{ "11001": "", "11002": "", "11007": "संयोग इति<\/w> । स्वरसंज्ञकवर्णैर्व्यवधानशून्या हल्वर्णाः संयोगसंज्ञकाः इत्यर्थः ।", "11008": "मुखनासिकेति<\/w> । मुखद्वितीया नासिका मुखनासिकेति शाकपार्थिवादित्वादुत्तरपदलोपः । उच्यतेऽसौ वचनः 'कर्मणि ल्युट्' । मुखनासिकया वचनः मुखनासिकावचन इति । ननु अष्टादशभेदाः किं सर्वेषामचामविशिष्टाः, नेत्याह — तदित्थमिति <\/w> । अष्टादशभेदा इति ।<\/w> अष्टादशप्रकारा इत्यर्थः । दीर्घाभावादिति । <\/w> तथा च उदात्तऌकारदीर्घः, अनुदात्तऌकारदीर्घः, स्वरितऌकारदीर्घः । ते च अनुनासिकास्त्रयः अननुनासिकास्त्रयय इति षड्भेदानामभावे सति ह्रस्वप्रपञ्चः षड्विधः प्लुतप्रपञ्चश्च षड्विध इति ऌकारस्य द्वादशविधित्वमेवेति भावः । ऌकारस्य दीर्घाभावे — होतृ ऌकार<\/qt> इत्यत्र सवर्णदीर्घे कृते होतॄकारः<\/qt> इति ॠकारस्यैव <<तुल्यास्यप्रयत्नं सवर्णम्>> [[1.1.9]] सूत्रे <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सूत्रेच भाष्योदाहरणमेव प्रमाणम् । ह्रस्वाभावादिति ।<\/w> यदि एचो ह्रस्वाः स्युः तर्हि वर्णसमान्माये त एव लाघवात् अ इ उ इत्यादिवत् पठ्येरन् । न तु दीर्घाः गौरवात् । अतः एचो ह्रस्वाः न सन्तीति विज्ञायते । एवञ्च ह्रस्वप्रपञ्चषड्भेदाभावात् द्वादशविधत्वमेवैचाम् इति भावः ।", "11009": "तुल्यास्येति । <\/w> आस्ये — मुखे भवम् आस्यं ताल्वादिस्थानम् <<शरीरावयवाद्यत्>> [[4.3.55]] इति भवार्थे यत्प्रत्ययः । प्रकृष्टो यत्नः प्रयत्नः । आस्यं च प्रयत्नश्च आस्यप्रयत्नौ । तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत् तुल्यास्यप्रयत्नं परस्परं सवर्णसंज्ञकं स्यादिति भावस्तदाह - ताल्वादीति । <\/w> मिथ इति । <\/w> परस्परमित्यर्थः । कस्य किं स्थानमित्याकाङ्क्षायां तद्व्यवस्थापकानि पाणिन्यादिशिक्षावचनानि अर्थतः सङ्गृह्णाति - अकुहेत्यादिना ।<\/w> 'अ' इत्यष्टादशभेदा गृह्यन्ते । 'कु' इति कादिपञ्चकात्मकः कवर्गः । अश्च कुश्च हश्च विसर्जनीयश्चेतो विग्रहः । विसर्जनीयशब्दोऽपि विसर्गपर्यायः । इचुयशेति ।<\/w>'इ' इत्यष्टादश भेदाः । 'चु' इति चवर्गः । इश्च चुश्च यश्च शश्चेति विग्रहः । ऋटुरषेति ।<\/w>'ऋ' इत्यष्टादश भेदाः । 'टु' इति टवर्गः । आ च टुश्च रश्च षश्चेति विग्रहः । 'ऋ' शब्दस्य आ इति प्रथमैकवचनान्तम्, 'धाता' इतिवत् । ऌतुलसेति । <\/w> 'ऌ' इत्यस्य द्वादश भेदाः । 'तु' इति तवर्गः । आ च तुश्च लश्च सश्चेतिविग्रहः । 'ऌ' शब्दस्यापि 'आ' इत्येव प्रथमैकवचनान्तत्वम् — आ, अलौ, अलः इति । दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः । अन्यथा भग्नदन्तस्य तदुच्चारणानुपपत्तेः । उपूपेति । <\/w> 'उ' इत्यष्टादशभेदाः । 'पु' इति पवर्गः । उश्च पुश्च उपध्मानीयश्चेति विग्रहः । उपध्मानीयशब्दस्य व्याख्यानमनुपदमेव मूले स्पष्टं भविष्यति । ञमङणनेति । <\/w> ञश्च मश्च ङश्च णश्च नश्चेति विग्रहः । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः । एदैतोरिति ।<\/w> एच्च ऐच्च ऐदैतौ । तपरकरणमसन्देहार्थम् । ओदौतोरिति । <\/w> ओच्च औच्च औदौतो । तपरकरणं पूर्ववदसन्देहार्थमेव । जिह्वामूलीयस्येति ।<\/w> ≍क ≍ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीय इति अग्रे मूले एव उक्तम् । अनुस्वारस्येति । <\/w> स्थानमिति शेषः । अनुस्वारस्य नासिकास्थानमस्तीति भावः । यत्नो द्विधेति । <\/w> यत्नानामाभ्यन्तरत्वं बाह्यत्वं च वर्णोत्पत्तेः प्रागूर्द्ध्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम् । यत्न इति ।<\/w> यत्नशब्दोऽत्र प्रयत्नपरः । आद्य इति <\/w>आभ्यन्तप्रयत्नः इत्यर्थः । कथं पञ्चधा इत्यत आह — स्पृष्टेत्यादिना । <\/w> तत्रेति । <\/w> स्पृष्ट,ईषत्स्पृष्ट,ईषद्विवृत,विवृत,संवृत — एषु मध्ये इत्यर्थः । प्रयतनमिति । <\/w> प्रयत्न इत्यर्थः । स्पर्शानामिति । <\/w> स्पर्शवर्णानामित्यर्थः । के ते वर्णाः इति मूले स्फुटीभविष्यन्ति । तथापि निर्दिश्यन्ते अत्रापि — क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म — कवर्णादारभ्य मवर्णपर्यन्तम् । अन्तःस्थानामिति । <\/w> यरलवानामित्यर्थः । ऊष्मणामिति ।<\/w> श ष स ह इत्येतेषामित्यर्थः । स्वराणामिति । <\/w> अ इ उ ऋ ऌ ए ओ ऐ औ इत्येतेषामित्यर्थः । प्रयोगे इति ।