ञकौ `दा` `धा` - इत्यतौ गृह्रते। `रभ राभस्ये` (धातुपाठः-974), `डुलभष्? प्राप्तौ` (धातुपाठः-975), `शक्लृ शक्तौ` (धातुपाठः-1261), `शल हुल पत्लृ गतौ` (धातुपाठः-843,844,845), `पद गतौ` (धातुपाठः-1169) - एषामचः स्थाने सकारादौ प्रत्यये सनीस्? भवति। अच इत्यस्य ग्रहणं सर्वादेशो मा भूदित्येवमर्थम्। असति हि तस्मिन्ननेकाल्त्वात्? सर्वादेशः स्यात्। `प्रमित्सनि` इति। `अत्र लोपोऽब्यासस्य` [[7.4.58]] इत्यभ्यासलोपः, `सः स्यार्धधातुके` [[7.4.49]] इति तस्य सः। `अपमित्सते` इति। `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। एवं आरिप्सते` `आलिप्सते` इत्यत्रापि। `खरि च` [[8.4.54]] इति चर्त्वम् - भकारस्य पकारः, `त्कोः संयोगाद्योरन्ते च` [[8.2.29]] इति सलोपः॥", "74055": "`ईप्सति` इति। `आप्लृ व्याप्तौ` (धातुपाठः-1260)। `ज्ञीप्सति` इति। `ज्ञा अवबोधने` (धातुपाठः-1507), णिच्, `अर्त्ति` [[7.3.36]] इत्यादिना पुक्, `मारणतोपणनिशामनेषु ज्ञा` (धातुपाठः-811) `मिच्च` इति मित्संज्ञायां ह्रस्वः, <<णेरनिटि>> [[6.4.51]] इति णिलोपः। `ईत्र्सति` इति। `ऋधु वृद्धौ` (धा।1271), ईकारः, रपरत्वं च, श्रकारस्य `खरि च` [[8.4.54]] इति चर्त्वम् - तकारः। इह च ज्ञापिनाङ्गेनाज्विशेषयितव्यः, न त्वचा ज्ञापिः, व्यभिचाराभावात्। न हि ज्ञपरजन्ततां व्यभिचरति। अचि तु ज्ञपिनाङ्गेन विशिष्यमाणे सर्वस्य ज्ञपिसम्बन्धिनोऽच ईत्त्वेन भवितव्यम्, तथा च णेरपीत्त्वे कृते ज्ञीप्सतीति न सिध्येदित्येतच्चोद्यमाशङ्क्याह - `ज्ञपेद्र्वावचौ` इत्यादि। तत्रेत्त्वास्यावकाशोऽजाद्यः, णिलोपस्यावकाशः - कारणा, हारणा; द्वितीयस्याच उभयप्रसङ्गे णिलोप एव भवति पूर्वविप्रतिषेधेन - ज्ञीप्सतीति। `इतरस्य` इति। अकारस्य। `अर्दिधिषति` इति। लघूपधगुणः, रपरत्वम्, <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति `धि` इत्येतद्द्विरुच्यते। रेफस्य तु द्विर्वचनं न भवति; <<न न्द्राः संयोगादयः>> [[6.1.3]] इति प्रतिषेधात्। अभ्यासस्य जश्त्वम् - जकारः। तकारो मुखसुखार्थः॥", "74056": "", "74057": "`मोक्षते` इति। `मुच्लू मोक्षणे` (धातुपाठः-1430)। <<चोः कुः>> [[8.2.30]] इति कुत्वम्; `इण्कोः` [[8.3.57]] इति षत्वम्, `कर्मवत्कर्मणा` [[3.1.87]] इत्यदिना कर्मवदतिदेशादात्मनेपदम्। `स्वयमेव` इति वचनं कर्मकर्त्तृत्वप्रदर्शनार्थम्। वत्सं मोक्तुमिच्छति, स मोक्तुमिष्यमाणो मुक्तिक्रियां प्रत्यानुकूल्यं यदा प्रतिपद्यते तदा स्वतन्त्रत्वादस्मिन्? कर्मणि कर्त्तृत्वेन विवक्षिते मुचिरकर्मको भवति। अथ गुणग्रहणं किमर्थम्, नोदित्येवोच्येत? नमु चैदं सत्योकारश्चकारस्य स्थाने <<अलोऽन्त्यस्य>> [[1.1.52]] प्राप्नोति, गुणग्रहणादिक एव भवति, संज्ञाविधाने नियमात्? नैतदस्ति; अच इत्यनुवर्तते। तेनान्त्यस्य न भविष्यति। एवं तह्र्रेतज्ज्ञापयति - अचेति निवृत्तमिति। तेन <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यत्रातोऽभ्यासस्य लोपो न भवति। सति त्वजधिकारे, मा भूत्? तस्यानुवृत्तिरपार्थिकेत्यच एव लोपः स्यात्॥", "74058": "अत्रेत्यनेन यन्निर्दिश्यते तद्दर्शयितुमाह - `यदेतत्` इत्यादि। अथात्रग्रहणं किमर्थम्? `सनि मीमा` [[7.4.54]] इत्यादौ प्रकरणे यथा स्यात्; ददौ, ददतुरित्यादौ मा भूदिति चेत्? न; यदि ह्रेतत्? प्रयोजनमभिमतं स्यात्? `सनि मीमाधुरभलभशकपतपदामच इसभ्यासलोपश्च` इत्येवमुद्दिश्येत, एवमिहैव प्रकरणे भदिष्यति, नान्यत्र, ततो निष्प्रयोजनमत्रग्रहणमित्यत आह - `सनि मीमाधुरभलभ` इत्यादि। `विषयावधारणार्थम्` इति। अभ्यासलोपविषयस्य नियमार्थमित्यर्थः। तामेव तस्य विषयनियमार्थतां दर्शयितुमाह - `अत्रैव` इत्यादि। अत्रेत्यनेनेसादिविषयो निर्दिश्यते। इसादिविषय एवाभ्यासलोपो यथा स्यादिति नियमेन यद्व्यवच्छिन्नं तद्दर्शयितुमाह - `सन्वद्भावविषये न भवति` इति। `अमीमपत्` इति। `भीञ्? हिंसायाम्` (धातुपाठः-1476) <<मीनातिमिनोतिदीङां ल्यपि च>> [[6.1.50]] इत्यात्त्वम्, णिच्, पूर्ववत्? पुक्, लुङः, च्लेश्चङ्, णिलोपः, उपधाह्रस्वत्वम्, द्विर्वचनम्, अट्, `सन्वल्लघुनि चङ्परे` [[7.4.93]] इत्यादिना सन्वद्भावे `सन्यतः` [[7.4.79]] इतीत्त्वम्, <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घः। `अदीदपत्` इति। `डुदाञ्? दाने` (धातुपाठः-1091) पूर्ववण्णिजादिः। अत्रग्रहणादिहाभ्यासलोपो न भवति। कथं पुनः सन्यभ्यासलोप उच्यमान इह प्राप्नोति, यन्निवृत्त्यर्थमत्रग्रहणं क्रियते? इत्याह - `सन्वल्लघुनि` इत्यादि। यथैव हि सन्वद्भावातिदेशादित्त्वं भवति, एवमभ्यासलोपः स्यात्। इहालोन्त्यपरिभाषया <<अलोऽन्त्यस्य>> [[1.1.52]] लोपेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुंमाह - `सर्वस्य` इत्यादि। कथं पुनः सर्वस्य लभ्यते? इत्यत आह - `तदर्थमेव` इत्यादि। एतेनैवकारेण विषयावधारणार्थतां निरस्यति। यद्येवम्, सन्वद्भावविषयेऽपि प्राप्नोति? एवं मन्यते - सन्वद्भावविषयेऽप्यभ्यासलोपप्रसङ्गः परिहर्तु शक्यते। तत्र सन्वदिति सनाश्रयकार्यमतिदिश्यते। न चाभ्यासलोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। तदभावादसत्यप्यत्रग्रहणेऽमीमपदित्यादिष्वभ्यासलोपो न भविष्यति। तस्मादतिरिच्यत एवात्रग्रहणमिति न कर्तव्यमेव। तत्? क्रियते - सर्वस्याभ्यासलोपो यथा स्यादिति। कथं पुनः क्रियमाणेऽप्यत्रग्रहणे सर्वस्य लोपो लभ्यते? ग्रन्थाधिक्यादर्थाधिक्यमित्येके। अत्रग्रहणेन महत्? सूत्रं प्रयणतैतत्? सूचितम् - महतः स्थानिनोऽयं लोपः कर्तव्यः। एवञ्चायं महतः स्थानिनः कृतो भवति यदि सर्वस्याभ्यासलोपः क्रियते, नान्यथेत्यन्ये। `नानार्थकेऽलोन्त्यविधिरित्यपरे` इति। के पुनस्ते? ये विषयावधारणार्थतामत्रग्रहणस्य वर्णयन्ति ते वेदितव्याः। अनर्थकत्वमभ्यासस्य स्थाने द्विर्वचनपक्षे वेदितव्यम्। अत्र हि यस्य स्थाने यच्छब्दान्तरं विधीयते तत्? समस्तमेवार्थवत्। एकदेशस्त्वभ्यासोऽनर्थक एव। द्विष्प्रयोगद्विर्वचनपक्षेऽप्यनर्थान्तरवाचित्वादनर्थान्तरवाचित्वादनर्थकताभ्यासस्य॥", "74059": "`डुढौकिषते, तुत्रौकिषते` इति। ढौकृ, त्रौकृ - इत्येताभ्यामनुदात्तेत्त्वादात्मनेपदिभ्यां सन्, `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। `अडुढौकत्, अतुत्रौकत्` इति। आभ्यामेव ण्यन्ताभ्यां लुङ्, पूर्ववच्चङादिकार्यम्। `डुढौके, तुत्रौके` इति। लिट, एकवचनम्, तस्यैश्। `अभ्यासस्यानचि` इत्यादि। अभ्यासस्य यत्? कार्यं विधीयते तदनचिपरे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `वा चरिचलिपतिददोनामच्याक्याभ्यासस्य` (वा।658) इत्यागमविघानसामर्थ्याद्धलादिशेषेण न भवितव्यम्। हलादिशेषे हि सत्यादेशस्यागमस्य च कइआद्विशेषो नास्तीत्यादेशमेव विदध्यात्। एवञ्च - अभ्यासलोपाभावात्? पारिशेध्यादचोऽन्यत्रैव भविष्यति॥", "74060": "`हलादिः` इति। हल्? चासावादिश्चेति हलादिः - कर्मधारयोऽयम्, न तु षष्ठीसमासः - हलामादिर्हलादिः। यदि षष्ठीसमासः स्यात्, तदायमर्थः स्यात् - अभ्यासस्य यै हलस्तेषामादिः शिष्यत इति। तथा च - आनक्षतुः, आनक्षुरित्यत्र `अक्षू व्याप्तौ` (धातुपाठः-654) इत्यस्याजादित्वाद्द्वितीयस्यैकाचोऽभावात्? प्रथमस्यैकाचो द्विर्वचने कृते यद्यप्यभ्यासादिः ककारो न भवति, तथापि हलादिर्भवति, तस्य शेषः प्रसज्येत। कर्मधारये तु न दोषः, तत्राभ्यासापेक्षं हलादित्वं विधीयते, न चात्र ककारोऽभ्यासादिः। तस्मात्? कर्मधारयोऽयम्। `जग्लौ` `मम्लौ` इति। `ग्लै हर्वक्षये` (धातुपाठः-903), `म्लै गात्रविनामे` (धातुपाठः-904), <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्त्वम्, <<आत औ णलः>> [[7.1.34]] इत्यौत्त्वम्। `आटतुः` आटुः` इति। <<अत आदेः>> [[7.4.70]] इत्यभ्यासस्य दीर्घत्वे कृते सवर्णदीर्घत्वम्। ननु च शेषोऽवस्थानम्, तच्चानेः सिद्धमेव, तत्किमर्थ विधीयते? इत्याह - `आदिशेषनिमित्तोऽयम्` इत्यादि। आदिशषो निमित्तं यस्य लोपस्य स तथोक्तः। न ह्यत्रादेः शेषो विधीयते, किं तर्हि? तन्निमित्तोऽयमनादेर्लोपो विधीयते। सिद्ध एव ह्रादेरवस्थाने हलादिशेष इतीदं विधीयमानं नियमार्थं विज्ञायते - आदेरेव हलोऽवस्थानं भवति, त्वनादेरिति एवमादिशेषनिमित्तमनादेरदर्शनं विहितं भवति। यदि तह्र्रादिशेषनिमित्तोऽयमनादेर्लोपो विधीयते, एवं सत्यादुतुराटुरित्यत्र लोपो न भवति; निमित्ताभावात्, अभ्यासस्य हलेव तावदादिर्नास्ति, कुतः पुनस्तस्य शेषः? इत्यत आह - `तत्र` इत्यादि। अनादिलोपे कर्तव्येऽभ्यासजातिराश्रीयते, नाभ्यासव्यक्तिः। तेन यद्यपि सर्वास्वभ्यासव्यक्तिषु हलादिर्न वर्तते, तथापि क्वचिदपि पपाचेत्यादौ वर्तमानो हलादिरनादेः सर्वत्राटतुः, आटुरित्येवमादावपि निवृतिंत करोति; अभ्यासजातेरभिन्नत्वात्। यैव हि पपाचेत्यादावभ्यासजातिः, सैवाटतुः आटुरित्यादावपि। `अपरे तु` इत्यादि। आटतुः, आटुरित्यादावनादेर्लोपं प्रतिपादयितुमपरे ब्राउवत इति। शेषशब्दोऽयं नावस्थानमात्रमाह, किं तर्हि? निवृत्त्या विशिष्टमवस्थानम्, यद्येवम्, अवस्थानस्य विशेष्यत्वात्? प्राधान्यम्, निवृत्तेस्तु विशेषणावादप्राधान्यम्। तथा च - परधानानुयायित्वादप्राधान्यं गुणानाम्। यत्रैवाभ्यासस्य हलादेरवस्थानं पपाचेत्यादौ, तत्रैदानादेर्हलो निवृत्त्या भवितव्यम्; ततः स एव दोषः - आटतुः, आटुरित्यादावनादेर्हलो निवृत्तिर्न प्राप्नोतीति? अत आह - `तदवस्थानम्` इत्यादि। यद्यपि निशेष्यभूतं तदवस्थानं शेषशब्देनाभिधीयत इत्युक्तितः प्रधानम्? तथाप्यविधेयत्वादप्रधानम्। अविधेयत्वं तु तस्य सिद्धत्वात्। निवृत्तरेव विशेषणभूतापि विधेयत्वात्? प्रधानम्। तथा चोक्तम् - सिद्धमुपकारकं परार्थमङ्गम्, साध्योऽनुपकारकस्त्वङ्गीति कृत्वा प्रधानम्। तत्र निवृत्तौ विधेयत्वात्? प्रधानभूतायामयमस्य सूत्रस्यार्थो जायते - `अभ्यासस्यानादेर्हलो निवृत्तिर्भवति` इति। ततश्चासौ विधेयत्वात्? प्राधान्यमापन्ना सती किमित्यादेरविधेयामप्रधानभूतामनिवृत्तिमपेक्षिध्यते। केन कारणेनापेक्षिष्यते? न केनचिदित्यर्थः। न हि प्रधानस्य गुणानुय#आयित्वं युक्तम्। तस्मादसत्यपि हलादेरवस्थानेऽवादेर्लोपेन भवितव्यमिति भावः॥", "74061": "पूर्वेण शरां सेषे प्राप्ते खयां शेष आरभ्यते। अनादिशेषश्चायमादिशेषं बाधते। न हि शरामवस्थाने खयां शेषशब्दो विशेषणमुपपद्यते। स हि निवृत्त्या विशिष्टमवस्थानमाह - इत्युक्तम्। न चोभयोरवस्थाने निवृत्त्या विशिष्टमवस्थानं भवति। तस्मादादिशेषस्यायमनादिशेषोऽपवादः। `चुश्चोतिषति` इति। `श्चुतिक्र्षरणे` (धातुपाठः-41), सन्, इट्। `तिष्ठासति` इति। `षष्ठा गतिनिवृत्तौ` (धातुपाठः-928)। `पिस्पन्दिषते` इति। `स्पदि किञ्चिच्चलने` (धातुपाठः-14), अनुदात्तेत्, इदित्वान्नुम्, <<पूर्ववत् सनः>> [[1.3.62]] इत्यात्मनेपदम्। `सस्नौ` इति। `ष्णा शौचे` (धातुपाठः-1052)। पूर्वेवण्णल औत्वम्। `खर्पूर्वाः` इत्यादि। `उचिच्छिवति` इति। `उच्छी विवासे` (धातुपाठः-216), सन्? उछिष्? इति स्थिते द्विर्वचनं प्राप्नोति, तुक्? च; तत्र वर्णाश्रयेणान्तरङ्गत्वात्? तुक्। तस्मान्? कृते, द्विर्वचनं प्राप्नोति, चुत्वञ्च, ततर परत्वात् द्विर्वचने कर्तव्ये चुत्वस्यासिद्धत्वाद्द्विर्वचनं प्राप्नोति छिष्शब्दस्य। तत्र छकारस्य शेषो न प्राप्नोति; अशर्पूर्वत्वात्। न ह्रं तकारः अर्भवति, ततश्च पूर्वेण हलादिशेषे कृते सत्यभासे तकारः श्रूर्यत। अथापीदमस्ति - `पूर्वत्रासिद्धोयमद्विर्वचने` (जै।प।वृ।70) इति चुत्वं पश्चाद्द्विर्वचनं क्रियते, तथापि हलादिशेषेण छकारे निवृत्ते `निमित्तापाये नैमित्तिकस्याप्यपायः` (व्या।प।47) इति चुत्वे निवृत्ते उचिच्छिषतीत्यतर तकार एवाभ्यासे श्रूयेत। तस्मात्? खर्पूर्वाः खय इति वक्तव्यन्। एवं हि सति च्छकारस्य शेषे कृते तकारो निवर्तत इति न भवत्यनिष्टप्रसङ्गः॥", "74062": "`चखान` इति। `खनु अवदारणे` (ध।पा।878), द्विर्वचनम्, तस्य चुत्वम् - छकारः, <<अभ्यासे चर्च>> [[8.4.54]] इति छकारस्य चकारः। `जघाति` इति। `लिटन्यतरस्याम्` [[2.4.40]] इत्यदेर्घस्लादेशः, अभ्यासस्य चुत्वम्। नादवतो महाप्राणस्य स्थाने तादृश एव झकारः, तस्यापि जश्त्वम् - जकारः। `जहार` इति। `ह्मञ्? हरणे` (धातुपाठः-899)। `जिहीर्षति` इति। <<इको झल्>> [[1.2.9]] इति सनः कित्त्वम्, `अज्झनगमां [[6.4.16]] इति दीर्घत्वम्, `ऋत इद्धातोः` [[7.1.100]] इतोत्त्वम्, रपरत्वम्, `हलि च` [[8.2.77]] इति दीर्घत्वम्, हीर्ष-इत्यस्य द्विर्वचनम्॥", "74063": "पूर्वेण प्राप्तस्य चुत्वस्यायं निषेधः। `कोकूयते` इति। `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः, <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यभ्यासस्य गुणः। अथ विकरणनिर्देशः किमर्थः, न `कोः` इत्येवोच्येत? इत्यत आह - `कवतेः` इत्यादि। `कुङ्? शब्दे` (धातुपाठः-1401) इति तौदादिकः, `कु शब्दे` (धातुपाठः-1042) इत्यादादिकः, `कुङ्` (धातुपाठः-151) इति मौदादिकः शब्दार्थ एव; तत्र भौवादिकस्य ग्रहणं यथा स्यात्, इतरयोर्मा भूदित्येवमर्थो विकरणनिर्देशः। ननु चानयोर्निवृत्तेरेतत्? फलम् - चोकूयत इत्येतदपि रूपं यथा स्यादिति, एतच्च `कोः` इत्यपि निर्देशे निरनुबन्धकपरिभाषया कौतेरेव निरनुवन्धकस्य ग्रहणे सति सिध्यत्येव, तस्मात्? `कोः` इत्येवं निर्देशः कर्तव्यः? नैतदेवम्; सत्यपि हि शब्दार्थत्वे भिद्यत एवैषामभिधेयम्। तथा हि - कवतिस्तावदव्यक्तशब्दे वर्तते - उष्ट्रः कोकूयत इति; कुवतिरप्यार्तस्वरे वर्तते - चोकूयते बृषल इति, पोडित इत्यर्थः; कौतिस्तु शबदमात्रे। तस्माद्विशिष्यटार्थस्य परिग्रहो यथा स्यादित्येवमर्थो विकरणनिर्देशः कर्तव्यः। ननु लुग्विकरणपरिभाषया कौतेर्न भविष्यतीति, तत्किमर्थं तन्निवृत्तयर्थता विकरणस्योपपद्यते? एवं मन्यते - कुवतिनिवृत्त्यर्थोऽवश्यं विकरणनिर्देशः कर्तव्यः, सोऽन्यार्थः क्रियमाणः कौतेर्निवृत्त्यर्थोऽपि भवति, तेन लुग्विकरणपरिभाषा (व्या।प।50) अत्र कौतेर्निवृत्त्यर्थमाश्रयितव्या न भवति। `चुकुवे` इति। पूर्ववत्? तशब्दस्यैच्? `अचि श्नुधातु` [[6.4.77]] इत्यादिनोवङ्॥", "74064": "`करीकृष्यते` इति। `कृष विलेखने` (धातुपाठः-990) `रीगृहुपधस्य` [[7.4.90]] इति रीगागमः॥", "74065": "चकारश्छन्दसीत्यनुकर्षणार्थः। `धारयतेः` इति। `धृञ्? धारणे` (धातुपाठः-900) `धृङ्? अवस्थाने` (धातुपाठः-1412) `धृङ्? अवध्वंसने` (धातुपाठः-960) - इत्येताषां ण्यन्तानां ग्रहणम्, `धृङो वा` इति। अनन्तरोक्तयोरण्यन्तयोः। `श्लौ यङ्लुकि वा` इति। तत्र तावत्? `दाधर्त्तीति - यदा धारयतेः श्लौ निपात्यते, तदा णिलोपोऽभ्यासस्य दीर्घत्वं निपात्यते। यदा तु यङ्लुकि, तदाऽनेकाच्त्वाद्यङ्? न प्राप्नोति, सोऽपि निपात्यते, उपधाह्रस्वत्वञ्च। णिलोपस्त्वार्धधातुकत्वादेव यङः <<णेरनिटि>> [[6.4.51]] इत्येवं सिद्धः। भ्यासस्य दीर्घत्वमपि <<दीर्घोऽकितः>> [[7.4.83]] इत्येवं सिद्धम्। `दर्धर्ति, दर्धर्षि` इति। अत्रापि यदा धारयतेः श्लौ तदाऽभ्यासस्य रुगागमो णिलोपश्च। श्लुस्तु सर्वत्र <<बहुलं छन्दसि>> [[7.4.78]] इत्यनेनैव वेदितव्यः। यदा तु यङ्लुकि, तदा <<दीर्घोऽकितः>> [[7.4.83]] इत्यनेन दीर्घत्वे प्राप्ते तदभावश्च निपात्यते। यदा धृङः - दाधर्तीति श्लौ निपात्यते, तदा द्विर्वचने कृतेऽभ्यासस्य दीर्घत्वं निपात्यते। यदा तु तस्यैव धृङो यङ्लुकि तदाऽस्यासस्य `ऋतश्च` [[7.4.92]] इति प्राप्तस्य रुगादेरभावो निपात्यते। `दर्घर्ति, दर्घर्षि` इति। अत्रापि यदा ध#ऋङ्, श्लौ, तदाभ्यासस्य रुगागमो निपात्यते; यदा तु यङलुकि, तदा पूर्ववत्? प्राप्तस्य दीर्घस्याभावो निपात्यते, न तु रुगागमः; तस्य हि <<रुग्रिकौ च लुकि>> [[7.4.91]] इत्येवं सिद्धत्वात्? परस्मैपदं च व्यत्ययो बहुलम्` [[3.1.85]] इति। `बोभूतु` इति। `अन्यत्र` इति। लोट्प्रथमपुरुषस्यैकवचनापेक्षमन्यत्वं वेदितव्यम्। `बोभवीति` इति। अदादित्वाच्छपो लुक्? <<बहुलं छन्दसि>> [[7.4.78]] इति बहुलवचनत्वाद्भवति; `यङो वा` [[7.3.94]] इति पक्षे ईट्। `तेतिषते` इति। `तिजेः` इति। `तिज निशाने` (धातुपाठः-971) इत्येतस्य। ननु च यङो ङित्त्वात्? प्रत्ययलक्षणेनात्मनेपदं [[1.1.61]] सिद्धम्, एतत्? किमर्थं निपात्यते? इत्याह - `यङो ङित्त्वात्` इत्यादि। ज्ञापनार्थमात्मनेपदं सिद्धम्। ज्ञापनार्थमात्मनेपदं निपात्यत इति दर्शयति। ज्ञापनस्य तु प्रयोजनम् - अन्यत्र यङ्लुगन्तादात्मनेपदं न भवतीति - भावः, बोभवीतीति। `अलर्षि` इति। `ऋ सृ गतौ` (धातुपाठः-1098,1099) - इत्यस्य जौहोत्यादिकस्य `उरत्` [[7.4.66]] इत्यत्त्वे कृते रपरत्वे च हलादिशेषः प्राप्नोति, तदपवादौ रेफस्य लत्वं निपात्यते। किं पुनः कारणं सिपा निर्देशोऽयमतन्त्रमित्येवं व्याख्यायते? इत्याह - `तिप्यपि` इत्यादि। `फणतेः` इति। `फण गतौ` (धातुपाठः-821) - इत्येतस्य। `स्यन्देः` इति। `स्यन्दू प्ररुआवणे` (धातुपाठः-761) - इत्येतस्य। किमर्थं पुनः सम्पूर्वस्यातन्त्रत्वं व्याख्यायते? इत्याह - `अत्रापि हि` इत्यादि। `करिक्रत्` इति। `डुकृञ्? करणे` (धातुपाठः-1472)। यणादेशे कृतेऽनृकारान्तत्वात्? `ऋतश्च` [[7.4.92]] इत्यभ्यासस्य रिगागमो न प्राप्नोति, स निपात्यते। `क्रन्देः` इति। `कदि क्रदि क्लदि आह्वाने रोदने च` (धातुपाठः-772,773,774) इत्येतस्य। कथं पुनज्र्ञायते लुङीत्येतन्निपातनम्? इत्याह - `अस्य हि` इत्यादि। यस्माल्लुङन्तेन क्रन्दतेरर्थो निर्दिश्यते, ततो ज्ञायते - लुङयेतन्निपातनमिति। अत्र चाभ्यासस्य रीगागमो निपात्यत एव। `विभर्त्तेः` इति। `डुभृञ्? धारणपोषणयोः` (धातुपाठः-1087) इत्यस्य। `ध्वरतेः` इति। `ध्वृ हूच्र्छने` (धातुपाठः-939)। `द्युतेः` इति। `द्युत दीप्तौ` (धातुपाठः-741) इत्यस्य। `सम्प्रसारणाभावः` इति। <<द्युतिस्वाप्योः सम्प्रसारणम्>> [[7.4.67]] इति सम्प्रसारणं प्राप्नोति, अतस्तदभावो निपात्यते। `तरतेः` इति। `तृ? प्लवनतरणयोः` (धातुपाठः-969) इत्यस्य। `सृपेः` इति। `गम्लृ सृप्लृ गतौ` (धातुपाठः-982,983) इत्यस्य। `वृजेः` इति। `वृजो वर्जने` (धातुपाठः-1812) इत्येतस्य। `मर्मृज्य` ति। `मृजू शुद्धौ` (धातुपाठः-1066) इत्येतस्य णलि रूपम्। `आगनीगन्ति` इति। एतदपि सटि तिपि। इतिकरणस्य प्रकारार्थतां दर्शयितुमाह - `एवम्प्रकाराणाम्` इत्यादि। दाधर्त्तिप्रभृतीनामिव येषां छन्दस्यलाक्षणिकं कार्यं दृश्यते त एवम्प्रकारा दाधर्त्तिसदृशा इत्यर्थः। के पुनस्ते? गलगर्तीत्येवमादयः। `गृ? निगरणे` (धातुपाठः-1410) इत्येतस्य यङ्लुकि श्लौ वा गलगर्तीति रूपम्, अभ्यासस्य चर्त्त्वामावः, हलादिशेषापवादः, रेफस्य लत्वं च निपात्यते॥", "74066": "छन्दसीति निवृत्तम्; पूर्वसूत्रे च कारानुकृष्टत्वात्। `ववृते, ववृधे, शशृधे` इति। `वृतु वर्तने` (धातुपाठः-758), `वृधु वृद्धौ` (धातुपाठः-759), `शृधु शब्दकुत्सायाम्` (धातुपाठः-760), लिट्; तत्राद्ययोरनुदात्तेत्त्वादात्मनेपदम्, इतरत्र स्वरितेत्त्वात्; पूर्ववदेव द्विर्वचनम्, हलादिशेषे च कृत ऋवर्णान्ततयामुपजातायामद्भावः, रपरत्वम्, हलादिशेषः।`नर्नर्त्ति, नरिनर्त्ति, नरीनर्त्ति` इत्येवमादौ `ऋदुपधस्य च` [[7.4.90]] इति, <<रुग्रिकौ च लुकि>> [[7.4.91]] इति वा परत्वादपवादेषु कृतेषु रीगादिषु ऋवर्णान्ताभावादनेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - `नर्नर्ति` इति॥", "74067": "हलादिशेषे प्राप्ते तस्यापवादौ द्युतिस्वाप्योः सम्प्रसारणमारभ्यते। `विदिद्युते` इति। `द्युत दीप्तौ` (धातुपाठः-741), लिट्, अनुदात्तेत्त्वादात्मनेपदम्; तत्र सम्प्रसरणमनेन, <<सम्प्रसारणाच्च>> [[6.1.108]] इति परपूर्वत्वम्। `व्यद्युतत्` ति। ण्यन्ताल्लुङ; श्लेश्चङ्, णिलोपः उपधाह्रस्वत्वम्, द्विर्वचनम्, अडागमः। `विदिद्युतिषते, विदिद्योतिषते` इति। सन्, `रलो व्युपधात्` [[1.2.26]] इत्यादिना विकल्पेन कित्त्वम्। यदा कित्त्वं नास्ति, तदा लघूपधगुणः, `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। `सुस्वापयिषति` इति। `ञिष्वप्? शये` (धातुपाठः-1068), णिच्, तदन्तात्? सन्। किं कारणं ण्यन्तस्योदाहरणमुपन्यस्तम्? इत्यत आह - `स्वपिण्र्यन्तो गृह्रते` इति। तेन ण्यन्तस्योदाहरणमुपदर्शितमित्यभिप्रायः। ण्यन्तस्य ग्रहणं स्वापेरिति निर्देशादेव विज्ञायते। न ह्रण्यान्तस्यैवंविधो निर्देश उपपद्यते। अपि च - अण्यन्तस्य योऽब्यासस्तस्यानेनैव शास्त्रेण सम्प्सारणं सिद्धम्। तथा हि - लिटि तावत्? `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इत्यनेनैव सिद्धम्, सनि तु `रुदविद` [[1.2.8]] इत्यादिना सनः कित्त्वे सति वच्यादिसूत्रेण [[6.1.15]] कृतसम्प्रसारण एव सुपिभूतो द्विरुच्येत, यङ्यपि <<स्वपिस्यमिव्येञां यङि>> [[6.1.19]] इति कृतसम्प्रसारण एवासौ द्विरुच्यते। तस्मादण्यन्तस्यानेन शास्त्रेण सम्प्रसारणस्य सिद्धत्वात्? स्वापिण्र्यन्तो गृह्रते।यदि स्वापिण्र्यन्तो गृह्रते। तदा स्वापयतेर्ण्वुल् - स्वापकः, स्वापकमिच्छतीति क्यच्, स्वापकीय इति स्थिते स्वापकीयितुमिच्छतीति सन् - सिध्वापकीयिषति, अत्रापि सम्प्रसारणं प्राप्नोति? इत्याह - `तस्य` इत्यादि। तस्य स्वापेरभ्यासस्य नि मत्तं यः प्रत्ययस्तेनानन्तर्ये सत्यव्यवधान इदं सम्प्रसारणमिष्यते, तेन सिध्वापकीयिषतीत्यत्र न भवति। न ह्रभ्यासनिमित्तं यः प्रत्ययः इह स स्वापेरनन्तरः; ण्वुला क्यचा च व्यवधानात्। कथं पुनरभ्यासनिमित्तेन प्रत्ययेनानन्तर्ये सति सम्प्रसारणं लभ्यते, यावता नायं विशेषः सूत्रोपात्तः? एवं मन्यते - अभ्यासेनाभ्यासनिमित्तं यः प्रत्ययः सन्निधापितः, तस्य प्रत्ययविशेषणिमित्तत्वात्; तत्र लेनाभ्यासनिमित्तेन प्रत्ययेन स्वापिरङ्गं विशिष्यते - अभ्यासनिमित्ते प्रत्यये यदङ्गं स्वापिरिति। एवञ्च विशेष्यविशेषणभावे सक्यभ्यासनिमित्ते प्रत्ययेऽनन्तरे सति स्वापेरङ्गस्य योऽभ्यासस्तस्यैव सम्प्रसारणेन भवितव्यम्। न तु व्यवहितेन प्रत्ययान्तरेण हि यो व्यवहितः प्रत्ययः सन्नभ्यासे निमित्त तदपेक्षया स्वापिरङ्गं भवति, न च सिध्वापव्यवहितेन प्रत्ययान्तरेण हि यो व्यवहितः प्रत्ययः सन्नभ्यते निमित्तं तदपेक्षया स्वापिरङ्गं भवति, न च सिध्वापकौयिषतत्यभ्यासनिमित्तं यः प्रत्ययः स स्वारेरङ्गस्यानन्तरः, यस्तु स्वापेरनन्तरो ण्वुल्? तदपेक्षया स्वापिरङ्ग भवति, न चासावभ्यासनिमित्तं भवति। इह तर्हि कस्मान्न भवति - स्वपनं स्वापो घञ्, स्वापं करोतति णिच्, स्वापयितुमिचछतीति सन्? सिष्वापयिषतीति? उच्यते; अकारलोपश्य स्थानिवद्भावात्? स्वापेर्योऽभ्यासस्तस्य सम्प्रसारणेन भवितव्यम्। न चाकारलोपस्य स्थानिवद्भावे सति स्वापेरभ्यासः, किं तर्हि शब्दान्तरस्य स्वाप इत्येतस्य॥", "74068": "`विव्यथे` इति। `व्यथ भयचलनयोः` (धातुपाठः-764), अनुदात्तेत्त्वादात्मनेपदम्। अथ यकारस्य हलादिशेषेण निवृत्त्या भवितव्यम्, वकारस्य सम्प्रसारणेन? इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `यकारस्य` इत्यादि। `वाव्यथ्यते` इति। यङ्॥", "74069": "इणो ह्रस्वस्यैव श्रवणे प्राप्ते दीर्घत्वं विधीयते। `ईयतुः ईयुः` इति। ननु च परत्वात्? <<इणो यण्>> [[6.4.81]] इति यणादेशे सत्यनच्कत्वात्? द्विर्वचनं न प्राप्नोतीत्यत आह - `इणो यण्` इत्यादि। स्थानिवद्भावस्तु <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यनन। स च नियतकाले द्विर्वचन एव कर्तव्ये कृते च तस्मिन्नादेशरूप एवावतिष्ठते। `इयाय, इययिथ` इति। णलि थलि चेति यथाक्रमं वृद्धिगुणयोः कृतयोः स्थानिवद्भावाद्द्विर्वचनमिकारः, तस्य `अभ्यासस्यासवर्णे, [[6.4.78]] इतीयङ्॥", "74070": "लिटीत्यनुवर्तते। किद्ग्रहणं तु निवृत्तम्। <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे प्राप्ते दीर्घत्वमारभ्यते। तपरकरणं स्वभावत एव यो ह्रस्वस्तस्य दीर्घो यथा तेनोपदेशे वो दीर्घस्तस्य ह्रस्वत्वे कृतेऽपि दीर्घो न भवति - `आच्छि आयामे` (धातुपाठः-209), आच्छ, आच्छतुः, आच्चुरिति। लिट्, तिपो णल्, तसोऽतुम्, झेरुस्, द्विर्वचने हलादिशेषे `ह्रस्वः` [[7.4.59]] । किञ्च स्याद्? यद्यत्र दीर्घः स्यात्? `तस्मारुआउड्द्विहलः` [[7.4.71]] इति नुट्? स्यात्। `आदेः` इति वचनादिहान्तस्य दीर्घो न भवति - पपाचेत्यादौ॥", "74071": "द्वौ हलौ यस्य तद्द्विहल्। `आनङ्ग, आनङ्गतुः, आनङ्गुः` इति। `अगि रगि लगि गत्यर्थाः` (धातुपाठः-146,144,145), इदित्त्वान्नुम्। `आनञ्ज, आनञ्जतुः, आनञ्जुः` इति। `अन्जू व्यक्तिम्रक्षणकान्तिगतिषु` (धातुपाठः-1458)। `ऐऔच्` (मा।सू।4) इत्यत्र `प्रत्याहारे वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयः, तेषु तत्कार्यं न भवति, तच्छायानुकारिणो हि ते, न पुनस्त एव; पृथक्प्रयत्ननिर्वर्त्त्यं हि वर्णमिच्छन्त्याचार्याः` इत्युक्त्वा `नुड्विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम्` इत्युक्तम्। तत्रावसरप्राप्त्या ऋकारे नुङ्विधौ प्रतिविधानमाह - `ऋकारैकदेशो रेफौ हल्ग्रहणेन गृह्रते` इति। `आनुधतुः, आनृधुः` इति। `ऋधु वृद्धौ` (धातुपाठः-1271)। कथं पुनर्वर्माअत्मकानां हला ग्रहणेनावर्णात्मक ऋकारैकादेशो रेफो गृह्रते? द्विहल्ग्रहणसाममथ्र्यादिति भावः। अत्र `तस्मान्नुट्` इत्येवं वक्त्व्यम्। न चैवं सत्याटतुः, आटुरित्यादौ नुट्प्रसङ्गो भवति; अश्नोतेरित्यस्य नियमार्थत्वात् - अद्विहलो यदि भवति नुट्? तदाश्नोतेरेव, नान्यस्येति। अश्नाति निवृत्त्यर्थं तदेतन्नाशङ्कनीयम्; यद्येतावत्? प्रयोजनं स्यात्? `नाश्नः` इत्येवं ब्राऊयात्। तस्मान्नियम एवास्य प्रयोजनम्। तदेवमन्तरेणापि द्विहल्ग्रहणं सिद्धे यतो द्विहल्ग्रहणं करोति तस्यैतत्? प्रयोजनम् - द्विहल्समानाकृतेरपि यथा स्यात्। यस्याप्येको हल्? मुख्योऽवयवो द्वितीयस्त्वमुख्यस्तच्छायानुकारित्वादुपचारेण हलव्यपदेशार्हः, तस्यापि यथा स्यादित्येवमर्थम्। एतस्य कथं ल्यते? यद्यत्र द्विहल इत्येवंश्रुतिस्तच्छायानुकारिण्यपि ऋकारावयवे रेफे वर्तते, नान्यथा। तस्माद्द्विहल्ग्रहणसामर्थ्यादत्र हल्ग्रहणेन ऋकारैकदेशो रेफो गृह्रते; अन्यथा द्विहल्ग्रहणमनर्थकं स्यात्॥", "74072": "अद्विहलार्थोऽयमारम्भः। `व्यान शे` इति। `अशू व्याप्तौ` (धातुपाठः-1264), अनुदात्तेत्त्वादात्मनेपदम्, त, एश्। अश्नोतेरिति विकरणनिर्देशः `अश भोजने` (धातुपाठः-1523) इत्येतस्य क्रैयादिकस्य निवृत्तये। चकारो नुडागमानुकर्षणार्थः॥", "74073": "`बभूव` इति। <<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वृक्। `अनुबभूवे` इति। कर्मण्यात्मनेपदम्। श्तिपा निर्देशी यङ्लुग्निवृत्त्यर्थः - वोभावेति॥", "74074": "`सूतेः` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031) - इत्येतस्य। `सुषुवे` इति। ङित्त्वादात्मनेपदम्; उवङ्। इतिकरणमेवम्प्रकाराणामन्येषामुपसङग्रहार्थम्। तेन जाग्रमः, अदर्शमेत्यादि सिद्धं भवति। जाग्रम इति जागर्तेरग्निपात्यते। अदर्शमेति लङि दृशेः पश्यादेशाभावः। जागृम्, अपश्यामेति भाषायामृ। दाधर्त्त्यादिषु ससूवग्रहयणं न कृतम्; वैचित्र्यार्थम्॥", "74075": "बहुवचननिर्देशादाद्यर्थो गम्यत इत्यत आह - `एवाम्` इत्यादि। `णिजिर्? शौचपोषणयोः` (धातुपाठः-1093), `विजिर्? पृथग्भावे` (धातुपाठः-1094), `विष्लृ व्याप्तौ` (धातुपाठः-1095) - इत्येते णिजादयो जौहोत्यादिकाः। `त्रिग्रहणमुत्तरार्थम्` इति। `भृञामित्` [[7.4.76]] इतीत्त्वम्। त्रयाणामेव यथा स्यादधिकानां मा भूदित्येवमर्थं त्रिग्रहणम्। एतदर्थमपि कस्मान्न भवति? इत्यत आह - `एवाम्` इत्यादि। यद्यत्र त्रिग्रहणं क्रियते निजादीनामन्ते बृत्करणं किमर्थम्? एतद्गणकारः प्रष्टव्यः, न सूत्रकारः। `अन्यो हि गणकारोऽन्यश्च सूत्रकारः` इत्युक्तं प्राक्। गणकारेणापि वैचित्र्यार्थं वृत्करणं कृतमिति वेदितव्यम्। विचित्रा हि गणस्य कृतिर्गणकारेण। अथ गुणग्रहणं किमर्थम्, एकार एव नोच्येत? अशक्यमेवेदं वक्तुम्; एवं ह्रुच्यमाने द्वेव्यमपि कश्चिद्विजानीयात् - हलादिशेषापवादोऽयं निजादीनामेकर इति। गुणग्रहणे हि संज्ञाविधाने नियम इतीक एव भवति, हलस्तु हलपादिशेषेण निवृत्तिर्भवति॥", "74076": "`डु भृञ्? धारणपोषणयोः` (धातुपाठः-1087), `माङ्? माने` (धातुपाठः-1088), `ओहाङ्? गतौ` (धातुपाठः-1089) - इत्येते भृञादयो जौहोत्यादिका एव। `मिमीते, जिहीते` इति। <<ई हल्यघोः>> [[6.4.113]] इतीत्त्वम्॥", "74077": "`इयर्ति, पिपर्ति` इति। `ऋ सृ गतौ` (धातुपाठः-1098,1099) `पृ? पालनपूरणयोः` (धातुपाठः-1086), जुहोत्यादिकत्वाच्छपः श्लुः गुणः द्विर्वचनम्, `उरत्` [[7.4.66]] इत्यत्त्वम्, अनेनेत्त्वम्, रपरत्वञ्च। अर्त्तेः <<अभ्यासस्यासवर्णे>> [[6.4.78]] इतीयङ्। अथार्तिग्रहणं किमर्थम्, यावता निजादिभ्योऽयं परः पठते। ये च निजादिब्य परे ते सर्व एव च्छान्दसाः, तथा हि तान्? पठित्वा छन्दसीत्युक्तम्। छान्दसत्वाच्चार्तेः <<बहुलं छन्दसि>> [[7.4.78]] इत्येवं सिद्धम्? एवं तह्र्रेतज्ज्ञापयति - भाषायामप्यर्त्तेः प्रयोगो भवतीति॥", "74078": "`विविष्टि` इति। `वश कान्तौ` (धातुपाठः-1080), <<बहुलं छन्दसि>> [[7.4.78]] इति शपः श्लुः, व्रशस्चादिसूत्रेण [[8.2.36]] षत्वम्। `विवक्ति` इति। `वच परिभाषणे` (धातुपाठः-1842)। `सिषक्ति` इति। `सच समवये` (धातुपाठः-997), `सच सेचने` (धातुपाठः-163) इति वा। `जिगर्त्ति, जिघर्त्ति` इति। `गृ घृ सेचने` (धातुपाठः-937,938)। सर्वत्र पूर्ववच्छपः श्लुः। `जजनम्, दधनम्` इति। `जन जनने` (धातुपाठः-1105), `धन धान्ये` (धातुपाठः-1104)। लुङ्मिपोऽम्, जुहोत्यादित्वाच्छपः श्लुः; `बहुलं छन्दस्यामाङ्योगेऽपि` [[6.4.75]] इत्यङ्निषेधः॥", "74079": "`पिपक्षति` इत्यादि। पचियज्यो रूपे। `पिपासति` इति। पातेः, पिबतेर्वा। `लुलूषति` इति। `लूञ्? छेदने` (धातुपाठः-1483)। <<इको झल्>> [[1.2.9]] इति कित्त्वाद्गुणाभावः। <<सनि ग्रहगुहोश्च>> [[7.2.12]] इतीट्प्रतिषेधः। तपरकरणं किमर्थम्? पापच्यतेः सन्? पापचिषत इत्यत्र मा भूत्। किं पुनः कारणमत्र ह्रस्वो न भवति? दीर्घविधानसामर्थ्यात्। यदि `सनि योऽभ्यासः` इत्येवं विज्ञायेत, [विज्ञायते-प्रांउ। पाठः] ततो मुखसुखार्थम्॥", "74080": "`पुयण्जि` [नास्ति - काशिका] इति। पुयण्जामेकवद्भावं कृत्वा सप्तम्या निर्देशः। `अपरे` [नास्ति - काशिका] इति। अः परो यस्मात्? पुयण्जस्तदपरमवर्णपरमित्यर्थः। `पिपविषते` इति। पूङ्? पदने` (धातुपाठः-966) सन्, `स्मिपूङ्रञ्च्वशां सनि` [[7.2.74]] इतीट्, गुणावादेशौ। स्थानिवद्भावात्? `पू` इत्यस्य द्विर्वचनम्, स्थानिवद्भावस्तु <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यनेन। `पिपावयिषति` इति। पूङो ण्यन्तात् सन्। अत्रापि स्थानिवद्भावात्? `पू` इत्येतद्द्विरुच्यते। `बिभावयिषति` इति। `भू सत्तायाम्` (धातुपाठः-1) ण्यन्तात्? सन्। `यियावयिषति` इति। यौतेण्र्यन्तात्? सन्। `सनौवन्तं [[7.2.49]] इत्यादेनेठ्। `रिरावयिषति; लिलावयिषति` इति। रौतिलुनातिभ्यां ण्यन्ताभ्यां सन्।`जिजावयिषति` इति। `जु` इति सौत्रो धातुः [[3.2.150]] ; `जुचंक्रम्य` [[3.2.150]] इत्यादौ पाठात्। तस्मात्? ण्यन्तात्? सन्। कथं पुनः पिपादयिषतीत्यादावुकारान्तताऽभ्यासस्य, यावता णौ परतोऽन्तरङ्गत्वाद्वृद्ध्यावादेशयोः कृतयोर्वकारान्तस्याद्विर्वचनेन भवितव्यम्, स्थानिवद्भावादुकारान्तस्य द्विर्वेचनं भविष्यतीति चेत्? न; न हि णौ कृतस्य स्थानिवद्भावो भवति। णेरद्विर्वचननिमित्तत्वादित्यत आह - `एतदेव` इत्यादि। न हि णिचमन्तरेण पुयण्जोवर्णपराः सर्वे सम्भवन्ति। तत्र हि यदि णौ कृतस्य स्थानिवद्भावो न स्यात्, तदा येषां णिचमन्तरेण पुयण्जोऽवर्णपराः सर्वे सम्भवति। तत्र हि यदि माउ कृतस्य स्थानिवद्भवो न स्यात्, तदा येषां णिचमन्तरेणावर्णपरता न सम्भवति, तेषामुवर्णान्तोऽभ्यासो न स्यात्, उच्यते चेदं `ओः पुयज्जयपरे` इति वचनम्। तस्मादेतज्ज्ञापकम् - अद्विर्वचननिमित्त्ेऽपि णौ स्थानिवद्भवतीति। तेन तुतावयिषति, बिभावयिषतीत्यादि सिद्धं भवति। केषाञ्च पुनर्णिचमन्तरेणावर्णपरता न सम्भवति? यकारपकाराभ्यामन्येषां सर्वेषामेव। `पापचिषते` इति। <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः, <<यस्य हलः>> [[6.4.49]] इति यकारस्य। `तुतावयिषति` [`अवतुतावयिषति` इति काशिकापदमञ्जर्योः पाठः] इति। `तु` इति सौधो धातुः; `तुरुस्तुशम्यमः` [[7.3.95]] इत्यादौ सूत्रे पाठात्। `जुहावयिषति` इति। `हु दाने` (धातुपाठः-1083) ण्यन्तात्? तस्मात्? सन्। `बुभूषति` इति। पूर्ववदिङ्गुणयोरभावः॥", "74081": "`सु रुआउ गतौ` (धातुपाठः-940) `श्रु श्रवणे` (धातुपाठः-942) `दु द्रु गतौ` (दा।पा।944,945)`प्रुङ्प्लुङ् च्युङ्? गतौ` (धातुपाठः-957,958,956) `सिरुआआवयिषति` इत्यादि। एभ्यो ण्यन्तेभ्यः सर्वत्र सन्। ननु च सकारादिना वर्णेनात्र यणो व्यवधानम्, अत्रावर्णपरे यणि परत इत्त्वमुच्यमानं व्यवधाने कथं भवति? इत्याह - `वचनसामर्थ्यात्` इति। सवत्रैव हि सकारादिनैकवर्णेन व्यवधानम्, उच्यते चेदं वचनम्, तस्मादत्र वचनसामर्थ्यादेकेन वर्णेन व्यवधानमाश्रीयते; अन्यथा हि वचनमिदमनर्थकं स्यात्। `पूर्वसूत्रेण` इत्यादेनाऽप्राप्तविभाषेयमिति दर्शयति। `शुश्रुषति` [शुश्रूयते - काशिका] इति। पूर्ववदिङ्गुणयोरभावः। श्तिपः निर्देशो धातुनिर्देशार्थः, न यङलग्निवृत्त्यर्थः। अत्र गुणे कृत उकारान्तताभावादित्त्वं न भवतीति। `सोरुआविषति`॥[नास्ति - कीशिका]", "74082": "अभ्यसस्य गुणोऽयं विधीयते। तेन यद्यप्यत्र लुक्शब्दोऽयं सामान्यः, तथापि यङ्लुक एव सम्प्रत्ययो भवति। न ह्यत्र लुक्यभ्यासः सम्भवतीति मत्वाऽऽह - `यङि यङ्लुकि च` इत्यादि। `चौक्रुशीति` `क्रुश आह्वाने` (धातुपाठः-856) यङ्, तस्य <<यङोऽचि च>> [[2.4.74]] इति लृक्, `यङो वा` [[7.3.94]] इतीट्, <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणनिषेधाद्यङो लुकि कृते गुणो न प्राप्नोतीति लुग्ग्रहणम्। `पुगन्तलघुपधस्य च` [[7.3.86]] इति प्राप्तोऽपि गुणः <<नाभ्यस्तस्याचि पिति सार्वधातुके>> [[7.3.87]] इति निषिध्यते॥", "74083": "`यंयम्यते` इति। `यम उपरमे` (धातुपाठः-984), <<नुगतोऽनुनासिकान्तस्य>> [[7.4.85]] इति नुक्। `ननु च` इत्यादिनाऽकित इत्येतत्प्रत्याचष्टे। यंयम्यत इत्यत्र मा भूदित्येवमर्थं `अकितः` इत्युच्यते। अत्र ह्रपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यतीति नार्थोऽकित इत्यनेन। `एवं तर्हि` इत्यादिना `अभ्यासविकारेष्वपवादा नोत्सर्गान्? विधीन्? बाधन्ते` (व्या।प।23) इत्येतां परिभाषां ज्ञापयितुं `अकितः` इत्येतदुच्यत इति दर्शयति। `डोढौक्यते` इति। `ढौकृ गतौ` (धातुपाठः-98) इत्यस्य यङि कृते हलादिशेषे च `ह्रस्वः` [[7.4.59]] इति ह्रस्वत्वम्, पूर्वसूत्रेण गुणः। तत्रासत्यस्मिन्? ज्ञापके पिपासतीत्येवमादौ सावकाशं ह्रस्वत्वं <<दीर्घोऽकितः>> [[7.4.83]] इत्येनेन सन्ध्यक्षरे दीर्घत्वेन बाध्येत। दीर्घस्य दीर्घविधाने प्रयोजनाभावाद्दीर्घो न भविष्यतीति चेत्? नैतत्; अस्ति हि दीर्घस्य दीर्घविधाने प्रयोजनम्, किं तत्? ह्रस्वो मा भूदिति। एवं चासत्यस्मिन्? ज्ञापके `अचीकरत्` इत्यत्राप्यचिक्षणदित्यादौ सावकाशमित्त्वम्? `दोर्घो लघोः` [[7.4.94]] इति दीर्घत्वेन बाध्येत। `मीमांसते` इत्यादावसत्यस्मिन्? ज्ञापके पिपक्षतीत्यादौ सावकाशं `सन्यतः` [[7.4.79]] इतीत्त्वं मान्बधादिसूत्रेण [[3.1.6]] विहितेन दीर्घत्वेन बाध्यते। `अजीगणत्` इत्यत्राप्यसत्यास्मेन्? ज्ञापके पपाठेत्यादौ सावकाशो हलादिशेषः <<ई च गणः>> [[7.4.97]] इतीत्त्वेन बाध्यते। अस्मस्तु सति तर्वमेतन्न बाध्यते। ननु चासति प्रयोजने ज्ञापकं भवति; अस्ति चास्य प्रयोजनम्, किं तत्? धातुकित्त्वमपेक्ष्य जहातेर्मा भूत् - जाहाति, जाहेतीति? नैतदस्ति; यदि ह्रेतत्? प्रयोजनं स्यात्, तदा `अहाकः` इति प्रतिषेधं कुर्यात्। किञ्च `अकितः` इत्यभ्यासस्य विशेषणं भवितुमर्हति, यद्यभ्यासावस्थायां कित्त्वमुपजायते। न च जहातेः कित्त्वमभ्यासमपेक्षते, पूर्वमेव हि तदभ्यासाद्भवति। तस्माज्जहातेः - जाहाति, जाहेतीति रूपेण भवितव्यम्। ततश्च `अकितः` इति वचनं ज्ञापकमेव। कित्करणं तु जहातेः <<हश्च व्रीहिकालयोः>> [[3.1.148]] इत्यत्र सामान्यग्रहणाविघातार्थम्। अथ दीर्घग्रहणं किमर्थम्; आदित्येव नोयेत\/ नैवं शक्यम्, `अकितः` इत्यस्य ज्ञापकता नोपपद्यते। सति हि दीर्घग्रहणे नुकि कृतेऽनजन्तत्वादेव हि दीर्घस्य प्राप्तिर्नास्तीति `अकितः` इति प्रतिषेधस्य ज्ञापकत्वमुपपद्यते। आकारस्तु विधीयमानोऽजन्तस्याभ्यासस्य स्यादिति `अकितः` इत्यस्य ज्ञापकत्वं न स्यात्। तस्माद्दीर्घग्रहणं कर्तव्यम्॥", "74084": "", "74085": "<<दीर्घोऽकितः>> [[7.4.83]] इत्यनेन दीर्घत्वे प्राप्ते वचनमिदमारभ्यते। `तन्तन्यते` इत्यादीनि तमिगमियमिरमीणां रूपाणि। यदि नुक्? क्रियते, यम्यम्यते इत्यादौ <<नश्चापदान्तस्य झलि>> [[8.3.24]] इति झल्युच्यमानोऽनुस्वारो न सिध्यति, अझल्परत्वात्? इत्यत आह - `नुगित्ये तत्` इत्यादि। कथं पुनर्नुगित्येतदनुस्वारोपलक्षणार्थं शक्यते द्रष्टुम्? इत्याह - `स्थानिना हि` इत्यादि। नुका हि स्थानिनाऽत्रादेशोऽनुस्वार उपलक्ष्यते। तस्मादनुस्वार एवागमोऽत्र विधीयते, न तु नुक्। यम्यम्यत इत्यादौ यद्यप्यझल्परताऽस्ति, तथाप्यनुस्वारः सिध्यति। एवं <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] प्राप्नोति, इष्यते च पक्षेऽनुस्वारस्य श्रवणम्, तन्न सिध्यति, अपवान्तत्वात्? इत्यत आह - `पदान्तवच्च` इत्यादि। पदान्तवदनुस्वारो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - तदन्तविधिर्नवानुनासिकान्तस्यानुस्वारो भवतीति नार्थोऽन्तग्रहणेन, तत्क्रियते - पदान्तस्यानुत्वारस्य यो धर्मा स नुकोऽपि स्यादित्येवमर्थम्; तेनानुस्वारस्य पक्षे श्रवणं भविष्यतीति। `तेतिम्यते` इति। `तिम ष्टिम आद्र्रीभावे` (धातुपाठः-1123,1124)। अथ तपरकरणं किमर्थम्, यावता नास्ति किञ्चिदन्यदस्य व्यावत्र्यमिति सर्वत्र ह्रस्वाभावात्? इत्यत आह - `तपरकरणम्` इत्यादि। वर्तमानस्य दीर्घस्याभावाद्भूतपूर्वस्यापि दीर्घस्य निवृत्त्यर्थं तपरकरणं भविष्यतीति। `बाभाम्यते` इति। `भाम क्रोधे` (धातुपाठः-441)॥", "74086": "अनुनासिकार्तोऽयमारम्भः। `जप जल्प व्यक्तायां वाचि` (धातुपाठः-397,398), `जभि जृभी गात्रविनामे` (धातुपाठः-388,389) `दह भस्मीकरणे` (धातुपाठः-991), `दन्श दशने` (धातुपाठः-989) `भव्जो आमर्दने` (धातुपाठः-1453), `पशिः` सौत्रो धातुः। `जञ्जप्यते` इत्यादिषु `दंदश्यते` इति पर्यन्तेषु `लुपसद` [[3.1.24]] इत्यादिना यङ्। इतरत्र सामान्यलक्षणेन` [[3.1.22]] ॥", "74087": "`चर गतौ` (धातुपाठः-559)। `ञि फला विशरणे` (धातुपाठः-516), `फल निष्यत्तौ` (धातुपाठः-530)-द्वयोरपि ग्रहणम्। निष्यत्त्यर्थस्याकार उच्चारणार्थः, नानुबन्धः, प्रयोजनाभावात्, ततश्च निरनुबन्धकपरिभाषया (व्या।प।53) निरनुबन्धस्य निष्पत्त्यर्थस्यैवास्य ग्रहणं प्राप्नोति, न विशरणार्थस्य? नैष दोषः; चकारोऽत्र क्रियते, स च विशरणार्थस्य समुच्चयार्थो भविष्यति। `चञ्चूर्यते` इति। `लुपसद` [[3.1.24]] इत्यादिना यङ। उत्तरसूत्रेणाकारस्योकारे कृते `हलि च` [[8.2.77]] इति दीर्घः। योगभाग उत्तरार्थः॥", "74088": "`अभ्यासस्य मा भूत्` इति। असति परग्रहणेऽभ्यासाधिकारादभ्यासस्यैव स्यादित्यभिप्रायः। `अलोऽन्त्यस्य मा भूत्` इति। यदि `अतः` इति नोच्येत, ततोऽलोऽन्त्य [[1.1.52]] परिभाषयाऽभ्यासात्परस्य धातुरूपस्य योऽन्त्योऽल्? तस्य स्यादिति मन्यते। अथ तपरकरणं किमर्थम्, यावता मात्रिकस्य स्थान आन्तरतम्याद्विधीयमानो मात्रिक एव भविष्यति? इत्यत आह - `तपरकरणम्` इत्यादि। असति तपरकरण उकारे कृते चञ्चूर्ति, पम्फुल्तीत्यत्र `पुगन्तलघूपधस्य` [[7.3.86]] इति गुणः स्यात्, स मा भूदित्येवम्रथं तपरकरणं क्रियते। ननु चञ्चूर्तीत्यत्र दीर्घत्वमेव गुणस्य बाधको भविष्यति, तत्किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह - `दीर्घत्वम्` इत्यादि। असिद्धत्वं तु <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन। यदि तर्हि लक्षणान्तरेण प्राप्तो गुणस्तपरकरणेन निवर्तते, गुणवद्दीर्घत्वमपि न स्यात्\/ नैष दोषः; तपरकरणे हि दीर्घत्वमपि सिद्धमिति। तेन दीर्घस्य निवृत्तिर्न शक्यते वक्तुम्। तथा च - `अत उत्? सार्वधातुके` [[6.4.110]] इति तपरकरणेन दीर्घत्वमशक्यं निवर्तयितुमिति मन्यमानेन `न भकुर्च्छुराम्` [[8.2.79]] इति करोतेर्दीर्घत्वप्रतिषेध आरभ्यते। अत इति तपरकरणमिह मा भूत् - फलन्तं प्रयुङ्क्ते फालयति, फालयतेः क्विप्, तदन्तात्? `आचारे पुनः सर्वप्रातिपदिकेभ्यः` (वा।186) इति क्विप्, तदन्ताद्यङ् - पन्फाल्यते, पम्फालोति। कथञ्च प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्॥", "74089": "अयङलुगर्थोऽयमारम्भः। `चूर्त्तिः` इति। <<स्त्रियां क्तिन्>> [[3.3.94]] पूर्ववद्दीर्घः। `प्रकृल्ताः` इति। `निष्ठा, तदन्ताट्टाप्; जस्। `वचनसामर्थ्यादिह नाभिसम्बध्यते` इति। यदीह यङ्लुग्ग्रहणमभ्यासग्रहणञ्चाभिसम्बध्येत, ततो वचनस्य वैयथ्र्यं स्यात्। पूर्वेणैव यङयङ्लुकोरभ्यासस्य सिद्धत्वादित्यभिप्रायः॥", "74090": "`वरीवृत्यते` इत्यादीनि वृतिवृधिनृतीनां (धातुपाठः-758,759।1116) रूपाणि। `रीगृत्वत इति वक्तव्यम्` इति। ऋदुपधादन्यस्यापि ऋत्वतो रीगादयो यथा स्युरित्येवमर्थो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - चकारोऽत्र क्रियते, स च ऋदुपधादन्यस्यापि ऋत्वतः समुच्चयार्थः, तेन वृश्चतिप्रभृतीनामपि ऋत्वतां रीगादयो भवन्तीति। `रीगृत्वतः` इति सूत्रं न कृतम्; वैचित्र्याथम्। `ऋदुपधस्य` इति तपरकरणमसन्देहार्थम्। उकारे परतो यणादेशे कृते सन्देहः स्यात् - किमृकारोपधस्य? अथ वा रेफोपधस्येति॥", "74091": "", "74092": "लुकीत्येव। चकारेण रीगादयोऽनुकृष्यन्ते। `चर्कर्ति` इति। `डुकृञ्? करणे` (धातुपाठः-1472) `जर्हति` इति। `ह्मञ्? हरणे` (धातुपाठः-899)। `किरतेश्चाकर्ति` इति। `कृ? विक्षेपे` (धातुपाठः-1409), इत्यस्य। `किरतिम्` इत्यादि। किरतिग्रहणमुपलक्षणार्थम्। तेन `गृ निगरणे` (धातुपाठः-1410) इत्येवमादेरपि ऋकारान्तस्य ग्रहणं वेदितव्यम्। `चर्करीतान्तम्` इति। यङ्लुगन्तमित्यर्थः। यङ्लुक एव पूर्वाचार्यप्रणीतैषा संज्ञा `चर्करीतम्। इति। `पचति` इति। लट्प्रथमपुरुषस्यैकवचनम्। एतदप्युपलक्षणार्थमेव। वचनान्तराणामपि ह्यत्र ग्रहणम्। तेन `कृ` इत्येवमादिकमृकारान्तं यो लट्प्रथमपुरुषैकवचनादौ नये=चाकर्तीत्येवमादीनि रूपाणि प्रापयेत्, सम्पादयेदितय्रथः। `प्राप्तिज्ञं तमहं मन्ये` इति। प्राप्त जानातीति प्राप्तिज्ञः। इह तु रुगादीनां प्रकृतत्वात्? तत्प्राप्त यो जानाति स प्राप्तिज्ञो वेदितव्यः। मन्यं=अवगच्छा। `प्रारब्धस्तेन संग्रहणः` इति। अनेन प्राप्तितायां हेतुमाह। सम्यग्गृह्रते ज्ञापये लक्षणमनेनेति संग्रहः=व्याकरणशास्त्रम्। प्रकर्षेणारब्धः प्रारब्धः; बहुभ्यो बहुशः श्रवणात्। का पुनरसां प्राप्तिर्यत्परिज्ञानाय प्राप्तिज्ञमवगच्छामीत्याह - `तत्रेयम्` इत्यादि। द्वयमिह प्रकृतम् - अङ्गम्? अभ्यासश्चेति। ऋत इति विशेषणमुपात्तम्; तत्र यद्यप्युमयं प्रकृतं तथाप्यृत इत्येतदङ्गस्यैव विशेषणम्, नाभ्यासस्य। कुतः? तपरकरणसामर्थ्यात्। सर्वत्रैव ह्रभ्यासस्य `ह्रस्वः` [[7.4.59]] इति ह्रस्वत्वेन भवितव्यम्; अतो दीर्घस्याम्यासस्याभावात्। यदि `ऋतः` इत्येदभ्यासस्य विशेषणं स्यात्, तदा तपरकरणमनर्थकं स्यात्। तस्मात्? तपरकरणसामर्थ्यादङ्गस्यैव विशेषणमृत इत्येतत्, नाभ्यासस्य। एवञ्च सति किरतेरप्राप्तिः; रुगादीनां तपरकरणेन व्यावर्त्तितत्वात्। आदिशब्देन रिगादीनां परिग्रहः। `तथा चाप्राप्तिः किरते रुगादीनाम्` इति ब्राउवर्ततदुक्तं भवति - करोतिप्रभृतीनामेव ह्रस्वान्तानां परिशेष्यात्? प्राप्तिरिति॥", "74093": "`सन्यतः` [[7.4.79]] इत्यादिना सूत्रत्रयेण यदभ्यासस्य सनि कार्यं भवति तल्लघुनि चङ्पर इत्यतिदिश्यते। `लघुनि` `चङ्परे` इति। व्यधिकरणे सप्तम्यौ - चङपरे णौ परतो यत्? पूर्वं लघु तस्मिन्? परतो योऽभ्यासस्तस्य सन्वद्भवतीति। `चङपरे` इति बहुव्रीहिः - चङ्? परो यस्मादिति तच्चङ्परम्; न तु चङ्? चासौ परश्चेति तत्पुरुष। तेन सामर्थ्याण्ण्यन्तस्यैवायमतिदेशो विज्ञायते; अन्यथा हि यदि प्रकृत्यन्तस्यायमतिदेशः स्यात्, तदा `सन्वच्चङि` इत्येवं ब्राऊयात्। `अनन्लोपे` इति। `चङ्परे` इत्यस्यैतद्विशेषणम्। अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स यस्य नास्ति तदनग्लोपम्। `अपीपचत्` इति। पचेर्णित्, लुङ्, च्लेश्चङ्, उपधाह्रस्वत्वम्, द्विर्वचनमभ्यासकार्यम्, हलादिशेषे च कृतेऽनेन सन्वद्भावः, `सन्यतः` [[7.4.79]] इतीत्त्वम्, उत्तरसूत्रेण [[7.4.94]] दीर्घत्वम्। `अततक्षत्, अररक्षत्` इति। अत रेफतकारयोः संयोगपरत्वाद्? गुरुसंज्ञायां सत्यां न भवति सन्वद्भावः। `अजजागरत्` इति। अत्र जकाराकारस्य दीर्घत्वाद्गुरुत्वम्। `अत्र केचित्` इत्यादि। तेषां `अजीजागरत्` इति भवितव्यम्। किं पुनः कारं त एवमिच्छन्ति, यावता लघुनि चङ्पर इत्यच्यते, व्यवहितश्चात्र लघुनि चङ्परे? इत्यत आह - `सर्वत्रैव` इत्यादि। `अचीकरत्` इत्यादावपि ककारादिना वर्णेन व्यवधानाल्लघोरानन्तर्यमभ्यासे नास्ति; उच्यते चेदं वचनम्, अतो वचनप्रामाण्या द्वय्वधान एव सन्वद्भावेन भवितव्यम्। ततश्च यथा `अचीकरत्` इत्यादौ व्यवधानेऽपि भवति, तथेहापि व्यवधाने सन्वत्कार्येण भवितव्यम्। अथ चेद्व्यवधानान्न भवति, अत्रापि न स्यादिति भावः। `तदसत्` इति। `अजजागरत्` इत्यत्र गृशब्दं लघुमाश्रित्य यत्? सनवद्भावमिच्छन्ति, सर्वत्रैवेत्यादिना च यत्? कारणमुक्तम्, तदुभयमत्राशोभनम्; अयुक्तत्वात्। कथम्? इतयाह - `येन` इत्यादि। एकेन वर्णेन व्यवधानमस्ति सर्वत्र। वर्णसङ्घातेन व्यवधानमस्ति नास्ति च। तत्र `येन नाव्यधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) इति यन्नियतभाव्येकेन वर्णेन व्यवधानमशक्यं परिहर्त्तुम्, तदेवाश्रीयते, न तु वर्णसङ्गातेन। `अजजागरत्` इत्यत्र वर्णसङ्घातेन व्यवधानम्। यदि तर्हि वर्णसङ्घातेन व्यवधानं नाश्रीयते, व्यञ्जनसङ्घातेन व्यवधाने न सिद्धयति? इत्यभिप्रायेणाह - `कथमचिक्षणत्` इत्यादि। `क्षणु हिंसायाम्` (धातुपाठः-1465) इत्येतस्यैतद्रूपम्। अत्रापि ज्ञापकेन सिद्ध्यतीत्यत आह - `आचार्यप्रवृत्तिः` इत्यादि। क्षणोतिना ये सदृशाः संयोगादयस्त एवञ्जातीयाः। क्षणोतिप्रकारः इत्यर्थः। तेषां यदीत्त्वं न स्यात्, तदा तद्बाधनार्थं `अत्स्मृदृत्वरप्रथभ्रद` [[7.4.95]] इत्यादिनात्त्वं न विदध्यात्, विदधाति च। तस्मादेतदेवात्त्वविधानलक्षणमाचार्यप्रवृत्तिज्र्ञापयति - `भवत्येवञ्जातीयकानामित्त्वम्` इति। `अहं पपच` इति। उत्तमे णलि यदा <<णलुत्तमो वा>> [[7.1.91]] इति णित्त्वं नास्ति तदेदं प्रत्युदाहरणं भवति। अत्र लघुपरतोऽक्षरम्, न तु चङ्परम्। `अचकमत` इत्यादि। कमेश्चोपसंख्यानम्` (वा।208) इति `कमु कान्तौ` (धातुपाठः-443) इत्येतस्मात्? प्रकृत्यन्तादेव लुङ्, चङ्। `अचकथत्` इति। `कथ वाक्यप्रबन्धे` (धातुपाठः-1851) चुरादावदन्तः। अत्र <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः। अत्र त्वग्लोपस्य स्थानिवद्भावे सति व्यवधानेऽपि न स्यात्। अतः प्रत्युदाहरणान्तरमाह - `दृषदमाख्यदददृषत्` इति। `तत्करोति तदाचष्टे` (वा।200) इति णिच्। `णाविष्ठवत्? कार्यं प्रातिपदिकस्य` (वा।811) इतीष्ठवद्भावाट्टिलोपः। अत्राज्झलोर्लोपः, नाक एव केवलस्येति नास्त्यत्र स्थानिवद्भावः। अन्यार्थं त्वग्लोप इति क्रियमाणमचकथदित्यत्रापि सन्वद्भावं निवर्तयतीत्यस्योपन्यासः। `अवीवदत्` इति। वदतेण्र्यन्ताद्? वादितवन्तं प्रयोजितवानिति <<हेतुमति च>> [[3.1.26]] इति णिच्, पुनर्णिच्युत्पन्ने <<णेरनिटि>> [[6.4.51]] इति णिलोपे कृते सत्यप्यग्लोप्यङ्गं भवति, अतो न भवितव्यं सन्वद्भावेनेति यो मन्यते, तं प्रत्याह - `वादितवन्तं प्रयोजितवान्` इत्यादि। `चङ्परे` इत्यादिना णिलोपस्याग्लोपित्वेनानाश्रयणे कारणमाह। `चङपरे` इत्यनेन हि सन्वद्भावनिमित्तेन णिजातिराक्षिप्ता। तस्माद्गोबलीवर्दन्यायेन णिजातिर्निमित्तत्वेनाश्रीयते। अतो णिजातेरन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन परिगृह्रते, न तु तस्या एव णिजातेः। तस्माण्णिलोपस्याग्लोपित्वेनानाश्रयणात्? तल्लोपेऽग्लोप्यङ्गं न भवति। अतो भवत्येवात्र सन्वद्भावः। सन्वदित्यतिदेशेन यथाचीकरदित्यादावभ्यासस्येत्त्वं भवति तथामीमपदित्यादावप्यभ्यासलोपेन मीमादीनां भवितव्यमिति यश्चोदयेत्, तं प्रत्याह - `मीमादीनाम्` इत्यादि। आदिशब्देन ध्वादीनां ग्रहणम्। `किञ्च` इत्यादिना परीहारान्तरम्। सन्वदित्यतिदेशेन हि सनाश्रयणेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्? यत्? सनमपेक्षते, नापरं किञ्चित्। न च `अत्र लोपेऽभ्यासस्य` [[7.4.58]] इत्यनेन विधीयमानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन ध्वादीनां ग्रहणम्। `किञ्च` इत्यादिना परोहारान्तरम्। सन्वदित्यतिदेशेन हि सनाश्रयमेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्? यत्? सनमपेक्षते, नापरं किञ्चित्। न च `अत्र लोपेऽभ्यासस्य` [[7.4.58]] इत्यनेन विधीयभानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन - `अब्ज्ञप्यृधामीत्` [[7.4.55]] इतीत्त्वम्, `मुचोऽकर्मकस्य` [[7.4.57]] इति गुणश्च परिगृह्रते। तेन `अभीमपत्` इत्यादाविसादेशो न भवति। अभ्यासलोपेऽपि न भवतीत्यभिप्रायः॥", "74094": "", "74095": "`स्मृ चिन्तायाम्` (धातुपाठः-933), `दृ भये` (धातुपाठः-808), `ञि त्वरा सम्भ्रमे` (धातुपाठः-775), `प्रथ प्रख्याने` (धातुपाठः-1553), `म्रद मर्दने` (धातुपाठः-767), `स्तृञ्? आच्छादने` (धातुपाठः-1484), `स्पशबाधनस्पर्शनयोः` (धातुपाठः-887)। अथ `अददरत्` इत्यत्र <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घत्वं कस्मान्न भवतीत्याह - `तपरकरणसामर्थ्यात्` इत्यादि। अनेनैव हि लक्षणेन दीर्घो औव प्राप्नोति, यस्य निवृत्तिस्तपरकरणेन क्रियते; `भाव्यमानोऽण्? सवर्णान्? न गृह्णाति` (व्या।पा।35)। इति भाव्यमानानां सवर्णानामग्रहणात्? सर्वत्र स्थादिनो ह्रस्वत्वाच्च। तत्र यदि लक्षणान्तरेणापि प्राप्नुक्तो दीर्घस्य निवर्तकं तपरकरणं न स्यान्निरर्तकमेव तपरकरणं स्यात्। तस्मात्? तपरकरणसामर्थ्यादिति कृते <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घो न भवतीति भावः॥", "74096": "`वेष्ट वेष्टने` (धातुपाठः-255), `चेष्ट चेष्टायाम्` (धातुपाठः-256) - एतयोरभ्यासस्य लघुपरता नास्तीत्यप्राप्त एव सन्वद्भाव इति अनेन विभाषाऽकारो विधीयते॥", "74097": "`गण संख्याने` (धातुपाठः-1853) चुरादावदन्तः। तत्राकारात्? <<अतो लोपः>> [[6.4.48]] इति लोपे कृतेऽनग्लोप इति वचनादप्राप्तयोरेव सन्बद्भावदीर्घयोरिवमीत्वं विधीयते। चकारो विभाषेत्यनुकर्षणार्थः॥ इति बोधसत्त्वदेशीयाचायं श्रीजिनेन्द्रवुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां सप्तमाध्यायस्यचतुर्थः पादःसमाप्तश्च सप्तमोऽध्यायः- - -अष्टमोऽध्यायःप्रथमः पादः", "81001": "स्वरितलिङ्गासङ्गादधिकारत्वमस्यावगम्याह -`सर्वस्य` इत्यादि। `वक्ष्यामः` इति। व्याख्यास्याम इत्यर्थः। `प्राक्? पदस्य` [`पदस्य` इत्यतः प्राक् -काशिका] इति। `पदस्य` [[8.1.16]] इति वक्ष्यमाणो यो योगस्तस्मात्? प्रागिन्यर्थः। `पदस्य` [[8.1.16]] इति वक्ष्यमाणस्य योगस्यानुकरणमेतत्। विभक्तिस्त्वनुकार्यानुकरणयोर्भेदस्यादिवक्षितत्वादसत्यर्थवत्वे प्रातिपदिकत्वाभावान्न भवति, यथा -गवित्ययमाहेति। `सर्वस्य द्वे भवत इत्येवं तद्वेदितव्यम्` इति। इतिकरणोऽर्थनिर्देशार्थः। `सर्वस्य द्वे भवतः` इति योऽयमर्थः प्रतीयत एतदर्थरूपं तद्वक्ष्यमाणं वेदितव्यमित्यर्थः। `वक्ष्यति` इति। सूत्रकारः। `तत्र` इति। <<नित्यवीप्सयोः>> [[8.1.4]] इत्यत्र योगे। इह द्वौ पक्षौ सम्भवतः -स्थाने द्विर्वचनम्, द्विष्प्रयोगो द्विर्वचनञ्चेति। कथं कृत्वा? सर्वस्येति शब्दानुशासनप्रस्तावात्? सर्वस्य शब्दस्येति गम्यते। यद्? द्विशब्दश्चायं `आदशभ्यः संख्याः संख्येये वर्तन्ते` (हे।ग।90) इति संख्येयवचनः, तच्चेह संख्येयं शब्दरूपं वा स्यात्, आवृत्तिर्वा? `द्वे` इत्यपि निर्देशो नपुंसकलिङ्गेन वा स्यात्? स्त्रीलिङ्गेन वा? तत्र यदा नपुंसकलिङ्गेन निर्देशः, तदा शब्दरूपे संख्येये। यदि स्त्रीलिङ्गेन निर्देशा, तदा शब्दस्यावृत्ती उच्चारणलक्षणे क्रिये। तत्र यदा शब्दरूपे विधीयेते तदा सर्वस्येति स्थानषष्ठीयं सम्पद्यते; अनियतसम्बन्धत्वात्? <<षष्ठी स्थानेयोगा>> [[1.1.49]] इति न्यायात्। अस्मिन्? दर्शने `स्थाने द्विर्वचनम्` इत्येष पक्षो भवति। यदा तु द्वे आवृत्ती विधीयेते तदा `द्विष्प्रयोगो द्विर्वचनम्` इत्येष पक्षो जायते। अस्मिन्? दर्शने स्थान्यादेशभावो नास्ति। आवृत्तिर्हि क्रिया, तस्याश्चेह शब्दः साधनम्। न च क्रियायाः साधनस्य च स्थान्यादेशभाव उपपद्यते। यदि हि स्यात्, शब्दस्य स्थानिनो निवृत्तिधर्मत्वान्निवृत्तिरेव स्यात्; ततश्च क्रियाया अभाव एव स्यात्। न हि शब्देन विनोच्चारणक्रियोपपद्यते; तस्याः शब्दधर्मत्वात्। तस्माद्यदाद्वे आवृत्ती विधीयेते तदा `द्विष्प्रयोगो द्विर्वचनम्` इत्येष पक्ष उपजायते। अस्मस्तु पक्ष आवृत्तिशब्दापेक्षया सर्वस्येति `कर्त्तृकर्मणोः कृति` [[2.3.65]] इति कृद्योगलक्षणा कर्त्तृषष्ठी वेदितव्या। सर्वो हि शब्द आवर्त्त्यमान एवावृत्तिक्रियायाः कर्ता भवति। अवाद्यां पक्षमाश्रित्यैतदुक्तम् -सर्वस्य स्थाने द्वे भवत इति। कथं पुनः स्थाने द्विर्वचनपक्ष आश्रितः? कथं पुनर्नाश्रयितव्यः? सदोषत्वात्। स्थाने द्विर्वचने पुनः -आलिट्च्छवलिट्, दाग्वागिति <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यसिद्धत्वात्? पूर्वं ढत्वादिभ्यो द्विर्वचने कृते ढत्वादयोऽत्र न सिद्ध्यन्ति; अपदान्तत्वात्? नैष दोषः; वक्ष्यति ह्रेतत् -`पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।दृ।70) इति। अपि च नित्येऽर्थे वीप्सायाञ्च यः शब्दो वर्तते तस्य द्विर्वचनं विधीयते, न च ढत्वादिष्वकृतेषु नित्यादावर्थे पदस्य वृत्तिरुपपद्यते। तस्मात्? पूर्वं ढत्वादिभिरेव भवितव्यम्; पश्चाद्द्विर्वचनेनेत्येष क्रमः। इह तर्हि विसंविसम्, मुसलम्भुलमित्यत्र <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वं प्राप्नोति? अयमप्यदोषः; यस्मादादेशो यः सकारस्तस्य षत्वं विधीयते, न ह्यत्रादेशः सकारः, किं तर्हि? तदवयवः। इह तर्हि नृभिर्नृभिरित्यत्र <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वं प्राप्नोति? एषोऽप्यदोषः; कार्यिणो नकरस्य रेफादिना निमित्तेन यदा सर्वदा समानपदस्थत्वमेवं सति णत्वेन प्राप्नोति? एषोऽप्यदोषः; कार्यिणो नकारस्य रेफादिना निमित्तेन यदा सर्वदा समानपदस्थत्वमेवं सति णत्वेन भवितव्यमित#इ। किं वक्तव्यमेतत्? न; कथं तर्हि अनुच्यमानं लभ्यते? समानग्रहणसामर्थ्यात्। यदि हि यत्र समानपदस्थत्वमसमानपदत्वञ्च तत्रापि स्यात्, समानग्रहणमनर्थकं स्यात्। नृभिरिति शब्दस्य नकारस्य द्विर्वचन एव कृते रेफेण निमित्तेन समानपदस्थत्वम्, नाऽकृते। तस्माददुष्ट एव स्थाने द्विर्वचनपक्ष इति युक्त एवाश्रयितुम्। `के द्वे` इति। एवं मन्यते -विशिष्टे द्वे एवेष्येते, इह च विशेषानुपादानादनियमेन ये केचन शब्दरूपे अप्नुत इति। <<स्थानेऽन्तरतमः>> [[1.1.50]] इति परिभाषया व्यवस्था भवितव्यतीत्यनेनाभिप्रायेणाह -`ये शब्दतश्च` इत्यादि। इह केषाञ्चित्? शब्दानां शब्दत एवान्तरतम्यम्, यथा -बिभीतकादिवाचिनामक्षादिशब्दानाम्। केषाञ्चिदर्थत एव, न शब्दतः, यथा -तरुपादपादिशब्दानाम्। केषाञ्चिदुभयत एव, यथा -द्वयोः पजतिशब्दयोस्तिङतयोः। ततोभयथा यत्रान्तरतम्यमस्ति तत्र यथा स्यादित्येवमर्थमुभयोग्र्रहणम्। एतच्च `स्थानेऽन्तरतमः` (1।150) इति परिभाषायास्तमब्ग्रहणाल्लभ्यते। ते एवोभयथाऽन्तरतमे दर्शयितुमाह -`एकस्य` इत्यादि। अथ <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इति स्वरूपग्रहणाद्द्विशब्दादेश एव कस्मान्न भवति? द्विर्वचनेन निर्देशात्। स्वरूपग्रहणे तु सति द्विशब्दादेशप्रसङ्गः। यतश्चायं `तस्य परमाभ्रेडितम्` [[8.1.2]] , `अनुदात्तञ्च` [[8.1.3]] इत्याह, ततो, विज्ञायते -न द्विशब्दादेश इति। द्विशब्दादेशे हि सति भेदनिबन्धनत्वात्? परस्य द्विशब्दस्य चाभिन्नत्वात्? परत्वमेव तावन्न द्विशब्दादेशे स्यात्, कुतः पुनराम्रेडितसंज्ञा, अनुदात्तत्वञ्च? यदि च द्विशब्द आदेशः स्यात्, <<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इत्यनुवर्तमाने <<नाम्रेडितस्यान्त्यस्य तु वा>> [[6.1.99]] इत्याम्रेडितावयवस्याच्छब्दस्य पररूपत्वप्रतिषेधो नोपपद्यते, न द्विशब्दस्याच्छब्दोऽवयवोऽस्ति। एतेन सर्वशब्दस्यापि स्वरूपग्रहणं प्रतिक्षिप्तम्। यदि हि सर्वशब्दस्य स्वरूपग्रहणं स्यात्, तस्यैव हि द्विर्वचनं स्यात्। ततश्च पूर्ववदाम्रेडितसम्बन्धिनोऽच्छब्दस्य पररूपत्वप्रतिषेधो नोपपद्यते, <<नित्यवीप्सयोः>> [[8.1.4]] इत्यत्र नित्यग्रहणं चानर्थकं स्यात्। तत्र हि नित्येऽर्थे वीप्सायां च वर्तमानस्य द्विर्वचनं विधास्यते। न च सर्वशब्दस्य नित्येऽर्थे वृत्तिरस्ति, तिङ्क्षु नित्यता; `अव्ययकृत्सुच्सुप्सु वीप्सा` इति वचनात्। तस्मात्? सर्वस्येत्यत्रार्थग्रहणम्। सर्वशब्दोऽयमिह सकले कलावति वर्तते, तेन पचतीत्यादेः कृत्स्नस्य शब्दस्य द्विर्वचनं भवतीत्यलमतिप्रसङ्गेन। एवं तावत्? स्थाने द्विर्वचनपक्षमाश्रित्य `सर्वस्य स्थाने द्वे भवतः` इत्युक्तम्। इदानीम्? `द्विष्प्रयोगो द्विर्वचनम्` इति पक्षमाश्रित्याह -`यदा तु` इत्यादि। तुशब्दः पूर्वस्मात्? पक्षाद्विशेवस्य प्रदर्शकः, तत्रान्तरतम्येन द्वे शब्दरूपे आदिश्येते। इह तु स एव शब्दो द्विरावर्त्त्यते, द्विरुच्यत इत्यर्थः। `द्वे आवृत्ती भवतः` इति। द्वे उच्चारणाक्रिये भवत इत्यर्थः। कथं पुनः `द्विष्प्रयोगो द्विर्वचनम्` इति पक्ष आश्रयितव्यः? कथं च नाश्रयितव्यः? सदोषत्वात्। द्विष्प्रयोगे हि -`आम्? पचसि पचसि देवदत्त` इत्यत्र <<आम एकान्तरमामन्त्रितमनन्तिके>> [[8.1.55]] इति निघातप्रतिषेधो न प्राप्नोति; आमन्त्रितस्य पदद्वयेन व्यवधानादेकान्तरताया अभावात्। स्थाने पुनर्द्विर्वचने ह्रेकपदस्यायमादेश इति सत्यप्यादेशस्य स्वगते भेदे स्थानिवद्भावादेकत्वव्यपदेशे सत्येकीवितरती भवतीति निघातप्रतिषेधः सिध्यति? नैष दोषः; धर्मभेदादुपचरितो हीह भेदः, स्वगतस्त्वभेद एव; अन्यथा वृत्तिरेव न स्यात्। एकस्यैव हि वस्तुन आवृत्तदिः क्रियते। तस्माद्भिन्नत्वाद्वस्तुन इहैव सुनरमेकान्तरता सिध्यति। इह तर्हि पौनःपुन्यमिति? अत्र `गुणवचनब्राआहृणादिभ्यः कर्मणि च` [[5.1.124]] इति ष्यञ्? न प्राप्नोति, पौनःपुनिक इत्यत्र च <<कालाट्ठञ्>> [[4.3.11]] इति ठञ्? न प्राप्नोति; अप्रातिपदिकत्वात्। अप्रातिपदिकत्वं त्वर्थवत्समुदायानां समासस्यैवेति समासग्रहणस्य नियमार्थत्वात्। स्थाने द्विर्वचने पुनर्यद्यपि सुबन्ततया स्वाश्रया प्रातिपदिकसंज्ञा नास्ति, तथापि स्थानिवद्भावात्? प्रातिपदिकग्रहणे ग्रहणात्? प्रातिपदिकं भवति। यद्यपि चास्य स्थानी प्रत्ययलक्षणेन सुबन्तः; तथाप्यप्रत्ययः [[1.2.45]] इति प्रातिपदिकसंज्ञायाः प्रतिषेधो न भवति; प्रातिपदिकसंज्ञायाः प्रत्ययलक्षणेताप्रत्यय [[1.2.45]] इति प्रतिषेधो न भवतीत्यस्यार्थस्य <<न ङिसम्बुद्ध्योः>> [[8.2.8]] इत्यनेन ज्ञापितत्वात्। द्विष्प्रयोगे द्विर्ववसेऽपि न दोषः। अत्र समासग्रहणं हि तुल्यजातोयस्यैव प्रातिपदिकसंज्ञां निवर्तयति। कश्च तुल्यजातीयः? यस्य भेदसंसर्गद्वारेण समुदायार्थ उपजायते। कस्य चैवं विधोऽर्थं उपजायते? वाक्यस्य। नित्यादिश्चायमर्थः पदादस्थायां न दृष्ट एव। द्विरुक्तिकाले दृश्यमानः पदान्तरेण न भिद्यते, नापि संसृज्यत इति कुत एवम्प्रकारस्य समासग्रहणान्निवृत्तिः। अथ वाऽऽचार्यप्रवृत्तिज्र्ञापयति -भवत्येवंजातोयेभ्यस्तद्वितोत्पत्तिरिति, यदयं कस्यादिषु कौतस्कुतशब्दं पठति। कुतः कुत आगत इति <<अव्ययात्त्यप्>> [[4.2.104]] इति त्यपि प्राप्तेऽस्मादेव निपातनादण्। सर्वस्येति वचनमिह <<अलोऽन्त्यस्य>> [[1.1.52]] निवृत्त्यर्थं वा स्यात्? षष्ठर्थप्रतिपत्त्यर्थ वा? तत्र त्वलोऽन्त्यनिवृत्त्यर्थं तावन्नोपपद्यते। तथा हि -शब्दतश्चार्थतश्चान्तरतमाभ्यां द्वाभ्यां शब्दरूपाभ्यां भवितव्यम्। ये चैवम्प्रकारे ते नियोगतोऽनेकाल्स्वरूपे इत्यन्तरेणापि सर्वग्रहणेन <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति। सर्वस्यैव भविष्यतः, नान्त्यस्य। षष्ठर्थप्रतपत्त्यर्थमपि सर्वग्रहणं नोपपद्यते। तथा हि -यत्र तावत्? षष्ठ्युच्चार्यते <<परेर्वर्जने>> [[8.1.5]] इत्यादौ, तत्र षष्ठ्युच्चारणादेव षष्ठर्थस्य प्रतिपत्तिर्भविष्यति। `नित्यवीप्समोः` [[8.1.4]] इत्यत्र यद्यपि षष्ठी नोच्चार्यते, तथापि सर्वस्येति वचनमन्तरेणापि शक्यते षष्ठर्थोऽवगन्तुम्। कथम्? `द्वे` इति ह्रादेशनिर्देशः, आदेशश्च सम्बन्धिनमपेक्षते, <<नित्यवीप्सयोः>> [[8.1.4]] इति चार्थनिर्देशाः; न चार्थनिर्देशे स्थान्यादेशसम्बन्ध उपपद्यते। तस्मान्नित्यदीप्सयोर्यः शब्दो वर्तते तस्य द्वे भवतः -इत्येवं वाक्यार्थः स्थाने द्विर्वचनपक्षे तावदवगम्यते। यदा `द्विष्प्रयोगो द्विर्वचनम्` तदापि विना सर्वस्येति वचनेन षष्ठर्थोऽवगम्यत एव। एवं ह्रावृत्तिर्हि क्रिया, तस्या अवश्यं साधनेन सम्बन्धिना भवितव्यम्; तदायत्तत्वादात्मलाभस्य क्रियायाः। तस्माद्यत्तस्याः क्रियायाः साधनं तस्य द्वे भवत इति विल्पष्टैव षष्ठर्थप्रतिपत्तिर्भवतीत्यभिप्रायेणाह -`सर्वस्येति किम्` इति। `विस्पष्टार्थम्` इति। य एवं न शक्नोति सर्वादेशं षष्ठर्थं वा प्रतिपत्तुम्, तं प्रति सुखप्रतिपत्तये सर्वस्येत्युच्यत इति भावः। `अथ` इत्यादि। एवं मन्यते -`पदस्य` इत्युच्यमाने समासतद्धितवाक्यानां द्विर्वचननिवृत्तिः कृता भवति; उत्तरत्र च `पदस्य` [[8.1.16]] इति वक्तव्यं न भवति। एतदेव हि `पदस्य` इति वचनं तत्रानुवर्तयिष्यते। अनुच्यमाने `पदस्य` इत्येस्मिन्, समासस्यापि द्विर्वचनं स्यात् -पर्वणिपर्वणि सप्तसप्त पर्णान्यस्य सन्तीति सप्तपर्ण इति; तद्धितस्यापि द्वौ द्वौ पादौ ददाति `पादशतस्य संख्यादेः` [[5.4.1]] इत्यादिना वन् -द्विपदिकां ददातीति; वाक्यस्यापि -ग्रामेग्रामे पानीयमिति। पदस्य` [[8.1.16]] इति चोत्तरत्र न वक्तव्यं भवति। `नैवं शक्यम्` इति। अत्र कारणमाह -`इह हि` इत्यादि। `प्रपचति` इति। वाक्यमेतत्, पदसमुदायात्मकत्वात्। अत्र `पदस्य` इत्युच्यमानेऽस्य द्विर्वचनं न स्यात्। तस्मादशक्यं पदस्येति वक्तुम्। सप्तपर्णः, द्विपदिकां ददातीत्यत्र तु पदस्येत्युच्यमाने द्विर्वचनं न भविष्यति; समासतद्धिताभ्यामेवोक्तत्वात्। वीप्सायां ग्रामेग्रामे पानीयमित्यत्रापि न भविष्यति; अवयवद्विर्वचनेनैव वीप्साया द्योतितत्वादित्यभिप्रायः। `इह` इत्यादि। `द्रूह जिधांसायाम्` (धातुपाठः-1197), ततस्तृच्, द्रुह्+तृ इति स्थिते घत्वढत्वे प्राप्नुतः, द्विर्वचनं च, तत्र <<पूर्वत्रासिद्धम्>> [[8.2.1]] इति द्विर्वचने कर्तव्ये यत्वढत्वयोरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं पूर्वं प्राप्नोति। कृते तस्मिन्? पश्चात्? `वा द्रुहमुहष्णुष्णिहाम्` [[8.2.33]] इति विकल्पे सत्यनिष्टमपि प्राप्नोति। नावश्यमिष्टमेव यद्ययं नियमो लभ्यते। यदैकस्य धत्वं भवति तदा द्वितीयस्यापि घत्वेन भवितव्यम्, यदा त्वेकस्य ढत्वं तदा द्वितीयस्यापि ढत्वेन भवितव्यमिति तदेष्टमेव स्यात्। न त्वेष नियमो लभ्यते; नियमकारणाभवात्। तस्मात्? कदाचिदनिष्टमपि स्यात्। तत्र यदा पूर्वोत्तरयोरेकस्य घत्वं भवत्यपरस्य ढत्वम्, तदानिष्टमपि प्राप्नोति। यदोभयोरपि घत्वं ढत्वं वा भवति, तदेष्टं स्यात्? तस्मादनिष्टनिवृत्त्यर्थम्? `पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इति वक्तव्यम्। <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यस्मिन्नधिकारे भवं पूर्वत्रासिद्धीयं नलोपादिकार्यम्। गहादित्वाच्छः [[4.2.137]] , ततो द्विर्वचनादन्यत्रासिद्धं भवति, न तु द्विर्वचने। अथ वा -पूर्वत्र सपादसप्ताध्याय्यामसिद्धं पूर्वत्रासिद्धम्, तदेव नलोपादिकार्यम्, तत्र भवं पूर्वत्रासिद्धीयम्। तत्? पुनस्तस्यैव नलोपादेरसिद्धत्वम्, तद्द्विर्वचनादन्यस्मिन्? कर्तव्ये भवति, न तु द्विर्वचन एव। एतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -<<न मु ने>> [[8.2.3]] इत्यत्र नेति यचोगविभागः कर्तव्यः, तेन द्विर्वचने कर्तव्येऽसिद्धत्वं न भविष्यतीति। असति चासिद्धत्वे द्रूहेस्तृचि कृते पूर्वं विकल्पेन घत्वम्, `झषस्तधोर्घोऽधः` [[8.2.40]] इति धत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम् -धकारस्य गकारः, ततो द्विर्वचनम् -द्रोग्धाद्रोग्योति। यदा तु घत्वं नास्ति तदा `हो ढः` [[8.2.31]] इति ढत्वम्, पूर्ववद्धत्वम्। ष्टुत्वञ्च, <<ढो ढे लोपः>> [[8.3.13]] इति पूर्वढकारलोपः, ततो द्विर्वचनम् -द्रोढाद्रोढेति; इष्टमेव सिध्यति। यदि तर्हि `पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इत्येतद्वक्तव्यम्; तदा <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यत्र औजढवित्यस्य सिद्धये यद्वक्ष्यति -`ढत्वष्टुत्पढलोपादीनामसिद्धत्वाण्णौ यष्टिलोपस्तस्य स्थानिवद्भावाद्? हत्? इत्येतद्द्विरुच्यते` इति -तद्धिरुध्यते? न#आस्ति विरोधः; `पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इत्यस्यासर्वविषयत्वात्। कथं विज्ञायते? <<उभौ साभ्यासस्य>> [[8.4.21]] इत्यस्य सूत्रस्यारम्भात्। यदि हि `पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इत्येतत्? सर्वविषयकं स्यात्, एवं सति `अनितेः` [[8.4.19]] इत्यनेन कृतणत्वस्य द्विर्वचनेन भवितव्यमिति सिद्धम् -प्राणिणिषतीत्यादिकं रूपम्, किम्? <<उभौ साभ्यासस्य>> [[8.4.21]] इत्येनेन सूत्रारम्भेम? आरब्धञ्च, ततो ज्ञापते, पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इत्येतदसर्वविषयमिति। यस्तु मन्यते -आष्टमिकं द्विर्वचनमभिप्रेत्यैतद्वक्यव्यमिति, तदयुक्तम्; तस्य `सुविनिर्दुभ्र्यः सुपिसूतिसमाः` [[8.3.88]] इत्यत्र विषुषुपुरित्यस्य सिद्ध्यर्थं यद्वक्ष्यति -`षुपिभूतो द्विरुच्यते` इति; तद्विरुध्यते; यदि हि षष्ठिके द्विर्वचने कर्तव्ये षत्वस्यासिद्धत्वं नास्ति, एवं षुपिभूतस्य द्विर्वचनं लभ्यते, नान्यथा। तस्मात्? पूर्व एव परीहारः साधुः। `सर्वस्येतद्वा` [`सर्वस्य` इत्येतदेव -काशिका, पदमञ्जरी च] इति। वाशब्दः पूर्वप्रयोजनापेक्षया विकल्पार्थः। अथ वा -नैवम्, विस्पटार्थ सर्वग्रहणम्। किं तर्हि? कृतसर्वकार्यस्य प्रतिपत्त्यर्थ कृतम्। सर्वं ढत्वादिकार्य यस्य तस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थं सर्वग्रहणं द्रष्टव्यम। एतत्? कथम्? सर्वशब्दोऽयं मत्वर्थीयाकारप्रत्ययान्तः -सर्वं कार्यमस्यास्तीति सर्वः, अर्शाअदित्वादच्? [[5.2.126]] , तेन कृतसर्वकार्यस्य द्विर्वचनं भवतीत्युक्तं भवति॥", "81002": "`तस्य` इत्वयवषष्ठी। तस्य द्विरुक्तस्य यत्? परमवयवभूतं शब्दरूपं तस्याभ्रेडितसंज्ञा विधीयते। अथ द्विष्प्रयोगद्विर्वचनपक्षे कथं परमिति व्यपदेशः? कथञ्च न स्यात्? तस्य भेदनिबन्धनत्वात्। परव्यपदेशो हि भेदनिबन्धनः। न च द्विष्प्रयोगद्विर्वचनपक्षे शब्दभेदोऽस्ति, आवृत्तिमात्रं हि तत्र भिद्यते, न शब्दः? नैष दोषः; अभिन्नस्यापि शब्दस्य धर्मभेदादौपचारिकमन्यत्वं भविष्यति। भवति हि धर्मभेदादभिन्नेऽपि वस्तुनि भेदव्यवहारः। तथा हि वक्तारो वदन्ति -परुद्भवान्? पटुरासीत्? पटुतरश्चैषमोऽन्य एवासि संवृत्त इति। `चौर चौर` इति। <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुलोपः, `वाक्यादेरामन्त्रितस्य` [[8.1.8]] इत्यादिना भत्र्सने द्विर्वचनम्, `आर्म्रेडितं भत्र्सने` [[8.2.95]] इति प्लुतः। `दस्यो दस्यो` इति। <<सम्बुद्धौ च>> [[7.3.106]] इति गुणः। अथ तस्यग्रहणं किमर्थम्, यावता `द्वे` इत्यनुवर्त्तिष्यते, तत्रैवं विज्ञायते -द्वयोर्यत्? परमिति? नैवं शक्यम्; <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यत्रापि परमाम्रेडितसंज्ञं स्यात्। तस्यग्रहणे सति यत्रैतद्वक्ष्यमाणं द्विर्वचनं तस्य परमिति विज्ञायते। तेन न भवत्यतिप्रसङ्गः। आम्रेडितमिति महत्याः संज्ञायाः करणमन्वर्थसंज्ञाविज्ञानार्थम्। आम्रेडत आधिक्येनोच्यत इत्याम्रेडितम्। तेनेहापि भवति -अहो दर्शनीया अहो दर्शनीया, मह्रं रोचते मह्रं रोचत इति। दर्शनीयत्वस्य रुचेश्चाधिक्यं द्योतयितुमत्र द्रष्टव्यं द्विर्वचनम्। एतदेव महत्याः संज्ञायाः करणं ज्ञापकम् -आधिक्याभिधाने द्विर्वचनं भवतीति॥", "81003": "प्रकृतिस्वरे प्राप्ते परस्यानुदात्तत्वमुच्यते। अनुदात्तशब्दश्चात्र परशब्दसामानाधिकरण्यान्न शास्त्रीयमनुदात्तमाह, किं तर्हि? अन्वर्थो विज्ञायते -अविद्यमानमुदात्तमनुदात्तमिति। शास्त्रीये ह्रनुदात्ते गृह्रमाणे सम्बन्धार्थं परस्यैति षष्ठ्युच्चारयितव्या स्यात्। तथा च <<अलोऽन्त्यस्य>> [[1.1.52]] स्यात्। अथापि सर्वस्येत्यनुवर्तत, एवमपि वचनप्रामाण्यादेककाल एव सर्वादेशः प्रसज्येत। तस्मादन्वर्थस्यैव ग्रहणं युक्तम्। `भुङक्तेभुङ्क्ते` इति। <<भुजोऽनवने>> [[1.3.66]] इत्यात्मनेपदम्। तस्मिन्? कृते सति शिष्टस्वरत्वाद्धातुस्वरं बाधित्वा प्रत्ययस्वरः। श्नमि कृते यद्यपि तस्य स्वरः सतिशिष्टः, तथापि `विकरणस्वरः सार्वधातुकस्वरं न बाधते` इति तेशब्द एव स्वरे प्रसक्ते <<तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः>> [[6.1.186]] इति सार्वधातुकस्यानुदात्तत्वम्, श्नसोरल्लोपे कृते <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इति पुनस्तेशब्द उदात्तः, नित्ये चार्थे द्विर्वचनम्, तस्मिन्? कृतेऽनेन परमनुदात्तं भवति। `पशून्पशून्` इति। `कुभ्र्रश्च` (द।उ।1-107) इत्यत `कुः` इत्यनुवर्तमाने `अर्जिवृशिकसम्यमिपशिबाध#आमृजिपशितुग्धुग्दीर्घहकाराश्च` (द।उ।1।112) इति कुप्रत्ययः, दृशे पशिरदिशश्च। पशृशब्दः प्रत्ययस्वरेणान्तोदात्तः, विभक्त्यकारेण सहैकादेशः, <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] वीप्सायां द्विर्वचनम्, अनेन परस्यानुदात्तत्वम्॥", "81004": "`नित्ये चार्थे वीप्सायाञ्च` इति। अनेन `नित्यदीप्सयोः` इति सप्तमीयमर्थनिर्देशार्था, न तु षष्ठीयमिति दर्शयति। यदि ह्रेषा षष्ठी स्यात्, तदा स्वरूविधिः प्रसज्येत, ततश्च `नित्यं क्रोडाजीविकयोः` [[2.2.17]] इति, `पादशतस्य संक्यादेर्वीप्सायाम्` [[5.4.1]] इत्यादिनिर्देशो नोपपद्यते। इह नित्यशब्दोऽयं सर्वकालभादिनो य आत्माकाशादयः, यषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो लोके दृश्यते -नित्य आत्मा, नित्यमाकाशम्, नित्या द्यौरिति। आभीक्ष्ण्येऽपि -नित्यं प्रहसितः, नित्यं प्रजल्पित इति। तत्र यदीह सामान्येन तत्र नाम नित्यताऽभिधेयभावेन वर्तते तस्य नित्यार्थवाचिनो ग्रहणं स्यात्, आत्माकाशादिशब्दानामपि द्विर्वचनं प्रसज्येत -इत्येनेनाभिप्रायेणाह -`केषु नित्यता` इति। इतरो विदिताभिप्राय आह -`तिङ्क्षु नित्यताऽव्ययकृत्सुण` इति। अव्ययानि च तानि कृन्ति चेति कर्मधारयः। यद्यप्यात्माकाशादिशब्देष्वपि सर्वकालभावित्वलक्षणा नित्यताऽभिधेयभावेन वर्तते, तथापीह भावप्रधानेषु तिङ्क्ष्वव्ययकृत्सु चाभीक्ष्ण्यलक्षणा या नित्यता सैवाश्रीयते। अतोऽतिप्रसङ्गो न भवतीति भावः। ननु च नित्यशब्दोऽयं सामान्यवचनः। न च सामान्यशब्दाः प्रकरणादिकमन्तरेण विशेषेऽवस्थातुमुत्सहन्ते। न चेह तथाविधं किञ्चित्? प्रकरणादिकमस्ति, यतो विशेषेऽवस्थानं स्यात्, तत्कुतो नित्यताविशेषपरिग्रहो लभ्यते? इति मन्यमान आह -`कुत एतत्` इति। आभीक्ष्ण्यमिह नित्यतेत्याश्रीयत इति शेषः। व्याप्तेराभीक्ष्ण्यवचनस्य नित्यशब्दस्य ग्रहणादिहाभीक्ष्ण्यलक्षणा नित्यताऽऽश्रीयते, पदस्य हि द्विर्वचनमुच्यते। तच्च पदं सुबन्तं तिङन्तं च, तत्र सुप्सु दीप्सेति वक्ष्यति। यदि च नित्यशब्दोऽयं कूटस्थवचनो गृह्रते, ततश्च कूटस्थमिति सुबन्तेष्वभिधेयभावेन वर्तत इति सुबन्थानामेव द्विर्वचनं स्यात्, न तिङन्तानाम्, नाप्यव्ययकृताम्। आभीक्ष्ण्यवचनस्य तु नित्यशब्दस्य ग्रहणे सति नित्यलक्षणद्विर्वचनमाख्यातानामव्यकृतां च भवति। वीप्सालक्षणञ्चान्येषामिति सर्व पदजातमनुगृहीतं भवति। तस्माद्वयाप्तेराभीक्षण्यवचनस्य नित्यशब्दस्य ग्रहणादिह `आभीक्ष्ण्यं नित्यता` इत्युपपन्नं भवति। `आभीक्ष्ण्यमिह नित्यता` (इति)। सा च तिङ्क्ष्वव्ययकृत्सु चेति। कुत एतत्? इत्याह -`आभीक्ष्ण्यं च` इत्यादि। आभीक्ष्ण्यं हि पुनः पुनः प्रवृत्तिः। तच्च साध्यरूपायाः क्रियाया एव सम्भवतीति तस्या एव धर्मः, न तु द्रव्यस्य; तस्य सिद्धरूपस्यैव सुबन्तेनाभिधानात्। सा च क्रिया तिङन्तादिभिरेवाभिधीयत इति तेष्वेव नित्यता। कीदृशी पुनः सा क्रिया? आभीक्ष्ण्यलक्षणेन या नित्यत्वेन योगान्नित्यशब्देनोच्यते, इत्याह -`याम्` इत्यादि। `अनुपरमन्` इति। `विरतिमकुर्वन्` इत्यर्थः। `तन्नित्यम्` इति। तत क्रियारूपं वस्तु नित्यमित्यर्थः। `प्राधान्येन` इति। यदुद्दिश्य क्रियाप्रवृत्तिस्तत्? प्रधानम्, तस्य भावस्तथा। यद्यपि ग्रामं गन्तुमिच्छन्? वृक्षमूलोपसर्वणं पुनः पुनः करोति, तथापि न तन्नित्यमिति। एतदुक्तं भवति -न ह्रसौ प्राधान्येन तत्करोति; तदुद्दिश्याप्रवृत्तेः। तेन ग्रामं गच्छन्? वृक्षमूलान्युपसर्पतीत्यत्र सत्यप्यामभीक्षण्ये द्विर्वचनं न भवति। `यां क्रियाम्` इत्यनेन हि क्रिया धर्मिणी दर्शिता। `अनुपरमन्? करोति` इत्यनेनापि तस्या आभीक्षण्यं धर्मः। `पचतिपचति` इति। तिङन्तस्योदाहरणम्। `भुक्त्वाभुक्त्वा, भोजंभोजम्` इति। अत्र `आभीक्षण्ये णमुल्च` [[3.4.22]] इति क्त्वाणमुलौ। `लुनीहिलुनीहि` इति। `क्रियासमभिहारे` [[3.4.2]] इत्यादिना लोट्, तस्य हिरादेशः, `लोट्धर्माणौ हिस्वो भवतः` इति [[3.4.2]] तत्रोक्तम्, तेन विकरणम्, [`विकरणः` -प्रांउ।पाठः] `ईहल्यघोः` [[6.4.113]] इतीत्वम्। एतानि त्रीण्यव्ययकृतामुदाहरणानि। एषां क्त्वादीनां <<कृदतिङ्>> [[3.1.93]] इति कृत्संज्ञा। अव्ययसंज्ञा तु क्त्वाप्रत्ययस्य <<क्त्वातोसुन्कसुनः>> [[1.1.40]] इति। णमुलस्तु <<कृन्मेजन्तः>> [[1.1.39]] इति। लोटस्तु स्वरादिष्वाभीक्षण्यस्य पाठात्। ननु चैते क्त्वाणमृल्लोटश्चाभीक्ष्ण्य एव विधीयन्ते, तत्र यथा पापच्यत इति क्रियासमभिहारे विधीयमानेन यङा पौनःपुन्यस्य प्रकाशितत्वाद्द्विर्वचनं न भवति, तथा कत्वादिभिरपि तस्य प्रकाशितत्वान्न भवितव्यम्। अथ प्रकाशितेऽपि तस्मिस्तु तद्भवति, पापच्यत इत्यत्रापि स्यात्? इत्यत आह -`कत्वाणमुलोः` इत्यादि। भिन्ना हि भावानां शक्तयः। तथा हि -यामेव क्रियां भारोद्बहनादिकां कश्चित्? सहायसापेक्षः करोति, तामेवान्यः सहायनिरपेक्षः, तस्माद्यद्यपि चाभीक्ष्ण्ये क्त्वा णमुल्लोट्? च विधीयते, तथापि तैर्नैवाभीक्ष्ण्यभिव्यक्तं भवति। द्विर्वचनसापेक्षाणामेव तेषां पौनःपुन्यप्रकाशने शक्तिः, न केवलानाम्। तेन भवत्येव तदन्तस्य द्विर्वचनम्; यङन्तु द्विर्वचननिरपेक्षस्यापि पौनःपुन्याभिव्यक्तौ सामर्थ्ययमस्तीति तेनैवाभीक्षण्यस्य द्योतितत्वात्? पापण्यत इत्यत्र न भवति। आभीक्ष्ण्यप्रकाशनाय हि द्विर्वचनमुच्यते, एतच्च यङैव प्रकाशितमिति किं द्विर्वचनेनननु च यङन्तस्यापि क्वचिद्द्विर्वचनमिष्यत एव, तच्च यङो द्विर्वचननिरपेक्षस्य यौनःपुन्यप्रकाशने शक्तौ सत्यां न सिद्ध्यति? इत्याह -`यदा तु` इत्यादि। द्विप्रकारः क्रियासमभिहारः पौनःपुन्यम्, भृशार्थश्च। तत्र यदा यङन्तेन द्विर्वचनं भवति तदा भृशार्थे यङ्। द्विर्वचनं तु नस्यैव भृशार्थस्य धर्मे पौनापुन्ये, न हि तद्यङा प्रकाशितम्; तस्य भृशार्थे विदितत्वादित्यभिप्रायः। `क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम्। इति। अत्र यद्यपि क्रियासमभिहारशब्दः सामान्यः, तथापि सामर्थ्यादभृशार्थलक्षणा एव क्रियासमभिहारे तस्य वृत्तिर्विज्ञायते, न हि पौनःपुन्येऽन्यस्य पौनःपुन्यस्य सम्भवोऽस्ति। अथ कथं पौनःपुन्ये यङ्? भवति? कथं च न स्यात्? द्विर्वचनेनापदादेन बाधितत्वात्। यङः कोऽवकाश इति चेत्? भृशार्थ एव? नैष दोषः; पदस्य हि द्विर्वचनमुच्यते, धातोश्च यङ्। तथा कार्यिणोरतिभेदात्? कुतो बाधा`नित्यवीप्सयोः` इत्युक्तम्, तत्र नित्यता तिङ्क्ष्वव्ययकृत्सु चेत्युक्तम्। वीप्सा तु न विज्ञायते -क्वाभिधेयभावेन वर्तते? इति, अतस्तत्परिज्ञानार्थं पृच्छते -`अथ केषु वीप्सा` इति। इतरो विदिताभिप्राय आह -`सुप्सु वीप्सा` इति। सुपामेव तदभिवयक्तौ सामर्थ्यात्। यदि सामान्येन व्याप्तुमिच्छा वीप्सा तदा चिकीर्षाशब्दस्यापि द्विर्वचनं प्राप्नोति, तस्य करोतिक्रियया कटादेव्र्याप्तुमिच्छा तत्र वृत्तिरिति मन्यमान आह -`का पुनर्वीप्सा` इति। `व्याप्तिविशेषविषया` इत्यादि। नानादाचिनामधिकरणानां क्रियादिसम्बन्धेन युगपद्व्याप्तिव्र्याप्तिविशेषः, स विषयो यस्या इच्छायाः सा तथोक्ता। सैवंविधा `प्रयोक्तुरिच्छा वीप्सा`। प्रयोक्तुरित्यनेन प्रयोक्तृधर्मो वीप्सा, नाभिधेयधर्म इति दर्शयति। कथं पुनव्र्याप्तिविशेषविषयेत्येष विशेषो लभ्यते? विशब्दप्रयोगात्। यदि ह्रविशेषेण व्याप्तुमिच्छां दीप्साऽभिमता स्यात्, `नित्येप्सयोः` इत्येवं ब्राऊयात्। `व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा` इत्युक्तम्, स तु विशेषोऽनिर्दिष्टस्वरूपत्वान्न विज्ञायते, तदज्ञानच्च तद्विशिष्टा वीप्सापि न ज्ञायत इत्यतः पृच्छति -`का पुनः सा` इति। `नानावाचिनाम्` इत्यादि। नानावाचिनाम्, अधिकरणानामिति -व्यधिकरणे षष्ठ्यौ। नाना=पृथग्भूताः, तान्? वक्तुं शीलं येषां शब्दानां ते नानावाचिनः। तत्सम्बन्धिनामधिकरणानां वाच्यानामित्यर्थः। `क्रियागुणाभ्याम्` इति। करणे तीया। `युगपत्` इति। एककालम्। `प्रयोक्तुः` इति। वक्तुः। यो द्विर्वचनं प्रयुङक्ते तस्य। `व्याप्तुम्` इति। सम्बन्धविशेषेणाप्तुम्। साकल्येन सम्बन्धुमित्यर्थः। `इच्छा` इति। अभिलाषः। `वीप्सा` इति। प्रादिसमासः -विशिष्टा ईप्सा वीप्सा। `नानाभूतार्थवाचिनाम्` इत्यादिना अनन्तरेक्तं वाक्यं विवृणोति। यत एवंविधा वीप्सा, तेन चिकीर्षेत्यत्र द्विर्वचनं न भवति। चिकीर्षा हि कर्त्तुरिच्छा, न प्रयोक्तुः। यतश्चैवंविधा वीप्सा, तेन जातिवाचिनामपि द्विर्वचनं न भवति -निष्पन्नो यव इति। न हि जातिशब्दा नानाभूतार्थवाचिनः। यदा तु क्रमेण व्याप्तुमिच्छा तदापि न भवति -अयं ग्रामो रमणीयः, अयञ्च ग्रामो रमणोय इति। द्वन्द्वैकशेषयोरपि न भवति -अस्मिन्वने शोभना धवखदिरपलाशाः, अस्मिन्वने शोभना वृक्षा इति। अशेषविशेषव्याप्तावनभिमतायामप्येवं प्रयोगः क्रियत इति सर्वविशेषाभिधानं [`सर्वविशेषाविधानं` -कांउ। पाठः] न भवति, अतः प्रयोक्तुरप्यशेषान्? विशेषान्? व्याप्तुमिच्छा न जायते। बाहुल्येन तु शोभनत्वमाश्रित्येवं वाक्यं प्रयोक्ता प्रयुङक्ते -ग्रामो ग्रामो रमणीय इति। अत्र हि दिन्देशादिभेदेन भिन्नानां ग्रामाणां रमणीयत्वेन गुणेन प्रयोक्तुर्युगपद्व्याप्तुमिच्छा दीप्सा। `जनपदो जनपदः` इति। अत्रापि जनपदानाम्। `पुरुषः पुरुषे निषनमुपैति` इति। अत्र पुरुषाणां निधनक्रियया। निधनम् -विनाश इत्यर्थः। क्रियागुणग्रहणमुपलक्षणार्थम्। द्रव्येणापि नानावाचिनामधिकरणानां युगपद्व्याप्तुं प्रयोक्तुर्येच्छा सा वोप्सैव। तेन ग्रामे ग्रामे पानीयमित्यत्रापि द्विरवचनं सिद्धं भवति। यस्तु `द्रव्यस्य द्रव्यान्तेण सह सम्बन्धो न भवति, सिद्धरूपत्वात्` इत्याह, तस्य यदुक्तम् -क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः सम्बन्धोऽत्यन्तसंयोगः` इति, तद्वचनं व्याहन्यते; ग्रामे ग्रामे पानीयमित्ययं च शिष्टप्रयोगो नोपपद्यते। अथ कथं ग्रामशब्दोऽयं वीप्सायां वर्तते, यावता न तस्या वीप्साः-भिधेया, किं तर्हि? जनाकीर्मो भूखण्डः? सत्यमेतत्; यद्येवम्, तथापि द्विर्वचनप्रतिपत्तिद्बारेण तस्या द्योतितत्वात्? स तस्यां वर्तत इत्युच्यते। ग्रामो हि द्विर्वचनं प्रतिपद्यमानो वीप्सां द्योतयतीति तस्यां द्योतनद्वारेण वर्तते। अथ ग्रमो ग्राम इति कथमेकवचनम्, यावता बहुत्वाद्धिप्रामाणां बहुवचनेनैव भवितव्यम्; अथ कृते द्विर्वचने? नैतदस्ति; समुदाय एवात्र बहुत्वमुपजायते, न प्रत्येकम्? उपातैकत्वसंख्येऽवयवेऽविरुद्धं ह्रेकत्वं बहुत्वेन। तेनावयवाद्बहुवचन न भवति। समुदायात्? तर्हि कथं न भवति? बहुत्वस्याबगतत्वाद्वीप्सया। स हि समुदायो वीप्सायां बहुत्वमन्तरेण न सम्भवतीति तां प्रकाशयन्नान्तरीयकत्वाद्बहुत्वमपि गमयति। ततोऽवगतार्थत्वाद्बहुवचनं न प्रयुज्यते। अथ यत्? तिङन्तं नित्यतया प्रकर्षेण च युक्तम्, तत्र किं कृते द्विर्वचने प्रकर्षप्रत्ययेन भवितव्यम्। अथ वा कृते प्रकर्षेप्रत्यये द्विर्वचनेन? इत्यत आह -`यत्तिङन्तम्` इत्यादि। अत्र विप्रतिषेधो हेतुः। तत्र द्विर्वचनस्यावकाशो यत्र नित्यार्थो विवक्षितः, न प्रकर्षः -पचतिपचतीति; प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्षेण योगः, न नित्यतया -पचतितरामिति; यत्र तूभाभ्यां योगस्तत्र विप्रतषेधेन द्विर्वचनं भवति -पचतिपचतितरामिति। सुबन्तमपि तर्हि यद्वीप्सया प्रकर्षेण च युक्तम्, तस्मादत एव हेतोः कृतद्विर्वचनात्? प्रकर्षप्रत्ययः स्यात्, ततश्चाढतरमाढतरमानयेति न सिद्ध्येदित्यत आह-`इह तु` इत्यादि। यदि सुबन्तस्यैककालं वीप्सा प्रकर्षेण च योगः स्यात्, तदा स्यादयं प्रसङ्गः, स न नास्ति; यतः सुबन्तस्य प्रकर्षप्रत्ययेन संयुक्तस्य पश्चाद्वीप्सया योग इष्यते। कथम्? इह हि वीप्सा नाम पौरुषेयो धर्म इच्छाविशेषः, स च तथा प्रयोक्तुर्विदुषः प्रवर्तते यथा शब्दे नानिष्टमापद्यते, नापि प्रयोक्तरि। यदि प्रकर्षप्रत्ययात्? प्राक्? सहभावेन वा वीप्सा स्याच्छब्देनिष्टमापद्यते, तद्द्वारेण प्रयोक्तर्यपि, यथा -हेलयो हेलय इति ब्राऊवप्सु पुरुषेषु; यज्ञेषु चानिष्टमापद्यते। तस्मात्? प्रकर्षयोगविवक्षाया उत्तरकालं शिष्टस्य प्रयोक्तुर्वीप्सया भवितव्यमिति सिद्धमाढतरमाढतरमानयेति।