{ "11001": "ऐजिह द्विमात्र एव, तात्परत्वात्। तेन कृष्णैकत्वमित्यत्र त्रिमात्रो न। एवमुत्तरसूत्रेऽपि। तेन गङ्गोदकमित्यादौ त्रिमात्रो न॥", "11003": "गुणवृद्धिशब्दाभ्यामिति।<\/w> एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्य गुणो वृद्धिरिति ये गुणवृद्धी इति योजनया लभ्यते। तेनेह न— <<दिव औत्>> [[7.1.84]] द्यौः, <<त्यदादीनामः>> [[7.2.102]] सः, इमम्। षष्ठ्यन्तमिति।<\/w> सूत्रे षष्ठ्यन्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकात्सोर्लुगिति भावः। पदमिति।<\/w> तच्च सम्भवति सामानाधिकरण्ये इगन्तस्याङ्गस्येत्यादिक्रमेण सम्बध्यते। <<मिदेर्गुणः>> [[7.3.82]] <<मृजेर्वृद्धिः>> [[7.2.114]] इत्यादौ तु सामानाधिकरण्या-सम्भवान्मिदिमृदज्योरवयवस्येक इति संबध्यते। यत्तु इक एव स्थाने स्त इति प्राचा व्याख्यातम्, यच्च तट्टीकाकृतोक्तमनियमप्रसङ्गे नियमार्थमिदमित्यादि, तत्सर्वं भाष्यविरोधादुपेक्ष्यम्। तच्छेषपक्षं दूषयित्वा पदोपस्थितिपक्षस्यैव भाष्ये समर्थितत्वादित्याहुः। तच्छेषपक्षेऽपि दूषणोद्धारस्तु शब्दकौस्तुभे स्पष्टीकृतोऽस्माभिः।", "11008": "'मुखं च नासिका च' इति विग्रहे प्राण्यङ्गत्वादेकवद्भावे 'मुखनासिकम्' इति स्यादत आह—", "11009": "आस्ये भवमास्यं 'शरीरावयवाद्यत्' इत्यभिप्रेत्याह— ताल्वादीति। आभ्यन्तरेति।<\/w> एतच्च प्रशब्दबलाल्लभ्यते। तुल्यास्यं किम्? तर्प्ता। अत्र पकारस्य तकारे परे <<झरो झरि>> [[8.4.65]] इति लोपो मा भूत्। प्रयत्नग्रहणं किम्? वाक् श्चोतति। शस्य लोपो न। ञमङणनानामिति।<\/w> 'नासिका च' इति चकारेण स्वस्ववर्गानुकूलं ताल्वादि समुच्चीयते। 'अनुस्वारोत्तमा अनुनासिकाः' इति तैत्तिरीयाणां प्रातिशाख्यम्। 'यमानुस्वारनासिक्यानां नासिका, अनुनासिकाश्चोत्तमाः' इति कात्यायनप्रातिशाख्यम्।'वर्गोत्तमा ञमङणना अनुनासिका भवन्ति, चशब्दात्स्वस्थानाद्यपरित्यागेन नासिकास्थानं द्वितीयमेषामित्यर्थः' इति तद्भाष्यं च। 'एदैतोः' इत्यादौ तपरत्वमसन्देहार्थं, न तु तत्कालग्रहणार्थम्। तेन प्लुतस्यापि संग्रहः।", "11010": "आकारसहित इति॥<\/w> अत्र च <<कालसमयवेलासु>> [[3.3.167]] इत्यादिनिर्देशाः प्रश्लेषे लिङ्गम्। न चैवमपि यिया3सो, इत्यादौ <<गुरोरनृत>> [[8.2.86]] इति प्लुतादकारात्परस्य सनः सस्य षत्वं स्यादेवेति वाच्यम्, आश्च आश्चेति द्वन्द्वे सवर्णदीर्घेण दीर्घात्परत्र प्लुतादपि प्रश्लिष्यत इति व्याख्यानात्। यणादिकमिति।<\/w> शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः।", "11011": "द्विवचनमिति॥<\/w> <<सुप्तिङन्तम्>> [[1.4.14]] इति अन्तग्रहणेन 'सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' इति ज्ञापितत्वादिति भावः। तेनेह न । कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति। स्पष्टं चेदं भाष्यादौ। द्विवचनान्तं प्रगृह्यं स्यादिति तु प्राचः प्रमाद एव। हरी एताविति।<\/w> इह शाकलं न। <<प्लुतप्रगृह्य—>> [[6.1.125]] इत्यत्र नित्यग्रहणादित्युक्तम्। अत्र वृत्तिकारः— 'मणीवादिनां प्रतिषेधो वक्तव्यः' इति पठित्वा मणीव, रोदसीव, दम्पतीव, जम्पतीवेत्युदाजहार। तच्च मुनत्रयानुक्तत्वादप्रमाणमिति कैयटहरदत्तादयः। एवं स्थिते— 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम'॥ इति भारतप्रयोगं समर्थयते— वशब्द इति।<\/w> 'वं प्रचेतसि जानीयादिवार्थे च तदव्ययम्' इति मेदिनी॥ 'व वा यथा तथैवैवं साम्ये' इत्यमरग्रन्थ्याख्यावसरे 'शात्रवं व पपुर्यशः' इति कालिदासप्रयोगस्याभियुक्तै-रुदाहृतत्वात्। 'कादम्बखण्डितदलानि व पङ्कजानि'इत्यादिदर्शनाच्चेति भावः। यत्तु पाठान्तरं 'वद्वा यथा तथा' इत्यादि; तदयुक्तम्, नामलिङ्गानुशासनप्रक्रमे तद्धितवतेरननुगुणत्वात् अपत्यसमूहादिपर्यायमध्येऽण्फिञ्वुञादीनामनुक्तेश्च। अदसो मात् [[1.1.12]] ॥ इह एकारो नानुवर्तते, असम्भवात् इत्यभिप्रेत्याह—", "11012": "ईदूताविति।<\/w> ननु उकारानुवृत्तिर्व्यर्था, स्त्रियौ फले वा अमू आसाते इत्यत्र पूर्वेणैव सिद्धेः, मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वादत आह— रामकृष्णाविति।<\/w> पुंसि पूर्वेण न सिध्यति, औकारान्तत्वादिति भावः। <<अदसो मात्>> [[1.1.12]] इति सूत्रं प्रति तु मूत्वमीत्वे नासिद्धे, आरम्भसामथ्र्यात्। एकारोऽपीति। तथा च एकाराननुवृत्तितात्पर्यग्रहणफलकं माद्ग्रहणमिति भावः। अत्रेदं चिन्त्यम्- ईदूत्सप्तम्यर्थे प्रगृ ह्यम्, अदसः, एच्च द्विवचनमित्येव कुतो न सूत्रितम्। एवं हि पूर्वसूत्रस्थमीदूद्ग्रहणं प्रकृतसूत्रे माद्ग्रहणं च मास्तु। एकदेशानुवृत्तिक्लेशोऽपि नेति॥", "11013": "छान्दसमपीदं संदर्भशुद्ध्यर्थमुक्तम्। वस्तुतस्त्वनुकरणार्थतया लोकार्थपि सम्भवत्येव? त्वे रायो मे राय इत्यादौ त्वे इति, मे इति, इत्यनुकरणे प्रयोजनाभावात्। अस्मे इति—<\/w> अस्मभ्यमित्यर्थः। भ्यसः <<सुपां सुलुक्>> [[7.2.39]] इति शे आदेशः। <<शेषे लोपः>> [[7.2.90]] ॥", "11014": "अनाङिति पर्युदासादेवाज्रूपनिपाते लब्धे निपातग्रहणमुत्तरार्थं स्पष्टार्थमिहैव कृतम्। आ एवमिति।<\/w> पूर्वं प्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः। आ एवं किलेति।<\/w> स्मरणद्योतकोऽयमाकारः। वाक्येत्यादि।<\/w> तथा च भाष्यम्— ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्॥1॥इति। अत्र अङिल्लक्षण एव तात्पर्यं लाघवात्। अन्यस्य ङित्त्वं त्वर्थसिद्धम्। ईषदर्थेत्यादिस्तु अवयुत्यानुवादः। एवं च अभ्र आँ अप इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्वात् <<आङोऽनुनासिकश्छन्दसि>> [[6.1.126]] इति प्रवर्तत इति भावः॥", "11015": "निपातः किम्? देवोऽसि वायवाहि।", "11016": "ऋषिर्वेदः 'तदुक्तमृषिणा' इत्यादौ तथा दर्शनादित्यभिप्रेत्याह- अवैदिक इति। सम्बुद्धौ किम्? अहो इति। अत्र परत्वाद्विकल्पो मा भूत्। यत्तु 'ओत्' इत्यत्र निपातानुवृत्तेरिह च संबुद्धिग्रहणस्य प्रत्युदाहरणं वृत्यादावुक्तं गवित्ययमाहेति। तन्न, तत्र प्रगृह्रसञ्ज्ञासत्त्वेऽपि प्रकृतिभावाप्रसक्तेः। <<इकोऽसवर्णे>> [[6.1.127]] इत्यत्र हि पदान्तग्रहणमनुवर्तत इत्यकरे स्पष्टम्। एवं च <<प्लुतप्रगृह्या>> [[6.1.125]] इति सूत्रे तत्सम्बन्ध आवश्यकः। गविति च न पदम्। अनुकार्यानुकरणयोरभेदविवक्षया अर्थवत्वाभावेन विभक्तेरनुत्पादात्॥", "11017": "<<निपात एकाज्>> [[1.1.14]] इति प्राप्ते विभाषेयम्॥", "11018": "अनुनासिक इति।<\/w> तेनास्मिन् परे 'यरोऽनुनासिक-' इति विकल्पः। यदेतनूँ इति पठसि, यदेतनूँ इति वा तद्दीर्घमित्यादि। एतदर्थमेव तत्रानुनासिकग्रहणम्, अन्यथा यरो ञमि ञम्वेत्येवावक्ष्यत्॥", "11023": "'बहुगण'॥ बहगणौ प्रातिपदिके संख्यावाचके गृह्येते, न तु संघवैपुल्यवाचके अपि, संख्यायते अनयेति अन्वर्थसंज्ञाविधानात्। अत एव डतिरिपि तद्धित एव गृह्यते, वतुना साहचर्याच्च; न तु पातेर्डतिः।", "11024": "स्वाभिधेयेति।<\/w> स्वस्य पूर्वादिशब्दस्याभिधेयेनापेक्ष्यमाणस्यावधेर्नियम इत्यर्थः। 'दिशः सपत्नी भव दक्षिणायाः' इत्यादावपि व्यवस्थाऽस्त्येव; प्रसिद्धत्वात्तु नावधिवाची शब्दः प्रयुज्यते। न च संज्ञात्वान्निषेधः आधुनिकसंकेतो हि संज्ञा। न च दिक्षु साऽस्ति इति अस्तातिप्रकरणे कैयटहरदत्तादयः। अत्र दिक्षु चिरन्तनः, कुरुषु तु आधुनिकः संकेत इत्यत्र व्याख्यातृवचनमेव प्रमाणम्। एतेन 'विश्वेषां देवानाम्' इति व्याख्यातम्। वेदप्रसिद्धत्वात्। इहामुकस्मात् कुशला इति अवध्यन्वयसंभवेऽपि तन्नियमो नास्तीति भावः। अधरे ताम्बूलरागः, प्रत्युत्तरे च शक्त इत्यपि प्रत्युदाहर्तव्यम्। कथं तर्हि 'तथा परेषां युधि च' इति कालिदासः, 'अपरे प्रत्यवतिष्ठते' इत्यादि च? अत्राहुः—देशवाचितया व्यवस्थाविषययोरेव परापरशब्दयोरुपचाराच्छत्रौ प्रतिवादिनि च प्रयोगः। न चैवमुपसर्जनता। न हि लाक्षणिकत्वमुपसर्जनत्वम्, किं तु स्वार्थविशिष्टार्थान्तरसंक्रमः। स च समासादिवृत्तावेव। अत एव भूवादिसूत्रे 'एतान्यपीति— एतत्प्रतिपाद्यानि वस्तूनीत्यर्थः'इति कैयटोक्तिः सङ्गच्छते। वस्तुतस्तु परापरशब्दयोर्देशान्तरनिष्ठत्वादिकमेवार्थः, शत्रुत्वादिकं तु आर्थिकोऽर्थः। असंज्ञायां किम्? उत्तराः कुरवः। सुमेरुमवधिमपेक्ष्य कुरुषूत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था। किं तु आधुनिकसङ्केतोऽयमित्याहुः। स्त्रीलिङ्गनिर्देशः संख्यां विशेषयितुम्। तत्साममर्थ्याच्च पूर्वत्र संज्ञापरमपि संख्याग्रहणमिह संज्ञिपरं सम्पद्यत इत्याशयेनाह— संख्येति।<\/w> यत्तु प्राचा उपदेशकाल षान्ता नान्ता चेत्युक्तम्। तत्पञ्चेत्यत्र नलोपे कृतेऽपीत्यादिस्वग्रन्थविरुद्धम्। सम्प्रत्यनान्तत्वेऽपि उपदेशे नान्त्वमासीदिति किमसिद्धत्वेन? नन्वयं पूर्वापरविरोधः काशिकायामपि तुल्य इति चेत् किं ततः। 'बाधे दृढेऽन्यसाम्यात् किं दृढेऽन्यदपि बाध्यताम्' इति न्यायात्। यत्तु व्याचख्युः— उपदेशकाले यौ षकारनकारौ तदन्तेत्यर्थः। देवदत्तस्य गुरुकुलमितिवत् समुदायेन सम्बन्धान्नासमर्थसमास इति; तदापाततः। अवयवेन सम्बन्धं व्याख्याय समुदायेन सम्बन्धादित्युक्तेः परस्परव्याघातात्। किं च यत्रोपसर्जनपदार्थः ससम्बन्धिकस्तत्र द्वयी विधा। सापेक्षोऽपि समस्यत इत्येका। प्रधानपदार्थस्यैव कुलादेर्गुर्वादिनेव देवदत्तादिनाऽपि सम्बन्धः। स च गुरुणा सह उत्पत्तिगर्भः। देवदत्तेन सह तु तदीयगुरूत्पाद्यत्वरूपो गुरुघटित इति द्वितीया विधा। उक्तं च हरिणा— सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते॥ इति॥ समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह॥ इति च॥ अत्र उपसर्जनं न ससम्बन्धिकम्। येन द्वयी विधाऽवकाशमासादयेत्। नन्विहाप्यन्तशब्दः ससम्बन्धिकार्थोऽस्तीति चेत्? उपदेशकाले यौ षकारनकाराविति वदद्भिस्तदन्वयस्य त्यक्तत्वात्। अन्यथा हि उपदेशकालेऽन्तौ यस्येति वक्तव्यं स्यात्। वस्तुतस्तु तदपि न। अन्तशब्दो हि अवयविनि साकाङ्क्षो न तु यत्र कुत्रचित्। अन्यथा ऋद्धस्य राजपुरुष इति स्यात्। राज्ञोऽपि ईशितुरीशतव्यं प्रति साकाङ्क्षत्वात्। 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति कोषात्। यदि तु ऋद्धं प्रत्यनाकाङ्क्षतेति ब्रूषे तर्हि समं प्रकृतेऽपि। संनिपातेति।<\/w> तथा चोपदेशकाल इति व्याख्यानं निष्फलमपीति भावः। यत्त्वाहुः—परिभाषाया अनित्यत्वाल्लुक् स्यादिति; तत् साहसमात्रम्। इष्टस्थलेऽप्यप्रवृत्तौ परिभाषाया निष्फलत्वापत्तेः। किञ्चोपदेश इति निर्मूलमपि। यत्तु वदन्ति—अन्तग्रहणसामर्थ्यादौपदेशिकत्वं लभ्यते इति; तदपि न। संख्येत्यस्याऽऽकर्षणेन संज्ञिपरत्वसम्पादनेन च सामर्थ्योपक्षयात्।", "11027": "सर्वादीनि इति तद्गुणसंविज्ञानो बहुव्रीहिः। 'हलि सर्वेषाम्' इति निर्देशात्। द्वन्द्वे चेतीति।<\/w> स हि समुदायस्य निषेधो, नत्ववयवानामिति वक्ष्यते। न च तदन्तविधिं विना समुदाये संज्ञाप्रसक्तिरस्तीति भावः। ननु तदन्तसंज्ञायाः किं फलम्। न च परमसर्वस्मायित्यादौ स्मायादयः फलम्, अङ्गाधिकारे तदन्तविधिनैव तत्सिध्देरित्यत आह— तेनेति।<\/w> न चेहापि 'प्रातिपदिकात्' इत्यनुवृत्तेः सर्वनाम्नां तद्विशेषणे तदन्तविधिर्भवतीति वाच्यम्, 'समासप्रत्ययविधौ प्रतिषेधः' इत्युक्तेरिति भावः। अकच्चेति।<\/w> चकारात्परमसर्वत इत्यत्र तसिल्।", "11028": "गौणत्वादप्राप्ते विभाषेयम्। यत्त्वाहुः- 'न बहुव्रीहौ' इति निषेधे प्राप्त इति, तदापाततः, तस्यालौकिकप्रक्रियावाक्यान्तर्गतसर्वादिविषयत्वात्, अस्य च समासविषयत्वात्। योत्तरेति।<\/w> यत्त्वाहुः- या पूर्वा सोत्तराऽस्या उत्तरपूर्वेति, तदरभसात्, पूर्वनिपातवैपरीत्यापत्तेः।", "11029": "कृते बहुव्रीहौ निषेधो व्यर्थः 'उपसर्जनीभूता न सर्वादय' इति वक्ष्यमाणत्वादत आह- प्रक्रियेति।<\/w> न च निमित्तस्यानुपसर्जनत्वस्य विनाशोन्मुखत्वात्प्रागेव संज्ञा न भविष्यतीति वाच्यम्। अकृतव्यूहपरिभाषाया अनित्यत्वात्। तत्र चैतत्सूत्रस्यैव ज्ञापकत्वात्। अतिभवकानिति।<\/w> एतदेव ज्ञापनफलमिति भावः। इष्टापत्तिं कृत्वेति।<\/w> 'च्छ्वोः शूड्' इति सतुक्कग्रहणं, प्रकृतिप्रत्ययापत्तिवचनं वा अनित्यत्वे ज्ञापकम्, लक्ष्यानुरोधाद्व्यवस्थेति भावः। यथोत्तरमिति।<\/w> तथा चाद्यत्वे भाष्यकारोक्त्यैव व्यवस्थेति भावः। यत्तु प्राचोक्तम्— बहुव्रीहौ सर्वादेः सर्वनामता न स्यात्। प्रियसर्वाय। सूत्रकारमते बहुव्रीहौ न सर्वनामता। भाष्यकारमते गौणत्वमात्रे। 'त्वत्कपितृको' 'मत्कपितृक' इत्यत्र समासावयवयोर्युष्मदस्मदोः सर्वनामत्वादनङ्गकार्यत्वेनाकच् स्यात् स मा भूत्, कप्रत्यय एव स्यादित्येतदर्थमिदं सूत्रमिति न्यासकृन्मतमिति। अत्रेदं वक्तव्यम्। किं बहुव्रीहौ संज्ञा नेति विवक्षितम् उत तदवयवानां सर्वादीनामिति? नाद्यः। समासावयवयोर्युष्मदस्मदोरित्युत्तरग्रन्थविरोधात्, समुदाये प्राप्तिविरहाच्च। न च तदन्तविधिना प्राप्तिः। बहुव्रीह्यवयवानामुपसर्जनतया सर्वादिबहिर्भावेन तदन्ते प्राप्तेर्दूरापास्तत्वात्। अत एव न द्वितीयोऽपि। न चोपसर्जनानां पाठात् पर्युदासो वार्तिककृतोक्तो न तु सूत्रारूढ इति वाच्यम्। अन्वर्थसंज्ञाबलेन सूत्राक्षरैरेव तल्लाभात्। एतेन सूत्रकारमते बहुव्रीहौ न सर्वनामतेत्यपि परास्तम्। बहुव्रीहावेवेति तस्यार्थः। भाष्यकारमते इत्याद्यपि न। विशेषोपादानेन हि सूत्रकारवार्तिककारयोर्मतमन्यादृशमिति प्रतीयते। देवदत्तो वामेनाक्ष्णा पश्यतीत्युक्ते दक्षिणेन न पश्यतीतिवत्। तच्च न। सौत्रवार्तिकमतेऽपि गौणपर्युदासस्येष्टत्वात्। यत्तु त्वत्कपितृक इत्यादि। तदित्थं प्राचा व्याख्यातम्— त्वं पिता यस्य, अहं पिता यस्येति विगृह्य बहुव्रीहिसमासे कृते समासावयवयोः समासान्तःपातिनोर्युष्मदस्मदोः सर्वार्थवाचकत्वेन सर्वनामसंज्ञकत्वादज्ञाताद्यर्थविवक्षायाम् 'अव्ययसर्वनाम्नाम्' इत्यकच् प्रसज्येत। तस्य स्मैप्रभृतीनामिवाङ्गाधिकारविहितत्वाभावेनाङ्गसंज्ञानपेक्षत्वात्। ततश्च त्वकत्पितृक इत्याद्यनिष्टं प्रसज्येतेति। न्यासकृताऽपि अन्वर्थसंज्ञाबलादेव संज्ञानिरासे कृतेऽकज् न भविष्यतीत्याशङ्क्य समुदायो हि विशेषे वर्तते, पूर्वपदन्तु सर्वार्थताया अनपेतमेवेत्युक्तम्। तदेतत्सर्वं प्रामादिकमेव। तथा हि— जहत्स्वार्थायां वृत्तौ समासावयवयोरर्थ एव नास्ति। अजहत्स्वार्थायामपि स्वार्थविशिष्टान्यपदार्थवृत्तित्वेनोपसर्जनत्वं स्पष्टमेव। एवं च समासान्तःपातिनोर्युष्मदस्मदोः सर्वार्थवाचकत्वेनेत्यादि ग्रन्थः, समुदायो हित्यादिन्यासग्रन्थश्च पक्षद्वयेऽपि व्याहतः। किं चैवम् अतिसर्वायेत्यत्र स्मायदेशो दुर्वारः, अङ्गाधिकारे तदन्तग्रहणात्। त्वदुक्तरीत्या सर्वशब्दस्य सर्वार्थतानपायात्। न हि पूर्वपदे सर्वार्थता उत्तरपदे तु नेति युक्तिमत्। अपि चैवं गौणत्वे सर्वादीनां सर्वार्थवाचकत्वं नास्तीति स्वोक्त्या सह विरोधः स्यादिति यत्किंचिदेतत्। यदपि व्याचख्युः— त्वं पिता यस्येत्यादौ विग्रहवाक्ये प्राप्ता संज्ञा निषिध्यते इति। तदपि न। विग्रहवाक्यं हि लौकिकमलौकिकं वा विवक्षितम्? नाद्यः। प्रक्रियावाक्येऽयं निषेधो न तु लौकिक इति कैयटग्रन्थविरोधात्, प्रकृतसनदर्भगतपूर्वापरस्वग्रन्थविरोधाच्च। न द्वितीयः। तस्य युष्मद् सु पितृ सु इत्याकारकत्वेन त्वं पितेत्याकारकत्वायोगात्। यदपि व्याचख्युः— नन्वतिसर्वादौ संज्ञा न प्रवर्तते त्वत्कपितृकादौ तु संज्ञा प्रवर्तत इत्यत्र किं विनिगमकन्तत्राह—अनङ्गकार्यत्वेनेति। अङ्गशब्दः समुदायपरः। तेनातिसर्व इत्यत्राङ्गसंज्ञाऽपेक्षिता सर्वनाम्नोऽङ्गात् स्मायादिविधानादवयवयमात्रस्य सत्यपि सर्वनामत्वे दोषाभावात्। समुदाये च समुदायार्थं प्रति सर्वादेरुपसर्जनत्वात् तदन्तस्य संज्ञा न भवतीति युक्तम्। इह तु अवयवमात्रस्य सा चिकीर्षिता न समुदायस्य, अवयवश्च स्वार्थमात्रप्रधान इति स्यात् प्रसङ्ग इति वैषम्यमस्तीत्याशय इति। तदपि न। अङ्गाधिकारे तदन्तविधेः सर्वसंमतत्वेनावयवमात्रे सत्यपि सर्वनामत्वे दोषो नास्तीत्युक्तेव्र्याहतत्वात्। अङ्गाधिकारपरिभाषया स्मै स्यादिति स्वग्रन्थविरोधाच्च। अथायमाशयः—प्राक् प्रवृत्ताऽपि संज्ञा अर्थान्तरोपसंक्रमे सति गतेति। तर्हि अकजपि गच्छतु। ननु कार्यकालपक्षे स्मायाद्यर्थं पुनः संज्ञापेक्षिता, सा च दुर्लभेत्याशयः इति चेत्? अस्त्वेवम्। न त्वसौ प्रकृतग्रन्थार्थः। न्यासग्रन्थविसंवादेन 'इति न्यासकृन्मतम्' इति वाक्यशेषविरोधात्। न्यासग्रन्थस्त्वनुपदमेवोदाहरिष्यते। यदपि व्याचख्युः— अङ्गप्रधानं बाध्यं तद्विरुद्धमनङ्गं बाधकमित्यर्थः। तथा च कप्रत्ययापवादत्वादकच् स्यदित्यर्थ इति। तदपि क्लिष्टं व्यर्थं च, न्यासग्रन्थासंमतं च। तथा हि, त्वत्कपितृको मत्कपितृक इति वृत्तिग्रन्थं व्याख्याय न्यासकार उज्जग्राह— ननु च अन्वर्थसंज्ञाकरणादेवात्र संज्ञानिरासे कृतेऽकज् न भविष्यति। न ह्यत्र सर्वार्थता सम्भवति विशेषविषयत्वात्। नैतदस्ति। समुदायो हि विशेषे वर्तते पूर्वपदं तु सर्वार्थताया अनपेतमेव। भवतु तर्हि अनयोरनन्तरयोरेतत्सूत्रविषयता । प्रियविश्वायेत्यादेस्तु नोपपद्यते। न हि प्रियविश्वादयः सर्वेषां नामानि। नापि तदवयवभूतानां विश्वादिशब्दानां किञ्चित्सर्वनामकार्यमुपपद्यते। स्मैप्रभृतीनामङ्गकार्यत्वात्। विश्वादिशब्दानामनङ्गत्वात्। एवं मन्यते—त्वत्कपितृको मत्कपितृक इत्यत्राकज् मा भूद् इत्येतदर्थं तावदेतदारब्धव्यम्। प्रियविश्वायेत्यादावपि विस्पष्टार्थं भविष्यतीति। अनेन हि न्यासग्रन्थेनाङ्गसंज्ञाऽनपेक्षत्वमेवार्थो लभ्यते, स च स्वोत्प्रेक्षितव्याख्यायां दूरोत्सारित एव। यदपि व्याचख्युः—यद्यपि सूत्रवार्तिककृतोरप्येतन्मतं तथाऽपि न्यासकृता विवृतत्वाद् न्यासकृन्मतमित्युक्तमिति। तदपि स्थवीयः, वार्तिककृता अस्यार्थस्यास्पृष्टत्वात्। न्यासकृता समासे कृते सतीत्यदि वदता त्वदुक्तार्थस्य दूरत्यक्तत्वेन तद्विवृतत्वाभावाच्च। यदप्याहुः- न्यासकृच्छब्देन सूत्रकार एव विवक्षित इत्यादि। तदपि न । सूत्रकारमते बहुव्रीहावित्यादिपूर्वग्रन्थेन सह विरोधात्। भाष्यकारमते त्विति ग्रन्थेन तस्य विच्छिन्नत्वाच्च। तस्मादिह प्राचः प्रक्रियाग्रन्थास्तद्व्याख्यातृग्रन्थाश्चापातरमणीया एवेत्यास्तां तावत्। यदि तु प्रक्रियाग्रन्थोऽपि कथंचिद्भाष्याविरोधेन व्याख्येय इत्याग्रहस्तर्हीत्थं व्याख्यायताम्— ननु प्रियविश्वायेति गौणतया गतार्थम्। अतो निष्कर्षमाह— बहुव्रीहाविति।<\/w> चिकीर्षिते सतीति शेषः। गौणत्वमात्र इति।<\/w> मात्रशब्दोऽवधारणे, गौणत्वे एव न तु ततः प्राक्। तथा च सूत्रं प्रत्याख्यातमिति भावः। न्यासकृन्मतस्य तु अतिफल्गुत्वात् 'स्वरूपव्याक्रियैव पराक्रियेत्याशयेनाह- त्वत्कपितृक इत्यादि'<\/w> । एतच्च प्राचीनतत्तद्ग्रन्थपरिशीलनशालिभिर्विभावनीयम्। प्रकृतमनुसरामः। संज्ञाकार्यमिति।<\/w> सर्वनामसंज्ञाप्रयुक्तं स्मायादिकमित्यर्थः। अन्तर्गणकार्यमिति।<\/w> 'अद्ड्डतरादिभ्यः' 'त्यदादीनामः' 'तदोः सस्सौ' इत्यादिकमित्यर्थः।", "11030": "तृतीयासमासार्थेति।<\/w> इह 'पूर्वसदृश—' इति विहितः समासो गृह्यते प्रतिपदोक्तत्वात्, न तु 'कर्तकरणे कृता' इति। तेन त्वयका कृतमित्यत्र निषेधो न।", "11031": "समुदायस्येति।<\/w> तत्रैव द्वन्द्वशब्दस्य मुख्यत्वान्न तु द्वन्द्वे यानि सर्वादीनीति सम्बन्धः, कारकाणां क्रिययैवान्वयात्। न च द्वन्द्वे विद्यमानानि यानीति सम्बन्धः। विद्यतिक्रियाध्याहारे गौरवात्। निषेध्याया भवतिक्रियाया एव प्राधान्येन तदन्वयस्यैव न्याय्यत्वाच्च। किं च त्यदादीनां द्वन्द्वो नास्ति एकशेषेण बाधितत्वात्। ततः प्राचीनास्त्वदन्यास्तत्र काकचोर्न विशेषः। न च दक्षिणोत्तरपूर्वाणामित्यत्रेष्टमपि पुंवद्भावं निषेद्धुं किं न स्यादिति वाच्यम्। 'सर्वनाम्नो वृत्तिमात्र' इति मात्रग्रहणं हि क्वचित्सर्वनामत्वेन दृष्टानां सम्प्रति संज्ञाऽभावेऽपि पुंवद्भावः। तस्माद् न्यायबलाद् फलबलाच्च समुदायग्रहणमेवोचितम्। यद्यपि त्वच्छब्दस्तान्त इति पक्षेऽवयवनिषेधेऽपि फलं सुवचम्, तथापि शास्त्रस्यल्पविषयता स्याद् न्यायश्च विरुध्येतेति भावः। सुट्प्रसङ्ग इति।<\/w> वर्णाश्रमेतराणामित्यादाविति भावः। न च निषेधसामर्थ्यम्। अनाङ्गस्य त्रतसिलादेर्व्यावृत्त्या चरितार्थत्वात्।", "11032": "जसाधारमिति।<\/w> यद्यपि शीभावेन जस् अपह्यिते, तथाऽपि औपचारिकमाधारत्वं बोध्यम्। यद्वा, जसः इः जसिः, तस्मिन्। सौत्रः सप्तम्या लुक्, इत्यर्थतो व्याचष्टे—जसाधारमिति। पदेति।<\/w> पदमङ्गं च विशेष्यम् विशेषणेन तदन्तविधिरिति भावः।", "11035": "आत्मात्मीयज्ञातिधनवाची स्वशब्दः, तत्र ज्ञातिधनयोः पर्युदासात् आत्मा आत्मीयौ परिशिष्टावित्याशयेन व्याचष्टे— आत्मीया इत्यर्थः, आत्मान इति वेति।<\/w> यत्त्वाहुः—आत्मनि स्वशब्दो नपुंसकः, तेन स्वे स्वा इत्युदाहरणं तत्र न सम्भवतीति। तच्चिन्त्यम्। आत्मन्यपि स्वशब्दस्य पुंस्त्वात्। 'विभाषा जसि' इति प्रकरणे 'स्वमात्मीये' इत्येव वक्तव्ये गुरुनिर्देशं कुर्वतः सूत्रकारस्यैवात्र प्रमाणत्वात्। यदपि स्वोक्तेऽर्थे उपष्टम्भार्थं— स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने। इति अमरसिंहोक्तिमाहुः, तदपि चिन्त्यम्। कोशे हि आत्मनीति पूर्वान्वयि। स्वमिति तु उत्तरान्वयि। तथा च हेमचन्द्रः- द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने॥ इति। मेदिनीकारोऽपि— स्वः स्यात्पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीये स्त्रियां धने॥इति। तस्मात् स्वे स्वा इत्यस्यात्मान इति विवरणं सम्यगेवेति स्थितम् ॥ ज्ञातिधनवाचिनस्त्विति।<\/w> ताच्छील्ये णिनिना ज्ञातिधनयोरपि आत्मीयत्वं पुरस्कृत्य प्रवृत्तौ सर्वनामताऽस्त्येवेति ध्वनयति। एतदर्थमेव हि सूत्रे आख्याग्रहणं कृतम्।", "11036": "बहिरित्यनावृतो देशो बाह्यं चोच्यते। तत्राद्यमर्थं गृहीत्वाऽऽह—बाह्या इत्यर्थ इति। द्वितीये तु आभ्यन्तरा इत्यर्थो बोध्यः । बाह्येन हि आभ्यन्तरस्य योगोऽस्ति। अर्थद्वयमप्याकरे स्थितम्। उपसंख्यानशब्दोऽपि करणव्युत्पत्त्योत्तरीयपरः, कर्मव्युत्पत्यात्वन्तरीयपरः।", "11037": "स्वरादयो निपाताश्चेति समाहारद्वन्द्वः। स्वरिति स्वर्गे परलोके च। अन्तरिति मध्ये। प्रातरिति प्रत्यूषे। पुनरिति अप्रथमे विशेषे च। सुनुतर् अन्तर्धाने, स्वराद्याः पञ्च रेफान्ताः॥ उच्चैस् महति। नीचैस् अल्पे। शनैस् क्रियामान्द्ये। ऋधक् सत्ये। वियोगशीघ्रसामीप्यलाघवेष्वत्यन्ये। ऋते वर्जने। युगपदित्येककाले। आराद् दूरसमीपयोः। पृथक् भिन्ने। ह्यस् अतीतेऽन्हि। दिवा दिवसे। रात्राविति निशि। सायमिति निशामुखे। चिरमिति बहुकाले। मनाक्, ईषत्, इमावल्पे। जोषं सुखे मौने च। तूष्णीमिति मौने। बहिस्, अवस् इमौ बाह्ये। समयेति समीपे मध्ये च। निकषेत्यन्तिके। स्वयमित्यात्मनेत्यर्थे। वृथेति व्यर्थे। नक्तमिति रात्रौ। नञ् निषेधे। हेताविति निमित्ते। इद्धेति प्राकाश्ये। अद्धा इति स्फुटावधारणयोः, तत्त्वातिशययोरित्येके। सामीत्यर्धजुगुप्सयोः। वत् 'तेन तुल्यम्' इत्यादिभिर्विहितो वति-प्रत्ययः। यस्तु 'उपसर्गाद्धात्वर्थ' इति विहितः स नेह गृह्यते, 'यदुद्वतो निवतो यासि'। सना सनत् इत्येते नित्ये। उपधेति भेदे। तिरस् अन्तर्धौ तिर्यगर्थे परिभवे च। अन्तरेति मध्ये विनार्थे च। अन्तरेणेति वर्जने। ज्योगिति काले भूयस्त्वे प्रश्ने शीघ्रार्थे सम्प्रत्यर्थे च। कमिति वारिमूर्धनिन्दासुखेषु। शं सुखे। सहसेत्याऽऽकस्मिकाऽविमर्शयोः। विनेति वर्जने। नानेत्यनेकविनार्थयोः। स्वस्तीति मङ्गले। स्वधा पितृदाने। अलं भूषणपर्याप्तिशक्तिवारणनिषेधेषु। वषट् वौषट् श्रौषट् एते हविर्दाने। अन्यदित्यन्यार्थे। अस्तीति सत्तायाम्। उपांश्विात्यप्रकाशोच्चारणरहस्ययोः। क्षमेति क्षान्तौ। विहायसेति वियदर्थे। दोषेति रात्रौ। मृषा मिथ्येत्येतौ वितथे। मुधेति व्यर्थे। पुरेत्यविरते चिरातीते भविष्यदासन्ने च। मिथो मिथस् एतौ रहस्सहार्थयोः। प्रायस् इति बाहुल्ये। महुस् पुनरर्थे। प्रवाहुकं समकाले सिद्धार्थेच। प्रवाहिकेति पाठान्तरम्। आर्यहलमिति बलात्कारे। शाकटायनस्तु आर्येति प्रतिबन्धे, हलमिति प्रतिषेधविवादयोरित्याह। आभीक्ष्ण्यमिति पौनः पुन्ये। साकं सार्धमेतौ सहार्थौ। नमस् नतौ। हिरुक् वर्जने। धिक् निन्दाभर्त्सनयोः। अम् शैघ्र्येऽल्पे च। आम् अङ्गीकारे। 'किमेत्तिङव्यय' इति 'कास्प्रत्ययात्' इत्यादिभिश्च विहितः प्रत्ययोऽपीह गृह्रते इत्येके। पपाचतराम्, कारयामास। प्रताम ग्लानौ। प्रशान् समानार्थे। प्रतान् विस्तारे। मा, माङ् एतौ शङ्कानिषेधयोः। आकृतिगण इति।<\/w> तेनान्येऽपि ज्ञेयाः। तथा हि—कामं स्वाच्छन्द्ये। प्रकाममित्यतिशये। भूय इति पुनरर्थे। साम्प्रतमिति न्याय्ये। परमिति किन्त्वर्थे। साक्षात्प्रत्यक्षे। साचि तिर्यगर्थे। सत्यमित्यद्र्धाङ्गीकारे। मङ्क्षु, आशु एतौ शैघ्र्ये। सम्वत् वर्षे। अवश्यं निश्चये। सपदि शैघ्र्ये। बलवदित्यतिशये। प्रादुस् आविस् इति प्रकाशे। अनिशं, नित्यं ,नित्यदा, अजरुां,सन्ततम् एते सातत्ये। उषेति रात्रौ। रोदसी द्यावापृथिव्यर्थे। ॐ इत्यङ्गीकारे ब्रह्मणि च। भूरिति पृथिव्याम्। भुव इत्यन्तरिक्षे। झगिति, झटिति, तरसा इति शैघ्र्ये। सुष्ठु प्रशंसायाम्। दुष्ठु अतिकष्टे। सु पूजायाम्। अह आश्चर्ये। कु इति कुत्सितेषदर्थयोः। अञ्जसा तत्त्वशीघ्रार्थयोः। मिथु इति द्वावित्यर्थे। भाजक् इति शैघ्र्ये। चिराय, चिररात्राय, चिरस्य, चिरम्, चिरात् चिरेण इत्येते चिरार्थकाः। अस्तमिति विनाशे। आनुषक् आनुपूर्व्ये। अनुषक् अनुदाने। अम्नस् शीघ्रसाम्प्रतिकयोः। स्थाने इति युक्ते। वरमितीषदुत्कर्षे। सुदि शुक्लपक्षे। वदि कृष्णपक्षे इत्यादि। वेति समुच्चयादिषु। 'वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये'। हेति प्रसिध्दौ। अहेति पूजायाम्। एवेत्यवधाणेऽनवक्लृप्तौ च। एवमिति उक्तपरामर्शे। नूनमिति निश्चये तर्के च। शश्वदिति पौनःपुन्ये, नित्ये, सहार्थे च। युगपदिति ऐककाल्ये। भूयस् पुनरर्थे आधिक्ये च। कूपदिति प्रश्ने प्रशंसायां च। कुविदिति भूत्यर्थे प्रशंसायाम् च। नेदिति शङ्काप्रतिषेधविचारसमुच्चयेषु। चेदिति यद्यर्थे। चण् अयं चेदर्थे णित्। समुच्चयादौ त्वननुबन्धः। कच्चिदिति इष्टप्रश्ने। यत्रेत्यनवक्लृप्त्यमर्षगर्हाश्चर्येषु। नावकल्पयामि न मर्षये गर्हे आश्चर्ये वा यत्र भवान् वृषलं याजयेत्। नेहेति प्रत्यारम्भे। हन्तेति हर्षे विषादे अनुकम्पायां वाक्यारम्भे च। माकिः माकिं नकिरिति त्रयोऽपि वर्जने। माङ्नञौ स्वरादिषु उक्तौ। इह पाठस्तु निपातत्वार्थः। तेन आद्युदात्तत्वं सिद्ध्यतीति प्राञ्चः; तच्चिन्त्यम्। फिट्स्वरेणापीष्टसिद्धेः। यदप्याहुः— सत्ववचनानामपि अव्ययसंज्ञार्थः स्वरादिपाठ इति; तदपि चिन्त्यम्। लक्ष्मीवाचकस्यापि माशब्दस्याव्यय्वापत्तेः। तस्मादुभयत्र पाठे फलं चिन्त्यम्। यावत् तावत् एतौ साकल्यावधिमानावधारणेषु। साकल्ये— यावत् कार्यं तावत् कृतम्। अवधौ— यावत् गन्तव्यं तावत्तिष्ठ। माने— यावद्दत्तं तावद्भुक्तम्। अवधारणे—यावदमत्रं ब्राह्मणानामन्त्रयस्व। त्वै विशेषवितर्कयोः। द्वै वितर्के। न्वै इति पाठान्तरम्। रै दाने अनादरे च। रै करोति, ददातीत्यर्थः। त्वं रै किं करिष्यसि। श्रौषट् वौषट् एतौ हविर्दाने। स्वाहा देवताभ्यो दाने। स्वधेति पितृभ्यः। श्रौषडादीनामनेकाचामुभयत्र पाठः स्वरभेदार्थः। तुमिति तुङ्कारे। गुरुं तुङ्कृत्य—हुङ्कृत्य। तथाहि निदर्शने। खलु निषेधे वाक्यालङ्कारे निश्चये च। किलेति वार्तायामलीके च। अथेति मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु। अयं स्वरादिरपि। तेन मङ्गलवाचकस्य सत्त्वार्थत्वेऽप्यव्ययत्वं सिद्ध्यति। तथा च श्रीहर्षः— उदस्य कुम्भीरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरे। यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयाम्बभूव ताम्॥ अत्र हि स्नपयाम्बभूवेत्यस्य मङ्गलं स्नपनं चकारेत्यर्थः। निपातस्तु स्वरूपेणैव मङ्गलं मृदङ्गध्वनिवत्। सुष्ठु स्वरभेदार्थः पाठः। स्मेत्यतीते पादपूरणे च। आदहेत्युपक्रमहिंसाकुत्सनेषु। अवदत्तमिति।<\/w> इहानुपसर्गत्वात् 'अच उपसर्गात्तः' इति न भवति। अहमिति सुबन्तप्रतिरूपकम्। एतेन 'गेये केन विनीतौ वाम्' इति व्याख्यातम्। युवामर्थे हि वामित्यव्ययम्। अस्तीति तिङन्तप्रतिरूपकम्। एवमस्मीत्यहमर्थे त्वामस्मि वच्मि। आहेत्युवाचेत्यर्थे। आसेति बभूवेत्यर्थे इत्यादि। अ इति सम्बोधने अधिक्षेपे निषेधे च । आ इति वाक्यस्मरणयोः। इ इति सम्बोधनजुगुप्साविस्मयेषु। ई उ ऊ ए ऐ ओ औ सम्बोधने। पशु सम्यगर्थे। पशु मन्यमानाः। शुकं शैघ्र्ये। यथाकथाचेत्यनादरे। पाट् प्याट् अङ्ग हे है भो अये एते सम्बोधने। द्येति हिंसाप्रातिलोम्यपादपूरणेषु। विषु नानार्थे। एकपदे इत्यकस्मादित्यर्थे। युत् कुत्सायां हेतौ। आत इतोऽपीत्यर्थे। आकृतिगण इति। तद्यथा— यत् तत् इति हेतौ। आहोस्वित् विकल्पे। सिम सर्वतोभावे। कं पादपूरणे। सुकमतिशये। अनुकं वितर्के। शम्वट् अन्तःकरणे आभिमुख्ये च। व पादपूरणे इवार्थे च। दिष्ट्या इत्याऽऽनन्दे। चटु चाटु प्रियवाक्ये। हुमिति भर्त्स्ने। इवेति सादृश्ये। अद्यत्वे इदानीमित्यर्थे इत्यादि। अत्रेदमवधेयम्। स्वरादिचाद्योराकृतिगणत्वाऽविशेषेऽपि येषां निपातस्वरो दृश्यते चादिषु। अन्ये स्वरादिषु। स्वरद्वयभाजस्तूभयत्र बोध्याः। यथा- उतशब्दः स्वारादिषु- 'ईड्यो नूतनैरुत' इत्यन्तोदात्तप्रयोगात्। यत्तु उतशब्दस्य स्वरादितामुक्त्वा निपातस्वरमाशङ्क्यान्तोदात्तनिपातनमाश्रित्य समादधुस्तद्रभसात्। स्वरादेरनिपातत्वात्, अन्तेदात्तत्वनिपातवैयर्थ्यापत्तेश्च। यदपि काशिकायामुक्तम्। स्वर् शनैस् ऋधक् दिवा वृथा नक्तमित्यादयोऽन्तोदात्ता इति। यच्च, सनत् सनात् एवमादय आद्युदात्ता इति; तत्सर्वं प्रामादिकम्। लक्ष्यविसम्वादान्निर्मूवत्वाच्चेचि शब्दकौस्तुभे प्रपञ्चितम्। सर्वेति।<\/w> वचनत्रयात्मिकेत्यर्थः।", "11038": "नेति।<\/w> किं तु एकवचनमेवोत्पद्यते इति भावः। तद्धितः किम्? एकः, द्वौ, त्रयः। असर्वेत्यादि किम्? औपगवः।", "11039": "जीवसे इति।<\/w> 'तुमर्थे सेसेन्' इति असे प्रत्ययः। पिबद्ध्यै इति।<\/w> तेनैव शध्यै प्रत्ययः 'पाघ्रा' इति पिबादेशः। यत्त्वाहुः—कर्तरि शबिति, तद्रभसात्। 'अव्ययकृतो भावे' इति सिद्धान्तात्। अन्तग्रहणमौपदेशिकत्वप्रतिपत्त्यर्थम्। तेनेह न। आधये। चिकीर्षवे। लक्षणप्रतिपदोक्त-सन्निपातपरिभाषाभ्यां सिद्ध्यैतयोरनित्यत्वज्ञापनार्थमिदम्।", "11040": "उदेतोरिति।<\/w> उत्पूर्वादिणो 'भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्'। विसृप इति।<\/w> 'सृपितृदोः कसुन्'।", "11045": "यणः स्थाने इति।<\/w> विधिप्रदेशेषु सूत्रशाटकवद्भाविसंज्ञाश्रयणमिति भावः।", "11047": "अचां मध्य इति॥<\/w> यत्तु प्राचोक्तमन्त्यादचःपर इति। तन्न, <<शे मुचादीनाम्>> [[7.1.59]] इत्यादावन्त्यस्याचोऽसम्भवात्। तस्यैवान्तावयव इति।<\/w> तेन त्रपूणीत्यादौ अङ्गस्य नान्तत्वेन दीर्घः सिद्धः। परादित्वे स न सिध्येत्। अभक्तत्वे तु वहंलिह इत्यत्र <<वहाभ्रे लिहः>> [[3.2.32]] इति खशि <<अरुर्द्विषद्>> [[6.2.32]] इति मुमोऽनुस्वारो न स्यात्, अपदान्तत्वात्। यत्तु अभक्तत्वे दीर्घो न स्यादिति, तत् 'तदादिग्रहणं स्यादिनुमर्थम्' इत्यङ्गसंज्ञासूत्रस्थवार्तिकेनैव दूषितप्रायम्।", "11048": "यदिगन्तमिति।<\/w> एतच्च रा दाने इति धातौ अतिरि ब्राह्मणकुलमिति प्रक्रम्य माधवेन स्पष्टीकृतम्। अन्ये तु सुद्योशब्दो भाषितपुंस्कः। स एवेदानीमिगन्तः, एकदेशविकृतस्यानन्यत्वात्; अतः पुंवद्भावो भवतीत्याहुः। तथा च रूपमालादौ पुंवद्भाव उदाहृतः। तस्मादेजन्तेषु क्लीबेषु पुंवद्भावो माधवमते नास्ति, मतान्तरे त्वस्ति। अतः प्रद्यवा, प्रराया, सुनावेत्यादि प्राचोदाहृतमपि नातीव दुष्यति। इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामजन्ता नपुंसकलिङ्गाः॥ लिडिति।<\/w> लिह आस्वादने क्विप्।", "11049": "स्थानेयोगेति॥<\/w> स्थानेन योगोऽस्या इति विग्रहः। निपातनादेत्वम्।", "11050": "अनेकविधमिति<\/w> । स्थानार्थगुणप्रमाणकृतमित्यर्थः। बलीय इति।<\/w> तेन चेता स्तोतेत्यत्र प्रमाणत आन्तर्यवानकारो नेति भावः।", "11051": "आन्तरतम्यादिति।<\/w> रेफशिरस्कस्यार् इत्यस्य रेफद्वारा ऋकारेण स्थानसाम्यादित्यर्थः। पक्षे द्वित्वमिति।<\/w> ऋधेर्धस्येति भावः॥", "11054": "परस्य यदिति॥<\/w> 'तस्मादित्युत्तरस्यादेः' इति तु न सूत्रितम्। आदेरित्यंशस्य सर्वादेशबाधकत्वापत्तेः। सिद्धान्ते तु परत्वात्सर्वादेशत्वं बाधकमित्यनुपदमेव वक्ष्यति॥", "11055": "शित उदाहरणम् 'इदम इश्' इतः। यत्तु वृत्तिकृता <<जश्शसोः शिः>> [[7.1.20]] इत्युदाहृतम्। तन्न, सर्वादेशतायाः प्राक् शित्त्वस्यैवालाभात्। तत्र हि डाणलोरिवानुपूर्व्यादनेनैव सर्वादेशत्वमिति सिद्धान्तः। इत्यादाविति।<\/w> आदिशब्देन <<अतो भिस ऐस्>> [[7.1.9]] इति गृह्यते। परत्वादिति।<\/w> अत एव <<आदेः परस्य>> [[1.1.54]] इति पृथक् क्रियते इत्युक्तम्। 'उत्तरस्य' इत्यंशस्तु औशैसोरपि प्रवर्तत एव। यत्तु प्राचा 'आदेः' इति सूत्रं विवृण्वता पञ्चमीनिर्देशेनेत्याद्युक्तं, तदसम्बद्धमिति स्पष्टमेव।", "11056": "'धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशा' इति प्राचोक्तम्। तत् परिगणनमुदाहरणमात्रं वा? नाद्यः। सिच्क्सचङङादीनां श्नादेशस्य शानचश्चासङ्ग्रहापत्तेः। नान्त्यः। अव्ययस्याङ्गपदाभ्यां पृथग्ग्रहणवैयर्थ्यात्। प्रस्तुत्येति वृत्तिकारोक्तं तदुदाहरणमपि मन्दम्। क्त्वामात्रस्यानव्ययत्वात्, कृत्त्वेन सिद्धत्वाच्चेत्याशयेनाह— आदेश इति।<\/w> अनल्विधाविति किम्? तेन, तस्मात्, तस्य,तÏस्मश्च विधौ मा भूत्। तत्र अला विधौ यथा-व्यूढोरस्केन। अत्र सकारस्य स्थानिवत्वेन विसर्गवदट्त्वमाश्रित्य <<अड्व्यवाये>> [[8.4.2]] इति णत्वं प्राप्तम्। अलः परस्य— द्यौः, पन्थाः। हल्ङ्यादिलोपो न। अलो विधौ द्युकामः। वलि लोपो न। अलि विधौ—यजेः क्तः, क इष्टः। <<हशि च>> [[6.1.114]] इत्युत्वं न। अल् चेह स्थान्यवयव एव गृह्यते। तेन रामायेत्यादौ <<सुपि च>> [[7.3.102]] इति दीर्घः सिद्धः। तद्विधौ हि यञादित्वमाश्रितं, यञ्चादेशावयवो न तु स्थान्यवयव इति। तदेतत्सकलमभिप्रेत्याह- न तु स्थान्यलाश्रय इति।<\/w> आश्रयणं चेह यथाकथञ्चिन्न तु प्राधान्येनैवेत्याग्रहः। तेन प्रपठ्येत्यत्र वलादिलक्षण इण् न। तन्निषेधादिति।<\/w> स्थानिवत्त्वनिषेधादित्यर्थः॥", "11057": "अल्विध्यर्थमिति।<\/w> तेन वव्रश्चेत्यत्र वस्य सम्प्रसारणं न । उरदत्वस्य स्थानिवत्वेन संप्रसारणतया <<न संप्रसारण->> [[6.1.37]] इति निषेधात्। न चोरदत्वं परनिमित्तं नेति वाच्यम्। अङ्गाक्षिप्ते प्रत्यये परे तद्विधानात्, 'प्रागभ्यासविकारेभ्योऽङ्गाधिकारः' इति पक्षं दूषयित्वा 'आसपातमसमाप्तेः' इति पक्षस्यैव आकरे सिद्धान्तितत्वात्। किं च पूर्वसूत्रेण स्थानिप्रयुक्तमतिदिश्यते नत्वादेशप्रयुक्तं वार्यते, 'नायकः' 'पावकः' इत्यादौ <<एचोऽयवायावः>> [[6.1.78]] इत्यादीनामप्रवृत्तिप्रसङ्गात्। अनेन तु वार्यते, शब्दाधिकारमाश्रित्य भावाभावयोरुभयोरप्यतिदेशोऽयमिति स्वीकारात्। <<न पदान्त>> [[1.1.58]] इति सूत्रे यलोपदीर्घादिग्रहणं चेह लिङ्गम्। अत एव 'गणयति' इत्यादौ न वृद्धिः। स्थानिनि सत्यभवन्त्यास्तस्या आदेशेऽप्यभावातिदेशात्। उक्तं च 'काममतिदिश्यतां वा सच्चासच्चापि नेह भारोऽस्ति' इति। स्यादेतत्। पूर्वत्वस्य सावधित्वेन सन्निहितस्यैव अवधित्वमुचितम्। सन्निहितं चेह त्रयम् स्थानी, आदेशो, निमित्तं च। तत्र न तावत् स्थानी अवधिस्तस्यादेशेनापहारात्। नाप्यादेशनिमित्ते, 'वैयाकरण' इत्यत्र ऐकारस्यायादेशापत्तेरित्याशङ्क्याह— अचः पूर्वत्वेन दृष्टस्येति।<\/w> पूर्वत्वमुपलक्षणं न तु विशेषणमति भावः। एतेन 'अचः पूर्वत्वविज्ञानादैचोः सिद्धम्' इति वार्तिकं व्याख्यातम्॥", "11058": "पदस्य चरमावयव इति।<\/w> वृक्षं वेतीति वृक्षवीः, वातीति वृक्षवाः, तमाचष्टे वृक्षव्, विच्। इह <<लोपो व्योः—>> [[6.1.66]] इति वलोपो न, स्थानिवत्त्वात्। न च <<न पदान्त—>> [[1.1.58]] इति निषेधः, इह विधेयस्य लोपस्य पदानवयवत्वात्। पदान्तस्य स्थाने विधौ नेति व्याख्यापने तु नेदं सिध्येत्। 'सुबन्ताण्णिच्' इति हरदत्तादिमतेऽन्तर्वर्तिसुपा पदत्वात्। न च 'इष्ठवत्' इत्यतिदिष्टेन णिचि भत्वेन पदत्वबाधः; णेर्लुप्तत्वात्; न च प्रत्ययलक्षणम्, वर्णाश्रयत्वादिति भावः। द्विर्वचनादौ चेति<\/w> । यलोपादय आदिशब्दग्राह्याः। 'वरे' इति तु वरे योऽजादेशः स न स्थानिवदिति व्याख्येयम्। सहविवक्षाऽभावेऽपि निपातनाद् द्वन्द्वः सप्तम्यलुक् च। अथोदाहरणानि, पदान्ते— कानि सन्ति, कौ स्तः। द्विर्वचने— सुद्धयुपास्यः। वरे— यायावरः। 'यश्च यङः' इति वरच्, अतो लोपः। स च <<आतो लोप इटि च>> [[6.4.64]] इत्यालोपे कर्तव्ये न स्थानिवत्। यलोपे— यातिः। यातेर्यङन्तात् क्तिच्, अतो लोपः, यलोपः, अल्लोपस्य स्थानिवत्वादातो लोपः, यलोपः। न च पुनरालोपः शङ्क्यः, चिणोलुङ्न्यायेनाऽऽतोलोपस्यासिद्धत्वात्स्थानिवद्भावाच्च। स्वरे— चिकीर्षकः। सनोऽतो लोपो <<लिति>> [[6.1.193]] इतिककारेकारस्य उदात्तत्वे कर्तव्ये न स्थानिवत्। सवर्णानुस्वारयोः— शिण्ढि। दीर्घे— प्रतिदीव्ना। जशि— सग्धिश्च मे। अदनं ग्धिः। अदेः क्तिनि <<बहुलं छन्दसि>> [[2.4.39]] इति घस्लादेशः, <<घसिभसोर्हलि->> [[6.4.100]] इत्युपधालोपः, 'झलो झलि'(पा.सू [[8.2.26]] इति सलोपः, घत्वम्, घस्य जश्त्वम्। <<सहस्य सः>> [[6.3.78]] इति सूत्रात् स इत्यनुवर्तमाने 'समानस्यच्छन्दस्यमूर्धप्रभृत्युदर्केषु'इति सूत्रेण सः। चरि— जक्षतुः॥", "11062": "स्थानिवत्सूत्रेण सिद्धे नियमार्थमिदम्। प्रत्ययस्यासाधारणं यत्र रूपं प्रयोजकं, तदेव कार्यं प्रत्ययलोपे सति भवति न तु प्रत्ययाप्रत्ययसाधारणमिति। तेन शोभना दृषदोऽस्य सुदृषत् प्रासाद इत्यत्र 'अत्वसन्तस्य' इति दीर्घो न। यद्वा यत्र प्रत्ययः प्राधान्येनाश्रीयते तत्राल्विधित्वेऽपि विध्द्यर्थमिदम्। तेन अतृणेडित्यत्र हलादौ पिति सार्वधातुके विहित इम् लुप्तेऽपि तस्मिन् भवति। 'वर्णाश्रये नास्ति प्रत्ययलक्षणम्' इति तु वर्णप्राधान्यविषयकम्। तेन गवे हितं गोहितमित्यत्र अव् न।", "11063": "अस्मदिति।<\/w> अत्र प्राचा अव्ययेत्यपि पठितं तत्तु अव्ययानां प्रायेण निर्लिङ्गत्वाद् अव्ययीभावस्य क्लीबत्वेऽपि लिङ्गान्तराभावाच्चोपेक्षितम्।", "11064": "शकन्ध्वादिष्विति।<\/w> शकन्ध्वादिविषये तत्सिद्ध्यनुगुणं पररूपं वाच्यमित्यर्थः। अत एवाह- तच्च टेरिति।<\/w> यदि तु 'आत्' इत्यधिकारादकारस्यैवेष्येत तर्हि मनीषा इति न सिद्ध्येत। केचित्तु मनःपतच्छब्दयोः पृषोदरादित्वादन्त्यलोपेऽकारस्यैव पररूपमाहुः। शकानां= देशविशेषाणामन्धुः = कूपः=शकन्धुः। कर्काणां राज्ञामन्धुः। बदरीवाची तु कर्कन्धूशब्दो दीर्घान्तः, 'अन्धूदृम्भू-' इत्यादिना उणादिषु वक्ष्यते। अटतीत्यटा पचाद्यच्। कुलस्य अटा कुलटा। ईष उञ्छे, ईष गत्यादिषु, आभ्यां <<गुरोश्च हलः>> [[3.3.103]] इत्यप्रत्यये ईषा। मनस ईषा मनीषा<\/w> । हलस्य ईषा हलीषा<\/w> = लाङ्गलदण्डः, मूर्द्धन्योपधः। यस्तु- 'प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके॥' इति रभसकेशात् तालव्योपधस्तस्मिन् परे <<आद् गुणः>> [[6.1.87]] इत्येव भवति, हलेशा। पतन्नञ्जलिर्यस्मन् नमस्कार्यत्वादिति पतञ्जलिः। मार्तण्डः।<\/w> केचिदत्र सवर्णदीर्घमाहुः। परा मार्ताण्डमास्थत्, पुनर्मार्ताण्डमारभत्, विश्वो मार्ताण्डोऽव्रजदित्यादि-वैदिकप्रयोगास्तेषामनुकूलाः। ओत्वोष्ठयोरिति।<\/w> अकारस्य ओत्वोष्ठयोश्चैकत्र समासे स्थितौ सत्यामिदं प्रवर्तते, तेनेह न, वृषलसुतौष्ठव्रणस्ते इति। अव्यक्तशब्दं व्याचष्टे-", "11066": "तस्मिन्निति<\/w> सप्तम्यन्तामनुकरणम्। निःशब्दो नैरन्तर्यपरः। दिशिरुच्चारणक्रियः। अचि यणित्युक्ते व्यवहितेऽव्यवहिते च सति प्राप्तमव्यवहिते एवेति, पूर्वस्य परस्य च प्राप्तं पूर्वस्यैवेति च नियम्यते । अव्यवहितस्येति<\/w> तु फलितार्थकथनम्।", "11069": "अत्रेति।<\/w> अत्रैवेत्यर्थः। यद्यपीति।<\/w> ग्रहणकशास्त्रस्याद्याप्यनिष्पत्तेरिति भावः। <<हो ढः>> [[8.2.31]] <\/w> इत्युपलक्षणं- रमास्वित्यत्र षत्त्वं, वागशीरित्यत्र <<झयो हः>> [[8.4.62]] इत्याकारस्य घकारः, दासीष्टेत्यादौ <<दादेः>> [[8.2.32]] इति घत्वं च नेति बोध्यम्। यदि तु विवृतमूष्मणामित्यत्र ईषदित्यनुवर्त्य स्वराणां चेत्यत्र निवर्त्य प्रयत्नभेदो व्याख्यायते, तदा 'नाज्झलौ'इति सूत्रं मास्त्विति भाष्ये स्थितम्।", "11071": "मध्यगानामिति।<\/w> आद्यन्ताभ्यामवयवाभ्यामवयवी समुदाय आक्षिप्यते; तस्य च युगपल्लक्ष्ये प्रयोगासम्भवात्तदवयवेष्ववतरन्ती संज्ञा मध्यगेषु विश्राम्यति, नत्वाद्यन्तयोः, संज्ञास्वरूपान्तर्भावेण तयोः पारार्थ्यनिर्णयादिति भावः। स्वस्य चेति।