<\/w> शास्त्रीयप्रक्रियाभिः परिनिष्ठितायां रामः कृष्णः इत्यादिशब्दानां प्रयोगे क्रियमाणे एव ह्रस्वस्यावर्णस्य संवृतत्वमित्यर्थः । प्रक्रियेति । <\/w> शास्त्रीयकार्यप्रवृत्तिसमये दण्ड-आढक इत्यादौ सवर्णदीर्घादिकर्तव्ये तु विवृतत्वमेव । तेन सन्धिकार्यं निर्बाधमेव । एतत्सर्वं <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन ज्ञापितमिति सिद्धान्तकौमुद्यां स्पष्टम् । बाह्येति । <\/w> वर्णोत्पत्यनन्तरजातो यत्नो बाह्यप्रयत्न इत्युच्यते । खर इति ।<\/w> ख फ छ ठ थ च ट त क प श ष स — इति वर्णाः । विवारा इति <\/w> । विवारादिप्रयत्नवन्तः इत्यर्थः । हश इति । <\/w> ह य व र ल ञ म ङ ण न झ भ घ ढ ध ज ब ग ड च — इति वर्णा इत्यर्थः । संवारा इति । <\/w> संवारादिप्रयत्नवन्तः इत्यर्थः । अल्पप्राणा इति । <\/w> कगङ, चजञ, टडण, तदन पबम, यरलव — इत्येतेषां वर्णानाम् अल्पप्राणः इति भावः । खघ, छझ, ठढ, थध, फभ, शषसह — इत्येतेषां महाप्राणः इत्यपि ज्ञेयम् । कादय इति । <\/w> क-ख-इत्यादि-म-पर्यन्तमिति पूर्वमुक्ताः वर्णाः इत्यर्थः । क आदिर्येषां ते कादयः, म अवसाने येषान्ते मावसाना इति । यण इति । <\/w> यण्-प्रत्याहारान्तर्गतवर्णाः, 'यरलवाः' इत्यर्थः । शल इति ।<\/w> शल्-प्रत्याहारान्तर्गतवर्णाः 'श,ष,स,ह' — इत्येते । स्वरा इति ।<\/w> स्वेन राजत इति स्वराः, 'अ इ उ ऋ ऌ ए ओ ऐ औ' — इति वर्णाः इत्यर्थः ॥", "11011": "हरि एतावति । <\/w> हरी-एतौ<\/qt> इत्यत्र <<ईदूदेद् द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यनेन सूत्रेण प्रगृह्यसंज्ञायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे हरी एतौ<\/qt> इति निष्पन्नम् । एवमेव विष्णू-इमौ<\/qt>, गङ्गे-अमू<\/qt> इत्यत्र क्रमेण ऊकारान्तैकारान्तद्विवचनत्वात् <<ईदूदेद् द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यनेन प्रगृह्यसंज्ञायां प्रकृतिभावे च विष्णू इमौ<\/qt>, गङ्गे अमू<\/qt> इति भवति ।", "11012": "अदसो मादिति ।<\/w> अदसः इत्यवयवषष्ठी, तेन अदश्शब्दावयवमकारात्परस्येकारस्य सत्वात्प्रगृह्यसंज्ञायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे अमी ईशाः<\/qt> इति रूपम् । एवमेव रामकृष्णावमू-आसातेे<\/qt> इत्यत्रापि प्रगृह्यसंज्ञां कृत्वा प्रकृतिभावो विधेयः । मात् किमिति ।<\/w> असति माद्ग्रहणे एकारोऽप्यनुवर्तेत । तेन च अमुकेऽत्र<\/qt> अत्र प्रगृह्यसंह्ञापूर्वकप्रकृतिभाव आपद्येत इति भावः ॥", "11014": "इ इन्द्र इति ।<\/w> इ-इन्द्र<\/qt> इत्यत्र इकारस्य <<चादयोऽसत्त्वे>> [[1.4.57]] इत्यनेन निपातसंज्ञायाम् <<निपात एकाजनाङ्>> [[1.1.14]] इत्यनेन प्रगृह्यसंज्ञायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे इ इन्द्र<\/qt> इति भवति । स एव प्रकारो उ उमेशः<\/qt> इत्यत्र विज्ञेयः । आ एवमिति ।<\/w> ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ इति । प्रकृते आ एवं नु मन्यसे<\/qt> इत्यस्य वाक्यार्थत्वात्, आ एवं किल तत्<\/qt> इत्यस्य स्मरणार्थकत्वाच्च अङित्त्वेन <<निपात एकाजनाङ्>> [[1.1.14]] इत्यनेन आ इत्यस्य प्रगृह्यत्वे <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे सति रूपम् । अन्यत्रेति । <\/w> वाक्यस्मरणार्थकभिन्ने इत्यर्थः । तेन ईषदर्थक-आ-इत्यस्य ङित्त्वात् प्रगृह्यसंज्ञाभावे प्रकृतिभावाभावेन <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणे आ-ईषद् उष्णम्, ओष्णम्<\/qt> इति जायते ॥", "11015": " अहो ईशाः ।<\/w> अत्र <<ओत्>> [[1.1.15]] इति सूत्रेण प्रगृह्यसंज्ञायां <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे च सति अहो ईशाः<\/qt> इति भवति ॥", "11016": " विष्णो इतीति ।<\/w> विष्णो-इति<\/qt> इति स्थितावत्र <<सम्बुद्धौ शाकल्यस्येतावनार्षे>> [[1.1.16]] इत्यनेन सम्बुद्धिनिमित्तकस्य ओकारस्य अवैदिके इतौ परे प्रगृह्यसंज्ञायां <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे च सति विष्णो इति<\/qt> इति रूपं सिद्ध्यति । स च प्रकृतिभावो विकल्पेन भवति । तदभावे <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अवादेशे <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन लोपे विष्ण इति<\/qt> इति रूपम् । वलोपाभावे च विष्णविति<\/qt> इति रूपम् ॥", "11021": "आद्यन्तवदिति । 