अपरः प्रकारः -इहापि तर्हि तत एव हेतोः कृते द्विर्वचने प्रकर्षप्रत्ययः स्यात्, ततश्चाढतरमाढतरमानयेति न सिद्ध्यति -इत्येतस्मिन्? पूर्वपक्ष इदमाह -`इह तु` इत्यादि। प्रकर्षसाहचर्यात्? प्रकर्षप्रत्ययः प्रकर्षशब्देनोक्तः। वीप्सासाहचर्याद्धि द्विर्वचनं वीप्साशब्देन। तदेतदुक्तं भवति -प्रकर्षप्रत्यययुक्तस्य द्विर्वचनेन योग इष्यत इति। अत्र चायमभिप्रायः -येन हेतुना युगपत्? प्रकर्षेण नित्यतया च युक्तस्य पूर्वं द्विर्वचनं भवति, स विप्रतिषेधोऽत्र नास्ति; अतुल्यबलत्वात्। अतुल्यबलत्वं तु प्रकर्ष प्रत्ययस्यान्तरङ्गत्वात्, द्विर्वचनस्य बहिरङ्गत्वात्। तथा हि ङ्याप्प्रातिपदिकादातिशायिको भवति, द्विर्वचनं तु पदस्य। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति सिद्धासिद्धयोश्चायुक्तो विप्रतिषेधः। तस्मात्? पहूर्वं प्रकर्षप्रत्ययेन सुबन्ताद्भवितव्यम्, पश्चात्? तदन्तस्य द्विर्वचनेनेति। ननु चातिशायिको नैवान्तरङ्गः, समर्थाद्धि स उपपद्यते, <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यधिकारात्, सामर्थ्य च सुबन्तेनैव? नैतत्; उक्तं हि तत्रैव [[4.1.82]] `स्वार्थिकप्रत्ययावधिश्चायमधिकारः प्राग्दिशो विभक्तिरिति [[5.3.1]] यावत्, स्वार्थिकेष्वस्योपयोगो नास्ति` इति। स्वार्थिकाश्चतिशायिकाः। तस्मादन्तरङ्गत्वादुत्पन्ने तस्मिन्? पश्चात्? सुबन्तस्य द्विर्वचनेन भवितव्यम्॥", "81005": "`परि परि त्रिगर्तेभ्यः` इति। <<अपपरी वर्जने>> [[1.4.88]] इति परेः कर्मप्रवचनीयसंज्ञायां सत्याम्? <<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] इति पञ्चमी। `परिषिञ्चति` इति। सर्वत्र सिञ्चतीत्यर्थः। `उपसर्गात्? सुनोति` [[8.3.65]] इत्यादिना षत्वम्। `परेर्वर्जनेऽसमासे वा` इत्यादि। परेर्वर्जनेऽर्थेऽसमासे विभाषा द्विर्वचनं भवतीत्येतदर्थरपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -`विभाषा वेषिटिचेष्ट्योः` [[7.4.96]] इत्यतो मण्डूकप्लुत्या विभाषाग्रहणमनुवर्तते, तेनासमासे द्विर्वचनं परेर्वर्जने विभाषा भवतीति। `असमासे` इति। वचनात्? समासे तु नित्यमेव द्विर्वचनेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह -`समासे तु` इत्यादि। यथा दध्नोपसिक्त ओदनो दध्योदन इतीहोपसिक्तशब्दः समासेऽन्तर्भूतः, तथा <<अपपरिबहिरञ्चवः पञ्चम्या>> [[2.1.12]] इति समासे कृते तत्र वर्जनम्। परिशब्दस्तु समासेऽनर्थक एव; तेन वर्जनेऽर्थे वर्तमानस्य द्विर्वचनमुच्यमानं समासे न भवति। अथापि परिशब्दो वर्जनेऽर्थेऽर्थवान्? स्यात्; एवमपि समासेनैव वर्जनार्थप्रत्यायितत्वान्नैव द्विर्वचनेन भवितव्यम्। `परित्रिगर्तम्` इति। समासादुत्पन्नस्य सोः `नाव्ययीभावादतोऽस्त्वपञ्चम्याः` [[2.4.83]] इत्यम्भावः॥", "81006": "`प्रसमुपोदः` इति। `द्वन्द्वाच्चुदषहान्तात्? समाहारे` [[5.4.106]] इति समासान्तो न कृतः; समासान्तविधेरनित्यत्वात्। `पादपूरणे` इति। `यस्य च भावेन भावलक्षणम्` [[2.3.37]] इति सप्तमीयम्। पादपूरणस्य भावेनोत्पत्तिलक्षणेन द्विर्वचनसक्य भावो लक्ष्यते। ननु च द्विर्वचनात्? प्राक्? पादपूरणमसदेव, तत्? कुतस्तस्य भावो द्विर्वचनस्य लक्षणं स्यात्, न हि तत्? सत्त्वम्? असारमेतत्; तदुत्पत्तिह्र्रत्र भावः, सा चानिष्पन्नसत्ताकस्यैव भवति, न निष्पन्नसत्ताकस्य। न हि मृत्तिकावस्थायां सन्तो घटादय उत्पद्यन्तेः पादश्चेह विशेषानभिधानेऽपि सामर्थ्यादृच एव गृह्रते, न श्लोकस्य। लौकिको हि श्लोकः, लोके चार्थपरत्वादनर्थकस्य प्रयोगो नोपपद्यते॥", "81007": "", "81008": "", "81009": "यद्यविशेषेणैकशब्दस्य बहुव्रीहिवद्भावो विधीयते, तदैकमित्यत्रापि स्यादिति मन्यमानोऽतिप्रसङ्गं परिजिहीर्षुराह -`एकमित्येतद्द्विरुक्तं बहुव्रीहिवद्भावो भवति` इति। कथं पुनर्द्विरुक्तमित्येव विशेषो लभ्यते, यावता नायं सूत्रोपात्तः? एवं मन्यते -वीप्साऽनुवर्तते, [`वीप्सामनुवर्तते` -प्रांउ।पाठः] वीप्सायाञ्च पूर्वमेव द्विर्वचनं विहितम्। न च तदेकशब्दस्यानेन बहुव्रीहिवद्भावेन बाध्यते; अन्यथा हि `एकैकस्य प्राचाम्` [[8.2.86]] इति निर्देशो नोपपद्येत। तस्माद्वीप्साग्रहणानुवृत्तेर्द्विरुक्तस्यैकशब्दस्यायं बहुव्रीहवद्भावो विज्ञायत इति। किं पुनर्बहुव्रीहिवद्भावे प्रयोजनमित्याह -`बहुव्रीहिवत्त्वे` इत्यादि। यद्यपि सुब्लृक्पुंवद्भावौ बहुव्रीहावित्येवं नोच्येते, तथाप्येतौ तत्र दृष्टावित्यस्मिन्नतिदेशे तयोः प्रवृत्तिः प्रयोजनम्। `एकैकम्` इति। वीप्सायां द्विर्वचने कृते यता चित्रगुरित्यादौ बहुव्रीहौ <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुग्भवति, तथेहाप्यतिदेशेन। अतिदेशेनैव समासे प्रातिपदिकत्वात्? सुः, `अतोऽम्` [[7.1.24]] इत्यम्भावः। `एकैकया` इति। पूर्ववद्विभक्देर्लुक्, `स्त्रियाः पुंक्त्` [[6.3.33]] इत्यादिना यथा दर्शनीयभार्य इत्यत्र बहुव्रीहौ पुंवद्बावो भवति, तथेहाप्यतिदेशेन, तृतीयैकवचनम्, <<आङि चापः>> [[7.3.105]] इत्येत्तवम्, अयादेशः। ननु चासत्यपि पुंवद्भावे <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धावपि कृतायामेतत्? सिध्यत्येव? यद्यप्येतत्? सिध्यति, तथापि गतगतेत्येतत्? <<आबाधे च>> [[8.1.10]] इति द्विर्वचने कृते न सिध्यति। तस्मादुत्तरसूत्रे पुंवद्भावो बहुव्रीहिवदित्यस्यातिदेशस्यैव प्रयोजनत्वेनोच्यते। एकैकयेत्येतत्तु `एकमित्येष नपुंसकलिङ्गेन निर्देशोऽन्त्रम्` इत्येतत्सूचयितुमुक्तम्। अतन्त्रत्वं तु सूत्रे लिङ्गनिर्देशस्य `अर्धं नपुंसकम्` [[2.2.2]] इत्यत्र नपुंसकग्रहणेन ज्ञापितम्। यदि सौत्रो निर्देशस्तन्त्रमभविष्यत्, अर्धमित्यत्र तत एव निर्देशाल्लिङ्गविशेषे सिद्धे नपुंसकमिति नावक्ष्यत्। अथ पूर्वपदप्रकृतिस्वरत्वमपि प्रयोजनं कस्मान्नोच्येत? विशेषाभावा। परस्य निघाते कृते पूर्वपदप्रकृतिस्वर एव भविष्यति। यदि तर्हि बहुव्रीहौ यद्वृष्टं तदतिदिश्यते, सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्तानामप्यतिदेशः प्राप्नोति? इत्यत आह -`सर्वनामसंज्ञा` इत्यादि। कथं पुनरेते सर्वनामसंज्ञाप्रतिषेधादयः समासाधिकारे विहिते बहुव्रीहौ शक्या विज्ञातुम्? उच्यते; सर्वनामसंज्ञाप्रतिषेधस्तावत्? `बहुव्रीहौ` [[1.1.29]] इत्यनुवर्तमाने पुनर्बहुव्रीहि [[1.1.28]] ग्रहणाच्च शक्यते विज्ञातुम्। तस्य ह्रतत्? प्रयोजनमुक्तम् -बहुव्रीहेरेव यो बहुव्रीहिस्तत्र प्रतिषेधो यथा स्यात्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्ततर मा भूदिति। एवञ्चार्थात्? समासाधिकारविहित एव बहुव्रीहौ प्रतिषेधो विज्ञायते। न हि ततोऽन्यो बहुव्रीहिरेव बहुव्रीहीर्भवति; `एकैकस्मै` इत्यादेर्बहुव्रीहिवद्भावेन बहुव्रीहिवत्त्वात्। <<नञ्सुभ्याम्>> [[6.2.172]] इत्यनेनापि `बहुव्रीहाविदमेतत्तद्भ्यः [[6.2.162]] इत्यतो बहुव्रीहिग्रहणेऽनुवर्तमाने नञ्सुम्यां परस्य बहुव्रीहावन्तोदात्तत्वं विधीयते, न तु तयोरपि; यस्मात्? सुनञादिह निमित्तत्वेनोपात्तौ। न च निमित्तयोः कार्यित्वं युक्तम्। यथीक्तम् - `नेमौ [`हयवरट्` (मा।सू।5) इत्येतस्मिन्? सूत्रे भाष्यकारेण] रहौ कार्यिणौ, किं तर्हि? न#इमित्तमिमौ द्विर्वचनस्य` इति। तस्माद्यत्र बहुव्रीहौ नञ्सूभां सुनञोरेव परभूतत्वात्? <<आबाधे च>> [[8.1.10]] इति द्विर्वचनम्, बहुव्रीहिवद्भावश्च। अथ वा स्वरविधौ <<समासस्य>> [[6.1.223]] इत्यतः समातग्रहणमनुवर्तते, तेन च बहुव्रीहि विशेषयिष्यामः -समासो यो बहुव्रीहिरिति। ननु च नन, सुस्वित्यतावपि समासावेव, अस्ति ह्रनयोरेव बहुव्रीहिवद्भावेनोत्पादिता समाससंज्ञा, ततश्च विशिष्यमाणऽपि समासग्रहणे न बहुव्रीहौ स्वरः प्राप्नोतीत्येव? नैव दोषः; विशिष्यते हि समासग्रहणेन बहुव्रीहिः, न कश्चिदसमासो बहुव्रीहिरस्ति, तत्र विशेषणसामर्थ्यावतिदेशद्बारेम यस्य समाससंज्ञा तस्य न भवति। स च समासाधिकारे विहितो बहुव्रीहिरिति विज्ञायते। ननु च समासग्रहणेन बहुव्रीहौ विशिष्यमाणे विशेषणसामर्थ्याद्विशिष्टस्य बहुव्रीहेरिवं ग्रहणमित्येतादन्मात्रं निश्चीयते, तत्र तु विशिष्टे बहुव्रीहौ सन्देह एव? उच्यते; भवति व्याख्यानतो विशेषप्रतिपत्तिः, न हि सन्देहादलक्षण(व्या।पा।75)मित्यदोषः, समासान्तविधावपि `समासाच्च तद्विषयात्` [[5.3.106]] इत्यतः समासग्रहणमनुवर्तते। तत्र समासाधिकारादेव समासान्तत्वे वक्ष्यमाणानां प्रत्ययानां सिद्धे समासग्रहणानुव#ऋत्तिविशिष्टे समासे समासान्तत्वं यथा स्वादित्येवमर्थं विज्ञायते। स पुनर्विशिष्टः समासो यः समासाधिकारे विहितः स एव व्याख्यानाद्वेदितव्यः। अथ ननेत्यत्र <<नलोपो नञः>> [[6.3.73]] इति नलोपः कस्मान्न भवति, अस्ति तस्यापि बहुव्रीहौ दर्शनम्? नैष दीषः; `नलोपो नञः` इत्यत्र हि उत्तरवदाधिकारोऽनुवर्तते -उत्तरपदे नलोपो विधीयते। नञ्? च कार्यित्वेनोपात्तः, कार्यिणश्चेह निमित्तभावो नोपपद्यत इति नञोऽन्यस्मिन्नुत्तरपदे लोपेन भवितव्यम्, यथा -अब्राआहृण इति, न तु तस्मिन्नेवेति कुतो नकारलोपस्य प्रसङ्गः॥", "81010": "`आबाधनभावाधः` इति। भावे घञ्। यद्यत्राबाधोऽभिधेयधर्म आश्रीयते, तदा बाधितपीडिताविशब्दानामेव द्विर्वचनं स्यात्, न तु गतादिशब्दानाम्। प्रयोक्तृधर्म आश्रीयमाणे सर्वत्र भवति। तस्माद्व्याप्तिव्यायात्? प्रयोक्तृधर्म एवाश्रीयते, इत्याह -`प्रयोक्तृधर्मः` इति। `तत्र वर्तमानस्य` इति। द्विर्वचनप्रतिपत्तिद्वारेण, बहुव्रीहिवद्भावप्रतिपत्तिद्वारेण च तत्प्रकाशनात्? तत्र तस्य वृत्तिर्वेदितव्या, न तु तदभिधानात्। न हि गतादयः शब्दा कथञ्चिदाबाधनमभिदधति। चकारो वाक्यभेदमाचष्टे। तेन द्वयमत्र विधीयते -एकेन वाक्येन द्विर्वचनम्, अपरेण च बहुव्रीहिवद्भावः। `गतगतः` इत्यादौ पूर्ववत्? सोर्लुक्। `गतगता` इत्यादौ तु पुंवद्भावः पूर्ववदेव। `प्रियस्य गमनादिना` इत्यादि। एतेन प्रयोक्तृधर्मताऽबाधस्येति दर्शयति। आदिशब्देन विनाशादेग्र्रहणम्॥", "81011": "कर्मधारयवत्? कार्यं भवतीत्यनेन कार्यातदेशोऽयमित्याचष्टे। कार्यातिदेशस्य फलमुत्तरत्र दर्शयिष्यते। `कर्मधारयवत्त्वे प्रयोजनम्` इत्यादि। तत्र सुग्लुग्बहुव्रीहिवद्भावे, अस्मिन्नतिदेशे च साधारणं प्रयोजनम्। पुंवद्भा वस्तु क्वचित्? साधारणम्, क्वचिदसाधारणम्; यत्र हि पुंवद्भावस्य प्रविषेधो नास्ति -पटुपट्वीत्यादौ, तत्र साधारणम्, यत्र तु <<न कोपधायाः>> [[6.3.37]] इत्यादिना पुंवद्भावप्रतिषेधोऽस्ति -कालककालिकेत्यादौ, तत्रा साधारणम्। तथा हि यस्य हि पुंवद्भावः प्रतिविद्धस्तस्यापि <<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इत्यादिना कर्मधारये पुंवद्भावो विधीयते। अन्तोदात्तत्वं त्वसाधारणमेव। यस्मात्? कर्मधारय एव <<समासस्य>> [[6.1.223]] इत्यन्तोदात्तत्वं विधीयते, न बहुव्रीहौ; तत्र <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इति पूर्वपदप्रकृतस्वरस्य समासान्तोदात्तस्यापवादस्य विधीनात्। तत्र यदसाधारणं प्रयोजनं तदिममतिदेशं प्रयोजयति, नेतरत्। तद्धि बहुव्रीहिवदित्यतिदेशस्यानुवृत्तावपि सिद्ध्यत्येव। सति त्वन्यार्थोऽस्यारम्भे बहुव्रीहिवदित्यतिदेशस्यानुवृत्तिरपार्थिका; अनेनैव साधारणस्यापि सिद्धत्वात्। अतः सुब्लुगादिकमपि साधारणं कर्मधारयवत्त्वे प्रयोजनं न भवति। `पटुपट्वी` इति। `वोतो गुणवचनात्` [[4.1.44]] इति ङीष्। स च पूर्वपदे पुंवद्भादेन निवर्तते। `कालककालिका` इति। अज्ञाताद्यर्थे `प्रागिवात्? कः` [[5.3.70]] , टाप्, `केऽणः` [[7.4.13]] इति ह्रस्वः, पूर्ववदित्त्वम्। पुंवद्भावेन पूर्वपदे टाबित्त्वयोर्निवृत्तिः। कथं पुनरत्र पुंवद्भावः, यावता <<न कोपधायाः>> [[6.3.37]] इत्यस्य प्रतिषेधः कृतः? इत्याह -`कोपधायाः` [`न कोपधायाः` इत्यादि -प्रा। मु। पाठ] इत्यादि। कर्मधारये हि <<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इत्यादिनां योगेन प्रतिषेधविषयेण पुंवद्भावो विहितः तेन कोपधाया अपि पुंवद्भावो भवत्येव। ननु चाभ्रेडितानुदात्तत्वमाष्टिकिमम्, समासान्तोदात्तत्वं च षाष्ठिकम्, अतः परत्वादाभ्रेडितानुदात्तत्वेनैव भवितव्यम्; न चैवं सति कर्मधारयदित्यतिदेशस्य वैयथ्र्यं स्यात्, तस्य प्रयोजनान्तरे चरितार्थत्वात्? इत्यत आह -`समासान्तोदात्तत्वमनेन` इत्यादि। शल्त्रातिदेशे हि शस्त्रेध्वतिदिष्टेषु तैरेव स्वदेशस्थैः कार्याणि क्रियन्त इत्याभ्रेडितानुदात्तस्य समासान्तोदात्तत्वात्? परत्वं स्यात्। न चायं शास्त्रातिदेशः, किं तर्हि? कार्यातदेशः। कार्यातिदेशे सत्यतिदेशशास्त्रेणैव विधियते। तस्मादन्तोदत्तत्वेमेव परम्। अतस्तस्मात्? परत्वादाभ्रेडितानुदात्तत्वं बाधते। ननु चान्तरेणाप्युत्तरग्रहणं यथा <<प्रत्ययः>> [[3.1.1]] इत्येवमादीनामधिकाराणामुत्तरत्रावस्थानं भवति, तथाऽस्यापि भविष्यति; अधिकाराणामुत्तरत्रानुधृत्तिदर्शनात्, तत्किकमर्थम्? `उत्तरेषु` इति वचनम्? इत्याह -`अधिकारेणैव` इत्यादि। अधिकाराणां क्वचिल्लक्षणत्वस्य व्यवहारः, यथा `शेषे` [[4.2.91]] इत्यधिकारस्य लक्षणत्वमस्ति, तच्चाविस्पष्टम्; अन्येष्वधिकारेषु <<प्रत्ययः>> [[3.1.1]] इत्येवमादिष्वदृष्टत्वात्। तस्मादस्य विस्पष्टत्वं यथा स्यादित्येवमर्थमुत्तरेष्विति वचनम्। एतद्धि लक्षणत्वमस्य मा भूदित्येवमर्थं क्रियते। यदि तु लक्षणस्याधिकारेष्वसम्भवः स्यात्, उत्तरेष्विति वचनमनर्थकं स्यात्; व्यार्त्त्याभावात्। अथ वा -सिंहावलोकितव्यायस्येत्यव्याहारः। प्रायेण ह्रणिकारणमुत्तरत्रानुवृत्तिर्दुष्टेति सिहावलोकितन्यायस्याविस्पष्टता; केषुचित्? प्रत्ययादिष्वदृष्टत्वात्। तस्मात्? तस्य विस्पष्टीकरणार्थमुत्तरेष्विति वचनम्। यदि सिंहावलोकितन्यायेन पूर्वत्रानुवृत्तेरधिकारणां न सम्भव एव स्यात्, उत्तरेष्विति वचनमनर्थकं स्यात्; व्यावर्त्त्याभावात्॥", "81012": "`प्रकारो भेदः। सादृश्यं च` इति। उभयन्नापि प्रकारशब्दस्य प्रयोगदर्शनात्। तत्र भेदे प्रयोगो दृश्यते -बहुभिः प्रकारैर्भुङ्क्ते। बहुभिर्भेदैः, विशेवैर्भुङक्त इत्यर्थः। सादृश्येऽपि -बाहृणप्रकारोऽयं माणवकः। ब्राआहृणसदृश इत्यर्थः। `तदिह सादृश्यं प्रकारो गृह्रते` इति। कुत एतत्? लक्ष्यानुरोधात्। न हि कृतद्विर्वचनात्? गुणवचनात्? पदादिह भेदो गम्यते, किं तर्हि? सादृश्यम्। अत्र च शब्दशक्तिस्वाभाव्यं हेतुः। `प्रकारे वर्तमानस्य` इति द्विर्ववचनप्रतिपत्तिद्वारेण तद्द्योतनात्? तत्र तस्य वृत्तिर्विज्ञेया। `परिपूर्णगुण` इत्यादि। एतेनोदाहरणे गुणवचनत्य सादृदये वृत्ति दर्शयति। उपमानं हि सादृश्यम्। परिपूर्णः=सकलः पाटवादिर्गुणो यस्य स तथोक्तः। स एव न्यूनः=असकलोऽपरिसमाप्तो यस्य स न तथोक्तः। जातीयरपि प्रकारवचन एव विधीयत इति नाप्रप्ते तस्मिन्निदामारभ्यत इति तद्बाधनं प्राप्नोति? इति यश्चोदयेत्, तं प्रत्याह -`जातीयरोऽनेन बाधनं नेष्यते` इति। कथं पुनरिष्यमाणमपि बाधनं न भवितव्यति? वक्ष्यमाणस्यान्यतरस्यांग्रहणस्योभयोरपि योगयोः शेषभूतत्वात्। किं पुनः कारणं बाधनं नेष्यते? इत्याह -`पटुजातीयो मृदुजातीय इत्यपि [इत्यादि भवतीति` -प्रांउ।पाठः] हि भवति` इति। यस्तु `पटुपटुजातीयो मृदुमृदुजातीयः` इति प्रायेण पुस्तकेषु पाठः स प्रमादकृतः। कुतः? एकस्य कार्यिणोऽनेकेषां कार्याणां प्राप्तौ बाध्यबाधकभावो भवति। इह तु पटुदटुमृदुमृदुशब्दाभ्यामेव प्रकारस्य द्योतितत्वात्? तयोः पुनर्द्विर्वचनं न प्रप्नोति, नापि जातीयर्; तस्मादपपाठोऽयम्। `अग्निर्माणवकः, गौर्वाहिकः` इति। अग्निशब्दो गोशब्दश्चान्नाप्रकारे वर्तते। तथा ह्रग्निना माणवकस्य सूदृश्यं गम्यते, गवा च चाहीकस्य। न हि तौ गुणवचनौ, किं तर्हि? द्रव्यवचनौ; माणवकवाहीकयोद्र्रव्यत्वात्।ननु चमावपि मणवचनावेव, तथा हि -यज्जातयस्तैरुण्यादिर्गुणो यह्नो दृष्टस्तज्जातीयमेव गुणविशेषमुपादाय सोऽयमित्यभेदोपचारेण सम्बन्धेनोपमानोपमेयभावेन वाऽग्निशब्दोऽयं माणयके वर्तते; तमेव गुणविशेषं प्रतपादयितुं प्रवृत्तत्वात्। एवं गोशब्दोऽपि यज्जातीयो जाडआदिर्गुणः सास्नादिमति दृष्टः, तज्जातीयमेद गुणविशेषमुपादाय पूर्वोक्तयोः सम्बन्धयोरन्यतरेण सम्बन्धेन वाहोके वर्तते, तस्यैव गुणविशेषस्य प्रतिपादनाय। तस्माद्गुणविशेषे प्रतिपादयितुं प्रवृत्ताविमावपि गुणवचनावेव, इत्याह -`यद्यप्यत्र` इत्यादि। यतः शब्दात्? श्रुतिमात्रेण योऽर्थः प्रतीयते स तस्य मुख्योऽनपचरितोऽर्थः। स्त्वभेदोपचारादिना निमित्तन कथञ्चिद्यत्वेन प्रतीयते, स गौण इति। उपचरित इत्यर्थः। अग्निशब्दात्? श्रुतिमात्रेण पावकः प्रतीयते, गोशब्दाच्च सास्नादिमान्। अतोऽग्निशब्दस्य पावको मुख्यार्थः, गोशब्दस्यापि वाहिकः। मुख्येनार्थेन यावकादिना गौणस्य माणवकादेः सम्बन्धः। पूर्वोक्तयोः सम्बन्धयोरन्यतरो मुख्यार्थसम्बन्धः। तेन हेतुना करणेन वाऽवधतो निश्चितो भेदो विशेषो यस्य तैक्ष्ण्यजाडआदेर्गुणस्य स तथोक्तः। कथं पुनस्तेन सम्बन्धेन तस्य निश्चयो भवति? तत्प्रतीनी तत्प्रततेः। स हि गुणविशेषस्तस्य सम्बन्धस्य हेतुः; तस्मिन्? सति तत्सद्भावात्। अतः सम्बन्धो द्विप्रकारोऽपि प्रतीतः सन्? तत्प्रतीतिंजिनयति; धूम इवाग्नौ। तमेवंविधं गुणविशेषमेव यद्यपि मुख्यादर्थादन्यस्मिन्? गौणेऽर्थे गोशब्दोऽग्निशब्दश्च प्रतिपादयितुं प्रवृत्तः, तथापि सर्वकालं गुणवचनो न भवतीति न तद्द्विरुच्यते, तथा हि -यदासावमुख्येऽर्थे साधम्र्येण माणवके वाहीके च प्रयुज्यते, तदा गुणवचनो न भवतीति न तद्द्विरुच्यते, तथा हि -यदासावमुख्येऽर्थे साधम्र्येण माणवके बाहीके च प्रयुज्यते, तदा गुणवचनो भवति। यदा च वह्नौ सास्नादिमति च, तदा जातिवचनो द्रव्यवचनो वा। तत्र यदाऽग्निशब्दोऽग्नित्वे वर्तते गोशब्दोऽपि गोत्वे, तदा जातिवचनौ भवतः। यदा तु जातिवचनो द्रव्यवचनो वा। तत्र यदाऽग्निशब्दोऽग्नित्वे वर्तते गोशब्दोऽपि गोत्वं, तदा जातिवचनौ भवतः। यदा तु जात्युपलक्षिते जतिमति द्रव्ये तदा द्रव्यवचनौ। तस्मात्? सर्वकालमगुणवचनत्वान्न भवति तयोर्द्विर्वचनम्। एतच्च गणवचग्रहणाल्लभ्यते। प्रकारे हि वर्तमानः शब्दः सर्व एव गुणवचनः सम्पद्यते, उच्यते चेदं वचनम्? गुणवचनस्येति, तत्र सर्वप्रकर्षावगतिर्विज्ञायते -साधीयान यो गुमवचन इति। कश्च साधीयान्? गुणवचनः? यः [नास्तीदं वाक्यं भुद्रिते] सर्वदा गुणवचनः। यदि तर्हि सर्वदा यो गुणवचनस्तस्य द्विर्वचनेन भवितव्यम्; तदा पटुशब्दस्यापि द्विर्वचनं न प्राप्नोतीति, सोऽपि यदा पाटवमात्रे गुणविशेषे वर्तते तदैव गुणवचनः; यदा तु तद्वति द्रव्ये तदा द्रव्यवचन एव? नैतत; न हि विशेषणमनभिदधता विशेष्यं शक्यमभिधातुम्। अतो विशेष्यं द्रव्यमभिदधता नियोगतो विशेषणमव्यभिधेयम्। तस्मस्द्द्रव्येऽपि वर्तमानः पटुशब्दस्तद्विशषणमपि मुणमभिदधात्येव। इयांस्तु विशेषः -गुणमुपसर्जनीभूतमभिदधाति, द्रव्यं तु प्रधानभूतमिति। आनुपुव्र्ये, इत्यादि। अवीप्सार्थमिदम; वीप्साया असम्भवात्। तल्यजातीयानां हि भिन्नानां वीप्सा भवति, यथा -यामाणाम्। सर्वे, हि वे ग्रामत्वजास्यैकयाऽध्यासितत्वात्? तुल्युजातीया दिग्देशादिभेदेन भिन्नाः। `मूले मूले स्थूलाः` इत्यादौ तु देण्? नडादोनां [`नलादीनाम् -प्रांउ।पाठः] ये भागस्तेषामेकमेव मुख्यं मूलं यस्याधोभागान्तरं न सन्निविष्टम्। एवकेकमेव च मुख्यमग्रं ग्रस्पोपरिभागान्तरं न सन्निविष्टम्। तथा हि वेणोर्मूलमित्युक्ते यस्याधोभायान्तरं नास्ति तत्रैव प्रतीतिरुपजायते। तथा वेणोरग्रमित्युक्ते यस्योपरिभागान्तरं नास्ति तत्रेव ग्रतीतिरुपजायते नतरेव। यस्तु तेषु मूलव्यपदेशोऽग्रव्यपदेशश्च, सोऽपेक्षाकृतः, अपरि सन्निविष्टमपेक्ष्य मूलवयपदेशः, अधःसन्निविष्टमपेक्ष्याग्रमिति। तस्माद्यथा सर्वे ग्रामास्तुल्यजातीया न तथा वेणुभागः भवन्ति। ग्रामाणां हि न किञ्चिदपेक्षाकृतं ग्रामत्वम्? भागानां त्वेकस्यैव मुख्यं मूलत्वमग्रत्वञ्चानपेक्षाकृतम्। अनेकेषां भागानां तूभयम्। यत्तदपेक्षाकृतमेव तस्माद्भिन्नजातीयः भागाः। न च भिन्नजातीयानां वीप्सा भवति, यथा -सास्नादिमतां गदां वाहिकानाञ्च। न हि गोर्गौरित्युक्ते वाहीकगतापि दीपासा गम्यते। अप चैतावातिहार्थो विवक्षितः - आनुपूर्व्येण वेणु नडादयः [`नलादयः` - प्रांउ।पाठः] स्थूलाः सूक्ष्मा वेति प्रतीयते; न तु वीप्सा। `ज्र्यष्ठं ज्येष्ठं प्रदेशय` इति। अत्रानुपूर्व्यमात्रं विवक्षितम्। यः सर्वेयां ज्येष्ठस्त तावत्प्रदेशय, ततसतदन्येषां यो ज्यष्ठन्तं प्रदेशयेति। अन्यथा यद्यत्र ज्येष्ठानां वीप्सा स्यात्? सर्वकनीयसः प्रवेशो न स्यात्; तस्य वीप्सयाऽविवयीकृतत्वात्, न ह्रसौ ज्येष्ठः। तस्मादत्रापि नास्ति वीप्सा। तेनानुपूर्व्ये द्वे भवत इत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -यथा `शेषे` [[4.2.91]] इति लक्षणञ्च, अधिकारश्च; तथा <<सर्वस्य द्वे>> [[8.1.1]] इत्येतदपि लक्षणमधिकारश्च। तेनानुपूर्व्ये द्वे भवत इत्युत्तरत्रापि द्विर्वचनविधौ यथायोगमेव व्याख्यानं कर्तव्यम्। यदि तर्हि `सर्वस्य द्वे इत्येतल्लक्षणमपि, एवं सति <<नित्यवीप्सयोः>> [[8.1.4]] इत्यादेर्वेयर्थत्य न भवति, तत्रैव [`तथा हि` -प्रंउ।पाठः] `नित्यदीप्सयोः` इत्येसादीनाम प योगानाम्। `अस्मात्? काषपिणादिह भवद्भ्यां मा मावं देहि` इत। अत्र द्बावेवेत्यवधार्यते। द्वावेव देहि, नैकम्, नापि बहुनित्यर्थः। विनापि ह्रेवकारप्रयोगेणावधारणे गम्यते; विवक्षितत्वात्, यथा -पार्थो धनुर्धर इति। ननु किं पुनः कारणे दीप्सा न सम्भवति? इत्याह -`अत्र हि` इत्यादि। अनेन वीप्साया अभाव दर्शयति। कार्षापणौ ह्रनेकमावसमुदायः। न च सर्वे मावा दानक्रियया व्याप्तुमिष्यन्ते, अपि तु द्वादेदेति नास्त्यतर वीप्सा -माषं देहि, द्वौ माषौ देहि, क्रीन्? मावान्? देहीति। एकं माषं देहि, द्वौ वा, त्रीन वा -इत्ययमत्रार्थो विवक्षितः, न त्ववधारणमिति द्विर्वचनं न भवति।`सम्भ्रमेण` इति। त्वरया। `प्रवृत्तिः` इति। प्रवत्तनम्। `अहिरहिर्बुध्यस्य बुध्यस्व` इति। यद्ययं न वुध्यतेऽह चर्व नावबोधयाम्, ततो नून दृष्ट [दष्टः -प्रांउ।पाठ] एवायमहिनेति मत्वा सम्भ्रमेणैवं वाक्य प्रयुक्ते। `क्रियासमभिहारे द्वे भवत इति वक्तव्यम्` (वा।886), `आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्` (वा।887) इत्येवं वाक्यद्वयं लोडादिभिरेव तन्नित्यताया द्योतितत्वाद्द्विवचनं न प्राप्नोतीत्युपन्यस्तम्। `नित्य` इत्यादिना <<नित्यवीप्सयोः>> [[8.1.4]] इत्यनेनैवात्र द्विर्वचनं सिद्धमिति दर्शयति। यथा च सिद्ध तथा तत्रैव `क्त्वाणगलोर्लोटश्च द्विर्वेचनापेक्षया इत्यादिना ग्रन्थेन प्रतिपादितम्। पटपटाकरोति` इति। पटच्छपब्दस्य डाचि विषयभूतेऽनुत्पन्न एव द्विर्वचनम्। ततः `अव्यक्तानुकरणाद्द्व्यर्जवरार्धादनितौ डाच` [[5.4.57]] , नित्यमाम्रीडते डाजि` [[6.1.96]] इति तकारस्य पररूपत्वम्। `पटपटायते इति। `लोहितादिडाज्भ्यः क्यष` , <<वा क्यषः>> [[1.3.90]] इत्यात्मनपदम्।`ढाजन्तस्य` इति। भाविडाजन्तमभिप्रेत्यैवमुक्तम्। तस्मात्? डाचि विषयभूतेऽनुत्पन्न एवैतद्द्विर्वचनमिष्यते। अत एव वृत्तिकारेण `अव्यक्तानुकरण` [[5.4.57]] इत्यादौ सूत्रे उक्तम् -डाचीति विषयसप्तमीयमिति। अत्र <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इति पररूपविधानं ज्ञापकम्। तत्र ह्र इति, अन्तस्येति, च वर्तते। यदि डाचि परभूते द्विर्वचनमिष्यते, ततो डाचि विहिते पटच्छब्दस्य नित्यत्वाट्टिलोपेनैव प्राग्भवितव्यम्; तथा च सत्यच्छब्दाभावात्? तत्? परूपं नोपपद्यते। तस्माद्विषयसप्तमीयम्। एवं कृत्वा <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इत्यत्र यदुक्तम् -`प्राक्? टिलोपाद्द्विर्वचनमिष्यते` इति, तदुपपन्नं भवति। एवं हि प्राक्? टिलोपाद्द्विर्वचनं सिध्यति; यदि डाचि विषयभूते तत्र तद्विधीयते; अन्यथा हि यदि तस्मिन्? परभूते विधीयेत, ततो नित्यत्वात्? प्राक्? टिलोप एव स्यात्, न तु द्विर्वचनम्। `द्वितीयाकरोति` इत्यादि। `कृञो द्वितीयतृतीय` [[5.4.58]] इत्यादिना डाच्। `तदर्थम्` इति। अव्यक्तानुकरणडाजन्तस्यैव द्विर्वचनं यथा स्यादित्येवमर्थम्। `केचित्` इति वचनात्? केचिद्बहुलमिति न पठन्तीत्युक्तं भवति। तेषामयमभिदप्रायः -`सर्वस्य द्वे` इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेनाव्यक्तानुकरणडाजन्तस्यैवात्र द्विर्वचनं भविष्यति, नान्यस्येति। ततो नार्थो बहुलग्रहणस्येति। `पूर्वप्रथमयोः` इत्यादि। `अर्थातिशयविवक्षायाम्` इति। पूर्वप्रथमशब्दस्य वाच्यस्यातिशयः प्रकर्षः, तस्य विवक्षा वक्तुमिच्छा, तस्यां द्वे भवत इत्येतर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। `नाप्राप्ते आतिशायिके द्विर्वचनमिदमारभ्यमाणं तस्य बाधकं प्राप्नोति` इति यो मन्येत, तं प्रत्याह -`आतिशायिकोऽप दृश्यते` इति। कथम्? `सर्वेस्य द्वे` [[8.1.1]] इत्यनेनैव द्विर्वचनं विधीयते। अत्र विभाषाधिकाराद्विकल्पेन। तेन यदा नास्ति द्विर्वचनं तदातिशायको भवति। `डतरडतमयोः` इत्यादि। `किंयत्तदोः` [[5.3.92]] इत्यादिना इतज्विहितः। `\tवा बहूनां जातिपरिप्रश्ने` [[5.3.93]] इत्यादिना डतमच्। समेन गुणेनाढत्वादिना निरूपणायोभादिमावाढआवित्येवमादिप्रकारा सा सम्प्रधारणा। स्त्रीलिङ्गशब्धः स्त्रीलिङ्गयोगात्? स्त्रीत्युक्तः। निगद्यतेऽनेनेति निगदः -`पुंसि संज्ञायां घः प्रायेण` [`प्रायेण` -नास्ति मुद्रिते] [[3.3.118]] इति घः। स्त्रीनिगदो यस्य स स्त्रीनिगदो भावः। डतरडतमान्तयोः स्त्रीनिगदे भावे वर्तमानयोः शब्दयोः सम्प्रधारणायां विषयभूतायां द्वे भवतः। डतरडतमग्रहणमत्रोपलक्षणार्थ द्रष्टव्यम्। अत एव वक्ष्यति -`डतरडतमान्यामन्यत्रापि दृश्यते` [`हि` इल्यधिकम् -काशिका] इति। इहाढत्वं कस्यचित्? साधनसम्बन्धकृतम्, कस्यचिद्यत्नकृतम्, कस्यचिद्भाग्यसम्पत्कृतम्। तत्रोभाविमावाढआवित्युक्ते प्रतिपत्ता किंकृतमनयोराढत्वमिति प्रतिपद्यमानः कतराकतराऽनयोराढतेति वाक्यं प्रयुङक्ते, तदाढता विभूतिपर्यायः स्त्रीनिगदो भावः। तत्र च डतरडतमान्ते वर्तते; तां प्रष्टुं प्रवर्त्तितत्वात्। `कर्मव्यतिहारे` इत्यादि। कर्मव्यतिहारः क्रियाविनिमयः। एकस्यान्यभोजनापदरस्यापीतरो भोजनादिः। समासवद्भावोऽनेन बहुलं विधीयते। द्विर्वचनं तु <<सर्वस्य द्वे>> [[8.1.1]] इत्यनेनैव सिद्धम्। स च समासवद्भावो बहुलवचनादन्योऽन्यशब्दे न भवत्येव। इतरेतरशब्दे तु नित्यम्। असमासपक्षे पूर्वपदस्य प्रथमैकवचनं कर्तव्यम्। `अन्योऽन्यमिमे ब्राआहृणा भोजयन्ति` इति। अन्यमित्यस्य द्वितीयैकवचनान्तस्य द्विर्वचनम्। अत्र समासवद्भावो नास्तीति पूर्वपदस्य प्रथमैकवचनम्। तस्य च <<ससजुषो रुः>> [[8.2.66]] , <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्वम्; <<आद्गुणः>> [[6.1.87]] , <<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपत्वम् -एते विधयो विधेयाः। `अन्योऽन्यस्य` इति। षष्ठन्तस्य द्विर्वचनम्। अन्योऽन्यसम्बन्धिनं पुत्रादिकं भोजयन्ति। अन्योऽप्यस्येत्यर्थः। `इतरेतरं भोजयन्ति` इति। द्वितीयान्तस्य द्विर्वचने कृते द्वितीयैकवचनम्, अमि पूर्वत्वम्? [[6.1.103]] । इतरेतरस्य` इति। षष्ठन्तस्य द्विर्वचनम्। सुब्लुकि कृते समासप्रातिपदिकत्वात्? पुनः षष्ठएकवचनं भवति।`स्त्रीनपुंसकयोः` इत्यादि। स्त्रीनपुंसकयोर्यत्? सर्वनाम कर्मव्यतिहारे वर्तते तदुत्तरपदस्य विकल्पेनाम्भावो वक्तव्यः। उत्तरपदस्येत्यवयवसम्बन्धे षष्ठी, तेनोत्तरपदस्य या विभक्तिरवयवभूता तस्या अयमादेशो भवति। स्थाने षष्ठआं ह्रस्यामनेकाल्त्वात्? सर्वादेशः स्यात्। `अन्योन्यामिमे ब्राआहृण्यो भोजयतः` इति। अन्यामित्यस्य द्विर्वचनम्, विभक्तेराम्भावः, पूर्वपदस्य बहुलवचनाध्यस्वत्वम्, पूर्ववद्रुत्वादि। `अन्योऽन्यम्` इत्यत्र उत्तरपदस्यापि पूर्ववद्? ह्लस्वत्वादिः। `इतरेतरां भोजयतः` इति। समासवद्भावे सति सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन (जैन।वृ।103) टापो निवृत्तिः। एवं `इतरेतरम्` इत्यत्रापि॥", "81013": "नञत्र विपक्षे वर्ततेऽधर्मानृतादिवत्। कृच्छ्रम्=दुःखम्, प्रयत्नः=प्रयास इत्यर्थः; स पुनः प्राणिधर्मः। कृच्छ्रविपक्षोऽकृच्छ्रम्; प्राणिधर्म एव, यस्मिन्? सति प्रयत्नमन्तरेणैव दानादिक्रियां सम्पादयति। तत्र वर्तमानयोः प्रियखशब्दयोद्र्वे भवतः। प्रियप्रियेण ददाति। विना प्रयासेन ददातीत्यर्थः। तृतयैकवचनान्तस्य द्विर्वचने कृते सुब्लकि च पुनस्तृतीयैकवचनमेव समासवद्भावेन भवति। `प्रियः पुत्रः, सुखो रथः` इति। नात्र प्रियसुखशब्दौ कृच्छ्रविपक्षे प्राणिधर्मविशेषे वर्तते, किं तर्हि? द्रव्ययोः। पुत्रो हि प्रीणातीति कृत्वा प्रिय इत्युच्यते, रथोऽपि सुखयतीत कृत्वा सुखः॥", "81014": "`यथास्वम्` इति। `यथाऽसादृश्ये [[2.1.7]] इति वीप्सायामव्ययीभावः। स्वशब्दो हीहात्मवचनः, आत्मीयवचनो वा -इति दर्शयितुमाह -`यो य आत्मा` इत्यादि। `यथायथम्` इति। `ह्रस्वो नपुंसके` [[1.2.47]] इति ह्यसवः॥", "81015": "`पूर्वपदस्याम्भावः` इत्यादि। द्विर्वचने कृते द्वि+औ इति स्थिते सुब्लुकि कृतेऽम्भावोऽत्वञ्चोभयमपीकारस्य क्रियते, यथा क्रमं समुदायात्? सुः, `अतोऽम्` [[7.1.24]] इति कृतेऽमि पूर्वत्वञ्च [[6.1.103]] , अन्यथा हि द्वन्द्वसिति रूपं त सिध्येत्। किं पुनरेदेषु रहल्यादिदाच्येषु द्वन्द्वमिति निपात्यते? उत विषयभूतेष्वित्यत आह -`तत्र` इत्यादि। रहः=गुप्तिः, तत्र साधु रहल्यम्, <<तत्र साधुः>> [[4.4.98]] इति `प्राग्धिताद्यत्त` [[4.4.75]] । अथ वा -रहसि भवमिति दिगादित्वाद्यत्? [[4.3.54]] । `मर्यादादचने` इति। मर्यादः=स्थित्यनतिक्तमः, तस्या वचनं मर्यादावचनम्। वचनग्रहणम् -शब्दोपात्तायां मर्यादायां यथा स्यात्, अर्थप्रकरणादिना गम्यमानायां मा भूत्। `आचतुरम्` इति। <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इत्यव्ययीभावः; <<अव्ययीभावे शरत्प्रभृतिभ्यः>> [[5.4.107]] समासान्तष्टच्। उदाहरणे भर्यादार्थमभिव्यक्तीकर्तमाह -`माता पुत्रेण` इत्यादि। माता हि मिथुताय चतुरः सन्तानजान्? प्राप्नोति, न तु ततोऽधिकान्? पुत्रपौत्रपयौत्रतत्पुत्रान्। `मर्यादार्थः` इति। मर्यादेवर्थो मर्यादार्थः। `प्रयुनक्ति` इति। उपकल्पयतीत्यर्थः। `द्वन्द्वानि` इति। शीतोष्णादीनि सुखदुःखहेतूनित्यर्थः। [सुखदुःखहेतूनीत्यर्थः -प्रांउ।पाठः] यदि योगविभागः क्रियते, रहस्यादिग्रहणमनर्थकम्? नानर्थकम्; प्रपञ्चार्थत्वात्। द्वन्द्वमित्यस्य वा योगविभागस्यासर्वविषयज्ञापनार्थत्वात्॥", "81016": "`प्रागपदान्ताधिकारात्` इति। `अपदान्तस्य भूर्धन्यः` [[8.3.55]] इत्यतः प्राक्। अनन्तरेषु योगेष्वामन्त्रितादेः सुबन्तस्य तिङन्तस्य च यत्? कार्य विधीयते तत्रान्तरेणापि पदाधिकारं पदस्यैव कार्यं लभ्यते, अतस्तानुल्लङ्ध्य यत्र पदाधिकारस्योपयोगस्तमेवोपन्यस्यत। `वक्ष्यति -संयोगान्तस्य लोपः` इति। <<षष्ठी स्थानेयोगा>> [[1.1.49]] इति नियमात्? `पदस्य` इत्येषा स्थानषष्ठी। स्थानषष्ठआञ्चास्यान्? `उदात्तस्वरतयोर्यणः स्वरितोऽनुदात्तस्य` [[8.2.4]] इत्यस्यायमर्थो जायते -उदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तस्य पदस्य स्वरितो भवतीतिः तथा चात्रैव स्यात् -कुमार्याविति, कुमार्य इत्यत्र न स्यात्। न ह्रेतदुदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तं पदम्, किं तर्हि? सकारान्तम्। <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इत्यत्रापि स्थानषष्ठआमस्यामयमर्थो जायते -उदात्तानुदात्तयोर्य एकदेशस्तदन्तस्य पदस्योदात्तो भवतीति। तथा चात्रैव स्यात् -वृक्षाविति, वृक्षा इत्यतर न स्यात्। न ह्यत्रोदात्तानुदात्तयोर्य एकादेशस्तदन्तं पदम्, किं तर्हि? सान्तमिति यश्चोदयेत्, तं प्रत्याह -`वक्ष्यमाणवाक्यापेक्षया` इत्यादि। हेतावियं तृतीया। वक्ष्यमाणानां वाक्यानां याऽपेक्षा तया हेतुभूतया पदस्याधिकृतस्य षष्ठर्थव्यवस्था द्रष्टव्या। व्यवस्था=नियम इत्यर्थः। वक्ष्यमाणानि हि वाक्यानि कानिचित्? <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्येवमादीनि पदस्येति स्थानवष्ठीमपेक्षन्ते। कानिचित्? `उदात्तस्वरितयोर्यणः` [[8.2.4]] इत्येवमादीन्यवयवषष्ठीमिति। अत एव परापेक्षया षष्ठर्थे नियमो भवति। अधिकारा हि परार्था भवन्ति। एवञ्चैषां परार्थता भवति यदि ते परापेक्षानुरोधेनार्थमात्मसात्? कुर्वन्ति। `क्यचित्` इत्यादिना तामेव षष्ठर्थव्यवस्थां दर्शयति। किं पुनः कारणन्? `षष्ठो `स्थाने योगा` [[1.1.49]] इत्येष नियमोऽत्र न प्रवर्तते? एवं मन्यते -सम्बन्धन्ध्यन्तरापेक्षया नियमोऽयम्। योगो हि सम्बन्धः, स चानेकसम्बन्ध्याधारः। न चेहाधिकारसूत्रे सम्बन्ध्यन्तरं विद्यते, अतो नास्त्येव तस्येहोपस्थानमिति॥", "81017": "`प्राक्? कुत्सने च सुप्यगोत्रादौ` इत्यादि। कुत एतत्? अत्र केचिदाहुः -``सुपि` [[8.1.69]] इति येयं सप्तमी तथा `पदात्` इत्यस्याः पञ्चम्या निमित्तभावस्य बाधितत्वान्नोत्सहते प्रवर्त्तितुम्, अतो बाध्यते पञ्चस्या निमित्तभावः` इति, एतच्चायुक्तम्; न हि सप्तमीपञ्चम्योर्निमित्तत्वे सत्याश्रीयमाणे कश्चिद्विरोधः। तत्रैवमभिसम्बन्धः स्यात् -पदात परं यत्तिङन्तं कुत्सनवाचिनि सुबन्ते परतस्तस्मिन्निहन्यत इति, ततश्चेहैव स्यात् -देवदत्तः पचति पूतीति, इह तु न स्यात् -पचति पूतीति। किञ्च `चनचिदिवगोत्रादितद्धिताभ्रेडितेध्वगतेः` [[8.1.57]] इत्यत्रापि पदादित्यस्यानुवृत्तिर्न स्यात्। सप्तम्या `पदात्` इत्यस्याः पञ्चम्याः बाधितत्वात्; ततश्च निद्यातार्थमेव सूत्रे स्यात्। चनादिप्रयोगे सति विज्ञायेत -तस्मादिति। अतोऽधिकाराणां प्रवृत्तिनिवृत्ती भवत इति समाधेयम्। अथ वा -पदादिस्येतत्? प्रतिषेधेन सम्बद्धम्। अतः `कुत्सने` [[8.1.69]] इत्यतर प्रतिषेधे निवृत्ते `पदात्` इत्येतदपि निवर्तते॥", "81018": "`यत्? ते नियतम्` इत्यादि। अत्र `मृत्यो` इत्येतदामन्त्रितं पदं भवति रजसमित्येतस्मात्? पदात्? परन्। किन्तु मृत्यो अनवधृष्यभित्यस्य पदस्यादौ वर्तत इति न भवति निघातादेशः। अस्मिन्नसति <<आमन्त्रितस्य च>> [[8.1.19]] इत्यामन्त्रिस्य षाष्ठिकमेवाद्युदात्तत्वं भवति। `रुद्रो विआ` इति। अत्र `देवः` -इत्यस्मात्पदात्? परं `युष्माकम्` इत्येतत्? पदं भवति, किन्तु `युष्माकं कुलदेवता` इत्यस्य पादस्यादौ वर्तत इति न भवति वसादेशः। अनन्तरेऽपि प्रत्युदाहरणे `अस्माकं शत्रुमर्वनः` इत्यस्य पादस्यादौ वर्त्त्तेऽस्माकमित्येतत्पदम्। तेन `भगवान्` इत्यस्मात्? पदात्? परस्यापि तस्य नसादेशो न भवति। `पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्रते` इति। विशेषानुपादानात्। अथ सर्वग्रहणं किमर्थम्, यावता <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति पदेषु स्वरित उदात्तो वैव एव भवति; तस्य चानुदात्त आदिष्टे सर्वमेवानुदात्तं पदं जायते? इत्याह -`सर्वग्रहणम्` इत्यादि। `अनूद्यमानम्` इत्यादिना सर्वग्रहणस्य प्रयोजनमाचष्टे। तद्द्विविधं पदम् -अनूद्यमानम्, विधीयमानञ्च। तत्र यत्? सिद्धमेव कार्यन्तरार्थं संकीत्र्यते नदनूद्यमानं पदम्, यत्त्वपूर्वमेव विधीयते तद्विधीयमानम्; तदुभयमप्यनुदात्तं यथा स्यादित्येवमर्थं सर्वग्रहणम्। तेन किं सिद्धं भवति? इत्याह -`तेन` इत्यादि। युष्मदस्मदादेशा हि विधीयमानत्वादसिद्धसत्ताकाः। सिद्धस्य हि वस्तुनो धर्मान्तरं खस्यते कर्तुम्, यथा -निष्पन्नरूपस्य वाससो रागः, नानिष्पन्नस्य; तथा तस्यैवानुपजातावस्थस्य। तत्रासति सर्वग्रहणे यदेव सिद्धसत्ताकं पदमनूद्यमानमामन्त्रितादि, तस्यैदानुदात्तत्वं विधीयते, न तु युष्मदस्मदादेशानाम्। सर्वग्रहणे तु सति तेषामपि विधीयते। अथ क्रियमाणेऽपि सर्वग्रहणे कथं युष्मदस्मदादेशानामप्यनुदात्तत्वं शक्यं विधातुम्? न हि तेन तेषां विधानकाले यदसिद्धत्वं तदपनीतम्? इत्यत आह -`वाक्यभेदेन` इत्यादि। सर्वग्रहणसामर्थ्यादत्र व#आक्यभेद उक्तो भवति, न ह्रन्यथा सर्वग्रहणस्यानुदात्तत्वं शक्यं विज्ञातुम्। तत्रैकेन वाक्येनादेशा विधीयन्ते द्वितीयेन च तेषामनुदात्तत्वम्। कथं तर्हि विधीयमानमित्युक्तम्, यावता विहितानामेव युष्मदस्मदादेशानां वाक्यान्तरेणानुदात्तत्वं विधीयते? यदिह प्रकरणे विधीयमानं तद्विहितं सदुत्तरकालमनुदात्तं यथा स्यात् -इत्ययं तेत्राभिप्रायो वेदितव्यः। यद्यसिद्धस्य धमन्तिरमशक्यं विधातुम्, तत्कथं `लुङलङ्लृङ्क्ष्वडुदात्तः` [[6.4.71]] इत्यत्र विधीयमानस्याट उदात्तत्वं विधीयते? तत्रापि वचनप्रामाण्याद्वाक्यभेदः कृतो भवेत् -तत्रैकेन वाक्येनाङ्विधीयते, अपरेण तु विहितस्योदात्तत्वम्; इह त्वसति सर्वग्रहणे वाक्यभेदो न लभ्यत इत्यनुदात्तत्वमेव न स्यात्? अनुदात्तवचनस्यामन्त्रितादिषु चरितार्थत्वात्। `युष्मदस्मदादेशाश्च` इति। चशब्दः प्रयोजनान्तरसमुच्चये। इदञ्चान्यत्? सर्वग्रहणस्य प्रयोजनम् -युष्मदस्मदोर्वान्नावादय आदेशा सर्वस्य सुबन्तस्य पदस्य यथा स्युरिति; अन्यथा ह्रसति सर्वग्रहणे `युष्मदस्मदोः` [[8.1.20]] इति षष्टीनिर्देशाद्विभकिंत विहाय तयोः केवलयोरेव स्युः। ननु च `पदस्य` [[8.1.16]] इति वर्तते, विभक्यन्तं हि पदम्, तत्रान्तरेणापि सर्वग्रहणं सर्वस्य सविभक्तिकस्यैव पदस्य भविष्यति? इत्यत आह -`यत्रापि` इत्यादि। स्वादौ पदं स्वादिपदम्, `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः; तत्पुनर्यस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा विहिता। असति सर्वग्रहणे यत्र विभक्त्यन्तं पदं तत्रैव सविभक्तिकस्य पदस्य स्युः। यत्र विभक्तौ परतः पूर्व पदं तत्र न स्युः, इष्यन्ते च तत्रापि सर्वस्य। तस्माद्यत्रापि स्वादिपदं चतुर्थीद्विवचनादौ तत्रापि सर्वस्य सुबन्तस्य यथा स्युः इत्येवमर्थं `सर्वम्` त्युचेयते। ननु चामन्त्रितस्य पदात्? परस्यानुदत्तत्वं वक्ष्यति। तत्र नाप्राप्ते आमन्त्रिताद्युदात्तत्व इदमनुदात्तत्वमारभ्यत इति तस्यापदादः, ततश्च तेन तस्मिन्? बाधिते प्रकृतिल्वरत्वमामन्त्रितल्यापद्येत; सर्वग्रहणात्तु सर्वस्वरप्राप्तिरामन्त्रितानुदात्तत्वेन बाध्यते, तस्मात्? सर्वस्वरप्राप्तिबाधनार्थमपि सर्वग्रहणं कस्मान्न भवति? नार्हत्येवं भवितुम्; अनुदात्तशब्दो ह्रयमामन्त्रितसमानाधिकरणः सर्वस्वरप्राप्त बाधिष्यते। न ह्राद्युदात्तत्वे प्रतिषिद्धे प्रकृतिस्वरे क्रियमाणेऽनुदात्त शब्देनामन्त्रितमुच्यते। तस्मात्? पूर्वोक्तमेव सर्वग्रहणस्य प्रयोजनम्॥", "81019": "`आमन्त्रिताद्युदात्तत्वे प्राप्त इदमुच्यते। इह पदाधिकारमात्रं प्रकृत्य निघातयुष्मदादेशा विधीयमाना यत्रापि नेष्यन्ते, तत्रापि प्रसजन्ति। यत्रापि क्वचिदिष,यन्ते, तत्रापि क्वचिन्न प्राप्नुवन्ति, अत एतद्दोषपरिजिहीर्षयाऽऽह -`समानवाक्ये` इत्यादि। यस्मात्? पदात्? परस्यामन्त्रितादेर्निघातादि कार्यं विधीयते, तयोः समान एकस्मिन्? वाक्य आधारभूते सति विघातादयो विधीयन्त इति वक्तव्यम्। किमर्थम्? इत्याह -`इह` इत्यादि। `अयं दण्डः` इति। अत्रास्तीत्येतदपेक्षते। अप्रयुज्यमानमपि गम्यत इत् तथोक्तम्। `यत्रान्यत्? क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयुज्यते इत्यप्रयुज्यमानोऽपि गम्यते` इति, तदेवमस्तीत्यनेन गम्यमानेन सहितमयं दण्ड इत्येकं धाक्यम्, हरानेनेत्यपरम्। तत्र यद्येकवाक्ये निघातादयो नोच्येरन्, ततो दण्डादिशब्दादतिङन्तात्? परस्य हरेत्यस्य तिङन्तस्य निघातः प्रसज्येत। ननु पदविधिरयम्, स च सामर्थ्ये सति भवति, न चेह तदस्ति, अतोऽसामर्थ्यान्निधातो न भविष्यतीति चेदिहापि तर्हि न स्यात् -इह देवदत्त् माता ते कथयति, नद्यास्तिष्ठति कूले, शालीनां त ओदनं दास्यामीति। न ह्यत्रेहेत्यनेन देवदत्तेत्यामन्त्रितस्यास्ति सामर्थ्यम्; अपि च विद्यत एवायं दण्डो हरानेनेत्यत्र सामर्थ्यम्, तथा ह्रनेनेति सर्वनाम्ना यत करणेन प्रत्यवमुश्यते तद्धरेत्येतदपेक्षते। तच्च प्रत्यासत्तेर्वण्ड एवेत्यस्ति दण्डस्य हरेत्येतस्य च व्यपेक्षालक्षणं सामर्थ्यम्। `ओदनं पच तव भविष्यति` इति। ओदनं पचेत्यकं वाक्यम्, तव भविष्यतीत्यपरम्। `ओदनं पच मम भविष्यति` इति। अत्राप्योदनं पचेत्येकं वाक्यम्, मम भविष्यतीत्यपरम्। तत्र यद्येकवाक्ये युष्मदस्मदादेशा नोच्येरन्, ततः पचेत्येतस्मात्? पदात्? परयोर्युष्मदस्मदोस्तु <<तेमयावेकवचनस्य>> [[8.1.22]] इति तेमयावादेशो स्याताम्, अस्ति ह्यत्रापि सामर्थ्यम्। तथा हि -युष्मच्छब्ददाच्योऽस्मच्छब्दवाच्यश्च योऽर्थस्तत्साधनेन पाकेन तत्त्वामिकौदनो भविष्यतीत्येवम्भूता पाकस्य युष्मदस्मदोश्च व्यपेक्षा विद्यते। असः समानवाक्यग्रहणे तु सति न किञ्चिदनिष्टमापद्यते। `इह च` इत्यादि। चशब्दः समुच्यये। इदञ्चापरमत्त्या इष्टेः प्रयोजनमिति दर्शयति। `इह देवदत्त माता ते कथयति` इत्येकं वाक्यम्, `नद्यास्तिष्ठति कूले` इति द्वितीयम्। `शालीनां त ओदनं दास्यामि` इति तृतीयम्। तत्र प्रथमे वाक्ये -इहेत्यस्मात्? पदात्? परस्य देवदत्तस्यामन्त्रितस्यानेन निघातो यथास्यात्, द्वितीये -नद्या इत्वस्मात्परस्य युष्मच्छब्दस्य `तेमयावेकवचनक्य` [[8.1.22]] इति त इत्येवमादेशो यथा स्यादित्येवमर्थं समानवाक्ये निघातादयो वेदितव्याः। अस्मच्छब्दादेशोदाहरणमिह नोपन्यस्तम्; युष्मच्छब्दादेशोदाहरणेनैवावगम्यमानत्वात्। तात्पुनः शालौनामोदनं मे देहीत्येवंजातीयकं तत्र द्रष्टव्यम्। किं पुनः स्याद्यदि समानवाक्ये निघातयुष्मदस्मदादेशा नोच्येरण्? इत्यत आह -`आमन्त्रितान्तम्` इत्यादि। प्रथमे तावद्वाक्ये -इहेत्येतदधिकरणप्रधानम्, अधिकरणञ्चाधेयापेक्षम्, तच्चाधेयं माता न तु देवदत्तः। इह ते स्विता माता कथयतीत्यर्थः। तस्मादिहशब्देन नास्तिदेवदत्तत्यस्यामन्त्रितस्य सामर्थ्यम्। द्वितीये तु नद्या इत्येतस्मात्? परं तिष्ठतीत्येतत्? तिङन्तम्। न च तस्या नद्या इत्यनेन सामर्थ्यम्; किं तर्हि? कूल इत्यस्य। त#ऋतीयेऽपि -शालीनामित्यस्मात्? पदाद्युष्मच्छब्दः परः, म तु शालीनामित्यनेन तस्य सामर्थ्यमस्ति, किं तर्हि? ओदनस्येति। ततः सामर्थ्याभावात्? तदाश्रया निघातादयो न त्युः। `तदाश्रयाः` इति। इहेत्येतत्? पदं `नद्या` इत्येच्छालीनामित्येतच्छाश्रयो निमित्तं यथां ते तथोक्ताः। अथ वा -तत्? सामर्थ्यमाश्रयो येषां ते तथोक्ताः। असल्यां ह्रस्यामिष्टौ पदादधिकारात्? पदविधिर्निघातादि कार्यं भवति, स च सामर्थ्यनिबन्धनः। तच्च सामर्थ्यमिह नास्तीति कुतो निघातादेः प्रसङ्गः! तस्मादसामर्थ्येऽपि यथा स्यादित्येवमर्थं समानवाक्ये निघातादि कार्य वक्तव्यम्॥", "81020": "`षष्ठीचतुर्थीद्वितीयास्ययोः` इति। षष्ठआदिषु यौ तिष्ठतस्तौ तथोक्तौ। `सुपि स्था` [[3.2.4]] इति कः। कि पुनः कारणं द्विवचनान्तयोरेवोदाहरण पन्यस्तम्? इत्याह -`एकवचनान्तबहुवचनान्तयोः` इत्यादि। अथ स्थग्रहणं किमर्थम्, न `युष्मदस्मदोः षष्ठीचतुर्थीद्वितौयासु` इत्येवोच्येत, षष्ठआदिषु विधीयमानेध्ववश्यं युष्मदस्मदोस्तात्स्थ्यं भविष्यति? इत्यत आह -`स्थग्रहणम्` इत्यादि। श्रूयमाणा विभक्तिरर्थः प्रयोजनं निमित्तं यस्य तत्? तथोक्तम्। [`तथोक्तं भवति -कांउ।पाठः] एतदुक्तं भवति -श्रूयमाणाअ षष्ठआदिका विभक्तिरादेशस्य निमित्तं कथं नाम लभ्येतेत्येवमर्थं स्थग्रहणमिति? तेन विभक्तिर्यत्रन श्रूयते तत्र न भवतीति -अयं युष्मत्पुत्रोऽयमस्मत्पुत्र इति। असति तु स्थग्रहणे लुप्तायामपि विभक्तौ प्रत्ययलक्षणेन [[1.1.61]] स्यातामेवादेशौ। अश्रूयमाणरणं पुनरत्र विभक्तेः षष्ठीसमासे कृते <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति लुप्तत्वात्। कथम्? पुनः स्थग्रहणे श्रूयमाणा [एष पंक्तिभागः का। मुद्रितेनोपलभ्यते] विभक्तिरादेशस्य निमित्तत्वेन लभ्यते? श्रूयमाणायामेव तस्यां तात्स्थ्यस्य सम्भवात्। अथ वा -तिष्ठतिरयमपरिहाणावर्थे वर्तते, यथा -`समये तिष्ठ सुग्रीव` [`न च सङ्कुचितः पन्थाः येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥`] (वा।रा।किं।स।30।श्लो।81) इति। समयं न परिजहिहीत्यर्थः। तेनैवं विज्ञायते -षष्ठ#ईचतुर्थीद्वितीयामपरिजहतोर्युष्मदस्मदोरादेधाविति। एवं च विज्ञायमाने श्रूयमाणैव विभक्तिरादेशस्य निमित्तत्वेनोपात्ता भवतीति॥", "81021": "", "81022": "किं पुनः कारणं षष्ठीचतुथ्र्यन्तयोरेवोदाहरणमुपन्यस्तम्, न द्वितीयान्तयोः? इत्याह -`द्वितीयान्तस्य` इत्यादि॥", "81023": "त्वामौ द्वितीयायाः। त्वाश्च माश्चेति विग्रहः। एकवचनस्येत्यनुवर्तते। तदाह-द्वितीयेत्यादिना।अथ विभक्तिक्रमकॢप्तद्वितीयाचतुर्थीषष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरति-श्रीश इत्यादि। `तत्र `श्रीशस्त्वावतु मापीहे`ति प्रथमः पादः। श्रिया ईशः==पतिः -विष्णुः, त्वा मा अपि पातु इत्यन्वयः। अत्र त्वां, मामिति द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ। दत्तात्ते मेऽपि शर्म स इति। स श्रीशः ते मेऽपि शर्म सुखं दत्तादित्यन्वयः। `डु दाञ् दाने` आशिषि लोटि दत्तादिति रूपम्। `दद्या`दिति क्वचित्पाठः। अत्र तुभ्यं मह्रमिति चतुर्थ्येकवचनान्तयोस्ते मे इत्यादेशौ। स्वामी ते मेऽपि स हरिरिति। अत्र तव मम इति षष्ठएकवचनान्तयोस्ते मे आदेशौ। पातु वामपि नौ विभुरिति। विभुः=सर्वव्यापको वां नौ अपि पातु इत्यन्वयः। अत्र युवामावाम् इति द्वितीयाद्विवचनयोर्वां नौ इत्यादेशौ। सुखं वां नौ ददात्वीश इति। `नौ` इत्यनन्तरमपिशब्दोऽध्याहार्यः। अत् युवाभ्यामावाभ्याम् इति चतुर्थीद्विवचनान्तयोर्वांनावौ। पतिर्वामपि नौ हरिरिति। अत्र युवयोरावयोरिति षष्ठीद्विवचनान्तयोर्वांनावौ। सोऽव्याद्वो न इति। सः=हरि वः नः अपि अव्यात्=रक्षतादित्यर्थः। अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोर्वस्नसौ। शिवं वो नो दद्यादिति। शिवमिति शुभमुच्यते। `न` इत्यनन्तरम् `अपी`त्यध्याहार्यम्। अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोर्वस्नसौ। सेव्योऽत्र वः स न इति। स हरिः वः नः-अपि सेव्यः=भजनीयः इत्यर्थः। `कृत्यानां कर्तरि वा` इति षष्ठी। अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोर्वस्नसौ। त्वां पातु मां पात्विति। अत्र युष्मदस्मोः पदात्परत्वाऽभावात् `त्वामौ द्वितीयायाः` इति न भवतीत्यर्थः। अद्यप्यत्र अस्मच्छब्दस्य पात्विति पदात्परत्वमस्ति, तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः। संवेद्योऽस्मानिति। अत्राऽस्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः। यद्यप्यनुष्टुप्छन्दस्कोऽयं श्लोकः, तत्र एकैकः पाटोऽष्टाक्षर इति स्थितिः। तत्र सन्ध्यभावे `अस्मान्कृष्णः सर्वदाऽवतु #इत्यस्य नवाक्षरत्वान्न पादत्वम्। कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्व व्याघातः। `संवेद्य` इत्यस्य पदत्वाऽभावादस्मदः पदात्परत्वाऽभावश्च। पूर्वान्तत्वे तु `स्मा`नित्यस्य पादादिस्थितस्य नास्मच्छब्दरूपता, तथापि `संवेद्यो` इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्पदत्वम्। `स्मानित्यस्य तु एकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम्। वस्स्तुतस्तु ओकारस्य पूर्वान्तत्वात्संवेद्यो इत्यस्य पदत्वम्, स्मानित्यादेरष्टाक्षरत्वं च। परादित्वाच्चास्मच्छब्दरूपता। `उभयत आश्रयणे नान्तादिव`दिति तु नास्तीतीण्धातौ निरूपयिष्यामः। केचित्तु `अपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदावतु` इति प्रत्युदाहरन्ति। तन्नि, युष्मानित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः। अस्मानित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात्। ननु `युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयान्तयोः` इत्येव सूत्र्यतां, कि स्थग्रहणेन। स्थग्रहणे।ञपि कथञ्चित्तस्यैवार्थस्य लामादित्यत आह -हासीरिति गम्यते। ततश्च षष्ठीचतुर्थीद्वितीयास्तिष्ठतः=न परित्यजत इति व्युत्पत्तिर्विवक्षिता। षष्ठआदिविभक्तीरपरित्यजतोरित्यर्थः। अलुप्तषष्ठआदिविभक्तिविशिष्ठयोरिति फलतीति भावः। इति युष्मत्पुत्र इति। पदात्परत्वं सम्पादयितुम् `इति` शब्दः। युवयोर्युष्माकं वा पुत्रः, आवयोरस्माकं वा पुत्र इति विग्रहः। अत्र विभक्तेर्लुका लुप्तत्वात्श्रूयमाणविभक्तिकत्वाऽभावान्नादेशप्रवृत्तिः। तव पुत्रो मम पुत्र इति विग्रहस्तु न, `प्रत्ययोत्तरपदयोश्चे`ति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात्। समानवाक्ये #इति। निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः। निघातशब्दोऽनुदात्तवाची। एकतिङिति। तिङित्यनेन तिङन्तं विवक्षितम्। एकस्तिङ् यस्येति विग्रहः। इदं च वाक्यलक्षणमेतच्चास्त्रोपयोग्येव। तेन `पश्य मृगो धावती`त्यादौ नाऽव्याप्तिरिति समर्थसूत्रे भाष्पे स्पष्टम्। ओदनमिति।`ओदनं पचे`त्येकं वाक्यम्। `तव भविष्यती`त्यपरं वाक्यम्। ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात्पदात्परत्वाऽभावान्नादेश इति भावः। शालीनामिति। व्रीहीणामित्यर्थः। प्रकृतिविकारभावे षष्ठी।एते वांनावादय इति। इदंच `सपूर्वायाः` इति सूत्रे भाष्ये स्थितम्। धातेति। महादेवं प्रति वचनमेतत् `अन्वादेशे तु नित्य`मित्यस्योदाहरणमाह -तस्यमै ते नम इत्येवेति। अत्र `योऽग्निर्हव्यवाट् य इन्द्रो वज्रबाहुः` इत्यादिपूर्ववाक्यं द्रष्टव्यम्। एवंच किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं बोधयितुं पुनरूपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः।", "81024": "`एभिर्युक्ते` इति। <<नपुंसके भावे क्तः>> [[3.3.114]] एभिर्योग इत्यर्थः। अथ वा -`तयोरेव कृत्यक्त खलर्थाः` [[3.4.70]] इति कर्मणि क्तः। एभिर्युक्ते सम्बद्धे। कस्मिन्? युष्मच्छब्देऽस्मच्छब्दे च। यद्यपि तौ द्विर्वचनान्तौ प्रकृतौ, तथापीह प्रत्येकमभिसम्बन्धादेकवचनं कृतम्। `तव, मम` इति। <<युष्मदस्मद्भ्यां ङसोऽश्>> [[7.1.27]] , <<तवममौ ङसि>> [[7.2.96]] । `युवयोरावयोः` इति। <<युवावौ द्विवचने>> [[7.2.92]] । `युष्माकमस्माकम्` इति। <<साम आकम्>> [[7.1.33]] । `तुभ्यं मह्रम्` इति। `ङेप्रथमयोरम्` [[7.1.28]] इत्यम्, `तुभ्यमहौ ङयि` [[7.2.95]] । `धुष्मभ्यमस्मभ्यम्` इति। <<भ्यसो भ्यम्>> [[7.1.30]] । `त्वां माम्` इति। <<त्वमावेकवचने>> [[7.2.97]] इति त्वमादेशौ, <<द्वितीयायां च>> [[7.2.87]] इत्यात्त्वम्। `युष्मान्, अस्मान्` इति। `शसो न` [[7.1.29]] , `पूर्ववदात्त्वम्`। `युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्` इति। साक्षादव्यवधानेन चादिभिर्योगः। तस्य प्रतिपत्तिर्यथा स्यादित्येवमर्थ युक्तग्रहणम्। कथं पुनर्युक्तग्रहणे साक्षाद्योगप्रतिपत्तिर्भवति? एवं मन्यते -अपरिसमाप्तत्वादस्य वाक्यस्य तृतीयानिर्देश एव युक्तग्रहणमध्याहरिष्यति, यथा -`तुल्यार्थे रतुलोपमाभ्याम्` [[2.3.72]] इत्यत्र। तस्माद्युक्तग्रहणं न कर्तव्यमेव? तत्? क्रियते साक्षाद्योगप्रतिपत्तिर्यथा स्यादिति। अन्यस्त्वाह -पदविधिरयम्, पदविधिश्च समर्थानामेव भवति, तत्र पदविधित्वादेव योगे लब्धे यद्युक्तग्रहणं क्रियते तत्? साक्षाद्योगप्रतिपत्तिर्यथा स्यादिति? एतच्चायुक्तम्; असामर्थ्येऽपि निघातादिकार्यं समानवाक्ये भवतीत्युक्तमेतत्। कदा पुनश्चादिभिः साक्षाद्युष्मदस्मदोर्योगः? यदा तदर्थगतान्? समुच्चयादीनर्थास्ते द्योतयन्ति। इहैते चादयः समुच्चयादिना द्योत्येनार्थेनार्थवन्तः, तत्र यदा युष्मदस्मदनुगतानेव समुच्चयादीन्? धर्मान्? द्योतयन्ति, तदा चादिभिः साक्षाद्युष्मदस्मदोर्योगः। यदा तु ग्रामादिसम्बन्ध्यन्तरगताः, तदा युक्तयोगः, न तु साक्षाद्योगः। तत्र युक्तयोगे प्रतिषेधो न भवति -ग्रामश्च ते स्वं नगरञ्च मे स्वमिति। तत्र ग्रामशब्दो नगरशब्दश्च चशब्देन युक्तः; तदर्थगस्तस्य समुच्चयस्य तेन द्योतनात्। युष्मदस्मच्छब्दौ तु ग्रामनगराभ्यां युक्तौ; तयोस्ताभ्यां स्वस्वामिकत्वसम्बन्धस्यार्थस्येह सम्भवात्। ननु च साक्षाद्योगप्रतिपत्त्यर्थं युक्तग्रहणम् -युक्तयुक्ते मा भूदित्येवमर्थं कथं क्रियते, न च चादियोगे प्रतिषेध उच्यमानो युक्तयुक्ते प्राप्नोति, न हि यश्चादिभिर्युक्तयुक्तेन योगः स चादियोगो भवति, तत्कसाक्षाद्योगप्रतिपत्त्यर्थेन युक्तग्रहणेन? एवं तह्र्रेतदेव युक्तग्रहणं ज्ञापयति -इह प्रतिषेधकाण्डे युक्तयुक्तेऽपि प्रतिषेधो भवतीति। तेनोत्तरसूत्रे यद्वक्ष्यते -`पस्यार्थैर्युक्तयुक्तेऽपि प्रतिषेधः` इति तदुपपन्नं भवति॥", "81025": "पश्यार्थैरिति बहुव्रीहिः। तत्र `पश्य` इति यदि `पाध्रध्माधेट्वृशः शः` [[3.1.137]] इति कर्तरि शप्रत्ययान्तः स्यात्? ततो द्रष्ट्रर्थैरित्यर्थः स्यात्। एवं च `अनालोचने` इति प्रतिषेधो दुर्घटः स्यात्। तस्मादालोचनशब्दोऽयं भावसाधनः -आलोचितिरालोचनमिति। तत्र द्रष्ट्रर्थैर्युक्त प्रतिषेध उच्यमानः कः प्रसङ्गो यदालोचनवृत्तिभिर्युक्ते स्यात्, नैव प्राप्नोति, स एधोऽनालोचन इति प्रतिषेध उच्यमानः कः प्रसङ्गो यदा लोचनवृत्तिभिर्युक्ते स्यात्, नैव प्राप्नोति, स एवोऽनालोचन इति प्रतिषेधः कथमुपपद्यते? यदि पश्यशब्दो भावसाधनो भवति, नान्यथा। तस्मादत एव निपातनात्? <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति वा भावेऽत्र शप्रतत्ययः, तत्र `पाध्रा` [[7.3.78]] इत्यादिना पश्यादेशः, द्वयोरकारयोः पररूपत्वम्? [[6.1.94]] । पश्योऽर्थो येषां ते पश्यार्था दर्शनार्था इत्यर्थः। दर्शनशब्दोऽयं चक्षुष्पर्यायोऽस्ति, यथा -`अक्ष्णोऽद्रशनात्` [[5.4.76]] इत्यत्र। अतश्चक्षुधोऽपि सम्प्रत्ययः कस्यचिन्मा भूदित्यत आह -`दर्शनं ज्ञानम्` इति। तच्चोत्तरत्रालोचनं चक्षुज्र्ञानमिति, चक्षुज्र्ञानस्य पृथगुपादानात्, ततोऽन्यद्विज्ञायते। `ग्रामस्त्वां समीक्ष्यागतः` इत्यादिकं साक्षाद्युक्त उदाहरणम्। `ग्रामस्तव स्वं समीक्ष्यागतः` इत्यादिकं युक्तयुक्ते। `समीक्ष्यागतः` इति। मनसा निरूप्यागत इत्यर्थः। `ग्रामस्त्वा पश्यति` इति। चक्षुज्र्ञानेन त्वां पश्यातीत्यर्थः। `तथा चैवोदाहृतम्` इति। यादृशीयमिष्टिस्तदर्थरूपमेवोदाहृतमित्यर्थः॥", "81026": "सहशब्दोऽत्र विद्यमानवचनः, पृर्वशब्दो व्यवस्थावाची। सह विद्यमानं पूर्व यस्याः सा सपूर्वा -पञ्चम्यर्थे बहुव्रीहिः, <<वोपसर्जनस्य>> [[6.3.82]] इति सहस्य सभावः। `प्रथमायाः` इति। प्रत्ययग्रहणपरिभाषया (भो।प।7) तदन्तग्रहणं विज्ञायते। अत एवाह -`प्रथमान्तात्? पदात्` इति। `युष्मदस्मदोर्विभाषा` इत्यादि। आदेशः=कथनम्, अन्दादेशः=अनुकथनम्। न अन्वादेशोऽनन्वादेशः। तत्रानन्वादेशे युष्मदस्मदोर्विभाधा भवतीति वक्तव्यम्। किमर्थमित्याह -`इह` इत्यादि। `सर्व एव` इत्यादि। ये सपूर्वात्? प्रथमान्तात्? पदात्परयोर्युष्मदस्मदोः प्राप्नुवन्त्यादेशाः, ये च ततोऽन्ये ते सव एवानत्वादेशे विभाषा वक्तव्याः। यद्येवम्? अनेन वचनेनैव सर्वत्र विकल्पस्य सिद्धत्वादपार्थकमिदं सूत्रमिति मन्ममान आह -`न तर्हि` इत्यादि। `अन्वादेशार्थम्? इति। यद्येतन्नोच्येत, ततोऽनन्वादेश इत्यभिधानात्? सपूर्वात्? प्रथमान्तादन्वादेशे विकल्पो न स्यात्। तस्मात्? सपूर्वात्? प्रथमान्तादन्वादेशेऽपि विकल्पो यथा स्यादित्येवमर्थं क्रियमाणेऽप्युपसंख्याने सूत्रमिदं कर्तव्यमेव। अस्मस्तु क्रियमाणे तदुपसंख्यानं न कर्तव्यम्। कथम्? सिंहावलोकितत्यायेन विभाषाग्रहणं पूर्वत्राप्युपतिष्ठते। सत्र व्यवस्थितविभाषाग्रहणादनन्वादेशे सर्वत्र विकल्पो भविष्यति, अन्वादेशे तु नित्यं दान्नावादयः, सपूर्वायाः प्रथमाया अन्वादेशेऽपि विकल्प इति॥", "81027": "यथायथमुदात्तादिषु प्राप्तेष्विदमारभ्यते। `पचति गोत्रम्` इति। यः स्वपुरुषकारेण जोविकां कल्पयितु मशक्तो गोत्रखकककक्यापनेन तां कल्पयति स एवमुच्यते। `पचति` इति। व्यक्तीकरीतीत्यर्थः। `पचि व्यक्तीकरणं` (धातुपाठः-174) `पचतिपचति गोत्रम्` इति। नित्येऽर्थे द्विर्वचनम्। यस्त्वाभीक्षण्येन गोत्रं ख्यापयति स एव मुच्यते। `वाच्यादेशाभावश्च` इति। `ब्राउवो वचिः` [[2.4.53]] इति वच्यादेशः प्राप्नोति, तस्याभावो निपातनादव। `विचक्षण` इति। अत्रापि `चक्षिङः ख्याञ` [[2.4.54]] इति प्राप्तस्य ख्याञादेशस्याभावो निपानादेव वेदितव्यः। `नामेत्येतदवा निहन्यते` इति। विभाषाग्रहणस्यानुवृत्तेः। न च तदनुवृत्तावतिप्रसङ्गो भवति; व्यवस्थित विभाषाविज्ञानात्। `पक्षे आद्युदात्तमेव भवति` इति। `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इति नामशब्दस्याद्युदात्तत्वात्। `कुत्सितं गोत्रम्` इति। `गुङ्? अव्यक्ते शब्दे` (धातुपाठः-949) इत्यस्मादौणादिके ष्ट्रनि विहिते गोत्रमिति भवति। तस्मान्नित्स्वरेण गोत्रशब्दोऽत्राद्युद्त्तः। `पचति पापम्` इति। पापश्ब्दः कुत्सने वर्तते, सिङन्ताच्च परो भवति, न तु गोत्रादिरिति न निहन्यते। इह कुत्सनाभिक्ष्ण्यग्रहणे, एतदनुदात्तविशेषणं वा स्यात् -तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्ति कुत्सनाभीक्ष्ण्ययोरिति, उत गोत्रादीनां पाठविशेषणं वा स्यात् -एतयोरर्थयोर्गोत्रादीनि भवन्ति, तानि च तिङः पराण्यनुदात्तानि भवन्तीति? अनयोरर्थयोर्गोत्रादिव्यपदेशमासादयन्तीति योऽसौ तेषां प्रातिपदिकेषु विशिष्टानुपूर्वीकः पाठः, स एव तयोरर्थयोवंर्तमानानां भवतीति यावत्। तत्र पूर्वस्मिन्? पक्षे `चनचिदिवगोत्रादितद्धिताम्रेडितेध्वगतेः` [[8.1.57]] इत्यत्र <<कुत्सने च सुप्यगोत्रादौ>> [[8.1.69]] इत्यत्र च कुत्सनाभीक्ष्ण्ययोरपि वर्तमानानं कार्यं प्राप्नोति; विशेषानुपादानात्। इतरस्मस्तु पक्षे न भवत्येष दोषः। यानि हि न कुत्सनाभीक्ष्ण्ययोर्वर्तन्ते तेषां गोत्रादिव्यपदेश एव नास्ति; कुत्सनाभीक्ष्ण्यवृत्तीनामेव गणे पठितत्वात्। एतत्? सर्वं चेतसि कृत्वाऽऽह -`कुत्सनाभीक्ष्ण्यग्रहणं च` इत्यादि। पठत इति पाठः, सन्निवेशविशेषः। सद्विशेषणमेव तद्वेवितव्यम्। तेन किमिष्टं भवतीत्याह -`तेन` इत्यादि। कथं पुनरेकेन यत्नेन गोत्रादीनां पाठश्च शक्यो विशेषयितुमनुदात्तत्वञ्चैषां विधातुम्? एवं मन्यते -योगविभागः कर्तव्यः, तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्ति; ततः `कुत्सनाभीक्ष्ण्ययोः`, गोत्रादीनीत्येव। न चात्र द्वितीयेयोगे विधेयमन्यदस्तीति गोत्रादीन्येव कुत्सनाभीक्ष्ण्यग्रहणेन विशिष्यन्ते। अथ वा -उभयथा सूत्रमाचार्येण शिष्याः प्रतिपादिताः, उभयञ्चैतत्? प्रमाणम्, अत उभयं ग्रहीष्यन्तीति। वृत्तिग्रन्थस्तु तिङन्तात्? पदादुत्तराणि गोत्रादीनीत्यादिको वाक्यभेदेनैव नेयः -गोत्रादीनि कुत्सने चामीक्ष्ण्ये च भवन्ति, तान्येव तिङन्तात्? पदादुत्तराण्यनुदात्तानि भवन्तीति। ननु च गोत्रादयः शब्दा गोत्रादावेवानर्थान्तरे वर्तन्ते, ते कथं कुत्सनाभीक्ष्ण्ययोर्वर्तरन्? तमेव स्वार्थं यदा तु कुत्सनाभीक्ष्ण्यविशिष्टमाचक्षते तदा तयोर्वर्तन्त इत्यदोषः॥", "81028": "`नीलमुत्पलम्` इति। उत्पलमित्येतत्? `नव्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तं भवति। `भवति पचति` इति। पचतिक्रिया भवतीत्ययमस्यार्थः। पचतिशब्दे शप्तिपावनुदात्तौ, अकारो धातुस्वरेणोदात्तः, <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इति शबकारः स्वरितः। ननु च समासवाक्ये निघातादय उच्यन्ते, इदञ्च वाक्यमेव न भवति, तत्? किमेतन्निवृत्त्यर्थेनातिङग्रहणेन? किं पुनः कारणमेतद्वाक्यं न भवति? अख्यातं साव्ययकारकविशेषणं वाक्यम्` इत्यत्र वाक्यलक्षण एकत्वस्य विवक्षितत्वात्, इह चाख्यातस्य द्वित्वात्? नैष दोधः; अत्राप्याख्यातं यदकारकं तद्विवक्षितम्। तच्चास्मिन्नेकमेव भवतिशब्दः, पचतीत्येतत्तु कारकम्। तथा हि भाष्ये उक्तम् -`पचत्यादयः क्रियाः [`क्रियाः भवन्ति` नास्ति का। मुद्रिते] भवन्ति, क्रियायाः कर्त्र्यो भवन्ति` इति। यदपीदमुक्तम् -`एकतिङ्? पदसमूहो वाक्यम्` इति, अत्रापि प्रधानं यत्? तिङ्? तदधिकृत्यैकतिङित्युक्तम्। अत्र चैकमेव तिङन्तं प्रधानम्। यद्येतत्, किं तर्हि अत्र तिङन्तं तत्? भवतीति। पचतीत्येतत्? पुनः साधनत्वादप्रधानम्॥", "81029": "`आः कर्ता` इति। करोतेर्लुट्, तासिः, <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इत्येकवचनस्य डादेशः, डिति टिलोपः। `तासेः परस्य` इत्यादि। आगमः प्रत्ययस्वरेणाद्युदात्तः। तस्य यत्र टिलोपो नास्ति -इर्तारो, कर्तार इत्यादौ, तत्र `नास्यनुदात्तेन्ङित` [[6.1.180]] इत्यादिना लसार्वधातुकस्यानुदात्तत्वे कृते तासेरेवोदात्तत्वं भवति। यत्र तु टिलोपस्तत्र `अनुदात्तस्य च यत्रोदात्तलोपः [[6.1.155]] इति लसार्वधातुकमेवोदात्तं भवति॥", "81030": "यद्यपि निपातैरित्येतदपेक्षमाणावां यदादीनां सामर्थ्यम्, तथापि गमकत्वाद्युक्तशब्देन समास एषां युक्त एव। अथ वा -मत्र न समासः, विभक्तिस्त्वव्ययत्वादेषां लुप्तेते न श्रूयते। युक्तग्रहणं त्विहापि साक्षाद्योगप्रतिपत्त्यर्थम्, तेन युक्तयुक्ते प्रतिषेधो न भवति। एतच्च प्रयुदाहरणेऽपि स्पष्टीकरिष्यामः। अत्र यद्यत्रयोग्र्रहणमाभ्यां पूर्वस्यापि तद्युक्तस्य प्रतिषेधो यथा स्यादित्येवमर्थम्। यद्धि ततः परं तिङक्तं तस्य `यद्वृत्तान्नित्यम्` [[8.1.66]] इत्येवं सिद्धः प्रतिषेधः, पूर्वस्य तु तेन न सिध्यति। तदा हि यद्वृत्तादिभिः पञ्चमी <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति परस्यैव निघातप्रतिषेधं प्रतिपादयति, नेतरस्य। `यत्करोति` इति। करोतिशब्द उकारप्रत्ययस्योदात्तत्वान्मध्योदात्तः। `नेज्जिह्रायन्तो नरकं पताम` [`नोज्जिह्रायन्तो` -प्रांउ।पाठः] इति। पतेर्लट्, मस्, शप्, <<अतो दीर्घो यञि>> [[7.3.101]] इति दीर्घः। ङिददुपदेशत्वाल्लसार्वधातुकत्वादनुदात्तत्वे [[6.1.180]] कृते धातुत्वरेणाद्युदात्तमेतत्। `स चेट्भुङक्ते` इति। <<भुजोऽनवने>> [[1.3.66]] इत्यात्मनेपदम्, रुधादित्वात्वात्? श्नम्। पूर्ववल्लसार्वधातुकानुदात्तत्वम्; `इनसोरल्लोपः` [[6.4.111]] , <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्युदात्तत्वे कृते भुङ्क्त इत्येतदन्तोदात्तम्। `स चेदधीते` इति। इङ्? धातुस्वरेणोदात्तः। ङित इति लसार्वधातुकमेवानुदात्तम्। आदिशब्दापेक्षया निघाते प्राप्ते न प्रतिपदोक्तपरिभाषोपतिष्ठते (व्या।प।3), साहचर्यञ्च व्यवस्थाकारणं न भवतीति। तेन <<यावद्यथाभ्याम्>> [[8.1.36]] इति यथाशब्दसाहचर्याद्यावच्छब्दोऽपि नाव्ययमेव परिगृह्रते, किं तर्हि? परिमाणशब्दोऽपि लाक्षणिकः। यावतोऽदवान्? प्रतिगृह्णीयादित्यत्रापि निघातप्रतिवेधो भवति। `यत्तदेतेभ्यः परिमाणे वतुम्` [[5.2.39]] इति वतुबन्तोऽत्र यावच्छब्दः। `यत्र क्व च ते मनो दक्षं दधस उत्तरम्` इति। `दध धारणे` (धातुपाठः-8) लट्, धास्, `धासः से` [[3.4.80]] । अत्र यत्रेत्यनेनैधिकरणप्रधाने उत्तरमित्येतदाधेयं युक्तम्, तेन युक्तं तिङन्तम्, अतः साक्षाद्योगो नास्तीति प्रतिषेधो न भवति॥", "81031": "नहेत्ययं निपातसमुदायः प्रतिषेधे वर्तते। तेन युक्तं तिङन्तं प्रत्यारम्भविषये न निहन्यते। पुनरारम्भः=प्रत्यारम्भः। स च यत्र विषये क्रियते तद्दर्शयितुमाह -`चोदितस्य` इत्यादि। भुङक्ष्याधीष्वेत्येवं चोदितं विहितं यत्? कर्तव्यतयोपन्यस्तं भोजनादौ यदा तत्? कर्त्तुं न प्रवर्तते नाद्रियते, अवधीर्यत इति यावत्; तदा तस्यादधीरणेऽदज्ञाने सति तमवधीरयितारमुपालब्धुं या इच्छा तथोपालिप्सयैतस्यैव भोजनादेरवधीरितस्य प्रतिषेधेन सम्बन्धः प्रत्यारम्भः। `प्रत्यारम्भः क्रियते` इति। प्रतिषेधसम्बद्धस्य पुनरुपन्यासः क्रियत इत्यर्थः। `नह भोक्ष्यसे, नहाध्येध्यसे` इति। भुजेरिङश्च लृट्, `थासः से` [[3.4.80]] , अदुपदेशत्वात्? ङित्त्वाच्च तयोर्धात्वोर्लसार्वधातुकमनुदात्तम्। स्यः प्रत्ययस्वरेणोदात्तः। `इच्छन्ति` इति। `इषु इच्छायाम्` (धातुपाठः-135), तुदादित्वाच्छ, `डषुगमियमां छः` [[7.3.77]] ॥", "81032": "सत्यशब्दोऽयमुदाहरणे प्रश्ने वर्तते। प्रत्युदाहरणे तु ऋतशब्दस्यार्थे॥", "81033": "प्रातिलोभ्यम्=प्रातकूल्यम्, अनभिमतकारित्वमित्यर्थः। ततोऽन्यदप्रातिलोभ्यम्नुकूलत्वम्, अभिमतकारित्वमिति यावत्। तस्मिन्? गम्यमानेऽयं प्रतिषेधः। `अङ्ग कुरु, ङ्ग पच` इति। अङ्गशब्दोऽयं निपात इहानुज्ञायां वर्तमानोऽप्रातिलोभ्यं गमयति। करोतेर्लोटि सिप्, `सेह्र्रपिच्च` [[3.4.87]] , धातोर्गुणे कृते `अत उत्सार्वधातुके` [[6.4.110]] इत्युत्त्वम्, `उत्तश्च प्रत्ययात्` (6.4.1-6) इति हेर्लुक्। अत्रोकारः प्रत्ययस्वरेणोदात्तः। `पच` इति। <<अतो हेः>> [[6.4.105]] इति लुक्। धातुस्वरेणाद्युदात्तमेतत्। प्रत्युदाहरणेऽङ्ग शब्दोऽमर्धे वर्तते। `आनुलभ्ये` इति वक्तव्येऽप्रातिलोम्ये इति वचनं वैचित्र्यार्थम्॥", "81034": "", "81035": "", "81036": "किमर्थं पुनरिदमारभ्यते? न `यद्वृत्तान्नित्यम्` [[8.1.66]] इत्येव सिद्धमिति यश्चोदयेत्, तं प्रति -`देवदत्तः पचति यावत्`, `देवदत्तः पचति यथा` -इत्येतदुदाहरणद्वयमुपन्यस्तम्। एषोऽभिप्रायः -यद्वृत्तादिति पञ्चमीनिर्देशात्? <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति यत्रैव यावद्यथाभ्यां परं तिङन्तं तत्रैव प्रतिषेधः स्यात्। यत्र तु ताभ्यां पूर्वं तत्र न स्यात्। इह तु तृतीयनिर्देशात्? तत्रापि भवतीति॥", "81037": "`पूजायां विषये` इति। विषयग्रहणे पूजायामिति विषयसप्तमीति दर्शयति। `किं तह्र्रमुदात्तमेव` इति। द्वौ प्रतिषेधो प्रकृतमर्थं गमयत इति कृत्वा। `यावत्? पचति शोभनम्` इति। स्तुतिरत्र पूजा, सा च क्रियायाः साधनस्य वा॥", "81038": "`उपसर्गव्यपेतम्` इति। उपसर्गव्यवहितम्। चकारेण `पूजायाम्` इत्यनुकृष्यते; अनन्तरमिति चानुवर्तते। तत्रोपसर्गेण व्यवधानमाश्रीयत इति। सामर्थ्यात्? अनन्तरग्रहणं शब्दान्तरव्यवधाननिरासार्थं विज्ञायते॥", "81039": "ननु <<पूजायां नानन्तरम्>> [[8.1.37]] इति पूजाग्रहणमनुवर्तत एव, तत्किमर्थं पूजायामित्युच्यते? इत्याह -`पूजायामित्यनुवर्तते` इत्यादि। स्यादेतत् -तदेव पूजाग्रहणमिहानुवर्तमानं निघातप्रतिषेधार्थं भविष्यतीति? अताअह -`तद्धि` इत्यादि। तद्धि पूर्वत्र पूजाग्रहणं निघातप्रहतिषेधस्य प्रतिषेधेन सम्बद्धम्। तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। एवञ्च तेषां निघातप्रतिषेधः। लुडादीनां तेषां तुप्रभृतिभिर्योगे निघातप्रतिषेधस्य प्रतिषेधो विज्ञायेत। तस्मान्निघातस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः पूजाग्रहणम्। अत्राहग्रहयणं किमर्थम्, चनादिषु [[8.1.57]] चेत्येव सिद्धम्? न सिध्यति; `चनचिदिवगोत्रादितद्धिताम्रेडितेवष्गतेः` [[8.1.57]] इत्यतो गतेरिति तत्रानुवृत्तेः। तथा च-देवदत्तः प्रपचत्यहेत्यत्र प्रतिषेधो न स्यात्। परभूतेषु वा स प्रतिषेध इति पूर्वभूतेऽबशब्दे च न स्यात् -देवदत्तोऽह पचतीति#ई॥", "81040": "चकारेण पुजायामित्यनुकृष्यते। अथ योगविभागः किमर्थम्? पूर्वसूत्र एवाहोग्रहणं क्रियते? इत्यत आह -`पृथक्#ं` इत्यादि। पृथग्योगे <<शेषे विभाषा>> [[8.1.50]] इति अहेत्यनेनैव योगे यथा स्यात्, तुप्रभृतीनां मा भूदित्येवमर्थं पृथग्योगकरणम्॥", "81041": "`करिष्यसि` इत्यादि। लृडन्तं स्यस्वरेण मध्योदात्तम्। ननु च पूजाग्रहणं पूर्वसूत्रे चानुकृष्टम्। तत्र चानुकृष्टस्येहानुवृत्तेरविशेषे भविष्यति, तत्? किं शेषग्रहणेन? इत्यत आह -`पूजायामित्यस्य` इत्यादि॥", "81042": "चकारो विभाषेत्यनुकर्षणार्थः। `परीप्सायामर्थे` इति। गम्यमान इति शेषः। `परीप्सा त्वरा` इति। सम्भ्रमः=अशुप्रवृत्तिरित्यर्थः। `अधीष्व माणवक` इत्यादि। त्वरितमधीष्वेत्येधोऽर्थो गम्यते। तथा ह्यत्र पुरा विद्योतते विद्युत्, पुरा स्तनयति स्तनियुरितत्येतदुभयमप्यध्ययनदिषययोस्त्वरायाः कारणत्वेनोपातम्। विद्युद्द्योतनादौ हि न पठितव्यं पर्वदिवसेष्विव। एतदुक्तं भवति -यस्मादचिरकालभावि विद्युद्द्योतनं स्तनयित्नुस्तननं वाऽध्ययनन्तरायोऽतोऽधीष्येति। `पुरा विधीयते` इति। `यावत्पुरानिपातयोर्लट्, [[3.3.4]] , अनुदात्तेत्त्वादात्मनेपदम्। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे [[6.1.180]] कृते धातुस्वरेणाद्युदात्तमेतत्। `पुरा स्तनयति` इति। `स्तन गदी देवशब्दे` (धातुपाठः-1859,1860) चुरादिणिच्। अदन्तत्वाद्बृद्ध्यभावुः। एतदपि पूर्ववन्मध्योदात्तम्। `पुराशब्दोऽत्र भविष्यदासतिंत द्योतयति` इति। भविष्यद्विद्युद्द्योतनादिरध्ययनान्तरायो यस्तस्य प्रत्यासतिंत सामीप्यर्माचरकालभादित्वं द्योतयति। तेन त्वरा गम्यत इत्यभिप्रायः॥", "81043": "`अनुज्ञाया एतणा प्रार्थना` इति। किञित्? कर्तु स्वयमेवोद्यतस्यैवं क्रियतामित्यनुज्ञानमनुज्ञा। प्रार्थनायां मूलोदाहरणयोः <<वर्तमाने लट्>> [[3.2.123]] इति लट्। प्रत्युदाहरणे तु भूते <<ननौ पृष्टप्रतिवचने>> [[3.2.120]] इत्यनेन। इतिकरण एकनिपातोऽयमिति प्रदर्शनार्थः। नन्वनुज्ञेषणायामिति ह्रुच्यमाने सन्देहः स्यात् -किमयमेकनिपातः? उत्त निपातद्वयमिति? यथा -<<नन्वोर्विभाषा>> [[3.2.121]] इत्यत्रः इतिकरणेन त्ववच्छिद्यमानमेकमेवेवं शब्दरूपमिति गम्यते॥", "81044": "`अप्रतिषिद्धम्` इति। प्रतिषेधः प्रतिषिद्धम्। भावे निष्ठा। नास्य प्रतिषिद्धमस्तीत्यप्रतिषिद्धम्। अथ वा -कर्मणि निष्ठा, निविद्धं प्रतिषिद्धमप्रतिषिद्धम्। अर्थद्वारकञ्चैतत्? तिङो विशेषणम्। `पूर्वं किंयुक्तम्` इति। तत्समीपे किमः श्रूयमाणत्वादित्यभिप्रायः। `उत्तरं तु न किंयुक्तम्` इति। तस्यासमीपे श्रूयमाणत्वादिति भावः। `अपरे त्वाहुः` इत्यादि। न हि समीपे श्रुयमाणत्वं किंशब्दस्य शब्दान्तरेण सम्बन्धे हेतुः अपि तु संशयविषयत्वम्। यथा चात्र पूर्वस्याख्यातस्य, तथा तत्परस्यापीत्यस्ति तस्य योगः किंशब्देनेत्युभयत्र प्रतिषेधः॥", "81045": "किंशब्दस्य प्रकृतत्वात्? तस्यैव लोपो विज्ञायते, इत्याह -किमो लोपे इति। किंशब्दस्य शास्त्रे न क्वचिल्लोपो विहितः, इत्यतः पृच्छति -`क्व चास्य लोपः` इति। अदर्शनमात्रस्य `लोपः` [[1.1.59]] इति संज्ञा कृता न तु शास्त्रकृतस्यैवादर्शनस्येत्यभिप्रायेणाह -`यत्र` इत्यादि। `गम्यते चार्थः` इति। कुतश्चिदर्थप्रकरणादेः। `न च प्रयुज्यते` इति। गम्यमानार्थत्वात्। `देवदत्तः पचत्याहोस्वित्? पठति` इति। अत्रायमाहोस्विच्छब्दः पक्षान्तरे वर्तते। पक्षान्तरोपन्यसनं किमर्थम्? प्रश्नं न व्यभिचरतौति। अत्राप्रयुज्यमानस्यापि तस्यार्थो गम्यते। पञतिशब्दोऽयं पक्षे पचतिशब्देन तुल्यस्वरः॥", "81046": "`एहिमन्य इत्यनेन` इति। समुदायस्यैकत्वात्? तदपेक्षयैकवचनम्, अन्यथा हि द्वे एते आख्याते इति द्वित्वाद्द्विवचनं स्यात्। `प्रहासः` इति। प्रकृष्टो हासः; परिहास इत्यर्थः। `एहि मन्य ओदनं भोक्ष्यसे` इति। <<प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च>> [[1.4.106]] इति पुरुषव्यत्ययः। भुजेरस्मद्युपपदे मध्यमः, मन्यतेर्युष्मद्युपपदे उत्तमः। `एवम एहि मन्ये रथेन यास्यसि` इत्यत्रापि पुरुषव्यत्ययो वेदितव्यः। द्वे अपि चैते लृङन्ते स्यप्रत्ययस्वरेण मध्योदात्ते। `प्रहास इति किम्? एहि मन्यस ओदनं भोक्ष्ये` इति। अत्र मन्यतेः <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> [[1.4.105]] इत्यादिना मध्यमः। भुजेस्तु <<अस्मद्युत्तमः>> [[1.4.107]] इत्युत्तमः। सुष्ठु मन्यसे, साधु मन्यसे` इति। अनेन यथाभूतं दर्शयत्? प्रहासाभावं दर्शयति।ननु च `गत्यर्थलोटा लृट्` [[8.1.51]] इत्यादिनैव सिद्धम्, तत्? किमर्थोऽयमारम्भः? इत्यत आह -`गत्यर्थलोटा` इत्यादि। `एहिमन्येयुक्ते` इत्यादिना नियमार्थतामस्य व्यक्तीकरोति। कथं पुनरेहिमन्य इत्येनेन योगेन नियमः क्रियमाणः `एहि मन्यसे ओदनं भोक्ष्ये` इत्यत्र निवृत्ति करोति, न ह्रतर पहीत्यनेव लृडन्तं युक्तम्, किं तर्हि? एहि मन्यस इत्यनेन? इत्यत आह -`एहि मन्य इत्युत्त्मोपादानमतन्त्रम्` इति। अतन्त्रत्वं तु तस्योपलक्षणार्थत्वात्। ननु च `मन्यतेरुत्तमः` [[1.4.105]] इति वचनाद्युष्मद्युपपदे मन्यतेरुत्तमेनैव भवितव्यम्, एवञ्च `एहि एव हि मन्यतिरुत्तमः` इति। गतार्थम्॥", "81047": "`अपूर्वम्` इति। अविद्यमानं पूर्वं यस्मात्? तदपूर्वम्। अत्र च द्वयं सम्भाव्यते -तिङन्तस्य चेदं विशेषणं स्यात्, जातुशब्दस्य वेति। तत्र यदि तिङन्तस्य स्यात्? `आहोउताहो जानन्तरन्` [[8.1.49]] इत्यत्रानन्तर ग्रहणं न कुर्यात्। अस्यैव ह्रपूर्वग्रहणस्य तत्रानुवृत्तेस्तिङन्तस्यानन्तर्य लभ्यते; तस्माज्जातुशब्दस्येदं विशेषणम्, इत्यालोच्याह -`जात्वित्येतत्` इत्यादि॥", "81048": "`चिदुत्तरम्` इति। चिदित्येतदुत्तरं यस्मात्? तत्? तथोक्तम्। पूर्वोक्तया नोत्यैतदपि किवृत्तस्यैव विशेषणम्। `किंवृत्तग्रहणेन तद्विभक्त्यन्तम्` इत्यादि। `किवृत्ते लिप्सायाम्` [[3.3.6]] इत्यत्रैतदुक्तार्थम्। `भोजयति` इति। पूर्ववन्मध्योदात्तमेवैतत्। `कस्मैचिद्ददाति` इति। <<अभ्यस्तानामादिः>> [[6.1.189]] इत्याद्युदात्तमेतत्। `कतरः` इति। `किंयत्तदोर्निर्धारणे` [[5.3.92]] इति डतरच। `कतमः` इति। `वा बहूनां जातिपरिप्रश्ने` [[5.3.93]] इति डतमच्॥", "81049": "अविद्यमानमन्तरं व्यवधानं यस्य तदनन्तरम्। अव्यवहितमित्यर्थः। तिङन्तविशेषणमेतत्। आनन्तर्यञ्चाहो, उताहो -इत्येतयोः श्रुतत्वात्? तदपेक्षयैव वेदितव्यम्।?त्रापि चकारोऽपूर्वमित्यस्यानुकर्षणार्थः॥", "81050": "शेषः सन्निहितापेक्षः। शेषत्रयञ्च पूर्वसूत्रे सन्निहतं निघातकारणम् -आहो उताहोशब्दौ, अनन्तर मित्येतत्, अपूर्वमित्येतच्च। तत्र न ज्ञायते -किं कारणभावापेक्षः शेष इति। किमाहोउताहोशब्दापेक्षः? उतानन्तरभावापेक्षः? आहोस्विदपूर्वभावापेक्षः -इत्यतः पृच्छति -`कश्च शेषः` इति। इह निघातमिच्छता तत्कारणमवश्यमेवापेक्षणीयम्। `आहो उदाहो` इति। अपूर्वमित्येतदपि, द्विश्चकारेणानुकृष्टत्वात्। तस्य हि द्वयोर्योगयोश्चकारोऽनुकर्षणार्थ एव कृतः। कथं नामात्रापि तदपेक्षा स्यादिति! अन्यथा हि समनन्तरातीति एव सूत्रे तदनुकर्षणार्थश्चकारः क्रियते। किंवृत्तादिसूत्रे [[8.1.48]] हि स्वरितत्वादेव तदनुवर्तत इति। तस्मात्? पारिशेष्यादनन्तरभावपेक्षः शेषो विज्ञायते? इत्यत आह -`यदन्यदनन्तरात` इति॥", "81051": "`गमिना समानार्था गत्यर्थाः` इति। अर्थप्रदर्शनमेवैतत्। एवं तु विग्रहः कर्तव्यः -गतिरर्थो येषामिति। `गत्यर्थलोटा युक्तम्` इति। योगः पुननिमित्तनिमित्तरूपः। तयोर्निमित्तमिति भावः। `न चेत्कारकम्` इत्यादेरर्थं विस्पष्टीकर्त्तुमाह -`यत्रैव` इत्यादि। अनेन लोडन्तवाच्यं लृडन्तवाच्यार्थं यत्? कारकं तस्यैवानन्यत्वमाश्रितम्; न शब्दातन्तरवाच्यस्येति दर्शयति, एवच्च प्रत्यासत्तेर्लभ्यते। तिङन्तस्य हि तदेव प्रत्यासन्नं कारकं यत्? तेनैवाभिधीयते न शब्दान्तरेण; तेन शब्दान्तरवाच्ये भिद्यमानेऽपि भवत्येव भिधातप्रतिषेधः। `आगच्छ देवदत्त ग्रामं द्रक्ष्यस्येनम्` इति। आगच्छेति गत्यर्थलोट, द्रक्ष्यसीति लृडन्तम्; तयोश्चैकमेवात्र कारकं देवदत्तः कर्ता। `द्रक्ष्यसि` इति। <<सृजिदृशोर्झल्यमकिति>> [[6.1.58]] इत्यमागमः; व्रश्चादि सूत्रेण [[8.2.36]] षत्वम्, <<षढोः कः सि>> [[8.2.41]] इति कत्वम्। स्यप्रत्ययस्वरेण मध्योदात्तमेतत्। एवमुत्तरत्रापि यत्र निघातप्रतिषेधस्तत्र लृडन्तस्य मध्योदात्तता वेदितव्या। `आगच्छ देवदत्त ग्राममोदनं भोक्ष्यसे` इति। अत्रापि तदेवाभिन्नमुभयलकारवाच्यं कर्त्तुकारकम्। कर्म तु यद्यपि भिद्यते, तथाप#इ तच्छब्दान्तरवाच्यमिति सत्यपि त्भेदे भवत्येव निघातप्रतिषेधः। `उह्रन्तां देवदत्तेन शालयो यज्ञदत्तेन भोक्ष्यन्ते` इति। अथात्र शालय इत्युभयलकारवाच्यमभिन्नं कर्मं कारकम्, कर्ता तु यद्यपि भिद्यते, तथापि स शब्दान्तरवाच्य इति तद्भेदेऽपि निघातप्रतिषेधो भवत्येव। `उह्रन्ताम्` इति। वहेः कर्मणि लोट्, आत्मनेपदम्, झस्यान्तादेशः, <<सार्वधातुके यक्>> [[3.1.67]] वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्, टेरेत्वम्? [[3.4.79]] , `आमेतः` [[3.4.90]] इत्याम्भावः। कथं पुनरिहाभिन्नं कारकम्, यावता शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यत एव शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वादेकं कारकं भविष्यतीत्यदोषः। `आगच्छेर्देवदत्त ग्रामं द्रक्ष्यस्यनम्` इति। अत्र गत्यर्थलिङा लृङन्तं युक्तम्, न गत्तयर्थलोटा। `आगच्छ देवदत्त ग्रामं पश्यस्येनम्` इति। अत्र गत्यर्थलोटा लङन्तं युक्तम्, न तु लुङन्तम्। `आगच्छ देवदत्त ग्रामं पिता त ओदनं भोक्ष्यते` इति। अत्र लोङन्तस्य देवदत्तः कर्ता, लृडन्तस्य तु पितेति भिद्यते कारकम्। `आगच्छ देवदत्त ग्रामं त्वं चाहं च` इत्यादि। यथा पूर्वोपन्यस्तेषु मूलोदाहरणेषु यल्लोडन्तस्य कर्त्त्रादि कारकं वाच्यं तन्मात्रमेव लृङन्तस्यापि, इह तु न तथा। अत्रापि [`तत्रापि -कांउ।पाठः] लोङन्तस्य देवदत्तो युष्मदर्थ एवप कर्ता वाच्यः, लृङन्तस्य तु स चास्मदर्थश्च; तत्रासति सर्वग्रहण इह निघातप्रतिषेधो न स्यात्। अत इहापि यथा स्यादित्येवमर्थं सर्वग्रहणम्। अथ सत्यपि सर्वग्रहणे निघातप्रतिषेधः कथमेवात्र भवति, यावाता भिद्यते लोङन्तवाच्यात्? कारकाल्लृङन्तवाच्यो योऽर्थः कारकं कर्तात? इत्यत आह -`लृङन्तवाच्ये हि` इत्यादि। सर्वग्रहणे सति लोडन्तवाच्यं यत्कारकं तस्माल्लृङन्तस्य यदि सर्वमन्यद्भवति, तथाप्येवं न निघातप्रतिषेधेन भवितव्यम्, अन्यथा तु सति भवत्येव। यदि हि यत्रापि लोङन्तस्य किञ्चित्? तदेव कारकं वाच्यम्, लृङन्तस्य किञ्चित्? ततोऽन्यत्रापि निघातप्रतिषेधो न स्यात्, सर्वग्रहणमनर्थकं स्यात्। तस्मात् सर्वग्रहणाद्भवत्येवात्र निघातप्रतिषेधः। तत्रैवं स्यात् -अस्मिन्नप्युदाहरणे लृङन्तस्य वाच्यं यत्? कारकमन्यदेव तल्लोङन्तवाच्यात्। अतः सत्यपि सर्वग्रहणे न भवितव्यं निघातप्रतिषेधेण? इत्यत आह -`इह तु` इत्यादि। गतार्थम्॥", "81052": "चकारः पूर्वापेक्षया समुच्चयार्थः। `पश्य` इति। अन्तोदात्तम् -<<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] <<अतो गुणे>> [[6.1.97]] इति गुणग्रहणे पररूपस्येवोदात्तत्वात्। `शाधि` इति। `शासु अनुशिष्टौ` (धातुपाठः-1075), `सेह्र्रपिच्च` [[3.4.87]] इति सिपो हिरादेशः, अदादित्वाच्छपो लुक्; `शा हौ` [[6.4.35]] इति धातोः शादेशः, <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति हेर्धिभाव-। प्रत्ययस्वरेणान्तोदात्तमेतत्। एवं दृश्यतामित्येदपि; `विकरणस्वरात्? सार्वधातुकस्वरो बलीयान्` इति वचनात्। अथ पृथग्योगकरणं किमर्थम्, न पूर्वसूत्र एव लोङ्ग्रहणमपि क्रियेत? इत्यत आह -`पृथक्` इत्यादि। उत्तरत्र लोट एव कार्यं यथा स्यात्, लृटो मा भूदित्येवमर्थं पृथग्योगकरणम्॥", "81053": "पूर्वेण नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्? विभाषितशब्दश्चायं विभावाशब्देन समानार्थः। <<नपुंसके भावे क्तः>> [[3.3.114]] । `प्रविशानि` इति। मिपः `मेनिः` [[3.4.89]] , <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्याद्॥", "81054": "चकारः `विभाषितं सोपसर्गमनुत्तममु` [[8.1.53]] इत्यस्यानुकर्षणार्थः। `कुरु` इति। करोतेर्गुणे कृते `अत डत्सार्वधातुके [[6.4.110]] इत्युत्त्वम्, `उतश्च प्रत्ययात्` [[6.4.106]] इत्यादिना हेर्लुक्। प्रत्ययस्वरेणान्तोदात्तमेतत्।