<\/w> 'स्वं रूपमित्यनुवृतेः । स्वं रूपं चादेरेव गृह्यते, नान्त्यस्य अन्त्येनेत्यप्रधानतृतीयानिर्देशात्। सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वात्। आद्योच्चारणमिति।<\/w> यद्यप्युपदिश्यतेऽनेनेति करणव्युत्पत्या शास्त्रमुपदेश इति भाष्यवृत्त्यादिषु व्याख्यातं तथापि तत्प्रौढिवादमात्रम्। करणे घञो दुर्लभत्वात्, ल्युटा बाधात्। न च घः, असंज्ञात्वात्। 'प्रायेण संज्ञायाम्' इति व्याख्यानस्य क्लिष्टत्वात्। नह्युपाधेरुपाधिर्भवतीत्यादिना भाष्यकृताऽवहेलनाच्च। अत एव घापवादो हलश्चेति घञपीह न। बाहुलकन्त्वगतिकगतिः। अत एव 'प्रक्रियन्ते शब्दा याभिः' इति करणव्युत्पत्तिरपि परास्ता। तथा च वार्तिकम्- 'अजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन' इति। अतो भाव एव प्रत्ययो न्याय्य इति भावः। यत्तु धातुसूत्रेत्यादि पठन्ति। यच्च व्याचक्षते- 'करणव्युत्पत्त्या पूर्वार्धोपात्तानामुपदेशत्वं, कर्मव्युत्पत्त्या त्वागमादीनाम्। उणादिलिङ्गानुशासनयोरपि सूत्रत्वात्सिद्धे पृथगुपादानं गोबलीवर्दन्यायेन। एवं गणत्वादेव सिद्धे धातोरपि' इत्यादि। अत्रेदं वक्तव्यम्— किमेषामुपदेशसंज्ञा, उत योगमात्रम्? नाद्यः, संज्ञायाः शास्त्रकारैरनुक्तेः, असंज्ञात्वात् घप्रत्ययो नेति भाष्योक्तेश्च। अस्मदादिकृतसंज्ञायाः शास्त्रव्यवस्थापकत्त्वेऽतिप्रसङ्गाच्च। 'आमोऽमित्त्वमदन्तत्वात्' इत्यादिस्वपरग्रन्थविरोधाच्च, न ह्युत्सृष्टानुबन्धस्यामो न प्रत्ययत्वं, येन मित्त्वं न भवेत्। किञ्चैवं प्रत्ययविधौ पञ्चम्याः षष्ठीप्रकल्पकत्वे सनः सनेवादेशोऽस्त्वित्याशङ्क्योपदेशाभावात्संज्ञा न स्यादिति भाष्यकैयटोक्तं व्याकुप्येत। किञ्च 'न धातुलोप' इति सूत्रे 'धातुग्रहणं किम्? लूञ् लविता, पूञ् पविता' इति भाष्यम्, 'उपदेश एवानुबन्धलोपे कृते ततो धातुसंज्ञा' इत्येवंपरः कैयटग्रन्थश्च विरुध्येत। अपि च, <<घ्वसोरेद्धौ>> [[6.4.119]] इति सूत्रे लोपश्श्चेति द्विशकारको निर्देशः, द्वितीयः शकार इदिति अलोन्त्यसूत्रस्थभाष्यकैयटादिकमपि विरुध्येत। न द्वितीयः, योगस्यैव पुरस्कारे परिगणनस्य व्यर्थत्वात्। धात्वादिषु करणव्युत्पत्तिरागमादिषु नेति वैषम्यस्य दुरुपपादत्वाच्च। उपदेशताप्रयोजकधातुत्वादि-रूपोपाध्यवच्छिन्नसमुदायान्त्यं हल् इत् इत्यर्थ इति स्वग्रन्थविरोधाच्च। पक्षद्वयेऽपि लिङ्गानुशासनस्य प्रकृतानुपयोगात्। लोपश्श्चेति शकारस्यासंग्रहाच्च। <<आदेच उपदेशे>> [[6.1.45]] <<उपदेशेऽत्वतः>> [[7.3.62]] इत्यादावाद्योच्चारणस्चैवोपदेशपदार्थतायाः सर्वसंमतत्वाच्चेति दिक्॥ '", "12027": "ह्रस्वदीर्घप्लुत<\/w> इति समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्। वां काल इवेति<\/w> । फलितार्थकथनमिदम्। विग्रहस्तु वः कालो यस्येति बोध्यः। ऊशब्देन स्वोच्चारणकालो लक्ष्यते।", "12029": "आये इति।<\/w> 'निपाता आद्युदात्ताः' (फि.सू. 4.12) इत्याकार उदात्तः, यच्छब्दस्तु फिट्सूत्रेण।", "12030": "अर्वाङ् इति।<\/w> अकारोऽनुदात्तः।", "12032": "अतन्त्रमिति।<\/w> <<उपेयिवान्>> [[3.2.102]] इत्यत्रोपसर्ग इवाविवक्षितमित्यर्थः। ननु तत्र 'ईयिवांसमतिस्रिधः' इत्यादिप्रयोगदर्शनादविवक्षाऽस्तु, इह त्वविवक्षायां प्रमाणं किम्? इति चेल्लक्ष्यदर्शनं प्रातिशाख्यादिकं चेति गृहाण। तथा हि— 'येराः' इत्यत्रैकारः, 'तनूनपात्' 'शचीपतिम्' इत्यत्र पदपाठे ऊदितौ चार्धोदात्तौ इति सकलबह्वृच्प्रसिद्धम्। तनूनपाच्छचीपतिशब्दयोः <<उभे वनस्पत्यादिषु युगपत्>> [[6.2.140]] इति पूर्वोत्तरपदयोराद्युदात्तत्वे कृते <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इति शेषनिघातः। पूर्वपदभूतयोस्नूशची-एतयोरन्त्यस्य पाक्षिकं स्वरितत्वं प्रातिशाख्ये उक्तम्। 'जात्यवद्वा तथावन्तौ तनूशचीति पूर्वयोः' इति। तथास्वरितार्धस्योदात्तत्वे प्रातिशाख्यमपि— 'एकाक्षरसमावेशे पूर्वयोः स्वरितः स्वरः। तस्योदात्ततरोदात्तादर्धमात्राऽर्धमेव वा॥ अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत्। उदात्तं वोच्यते किञ्चित्स्वरितं वाऽक्षरं परम्॥' इति। अस्यार्थः— पूर्वयोः= उदात्तत्वानुदात्तत्वयोः, एकत्र समावेशे सति स्वरितो बोध्यः। तस्य= स्वरितस्य, स्वतन्त्रोदात्तापेक्षयोदात्ततराऽर्धमात्रा बोध्येति । 'क्व वोऽश्वाः' इत्यादि ह्रस्वाभिप्रायम्। 'अर्धं वा' इति दीर्घाभिप्रायम्। अनेनैव ह्रस्वस्यापि सङ्ग्रहाद् व्यापकत्वादिदमेवादर्तव्यमिति सूचयितुमेवकारः। 'अनुदात्तः' इत्यादि परिशेषसिद्धार्थकथनम्। सः= शेषः, उदात्तश्रुतिः स्यात्। किमविशेषेण? नेत्याह- नचेदित्यादि। उदात्तस्वरितपरं विहायेत्यर्थः। शाकल्योऽप्याह— 'अप्राकृतस्तु यः स्वारः स्वरितोदात्तपूर्वगः। उदादायार्धमस्याथ शिष्टं निघ्नन्ति कम्पितम्'॥ इति। उदादाय- उदात्तं कृत्वा। 'अर्धह्रस्वशब्देनार्धमात्रा लक्ष्यते' इति हरदत्तादिग्रन्थास्तु मतान्तरपरतया कथञ्चिन्नेयाः। अश्वा इति।<\/w> अशेः क्वनि नित्स्वरेणाद्युदात्तम्। संहितायां तु <<एकादेश उदात्तेनोदात्तः>> [[8.2.25]] इत्योकार उदात्तः। ये अरा इति।<\/w> द्वयमपि फिट्सूत्रेणान्तोदात्तम्। एकादेशस्तु पक्षे स्वरितः। <<स्वरितो वाऽनुदात्ते पदादौ>> [[8.2.6]] इत्युक्तेः।", "12045": "प्रत्ययं प्रत्ययान्तं चेति।<\/w> सूत्रे तन्त्रादिना उभयं विवक्षितमिति भावः। तथा हि, प्रत्यस्यैव पर्युदासे 'कृत्तद्धित' इति सूत्रेण तद्धितान्तस्य संज्ञाविधानं व्यर्थं स्यात्। न च तत्रापि तदन्तं न ग्राह्यमिति वाच्यम्। 'अर्थवत्' इत्यनुवृत्तिसामर्थ्यात्तदन्तग्रहणम्। प्रशंसायां हि मतुप्। एकार्थीभावेन लौकिके प्रयोगे प्रसिद्धत्वं च प्रशंसामूलम्। न च 'अर्थवत्' इत्यस्य पूर्वसूत्रे चरितार्थता। धातुप्रत्ययपर्युदासेनैव तल्लाभात्। तस्मात्प्रत्ययान्तं च वर्जयित्वेत्युचितमेव। यदि तु प्रत्ययो न पर्युदस्येत तर्हि 'सात्पदाद्योः' इति सूत्रे सातिग्रहणं व्यर्थं स्यात्। अर्थवत्' इति किम्? धनं वनमित्यादौ प्रतिवर्णं संज्ञा मा भूत्। तस्यां च सत्यां स्वादयः स्युः। ननु संख्याकर्माद्यभावात् न भविष्यन्तीति चेत्? न, एकवचनमुत्सर्गतः करिष्यते इति सिद्धान्तात्। हुंफडादिभ्य इव सोर्दुर्वारत्वात्। न च अर्थवद्ग्रहणपरिभाषयाऽनर्थके न स्यादिति वाच्यम्। तस्या विशिष्टरूपोपादानविषयत्वात्। अधातुः' इत्यादिपर्युदासबलेन यद्यप्यर्थवत्वं लभ्यते, तथापि उत्तरार्थं तदित्युक्तम्। एतच्च 'सुप्तिङन्तम्'इति सूत्रे भाष्ये ध्वनितम्। यत्त्वाहुः—अधीते, यावक इति। अधिपूर्वस्यैवेङः प्रयोगात् विशिष्ट एव अर्थवान्, न तु केवलः। 'इङ् अध्ययने' इत्याद्यर्थनिर्देशस्तु अवयवे समुदायार्थारोपात्। एवं कन्नप्यनर्थकः। यावशब्दादपि तदर्थप्रतीतेः। 'ओषधेश्च विभक्तावप्रथमायाम्' 'अकर्तरि च कारके—' इति विभक्तिकारकग्रहणाभ्यां नञिवयुक्तन्यायस्यानित्यत्वकल्पनाच्चेति। अत्रेदं वक्तव्यम्। धातुरनर्थक इति तावद्व्याहतम्। क्रियावाचकत्वं विना धातुत्वायोगात्। आरोपितं तदिति चेत्? सत्यम्, तावतैवेष्टसिद्धेः। प्रकृतिप्रत्ययविभागस्तदर्थविभागश्च सर्वः कल्पित एव। परमार्थतस्तु स्फोट एवार्थवानिति सिद्धान्तात्। उक्तं च हरिणा— उपायाः शिक्ष्यमाणानां बालानामुपलालनाः। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥इति। कथमन्यथा इङो द्विर्वचनमडादयश्च स्युः। तथा च प्रत्याहाराह्णिके 'अर्थवन्तो वर्णा' इति प्रघट्टके अध्येति अधीत इत्यत्रेकारोऽर्थवानिति भाष्ये स्पष्टमेवोक्तम्। एवं कन्प्रत्ययोऽप्यर्थवानेव, स्वार्थिकानां प्रकृत्यर्थेनैवार्थवत्वात्। कल्पनामात्रमिदमिति चेत्, न। उक्तोत्तरत्वात्। नैषा कल्पना शास्त्रकृत्संमतेति चेत्, न। ' द्वितीयतृतीयचतुर्थतुर्याणि—' इति सूत्रे पूरणात्स्वार्थेऽन्प्रत्ययस्य पूरणार्थताया भाष्यकारैरेवोक्तत्वात्। प्रत्यय इति महासंज्ञां कुर्वतः सूत्रकृतोऽपि संमतमेवेदम्। यदपि 'ओषधेश्च—'इत्यादि। तदपि न। अनित्यत्वेऽप्यौत्सर्गिकप्रवृत्त्येष्टसिद्धेः, इष्टस्थलेऽप्यप्रवृत्तौ न्यायस्य निर्विषयत्वापाताच्च, अनित्यत्वज्ञापनस्य कथञ्चिदावश्यकत्वेऽर्थवद्ग्रहणस्यैव ज्ञापकत्वसम्भवाच्च, उत्तरार्थस्यापि 'इह किञ्चित्रपो' इति न्यायेन इह करणस्य सफलत्वौचित्यात्। 'ओषधेश्च—' इत्यादौ विभक्तिकारकग्रहणयोरेवेत्थं सति प्रत्याख्यानसम्भवाच्चेति दिक्। 'अधातुः' किम्? अहन्। नलोपो मा भूत्। न च कार्यकालपक्षे प्रत्ययान्तत्वेन पर्युदासोऽस्त्वति वाच्यम्, प्रत्ययलक्षणेनोक्तपर्युदासाप्रवृत्तेः 'न ङिसम्बुद्ध्योः' इति निषेधेन ज्ञापितत्वात्। कथमन्यथा राजेत्यादौ नलोपः स्यात्। अप्रत्ययः किम्? हरिषु, करोषि। अत्र सुप्सिपोर्मा भूत्। अप्रत्ययान्तः किम्? तत्रैव विभक्तिविशष्टयोर्मा भूत्। न चान्तवद्भावेन काण्डे, कुड्ये इत्यादौ प्रातिपदिकत्वं स्यादेव। तथा च 'ह्रस्वो नपुंसके—' इति ह्रस्वत्वं सोरुत्पत्तिश्च स्यादिति वाच्यम्। कार्यकालपक्षेणेष्टसिद्धेः। यथोद्देशेऽपि विभक्त्येकादेशो नान्तवत्, 'सप्तम्यधिकरणे च' इत्यादिनिर्देशात्। 'ह्रस्वो नपुंसके—' इति सूत्रे प्रातिपदिकग्रहणं वा उक्तार्थे सामान्यापेक्षं ज्ञापकमस्तु। यत्तु वदन्ति— प्रत्ययपर्युदासो न कर्तव्यः, प्रत्ययान्तपर्युदासेनैव गतार्थत्वात्, व्यपदेशिवद्भावेन तस्यापि प्रत्ययान्तत्वादिति । तन्न, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणात्। केवलस्य च अतथात्वात्। अन्यथा त्वदुक्तरीत्या सुप्तिङोरपि तदन्तत्वात् पदत्वं स्यात्। तथा च हरिषु, करोषि, इत्यादौ षत्वं न स्यात् 'सात्पदाद्योः' इति निषेधात्। अधातुप्रत्ययाविति सिद्धे नञ्द्वयोपादानं स्पष्टार्थम्। महासंज्ञाकरणं श्रुत्यनुरोधात्। तथा चाथर्वणे पठ्यते—' को धातुः? किं प्रातिपदिकम्? कः प्रत्ययः?' इति। डित्थादीन्यव्युत्पन्नानीहोदाहरणम्। अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकमिति प्राञ्चः। यत्तु व्युत्पत्तिपक्षेऽपि निपातार्थमनुकरणार्थं चेदमिति हरदत्तेनोक्तम्। तच्चिन्त्यम्। तत्रापि प्रकृत्यादिकल्पनसम्भवात्। वस्तुतस्तु व्युत्पत्तिपक्षेऽपि बहुपटव इत्याद्यर्थं सूत्रम्। न चैवं बहुच्पूर्व इत्येव सूत्र्यतामिति वाच्यम्। 'मूलकेनोपदंशम्' इत्यादौ कृदन्तत्वेनातिप्रसङ्गात्। न च समासग्रहणं नियमार्थमिति निस्तारः। अर्थवत्सूत्रारम्भं विना समासग्रहणस्य नियमार्थत्वायोगादिति दिक्।", "12046": "'अर्थवत्' इत्यनुवर्तते, तत्सामर्थ्यात्तदन्तविधिः। नहि जहत्स्वार्थायां वृत्तौ कृतां तद्धितानां चार्थोऽस्ति। भूतपूर्वगतिलभ्यस्तु न प्रशस्तः। अजहत्स्वार्थायामपि न प्रत्ययमात्रेणार्थपर्यवसानमित्यभिप्रेत्याह— कृत्तद्धितान्ताविति।<\/w> लिट्, धुक् इत्यादौ 'अधातुः' इति, कर्तेत्यादौ अप्रत्ययान्तमिति पर्युदासे प्राप्ते विधिरयम्। नियमार्थमिति।<\/w> न च प्रत्ययान्तत्वेन पर्युदासे प्राप्ते विध्यर्थमस्त्विति शङ्क्यम्, वाक्यस्याप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। ननु स्त्रीप्रत्यये तदादिनियमो निषिद्धः, एवं च राजकुमारीत्यादौ विध्यर्थमस्त्विति चेत्? मैवम्, अन्तरङ्गस्यापि हल्ङ्यादिलोपस्य लुग्विषयेऽप्रवृत्या श्रूयमाण एव सुपि समासप्रवृत्तेः। तत्र चाप्रत्ययान्तत्वेन प्रवृत्तायाः संज्ञाया एकदेशविकृतन्यायेन विभक्तिलुक्यपि सुलभत्वात्। अत एव गोमत्प्रिय इत्यादौ नुमादयो न। लुकः प्रागन्तरङ्गप्रवृत्तौ तु स्युरेव। नन्वेवमपि असमर्थसमासे दशदाडिमादिवदनर्थके विध्यर्थमस्त्विति चेत्? न, 'अर्थवत्' इत्यस्यानुवृत्तेरुक्तत्वात्। कथं तर्हि असमर्थसमासे संज्ञेति चेद्धर्मिग्राहकमानादेवेति गृहाण। 'असूर्यललाटयोः—' इत्यनेन हि असूर्यशब्दे उपपदे खश् विधीयते। उपोच्चारितं पदं चोपपदम्, पदं च सुप्तिङन्तमिति। नियमशरीरमाह— यत्र संघाते इत्यादि।<\/w> पूर्वो भाग इत्युपलक्षणम्— उत्तरस्तु प्रत्ययो नेत्यपि बोध्यम्। अन्यथा जन्मवानित्यादौ संज्ञा न स्यात्तद्धितग्रहणस्य औपगवादौ कृतार्थत्वात्। पूर्वो भागः पदमिति किम्? बहुज्विशिष्टस्य प्रातिपदिकसंज्ञा यथा स्यात्। तेन बहुपटव इत्यत्र प्रथमजसो लुकि बहुपटुशब्दस्य चित्स्वरे पुनर्जसि उपोत्तमोदात्तत्वं सिध्यति। यद्वा प्रकृतिप्रत्ययभावानापन्नसंघातविषयको नियमोऽस्तु। न चाद्यपक्षे राजपुरुषावित्यादौ पुरुषावित्यादेः संज्ञा स्यादिति वाच्यम्, अर्थवत्वेनैव वारणात्। प्रत्ययार्थो हि विशिष्ट एवान्वेति, न तूत्तरपदार्थमात्रे येन पुरुषावित्यस्यार्थवत्वं स्यात्। नियमफलमाह— तेनेत्यादि। नन्वेवमपि मूलकेनोपदंशमित्यादौ वाक्यस्य संज्ञा दुर्वारा, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात्, इति चेत्? मैवम्, समासग्रहणकृतनियमेन परत्वाद् बाधात्। एवं च 'कृत्तद्धित—'इति सूत्रे कृद्ग्रहणपरिभाषा नोपतिष्ठत एव निष्फलत्वादिति तत्त्वम्। यत्तु वदन्ति—समासग्रहणं न नियमार्थं किन्तु विध्यर्थमेव। अर्थवत्त्वं हि वृत्तिमत्त्वं। वृत्तिश्च द्विधा —शक्तिर्लक्षणा च। न च सा समासेऽस्तीति। अत्रेदं वक्तव्यम्। सिद्धान्ते तावदेकार्थीभावाभ्युपगमाद् वृत्तिर्नास्तीति बाधितमेव। मीमांसकमतेऽपि लक्षणास्त्येव। यदाहुः— सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति च स्थितम्॥ इति। अथ नैयायिकरीत्योच्येत? तदपि न , बहुपटव इत्याद्यसिद्धेः। तद्धितग्रहणं तद्विशिष्टपरमिति चेत्? न, पचतकीत्यादावतिव्याप्तेः। किं चैवं कृद्ग्रहणपरिभाषया मूलकेनोपदंशमित्यदावतिव्याप्तिर्दुर्वारैवेत्यास्तां तावत्। चकारोऽनुक्तसमुच्चयार्थः। तेन 'निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या' इति गतार्थम्। येषां द्योत्योऽप्यर्थो नास्ति तदर्थमिदम्। अवद्यति। अनुकरणेषु तु अनुकार्येण सहाभेदविवक्षायामर्थवत्वाभावादेव न प्रातिपदिकत्वम्। 'भू'सत्तायामिति यथा। भेदविवक्षायां तु संज्ञा स्यादेव। 'भुवो वुक—'इति यथा।", "12047": "इह ह्रस्वश्रुत्या 'अचः' इत्येतदुपस्थितम्। तेन प्रातिपदिकस्य विशेषणात् तदन्तविधिरित्याह- अजन्तस्येति।<\/w> प्रातिपदिकस्याच इति तु न व्याख्यातम्, सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात्, सुवाग्ब्राह्मणकुलमित्यादौ अतिव्याप्तेश्च। सन्निपातेति।<\/w> अवर्णमाश्रित्य कृतो यादेशः तल्लोपे निमित्तं स्यात्। एतच्च 'एओङ' सूत्रे 'इको गुणवृद्धी' इति सूत्रे च भाष्ये ध्वनितं कैयटेन प्रतिपादितं शब्दकौस्तुभे निष्कर्षं प्रापितमिति तत एवावधार्यम्। एवं च याधातौ शुभंयाशब्दस्य क्लीबस्य ङयि शुभंय इति माधवेनोदाहृतं तन्नादर्तव्यमिति भावः।", "12048": "उपसर्जनं य इति।<\/w> यत्तु प्राचा— गोऽन्त-स्त्रीप्रत्ययान्तयोरुपसर्जनयोरित्युक्तम्; तन्न, चित्रगुरित्यादौ गोशब्दस्योपसर्जनत्वेऽपि तदन्तस्याथात्वाद्, गौरीपतिरित्यादौ अतिप्रसङ्गाच्च। कथं सुगोकुलं राजकुमारीपुत्र इति चेत्? शृणु, उपसर्जनस्य ससम्बन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधीयते तदर्थं प्रति उत्तरपदभूतयोर्गुणीभावस्तदैव ह्रस्वत्वम्।", "12064": "एकविभक्तौ यानीति। विभक्तिः सारूप्ये उपलक्षणं न त्वेकशेषे निमित्तम्। एवं चानैमित्तिकत्वेनान्तरङ्गोऽमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते। यद्येतन्नारभ्येत तर्हि प्रत्येकं विभक्तिः स्यात्, द्वन्द्वश्च प्रवर्तेत। आरब्धे त्वेकशेषेऽनेकसुबन्तविरहाद् द्वन्द्वस्याप्राप्तिरेव फलिता भवतीति भावः। सरूपाण्येवेति।<\/w> एतच्चोत्तरसूत्रस्थैवकारस्येहानुकर्षणाल्लभ्यते। तेन मातृशब्दयोर्जननीवाचिपरिच्छेत्तृवाचिनोर्नैकशेषः। मातृभ्यामित्यादौ सारूप्येऽपि औजसादिषु वैरूप्यात्। एक एवेति।<\/w> एतच्च सहविवक्षायामेव प्रवर्तते। इतरेतरयोगद्वन्द्वस्य विषये इति यावत्। यत्र ह्यनेकस्यार्थस्य मिलितस्येतरान्वयः स तथाभूतोऽस्य विषयः। इदं च 'इदितो नुम् धातोः' इति लिङ्गाल्लभ्यते, न्यायाच्च। तथा हि— यः शिष्यते स लुप्यमानार्थाभिधायीति स्थिते श्रूयमाणैकशब्दोपस्थितं सर्वमविशेषादैकरूप्येणैवान्वेतुमर्हति। यद्वा, पूर्वसूत्राद् 'द्वन्द्वे' इत्यनुवर्त्य द्वन्द्वे प्रसक्ते सतीति व्यख्येयम्। स्यादेतत्। द्वन्द्वे कृते सतीत्यर्थोऽस्तु। मैवम्, 'पन्थानौ' 'पन्थानः' इत्यादौ समासान्तापत्तेः। 'करौ' 'कराः' इत्यादौ एकवद्भावापत्तेः। 'सर्वे' 'सर्वेषाम्'इत्यादौ 'द्वन्द्वे च' 'विभाषा जसि'इत्यनयोरापत्तेश्चेति दिक्। यत्तु प्राचा 'राम-राम-औ' इति स्थिते इत्युक्तम्, एकविभक्तौ परत इति च। तत्रेत्थमुक्तिसम्भवः—राम राम इत्यत्र अवयवयोरिव समुदायस्यापि प्रातिपदिकसंज्ञाऽस्ति मिलितेनार्थवत्त्वात्। न चार्थवत्त्वेऽपि समासग्रहणस्य नियमार्थत्वान्नैवमिति वाच्यम्। यत्र समुदाये पूर्वो भागः पदं तद्विषयको नियम इत्युक्तत्वात्, बहुपटव इत्याद्यनुरोधेन नियमस्य सजातीयविषयताया औचित्याच्च। तथा चैकाज्द्विर्वचनन्यायेन समुदायप्रातिपदिकादेव द्विवचनाद्युत्पत्तिः। तावताप्यवयवार्थानां संख्यान्वयेनानुग्रहसंभवात्। नन्वेवं रामकृष्णावित्यादिष्वपि द्वन्द्वं विनैव समुदायाद्विभक्तिः स्यादिति चेत्? मैवम्। द्वन्द्वविधावनेकसुबन्तमित्यस्यानुवृत्या एकाज्द्विर्वचनन्यायस्य बाधादिति दिक्। इत्थमुक्तिसंभवे सत्यपि समुदायादेकविभक्तौ परत इति पक्षः किमर्थमुपेक्षित इति चेत्? शृणु, अस्मिन्पक्षे मातृमातरौ इत्यादावप्येकशेषः स्यात्। नन्वेकविभक्तावित्यावर्त्य एवकारं चानुकृष्य एकविभक्तौ यानि सरूपाण्यवति व्याख्येयमिति चेन्न। आवृत्तौ मानाभावात्। विभक्तेरेकशेषस्य विशेषणत्वे फलाभावाच्च। न च पयः पयो जरयतीत्यादिव्यावृत्तिः फलम्, सहविवक्षायामित्यस्यावश्यकत्वात्, अन्यथा पयः पयो नयतीत्यत्र गौणमुख्यकर्मणोरेकशेषापत्तेः। देवदेव इत्यादावतिप्रसङ्गाच्च। प्रत्युत आवृत्त्या उभयविशेषणत्वे भिक्षाणां समूहो भैक्षमिति न सिध्येत्। तथा हि, भिक्षा भिक्षा भिक्षा आम् अ इति स्थिते 'अन्तरङ्गानपि विधीन् बहिरङ्गः' इति लुकि कृते विभक्तिपरत्वाभावादेकशेषो न स्यात्। लुप्ते प्रत्ययलक्षणाभावात्। किं च रामावित्यादौ परत्वान्नित्यत्वाच्च 'वृद्धिरेचि' इत्येकदेशे कृते विभक्तिपरत्वाभावादेकशेषो न स्यात्। उभयत आश्रयणेऽन्तादिवद्भावाभावादिति दिक्। यत्तु प्राचा व्याख्यात्रा पक्षान्तरमुपन्यस्तं— सविभक्तिकानामेकशेष इति। तन्न। निवर्तमानानां विभक्त्या सहैव निवृत्तावपि शिष्यमाणे एकवचनश्रवणप्रसङ्गात्। अथोच्येत युगपदधिकरणवचनतायां द्विवचनबहुवचनान्तानामेकशेषः। द्वन्द्वोऽप्येवम्। तथा हि, अजहत्स्वार्थायां वृत्तौ एकैकमनेकार्थाभिधायि परस्परसमभिव्याहारात्। तथा च अलौकिके द्वन्द्वैकशेषयोः प्रक्रियावाक्ये द्विवचनबहुवचनयोरेव प्रवेशाद् विभक्त्यन्तानामेकशेष इति पक्षो निर्बाध एवेति। तदपि न, जहत्स्वार्थायां वृत्तौ तदयोगात्। पक्षान्तरेऽपि प्रथमप्रवृत्तस्यैकवचनस्य त्यागायोगात्। अन्यथा षष्ठीतत्पुरुषाद्युकच्छेदापत्तेः। तत्रापि पूर्वपदस्य उत्तरपदार्थे उपसंक्रमेण षष्ठ्याद्ययोगात्। तथा च भाष्यम् 'सेयं युगपदधिकरणवचनता दुःखा च दुरुपपदा च' इति। यदपि व्याचख्युः—व्यक्तिपक्षे यावद्व्यक्ति तत्तच्छब्दप्रयोगे प्राप्ते एकस्यैव प्रयोगो यथा स्यादिति सूत्रम्। आकृतिपक्षे तु एकेनैवाकृत्यविनाभूतानेकव्यक्तिलाभादनर्थकमिति। तन्न, व्यक्तिपक्षेऽपि 'न ब्राह्मणं हन्यात्' इत्यत्र ब्राह्मणशब्देनैवैकेनापि अनेकस्य तन्त्रेण सुवचत्वात्। अन्यथा जातिपक्षेऽपि 'वासेन सम्यक्क्षमयोश्च तस्मिन्' इत्यादिनानार्थानुरोधेन सूत्रं विनाऽनिर्वाहात्। तस्माज्जातिव्यक्तिपक्षयोरुभयोरपि तन्त्रेण प्रयोगान्निर्वाहेऽपि सर्वत्र तन्त्रेणैव बोधनीयमिति नियामकाभावात्पाक्षिको द्वन्द्वः सूत्रं विना दुर्वारः। घटोऽयं घटोऽयमति नानाशब्दप्रयोगदर्शनात्, तद्वत् घटघटाविति द्वन्द्वस्य न्यायप्राप्तत्वात्। न चैवमपि घटकलशाविति द्वन्द्वापत्तिः। 'विरूपाणामपि समानार्थानाम्' इति वार्तिकात्। रूप्यते बोध्यते इति व्युत्पत्या रूपशब्दस्य अर्थपरत्वमाश्रित्य वार्तिकार्थस्यापि सूत्रेणैव क्रोडीकाराच्च। तस्माद् घटघटौ घटकलशावित्यादिपाक्षिकानिष्टवारणाय पक्षद्वयेऽपि सूत्रमावश्यकमित्यवधेयम्। एवं स्थिते सूत्रवैयर्थ्यमेव हृदि निधाय यदिह व्याचख्युः— नानेनैकशेषो विधीयते इत्यादि। यच्च समुदायादेकस्यां विभक्ताविति पक्षं प्रत्याख्याय पुनराहुः—राम राम औ इति स्थिते इति। अलौकिकमेतत्प्रक्रियावाक्यमूह्यते न तु लौकिकम्। अलौकिके च विभक्त्येकादेशादिकार्यं न प्रवर्तते। प्रयुक्तानामेवान्वाख्यानादित्यादि। तत्सर्वं सन्दर्भविरुद्धं न्यायविरुद्धं च। प्रयुक्तानेव ह्यन्वाख्यातुमलौकिकमुत्प्रेक्ष्यते। शास्त्रीयकार्यं च सर्वमलौकिकेष्वेव प्रवर्तते न तु परिनिष्ठिते। 'प्रथमयोः पूर्वसवर्णः' इत्यादीनां प्रवृत्तिं विना परिनिष्ठितरूपालाभात्। परिनिष्ठिते तत्प्रवृत्तेर्दुरुपपादत्वाच्चेत्यास्तां तावत्।", "13001": "भूवादयो धातवः॥ भूश्च वाश्चेति द्वन्द्वः। आदिशब्दयोर्व्यवस्था-प्रकारवाचिनोरेकशेषः। भूवौ आदी येषामिति बहुव्रीहिः। भूप्रभृतयो वासदृशाः। सादृश्यं च क्रियावाचकेनेत्यभिप्रेत्य आह— क्रियावाचिन इति।<\/w> क्रियावाचिनः किम्? 'याः पश्यसि' इत्यादौ धातुत्वं मा भूत्। सति हि तस्मिन् <<आतो धातोः>> [[6.4.140]] इति स्यात्। भ्वादयः किम्? हिरुक्, पृथगित्यादीनां, शिश्ये इति भावार्थतिङन्तस्य च मा भूत्। स्तम्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते। चुलुम्पादीनां तु 'बहुलमेतन्निदर्शनम्' इति गणसूत्रेण संग्रहः॥", "13002": "यद्यप्यत्रोपजीव्यत्वादनुनासिकसंज्ञा प्रथमं वक्तुमुचिता, तथापि नासिकामनुगत इति योगाश्रणेनैव गतार्थत्वाद् 'अनुनासिकसंज्ञासूत्रं मन्दप्रयोजनम्' इति ध्वनयितुं नेहोपन्यस्तम्। उपदेशे किम्? 'अब्भ्र आँ अपः'। यद्यपीह <<उञः>> [[1.1.17]] <<ऊँ>> [[1.1.18]] इत्यत्रेव विधानसामर्थ्यान्नेत्वमिति सुवचम्, तथाप्युत्तरार्थमवश्यं कर्तव्यमुपदेशग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम्। अच् किम्? मनिनो मकारस्य मा भूत्। 'प्रतिज्ञायते इति प्रतिज्ञा'। <<आतश्चोपसर्गे>> [[3.3.106]] इति कर्मण्यङ्। प्रतिज्ञा आनुनासिक्यं येषामिति विग्रहः। एवं च 'प्ररतिज्ञासमधिगम्ये प्रतिज्ञाशब्दस्य लक्षणा' इति क्लिष्टं व्याख्यानं नाश्रयणीयम्, 'पाणिन्युपज्ञं व्याकरणम्' इत्यादिष्विव लक्षणां विनैव निर्वाहात्। यद्यपि सूत्रकारकृतोऽनुनासिकपाठ इदानीं परिभ्रष्टस्तथापि वृत्तिकारादिव्यवहारबलेन यथाकार्यं प्राक् स्थित इत्यनुमीयत इति भावः। ननु रलयोरिति न्यूनं, टकारस्यापि मध्यगतत्वादित्यत आह— प्रत्याहारष्विति<\/w> । व्यवह्रियन्ते इति। प्रत्याह्रियन्ते= संक्षिप्यन्ते वर्णा यत्रेति बाहुलकादधिकरणे घञ्। यद्यपि योगमात्रमकारादिसंज्ञास्वतिप्रसक्तं तथापि योगरूढिरिति भावः । प्रत्याहाराश्चैकचत्वारिंशदिति प्राञ्चः। चतुर्दशसूत्रीस्थैर्हल्भिरिद्भिः कृता अष्टाध्याय्यां व्यवहृता एकचत्वारिंशदिति तस्यार्थः। तेन सुप्तिङादीनां, रप्रत्याहारस्य, 'चयो द्वितीयाः' इति वार्तिकस्थ 'चय्' प्रत्याहारस्य चाधिकेऽप्यदोषः। यत्तु 'ञमङन्ताड्डः' 'यमिर्ञमन्तेष्वनिडेक इष्यते' इति च 'ञम्' वार्तिककृता व्यवहृत इत्याहुः, तद्रभसाऽभिधानम्, आद्यस्योणादिसूत्रत्वात् , द्वितीयस्य व्याघ्रभूतिकारिकास्थत्वात्; इत्यास्तां तावत्। एष च संख्यानियमो नातीवोपयुज्यत इत्युपेक्षितः।", "13003": "सूत्रेऽन्त्यमिति।<\/w> हलि अन्त्यमिति विग्रहे 'सप्तमी' इति योगविभागात् <<सुप्सुपा>> [[2.1.4]] इति वा समास इति भावः। यद्वा षष्ठीतत्पुरुषोऽयम्। स्यादेतत्, हलित्येकशेषस्यैव तन्त्रावृत्त्येकशेषान्यतममस्तु। हस्य ल् इति च व्याख्यास्यते। सामीप्यं षष्ठ्यर्थः। यद्वा, मास्तु तन्त्रादि, अस्तु समाहारद्वन्द्वो हल् च ल् चेति। लकारस्य संयोगान्तस्य लोप इति चेत्? मैवम्, आद्ये समासस्य क्लिष्टत्वात्। न हि 'ब्राह्मणकम्बल' इत्यादौ ब्राह्मणसमीपवर्त्यन्यदीयः कम्बलः प्रतीयते, न वा चित्रगुशब्दाच्चित्रगवीणां समीपवर्ती वृक्षादिः प्रतीयते। अत एव अनन्तरादिषु न समासोऽनभिधानादिति स्पष्टमाकरे। किं बहुना 'ब्राह्मणस्य कम्बलः' 'चित्रा गावोऽस्य' इति व्यस्तप्रयोगोऽपि तत्रानिष्टः। द्वितीयेऽपि संयोगान्तलोपो दुर्लभः, यणः प्रतिषेधारम्भात्। तत्प्रत्याख्यानपक्षेऽपि <<झलो झलि>> [[8.2.26]] इत्यतो झल्ग्रहणमपकृष्य झलो लोपविधानाच्च। किंच पदार्थबोधं विना वाक्यार्थबोधासम्भवेन हल्प्रत्याहारसिद्धेः प्रागेतत्सूत्रार्थाबोधे प्रसक्ते तदुद्धारार्थोऽयं यत्नः। अस्यां चावस्थायां हल्शब्दार्थाप्रसिद्धौ द्वन्द्व एव दुर्लभः सहविवक्षाया असम्भवात्। तस्माद्यथोक्तमेव न्याय्यम्।", "13010": "समसम्बन्धी विधिरिति॥<\/w> समकर्मकं विधानमिति तु नोक्तम्। अनुवाद्ययोरपि यथासंख्यस्येष्टत्वात्। <<समूलाकृतजीवेषु हन्कृञ्ग्रहः>> [[3.4.36]] इत्यत्र यथा॥", "13011": "परनित्येति।<\/w> परान्नित्यं यथा— तुदति,रुणद्धि। परमपि लघूपधगुणं बाधित्वा <<रधिजभोः>> [[7.1.61]] इति नुम्। न च सोऽपि शब्दान्तरप्राप्त्याऽनित्य इति वाच्यम्, कृताकृतप्रसङ्गमात्रेणापि क्वचिन्नित्यताभ्युपगमात्। अन्तरङ्गं यथा— उभये देवमनुष्याः। इह <<प्रथमचरम>> [[1.1.33]] इति परमपि विकल्पं बाधित्वा <<सर्वादीनि>> [[1.1.27]] इति सर्वनामसंज्ञा विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वात्। अपवादोऽपि यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यत एव। तद्यथा— अयजे इन्द्रं, ग्रामे इह, सर्वे इत्थम्। अत्रान्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते। स च यद्यपि यण्गुणयोरपवादस्तथापि समानाश्रये चरितार्थः। तथा च वार्तिकम्— 'इण्ङिशीनामाद् गुणः सवर्णदीर्घत्वात्' इति॥ असिद्धमिति॥<\/w> तेन पचावेदमित्यादावेत ऐत्वं न। अकृतव्यूहा इति॥<\/w> यद्यपि 'कृतमपि कार्यं निवर्तयन्ति' परिभाषान्तरं पठ्यते, फलं च तुल्यम्, तथापि 'अकृत' इत्येव लघु। 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायादिति भावः। न कुर्वन्तीति।<\/w> यथा 'निषेदुषीम्' इत्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपि भाविना सम्प्रसारणेन वलादित्वं नङ्क्ष्यतीत्यालोच्य न कुर्वन्तीत्यर्थः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां परिभाषाप्रकरणम्॥", "14002": "उत्वमेवेति॥<\/w> सिद्धासिद्धयोरतुल्यबलत्वेन <<विप्रतिषेधे परम्— >> [[1.4.2]] इत्यस्याप्रवृत्तौ निष्प्रतिपक्षत्वादुत्वमेव भवतीत्यर्थः। तदुक्तम्— 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति। एतेन 'विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे' इत्यादि व्याख्यातम्। सूत्रे सु इति पृथक्पदं लुप्तषष्ठीकमित्याह—", "14003": "ईदूदन्ताविति।<\/w> इह वर्णयोरेव संज्ञेत्यपि पक्षोऽस्ति 'आच्छीनद्योर्नुम्' इति सूत्रस्वरसात्। तयोस्त्र्याख्यत्वं तु ङ्यादिषु स्वतः क्वचित्स्त्रीवाचकवर्णसमुदायघटकत्वेन प्रवेशात्। शक्तिपर्याप्त्याधिकरणत्वस्याविवक्षितत्वात्। तेन नद्यन्तादित्यादिव्यवहारो न विरुध्यते। एवं घिसंज्ञायामपि इ उवर्णौ तदन्तं वा घिसंज्ञि इति पक्षद्वयं बोध्यम्। वर्णसंज्ञात्वे 'असखि' इत्यस्य सखिभिन्नस्यावयव इत्यर्थो न तु सखिशब्दावयवं वर्जयित्वेति। तेन 'अतिसखिना' इत्यादि निर्बाधमित्यवधेयम्।", "14004": "तिष्ठतो ययोरिति स्थानौ, अधिकरणे ल्युट्। इयङुवङोः स्थानाविति षष्ठीसमासः। फलितार्थमाह— इयङुवङोः स्थितिर्ययोरिति। यत्रेयङुवङौ निष्पद्येते तत्रैवायं निषेधः। यत्र त्वपवादेन बाध्येत तत्र न निषेध इत्येतदर्थं स्थानग्रहणम्।", "14005": "यद्यपि प्रकृतो निषेधोऽनेन विकल्प्यत इति प्राञ्चः, तथाऽपि निषेधविकल्पे विधिविकल्प एव फलति। तथा च लाघवात् स एव सूत्रार्थ उचित इत्याशयेनाह- वा नदीसंज्ञौ स्त इति।<\/w> 'ङिति ह्रस्वश्च' इति सूत्रेप्येवमेव।", "14006": "अप्राप्तविभाषेयम्। ह्रस्वयोरप्राप्तावितरयोस्तु 'नेयङुवङ्स्थानौ' इति निषेधे प्राप्ते आरम्भात्। इहेयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गाविति त्रीणि ईदूतोर्विशेषणानि, ह्रस्वयोस्तु स्त्रियामित्येव न तु नित्यस्त्रीत्वपर्यन्तम्। अन्यथा इष्वशनिप्रभृतीनामुभयलिङ्गानां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात्, कैयटरीत्या नित्यस्त्रीत्वाभावात्, हरदत्तमतेऽपि ह्रस्वांशे नित्यग्रहणव्यावर्त्यालाभाच्च। अत एव आख्याग्रहणमपहाय स्त्रीशब्दमात्रं निष्कृष्य सम्बध्यते; तदेतदाह— औत्वे प्राप्त इति।<\/w> परत्वादिति भावः। यत्तु प्राचा 'औत्' इति सूत्रे घिनदीसंज्ञावर्जिताभ्यामिति व्याख्यातं, नासावक्षरार्थः किं तु पूर्वोत्तरसूत्रद्वयलभ्यः। एवं च 'इदुद्भ्याम्' इति सूत्रानुपन्यसनं प्राचः प्रामादिकमेवयम् ॥", "14008": "एवकार इष्टतोऽवधारणार्थः। अन्यथा हि समासे पतिरेवेति सम्भाव्येत। 'धात्वादेः' इत्यादिज्ञापकानुसरणे च प्रतिपत्तिगौरवं स्यात्। अथ कथं - सीतायाः पतये नमः? पराशरश्च— 'नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ' इति? उच्यते, पतिरित्याख्यातः पतिः णौ टिलोपे 'अचः इः' इत्यौणादिक इः। अयं पतिशब्दः 'पतिःसमास एव' इत्यत्र न गृह्यते, लाक्षणिकत्वात्। एतेन 'कृष्णस्य सखिरर्जुनः' इति भारतं 'सखिना वानरेन्द्रेण' इति रामायणं च व्याख्यातम्।", "14013": "अत्र प्राचोक्तम्—यस्माद्धातोः प्रातिपदिकाद्वेति। तन्न, तिङन्तादीनामपि तरबादिकं प्रत्यङ्गत्वात्। सङ्कोचस्य निर्मूलत्वात्। आमुष्यायण इत्यादौ वृद्ध्यभावापत्तेश्च। न हि प्रातिपदिकादयं तद्धितः किन्तु सुबन्तादिति दिक्॥", "14021": "राम इति।<\/w> संज्ञाशब्दोऽयमव्युत्पन्न इति पक्षेऽर्थवत्सूत्रेण प्रातिपदिकसञ्ज्ञा, 'करणाधिकरणयोश्च' इत्यधिकारे घापवादेन 'हलश्च' इति घञा रमन्तेऽस्मिन्निति व्युत्पादने तु 'कृत्तद्धित—' इति सूत्रेणेति विवेकः। ।", "14024": "ध्रुवमिति।<\/w> ध्रु गतिस्थैर्ययोः, अस्मात्कुटादेः पचाद्यच्। ध्रुव स्थैर्ये इति पाठे तु इगुपधलक्षणः कः। ध्रुवं—स्थिरम्, प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तज्जन्यविभागाश्रयः। तच्चार्थादवधेरेवेत्याह—", "14025": "कथं तर्हि— 'कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे' इति रामायणम्? अत्राहुः- कस्य संयुगे इति । न चैवं संयुगस्यैवापादानसञ्ज्ञापत्तिः, परयाऽधिकरणसंज्ञया बाधात्। अधिकरणत्वाविवक्षायां त्विष्टापत्तिः।", "14026": "अध्ययनादिति।<\/w> अध्ययनसम्बन्धिनी ग्लानिरित्यर्थः।", "14030": "जननं जनिरुत्पत्तिः। 'इञजादिभ्यः'(वा.) इति जनेर्भावे इञ्, 'जनिघसिभ्यामिण्' इत्युणादिसूत्रेण इण् वा। 'जनिवध्योश्च' इति वृद्धिप्रतिषेधः। तस्याः कर्तेति शेषषष्ठ्या समासः। तथा च धात्वन्तरयोगेऽपि भवति। 'अङ्गादङ्गात्सम्भवसि' इति यथा। तदेतदाह- जायमानस्येति।<\/w> एतेन 'इक्श्तिपौ धातुनिर्देशे' इति इका निर्देशोऽयमित्याश्रित्य 'गमहन' इत्युपधालोपप्रसङ्गमर्थासङ्गतिं समासानुपपत्तिं चोद्भावयन्तो मीमांसावार्तिककाराः समाहिता इति भावः। इह सूत्रे प्रकृतिग्रहणं हेतुमात्रपरमिति वृत्तिकृन्मतम्, 'पुत्रात्प्रमोदो जायते' इत्युदाहरणम्। उपादानमात्रपरमिति तु भाष्यकैयटमतम्। तदुभयसाधारणमुदाहरणमाह— ब्रह्मण इति।<\/w> ब्रह्मा= हिरण्यगर्भः। स च हेतुरेव, न तूपादानम्। किं च ब्रह्म= मायाशबलम्, तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः।", "14031": "भवनं भूरिति। सम्पदादित्वाद्भावे क्विप्। पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमनुवर्तते, स्वरितत्वादित्याह— भूकर्तुरिति।<\/w> प्रभवत्यस्मादिति प्रभवः। ल्यब्लोप इति।<\/w> ल्यबन्तस्य गम्यमानार्थकत्वादप्रयोगे इत्यर्थः। यतश्चेति।<\/w> यदवधित्वेनाश्रित्याध्वनः कालस्य वा निर्माणं परिच्छेदः प्रतिपाद्यते तस्मादित्यर्थः। तेन पञ्चम्यन्तार्थेनाऽर्थद्वारा प्रयुक्तान्निर्मीयमाणाऽध्ववाचिनः प्रथमासप्तम्यौ स्तः। कालादिति।<\/w> तद्युक्तादित्यपेक्ष्यते।", "14032": "दानस्येति।<\/w> तेन 'अजां नयति ग्रामम्' 'हस्तं निदधाति वृक्षे' इत्यादौ नातिप्रसङ्ग इति भावः। दानं चापुनर्ग्रहणाय स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अत एव 'रजकस्य वस्त्रं ददाति' इत्यादौ न भवति; तत्र हि ददातिर्भाक्तः। एतच्च वृत्तिकृन्मतम्। भाष्यमते तु नान्वर्थतायामाग्रहः, 'खण्डिकोपाध्यायः शिष्याय चपेटां ददाति' इति प्रयोगात्। 'रजकस्य वस्त्रं ददाति' इति तु शेषत्वविवक्षायां बोध्यम्। न चैवम् 'अजां नयति ग्रामम्' इत्यत्रापि प्रसङ्गः 'यमभिप्रैति' इत्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं, कर्मणश्च शेषत्वं लभ्यते। ग्रामस्य अजां प्रति शेषित्वं नास्ति।", "14033": "प्रीञ् तर्पणे। अस्मात् कर्मणि लट्। हरये रोचते इति।<\/w> कर्मसंज्ञायां प्राप्तायां वचनम्। प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि। अत्र पथो मा भूत्।", "14034": "श्लाघा स्तुतिः। कृष्णाय श्लाघते।<\/w> कृष्णं स्तौतीत्यर्थः। अन्ये त्वाहुः—कृष्णायात्मानं परं वा श्लाघ्यं कथयतीत्यर्थ इति। तत्राद्ये पक्षे कर्मत्वे प्राप्ते, द्वितीये तु कारकशेषत्वात् षष्ठ्यां प्राप्तायां वचनम्। ह्नुते इति।<\/w> सपत्नीभ्यः कृष्णं ह्नुवाना तमेवार्थं कृष्णं बोधयतीत्यर्थः। यस्य कस्यचित् ह्नुते इति वा। तिष्ठते इति।<\/w> स्थित्या स्वाभिप्रायं बोधयतीत्यर्थः। 'प्रकाशन-स्थेयाख्ययोश्च' इति तङ्।", "14035": "षष्ठ्यां प्राप्तायां वचनम्।", "14036": "परत्वादिति।<\/w> तेन 'परस्परेण स्पृहणीयशोभम्' 'स्पृहणीयगुणैर्महात्मभिः' इत्यादि सिद्धम्। यदा तु शेषत्वविवक्षा तदा षष्ठी। तेन — 'कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च'। इति सिद्धम्। एतच्च सर्वं हरदत्तादिरीत्योक्तम्। वाक्यपदीयहेलाराजग्रन्थयोस्तु 'स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठ्याश्च बाधिकेयं सम्प्रदानसंज्ञा इति स्थितम्। तन्मते स्पृहणीयमित्यत्र दानीय इतिवत् सम्प्रदाने कृत्यः। कुमार्य इवेत्यत्र तु विभक्तिविपरिणामेन कान्ताय स्पृहयन्तीति व्याख्येयम्। गृण<\/w> इति श्नान्तस्यानुकरणात् षष्ठी।", "14037": "क्रुध कोपे, द्रुह द्रोहे, ईर्ष्य ईर्ष्यायाम्। असूयेति कण्ड्वादियगन्तः। एषामर्थ इवार्थो येषां धातूनामित्यर्थः। तत्र क्रोधोऽमर्षः, द्रोहोऽपकारः, ईर्ष्या असहनम्, असूया तु गुणेषु दोषारोपः। क्रुधद्रुहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता, अन्ययोः सकर्मकत्वाद् द्वितीया प्राप्ता।", "14039": "कर्मकारकमिति तु प्राचः प्रमादः, एकसंज्ञाधिकारात्। न च प्राथमिकप्राप्तिमात्राभिप्रायेण कर्मत्वव्यपदेशः, कृष्णसम्बन्धि शुभाशुभं पर्यालोचयतीत्यर्थाभ्युपगमेन षष्ठ्या एव प्राप्तेः।", "14041": "होत्रे इति।<\/w> कर्मत्वे प्राप्ते।", "14042": "प्रकृष्टेति।<\/w> यद्व्यापारादनन्तरं क्रियानिष्पत्तिस्तत्प्रकृष्टम्। उक्तं च— क्रियायाः परिनिष्पत्तिः यद्व्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्॥ इति। विवक्ष्यते इत्यनेन स्थाल्यादीनामपि वैवक्षिककरणत्वमस्तीति ध्वनयति। आह च— वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः॥ इति। अयं भावः- कारकत्वं तद्व्याप्यकर्तृत्वादिषट्कं च वस्तुविशेषे विशेषणविशेष्यभाववन्न व्यवतिष्ठते। न हि गौस्सर्वं प्रति गौरेव न तु किंचित्प्रत्यगौरितिवद् विशेषणं विशेषणमेवेति सुवचम्। तथा च कयाचिद् धातुव्यक्त्या उपस्थापितेऽर्थे किं कर्त्रादिकमिति प्रश्ने प्रकृतव्यक्त्युपात्तव्यापाराश्रयतया विवक्षितः कर्ता, व्यापारव्यधिकरणफलाश्रयः कर्म, कर्तृकर्मद्वारकसम्बन्धेनाश्रयोऽधिकरणम्। पच्यर्थो व्यापारश्चानेकधा। एवं च पचेरधिश्रयणतण्डुलावपनैधोपकर्षणादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता, ज्वलनतात्पर्यकत्वे एधाः कर्तारः, तण्डुलधारणादिपरत्वे स्थाली कर्त्री, अवयवविभागादिपरत्वे तण्डुलाः कर्तारः। स्थाल्या पचतीत्यत्र तृतीयोपात्तव्यापाराश्रयाऽपि स्थाली करणमेव, न तु कर्त्री, देवदत्तादिव्यापारस्यैव तद्धातूपात्तत्वात्। तथा—आदिखादिभ्यामुपात्तेऽर्थे प्रयोज्यः कर्ता। तस्मिन्नेवार्थे भक्षयतिनोपात्ते कर्म। अधिपूर्वैः शीङादिभिरुपात्तेऽर्थे आधारः कर्म, केवलैरुपात्ते अधिकरणमित्यादि। एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोध इत्यादि परास्तम्, शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षादौ उक्तिसम्भवाभावात्। एतेन परसमवेतक्रियाजन्यफलशालित्वं कर्मत्वं चेद् अपादानेऽतिव्याप्तिमाशङ्क्य धात्वर्थतावच्छेदकफलशालि कर्मेति परिष्कुर्वन्तोऽपि प्रत्युक्ताः, ग्रामं गमयति देवदत्तमित्यादौ गन्तर्यव्याप्तेः। तन्मते गमनस्य प्रकृत्यर्थत्वेऽपि तत्त्वानवच्छेदकत्वात्। तत्र णिचो व्यापारार्थकत्वं न प्रकृतेः। तत्त्वे वा पाचयत्यादिप्रयोज्यकर्तर्यतिव्याप्तेः। पारिभाषिकमनुशासनोपयोगि कर्मत्वं वचनबलात् व्यवस्थितमिति चेद्? अपादानेऽपि तर्हि तन्नास्तीत्यवधेहि, एकसंज्ञाधिकारेऽनवकाशया सावकाशाया बाधात्। अत एव 'आत्मानमात्मना हन्ति' इत्यादौ परया कर्तृसंज्ञया कर्मसंज्ञाबाधमाशङ्क्याहङ्कारादिविशिष्टात्मभेदमाश्रित्य समाहितं भाष्ये।", "14044": "क्रयो— धनाद्यर्पणेनाऽऽत्यन्तिकस्वीकरणम्, तस्य समीपं परिशब्द आचष्टे। तच्च नियतकालं ततो न्यूनत्वादिति व्याचष्टे— भृत्या—<\/w> वेतनादिना। तादर्थ्ये इति।<\/w> तस्मै कार्यायेदं तदर्थम्— कारणम्, तस्य भावस्तादर्थ्यम्। ष्यञा उपकारकत्वरूपः सम्बन्धोऽभिधीयते, 'कृत्तद्धितसमासेभ्यः सम्बन्धाभिमानं भावप्रत्ययेन' इति सिद्धान्तात्। उपकारकत्वं चानेकधा। तेन ब्राह्मणाय दधीत्यादावपि भवति। भक्तिर्ज्ञानायेति।<\/w> ज्ञानात्मना परिणमत इत्यर्थः। प्रकृतिविकृत्योर्भेदविवक्षायां विकृतिवाचकाच्चतुर्थी, अभेदविवक्षायां तु परत्वात्प्रथमैव, भक्तिर्ज्ञानं कल्पत इति। यदा तु 'जनिकर्तुः' इति भक्तेरपादानत्वं विवक्ष्यते तदा ज्ञानस्याभिहितकर्तृत्वात्प्रथमैव, भक्तेर्ज्ञानं कल्पते। 'क्लृपी'त्यर्थग्रहणमित्याशयेनाह— उत्पातेनेति।<\/w> प्राणिनां शुभाशुभसूचको भूतविकार उत्पातः, तेन ज्ञापितेऽर्थे वर्तमानाच्तुर्थीत्यर्थः। वातायेति।<\/w> वातस्य ज्ञापिकेत्यर्थः। हितेति।<\/w> समासविधानाज्ज्ञापकादिति भावः। एवं सुखयोगेऽपि बोध्यम्। 'तुमुण्वुलौ क्रियायाम्' इति सूत्रमहिम्ना क्रियार्थकमुपपदं क्रियावाच्येव फलतीत्याशयेनाह- क्रियेति।<\/w> क्रियाफलकं क्रियावाचकप्रकृतिकमित्यर्थः। 'तुमुन्' इति ण्वुलोऽप्युपलक्षणम्। फलेभ्यो यातीत्यस्य फलान्याहरक इत्यपि विवरणे बाधकाभावात्।", "14047": "नेरल्पाच्तरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणं तादृशसमुदायविवक्षार्थमित्याह— संघातपूर्वकस्येति।<\/w> तेनेह न- 'निविशते यदि शूकशिखा पदे' इति। क्वचिन्नेति।<\/w> 'एष्वर्थेष्वभिनिविष्टानाम्' इति भाष्यप्रयोगश्चेह मानम्। उपपदविभक्तिमाह-", "14048": "उभसर्वतसोरित्यादिना।<\/w> उभसर्वयोस्तसौ उभसर्वतसौ, तदन्तयोर्योगे द्वितीया कार्येत्यर्थः। अत्र प्राञ्चः— उभशब्देनोभयशब्दो लक्ष्यते, अन्यथा तसोऽसम्भवादित्याहुः। वस्तुतस्तु वृत्तिविषये अयच्प्रवृत्तावपि उभशब्दाद्विहतो यस्तस् तदन्तमस्त्येवेति यथाश्रुतं साधु। धिगित्यविभक्तिको निर्देशो गवित्ययमाहेतिवदिति प्राञ्चः। तन्न, तथा सति अपदान्ततया दृष्टान्ते 'लोपः शाकल्यस्य' इत्यस्येव दार्ष्टान्तिके जश्त्वस्यापि अप्रवृत्तिप्रसङ्गात्। न चायं गकारान्त एवेति भ्रमितव्यं, 'कस्य च दः' इति सूत्रे धकिदित्युदाहरणस्यासङ्गतिप्रसङ्गात्। तस्माद् धिगिति विभक्त्यन्तमेव। 'प्रकृतिवदनुकरणम्' इत्यतिदेशात्सुपो लुक्। उभयत कृष्णमिति।<\/w> कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः। आद्यादित्वात्तसिः। षष्ठ्यर्थे द्वितीया। एवमुपपदविभक्तौ सर्वत्र बोध्यम्। नाम्नोर्द्विधैव सम्बन्धः सर्ववाक्येष्ववस्थितः। सामानाधिकरण्येन षष्ठ्या वाऽपि क्वचिद्भवेत्॥ इति वृद्धोक्तौ षष्ठीग्रहणं तदपवादविभक्तेरप्युपलक्षणम्। द्विधेत्युक्तिः सामानाधिकरण्यवैयधिकरण्याभ्यां निर्वाह्या, षष्ठीतदपवादयोरेककोटितया वा। धिक् कृष्णाभक्तमिति।<\/w> तस्य निन्द्यतेत्यर्थः। कथं धिङ् मूर्खेति? सम्बोधनपदस्य क्रियान्वय इति प्रागेवोक्ततया धिक्शब्दयोगाभावात्। क्रियापदं च क्वचिच्छ्रुतं क्वचिदाक्षिप्तमित्यन्यदेतत्। तथा च मूर्खसम्बोध्यकं निषिद्धाचरणादि निन्द्यत इति वाक्यार्थः। एतेन 'हा तात' 'हा देवि धीरा भव' इत्यादि व्याख्यातम्। यत्त्वाहुः— 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति सम्बोधने प्रथमैव भवति सम्बोधनपदस्य कर्तृकारकवाचित्वादिति; तन्मन्दम्, संबोधनपदस्य कर्तृकारकत्वे उक्तिसम्भवाभावत्। देव प्रसीदेत्यादौ वस्तुगत्या देव एव कर्तेति चेत्? नैतावता कारकविभक्तित्वं लभ्यते। किं च देव त्वां भजे, त्वां भजन्तीत्यादौ संबोध्यस्य वास्तवमपि न कर्तृत्वमित्यास्तां तावत्। उपर्युपरीति।