'सत्यन्यस्मिन् यस्य पूर्वो नास्ति स आदिः, सत्यन्यस्मिन् यस्य परो नास्ति सोऽन्तः' इति लोके प्रसिद्धं, तदुभयमेकस्मिन्नसहाये न सम्भवतीति तत्राद्यन्तव्यपदिष्टानि कार्याणि न स्युरतोऽयमतिदेश आरभ्यते । आदाविवान्त इव च स्यादिति । तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः । आभ्यामिति । इदम् + भ्याम् इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपैकादेशे 'इद भ्याम्' इति जाते <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यनेनान्त्यस्य लोपे प्राप्ते <ऽनानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारेऽ> इति परिभाषया अलोऽन्त्यविध्यभावे इद्भागस्यैव लोपे अ+भ्याम् इत्यवशिष्टे अत्र <<सुपि च>>[[7.3.102]] इति दीर्घत्वे प्राप्ते परमत्र विद्यमानस्याकारस्यादन्तत्वं वर्तते नवेति शङ्कायाम् <<आद्यन्तवदेकस्मिन्>>[[1.1.21]] इति एकस्मिन्नेवाकारे अन्तवद्भावेन अदन्तत्वं मत्वा दीर्घे कृते 'आभ्याम्' इति रूपम् ।", "11023": "बहुगण इति ।<\/w> बहुश्च, गणश्च, वतुश्च,डतिश्च, इति समाहारद्वन्द्वः । एतत्सख्यासंज्ञं स्यादित्यर्थः ।", "11024": "ष्णान्ता षटिति । अत्र <<बहुगणवतुडति संख्या>>[[1.1.23]] इत्यतः संख्येत्यनुवर्तते । पञ्च । पञ्चन् + जस् अत्र <<ष्णान्ता षट्>>[[1.1.24]] इति पञ्चन्दशब्दस्य षट्संज्ञायां विहितायां <<षड्भ्यो लुक्>>[[7.1.22]] इति जसो लुकि <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नस्य लोपे च 'पञ्च' इति रूपम् । एवमेव शसि पञ्च । पञ्चभिः पञ्चभ्यः । पदसञ्ज्ञायां नलोपे सति रूपम् ।", "11025": "डति चेति ।<\/w> डतीत्यविभक्तिको निर्देशः । प्रत्ययत्वात्तदन्तग्रहणम् । पूर्वसूत्रात् संख्येत्यनुवर्तते । <<ष्णान्ता षट्>>[[1.1.24]] इत्यतः षडिति च, तदाह - डत्यन्तेति ।<\/w>", "11027": "अथ सर्वादिशब्देषु सर्वनामकार्यं विधास्यन् सर्वनामसंज्ञामाह - सर्वादीनीति |<\/w> सर्वः आदिः प्रथमावयवो येषां तानि सर्वादीनि । नपुंसकवशात् शब्दरूपाणीति विशेष्यमध्याहार्यम् । तेन सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युरित्यर्थः।", "11028": "तत्र विशेषं दर्शयितुमाह - विभाषा दिक्समासे इति ।<\/w> <<सर्वादीनि सर्वनामानि>>[[1.1.27]] इत्यतः सर्वनामग्रहणमनुवर्तते, तदाह - सर्वनामतेति । उत्तरपूर्वस्यै<\/w> - उत्तरपूर्वा + ङे<\/qt> इत्यत्र <<विभाषा दिक्समासे बहुव्रीहौ>>[[1.1.28]] इति सर्वनामत्वे <<सर्वनाम्नः स्याड्ढ्रस्वश्च>>[[7.3.114]] इति स्याटि आबन्तस्य च ह्रस्वत्वे <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ उत्तरपूर्वस्यै<\/qt> इति । पक्षे - सर्वनामसंज्ञाभावे <<याडापः>>[[7.3.113]] इति याटि <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ कृतायाम् उत्तरपूर्वायै ।<\/qt> इति । एवमग्रेऽपि प्रक्रिया बोध्या रूपाणि - <<उत्तरपूर्वस्याः - उत्तरपूर्वायाः, उत्तरपूर्वासाम् - उत्तरपूर्वाणाम्, उत्तरपूर्वस्याम् - उत्तरपूर्वायाम्, इति । तीयस्यैति ।<\/w> विभाषाप्रकरणे तीयप्रत्ययान्तस्य ङित्सु सर्वनामत्वोपसंख्यानमिति तदर्थः । द्वितीयस्यै इति ।<\/w> द्वितीया + ङे<\/qt> इत्यत्र इति वैकल्पिके सर्वनामत्वे <<सर्वनाम्नः स्याड्ढ्रस्वश्च>>[[7.3.114]] इति स्याटि ह्रस्वत्वे च विहिते वृद्धौ कृतायां द्वितीयस्यै<\/qt> इति । सर्वनामत्वाभावे तु <<याडापः>>[[7.3.113]] इति याटि वृद्धौ विहितायां द्वितीयायै<\/qt> इति रूपम् । ङसिङसोः - द्वितीयस्याः, द्वितीयायाः । ङौ — द्वितीयस्यां, द्वितीयायामिति । एवं तृतीयेति ।<\/w> तृतीयस्यै -तृतीयायै, तृतीयस्याः - तृतीयायाः, तृतीयस्यां - तृतीयायाम् इति । हे अम्बेत्यादि ।<\/w> हे अम्बा सु इत्यत्र सकारोत्तरवर्तिन उकारस्येत्सञ्ज्ञात्वे लोपे च <<अम्बाऽर्थनद्योर्ह्रस्वः>>[[7.3.107]] इति ह्रस्वत्वे <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति सलोपे 'हे अम्ब' इति । एवमेव हे अक्क, हे अल्ल, इत्यादि । शेषं रमाशब्दवत् । जरेति ।<\/w> जॄष् — वयोहानौ, <<षिद्भिदादिभ्योऽङ्>>[[3.3.104]] इत्यङ् । <<ऋदृशोऽङि गुणः>>[[7.4.16]] इति गुणः, रपरत्वम् । अदन्तत्वात् टाप्, सुः, हल्ङ्यादिना सुलोप इति भावः । जरसाविति ।<\/w> 'जरा + औ' अत्र <<जराया जरसन्यतरस्याम्>>[[7.2.101]] इति अजादौ विभक्तौ परे जराशब्दस्य स्थाने जरस आदेशे मिलित्वा 'जरसौ' इति । जरे इति ।<\/w> 'जरा + औ' अत्र जरसादेशाऽभावे <<औङ आपः>>[[7.1.18]] इत्यौकारस्य श्यादेशे शस्येत्संज्ञायां लोपे च कृते <<आद्गुणः>>[[6.1.87]] इति गुणे 'जरे' इति रूपम् । जरसः, जराः । जरसम, जरसौ, जरसः । टा — जरसा । ङे — जरसे । ङसिङसोः - जरसः २ । ओसि - जरसोः । आमि - जरसाम् । ङौ -जरसि । पक्षे हलादौ च रमावदिति ।