`हन्त प्रभुञ्जावहै` [`प्रभुनजावहै` -प्रांउ।पाठः] इति। भुजेर्लोट्, वहिः, टेरेत्त्वम्, <<आडुत्तमस्य पिच्च>> [[3.4.92]] , श्नम्। अत्रापि `निपातैर्यद्यदि` [[8.1.30]] इत्यादिना निघातप्रतिषेधः। अदुपदेशाल्लसार्वधातुकस्यानुदात्तत्वे [[6.1.180]] कृते विकरणस्वरेण मध्योदात्तमेतत्॥", "81055": "`एकान्तरम्` इति। अन्तरयतीत्यन्तरम्। व्यवधायकमित्यर्थः। एकं पदमन्तरं यस्य तत्तथोक्तम्। एकेन निपातेन व्यवहितमित्यर्थः। `आम्? पचसि देवदत्तात्रि इति। निघाते प्रतिषिद्धे `आमन्त्रितस्य` [[6.1.192]] इति धाष्ठिकमामन्त्रिताद्युदात्तत्वं भवति। <<दूराद्धूते च>> [[8.2.84]] इति प्लुतः। `आम भो देवदत्तात्रि` इति। भवद्भगवदघवतामोच्चावस्य` (8.3.1।वा।2) इति भवच्छब्दावयवस्यावशब्दस्यौत्त्वम्; दकारस्य रुत्वम्, तस्य `भोभगोअधोअपूर्वस्य` [[8.3.17]] इत्यादिना यकारः, तस्य <<हलि सर्वेषाम्>> [[8.3.22]] इति लोपः।ननु चात्र भोःशब्दस्य `आमन्त्रितं पूर्वमविद्यमानवत्` [[8.1.72]] इत्यविद्यमानत्वादेकान्तरता नोपपद्यते? इत्यत आह -`भो इत्यामन्त्रितान्तमपि` इत्यादि। `भोः` इति सामान्यवचनम्। अत्र `भोः` इति यद्यप्यामन्त्रितम्, तथापि नाविद्यमानवत्, `नामन्त्रिते` [[8.1.73]] इत्यादिनाऽविद्यमानवद्भावस्य प्रतिषेधात्। `तदुभयमप्यनेन क्रियते` [तदुभयमनेन -काशिका] इति। कथं पुनरुभयमप्यनेन कर्तुं शक्यम्, यावतानुदात्ताधिकारादनुदात्तस्यैवानेन युज्यते प्रतिषेधः? न शक्यते कर्तुमप्रकृताया असंशब्दिताया एकश्रुतेः? नैष दोषः; `अनन्तिके` [[8.1.55]] इति नञत्र विरोधे वर्तते, अधर्मानृतादिवत्। अन्तिकविरुद्धमनन्तिकम्। दूरमित्यर्थः। दूरात्? सम्बुद्धौ चकश्रुतिरुच्यते;`एकश्रुति दूरात्? सम्बुद्धौ` [[1.2.33]] इति वचनात्। एवं हि प्रपचसि देवदत्तेत्येवमादिष्वामन्त्रितनिघातं कृतार्थं बाधित्वा यत्राम एकान्तरमामन्त्रितमनन्तिकम्, तचैकश्रुतिरेव भवति; यदिदं नारभ्येत। अतो नाप्राप्तायामेकश्रुतौ इवमारभ्यत इति तां तावद्बाधते, ततस्तस्याञ्च बाधितायां बाधकाभावात्? प्राप्नुवत्? तं निघातमपि बाधत एव। कुतः? निघातप्रतिषेधाधिकारे वचनात्। एकश्रुतिप्रतिषेधे हि विधित्सिते सत्येकश्रुतिप्रकरण एव (1.2.33-40) प्रतिषेधं कुर्यात्, नाम एकान्तरमिति; तत्राप्ययमर्थः -`आमन्त्रितमनन्तिके` [[8.1.55]] इति वक्तव्यं न भवति। तस्मान्निघातप्रतिषेधाधिकारे वचनान्निघातमपि बाधत इति युक्तम् -तदुभयमनेन क्रियत इति। नैष दोषो यदि तह्र्रप्रकरणापन्नाशब्दिताप्येकश्रुतिरनेन प्रतिषिध्यते। इह `दूराद्धूते च` तदुभयमनेन क्रियत इति। नैष दोषो यदि तह्र्रप्रकरणापन्नाशब्दिताप्येकश्रुतिरनेन प्रतिषिध्यते। इह <<दूराद्धूते च>> [[8.2.84]] इति यः प्लुतोदात्तः प्राप्नोति; सोऽपि प्रतिषिध्यते? इत्यत आह -`प्लृतोदात्तः पुनः` इत्यादि। तस्मिन्? कर्तव्येऽसिद्धत्वात्? प्लुतोदात्तो नास्त्येव, स कथं प्रतिषिध्येत![`प्रतिषिध्यते` -प्रांउ।पाठः] असिद्धत्वं तु <<पूर्वत्रासिद्धम्>> [[8.2.1]] इति वचनात्।", "81056": "यद्धितवः परे यस्मात्? तत्तथोक्तम्। `उदसृजोऽयम्` इति। अत्र हि तिङन्तमट्स्वरेणाद्युदात्तम्। `सृज विसर्गे` (धातुपाठः-1178), लङ्? सिप्, तुदादित्वाच्छः, `हशि च` [[6.1.110]] इत्युत्त्वम्, <<आद्गुणः>> [[6.1.87]] । `उशन्ति हि` इति। `वश कान्तौ` (धातुपाठः-1080) झेरन्तादेशः [[7.1.3]] , पूर्ववच्छपो लुक्, ग्रहज्यादिसूत्रेण [[6.1.16]] सम्प्रसारणम्। प्रत्यस्वरेण मध्योदात्तमेतत्।`आख्यस्यामितु` इति। `ख्या प्रकथने` (धातुपाठः-1060), चक्षिङादेशो वा, लृङ्। स्यप्रत्ययस्वरेण मध्योदात्तमेतत्। `निपातैर्यद्यविहन्त` [[8.1.30]] इत्यादिना नियमस्य कारणं दर्शयि। `वचनम्` इत्यादिनाप्यस्य वचनस्य नियमार्थत्वम्। `एभिरेव` इत्यादिनापि नियमसय स्वरूपम्। `नान्यैः` इति। अनेनापि नियमस्य व्यवच्छेद्यम्। `इह` इत्यादिनापि व्यवच्छेद्यस्य विषयम्। `स्वो होहावैहि` इति। `रुह बीजजन्मनि प्रादुर्भावे` (धातुपाठः-859), लोट्, वस्, शप्, <<आडुत्तमस्य पिच्च>> [[3.4.92]] , <<स उत्तमस्य>> [[3.4.98]] इति सकरलोपः। रोहावेत्येतस्मिन्? परभूते स्वरित्यस्य `रो रि` [[8.3.14]] इति रेफस्य लोपो न भवति; छान्दसत्वात्। तस्मिन्नसति पूर्ववदुत्त्वम्। <<आद्गुणः>> [[6.1.87]] इति हि गुणे, लोमण्यध्यमपुरुषैकवचने रूपम्। क्वचित् - `जाये स्वो रोहार्वैहीत्येहीत्यनेन गत्यर्थलोटा युक्तस्य` इति पाठः, तत्राङ्पूर्वस्येणः प्रयोगो वेदितव्यः। अथ परग्रहणं क्रिमर्थम्, न `यद्धितुष्वेव` नैवं शक्यम्; सप्तमीनिर्देशे हि निर्दिष्यटग्रहणस्यानन्तर्यार्थत्वादनन्तरेष्वेवाक्यवादिषु भवतीति नियमो विज्ञायते। ततोऽनन्तरेष्वेव पददिषु भविष्यति, न व्यवहितेष्विति। तथा चाव्ययोगनिवृत्तेनियमेनाकृतत्वात्? स्वो रोहावैहीत्यत्र स्यादेव प्रतिषेधः॥", "81057": "`इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोरेव गृह्यन्ते` इति। न केवलं `तिङो गोत्रादीनि` [[8.1.27]] इत्यादो सूत्र इत्यपिशब्दार्थः। यथा चात्रापि कुत्सनाभीक्ष्ण्ययोरेव गोत्रादीनि गृह्यन्ते, तथा तत्रैवोपपादितम्। `पचतिकल्पम्` इति। `ईषदसमाप्तौ कल्पप्` [[5.3.67]] । तत्र हि `तिङश्च` [[5.3.56]] इत्यनुवर्तते, `अनुदात्तस्तद्धित इहोदाहरणमिति कस्मान्न भवति? इति प्रश्नावसरे आह -`अन्यत्र तद्धितस्वरेण तिङ्स्वरो वाच्ये, इति तद्धितस्योदात्तत्वे सति `अनुदात्तं पदमेकवर्जम्? [[6.1.152]] इति चानुदात्तत्वापतत्तिः। एवञ्चान्यत्र निघातः सिद्ध एवेति। अनुदात्त एव तद्धित इहोदाहरणम्। `अत्र इत्यादि। कथं पुनरुपसर्गग्रहणं शक्यं द्रष्टुम्? उत्तरसूत्रे <<चादिषु च>> [[8.1.58]] इति चशब्देनास्य सूत्रस्य द्वितदीयो व्यापार उच्यते, स आनन्तर्याद्गतेरित्यस्य विशेषणार्थो भविष्यति -चादिषु यो गतिरिति। चादिष्विति सामीप्यलक्षणमधिकरणम्। कश्चादिषु गतिः? चादिसमीपे य उदितः। तेनायं प्रादीनामेवेपसर्गसंज्ञानां प्रतिषेधो विज्ञायते। एवं तावदस्मिन्? सूत्रे गतिग्रहणेनोपसर्गस्य ग्रहणं विज्ञायते। `सगतिरपि तिङ्` इति। अत्रापि <<चादिलोपे विभाषा>> [[8.1.63]] इति सूत्रात्? मण्डूकप्लुतिन्यायेन विभावेत्यनुवर्तते, सा च व्यवस्थितविभाषा। तेनोपसर्गसंज्ञेन गतिना यो गतिः सः। तस्यैवानुदात्तत्वेन भवितव्य मित्युपसर्ग9स्यैव गतेग्र्रहणं विज्ञायते। अथ वा -द्वयोरप्येतयोर्बोगयोः `विभाषितं सोपसर्गमनुत्तमम्` [[8.1.53]] इत्यत उपसर्गग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, गतिग्रहणमनर्थकं स्यात्; उपसर्गग्रहणानुवृत्त्यैव सिद्धत्वात्। नानर्थकम्; विस्पष्टार्थत्वात्। <<उपसर्गाच्छन्दसि धात्वर्थे>> [[5.1.118]] इत्यत्र ह्रुपसर्गग्रहणं प्राद्युपलक्षणार्थम्। तत्रासति गतिग्रहणे, इहाप्युसर्गग्रहणं प्राद्युपलक्षणार्थमिति कस्यचित्? सन्देहः स्यात्। प्राद्युपलक्षणे च सति को दोषः? अनुपसर्गाणामपि प्रादीनां ग्रहणं विज्ञायेत। ततः शुक्लौकरोतीत्यत्र निघातप्रतिषेधो भवत्येव। `अभूततद्भावे` (5.4.50।वा।1) इत्यादिनेह च्दिः, तस्य <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इति गतिसंज्ञा, <<अस्य च्वौ>> [[7.4.32]] इतीत्त्वम्। `यत्? काष्ठं शुक्लीकरोति` इति। अत्र `सगतिरपे तिङः` [[8.1.68]] इति निघातो न वर्तते। तेन `निपातैर्यद्यदि` [[8.1.30]] इत्यादिना निघातप्रतिषेध एव भवति॥", "81058": "द्विविधाश्चादयः -गणपरिपठिताश्च, यावङ्गीकृत्यैतदुक्तम् -`चादयोऽसत्त्वे [[1.4.57]] इति; सूत्रपठिताश्च -`न चवाहाहैवायुक्ते` [[8.1.24]] इति; तत्र प्रत्यासत्तेर्य इह प्रकरणे पठितास्तेषामेव ग्रहणं युक्तम्? इति मत्वाऽऽह -`चादयो न चदाहाहैव` इत्यादि। खादतिशब्दः पचतिशब्देन तुल्यस्वरः। `प्रथमस्यात्र तिङन्तस्य` इत्यादिना द्वितीयमिह गतेरित्यस्य प्रत्युदाहरणमिति दर्शयति। चश्बदो गतेरित्यस्यानुकर्षणार्थः। अन्यच्चास्य प्रयोजनमुक्तमेव॥", "81059": "`प्रथमा तिङविभक्तिः` इति। एतेन प्रथमेति स्त्रीलिङ्गनिर्देशो विभक्त्यपेक्षः सूत्रे कृत इति दर्शयति। प्रथमात्वं तस्य पुनः प्रथममुच्चारणाद्वेदितव्यम्? `गर्दंभाँश्च कालयति` इति। `कल विल क्षेपे` (धातुपाठः-1604-1605) चुरादिणिच्। चित्स्वरेण लकारेऽकार उदात्त इति मध्योदात्तमेतत्। द्वितदीयं तु निहन्यत एव। अथ योगग्रहणं किमर्थम्, न च वयोरित्येव सप्तम्या निर्देशः क्रियेत, यथा `चादिष च` [[8.1.58]] ? इत्यत आह -`योगग्रहणम्` इत्यादि। यथा <<चादिषु च>> [[8.1.58]] इति सप्तम्या निर्देशे सति परैरेव चादिनिर्योगे प्रतिषेधो भवति, न पूर्वै; तथेहापि पराभ्यामेव चवाभ्यां योगे स्यात्, न पूर्वाभ्याम्। ताभ्यामपि योगे यथा स्यादित्येवमर्थं योगग्रहणम्। यदि तु चवाभ्यामिति तृतीयया निर्देशः क्रियते, विनापि योगग्रहणेन पूर्वाभ्यामपि योगे स्यादेव प्रतिषेधः? सन्देहपरिहारार्थं तु तथा न कृतम्, चवाभ्यामित्युच्यमाने सन्देहः स्यात् -किमयं तृतीयया निर्देशः? उत पञ्चम्येति? पञ्चम्या निर्देशे को दोषः स्यात्? परमताभ्यां योगे न स्यात्। कथं पुनर्द्वितीयादितिङन्तस्य चवाभ्यां योगः, यत्तन्निवृत्त्यर्थं प्रथमाग्रहणं क्रियेत? इत्यत आह -`चवायोगो हि` इत्यादि। इह चयोगः समुच्चये भवति, वायोगस्तु विकल्पे। स च समुच्चयो वपिकल्पश्चानेकस्य धर्मः, द्वित्वादिवत्। अतो यत्र तौ समुच्चयविकल्पौ, तत्रावश्यमनेकस्य द्वितीयादेः सन्निधानेन भवितव्यम्। तस्मात्? तन्निवृत्त्यर्थं प्रथमाग्रहणम्॥", "81060": "`आचारभेदः` इति। शिष्टाचारव्यतिक्रम इत्यर्थः। `याति` इति। धातुस्वरेणाद्युदात्तः। इतिकरणेन हशब्दमात्रलस्य निघातकारणत्वमाख्यायते। असति हि तस्मिन्? क्षिया हशब्दस्योपाधिर्विज्ञायेत तिङन्तस्य वा। तथा च यदा हशब्दस्तिङन्तं वा क्षियायां न प्रयुज्यते, तदा निघातप्रतिषेधो न स्यात्। इतिकरणे तु सति स्वरूपमात्रप्रधानो हशब्दो निघातस्य कारण भवतीति असत्यामपि हशब्दस्य तिङन्तस्य वा क्षियायां वृत्तौ निघातप्रतिषेधः सिद्धो भवति॥", "81061": "चकारेण क्षियायामित्येतदनुकृष्यते। `नानाप्रयोजनः` इति। अनेकप्रयोजन इत्यर्थः। `नियोगः` इति। प्रेषणम्, व्यापारणमित्यर्थः। इतिकरणमस्य पूर्ववदेव प्रयोजनम्॥", "81062": "`क्व चास्य लोपः` इति। <<लोपे विभाषा>> [[8.1.45]] इत्यत्र योऽभिप्राय प्रष्टुरुक्तः स इहापि वेदितव्यः। `यत्रार्थो गम्यते` इत्यादि। अत्रापि यस्तत्राभिप्राय इतरस्याभिहितः स एव द्रष्टव्यः। कः पुनरर्थस्तयोः प्रयुक्तयोरपि गम्यते? इत्याह -`तत्र` इत्यादि। क्य पुनर्दिषये चलोपः? क्व वाहलोपः? इत्याह -`समानकर्त्तृके` इत्यादि। यस्मिन्? व्यापारविशेषे समास एकः कर्ता स समानकर्तकः। `समानकर्त्तृके चलोपः, नानकर्त्तृकेऽहलोपः` इति। नाना कर्ता यस्मिन्? स नानाकर्त्तुकः।`देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु` इति। अत्र ग्रामकर्मकमरण्यकर्मकञ्च गमनं यत्? तस्य देवदत्त एव कर्तति तत्? समानकर्तृकम्। चार्थं च दर्शयितुमाह -`ग्रामं च` इत्यादि। अत्र हि देवदत्त एवारण्यं गच्छतु देवदत्त एव ग्रामं गच्छत्विति देवदत्तस्यैव नियोज्यस्य गन्तुग्र्राम एव गन्तव्यतयोपदिश्यते, यज्ञदत्तस्य त्वरण्यमेव केवलम्। तेनासत्यप्यहशब्दस्य प्रयोगे तदर्थो गम्यते -ग्रामं केवलं देवदत्तो गच्छतु, अरण्यं केवलं यज्ञदत्तो गच्छत्विति। `अनवकॢप्तौ` इति। असम्भावनायामित्यर्थः। यो हि देवदत्तस्य भोजनं न क्वचित्सम्भावयति स एव प्रयुङक्ते -देवदत्त तदेव भोक्ष्यसे` इति। पररूपत्वम्॥", "81063": "`सूत्रनिर्दिष्टा गह्रन्ते` इति। पूर्वतः प्रत्यासत्तेः। अत्र चवालोपे <<चवायोगे प्रथमा>> [[8.1.59]] इति प्राप्ते विभाषा, परिशेषाणामप्राप्ते। `भवन्ति` इति। पक्षे प्रत्ययस्वरेण मध्योदात्तः। `यजेत` इति। अत्र पक्षेऽदुपदेशाल्लसार्वधातुकस्यानुदात्तत्वे कृते धातोकदात्तत्वे सत्याद्युदात्तत्वम्॥", "81064": "`आसीत्` इति। `अस भुवि` (धातुपाठः-1065), लङ्? अदादित्वाच्छयो लुक्, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इति आट्, स चोदात्त इत्याद्युदात्तमेतत्। इतिकरणस्य पूर्वोक्तमेव प्रयोजनम्। चकारोऽनुक्तसमुच्चयार्थः। या द्विः पचत्विह तस्याः संवत्सरस्य सस्यं पच्यते द्विरित्यनेन युक्ता प्रथमा तिङ्विभक्तिः पचत्विति वा न निहन्यते॥", "81065": "`समर्थाभ्याम्` इति। नायमस्यार्थः -तिङन्तेन संगताभ्यामिति; अन्यथा ह्रस्योपादानमनर्थकमेव स्यात्, `चदायोगे प्रथमा` [[8.1.59]] इत्यतो योगग्रहणानुवृत्तेरेवास्यार्थस्य लब्धत्वात्। तस्मात्? समानार्थाभ्यामित्यस्यायमर्थः। सा च समानार्थता तिङन्तापेक्षया भवतीति परस्परापेक्षया वेदितव्या। `एका जिन्वति` इति। जयतेर्लट्, <<व्यत्ययो बहुलम्>> [[3.1.85]] इति श्नुः, <<बहुलं छन्दसि>> [[7.4.78]] इति झेरदादेशः, <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इति यणादेशः। अनिघातपक्षे सार्वधातुकस्वरेण मध्योदात्तमेतत्। सतिशिष्टादपि हि विकरणस्वरात्? सार्वधातुकस्वरो बलीयानिष्यते। `अत्ति` [`अन्ति` -प्रांउ।पाठः] इति। अदेः `खरि च` [[8.4.54]] इति चर्त्वम्। अनिघातपक्षे धातुस्वरेणादाद्युत्तमेतत्। `चाकशीति` इति। `काशृ दीप्तौ` (धातुपाठः-647), अस्य यङ्लुगन्तस्य रूपमेतत्। `उपातिष्ठत्` इति। तिष्ठतेर्लङ पाध्रादिसूत्रेण [[7.3.78]] तिष्ठादेशः। `एक इति संख्यापदमेतत्` इति। अनेन प्रत्युदाहरण एकशब्दस्यान्यशब्देनासमानार्थतां दर्शयति। किं पुनः कारणमन्यशब्देनासमानार्थेन योगेन प्रत्युदाहरणं न दर्शितम्? इत्याह -`एकशब्दस्य व्यवस्थार्थं च` इत्यादि। चशब्दोऽवधारणार्थः। अनेकार्थसम्भवेऽरह्थान्तराद्व्यवच्छिस्यैकत्रैवार्थे व्यवस्थानं व्यवस्था। एकशब्दस्य व्यवस्थार्थमेव समर्थग्रहणम्; नान्यशब्दस्य व्यवस्थार्थम्। न हि तस्यानेकार्थः सम्भवति। तस्मादेकशब्दस्य व्यवस्थार्थं समर्थग्रहणं कृतम्। तेनैवैकशब्देनासमर्थेन योगे युक्तं प्रत्युदहरणमुपदर्शयितुम्, नान्यशब्देनेत्यभिप्रायः। कस्मात्? पुनरेकशब्दव्यवस्थार्थमेव समर्थग्रहणं कृतम्? इत्याह -`व्यभिचारित्वात्? तस्य` इति। एकशब्दो हि यत्रार्थेऽन्यत्रादौ वृष्टस्तं व्यभिचरति? तथा हि -स क्वचिदन्यशब्दस्यार्थे दृश्यते, क्वचित्प्राथम्ये, क्वचित्? संख्यायाम्, तस्मादसौ व्यभिचारी। अनवस्थित इत्यर्थः। तद्व्यवस्थार्थं समर्थग्रहणं युक्तम्, नान्यशब्दव्यवस्थार्थम्; तस्याख्यभिचारित्वात्। न ह्रन्यशब्दो यत्रार्थे दृष्टस्ततोऽन्यत्र वर्तते। नन#उ च व्यवस्थाया एतत्फलम् -अन्यशब्दसमानार्थस्यैकशब्दस्य ग्रहणं यथा स्यादिति, एतच्चान्तरेणापि व्यवस्थाकारणं समर्थग्रहणमन्यशब्दसाहचर्यादेव लभ्यते, तदनर्थकं समर्थग्रहणम्? नैतदस्ति; `निपातैर्यद्यदि` [[8.1.30]] इत्यादौ सूत्रे निपातग्रहणेन ज्ञापितम् -साहचर्यमिह प्रकरणे व्यवस्थाकारणं न भवतीति॥", "81066": "`प्रथमा छन्दसीति च निवृत्तम्` इति। तयोर्विभाषाग्रहणेन सम्बद्धत्वात्। तस्य चेह नित्यग्रहणेन निवर्त्तितत्वात्। अतस्तन्निवत्तौ तत्सम्बद्धयोरपि निवृत्तिर्भवति। वृत्तशब्दोऽयमिहाधिकरणसाधनम् -वर्तते तस्मिन्निति वृत्तम्; वृतेरकर्मकत्वात्? `क्तोऽधिकरणे च` [[3.4.76]] इत्यातदिनाऽधिकरणे क्तः। तत्पुनरधिकरणं पदाधिकारात्? पदमेव विज्ञायते, इत्याह -`यत्र पदे यच्छब्दो वर्तते` इत्यादि। यदि यद्वृत्तमित्यधिकरणे क्तः, तर्हि <<अधिकरणवाचिना च>> [[2.2.13]] इति प्रतिषेधात्? षष्ठीसमासो न प्रवर्तते? अत एव निपातनात्? समास इत्यदोषः। `एतन्नाश्रीयते` इति। यद्येतदाश्रीयेत, `यत्कामास्ते जुहुमः` इत्यादौ न स्यादिति भावः। कथं पुनरत्र परिभाषा शक्या नाश्रयितुम्? वक्तव्यमेवैतत् -इह परिभाषा न भवतीति। `ददाति जुहुमः` इति। अभ्यस्तानामादिः` [[6.1.183]] इत्युभयमप्येतदाद्युदात्तम्। `यत्कामाः` इति। यस्मिन्? काम एषामिति बहुव्रीहिः। `यद्रङ्` इति पदम्? यदञ्चतीति `ऋत्विक्` [[3.2.59]] इत्यादिना क्विन्, `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः, हल्ङ्यादिलोपः, `उगिदचाम्` [[7.1.70]] इति तुम्, संयोगान्तलोपः, विष्वग्देवयोः` [[6.3.91]] इत्यद्रआदेशः, क्विन्प्रत्ययस्य कुः` [[8.2.62]] । `वाति` इति। `वा गतिगन्धनयोः` (धातुपाठः-1050), अदादित्वाच्छपो लुक्। धातुस्वरेणाद्युदात्तमेतत्। `पवते` इति। `पूङ पवने` (धातुपाठः-966) एतदपि पूर्ववदाद्युदात्तम्। अत ङित्त्वाल्लसार्वधातुकस्यानुदात्तत्वे कृते धातुस्वर एव भवति। ननु च यद्वृत्तादिति पञ्चमीनिर्देशोऽयम्, यत्कामस्ते जुहमः -इत्यादिषु चोदाहरणेषु त इत्यादिना पदेन व्यवधानम्, अतो निर्देष्टग्रहणस्यानन्तर्यार्थत्वादिह निघातप्रतिषेधेन भवितव्यम्? इत्याह -`पञ्चमीनिर्देशेऽप्त्र व्यवहितेऽपि कार्यमिष्यते` [`व्यवहिते` इत्येव -काशिका] इचि एतच्चोत्तरसूत्रे ज्ञापयिष्यते॥", "81067": "`पूजनात्` इति। सुपां सुपो भवन्तीति (7.1.39।वा) बहुवचनस्य स्थान एकवचनम्, अत एवाह -`पूजनवचनेभ्यः` इति। `उत्तरपदम्` इति। सुबन्तं वेदितव्यम्। ननु तिङिति वर्तते? सत्यमेतत्; उत्तरत्र [[8.1.68]] तिङिति वचनादिह सुबन्तस्य ग्रहणं विज्ञायते। अपि च वक्ष्यत्येतत् -इहैव समासे चैतदनुदात्तत्वमिति। समासश्च काष्ठादीनां सुबन्तेनैव सम्भवति, न तिङन्तेनेति युक्तमिह सुबन्तस्यैव पदस्य गरहणम्। सर्व एते काष्ठादयोऽद्भुतपर्यायाः पूजनवचना भवन्ति। अद्भुतं योऽधीते स काष्ठाध्यायक इत्युच्यते। एवं दारुणादिषु वेदितव्यम्। इह सर्व एवैते काष्ठादयः क्रियाविशेषणभूताः समस्यन्ते, न च क्रियाविशेषणानां समासः क्वचिद्विहितः, तत्कथमत्र समासः? इत्याह -`मयूरव्यंसकादित्वात्? समासः` इति। `समासे चैतत्` इत्यादि। चकारोऽवधारणार्थः। समास एवेत्यर्थः। कथं पुनः समास एवैतल्लभ्यते? <<चादिलोपे विभाषा>> [[8.1.63]] इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणानुवृत्तेः। सा व्यवस्थितविभाषेति विज्ञानाच्च। यद्येवम्, कथं वार्त्तिककारेणोक्तम् -मलोपश्चेति, काष्ठादिषु हि योऽकारान्तास्तेषां विभक्तेरम्भावे कृते मकारः सम्भवति, समासे चैतदनुदात्तत्वेन भवितव्यम्, तत्र विभक्तेरभावान्मकारो न सम्भवतीति मलोपवचनमयुक्तं स्यात्? इत्यत आह -`मलोपश्चेत्यनेनापि` इत्यादि। एवमस्माभिरनुदात्तत्वस्य विषय आख्यातः। मलोप श्चेत्यनेनापि स एवाख्यायते; यस्मात्? समासे मलोपो न भवति; विभक्तेर्लुप्तत्वात्। असमासे विभक्तेरम्भावे कृते मकारस्य श्रवणमेव भवति, न तु लोपः। अथासमासे मलोपार्थमित्येतदुक्तमित्येव कस्मान्न विज्ञायते? इत्याह -`असमासे[`अथासमासे` - कांउ।पाठः] हि इत्यादि।अथ पूजितग्रहणं किमर्थम्, यावता पूजनशब्दोऽयं पूजितापेक्षत्वात्? सम्बन्धिशब्दः, तेन सम्बन्धिशब्दत्वात्? पूजितमर्थादुपस्थापयति, तन्त्रान्तरेणापि पूजितग्रहणं पूजितस्यैव परिग्रहो भविष्यति? इत्यत आह -`पूजनादेव` इत्यादि। पूजनग्रहणादेव पूजितग्रहणे लब्धे पूजितग्रहणं यत्? क्रियते तस्यैतत्? प्रयोजनम् -विशिष्टस्याव्यवहितस्य प्रत्यासन्नस्य ग्रहणं यथा स्यादित्येवमर्थम्। तेनोत्तरसूत्रे [[8.1.68]] यत्? काष्ठं देवदत्तः पचतीत्यत्र व्यवहितस्य न भविष्यति। ननु पञ्चमीनिर्देशादेव व्यवहितस्य न भविष्यति? इत्यत आह -`एतदेव` इत्यादि। यादृशमिदं ज्ञापकं तदनुरूपम्? `यद्वृत्तान्नित्यम्` [[8.1.66]] इत्यत्र यत्कामास्ते जुहुमः, यद्रङ्? वायुर्वातीत्येवमाद्युदाहृत मित्यर्थः। एतेन ज्ञापनस्य प्रयोजनं दर्शितम्। अथानुदात्तग्रहणं किमर्थम्, यावता <<अनुदात्तं सर्वमपादादौ>> [[8.1.18]] इत्यतोऽनुदात्तग्रहणमनुवर्तत [`अनुवर्तेत इत्याह` - कांउ।पाठः] एव? इत्याह -`अनुदात्त इति वर्तमाने` [`अनुदात्तमिति` -काशिका] इत्यादि। तद्ध्यनुदात्तग्रहणं `न लुट्` [[8.1.29]] इति प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ सोऽप्यनुवर्तते। तथा च सति यस्यामन्त्रितादेः पूजितस्य निघातप्राप्तिरस्ति तस्यायं काष्ठादिभ्यः परस्य निघातप्रतिषेधो विज्ञायेत। तस्मात्? प्रतिषेधनिवृत्त्यर्थमन्यदिहानुदात्तग्रहणं क्रियते॥", "81068": "`सगतिग्रहणाच्च गतिरपि निहन्यते` इति। तुल्ययोगेऽत्र सहशब्दः। तत्रोभयोरपि विधीयमानेन कार्येण सम्बन्धो भवति। तथा हि सपुत्रो भोज्यतामित्युक्ते द्वयोरपि पितापुत्रयोर्भोजनेन सम्बन्धो भवति। तस्मादिहाप्यगतेस्तिङन्तस्य च निघाते च सम्बन्धो विज्ञायते। `गतिग्रहणेन चात्रोपसर्गग्रहणमिष्यते` इति। यथा चैतल्लभ्यते तथा पूर्वमेवाख्यातम्। तिङ्ग्रहणं पूर्वो निघातः सुबन्तविषयो यथा विज्ञायेतेत्येवमर्थम्॥", "81069": "`पचति पूति` इति। पतिशब्दसय क्रियादिविशेषणत्वात्? `स्वमोर्नपुंसकात्` [[7.1.23]] इति विभक्तेर्लुक्। `पचति, क्लिश्नाति` इति। `क्लिशू विबाधने` (धातुपाठः-1522), क्र्यादित्वात्? श्ना। अत्र क्लिश्नातीत्येतत्? कुत्सनं भवति, यो यस्य बाधनं करोति तेन स कुत्स्यते। सम्बन्धोऽप्यनयोस्तिङन्तयोरस्त्येव। यस्मात्? पचति तस्मात्? क्लिश्नातीति। सुबन्तं तु क्लिश्नातीत्येतन्न भवति, अस्य न भवति निघातः। `क्रियाकुत्सने` इत्यादि। तिङन्ते द्वयमस्ति -साधनम्, क्रिया च। तत्र क्रियायाः कुत्सनेऽनुदात्तत्वं भवतीत्येतदर्थमिदं व्याख्येयम्, कर्त्तुः कुत्सने मा भूदित्येवमर्थं च। तत्रेदं व्याख्यानम् -`चादिलोपे विभाषा` विभाषा` [[8.1.63]] इत्यतो विभाषाग्रहणमनुवर्तते। व्यवस्थितविभाषा च सा, तेन क्रियाकुत्सन एव भविष्यति, न कर्त्तुः कुत्सन इति। ननु च क्रियाप्रधानमाख्यातम्, साधनं तु तत्राप्रधानम्, तस्य क्रियाङ्गत्वात्, अत्र प्राधान्यादेव पतीत्येवमादिना विशेषणेन क्रियाया एव सम्बन्धो भविष्यति, न गुणभूतस्य कर्तुः, तत्किमुच्यते क्रियाकुत्सनमिति? एवं मन्यते -यथैव कृदन्तेषु दारुणाध्यायकादिषु क्रियायाः प्रधानभूताया अपि विशेषणेन सम्बन्धो भवति, तथाऽख्यातेष्वप्राधान्येऽपि साधनस्य विशेषणेन सम्बन्धेन भवितव्यमिति। `पूतिश्चानुबन्धः` इत्यादि। पूतिशब्दश्चकारानुबन्धो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽत्र क्रयते, स चानुक्तसमुच्चयार्थः, तेन पूतिश्चानुबन्धो भविष्यतीति। ननु च पूतिशब्दस्य प्रातिपदिकत्वादप्रतिषिद्धमेवान्तोदात्तत्वम्, कस्मात्? स चानुबन्धः क्रियते? न चायं क्तिन्नन्तः, पूतिरयमिति पुंसा सामानाधिकरण्यात्। तह्र्रनेन चकारानुबन्धकरणेनैवैतद्दर्शयति -यत्र सगतेस्तिङोऽनुदात्तत्वं तत्र पूतेरन्तोदात्तत्वम्, अन्यत्रायमाद्युदात्त एव; तेन क्रियाकुत्सनेऽन्तोदात्तः कर्तव्यः, कुत्सन आद्युदात्त इति। `तेनायम्` इत्यातदिना चानुबनधकत्वस्य फलं दर्शयति। `विभाषितम्` इत्यादि। बह्वर्थ यत्? तिङन्तं तद्विभाषाऽनुदात्तं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि विभाषाग्रहणानुवृत्तेः। तेन व्यवस्थितविभाषात्वं चश्रित्य कर्तव्यम्। `सुपि कुत्सने` इत्यादि। अथमुक्तार्थसंग्रहश्लोकः। तत्राद्येन पादेन यदुक्तं क्रियाकुत्सन इति वरक्तव्यमिति तस्य संग्रहः। `मलोपः` इत्यादि। नास्मिन्? तिङ्? विद्यत इत्यतिङिति। स पुनः प्रस्तावात्? [प्रस्तादान् -प्रा।कांउद्रितपाठौ] काष्ठादीनां समासो विज्ञायते। तत्रातिङि काष्ठादिसमासे मलोप इष्टः। एतच्च मलोपश्चेत्यनेनायमेव विषय आख्यायत इत्यादिना तूक्तार्थम्, तदनेन समास चैतदनुदात्तत्वमित्यादिना यदुक्तं ततसर्वं ग्रहीतुम्। अथ वा मलोप इत्यनेन मलोपश्चेत्येतद्वचनमुपलक्षयति। अस्य चोक्तार्थमित्यनेन सम्बन्धः। तदेतदुक्तं भवति -मलोपश्चेति यत्? कार्यं वचनं तन्मलोपश्चेत्यनेनैपित्यादिना पूर्वमेवोक्तप्रयोजनमिति। `अतिङि` इति। अनुदात्तमित्येतद्वक्तव्यमिति वृत्तभङ्गभयान्नोक्तम्। अनुक्तमपि तस्य श्लोकस्य पूर्वोक्तार्थसंग्रहार्थत्वात्? काष्ठादीनाम च पूर्वमनुदात्तस्य चोक्तत्वाद्गम्यत एव। अतिङीति चानेन बहुव्रीहिणा समासः। तेनैतदुक्तं भवति -काष्ठादीनां समासेऽनुदात्तत्वं भवतीति। शेषं सुगमम्॥", "81070": "`अभ्युद्धरति` इति। अभिशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्त उच्छब्दे गतौ परतोऽनुदात्तत्वं भवति। `समुदानयति` इति। अत्रापि `निपाता आद्युदात्ताः` (फि।सू।4।80), `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इति सम आद्युदात्तत्वे प्राप्तेऽनुदात्तत्वं भवति। कथं पुनरत्राह -समश्च गतिसंज्ञेति यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसज्ञे भवत इत्युक्तम्? (जै।प।वृ।99), न चोच्छब्दस्य क्रियावाचित्वम्? नैष दोषः; क्रियाविशेषवाचिनो हि प्रादयः। क्रियाविशेषश्च क्रियैव। कारकाणां प्रवृत्तिविशेषः क्रियेत्युक्तम्। उपसगऽपि कारकप्रवृत्तिविशिष्यत एव। न [न ह्रुद्धरतीति] ह्रुत्तरतीति हरत्यर्थ एव केवलं कर्त्तृव्यापारं व्यवच्छिनति। किं तर्हि? उपसर्गार्थोऽपि। अथ वा हरणादर्थान्तरमेवोद्धरणम्, तस्याभिर्विशेषणमिति नानुपपन्ना गतिसंज्ञा। `देवदत्तः प्रपचति` इति। देवैर्दासीष्टेति <<क्तिच्क्तौ च संज्ञायाम्>> [[3.3.174]] इति क्तः; `दो दद्धोः` [[7.4.46]] इति ददादेशः। <<तृतीया कर्मणि>> [[6.2.48]] इत्याद्युदात्तत्वे प्राप्ते <<कारकाद्दत्तश्रुतयोरेवाशिषि>> [[6.2.148]] इति देवदत्तशब्दोऽन्तोदात्तः। `आमन्द्रैः` इत्यादि। अत्र सर्वमस्ति, न तु मन्द्रोगतिरिति। तस्मिन्? परत आङोऽनुदात्तत्वं न भवति। असति चनुदात्तत्वे `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गश्चाभिवर्जम्` (फि सू 4।81) इत्याद्युदात्तत्वमेव भवति। कथं पुनराङो गतिसंज्ञा, क्रियायोगे हि सति विहिता सा, न चात्रास्ति क्रियायोगः, मन्दरशब्दस्याक्रियावाचित्वात्? इत्यत आह -`याहीत्येतत्? प्रति क्रियायोगादाङित्वेष गतिः` इति। सत्यपि व्यवधाने व्यवहिताश्च [[1.4.81]] इति गतिसंज्ञाविधानादिति भवाः। स्यादेतत्, यद्यपि याहीत्येतत्? प्रत्याङो गतित्वम्, तथापि मन्द्रशब्दं प्रति नास्येव तस्य गतिसंज्ञा, तेन यद्यपि गतावित्येतन्नोच्येत, तथापि नैवेहानुदात्तत्वं प्राप्नोति? इत्यत आह -`तस्य` इत्यादि। अत्रास्यानुदात्तत्वं स्यादेवेति। अस्य `अनाश्रितपनिमित्तकम्` इत्यनेन हेतुरुक्तः। तस्यानाश्रितपरनिमित्तकस्यापि गतावित्यस्मिन्नसत्येनेन गतिग्रहणस्याभावो हेतुरभिहितः। यदि गतावित्येन्नोच्येत, ततोऽनाश्रितपरनिमित्तमेवानुदात्तत्वमुक्तं स्यात्। न ह्रसति सप्तमीनिर्दिष्टे गतिग्रहणे परनिमित्तताश्रीयते। ततश्च गतिरित्येतावत्युच्यमाने यद्यपि मन्द्रशब्दो गतिर्न भवति, तथापि तस्याङाश्रितपरनिमित्तमनुदात्तत्वमिह स्यादेव। गतावित्यस्मस्तु सति न भवत्येष दोषः; गतेः परनिमित्तस्याश्रयणात्? तस्य चेहाभावात्॥", "81071": "", "81072": "`तस्मिन्? सति` इत्यादिनाऽविद्यमानवद्भवतीत्यस्यार्थमाचष्टे। `अविद्यमानवत्` इति। वतिना निर्देशोऽयम्, अविद्यमानेन तुल्यं वर्तत इत्यविद्यमानवत्। वतिश्च साद्श्ये भवति, एवञ्च तस्याविद्यमानेन सादृश्यं भवति यदि सत्यपि तस्मस्तन्निबन्धनं कार्यं न भवति। असति च तस्मिन्? यत्? कार्यं तदत्तानिबन्धनं तत्? सत्यपि तस्मिन्? भवति। `आमन्त्रितनिघातेन` [आमन्त्रिततिङनिघात -काशिका -पदमंजरी च] इत्यादिना तस्मिन्? सति यत्कार्यं प्राप्नोति तदभावमविद्यमानवद्भावस्य प्रयोजनं दर्शयति। `देवदत्त् यज्ञदत्त` इति। अत्र पूर्वस्याविद्यमानत्वादसति निघाते यज्ञदत्तशब्दस्य षाष्टिकमेवामन्त्रि [[6.1.192]] ताद्युदात्तत्वं भवति। `देवदत्त मम ग्रामः स्वम्` ति। <<तवममौ ङसि>> [[7.2.96]] इति तदममादेशौ साप्तिकौ। `इत्येवमादिषु` इति। आदिशब्देन `देवदत्त तुभ्यं दीयते` इत्येवमादीनां ग्रहणम्, `युष्मदस्मदादेशा न भवन्ति` इति। <<तेमयावेकवचनस्य>> [[8.1.22]] इत्येवमादयः। `पूजायामनन्तरप्रतिषेधः प्रयोजनम्` इत्यादिना तस्मिन्नामन्त्रितेऽसति यत्कार्यं प्राप्नोति तस्य सत्यपि तस्मिन्? भावेऽविद्यमानवद्भावस्य प्रयोजनं दर्शयति। `यावद्देवदत्त पचसीत्यत्रापि` इत्यादि। यत्राप्यामन्त्रितं व्यवधायकमित्येषोऽपिशब्दस्यार्थो वेदितव्यः। `देवदत्तः पचति` इति। अत्राविद्यमानत्वाभावत्? तिङनिघातो भवत्येव। `पूर्वम्` इति। किं देवदत्त इति पूर्वं परमपि खलु भवति? न चेह परमस्तीति नास्ति देवदत्तेत्यस्य पूर्वत्वम्। तेनामन्त्रिताद्युदात्तत्वे कर्तव्ये नाविद्यमानवद्भवति। `देवदत्त पचसि` इति। अत्र पचसीत्येतदपेक्षया देवदत्तशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवद्भावेन तस्य भवितव्यम्, ततश्चामन्त्रिताद्युदात्तत्व तस्य न स्यात्। `इमं मे गङ्गे यमुने` -इत्यत्र च गङ्गेशब्दस्य यमुनेशब्देनानन्तर्यमपनयन्? स निघातनिमित्तभावं प्रतिबध्नीयादिति यमुनेशब्दस्य निघातो न स्यादित्येतच्चोद्यद्वयमाशङ्क्याह -`पूर्वत्वं च` इत्यादि। चकारोऽवधारणे, भिन्नक्रमश्च। परापेक्षमेवेत्येवं द्रष्टव्यम्। इतिकरणो हेतौ। येषां यद्भावो यदपेक्षवद्भवति तेषां तद्भावेनानूद्यमानानां विधीयमानो धर्मस्तद्विषय एव प्रतीयते। तद्यथा -पुत्रः कार्येष्ववहित इति पुत्रस्य पुत्रभावः पुत्रापेक्ष इति तस्य पुत्रभावेनानूद्यमानस्य विधीयमानं कार्येष्ववहितत्वं यदपेक्षं पुत्रत्वं तत्कार्येष्ववगम्यते, नान्यकार्येषु। पूर्वत्वं चेदं परापेक्षमेव। तस्मात्? तदनूद्यामन्त्रितस्याविद्यमानवद्भावो यदपेक्षं तत्पूर्वत्वं तस्यैव परस्य कार्ये कर्तव्ये भवति, नान्यस्य। किंविशिष्टे कार्ये? स्वानिमित्ते, अन्यनिमित्ते या। स्वं निमित्तं यस्य तत्? स्वनिमित्तम्, आमन्त्रितमित्यर्थः। तस्मादन्यच्छब्दान्तरं निमित्तं यस्य तदन्तनिमित्तम्। यत एवं परस्यैव कार्ये कर्तव्ये तदामन्त्रितमविद्यमानवद्भवति, न तु स्वकार्ये कर्तव्ये, तेन देवदत्त पचसौत्यत्रामन्त्रिताद्युदात्तत्वं न परस्य कार्यम्; किं तर्हि? आमन्त्रितस्यैव। यतः परस्य कार्यमनुदात्तत्वम्, तस्मस्त्वविद्यमानव्दभवत्येव।एवं प्रथमचोद्यं निराकृत्य द्वितीयं निराकर्त्तुमाह -`इमं मे गङ्गे यमुने` इत्यादि। अत्रापि पूर्वत्वं च परापेक्षं भवतीत्येष एव हेतुः। गङ्गेशब्दः पूर्वमामन्त्रितान्तः स्वयमविद्यमानवत्त्वान्निमित्तं न भवतीति सम्बन्धनीयम्। क्व विषये निमित्तं न भवति? परस्यैव सुमुनेशब्दस्यानुदात्तत्वे कर्तव्ये। मेशब्दस्य च निमित्तभावं न प्रतिबध्यातीति गङ्गेशब्दः पूर्वमामन्त्रितो यमुनेशब्दस्यानुदात्तत्वे कर्तव्ये विद्यमानवत्त्वादिति सर्वमपेक्षते। इह पूर्वशपब्दस्य सम्बन्धिशब्दत्वात्? परस्य कार्ये कर्तव्ये पूर्वस्यामन्त्रितस्याविद्यमानवद्भावो विधीयते। `इमं मे गङ्गे यमुने` इत्तयत्र च यद्यपि गङ्गेशब्दादन्यच्छब्दान्तरं `मे` इत्येतद्यमुनेशब्दस्यानुदात्तस्य निमित्तम्, तथापि तदनुदात्तत्वं पस्यैवामन्त्रितस्य कार्यमिति तस्मिन्नपि कर्तव्ये गङ्गेशब्दोऽविद्यमानवद्भवति। अत एव प्रागुक्तम् -अन्यनिमित्ते वैतेनाविद्यटचमानत्वान्मेशब्दस्य निघातं प्रति यो निमित्तभावः तं न प्रतिबध्नाति। वत्करणं किमर्थम्? स्वाश्रयमपि यथा स्यात् -आम्? भो देवदत्तत्रि। `आम एकगान्तरमामन्त्रितमनन्तिके` [[8.1.55]] इत्येकान्तरतानिबन्धनो निघातप्रतिषेधः सिद्धो भवति। बहुवचनान्तञ्चैतद्विज्ञेयम्; एकवचनान्ते हि <<नामन्त्रिते समानाधिकरणे सामान्यवचनम्>> [[8.1.73]] इति प्रतिषेधान्नैवाविद्यमानवत्त्वमस्ति। बहुवचनान्ते तु <<विभाषितं विशेषवचने बहुवचनम्>> [[8.1.74]] इति पक्षे विद्यते। ननु च परार्थे प्रयुज्यमानाः शब्दा अतिदेशं गमयन्ति, यथा -`गौर्वाहीक इति, तत्र विद्यमानस्याविद्यमानमिति वचनादतिदेशो गम्यते। अतिदेशधर्मश्च स्वाश्रया निवृत्तिरिति नार्थो वतिना? सत्यमेतत्; एवं तु मन्यते -वतिमन्तरेण प्रयोगव्यवस्थार्थमिवं स्यात्, कुतश्चिदामन्त्रितं पूर्वं न भवतीति। तथा चामन्त्रितस्यामन्त्रितेन पूर्वेणैकान्तराता न स्यादिति॥", "81073": "`समानाधिकरणम्` [समानाधिकरणे -काशिका] इति। समानाभिधेयमित्यर्थः। `अग्ने गृहपते` इति। अग्निशब्दोऽत्राग्निमात्राभिधायित्वात्? सामान्यवचनोऽपि गृहपतिशब्देन विशेषाभिधायिना व्यवच्छिद्यमानस्तद्वाच्ये गार्हपत्याख्येऽग्निविशेषे एवावतिष्ठत इति गृहपतिशब्दस्तेन समानाधिकरणः। एवं `माणवक जटिलाध्यापक` इत्यत्रापि समानाधिकरणाता विज्ञेया। अत्र जटिलकशब्दस्यापेक्षाभेदात्? सामान्ये विशेषत्वं न; किं तर्हि? माणवकापेक्षया विशेषत्वम्, अध्यापकापेक्षया सामान्यभावः। अत्र जटिलके समानाधिकरणे परतो माणवकस्याविद्यमानवत्त्वं न भवति, अध्यापके तु जटिलकशब्दस्य। पूर्वस्य` इत्यादिना प्रतिषेधस्य फलं दर्शयति। `देवदत्त पचसि` इति। तत्र देवदत्तस्य योऽभिधेयोऽर्थस्तत्रैव कर्तरि लकारो विहित इति भवति पचसीत्येतद्देवदत्तशब्देन समानाधिकरणम्। आमन्त्रितं तु न भवति -देवदत्त यज्ञदत्तेति। देवदत्तशब्दोऽत्र न संज्ञाशब्दो गृह्रते, किं तर्हि? क्रियानिमित्तकः; अन्यथा संज्ञशब्दस्यैकवस्तुनिष्ठत्वात्? सामान्यवचनः, स न स्यात्। `एते पर्यायाः` इति। एतेन सामान्यवचनत्वाभावं दर्शयति। विशेषापेक्षं सामान्यम्। न चात्र कस्यचिद्विशेषो वाच्यो यदपेक्षया सामान्यं स्यात्, सर्वेषामत्यन्ताभिन्नार्थत्वात्, अन्यथा पर्याया एवं न स्युः। कथं पुनज्र्ञायन्ते पर्याया एते? इत्याह -`एवं ह्रुक्तम्` इत्यादि॥", "81074": "पूर्वेण नित्यं विद्यमानवत्त्वे प्राप्ति विकल्पार्थमिदं वचनम्। `देवाः शरण्याः` इति। यदाऽविद्यमानवत्त्वं तदा शरन्या इत्यस्यामन्त्रिताद्युदात्तत्वं भवति; अन्यथा निघातः। एवं `ब्राआहृणा वैयाकरणाः` इत्यात्रापि वैयाकरणशब्दस्याद्युदात्तत्वम्, पाक्षिकनिघातश्च वेदितव्यः। अथ विशेषवचनं किमर्थम्, यावता `सामान्यवचनम्` इत्यनुवर्तते, सामान्यञ्च विशषापेक्षम्, तत्रान्तरेणापि विशेषवचनं विशेषवचनं विज्ञास्यते? इत्यत आब -`सामान्यवचनाधिकारादेव` इत्यादि। य एवं न शक्नोति मन्दधीः प्रतिपत्तुम्, तं प्रति विस्पष्टार्थ विशेषवचनग्रहणं क्रियते। यदि तर्हि सामान्यस्य विशेषापेक्षत्वात्? सामान्यवचनग्रहणाद्विशेषवचने कार्यं विज्ञायते, तत्र पूर्वसूत्रेऽपि [[8.1.73]] तत्रैव कार्यं विज्ञायते, तथा च देवदत्त यज्ञवत्तेति प्रत्युदाहरणं द्वयङ्गविकलं स्यात्; तथा हि यथा यज्ञदत्तशब्दो न समानाधिकरणो भवति, तथा विशेषवचनोऽपि। अथासौ विशेषवचनः? एवं सति यथाऽग्ने गृहपत इत्यत्राग्निशब्दः सामान्यवचनोऽपि गृहपतिशभ्देन विशेषाभिधायिना व्यवच्छिद्यमानस्तदग्नि विशेषणं भवति गृहपतिशब्दस्तेन समानाधिकरणः, एवं देवदत्तशब्दो विशेषाभिधायिना यज्ञदत्तशपब्देन व्यवच्छिद्यमानस्तद्वच्य एव विशेषेऽवतिष्ठत इति यज्ञदत्तशब्दस्तेन समाधिकरण इति चिन्त्यमेतत्॥ इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायामष्टमाध्यायस्यप्रथमः पादः- - -अथाष्टमाऽध्यायःद्वितीयः पादः", "82001": "एष योगः परिभाषा वा स्यात्? अधिकारो वेति पक्षद्वयं सम्भाव्यते। तत्र यद्ययं परिभाषा स्यात्? सर्वस्यामष्टाध्याय्याम्पूर्वस्मिन्नुत्तरमसिद्धं स्यात्, ततश्च <<अतो भिस ऐस्>> [[7.1.9]] इत्यत्र त्यदाद्यत्वस्यासिद्धत्वात्? तैः, यैः -इत्यत्रैस्भावो न स्यादितीमं परिभाषापक्षे दोषं दृष्ट्वा स्वरितत्वेनाधिकारत्वम् [[1.3.11]] अस्येति निश्चित्याह -'पूर्वत्रासिद्धमित्यधिकारोऽयम्' इति। `अध्यायपरिसमाप्तेः` इति। अवधिप्रदर्शनार्थमेतत्। `तत्र` इति वाक्योपन्यासे। 'सपादा' इति। सह पादेनानन्तरं प्रक्रान्तेन वर्तत इति सपादा। `सप्ताध्यायी` इति। सप्तानामध्यायानां समाहारः, <<द्विगोः>> [[4.1.21]] इति ङीप्। क्वचित्? `सपादसप्ताध्यायी` इति पाठः, तत्र सपादा चासौ सप्ताध्यायी चेति विशेषणसमासः, पुंवद्भावः। `अयम्` इति। वक्ष्यमाणः। `पादोनोऽध्यायः` इति। अनन्तरोक्तेन पादेनोनोऽपरिपूर्णः पादोनोऽध्यायः। `असिद्धो भवति` इत्यादि। पादोनाध्यायग्रहणेनोत्तरोत्तरयोगग्रहणेन च शास्त्रासिद्धत्वमिहाश्रीयत इति दर्शयति। कार्यासिद्धत्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हते न पुनर्वेवदत्तस्य प्रादुर्भावो भवति, तथा कार्यस्यासिद्धत्वे तिपादिते न प#उनः प्रकृतेः प्रत्यापत्तिर्भवति। [`प्रादुर्भावो` -प्रांउ।पाठः] ततश्चामुद्धत्वे तुस्मैभावशास्त्रमेव प्रवर्तते, न त्वशास्त्रमसिद्धतवामिति न भवत्येष दोषप्रसङ्गः। अपि च शास्त्रस्य मुख्यत्वं पूर्वत्वं कार्यस्यौपचारिकत्वम्। यस्य कार्यस्य शास्त्रं पूर्वं तदप्युपचारेण पूर्वमित्युच्यते, न स्वत एव तसय पूर्वत्वम्; सन्निवेशविशेषाभावात्। कार्यं हि लक्ष्यगतम्, तत्र यथा लक्ष्यस्य सन्निवेशो नास्ति तथा तद्गतस्यापि कार्यस्य। न च मुख्ये पूर्वत्वे सति गौणत्वस्य परिग्रहणं मुक्तम्। तस्माच्छास्त्रं [तस्माच्छास्त्रपूर्वग्रहणेन -प्रांउ।पाठः] पूर्वग्रहणेन गृह्रते। तस्य च पूर्वत्वं परशास्त्रमेवापेक्ष्य भवति। अतो यदपेक्षं तस्य पूर्वत्वं ततः परस्य शास्त्रस्यैवासिद्धत्वमनेन कर्त्तुं युक्तम्। शास्त्रस्यासिद्धौ च कृतायामर्थतः कार्यासिद्धत्वं कृतमेव भवति; तस्य तन्निबन्धनत्वात्। सिद्धशब्दो निष्पन्नवचनः। सिद्धं निष्पन्नमित्यर्थः। न सिद्धमसिद्धम्, अनिष्पन्नमित्युच्यते। परञ्च शास्त्रं यच्च निष्पन्नं तन्न शक्यं वचनशतेनाप्यनिष्पन्नसत्तायामापादयितुम्। अन्यथा न कश्चिद्दुःखविवशां दशामनुभवेतु; असिद्धवचनेनैव न दु#ःखस्यानिष्पन्नतापादानात्। तस्माद्यथा ब्राहृदत्तोऽब्राहृदत्तोऽयमित्युक्तेऽकतिदेशोऽयं गम्यते, तथेहाप्यसिद्धत्वमित्युक्तेऽतिदेशोऽयं गम्यत इत्याह -`असिद्धवद्भवति` इति। एतदेव स्पष्टीकर्तुमाह -`सिद्धकार्यम्` इत्यादि। एवं हि तदसिद्धवद्भवकति यदि सिद्धस्य यत्कार्यं तन्न करोति। `तदेतत्` इत्यादि। तदिति हेतो, यस्मादनन्तरोक्तोऽसिद्धशब्दस्यार्थः, तस्मादेतदसिद्धवचनमादेशलक्षणप्रतिषेधार्थम्। आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्, तस्य प्रतिषेधः। सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्। `उत्सर्गलक्षणभाववार्थं च` इति। उत्सृज्यते निवत्र्यत इत्युत्सर्गः=स्थानिलक्षणम्, उत्सर्गौ लक्षणं निमित्तं यस्य तदुत्सर्गलक्षणं कार्यम्, तस्य भाव उपजननमुत्सर्गलक्षणभावः, सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्। `अस्मा उद्धर` इत्यादि। अस्मै इतोदंशब्दाच्चतुर्थी, उद्धरेत्यस्मिन्? परत आयादेशः, <<लोपः शाकल्यस्य>> [[8.3.19]] इति वकारलोपः। तत्र कृतेऽकः सवर्णेदीर्घत्वं प्राप्नोति; वकारलोपस्यासिद्धत्वान्न भवति। `व्यलोपस्यासिद्धत्वात्` इति। तादथ्र्याद्व्यलोपशास्त्रं व्यलोपशब्देनोक्तम्। अथ वा -व्यलोपशस्त्रस्यासिद्धत्वाद्व्यलोपस्यासिद्धत्वमित्युच्यते। एवूदाहरणेष्वादेशलक्षणप्रतिषेधोऽसिद्धत्वावचनस्य प्रयोजनम्। इदानीं येषूदाहरणेषूत्सर्गलक्षणभावः प्रयोजनम्, तानि दर्शयितुमाह -`अमुध्मै` इत्यादि। अदसश्चतुर्थीपञ्चमीसप्तम्यैकवचनानि। त्यदाद्यत्वम्? [[7.2.102]] । अत्रासत्यप्यसिद्धत्वे परत्वात्? <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्युत्वम्, ततश्चाकारान्तस्याभावात्? तन्निबन्धनाः `सर्ववाम्नः स्मै` [[7.1.14]] , <<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इति स्मायादयो न स्युः। असिद्धत्वे सति शास्त्रस्य ते भवन्ति। `उत्वस्यासिद्धत्वात्` इति। अत्रापि तादध्र्यादुत्वशब्देनोत्वशास्त्रमुक्तम्। `शुष्किका` इत्यादिश्लोकः। अत्र `निदर्शनम्` इत्येतत्? शुष्किकेत्यादिभिः प्रत्यकमभिसम्बध्यते। `झलां चश्त्वे` इति। अत्राप्यसिद्ध इति वृत्तभङ्गभयान्नोक्तम्। अनुक्तमपि प्रकरणेन ज्ञायते। `शुष्किका` इति। `शुष शोषणे` (धातुपाठः-1183) इत्येतस्मात्? क्तप्रत्ययः, <<शुषः कः>> [[8.2.51]] इति कादेशः, टाप्, अज्ञातार्थे `प्रागिवात्? कः` [[5.3.70]] , `केऽणः` [[7.4.13]] ति ह्रस्वत्वम्, ततष्टाप्, `प्रत्ययस्यात्? कात्` [[7.3.44]] इत्यादिना नित्यमित्त्वं भवति, न तु `उदीचाम्` [[7.3.46]] इत्यादिना पाक्षिकम्; <<शुषः कः>> [[8.2.51]] इत्यस्यासिद्धत्वात्। `शुष्कजङ्घा` इति। शुष्के जङ्घे अस्या इति बहुव्रीहिः, <<न कोपधायाः>> [[6.3.37]] इचि पुंवद्भावनिषेधो न भवति। <<शुषः कः>> [[8.2.51]] इत्यस्यासिद्धत्वादिति प्रकृतेन सम्बन्धनोयम्। ननु च सत्यप्यसिद्धत्वे नैवात्र पूर्वद्भावप्रतिषेधो न प्राप्नोति, `कोपधप्रतिषेदे तद्धितवुग्रहणं कर्तव्य्` (धा।733) इति वचनात्? न; वाक्यकारमतमेतत्, सूत्रकारमतेन तु श्लोकवार्त्तिककारेण च न चात्रैतत्? प्रयोजनमुपन्यस्तम्। एतयोर्हि सामान्येन कोपधप्रतिषेधोऽभिमतः। `क्षामिमान्` इति। `क्षै जै षै क्षये` (धातुपाठः-913,914,915), <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यात्त्वम्, <<क्षायो मः>> [[8.2.53]] इति निष्ठातकारस्य मकारः -क्षाम इति स्थिते `अत इञ्` [[4.1.95]] इतीञं कृत्वा <<अत इनिठनौ>> [[5.2.115]] इतीनिप्रत्ययं वा कृत्वा मतुप्? कर्तव्यः। `वहेः` इत्यादि। `वह प्रापणे` (धातुपाठः-1004) इत्येतस्मान्निष्ठा, सम्प्रसारणम्? [[6.1.15]] , `हो डः` [[8.2.31]] इति ढत्वम्, <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्, <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्, <<ढो ढे लोपः>> [[8.3.13]] इति ढलोपः, <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः, ऊढ इति स्थिते, तमाचष्ट इति णिच्, `णाविष्ठवत्? कार्य प्रातिपदिकस्य` (वा।813) इतीष्ठवद्भावाट्टिलोपः, तदन्ताल्लुङ्, `णिश्रि` [[3.1.48]] इत्यादिना चङ्। अत्र धत्वष्टुत्वादीनामसिद्धत्वाद्योऽसौ णो टिलोपलस्तस्य णौ कृतं स्थानिवद्भवतीति (चांप।पा।21) स्थानिवद्भावात्? `चङि` [[6.1.11]] इति <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति ह्त इत्येतस्य द्विर्वचनम्, <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम् -महाप्राणस्य हकारस्य स्थाने महाप्राण एव झकारः, <<अभ्यासे चर्च>> [[8.4.54]] इति झकारस्य स्थाने जकारः, <<आडजादीनाम्>> [[6.4.72]] इत्याट्, `आटश्च` [[6.1.87]] इति वृद्धिः। अथ `सस्वल्लधुनि चङ्परे` [[7.4.93]] इति सन्वद्भावः कस्मान्न भवति? इत्याह -`अनग्लोपे` इत्यादि। यदि तह्र्रनग्लोप इति प्रतिषेधात्? सन्वद्भावो न भवति तदौजिढदिति [`तदोजढदिति` -प्रांउ।पाठः] न स#इध्यति? इत्याह -`औजिढत्` [`औजढत्` -प्रांउ।पाठः] इत्यादि। गुडलिण्मान्` इति। गुडं लेढीति क्विप्, तदन्तान्मतुप्, पूर्ववङढत्वम्, <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् -ढकारस्य डकारः! मतोर्वत्वे कर्तव्य ढत्वजशत्वयोरसिद्धत्वात्? `झयः` [[8.2.10]] इति वत्वं न भवति। कारिकायां झलां जश्त्वग्रहणमुपलक्षणार्थं निदर्शनमिति। अनेनैतत्? दर्शयति -निदर्शनमेतच्छुष्किकादीनाम्, न तु परिगणनमिति। यदि हि सपादायां सप्ताध्याय्यां कर्तव्यायां पादोनोऽध्यायोऽसिद्ध इत्युच्यते तदा य इह षष्ठीनिर्देशसप्मीनिर्देश-पञ्चमीनिर्देशाः क्रियन्ते तेऽप्यसिद्धः स्युः, ततश्च <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यत्र षष्ठीनिर्देशस्यासिद्धत्वात्? <<षष्ठी स्थानेयोगा>> [[1.1.49]] इत्येषा नोपतिष्ठेन, एवञ्च सामीप्ययोगाप्येषा षष्ठी स्यातः ततः संयोगान्तसमीपो यस्तस्यापि लोप आपद्येत; <<झलो झलि>> [[8.2.26]] इत्यत्रापि सप्मीनिर्देशस्यासिद्धत्वात्? `तस्मिन्निति निर्दिष्टे पूर्वस्य [[1.1.65]] इत्येषा परिभाषा नोपतिष्ठेत, तथा च पूर्वस्यैवानन्तरे भवितव्यमिति नियमस्याभावात्? सामान्येन पूर्वस्य परस्य वानन्तरे व्यवहिते झलि लोपः; `ह्रस्वादङ्गात्? [[8.2.27]] इत्यादावपि पञ्चमीनिर्देशस्यासिद्धत्वात्? <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यस्योपस्थानं न स्यात्, ततश्चानियमात्? पूर्वस्य परस्य वानन्तरस्य व्यवहितस्य च लोपः प्रसज्येतेत्यत आह -`येऽत्र षष्ठीनिर्देशाः` इत्यादि। किं पुनः कारणमसिद्धत्वं न भवति? इत्याह -`कार्यकालं हि` इत्यादि। यदि हि `यथोद्र्दशं संज्ञापरिभाषम्` (व्या।प।59) स्यात्, एवमासां परिभाषाणां पूर्वत्वे सति षष्ठोनिर्देशादीनामसिद्धत्वं न स्यात्, न तु यथोद्देशं संज्ञापरिभावम्, किं तर्हि? `कार्यकालं संज्ञापरिभाषम्` (व्या।पा।58), कार्यकालाः कार्यप्रयुक्ता हि संज्ञाः परिभाषाश्च। तस्माद्यत्र कार्यं तत्रैव ताः प्रयुज्यन्ते, तेन ता उपदेश एव। अतो निर्देशैरभिन्नदेशत्वात्? परिभाषाणामत्र पूर्वत्वं नास्ति, ततः कुतस्तासु कर्तव्यासु तेषामसिद्धत्वप्रसङ्गः! यदि कार्यकालं संज्ञापरिभाषम्, <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्येषाऽत्रोपतिष्ठेत? तत्र को दोवः? `स्फुर स्फुल सञ्चलने` (धातुपाठः-1389), 1390), `गुरी उद्यमने` (धातुपाठः-1396) -आभ्यां `ऋहलोव्र्यत्` [[3.1.124]] इति ण्यति कृते दिस्फोयम्, अवगोर्यमिति न सिध्येत्। अस्या हि परिभाषाया उपस्थाने, गुणं परत्वाद्बाधित्वा `हलि च` [[8.2.77]] इति दीर्घत्वं प्राप्नोतीत्यत आह -`विप्रतिषेधे परमित्येषा तु` इत्यादि। `विप्रतिषेधे परम्` [[1.4.2]] इत्येषा परिभाषाऽत्र न प्रवर्तत इति प्रकृतेन सम्बन्धः। कस्मान्न प्रवर्तते? इत्याह -`येन` इत्यादि। द्वयोर्हि तुल्यबलयोर्विप्रतिषेधो भवति। इह तु येन पूर्वेण लक्षणेन `पुगन्तस्य` [[7.3.86]] इत्यादिना सह परं लक्षणं स्पर्धते तदप्यभिभवितुमिच्छति। पर#ं लक्षणं `हलि च` [[8.2.77]] इत्यादिकम्, तत्? पूर्वं प्रति तस्यासिद्धत्वम्। अतोऽतुल्यबलत्वाद्विप्रतिषेधो नास्तीति `विप्रतिषेधे परम्` [[1.4.2]] इत्येषा परिभाषा न प्रवर्तते। `तथा च` इत्यादि। एवमस्याः परिभाषाया अप्रवृत्तौ सत्यामित्यर्थः। यदि तर्हि पूर्वस्मिन्? कार्ये कर्तव्ये परमसिद्धं भवति, एवं सत्युत्सर्गे कर्तव्ये परस्यापवादस्यासिद्धत्वां सायत्। ततश्च दोग्धा, दोग्धृमित्यत्र `दादेर्घातोर्घः` [[8.2.32]] इति धस्यासिद्धत्वाङढत्वं स्यात्? इत्यत आह -`अपवादसर्य तु` इत्यादि। यद्यप्यपवादविषयस्यापि परस्योत्सर्गे कर्त्व्येऽसिद्धत्व स्यात्, निर्विषयत्वाच्चापवादवचनस्य वैयथ्र्यं स्यात्। अतोऽपवादस्य परस्यापि वचनप्रामाण्यादसिद्धत्वं न भवति। ननु च वचनप्रामाण्यात्? पर्यायेण तयोर्भावः स्यात्, तत्कुतो वैयथ्र्य प्रसङ्ग? नैतदस्ति; यद्यपवादस्य पर्यायता स्यात्, `वा द्रुहमुह` [[8.2.33]] इति विकल्पेन धत्वविधाननमनर्थकं स्यात्॥", "82002": "कृतोत्येतदनन्तरोक्तेन तुग्ग्रहणेनैव सम्बध्यते, न तु सर्वेः सुबादिभिः; अन्यथा यथा विधिशब्दस्य प्रत्येकं विधिसम्बन्धो दर्शितः, तथाऽस्यापि सम्बन्धं दर्शयेत्। इहायं विधिशब्दः सुबादिभिःसम्बध्यमानो भावसाधनो वा सम्बध्येत? कर्मसाधनो वा? तत्राद्ये पक्ष आश्रीयमाणे -राजभिः, तक्षभिरित्यत्रैस्भावे कर्तव्ये नलोपस्यासिद्धत्वं न प्राप्नोति, भावसाधने हि यत्रासतो विधानं तत्रासिद्धत्वेन भवितव्यम्, न तु सतः। न चात्रासतः सुपो विधानम्; किं तर्हि? सत एव, यतस्तस्य स्थान ऐस्भावस्य राजभ्यां राजभ्य इत्यत्रापि `सुपि च` [[7.3.102]] इति दीर्घत्वे `बहुवचने झल्येत्` [[7.3.103]] इत्येत्त्वे च कर्तव्ये नैवासिद्धत्वं प्राप्नोति; यस्मादिह सुपि परतो दीर्घत्वस्यैत्त्वस्य च विधानम्, त्वसतः सुपः। इतरस्मस्तु पक्षे स्वरसंज्ञातुकामसतामेव विधानेन लोपस्यासिद्धत्वमिष्यते, एतच्च न सिध्यति; कर्मसाधने हि विधिशब्दे तैः सम्बाध्यमाने सतामेव तेषामन्यस्मिन्? कार्ये विधीयमाने सत्यसिद्धत्वेन भवितव्यम्, न तु तेषामसतां विधानेन [`विधानेन तु` -प्रांउ।पाठः] शक्यते वक्तुम् -सुपा कर्मसाधनः सम्बध्यते, स्वरादिभिश्च भावसाधन इति। एको ह्रय#ं विधिशब्दः सूत्रोपात्तः, स च भावसाधनो वा स्यात्, कर्मसाधनो वेति; न तूभयसाधनः, न ह्रेकस्योभयसाधनत्वमुपपद्यत इति? -एतच्चोद्यमपाकर्तमाह -`विधिशब्दोऽयम्` इत्यादि। यद्येव विधिशब्दः सुप्स्वरादिभिः समुदायेन सम्बध्यते, तदा स्यादयं दोषः। न च समुदायेन सम्बध्यते, किं तर्हि? सुबादिभिः प्रत्येकम्। प्रत्येकञ्चास्मिन्? सम्बध्यमाने यावद्भिः सहायं सम्बध्यते तावन्त्येव स्वरादिदिधौ मलोपोऽसिद्धो भवतीत्येवमादीनि वाक्यानि भवन्ति। नलोपः सुप्स्वरसंज्ञातुग्विधिष्वेतद्ग्रहणकवाक्यं तेषामेव। निबन्धनम्। तेषु च भिन्नेषु वाक्येषु विधिशब्दोऽपि भिन्न एव। तत्र कश्चिद्भावसाधनः, कश्चित्कर्मसाधनः। तत्र स्वरसंज्ञातुकामसतामेव विधाने कर्तव्ये नलोपस्यासिद्धत्वमुच्यते, तेन च ते विधीयमानत्वात्? कर्मभावमापद्यन्ते। ततो भावसाधनेन विधिशब्देन कर्मणोऽनभिहितत्वादेषु `कर्त्तृकर्मणो कृति` [[2.3.65]] इति षष्ठआ भवितव्यम्। तेन तैः कर्मषष्ठीयुक्तैर्भावसाधनोऽभिसम्बध्यते, सुपा च सम्बन्धसामान्यवचनषष्ठन्तेन। `कर्मसाधनः` इति। सुपो विधीयमानेन कार्येण सम्बन्धमात्रम्। सम्बन्धसामान्ये षष्ठी तु यत्र `शेषे` [[2.3.50]] इति षष्ठी विधीयते तत्र वेदितव्यम्। सम्बन्धसामान्यस्य वचनीति षष्ठीसमासः, सा चासौ षष्ठी चेति विशेषणसमासः सम्बन्धसामान्यवचनषष्ठी अन्ते यस्य सुपः स तथोक्तः। कर्मषष्ठीयुक्तेन सुपा कर्मसाधनस्य विधिशब्दस्य सम्बन्धो नोपपद्यते; कर्मषष्ठनुपपत्तेः। यदि हि सुप्? कर्म स्यात्? तत्र कर्मणि षष्ठी स्यात्, न चासौ सुप्? कर्म; सुपो विधीयमानत्वात्। तत्तु तत्सम्बन्धिकार्यम्। विधीयमानत्वात्? कर्म तद्विधिशब्देनोक्तम्। अतस्तत्रापि तावत्? कर्मषष्टो न सम्भवति, किं पुनरकर्मणि सुपि! [`सुप्` -कांउ।पाठः] `तेन` इत्यादि। यस्मात्? सम्बन्धमात्राभिधायिनी या षष्ठी तदन्तेन सुपा कर्मसाधनो विधिशब्दः सम्बध्यते, तेन हेतुना सुपः स्थाने यो विधिर्भिस ऐस्भावः, सुपि परतः यो विधिर्दीर्घत्वादिर्यस्य सुब्निमित्तं सर्वोऽसौ सुप्सम्बन्धी भवतीति सर्वत्राप्यसिद्धत्वं भवति। ननु च `षष्ठी स्थानेयोया` [[1.1.49]] इति वचनात्? सम्बन्धविशेषे षष्ठआ भवितव्यम्, न तु सम्बन्धसामान्ये। ततश्च सुप एव स्थाने यत्? कार्यं तत्रैवासिद्धत्वं स्यात्, नान्यत्र? नैतदस्ति; यत्र ह्रादेशो विधीयते -<<अस्तेर्भूः>> [[2.4.52]] इत्येवमादौ तत्रास्याः परिभाषाया व्यापारः, न तु यत्र लक्षणान्तरेण विहितं कार्यं कार्यान्तरार्थ मुपादीयते तत्रापि; अन्यथा `उदीकारस्तस्य ग्रहणं भवति। ननु चेह सुपामादेशो न विधीयते, किं तर्हि? लक्षणान्तरविहितस्यापि सिद्धत्वम्। तस्मान्नान्न स्थानेयोगपरिभाषाया [[1.1.48]] व्यापारः। `राजवती` इत्यादि। राजशब्दाद्मतुप्, <<उगितश्च>> [[6.3.45]] इति ङीपि कृते अन्तोऽबत्या` [[6.1.214]] इत्यन्तोदात्तत्वं प्राप्नोति। नलोपस्यासिद्धतवान्नायमवतीशब्द इति न भवति। तस्मिन्नसति `कनिन्युवृवितक्षिराजिधन्विद्युप्रतिदिवः` (द।उ।6।51) इति राजशब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वात्? राजवतीशब्द आद्युदात्त एव भवति। `पञ्चार्भम्, दशार्मम्` इति। <<दिक्संख्ये संज्ञायाम्>> [[2.1.50]] इति मासः। अत्र नलोपे कृतेऽवर्णान्तं पूर्वपद जातमिति `अर्भे चावर्णम्` [[6.2.90]] इत्यादिना सूत्रेण तस्याद्युदात्तत्वं प्राप्नोति, असिद्धत्वान्न भवति, समासान्तोदात्तत्वमेव [[6.1.217]] भवति। `पञ्चदण्डि` [पञ्चदण्डी -काशिका] इति। पञ्चानां दणाडिनां समाहार इति `तद्धितार्थ` [[2.1.50]] इत्यादिना समासः, समाहाहे द्विगुः, `स नपुंसकम्` [[2.4.17]] इति नपुंसकत्वम्। नलोपे कृत इगन्तता जातेति <<इगन्तकालकपालभगालशरावेषु द्विगौ>> [[6.2.29]] इति पूर्वपदस्य प्रकृतिस्वरः प्राप्नोति, नलोपस्यासिद्धत्वान्न भवकति, समासान्तोदात्तत्वमेव [[6.1.217]] भवति।`तदेतत्` इत्यादि। इह केषाञ्चिदेकयैव संज्ञयाऽनेकसंज्ञाकार्यं क्रियते -`यावन्ति संज्ञाकार्याणि तत्रैकैव संज्ञा प्रवर्तते` इति। दर्शनम्। अन्येषां तु `यथा संज्ञयैककार्यं क्रियते तयैवान्यम्, अतो यावन्ति संज्ञाकार्याणि तावस्य एव संज्ञाः प्रवर्तन्ते इति दर्शनम्। तत्र पूर्वस्मिन्? दर्शने नेदं प्रयोजनम्; ययैव हि पाक्प्रवृत्त्या संज्ञया `षङ्भ्यो लुक्` [[7.1.22]] इति जश्शसोर्लुक्कार्यं कृतं तयैव हि टाप्प्रतिषेधो भविष्यति। तस्मादितरस्मिन्? दर्शने तत्? प्रयोजनं भवति। अत्रापि कथमेतत्? प्रयोजनं भवति? इत्याह -`या हि` इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्ते। यस्माज्जश्शसोर्लुगर्था या षट्संज्ञा प्रवृत्ता तया स्त्रीप्रत्ययप्रतिषेधो न भवति, तस्मात्? पुनः सा प्रवर्तयितव्या। यस्मात्? सा प्रवर्तयितव्या तस्मादेतत्? प्रयोजनमित्यर्थः। `वृत्रहाभ्याम्, वृत्रहभिः` इति। वृत्रं हतवानिति `ब्राहृभ्रूणवृत्रेषु क्विप` [[3.2.87]] तदन्तात्? भ्याम्भिसौ, ततर नलोपे कृते <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] स्यात्, असिद्धत्वान्न भवति। `अत्र केचित्` इत्यादि। सन्निपातः=आनन्तर्यम्, तल्लक्षणं निमित्तं यस्य न तथोक्तः। सुपः सन्निपातेन नलोपः। स यदि तुकं प्रवर्तयेत्? तत्? सन्निपातं विहन्यात्। अनिमित्तञ्च `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।पा।12) इति। तस्मान्नलोपस्तुकं न प्रवर्तयतीति तुग्ग्रहणमनर्थकम्। ननु च तुकः पूर्वान्तत्वात्? तुक्? प्रातपदिकग्रहणेनैव गुह्रते, तत्? कुतस्तस्य सन्निपातस्य विघातः, न हि स्वावयवेनैव स्वस्य व्यवधानमुपपद्यते? नैतदस्ति; ह्रस्वो ह्रागमी तुकः, न तदन्तः समुदायः, तत्कुतस्तस्य प्रातिपदिकग्रहणेन ग्रहणम्? बहिरङ्गलक्षणेन वासिद्धत्वात्? तुकं प्रति नलोपस्य, तुग्विधिग्रहणमनर्थकम्। पदस्य बाहृविभक्तिप्रत्ययमाश्रित्य नलोपो विधीयत इति तस्य बहिरङ्गत्वम्, अन्तर्वर्तिनं पदमाश्रित्य वर्णस्य तुग्विधीयत इति तस्यान्तरङ्गत्वमिति -`असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति। यद्येवम्, युक्तमेवेति प्रतिपन्ना#ः, तत्किमर्थं तुग्ग्रहणं क्रियते? इत्यत आह -`तत्? क्रियते` इत्यादि। अनित्यत्वज्ञापने तु सन्निपातलक्षणपरिभाषायाः प्रयोजनम् -`दृक्षाय` इत्यत्र `सुपि च` [[7.3.102]] इति दीर्घत्वसिद्धिः। अकारान्ततासन्निपाते हि ङेर्यो [[7.1.13]] विधीयत इति; तन्निमित्तत्वादिति दीर्घत्वनिमित्तभावोपगमनद्वारेण तद्विघातं न कुर्यात्। अनित्यत्वात्त्? करोति। अन्यच्चात्र प्रयोजनमुत्तरत्रैव वक्ष्यते। बहिरङ्गलक्षणपरिभाषया सुप्यनित्वस्य ज्ञापने -एषा, द्वे इतयत्र टाप्सिद्धिः। अत्र हि त्यादद्यत्वस्य विभक्त्याश्रयत्वाद्बहिरङ्गत्वम्, प्रातिपदिकाश्रयत्वाट्टाबन्तरङ्गः। तत्र टाप कर्तव्ये त्यदाद्यत्वस्यासिद्धत्वं स्यात्, ततष्टाप्? न सिद्ध्येत्। अनित्यत्वात्तु सिध्यति। प्रतिदीब्नेत्यत्र `हलि च` [[8.2.77]] इति दीर्घत्वसिद्धिः प्रयोजनम्। असति तस्यानित्यत्वे `हलि च` इति दीर्घत्वे कर्तव्ये बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्? हलि परतो वकारान्तो धातुर्नं भवतीति दीर्घत्वं न स्यात्। अनित्यत्वात्तु सिद्ध्यति। `राजीयति` इति। <<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्, <<क्यचि च>> [[7.4.33]] इतीत्त्वम्। `राजायते` इति। `कर्त्तुः क्यङ सलोपश्च` [[3.1.11]] इति क्यङ् `अकृत्सार्वधातुकयोः` [[7.4.25]] इति दीर्घः। `राजश्यः` इति। <<अकः सवर्णे दीर्घः>> [[6.1.101]] ॥", "82003": "`मु` इत्यविभक्तिकोऽयं निर्देशः। `अमुना` इति। अदसस्त्यदाद्यत्वम्, `अदसोऽदेर्दादु दो मः` [[8.2.80]] इत्युत्वमत्वे, <<अच्च घेः>> [[7.3.119]] इत्यतः `घेः` इत्यनुवर्तमान <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति नाभावः। यदि मुभावो नाभावे कर्तव्ये नासिद्धो भवति -इत्येव सूत्रार्थः स्यात्, एवं सति नाभावे कृते यत्? कार्यं प्राप्नोति तत्र तस्यासिद्धत्वं न स्यात्, ततश्चामुनेत्यत्राकारान्तस्याङ्गस्य `सुपि च` [[7.3.102]] इति विधीयमानं दीर्घत्वं प्रसज्येत? इत्यत आह -`कृते तु नाभावे` इत्यादि। ह्रस्वसन्निपातेन हि नाभावो ह्रस्वस्य विघातं प्रति निमित्तं न भवतीति सत्यप्यसिद्धत्वे न भवति दीर्घत्वप्रसङ्गः। `अथ वा` इत्यादि। यथैकेन हि क इतो धावतीति पृष्टोऽपरेणापि किंवर्णो धावतीति प्रश्ने कश्चिन्निपुणमतिस्तन्त्रेण वाक्यद्वयमुत्तरयति -ओतो धावतीति, तथेहापि योगद्वयमेतत्? तन्त्रेणोच्चरितम्। तत्र द्वितीयस्य योगस्य न परतो यत्? प्राप्नोति तस्मिन्? कर्तव्यं भुभावो नासिद्ध इत्येव सूत्रार्थः। तेन दीर्घत्वं न भविष्यति।एकस्मिन्नेव योगे दीर्घत्वप्राप्तिमपाकर्त्तुमाह -`अथ वा` इत्यादि। ननु चास्मिन्? सूत्रार्थे ने कर्त्व्ये मुभावस्य यत्? सिद्धत्वं तत्? सूत्रेण संगृहीतं स्यात्, ततश्च नाभाव एव तावन्न प्राप्नोति, कुतः पुनस्तस्मिन्? परतो यत्? प्राप्नोति तस्मिन्? कर्तव्ये मुभावस्यासिद्धत्वम्? इत्याह -`ने तु कर्तव्ये` इत्यादि। यथा पुत्रा मे बहुक्षीरघृतमोदनं सुवर्णापात्र्यां भुञ्जोरन्निति वरं प्रार्थयमानया वृद्धकुमार्या अर्थतः पतिः पुत्रा गावो धनं संगृहीतम्, एवमिहापि ने परतो यत्? कार्यं प्राप्नोति तस्मिन्? कर्तव्ये मुभावस्य सिद्धत्वं ब्राउवता ने कर्तव्ये मुभावस्यासिद्धत्वं नाश्रितम्। `तेन` इत्यष्दि। यस्मादेव एव वाक्यार्थः -ने कर्तव्ये मुभावस्य यत्? सिद्धत्वं तदर्थतो गृहीतम्, तेन हेतुना नाभावश्च भवति, दीर्घत्वञ्च न भवतीति। `एकदेश` इति। `प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोः` इति। वृक्षशब्दः प्रातिपदिकस्वरेणान्तोदात्त इति तस्यान्तो योऽकारः स उदात्तः। सप्तम्येकवचनम्, `अनुदात्तौ सुप्तितौ` [[3.1.4]] इत्यनुदात्तम्, तयोः <<आद्गुणः>> [[6.1.87]] इत्येकादेश आन्तरतम्यात्? स्वरिते प्राप्ते `एकादेश उदात्तेनोदात्तः` असिद्धत्वे हि सति तस्य स एकादेशः स्वरित एवायादेशे कर्तव्ये स्यादिति तस्य स्थानेऽयादेश आन्तर्यतः स्वरित एव प्रसज्येत। अन्तरङ्गत्वं पुनरेकादेशस्यान्तरश्रितत्वात्। आद्गुणो ह्रवान्तरङ्गः; एकपदाश्रितत्वात्। अयादेशस्तु बहिरङ्गः; तद्विपर्वयात्। `कुमार्या इदम्` इति। कुमारशब्दो वृक्षशब्दवदन्तोदात्तः। तस्मात्? <<वयसि प्रथमे>> [[4.1.20]] इति ङीप्, <<यस्येति च>> [[6.4.148]] इत्यकारलोपः, <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इतीकारस्योदात्तत्वम्, चतुर्थ्येकवचनम्; कुमारी+ए इति स्थिते <<आण्नद्याः>> [[7.3.112]] इत्याट्? यणादेशः [[6.1.74]] , <<उदात्तयणो हल्पूर्वात्>> [[6.1.174]] इति विभक्तेरुदात्तत्वम्। तच्च <<आदेः परस्य>> [[1.1.54]] इति विभक्तिभक्तस्याट एव भवति, `आटश्च` [[6.1.87]] इति वृद्धिरेकादेशः। स च पूर्ववत्? स्वरिते प्राप्ते <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इत्युदात्तः क्रियते। तस्य सिद्धत्वं वक्तव्यम् -कुमार्या इदमित्यत्रायादेश उदात्ते यथा स्यात्, अन्यथा हि पूर्ववत्? स्वरितः [वास्ति -कांउ।पुस्तके] स्यातद्। `यदि` इत्यादि। यदि पूर्वमुदात्तत्वं क्रियते, पश्चादेकादेशः, यथादर्शितमनन्तरायां रूपसिद्धावेवायादेश कर्तव्ये सिद्धो भवतीति युज्यत इदमुदाहरणम्। `अथ तु` इत्यादि। कुमारी+ए इति स्थित आट्, यणादेशः। `तत्रैकादेशे <<उदात्तयणो हल्पूर्वात्>> [[6.1.174]] इति विभक्तिस्वरः` इति। यदि कृत एकादेशे विभक्तिस्वरः क्रियते तदा नैतदस्योपसंख्यानस्य प्रयोजनम्। अस्यां हि रूपसिद्धावेकादेशस्य यदुदात्तत्वं तस्यायादेशे कर्तव्ये सिद्धत्वादनेन प्रकारेणोपसंख्यानस्येदं प्रयोजनं न भवतीत्याचष्टे। युक्तञ्चैतत्। तथा हि -अन्तरङ्गवादेकादेशेनैव तावद्भवितव्यम्, पश्चद्विभक्तिस्वरेण। वर्ण ह्राश्रित्यैकादेशो भवतीति तस्यान्तरङ्गत्वम्। उदात्तत्वं विभक्तेराश्रितत्वात्? पदस्य भवतीति तस्य बहिरङ्गत्वम्। `वृक्षाविदम्` इति। वृक्ष इदमित्येतदनुसारेणानुगन्तव्यम्, एकादेशः पुनरत्र <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धिः। प्रथमयोः पूर्वसर्वदीर्घः [[6.1.98]] इत्येतत्त न प्रवर्तते; `नादिचि` [[6.1.100]] इति दीर्घप्रतिषेधात्। `गाङ्गेऽनूपः` इति। गङ्गायां जात इत्यणि कृते प्रत्ययस्वरेणान्तोदात्तो गाङ्गशब्दः। अनुगता आपोऽस्मिन्निति बहुव्रीहिः, `ऊदनीर्देशे` [[6.3.97]] इत्यूत्त्वम्, ऋक्पूरब्धूःपथामानक्षे` [[5.4.74]] इत्यकारप्रत्यये कृतेऽनूपशब्दोऽपि प्रत्ययस्वरेणान्तोदात्तः, शेषमस्यानुदात्तम्। `तस्य सिद्धत्वात्` इति। योऽसावेकारो गाङ्गशब्दे सप्तम्यकवचने परतः <<आद्गुणः>> [[6.1.87]] इत्यनेनाभिनिर्वृत्तः, तस्य सिद्धत्वाद्यः पुनः <<एङः पदान्तादति>> [[6.1.109]] इत्येकादेशोऽनूपशब्दाकारेण सह सः <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इति भवति। अतो हेतोः `स्वरितो वानुदात्ते पदादौ` [[8.2.6]] इति पक्षे स्वरितो भवति। यदि पुनरसिद्धत्वं स्यात्? तदासावेकार उदात्तानुदात्तस्थानित्वादान्तर्यतः स्वरितः स्यात्। यः पुनः <<एङः पदान्तादति>> [[6.1.109]] इत्येकादेशः, स उदात्तनानुदात्तस्य न भवतीति `स्वरितो वानुदात्ते पदादौ` [[8.2.6]] इति पक्षे स्वरितो न स्यात्, अपि तु स्वरितानुदात्तयोः स्थाने भवन्नान्तरतम्यान्नियमेन स्वरितः स्यात्। `शतृस्वरः` इति। शत्राश्रयः स्वर इति शाकपार्थिवादित्वादुत्तरपदलोपो (वा।83) समासः। `तुदती, नुक्ती` इति। तुदिनुदिभ्यां (धातुपाठः-1281,1282) लट्; तुदादित्वाच्छः, स च प्रत्ययस्वरेणान्तोदात्तः, लसार्वधातुकस्यानुदात्ते कृते <<अतो गुणे>> [[6.1.97]] पररूपत्वमेकादेशः। स च `एकादेश उदात्तनोदात्तः` [[8.2.5]] ; तदुदात्तसय सिद्धत्वात्। <<अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे>> [[6.1.169]] इत्यन्तोदात्तादित्यनुवर्तमाने <<शतुरनुमो नद्यजादी>> [[6.1.173]] इति शत्रन्तादन्तोदात्तादीकारस्योदात्तत्वं भवति। असिद्धत्वे त्वेकादेशेऽस्योदात्तत्वं न स्यात्; अन्तोदात्तादित्यधिकारात्? [[6.1.163]] । `अनुमः इत्यादिना ज्ञापकमाश्रित्यैतत्प्रयोजनमपाकरोति। कथं पुनरेतज्ज्ञापकम्? इत्याह -`न हि` इत्यादि। हिशब्दो हेतौ। अनुम इति प्रतिषेधस्यैतत्? प्रयोजनम् -तुदन्ती, नुदन्तीत्यत्र <<आच्छीनद्योर्नुम्>> [[7.1.80]] इति नुमि कृते सनुम उदात्तत्वं मा भूदिति। यदि च शतृस्वरे, एकादेशस्वरोऽसिद्धः स्यात्, प्रतिषेधस्य वैयध्र्यं स्यात्; यस्मादेकादेशस्वरमन्तरेण नास्ति शतुरन्तोदात्तत्वम्। अतः प्रतिषेधादवसीयते -सिद्ध एकादेशस्वरः। न हि एकादेशस्वरमन्तरेण शत्रन्तं सनुम्क#ं किञ्चिदन्तोदात्तमस्ति। तस्मादनुम इति प्रतिषेधवचनं ज्ञापकमेव।`तुदन्ति, लिखन्ति` इति। अत्रापि पूर्ववल्लसार्वधातुकानुदात्तत्वे कृत उदात्तत्वे कृत उदात्तानुदात्तयो रेकादेश उदात्तः। `तेन` इति। एकादेशस्वरेण सिद्धेन। `वज्र्यमानता` इति। <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्येषोऽर्थोऽनेन लक्ष्यते। एकं वजंयित्वा शेषस्यानुदात्तत्वं भवतीत्यर्थः। यदि पुनरसिद्धत्वं स्यात्? `अनुदात्तं पदेमकवर्जम्` [[6.1.158]] इत्यस्मिन्? कर्तव्ये सत्येकादेशस्वरस्यासिद्धत्वादसत्यां च वज्र्यमानतायां द्वयोरुदात्तयोः श्रवणं प्रसज्येत। ननु चासिद्धवचनमुत्सर्गलक्षणभावार्थमित्युक्तम्, अस्य च स्थानी स्वरितः; तथा हि <<अतो गुणे>> [[6.1.97]] पररूपत्व इत्यनेनैवान्तयैतो यो विहितः स्वरितस्यस्य स्थाने `एकदेश उदात्तेनोदात्तः` [[8.2.5]] इत्यनेनोदात्त आदेशो विधीयते, तत्र यद्युदात्तस्यादेशस्यासिद्धत्वात्? तन्निमित्ता वज्र्यमानता न भवति मा भूत्; यस्त्वस्य स्वरितस्य स्थानी तन्निमित्ता भविष्यति, तत्कथमेतत्? प्रयोजनमुपपद्यते? यथोपपद्यते तथाख्यायते -<<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इत्यत्र चत्वारि दर्शनानि। <<आद्गुणः>> [[6.1.87]] इत्येवमादिभिरुदात्तानुदात्तयोरेकादेश आन्तरतम्यात्? स्वरितगुणयोर्निवृत्तः, तस्य <<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इत्यनेन स्वरितस्य स्थान उदात्तगुण आदेशो विधीयत इत्येकं दर्शनम्। स्वरितगुणस्यैवाभिनिर्वृत्तस्य गुणान्तरापसिद्वारेण शब्दान्तरं प्रतिपद्यत इति द्वितीयम्। परिभाषेयमनुदात्तानुदात्तयोरेकादेश उदात्त इति तृतीयम्। अस्मिन्? दर्शने परिभाषायाः पराङ्गभूतत्वादेकादेशशास्त्रैः सहास्यैकवाक्यता भवति, तत्रायमर्थः सम्पद्यते -आद्गुणो भवति, उदात्तानुदात्तयोस्तु <<आद्गुणः>> [[6.1.87]] भवतीति। चतुर्थं तु दर्शनम् -उदात्तानुदात्तयीर्य एकादेशः स उदात्तो भवति, न स्वरितगुणयुक्त इति। स्वरितस्यापवादभूतस्तूदात्तत्वमारभ्यते। येन नाप्राप्तिब्यायेनेदं (व्या।प।49) दर्शनमाश्रित्येवं प्रयोजनमुपन्यस्तम्। उपपद्यते च तदेतस्मिन्? दल्शने। अत्र हि नाम विधान समकालमेवोदात्तत्वं विधीयते, न तु स्वरितगुणविहितस्य पुनरुदात्तत्वगुण आदेश इति न सम्भवति स्वरितेन स्थानिना वज्र्यमानता; एकादेशस्वरस्य सिद्धत्वात्।`कृते तस्मिन्? तिङङतिङ इति निघातः` इति। असति तु तस्य सिद्धत्वे पश्चादेकादेशस्वरः स्यात्, ततश्च मध्योदात्तता प्रसज्येत। `पचति` इति। अत्र तिशब्दे य इकारः स सतिशिष्टत्वादनुदात्तः, इतिशब्दः `निपाता आद्युदात्ताः` (फि।सू।4।80) इत्याद्युदात्तः; तयोरकः सवर्णदीर्घत्वमेकादेशो द्विपादश्रयत्वाद्वाहिरङ्गः, तस्य बहिरङ्गत्वात् तदाश्रयोऽपि स्वरो बहिरङ्गः, तत इकारस्यासिद्धतवमेव भवति। ततश्च तेन <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति वज्र्यमानता न भवति। `प्रपचति` इति। अत्रापि बहिरङ्गत्वेनासिद्धत्वात्? तिङि चोदात्तवति` [[8.1.71]] इति गतेरनुदात्तत्वं न भवतति `तिङङतिङः [[8.1.28]] इति निघात एवात्र भवति। `हरिवो मेदिनम्` इति। हरिशब्दान्मतुप्, सुः, नुम्? हल्ङ्यादि [[6.1.66]] लोपः, संयोगान्तलोपश्च [[8.2.23]] , तस्मिन्? कृते रुत्वम्, `हशि च` [[6.1.110]] इत्यस्योत्वम्, <<आद्गुणः>> [[6.1.87]] । `संयोगान्तलोपस्यासिद्धत्वात्? हशि चेत्युत्वं न प्राप्नोति` इति। संयोगान्तलोपस्यासिद्धत्वे सति तकारेक इशो मकारस्य व्यवधानात्, तकारस्याहक्त्वात्। `अलादीत्` इति। लुङ्, च्लेः सिच्, इट्, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्, सिज्वृद्धिः, `इट ईटि` [[8.2.28]] इति सिचो लोपेऽकः सवर्णदीर्घत्वम्। `वृक्णः, वृक्णवान्` इति। `ओव्रश्चू छेदने` (धातुपाठः-1292) निष्ठा, ग्रहिज्यादिसूत्रेण [[6.1.16]] सम्प्रसारणम्, <<चोः कुः>> [[8.2.30]] इति कुत्वम्, <<ओदितश्च>> [[8.2.45]] इति नत्वम्, `अट्कुप्वाङ्` [[8.4.2]] इति णत्वम्। षत्वे चासति `स्कोः संयोगाद्योः` [[8.2.29]] इति सलोपः। `कुत्वं प्रत्यासिद्ध एव` इति। षत्वस्वरपरत्ययविधीङ्विधिग्रहणस्य व्यावर्त्त्य दर्शयति -`स्वरप्रत्ययविधीडविधिषु क्षीबशब्द उदाह्यियते` इति। कथं पुनस्त्रिषु विधिषु क्षीबशब्द एक एवोदाहरणमुपपद्यते? इत्याह -`तत्र` इत्यादि। `अनुपसर्गात्? फुल्लक्षीव` [[8.2.55]] इत्यत्र `क्षीब्? मदे` (धातुपाठः-382) इत्यस्मात्? क्तप्रत्यये परभूते क्षीबशब्दो निपातितः। तत्र चानेकपरकारं निपातनमाश्रितम्। तत्र क्वचिन्निपातने प्रत्ययविधौ स्वरविधौ च क्षीबशब्द उदाह्यियते, क्वचिदिङ्विधौ। कथम्? इत्याह -`यदा` इत्यादि। संज्ञायामित्यादिग्रहणम्; <<संज्ञायामुपमानम्>> [[6.1.204]] इत्यतः संज्ञाग्रहणानुवृत्तेः। `एष स्वरः` इति। आद्युदात्तः। तत्र हि <<कर्षात्वतो घञोऽन्त उदात्तः>> [[6.1.159]] इत्यतः उदात्तग्रहणमनुवर्तते, <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यत आदिग्रहणञ्च प्राप्नोतीति; इच्छब्दलोपस्यासिद्धत्वे सति क्षीबशब्दस्याद्व्यच्कत्वात्। न होच्छब्दलोपस्यासिद्धत्वे सति क्षीबशब्दो द्व्यच्को भवति, किं तर्हि? त्र्यच्कः। `क्षीबिकः` इति। <<नौद्व्यचष्ठन्>> [[4.4.7]] । `इडागमः प्राप्नोति` इति। तकारलोपस्या सिद्धत्वे सति; आर्धधातुकस्य बलादित्वात्। `अग्नात्रि [अग्नात्रि इच्छत्रमिति] इच्छत्रम्, पटात्रि उच्छत्रम्` इति। अग्निपटुशब्दयोः सम्बुद्धौ ह्रस्वस्य गुणे कृते एङ्? ह्रस्वात्? सम्बद्धेः` [[6.1.67]] इति सम्बुद्धिलोपे `एचोऽप्रगृह्रस्यादूराद्धते पूर्वस्यार्धस्यादूत्तरस्येदूत्तौ` [[8.2.107]] इत्येकारौकारयोः पूर्वस्यार्थस्याकारावशः, स च पुनरुत्तरस्य च यथाक्रममिकारोकारौ। `नित्यस्तुग्न प्राप्नोति` इति। नित्यश्चेष्यते; <<पदान्ताद्वा>> [[6.1.76]] इत्यनेन विकल्पेन प्राप्नोति, स चातिष्टः। तस्मात्तुग्विधौ प्लुतविकारः सिद्धो वक्तव्यः। छ इति किम्? अन्यत्र तुग्विधौ प्लुतविकारस्यासिद्धत्वमेव यथा स्यात् -खलं पुनाति ब्राहृणकुलमिति। क्विप; <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति तस्य लुक्, `ह्रस्वस्य गुणः [[7.3.108]] , पूर्ववत्? प्लुतविकारः। अस्यासिद्धत्वात्? खलपु इत्यत्र <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुग्न भवति। `श्चुत्वं धुटि` इत्यादि। अटश्च्योतति, रट्श्च्योतति` इति। अट रट गतौ` (धातुपाठः-295,297) इत्याभ्यां क्विप; सुः, हल्ङ्यादिलोपः [[6.1.66]] , `झलां जशोऽन्ते [[8.2.39]] इति टकारस्य डकारः। तस्मिन्? श्च्योततिशब्दे परतः श्चुत्वस्यासिद्धत्वात्? धुङ्? न प्राप्नोति तस्मात् श्चुत्वं धुट्त्वे कर्तव्ये सिद्धं वक्तव्यम्। किमर्थं पुनरयम्` इत्यादि। न त्वस्य सकारस्य क्वचित्? क्वचित्? श्रवणमस्तीत्यभिप्रायः। `मधुश्च्यत्` इति। तत्करोति तदाचष्टे` (वा।209) इति भधुश्च्युतमाचष्ट इति णिचि कृते `णाविष्ठवत्? प्रातिपदिकस्य` (वा।813) इति। णिलोपः, मधुश्च्यित्? इति स्थिते ण्यब्तात्? पुनरपि क्विप्, <<णेरनिटि>> [[6.4.51]] इति णिलोपः। श्चुत्वस्यासिद्धत्वात्? `स्फोः संयोगाद्योः` [[8.2.29]] इति सकारस्य संयोगाद्यस्य लोपः, ततः सयोगन्तस्य लोपः` [[8.2.23]] इति यलोपः, ततः <<चोः कुः>> [[8.2.30]] इति कुत्वम् -मधुगित्येतदिष्टं रूपं भवति। तदर्थं सकारादिः पठतेऽयमित्यभिप्रायः स्यादेतत्। शकारादावप्येतस्मिन्नेतद्रूपं भवत्येव? इत्यत आह -`शकारादौ पुनरेतस्मिन्` इत्यादि। पूर्वं तावद्यकारस्य संयोगान्तस्य लोपः` [[8.2.23]] इति लोपः, लुप्ते यकारे चकारः संयोगान्तो जात इति तस्यापि लोपः, ततः शकारस्य व्रश्चादिसूत्रेण [[8.2.36]] षत्वे सति <<झलां जशोऽन्ते>> [[8.2.39]] इति षकारस्य डकारे मधुङित्यपि नित्यं स्यात्। `बभणतुः, बभणुः` इति। `अण रण भण` (धातुपाठः-444,445,447) इत्यस्माल्लिट्, तस्य तावद्द्विर्वचने <<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वम् -बकारः, तस्यासिद्धत्वादनादेशादिरेवायमिति, `अत एक हल्मध्येऽनादेशादेलिटि` [[6.4.120]] इत्येत्त्वं प्राप्नोतीति। `विचिच्छित्सति` इति। छिदेः सन्, द्विरवचनं छिदत्यस्य, <<अभ्यासे चर्च>> [[8.4.54]] इति चर्त्वं चकारः, तस्य सिद्धत्वादभ्यासे परे चिशब्दस्य `छे च` [[6.1.71]] इति तुग्न भवति। `उचिच्छिषति` इति। `उछी विवासे` (दा।पा।216), सन्, अजादेर्द्वितीयस्य [[6.1.2]] इत्युच्छेरन्तरङ्गत्वात्? तुकि कृते त्छिस्शब्दो द्विरुच्यते, तत्र `खर्पूर्वाः खयः` (वा।878) इति छकारः शिष्यते, पूर्ववच्चर्त्वम्, तस्य सिद्धत्वादुकारस्य तुग्न भवति। `सयँय्यन्ता, सवँव्वत्सरः` इत्यादि। समित्येतस्य यन्तेत्येतस्मिन्? परतः वत्सरशब्दे च परतः, यल्लोकं तल्लोकमित्यत्रापि यत्तदोर्द्वितीयैकवचनान्तयोर्लोकशब्दे परतो मोऽनुस्वारे [[8.3.23]] , तस्य <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णे आन्तर्यतः सानुनासिके ययि कृते तस्यासिद्धत्वात्? <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति वर्तमाने `अनचि च` [[8.4.46]] इति यरो द्विर्वचनं न प्राप्नोति। ततश्च पक्षे त्रयाणां यकारादीनां द्वित्वं न स्यात्। `पदाधिकारश्चेत्` इत्यादि। यदि लत्वादिषु `पदस्य` [[8.1.16]] इति नानुवर्तते, तदा पदस्य द्विर्वचनमपदस्य द्विर्वचनेन तुल्यत्वाद्द्विर्वचनस्य् बहिरङ्गत्वम्, लत्वादीनाञ्चान्तरङ्गत्वम्। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति लत्वादिषु कर्तव्येषु द्विवैचनसिद्धत्वात्? [`द्विर्वचनस्यासिद्धम्` -प्रांउ।पाठः। द्विर्वचनेनेति सिद्धत्वात् -कांउ। पाठ]<<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्येतन्न प्रवर्तते, ततश्च लत्वादिभिरेव तावद्भवितव्यम्, तेषु सत्सु पश्चाद्द्विर्वचनेनेति सिध्यत्येवेष्टम्। पदाधिकारे सति लत्वादीनामपि बहिरङ्गत्वादसत्या बहिरङ्गपरिभाषया (व्या।प।42) तेषु सत्सु द्विर्वचनं सिद्धम्। लत्वादयस्त्वस्मिन्? कर्तव्येऽसिद्धाः, पूर्वत्रासिद्धत्वात्? [[8.2.1]] ; ततश्च पूर्वं द्विर्वचने कृते पश्चाल्लत्वादिषु विधीयमानेषु परतश्चानिष्टमपि प्रसज्येत। तस्माद्यदि पदाधिकारः ततो लत्वादीनि सिद्धानि वक्तव्यानि। `गलो गलः` इति। `मृ? निगरणे` (धातुपाठः-1410)। `नुन्नः` इति। `मुदविव` [[8.2.56]] इत्यादना नकारः, पक्षे तकारश्च। `अभिनोऽफभिनः` ति। भिदेर्लङ्, सिप्, श्नम्, हल्ङ्यादिलोपः, [[6.1.66]] `सिपि धातोरुर्व#आ` [[8.2.74]] , `दश्च` [[8.2.75]] इति वा रुत्वं पूर्ववदेव <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्वम्। <<आद्गुणः>> [[6.1.87]] । `मातृष्ष्वसा, पितृष्षवसा` इति। `मातुःपितृभ्यामन्यतरस्याम्` [[8.3.85]] इति पक्षे षत्वम्। `माष वापाणि` इति। <<वा भावकरणयोः>> [[8.4.10]] इत्यनुवर्तमाने `प्रातिपदिकान्तनुम्बिभक्तिषु` [[8.4.11]] इति पक्षे णत्वम्। `वाङनयनम` इति। <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति पक्षेऽनुनासिकः। `वाक्छयनम्` इति। <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति वर्तमाने `शश्छोटि` [[8.4.62]] इति वा छत्वम्। `लत्वादीनाम्` इत्यादि। एतेनासिद्धत्वे सति लत्वादीनां यो दोषस्तं दर्शयति। लत्वादीनामसिद्धत्वात्? पूर्वं द्विर्वचने कृते सत्युत्तरत्र काले विकल्पविधित्वादयमर्थः प्रवर्तमानो यथा पूर्वत्र वर्तते, तथा नियोगातः परत्रापि न प्रवर्तत [`प्रवर्तेत` -कांउ।पाठः] इत्यनियोगो लभ्यते; नियमकारणाभावात्। ततश्चानिष्टो विकल्पः स्यात् -पूर्वपरयोरेकत्र प्रवृत्तेः, अपरत्राप्यप्रवृत्तेः। नेषेटोऽनिष्टो विकल्पः। तथा सति गरो गलः, गलो गर इत्येवमाद्यनिष्टमापद्यते। तत्र `न` इत्येतावदनिष्टविषये सूत्रं कर्तव्यम्। किमर्थम्? अनिष्टविषये पूर्वत्रासिद्धत्वस्य प्रतिषेधार्थम्। यत्र पूर्वत्रासिद्धत्वस्यानिष्टविषयः। ततः `भु ने` इत्येतद्ध्यत्र वचनेऽनुवर्तते। यद्येदम्, किमर्थमिदम्, पूर्वसूत्रेणैव सिद्धा प्रतिषेधः? सर्वत्र तत्? सूत्रं नास्तीति ज्ञापनार्थम्। तेन यत्रासिद्धत्वमिष्यते तत्रैदासौ प्रवर्तते। तदन्यत्र विपर्ययस्तु न भवति; योगविभागादस्मिन्? सूत्रे॥", "82004": "`उदात्तयणः, स्वरितयणश्च` इति। उदात्तस्थाने यो यण स उदात्तयण; स्वरितस्थाने यो यण्? स स्वरितयणित्यर्थः। `कुमार्यौ, कुमार्यः` इति। अत्र `अनुदात्तौ सुप्तितौ` [[3.1.4]] इत्यौजसावनुदात्तौ, तयोरुदात्तयणोः परयोः स्वरितो भवति। `उदात्तनिवृत्तिस्वरेण` इति। उदात्तलोपनिमित्तस्वरः पूर्वमुदात्तस्य लोपो यस्मात्, स पुनरुदात्तनिवृत्तिस्वरः <<अनुदात्तस्य च यत्रोदात्तलोपः>> [[6.1.161]] इत्यत्र यो विहिसः स [नास्ति -कांउ। पाठे] वेदितव्यः। `कृत्स्वरेणान्तोदात्तौ` इति। `ल्व्या प्व्या` इति। लूपूभ्यां धातुस्वरेणान्तोदात्ताभ्यां क्विप्, <<उपपदमतिङ्>> [[2.2.19]] इति समासः। <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इति कृदन्तस्योत्तरपदस्य प्रकृतिभावदिधानादेतौ कृत्स्वरेणान्तोदात्तौ भवतः। `उदात्तयणाअदेशश्च` इति। इहनेन सूत्रेणानुदात्तयोदात्तयणः परस्य स्वरितो विधीयते, स्वरितयणश्च परसय सप्तम्येकवचनस्य पूर्वेण प्रकारेण स्वरितो विधीयत इति दर्शयति। `तस्य यो यण्` इति। तस्येत्यनेन सप्तम्येकवचनस्य परामर्शः। `आशाशब्दाकारस्यानुदात्तस्य` इति। `आशाया अदिगारव्या चेत्` (फि।सू।1।18) इत्याशाशब्द आद्युदात्तः, तेन <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्याकारस्यानुदात्तत्वम्। `ननु च` इत्यादि। सप्तम्येकवचनस्य `उदात्तयणः` इत्येवमनेन सुत्रेण यत्? स्वरितत्वं विहितं तत्? षाष्ठिकयणादेशे कर्तव्येऽसिद्धम्, ततश्च नैवायं स्वरितस्य स्थाने यणादेश इति सकृल्ल्व्याशा खलप्व्यशेत्यत्र स्वरितत्वं न भवतीत्यभिप्रायः। `आश्रयात्` इत्यादि। आहायम् -स्वरितयण इति; न क्वचित्? सिद्धः स्वरितः। तत्राश्रयात्? सिद्धत्वं भविष्यति, यथा `अतो रोरप्लुतादप्लुते` इत्यत्र रुत्वस्य। `यद्येवम्` इत्यादि। एतेनाश्रयात्? सिद्धत्वे समाश्रोयमाणेऽतिप्रसङ्गमुद्भावयति। `दध्याशा` इति। दधिशब्दः `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तः, शेष स्यानुदात्तत्वम्, <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इति धकारात्परस्येकारस्य स्वरितत्वम्। तस्याश्रयात्? सिद्धत्वे तत्स्थानिकाद्यण उत्तरस्याशाशब्दाकारस्य स्वरितत्वं स्यात्। `तस्मात्` इत्यादि। यत एवमाश्रयात्? सिद्धत्व आश्रीयमाणेऽयमतिप्रसङ्गो भवति; तस्मादयमेव यण्स्वरो योऽनेन सूत्रेण [[8.2.4]] विधीयते, तस्य यणादेशे कर्तव्ये सिद्धत्वं वक्त्व्यम्। वक्तव्य मित्यस्य व्याख्यानमर्थः। तत्तु पूर्ववदेव योगादिभागमाश्रित्य कर्तव्यम्। `केचित्तु` इत्यादि। यद्येवमित्यादिना योऽतिप्रसङ्गदोष उद्भावितः, तं केषाञ्चिन्मतेन परिहरति। अनिष्टेऽपि विषये प्रवृत्तिरतिप्रसङ्गः। न च <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इत्यनेनोदात्तात्? परो यः स्वरितो विधीयते तस्याश्रयात्? सिद्धत्वमानिष्टम्; यस्मादुदात्तात्? परो यः स्वरितयण्? तत्परस्यानुदात्तस्य स्वरितत्वम्, ततः स्थानित्वाद्यणः परस्याशाशब्दाकारस्य स्वरितत्वं तैत्तिरीयके शाखान्तरे पठते। तदनुदात्तत्वं पुनरग्निशब्दसयाकारस्य; तस्य प्रातिपदिकस्वरेणान्तोदात्तत्वात्। `तथा ब्राआहृणेऽपि इति। [इति-नस्ति -प्रांउ।पाठे] तदेकदेशविशेषो ब्राआहृणशब्देनेह विवक्षितः। `दध्याशयति` इति। अश्नोतेर्णिजन्तस्य धातुस्वरेण चित्स्वरेण वान्तोदात्तादकारोऽनुदात्तः। तस्य स्वरितयणः परस्य ब्राआह्णे स्वरितत्वं पठते। `यथा तु` इत्यादि। एतेन तमेवातिप्रसङ्घं समर्थयते। वार्तिककारेणोक्तम् -`आक्षयात्? सिद्धमिति चेदुदात्तात्? स्वरिते दोषः` इति। अस्यायमर्थः -यद्याश्रयात्? स्वारतस्य सिद्धत्वमुदात्तात्? परो यः स्वरितस्तस्य यो यण्? ततः परस्यानुदात्तस्य स्वरितत्वमिष्टं स्यात्, तत्र दोषः। तेनानेन सूत्रेण स्वरितत्वं न भवतीति स्थितम्। अनेन हि वार्त्तिकेन -उदात्तात्? परो यः स्वरितयण्? तस्मात्परस्यानुदात्तस्य स्वरती भवतीत्येषोऽर्थो न प्रतीयते। तस्मादेतच्च न। यथा भाव्यं तथोदात्तस्यानेन स्वरितयणः परस्यानुदात्तस्य स्वरितो न भवतीति सिद्धं भवतीति। `तथा` इत्यादिनानन्तरमेवार्थं द्रढयति। भाष्ये हि `स्वरितग्रहणं न करिष्यते` इत्यादिना यन्थेन स्वरितग्रहणासिद्धत्वे सूत्रे प्रत्याच्याते। एवञ्च तत्प्रत्याल्यानमुपपद्यते, यद्युदात्तात्? स्वरितयणः परस्यानुदात्तस्य स्वरितत्वं नेष्यते; अन्यथा तन्निमित्तस्य स्वरितस्येष्टौ सत्यां प्रत्याख्यानमुपपन्नमेव न स्यात्। किं [`कि` नास्ति -प्रांउ।