<\/w> कथं तर्हि 'उपर्युपरिबुद्धीनां चरन्तीश्वरबुद्धयः'? उच्यते, उपरिबुद्धीनामुत्तानबुद्धीनामुपरि चरन्तीत्यर्थः। एवं च आम्रेडितत्वाभावान्न द्वितीया। यद्वा- प्रतिपदोक्तस्य 'उपर्यध्यधसः सामीप्ये' इति कृतद्वित्वस्यात्र ग्रहणम्, तेन वीप्सायां द्विर्वचने सति नास्य प्रवृत्तिः। 'अन्यत्रापि दृश्यते' इत्युक्तं,<\/w> तद्दर्शयति— प्रतिभातीति।<\/w> एष प्रतिशब्दः क्रियाविशेषकत्वादुपसर्गो न तु कर्मप्रवचनीयः।", "14049": "कर्तुरिति 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी। आप्नोतेः सन्नन्तात् 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः। मतिरिच्छा न तु बुद्धिः, पुनर्बुद्धिग्रहणात्। एवं च कर्त्रा आप्तुमिष्यमाणं कर्मेत्यर्थः। कर्ता च धातूपात्तव्यापाराश्रयः। स च केनाऽऽप्तुमिच्छतीत्याकाङ्क्षायां विशेषणीभूतेन व्यापारेणेत्यर्थाल्लभ्यते। तदेतदाह— क्रिययेति।<\/w> क्तप्रत्ययेनोपस्थितं वर्तमानत्वं नेह विवक्षितम्। तेन 'कटं कृतवान्' 'कटं करिष्यति' इत्यादि सिद्ध्यति। कारकमिति।<\/w> एतच्च 'कारके' इत्यधिकाराल्लभ्यते। तत्र हि व्यत्ययेन प्रथमार्थे सप्तमी। प्रतिसूत्रं वाक्यं भित्त्वा कारकसंज्ञा विधीयते। तद्यथा- अपाये ध्रुवं कारकसंज्ञं स्यात्। ततः 'अपादानम्' उक्तं कारकमपादानसंज्ञं स्यात्। पुनः कारकशब्दानुवृत्तिसामर्थ्यात् विशेषसंज्ञाभिः सह समावेशः। अन्वर्था चेयं संज्ञा— करोतीति कारकमिति। तेन क्रियाऽनन्वयिनो न भवति— ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति। इह हि ब्राह्मणः पुत्रविशेषणं न तु क्रियान्वयि। यद्वा कारकशब्दः क्रियापरः, करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः। तथा च अपादानादिसंज्ञाविधौ क्रियायामित्यस्योपस्थित्या क्रियान्वयिनामेव तत्तत्संज्ञा विधीयन्ते। 'कारकाद्दत्तश्रुतयोः' इत्यादौ तु कारकशब्दः स्वर्यते। तेनैतदधिकारोक्तं कर्त्रादिषट्कमेव गृह्यते। अस्मिन् पक्षे वृत्तावपि कारकमित्यस्य क्रियान्वयीत्यर्थः। आद्यपक्षे तु कारकसंज्ञा स्यात्। तच्च कारकं कर्मसंज्ञं स्यादिति व्याख्येयम्।", "14050": "तृणं स्पृशतीति।<\/w> यथा स्पृश्यमानस्य गङ्गादेरीप्सितस्य क्रियया योगस्तज्जन्यसंयोगादिफलाधारत्वात् तथैवानीप्सितस्य तृणादेरपीति भावः। स्यादेतत् धातूपस्थाप्यफलशालि कर्मेत्येवाऽस्तु, किमीप्सितानीप्सितयोः पृथक्कथनेनेति चेत्? मैवम्, अग्नेर्माणवकं वारयतीत्यत्र 'वारणार्थानाम्' इति सूत्रेण माणवकस्यापादानत्वं प्राप्तं तद्बाधनाय 'कर्तुरीप्सिततमम्' इति वक्तव्यमेव। एवं च द्वेष्योदासीनयोः संग्रहार्थं 'तथायुक्तम्' इत्यस्याप्यावश्यकत्वात्। अनीप्सितग्रहणं तु स्पष्टार्थमेव न त्वावश्यकम्। इदं त्ववधेयम्। ईप्सितानीप्सितयोः शाब्दबोध एकरूप एव, ईप्सानीप्सादेरधिशीङादिवत्संज्ञाप्रवृत्तावुपयोगेऽपि द्वितीयावाच्यकोटावप्रवेशात्, अनन्यलभ्यस्यैव शब्दार्थत्वात्। 'कर्मणि द्वितीया' इति सूत्रे हि तत्तत्सूत्रैर्यावतां कर्मसंज्ञा विहिता, ते सर्वे तेन रूपेणोपस्थितास्तेषु च विधीयमाना द्वितीया आधारवाचिका, लाघवात्, क्रियाया धातुना कर्तुश्च देवदत्तादिशब्दैर्लाभात्, इष्टतमत्वादेस्तु भानाभावात्। प्रकृतिप्रत्ययार्थयोश्चाभेदेन इह संसर्गः। तथा च हर्याधारिका या प्रीतिस्तदनुकूलो व्यापारो वाक्यार्थः। यद्यपि कर्मणि कर्तरि अधिकरणे च विहितानां द्वितीयादीनामाधारार्थ इति तुल्यम्; तथाऽपि तन्निरूपकं फलं, व्यापारः, स्वाश्रयद्वारा तदुभयं चेति फलभूते शाब्दबोधे वैलक्षण्यं सङ्गच्छते। न चाधारतैव वाच्येति मन्तव्यम्, तन्निष्ठधर्मस्य वाच्यतावच्छेदकतापत्त्याऽतिगौरवात् 'कर्मणि द्वितीया' इत्यादिसूत्रस्वरसभङ्गापत्तेश्च। अत एव भाष्यकार आह— सुपां कर्मादयोऽप्यर्थाः, संख्या चैव तथा तिङाम्। इति। न च तिङोऽपि धर्ममात्रमर्थः, 'कर्तरि कृत्' 'लः कर्मणि च' 'तयोरेव कृत्यक्तखलर्थाः' इति सूत्राणां वैरूप्यापत्तेः, पाचको देवदत्तः, पक्व ओदन इत्यादौ सामानाधिकरण्यानुरोधेन धर्मिवाचकतास्वीकाराच्च। तस्मादिह घटादिशब्दानामिव विशिष्टमेव वाच्यम्। आकृत्यधिकरणाभ्युपगमे तु कृत्स्वपि धर्ममात्रं, सर्वथाऽपि नैयायिकमीमांसकाद्यभ्युपेतमर्धजरतीयं हेयमेव। न हि तिङ्कृतोर्वैलक्षण्यं सूपपादम्। प्रपञ्चितञ्चैतच्छब्दकौस्तुभेऽस्माभिरित्यलमियता।", "14051": "परिगणनमिति।<\/w> तेन नटस्य शृणोति इत्यादौ नातिप्रसङ्ग इति भावः। गां दोग्धीति।<\/w> गोसम्बन्धि पयःकर्मकं दोहनमर्थः। स्यादेतत्, 'कर्तुरीप्सिततमं कर्म' 'तथा युक्तं चानीप्सितम्' इति सूत्राभ्यां गतार्थमेतत्। तथा हि, त्यजनोपसर्जनं त्याजनं दुहेरर्थः, दापनमङ्गीकरणं च याचे, विक्लेदनं निवर्तनं च पचेरित्यादि। एवं च धातूपात्तव्यापारविषयीभूतं यत् त्यजनदानाङ्गीकारादि, तदाश्रयत्वं गवादीनां स्पष्टमेव। अत एव हि अणौ कर्तुर्णौ कर्मत्वस्य न्यायसिद्धतया गत्यादिसूत्रं नियमार्थमिति प्राचां सिद्धान्तः। अत एव चाकडारसूत्रे 'अपादानमुत्तराणि गां दोग्धि पय इत्यत्र परत्वात्कर्मसंज्ञा' इति भाष्यं सङ्गच्छते। पञ्चकं प्रातिपदिकार्थ इति पक्षे त्ववधित्वफलाश्रयत्वयोर्युगपद् विवक्षायां चेदम्, अवधिभूता या गौस्तन्निष्ठो यः पयःक्षरणानुकूलो व्यापारस्तद्विषयिणी गोपनिष्ठा प्रेरणेत्यर्थात्। तथा च 'अकथितं च' इति सूत्रं व्यर्थमिति चेत्? अत्रोच्यते, कर्मणः शेषत्वेन विवक्षायां 'न माषाणामश्नीयात्' इतिवत् षष्ठी प्राप्ता, तां बाधितुमिदं सूत्रम्। तथा चेह षष्ठीवत्सम्बन्धमात्रं द्वितीयार्थ इति स्थितम्। अपादानत्वमात्रविवक्षायां तु पञ्चम्येव। गोः क्षीरविशेषणत्वे तु षष्ठी। तेन गोः पयो दोग्धीत्यपि प्रयोगः साधुरेव। एवमग्रेऽप्यूह्यम्। यत्तु प्राचोक्तम्- दुह्याच्यर्थरुधिप्रच्छिचिब्रूशासुजिकर्मयुक्। नीहृकृष्मन्थवहदण्ड्ग्रहमुष्पचकर्मभाक्॥ इति। अत्रेदं वक्तव्यम्। ग्रहेः पाठो निर्मूलः। जग्राह द्युतरुं शक्रमित्युदाहरणमप्ययुक्तम्। इतरेषां तु द्विकर्मकत्वं यद्यपि प्रामाणिकं तथाऽपि संदर्भशुद्धिः। तथा हि— दुह्यादीन् न्यादींश्च द्वैराश्येनेह पठित्वा भावकर्मप्रक्रियाशेषे 'लकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युर्गौणे वा' इत्याकाङ्क्षायां स्वयमेव पठितम्— न्यादयो ण्यन्तनिष्कर्मगत्यर्था मुख्यकर्मणि। प्रत्ययं यान्ति दुह्यादिर्गौणेऽन्ये तु यथारुचि॥ इति। एवं च दण्डिमन्थिभ्यामपि मुख्ये स्यात्। तथा च गर्गाः शतं दण्डयन्ताम् इति भाष्यं विरुध्येत। शतं ह्यत्र प्रधानं, न गर्गाः 'अर्थिनश्च राजानो हिरण्येन भवन्ति' इति वाक्यशेषात्। दण्डिश्चेह ग्रहणार्थो न तु निग्रहार्थः। अत एव मन्थेरपि प्रधाने स्यात्। इष्यते तु गौणे। तथा च भारविः— येनापविद्धसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे॥ इति। अत्राऽमृतं मुख्यम्, उद्देश्यत्वात्, अम्बुनिधिस्तु गौणः। यदपि व्याख्यातारः आहुः— द्विकर्मकेषु पचेरप्रामाणिकः पाठः इति, तद्रभसात्। तथा हि- 'कर्मवत्कर्मणा' इति सूत्रे 'दुहिपच्योर्बहुलं सकर्मकयोः' इति वार्तिके तद्भाष्ये च पचेर्द्विकर्मकता लभ्यते। कैयटहरदत्ताभ्यां तत्रैव स्फुटीकृता। माधवोऽप्याह- जयतेः कर्षतेर्मन्थेर्मुषेर्गण्डयतेः पचेः। इत्यादि। उदाजहार च- तण्डुलानोदनं पचतीति। यत्तु —'अकथितं च' इति सूत्रे हरदत्तेनोक्तम्— अकथितशब्दो यद्यप्रधानार्थो गृह्येत तदा 'पाणिना कांस्यपात्र्यां दोग्धि पयः' इत्यत्र पाणि-कांस्यपात्र्योरपि स्यात्, करणाधिकरणयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गो दुहादिपरिगणनादिति; तन्मतान्तराभिप्रायेण। अन्यथा उदाहृतस्वपरग्रन्थविरोधादिस्यास्तां तावत्। शतं जयतीति।<\/w> जि अभिभवे। यत्तु जि जये इति व्याख्यातं, तन्न, तस्याकर्मकत्वात्। यद्यपि जयत्यादयो भाष्ये न पठितास्तथाऽपि चकारेण सङ्गृह्यन्त इति कैयटः। अर्थनिबन्धनेति।<\/w> न तु स्वरूपाश्रया, 'अहमपीदमचोद्यंचोद्ये' इति 'तद्राज'सूत्रभाष्ये पृच्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शनादिति भावः। तथा च भट्टिः— स्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महार्थम्। कालिदासोऽपि- शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव। भारविश्च— उदारचेता गिरिमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः। एवं च नाथत्यादयो बहवो द्विकर्मकाः बोद्ध्याः। देश इति।<\/w> कुरुपञ्चालादिरेव गृह्यते, तेन 'अधिशीङ्स्थासाम्' इत्यादेर्न वैयर्थ्यम्। गोदोह इति।<\/w> न चेह कालत्वात्सिद्धिः, लोके कालत्वेन प्रसिद्धस्य मासादेरेव ग्रहणात्। तेन 'घटमास्ते' इत्यादि न भवति। यत्तु प्राचोक्तम्—'अकर्मकधातुभिर्योगे देशकालाध्वभावेभ्यो द्वितीया' इति केचित्, नदीमास्ते, इत्यादि। अत्रेदं वक्तव्यम्। कर्मसंज्ञाया अनुक्तत्वात्कर्मणि लादयो न स्युः। आस्यते मास इति यथा। केचिदित्यप्यसङ्गतम्, 'ग्रामसमूहकुर्वादरेव देशो न तु प्रदेशमात्रम्। तेन ग्रामं स्वपितीत्यत्र न भवति' इत्याकरात्। अध्वेति च न्यूनम्, अध्वानं स्वपितीति प्रसङ्गात्। अत एवाऽऽकरे अध्वा गन्तव्यत्वेन विशेषितः। गन्तव्यत्वेन प्रसिद्धो नियतपरिणामः क्रोशादिरिति व्याख्यातम्।", "14052": "प्रत्यवसानं<\/w> भक्षणम्। शब्दकर्मकाणामिति।<\/w> शब्दः कर्मकारकं येषां, तेषामित्यर्थः। न त्विह 'कर्तरि कर्मव्यतिहारे' इतिवत् कर्मशब्दः क्रियापरः, कृत्रिमे कार्यसम्प्रत्ययात्, कर्मग्रहणसामर्थ्याच्च। अन्यथा 'गतिबुद्धिप्रत्यवसानशब्दार्थकर्मकाणाम्' इत्येवावक्ष्यत्। नियमार्थं चैतत्सूत्रमिति प्राञ्चः। णिजर्थेनाप्यमानस्य यदि भवति तर्हि गत्याद्यर्थानामेव कर्तुरिति। तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वेनावस्थानात् तृतीया सिद्ध्यति। उक्तं च— गुणक्रियायां स्वातन्त्र्यात् प्रेरणे कर्मताङ्गतः। नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते॥ इति। कर्तुः स्वधर्मेण= तृतीययेत्यर्थः। ननु णिजर्थं प्रति कर्मत्वं बाधित्वा प्रकृत्यर्थं प्रति कर्तृत्वं परत्वादेव सिद्धम्, अन्तरङ्गत्वाच्च। स्वकारकविशिष्टा हि क्रिया णिजर्थेन सम्बद्ध्यते हेतुमति णिज्विधानात्, कर्तृप्रयोजकस्य हेतुत्वात्। अत एवोपजीव्याऽपि कर्तृसंज्ञा। एवं च— परत्वादन्तरङ्गत्वादुपजीव्यतयाऽपि च। प्रयोज्यस्यास्तु कर्तृत्वं; गत्यादेर्विधितोचिता ॥ इति चेत्? अस्त्वेवं, लक्ष्यस्य निर्बाधत्वात्। नियमसूत्रमिदमिति ग्रन्थानां का गतिरिति चेत्? शृणु, णिजर्थस्य शाब्दं प्राधान्यं पुरस्कृत्य प्राधानानुरोधिन्याः कर्मसंज्ञायाः प्राबल्याद् विप्रतिषेध एव नास्ति, अन्तरङ्गोपजीव्यत्वे अपि प्रधानं प्रति न प्राबल्यं प्रयोजयत इत्याशयेन ग्रन्थानामुक्तिसम्भवः। अर्थप्राधान्यपुरस्कारे तु विधायकत्वमेवोचितमिति ध्येयम्। शत्रूनिति।<\/w> स्वर्गकर्मकं शत्रुनिष्ठं यद् गमनं तदनुकूलो यन्निष्ठो व्यापारः, स श्रीहरिर्मे गतिरित्यर्थः। नन्विह कथं स्वर्गस्य कर्मत्वं, कर्तुरीप्सिततमं हि कर्म, न च शत्रवः कर्तारः, तेषां गत्यादिसूत्रेण कर्मत्वादिति चेत्? मैवम्, कर्मसंज्ञायां हि कर्तृग्रहणं स्वतन्त्रोपलक्षणम्। स्वातन्त्र्यं च धातूपात्तव्यापाराश्रयत्वमेव। तच्च प्रयोजकसन्निधानेऽपि प्रयोज्यस्यास्त्येव। न चोपलक्षणत्वे प्रमाणाभावः, 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां।' इत्युक्त्वा 'ण्यन्ते कर्तुश्च कर्मणः' इति वदतो भाष्यकृत एव तत्र प्रमाणत्वात्। न हि लक्षणां विना णिजन्तानां द्विकर्मकता लभ्यते, येन 'ण्यन्ते कर्तुः' इति वचनं सावकाशं स्यात्। ननु स्वतन्त्रे सङ्केतितस्य तत्रैव लक्षणा कथमिति चेत्? सञ्ज्ञान्तरानुपहिते सङ्केतितस्य तदुपहितसाधारणे स्वतन्त्रमात्रे सेत्यवधेहि। नीवह्योरिति।<\/w> यद्यप्यनयोः प्रापणमर्थो न गतिस्तथाऽपि गतिरपि विशेषणीभूय प्रापणमध्ये प्रविष्टेत्येतावन्मात्रेण प्राप्तिं मत्वा प्रतिषेध उक्तः। नियन्त्रिति।<\/w> नियन्ता पशुप्रेरको न तु सारथिरेव । तेन 'वाहयति बलीवर्दान् यवान्' इति सिद्ध्यति। अनिषेध इति।<\/w> प्रयोज्यः कर्मेति वक्तव्यमिति फलितोऽर्थः। सूत इति।<\/w> नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः। आदयतीति।<\/w> अकर्त्रभिप्राये फले 'शेषात्कर्तरि' इति परस्मैपदम्। कर्त्रभिप्राये तु 'णिचश्च' इत्यात्मनेपदमेव, तदपवादस्य 'निगरणचलनार्थेभ्यश्च' इत्यस्य 'अदेः प्रतिषेधः' इति निषिद्धत्वात्। सस्यमिति।<\/w> क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा द्रष्टव्या, तस्यामवस्थायां तेषां चेतनत्वात्। स्मारयतीति।<\/w> यत्तु— 'णेरणौ' इति सूत्रे 'स्मरयत्येनं वनगुल्मः स्वयमेव' इत्युदाह्रियते; तत्र भाष्यप्रयोगादेव कर्मत्वं बोध्यम्। शब्दायतेरिति।<\/w> शब्दं करोतीत्यर्थे 'शब्दवैर' इत्यादिना क्यङ्, ततो हेतुमण्णिच्। धात्वर्थेति।<\/w> एतेन 'शब्दाययति सैनिकैरिपून्' इति कर्म प्रयुञ्जानाः परास्ताः। यत्तु प्राचा— 'अय-क्रन्द-शब्दाय-व्हेञां न' इत्युक्तम्। तत्राऽयतेरुक्तिस्तावन्निर्मूलैव। क्रन्द-ह्वेञोस्तु शब्दक्रियात्वमात्रेण प्राप्तिसम्भावना। वस्तुतस्तु नासौ सूत्रार्थ इत्युक्तम्। यदपि 'श्रुग्रहदृशाम्' इति कर्मत्वमुक्तम्। तत्र दृशिग्रहणं प्रामाणिकमेव। शृणोतेस्तु शब्दकर्मकत्वात्सिद्धम्। ग्रहेस्तु द्विकर्मकत्वं यद्यपि सुधाकरादीनां संमतं तथाऽपि बहूनामसम्मतम्। अत एव 'अजिग्रहत्तं जनको धनुस्तद्' इति भट्टिप्रयोगमजिग्रहत् बोधितवानिति व्याचख्युः। तथा— अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक॥ इत्यत्र ग्राहयितुम्— उद्वाह्यत्वेन बोधयितुमिति। युक्तं चैतत्। ग्राहेर्द्विकर्मकत्वे हि जायाप्रतिग्राहितगन्धमाल्यामित्यत्र क्तेन प्रयोज्याया धेनोरभिधानं स्यात्, 'ण्यन्ते कर्तुश्च कर्मणः' इत्युक्तेः। ततश्च जायया गन्धमाल्ये प्रतिग्राहितामिति स्यात्। सिद्धान्ते तु प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहः। जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्कर्त्रीमित्यर्थः। अन्यपदार्थान्तर्भावेण विशेषणविशेष्यभाववैपरीत्येनैवैकार्थीभावकल्पनात्।", "14053": "अभिवादिदृशोरिति।<\/w> अभिवादयतेरप्राप्ते दृशेस्तु प्राप्ते विभाषेयम्।", "14054": "प्रधानीभूतधात्वर्थं प्रति आश्रयत्वं स्वातन्त्र्यम्। आह च- धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ॥ इति।", "14057": "अद्रव्यार्थाः किम्? पशुः। लिङ्गसङ्ख्यान्वितं द्रव्यम्। इह तु स्यादेव—लोधं नश्यन्ति पशु मन्यमानाः। 'पशु' इति सम्यगर्थे।", "14059": "निस् दुर् इति सान्तौ, <<निसस्तपतौ>> [[8.3.102]] इति निर्देशात् 'अयोगवाहानामविशेषेण' इति प्रकरणे निष्कृतं दुष्कृतमित्युदाहृत्य 'इदुदुपधस्य सकारस्य यो विसर्जनीयः' इति भाष्यकारोक्तेश्च। <<उपसर्गस्यायतौ>> [[8.2.19]] इति सूत्रे वामनोऽप्येवम्। <<निरः कुषः>> [[7.2.46]] 'सुदुरोरधिकरणे' इति निर्देशाद्रेफान्तावपीति तत्रैव सूत्रे हरदत्तः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां संज्ञाप्रकरणम्॥", "14085": "नदीमन्विति।<\/w> द्वितीयायाः सम्बन्धोऽर्थः। स चेह साहित्यरूप इत्यनुना द्योत्यते।", "14089": "वचनग्रहणादिति।<\/w> सामर्थ्यादवधिमात्रं विवक्ष्यते। तेन विनेति विशेषणांशस्तु नेति भावः। यद्वा— मर्यादेति शब्द उच्यतेऽस्मिंस्तन्मर्यादावचनम्— 'आङ्मर्यादाभिविध्योः' इति सूत्रम्, तत्र य आङ् दृष्टः स उक्तसंज्ञ इत्यर्थः।", "14090": "वृक्षं प्रतीति।<\/w> वृक्षसम्बन्धि द्योतनमित्यर्थः। संबन्धश्च लक्ष्यलक्षणभाव इति प्रत्यादयो द्योतयन्ति। भक्तो विष्णुं प्रतीति।<\/w> विष्णोर्भक्तेश्च विषयविषयिभावः प्रत्यादिद्योत्यः। लक्ष्मीरिति।<\/w> लक्ष्मीरूपस्य भागस्य हरिणा सह स्वस्वामिभावः। वृक्षं वृक्षमिति।<\/w> इह वीप्सा द्विर्वचनेनैव द्योत्यते, परिशब्दस्तु क्रियया संबध्यते, कर्मणि द्वितीया। कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं न । एतदर्थमेव लक्षणादयो विषयतयोपात्ता इति व्याख्यातमाकरे। 'पञ्चम्यपाङ्परिभिः' इति तु न भवति, वर्जनार्थेनापेत्यनेन साहचर्यात्।", "14091": "ममाभिष्यादिति।<\/w> मम भागः स्यादित्यर्थः। मामभिष्यादित्यपि प्राञ्चः प्रत्युदाहरन्ति। तत्र मां प्राप्नुयादित्यर्थः। उपसर्गवशेन अस्तेः सकर्मकत्वान्मामिति द्वितीया, अत्र च मम भाग इत्यर्थतः पर्यवसानात्। अभागे इति कर्मप्रवचनीयत्वे निषिद्धे 'उपसर्गप्रादुर्भ्याम्' इति षत्वम्।", "14092": "प्रतिनिधिः।<\/w> दत्तस्य प्रतिनिर्यातनं", "14094": "पूजायां चेति।<\/w> 'सुः पूजायाम्' इति पूर्वसूत्रात् पूजाग्रहणमनुकृष्यते।", "14103": "'तिङस्त्रीणित्रीणि' इति सूत्रात् त्रीणि त्रीणि इति पदं 'तान्येकवचन' इत्यादी सूत्रं च सम्पूर्णमनुवर्तत इति व्याचष्टे— सुपस्त्रीणित्रीण्येत्यादिना। एकश इति। एकैकमित्यर्थः। 'सङ्ख्यैकवचनाच्च' इति वीप्सायां प्रथमान्तात् शस्। यत्तु प्राचा एकैकश इत्युक्तम्। तदयुक्तम्, शसैव वीप्साया उक्तत्वेन द्विर्वचनायोगात्। येननाप्राप्तिन्यायेन द्विर्वचनापवादः शस् इति सिद्धान्तात्। यत्त्वाहुः 'सर्वस्य द्वे' इत्यत्र एकैकशो ददातीति भाष्यप्रयोगात् 'तान्येक—' इति सूत्रे एकश इति सूत्रकारनिर्देशाच्चोभयं साध्विति। तन्न, उदाहृतभाष्यस्यान्यविषयत्वात्। 'यत्र तद्धितेनानुक्ता वीप्सा भवति तत्र द्विर्वचनम्' इत्युपक्रम्य हि 'तद्यथा एकैकशो ददाति' इति भाष्ये उदाहृतम्। व्याख्यानं च कैयटेन- अल्पार्थोऽप्येकशेषोऽस्ति तस्य वीप्सायां द्विर्वचने 'बह्वल्पार्थात्—' इति शस्प्रत्यय इति। न चैषोऽर्थः प्रकृते सम्भवतीत्यास्तां तावत्।", "21001": "समर्थाश्रित इति।<\/w> सूत्रे समर्थशब्दो लाक्षणिक इति भावः।", "21004": "कतिपयेति।<\/w> यद्यपि उदात्तवता, गतिमता च तिङा गतेः समासो नित्याधिकारे वार्तिककृतोक्तस्तथाऽपि नासौ नियतः, 'य आनयत्' 'अभिप्रभरधृषते' इत्यादौ समासादर्शनात्। अत एव भाष्यकृता 'सह' इति योगविभागेनाऽयं साधितः। यथोत्तरं मुनीनां प्रामाण्यमिति भावः। स चेति।<\/w> एतदपि योगविभागस्येष्टसिद्ध्यर्थत्वादेव लभ्यते। एतच्च सम्प्रदानसंज्ञासूत्रे पदमञ्जर्यां स्पष्टम्। यदि हि लोकेऽपि स्यात् तर्हि 'अभिप्रैति' इत्यादौ समासात्स्वादयः स्युः, पचतिकल्पमित्यादौ तद्धितान्ताद्यथा। न च लिङ्गसर्वनामनपुंसकताऽभ्युपगमेन निर्वाहः, 'प्रकुरुते' इत्यादौ ह्रस्वापत्तेः, 'प्रकुर्वीरन्' इत्यत्र नलोपापत्तेश्च।", "21008": "यावच्छ्लोकमिति।<\/w> यावदित्यव्ययं समस्यते। विग्रहस्तु तद्धितेनेत्यस्वपदत्वं बोद्ध्यम्।", "21011": "एतदिति।<\/w> न्यायसिद्धेऽर्थे लिङ्गदर्शनमिदम्। टिघुभादिसंज्ञानामिव समाससंज्ञाया अपि नित्यप्राप्तत्वाद्वचनं विना विद्ध्यन्तराणामिव संज्ञानामपि विकल्पाऽलाभात्। स्यादेतत्। 'सुप्सुपा' इत्यपि तर्हि नित्यं स्यात्। न चेष्टापत्तिः, अपसिद्धान्तात्। तथा हि— चरट्सूत्रे वृत्तिकृतोक्तं पूर्वं भूतो भूतपूर्वः, सुप्सुपेति समास इति। तथा शाकलसूत्रे 'सिन्नित्यसमासयोः शाकलप्रतिषेध इत्यत्र नित्यग्रहणेन नार्थ इदमपि सिद्धं भवति वाप्यामश्वो वाप्यश्वः' इति भाष्यं कैयटो व्याख्यात्— 'वाप्यश्व इति सुप्सुपेति समासः। 'संज्ञायाम्' इति समासस्य नित्यत्वात्सिद्धः प्रतिषेधः' इति। तथा 'अनुदात्तं पदमेकवर्जम्' 'असिद्धवदत्र' इत्यादिसूत्रेशष्वपि कैयटे स्पष्टम्। अत आह— सुप्सुपेतीति समासेति।<\/w> योगविभागेनैव सिद्धे समासे उत्तरसूत्रैः पुनर्विधानं प्राचीनस्य क्वाचित्कतां ज्ञापयति। एवं च इवेन समासस्यापि क्वाचित्कत्वादुद्बाहुरिव वामन इत्यादि सिद्धम्। इवेनेति वार्तिकं तु यद्यपि 'कुगति' इत्यत्र पठ्यते तथाऽपि सुप्सुपेत्यत्रत्यमेव नित्याधिकारे स्मारितमित कैयटः। एवं स्थिते इवेन समासस्य छान्दसत्वं कल्पयन्तः प्रत्युक्ताः। जीमूतस्येवेत्यत्र बह्वृचैः समासाभ्युपगमेऽपि तैत्तिरीयैर्व्यस्तस्यैव पाठादिति दिक्।", "21012": "अत एव ज्ञापकाद्बहिर्योगे पञ्चमी। ज्ञापकसिद्धं न सर्वत्र। तेन 'करस्य करभो बहिः' इति सिद्धम्।", "21013": "आबालमिति।<\/w> यत्तु— आ परमाणोः, आ च भूगोलकमिति किरणावल्यां प्रयुक्तं तत्प्रामादिकम्, समासमध्ये चकारप्रयोगासम्भवात्। आभूगोलकादिति तु पाठ्यम्।", "21015": "यं पदार्थमिति।<\/w> सूत्रे यदिति सामान्ये नपुंसकम्। 'अव्ययं विभक्ति' इत्यनेन सिद्धे विभाषार्थं सूत्रम्। तेन पक्षे वनस्यानु इत्युदाहार्यम्।", "21016": "अनुगङ्गमिति।<\/w> इहाऽयामो लक्षणत्वं चानुना द्योत्यते। लक्ष्यं तु समासार्थः। अत एव वाराणस्याः सामानाधिकरण्यम्। एवं स्थिते फलितमाह- वाराणसीति।<\/w> वरं च तदनश्च वरानः श्रेष्ठोदकं, तस्यादूरभवा। 'अदूरभवश्च' इत्यण्, आदिवृद्धिः, 'पूर्वपदात्संज्ञायाम्' इति णत्वम्, अणन्तत्वान्ङीप्।", "21020": "स्वरूपस्य संज्ञाया नद्याश्च नेह ग्रहणं बहुवचननिर्देशात्। किं त्वर्थस्य। न च तस्य समासः संज्ञा भवति। अतस्तद्वाचिनामयं समासः। ते च न केवलं विशेषशब्दा एव किं तु सामान्यशब्दोऽपि।", "21021": "नित्यसमास इति।<\/w> एतच्च वृत्तौ स्पष्टम्। शाकलसूत्रे कैयटस्वरसोऽप्येवम्। नन्वेवं न्यायसाम्यात् बहुव्रीहेरपि नित्यसमासत्वं स्यादिति चेन्मैवम्, यस्येत्यादिपदान्तरसमभिव्याहारेणान्यपदार्थप्रतीतेः। अत एव संज्ञानवगमात् इत्युक्तं न त्वन्यपदार्थाऽनवगमादिति। संज्ञायां किम्ॽ शीघ्रगङ्गो देशः।", "23001": "ननु बहुपटुरित्यादौ बहुचा उक्तार्थत्वाद्यथा कल्पबादयो न, एवं क्रियते कटः इत्यादावपि तिङादिभिरुक्तार्थत्वाद् द्वितीया न भविष्यति, किं च कटं करोतीत्यादौ सावकाशा द्वितीया 'कृतः कटः' इत्यादिषु प्रथमया बाधिष्यते, निरवकाशत्वात्। न च वृक्ष इत्यादिरवकाशः, तत्रापि प्रतीयमानामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात्। अथ नीलमिदं न तु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्तिक्रियाया अनावश्यकत्वात् प्रथमाया अवकाशं ब्रूषे, तर्हि विप्रतिषेधात् प्रथमास्तु। एवं चानभिहिताधिकारो वृथेति चेत्? मैवम्, संख्या विभक्त्यर्थ इति पक्षे सूत्रारम्भात्। तथा चाऽनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयैकवचनममित्यर्थः। सूत्रानारम्भे च कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमम् इति हि वाक्यार्थः। तथा सति 'कृतः कटः' इत्यादौ च क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया अम् दुर्वारः। परत्वात्प्रथमेत्यपि न, 'कर्तव्यः कटः' इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात्। कारकं विभक्त्यर्थ इति पक्षे सूत्रं प्रत्याख्यातमाकरे।", "23002": "हरिं भजतीति।<\/w> भजनक्रियया हरौ प्रीतेरुत्पादात् प्रीतिविशिष्टतया क्रियाव्याप्यत्वेन हरिः कर्म। तद्विशिष्टं भजनं वाक्यार्थः। 'हरिः सेव्यते' इत्यत्राप्येवमेव, 'क्रियाप्रधानमाख्यातम्' इति सिद्धान्तात्। धातूपस्थिता क्रिया तिङर्थं प्रति विशेष्या, न तु कृदर्थं प्रतीव विशेषणमिति हि तस्यार्थः। अत एव पाचको व्रजति इतिवत् पचति व्रजतीति नैकं वाक्यम्। पाककर्तृकर्तृकं गमनं हि पाचक इत्यादेरर्थः। एककर्तृका पचिक्रिया गमिक्रिया च पचतिव्रजत्योः पृथगेवार्थः। एवं च प्रथमान्तविशेष्यको बोध इति नैयायिकोद्घोषो भाष्याद्यनुसारिभिर्नादर्तव्यः। यास्कोऽप्याह- 'भावप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि'। पश्य मृगो धावतीत्यादौ तु मृगकर्तृकं गमनं दृशिक्रियायां कर्म, प्रधानं दृशिक्रियैव। उक्तं च— सुबन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम्। तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्॥ इति। एवं पचति भवतीत्यस्य पचिक्रिया भवतीत्यर्थः। अयं तु विशेषः— तिङन्तोपस्थितायाः क्रियायाः क्रियान्तरं प्रति विशेषणत्वेऽपि शब्दाध्याहारवादे कर्मत्वं संसर्ग एव, न तु प्रकारः; अपदार्थत्वात्। अर्थाध्याहारवादे तु प्रकारत्वेऽपीष्टापत्तिः। पचतीत्यादौ धातूपात्तफलस्यापीत्थमेव मतभेदेन व्यवस्था। अत एव तत्समानाधिकरणे 'शोभनं पचति' इत्यादौ द्वितीयैकवचनोत्पत्तिः, 'अग्निष्टोमेन यजेत' इत्यादौ तृतीयोत्पत्तिप्रसङ्गश्च सङ्गच्छते। न च दृष्टान्ते विशेष्यसमर्पकाद्दार्ष्टान्तिके विशेषणसमर्पकाच्च कर्मत्वादिवचिकायाः सुब्विभक्तेः प्रयोगोऽस्त्विति वाच्यम्? धातुतिङन्तयोरप्रातिपदिकत्वात्। नैयायिकानां तु स्यादेष दोषः। तथा हि धावन्तं मृगं पश्येतिवत् धावति मृगमित्यपि स्यात्। न चाप्रथमासामानाधिकरण्ये शतृशानचोर्नित्यत्वान्नैवं प्रयोग इति वाच्यम्? एवमपि द्वितीयानुत्पत्तेर्दुरुपपादत्वात्। ननु तत्र वाक्यभेद एव, पश्येत्यत्र तमिति कर्माध्याहारात्। पचति भवतीत्यादि तु पाको भवतीत्याद्यर्थेऽनिष्टमेवेति चेत्? मैवम्, अध्याहारे गौरवात्, तस्य च मुनिवचनविरोधेनाप्रामाणिकत्वात्, त्वदीयानिच्छामात्रस्याकिञ्चित्करत्वात्। अपि च 'अपक्षीद्देवदत्तोऽवेहि' इत्यादौ शत्रादेः प्रसङ्ग एव नास्ति। एकवाक्यत्वं च भाष्यवार्तिकादिसकलसम्मतम्। न च तिङन्तस्थले क्रियाविशिष्टक्रियान्तरबोधे जायत एवेति वाच्यम्? तथैव व्युत्पन्नानां तादृशबोधस्य दुर्वारत्वात्। ईदृशेऽर्थे साधुत्वं नेष्टमित्यपि न, साधुत्वानुशासनार्थं प्रवृत्तैरेव तस्य स्वीकारात्, धातुसम्बन्धाधिकरव्युत्पादिते 'पुरीमवस्कन्द' इत्यादौ तस्यावश्यकत्वाच्च। ननु सिद्धान्ते आख्यातवाच्यक्रियाया अपि कर्तृत्वकर्मत्वस्वीकारे तस्या असत्त्वरूपत्वं भज्येतेति चेत्? न, लिङ्गसंख्ययोः कर्तृकर्मेतरकारकस्य चाभावमात्रेण तथात्वोपपत्तेः, कर्मत्वस्य प्रकारतयाऽनभ्युपगमाद्वेत्यन्यत्र विस्तरः। अभिहिते त्विति।<\/w> नन्वेवं 'पक्वमोदनं भुङ्क्ते' इत्यत्रापि द्वितीया न स्यादिति चेत्? मैवम्, इह हि पचिभुजिनिरूपिते द्वे कर्मत्वशक्ती, तत्र प्रधानक्रियानिरूपितामनभिहितां शक्तिमादाय द्वितीयोत्पत्तेः। उक्तं च हरिणा— प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्। शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते। यदा गुणे तदा तद्वदनुक्ताऽपि प्रतीयते॥ इति। अत एव 'पक्त्वौदनो भुज्यते' इत्यत्र भुजिप्रत्ययेनाभिहिते प्रथमैव, पचेरप्राधान्यात्। वस्तुतस्तु 'पक्त्वा भुज्यते' इत्यादौ कर्मणः पचिभुजिभ्यां युगपच्छाब्दोऽन्वयः, किं त्वन्यतरेण शाब्दोऽपरेणार्थः। तत्र च प्रथमाद्वितीये व्यवस्थिते एव। तद्यथा—पक्त्वा भुज्यते ओदनः। किं पक्त्वा? अर्थादोदनम्। यदा तु ओदनं पक्त्वा भुज्यते इति प्रयुज्यते तदा भुज्यत इत्यत्रार्थादोदन इति गम्यते। एवं च विवक्षाभेदेन 'पूजयितुं शक्यते हरिर्हरिं वा' इत्युभयं साधु। प्राप्तानन्द इति।<\/w> आनन्दकर्तृकप्राप्तिकर्मीभूत इत्यर्थः। यदुक्तं प्रायेणेति, तस्य फलमाह— विषवृक्ष इति।<\/w> यदि तु वर्धिच्छिद्योरन्यतरेण सह कर्मतयाऽन्वयो विवक्ष्यते, तदा द्वितीया स्यादेवेति ध्येयम्।", "23004": "अन्तरा त्वां मामिति।<\/w> तव मम च मध्ये इत्यर्थः।", "23005": "अन्तं- विराममतिक्रान्तोऽत्यन्तः स चासौ संयोगो निरन्तरसन्निकर्षः इत्यर्थः। द्वितीया स्यादिति।<\/w> श्रुतत्वात् कालाध्ववृत्तिभ्यामेव। मासस्येति।<\/w> 'कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' इति षष्ठीत्याहुः, तन्न, तत्र शेषग्रहणानुवृत्त्या 'द्विरह्नो भोजनम्' इति कृदन्तेन सह समासाप्रवृत्तेरेव फलत्वात्। तस्मादिह 'षष्ठी शेषे' इति सूत्रेणैव षष्ठीति तत्त्वम्। ॥ इति द्वितीया॥", "23008": "सामर्थ्यादिति।<\/w> अत एव हेतुत्वपर्यन्तमपि शाब्दबोधे विषय इति स्वीक्रियत इति भावः।", "23009": "पर्यायेणेति।<\/w> ईश्वरशब्दो भावसाधनः। यस्य स्वामिन ईश्वरत्वमुच्यते इत्येकं व्याख्यानम्। यस्येति स्वं निर्दिश्यते। यस्य स्वस्य ईश्वर उच्यते इत्यपरम्। एवं च व्याख्याभेदात्पर्यायेण विभक्तिः। सा च विशेषणात् षष्ठीवदिति भावः। इति सप्तमी॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां कारकप्रकरणम्॥", "23010": "परि हरेरिति।<\/w> 'परेर्वर्जने वा वचनम्' इतिवार्तिकात्पक्षे द्विर्वचनाभावः। परिरत्रेति।<\/w> अत्र पञ्चमीविधौ वर्जनार्थेनापेन साहचर्यादिति भावः।", "23011": "अस्मादेव निर्देशादाभ्यां योगे पञ्चमीत्याहुः। मुख्यस्याऽभावे तत्सदृश उपादीयते स पञ्चमी स्यादिति।<\/w> तृतीयापवादोऽयम्।", "23013": "दानीय इति।<\/w> बाहुलकात् सम्प्रदाने अनीयर्।", "23014": "कर्मणीति।<\/w> तथा च द्वितीयापवादोऽयमिति भावः। यत्तु प्राचा व्याख्यातमप्रयुज्यमानस्यैव कर्मणि यथा स्यात्, प्रयुज्यमानस्य मा भूदिति नियमाय सूत्रमिति, तन्न, अप्राप्तस्य नियमायोगात्। न च 'तादर्थ्य' इति प्राप्तिः। न हि फलार्था यानक्रिया, किं त्वाहरणार्था। आहरणं तु फलकर्मकमित्यन्यदेतत्। तुमुनो भाव एव विधानात्तदर्थस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहार्थमित्याह-", "23015": "इति सूत्रेणेति।<\/w> न च तादर्थ्ये इत्येव गतार्थता शङ्क्या, भाववचनेनैव तुमुनेव तादर्थ्यस्य द्योतिततया प्रातिपदिकार्थमात्रे प्रथमाप्रसङ्गात्। यत्तु प्राचोक्तम्— भाववचनादेव यथा स्यात्, पाचको व्रजतीति ण्वुलन्तात् मा भूदिति नियमार्थमिदं सूत्रमिति; तन्न, ण्वुलन्ते कर्तुः प्राधान्यात् कर्तारं प्रति च तादर्थ्याभावात्, गुणीभूतयानस्य च विभक्त्यर्थानन्वयात्। ननु", "23016": "षष्ठ्यपीति<\/w> कुतःॽ षष्ठ्येवास्तु, अलंशब्दस्तु पर्याप्तीतरार्थक एव गृह्यतामित्याशङ्क्याह—", "23017": "न त्वां तृणमित्यादि।<\/w> ननु तृणादिवद् युष्मच्छब्दादपि पक्षे चतुर्थ्या भाव्यम्। मैवम्, 'अनादरे' इति हि कर्मणो विशेषणम्— अनादरद्योतकं यत्कर्मेति। तादृशं तृणमेव न तु युष्मदर्थः। ॥ इति चतुर्थी।", "23018": "रामेणेति।<\/w> इह यद्यपि विभक्त्युपस्थितानां कारकाणां क्रियां प्रति विशेषणतैव तथाऽपि कृदुपस्थितानां विशेष्यतैव, 'सत्त्वप्रधानानि नामानि' इत्युक्तेः। धातूपस्थाप्ययोः फलव्यापारयोरपि कर्मकृत्समभिव्याहारे विशेषणविशेष्यभावव्यत्यासः। तथा च राममिष्ठो यो व्यापारस्तद्विषयीभूतबाणव्यापारसाध्यप्राणवियोगाश्रयो वालीति वाक्यार्थः। यत्तु वाजपेयाधिकरणे मीमांसकैरुक्तं—'काष्ठैः पाकः' इत्यपि स्यादिति, तदिष्टापत्तिग्रस्तम्। 'कर्तृकरणे कृता बहुलम्' 'कर्तृकर्मणोः कृति' इत्यादिसूत्राणां कृत्प्रकृत्यर्थेन कारकान्वयं विनोक्तिसंभवस्यैवाभावादिति सुधीभिराकलनीयम्। अनभिहिते किम्? हरिः करोति। जीवन्त्यनेन जीवनः। शाब्दिकः। 'शब्दर्दुरं करोति' इति ठक्। कृतं विश्वं येन कृतविविश्वाः, विश्वकर्मककृत्याश्रय इत्यर्थः; अषष्ठ्यर्थबहुव्रीहौ व्युत्पत्त्यन्तरस्वीकारात्। यथा चैतत्तथा वक्ष्यते। प्रकृत्यादिभ्य इति।<\/w> आकृतिगणोऽयम्। तेन 'नाम्ना सुतीक्ष्णश्चरितेन दान्तः' इत्यादि बोध्यम्। द्वयोर्द्रोणयोः समाहारो द्विद्रोणम्। पात्रादित्वात्स्त्रीत्वाभावः। द्रोणद्वयसम्बन्धि धान्यमित्यर्थः। चादिति।<\/w> करणशब्दानुवृत्त्या 'परिक्रयणे सम्प्रदानम्' इत्युत्तरसूत्रस्थान्यतरस्यांग्रहणापकर्षणेन वा संज्ञयोः पर्याये लब्धे समावेशार्थश्चकारः। तेन 'मनसादेवः' इत्यत्र कर्मण्यण्, करणे तृतीया चेत्युभयं सिद्ध्यति। 'मनसः संज्ञायाम्' इत्यलुक्। किं चाक्षैर्देवयते यज्ञदत्तेनेत्यत्र सकर्मकत्वादणि कर्तुर्णौ कर्मत्वं न, 'अणावकर्मकात्' इति परस्मैपदं च नेति सिद्धान्तः। यत्तु प्राचा कर्मसंज्ञं वा स्यादिति व्याख्यातम्, तदाकरविरोधादुपेक्ष्यम्। स्यादेतत्, करणसंज्ञाया अवकाशः देवना अक्षाः, करणे ल्युट्। कर्मसंज्ञायास्तु- दीव्यन्ते अक्षाः, कर्मणि लट्। 'अक्षैर्दीव्यति' इत्यत्र संज्ञाद्वयप्रयुक्तकार्यद्वयप्रसङ्गे परत्वात् तृतीयैव स्यान्न तु द्वितीयेति चेत्? अत्राहुः- कार्यकालपक्षे 'कर्मणि द्वितीया' इत्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद् द्वितीयेति। ननु 'दीव्यन्ते अक्षाः' इत्यत्र कर्मण्यभिहितेऽपि करणत्वस्यानभिधानात् तृतीया स्यात् तथा 'देवना अक्षाः' इत्यत्र ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानात् द्वितीया स्यात्? मैवम्, एकैव ह्यत्र शक्तिः संज्ञाद्वयोपयोगिनी। तथा च उभयत्राप्यभिधानमेव न त्वनभिहितत्वम्।", "23019": "पुत्रेणेति ।<\/w> पितुरत्र क्रियासंबन्धः शाब्दः, पुत्रस्य तु आर्थ इति तस्याप्राधान्यम्। अप्रधानग्रहणं शक्यमकर्तुम्। न चैवं पितुरपि तृतीयापत्तिः। तत्र प्रातिपदिकर्थमात्रे अन्तरङ्गत्वात्प्रथमोत्पत्तेः। 'पितुरागमनम्' इत्यादौ कारकविभक्तेः प्राबल्याच्च।", "23020": "अङ्गशब्दोऽर्शआद्यजन्तस्तदाह— अङ्गिन इति।<\/w> येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्यते, सन्निधानात्। स चार्थाद् विकृत एव, न ह्यविकृतेनावयवेन शरीरस्य विकारः संभवति। तदेतदाह— पञ्चम्या इति।<\/w> कथं तर्हि ततः पश्चादिति। ततः पश्चात् स्रंस्यते, ध्वंस्यते चेति भाष्यप्रयोगात् पश्चाद् योगे पञ्चम्यपि। प्रत्ययग्रहणं चिन्त्यप्रयोजनम्।", "23022": "संजानीत इति।<\/w> 'सम्प्रतिभ्यामनाध्याने' इति तङ्। कृद्योगे परत्वात् षष्ठी पितुः संज्ञाता। यत्तु हरदत्तेनोक्तम्- आध्याने परत्वाद् 'अधीगर्थ' इति षष्ठी 'मातुः संजानाति' इति; तन्न, तत्र शेषाधिकारात्।", "23023": "द्रव्यादीति।<\/w> उक्तं च— द्रव्यादिविषयो हेतुः, करणं नियतक्रियम्॥ इति। अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते ॥ इति च। फलमपीति।<\/w> एतच्च 'प्रत्यय' इति सूत्रे कैयटे स्पष्टम्। एवं च तादर्थ्यचतुर्थ्या सहेयं तृतीया विकल्प्यते। अध्ययनाय वसति। अयं तु विशेषः—अध्ययनस्य फलेन सहाभेदः संसर्गः, उपकारकत्वेन सह तु निरूपकतेति। गम्यमानेति।<\/w> न तु श्रूयमाणैवेत्याग्रह इति भावः। साधनेति।<\/w> साध्यमित्यत्र प्रकृतिभागस्यार्थं प्रतीति भावः। 'मा चापलायेति गणान् व्यनैषीत्' इत्यत्र तु यतध्वमिति शेषः। अशिष्टेति।<\/w> एतच्च 'दाणश्च सा चेच्चतुर्थ्यर्थे' इत्यनेन ज्ञाप्यते॥ इति तृतीया॥ अन्वर्थसंज्ञाबलेनाह-", "23024": "शतेनेति।<\/w> शतमिह उत्तमर्णाय धार्यमाणत्वादृणम्। 'तत्प्रयोजको हेतुश्च' इति चकारेण कर्तृसंज्ञा च।", "23025": "योगविभागादिति।<\/w> एतच्च 'हेतुमनुष्येभ्य' इति सूत्रे हरदत्तग्रन्थे स्पष्टम्। स्त्रियां चेति।<\/w> 'बाहुलकं प्रकृतेस्तनुदृष्टेः' इति वार्तिकनिर्देशोऽपीह ज्ञापकः।", "23027": "इह सर्वनाम्न इति षष्ठी, तदाह- सर्वनाम्नः प्रयोगे इति।<\/w> पञ्चम्यां तु हेतुशब्दात् षष्ठीतृतीये न स्यातामिति भावः। निमित्तपर्यायेति।<\/w> पर्यायग्रहणस्य फलमुदाहरति— एवमित्यादिना।<\/w> प्राचा तु 'किमर्थम्' इत्युदाहृतम्। तत्र किमः क्लीबत्वं दुर्लभम्। सामान्ये नपुंसकतां, समासं चाश्रित्य कथंचिद्वा नेयम्। असर्वनाम्न इति।<\/w> 'निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्' इति वार्तिकं हि वृत्तिकारेण यद्यपीहोक्तं, तथाऽपि भाष्यकृता 'हेतौ' इत्यत्र पठितम्। तेन सर्वनामाऽप्रयोगे अपि प्रवर्तते। किं तु प्रायग्रहणात्तत्र तृतीयादय एवेत्यर्थः। वर्धमानस्तु प्रथमामपीच्छति।", "23028": "धावत इति।<\/w> इह क्रियाविशिष्टस्याप्यश्वास्य प्रकृतधातूपात्तक्रियां प्रत्यवधित्वं न विरुद्ध्यते । 'परस्परस्मान्मेषावपसरतः' इत्यत्र तु सृधातुना गतिद्वयस्याप्युपादानाद् एकनिष्ठां गतिं प्रतीतरस्यापादानत्वं न विरुध्यते। उक्तं च— अपाये यदुदासीनं चलं वा यदि वाऽचलम्। ध्रुवमेवातदावेशात्तदपादानमुच्यते॥ पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ। तस्याप्यश्वास्य पतने कुड्यादि ध्रुवमिष्यते॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्। मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्॥ इति। पर्वतात्पततोऽश्वात्पततीत्यत्र तु पर्वतावधिकपतनाश्रयोऽश्वस्तदवधिकं देवदत्तादिनिष्ठपतनमित्यर्थः। पञ्चम्यर्थेऽवधौ अभेदेन संसर्गेण प्रकृत्यर्थो विशेषणम्, प्रत्ययार्थस्तु क्रियायां, स च धर्मी न तु धर्ममात्रम्, विभक्त्यर्थे विहितस्य बहुव्रीहेर्धर्मिपरताया निर्विवादत्वात्। उद्धृतौदना स्थालीत्यत्र हि ओदनकर्मकोद्धरणावधिभूतेत्यर्थः। जुगुप्सेति।<\/w> भाष्यकारस्तु जुगुप्सादीनां तत्पूर्वकनिवृत्तिलक्षकतामाश्रित्य सूत्रेण तत्सिद्धिमाहुः। एवमुत्तरसूत्रेष्वपि ।", "23029": "प्रपञ्चार्थमिति।<\/w> न च 'इतरस्त्वन्यनीचयोः' इत्यमरोक्तेर्नीचार्थकस्येदं ग्रहणमिति वाच्यम्, 'अस्मात्तारो मन्द्रो वा' इत्यादाविव 'पञ्चमी विभक्ते' इत्यनेनैव सिद्धत्वात्। यत्तु इतर इति निर्दिश्यमानप्रतियोगिक एव प्रयुज्यते । तद्यथा— चैत्रः शूरः, इतरः कातर इति। अतो नायमन्यार्थ इति; तन्मन्दम्, प्रतियोग्याऽऽकाङ्क्षाया उभयत्र तुल्यत्वात् उदाहृतकोशविरोधाच्च। ऋते कृष्णादिति।<\/w> कथन्तर्हि 'पुरुषाराधनमृते' इति? प्रमादोऽयमित्येके। अन्ये तु 'उभसर्वतसोः' इत्यत्र दृशिग्रहणात् 'चैत्रं यावच्छीतम्' इत्यादाविव ऋतेयोगे द्वितीयापि साधुरित्याहुः। युक्तं चैतत्, 'ऋते द्वितीया च' इति चान्द्रसूत्रात्। प्रभृत्यर्थयोग इति।<\/w> प्रभृत्यर्थैर्योग इत्यर्थः। तथा च 'कार्तिक्याः प्रभृति' इति भाष्यं विवृण्वन् कैयटः प्रायुङ्क्त— तत आरभ्येत्यर्थः इति।", "23031": "कथं तर्हि 'तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्' इति? उत्तरेणेति तृतीयान्ततोरणेनेत्यनेन समानाधिकरणं बोद्ध्यम्।", "23032": "समुच्चयार्थमिति।<\/w> निपातानामनेकार्थत्वादिति भावः। पञ्चमीति।<\/w> तत्र मण्डूकप्लुत्या पञ्चमी। द्वितीया तु सन्निहितैव।", "23034": "अन्यतरस्यांग्रहणं समुच्चयार्थम्। तेन च विप्रकृष्टापि पञ्चमी समुच्चीयते व्याख्यानात्, न तु षष्ठीद्वितीयातृतीयाः। तदेतदाह—", "23035": "दूरं, दूरात्, दूरेण वेति।<\/w> इह सप्तम्यपि वक्ष्यते। किं च 'दूरान्तिकार्थेभ्य' इति सूत्रस्योत्तरत्राप्यनुवर्तनादधिकरणेऽप्येभ्यो विभक्तिचतुष्टयं बोध्यम्। तथा च प्रयुज्यते—'दूरादावसथान्मूत्रम्' इति। आवसथस्य दूरे इत्यर्थः। असत्त्वेति।<\/w> सत्त्ववचनत्वं च तद्विशेष्यकत्वम्। एवं च सामानाधिकरण्येन प्रातिपदिकार्थविशेष्यकं व्युदस्यते। तदाह- दूरः पन्थाः इति।<\/w> एतेन 'करणे च स्तोक' इति सूत्रे 'करणे किम्ॽ क्रियाविशेषणे कर्मणि मा भूत्— स्तोकं पचति, क्रिया न द्रव्यम्' इति प्राचां ग्रन्थो व्याख्यातः। यत्तु— तमनूद्य क्रियाया विशेष्यत्वेन द्रव्यत्वाऽवश्यम्भावाच्चिन्त्यमित्यूचुस्तदेव चिन्त्यम्, धातुवाच्यायाः क्रियायाः असत्त्वरूपस्याऽऽकरे प्रसिद्धत्वात्। न च विशेष्यत्वे तदनुपपत्तिः, कृदभिहितभाववल्लिङ्गसङ्ख्याद्ययोगित्वमात्रेण तदुपपत्तेः। यद्यपि 'हतशायिकाः शय्यन्ते' इत्यादौ भाष्ये संख्यान्वयः स्वीकृतः, 'पचति भवति' इत्यादौ कर्तृत्वकर्मत्वान्वयश्च, तथापि लिङ्गस्य कारकान्तरस्य चाऽभावो निर्बाध एव। उक्तं च— क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः। असत्त्वरूपता तस्या इयमेवावधार्यताम्॥ इति पञ्चमी॥", "23036": "आधारस्त्रिधेति।<\/w> एतच्च 'संहितायाम्' इति सूत्रे भाष्ये स्पष्टम्। चतस्र इति।<\/w> प्रातिपदिकार्थमात्र इति भावः। किं च 'दूरान्तिक' इति सूत्रस्य इहाप्यनुवर्तनादधिकरणेऽप्येता बोध्याः। क्तस्येति।<\/w> इन्= इन्नन्तः शब्दो विषयो= वृत्तिभूमिर्यस्य क्तस्येत्यर्थः। हेतौ तृतीयेति।<\/w> तादर्थ्ये चतुर्थीत्यपि बोद्ध्यम्। सीमेत्यादि।<\/w> एतच्च दुर्गवाक्यप्रबोधे कुलचन्द्रेणोक्तम्। मेदिनीकारोऽप्याह— सीमा घाटस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम्। इति। अथ पुष्कलको गन्धमृगे क्षपणकीलयोः॥ इति च। हरदत्तादयस्तु पुष्कलकः= शङ्कुः, सीम्नि= सीमज्ञानार्थं, हतो= निहतो निखात इत्याहुः।", "23037": "निर्ज्ञातकाला क्रिया अनिर्ज्ञातकालायाः क्रियायाः कालपरिच्छेदकत्वाल्लक्षणम्। तदाश्रययोः कर्तृकर्मणोर्बोधकादियं सप्तमी। तत्र ब्राह्मणेष्वधीयानेषु गत इति कर्तर्युदाहरणम्। कर्मण्याह— गोष्विति<\/w> । इह अधीयानानां ब्राह्मणानां दुह्यमानानां गवां च प्रतीयमानलक्षकत्वं विशेषणीभूतयोरध्ययनगोदोहनक्रिययोर्विश्राम्यति।", "23042": "भेद एवेति।<\/w> न तु शब्दान्तरोपात्तसामान्यरूपाक्रान्ततेति भावः। माथुरा इति।<\/w> न ह्यत्र गवां कृष्णेत्यादाविव सामान्यविशेषभावः, किं तु शब्दोपात्तयोर्धर्मयोर्विरोध एव।", "23043": "निपुणो राज्ञ इति।<\/w> साधुशब्दप्रयोगे त्वर्चां विनाऽपि सप्तमी भवत्येव, 'साध्वसाधुप्रयोगे च' इति वार्तिकात्।", "23044": "प्रसित इति।<\/w> तत्परे प्रसितासक्तावित्यमरः।", "23045": "मूलेनेति।