<\/w> जरसादेशाभावपक्षे, हलादावपि च रमावदित्यर्थः । गोपा विश्वपावदिति ।<\/w> गोपाः, गोपौ, गोपाः । गोपाम्, गोपौ,गोपः । गोपा, गोपाभ्यां, गोपाभिः । ङे — गोपे । ङसिङसो: - गोपः। ओसि - गोपोः । आमि - गोपाम् । ङौ - गोपि । शसादावजादौ विभक्तौ भसंज्ञायाम्, <<आतो धातोः>>[[6.4.140]] इति लोपः इति बोध्यम् । मतिशब्दः प्रायेण हरिवत् । मतिः, मती, मतयः । हे मते, हे मती, हे मतयः । मतिम्, मती । शसि - पूर्वसवर्णदीर्घादेशे कृते पुंस्त्वाभावात् <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति न नत्वम्, किन्तु सस्य रुत्वे विसर्गे च मतीः<\/qt> इति रूपम् । मत्येति ।<\/w> 'मति टा' इत्यत्र <<शेषो घ्यसखि>>[[1.4.7]] इति घिसञ्ज्ञायां सत्यामपि <<आङो नाऽस्त्रियाम्>>[[7.3.120]] इत्यत्र 'अस्त्रियाम्' इति पर्युदासान्नात्वं न किन्तु <<इको यणचि>>[[6.1.77]] इति यणि कृते 'मत्या' इति रूपम् ।", "11033": "प्रथमचरमेति ।<\/w> विभाषा जसीत्यनुवर्तते, सर्वनामानीति च तदाह - एते इति ।<\/w> प्रथमादय इत्यर्थः । प्रथमे प्रथमा इति ।<\/w> प्रथमशब्दात् प्रथमाबहुवचनविवक्षायां जसि समागते <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>>[[1.1.33]] इति सूत्रेण जसि परे सर्वनामसंज्ञत्वे <<जसः शी>>[[7.1.17]] इति जसः श्यादेशे शस्य लोपे गुणे च कृते प्रथमे इति । पक्षे - प्रथमाः । तयशब्दो न प्रातिपदिकमित्याह - तयः प्रत्यय इति । <<संख्याया अवयवे तयप्>>[[5.2.42]] इति विहितः इति शेषः । अत्र प्रत्ययग्रहणपरिभाषया तदन्ताः - तयबन्ता ग्राह्या इत्यर्थः । द्वितये, द्वितया इति ।<\/w> द्वाववयवावस्येति विग्रहः । द्वितयशब्दात् जसि <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>>[[1.1.33]] - इत्यनेन जसः स्थाने श्यादेशे अनुबन्धलोपे गुणे च द्वितये<\/qt> इति । पक्षे-द्वितयाः । शेषं रामवदिति ।<\/w> तथाहि - नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पठितत्वान्नित्या प्राप्ता तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानान्तु गणे पाठाभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह - शेषं रामवदिति । नेमे, नेमा इति ।<\/w> नेमशब्दात् जसि <<सर्वादीनि सर्वनामानि>>[[1.1.27]] इति प्राप्तां सर्वनामसंज्ञां विकल्पेन प्रवाध्य <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>>[[1.1.33]] इति विकल्पेन जातायां तस्यां <<जसः शी>>[[7.1.17]] इति श्यादेशेऽनुबन्धलोपे गुणे च नेमे<\/qt> इति । पक्षे - नेमाः इति । शेषं सर्ववदिति ।<\/w> नेमशब्दस्य सर्वादिगणे पठितत्वादिति भावः । तीयत्येति ।<\/w> <<विभाषा जसि>>[[1.1.32]] इत्यधिकारे तीयान्तस्य ङे, ङसि, डस्, ङि इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः । द्वितीयस्मै, द्वितीयायेति ।<\/w> द्वयोः पूरणो द्वितीयः । <<द्वेस्तीयः>>[[5.2.54]] इति पूरणे तीयप्रत्ययः। इत्यादीति ।<\/w> द्वितीयस्मात्, द्वितीयात्, द्वितीयस्मिन् द्वितीये इत्यादिशब्दार्थः । एवं तृतीय इति ।<\/w> ङित्सु उदाहार्यं इति शेषः । त्रयाणां पूरणमिति विग्रहः । <<त्रेः सम्प्रसारणम् च>>[[5.2.55]] इति पूरणेऽर्थे तीयप्रत्ययः । रेफस्य सम्प्रसारणम् - ऋकारः । <<सम्प्रसारणाच्च>>[[6.1.108]] इति पूर्वरूपम् । निर्जर इति ।<\/w> जरायाः निष्क्रान्तो निर्जरः । इति समासः । <<गोस्त्रियोरुपसर्जनस्य>>[[1.2.48]] इति ह्रस्वत्वम् । निर्गता जरा यस्मादिति बहुव्रीहिर्वा । निर्जरशब्दस्य <<कृत्तद्धितसमासाश्च>>[[1.2.46]] इति समासत्वात्प्रातिपदिकसंज्ञायां प्रथमैकवचने सौ अनुबन्धलोपे सस्य रुत्वे रेफस्य विसर्गत्वे च रूपम् ।", "11034": "पूर्वपर इति ।<\/w> सर्वनामानि इति <<विभाषा जसि>>[[1.1.32]] इति चानुवर्तते । तदाह - एतेषामिति ।<\/w> पूर्वादिसप्तानामितियावत् । पूर्वे पूर्वा इति ।<\/w> पूर्वशब्दात्प्रथमाबहुवचने जसि समागते <<सर्वादीनि सर्वनामानि>>[[1.1.27]] इति सर्वनामसंज्ञा नित्या प्राप्ता ; तां प्रवाध्य <<पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्>>[[1.1.34]] इति सूत्रेण जसि विकल्पेन विधाय <<जसः शी>>[[7.1.17]] इति जसः स्थाने श्यादेशे शस्येत्संज्ञायां लोपे च पूर्व-ई<\/qt> इति जाते <<आद्गुणः>>[[6.1.87]] इत्यनेन पूर्वपरयोः स्थाने गुणे कृते पूवें<\/qt> इति रूपम् । सर्वनामसंज्ञाभावे तु पूर्वसवर्णदीर्घादेशे रुत्वे विसर्गे च पूर्वाः<\/qt> इति रूपम् । असंज्ञायांकिमिति ।