पाठेः] पुनर्भाष्ये स्वरितयणो ग्रहणं प्रत्याख्यायते, यावता तस्मिन्? प्रत्याख्याते सकुल्ल्व्याशेथ्येवमादावनुदात्तस्य स्वरितो न सिध्यति? इत्यत आह -`सकृल्ल्व्याशेत्येमादौ` इत्यादि। उदात्तयण्? पुनरत्रोकारवकारेको यकारः। ननु च योऽसौ सप्तम्येकवचनस्य स्थाने जायते तेन व्यवधानान्न सिध्यति? इत्यत आह -`स्वरितयण्` इत्यादि। अत्रैव कारणमाह -`स्वरविधौ` इत्यादि। इतिकरणो हेतौ। यदि स्वरितग्रहणन्तरेणापि सिध्यति, कस्मात्? सूत्रे तद्ग्रहणं क्रियते? इत्यत आह -`तत्तु क्रियते` इत्यादि। <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यस्य हि -पूर्वस्माद्विधौ कर्तव्येऽजादेशः स्थानिवद्भवतीत्येषोऽर्थोऽभिमतः। उदात्तयणः परस्यानुदात्तस्य स्वरितविधौ कर्तव्य सप्तम्येकवचनस्थाने यो यणादेशस्तस्य स्थानिवद्भावादिकारेण व्यवधानमस्ति; व्यञ्जनस्य स्वरविधावविद्यमानवद्भावात्? (व्या।प।37)। तेन व्यवधानं सति सकृल्ल्व्याशेत्यत्र `उदात्तयणः` इत्येव न सिध्यतीति स्वरितग्रहणं क्रियते। ननु च `नपदान्तरद्विर्वचन` [[1.1.57]] इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः। तत्कुतो व्यवधानम्? इत्यत आह -`स्वरदीर्घयलोपेषु` इत्यादि। अचो हि लोपादेशस्य स्वरविधौ [अयं भागः कांउद्रिते नास्ति] स्थानिवद्भावः प्रतिषिध्यते। तथा हि तत्रोक्तम् -`स्वरदीर्घयलोपेषु[अयं भागः कांउद्रिते नास्ति] लोपाजादेशो [लोपादेशो -कांउद्रितपठिः] न स्थानिवद्भवतीति वक्तव्यम्` (1.1.59।वा।1) ति। न चात्राचो लोपादेशः, किं तर्हि? यणादेशः तस्मान्नास्ति स्थाविद्भावप्रतिषेधः। `वैद्याशा` इति। विदस्यायत्यमिति `अनृष्यानन्तर्ये [[4.1.104]] इत्यादिना विदादित्वादञ्, तदन्तात्? `शाङ्गरवाद्यञो ङीन्` [[4.1.73]] इति ङीन्। अत्र नित्त्वादाद्युदात्तत्वे कृते शेषस्यानुदात्तत्वमिति बैद्याशाशब्देऽचानुदात्तस्थाने यण्, नोदात्तस्य, नापि स्वरितस्य। `अत्र` इति। `अयमाद्युदात्तो लित्स्वरेण` इति। <<सप्तम्यास्त्रल्>> [[5.3.10]] इति त्रल्प्रत्ययान्तत्वात्। `हलि लोः` [[7.2.113]] इतीद्रूपस्य लोपः॥", "82005": "`अनुदत्तस्य` इति। उदात्तेन सहानुदात्तस्य यस्मिन्नेकादेशः स उदात्तः स्यात्, न तु स्वरितः। स्वरिते प्राप्त इदमारभ्यते। उदाहरणेष्वग्निप्रभृतयः प्रातिपदिकस्वरेणान्तोदात्ताः (फि।सू।1।1) विभक्तिस्तु `अनुदात्तौ सुप्तितौ` [[3.1.4]] इत्यनुदात्ता। `अग्नी, वायू` इति। <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घः। `वृक्षी, प्लक्षौ इति। <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धिः। `पचन्ति, यजन्ति` इति। <<अतो गुणे>> [[6.1.97]] पररूपत्वम्। `द्वयोरनुदात्तयोरयमेकादेशः` इति। ननु च <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इति शबकारस्य स्वरितत्वे कृते स्वरितानुदात्तयोरयमेकादेशः, तत्कथं द्वयोरनुदात्तयोरिति? एवमाह -`पररूपे कर्तव्ये स्वरितस्यासिद्धत्वात्`॥", "82006": "`सूत्थितः` इति। <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। `अत्र सुशब्दः कर्मप्रवचनीयः` इति। अनेन सुशब्दस्य गतित्वमपनयति। गतित्वे हि सति <<गतिर्गतौ>> [[8.1.70]] इति निघातः स्यात्, ततश्चोदात्तेनानुदात्तस्यायमेकादेशो न स्यात्। `प्रादिसमासे` इत्यादि। सुशब्द आद्युदात्तः। तत्र हि प्रादिसमासे कृते `तत्पुरुषे तुल्यार्थ` [[6.2.2]] इत्यादिना पूर्वपदप्रकृतिस्वरत्वादाद्यूदात्तत्वं भवति। अतस्तेन प्रकृतिस्वरत्वेन हेतुनायमादेशः, यतोऽकः सवर्णदीर्घत्वमनुदात्ते पदादौ भवति। सुशब्दस्य ह्राद्युदात्तस्य प्रकृतिस्वरत्वे सति शेषस्यानुदात्तभावोपपत्तेः। ननु `प्रादिसमासे [`प्रादिप्रसङ्गे` इति वातिकपाठः] कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः` (वा।96) इत्युक्तम्, तत्कथमिह प्रादिसमासः? नैष दोषः; तस्य प्रतिधेधस्यानित्यत्वात्। अनित्यत्वं तु सुशब्दस्य सुषामादिषु [[8.3.98]] प्रयोगाद्विज्ञैयम्। तस्य हि तत्र `उपसर्गात्सुनोति` (8.3.65 इत्यादिनैव सिद्धेऽनुपसर्गार्थः पाठः। अनुपसर्गत्वं च सोः <<सुः पूजायाम्>> [[1.4.94]] इति कर्मप्रवचनीयत्वात्। अथ वा स्वतिभ्यामन्ये ये प्रादयस्तत्रायं प्रतिषेधः। तथा हि तत्र `स्वती पूजायाम्` (का।2.2.18) इति पूजायां स्वतिशब्दयोः प्रातिसमास उक्तः पूजायां च तयोः कर्मप्रवचनीयत्वं विवक्षितम्। `दीक्षते` इति। विशब्दो निपरातस्वरेणाद्युदात्तः। अत्रापि `तिङङतिङः` [[8.1.28]] ति निघाते कृत एकादेश इत्यनुदात्ते पदादौ भवतीति सम्बन्धनीयम्। `वसुकोऽसि` इति। वसुशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, ततः सुप्रन्ययान्तत्वात्? कस्य ह्रसिशब्दे परतः <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्वम्, तस्य स्थानिवद्भावेन सुप्त्वादनुदात्तत्वमम्, पूर्वेण सह <<आद्गुणः>> [[6.1.87]] स च पूर्वसूत्रे [[8.2.5]] णान्तोदात्तः। `असि` इति। `तायस्त्योर्लोपः` [[7.4.50]] इति सकारलोपे कृते लटि सिपि रूपम्। अत्र `तिङङतिङः` [[8.1.28]] इति निघातेनाकारोऽनुदात्तः, तसयाकारेण सह <<एङः पदान्तादति>> [[6.1.109]] इति परपूर्वत्वम्। `स्वरितग्रहणम्` इत्यादि। कथं पुनरसति स्वरितग्रहणे स्वरित आदेशो भवति, पुनः स्वरितग्रहणं विस्पष्टार्थम्; न पुनः पक्षे स्वरितविधानार्थम्? इत्यत आह -`उदात्ते हि` इत्यादि। उदात्ते हि विकल्पिते यस्मिन्? पक्षे स न भवति तस्मिन्नुदात्तानुदात्तयोरन्तरतमो यस्तेनैव भवितव्यम्, स च स्वरित एव। अतोऽन्तरेणापि स्वरितग्रहणं स्वरित एव भविष्यति।", "82007": "`प्रातिपदिकस्य` इति, `पदस्य` इति समानाधिकरणे षष्ठ्यौ। `अहन्नहिम्` इति। हन्तेर्लङ्, तिप्, हल्ङ्यादिलोपः` [[6.1.66]] अदादित्वाच्छपो लुक्। `अधातुः` [[1.2.45]] इति प्रतिषेधादिह प्रातिपदिकत्वं नास्ति। `राजा, राजानौ, राजानः` इति। असर्वनामस्थाने पदसंज्ञाप्रतिषेधादिह [[1.4.17]] प्रातिपदिकस्यावयवोऽन्तो नकारो भवति। `प्रातिपदिकान्तस्य` इति। षष्ठीतत्पुरुषेऽत्रोत्तरपदप्रधानत्वादस्यैव पदस्य तद्विशेषणं युक्तम्, न तु गुणभूतस्य। प्रातिपदिकेनान्तशब्देन चात्र नकारो विशेषितः, स च नकारः प्रातिपदिकस्यान्तर्भूतः। `पदस्य` इति। अनिष्टयोरपि व्यधिकरणयोः पदप्रातिपदिकान्तर्योर्विशेषणविशेष्यभावेन भवितव्यम् -प्रातिपदिकान्तस्येति, पदस्येति। पदस्य योऽवयवः सोऽपि प्रातिपदिकस्येत्यर्थः। एवञ्च सति क्रियमाणेऽप्यन्तग्रहणे राजानौ, राजान इत्यत्र प्राप्नोत्येव नलोपः, भवति ह्यत्रापि पदावयवः प्रातिपदिकस्यान्तो नकारः -इत्येतच्चोद्यमपाकर्तुमाह -`प्रातिपदिकग्रहणमसमस्तमेव` इति। ततश्च तस्य `पदस्य` इत्येतत्? समानाधिकरणविशेषणं युक्तमेवेत्यभिप्रायः। यदि तह्र्रसमस्तमेव प्रातिपदिकग्रहणं षष्ठआश्रयणं प्राप्नोतीत्यभिप्रायः? इत्यत आह -`सुपां सुलक्` इति। अनेन यत्? षष्ठआं लुक्? तेन ल#उका निर्दिष्टं प्रातिप्रार्तिपदिकग्रहणम्, अतो न भवति षष्ठ्याः प्रसङ्गः। `अहः` इति। `स्वमीर्वपुंसकात्` [[7.1.23]] इति सोर्लुक्, <<रोऽसुपि>> [[8.2.69]] इति नकारस्य रेफः। प्रत्ययलक्षणेनाह्नः [[1.1.61]] सुप्परता नास्ति; `लुमता लुप्ते प्रत्ययलक्षणं नास्ति` [[1.1.62]] इति वचनात्। `अहोभ्याम्, अहोभिः` इति। `अहन्` [[8.2.68]] इति रुत्वम्, `हशि च` [[6.1.110]] इत्युत्वम्, <<आद्गुणः>> [[6.1.87]] । ननु च प्राप्तिपूर्वकः प्रतिषेधो भवति; इह च रेफरुत्वयोः कृतयोर्नलोपस्य प्राप्तिरेव नास्ति, नकाराभावात्? तत्क प्रतिषेधेन? इत्यत आह -`अहन्` [[8.2.68]] `रोऽसुपि` इति आदिश्येते। तद्रेफो रुत्पञ्च द्वयमप्येतदनवकाशम्, अतो लोपे न भवति; अन्यथा हि तयोर्विधानमनर्थकं स्यादित्यत आह -`सावकाशम्` इत्यादि। सम्बुद्धौ हि लोप न; <<न ङिसम्बुद्ध्योः>> [[8.2.8]] इति प्रतिषेधात्। अतस्तत्रोभयमप्येतत्? सावकाशम्। `हे दीर्घाहो निदाघ` इति। दीर्घाण्यहानि यस्मिन्निदाघ इति बहुव्रीहिः, तत्सम्बुद्धिः, हल्ङ्यादिलोपः [[6.1.66]] । सत्यपि लोपे प्रत्ययलक्षणेन सुप्परतास्ती ति <<रोऽसुपि>> [[8.2.69]] इत्येतन्न प्रवर्तते, `अहन्` [[8.2.68]] इति रुत्वमेव भवति। `अहन्` इति। `प्रथमैकवचनान्तम्` इत्यादि। तत्र `अहन्` [[8.2.68]] इति रुत्वविधौ यदुपादीयते तदावर्तते -इत्येतावति वक्तव्ये `अहन्` इत्यनेन सूत्रेण केवलं रुत्वमादेशो न विधीयते, अपि त्वावृत्तिन्यायादहन्नित्येतच्छब्दरूपमन्वाख्यायते -इत्यत्रोपपत्तिप्रदर्शनार्थम्? `प्रथमैकवचनान्तमकृतनलोपम्` इत्युक्तम्। यदि ह्रादेशनात्रमहन्नित्यनेन विधीयते, तदादेशसम्बन्धे षष्ठआ भवितव्यमिति षष्ठ्युपादीयेत, न प्रथमा। प्रथमया ह्रुपादीयमानं कृतनकारलोपमुपादीयेत, नकारलोपलक्षणस्य भावात्; न चैव कृतम्; तस्मात्? प्रथमान्तस्याकृतनकारलोपस्योपादानदवसीयते -अहन्निति रूपस्यान्वाख्यानं क्रियत इति। अन्वाख्यायते -साधुत्वेन प्रतिपाद्यत इत्यर्थः। किमर्थम्? नलोपाभावार्थम्। <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन लोपो मा भूदित्येवमर्थम्॥", "82008": "`चर्मन्` इति। `सुपां सुलृक्` [[7.1.39]] इति ङेर्लुक्। ननु च सुराजन्निति प्रातिपदिकसंज्ञा हि विद्यते, प्रत्ययलक्षणेन [[1.1.61]] `अप्रत्ययः` [[1.2.45]] इति न प्रतिषेधात्। `आद्र्रे चर्मन्` इति। अत्र तु न केवल प्रातिपदिकसंज्ञा पूरवोक्तादेव हेतोर्नास्ति; प्रत्ययलक्षणेन प्रवृत्तया भसंज्ञया बाधितत्वात्। अतो नलोपप्राप्तिर्मास्त्येवेत्यर्थः। कथं प्रतिषेधः? इत्यत आह -`एतस्मादेव` इत्यादि। `भसंज्ञा च न भवति` इति। अत्राप्येतस्मादेव प्रतिषेधवचनात्? प्रत्ययलक्षणेन च ज्ञाप्यत इति सम्बध्यते। `तथा च` इत्यादिना ज्ञापनप्रयोजनं दर्शयति तदेवमेतस्मात्? प्रतिषेधादर्थद्वयं ज्ञाप्यते। एवञ्च कृत्वा -राजपुरुष इत्यत्र प्रातिपदिकसंज्ञायां सत्यां नलोपश्च भवति। भसंज्ञायामसत्यां <<अल्लोपोऽनः>> [[6.4.134]] इत्यलोपश्च न भवति। न भसंज्ञाभावन्चेत्यस्येह `यथोद्देर्श संज्ञापरिभाषम्` (व्या।प।59) इत्यस्मिन्? दर्शने प्रयोजनं वेदितव्यम्। `कार्यकालं हि संज्ञापरिभाषम्` (व्या।प।58) इत्यस्मिन्? दर्शने भसंज्ञायामङ्गकार्यं भवतीति <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रत्ययलक्षणप्रतिषेधादेव भसंज्ञा न भवतीति नार्थस्तत्र भसंज्ञाया अभावज्ञापनेन। `ङावुत्तरपदे` इत्यादिनायं ङौ परतो नलोपप्रतिषेधस्य प्रतिषेध उक्तः। तस्योत्तरपदे परतो यो ङिस्तत्र प्रतिषेधो वक्तव्यः। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -`स्वरितो दानुदात्तं पदादौ` [[8.2.6]] इत्यतः `वा` इत्यनुवर्तते, सा च व्यवस्थितविभाषा, तेन ङावुत्तरपदे न भविष्यतौति। `चर्मणि तिला अस्य चर्मतिलः` इति। वैयधिकरण्येऽपि गमकत्वात्? समासः। ननु चात्यल्पमिदमुच्यते -ङावुत्तरपदे प्रतिषेधो वक्तव्य [अयं भागः का। मुद्रितपूस्तके नास्ति] इति। सम्बुद्धावपि ह्रुत्तरपदे प्रतिषधो [अयं भागः का। मुद्रितपूस्तके नास्ति] वक्तव्य एव; अन्यथा हि हे राजन्? वृन्दारकेति विगृह्र `वृन्दारकनागकुञ्जरैः` [[2.1.62]] इति समासे कृते हेराजन्? वृन्दारकेत्यत्र नलोपो न स्यात्? इत्यत आह -`हे राजन्? वृन्दारकेत्यत्र तु` इत्यादि। समानार्थेन वाक्येन समासेन भवितव्यम्, एवं हि सामर्थ्यं भवति, नान्यथा। तथा चोक्तम् -ग्रहणवाक्यार्थाभिधाने यः शक्तः स समर्थो वेदितव्य इति। यश्चेहार्थो हे राजन्? वृन्दारकेति वाक्येन गम्यते, स न ज्ञायते -हे राजवृन्दारकेति समासेन। वाक्येन ह्रेकार्थीभावाभावात्? सम्बोधनं गम्यते, समासे तु विपर्ययात्? समुदायार्थः सम्बोधनम्। तस्माद्राजा चासौ वृन्दारकश्चेत्येवमेव विगृह्र समासः कर्तव्यः, ततः सम्बुद्धिः, एवञ्च सम्बुद्ध्यन्तं पूर्वपदम्। हे राजन्? वृन्दारकेत्यत्र समासो भविष्यत्येव; ततश्चोत्तरपदे परतः सम्बुद्धेरभावान्नलोपप्रतिषेधस्य प्राप्तिरेव नास्तीति नार्थस्ततप्रतिषेधेन। `वा नपुंसकानाम्` इत्यादि। नपुंसकलिङ्गानां वा नलोपप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमिति। अत्र व्याख्यानं तु -इहापि वाग्रहणानुवृतिंत व्यवस्थितविभाषात्वं चाश्रित्य कर्तव्यम्॥", "82009": "मकारान्तान्मकारोपधादवर्णान्तादवर्णोपधाच्चोत्तरस्य मतुपो मकारसय `च` इत्ययमादेशो भवतीत्ययमर्थोऽभिमतः। स एव यथा सम्पद्यते, तथा दर्शयितुमाह -`मतोरिह` इत्यादि। अत्र मतुप कार्यित्वेनीपात्तः। स च नास्त्यन्तरेण प्रातिपदिकत्वम्; तद्विधौ प्रातिपदिकाधिकारात्? [[4.1.1]] । तस्मान्मतुपः पूर्वं सामर्थ्यलभ्यं प्रातिपदिकम्, तन्मकारावर्णाभ्यां मादिति विशिष्यते -मकारोऽन्तो यस्यं, अवर्णोऽन्तो यस्येति। मकारावर्णविशिष्टा या चोपधेति सामर्थ्यम्। कथम्? पूर्वं प्रातिपदिकान्तं विशिष्यते इति सम्बन्धनीयम्। मकारेण विशेषणेन, अवर्णेन विशेषणेन च विशिष्टा योपधा सा च विशिष्यते -मकार उपधा यस्य, अवर्ण उपधा यस्येति। मकारावर्णविशिष्टस्येति मतुपो विशेषणे `उपधायाश्च` इत्यत्र मा भूदिति? अस्यापेक्षितस्वल्लभ्यत इत्ययमर्थो भवतीति। इतिकरणो हेतौ। यस्मात्? सामर्थ्यप्राप्तं प्रातिपदिकमेव विशिष्यते, तस्मादयं वक्ष्यमाणोऽर्थः सूत्रस्यापि भविष्यतीति। `किंवान्` इति। किमस्यास्तीति मतुप्; `उगिदचाम्` [[7.1.70]] इत्यादिना नुम्, हलङ्यादिसंयोगान्तलौ (6.1.70; 8.2.23), <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः।`नार्मतम्` इति। नरोऽस्य सन्तीति नृमान्, नृमत इदमिति <<तस्येदम्>> [[4.3.120]] इत्यण्, तत्र वृद्धौ कृतायां दार्मतमित्यत्रावर्णोपधमतुप्? प्रातिपदिकं जातमिति वत्वं प्राप्नीति, तत्? कस्मान्न भवति? इत्याह -`इह` इत्यादि। नार्मतमित्यत्र ह्रवर्णोपधमतुप्त्वं वृद्धिरेव, सा च बाहृतद्धितनिमित्ता। अतोऽवर्णौपधत्वस्य बहिरङ्गत्वम्, वत्वं तु प्रवृत्तिनिमित्तमिति तस्यान्तरङ्गत्वम्, असिद्धं च बहिरङ्गमन्तरङ्गे (व्या।प।42) इति, तेन नार्मत मित्यत्र वत्वं न भवति॥", "82010": "`अग्निचित्वान्` इति। <<तसौ मत्वर्थे>> [[1.4.19]] इति भसंज्ञा। तेन पदसंज्ञानिबन्धनं <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वं न भवति॥", "82011": "`अहीवती` इति। <<नद्यां मतुप्>> [[4.2.85]] इति चातुरर्थिको भतुप्, <<शरादीनां च>> [[6.3.120]] दीर्घः॥", "82012": "", "82013": "`उदधावर्थे` इति। यस्मिन्नुदकं धीयते तस्मिन्नर्थं इत्यर्थः। तथा ह्रुदके कर्मण्युपपदे <<कर्मण्यधिकरणे च>> [[3.3.93]] इति किप्रत्यये कृते <<पेषंवासवाहनधिषु च>> [[6.3.58]] इत्युदकस्योदभावे कृत उदधिशब्दो व्युत्पाद्यते। चकारेण <<संज्ञायाम्>> [[8.2.11]] इत्यनुकृष्यत इति दर्शयति। `संज्ञायां च` इत्यादि। `उदधावर्थे` इत्यादि। उदधिग्रहणञ्च संज्ञार्थम्। `उदन्दान्` इति। डदकं धेयमास्मिन्नस्तीत्यर्थविवक्षायां मतुप्। `स एव मुच्यते` इति। न तु गङ्गादिः। यदि यस्मिन्नुदकं धीयते [नास्ति -कांउ।पुस्तके] स एव मुच्यते -उदकवान्? घट इत्यभिधानं प्राप्नोति, घटेऽप्युदकं धीयत इत्यत आह -`उदकवान्? घटः` इत्यादि। इह विवक्षा शब्दव्युत्पत्तेः प्रधानं कारणम्, न वस्तुनः सत्ता। स च येन दधात्यर्थेनोदधिरित्युच्यते, सोऽस्मिन्? प्रयोगे घटे न विवक्षितः, किं तर्हि? उदकसत्तायाः सम्बन्धमात्रम्। उदकमस्मिन्नस्तीत्येवन्मात्रं विवक्षितम्। अतो दधात्यर्थस्याविवक्षितत्वाद्घटस्योदधित्वं विद्यमानमप्यसङ्कल्प्यमेवेति नायं निपातनस्य विषयः। तेन घट उदकवानित्युच्यते। यदा तु दधात्यर्थो विवक्ष्यते तदोदन्वानित्येवं वक्तव्यम्॥ बाल-मनोरमासंज्ञायाम् 1874, 8.2.13 संज्ञायाम्। `अहीवती`त्यादि नदीविशेषस्य, नगरीविशेषस्य वा संज्ञा। शरादित्वादिति। `शरादीनां चे`ति दीर्घ इत्यर्थः। बाल-मनोरमाउदन्वानुदधौ च 1876, 8.2.13 उदन्वानुदधौ च। उदधौ संज्ञायां चेति। वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात्।", "82014": "`राजन्वानिति निपात्यते` इति। किमन्न निपात्यते? नलोपाभावः, नुङ्वा। `सौराज्यम्` इति। शौभनो राजा यस्मिन्? देशे स सुराजा, तद्भावः सौराज्यम्, ब्राआहृणादित्वात्? व्यञ्, <<नस्तद्धिते>> [[6.4.144]] इति नलोपः। तत्पुनः सौराज्यं यत्र शोभनेन राज्ञा देशस्य सम्बन्धः। `समासकृत्तद्धितेषु सम्बन्धाभिधानम्` (सी।पा।130) इति वचनाद्राजन्वानित्यस्य शब्दस्य देश एव वाच्यः, न सौराज्यम्। स तु देश शब्दात्? प्रतीयमानः; सौराज्येनाविनाभावित्वात्। तच्च गमयतीत्याह -`गम्यमाने` इति। `राजन्वान्` इति पुंल्लिङ्गम्। तस्यातन्त्रतां दर्शयितुम् -`राजन्वती पृथिवी` इत्यस्योदाहरणस्योपन्यासः॥", "82015": "`हरिवो मेदिनम्` इति। <<न मु ने>> [[8.2.3]] इत्यत्रैतद्व्युत्पादितम्। `आरेवानेतु मा विशत्` इति। रयिशब्दस्य `रयेर्मतौ बहुलम्` (दा।665) इति सम्प्रसारणम्, परपूर्वत्वम्, <<आद्गुणः>> [[6.1.87]] । अथेह कस्मान्न भवति -सप्तर्षिमन्तं द्यावापृथिवीमन्तम्? इत्याह -द्यौश्च पृथिवी चेति द्वन्द्वे कृते <<दिवसश्च पृथिव्याम्>> [[6.3.30]] इति दिवो द्यावादेशः। `गोर्वान्, धूर्वान्, आशीर्वान्` इति। `गृ? शब्दे` (धातुपाठः-1498), `धुर्वी हिंसार्थः (धातुपाठः-573), `आङ शासु श्च्छायाम्` (धातुपाठः-1022), एषां सम्पदादित्वात्? क्विप्। गृणातेः `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, धुर्वेः <<राल्लोपः>> [[6.4.21]] इति वकारलोपः, <<शास इदङ्हलोः>> [[6.4.34]] , इत्यत्र शास इत्त्वे `आशासः क्वावुपसंख्यानम्` (वा।781) इत्याङ्पूर्वस्य शास इत्त्वम्, मतुपि कृते `ससजुवो रुः` [[8.2.66]] इति रुत्वम्॥", "82016": "`अक्षण्यन्तः` इति। <<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> [[7.1.75]] , `\tछन्दस्यापि दृश्यते` [[7.1.76]] इत्याङ्; नुट्, अनङी नकारस्य लोपः नुमो णत्वम्। `अस्थन्वन्तम्` इति। अस्थिशब्दस्य णत्ववर्ज पूर्ववदनङादि कर्तव्यम्। `शीर्षण्वती` इति। <<शीर्षंश्छन्दसि>> [[6.1.60]] निपातितम्। ननु च नुटोऽनन्तरत्वात्? तस्यैव वत्वेन भवितुं युक्तम्, न तु तद्व्यवहितस्य मकारस्य, तत्कथमिह नुटो वत्वं न भवति, ततस्तु परस्य न भवति? इत्याह -`नुटोऽसिद्धत्वात्` इत्यादि। अथायं नुट्? परत्वादपवाद एव कस्मान्न भवति? भिन्नजातीयत्वात्। समानजातीयकार्यपन्नो हि विशेषः सामान्यस्य बाधको भवति, इह कार्यभेदोऽस्ति; वत्वस्यादेशत्वान्नुटस्थ्वागमत्वादिति नास्ति वाध्यबाधकभावः, नुटः परादिकरणं णत्वं यथा स्यादित्येवमर्थम्; अन्यथा हि <<पदान्तस्य>> [[8.4.37]] इति प्रतिषेधः स्यात्॥", "82017": "`सुपथिन्तरः` इति। शोभनः पन्था इति प्रादिसमासः -सुपन्थाः, सुशब्दात्? `न पूजनात्` [[5.4.69]] इति प्रतिषेधात्? `ऋक्पूरब्धूः` [[5.4.74]] इत्यादिना समासान्तो न भवति, तरप्। `दल्युहन्तमः`। दस्युं हतवानिति क्विप्, तदन्तात्? तमप्। `भूरिदावत्तरः` इति। भूरि वदातीति `आतो मनिन्` [[3.2.74]] इत्यादिना वनिप्, तदन्तादुत्तरपदस्य तुट्। `रथीतरः` इति। रथिन्नित्येतस्मान्मत्वर्थीयेनिप्रत्ययान्तात्? तरप्, नकारस्य लोपः, ईकारः अथ वा -नकारस्यैवेकारः, सवर्णदीर्घत्वम्॥", "82018": "इह र इति वर्ण उपादीयते, ल इत्यस्यादेशस्तादृश एव; ततश्च केवलो यो रेफवरणो नावयवभूतस्तस्यैव तथाभूत एव लकारादेशः स्यात्, ऋकारस्य तु लकारो न स्यात्; तयोः स्थान्यादेशभावेन सूत्रोऽनुपादानात्। ततश्च कॢप्तः, कॢप्तवानित्यादि न सिध्येदिति यश्चोदयेत्, तं प्रत्याह -`र इति सामान्यमुपादीयते` इति। वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य यत्? सामान्य वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ वर्तते यतस्तयोर्वर्णत्वावर्णत्वादिभेदभिन्नयोद्र्वयोरपि र इत्यभिधानप्रत्ययावभिन्नौ भवतस्तदुपादीयते, न तु वर्णात्मकः -एवं विशेषः। `तेन` इति। सामान्योपादानेन द्वयोरपि ग्रहणं भवतीति। तस्य सामान्यस्य द्वयोरपि भावात्? `ल इत्यपि सामान्यमेव` इति। उपदीयत इत्यपेक्षते। अत्रापि तेन यश्चकेवलो लकारो यश्च ऌकारस्थः, तयोद्र्वयोरपि ग्रहणमित्येतद्वाच्यम्? पूर्वानुसारेण गम्यमानार्थत्वान्नोक्तम्। `ततोऽयम्` इत्यादि। यत एवं द्वयोरपि रेफयोलकारयोश्च ग्रहणम्, तस्मात्? केवलस्य रेफस्य केवलो लकार आदेशो विधीयते। आन्तरतम्यादृकारस्यापि ऌकारः। ननु च सत्यपि द्वयोरपि ग्रहणे ऋकारस्य स्थान ऋकारो विधीयत इत्येतन्न लभ्येत, न हि ऋकारस्थो रेफ ऋकारो भवति, किं तर्हि? तदवयवः; तत्र द्वयोरपि ग्रहणे सति ऋकारस्थस्यापि रेफस्य ऌकारस्थो लकारस्त त्सदृश एवान्तरतन्याद्भवतीत्येषोऽर्थो लभ्यते, न तु ऋकारस्यापि स्थाने ऌकारो भवतीत्येषोऽर्थोऽपि? इत्येतस्य चोद्यस्य निराकरणार्थं `एकदेशविकारहद्वारेण` इत्युक्तम्। एकदेश ऋकारस्यावयवो रेफस्तस्य विकार ऌकारावयवो लकारः। अथ वा -एकदेश ऌकारस्यावयवो लकारः, स एव विकारः। ऋकारस्य रेफस्यैकदेशविकारः। द्वारम् -मुखम्, उपाय इति यावत्। तेन ऋकारस्य स्थान ऌकारादेशो विधीयते। यदि ऋकारऌकारस्थयो रेफलकारयोरृकारऌकाराभ्यां पृथग्भावः सम्भवति। तस्मान्नान्तरीयकत्वादेकदेशविकारद्वारेण समस्तस्यैव ऋकारस्य समस्त एव ऌकारादेशो विधीयते। अस्यैवार्थस्य द्रढीकरणायाह -`एवं च` इत्यादि। यत एवमेकदेशविकाद्वारेण ऋकारस्य स्थाने ऌकारो विधीयते, एवञ्च `लुटि च कॢपः` इत्येवमादीनां ग्रहणम्। तदेवं चोद्यं परिहरता यदुक्तम् -`नुङ्विधिलादेशविनामेष्वृकारः [`ऋकारे` -काशिका, पदमञ्जरी च] प्रतिविधातव्यः` [विधातव्यम् -काशिका, पदमञ्जरी च] (वा।1) इति, तत्रावसरे प्राप्ते लादेशे प्रतिविहितम्। `कल्प्ता, कल्प्तारौ, कल्प्तारः` इति। तृच्, अथ वा लुट्। `चिकॢप्सति` इति। सन्, <<हलन्ताच्च>> [[1.2.10]] इति कित्वाद्गुणाभावः। `कॢप्तः, कॢप्तवान्` इति। क्तक्तवत्। `कृपा` इति। एतत्कथं सिध्यति? यावताऽत्रापि लत्वेन भवितव्यम्? इत्यत आह -`कृपेत्येतत्` इत्यादि। एतेन `क्रप कृपायां गतौ` (धातुपाठः-771) इत्यस्मात्? `षिद्भिदादिभ्यो॥ऽङ्` [[3.3.104]] इत्यङि तत्सन्नियोगेन च सम्प्रसारणे कृते कृपेत्येतद्भवतीति दर्शयन्? कृपेत्यस्य रूपस्य लाक्षणिकत्वं दर्शयति। यद्येवम्, ततः किमत्यत्र लत्वं न भवति? इत्याह -`तस्य हि` इत्यादि। यतसतस्य कृतसम्प्रसारणस्य क्रपेः कृपेत्येतद्रूपं भवति, तस्माल्लाक्षणिकत्वम्। अतो लक्षणप्रतिपदोक्तपरिभाषयैव (व्या।प।3) न गृह्रते इति भवति लप्रसङ्गः।कृपण, कृपीट, कर्पूरादिषु ह्रौपदेशिकमेव कृपेत्येसद्रूपम्, न लाक्षणिकम्। तथा हि `रञ्जे क्वुन्` [`रजः क्युन्` इति द।उ।पाठः `रजेः, रञ्जेः` इति पाठान्तरे] (द।उ।5।24) इति यः क्वुन्? विहितः, तस्मिन्? बहुलवचनात्? कृपेरेव विहिते कृपण इति भवति; `कृतृकृपिभ्यः कीटन्` [`कृतृकृपिकम्पिभ्यः कीटन्` इति द।उ।पाठः `कपिकम्पिभ्यः` इति पाठान्तरम्] (द।उ।5।3) इति कृपेरेत कोटनि विहिते कृपीट इति भवत; `खर्जिपिञ्जादिभ्य ऊरोलचौ` (द।उ।10।10) इत्युरप्रत्यये कृते कर्पूर इति भवतीत्याह -`कृपणकृपीट` इत्यादि। एवं मन्यते -बहुलवचनात्? क्रपेरेव क्युन्? [क्वुन्? प्रांउ।पाठः] भवति, तत्र चास्य सम्प्रसारणं कृतम्, `कृ-तृकृपिभ्यः कीटन्` (द।उ।5।3) इत्यत्रापि कृपिग्रहणमपनीय कॢपिग्रहणं करिष्यते, सम्प्रसारणं तु बहुलवचनादेव भविष्यति; `खर्जिपिञ्जादिभ्य ऊरोलचौ` इत्यत्रापि आदिग्रहणे कृपिरेव ग्रहीष्यते, सम्प्रसारणं च पूर्ववदेव भविष्यतीति। यद्यपि कृपणकृपाणेत्येवमादीनि रूपाणि स्युः, तदास्य दोष इति दर्शयितुमाह -`जणादयो बहुलमिति वा` इत्यादि।अत्यन्तभिन्नरूपयोरभिन्नस्वभावत्वमसम्भावयन्? पृच्छति -`किमिदम्` इत्यादि। `समानविषयत्वम्` इति। अभिन्नविषयत्वमेकशब्देनात्र विवक्षितम्, न त्वभिन्नस्वभावत्वमिति दर्शयति। किमर्थं पुनः कृपिमुद्दिश्य लादेशो विधीयते, न कृपिरेवोद्दिश्येत? गु स्थाने लत्वमात्रं कर्तव्यम्, तच्चावश्यमुकर्तव्यमुपल्कारीयतीत्येवमर्थम्। तथा च -`ऋदुपधाच्चकॢपि चृतेः [[3.1.110]] इत्यत्र कॢपिप्रतिषेधो न कर्तव्यो जायते। तेनैवं शक्यम् -इह ह्रचोकॢपदिति ऋकारऌकारयोः सवर्णसंज्ञादिधानादृकारस्य विधीयमानमुरत्त्वं ऌकारस्यापि स्यात्। तथा च ऌकारस्याप ऋवर्णः प्रसज्यते; ऋकारान्तं तूपदिश्य लत्वे विधीयमाने तस्यापि ऌकारस्य लत्वं सिद्धं भवति॥", "82019": "इह द्वौ पक्षौ सम्भवतः -अयतिग्रहणं रेफविशेषणमित्येकः पक्षः, उपसर्गस्य विशेषणमिति द्वितीयः। तत्राद्ये पक्षेऽयतौ परत इत्येवामादिको वृत्तिग्रन्थ एवं नेयः -अयतौ परतो यो रेफ उपसर्गस्थस्तस्य लकारादेशो भवतीति। द्वितीये ह्रेवं नेयः -अयतौ परतो म उपसर्गस्तस्योपसर्गस्य यो रेफस्तस्य लकारादेशो भवतीति। `प्लायते` पलायते` इति। `अय ण्य` इत्यस्मादनुदात्तेत्त्वादात्मनेपदम्। कथमत्राद्ये पक्षे लत्वं भवति, यावता तस्मिन्? कर्तव्ये <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावेन भवितव्यम्, ततश्च प्रकृत्युपसर्गयोर्निमागे सत्यवर्णेन व्यवधानद्रेफस्यायतिपरता न सम्भवति? इत्याह -`अत्र योऽयम्` इत्यादि। विभागे विश्लेष इत्यर्थः। एकग्रहणं प्रत्यय इत्यत्र सङ्घाते व्यवधाने लत्वं न भवतीति प्रदर्शनार्थम्। येन हि व्यवधानमेव नाव्यवधानं तेन व्यवधाने वचनाप्रामाण्याल्लत्वेन भवितव्यम्। केन व्यवधानमेवम्? एकेन वर्णेन। सङ्घातेन पुनव्र्यवधानमस्ति नास्ति चेति, तेन व्यवधाने भवति। `तथा च` इत्यादि। एवमाद्ये पक्ष एकेन वर्णेन व्यवधाने लत्वं भवति। न केवल पल्ययत इत्यत्र प्रवर्तते यत्र स्यानिवद्भावद्वारेणाशास्त्रीयं व्यवधानम्; यत्रापि तु श्रूयमाणेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्त्त्त इत्येषोऽपिशब्दस्यार्थः।ननु च निरः कुषः` [[7.2.46]] इत्यत्र निर इति निर्देशेन ज्ञापितमेतत् -निरिति रेफान्तमुपसर्गान्तर मस्तीति, ततश्च निलय इत्यत्र वचनस्यावकाशे सति कथं `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।पा।46) इत्युक्तम्? एवं मन्यते -नैकमुदाहरणं सामान्यलक्षणं सामान्यलक्षणं प्रयोजयति, यदि ह्रेतावत्? प्रयोजनं स्यात्, निर एव ग्रहणं कुर्यादिति। एवं प्रथमे पक्षे सर्वस्य सिद्धतां प्रतिपाद्य द्वितीये पक्षे प्रतिपादयितुमाह -`उपसर्गविशेषणे तु` इत्यादि। तुशब्दोऽयमपिशब्दस्यार्थे वर्तते। न केवलं रेफविशेषणेऽयतिग्रहणे पल्ययत इत्यादि सर्वं सिद्धम्, अपि तूपसर्गविशेषणेऽपि तस्मिन्? सर्वमेतत्? सिद्धम्। अथ वा -तुशब्दः पूर्वस्मात्पक्षादस्य विशेषं द्योतयति। तत्र हि वयवधानाल्लत्वं प्राप्नोतीत्येतच्चोद्यमवतरति। अतो यदेतत्? प्रतिपाद्यमेतत्? सर्वम्। इह त्वस्य चोद्यस्यावतार एव नास्तीति सिद्धमेवैतत्, न यत्नसाध्यमित्यर्थः। प्रतेरपि प्राप्नोतीति चोदकः। तुशब्दः पूर्वस्माद्विशेषणार्थः, पूर्वत्र प्रतेर्न प्राप्नोति; सङ्घातेन व्यवधानात्; इह तु नास्ति केनचिद्व्यवधानम्, अतः प्रतेरपि प्राप्नोतीति मन्यन्ते। `अपरे` इति। द्वितीयपक्षाभिनिविष्टानामम्यतमे। `निस्दुसित्येतयोः` इति। यद्ययतिग्रहणं रेफस्य विशेषणम्, अथाप्युपसर्गस्य विशेषणम्, सर्वथाः रत्वे कृते लत्वं प्राप्नोति? इति यश्चोदयेत्, तं प्रत्याह -`निस्दुस्` इत्यादि। गतार्थम्॥", "82020": "", "82021": "`गिरति` इति। निगरणार्थस्य रूपम्। `निगरणम्` इति। ल्युट्। `निगारकः` इति। ण्वुल्। निगार्यते` इति। अत्र हि णिलोपे कृते विकल्पो न सिध्यत्यचः परस्याभावात्? इत्येतच्चोद्यमपाकर्त्तुमाह -`निगार्यते` निगाल्यते` इति। स्थानिवद्भावस्तु पूर्ववत्। स्यादेतत्। नास्त्येवात्र स्थानिवद्भावः; `पूर्वत्रासिद्धे न स्थानिवत्` (जै।प।वृ।48) इति प्रतिषेधात्? इत्यत आह -`पूर्वत्रासिद्धे` इत्यादि। अपवादः=दोषः, सह तेन वर्तत इति सापवादम्। दोष एवायमस्याः परिभाषाया इत्यर्थः। अपिशब्दः समुच्चये। न केवलं तच्चोद्यं सापवादम्, अपि तु `पूर्वत्रासिद्धं न स्थानिवत्` (जै।प।वृ 48) इत्येतदपि वचनं सापवादमेव। तदेव सापवादत्वमाप्तवचनेन प्रतिपादयितुमाह -`तस्य` इत्यादि। तत्र संयोगादिलोपविधावयं दोषः -काक्यर्थः, वास्यर्थ इति; अत्रासति यणादेशस्य स्थानिवदभावे `स्कोः संयोगाद्योः` [[8.2.29]] इति ककारसकारयोर्लोपः प्रसज्येत। लत्वविधौ -निगार्यते, निगाल्यत इति; णिलोपस्य सति स्थानिवद्भावे विकल्पेन लत्वं न स्यात्। णत्वविधौ -प्रहिणोति प्रमीणीन इति; अत्र गुणेत्त्वयोरसति स्थानिवद्भावे <<हिनुमीना>> [[8.4.15]] इति णत्वं न प्राप्नोति। `अन्तरङ्गत्वाद्वा` इत्यादि। परिहारन्तरम्। अन्तरङ्गत्वं तु लत्वविकल्पस्य वर्णाश्रयत्वात्। णिलोपस्य तु बहिरङ्गत्वम्; आर्धधातुकाश्रयत्वात्। अथ गिरौ, गिरः -इत्यत्र लत्वं कस्मान्न भवति? इत्याह -`गिरौ, गिरः` इत्यादि। इतिकरणो हेतौ। धातोः स्वरुपेण ग्रहणे सति तत्प्रत्यये धातोरित्येव यः प्रत्ययो विहितस्तत्र तत्कार्यं विज्ञायते। तस्मादगिरो, गिर इत्यत्र न भवति। न ह्यत्र श्रातो [[3.1.91]] रित्येव गिरतेः क्विबन्तादौजसौ विहितौ, किं तर्हि? प्रातिपदिकाधिकारात्? [[4.1.1]] ॥", "82022": "", "82023": "`संयोगान्तस्य` इति। संयोगोऽन्तो यस्य तत्तथोक्तम्। अन्तग्रहणं विस्पष्टार्थम्। `पदस्य` [[8.1.16]] इति हि वर्तते, तत्र संयोगेन पदे विशिष्यमाणे <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्येव संयोगान्तता पदस्य लभ्यते। `गोमान्` इति। हल्ङ्यादिलोपे कृतेऽलोऽन्त्यस्य लोपः [[1.1.51]] , <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। `क्षेयान्, भूयान्` इति। अत्र संयोगान्तलोपे न प्राप्नोति; परत्वाद्रुत्वेन बाध्यत इति यो मन्येत, तं प्रत्याह -`श्रेयान्, भूयान्` इत्यादि।यदि तर्हि परमपि रुत्वमसिद्धत्वात्? संयोगान्तसय बाधकं न भवति, एवं सत्यत एव हेतोर्जश्त्वस्यापि बाधकं न स्यात्, ततश्च यशः, पय इति जशत्वमेव स्यात्, न रुत्वम्? इत्यत आह -`जश्त्वे तु` इत्यादि। संयोगान्तलोपे हि प्राप्ते चाप्राप्ते च रुत्वमारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युवतं यद्रुत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युक्तं यद्रूत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। तस्माद्बाधकलक्षणयोगाद्रुत्वं जश्तवस्य बाधकं भवत्येव। श्रेयानिति -<<प्रशस्यस्य श्रः>> [[5.3.60]] ) इतीयसुनि श्रभावः, <<आद्गुणः>> [[6.1.87]] , `सान्तमहतः` [[6.4.10]] इति दीर्घः। भूयानिति -<<बहोर्लोपो भू च बहोः>> [[6.4.158]] इतीयसुनि ईकारस्य लोपः, बहोश्च भूभावः। अथ दध्यत्र, मध्वत्रेत्यत्र संयोगान्तलोपः कस्मान्न भवति? इत्याह -`दध्यात्र` इत्यादि। बहिरङ्गत्वं तु यणादेशस्य द्विपदाश्रयत्वात्। संयोगान्तलोपस्य त्वेकपदाश्रयत्वादन्तरङ्गत्वम्। पदस्येति किम्? गोमन्तौ, गोमन्तः॥", "82024": "`संयोगान्तस्य पदस्य` इत्यादि। अत्र संयोगान्तं पदं रेफस्य विशेषणम्, रेफोऽपि सकारस्य। संयोगान्तस्य पदस्य योऽवयवो रेफस्तस्मादुत्तरो यः सकारस्तस्यालोऽन्त्यस्य लोपो भवति। `अक्षाः, अत्साः` इति। `क्षर सञ्चलने` (धातुपाठः-851), `त्सर च्छद्मगतौ` (धातुपाठः-554), लङ्, <<अतो ल्रान्तस्य>> [[7.2.2]] इति वृद्धिः, तिपो हल्ङ्यादिलोपः [[6.1.66]] , सिचः सकारस्याप्यनेन, अडागमः, रेफस्य विसर्जनीयः [[8.3.15]] । ननु चैतत्? पूर्वेणैव सिद्धम्, तत्किमर्थमिदमारभ्यते? इत्याह -`सिद्धे` इत्यादि। `रात्? सस्यैव` इति नियमस्य स्वरूपं दर्शयति। रादेव सस्य -इत्येष तु विपरीतनियमोऽत्र नाशङ्कनीयः, उरः प्रभृतिषु [[5.4.151]] पुमानिति कृतसंयोगान्तलोपस्य [`कृतसंयोगान्तस्य लोपस्य` -इति प्रांउ।पाठः] पुम्स्शब्दस्य पाठात्। न हि विपरीतनियमे तस्य संयोगान्तलोप उपपद्यते। `ऊर्क्` इति। `ऊर्ज बलप्राणनयोः` [उर्ज -प्रांउपाठः] (दा।पा।1549), `भ्राजभ्रास` [[3.2.177]] इत्यादिना क्विप्। अत्र नियमाज्जकारस्य लोपो न भवति, तस्मिन्नसति <<चोः कुः>> [[8.2.30]] इति कुत्वम् -जकारस्य गकारः, `वावसाने` [[8.4.55]] इति चर्त्वम् -ककारः। `न्यमार्ट्`माटै -काशिका, पदमञ्जरी च] इति। `मृजू शुद्धौ` (धातुपाठः-1066), अदादित्वाच्छपो लुक्, तिपो हल्ङ्यादिलोपः [[6.1.66]] <<मृजेर्वृद्धिः>> [[7.2.114]] , `व्रश्च` [[8.2.36]] इत्यादिना षत्वम्, तस्य जश्त्वम् -डकारः, तस्यापि चर्त्वम्-टकारः॥", "82025": "`अलविध्वम्, अलविढ्वम्` इति। लुङ्, सिच्? [[3.1.44]] सस्य `धि च` इति लोपः, <<विभाषेटः>> [[8.3.79]] इति पक्षे भू र्धन्यः। `यद्यत्र` इत्यादिना सति सकारलोपे यदिष्टं प्राप्नोति तद्दर्शयति। असति हि सकारलोपे सिचः <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वे कृते <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वे च डकारे <<ष्टुना ष्टुः>> [[8.4.41]] इति धकारस्य ष्टुत्वे ढकारेण भवितव्यम्, ततश्च मूधन्याभावपक्षेऽपि धकारो न श्रूयते। विभाषाग्रहणं तु सिद्धं लिडर्थं लिङर्थं च स्यात्। तस्मादमूर्धन्यपक्षे धकारस्य श्रवणं यथा स्यादिति लोपो विधीयते। `इतः प्रभृति सिचः सकारस्य लोप इष्यते` इति। स च <<अचि विभाषा>> [[8.2.21]] इत्यतो विभाषाग्रहणाअनुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। `चकाद्धि` इति। `चकासृ दीप्सौ` (धातुपाठः-1074), लोट्, सिप्, `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः, <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति हेर्धिभावः, पूर्ववच्छपो लुक्, पूर्ववज्जश्त्वम् -सकारस्य दकारः। `पयो धावति` इति। पयः शब्दस्य रुत्वम्, `हशि च` [[6.1.110]] इत्युत्त्वम्, <<आद्गुणः>> [[6.1.87]] । यदीतः प्रभृति सिचो लोप इष्यते, सग्धिः, बब्धायित्यत्र <<झलो झलि>> [[8.2.26]] इति सकारस्य लोपो न प्राप्नोतौति चोद्यमाशङ्क्याह-सग्धिर्बब्धाम्` इत्यादि। `अद भक्षणे` (धातुपाठः-1011), स्त्रियां क्तिन्? [[3.3.94]] <<बहुलं छन्दसि>> [[7.4.78]] इति घस्लादेशः, <<घसिभसोर्हलि च>> [[6.4.100]] इत्युपधालोपः, सकारस्य `बहुलं छन्दसि` इति च्छान्दसो लोपः। क्वचिदन्यदेवोच्यते एषोऽपि बहुलस्यार्थः। इष्यते <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धत्वम्, पूर्ववज्जश्त्वम् -घकारस्य गकारः। समाना ग्धिरिति विशेषणसमासः, `समानस्य च्छन्दसि` [[6.3.83]] इति सभावः। बब्धामिति -`भस भत्र्सनद्दीप्त्योः` (धातुपाठः-1100), लोट्? तस्य `लोटो लङ्वत्` [[3.4.85]] इत्यतिदेशात्? तसस्ताम्, जुहोत्यादित्वाच्छपः श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, पूर्ववदुपधासलोपौ, पूर्ववदेव तकारस्य दत्वञ्च, भकारस्य दकारः <<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वम्। एवमिदं तावत्? श्लोकवार्त्तिककारस्याभिमतं दर्शितम्। इदानीं भाष्यकारस्य मतं दर्शयितुमाह -`भाष्यकारस्त्वाह इत्यादि। एतेनाविशेषेणैव सकारमात्रस्य भाष्यकाशे लोपमिच्छतीति दर्शयति। `तेन` इत्यादि। अविशेषेण हि सकारमात्रस्य यो लोपमिच्छति तस्य पयो धावतीत्यत्रापि प्राप्नोति। तस्मादिह मा भूदिति यत्नान्तरमास्थेयम्। यत्नान्तरं तु व्यवस्थितविभाषाश्रयणमेव पूर्वधत्। अयं तु विशेषः -पूर्वत्र व्यवस्थितविभाषया धि चैव सिचो भविष्यति, नान्यस्य; इह तु यत्र समानपदस्थौ निमित्तनिमित्तिनौ तत्रैवाविशेषेण सकारमात्रस्य लोपो भवति। अत्र तु भिन्नपदस्थौ पयोधावतौत्यादौ, तत्र न भवन्येवेति। एतावता विशेषेण व्यवस्थितभाषा यत्नान्तरमित्युच्यते।संक्षिप्तमेतमर्थं विस्तरेण सचोद्यपरिहरं वक्तुमाह -`धि सकारे सिचो लोपः` इत्यादि। धीत्येतद्यत्र परभूते सकारलोप इत्यतः प्रभृति विधातव्यः, तदुपलक्षणं वेदितव्यम्। कुत एतत्? इत प्रभृति सिचः सकारस्यलोप इष्यत इति प्राग्वचनात्। लोपं प्रति सकारस्याधिकरणत्वेन विवक्षतत्वात्? सप्तम्या निर्देशः। किं प्रयोजनम्? इत्याह -`चकाद्धि` इत्यादि। यदि सिचो लोपः, आशाध्वं तु कथम्? आङः शासु इच्छायाम्` (धातुपाठः-1022), लोट्, ध्वम्, टेरेत्वम्, <<सवाभ्यां वामौ>> [[3.4.91]] इत्यमादेशः, पूर्ववच्छपो लुक्। अत्र सकारस्य लोप इष्यते, स न प्राप्नोति; यदि सिच एव सकारस्य लोपो विधीयते? `जश्त्वं सकारस्य भविष्यति` इति। <<झलां जश् झशि>> [[8.4.53]] इत्यनेन जश्त्वम् -सकारस्य दकारो भविष्यतीति सिद्धम् -आशाब्दमित्येतत्। इतः सकारलोपशास्त्रं प्रत्याख्यातुमाह -`सर्वमेवं प्रसिद्धं स्यात्` इति। यदि सकारस्य भवति, एवं सति तेनैद जश्त्वेन सर्वं लक्ष्यं प्रसिद्धं स्यात्। ततश्च सकारलोपशास्त्रमेतन्न कर्तव्यमेवेत्यभिप्रायः। तत्रैतत्स्यात् -जश्त्वे सति श्रुतिभेदो भवति, तथा हि `अनचि च` [[8.4.46]] इति सकरस्य द्विर्वचने कृते सकारयोश्च जश्त्वे दकारद्वयस्य श्रवणं प्रसजतीत्याह -`श्रुतिश्चापि न भिद्यते` इति। न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रुतिं प्रति विशेषोऽस्तीति भावः। `लुङश्चापि न मूर्धन्ये ग्रहणम्` इति। कर्तव्यं भवतीति शेषः। अयं चान्यो जश्त्वे सति गुणः। `इणः षीध्वंलुङ्लिटां धोऽङ्गात्` [[8.3.78]] इत्यत्र मूर्धन्ये कर्तव्ये लुङ उपादानं कर्तव्यं न भवतीति; अच्चोढ्वम्, अप्लोढ्वमित्यादौ षत्वजश्त्वष्टुत्वैरेव मूर्धन्यस्य सिद्धत्वात्। `च्युङ्? छ्युङ्? [अयं धातुर्धातुपाठे नोपलभ्यते] ज्युङ्? [न स्तः -प्रांउ।पुस्तके] प्रुङ्प्लुङ गतौ` [न स्तः -प्रांउ।पुस्तके] (धातुपाठः-955,956,957,958), लुङ्? ध्वम्, सिच्, <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्, <<झलां जश् झशि>> [[8.4.53]] इत्यनेन षकारस्य जशत्वम् -इकारः, धकारस्य ष्टुत्वम् -ढकारः। एवं षत्वादिकार्यक्रमेण लुङि घकारस्य मूर्धन्यः सिदध इति, किं लुङ्ग्रहणेन? एवं लुङ्? प्रत्याख्यायते। सलोपे परे लुङ्ग्रहणं कर्तव्यमिति यस्याभिमतम्; स आह -`सेटि दुष्यति` इति। यदि मूर्धन्यविदौ लरङ्ग्रहणं न क्रियेत, ततः `विभाकेटः` [[8.3.79]] इत्यत्र मूर्धन्यो न प्राप्नोति, ततश्च पूर्ववत्? षत्वादिषु कृतेष्वलविध्वमित्थेव नित्यं स्या, न तु कदाचिदपयलविढ्वमिति। तस्मादुत्तरार्थं लुङ्ग्रहणं कर्तव्यम्। `धि च` [[8.2.25]] इति सकारलोपोवक्तव्यः -अलविढ्वमित्यस्य सिद्ध्यर्थम्। न ह्रेतदसति सकारलोपे सिध्यति, ततश्च यदुक्तम् -`सर्वमेवं प्रसिद्धं स्यात्` इति, तदयुक्तम्। `श्रि च` [[8.2.25]] इत्येतस्मिश्च क्रियमाणे चकाद्धोति मा भूदिति सिच्ग्रहणं कर्तव्यम्, एवं श्लोकबार्त्तिककारमतेन सिज्ग्रहणं कर्तव्यमिति स्थितम्।इतरस्तस्मिन्? क्रियमाणेऽपरं दोषं दर्शयितुमाह -`घसिभसोनं `सिध्येत`[सिध्येत्? त्विक्ष्यादि -कांउद्रितःपाठः] इत्यादि। तुशब्दो हेतौ। यस्मात्? सिज्ग्रहणस्य हि धसिभसोः सकारलोपः सग्धिर्बब्धामित्यत्र न सिध्यतीत्येष हेतुरुक्तः स चायमहेतुः; यस्माद्यद्यपि सिज्ग्रहणे क्रियमाणे धसिभसोः <<झलो झलि>> [[8.2.26]] इत्यनेन लोपो न भविष्यति, तथापि च्छाब्दसो वर्णलोपो भविष्यति; तेनापि सग्धिः, बब्धामित्येतदुभयं सिध्यत्येव। क्व यथा च्छान्दसो वर्णलोपः? इत्याह`यथा` इत्यादि। यथाध्वरविषये प्रयोगे इष्कत्तरिमध्वरस्येत्यत्र च्छान्दसो वर्णलोपो भवति, तथा साग्धिः, बब्धामित्यत्रापि घसिभयोर्भविष्यति। वाशब्दोऽत्रैवोपपत्त्यन्तरं सूचयति। तत्रेदमुपपत्त्यन्तरम् -सग्धिरिति नैतद्घसे रूपम्, किं तर्हि? `षघ हिंसायाम्` (धातुपाठः-1268) इत्यस्य। ननु चार्थभेदो भवति, स्वरभेदश्च; पूर्वस्यां व्युत्पत्तौ समानावनमित्येषोऽर्थो भवति, तसासस्वरेणान्तोदात्तत्वञ्च; षधिस्तु क्तिनि विहिते हिंसार्थो भवति, नित्स्वरेणाद्युदात्तश्च? अनेकार्थत्वाद्धातूनां षघिश्च समानावनमित्यस्मिन्नर्थे वर्त्तिध्यते, स्वरव्यत्ययेन चान्तोदात्तत्वं भविष्यतीत्यदोषः। बन्धाम#इति च नैतद्भसे रूपम्, किं तर्हि? `बध बन्धने` (धातुपाठः-973) इत्यस्माल्लोटि तस्माम्, <<व्यत्ययो बहुलम्>> [[3.1.85]] इति धत्वे तकारस्य <<व्यत्ययो बहुलम्>> [[3.1.85]] इति धातुधकारस्य बकारे च कृते बब्धामिति भवति। एवं च सिज्ग्रहणे क्रियमाणे घसिभसोर्यदि न सिध्यति नाम, तथापि नैव किञ्चिदनिष्टम्; यस्मादनयापि व्युत्पत्त्या तदपाकृतं भवति। तदुक्तम् -`घसिभसोर्न सिध्येत्तु [`सिध्येत` -काशिका] तस्मात्? सिज्ग्रहणं न तत्` (का। 8.2.25)। ततश्च `घि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम्` (का। 8.2.25) इत्येतदवस्थितं श्लोकवार्त्तिककारस्य मतम्॥", "82026": "`अभित्त, अभित्थाः` इति। भिदेर्लुङि स्वरितेत्त्वादात्मनेपदम्; तथासो, दकारस्य `खरि च` [[8.4.54]] इति चत्त्र्वम् -तकारः। `अवात्ताम्` इति। दसेर्लुङि तसस्ताम्। `अदात्त` इति। थस्य तः, `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः। अत्र सकारलोपे कृते `सः स्यार्धधातुके` [[7.4.49]] इति तकारो न प्राप्नोतीति यस्य भ्रान्तिः स्यात्, तं प्रत्याह -`अवात्ताम्` इत्यदि। `अमंस्त, अमंस्थाः` इति। `मन ज्ञाने` (धातुपाठः-1176), अनुदात्तेत्त्वादात्मनेपदम्। `अभित्साताम्` इति। भिदेराताम्। `अभित्सत` इति। <<आत्मनेपदेष्वनतः>> [[7.1.5]] इति झस्यादादेशः॥", "82027": "`अलाविष्टाम्` इति। तसस्ताम्, सिचि वृद्धिः। अत्र श्रुतिकृते पौर्वापये सति ह्रस्वादिङः परः सकारो भवति, न त्वङ्गात्; इडागमः प्रत्ययभक्तत्वेनानङ्गत्वात। `अलाविषुः` इति। `सिजभ्यस्तविदिभ्यश्च` [[3.4.109]] इति झेर्जुस्। `अकृषाताम्` इति। `उश्च` [[1.2.12]] इति कित्त्वाद्गुणाभावः। `द्विष्टचाम्` इति। `द्वित्रिचतुभ्र्यः सुच्` [[5.4.18]] तदन्तादतिशायने तरप्; `किमेत्तिङ्` [[5.4.11]] इत्यादिनामुः, <<ह्रस्वात् तादौ तद्धिते>> [[8.3.101]] इति सकारस्य मूर्धन्यः॥", "82028": "`अदेवीत्` इति। `नेटि` [[7.2.4]] इति वृद्धिप्रतिषेधे कृते लघूपधगुणः, <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्॥", "82029": "झलोति वर्तते। `संयोगाद्योः` इति षष्ठीसमासः। अत्र यद्यपि संयोग उत्तरपदार्थो गुणभूतः, तथापि संयोगाद्योः स्कोरन्तग्रहणं विशेषणं न भवतीति गुणभूतोऽपि तेन संयोग एव विशिष्यत इति विज्ञायते, इत्याह -`पदस्यान्ते यः संयोगः` इति। `अन्ते` इति। अवसान इत्यर्थः। `झलि परतः` इति। पदस्येत्यपेक्षते। `तदाद्योः` इति। तस्यैवम्भूतस्य संयोगस्यादिभूतयोरित्यर्थः। `लग्नः` इति। `ओलजो ओलस्जीव्रीडे` (धातुपाठः-1290, 1291), निष्ठा। अत्र जकारे झलि परतः सकारजकारयोर्यः संयोगः पदस्यादयवस्तदादेः सकारस्य लोपः, <<ओदितश्च>> [[8.2.45]] इति नत्वम्, `श्वीदितो निष्ठायाम्` [[7.2.14]] इतीट्प्रतिषेधः, <<चोः कुः>> [[8.2.30]] इति कुत्वम् -गकारः। `साधुलक्` इति। साधु लज्जात इति क्विप्। अत्र पदस्यादसाने संयोगः। [[7.1.60]] इति नुम्, स च भवत्? `मस्जेरन्त्यात्? पूर्वो नुमनुषङ्गसंयोगादिलोपार्थम्` (वा। 7) इति वचनादन्त्याज्जकारात्? पूर्वो भवति, तस्य च `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः। `तष्टः` इति। `तक्षू त्वक्षू तनूकरणे` (धातुपाठः-655,656) ऊदित्त्वात्, स्वरत्यादिसूत्रेण [[7.2.44]] विभाषितेट्; तेन निष्ठायां <<यस्य विभाषा>> [[7.2.15]] इतीट्प्रतिषेधः। `काष्ठशवस्थाता` इति। काष्ठं शक्नोतीति क्विप्; काष्ठशकि स्थातेति `सप्तमी` [[2.1.39]] इति योगविभागात्समासः।`तदत्र` इत्यादिना `झलि सङीति वक्तव्यम्` (वा 917) इति यदुक्तम्, तत्? प्रत्याचष्टे। तदिति वाक्योपन्यासार्थः। `शकेः क्विबन्तस्य प्रयोग एव नास्ति` इति। शकेः <<अन्येभ्योऽपि दृश्यते>> [[3.3.130]] इति क्विप्? स्यात्, इह च `दृश्यते` इत्यस्य ग्रहण एवायमर्थः -यत्र लौकिके प्रयोगे क्विबन्तस्य प्रयोगो दृश्यते तत्र यथा स्यादिति, न च लोके काष्ठशगित्येवंविधः शकेः क्विबन्तस्य प्रयोगो दृश्यते। ततः शकेः क्विबन्तस्य प्रयोग एव नास्ति, अतो हेतोः `झलि सङीति वक्तव्यम्` (वा।917) इत्येतत्? प्रत्याख्यातुमाह भाव्यकारः -`काष्ठाशगेव नास्ति; कुतोऽयं काष्ठशकि तिष्ठेत्` इति। आधारपरतन्व उद्घनादावस्य वृत्तिः, अतो यत्र काष्ठशगाधार एव नास्ति, तत्र तदाधेयः स्थाता सुतरामेव नास्ति तस्मान्न झलि सङीति वक्तव्यम्; व्यावर्त्त्याभावात्। इह कस्मान्न भवति -वाक्स्थातेति? संयोगादिलोपे कुत्वम्यासिद्धत्वात्। अथेह कस्मान्न भवति -वास्यार्थम्? काक्यर्थम्? इत्याह -`दास्यर्थम्, काक्यर्थम्` इत्यादि। अथ स्कोरिति किमर्थम्? नर्नर्तीत्यत्र मा भूत्। नृतेर्यङ्लुगन्तस्य <<रुग्रिकौ च लुकि>> [[7.4.91]] इत्यभ्यासस्य रुकि कृते रूपमेतत्। `संयोगाद्योरिति किम्? `पयःशक्` इति। क्विबन्तमेतत्। सोपपदस्य हि शकेः क्विबन्तस्य प्रयोग एव नास्ति। केवलस्य तु स्यादेव। अन्ते चेति किम्? तक्षिता, तक्षकः॥", "82030": "`झलि पदान्ते च` इति। `परतः` इति प्रत्येकमभिसम्बध्यते। ननु च पूर्वसूत्रे चकारेण झलनुकृष्ट इति तस्येहानुवृत्तिरयुक्ता? नैतदस्ति; न हि तत्र चकारेण झलनुकृष्टः, किं तर्हि? स्वरितत्वादेवानुवर्तमानस्यान्तग्रहणं न बाधकमित्यतादच्चकारेण व्याख्यातम्। `वाक्` इति। वचेः `क्विब्वचि` (वा।288) इत्यादिना ज्विप्, दीर्घश्च। `क्रुञ्च` इति। इह केचित्? `कुञ्च कौटिस्याल्पीभादयोः` (धातुपाठः-186) इति सरेफं अकारोपधं धातुं पठन्ति, `कुञ्च कौटिल्याल्पीभावयोः` (धातुपाठः-185) इत्यरेकं नकारोपधं परे। तत्र पूर्वपाठं गृहीत्वा यश्चोदयेत् -अथ क्रुञ्चेत्यत्र कस्मान् भवतीति? तं प्रत्याह -`ॠञ्च` इत्यादि। अनेन `झलि सङीति न वक्तव्यम्` इति यत्? पूर्वं प्रत्याख्यातं तस्येहार्थतां दर्शयति। `युजिक्रुञ्चाञ्च` [[3.2.59]] इति निपातनाद्वेति। `क्रुञ्चेत्यत्र ञकारस्य चकारे कुत्वं न भवतीति सम्बन्धः। `ञकारोपधस्य [ञकारिपदस्य -कांउद्रितपाठः] सरेफस्य पाठमभ्युपेत्य प्राप्तौ तस्यामेवं परिहारद्वयमुक्तम्। इपानीं कुत्वस्य प्राप्तिरेव नास्ति; यस्मान्नायं ञकरोपधः पठते, किं तर्हि? नकारोपध इति दर्शयितुमाह -`नकारोपधो वा` इत्यादि। किं पुनः कारणं नकारोपधः पठते? किं तर्हि? नकारोपध इति दर्शयितुमाह -`नकारोपधो वा` इत्यादि। किं पुनः कारणं नकारोपधः पठते? इत्याह -`नकारलोपे हि`[`सकारलोपे हि` -प्रांउ।पाठः] इत्यादि। निकुचित इत्येष प्रयोगोऽस्त्येव। धातोर्निष्ठान्तस्य <<श्नान्नलोपः>> [[6.4.23]] इत्यनुवर्तमाने-`अनिदिताम्` [[6.4.24]] इति नलोपादिह नकारलोपस्य दर्शनान्नकारोपधोऽयं पठते; अन्यथा ह्रेष प्रयोगो नोपपद्यते। न हि ञकारलोपस्य किञ्चिल्लक्षणमस्ति। यदि तर्हि कुञ्चेति रेफरहितो नकारोपधः पठते, एवं सति क्रुङ, क्रुञ्चौ, क्रुञ्चः -इति न सिध्यति; ऋत्विगित्यादिना [[3.2.59]] सूत्रेण हि क्विनि कृते `अनिदिताम्` [[6.4.24]] इति नलोपे कुक, कुचौ, कुचः -इत्येवं प्राप्नोतीत्यत आह -`युजिक्रुञ्चाम्` इत्यादि। स्यादेतत् -यद्यपि नकारलोपाभावो निपात्यते, तथापि नकारस्यानुस्वारे तस्य ययि परसवर्णे [[8.4.58]] ञकारे स्यादेव कुत्वम्? इत्यत आह -`तत्र` इत्यादि। गतार्थम्॥", "82031": "`सोढा` इति। `हो ढः` इति ढत्वे कृते <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तृचतकारस्य धत्वम्, ष्टुत्वम्, <<ढो ढे लोपः>> [[8.3.13]] <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्योत्त्वम्। `जलाषाट्` इति। जलं सहत इति <<भजो ण्विः>> [[3.2.62]] , <<छन्दसि सहः>> [[3.2.63]] इति ण्विः, उपधावृद्धिः उपपदसमासः, <<अन्येषामपि दृश्यते>> [[6.3.137]] इति पूर्वपदस्य दीर्घ, ढकारस्य जश्त्वम् -डकारः, तस्य चत्त्र्वम् -टकारः, <<सहेः साडः सः>> [[8.3.56]] इति मूर्घन्यः। `प्रष्ठवाट्` इति। `वहश्च` [[3.2.64]] इति ण्विः। `चुहोः कुढौ` इत्येकयोग एव कर्तव्ये पृथग्योगकरणं समसंख्यात्वप्रतिषेधार्थम्। एकयोगे तु समसंख्यत्वाज्झलादौ कुत्व पदान्ते ढत्वं स्यात्॥", "82032": "`दग्धा, दग्धुम्` इति। पूर्ववद्धत्वम्, घकारस्य झशि झशत्वम् -गकारः। `काष्ठधक्` इति। क्विबन्तमेतत्। `एकाचो बशो भष` [[8.2.37]] इत्यादिना दकारस्य भष् -धकारः, घकारस्य जश्त्वम् -गकारः, तस्य चत्त्र्वम् -ककारः। `दादेः` इत्युच्यते, तेनाधोगित्यत्र घत्वं न सिध्यति, अदकारादित्वेऽस्याविहितत्वादित्यत आह -`धातोः` इत्यादि। `तद्धिशेषणम्` इति। दादेर्विशेषणमित्यर्थः। किंविशिष्टम्? अवयवषष्ठन्तमिति। अवयवसम्बन्धिनी या षष्ठी तदन्तमित्यर्थः। `किं कृतं भवति? इति। एवं सति किमिष्ठं साधितं भवतीत्यर्थः। `अधोगित्यत्रापि घकारः सिद्धो भवति` इति। अत्रापि धातोरवयवो यो दादिशब्दस्तदवयवत्वाधकारस्य। दुहेर्लङ्, तिप्, अदादित्वाच्छपो लुक्, हल्ङ्यादिलोपः [[6.1.66]] , पूर्धवद्भष्भावः, अट्। `कथम्` इत्यादि। धातोरवयवो यो दादिशब्दस्तदवयवसय हकारस्य घत्वं भवति। एवं सति दग्धा, दग्धुमित्यत्र घत्वं न कथञ्चिदित्यर्थः। तथा ह्यत्र धातोरवयवो यो दादिशब्दो न तस्यावयवो हकारः। यस्य तु समुदायस्य हकारोऽवयवः स धातुरेव, न हकारावयवः। अत्रोत्तरमाह -`व्यपदेशिवद्भावात्` इति। एषोऽपि व्यपदेशिवद्भावेन धातोर्वादिरवयवो भवति। अभेदेऽपि व्यपदेशिवद्व्यवहारो लोके दृश्यते। तथा हि -शिलापु त्रकस्य शरीरम्, राहोः शिर इति च।`अथ वा` इत्यादि। धातूपदेशो धातुपाठः। तत्र यो दादिरित्येवं विज्ञायते। कथं पुनर्धातुपाठे दकारादित्वं विशेषणं लभ्यते, धातुग्रहणसामर्थ्यात्। तस्य हीदं प्रयोजनं स्यात् -अधातोर्मा भूदिति। एतच्चाप्रयोजनम्, न ह्रधातोर्धकारादेर्झलि वा पदान्ते च हकारोऽवयवः सम्भवति, यन्निवृत्त्यर्थं धातुग्रहणम्। तदतिरिच्यमानं धातूपदेश एव दकारादित्वं विशेषणं भवतीत्यमुमर्थं गमयति। एवं विज्ञायमाने यद्यपि `धातोः` इत्यस्य `दादेः` इत्यनेन सामानाधिकरण्यम्, तथाप्यधोगित्यत्र घत्वं प्रवर्तत एव; धातुपाठे दुहेर्दकारादित्वात्। `तथा च` इत्यादि। एवञ्च विज्ञायमाने यद्यपि दामलिह्रतेर्दकारादित्वम्, तथापि दामलिडित्यत्र न भवति धत्वम्`; धातूपदेशे तस्यादकारादित्वात्। धातुत्वं तस्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इति। न केवलमधोगित्वत्र धत्वं भवति, अपि तु दामलिहेरपि भवतीत्यपिशब्दो द्योतयति। दाम लेढोति दामलिडिति क्विप्, तदन्ताद्? दामलिहमिल्छतीति `सुप आत्मनः क्यच्; [[3.1.8]] इति क्यच्, क्यजन्तात्? क्विप्, <<अतो लोपः>> [[6.4.48]] इत्यकारलोपः, <<क्यस्य विभाषा>> [[6.4.50]] इति यकारस्य च, `हो ढः` [[8.2.31]] इति ढत्वम्, ढकारस्य जश्त्वम्॥", "82033": "`द्रूहेः` इति। `द्रुह जिघांसायम्` (धातुपाठः-1197) इत्यस्य। `इतरेवाम्` इति। `मुह वैचित्त्ये` (धातुपाठः-1198), `ष्णुह उद्गिरणे` (धातुपाठः-1199), `ष्णिह प्रीतौ` (धा।प।1200)-इत्येषामप्राप्तेः। पुनरेषं घत्वं स्यात्, अदकारादित्वात्॥", "82034": "", "82035": "", "82036": "`ओ व्रश्चू छेदने` (धातुपाठः-1292), `भ्रस्जो पाके` [`भ्रस्ज` इत्येव धातुपाठः] (दा।पा।1284), `सृज विसर्गे` (धातुपाठः-1178), मृजू शुद्धौ` (धातुपाठः-1066), `यज देवपूजासङ्गतिकरणदानेषु` (धातुपाठः-1002), `राजू दीप्तौ` (धातुपाठः-822), `टु भ्राजृ टृभ्राशृ टुभ्लाशृ दीप्तौ` (धातुपाठः-823,824,825)। छ इति च्छकारान्तावां ग्रहणम्; श इति शकारान्तानाम्। अत्र च शकारस्य जश्त्वे प्राप्ते, इतरेषां तु कत्वे तदपवादः षकारो विधीयते। `व्रष्टा` इति। `स्कोः संयोगाद्योः` [[8.2.29]] इति सकारलोपः, ऊदित्त्वात्? पक्ष इडभावः। `मीलबृट्, धानाभृट्? इति। `ग्रहिज्या` [[6.1.16]] इति सूत्रेण सम्प्रसारणम्। `रुआष्टा` इति। <<सृजिदृशोर्झल्यमकिति>> [[6.1.58]] इत्यमागमः। `मार्ष्टा` [मार्ष्टीति का। मुद्रितपाठ] इति। <<मृजेर्वृद्धिः>> [[7.2.114]] । `उपयट्` ति। यदेः <<विजुपे छन्दसि>> [[3.2.73]] इति विच्। `सम्राट्` इति। <<मो राजि समः क्वौ>> [[8.3.25]] इति समो मकारस्य मकारादेशः।किं पुनः कारणं राजभ्राजोर्झल्युदाहरणं न प्रदर्शितम्? इत्याह -`राजभ्राजोः` इत्यादि। झलत्वं कस्मान्न भवतीत्याह -`झलादिराभ्याम्` इत्यादि। आभ्यां परो यो झलादिः स इटा पर्यवपद्यत इतीङ्विधीयते; सेट्त्वादनयोः। इतरेष्वाद्यचतुर्थे। विभाषितेटौ, स्वरतीत्यादिसूत्रेम [[7.2.44]] शेषास्त्वानिटः; `एकाचः` [[7.2.10]] इतीटृप्रतिषेधात्। तस्मात्? तेषामुभयार्थमेव ग्रहणम्। `राष्टिः भ्राष्टिः` इति। `क्वितन्नाबादिभ्यश्च` (वा।307) इति क्तिन्प्रत्ययः, `तितुत्र` [[7.2.9]] इत्यादिनेट्प्रतिषेधः। `शब्दप्राट्` इति। शब्दं पृच्छतीति `क्विव्वचि` (वा।288) इत्यादिना क्विप्, दीर्घश्च।अथ किमर्थं छग्रहणम्, यावता `च्छ्वोः शूडनूमासिके च` [[6.4.19]] इति च्छकारस्य शकारे कृते शकारान्तत्वादेव पृष्ट इत्यादौ षत्वं भविष्यति? इत्यत आह -`च्छदोः शूट्` इत्यादि। `अत्र` इत्यादि। इतिकरणौ हेतौ। तत्र हि <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इत्यनुवर्तते, तेन च्छग्रहणं क्रियते; अन्यथा पृष्टः, पृष्टवानित्याद्येव सिध्यत्; न तु प्रष्टा, प्रष्टुमित्यादि; तृजादावक्ङिति शत्वाभावात्। एतच्च सूत्रकारमतेनोत्तम्। केचिदाचार्याः छग्रहणमिह सूत्रे प्रत्याचक्षत एव। तथा हि -`च्छ्रवो शूडनुनासिके च` [[6.4.19]] इत्यत्रोक्तम् -`केचिदिह क्ङितीत्येतन्नानुवरत्तयन्ति। कथं द्युभ्याम्, द्युभिरित्यूठि कृते? <<दिव उत्>> [[6.1.131]] इति तपरकरणान्मात्राकालो भविष्यतीति। `छशां षः` [[8.2.36]] इत्यत्र च्छग्रहणं न कर्तव्यम्, अनेनैव हि सर्वत्र शकारो विधीयते` इति।`लेष्टा` इति। `लिश अल्पीभावे` (धातुपाठः-1179) `वेष्टा` इति। `विश प्रवेशने` (धातुपाठः-1424)॥", "82037": "`धातोः` [[8.2.32]] इति यदीहानुवर्तते तदवयवषष्ठन्तमेकाचो विशेषणम्। `झषन्तस्य` इत्येतदपि समानाधिकरणं तस्यैव विशेषणम्। `एकाचः` इत्येतदवयवषष्ठन्तं बशः। `तदवयवस्य` इति। तस्यावयवस्तदवयवः। योऽसौ धातोरवयव एकाज्? झषन्तस्तस्य, तदित्यनेनाभिसम्बध्यते। `झलि परतः` इत्यनेन झलीत्यनुवर्तते [[8.2.26]] , तस्य सकारो विशेषणमिति दर्शयति। किमर्थं पनर्झलीत्यनुवर्तते? पदान्तस्येत्यनुवृत्तिर्यथा स्यात्; अन्यथा झलीत्यस्मिन्? निवर्तमाने तत्सम्बद्धं पदान्तग्रहणमपि निवर्तत, ततश्च पदान्ते न सिध्येत्। ननु च स्वरितत्वात्? पदान्तस्येस्यानुवृत्तिर्भविष्यति? तह्र्रनेनापि प्रकारेणाख्यायते मन्दधियां सुखप्रतिपत्त्ये। `ध्वशब्दे च` इति। अत्र झलीत्येतन्नापेक्षते, असम्भवात्। न हि कश्चित्? झल्? ध्वशब्दोऽस्ति; तस्य प्रत्याहारेष्वसन्निवेशात्। `भोत्स्यते` [`भोत्स्यन्ते` -काशिका, पदमञ्जरी च] इति। `बुध अवगमने` (धातुपाठः-858), लृट्, स्यः, `खरि च` [[8.4.54]] इति चत्त्र्वम् -तकारः, अनुदात्तेत्त्वादात्मनेपदम्। अत्र बुधेर्धातोव्र्यपदेशिवद्भावेन स्वरूपमेवैकाजवयवो झषन्तः, तदवयवो बकारो बश, अस्यान्तरतम्यादोष्ठस्य स्थान ओष्ठ्य एव भकारो भविष्यति। एवमन्यत्रापि विज्ञेयम्। `अभुध्वम्` [`अबुद्ध` इति प्रांउ।पाठः] <<षढोः कः सि>> [[8.2.41]] इति कत्वम्, <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्। `न्यघूढ्वम्` इति। <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] । `धोक्ष्यते` इति। दुहो लृट्, `दादेर्धातोर्धः` [[8.2.32]] , तस्य `खलि च` [[8.4.54]] इति चर्त्वम् -ककारः।`अजर्घाः` इति। `गुधु अभिकाङ्क्षायाम्` (धातुपाठः-1246), यङ्, द्विर्वचनम्, हलादिशेषः, `उरत्` [[7.4.66]] इत्यत्वम्, <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्, <<यङोऽचि च>> [[2.4.74]] यङ्लुक्, <<रुग्रिकौ च लुकि>> [[7.4.91]] इति रुक्। जगृध इति स्थिते इङादयो विधेयाः। अत्र मुख्य एव गृध इत्ययं धातोर्झषन्तोऽवयवः। `गर्दभयतेः` इति। गर्दभशब्दात्? तदाचष्ट इति णिच्, `णाविष्ठवत्? प्रातिपदिकस्य` (वा।813) इति टिलोपः। अत्र गर्वभीत्ययं मुख्य एव धातोर्झषन्तोऽवयवः। `अप्रत्ययः` इति। अश्राविप्रत्ययः क्विबादिरप्रत्यय इत्युच्यते। `दामलिट्` इति। अत्र `होढः` [[8.2.31]] इति ढत्वे कृते झषन्ततायामुपजातायामेकाज्ग्रहणाद्भष्भाषो न भवति। ननु चात्र द्वावेकाजवयवौ -दकारादिर्मकारान्तः, लकारादिर्झषन्तश्च; तयोश्चासत्यप्येकाज्ग्रहणे नैव भष्भावः प्रसज्यते। तथा हि-यो झषन्तस्तस्य वश्? न विद्यते, यस्तु दकारादिर्मकारान्तस्तस्य वश्? विद्यते, झषन्तता तु नास्ति, तदनर्थमेकाज्ग्रहणम्? इत्यत आह -`असत्येकाजग्रहणे` इत्यादि। वशो विशेषणं व्यवच्छेदार्थम्। व्यवच्छेदोऽर्थः प्रयोजनं यस्य तत्तथो क्तम्। यद्येकाज्ग्रहणं न स्यात्, ततोऽन्यस्येहाश्रुतत्वात्, बशस्तु श्रुतत्वाच्च स एव धातोरित्यनेन विशेष्यते न धातोरवयवो वशिति। एवं च बशो झषन्तता न सम्भवतीति झषन्तस्येत्यनेन धातुरेव विशेष्यते; अन्यस्येहासम्भवात्। तथा चायं सूत्रार्थः स्यात् -झषन्तस्य धातोर्योऽवयवो बश तस्य झलि सकारे ष्वे च परतः पदान्ते च भव्? भवतीति। अस्मश्च सूत्रार्थं दामलिडित्यत्रापि प्रसज्येत। भवति दकारोऽत्र बश्? झषन्तस्य धातोरवयवः। एकाच इत्येतस्मिन्? सति धातोर्झषन्तस्येत्येतदुभयान्तस्यैव विशेषणं भवति, तदपि बशः। तेन वृत्तिकारोपदर्शित एव सूत्रार्थो जायते; ततश्च न किञ्चिदनिष्टमापद्यते। दामलिडित्यत्र हि यो झषन्त एकाजवयवो लकारादिनं तस्य बश्? विद्यते, यस्य तु विद्यते दकारादिर्मान्तस्य स झषन्तो न भवति।`क्रोत्स्यति` इति। `क्रुध कोपे` (धापा।1189)। `दादद्वि` इति। <<दीर्घोऽकितः>> [[7.4.83]] इत्यभ्यासस्य दीर्घत्वम्। अन्तग्रहणमसन्देहार्थम्। असति हि तस्मिन्? सन्देहः स्यात् -किमत्र बशः स्थानित्वम्? अथ झषः? इति॥", "82038": "दधातेरप्येतत्? कृतद्विर्वचनस्य रूपमस्ति। `दध धारणे` (धातुपाठः-8) -इत्यस्य चाकृतद्विर्वचनस्य रूपम्, तत्र तु शपा व्यवहितत्वादनन्तरौ तथो न सम्भवतः; तस्माद्दधातेरेव ग्रहणं विज्ञायते, इत्याह -`दध इति कृतद्विर्वचनो दधातिः परिगृह्रते` इति। `धत्तः, इति। लटस्तस्थसौ, शपः [शपः श्लुलुपि द्विर्वचनम् -प्रांउद्रितः पाठः] श्लुः `श्लौ` [[6.1.10]] (इति) द्विर्वचनम्, <<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वम् -दकारः, `श्नाभ्यस्तयोरातः` [[6.4.112]] इत्याकारलोपः, अभ्यासदकारस्य भष्? धकारः। धातुधकारस्य चर्त्वम् -तकारः। `धत्से` इति। `थासः से` [[3.4.80]] `धध्वे` इति। टेरेत्त्वम्। `धध्वम्` इति। लोटि <<सवाभ्यां वामौ>> [[3.4.91]] इत्यमादेशः। कथं पुनरत्र भष्भावः; यावता दधातेर्झषन्तस्य यो दश्? तस्य भष्? भवतीत्युच्यते, अत्र नापि झषन्ततास्ति; आकारलोपस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावात्; नापि बश्, अभ्यासजशत्वस्यासिद्धत्वात्? इत्यत आह -`वचनसामर्थ्यात्` इत्यादि। `अभ्यासजश्त्वस्यासिद्धत्वम्` इति वचनसामर्थ्यान्न भवतीत्य पेक्षते। यद्याकारलोपस्य स्थानिवद्भावः स्यादभ्यासजश्त्वस्यासिद्धत्वम्। एवं सत्यपार्थकतैवास्य वचनस्य स्यात्, न हि दधातेराकारलोपेन विना बश्? स्यात्। तस्माद्वचनप्रामाण्यादुभयं न भवति। इह झलोत्यनुवर्तते, झषन्तस्येति च, तकारथकाराभ्यामन्यः स झलस्ति यत्र दधातेर्झषन्तस्य भष्भावो नेष्यते। तस्मात्? `तथोः` इति वचनमन्तरेणापिसिद्धमिष्टमित्यभिप्रायेणाह -`तथोरिति किम्` इति। `आनन्तर्यात्` इत्यादि। अनन्तरसूत्रे हि `स्ध्वोः` [[8.2.37]] इत्युक्तम्, ततश्च `अनन्तरलस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति स्ध्वोरेव भष्भावो विज्ञायते, न तथोः; अतः `तथोः` इत्युच्यते। यद्येवम्, निमित्तान्तरोपा दाने पूर्वस्य निमित्तस्य निवृत्त्या भवितव्यम्, ततश्च तथोरेव स्यात्, न स्ध्वोः? इत्यत आह -`चकारः` इत्यादि। परिहारः॥", "82039": "`आलिट्` इति। ढत्वे कृते जश्त्वम्। अथान्तग्रहणं किमर्थम्, ननु <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यतोऽन्तग्रहणमनुवर्तत एव? इत्यत आह -`अन्तग्रहणम्` इत्यादि। तद्ध्यन्तग्रहणं झलीत्यनेन सम्बद्धम्, अतस्तदनुवृत्तौ झलीत्येतदप्यनुवर्तत, तस्मादेतन्निवृत्त्यर्थमन्यदेवान्तग्रहणं क्रियते। तेन च वसतेः -वस्ता, वस्तुमित्यत्र न भवति॥", "82040": "`अथः` इति। अनेन धातुप्रतिषेधोऽयं न धकारप्रतिषेध इति दर्शयति। यदि हि धकारप्रतिषेधः स्यात्, धकारात्? परयोस्तथोर्धकारो न भवतीति। ततः `मतिबुद्धिपूनार्थेभ्यश्च` [[3.2.188]] , <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इत्येवमादयो निर्देशा नोपपद्येरन्। `अलब्ध, अलब्धाः` इति। लुङ्, तस्य तथासौ, <<झलो झलि>> [[8.2.26]] इति सकारलोपः। `अलीढ, अलीढाः` इति। ढत्वष्टुत्वढलोपदीर्घत्वानि कर्तव्यानि॥", "82041": "`पेक्ष्यति` इति। `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452), लृट्। `अपेक्ष्यत्` इति। लृङ्। `पिपिक्षति` इति। सन्, <<हलन्ताच्च>> [[1.2.10]] इति कित्त्वाद्गुणाभावः।`पिनष्टि` इति। रूधादित्वात्? श्नम्। `लेढि` इति। अदादित्वाच्छपरो लुक्॥", "82042": "`आस्तीर्णम्` इति। `स्तृञ्? आच्छादने` (धातुपाठः-1484)। `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, `हलि च` [[8.2.77]] इति दीर्घः। `विशीर्णम्` इति। `शृहिंसायाम्` (धातुपाठः-1488)। `निगीर्णम्` इति। `गृ? निगरणे` (धातुपाठः-1410)। एषु `श्रयुकः किति` [[7.2.11]] इतीट्प्रतिषेधः, `अवगूर्णम्` इति। `गुरी उद्यमने` (धातुपाठः-1396)। `श्वीदितो निष्ठायाम्` [[7.2.14]] इतीट्प्रतिषेधः। अथ यथा <<कृपो रो लः>> [[8.2.18]] इत्यत्र `र` इति वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य सामान्यस्योपादानम्, तथेहापि, अस्ति च ऋकारे रेफः; ततश्च कृतः कृतवानित्यत्र भवितव्यमेव नत्वेनेति यो मन्यते, तं प्रत्याह -`र इत्यत्र` इत्यादि। यद्यत्र `र` इति सामान्यमुपादीयेत तस्मादेवः प्रसङ्गः, न तु रश्रुतिसामान्यमुपादीयते, किं तर्हि? व्यञ्जनमर्धमात्रात्मकम्। न च समानाकारोऽस्तीति कुतो नत्वप्रसङ्गः? भवतु नाम सामान्यस्योपादानम्, तथापि नैवात्र नत्वं प्रसज्यत इति दर्शयितुमाह -`सामान्यनिर्देशेऽपि` इत्यादि। ऋकारोऽत्र ये भागास्तन्मध्यवर्ती रेफो मात्राचतुर्भागात्मकः, तत्र योऽसौ रेफात्परस्तृतीयो भागस्तेन व्यवधानान्न भवति।`चरितम्, मुदितम्` इति। `चर गत्यर्थः` (धातुपाठः-559),`मुद हर्षे` (धातुपाठः-16)। असति हि `त` इति ग्रहणे `रदाभ्याम्` इत्यनेन निष्ठा विशेष्यते -रदाभ्यां परा या निष्ठेति, ततश्चरितमित्यादौ <<आदेः परस्य>> [[1.1.54]] इति इट एव नत्वं स्यात्; तस्य निष्ठाभक्तत्वात्। अथ `त` इत्युच्यमाने चरितमित्यादौ तकारस्य कस्मान्न भवति? इटा व्यवहितत्वात्। स हि प्रत्ययभक्तत्वात्? प्रत्ययमेव न व्यवदध्यात्। तदवयवत्वं तु व्यवदध्यादेव। `परस्य मा भूत्` इति। असति हि पूर्वग्रहणे यदि हि सन्निहितया निष्ठया दकारो विशेष्येत -निष्ठाया यो दकार इति, ततो जशत्वे कृते परस्यैव स्यात् -भिन्नवद्भ्याम्, भिन्नवद्भिरित्यादौ। अथ न विशेष्येत, ततो विशेषानुपादानाद्यथापूर्वस्य भवति, तथा परस्यापि। तस्मात्? परस्य मा भूदित्येवमर्थं पूर्वग्रहणं कृतम्। अथ कृतस्यापत्यम्, `अत इञ्` [[4.1.95]] कार्त्तिरित्यत्र कस्मान्न भवति? इत्याह -`इह` इत्यादि। वृद्धिर्हि तद्धितं निमित्तमाश्रित्य भवतीति बहिरङ्गा, नत्वं तु न किञ्चिद्बाह्रं निमित्तमाश्रित्य भविष्यतीत्यतस्तदन्तरङ्गम्। तस्माद्वृद्धेर्बहिरङ्गत्वान्नत्वे कर्तव्ये रेफस्यासिद्धत्वम्। ननु च यदि तर्हि बहिरङ्गलक्षणा सा, तस्या एवासिद्धत्वेन भवितुं युक्तम्, न तु रेफस्यापि, न हि रेफो वृद्धिर्भवति? नैष दोषः; वृद्ध्याश्रितो हि रेफः, ततो वृद्धेर्बहिरङ्गत्वाद्रेफस्यापि बहिरङ्गत्वेन भाव्यम्॥", "82043": "`प्रद्राणः` इति। `द्रा कुत्सायां गतौ` (धातुपाठः-1054)। <<कृत्यचः>> [[8.4.29]] इति णत्वम्। `म्लानः` इति। `म्लै गात्रविनामे` [`म्लै हर्षक्षये` -इति धातुपाठः] (धातुपाठः-904)। `च्युतः, प्लुतः` इति। `च्युङ्? प्लुङ्? गतौ` (धातुपाठः-955,958)। `निर्यातः` इति। `या प्रापणे` (धातुपाठः-1049)। `निर्वातः` इति। `वा गतिगन्धनयोः` (धातुपाठः-1050)। अत्र र्या, र्वा-इत्येतयोर्धातुत्वं न भवति। `र्या` इत्ययं हि समुदायः संयोगादिः, न चायं धातुः, किं तर्हि? `या` इत्ययम्। एवं `र्वा` इत्ययं संयोगादिः, न चैष धातुः, किं तर्हि? `वा` इत्ययम्। ननु च बहिरङ्गमत्र संयोगादित्वम्, द्विपदाश्रयत्वात्, नत्वं तु विपर्ययादन्तरङ्गम्; `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यसिद्धत्वादेव संयोगादित्वस्य नत्वं न भवतीति किं धातुग्रहणेन? एवं तर्हि एतज्ज्ञापयति -उपसर्गसम्बन्धेन यो धर्म उपजायते धातूपसर्गसमुदायस्य स धातोरतद्धर्मवतोऽपि कार्याणि प्रापयतीति। तेनोपास्तते गुरुः, अभिभूयते शत्रुरिति कर्मणि लकारः सिद्धो भवति। अत्र ह्रु पसर्गसम्बन्धेन सकर्मकत्वधर्मो जातः। स च धातूपसर्गसमुदायस्य, न धातुमात्रस्य। तत्र यद्ययमर्थो न ज्ञाप्येत, कर्मणि लकारो न स्यात्; धातोरकर्मकत्वात्। अस्मश्चार्थे ज्ञापिते तु भवति। `स्नातः` इति। `ष्णा शौचे` (धातुपाठः-1052)॥", "82044": "`जीनः` इति। `ज्या वयोहानौ` (धातुपाठः-1499), `ग्रहिज्या` [[6.1.16]] इत्यादिसूत्रेण सम्प्रसारणम्, `हलः` [[6.4.2]] इति दीर्घः। `ऋकारल्पादिभ्यः` इत्यादि। ऋकारान्तेभ्यो ल्वादिभ्यश्च परो यः क्तिन्? स निष्ठा भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं नु <<ओदितश्च>> [[8.2.45]] इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्। यथा ऋकारल्पादिभ्यो निष्ठातकारस्य नत्वं भवति, तथा क्तिनोऽपि तकारस्य नत्वं भवतीति।`दुग्वोः` इति। `दु उपतापे` [`टु टु उपतापे` -धातुपाठः, पदमञ्जर्यां तु-`दु गतौ(944)इत्ययं धातुरुपात्तः, न `टु टु उपतापे` इति] (धातुपाठः-1256)। `गु पुरीषोत्सर्गे` (धातुपाठः-1399)। `पूनाः` इति विनष्टा इत्यर्थः। `पूतं धान्यम्` इति। विधूतमित्यर्थः। `सिनोतेः` इति। `विञ्? बन्धने` (धातुपाठः-1248) इत्येतस्य। `ग्रासकर्मकर्त्तृकस्य` इति। ग्रासः कर्मकर्ता यस्य स तथोक्तः। अर्थद्वारकञ्चेदम्। तस्य ग्रासकर्मकर्त्तृकत्वं विशेषणं वेदितव्यम्। यथा सिनो ग्रासो बन्धनक्रियायां व्यञ्जनविशेषयोगादानुकूल्यं प्रतिपद्यते, तथा कर्मणोऽपि सतस्तस्य कर्त्तृत्वं विवक्षितमिति कर्मकर्तासौ भवति। `सिनो ग्रासः` ति। स्वयमेव बद्ध इत्यर्थः। `सिता पाशेन सूकरी` इति। समुदायप्रत्युदाहरणमेतत्। अवयवप्रत्युदाहरणं दर्शयितुमाह -`ग्रासोऽपि` इत्यादि। ग्रासोऽपि यदि कर्मैव भवति न कर्मकर्ता, तदापि न भवति; ग्रासकर्मकर्त्तृकत्वमस्य तदाभावात्। ग्रासकर्मतो हि स तदानीं भवति ग्रासकर्मकर्त्तृकः॥", "82045": "`आपीनः` इति। <<प्यायः पी>> [[6.1.28]] इति पीभावः। `स्वादय ओदितः` इति। ते पुनः `षूङ प्राणिप्रसवे` (धातुपाठः-1132) इत्यादयः `व्रीङ्? प्रीणात्यर्थे` [वृणोत्यर्थे-धातुपाठः] (धातुपाठः-1140) इत्येवमन्ता दिवादिषु पठन्ते॥", "82046": "`क्षियः` इति। `क्षि क्षये` (धातुपाठः-236), `क्षि निवासगत्योः` (धातुपाठः-1407) इति द्वयोरपि ग्रहणम्; विशेषानुपादानात्। `क्षीणाअः क्लेशाः` इति। `क्तोऽधिकरणे` च` [[3.4.76]] इत्यादिनाऽकर्मकत्वात्? कर्तरि निष्ठा, `निष्ठायामण्यदर्थे` [[6.4.60]] इति दीर्घः। `क्षीणो जाल्मः, क्षीणस्तपस्वी` इत्यादि। `वाऽऽक्रोशदैभ्ययोः` [[6.4.61]] इति। ननु च `क्षियः` इति निर्देशादेव दीर्घस्य ग्रहणं विज्ञायते, तत्? किं दीर्घग्रहणेन? यदि ह्रस्वस्येवं ग्रहणं स्यात्, एवं सति परत्वात्? <<घेर्ङिति>> [[7.3.111]] इति गुणे कृते क्षेरिति निर्देशः स्यात्? इत्यत आह -`ह्रस्वस्यापि हि` इत्यादि। यदि नियोगतो दीर्घस्यैव धात्वनुकरणस्येयङा निर्देशः स्यात्, ततोऽस्मान्निर्देशाद्दीर्घस्येदं ग्रहणमिति विज्ञायते। न च दीर्घस्यैवेयङा निर्वेशो भवति। तथा हि ह्रस्वान्तस्यासौ दृष्टः क्षियः। `निष्ठायामण्यदर्थे` [[6.4.60]] इत्यत्रावसितं ह्रस्वान्तस्थेदमनुकर्णम्, न दीर्घान्तस्येति? उच्यते; यथाभूतस्यैवानुकर्तुयुक्तम्। ह्रस्वान्तस्य च दीर्घत्वं विधेयम्। अतस्तस्यैवानुकरणमिदमिति विज्ञायते। यदि तर्हि ह्रस्वान्तस्यापि धात्वनुकरणस्येयङा निर्देशो भवति, <<विपराभ्यां जेः>> [[1.3.19]] , <<विभाषा चेः>> [[7.3.58]] इत्येवमादावपि कस्मान्न भवति? इह `विपराभ्यां जेरित्येवमादौ` इत्यादि। अत्रासङ्कल्पमित्यतदध्याहार्यम्। धात्वनुकरणस्य हि `प्रकृतिवदनुकरणं भवति` (व्या।प।113) इतीयङा निर्देशो भवति। धात्वनुकरणं च किं भवितुमर्हति येन धातावनुकार्येव स्थितम्? धातुत्वं क्रियावाचित्वलक्षणं विवक्ष्यते। <<विपराभ्यां जेः>> [[1.3.19]] इत्येवमादौ त्वनुकार्यगतं धातुत्वं सदप्यववक्षितत्वादसङ्कल्पम्। तस्मान्नात्र धात्वनुकरणम्। अपि तु ङीप्रभृतेः क्रियावाचिनश्च तत्सादृश्यशब्दान्तरस्य ङीत्येवमादेर्यद्रूपसामान्यमर्थशून्यं तदनुकरणं द्रष्टव्यम्। तस्मादधात्वनुकरणत्वान्न भवतीयङादेश इत्यभिप्रायः। यदि तर्हि धात्वनुकरण स्यात्, प्रकृतिवदनुकरण भवतीति, एवं सत्यधातो [[1.2.45]] इति प्रातिपदिकसंज्ञाप्रतिषेधोऽपि स्यात्, ततश्च विभक्तिर्नोपपद्यते? वत्करणेनानुकार्येणार्थेणार्थनार्थवत्त्वस्याश्रयात्? प्रातिपदिकसंज्ञा भविष्यतीत्यदोषः॥", "82047": "`शीनम्` इति। `श्यैङ्? गतौ` (धातुपाठः-963), `द्रवमूर्त्तिस्पर्शयोः श्यः` [[6.1.24]] इति सम्प्रसारणम्, `हलः` [[6.4.2]] इति दीर्घः। `शोतं वर्तते` इति। भावे निष्ठा। पूर्वत्र तु कर्तरि। एवं `शीतो वाधुः` इत्यादौ। `शीतमुदकमित्यत्र` इत्यादि। `गुणभूतोऽपि` इति। अप्रधानभूतोऽपीत्यर्थः। ननु च प्रधाने कार्यसम्प्रत्ययादप्रधानस्य नत्वप्रतिषेधादिकार्यं प्रति निमित्तभावो नोपपद्यते? नैष दोषः; `अस्पर्शे` इति हि यद्ययं पर्युदासः स्यात्, एवं सति शीतो वायुरित्यादौ स्पर्शादन्यद्द्रव्यमस्तीति नत्वं स्यात्; न त्वयं पर्युदासः, किं तर्हि? प्रसज्यप्रतिषेधः। तेन यत्र ल्पर्शनगन्धोऽस्ति तत्र तदाश्रयेण नत्वप्रतिषेधेन भवितव्यम्। अस्ति चेह गुणभूतः स्पर्शः, तेन तदाश्रयो नत्वप्रतिषेधो भवत्येव। भवत्वेवं नत्वप्रतिषेधः, सम्प्रसारणस्य तु गुणभूतः स्पर्शः कथं कारणं भवति? नियमस्य त्यागात्। इह `अल्पाच्तरम्` [[2.2.34]] इति नियमः -अल्पाच्तरं द्वन्द्वे पूर्वमेव प्रयोक्तव्यमिति; <<द्रवमूर्तिस्पर्शयोः श्यः>> [[6.1.24]] इत्यत्र स्पर्शशब्दस्याल्पाच्तरस्य परनिपातं कुर्वताऽस्य नियमस्य त्वागः कृतः। स किमर्थं कृतः? स्पर्शोऽत्रानियमेन प्रधानभूत उपसर्जनभूतो वा सम्प्रसारणस्य कारणमित्यस्यार्थस्य सूचनार्थः। तेन गुणभूतोऽपि स्पर्शः सम्प्रसारणस्य निमित्तं भवति। स्पर्शशब्दोऽयमस्ति गुणवचनः, अस्ति च रोगवचनः; तदिह विशेषानुपादानादुभयोरपि ग्रहणम्। ततो रोगेऽपि प्राप्नोतीति प्रतिशीन इत्येतन्न सिध्येदिति चोद्यमाशह्क्याह -`गुणे च` इत्यादि। गुण एवेत्यर्थः। कथं पुनर्गुण एव प्रतिषेधो लभ्यते? ज्ञापकात्। यदयं `द्रवमूर्त्तिस्पर्शवोः श्य-` [[6.1.24]] इत्यत्र सम्प्रसारणं विधाय पुनः <<प्रतेश्च>> [[6.1.25]] इति विधत्ते, तज्ज्ञापयति -श्यायतेर्यत्र ग्रहणं तत्र स्पर्श उपादीयमानो रोगं न प्रत्याययतीति। यदि हि प्रत्याययेत्, पुनर्विधानमनर्थकं स्यात्; पूर्वेणैव सिद्धत्वात्। प्रतिपूर्वो हि रोग एव श्यायतिर्वत्तेते, नान्यत्र॥", "82048": "`न चेदपादानं तत्र भवति` इति। तत्रेत्यनेनाञ्चतिः परामृश्यते। शब्दद्वारेणाञ्चत्यर्थं एवायमपादानस्य प्रतिषेधसामर्थ्याद्विज्ञायते। न ह्रञ्चतावपादानत्वं सम्भवति, किं तर्हि? तदर्थे क्रियाविषयत्वात्? कारकाणाम्। तदेतदुक्तं भवति -न चेदञ्चत्यर्थे विषयभूतेऽपादानं न भवतीति। `समक्नौ` इति। सङ्गतावित्यर्थः। `अन्चु गतिपूजनयोः` [`अन्चू` इति काशीमुद्रितः पाठः](धातुपाठः-188) इत्युदित्त्वाद्विभाषितेट्। [इत्यूदित्त्वात् -काशीमुद्रितः पाठः] तेन <<यस्य विभाषा>> [[7.2.15]] इति निष्ठायामिट्प्रतिषेधः, `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः। `उदक्तमुदकम्` इति। उद्धृतमुदकमित्यर्थः। अथ व्यक्तमित्यत्र नतवं कस्मान्न भवति? इत्याह -`व्यक्तमित्येतत्` इत्यादि। `अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु` [`अन्चू` इति। काशीमुद्रितः पाठः] (धातुपाठः-1458) इत्येतस्यैतद्रूपम्,ित्येतद्रूपम् -काशीमुद्रितः पाठः] नाञ्चतेः; ततो नत्वमिह न भवतीति भावः॥", "82049": "`आद्यूनः, परिद्यूनः` इति। अविजिगीषुरित्यर्थः। `च्छवोः शूडनुनासिके च` [[6.4.19]] इति ऊठ्। `द्यूतं वर्तते` इति। विजिगीषार्थोऽत्र विवक्षित इति नत्वं न प्रवर्तते। कथं पुनरिह विजिगीषार्थः, यावता अक्षपातनलक्षणक्रोडा न प्रतीयते? इत्याह -विजिगीषायां हि`[इत्येतद्रूपम् -काशीमुद्रितः पाठः] इत्यादि। विजेतुमिच्छा विजिगीषा, तस्याम्। तत्र क्रोडायामक्षपातनादि क्रियते। तस्माद्विजिगीषार्थेऽवतिष्ठत इति भावः। आदिशब्देन शलाकापातादेग्र्रहणम्॥", "82050": "`दातेरुत्तरस्य` इति। `वा गतिगन्धनयोः` (धातुपाठः-1050) इत्येतस्मात्। `न च` इत्यादि। धातमचिकरणमाधारो यस्य स तथोक्तः। एतदुक्तं भवति -धातेर्धातोर्योऽर्थः स यदि धातेन समवेतो भवतीत्यर्थः। `निर्वाणोऽग्निः, निर्वाणः प्रदीपः` इति। अत्र स्वरूपस्य यः प्रशम उपरतिलक्षणः स धात्वर्थः। `एष निर्वाणो भिक्षुः` इति। अत्रापि। अथ वा -रागादिप्रहाणं धात्वर्थः। `निर्वातो वातः` इति। अकर्मकत्वात्? कर्तरि निष्ठा। `निर्वातं वातेन` इति। अत्र भावे। उभयत्राप्यत्र गतिनिरोधो धात्वर्थ-। `निर्वाणः प्रदीपी वातेन` इति। अत्र वातेनेति कर्त्रि तृतीया। तस्माद्वात एव दात्यर्थस्याधारः, ततश्च नत्वेन भवितव्यमिति कस्यचिद्व्यामोहः स्यात्, अतस्तान्निराकरणायाह -`निर्याणः प्रदीपः` इत्यादि। अत्र निर्वाणंधात्वर्थः, तच्च प्रदपाधारम्, न वाताधारम्। वाताधारे हि तस्मिन्निर्वाण इति यदि कर्तरि निष्ठा, तदा तयैवाभिहितत्वात्? कर्त्तुर्वातात्? तृतीया न स्यात्। अथ <<नपुंसके भावे क्तः>> [[3.3.114]] इति भावे? एवं ससि निर्वाण इति पुंल्लिङ्गं न स्यात्। तस्मात्? प्रदीप एव कर्ता धात्वर्धस्याधारः। यद्येवम्, कथं वातेनेत्यत्र तृतीया? इत्यत आह -`वातस्तु` इत्यादि। एतेनैषा तृतीया न कर्तरीति दर्शयति॥", "82051": "`शुष शोषणे` (धातुपाठः-1183) इत्यस्मात्? परस्य निष्ठातकारस्य ष्टुत्वे प्राप्ते ककारो विधीयते। अकार उच्चारणार्थः। `शुष्कः, शुष्कवान्` इति। युक्तं शुष्वानित्येतदुदाहरणम्, शुष्क इत्येतत्त्वयुक्तम्; न ह्रेतदर्थेऽस्य सूत्रस्यारम्भो युज्यते, <<शुष्कधृष्टौ>> [[6.1.206]] इति निपातनेनैव सिद्धत्वात्? नैतदस्ति; निपातनेन हि ककारे सति शुष्किकेत्यत्र <<उदीचामातः स्थाने यकपूर्वायाः>> [[7.3.46]] इति विभाषेत्वं स्यात्, शुष्कजङ्घेत्यत्र च <<न कोपधायाः>> [[6.3.37]] इति पुंवद्भावप्रतिषेधः स्यात्; इह तु ककारस्य विधाने सति तस्यासिद्धत्वादेतदुभयं न भवति। तस्माच्छुष्क इत्येतदर्थोऽप्यस्यारम्भो युक्तः॥", "82052": "`पक्वः, पक्ववान्` इति। `डुपटचष्? पाके` (धातुपाठः-996)। यद्येवम्, पक्व इत्यतत्? <<सिद्धशुष्कपक्वबन्धैश्च>> [[2.1.41]] इति निपातनादपि हि सिध्यति; तथापि पक्ववानित्येतदर्थमिदमवश्यमारब्धव्यम्। अन्यार्थं चारभ्यमाणं पक्व इत्येतदर्थरूपमपि भवतीति पस्वशब्दोऽस्योदाहरणमुपन्यस्तम्। निपातनद्वारेण हि तद्व्युत्पत्तौ प्रतिपत्तिगौरवं स्यादित्यभिप्रायः॥", "82053": "`क्षै जै वै क्षये` (धातुपाठः-913-915)॥`प्रस्तीमः` इति। `ष्टऐ स्त्यै सङ्घातशब्दयोः` (धातुपाठः-911,910)। <<स्त्यः प्रपूर्वस्य>> [[6.1.23]] इति सम्प्रसारणम्; पूर्ववद्दीर्घः। इह यदा मत्वं न भवति। तदा <<ऋतश्च संयोगादेः>> [[7.2.43]] इत्यनेन नत्वेन भवितव्यम्; ततश्च प्रस्तीनः, प्रस्तीनवानितीष्टं स्यात् -इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह -`यदा मत्वं नास्ति` इत्यादि। कृते तर्हि प्रथमं सम्प्रसारणे नत्वं कस्मान्न भवति? इत्याह -`तत्र कृते` इत्यादि॥", "82054": "", "82055": "`फुल्लः` इति। `ञिफला विशरणे` (धातुपाठः-516), <<आदितश्च>> [[7.2.16]] इतीट्प्रतिषेधथः, `उत्परस्यातः` [[7.4.88]] इत्युत्त्वम्। `क्तवत्वन्तस्याप्येतल्लत्वमिष्यते` इति। कथं पुनरिष्ययाणमपि लभ्यते, न हि क्तवत्वन्तः शब्दः सूत्र उपात्तः? उच्यते; इह निष्ठायास्तकारान्तं यच्छब्दरूपं तस्य `फुल्ल` इत्येतन्निपात्यते, क्तवतोश्च [`क्तक्तवतोश्च` इति काशीमुद्रितः पाठः] तत्? तुल्यम्। परस्तु यदि क्तवतोऽर्थो वा विशेष्यते? विशेष्यताम्, न हि तेन समानेनासमानेन वा परयोजनमस्ति। तस्मात्? क्तवत्वन्तस्याप्येतल्लत्वं भवति। एवमनयैव युक्त्या क्षीबकृशोल्लाघादिष्वपि यन्निपात्यते, तदपि क्तवत्वन्तस्य प्रसज्यते[`प्रसज्येत` -इति कांउ।पाठः] नैष दोषः; वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च न ज्ञायते, तेनातिप्रसङ्गो न भविष्यतीति।`क्षीविकृशिभ्याम्` इति। `क्षीबृ मदे` (धातुपाठः-382), `कृश तनूकरणे` (धातुपाठः-382), `कृश तनूकरणे` (धातुपाठः-1227)। `इडभावश्च निपात्यते` इति। क्तलोपस्यासिद्धत्वाद्वलादिरार्धधातुको भवतीतीट्? प्राप्नोति; अतस्तदभावश्च निपात्यते। `कृते वा इटि इच्छब्दलोपः` इति। निपात्यत इति सम्बन्धः। इडभावापेक्षो विकल्पः। अथ वा -नेडभावो निपात्यते। किं तर्हि? कृत इटीच्छब्दलोपः। `लाघेरुदोऽन्य उपसर्गः प्रतिषिध्यते` इति। उत्पूर्वस्य ग्रहणसामर्थायत्। अन्यथा ह्रुत्पूर्वस्योपादानमनर्थकं स्यादित्यभिप्रायः। अनुपसर्गादित्युच्यते, तत्र परिकृश इति न सिध्यति? इत्यत आह -`परिकृश इत्यत्र` इत्यादि। तनूकरणलक्षणक्रियाया अन्यक्रिया गमनलक्षणा क्रियान्तरम्, तेन योगोऽयम्, न परिशब्दः, अतर कृशिं प्रत्युपसर्गसंज्ञा भवतीति कृत्वा। `परिगतः कृशः` इति। अनेन तं क्रियान्तरयोगं दर्शयति। अथ किमर्थं निपातनम्; यावता फुल्ल इति `फुल्ल विकसने` (धातुपाठः-532) इत्यस्मात्? पचाद्यचि सिध्यति, क्षीबेरिगुपधलक्षणे के -क्षौव इति, कृश इत्यपि कृशेरचैव, उल्लराघ इति -लाघ इत्येव पचाद्यचि सिद्ध्यत्येव? सत्यमेवैतत्; निष्ठायां तु फलतिप्रभृतीनामसत्यस्मिन्ननिष्टं रूपं प्राप्नोति। अतस्तन्निवृत्त्यर्थमारब्धध्यमेतत्॥", "82056": "`समुन्नः, समुत्तः` इति। `अनिदिताम्` [[6.4.24]] इति नलोपः। `ह्रीत्यस्य` [`ह्यी` इत्यतस्य -काशिका, पदमञ्जरी च] इति। `ह्री लज्जायाम्` (धातुपाठः-108530 इत्यस्य। `अप्राप्त्रः` इति। केनचिदविधानात्। `इतरेषाम्` इति। तत्र `नुद प्रेरणे` [`णुद प्रेरणे` -धातुपाठः] (धातुपाठः-1426), `उन्दी क्लेदने` (धातुपाठः-1457) -तयोः `रदाभ्याम्` [[8.2.42]] इति नित्यं प्राप्सम्। `त्रैङ्? पालने` (धातुपाठः-965), `घ्रा गन्धोपादाने` (धातुपाठः-926) -एतयोः <<ऋतश्च संयोगादेः>> [[7.2.43]] इत्यादिना। `विद विचारणे` इत्यस्य विदेरिह ग्रहणमिध्यते` इति। कथं पुनरस्य ग्रहणमिष्यते, श्लुविकरणेन ह्यीत्यनेन [`ह्यीणा` -प्रांउ पाठः] साहचार्यात्? नैतदस्ति; शविकरणेन नुदिना साहचर्याल्लाभार्थस्य विदेग्र्रहणप्रसङ्गात्? एवं तह्र्रन्यतरस्यामित्येषा व्यवस्थितविबाषा, तेन विचारणार्थस्यैव भवितव्यम्, नान्यस्य; यस्यैवं भवितव्यं तस्यैव ग्रहणं युक्तमिति स एव गृह्रते। कथं पुनज्र्ञायते -विचारणार्थस्य विदेर्यहणमिष्यते? इत्याह -`एवं हि` इत्यादि। इष्यत इति वक्ष्यमाणं प्रत्येकमभिसम्बध्यते। `निष्ठा` इत्यनेन निष्ठान्तमुपलक्षयतिः `वेत्तेः` इत्यादि। `विद ज्ञाने` (धातुपाठः-1064) इत्यस्य `विदितः` इत्येतद्रूपमिष्यते; नित्येट्त्वात्, तस्येटा निष्ठातकारस्य व्यवधाने सति नत्वस्यासम्भवात्। `विद्यतेः` इति। `विद सत्तायाम्` (धातुपाठः-1171) इत्यस्य श्यन्विकरतस्य [नास्ति -कांउपाठे] निष्ठान्तस्य `विन्नः` इत्येतद्रूपमिध्यते; `एकाचः` [[7.2.10]] इतीट्प्रतिषेधात्; `रदाभ्याम्` [[8.2.42]] इत्यादिना च नित्यं नत्वविधानात्। `विन्तेविन्नश्च वित्तश्च` इति। `विद विचारणे` (धातुपाठः-1450) इत्यस्य निष्ठान्तस्यैतद्रूपद्व्यमिष्यते; पूर्ववदिट्प्रतिषेधात्, अनेन च सूत्रेण [[8.2.56]] पक्षे नत्वविधानात्। `भोगिवित्तश्च विन्दतेः` इति। विब्दतेरित्यनेन लाभार्थविदिं दर्शयति। तस्य हि <<शे मुचादीनाम्>> [[7.1.59]] इति नुमि कृते विन्दतीत्येतद्रूपं भवति। भोगवित्त इति -भोगे वित्तो भोगवित्तः, `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः। भोगग्रहणं चोपलक्षणमात्रम्। प्रत्ययोऽयि गृह्रते। `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य भोगे प्रत्यये चार्थे वित्त इत्येतद्रूपं निष्ठायामिष्यते; `वितो भोगप्रत्यययोः` [[8.2.58]] इति नत्वाभावस्य निपातनात्, <<यस्य विभाषा>> [[7.2.15]] इति निष्ठायामिट्प्रतिषेधाच्च। विन्दतेर्हि क्वसौ <<विभाषा गमहनविदविशाम्>> [[7.2.68]] इतीङ्विभाषितः; `भोगवित्तश्च विन्दतेः` इति ब्राउवताऽर्थतौ भोगप्रत्ययाभ्यामन्यत्र विन्न इत्येतद्रूपमिष्यत इत्युक्तं भवति॥", "82057": "`ध्यै चिन्तायाम्` (धातुपाठः-908), `ख्या प्रकथने` (धातुपाठः-1060), `चक्षिङः ख्याञ्` [[2.4.54]] इति च -द्वयोरपि ग्रहणम्। ननु च चक्षिङादेशस्य सानुबन्धकत्वान्निरनुबन्धकग्रहणपरिभाषया (व्या।