<\/w> 'नक्षत्रेण युक्तः कालः' इत्यणो 'लुबविशेषे' इति लुप्।", "23046": "मात्रशब्दस्येति।<\/w> तस्य चावधारणमर्थः। 'मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः। प्रातिपदिकार्थादीन्येव तन्मात्रमित्येवकारेणास्वपदविग्रहः, मयूरव्यंसकादित्वात्समासः। कृष्ण इति।<\/w> यद्यपि नीलरूपवत्परोऽयमनियतलिङ्गस्तथाऽपि वासुदेवे भगवति नियतलिङ्ग एवेति भावः। ज्ञानमिति।<\/w> भावे ल्युट्। द्रोण इति।<\/w> न च प्रातिपदिकमात्रे प्रथमेहाऽस्त्विति वाच्यम्? तथा सति परिच्छेद्यपरिच्छेदकभावस्य संसर्गविधया भानायोगान्नामार्थयोरभेदसंसर्ग एवेति व्युत्पत्तेः। न चाषष्ठ्यर्थबहुव्रीहौ व्यभिचारः, एकार्थीभावाभ्युपगमात्। नापि निपातार्थे, तेषां द्योतकताऽभ्युपगमात्। न च सिद्धान्तेऽपि प्रकृतिप्रत्ययार्थयोरभेदान्वयो दुर्लभः, अन्यत्रादृष्टत्वादिति वाच्यम्? देवतार्थकतद्धितादौ दृष्टत्वादिति भावः। वचनं संख्येति।<\/w> तथैव प्राचां व्यवहारात्। इह सूत्रेऽर्थे लिङ्गे च प्रथमेत्येतावदेव सुवचम्। इतरत्सर्वं त्यक्तुं शक्यम्। तथा हि— अर्थे प्रथमेत्युक्ते कस्यार्थे इत्याकाङ्क्षायां यस्मात्स्वादिविधिस्तस्येति लभ्यत एव। स्वादयश्च प्रातिपदिकाल्लिङ्गप्रत्ययविशिष्टाच्च विधीयन्ते। तदर्थत्वञ्च ततो नियतोपस्थितिकत्वमेव। एवं च मृडानीत्यादौ पुंयोगमहत्त्वादेरपि ङ्यन्तान्नियतभानेन प्रथमा सिद्ध्यतीत्यपरमनुकूलम्। यथान्यासे तु सा न स्यात्। यदि तु— अर्थशब्दो वृत्तिविषयपरः, वृत्तिस्तु शक्तिर्लक्षणा च, गौणी तु लक्षणान्तर्भूता, पृथग्वास्तु; त्रिकं प्रातिपदिकार्थः- तदा लिङ्गेत्यपि मास्तु। लक्ष्याणां विचित्रत्वेऽपि न क्षतिः, नियमांशत्यागात्। तथा च अर्थे प्रथमेत्येव सारम्। द्रोणो व्रीहिरित्यपि द्रोणशब्दस्य तत्परिमिते उपचारात्सिद्धम्, गौर्वाहीक इतिवत्। एको द्वावित्याद्यपि 'न केवला प्रकृतिः प्रयोक्तव्या' इति निषेधादेव सिद्धम्, अनन्वितार्थकप्रयोगापेक्षया अनुवादकमात्रप्रयोगस्य न्याय्यत्वात्। एवं मात्रग्रहणमपि व्यर्थम्, 'सम्बोधने च' इति ज्ञापकेन कर्माद्याधिक्ये प्रथमाया अप्रवृत्तेः। यत्तु प्राचोक्तम्— प्रातिपदिकार्थः सत्तेति। यच्च व्याख्यानं- योऽर्थः सन्नित्येव केवलं भासते न जात्यादिरूपे न लिङ्गसंख्याकारकयोगी, स विवक्षितः। यथाऽव्ययार्थः। अव्ययार्थो हि केवलमस्तीति शक्यते वक्तुं, न पुनरीदृशस्तादृश इतीति चेत्? न, उच्चैर्नीचैरित्यादिशब्दानां सन्नित्याकारकप्रतीतिजनकत्वस्य सर्वतन्त्रविरुद्धत्वात्, अस्त्यादिसामानधिकरण्यस्यापि असत्त्वार्थकेषु दुर्लभत्वात्, न लिङ्गसंख्याकारकयोगीति त्वदुक्तिविरोधाच्च। पदान्तरोपस्थापितस्य अस्तिसामानाधिकरण्यमस्तीति चेत्? न, तस्य अव्यावर्तकत्वात्, न पुनरित्यादिवाक्यशेषविरोधाच्च, कृष्णः श्रीरित्यादावव्याप्तेश्च। न च लिङ्गग्रहणात्तत्सिद्धिः, मात्रशब्देनाऽधिकव्यवच्छेदात्। यदपि प्राचा व्याख्यातं- यत्रार्थान्तारानपेक्षया शब्दप्रवृत्तिः, स सर्वः प्रातिपदिकार्थः, शब्दप्रवृत्तिनिमित्तमिति यावत्। यथा उच्चैर्नीचैरिति। अलिङ्गसंख्यावेतौ केवलं जात्यादिनिरपेक्षं स्वार्थमाहतुरिति; तदपि न, प्रवृत्तिनिमित्तमिह प्रकारीभूय भासते। तथा च तन्मात्रबोधोऽसम्भवी। यदि सोऽपीष्टस्तर्हि घटादिशब्देभ्योऽपि स्यादिति संख्याकारकाद्यनन्वय एव स्यात्। यदपि द्रोणपरिमिते व्रीह्यादौ द्रोणशब्दः सोऽयमित्यभिसम्बन्धात्प्रवर्तते। तत्र गौणमुख्यन्यायान्न प्राप्नोतीति परिमाणग्रहणमिति; तन्न, पदकार्येष्वयं न्यायो न प्रातिपदिककार्येष्विति सिद्धान्तात्, अन्यथा सिंहो माणवक इत्याद्यसिद्धिप्रसङ्गाच्च। यदप्याहुः— द्रोणादयः शब्दा लौहं दारुमयं वा परिमाणमेव न व्यभिचरन्ति, परिमेयं तु व्यभिचरन्त्येव। अतस्तस्य प्रातिपदिकार्थत्वाभावादप्राप्तेः परिमाणग्रहणमिति; तदपि न, गौणलाक्षणिकेषु 'सिंहो माणवकः' 'मञ्चाः क्रोशन्ति' इत्यादिष्वव्याप्त्यापत्तेः। तत्र विशेष्यस्य माणवकादेर्भेदेऽपि सिंहसदृश इत्यर्थो गौण्यां नियतोपस्थितिक एवेति यदि, तर्हि व्रीह्यादेर्भेदेऽपि द्रोणपरिमितो नियतोपस्थितिक एवेति तुल्यम्।", "23047": "मात्रग्रहणात्संबोधनाधिक्ये न प्राप्नोतीत्यारम्भः। इह संबोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रियां प्रति विशेषणमिति सिद्धान्तः। उक्तं च— सम्बोधनपदं यच्च तत् क्रियायां विशेषणम्। व्रजानि देवदत्तेति निघातोऽत्र तथा सति॥ इति। एवं च 'राम मां पाहि' इति वाक्यस्य रामसंबन्धिसंबोधनविषयो मत्कर्मकं रक्षणमर्थः॥ इति प्रथमा ॥", "23048": "संज्ञाविधावपि महासंज्ञाकरणसाममर्थ्यात्तदन्तग्रहणम्। आमन्त्रणमामन्त्रितम्। उपचारात्तत्साधने वृत्तिः। विभक्त्यन्तेन चामन्त्र्यते न तु केवलया विभक्त्येत्याशयेनाह- तदन्तमिति।", "23050": "राज्ञ पुरुष इति।<\/w> प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यादप्रधानादेव षष्ठी, तदर्थश्च पुरुषे विशेषणम्। प्राधानात्तु न षष्ठी, उक्तन्यायविरोधात्, शेषाभावाच्च। पुरुषशब्दो हि यथायथं प्रातिपदिकार्थमात्रवृत्तिः, कारकार्थको वा। यदा तु नैवं तदा पुरुषशब्दापि षष्ठी भवत्येव। यत्त्वप्रधानं शेष इति, तन्न, प्रतिपदिकार्थमात्रे शुक्लो घट इत्यादौ विशेषणे षष्ठीप्रसङ्गात्। न च प्रथमाया बाधः, तस्याः प्राधान्ये चरितार्थत्वात्। कर्मादीनामपीति।<\/w> यथा विशेषाविवक्षायां रूपवानितीति, तद्विवक्षायां तु नीलः, पीतः इत्यादि प्रयुज्यते तथेदमपि न्यायसिद्धमिति भावः। सतामिति।<\/w> एवं च 'नपुंसके भावे क्तस्य योगे शेषत्वविवक्षायां चे'ति 'तृप्त्यर्थानां करणे षष्ठी वे'ति च प्राचां ग्रन्थे पठ्यमानं नापूर्वं वचनमिति भावः। सर्पिष इति।<\/w> ज्ञोऽविदर्थस्य करणे, अधीगर्थदयेशां कर्मणि, कृञः प्रतियत्ने, रुजार्थानां भाववचनानामज्वरेः, आशिषि नाथः, जासिनिप्रहणनाटक्राथपिषां हिंसायाम्, व्यवहृपणोः समर्थयोः, कृत्वोऽर्थप्रयोगे कालेऽधिकरणे इत्यष्टसूत्री तु नेह व्याख्याता, तस्याः समासनिवृत्तिफलकत्वात्। तथा हि- तत्र शेष इत्यनुवर्तते। शेषत्वेन विवक्षिते च करणादौ षष्ठी सिद्धैव। तदयमर्थः। इह षष्ठ्येव न तु तल्लुक्। तथा च लुकः प्रयोजकीभूतः समास एव नेति। तथा च वार्तिकम्- प्रतिपदविधाना चेत्यादि। हरिश्चाह- कारकैर्व्यपदिष्टं च श्रूयमाणक्रिये पुनः। प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये॥ इति। तेन शेषत्वविवक्षायां सर्पिषो ज्ञानं, मातुः स्मरणमित्यादीन्यसमस्तान्येव साधूनि। हरिस्मरणमित्यादीनि तु शेषत्वाविवक्षायां कृद्योगषष्ठ्या समासे बोध्यानि। तत्र च कारकपूर्वकत्वात् कृदुत्तरपदप्रकृतिस्वरः, शेषष्ठ्या समासे त्वन्तोदातत्त्वं स्यात्तच्चानिष्टम्। तथा च स्वरार्थेयमष्टसूत्रीति परमनिष्कर्षः। किं च मातुः स्मृतमित्यादौ समासाभावोऽपि फलम्। न हि तत्र कारकषष्ठी लभ्यते, 'न लोके'ति निषेधात्। आह च- निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते। शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते॥ इति। एवं स्थिते वृत्त्यादिग्रन्थेषु इह प्रकरणे उदाहरणं, प्रत्युदाहरणं च यद्यत् तिङन्तं तत् सर्वमुपलक्षणतया नेयमिति हरदत्तादयः।", "23057": "कर्मणीति।<\/w> इह 'शेषे' इति न सम्बध्यते उत्तरसूत्रद्वयारम्भादिति भावः। अत एवेह त्रिसूत्र्या तिङन्तमुदाहरति—", "23058": "तच्छब्देन व्यवहृपणौ परामृश्येते, तौ च द्यूते, क्रयविक्रयव्यवहारे च तुल्यार्थौ पूर्वसूत्रे गृहीतौ, इत्याशयेनाह—", "23059": "गुणेति।<\/w> तदुक्तम्— प्रधाने नियता षष्ठी गुणे तूभयथा भवेत्॥ इति।", "23061": "इष्यतेर्दैवादिकस्य गत्यर्थस्य लोण्मध्यमपुरुषैकवचनं 'प्रेष्य' इति, तत्साहचर्यात् ब्रुविरपि तथाभूत एव गृह्यते। अत एवेह शेषग्रहणं न सम्बध्यते तिङन्तेन सह समासस्याऽप्रसक्तत्वात्।", "23065": "कृतपूर्वीति।<\/w> कृतं पूर्वमनेनेति विग्रहः। पूर्वं कृतवानित्यर्थः। अविवक्षितकर्मकतया भावे क्तः। 'सुप्सुपा' इति समासः। 'पूर्वादिनिः' 'सपूर्वाच्च' इति कर्तरि इनिः। तद्विधौ 'श्राद्धमनेन' इति सूत्रादनेनेत्यनुवृत्तेः। अथ कथं 'धायैरामोदमुत्तमम्' इति भट्टिः? अत्राहुः— अनित्यमिदम्, 'तदर्हम्' इति निर्देशात्।", "23066": "स्त्रीप्रत्यययोरिति।<\/w> कथं तर्हि 'सुट्तिथोः' इति सूत्रे 'सुटा सियुटो बाधो न' इति वृत्तिः। करणत्वविवक्षायां तृतीयेति गृहाण।", "23069": "उश्च उकश्च ऊकौ, लश्च ऊकौ चेति विग्रहः। उकारेण कृतो विशेषणात्तदन्तविधिस्तदाह- शेषे षष्ठी त्विति।<\/w> एतेन 'इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः' 'अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम्' इत्यादि व्याख्यातम्। यद्वा इक्ष्वाकूणां सिद्धय इत्यन्वयो न तु इक्ष्वाकूणां दुराप इति। तथा वागधिपस्य विस्मयमित्यन्वयो न तु वागधिपस्य दुर्वचमिति।", "23072": "कथं तर्हि 'तुलां यदारोहति दन्तवाससा' इति कालिदासः, 'स्फुटोपमं भूतिसितेन शम्भुना' इति माघश्च? उच्यते, 'सहयुक्तेऽप्रधाने' इति तृतीया। 'स्वबालभारस्य तदुत्तमाङ्गजैः समं चमर्येव तुलाभिलाषिणः' इत्यत्र यथा। उक्तं हि— विनापि तद्योगं तृतीयेति।", "23073": "व्याख्यानादिति।<\/w> सूत्रेऽर्थशब्दोऽपि पृथङ्निमित्तम्। तथा च द्वन्द्व एव। न तु अर्थशब्देन बहुव्रीहिरिति भावः। ॥ इति षष्ठी ॥", "24018": "द्वितीयापञ्चम्योरिति।<\/w> एतच्च रक्षितग्रन्थे स्पष्टम्। यत्तु वदन्ति— चैत्रस्य वनादारादित्यादौ सापेक्षत्वादसमासे चरितार्थत्वाद्विधानसामर्थ्यं नास्तीति; तच्चिन्त्यम्, नित्यसमासस्य न्याय्यत्वे सति चैत्रस्येत्यादिविशेषणप्रयोगस्यैवासम्भवात्। उक्तं हि भाष्ये— 'वृत्तस्य विशेषणयोगो न' इति। ननु 'सविशेषणानां वृत्तिर्न' इत्यपि भाष्ये उक्तमिति चेत्? सत्यम्, अनित्यसमासविषयं तत्। नित्यसमासस्यापि सविशेषणेष्वप्रवृत्तौ महतः कुम्भस्योप इत्याद्यापद्येत। यत्तु प्राचा कृष्णस्योपेत्युक्तम्, यच्च व्याचख्युरीदृशे प्रक्रियावाक्ये स्थिते इति, तदुभयमपि प्रागुक्तरीत्या प्रामादिकमेव। सम्प्रति नेति।<\/w> सम्प्रतीत्यव्ययमिदानीमित्यर्थे। एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा॥ इत्यमरः। तच्चाऽधिकरणशक्तिप्रधानत्वात्क्रियापदेनैवान्वयार्हम्। निषेधोऽपि क्रियाया एव। तदातदाह— युज्यते इति। असम्प्रतीति।<\/w> समासवृत्तौ तु युजिक्रियाऽन्तर्भवति 'दध्योदन' इत्यत्र सेकक्रिया यथा। यत्तु प्राचोक्तम्— असम्प्रतीति सम्प्रत्यभाव इत्यर्थः। अनेनोपभोग्यवस्तुनो यो वर्तमानः कालस्तस्यैव निषेधः क्रियते इति; तन्न, अधिकरणस्य निषेधं प्रति प्रतियोगित्वेनान्वयस्य सर्वतन्त्रविरुद्धत्वात्। न हि भूतले घटो नास्तीत्यनेन भूतलं निषिध्यत इति कश्चिदभ्युपैति, न वा युक्तिसहमित्यस्तां तावत्। इतिहरीति।<\/w> स्वरूपपरेण षष्ठ्यन्तेन हरिशब्देन सह प्रकाशार्थस्येतिशब्दस्य समासः। प्रतिशब्दस्येति।<\/w> यत्त्वाहुः— ग्रामस्य वृक्षं प्रतीत्यत्र सापेक्षत्वेन समासाभावे द्वितीयाविधानं सावकाशमिति तत्प्रागेव दूषितम्। हरदत्तस्त्वाह- अर्थमर्थं प्रतीति भाष्यकारप्रयोगाद् वाक्यमपि साधु। यद्वा नात्राव्ययं वीप्सावृत्ति किं तर्हि कर्मप्रवचनीयत्वात् सम्बन्धमवच्छिनत्ति। वीप्सा तु द्विर्वचनद्योत्येति।", "24034": "कार्यं विधातुमिति।<\/w> अपूर्वं बोधयितुमित्यर्थः। 'ईषदर्थे क्रियायोगे' इति श्लोके तु ईषदर्थादयो न विधीयन्ते, किन्त्वनूद्यन्ते। तेन एनादेशो न। एतेन— नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्यपि व्याख्यातम्, भीरुत्वस्यानुवाद्यत्वेन विवक्षितत्वात्॥ मान्ताः ॥ सुगाणिति॥<\/w> 'अनुनासिकस्य क्विझलोः' इति दीर्घः. न च तस्मिन् कर्तव्येऽल्लोपणिलोपयोः स्थानिवद्भावः शङ्क्यः। दीर्घविधौ तन्निषेधात्, क्वौ विधिं प्रति निषेधाच्चेति भावः। एतेन सुगण्णीश इति प्राचो ग्रन्थं गणयतेः क्विबिति व्याचक्षाणा उपेक्ष्या इति ध्वनयति। तदीयो ग्रन्थोऽपि समर्थनीय इत्याग्रहे तु इत्थं समर्थ्याताम्— सर्वलोपित्वेन क्विबिवाचरतीति क्विप्। क्वप्शब्दादाचारक्विबन्तात् कर्तरि क्विप्, तेन विजित्यर्थः॥ इति णान्ताः ॥ उपधादीर्घ इति।<\/w> 'सर्वनामस्थाने चासम्बुद्धौ' इत्यनेन।", "24071": "निर्देशादिति।<\/w> अन्यथा हि प्रथमानिर्दिष्टत्वाऽविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः। इवेनेति।<\/w> अयमपि समासः पूर्ववत्क्वाचित्क एव। तेन 'जीमूतस्येव' इत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः 'उद्बाहुरिव वामनः' इत्यादौ व्यस्तप्रयोगोऽपि सङ्गच्छते।", "24082": "आब्ग्रहणमिति।<\/w> तथा च वार्तिकम्—'अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्' इति। सूत्रस्योक्तिसम्भवस्तु 'स्त्रियाम्' इति सूत्रे स्त्रीसमानाधिकरणादिति पक्षं गृहीत्वा बोध्यः। स च न स्थितः, भूतमियं ब्राह्मणीत्यादाविव्याप्तेः। अलिङ्गत्वे आथर्वणविद्यागतश्रुतिविरोधमाशङ्क्याह— लिङ्गकारकेति।<\/w> विभक्तिवचनशब्दौ कारकसंख्यापराविति भावः। यथा वाचेति।<\/w> परिगणनमिदमित्येके। अन्ये तूदाहरणमात्रमित्याहुः। वगाह इति।<\/w> आदिरेवाकारो लुप्यते नान्त्यः, अपिना साहचर्यात्। इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामव्ययानि॥", "24083": "दिशयोरिति।<\/w> दिशोरिति हलन्तेन विग्रहेऽप्येतदेव रूपम्। दिश्शब्दस्य शरदादित्वाट्टच्।", "24084": "वचनसामर्थ्यादिति।<\/w> विभक्तीत्यनेन हि येन सुबन्तेन सह समासस्तद्घटकीभूतैव विभक्तिर्गृह्यते, सन्निधानात्। तदर्थद्योतकश्चाऽधिरिति भावः। परिशिष्टे तु प्रथमान्तेनायं समासः षष्ठ्यन्तेन वेत्यपि पक्षद्वयं स्थितम्। यत्तु प्राचोक्तम्— हरौ अधिकृत्येति विग्रहे हरावधीति स्थिते इति; तन्न, नित्यसमासत्वेन विग्रहायोगात्। यदाहुः—'अविग्रहो नित्यसमासः' इति। नन्वस्वपदविग्रहोऽपि स्वीक्रियते कुम्भं करोतीति यथा, अयमपि तथाऽस्तु, अधिकृत्येति ल्यबन्तस्य समासाप्रविष्टस्य सत्त्वादिति चेत्? न, समासार्थलेशमपि अबोधयतस्तस्य विग्रहे प्रवेशस्यैवासंभवात्। यत्तु व्याचख्युः— विग्रह इव विग्रहः अर्थकथनमात्रम्। तेनाविग्रहत्वान्नित्यसमासत्वमविरुद्धम्। अत एव समासप्रकृतिभूतमलौकिकं वाक्यान्तरं दर्शयति— हरौ अधीति स्थित इतीति। अत्रेदं वक्तव्यम्—विग्रह इवेत्यसङ्गतम्, अर्थकथनवाक्यस्यैव विग्रहत्वेन ततो भेदाभावात्। अर्थकथनमात्रमित्यपि न, ल्यबन्तेन समासार्थाऽसंस्पर्शात्। यच्च हरौ अधीति अलौकिकमित्युक्तम्; तदपि न, तत्र हरि ङि इत्यस्यैव प्रवेशात्, 'अन्तरङ्गानपि' इति न्यायात्। अन्यथा समासे हरिशब्देकारस्य दुर्लभत्वापत्तेश्च। यदपि व्याचख्युः— अलौकिकत्वादेवाऽधिशब्देनाऽभिहितेऽपि सप्तमी, अन्यथा सा न स्यात् अनभिहिताधिकारादिति; तदप्यापाततः, अलौकिकत्वं हि 'नित्यविध्यन्तरप्राप्तिविषयत्वेनाऽपरिनिष्ठितत्वम्' न त्वेतावन्मात्रेणाऽननुशिष्टायाः सप्तम्यास्तत्र प्रवेशः सूपपादः, अतिप्रसङ्गात्। यत्तु तत्पौत्रेण व्याख्यातम्— तिङ्कृत्तद्धितसमासैरिति परिगणनादधिनाऽभिहितेऽपि सप्तमीति, तन्न, परिगणनस्याकरे प्रत्याख्यातत्वात्, 'कर्मणि द्वितीया' इति सूत्रे स्वयमपि तथैवोक्तत्वात्, 'क्रमादमुं नारद इत्यबोधि सः' इत्यादि प्रयोगविरोधाच्च।", "31093": "सन्निहिते इति।<\/w> यत्तु प्राञ्चस्तृतीये धात्वधिकारे इति; तन्न, सन्विधौ धातुग्रहणस्य उत्तरत्रानुवृत्तेरभावेनाधिकारत्रयाभावात्।", "32059": "किंचिदिति।<\/w> ऋतावुपपदे यजेः क्विन्। धृष्णोतेर्द्विवचनमन्तोदात्तत्वं च । सृजेः कर्मणि क्विन् अमागमश्च। दिशेः कर्मणि। उत्पूर्वात् स्निहेः क्विन् उपसर्गान्तलोपः षत्वम्। अञ्चेः सुप्यपपदे क्विन् चेत्यर्थः। युजेरिति।<\/w> कुञ्चेरप्येवम्। नलोपाभावस्त्वधिकः। कनाविति।<\/w> इकारस्तूच्चारणार्थ इति भावः।", "32060": "अनालोचने किम्? तत्पश्यतीति तद्दर्शः। 'कर्मण्यण्' तादृशादयस्तु रूढिशब्दत्वादसताऽप्यवयवार्थेन व्युत्पाद्यन्ते। अत एव अज्ञानार्थाद् दृशेरिति सङ्गच्छते। भाष्ये तु—कर्मकर्तरि व्युत्पत्तिर्दर्शिता। तमिवेमं पश्यन्ति जनाः। स इवायं पश्यति। ज्ञानविषयो भवतीत्यर्थः। तत्र विषयत्वापत्तिमात्रवृत्तित्वेऽपि विषयीकरणाऽवृत्तित्वादज्ञानार्थादिति सङ्गच्छते।", "41001": "लिङ्गविशिष्टस्येति।<\/w> लिङ्गबोधकप्रत्ययविशिष्टस्यापीत्यर्थः। परिभाषायाः प्रयोजनं तु— अयस्कुम्भी 'अतः कृकमि—'इति सत्वम्। तद्धि कंसादिषूत्तरपदेषु विधीयते। किं च, कुमारीमाचष्टे कुमारयति। 'णाविष्टवत्'इति टिलोपः। एवं यामिनयन्त्यहानि इत्यत्र आचारे क्विबपि फलम्। ङ्याभ्यां प्रागिति।<\/w> तेन लोहिनिका, आर्यका च सिध्यति। तथा हि, स्वार्थिकत्वेनान्तरङ्गः परश्च 'लोहितान्मणौ ' इति कन् ङीपं बाधेत। ततो लोहितिकेत्येव स्यात्; इष्यते तूभयम्। ङीब्ग्रहणसामर्थ्यात्तु ङ्यन्तात्कनि रूपद्वयं सिध्दम्, 'वर्णादनुदात्तात्—' इत्यस्य वैकल्पिकत्वात्। आर्यशब्दात्तु 'न सामिवचने' इत्यत्र ज्ञापयिष्यमाणोऽत्यन्तस्वार्थिकोऽपि कन् आब्ग्रहणसामर्थ्यात् पूर्वं न प्रवर्तते। तेन 'उदीचामातः स्थाने यकपूर्वायाः' इति इत्वविकल्पः सिध्यति। स्यादेतत् । एवं सति बहुगोमत्केति न सिध्येत् कपः प्रागुगिल्लक्षणङीप्प्रसङ्गात्; इति चेत्? मैवम्। अकृत एव समासेऽलौकिकप्रक्रियावक्ये एव उत्तरपदस्यावयवीभूय समासान्तः प्रवर्तते इति वक्ष्यमाणत्वात्। स च विभक्तेः पुरस्तादित्येके। परस्तादिति पक्षे तु तद्धितान्तत्वात् सुब्लुकि पुनः सुपि चाकृते समास इति सिद्धान्तः। तस्मादन्तरभङ्गादपि तद्धितात्प्राङ्ङ्यापोः प्रवृत्त्यर्थं ङ्याब्ग्रहणमिति स्थितम्। यत्त्वाहुः—आब्ग्रहणं स्पष्टार्थमिति, तदनेन प्रत्युक्तम्। वस्तुतस्तु ङ्यापोग्रहणं मास्तु। सुबन्तात्तद्धितोत्पत्तिरिति निष्कर्षः। सुपः प्रागेव च ङ्यापौ प्रवर्तेते, स्वार्थादिप्रयुक्तकार्याणां क्रमिकत्वस्वीकारादित्यवधेयम्।", "41002": "सुङस्योरिति।<\/w> सोरुकारः 'अर्वणस्त्रसौ' इत्यत्र विशेषणार्थः। असीत्युक्ते ह्यसकारादावित्यर्थः स्यात्। तथा च 'वाजमर्वत्सु पय उस्रियासु' इति न सिध्येत्। ङसेरिकारो 'युष्मदस्मभ्यां ङसोऽश्' इत्यत्र अस्य ग्रहणं मा भूदिति। यदि तु 'एकवचनस्य च' इत्यत्र 'पञ्चम्या' इत्यनुवृत्तेः परिशेषादन्यस्य ङसोऽत्र ग्रहणं भविष्यतीत्युच्यते तर्हि 'टाङसिङसाम्—' इत्येतदर्थः। जश्शसोर्जकारशकारौ 'जसः शी' 'तस्माच्छसो नः' इत्यनयोर्विषयविभागार्थौ। अन्यतरस्य निरनुबन्धकत्वमेवास्तु इति चेन्न। जसो जकाराभावे औ इत्यस्याऽऽव् स्यात्। ततश्च प्रत्ययस्य वकारान्ततापि सम्भाव्येत। एवं शसः शकाराभावे औटो ङित्वं सम्भाव्येत। अतोऽसन्देहार्थं तत्करणौचित्यात्। औटष्टकारः सुडिति प्रत्याहारार्थः। टाटकारस्तु 'टाङसि'इति विशेषणार्थः। ङेप्रभृतीनां ङकारो 'घेर्ङिति' इति विशेषणार्थः। पकारस्तु प्रत्याहारार्थः। एवं च सर्वेषां सफलत्वेऽपि संज्ञार्था इति प्राचो ग्रन्थोऽसङ्गत एव। सम्यग् ज्ञानं संज्ञा, तदर्थाः विशेषणार्था इति यावत्। इति भङ्त्वा व्याख्यानेऽपि क्लिष्टत्वमेवेत्युपेक्षितम्।", "41004": "खट्वेति।<\/w> 'अशूप्रुषुलटिखटिकणिविशिभ्यः क्वन्'। पञ्चाजीति।<\/w> न च तदन्तविधिविरहादेव टाब्नेति वाच्यम्? अमहत्पूर्वग्रहणेनाऽनुपसर्जनाधिकारेण च स्त्रीप्रत्ययेषु तदन्तविधिज्ञापनात्। मूषिकेति।<\/w> 'वृश्चिकृषोः किकन्' इत्यधिकारे 'मुषेर्दीर्घश्च' इति किकनि इकारमद्ध्यो मूषिकशब्दः। यस्तु मूष स्तेये इति दीर्घोपधात्संज्ञायां क्वुनि मूषकशब्दो माधवेनोक्तस्ततोऽप्ययं टाप्। 'प्रत्ययस्थात्' इतीत्वमिति तु विशेषः। यत्तु क्वुन्नन्तोऽसौ अजादिगणे पाठं न प्रयुङ्क्ते, तस्य जातिलक्षणङीष्विधानार्थत्वात् संज्ञायाश्चाऽजातित्वादित्याहुः; तच्चिन्त्यम्, व्याघ्रीत्यादिवत् संज्ञात्वेऽपि जातित्वाऽनपायात्। भस्त्रफलेति।<\/w> भस्त्रेव फलानि यस्या इति विग्रहः। ङ्यापोरिति।<\/w> एतच्च फल निष्पत्ताविति धातौ माधवग्रन्थे स्थितम्। भाष्ये तु प्रायेण दीर्घ एव पठ्यते। प्रत्यक्पुष्पेति।<\/w> 'पाककर्ण' इत्यादिसूत्रस्थभाष्यवार्तिकपर्यालोचनयेदमुक्तम्। तेन सत्प्राक्काण्डेति पाठो नादर्तव्यः। शूद्रा चेति।<\/w> शूद्रशब्दष्टापमुत्पादयति जातिश्चेत्। महत्पूर्वस्तु न। जातिश्चेदितीहापि सम्बध्यते। पुंयोगे त्विति।<\/w> पुंयोगो दाम्पत्यरूप एवेति न नियमः, किन्तु जन्यजनकभावोऽपि। तेन— 'वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ' इति सिद्धम्। महाशूद्रीति।<\/w> 'आभीरस्तु महाशूद्री जातिपुंयोगयोः समा' इत्यमरः। अत्रेदमवधेयम्। अजादिगणे शूद्रेत्येव पाठ्यम्। जातिरिति व्यर्थम्। मुख्ये कार्यसम्प्रत्ययाज्जातिलक्षणो ङीषेव बाधिष्यते। पुंयोगे हि गौणी वृत्तिः। अमहदित्याद्यपि व्यर्थम्। महाशूद्रशब्दो हि विशिष्ट एव जात्यन्तरे वर्तते। तत्रावयवस्याऽनर्थकतया शूद्रशब्दार्थसमवेतस्त्रीत्वाभावात् टापः प्रसङ्ग एव नास्ति। या तु महती शूद्रा तत्र महाशूद्रेतीष्यत एव। क्रुञ्चेत्यादि।<\/w> त्रयोऽमी हलन्ता इत्येके। 'क्रुञ्चानालभेत' 'उष्णिहककुभौ' इत्यादिप्रयोगमुदाहृत्याऽदन्ता अपि भाष्ये स्वीकृताः। पुंयोगेऽपीति।<\/w> यदा ज्येष्ठादयः प्रथमजातादौ वर्तन्ते तदा अदन्तत्वादेव टाप् सिद्धः। यदा तु ज्येष्ठस्य स्त्रीत्यादिविवक्षा तदा पुंयोगलक्षणो ङीष् प्राप्तः सोऽनेन बाध्यत इति सूचयितुमपिशब्दः। मूलान्नञः।<\/w> नञः किम्, शतमूली। अमूलेति।<\/w> ओषधिजातिरयम्।", "41005": "कथं तर्हीति।<\/w> उवङ्स्थानत्वेन नदीत्वाभावात् ह्रस्वोऽनुपपन्न इत्याक्षेपः। बहव इति।<\/w> केचित्तु 'वामि' इत्यतो वाग्रहणमिहापकृष्य व्यवस्थितविभाषां चाश्रित्य समादधुः। तन्मन्दम्। तथा सतीह नञ्ग्रहणस्य 'वामि' इत्युत्तरसूत्रस्य च वैयर्थ्यापत्तेः। अन्ये तु सामान्ये नपुंसकमिति कथंचित्समादधुः।", "41006": "भवन्तीति।<\/w> सर्वादिषु भवतु इत्युदित्पठितो 'भातेर्डवतुः' इति व्युत्पादितश्च। शत्रन्तात्तु ङीपि 'शप्श्यनोः' इति नित्यो नुम्।", "41007": "सुत्वानमिति।<\/w> शृ़धातोर्वनिप्। गुणे कृते हशन्तात्परत्वेऽपि हशन्ताद्विहितत्वाभावाद् ङीब्रयोर्निषेधो न। अवावेति।<\/w> न्यासकारस्तु प्रायिकोऽयं निषेधस्तेन अवावरीत्याह। न त्वेतद्भाष्यादौ दृष्टम्। पक्षे डाबिति।<\/w> तथा च द्विवचने बहुधीवर्यौ, बहुधीवानौ, बहुधीवे इति रूपत्रयम्भवतीति भावः।", "41009": "पूर्वेण प्राप्तस्य ङीपोऽपवादः। असिद्धत्वादिति।<\/w> कार्यकालपक्षेणेदम्। यदि तु यथोद्देशं षट्संज्ञा, यदि वा उपदेशकाले ष्णान्तेति व्याख्यानं तदा असिद्धत्वोपवर्णनं नोपयुज्यत इत्याहुः। वस्तुतस्तु यथोद्देशपक्षेऽपि असिद्धत्वमुपयुक्तमेव एकदेशविकृतस्योपसंख्यानं हि स्थानिवत्सूत्रे पठ्यते। आदेशग्रहणसामर्थ्यात् 'सर्वे सर्वपदादेशा' इत्याश्रित्य आनुमानिकोऽप्यादेशः स्थानिवदिति वा व्याख्यायते। उभयथाऽपि अल्विधौ न तत्प्रवृत्तिः। एतच्च आकरे स्पष्टम्।", "41010": "स्त्रियां यदुक्तं तन्न भवतीति व्याख्यानाद् अनन्तरो ङीबिव व्यवहितष्टाबपि निषिध्यत इत्याशयेनाह— राः पुंवदिति।<\/w> रै शब्दस्य स्त्रीलिङ्गतया स्मरणादिति भावः। तथा च क्षीरस्वामी— रात्येनं राः स्त्रीत्येके इति। स्त्रियां नौस्तरणिस्तरिरित्यमरः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामजन्ताः स्त्रीलिङ्गाः॥", "41012": "बहुयज्वानाविति।<\/w> 'न संयोगात्' इति निषेधान्नायमुपधालोपी तेन 'अन उपधालोपिनः' इति न प्रवर्तते।", "41013": "ननु निषेधडापोर्वचनसामर्थ्यात् पर्यायः सिद्धः, सत्यम्। 'अन्यतरस्याम्' इति योगो विभज्यते। तत्र 'मनः' इति निवृत्तम्। अनो बहुव्रीहेर्डाब् वा स्यात्। ङीपा सह विकल्पलाभार्थमिदम्। 'अन उपधालोपिन' इति सूत्रन्तु नियमार्थम्। अनो योऽसौ विकल्पः स उपधालोपिन एवेति। तथा च सुपर्वेत्यादौ अनुपधालोपिनि निषेधार्थमिदम्। बहुराज्ञीत्यादौ तु 'ऋन्नेभ्य' इत्येव ङीप्। तेन बहुधीवरीति सिद्ध्यति। 'ऋन्नेभ्य' इति हि ङीपमनूद्य तत्सन्नियोगेन विधीयमानो रेफः। प्रकरणान्तरस्थेन ङीपि कृते न सिद्ध्येत्। ननु 'वनो र च' इति सूत्रमेव ङीब्रौ विधत्तामिति चेन्न, उभयविधौ गौरवात्। किञ्चैवमपि ङीपि निषिद्धे रोऽपि दुर्लभः, सन्नियोगशिष्टत्वात्। भाष्ये तु सूत्रभङ्गेन समाहितम्। तद्यथा— 'अनो बहुव्रीहेः' इत्यस्यानन्तरमुपधालोपिनो वेति सूत्रमस्तु। 'अन उपधा' इत्यादिप्रदेशान्तरस्थं सूत्रं, डाप्सूत्रे 'अन्यतरस्यां' ग्रहणं च मास्तु इति।", "41014": "अभिव्याप्येति।<\/w> अत एव बहुयुवा शालेत्यत्र 'यूनस्तिः' उपसर्जनत्वान्नेति प्राञ्च आहुः।", "41015": "इह वृत्तिकृता सूत्रे ख्युन् प्रक्षिप्तः। औत्सीति।<\/w> उत्से भवा, 'उत्सादिभ्योऽञ्'। न च 'शार्ङ्गरवाद्यञ्' इति ङीना सिद्धमिदमिति वाच्यम्, तत्र जातेः इत्यनुवर्तते। अन्यथा पुंयोगेऽपि स्यात्। एतेन इह अञ्ग्रहणं स्पष्टार्थमिति प्राचो ग्रन्थः प्रत्युक्तः। इहानेकं वाक्यं, तत्र अनुपसर्जनमण् योऽकारस्तदन्तादिति व्यख्यानान्नेह— आपिशलमधीते आपिशला ब्राह्मणीति। अत्र हि प्रोक्तार्थेऽण् उपसर्जनम्, अध्येत्रण् तु लुप्तः, वर्णप्राधान्यान्न प्रत्ययलक्षणम्, अतष्टाबेव भवति। ताच्छीलिके इति।<\/w> अयं भवः— 'शीलम्' 'छत्रादिभ्यो णः' इति यो णस्तस्मिन् अण्कार्यं भवति , 'कार्मस्ताच्छील्ये' इति ज्ञापकात्। अनेन हि 'अन्' इति अणि विहितं प्रकृतिभावं बाधितुं टिलोपो निपात्यते। चौरीति।<\/w> चुरा शीलमस्याः।", "41017": "तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम्। ननु तां विनापि षित्करणसामर्थ्यादेव ङीष् भविष्यति। एवं तर्हि तद्धितग्रहणमिञन्तादपि क्वचित् ष्फ इति ज्ञापयति। यञन्ते सवर्णदीर्घेणापि रूपसिद्धौ 'यस्येति' लोपस्याऽनावश्यकत्वात्। तेन 'आसुरेरुपसंख्यानम्' इति वक्ष्यमाणं सिद्ध्यति।", "41019": "कथं तर्हि 'यद्यसौ कूपमाण्डूकि तवैतावतिकः स्मय' इति भट्टिः। अत्राहुः— कौरव्यसाहचर्यादपत्यप्रत्ययान्तस्यैव माण्डूकस्येह ग्रहणम्। इह तु मण्डूकस्येयं भार्येति 'तस्येदम्' इत्यण्।", "41020": "कुमारीति।<\/w> प्रथमवयोवाची एव शब्दो न त्वनूढत्वप्रयुक्तः। वृद्धकुमारीति तु गौणः प्रयोगः।", "41021": "त्र्यनीकेति।<\/w> त्रयाणामनीकानां समाहारः, अत्राजादेराकृतिगणत्वात् टाबिति त्र्यनीकाधिकरणे मीमांसकाः।", "41022": "पञ्चाश्वेति।<\/w> नन्वत्र 'द्विगोः' इति ङीष् मा भूत्। ठगन्तत्वात्तु स्यादेवेति चेत्? न 'ठको योऽकार' इति व्याख्यानात्। द्विबिस्तेति।<\/w> 'सुवर्णबिस्तौ हेम्नोऽक्षे' इत्यमरः। 'आचितो दश भाराः स्युः'। द्विकम्बल्येति।<\/w> द्वाभ्यां कम्बल्याभ्यां क्रीता। कम्बल्यमूर्णापलशतम्। 'कम्बलाच्च संज्ञायाम्' इति यत्। क्रीतार्थस्य ठञो लुक्। द्व्याढकीति।<\/w> द्वावाढकौ पचतीति 'आढकाचितपात्रात् खोऽन्यतरस्याम्' 'द्विगोष्ठँश्च' इति ख-ठन्भ्यां मुक्ते प्राग्वतीयष्ठञ्, तस्य लुक्। एतेन द्व्याचिता व्याख्याता।", "41023": "षोडशहस्तप्रमाणो दण्डः काण्डम्। यद्यपि विशेषणेन तदन्तविधिः सिद्धस्तथाऽपि अन्तग्रहणे असति क्षेत्रे इत्येतत् श्रुतत्वात्काण्डस्यैव विशेषणं स्यान्न तदन्तस्य। ततश्चेहापि स्यात्। द्वाभ्यां काण्डाभ्यां— काण्डप्रमिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति। इह तु न स्यात्— द्विकाण्डा क्षेत्रभक्तिरिति। अतोऽन्तग्रहणम्। मात्रच इति।<\/w> यत्तु प्राचोक्तं द्वयसचो लुगिति; तन्न, 'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम।' इति सिद्धान्तात्। द्विकाण्डी रज्जुरिति।<\/w> नन्विह परिमाणान्तादिति पूर्वेण निषेधः स्यात्, काण्डशब्दस्याऽऽयामपरतया अपरिमाणार्थत्वात्। परितः- सर्वतः आरोहतः परिणाहतश्च येन मीयते तद्धि परिमाणमाढककुडवादि। न तु यथाकथञ्चित्परिच्छेदकमात्रम्। यदाहुः- ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः॥ इति॥ अत एव द्विहस्ता भित्तिरित्यत्र ङीब् न। अत्राहुः-नियमार्थमिदम्। क्षेत्रे एव निषेधो यथा स्यादिति। अतो द्विकाण्डी रज्जुरित्यत्र ङीबेव सूत्रस्य फलमिति।", "41024": "यद्यपि पुरुषशब्दो जातिवचनस्तथापि द्वौ पुरुषौ प्रमाणमस्या इति वाक्ये प्रमाणे वर्तत एव, प्रमाणशब्दसामानाधिकरण्यात्। वृत्तौ तु तत्स्वभावादेव। तथा च शुल्बसूत्रम्— 'पञ्चारत्निः पुरुषः' इति। द्विपुरुषीति।<\/w> अत्र न्यासकारः 'प्रमाणे लो द्विगोर्नित्यम्' इति द्वयसचो लुगित्याह; तन्न, पुरुषशब्दस्य प्रमाणवाचित्वाभावेन 'प्रमाणे लो' इति श्लोकवार्तिकस्य तत्राप्रवृत्तेः। ये हि शमादिवत् प्रमाणत्वेन प्रसिद्धास्तत्रैव तत्प्रवर्तते न तु पुरुषशब्देऽपि। अन्यथा पुरुषद्वयसमित्यत्रापि लुक् स्यात्। स्पष्टं चेदं 'पुरुषहस्तिभ्यामण् च' इति सूत्रे पदमञ्जर्याम्। न चैवं द्वयसज्दघ्नचावपि नास्मात्स्यातामिति वाच्यम्? 'ऊर्ध्वमाने मतौ मम' इति वचनात्। एवं 'पुरुषात्प्रमाणे' इत्यस्यापि सामर्थ्यादेव प्रवृत्तिः। यत्तु तत्रैव सूत्रे 'द्विगोर्नित्यं लुक्' इति वृत्तिग्रन्थमुपादाय हरदत्तेनोक्तं 'तस्मादप्राप्त एवात्र लुग्विधीयते' इति; तदपि चिन्त्यम, मुनित्रयानुक्तस्य विधानोक्तेर्व्याहतत्वात्। यदपि प्राचीनप्रक्रियां व्याचक्षाणैरुक्तं 'पुरुषहस्तिभ्याम्' इत्यत्र पठ्यमानेन वार्तिकान्तरेण लुगिति; तदपि रभसोक्तिमात्रम्. उदाहृतसूत्रस्य भाष्यवार्तिककाराभ्यामस्पृष्टत्वादित्यास्तां तावत्। वस्तुतस्तु 'पुरुषात्प्रमाणे' इति सूत्रे द्विगोस्तद्धितलुकि इत्यनुवर्तते। तत्सामर्थ्याल्लुगप्याक्षिप्यते। हरदत्तोक्तिरपि कथंचिदेवंपरतयैव नेयेति सहृदयैराकलनीयम्। प्रमाणे किम्? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा गौः। तद्धितलुकीत्येव। समाहारे पञ्चपुरुषी।", "41027": "बहुव्रीहिविशेषणत्वादेव सिद्धे अन्तग्रहणं स्पष्टार्थम्। संख्यादेरिति।<\/w> स्वरितत्वबलादेकदेश एवानुवर्तत इति भावः।", "41028": "'बहुव्रीहेरूधसो ङीष्' इत्यतो बहुव्रीहिग्रहणं 'संख्याव्ययादेर्ङीप्' इत्यतो ङीप् चानुवर्तते इत्याशयेनाह— अन्नन्तादित्यादि।<\/w> नियमार्थमिदमित्युक्तम्। न चैवं पूर्वेण विकल्पसिद्धौ इहान्यतरस्यां ग्रहणं व्यर्थमिति वाच्यम्। असति हि तस्मिन् नित्यार्थो विधिरेवायं स्यान्न तु नियमः।", "41030": "अद्ध्यस्यां मामकी तनू। मित्रावरुणयोर्भागधेयी। अनिषेव्यास्तन्वः सन्तु पापीः। उतापरिभ्यो मघवा विजिग्ये। समानीव आकूतिः । आर्यकृती। सुमङ्गली। शिवा रुद्रस्य भेषजी।", "41032": "प्रत्युदाहरणं त्विति।<\/w> यत्तु प्राचाऽन्तर्वती पतिवतीति प्रत्युदाहृतम्, तदयुक्तमिति भावः।", "41034": "व्यस्ते कथमिति चेदिति।<\/w> यत्तु प्राचा समस्तेऽप्युपचार इति वर्णितं, तन्मुधेति भावः। न त्विति।<\/w> अन्यथा— वृषाकपिशब्दो 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति मध्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु त्रिषु 'स्थानेऽन्तरतम' इत्येव सिद्धमिति प्राचां ग्रन्था विरुध्येरन्निति भावः। उदात्तैकार इति।<\/w> मनुशब्दो ह्याद्युदात्तः 'शॄस्वृस्निहि' इत्यादौ मनेरुप्रत्ययविधायके सूत्रे 'धान्ये नित्' इत्यधिकारात्। समासनिर्देशेनैतद्दर्शयति— उदात्त इत्यनुवर्तमानं सम्बन्धानुवृत्तेरैकारेणैव सम्बध्यते न त्वौकरेणापीति। ततश्च यदुक्तं प्राचा ऐकारौकारावुदात्तौ स्त इति, तदुपेक्ष्यं वृत्तिपदमञ्जर्यादिविरोधादिति भावः। मनायीति।<\/w> मध्योदात्तम्। इतरद्द्वयमाद्युदात्तम्। एता- कर्बुरा।", "41036": "ऐकार आदेशो न तु प्रत्ययः, उत्तरसूत्रे उदात्त इत्युक्तेः।", "41039": "वर्णानामिति।<\/w> एतः, शोणः, शितिः, पृश्निः, पृषत् इत्युदाहरणानि। त्र्येण्येति।<\/w> अत्र उत्तरपदस्योपसर्जनत्वेऽपि समस्तस्य अनुपसर्जनत्वमिति भावः। संज्ञात्वाण्णत्वं छान्दसत्वाद् वा। क्नमेके इति।<\/w> अत्र छन्दसीति भाष्योक्तेर्लोके 'गतो गणस्तूर्णमसिक्निकानाम्' इत्यादिप्रयोगाः प्रामादिका इति प्राञ्चः। वस्तुतस्तु छन्दस्येके इत्यन्वयात् भाषायामपि इति भाष्याभिप्रेतम्। अन्यथा एकग्रहणं न कुर्यात्। न हि छन्दसि 'पलिक्नीरिद्युवतय' इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते। विशुद्धवाचीति।<\/w> दैप् शोधने इति स्मरणात्। 'अवदात्तः सितो गौर' इति कोशे तु विशुद्धत्वसाधर्म्यात् प्रयोग उपनिबद्ध इति भावः।", "41040": "लघाविति।<\/w> अन्ते एकस्मिन् लघौ, द्वयोश्च लघ्वोः परतो बह्वषो- बह्वच्कस्य गुरुरुदात्तः स्यात्। अष् इति अचः प्राचां संज्ञा। कृष्णेति।<\/w> 'कृषेश्च' इति नप्रत्यये 'कपेश्च' इति सौत्राद्धातोरौणादिके इलचि च कृष्ण-कपिलावन्तोदात्तौ।", "41041": "श्वन्शब्दोऽत्र पठ्यते। तेन 'ऋन्नेभ्यो ङीप्' इत्यत्र यत्प्राचा शुनीत्युदाहृतं तत्प्रामादिकम्। यत्तु व्याचक्षते- श्वानमाचष्टे श्वेवाचरतीति वाऽर्थे णिचः क्विपो वा क्वौ उपसर्जनत्वात् ङीषभावे निःशुनीत्यादिवत् ङीबिति; तन्न, णिचि सम्प्रसारणटिलोपयोरुक्तं रूपं मुख्यमते दुर्लभम्। अन्यत्र तु आस्तां कथंचित्।", "41042": "आवपनं चेदिति।<\/w> ओप्यते निक्षिप्यते धान्यं यस्मिन्। गोणान्येति।<\/w> यस्या यादृच्छिकं नाम। अकृत्रिमेति।<\/w> यथा—'सैषा स्थली यत्र विचिन्वता त्वाम्' इति। स्थलान्येति।<\/w> कृत्रिमा- पुरुषेण संस्कृता। यथा- स्थलयोदकं परिगृह्णन्ति। श्राणा<\/w> -पक्वा। अयोविकार इति।<\/w> फाल इति प्रसिद्धः। कुशान्येति।<\/w> छन्दोगाः स्तोत्रीयगणनार्थान् औदुम्बरान् शङ्कून् कुशा इति व्यवहरन्ति, 'अतः कृकमिकंस' इति सूत्रे, 'हानौ तूपायनेति' व्याससूत्रे, 'कुशा वानस्पत्या स्थ ता मा पात' इति श्रुतौ च प्रसिद्ध एवायम्।", "41044": "पतिंवरेति।<\/w> तथा च पाणिग्रहणोत्कण्ठाभिधायित्वाद् गुणवचनोऽयमिति भावः।", "41045": "बहुशब्दस्य गुणवाचित्वात् पूर्वेण सिद्धे उत्तरार्थं ग्रहणमित्याहुः। वस्तुतस्तु बहुशब्दो 'नित्यं छन्दसि' इत्युत्तरसूत्रं चेति द्वयमपि व्यर्थमेव, सर्वविकल्पानां छन्दसि व्यवस्थितत्वात्।", "41048": "तथा च गौणी वृत्तिरिति भावः। यदा तु मुख्यार्थात् 'तस्येदम्' इत्यण् तदा 'गोपी'इत्येव भवति। पुंयोगश्चेह दाम्पत्यभाव एव गृह्यत इत्येके। वस्तुतस्तु सङ्कोचे मानाभावाज्जन्यजनकभावोऽपि गृह्यते। तथा च भट्टिः— 'कौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभूत्॥' इति। केकयस्य दुहिता केकयी। 'जनपदशब्दात्' इत्यपत्यप्रत्यये अञि तु कैकेयीति स्यात्। न च तस्य 'अतश्च' इति लुक्, 'न प्राच्यभर्गादि' इति निषेधात्। तथा च कालिदासः- 'कैकेयि कामाः फलितास्तव।' इति। एतेन देवकी व्याख्याता।", "41049": "दुष्टो यवो यवानीति।<\/w> जात्यन्तरमेवानेनाभिधीयते। अयमेव अस्य दोषः— यदुक्तयवत्वजातेरभावेऽपि तदाकारानुकृतिः। ङीष् वाच्य इति।<\/w> इदञ्च तृतीये भाष्ये 'इङ्श्च' इति सूत्रे स्थितम्। कथमिति।<\/w> यत्तु वदन्ति— दीर्घोच्चारणसामर्थ्याद् आ अनुक् इति पदं विभज्यते। तत्रेन्द्रादीनामानुकैव सिद्धे आकारादेशविधानसामर्थ्यात् क्वचिदन्यतोऽपि विधानमनुमीयते। तेन ब्रह्माणीति सिद्धमिति; तच्चिन्त्यम्, अनुकि कृते 'अतो गुणे' इति पररूपप्रसङ्गात्। नन्वकारोच्चारणसामर्थ्यात् दीर्घो भविष्यति, अन्यथा हि नुकमेव कुर्यादिति चेत्? 'अल्लोपोऽनः' इत्यस्य बाधेन चरितार्थत्वात्। 'पत्युर्नो' इत्यादिवदादेशे कर्तव्ये आगमलिङ्गककारोच्चारणसामर्थ्यादेवाल्लोपो न भविष्यतीति चेत्? न, शर्वशब्दे ककारस्य चारितार्थ्यात्। न हि तत्र लोपोऽस्ति, 'न संयोगात्' इति निषेधात्। तस्मात् ककाराकारयोः सामर्थ्यविरहो पररूपबाधनार्थं दीर्घोच्चारणमावश्यकमिति। एतेनानुक् ह्रस्वादिरेव लाघवाद्वक्तव्य इति हरदत्तोक्तिः परास्ता। कर्मण्यणिति।<\/w> तदन्तान्ङीप्। 'पूर्वपदात्संज्ञायाम्' इति णत्वम्।", "41050": "वस्त्रक्रीतीति।<\/w> वस्त्र भिस् क्रीत इत्यवस्यामवस्थायां प्राक् सुबुत्पत्तेः समासेऽदन्तत्वान् ङीष्। क्वचिन्नेति।<\/w> 'कर्तृकरणे कृता' इति सूत्रे बहुलग्रहणात् क्वचित्सुबन्तेन समासः। तत्र च सुपः प्रागेवान्तरङ्गत्वात् टाप्। ततोऽदन्तत्वाभावान्न ङीष् इति भावः।", "41052": "तेन बह्विति।<\/w> अयं भावः— 'बहोर्नञ्वदुत्तरपदभूम्नि' 'नञ्सुभ्याम्' 'जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमित-प्रतिपन्नाः' इति ह्यन्तोदात्तताविधायकानि। तत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वकस्यार्थाद् व्युदास इति। अस्वाङ्गपूर्वपदाद्विकल्पस्य वक्ष्यमाणत्वादिह स्वाङ्गपूर्वपदमेवोदाहरणमित्याह— जातान्तादिति।<\/w> 'वर्णादनुदात्तात्' इतिवद् 'बहुव्रीहेरुदात्तात्' इत्येव सिद्धेऽन्तग्रहणं नित्यत्वप्रतिपत्त्यर्थम्। 'वा जाते' इति तु वैकल्पिक उदात्तो न तु नित्य इति भावः।", "41054": "सुमुखा शालेति।<\/w> एवं च फलमुखी कारणमुखी चानवस्थेत्यादिप्रयोगाः प्रामादिका इति बोध्यम्।", "41056": "उरःक्रोडेति।<\/w> स्त्रीलिङ्गोऽयमिति हरदत्तादयः। तत्रोपसर्जनह्रस्वत्वे कृतेऽदन्तत्वाद् ङीषः प्राप्तिः। अमरस्तु— 'न ना क्रोडं भुजान्तरम्' इत्याह। रत्नमतिस्तु पुंस्त्वमाह। गणे च क्रोडेति प्रातिपदिकमात्रं पठ्यते न तु टाबन्तमिति गणरत्नमहोदधिकारः। एवं चाविशेषाल्लिङ्गत्रयेऽप्युदाहरणं बोध्यम्। माधवस्तु तुदादिगणे क्रुड निमज्जने इति धातावाह- क्रोडः। घञ्। क्रोडा- अश्वानामुरः। टाबन्तोऽयं स्वभावतो विशेषविषयः, क्रोडादिषु टाबन्तस्यैव पाठात्। भुजान्तरमात्रविषयस्य क्रोडशब्स्य बहुव्रीहौ स्वाङ्गलक्षणो ङीष्विकल्पो भवत्येव। कल्याणक्रोडी, कल्याणक्रोडा मयूरीति।", "41060": "ङीषो ङीबादेश इति।<\/w> 'दिक्पूर्वपदात्' इति पञ्चम्या ङीषिति प्रथमायाः षष्ठी प्रकल्प्यत इति भावः। यदि तु स्वतन्त्रो ङीप् स्यात् तर्हि प्राग्गुल्फादावपि प्रसज्येत। तत्परिहाराय पूर्वोक्तपर्युदासस्य प्रसज्यप्रतिषेधानां वाऽनुवृत्तौ गौरवमिति भावः।", "41063": "वृषलीति।<\/w> एकस्यां व्यक्तौ वृषलत्वे कथिते तदपत्यतत्सहोदरादौ कथनं विनाऽपि तस्य सुग्रहत्वादिति भावः। औपगवीति।<\/w> अण्णन्तलक्षणं ङीपं परत्वादयं बाधते। एवं चापत्याधिकारे औपगवीति प्रतीकमुपादाय 'टिड्ढाणञ्' इति ङीबिति व्याचक्षाणा उपेक्ष्या इति भावः। ब्राह्मणीत्यत्रेति।<\/w> एवं च प्राची ङीषुदाहरणं प्रामादिकमिति भावः।", "41066": "कुरूरिति।<\/w> लिङ्गविशिष्टपरिभाषया प्रातिपदिकत्वात्स्वादयः। प्राचा तु 'अन्तादिवच्च' इति सूत्रमुपन्यस्याऽऽदिवद्भावत्स्वादय इत्युक्तम्। अत्रेदं वक्तव्यम्- परं प्रत्यादिवद्भावो विधीयते। तथा चेहाऽप्रत्यय इति निषेध एव स्यान्न तु स्वादयः। यत्तु व्याचख्युः— आदिः- ऊङपेक्षया पूर्वः, प्रातिपदिकं, तद्वद्भावात् तदवयवत्वेन ग्रहात् पूर्वन्तवद्भावादिति यावदिति; तदपि क्लिष्टं स्वपरग्रन्थविरुद्धं च। उक्तरीत्या हि काण्डे कुड्ये इत्यादावपि 'एकवचनमुत्सर्गतः' इति सुः प्रवर्तेत। तद्वारणाय चाऽप्रत्यय इति प्रसज्यप्रतिषेधाभ्युपगमे प्रकृते दोषः। श्वश्रूरित्यत्रैकादेशाऽभावेन लिङ्गविशिष्टपरिभाषाया आवश्यकत्वाच्च। यत्तु- तत्र 'श्वशुरः श्वश्र्वा' इति निर्देशात्स्वादय इति; तन्न, निर्देशस्य शब्दपरत्वात्। 'विपराभ्यां जेः' 'ङेर्यः' इतिवत्।", "41068": "श्वशुरस्येति।<\/w> पुंयोगलक्षणे ङीषि प्राप्ते ऊङ्। तत्सन्नियोगेन च विधीयमानो लोपः सन्निहितत्वादन्त्यस्यैवाऽकारस्य, न त्वादेः। एतच्च वचनं 'श्वशुरः श्वश्र्वा'इति निर्देशसिद्धार्थकथनपरम्। अतोऽपि प्रथमाऽकारस्य लोपो न शङ्क्यः।", "41069": "उपमानवाचिपूर्वपदमिति।<\/w> 'धात्रीकराभ्यां करभोपमोरुः' इत्यत्र तु न, करभशब्दस्योपमानवाचित्वेऽपि पूर्वपदत्वाभावात्।", "41070": "शफौ खुराविति।<\/w> यद्यपि 'शफं क्लीबे खुरः पुमान्' इत्यमरस्तथापि शफशब्दस्य पुंस्त्वमपि बहुसम्मतम्, शफाविव जर्भुराणेति श्रुतौ 'ग्राम्यपशुसङ्घेषु' इति सूत्रस्य व्याख्यावसरे न्यासहरदत्तादिग्रन्थेषु, वाचस्पत्यादिनिबन्धेषु च प्रचुरप्रयोगात्, 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति भाष्याच्च, 'शफो भुजो गुदं घोणा' इति गणरत्नमहोदधौ क्रोडादिगणे पाठाच्च, 'शफः खुरे गवादीनां मूले विटपिनामपि' इति हेमचन्द्रकोशाच्च। विश्वकोशे च पुन्नपुंसकतोक्ता। वामौ सुन्दरौ ऊरू यस्या इति विग्रहः। इह सर्वत्र उपमानाभावादप्राप्ते विधिः। कथं तर्हि 'पीवरोरु पिबतीव बर्हिण' इति कुमारः? प्रमाद एवायम्। संज्ञापूर्वकत्वात्सम्बुद्धिगुणो नेत्येके। हितेन सहेति।<\/w> 'समो वा हितततयोः' इति व्युत्पादितः सहितशब्दस्तु नेह गृह्यते, एकदेशविकृततया संहितग्रहणादेव सिद्धेरिति भावः।", "41073": "अञो योऽकार इति।<\/w> अञा अकारविशेषणं किम्? शूरसेनी। 'जनपदशब्दात्' इत्यञो 'अतश्च' इति लुकि जातिलक्षणो ङीष्। शार्ङ्गरवीति।<\/w> शृङ्गरुशब्दादपत्यार्थे अण्। नृनरयोरिति।<\/w> नृशब्दाद् 'ऋन्नेभ्य' इति ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम्। ननु नरशब्दे अलोऽन्त्यस्य वृद्धिः स्यात्। यत्त्वाहुः— अन्त्यस्य 'यस्येति' लोपेनापहारादनन्त्यस्याप्यकारस्य वृद्धिर्भवत्यान्तरतम्यात्। 