<\/w> इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याप्रसक्तेरिति प्रश्नः । उत्तराः कुरव इति ।<\/w> कुरुशब्दो देशविशेषे नित्यं बहुवचनान्तः । सुमेरुमवधीकृत्य तत्रोत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था, किन्तु संज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानां तु दिक्षु अनादिस्संकेत इति न ते संज्ञाशब्दाः । कुरुषु तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति । स्वाभिधेयेति ।<\/w> अपेक्ष्यत इत्यपेक्षः । स्वस्य - पूर्वादिशब्दस्य, अभिधेयम् - वाच्यम्, तेन अपेक्ष्यस्य- अपेक्ष्यमाणस्य अवधेर्नियमः, व्यवस्थाशब्देन विवक्षित इत्यर्थः । ततश्च नियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति । व्यवस्थायां किमिति ।<\/w> पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः । दक्षिणा गायका इति ।<\/w> अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः ।", "11035": "स्वमज्ञातीति ।<\/w> अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनञ्च ज्ञातिधने तयोराख्या ज्ञातिधनाख्या, न ज्ञातिधनाख्या, अज्ञातिधनाख्या तस्याम् । स्वमित्यस्य शब्दस्वरूपापेक्षया क्लीबत्वम् । तदाह - ज्ञातिधनान्येत्यादिना । स्वे स्वाः इति ।<\/w> स्वशदाज्जसि <<स्वमज्ञातिधनाख्यायाम्>>[[1.1.35]] इत्यनेन स्वशब्दस्य विकल्पेन सर्वनामसंज्ञायां <<जसः शी>>[[7.1.17]] इति श्यादेशेऽनुबन्धलोपे गुणे च स्वे<\/qt> इति । पक्षे पूर्वसवर्णदीर्घादेशे स्वाः<\/qt> इति । आत्मीया आत्मान इति वेति ।<\/w> आत्मा, आत्मीयं, ज्ञातिः, धनञ्चेति स्वशब्दस्य चत्वारोऽर्थाः। 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । 'स्वः स्यात् पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये स्वोऽस्त्रियां धने' इति मेदिनीकोशः। तत्र ज्ञातिधनयोः पयदासात् आत्मनि, आत्मीये च सर्वनामत्वं जसि विकल्प्यत इति भावः । ज्ञातिधनपर्युदासस्य प्रयोजनमाह - ज्ञातिधनवाचिनत्विति ।<\/w> ज्ञातिवाचिनः धनवाचिनश्च सर्वनामत्वपर्युदासात् जसि स्वाः<\/qt> इत्येव रूपमित्यर्थः ।", "11036": "अन्तरमिति ।<\/w> अत्रापि सर्वनामानीति विभाषा जसीतिचानुवर्तते । बहिःअनावृतप्रदेशः तेन योगः-सम्बन्धो यस्य स बहिर्योगः, बहिर्विद्यमानोऽर्थः इति यावत् । उपसंवीयते - परिधीयते इति उपसंख्यानम् अन्तरीयं वस्त्रम् । तदाह - बाह्य इत्यादिना । अन्तरे अन्तरा वेति ।<\/w> अन्तरशब्दाज्जसि <<अन्तरं बहिर्योगोपसंव्यानयोः>>[[1.1.36]] इत्यनेन सर्वनामसंज्ञायां <<जसः शी>>[[7.1.17]] इति जसः स्थाने श्यादेशे <<लशक्वतद्धिते>>[[1.3.8]] इतीत्संज्ञायां लोपे च अन्तर-ई<\/qt> इति स्थिते <<आद्गुणः>>[[6.1.87]] इति गुणे अन्तरे<\/qt> इति । सर्वनामत्वाभावे अन्तरा<\/qt> इति ।", "11037": "स्वरादिनिपातमन्यमिति<\/w>| स्वर् आदिर्येषान्ते स्वरादयः, ते च ते निपाताश्चेति समाहारद्वन्द्वः । फलितमाह - स्वरादय इति<\/w> । स्वरादीन् पठति - स्वरित्यादिना<\/w> । स्वरादीनां चादीनां च पृथक्पाठस्तु निपाता आद्युदात्ताः<\/hl> इति स्वरभेदार्थः, चादीनामसत्ववाचिनामेवाऽव्ययत्वम्, स्वरादीनां तु सत्ववाचिनामसत्ववाचिनां च तदिति व्यवस्थार्थश्च। स्वर्<\/w> - स्वर्गे पारत्रिकसुखविशेषे , परलोके च । अन्तर्<\/w> - मध्ये । प्रातर्<\/w> - प्रत्यूषे । पुनर्<\/w> - अप्रथमे विशेषे च । सनुतर्<\/w> - अन्तर्धाने। स्वराद्याः पञ्च रेफान्ताः । तेन स्वर्याति प्रातरत्रेत्यादौ <<हशि च>> इत्युत्वं न, तत्र रोः<\/qt> इत्युकारानुबन्धग्रहणात् । उच्चैस्<\/w> - महति । नीचैस्<\/w> - अल्पे । शनैस्<\/w> - क्रियासामान्ये । ऋधक्<\/w> - सत्ये । वियोगशैघ्र्यसामीप्यलाघवेष्वित्यन्ये। ऋते<\/w> - वर्जने । युगपत्<\/w> - एककाले । आरात्<\/w> - दूरसमीपयोः । पृथक्<\/w> - भिन्ने । ह्यस्<\/w> - अतीतेऽह्नि। श्वस्<\/w> - अनागतेऽह्नि । दिवा<\/w> - दिवसे। रात्रौ<\/w> - निशि । सायम्<\/w> - निशामुखे । चिरम्<\/w> - बहुकाले। मनाक्, ईषत्<\/w> - इदं द्वयमल्पे । जोषम्<\/w> - सुखे, मौने च । तूष्णीम्<\/w> - मौने । बहिस्, अवस्<\/w> - इदं द्वयं बाह्ये । समया<\/w> - समीपे, मध्ये च । निकषा<\/w> - अन्तिके । स्वयम्<\/w> - आत्मनेत्यर्थे । वृथा<\/w> - व्यर्थे। नक्तम्<\/w> - रात्रौ । नञ्<\/w> - निषेधे । तत्सादृश्यमभावश्च तदन्यत्वम् तदल्पता ।अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः<\/hl> इत्यन्ये । हेतौ<\/w> - निमित्ते । इद्धा<\/w> - प्राकाश्ये । अद्धा<\/w> - स्फुटावधारणयोः । सामि<\/w> - अर्द्धे , जुगुप्सिते च । वत्<\/w> - तुल्ये । सना, सनत्, सनात्<\/w> - एतत्त्रयं नित्ये । उपधा<\/w> - भेदे । तिरस्<\/w> - अन्तर्द्धौ, तिर्यगर्थे, पराभवे च । अन्तरा<\/w> - मध्ये, विनार्थे च । अन्तरेण<\/w> - वर्जने । ज्योक् <\/w> - कालभूयस्त्वे , प्रश्ने, शीघ्रार्थे, सम्प्रति, इत्यर्थे च । कम् <\/w> - वारिमूर्द्धानिन्दासुखेषु । शम्<\/w> - सुखे। सहसा<\/w> - आकस्मिकाविमर्शयोः । विना<\/w> - वर्जने । नाना<\/w> - अनेकविनार्थयोः । स्वस्ति<\/w> - मङ्गले । स्वधा<\/w> - पितृहविर्दाने । अलम्<\/w> - भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट्, श्रौषट्, वौषट्<\/w> - एतत्त्रयं देवहविर्दाने। अन्यत् <\/w> - अन्यार्थे। अस्ति<\/w> - सत्तायाम् । उपांशु <\/w> - अप्रकाशोच्चारणे, रहस्ये च । क्षमा<\/w> - क्षान्तौ। विहायसा<\/w> - आकाशे । दोषा<\/w> - रात्रौ। मृषा, मिथ्या<\/w> - इदं द्वयं वितथे। मुधा<\/w> - व्यर्थे । पुरा<\/w> - अविरते , चिरातीते भविष्यदासन्ने च । मिथो, मिथस्<\/w> - इदं द्वयं रहसि , संहार्थे च । प्रायस्<\/w> - बाहुल्ये । मुहुस्<\/w> - पुनरर्थे । प्रवाहुकम्<\/w> - समकाले, ऊर्ध्वार्थे च । प्रवाहिका<\/w> - इति पाठान्तरम् । आर्यहलम्<\/w> - बलात्कारे । अभीक्ष्णम्<\/w> - पौनःपुन्ये। साकं,सार्धम्<\/w> - इदं द्वयं सहार्थे । नमस्<\/w> - नतौ । हिरुक्<\/w> - वर्जने । धिक्<\/w> - निन्दाभर्त्सनयोः । अथ<\/w> - आरम्भप्रश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु । अम्<\/w> - शैघ्र्ये च, अल्पे च । आम्<\/w> - अङ्गीकारे । प्रताम् <\/w> - ग्लानौ। प्रशान्<\/w> - समानार्थे । मा, माङ्<\/w> - एतौ निषेधे । आकृतिगणोऽयमिति<\/w>। ततश्च अन्येऽप्येवं जातीयकाः । कामम्<\/w> - स्वाच्छन्द्ये । प्रकामम्<\/w> - अतिशये । भूयस्<\/w> - पुनरर्थे, इत्यादयो ज्ञेयाः । अथ चादीनाह - च, वा ह अह एव इत्यादिना<\/w>। च<\/w> - समुच्चयान्वाचयेतरेतरयोगसमाहारेषु । वा<\/w> - विकल्पादिषु । वास्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये । ह<\/w> - प्रसिद्धौ । अह<\/w> - अद्भुते , खेदे च । एव<\/w> - अवधारणे , अनवकॢप्तौ च। एवम्<\/w> - उक्तपरामर्षे । नूनम्<\/w> - निश्चये , तर्के च । शश्वत्<\/w> - पौनःपुन्ये, नित्ये , सहार्थे च । युगपत्<\/w> - एककाले । भूयस्<\/w> - पुनरर्थे , आधिक्ये च । कूपत्<\/w> - प्रश्ने प्रशंसायां च । कुवित्<\/w> - भूर्यर्थे प्रशंसायां च । नेत्<\/w> - शङ्कायाम् प्रतिषेधविचारसमुच्चयेषु च । चेत्<\/w> - यद्यर्थे । चण्<\/w> - अयं चेदर्थे णित् , समुच्चयादिष्वननुबन्धकः । स्वरे भेदः फलम् । कच्चित्<\/w> - इष्टप्रश्ने । यत्र<\/w> - अनवकॢप्त्यमर्षगर्हाश्चर्येषु । नह<\/w> - प्रत्यारम्भे । हन्त<\/w> - हर्षे , विषादेऽनुकम्पायां स्ववाक्यारम्भे च । माकिः ,माकिम्, नकिः<\/w> - इदं त्रयं वर्जने । माङ् - नञौ<\/w> - स्वरादिषूक्तौ। यावत्- तावत्<\/w> - इदं द्वयम् साकल्यावधिमानावधारणेषु । त्वै<\/w> - विशेषवितर्कयोः । (न्वै<\/w> - इति पाठान्तरम्) । द्वै<\/w> - वितर्के । रै<\/w> - दाने , अनादरे च । श्रौषट्, वोषट्, स्वाहा<\/w> - इदं त्रयं देवहविर्दाने । स्वधा <\/w> - पितृदाने । वषट् तुम्<\/w> - तुङ्कारे । तथाहि <\/w> - निदर्शने । खलु<\/w> - निषेदवाक्यालङ्कारनिश्चयेषु । किल<\/w> - इवार्थे , वार्तायाम्, अलीके च । अथ<\/w> - अयं मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु । सुष्ट<\/w> - स्वरभेदार्थः पुनः पाठः । स्म<\/w> - अतीते पादपूरणे च । आदह<\/w> - उपक्रमाहिंसाकुत्सनेषु । उपसर्गविभक्तिस्वरेति<\/w> - चादिगणसूत्रमेतत् । उपसर्गप्रतिरूपकाः , विभक्त्यन्तप्रतिरूपकाः अच्प्रतिरूपकाश्च , चादिगणे पाठ्याः इत्यर्थः । अवदत्तम् <\/w> - अत्र अवेत्युपसर्गरूपकं, नतूपसर्गः । तेन <<अच् उपसर्गात्तः>> इति तु न । तस्मिन् सति अवत्तम्<\/qt> स्यान्न तु अवदत्तम्<\/qt> इति भावः । अहयुः<\/w> - अहमिति सुबन्तप्रतिरूपकम् अहङ्कारे। अस्तिक्षीरा<\/w> । अस्ति क्षीरं यस्याः इति