प।53) न प्राप्नोतीति? नैष दोषः; इह हि निष्ठातकारस्य परत्वप्रतिपादने पञ्चमी युक्ता, यथा -`रदाभ्याम्? [[8.2.42]] इति। तत्र पञ्चमीनिर्देशे कर्तव्ये यः षष्ठीनिर्देशः क्रियते, स सम्बन्धसामान्यं प्रतिपादयितुम्। न च सम्बन्धिन मन्तरेण सम्बन्धसामान्यमुपपद्यते। न च सानुबन्धके परित्यज्यमाने सम्बन्धिभेदः सम्भवतीति युक्तं तस्यापि ग्रहणम्, `पृ? पालनपूरणयोः` (धातुपाठः-1489), `मुच्र्छा मोहसमुच्छ्राययोः` (धातुपाठः-212), `मदी हर्षे` (धातुपाठः-1208)। एषु ध्याख्याप्रभृतिषु -आद्ययोः <<ऋतश्च संयोगादेः>> [[7.2.43]] इत्यादिना नत्दे प्राप्ते, इतरेषामपि `रदाभ्याम्` [[8.2.42]] इत्यादिना, प्रतिषेधोऽयमारभ्यते। `पूर्त्तः` इति। `श्रयुकः किति` [[7.2.11]] इतीट्प्रतिषेधः, `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वम्, पूर्ववद्दीर्घः। `मूर्त्तः` इति <<राल्लोपः>> [[6.4.21]] इति च्छकारलोपः, <<आदितश्च>> [[7.2.16]] इतीट्प्रतिषेधः। `मत्तः` इति। अत्रापि `श्वीदितो निष्ठायाम्` [[7.2.14]] इति॥", "82058": "`धनमस्य बहवित्यर्थः` इति। कथं पुनर्भोगे व्यत्पादितस्य धने वृत्तिरर्थो भवति? इत्याह -`घनं हि` इत्यादि। अनेन कर्मसाधनत्वं भोगशब्दस्य दर्शयन्? धनेऽस्य वृतिंत दर्शयति। `प्रतीत इत्यर्थः` इति। एतेन प्रत्ययशब्दस्य कर्मसाधनतामाचष्टे। प्रतीत इति कर्मणि निष्ठा। प्रतीत आख्यात इत्यर्थः। स चायमर्थः प्रत्यये व्युत्पाद्यमानेऽस्य कथं [नास्ति -कांउ।पाठे] भवति, यदि प्रत्यशब्दोऽपि कर्मसाधनो भवति -प्रतीयत इति प्रत्ययः। तेन प्रत्ययशब्दस्य कर्मसाधनता वेदितव्या॥", "82059": "`भित्तमिति निपात्यते` इति। किं निपात्यते? रदाभ्यामिति [[8.2.42]] नत्वे प्राप्ते तदभाव इति। `शकलं चेत्तद्भवति` इति। शकलशब्दस्य योऽर्थः, खमण्ड इति यस्यापरमभिधानम्, भित्तशब्दस्यापि यदि स एवार्थो भवतीत्यर्थः। कथं पुनर्भित्तशब्दस्य शकलमर्थो भवति? इत्याह -`शकलपर्यायोऽयम्` इति। भित्तशब्दः शकलस्यैव पर्यायः। तस्माद्यथा शकलशब्दस्य शकलमभिधेयं भवति, एवं भित्तशब्दस्यापि। ननु च शकलशब्दोऽयं जातिशब्दः; जातिप्रव-त्तिनिमित्तमुपादाय स्वाभिदेये प्रवृत्तत्वात्; भित्तशब्दस्तु क्रियाशब्दः, क्रियाप्रवृत्तिनिमित्तत्वात्; तथा हि -भिदेर्विदारणार्थात्? क्ते विहिते भित्तमिति निपात्यते, न च क्रियाशब्दो जातिशब्दपर्याय उपपद्यते? इत्याह -`अत्र` इत्यादि। शब्दव्युत्पत्तिः=शब्दसंस्कारः, तस्या एवात्र भित्तशब्दे भिदिक्रियानिमित्तत्वाम्; न तु तत्प्रवृत्तेः; असत्त्वात्। जातिरेव तु तत्प्रवृत्ति प्रति निमित्तम्; तस्या विद्यमानत्वात्। तस्माच्छकलशब्दवद्भित्तशब्दोऽपि जातिशब्द एव; न क्रियाशब्द इति युक्ता तस्य तत्पर्यायता। यदि तह्र्रसत्येवात्र भिदिक्रिया, शब्दसंस्कारत्वस्यापि सा निमित्तं नोपपद्यते? नैतदस्ति; न ह्रयं नियोगोऽभिधीयते -विद्यमानैव क्रिया शब्दसंस्कारस्य निमित्तं भवतीति। तथा हि तैलपायिकाशब्दो यत्र प्राणिविशेषे रूढः, तत्र तैलपानक्रियाशब्दोऽपि नास्ति; तथापि तैलपानक्रिया तत्संस्कारनिमित्तत्वेनाश्रीयते। कथं पुनर्भित्तशब्दो भिदिक्रियाप्रवृत्तिनिमित्तं न भवति? इत्याह -`भिदिक्रियाविवक्षायां हि` इत्यादि। अत्र भिन्नमित्यस्य च भित्तशकलशब्दाभ्यां प्रत्येकमभिसम्बन्धः। तेन `भिन्नं भित्तमित्येव भवति` इति। एतत्? प्रयोगद्वयमपि भिदिक्रियादिवक्षायां सिद्धं भवति। विदीर्णे हि शकले तस्य विदीर्णतां प्रतिपादयितुं भिन्नम्, भित्तमित्येष प्रयोगो भिदिक्रियाविवक्षायां क्रियते। यदि च भित्तशब्द क्रियाप्रवृत्तिनिमित्तं स्यात्, ततो भित्तशब्देनैव भिदिक्रियानिमित्तकेन विदीर्णता शकलस्य प्रतिपाद्यत इत्येष प्रयोगो नोपपद्यते, न हि तदस्ति यस्य भित्तशब्देनाप्रतिपादितस्य भिन्नशब्दयोगो भवेत्। भिन्नं शकलमित्येष च प्रयोगो नोपपद्यते; शकलव्युत्पादितेन भित्तशब्देन भिदिक्रियानिमित्तकेन भिन्नशब्दस्य बाधितत्वात्। अस्ति चायं द्विविधोऽपि प्रयोगः, तस्गाद्भित्तशब्दस्य भिदिक्रियानिमित्तत्वं न गम्यते॥", "82060": "`ऋ इत्येतस्मात्` इति। `ऋ गतौ` (धातुपाठः-1098) इत्येतस्मात्, `ऋ गतिप्रापणयोः` (धातुपाठः-936) इत्येतस्माद्वा। `अधम ऋणेऽधमर्णः` इति। केन पुनरत्र समास इति? यावता नात्र किञ्चित्? समासलक्षणमस्ति; `सप्तमिति योगविभागात्? समासः` इत्येतच्च न वक्तव्यम्, सप्तम्याः पूर्वनिपातप्रसङ्गत्? इत्यत आह -`एतस्मादेव` इत्यादि। `तद्भाव आधमण्र्यम्` इति। तत्? प्रतिदास्यतीति ग्रहणक्रियाभिसम्बन्धः। तद्योगाद्भावेऽसावधमर्ण इत्युच्यते। `कालान्तर` इत्यादि। यस्मिन्? कालेऽधमर्णो गृह्णाति तस्मात्? कालादन्य आगामी कालः कालान्तरम्, तत्र यद्देयं तत्? कालान्तरदेयम्, तेन यो विनिमयः= विपरिवर्तनम्, तदुपलक्षणार्थमेवाधमर्णग्रहणमेवमुपात्तम्, न च स्वार्थपरतिपादनार्थमेव। किं कारणमेवं व्याख्यायते? इत्याह -`उत्तमर्ण इत्यपि भवति` इति। ऋणे ह्रेकोऽधमर्णो भवति, यो गृहीत्वा प्रतिदास्यतीति; यस्तु दत्वा ग्रहौष्यति स उत्तमर्णः। तत्र यद्याधमण्र्यग्रहणं स्वार्थप्रतिपादनार्थमेवोपात्तम्, तदोत्तमर्ण इति न सिध्येत्, न ह्यत्राधमण्र्यं विवक्षितम्। तत्तर्हीदं चोत्तमर्यर्णेऽपि कालान्तरदेयविनिमयोपलक्षणार्थत्वादाधमण्र्यग्रहणे सत्येतदपि सिध्यति, अस्ति ह्यत्र कालान्तरद्वयविनिमयः। तथा ह्रुत्तमर्णोऽपि प्रयच्छन्? कालान्तरे यद्देयं तेन विनिमयं करोति॥", "82061": "`सदेः` इति। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-854) इत्येतस्मात्। `निषत्तः` इति। `सदिरप्रत्तेः` [[8.3.66]] इतिषत्वम्। `अनुत्तम्` इति। `उन्दी क्लेदने` (धातुपाठः-1457), `अनिदिताम्` [[6.4.24]] इति नलोपः। `प्रतूर्तम्` इति। यदा `ञित्वरा सम्भ्रमे` (धातुपाठः-775) इत्यस्य निपात्यते, तदा `ज्वरत्वर` [[6.4.20]] इत्यादिना वकारस्योपथायाश्चोत्वम्। यदा `उर्वी तुर्वी थुर्वी हिंसार्थाः` (धातुपाठः-569,570,571) इत्यस्य, तदा <<राल्लोपः>> [[6.4.21]] इति रकारलोपः, पूर्ववद्दीर्घः।`सूर्तम्` इति। `सृ गतौ` (धातुपाठः-935) उत्वसन्नियोगे रपरत्वम्, पूर्वद्दीर्घः। `गूर्तम्` इति। `गुरी उद्यमाने` [`गूरी` -प्रांउ।पाठ] (धातुपाठः-1396)।", "82062": "`घृतस्पृक्` इति। अत्र शकारस्य विवृत्तकरणस्य आआसानुप्रदानस्याघोषस्य तादृश एव खकारः, तस्य जश्त्वम् -गकारः। गकारस्यापि चर्त्वम् -ककारः।अथ प्रत्ययग्रहणं किमर्थम्, न क्विन इत्येवोच्येत, न हि क्विन्? प्रत्ययत्वं व्यभिचरति। एवमुच्यमाने लोपापवादः क्विन एव कुत्वं स्यादित्येतच्च नाशङ्कनीयम्, तथा हि -क्विन्निति प्रत्ययग्रहणं यत्र प्रत्ययग्रहणं प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) क्विन्नन्त उपस्थापिते क्विनो लोपे कर्तव्ये कुत्वस्यासिद्धत्वात्? पूर्वं लोपेनैव भवितव्यम्। तस्मिन्? सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यिति? इत्यत आह -`क्विनः कुरिति वक्तव्ये` इत्यादि। असति हि प्रत्ययग्रहणे क्विन्प्रत्ययान्तस्यैव पदान्तस्य स्यात्, मान्यप्रत्ययान्तस्य, तस्यापि चेष्यते। तस्मात्? प्रत्ययग्रहणं क्रियते। प्रत्ययग्रहणे सति बहुव्रीहिर्लभ्यते। तेन बहुव्रीहिणा यस्माद्विहितः स धातुरूपलक्ष्यत इति सर्वस्य सिध्यति। `मानो अरुआआक्, मानो अद्राक्` इति। `सृज विसर्गे` (धातुपाठः-1414) `दृक्षिर्? प्रेक्षणे` (धातुपाठः-988), लुङ्, च्लेः सिच्? [[3.1.44]] , तिप्, <<सृजिदृशोर्झल्यमकिति>> [[6.1.58]] इत्यमागमः, `वदव्रज` [[7.2.3]] इत्यादिना वृद्धिः, हल्ङ्यादिलोपः [[6.1.66]] , अडागमः, अनेन कृत्वम्। `सृजिदृशिभ्यां क्विन्विहितः` इति। `ऋत्विक्` [[3.2.59]] इत्यादिना सृजेः क्विन्विहितः। दृशेरपि `त्यवादिषु दुशेरनालोचने कञ्च` [[3.2.60]] इत्यनेन। कथं पुनरत्राडागमः, यावता `न माङयोगे` [[6.4.74]] इति प्रतिषिद्धोऽसो? इत्यत आह-`माङ्योगेऽपि` इत्यादि। छान्दसौ ह्रेतौ प्रयोगौ। तेन सत्यपि माङ्योगे `बहुलं छन्दस्यामाङ्योगेऽपि` [[6.4.75]] इत्यडागमो भवत्येव। <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इतीट्? तर्हि कस्मान्न भवति? इत्याह-ईट्? च न भवति` इत्यादि।प्रत्ययग्रहणाद्यथा क्विन्प्रत्ययस्य लुगन्तस्य कृत्वं भवति, दृग्भ्यामित्या दौदृशेः क्विबन्तस्यापि। `एवम्` इत्यादि। प्रत्ययग्रहणात्? क्विन्प्रत्ययो यस्माद्विहितः, तस्यान्यप्रत्ययान्तस्यापि कुत्वं भवतीत्यस्मिन्नर्थे व्यवस्थिते रज्जुसृङ्भ्यामित्यत्रापि ब्राश्चादिसूत्रेण [[8.2.36]] षत्वं यत्? प्राप्नोति तद्बाधित्वा कृत्वेन भवितव्यम्। `अथ तु नेष्यते, प्रतिविधानं कर्तव्यम्` इति। [नास्ति -प्रांउ।पाठे] प्रतिविधानमुत्तरसूत्रे वाग्रहणं यत्? तदुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च, तेनेह न भविष्यतीति। एवञ्च सति रज्जुसृभ्याम्, रज्जुसृङ्भ्य इति भवितव्यम्॥", "82063": "`जीवनङाहुतिः` इति। अत्राकुत्वपक्षे व्रश्चादिसूत्रेण [[8.2.36]] षत्वे कृते जश्त्वम् -डकारः॥", "82064": "`पदस्य` इति वर्तते। तच्च धातुसमानाधिकरणं मकारेण विशेष्यते -मकारान्तस्य पदस्य धातोरिति। `प्रशान्, प्रतान्? इति। `शमु उपशमे` (धातुपाठः-1201), `तमु काङ्क्षायाम्` (धातुपाठः-1202), क्विप्, <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इत्युपधादीर्घत्वम्, हल्ङ्यादिलोपः [[6.1.66]] । अथेह <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] ति नकारलोपः कस्मान्न भवति? इत्याह -`नत्वस्य` इत्यादि॥", "82065": "`अगन्म` इति। <<स उत्तमस्य>> [[3.4.98]] इति सकारलोपः। `जगन्वान्` इति। गमेर्लिट्, क्वसुः, हल्ङ्यादि [[6.1.66]] संयोगान्तलौपौ [[8.2.23]] , `सान्तमहतः` [[6.4.10]] इति दीर्घः, `गमहन` [[6.4.98]] इत्यादिनोपधालोपः। <<छन्दस्युभयथा>> [[6.4.86]] इति सार्वधातुकत्वं न भवति। चकारः `धातौः` इत्यनुकर्षणार्थः॥", "82066": "`सजूः` इति। `जुषी प्रीतिसेवनयोः` (धातुपाठः-1288), सह जषत इति क्विप्, उपपदसमासः, <<सहस्य सः संज्ञायाम्>> [[6.3.78]] इति सभावः। रुत्वे कृते `र्वोरुपधायाः` [[8.2.76]] इति दीर्घः। सजुवो ग्रहणमसकारान्तार्थम्। योगश्चायं जश्त्वापवादः॥", "82067": "`दाशेः` [`दाशतेः` -काशिका] इति। `दाशृ दाने` (धातुपाठः-882) इत्यस्माण्ण्विनि कृत इति। वहिदाशिभ्यां `मन्त्रे ओतवहोक्थशस्पुरोडाशो ण्विन्` [[3.2.71]] इत्यनेन, यजेश्च `आवे यजः` [[3.2.72]] इति ण्विन्प्रत्ययान्तेभ्यः सम्बुद्धिः, तस्या हलङ्यादिलोपः [[6.1.66]] , ततः `ओतवाहादीनां डस्पदस्य` (वा।263) इति डस्प्रदस्य` टिलोपः। किमर्थमेते निपात्यन्ते, यावता ओतवोभ्याम्, ओतवोभिरित्येवमाद्यर्थम्? `ओतवाहादीनां डस्पदस्य` इत्यदश्यमिदं वक्तव्यम्, डसि च कृते <<ससजुषो रुः>> [[8.2.66]] इत्येव सिद्धम्? इत्याह -`ओतवाहादीनाम्` इत्यादि। नैते रुत्वार्थ निपात्यन्ते, किं तर्हि? सम्बुद्धौ दीर्घत्वार्थम्। ननु च द्रीर्घत्वमप्येषां <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इत्येव सिद्धम्? इत्यत आह -`अत्वसन्तस्य च` इत्यादि। तत्र हि <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यतः `असम्बुद्धौ` इत्येतदनुवर्तते, तेन सम्बुद्धौ दीर्घत्वं प्राप्नोतीति, तदर्थमेते निपात्यन्ते। `पुरोडाः` इति। `मन्त्रे ओतवहोक्थशस्` [[3.2.71]] इत्यादिनैव सूतद्रेण दकारस्य डकारो निपात्यते। `उक्थशाः` इति। `शन्सु स्तुतौ` (दा।पा।728)। उक्थानि शंसतीति `मन्त्रे ओतवह` [[3.2.71]] इत्यादिनैव ण्विन्, ततः पूर्ववत्? सम्बुद्ध्यादिः॥", "82068": "<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नलोपे प्राप्ते विधीयते। `\tअहोभ्याम्, अहोभिः` इति। `हशि च` [[6.1.110]] इत्युत्वम्, <<आद्गुणः>> [[6.1.87]] । `दीर्घाहो निदाघः` [`दर्घाहा` -काशिका, प्राचीनमुद्रितन्यासपाठश्च] इति। बहुव्रीहिः, हल्ङ्यादिलोपः [[6.1.66]] , रुत्वस्यासिद्धत्वात्? `सर्वनामस्थाने च` [[6.4.8]] इत्यादिना दीर्घः, `भोभगोअधो` [[8.3.7]] इत्यादिना रेफस्य यकारः, तस्य <<हलि सर्वेषाम्>> [[8.3.22]] इति लोपः। `हे दीर्घाहोऽत्रि` इति। <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्युत्वम्; <<आद्गुणः>> [[6.1.87]] , <<एङः पदान्तादति>> [[6.1.109]] इति परपूर्वत्वम्। हन्तेर्लङि तिपा हल्ङ्यादिलोपे [[6.1.66]] कृते तिपश्च लुक्यडागमे चाहन्नित्येतद्रूपं सम्पद्यते, तस्मात्तस्य रुत्वेन भवितव्यम्? इति कसयचिद्भान्तिः स्यात्, अतस्तन्निरासायाह -`अहन्` इत्यादि।उपसंख्यानशब्दोऽत्र प्रतिपादने वर्तते। अह्नो रूविधौ कर्तव्ये रूपादिषु रुत्वस्य प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेनाह्रो रूपादिषु रुत्वं भविष्यतीति। `अहोरूपम्` इति। अह्नो रूपमिति षष्ठीसमासः। कथं पुना रात्रिशब्द उच्यमानं रुत्वं रात्रशब्दे भवति? स्थानिवद्भावात्, एकदेशविकृतस्यानन्यत्वाद्वा। रात्रशब्दास्य तु ग्रहणं न कृतम्, रात्रिशब्दस्यापि यथा स्यात् -गतमहो रात्रिरागतेति। `अहो रथन्तरम्` इति। षष्ठीसमासः। अथ वा -असमास एव। `रोऽसुपि` इत्यस्यापवादो रुत्वम्` इत्यादि। अहोरूपमित्यादि यदि समासः, यद्यसमासो वा, सर्वथा विभक्तेर्लुका भवितव्यम्। लुकि सत्यह्नो रविधौ लुमता लुप्ते [[1.1.62]] प्रत्ययलक्षणस्य प्रतिषेधः। तेन सुप्परत्वस्याभावात्? <<रोऽसुपि>> [[8.2.69]] इत्येतत्? प्राप्नोतीति रुत्वं विधीयते। किमर्थम्? `हशि च` [[6.1.110]] इत्युत्वं यथा स्यात्। यदि रुरुदुत्पन्नस्य स्यात्, उत्वविधौ `रोः` इत्युकारानुबन्धविशिष्टस्य रेफस्यानुवृत्तेः॥", "82069": "", "82070": "", "82071": "भुवःशब्दः षष्ठ तप्रतिरूपकमव्ययम्, तस्य नित्यं रुत्वे प्राप्ते पक्षे रेफो यता स्यादित्येवमर्थमिदम्। चकार उभयथेत्यस्यानुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति। `भुवो विआस्य` इति। मूशब्दस्य षष्ठन्तस्य पञ्चम्यन्तस्य वा प्रयोगः। यद्येवम्, लाक्षणिकत्वादेवास्य [`लाक्षणिकत्वादिनास्य` -प्रांउ।पाठः] न भविष्यति, तत्किमेन्निवृत्त्यर्थेन महाव्याह्मतिग्रहणेन? एवं तह्र्रेतज्ज्ञापयति -अनित्यलक्षणा प्रतिपदोक्तपरिभाषेति। तेन क्रापयतीत्यतर पुगागमः सिद्धो भवति, नित्यत्वे तु तस्य न स्यात्, अस्याकारान्तस्य लाक्षणिकत्वात्। कीदृशी भुवःशब्दो महाव्याह्मतिर्भवति? इत्याह -`भुवसित्येतत्` इत्यादि। अन्तरिक्षं हि महत्, तस्य व्याह्मतिः=उक्तितर्यस्मात्; तस्मान्महाव्याह्मतिर्भवति॥", "82072": "`विद्वद्भ्याम्` इति। <<विदेः शतुर्वसुः>> [[7.1.36]] इति वसुरादेशः। `पपिवद्भ्याम्, पपिवद्भिः` इति। पिवतेः पातेर्वा लिट्, क्वसुः, `वस्वेकाजाद्घासाम्` [[7.2.67]] इतीट्, <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः, स्थानिवद्भावेन `पा` इत्येतद्द्विरुच्यते। `उखारुआत्, पर्णध्वत्` इति रुआंसिध्वंसिभ्याम् -उखायाः रुआंसते, पर्णानि ध्वंसत इति क्विप्, `अनिदिताम्` [[6.4.24]] इति नलोपः। इहेदं वसोर्दत्वमनवकाशम्, सर्वस्य विषयस्य विध्यन्तरेणावष्टब्धत्वात्; तथापि विद्वानित्यादौ संयोगान्तलोपः प्राप्नोति, विद्वद्भ्यामित्यादौ तु रुत्वम्। अतस्तदनवकाशत्वाद्यदा रुत्वं बाधते तदा संयोगान्तलोपोऽपि तेन बाधितव्यः, ततश्च विद्वानिति न सिध्यतीति तस्य व्यामोहः स्यात्, तं प्रत्याह-`रुत्वे नाप्राप्ते` इत्यादि। `यस्मिन्नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति` (व्या।प।49), न चाप्राप्ते रुत्व इदमारभ्यते, अतस्तदेव दत्वेन बाध्यते। `संयोगान्तलोपस्तु नैवम्` इति। तुशब्दो रुत्वाद्विशेषं दर्शयति। इतिकरणो हेतौ। यथा रुत्वं सर्वत्र प्राप्नोति नैवं स्योगान्तलोपः। स हि विद्वानित्यादावेव प्राप्नोति, न विद्वद्भचामित्यादौ। तस्मात्? तेनैव दत्वं बाध्यते, न त्वसौ दत्वेन; संयोगान्तलोपे कर्तव्ये दत्त्वस्यासिद्धत्वादित्यभिप्रायः। अत यथा `हो ढः` [[8.2.31]] इत्यस्य दकारोऽत्रापवादः, तथा स [`स तथा` -प्रांउ।पाठः] <<सावनडुहः>> [[7.1.82]] इत्यस्यापि कस्मान्न भवति, यता ह्रवकाशत्वाद्दकारो ढत्वस्य बाधकस्तथा नुमोऽपि बाधक एव युक्तः? इत्यत आह -`नुमस्तु विधानसामर्थ्यान्न भवति` इति। प्रतिपदं हि `सावनडुहः` नुम्? विधीयते, तस्य यद्ययं दकारोऽपवादः स्यात्, नुम्वधानमनर्थकं स्यात्। `अनड्वान्` इति। <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्याम्, यणादेशः, हल्ङ्यादि [[6.1.66]] संयोगान्त [[8.2.23]] लोपौ। `हे अनड्वन्` इति। <<अम् सम्बुद्धौ>> [[7.1.99]] इत्यम्। सेषं पूर्ववत्॥", "82073": "र्वोरुपधायाः। र्च, व् च र्वौ, तयोरिति विग्रहः। `सिपि धातो रुर्वा` इत्यतो धातोरित्यनुवर्तते। र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः। `पदस्ये`त्यधिकृतम्। `स्कोः संयोगाद्योः` इत्यतोऽन्ते इत्यनुवर्तते। तदाह -रेफेत्यादिना। पिपठीरिति। ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः। पिपठीभ्र्यामिति। `स्वादिषु` इति पदत्वात् `र्वोरुपधायाः` इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः। सुपि विशेषमाह -वा शरीति। पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वं `वा शरी`ति विकल्पेन विसर्जनीयः। तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः। तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् `आदेशप्रत्यययोः` इति षत्वे अप्राप्ते-।", "82074": "`अचकास्त्वम्` इति। रुत्वे कृते तस्य विसर्जनीयः, तस्य <<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारः। `त्वम्` इति अनुप्रयोगः सिपोऽभिव्यक्तये। अथ धातुग्रहणं किमर्थम्, यावता सकारान्तस्यापि रेफदकारावुच्येते, न च सिपि सकारान्ताद्धातोरन्यदस्ति? इत्यत आह -`धातुग्रहणम्` इत्यादि। उत्तरार्थता चास्व `र्वोरुपधायाः` [[8.2.76]] इत्यत्र दर्शयिष्यते। क्रियतामुत्तरार्थं धातुग्रहणम्, रुग्रहणं तु न कर्तव्यम्; अनर्थकत्वात्; दकारे हि विकल्पिते यथाप्राप्तं रुत्वं पक्षे लभ्यत एव? इत्यत आह -`रुग्रहणं च` इति। उत्तरार्थमित्यपक्षते। `दश्च` [[8.2.75]] इति वक्ष्यति, तत्र पक्षे रुत्वं यथा स्यादित्येवमर्थम्। असति हि तस्मिन्? यदा दत्वं न भवति, तदा यथाप्राप्तं चत्वं न स्यात्॥", "82075": "चकारेण `दः` [[8.2.72]] इत्यनुकृष्यते, तेनोत्तरत्र तस्यानुवृत्तिर्न भवति। `अभिनस्त्वम्` इति। लङ्, रुधारित्वात्? श्नम्॥", "82076": "पदस्येत्येव, धातोरिति च, तदुभयमिह समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशे णेन च तदन्तविधिर्भवतीत्याह -`रेफवकारान्तस्य` इति। वकारस्योदाहरणं कसमान्न प्रदर्शितम्? इत्याह -`दकारग्रहणमुतरार्थम्` इति। तेन वकारान्तस्योदाहरणं न प्रदर्शितमिति भावः। एतदर्थं तु तन्न भवति; वकारान्तस्य पदस्य धातोरसम्भवात्। `अबिभः` इति। भृञो लङ्, तिप्, गुणः, रपरत्वम्, <<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] , द्विर्वचनम्, `उरत्` [[7.4.66]] इत्यत्त्वम्, `भृञामित्` [[7.4.76]] इतीत्त्वम्, हल्ङ्यादिलोपः [[6.1.66]] ॥", "82077": "`दिव्यति, चतुर्यति` इति। दिव्? चतुर् -इत्युभयं प्रातिपदिकमत्र, तेन न भवति। `स्मेर्यते` इति। भावे यक्, `गुणोर्त्तिसंयोगाद्योः` [[7.4.29]] इति गुणः। `भव्यम्` इति। `अचो यत्` [[3.1.97]] गुणः; <<धातोस्तन्निमित्तस्यैव>> [[6.1.80]] इत्यवादेशः॥", "82078": "पूर्वं रेफवकारान्तस्य घातोर्दीर्घत्वविधानादरेफवकारान्तार्थमिदम्। उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्। `उपधाभूतौ` इति। उपधात्वं प्राप्तावित्यर्थः। अलोऽन्त्यात्? पूर्वौ इति यावत्। `हल्परो` इति। हल्? पर आभ्यामिति बहुव्रीहिः। स पुनर्हल्? धात्ववयव एव वेदितव्यः। यत्र हि प्रत्ययावयवो रेफवकाराभ्यां हल्परस्तत्र पूर्वेणैव सिद्धः। `हूर्छिता` इति। `हुच्र्छ कौटिल्ये` (धातुपाठः-211)। `मूच्छता` इति। `मुच्र्छा मोहसमुच्छ्राययोः` (धातुपाठः-212)। ननु च <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति द्विर्वचने कृते रेफोऽत्रोपधा न भवति? नैतदस्ति; दीर्घत्वे कर्तव्ये द्विर्वचनस्यासिद्धत्वाच्छकारोऽत्रैक एव हलिति भवत्येवोपधात्वं रेफस्य। `चिरिणोति, जिरिणोति` इति। `रि क्षि चिरि जिरि दाश दृ हिंसायाम्` (धातुपाठः-1275-1280) स्वादित्वात्श्नुः`।इह `री गतौ` (धातुपाठः-1500), `धी गतिप्रजनादिषु` (धातुपाठः-1048)-एताभ्यां लिट्, अतुसि, उसि च, `एरनेकाचः` [[6.4.82]] इति यणादेशः; तस्य स्थानिवद्भावाद्द्विर्वचने कृते `रिर्यतुः, रिर्युः; विव्यतुः विव्यु` इति स्थितेऽभ्यासेकारस्य दीर्घस्य प्राप्नोति, हल्परयो रेफवकारयोरुपधाभूतत्वात्। एतत्कस्मान्न भवति? इत्याह -`रिर्यतुः, रिर्यः` इत्यादि। स्थानिवद्भावः <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यादिना। ननु च `न पदान्त` [[1.1.57]] इत्यादिना दीर्घविधौ प्रतिषिध्यते स्थानिवद्भावः, तत्? कुतस्तस्येह सम्भवः? नैतदस्ति; परिगणनं हि तत्र क्रियते -`स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` (का।वृ।1.1.59) इतिः `असिद्धत्वाद्वा` इत्यादि। अत्र बहिरङ्गत्वं यणादेशस्य; अङ्गाधिकारे विधीयमानस्य प्रत्ययाश्रितत्वात्। दीर्घत्वस्य त्वन्तरङ्गत्वम्; प्रकृत्याश्रयत्वात्। `असिद्धञ्च बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति दीर्घत्वे कर्तव्ये यणादेश स्यासिद्धत्वाद्रेफवकारौ हल्परौ न भवतिः, तत्कुतो दीर्घत्वस्य प्राप्तिः। इह तर्हि चतुर्यितेति दीर्घत्वं कस्मान्न भवति, अत्र हि `चतुर्य` इत्यस्य क्यजन्तस्य धातोस्तृचि परतः <<अतो लोपः>> [[6.4.48]] इत्यकारलोपे कृत उपधाभूतो रेफो हल्परो भवतीत्यस्ति दीर्घत्वस्य प्राप्तिः, इत्याह -`चतुर्यितेत्यत्रापि` इत्यादि। बहिरङ्गत्वमतो लोपस्यार्थधातुकाश्रय स्यात्। दीर्घस्यान्तरङ्गत्वं पूर्ववत्। तर्हि प्रतिदीव्नेत्यत्रापि दीर्घत्वं न स्यात्। यथैव हि चतुर्यितेत्यत्र धातोरुपधा रेफो न भवति, तथा प्रतिदीव्नेत्यत्रापि वकारः। तथा हि -दीव्येत्येतावान्? धातुः, नकारस्तु प्रत्यय सम्बन्धी; न च दिवेर्धातोर्वकर उपधाभूतः, किं तर्हि? अन्तभूतः? इत्यत आह -`प्रतिदीव्नेत्यत्र` इत्यादि। प्रतिपूर्वाद्दिवः `कनिन्? युवुषितक्षि` (द।उ।6।51) इत्यादिना कविन्, <<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपः। ननु च <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यल्लोपस्य स्थाविवद्भावाद्धलि परतो वकारान्तोऽत्र धातुर्न भवति। तत्कथं `हलि च` [[8.2.77]] इति दीर्घत्वम्? इत्याह -`दीर्घविधौ` इत्यादि। स्थानिवद्भावप्रतिषेधस्तु `न पदान्त` [[1.1.57]] इत्यादिना। नन्वेवमपि बहिरङ्गलक्षणसिद्धत्वादल्लोपस्य नैवात्र हलि परतो वकारान्तो धातुरुपपद्यते? इत्याह -`असिद्धं बहिरङ्गम्` इत्यादि। अनाश्रयणस्य तु हेतुरनित्यत्वमस्याः परिभाषायाः। अनित्यत्वं तु `नलोपः सुप्स्वर` [[8.2.2]] इत्यादौ सूत्रे तुग्विधिग्रहणाज्ज्ञापितम्। अथ जिव्रिः, किर्योरित्यादौ `हलि च` [[8.2.77]] इति दीर्घत्वं कस्मान्न भवति जिव्रिशब्दोऽप्ययमे वं व्युत्पाद्यते, `जीर्यतेः क्रिन्? रश्च वः` (द।उ।1-80) इति। `जृष्? [`जृष`-धातुपाठः-] झृष्? [`झृष` -धातुपाठः-] वयोहानौ` (धातुपाठः-1130,1131) इत्यस्मात्? क्रिन्प्रत्ययः; `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वम्, रपरत्वम्, रेफस्य वकार आदेशः -इत्येवं व्युत्पत्तौ जिव्रिरित्येतस्य वकारान्तस्य धातो रेफे हलि परतः `हलि च` [[8.2.77]] इत्यस्ति दीर्घत्वस्य प्राप्तिः। किरिः गिरिरित्येवमादीनामपि शब्दानामेवं व्युत्पत्तिः क्रियते। `अच इः` (द।उ। 1-67) इत्यत इप्रत्ययेऽनुवर्तमाने `भुजेः किच्च` (द।उ। 1-71) इति च `कृगृशृपृकुटिभिदिच्छिदिभ्यश्च` (द।उ। 1-72) इतिकिरतिप्रभृतिभ्यो धातुभ्य इप्रत्ययं विधाय व्युत्पाद्यन्त एते। एवं हि व्युत्पत्तावोसि यणादेशे कृते यकारे हलि परतो रेफान्तानां किरिप्रभृतीनां `हलि च` [[8.2.77]] इति दीर्घत्वं प्राप्नोति? इत्यत आह -`उणादयोऽव्युत्पन्नानि` इत्यादि। ननु च किर्योः, गिर्योरित्यत्र व्युत्पत्तिपक्षेऽपि दीर्घत्वं न प्रसजति, न ह्यत्र हलि परतः किरतिगिरती रेफान्तौ, दीर्घत्वे कर्तव्ये यणादेशस्य स्थानिवद्भावात्? स्वराविलोपेषु हि लोपाजादेशो न स्थानिवत्, अन्यस्तु स्थानिवदेव? सत्यमेतत्; अभ्युपगम्येवं परिहार उक्तः। एवं मन्यते -भवत्यविशेषेण स्थानिवद्भावप्रतिषेधः, तथापि नैवात्र दीर्घत्वं प्रसज्येत; अव्युत्पन्नत्वादुणादीनामिति। यद्युणादयोऽव्युत्पन्नानि प्रातिपदिकानीति, न हि तत्रैव सूत्रे व्युत्पत्तिपक्षश्चाश्रयितुं युक्तः, योऽपि `आतो मनिन्क्वनिब्वनियश्च` [[3.2.74]] इति `अन्येभ्योऽपि दृश्यन्ते` (3।2 75) इति क्वनिप्प्रत्ययान्त प्रतिदिवञ्शब्दं व्युत्पादयेत तस्यापि नैव दीर्घत्वं सिध्यति, `लोपोव्योर्वलि` [[6.1.66]] इति वकारलोपे कृते धातोरवकारान्तत्वादिति? कर्तव्योऽत्र यत्नः। एव क्रियते-`हलि च` [[8.2.77]] इत्यत्र `व्याक्तः पदार्थः` इत्येतद्दर्शनमाश्रीयते। अस्मश्च दर्शने प्रतिलक्ष्यं लक्षणभेदो भवतीति यावन्ति लक्ष्याणि तावन्त्येव लक्षणाम्युपदिशन्ति, तत्र भिन्नेषु लक्ष्यानुरोधात्? क्वचित्? प्रतिदीव्नेत्यादौ व्युत्पत्तिपक्ष आश्रीयते; क्वचित्? पुनर्जिव्रिः, किर्योः, गिर्योरित्यादावव्युत्पत्तिपक्ष इति। चकारो हलोत्यनुकर्षणार्थः॥", "82079": "`हालि च` [[8.2.70]] इति दीर्घत्वे प्राप्ते प्रतिषेधोऽयमारभ्यते। `धुर्यः` इति। `धुरं वहतीति `धुरी यङ्ढकौ` [[4.4.77]] इति यत्। `कुर्यात्` इति। करोतेलिङ्, `तनादिकृञ्भ्य उ` [[3.1.79]] , धातोर्गुणः, रपरत्वम्, `अत उत्? सार्वधातुके` [[6.4.110]] इत्युत्त्वम्, `ये च` [[6.4.109]] इत्युकारलोपः। `कुर्यात्` इति। आशिषि लिङ्। करोतेर्विकरणेन निर्देशश्चिकीर्षतीत्यत्र प्रतिषेधो मा भूवित्येवमर्थः॥", "82080": "`असेः` इतीकार उच्चारणार्थः। अविद्यमानः सकारो यस्य स तथोक्तः। यश्चैवंविधः स सकारान्तो न भवतीत्याह -`असकारान्तस्य` इत्यादि। `अमुम्` इत्यादि। अदसोऽमादिषु त्यदाद्यत्वे <<अतो गुणे>> [[6.1.97]] पररूपत्वे च कृतेऽसि [[6.1.103]] पूर्वत्वम्। औटि, <<वृद्धिरेचि>> [[6.1.88]] इति वद्धिः। शसि प्रथमयोः पूर्वसवर्णदीर्घत्वम्। अत्र स्थानेऽन्तरतमपरिभाषया [[1.1.49]] एकवचने मात्रिकस्य मात्रिक एव भवति, अन्यत्र द्विमात्रिकस्य द्विमात्रिकः ननु च मात्रिकः सूत्र उपात्तः, तत्कथं द्विमात्रिको लभ्यते? `अणुदित्? सवर्णस्य चाप्रत्ययः` [[1.1.69]] इति सवरणग्रहणादिति चेत्? न; `भाव्यमानोऽण्? सवर्णान्? न गृह्णाति` (व्या।प।35) इति प्रतिषेधादित्यत आह -`भाव्यमानोऽपि` इत्यादि। एतच्च `ऋत उत्` [[6.1.107]] इत्यत्र तपरकरणेन ज्ञापितम्।`अदस्यति` इति। `सुप क्षात्मनः क्यच्` [[3.1.8]] ।`अदसोऽनोरुआ इति वक्तव्यम्` इति। ओकारसकाररेफाणां द्वन्द्वः, अविद्यमान्ना ओरुआओऽस्येति बहुव्रीहिः। अदोऽत्रेति नपुंसकत्वात्? `स्वमोर्नपुंसकाप्त` [[7.1.23]] इति सोर्लुक्, सकारस्य रुत्वे <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति रोरुत्वम्, <<आद्गुणः>> [[6.1.87]] , <<एङः पदान्तादति>> [[6.1.109]] इति परपूर्वत्वम्। इदमीकारप्रतिषेधस्य प्रत्युदाहरणम्। `अदः` इति। एतत्तु रेफप्रतिषेधस्य। रुत्वे कृते विसर्जनीयः। `तदर्थम्` इति। सकाररेफयोरपि प्रतिषेधो यथा स्यादित्येवमर्थम्। `अः सेर्यस्य` इति। सकार [नास्ति-कांउ।पाठे] उच्चारणार्थः। अकारः सकारस्य यस्येत्यर्थः। `कथम्` इत्यादि। यदाऽदसोऽद्रआदेशः क्रियते, तदेदमदसोऽद्रेश्च पृथङ्मुत्वं भवति? उतान्त्यसदेशस्य? आहोस्विदद्रआदेशविषये न भवत्येव? इत्येतत्? पृच्छति। `अदसोऽद्रः` इत्यादि। मश्च उश्च मुः, तस्य भावो मुत्वम्। अदसोऽद्रेश्चोभयोरपि केचिन्मुत्वमिच्छन्तीत्यर्थः। विनापि हि चकारेण तदर्थो गम्यते। तद्यथा -अहरहर्नयमानो गामआं पुरुषं पशुमित्यादौ वाक्ये। कथम्? यथेत्याह -`लत्त्ववत` इति। यथा चलीकॢप्यत इत्यत्र <<कृपो रो लः>> [[8.2.18]] इति धातो रेफस्य रीशब्दस्य चोभयोरपि लत्वमिच्छन्ति, तद्वददशः, अद्रेश्च मुत्वम्। `केचिदन्त्यसदेशस्य` इति। अद्रआदेश इकारान्तः, तस्य केचिदुत्वमिच्छन्ति। स पुनरद्रआदेशसम्भन्धी दकारो रेफश्च। `नेत्येके` इति। अपरे तु -यदाऽदसोऽद्रआदेशः क्रियते तदा न भवितव्यमेव मुत्वेनेतीच्छन्ति। अत्रैव कारणमाह -`असेर्हि दृश्यते` इति। अः सेर्यस्य सोऽयमसिः, तस्यासेः। हिशब्दो यस्यादर्थे। यस्मात्? सकारस्य स्थाने यस्यादसोऽकारो भवति तस्य पज्डितैर्मुत्वं दृश्यते। न च कृताद्रआदेशस्यादसः सकारस्य स्थानेऽत्वं भवति; विभक्तेः परहस्य निमित्तस्यानावात्। तस्मात्? न तस्य मुत्वेन भवितव्यमिति।`यैः` इत्यादिना श्लोकस्य पूर्वार्ध व्याचष्टे। असेरति सकारस्य प्रतिषेधः क्रियते-नास्य सिर्विद्यत इत्येवं व्याचक्षाणैः। `उभयोरपि` इति। अदसः, अद्रेश्च। `अमुमुयङ्` इत्यादि। अदोञ्चतीति ऋत्विगित्यादिना (32।59) सूत्रेणाञ्चतेः क्विन्, `अनिदिताम्` [[6.4.24]] इति नलोपः, उपपदसमासः, `उगिदचाम्` [[7.1.70]] इति नुम्, हल्ङ्यादि [[6.1.66]] संयोगान्त [[8.2.23]] लोपौ। एकवचने `क्विन्ग्रत्ययस्य कुः` [[8.2.62]] इति कुत्वम् -नकारस्य ङ्कारः। अन्यत्र `न श्चापदान्तस्य झलि` [[8.3.24]] इत्यनुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णो ञकारः, [`ङकारः` -कांउ।पाठः] <<आ सर्वनाम्नः>> [[6.3.91]] इत्यतः `सर्वनाम्नः` इत्यमुवर्तमाने <<विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये>> [[6.3.92]] इत्यदः शब्दस्य टेरद्रआदेशः, पूर्वस्माद्दकारादुत्तरस्योत्वम्, दकारस्य मत्वम्, द्वितीयस्मादपि दकाराद्रफस्योत्वम्, दकरस्य मत्वम् -अमुमुयङ्, अमुमुयञ्चाविति भवति। `यथा` इत्यादिना लत्ववदित्यस्थार्थमाचष्टे। `चलीकॢप्यते` इति। `कृपू सामर्थ्ये` (धातुपाठः-762)। अत्यन्तं कल्पत इति यङ्, द्विर्वचनम्, `उरत्` [[7.4.66]] इत्यत्त्वम्, <<हलादिः शेषः>> [[7.4.60]] , `रीगृदपधस्य च` [[7.4.90]] इति रीक्, `कुहोश्चः` [[7.4.62]] इति चुत्वम्, `कुपो रो लः` [[8.2.18]] इत्युभयोरपि लत्वम्; `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इति परिभाषानाश्रयणात्। `ये तु` इत्यादिना `केचिदन्त्यसदेशस्य` इत्यस्यार्थ कथयन्ति। `अदमुयङ्, अदमुयञ्चौ` इति। अत्राद्रिदकारादेरुत्तरस्योत्वम्, अद्रिदकारस्यैव च मत्वम्। शेषं पूर्ववत्। `येषां तु`[`तेषां तु` -प्रांउ।पाठे] इत्यादिना `एके` इत्यादेव्र्याख्यानम्। केषां पुनस्त्यदाद्यत्वविषय एव मुत्वेन भवितव्यम्? ये `अः सेयंस्य सोऽयमसिस्तस्यासेः` इत्येवं वर्णयन्ति तेषाम्। `अत्र` इति। अद्रआदेशविषये नैव भवितव्यमिति;त्यदाद्यत्वाभावात्। अदद्रङ, अदद्रआञ्चौ, अदद्रञ्चः` इति। पूर्ववत्। मुभावस्तु विशेषः। `अमुया, अमुयोः` इति। अदसस्तृतीयैकवचन ओसि च परतस्त्यदाद्यत्वम्, [[7.2.102]] टाप्, एकादेशः, तस्य <<अन्तादिवच्च>> [[6.1.85]] इति पूर्वं प्रत्यन्तवद्भावो दादुदोग्रहणेनैव ग्रहणम्। अत्र यदि दादिति नोच्येत तदा <<आङि चापः>> [[7.3.105]] , `ओसि च` [[7.3.104]] इति ङित्येत्वे कृते तस्य चायादेशेऽलोन्त्यपरिभाषया [[1.1.51]] यकारस्यैवोत्वं स्यात्। दादिति वचनान्न भवति। उदिति तपरकरणं मुखसुखार्थम्॥", "82081": "`बहुवचन इत्यर्थविर्देशोऽयम्` इति। अन्वर्थनिर्देश इत्यर्थः। एतदुक्तं भवति -नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणम्, किं तर्हि? अन्वर्थस्य ग्रहणम् -बहुनामर्थानामुक्तिः बहुवचनमिति। किं कारणमेवं व्याख्यातम्? इत्याह -`पारिभाषिकस्य हि` इत्यादि। यदि पारिभाषिकस्य बहुवचनस्येदं ग्रहणं स्यात्, अमी इत्यत्र न स्यात्। न ह्यत्रैकारात्? परं पारिभाषिकं बहुवचनमस्ति। अन्वर्थग्रहणे त्वत्रापि बहुनामर्यानामभिधानमस्तीति सिध्यति। अन्वर्थग्रहणं तु व्याप्तिन्यायाल्लभ्यते -एव इति एकारस्य स्थानिवत्त्वं यथा विज्ञायेत। `एः` इत्युच्यमाने, इकारस्यापि स्थानित्वमाशङ्क्येत। किञ्च स्यात्? अद्रआदेशे कृते तदवयव स्येकारस्य यणादेशो बाधितः स्यात्। ईदिति तकारो मुखसुखार्थः॥", "82082": "`वाक्यग्रहणम्` इत्यादि। असति हि वाक्यग्रहणे वाक्ये यावन्ति पदानि तेषां सर्वेषामेव प्लुतः प्रसज्येत। वाक्यग्रहणे त्वन्त्यस्यैव भविष्यति, नानन्त्यस्य। अन्त्यस्यैव हि पदस्य यष्टिः स वाक्यटिर्भवति, न त्वितरस्य। तस्मादनन्त्यस्य पदस्य प्लुतौ मा भूत्, अन्त्यस्यैव यता स्यादित्येवमर्थम्। अनन्त्यस्य कस्मान्न भवति? अनिष्टत्वात्। न हि पदाधिकारस्य निवृत्तिरिष्यते, तथा हि प्रागुक्तम् -पदाधिकारः प्रागपदान्ताधिकारादिति। असत्यत्वाच्च; न हि वाक्यग्रहणेन वाक्ये यावन्ति पदान्ति तेषां सर्वेषाम्। एक एव हि वाक्यस्य टिः, स नियोगतः पदस्यापि भवति, अतो न युक्ता वाक्यस्य पदाधिकारनिवृत्त्यर्थता। अथ टिग्रहणं किमर्थम्, यावताऽलोऽन्त्यपरिभाषयैव [[1.1.52]] आयुष्मानेधि देवदत्त3 इत्यत्र टेः प्लुतो भविष्यति? इत्यत्र आह -`टिग्रहणम्` इत्यादि। असति हि टिग्रहणे यथा `ह्रस्वो नपुंसके प्रातिपदिकस्य` [[1.2.47]] इति ह्रस्वग्रहणेघ समुर्त्थापिते `अचः` [[1.2.28]] इत्येतस्मिन्नचा प्रातिपदिके विशेषिते तस्याजन्तस्यैव ह्रस्वत्वं भवति, नानजन्तस्य -सुवाग्? ब्राआहृणकुलमिति; तथेहापि प्लुतग्रहणेन `अचः` इत्येतस्मिन्नुपस्थापिते सत्यचा वाक्ये विशेषितेऽजन्तस्यैव प्लुतः स्यात्, न व्यञ्जनान्तस्य। टिग्रहणे तु सति टिसंज्ञकेनाज्विशेष्यते, न त्वचा टिसंज्ञकः। यदि ह्रचा टिसज्ञको विशेष्येत, ततोऽजन्तो यष्टिस्तस्य प्लुतः स्यात्; तथा चानर्थकं हि टिग्रहणं स्यत्। विनापि तेनाचा वाक्ये विशेषिते तस्याजन्तस्य प्लुतो भवन्नलोऽन्त्यपरिभाषया [[1.1.51]] ऽन्त्यस्याचः सिध्यति। तस्माट्टिग्रहणस्य नानर्थक्यमिति। टिसंज्ञकेनाज्विशेष,यते -टिसंज्ञको योऽजिति। एवं च सति व्यञ्जनस्यापि टेर्योऽच्? तस्यापि प्लुतः सिध्यति। `अग्निचि3त्त` इति। अव्यञ्जनान्तस्यापि व्यपदेशिवद्भावेन -देवदत्त3 इति। तस्माद्व्यञ्जनान्तस्यापि टेरचः प्लुतो यथा स्यादित्येवमर्थं टिग्रहणं कृतम्।उदात्तग्रहणं तु स्वरान्तरनिवृत्त्यर्थम्, तच्चानन्तोदात्तं प्रयोजयति; योह्रन्तोदात्तस्तत्र स्थानिवद्भावादेवान्चोदात्तो भवति॥", "82083": "`यदभिवाद्यमानो गुरुः` इत्यादि। अत्र सामान्योपक्रमेण विशेषस्यानभिधानाद्? यदिति नपुंसकलिङ्गेन निर्देशः। `आयुष्मानेधि देवदत्त3` इति। इदमत्रोदाहरणम्; प्रत्यभिवादवाक्यत्वात्। अत्र `अभिवादये देवदत्तोऽहम्` इत्येतत्तु गुरोरभिवाद्यमानतां दर्शयितुमुपन्यस्तम्। अभिवाद्यमानो गुरुर्यामाशिषं प्रयुङ्क्ते स प्रत्यभिवादः। तत्रावश्यं गुरोरभिवाद्यमानता दर्शयितव्या; अन्यथा प्रत्यभिवादो न गम्येत। `एधि` इति। भवेत्यर्थः। `अस भुवि` (धातुपाठः-1065), लोट्, मध्यमपुरुषैकवचनम्, `सेह्र्रपिच्च` [[3.4.87]] , ध्वसोरेद्धावभ्यासलोपश्च` [[6.4.119]] इत्येत्त्वम्, <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः, <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति धिरादेशः। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -<<सिपि धातो रुर्वा>> [[8.2.74]] इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवर्तते, सा च व्यवस्थितविभाषा, तेन स्त्रियां न भविष्यतीति। `असूयकेऽपि` इति। असूयतीत्यसूयकः। यो गुरुमसाध्ब्या प्रवृत्त्या सामर्ष करोति स उच्यतेऽसूयक इति। `तस्मिन्` इत्यादिना प्रतिषेध इष्यमाणोऽपि न वक्तव्य इति दर्शयति। यदा ह्रसावभिवादयिताऽसूयकत्वेन न निज्र्ञायते, तदा तेनाभिवाद्यो गुरुः प्रत्यभिवादने तस्य प्लुतं करोत्येव। यदा तु `असूयकोऽयं मां विहेडयितुकामः` इत्येवं विज्ञातो भवति, तदात्र प्रत्यभिवादना नास्त्येवेति किं प्रतिषेधेन! कथं पुनज्र्ञायते -तत्रासूयकत्वेन निज्र्ञाते प्रत्यभिवादो नास्ति? इत्याह -`तथा च` इत्यादि। केनाप्यविनीतेनोपगम्याविधिनाभिप्रायेणाभिवादयेऽयं भोः स्थालीत्येवमभिवादिते गुरुस्तस्यासूयकत्वमज्ञात्वा स्थालिञ्शब्दोऽयमस्य संज्ञेति मत्वा प्रत्यभिवादयन्? प्लुतं प्रयुक्तवान् -`आयुष्मानेधि स्थालि3न्` इति। अथ सोऽविनीत उक्तवान् -नैष मम संज्ञा, मया दण्डिन्यायो विवक्षितः। ततो गुरुः प्लुतरहितं प्रत्यभिवादनं कृतवान् -`आयुष्मानेधि स्थालिन्निति। पुनः स उक्तवान् -न न मया दण्डिन्यायो विवक्षितः, संज्ञा ममैषेति; अथ स गुरुरसूयकत्वमस्य विज्ञायोनतवान् -`असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादमर्हसि, भिद्यत्वं वृषल स्थालिन्` इति।अथाभिवाद्यमानो यदा देवदत्त कुशल्यसि, देवदत्तायुष्मानेधीत्येवं प्रत्यभिवादं प्रयुङ्क्ते तदा कस्मात्? प्लुतो न भवति? इत्याह -`अभिवादनवान्ये` इत्यादि। अभिवाद्यतेऽनेनेत्यभिवादनम्, अभिवादनञ्च तद्वाक्यञ्चेत्यभिवादनवाक्यम्। तत्र तावत्? सङ्कोर्त्तितं संशब्दितं नाम देवदत्तोऽहमित्येवम्, गोत्रम् -वात्स्योऽहमित्येवम्। यद्यत्र प्रत्यभिवादवाक्यस्यान्ते=अवसाने प्रयुज्यते तत्रायं प्लुत इष्यते। देवदत्त कुशल्यसीत्यादौ तु यदभिवादनवाक्ये सङ्कीर्तितं नाम देवदत्तशब्दः, तत्? प्रत्यभिवादनवाक्यस्यादौ प्रयुक्तम्, नावसाने। तस्मात्? प्लुतो न भवति। कुतः पुनरेतल्लभ्यते? वेत्यनुवृत्तेः, व्यवस्थितविभाषाविज्ञानाच्च, प्राधान्याद्वा। इह हि प्रधाने कार्यसम्प्रत्ययात्? प्रधानस्य वाक्यस्यान्ते वर्तमानस्य टेः प्लुतेन भवितव्यम्। प्राधान्यञ्च पदस्यार्थद्वारकम्। प्रधानस्यार्थस्य यद्वाचकं पदं तत्? प्रधानं [`प्रधाने` -कांउ।पाठः] चार्थोऽभिवादयिता, तदनुग्रहार्थत्वात्? प्रत्यभिवादस्य। तथा ह्रभिवादयितुरनुगुहीतार्यं गुरुः प्रत्यभिवादं प्रयुङक्ते। तस्मादभिवादयिता संस्कार्यः, कुशलिताऽऽयुष्मत्तादीनि तस्यैव संस्कारकाणि। अतोऽभिवादयिता संस्कार्यत्वात्? प्रधानम्, तस्य वाचकं पदं संज्ञाशब्दो गोत्रशब्दश्चेति तस्यैव वाक्यान्ते वर्तमानस्य टेः प्लुतो भवति। यद्यपि तिङन्तवाच्योऽर्थः साध्यः, न तु तस्य साध्यत्वमिह प्राधान्येनाश्रितम्, किं तर्हि? संस्कारकत्वमेव, तस्मान्न तस्यापि प्राधान्यम्। `भोराजन्यविशाम्` इत्यादि। भो इति -स्वरूपग्रहणम्, राजन्य इति -क्षत्रियनाम्नः, विश इति -वैश्यनाम्नः। अत्र भोःशब्दस्याप्राप्ते विभाषा, असंज्ञागोत्रशब्दत्वात्। इतरेषां तु प्राप्ते; संज्ञाशब्दत्वात्॥", "82084": "`दूरात्` इति। आरात्। `दूरान्तिकेभ्यो द्वितीया च` [[2.3.35]] इति पञ्चमी। ह्वानं हूतम्। भावे निष्ठा। दूरादित्युच्यते, दूरञ्चानवस्थितम्। यवेवालस्यापहतं प्रति दूरं भवति तदेवोत्साहसम्पन्नं प्रत्यन्तिकम्। एवं हि कश्चित्? कञ्चिदाह -य एष पार्(ातः करकस्तमानयेति। स आह-उत्थाय गृहाण, दूरं गन्तुं न शक्ष्यामीति। अतो दूरस्यानवस्थितत्वान्न ज्ञायते -कस्यामवस्थायां प्लुत्या भवितव्यमिति। अत आह -`दूरम्` इत्यादि। हूतं ह्वानम्। तदपेक्षं यद्दूरं तदिहाश्रीयते। इतिकरणो हेतौ। यस्माद्धूतापेक्षमिह दूरमाक्षीयते तस्मात्? प्राकृतात्? प्रकृतौ भवात्? प्रयत्नाद्यः प्रत्यत्नविशेषः प्राकृतयत्नादधिकस्तस्यिन्नाश्रीयमाणे यत्र शब्दाह्वानं तत्? श्रूयते तद्दूरम्। ततो न भवति दूरस्यानवस्थितत्वमित्वभिप्रायः। अथेह कथं प्लुतः स्यात् -सक्तून्? पिव देवदत्त3 इति? न शब्दमात्रं हूतम्, अपि तु शब्दविशेधः, येन परत आगमने नियुज्यते स शब्दविशेषो हूतम्, न च तदिहास्ति? इत्यत आह -`हूतग्रहणं च` इत्यादि। सम्बोधनं शब्दसाधनं हूतम्। चशब्दस्तस्मादित्यर्थे। तेन तत्साध्यं सम्बोधनं लक्ष्यत इति हूतग्रहणं सम्बोधनमात्रोपलक्षणं वेदितव्यम्। इहायं प्लुतोऽपि दूरात्? सम्बोधने विधीयते; एकश्रुतिरपि; `एकश्रुति दूरात्? सम्बुद्धौ` [[1.2.33]] इति; तत्रैवमेकत्र प्राप्नुवतामनेकेषां बाधाविकल्पसमुच्चयानामन्यतमेन भवितव्यम्, अत्र न ज्ञायते -किमेतयोः समुच्चयो भवति? उत विकल्पः? आहोस्विदन्यतरस्य बाधेति? तत्परिज्ञानायाह -`अस्याश्च` [`अस्यां च` -प्रांउ। न्यासपाठः`] इत्यादि। बाधया तावन्न भवितव्यम्; समानविषयत्वात्। विषयभेदे हि सति बाध्यबाधकभावो भवति, तद्यथा -`कर्मण्यण्`[`तत्तथा` -प्रांउंयासपाठः] [[3.2.1]] , <<आतोऽनुपसर्गे कः>> [[3.2.3]] इति; अत्र ह्रेकस्य विशेषो विषयः; अपरस्य सामान्यमित्यस्ति विषयभेदः। अनयोस्तु विशेषो नास्तीत्ययुक्ता [`नास्तीत्युक्ता -कांउ।पाठः] बाधा। विकल्पोऽप्ययुक्तः; असहप्राप्तेः। सहप्राप्तयोर्हि विकल्पो भवति, यथा -तच्यदादीनाम्। न चैकश्रुत्यपेक्ष्येह सहप्राप्तिरस्ति; प्लुतस्यासिद्धत्वात्। तस्मात्पारिशेष्यात्? समादेश एव भवति। समावेशः पुनरत्रैकस्मिन्? वाक्ये प्रवृत्तिः, न त्वेकस्मिन्नवयवे; दिरुद्धयोरेकस्मिन्? प्रवृत्तेरसम्भवात्। वाक्यस्य त्वेनेकावयवात्मकत्वात्। टेरचः प्लृतो भवति। अवशिष्टस्य त्वेकश्रुतिरिति युज्यते समावेशः॥", "82085": "पूर्वसूत्रेण प्राधान्याद्? हूयमानस्यैव प्लुतो विहितः। प्राधान्यं तु तस्य तदभिमुखीकरणाय वाक्यप्रयोगात्। अतो हैहयोर्न प्राप्नोति, एतदर्थोऽयमारम्भः। अथ पुनर्हैहयोग्र्रहणं किमर्थम्, यावता विनापि तेन श्रुतत्वात्? तयोरेव भविष्यति? इत्याह -`पुनः` [`पुनस्त्वित्यादि` -कांउ।पाठः] इत्यादि। `हैहेप्रयोगे` इत्युच्यमाने <<वाक्यस्य टेः प्लुत उदात्तः>> [[8.2.82]] इत्यधिकारादन्त्ययोरेव स्यात्, नानन्त्ययोः; तयोरपि यता स्यादित्येवमर्थं पुनर्हैहेग्रहणम्, हैहेग्रहणे प्रयोगग्रहणं चानर्थकयोरपि यथा स्यात्। तदा चैतावनर्थको यदाऽऽमन्त्रितान्तम्। तेनैवामन्त्रितार्थस्यावगमितत्वादर्थान्तस्य द्योत्यस्याभावात्? तावनर्थकौ भवतः। अन्ये त्वाहुः -निपातसमाहारावपि तौ स्तो हन्त हैह इति। तत्रासति प्रयोगग्रहणे तयोर्न स्यात्; लाक्षणिकत्वात्। तस्मात्? प्रयोगमात्रे लाक्षणिकयोरपि यथा स्यादित्येवमर्थं प्रयोगग्रहणमिति॥", "82086": "प्रत्यभिवादादिषु वाक्यस्य टेः प्लुत उदात्तः। स एव तु ऋकारवर्जितस्य गुरोरनन्त्यस्य प्लुत उच्यते। `अव्त्यस्यापि टेः` इति। अनेनापिशब्दष्टेः तमुच्चयं करोतीति दर्शयति। यदि ह्रपिशब्देन गुरोः समुच्चयः क्रियते, अनन्त्यस्यापि,गुरोरन्त्यस्यापीति, तदानेन गुरावनन्त्ये प्लुतः। लघुरन्त्यः पूर्वेण प्लुत एव। ततश्च द्वयोः प्लुतयोः श्रवणं युगपत्? प्रसज्येत। न च <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति वचनान्न भविष्यतीति शक्यं वक्तुम्; तस्मिन्? कर्तव्ये प्लुतस्यासिद्धत्वात्। यदा टिसंज्ञकोऽपिशब्देन समुच्चीयते तदानेनैव सूत्रेणान्त्यस्य[सूत्रेणानन्त्यस्य -प्रांउ।पाठः] गुरोरनन्त्यस्य च टेः प्लुतो विधीयते। तत्रैकैकस्येति वचनाद्यथानन्त्यस्य पर्यायो न भवति, तथान्त्यस्यापीति न भवति यौगपद्यप्रसङ्गः। `एकैकग्रहणम्` इत्यादि। यद्येकैकग्रहणं न क्रियत, तदा पक्षे युगपदेव सर्वेषां प्रसज्येत। तस्मात्? पर्यायेण यथा स्यादित्येनमर्थमेकैकग्रहणम्। एतच्च `यथोद्देशं संज्ञापरिभाषम्` (व्या।प।59) इत्याश्रित्य कृतमिति वेदितव्यम्। दर्शनान्तरे <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यस्योपस्थाने सति न प्लुतयोद्र्वयोर्यौगपद्यप्रसङ्गः। अथ प्राचामिति किम; यावतैकैकग्रहणादेव विभाषा सिध्येत्? इत्यत आह -`प्राचाम्` इति। सर्वस्य प्लुतस्येत्यभिप्रायः। अत एवाह -`तदनेन` इत्यादि। अपायहेतुमविमृश्य प्रवृत्तिः=साहसम्॥", "82087": "`प्रारम्भः` इति। कस्य प्रारम्भे? स्वाध्यायादेः॥", "82088": "`येज्ञकर्मणि` इति। कर्मशब्दः क्रियावाची। यज्ञक्रियायामित्यर्थः। `ये3 यजामहे` इत्यत्रैवायं प्लुत इष्यत इत्येतच्च `प्राचाम्` इत्यस्यानुवृत्तेः, व्यवस्थितविभाषाविज्ञानाच्च लभ्यत इति वेदितव्यम्॥", "82089": "`क एष प्रणवो नाम` इति। इह शास्त्रे प्रणवस्यापरिभाषितत्वाल्लोके चाप्रसिद्धत्वात्? प्रश्नः। `पादस्य वा` [`पादस्य चेल्यादिना` -प्रांउ।पाठः] इत्यादिना शास्त्रान्तरपरिमाषया प्रणवस्वरूपं दर्शयति। `वान्त्यमक्षरम्` इति। स्वरोऽत्राक्षरशब्देन विवक्षितः। अन्त्यत्वं पुनस्तस्येतरस्वरापेक्षयः। `उपसंगृह्र` इति। गृहीत्वेत्यर्थः। तदन्त्यमक्षरमादौ यस्याक्षरशेषस्य तत्? तदादि। अक्षरञ्च शेषञ्चेति [इति -नास्ति प्रांउ।पाठे] समाहारे द्वन्द्वः। अक्षरं स्वरः, तस्य शेषः व्यञ्जनम्, तदाचि च तदक्षरशेषञ्च, तदक्षरशेषं यत्रान्त्यात्? स्वरात्? परं व्यञ्जनं नास्ति तत्र स एव। तदादि तस्य बहुव्रीहेरन्यपदार्थः। व्यपदेशिवद्भावेन तत्रापि तदादिव्यपदेशो भवति। यत्रान्त्यात्? स्वरात्? परं व्यञ्जनमस्ति तत्र सह स्वरेण व्यञ्जनमन्यपदार्थः; तद्गुणसंविज्ञानस्य बहुव्रीहेरिहाश्रितत्वात्। योऽयमनेन ग्रन्थेन टिसंज्ञक एवोक्तो भवति तद्व्यक्षरशेषस्य ल्थाने यत्? त्रिमात्रनोकारम्, ओङ्कारं वा विदवाति तत्? प्रणवं कथयन्ति। `जिन्वतो3म्` इति। जयतेः परस्य लट्, तस्य शत्रादेशः, व्यत्ययेन श्नुप्रत्ययः, यणादेशः; जिन्वन्निति स्थितेऽन्शब्दस्यान्त्याक्षरादेः प्रणवः। `सुम्नयो3म्` इति। सुम्नशब्दात्? क्यच्, `क्याच्छब्दसि` [[3.2.170]] इति उप्रत्ययः, <<देवसुम्नयोर्यजुषि काठके>> [[7.4.38]] इति आभावः, सुम्नाअयुस्? इति स्थिते उसित्यस्यान्त्याक्षरादेः प्रणवः।ननु च टिस्थानिकयोरेव त्रिमात्रयोरोकारौकारयोः प्रणव इति परिभाषा कृता। तत्रान्तरेणापि टिग्रहणं टेरेव भविष्यति, तत्? किं टिग्रहणेन? इत्यत आह -`टिग्रहणम्` इत्यादि। असत्यत्र टिग्रहणे व्यञ्जनान्तेष्वलोऽन्त्यपरिभाषयाऽ [[1.1.51]] न्त्यस्यैव स्यात्। अतष्टिग्रहणं क्रियते -सर्वस्यैव टेर्यथा स्यादिति। `अन्त्यस्य मा भूत्` इति। ओङ्कारस्यानेकाल्त्वात्? सर्वादेशो भविष्यतीत्योकारार्थं टिग्रहणम्॥", "82090": "इहान्तग्रहणं टेरित्येतस्य निवर्तकं वा स्यात्? विशेषणं वा? पूर्वस्मिन्? पक्षेऽचान्ते विशेषितेऽजन्ताया एव याज्याया प्लुतः स्यात्। इतरस्मस्त्वन्तग्रहणमनर्थकम्, न ह्रनन्त्यष्टिः सम्भवति; <<अचोऽन्त्यादि टि>> [[1.1.64]] इत्यस्यैव टिशब्दरूपविशषसंज्ञाविधानादित्यभिप्रायेणाह -`अन्तग्रहणं किम्` इति। इतरोऽपि विदिताभिप्रायोऽन्यदेवान्तग्रहणस्य प्रयोजनं दर्शयितुमाह -`याज्या नाम` इत्यादि। गतार्थम्॥", "82091": "श्रौषट्, वौषडिति निपातौ; इतराणि लोण्मध्यमपुरुषैकवचनानि। केचित्तु आवहशब्दोऽपि निपात इत्याहुः। `प्रेष्य` इति। `ईषु गतौ` [दिवादिषु `इष गतौ` इत्येव पठते] (धातुपाठः-1127), दिवादित्वाच्छ्यन्, उपसर्गाकारेण सह <<आद्गुणः>> [[6.1.87]] । अथेह कस्मान्न भवति -`आवह देवान्? यजमानाय` (वा।सं।5।12), `आवह जातवेदः` (आ।श्रौ।सू।1.3.22), `सुयजा यज`? इत्याह -`आवह देवान्` इत्यादि। आदिग्रहणं वाक्यादेर्मा भूदिति॥", "82092": "अग्निमिन्त्रे इत्यस्मिन्नर्थेऽग्नीट्ृत्विग्विशेषः, तस्य प्रेषणं नियोजनमग्नीत्प्रेषणमित्यर्थः। आदेः सन्निहितत्वात्? तदपेक्षयैव परोऽपि ज्ञायत इत्याह -`तस्मादेवादेः` इत्यादि। `अत्रैव` इति। अनन्तरोक्त उदाहरणद्वय एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह -`अग्नीदग्नीन्? विहर बर्हिस्तृणीहि` इति। कथं पुनरेतल्लभ्यते? इत्याह -`तदर्थम्` इत्यादि। यथा च सर्वत्र प्लुतो विभाषा शक्यो विज्ञातुम्, तथा `गुरोरनृतोऽनन्त्यस्य` [[8.2.86]] इत्यादौ सूत्रे प्रतिपादितम्। यदि तर्हि सर्वत्र प्लुतो विभाषा विज्ञायेत, उत्तरत्र विभाषाग्रहणमनर्थम्? न; प्रपञ्चार्थत्वात्। अथेह कथं प्लुतः -`उद्धर3 उद्धर, अभिहर3 अभिहर` इति; स्वाध्यायकाले ह्रयंप्लुतः, नाग्नीत्प्रेषणे, न चायमादेः, नापि <<आदेः परस्य>> [[1.1.54]] , किं तर्हि? ततोऽन्यस्यैव? इत्यत आह-देः सन्निहितत्वात्? तदपेक्षयैव परोरपि ज्ञायत इत्याह -`तस्मादेवादेः` इत्यादि। `अत्रैव` इति। अनन्तरोक्त उदाहरणद्वय एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह -`अग्नीदग्नीन्? विहर बर्हिस्तृणीहि` इति। कथं पुनरेतल्लभ्यते? इत्याह -`तदर्थम्` इत्यादि। यथा च सर्वत्र प्लुतो विभाषा विज्ञायेत, उत्तरत्र विभाषाग्रहणमनर्थकम्? न; प्रपञ्चार्थत्वात्। अथेह कथं प्लुतः -`उद्धर3 उद्धर, अभिहर3 अभिरह` इति; स्वाध्यायकाले ह्रयं प्लुतः, नाग्नीत्प्रेषणे, न चायमादेः, नापि <<आदेः परस्य>> [[1.1.54]] , किं तर्हि? ततोऽन्यस्यैव? इत्यत आह -`इह तु` इत्यादि। विस्पष्टार्थम्॥", "82093": "`पृष्टप्रतिवचनम्` इति। पृष्टस्य प्रतिवचनम्ाख्यानं पृष्टप्रतिवचनम्। प्रतिवचनशब्दोऽयं विरुद्धेऽपि वचने प्रवर्तते -विरुद्धं वचनं प्रतिवचनमिति, प्रतिशब्दो ह्यत्र विरोधं द्योतयति, यथा -प्रतिमल्लः, प्रतिगज इति; वीप्सायामपि वर्तते -वचनं वचनं प्रतीति प्रतिवचनम्, `यथार्थे यदव्ययम्` [[2.1.6]] इति दीप्सायामव्ययोभावः; समाधानेऽपि वर्तते -यदनेनाभिहितं तस्य मया प्रतिवचनं विहिनमिति, समाधिर्विहित इति गम्यते; तत्र `प्रतिवचने` इत्युच्यमाने सर्वत्र प्रसज्येत। तस्मात्? प्रतिवचनविशेषार्थं पृष्टग्रहणम्। पृष्टस्य यत्? प्रतिवचनम्र्थाख्यानं तत्रैव यथा स्यात्, अन्यत्र मा भूदिति॥", "82094": "`निगृह्र` इति। ल्यबन्तमेतत्। `स्वतात्` इति। स्वावगमात्। `प्राच्यावनम्`[`प्रच्याचनम्` -प्रांउ।पाठः] इति। अपनयनम्। `आविष्करणम्` इति। प्रकाशनम्। `श्राद्धम्` इति। कर्मविशेषः। `एवमनुयुज्यते` इति। एवमादिष्कृतस्वमतः क्रियत इत्यर्थः। चकारो विभाषेत्यस्यानुकर्षणार्थः। तेनोत्तरविधिर्नित्यो भवति॥", "82095": "`चौर चौर3` इति। `वाक्यादेरामन्त्रितस्य` [[8.1.8]] इत्यादिना भत्र्सने द्विर्वचनम्। यद्यपि वाक्यग्रहणमेतदन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम्, तथापीह वचनसामर्थ्यादनन्त्यस्यापि भवति। न हि वाक्यान्ते भत्र्सन आम्रेडितं सम्भवति, वाक्यादेरेव पदस्य भत्र्सने द्विर्वचनविधानात्। `तदर्थम्` इति। पर्यायेण पूर्वोत्तरयोः पदयोर्यथा स्यादित्येवमर्थम्; द्विरुक्तोपलक्षणार्थञ्च। आम्रेडितस्य भत्र्सनग्रहणाद्विज्ञायते -तद्द्विरुक्तस्य हि यत्? परं तदाम्रेडितम्। न च तावता भत्र्सने प्रवृत्तिः सम्भवति; भत्र्सनस्य द्विरुक्तिद्योत्यत्वात्। तस्माद्द्विरुक्तोपलक्षणार्थमाम्रेडितग्रहणं विज्ञायते। तद्द्विरुक्तिश्च पूर्वोत्तरविषयेऽपीति द्वयोरपि प्लुतो भवति। स च पर्यायेण भवति, न यौगपद्येन; भत्र्सनद्योतनफलत्वात्? प्लुतेः। अन्यतरप्लुत्यैव च तद्भत्र्सनस्य द्योतितत्वात्॥", "82096": "`आकाङ्क्षम्` इति। आकाङ्क्षति अपेक्षत इत्याकाङ्क्षम्, पचाद्यच्। `अङ्ग कूज3` इत्यादि। अङ्गकूज 3, अङ्ग व्याहर 3 -इत्येतदुभयमपि `इदानीं ज्ञास्यति जाल्म` इत्येतदपेक्षते। `अङ्ग देवदत्त` इत्येतदपि `मिध्या वदसि` इत्येतत्। `अधीष्व` इत्येतदपि `ओदनं ते दास्यामि` इत्येतत्। `नैतदपरमाकाङ्क्षति` इति। विवक्षितार्थस्य परिसमाप्तत्वात्। अथ युक्तग्रहणं किमर्थम्, यावता पदविधित्वादेव योगो विज्ञास्यते। एवं तर्हि युक्तग्रहणं कुर्दन्नेतज्ज्ञापयति -<<समर्थः पदविधिः>> [[2.1.1]] इत्येषा परिभाषाऽनित्या। तेनाऽसूर्यम्पश्यानि मुखानीति नञोऽसत्यपि सूर्यशबह्देन सामर्थ्ये समासः सिद्धो भवति॥", "82097": "`प्रमाणेन वस्तुपरीक्षणं विचारः। तेन विषयीक्रियमाणानि विचार्यमाणानि। बहुवचननिर्देशो येषामर्थगत एव विचारो न स्वरूपगतः, तेषामपि यथा स्यादित्येवमर्थः; इतरथा हि येषां स्वरूपगतो विचारस्तेषामेव स्यात्। न हि मुख्ये वाक्ये विचार्यमाणे सत्यर्थद्वारकं गौणं यस्य विचार्यमाणत्वं तस्य ग्रहणं युक्तम्। `गृहा3इ` इति। गृह इत्यत्र एकारः, तस्य `एचोऽप्रगृह्रस्य` [[8.2.107]] इत्यादिना पूर्वार्थस्याकारः, उत्तरार्धस्य त्विकारः। तस्याकारस्यानेन प्लुते भवति॥", "82098": "पूर्वेणैव सिद्धे नियमार्थमेतत्। तुशब्दस्त्विष्टतोऽवधारणार्थः। असति हि तस्मिन्? विपरीतोऽपि नियमो विज्ञायेत -भाषायामेव पूर्वमिति। पूर्वत्वं च प्रयोगापेक्षम्। अहिर्नु3, रज्जुर्नु3 -इत्येतयोर्वाक्यायोर्यत्? पूर्वं प्रयुज्यते तस्यैव टेः प्लुतो भवति। इह तु भावाग्रहणात्? पूर्वयोगाश्छन्दसीति विज्ञायते॥", "82099": "प्रतिश्रुतिः प्रतिश्रवणम्। प्रतिपूर्वाच्छृणोतेर्भावे ल्युट्, `कुगति` [[2.2.18]] इत्यादिना तत्पुरुषः। प्रतिपूर्वस्य शणोतिर्यदा परानुग्रहो विवक्ष्यते, तदाभ्युपगमे वर्तते। अथ त्वविवक्षा परानुग्रहस्य, तदा प्रतिज्ञाने। यदा श्रितिः -श्रवणमिति भावसाधनेन श्रवणशब्देन प्रतिशब्दस्य <<लक्षणेनाभिप्रती आभिमुख्ये>> [[2.1.14]] इत्यव्ययीभावः क्रियते, तदा श्रवणाभिमुख्ये श्रवणं प्रति प्रवृत्त इत्यर्थः। तदिह विशेषानभिधानात्? सर्वस्मिन्? प्रतिश्रवणे वाक्यस्य टेः प्लुतो भवति। `देवदत्त भोः किमात्थ3` इति। एतच्छ्रवणाभिमुख्य उदाहरणम्। `देवतत्त भोः` इत्यामन्त्रितम्। तप्र श्रवणार्थमेवमाह -`किमात्थ3` इति। एकत्र श्रवणमुद्दिश्य प्रवृत्तत्वादभिमुखं भवति। अभ्युपगमे तूदाहरणम् -`गां मे देहि भोः, अहं ते ददामि3` इति। प्रतिज्ञाने -`नित्यः शब्दो भवितुमर्मति` इति। चकारो भाषायामित्यनुकर्षणार्थः॥", "82100": "अगम3` इति। गमेर्लुङ्? पुवदिसूत्रेण [[3.1.55]] लृदित्त्वादङ्, सिप्। `अग्निभूता3इ` इति, `पटा3उ` इति। सम्बुद्धौ परतः `ह्रस्वस्य गुणः` [[7.3.108]] इति गुणः, `एचोऽप्रगृह्रस्य` [[8.2.107]] इत्यादिनाऽकारः, इदुतौ च। उदाहरणवाक्ये पूर्वपदानामेतेनैव प्लुतः, कृत इति गृहीत्वा यश्चोदयेत् -अथ कथमिहानन्त्यस्यापि प्लुतो भवति, यावता वाक्यस्य टेरित्यनुवर्तते इति? तं प्रत्याह -`अग्निभूते, पटो इत्येतयोः` इत्यादि॥", "82101": "`चिदिति` इति। इतिकरणः प्रयुज्यमान इत्येतच्छब्दस्य विशेषणमित्यस्यार्थस्य द्योतनाव। असति ह्रेतदर्थं इतिकरणे ह्रुपमार्थेऽन्यस्मिन्? प्रयुज्यमाने चिच्छब्दः प्लवत इति विज्ञायेत। तत्प्रज्यमानतयात्र तस्मिन्? विशेषिते वाक्यस्य टेः प्लतः सिद्धो भवति। `कतथञ्चिदाहः` इति। अत्र कृच्छ्रे चिच्छब्दो वर्तते। `अग्निर्माणवको भायात्` इति। अग्निरिव माणवको दीप्येतेत्यर्थः अस्तीहोपमार्थः, तथापि चिच्छब्दस्य प्रयोगो नास्तीति न प्लुतो भवति। असति तु प्रयुज्यमानग्रहणे इहोपमानगतौ सत्यां यदप्यन्येषामपि सर्वेषामुपमानार्थानां प्रयोगो गम्यते, तथापि योऽत्र चिच्छब्दस्य प्रयोगस्तदाश्रयः प्लुतः स्यादेव। चकारोस्यैव प्लुतस्य समुच्चयार्थः। समुच्चयश्च भेदाधिष्ठान इति प्लुतानन्तरमेवेदमाख्यातं भवति; अन्यथा पूर्वध्वेव प्लुतनिमित्तेष्वेतस्मिन्? विषयेऽनुदात्तत्वमात्रं विधीयत इति विज्ञायेत॥", "82102": "इतिकरणः कार्यिणो निर्देशार्थः। कार्यं हि विधातुमवश्यं षष्ठआसौ निर्देष्टव्यः। इतिकरणेन वेति वार्थः प्रत्यवमुश्यते। शब्दप्रधानस्त्विहोपरिस्विदादिशब्दः कार्यं इष्यत इतीतिकरणेन निर्दिष्टः प्लुतो यथा विज्ञायेत। `अधःस्विदासीदित्यत्र` इत्यादि। अत्राधःस्विदासीत्, उतोपरिस्विदासीवित्येतद्विचार्यते; तत्र पूर्वस्मिन्? वाक्ये <<विचार्यमाणानाम्>> [[8.2.97]] इत्यादिनोदात्तः प्लुतः, इतरस्मस्त्वनेनानुदात्तः, तस्यैवापवादः। चकारस्य पूर्ववदेव प्रयोजनम्॥", "82103": "असूयादिशब्दानां `वाक्यादेरामन्त्रित` [[8.1.8]] इत्यादौ सूत्रेऽयं आख्यातः। `माणवक3 माणवक` इत्यादौ द्विर्वचनं तेनैव सूत्रेण वेदितव्यम्। `वावचनं कर्तव्यम्` इति। वेत्येतद्विकल्पोपलक्षणम्। वचनं व्याख्यानमित्यर्थः। अत्रैतदुक्तं भवति -विकल्पव्याख्यानं कर्तव्यमिति। तत्रेदं व्याख्यानम् -`विभाषा पृष्टप्रतितिवचने हेः` [[8.2.93]] इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणनुवर्तते, तेन विकल्पो भविष्यतीति॥", "82104": "क्षिया=आचारभेदः। इष्टाशंसनम्ाशीः। नियोगः=प्रैषः। आकाङ्क्षत्यपरं तिङन्तमेव। कुत एतत्? आकाङ्क्षाग्रहणादेव। सुबन्ते हि साधनादायिनी तिङन्तस्यावश्यम्भाविनी अपेक्षेति। `धनं च तात` इति। अत्र लप्सीष्टेत्येतदपेक्षते। `व्याकरणं च` इति। अत्राप्यध्येषीष्टेत्येतत्। `लुनीहि3` इति। `ई हल्यधोः` [[6.4.113]] इतीत्वम्। `पिब` इति। पाध्रादिसूत्रेण [[7.3.78]] पिबादेशः। `अस्तु` इति। अस्तेर्लोट्, `एरुः` [[3.4.86]] इत्युत्वम्, अदादित्वाच्छपो लुक्, एतच्चापरं तिङन्तं नापेक्षते। एवं `विहर` इत्येतदपि॥", "82105": "`अन्त्यस्य तु` इत्यादि। तुशब्दः पदान्तरेभ्यो विशेषं दर्शयति। अन्त्यस्येत्यनेनापि स्वरितः, <<अनुदात्तं प्रश्नान्ताभिपूजितयोः>> [[8.2.100]] इत्यनेनाप्यनुदात्तः; तयोश्चैकत्र यौगपद्यं न सम्भवति। तत्र वचनप्रामाण्यादनुदात्तोऽपि पक्षे न भवति, स्वरितोऽपि॥", "82106": "<<दूराद्धूते च>> [[8.2.84]] इत्येवमाविभिर्लक्षणैः प्लुतो विधीयमानः `अचश्च` [[1.2.28]] इत्यस्योपस्थाने सति यत्रैव प्लुत उक्तः, तत्र तस्यैवैचः समुदायात्मनः स्यात्, तदवयवयोरेवेष्यते। स च वचनमन्तरेण न सिध्यतीतीदमारभ्यते। तस्य तु प्लुतस्य निमित्तं दूराद्धूतादेवैचः प्रसङ्ग इति पूर्वेण प्रकरणेन प्लुतस्य प्राप्तौ सत्यामित्यर्थः। `ऐ3तिकायन्, औ3पमन्यव` इति। अत्र `गुरोरनृतीः` [[8.2.86]] इत्यादिना एचः प्लुते प्राप्तेऽनेन तदवयवयोरिदुतोः प्लुतः क्रियते। ऐ3तिकायन, औ3पमन्यवेत्यत्र यद्यैचोरवयवयोरिदुतोः प्लुतः क्रियते, तत्रैकारीकारौ चतुर्मात्रौ साद्र्धत्रिमात्रो वा प्राप्नुतः। इह ह्रौचौ समाहारवर्णौ; मात्राऽवर्णस्य मात्रेवर्णोवर्णयोः। अपरे त्वाहुः -अर्धमात्राऽवर्णस्य, अध्यर्धमात्रेवर्णोवर्णयोरिति। अत्र पर्वस्मिन्? दर्शनेऽनेन प्लुते कृते सति इदुतोस्तिरुआओ मात्राः, अवर्णस्य चैकमात्रेति चतुमत्रिः प्राप्नोति; इतरत्र तु दर्शनेऽवर्णस्यार्धमात्रा, इदुतीस्तु ता एव तिन्न इति सार्धत्रिमात्रः प्राप्नोतीत्यत आह -`अत्र यदा` इत्यादि।ननु च त्रिमात्रस्य `प्लुत इति संज्ञा कृता, तत्कथं द्वित्रिमात्रावपि प्लृतौ शक्यावनेन कर्त्तुम्? इत्यत आह -`प्लुतावविति हि` इत्यादिना। एतेन लौकिकस्यात्र प्लुतस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति। कुतः पुनरेतल्लभ्यते? पुनः प्लुतग्रहणमनर्थकं स्यात्, लोके हि च प्लुतो वृद्धिमानुष्यते। अत एवाह -`इदुत्तौ वृदिंध गच्छत इत्यर्थः` इति। अनेकार्थत्वाद्धातूनां प्लवतिर्वृद्धावपि वर्तते। नन्वेवमप्यनियमेन वृद्धिः प्रसज्यते; इयत्तानभिधानात्; ततश्च यावती वृद्धिः स्यात्, याक्त्या चतुर्मात्रार्वचौ सम्पद्येयातामिति? अत [`अत्राह` -कांउ।पाठः] इत्यादि। प्लुतिर्वृद्धिरित्यर्थः। कथं पुनरयं नियमो लभ्यते? एवं मन्यते -ऐचेति प्लुतापेक्षया षष्ठी। इदुतौ तथा प्लवेते यथा स प्लुत एङोर्भवति; एवञ्चंचोर्भवति यदि तावती वृद्धिर्भवति यावत्या तावैचौ त्रिमात्रौ सम्पद्येते। अकृतायां हि वृद्धौ ऐच्त्वमेव स्यात्; युक्तपरिमाणत्वादैचाम्, ततश्चैच्सम्बन्धी प्लुतो न स्यादिति। `अर्धतृतीयमात्रौ` इति। अर्धतृतीयं ययोर्मात्रयोस्तेऽर्धतृतयमात्रे, ते ययोस्तावर्धतृतयमात्रौ। इदं तावद्वार्त्तिककारमतमाश्रित्य समाधानमुक्तम्। भाष्यकारस्य त्विष्टैव चतुर्मात्रता प्लुतस्येति दर्शयन्नाह -`भाष्ये तूक्तम्` इत्यादि। `तत्कथम्` इति। यदि तत्? भाव्यकारस्य मतं तत्? केन प्रकारेण सम्पद्येत? इत्येतत्? पृच्छति। `सम्परविभागपक्षे` इत्यादिना यथा तत्? सम्पद्यते तथा दर्शयति। समप्रविभागपक्षे ह्रनेन सूत्रेणेदुतोस्त्रिमात्रः प्लुतः क्रियते, ततश्च तत्सम्बन्धिन्यो यास्मिरुआओ मात्रा या च पूर्वाकारमात्रा ताः सर्वाः समाह्मताश्चतरुआओ मात्रा भवन्ति। एवञ्च चतुर्मात्रः प्लुतो भवति। अत्र भाष्यकारदर्शने पुनः प्लुतग्रहणं सर्वत्र प्लुतोपसंग्रहार्थम्; अन्यथा स्वरितप्रकरणात्? तस्यैव प्रसङ्गे सत्येवेदुतोरिवं प्लुतिः स्यात्। पुनः प्लुतग्रहणे तूदात्तानुदात्तयोरपि भवति। तपरकरणं मुखमुखार्थम्॥", "82107": "एचः समाहारवर्णाः तत्र एकारस्य ओकारस्य च पूर्वेण प्रकरणेन समुदायस्यैष प्लुतः, एचोः पुनरवयवयोरिदुतोः। अनन्तरसूत्रेणेदमारभ्यते `विषयपरिगणनं कर्तव्यम्` इति। एतद्ग्रहणवाक्यम्। अस्य `प्रश्नान्ताभिपूजित` इत्यादिना विवरणं करोति `कर्तव्यम्` [वक्तव्यम् -काशिका] इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -<<अनुदात्तं प्रश्नान्ताभिपूजितयोः>> [[8.2.100]] इत्यादयो योगा इहानुवर्तन्ते, तेनान्यत्र न भवति। `यथाविषयम्` इति। यो यस्य विषयो यथाविषयम् -`यथाऽसादृश्ये` [[2.1.7]] इत्यव्ययीभावः, `प्रश्नान्ताभिपूजितयोः` [[8.2.100]] अनुदात्तः प्लुतः। प्रश्ने तु <<अनन्त्यस्यापि प्रश्नाख्यानयोः>> [[8.2.105]] इति स्वरितः, शेषेपूदात्तः। `इतुतौ पुनरुदात्तावेतौ` इति। `टेरुदात्तः` [[8.2.82]] इति चाधिकारात्। `विष्णुभूते विष्णुभूते3` इति। अत्र `आम्रेडितं भत्र्सने` [[8.2.95]] इति प्लुतः। `आगच्छ भो माणवक विष्णुभूते3` इति। अत्र `दूराद्घते च` [[8.2.84]] इति। ननु चासत्यपि परिगणने नैव प्लुतः प्राप्नोति; `अदूराद्धते` इति वचनात्, तत्किमर्थमिदं परिगणनस्य प्रत्युदाहरणित्याह -`परिगणने च` इत्यादि। असति परिगणने, अदूराद्धूत [`अदूराद्धूतेन भविष्यतीति` इत्येव -कांउ।पाठः] इत्युच्यते। अस्मस्तु सत्येतन्न वक्तव्यम्। परिगणनादेव हि दूराद्धूते न भविष्यतीति। `कर्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -`याज्यान्तः` [[8.2.90]] इत्यतोऽन्तग्रहणमनुवर्तते, तेनान्तस्यैव भविष्यतीति। `भद्रं करोषि गौः` इति। `अभिपूजिते` [[8.2.100]] इति प्लुतः। अन्तग्रहणानुवृत्तेरत्रायं विधिर्न भवति, न ह्यत्रैतच्छब्दोऽश्ते, किं तर्हि? व्यञ्जनम्। `शोभने खल्? स्तः खट्वे3` इति। अत्रापि `अभिपूजिते` [[8.2.100]] इत्येव प्लुतः। `आमन्त्रिते `च` [`च` नास्ति -काशिका पदमञ्जरी च] इत्यादि। प्लुतश्चासौ विकारश्चेति प्लुतविकारः। प्लुतव्यपदेशस्त्विदुतोः प्लुतसाहचर्याद्धेदितव्यः। इदुतोग्र्रहणमैचः पूर्वस्योत्तरस्य चैत आदेशा मा भूवन्नित्येवमर्थम्। तपरकरणमिहापि मुखसुखार्थम्॥", "82108": "`तयोः` इति। अनन्तरविहिताविदुतौ प्रत्यवमृश्येते। `अग्ना3याशा, पटा3वाशा` इति। अग्ने आशा, पटो आशा इति स्थिते `प्रद्नान्ताभिपूजितदिचार्यमाणप्रत्यभिवाख्याज्यान्तेषु` (वा।932) इत्येतेषामन्यतमस्मिन्? विवक्षिते, एचः पूर्वस्यार्थस्याकारः प्लुतः, उत्तरस्यार्थस्येदुतौ, तयोरनेन य्वौ। किमर्थं पुनरेतदारभ्यते? एतौ <<इको यणचि>> [[6.1.77]] इत्येव सिध्यत? इत्यत आह - `इदुतोरसिद्धत्वात्` इत्यादि। ननु च सिद्धा प्लुतः स्वरसन्धिषु। यणादेशादिषु यदयम्? <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति प्लुतस्य प्रकृतिभावमाह; सतो हि कार्येम भवितव्यम्, नासतः; प्लुतस्य चेकः, अतस्तावपि स्वरमन्धिषु सिद्धावेष? इत्यत आह - `अथापि` इत्यादि। यदीदं नोच्येत, तदा `अग्ना3 इ इन्द्रम्, पटा3 उ उदकम्? ति स्थिते षाष्ठिकं यणादेशं बाधित्वाऽकः सवर्णे दीर्घत्वं [[6.1.97]] स्यात्। इह चाग्ना3 इति आशा इति स्थिते <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इति प्रकृतिभावः स्यात्। तस्माद्यथानयोः सिद्धत्वं स्यात्, तथापि दीर्घत्वं शाकलविषिश्च मा भूदित्येवमर्थमिदं वक्तव्यमेव। ननु चान्यदेव तन्निवृत्त्यर्थ यत्नान्तरमस्ति, किं पुनस्तदिति चेत्? उच्यते; `श्को यणचि` [[6.1.77]] इत्यत्रोपसंख्यायते - `इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम्` (वा।673) इति। तस्योपसंख्यानमवश्यं कर्तव्यम्। य इक्? भोःशब्दस्य प्लुतः। अत्र भोःशब्दात्? पर इकारो निपातः, न प्लुतविकारः। तस्य यणादेश इष्यते, सोऽसति तस्मिन्नुपसंख्याने न स्यात्। तस्मादवश्यं तत्? कर्तव्यम्। यस्मश्च क्रियमाणे प्लुतविकारयोरपीदुतोस्तेनैव भवितव्यम्, ततो नेदं वक्तव्यमित्यत आह - `तथापि` इत्यादि। अग्ना3 इति आशा इति स्थिते यदि तेन षाष्ठिकोपसंखक्यानेन यणादेश इहोदात्तल्येकारस्य स्थाने क्रियेत, तस्योदात्तयण्स्वरे कर्तव्ये सिद्धत्वादाशाशब्दाकारस्यानुदात्तस्य <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>> [[8.2.4]] इति स्वरितः प्रसज्येत। आशाशब्दः `आशाया अदिगाख्या चेत्` (फि।सू।1-18) इत्यन्तोदात्तः। शेषमपि `अनुदात्तम्` [[6.1.152]] इत्याकारोऽनुदात्तः। तस्मादस्ति स्वरितत्वपरसङ्ग इति तन्निवृत्त्यर्थमिदमुच्यते। `किन्त यणा` इत्यादि। संग्रहश्लोकद्वयम्। किमिति प्रश्ने। तु इति वितर्के। <<इको यणचि>> [[6.1.77]] इति यणादेशेन किं न सिद्धं भवतीहाग्ना3 याशेत्येवमादावुदाहरणे यदाचार्य इदुतीर्य्वौ विदधाति! सर्वमेव सिद्धमित्यभिप्रायः। स्यादेतत् - यणादेशो न प्राप्नोति, तस्मिन्? कर्तव्ये इदुतोरसिद्धत्वादित्यत आह - `तौ च` इत्यादि। तुशब्दो हेतौ। यदा इक्? प्लुतपूर्वो भवति तदा तस्य स्यात्। तस्मात्? `इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम्` (वा।673) इत्युपसंख्याने यणादेशमपवादं करोति शाकलदोर्घविध्योः। तेन हेतुना तयोरिदुतोः शाकलदीर्घविधी न भविष्यतः। चशब्दः समुच्चये; भिन्नक्रमश्च प्रतिषेधानन्तरं द्रष्टव्यः। `तौ च मम स्वरसन्धिषु सिद्धौ`। न च शाकलदीर्घविधी प्रयोजयतः। एवमपवादः। तेषां शाकलदीर्घनिवृत्तेः प्रयोजनत्वे प्रयोजनान्तरमाह - `यणस्वरबाधनमेव तु हेतुः` इति। यणादेशाश्रयः स्वरो यणस्वरः, तस्य बाधनं हेतुः कारणम्। कस्य? प्रकरणात्? सूतारम्भस्यैति गम्यते। तुशब्दोऽवधारणे। यण्स्वबाधनमेव तु सूत्रारम्भस्य हेतुरित्यर्थः॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायामष्टमाध्यायस्य द्वितीयः पादः- - - अथाष्टमाऽध्यायःतृतीयः पादः", "83001": "`युधोः` [[7.1.1]] इत्यत्र द्वेष्यपरीहारायोक्तं तत्? `मतुवसोः` इत्यत्रापि द्रष्टव्यम्। `इन्द्रमरुत्व` इति। मरुच्छब्दान्मतुप्, `झयः` [[8.2.10]] इति यत्वम्, `उगिदचाम्` [[7.1.70]] इति नुम्, हल्ङ्यादि [[6.1.66]] संयोगान्त [[8.2.23]] लोपौ, नकारस्य रुत्वम्, तस्य `भोभगो` [[8.3.17]] इत्यादिना यकारः, तस्यापि <<लोपः शाकल्यस्य>> [[8.3.19]] इति लोपः। `हरिषो मेदिनं त्वा` इति। हरिशब्दान्मतुप्, <<छन्दसीरः>> [[8.2.15]] इति वत्वम्, पूर्ववन्नुमादि। अयं त्वत्र विशेषः -`हशि च` [[6.1.110]] इति रोरुत्वम्, पूर्वेण स ह <<आद्गुणः>> [[6.1.87]] । `मीढ्वस्तोकाय` इति। `मिह सेचने` (धातुपाठः-992) लिटः क्वसुः, `दाआआन्? सह्वान्? मीढ्वांश्च` [[6.1.12]] इत्यद्वित्वम्, अनिट्त्वम्? उपधादीर्घत्वञ्च निपात्यते, `हो ढः` [[8.2.31]] इति ढत्वम्, रोर्विसर्जनीये कृते तस्य <<विसर्जनीयस्य सः>> [[8.3.34]] ति सकारः। शत्रादेशस्य वसोः सम्बुद्धौ छन्दसि दिषये प्रयोगो नास्तीति तस्यानुदाहरम्। अत एव `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इत्येषा परिभाषा नोपतिष्ठते; एकानुबन्धकस्य सम्बुद्धिपरस्य च्छन्दसि वसोः प्रयोगादर्शसात्।`विद्वान्` इति। <<विदेः शतुर्वसुः>> [[7.1.36]] । `हे पपिवन्` इति। पातेः पिबतेर्वा परस्य क्वसोः <<वस्वेकाजाद्घसाम्>> [[7.2.67]] इतीट्, <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः स्थानिवद्भावाद्द्विर्वचनम्। `वन उपसंख्यानम्` इति। अननुबन्धकस्य वनोऽसम्बवात्सामान्येन क्वनिब्बनिपोग्र्रहणम्। यश्च मत्वर्थे `क्वनिब्वनिपौ छन्दसि वक्तव्यौ` (वा।582) इत्यौपसंख्यानिकः, तस्यापि ग्रहणम्। `प्रातरित्व` इति। `इण्? गतौ` (धातुपाठः-1045) प्रातापूर्वः, आतो मनिन्क्वनिब्धनिपश्च` [[3.2.74]] इत्यनुवर्तमाने <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति क्वनिप्, <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] । इदं तु सम्पदादित्वादिना क्विपि तुकि तदन्तन्मतुपि `झयः` [[8.2.10]] इति वत्वे मत्वन्तादेव सिध्यतीति नोपसंख्यानं प्रयोजयति। `विभाषा` इत्यादि। भवच्छब्दः `भातेर्डवतुः` [`भातेर्डवतुप्` -पं।उ।1-64] इति डवतुप्रत्ययान्तो व्युत्पादितः। अव्युत्पन्नं वोकारानुबन्धं प्रातिपदिकम्; इतरौ तु मत्वन्तौ। `हे भोः` इति। नुमो रुत्वे कृतेऽवशब्दस्य सर्वस्यैव स्थान ओकारः क्रियते, नालोऽन्त्यस्य, `नान्र्थकेऽलोन्त्यविधिः` (व्या।प।62) इति कृत्वा। `नुपातविज्ञानात्? सिद्धम्` इति। एतद्ग्रहणकवाक्यम्। `अथ वा` इति। अस्यैव विवरणम्। `असम्बद्धावपि` इत्यादि। एतेन निपातत्वे हेतुं दर्शयति। यद्युपसंख्यानादेव भो इत्येवमादिकं स्यात्, द्विवचनबहुवचनयोर्न स्यात्; सम्बुद्ध्यभावात्। स्त्रियाञ्च सम्बुद्धावपि न स्यात् -भो ब्राआहृणीति; अत्र स्त्रीलिङ्गविशिष्टानामनुपादानात्। `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति चेत्, न; विभ्कतौ तत्प्रतिषेधात् -विभक्तौ यत्कार्यं विषीयते तत्रेयं परिभाषा प्रतिषिध्यते; `विभक्तौ लिङ्गविशिष्टस्याग्रहणम्` (व्या।प।30) इति वचनात्। अथापि न प्रतिषिध्यते? एवमपि भवतीति स्थिते इकारस्य[`ईकारस्य` -प्रांउ।पाठः] रुत्वे कृतेऽवशब्दस्य चौकारे कृते रुत्वस्यासिद्धत्वात्? संयोगान्तलोपाभावे सति विसर्जनीये कृतेनिष्टं रूपं स्यात्। तस्मादसम्बुद्धौ, स्त्रियाञ्च दर्शनान्निपाता एवैते वेदितव्याः। निपातत्वं पुनरेषां विभक्तिप्रतिरूपकत्वात्, `विभक्तिस्वरप्रतिरूपकाश्च` (ग।सू।16) इति चादिषु पाठात्। पवञ्च भोः शब्दस्य निपातत्वं स्यात्; भवतेर्विचि कृते गुणे च विभक्त्यन्ते भोःशब्दस्यैव विद्यमानत्वात्, इतरयोस्तु न स्यात्। न ह्रसत्यस्मिशुपसंख्याने भगोशब्दः, अघोःशब्दस्च विभक्त्यन्तोऽस्ति, यत्प्रतिरूपकौ निपातौ स्याताम्। तस्मात्? सौत्रा एवैते निपाता वेदितव्याः; `भोभगोअधोअपूर्वस्य` [[8.3.17]] इत्यत्र सूत्रे एषां पाठात्। अथ वा -उपसर्गविभक्तित्वरप्रतिरूपकाश्चेति चकारस्यानुक्तसमुच्चयार्थत्वान्निपातत्वमेषां वेदित्वयम्। यदि तर्हि निपातत्वमेषामाश्रित्योपसंख्यानं प्रत्याख्यायते, तदा भोःशब्दप्रयोगे समोस्ततोभोस्तत्रभो इत्यत्र <<इतराभ्योऽपि दृश्यन्ते>> [[5.3.14]] ति भवदादियोगे विधीयमानास्तसिलादयो न सिध्यन्ति? अनिष्टस्वाददोषः। यो हि निपातत्वादुपसंख्यानं प्रत्याचष्टे स भोःशब्दप्रयोगे तसिलादीन्नेच्छत्येव॥", "83002": "पूर्वत्वमिदमापेक्षिकम्, रुश्चेहानुवर्तते। न च तदपेक्षं पूर्वत्वमस्य विज्ञात्तुं शक्यते; इत उत्तरं ह्रनुनासिको रुश्च समनुवृत्तेरेककालं विधौयत इत्यनुनासिकविधानकाले रोरनिष्पन्नत्वम्। अतस्तदपेक्षया पूर्वत्वमिदमशक्यं विज्ञातुम्। तस्माद्यस्य स्थाने रुत्वं विधीयते तदपेक्षया पूर्वत्वं विज्ञायते, इत्याह -`यस्य स्थाने रुर्विधीयते ततः पूर्वस्य` इति। तुशब्दः परस्मात कार्यिणः पूर्वस्य विशेषं दर्शयति। परस्य रुत्वकार्यम्, पूर्वस्य त्वनुनासिक इति। अथ वा -रुत्वादननासिकस्य विशेषं दर्शयति। रुत्वं नित्यम्? अनुनासिकस्तु विभाषेति। अछाच्कद्कगणं किमर्थम्? अत्र रुप्रकरणे यथा स्यादिति चेन्न; अधिकारादेवैतत्? सिद्धम्। यथा हि `अनुनासिकः पूर्वस्य` इत्यधिकृतमुत्तरत्रानुवर्तते, तथा रुरित्येतदपि। तत्रान्तरेणाप्यत्रेति वचनं रुप्रकरणे भविष्यतीत्यत आह -`अत्र` इत्यागदि। सन्नियोगः -यौगपद्यम्। यौगपद्यम्। रुणा सह कथं नाम स प्रतीयेतेत्येवमर्थमत्रग्रहणम्। अवधारणञ्चात्र द्रष्टव्यम् -रुणैवेति। सन्नियोगमात्रं हि रुत्वानुनासिकयोः; उत्तरत्र द्वयोरप्यनुवृत्तेः। स्थानिऊभेदेन विरोधाभावाद्विनाप्यत्रग्रहणेन लभ्यत एव। ननु रुप्रकरणादूध्र्वमनुनासिकस्यास्वरितत्वादेव सन्नियोगो न विज्ञास्यते, तत्क तदर्थेनात्रग्रहणेन? इत्यत आह -`अधिकारपरिमाणापरिग्रहे हि` इत्यादि। अधिकारस्य परिमाणमियत्ता, तस्य परिग्रहः=परिज्ञानम्, निश्चयः। तस्मिन्नसति मन्दधीभिः प्रतिपत्तृभिः किमुत्तरत्रानुनासिकस्य स्वरितत्वमस्ति? अहोस्विन्नास्ति? इति जातसन्देहैः `ढोढे लोपः` [[8.3.13]] इत्यादावपि यस्य स्थाने ढलोपदिकार्यं विधीयते तस्मात्? पूर्वस्यानुनासिक आशङ्क्येत। अथ वाग्रहणं किमर्थम्, यावतोत्तरसूत्रे नित्यग्रहणादेव विकल्पोऽस्य विज्ञास्यते? नैतदस्ति; एवं हि पूर्वसत्रे विकल्पो विज्ञायेत। तस्माद्वेति वक्तव्यम्? न वक्तव्यम्; आचार्यप्रवृत्तिज्र्ञापयति -विकल्पेनायं विधिर्भवतीति, यदयमुत्तरसूत्रे यस्यानुनासिको न कृतस्तस्माद्रोः पूर्वस्मात्? परमनुस्वारागमं शास्ति। न हि नित्येऽस्मिन्? विधौ तत्? सम्भवति, रोः पूर्वस्य यस्यानुनासिको न कृत इति। एवं तर्हि विस्पष्टार्थं वाग्रहणम्॥", "83003": "`देवं अच्छादीव्यत्` इति। अत्र योऽकारस्तस्मिन्नटि परतो `दूर्घाददि समानपादे` [[8.3.9]] इति न कारस्य रुत्वे कृते तस्मात्? पूर्वस्याकारस्यानेनानुनासिकत्वम्, पूर्ववद्रोर्यकारः, तस्य पूर्वदेव लोपः। यदि महां इन्द्रो म ओजसेति `केचिदनुस्वारमधीयते` इति वक्तव्यम्, तर्हि तद्यथासौ सिध्यतीत्यत आह -`सः` इत्यादि। व्यत्ययो बहुलम्` [[3.1.85]] इत्यनेन बोद्धव्यः। `यो वा वनस्पतीं रनु` इति। वनस्पतीन्? अन्विति स्थिते <<दीर्घादटि समानपादे>> [[8.3.9]] इति नकारस्य रुत्वे कृते `अनुनासिकात्? परोऽनुस्वारः` [[8.3.4]] इतीकारात्? परोऽनुस्वारः `भवांशस्चरति` इति। `नश्छव्यप्रशात्` [[8.3.7]] इति नकारस्य रुत्वम्, तस्य विसर्जनीयस्य सकारः, तस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्। नित्यग्रहणं विस्पष्टार्थम्।[`स्पष्टार्थम्` -प्रांउ।पाठः] पूर्वेणैव विकल्पे सिद्धे सत्यारम्भसामर्थ्यादेव नित्योऽयं विधिर्विज्ञास्यते। ननु चात एवाटि, अथ वाऽटएवातः -इत्येव नियमो यथा स्यादित्येवमर्थः सिद्धे सत्यारम्भः स्यात्? नैतदस्ति; असति हि विधेये नियमो भवति। इह त्वस्ति विदेयम्, किं तत्? नित्योऽनुनासिकः। तस्माद्विधिरेव युक्तः; न नियमः। तथा चोक्तम् -`विधिनियमसम्भवे विधिरेव व्यायान्` (व्या।प।130) इति। `आतः` इति तकारोऽसब्देहार्थः। `आ इत्युच्यमाने सन्देहः स्यात् -किमर्थं षष्ठन्तस्याकारस्य कार्यिनो निर्देशः? उत्तादेशान्तस्य प्थमान्तस्य? इति॥", "83004": "`अन्यशब्दोऽत्राध्याहार्यः` इति। असति ह्रन्यशब्दस्याध्याहरे परशब्दस्य धुतत्वात्? तदपेक्षयैवानुनासिकादित्येषा पञ्चमी स्यात्; अन्यस्येह पञ्चमीहेतोरसम्भवात्। ननु <<तस्मादित्युत्तरस्य>> [[1.1.67]] उपस्थाने उत्तरशब्दापेक्षयैव पञ्चमौ स्यात्? नैतदस्ति; यदि ह्रल्याः परिभाषाया इहोपस्थानं स्यात्? परग्रहणमनर्थकं स्यात्। तस्मात्? परशब्दापेक्षयैव पञ्चम्या भवितव्यम्। सा भवन्ती च `अन्यारादितरर्ते` [[2.3.29]] इत्यादिवा सूत्रेण परशब्दयोगे दिग्बृत्तिगा वा स्यात्, अन्यार्थवृत्तिना वा? तत्र पूर्वस्मिन्? पक्षे रोः पूर्वस्मादनुनासिकादेव परोऽनुस्वारो विज्ञायेत, न च तस्मात्? पर इष्यते। इतरस्मस्त्वयमर्थं आपद्येत -अनुनासिकात्? परो भवतदि, अनुनासिकादन्योऽनुस्चारो भवतीत्यर्थः। एवञ्च परग्रहणनर्थकं स्यात्; न ह्रनुनासिकापेक्षयानुस्वरोऽन्यत्वं व्यभिरति। किञ्च -श्रुतत्वात्? तस्यैवानुनासिकस्यानुस्वारो विज्ञायेत, प्रकृतत्त्वाद्रोर्वाः; अनिष्टञ्चैतत्? अन्यशब्दाध्याहारे तु वस्यानुनासिको न कृतस्यस्मादेव पर इति विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशब्दाध्याहारे तु यस्यानुनासिको न कृतस्यस्मादेव पर इत#इ विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशाब्दाध्याहारे यदि परशब्दापेक्षयैव `अनुनासिकात्` इत्येषा पञ्चमी स्यात्, स दोषस्तदवस्थ एव स्यादिति मत्वाऽऽह -`तदपेक्षया चेयम्` इत्यादि। चशब्दोऽवधारणे। अन्यशब्दापेक्षयैव, न परशभ्दापेक्षयेत्यर्थः। `अनुनासिकदन्यो यः` इत्यनेन तदेवान्यशब्दापेक्षत्वं पञ्चम्या दर्शयति। `रोः पूर्वः` इत्यनेनापि पूर्वग्रहणानुवृत्तिम्। पूर्वत्वञ्च रुत्वापेक्षम्। `यस्यानुनासिको न कृतः` इत्यनेनाप्यन्यशब्दाभिधेयमर्थं दर्शयति। `ततः` इत्यनेनापि पूर्वग्रहणस्यार्थादिह पञ्चम्यन्ततया विपरिणाअमम्। अन्यशब्दस्य चाव्याह्मतस्य पञ्चम्यन्ततां पर इत्यनेनापि। तस्या अन्यशब्दस्य सम्बन्धिन्याः पञ्चम्याः परशब्दापेक्षताम्। `आगमः` इत्यनेनाप्यादेशाभावम्। परग्रहणं शक्यमकर्तुम्। अन्यशब्दस्य पञ्चम्यन्तस्याध्याहरे सति पूर्वग्रहणस्य चार्थात्? प्रथमान्ततया विपरिणामे सत्येवं विज्ञास्यते -अनुनासिकाद्योऽन्यस्तस्मादुत्तरो यो रुस्ततः पूर्वोऽनुस्वारागमो भवति। एवञ्च विज्ञायमानेऽसत्यपि परग्रहयणे संस्कर्तेत्यादि सिध्यत्येव, किं परग्रहणेन? एतत्? क्रियते विस्पष्टार्थम्॥", "83005": "<<मोऽनुस्वारः>> [[8.3.23]] इत्यनुस्वारे प्राप्ते वचनम्। `सँस्कर्ता`[`संस्कर्तेति` -न्यासे, पदमञ्जर्यां च मुद्रितः पाठः] इत्यादि। करोतेः सम्पूर्वात्? तृजादयः, <<सम्पर्युपेभ्यः करोतौ भूषणे>> [[6.1.137]] (इति) सुट्, समो मकारस्य <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन रुत्वे ततः पूर्वस्यानुनासिकः, रोर्विसर्जनीयः। तस्य `वा शरि` [[8.3.36]] इति विकल्पेन सकारे प्राप्ते विसर्जनीये च यथा नित्यं सकारो भवति, तथा वृत्तौ दर्शितम्। कथं पुनरस्मिन्? सूत्रे सकारो निर्द्दिश्यते? इत्याह -`समः स्सुटि` इत्यादि। यस्मिन्? पक्षे विभक्तिसकारस्य विसर्जनीये कृते `वा शरि` [[8.3.36]] इति सकारो न क्रियते, सं पक्षमाश्रित्येदमुक्तम्; अन्यथा हि त्रिसकारकोऽयं निर्देश इति वक्तव्यं स्यात्; त्रयाणां सकाराणां सन्निपातात्। एको हि विभक्तिसम्बन्धी सकारः, द्वितीयस्त्वादेशसम्बन्धी, तृतीयः सुटसम्बन्धी। यदा तु त्रिसकारं कृत्वा सूत्रं पठते, तदा द्विशब्दोऽधिकसकारोपलणार्थो द्रष्टव्यः। यदि तर्हि सकार आदेशो विधीयते, `संस्कर्ता` इत्यत्रानुनासिको न प्राप्नोति; यस्मादत्रात्रग्रहणं रुणैव सह सन्नियोगप्रतिपत्त्यर्थमुक्तम्। रुग्रहणस्यास्मिन्? प्रकरणे यद्विधीयते तदुपलक्षणार्थत्वाददोषः। `रुणा सह` इति। रुप्रकरणे यद्विधीयते तेन सहेत्यर्थः। यदपि पूर्वस्मिन्? सूत्रे वृत्तो `रोः पूर्वः` इत्युक्तम्, तत्रापि रुग्रहणस्यास्मिन्? प्रकरणे यद्विधीयते तदुपलक्षणार्थं वेदितव्यम्; अन्यथा हि `संस्कर्ता` इति पक्षेऽनुस्वारो न स्यात्॥", "83006": "`पुमः` इति। पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्दशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कार्यित्वात्। `अम्परे` इति। अम्? परो यस्मात्? स तथोक्तः। अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य। कुत एतत्? व्याप्तिन्यायात्? `खयि` इति प्रत्याहारेण साहचर्याच्च। `पुंश्चली` इति। चलडिति पचादौ पठते। तेन `चल कम्पने` (धातुपाठः-832) इत्यस्मात्? पचाद्यच्? टिद्भवति, `टिड्ढणञ्` [[4.1.15]] इति ङीप्। पुंश्चलीति षष्ठीसमासः। `पुंस्कामा` इति। पुंसि कामोऽस्या इति बहुव्रीहिः। अथ वा -पुमांसं कामयत इति `शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः` (वा।229) इति णः; ततष्टाप्। अत्र पुंस्कामेत्यत्रोदाहरणे। `सकार एवादेशः` इति। विसर्जनीयस्येत्यपेक्षते। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -`कुप्वोः क पौ च` [[8.3.37]] इत्यत्र `वा शरि` [[8.3.36]] इत्यतो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेनात्रापि विसर्जनीयस्य सकार एव भविष्यति, न विसर्जनीयजिह्वामूलीयाविति। इदं तावत्? पूर्वसूत्रे यदा द्विसकारपक्षो नाश्रीयते, तदा प्रतिविधानमुक्तम्। यदा तु तत्र `द्विसकारको निर्देशः` इत्येष पक्ष आश्रीयते, तदा प्रतिविधातुमाह -`द्विसकारकनिर्देशपक्षे तु` इत्यादि। ननु च रुरप्यनुवरत्तत एव, तत्र यथा सकारोऽनुवर्तमानो भवति तथा रुरपि पक्षे स्यात्, ततश्च रुत्वपक्षे विसर्जनीये कृते जिह्वामूलोयः स्यादेव? इत्यत आह -`रुत्वं त्वनुवर्तमानम्` इत्यादि। तत्रैव कारणमाह -`सम्बन्धानुवृत्तिस्तस्य` इत्यादि। इतिकरणो हेतौ, स हि `मतुवसो रु सम्बुद्धौ` [[8.3.1]] इत्यतः स्वेन सम्बन्धिना मतुपा वसुना च सम्बद्ध इहानुवर्तते। तस्मान्नोत्सहते सम्बन्ध्यन्तरेण सम्बन्धमनुभवितुम्। `पुंदासः` इति। षष्ठीसमासः -पुंसो दास इति। कर्मधारयो वा। एवं `पुगवः` इति। अत्र तु <<गोरतद्धितलुकि>> [[5.4.92]] इति टच्? समासान्तः। `पुंक्षीरम्, पुंक्षुरम्` इति। षष्ठीसमासः। `खय्यमि` इति। वक्तव्ये परघणं विपरीतकल्पनानिरासार्थम्। असति परग्रहणे -अमि खयि पर इति विज्ञायेत, ततश्च `पुमाख्यः, पुमाचारः` इत्यत्रापि स्यात्। अतः परग्रहणम्॥", "83007": "`स` इति। निवृत्तम्, रुरेवानुवर्तते; सोऽपि मतुवसुभ्यामसम्बद्ध एव; तयोरपि निवृत्तत्वात्। `न` इति वर्णग्रहणम्, तच्च प्रकृतस्य पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह - `नकारान्तस्य पदस्य` इत्यादि। `भवांश्छादयति` इति। `झद अपवारणे` (धातुपाठः-1833), चुरादिणिच्। `भवांष्टीकते` इति। `टिकृ टीकृ रधि लघि गत्यर्थाः` (धातुपाठः-103,104,107,108)। अनुदात्तत्त्वादात्मनेपदम्। `प्रशान्` इति। प्रपूर्वाच्छमेः क्विप्? `अनुनासिकस्य विवझलोः क्ङिति` [[6.4.15]] इति दीर्घः, <<मो नो धातोः>> [[8.2.64]] इति मकारस्य नकारः, तस्यासिद्धत्वान्नलोपाभावः। `भवान्? त्सरुकः` इति। त्सरौ कुशलः, <<आकर्षादिभ्यः कन्>> [[5.2.64]] इति कन्प्रत्ययः॥", "83008": "पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्॥", "83009": "`समानपादे` इति। कर्मधारयात्? सप्तमी। समानशब्दश्चायमेकार्थे वर्तमा इह गृह्रते। समाने=एकस्मिन्? पादे निमित्तनिमित्तनोराधारभत इत्यर्थः। तत्रैकग्रहणे कर्तव्ये क्वचिदसमानपादेऽपि यथा स्यादिति समानग्रहणं कृतम्। तेनेहापि रुर्भवति -यजामहै यज्ञिया इन्द्रदेवां इलामहै ईक्षां अनाज्यैति। अत्र भिन्नयोः पादयोर्निमित्तनिमित्तिनौ वर्तते। अथ वा -सादृश्ये वर्तमानः समानशब्दो गृह्रते, अन्यथा ह्रेकग्रहणं कुर्यात्। इह च सादृश्यमुभयोरस्ति पादयोः, क्रियापदयोस्तुल्यार्थत्वात्। यथा यजामहायित्येतत्, क्रियापदं पूजायां वर्तते, तथेलामहायित्येतदपि। `ईड स्तुतौ` (धातुपाठः-1019), लोट्, टेरेत्त्तवम्, <<वैतोऽन्यत्र>> [[3.4.96]] इतीकारस्यैकारहः। धातोर्वर्णव्यत्ययेन डकारस्य लकारः। छान्दसत्वाद्? ह्रस्वत्वम्॥", "83010": "`नृन्?` इति। `सुपां सुलुक्` [[7.1.39]] इत्यादिना षष्ठआ लुकं कृत्व निर्देशः। अथ वा - विभक्तिरेवात्र नोत्पद्यते, अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात्। यथा-गवित्ययमाहेत्यादि। `पे` इति पकारमात्रमेव निमित्तत्वेनोपात्तम्; न समुदायः। अकारस्तूच्चारणार्थः, अन्यथा हि यद्यकारसमुदायो निमित्तत्येनाश्रीयते, तदा नृ#ः पचतीत्येवमादावेव स्यात्, न तु नृन्? प्रीणीहीत्यादौ। `अटि` इति चेह निवृत्तम्; निमित्तान्तरो पादानात्। अथ तस्यैव निमित्तस्यैतद्विशेषणं कस्मान्न विज्ञायते -अटि परतो यः पकार इति? अशक्यमेवं विज्ञातुम्; इह न स्यात् -नृ#ः प्साति, नृ#ः प्लावयतीति। तस्मादस्य निवृत्तिरङ्ग्रहणस्य युक्ता॥", "83011": "स्वतवानिति पूर्ववन्निर्देशौ वेदितव्यः। तथा `कान्` [[8.3.12]] इति परसूत्रेऽपि। `स्वतवाः, पायुरग्ने` इति। `दृक्स्वःसवतवसाञ्छन्दसि` [[7.1.83]] नुम, हल्ङ्यादि [[6.1.66]] संयोगान्त [[8.2.23]] लोपौ॥", "83012": "`कांस्कान्` इति। किमः शसि <<किमः कः>> [[7.2.103]] इति कत्वम्, प्रथमयोः पूर्वसवर्णः` [[6.1.98]] इति दीर्घः, <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति सकारस्य नकारः, वीप्सायां द्विर्वचनम्, रुत्वम्? विसर्जनीयः, तसय <<विसर्जनीयस्य सः>> [[8.3.34]] इति सः। कथं पुनरत्र सकारः, यावता `कुप्वोः क पौ च` [[8.3.37]] इति विसर्जनोयजिह्वामूलीयाभ्यां भवितव्यम्? अत आह -`अस्य` इत्यादि। तत्र यद्यपि न पठते, तथापि भवत्येवानिष्टप्रसङ्ग इति दर्शयितुमाह -`समः सुटि` इत्यादि। यदि सकारोऽत्रानुवर्त्तिष्यते, पूर्वयोगेऽपि सर्वत्रैतस्मादनुवर्तमानात्? सकारः प्रसज्येत? इत्याह -`पूर्वयोगेषु` इत्यादि। पूर्वयोगेषु हि <<समः सुटि>> [[8.3.5]] इति स्वेन सम्बन्धिना समा सुटा च सम्बद्धस्यैव तस्यानुवृत्तिः, ततो न तस्य सम्बन्ध्यन्तरेणा सम्बन्धो भवति। कान्? कानिति वक्तव्ये, आम्रेडितग्रहणम् -यत्र द्विर्वचनं तत्र यथा स्यात्। तेनेह न भवति -कान्? कान् पश्यतीति। एकोऽत्र किं शब्दः प्रश्ने, द्वितीयस्तु कुत्सायाम्। कान्? कुत्सितान्? पश्यतीत्यर्थः॥", "83013": "`ढे` इति वर्णमात्रं निमित्तत्वेनाश्रीयते; न वर्णसमुदायः। कुत एतत्? व्याप्त्या। अकार उच्चारणार्थः। वर्णग्रहणे तु सति लीढ्वा, मीढ्वेत्यादावपि भवति; अन्यथा हि यदि वर्णसमुदायो निमित्तत्वेनाधीयते तदा लौढम्, मीढमित्यादावेव स्यात्, न तु लीढवेत्यादौ। `लीढम्` इत्यादि। `लिह आस्वादने` (धापा।1016) `मिह सेचने` (दा।पा।992), `गुहू संवर्णे` (धातुपाठः-896) -एभ्यः [एभ्यः `ष्टुना ष्टुः` इति ष्टुत्वम् -कांउ।पाठः] क्तः, `हो ढः` [[8.2.31]] इति ढत्वम्, `झवस्तथोर्धोऽधः` 98.2.40) इति धत्वम्। <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्, ढलोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः` [[6.3.110]] इति दीर्घः। कथं पुनर्लीढमित्याद्युदाहणमुपपद्यते, यावता ढकारोऽत्र परनिमित्तं नास्त्येव ढलोपे कर्तव्ये ष्टुत्वस्यासिद्धत्वात्? इत्यत -`ष्टुत्वस्य` इति। ढकारोऽत्र ढलोपनिमित्तनाश्रीयते, न चासौ क्वचित्? सिद्धः सम्भवति यत्रानेन ढलोपः कर्तव्यः। तस्माद्? ढकारस्य निमित्तत्वेनाश्रयणादेव ष्टुत्वस्य सिद्धत्वं वेदितव्यम्; अन्यथा ह्रस्य वचनस्य वैयथ्र्यं स्यात्; अनवकाशत्वात्। स्यादेतत्। आलीङ्ढौकत इत्यनेन ढलोपो भविष्यति, सिद्धो ह्यत्र ढकारः, तत्? कुतो वचनस्य वैयथ्र्याम्? इत्याह`आलिङ्ढौक्ते` इत्यादि। यद्यप्यत्र निमित्तं ढकारः सिद्धः, तथापि नैव ढलोप उपपद्यते; जश्त्वे कृते कार्यिणो ढकारस्याभावात्। ननु च निर्विषयत्वाङ्ढलोपो जश्त्वापवादो भविष्यति? इत्याह -`न च` इत्यादि। कुत एतत्? इत्याह -`तस्य हि` इत्यादि। यदि हि तस्य विषयो न सम्भाव्येत, ततो जशत्वापवादः सक्यते विज्ञातम्। सम्भवति चास्य विषयो लीढाटिः, तस्मान्न शक्यौऽसौ जशत्वापदाद इति विज्ञातुम्। कथं पुनर्लीढादिरस्य विषयः पावता यथा आलिङ्ढौकत इत्यत्र जश्त्वे कृते कार्यिणोऽसम्भवाङढलोपस्या विषयः, तथा लोढादावपवि ष्टुतवस्यासिद्धत्वे सति निमित्तस्याभावात्। अथात्र वचनसमाथ्र्याडढलोपेन ष्टुत्वस्यासिद्धत्वं बाध्यते? इतरत्रापि जश्त्वं कस्मान्न बाध्यते; तस्माद्यदि पुनर्लीढाविढंलोपस्य विषय इत्तरेणापि तद्विषयेण भवितव्यम्, न तु लीढादिनैवेतरत्रापीत्यत आह -`तत्र हि` इत्यादि। इह `ढे` इति सप्तमीनिर्देशा दानन्तर्यमाश्रितम्; न तु लीढादिनैवेतरत्रापीत्यत आह -`तत्र हि` इत्यादि। इह `ढे` इति सप्तमीनिर्देशा तद्विषयेण भवितध्यम्, न तु लीढादिनैवेतरत्रापीत्यत आह -`तत्र हि` इत्यादि। इह `ढे` इति सप्तमीनिर्देशा दानन्तर्यमाश्रितम्; निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्। ततश्चानन्तर्ये सति ढलोपेन भवितव्यम्। अस्ति च लोढादो श्रुतिकृतमानन्तर्यम्, उभयोर्निमित्तकार्यिणोर्ढकारयोः श्रयमाणत्वात्। तस्मादेष एव ढलोपस्य विषयः? सत्यमिहासत्यानन्तर्यं श्रुतिकृतम्; अनानन्तर्यमप्यस्ति शास्त्रकृतम्; शास्त्रेण ष्टुत्वस्यासिद्धत्वोपादानात्। सति च तस्मिन्? सोऽपि न ढलोपस्य विषय इत्यत आह -`शास्त्रकृतम्; शास्त्रेण ष्टत्वस्यासिद्धत्वोपादानात्। सति च तस्मिन सोऽपि न ढलोपस्य विषय इत्यत आह -`शास्त्रकृतम्` इत्यादि। विद्यमानमपि शास्त्रकृतमनान्तर्यं ढलोपेन बाध्यते; अन्यथा हि वचनवैयध्र्यं स्यात्। यथा शास्त्रकृतमनानन्तर्यं वचनसामर्थ्याद्बाधित्वा ढलोपो भवति, तथा श्यलिङ्ढौकत इत्यत्रापि श्रुतिकृतमानानन्तर्यं बाधित्वा ढलोपः स्यादित्याह -`आलिङ्ढौकत इत्यत्र तु` इत्यत्र तु` इत्यादि। तुशब्दो लौढादेरस्य विशेषं दर्शयति। अत्र लीढादौ हि यद्यपि शास्त्रकृतमानन्तर्यं नास्ति, श्रुतिकृतं त्वस्ति। इह तु नापि श्रुतिकृतमानन्तर्यं द्वयोर्ढकारयोरश्रूयमाणत्वात्, नापि शास्त्रकृतम्, शास्त्रेण जशत्वस्यासिद्धत्वानुपायनात्। तस्मान्नैव ढलोपस्य विषयः॥", "83014": "किं पुनरिदं सानुबन्धकारस्य रेफस्य ग्रहणम्? उत्त निरनुबन्धकस्य? किञ्चात्र यदि सानुबन्धकस्य ग्रहणम्? सिद्धम् -अग्नीरथः, इन्दूरथ इति; नीरक्तं दूरक्तमिति तु न सिध्यति। अथ निरनुबन्धकरस्य ग्रहणम्? तदा सिध्यति -नीरक्तम्, दूरक्तमिति; अग्नीरथः, इन्दूरथ इति न सिध्यति? नैष दोषः; इह तन्तेणाचार्यः `रो रि` इति द्वे सूत्रे उच्चारितवान्, तत्रैकत्र सानुबन्धकस्य ग्रहणम्, अपरत्र निरनुबन्धकस्येति। नीरक्तमित्यादौ <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घत्वम्। इह यदि पदस्येति स्थानषष्ठी स्यात्, ततः <<अलोऽन्त्यस्य>> [[1.1.52]] इति पदान्तस्यैव [`पदान्तस्य` -कांउ।पाठः] रेफस्य [अयं भागः कांउ।पाठे नास्ति]लोपः स्यात् -नीरक्तमित्यादौ। अजर्धा इत्यादौ त्वपदान्तस्य[अयं भागः कांउ।पाठे नास्ति] न स्यात्; विशेषणषष्ठआं त्वस्यामिहापि भवतीत्येतच्चेतसि कृत्वाऽऽह -`पद्स्य` इत्यादि। विशेषणषष्ठआं हि पदस्येत्यस्यैवमभिसम्बन्धः क्रियते -पदस्यावयवो यो रेफस्तस्य रेफे परतो लोपो भवतीति। तेनापदान्तस्यापि भवति। `अजर्धाः` इति। `एकाचो बशो भव्` [[8.2.37]] इत्यादौ सूत्र इवं व्युत्पादितम्। `अपास्पाः` इति। `स्पद्र्ध सङ्घर्षे` (धातुपाठः-3) असमाद्यङ्, द्विर्वचनम्, <<शर्पूर्वाः खयः>> [[7.4.61]] इति खयः शेषः, <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घत्वम्, <<यङोऽचि च>> [[2.4.74]] इति यङो लुक्; पास्पद्र्ध इति स्थिते लङ् अडापमः, सिप्, `चर्करौतञ्च` (धातुपाठः-1081) इत्यादिषु पाठाच्छपो लुक्, सिपो इल्ङ्यादिना [[6.1.66]] लोपः, जश्त्वेन धकारस्य दकारः, `दश्च` [[8.2.75]] इति तस्यैव दकारस्य रुत्वम्, तत्रानेन रेफस्य लोपः, पूर्ववद्दीर्धत्वम्। योगविभागकरणमुत्तरार्थम्, उत्तरसूत्रे रेफस्यानुवृत्तिर्यथा स्यादित्येवमर्थम्; इतरथा हि ढकारस्यापि ततरानुवृत्तिः स्यात्, ततश्च तस्यापि विसर्जनीयः प्रसज्येत॥", "83015": "यद्यत्र पदस्येति विशेषणवष्ठी स्यात् -पदस्यावयवो यो रेफ इति, तदा `अर्कः` इत्यादानप्यपदान्तस्य रेफस्यापि विसर्जनीयः स्यात्। स्थानषष्ठआ न दोषः; अत्र हि पदं रेफेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवति, तेन रेफान्तसय कार्यमुच्यमानमलोऽन्त्यस्यैव भवतीत्येतदालौच्च पदसयेत्येषा स्थाने षष्ठी; तच्च पदं रेफेण वेशेष्यत इत्यतद्दर्शयन्नाह -`रेफान्तस्य पदस्य` इति। `खरि परतोऽवसाने च` इति। `पतः` इत्येतत्? पूर्वेणैव सम्बध्यते, न परेणावसानेन,[`परेण अवसाने -कांउ।पाठः] तस्य पौर्वापर्याभावात्। तथा हि येन वर्णेन विरम्यते सोऽवसानं स्यात्। विरतिर्वा विरामः=वर्णस्यानुच्चारणम्। तेन रेफान्तात्? पदाद्येन वर्णेन विरभ्यते स तावदवसानसंज्ञकः परो न सम्भवति; तन्मात्रस्याप्रयोगात्। अप्रयोगस्तु निरर्थकत्वात्। इतरत्र तु पुनरवसानमभावरूपम्। अभावे च पौर्वापर्यं न सम्भवति; तस्य वर्णधर्मत्वात्। तस्मात्? तदपि नैव रेफान्तात्? पदात्? परमुपपद्यते। केचित्तु बुद्धिकल्पितं पौर्वापर्यमाश्रित्य `अवसाने च` इत्यानेनापि सह `परतः` इत्येतत्सम्बन्धन्ति। तत्र यदि वुद्धिकल्पितं पौर्वापग्र्रं नाश्रीयते, तदा `खरवसानयोः` इत्येकाप्येषा सप्तम्यधिकरणभेदाद्भिद्यते; खर्यौपश्लेषिकेऽञिकरणे सप्तमी भवति -खरि परत इति, अवसाने तु वैषयिकेऽधिकरणे सप्तमी भवति -अवसाने विषय इति। यदा तु वृद्धिकल्पितमभावेऽपि पौर्वापयमवसानेऽप्याश्रीयते, तदोभत्रापि परसप्तम्येव। उदाहरणेषु खरि विसर्जनीये कृते <<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारः, तस्य चवर्गे परतः श्चुत्वम्। ञधेह नृकुटआं भवः, <<तत्र भवः>> [[4.3.53]] इत्यणि -नार्कुटः, नृपतेरपत्यम्? `दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः` [[4.1.85]] इति नार्पत्य इत्यत्र विसर्जनीयः कस्मान्न भवति? इत्याह -`इह` इत्यादि। वृद्धिहिं भवादावर्थे विहितं तद्धितमाश्रित्य भवन्ती बहिरङ्गा, तस्याश्च बहिरङ्गत्वात्? तदाश्रयस्यापि रेफस्य बहिरङ्गत्वम्; वृद्ध्याश्रितत्वात्, पुना रेफस्य तद्भक्तात्वात्? तन्निमित्तात्वाच्च। विसर्जनीयक्तु खर्माधमाश्रित्य भवतीत्यन्तरङ्गः। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति विसर्जनीये कर्तव्ये रेफोऽसिद्धः, अत इह विसर्जनीयो न भवति। ननु च बृद्धौ कर्तव्यायां विसर्जनीयोडभिमतोऽन्तरङ्गोऽसद्धः, तदसति तस्मिन्? `वृद्धेर्बहिरङ्गव्यपदेशो नोपपद्यते, तस्यान्तरङ्गापेक्षकत्वात्; असति तस्मिन्? वृद्धेर्बहिरङ्गव्यपदेशे रेफस्यापि स न स्यात्। वृद्धेर्बहिरङ्गद्वारकं हि रेफस्य बहिरङ्गत्वम्; ततश्चोमयाङ्गविकलत्वात्? बहिरङ्गपरिभाषा (व्या।प।42) नोपतिष्ठत इति यदुक्ततम् -`बृद्धेर्बहिरङ्गलक्षणत्वात्` इति, तन्नोपपद्यते? नैतत्; <<न मु ने>> [[8.2.3]] इति कार्यान्तरार्थम्? `न` इति योगाविभागः कृतः। तेन वृद्धौ कर्तव्यायां विसर्जनीयस्यासिद्धत्वं न भविष्यति। अत एव बहिरङ्गपरिभाषायामपि विसर्जनीयस्यासिद्धत्वं न भविष्यतीति वेदितव्यम्। `कार्यकालं संज्ञापरिभाषम्` (व्या।प।58) इत्यस्य दर्शनस्येहाश्रितत्वाच्च। युक्तञ्चैतत्, कार्यप्रयुक्तत्वाद्धि संज्ञापरिभाषस्य तद्देशतैव न्याय्या। यत्र ह्रनयाऽसिद्धत्वं क्रियते सोऽस्याः कार्यदेशः। क्व चानयाऽसिद्धत्वम्? विसर्जनीयविधौ। तस्मात्? तद्देशैवेयम्; न तु यत्रोपसंख्याता -<<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति, तद्देशा; नापि यत्र ज्ञापिता -`वाह ऊरु` [[6.4.132]] इत्यत्र, तद्देशा॥", "83016": "`पयःसु, यशःसु` इति। क्वचित्? सकारद्वयं पठते। तत्र `वा शरि` [[8.3.36]] इति विसर्जनीयस्य सकारः। `सर्पिःषु` इति। यत्र विसर्जनीयः पठते तत्र `नुम्विसर्जनीयशव्र्यवायेऽपि` [[8.3.58]] इति प्रत्ययसकारस्य षत्वम्। यत्र सर्पिष्ष्विति षकारद्वयं पठते, तत्र पूर्ववदेव विसर्जनीयस्य सकारे कृते पूर्ववदेव प्रत्ययसकारस्य वत्वम्, पूर्वस्य ष्टुत्वम्? [[8.4.40]] । सुपीति प्रत्याहारग्रहणशङ्कानिरासायाह -`सुपि` इत्यादि। एतच्च `खरि` इत्यनुवर्तनाल्लभ्यते, न हि सप्तमीबहुवचनदन्यः सुप्? क्षरादिरस्ति। मा भूत्; खरीत्यनुवृत्तेः। सप्तम्याः पकारेण प्रत्याहारग्रहणं कस्मान्न भवतीति? सम्भवति [`न सम्भवति -कांउ।पाठ] तत्र खरादिः सुप्। यदि स्यात्? किञ्च स्यात्? अगीःकः, अधःक इत्यत्र नियमाद्विसर्जनीयो न स्यात्। तस्माद्व्याख्यानमेव शरणम्। किमर्थं पुनरिदम्, यावता ननु सिद्धः पूर्वेणैव विसर्जनीयः? इत्याह -`सिद्धे सति` इत्यादि। विपरीतनियमो नाशङ्कनीयः, <<किमः क्षेपे>> [[5.4.70]] इत्यादौ विसर्जनीयनिर्देशात्। `गीर्णु`, धूर्षु` इति। `र्थोरुपधायाः` [[8.2.76]] इत्यादिना दीर्घः॥", "83017": "`भो अत्र` इत्यादौ `ओतो गाग्र्यस्य` [[8.3.20]] इति नित्यो यलोपः। गाग्र्यग्रहणं तत्र पूजार्थम्। `भो ददाति` इत्यादावपि <<हलि सर्वेषाम्>> [[8.3.22]] इति नित्य एव यलोपः। अथाश्ग्रहणं किमर्थम्, यावताऽशोऽम्यः खर्यो भवति तत्र खरवसानयोर्विसर्गेण भवितव्यम्, कृते विसर्णनीये तस्य स्थानिवद्भावाद्रुग्रहणेन ग्रहणे सति स्यादिति चेत्? न; ज्ञापकात्। यदयम्? `अत्रानुनासिकः पूर्वस्य तु धा` [[8.3.2]] इत्यत्र विसर्जनीययकारमकृत्वा निर्देशं करोति तज्ज्ञापयति -विसर्जनीयस्य खरि यकारो न भवति। अवसाने तर्हि स्यादिति चेत्? न; <<संहितायाम्>> [[6.3.114]] इत्यधिकारात्। तस्मादन्तरेणाप्यआचनमश्येण भवति, इत्यत आह -`अदग्रहणमुत्तरार्थम्` इति। <<हलि सर्वेषाम्>> [[8.3.22]] इत्यादिना तामेवोत्तरार्थतां दर्शयति। `दृक्षवृट्` इति। `ओव्रश्चू छेदने` (धातुपाठः-1292), क्विप्, ग्रह्रादिना [[6.1.16]] सम्प्रसारणम्, <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः, चकारस्य व्रश्चादिना [[8.2.36]] चकारः, तस्य जश्त्वेन डकारः, तस्यापि चर्त्वम् -टकारः, वृक्षवृट्, तमाचष्ट इति णिच्, `णाविष्ठवत्? प्रातिपदिकस्य` (धा।813) इतीष्ठवद्भाः, `टेः` [[6.4.155]] इति टिलोपः, वृक्षवयतेण्र्यन्तात्क्विप्, <<णेरनिटि>> [[6.4.51]] इति णिलोपः। `वृक्षव्? करोति` इति। अत्राश्ग्रहणाद्वकरस्य ककारे परतो लोपो न भवति। अत एवाश्घ्रहणात्? <<लोपो व्योर्वलि>> [[6.1.66]] इति लोपो न भवत्येव। अन्यथादग्रहणमनर्थकं स्यात्। यद्युत्तरार्थमश्ग्रहणं स्यात्? तर्हि तत्रैव कर्तव्यम्, एवं ह्रनुवृत्त्यर्थ स्वरितत्वं न कर्तव्यं भवतीत्यभिप्रायेणाह -`अथ` इत्यादि। `उत्तरार्थम्` इति। <<हलि सर्वेषाम्>> [[8.3.22]] इत्यस्मात्? सूत्रादुत्तरसूत्रेऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्। <<मोऽनुस्वारः>> [[8.3.23]] इत्यादिना तदेवोत्तरार्थत्वं स्पष्टीकरोति। यदि हि <<हलि सर्वेषाम्>> [[8.3.22]] इत्यत्राश्ग्रहणं क्रियेत, ततः <<मोऽनुस्वारः>> [[8.3.23]] इत्यत्र यथा हल्ग्रहणस्यानुवृत्तिः, तथाश्ग्रहणस्यापि स्यात्। ततश्चाश्येव हलि मोऽनुस्वारः स्यात्, न हल्मात्रे। यदा तु तत्राश्ग्रहणं न क्रियते, तदोत्तरत्र हल्मात्रेऽनुस्वारः सिध्यति। पुनरुत्तरार्थतामश्ग्रहणस्य दर्शयति -`व्योर्लधुप्रत्यत्नतरः` इत्यादि। गतार्थम्॥", "83018": "`लघुप्रयत्नतरः` इति। प्रयत्नः प्रयतनम्। `यजयाच` [[3.3.90]] इत्यादिना नङ्। लघुः प्रयत्नो\tयस्य स लघुप्रयत्नः, अतिशयेन लघुप्रयत्नो लघुप्रयत्नतरः। किं पुनरिदं लघुप्रयत्नतरत्वम्, यद्योगाल्लघुप्रयत्नतरो भवतीत्याह -`लघुप्रयत्नतरत्वम्` इत्यादि। स्थानम् -ताल्वादि, करणम् -झ्वामूलादि, तयोरुच्चारणे शैथिल्यं लघुप्रयत्नतरत्वम्` इत्यादि। स्थानम् -ताल्वादि, करणम् -जिह्वामूलादि, तयोरुच्चारणे शैथिल्यं लधुप्रयत्नतरत्वम्। उदाहरमेष्वान्तरतम्याद्वकारस्य वकार एव भवति, यकारस्य यकार एव।शाकटायनग्रहणं पूजार्थम्। अनेन हि व्योर्लघुप्रयत्नतरत्वं विधीयते, उत्तरसूत्रेणापि लोपः; तत्रोभयोविधानसामर्थ्यादेव पक्षे विधिर्विज्ञास्यते॥", "83019": "ओतः परयोव्र्योर्लोपो नित्यं वक्ष्यति। तस्मादवर्णपूर्वयोरयं विधिर्वज्ञायत इत्याह -`अवर्णपूर्वयोः` इत्यादि। `शाकल्यग्रहणं विभाषार्थम्` (इति)। ननु च शाकटायनस्य मतेन लघुप्रयत्नतरो विहितः। तत्रान्त रेणापि शाकल्यग्रहणं पाक्षिक एव विधिर्विज्ञास्यते; अन्यथा हि[`हि` -नास्ति कांउ।पाठे] लघुप्रयत्वविधानमनर्थकं स्यात्, तत्कशाकल्यग्रहणेन? इत्यत आह -`तेने` इत्यादि। असति हि शाकल्यग्रहणे विभाषार्थे लघुप्रयत्नतरेण मुक्ते नित्यो लोपः स्यात्, ततश्चालघुप्रयत्नतरयोर्व्योः पक्षे श्रवणं न स्यात्। शाकल्यग्रहणे तु सति लोपो विकल्प्यते। तेन तयोरपि पक्षे श्रवणं सिद्धं भवति। एवञ्च त्रीणि रूपाणि भवन्ति -एकं लघुप्रयत्नतरपक्षे, द्वितीयं लोपपक्षे, तृतीयं तूभयोरभावपक्षे॥", "83020": "ओकारादुत्तरो वकारो नास्ति, पदान्त इति यकारस्यैवायं विधिर्विज्ञास्यत इत्याह -`ओकारादुत्तरस्य यकारस्य` इति। ननु च पूर्वसूत्रेणैवौकारादुत्तरस्य यकारलोपः सिद्धः, तत्किमर्थमिदमारभ्यते? इत्याह -`मित्यार्थोऽयमारम्भः` इति। गाग्र्यग्रहणं तर्हि किमर्थम्? इत्याह -`गाग्र्यग्रहणम्` इत्यादि। व्योरिह प्रकरणे लघुप्रयत्नतरपक्षेविहितो लोपोऽपि, तत्कस्यार्य नित्यो लोपो बाधकः? इत्याह -`योऽयम्` इत्यादि। अथ वा -यदि नित्यार्थोऽयमारम्भः, पक्षे लघुप्रत्यत्नतरो न स्यादित्यत आह -`योऽयम्` इत्यादि। लोपविकल्पस्यानन्तरत्वात्? तस्यैव निवृत्तिर्युक्ता कर्तुमिति भावः।`केचित्तु` इत्यादि। कथं पुनरिष्यमाणमपि लघुप्रयत्नतरस्य बाधनं भवति, यावतानन्तरत्वाल्लोपविकल्पस्यानेन बाधा युक्ता? व्योः कार्यसमुदायस्यापेक्षितत्वाददोषः। यदि लोपविफल्पमात्रमपेक्षते, ततः स एव बाध्यते, न लघुप्रयत्नतरः; लोपेन व्यवहितत्वात्। यदा तु व्योर्यवस्मिन्? प्रकरणे कार्यं विहितं तत्समुदायोऽपेक्ष्यते, तदा तस्यानन्तर्यात्? स एव निवर्त्त्यते। तपरकरणमसन्देहार्थम्। यतो हि `ओः` इत्युक्ते सन्देहः स्यात् -किमयमोकरस्य निर्देशः? आहोस्विदुकारस्येति? मैवम्; `भोभगोअघोअपूर्वस्य` [[8.3.17]] इत्यनुवर्तते, न भोःप्रभृतीनामुकारोऽस्ति, तत्कुतः सन्देङः? एवं तर्हि मुखसुखार्थम्॥", "83021": "<<लोपः शाकल्यस्य>> [[8.3.19]] इति सिद्धे नियमार्थम् -उञि पद एव, नान्यत्रेति। `अवर्ञपूर्वयोः` इति। ओकारपूर्वस्य वकारस्यासम्भवाद्यकारस्य पूर्वेणैव सिद्धत्वादवर्णपूर्वयोरेवायं लोपो विज्ञायत इत्यवर्णपूर्वयोरित्युक्तम्। `स उ` इति। तच्छब्त्? सुः, त्यदाद्यत्वम्, <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति सः, रुत्वाम्, तस्य यकारः, तस्यानेन लोपः। `तन्त्रयुतम्` इति। `तन्त्रे` इत्येतस्य सप्तम्यन्तस्य उतशब्दे निष्ठान्ते परतोऽयादेशः। ननु च `उञि` [`उञ्` -कांउ।पाठः] इत्युच्यते, न चायमुञ्, ञकाराभावात्? तत्किमेतन्निवृत्त्यर्थेन पदग्रहणेन? इत्यत आह -`वेञः सम्प्रसारणे` इत्यादि। सम्प्रसारणं तु `वचिस्वपि` [[6.1.15]] इत्यादिना। एवं तावदुञो निपातस्य प्रतिपदोक्तस्यास्तित्वमनपेक्ष्य पदग्रहणप्रयोजनं दर्शितम्। यदा तु तस्यास्तित्वमपेक्ष्यते, तदा प्रयोजनान्तरं दर्शयितुमाह -`उत्तरार्थम्` इति। `ङमो ह्रस्वादचि ङमुण्? नित्यम्` [[8.3.32]] इत्येष विधिरजादौ पदे यथा स्यात्, इह मा भूत् -परमदण्डिनेति। यद्युत्तरार्थम्, तत्रैव कस्मान्न कृतम्, कः पुनरेवं सिति लाभः? स्वरितत्वं न प्रतिज्ञायत इत्येष लाभः। इहापि क्रियमाणे लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) नाश्रयणीया भवतीति समानम्। चकारोऽवर्णपूर्वस्यानुकर्वणार्थः; क्षन्यथा ह्रोतोऽनन्तरत्वात्? ततः परस्य यकारस्य लोपो विज्ञायेत? नैतदस्ति; एवं हि विज्ञायमाने निरर्थकमेवेदं सूत्रं स्यात्, पूर्वेणैव सिद्धत्वात्। नानर्थकम्, नियमार्थत्वात् -उङि पद एव यथा स्यात् -भो उ पदश्यतीति। असति ह्रस्मिन्नियमार्थे भो युतम्, भगो युतमित्यत्रापि नित्यो लोपः स्यात्। यदि तु निपातस्येदमुञो ग्रहणम्, तदा नियमार्थस्य व्यावत्र्यत्वं नास्तीति पूर्वापेक्षया चकारः समुच्चयार्थो द्रष्टवप्यः।उञीति ञकारोऽसन्देहार्थः। असति हि तस्मिन्? सप्तम्या औ इति निर्देशः स्यात्। ततश्च किमयमुकारस्य निर्देशः? उत्तेकारस्येति? सन्देहः स्यात्। ननु च क्रियमाणेऽपि तस्मिन्? किमुञीति निपातस्य ग्रहणम्? आहोस्विदुकारादारभ्य झभञ्` (मा।सू।8) इति ञकारस्येति सन्देहः स्यादेव? नैवम्; इदं तावद्भवान्? प्रष्टव्यः -किमुञिति प्रत्याहरे येऽन्तर्गता हलस्तेष्वेव नित्यो लोपः? उतान्येष्वपीति? किमत्र वक्तव्यम् -`अन्येष्वपि` इति? तथा हि वक्ष्यति -<<हलि सर्वेषाम्>> [[8.3.22]] इति। एवं तर्हि यद्यत्र प्रत्याहारग्रहणभिमतं स्यात्? `एऔच्` (मा।सू।4) इति चकारेण प्रत्याहरं गृह्णीयात् -उचि च पद इति। हल्यपि `हलि सर्वेषाम्` इत्यनेन भविष्यतीति। तत्राप्ययमर्थः -सन्देहः परिह्मतो भवति। अथ वा यद्यत्रोकारादीनामुञा प्रगत्याहरग्रहणभिमतं स्याद्धलीति लकारेण प्रत्याहरं गृहीत्वैकमेवेमं योगं कुर्यात् -`उलि च पदे सर्वेषाम्` इति। न हि योगविभागस्य किञ्चित्? प्रयोजनं पश्यामः। तस्मान्नात्रोकारादीनां प्रत्याहारग्रहणमिष्टम्। ततश्चोञो निपातस्यैव ग्रहणमित्यसन्दिग्धमेतत्॥", "83022": "`भोभगोअघोअपूर्वस्व` इति। भोभगोअघोपूर्वस्य वकारस्यासम्भवात्। अवर्णपूर्नस्तु वकारः सम्भवति। तस्य तु पूर्वमेव `हलि सर्वेषाम्` इत्यनेन लोपो न भवतीति दर्शितम्। तेनेह यकारस्यैव ग्रहणं न वकारस्य, तस्य लोपो न भवतीति दर्शितम् -`भोभगोअघोअपूर्वस्य` [[8.3.17]] इत्यादौ सूत्रे। तत्राश्ग्रहणं किमर्थम्? हलि सर्वेषामित्ययं लोपोऽशि हलि यथा स्यात्, इह मा भूत् -वृक्ष वृश्चतीति वृक्षवृट्, तमाचष्ट इति णिच्, वृक्षववति, वृक्षवयतेरप्रत्ययः वृक्षव् -`वक्षव्? करोति` इति। एवमश्ग्रहणस्य प्रयोजनं दर्शयतामेन सूत्रेणाशि हलि वकारस्यावर्णपूर्वस्य लोपो न भवतीत्युक्तं भवति। ननु चावर्णपूर्वस्येत्यस्यानुवृत्तिरयुक्ता; पूर्वसूत्रे चानुकृष्टत्वात्, तत्कथमवर्णपूर्वस्य लोपो भवतीति? नैतदस्ति; `चानुकृष्टमुत्तरत्र्नानुवर्तते` (व्या।प।76) इति प्रायिकमेतत्। कथं ज्ञायते? <<एकाजुत्तरपदे णः>> [[8.4.12]] इत्यत्र `णः` इति प्रकृते पुनर्णग्रहणम्, <<वा भावकरणयोः>> [[8.4.10]] इत्यत्र `वा` इति यदनुवृत्तं तन्निवृत्त्य्र्थ कृतम्। यदि चेदं प्रायिकं न स्यात्, पुनर्णग्रहणमनर्थम्; पूर्वसूत्रे चानुकृष्टत्वादेव हि वाग्रहणस्यानुवृत्तिर्न भविष्यतीति किं पुनर्णग्रहणेन? कृतञ्च, ततोऽवसीयते -चानुकृष्टपरिभाषाऽनित्येति। `शाकटायनस्यापि लोपो यथा स्यात्` इति। अपिशब्दाच्छाकल्यस्यापि। असति तु सर्वग्रहणे प्रत्यासन्नस्य गाग्र्यस्य मतेन लोप एव विज्ञायेत॥", "83023": "पदस्येति स्थानषष्ठी, तच्च पदं मकारेण विशेष्यते, विशेषणेन त तदन्तविधिर्भवतीति मकारान्तपदस्यानुस्वारो विधीयमानोऽलोऽत्यपरिभाषया [[1.1.51]] मकारस्यैव विज्ञायते, इत्याह -`मकारान्तस्य पदस्य`[`मकारस्य पदान्तस्य` -काशिका, पदमञ्जरी च] पदस्य` इति॥", "83024": "`हलि` इति निवृत्तम्, झल्ग्रहणात्। चकारो मकारानुकर्षणार्थः। असति हि तस्मिन्निकारस्यापदान्तस्य कार्यिण इह ग्रहणान्मकारो निवृत्त इत्याशङ्का स्यात्। `पयांसि` इति। <<जश्शसोः शिः>> [[7.1.20]] , <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुम्, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः। `आक्रंस्यते` इति। आङ्पूर्वात्? क्रमेर्लृट्, `आङ्? उद्यमने` [[1.3.40]] इत्यात्मनेपदम्। `आचिक्रंसते` इति। `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। एवं `अथिजिगांसते` इत्यत्रापि। इङः सनि `इङश्च` [[2.4.48]] इति गमिरादेशः; <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः; द्विर्वचनम्, अभ्यासकार्यम्। `राजन्` इति। राजतेः शत्रान्तात्? सम्बुद्धिः, तस्या हल्ङ्यादिना [[6.1.66]] लोपः॥", "83025": "`सम्राट्` इति। सम्पूर्वाद्राजतेः `सत्सूद्विव` [[3.2.61]] इत्यादिना क्विप्, व्रश्चादिना [[8.2.36]] षत्वम्, षकारस्य जशत्वम् -डकारः, तस्य चर्त्वम् -टकारः। `साभ्राज्यम्` इति। ब्राआह्रणादित्वत्? व्यञ्। किमर्थं पुनर्मकार उच्चार्यते? इत्याह -`मकारस्य मकारवचनम्` इत्यादि। <<मोऽनुस्वारः>> [[8.3.23]] इत्यनुस्वारः प्राप्नोति, स मा भूदित्येवमर्थं मकारस्य मकारो विधीयते। यद्येवम्, नेति प्रतिषेधः कर्तव्यः, एवं हि लघु सूत्रं भवति; विभक्त्यनुच्चारणात्? एवं तर्हि निर्देशाधिक्येन तु मकारविधानेनैतत्? सूचयति -अत्र प्रकरणेऽधिको हि विधिर्भवतीति। यवलपरे यवला वा भवन्तीत्युपपन्नं भवति। `संयत्` इति। यमेः सम्पूर्वात्? क्विप्, `अनुदात्तोपदेश` [[6.4.37]] इत्यादिना मकारलोपः, अकारस्य <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुक्॥", "83026": "मः परो यस्मादिति बहुव्रीहिः। `किम्? ह्रलयति` इति। `ह्वल ह्रल चलने` (धातुपाठः-805,806), `ज्वलह्वलह्रलनमामनुपसर्गाद्वा` (ग।सू।धातुपाठः-817 इत्यस्यानन्तरम्) इति वा मित्संज्ञा, `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वः। `यवलपरे` इत्यादि। यवलाः परे यतः स यवलपरस्तस्मिन्? हे मकारस्य वा यवला भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वं विहितमेव। यवलाश्चैते भवन्त आन्तरतम्यात्? सानुनासिका एव भवन्ति। वावचनात्? पक्षेऽनुस्वारो भवत्येव। अथ `हे भः` इत्येव कस्मान्नोक्तम्; एवं हि परग्रहणं न कर्तव्यं भवति, सप्तम्यैव हि तदर्थं प्रतिपादयिष्यते -मकारे परतो योऽकार इति? नैतदस्ति; `हे मः` इत्युच्यमाने विपर्ययोऽपि विज्ञायेत -हकारपरे मकार इति, ततश्च किमह्न इत्यादावेव स्यात्। अकारेण व्यवधानान्न भविष्यतीति चेत्? न; `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति। आद्यपक्षे किम्? ह्रलयतीत्यादिषु कृतार्थं वचनम्, अतो न शक्यं व्यवधानमाश्रयितुमिति चेत्? न; येन हकारपदे मकार इत्येष सूत्रार्थो गृहीतः, तं प्रति पक्षान्तरस्यासम्भवात्। तस्मात्? परग्रहणमेव कर्त्व्यं विपर्ययप्रतीतिर्मा भूदित्येवमर्थम्॥", "83027": "नः परो यस्मादिति बहुव्रीहिः। परग्रहणं नकारपरे यथा स्यादित्येवमर्थम्, अन्यथा हि `ने नः` इत्युच्य माने नकार एव केवले परतो विज्ञायेत, न इति निमित्तान्तरोपादनाद्? हे इत्यस्य निवृत्तिः? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्। कृते ह्रनुत्त्वारे नकारे परतः <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यनेन नकारः सिध्यति? सत्यम्; विकल्पार्थमेतत्। अत्र हि यदानेन नकारो न क्रियते, तदा वचनसामर्थ्यात्? परसवर्णो न भवतीति विकल्पः सिध्यति। तस्मात्? परग्रहण कर्त्व्यम् -नपरे हकारे यथा स्यात्, केवले मा भूदिति। `किन्? ह्नुते` इति। `ह्नुङ्? अपनयने`; (धातुपाठः-1082), अदादित्वाच्छपो लुक्। इह केचिच्चोदयन्ति -न इति प्रतिषेधः कस्मान्न विज्ञायत इति? एतच्चायुक्तम्; सविसर्गस्य पाठात्? प्रतिषेधवाचिनश्च नकारस्य विसर्गानुपपत्तेः। अथाप्यविसर्गः पठते? एवमप्ययुक्ता प्रतिषेधाशङ्का; प्राप्त्यभावात्॥", "83028": "ङश्च णश्च तौ ङ्णौ, कश्च टश्च कटौ, तयोरुकारककाराभ्यां प्रत्येकमभिसम्बन्धः -कुक्ट्गिति। उकार उच्चारणार्थः, ककारो देशविध्यर्थः। `प्राङ्क्? छेते` इति। प्राङिति <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इत्यत्र व्युत्पादितम्। वण्ट् छेते` इति। वणतेर्विच्। किमर्थं पुनः पूर्वान्तादेतौ क्रियेते? इत्याह -`पूर्वान्तकरणम्` इत्यादि। किं पुनः कारणं पूर्वान्तत्वे च्छत्वं भवति, न पुनः परादित्वे? इत्यत आह -`शश्छोऽटि` इत्यादि। किमर्थं पुनरेतद्धि `विज्ञायते? [वलिज्ञायेत` -कांउ।पाठः] इत्यत आह -`इह` इत्यादि। यदि पदान्ताज्झय [[8.2.10]] इत्येवं तत्र न क्रियेत, तदा विरप्शिन्नित्यत्र च्छत्वं विज्ञायेत, एवञ्च विज्ञायमाने न भवति, न ह्यत्र पदान्ते झय्। `विरिष्शिन्` इति। विपूर्वाद्रपेः `लृटः सद्वा` [`लटः` -प्रांउ।पाठः] [[3.3.14]] इति शत्रादेशाः, <<व्यत्ययो बहुलम्>> [[3.1.85]] इति स्यप्रत्ययस्य सकारस्य शकारः, यकारस्य चेकारः। `प्राङक्? सायः` इति। अत्र परादित्वे सति `इण्कोः` [[8.3.57]] , <<आदेशप्रत्यययोः>> [[8.3.59]] इति प्राप्तस्य षत्वस्य <<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधो न स्यात्; अपदादित्वात्। `वण्ट्? सायः` इति। अत्रापि <<ष्टुना ष्टुः>> [[8.4.41]] इति प्राप्तस्य ष्टुत्वस्य <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति प्रतिषेधो न स्यात्; अपदान्तत्वात्। तस्मात्? प्राङक्छेत इत्यादौ छत्वादिसिध्यर्थ पूर्वान्तकरणम्॥", "83029": "`उभयनिर्देशे पञ्चमीनिर्देशो बलीयाम्` (शाक।प।97) इति `ङः` इति पञ्चम्या `सि` इत्यस्याः सप्तम्याः षष्ठआं परिकल्पितायां शकारस्यैव धुडविधीयते, इत्याह -`डकारान्तात्` इत्यादि। यद्येवम्, सप्तमीनिर्देशः किमर्शः? लाघवार्थः। `ङः सो धुट्` इत्युच्यमाने माधाधिक्याट्? गौरवं स्यात्। अथ `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इत्येवमर्थः सप्तमीनिर्देशः कस्मान्न विज्ञायते? केवलस्य सकारस्याभावादेव तत्सिद्धेः, पद इत्यधिकाराच्छ। आलिटत्याय इत्यत्र धुटि कृते धकारस्य चर्त्वम् -तकारः।प्रक्रियालाघवार्थं तु तुटि वक्तव्ये धुङ्वचनमुत्तरार्थम् -`नश्च` [[8.3.30]] इत्यत्र धुडयथा स्यात्, तुण्मा भूदिति। यदि हि स्यात्, तर्हि किम्? भवान्त्साय इत्यत्र `नश्छव्यप्रशान` [[8.3.7]] इति रुः प्रसज्येत? नैतदस्ति; अम्पर इत्यत्रानवर्तते, न चेहाम्परस्तकारोऽस्ति। अथथेहापि भूतपूर्वेणोकारेणाम्परः स्यात्? एवमप्यसिद्धत्वात्? तुटो रुत्वं न भविष्यति। तस्मात्तुडेव वक्तव्यः। एवं तर्हि वैचित्र्यार्थ धुडवचनम्। अथ किमर्थं धुट्? पराधिः क्रियते, न द्युगेव पूर्वान्तः क्रियेत, एवं हि <<शि तुक्>> [[8.3.31]] इत्यत्र तुग्ग्रहणं न कर्तव्यं भवति, धुगेव हि तत्रानुवर्त्तिष्यते? इत्यत आह -`परादिकरणम्` इत्यादि। यदि पूर्वान्तः क्रियेत, आलिट्त्साय इत्यत्र धुकः ष्टुत्वं स्यात्। परादिकरणे तु टकारस्य पदान्तत्वं न विहितमिति <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति प्रतिषेधः सिध्यति। तदर्थं परादिकरणम्॥", "83030": "चकारो धुडित्यनुकर्षणार्थः। ननु च स्वरितत्वादेवानुवर्त्तिष्यते, न चोत्तरत्रानुवर्त्तिष्यते, आगमान्तरस्योपादानात्, अस्वरितत्वाद्वा? सत्यमेतत्; प्रतिपत्तिगौरवं तु मन्दधियां स्यात्। अथ भवान्त्साय इत्यत्र धुटश्चात्वे कृते <<नश्छव्यप्रशान्>> [[8.3.7]] इति रुः कस्मान्न भवति? इत्याह -`धुटश्चर्त्वस्य चासिद्धत्वात्` इत्यादि। यदि केवलस्य चत्वेस्य धुटो वासिद्धत्वं स्यात्, तथापि रुत्वप्राप्तेरसम्भव एव, किं पुनरुभयोरसिद्धत्वे सतीति रुत्वप्राप्तेरत्यन्तासभ्भवं दर्शयितुमुभयोग्र्रहणम्। क्वचित्? `घुटश्चर्त्वस्यासिद्धत्वात्` इति पाठः। तत्राप्ययमर्थो वेदितव्यः -विनापि हि चकारेण तदर्थो गम्यते, यताहरहर्नयमानो वैवस्थतो गामआं पुरुषं पशुमित्यादौ वाक्ये। अथ वा -अस्मि पाठे धुटो यच्चार्त्वं तस्यासिद्धत्वादित्यर्थः। ननु धुडप्यसिद्ध एव, तत्? कुतश्चर्त्वस्यासिद्धावमुच्यते? पुनर्धुटोऽपि? नैतत्; सत्यपि धुटि विना चर्त्वेन रुत्वप्रप्तिरेव नास्ति। ततो यस्मिन्? सति रुत्वमादाङक्यते, तस्यासिद्धत्वं युक्तनुक्तमिति भावः। कथं पुनः सत्यपि चर्त्वस्यासिद्धत्वे रुत्वमाक्षङ्कितम्, यावताऽम्परे छवि तदुच्यते, न चेहाम्परत्वमस्ति? भूतपूर्वेणोकारेणाम्परत्वमस्तीति युगतमाशङकितम्। ननु च साम्प्रतिकाभावे भूतपूर्वगतिर्भवति, अस्ति साम्प्रतिकत्वमन्यत्राम्परत्वं रुत्वस्य? सत्यमेतत्; अध्यारोप्यैवमुक्तम्; एवं मन्यते -भवतु नाम, भूतपूर्वेणोकारेणाम्परत्वं प्रसज्यत इत्याह -`धुटश्मत्र्वस्यासिद्धत्वात्` इति॥", "83031": "`शि` इति सप्तम्यकृतार्था `नः` इति पूर्वसूत्रे कृतार्थायाः पञ्चम्याः षष्ठीत्वं प्रकल्पयति; <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति वचनात्, तेन नकर एवागमी विज्ञायत इत्याह -`नकारान्तस्य` इत्यादि। अथ किमर्थं तुक्? पूर्वान्तः क्रियते, न प्रकृतो धुडेव परादिः क्रियेत; तथापि चर्त्वेन सिध्यति? इत्यत आह -`पूर्वान्तकरणम्` इत्यादि। पूर्वान्तः=पूर्वस्यान्तः, स पुनः प्रकरणात्? तुग्विज्ञायते, तल्प करणम्=विधानम्, छत्वं यथा स्यादित्येवमर्थम्। यदि प्रकृतो धुडेव विधीयेत, <<शश्छोऽटि>> [[8.4.63]] इति च्छत्वं न स्यात्। तत्र च कारणं पूर्वमेवोक्तम्। `यद्येवम्` इत्यादि। यदि पूर्वान्तस्तुक्? क्रियते, कुर्वञ्चेते -इत्यत्र तुका पदान्तताया रहितत्वात्? नकारस्य `अट्कुष्वाङ्` [[8.4.2]] इत्यनेन णत्वं प्राप्नोति, परादित्वे त्वेष दोषो न भवति; <<पदान्तस्य>> [[8.4.37]] इति णत्वपरतिषेधादिति भावः। `तत्र` इत्यादिना <<न भाभूपूकमिगमिप्यायीवेपाम्>> [[8.4.34]] इत्यादेः सूत्रान्नेति वर्तमाने <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति योगविभागः क्रियते, तेन चवर्गयोगे कुर्वञ्चेते -इत्यत्र णत्वं न भवत्येव। ननु च क्रियमाणेऽपि योगदिभागे णत्वं प्राप्नोत्येव, यस्मादिह चवर्गयोगो नास्त्येव, तुकः श्चुत्वस्यासिद्धत्वात्? योगविभागकरणसामर्थ्यात्? श्चुत्वस्यासिद्धत्वेऽपि णत्वप्रतिषेधो भविष्यतीत्यदोषः॥", "83032": "`इमः` इति, `ङमुट` इति उभयमपि प्रत्याहारग्रहणम्। उडिति प्रत्येकं ङकारादिभिः सम्बध्यते। `ह्रस्वात्` इत्येतन्ङमो विशेषणम्, ह्रस्वविशेषितोऽपि ङम्? पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीति तदन्तात्? पदादिति विज्ञायते। यद्यपि पदस्येति षष्ठन्तं प्रकृतम्, तथापि तदिहार्थात्? पञ्चम्यन्ततया विपरिणम्यते -`उभयनिर्देशे पञ्चमोनिर्देशो बलीयान्` (शाक।प।97) इति। `ङमः` इति पञ्चम्या `अचि` इति सप्तम्याः षष्ठआं परिकल्पितायामच एवागमित्वं प्रतिपद्यते। सप्तमीनिर्देशस्तु लाघवार्थः; उत्तरार्थश्चेत्येतत्सर्वं चेतसि कृत्वाऽह -`ह्वस्वात्? परो यो ङम्, तदन्तात्` इति। संख्यातानुदेशो हीह वेदितव्यः; आगमिनामागमानाञ्च समानत्वात्। `प्रत्यङ्ङास्ते` इति। `आस उपवेशने` (धातुपाठः-1021), अदादित्वाच्छपो लुक्। `कृवन्नास्ते` इति। `कृष विलेखने` (धातुपाठः-990) लौदादिकः, शत्। अथ परमदण्डिनोत्तमदण्डिनेति `सन्महत्` [[2.1.61]] इत्यादिना समासे कृते ङमन्तात्? तृतीयैकवचने तस्य नुट्? कस्मान्न भवति; अत्र हि <<यचि भम्>> [[1.4.18]] इति भत्वेऽपि समासस्य ह्रस्वादिकारात्? परो ङम्? नकारः, तदन्ताद्दण्डिनेत्यस्माद्या विभक्तिस्तस्यां लुप्तायामपि प्रत्ययलक्षणेन [[1.1.62]] लब्धपदसंज्ञत्वात्? तृतीयैकवचनमच्परं भवतीत्यस्ति ङमुट्प्राप्तिः? इत्याह -`परमदण्डिना` त्यादि। उत्तरपदत्वे उत्तरपदव्यपदेशे कर्तव्ये सत्यपदादिविधौ पदाविधिधेरन्यत्र प्रत्ययलक्षणं न भवतीति वाक्यार्थः। असति प्रत्ययलक्षणे दण्डिनेत्यस्य पदसंज्ञा न भवति। ततश्च पदान्तादुत्तरस्योच्यमानो ङमुडागमो न भवति। एवं तावत्? कात्यायनमतेन परीहार उक्तः। यस्तु सूत्रकारमतेन, तं दर्शयितुमाह -`अथ वा` इत्यादि। पद इत्यनुवृत्ती सत्यामचा पदे विशेष्यमाणे `यस्मिन्? विधिस्तदादावल्ग्रहणे` (वा।14) इत्यनेनाजादौ पदे कार्येण भवितव्यम्, न चात्राजादि पदमस्ति, तत्कुतो नुट्प्रसङ्गः।अथ नित्यग्रहणं किमर्थम्, यावतोत्तरसूत्रे [[8.3.33]] वाग्रहणादेव नित्यो विधिर्विज्ञास्यते? सत्यमेतत्; पूर्वसूत्रेऽपि [[8.3.31]] नित्यत्वं विज्ञायेत। तस्मात्? पूर्वसूत्रेषु <<हे मपरे वा>> [[8.3.26]] इत्यतो `वा` इत्नुवर्तत इति ज्ञापनार्थं नित्यग्रहणम्॥", "83033": "`मयः` इति प्रत्याहारस्य ग्रहणम्, न तु अय वय `मय` इति धातोः। कुत एतत्? व्याप्तिन्यायात्। किमर्थमिदमुच्यते, यावता <<इको यणचि>> [[6.1.77]] इत्युञो वकारः सिद्ध एव, विकल्पार्थमिति चेत्? स्यादेतत् -यदि `इको यणचि` इति नित्यं स्यात्, तस्माद्विकल्पार्थं वचनमिति? एतच्च न; <<पदान्ताद्वा>> [[6.1.76]] इत्यतो वेत्यनुवर्त्तिष्यते, सा च व्यवस्थितविभाषा विज्ञायते। तेनोञो विकल्पेन यन्मवतीत्याह -`प्रगृह्रत्वात्` इत्यादि। प्रगृह्रत्वं पुनः `उञः` [[1.1.17]] इति प्रगृह्रसंज्ञाविधानात्। तस्मिन्? सति <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति प्रकृतिभावः प्राप्नोति, तस्मिन्? प्राप्ते वकारो विधीयते। एवमपि `इको यणचि` इत्यस्यानन्तरमुञो यण्? वकारो विधेयः\t एवं हि व इति न कर्तव्यं भवति; यणः प्रकृतत्वात्। वेति वचनं न कर्तव्यं भवति; <<पदान्ताद्वा>> [[6.1.76]] इत्यतो वाग्रहणं मण्डूकप्लुत्याऽनुवर्तते? इत्याह -`असिद्धत्वात्` इत्यादि। तत्र ह्रुच्यमाने वकारस्य [नास्ति -कांउ।पाठे] सिद्धत्वाद्धलि विधीयनानोऽनुस्वारः स्यात्, न चेष्यते, तस्मादिहैव क्रियते। इह क्रिममाणो मोऽनुस्वारो न भवति, वत्वस्यासिद्धत्वात्॥", "83034": "`खरोत्यनुवर्तते` इति। खरवसानयोर्विसर्जनीयः` [[8.3.15]] इत्यतः अनुवृत्तिश्च मण्डूकपलतिन्यायेन, स्वसम्बन्धानुवृत्त्या वा वेदितव्यः; अन्यथा पूर्वसूत्रेऽपि [[8.3.33]] खरि कार्यं विज्ञायेत॥", "83035": "शर्? परो यस्मादिति वहुव्रीहिः। अथ परग्रहणं किमर्थम्, न शरीत्येवोच्येत\t अशक्यमेवं वक्तुम्, एवं ह्रुच्यमाने शर एव केवलं निमित्तभावो विज्ञायेत, न खरीत्यनुवृत्तेः `वा शरि` [[8.3.36]] इति विधानाच्च। विपर्ययस्तर्हि विज्ञार्येत -शरीति, तथा च नित्यः स्फोटः, पुरुषः स्थूल इत्यादादेव स्यात्, वासः क्षीममित्यादौ तु न स्यात्? तस्माद्विपर्ययो मा विज्ञायीत्येवमर्थं परग्रहणम्। अथ किमर्थं विसर्जनीय इत्युच्यते, नेत्येवोच्येत, सकारस हि प्रतिषेधे कृते विसर्जनीयः स्वेनैव रूपेणावस्थास्यते? इत्याह -`विमर्जनीयस्य` इत्यादि। तस्य विसर्जनीयस्य विकारो जिह्वामूलीयादिः, तन्निवृत्त्यर्थ विसर्जनीयग्रहणम्; अन्यथा यदि नेत्येवोच्येत, ततः `अनन्तरस्य विधिर्वा भवति प्रतिषेदो वा` (व्या।प।29) इति सकारस्यैव विज्ञायेत। ततश्च जिह्वामूलीयादिर्विसर्जनीयस्य विकारः स्यादेव। विसर्जनीयग्रहणे तु तत्सामर्थ्यादेव न भवति॥", "83036": "", "83037": "`विसर्जनीयश्च` इति। अनेन विसर्जनीयानुकर्षणार्थश्चकार इति दर्शयति। अथ वाग्रहणमनुवच्यं जिह्वामूलीयोपध्मानीयौ कस्मान्न विकल्प्येते, एवञ्च विसर्जनीयानुकर्षणार्थश्चकारो न कर्तव्यो भवति; आभ्यां हि मुक्ते पक्षे विसर्जनीय एव भविष्यति? नैवम्; शपंरयोरेव हि कुप्वोरेवं स्यात्। अशर्परयोस्तु पक्षे <<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारः प्रतज्येत। तस्माच्चकारः कर्तव्यः। इह ककारपकारयोर्जिह्वामूलोयोपष्मानोययोः सूत्र उच्चारणात्? तथाभूतावादेशो विसर्जैनीयस्य विज्ञायेते? इति कस्याचिवाशङ्का स्यात्, अतस्तां निराकर्त्तुमाह -`ककारपकारावुच्चारणार्थो` इति। आभ्यां विना तयोरुच्चारयितुमशक्यत्वादिति भावः। कीदृशौ तावादेशौ? इत्यत आह -`जिह्वामूलीयोपध्मानीयावेव त्वादेशौ` इति। तुशब्द आशङ्किताभ्यां समुदायरूपाभ्यामादेशाभ्यां विशेषं द्योतयति। एवकारोऽवधारणार्थः। जिह्वामूलीयोपध्मानीयावेव केवलौ। न तु समुदायरूपावित्यर्थः।इह सर्वस्य विषयस्य विध्यन्तरेणावष्टब्धत्वात्? <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यस्यानवकाशत्वम्, अतो यथा वृक्षः करोतीत्यादौ <<विसर्जनीयस्य सः>> [[8.3.34]] इतीमं विधिं बाधित्वः `कुप्वोः क पौ च` इति प्रवर्तते, तथा वासः क्षौमम्, अद्भिः प्सातमित्यादौ `शर्परे` [[8.3.35]] इतीममपि विधिं कस्मान्न बाधते? इति यो देशयेत्? तं प्रत्याह -`विसर्जनीयस्य` इत्यादि। <<शर्परे विसर्जनीयः>> [[8.3.35]] इत्येतस्मिन्? प्राप्ते चाप्राप्ते चेदमारभ्यते। वाशः क्षौमम्, अद्भिः प्सातमित्यादौ प्राप्ते; वृक्ष करोति वृक्ष पचतीत्यत्राप्राप्ते। <<विसर्जनीयस्य सः>> [[8.3.34]] इत्येतस्मस्तु सर्वत्र प्राप्ते। एवं तस्य विशेषणं खर्मात्रे विधानात्? स्यात्, तस्यैवेदं बाधकम्; नेतरस्य विधेः; तं प्रति बाधकलक्षणस्यायोगात्। स्यादेतत् -शर्परे विसर्जनीयस्य कवर्गपवर्गाभ्यामन्यः शर्परः खरवकाशः, `कुप्वोः क पौ च` [[8.3.37]] इत्यस्याशर्परौ कवर्गपवर्गौ -वासः क्षौमम्, अद्भिः प्सतमित्यत्रोभयं प्राप्नोति, तत्र `विप्रतिषेधे परं कायम्` [[1.4.2]] इति विसर्जनीयं बाधित्वा जिह्वामूलीयोपध्मानीयाभ्यां भवितुं युक्तम्? इत्याह -`पूर्वत्रासिद्धे` इत्यादि। अत्रैवोपपत्तिमाह -`अभावादुत्तरस्य` इति। द्वयोस्तुल्यबलयोर्युगपदेकत्र प्राप्तौ विरोधो भवति, नचात्र युगयत्? प्राप्तिरस्ति; पूर्वस्मिन्? कर्तव्ये सत्यसिद्धत्वादुत्तरस्याविद्यमानत्वात्। इतिकरणो हेतौ। यस्मात्? पूर्वत्रासिद्धीये नास्ति विप्रतिषेधः, तस्माद्वासः क्षौमम्, अद्भिः प्सातमित्यत्र <<शर्परे विसर्जनीयः>> [[8.3.35]] इत्येतदेव भवति, न जिह्वामूलीयोपध्मानीयाविति। `केचित्` इत्यादि। वासः क्षौमम्; अद्भिः प्सातमित्यत्र विसर्जनीयो यथा स्यादित्येवमर्थ `कुप्वोः क पौ च` इत्यत्र योगविभाघं कुर्वन्ति -`कुप्वोः` योगः, ` क पौ` इति द्वितीयः। तत्र पूर्वस्मिन्? योगे <<शर्परे विसर्जनीयः>> [[8.3.35]] इत्येतदनुवर्तते। तेन शर्परयोः कुप्वोर्विसर्जनीय एव भवति, न जिह्वामूलीयोपध्मानीयाविति॥", "83038": "पूर्वस्यायमपवादः। `अपदादौ` इति। सुब्ब्यत्ययेन द्विर्वचनस्य स्थान एकवचनम्; अन्यथा ह्रपदादित्वं कुप्वोर्विशेषणमिति नोपपद्यते। द्वित्वे सत्यपदाद्योरिति कुर्यात्। `पाशकल्पककाम्येषु` इति सम्भवदर्शनम्, न परिगणनम्; व्यवच्छेद्याभावात्। `पयस्पाशम्` इति। `याप्ये पाशप्` [[5.3.47]] । `पयस्कल्पम्` इति। <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> [[5.3.67]] इत्यादिना कलपप। `पयस्कम्` इति। अज्ञातं पयः -<<अज्ञाते>> [[5.3.73]] इति कः। `पयस्काम्यति` इति। <<सुप आत्मनः क्यच्>> [[3.1.8]] , <<काम्यच्च>> [[3.1.9]] इति काम्यच्। `पय कामयते` इति। <<कमेर्णिङ्>> [[3.1.30]] । `पय विबति` इति। `पा पाने` (धातुपाठः-925) पाघ्रादि [[7.3.78]] सूत्रेण पिबादेशः। `सोऽपदादावनव्ययस्येति वक्तव्यमम्` इति। `सोऽपदादौ` इत्यस्मिन्? सूत्रेऽनव्ययविसर्जनीयस्य सकारादेशो भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् -`वा शरि` [[8.3.36]] इत्यतो वाग्रहमनृवर्तते, सा च व्यवस्थितविभाषा; तेनानव्ययस्यैव भविष्यतीति, नाव्ययस्य। `रोः काम्ये नियमार्थम्` इति। एतद्? ग्रहणकवाक्याम्। `रोरेव` इति। अस्यैव विवरणम्। वक्तव्यशब्धस्यात्रापि स एवार्थः। व्याख्यानं पूर्वपदेव कर्तव्यम्। `रोः` इति विसर्जनीयाक्षया स्थानषष्ठी। रोर्यो विसर्जनीयस्तस्येत्यर्थः। `उजब्जिरुपध्मानीयोपधः पठते` इति। इह केषाञ्चिद्दर्शनमिदम् -`उबज आर्जवे` (धातुपाठः-1303) इति, उपध्मानीयस्य त्वश्रवणम्; कृतजश्त्वनिर्देशात्। अन्येषां तु दर्शनम्? `उद्ज आर्जवे` ति। तत्राद्यपक्ष डब्जेः `हलश्च` [[3.3.121]] ति घञि `चजोः कु घिण्णयतोः` [[7.3.52]] इति कुत्वे उपध्मानीयस्य <<झलां जश् झशि>> [[8.4.53]] इति बकारे अभ्युब्गः, समुबग इत्यनिष्टं रूपं न्यात्। तस्मादुपध्यामीयस्य कवर्गे परतः सकारो वक्तव्यः; सकारे ह्रुपध्मानोयस्य कृते तस्य जश्त्वेन दकारः, एवमभ्पुद्गः समुद्गः -इतीष्टं सिध्यति। द्विर्वचनप्रतिनेधोऽप्युपध्मानीयस्य वक्तव्य एव; अन्यथा एव; अन्यथा ह्रुब्जिजिषतीत्यत्र <<अजादेर्द्वितीयस्य>> [[6.1.2]] इत्युपध्मानीयस्य द्विर्वचनं प्रसज्येत। इतरस्मिस्तु दर्शने -असिद्धकाण्डे भ उब्जेर्वक्तदव्यः, अन्यथोब्जिजिषति, उब्जितेत्यादि न सिध्येत्। तथा चोक्तम् -`असिद्धे भ उब्जेः` इति। असिद्धवचनमसिद्धत्वाद्भकारस्य। उब्जिजिषतीत्यत्र <<न न्द्राः संयोगादयः>> [[6.1.3]] इति द्वितीयस्यैकाचो द्विर्वचनप्रतिषेधो यथा स्यात्। तह्र्रयं भकारो वक्तव्यः? न वक्तव्यः; निपातनेन सिद्धत्वात्। किं पुनर्निपातनम्?\t`भुजन्युज्जौ प#आच्युपतापयोः` [[7.3.61]] इति। अत्र हि तर्हि प्राप्नोति -अभ्युद्गः, समुदग इति? अकुत्वविषये निपातनमित्यदोषः।", "83039": "पूर्वेण सकारे प्राप्ते तदपवादः षकारो विधीयते। `सर्पिस्तत्र`[`सर्पिस्ते` -काशिका] इति। <<विसर्जनीयस्य सः>> [[8.3.34]] इति स एव भवति। इतः प्रभृति यदि षकार एवानुवर्तते, न सकारोऽपि; तदा <<नमस्पुरसोर्गत्योः>> [[8.3.40]] , `अतः कृकमिकंस` [[8.3.46]] इत्यादौ सकारग्रहणं कर्त्व्यम्। क्रियमाणेऽपि यदि षकारस्तन्नानुवर्तते, तदा सोऽपि, प्राप्नोति सङ्करः। अथेतः परभृति यदि सकार एवानुवर्तते, न षकारोऽपि, तदा `इदुदुपधसय चाप्रत्ययस्य` [[8.3.41]] , <<द्विस्त्रिश्चतुरिति कृत्वोऽर्थे>> [[8.3.43]] , <<इसुसोः सामर्थ्ये>> [[8.3.44]] , <<नित्यं समासेऽनुत्तरपदस्थस्य>> [[8.3.45]] इत्येतेषु योगेषु षकारग्रहणं कर्त्व्यम्। क्रियमाणेऽपि तस्मिन्? यदि सकारोऽप्यनुवर्तते, तदा सोऽपि प्राप्नोति, एषोऽपि सङ्करः प्रसज्येत? इत्याह -`उत्तरम्` इत्यादि। एतेन सकारषकारयोः करणं यद्देशितं तन्निरस्तम्। यस्तु सङ्करदोषो दर्शितः, तस्याप्यपाकरणमाह -`तत्र` इत्यादि। कथं पुनरुभयोरुत्तरत्र सममनुवृत्तौ सत्यामेष विषयविभागो लभ्यते? मण्डूकपलुतिन्यायेनानुवर्तमानत्वात्॥", "83040": "`अपदादौ` [[8.3.38]] इति निवृत्त्म्। नमःशब्दस्य <<साक्षात्प्रभृतीनि च>> [[1.4.74]] इति गतिसंज्ञा, पुरःशब्दस्य तु <<पुरोऽव्ययम्>> [[1.4.67]] इत्यनेन।`पूः पुरौ, पुरः करोति` इति। `पृ पालनपूरणयोः` (धातुपाठः-1086), `भ्राजभ्रास` [[3.2.177]] इत्यादिना क्विप्, `उदोष्ठपूर्वस्य` [[7.1.102]] इत्युत्त्वम्, रपरत्वम्, स्वादयः, हल्ङ्यादिलोपः [[6.1.66]] , `र्वोरुपधाया दीर्घः` [[8.2.76]] इत्येकवचने दीर्घः। पूः, पुरावित्यत्रागतिसंज्ञकत्वात्? पुराशब्दस्य सत्वं न भवति, तस्मिन्नसति विसर्जनीय एव स्यात्; पक्ष उपध्मानीयोऽपि। पुरः करोतीत्यत्रागतिसंज्ञकत्वात्? सकारो न भवति, तस्मिन्नसति विसर्जनीय एव भवति, पक्षे जिह्वामूलीयोऽपि। नमःशब्दस्य तु नमःकृत्वेति प्रत्युदाहरणं वेदितव्यम्। वृत्तिकृता तु सुबोधत्वान्न दर्शितम्॥", "83041": "इच्च उच्च तौ इदुत्तौ। इकारोकारायुपधे यस्य स तथेक्तः। `निदुर्वहिः` इत्यादि। सम्भवदर्शनार्थमेतत्, न परिगणनम्; वयावर्त्त्याभावात्। `मातुः करोति, पितुः करोति` इति। अत्र यथा न भवति तथा वक्ष्यति। `पुंस्कामा, मुहुःकामा` इति। अत्रापि यथा न भवति तथा वक्ष्यति। `चतुष्कपालम्, चतुष्कष्टकम्` इति। चतुःशब्दस्य कपालकण्टकशब्दाभ्यां बहुव्रीहिः, समाहारे द्विगुर्वा। `अकारान्तोत्तरपदो [`पदद्विगुः` -प्रांउ।पाठे] द्विगुः स्त्रियां भाष्यते` (वा।156) इति स्त्रीलिङ्गता न भवति; `पात्रादीनां प्रतिषेधः` (वा।159) इति वचनात्। `मातुः करोति, पितुः करोति` इति देश्यम्। मातुपितृशब्दाभ्यां षष्ठएकवचनम्; `ऋत उत्` [[6.1.107]] इत्युत्त्वमेकादेशः, रपरत्वम्, `रात्सस्य` [[8.2.24]] इति सलोपः, रेफस्य विसर्जनीयः। स च रेफस्याप्रत्ययत्वात्? प्रत्ययविसर्जनीयो न भवति, अतः षत्वं प्राप्नोति। तत्कस्मान्न भवति? इत्याह -`कस्कादिषु` इत्यादि। परोहारः। एकादेशश्चासो निमित्त्? चेति कर्मधारयः। यद्येकादेशादिणो निमित्तभूतात्? षत्वं स्यात्, कस्कादिषु भ्रातुष्पुत्रशब्दस्य ग्रहणं न कुर्यात्; अनेनैव सिद्धत्वात्, कृतं च, एतदेव ज्ञापयति -एक#आदेशनिमित्तात् षत्वं न भवतीति। `पुम्मुहुसाः` इत्यादि। वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -उत्तर [[8.3.42]] सूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतं विज्ञायेत। सा व्यवस्थितविभाषा, तेन पुंमुहुसोर्न भवति। अन्येषां तु नित्यमेव भविष्यति। पुमित्यस्य प्रहणं रुत्वादेशपक्षमाश्रित्य कृतम्। सकारादेशपक्षे हि विसर्जनीयाभावात्? प्रतिषेधसर्जनीय` [[8.3.34]] इति सकारः। जिह्वामूलीयस्तु यथा न भवति तथा पूर्वमेव प्रतिपादितम्। `मुहुकामा` इति। षत्वे प्रतिषिद्धे जिह्वामूलीयो भवति। क्वचित्? `मुहुस्कामा` इति। सकारः पठते। तत्र यथा पुंस्कामेत्यत्र जिह्वामूलीयाभावः प्राक्प्रतपादितस्तथेहापि प्रतिपाद्यः। `नैष्कुस्यम्, दौष्पुरुध्यम्` इति ब्राआहृणादित्वात्? ष्यञि कृते तन्निमित्तायां च वृद्धाविदुदुपधत्वाभावात्? षत्वं न प्राप्नोति। `निश्ष्कुलम्, दुश्ष्पुरुषः` इत्यत्रापि `गुरोरनुतः` [[8.2.86]] इत्यादिना प्लुते विहिते नैव तत्प्राप्नोति, इदुदुपधत्वाभावादिति यो देशयेत्, तं प्रत्याह -`नैष्कुल्यम्` इत्यादि। वुद्धे स्तावद्बहिरङ्गत्वं तद्धितापेक्षत्वात्, तद्धितो भवाद्यर्थापेक्षत्वाद्बहिरङ्गः। तेन तदाश्रिताऽपि वृद्धिर्बहिरङ्गा भवत#इ। प्लुतोऽपि दूरद्धूतावावर्थे वाक्यस्य विधीयमानत्वाद्विहिरङ्गः, षत्वं तु वर्णस्य पदसम्बान्धिनो दिधीयत इतयल्पापेक्षीत्यन्तरङ्गम्। तेनान्तरङ्गे षत्वे कर्तव्ये वृद्धिप्लुतयोर्थहिरङ्गयोरसिद्धत्वात्? प्रदर्तत एव षत्वम्। [अयं भाहगः कांउ।पाठे नास्ति] तपरकरणमाशीः करोति, गोः करोति, धूः करोतीत्यत्र मा भूदित्येवमर्थम्॥[अयं भाहगः कांउ।पाठे नास्ति]`इदुदुपधस्य` इत्यादिना द्विस्त्रिश्चतुरिति ग्रहणं प्रत्याचष्टे। एतद्धि एवमर्थं क्रियते -द्विरादीनामेव विसर्जनीयस्य षत्वं यथा स्यात्, पञ्चकृत्वः करोतीत्यत्र मा भूदिति। ननु च `इदुदुपश्रस्य` [[8.3.41]] इत्यस्मिन्ननुवर्तमाने कृत्वोऽर्थो विवयो यसय पदस्य तस्य यो विसर्जनीय इत्येवं कृत्वोऽर्थविषयेण पदेन विसर्जनीयो यदा विशेष्यते, तदान्यस्य न प्राप्नोति; द्विरादेरन्यस्येदुदुपधस्य कृत्वोऽर्थवृत्तेः पदस्यासम्भवात्। तस्मादन्तरेणापि द्विरादीनां ग्रहणम्, तेषामेव हि विसर्जनीयस्य षत्वं भविष्यति। द्विस्त्रिश्चतुरिति शक्यमकर्तुम्। `कृत्वसुजर्थे षत्वं ब्रावीति कस्मात्` इति। अस्मिन्? षत्वविक्लपविधाने हेतुं कृत्वोऽर्थवचनस्य पृच्छति। कस्मात्? `कृत्वोऽर्थे` इत्येवमुक्त्वेमं षत्वविकल्पं ब्रावीति? किं तत्? प्रयोजनं यतो हेतोरिह षत्वविकल्पविधौ कृत्वोऽर्थग्रहणं करोतीत्यर्थः। अत्र वक्ष्यमाण एवाभिप्रायः। अतो हेतुमाह -`चतुष्कपाले` इत्यादि। असति कृत्वोऽर्थग्रहणे चतुश्कपालेऽपि विभाषा षत्वं स्यात्, नित्यं चोष्यते। तस्मादत्र विभाषा षत्वं मा भूदित्येवमर्थं कृत्वोऽर्थ इत्युच्यते। येनाभिप्रायेण परं पृष्टवान्, तमाविष्कर्त्तुमाह -`ननु सिद्धं तत्र पूर्वेण` इति। नान्वित्यभ्युपगमे। एतदनेन दर्शयति -भवत्वनेन षत्वं विभाषा, तथापु पूर्वसूत्रेण नित्यं भविष्यति षत्वमस्य श्रवणम्; यस्माद्यदाप्यनेन षत्वं न भवति तदापि पूर्वसूत्रेण <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इत्यनेन चतुष्कपाले सिद्धं षत्वमिति। `सिद्धे ह्रयं विधत्ते` इति। सिद्धे प्राप्त इत्यर्थः। एतदाचष्टे -`इदुदुपधस्य` इत्यादिना नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विदधात। नाप्राप्ते तस्माद्येन नाप्राप्तिन्यायेन (व्या।प।49) तस्यायं बाधकः स्यादिति। तदनेन यदुक्तम् -`सिद्धं तत्र पूर्वेण` इति, तन्निराकृतम्। तस्माद्विभाषानिवृत्त्यर्थ कृत्वोऽर्थग्रहणम्। स्यादेतत् -कृत्वोऽर्थविवक्षायां सुचि कृते तस्य यदा विसर्जनीयः क्रियते तदा पूर्वेण न प्राप्नोति, अप्रत्ययस्येति [[8.3.41]] प्रतिषेधात्; तपश्च `सिद्धे ह्रयं विधत्ते` इति यत्तन्नोपपद्यते, तत्कुतो ह्रनेन विकल्पेन नित्यं षत्वं बाध्येत? इत्याह -`यदापि कृत्वोऽर्थे` इत्यादि। चतुःशब्दो वर्तत इति शेषः। अस्य च `सिद्धे ह्रं दिधत्ते चतुरः षत्वम्` इत्यनेन प्रकृतेन सम्बन्धः। अस्यार्थः -एतदुक्तं भवनि, न केवलं यदा कृत्वोऽर्थवृत्तिश्चतुःशब्दस्तदा पूर्वेण प्राप्ते सतीमं षत्वविकल्पं विधत्ते, अपि तु यदा कृत्वोऽर्थस्तदापीति। अत्रैवोपपत्तिमाह -`लुप्ते कृत्वोऽर्थोये` इत्यादि। इत्यादि। हिशब्दो हेतौ। कृत्वोऽर्थे भवः कृत्वोऽर्थीयः,क सुच, गहादित्वाच्छः। यस्मात्? `रात्सस्य` [[8.2.24]] इति लुप्ते कृत्वोऽर्थीये रेफस्याप्रत्ययस्य विसर्जनीयो भवति तस्मात्? कृत्वोऽर्थेऽपि पूर्वेण नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विधतते। ततश्च सर्वेत्र कृत्वोऽर्थेऽप्यकृत्वोऽर्थेऽपि नाप्राते पूर्वेण षत्वे विकल्प आरभ्यत इति तस्य बाधक एव स्यात्। एवञ्चासति कृत्वोऽर्थग्रहणे चतुष्कपाले विभाषा षत्वं प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थं कृत्वोऽर्थग्रहणमिति [`इति` नास्ति -प्रांउ।पाठः] स्थितमेतत्। `एवम्` इत्यादि। यदि कृत्वोऽर्थग्रहणं क्रियते, एवं तर्हि तस्मिन्? सति किमिदानीं द्विस्त्रिश्चतुरित्यनेन कार्यम्? न किञ्चित; व्यावर्त्त्यभावात्। तस्मान्न कर्तव्यमिदमित्त्येवाभिप्रायः।[मेदेत्यभिप्रायः -प्रांउ।पाठः] स्यादेतत् -असत्यस्मिन्? पञ्चकृत्वः करोतीत्यादावपि विभाषा षत्वं स्यात्, अतस्तन्निवृत्तिरनेन क्रियते इति? अत आह -`अन्यो हि` इत्यादि। `इदुदुपधस्य` [[8.3.41]] इत्यनुवर्तते, `कृत्वोऽर्थे` इति चोच्यते, न च द्विरादिभ्योऽन्य इदुदुपधः कृत्वोऽर्थे वर्तते; तस्मात्? सामथ्र्यादेषामेव भविष्यति, नान्येषामित्यनर्थकं द्विरादीनां ग्रहणम्। `अक्रियमाणे` इत्यादिना असति हि द्विरादिग्रहणे यो दोषस्तं दर्शयति। यदि द्विरादिग्रहणं न क्रियेत, तदा विसर्जनीयस्य प्रकृतस्वात्स एव कृत्वोऽर्थग्रहणेन विशेष्यते -कृत्वोऽर्थे यो वर्तते विसर्जनीय इति। कः पुनरेवं सति दोषः स्यात्? इत्यत आह -`चतुरो न सिध्यति` इति। `तथा` इति। तथैवं कृत्वोऽर्थग्रहणेन विसर्जनीये विशेष्यमाणे चतुःशब्दस्य विभाषा षत्वं न सिध्यति। किं कारणं न सिध्यति? इत्यत आह -`रेफस्य` इत्यादि। हिशब्दो हेतौ, यस्माच्चतुरः `रात्सस्य` [[8.2.24]] इति सुचः सकारे लुप्ते प्रकृत्यवयवस्य रेफस्य विसर्जनीयः, तस्मान्न सिध्यति। न ह्रसौ विसर्जनीयः कृत्वोऽर्थे वर्तते। अथ क्रियमाणेऽपि तस्मिन्? कस्मादेव दोवो न भवति? इत्यत आह -`तस्मान्` इत्यादि। तस्मिन्? द्विस्त्रिश्चतुरित्येतस्मस्तूपादोयमाने कृत्वोर्थग्रहणं चतुःशदस्य विशेषणं न्यायं भवति। तथा हि -तस्य श्रुतत्वात्? स एव विशेष्यते, कृत्वोऽर्थ यो वर्तते चतुःशब्द इति। लुप्तेऽपि कृत्वोऽर्थीये चतुःशब्दः कृत्वोऽर्थे वर्तत इति न भवति द्विरादिग्रहणे क्रियमाणेऽपि दोषः। तस्माद्द्विरादिग्रहणं कर्तव्यम् -कृत्वोऽर्थग्रहणं तस्य विशेषणं यथा स्यात्। एतदपि न भवति तस्य प्रयोजनमिति दर्शयन्नाह -`प्रकृतं पदं तदन्तम्` इति। तदन्तं विसर्जनीयान्तम्। अतः `तस्यापि तद्विशेषणं न्याय्यम्` उपपत्तिमाह -तदन्तत्वं तु पदस्य विसर्जनीयेन विशेष्यत्वाल्लभ्यते। अपिशब्दोऽवधारणे। तस्यैवेत्यर्थः। कुत एतत्? व्याप्तिन्यायात्। विसर्जनीये हि विशेष्यमाणे चतुरो न सिध्यति, पदे तु विशेष्यमाणे सर्वत्र भवति। तस्मात्? तदेव विशेषयिष्यामः -कृत्वोऽर्थे यद्वर्तते पदमिति। पदे विशेष्यमाणे चतुरः षत्वं सिध्यत्येव। लुप्तेऽपि कृत्वोऽर्थीये चतुरित्येतत्पदं कृत्वोऽर्थे वर्तत इति। तस्मान्नार्थो द्विरदिग्रहणेनेति श्लोकवार्तककारेम प्रत्याख्यातं द्विरादिग्रहणम्। सूत्रकारस्य त्वयमभिप्रायः -विसर्जनीयस्य कार्यित्वात्? पदेन विशेष्यमाणत्वाच्च प्राधान्यम्। तत्रासति द्विरादिग्रहणे प्राधान्यादविसर्जनीय एव कृत्वोऽर्थग्रहणेन विशेष्यत ति। तस्मस्तु सति तदुपादानसामर्थ्यात्? साक्षात्? क्षुतत्वाच्च द्विरादेरेव पदस्यैतद्विशेषणम्, न तु स्वरितत्वादनुमितस्य विसर्जनीयसय। तस्माद्युक्तं द्विरादिग्रहणं कर्त्तुमिति। `एवं तु` इत्यादिना ग्रन्थेन द्विस्त्रिश्चतुग्र्रहणं सूत्रकारमतेन स्थापयति। `पूर्वेण` इति। `इदुदुपधस्य` [[8.3.41]] इत्यादिना। तत्रैतत्? स्यात् -`इदुदुपधस्य` इत्यस्यावकाशः -निष्कृतम्, दुष्कृतमिति; अस्यावकाशः -द्विष्करोतीत्यादौ; चतुष्करोतीत्यत्र परत्वात्? पूर्वविधिं बाधित्वाऽयमेव विकल्पो भविष्यति? इत्यत आह -`पूर्वत्रासिद्धे` इत्यादि। किं कारणं नास्तीति? अत आह -`अभावादुत्तरस्य` इति॥", "83042": "", "83043": "", "83044": "यदि `अचिंशुचिहुसृयिच्छादिच्छृदिभ्य इसिः` (द।उ।9-30), `जनेरुसिः` (द।उ।9-37) इत्यनुवर्तमाने `अतिंतपृवपियजितनिधानितपिभ्यो नित्` (द।उ।9।39) इत्येषं सपिं#ः, यजुरादयः शब्दा इसुस्प्रत्ययान्ता व्युत्पाद्यन्ते -इति दर्शनम्, ततश्च केनचिदप्राप्त एव षत्वे `कुप्वोः` [[8.3.37]] इत्यादिना जिह्वामूलीयादिषु प्राप्तेष्विदं वचनम्। अथ `अथादयोऽव्युत्पन्नानि प्रातिपदिकानि` (पु।प।वृ।70) इति दर्शनम्। ततोऽप्रात्ययविसर्जनीयत्वात्? <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति नित्ये षत्वे प्राप्तेऽयमारम्भः। `सामर्थ्ये सति` इति। कुप्वोर्निमित्तत्वेनाश्रयणात्? तदादिनैव शब्दान्तरेण सह सामर्थ्यं वेदितव्यम्। सर्पिष्करोतीत्यत्र सर्पिः साधनं करोतीत्येवं साध्यां क्रियामपेक्षते, करोतीत्यर्थोऽपि[करोत्यर्थोऽपि -करोत्यर्थोऽपि -प्रांउ।पाठः] साध्यः। साधनं सर्पिरित्यस्ति सामर्थ्यम्।`तिष्टतु सर्पिः पिब त्वमुदकम्` इति। अत्र सर्पिरित्यत्र पिबेत्यनेन सामर्थ्यं नास्ति। तथा हि -पिबेत्ये तदुदुकमपेक्षते, सर्पिरित्येतत्तु तिष्टत्विति। अथ परमसपिःकुण्डिकेत्यत्र विभाषया षत्वं समासे कस्मान्न भवति? इत्याह -`सामर्थ्यमिह` इत्यादि। दाशब्दोऽप्यर्थे वर्तते; अनेकार्थत्वादव्ययस्य। `न पुनः` इत्यस्यैकार्थीभाव इत्यनेन, उभय इत्येनेन च सम्बन्धः। अवधारणं चात्र द्रष्टव्यम्; व्यवच्छेदफलकत्वात्? सर्ववाक्यानाम्। तदयमत्रार्थः -सामर्थ्यमिह व्यपेक्षैवाश्रयते, उभयं तु कथं नाश्रयितुं युक्तम्; न हि सामान्यशब्दाः प्रकरणादिकमन्तरेण विशेषेष्ववतिष्ठन्ते, न चेह प्रकरणादिकमस्ति तथाविधं किञ्चिद्येन व्यपेक्षालक्षणमेव सामर्थ्य ग्रहीतव्यम्? नैषः दोषः; `कार्यकालं संज्ञापरिभाषम्` (व्या।प।58) इति, इह `पदस्य` इति वर्तते, तत्र पदाधिकारादेव समर्थपरिभाषाया उपस्थानात्? सामर्थ्ये लब्धे यतः सामर्थ्यग्रहणं क्रियगते तस्येदं प्रयोजनम् -इष्टसामर्थ्यस्य परिग्रहो यथा स्यात्। इह च व्यपेक्षालक्षणमेवेष्टं सामर्थ्यमिति तदेवाश्रयितुं युक्तम्; नैकार्थीभावः, नाप्युभयमिति॥", "83045": "`सपिष्कुण्डिका` इति। षष्ठीसमासः। एवं `धनुष्कपालम्` इत्यादावपि। `परममपिःखुम्डिका` इति। परमसर्पिः शब्दयोः सन्महत्` [[2.1.60]] इत्यादिना कर्मधारयं कृत्वा कुण्डिकाशब्देन सह षष्ठीसमासः। अत्र परमशब्दापेक्षया सर्पिःशब्द उत्तरपदम्, तत्रस्थश्च विसर्जनीय इति षत्वं न भवति।ननु च <<इसुसोः सामर्थ्ये>> [[8.3.44]] इत्यत्र `इसुसोः` इति प्रत्ययग्रहणमेतत्, तत्र `प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेस्तदन्तस्य` (भो।पु।सू।7) इति नियमाद्यत एवेसुसौ विहितौ तदादेरेव ग्रहणेन भवितव्यम्, नाधिकस्य, अधिकश्च परमशाब्दः; केवलाद्धि सपेरिस्प्रत्ययो विहितः, न परमशब्दादेः; एवञ्चोत्तरपदप्रकृतिरेव नास्ति, किं प्रतिवेधेन? इत्याह -`एतदेव` इत्यादि। यद्ययमिह नियमः स्यात्? `अनुत्तरपदस्थस्य` इति नोक्तं स्यात्, उक्तञ्च, तस्मादेतज्ज्ञापयति -नायमिह नियमो भवतीति। किमस्य ज्ञापकस्य प्रयोजनम्? इत्याह -`तेन` इत्यादि। यस्मादयमिह नियमो न भवति, तेन हेतुना वाक्येऽधिकस्यापि ग्रहणे सति परमसर्पिः करोति, परमसर्पिष्करोतीत्यत्र पूर्वसूत्रेण षत्वबिकल्पो भवति; नियमे तु सति न स्यात। समासेऽपि तर्हि परमसर्पिःकुण्डिकेत्यत्र षत्वविकल्पेन भवितव्यम्; नियमाभावात्? इत्यत आह -`व्यपेक्षा च तत्र` इत्यादि। चकोरोऽवधारणार्थः। इतिकरणो हेतौ। तत्र `इसुसोः` [[8.3.44]] इत्यादौ सूत्रे सामाथ्र्यग्रहणाद्व्यपेक्षैव सामर्थ्य वत्वविकल्पस्य निमित्तं यस्मादाश्रितं तस्मात्? समासे न धवति; तत्र तदभावात्॥", "83046": "`कुप्वोः क पौ च` [[8.3.37]] इति प्राप्ते वचनमिदम्। `अयस्कारः` इति। `कर्मण्यण` [[3.2.1]] । एवं `अयस्कामः` इत्यत्रापि। `शीलिकामिभिक्ष्याचरिभ्यो णो वकतव्यः` (वा।229) इति त्वत्र न प्रवर्तते। तत्रोपसंख्याने ण्यन्तस्य कमेरुपादानात्, इह त्वण्न्तस्य। यदा `आयादय आर्धधातुके वा` [[3.1.31]] इति कमेर्णिङ्? नास्ति, तदा कमेरण्यन्तता। `अयस्कंसः` इति। षष्ठीसमासः। ननु कमेरेव `वृतृवदिहनिकमिकषिभ्यः सः` (द।उ।9।29) इति से कृते कंस इति भवति, तत्र कमिग्रहणेनैव सिद्धत्वात्। कंसग्रहणमनर्थकम्? न; ज्ञापनार्थत्वात्। एतदनेन ज्ञाप्यते -अस्तीदमपि दर्शनम् -`उणादयोऽव्युत्पन्नानि। प्रापतिपदिकानि` (है।प।पा।103) इति,। `अयस्कुम्भः` इति। अयसो विकारः कुम्भ इति `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इति पध्यपदलोपी समासः। षष्ठीसमासो वा। `अय स्कुम्भी` इति। गौरादित्वाङङीष्। अयस्कुम्भवत्समासः। `अयस्पात्री` इति। पात्रशब्दः ष्टुन्प्रत्ययान्तः, `षिद्गौरादिभ्यश्च [[4.1.41]] इति ङीष्। `अयस्कुशा` इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदाविसूत्रेण [[4.1.42]] इति ङीष्। `अयस्कुशा` इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदादिसूत्रेण [[4.1.42]] ङीष्? न भवति। अय इव कर्णावस्या इत्ययस्कर्णी, `नासिकोदर` [[4.1.55]] इत्यादिना ङीव्। ईकारान्तस्य कर्णशब्दस्य ग्रहणम्। अतः शुनःकर्ण इत्यत्र सत्वेन त भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, निराकर्तुमाह -`शुनस्कर्ण इत्ययं तु` इत्यादि। `भाःकरणम्` इति। ल्युडन्तेन समासः। यदि तर्हि तपरकरणं न क्रियेत भास करोतीति विवादिसूत्रेण [[3.2.21]] टे कृते भास्कर इत्यत्रापि भवति? अत आह -`भास्कर इत्ययं तु` इत्यादि। सुबोधम्॥", "83047": "`अथःशिरसो` इति। सुब्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। `पदशब्दे परतः` इति एतेन पद इति स्वरूपस्य ग्रहणम्; न पारिभाषिकस्येति दर्शयति। यदि हि पारिभाषिकस्य ग्रहणं स्यात्, पदग्रहणमनर्थकं स्यात्। समासाधिकारादेव तस्य लब्धत्वादित्यभिप्रायः। `शिरस्पदम्` इति। षष्ठीसमासः॥", "83048": "`कुत्वोः` [[8.3.37]] इत्यस्यायमपवादः। `यथायोगम्` इति। इणः परो यो विसर्जनीयस्तस्य षकारः, यस्त्वन्यस्तस्य सकार इत्येष यथायोगार्थः `कस्कः` इति। सौ परतः <<किमः कः>> [[7.2.103]] इति कादेशः, दीप्सायां द्विर्वचनम्। `कौतस्कुतः` इति। <<पञ्चम्यास्तसिल्>> [[5.3.7]] , <<कु तिहोः>> [[7.2.104]] इति किमः स्थाने कुभावः, पूर्ववद्द्विरुक्तिः, <<तत आगतः>> [[4.3.74]] इत्यणि कृते `अव्ययानां भमात्र` (वा।842) इति टिलोपः। `भ्रातुष्पुत्रः` इति। यदा समासस्तदा <<ऋतो विद्यायोनिसम्बन्धेभ्यः>> [[6.3.23]] इति षष्ठआ अलुक्। `शुवस्कर्णः` इति। संज्ञायाम्<<षष्ठ्या आक्रोशे>> [[6.3.21]] इत्यलुक्। असंज्ञायां तु समासे आकर्ण इत्येवं भवति। ननु च सर्पिष्कुण्डिकादीनां <<नित्यं समासेऽनुत्तरपदस्थस्य>> [[8.3.45]] इत्येवं षकारः सिद्धः, तत्किपर्थमेषामिह पाठः? इत्यत आह -`एषाम्` इत्यादि। पारायणेन दीव्यन्तीति पारायणिकाः `तेन दीव्यति` [[4.4.2]] इती ठक्। `भाव्ये वृत्तौ च` इति। अनुत्तरपदस्थस्येति किम्? परमसर्पिःकुण्डिकेति भाष्ये वृत्तौ च प्रत्युदाहृतम्; अतस्तयोरिह पाठो नाभिमतोऽमीषामिति दर्शयति। `अविहितलक्षणः` इत्यादिना कस्कादेराकृतिगणतामाचष्टे। चकारोऽनुक्तसमुच्चयार्थो भवन्नेवमर्थं द्योतयति। विसर्जनीयस्थानिकयोः सकारषकारयोः `उपचारः` इत्येषा संज्ञा विहिता॥", "83049": "`अयस्पात्रम्` इति षष्ठीसमासे कृते `अतः कृकभि` [[8.3.46]] इत्यादिना नित्ये षत्वे प्राप्तेऽनेन विकल्पो विधीयते। एवं `विआतस्पात्रम्` इत्यादावपि यदि समासः, तदा प्राप्ते। `उरुणस्कारः` इत्यत्राप्यसमासत्वादेवा प्राप्ते। उरुशब्दात्? परस्यास्मच्छब्दस्य <<बहुवचनस्य वस्नसौ>> [[8.1.21]] इति नसादेशः, <<नश्च धातुस्थोरुषुभ्यः>> [[8.4.27]] इति णत्वम्। अथेह `हरिकेशः पुरस्तात्` (ॠवे।10।139।1), स नः पावक (ऋ।वे।1।12।10) इत्यादौ च कस्मान्न भवति? इत्याह -`हरिकेश` इत्यादि॥", "83050": "वेति निवृत्तम्। `कर्` इति। कृञो लुङः, च्लिः, तस्य <<मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः>> [[2.4.80]] इत्यादिना लुक्, तिप्, गुणः रपरत्वम्, हल्ङ्यादिना [[6.1.66]] तिलोपः, रेफस्य विसर्जनीयः, `बहुलं छन्दस्यामाङ्योगेऽपि` [[6.4.75]] इत्यडागमाभावः। `करत्` इति। कृञो लङ, <<कृमृदृरुहिभ्यश्छन्दसि>> [[3.1.59]] इत्यङ, `ऋदृशोरङि गुणः` [[7.4.16]] इति गुणः, पूर्ववदडागमाभावः। अथ वा लटः शत्रादेशः, व्यत्ययेन शप्। `करति` इति। लट्, तिप्, पूर्ववच्छप्। `कृधि` इति। कृञो लोट्, `सेह्र्रपिच्च` [[3.4.87]] इति सिपो हिरादेशः, तस्य `श्रुशृणुपृकृवृभ्यश्छन्दसि` [[6.4.102]] इति धिभावः, <<बहुलं छन्दसि>> [[7.4.78]] इति विकरणलुक्। `कृतम्` इति। निष्ठान्तमेतत्। `विआतस्कः` इति। `पञ्चभ्यास्तसिल्` [[5.3.7]] । `उरुणस्कृधि` इति। पूर्ववन्नसादेशः, णत्वं च। `सदस्कृतम्` इति। सदसि कृतमिति `सप्तमी` [[2.1.39]] इति योगविभागात्समासः॥", "83051": "`अध्यर्थम्` इति। परेरिदं विशेषणम्। `हिमवतस्परि` इति। हिमवत उपरीत्यर्थः। पञ्चमी च सुब्ब्यत्ययेन षष्ठ्याः स्थाने वेदितव्या। `दिवः पृथिव्याः` इत्यादि। सर्वतोभावे परिशब्दोऽत्र वर्तते॥", "83052": "`दिवस्पातु` इति। पातेर्लोट्, तिप्, `एरुः` [[3.4.86]] इत्युत्वम्, अदादित्वाच्छपो लुक्॥", "83053": "`वाचस्पतिम्` इति। <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति बहुलवचनादकृत्यपयलुक्॥", "83054": "पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम्। यद्येवम्, वेत्यनर्थकम्, आरम्भसामर्थ्यादेव विकल्पेनायं विधिर्विज्ञास्यते? नैतत्; असति वाग्रहणे पूर्वो विधिर्बहुलं विज्ञायेत; बहुलग्रहणस्य प्रकृतत्वात्। इह तु वाग्रहणे पूर्वो विधिर्नित्यो विज्ञायेतेति नानर्थकम्॥", "83055": "मूर्धनि भवो मूर्धन्यः -`शरीरावयवाद्यत्` [[4.3.55]] , <<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिवद्भावः। `सिषेच`, इति। `षिचिर्? क्षरणे` (धातुपाठः-1434), `ञिष्वप्? शये` (धातुपाठः-1068), `धात्वादेः षः सः` 96.1.66) इति सत्वम्, लिट्, तिप्, णल्। स्वपेः `लिटभ्यासस्योभयेषाम्` [[6.1.17]] इति सम्प्रसारणम्। अथ श्रूर्थन्यग्रहणं किमर्थम्, न ष इत्येवोचयेत, षकारेऽपि कृते सिषेचेत्यादि सिध्यति, लघधु च सूत्रं भवति? इत्वाह -`ष इत्येवं सिद्धे` इति। यदि ष इत्येवोच्येत अकृढवम्, चकृढ्वे इत्यत्रापि `इणः षीध्वं लुङ्? लिटां धोऽङ्गात्` [[8.3.78]] इति षत्वं प्रसज्येत? ढत्वं चेष्यते, तच्च मूर्धन्यग्रहणे सति सिध्यत्येव। अत्र हि सत्यान्तरतम्यान्नादानुप्रदानस्य घोषवतो महाप्राणस्य घकारस्य तादृशो ढकारो भवति। यदि पुनः `इणः षीध्वम्` इति सूत्रे ढग्रहणं क्रियते, तदा शक्यत इह सूत्रे मूर्धन्यग्रहणमकर्तुम्। तथा च ढग्रहणं न कृतं वैचित्र्यार्थम्। ननु च क्रियामाणेन ढग्रहणेन षकारस्य व्यवच्छिन्नत्वादत उत्तरेषु षग्रहणं कर्तव्यं जायेत। जायतां नाम, तथापि मूर्धम्यग्रहणात्? स्वरूपग्रहणमेव लाघवं भवति। स्वरूपग्रहणे हि षण्मात्रा भवन्ति -इह `ष` इत्युक्ते द्वे मात्रे उत्तरसूत्रे `ढ` इल्युक्ते द्वे, उत्तरत्र `ष इत्युक्ते द्वे। ताः सर्वाः सङ्कलिताः षण्मात्रा भवन्ति। मूर्धन्यग्रहणे सति सप्त। तस्मात्? स्वरूपग्रहणे सति लाघवं भवति। यदि तु सन्तावपि षकारढकारी प्रकृतौ, तथापि षकारस्य स्वरितत्वात्? स्यैषानुवृत्तिरिति कल्प्यते, तदा सुतरां स्वरूपग्रहणे ललाघवं भवति। `अकृढवम्` इति। `ह्रस्वादङ्गात्` [[8.2.27]] इति सिचो लोप-। अथान्तग्रहणहणं किमर्थम्? `अपदस्य मूर्घन्यः` इत्युच्यमानेऽपदस्य यः सकारस्तस्य मूर्धन्यो विज्ञायेत। तथा च करिष्यतीत्यादौ न स्यात्; पदसकारत्वात्। क्व तर्हि स्यात्? करिष्यतेत्यादौ यत्र पदसंज्ञा नास्ति। अत्र हि भसंज्ञा पदसंज्ञां बाधेत। तस्मादन्तग्रहणं क्रियते॥", "83056": "`साडपस्य` इति। साडित्येतद्रूपमापन्नस्येत्यर्थः। `जलाषाट्` इति। जलं सहत इति `भजो ज्विः` [[3.2.62]] इत्यनुवर्तमाने <<छन्दसि सहः>> [[3.2.63]] इति ण्विः, <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः, `हो ढः` [[8.2.31]] इति ढत्वम्, तस्य जश्त्वम् -डकारः, <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घः। सकारस्योष्मणो घोषवत आन्तरतम्यात्? तादृश एव षकारः। `सह डेन` इत्यादि। डीङः <<सप्तम्यां जनेर्डः>> [[3.2.97]] इत्यनुवर्तमाने <<अन्येष्वपि दृश्यते>> [[3.2.101]] इति डप्रत्ययः; अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात्। सह डेन वर्तत इति <<तेन सहेति तुल्ययोगे>> [[2.2.28]] इति बहुव्रीहिः, <<वोपसर्जनस्य>> [[6.3.82]] इति सहशब्दस्य सभावः, सडस्यापत्यमिति अत इञि [[4.1.95]] <<यस्येति च>> [[6.4.148]] इत्यकारलोपः, आदिवृद्धौ च साडिरित्येतद्रूपं भवतीति, असति सहेरित्येतस्मिन्? मूर्घन्यः प्रसज्येत। `अचः परस्मिन्? पूर्वविधौ` [[1.1.57]] इत्यकारस्य स्थानिवत्त्वान्नास्ति साडित्येतत्तद्रूपमिति चेत्? न; `पूर्वत्रासिद्धे न स्थानिवत्` (जै।प।वृ।48) इति स्थानिवद्भावनिषेधात्। नन्वेवमपि नैवात्र साडित्येतद्रूपमस्ति? षत्वे कर्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्व#आत्। इहापि तर्हि न स्यात् -जलाषाडिति? षत्वे कर्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्वादेव; सा ह्रङ्गमाश्रित्य भवति, अङ्गसंज्ञा च प्रत्यये सति, प्रत्ययो ह्रु पपदाश्रय इति व्यक्तमुपधादृद्धेर्बहिरङ्गत्वम्। षत्वं त्वन्तरङ्गं साङ्भूतस्य विधीयत इति `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यसिद्धत्वात्? षत्वं न भविष्यतीति वचनमिदमनर्थकं स्यात्। तस्मान्मा भूद्वचनस्य वैयथ्र्यमिति नैयं परिभाषोपतिष्ठते। `तुरासाहम्` इति। द्वितदीयैकवचनान्तमेतत्। क्वचित्? `जलासाहम्` इति पाठः, स त्वयुक्तः; इष्टत्वादिह षत्वस्य। तथा च वक्ष्यति - [[8.3.110]] `सवनादिष्वआसनिग्रहणमनिणोऽपि षत्वं भवतीति ज्ञापनार्थम्। तेन जलाषाहम्। अआषाहमित्येतत्? सिद्धं भवति` इति। `स इति किम्` इति। एवं मन्यते -अलोऽन्त्यपरिभाषया [[1.1.51]] अन्तस्य तावङ्डकारेण भवितव्यम्, अन्तस्य भवन्नान्तरतम्याडुकारः स्यात्, एतच्चायुक्तम्; डकारस्य डकारविधाने प्रयोजनाभावात्। तस्मादन्तरेणापि सग्रहणं सकारस्यैव भविष्यति। इतरस्तु `स` इत्येतस्मिन्नसति `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इत्याकारस्य द्विमात्रिकस्यान्तरतम्यात्? तादृश ऋकारो मूर्धन्यः स्यादित्यनेनाभिप्रायेणाअह -`आकारस्य मा भूत्` इति॥", "83057": "`इण्कोः` इति द्वन्द्वैकवद्भावं कृत्वैकवचनेन निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे `अनित्यमागमशासनम्` (व्या।प।99) इति न क्रियते। इणिति परेण णकारेण प्रत्याहारग्रहणम्। `कु` इति कवर्गस्य। कुतः पुतरेत दवसितम् -अनयोग्र्रहणम्, न पुनरिकारककारोकाराणामिति? व्याख्यानात्। सर्वसन्देहेष्विदमुपतिष्ठते -भवति हि व्याच्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति (व्या।प।75)। `वाक्षु, त्वक्षु` इति। <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `दास्यति` इति। कथं पुनरिवं प्रत्युदाहरणमुपपद्यते, यावता <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्; तुल्यस्थानप्रयत्नत्वात्; स्थानमस्ति ह्रनयोस्तुल्यमिति `अकुहविसर्जनीयाः कण्ठ्याः` इति। प्रयत्नोऽपि तुल्यः -विवृतं करणमूष्मणाअं स्वराणाञ्चेति; तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; <<नाज्झलौ>> [[1.1.10]] इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्; तुल्यस्थानप्रयत्नत्वात्; स्थानमस्ति ह्रनयोस्तुल्यमिति `अकुहविसर्जनीयाः कण्ठ्याः` इति। प्रयत्नोऽपि तुल्यः -विवृतं करणमूष्मणां स्वराणाञ्चेत्; तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; <<नाज्झलौ>> [[1.1.10]] इति सवर्णसंज्ञाप्रतिषेणादिति चेत्; न;[अयं भागा कांउ।पाठे नास्ति] अगुहीतसवर्णानां प्रतिवेधात्यं भागः कांउ।पाठे नास्ति]? नैष दोषः; यदयं <<वयस्यासु मूर्ध्नो मतुप्>> [[4.4.127]] इतयत्राकारादुत्तरस्य सकारस्य मूर्घन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते -मूध्र्नो मतुप्` [[4.4.126]] इत्यत्राकारादुत्तरस्य सकारस्य मूर्धन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते -हकारो गृह्रमाणो नाकारं ग्राहयति; अन्यथा `वयस्यासु` इति निर्देशं न कुर्यात्। `असौ` इति। <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति दकारस्य सकारः, <<अदस औ सुलोपश्च>> [[7.2.107]] इत्यौत्वं सुलोपश्च॥", "83058": "इण्कोरिति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यान्तर्यार्थत्वाद्व्यवये सति पूर्वेण न प्राप्नोतीत्यस्यारम्भः। इष्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति। एवं नुम्व्यवाये, विसरजनीयव्यवाये, शव्र्यवाये। `अपि` इत्येभिः प्रत्येकमभिसम्बध्यते, तेन त्रीणि वाक्यानि सम्पद्यन्ते। वाक्यत्रयस्य प्रयोजनं दर्शयिष्यामः नुम्ग्रहणं नुम्स्थानिकस्यानुस्वारस्योपलक्षणं द्रष्टव्यम्। न हि नुमा क्यचिद्व्यवायोऽस्ति; सर्वत्र <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनुस्वारविधानात्। `सर्पीषि` इति। <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुम्, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इति दीर्घः। `सर्पिःषु` इति। `दा शरि` [[8.3.36]] इति विसर्जतीयः। `सर्पिष्षु` इति। वाग्रहणाद्विसर्जनीयमुन्ते <<विसर्जनीयस्य सः>> [[8.3.34]] इति पक्षे विसर्जनीयस्य सकारः, परस्य सकारस्य षत्वे कृते पूर्वस्य [[8.4.40]] ष्टुत्वम्। अथेह कस्मान्न भवति -निस्से, निंस्स्वेति? अत आह -`नुमादिभिः` इत्यादि। एतच्च प्रत्येकं हि वाक्यपरिसमाप्तौ लभ्यते! प्रत्येक हि वाक्यपरिसमाप्तौ त्रीणि वाक्यानि भवन्ति -नुमा व्यवायेऽपीण्कोरुत्तरस्य मूर्धन्यो भवति, एवमन्यत्रापि। `नुम्विसर्जनीयशव्र्यवायेऽपि` इत्येतद्ग्रहणकवाक्यं तेषामेव निबन्धनम्। तत्रैकेन वाक्येन नुमा व्यवाये मूर्धन्यो विधीयते, द्वितीयेन तु विसर्जनीयव्यवाये, तृतीयेन च शर्भिरिति। तेनेह न भवति -नुमा विसर्जनीयदिसहितेन मूर्धन्यः। `निंस्से` इति। `णिसि चुम्बने` (धातुपाठः-1025), इदित्त्वान्नुम्, लट्, थास्, `थासः से` [[3.4.80]] , अदादित्वाच्छयो लुक्। `निंस्स्वा` इति। लोट्, टेरेत्त्वम्, <<सवाभ्यां वामौ>> [[3.4.91]] इत्येकारस्य वकारः। अथापिशब्दः किमर्थः? अव्यवायेऽपि यता स्यादिति चेत्? नैतदस्ति; सिद्धं ह्रन्यवाये पूर्वेणैव, सिद्धे सत्यरम्भो नियमार्थो विज्ञायेत -नुमादिव्यवाय एव। तथा च सति नुमादिभिरव्यवहितादिण्कोर्न स्यात्? नैतदस्ति; यदि हि नुमादिभिव्र्यवाये मूर्धन्योऽभिमतः स्यात्, `इण्कोर्नुभ्विसर्जनीयशव्र्यवाये` इत्येकमेव योगं कुर्यात्, कृतवांश्च, तस्माद्योगविभागकरणसामर्थ्यात्? पूर्वोऽव्यवायार्थो विज्ञास्यते, नार्थोऽपिशब्देन। यस्य तर्हि एवमर्थमवगच्छतः प्रतिपत्तिगौरवं भवति तं प्रति तत्परीहारार्थोऽपिशब्दः। सकरग्रहण एव कर्तव्ये शरिति प्रत्याहारग्रहणं वैचित्र्यार्थम्। न हि शकारवकाराभ्यां निमित्तकार्यिणोव्र्यवधानमस्ति॥", "83059": "अत्र चत्वारः पक्षाः सम्भवन्ति -1। आदेशप्रत्यययोरित्युभयत्र सकारपेक्षयाऽवयवयोगा येयं षष्ठी स्यात् -आदेशावयवो यः सकारः, प्रत्ययो यः सकार इति। अथ वा -3 प्रत्यये समानाधिकरणाऽदेशेऽवयवयोगा -प्रत्ययो यः सकारः, आदेशावयवो यः सकार इति। 4।तस्य विपर्ययो वा -आदेशो यः सकारस्तस्य, प्रत्ययावयवो यस्तस्येति। कथं पुनरेका षष्ठी समानाधिकरणा वा स्यात्, अवयवयोगा वा? विषयभेदात्। यथैव हि `खरवसानयोः` [[8.3.15]] इत्यत्रैकापि सप्तम्यधिकरणभेदादभिद्यते, तथेहप्येकस्या अपि षष्ठआ विषयभेदो वेदितव्यः। तन्नाद्यपक्ष आश्रीयमाणे `नित्यदीप्सयोः` [[8.1.4]] इति स्थाने द्विर्वचने कृते बसंबिसम्, मुसलंमुसलमित्यत्रापि षत्वं प्राप्नोति, भवति ह्यत्रादेशावयवः सकारः। <<सर्वस्य द्वे>> [[8.1.1]] इति स्थाने द्विर्वचनपक्षोऽप्याश्रित एव। द्वितीये तु करिष्यतीत्यादौ न स्यात्; सकारमात्रस्याप्रत्ययत्वात्। तृतीये तु पक्षे यावाद्ययोर्दोषौ तावुभावपि प्रसज्येते इति विषु प्रक्षेषु दोषवत्तां दृष्ट्वा चतुर्थ पक्षमाश्रित्याह -`अदेशो यः सकारः` इत्यादि। चतुर्थे पक्षेऽप्याश्रीयमाणे -इन्द्रो मा वक्षत्, `सदेवाम्? यक्षत्` (अ।दे।3.4.6) इत्यत्र न प्राप्नोति, प्रत्ययो ह्यत्र सकारः, न तु प्रत्ययावयव इत्यत आह -`इन्द्रो मा वक्षत्` इत्यादि। इतिकरणो हेतौ। यस्मादिहापि व्यपदेशिवद्भावात्? प्रत्ययावयवः सकारस्तस्माद्भवति मूर्धन्यः। वक्षादिति -वहेर्लेट्, तिप्, <<इतश्च लोपः परस्मैपदेषु>> [[3.4.97]] इतीकारलोपः, <<लेटोऽडाटौ>> [[3.4.94]] इत्यट, <<सिब्बहुलं लेटि>> [[3.1.34]] इति सिप्, `हो ढः` [[8.2.31]] , <<षढोः कः सि>> [[8.2.41]] इति कत्वम्। यक्षदिति -यजेः <<चोः कुः>> [[8.2.30]] इति कुत्वम् -जकारसय गकारः, तस्य चर्त्वम् -ककारः। शेषं यथायोगं पूर्ववत्॥", "83060": "`अन्वशिषत्` ति। `शासु अनुसिष्टौ` (धातुपाठः-1075), लुङ्, `सर्त्तिशास्त्यरत्तिभ्यश्च` [[3.1.56]] इति च्लेरङ्, <<शास इदङ्हलोः>> [[6.4.34]] इतीत्त्वम्। `अन्वशिषताम्` इति। तसस्ताम्। `शिष्टः` इति। ष्टुत्वम्, पूर्ववदित्त्वम्। `उषितः` इति। `वस निवासे` (धातुपाठः-1005), `वसतिक्षुधोः` [[7.2.52]] इतीट्, वच्यादिसूत्रेच [[6.1.15]] सम्प्रसारणम्। `जक्षतुः जक्षुः` इति। `घस्लु अदे (धातुपाठः-715), यश्चादेशो घसिः -तयोद्र्वयोरपरि ग्रहणम्। ननु चादेशस्य लाक्षणिकत्वाद्ग्रहणमयुक्तम्? नैष दोषः; अनित्या हि लक्षणप्रतिपदोक्तपरिभाषः। अनित्यत्वं चास्याः <<यावत्पुरानिपातयोर्लट्>> [[3.3.4]] इत्यत निपातग्रहणेन ज्ञापितम्। `भुवश्च महाव्याह्मतेः` [[8.2.71]] इत्यत्र महाव्याह्मतिग्रहणेन च ज्ञापितम्। अपि चात्र घसिवसोरेकतरस्य लब्दक्षरत्वात्? पूर्वनिपाते कर्तव्ये शासेः पूर्वनिपातं कुर्वता शास्त्रनिरपेक्षता सूच्यते -किञ्चिच्छास्त्रमत्र नापेक्षितवयमित्यमुमर्थं दर्शयितुम्। तेन लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) नाश्रीयत इति युक्तमादेशस्यापि ग्रहणमिति। अदेर्लिटि कृते `लिटन्यतरस्याम्` [[2.4.40]] इति धस्लादेशः, `गमहन` [[6.4.98]] इत्यादिनोपध#आलोपः, <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थानिवद्भावाद् द्विर्वचनम्, <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम् -झकारः, तस्यापि जश्त्वम -जकारः, घकारस्य चर्त्वम् -ककारः। तस्य चाश्रयत्वात्? सिद्धं भवतीति वेदितव्यम्। `अक्षन्` इति। लुङ्, <<बहुलं छन्दसि>> [[7.4.78]] इति घस्लादेशः, झेरन्तादेशः, संयोगान्तलोपः [[8.2.23]] , `मन्त्रे घसह्वर` [[2.4.80]] इत्यादिना च्लेर्लुक्, <<घसिभसोर्हलि च>> [[6.4.100]] इत्युपधालोपः, चर्त्वम् -ककारः। `अनादेशार्थं वचनम्` इत्युक्ते यो देशयेत् -युक्तं शासिवसोरनादेशार्थं वचनम्, अनादेशार्थं तु घसिं प्रत्ययौक्तम्, आदेशसकरत्वादिति? सं प्रत्याह -`धसिः` इत्यादि। घकारादिवर्णसमुदायो हि घसिरादेशः, सकारस्तु तस्यादयवः, नादेश इत्यादेशघसिमपि प्रत्यनादेशार्थं वचनम्॥", "83061": "`षभूते` इति। `ष` इतीदं रूपमापन्न इत्यर्थः। `तुष्टुषति` इति। <<इको झल्>> [[1.2.9]] इति सनः कित्त्वम्` <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः, दिर्वचनम्, `शपूर्वाः खयः` [[7.4.61]] इति खयः शेषः। `सिवेचयिषति` इति। सिचेः <<हेतुमति च>> [[3.1.26]] इति णिच्, सन्, इट्, गुणायादेशौ। `णौ कृतं स्थानिवद्भवति` (चां।