'गुणे त्वन्याय्यकल्पना' इत्यलोन्त्यपरिभाषाबाधस्यैव न्याय्यत्वादिति; तन्न, प्रत्ययसन्नियोगशिष्टाया वृद्धेरन्तरङ्गत्वेन परमपि 'यस्येति' लोपं बाधित्वा प्रवृत्त्यौचित्यात् । किं चास्तु कथंचिल्लोपस्तथाऽपि रेफस्यैव वृद्धिः स्यान्न त्वकारस्य, अन्तरतमपरिभाषापेक्षयाऽलोन्त्यपरिभाषायाः परत्वात्। अपि चान्तरतमपरिभाषाऽसदृशमादेशं व्यावर्तयति, न तु स्थानिनं नियच्छति, तत्कथं रेफस्य स्थानित्वव्यावृत्तिः। किं च 'गुणे त्वन्याय्य' इति न्यायोपन्यसनं स्थवीय एव, परिभाषयोः परस्परं गुणगुणिभावायोगात्। अत्रेदं तत्त्वम्। 'नर' इति रान्तलुप्ताकारानुकरणं नरः अः नरः। ना च नरश्च तयोरिति व्याख्येयम्। यद्वा नरस्य अः नरः, कतन्तवत् पररूपम्। ना च नरश्च तयोर्नृनरयोः। नरस्य च प्रथम एव अकारो गृह्यते न तु द्वितीयः, प्रश्लेषसामर्थ्यात्। अधिकं शब्दकौस्तुभे बोध्यम्। पुत्रशब्दोऽत्र पठ्यते। शैलपुत्री, 'पुत्रीव हर्षं हृदये तनोति', 'कुर्वे तदुर्वीपतिपुत्रि सर्वम्' । न च पुत्रशब्दः कन्यायां नास्तीति भ्रमितव्यम्, आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी। आहुर्दुहितरं सर्वे॥ इत्यमरोक्तेः। अत एव 'प्रत्ययस्थात्' इतीत्वप्रकरणे 'वा सूतकापुत्रिकावृन्दारकाणाम्' इति वार्तिकं तद्भाष्यादिकं च सङ्गच्छते। यत्त्वत्र हरदत्तेनोक्तम्- केवलपुत्रशब्दः स्त्रियां न वर्तते इति; तद्भाष्यादिविरोधादुपेक्ष्यम्, इत्वप्रकरणस्थस्वग्रन्थविरोधाच्च। इदं तु चिन्त्यम्— 'कारे सत्यागदस्य' इति सूत्रे 'सूतोग्रराजभोजकुलमेरुभ्यो दुहितुः पुत्रड्वा' इति वार्तिकं किमर्थमिति। यत्तु वदन्ति स्वरार्थमिति, तन्न, टित्त्वान् ङीपि कृते उदात्तनिवृत्तिस्वरेणान्तोदात्ते ङीनन्तेन तत्पुरुषेऽपि समासस्वरेणान्तोदात्त एवेति स्वरे भेदाभावात्। यदपि शार्ङ्गरवादौ पुत्रशब्दः प्रक्षिप्तो न तु साम्प्रदायिक इति; तदपि न, उदाहृतप्रयोगविरोधात्, 'वा सूतका' इत्यादिवार्तिके कैयटहरदत्तादिकृताऽकारप्रश्लेषविरोधाच्चेत्यास्तां तावत्।", "41074": "आम्बष्ठ्येति।<\/w> 'वृद्धेत्कोसलात्' इति यङ्। कारीषगन्ध्येति।<\/w> करीषस्येव गन्धोऽस्य करीषगन्धिः। 'उपमानाच्च' इति गन्धस्येदन्तादेशः। तस्य गोत्रापत्यं स्त्री, अण्। 'अणिञोः' इति ष्यङादेशः। स च यद्यपि स्त्रियामेव विहितस्तथाऽपि ङित्करणसामर्थ्यात्तदन्तादप्ययं चाप्। पौतिमाष्येति।<\/w> पूतिमाषशब्दो गर्गादिः।", "41076": "बहुवचनमनुक्तानामुपसंख्येयानां सङ्ग्रहार्थम्। महासंज्ञाकरणं च तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इत्यन्वर्थत्वाय। तेन यथाऽभिधानमेव स्युः। स्यादेतत्। टापः प्रागयमधिकारोऽस्तु ष्फविधौ तद्धितग्रहणं, यस्येति लोपे ईद्ग्रहणं च मास्त्विति चेत्? मैवम्, पट्वीत्यत्र ओर्गुणप्रसङ्गात्।", "41077": "शत्रन्तादिति।<\/w> यौति मिश्रीकरोति पत्येति व्युत्पत्तेः। केचित्तु बाहुलकात् यौतेरौणादिकं कतिप्रत्ययं वदन्ति। उभयथाऽपि युवतीनां समूहो यौवतम्। त्यन्तात्तु अणि पुंवद्भावात् यौवनमित्येव। भिक्षादिपाठसामर्थ्यान्न पुंवदिति वृत्तिस्तु भाष्यविरुद्धा, भाष्ये तत्पाठस्य प्रत्याख्यानादिति दिक्॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां स्त्रीप्रत्ययप्रकरणम् ॥", "54107": "समासस्य समासार्थोत्तरपदस्य वा चरमावयव इत्यर्थः। तेनोपशरदमित्यत्र 'नाव्ययीभावात्' इत्यम् द्विपुरीत्यादौ 'द्विगोः' इति ङीप् च सिद्ध्यति। जराया इति।<\/w> गणसूत्रम्। अक्ष्णः परमिति।<\/w> अविषय इत्यर्थः। वृत्तिविषयेऽक्षिशब्द इन्द्रियमात्रपरः। समक्षमिति।<\/w> अक्ष्णोः योग्यम्। उपनदीति।<\/w> टजभावे नपुंसकह्रस्वः। इदं त्ववधेयम्- 'नदीभिश्च' इति सूत्रे विशेषाणामिव स्वरूपस्य ग्रहणं, विशेषाणामेवेत्यत्र मानाभावादित्युक्तम्। तेन पञ्चनदमिति सिद्ध्यति। अत्र च नित्योऽच्। तदुक्तम्- गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि॥ इति। एतच्च 'अच्प्रत्यन्वव' इत्यत्राजिति योगविभागात् सिद्धम्।", "54110": "इह स्वरूस्यैव ग्रहणं न संज्ञायाः पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात्।", "54112": "पूजार्थमिति।<\/w> अन्यतरस्याङ्ग्रहणस्य प्रकृतत्वादिति भावः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामव्ययीभावसमासप्रकरणम्॥", "54131": "नादेशेनैव सिद्धेऽनङ्करणं 'धनुषश्च' इत्येतदर्थम्।", "61005": "द्वे इत्यनुवृत्त्यैव सिद्धे उभेग्रहणं समुदायप्रतिपत्त्यर्थमिति व्याचष्टे— उभे समुदिते इति।<\/w> अन्यथा हि नेनिजतीत्यत्र 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वं प्रत्येकं पर्यायेण स्यात्॥", "61006": "जक्ष् इति पृथक् पदम्। इतिशब्देन जक्षितिरेव परामृश्यते। इति आदिर्येषामित्यतद्गुणसंविज्ञानो बहुव्रीहिस्तदेतदाह— षड् धातवोऽन्ये इति॥ तान्ताः॥ गोपायतीति गुप्। क्विपि विवक्षिते 'आयादय आर्धधातुके वा' इत्यायाऽभावः॥ पान्ताः॥", "61063": "पाद-दन्तेति।<\/w> यद्यपि 'शीर्षंश्छन्दसि' इत्यतोऽत्र 'छन्दसि'इत्यनुवर्तते, तथाऽपि भाषायामपि क्वचिद्भवति 'मासश्छन्दसि' इति वार्तिके छन्दोग्रहणाद् ज्ञापकात् इति वक्ष्यते। प्रामादिकमिति।<\/w> तथा हि,'आस्नो वृकस्य वर्तिकामभीके' इति मन्त्रे मुखादित्यर्थः औचित्यात्। 'वृकस्य चिद्वर्तिकामन्तरास्यात्'इति मन्त्रान्तरसंवादाच्च। एवं 'हव्या जुह्वान आसनि' 'आसन्यं प्राणमूचुः' इत्यादावपि। व्याख्यानं च तथैव वेदभाष्येषु। अत एव हरदत्तेनापि काशिकायाः प्रामादिकत्वमाविष्कृतमिति ध्येयम्। <<अल्लोपोऽनः>> [[6.4.134]] अत्र प्राञ्चः— अन्नन्तस्य भस्याङ्गस्याकारस्य लोपः स्यादिति। तथा सति 'तक्ष्णा' इत्यादौ तकाराकारस्यापि लोपः स्यात्। भस्याङ्गस्यानोऽकारस्य इति व्याख्याने तु 'अनसा, मनसा' इत्यादौ स्यात्। तन्त्रावृत्त्यादिनाऽन्नन्तस्य भस्यानोऽकारस्येति व्याख्यानेऽपि 'अनस्तक्ष्णा' इत्यादौ अतिव्याप्तिरेवातो व्याचष्टे—", "61068": "लुप्यत इति।<\/w> यद्यपीह 'लोपो व्योः' इत्यतो लोप इत्यनुवर्तते। तच्च तत्र भावसाधनं तथाऽपीह कर्मसाधनं हलिति प्रथमान्तेन सामानाधिकरण्यादिति भावः। दीर्घग्रहणं किम्?<\/w> अतिखट्वः, निष्कौशाम्बिः। ननु इह समस्तस्य ङ्याबन्तत्वं नास्ति। न च 'स्त्रीप्रत्यये तदादिनियमो नास्ति' इति वाच्यम्। अनुपसर्जने हि तथा। इह तूपसर्जनत्वात् तदादिनियमोऽस्त्येव। सत्यम्। तथाऽपि उत्तरपदस्य ङ्याबन्तत्वेन सोस्ततः परत्वानपायात्। न हीदं विहितविशेषणमित्यवोचाम। अत एव 'बहुश्रेयसी' इत्यत्र सुलोपः। स्यादेतत्। गङ्गीयतेः क्विप्। गङ्गीः। इहेकारस्य स्थानिवद्भावेनाप्त्वाद्दीर्घत्वाच्चातिव्याप्तिरिति चेत्? सत्यम्, ङी ई, आ आप् इति प्रश्लिष्य दीर्घग्रहणस्य प्रत्याख्यानान्न कश्चिद्दोषः। सुतिसीति किम्? भेत्ता। तासेस्तकारस्य लोपो मा भूत्। न चैवमपि 'अभैत्सीत्' इत्यादौ सिचो लोपापत्तिः। सुतिभ्यां साहचर्येण विभक्तेरेव ग्रहणात्। अपृक्तं किम्? भिनत्ति, छनत्तीति प्रत्युदाहरन्ति। तच्चिन्त्यम्, विशिष्टस्याहल्त्वात्। सुतिसीनां हलिति क्लिष्टं व्याख्यायातिप्रसङ्गापादनस्यानुचितत्वात्। यदप्याहुः—सुरां सुनोतीति सुरासुत्, तमाचष्टे सुरासयति, ततः क्विप्, सुराः, सुरासौ, सुरासः। इह सुनोतेरवयवस्य सस्य लोपं व्यावर्तयितुं अपृक्तग्रहणमिति। तदपि न, परस्परसाहचर्येण सुतिसीनां विभक्तीनामेव ग्रहणात्। अन्यथा सिचो लोपापत्तेरुक्तत्वात्। प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणाच्च। हल् किम्? बिभेद। ननु प्रथमहल्ग्रहणं व्यर्थम्। हलन्तात्परेषां संयोगान्तलोपसम्भवात्। अत्राहुः— संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति। रात्तु तेर्नैव लोपः स्याद्धलस्तस्माद्विधीयते॥ तथा हि, सखेत्यत्र नलोपो न स्यात्, संयोगान्तलोपस्यासिद्धत्वात्। स्यादेतत्। संयेगान्तलोपो नासिध्दः 'न ङिसम्बुध्योः' इति सूत्रे सम्बुध्दिग्रहणाज्ज्ञापकात्। न चैवं गोमानित्यदावपि नलोपापत्तिः। ज्ञापकस्य विशेषविषयत्वात् 'यत्र हि नकारविभक्त्योरानन्तर्यन्तत्रैव सिद्धत्वम्', व्याख्यानात्। यत्त्वाहुः— हे ब्रह्मन्निति नपुंसकार्थत्वाद् नैतज्ज्ञापकमिति। तन्न, लुका लुप्ते प्रत्ययलक्षणाभावेन 'संबुद्धौ वा नपुंसकानाम्—' इत्यस्यावश्यकतया च सम्बुध्दिग्रहणस्य नपुंसकविषयत्वासम्भवेनोक्तज्ञापकस्य सुस्थत्वात्। तस्मान्नलोपो न प्रयोजनमिति चेत्? इह तर्हि अभिनोऽत्रेत्यत्र रोरुत्वं न स्यात्। तदिदमुक्तं नलोपादिरिति। तथा 'अबिभर्भवान्' इत्यत्र तिलोपो न स्यात् 'रात्सस्य' इति नियमात्। अत्रेदमवधेयम्। ङ्याब्ग्रहणं सोरेव विशेषणं न तु तिस्योः, व्याख्यानात्। अस्मिन्नेव सूत्रे 'द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं न कर्तव्यं भवति' इति भाष्यं चेह प्रमाणम्। यदि हि ङ्याब्ग्रहणं तिस्योरपि विशेषणं तर्हि कथं तिस्योर्ग्रहणस्याकर्तव्यतां ब्रूयात्। यत्तु ङ्याब्भ्यां तिस्योरसम्भव एवेति। तत्र ङ्यन्तादसम्भव इति सत्यम्। आबन्तात्तु आचारक्विबन्ताल्लङः तिप्सिपौ स्त एव। अगङ्गात्, अगङ्गाः इति यथा। न च शपा व्यवधानम्, एकादेशस्य पूर्वान्तत्वेन ग्रहणात्। न च स्थानिवद्भावः, अपूर्वविधित्वात्। अत्रायं निष्कर्षः। ङ्यापः सोरित्येव सूत्रमुचितम्। न च सुराः सुरासौ इत्यादौ धातोः सकारेऽतिप्रसङ्गः। ङ्याब्भ्यां साहचर्यात्, 'प्रत्ययाप्रत्यययोः' इति परिभाषाया च प्रत्ययस्यैव सोर्ग्रहणात्। राजेत्यादौ नलोपस्तु 'न ङिसम्बुद्ध्योः' इति ज्ञापकेन साधित एव। किं चाभिनोऽत्रेति उत्वमपि सूपपादम्। 'संयोगान्तलोपो रोरुत्वे' इति सिद्धकाण्डे पाठात्। हरिवो मेदिनं त्वेति यथा। अबिभर्भवान् इत्यत्रापि न दोषः। 'रात्सस्य' इत्यत्र तकारस्यापि प्रश्लेषेण त्सस्येति च्छेदात्। ननु उखास्रदित्यादौ संयोगादिलोपः स्यादिति चेत्? न, दत्वे कृते तदप्राप्तेः। असिध्दं दत्वमिति चेत्? न, सिद्धकाण्डे 'वस्वादिषु दत्वम्' इति पाठात्। नन्वपदान्तत्वाद् दत्वं न स्यादिति चेत्? न। सावपि पदं भवतीति पक्षाश्रयणात्। तद्बीजन्तु 'असर्वनामस्थाने यचि' इति च्छित्वा यजादौ सर्वनामस्थाने पदं नेति व्याख्यानम्। न चैवं राजेत्यादौ नलोपे कृते सो रुत्वविसर्गौ स्यातामिति वाच्यम्। 'इतोऽत् सर्वनामस्थाने' इति सिद्धे 'पथिमथि' इत्याकारविधानेन प्रथमं सुलोपस्य ज्ञापनात्। ननु नैतज्ज्ञापकं, संबुद्धौ चरितार्थत्वात्। हे पन्थाः, मन्थाः, ऋभुक्षाः। तत्र हि दीर्घः 'असंबुद्धौ' इति पर्युदस्तः, नलोपश्च निषिद्ध इति चेत्? एवं तर्हि नलोपात् प्राक् संयोगान्तलोप इत्यर्थे 'न ङिसंबुद्ध्योः' इति सूत्रमेव ज्ञापकमस्तु। तथा हि—'ङिसंबुध्योः' इति षष्ठी न तु सप्तमी, ङेर्लुका लुप्ततया प्रत्ययलक्षणाभावात्, ङ्यन्तस्य च प्रातिपदिकस्येति सामानाधिकरण्येनान्वयः। न च प्रथमं संयोगान्तलोपं विना सम्बुद्ध्यन्तप्रातिपदिकं लभ्यते । तस्मान्ङ्यापः सोरिति न्यासे न किञ्चिद् बाधकम्। यदि तु 'वस्वादिषु दत्वम्' इति वार्तिकं प्रत्याख्यायते। अधातुग्रहणेनैवोखास्रदित्यादौ दीर्घाभावसिध्देः। तर्हि हल्ङ्यापः सोरिति सूत्रमस्तु। यत्तु यथाश्रुतं सूत्रं प्राचा व्यख्यातम्— ङ्यन्तादाबन्ताद् दीर्घाच्चेति। तन्न, ङ्यापौ हि दीर्घौ, न तदन्तमपि। न च दीर्घाद् ङ्यन्तादित्यादेर्दीर्घो यो ङी तदन्तादित्यादिरर्थो लभ्यते। दीर्घात् इति पञ्चम्या अनन्वयात्। समासे उपसर्जनयोर्ङ्यापोर्विशेषणायोगात्। उक्तं हि भाष्ये—'सविशेषणानां वृत्तिर्न' 'वृत्तस्य च विशेषणयोगो न' इति। एतेन अनदीसंज्ञं ह्रस्वम् इउवर्णान्तमित्यपि प्राचो वृत्तिः प्रत्युक्ता।", "61077": "प्रत्याहारेग्रहणेषु तद्वाच्यवाच्ये निरूढा लक्षणा, <<दीर्घाज्जसि च>> [[6.1.105]] इति ज्ञापकात् <<ल्वादिभ्यः>> [[8.2.44]] इति निर्देशाच्च। तेनेक्शब्देन षट्षष्टिर्गृह्रन्ते, यण्शब्देन सप्त। भाव्यमानत्वेन सवर्णाग्राहकत्वेऽपि गुणानामभेदकत्वेनानुनासिकानामपि यवलानां ग्रहणात्। अतो नास्ति यथासङ्ख्यम्। न च लक्ष्यार्थबोधात्पूर्वभाविनं शक्यार्थबोधमादाय यथासङ्ख्यमस्त्विति वाच्यम्। एवमपि तृतीयचतुर्थाभ्याम् ऋकारऌकाराभ्यां प्रत्येकं त्रिंशदुपस्थितौ ऌवर्णानां रेफादेशस्य, ऋवर्णानां लादेशस्य च प्रसङ्गात्। तस्मादिह <<स्थानेन्तरतम>> [[1.1.50]] सूत्रेणैवेष्टसिद्धिरित्यभिप्रेत्याह—", "61079": "यकारादाविति<\/w> । विशेषणमात्मान्तस्य सञ्ज्ञा स्यादित्येतदर्थकस्य 'येन विधिः'(पा.सू [[1.1.72]] इति सूत्रस्यापवादभूतेन 'यस्मिन्विधिस्तदादावल्ग्रहणे' इति वार्तिकेनायमर्थो लभ्यते। ओदौतोरिति।<\/w> पूर्वसूत्रे तयोरेव वान्तौ प्रति स्थानित्वेन निर्णीतत्वादित्यर्थः। ननु गव्यूतिरित्यत्र <<हलि सर्वेषाम्>> [[8.3.22]] इति, <<लोपः शाकल्यस्य>> [[8.3.19]] इति वा लोपः स्यादित्याशङ्क्याह—", "61080": "लव्यमिति।<\/w> लुनातेरचो यत्। <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः। अवश्यलाव्यमिति।<\/w> <<ओरावश्यके>> [[3.1.125]] इति ण्यत्॥", "61081": "क्षय्यमिति।<\/w> <<शकि लिङ् च>> [[3.3.172]] इति चात्कृत्याः। क्षेयमिति।<\/w> <<अर्हे कृत्यतृचश्च>> [[3.3.169]] इति यत्।", "61085": "इहैकः पूर्वपरयोरित्यनुवर्तते यथासंख्यं चेत्यभिप्रेत्याह- पूर्वस्यान्तवदिति।<\/w> स्थानिवत्सूत्रेणैव गतार्थमिदं सूत्रम्। न चाल्विध्यर्थमिदमिति भ्रमितव्यम्, अस्याप्यनल्विधावनिष्टत्वात्। अन्यथा अयजे इन्द्रमित्यत्र सवर्णदीर्घापत्तेः। तथा च वार्तिकम्- 'न वा अताद्रूप्यातिदेशात्' इति।", "61089": "अत्र एचीत्यनुवर्तते। तच्च एतेरेव विशेषणं नत्वेधतेः, अव्यभिचारात्। नाप्यूठः, असम्भवादिति प्राञ्चः। अत्र कैयटः— एधतेरपि विशेषणम्। मा भवान्प्रेदिधदित्यत्र व्यभिचारात्। यद्यपीदं कैयटपुस्तकेषु प्रायेण न दृश्यते, तथापि क्वचिद् दृश्यत एव। न च <<णौ चङि—>> [[7.4.11]] इति ह्रस्वे कृते नायमेधतिरिति वाच्यम्। एकदेशविकृतस्यानन्यत्वात्। न चैवमपि <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभागसम्मोह इति वाच्यम्। द्विःप्रयोगो द्विर्वचनं षाष्ठमिति षाष्ठभाष्ये सिद्धान्तितत्वात्। अन्यथेहैव णिलोपो न स्यात्। जिघांसतीत्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते ह्यस्वो न भवत्येवेति वाच्यम्। ओणेर्ऋदित्करणेन बहिरङ्गस्यापि <<णौ चङि—>> [[7.4.1]] इति ह्रस्वस्य प्रथमं प्रवृत्तिरिति ज्ञापितत्वात्। अत्र माधवः— मा भवान्प्रेदिधदित्यत्र नातिप्रसङ्गः। ण्यन्तस्य शब्दान्तरत्वादेधतिग्रहणेनाग्रहणात्। अत एव हि <<न भाभूपूकमिगमि—>> [[8.4.34]] इत्यत्र ' ण्यन्तानां च भादीनामुपसंख्यानम्' इत्युक्तम्। तत्रैव शब्दान्तरत्वादप्राप्तावुपसंख्यानमिति कैयटन्यासकारहरदत्तादिभिः सर्वैरेवोक्तम्। किं च ण्यधिकस्यापि ग्रहणे <<उपसर्गात्सुनोति—>> [[6.1.91]] इत्यत्राभिषावयतीत्युदाहृत्य ण्यन्तेनाभेर्योगात्सुनोतिं प्रत्यनुपसर्गत्वात्कथं षत्वमित्याशङ्क्याभेः प्रकृत्यर्थविशेषकत्वेन समाधानं भाष्यकाराद्युक्तमसङ्गतं स्यात्। न च <<हेरचङि>> [[7.3.56]] इति लिङ्गात् 'प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्' इति भ्रमितव्यम्। ज्ञापकस्य कुत्वमात्रविषयकत्वात्। तथा च वार्तिकम्—'हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वात्। ज्ञापकं तु चङोऽन्यत्र ण्यन्तेऽपि कुत्वभावस्य' इति। तस्माद्युक्तिविरोधाद्भाष्यवार्तिकवृत्तिन्यासादिग्रन्थैः पूर्वापरस्वग्रन्थेन च विरोधादुपेक्ष्योऽयं कैयट इति। अत्रेदं वक्तव्यम्। अस्तु विशिष्टस्य शब्दान्तरत्वं तावताऽपि प्रकृतिभागस्यैध्रूपत्वं केनापगतमित्यवधार्यताम्। न ह्युपैधत इत्यादौ तिङन्तस्यैध्रूपता नास्तीति प्रकृत्यंशे सा हीयते। तथा च 'उपसर्गात्सुनोति—'इति सूत्रे वार्तिकम्—'सिद्धं त्ववयवान्यत्वात्'इति। यत्त्वभिषावयतीत्यत्रत्यभाष्यविरोधोद्भावनं, तद्विपरीतम्। यतः प्रकृतेः सुनोतिरूपानपायात् कैयटमते सिद्धा यथोक्तव्यवस्था। त्वन्मते तु रूपान्तरत्वेन ण्यधिकस्याग्रहणादसङ्गतैव प्रागुक्तव्यवस्था स्यात्। को ह्येधयतिसावयत्योर्विशेषः—यदेधतेण्र्यधिकस्याग्रहणं सुनोतेस्तु ग्रहणमिति। यदपि ण्यन्तभादीनामुपसंख्यानमुपन्यस्तं तदपि नास्माकं प्रतिकूलम्, विशिष्टस्य शब्दान्तरत्वेन प्रकृत्यंशस्य तु णिचा व्यवधानेनोपसंख्यानस्यावश्यकत्वात्। अत एव न तत्रत्यन्यासादिभिः स्वोक्त्या वा विरोधः। प्रत्युत तवैव विरोधः, षाष्ठे भाष्यवार्तिकयोः <<एत्येधत्योः—>> [[6.1.89]] इति योगं विभज्य 'एचि' इति विशेषितत्वात्। तस्मादिह वृत्तिग्रन्थो माधवग्रन्थश्चासङ्गत एवाभिप्रेत्य व्याचष्टे— अक्षौहिणीति।<\/w> ऊहोस्त्यस्य ऊहिनी अक्षाणामूहिनीति विग्रहः। परिमाणविशेषविशिष्टा सेना अक्षौहिणी। <<पूर्वपदात्संज्ञायाम्>> [[8.4.3]] इति णत्वम्। यत्तु प्राचा विगृहीतमक्षाणामूहः समूहः सोऽस्त्यस्या इति। तदपि उहिनीशब्देन षष्ठीतत्पुरुष इत्येवंपरतयैव कथञ्चिन्नेयम्। ऊहशब्देन समासे तत इनौ तु वृध्दिर्न स्यात्, अन्तरङ्गेण गुणेन बाधात्। अपवादभूताया अपि वृद्धेरूहिनीशब्देन विग्रहे चरितार्थत्वात्। यथोक्तं प्राक्— 'इण्-ङि-शीनामाद् गुणः सवर्णदीर्घत्वात्' इति। स्वादीरेरिणोः ॥<\/w> इरेरिण्योरिति क्वाचित्कोऽपपाठः। स्वैरीति णिन्यन्तस्यास्त्रियां वृद्ध्यभावप्रसङ्गात्। स्वैरिणीत्यत्र तु ङीपः प्राग्भागमादाय वृद्धिर्बोध्या। यत्तु व्याचख्युः लिङ्गविशिष्टपरिभाषयेति तन्निष्फलम्॥ 'प्रादूहोढोढ्येषैष्येषु'॥<\/w> अत्रोहशब्दः कैश्चित्प्रक्षिप्तो भाष्यादौ तु न दृश्यते इति प्राञ्चः। इदानीन्तनपुस्तकेषु तु भाष्यवार्तिकयोरूहशब्दो दृश्यत एव। नानर्थकस्येति।<\/w> उपस्थितस्यार्थस्य शब्दं प्रति विशेषणत्वसंभवे त्यागायोगादिति भावः। सीरदेवस्त्वाह- <<व्रश्च>> [[8.2.36]] इति सूत्रे राजेः पृथग् भ्राजिग्रहणमिह ज्ञापकमिति। नन्वेतदयुक्तम्, फणादिना राजिना साहचर्यात् तथाभूतस्यैव षत्वार्थतया भ्राजिग्रहणस्योपक्षीणत्वादिति चेत्, विभ्राट्, विभ्रागिति रूपद्वयं हि साध्यं, तच्च व्रश्चादिसूत्रे 'राजृ' इति पठित्वाऽपि साध्यम्, एकस्य भ्राजतेर्ऋकारस्य प्रागपि दातुं शक्यत्वात्- ऋभ्राज इति, <<भ्राजभास>> [[7.4.3]] इति विकल्पस्य वाचनिकतया ऋकारस्य आत्मनेपदमात्रफलकतया वक्ष्यमाणत्वेन तत्स्थानेऽकारस्य सुपठत्वाच्च। तस्मात् सीरदेवोक्तं ज्ञापकमपि सम्यगेव। प्रैष्य इति।<\/w> एषसाहचर्यादेष्योऽपि अनव्ययं गृह्यते। तेन ण्यन्तादिषेः क्त्वो ल्यपि पररूपमेव, न तु वृद्धिः। प्रेष्य गतः। प्रवत्सतरेति।<\/w> अत्र कालापानुसारिणो वत्सरशब्दमपि पठित्वा वत्सरे देयमृणं वत्सरार्णमित्युदाहरन्ति। अपरे तु वत्सशब्दमपि पठन्ति, तत्सर्वं भाष्यादिविरुद्धम्॥", "61092": "प्रार्षभीयतीति।<\/w> <<शरोऽचि>> [[8.4.49]] इति द्वित्वनिषेधः।", "61093": "ओतो णिदिति वाच्यमिति।<\/w> गोत इत्यपहाय ओत इति वाच्यमित्यर्थः। तथा च गामित्यत्र परत्वाद्वृद्धौ सत्यामात्वं न स्यादित्याशङ्क्य निरवकाशतया आत्वेन वृद्धिर्बाध्यत इति 'औतोऽम्शसोः' इति सूत्रे भाष्यकृतोक्तम्। कैयटोऽपि तत्रेत्थमाह- ओत इति सूत्रे पाठ्यम्, गोत इत्योकारोपलक्षणतया वा व्याख्येयमिति। स्मृतौरिति।<\/w> यत्त्वाहुः—गोशब्देन औणादिकेन सादृश्याद् द्योशब्द एव लक्ष्यते न त्वोकारान्तमात्रम्। तेन स्मृतोः स्मृतवौ स्मृतव इत्येव भवतीति, तद्भाष्यविरुद्धम्। गोद्योभ्यामेव परस्य णित्वाभ्युपगमे हि 'औतोऽम्शसोः' इत्यात्वस्य स्मृतामित्यादिरवकाशः स्यात्। तथा च गामित्यत्र परत्वाद्वृद्धेर्दुर्वारतया उदाहृतभाष्योक्तमात्वस्य बाधकत्वं निरवकाशत्वं च सङ्गच्छेतेति दिक्। ॥ इत्योदन्ताः॥", "61094": "प्रेजते इति।<\/w> एजृ दीप्तौ। कम्पनार्थस्तु परस्मैपदी। एजते कम्पते इति तु प्राचां व्याख्यानं प्रामादिकमेव। एङ्येङित्येव सिद्धे परग्रहणमुत्तरार्थं रूपग्रहणं तु चिन्त्यप्रयोजनम्, 'एङि परः' इत्येव सिद्धेः। यथा <<अमि पूर्वः>> [[6.1.107]] इति। नियोगोऽवधारणमिति।<\/w> यदाहुः- 'अनवक्लृप्तौ यदा दृष्टः पररूपस्य गोचरः। एवस्तु विषयो वृद्धेर्नियमेऽयं यदा भवेत्'॥ इति। एतेन 'नियोजनं नियोगो व्यापारः' इति व्याख्यानं परास्तम्, 'यदैव पूर्वं ज्वलने शरीरं' 'ममैव जन्मान्तरपातकानाम्' इत्यादिप्रयोगविरोधात्, उदाहृतवृत्तिस्थश्लोकविरोधात्, <<लङः शाकटायनस्यैव>> [[3.4.111]] <<तपस्तपःकर्मकस्यैव>> [[3.1.88]]इत्यादिसौत्रप्रयोगविरोधाच्च। यत्तु श्लोकवार्तिकमिदमित्याहुः, तद्रभसात्।", "61098": "ध्वनेरिति। अनुकरणस्येति।<\/w> परिस्फुटाकारादिवर्णस्येति भावः। तस्य चानुकरणत्वं किञ्चित्साम्येन बोध्यम्। यत्तु प्राचोक्तम्- अतः किम्ॽ दकारान्ते मा भूदिति। यच्च व्याख्यातं दकारान्त इति रूपान्तरोपलक्षणं वटक्, मरुत् इत्यादेरपीति, तन्निःसारम्, प्रश्नस्य, दान्त इत्युत्तरस्य च निरालम्बनत्वात्। यत्तु व्याचख्युः- <<अतो गुणे>> [[6.1.97]] इत्यतोऽत इत्यनुवर्त्य शब्दाधिकाराश्रयणात् सिद्धमिति प्रश्नः। यदा जश्त्ववशाद् दान्तत्वं तदापि स्यात् पुनरद्ग्रहणे तु श्रौततान्तत्वस्य विवक्षणान्नेत्युत्तरमिति, तच्चिन्त्यम्, जश्त्वशास्त्रस्यासिद्धत्वेन पररूपस्यैव प्रवृत्तेः, <<नाम्रेडितस्य>> [[6.1.99]] इति निषेधे पटत्पटदितीत्युदाहरणस्यासंबद्धत्वापत्तेश्च। तत्र हि भवदुक्तरीत्या प्राप्तिरेव नास्ति, दान्तत्वात्। एतेनानुकार्यानुकरणयोरभेदविवक्षया विभक्त्यभावेन गवित्ययमाहेतिवदपदत्वात् पटत् इतीत्यत्र जश्त्वं नेति ग्रन्थोऽपि प्रत्युक्तः, उत्तरग्रन्थविरोधात्, जश्त्वस्यासिद्धतया पररूपैणैव बाधाच्च। ननु तदपि नित्यं तथा च कथं पररूपविरहेण प्रयोग इति चेन्न, अलौकिकं प्रक्रियावाक्यमिदमिति स्वयमेव व्याख्यातत्वात्, संहिताया अविवक्षायां तत्सम्भवाच्चेति दिक्।", "61101": "अचि पर इति<\/w> । यदा तूष्मणामीषद्विवृतत्वमाश्रित्य <<नाज्झलौ>> [[1.1.10]] इति सूत्रं प्रत्याख्यायते तदा इहाचीति नानुवर्तनीयम्। अकोऽकि दीर्घ इति सुवचम्। वर्णद्वयं द्विमात्रमिति।<\/w> यत्तु प्राचा व्याख्यातं दीर्घे प्राप्ते ह्यस्व ऋकार ऌकारश्च विधीयत इति तद्भाष्यकैयटादिविरोधादुपेक्ष्यम्॥", "61103": "तच्छब्देन सन्निहितः पूर्वसवर्णदीर्घः परामृश्यते। शस इत्यवयवषष्ठी। स चावयवः परत्वेन विशेष्यते— पूर्वसवर्णदीर्घात् परस्य शसोऽवयवस्येति। तदेतदाह— परो यः शसः सकार इति।<\/w> परो यः शस् इति तु नोक्तम्, असंभवात्। न हि कृते सवर्णदीर्घे परः शस् संभवति।", "61107": "अम्यचीति।<\/w> अमि योऽच् तस्मिन्। अमोऽवयवेऽचीति यावत्। तेन मकारसहितस्य न पूर्वरूपम्। एवम् अक्षादूहिन्यामित्यादावपि ऊहिन्यां योऽच् तस्मिन्नित्यादि बोध्यम्। 'इको यणचि' इत्यज्ग्रहणस्यानुवृत्तेर्निर्विवादत्वात्। 'पदास्वैरिबाह्या—' इत्यादिनिर्देशाश्चेह", "61108": "छन्दस्येवेति।<\/w> 'छन्दसि सहः' 'वहश्च' इति सूत्रे छन्दसीत्यनुवृत्तेरिति भावः। यत्तु ऊठि कृते सवर्णदीर्घः भूहः, भूहेत्यादि प्राचोक्तं, तद्भाष्यविरुद्धम्। तथा हि। ऊठ्ग्रहणं मास्तु। सम्प्रसारणमेव विधीयताम्। तस्य लघूपधगुणे कृते 'वृद्धिरेचि' इति वृद्धौ सिद्धं विश्वौह इत्यादि। एवं स्थिते क्रियमाणं बहिरङ्गपरिभाषां ज्ञापयति। सत्यां हि तस्यां बहिरङ्गस्य सम्प्रसारणस्याऽसिद्धत्वादन्तरङ्गो गुणो न स्यादिति भाष्ये स्थितम्। नन्वनकारान्तेऽकारान्तोपसर्गे चोपपदे रूपे विशेषः स्यादिति चेत्? मैवम्, भाष्यकारोक्तज्ञापकबलेनैव तादृशस्थले ण्विप्रत्ययाभावस्यानुमानादिति कैयटहरदत्तादयः। एतेन वार्यूहः प्रौह इत्यादिप्रयोगा अपि परास्ताः। अथवा ऊहतेः क्विप् इत्यवधेयम्।", "61109": "<<ङसिङसोश्च>> [[6.1.110]] इत्यस्यारम्भादस्य पदान्तविषयत्वे लब्धे उत्तरार्थं पदान्तादिति स्पष्टार्थमिहैव कृतम्॥", "61111": "परत्वादिति।<\/w> न च नुण्नित्य इति वाच्यम्, तृज्वद्भावे कृते सन्निपातपरिभाषया नुटो दुर्लभत्वादिति भावः।", "61112": "कृतयणादेशयोः खिखीशब्दयोरनुकरणं ख्य इति। एवं तितीशब्दयोः त्य इति। उभयत्राप्यकार उच्चारणार्थो न तु मुख्यापत्यादिशब्दैकदेशानुकरणमिदम्। 'सख्युर्यः' 'पत्युर्नः' 'संख्यायाः संवत्सरसंख्यस्य च' 'आपत्यस्य च तद्धिते' इत्यादिनिर्देशात्; इत्यभिप्रेत्याह— खितिशब्दाभ्यामित्यादि।<\/w> परस्येतिग्रहणम् 'एकः पूर्वपरयोः' इत्यधिकारनिवृत्यर्थम्।", "61122": "यद्यपि छन्दसीति न प्रकृतं तथापि <<यजुष्युरः>> [[6.1.117]] इत्यादिप्रक्रमाच्छन्दस्येवेदमिति सम्भाव्येत, अतः सर्वत्रेत्युक्तम्। तद्व्याचष्टे- लोके वेदे चेति।<\/w> इह 'एङः' इत्यनुवर्त्यैङन्तस्य गोरिति व्याख्येयम्। तेनेह न—चित्रग्वग्रमिति। प्रतिपदोक्तस्य एङो ग्रहणान्नेह— हे चित्रगोऽग्रम्। प्रकृतिभाव इति।<\/w> <<प्रकृत्यान्तः पादम्>> [[6.1.115]] इति सूत्रात्प्रकृत्येत्यनुवृत्तेः। यद्यपि भाष्ये <<इको गुणवृध्दी>> [[1.1.3]] इति सूत्रे 'नान्तः पदम्' इति पाठः स्थितः। षाष्ठभाष्येऽप्येवम्। तथापि शाकलसूत्रे 'ह्यस्वश्च इति चकारेण प्रकृत्या इत्यनुकृष्यते' इति भाष्यदर्शनात् 'प्रकृत्यान्तः पादम्' इति पाठोऽपि साधुरेव। 'न' इति पाठे तु ' सर्वत्र' इति सूत्रेण पूर्वरूपमेव विकल्प्येतेत्यवधेयम्।", "61123": "अत्राप्येङन्तस्य गोरिति व्याख्येयम्। अगिति सूत्रयितुमुचितम्। विभाषानुवृत्तेः स्फोटायनग्रहणं पूजार्थम्। गवीति।<\/w> यत्तु प्राचा गवे इति प्रत्युदाहृतम्। तन्न। सत्यप्यवङि- <<अतो गुणे>> [[6.1.77]] इति पररूपेण रूपसिद्धेः। न च सत्यवङि ङेर्यादेशः स्यात्, स्त्रियां तु टाप् स्यादिति वाच्यम्। सन्निपातरिभाषया यादेशटापोः सुसमाधानत्वात्। न च साऽनित्येति वाच्यम्, तावताप्यौत्सर्गिकतत्प्रवृत्येष्टसिद्धेः। गवाक्ष इति।<\/w> गवामक्षीवेति विग्रहः। 'अक्ष्णोऽदर्शनात्' इत्यच् समासान्तः। वातायने रूढोऽयम्। पुंस्त्वं लोकात्॥", "61124": "आरम्भसामर्थ्यान्नित्यमिदम्। 'इन्द्रे च नित्यम्' इति पाठस्तु भाष्यासमतत्वादुपेक्षितः॥", "61125": "एहि कृष्णेति।<\/w> <<दूराद्धूते च>> [[8.2.84]] इति प्लुतः। यत्तु कृष्णा3 एहीति प्राचोक्तं, तन्न, <<दूराद्धूते च>> [[8.2.84]] इत्यादौ <<वाक्यस्य टेः—>> [[8.2.82]] इत्यधिकारात्।", "61127": "चक्र्यत्रेति।<\/w> इह <<स्कोः—>> [[8.2.29]] इति कलोपो न। यणः कार्यकालपक्षे बहिरङ्गपरिभाषयाऽसिद्धत्वात्, स्थानिवद्भावाच्च। 'पूर्वत्रासिद्धीये न—' इति तु नास्ति, 'तस्य दोषः संयोगादिलोप—' इत्याद्युक्तेः॥", "61131": "सुद्युभ्यामिति।<\/w> उकारस्य सम्प्रसारणत्वात् 'हलः' इति दीर्घः प्राप्त 'उत्' इतितपरत्वसाममर्थ्यान्न भवति। यत्तु प्राचोक्तम्—'दिवो वा आत्वममि' इति; तदुपेक्षितम्, मुनित्रयानुक्तेर्निष्फलत्वाच्च। द्यामिति रूपं तु द्योशब्दस्यैवेति बोध्यम्॥ इति वान्ताः ॥", "61132": "अकोः किमिति।<\/w> साकच्कयोः शब्दान्तरत्वादप्रसङ्ग इति प्रश्नः। एषक इति।<\/w> 'अकोः' इति प्रतिषेध एव 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति परिभाषां ज्ञापयतीति भावः।", "61134": "बहुलग्रहणेति।<\/w> अत एव लोपं विना पादपूरणेऽपि क्वचिद्भवति— सास्मा अरम्। सः अस्मै इति च्छेदः। इति स्वादिसन्धिः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां पञ्चसन्धिप्रकरणम्॥", "63081": "सहपूर्वाह्णमिति।<\/w> साकल्येऽव्ययीभावः। गुणभूतेऽपीति।<\/w> यदि सादृश्य इति नोच्येत ततो यत्र सादृश्यं प्रधानं तत्रैव स्यात्, अव्ययार्थप्राधान्यस्याव्ययीभावे औत्सर्गिकत्वादिति भावः। अन्त इति।<\/w> इदानीमेतावान्प्रदेशेऽध्येतव्य इति यावतः प्रदेशस्य परिग्रहः कृतस्तदपेक्षया समाप्तिरिहान्तो विवक्षितः। स चासकलेऽप्यध्ययने भवतीति साकल्यात् पृथगुच्यते। अग्निशब्दस्तदर्थे ग्रन्थे वर्तते स तृतीयान्तः समस्यते। यद्यप्यग्निना सहेति प्रयोगार्हमेव तथाऽपिसाहित्यमात्रे तथा। अन्तत्वविवक्षायां तु समसो नित्यः। अत एवाग्निग्रन्थमित्यस्वपदविग्रहो दर्शितः। यत्तु अग्निरन्तोऽस्येति प्रथमान्तेनाग्नेरन्तत्वमिति षष्ठ्यन्तेन वा विग्रह इति प्रथमान्तेन षष्ठ्यन्तेन वा समास इति; तन्न, सहशब्दस्यान्तवाचकत्वाभावात्। अन्तत्वस्य तु सुतरामलाभात्। तस्याध्ययनेऽनन्वयाच्च। सहयुक्ते तृतीयाया न्यायत्वाच्च। सतृणमत्तीत्यत्र साकल्यस्येव साग्नीत्यत्रान्तत्वस्यापि साहित्यद्योत्यतया तत्र तृतीयान्तेन समासं स्वीकृत्येह तत्परित्यागस्य निर्मूलत्वाच्च।", "63110": "अह्नः साय इति।<\/w> स्यतेर्घञि अवसानवचनः सायशब्दः। 'संख्याविसाय—'इति ज्ञापकादेकदेशिसमासः। ॥ इत्यदन्ताः॥", "63111": "तृढो वृढ इति।<\/w> उदित्त्वेन वेट्कत्वात् <<यस्य विभाषा>> [[7.1.15]] इति निष्ठायां नेट्। ढत्वधत्वष्टुत्वढलोपाः। यत्तु प्राचा प्रत्युदाहृतं दृढ इति तन्न। तत्र ढलोपस्यैवाभावात्। तथा हि, <<दृढः स्थूलबलयोः>> [[7.2.20]] इति सूत्रेण दृंहेर्नकारहकारयोर्लोपः, तकारस्य ढत्वं च निपात्यते न त्वसिद्धकाण्डस्थढत्वस्येह प्रवृत्तिः <<दादेर्धातोः—>> [[8.2.32]] इति घत्वेन बाधात्। न च इडभावो ढत्वं च निपात्यतां धत्वष्टुत्वढलोपास्तु भविष्यन्त्येवेति वाच्यम्, तथा सति परिद्रढय्येत्यत्र <<ल्यपि लघुपूर्वात्>> [[6.4.56]] इति णेरयादेशो न स्यात्, पारिदृढी कन्येत्यत्र <<अणिञोः—>> [[4.1.78]] इति ष्यङ् च स्यात्, ढलोपस्यासिद्धत्वेन गुरूपोत्तमत्वादिति भाष्ये स्थितम्। यत्तु प्राचा व्याख्यातं दृंहेरेवेदं निपातनं, दृह वृद्धाविति तु प्रकृत्यन्तरम्, तस्य निष्ठायामागमशास्त्रस्यानित्यत्वादिडभावे <<वा द्रुह—>> [[8.2.33]] इत्यत्र 'वा' इति योगविभागात् पक्षे घत्वाभावे ढलोपे च प्रत्युदाहरणमिदं द्रष्टव्यमिति। तन्न। उभयोरपि निपातनाभ्युपगमात्। तदाह वामनः— अथ दृहिः प्रकृत्यन्तरमस्ति तस्याप्येतन्निपातनं नलोपवर्जमिति। युक्तं चैतत्। अन्यथा हि अस्माद् णेरय् न स्यात्, ष्यङ् च स्यात्।", "63132": "एतत्तदोर्यः सुरिति।<\/w> एतत्तदर्थगतसंख्याभिधायी यः सुस्तस्येत्यर्थः। एतत्तदोर्विहित इति व्याख्याने तु परमस ददाति, परमैष ददातीत्यादौ न स्यात्। अर्थद्वारकसम्बन्धाश्रयणे लिङ्गं तु 'अनञ्समासे' इति बोध्यम्।", "64003": "परिभाषाविरोधादिति।<\/w> एतच्च 'रुधादिभ्यः श्नम्' इति सूत्रे 'श्नान्नलोपः' इति सूत्रे च भाष्यकैयटयोः स्पष्टम्। आरम्भसामर्थ्यादिति।<\/w> 'सुपि च' इत्यस्य तु न सामर्थ्यम्। रामाभ्यामित्यादौ सावकाशत्वादिति भावः। एवं च रामशब्दे 'नामि' इत्यस्योपन्यासो लेखकप्रमादादिति यदूचुस्तच्चिन्त्यम्।", "64004": "त्रिचतुरोर्विशेषणादिति॥<\/w> श्रुतत्वाद्धि त्रिचतुरोरित्यस्यैव 'स्त्रियाम्' इति विशेषणं नाङ्गस्येति भावः। प्रियत्रिरिति।<\/w> अत्र व्याचक्षते— स्त्रिया अन्यपदार्थत्वेन बहुव्रीहिरूपमङ्गं तत्र वर्तते, त्रिशब्दस्तु पुन्नपुंसकयोरेवेति तिस्रादेशो नेत्यादि। अत्रेदं वक्तव्यम्- जहत्स्वार्थायां त्रिशब्दोऽनर्थकः। अजहत्स्वार्थायां तु स्त्रियां वर्तत एव। तत्कथं पुन्नपुंसकवृत्तिता सङ्गच्छतामिति। अत्रेदं तत्त्वम्। जहत्स्वार्थैव वृत्तिरिहाभिमता, लक्ष्यानुसारात्। तेनाङ्गं स्त्रियामिति सम्यगेव। त्रिशब्दस्य पुन्नपुंसकवाचिता तु भूतपूर्वगत्या। उत्तरपदार्थप्रधानस्तत्पुरुषः इत्यादिसिध्दान्तप्रवादस्यैवमेव निर्वाह्यत्वात्। एवं प्रियतसा पुमानित्यत्र स्त्रियां वृत्तिरपि भूतपूर्वगत्यैव। अजहत्स्वार्थापक्षे तु स्त्रीनिष्ठसंख्यासमर्पकयोस्त्रिचतुरोरिति विवक्षितोऽर्थः। 'प्रत्ययोत्तरपदयोश्च' इत्येतत्सूत्रगतभाष्यग्रन्थसन्दर्भश्चेह प्रमाणम्। अनित्यत्वादिति।<\/w> 'इकोऽचि' इत्यज्ग्रहणं चेह लिङ्गम्। तद्धि सम्बुध्दौ नुमं वारयितुं कृतम्। भ्यामादिषु सत्यपि नुमि तल्लोपसम्भवात्। सम्बुध्दिश्च लुका लुप्तेति प्रत्ययलक्षणेन नुमः प्राप्तिर्वाच्या। प्रत्ययलक्षणं च 'न लुमता' इति निषेधस्यानित्यतां विना दुर्लभमित्याकरे स्पष्टम्। न चेदमनित्यत्त्वं सम्बुद्धिगुणमात्रविषयकमित्यभिनिवेष्टव्यम्, लक्ष्यानुरोधेनान्यत्रापि क्वचित्तदभ्युपगमे बाधकाभावात्। तथा च प्रियतिसृ प्रियत्रि इति रूपद्वयमपि उक्तरीत्यैव कैयटेन समर्थितम्। पूर्वविप्रतिषेधेनेति।<\/w> न चात्र प्रमाणाभावः, प्रियतिसृणि इत्यादिभाष्योदाहरणस्यैव तत्र प्रमाणत्वात्। द्वेरत्वे सत्याबिति।<\/w> विभक्तिसन्निपातकृतमपि त्यदाद्यत्वं टापो निमित्तम्, सन्निपातपरिभाषाया अनित्यत्वात् 'न यासयोः' इति ज्ञापकाच्चेति भावः।", "64006": "इह 'छन्दस्युभयथा' इति सूत्रात् 'उभयथा' इत्यनुवर्तते। 'छन्दसि' इति तु निवृत्तम्। तेन 'चिन्ताजर्जरचेतसां बत नृणां का नाम शान्तेः कथा' 'नृणामेको गम्यस्त्वमसि' इत्यादिप्रयोगाः सङ्गच्छन्ते। केचित्तु 'छन्दसि' इत्यनुवर्तयन्ति। तदयुक्तम्, पूर्वसूत्रेणैव सिद्धे 'नृ च' इति सूत्रस्य वैयर्थ्यापत्तेः। यदपि पूर्वसूत्रे 'तिसृचतसृ' इत्यनुवर्तयन्ति; तदप्ययुक्तम्, अविशेषेण विकल्पदर्शनात्। तथा च 'धाता धातृणाम्' इति मन्त्रे तैत्तिरीयैह्रस्वः पठ्यते, बह्वृचैस्तु दीर्घ इति दिक्। ॥ इत्यृदन्ताः ॥", "64007": "नेति लुप्तषष्ठीकमङ्गस्य विशेषणम्। गौणत्वे त्विति।<\/w> बहुवचननिर्देशस्यार्थप्राधान्यार्थत्वादिति भावः। प्रियपञ्चामिति।<\/w> ञकारद्वयमध्ये चकारः।", "64010": "सान्तेति पृथक्पदं लुप्तषष्ठीकं संयोगस्येत्यनेन समानाधिकरणमिति व्याचष्टे— उपधाया इति।<\/w> उपधाग्रहणं पूर्वमात्रोपलक्षणं पारिभाषिकार्थस्येहासम्भवात्। मासश्छन्दसीति।<\/w> मासित्यस्य तकारः स्यात् भादौ प्रत्यये छन्दसीति वाक्यार्थः। 'माद्भिः शरद्भिर्दुरोदरं तव' इत्युदाहरणम्।", "64011": "नियमार्थमिति।<\/w> अन्येषां संज्ञाशब्दानां मा भूदित्येतदर्थमित्यर्थः। क्रोष्टेति।<\/w> अनङ्। हल्ङ्यदिलोपात्परत्वादुपधादीर्घः। स च 'सर्वनामस्थाने च' इत्यनेन यद्यपि लभ्यते तथापि परत्वात् 'अप्तृन्' इत्येव न्याय्यः। कृतेऽप्यनङि एकदेशविकृतस्यानन्यत्वेन तृच्त्वात्। अन्यथा गुणे कृतेऽपि दीर्घो न स्यादिति भावः।", "64012": "उपधाया इति।<\/w> उपधादीर्घस्यैवायं नियमः। तेन 'वृत्रहायते' इत्यत्र 'अकृत्सार्वधातुकयोः' इति दीर्घो भवत्येव। तथा 'वृत्रहणी' इत्यत्र 'अनुनासिकस्य क्विझलोः' इति यो दीर्घः सोऽपि नियमेन व्यावर्त्यते, उपधादीर्घमात्रापेक्षया नियमविज्ञानादिति भावः। 'हन्तेरत्पूर्वस्य' इति सूत्रं योगविभागेन व्याचष्टे—'हन्तेः'। प्रसङ्गादस्योदाहरणमाह—प्रहण्यादिति। प्रकृतोपयुक्तमंशमाह-", "64014": "इहाऽधातोरिति योगो विभज्यते। तत्साममर्थ्यादनन्तरस्याऽसन्तस्यैव प्रतिषेधो, नाऽत्वन्तस्येति कैयटहरदत्तादयः। तदेतद्दर्शयति—धातुभिन्नाऽसन्तस्येति।", "64024": "ङकार इति।<\/w> आन्तरतम्यादिति भावः।", "64077": "इह य्वोरिति धातोरेव विशेषणं न तु श्नुभ्रुवोरव्यभिचाराद् इत्याह— इवर्णोवर्णान्तधातोरिति।<\/w> श्नुप्रभृतीनामिवर्णोवर्णयोरिति व्यख्याने तु इयङुवङोर्ङित्त्वं व्यर्थं वैयधिकरण्यं च दोषः। क्षिपति अद्युतत् दिदिवतुः ऊयतुः इत्यादौ चातिव्याप्तिः। तद्वारणाय इवर्णोवर्णयोरच्परत्वेन विशेषणे तु क्लिष्टतेति भावः। आन्तरतम्यादिति।<\/w> स्थानत इति भावः।", "64080": "इयादेश इति।<\/w> अजादौ य इयादेशो विहितः स उपसर्जनत्वे पुंसि विद्यमानस्य स्त्रीशब्दस्यौसादिषु चतुर्ष्वेव न त्वन्यत्र, गुणनाभावादिभिः पूर्वोक्तैर्बाधितत्वादित्यर्थः।", "64082": "'अचि श्नुधातु' इति सूत्रे द्वन्द्वनिर्देशेऽपि धातुरेवेह सम्बध्यते न तु श्नुभ्रुवौ, तयोरिवर्णासम्भवात्। धातुग्रहणं चावृत्त्या उभयोर्विशेषणं संयोगस्य चाङ्गस्य चेति व्याचष्टे— धात्ववयवसंयोगेत्यादि।<\/w> तत्र धातुना संयोगस्य विशेषणादिह यण्—उन्न्यौ, उन्न्यः। अङ्गविशेषणन्तु 'हरिम्, हरी, हरीन्' इत्यादिसिद्धये। यदि हि धातुनाङ्गं न विशेष्येत तर्हि इहापि 'प्रद्ध्यं, प्रद्धयः' इत्यादाविव पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यण् स्यात्। धात्ववयवसंयोगपूर्वको न भवति य इवर्णस्तदन्तत्वादङ्गस्य। वृश्चिकशब्दस्येति।<\/w> भाष्यकृता हि बुध्दिपरिकल्पितमपायमाश्रित्य 'भीत्रार्थानाम्' इति सूत्रं प्रत्याख्यातम्, ततश्च सम्बन्धमात्रविवक्षायां षष्ठ्येवेति भावः। सूत्रमतेऽप्याह-", "64084": "वर्षाभूशब्दस्य नित्यस्त्रीत्वात् स्त्रीलिङ्गप्रकरण एव एतत्सूत्रं वक्तुं युक्तम्। पुल्लिङ्गे तु क्रियाशब्दाभिप्रायेण कथंचिद्योज्यमिति व्याचख्युः, तद्रभसात्। दर्दुरे हि पुल्लिङ्गोऽयम्— भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः। इत्यमरोक्तेः। भिन्नलिङ्गानां न द्वन्द्व इति तेन परिभाषितत्वात्, भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान्॥ इति यादवकोशाच्च। दर्दुरे षणीति पाठान्तरम्। षणीति पुल्लिङ्गस्य प्राचां संज्ञा। दृभतीति। दृभी ग्रन्थे तुदादिः। व्युत्पादित इति।<\/w> यद्यप्युज्ज्वलदत्तेन दृम्फूरिति पवर्गद्वतीयं पठित्वा दृम्फेर्नलोपाभावो निपात्यते इति व्याख्यातं, तथाऽपि वृत्त्यन्तरेषु दृभी ग्रन्थे इत्यस्मात् डूप्रत्यये नुमागमो निपात्यते इत्युक्तम्। एतच्च माधवग्रन्थे स्पष्टम्। दशपादीवृत्तौ तु दर्भणं दृम्भूः, नुमागमोऽनुस्वारश्च निपात्यते इत्युक्तम्। अयमूकारो न धातोरित्युवङोऽप्रसङ्गात् 'इको यणचि' इति यण्। स च ''अमि पूर्वः' 'प्रथमयोः पूर्वसवर्णः' इत्याभ्यां बाध्यत इत्याशयेनोदाहरति— दृम्भूमित्यादि।<\/w> न चेह 'दृन्कर' इति यण् शङ्क्यः, तत्र अर्थवत एव ग्रहणात्। अस्य तु दृन्शब्दस्य भूशब्दस्य च अनर्थकत्वादिति भावः। एवं चायं हूहूवदिति फलितम्। श्रीपतिमतेनाह— दृन्निति।<\/w> माधवस्तु—'अन्दूदृन्भू'इत्यादिसूत्रेण दृढशब्दे उपपदे कूप्रत्ययः, उपपदस्य दृन्नादेशश्च निपात्यते इत्याह- दृन्भूरिति। तरुः सर्पजातिभेद इति केचित्। कपिरित्यन्ये। दृन्करेति।<\/w> अत्र दृन्निति नान्तपाठो मुख्यः। मान्तपाठोऽपि केषांचित्। वक्तव्य इति।<\/w> 'वर्षाभ्वश्च' इति। चकारोऽनुक्तसमुच्चयार्थः। अनुक्तं च भाष्यवार्तिकबलान्निर्णेयमिति भावः। तथा च वर्षाभूपुनर्भ्वश्चेति वार्तिकं व्याख्याय भाष्यकार आह— अत्यल्पमिदमुच्यते, वर्षादृन्कारपुनः पूर्वस्य भुव इति वक्तव्यमिति। वामनेन तु दृन्शब्दो न पठित एव। एवं स्थिते यत्प्राचा दृक्कारेति पठितं, यच्च तत्पौत्रेण महाभाष्यकारवचनमर्थतोऽनुवदति इत्युक्तम्। यच्चान्यैर्वार्तिकेन पूरितमर्थमुदाहरतीत्यवतारितं, तत्सर्वं रभसकृतमेव। न च भाष्येऽपि दृगित्येव पाठ इति भ्रमितव्यम्। अन्दूदृन्भू इति निपातित इति माधवग्रन्थेन कैयटादिग्रन्थैश्चविरोधापत्तेरिति यत्किंचिदेतत्। दीर्घपाठे इति।<\/w> अयं च भाष्यवृत्त्यादिबहुग्रन्थसंमतः पाठः। अनुस्मृतौ तु ह्रस्वः पठ्यते। यत्तु तद्विवृत्तावुक्तम्—एकदेशविकृतस्यानन्यत्वात् कारपूर्वस्यापि सिद्धमिति। तन्न, तथाप्यण्प्रत्ययविशिष्टस्यान्यत्वात्। न ह्यण्प्रत्ययोऽपि विकारः। तस्माद्ध्रस्वपाठे कारपूर्वकस्य उवङेव, तथा दीर्घपाठे करपूर्वस्य उवङिति विवेकः। स्वयम्भूवदिति। प्राचा तु दृन्भूकाराभूशब्दौ वर्षाभूशब्दवदुदाह्मतौ। तन्निर्मूलत्वादुपेक्ष्यमिति भावः।", "64085": "अल्लोपयलोपाविति।<\/w> न च परत्वात् 'वेरपृक्तस्य' इति स्यदिति वाच्यम्, 'वेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन' इति वार्त्तिककारोक्तेः। क्वौ लुप्तमिति।<\/w> नपुंसके भावे क्तः। क्वौ लोप इत्यर्थः। इदं सर्वं कुमारीमिच्छन् कुमारीत्यत्रापि बोध्यम्। अनन्यतयेति।<\/w> गौणत्वेऽपि अनङ्णित्त्वयोः प्रवृत्तेरुक्तत्वाच्चेति बोध्यम्। दीर्घस्यपीति।<\/w> एतदर्थं कृतयणादेशनिर्देश इति भावः। नन्वतिसखेः, भूपतेः इति गुणविषये व्यावर्तयितुं यणा निर्देश इति चेत्? अस्त्वेवम्, तथाऽपि दीर्घे प्रवृत्तेर्दुर्वारत्वात्। न हि ह्रस्वेषु भाव्यं न दीर्घेष्वित्यत्र प्रमाणमस्ति। सौत्रस्य विकृतनिर्देशस्याव्याप्त्यतिव्याप्त्युभयवारकत्वेन तत्सारवत्त्वलाभेन तथैवौचित्याद् भाष्यारूढत्वाच्च। यत्तु प्राचा वेति केचित् इत्युक्त्वा सख्युः इत्याद्युक्तम्। यच्च तद्व्याख्यातृभिरुभयमप्येतद्भाष्ये स्थितमित्युक्तम्। यच्चात्रोपष्टाम्भार्थं प्रसादकृता— सख्युः पत्युः प्रसिद्ध्यै यत् ख्यत्यादित्याह पाणिनिः। साधारणं तन्मन्वानाः सुख्युः सुत्युः सखीः सुतीः॥ सुखीयतिसुतीयत्योर्यौ क्विबन्तौ तयोर्विदुः। निष्ठादेशस्य पूर्वत्रासिद्धत्वाल्लून्युरादिकम्॥ सुख्य इत्यादि साध्वेतदुभयं भाष्यगौरवात्। इति विचारचिन्तामणिस्थश्लोकोपन्यसनं कृतं, तदेतत्सकलं भाष्यकैयटापर्यालोचनमूलकमिति कृतबुध्दय एव विदांकुर्वन्तु। शुष्किय इति।<\/w> यत्तु शुष्क्युः, पक्व्युः, शुष्क्यः, पक्व्यः, इत्याद्युदाजह्रुः, भाष्ये स्थितमिति चोपसंजह्रुः, तदतिरभसात्॥ <<तृज्वत्क्रोष्टुः>> [[7.1.95]] क्रुश आह्वाने। अस्मात् 'सितनि' इति तुन्प्रत्यये क्रोष्टुशब्दः, तृचि तु क्रोष्टृशब्दः। द्वावपि शृगालवाचिनौ। तत्राविशेषेण द्वयोः प्रयोगे प्राप्ते सर्वनामस्थाने स्त्रियां च तृजन्त एव, तृतीयादावच्युभयम्, अन्यत्र तु तुन्नन्त एवेति, नियमार्थं त्रिसूत्री आरभ्यते। क्रोष्टुरिति तुन्नन्तात् प्रथमा। तृजन्तात् प्रथमा। तृज्वदिति तृतीयान्ताद्वतिः। निमित्तव्यपदेशतादात्म्यशास्त्रकार्यरूपविषयकत्वेनातिदेशस्य षड्विधित्वेऽपि प्राधान्यादिह रूपमेवातिदिश्यते। तच्च न पचादेर्यस्य कस्यचित् किं तु क्रुशेरेव, उपस्थितत्वादर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह—", "64127": "ऋधातोर्विचि गुणे च अरिति रूपम्, तस्मान्मतुपि अर्वन्तावित्यादि सेत्स्यति। 'छन्दसीवनिपौ' इति वनिपि वेदे अर्वेति। लोके तु ऋधातोरेव वनिपि सेत्स्यति। रूढिशब्दश्चायम्। 'वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरकोषात्। अतोऽर्थोऽपि न भिद्यते। तथापि नान्ततान्तयोः सर्वत्र प्रयोगे प्राप्ते व्यवस्थार्थमिदं सूत्रं, 'तृज्वत्क्रोष्टुः' इति त्रिसूत्रीवत्। यत्तु हरदत्तेनोक्तम्- 'अर्वन्मघवन्शब्दयोर्द्वयोरपि भाषायामसाधुत्वमेव 'अर्वणस्तृ मघोनश्च' इत्यादि भाष्यादिति; तदापाततः। भाष्यस्य विशेषविषयतायाः प्रागेवोक्तत्वात्। तथा च श्रीहर्षः— 'वाहैरलुप्यत सहस्रदृगर्वगर्वः' इति प्रायुङ्क्त। ननु 'गुणा अभेदका' इति पक्षे सूत्रेऽननुनासिकोच्चारणेऽपि आन्तरतम्यादनुनासिकः स्यादित्याशङ्क्याह—", "64128": "'अर्वणस्त्रसावनञः' इति सूत्रात् तृ इत्यनुवर्तते। तदपेक्षया च मघवेति षष्ठ्यर्थे प्रथमा। तदाह—", "64130": "तदवयवस्येति।<\/w> 'निर्दिश्यमानस्यादेशा' इति परिभाषयेदं लभ्यते॥ अग्निं मन्थतीति।<\/w> मथ्नातेर्मन्थतेश्च क्विपि एतदेव रूपम्। इदितस्तु नलोपाभावात्। अग्निमन्, अग्निमन्थौ, अग्निमन्थः॥", "64131": "सेदिवानिति।<\/w> 'भाषायां सदवसश्रुवः' इति क्वसुः। सेदुष इति।<\/w> ननु 'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' इति परिभाषया 'विदेः शतुर्वसुः' इत्यस्यैव वसोः सम्प्रसारणं युक्तं न तु क्वसोः; सत्यम्। वसोरुकारानुबन्धग्रहणं क्वसोः सामान्यग्रहणार्थम्, उगित्त्वस्य स्थानिवद्भावेनापि सिद्धेः। इह गमिप्रभृतिभ्यः क्वसुर्नोदाहृतश्छान्दसत्वात्। कवयस्तु प्रयुञ्जते। 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' 'तं तस्थिवांसं नगरोपकण्ठे' इत्यादि, 'छान्दसा अपि क्वचिद्भाषायां भवन्ती'ति 'मासश्छन्दसि' इति सामान्यापेक्षज्ञापकमाश्रित्य कथंचित्समाधेयम्।", "64132": "वाह ऊठ्<\/w> 'वसोः सम्प्रसारणम्' इत्यतोऽनुवृत्तं सम्प्रसारणमूठो विशेषणम्। तेन 'अलोऽन्त्यस्य' इति न। यत्तु प्राचा वाशब्दस्येत्युक्तम्। नासौ सूत्रार्थः, किन्तु कथंचित्फलितार्थकथनपरतया नेयम्।", "64134": "अङ्गावयव इत्यादि।<\/w> भस्येत्यनेनाक्षिप्तः प्रत्ययविशेषोऽङ्गं चेति द्वयमनो विशेषणम्। अन् तु अकारस्य, अतो नोक्तदोष इति भावः। एतच्च 'ष्यङः सम्प्रसारणम्' इति सूत्रे भाष्ये स्पष्टम्। <<रषाभ्याम्>> [[8.4.1]] पदे इतीयतैव सामर्थ्यादेकपदत्वे लब्धेऽपि समानग्रहणं यत्समानमेव, अखण्डमिति यावत्। तत्र यथा स्यात्तेन समासे न भवति। रामनाम। यूष्ण इति। यूषो मण्डः। 'मुद्गामलकयूषस्तु भेदी दीपनपाचनः' इति दर्शनात्।", "64136": "शीति 'नपुंसकाच्च'इति विहितो न तु जश्शसोः शिः, तस्मिन् भत्वासम्भवात्। 'भस्य' इत्यनेनासर्वनामस्थानस्यैव यजादेराक्षेपात्तदेतदाह— अत एवेति।<\/w> दोषणी इति प्रयोगात्। यद्यपि समाहारद्वन्द्वस्य एकशेषे कृतेऽपि भाष्यं सुयोज्यं, तथाऽपि ककुदित्यस्य पृथक्पदत्वं न्याय्यम्। अन्यथा ककुद एकत्वं बाह्वोर्द्वित्वं च न लभ्येत इति भावः। 'तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः' इति रघुः। तत्र दक्षिणं दोरिति उद्यम्येत्यनेन कर्मतया सम्बध्यते। दोषं तस्येति।<\/w> 'दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुणम्'। इति श्रीहर्षप्रयोगः। तत्र दोषं हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीमतिशयं च गृह्णन् इति सम्बन्धः। अमरव्याख्यातारस्तु— दोषशब्दं स्त्रियामपि स्वीकृत्य भागुरिमतेन टापि दोषेत्युक्त्वा— 'दोर्दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा' इति धनञ्जयनिघण्टुमुदाजह्रुः। द्वयोरह्नोर्भव इति। 'तद्धितार्थ' इति समासः, कालाट्ठञ्। 'द्विगोर्लुगनपत्ये' इति लुक्। 'राजाहःसखिभ्यः' इति टच्। 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः।", "64139": "अच इत्यस्यापवादः॥ चान्ताः॥", "64140": "हाहानिति।<\/w> गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम्। कौमारास्तु—जहातीति हाहा इति क्रियाशब्दं वदन्तो विश्वपावद्रूपमाहुः। तन्मते प्रत्युदाहरणं तु 'अकारो वासुदेवः स्यात्' तेन सह वर्तन्त इति साः, तान् सान् इति बोध्यम्। ॥ इत्यादन्ताः॥ इदुद्भ्यामुत्तरस्य इत्यादिना।<\/w> घेरुत्तरस्येति नोक्तम्। सूत्रे 'घेः'इत्यस्य षष्ठ्यन्तत्वात्। तन्त्रावृत्त्यादौ च प्रमाणाभावात् 'औत्' इति पूर्वसूत्रे इदुद्भ्यामित्युत्तरस्य ङेरिति क्लृप्तसम्बन्धस्य त्यागायोगाच्च। औत्स्यादिति।<\/w> अत्र व्याचख्युः— औतस्तित्वं स्वरितार्थम्। 'न विभक्तौ' इतीत्वनिषेधस्तु न भवति, अनित्यत्वात्। अनित्यत्वं च 'इदमस्थमुः' इति थमो मकारस्येत्संज्ञापरित्राणार्थादुदित्करणाल्लभ्यत इति तत्रैवोक्तमिति। तच्चिन्त्यम्। 'विभक्तौ' इति सूत्रे ङेरौतस्तकार उच्चारणार्थो नेत्संज्ञ इति स्वयमेवोक्तत्वेन पूर्वापरविरोधात्। युक्तं चोच्चारणार्थत्वं न तु स्वरितार्थत्वम्। 'स्तीर्णे बर्हिषि समिधाने अग्नौ' इत्यादौ स्वरितत्वादर्शनात्। 'अत्' इति तपरत्वं तु बुध्दावित्यादावत्वे कृते स्त्रियां टाब् मा भूद् इत्येतदर्थमित्याहुः। तदपि चिन्त्यम्। तपरग्रहणाद्धि टापा सह दीर्घो मा भूत्। टाप् तु स्यादेव, लक्षणद्वयबाधे मानाभावात्। अत एव 'कृन्मेजन्तः' इति सूत्रभाष्यवार्त्तिकयोर्विवरणे च सन्निपातपरिभाषया टाब् नेत्युक्तम्। टापा व्यवधाने हि आनन्तर्यविघातः स्यादिति। तस्माद् औत इव अतोऽपि तपरकरणमुच्चारणार्थमेवेत्यवधेयम्। दीर्घाविति। परमिति।<\/w> न त्विदं विहितविशेषणं या, सा, का इत्यादावव्याप्तेः। न च तत्र हलन्ताद्विहितत्वेन निर्वाहः। यः, स इत्यादावतिव्याप्तेः 'कर्ता' इत्यादावव्याप्तेश्चेति भावः। हलिति।<\/w> तस्य च सुतिसीत्येवंरूपत्वमेकदेशविकृतन्यायेन बोध्यम्।", "64143": "अन्यतमस्य त्विति।<\/w> एवं च 'सामान्यादिष्वन्यतमम्' इत्यादिप्रयोगाः प्रामादिका एवेति भावः। सोरमादेशे इति।<\/w> यत्तु प्राचोक्तम्—स्वमोरमादेशे वा जरसिति, तद्भाष्यविरुध्दम्। एवं च अजरसं वर्तते इति, हे अजरसमिति चापशब्द एव। अजरसं पश्येति तु प्रयोगः साधुः। किं तु अमादेशे कृते जरस् इति प्राच उक्तिरेवासाध्वी, परत्वाज्जरसो न्याय्यत्वात् पूर्वविप्रतिषेधे प्रमाणाभावाच्च।", "64148": "इश्च अश्च यं तस्य। तदाह- इवर्णावर्णयोरिति।<\/w> <<जश्शसोः>> [[7.1.20]] जसा साहचर्यात् शसपि सुबेव गृह्यते। तेनेह न, कुण्डशो ददाति। <<शि>> [[1.1.41]] शीत्यविभक्तिको निर्देशः। महासंज्ञाकरणं पूर्वाचार्यानुरोधात्।", "64150": "उपधाभूतस्येति।<\/w> ननु 'यस्येति च' इति यञोऽकारलोपे कृते यकारस्य ईकारपरत्वमस्त्येव किमुपधाग्रहणानुवृत्त्या? न चाल्लोपस्य स्थानिवद्भावः, यलोपे तन्निषेधात्; मैवम्, यलोपे कार्ये अल्लोपस्याऽऽभीयत्वेनाऽसिद्धत्वात्। अनपत्येति।<\/w> यद्यपि 'आपत्यग्रहणं कर्तव्यम्' इति वार्तिकन्तथाऽपि अपत्याधिकारविहितपरं तत्। तादृशश्च गर्गादियञेव, न तु देवाद्यञ्। तस्यापत्याधिकारात् प्रागेव पाठात्। अत एव भाष्यकृता 'कञ्क्वरपोऽयञञ्च' इति 'गर्गादिभ्यो यञ्' इति च अकारः प्रश्लिष्टः। 'यस्कादिभ्यो गोत्रेऽयञञोश्च' इति सूत्रेऽप्येवम्॥", "71002": "फकारादिष्कार उच्चारणार्थः। आयनीनोर्नकारस्य नेत्त्वम्, फिनो नित्करणसामर्थ्यात्।", "71009": "नन्वेस् इत्येवास्तु। न च 'अतो गुणे' इति पररूपापत्तिः। एकारोच्चारणवैयर्थ्यापत्तेः। अन्यथा इसमेव विदध्यदिति चेत्? सत्यम्, एदैतोर्द्विमात्रत्वाविशेषेण गौरवाभावादैस् कृतः। एवं च पररूपशङ्कैव नास्तीति महल्लाघवम्। यत्त्वाहुः—ऐस्करणं निर्जरसैरित्यैकारश्रवणार्थमिति। तद्भाष्यविरुद्धम्। सन्निपातपरिभाषया जरसादेशाप्रवृत्तेर्निर्जरैरित्येव भाष्ये सिद्धान्तितत्वात्।", "71016": "अत्रेदमवधेयम्। एतत्सूत्रं 'जसः शी' इत्यत्रानुवर्त्य वाक्यभेदेन व्याख्येयम् 'वा च्छन्दसि' इत्येतत् 'अमि पूर्वः' इत्यत्र यथा । एवं चाष्टाध्याय्यां 'पूर्वपर—'इत्यादित्रिसूत्री गतार्थेति महल्लाघवम्। एकशब्दस्याष्टावर्था उक्तास्तत्र विशेषमाह— संख्यायामिति।<\/w> अन्येषु सप्तसु तु वचनान्तरमपि स्यादेव, एके, एकेषामिति यथेति भावः।", "71017": "अनेकाल्त्वादिति।<\/w> न तु शित्त्वादिति भावः।", "71018": "रमेति।<\/w> लिङ्गविशिष्टपरिभाषया प्रातिपदिकत्वात् स्वादयः। यत्तु आबन्तादिति। यच्च व्याचख्युः- प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि पृथङ् ङ्यापोर्ग्रहणात् इत्यर्थ इति तन्न, ङ्याब्ग्रहणस्यान्यार्थतायाः प्रागेवोक्तत्वात्।", "71019": "भसंज्ञायामिति।<\/w> 'सुडनपुंसकस्य' इति पर्युदासेनासर्वनामस्थानत्वादिति भावः।", "71021": "कृताकारादिति।<\/w> ननु हलीत्यपकृष्यत इत्युक्तम्, तत्कथं कृताकारतेत्यत आह- अष्टभ्य इति।<\/w> कृतात्वस्येदमनुकरणं, न तु लक्षणवशसम्पन्नमात्वम्। तथा हि सति वक्ष्यमाणज्ञापकेन तस्य वैकल्पिकतया लाघवार्थमष्टभ्य इत्येव ब्रूयादिति भावः। इदमिति।<\/w> श्रुतमनुमितं चेत्यर्थः। अष्टनो दीर्घादिति।<\/w> दीर्घान्तादष्टनः परा असर्वनामस्थानविभक्तिरुदात्ता स्यात्। अष्टाभिः। दीर्घात् किम्? अष्टभिः। मध्योदात्तमिदम्। 'षट्त्रिचतुर्भ्यो हलादि'रिति बाधित्वा 'झल्युपोत्तम'मित्यस्य प्रवृत्तेः। 'षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यादिति तस्यार्थः। एवं स्थिते ह्रस्वव्यावृत्त्यर्थं क्रियमाणमात्वस्य नित्यत्वे व्यर्थं स्यादित्यर्थः। पूर्वस्मादपीति।<\/w> एवञ्च प्रियाष्ट्ण इति हरदत्तेनोदाहृतं ष्टुत्वं न भवतीति भावः। न च 'पूर्वत्रासिद्धीये न स्थानिवत्' इति निषेधः, तस्य दोष इति सापवादत्वात्। ननु ' रषाभ्याम्' इति प्रतिपदोक्तं णत्वं तत्र ग्रहीष्यामः, न तु ष्टुत्वविधिलभ्यमिति चेत्? मैवम्। भाष्यमते तदयोगात्। तथा हि—'रषाभ्याम्' इति सूत्रे 'अपदान्तस्य मूर्धन्यः' इति सूत्रमनुवर्त्य णग्रहणं; 'पदान्तस्य' इति निषेधसूत्रं च भाष्ये प्रत्याख्यातम्। न च मूर्धन्यशब्देन ष्टुत्वशब्देन वा निर्वर्त्यमाने णकारे वैषम्यं सुवचम्; यथोत्तरं मुनीनां प्रामाण्यमिति स्थानिवद्भाव एवोचितः। शब्दकौस्तुभे 'तस्य दोषः' इत्यत्र णत्वग्रहणं मास्त्वति निष्कर्षः कृतस्तद्रीत्याप्याह— कार्यकाल पक्ष इति।<\/w> न च यथोद्देशमाश्रित्य ष्टुत्वमस्त्विति वाच्यम्। फलभेदे प्रत्याख्यानासम्भवेन कार्यकालपक्षस्यैवेह न्याय्यत्वादिति भावः। अत एव पञ्चमीसमासस्य प्रत्याख्यानोपष्टम्भेनापि ष्टुत्वं प्रत्याशा न कार्या। फलैक्याय कार्यकालपक्षस्यैव न्याय्यत्वेनासिद्धत्वस्य दुर्वारत्वात्। 'निष्ठायां सेटि' इति सेड्ग्रहणाज्ज्ञापकात् पूर्वस्माद्विधौ स्थानिवद्भावस्याऽनित्यतया नेह प्रवृत्तिरिति तु अनित्यत्वपुरस्कारोऽनुचित एवेत्यास्तां तावत्। जश्शसोरिति।<\/w> औश्त्वं हि लुग्नुटाविव गौणत्वे न भवति। अष्टाभ्य इति बहुवचननिर्देशात्। अन्यथा हि कृताऽऽत्वानुकरणेऽपि एकवचनेनैव निर्दिशेत्- अष्टा औशिति, अष्ट इति वा। एतच्च 'ष्णान्ता षट्' इति सूत्रे भाष्यकैयटयोः स्पष्टम्। तथा च औश्त्वविधौ कृतात्वनिर्देशबलेनानुमीयमानमात्वमपि प्राधान्ये एवोचितम्। तथा च जसि प्रियाष्टान इत्येव स्यान्न तु प्रियाष्टा इत्याशङ्क्योक्तं भाष्ये 'यथालक्षणमप्रयुक्ते' इति। न भवत्येवात्रात्वमित्यर्थ इति कैयटः। वामनोऽपि 'अष्टाभ्य औश्' इति सूत्रे तदन्तग्रहणात्परमाष्टावित्युक्त्वा प्रियाष्टान इत्यत्राऽऽत्वस्याभावादौश्त्वं न भवतीत्याह। हरदत्तस्तु—तत्रैव 'प्रियाष्टान इत्यत्र' इति वृत्तिग्रन्थमुपादाय यथा पुनर्गौणतायामात्वं न भवति तथा तद्विधावेव वक्ष्यत इति प्रतिज्ञाय 'अष्टन आ विभक्तौ' इति सूत्रे एकवचननिर्देशादुपसर्जनेऽप्यात्वम्, भविषये आतो लोपः प्रियाष्टः पश्येत्यादि वदन् पूर्वप्रतिज्ञातार्थविपरीतं भाष्यवृत्त्यादिविरुद्धं कथमभिहितवानिति स एव प्रष्टव्यः। हलादावेवेति।<\/w> यद्यपि हलीत्यस्यापकर्षणमकृत्वाऽपि व्याख्यानं भाष्ये प्रतीयते। तथाऽपि तस्याऽपरितोषग्रस्तत्वं प्रपञ्चितमन्यत्रेति भावः। प्रियाष्टा इति प्रथमैकवचनम्। उक्तं संगृह्णाति प्रियाष्ट्न इति॥ नान्ताः ॥ भुदिति।<\/w> बुध्यतेः क्विप्॥ धान्ताः ॥", "71022": "बहुवचननिर्देशोऽर्थप्राधान्यसूचनार्थः। षडर्थगतसंख्याभिधायिनोरिति फलितोऽर्थः।", "71023": "अयं लुक् पूर्वविप्रतिषेधेन त्यदाद्यत्वस्य, किमः कादेशस्य च बाधकः। परत्वाद्धि त्यदाद्यत्वेऽम्भावेन तं कुलमिति स्यात्।", "71024": "स्वमोरिति।<\/w> अमोऽम्विधानं लुग्बाधनार्थम्। अम् स्यादिति।<\/w> एतच्च प्राचामनुरोधाद् व्याख्यातम्। संयोगान्तलोपो झल इत्यभिप्रायेण वा। वस्तुतस्तु म् इत्येव पदच्छेदो लाघवात्। तत्र सोर्मे कृते ज्ञानमिति सिद्धम्। द्वितीयैकवचने तु 'आदेः परस्य' इत्यकारस्य मकारे कृतेऽन्त्यस्य मस्य संयोगान्तलोपे सिद्धमिष्टम्। यत्तु वदन्ति— एवं सति 'सुपि च' इति दीर्घत्वं स्यादिति। तन्न, सन्निपातपरिभाषाविरोधात्। यदपि दीर्घविधौ सा न प्रवर्तत इति । तदपि न, 'रुधादिभ्यः श्नम्' 'श्नान्नलोपः' इति सूत्रयोः 'सुपि च' इति दीर्घत्वे सन्निपातपरिभाषाप्रवृत्तेर्भाष्यकृता ध्वनितत्वात् कैयटेनोपपादितत्वाच्च। यदप्याहुः—अतिजरसमिति न सिद्ध्येदिति। तदपि न, द्वितीयैकवचने हि 'अतोऽम्' इति बाधित्वा परत्वाज्जरसि कृते सन्निपातपरिभाषया लुकोऽप्रवृत्तौ रूपसिद्धिः स्पष्टैव, प्रथमैकवचने तु अतिजरसमित्येवेष्यते, सन्निपातपरिभाषया जरसादेशस्याप्रवृत्तेः। अत इति तकार उच्चारणार्थः।", "71027": "शित्त्वं सर्वादेशार्थम्। अन्यथा हि 'आदेः परस्य' इति स्यात्। न च वैयर्थ्यम्, आदेशव्यपदेशेन यत्वनिवृत्त्यर्थत्वात्। न चावयवस्यादेशे सत्यपि विभक्तेरनादेशताऽस्त्येवेति वाच्यम्? 'सर्वे सर्वपदादेशा' इति सिद्धान्तात्। इदमेव शित्त्वं 'सर्वे सर्वपदादेशा' इति। अर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यर्थः। सिच्चङादयस्तु वचनसाममर्थ्यादनर्थकस्यापि बोध्याः। इत्थं त्ववधेयम्- अन्त्यलोपपक्षे अशः स्यादेशः प्रप्तोऽङ्गवृत्तपरिभाषया वारणीयः। यदि त्वङ्गस्य यत्कार्यं तद्विषयिण्येव सा परिभाषा, न त्वङ्गाधिकारमात्रपरेति दुराग्रहस्तर्हि अशित्यत्र 'अतो गुणे' इति पररूपेणाकारान्तरं प्रश्लिष्याऽकाररूप एव अश् भवति, न विक्रियते इति व्याख्येयम्। यत्तु स्यादेशस्यापवादोऽशिति; तन्न, अशादेशप्रवृत्तिकाले शेषे लोपाभावेन स्यादेशस्याप्रसक्तेः॥", "71028": "ङे इति पृथक्पदं लुप्तषष्ठीकम्। प्रथमाशब्दः प्रथमाद्वितीययोः समुदाये गौण इति व्याचष्टे— ङे इत्यस्येत्यादिना।<\/w> ङे सुटोरम् इति सुवचम्।", "71029": "अविभक्तिकमिति।<\/w> तथा च 'ङे प्रथमयोः' इति पूर्वसूत्रेण प्राप्तस्याऽमः प्रतिषेधोऽयमिति भाष्ये शङ्कितम्। न च तथैव किं न स्यादिति वाच्यम्? स्त्रीनपुंसकयोर्नत्वाप्राप्तेः- युष्मान् ब्राह्मणीः कुलानि वा, अलिङ्गत्वे युष्मान् ब्राह्मणानित्यादेरसिद्धिप्रसङ्गाच्च।", "71030": "पक्षद्वयेऽपीति।<\/w> न चान्त्यलोपपक्षे पररूपं बाधित्वा सवर्णदीर्घः स्यादकारोच्चारणसाममर्थ्यादिति वाच्यम्? एत्वनिवृत्त्याऽकारोच्चारणस्य चरितार्थत्वात्।", "71033": "भाविन इति।<\/w> कृते हि शेषे लोपेऽकारान्तत्वात्प्राप्तः सुट् ससुट्कस्य स्थानित्वेन निर्देशसाममर्थ्यान्निवर्तत इति भावः। शेषे लोपष्टिलोप इति पक्षे तु सुड्ग्रहणं व्यर्थमेव। आकमि दीर्घोच्चारणं सवर्णदीर्घार्थम्। अन्यथा पररूपं स्यात्। न चाऽकारोच्चारणसामर्थ्यम्। एत्वनिवृत्त्याऽभ्यम इव चरितार्थत्वात्। इह 'युवावौ द्विवचने' 'त्वमावेकवचने' इति सूत्रद्वये द्विवचनैकवचनशब्दौ न प्रत्ययपरौ, किं त्वर्थपराविति व्याख्यातम्। तत्फलं दर्शयति— द्व्येकत्वेति।<\/w> पञ्चकं प्रातिपदिकार्थ इति पक्षे सङ्ख्याया अपि प्रातिपदिकार्थत्वादितिभावः। समासार्थो—<\/w> मुख्यविशेष्यम्। अन्यसङ्ख्यश्चेत्-<\/w> -युष्मदस्मदर्थगतसङ्ख्येतर-सङ्ख्यश्चेदित्यर्थः। स्त इति।<\/w> अर्थपरत्वाश्रयणसामर्थ्यादेव भूतपूर्वगतेरपि स्वीकारात्। प्रत्ययपरत्वे तु न स्यातामित्यव्याप्तिः स्यादित्यर्थः। एवं चतुर्थश्लोकेऽपि— युवावौ त्वमौ न चे<\/w> त्युक्त्या प्रत्ययपरत्वेऽतिव्याप्तिर्ध्वनिता। एवञ्चाव्याप्त्यतिव्याप्तिपरिहारायार्थपरत्वमाश्रितमिति फलितम्। न च कृत्रिमाकृत्रिमन्यायविरोधः? वचनग्रहणसाममर्थ्यादेव तद्बाधात्। अन्यथा हि द्वित्वे एकत्वे इत्येव ब्रूयात्। द्वित्वे एकत्वे च या विभक्तिस्तस्याऽऽमिति व्याख्यानसम्भवादिति भावः। अतित्वाकमतिमाकमिति।<\/w> यत्तु 'साम आकम्' इत्यत्र यद्यपि सुड्ग्रहणं न स्थानिविशेषणं, बाधात्; तथाऽपि उपलक्षणं भवति। तेन यस्यामः सुडग्रे भावी तस्यैव आम आकमा भवितव्यम्। न चैतद् गौणत्वे सम्भवति इत्याकम् न प्रवर्तते। न च समुदायनिर्देशे विशेषणत्वमुपलक्षणत्वं वा विहाय तृतीयः प्रवर्तते। न च सुडामोः पृथक् स्थानित्वमिह निर्दिश्यते। चशब्दस्य द्विवचनस्य च अभावात्। यदि तु स् च आम् चेति समाहारद्वन्द्वो व्याख्यायेत, योग्यताबलाच्च स्-शब्देन सुडेव गृह्येत, तथापि यदि सुड्ग्रहणमन्वाचयशिष्टं ततः समासो न स्यात्। अन्यत्र तु साहित्यविवक्षया केवलस्यामोऽप्रसक्तेरित। अत्रेदं वक्तव्यम्। यस्यामः सुडग्रे भावीत्यादि तावत् बाधितम्। आकमाऽपहृतस्य सुडन्वयाभावात्। आकमः सुड् भवतीति चेत्? तर्हि तमेवोपलक्षयेत्। आदेशद्वारकेण परम्परासम्बन्धेन स्थानिनमुपलक्षयति चेत्? हन्तैवं युष्माकमित्यादौ सुट् श्रूयेत। साम इति निर्देशसामर्थ्यान्न श्रूयते इति चेन्न। निर्देशस्य गौणव्यावृत्या चरितार्थत्वेन साममर्थ्याभावात्। यदपि समाहारद्वन्द्वं प्रक्रम्यान्वाचयशिष्टत्वे दूषणाभिधानं, तदप्यसम्भवदुक्तिकम्। साहित्यविवक्षया केवलस्याप्रसक्तिरिति परमवशिष्यते। तदपि न। प्रक्रियदशायां स्थितस्याऽऽम उत्तरकालभावित्वेनोत्प्रेक्षितस्य सुटश्चैकबुध्द्युपारेहेणैव साहित्याभ्युपगमात्। अतीताऽनागतयोरयं द्रष्टेतिवत्। तत्रोभयोरेकस्मिन् दर्शने सम्बन्ध इति चेदिहाप्येकस्मिन्नादेशे इति तुल्यम्। तथा च 'इरयोः' इति सूत्रे दध्रे इत्यादौ धाञो झस्य इरेचि आतो लोपे रेभावे तस्य कृसृभृप्रभृतिषु चरितार्थतया इटि कृते 'इरयोः' इति द्विवचननिर्देशाल्लाक्षणिकस्याऽपि रेभावः पुनः क्रियते इति स्थितमाकरे। इरयोरित्येकशेषः। साम इति तु द्वन्द्वः। सहविवक्षा तूभयत्र तुल्यैव। वस्तुतस्तु 'साम आकम्' इति सूत्रे केवलोऽप्याम् तन्त्रेण निर्दिष्टः। तस्याऽकमिति स्थानिवद्भावेनाम्त्वात् ससुट्कत्वाच्च 'साम ' इति प्रवर्तते। गौणत्वे तु प्रथमप्रवृत्त्यैव पर्यवसानम्। अत एव शेषे लोपष्टिलोप इति पक्षेण सह फलैक्यमपि सिद्ध्यति। सर्वथाऽपि अतित्वयामतिमयामिति कैश्चिदुत्प्रेक्षितं समर्थयितुं नाभिनिवेष्टव्यम्। अतित्वाकमतिमाकमित्यादेः भाष्यकृतैवोदाहृतत्वादिति दिक्॥", "71052": "अवर्णान्तादिति।<\/w> अवर्णान्तादङ्गात्परस्येत्यर्थः। अतो येषां केषां तेषामित्यादौ नाव्याप्तिः। सर्वनाम्ना विहितस्याम इति।<\/w> सर्वनाम्नः परस्येति तु नोक्तम्, दक्षिणोत्तरपूर्वाणामित्यत्र सुट्प्रसङ्गात्। 'द्वन्द्वे च' इति निषेधो हि समुदायस्य न त्ववयवस्य। न च तस्मादयमाम् विहितः, किं तु समुदायादेवेति न सुट्। विहितविशेषणत्वस्याश्रयणे प्रमाणं तु 'दक्षिणोत्तरपूर्वाणाम्' इति भाष्यप्रयोग एव। पञ्चत्रिंशदिति।<\/w> पञ्च च त्रिंशच्चेति द्वन्द्वः। पञ्चाधिकांस्त्रिंशदिति तत्पुरुषो वा। यत्तु प्रत्याहारा एरचत्वारिंशदिति प्राचो ग्रन्थं व्याचक्षाणैरुक्तम्— नायं मध्यमपदलोपी तत्पुरुषः। तथा सति 'राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु' 'संख्या' इति विधीयमानः पूर्वपदप्रकृतिस्वरो न स्यात्। तस्मात्समाहारद्वन्द्व एवायम्। एकविंशतिरित्यादौ नपुंसकत्वं तु न भवति लोकाश्रयत्वाल्लिङ्गस्येति। तच्चिन्त्यम्, समासभेदेन स्वरभेदे इष्टापत्तेः। तथा च 'बहुव्रीहौ संख्येये' इति सूत्रे संख्यायास्तत्पुरुषस्योपसंख्यानं निÏस्त्रशाद्यर्थमन्यत्राधिकलोपात्' इति वार्तिकं व्याचक्षाणो भाष्यकार आह—एकाधिका विंशतेरेकविंशतिः, द्वाविंशतिरिति। अत एवेति।<\/w> द्वयोर्द्विवचनस्यैव न्याय्यत्वादिति भावः। नन्वेवं सर्वादिषु पाठो व्यर्थः, सर्वनामकार्याणां स्मायादीनां द्विवचनेऽभावात्। न च उभाभ्यां हेतुभ्यामुभयोर्हेत्वोरित्यत्र 'सर्वनाम्नस्तृतीया च' इति पाक्षिकतृतीया तत्फलमिति युक्तम् 'निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्' इति वार्तिकेन गतार्थत्वात्। न च वृत्तिकृता 'सर्वनाम्नस्तृतीया च' इति सूत्रे पठितत्वादिदं वार्तिकं सर्वनामसंज्ञासापेक्षमिति वाच्यम् भाष्ये 'हेतौ' इति सूत्रे तस्य पठितत्वात्। अत एवान्नेन कारणेन वसति, अन्नस्य कारणस्येत्युदाहृतं हरदत्तेनेत्याशङ्क्याह- अयच्प्रसङ्गादिति।<\/w> अयं भावः—'उभादुदात्तो नित्यम्' इत्यत्र 'उभादुदात्तः'योगो विभज्यते। अवयववृत्तेः संख्यावाचिन उभशब्दादवयविन्यर्थेऽयच् स्यात्। उभयोः मणिः। ततो 'नित्यम्' । उभशब्दाद् वृत्तिविषये नित्यमयच्स्यात् स्वार्थे। तेनोभयपक्षविनीतनिद्रा इत्यादौ अयच् यथा नित्यं एवं कप्रत्ययेऽपि स्यादिति। नन्वेवमकचि कृतेऽपि अयज् दुर्वार इति चेन्मैवम्। योगविभागस्येष्टसिध्यर्थतया 'उभौ साभ्यासस्य' इति निर्देशेन च यत्र द्विवचनं न श्रूयते तत्रैवायमिति व्याख्यानात्। तथा च वार्तिकम्— 'अन्याभावो द्विवचनटाब्विषयत्वात्' इति। अकचि हि सति 'तन्मध्यपतितः तद्ग्रहणेन गृह्यते'इति न्यायेनोभयशब्दस्य द्विवचनविषयत्वं न विहन्यते, कप्रत्यये तु विहन्यतैव। तदुक्तमिति।<\/w> वार्तिककृतेति शेषः। यद्यपि पूर्ववार्तिके टाबप्युक्तस्तथाऽपि नासौ विवक्षितः, टाब्विषयत्वमपि द्विवचनपरत्व एव बोद्धव्यमिति कैयटादिभिव्र्याख्यातत्वादित्याशयेन व्याचष्टे— द्विवचनपरत्वाभावे इति।<\/w> टाबेकादेशस्यापि पूर्वान्तत्वेन ग्रहणाद् द्विवचनपरत्वमस्तीति भावः। यद्यप्युभावित्यादौ द्विवचनपरत्वं दुरुपपादमुभयत आश्रयणेऽन्तादिवद्भावविरहात् तथाप्युभशब्दादुत्पन्नं द्विवचनं लुका नापहृतं यत्र ततोऽन्यत्रायच् इतीह विवक्षितोऽर्थः। यद्यपि भाष्ये कप्रत्ययस्यापि स्वार्थिकत्वेनोभशब्दात् परस्य द्विवचनत्वमस्तीत्याश्रित्योभशब्दपाठः प्रत्याख्यातः, तथाऽपि प्रौढिवादमात्रं तत्। कृत्रिमस्यैव द्विवचनस्येह ग्रहीतुमुचितत्वात्। अन्यथा त्रतसिलादावतिप्रसक्तत्वात्। ननु कारकविभक्त्यन्ताद्विहितौ त्रतसिलौ स्वार्थिकत्वेऽपि द्वत्त्वमात्रं नाभिदत्त इति चेद् न, कप्रत्ययस्याप्यज्ञातार्थबोधकत्वात् पञ्चकपक्षेऽधिकबोधकत्वध्रौव्याच्चेति दिक्॥ नास्तीति।<\/w> अनभिधानादिति भावः। तथा चोभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तिकत्वेनाव्ययत्वे प्राप्ते 'तद्धितश्चासर्वविभक्तिः' इति सूत्रे 'कृत्तद्धितानां ग्रहणं च पाठे' इति भाष्यं कैयटेनावतरितम्। अस्तीति।<\/w> पचतिकल्पं पचतिरूपमित्यादिवारणेन पाठस्योपक्षीणत्वादनभिधाने प्रमाणं नास्तीति भावः। तयप्प्रत्ययान्तस्येति।<\/w> उभयशब्दस्येति भावः। नित्यैवेति। 'परेऽवर उभया अमित्राः' इति तु छान्दसत्वाद्बोध्यम्। अव्युत्पन्नाविति।<\/w> एतच्च पस्पशायां कैयटे स्पष्टम्। एके—<\/w> काशिकाकाराः। 'एतन्त्वं मन्ये' इत्युदात्तस्य 'उतत्वः पश्यन्' इत्यनुदात्तस्य च दर्शनादिति भावः। एकः—<\/w> प्रथमः। संहितया पाठे तान्तत्वस्यास्फुटत्वेऽपि तान्तश्छेत्तव्योऽन्यथा एकश्रुत्या सकृदेव पठेत्। न च विप्रतिपत्तव्यम् 'त्वत्त्वसमसिमेत्यनुच्चानि' इति फिट्सूत्रात्। तथा च ऋङ्मन्त्रः— 'स्तरीरु त्वद्भवति सूत उ त्वम्' इति। वेदभाष्यकाराश्चेत्थं व्याचख्युः— त्वदिति सर्वनामसु पठितोऽनुदात्तोऽयमन्यपर्याय इति। जयदेवोऽपि प्रायुङ्क्त- 'त्वदधरमधुरमधूनि पिबन्तम्' इति। त्वत्तोऽन्यस्या अधर इति विग्रहः, न तु तवाधर इति। 'पश्यति दिशि दिशि रहसि भवन्तम्' इति पूर्ववाक्येन सहानन्वयापत्तेः। नेम इति।<\/w> श्रूयते च — 'प्र नेमस्मिन्ददृशे सोम' इति। सम इति।<\/w> तथा च श्रूयते 'नभन्तामन्यके समे' । 'मानो वृकाय वृक्ये समस्मै'। 'उरुष्याणो अघायतः समस्मात्' । 'उतो समस्मिन्ना' इत्यादि । 'सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः' । श्रूयते च—'आद्रात्रो वासस्तनुते सिमस्मै'। 'उच्छुक्रमत्कमजते सिमस्मात्'। उभयत्रापि सिमशब्दः सर्वपर्याय इति वेदभाष्यम्। गणसूत्र इति।<\/w> यद्यपि भाष्ये अष्टाध्यायीस्थे सूत्रे 'अपुरि इति वक्तव्यम्' इति वार्तिकं पठितं तथापि तद्गणसूत्रस्य शेषः, न तु जसि विभाषाविधायकस्य। 'अत' इत्यधिकृत्य जसः शीविधानात् टाबन्तात्प्राप्त्यभावात्। अन्तरायामिति।<\/w> प्राकाराद्बाह्यायां तदन्तर्वर्तिन्यां वेत्यर्थः। लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा प्राप्तिर्बोध्या। त्यद्, तद्, एतौ उक्तपरामर्शकौ। तत्राद्यश्छान्दस इति गणरत्नकारः। तन्न, 'स्यश्छन्दसि बहुलम्' इति सूत्रे छन्दोग्रहणवैयर्थ्यापत्तेः। एकोऽन्यार्थो प्रधाने च प्रथमे केवले तथा। साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते॥", "71053": "वस्तुतस्त्विति।<\/w> अर्थप्राधान्यबोधकस्य बहुवचनस्याभावात् गौणत्वेऽपि त्रयादेशो न्याय्यः अस्थ्याद्यनङ्वदिति भावः। अकारो वक्तव्य इति।<\/w> तथा च बहुत्वाभावे औडुलोमिशब्द इकारान्तः। बहुत्वे तु अकारान्त उडुलोमिशब्दस्य इदन्तस्य बहुत्वे अदन्तत्वमिति न भ्रमितव्यम्। ॥ इति इदन्ताः ॥ किदिति।<\/w> तेन 'आतो लोप इटि च' इत्यालोप इति भावः।", "71055": "बहुवचननिर्देशादर्थप्राधान्यं विवक्षितम्। अर्थाच्चामः परत्वं शब्दद्वारकम्। तेन तदन्तविधौ सत्यपि परमचतुर्णामित्यदावेव भवति, न तु बहुव्रीहौ। तदेतद्वक्ष्यति—'गौणत्वे तु नुट् नेष्यते' इत्यादिना। द्वित्वमिति।<\/w> 'अचो रहाभ्याम्' इत्यनेन। ॥ रान्ताः॥", "71070": "अधातोरिति।<\/w> अधातुभूतपूर्वस्यापीत्यर्थः। अञ्चतिग्रहणं हि नियमार्थम्—धातोश्चेद्भवति तर्ह्यञ्चतेरेवेति। एवं च गोमानिवाचरति गोमानित्यादौ सम्प्रति धातुत्वेऽपि विध्यर्थमधातुग्रहणम्। एतच्च मूले एव स्फुटीभविष्यति। ननु कुर्वन् इत्यादाविव संयोगान्तलोपस्यासिद्धत्वेन नान्तत्वाभावाद्दीर्घत्वं न स्यादित्याशङ्क्याह— बहुलग्रहणादिति।<\/w> क्वचिदन्यदेवेत्यर्थकादित्यर्थः। निपातनादिति।<\/w> महेर्हकारस्य घकारः अवुगागमः कनिप्रत्ययश्चेत्यस्य त्रितयस्य निपातनादित्यर्थः। प्रत्याख्यातमिति।<\/w> तथा च 'छन्दसीवनिपौ'इत्यत्र कैयटेनोक्तम्—'मघवा बहुलम्'इत्येतन्न कर्तव्यं श्वान्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयस्य सिद्धत्वादिति। यत्त्वत्र वार्तिककृतोक्तम्— अर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत्। मतुब्वन्योर्विधानाच्च छन्दस्युभयदर्शनात् ॥1॥ इति, यच्च तद्व्याख्यानावसरे कैयटेन भाषायामसाधुतेत्युक्तम्, तद्वनिबन्तमद्ध्योदात्तमघवन्-शब्दविषयकम्। छन्दस्येव वनिब्विधानात्। अतो न कैयटस्य पूर्वाऽपरविरोध इति ध्वनयन्नाह— अन्तोदात्तं त्विति।<\/w> यद्यपि श्वन्नुक्षन्नित्यत्र कनिनन्ता एते इत्युज्ज्वलदत्तादिग्रन्थमहिम्ना आद्युदात्तत्वं लभ्यते, तथापि 'उक्षा समुद्रो अरुणः सुपर्णः, पूषा त्वेतो नयतु, अग्निर्मूर्धा, निर्मज्वानं न पर्वणो जभार, त्वमर्यमा भवति यत्' इत्यादौ तत्सूत्रोपात्तानामुक्षन्नादीनामन्तोदात्तत्वस्य निर्विवादतया कनिप्रत्यय एवोचित इति भावः। 'मघवा बहुलम्' इति सूत्रे मघोन इति प्रतीकमुपादाय मघशब्दस्याकारस्य 'यस्य' इति लोपमाशङ्क्य 'नैतदस्ति, अन्यदेव हीदमव्युत्पन्नं प्रातिपदिकम्, तथा हि- भाषायामप्यस्य प्रयोगो दृश्यते' इति वदन्न्यासकारोऽपि मघवन्शब्दस्यान्तोदात्तत्वे भाषायामपि साधुत्वे चाऽनुकूलः। एवं स्थिते मतुपमाश्रित्य त्रादेशं प्रत्याचक्षाणौ भाष्यवार्तिककृतौ मघवानित्यत्र त्रादेशपक्षेऽपि दीर्घं स्वीकुरुत एव। फलभेदे प्रत्याख्यानासम्भवात्। अतो बहुलग्रहणान्नाऽसिद्धत्वमिति यदुक्तं तद्भाष्यादिसंमतमेव। यत्त्वाहुः, मतुप्पक्षेऽपि छान्दसत्वान्न दीर्घ इत्येव भाष्यस्याऽऽशय इति; तन्न। मतुबन्तस्य छान्दसत्वे मानाभावात्। उदाहृतभट्टिकैयटविरोधाच्चेति दिक्। एतेन श्वान्नुक्षन्नित्यत्र निपातितस्य मघवन्नित्यस्य त्रादेशे दीर्घाभावात् मघवन्निति क्षीरस्वामिग्रन्थः प्रत्युक्तः। तथा च कातन्त्रसूत्रं 'सौ मघवान् मघवा च' इति। विचारचिन्तामणावपि 'मघवानेव मघवा' इत्युक्तम्। काशिकायामपि दीर्घ एव दृश्यते इत्यलं बहुना।", "71071": "सर्वेति।<\/w> यत्तु प्राचोक्तं- सुटीति; तन्न, सर्वनामस्थाने इत्यस्यैव प्रकृतत्वात्, लक्षणायां बीजाभावात्, क्लीबे युजी इति द्विवचनेऽतिव्याप्तेश्च। यत्तु वदन्ति- नपुंसके शसि युञ्जीत्यत्र नुम् न स्यादिति; तन्न, 'नपुंसकस्य झलचः' इति नुमः सम्भवात्। सुलोप इति।<\/w> कुत्वस्याऽसिद्धत्वात् परत्वादादौ नुम्। ततो हल्ङ्यादिलोप इति भावः।", "71073": "वृद्ध्यौत्वेति।<\/w> 'अतिसखीनि कुलानि' इत्यत्र 'सख्युरसम्बुद्धौ' इति णिद्वद्भावाद् वृद्धिः प्राप्ता, 'वारिणि' इत्यत्र तु 'अच्च घेः' इत्यौत्वम्, 'प्रियक्रोष्टूनि' इत्यादौ तृज्वद्भावः प्राप्तः। ननु नुम्नुटोः को विशेषस्तत्राह— नामीति।<\/w> नुमस्तु अङ्गभक्तत्वात् तस्मिन् सति दीर्घो न स्यादिति भावः।", "71074": "पुंवदिति।<\/w> अर्थान्नुम्ह्रस्वयोः प्रतिषेधोऽयम्। प्रवृत्तिनिमित्तभेदादिति।<\/w> पीलुशब्दस्य हि वृक्षत्वव्याप्यजातिर्वृक्षे प्रवृत्तिनिमित्तम्, फले तु फलत्वव्याप्यजातिर्वृक्ष-विशेषप्रभवत्वं वा। उभयथाऽपि पुन्नपुंसकयोर्नैकं प्रवृत्तिनिमित्तमिति भावः।", "71075": "अतिदध्नेति<\/w> । दधि अतिक्रान्तेनेत्यर्थः। यत्तु प्रियदध्नेति उरःप्रभृतिषु 'दधिमधुशली' इति पाठात् नित्यः कप् प्राप्तो भाष्यकारप्रयोगादेव प्रियदधिशब्दे न भवतीत्याहुः। तच्चिन्त्यम्। भाष्ये तादृशपाठस्य बहुषु पुस्तकेष्वनुपलम्भात्। स्त्रियां तु प्रियदध्न्या, प्रियदध्न्यै इति केचित्। तन्न। सन्निपातपरिभाषया बहिरङ्गपरिभाषया च ङीपोऽप्रवृत्तेः। तस्मात् पुंसीव स्त्रियामपि अतिदध्नेत्यादिकमेव बोद्ध्यम्। सुधिनी इति।<\/w> परत्वान्नुमा इयङ् बाध्यते। सुधियेति।<\/w> पुंवत्त्वपक्षे नुमोऽभावादियङ्। बह्व्यः श्रेयस्यो यस्य तत् बहुश्रेयसी कुलम्। अत्र नपुंसकह्रस्वत्वं न, 'ईयसा बहुव्रीहेर्न' इति ह्रस्वमात्रस्य प्रतिषेधादिति श्रीपतिपुरुषोत्तमविश्वरूपादयः। अन्ये तु उपसर्जनह्रस्व एव निषिध्यते, नपुंसकह्रस्वत्वं तु स्यादेव, बहुश्रेयसि बहुश्रेयसिनी इत्याद्याहुः। स्नुः प्रस्थः सानुरस्त्रियामित्युभयलिङ्गः सानुशब्दः। तस्य नपुंसकत्वे रूपमाह— स्नूनी सानूनीति।<\/w> पुंसि शम्भुवत्। प्रियक्रोष्टूनीति।<\/w> यत्तु प्राचा प्रियक्रोष्टॄणीत्युक्तम्। तत्पूर्वविप्रतिषेधपरभाष्यवार्तिकविरुद्धम्। यत्तु व्याचख्युः <<विभाषा तृतीयादिष्वचि>> [[7.1.97]] इत्येतद्विषयको विप्रतिषेधः। भाष्ये प्रियक्रोष्टुने अरण्यायेत्यस्यैवोदाह्मतत्वादिति; तन्न, उदाहरणस्य सङ्कोचकत्वे मानाभावात्। यदाहुः— न चोदाहरणमादरणीयमिति। किं च पूर्वविप्रतिषेधस्य वैकल्पिकतृज्वद्भावमात्रविषयकत्वे तत्र तृज्वद्भावग्रहणं व्यर्थमेव स्यात्। प्रियक्रोष्टुनेत्यादेर्विप्रतिषेधं विनापि पक्षे सुसाधत्वात्। न च प्रियक्रोष्ट्रेत्यादिनिवृत्तिस्तत्फलम्। पुंवद्भावपक्षे तस्य दुर्वारत्वात्, स्वयमपि तथोदाहृतत्वाच्च। न च समाहारद्विगौ पञ्चक्रोष्टुनेत्यादौ पुंवद्भावाभावात् तत्र तृज्वद्भावनिवृत्तिः फलमिति वाच्यम्। एवमपि भाष्योदाहरणासामञ्जस्यात्। उपलक्षणं तदिति चेत्, हन्तैवं प्रियक्रोष्टूनीत्येवोपलक्ष्यतां भाष्योदाहृतप्रातिपदिकांशानुग्रहायेति दिक्। सुल्वेति।<\/w> पुंवत्पक्षे नुमभावाद्यण्। सुलुनेति।<\/w> 'ओः सुपि' इति यणं बाधित्वा परत्वान्नुम्।", "71081": "अल्लोपस्येति ।<\/w> 'क्वौ लुप्तं न स्थानिवत्' इति तु नेहाश्रीयते, तस्य क्वाचित्कत्वात्। 'क्वौ विधिं प्रति न स्थानिवत्' इत्यस्यैव सार्वत्रिकत्वादिति स्पष्टमाकरे। अक्षिभूतानीति।<\/w> सप्तविंशत्यधिका पञ्चशतीत्यर्थः। तथा हि— सौ नवानामन्त्यस्य द्वित्वेऽष्टादश। औङि चतुर्णां मध्ये पूजार्थानां त्रयाणां ञद्वित्वे सप्त। अनुनासिकस्तु नास्ति प्रगृह्यत्वात्। जसि ञद्वित्वस्यानुनासिकस्य च विकल्पात् द्वादश। सङ्कलनया सप्तत्रिंशत्। एवं द्वितीयायामपि । टायां चतुर्दश। भ्यामि अष्टचत्वारिंशत्, भप्राग्वर्ण-य-मानां द्वित्वात्। भिसि चतुर्विंशतिः। ङयि सप्त। अनुनासिकस्तु नास्ति, एकास्याऽनण्त्वात्। भ्यसि भ्याम्वत्। ङसौ— ङसादिपञ्चके चतुर्दश। सुपि गत्यर्थे त्रयाणां ककारषकारयोर्द्वित्वेन उकारस्यानुनासिकेन चतुर्विंशतिः। एवं कुक्पक्षे षण्णां ङषयोर्द्वित्वे अनुनासिके च अष्टचत्वारिंषशत्। कुगभावे त्रयाणां ङकारद्वित्वे अनुनासिके च द्वादश। सु 18 औ7 जस् 12 अम्18 औट् 7 शस् 12 टा14 भ्यां 48 भिस् 24 ङे7 भ्यां 48 भ्यस् 48 ङसि 14 भ्यां 48 भ्यस् 48 ङस् ओस् आम् ङि ओस् प्रत्येकं 14 सुप् 48। अत्रेदमवधेयम्— पूजायां जसि नुमागमे कृते तस्य पाक्षिके द्वित्वे ञकारत्रयसहितं रूपषट्कम्। एवं शस्यपीति सङ्कलनया द्वादश। तथा च -रूपं ग्रहाग्निभूताख्यमिति 539, भाष्यव्यतिरिक्तमते इति दिक्। यत्तु वदन्ति— ऊह्यमेवं द्वित्वपुनर्द्वित्वलोपविकल्पनैः। अष्टपञ्चाशतो वृद्ध्या त्रिसप्तत्यधिकं शतम्॥ इति। तच्चिन्त्यम्, पुनर्द्वित्वस्याऽप्रामाणिकत्वात् रूपानन्त्यप्रसङ्गाच्च। अष्टपञ्चाशतो वृद्धावुपपत्त्यभावाच्चेति दिक्। तिरश्ची इति।<\/w> भत्वात् 'अचः' इत्यल्लोपः। अलोप इति वचनात्तिर्यादेशः। स्वबिति।<\/w> शोभना आपोऽस्मिन् सरसीति बहुव्रीहिः। 'ऋक्पूः' इति समासान्ते प्राप्ते 'न पूजनात्' इति निषेधः। यत्त्वनित्यत्वादिति प्राचोक्तं; तत्प्रामादिकम्। 'द्व्यन्तरुपसर्गेभ्य' इति तु न भवति तत्राप इति कृतसमासान्तस्यानुकरणमिति वक्ष्यमाणत्वात्। सुपुमांसीति।<\/w> 'पुंसोऽसुङ्' इति सूत्रे सुटीति व्याचक्षाणस्य प्राचो मते शसि नैतत्सिद्ध्येत्। औङि चातिव्याप्तिः। अस्माकं तु सर्वनामस्थान इति यथासूत्रं ब्रुवतां सर्वेष्टसिद्धिरिति भावः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां हलन्ता नपुंसकलिङ्गाः॥", "71084": "अव्युत्पन्नस्य, 'दिवेर्डिविः' इति न्यासोहितसूत्रेण व्युत्पन्नस्य वा, न तु 'दिवु क्रीडादौ' इति धातोः, 'निरनुबन्धकग्रहणे न सानुबन्धकस्ये'ति परिभाषया। तेनाक्षद्यूरित्यादौ न भवति। औतस्तकार उच्चारणार्थः।", "71085": "यत्त्वाहुः— इहानुनासिको न। अनण्त्वेन सवर्णग्रहणाभावात्। न च 'तपरस्तत्कालस्य' इति अनणि विध्यर्थमिति वाच्यम्। 'भाव्यमानः सवर्णान्न गृह्णाति' इति निषेधात्। गुणानामभेदकत्वेऽपि शुद्धैकव्यक्तेः सूत्रे निर्देशान्नातिप्रसङ्ग इति। अत्रेदं वक्तव्यम्— अनणि विध्यर्थमिति शङ्कायां 'भाव्यमान' इत्याद्युत्तरमसङ्गतम्। तस्याण्विषयत्वात्। यदाहुः- भाव्यमानोऽणित्यादि। अन्यथा 'चोः कुः' इत्यादावपि निषेधापत्तेः। तत्रोदित्करणसामर्थ्यान्न निषेध इति चेत्? किमनेन बकबन्धनप्रयासेन। 'तपरस्तत्कालस्य' इति सूत्रेऽप्रत्ययग्रहणस्य भाष्यकृताऽननुवर्तितत्वाच्च। किञ्च शुद्धैकव्यक्तेरित्यसङ्गतम्। अभेदकत्वे दोषस्य दुरुद्धरत्वात्। एका व्यक्तिर्गृह्यते इत्युक्त्या हि व्यक्त्यन्तरं न निर्दिष्टमित्यर्थः फलितः। स च गुणानां भेदकत्वे सत्येव सङ्गच्छते नान्यथेत्यास्तां तावत्। एतेन 'भाव्यमानोऽण् सवर्णान्न गृह्णाति' इति निषेधादाकारो नानुनासिक इति प्रसादग्रन्थोऽपि प्रयुक्तः। दीर्घस्यानण्त्वेन मूलशैथिल्यात्।", "71087": "स्थान्यदेशौ द्वावप्यनच्कौ। थेर्न्थ इत्येव सिद्धे ' इतोऽत्' वचनं ऋभुक्षिन्नर्थम्। न्थादेश इति।<\/w> केचित्तु अन्थादेशमाहुः। तत्राऽकारप्रश्लेषो व्यर्थः। यत्तु न्यासकृता प्राचा चोक्तमनेकाल्त्वेऽपि थकारमात्रस्यायमादेशो 'निर्दिश्यमानस्यादेशा भवन्ति' इति न्यायादिति; तन्न। तद्विशिष्टस्याप्रसङ्गेनोक्तपरिभाषाया इह विषयाभावात्। प्रसङ्गादाह— स्त्रियामिति। सुपथीति<\/w> । 'इनः स्त्रियाम्' इति तु कब् न कृतः; समासान्तविधेरनित्यत्वात्, 'युवोरनाकौ' इति सूत्रे सुपथीति भाष्याच्च। 'न पूजनात्' इति निषेधस्य तु नायं विषयः। षचः प्राचीनेष्वेव स इति वक्ष्यमाणत्वात्। पथिमथीत्यात्वं थो न्थश्च लिङ्गविशिष्टपरिभाषया प्राप्तं विभक्तौ लिङ्गविशिष्टाग्रहणान्न भवति। शाविति।<\/w> यत्तु प्राचा 'इतोऽत्सर्वनामस्थाने' 'थो न्थः' इति सूत्रद्वये सुटीति व्याख्यातं, तदसत्। निर्बीजलक्षणाऽऽपत्तेः। क्लीबे औङः श्यां सुपथी इत्यत्राऽतिव्याप्तेः। सपन्थानि पश्येति शसि रूपस्याऽसिद्धिप्रसङ्गाच्चेति भावः। अत्रेदमवधेयम्। पन्थानमात्मन इच्छति पथीयति। ततः क्विप्। अलोपः। यलोपः। एकदेशविकृतस्यानन्यत्वात् 'पथिमथि' इत्यात्वम्। थो न्थः। पन्थाः। 'इतोऽत्सर्वनामस्थाने' इत्यत्वं न भवति, इत इति तपरकरणात्। 'एरनेकाच' इति यणं बाधित्वा परत्वान्नित्यत्वाच्च 'थो न्थः'। संयोगपूर्वकत्वान्न यण्। पन्थियौ, पन्थियः, पन्थियम्, पन्थियौ। भस्य टेर्लोपः। पथः, पथीभ्याम्, पथीभिः। इत्यादि। एतेन 'इतोऽत्सर्वनामस्थाने' इत्यत्र स्थानिन्यादेशे च तपरकरणं मुखसुखार्थमिति हरदत्तग्रन्थः प्रत्युक्तः। यत्तु न्यासकारस्तदनुसारिणोऽन्ये च सुखीः, सुतीरितिवत् 'पथीः, पथ्यौ, पथ्य इत्याद्युदाजह्रुस्तच्चिन्त्यम्। सावात्वस्य दुर्वारत्वात्। यत्तु पथिमथ्यृभुक्षामिति नान्तप्रकृत्यनुकरणमेतदिति; तदप्यनर्थकम्। एकदेशविकृतन्यायस्य दुर्वारत्वात्। पन्थाः इत्यत्रापि नित्यत्वाद्विशेषविहितत्वाच्च पूर्वमात्त्वे कृतेऽनान्तत्वेन न्थादेशाप्रसङ्गाच्च। यदप्याहुः— अल्लोपस्य स्थानिवत्त्वान्नात्वादि। 'क्वौ लुप्तं न स्थानिवत्' इति नेहाश्रीयते इति; तदपि चिन्त्यम्। तथा सति यण्प्रसङ्गात्। 'ख्यत्यात्' इति सूत्रे सुखीः सुतीरित्यादिनिर्वाहाय 'क्वौ लुप्तं न स्थानिवत्' इत्यस्य कैयटादिभिराश्रितत्वात्। 'इतोऽत्' इत्यत्र तपरकरणं कुर्वतः सूत्रकृतोऽपि इहाऽनुकूलत्वाच्च। तस्मादात्वं न्थादेशश्च न्याय्य एवेति स्थितम्। एतेन मथीः, मथ्यौ, मथ्यः इत्याद्यपि प्रत्युक्तम्। मन्थाः,मन्थियौ, मन्थियः इत्यादेरेव न्याय्यत्वात्। यदपि ऋभुक्षीः, ऋभुक्ष्यौ, ऋभुक्ष्यः इत्यादि; तत्र सावात्वं दुर्वारमित्युक्तमेव। औङादिषु यण् तु दुर्लभः संयोगपूर्वकत्वात्। तस्मादृभुक्षाः,ऋभुक्षियौ, ऋभुक्षियः इत्यादि बोध्यम्।", "71089": "विवक्षित इति।<\/w> तेन परमपुमानित्यत्र परत्वादसुङि कृते समासान्तोदात्तत्वं भवदसुङ एवाकारस्य भवति। परसप्तम्यां तु नैतत्सिद्ध्येत्, सर्वनामस्थानोत्पत्तेः प्रागेव पुंशब्दोकारस्योदात्तत्वे कृते स्रंसनधर्मिणो हलः स्थाने तद्धर्मिणोऽनुदात्तस्यैवादेशस्य प्रसङ्गात्। न चोकारस्य कृतोऽपि स्वरोऽनन्त्यत्वान्निवर्तयिष्यते, असुङश्चान्त्यत्वात् करिष्यत इति वाच्यम्, अन्तरङ्गे स्वरे कर्तव्ये बहिरङ्गस्याऽसुङोऽसिद्धत्वादिति भावः। एतच्च कैयटहरदत्तादीनामनुरोधेनोक्तम्। वस्तुतस्तु परसप्तमीपक्षोऽपि सूपपादः। अकृतव्यूहपरिभाषाया अन्तङ्गपरिभाषापवादत्वादित्यवधेयम्। नन्वेवमसमासेऽप्यसुङि कृते प्रातिपदिकस्वरेण सतिशिष्टेन प्रत्ययस्वरस्य बाधादसुङ उदात्तत्वं स्यात्, इष्यते तूकारस्य। पुमान् पुमांसं परिपात्वित्यादौ तथैव पाठादिति चेत्सत्यम्। डुम्सुनो नित्करणसामर्थ्यात् प्रातिपदिकस्वरो न भवतीति हरदत्तादयः। नन्वेतदयुक्तम्। प्रकृतिप्रत्ययविभागशून्येष्वेव 'फिषः' इत्यस्य प्रवृत्तेरिति चेत्सत्यम्। क्वचित्सखण्डेष्वपि प्रवृत्ताविदं लिङ्गम्। यद्यपि 'असिद्धं बहिरङ्गम्' इत्येवेदं सिद्धम्, तथाऽपि बहिरङ्गपरिभाषाया अनित्यत्वमपि ज्ञापयितुं नित्करणमिति निष्कर्षः। उच्चारणार्थ इति।<\/w> यत्तु प्राचोक्तमुङाविताविति, यच्च तत्पौत्रेण व्याख्यातमुकार उगित्कार्यार्थ इति, तदसङ्गतमिति भावः। हे पुमन्निति।<\/w> असम्बुद्धावित्युक्तेर्न दीर्घः। पुंस्विति।<\/w> संयोगान्तलोपे 'मोऽनुस्वारः'। नुम्स्थानिकस्यैवानुस्वारस्योपलक्षणात् 'नुम्विसर्जनीय' इति न षत्वम्। अस्य सम्बुद्धाविति। एतच्च वाचनिकम्। यत्तु हरदत्तादय आहुः— सोर्डेति वाच्ये अनङ् साविति वचनेन क्वचिदनङ एव श्रवणस्य ज्ञापितत्वादेतत्सिद्धमिति; तत्तु प्रागेव दूषितम्। अङ्गवृत्तपरिभाषया वा समाधेयम्।", "71092": "इह 'इतोऽत्सर्वनामस्थाने' इत्यतः 'सर्वनामस्थाने' इत्यनुवर्तते। तत् 'असम्बुद्धौ' इत्यनेन विशेष्यते। 