प।21) इति सिचो द्विर्वचनम्। `सिषञ्जयिषति` इति। `सन्ज सङ्गे` (धातुपाठः-987), सन्, द्विर्वचनम्, `सन्यतः` [[7.4.79]] इतीत्त्वम्। `सुष्वापयिषति` इति। स्वापेण्र्यन्तस्य <<द्युतिस्वाप्योः सम्प्रसारणम्>> [[7.4.67]] इत्यभ्यासस्य सम्प्रसारणम्। ननु च सिद्धोऽत्र भूर्धन्यः पूर्वणैव, तत्? किमर्थोऽस्यारम्भ,? इत्याह -`सिद्धे सति` इत्यादि। `सिसिक्षति` इति। सिचः सन्, <<इको झल्>> [[1.2.9]] इत्यनुवर्तमाने <<हलन्ताच्च>> [[1.2.10]] इति कित्त्वाद्गुणाभावः, <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `सुसूषते`[सुसूषति -काशिका] इति। `षूङ प्राणिगर्भविभोचने` (धातुपाठः-1031), `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। क्वचित्? तिप्प्रत्ययान्तं सुसूषतीति प्रत्युधरणम्, तत्? `षू प्रेरणे` (धातुपाठः-1408) इत्यस्य द्रष्टव्यम्। अथैवकारकरणं किमर्थम्, सिद्धे सत्यारम्भसामर्थ्यादेव नियमो विज्ञास्यते? इत्याह -`एवकारकरणम्` इत्यादि। कः पुनः स्तौतिण्योः षण्येवेत्यस्मिन्नियमे दोषो यतः स नेष्यते? इत्यत आह -`स्तौतिण्योः षण्येव` इत्यादि। षण्येदेत्यनेनावधारणेन स्तौतिण्योः सन्प्रत्ययेन प्रत्ययान्तरस्य व्यवच्छेदः क्रियते -स्तौतिण्योर्यदिमूर्धन्यो भवति तदा षण्येव, नान्यस्मिन्? प्रत्यय इति। ततश्च तुष्टावेति लिटि न स्यात्। इह तु स्यादेव -सिसिक्षतीति; अवधारणेन षत्वस्याव्यवच्छिन्नत्वात्। `अन्यत्र` इत्यादि। यदि षणीति नोच्येत ततोऽविशेषेण सर्वत्र नियमः स्यात्। ततश्च नियमोन व्यावर्त्तितत्वाद्? यथा सिसिक्षतीत्यत्र न भवत्यभ्यासादुत्तरस्य सकारस्य षत्वम्, तथा सिषेचेत्यत्र लिटपि न स्यात्। तस्मात्? षणोऽन्यत्र लिडादौ मा भूदित्येवमर्थं षणीत्युच्यते। `को विनतेऽनुरोधः` इति। विनत इति पूर्वाचार्यसंज्ञा षत्वणत्वयोः। अनुरुध्यत इत्नुरोधः= प्रयोजनम्। किं प्रयोजनं षत्वस्य यतः कृतषत्वस्येहोपादानं कृतमित्यभिप्रायः। `अर्विनते नियमो मा भूत्` इति। अविनत इति अविद्यमानषत्व इत्यर्थः। सनीत्युच्यमाने सन्मात्रे नियमः स्यात्। तत्र यथा षभूते सन्यन्यधातोरभ्यासान्मूर्धन्यो न भवति, एवमषत्वभूतेऽपि न स्यात्। तस्मादषत्वभूते नियमो मा भूत्` इति। अविनत इति अविद्यमानषत्व इत्यर्थः। सनीत्युच्यमाने सन्मात्रे नियमः स्यात्। तत्र यथा षभूते सन्यन्यधातीरभ्यासान्मूर्धन्यो न भवति, एवमषत्वभूतेऽपि न स्यात्। तस्मादषत्वभूते नियमो मा भूदित्येवमर्थं विनतस्य ग्रहणम्। `सुषुप्सति` इति। स्वपेः सन्, `रुदविद` [[1.2.8]] इत्यादिना कित्त्वाद्? वच्यादिसत्रेण [[6.1.15]] सम्प्रसारणम्। `कः सानुबन्धकेऽनुरोधः` इति। नकारोऽनुबन्धः। नकारानुबन्धस्य ग्रहणं किमर्थम्, किं प्रयोजनमित्यर्थः। `षशब्दमात्रे नियमो मा भूत्` इति। `ष` इत्युच्यमाने यो नाम कश्चित्? षशब्दस्तत्र सर्वत्र नियमः स्यात्। सानुबन्धकग्रहणे तत्रैव भवति, नान्यत्र। तेन निरनुबन्धकषशब्देऽन्यस्यापि भवत्येव मूर्धन्यः। `सुषुपिष इन्द्रम्` इति। स्वपेर्लिट्, व्यत्यर्येनात्मनेपदम्, `थासः से` [[3.4.80]] , `असंयोगाल्लिट्? कित्` [[1.2.5]] इति कित्त्वम्; वच्चादिसूत्रेण [[6.1.15]] सम्प्रसारणम्, क्रादिनियमादिट्, द्विर्वचनम्, प्रत्ययसकारस्य मूर्धन्यः, इन्द्रशब्दे परतोऽयादेशः, <<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारलोपः; सूषुपिष इन्द्रमिति स्थित इह निरनुबन्धके नियमाभावादभ्यासान्मूर्धन्यो भवत्येव। `अभ्यासस्य या प्राप्तिः`[`अभ्यासात्` -काशिका, पदमञ्जरी च] इत्यादि। असत्यभ्यासग्रहणे धातोर्य इण्? तस्यापि नियमः स्यात्, न चेध्यते। तस्मादभ्यासाद्या प्तिस्तस्या नियमो यथा स्यादित्यभ्यासग्रहणम्। `प्रतीषिषति` इति। प्रतिपूर्वादिमः सन्। `अधोषिषति` इति। अघिपूर्वादिकः सन्, अजादित्वाद्द्वितोयैकाच्? `सन्यङोः [[6.1.9]] इति द्विरुच्यते, `सन्यतः` [[7.3.79]] इतोत्त्वम्, धातूपसर्गयोरेकादेशः; अधीषिष इति, प्रतीषिष इति स्थिते धातुप्रापतिनियमाभावात्? षभूतेऽपि सनि धातोः परस्य सकारस्य मूर्धन्यो भवत्येव॥", "83062": "`स` इत्यविभक्तिकोऽयं निर्देशः। नेति प्रतिषेध एव क्रियतामित्यादेशनीयम्; लाघवकृते विशेषाभावात्। `सिस्वेदयिषति` इत्यादि। `ञिष्विदा गात्रप्रक्षरणे` (धातुपाठः-1188) `रुवद स्वर्द आस्वादने` (धातुपाठः-18,19), `षह मर्षणे` (धातुपाठः-852) -एभ्यो णिव्, ततः सन्। ननु च सकारस्य सकारविधाने न कश्चिद्विषेषः, तत्किमर्थं सकार उच्यते? इत्याह -`सकारस्य` इत्यादि। य एषां <<धात्वादेः षः सः>> [[6.1.64]] इति सकारः कृतः, तस्यादेशत्वान्मूर्धन्ये प्राप्ते वचनम्॥", "83063": "`इण्कोः` [[8.3.57]] इति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यानन्तर्यार्थत्वाद्व्यवायेन प्राप्नीतौतीदमारभ्यते। अङ्ग्रहणेनागमस्य ग्रहणम्, न प्रत्याहारस्य। एतच्च व्याख्यानाद्वेदितव्यम्। `प्राक्सितसंशब्दनात्` इति। `परिनिविभ्यः सेवसितसय` [[8.3.70]] इत्यादितः। उदाहरणात्युत्तरत्र व्युत्पादयिष्यन्ते। अव्यवधानेऽपि यथा स्यादित्येवमर्थोऽपिशब्दः; अन्यथा ह्रसति तस्मिन्? यस्यापि तावत्पूर्वेण प्राप्तिरादेशसकारस्य, तस्याप्यच्यवाये न स्यात्; तक्रकौण्डिन्यन्यायेन बाधितत्वात्? किं पुनरनादेशसकारस्य सेनायादिसम्बन्धिनो यस्य मूर्धन्यप्राप्तेरतयन्तासम्भव एव॥", "83064": "`प्राक्सितादिति वर्तते` इति। `स्थासेनयसेधसिच` [[8.3.65]] इत्यत्र यः स्थाशब्दः, तमादाप प्राक्? [[8.3.70]] सितसंशब्दनात्? ये धातवः सूत्रे निर्दिष्टास्ते स्थादयो वेदितव्याः। अथ किमर्थमभ्यासव्यवाये षत्वभुच्यते, यावता परितिष्ठासतीत्यादौ `इण्कोः` [[8.3.57]] , <<आदेशप्रत्यययोः>> [[8.3.59]] इत्येवं सामान्यलक्षणेन सिद्धं णत्वम्? इत्याह -`अभ्यासेन व्यवार्ये इत्यादि। अषोपदेशो यस्तस्य सकारः पूर्वेण न सिध्यतीति तदर्थमभ्यासेन व्यवाये षत्वमुच्यते।`अभिषिषेणयिषति` इति। सेनयाऽभियातीति `सत्यापपाश` [[3.1.25]] इत्यादिना णिच्, इष्ठवद्भावाट्टिलोपः, सन्, पूर्ववदिडागमः। `अवर्णान्ताभ्यासार्थं च` इति। षोपदेशमधिकृत्य तदुक्तम्। यद्यपि तस्य सकार आदेशो भवति, तथापि नैद सामान्यलक्षणेन सिध्यति; अनिणन्तत्वादभ्यासस्य, तेन व्यवधानाच्च। `अभितष्ठौ` इति। <<आत औ णलः>> [[7.1.34]] इत्यौत्वम्, पूर्ववत्? खयः शेषः।`षणि तषेधार्थं च` इति। स्तौतिण्योरेवेति [[8.3.61]] नियमेन यत्? प्रतिषिद्धं व्यावर्त्तितं तत्? षणि यथा स्यादित्येवमर्थं चेत्यर्थः। किं पुनस्तत्? प्रतिषिद्धम्? षत्वम्। अथ वा प्रतिषेधा प्रतिषिद्धम्, भावे निष्ठा। अर्थशब्दो निवृत्तौ वर्तते, यता -मशकार्थो धूभ इति। तदेतदुक्तम् -यः षणि प्रतिषेधः स्तोतिणिभ्यामन्यस्य धातोः षत्वप्रतिषेधः कृतस्तन्निवृत्त्यर्थ चेति। `अभिषिषिक्षति` इति। अत्र यद्यभ्यासेन व्यवाये नोच्येत तदा षत्वं न स्यात्, यथा -सिसिक्षतीत्यत्र। अभ्यासस्येति किमर्थमुच्यते, यावता चशब्दोऽत्र क्रियते, स चापिशब्दस्यानुकर्षणार्थः, तेनायमर्थो भवति -अव्यवाये व्यवायेऽपीति, एवमन्तरेणाब्यासस्येति वचनमुपसर्गस्थान्निमित्तादुत्तरस्याभ्यासस्य भविष्यति? <<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधान्न भविष्यतीति चेत्? न; `उपसर्गात्? सुनोति` [[8.3.65]] इत्यस्य षत्वविधानार्थस्य प्रतिषेधार्थत्वात्, तस्मिन्नेव हि प्रतिषेधे प्राप्ते तद्बाधनार्थ `उपसर्गात्? सुनोति` [[8.3.65]] इत्यस्यारम्भः, तत्कुतः प्रतिषेधस्य प्राप्तिः? इत्याह -`अभ्यासस्य तु` इत्यादि। स्थादिष्वभ्यासस्यैवेति विपरीतनियमो नाशङ्कनीयः; विपरीतनियमे सत्यभ्यासध्वयाये स्थादीनां यन्मूर्धन्यविधानं तदपार्थकमेव स्यात्। `अभिसुसूषति` इति। `षू प्रेरणे` (धातुपाठः-1408)। `अभिसिषासति` इति। `षो अन्तकर्मणि` (धातुपाठः-1147)॥`षुञ्? अभिषवे` (धातुपाठः-1247), `षू प्रेरणे` (धातुपाठः-1408)। सुवतीति शबिकरणनिर्देशात्? `निरनुबन्धकग्रहणे न सानुबान्धकस्य` (व्या।प।53) इति च `षूङ प्राणिगर्भविमोचने` (धापा।1031), `षूङ प्रसवे` (धातुपाठः-1132) -इत्येतयोरादादिकदैवादिकयोग्र्रहणं न भवति। `षो अन्तकर्मणि` (धातुपाठः-1147) `ष्टुञ् स्तुतौ` (धातुपाठः-1043), `ष्टुभु स्तम्भे` [`ष्टुम स्तम्भे` -का।प्रांउ।पाठौ] (धातुपाठः-394) `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928) सेनयतिण्र्यन्तः पूर्वमेव दर्शितः। `- गत्याम्` (धातुपाठः-47), `षिधू शास्त्रे माङ्गस्ये च` (धातुपाठः-48) -द्वयोरपि ग्रहणम्। एतयोस्तु <<सेधतेर्गतौ>> [[8.3.113]] इति प्रतिषेधाद्गतेरन्यत्र षत्वं भवतीति वेदितव्यम्। शपा निर्देशः `षिधु संराद्धौ` (धातुपाठः-1192) इत्यस्य दैवादिकस्य निवृत्तये। `विचिर्? क्षरणे` (धातुपाठः-1434) `सन्ज सङ्गे` (धातुपाठः-987)। योऽत्र षोपदेशस्तस्य <<आदेशप्रत्यययोः>> [[8.3.59]] इति प्राप्तस्य षत्वस्य <<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधे प्राप्ते[नास्ति -कांउ।पाठे] वचनम्। यस्त्वषोपदेशस्तस्यादित एवाप्राप्तेः। सुनोतीत्येव मादीनां श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। `उपसर्गस्थान्निमित्तादुत्तरस्य` इत्यादि। एतेनोपसर्गस्थे मूर्धन्यनिमित्ते तात्स्थादुपचारेणोपसर्गशब्दोऽत्र वर्तत इति दर्शयति। भवति हि तात्स्थ्यात्? ताच्छब्द्यम्, यथा -मञ्चाः क्रोशन्तीत्यत्र। `अभ्यषुणोत्` इति। लङ्, प्राक्तितादङ्व्यवायेऽपि` [[8.3.63]] इति षत्वम्। `अभिषुवति` इति। `अचि श्नुधातुभ्रुवाम्` [[6.4.77]] इत्यादिनोवङ्। `अभिष्यति` इति। <<ओतः श्यनि>> [[7.3.71]] इत्योकारलोपः। `अभिष्टौति` इति। अदादित्वाच्छपो लुक्, <<उतो वृद्धिर्लुकि हलि>> [[7.3.89]] इति वृद्धिः। `अभिष्टोभते` इति। अनुदात्तेत्त्वादात्मनेपदम्। `अभिषिञ्चति` इति। <<शे मुचादीनाम्>> [[7.1.59]] इति नुम्। `अभिषजति` इति। `दंशसञ्जस्वञ्जां शपि` [[6.4.25]] इति नकारलोपः। एवमभिष्वजत इत्यत्रापि। पूर्ववदात्मनेपदम्। `अभिषिष्वङ्क्षते` इति। अत्रापि `पूर्ववत्सनः` [[1.3.62]] इत्यात्मनेपदम्। `दधि सिञ्चिति` इति। <<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधः। `निःसेचको देशः` इति। अत्र गमिक्रियया निसो योगः, न सिचिक्रिययेति गमिमेव प्रति तस्योपसर्गसंज्ञा, न सिचिं प्रति। `यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति` (जै।प।वृ।99) इति वचनात। `अभिसावकीयति` इति। सुनोतेर्ष्वुल्। सावकमिच्छतीति <<सुप आत्मनः क्यच्>> [[3.1.8]] , <<क्यचि च>> [[7.4.33]] इतीत्वम्; सावकीय इति स्थितेऽभिना योगः, ततो लट्। अत्रापि सावक्रीयतिं प्रन्यभेरूपसर्गसंज्ञा; तं प्रति क्रियायोगात्, न सुनोतिं प्रति; विपर्ययात्। तेन षत्वं न भवति। यद्येवम्, अभिषावयतीत्यत्रापि न स्यात्, इहापि सावयतिं प्रति विपर्ययात्? इत्यत आह -`अभिषावयतीत्यत्र तु` इत्यादि। अत्र हि प्रागेव सुनोतिरुपसगण योगमनुभूय पश्चात्? प्रेथणाध्येषणाद्यर्थेन योगमनुभवन्? णिचमुत्पादयति। तस्मादुपसर्गविशिष्टायामेव क्रियायां प्रेष्यते, अध्येष्यते वा। ततः सुनोतिमेव प्रत्यभेरुपसर्गसज्ञेति भवत्येव षत्वम्॥", "83065": "", "83066": "<<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधे प्राप्ते वचनम्। सदिरिति सुब्व्यत्ययेन षष्ठ्याः स्थाने थमा। `निषीदति` इत। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-1427)। पाध्रादिसूत्रेण [[7.3.78]] सोदादेशः। `निषसाद` इति। `सदिस्वञ्जोः परस्य लिटि` [[8.3.118]] इति प्रतिषेधादभ्यासात्? परस्य न भवति षत्वम्॥बाल-मनोरमासदिरप्रतेः 115, 8.3.66 प्रसङ्गादाह -सदिरप्रतेः। उपसर्गादिति। उपसर्गस्थादिणः परस्येत्यर्थः। सदिरिति षष्ठर्थे प्रथमेत्यभिप्रेत्याह - सदेः सस्येति। निषीदतीत्युदाहरणम्। बाल-मनोरमाप्राक्सितादड्?व्यवायेऽपि 120, 8.3.66 प्राक्सतादिति। `उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता` इति शेषः। तेषामिति। पञ्चदशानामित्यर्थः। न्यषेधदिति। अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम्। अभ्युषुणोदित्यप्युदाहार्यम्।", "83067": "स्तन्भिः सौत्रो धातुः। स यदि` अज्दन्त्यपराः सादयः षोपदेशाः` [[6.1.62]] , भाष्यम्) इति लक्षणत्वात्? षोपदेशस्तस्य ततः पूर्ववत्? षत्वप्रतिषेधे प्राप्ते वचनम्। अथ सूत्रे तथा पाठादषोपदेशः, ततोऽप्राप्त एव। <<स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च>> [[3.1.82]] इति चकारेण श्नाप्रत्ययः समुच्चीयते। `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः। `अप्रतेरेतदिह नानुवर्तते`[`अप्रतेरित्येतदिह` -काशिका, पदमञ्जरी च] इति। एतच्च योगाविभागदेव गम्यते; इतरथा हि पूर्वसूत्र एव स्तन्मभेग्र्रहणं कुर्यात्। स्यादेतत् -`अवाच्चालम्बनाविदूर्ययोःट [[8.3.68]] इति षत्वं वक्ष्यति। ततः स्तन्भेरेव यथा स्यात्, सदेर्मा भूदित्येवमर्थो योगविभाव इति? नैतदस्ति; एकयोगेऽपि यस्यालम्बनादिदूर्ये वृत्तिरस्ति तस्यैव भविष्यते। कस्य चैते स्तः? स्तम्भेरेव॥", "83068": "चकारः स्तम्भेरनुकर्षणार्थः। अनिणर्थोऽयभारम्भः। आलम्बनम्श्रयणम। विदूरम्=विप्रकृष्टम्, ततोऽन्यदविदूरम्। तत्पुनर्यदासन्नं यच्च नाप्यतिदूरं तद्वेदितव्यम्, नासन्नमात्रम्। आसन्नमात्रं यद्यभिमतं स्यात्, तदासन्नग्रहणमेव कुर्यात्। अविदूरस्य भाव आदिदूर्यम्। अत एव निपातनान्नञ्पूर्वादपि तत्पुरुषादुत्तरो भावप्रत्ययः। ब्राआह्रणादित्वाद्वा। `अवष्टभ्य` इति। ल्यबन्तमेतत्। आश्रित्येत्यर्थः। `अवष्टब्धा शरत्` इति। आसन्नेत्यर्थः। अथ वा नाप्यासन्ना, नातिविप्रकृष्टेत्यर्थः। एष त्वर्थभेदः प्रकरणादिगम्यः। निष्ठातकारस्य <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धकारः, <<झलां जश् झशि>> [[8.4.53]] इति भकारस्य वकारः।`अवस्तब्धः` इति। अभ्यर्दित इत्यर्थः॥", "83069": "चकारः `अवात्` [[8.3.68]] इत्यस्यानुकर्षणार्थः। वेरुत्तरस्य स्वनतेरनादेशसकरत्वादप्राप्ते। अवशब्दात्? पुनरनिणन्तत्वाच्चाप्राप्त एवेदमारभ्यते। `अभ्यबहारक्रियाविशेषोऽभिधीयते` इति। अनेन भोजनार्थतां दर्शयति। `विष्वणति` इति। सशब्दं भूङ्क्त इत्यर्थः। अनेकार्थत्वाद्धातूनां स्वनतिरत्राभ्यबहार क्रियाविशेषे वर्तते। `यत्र` इत्यादिना तमेव भोजनविशेषं दर्शयति॥", "83070": "`षेवृ सेवृ सेवने` [नास्ति धातुपाठे] (धातुपाठः-501) इति भ्वादावात्मनेपदिनौ पठएते। योऽत्र वोपदेशस्तस्य <<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधे प्राप्ते, इतरस्य त्वप्राप्त एव षत्वे वचनम्। `सित` इति। `षिञ्? बन्धने` (धातुपाठः-1248) इत्येतस्य पूर्ववत्? प्रतिषेधे प्राप्ते वचनम्। अपरे तु स्यतेरपि ग्रहणमिच्छन्ति, तस्यापि क्ते `द्यतिस्यति` [[7.4.40]] इत्यादिनेत्त्वे कृते सित इति रूपम्। किमर्थं पुनस्तस्य ग्रहणम्, यावता `उपसर्गात् सुनोति` [[8.3.65]] इत्यादिना सिद्धमेव? नियमार्थम् -परिनिविभ्य एवोपसर्गेभ्यो यथा स्यात्, अन्येभ्यो मा भूदिति। `सय` इति। सुनोतेः `एरच्` [[3.3.56]] इत्यजन्तस्य ग्रहणमन्यप्रत्ययान्तनिवृत्त्यर्थम्। `सिवु` इति। `षिवु तन्तुसन्ताने` (धातुपाठः-1108) पूर्ववत्? प्रतिषेधे प्राप्तेऽस्यग्रहणम्। `सह`[नास्ति -प्रांउ।पाठे] इति। `षह मर्षणे` (धातुपाठः-852)। `सुट्` इति। <<सुट् कात् पूर्वः>> [[6.1.135]] सुडागमः, [रुडागमः -कांउ।पाठः] तस्यानादेशसकारत्वादप्राप्त एव षत्व उपादानम्। स्तुस्वञ्जोः `उपसर्गात्? सुनोति` [[8.3.65]] इत्यादिनैव सिद्ध उत्तरसूत्रेणाड्व्यवायेऽपि विकल्पो यता स्यादिति ग्रहणम्। `परिषोध्यति` इति। `हलि च` [[8.2.77]] इति दीर्घः। `परिष्करोति` इति। <<सम्पर्युपेभ्यः करोतौ भूषणे>> [[6.1.137]] इत्यादिना सुट्॥", "83071": "सिवादयः प्रत्यासत्तेः `सिवुसहसुट्स्तुस्वञ्जाम्` [[8.3.70]] इति पूर्वसूत्र एव सन्निनिष्टा गृह्यन्ते, न तु गणसन्निविष्टाः स्तुस्वञ्जोः `प्राक्सितादड्व्यवाये` [[8.3.63]] इति प्राप्ते, शेषाणामप्राप्ते विभाषेयमारभ्यते॥", "83072": "`स्यन्दू रुआवणे` [`प्ररुआवणे` -धातुपाठः-] (धातुपाठः-761)। अस्याषोपदेशत्वादप्राप्त एव षत्व इदं वचनम्। `अनुस्यन्दते मत्स्य उदके` इति। अथ कथमिदं प्रत्युदाहरणमुपपद्यते? यद्यप्राणिष्विति प्रसज्यप्रतिषेध आश्रीयते; प्राणिषु न भवतीति। प्रसजयप्रतिषेधे हि यत्र प्राणिगन्धोऽस्ति तत्र श्रूर्धन्येन न भवितव्यम्। इह चास्ति मत्स्यः प्राणीति षत्वं न प्रवर्तते। यदि तु पर्युदास आश्रीयते, प्राणिभ्योऽन्यत्र भवतीति तदा प्राण्यप्राणिसमुदायः प्राणिभ्योऽन्यो भवतीति स्यादेवात्र प्राण्यप्राणिसमुदायात्मके विषये मूर्धन्यः॥", "83073": "`स्कन्दिर्? गतिशोषणयोः` (धातुपाठः-971)। अधोपदेशः। अतस्तस्याप्राप्त एव मूर्धन्ये वचनम्। `विष्कशः` इति। `अनिदिताम्` [[6.4.24]] इत्यनुनासिकलोपः। `रदाभ्याम्` [[8.2.42]] इत्यादिना नत्वम्॥", "83074": "`पृथग्योगकरणसामर्थ्यात्` इत्यादि। यदि परेरप्युत्तरस्या स्कन्देर्निष्ठायां मूर्धन्यो नाभिमतः स्यात्, ततः `विपराभ्यां स्कन्देरनिष्ठायाम्` इत्येकयोगमेव कुर्यादित्यभिप्रायः। चकारः स्कन्देरनुकर्षणार्थः॥", "83075": "पूर्वेण षत्वविकल्पे प्राप्ते तदभावो विधीयते। `परिष्कन्दः` इति। पचाद्यच्। `बह्वच इञः प्राच्यभरतेषु` [[2.4.66]] इत्यत्र प्राचांग्रहणेन भरतानां ग्रहणं न भवतीति ज्ञापितमेतत्। अतः प्राच्यत्वेऽपि भरतानां पृथग्ग्रहणम्॥", "83076": "`स्फुर, स्फुल सञ्चलने` (धातुपाठः-1389,1390) इति तौदादिकौ। एतयोरपि पूर्ववदप्राप्त एव मूर्धन्यो विधीयरो। श्तिपा निर्देशो धातुनिर्देशार्थं एव; न यङ्लुग्निवृत्त्यर्थः। न हि यङ्लुक्यभ्यासस्य खयः शेषे कृते निरादिब्य उत्तरः सकारः सम्भवति॥", "83077": "`विष्कम्भिता` इति। `स्तन्मभुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च` [[3.1.82]] इति सूत्रे पाठात्? सौत्रोऽयं धातुरषोपदेशः। तत्सकारस्याप्राप्त एव मूर्धन्यो विधौयते वेरुत्तरस्य। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। श्तिपा निर्देशस्य पूर्ववदेव प्रयोजनम्॥", "83078": "`इणन्तादङ्गादुत्तरेषाम्` इत्यादना इणन्तमङ्गं षीष्वंलुङ्लटां विशेषणम्। तेऽपि धकारस्येति दर्शयति। अथ धकारस्यैवेणन्तमङ्गं विशेषणं कस्मान्न विज्ञायते -इणन्तादुत्तरो यो धकार इति? एवं मन्यते -इणन्तस्याङ्गस्य धकारविशेषणत्वे सति च्योषीढवम्, प्लोषीढ्वमित्यत्र न स्यात्; षीशब्देन व्यवधानात्। अथापि `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्मात्` (व्या।प।46) इत्येकेन षीशब्देन व्यवधानेऽपि स्यादेव। एवमपि वचनप्रामाच्यादर्थप्रतिपत्तौ मन्दधियः प्रतिपत्तिगौरवं स्यात्। षीध्वमादिषु विशेष्यमाणेषु नायं दोष इति तेषामेवाङ्गमिणन्तं विशेषणं युक्तम्। गुणत्वादयुक्तमिति चेत्? स्यादेतत् -धकारस्य कार्यित्वात्? तैश्च विशेष्यमाणत्वात्? प्राधान्यम्। तेषां तु विपर्ययाद्गुणाभावः। तस्माद्धकारस्यैवेणन्तमङ्गं विशेषणं न्याय्यम्। एतच्च न; यत्र हि विशेषणेन सह सम्बन्धमनुभूय गुमः प्रधानस्य भूयांसमुपकारं कर्त्तुं समर्थो भवति, तत्र विशेषणेन च सह तावदप्रधानेन प्रणमं सम्बन्धमनुभवति। पश्चात्? प्रधानेन सम्बन्धम्। तथा च -\tगुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते। प्रधानस्योपकारे हि तथा भूयसि वर्तते॥ इति।इह चेणन्तेनाङ्गेन षीष्वमादयो विशेषिता धकारस्य विशिष्टमुपकारं प्रतिपत्तिगौरवदोषरहितं कार्यविशेषं प्रतिपादयन्ति। तस्मादिण्विशिष्टेनाङ्गन षीध्वमादय एव विशेष्यन्ते। तैश्च धकार इत्येतदेव युक्तं भवति। `च्योषीढवम्, प्लोषोढ्वम्` इति। च्युङ्प्लुङ्भ्यामाशिषि लिङ्, सीयुट्, ध्वम्, `एकाचः` [[7.2.10]] इत्यादिनेटप्रतषेधः, गुणः। `अच्योढवम्, अप्लोढवम्` इति। `धि च` [[8.2.25]] इति सकारलोपः `चकृढ्वे, ववृढ्वे` इति। कृञो वृञो लिट्। `कुसृभृवृ` [[7.2.13]] इत्यादिनेट्प्रतिषेधः। द्विर्वचनमभ्यासकार्यम्। ननु चानुवर्तत एवेह `इण्कोः` [[8.3.57]] इति पूर्वकमिण्ग्रहणम्। कथं पुनरिण्ग्रहणं क्रियते? त्वाह -`इण्ग्रहणम्` इत्यादि। तद्धि पूर्वकमिण्ग्रहणं कवर्गेण सह सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मत्? तन्निवृत्त्यर्थं पुनरिण्ग्रहणमिह क्रियते। `पक्षीध्धम्, यक्षीध्वम्` यक्षीध्वम्` इति। पचियजिभ्यामाशिषि लिङ्, <<चोः कुः>> [[8.2.30]] इति कुत्वम्, तस्मिन्? कृते कवर्गस्येह निवृत्तत्वान्मूर्धन्यो न भवति। `स्तुध्वम्` इति। स्तोतेर्लोट्, अदादित्वाच्छपो लुक्। `अस्तुध्वम्` इति। लङ्। `परिवेविषोध्वम्` इति। `विष्लृ ष्याप्तौ` (धातुपाठः-1095), विध्यादिलिङ, सीयुट्; तस्य `जुहोत्यादिभ्यः` [[2.4.75]] इति श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, `णिजां[`निजां` इति -प्रांउ।प्राठः] त्रयाणणम्` [[7.4.75]] इत्यभ्यासस्य गुणः, <<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारस्य लोपः, <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः। अत्र धातुषकारस्य ईध्वंशब्दस्य च यः समुदायस्तदात्मकः षीध्वंशब्दोऽस्ति, न त्वसाविणन्तावङ्गादुत्तरः। तथा हि -वेविषित्यस्याङ्गसंज्ञा, न तु वेषीत्येतावान्मात्रास्य षकारात्पूर्वभागस्य। `अर्थवद्ग्रहणादप्येतत्? सिद्धम्` [`एतत्` -नास्ति काशिकायाम्] इति। चोदकस्यैतद्वचनम्। मृह्रतेऽनेनेति ग्रहणम्, अर्थयतो ग्रहणमर्थवद्ग्रहणम्। तत्पुनः `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इति परिभाषासूत्रम्। ततोऽपि परिवेविषीध्वमित्येतत्? सिद्धम्। अर्थवद्ग्रहणपरिभाषया (व्या।प।1) अर्थवत एव षोध्वंशब्दस्य ग्रहणे सत्यस्यैव ढत्वेन भवितव्यम्। न चे ह षीध्र्वशब्दोऽर्थवान्, किं तर्हि? तदवयव ईध्र्वशब्दः; तत्किमेतन्निवृत्त्यर्थेनाङ्गग्रहणेनेत्यभिप्रायः। अत्रोत्तरमाह -`एतत्तु नाश्रितम्` इति। एतदिति `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इति भाषावचनम्।अथ वा -गृहीतिः=ग्रहणम्, अर्थवतो ग्रहणमिति षष्ठीसमासः। अतोऽप्येतत्? सिद्धमितीह पूर्वक एवाभिप्रायः। `एतत्तु नाश्रितम्` [तत्तु नाश्रितम् -काशिका] इत्युत्तरम्। एतदर्धवतो ग्रहणमिति नाश्रतम्; अर्थवद्ग्रहणपरिभाषाया (व्या।प।1) अनाश्रयणात्। तदनाश्रयणं तु प्रतिपत्तिगौरवदोषपरिहाराय। सूत्रानुपात्तवचनाश्रयेण ह्रभीष्टमर्व प्रतिपद्यमानस्य मन्वधियः प्रतिपत्तुः प्रतिपत्तिगौरवं स्यात्। इह त्वङ्गग्रहणे क्रियमाणे सुखत एवाभिमतोऽर्थः प्रतीयते। लिङ्ग्रहण एव कर्तव्ये षीध्वंग्रहणमस्य रूपस्य यो धकारस्तस्य यता स्यात्। तेनायीध्वम्, स्तुवीध्वमित्यत्र न भवति॥", "83079": "क्वचित्? पूर्वेण नित्ये प्राप्ते, क्वचिदप्राप्त एव विकल्पार्थ वचनम्। एतच्चोदाहरणे व्यक्तोकरिष्यामः। अत्रेण्ग्रहणमिटो विशेषणम्, सोऽपि षोध्वमादोनाम्, तेऽपि धकारस्येति दर्शयन्नाह -`इणः परस्मात्` इत्यादि। ननु षीध्वमो लिटश्चेडपेक्षं परत्वं न सम्भवति, तस्य तद्ग्रहणेन ग्रहणात्? यद्यपि शास्त्रकृतं न सम्भवति, तथापि श्रुतिकृतं तु सम्भवत्येवेत्यदोषः। `लविषीध्वम्, लविषीढ्वम्` इति। अत्र षीध्वंशब्दस्येटि कृते तस्य तद्ग्रहणेन ग्रहणाद्व्यवधानं नास्तीति पूर्वेण नित्यं प्राप्नोति। `अलविध्वम्` इत्यत्रापि सिच एवेडागमः क्रियते, न लुङ इति तस्य तद्ग्रहणेनाग्रहणात्? पूर्वेण न प्राप्नोति। `लुलुविढ्वे` इत्यत्रापि लिट एवेडागम इति तस्य तद्ग्रहणेन ग्रहणादसति व्यदधाने पूर्वेण नित्यं प्राप्नोति। `आसिषीध्वम्` इति। `आस उपदशने` (धातुपाठः-1021), लिङ्, सोवुट्, धातुसकारस्येणोऽसन्नि वेशादिणः परोऽत्रोडागमो न भवति। `अथेह कथं भवितव्यम्` इति। किमत्रानेन विकल्पेन भवितव्यम्? उत नित्येन भवितव्यमित्यभिप्रायः। `दीङ्? क्षये` (धातुपाठः-1134), लिट्, क्रादिनियमादिट्? [[7.2.13]] । <<दीङो युडचि क्ङिति>> [[6.4.63]] इति गुट्, टेरेत्तवम्। उपदिदीयिध्व इति स्थिते केचिदाहुनं भवितव्यमेवात्र ढत्वविकल्पेन; इणन्तादङ्गादिटो यदानन्तर्य तस्य युटा व्यवहितत्वात। समुदायभक्तो ह्रसौ युट्? समुदायमेव न व्यवदधाति। अवयवं तु व्यवदधात्येव। अथ पूर्वेण नित्यं कस्मान्न भवति? अत्रेणन्तादङ्गादुत्तरो लिट्, सत्सम्बन्धी च धकार इति भवितव्यम्। तथा च वृत्तिकृता सूत्रार्थो दर्शितः। अथ तु नेष्यते, ततो विभाषाग्रहणं पूर्वेणासम्बन्धनीयम्। सा च व्यवस्थितविभाषः, तेनेह न भवति। एवमन्यत्र तु नित्यमेव भविष्यति। `अपरेषाम्` इत्यादि। यदाङ्गग्रहणमिह निवृत्तम्, इण इत्येतदेवानुवर्तते, तदेणैव केवलेनेडागमो विशेष्यते -इणः परो य इडिति। एवञ्चात्र भवितव्यमेव पाक्षिकेण ढत्वेन। भवति ह्यत्र यकारादिण उत्तरोऽनन्तरश्चेडागमः॥", "83080": "सङ्ग इति षष्ठ्याः स्थाने सुब्ब्यत्ययेन प्रथमा। एवमुत्तरत्रापि वेदितव्यम्। <<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधे प्राप्तेऽन्यारम्भः। एवमुत्तरल्यापि। सञ्जनं सङ्ग इति भावे धञ्, अङ्गुलिषु सङ्गः संश्लेषोऽस्या अस्तीति बहुव्रीहिः॥", "83081": "`भीरुष्ठानम्` इति। अधिकरणसाधनन स्थानशब्देन षष्ठीसमासः। पृथग्योगकरण यथासंख्यभावनिवृत्त्यर्थम्। एकयोगे हि निमित्तनिमित्तनोः माम्येऽपि सत्यस्वरितत्वाद्यथासंक्यभावः स्यात्। अथ तदर्थ स्वरितत्वं प्रतिज्ञायते; [`प्रतिज्ञायेते` -कांउ।पाठः] ततो योगविभागकरणं वैचित्र्यार्थम्॥", "83082": "पदादिसकारत्वात प्रतिषेधे प्राप्तेऽयमारभ्यते। एवमुत्तरत्रापि। स्तोमसोमशब्दी स्तौतिसुनोतिभ्याम्? `अर्तिस्तुसुहुरुसृधुक्षिक्षुभायावापदियक्षिनिभ्यो मन्` [`क्षुभायापदियक्षिभ्य` -द।उ। क्षुभायावापदियक्षीनीभ्यः -प्रांयांउ।पाठः] (द।उ।7।26) इति मन्प्रत्ययं विधाय व्युत्पाद्येते। अव्युगत्पत्तिपक्षे त्वादित एवाप्राप्तेऽनयोः षत्वं विधीयते। `अग्निष्टुत्` इति। अग्नावुपपदे स्तौतेः क्विप। ह्यस्यस्य` [[6.1.69]] इत्यादिना तुक। उपपदसमासः। `अग्निष्टोभः` इति। षष्ठीसमासः `अग्निषोमौ` इति। द्वन्द्वः, `ईदग्ने` सोमदरुणयोः` [[6.3.26]] इतीत्त्वम्। `अग्नेर्दीर्घात्? सोमशब्दस्य षत्वभिध्यते` (इति)। एतच्च भाष्ये `विभाषेटः [[8.3.79]] इत्यतो विभाषाग्परहणानुवृत्तेर्लभ्यते। न च तदमुवृत्तादतिप्रसङ्गः स्यात्, व्यवस्थितविभाषाविज्ञानात्॥", "83083": "`ज्योतिःष्टीमः, आयुःरुटोमः` इति। षष्ठोसमासः। सकारस्य रुत्वम, विसर्जनीयः, `वा शरि` (83।36) इति पक्षे सकारः। तस्य तकारस्य च ष्टुत्वम्॥", "83084": "", "83085": "", "83086": "अनादेशसकारत्वादप्राप्त एव षत्वे वचनम्। `ष्टन शब्दे` (धातुपाठः-461) इति भौवादिकस्य ग्रहणम्। `स्तन गदी देवशब्दे` [`गदी परिवेदने` (धातुपाठः-1860)] (धातुपाठः-1859) इत्यतस्य चौरादिकस्य तु न। तस्य ग्रहणे सत्यदन्तत्वात्? <<अत उपधायाः>> [[7.2.116]] इति न वृद्धिर्लभ्यते। अभि, निस् -इत्येताभ्यामेवेदं षत्वं विधीयते। न हि व्यस्तभ्यामुत्तरस्य तस्य स्तुनतेर्मूर्धन्षे कृते शब्दसंज्ञा गम्यते। `अभिनिस इत्येतस्मात्` इत्यादि। अभिनिसिति योऽयमुपसर्गसमवायस्तस्मादित्यर्थः। `अभिनिष्टानः` इति। अभिनिस्तव्यतेऽनेन, <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इति घञ्। प्रादिसमासः। ननु च समानाधिकारादेवाभिनिःस्तनतीत्यत्र न भविष्यति। किमेतन्निवृत्त्यर्थेन शब्दसंज्ञाग्रहणेन? इत्यत आह -`समास इत्यतः प्रभुति निवृत्तम्` इति॥", "83087": "इदमपि पूर्ववदप्राप्ते वचनम्। यश्चाच्च तौ यचौ, चचौ परो यस्मात्? स यच्परः। प्रादुःशब्दस्यानुपसर्गत्वात्? पृथग्ग्रहणम्। `अभिषन्ति` इति। `अस भुवि` (धातुपाठः-1065) अदादित्वाच्छपो लुक्, `श्नसोरल्लोपः` (6। 4।111) इत्यकारस्य। `अभिष्यात्` इति। लिङ्। अनुसुनम्` इति। `सृ गतौ` (धातुपाठः-935)। ननु च सकारस्य प्रृतत्वात्? तमेव प्रत्युपसर्गत्वमाश्रीयते, न चानुसृतमित्यत्र यः सकारस्तं प्रत्यनुशब्दल्योपसर्गसंज्ञा; तन्मात्रस्यऽक्रियावचनत्वात्, क्रियावचनं च प्रति प्रादीनामुपसर्गसज्ञाविधानात्। `ये प्रति क्रियुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति` (म।भा।1.4.40) इति वचनात्। तस्मादसत्यप्यस्तिग्रहणे नैवात्र मूर्धन्यः प्रसज्येत। तत्किमस्तिग्रहणेन? तत्रैतत्? स्यात् -असति तस्मिन्? प्रादुःशब्दादुत्तरस्य धात्वन्तरसकारस्य भूर्धन्यः प्राप्नोति; अतस्तन्निवृत्त्यर्थमस्तिग्रहणम्, एतच्च नास्ति; प्रादुःशब्दस्य नियतविषयत्वात्। स हि सर्वदा कृभ्वस्तिथिषय एव प्रयुज्यते। तत्? कुतोऽयं प्रसङ्ग इति यो देशयितुकामस्तदीयं मतम्? `अथ` इत्यादिना दर्शयति। प्रत्युदाहरणान्तरं वक्तुकाम आह -`अन्यत्र` इति। अनुसुतमित्यत्र प्रत्युदाहरणे। `तथापि` इति। एवमपीत्यर्थः। एतेनैतद्दर्शयति -एवमपि कल्प्यमानेऽस्तिग्रहणन्यानुसेय इत्येतत्? प्रत्युदाहरणमस्त्येव। तस्मात्? कर्तव्यमेवास्तिग्रहणम्। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031) इत्येतस्मादनुपूर्वात्? क्विप्, अनुसूत इत्यनुसूः, तस्यापत्यं शुभ्रादित्वात्? [[4.1.123]] ढक्, एयादेशः, `ढे लोपेनाऽकद्रवाः` [[6.4.147]] इत्यूकारलोपः। अत्र सकारं प्रत्यनुशब्दस्योपसर्गसंज्ञेत्यसत्यस्तिग्रहणे [संज्ञेत्यस्तिग्रहणे -कांउ।पाठः] स्यादेव मूर्धन्यः॥", "83088": "सुपिसूत्योः <<सात्पदाद्योः>> [[8.3.111]] इति निषेधे प्राप्ते। सम इत्येतदन्युत्पुन्नं प्रातिपदिकं सर्वादिषु षठते; तेनास्यादित एवाप्राप्ति षत्वमुच्यते। अथ तु`षम ष्टम अवैकल्पे` (धातुपाठः-829,830) इत्यस्य पचाद्यचि समशब्दो व्युत्पाद्यते, तथा च सनि तस्यापि प्रतिषेधे प्राप्त इदं वचनम्। `सुषुप्तः` इति। `ञिष्वप्? शये` [`ष्वप` -धातुपाठः-] (धातुपाठः-1068), निष्ठा, वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम्, `एकाचः` [[7.2.10]] इतीट्प्रतिषेधः। `सुषूतिः` इति। सूतेः सूयतेर्वा `स्त्रियां क्तित्` [[3.3.94]] । सूतीति स्वरूपग्रहणम्। यत्रास्यैतद्रूपं नास्ति, तत्र न भवति -सुसूनम्, विसूतमिति। कथं पुनज्र्ञायते -स्वरूपग्रहणमेतत्, न पुनः सूत्र्लुग्विकरणसय ग्रहणमिति? भवति तस्यापि `इविश्तपौ धातुनिर्देशे` (वा 319) इति श्तिपि कृते सूतिरित्येष निर्दसः? समशब्देन साहचर्यात्? त य हीह स्यरूपं गृह्रत इति। यद्यपि सु पना धातुना साहचर्याद्धातोरपि ग्रहणं युक्तम्, तथापि शब्दपरविप्रतिषेधेन शब्दपरं यत्साहचर्यं तद्बलीय इति समशब्देनैव माहचर्यात स्वरूपमेव गृह्रते, न सुपिना धातुना साहचर्याद्धातुः। अथ किमर्थं सुपेः कृतसम्प्रसारणस्य षत्वमुच्यते? इत्यत आह -`सुपेः षत्वं स्वपेर्मा भूत्` इत्यादि। सुस्वापः, विस्वपनम्, निस्विपनम्, दुःखपनमित्यत्राकृतसम्प्रसारणस्य स्वपेः षत्वं मा भूदित्येवमर्थ स्वपेः कृतसम्प्रसारणस्य षत्वमुच्यते। यद्येवम्, विसुष्वापेति केन न` इति? स्वपेर्लिट्, तिप्, णल्, द्विर्वचनम्, <<लिट्यभ्यासस्योभयेषाम्>> [[6.1.17]] इति सम्प्रसारणम्। कृतसम्प्रसारणस्य स्वपेरभ्यासस्येति केन हेतुना षत्वं न भवति? नास्त्येव स हेतुयेन हेतुना विसुष्वापेत्यत्र न भविष्यतीत्यभिप्रायः। परस्य तु सकारस्य <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन षत्वं भवत्येव, न तद्धिषयेयं चिन्ता। `हलादिशेषान्न सुपिः` इति। एतेन येन हेतुना षत्वमत्र न भवति तं दर्शयति। <<लिट्यभ्यासस्योभयेषाम्>> [[6.1.17]] इत्येतस्माद्धि सम्प्रसारणात्परत्वाद्धलादिशेषे कृते यद्यपि पश्चात्? सम्प्रसारणं क्रियते, तथापि सुप इति रूपं न भवति; पकारस्यारणात्परत्वाद्धलादशेषे कृते यद्यपि पश्चात्? सम्प्रसारणं क्रियते, तथापि सुप्? इति रूपंनि भवति; पकारस्याभावात्। तस्मात्? षत्वं न भविष्यतीत्यभिप्रायः। तेन सुप सुप इत्यस्य रूपत्याभावः षत्वाभावे हेतुरुक्तः। पूर्वपक्षवादिना तु प्राक्? सम्प्रसारणे कृते पश्चाद्धलादिशेषेण पकारो निवृत्त इति मन्यमानेन देशितम्। ननु पश्चादपि पकारस्य निवृत्तिः, नैवायं सुपिर्भवति, पकाराभावात्, तत्? किमिति देशितम्? `एकदेशविकृतस्यानन्य`त्वात्? (व्या।प।16) सुपिरेवायमित्यभिप्रायः। यदा तु परत्वाद्धलादिशेषे कृते सम्प्रसारणं भवति, तदैकदेशविकृतस्यानन्यत्वे सुपिरयं न भवति; न हि तदा सुपेरेव विकारः, किं तर्हि? स्वपेः। अत आह -`इष्ट पूर्वं सम्प्रसारणम्` इति। हलादिशेषादिं पूर्वं सम्प्रसारणमेवेष्यते। तथा ह्रुभयेषां ग्रहणं तत्रैवमर्थं कृतम् -परमपि हलादिशेषं बाधित्वा पूर्वं सम्प्रसारणमेव यथा स्यादिति। तस्मद्धलादिशेषात्पूर्वमभ्यासस्य सम्प्रसारणेणैव भवितव्यमित्युक्तम् -हलादिशेषान्न सुपिरिति। ततश्च `विसुष्वापेति केन न` इत्येतद्देश्यं तदवस्थमेव। एवं तर्हि `स्थादिष्वभ्यासेन चाभ्यासस्य` [[8.3.64]] इति योऽयं नियमः स्थादीनमेवाभ्यासस्य प्रवर्तते, नान्येषामित्येतस्मन्नियमात्? `विसुष्वाप` इत्यत्राभ्यासस्य षत्वं न भवतीत्यत आह -`स्थादीनाम्` इत्यादि। स्थादिनिमित्तको नियमः स्थादिनियमः स्थादिभिव्र्यपदिश्यते; स्थादिनिमित्तकत्वं तु नियमस्य तानुपादाय विधानात्। स्थादीनां यो नियमः सोऽत्र न प्रवर्तते। कथं `विसुष्वाप` इत्यत्राभ्यासस्य षत्वं न भविष्यति? कस्मात्? पुनः स्थादिनियमोऽत्र न प्रवर्तते? इत्यत आह -`प्राक्? सितात्` इति। तेषु पुनर्नियमविधानादिति शेषः। `स्थादिष्वभ्यासेन चाभ्यासस्य। [[8.3.64]] इत्यत्र `प्राक्सितात्` [[8.3.63]] इति वर्तते। तेन सेवासत` [[8.3.70]] इत्यत्र सितसंशब्दनाद्ये प्राग्ब्यवस्थिताः `सुनोतिसुवतिस्यतिस्तोभतिप्रभृतयस्तेष्वेवागं नियमः, अतस्तेषामेवाभ्यासस्य षत्वं व्यावर्तयति, नान्येषामिति दर्शयति सिद्धान्तवादिमस्तु सामान्येन नियम इत्यभि प्रायः। स्यादेतत् -सुपिरपि प्राक्सितादेव व्यवस्थितः; तेनात्रापि नियमः प्रवर्त्तिष्यते? इत्यत आह -उत्तरः सुयिः` इति। सितादित्येतदपेक्षते। सितशब्दादुत्तरः सुपिः पठते, तत्? कुतस्तत्र नियमस्य प्रवृत्तिः अतो नियमेन तदभ्यासस्य षत्वं न व्यावर्त्त्यत इति `विसुष्वापेति केन न` इत्यविकलं देश्यमेव। एवं तर्हि `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यर्थवेतः सुपेग्र्रहणात्, इह च तस्यानर्थकत्वात्? षत्वं न भविष्यति। न ह्यत्र सुपिरर्थवान्। तथा हि -यदा तादत्? स्थाने द्विर्वचनं तदा समुदाय एवार्थवान्? अवयवस्त्वनर्थक एव। यदा तु द्विष्प्रयोगो द्विर्वचनम्, तदापि शब्दस्यावृत्तिः, नार्थस्य, तेन कृतेऽपि द्विर्वचनं समुदायस्यैवार्थवत्त्वम्, न तु केवलायाः प्रकृतेः, नापि केवलाभ्यासस्येत्यत आह -`अनर्थके विषुषुपुः` इति। कथं षत्वमिति वाक्यशेषः। यद्यर्थवतः सुपेग्र्रहणात्? `विसुध्वाप` इत्यत्र षत्वं न भवति, एवं सति `विषुषुपुः` इत्यत्र कथं षत्वं न भविष्यति, अत्रापि ह्रनर्थकत्वान्नैव षत्वेन भवितव्यम्, यथा विसुष्वापेत्यत्र? इत्यत्र आह सुपिभूतो द्विरुच्यते` [`षुपि` -प्रांउ।पाठः] इति। पुपीत्येतद्रूपमापन्नोद्विरुच्यत इत्यर्थः। स्वपेर्लिट्, उस्, द्विर्वचनम्, `असंयोगाल्लिट्? कित्? [[1.2.5]] इति कित्त्वम्, वच्यादिसूत्रेण [[6.1.15]] सम्प्रसारणम। अनेन षत्वम्। विषुप्ुस इति स्थित आन्तरतम्यात्? षुप्? इत्येतस्य द्विर्वचनम्, एवं पुपिभूते द्विरुच्यमाने विषुषुपुरित्यत्राभ्यासस्य षत्वं सिध्यति पिसुष्वापेत्यत्र षुपिभूतस्य द्विर्वचनं नास्ति; पुपिभूतस्याभावात्। तदेवं कुतः सम्प्रसारणे हि कृते षुपिभूते भवितव्यम्? णलः कित्त्वाभावात्? सम्प्रसारणमेव मास्ति, कुतः पुनः षत्वम्। तस्मात्? सुपोत्येतदेव द्विरुच्यते यद्यप्युत्तरकालं सम्प्रसारणे कृते सुपीत्येवं भवति, तथाप्यनर्थकत्वात्? तस्य मूर्धन्यो न भवतीति। तदेवं यदि कृतसम्प्रसारणस्य णत्वं भवति `विसुष्वापेति केन न` इति देश्यमर्थवद्ग्रहणपरिभाषा (व्या।प।1) माश्रित्य परिह्मतम्। ननु च द्विर्वचने कर्तव्ये षत्वमसिद्धम्, तत्? किमुच्यते `षुपिभूतो द्विरुच्यते` इति? अत आह -`पूर्वत्रासिद्धीयम्` इत्यादि।", "83089": "`ष्णा शौचे` (धातुपाठः-1052)। अस्य पूर्ववत्? षत्वप्रतिषेधे प्राप्तेऽस्यारम्भः। कौशलम्=नैपुण्यम्। `निष्णातः कढकरणे` इति। तत्र कुशल इति गम्यते। `नदीष्णः` इत्यत्रापि नदीस्नाने कुशल इति। <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः, उपपदसमासः। `नदीस्नातः` इत्यत्रापि `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः॥", "83090": "`प्रतिष्णातम्` इति। पूर्ववत्? षत्वप्रतिषेधे प्राप्ते निपात्यते। `स्नातेः` [[8.3.89]] इत्यनुधृत्तौ सत्यां सूत्रे प्रतेरित्युच्यचमाने कामं प्रतिष्णातमिति सिध्यति। तृजादिष्वपि प्राप्नोति; तस्मादतिपरसङ्गनिवृत्त्यर्थ प्रतिष्णातमिति निपातनमाश्रितम्॥", "83091": "यदि `ष्ठल स्थाने` (धातुपाठः-836) इत्ययं धातुः `अब्दन्त्यपराः सादयः षोपदेशाः` (काशिका।6.1.66) इति लक्षणात्षोपदेशः, तस्य चैतद्रूपं भवति, तदा पूर्ववत्? प्रतिषेधे प्राप्ते वचनम्। अथ गणे तथाऽपाठादवोपदेश इति लक्षणादयोपदेशोऽध्युत्पन्नो वा स्थलशब्दः, तदादित एवाप्राप्ते षत्वे वचनम्। `गोत्रविषये` इति। गोत्रविषयश्चेत्? कपिष्ठलशब्दो भवतीत्यर्थः। गोग्रग्रहणेन चेह लौकिकं गोत्रं गृह्रते न पारिभाषिकम्। लोके च ये पुरुषा अपत्यसन्ततेः प्रवर्तयितारो यत्पूर्विकापत्यसन्ततिर्भवति ते गोत्रमित्यभीधीयन्ते। कश्च कपिष्ठलशब्दो गोत्रविषयः? यः संज्ञाशब्दः प्रवराध्याये पठते। पारिभाषिकं गोत्रविषयत्वमपत्यप्रत्ययमन्तरेण न सम्भवतीति पारिभाषिकगोत्रस्येहग्ग्रहणम्। `कपिष्ठलो नाम` इति। स्थलतौति स्थलः, पचाद्यच्, कपिरिव स्थलः कपिष्ठलः। `उपमितं व्यघ्रादिभिः [[2.1.55]] इत्यादिना समासः। व्युत्पत्तिमात्रमेर्वतत्? कृतम्, न त्ववयवार्थो विद्यते। नामशब्दः संज्ञाशब्दतां कपिष्ठलशब्दस्य दर्शयितुं प्रयुक्तः। कपिष्ठलशब्दस्याप्रसिद्धत्वात्? तदपत्येन प्रसिद्धेन तमाख्यातुमाह -`यस्य कापिष्ठलिः` इति। यस्य कापिष्ठलिरपत्यं स कपिष्ठलो नामेत्यर्थः। `कपिस्थलम्` इति। कपीनां स्थलं स्थानमित्यर्थः॥", "83092": "प्रशब्दस्याविणन्तत्वादप्रप्तमेव षत्वं विधीयते। अग्रे गन्तुं शीलं यस्य सोऽग्रगामौ=पुरःसर उच्यते। प्रतिष्ठित इति प्रष्ठः <<सुपि स्थः>> [[3.2.4]] इति कप्रत्ययः, पूर्ववदकारलोपः॥", "83093": "`विष्टरः` इति। `स्तृञ्? ञाच्छादेन`(धातुपाठः-1484) इत्यस्याज्दन्त्यपरस्यापि षोपदेशत्वं नास्ति, `सृपिसृजिस्तृस्त्यासेकृसृवर्जम्` (काशिका।6.1.66) इति वचनात्, तेन नापराप्तेमेव षत्वं निपात्वते। विस्तीर्वत इति विष्टरः, `ऋदोरप` [[3.3.57]] । रूढिशब्दोऽयं यथाकथञ्चित्? व्युत्पाद्यते, नात्रावयवार्थं प्रत्यभिनिवेशः कर्तव्यः॥", "83094": "छन्दोग्रहणेन वृहात्यादीनां ग्रहणम्, न हि वेदस्य विष्टार इति नाम, किं तर्हि? वृहत्यादीनां वृत्तानाम्। ननु विष्टर इति प्रकृतम्, वत्कथं विष्टार इति निपातयि शक्यते? इत्याह -`विपूर्वात्` इत्यादि। <<प्रे स्त्रोऽयज्ञे>> [[3.3.32]] इत्यतः `स्त्रः` इत्यनुवर्तमाने `प्रथने वाणशब्दे` [[3.3.33]] इत्यतो वाविति <<छन्दोनाम्नि च>> [[8.3.94]] इति स्तृणातेर्धञ्? णिधीयते। न च घञि विष्टर इत्येतद्रूपमापद्यते। तस्माद्यद्यपि विष्टर इति प्रकृतम्, तथापि निपात्यते। न नु च घञ्यपि विहितेब्स्मादेव निपातनाद्घ्रस्वत्वे कृते विष्टर इति भवत्येव, तत्कथं विष्टार इति शक्यं विज्ञातुम्? `छन्दोनाम्नि च` इति वचनात्। न हि विष्टर इति छन्दोनाम्, किं तर्हि? विष्टार इति॥", "83095": "स्थिरशब्दोऽयम्? `अजिरशिशिर` (द।उ।8।27) इत्यादिसूत्रेण यदि तिष्ठतेः किरच्प्रत्ययान्तो निपात्यते तदा `सात्पवाद्योः` [[8.3.113]] इति प्रतिषेधे प्राप्ते वचनम्। अथाव्युत्पन्नमेव प्रातिपदिकं तदादित एवाप्राप्ते वचनम्। `गविष्ठिरः, गुधिष्ठिरः` इति। संज्ञायां समासः। अथ कथं गविष्ठिर इत्यत्र सञ्चम्या अलुक्, `हलदन्तात्? सप्तम्याः संज्ञायाम्` [[6.3.9]] इति चेत्? न; गोशब्दस्याहलन्तत्वादित्यत आह -`गोशब्दात्` इत्यादि॥", "83096": "<<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधे प्राप्ते वचनम्। यथा चैवं तथा <<कपिष्ठलो गोत्रे>> [[8.3.91]] इत्यत्र प्रतिपादितम्। `विष्ठलम्, कुष्ठलम्` इति। स्थलशब्दः पचाद्यजन्तः, तेन यदा विकुशब्दौ निपातौ समत्येते तदा `कुयतिप्रादयः` [[2.2.18]] इति समासः। अथानिपातौ पक्षिपृथिवीवचणौ, तदा षष्ठीसमासः। `शमिष्ठलम्` इति। शमीनां स्थलमिति समासः। <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इति ह्रस्वः। ह्रस्वोच्चारणं दोर्धपक्षे मा भूदित्येवमर्थम्, अन्यथा हि बहुलवचनात्? दीर्घोऽपि पक्षे विज्ञायेत। `परिष्ठलम्` इति। प्रादिसमासः॥ येषामत्रोपपदसमासे कृते स्थलशब्द उत्तरपदे सप्तम्या अलुग्भवति, ये चेणन्ताः, तेब्यः `इष्कोः` [[8.3.57]] इत्यनेन प्राप्तस्य वत्वस्य पदादिलक्षणप्रतिषेधे प्राप्ते वचनम्। बर्हिःशब्दादपि `नुज्विसर्जनीयशष्र्यवायेऽपि` [[8.3.58]] इति पदादिलक्षण एव प्रतिषेधे प्राप्ते वचनम्। शेवेभ्यस्त्वप्राप्त एव। स्थ इति धातुग्रहणं स्यात्? स्वरूपग्रहणं वा? यदि <<आतो धातोः>> [[6.4.140]] इत्याकारलोपं कृत्वा तिष्ठतेः षष्ठआं धिर्देशस्ततो धातुग्रहणम्। अथ सुब्ब्यत्ययेन षष्ठ्याः स्णले प्रथमां कृत्वा स्थशब्दस्य कप्रत्ययान्तस्य निर्देशस्तदा स्वरूपग्रहणम्। यदात्र यदि धातोरिह ग्रहणं स्यात्? तदा गोस्थानमित्यादावपि प्रसज्येतेत्यालोच्य स्वरूपग्रहणं दर्शयन्नाह `इत्येतेभ्यः` इत्यादि। उदाहरणेषु गोष्ठ इत्यत्र गोशब्दे प्रथमान्त उपपदे घञर्थे कविधानम्। `स्वास्नापाव्यथिहविवुज्यर्थं धञर्थे कविधानाम्` (वा।306) इति गावस्तिष्ठन्त्यस्मिन्नित्यधिकरणे कप्रत्ययः। अपतिष्ठतीत्यर्थेऽपष्ठ इत्यत्र `सुर्पि स्वा` [[3.2.4]] इति कप्रत्वदः। `आपष्ठः` इति क्वचित्पाठः। <<अन्येषामपि दृश्यते>> [[6.3.137]] इति दीर्घः। अन्यत्रापि सर्वत्र <<सुपि स्थः>> [[3.2.4]] इत#इ कप्रत्ययः। यदि कुशब्दो निपातस्तदा प्रणमान्त एतस्मिन्नुपपदे कणिधिः, अथानिपातस्तदा सप्तम्यन्ते। अम्बादिषु सप्तम्यन्तेष्वेव। `जम्बष्ठः` इति। <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इति ह्रस्वः। `स्थ` इति। स्वरूपग्रहणादन्येवां न प्राप्नोतीतीदमाह -`स्थास्थिन्स्थृणाम्` इत्यादि। एषामपि षत्वं वक्तव्यम्, व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् -सुषामादेराकृ-तिगणत्वादेषां षत्वं भविष्यतीति। `सव्र्येष्ठा` [`सव्येष्ठाः` - काशिका] इति। सव्ये तिष्ठतीति `दिवेॠ।` (द।उ।2।7) इत्यनुवर्तमाने `नयतेर्डिच्च` (द।उ।2।8) इति डिति च `सव्ये स्थश्छब्दसि` (द।उ।2।9) इति सव्यशब्द उपपदे तिष्ठतेॠप्रत्ययः, डित्वाट्टिलोपः, `तत्पुरुषे` [[6.3.13]] इत्यादिना सम्पम्या अलुक्, सव्येष्ठृ इति स्थिते `ऋदुशनस्पुदोदंशोऽनेहसाम्` [[7.1.94]] इत्यादिमाब्नङ्, `सर्वनामस्णाने चासम्बुद्धौ` [[6.4.8]] इति दीर्घः। `परमेष्ठी` [`परमेष्ठीः` -काशिका] इति। `गमेरिधिः` (द।उ।6।57) इत्यनुवर्तमाने `परमे स्थः किच्च` [`कित्` इत्येव -द।उ।] (द।उ।6।61) इतीनिप्रत्ययः, कित्त्वादालोपः। परमेष्ठिन्निति स्थिते `सौ च` [[6.4.13]] इति दीर्घः। `सव्येष्ठृसारधिः` इति। पूर्ववत्? सव्येष्ठृशब्दं साधयित्वा सारधिशब्देन कर्मधारयः॥", "83097": "", "83098": "क्वचित्? षत्वप्रतिषेधे प्राप्ते, क्वचिदादित एवाप्राप्ते मूर्धन्यो विधीयते। `सुषामा` इति। सामशब्दोऽयम्? `षो अन्तकर्मणि` (धातुपाठः-1147) इत्येतस्मान्मनिन्प्रत्ययं विधाय व्युत्पादितः। तस्य पदादिलक्षणे प्रतिषेधे प्राप्ते तद्बाधनार्थमिह पाठः। `निष्षामा` इति। `दुष्वामा` इति। रेफस्य विसर्जनीये कृते यदा `वा शरि` [[8.3.36]] इति पक्षे सकार-, तदा परस्य षत्वे कृते पूर्वस्य ष्टुत्वम्। ननु च सुषेधादीनां त्रयाणाम्? `उपसर्गात्? सुनोति [[8.3.65]] इत्यादिनैव भूर्धन्यः सिद्धः, तत्? किमर्थमिह पठनम्? इत्याह -`सुशब्द` इत्यादि। सुशब्दस्य कर्मप्रवचनीयत्दादनुपसर्गत्वे सति सुषेध इति पाठः। निर्दुःशब्दयोस्तु क्रियान्तरावषयत्वादनुवसर्गत्वे सति निःषेधः, दुःषेध इत्ययं पाठ इति सम्बन्धः कर्तव्यः। सुषेधादिषु स्थादीनामुपसर्गत्वं नास्ति; ततो यदि तेषामिह पाठो न क्रियते तदा `डपसर्गात्? सुनोति` [[8.3.65]] इत्यादिनोपसर्गस्थान्निमित्तात्? षत्वं विधीयमानं न स्यात्, इष्यते च; तस्मादनुपसर्गान्निमित्तात्? षत्वं यथा स्वादित्येवमर्थमेषां सुषेधादीनामिह पाठः। तत्र सुशब्दस्य कर्मप्रवचनीवत्वे सत्युपसर्गसंज्ञा न भवति; एका संज्ञेत्यधि कार#आत्? [[1.4.1]] । अनुपसर्गत्वं त्वस्य <<सुः पूजायाम्>> [[1.4.94]] इति कर्मप्रवचनीयसंज्ञाविषानात्। निर्दुःशब्दयोस्तूपसर्गत्वाभावः, क्रियान्तरविषयत्वात्। निर्गतः सेधो निष्षेधः, दुर्गतः सेधो दुष्षे ध इति -गमिक्रिया विषयौ हि तौ; तस्माद्गमिमेव प्रति तयोरुपसर्गत्वम्, न सेधतिं प्रति; यं परति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति (म।भा।1.4.61) वचनात्। एवं तावत्? `षिधु संराद्धो` (धातुपाठः-47) इति यदा गतौ दर्तमानस्य सेध इत्येतद्भवति, तदा प्रतिषेधबाधनार्थः पाठ इति दर्शयितुमाह -`सेधतेः` इत्यादि। अथ वा <<सेधतेर्गतौ>> [[8.3.113]] इति प्रतिषेधं वक्ष्यति, स मा भूदित्येवमर्थं एषां पाठः। `सुषन्धिः, निष्षन्धिः, दुष्षन्धिः` इति। एते <<उपसर्गे घोः किः>> [[3.3.92]] इति क्रिप्रत्ययान्ताः। तेनैषामनादेशसकारत्वादप्राप्ते षत्वे पाठः। सन्धीयत इति सन्धिः, शोभनः सन्धिरिति प्रादिसमासः -सुषन्धिरिति। एवमन्यत्रापि। `सुष्ठुदुष्ठु` शब्दयोस्तु पदादिलक्षण एव तिषेधे प्रान्ते पाठः। `तिष्ठतेरुणादिष्वेतौ व्युत्पाद्येते` इति। `कुभ्र्रश्च` (द।उ।1।107) इत्यतः कुग्रहणमनुवर्तते। `मृगय्वादयश्च` (द।उ।121) इति कुप्रत्ययान्त#औ व्युत्पाद्येते।`गौरिषक्यः` इति। गौरिषक्यशब्दस्य सकारस्य संज्ञायां षत्वं भवति। गौर्याः सक्थीति षष्ठीसमासः। `अच्प्रत्ययन्ववपूर्वात्` [[5.4.75]] इत्यादिसूत्रे अजिति योगविभागादच्? समासान्तः। यदा तु बहुव्रीहिः -गौर्या इव सक्ति यस्येति, तदा `बहुव्रीहौ सक्ध्यक्ष्णोः स्वाङ्गात्? षच्` [[5.4.113]] इति षच्प्रत्ययान्तः। सक्तिशब्दोऽयम्? `असिसञ्चिभ्यां क्थिन` (द।उ।1।10) इति विथन्प्रत्ययान्तो व्युत्पाद्यते। तेन प्रतिषेधबाधनार्थो गौरिषक्थशब्दस्य पाठः। अव्युत्पत्तिपक्षे त्वप्राप्त एव षत्वे। `प्रतिष्णिका` इति। अस्यापि प्रतिस्नातीति [प्रतिष्णातीति -कांउद्रितः, पाठः] <<आतश्चोपसर्गे>> [[3.3.106]] इति कप्रत्ययः। ठाप, तदन्तात्? <<संज्ञायां कन्>> [[5.3.87]] , `केऽणः` [[7.4.13]] इति ह्रस्वः। `प्रत्यस्थात्` [[7.3.44]] इत्यादिनेत्त्वम्। `जलावाहम्` इति। अनिणन्तार्थः पाठः। अनार्षः पुनरयं लक्ष्यते। तथा हि -सवनावि [[8.3.112]] ष्वआसनिशब्दग्रहणेन ज्ञापकेनास्य षत्वं प्रतिपादयिष्यते। अपरे त्वआसनिशब्दो वा सवनादिज्ञापनार्थः पठितव्यः, इह वा जलाषाहिशब्द इति विकल्पदर्शनार्थमिहास्य पाठं समर्थयन्ते। उपलक्षणार्थश्चेतीहास्य पाठः। तेनाआवाहमित्यप#इ पाठो वेदितव्यः। `नौषेचनम्, दुन्दुभिषेषणम्` इति। षष्ठीसमासौ। सिचेः `वेवृ सेवने` (धातुपाठः-501) इत्यस्माच्च स्युटि प्रतिषेधबाधनार्थः पाठः॥", "83099": "`एति संज्ञायाम्` इत्यादि। एतद्ग्रहणकवाक्यम्। अस्यैव `एकारपरस्य` इत्यादिना विवरणम्। एकारः परो यस्मादिति बहुव्रीहिः। एतेर्नतीत्यस्याः परसप्तमीत्वं दर्शयति। `हरिषेमः` इति। हरयः सेना ञस्येति बहुव्रीहिः, उपसर्वनह्रस्वत्वम्। `पुवुसेनः` इति। <<स्त्रियाः>> [[6.4.79]] इत्यादिना पूंवद्भावः। `बिष्दक्सेनः` इति। विष्वञ्चतीति `ऋत्विक्` [[3.2.59]] इत्यादिना क्विन्। `अनिदिताम्` [[6.4.24]] इति नलोपः। <<उगितश्च>> [[6.3.45]] इति ङीप्, `अचः` [[6.4.138]] इत्यकारलोपः, `चौ` [[6.3.137]] इति दीर्घः। विषूची सेनास्येति बहुव्रीहिः। उपसजनह्रस्वत्वम्। <<स्त्रियाः>> [[6.4.79]] त्यादिना पुंवद्भावः। `क्वित्वस्य कुः` [[8.2.62]] इति कुत्वम्। <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वं -गकारः। तस्य `खरि च` [[8.4.54]] इति चत्त्र्व -ककारः। तस्यासिद्धत्वाद्यकारः॥", "83100": "`नक्षत्राद्वा` इति। पूर्वेण नित्ये प्राप्ते विकल्पोऽयमुच्यत इति। सूत्रे[`सुषामादिषु च` इत्यस्मिन्? सूत्रे [[8.3.98]] ] चकारोक्तसमुच्चयार्थः, स चाकृतिगणतां सुषामादेर्बोधयतीत्यत आह -`अविहितलक्षणा` इत्यादि॥", "83101": "`अपदान्तस्य` [[8.3.55]] इत्यधिकारारात्? पदान्तेऽप्राप्ते मूर्धन्ये सतीदमारभ्यते। येषु तकारादिषु तद्धितेषु मूर्धन्येन भवितव्यम्, तान्? दर्शयितुमाह -`तरप्तमपौ` इति। `सर्पिष्टरम्` इति। `द्विवचनविभज्योपपदे` [[5.3.57]] इत्यादिना तरप्। प्रकृतिसकारस्य रुत्वम्, विसर्जनीयः, तस्यापि <<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारः, तस्यानेन षत्वम्, ष्टुत्वम्। `सर्पिष्टमम्` इति। `अतिशायने` [[5.3.55]] इत्यादिना तमप्। `चतुष्टये` इति। `संख्याया अवयवे तयप्` [[5.2.42]] , तदन्ताज्जम्, सप्तम्येकवचनं वा। यदा जस्? तदा `जशः सी` [[7.1.17]] इति शीभावः। क्वचित्? `चतुष्ठयी` इति पाठः। तत्र हि `टिड्ढाणञ्` [[4.1.15]] इति ङीप्। `सर्पिष्ट्षम्, सर्पिष्टा` इति। <<तस्य भावस्त्वतलौ>> [[5.1.119]] । `र्पिष्टः` इति प्रयोगे <<पञ्चम्यास्तसिल्>> [[5.3.7]] इत्यनुवर्तमाने <<अपादाने चाहीयरुहोः>> [[5.4.45]] इति तसिप्रत्ययः। `आविष्ट` इति। आधिः शब्दाद्भवादावर्थे <<अव्ययात्त्यप्>> [[4.2.104]] । ननु च `अमेहक्वतसित्रेभ्यस्त्यद्विधियोऽव्ययात्? स्मृतः` [`अमेहत्वतसित्रेभ्यस्त्यब्विधिरव्ययात्` -प्रांउ।पाठः, अमेहक्वतसित्रेभ्यस्त्यब्विधिरव्ययात्? स्मृतः -कांउ।पाठः] (कारिका।4.2.115) इति तत्र परिगणयति, तत्कथमादिःशब्दात्? त्यप्? नैष दोषः; अल्पाच्तरत्वात्? कुशब्दस्य त्रशब्दस्य वा पूर्वनिपाते कर्तव्ये तदकरणाल्लक्षणव्यभिचारं दर्शयता सूचितं व्यभिचार्येव तत्परिगणनम्, तेनाविःशब्दादपि भवति। `सर्पिस्मात्` इति। <<विभाषा साति कार्त्स्न्ये>> [[5.4.52]] इति सातिः। ननु च <<सात्पदाद्योः>> [[8.3.111]] इति वक्ष्यमाणात्? प्रतिषेधादेव मूर्धन्यो न भविष्यति; तत्क तन्निवृच्यर्थेन `तादौ` इत्यनेन? इत्यत आह -`प्रत्ययषकारस्य` इत्यादि। सादित्यनेन हि सात्प्रत्ययस्य यः सकारः, यश्च पदादिलक्षणस्तयोः षतवं प्रतिषिध्यते, न तु सात्प्रत्ययात्? पूर्वस्य प्रकृतिसकारस्य। ततो यदि `तादौ` इति नोच्येत, तदा प्रत्ययसकारस्याषत्वे प्रकृतिसकारस्य स्यादेव। तस्मश्च सति ष्टुत्वं प्रत्ययसकारस्यापि स्यात्। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रैदं व्याख्यानम् -इहादिग्रहणं न कर्तव्यम्, `यस्मिन्विधिस्तदादावल्ग्रहणे` (वा।14) इत्येवं हि तादौ भविष्यति, तत्? क्रियते -ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीति तिङन्तस्य प्रतिषेधो यथा स्यादित्येवमर्थम्। अप या `न रपर` [[7.3.110]] इत्यादौ `न` इति योगविभागः करिष्यते, तेन तिङन्तस्य न भवतीति। अस्मिस्तु व्याख्याने आदिग्रहणं विस्पष्टार्थम्। `भन्द्युस्तराम्, छिन्द्युस्तराम्` इति। भिदिच्छिदिभ्यां लिङ्, यासुट्, `झर्जुस्` [[3.4.108]] , `लिङः सलोपः` [[7.2.79]] त्यादिना सलोपः। <<उस्यपदान्तात्>> [[6.1.96]] इति पररूपत्वम्। <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः, `तिङश्च` [[5.3.56]] इति तरप्, `किमेत्तिडव्यय` श् [[5.4.11]] इत्यादिनाऽऽमुप्रत्ययः॥", "83102": "अयमपि पदान्तार्थ आरम्भः। `निष्डपति` इति। `तप धूप सन्तापे` (धातुपाठः-985,396)। रुत्वे विसर्जनीयः, <<विसर्जनीयस्य सः>> [[8.3.34]] , सस्य भूर्धन्यः, ष्टुत्वम्। अथेह निष्टप्तं रक्षः, निष्टप्ता अरातयः इति निष्ठान्ते तपतौ कस्यान्न भवति, अस्ति ह्यत्रासेवनमिति? अत आह -निष्टप्तम्` इत्यादि। न हीह वस्तुनः सत्तैव शब्दव्युत्पत्तेः प्रधानं कारणम्, अपि तु तद्विवक्षा। न चेहासेवनविवक्षास्तीति भवति मूर्धन्यः। यदि तह्र्रासेवनं विवक्ष्यते तदा न भवितव्यं मूर्धन्येनेनत्यत आह -`च्छान्दसो वा` इत्यादि। समावे कृते <<व्यत्ययो बहुलम्>> [[3.1.85]] इति पुनः षकारः॥", "83103": "अयमापि पदान्तार्थ आरम्भः। `अन्तःपादम्` इति। पादस्य मध्ये। विभक्त्यर्थेऽव्ययीभावसमासः। पादग्रहणेन ऋक्पादश्लोकपादयोः सामान्येन ग्रहणम्। तकारादित्वं त्विह युष्मद एव विशेषणम्, नेतरयोः; अव्यभिचारात्। युष्मच्छब्दस्यापि त्वादिष्वादेशेषु तकारादित्वं भवतीत्यत आह -`युष्मदादेशाः` इत्यादि। `अग्निष्ट्वम्` इति। <<त्वाहौ सौ>> [[7.2.94]] इति त्वादेशः, `ङ प्रथमयोरम्` [[7.1.28]] इति सोरम्भावः, <<शेषे लोपः>> [[7.2.90]] । `अग्निष्ट्वः` इति। <<त्वामौ द्वितीयायाः>> [[8.1.23]] इति द्वितीयान्तस्य त्वादेशः। `अग्निष्टे` इति। <<तेमयावेकवचनस्य>> [[8.1.22]] इति षष्ठन्तस्य तयादेशः। `अग्निष्टव` इति। <<तवममौ ङसि>> [[7.2.96]] इति तदादेशः, `युष्मदस्मद्भ्यां ङसोऽक्ष्` [[7.1.27]] । `अग्निष्टत्`[ण्स्वग्ने सधिष्टव -इति काशिकायामुदाहरणम्, `अग्निष्ट्व` -इति कांउ।पाठः] इति। तच्छब्दोऽयं निपातः। सर्वनाम वा। `निष्टतक्षुः` इति। तक्षेर्लिट्, उस्। `अग्निस्तत्पुनः` इति। अग्निशब्दोऽत्र पूर्वपदस्यान्ते वर्तते। तेनायं सकारः पादस्यान्ते वर्तते, न पादमध्ये॥", "83104": "`यजुषि` इति। यजुर्वेदे। अत्र पादा न सम्भवन्तीति पूर्वेम नाप्राप्ते षत्वमिदमारभ्यते। एकेषांग्रहणं विकल्पार्थम्॥", "83105": "<<सात्पदाद्योः>> [[8.3.111]] इति प्रतिषेधे प्राप्तेऽस्यारम्भः। ननु चोत्तरसूत्रेणैव `नुभिःष्टुतम्, गोभिःष्टोमम्` इत्यत्र षत्वं सिध्यति, तत्किमर्थमिदमारभ्यते? स्यादेतत् -समासे सत्येतद्भवति पूर्वपदम्, उत्तरपदमिति, न चात्र समासः, तस्मात्? पूर्वपदादि [[8.3.106]] त्युत्तरेण न सिध्यतीति? एतच्चासम्यक्, असमासे यत्? पूर्वपदं तदपि तत्रापि गृह्रते। वक्ष्यति -असमासे [असमासेऽपि यत्पूर्वपदम् -काशिका। असमासे यत्? पूर्वपबदं तदपि तत्रापि गृह्रते -प्रांउंयासपाठः। ] यदपि पूर्वपदं तदपि [तदपीह -काशिका] गृह्रते` (काशिका।8.3.104) इति? अत आह -`पूर्वपदादित्येव` इत्यादि॥", "83106": "`द्विषन्धिः` इति। षष्ठीतत्पुरुषः, बहुव्रीहिर्वा। `मधुष्ठानम्? इति। षष्ठीसमासः। `द्विवाहरुआम्` इति। द्वयोः सहरुआयोर्भव इति तद्धितार्थे समासः। <<तत्र भवः>> [[4.3.53]] इत्यण्; <<संख्यायाः संवत्सरसंख्यस्य च>> [[7.3.15]] इत्युत्तरपदवृद्धिः। अथेह कथं षत्वम् -त्रिः षमुद्धत्वायेति? यावता समासे यत्? पूर्वपदं तत्र पूर्वपदशब्दो रूढः; न चायं समासः; किं तर्हि? वाक्यम्? इत्यतद आह -`असमासेऽपि` इत्यादि। कथं पुनरेतल्लभ्यते? व्यवस्थावचनस्येह पूर्वपदस्याश्रयणात्। यथैव हि पूर्वशब्दो लोको रूढिभादाय क्वचित्? तु समुदाये वर्तते -पूर्वपञ्चाला इति, क्वचिद्व्यवस्थायाम् -अस्मात्? पूर्वं इति वा; तथा शास्त्रेऽपि। तत इह व्यवस्थाशब्दो गृह्रते। कुतः? व्याप्तेः। रूढिशब्द एव गृह्रमाणे समास एव स्यात्? नासमासे। व्यवस्थाशब्दे तु सर्वत्र भवति॥", "83107": "<<पूर्वपदात्>> [[8.3.106]] इत्येवं सिद्धे प्रपञ्चार्थमिदम्। `सुञ [`सुञः` -प्रांउ।पाठः] इति निपातो गृह्रते` [निपात इह गृह्रते -काशिका] इति। अथ `षुञ्? अभिषवे` (धातुपाठः-1247) इति धातुः कस्मान्न गृह्रते? एवं मन्यते -यत्रास्य धातोग्र्रहणमिच्छति तत्र क्तिपा निर्द्देशं करोति। शैलीयमाचार्यस्य, यथा -`उपसर्गात्? सुनोति` [[8.3.65]] इत्यत्र <<सुनोतेः स्यसनोः>> [[8.3.117]] इत्यत्र च। तदिहापि यदि धातोग्र्रहणमभीष्टं स्यात्, श्तिपा निर्द्देशं कुर्यात्; नैव कृतम्, अतो निपातस्येवं ग्रहणमवसीयते। `अभीषुणः` इति। षष्ठीबहुवचनस्यास्मच्छब्दस्य <<बहुवचनस्य वस्नसौ>> [[8.1.21]] इति नस्, <<इकः सुञि>> [[6.3.134]] इति दीर्घः। <<नश्च धातुस्थोरुषुभ्यः>> [[8.4.27]] इति णत्वम्॥", "83108": "`अनः` इति। अविद्यमानो नकारोऽस्येत्यर्थः। `गोषाः` इति। `षणु धाने` (धातुपाठः-1464)। गां सनोतीति <<जनसनखनक्रमगमो विट्>> [[3.2.67]] , `विङवनोरनुनासिकस्यात्` [[6.4.41]] इत्यात्त्वम्। `गोसनिम्` इति। <<स्तम्बशकृतोरिन्>> [[3.2.24]] इत्यत इन्नित्यनुवर्तमाने `छन्दसि वनसनरक्षिमयाम्` [[3.2.27]] इतीन्प्रत्यवः। ननु <<पूर्वपदात्>> [[8.3.106]] इत्येव गोषा इत्यादौ षत्वं सिद्धम्। तत्किकर्थमिदमित्याह -`पूर्वपदादित्येव` इति। अविद्यमाननकारस्यैव भवति; नान्यस्येत्येव नियमो यथा स्यादित्येवमर्थमेतत्। यद्येवम्, गोसनिमिति न नियमस्य फलम्, सवनादित्वात्? इत्याह -`अत्र` इत्यादि। इतिकरणो हेतौ। यस्मात्सवनादिषु पाठाद्गोसनिशब्दो नियमस्य फलं न भवति, तस्मात्? केचित्? सिसानयिवतीति प्रत्युदाहरन्ति। `सिसनीरित्यपरे` इति। सनोतेण्र्यन्तस्य सनि रूपम् -सिसानयिषतीति। अत्र यदि नियमार्थमेतन्नोच्येत, तदा स्तौतिण्योरेव [[8.3.61]] षत्वं स्यात्। अस्मस्तु सति न भवतीति ण्यन्तस्मोदाहरणम्। अम्यन्तस्य स्तीतिण्योरेव [[8.3.61]] इत्यत एव नियमात्? षत्वनिवृत्तेः सिद्धत्वात्। सिसनोरोति -सनोतेः सन्, इट्, द्विर्वचनम्, सनः सकारस्य णत्वम्; सिसनिष इति स्थिते क्किप्, अतो लोपः [[6.4.48]] , षत्वस्यासिद्धत्वाद्रूत्वम्, `र्वोरुपदाया दीर्घ हकः` [[8.2.76]] इति दीर्घः। सिसनीरिति स्थितेऽत्र सनः वत्वभूतस्याभावात्? स्तौतिण्योरेव [[8.3.61]] इत्येषे नियमो न प्रवर्तते। अत्र यदीदं नोच्येत, <<आदेशप्रत्यययोः>> [[8.3.59]] इति मूर्धन्यः स्यात्; अस्मस्तु सत#इ न भवति॥", "83109": "असाडर्थम्, अनिणर्थञ्च। `पृतनाषाहम्` इति। <<छन्दसि सहः>> [[3.2.63]] इति ण्विः। `ऋतीषाहम्` इति। <<अन्येषामपि दृश्यते>> [[6.3.137]] इती दीर्घः। `ऋतीषहम्` इति। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति क्विप्। <<नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ>> [[6.3.116]] इती दीर्घत्वम्। `संहितायामेतद्दीर्घत्वं षत्वञ्च` इति। उभयोरपि विधाने संहिताधिकाराद्दीर्घस्य प्रतिपादनम् -ऋतीशब्दस्यायं प्रयोग इति प्रतिपादनार्थम्। अन्यथा हि ऋतिशब्दान्तरमेवेदभित्याशङ्क्येत। [`ह्रतिशब्दान्तर` -प्रांउ।पाठः] यस्तु मन्यते -वर्णव्यत्ययेनैवात्र चत्वं भविष्यति, तत्? किमेतदर्थेन वोगविभागेनेति, तं प्रति षत्वस्य सांहितकत्वं प्रतिपादितम्। यदि हि <<व्यत्ययो बहुलम्>> [[3.1.85]] इति षकारः क्रियते, ततोऽसंहितायामेव स्यात्, न हि तत्र संहिताधिकारोऽस्ति। तस्मात्? संहिताधिकारे यथा स्यादिति योगविभागः कर्तव्य इति भावः। `अनुक्तसमुच्चयार्थः` इति। न केवलं साङ्भूतस्येण्कोः परस्येति, अपि तु पृतनर्ताभ्याञ्च षत्वं भवतीति। ये तु योगविभागं न कुर्वन्ति, ते ऋतीबहमित्यर्थश्चकारः समुच्चयार्थं इति वर्णयन्ति॥", "83110": "रः परो यस्मादिति रपरः। `सृप्लृ गतौ` (धा।रा।983), `सृज विसर्गे` (धातुपाठः-1414), `स्पृश संस्पर्शे`, [संस्पर्शने -धातुपाठः-] `स्पृह ईप्सायाम्` (धातुपाठः-1871) चुरादावदन्तः पठते। सवनमादिर्येषामिति बहुव्रीहिः। `विरुआंसिकायाः` इति। `रुआन्सु अवरुआंसने` (धातुपाठः-754) अस्माद्विपूर्वात्? `रोयख्यायां ण्वुल्? बहुलम्` [[3.3.108]] इति ण्वुल्। `विरुआब्धः` इति। `रुआन्भु विश्रम्भे` [`विआआसे` -धातुपाठः-] (धातुपाठः-757), `अनिदिताम्` [[6.4.24]] इति न लोपः, `झषस्तथोर्थोऽधः` [[8.2.40]] इति धकारः, <<झलां जश् झशि>> [[8.4.53]] इति भकारस्य बकारः। `विसृपः` इति। <<सृपितृदोः कसुन्>> [[3.4.17]] इति कसुन्। `विसर्जनात्` इति। ल्युट्। `दिविस्पृशम्` इति। <<स्पृशोऽनुदके क्विन्>> [[3.2.58]] , <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इति सप्तम्या अलुक्। `निस्यृहः` [निस्पृहम् -काशिका] इति। स्पृहणं स्पुहः, `एरच्` [[3.3.56]] इत्यच्, णिलोपः, निर्गतः स्पृहो निःस्पृहः। `सवनेसवने` इति। सुनोतेर्ल्युट्, सप्सम्येकवचनम्, वीप्सायां द्विर्वचनम्। `सूतेसूते` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1131) सुवतेर्वा, निष्ठा। `सोमेसोमे` इति। सुञित्येतस्मात्? `अर्त्तिस्तु` (द।उ।7।26) इत्यादिना सोमशब्दः व्युत्पादितः। `सवनमुखेसवनमुखे` इति। सवनस्य मुखमिति षष्ठीसमासः। `किंसं किंसम्` इति। `षो अन्तकर्मणि` (दा।पा।1147), `आतोऽनुपसर्गे कः [[3.2.3]] । तत्र किमो कमारस्यानुस्वारे कृते `अयोगवहानामट्सूपदेशादङ्व्यवायेऽपि इति पूर्वपदस्थान्निमित्तात्? प्राप्तः। `अनुसवनमनुसवनम्` [`अनुसवनमिति` -इति प्रांउ।पाठः] इति। ल्युडन्तमेतत्। अश्यसनेव्र्युत्पत्तिर्गोसनिवत्। अगाआसनिग्रहणं किमर्थम्? न ह्यत्र सकारस्य षत्वं प्राप्नोति, तथा हि पुर्वस्थादिण उत्तरस्य षत्वं प्राप्नोति, न चासाविण उत्तरः सकारः? इत्यत आह -`अआसनिग्रहणम्` इत्यादि। किमेतज्ज्ञापनेन प्रयोजनम्? इत्यत आह -`जलाषाहम्`इत्यादि। क्वचित्? `विसंबिसम्, मुसलमुसलम्` इति पाठः। स्थाने द्विर्वचनपक्षे `आदेशप्रहत्यययोः` [[8.3.59]] इत्यादेशसकारत्वात् प्राप्तस्य षत्वस्य प्रतिषेधो वक्तव्यः॥", "83111": "<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वे प्राप्तेऽयं प्रतिषेध-॥", "83112": "<<आदेशप्रत्यययोः>> [[8.3.59]] इति `उपसर्गात्? सुनोति` [[8.3.65]] इति च प्राप्तस्य षत्वस्यार्य प्रतिषेधः। `सेसिच्यते` इति। <<आदेशप्रत्यययोः>> [[8.3.59]] इति प्राप्तिः। `अभिसेसिच्यते` इति। अत्र `उपसर्गात्? सुनोति` [[8.3.65]] इत्यादिना। कथं पूनरत्र प्रतिषेधः प्रवर्तते? यावता `उपसर्गात्` [[8.3.65]] इत्यादिना सूत्रेण षत्वं प्रतिषेधविषये विधीयते। अत्रोपसर्गस्थान्निमित्ताद्या प्राप्तिः सा यथा <<सात्पदाद्योः>> [[8.3.111]] इतीमं पदादिलक्षणप्रतिषेधं बाधते, तथा <<सिचो यङि>> [[8.3.112]] इत्यतच्च? इति देश्यमाशङ्क्याह -`उपसर्गाथा प्राप्तिः` इत्यादि। येन नाप्राप्तिन्यायेन (व्या।प।49) पदादिलक्षणस्यैव प्रतिषेधस्य बाधा युक्ता, तत्र प्राप्त एवोपसर्गार्थमारभ्यते, <<सिचो यङि>> [[8.3.112]] इत्येतस्मिन्? पुनः प्राप्ते चाप्राप्ते च। अथ वा -`पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।पा।9) इत्येवमुपसर्गात्? षत्वप्राप्तिः सिचः पदादिलक्षणमेव प्रतिषेधं बाधते, न तु सिचो यङीत्यभिप्रायः॥", "83113": "`उपसर्गात्` सुनोति` [[8.3.64]] इति प्राप्तस्य षत्वस्य प्रतिषेधः। प्रतिषेधस्याकार्यादिति निवारणे सेधतिर्थर्तते॥", "83114": "`प्रतिस्तब्धम्, निस्तब्धम्` इति। <<स्तम्भेः>> [[8.3.67]] इति प्राप्तस्य षत्वस्यापवादो निपात्यते॥", "83115": "`परिनिविभ्यः` [[8.3.70]] इति प्राप्ते षत्व आरभ्यते। `सोढः` इति। निष्ठायामपि प्रथमैकवचने कृत एतद्रूपं भवति। एतद्ग्रहणाशङ्कानिरासायाह - `सहिरयम्` इत्यादि। `सोङ्भूतः`[`सोढभूतः` - प्रांउ।पाठः] इति। हकारे ढकारे कृते यद्रूपं भवति तत्प्राप्त इत्यर्थः। ढकारस्तु जश्त्वे न श्रूयते। `परिसोढः` इति। घत्वढत्वष्टुत्वढलोपेषु कृतेषु <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्योकारः॥", "83116": "अत्राद्यस्य `स्तन्भेः` [[8.3.67]] इति षत्वे प्राप्ते, इतरयोस्तु `परिनिविभ्यः` [[8.3.70]] प्रतिषेधेऽयमारभ्यते। `अभ्यतस्तम्भत्` इति। णिच्, लुङ्, णिश्रिद्रुरुआउभ्यः कर्तरि चङ्` [[3.1.48]] , णिलोपः, `चङि` [[6.1.11]] इति द्विर्वचनम्, पूर्ववत्? खयः शेषः, अट्, <<प्राक्सितादड्व्यवायेऽपि>> [[8.3.63]] , `स्थादिष्वभ्यासेन चाभ्यासस्य` [[8.3.64]] इति व्यवाये सत्युपसर्गस्थान्निमित्तातु षत्वं प्राप्तं न भवति। `पर्यसीषिवत्` इत्यादि। पूर्ववल्लुङादि, सिवेर्लधूपधगुणः, सहेस्तु <<अत उपधायाः>> [[7.2.116]] इति बृद्धिः, `सन्वल्लघुनि` [[7.4.93]] इतीत्त्वे, उभयोः `णो चङ्युपधायाः` [[7.4.1]] इति ह्रस्वः। <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घः। अत्रापि `सिवादीनां वाङ्यवायेऽपि` [[8.3.71]] इत्यङ्व्यवाय उपसर्गस्यान्निमित्तात्? परेषां प्राप्नोति, तत्र भवति। `सिवुसहोः` इत्यादि। एतयोः सिवुसहोश्चङ्युपसर्गस्थान्निमित्तात्? षत्वं प्राप्नोति, तनमा भूदित्येवमर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? इत्याह -`उपतर्गाद्या प्राप्तिः` इत्यादि। तत्रेदं व्याख्यानम् -`डपसर्गात्? सुनोति` [[8.3.65]] इत्यतो मण्डूकप्लुतिन्यायेनोपसर्गादितीहानुवर्तते। तेनोपसर्गाद्या प्राप्तिस्तस्या एव प्रतिषेधो भविष्यतीति। `तथा चैवोदाहृतम्` इति। यत्तदर्थरूपं व्याख्येयम्, तत्तथोक्तम्। तदर्थरूपमेवोदाहृतमित्यर्थः॥", "83117": "`अभ्यसोष्यत्` इति। लृङ्। `अभिसुसूषति` इति। सन्, <<इको झल्>> [[1.2.9]] इति कित्त्वे गुणाभावः। `ञज्झनगमां सनि` [[6.4.16]] इती दीर्घः। `अत्र` इत्यादि। इतिकरणो हेतौ। अत्र यस्मात्? `स्तौतिण्योरेव षण्यभ्यासात्` [[8.3.61]] इत्यतो नियमादप्राप्ते `स्थादिष्वभ्यासेन` [[8.3.64]] इति नियमादप्राप्तिस्तस्मादभिसुसूरित्युदाहरन्ति। स्यादेतत् -अत्रापि नास्ति यत्? तदप्युदाहरणं नोपपद्यते? इत्यत आह -`सन्? षभूतो न भवति` इत्यादि। षभूते हि सनि स्तौतिण्योरेव [[8.3.61]] नियमः, न चात्र सन्? षभूतः। तस्मादसति सन्ग्रहणेऽब्यासस्थान्निमित्तात् <<आदेशप्रत्यययोः>> [[8.3.59]] इति षतद्वं न प्राप्नोति। अभ्यासग्रहणमुपसर्गात्? प्राप्तेरसन्भवात्। अत उपसर्गस्थान्निमित्ताद्धातुसकारस्य षत्वं न प्राप्नोति; अभ्यासेन व्यवहितत्वात्, नास्याससकारस्य स्थादिनियमेन व्यावर्त्तितत्वात्। `अभिसुसूः` इति। अभिसुसूष इति स्थिति क्विप्, <<अतो लोपः>> [[6.4.48]] , षत्वस्यासिद्धत्वाद्रुत्वविसर्णनीयौ॥", "83118": "", "83119": "", "84001": "`समानपदस्थौ चेत्` इत्यादि। समानशब्दोऽयमेकपर्यायः। समानमेकम्, अभिन्नमित्यर्थः। समानञ्च तत् पदञ्चेति कर्मधारयः; तत्र तिष्ठत इति समानपदस्थौ, <<सुपि स्थः>> [[3.2.4]] इति कप्रत्ययः। अत्र निमित्तं रेफः षकारश्च। तन्निमित्तं यस्यास्तीति णत्वभावेन विपरिणतौ साध्यायां स निमित्ती नकारः। तेनैतदुक्तं भवति -यत्र पदे रेफषकारौ स्तस्तत्र यदि नकारोऽपीत्यर्थः। `आस्तीर्णम्, विशीर्णम्` इति। `स्तृञ् आच्छादने` (धातुपाठः-1484), `शृ हिंसायाम्` (धातुपाठः-1488)। व्याङ्पूर्वाभ्यां निष्ठा; `श्र्युकः किति` [[7.2.11]] इट्प्रतिषेधः। ॑ॠत इद्धातोः` [[7.1.100]] इतीत्त्वम्; रपरत्वञ्च। `अवगूर्णम्` इति। `गुरी उद्यमने` (धातुपाठः-1396), `श्वीदितो निष्ठायाम्` [[7.2.14]] इतीट्प्रतिषेधः। `हलि च` [[8.2.77]] इति दीर्घः, `रदाभ्यां निष्ठातो नः` [[8.2.42]] इति तकारस्य नकारः, तस्यानेनैव णत्वम्। `कुष्णाति, पुष्णाति` इति। `कुष निष्कर्षे` (धातुपाठः-1518), `पुष पुष्टौ` (धातुपाठः-1529)। श्नाप्रत्ययः। `षग्रहणमुत्तरार्थम्` इति। अथैतदर्थमपि कस्मान्न भवति? इत्याह -`ष्टुत्वेनैव सिद्धत्वात्` इति। यद्येवम्, कुष्णातीत्यादेरुपन्यासः किमर्थः? उत्तरार्थं षग्रहणं क्रियमाणमेतदर्थमपि भवतीति प्रदर्शनार्थः। असति षग्रहणे कुष्णातीत्येवमादौ ष्टुत्वेनैव सिद्धिर्भवति। सति च तस्मिन्नुत्तरार्थ आरभ्यमाणेऽनेनैव णत्वं कर्तव्यम्। अस्मिन् कर्तव्ये ष्टुत्वस्यासिद्धत्वादन्यत्र चरितार्थत्वान्न च परत्वमुपपद्यते; `पूर्वत्रासिद्धीये नास्ति विप्रतिषेधोऽभावादुत्तरस्य` (जै।प।षृ।67) इति। `ऋवर्णाच्चेति वक्तव्यम्` इत्यादि। रषाभ्यां णत्वमुच्यमानमृवर्णान्न प्राप्नोति, तस्य वर्णान्तरत्वात्। न च शक्यते वक्तुम् -ऋवर्णस्थाद्रेफाद्भविष्यति, वर्णो हि रेफः सूत्रे णत्वं प्रति निमित्तत्वेनाश्रितः। न हि ऋवर्णस्थो रेफो वर्णः, किं तर्हि? वर्णैकदेशः; तदेकदेशत्वात्, न हि वर्णैकदेशो वर्णग्रहणेन गृह्यते। तथा चोक्तम् -`वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न वेति। तच्छायानुकारिणो हि ते, न पुनस्त एव। पृथक्प्रयत्ननिर्वर्त्त्यं वर्णमिच्छन्त्याचार्याः` इति। तस्मात् `ऋवर्णाच्च` इति वक्तव्यम्। `तिसृणाम्, चतसृणाम्` इति। <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इत्येतावादेशौ भवतः। `न तिसृचतसृ` [[6.4.4]] इति निषेधात् `नामि` [[6.4.3]] इति दीर्घत्वं न भवति। `रश्रुतिसामान्यनिर्देशात् सिद्धम्` इति। अनेनोपसंख्यानं प्रत्याचष्टे। `र` इतीह श्रुतिरुपलब्धिर्यस्येति बहुव्रीहिः। अथ वा - श्रूयत इति श्रुतिः, रश्चासौ श्रुतिश्चेति रश्रुतिः। तस्याः केवलाया ऋवर्णस्थायाश्च वर्णत्वावर्णत्वकृतभेदमुत्सृज्य यत् सामान्यं रश्रुतिमात्रं तदिह निर्दिश्यते, न तु वर्णात्मिकैव रेफव्यक्तिः। तेनेह सिद्धं तिसृणामित्यादावपि णत्वम्; ऋवर्णे हि तस्य रश्रुतिसामान्यस्य विद्यमानत्वात्। स्यादेतत् -ऋकारे त्रयोऽज्भागाः सन्ति, तन्मध्यवर्ती तुरीयो रेफः, तत्र रश्रुतिसामान्यनिर्द्देशादपि नैव णत्वं सिध्यति; योऽसौ रेफात् परोऽज्भागस्तेन व्यवधानात्? इत्यत आह -`अवर्णभाक्` इत्यादि। यदयं क्षुभ्नादिषु णत्वप्रतिषेधार्थं नृनमनतृप्नोतिग्रहणं करोति तेनैतज्ज्ञाप्यते - अवर्णभागव्यवधानेऽपि णत्वं भवतीति, अन्यथैतयोः पाठोऽनर्थकः स्यात्; प्राप्त्यभावात्, प्राप्तिपूर्वकत्वात् प्रतिषेधानामिति। इदानीं यद्यपि वर्णात्मिकैव रेफव्यक्तिर्निर्द्दिश्यते, तथापि णत्वं भवतीति दर्शयितुमाह -`अथ वा` इत्यादि। पूर्वं सूत्रोपात्ताद्रश्रुतिसामान्यनिर्द्देशादवर्णभागव्यवधानेऽपि णत्वं भवतीति ज्ञापितम्। सम्प्रति तु सूत्रानुपात्तादृवर्णादव्यवहिताद्भवतीत्येव विशेषः। अथ किमर्थं णग्रहणम्? यावता प्रकृतोऽत्र मूर्धन्योऽनुवर्त्तिष्यते। स एव विधेयः; तत्रान्तरतम्यान्नकारस्य णकार एव भविष्यति? सत्यमेतत्; पूर्वसूत्रे मूर्धन्यग्रहणं निषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिराशङ्क्येत। तस्मात् प्रतिषेधशङ्कानिरासार्थं पुनर्ग्रहणं कृतम्। ननु च प्राप्त्यभावादेव प्रतिषेधशङ्का न भविष्यति; प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति, न च केनचिद्रषाभ्यामुत्तरस्य मूर्धन्यप्राप्तिरस्ति? सत्यमेतत्, अस्मादेव प्रतिषेधाद्विधिरनुमीयत इति। अथ वा अनन्तरसूत्रे `वा` इति। वचनाद्विकल्पेनायं विधिर्विज्ञायेत। तस्माद्विकल्पनिवृत्त्यर्थम्, विस्पष्टार्थं वा॥", "84002": "रवाभ्यामिति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्? पूर्वेणाडादिव्यवधाने सत्यप्रप्तमेव णत्वमेनन विधीयते। `पर्याणद्धम्` इति। `णह बन्धने` (धातुपाठः-1166), निष्ठा, `नहो धः` [[8.2.34]] इति हकारस्य धकारः, `झषस्तथोर्षोऽधः` [[8.2.40]] इति तकारस्य धकारः, पूर्वधकारस्य <<झलां जश् झशि>> [[8.4.53]] इति दकारः। ननु चाङ्व्यवायेऽत्र णत्वं सिद्धम्, `अण्? सवर्णान्? गृह्णाति` [[1.1.69]] इत्यङोऽप्यङ्ग्रहणेन ग्रहणात्? किमर्थमाङ्ग्रहणम्? इत्याह -`आङ्ग्रहणम्` इत्यादि। असत्याङ्ग्रहणे <<पदव्यवायेऽपि>> [[8.4.38]] इत्याङ्व्यवाये प्रतिषेधः स्यात्। अतस्तद्बाधनार्थमाङ्ग्रहणम्। `बृंहणम्` इति। `बृह बृहि वृद्धौ` [वहि वृद्धौ शब्दे च -धातुपाठः-] (धापा।735,736) `इदितो नुम- धातोः` [[7.1.58]] इति नुम्, ल्युट्, <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनुस्वारः। कथं पुनरिदं नुम्ग्रहणस्योदाहरणम्, यावताऽनुस्वारेणात्र व्यवायः, न नुमा; `तृंहणम्` इत्यत्रापि नुमोऽभावात्, `प्रेन्वनम्` इत्यत्रैव प्रसज्येत, अस्ति ह्यत्र नुमा व्यवायः? इति देश्यमाशङ्क्याह -`नुम्ग्रहणम्` इत्यादि। अनुस्वारोपलक्षणार्थं ह्यत्र नुम्ग्रहणम्, न नुमः प्रतिपादनार्थम्। तेन किं सिद्धं भवति? इत्याह -`तेन` इत्यादि। `दृंहणम्` [तृंहणम् -काशिका, पदमञ्जरी च] इति। `दृह दृन्ह हिंसायाम्`[तृह -हिंसायाम् -धातुपाठः-1455 तृह हिंसार्थं -धातुपाठः-1350] (धातुपाठः-145501350), ल्युट्, पूर्ववदनुस्वारः। अत्र नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वादसत्यपि नुम्यनुस्यारव्यवाये णत्वं भवत्येव। अपिशब्दोऽयं वृंहणमित्यत्र नुमोऽनुस्वारे तद्व्यवाये णत्वं भवतीत्येवमर्थं द्योतयति। `प्रेन्वनम्` इति। `इवि व्याप्तौ` (धातुपाठः-587)। पूर्थवशुम्, तस्याझल्परत्वादनुस्वारो न भवति। अत्राप्यनुस्वारोपलक्षणार्थत्वाद्विद्यमानेऽपि नुव्यनुस्वारव्यवायो नास्तीति णत्वं न प्रवर्तते। यथैव हि `नक्षत्रं दृष्ट्वा वाचो विसृज्येरन्` इत्यत्र नक्षत्रदर्शनकालस्योपलक्षणार्थत्वादसत्यपि नक्षत्रदर्शने तस्मिन्? कालविशेषे सति वाचा विसुज्यन्ते, सत्यपि च [`च` नास्ति प्रांउ।पाठः] नक्षत्रदर्शने तस्मिश्कालविशेषाभावे वाचो न विसृज्यन्ते; तथेहापि नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वादसत्यपि नुमि यत्रानुस्वारव्यवायो नास्ति तत्र न भवतीत्येधमर्थ वेदितव्यम्। किं पुनरिह समुदायेन वाक्यपरिसमाप्तिः? प्रत्येकं वा? तत्र यदि पूर्वकः पक्ष आश्रौयते, तदा क्वचिदपि न स्यात्। न ह्रेकस्मिन्नुदाहरणे सर्वेरडादिभिव्र्यवायः सम्भवति। अथ द्वितीयस्तदा अर्केणेत्यादौ न स्यात्, अनेकेन व्यवधानात्? इत्यत आह -`व्यवायोपलक्षणार्थतत्वात्` इत्यादि। इहैषामडादीनां व्यवायस्तस्मिन्निति। शक्नुवन्ति चैत एकैकाः परस्परसहिताश्च। तमुपलक्षयितुं ये च तदुपलक्षणार्थमुपादीयन्ते तेषामेकेन द्वाभ्यां बहुभिश्च य उपलक्षितः स सङ्गृह्रत एव। तथा हि -देवदत्तयज्ञदत्तविष्णुमित्रैः सह नाध्येतव्यमियुक्ते देवदत्तादयो ये सहाध्ययनप्रतिषेधोपलक्षणार्थमुपात्तास्तेषामेकेनापि सह नाधीयते, द्वाभ्याम्, बहुभिश्च। तस्मादिहापि व्यषायोपलक्षणार्थत्वादडादीनां तैव्र्यस्तैः, समस्तैश्च व्यवाये णत्वं भवति। `व्यस्तैः` इति। तैरेकैकैरव्यवाय उपलक्ष्यते। `समस्तैः` इति। परस्परसहितैः। समस्तग्रहणमनेकोपलक्षणार्थम्। न हि समस्तैव्र्यवायः क्वचित्? सम्भवति। एवञ्च क्वचित्? प्रत्येकं वाक्यपरिसमाप्तिः, क्वचिद्यथासम्भवं समुदायेन -इत्युक्तं भवति। अथापिग्रहणं किमर्थम्? अव्यवाये यता स्यादिति चेत्? न; पूर्वेणैव सिद्धत्वात्? एवं तर्ह्रुत्तरार्थमपिग्रहणम्। असति हि तस्मिन्नुत्तरार्थे `उपसर्गादसमासेऽपि` [[8.4.14]] इत्येतदिहैव स्यात् -प्रणयतीति, यत्रास्ति व्यवायः। इह तु न स्यत् -निर्णयतीति, न ह्यत्राडादीनामेकतमेन व्यवायोऽस्ति॥", "84003": "रेफादिनिमित्तमिहानुवर्तते, तस्य केवलस्य पूर्वपदत्वं न सम्भवतीति सामर्थ्यात्? पूर्वपदस्थान्निमित्तादुत्तरस्येत्येषोऽर्थो विज्ञायत इत्याह -`पूर्वपदस्थान्निमित्तात्` इत्यादि। `द्रूणसः` इति। दुरिव नासिकास्येति बहुव्रीहिः। द्रुशब्दोऽत्र शाखावचनः। `अञ्नासिकायाः सज्ञायां नसञ्चास्थूलात्` [[5.4.118]] इत्यच्? समासान्तनासिकायाश्च नसादेशः। `चर्मनासिकः` इति। चर्मविकारो नासिकास्येति `समुदायविकारषष्ठआश्च बहुव्रीहिरुत्तरपदलोपश्च` (दा।100) इति समासः। उपसर्जनह्रस्वत्वम्। `ऋगयन्म्` इति। ऋचोऽयनमिति षष्ठीसमासः। `अगः` इति शक्यमकर्तुम्, <<अणृगयनादिभ्यः>> [[4.3.73]] इति निपातनादेव ऋगयनमित्यत्र णत्वाभावः सिद्धः? नैतदस्ति; `अबाधकान्यपि निपातनानि भवन्ति` (पृ।प।वृ।00) इत्युक्तम्, तत्र यद्यग इति नोच्येत, तदा पक्ष ऋगयणमित्यपि विज्ञायेत। तस्यादग इति वक्तव्यम्। अथ किं पुनरिदं नियमार्थम्? उत्त विध्यर्थम्? इत्यत आह -`केचित्` इत्यादि। अपरे विध्यर्थमेतदिति वर्णयन्ति। अतः केचिदित्युक्तम्। ननु पूर्वसूत्रेण निमित्तनिमित्तिनोः समानपदस्थत्वे सति णत्वं विहितम्, न च द्रुणस इत्यादौ समासे कृते निमित्तनिमित्तिनोः समानपदस्थत्वमस्ति, निमित्तस्य पूर्वपदस्थत्वात्, निमित्तन उत्तरपदस्थात्वाच्च। एवञ्च पूर्वसूत्रेणाप्राप्तिरेव णत्वस्य, तत्? कथमस्य नियमार्थतोपपद्यते? इत्यत आह -`समासेऽपि` इत्यादि। यद्यति समासार्थाभ्यां पदाभ्यां या विभक्तिरुत्पन्ना तस्यां लुप्तायामपि तयोः प्रत्येकं प्रत्ययलक्षणेन पदसंज्ञायां सत्यां समासावयवापेक्षयाऽसमानपदताऽस्ति, तथापि समासाद्या विभक्तिरुत्पन्ना तया समुदायस्य पदसंज्ञायां सत्यां समुदायापेक्षया समानपदताऽस्त्येव। तस्मात्? सञासेऽपि समानपदे निमित्तनिमित्तनोर्बावादसति पूर्वेण प्राप्तिः; ततश्च नियमार्थमेतदिति स्थितम्। यद्येवम्, तर्हि यथा चर्मनासिक, इत्यत्रोत्तरपदस्थस्य नकारस्य णत्वं न भवति नियमेन व्यावर्त्तितत्वात्, तथा खरपस्यापत्यं खारपयणः -`नडादिभ्यः फक` [[4.1.99]] मातृभोगाय हितो मातृभोगीणः -`आत्मन्विआजनभोगोत्तरपदात्? खः` [[5.1.9]] इत्यत्र च तद्धितस्थस्यापि न स्यात्, तथा करणं प्रियमस्य करणप्रिय इत्यत्र पूर्वपदस्थस्यापि न स्यात्? अत आह -`स च` इत्यादि। सध्बन्धिशब्दो हि नियतमेव प्रतियोगिनं सन्निधापयति, [सन्निधापयन्ति -कांउ।पाठः, प्रांउ।पाठश्च] यथा हि `भातरि भक्त्या प्रवर्त्तितव्यम्` इत्युक्ते यद्यपि स्वस्यामिति नोच्यते, तथापि स्वस्यां मातरीति गम्यते; तथेहापि पूर्वपदमुत्तरपदमिति सम्बन्धिशब्दावेतौ -सति पूर्वपदत्वे उत्तरपदत्वं सम्भवति, सति चोत्तरपदत्वे पूर्वपदत्वं सम्भवति। पूर्वपदसन्निधानादुत्तरपदे सथिधापिते तस्यैवोत्तरपदस्थस्य नकारस्य नियमो णत्वं निवर्तयति - चर्मनासिक इत्यादौ, न सद्धितपूर्वपदस्यस्यापि। खारपायणो मातृभोगीण इत्यादौ यतायोगं तद्धितपूर्वपदस्थोनकारः, न तूत्तरपदस्थः। अयं तह्र्रस्मिन्नियमार्थे दोषः -`अगः` इति। प्रतिषेदो नियमस्यैव स्यात्, न तु णत्वस्य; नियमवाक्यैकदेशभूतत्वात्? प्रतिषेधस्य। ततः संज्ञायामसंज्ञायाञ्च गकाराण्णत्वं स्यात्। अत एवाह -`अगः` इत्यादि। अग इति योऽयं प्रतिषेधः स णत्वस्यैव, न नियमस्य। तल्मान्न भवत्येव दोषप्रसङ्गः। कथं पुनर्नियमवाक्यैकदेशभूतः सन्नेव प्रतिषेधो णत्वस्य विज्ञातुं शक्यः? इति प्रश्नावसर इदमुत्तरमाह -`योगविभागेन` इत्यादि। `पूर्वपदात्संज्ञायाम्` इत्येको योगः, `अगः` इति द्वितीयः; अनेन यावती काचिण्णत्वस्य प्राप्तिः सा सर्वा प्रतिषिध्यते, न त्वनन्तरमेव कार्यम्। अन्यथा योगविभागस्य वैयथ्र्य स्यात्। `अपरे तु` इत्यादि। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। अपरे त्वाचार्याः पूर्वसूत्रे समानमेव यन्नित्वं पदं तत्? समानपदमित्याश्रयन्ति। तदेतदुक्तं भवतदि -यदाऽवयवापेक्षा क्रियते तदापि यत्? समानपदम्; यदापि समुदायापेक्षा क्रियते, तदापि यत्? समानपदं तत्? समानपदमित्येवं परिगृह्लान्ति। कस्मात्? इत्यत आह -`समानग्रहणात्` इत्यादि। समानग्रहणं ह्रेवमर्थं क्रियते। एकपदाधिकरणत्वे सति निमित्तनिमित्तिनोर्णत्वं यथा स्यात्, भिन्नपदत्वे मा भूदिति। एतच्चाप्रयोजनम्; पदग्रहणादेवाल्यार्थस्य लब्धत्वात्। यदि भिन्नपदाधारत्वे सति णत्वं स्यात्, तदा पदग्रहणमनर्थकं स्यात्, व्यवच्छेद्याभावात्, न ह्रपदस्थौ तौ स्तः। तस्मात्? पदग्रहणसामर्थ्यादेवाभिन्नपदयोर्निमित्तनिमित्तनोर्णत्वं लभ्यते। तत्? पदग्रहणादेव समानपदे लब्धे समानग्रहणं क्रियमाणं नियमार्थं भवति -`नित्यं यत्? समानपदम्` इत्यभिप्रायः। `तेषाम्` इत्यादिना समानमेव यन्नित्यं पदं तत्? पूर्वसूत्रे य आश्रयन्ति, तन्मतेन विध्यर्थतामस्य दर्शयति। स्यादेतत् -समासेऽपि नित्यं समानपदमेवाश्रयो निमित्तनिमित्तिनोः, अत्रो नियमार्थमेतदुक्तम्, न विध्यर्थम्? इत्यत आह -`समासे हि` [`समासेऽपि` -प्रांउ।पाठः] इत्यादि। समासे ह्रवयवापेक्षयैतत्पूर्वपदमिति, एतदुत्तरपदमिति -एव विभागोऽस्ति, तस्मादसमामपदत्वमप्यस्ति। अपिशब्दात्समानपदत्वमपि। तत्र यदा पूर्वोत्तरवदापेक्षा भयति, तदा पूर्वोत्तरविभागादसमानपदत्वम्। यदा तु समुदायापेक्षा, तदा पूर्वोत्तरविभागाभावात्? समानपदत्वम्। अतो न समासे समानपदत्वं नित्यमेव॥", "84004": "वनमिति षष्ठीस्थाने सुब्ब्यत्ययेन प्रथमा। `पुरगावणम्` इति षष्ठीसमासः। <<वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्>> [[6.3.117]] इति पूर्वपदस्य दीर्घः। `अग्रेवणम्` इति। षष्ठोसमासः। तस्मिन्? कृते राजदन्तादिवद्वनशब्दस्य परनिपातः। <<हलदन्तात् सप्तम्याः संज्ञायाम्>> [[6.3.9]] इति सप्तम्या अलुक्। ननु च पूर्वेणैव णत्वं सिद्धम्, तत्किमर्थोऽयम्? इत्यत आह -`सिद्धे` इत्यादि। पुरगादिभ्यो वननकारस्यैवेति विपरीतनियमो नाशङ्कनीयः, पुरगादीनं कृतदीर्घाणां निर्देशात्। सह्रेवमर्थः क्रियते -यत्रैषां दीर्घत्वं तत्र नियमो यथा स्यात्, अन्यत्र मा भूदिति। अन्यता <<वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्>> [[6.3.117]] इत्यनेनैव दीर्घत्वे सिद्धे दौर्घोच्चारणं गौरवफलमेव केवलं स्यात्। तस्माद्यत्रैषां दीर्घत्वं तत्रैव नियमः। अतो व्यवच्छेद्यामाभावान्न भवति विपरीतनियमाशङ्का; न हि वनादन्यस्मिन्नमीषां पूर्वपदभूतानां दीर्घत्वमस्ति॥", "84005": "येऽत्रौषधिवनस्पतिशब्दा न भवन्ति प्रादयस्तेभ्यः संज्ञायाम् -यदि पूर्वसूत्रं नियमार्थम्, अथापि विध्यर्थम् -उभयथाप्यप्राप्तणत्वमनेन विधीयते। एवमसंज्ञायामपि विधिपक्षे। नियमपक्षे त्वसंज्ञायां निष्प्रयोजनोऽस्यारम्भः; असंज्ञायां नियमाभावात्, आद्याभ्यामेव सूत्राभ्यां यथायोगं णत्वस्य सिद्धत्वात्। इतरेषु शरादिष्विक्षुशरशपब्दावोषधिवचनौ। शेषाः प्लक्षादयो वनस्पतिवचनाः। तेभ्यः संज्ञायां विधिपक्षे नियमपक्षे चाप्राप्तं णत्वमनेन विधीयते। असंज्ञायां तु <<विभाषौषधिवनस्पतिभ्यः>> [[8.4.6]] इति विभाषा णत्वं प्राप्तं नित्यमनेन विधीयते। `असंज्ञायामपि` इत्यपिशब्दस्य व्यापारं दर्शयति -असत्यपिशब्दे संज्ञाधिकारादसंज्ञायां न स्यात्। अथ तु संज्ञाधिकारं निवर्त्त्यं समामान्येन विधीरुच्यते सदा शक्यते संज्ञाग्रहणमकर्त्तुम्? तत्? क्रियते विस्पष्टार्थम्। `प्रवणम्, निर्वणम्` इति। विभक्त्वर्थेऽयं `अव्ययम्` [[2.1.6]] इत्यादिनाऽण्ययीभावः। वनस्य मध्य इत्यर्थः। `शरवणम्` इत्यादयश्च षष्ठीसमासाः॥", "84006": "संज्ञायाम्? `षनं पुरगामिश्रका` [[8.4.4]] दिनियमादोषधिवनस्पतिभ्यः परस्य वननकारस्य णत्वेन न भवितव्यमिति पारिशेष्यादसंज्ञायां विभाषा वेदितव्या। परत्वादनया भिभाषया संज्ञायामपि भवितव्यमित्येतच्च नाशङ्कनीयम्; नियमे कर्तव्ये विभाषाया असिद्धत्वात्। अथ तु संज्ञायामसंज्ञायामपि विभाषेयमिष्यते, तदर्थं यत्नानन्तरमास्थेयम्। किं पुनस्तत्? विभाषेति योगविभागकरणम्। योगविभागे सत्येको योगो नियमबाधनार्थो विज्ञायत इति संज्ञायामपि विभाषा सिध्यति। असिद्धत्वं तु योगविभागसामर्थ्यान्न भविष्यति। अत्र समानग्रहणसामर्थ्यात्? समानमेव यन्नित्यं पदं तत्? समानपदमित्याश्रयन्ति ये, तेषामप्राप्तविभाषेयम्; अन्येषां तु प्राप्तविभाषा। बहुवचननिर्द्देशस्तु स्वरूपनिरासार्थः। `दूर्वावणम्` इत्येवमादयः षष्ठीसमासाः। `द्वयक्षरत्र्यक्षरेभ्य इति वक्तव्यम्` इति। अक्षरशब्दोऽत्राक्षु वर्तते। द्वे अक्षरे, त्रीणि वाक्षराणि येषां ते द्व्यक्षरत्र्यक्षाराः, ओषधिदनस्पतिशब्दाः, तेभ्यः परस्य वननकारस्य णत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् -व्यवस्थितभाषाविज्ञानाद्द्व्यक्षरत्र्यक्षरेभ्य एव भवति। एवमुत्तरत्रापि वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। व्याख्यानं तु व्यवस्थितविभाषामाश्रित्य कर्तव्यम्। ननु च शिरीषावयो वृक्षाः, न तु वनस्पतयः, न तु वनस्यतिग्रहणे न वृक्षस्य ग्रहणं भवति; तेषामत्यन्तभेदात्। तथा चोक्तं शास्त्रान्तरे `फली वनस्यतिज्र्ञेयो वृक्षाः पुष्पफलोपयाः` इति। तत्कथं शिरीषवणम्, वदरीवणमित्युदाहृतम्? इति यो देशयेत्? तं प्रत्याह -`फली वनस्पतिज्र्ञेयः` इति। यद्यप्यनेन श्लाकेन दृक्षवनस्पत्योर्भेदो दर्शितः, तथापि ततोरिहाभेदेन ग्रहणं वेदितव्यम्। अभेदग्रहणे तु तयोर्भाष्यकारवचनमेव लिङ्गम्; तथा हि <<लुपि युक्तवद्व्यक्तिवचने>> [[1.2.51]] इत्यत्र भाष्यकारेणोक्तम् -`व्यन्तिवचने इति किम्? शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीदवनम्`। यद्यत्र `व्यक्तिवचने` इति। नोच्यते, तदा वचनस्पतित्वमतिदिश्येत्, ततो वनस्पतित्वमतिदिश्येत, तत्र <<विभाषौषधिवनस्पतिभ्यः>> [[8.4.6]] इति णत्वं प्रसज्येत। यदि चेह वृक्षवनस्पत्योरभेदेव ग्रहणं न स्यात्, ततो वनस्पतित्वातिदेशाद्विभाषा णत्वप्रसञ्जनञ्च नोपपद्यते; शिरोषाणामवनस्पतित्वात्। `फली वनस्पतिज्र्ञेयः` इति। पुष्पमन्तरेण फलमात्रं यस्यास्तीति स फली वनस्पतिज्र्ञेय इति -उदुम्बरादयः। `वृक्षाः पुष्पफलोपगाः` इति। पुष्पं फलञ्चोपगच्छन्ति प्राप्नुवन्तीति पुष्पफलोपगाः। `अन्तात्यन्त` [[3.2.48]] इत्यादौ `अन्येष्यपि दृश्यते` (वा। 256) इत्युपसंख्यानाड्डप्रत्ययः। न च ये पुष्पफले उपगच्छन्ति त एव वृक्षाः, किं तर्हि? येऽन्यतरत्? पुष्पं फलं चोपगच्छन्ति तेऽपि वृक्षा। एव। तत्र वेतसादयः पुष्पमेदोपगच्छन्ति, प्लक्षादयः फलमेव; आम्रादयस्तूभयम्। तत्र यो वनस्पतिः स नियतं वृक्षो भवति, यस्तु वृक्षः स तु नावश्यं वनस्पतिः यथा -पुष्पोपगोश्च वृक्षा वेतसादयः, फलोपगाश्च प्लक्षादयः, पुष्पफलोपगाश्चाम्रादयः। `ओषध्यः फलपाकान्ताः` इति। ओषधिशब्दात्? `कृदिकारादिक्त्निः` (ग।सू।50) इति, `सर्वतोऽक्तिन्नर्थादित्यके` (ग।सू।51) इति बह्वादिपाठात्? ङीष्। फलपाकेनान्तो विनाशो यासां ताः फलपाकान्ता ओषध्यो विज्ञेयाः, कवल्यादयः। `लता गुल्माश्च वीरुचः` इति। लताः=प्रतानवत्थो मालत्यादयः। गुल्माः=ह्रस्वस्कन्धास्तरावः। वीरुषः=बहुप्रकाण्डपचा विज्ञेयाः॥", "84007": "`अह्नः` इति षष्ठ्याः स्थाने प्रथमा पूर्ववत्। समानमेव यन्नित्यं पदं तत्? समानग्रहणादाश्रयन्ति ये, तेषां विध्यर्थमेतत्। अन्येषां तु नियमार्थंम्। एवमुत्तरत्रापि नियमार्थता विध्यर्थता च यथायोगं वेदितव्या। `पूर्वाह्णाः` इत्यादि। पूर्वापरादिसूत्रेण [`पूर्वपरादि` -कांउ।पाठः, प्रांउ।पाठश्च] [[2.2.1]] एकदेशी समासः। `राजाहःसखिभ्यष्टच्` [[5.4.91]] इति टच्? समासान्तः। <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यह्नादेशः, सवर्णदीर्घः। `निरह्नः` इति। निर्गतमह्न इति प्रादिसमासः। शेषं पूर्वयत्। `दीर्घाह्नो` इति। दीर्घाव्यहानि यस्यामिति बहुव्रीहिः। टज्विचौ <<तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः>> [[5.4.86]] इत्यतस्तत्पुरुषग्रहणमनुवर्तते। तेन बहुव्रीहौ टज्न भवति। `अन उपधालोपिनोऽन्यतरस्याम्` [[4.1.28]] इति ङीप्, <<अल्लोपोऽनः>> [[6.4.134]] इत्युपधाकारलोपः। अत्राकारान्तग्रहणान्न भवति णत्वम्। यदि त्वनकारान्तस्य स्यात्, ततः `पूर्वाह्णः` इत्यत्र प्रत्ययात्प्राग्यथा व्यवस्थितस्याङ्नो नकारस्य णकारादेशो भवति, तथा `दीर्घाह्नी शरत` इत्यत्रापि स्यात्। अतोऽस्य ग्र्हणं हि व्याख्यानाद्विज्ञायते। तपरकरणात्? पराजितमहः `पराह्नः` इत्यत्र आकारान्तान्न भवति। अन्तग्रहणं विस्पष्टार्थम्। तपरेणाकारेम पूर्वपदे विशेष्यमाण तदन्तविधिर्भविष्यतीति विनाप्यन्तग्रहणतदन्तता लभ्यत इति।", "84008": "उह्रतेऽनेनेति करणे ल्युट्। अत एव निपातनादुपधादीर्घः। `इक्षुवाहणम्` इति। इक्षूणां वाहनमिति कृद्योगलक्षमायाः कर्मणि षष्ठ्याः समासः। `वाहमे यदारोपितं तदाहितमुच्यते` इति। अनेकार्थत्वाद्धातूनां दधातिस्तत्र वर्तते। आहितमिति भूतकालोऽत्र न विवक्षितः। <<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति कालसामान्ये क्तो विधीयते। तेन यदापि वाहने वाहनार्थमिक्ष्वादिकमारोपितं न भवति, तदर्थं तु केवलमुपकस्पितं भूतलस्थितम्, तदापि भवत्येव। `दाक्षिवाहनम्` इति। अत्र दाक्षिस्वामिकवाहनमेव प्रतीयते, न त्वाहितत्वम्। अत एवाह`दाक्षिस्वामिकं वाहनमित्यर्थः` इति। अत्र शब्दशक्तिर्हेतुः॥", "84009": "`देशाभिधाने` इति। गम्यमान इति शेषः। `क्षीरं पानं येषाम्` इत।[`इति` -नास्ति -प्रांउ।पाठे] कर्तरि कृद्योगलक्षणा षष्ठी। `क्षीरपाणा उशीनराः` इति। अतिशयोऽत्र प्रतीयते, न तु क्षीरपानसम्बन्धमात्रम्; तस्यान्यत्रापि सम्भवात्। ननु च क्षीरपाणादयः शब्दा मनुष्ये वर्तन्ते, तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव, तत कथमिह देशाभिधानं गम्यते? नैतदस्ति; उशोनरादिदेशवासिनां तात्स्थ्यात्? तथा प्रतीयमानत्वादुशीनरादिदेशसम्बन्धद्वारेण मनुष्येषूशीनराख्या। उशीनरादयोऽपि शब्दाः संज्ञात्वेन प्राग्देशेष्वेव प्रवृत्ताः। क्रोशन्ति` इत्यत्र मञ्चसम्बन्धद्वारेण मनुष्येष्वपि वर्तमाना ये मञ्चशब्दास्तेषां मञ्चाभिदानं गम्यते। यदि तेषां मञ्चाभिधानं न गम्यतेत, तदा मञ्चाधारविशिष्टाः पुरुषाः कथं प्रतीयेरन्!॥", "84010": "आदेशार्थोऽयमारम्भः। `क्षीरपाणम्` इति। पीतिः=पानम्, `नपुंसके भादे क्तः` [[3.3.114]] इत्यनुवर्तमाने `ल्युट्? च` [[3.3.115]] इति ल्युट्प्रत्ययः। `क्षीरपाणः कंसः` इति। पोयतेऽनेनेति पानः, <<करणाधिकरणयोश्च>> [[3.3.117]] इति ल्युट्। `वाप्रकरणे` इत्यादि। उपसंख्यानशब्दस्य चेह प्रतिपादनमर्थः। अस्मिन्? वाप्रकरणे गिरिनदीप्रभृतीनां यो नकारस्तस्य णत्वप्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -उत्तरसूत्रेऽनुक्तसमुच्चयार्थश्चकारः। तेन गिरिनदीप्रभृतीनां यो नकारस्तस्य णत्वं वा भविष्यतीति॥", "84011": "अन्तशब्दोऽवयवववाची। `माषवापिणौ` इति। <<बहुलमाभीक्ष्ण्ये>> [[3.2.81]] इति णिनिः, न तु `सुप्यजाती णिनिस्ताच्छील्ये` [[3.2.78]] इति; जातिवाचित्वादुपपदस्य। `माषवापाणि` इत्युपपदसमासः, माषान्? वपन्तीति <<कर्मण्यण्>> [[3.2.1]] , <<जश्शसोः शिः>> [[7.1.20]] इति शिरादेशः; <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुम्, <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति दीर्घः। `माषवापेण` इति। माधवापशब्दात्? तृतीयैकवचनस्य <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इतीनादेशः।अथह कस्मान्न भवति -गर्गाणाअं भगिनो गर्गभगिनीति, अत्रापि गर्गशब्दात्? परो भगिन्नित्येष शब्दः प्रातिपदिकम्, तस्य चान्तो नकारो भवतीत्यस्ति प्राप्तिः? इत्यत आह -`पूर्वपदाधिकारात्` इत्यादि। `पूर्वपदात्संज्ञायामगः` [[8.4.3]] इत्यतः `पूर्वपदात्` इत्यनुवर्तते, पूर्वशब्दस्य सम्बन्दिशब्दत्वात्, यदपेक्षया तस्य पूर्वपदत्वं तदेवोत्तरपदमुपस्थापयति। तेन यद्यपीह प्रातिपदिकस्य विशेषो नोपात्तः, तथाप्युत्ततरपदं यत्? प्रातिपदिकं तदन्तस्य नकारस्यैव णकारादेशो भवति। `इह हि न भवति` इति। हिशब्दो हेतौ। यस्मात्? पूर्वपदाधिकारादुत्तरपदं यत्? प्रातिपदिकं तदन्तस्यैव नकारस्य णत्वं विज्ञायते, तस्माद्गर्गभगिनीत्यत्र न भवति। न ह्यत्र भगिन्नित्येतच्छब्दरूपमृत्तरपदम्, किं तर्हि? भगिनीत्येव शब्दः, स च प्रातिपदिकं न भवति; `अप्रत्ययः` [[1.2.45]] इति निषेधात। न च तस्यान्तो नकारः, किं तर्हि? ईकारः। ननु गर्गभगिणीत्ययमपि च प्रयोगो दृशर्यते, स चैवं सति नोपपद्यते? इत्यत आह -`यदा तु` इत्यादि। यदा तु गर्गाणां भगिनीत्येवं व्युत्पत्तिः, तदा न भवितव्यं णत्वेन। यदा तु गर्गस्य भग इति भगशब्देन षष्ठीसमासं कृत्वा, ततः स्त्रियां मत्वर्य इञिः -इति व्युत्पाद्यते, तदैवं व्युत्पत्तौ सत्यां यथा मातृभोगीण इत्यत्र नित्यं णत्वं भवति, तता गर्गभगिणीत्यत्रापि णत्वेन भवितव्यम्। `मातृभोगीणवत्` इत्यनेन तदापि नानेन सूत्रेण वा णत्वम्, किं तर्हि? लक्षणान्तरेणेति दर्शयति। तेनैतदुक्तं भवति -यदैवं व्युत्पत्तिर्भवति तदा यथा मातृबोगीण इत्यत्र अट्कुप्वादिना [[8.4.2]] नित्यं तद्धितस्य नकारस्य णत्वं भवति; तथा गर्गभगिणीत्यत्रापि। अत्र तद्धितस्थ एव नकारः, न तूत्तरपदस्थः। अत एव भिन्नपदस्थता निमित्तनिमित्तिनोर्नाशङ्कनीया। यथा `पूर्वपदात्संज्ञायामगः` [[8.4.3]] इत्यनेन नियमेन णत्वं न निवर्त्त्यते, तथा तत्रैव प्रतिपादितम्। यद्युत्तरपदं यत्प्रातिपदिकं तदन्तस्य नकारस्य णकारेण भवितव्यम्, एवं सति माषवापिणी, माषवापिनीत्यत्र विभाषा णत्वं न प्राप्नोति। अत्र वापिनौशब्द एवोत्तरपदम्, न वापिन्नित्येतच्छब्दः? इत्यत आह -`माववापिनीत्यत्र तु` इत्यादि। अत्र हि प्राक्? सुबुत्पत्तेः कृदन्तेनैव वापिन्नित्यनेन समासे कृते सति प्रातिपदिकस्यान्तो नकारो भवति; वापिन्नित्येतस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकत्वात्। तस्माद्भवत्येवात्र णत्वमिति। कथं पुनः प्राक्सुबुत्पत्तेः समासे सत्युत्तरपदस्यान्तो नकार उपपद्यते? यावता <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन सुबन्तस्य तिङन्तस्य च पदमित्येषा संज्ञा विहिता। तत्रासत्यां सुबुत्पत्तौ पदत्वमत्र न सम्भवति। कुतः पुनरेतदुत्तरपदमित्येष विशेषः? रूढित्वाददोषः। पूर्वपदोत्तरपदशब्दावेदौ रूढिशब्दौ; यस्मात्? समासे कृते यः कश्चिच्छब्दः पूर्वपदमिति प्रसिद्धः, यः कश्चिदुत्तरपदमिति। सा च रूढिर्न सुबन्तेष्वेव समासावयवेषु सम्भवति; किं तर्हि? असुबन्तेष्वपि केषुचिदिति। तत्? किमत्र नोपपद्यते पूर्वोत्तरपदन्यवहारः! `तथात्र` इत्यादिना यदुक्तम्? `पूर्वपदाधिकारादुत्तरस्य` इति तद्द्रढयति। यत एवमुत्तरपदस्य प्रातिपदिकस्य योऽन्त्यो न कारस्तस्यैव णत्वं भवति, नान्यस्येत्ययमत्रार्थः। एवञ्च कृत्वा नुम्ग्रहणं कृतम्। कस्मात्? पुनरस्मिन्नर्थे सति नुमो न सिध्यति, यतस्तदुपादानं कृतम्? इत्यत आह -`स हि` इत्यादि। अङ्गस्य नुम्विधानात्। माषवापानीत्यत्र समुदायस्याङ्गत्वात्? समुदायात्मनोऽङ्गस्य भक्तो नुम्; नोत्तरपदस्य। ततश्चोत्तरपदस्यान्तो नुम्? न भवति। तत्र यदि नुम्ग्रहणं न क्रियेत तदा णत्वं न स्यादित्यभिप्रायः। यदि पुनः प्रातिपदिकस्यानुत्तरपदभूतस्यापि योऽन्तो नकारः, तस्य णत्वं विधीयते, तदा नुम्ग्रहणं न कर्तव्यमेव, प्रातिपदिकान्तस्येत्येव सिद्धत्वात्। भवति हि माषवापिनीत्यत्रापि समासे सति प्रातिपदिकस्यान्तो नकारः।`वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -`वा` [[8.4.10]] इति वर्तते, सा च व्यवस्थितविभाषा, तेन युवादीनां णत्वेन न भवितव्यम्। `आर्ययूना` इति। विशेषणसमासः, `आयुवमघोनामतद्धिते` [[6.4.133]] इति सम्प्रसारणम्, <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपत्वम्, <<अकः सवर्णे दीर्घः>> [[6.1.101]] `प्रपक्वानि` इति। गतिसमासः। चकारस्य पूर्वोक्तमेव प्रयोजनम्॥", "84012": "`वृत्रहणौ` इति। `ब्राहृभ्रूण` [[3.2.87]] इति क्विप्। `क्षीरपाणि` इति। पिबतेः पातेर्वा<<आतोऽनुपसर्गे कः>> [[3.2.3]] , <<आतो लोप इटि च>> [[6.4.64]] इत्याकारलोपः। `सुरापाणि` इति। पिबतेः `गापोष्टक` [[3.2.8]] । पातेर्वा पूर्ववत्? कः। अथ णग्रहणं किमर्थम्, यावता `णः` [[8.4.1]] इत्यनुवर्तत एव? नित्यार्थमिति चेत्? स्यादेतत् -वेति प्रकृतम्, तत्रासति पुनर्णग्रहणे विकल्पः प्रसज्येत, तस्मान्नित्यं यथा स्यादित्येवमर्थं पुनर्णगहणं कृतमिति? एतच्चायुक्तम्, पूर्वेणैव विकल्पः सिद्धः। तत्रारम्भसामर्थ्यादेवायं विधिर्नित्यो भविष्यति? इत्यत आह -`ण इत्यनुवर्तमाने` इत्यादि। विकल्पाधिकारस्यास्वरितत्वाद्या निवृत्तिस्तस्या विस्पष्टार्थं पूनर्णग्रहणम्। असति हि णग्रहणे कश्चिन्मन्दबुद्धिरेवं मन्येत -अनृवर्तत एव वाग्रहणम्, तस्मस्त्वनुवर्तमानेऽप्यारम्भसामर्थ्यादयं दिधिर्नित्यो भविष्यति, उत्तरस्तु पाक्षिक एवेति॥", "84013": "अनेकाजुत्तरपदार्थ आरम्भः। चकारः `प्रातिपदिकान्तनुम्विभक्षि च` [[8.4.11]] इत्यनुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति चानुकृष्टपरिभाषया (व्या।प।76)। `वस्त्रयुगिणौ` इति। <<अत इनिठनौ>> [[5.2.115]] इतीनिः। `को` इति कर्तव्ये कुमतीति वजनमकवर्गादावपि यता स्यात्; इतरथा हि `यस्मिन्विधिस्तदावल्ग्रहणे` (व्या।प।127) इति कवर्गादेरेव स्यात्। दपन वापः, कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवापः -`अत इतिठनौ` [[5.2.114]] इतीनिः। माषकुम्भवापिणावित्यत्र स्यात्, वस्त्रयुगिणाअवित्यत्र न स्यादिति॥", "84014": "`णोपदेशस्य` इति। ण उपदेशे यस्य स णोपदेशः -गमकत्वादैयधिकरण्ये बहुव्रीहिः। अथ वा -उपविश्यते प्रथमत उच्चार्यत इत्युपदेशः, ण उपदेशो यस्येति समानाधिकरण एव बहुव्रीहिः। `प्रणमति` इति। `णम प्रह्वत्वे शब्दे च` (धातुपाठः- 981)। `प्राणायकः` इति। `णोञ्? प्रापणे` (धातुपाठः- 901), ण्वुल्, प्रादिसमासः। `प्रनायको देशः` इति। अत्र गर्मि प्रति क्रियायुक्तत्वात्? प्रशब्दस्य गमिमेव प्रत्युपसर्गत्वम्, न नयतिं प्रति, यं प्रति प्रयुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञाविधानात्। `असमासेऽपीति किम्` इति। विनाऽप्यनेन विशेषानुपादानात्? समासेऽसमासेऽपि भविष्यतीति भावः। `पूर्वपदाधिकारात्` इत्यादि। पूर्वपदात्? [[8.4.3]] इति वर्तते। असमासे भवति पूर्वपदत्वम्। रूढिशब्दो हि पूर्वपदशब्दः पूर्वमाश्रितः, स एव चेहानुवर्तते, स च समास एव संभवति, ततश्च समासेऽपीत्युच्यमाने `समास एव स्यात्` इति। इतिकरणो हेतौ। यस्मादसति तस्मिन्नेष दोषस्तस्मात्? तस्य पूर्वपदस्य निवृतिंत द्योतयितुम्? `असमासेऽपि` इत्युच्यते। द्योतनग्रहणेनैतदाचष्टे -नानेन तस्य निवृत्तिः क्रियते, किं तर्हि? अस्वरितत्वादविद्यमानतैव केवलं प्रकाश्यत इति। तदेतदुक्तं भवति -मन्दबुद्धिर्य एवं प्रतिपत्तुमसमर्थस्तं प्रति विस्पष्टीकरणार्थमसमासेऽपीत्युच्यत इति। `प्रनर्दति` इति। `नर्द गर्द शब्दे` (धातुपाठः-56,57)। सत्यप्यच्परत्वेऽच्परोऽयं णोपदेशो न भवति; `नृतिनर्दिनन्दिनक्किनाथृनवर्जम्` (म।भा।) इत्यपवादविधानात्॥", "84015": "`प्रणिणोति` इति। `हि गतौ` [गतौ वृद्धौ च -धातुपाठः-] (धातुपाठः-1257), <<स्वादिभ्यः श्नुः>> [[3.1.73]] , गुणः। `प्रमीणाति` इति। `मी हिंसायाम्` [`मीञ्` -धातुपाठः-] (धातुपाठः-1476), क्र्यादित्वात्? शना। `प्रमीणीतः` इति। <<ई हल्यघोः>> [[6.4.113]] इतीत्वम्। अथ कथं प्रहिणोति, प्रमीणीत इत्यत्र णत्वम्, यावता `हिनुमीना` इति स्वरूपयोग्र्रहणम्, न चात्र गुणादौ विकारे कृते ते रूपे स्तः; तस्माच्चात्रैव भवितव्यम् -प्रहिणुतः, प्रमीणातीति? अजादेशस्य स्थानिवद्भावात्, एकदेशविकृतस्यानन्यत्वाद्वा भविष्यतीत्यदोषः। ननु प्रतिषिध्यते स्थानिवद्भावः -`पूर्वत्रासिद्धीये न स्थानिवत्` (जै।प।वृ।48) इति? दोव एवायमत्याः परिभाषायाः; तथा चोक्तम् -`अस्या दोषः संयोगादिलोपत्वणत्वेषु` [`तस्य` -इति वार्तिके पाठः] (1.1.59 वा।9।) इति। अथ `हिमीभ्याम्` इत्येवं कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्, अविकरणनकारस्यापि स्यात् -प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, `अन्येभ्योऽपि दृश्यन्ते` अविकरणनकारस्यापि स्यात् -प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति विच्। गुणः। प्रमीणातीत#इ प्रमीः, क्विप्। प्रहेर्नर्दनम्, प्रम्यो नर्दनमिति षष्ठीसमासः॥", "84016": "`प्रवपाणि` इति। वपेर्लोट्। मिप्। <<मेर्निः>> [[3.4.89]] । आडुत्तमस्य पिच्च` [[3.4.92]] इत्याट्। `प्रयाणि` इति। `या प्रापणे` (धातुपाठः-1049)। `प्रवपानि मांसानि` इति। प्रकृष्टा वपा येषामिति बहुव्रीहिः, `जश्शसोः शि` [[7.1.20]] इति शिरादेशः, <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुम्, <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति दीर्घः -प्रवपानीति। अत्र लोड्ग्रहणान्न भवति। `प्रातिपदिकान्तनुम्विभक्तकिषु च` [[8.4.11]] इत्यनेन तर्हि कस्मान्न भवतीति? भवत्येव पक्षे। ननु चोपसर्गादिति वर्तते, न चानिं प्रति प्रशब्दस्योपसर्गत्वम्। किं तर्हि? अपिं [`कृषिं` इति प्रांउ।पाठः] प्रति, तस्मादुपसर्गत्वाभावादेव न भविष्यतीति किं लोङ्ग्रहणेन? नैतदस्ति; मूलोदाहरणेष्वपि तर्हि न स्यात्। अत्र हि धातुं प्रत्युपसर्गत्वम्, नानिं प्रति। तस्मात्? सामर्थ्यादिहोपसर्गग्रहणमनुवर्तमानं प्राद्युपलक्षणार्थं विज्ञायते, -यथा -`अञ्नासिकायाः संज्ञायां नसञ्चास्थूलात्` [[5.4.118]] । <<उपसर्गाच्च>> [[5.4.119]] इत्यत्रोपसर्गग्रहणं प्राद्युपलक्षणार्थम्। ततश्चासति लोज्ग्रहणे स्यादेव णत्वमिति तन्निवृत्त्यर्थं लोडित्युच्यते। नन्वेवयपि न कर्तव्यं लोड्ग्रहणम्, `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यर्थवतो ह्रानिशब्दस्येदं ग्रहणम्, न हि प्रवपानि मांसानीत्यत्रानिशब्दोऽर्थवान्, किं तर्हि? इकारः? एवं तह्र्रतज्ज्ञापयति -अनित्यैषा परिभाषेति। तेन <<इन्हन्पूषार्यम्णां शौ>> [[6.4.12]] इत्यत्रानर्थकस्यापीनो ग्रहणे सति बहुवाग्मीनि ब्राआहृणकुलानीत्यत्रापि दीर्घत्वं सिद्धं भवति।आनीत्याकारोच्चारणं किमर्थम्? यदाऽडागमो न भवति तदा शुद्धस्य निशब्दस्य स्यादित्येवमर्थम्। [`भूदित्येवमर्थम् -प्रांउ।पाठः]ननु च नित्यमेवाडागमेव भवितव्यम्, न हि तद्विधौ विकल्पोऽस्ति? एवं तह्र्रेतज्ज्ञापयति -अनित्यमागमशासनमिति। तेनापि `शाकं पचानस्य सुखा वै मधवन्? गृहाः` इत्यादयः प्रयोगाः सिद्धा भवन्तीति॥", "84017": "`धु` इति धुसंज्ञकानां ग्रहणम्। `मा` इति `माङ्? माने` (दा।पा।1142), `मेङ् प्रणिदाने` (धातुपाठः-961) इत्येतयोग्र्रहणम्; न तु `मीञ्? हिंसायाम्` (धातुपाठः-1476), `डु मिञ्? प्रक्षेपणे` (धातुपाठः-1250) -इत्येतयोः <<मीनातिमिनोतिदीङां ल्यपि च>> [[6.1.50]] इति कृतात्त्वयोः, नापि `मा माने` (धातुपाठः-1062) इत्येतस्य। ननु च `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति सर्वेवामेव ग्रहणेन भवितव्यम्, तत्? कथं माङ्मेङोरेव ग्रहणं लभ्यते? नैतदस्ति; इह `द्वन्देव धि` [[2.2.32]] `अल्पाच्तरम्` [[2.2.34]] इति वचनमपेक्ष्य `घु` इत्येतस्य पूर्वनिपातमकुर्वता नात्र वचनानुरोधेन प्रवर्त्तितष्यम्, अपि त्विच्छयेति सूचितम्। तेन यत्रेच्छा भवति स एव गृह्रते। इच्छालक्ष्यानुरोधान्माङमेङोरेव ग्रहणं भवतीति युक्तम्। अत एवेच्छयां प्रवर्त्तितव्यमिति सूचनाद्यदापि मेङ आत्त्वाभावे मेत्येतद्रूपं न सम्भवति, तदापि तस्य ग्रहणं भवत्येव -प्रणिमयत इति। `प्रतिपद्यते` इति। दिवादित्वाच्छ्यन्, अनुदात्तेत्त्वादात्मनेपदम्। `प्रणिमिमीते` इति। जुहोत्यादित्वात्? श्लुः, `श्लौ` [[6.1.10]] इति द्विर्वचनम्, `भृञामित्` [[7.4.76]] इत्यभ्यासस्येत्त्वम्, <<ई हल्यघोः>> [[6.4.113]] इतीत्त्वम्। `प्रणिष्यति` इति। <<ओतः श्यनि>> [[7.3.71]] इत्योकारलोपः, `उपसर्गात्? सुनोति` [[8.3.65]] इति षत्वम्। `प्रणिहन्ति` इत्यादिषु `प्रणिप्साति` इति पर्यन्तेष्वदादित्वाच्छपो लुक्। `प्रणिशाभ्यति` इति। `शमामष्टानां दीर्घः` [[7.3.74]] इति दीर्घः। `प्रणिदेग्धि` इति। `दिह उपचये` (धातुपाठः-1015), लट्, पूर्ववच्छपो लुक्, `दादेर्धातोर्घः` (8।232) इति घत्वम्, `शषस्तथोर्धोऽर्थः` [[8.2.40]] इति धत्वम्, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम् -गकारः। इह गदादीनां सप्तम्या निर्दिष्टत्वात्? <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति निर्दिष्टग्रहमस्यानन्तर्यार्थत्वावड्व्यवधानान्न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह -`अड्व्यवायेऽपि` इति। कथं पुनरिष्यमाणमड्व्यवाये णत्वं लभ्यते? अत्र चकारस्यानुक्तसमुच्चयार्थत्वात्, निव्यविभ्योऽड्व्यवायेऽपि` [निव्यभिभ्येऽड्व्यवाये वा छन्दसि` इति सत्रम्। इत्यतो मणाडूकप्लुतिन्यायेन `अड्व्यवाये` इत्यस्यानुवृत्तेर्वा। ननु चाटो गदादिभक्तत्वात्? तस्य ग्रहणेनैव ग्रहणम्, तत्? कुतो व्यावायः? नैतदस्ति; अङ्गस्य ह्रडागम उच्यते, विकरणान्तञ्चाङ्गम्। स ह्रङ्गस्य सङ्घातस्य भक्तः न गदादिमात्रस्य। अतो न शक्यते गदादिग्रहणेन ग्रहीतुम्॥", "84018": "`उपसर्गात्` [[8.4.14]] इति वर्तते। उपसर्गत्वं च यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति भवति। धातुरेव क्रियावची, तमेव प्रति प्रादीनामुपसरग्त्वम्। ततश्चोपसर्गग्रहणेन धातौ सन्निधापिते तस्यैवाकखादित्वमषान्तत्वं च विशेषणं विज्ञायते, इत्यत आह -`अककारादिरखकारादिरषान्त उपदेशे यो धातुः` इति। आद्यन्तग्रहणे उभे अपि विस्पष्टार्थे; `अकखे अषे` इत्येषं सिद्धत्वात्। यदि सर्वैरेवाककारादिभिस्तदादिधिधिस्तदन्तविधिर्वा स्यात्, तदा सर्वेषां द्वन्द्वं कृत्वा `अकखषे` इत्येवं ब्राऊयात्। `अकखे अषे` इति वचनात्? केनचित्? तदादिविधिः, केनचित्? तदन्तविधिरिति विज्ञायते। अत्र त्वेतावान्? सन्देहः स्यात् -केन तदादिविधिः, केन वा तदन्तविधिरिति, स चापि व्यास्यानान्निवर्त्तिष्यत इति। शेषग्रहणमिति स्पष्टार्थम्। यदि च गदादिषु विभाषा स्यात्, पूर्वयोगो निरर्थकः स्यात्। उपदेशग्रहणमपि स्पष्टार्थमेव। शक्यते तद्धि <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इत्यतोऽनुवर्तयितुमुपदेशग्रहणं मण्डूकप्लुतिन्यायेन।`प्रनिपिनष्टि` इति। `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452), <<रुधादिभ्यः श्नम्>> [[3.1.78]] । `इह च प्रतिषेधः` इत्यादि। `प्रतिपेक्ष्यति` इति। पिणेः षकारस्य <<षढोः कः सि>> [[8.2.41]] इति कत्वेऽकखादित्वादवान्तत्वाच्चासत्युपदेशग्रहणे प्रतिषेधो न स्यात्। अस्मस्तु सति न भवति, उपदेशे षकारान्तत्वादिति। `इह च मा भूत्` इति। प्रतिषेध इत्यपेक्ष्यते। `प्रणिदेष्टा` इति। अत्र `विश प्रवेशने` (धातुपाठः-1424) इत्येतस्य व्रश्चादिसूत्रेण [[8.2.36]] षत्वे कृते षकारान्तत्वादुपदेशग्रहणेऽसति प्रतिषेधः स्यात्। अस्मस्तु सति न भवति। अपि चोपदेशग्रहणेऽसति प्रणिचकार, प्रचिचखादेत्यभ्यासस्य <<कुहोश्चुः>> [[7.4.62]] इति चुत्वे प्रतिषेधो न स्यात्; अकखादित्वात्। अस्मस्तु सति भवति॥", "84019": "", "84020": "", "84021": "नकारोऽयमडादोनामेकोऽपि न भवतीति। ततो द्विवचने कृते सत्यभ्यासनकारेण व्यवहितत्वादितरस्य नकारस्य न स्यात्, इष्यते च। तस्मात्? तस्यापि यथा स्यादितीदमारम्यते। `प्राणिणिषति` इति। सम्, इट्, <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति `सम्यङोः` [[6.1.9]] इत्यनेन निशब्दो द्विरुच्यते। `प्राणिणत्` इति। ण्यन्ताल्लुङ्, णिलोपः, तस्य <<द्विर्वचनेऽचि>> [[1.1.59]] इति स्थानिवद्भावान्निशब्दस्य द्विर्वचनम्। `पूर्वत्रासिद्धीयम्` इत्यादि। `पूर्वात्रासिद्धीयमद्विरवचने` (जै।प।वृ।70) इत्येतस्मिन्नसति द्विर्वचन कर्तव्ये णत्वस्यासिद्धत्वात्? प्राग्द्धिर्वचनेन भवितव्यम्। अत्रास्मिन्? सूत्रेऽसति प्रथमेन नकारेम व्यवाये द्वितीयस्य `अनितेः` [[8.4.19]] इत्यनेन णत्वं न स्यादिति प्राणिणिषतीत्यादि न सिध्यति। अस्मस्तु <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यस्यापवादे सति `अनितेः` [[8.4.19]] इत्यनेन परत्वाण्णत्वमेव क्रियते। ततः कृतण्त्वस्य द्विर्वचने कृते सिद्धमेवैतदन्तरेणाप्येतत्? सूत्रम्। यद्येवम्, किमर्थमिदमारभ्यते? इत्यत आह -`एतत्तु` इत्यादि। शक्यार्थे कृत्यः। इतिकरणो हेतौ। तु शब्दोऽयभवधारणे। यस्मात्तदपवादवचनं नैव शक्याश्रयितुम्, तस्मात्? सूत्रमिदमारभ्यते। यदि हि तदेदाश्रीयेत,[`तदेवाश्रीयते` -प्रांउ।पाठः] तदेदं सूत्रं न कर्तव्यं स्यात्, ततश्चास्यापवादवचनस्यासर्वविषयता न विज्ञायते। एवमूढमाख्यदौजढदित्यत्र पूर्वत्रासिद्धस्याभावाड्ढत्वादीनमसिद्धत्वात्? `हत्` इत्र्येतस्य द्विर्वचनं न स्यात्। अस्मस्तु सूत्रे सति तस्यापवादवचनस्यासर्वविषयता विज्ञायते। तेनौजढवित्यत्र ढत्वादीनामसिद्धत्वात्? `हत्` इत्येतस्य द्विर्वचनं भवति। अतोभाविति किमर्थम्, यावता पूर्वस्य नकारस्य पूर्वसूत्रेणैव णत्वं सिद्धम्, इतरस्य त्वारम्भसामर्थ्यात्। अन्तरेणापि `उभौ` इति वचनं णकारस्य व्यवायेप्यनेन भविष्यति? एवं मन्यते -`साभ्यासस्य` इत्येतावत्युच्यमाने यथा <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति द्विर्वचनमारभ्यमाणं प्रथमद्विर्वचनस्यापवादौ विज्ञायते तथेहाप्यनडादिव्यवाये द्वितीयस्य नकारस्य णत्वमारभ्यमाणं पूर्वस्यापवादो विज्ञायते। `साभ्यासस्य` इति वचनं विस्पष्टार्थम्; उभावित्यनेनैव सिद्धत्वात्। न ह्रनभ्यासस्यानितेरुभौ नकारौ सम्भवतः॥", "84022": "हन्तेरित्यवयवलक्षणा षष्ठी। `अत्पूर्वस्य` इति। अत्पूर्वो यस्मादिति बहुव्रीहिः। नकारोऽन्यपदार्थः। `प्रहण्यते` इति। `हन हिंसागत्योः` (धातुपाठः-1012) <<भावकर्मणोः>> [[1.3.13]] इत्यात्मनेपदम्। `प्रध्नन्ति` इति। `गमहन` [[6.4.98]] इत्यादिनोपधालोपः। `हो हन्तेर्ञ्णिश्नेषु` [[7.3.54]] इति कुत्वम्। `प्राधानि` इति। लुङ्, `चिण्भावकर्मणोः` [[3.1.66]] इति च्लेश्चिण्, <<अत उपधायाः>> [[7.2.116]] इति वृद्धिः, <<चिणो लुक्>> [[6.4.104]] इति तकारसय लुक्। शितपा निर्देशो धातुनिर्देशारथ एव, न यङ्लुन्निवृत्त्यर्थः। `प्रजङ्घनीति` इति। द्विर्वचने चुत्वे जश्त्वे कृते परस्य नकारलस्य जकारेम व्यवधानाण्णात्वं न भविष्यतीति। पूर्वस्य तु <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनुस्वारे सत्यनुस्वारी भूतत्वाच्च। अत इति कर्तव्ये `पूर्वस्य` इति वचनं वैचित्र्यार्थम्॥", "84023": "पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्। वाग्रहणं पूर्वविधीनां नित्यत्वज्ञापनार्थम्; अन्यथा हि योगारम्भसामर्थ्यादेवास्य विधेर्नित्यत्वं [विधिः -प्रांउ।पाठः; कांउ।पाठश्च] विज्ञायेत, पूर्वेषां तु विधीनां <<शेषे विभाषा>> [[8.1.50]] इत्यतो विभाषाग्रहणस्यानुवृत्तेः पाक्षिकत्वं स्यात्। इह तु वाग्रहणे द्वयोर्विभाषयोर्मध्ये ये विधयस्त एवह नित्या इति तेषां नित्यत्वं विज्ञायते॥", "84024": "<<अन्तरपरिग्रहे>> [[1.4.65]] इत्यत्र `अन्तःशब्दस्याङ्क्रिविधिणत्वेषूपसर्गसंज्ञा वक्तव्या` (वा।71) इत्यनेन णत्वविधावुपसर्गसंज्ञाया विद्यमानत्वात्? <<हन्तेरत्पूर्वस्य>> [[8.4.22]] इत्यनेनैव णत्वे सिद्धेऽदेशार्चोऽस्य योगस्यारम्भः। `अन्तर्हणनम्` इति। अत्र भावे ल्युट्। मध्ये हननमित्यर्थः। <<अन्तरपरिग्रहे>> [[1.4.65]] इति गतिसंज्ञकत्वात्? <<कुगतिप्रादयः>> [[2.2.18]] इति समासः। `अन्तर्हननो देशः` इति। अधिकरणे ल्युट्। अन्तः-शब्दादबन्तस्य हन्तेः -अन्तर्धणो देश इति निपातनादेव देशाभिधानेऽपि णत्वं भवति॥", "84025": "`अयनम्` इति। अयतेः, इणो वा ल्युटि रूपम्। <<कृत्यचः>> [[8.4.29]] इत्यनेनैव सिद्धेऽदेशप्रतिविधानार्थ वचनम्। चकारेणादेशग्रहणमुपसर्गग्रहणं चानुकृष्यते। तेषामुत्तरत्रानुवृत्तिनिरासार्थम्॥", "84026": "अवगृह्रते विच्छिद्य पठत इत्यवग्रहः ऋच्चासाववग्रहश्चेति ऋदवग्रहः। ऋकारात्, अवग्रहात्, पूर्वपदात् -इत्येतास्तिरुआः समानाधिकरणाः पञ्चम्यः। ऋकारमात्रं च पूर्वपदं न भवतीति सामर्थ्यात्पूर्वपदैकदेश ऋकारे पूर्वपदशब्दो वर्तत इति दर्शयति। समुदयेषु हि यवृत्ताः शब्दाः क्वचिदवयवेष्वपि वर्तन्त इति, यथा -पटो दग्ध इत्यत्र [`इत्यत` -प्रांउद्रितः पाठः] पटैकदेशे पटशब्दः। `नृमणाः` इति। नरि मनोऽस्येति बहुव्रीहिः। <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति दीर्घः। `पितृयाणम्` इति। यान्त्यनेनेति यानम्, करणे ल्युट्। पितुर्यानमिति षष्ठीसमासः। `अत्र हि` इत्यादिना ऋकारस्यावग्रहत्वं दर्शयति। `अवग्रहग्रहणम्` इत्यादि। यद्यवग्रहग्रहणं न क्रियते, ततोऽव्यपदान्तादनवग्रृह्रणाणात्? ऋकारात्? स्यात्; अस्मिस्तु सति न वति। पदान्तस्यैवावग्रहो भवति, नापदान्तस्य। अत्र केषाञ्चिद्दर्शनम् -अत्र <<संहितायाम्>> [[6.3.114]] इत्यनुवर्तमानमपि नाभिसम्भध्यते, अवग्रहग्रहणात्। तेन यदाऽवगृह्रत ऋकारस्तवैव णत्वं भवति, नान्यदेति। अपरे तु मन्यन्ते -यथाऽनृत्यन्नापि नर्तनयोग्यत्वान्नर्तक इत्युच्यते, तथाऽनवगृह्रमाणोऽपि ऋकारोऽवग्रहयोग्यत्वादवग्रह इत्युक्तः। अत एतदुक्तं भवति -अवग्रहयोग्यात्? ऋकाराण्णत्वं भवति, एवं सत्यवग्रहग्रहणे संहिताधिकारात्? संहितायामेव णत्वं भवति, नावग्रहादिति॥", "84027": "धातौ तिष्ठतीति धातुस्थः, <<सुपि स्थः>> [[3.2.4]] इति कप्रत्ययः। ऊर्विति, ष्विति च स्वरूपग्रहणम्। नसिति नासिकादेशस्यास्मदादेशस्य च सामान्येन ग्रहणम्। तत इहास्मदादेश एव कार्यी, नेतरः; इतरस्य धातुस्थादिभ्यः परस्यासम्भवात्। उत्तरत्र हि नासिकादेशस्य कार्यित्वं भविष्यति। `रक्षा णः` इति। `रक्ष पालने` (धातुपाठः-658) इत्यस्माद्धातोर्लोट्, मध्यमपुरुषैकवचनान्तात्? परस्यास्मदो द्वितीयान्तस्य `बहुवचनस्य अस्नसौ` [[8.1.21]] इति नसादेशः, <<द्व्यचोऽतस्तिङः>> [[6.3.135]] इति पूर्वपदस्य दीर्घः। `शिक्षा णः` इति। `शिक्षा विद्योपादाने` (धातुपाठः-605) इत्यस्मात्? तथाविधादेवास्मदो नसादेशः। `उरुणस्कृधि` इति। कृञो लोट्? सिप्, `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः। `श्रुशृणुपृकृबृभ्यश्छन्दसि` [[6.4.102]] इति हेर्विरादेशः। `कःकरत्` [[8.3.50]] इत्यादिना विसर्जनीयस्य सत्वम्। `अभीषु णः` इति। <<इकः सुञि>> [[6.3.134]] इति दीर्घः, `सुञः` [[8.3.109]] इति षत्वम्। एवं `ऊष्र्व ऊषु णः` इत्यत्राप्युकारस्य <<निपातस्य च>> [[6.3.136]] इयानेन दीर्घः, सुञः` [[8.3.109]] इतीति षत्वञ्। चकारेण `छन्दसि` [[8.4.25]] इत्यनुकृष्यते, उत्तरत्रानुवृत्तिनिरासार्थम्॥", "84028": "नसादेशस्याक्रियावाचित्वात्? तं प्रत्युपसर्गत्वं न सम्भवतीति प्राद्युपलक्षणार्थमेतदुपसर्गग्रहणं विज्ञायते। `प्रथः` इति। पूर्ववदस्मदो नस्। `प्रणसम्` इति। प्रगता नासिका यस्येति बहुव्रीहिः। <<उपसर्गाच्च>> [[5.4.119]] इत्यच्? समासान्तः; नासिकायाश्च नसादेशः॥", "84029": "`कृत्स्थो यो नकारोऽच उत्तरः` इति। एतेनाद्य इति नकारस्येवं विशेषणम्। न तु कृत इति दर्शयति। यदि कृत एव विशेषणं स्यात्, `प्रवपणम्` इत्यत्र णत्वं न स्यात्, न ह्यत्र कृदचः परः। नकारस्तु सम्भवत्येव। यदि कृत एतद्विशेषणं स्यात्, तदा <<न भाभूपूकमिगमिप्यायीवेपाम्>> [[8.4.34]] इत्यादौ कम्यादीनां ग्रहणमनर्थकं स्यात्, प्राप्त्यभावात्। न ह्रेतेभ्यो यः कृद्विधीयते सोऽचः परः सम्भवति; तेषामनजन्तत्वात्। तस्मान्नकारस्येदं विशेषणं युक्तम्। कृत्स्थानां येषां णत्वं सम्भवति, तान्? दर्शयितुमाह -`अनमानानीयानि` इत्यादि। अन -योरादेशः। मानः -आगतमुका शानच्-कानच्-चानशः। अनीयर्-तव्यदादि [[3.1.96]] सूत्रेण यो विहितः। अनिः -<<आक्रोशे नञ्यनिः>> [[3.3.112]] इति, इनिः -<<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति, <<आवश्यकाधमर्ण्ययोर्णिनिः>> [[3.3.170]] इति, इनिः -<<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति, `आवश्यकाधमण्र्ययोरिनिः` [[3.3.170]] इति; अयञ्च उत्सृष्टानुबन्धः। निष्ठादेशः -`रदाभ्यां निष्ठातो नः` [[8.2.42]] इति प्रकरणे यो विहितः। `प्रयाणम्` इति। पूर्ववद्यातेर्ल्युट्। `प्रयायमाणम्` इति। कर्मणि लकारः। शानच्, यक्, <<आने मुक्>> [[7.2.82]] इति मुक्। `प्रयाणीयम्` इति। अनीयर्। `अप्रयाणिः` इति। आक्रोशे नञ्यनिः` [[3.3.112]] । `प्रयायिणौ` इति। `आतो युक्चिण्कृतोः` [[7.3.33]] इति युक्। `प्रहीणः` इति। `ओहाक्? त्यागे` (धातुपाठः-1090)। <<ओदितश्च>> [[8.2.45]] इति तकारस्य नकारः; <<घुमास्थागापाजहातिसां हलि>> [[6.4.66]] त्यादिनेत्त्वम्। `प्रमग्नः` इति। `टु मस्जो शुद्धौ` (धातुपाठः-1415), <<मस्जिनशोर्झलि>> [[7.1.60]] इति नुम्। सच भवञ्जकारात्? [`भवञ्चकारात्` -कांउ।पाठः] पूर्वो भवति; `मस्जेरन्त्यात्? पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपाथम्` (वा।7) इति वचनात्। `अनिदितातम्` [[6.4.24]] इत्यादिनास्य नकारलोपः, `स्कोः` [[8.2.29]] इत्यादिना सकारस्य च। <<चोः कुः>> [[8.2.30]] इति कुत्वम्। `परिभुग्वः` इति। `भुञो कौटिल्ये` (धातुपाठः-1417)। `निर्विण्णः` इति। लाभसत्ताविचारणार्थानां विदीनामन्यतमस्य रूपम्, न `विद ज्ञाने` (धातुपाठः-1064) इत्यस्य; सेट्त्वात्? सस्य। अत्राच उत्तरो न भवति, तस्मान्निर्विण्णस्य सिद्धय उपसंख्यानम्=प्रतिपादनं कर्तव्यमित्यर्थः। तत्रैदं प्रतिपादनम् -पूर्वसूत्राद्बहुलवचनमनुवर्तते, तेनानचोऽपि परस्य भविष्यतीति॥", "84030": "पूर्वेण नित्ये प्राप्ते विकल्पार्थमिदमारभ्यते। यद्येवम्, विभाषाग्रहणमनर्थकं स्यात्। आरम्भसामर्थ्यादेव विकल्पो विज्ञायते? नैतत्, विपर्ययोऽपि सम्भाव्येत। अयं तु नित्यो विधिः, पूर्वसूत्रं तु बहुलग्रहणानुवृत्तेर्विभाषेति। `ण्यन्ताद्यो विहितः` इति। एतेन `णेः` इति विहितविशेषणत्वं दर्शयति। तस्य च प्रयोजनं वृत्तौ वक्ष्यति। `प्रयाप्यमाणम्` इति। <<हेतुमति च>> [[3.1.26]] इति णिच्। `अर्त्तिह्यी` [[7.3.36]] इत्यादिना पुक्॥", "84031": "चकारो विबाषेत्यनुकर्षणार्थः। तेनोत्तरत्र विधिर्नित्यो भवति। `प्रकोपधम्` ति। `कुप क्रोधे` (धातुपाठः-1233)। `प्रहणम्, प्रोहणम्` इति। `ईह चेष्टायाम्` (दा।पा।632), `ऊह वितर्के` (दा।पा।648)। अत्र <<कृत्यचः>> [[8.4.29]] इति नित्यमेव भवति। कथं पुनज्र्ञायते -हल्ग्रहणमिहादेर्विशेषणम्, न त्वन्तस्य? इत्यत आह -`इजुपधस्य` इत्यादि। सर्व एवेजुपधा धातवो हलन्ता एवेतीजुपधादेव हलन्तत्वे लब्धे हल्ग्रहणमं क्रियमाणमादेर्विशेषणं विज्ञायते॥", "84032": "`हल इत्यनुवर्तते` इति। तदनुवृत्ते। प्रयोजनं वक्ष्यति। ननु च पूर्वसूत्रे हल्ग्रहणमादेर्विशेष म्, अन्तस्य विशेषणेन चेहार्थः? इत्याह -`तेन` इत्यादि। न हीजादिर्धातुः कश्चिद्धलादर्विद्यते, सामर्थ्यात्। तेन हल्ग्रहणानुवृत्तेन तदन्तविधिर्भवति। `सनुमः` इति। सानुस्वादादित्यर्थः। कुत एतत्? नुम्ग्रहणस्यानुस्थारीपलक्षणार्थत्वात्। कस्मात्? पुनरेवं व्याख्यायते? नियमार्थत्वादस्य योगस्य। एवञ्चास्य नियमार्थता भवति यदि नुम्ग्रहणमनुस्वारोपलक्षणार्थं भवति, नान्यथा। असति विधेये नियमार्थता विज्ञायते। यदि नुम्ग्रहणं मुम एव प्रतिपादकं स्यात्, नानुस्वारोपलक्षणार्थ स्यात्, नानुस्वारोपलक्षणार्थं स्यात्। एवञ्च सति यत्र <<कृत्यचः>> [[8.4.29]] इत्यनेन न सिध्यति, तत्र स्यादेवास्य विधेयत्वम्। क्वैतेन न सिध्यतीति? `इवि व्याप्तौ` (धातुपाठः-587), प्रेध्वनमिति। अत्र यद्यपि च `अट्कुष्वनुम्व्यवायेऽपि` [[8.4.2]] इत्यनुवर्तते, तथापि तेनात्र न प्राप्नोति; नुम्ग्रहणास्यानुस्वारोपलक्षणार्थत्वात्, इह चानुस्वाराभावात्। तस्मान्नियमार्थतामस्येच्छता नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वं वेदितष्यम्। एवं प्रेङ्खणमित्यादौ <<कृत्यचः>> [[8.4.29]] इति सिद्धे नियमार्थमेतत्सम्पद्यते। अनुस्वारोपलणार्थता च नुमः `इजादेः सनुमः` इति महतः सूत्रसय प्रणयनादवसीयते। यदि हि नुम्ग्रहणं नुम एव प्रतिपादकं स्यान्नानुस्वारोपलक्षणार्थम्, तदानीं `इवेः` इत्येवं ब्राऊयात्; न हीवेरन्यो धातुरिवादिर्हलन्तः सनुम्? सम्भवति। इखिप्रभृतयः सम्भवन्तीति चेत्? न; अनुस्वारे कृते नुमोऽभावात्। `प्रेङखणम्` इति। `अख वख` [नख -प्रांउ।पाठः] इत्यादौ कवर्गान्त इखिः पठते; तस्येदित्त्वान्नुम्? [[7.1.58]] , <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति [`इति -नास्ति -प्रांउ।पाठे] परसवर्णत्वम्, तस्यासिद्धत्वादनुस्वार एवायम्। `प्रोम्भणम्` इति। `उभ उन्भ पूरणे` (धातुपाठः-1319,1320) पूर्ववदनुस्वारः। ननु च <<कृत्यचः>> [[8.4.29]] इत्येवं सिद्धमत्र, किमर्थमिदमारभ्यते? इत्याह -`सिद्धे` इत्यादि। `प्रमङ्गनम्` इति। तत्रैव गत्यर्थवर्गे मगिः पठते, क्वचित्? `प्रमङ्कनम्` इति पाठः। स `मकि मण्डने` (धातुपाठः-89) इत्यस्य द्रष्टव्यः। ननु चासति विधेये नियमार्थता भवति, इह च णेर्विभाषायां प्राप्तायां नित्यंणत्वं विधेयमस्ति -`निधिनियमसम्भवे विधिरेव ज्यायान्` (व्या।प।130) इति, ततो ण्यन्तान्नित्यं विध्यर्थमेतत्? कस्मान्न भवति? इत्याह -`हल इत्यभिकारात्` इत्यादि। पूर्वसूत्राद्धल इत्यनुवर्तते, तेन च तदन्तविधिरित्युक्तम्, न हि हलन्तो भवति ण्यन्तो धातुः। किं तर्हि? सजन्तः। न च हलन्तादुच्यमानमजन्ताद्भवितुमर्हति, तस्मान्नेदे ण्यन्ते नित्यं विध्यर्थ भवति। ननु च णिलोपे कृते ण्यन्तोऽपि हलन्तो भवति, ततश्च `हलः` इत्यधिकारेऽपि स्यादेव विध्यर्थता? नैतदस्ति; विहितवशेषणाश्रयणात्। एतच्चोद्यनिरासायाह -`इजादेः समुमो हलन्ता द्धातोर्यो विहितः कृत्` इति। विहितविशेषणमाश्रितम्॥", "84033": "`णिसि चुम्बन` (धातुपाठः-1025), `णिक्षि रोषे` [नख -प्रांउ।पाठः] (धातुपाठः-659), णिदि कुतसायाम्` (धातुपाठः-66)। णोपदेशत्वादेषाम्? `उपसर्ग` [[8.4.14]] इत्यादिना नित्ये प्राप्ते विकल्पार्थमिदमारभ्यते। यद्येवम्, न कर्तव्यं वाग्रहणम्, पृथग्योगकरणादेव विकल्पो भविष्यति? नैतदस्ति; विपर्ययोऽपि विज्ञायेत -अयं विधिर्नित्यः, स विभाषेति। `उपसरगादसमासे` [[8.4.14]] इत्यस्यानन्तरमस्मिन्? कर्तव्य इहास्य करणं पूर्वविधेर्नित्यत्वज्ञापनर्थम् -द्वयोर्विभाषयोर्मध्ये ये वै विधयस्ते नित्या भवन्तीति॥", "84034": "`पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम्` इति। `पूड्? पवने` (धातुपाठः-966) इति भ्वादौ यः पठते तस्य ग्रहणं नेष्यते। तेन क्रैयादिकस्य चेष्यते। कथं `पू` इत्युच्यमाने पूञ एव ग्रहणं लभ्यते? <<कृत्यचः>> [[8.4.29]] इति `कृति` इति योगविभागात्। `योपविभागादिष्टसिद्धिः` (व्या।प्र।87) इति पूङ एव योगविभागेन णत्वं भवतीति। एवं योगविभागेन पूङः परस्य कृत्स्थस्य नकारस्य णत्वेऽसाधिते पारिशेष्यात्? पूञ एव ग्रहणं विज्ञायते। `ण्यन्तानां च` इत्यादि। ण्यन्तानां ग्रहँ शब्दान्तरत्वान्न प्राप्नोति। तस्मादुपसंख्यानं कर्तव्यमेवेति। तस्य प्रतिपादन मित्यर्थः। तत्रेदं प्रतिपादनम् -नेति योगविभागः कर्तव्यः, तेन ण्यन्तानामपि न भविष्यतीति। न चवं सति भादीनां ग्रहणमनर्थकं स्यात्; पूर्वयोगस्यासर्वविषयत्वज्ञापनात्। एवं ह्रतिप्रसङ्गः परिह्मतो भवति॥", "84035": "`निष्पानम्, दुष्पानम्` इति। `इदुदुपधसय` [[8.3.41]] इति विसर्जनीयस्य षत्वम्। इह <<कृत्यचः>> [[8.4.29]] इत्यनेन प्राप्तिः। `सर्पिष्पानम्, यजुष्पानम्` इति। षष्ठीसमासः। <<इसुसोः सामर्थ्ये>> [[8.3.44]] इत्यनुवर्तमाने `नित्यं समासे` [[8.3.45]] इत्यादिना विसर्जनीयस्य षत्वम्। अत्र <<वा भावकरणयोः>> [[8.4.10]] इति प्राप्तिः। `पदान्तात्` इति षष्ठीसमासोऽयमिति मन्यमानो यो देशयेत् -अथेह णत्वप्रतिषेधः कस्मान्न भवति -सुसर्पिष्केणेति, अत्र पदस्यान्तः षकार इति? तं प्रत्याह -`पदे अन्तः` इत्यादि। षष्ठीसमासे हि सति णत्वस्य प्रतिषेधः स्यात्, न चायं षष्ठीसमासः, किं तर्हि\/ `सप्तमी` [[2.1.40]] इति योगविभागात्? समासः -पदे परभूतेऽन्तः पदान्त इति। न चात्र पदे परभूते षकारोऽन्तः; कशब्दस्यापदसंज्ञकप्वात्। तेनेह न भवति णत्वप्रतिषेधः। शोभनं सर्पिरस्येति बहुव्रीहिः, <<शेषाद्विभाषा>> [[5.4.154]] इति कप्॥", "84036": "`उपसर्गादसमासे` [[8.4.14]] इत्यादिना प्राप्तस्य णत्वस्य प्रतिषेधः क्रियते। `प्रनष्टः` इति। `णश अदर्शने` (धातुपाठः-1194), तस्मान्निष्ठा, मस्जिनशोर्झलि` [[7.1.60]] इति नुम्, <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इति नलोपः; व्रश्चादिसूत्रेण [[8.2.36]] षत्वम्। `प्रणश्यति` इति। दिवादित्वाच्छ्यम्। अथान्तग्रहणं किमर्थम्; यावता `नशेः षः` इत्युच्यमान नशो विशिष्यमाणे <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति तदन्तविधौ षान्तस्य णत्वप्रतिषेधो भविष्यति? इत्याह -`अन्तग्रहणम्` इत्याह। `प्रनङ्क्ष्यति` इति। पूर्ववत्? षत्वे <<षढोः कः सि>> [[8.2.41]] इति कत्वम्। अत्र यद्यन्तग्रहणं न क्रियेत, कत्वे षान्तता नास्तीति प्रतिषेधो न स्यात्। अस्मस्तु सति कत्वेऽपि कृते भवति। एतदेव हि तस्य प्रयोजनम् -भूतपूर्वेऽपि षान्ते प्रतिषेधो यथा स्यात्॥", "84037": "`अट्कृप्वाङनुञ्व्यवायेऽपि` [[8.4.2]] इति प्राप्तस्य णत्वस्य प्रतिषेधोऽयमुच्यते। `वृक्षान्` इति। <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घः, <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति सकारस्य नकारः॥", "84038": "निमित्तनिमित्तिनोः परकृतत्वादुभयोरेव व्यवायो विज्ञायते, इत्यत आह -`पदेन व्यवाये सति निमित्तनिमित्तिनोः` इत्यादि। `माषकुम्भषापेन` इति। माषाणां कुम्भः माधकुम्भः, तं वपतीति <<कर्मण्यण्>> [[3.2.1]] , तदन्तात्? तृतीयैकवचनम्। अत्र <<प्रातिपदिकान्तनुम्विभक्तिषु च>> [[8.4.11]] इति प्राप्तिः। `चतुरङ्गयोगेन` इति। अत्र <<कुमति च>> [[8.4.13]] इति प्राप्तिः। चत्वार्यङ्गान्यस्येति बहुव्रीहिः; तेन योगश्चतुरङ्गयोगः, <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति तृतीयासमासः। पूर्वत्र कुम्भशब्देन व्यवायः, उत्तरत्र त्वङ्गशब्देन। `प्रावनद्धम` इति। `णह बन्धने` (धातुपाठः-1166), निष्ठा, `नहो धः` [[8.2.34]] , <<झषस्तथोर्धोऽधः>> [[8.2.40]] , <<झलां जश् झशि>> [[8.4.53]] इत्येते विधयः कर्तव्याः, गतिसमासः। अत्रावशब्देन व्यवायः। णत्वप्राप्तिस्तु `उपसर्गादसमासेऽपि` [[8.4.14]] इत्यादिना। एवं `प्रगान्नयामः` इत्यत्रापि। व्यवधानं तु गामित्यनेन। इदं तु च्छान्दसमुदाहणम्। न हि भाषायां व्यवहितादामृपसर्गाणां धातोः प्राक्? प्रयोगोऽस्ति, किं तर्हि? <<छन्दसि परेऽपि>> [[1.4.81]] इत्यतः `छन्दसि` इत्यनुवर्तमाने <<व्यवहिताश्च>> [[1.4.82]] इत्यनेन छन्दसि व्यवहितो भवति। गोशब्दस्यौकारस्य <<औतोऽम्शसोः>> [[6.1.93]] इत्यात्त्वम्। `पदव्यवाये` इत्यादि। योऽयं पदव्यवाये प्रतिषेध उच्यते सोऽतद्धिते भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानमित्यर्थः। तत्रेदं व्याख्यानमित्यर्थः। तत्रेदं व्याख्यानम् -<<वा निंसनिक्षनिन्दाम्>> [[8.4.33]] इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणमनुवर्तते; सा च व्यवस्थितविभाषा, तेन तद्धिते प्रतिषेधो न भविष्यतीति। `आद्र्रगोमर्येण` इति। गोरिदं गोमयम्, <<गोश्च पुरीषे>> [[4.3.145]] इति मयट्। आद्र्र च तत्? गोमयञ्चेति कर्मधारयः। गोशब्देन पदेन ध्यवधानम्। पदसंज्ञा चास्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन॥", "84039": "`रवाभ्मां नो णः` [[8.4.1]] इत्यादिशास्त्रेण प्राप्तस्य णत्वस्य प्रतिषेधोऽयमुच्यते। `क्षुभ्ना` इति स्वरूपग्रहणमेतत्, न धातुग्रहणम्; अन्यथा `क्षोभणम्` इत्यत्रापि स्यात्? प्रतिषेधः। यद्येवम्, `क्षभ्नन्ति` इत्यत्र `श्नाभ्यास्तयोरातः` [[6.4.112]] इत्याकारलोपे कृते, `क्षुभ्नीतः` [`क्षुध्वनीतः -प्रांउ।पाठः] इत्यत्र `ई इल्यधोः` [[6.4.113]] इतीत्त्वे कृते णत्वस्य प्रतिषेधो न स्यात्; स्वरूपस्याभावात्? अजादेशस्य स्थानिवद्भावादेश विकृतस्यानन्यत्वाद्वा (व्या।प।16) भविष्यतीत्यदोषः। `एतान्युत्तरपदानौ` इत्यादि। एतेन `पूर्वपदात्? संज्ञायामगः` [[8.4.3]] इति प्राप्ति दर्शयति। `हरिन्दी` इति। ताच्छील्ये णिनिः। `हरिनन्दनः` इति। त्युडन्तेन समासः। एवं `हरिनगरम्` [गिरि नगरम्` -काशिका, पदमञ्जरी च] इत्यत्रापि नगरेण षष्ठीसमासः। `नरीनृत्यते` इति। <<रीगृदुपधस्य च>> [[7.4.90]] इत्यभ्यासस्य रीगागमः, `अट्कुप्वाङ्` [[8.4.2]] एवं `तृप्नोति` इत्यत्रापि। `तृप प्रीणने` (धातुपाठः-2195), व्यत्वयेन श्नुः। `परिनर्तनम्, परिगहनम्? इति। गतिसमासौ। <<कृत्यचः>> [[8.4.29]] इति प्राप्तिः। `शरनिवेशा`दयो `दर्भानूप` पर्यन्ताः षष्ठीसमासाः। `अनूपः` ति। अमुगता आपो यस्मिन्निति बहुव्रीहिः, `ऋक्पूरब्धूःपथामानक्षे` [[5.4.74]] इत्यकारः समासान्तः, <<ऊदनोर्देशे>> [[6.3.98]] इत्युत्त्वम्, सवर्णदीर्घत्वम्।`आचार्यादणत्वञ्च` इति। चकाराण्णत्वं च, तेन विभाषा सम्पद्यते। व्यवस्थितविभाषाविज्ञानादाचार्येणेति नित्यं णत्वं भवति। `आचार्यभोगौनः` इति। `आत्मन्विआजनभोगोत्तरपदात्? खः` [[5.1.9]] । `अट्कुप्वाङ्` [[8.4.2]] इत्यादिना प्राप्तिः। एवं `आचार्यानी` इत्यत्रापि। `इन्द्रवरुण` [[4.1.49]] इत्यादिना ङीष्, आनुगागमश्च। चकारस्यानुक्तसमुच्चयार्थत्वावपरिसमाप्त क्षुभ्नादेर्बोधयतीति मत्वाऽऽह -`क्षुभ्नादिराकृतिगणः` इति॥[`क्षुध्वनीतः -प्रांउ।पाठः]", "84040": "`शकारचवर्याभ्यां सन्निपाते` इत्यादि। सन्निपाते=आनन्तर्य इत्यर्थः। `वृक्षश्शेते` इति। `वा शरि` [[8.3.36]] इति विसर्गस्य सकारः। तस्यानेन शकारः। `यज्जति` इति। `टु मस्ञो शुद्धौ` (धातुपाठः-1415), <<झलां जश् झशि>> [[8.4.53]] इति सकारस्यदकारः, तस्यानेन जकारः। श्चुत्वे कर्तव्ये जश्त्वत्यासिद्धत्वं नाशङ्कनीयम्; <<मस्जिनशोर्झलि>> [[7.1.60]] इत्यत्र मज्जेः कृतचुत्वनिर्देशात्। असिद्धत्वे ह्रयं निर्देशो नोपपद्यते। `भृज्जति, वृश्चति` इति। ग्रह्रादि [[6.1.16]] सूत्रेण सम्प्रसारणम्। `यज्ञः, पाञ्ञा` इति। यजियाचिभ्यां `यजयाच` [[3.3.90]] इत्यादिना नङ्। इह सकारतवर्गौ द्वौ कार्यिणौ, निमित्ते अपि द्वे एव -शकारचवर्गौः, ततश्च साम्यात्? संख्यातानुदेशः प्राप्नोति, सकारस्य शकारेण सन्निपाते तवर्गस्य चवर्गेण कस्मान्न भवति? इत्याह -`शात्` इत्यादि। प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति। यदि निमित्तं प्रति यथासंख्यं स्यात्, एवं सति शात्परस्य तवर्गस्य चुत्वप्राप्तिरेव नास्तीति `शात्` [[8.4.43]] इति प्रतिषेधं न कुर्यात्, कृतश्चासौ, अतः स ज्ञापयति -संख्यातामुदेशो न भवव्रीति। `स्तोश्चौ` इति लाघवार्थं सप्तम्या निर्देशे कर्तव्ये `श्चुना` इति तृतीयानिर्देशः पूर्वभूतेनापि सन्निपातेन यथा स्यात् -यज्ञः, याच्ञेति। सप्तनीनिर्देशे हि <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति परभूतेनैव स्यात्, न पूर्वभूतेन॥", "84041": "अत्रापि संख्यातानुदेशाभावस्य `तोः षि` [[8.4.42]] इति प्रतिषेधो ज्ञापकः। यद्यत्रापि निमित्तं प्रति संख्यातानुदेकः स्यात्, षकारेण सन्निपाते तवर्गस्य ष्टुत्वमेव न प्राप्नोति। `तोः षि` [[8.4.42]] इति प्रतिषेधं न कुर्यात्, कृतश्चासौ, अतः स एव लिङ्गमिह संख्यातानुदेशाभावत्य। `वृक्षष्टीकते` इति। तिकृ टिकृ टीकृ रगि [`रधिः` -धा।पाठ] लधि गत्यर्थाः (धातुपाठः-105,103,104,107,108)।`पेष्टा` इति। `पिप्लृ सञ्चूर्णने` (धातुपाठः-1452)। `कृषीष्ट, कृषीष्ठाः` इति। करोतेराशिवि लिङ्, तस्य तथासौ, सीयुट्, <<लोपो व्योर्वलि>> [[6.1.66]] इति यकादलोपः, `सुट तिथोः` [[3.4.107]] इति सुट्, <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्, अनेन ष्टुत्वम्। `अग्निचिड्डीनः` इति। `डीङ्[`ट्ट` -धातुपाठः-] विहायसा गतौ` (धातुपाठः-968), स्वादित्वात्? <<ओदितश्च>> [[8.2.45]] इति नत्यम्। `अग्निचिढ्ढौक्ते` इति। `ढौकृ गतौ` (धातुपाठः-98) `अट्टति, अड्ढति` इति। `अत्ट [अतिक्रमहिंसयोः -धातुपाठः-] अतिक्रमणहिंसयोः` (धातुपाठः-254), [अड्ड -धातुपाठः-] (धातुपाठः-254), `अदड अनियोगे` (धातुपाठः-348) तकारवकारोपधयोरेतयोर्गणे पाठः क्विबन्तयोल्तयोः संयोगान्तलोपे सकारदकारयोः श्रवणार्थः॥", "84042": "`अनाम्` इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः। `आलिट्साये` इति। यदा <<डः सि धुट्>> [[8.3.29]] इति धुट नास्ति, तदैतदुदाहरणम्। `ईट्टे` इति। `इड स्तुतौ` (धातुपाठः-1029)। अनुदात्तेत्त्वादात्मनेपदम्, अदादित्वाच्छपो लुक्, `खरि च` [[8.4.54]] इति डकारस्य टः। `सर्पिष्टमम्` इति। `अतिशायने तमप्` [[5.3.55]] , <<ह्रस्वात् तादौ तद्धिते>> [[8.3.101]] इति सकारस्य मूर्धस्यः। `षज्णाम्` इति। `षट्चतुम्र्यश्च` [[7.1.55]] इति गुट्, `झलां णशोऽन्ते` [[8.2.39]] इति षकारस्य डकारः, <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति डकारस्य णकारः। `षण्णवतिः` इति। पडधिका नवतिरिति शाकपार्थिवा दित्वादुत्तरपदलोपिसमासः। षष्णां नगराणां समाहारः `षण्णगरी` <<द्विगोः>> [[4.1.21]] इति ङीप्॥", "84043": "`अग्निचित्? षण्डे` इति। <<अग्नौ चेः>> [[3.2.91]] इति क्विप्। `सोमसुत्षण्डे` [नास्तीदमुदाहरणं -काशिका] इति। <<सोमे सुञः>> [[3.2.90]] इति क्विप्। अत्र `पि` इति सप्तमीनिर्देशात्? पूर्णभूतेन सन्निपातेन भवत्येव ष्टुत्वामिति -पेष्टा, पेष्टुमिति।", "84044": "`विश्नः, प्रश्नः` इति। `विच्छ गतौ` (धातुपाठः-1423) `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413), पूर्ववन्नङ्, <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति च्छकारस्य शकारः। यद्यपि <<प्रश्ने चासन्नकाले>> [[3.2.117]] इति निपतनादेव शात्परस्य तदर्गस्य चुत्वं न भवतीत्यैषोऽर्थो लभ्यते, तथापि मन्दधियां प्रतिपत्तिगौरवपरीहारार्थमिदमारभ्यते। अथ वा`अवाधकान्यपि निपातनानि भवन्ति` (पु।प।वृ।19) इत्युक्तम्। यद्येतन्नारभ्यते, प्रश्ञः, विश्ञ इत्यपि रूपं सम्भाव्येत॥", "84045": "`पदान्तस्य` इत्यनेन <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इत्यतः पदान्तग्रहणमनुवर्तते, तच्चार्थात्? षष्ठन्ततामनुभवतीति दर्शयति। `वाङ्न्यति` इत्यादावुदाहरणे <<झलां जशोऽन्ते>> [[8.2.39]] इति गकारादौ जश्त्वे कृते तस्यानुनासिकः कर्तव्यः। `वाङ्मयम्` इति। <<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]] इति मयट्। `त्वङ्मयम्` इति। अत्रापि `मयङ्वैतयोः` [[4.3.141]] इत्यादिना॥", "84046": "`अच उत्तरौ यौ रेफहकारौ` इति। एतेनाचेति रहोर्विशेषणमिति दर्शयति। `आन्यामुत्तरस्य यरः` इति। अनेनापि रहौ यर्विशेषणमिति। `बर्क्कः` इति। `अर्च पूजायाम्` (धा।प।204),धञ्, `चजोः कुधिण्णयतोः` [[7.3.52]] इति कुत्वम्। `मर्क्कः` इति। मर्चिः सौत्रो दातुः, तस्मात्? इण्भीकापाशस्यर्तिमर्चिभ्यः कन्` (द।उ।3।21) इति कन्, <<चोः कुः>> [[8.2.30]] इति कुत्वम्। अत्राकारादुत्तरो रेफः, तस्मादपि परः ककारो यरिति। `ब्राहृआ` इति। अत्राप्यकारादेवाच्च उत्तरो हकारः, तस्मादपि परो मकारो यरिति। `अपह्तुते` इति। अत्राप्यकारादुत्तरो हकारः, पूर्ववच्छपो लुक्, तस्मात्? परस्य नकारस्य द्विर्वचनम्। `किन्ह्नुते` इति। अत्राच उत्तरो हकारो न भवतति नकारो न द्विरुच्यते। `किम्ह्रलयति` इति। `ह्वल ह्रल सञ्चलने` (धातुपाठः-805,806), हेतुमण्णिच। `ज्वलह्वलह्रलनमामनुपसर्गाद्वा` [`ज्वलह्नलह्वल` -प्रांउ।पाठः] (धातुपाठः-817 अनन्तरम्) इति मित्त्वम्, `मितां ह्रस्वः` [[6.4.92]] इति ह्रस्वत्वम्॥", "84047": "`अनच्परस्य` इति। अचोऽन्योऽनच्, अनच्? परो यस्मात्? सोऽयमनच्परः। `दद्ध्यत्र` इति। अत्राचः परो धकारो यर्, तस्यानचि यकारे परतो द्विर्वचनम्। `झलां जश्? झशि` (8।453) इति धकारस्य दकारः। `मद्ध्वत्र` इति। अत्रानच्परस्य धकार्सय द्वर्वचनम्। `यणो मयः` इत्यादि। अच उत्तरलस्य यरो द्विर्वचनमुक्तम्। अनचि यण उत्तरस्य मयोऽचि परतो न प्राप्नोतीत्युपसंख्यायते। किं पुनरिहोदाहरणम्? इत्याह -`केचित्` इत्यादि। `उत्क्का, वल्म्मौकः` इत्यादि। यकाराद्यन उत्तरस्य ककारस्य मकारस्य च मयो द्विर्वचनम्। `दध्य्यत्र, मध्व्वत्र` इति। धकारान्मय उत्तरस्य यकारस्य च यणो द्विर्वचनम्।`शरः खयः` इत्यादि। `स्त्थालौ, स्त्थाता` इति सकाराच्छर उत्तरस्य खयस्थकारस्य द्विर्वचनम्। `वत्स्सः` इति। तकारात्? खय उत्तरस्य सकगारस्य शरो द्विर्वचनम्। `इक्च्षु_, कष्वीरम्` इति। ककारात्? खय उत्तरस्य खरः षकारस्य द्विर्वचनम्। `अप्स्सराः` इति। पकारात्? खयः परस्य सकारस्य शरो द्विर्वचनम्। `अवसाने द्वे` इत्यादि। `अवचि च` इति पर्युदासाश्रयणादिदमुज्यते। प्रसज्यप्रतिषेधेतु <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्यतो वाग्रहणमनुवर्त्त्यं शक्यनिदमकर्त्तुम्। नैतत्। प्रसज्यप्रतिषेधे हि विधिवाक्यत्वं सूत्रस्य नोपपद्यते, ततश्च केनचिद्द्विर्वचनं स्यात्? तस्मादेव प्रतिषेध वाक्याद्विधिवाक्यतास्यानृमास्यत इत्यदोवः। प्रसज्यप्रतिषेधे सति प्रतिपत्तदिगौरवभयात्? पर्युदासाश्रयणम्॥", "84048": "आदिनीति [मुद्रित काशिकायां तथा पदमञ्जर्यां च `आदिनी` शब्दो ङीबन्तो गृहीतः] परसप्तमीयम्। अत आह -`आदिनि परतः` इति। `पुत्रादिनी` इति। पुत्रावत्तुं शीलमस्या इति ताच्छीस्ये णिनिः। `पुत्त्रादिनी, सिशुमारी` इति। तत्त्वख्यानमेतत्, नाक्रोशः। `तत्परे चेति यक्तव्यम्` (इति)। स आदिनिशब्दः परो यस्मात्? पुत्रशब्दात्? तत्र द्विर्वचनं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -नेति योग विभागः क्रियते, तेन तत्परे न भविषयतीति। `वा हत` इत्यादि। हतजग्धशब्दयोः परतः पुत्त्रस्य या द्विर्वचनं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु वागद्रहणमनुवर्त्त्यं, नेति योगविभागकरणमाश्रित्य वा कर्तव्यम्। न चैवं पुत्त्रादिनीत्यत्रापि विकल्पः प्रसक्तः। व्यवस्थितविभाषाविज्ञानात्। हतञ्च जग्धञ्च तत्? हतजग्धम्, हतजग्धञ्च तत्? परञ्चेति हतजग्धपरम्, तस्मिन्? हतजग्धपरे। `पुत्रहती, पुत्रजग्धी` इति। पुत्रो हतः, पुत्रो जग्धोऽनयेत बहुव्रीहिः, `अस्वाङ्गपूर्वपदात्` [[4.1.53]] इत्यादिना ङीष्। `चयो द्वितीयाः` इत्यादि। चय इति स्थानषष्ठी, खछठचफा इति द्वितीया इत्यस्यार्थः। द्वितीयत्वमेषां वर्णानां प्रथमवर्णापेक्षया भवति। `वप्सः` इति। तकारस्य चयः सकारे शरि परतो द्वितीयस्थकारः। `ख्षीरम्` इति। ककारस्य चयः वकारे शरि परतो द्वितौयः सकारः। `अफ्सराः` इति। पकारस्य चयः सकारे शरि परतो द्वितीयः फकारः॥", "84049": "`कर्वति` इति। `कृष विलेखने` (धातुपाठः-990)। `वर्वति` इति। `पृषु वृषु मृषु सेचने` (धातुपाठः-705-707)। `आदर्शः` इति। `दृशिर्? प्रेक्षणे` (धातुपाठः-988)। अधिकरणे धञ्। `दर्शः` [नास्ति -काशिकायाम्] इति। अत एव करणे धञ्॥", "84050": "`इन्द्रः` इत्यादौ `अनचि च` [[8.4.46]] इति प्राप्तिः। `इन्द्रः, चन्द्रः, मन्द्रः` इति। `इदि परर्मआर्ये` (धातुपाठः-63), `चदि आह्लादे`[आह्लादे दीप्तौ च -धातुपाठः-] (धातुपाठः-68) `मदि स्तुतिमोददस्यप्नकान्तिगतिषु` (धातुपाठः-13)। `स्फायितञ्चि` (द।उ।8।31) इत्यादिना रक्प्रत्ययः। `राष्ट्रः, भ्राष्ट्रः` [राष्ट्रम्, भ्राष्ट्रम् -काशिका] इति। `राजृ भ्राजृ दीप्तौ` [टु भ्राजृ दीप्तौ -धातुपाठः-] (धातुपाठः-822,823)। `सर्वधातुभ्यः ष्ट्रन्? (द।उ।8।79) प्रत्ययः। व्राचादिसूत्रेण [[8.2.36]] षत्वम्। शाकटायनग्रहणं पूजार्थम्। नित्य एवायं विधिः। अन्ययोत्तरसूत्रेणैव सिद्धत्वादस्यारम्भो निरर्थकः स्यात्॥", "84051": "अत्रिप्रभृत्यर्थोऽयमारम्भः। `अर्कः` इत्यादौ <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति प्राप्तिः। आरम्भसामर्थ्यादेवात्रिप्रभृतिष्वपि सिद्धे सर्वत्रग्रहणं पूर्वस्या[पूर्वस्यापि प्राप्ते प्रतिषेधः -प्रांउद्रितः पाठः; कांउ।पाठश्च] अपि प्राप्तेः प्रतिषेधो यथा स्यादित्येवमर्थम्। असति तस्मिन्? प्रत्यासत्तेः `अनचि च` [[8.4.46]] इत्यस्या एव प्राप्तेस्यं निषेधः स्यात्। शाकल्यग्रहणं पूजार्थम्, न विकल्पार्थम्। विधिरपि योगद्वयेनोच्यते, प्रतिषेधोऽपि। अत्र सामर्थादेव विकल्पो भविष्यति; अन्यथा विधेरनवकाशः स्यात्॥", "84052": "नित्यार्थोऽयमारम्भः। अत्रारम्भसामर्थ्यादेव सिद्ध आचार्यग्रहणं पूजार्थ। दातद्रमित्यादौ `अनचि च` [[8.4.46]] इति प्राप्तिः॥", "84053": "`लब्धा` इत्यादि। लभेस्तृच्तुमुन्तव्याः। <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धकारे झशि भकारस्य जश्त्वम् -बकारः। `देग्धा` [`दोग्घा` -काशिका] इति। `दिह उपचये` (धातुपाठः-1015), `दादेर्धातोर्धः` [[8.2.32]] इति हकारस्य धकारः। `बोद्धा` इति। जश्तेवन धकारस्य दकारः॥", "84054": "चकारेण चश्ग्रहणमनुवर्तते, तेनोत्तरत्र तदनुवृत्तिर्न भवति। `चिखनिषति` ति। खनतेः सन्, द्विर्वचनम्, हलरादिशेषः, <<कुहोश्चुः>> [[7.4.62]] इति चुत्वम् -छकारः, तस्थानेन चकारः। `चित्छित्सति`[`चिच्छित्सति` -का।प्रांउ।पाठो] इति। छिदेः सन्, द्विर्वचनम्, `छे च` [[6.1.71]] इति तुक्, चुत्वम्। `ठिठकारयिषति` इति। ठकारमाचष्ट इति `तत्करोति तदाचष्टे` (धा।200, 201) इति णिच्, इष्ठवद्भावाट्टिलोपः, सन्, इट्, गुणः, अयादेशः। `तिष्ठाससि` इति। <<शर्पूर्वाः खयः>> [[7.4.61]] शेषः। `पिफकारयिषति` इचि। `टिठकारयिषतीत्यनेन तुल्यसाधनम्। अयं तु विशेषः -फकारशब्दाण्णिच्। `प्रकृतिचरा प्रकृतिचरो भवन्ति` इति। जश्त्वबाधनार्थम्` पर्जन्यवल्लक्षण (व्या।प।83) प्रवृत्त्या प्रकृतिरूपाश्चरः प्रकृतिचरः स्थानिनाऽभिन्नरूपा इत्यर्थः। `चिचीषति` इति। <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घः। `तितीर्षति`[न स्तः -काशिकायाम्] इति। `ऋत इद्धातोः` [[7.1.100]] इतीत्त्वं रपरत्वं च, `हलि च` [[8.2.77]] इति दीर्घः। `जिझकारयिषति` [न स्तः -काशिकायाम्] इति। टिठकारयिधतीत्यनेन तुल्यसाधनम्। अत्र झकारशब्दाण्णिजि विशेषः। `जिघत्सति` इति। अदेः सन्, `लुङसनोर्घस्लृ` [[2.4.37]] इति धस्लादेशः पूर्ववदभ्यासस्य चुत्वम् -झकारः, तस्य जश्त्वम् -जकारः, `सः स्यार्धधातुके` [[7.4.49]] इति सकारस्य तकारः। `डुढौकिषते` इति। ढौकतेः सन्। `प्रकृतिजशां प्रकृतिजशो भवन्ति` इति। चर्वाधनार्थं पूर्ववत्? प्रकृत्या स्थानिनाऽभिन्नरूपा जशः प्रकृतिजशः। `जिजनिषते` इति। `पूर्ववत्? सनः` [[1.3.62]] इत्यात्मनेपदम्। `बुबुधे` इति। अनुदात्तेत्त्वादात्मनेपदम्, <<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्येश्। `ददौ` इति। <<आत औ णलः>> [[7.1.34]] इत्यौत्त्वम्। `डिडए इति। `डीङ्? विहायसा गतौ` (धातुपाठः-968), पूर्ववदेशादेशः, स्थानिवद्भावड्डीत्यस्य द्विर्वचनम्॥", "84055": "`युयुत्सते` इति युधेः सन्, `पूर्ववत्? सनः` [[1.3.62]] इत्यात्मनेपदम्। `आरिप्सते` इति। रत्रिलभिभ्यां सन्। `सनि मीमा` [[7.4.54]] इत्यादिनेस्, `स्कोः संयोगाद्योरन्त च` [[8.2.29]] इति सकारलोपः। `अत्र लोपोऽब्यासस्य` [[7.4.58]] इत्यभ्यासलोपः। समुच्चयार्थश्चकारः, न केवलमब्यासे चरो भवन्ति, अपि तु खरि च। असति ह्रस्मश्चकारेऽनन्तरविहितं यच्चर्त्त्वं तत्? खरादावभ्यासनिमित्ते प्रत्यये स्यात् -तिष्ठासतीत्यादौ, न तु `चखाद` इत्यादावपीति कस्यचिन्मन्दभियो भ्रान्तिः स्यात्॥", "84056": "<<झलां जशोऽन्ते>> [[8.2.39]] इति नित्ये जश्त्वे प्राप्तेऽवसाने वा चरो विधीयन्ते। वावचनात्? पक्षे जश्त्वमपि भवत्येव॥", "84057": "`अणः` इति पूर्वेण णकारेण प्रत्याहारग्रहणम्। अन्यथाऽसन्देहार्थ `अचः` इति कुर्यात्। न च पदान्तहलोऽणः सम्भन्ति। `दीर्घे, मधुँ` इति। `स्वमोर्नपुंसकात्` [[7.1.23]] इति स्वमोर्लुक्। `अग्नी, वायू` इति। <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति दीर्घः। `ईदूदेद्विवचनम्` [[1.1.11]] इति प्रगृह्रसंज्ञा॥", "84058": "`शङ्किता` इत्यादि। `शकि शङ्कायाम्` (धातुपाठः-86), `उछि उञ्छे` (धातुपाठः-215), `कुडिदाहे` (धातुपाठः-270), `टुनदि समुद्धो` (धातुपाठः-67), `कपि चलने` (धातुपाठः-375) -एभ्यस्तृजादयः, इदित्त्वान्नुम्, <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनुस्वारः, तस्यानेन परसवर्णः। `कुर्वन्ति, कृषन्ति` इति। करोतेः, `कृष विलेखने` (धातुपाठः-1286) इत्यस्माच्च तौदादिकात्? परस्य लडादेशस्य झेः <<झोऽन्तः>> [[7.1.3]] इत्यन्तादेशः। नकारस्यानुस्वारे तस्य च परसवर्णे नकारे सति `अट्कुप्वाङ्नुम्` [[8.4.2]] इत्यादिना णत्वं प्राप्नोति, तत्? कस्मान्न भवति? इत्याह -`इह` इत्यादि। णत्वमत्रानुस्वारात्? पूर्वं स्यात्? पश्चाद्वा? पूर्वं तावन्न भवति; यस्मादनुस्वारे कर्तव्ये णत्वस्यासिद्धत्वम्, अतः पूर्वं नकारस्यानुस्वार एव क्रियते। परसवर्णे नकारे कृते पश्चादपि न भवति; णत्वे कर्तव्येऽनुस्वारस्थानिकस्यासिद्धत्वात्। `परसवर्णेन` इति। परसवर्णार्थेन शास्त्रेणेत्यर्थः। भवति तादथ्र्यात्? ताच्छब्द्यम्। यथा प्रदीपार्था मल्लिका प्रदीप इति। `पुनः` इति। अनुस्वारक्रियाया उत्तरकालमित्यर्थः। `एवम्` इत्यादिनाऽनुस्वारीभूतो नकारो णत्वमतिक्रामतीति भाष्ये णत्वस्यातिक्रमणमनुस्वारीभूतस्य नक्रस्योक्तम्। तदेवासिद्धत्वात्? परसवर्णस्य नकारसय णत्वं न सम्पद्यत इति दर्शयति। `अतिक्रामति` इति। अतिक्रम्म वर्तत इत्यर्थः। `आर्क्रस्यते` इति। आङ्पूर्वात्? क्रमेर्लुट्, <<आङ उद्गमने>> [[1.3.40]] इत्यात्मनेपदम्। `आचिर्क्रसते`[आचिक्रंस्यते -काशिका] इति। `पूर्ववत्? सनः` [[1.3.62]] इत्यात्मनेपदम्॥", "84059": "वावचनं पूर्वस्य नित्यात्वज्ञापनार्थम्। द्वयोर्विभावयोमध्ये ये वै विधयस्ते नित्या भवन्तीति कृत्वा। असति वाग्रहणे विपर्ययः सम्भाव्येत -पूर्वो विधिर्विभाषा, अयं तु विधिरारम्भसामर्थ्यान्नित्य इति॥", "84060": "", "84061": "`उत्थाता` इति। `आदेः पदस्य` [[1.1.53]] इति सकारस्य महाप्राणस्याघोषस्य तादृश एव पूर्वसवर्णस्थकारः, `खरि च` [[8.4.54]] इति थकारस्य तकारः, `अनचि च` [[8.4.46]] इति पूर्वतकारस्य द्विर्वचनम्, <<झरो झरि सवर्णे>> [[8.4.65]] इति पक्ष एकस्य लोपः। `उत्तम्भिता` इति। स्तम्भिः सौत्रो धातुः। `उत्स्नाता` इति`ण्णा शौचे` (धातुपाठः-1052)। पूर्वग्रहणं परसवर्णनिवृत्त्यर्थम्। `उत्पूर्वस्य` इत्यादि। पूर्वसवर्णे कर्तव्ये स्कन्देश्छन्दति दि य उपसंख्यानम् -प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -<<व्यत्ययो बहुलम्>> [[3.1.85]] इति व्यत्ययेनोदः परस्य स्कन्दे श्छन्दसि विषये पूर्वसवर्णो भविष्यति। `उत्कन्द` [`उत्कन्दः` -काशिका] इति। लोट्, सिप्, `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः, <<अतो हेः>> [[6.4.105]] इति हेर्लुक्। `रोगे च` इत्यादि। इदमविशेषेण च्छन्दसि भाषायां च रोगे वाच्य उदः परस्य स्कन्देः पूर्वसवर्णो भवतीत्येतदर्थरूपं व्याक्येयमित्यर्थः। तत्रेदं व्याख्यानम् -पृषोदरादित्वा [[6.3.108]] द्भविष्यतीति। `उत्कन्दकः` इति। `रोगाख्यायां ण्वुल्बहुलम्` [[3.3.108]] इति ण्वुल्॥ बाल-मनोरमासर्वत्र शाकल्यस्य 59, 8.4.61 सर्वत्र शाकल्यस्य। `ने`त्यनुवर्तते। यत्र यत्र द्वित्वं विहितं तत्र तत्र शाकस्यस्य ऋषेर्मते द्वित्वं न भवतीत्यर्थः। दीर्घादाचार्याणाम्। `ने`त्यनुवर्तते। दीर्घात्परस्य यरो द्वित्वं केषाञ्चिदाचार्याणां मते न भवति। मतान्तरे तु भवति। `अनचि चे`त्यत्र वाग्रहणमनुवर्तते इति नाज्झलाविति सूत्रे कैयटः। एवं चाऽनचि चेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादिसूत्रत्रयं नारम्भणीयमिति प्रौढमनोरमायां स्थितम्। एतत्सूत्रत्रयविरोधादनचि चेत्यत्र वाग्रहणं नानुवर्त्त्यमिति युक्तं प्रतिभाति। बाल-मनोरमाउदः स्थास्तम्भोः पूर्वस्य 119, 8.4.61 उदः स्थास्तम्भोः। `अनुस्वारस्य ययि परसवर्णः` इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात्। `उद` इति पञ्चमी। अतस्तस्मादित्युत्तरस्येति परिभाषया `उदःपरयो`रिति लभ्यते। तदाह -उदः परयोरिति। पूर्वेति। पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः। पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह -आदेः परस्येति। अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः। उत्थानमिति। `ष्ठा गतिनिवृत्तौ`। भावे ल्युट्। उत्तम्भनमिति। `ष्टभि प्रतिष्टम्भे` भावे ल्युट्। `स्तम्भु रोधने` इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः। `स्थास्तम्भो`रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात्। ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव। दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु ऌकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात्। नापि लकारः, ईषत्स्पृष्टत्वात्। एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः। ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्। आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात्। स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात्। अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह -अत्राऽघोषस्येति। `अघोषस्ये`त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात्। स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान्। तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात्। नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात्। द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान्। अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः। एवं च उद्-स्थानमिति स्थिते दकारस्य `खरि चे`ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम्। एवं उत्थतम्भनमित्यत्रापि योज्यम्। तत्र द्वितकारमेकथकारं चेति विशेषः। तस्येति। सकारादेशस्य थकारस्येत्यर्थः। एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः। ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम्। प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह -लोपाभावेति। असिद्धत्वादिति। `खरि चे`ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः। उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः। उक्तप्रक्रियाया उभयत्रापि साधारण्यात्। केचित्तु `न मुने` इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः। तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात्। वस्तुतस्तु `दीर्घादाचार्याणा`मित्युत्तरम्। अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरं `झलाञ्जश् झशि`, अभ्यासे चर्च`, `खरि च`, `वाऽवसाने`, `अणोऽप्रगृह्रास्यानुनासिकः`, इति पञ्चसूत्रीपाठ इति `हलो यमा`मिति सूत्रस्थभाष्यसंमतः सूत्रकमः। एवं च `खरि चे`ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम्।", "84062": "`वाग्धसति` इत्यादावुदाहरणे हकारस्य महाप्राणस्यान्तरतम्यात्? तादृश एव घकारादयो वर्गचतुर्था भवन्ति। अन्यतरस्यांग्रहणं पूर्वविध्योर्नित्यत्वज्ञापनार्थम्॥", "84063": "`छत्वममीति धक्तव्यण्` इति। अमि परतश्छत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -`शश्छः` इति योगविभागः क्रियते, तेनाट्प्रत्याहारेऽसन्निविष्टे लकारादावपि भविष्यति, अतोऽटीत्यतिप्रसङ्गनिरासार्थो द्वितीयो योगः -तेनाटएव परभूते, नान्यनेति। योगवभागकरणसामर्थ्याच्चाम्प्रत्याहारान्तर्गतेऽनटदि क्वचिद्भवत्येव। अन्यथा योगविभागकरणमनर्थकं स्यात्। अमीति नोक्तम्, वैचित्र्यार्थम्। अत्र <<वा पदान्तस्य>> [[8.4.59]] इत्यतः पदान्तग्रहणमनुवर्तते, झयो विशेषणार्थम्। तेन <<शि तुक्>> [[8.3.31]] इत्यत्र तुकः पूर्वान्तकरणं छत्वार्थमुपपन्नं भवति; <<डः सि धुट्>> [[8.3.29]] इत्यतो धुङ्ग्रहणानुवृत्तेः परस्या सिद्धत्वात्? पूर्वान्तकरणमनर्थकं स्यात्॥", "84064": "`शय्य्येत्यत्र द्वौ यकारो` इति। एकः `संज्ञायां समज` [[3.3.99]] इत्यादिना विहितस्य क्यपोऽवयवः, अपरस्त्वपङः। `क्रमजस्तृतीयः` इति। क्रमः=आनुपूर्वी, ततो जातः क्रमजः। स पुनः `अनचि च` [[8.4.46]] इत्यनेन यो विहितः, स हि पूर्वयकाराभ्यां पश्चाज्जात इति क्रमजो भवति। `तकारत् परो यकार एकः` [एको यकारः -काशिका] इति। `दित्यदित्यादित्य` [[4.1.85]] इत्यादिना विहितस्य ण्यस्यावयवः। `द्वौ यकारौ` इति। एकोऽदितिशब्दात्? <<तस्यापत्यम्>> [[4.1.92]] इत्यर्थे `दित्यदित्या`दिसूत्रेण [[4.1.85]] विहितस्यावयवः। द्वपितीयस्त्वादित्यशब्दादेव <<सास्य देवता>> [[4.2.24]] इत्यर्थे तेनैव सूत्रेण विहितस्य ण्यस्यावयवः। `क्रमजस्तृतीयः` इति। `यणो मयः` (वा।956) इत्यनेन यो विहितः। `मध्यमस्य मध्यमयोर्वा` इति। अन्यतरस्याम्? [[8.4.61]] इत्यधिकारात्। यद्येकस्य भवति ततो मध्यमस्य, अथ द्वयोरिति ततो मद्यमयोः। `आश्नम्` इति। `अन्नाष्णः` [[4.4.85]] इति निपातनात्? <<अदो जग्धिर्ल्यप्ति किति>> [[2.4.36]] इति न भवति जग्ध्यादेशः, `रदाभ्याम्` [[8.2.42]] इत्यादिना निष्ठानत्वम्। भवत्ययं नकारो यम्, यमि परतश्च; न च हल उत्तरः, किं तर्हि? अचः। `अध्र्यम्` इति। `पादार्धाभ्याञ्च` [[5.4.25]] इति तादर्थे यत्। अत्र घकारो रेफादुत्तरो भवति, यकारे यमि परतः। न त्वयं यम्? धकारः; तस्य यम्त्वसन्निवेशात्। `शाङ्गंम्` इति। शृङ्गस्य विकार इत्यण्, आदिवृद्धिः, रपरत्वम्। अत्र ङकारो यम्? हल उत्तरो भवति, न तु तस्मात् परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्। नत्वादिवृद्धिस्तद्धिताश्रया बहिरह्गा भवति; न तु तस्मात्? परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्। नत्वादिवृद्धिस्तद्धिताश्रया बहिरङ्गा भवित; लोपस्त्वन्तरङ्गः, ततश्चान्तरङ्गे लोपे कर्तव्ये वृद्धेरसिद्धत्वम्, तस्या असिद्धत्वात्? तदाश्रितस्य रेफस्याप्यसिद्धत्वमेव। एवं च सति ङकारो हल एव परो न भवतीति यत्? केचिच्चोदयन्ति तन्मतमिदं नोपन्यसनीयमेव; मूलोदाहरणेऽपि तथा सम्भवात्॥", "84065": "`प्रत्तमवत्तम्` इत्यादि। ददातेः क्तः, <<अच उपसर्गात्तः>> [[7.4.47]] इत्यकारस्य तकारः, दकारस्यापि `खरि च` [[8.4.54]] इति चर्त्वम्। एवं तावत्? त्रयस्तकाराः -द्वावादेशौ, एकः प्रत्ययावयवः। `अनचि च` (श्र।4।47) इति यो निर्वृत्तः स क्रमजश्चतुर्थः। `मध्यमस्य मध्यमयोर्वा` इति। पूर्ववदन्यतरस्यांग्रहणानुवृत्तेरेव वेदितव्यम्। `मरुत्त्त इति चत्वारस्तकाराः` इति। तरयः पूर्ववत्, चतुर्थो मरुच्छब्दावयवः, क्रमजः पञ्चम इति `अनचि च` [[8.4.46]] इति यो विहितः। ननु चाजन्तादुपसर्गात्? तत्वमुच्यते, न च मरुच्छब्दोऽजन्तः, किं तर्हि? हलन्तः, तत्? कथं तत्वं भवति? इत्याह -`मरुच्छब्दस्य` इत्यादि। <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यत्र मरुच्छब्दस्योपसंख्यानमुपसर्गकार्यार्थम्। यदि सत्यामपि तस्यां तत्वं न स्यात्, तदा तस्य वैयध्र्यं स्यात्। तस्मादुपसंख्यानसामर्थ्यादनजन्तादपि तत्वं भवत्येव। तर्हि यथा ह्रुपसर्गोपसंख्यानसामर्थ्यात्? तत्वं भवति, तथा भरुन्नयतीत्यत्रापि <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इति तकारेणा नडादिव्यवाये णत्वं स्यात्। यदीष्यते तदा भवतु। यदि नेष्यते तदा क्षुभ्नादिषु [[8.4.38]] द्रष्टव्यः। `शाङ्र्गम्` इति। ङकारो हल उत्तरो भवति झरि च सवर्णे परतः, न त्वयं झरिति न भवति लोपः। `प्रियपञ्च्ञा` इति प्रियाः पञ्चास्येति बहुव्रीहिः, ततस्तृतीयैकवचनम्। <<अल्लोपोऽनः>> [[6.4.134]] इत्यकारलोपः, <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वं तवर्गस्य। वर्गो वर्गेण सवर्ण इति ञकारश्चवर्गस्य सवर्णः। न त्वयं ञकारो झर्। तेन तस्मिन्? परभूते पूर्वस्माद्धलः परस्यापि चकारस्य लोपो न भवति। ननु चाक्रियमाणेऽपि झरीत्येतस्मिन्? नैवात्र लोपः प्राप्नोति, निर्दिष्टग्रहणस्यादन्तर्यार्थत्वात्; अनन्तरे परभूते सवर्णे लोपेन भवितव्यम्, न चात्रानन्तरो ञकारः, पूर्वस्य लोपे कृते <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यकारलोपस्य स्थानिवद्भावात्, तत्? किं झरीतयनेन? इत्यत आह -`लोपस्य` इत्यादि। पूर्वत्रासिद्धीये ह्रल्लोपस्य स्थानिवद्भावः प्रतिषिध्यते। अत्र `झरि` इत्येतन्नोच्येत यदि, तदात्र लोप स्यादेव। `तर्प्ता` इति। `तृप प्रीणने` (धातुपाठः-1271), पकारस्य तकारः स्थानबेदात्? सवर्णो न भवति, तेनाच लोपे न भवति। ननु च निमित्तानां कार्यिणां च साम्यादिह संख्यातानुदेशेन भवतिव्यम्, तत्रासत्यपि सवर्णग्रहणे तर्प्तेत्यादौ नैव लोपः प्राप्नोति, तत्? किं तन्निवृत्त्यर्थेन सवर्णग्रहणेन? इत्यत आह -`सवर्णग्रहणसामर्थ्यात्` इत्यादि। यद्यत्र यतासंक्यं स्यात् ततो झकारस्य झकार एव लोपः प्रसज्येत, यावता झकारस्य झकार एव सवर्णः, एवं च सति सवर्णग्रहणमनर्थकं स्यात्; व्यवच्छेद्याभावात्। न हि झकारस्यासवर्णो झकारः सम्भवति। तस्मादत्र सवर्णग्रहणसामर्थ्यान्न संख्यातानुदेशो भवति। तेन शिण्डि, पिण्ढौत्यत्र सवर्णमात्रे ढकारे डकारलोपे भवतीति। `शिष्लृ विशरणे` [`विशेषणे` -धा।पा`] (धातुपाठः-1451), `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452), लोङ्, सिप्, `सेह्र्रपिच्च` [[3.4.87]] इति हिरादेशः, श्नम्, <<श्नसोरल्लोपः>> [[6.4.111]] इत्यकारलोपः, <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति धिभावः, <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम् -षकारस्य डकारः, <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनुस्यारः; <<ष्टुना ष्टुः>> [[8.4.41]] इति धकारस्य ढकारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति णकारः, अनेन डकारस्य ढकारे लोपः॥", "84066": "`गार्ग्यः, वात्स्यः` इति। गर्गवक्ष्टशब्दाभ्याम्? <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ्, `ञ्नित्यादि नित्यम्` [`ञ्नित्यादेनि` -प्रांउद्रितः पाठः] [[6.1.191]] इत्यत्त्युदात्तत्वम्, <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति शेषस्यानुदात्तत्वम्, तस्य स्वरितो भवति। `पचति, पठति` इति। तिप्सपौ पित्त्वादनुदात्तौ। पकारस्याकारोऽपि धातुस्वरेणोदात्तः। तस्मात्? परस्य शवकारस्य स्वरितत्वं भवति। किं पुनः कारणं सूत्रमिदमिहोचयते, न <<तित्स्वरितम्>> [[6.1.185]] इत्यस्यानन्तरमुच्यताम्, एवं हि स्थरितग्रहणं न कर्तव्यं भवति; प्रकृतमेव ह्रनुवर्त्तिष्यते? इत्याह -`अस्य` इत्यादि। यदि तत्र क्रियेत, तदा <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्येतदिह प्रवर्तेत, तत्श्चानुदात्तस्वरितौ श्रूयेयाताम्, नोदात्तस्वरितौ। इह तु क्रियमाणे स्वरितस्यासद्धत्वात्? तदाश्रयम्? <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति न प्रवर्तते, तेन द्वावप्यस्योदात्तस्वरितौ श्रूयेते॥", "84067": "`उदात्तस्वरितोदयम्` इति। उदात्तस्वरितादुवयौ यस्मादिति बहुव्रीहिः। उदयशब्दोऽत्र प्रत्येकमभिसम्बध्यत इति दर्शयितुमाह -`उदात्तोदयस्य` इत्यादि। उदयशब्दः परशब्दस्यार्थे वर्ततेऽत्र। `गाग्र्यस्तत्र` इति तत्रशब्द आद्युदात्तः। <<सप्तम्यास्त्रल्>> [[5.3.10]] इति त्रल्प्रत्ययान्ताल्लित्स्वरेण। `गार्ग्यः क्व` इति। कशब्दः स्वरितस्तित्स्वरेण, `किमोऽत्` [[5.3.12]] इति किंशब्दादत्प्रत्ययः। किमः क्वादेशः `क्वाति` [[7.2.105]] इति। उदात्तस्वरितमिति वक्तव्ये लाघवार्थत्वाद्विल्पष्टार्थत्वाच्च `उदयग्रहणं मह्गलार्थम्` इति। इष्टार्थसिद्धेर्हेतुर्गङ्गलम्, इष्टं पुनरर्थागस्त्रस्य प्रथनं वीरपुरुषादिता च। तथा चोक्तम् -`यतो मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणियन्ते, वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च` (म।भा।1.1.1) इति। यथा मङ्गलादीन्येर्ववधानि भवा तथा मङ्गलावसानान्यपि। मङ्गलार्थं इहोदयशब्दे क्रियमाण उत्तरारन्भो मङ्गलपूर्वकौ भवति। तेन यद्वक्ष्ट -`वीर्घप्लुतयोश्चानेन विवृताकारेण ग्रहणं नेष्यते, संवृतेन [`संवृतेन च णस्य मात्रिकस्य ग्रहणमिष्यते` -काशिका] तु मात्रिकस्य सर्वगुण युक्तस्याकारसय ग्रहणमि` (का।8.4.69) इति, तदुपपन्नं भवति। मङ्गलपूर्वकेषु हि कारयेष्वारभ्यमाप्पेध्वपीष्टार्थसिद्धिर्भवति। उशब्दश्चायं लोके वृदिशब्दवन्मङ्गलार्थत्वेन प्रसिद्धः। तस्मात्? तस्य ग्रहणं मङ्गलार्थं क्रियते॥ -", "84068": "" }