'गोतो णित्' इति सूत्राद् 'णित्' इत्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यत इत्याह— सम्बुद्धिवर्जं सर्वनामस्थानमिति।<\/w> सख्युरसंबुद्धिरित्येव तु सूत्रं युक्तम्।", "71093": "'सोर्डा' इत्येव सिद्धे अनङ्विधानमन्यतोऽपि स्यादिति ज्ञापनार्थम्। तेन उशनसः सम्बुद्धौ अनङ् सिध्यतीति प्राञ्चः। तच्चिन्त्यम्। सोर्डेत्युक्ते हि 'ऋदुशनस्' इत्युत्तरसूत्रेणापि डा स्यात्। ततश्च उशनेत्यत्र 'सर्वनामस्थाने चाऽसम्बुद्धौ' इति दीर्घः स्यात्। पुरुदंसेत्यत्र 'सान्तमहत' इति दीर्घः स्यात्। यद्वा, 'संज्ञापूर्वको विधिरनित्यः' इति वा अङ्गवृत्तपरिभाषया वा समाधानं बोध्यम्। <<हल्ङ्याब्भ्यो>> [[6.1.68]] दीर्घादित्येतन्ङ्यापोरेव विशेषणम्, न तु हलोऽसम्भवात् इत्याह—", "72084": "हलादाविति।<\/w> 'रायो हलि' इत्युत्तरसूत्राद्धलीत्यपकृष्यते, तच्च विभक्तेर्विशेषणमिति भावः। तेनाऽष्टानामित्यत्र नुटः पश्चादेव सन्निपातपरिभाषाया अनित्यत्वादात्वं, न तु प्राक्। अन्यथा अष्टन् आमिति स्थिते परत्वान्नित्यत्वाच्च आत्वे कृतेऽनान्तत्वे षट्संज्ञाभावान्नुट् न स्यात्। न च यथोद्देशपक्षेऽन्तरङ्गत्वात् प्रागेव कृता षट्संज्ञा एकदेशविकृतन्यायेन कृतात्वेऽपि सुलभेति वाच्यम्। अल्विधौ उक्तन्यायाऽयोगादिति भावः।", "72085": "'अर्थरैविभवा अपि' इत्यमरात्पुंस्त्वम्, 'संराया भूयसासृजा' इत्यादिप्रयोगाच्च। 'रा यि छान्दसः' इति भाष्यम्। (अत्र 'रा यिः छान्दसः' इति पाठान्तरम्) । तच्च क्यजन्तस्य रैशब्दस्य छान्दसत्वपरं न तु केवलस्यापीति ' वान्तो यि' इति सूत्रे कैयटः। केवलोऽपि च्छान्दस इति पाक्षान्तरं स एवाह। ॥ इत्यैदन्ताः ॥ 'ग्लौर्मृगाङ्कः कलानिधिः' इत्यमरः। एवं जनानवतीति जनौः। 'ज्वरत्वर' इत्यूठ्। 'एत्येधति' इति वृद्धिः। जनावौ जनाव इत्यादि। इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामजन्ताः पुँल्लिङ्गाः॥", "72086": "हलादाविति।<\/w> योऽचीत्यज्ग्रहणात्परिशोषात्सिद्धमिदम्। रायो हलीत्यतोऽनुवृत्त्या लब्धं वा। नन्वेवं किमनादेशग्रहणेन न त्वादेशो हलादिरस्ति? मैवम्। भ्यसः सत्वात्। अभ्यस्पक्षे तु योऽचीत्यत्रानुवृत्त्यर्थमनादेशग्रहणं बोध्यम्।", "72088": "युवं वस्त्राणीति।<\/w> शेषे लोपः। यत्तु काशिकायामुक्तम्— पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि। यान्यद्विवचनान्यत्र शेषे लोपो विधीयते॥ इति, तद्भाषापेक्षया। छन्दसि तु प्रथमाद्विवचनमपि शेषे लोपस्य विषय एवेति बोध्यम्। मपर्यन्तस्य किमिति।<\/w> अधिकारसूत्रं किमर्थमिति प्रश्नः।", "72089": "अचि किम्? युवाभ्याम्। यदि तु 'युष्मदस्मदोरनादेशे' इत्यत्र 'रायो हलि' इत्यतो हलीत्यनुवर्तते तदा इहाचीति माऽस्तु परिशेषादेव सिद्धेः।", "72090": "अधिकरणत्वविवक्षयेति।<\/w> यदि तु शेषे इति विभक्तिविशेषणं स्यात् तर्हि व्यर्थमेव तत्। आत्वयत्वाभ्यां विशेषविहिताभ्यां स्ववविषये लोपस्य बाधसम्भवात्। न चैवमन्त्यलोप इति पक्षस्य निरालम्बनत्वापत्तिः। 'साम आकम्' इति ससुट्कनिर्देशेन तस्यापि ज्ञापितत्वादिति भावः।", "72093": "अङ्गकार्ये इति।<\/w> एतेन 'अङ्गवृत्ते पुनर्वृत्तावविधिः' इति परिभाषा अर्थत उपनिबद्धा। अङ्गे-अङ्गाधिकारे वृत्तं-वर्तनं-यस्य तदङ्गवृत्तं- शास्त्रं, तस्मिन् कृते सति-प्रवृत्ते सति पुनरन्यस्य प्रवृत्तौ-प्राप्तायामविधिरिति हि तस्या अर्थः। एषा च परिभाषा 'ज्यादादीयसः' 'ज्ञाजनोर्जा' इति सूत्रद्वयेऽपि ज्ञापितेति भाष्ये स्थितम्। अन्यथा हि ज्यादादिति आकारं न ब्रूयात्। 'बहोर्लोप' इत्यतो लोपमेवानुवर्तयेत्। 'अकृत्सार्व' इति दीर्घे सिद्धं ज्यायानिति। ज्ञाजनोश्च जं विदध्यात्। 'अतो दीर्घो यञि' इति दीर्घो भविष्यतीति। न चैवं द्वाभ्यामित्यत्र त्यादाद्यत्वे कृते 'सुपि च' इति दीर्घो न स्यादिति वाच्यम्? द्वयोरेकस्येत्यादिनिर्देशेनोक्तपरिभाषाया अनित्यत्वज्ञापनात्। यत्तु केचित्— परिनिष्ठितस्येति पठन्ति; द्वाभ्यामिति तु दीर्घं विना न परिनिष्ठितमिति च वदन्ति। तद्भाष्यविरुद्धम्। ज्यायान्, जानाति, ज्ञायते इत्येतेषामपि दीर्घं विनाऽपरिनिष्ठितत्वेन भाष्योक्तज्ञापनस्यापि शिथिलमूलत्वापत्तेः। यदि तु 'भ्यसोऽभ्यम्' इति सूत्रे भाष्येऽपि परिनिष्ठितस्येत्येव पाठस्तर्हि वाचनिकतामेवाश्रित्य पक्षान्तरपरतया योज्यः। अनित्यत्वबलफलितार्थकथनं तत्, न तु ज्ञाप्यांशप्रविष्टमिति वास्तु । एवं तु काशिकादिग्रन्थोऽपि कथंचिन्नेतुं शक्य इति दिक्। मकारान्तरमित्यु<\/w> पलक्षणम्। ' जसः शी' इत्यत्र जसः स् इति सकारं प्रश्लिष्य सान्तस्य जस इति व्याख्यानाद् 'अतोऽम्' इति सूत्रादम्ग्रहणमनुवर्त्य अम् अमेवेति व्याख्यानाद्वेति बोध्यम्।", "72100": "गुणदीर्घोत्वानामिति।<\/w> तिस्रस्तिष्ठन्तीत्यत्र 'ऋतो ङि' इति गुणस्य, तिस्रः पश्येत्यत्र 'प्रथमयोः' इति पूर्वसवर्णदीर्घस्य, प्रियतिस्रः आगतः, प्रियतिस्रः स्वमित्यत्र 'ऋत उत्' इत्युत्वस्य रत्वमपवाद इत्यर्थः, बाध्यसामान्यचिन्तायां स्वविषये प्राप्तस्य सर्वस्य बाधादिति भावः। विशेषचिन्तायां तु 'मध्येऽपवादा' इति न्यायेन दीर्घोत्वयोरेव बाधः स्यान्न तु गुणस्य। सामान्यविशेषपक्षौ च जातिव्यक्तिपक्षवल्लक्ष्यानुरोधाद् व्यवस्थितौ इति कैयटादौ स्पष्टम्। यत्तु व्याचख्युः—अपवादशब्दो बाधकत्वोपलक्षकः। पूर्वविप्रतिषेधेन गुणमपि बाधते इत्याशय इति। तन्निर्मूलं क्लिष्टं च। यदपि प्रसादकृतोक्तम्— गुणस्य पूर्वविप्रतिषेधेनेतरयोः परविप्रतिषेधेन बाधक इत्यर्थ इति। तन्न, रविधेरचरितार्थत्वात्। न च टौसोश्चरितार्थता, यणा गतार्थत्वात्।", "72101": "विभक्ताविति।<\/w> एतच्च 'अष्टन आ विभक्तौ' इत्यतोऽनुवर्तते। तेन जराया इदं जारमित्यादौ नातिव्याप्तिरिति भावः। तदनुसारिभिरिति।<\/w> इनातोः पूर्वविप्रतिषेध एकसूत्रोपात्तत्वात् स्यादेशोऽपि ग्रहीतुमुचित इति तेषामाशयः। अत एव— वीतजन्मजरसः परं शुचि ब्राहृणः पदमुपैतुमिच्छताम्॥ इति भारविप्रयोगमसमञ्जसं मत्वा वीतजन्मजरस इति पठनीयमिति तैरुक्तम्। एतच्चेति।<\/w> भाष्यकृता हि 'टाङसि' इति सूत्रे इनातौ प्रत्याख्याय नादेशमदादेशं च विधाय नादेशे परे एत्वं योगविभागेन साधितम्। 'बहुवचने झल्येत्' 'ओसि च'। तत 'आङि' आङि च परेऽत एत्वं स्यात्। रामेण। तत 'आपः सम्बुद्धौ च' एकारः स्यात् संबुद्धौ आङि ओसि च। न चैवमनेनेत्यत्र हलि लोपः स्यादिति वाच्यम्। अनादेशस्य नकारे परे विशिष्य विधानात्। तथा हि, 'अनापि' नकारे आपि च परेऽन् स्यादित्यर्थः। सूत्रे अ इति नान्तस्य नपुंसकनिर्देशः। न च ङसेरदादेशे कृते पररूपं स्यादिति वाच्यम्। अकारोच्चारणसामर्थ्याद्दीर्घसम्भवादिति। तथा च 'जराया जरसन्यतरस्याम्' इति सूत्रे उक्तम् — 'गोनर्दीयस्त्वाह- अतिजरैरिति भवितव्यं सन्निपातपरिभाषया' इति। एवं च पूर्वविप्रतिषेधेनेत्यादि सर्वं भाष्यविरुद्धमित्यर्थः। <<पद्दन्नो—>> [[6.1.61]] अत्र शस्प्रभृतयो निमित्ततयोपात्ताः। ते च पदाद्यादेशानुरूपान् प्रकृतिविशेषानाक्षिपन्तीत्याह—", "72102": "ययीपप्यादय इति।<\/w> यत्तु प्राचोक्तम्—एवं देवयज्यतिलक्ष्म्यादय इति। तन्न, देवान् यजत इति विग्रहे 'इन्' इत्यौणादिकसूत्रेण ह्रस्वान्तस्यैव देवयजिशब्दस्योज्ज्वलदत्तादिभिः साधितत्वात्। 'अद्मो द्विजान्देवयजतीन्निहन्म' इति भट्टिप्रयोगस्य ह्रस्वविषयकतयैव व्याख्यातत्वात्। न च यजेर्दीर्घ ईप्रत्ययः प्रतिपदोक्तोऽस्ति। बहुलग्रहणात्कल्प्यत इति चेद्? भवेदेवं, यद्यनन्यथासिद्धं कल्पकमुपलभ्येत। वेदेऽपि ह्रस्व एव प्रयुज्यते—'आयजिं त्वा मनवे जातवेदसे' इति। अतिलक्ष्मीशब्दस्य तु नदीत्वात् ह्रस्वे आडागमे नुटि आमि च कृते महदेव वैलक्ष्यण्यमिति न वातप्रमीसाम्यम्। एतच्च मूले एव स्पष्टीभविष्यति। क्विबन्तेति।<\/w> एतच्चमाङ् माने शब्दे च इति धातौ माधवग्रन्थे स्पष्टम्। बहुश्रेयसीति।<\/w> 'ईयसश्च' इति न कप्। नाप्युपसर्जनह्रस्वः, 'ईयसो बहुव्रीहेर्न' इति निषेधात्। पूर्वमिति।<\/w> वृत्तेः प्रागित्यर्थः। वक्तव्यमिति।<\/w> संज्ञाया यथोद्देशप्रवृत्तौ न्यायसिद्धमिदं, कार्यकालत्वे तु वाचनिकमेव।", "72103": "ननु इम इत्येव सूत्र्यताम्। त्यदादीनामिमो अः स्याद् इति व्याख्यास्यते। किंशब्दश्च द्वेः प्राक् पठिष्यते। 'नानर्थक' इति निषेधादारम्भसामर्थ्याच्चालोऽन्त्यविधिर्न भविष्यति, तत् किं कादेशेनेत्याशङ्क्याह अकच्सहितस्यापीति।<\/w> टेरत्वे कक इति स्यात्। 'कु तुहोः' इत्याद्यथ च किम इत्यवश्यं वक्तव्यमिति भावः। नन्वेवं गणकार्यत्वाभावादुपसर्जनत्वेऽपि स्यात्? मैवम्, त्यदादीनामित्यनुवर्त्य वचनविपरिणामेन त्यदादेः किम इति व्याख्यानात्। अनुवृत्तिसामर्थ्याच्चेह सूत्रे द्विपर्यन्तानाम् इति नियमस्य त्यागात्।", "72106": "अनन्त्ययोः किम्? हे स । परत्वात् त्यदाद्यत्वं बाधित्वा सत्वं स्यात्। ततो हल्ङ्यादिलोपे रुत्वविसर्गौ स्याताम्। किं च स्त्रियां सेति न स्यात्। वस्तुतस्तु अनन्त्यग्रहणं शक्यमकर्तुम्। न चोक्तदोषः, पुनःप्रसङ्गविज्ञाने त्यदाद्यत्वसम्भवात्। सकृद्गताविति पक्षेऽपि 'तदोः सः सौ' इत्यस्यानन्तरमदस इति योगं विभज्याऽदस एव सत्वं नान्यस्य दस्येति व्याख्यातुं शक्यत्वाच्च। ननु यथान्यासे द्वीयतेः क्विपि स्व इति प्राप्नोति, नियमे तु द्व इति स्यादिति चेत्? मैवम्। गौणे अत्वसत्वयोरसम्भवेन द्वीरित्यस्यैव न्याय्यत्वात्।", "72107": "ननु सोरेवौकारो विधीयतां त्यदाद्यत्वेनाऽसाविति सिद्धे किं सुलोपविधानेन; मैवम्, असकौ स्त्रीत्यत्र टापि 'प्रत्ययस्थात्' इतीत्त्वप्रसङ्गात्। असुक इति।<\/w> औत्वाभावे त्यदाद्यत्वं सादुत्वम्। अमुक इति त्वसाधुः। सत्वेन मुत्वस्य बाधात्। एवममुकी अमुकशर्मा इत्यादयोऽप्यसाधव एव। असुका अदकः शर्मेत्यादेरेव न्याय्यत्वात्।", "72109": "उत्सर्ग इति।<\/w> तेन 'तदोः सः सौ' इति सूत्रेऽनन्त्ययोरिति किम्? 'हे स' इति भाष्यं 'भो अच्युत भवन्नच्युत' इति च न विरुद्ध्यत इति भावः। नास्तीत्यत्र मूलं तु प्रचुरप्रयोगादर्शनमेव। यत्त्वाहुः— इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम्। अदमस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्॥1॥ इति वचनादेवंविधस्यार्थस्याभिनुखीकरणानर्हत्वादिति; तदापाततः, सन्निकृष्टादिशब्दानामिव इदमादीनामपि सम्बोध्यसमर्पकत्वे बाधकाभावात्। विप्रकृष्टस्यापि बुद्ध्या सन्निधापितस्य बहुशः सम्बोधनदर्शनाच्च। तथा च भट्टिः- 'हापितः क्वासि हे सुभ्रु बह्वेवं विललाप सः' इति। <<अनाप्यकः>> [[7.2.112]]", "72112": "प्रत्याहार इति।<\/w> न तु टाप्, विभक्ताविति विशेषणादिति भावः।", "72113": "अनभ्यासविकार इति।<\/w> तेन 'भृञामित्' 'अर्तिपिपर्त्योश्च'इतीत्वेऽलोन्त्यविधिरस्त्येव। बिभर्ति, पिपर्ति। ननु स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्क्याह—", "73044": "कादित्यकार उच्चारणार्थः। व्यञ्जनमात्रं विवक्षितम्। विशिष्टविवक्षायां तु एतिकाश्चरन्तीत्यादौ अकचि न स्यादित्याशयेनाह— ककारादिति।<\/w> वर्णनिर्देशे हि कारप्रत्ययो विहितः। क्वचित्समुदायात् प्रयोगस्तु 'उच्चैस्तरां वा वषट्कारः' इति निर्देशरूपयत्नसाध्य इति भावः। आपि पर इति।<\/w> एतच्च अकारस्य विशेषणम्। तत्र सामर्थ्यात् ककाराऽकाराभ्यां व्यवायेऽपि भवति। न तु रथकट्येत्यादौ त्रिचतुरादिव्यवाये। अत एव सर्विकादौ आद्याऽकारस्य न भवति। तदेतदुक्तम्— अकारस्येकारः स्यादापि पर इति।<\/w> ककारविशेषणत्वे तु विवक्षिते आप्परात्ककारात् पूर्वस्यात इत्यवक्ष्यत्। यत्तु प्राञ्चः— आपीति ककारविशेषणं सर्विकेत्यादौ तु एकादेशस्य स्थानिवद्भावादकारेण व्यवधानेऽपि वचनसामर्थ्याद्भविष्यतीति; तन्न, रथकट्यादावतिप्रसङ्गात्, व्यवहितस्यापि परत्वानपायात्। न च निर्दिष्टपरिभाषया निस्तारः, अनुवादे परिभाषाणामनुपस्थितेः। अनूद्यमानस्य विशेषणेष्विति हि तदर्थः। अत्र च 'उदीचामात' इति सूत्रे स्थानेग्रहणं लिङ्गम्। फलं तु वृद्धसंज्ञायामिक्परिभाषानुपस्थानात् शालीयदिसिद्धिः। यदप्याहुः— आपीति विधीयमानस्येतो विशेषणमिति; तत्स्थवीयः। आपीत्यस्याऽङ्गविशेषणत्वं तु नाऽऽशङ्क्यमेव, रथकट्या पुत्रकाम्येत्यत्रातिप्रसङ्गात्। शकेति।<\/w> पचाद्यच्। स्थग्रहणं विस्पष्टार्थम्। ककारमात्रस्य प्रत्ययस्याभावादेव तात्स्थ्यलाभात्। पूर्वस्य किम्। सर्विकेत्यादौ टाबेकादेशं बाधित्वा कात्परस्य मा भूत् 'तस्मादित्युत्तरस्य' इति परिभाषणात्। यत्तु - 'वार्णादाङ्गम्' इति परिभाषया एकादेशो बाद्ध्येतेत्याहुः। तन्न अपवादे परत्वस्येव उक्तपरिभाषाया अपि निष्फलत्वात्। वस्तुतस्तु 'प्रत्ययस्थे कि' इति सप्तमीनिर्देश एवोचितः। पूर्वग्रहणं च सुत्यजम्। अत इति तपरः किम्ॽ 'कृदाधारार्चिकलिभ्यः कः'। धाका। राका। मामिकेति।<\/w> 'केवलमामक' इत्यादिना संज्ञाच्छन्दसोरेवेति नियमान्न ङीप्। त्यक्त्यपोरिति।<\/w> 'उदीचामातः स्थान' इति विकल्पस्यापवादः। दाक्षिणात्यिकेति।<\/w> दक्षिणस्यामदूरे दक्षिणा आजन्तः। दक्षिणा भवेति विग्रहः। यत्तु— दक्षिणस्यां दिशि भवेति प्राचा विगृहीतम्; तन्न, त्यग्विधावव्ययसाहचर्यादाजन्तस्यैव दक्षिणाशब्दस्य ग्रहणात्। अन्यथा— 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवद्भावापत्तेश्च। यत्तु- समासे एव पुंवदिति तन्नेति वक्ष्यते। त्यकि 'किति च' इत्यादिवृद्धौ टाप्, ततोऽज्ञाताद्यर्थे कः। 'केऽणः' इति ह्रस्वष्टाप्। इहत्यिकेति।<\/w> 'अव्ययात्यप्'।", "73045": "अत्र न्यासकारः। या इत्येतस्य 'उदीचामातः स्थाने' इति विकल्पे प्राप्ते निषेधोऽयमिति; तन्न, 'आतः स्थाने' इत्यंशस्येहाभावात्। या सेति यत्तदोरुपलक्षणमित्याशयेनाह— यत्तदोरिति।<\/w> स्वरूपस्याविवक्षायां फलमुदाहरति- यकां, तकामिति।<\/w> यासयोरित्यपहाय यत्तदोरित्येव वक्तुमुचितम्। उपत्यकेति।<\/w> 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' इति। 'क्षिपकादीनां च'।<\/w> नेत्यनुषज्यते। क्षिपकेति।<\/w> क्षिपेरिगुपधलक्षणः कः। ततोऽज्ञातादौ कः। चट भेदने। पचाद्यच्। ततः कः। तारकेति।<\/w> तरतेर्ण्वुल्। ज्योतिर्नक्षत्रं, नेत्रकनीनिका च। वर्णका- प्रावारविशेषः। तन्तूनां विकारस्तान्तवम्। 'ओरञ्'। अन्यत्र वर्णिकेति। ग्रन्थविशेषस्य व्याख्या स्तोत्रकर्त्री च। वर्तयतीति वर्तका-<\/w> शकुनौ इत्त्वं वा। अन्यत्र नित्यमेव। पितरश्च ताः देवताश्च पितृदेवतास्तदर्थं कर्म पितृदेवत्यम्। 'देवतान्तात्तादर्थ्ये यत्' इति यत्। अश्नन्ति ब्राह्मणा यस्यां सा अष्टका। 'इष्यशिभ्यां तकन्'। अष्टिकान्येति।<\/w> अष्टौ परिमाणमस्याः 'संख्याया अतिशदन्तायाः कन्'। अर्थगतं स्त्रीत्वमाकारेऽद्ध्यारोप्य 'यकपूर्वायाः' इति स्त्रीलिङ्गनिर्देशः। तेन स्त्रीप्रत्ययो लभ्यत इत्याशयेनाह—", "73046": "साङ्काश्यिकेति।<\/w> सङ्काशेन निर्वृत्तं साङ्काश्यम् 'वुञ्छण्' आदिसूत्रेण सङ्काशादिभ्यो ण्यः। ततो भवार्थे 'धन्वयोपधाद् वुञ्' अकादेशः। स च साङ्काश्यभवां स्त्रियमाहेति तदकारस्यापि इत्त्वं विकल्प्येत; तस्मादात इत्युक्तम्। ननु यथायमकारो नाकारस्थानिक एवं स्त्रीप्रत्ययस्थानिकोऽपि नेति द्व्यङ्गविकलमेतत्। अत्राहुः— सति ह्यात इत्येतस्मिन् स्त्रीलिङ्गनिर्देशबलात् स्त्रीवाचक आकारः स्त्रीप्रत्यय एवेति लभ्यते। असति तु तस्मिन् स्त्रीवाचकस्य योऽकार इत्येतावल्लभ्येत ततः साङ्काश्यिकेत्यत्रापि प्रसज्येतेति। अत्रेदं वक्तव्यम। यकपूर्वायाः स्थाने, इति स्थानेशब्दे जागरूके कथमवयवषष्ठीत्वं गम्यताम्। न च वुञः स्थानेऽयमिति वाच्यम्, अकेति समुदायस्य तथात्वेऽपि अकाररूपावयवस्याऽतथात्वात्, वुञो यकपूर्वत्वाभावाच्च। न हि तस्यामवस्थायां 'यस्य' इति लोपोऽपि लभ्यते। किं च प्रतिपदोक्तस्य स्त्रीप्रत्ययस्य लाभे भवार्थे विहितस्य वुञादेः प्रसङ्ग एव नास्ति। तस्मादात इति स्पष्टार्थमेव। अश्विकेति।<\/w> कौमारास्तु भस्त्रादिवाक्येऽश्वशब्दमपि पठन्तोऽस्यापि इत्त्वविकल्पमिच्छन्ति। शुभमिति मान्तो निपातः। सुष्ठु नयो यस्याः सा सुनया। ततः कः। ॥", "73047": "तदन्तेति।<\/w> आङ्गत्वादिति भावः। एवं चेति।<\/w> उक्तं च हरदत्तेन— अत्रातः स्थान इत्येतत्स्वशब्दस्य विशेषणम्। सम्भवव्यभिचारौ हि तत्र स्तः काकचोः सतोः॥ द्वैषयोः सम्भवो नास्ति, नान्यत्र व्यभिचारिता। सर्वनाम्नः स्वशब्दस्य तेन नाऽयं विधिर्भवेत्॥ इति॥ इह स्वशब्दस्येत्यस्याऽनन्तरमत इति शेषो बोध्यः। एतच्च इह मूलेऽपि ध्वनितम्। एवंच- हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिमिव स्विकायाम्। इति श्रीहर्षश्लोके 'भस्त्रैषा' इति वैकल्पिकमित्वमिति व्याचक्षाणा उपेक्ष्या इति भावः। आत्मीयायामिति।<\/w> आत्मज्ञातिधनेषु तु स्त्रीत्वमेव नास्तीति भावः। यत्तु— ज्ञातिधनयोः स्वका, स्विका, इति रूपद्वयमाकरे स्थितमित्याहुः; तच्चिन्त्यम्। तादृशस्याऽऽकरस्याऽप्रसिद्धेः, लिङ्गानुशासनविरोधाच्च। यत्तु- स्वका, स्विका, इति काशिकायामुदाहृतं, तत्संज्ञाविषयकं, न तु ज्ञातिविषयकम्। यदपि 'स्वार्थिकाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति परिजह्रुः। तदपि चिन्त्यम्, उक्तरीत्या कप्रत्ययान्ताट्टाप्सम्भवेऽपि प्रकृतेरस्त्रीलिङ्गतया 'आतः स्थाने' इत्यंशस्य दुरुपपादत्वात्। प्रत्युदाहरणान्युक्त्वा उदाहरणान्याह- निर्भस्त्रिकेत्यादि।<\/w> निष्क्रान्ता भस्त्राया निर्भस्त्रा। उपसर्जनह्रस्वः, टाप्, ततोऽज्ञातादौ कः। कृतषत्वेति।<\/w> सूत्रे विकृतनिर्देशो विवक्षितविषयो न तु 'न यासयोः' इतिवदुपलक्षणमिति भावः। स्त्रीलिङ्गनिर्देशादजादयः स्त्रीलिङ्गा एव गृह्यन्ते। तेनेह न, शुभ्रोऽजोऽस्याः शुभ्राजिका। जानातीति ज्ञः। प्रियो ज्ञोऽस्याः प्रियज्ञिका इति।", "73048": "विहितविशेषणतया व्याख्यायाः फलमाह— नित्यमिति।<\/w> अस्य विकल्पस्याप्रवृत्तेः 'प्रत्ययस्थात्' इत्युत्सर्ग एव प्रवर्तत इत्यर्थः। परविशेषणत्वे त्वयं विकल्पः स्यादेवेति भावः। बहुव्रीहेरित्युपसर्जनोपलक्षणम्। तेनाऽतिखट्विका, निःखट्विकेत्यादावपि नित्यमेव। शैषिके कपीति।<\/w> 'आपोऽन्यतरस्याम्' इति ह्रस्वपक्षे इति भावः।", "73106": "एङ्-ह्रस्वादिति।<\/w> परत्वात्, प्रतिपदोक्तत्वाच्च 'सम्बुद्धौ च' इत्येत्वे कृते हल्ङ्यादिलोपो न प्राप्नोति, स्थानिवद्भावादाप्त्वेऽप्याकाररूपत्वाभावात्। आआबित्याकारं प्रश्लिष्य दीर्घग्रहणप्रत्याख्यानात्। यथाश्रुतेऽपि 'एङ्-ह्रस्वात्' इति लोपस्यैव परत्वेन न्याय्यत्वादिति भावः।", "73113": "यद्यपि यडित्येवोचितम्। न च 'अतो गुणे' इति पररूपापत्तिः, अकारोच्चारणसामर्थ्येनैव तद्बाधात्, तथाप्युच्चारणार्थोऽकार इति सम्भाव्येत। अतः स्पष्टार्थं याट् कृतः। वृद्धिरेचीति।<\/w> यत्तु प्राचा 'आटश्च' इत्युदाहृतम्, तन्न, याट्स्याटोष्टकारस्य समुदायानुबन्धत्वेनेह आटोऽभावात्।", "73114": "दीर्घोच्चारणं प्राग्वत्। अत्र वदन्ति— सर्वनाम्नोऽसुङ् चेत्येव सूत्र्यताम्। एवं च याटि परे ङित्वादन्त्यादेशे असुङि सर्वस्या इत्यादि सिद्धम्। स्याट्करणे ह्रस्वविधाने च प्रयोजनं चिन्त्यमिति। अत्रेयं चिन्ता— असुङ् चेत्युक्तेऽमुष्मै इत्यादि न सिद्ध्येदिति। वस्तुतस्तु आमि सर्वनाम्नः सुट् याटो ह्रस्वश्चेति सूत्रयितुं युक्तम्। न चैवं याट एव ह्रस्वापत्तिः, दीर्घोच्चारणसामर्थ्यात्। ह्रस्वोच्चारणेऽप्यकारसामर्थ्यादेवातो गुणस्य वारयितुं शक्यत्वादित्यवधेयम्।", "73115": "तीयस्येति।<\/w> इदं हि पुंनपुंसकयोरावश्यकम्। अनेनैव सिद्धौ 'विभाषा द्वितीयातृतीया' इति सूत्रं न कर्तव्यमिति भावः॥ अम्बार्थनद्योः इति<\/w> अत्र वार्तिकम्— 'मातुर्मातच्पुत्रार्थमर्हते' इति। मातृशब्दस्य सम्बुद्धौ मातजादेशो भवति मात्रा पुत्रस्य श्लाघ्यत्वे द्योत्ये। गार्गी माताऽस्य गार्गीमातृकः। तस्य सम्बोधनं हे गार्गीमात। 'नद्यृतश्च' इति समासान्तस्यापवादोऽयम्। यत्र तु श्लाघ्यत्वं न द्योत्यं किं तु स्वरूपकथनमात्रं तत्र कबेव— गार्गीमातृक। आबन्तं यदङ्गमिति।<\/w> यत्तु 'याडापः' इति सूत्रं व्याचक्षाणैरुक्तम्— अतिखट्वायेत्यत्र लाक्षणिकत्वान्न याट्, एवमतिसर्वायेत्यत्र न स्याडिति; तद्रभसात्, न ह्यतिदेशविषये लक्षणप्रतिपदोक्तपरिभाषा प्रवर्तते, अतिदेशवैयर्थ्यापत्तेः। तेन याट् दुर्वारः। स्याटस्तु प्रसङ्ग एव नास्ति। संज्ञोपसर्जनयोः पाठात् पर्युदासात्।", "73118": "एतच्च नदीसंज्ञकेषु 'इदुद्भ्याम्' इति पूर्वसूत्रेण बाध्यते, घिसंज्ञकेषु 'अच्च घेः' इत्युत्तरसूत्रेण। तस्मात् संज्ञाद्वयशून्योऽस्य विषयः। न च तादृश उकारोऽस्ति, अत आह— उकारेति।<\/w> यत्तु प्राचा घिनदीसंज्ञावर्जिताभ्यामिदुद्भ्यां परस्येत्युक्तम्। तन्न, तादृशोकारस्याप्रसिद्धेः। समुदायस्येति।<\/w> न च पर्युदासेऽपि पर्युदस्यमानसमर्पके सखिशब्दे तदन्तग्राहकत्वं शङ्क्यम्, विशेष्यासन्निधानात्। यत्त्विह 'ग्रहणवता' इत्याद्युपन्यस्तं हरदत्तेन, यच्च ख्यत्यात्सूत्रे कैयटेन, तन्न, तस्य प्रत्ययविधिविषयत्वात्। गौणत्वेऽपीति।<\/w> अस्थ्याद्यनङ्वदिति भावः। तथा च 'येन विधिः' इति सूत्रे 'परमसखायाविति बहुव्रीहिः, तत्पुरुषे हि टचा भाव्यम्' इति कैयटः। तथा 'द्वितीया श्रित—'इति सूत्रे सोमसखेति प्रतीकमुपादाय बहुव्रीहित्वान्न समासान्त इति कैयटः। 'मिदचोऽन्त्यात्' इति सूत्रे 'तृज्वत्क्रोष्टुः' 'स्त्रियां च' इति सूत्रे च भाष्यकैयटयोः ख्याधातौ माधवग्रन्थे च स्फुटमेतत्। 'अनुद्युक्षो वरुण इन्द्रसखा' 'आग्नेया हि मरुत्सखा' 'तीव्रं सोमं पिबति गोसखायम्' इत्यदिप्रयोगाश्चैवमेव सङ्गच्छन्ते। तत्र बहुव्रीहिप्रयुक्तस्य पूर्वपदप्रकृतिस्वरस्य दर्शनेन गौणत्वात्। एतेन घिसंज्ञासूत्रे शोभनः सखा यस्य सुसखिरित्युदाहरन्तौ हरदत्तन्याससकारौ तदनुगामिनश्चान्ये उपेक्ष्याः।", "73119": "'इदुद्भ्याम्'इति 'ङे' इति 'औत्'इति च पदत्रयमनुवर्तते इत्याशयेन व्याचष्टे—", "73120": "पुंसीति तु नोक्तम्, अमुना कुलेनेत्यत्र यथा स्यात्। न च नुमा रूपसिद्धिः। मुत्वस्यासिद्धत्वात् 'इकोऽचि' इति नुमोऽप्राप्तेः। नादेशे तु नासिद्धत्वं 'नमुने' इति निषेधात्। न च 'नमुने' इति निषेधो नुम्येवास्तु, ने इत्यकारस्योच्चारणार्थत्वादिति वाच्यम्. अमुष्मै कुलायेत्याद्यसिध्यापत्तेः।", "74048": "आशिषाविति।<\/w> 'आशासः क्वावुपसंख्यानम्' इत्युपधाया इत्वम्। 'शासिवसि' इति षत्वम्। इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां हलन्ताः स्त्रीलिङ्गाः॥", "81020": "षष्ठ्यादिविशिष्टयोरिति।<\/w> एतच्च सर्वस्य 'पदस्य' इत्यधिकाराल्लभ्यते। स्थग्रहणं तु विभक्तौ श्रूयमाणायामेव यथा स्यान्न तु लुप्तायामित्येतदर्थमिति वक्ष्यति।", "81023": "वेदैरशेषैरिति।<\/w> युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णः सर्वदाऽवतु। इति तु प्राचः पाठस्त्यक्तः, अस्मानित्यस्य समानवाक्यस्थत्वाभावादेवाऽप्राप्तेः। स्थग्रहणादिति।<\/w> तिष्ठतिरिहाऽहानौ वर्तते। यथा- समये तिष्ठ सुग्रीवेति, समयं मा हासीरिति गम्यते। तेन षष्ठ्यादीनजहतोरेवादेशा इत्यर्थः। इति युष्मत्पुत्र इति।<\/w> युवयोर्युष्माकं वा पुत्र इति विग्रहः। पदात् परत्वं सम्पादयितुमिति शब्दः। प्राचा तु नासौ प्रयुक्तः। तत्र पदात् परत्वाभावादेवादेशो न भविष्यतीति किं स्थग्रहणेन॥", "81024": "चादिपञ्चकेति।<\/w> पञ्चानां मध्येऽन्यतमेन योग इत्यर्थः॥ युक्त इति।<\/w> 'नपुंसके भावे क्तः'॥", "81025": "अत एव निपातनाद् भावे शः। दर्शनं पश्यः। तच्चेह ज्ञानमात्रम्। 'अदर्शनं लोपः' इत्यत्र यथा। न तु चाक्षुषज्ञानमेव, ' अनालोचने' इति निषेधात्। तदतदाह- भक्त इत्यादि।<\/w> अत्र व्याचख्युः—येन हरेस्त्वं भक्तस्तेनैव कारणेनाऽहमपि भक्त इति योज्यम्। यदि तु तेनेत्यनेन भक्तत्वं त्राणे हेतुर्निर्दिश्यते, ततः सापेक्षविधाने त्वमेव तदिममितिवदन्वादेशो न स्यादिति। अत्रेदं वक्तव्यम्- सापेक्षविधानेऽन्वादेशत्वं नास्तीति तावदसङ्गतम्। आदेशो हि विधिः। किञ्चिद्विधाय पश्चादितरविधिश्चान्वादेशो, न तु निरपेक्षत्वगर्भोऽशब्दार्थत्वात्, शास्त्रे तथा अपरिभाषितत्वाच्च। न च प्रयोगदर्शनादेव तथा कल्प्यत इति वाच्यम्? वन्यद्विपनोन्मथिता त्वगस्य, अथैनमद्रेस्तनया शुशोच॥ इत्यादिषु सापेक्षत्वेऽपि एनादेशदर्शनात्। तत्र हेतुत्वं न शब्देनोपात्तमिति चेन्न, तदेनमुल्ल्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम्॥ इत्यादिमाघप्रयोगविरोधात्। नक्तं भीरुरयमिति तु नायं विधिः किं त्वनुवादः। अतस्तदिममिति न विरुध्यते। एवं स्थिते येन त्वं भक्त इति यच्छब्दाध्याहारक्लेशो व्यर्थः। किं तु तेन त्रायत इत्येव सम्बन्धः। प्रक्रान्तार्थत्वाच्च न यच्छब्दापेक्षेति दिक्। अत्र तेनेति विद्यमानं पदं, ततो हरिरिति प्रथमान्तं, ततः परस्याऽऽदेशः। तथा त्रायत इत्यस्मात् परं स इति प्रथमान्तम्। न च त्रायत इति भिन्नवाक्यस्थमिति भ्रमितव्यम्, स हरिस्त्वां मा त्रायत इति तन्त्रेणाऽनेककारकसम्बन्धात्। अनुषङ्गाभ्युपगमेऽपि 'एकतिङ् वाक्यम्' इति परिभाषितैकवाक्यत्वानपायाच्च।", "81072": "यत्तु प्राचोक्तम्— विशेष्यपूर्वं सम्बोधनेतरपूर्वं च सम्बोधनं हित्वाऽन्यस्मात् सम्बोधनात् परयोर्नैते आदेशा इति केचिदिति। तत्र केचिदित्यनुचितम्, उक्तार्थस्य प्रकृतद्विसूत्रीसिद्धत्वात्। यच्च व्याचख्युः-त्रिसूत्र्या अयमर्थ इति तन्न, तृतीयसूत्रार्थस्य तेनाऽसंस्पर्शात्।", "82001": "यद्ययं स्वतन्त्रो विधिः स्यात्, तर्हि 'त्रिपादी पूर्वं प्रत्यसिद्धा' इत्येव लभ्येत, त्रैपादिकम तु पूर्वं प्रति परं नासिद्धं स्यादत आह— अधिकारोऽयमिति।<\/w> यद्यत्र कार्यासिद्धत्वमिष्येत, तर्हि पूर्वत्रासिद्धमिति 'मनोरथः' इत्यादावुत्वं न स्यात्, परत्वात् <<रो रि>> [[8.3.14]] इत्यस्य प्रसङ्गात्। तथा च 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति सिद्धान्तो व्याकुप्येत। अमू, अमी इत्यादि च न सिध्येदत आह— त्रिपादीति, परं शास्त्रमिति च<\/w> । एतेन त्रिपाद्यां विहितं कार्यमित्यादिः प्राचां ग्रन्थः परास्तः। विवृण्वते कण्ठमिति॥<\/w> विवार एषां प्रयत्न इति भावः। वर्गयमगा इति॥<\/w> वर्गगा यमगाश्चेत्यर्थः। कादय इति॥<\/w> लोकप्रसिद्धपाठापेक्षमिदम्, चतुर्दशसूत्र्यां मावसानत्वायोगात्। अर्धविसर्गेति॥<\/w> सादृश्यमुच्चारणे लेखने च बोध्यम्। ऋऌवर्णयोरिति॥<\/w> आ च आ च रलौ, तौ च तौ वर्णौ चेति विग्रहः, उश्च उल् च ऋलोः, तयोःर्वर्णयोरिति वा; प्रथमान्तेन, परिनिष्ठितविभक्त्या वा विग्रह इति सिद्धान्तात्। <<ऋत्यकः>> [[6.1.128]] इति प्रकृतिभावः।", "82002": "इत्यसिद्धत्वादिति।<\/w> नियमसूत्राणां विधिरूपेण प्रवृत्तिः सामान्यशास्त्रतात्पर्यसङ्कोचकतया चेति पक्षस्य 'द्युद्भ्यो लुङि' इति सूत्रे भाष्यकृता ध्वनितत्वादिति भावः। निषेधरूपेण प्रवृत्तिरिति पक्षे तु 'पूर्वत्रासिद्धम्' इत्यनेनेति बोध्यम्। सुब्विधिमुदाहरति— आत्वमित्यादिना।<\/w> स्वरविधौ तु —पञ्चार्मम्। 'दिक्सङ्ख्ये संज्ञायाम्' इति समासे नलोपे कृते अवर्णान्तं पूर्वपदं जातमिति 'अर्मे चावर्णं द्व्यच्त्र्यच्' इति पूर्वपदाद्युदत्तत्वं प्राप्तं नलोपस्यासिद्धत्वान्न भवति। संज्ञाविधौ- 'पञ्चेत्यत्र नलोपे कृतेऽपि' इत्यादिना स्त्रीप्रत्ययेषु वक्ष्यति। कृति तुग्विधौ तु—वृत्रहभ्याम्। 'ह्रस्वस्य पिति' इति तुग् न। कृति किम्? वृत्रहच्छत्रम्। 'छे च' इति तुक् स्यादेव। प्रतिदिवेति।<\/w> 'कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः' इति कनिन्। 'हलि च'॥ यत्तु प्राचा 'उपधायां च' इत्युपन्यस्तम्; तन्न, दिवेर्वकारस्यानुपधत्वात्।", "82003": "ने इति विषयसप्तमीत्याह— नाभावे कर्तव्ये इति।<\/w> अन्यथा घेः परत्वाभावान्नाभावो न स्यादिति भावः। नन्वेवमपि कृते नाभावे 'सुपि च' इति दीर्घः स्यात्, दीर्घं प्रति मुत्वस्यासिद्धत्वादत आह— कृते चेति।<\/w> सन्निपातपरिभाषया वा समाधेयम्। अत्रेदमवधेयम्— अधुनेतिवदमुनेति वक्तव्ये 'न मु ने' इत्युक्तिर्नेति योगविभागार्था। तेन रामो रामेभ्य इत्यादि सिद्ध्यति। अन्यथा रोरसिद्धतयोकारस्येत्संज्ञालोपौ कथं स्याताम्। न चानुनासिकनिर्देशसामर्थ्यादित्संज्ञालोपौ प्रत्यसिद्धत्वं नेति वाच्यम्? तरुमूलमित्यादौ 'हशि च' इत्यस्य व्यावृत्तये 'अतो रोः' इत्यत्रानुनासिकस्यैव निर्देशेन तत्रैव चरितार्थत्वात्। न च 'अतो रोः' इत्यत्र मास्त्वनुनासिकता, प्रतिपदोक्तग्रहणेनैव निर्वाहादिति वाच्यम्? एवमपि देव रुहीत्यत्र रुधातोर्दुर्वारत्वात्। राम इत्यादावप्यनुनासिकस्य रोः श्रवणस्याऽऽपाद्यमानतया चरितार्थत्वस्य सुवचत्वाच्च। एवं च स्थानिवत्सूत्रस्यापि प्रवृत्तौ पदत्वाद्विसर्गोऽपि लभ्यते। 'प्रत्ययः' 'परश्च' इत्यादिनिर्देशा यत्वविधावश्ग्रहणं चेह लिङ्गमिति दिक्॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां हलन्ताः पुँल्लिङ्गाः॥", "82007": "लुप्तषष्ठीके इति।<\/w> सौत्रत्वान्न तु षष्ठीतत्पुरुषयोः पूर्वपदे, सापेक्षत्वेन समासासम्भवात् प्रातिपदिकस्य पदविशेषणत्वाच्चेति भावः। तदन्तस्येति।<\/w> षष्ठीतत्पुरुषः। तस्यान्तो यो नकारस्तस्येत्यर्थः। उक्तं च हरदत्तेन— 'विशेष्यमन्तस्येत्यस्य नेत्येतदविभक्तिकम्, तथैव प्रातिपदिकेत्येतत्पदविशेषणम्' इति। यत्तु प्राचोक्तं— प्रातिपदिकान्तस्य पदान्तस्य नस्येति। यच्च व्याख्यातम्—अन्तस्येत्युभाभ्यां संबध्यते इति। तद्गौरवग्रस्तम्, अन्तस्येत्यस्यावृत्तिप्रसङ्गाद् व्यधिकरणषष्ठीद्वयापत्तेश्च। यदि तु अभेदेनैव सम्बन्धेन प्रातिपदिकेनेव नेत्यनेनापि पदं विशेष्यते, तदा विशेषणेन तदन्तविधौ सौत्रमन्तग्रहणं शक्यमकर्तुम्।", "82008": "ङौ सम्बुद्धौ चेति।<\/w> प्राचामनुरोधेनेत्थं व्याख्यातम्। ङ्यन्तस्य सम्बुध्द्यन्तस्य च पदस्येति षष्ठ्यन्ततया व्याख्यानं तूचितम्। एवं हि प्रत्ययलक्षणं सुलभमिति तदर्थनिषेधसामर्थ्यानुसरणक्लेशो न कर्तव्यः। पूर्वस्मादपि विधौ स्थानिवत्त्वमाशङ्क्याह— षाष्ठीमिति।<\/w> 'वाह ऊठ्' इत्यत्र ज्ञापितत्वेन तद्देशस्थत्वादिति भावः।", "82023": "तदन्तस्येति।<\/w> अलोऽन्त्यपरिभाषयेति भावः। यद्यपि विशेषणेन तदन्तविधिलाभात् संयोगस्येत्येव सूत्रयितुमुचितं तथापि प्रत्येकं संयोगसंज्ञेति पक्षे दृषत्करोतीत्यादौ लोपं वारयितुं संयोगावन्तौ यस्येति द्विवचनान्तेन समासलाभार्थमन्तग्रहणम्। वृत्तौ हि उपसर्जनानामेकत्वसंख्यौत्सर्गिकी द्वित्वादिकं तु प्रयत्नलभ्यमिति भाष्ये स्थितम्॥ 'यण—'<\/w> इति वाचनिकम्। यद्वा वाच्यो व्याख्येयः। व्याख्या च द्वेधा— <<झलो झलि>> [[8.2.26]] इत्यतो झल्ग्रहणमपकृष्य झल एव लोपो विधीयते इति, अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यणोऽसिद्धत्वमिति वा। न च षाष्ठी असिद्धपरिभाषा त्रिपादीस्थत्वेनासिद्धमन्तरङ्गं लोपं न पश्यतीति वाच्यम्। कार्यकालपक्षाभ्युपगमात्। न च 'नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः' इति निषेधः। तस्यानित्यत्वात्, उत्तरकालप्रवृत्ते लोपे अजानन्तर्याभावाच्च। तथा च वार्तिकम्—'संयोगान्तस्य लोपे यणः प्रतिषेधः','न वा झलो लोपाद्', 'बहिरङ्गलक्षणाद्वा' इति। इह यथोद्देशपक्षे आद्यं वार्तिकद्वयम्, तृतीयं तु कार्यकालपक्षे इति विवेकः। यत्त्वाहुः— वार्तिककृतो वचनं, प्रत्याख्यानप्रकारद्वयं तु भाष्यकृत इति। तन्निर्मूलम्, मतभेदे प्रमाणाभावात्। यदप्याहुः—काव्यं, कलत्रं, शाल्वं चाचक्षाणः काव्, कलत्, शाल्; अदभ्रयतेरघब् इति, तदपि न, पक्षत्रयेऽपि संयोगान्तलोपस्य दुर्लभत्वात्। आद्यपक्षस्यैकरूप्यार्थं पूर्वं पूर्वमन्तरङ्गं परं परं बहिरङ्गमित्यल्लोपणिलोपयोरसिद्धत्वस्य सुवचत्वात्। अत एव कातन्त्रपरिशिष्टे शुक्लयतेः क्विपि शुक्ल् इत्युदाहृतम्। वान्तयोः क्विपि ऊठो दुर्वारत्वात्। न च स्थानिवत्वम्, क्वौ विधिं प्रति तन्निषेधात्; विचि <<लोपो व्योः—>> [[6.1.66]] इति लोपस्य प्रसङ्गाच्च। गिरिवेश्मयतेस्तु क्विपि यणः प्रतिषेधार्थं वचनारम्भपक्षे गिरिवेडित्युचितम्। प्रत्याख्यानपक्षे तु मान्तमेवेति दिक्। इति पक्ष इति॥<\/w> पक्षद्वयस्यापि भाष्ये स्थितत्वादिति भावः। चत्वारि रूपाणीति।<\/w> यत्तु वदन्ति— धकारयकारोभयद्वित्वे उभयोः पुनर्द्वित्वे लोपविकल्पेऽन्यतरद्वित्वे च नव रूपाणि। तथा हि— एकधं त्रिधा—एकयं द्वियं त्रियं च। एवं द्विधं त्रिधं च त्रिधेति। न चान्तरङ्गे द्वित्वे बहिरङ्गस्य यणोऽसिद्धत्वम्, त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषा न प्रवर्तत इति विसर्जनीयसूत्रे भाष्यकैयटयोर्व्यवस्थापितत्वादिति। अत्रेदं वक्तव्यम्— पुनर्द्वित्वमशुध्दम्, एकस्यां व्यक्तौ एकं लक्षणं सकृदेव प्रवर्तते इति <<एकः पूर्वपरयोः>> [[6.1.84]] इति सूत्रे भाष्ये सिद्धान्तितत्वात्। अन्यथा द्वित्वानामनन्त्यापत्तेः। न च <<झरो झरि>> [[8.4.65]] इति <<हलो यमाम्—>> [[8.4.64]] इति च लोपेन निर्वाहः, लोपस्य वैकल्पिकत्वात्। कथमन्यथा त्रिधं त्रियं चेति भवदुक्तिः सङ्गच्छेत। किं चैवं सति <<सर्वस्य द्वे>> [[8.1.1]] इति पुनः पुनः प्रवर्तेत। अत एव <<लिटि धातोः>> [[6.1.8]] इति सूत्रेऽभ्यासग्रहणं भाष्ये प्रत्याख्यातम्। सन्नन्ताद्यङन्ताद्वा णिचि चङि द्वित्वाभावार्थं तदिति तु कैयटादिभिरुक्तम्। तस्मादिह त्यज वा पञ्चमादीनि रूपाणि स्वीकुरु वा रूपानन्त्यमिति नवत्वोक्तिरसङ्गतैव। सकारद्वित्वेनाष्टौ, विसर्गद्वित्वेन षोडशेति त्वन्यदेतत्। यदप्युक्तं त्रैपादिकेऽन्तरङ्गे इत्यादि, तदपि न, 'नार्कुट' 'नार्पत्यः' इत्यत्र विसर्गवारणाय वृद्धेरसिद्धत्वस्य तत्रैव भाष्ये स्पष्टत्वात्। 'संयोगान्तलोपे यणः प्रतिषेधः' इत्यस्य बहिरङ्गत्वेन प्रत्याख्यातत्वात्। स्वयमपि तथैवानूदितत्वाच्च। तस्मादिह यथोद्देशपक्षो ग्राह्यो बहिरङ्गपरिभाषाया अप्रवृत्तये। तथा च भाष्ये मयः परस्य यणो द्वित्वे 'दध्यत्र' इत्युदाह्मतम्। न चैवमपि <<इकोऽसवर्णे—>> [[6.1.127]] इति शाकलेन रूपान्तरनस्त्विति वाच्यम्। समासे तन्निषेधात्। न च नित्यसमास एव तन्निषेध इति वाच्यम्। भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात्। यथोत्तरं मुनीनां प्रामाण्यात्। नन्विह यणेव दुर्लभः, सुधीशब्दस्य ध्यायतेः सम्प्रसारणेन निष्पन्नत्वेन <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपापत्तेः; इति चेत्? न, 'सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम्' इति वार्तिकोक्तेः, सम्प्रसारणस्थानिकस्यातथात्वाच्च। न चैवमपि <<नभूसुधियोः>> [[6.4.85]] इति यण्निषेधः शङ्क्यः, आङ्गत्वेन प्रत्यये परत एव तस्य प्रवृत्तेः, अनन्तरस्येति न्यायेन <<एरनेकाचः—>> [[6.4.82]] इति <<ओस्सुपि>> [[6.4.83]] इति च सूत्रद्वयेन प्राप्तस्यैव निषेधाच्च। धात्रंश इति।<\/w> अत्र रेफस्य द्वित्वं न । द्वित्वप्रकरणे रहाभ्यामिति साक्षाच्छ्रुतेन निमित्तभावेन रेफस्य कार्यित्वबाधात्। सुध्युपास्य इत्यादौ तु स्थानित्वेन निमित्तत्वमिकः <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यादिनिर्देशाज्ज्ञापकान्न बाध्यत इति कैयटः। तकारस्य तु भवत्येवेत्युक्तम्, तच्च वा; इत्यतोऽत्र रूपद्वयम्। लाकृतिरिति त्वेकमेव।", "82024": "इह तकारोऽपि प्रश्लिष्यत इति पक्षान्तरम्। तेन हल्ङ्यादिसूत्रस्थाने ङ्यापः सोरिति निष्कर्षे अबिभर्भवानित्यादि सिध्यति। अजर्घर्त् इत्यत्र तु चर्त्वस्यासिद्धत्वात् तलोपो न। ननु कीर्तयतेः क्विपि कीर्त् इह स्यादिति चेत्? न 'यथालक्षणमप्रयुक्ते' इति भाष्यम्। एतेनावर्वर्त् इति व्याख्यातम्। नुमचिरेति।<\/w> ननु रेण स्वविषये प्राप्तं सर्वं बाध्यम्, बाध्यसामान्यचिन्ताश्रयणात्। तथा च वक्ष्यते— 'गुणदीर्घोत्वानामपवाद' इति । एवं चाविशेषाद् नुडप्यनेन बाध्यः। तत्कथं विप्रतिषेधः। उत्सर्गापवादयोस्तदयोगादिति चेत् ?सत्यम्, अत एव तदंशे विप्रतिषेधं दूषयित्वा 'न तिसृचतसृ' इति ज्ञापकात् नुडिति भाष्यकृतोक्तमिति सन्तोष्टव्यम्। । ॥ इत्युदन्ताः ॥ हूहूरिति।<\/w> अव्युत्पन्ना संज्ञेयम्। अतिचमूशब्दे त्विति।<\/w> 'प्रथमलिङ्गग्रहणं च' इत्युक्तेः। तथा च एवमतिचम्वादय इति प्राचो ग्रन्थो भाष्यविरुद्ध इति भावः।", "82029": "संयोगेति लुप्तषष्ठीकं झलन्ताभ्यां विशेष्यते इति व्याचष्टे— पदान्त इत्यादिना।<\/w> भृज्जतीति भृट्। क्विप्। सस्येति।<\/w> जश्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वमित्यर्थः। एतेन प्राचो विपरीतोक्तिः प्रत्युक्ता। ऊर्गिति।<\/w> ऊर्ज बलप्राणनयोः। अस्माच्चुरादिण्यन्तात् 'भ्राजभास' इत्यादिना क्विप्। णिलोपः। स च चोः कुत्वे न स्थानिवत्, पदान्तविधित्वात् पूर्वत्रासिद्धत्वाच्च। इह जान्तेष्ववया इति नोदाहृतम्। मन्त्रे श्वेतवहोक्थेति प्रकृत्य 'अवे यजः' इति विहितस्य ण्विनस्तदपवादस्य पदान्ते डसश्च छान्दसत्वात्। यत्तु— श्वेतवाडुक्थशास्पुरोडाशावयजां डसिति प्राचोक्तम्; तन्न, डसः प्रकृतिभूतययोर्वहियज्योर्दीर्घाभावात्। यदपि अवया इति प्रतीकमुपादाय ण्विनिति प्राचा व्याख्यातम्। तन्न, अपवादस्य डसो विषये उत्सर्गस्य ण्विनोऽप्रवृत्तेः।", "82030": "खन् इति<\/w> । खञ्जतीति खन्। खजि गतिवैकल्ये। 'परौ व्रजेः'। दीर्घश्चेति। यत्तु प्राचा व्याख्यातं विण्, णित्त्वादुपधावृद्धिरिति; तन्न, पञ्चपाद्यां दशपाद्याञ्चानेन क्विब्दीर्घयोरेव विधानात्।", "82031": "लिट्सु, लिट्त्स्विति।<\/w> ढस्य जश्त्वेन डः, तस्य 'खरि च' इति चर्त्वेन टः, तस्यासिद्धत्वात् 'डः सि' इति धुट्, चर्त्वम् तकारः। 'न पदान्ताट्टोः' इति ष्टुत्वनिषेधः। 'चयो द्वितीया' इति तु नेह प्रवर्तते, चर्त्वस्यासिद्धत्वात्। एतेन ते च प्रत्याहारा एकचत्वारिंशदिति प्राचो ग्रन्थं व्याचक्षाणैर्यदुक्तं लिट्सु लिठ्स्विति टठभ्यां रूपद्वयमिति, तत् प्रत्युक्तम्। तथा च प्रातिशाख्येऽपि 'ऊष्मोदयं प्रथमं स्पर्शमेके द्वितीयमाहुरपदान्तभाजम्' इति श्लोकेऽपदान्तेत्यादिविशेषणं सङ्गच्छते।", "82032": "धातोरित्यावर्तते। तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयतीत्याशयेनाह— उपदेश इति।<\/w> आवृत्तिफलं पृच्छति— उपदेशे किमिति।<\/w> अव्याप्त्यतिव्याप्तिपरिहारः फलमित्याह—", "82033": "द्रुहेर्दादित्वात् नित्यं प्राप्तेऽन्येषामप्राप्ते उभयत्र विभाषेयम्। ननु द्रुहादयो दिवादिषु अनेनैव क्रमेण पठ्यन्ते, तत्र वा द्रुहादीनामित्येवास्तु, दिवाद्यन्तर्गणस्य पुषाद्यन्तर्गणो रधादिः, तदन्तर्गणो द्रुहादिरस्तु। मैवम्। तथा हि सति यङ्लुकि न स्यात्, 'निर्दिष्टं यद्गणेन च' इति निषेधात्। दोध्रुक्, दोध्रुट्।", "82034": "द इत्येव नोक्तम्, तथा हि सति नद्धमित्यत्र 'रदाभ्याम्' इति नत्वं स्यात्। 'झषस्तथोः' इति च न स्यात्। अत्रेदमवधेयम्- सुष्ठु अनड्वाहो यस्यामिति बहुव्रीहौ स्वनड्वाहीत्युदाजह्रुस्तच्चिन्त्यम् 'अनुपसर्जनात्' इत्यधिकारविरोधात्। गीरिति।<\/w> गॄ निगरणे शब्दे च। क्विप्। 'ॠत इत्' इतीत्त्वम्। 'र्वोरुपधाया' दीर्घः। पूरिति।<\/w> पॄ पालनपूरणयोः। 'उदोष्ठयपूर्वस्य' इत्त्युत्वम्।", "82037": "झलिति निवृत्तमिति।<\/w> यत्तु प्राचोक्तम्— प्रातिपदिकसंज्ञस्य तु झलि परतः पदान्ते चेति। तत्प्रामादिकमेव, अधोक् अधोग् अजर्घा इत्याद्यसिद्ध्यापत्तेः, प्रातिपदिकग्रहणस्याप्रकृतत्वाच्च, तत्र झलो निमित्तत्वानुपयोगाच्च। धुग्भ्यां धुक्षु इत्यादौ पदान्त इत्येव सिद्धेः। यदपि तत्पौत्रेण व्याख्यातम्- झलि परे प्रातिपदिकसंज्ञस्यैवेत्यादि; तदपि निर्मूलं निष्फलं चेत्युपेक्ष्यम्। भष्भाव इति।<\/w> जश्त्वचर्त्वयोरसिद्धत्वात्ताभ्यां प्रागेवेति भावः। षत्वचर्त्वे इति।<\/w> चर्त्वस्यासिद्धत्वात् पूर्वं षत्वं, ततश्चर्त्वमिति भावः।", "82041": "केचित्त्विति।<\/w> परिशिष्टकारादयः।", "82062": "पदान्ते इति।<\/w> यत्तु प्राचोक्तं झलीति; तन्न, झलीत्यस्याऽसन्निहितत्वात् निष्फलत्वाच्च। यत्तु तत्पौत्रेण व्याख्यातम्— 'झलो झलि' इत्यतो मण्डूकप्लत्या झलीत्यस्मिन्ननुवर्तमानेऽपि न कश्चिद्दोष इति; तन्न, स्पष्ट इत्यदावतिव्याप्तेः।", "82063": "अत्र झल्यपीत्यपाणिनीयम्। नष्टमित्यादावतिप्रसक्तं च। नगिति।<\/w> षडगकाः प्राग्वत्॥ शान्ताः॥", "82064": "झलीति तु यद्यपि प्राचाऽनुवर्तितं, तथाऽपि काशिकादावभावात्, निष्फलत्वाच्चोपेक्ष्यम्।", "82066": "पदस्येत्यनुवृत्तं ससजूर्भ्यां विशेष्यते, विशेषणेन तदन्तविधिः। न च सजूःशब्दांशे 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति निषेधः शङ्क्यः। तस्य प्रत्ययविधिविषयत्वात्। सान्तं सजुष्शब्दान्तं च यत्पदं तस्य रुः स्यात्, स चालोऽन्त्यस्य। एवं स्थिते फलितमाह— पदान्तस्येति। सजुष्शब्दस्येति।<\/w> तदन्तस्य पदस्येत्यर्थः, तेन सजुष इत्यादौ नातिप्रसङ्गः। न च सजूरित्यत्राव्याप्तिः 'व्यपदेशिवद्भावोऽप्रातिपदिकेन' इति निषेधादिति वाच्यम्। 'येन विधिः' इति सूत्रे शब्दकौस्तुभेऽस्य प्रत्याख्यातत्वात्। 'व्यपदेशिवपद्भावोऽप्रातिपदिकेन' इति, 'ग्रहणवता-' इति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमिति दिव उत्सूत्रे कैयटहरदत्ताभ्यामुक्तत्वाच्च। एवं च परमसजूर्भ्यामित्याद्यपि निर्बाधम्। एवं स्थिते इह सजुष्शब्देन तदन्तविधिर्नेति प्राचामुक्तिरापातत इत्यवधेयम्॥", "82068": "अन्वादेश इति।<\/w> अयं चाऽम्येवेति व्याख्यातारः। तस्य लुका लुप्तत्वेऽपि वचनसामर्थ्यात्प्रत्ययलक्षणमित्याहुः। वस्तुतस्तु सूत्रे एवैनद्वक्तव्यः। एनम्, एनौ इत्यादि तु त्यदाद्यत्वेन सिद्धम्। क्लीबेऽमि लुका लुप्तेऽपि तकारोच्चारणसाममर्थ्यादेनदादेशः। न चैवमेतच्छ्रित इत्यत्रापि तदापत्तिः, एकपदाश्रयत्वेनान्तरङ्गे स्वमोर्लुकि चरितार्थत्वेन बहिरङ्गे सामासिके लुकि तदप्रवृत्तेः। अहोभिरिति<\/w> प्राचा तु 'अहन्' इत्युपन्यस्तं तदिहानुचितम्। अहोभ्यामित्याद्यर्थतया कथंचिद्योज्यम्। असृक्शब्दस्त्विति।<\/w> एतच्च क्षीरस्वामिग्रन्थे स्पष्टम्। बहूर्जीति।<\/w> अन्त्यादिति च वाचनिकम्। तथा च वार्तिकम्—'बहूर्जि प्रतिषेधः' 'अन्त्यात्पूर्वो नुमित्येके' इति। भाष्ये तु अचः परो यो झल् तदन्तस्य नुमित्यर्थमाश्रित्य प्रथमं वार्तिकं प्रत्याख्यातम्। एवं तु उर्द माने, गर्ह गर्हायामित्यादीनामपि क्विबन्तानां नुमा न भाव्यमेव— यथोत्तरं मुनीनां प्रामाण्यादिति दिक्।", "82069": "अहोरात्र इति।<\/w> <<रात्राह्नाहाः—>> [[2.4.29]] इति पुंस्त्वम्। अहरादीनामिति।<\/w> उभयत्रादिशब्दः प्रकारे। तेन 'स्वर्चक्षो रथिनः सत्यशुष्मः'। 'विप्रः कविः काव्येन स्वर्चनो' इत्यादि ग्राह्यम्।", "82072": "वसुः प्रत्ययः। तेन तदन्तं ग्राह्यम्। 'ससजुषो रुः'इति सूत्रात् 'स'इत्यनुवर्तते। तच्च वसोरेव विशेषणम्, न तु स्रंसुध्वंस्वोः, अव्यभिचारात्। नाप्यनडुहः, असम्भवादित्यभिप्रेत्याह— सान्तवस्वन्तस्येति।<\/w> पदान्ते इति। झलीति तु प्राचः प्रमादः, स्रस्तमित्यादावतिव्याप्तेः।", "82080": "ह्रस्वव्यञ्जनयोरिति<\/w> । व्यञ्जनस्य हि ह्रस्व ईषत्सदृशो, दीर्घस्तु विसदृश इति भावः। उक्तं चेति।<\/w> वार्तिककृतेति शेषः। केचित्तु पूर्वस्यैव मुत्वादमुद्र्यङित्युदाहरन्ति। तद्भाष्याऽऽदौ नोक्तमित्युपेक्षितम्।", "82081": "पारिभाषिकस्य बहुवचनस्य ग्रहणे अमीभिरित्यादिसिद्धावपि जसि अमी इति न सिद्ध्येत्। न ह्यत्र एकारस्य बहुवचनपरताऽस्त्यतो व्याचष्टे—", "82086": "अपिशब्दो गुरोरगुरोश्च टेः प्लुतार्थः। देवदत्तेति।<\/w> अस्यैहीत्यादिः। एवमग्रेऽपि। सर्वः प्लुत इति।<\/w> तथा च 'अग्नीत्प्रेषणे परस्य च' इति सूत्रे भाष्यम् ' सर्वः प्लुतः साहसमनिच्छताऽपि विभाषा कर्तव्यः' इति। साहसं शास्त्रत्यागः, तदनिच्छताऽपि—शास्त्रमनुरुन्धानेनापीत्यर्थ इति हरदत्तः। वैकल्पिकेष्वनुष्ठानक्लेशं धर्माधिक्यफलकमप्यशक्यत्वादनिच्छतेत्यर्थ इत्यन्ये । एतेन 'द्वैपायनो विरहकातर आजुहाव पुत्रेति' भागवतं व्याख्यातम्। प्लुतस्य वैकल्पिकत्वात्। किं चेह पुत्रशब्दस्य वाक्यान्तत्वं नास्तीत्यपि सुवचम्, आख्यातप्राग्वर्तिनोऽप्यनुकरणसम्भवात्। अपि च अस्तु प्लुतः, प्रकृतिभावस्तु वैरल्पिकत्वान्मास्तु। तथा च 'ई चाक्रवर्मणस्य' इति सूत्रे भाष्यम्—'ईग्रहणेन नार्थः वशा इयं वशेयमिति'। प्लुतप्रकृतिभावः सर्वोऽपि दुर्लभ एव, 'अप्लुतवदुपस्थिते' इति सूत्रात्। उपस्थितं नामावैदिक इतिशब्दस्तस्मिन्परे प्लुतोऽप्लुतवत्स्यादिति हि तस्यार्थः। एवं चतुर्धापि निर्वाहे स्पष्टे आर्षः प्रयोग इति श्रीधरोक्तिर्नादर्तव्या॥", "83002": "अयमधिकारो विधिर्वेति द्वैतम्। आद्येऽत्रग्रहणमनर्थकम्, अधिकारादेव रुप्रकरणलाभात्। तुशब्दस्त्वधिकारपक्षे परस्मात्कार्यिणो विशेषद्योतनार्थः—परस्य नित्यं रुत्वं, पूर्वस्य तु वाऽनुनासिक इति; विधिपक्षे व्यर्थः। वाग्रहणं स्पष्टार्थम्। <<अनुनासिकात्पर—>> [[8.3.4]] इति ज्ञापकादेव सिद्धेः। न हि विकल्पं विनाऽनुनासिकाभावपक्ष इति सम्भवति। इदमेव ध्वनयितुं वृत्तौ तु वेति शब्दौ नोक्तौ॥", "83004": "ल्यब्लोपे पञ्चमीत्याह— अनुनासिकं विहायेति।<\/w> एवं च संसर्गवद् विप्रयोगस्यापि विशेषावगतिहेतुत्वादवत्साऽऽनीयतामित्यत्रेव सम्भावितानुनासिक्यगुणक एव उपस्थितत्वादाकाङ्क्षितत्वाच्चावधित्वेन सम्बध्यत इत्यभिप्रेत्याह— अनुस्वारागम इति।<\/w> आगमत्वं च परशब्देनैव लभ्यते <<पूर्वौ तु ताभ्यामैच्>> [[7.3.3]] इत्यत्र पूर्वशब्देनैचोरिवेति भावः॥", "83005": "यद्यपि मोऽनुस्वारेण सिद्धं तथाप्यनुनासिकत्व-त्रिसकारकत्वसिद्ध्यर्थमिदम्॥", "83006": "पुंसः संयोगान्तलोपे कृतेऽवशिष्टभागस्येदमनुकरणम्। पर्युदासादिति।<\/w> <<इदुदुपधस्य—>> [[8.3.41]] इति षत्वविधायके सूत्रे इति भावः। अप्रत्ययस्य यो विसर्ग इति वैयधिकरण्येन व्याचक्षाणानां प्राचां मतेनेदम्। वक्ष्यमाणरीत्या सामानाधिकरण्येनान्वये तु षत्वप्राप्ताविति बोध्यम्॥ ख्याञादेश इति।<\/w> आदेशो हि उपदेशे ख्शादिः। असिद्धप्रकरणे णत्वानन्तरं ख्शाञः शस्य यत्वं विकल्प्यते। तेन सुप्रख्येन निर्वृत्तं सौप्रख्यं तत्र भवः सौप्रख्यीयः। यत्वस्यासिद्धत्वात् <<धन्वयोपधात्—>> [[8.2.121]] इति वुञ्नेत्यादि प्रयोजनान्याकरे स्थितानि। एवं च यत्वस्यासिद्धतयाऽम्परत्वाभावात् <<पुमः खयि>> [[8.3.6]] इति रुत्वं नेत्यर्थः। पुंख्यानमिति।<\/w> चक्षिङो ल्युट्। ख्याञादेशः। नन्वादेश इह दुर्लभः। 'वर्जने प्रतिषेधः' 'असनयोश्च' इति वार्तिकादिति चेत्? सत्यम्। 'बहुलं तणि' 'अन्नवधकगात्रविचक्षणाजिराद्यर्थम्' इति वार्तिके बहुलग्रहणात्समाधेयम्। तथा च ख्शादित्वप्रयोजनगणनवार्तिकम् रुविधिः— पुंख्यानमिति, णत्वं— पर्याख्यानमिति, निष्ठानत्वमाख्यातम् इति च। शकारेण व्यवधानात् <<कृत्यचः>> [[8.4.29]] इति णत्वं न, तथा आख्यातमित्यत्र <<संयोगादेरात—>> [[8.2.43]] इति नत्वं न, यत्वस्यासिद्ध्या यण्वत्ताविरहात्। एवं च <<न ध्याख्या—>> [[8.2.57]] इति सूत्रे ख्याग्रहणं न कर्तव्यमिति भावः। न च ख्या प्रकथने, इत्येतदर्थं तदिति वाच्यम्। तस्य सार्वधातुकमात्रविषयत्वात्। अत्र च 'सस्थानत्वं नमः ख्यात्रे' इत्युत्तरवार्तिकं प्रमाणम्। सस्थान इति जिह्वामूलीयस्य प्राचां सञ्ज्ञा। स इह न। <<शर्परे विसर्जनीयः>> [[8.3.35]] इत्यस्य प्रवृत्तेरिति भावः। यदि स्वतन्त्रोऽपि धातुरार्धधातुके इष्येत तदा जिह्वामूलीयस्य दुर्वारतयेदं वार्तिकमसङ्गतं स्यात्। यत्तु हरदत्तमाधवादिभिरुक्तं ख्याधातुरपि ख्शादिर्यत्वविधिरप्युभयसाधारण इति, तच्चिन्त्यम्। भाष्ये चक्षिङ एवोपक्रमात्सार्वधातुकेऽपि ख्शादिप्रयोगापत्तेश्च। न चेष्टापत्तिः, माधवेनार्धधातुकेष्वेवायं ख्शादिरित्युक्तत्वात्, सार्वधातुकेऽनभिधानस्यैव शरणीकर्तव्यत्वापत्त्या गौरवग्रस्तत्वेत्यास्तां तावत्। स्यादेतत्। बहवः पुमांसोऽस्मिन् कुले बहुपुम् ख्यातीत्यत्र रुत्वं स्यात्। उरःप्रभृतिषु पुम्शब्दस्यैकवचनान्तस्यैव पाठान्नेह कप्। सार्वधातुके च ख्यातेः प्रयोगो निर्बाध एवेति चेत्। इष्टापत्तेः। संहिताया अविवक्षायां तु रुत्वं नेति स्पष्टमेव। यत्तु प्राचा 'ख्याधातौ नेति केचित्' इत्युक्तं, तत्र यदि ख्याञादेशे इत्यर्थस्तर्हि केचिदित्यनुचितम्। स्वतन्त्रे धातौ चेत्तर्हि सार्वधातुकविषयेऽपि निषेधः स्यात्। न चेष्टापत्तिः। निर्मूलत्वात्।", "83007": "चक्रिँस्त्रायस्वेति।<\/w> यत्तु प्राचा त्राहीत्युक्तं, तत्र परस्मैपदमयुक्तम्। त्रायतेर्ङित्त्वात्। त्रायत इति त्राः स इवाचरतीत्यर्थे कर्तरि क्विबन्तादाचारक्विपि वा बोध्यम्। प्रशानिति।<\/w> प्रपूर्वाच्छाम्यतेः क्विप्। <<अनुनासिकस्य क्वि—>> [[6.4.15]] इति दीर्घः। <<मो नो धातोः>> [[8.2.64]] इति नः। तस्यासिद्धत्वान्नलोपो न॥", "83010": "पकारोपर्यकार उच्चारणार्थः। तेन नॄः पुनातीत्यादि सिद्धम्। 'उभयथर्क्षु' इत्यत 'उभयथा' इत्यनुवृत्तेर्विकल्पः फलित इत्याशयेनाह—", "83012": "कान् कानिति वाच्ये आम्रेडितग्रहणं यत्र द्विरुक्तिः तत्रैव यथा स्यादिह मा भूत्। कान् कान् पश्यसि । अत्रैकः किंशब्दः प्रश्ने, द्वितीयः क्षेपे। कान् कुत्सितान् पश्यसीत्यर्थः।", "83015": "न विसर्ग इति।<\/w> एतच्च 'सुखार्तः' इत्यादावपि तुल्यम्। अत्र च कार्यकालपक्षे बहिरङ्गत्वादसिद्धत्वमपि बोध्यम्। न च 'नाजानन्तर्य-' इति निषेधः, यत्रान्तरङ्गे, बहिरङ्गे वा अचोरानन्तर्यं तत्रेति हरदत्तपक्षे तत्प्राप्तावपि यत्र पश्चात् प्रवर्तमानेऽजानान्तर्यमिति कैयटमते निषेधाप्राप्तेः। बह्वपेक्षत्वेन बहिरङ्गायां वृद्धावजानन्तर्यसत्त्वेऽपि पश्चात् प्रवर्तमाने तदभावात्। उपसर्गेणेति।<\/w> यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इत्युक्तत्वादिति भावः।", "83017": "असन्धिः सौत्र इति।<\/w> भगोअघोशब्दयोरोकार-स्याकारस्य च पूर्वरूपं सौत्रत्वान्नेत्यर्थः। यदि तु भोस्, भगोस्, अघोस्, इति सान्तं रान्तं वाऽनुकृत्य भो इत्यादीनां त्रयाणामलोऽन्त्यस्य यः स्यादपूर्वस्य रोश्चेति व्याखायते, तर्हि असन्धिर्न्याय्य एव। युक्तं चैतत्। अन्यथा विभोरिदं, सुप्रभा गौर्यस्य स सुप्रभगुस्तस्य सुप्रभगोरिदं, रघोरिदमित्यत्रापि यत्वापत्तेः, भवति ह्यं भोशब्दादिपूर्वो रुः। न चात्र भोशब्दादेर्लाक्षणिकत्वादग्रहणम्, 'विभाषा भवद्भगवदघवतामोच्चावस्य' इति वार्तिकेन निष्पन्नानां भवदादिप्रकृतिकानां भोशब्दादीनामपि लाक्षणिकत्वाविशेषात्। अनर्थकत्वमप्युभयत्र तुल्यम्, रुविशिष्टानामेवार्थवत्वात्। ननु रोरुकारस्यानुबन्धत्वाद्रेफमात्रं विसर्गस्य स्थानि, तथा च 'अनल्विधौ' इति स्थानिवद्भावो न स्यादित्याशङ्क्याह— न ह्यमिति।<\/w> यथाऽग्रहीदित्यत्र <<ग्रहोऽलिटि>> [[7.2.37]] इति दीर्घस्य स्थानिवद्भावेनेट्त्वात् <<इट ईटि>> [[7.2.28]] इति प्रवर्तते, एवमिहापि विसर्गस्य रुत्वाद्यत्वं प्रवर्तेतेति भावः। तथा च स्थानिवत्सूत्रे भाष्यम् 'विशिष्टं ह्येषोऽनलमाश्रयते इटं नाम' इति। इतोऽपि हेतोर्धात्वङ्गेत्यादिपरिगणनमशुद्धमित्यवधेयम्। निपाता इति।<\/w> <<भोभगो—>> [[8.3.17]] इति सूत्रे निर्दिष्टाश्चादेराकृतिगणत्वात्तत्र बोध्याः। तथा च 'विभाषा भवद्भगवत्—' इति वार्तिकं नाश्रयणीयम्। अन्यथा पुल्लिङ्गैकवचनमात्रे भो हरे इत्यादिसिदेधावपि भो हरिहरौ, भो विद्वद्वृन्द, भो गङ्गे, इत्यादि न सिद्ध्येदिति भावः। एतच्च वृत्तिहरदत्तादिमतेनोक्तम्। भाष्यस्वरसरीत्या तु 'विभाषा—' इत्यादि वार्तिकमारब्धव्यमेव। किं तु निपातोऽपि भोःशब्दोऽस्ति, तेन द्विवचनादौ स्त्रीनपुंसकयोश्च न दोषः। युक्ततरं चैतत्, हे भवन्नितिवत् हे भो इति प्रयोगस्यापीष्टत्वात्, तस्य च वार्तिकारम्भ एव सिद्धेः। 'स्युः प्याट्पाडङ्गहैहेभोः' इत्यमरोक्तानां सम्बोधनार्थानां निपातानां सहप्रयोगायोगात्। किं चात्र भवान् हरिस्तत्रभवान् इतिवत् तत्रभो इत्याद्यपि वार्तिके सत्येव सिध्यति। <<इतराभ्योऽपि दृश्यन्ते>> [[5.3.14]] इति सर्वविभक्त्यन्तात्त्रतसोर्भवदादियोग एवेष्टत्वात्। किं चामन्त्रितत्वे पदात्परस्याष्टमिकनिघातः, <<आमन्त्रितं पूर्वम्—>> [[8.1.72]] इत्यविद्यमानवद्भावः <<आम एकान्तरम्—>> [[8.1.55]] इति विधिः, <<वाक्यादेरामन्त्रितस्य—>> [[8.1.8]] इति द्विर्भावः, <<सुबामन्त्रिते—>> [[2.1.2]] इति पराङ्गवद्भावश्चेत्यादि सर्वं सिध्यति, न त्वन्यथेति दिक्। भगो, अघो इति निपातावपि यदि प्रामाणिकौ तर्हि स्तां नाम। आमन्त्रितकार्यसिद्धिस्तु वार्तिकायत्तैवेति सुधीभिराकलनीयम्। यत्तु वदन्ति—सकारान्तानेवैतान् निपातानास्थाय रुत्वौत्वे भाष्ये प्रत्याख्याते इति, तदतिरभसात्। स्यादेतत्। निपातानामभ्युपगमे यत्वविधौ त एव गृहयेरन् प्रतिपदोक्तत्वात्, न तु सम्बुद्ध्यन्ताः लाक्षणिकत्वात्, इति चेत्? मैवम्, <<स्वरितेनाधिकारः>> [[1.3.11]] इत्यत्राधिकः कारोऽधिकार इति व्याख्यानमाश्रित्य लक्ष्यानुरोधेन स्वरितत्वमाश्रित्योभयग्रहणात्, <<भुवश्च महाव्याहृतेः>> [[8.2.71]] इति सूत्रे महाव्याहृतिग्रहणं लक्षणप्रतिपदोक्तपरिभाषया अनित्यत्वज्ञापनार्थमिति हरदत्ताद्युक्तेश्च। न चैवमपि प्रभोरित्यादावतिव्याप्तिः। परस्परसाहचर्येण निपातानां वार्तिकोक्तानां च ग्रहणेऽप्यन्येषामग्रहणात्॥", "83018": "लघुप्रयत्नतरः, लघूच्चारणतरः। स चान्तरतम्याद् वस्य वो यस्य य इत्याह—", "83019": "हर एहीति।<\/w> इह <<ओमाङोश्च>> [[6.1.95]] इति पररूपं प्राप्तम्॥", "83020": "यत्त्वोकारान्तादङ्गादिति प्राचा व्याख्यातं तन्न, अङ्गस्याप्रकृतत्वात्, असम्भवाच्च। नह्युदाहरणेष्वोकारान्तमङ्गमस्ति।", "83022": "यकारस्येति।<\/w> वकारस्तु नानुवर्तते, भोभगोअघोपूर्वस्यासम्भवात्। अपूर्वस्तु यद्यपि सम्भवति वृक्षव् करोतीति, तथापि तत्र लोपाप्रसङ्गः, अशीत्यनुवर्त्याशा हलो विशेषणात्। वृक्षव् हसतीत्यादि तु अनभिधानादसाध्वित्याहुः। गव्यमित्यत्र तु पदान्तत्वं नास्ति, गव्यूतिरित्यत्र तु वकारप्रश्लेषान्न वलोप इत्युक्तम्। ननु देवा नम्या इत्यादौ <<लोपो व्योः—>> [[6.1.76]] इत्येव सिद्धम्। मैवम्, तं प्रति यत्वस्यासिद्धत्वात्; देवा यान्तीत्यत्र वल्परत्वाभावाच्च।", "83024": "आक्रंस्यत इति।<\/w> <<आङ उद्गमने>> [[1.3.40]] इति तङ्। <<स्नुक्रमोः—>> [[7.2.36]] इति नेट्॥", "83028": "कुक्टुकोः पूर्वान्तत्वात्प्राङ्क्साये इत्यत्र 'सात्पदाद्योः' इति षत्वं न। सुगण्ट्साये— इत्यत्र <<न पदान्तात्—>> [[8.4.42]] इति ष्टुत्वं न । पुष्करे तीर्थविशेषे सीदतीति पुष्करसत्, तस्यापत्यं पौष्करसादिराचार्यः। बाह्वादित्वादिञ्। अनुशतिकादित्वादुभयपदवृद्धिः॥", "83029": "'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' परत्वात्, इत्यभिप्रेत्याह— सस्येति।<\/w> सीति सप्तमीनिर्देशस्तु लाघवार्थः। षट्त्सन्त इति।<\/w> धुटश्चर्त्वेन तकारः। यत्त्वाहुः- 'चयो द्वितीया' इति पक्षे तस्य थ इति। तन्न, चर्त्वस्यासिद्धत्वात्। अत एव धुड्भावे 'षट् सन्त' इत्यत्र टस्य ठो न। टकारनकारविसर्गाणां द्वित्वविकल्पात् षोडश। 'खयः शरः' इति सकारद्वित्वे द्वात्रिंशत्। न च तत्र चर्त्वस्यासिद्धत्वं शङ्क्यम्, 'पूर्वत्रासिध्दीयमद्वित्वे' इत्युक्तेः। न च <<शरोऽचि>> [[8.4.49]] इति द्वित्वनिषेधः शङ्क्यः, तस्य सौत्रद्वित्वमात्रविषयत्वात्। अत एव 'शरः खयः' इति वार्तिकस्य वत्सः, अप्सराः, इत्युदाहरणं भाष्ये स्थितम्। धुटः परादित्वं <<न पदान्तात्—>> [[8.4.42]] इति ष्टुत्वनिषेधार्थम्। अत एव वक्ष्यमाणस्तुगिहैव न कृतः। यत्त्वाहुः— एवमपि प्रक्रियालाघवाय तुडेव कर्तुमुचित इति। तन्न, 'चयो द्वितीया' इति पक्षे थकारापत्तेः॥ 'श्चुत्वं धुटि सिध्दं वाच्यम्' अटतीत्यट् श्चोतति, इह धुड् न ।", "83031": "शीति सप्तमी पूर्वत्र कृतायाः 'नः' इति पञ्चम्याः षष्ठीं कल्पयतीत्याह- नस्येति। ननु प्रकृतो धुडेवास्तु किं तुका? मैवम्, <<शश्छोऽटि>> [[8.4.63]] इत्यस्य हि पदान्ताज्झयः परस्य शस्य छ इत्यर्थ आकरे स्थितः। एवं च धुटः परादित्वात् सञ्च्छम्भुरित्यत्र च्छो न स्यात्। विपूर्वाद्रपेरौणादिके शप्रत्यये 'मध्वश्चोतन्त्यभितो विरप्शन्' इत्यादौ यथा। अतः पूर्वान्तस्तुक्कृतः। नन्वेवं कुर्वञ्च्शेते इत्यत्र <<पदान्तस्य>> [[8.4.37]] इति णत्वनिषेधो न स्यादिति चेन्न, कार्यकालपक्षे बहिरङ्गत्वेन तुकोऽसिद्धत्वात्। यथोद्देशपक्षे 'स्तोः श्चुना' इति योगो विभज्यते। 'न' इति वर्तते 'णः' इति च। स्तोः श्चुना योगे णत्वं न स्यात्। नकारार्थमिदम्। सकारग्रहणं वर्गग्रहणं चोत्तरार्थम्। ततः 'श्चुः'इति। पूर्वमनुवर्तते। एवं <<नश्च>> [[8.3.30]] इति सूत्रे कुर्वन्त्सीदतीत्यत्र <<पदान्तस्य>> [[8.4.37]] इति णत्वप्रतिषेधो धुटः परादित्वे प्रयोजनमिति प्राचां ग्रन्थोऽपि यथोद्देशपक्षे बोध्यः। यत्तु वदन्ति— इदं प्रयोजनं बहिरङ्गपरिभाषया गतार्थत्वात् प्रत्युक्तमिति। तत्पाक्षिकम्, त्रिपादीस्थेऽन्तरङ्गे बहिरङ्गपरिभाषेयं न प्रवर्तते इति सुद्ध्युपास्य इत्युदाहरणे स्वोक्त्या सह विरुद्धं चेत्यास्तां तावत्। सञ्च्छम्भुरिति।<\/w> इह श्चुत्वतुकोरसिद्धतामाश्रित्य <<नश्छवि>> [[8.3.7]] इति रुत्वं न शङ्क्यम्। छत्वस्यासिद्धत्वात्।", "83032": "ङम् प्रत्याहारः । सञ्ज्ञायां च कृतं टित्त्वं सामर्थ्यात् संज्ञिभिः सम्बध्यते। तेन यथासंख्यं ङुट्-णुट्-नुटः प्रवर्तन्ते। नित्यग्रहणं विस्पष्टार्थम्, <<हे मपरे—>> [[8.3.26]] इति <<मय उञो वो वा>> [[8.3.33]] इति च विकल्पद्वयस्य मध्ये पाठादेव नित्यत्वलाभात्। सुगण्णीश इति।<\/w> ण्यल्लोपौ न स्थानिवत्, पूर्वत्रासिद्धे तन्निषेधात्। ङमुटः परादित्वं कुर्वन्नास्ते इत्यत्र णत्वनिषेधार्थम्। अत एव 'ङमो ह्रस्वादचि द्वे' इति नासूत्रि। परं णत्वं प्रति पूर्वस्य सिद्धतया णत्वापत्तेरिति प्राञ्चः। यत्त्वाहुः— बहिरङ्गपरिभाषया गतार्थत्वादुभयमप्यसङ्गतमिति। तदपि पाक्षिकम्। राज्ञ इत्यत्रेव यथोद्देशे त्रैपादिकेऽन्तरङ्गपरिभाषाविरहस्योक्तत्वेन प्राचां ग्रन्थस्य सौष्ठवात्। कथमन्यथा द्वियं त्रियं च स्वयमेवोक्तमिति दिक्। ननु परमदण्डिनावित्यादौ अन्तर्वर्तिविभक्तया पदत्वान्नुट् स्यादिति चेन्न। 'उत्तरपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणप्रतिषेधात्। अत एव परमवाचौ, परमगोदुहौ, परमलिहावित्यादौ कुत्वघत्वढत्वादीनि न। यत्तु प्राचा <<उञि च पदे>> [[8.3.21]] इत्यतः 'पदे' इत्यनुवर्त्याजादेः पदस्येति व्याख्यानाद् ङमुड् नेत्युक्तं, तदनेन प्रत्युक्तम्। इहैव नलोपं वारयितुमुक्तरीतेरेव तेनाप्यनुसर्तव्यत्वात्॥", "83033": "मयः परस्येति।<\/w> परादिति तु प्राचः प्रमादः। 'षष्ठीनिर्दिष्टस्य हि आदेशा उच्यन्ते' इति भाष्यात् आदेशविधौ स्थानिनः षष्ठ्या एव न्याय्यत्वाच्च। असिद्धत्वादिति।<\/w> अत एवेदं वत्वं त्रिपाद्यां विधीयते। प्रकृतिभावमात्रबाधनार्थत्वे हि <<इको यण्—>> [[6.1.77]] इत्यनन्तरं मय उञो वेत्येवावक्ष्यत्। यणं चान्वर्तयिष्यत्। इह मय उञ इतौ परे अष्टाविंशतिरूपाणि। तथा हि 'उञः' इति प्रगृह्यत्वे— 'किमु इति'। वत्वपक्षे — 'किम्विति'। ऊँ आदेशे - 'किमूँ इति'। आदेशस्य स्थानिवत्वेन <<मय उञ—>> [[8.3.33]] इति प्रकृतिभावापवादभूते आन्तरतम्यादनुनासिके वकारे—'किम्विंति' । अनुनासिकाननुनासिकयोर्वकारयोः ' मयो यण' इति द्वित्वस्य मकारस्य <<अनचि च>> [[8.4.87]] इति द्वित्वस्य च विकल्पेन वत्वपक्षे रूपाष्टकम्। तदभावे द्वयमिति दशकम्। प्रहगृह्यसञ्ज्ञाविरहपक्षे <<मय उञ—>> [[8.4.64]] इति वत्वस्यासिद्धत्वात् <<इको यण्->> [[6.1.77]] इति यणेव, तस्य सिद्धत्वान्मोऽनुस्वारे <<वा पदान्तस्य>> [[8.4.59]] इति परसवर्णपक्षे अनुनासिकाननुनासिकवकारद्वयोपेतमेकादशं रूपम्। अनुनासिकस्य द्वित्वे <<हलो यमाम्>> [[8.4.64]] इति लोपस्य वैकल्पिकत्वादकरणे त्रिवकारं द्वादशं रूपम्। परसवर्णाभावपक्षे अनुस्वारस्य यर्त्वात्त्र्वापाक्षिके द्वित्वे द्वे। संकलनया चतुर्दश। इतिशब्देकारस्य <<अणोऽप्रगृह्रस्य>> [[8.4.57]] इत्यनुनासिकविकल्पा-दष्टाविंशतिरिति॥ इत्यच्सन्धिः॥", "83034": "खरीति।<\/w> एतच्च मण्डूकप्लुत्या <<खरवसानयोः>> [[8.3.15]] इति सूत्रादनुवर्तते। नन्वनुस्वारस्यानच्त्वात्ततः परस्य द्वित्वं न स्यादेवेत्यत आह— अकारोपरीति।<\/w> यदि त्विकारोपरि पठ्येरन् तर्हि पयःसु, यशःसु इत्यादौ इणः परस्येति षत्वं स्यादिति भावः। अच्त्वादिति।<\/w> न चैवं हरिः कर्ता, हरिं स्मरेदित्यादौ यणादिप्रसङ्गः, त्रिपादीस्थत्वेन विसर्गादीनामसिद्धत्वात्। अनुस्वारस्यापि द्वित्व इति। अपिशब्दात्ककारस्य। वचनान्तरेणेति।<\/w> <<अचो रहाभ्याम्>> [[8.4.46]] इति कृतेऽपि 'यणो मयः' इति भवत्येवेति भावः॥", "83035": "॥ अथ विसर्गसन्धिः॥<\/w> <\/big> सत्वादेरयमपवादः। यदि तु शर्परे नेत्येवोच्येत तर्हि प्रकृते सत्वे निषिद्धेऽपि कुप्वोः क पौ स्याताम्। वासः क्षौमम्, अद्भिः प्सातमिति। विसर्जनीयवचनात्तु विकारमात्रं बाध्यते इत्याशयेनाह— न त्वन्यदिति।<\/w> तदेव स्फुटयति—", "83037": "सूत्रे खर्परत्वाद्विसर्गः जिह्वामूलीयस्य खर्त्वात्। 'खर्परे शरि' इति विसर्गस्य लोपः, जिह्वामूलीयस्य शर्त्वात्। <<वा शरि>> [[8.3.36]] इति विसर्ग एव वा। आदेशयोः कपावुच्चारणार्थौ। चाद्विसर्ग इति।<\/w> यत्तु प्राचा चाद्विकल्प इत्युक्तम्। तन्न, कपाभ्यां मुक्ते विसर्गस्य सत्वप्रसङ्गात्।", "83038": "अपदाद्योरिति।<\/w> सूत्रे तु व्यत्ययेनैकवचनम्। यदि तु खर् विशेष्यतेऽपदादौ खरीति, तदा यथाश्रुतं साधु। किं तु 'खरि' इति मण्डूकप्लुत्याऽनुवर्त्यमिति क्लेशः। न चानुवृत्तेरुत्तरत्राप्यावश्यकता, खरं विना विसर्गस्य दुर्लभत्वेन तदनुवृत्तेर्निष्फलत्वात्। पाशकल्पककाम्येष्विति वृत्तिः । सम्भवप्रदर्शनमेतन्न तु परिगणनम्, अन्यस्यासम्भवात्। प्रातःकल्पमिति।<\/w> अधिकरणशक्तिप्रधानस्यापि प्रातःशब्दस्येह वृत्तिविषये शक्तिमत्परत्वम्। दोषाभूतमहः, दिवाभूता रात्रिरितिवत्। गीः काम्यतीति।<\/w> इह <<इणः षः>> [[8.3.39]] इति षत्वं न, तत्रापि 'काम्ये रोरेव' इत्यस्यानुवृत्तेः। यदि तु तत्रेवेदं पठ्येत तर्हि षत्वमात्रप्रतिषेधेऽपि पूर्वेण सत्वं स्यात्॥", "83039": "पूर्वस्यापवादः। इदं सूत्रं, 'सः' इति च द्वयमपि उत्तरत्रानुवर्तते। यथासम्भवमिणः परस्य षोऽन्यस्य स इति विवेकः। पुरः प्रवेष्टव्या इति। पॄ पालनपूरणयोः, <<भ्राजभास—>> [[3.2.177]] इत्यादिना क्विप्। तदन्ताज्जस्। जसन्ततां स्फुटीकर्तुं पूः परावित्युपन्यस्तम्॥", "83041": "इदुतौ उपधे यस्य समुदायस्य तस्यावयवो यो विसर्जनीय इति वैयधिकरण्येन सम्बन्धः। 'अप्रत्ययस्य' इति तु अप्रत्ययो यो विसर्ग इति सम्बध्यते। सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात्। न च विसर्गस्य प्रत्ययत्वमप्रसिद्धमिति वाच्यम्, अग्निः करोतीत्यादौ स्थानिवद्भावेन तत्प्रसिद्धेः। न चातिदेशं प्रति त्रिपाद्या असिद्धत्वं शङ्क्यम्, 'अप्रत्ययस्य' इति निषेधेनैव सिद्धत्वज्ञापनात्। अत एवाग्निरित्यादौ रोर्विसर्गः सिध्यति। अन्यथाऽपदान्तत्वान्न स्यात्। विसर्गविधिस्तु पुनरित्यादौ चरितार्थः। ज्ञापकं च विशेषापेक्षम्। तेन <<अचः परस्मिन्— >> [[1.1.57]] इति त्रिपाद्यां न प्रवर्तते। एवं च 'पूर्वत्रासिद्धे न स्थानिवत्' इति सिद्धान्त उक्तयुक्तिमूलको न तु वाचनिक इति प्रपञ्चितं शब्दकौस्तुभेऽस्माभिः। नन्वेवं मातुः कार्यमित्यादौ षत्वं स्यादिति चेत्? न, कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठेन 'ङसिङसोरत उकारात्परस्य षत्वं न' इति ज्ञापनात्। एवं च 'अप्रत्ययस्य' इत्येतदपि व्यधिकरणमेवेति हरदत्तेनोक्तं नातीवादर्तव्यम्। मातुरिति।<\/w> अत्र हि <<ऋत उत्>> [[8.1.111]] इत्येकादेशशास्त्रं विसर्गं प्रति परम्परया प्रयोजकम्। आकरे तु 'एकादेशशास्त्रनिमित्तात्' इति प्रचुरः पाठः। तत्र एकादेशशास्त्रं निमित्तं यस्य उकारस्य तस्मादित्यर्थः। मुहुः कामेति।<\/w> इह <<कुप्वोः क पौ>> [[8.3.37]] इति प्रवर्तते। वृत्तौ मुहुस्कामेति सकारः क्वचित् पठ्यते, तत्प्रामादिकमिति हरदत्तः।", "83043": "इह द्वित्रिभ्यां सुजन्ताभ्यां साहचर्यात् चतुःशब्दोऽपि सुजन्त एव ग्रहीष्यते। कृत्वोऽर्थग्रहणं ज्ञापकम्— 'साहचर्यं न सर्वत्र व्यवस्थापकम्' इति। तेन <<दीधीवेवीटाम्>> [[1.1.6]] इत्यत्र धातुसाहचर्येऽपि आगमस्येटो ग्रहणम्। उभयत्र विभाषा चेयम्। चतुरित्यस्य <<इदुदुपधस्य—>> [[8.3.41]] इति प्राप्ते, इतरयोस्त्वप्राप्ते। न च तयोरपि <<इसुसोः सामर्थ्ये>> [[8.3.44]] इत्यनेन सिद्धिः शङ्क्या। इस्प्रत्ययस्य अर्थवतश्च तत्र ग्रहणात्। चतुष्कपाल इति।<\/w> <<इदुदुपधस्य>> [[8.3.41]] इति नित्यं षः।", "83045": "व्यपेक्षाविरहेऽपीति।<\/w> तिष्ठतु सर्पिष्कुण्डिकामानयेत्यादावित्यर्थः। व्यपेक्षायामिति।<\/w> इदं सर्पिष्कुण्डिकाया इत्यत्रेत्यर्थः। यत्तु पारायणिका आहुः— 'कस्कादिषु सर्पष्कुण्डिकादीनां पाठ उत्तरपदस्थत्वेऽपि षत्वार्थः' इति। तद्भाष्यविरोधादुपेक्ष्यम्।", "83046": "अयःसहितेति।<\/w> न त्वयसो विकारः, <<जानपद—>> [[4.1.42]] इति ङीष्प्रसङ्गात्। अयस्कर्णीति।<\/w> अय इव कर्णौ यस्याः। <<नासिकोदरौष्ठ—>> [[4.1.55]] इत्यादिना ङीष्॥", "83047": "एतयोरिति।<\/w> सूत्रे तु षष्ठ्याः स्थाने प्रथमा बोध्या। अधस्पदमिति।<\/w> मयूरव्यंसकादित्वात्समासः। शिरस्पदमिति।<\/w> षष्ठीसमासः॥ इति विसर्गसन्धिः॥ ॥ अथ स्वादिसन्धिः॥<\/w> <\/big>", "83048": "अत्र प्राचा विसर्जनीयस्य क पौ नेत्युक्तम्। नासौ सूत्रार्थः, क पयोरस्वरितत्वात्, नञश्चाप्रकृतत्वात्। किं त्वार्थिकार्थकथनं तदिति ध्वनयन्नाह— कौतस्कुत इति।<\/w> कुतः कुतः आगत इत्यर्थेऽव्ययात्त्यपि प्राप्ते गणपाठसामर्थ्यादण्। सर्पिष्कुण्डिकेति। <<नित्यं समासे>> [[8.3.45]] इत्येव सिद्धे इह पाठस्य प्रयोजनं तु तत्रैव वक्ष्यते। 'सेनासुरा—' इति । यदि हि च्छस्य तुक् स्यात् तर्हि च्छस्य चर्त्वे सति चद्वयं स्यात्। सन्निपातपरिभाषया चर्त्वाप्रवृत्तौ तु च्छकारोपरि चकारः श्रूयेतेति भावः॥ इति हल्सन्धिः॥ ", "83056": "सहेरिति किम्? सह डेन वर्तत इति सडः। यस्य नाम्नि डशब्दोऽस्ति। यथा मृड इति। सडस्यापत्यं साडिः। ॥ इति हान्ताः ॥", "83058": "सनः सस्य रुत्वविसर्गयोः कृतयोः 'वा शरि' इति विकल्पात् पक्षे सकारः। तेन शरा व्यवाये सुपः सस्य षत्वं पूर्वस्य ष्टुत्वं, न तु 'आदेशप्रत्यययोः' इति षः, 'अपदान्तस्य' इति निषेधादिति भावः। एवं स्थिते सकारग्रहणेन सिद्धे शर्ग्रहणस्य प्रयोजनं चिन्त्यम्। व्याख्यानादिति।<\/w> असम्भवादिति हरदत्तोक्तिस्तु नादर्तव्या, सुहिन्सु इत्यत्र सम्भवादिति भावः। संयोगान्तेति।<\/w> न चास्मिन् कर्तव्ये बहिरङ्गत्वेनाऽतो लोपस्यासिद्धत्वं शङ्क्यम्, पदसंज्ञासापेक्षत्वेन संयोगान्तलोपस्यैव बहिरङ्गत्वात्। कथं तर्हि काव्यं कलत्रं शाल्वं वाऽऽचक्षाणे संयोगान्तलोपो नेति प्रागुक्तमिति चेन्न। तत्र 'यणः प्रतिषेधो' 'न वा झलो लोपात्' इति पक्षद्वयेऽपि लोपाभावे निर्णीते तदैकरूप्याय पूर्वं पूर्वमन्तरङ्गमिति ग्रहीतुं युक्तम्, अतिदेशेन लभ्यस्य पदत्वस्य तत्प्रयुक्तलोपस्य च लक्ष्यपूर्वभागे विश्रान्तेः स्पष्टत्वात्। इह तु आद्यपक्षद्वये संयोगान्तलोपस्य स्पष्टतया तदैकरूप्याय बहिर्भूतनिमित्तापेक्षं बहिरङ्गमित्यस्यैव न्याय्यत्वादिति दिक्। तक्षिरक्षिभ्यामित्यादि।<\/w> यत्तु वदन्ति— शुक्लं चक्रं शुक्रं वाऽऽचक्षाणेषु कलोपः। शुल्। शुक्लौ। शुल्भ्याम्। चः। चक्रौ। चर्भ्याम्। शूः । शुक्रौ। शूर्भ्यामित्यादि, तत्सर्वमनेन प्रत्युक्तम्। अयं तु विशेषः तग्रागित्यत्र संयोगान्तलोपो निर्विवादः। तत्र तु सोऽपि दुर्लभ इति। दिधगिति। यत्तु दहेर्हो ढः 'षढोः' इति कत्वस्यासिद्धत्वात् संयोगान्तलोपे ढस्य जश्त्वे दिधडिति नैमिषीयेणोक्तम्; तत्प्रामादिकम्, 'दादेर्धातोर्घः' इति घत्वस्य ढत्वापवादस्य जागरूकत्वात्॥ षान्ताः ॥ विद्वानिति।<\/w> विदेः शतुर्वसुः अदादित्वाच्छपो लुक्।", "83059": "एकाऽपि षष्ठी विषयभेदाद्भिद्यते इत्याशयेन व्याचष्टे— आदेशः प्रत्ययावयवश्चेति।<\/w> यदि तु आदेशावयवो गृह्येत तर्हि तिसृणामित्यादौ दोषः। यदि च प्रत्ययो यः सकार इति तर्हि रामेष्वित्यादौ न स्यात्। यद्यप्येवं वैरूप्येण व्याख्याने सहविवक्षाविरहाद् द्वन्द्वो न युज्यते, तथाऽपि सौत्रत्वाद् बोध्यः। विवृताघोषस्येति।<\/w> यत्तु वदन्ति—सकारस्य सोष्मणोऽघोषस्यान्तरतमः ष एव मूर्धन्य इति, तन्न्यूनम्, ठकारेऽतिप्रसङ्गात्। तथा च प्रातिशाख्यम्- 'वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोऽन्त्यः' इति। ननु दधिसेच इत्यादौ प्राक् सुबुत्पत्तेः समासे षत्वं वारयितुं पदादादिः पदादिरिति पञ्चमीसमासो भाष्ये उक्तः। ततश्चेहापि 'सात्पदाद्योः' इति निषेधः स्यादिति चेत्? मैवम्, स्वादिष्विति या पदसंज्ञा तामाश्रित्योक्तनिषेधो न प्रवर्तते इति सातिग्रहणेन ज्ञापितत्वात्। यत्त्वाहुः—प्रत्ययविषये नायं निषध इति ज्ञाप्यत इति। तन्न, व्यतिसे इत्यादौ षत्वापत्तेः। ननु पदस्यादिरिति पक्षे 'व्यतिसे' इत्यत्र षत्वं दुर्वारम्। न च व्यपदेशिवद्भावेन से इत्यस्यापि तिङन्तत्वात्पदत्वं शङ्क्यम्। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। अन्यथा 'रामेषु' इत्यादावपि षत्वनिषेधापत्तिरिति चेत्? सत्यम्। न वयं प्रत्ययमात्रस्य तदन्ततां ब्रूमः, किं तु प्रकृतिप्रत्ययसमुदाये प्रवृत्तां पदसंज्ञामेकदेशविकृतन्यायेन लुप्तप्रकृतिके प्रत्ययेऽप्यानयामः। 'रामौ' 'रामाः' इत्यादावपि हि एकदेशविकृतन्यायेनैव पदत्वम्, एकादेशात्प्रागेव पदसंज्ञाप्रवृत्तेः। न त्वेकादेशे कृते 'सुप्तिङन्तम्' इत्यस्य प्राप्तिरस्ति। उभयत आश्रयणे नान्तादिवदिति सिद्धान्तात्। यत्तु वदन्ति—प्रकृतिसन्निधाने प्रत्ययस्य पदत्वं नास्ति 'मन्त्रेषु' 'सर्वेषाम्' इत्यादिनिर्देशादिति, तन्मन्दम्, उक्तरीत्या पदत्वाभावे न्यायसिद्धे ज्ञापनस्यासम्भवादनुपयोगाच्च।", "84001": "इति पक्षे त्विति।<\/w> एतेन पञ्चमीसमासस्य पाक्षिकतां ध्वनयति । तथा हि, भाष्ये - बेभिदिता, माथितिकः, अपीपचन्निति प्रयोजनत्रयमुक्तम् । तच्चान्यथा सिद्धम् । <<एकाच उपदेशे>> [[7.2.10]] इत्यत्र विहितविशेषणादेव बेभिदितेत्यत्र इण्निषेधो न । मथितं पण्यमस्येति विग्रहे ठकि ठस्येकादेशे <<यस्येति च>> [[6.4.148]] इत्यल्लोपे <<इसुसुक्तान्तात्कः>> [[7.3.51]] इति कादेशस्तु न भविष्यति । ठस्याभावात् । न च स्थानिवद्भावेन ठत्वमल्विधित्वात् । <<ठस्येकः>> [[7.3.50]] इत्यत्र हि स्थान्यादेशयोरकार उच्चारणार्थः । अपीपचन्नित्यपि णिलोपस्य चङन्त्यकारयोरेकादेशस्य च स्थानिवद्भावं विनाऽपि सिद्धम् । विधिसाहचर्यादभ्यस्तादपि लङ एव झेर्जुस्विधानात्। न च सिचा साहचर्याद् लुङ एव किं न स्यादिति वाच्यम् । पूर्वसाहचर्यात्परसाहचर्यस्य बलीयस्त्वादिति दिक् । पूर्वत्रासिद्धे नेति।<\/w> एतच्च न्यायसिद्धमित्यवोचाम । त्रिपाद्या असिद्धत्वेन तत्रत्ये कार्ये कर्तव्ये <<अचः परस्मिन्>>[[1.1.57]] इत्यतिदेशस्याप्रवृत्तेः । तस्येति । तस्य 'पूर्वत्रासिद्धे' इत्यस्य । तथा च स्थलत्रये स्थानिवद्भावो वक्तव्य इत्यर्थः । संयोगादिलोपे चक्र्यत्र । लत्वे निगाल्यते । णत्वे माषवपनी । इह <<यस्येति च>> [[6.4.148]] इत्यल्लोपस्य स्थानिवत्वेन नकारस्य प्रातिपदिकान्तत्वाभावाद् णत्वं न । यत्त्वाहुः — कथंचित्स्थानिवत्वाभावेऽपि यूष्ण इत्यादौ 'रषाभ्याम्' इत्यस्य नोपयोगः, ष्टुत्वेन सिद्धेः । तथा च षग्रहणमुत्तरार्थमिति आकरे स्थितम् । ततश्च रभसवादेनैतदुपन्यस्तमिति । स एवायं रभसवादः । तथा हि, उत्तरार्थतयाऽपीह षग्रहणं स्थितम् । ततश्च यूष्णः, पुष्णाति इत्यादौ 'रषाभ्याम्' इति णत्वस्य प्रवृत्तिः केन वार्यताम्? ष्टुत्वेनेति चेन्न । तस्यासिद्धत्वात् । न च वचनाप्रामाण्यात्सिद्धत्वम् । पुष्टिरित्यादौ चरितार्थत्वात् । तस्य षयोगे ण इत्यंशोऽचरितार्थ इति चेन्न । तस्य पृथगनुक्तेः । इह षात्परस्येत्युक्तिरचरितार्थेत्यस्यापि तुल्यत्वाच्च । आकरे हि इह षग्रहणं विना लक्ष्यासिद्धिर्नास्ति इत्येवाभिप्रेतं, न तु पुष्णातीत्यादौ 'रषाभ्याम्' इत्यस्याप्रवृत्तिरिति दिक्।", "84002": "रषाभ्यामिति पञ्चमीनिर्देशाद्व्यवहितस्याप्राप्तौ वचनमिदम्। अत्र सर्वैर्व्यवायोऽसंभवी, एकैकमात्रव्यवाय इत्यपि नार्थः। क्षुभ्नादिषु क्षुभ्नशब्दपाठसामर्थ्यात्'सरूपाणाम्' इत्यादिनिर्देशाच्चेत्यभिप्रेत्याह— व्यस्तैर्यथासम्भवं मिलितैश्चेति<\/w> । नन्वेवम् 'आदर्शेन'इत्यादौ अतिप्रसङ्गः। न च अडादिभिरेव व्यवधाने इति नियमः। अप्राप्ते विधिरयमित्युक्तत्वात्। सत्यम्, योगविभागोऽत्र बोध्यः—'व्यवायेऽपि' इत्येको योगो विध्यर्थः। 'अट्कुप्वाङ्नुम्' इत्यन्यो नियमार्थः। छान्दसो भिसो लुक्। निषेधं बाधितुमिति।<\/w> तेन पर्याणद्धमित्यत्र 'उपसर्गादसमासेऽपि' इति णत्वं सिध्यतीति भावः। नुम्ग्रहणमिति।<\/w> तत्स्थानिकस्य स्वाभाविकस्य चानुस्वारमात्रस्योपलक्षणमित्यर्थः। तेन 'बृहि वृद्धौ' इदित्वान्नुम्। तस्यानुस्वारः। 'तृंहू हिंसायां' स्वाभाविकोऽत्रानुस्वारः। बृंहणम्, तृंहणम्। उभयत्रापि णत्वं सिध्दम्। 'इवि प्रीणने' प्रेन्वनम्। इह 'कृत्यचः' 'इजादेः सनुमः' इति णत्वं न। यथा 'नक्षत्रं दृष्ट्वा वाचं विसृजेत्' इति विधौ नक्षत्रदर्शनस्य कालविशेषोपलक्षणत्वात्सत्यपि दिवा नक्षत्रदर्शने वाङ् न विसृज्यते, उपलक्षितस्य कालविशेषस्याभावात्। रात्रौ असत्यपि नक्षत्रदर्शने विसृज्यते, तस्य सत्त्वात्, तथेहापि बोध्यम्। नन्वेवं नुम्ग्रहणं व्यर्थम्, अनुस्वारस्याट्त्वेनैव संग्रहात्। उरःकेणेत्यादौ विसर्गजिह्वामूलीयादिव्यवधाने ह्येषैव गतिरिति चेत्सत्यमित्याह— तच्चेति।<\/w> स्यादेतत्। उक्तरीत्या 'नुम्विसर्जनीय' इति सूत्रेऽपि नुम्ग्रहणं त्याज्यं स्यात्। तत्राप्यनुस्वारस्य लक्षणीयत्वात्। अन्यथाऽसम्भवात्। न हि षत्वप्रवृत्तिवेलायां 'सर्पींषि' इत्यदौ नुम् लभ्यते। षत्वस्यासिध्दत्वेन ततः प्रागेवानुस्वारप्रवृत्तेः। यद्यपि 'सुहिन्सु' इत्यत्र संभवत्येव, तथापि तत्रैवातिव्याप्तिं वारयितुं लक्ष्यानुरोधान्नुम्स्थानिकेऽनुस्वारे लक्षणाऽऽश्रयणीयैव, व्याख्यानात्। तस्य च शर्त्वेन तद्व्यवाये षत्वस्य सिद्धत्वादिति चेत्? मैवम्, उक्तरीत्या तत्रत्यविसर्गग्रहणस्य प्रत्याख्यानसंभवेऽपि नियमार्थं नुम्ग्रहणम्। तथा हि, अनुस्वारेण व्यवधाने चेत् षत्वं तर्हि नुम्स्थानिकेनैव नियम्यते। तेन पुंस्वित्यादौ नेति दिक्।", "84022": "एकाजुत्तरेति।<\/w> न चाल्लोपे कृते एकाच्त्वं नास्तीति वाच्यम्। पूर्वस्मादपि विधौ स्थानिवत्त्वात्। न च 'पूर्वत्रासिद्धे न स्थानिवत्' इति वाच्यम्। 'तस्य दोषः संयोगादिलोपलत्वणत्वेषु' इत्युक्तेः। यत्तु- 'अट्कुप्वाङ्' इति सूत्रे 'वृत्रघ्नः, स्रुघ्नः' इति भाष्यमुपादाय कैयटेन व्याख्यातम्— 'प्रातिपदिकान्त' इति णत्वप्रसङ्ग इति, तत् पञ्चमीसमासो मास्त्वित्याशयेन, तस्य दोष इत्त्यत्र णत्वग्रहणं मास्त्वित्याशयेन वा बोध्यम्। णत्वग्रहणप्रत्याख्यानं तु भाष्ये ध्वनितं कौस्तुभे प्रपञ्चितम्। वस्तुतस्तु 'कुमति च' इति नित्यं णत्वमिह न्याय्यम्। सर्वथाऽपि वैकल्पिकं नित्यं वा प्राप्तं णत्वं नियमेन निवर्त्यत इति सिद्धम्। भाष्ये तु— 'कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः'। किं प्रयोजनम्? वृत्रघ्नः, स्रुघ्नः, प्राघानि। 'हन्तेरत्पूर्वस्य' इति अत्पूर्वग्रहणं न कर्तव्यं भवति' इत्युक्तम्। एतच्च वार्तिकाशयवर्णनमात्रं, न तु वस्तुस्थितिः। वार्तिकेन सूत्रावयवप्रत्याख्यानाऽपेक्षया योगविभागमाश्रित्य वार्तिकार्थोपसङ्ग्रहस्यैव न्याय्यत्वादिति दिक्। माधवेनोक्तमिति।<\/w> इत्थं हि तदीयो ग्रन्थः 'भसज्ञायामल्लोपे उत्तरपदमनचकं स्यात्। स्थानिवद्भावश्चाऽल्विधित्वान्नेति एकाजुत्तरपदत्वाऽभावात् 'प्रातिपदकान्तनुम्विभक्तिषु च' इति विकल्पो भवति— तद्भाष्येति।<\/w> किं चाऽल्विधित्वान्नेत्यसङ्गतम्। अल्विध्यर्थमेव 'अचः परस्मिन्' इत्यस्याऽऽरम्भात्, तस्याऽप्राप्तौ युक्त्यन्तरस्यैव वाच्यत्वात्। विकल्प इत्यप्यसङ्गतम्, 'कुमति च' सूत्रस्य दुर्वारत्वादित्यवधेयम्।", "84040": "स्तोरिति समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्। श्चुनेति।<\/w> 'सह युक्त—' इति सूत्रे विनापि तद्योगं तृतीयेति वक्ष्यते। योग इत्येतदध्याहारलभ्यम्। अत्र स्थान्यादेशयोर्यथासंख्यम्। निमित्तकार्यिणोस्तु न, <<शात्>> [[8.4.44]] इति ज्ञापकात्। <<अल्पाच्तरम्>> [[2.2.34]] इत्यादौ तु सौत्रत्वात् श्चुत्वं न। तज्ज्ञानमित्यादौ तु भवत्येव। 'स्तोः श्चौ श्चुः' इति सुवचम्। न च <<तस्मिन्निति निर्दिष्टे— >> [[1.1.66]] इति परिभाषोपस्थानेन 'यज्ञः' 'याच्ञा' इत्यादि न सिध्येत्। <<शात्>> [[8.4.44]] इति लिङ्गेन तस्या इहानुपस्थानात्॥", "84041": "इहापि कार्यिनिमित्तयोर्यथासंख्यं न । <<तोष्षि>> [[8.4.43]] इति ज्ञापकात्। ष्टौ ष्टुरिति सुवचम्। ईट्टे, ईष्टे इत्यादौ <<न पदान्तात्—>> [[8.4.42]] इति ज्ञापकान्न दोषः।", "84042": "सर्पिष्टममिति।<\/w> <<ह्रस्वात्तादौ—>> [[8.3.101]] इति षत्वम्।", "84045": "प्रत्यये भाषायामिति<\/w> । यत्तु प्राचा मयटि नित्यमिति पठितम्, यच्च हलन्तप्रकरणे षण्णां, षड्णामित्युदाहृतम्, यच्च <<यरोऽनुनासिक—>> [[8.4.45]] इति वाऽनुनासिक इति तत्र व्याख्यातं, तत्सर्वं भाष्यविरोधादुपेक्ष्यम्। यवादिगण इति।<\/w> 'यचि भं तसौ मत्वर्थे' इति संहितया पाठे तसाविति तात्पूर्वं दकारं प्रश्लिष्य भत्वेनाप्येतत्समाधातुं शक्यम्॥", "84047": "द्वे वेति।<\/w> । <<यरोऽनुनासिक>> [[8.4.45]] इति सूत्राद् वाग्रहणमनुवर्तते इति <<नाज्झलौ>> [[1.1.10]] इति सूत्रे कैयटः। एवं च <<सर्वत्र शाकल्यस्य>> [[8.4.51]] इति सूत्रं तत्प्रपञ्चभूतं पूर्वोत्तरसूत्रद्वयं च नारम्भणीयमिति भावः। यत्तु <<दीर्घादाचार्याणाम्>> [[8.4.52]] इति सूत्रे आचार्यग्रहणं पूजार्थमित्यभिप्रेत्य वाक्क् इति भाष्योदाहृते विकल्पे उपपत्तिचिन्तार्थं क्लिश्यन्ते, तन्मुधैव; पूजार्थतायाः प्रामाणिकैरनुक्तेः। <<त्रिप्रभृतिषु>> [[8.4.50]] इति सूत्रे शाकटायनग्रहणस्यापि तथापत्तेः। न चेष्टापत्तिः, संस्कर्तेति त्रिसकारपरकैयटहरदत्तादिग्रन्थविरोधात् स्वग्रन्थविरोधाच्च। अत एव प्रातिशाख्यभाष्येऽपि 'आ त्वा रथम्' इति मन्त्रे तकारस्य द्वित्वविकल्प उदाहृतः। माधवेन चास्ते इत्यत्र सकारस्य द्वित्वविकल्प उक्तः। एवं च धात्रंश इत्यत्र तकारस्य द्वित्वमसदित्युक्तिरेवासतीति दिक्॥", "84049": "कमला<\/w> लक्ष्मीः ॥ इति लान्ताः॥", "84055": "तच्छिव इति।<\/w> यत्तु प्राचा तत् शिव इत्यत्र जश्त्वे कृते <<खरि च>> [[8.4.55]] इत्युक्तम्। तन्न, तदो दान्तत्वेन जश्त्वोपन्यासवैयर्थ्यात्। यत्तु तत्पौत्रेणोक्तं तदो <<वाऽवसाने>> [[8.4.56]] इति चर्त्वे पश्चाच्छिव इत्यनेन सम्बन्धे <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे <<खरि च>> [[8.4.54]] इति चर्त्वमिति, तदतिस्थवीयः। जश्त्वं प्रति अवसाने चर्त्वस्यापवादत्वात्। जश्त्वे शिवशब्दानपेक्षणाच्च। भाविन्यवसानभङ्गे <<वावसाने>> [[8.4.56]] इत्यस्य पूर्वमप्रवृत्तेश्च। प्रवृत्तस्य वा निवृत्तिसम्भवात्। उक्तं च 'अकृतव्यूहाः पाणिनीयाः' इति, 'कृतमपि शास्त्रं निवर्तयन्ति' इति च। अन्यथा हरिरयमित्यत्रापि त्वदुक्तरीत्या प्रवृत्तो विसर्गः केन वार्यताम्। अथ तनोतीति तदिति क्विबन्तं ब्रूषे एवमपि जश्त्वेन दकारोऽस्तु। चर्त्वे कृते श्चुत्वमिति तु न न्याय्यम्। श्चुत्वं प्रति चर्त्वस्यासिद्धत्वात्। यत्तु <<न मु ने>> [[8.3.3]] इत्यत्र 'न' इति योगं विभज्यासिद्धत्वमिह नेत्याहुः। तदपि न, असिद्धत्वेऽपि रूपसिध्दौ निर्बाधायां योगविभागस्यागतिकगतिभूतस्येहाश्रयणे प्रमाणाभावात्॥", "84061": "<<अनुस्वारस्य ययि—>> [[8.4.58]] इत्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्याशयेनाह— अघोषस्येत्यादि।<\/w> एतेन सस्य तकार इति प्राचां ग्रन्थाः प्रत्युक्ताः। यदपीह 'चयो द्वितीयाः शरि' इत्यस्योपन्यसनं, तदतिरभसात्॥", "84064": "लोपः स्याद्वेति।<\/w> <<झयो हः—>> [[8.4.62]] इत्यतोऽन्यतरस्यामित्यनुवृत्तेः। एतच्च लण्सूत्रे भाष्ये स्पष्टम्। माहात्म्यमिति।<\/w> अत्र मलोपो नेत्यर्थः। 'हलो यरां यरि सवर्णे लोपः' इति तु न सूत्रितम्। आर्ध्नोत्, मूर्ध्नः, शार्ङ्गम्, आर्त्नी इत्यादौ रेफात्परस्य लोपापत्तेः॥हलो यमाम्॥ लोपः स्याद्वेति। <<झयो हः—>> [[8.4.62]] इत्यतोऽन्यतरस्यामित्यनुवृत्तेः। एतच्च लण्सूत्रे भाष्ये स्पष्टम्। माहात्म्यमिति। अत्र मलोपो नेत्यर्थः। 'हलो यरां यरि सवर्णे लोपः' इति तु न सूत्रितम्। आध्र्नोत्, मूध्र्नः, शाङ्र्गम्, आर्त्नीः इत्यादौ रेफात्परस्य लोपापत्तेः॥", "84065": "लोपो वेति।<\/w> <<झयो होन्यतरस्याम्>> [[8.4.62]] इति सूत्राद्विकल्पानुवृत्तेः। एतच्च <<नाज्झलौ>> [[1.1.10]] इति सूत्रे भाष्यकैयटयोः स्पष्टम्। प्राचस्तु विकल्पानुवृत्तेरनुक्तेर्न्यूनता। यदपि व्याख्यातृभिः <<शरोऽचि>> [[8.4.49]] इति ज्ञापकमभिप्रेत्य तत्संवादार्थं भाष्यमुपन्यस्तम्— 'अनुवर्तते विभाषा शरोऽचि यद्वारयत्ययं द्वित्वम्' इति, तन्न, तदुत्तरभाष्ये एव उक्तज्ञापकस्य दूषितत्वात्। लोपस्य हि नित्यत्वे <<अचो रहाभ्याम्—>> [[8.4.46]] इति द्वित्वं लोपापवादः स्यात्। तथा च 'शरोऽचि' इत्यस्य सार्थक्यं स्पष्टमेव। तस्माद्विकल्पानुवृत्तौ ज्ञापकान्तरमनुसर्तव्यम्, भाष्यकारादिव्याख्यानमेव वा शरणम्। द्वित्वलोपयोरिति।<\/w> यत्तु द्वित्वविधानसामर्थ्याद् द्वावेव शिष्येते इति, तन्न, लोपस्य वैकल्पिकत्वेन द्वित्वस्य पक्षे चरितार्थत्वात्। त्रिधमिति।<\/w> 'यणो मय' लक्षणान्तरेण पुनर्द्वित्वे तु चतुर्धमपि बोध्यम् ॥" }