बहुव्रीहिः । अत्र अस्तीति तिङ्गन्तप्रतिरूपकमव्ययं न तु तिङ्गन्तम् । स्वरप्रतिरूपकानुदाहरति - अ इत्यादीना<\/w> । अ<\/w> - सम्बोधने । आ<\/w> - वाक्यस्मरणयोः । इ<\/w> - सम्बोधनजुगुप्साविस्मयेषु । ई,उ,ऊ,ए,ऐ,ओ,औ<\/w> - इति सप्तकं सम्बोधने । पशु<\/w> - सम्यगर्थे । शुकम्<\/w> - शैघ्र्ये। यथाकथाच <\/w> - सङ्घातोऽयमनादरे । पाट्, प्याट्, अङ्ग, है, हे, भोः, अये <\/w> - एते सप्त सम्बोधने । द्य <\/w> - हिंसाप्रातिलोम्यपादपूरणेषु । विषु<\/w> - नानार्थे । एकपदे <\/w> - अकस्मादित्यर्थे । युत् <\/w> - कुत्सायाम् । आतः <\/w> - इतोऽर्थे । चादिरप्याकृतिगण इति<\/w> । तेनाऽन्येपि - यत्,तत्<\/w> - द्वयं हेतौ । आहोस्वित् <\/w> - विकल्पे । सम् <\/w> - सर्वतो भावे । इत्यादयो बोध्याः । तसिलादय इति<\/w> । <<पञ्चम्यास्तसिल्>> इत्यारभ्य <<द्वित्र्योश्च धमुञ्>> इत्यन्ताः । शस्प्रभृतय इति<\/w>। <<बह्वल्पार्थात्>> इत्यारभ्य <<अव्यक्तानुकरणात्>> इति डाजन्ता इत्यर्थः । अम्, आमिति<\/w> । <<अमु च च्छन्दसि>> इत्यम् , <<किमेत्तिङव्यय>> इत्यां च गृह्यते । कृत्वोऽर्था इति <\/w> । <<संख्यायाः क्रियाभ्यावृत्तिगणेनकृत्वसुच्>>, <<द्वित्रिचतुर्भ्यस्सुच्>>, <<विभाषा बहोर्धा>> इति त्रय इत्यर्थः । तसिवती इति<\/w> । <<तेनैकदिक्>>, <<तसिश्च>> इति तसिः, <<तेन तुल्यम्>> इति वतिश्च गृह्यते । नानाञाविति<\/w> । <<विनाञ्भ्यां नानाञौ न सह>> इति विहितौ नानाञौ ।", "11042": "", "11043": "सुडनपुंसकस्येति ।<\/w> <<शि सर्वनामस्थानम्>>[[1.1.42]] इत्यतः सर्वनामस्थानमित्यनुवर्तते । सुट् इति - सु इत्यारभ्य औटष्टकारेण प्रत्याहारस्तदेतदाह - स्वादिपञ्चवचनानोत्यादिना |<\/w>", "11045": "यणः स्थाने इति । व्याख्यानात् स्थानार्थलाभः। सम्प्रसारणसंज्ञ इति । ततश्च <<वसोः सम्प्रसारणम्>>[[6.4.131]] <<वचिस्वपियजादीनां किति>>[[6.1.15]] इत्यादौ सम्प्रसारणश्रुतौ यणस्थानिक इगुपस्थितो भवति । तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः, लस्य लृकारः इति बोध्यम् ।", "11046": "", "11047": "मिदच इति । मकारः इत् यस्य सः मित्, अन्त्यादचः परो भवतीत्यर्थः । ज्ञानानि । ज्ञान + जस् इत्यत्र <<जश्शसोः शिः>>[[7.1.20]] इत्यनेकालत्वाज्जसः स्थाने शित्वे कृते <<शि सर्वनामस्थानम्>>[[1.1.42]] इति 'शि' इत्यस्य सर्वनामस्थानसञ्ज्ञायां <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि <<मिदचोऽन्त्यात्परः>>[[1.1.47]] इति योगेनान्त्याज् रूपस्य नस्यान्त्यावयवीभूते उकारमकारयोरित्संज्ञायां लोपे च 'ज्ञानन् शि' इति जाते शकारस्येत्संज्ञायां लोपे च कृते <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इतिनान्तोपधायाः दीर्घत्वे 'ज्ञानानि' इति । पुनस्तद्वदिति । अम्-औट्-शस्सु-ज्ञानम्, ज्ञाने, ज्ञानानि, इति क्रमेण रूपाणीत्यर्थः ।", "11048": "एच इगिति । आदिश्यत इत्यादेशः, ह्रस्वश्वासावादेशश्च ह्रस्वादेशः, निर्धारणे सप्तमी । जातावेकवचनमतो व्याचष्टे -आदिश्यमानेष्वित्यादिना । एचां पूर्वभागोऽकारसदृशः, उत्तरस्तु इवर्णोवर्णसदृशस्तत्रोभयान्तरतमस्य ह्रस्वस्याभावात्पर्यायेण अकारः स्यादिकारोकारौ च स्याताम्, तथा च मा कदाप्यकारो भूदिति नियमार्थेयं परिभाषेत्यभिप्रेत्याह - इगेवेति । प्रद्यु । प्रकृष्टा द्यौः यस्येति बहुव्रीहौ प्रद्योशब्दस्य <<ह्रस्वो नपुंसके प्रातिपदिकस्य>>[[1.2.47]] इति ह्रस्वे <<एच इग्घ्रस्वादेशे' इति एज् रूपस्यौकारस्योकारे कृते प्रद्य् + सु इति स्थिते <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे 'प्रद्यु' इति रूपम् । प्रद्युनेत्यादि । प्रद्युशब्दस्तु उदन्तो नपुंसके । तथाच पुंसि प्रद्योशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रद्यशब्दस्य तदपेक्षया भिन्नत्वेन भाषितपुंस्कत्वाभावान्न पुंवत्वमिति बोध्यम् । शेषं मधुवत् । प्ररि । प्रकृष्टः राः धनं यस्य इति बहुव्रीहौ प्ररैशब्दः । तस्य नपुंसकह्रस्वत्वेन इकारः । सुटि हलादौ विभक्तौ च वारिवत् । सोर्लुप्तत्वात् <<रायो हलि>>[[7.2.85]] इत्यात्वं न । हलादौ तु <ऽएकदेशविकृतमनन्यवत्ऽ> इति यथा छिन्नपुच्छे शुनि नाश्वो न गर्दभः इति तथैव प्ररैशब्दस्य इग् रूपेण विकृतत्वेऽपि <<रायो हलि>>[[7.2.85]] इत्याकारादेशे विहिते - प्रराभ्याम्, प्रराभिरित्यादि । सुनु । सु-शोभना, नौर्यस्येति विग्रहे बहुव्रीहौ <<ह्रस्वो नपुंसके प्रातिपदिकस्य>>[[1.2.47]] इति औकारस्य <<एच इग्घ्रस्वादेशे>>[[1.1.48]] इति परिभाषया उकारे विहिते सुनु + सु इति स्थिते <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे 'सुनु' इति रूपम् । शेषं मधुवत् ॥ इत्यजन्तनपुंसकलिङ्गप्रकरणम् ।", "11050": "", "11051": "उरणिति । <\/w> उः इति 'ऋ' इत्यस्य षष्ठ्येकवचनम् । त्रिंशतः इति ।<\/w> <<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यनेनेति भावः । तत्स्थाने इति । <\/w> <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यतः स्थानग्रहणमनुवर्तते । <ऽविधौ परिभाषोपतिष्ठते नानुवादेऽ> इति परिभाषया <<उरण् रपरः>> [[1.1.51]] इत्यत्र <<षष्ठी स्थानेयोगा>> [[1.1.49]] इति परिभाषा नोपतिष्ठते इति भावः । रपरः सन्नेवेति ।<\/w> अत्र 'र' इति प्रत्याहारो ग्राह्यः । तेन रेफशिरस्कः लकारशिरस्कः च प्रवर्तते । कृष्णर्द्धिरिति । <\/w> कृष्ण-ऋद्धिः<\/qt> इति स्थिते अत्र <<आद्गुणः>> [[6.1.87]] इति सूत्रेण कृष्ण इत्यस्य णकारोत्तवर्तिः अकारः तस्मात् अचि परे (नाम ऋकारे परे) पूर्वपरयोः (अकार-ऋकारयोः) स्थाने गुणे प्राप्ते, गुणकसंज्ञकाश्च <<अदेङ्गुणः>> [[1.1.2]] इति सूत्रेण अ, ए, ओ इति, एषां त्रयाणां मध्ये कः कर्तव्यः ? एकारस्य तु कण्ठतालुस्थानम्, ओकारस्य कण्ठोष्ठस्थानम् एतौ ए ओ इति न भवतः, आन्तरतम्याभावात्, किन्तु परिशेषात् अ एव भवति, स च <<उरण् रपरः>> [[1.1.51]] इति सूत्रेण रपरः (रेफशिरस्कः) सन् भवति । तेन कृष्णर्द्धिः<\/qt> इति रूपम् । तवल्कार इति ।<\/w> तव-ऌकारः<\/qt> इति स्थिते अत्र <<आद्गुणः>> [[6.1.87]] इति सूत्रेण अत्र वकारोत्तवर्तिः अकारः तस्य ऌकारस्य च उभयोः स्थाने अ-रूपगुणे <<उरण् रपरः>> [[1.1.51]] इति सूत्रेण लपरे च कृते तवल्कारः<\/qt> इति रूपम्भवति ॥", "11052": "अत्र सुधी-उपास्यः<\/qt> इति स्थिते <<इको यणचि>> [[6.1.77]] इति सूत्रेण अजव्यवहितपूर्व-इक् — धकारोत्तवर्ति ई, तस्य स्थाने <<स्थानेऽन्तरतमः>> [[1.1.50]] इति सूत्रेण 'य्', न तु 'वरलाः', आन्तरतम्याभावात् । सुधय्-उपास्यः<\/qt> इति जाते <<अनचि च>> [[8.4.47]] इति सूत्रेण धकारस्य द्वित्वे <<झलां जश् झशि>> [[8.4.53]] इति सूत्रेण प्रथमधकारस्य दकारे सुद्ध्य्-उपास्यः<\/qt> इत्यवस्थायां <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण यकारस्य लोपे प्राप्ते, इति वार्त्तिकेन यलोपनिषेधे सति सुध्युपास्यः<\/qt> इति रूपं सिद्धम् । मध्वरिः इति ।<\/w> मधोः अरिः मध्वरिः । मधुनामदैत्यस्य अरिः शत्रुः श्रीकृष्ण इत्यर्थः ॥ अत्र साध्यते — मधु-अरिः<\/qt> इति स्थिते <<इको यणचि>> [[6.1.77]] इति सूत्रेण अजव्यवहितपूर्वत्वविशिष्ट-इक् धकारोत्तवर्ति उ, तस्य स्थाने <<स्थानेऽन्तरतमः>> [[1.1.50]] इति परिभाषया (वकारस्य दन्तोष्ठम्, उपूपध्मानीयामनामोष्ठौ इति उभयोः उकारवकारयोः स्थानसाम्यात्) 'व्' जाते मध्व्-अरिः<\/qt> इत्यवस्थायाम् <<अनचि च>> [[8.4.47]] इत्येनन द्वित्वे <<झलां जश् झशि>> [[8.4.53]] इत्यनेन धकारस्य दकारे, <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण लोपे प्राप्ते, इत्यनेन निषिद्धे सति मध्वरिः<\/qt> इति सिद्धम् । धात्त्रंशः इति ।<\/w> धातुः अंशः धात्रंशः । धातृ-अंशः <\/qt> इति स्थिते <<इको यणचि>> [[6.1.77]] इत्यनेन ऋ-स्थाने स्थानेऽन्तरतमपरिभाषया र् कृतः । अत्रापि <<संयोगान्तस्य लोपः>> [[8.2.23]] इति लोपे प्राप्ते, इत्यनेन निषिद्धे, धात्रंशः<\/qt> इति सिद्धम्भवति । लाकृतिरिति ।<\/w> लुरिव आकृतिः यस्यः सः इति विग्रहः इति भावः । ऌ-आकृतिः<\/qt> इत्यत्र <<इको यणचि>> [[6.1.77]] इत्यनेन स्थानत आन्तर्यात् 'ऌ' इत्यस्य स्थाने 'ल्' इति, अत्रापि लोपे प्राप्ते निषिद्धे सति, अज्झीनं परेण संयोज्यम्, लाकृतिः<\/w> इति रूपं सिद्धम् ॥", "11053": "", "11054": "", "11055": "", "11056": "", "11060": "प्रसक्तस्येति । <\/w> शास्त्रतोऽर्थतश्च प्रसक्तस्य प्राप्तोच्चारणस्येत्यर्थः । दृशेर्ज्ञानसामान्यार्थकत्वात्तस्य च निषेधाऽसम्भवादुच्चारणसत्ताया एव निषेध इति भावः ॥", "11061": "प्रत्ययस्य लुगिति ।<\/w> <<अदर्शनं लोपः>>[[1.1.60]] इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्यादर्शनं लुकश्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते । अत्रानुवृत्तस्यादर्शनस्यानेकसंज्ञाकरणसामर्थ्यात्तन्त्राद्याश्रित्य तद्भावितसंज्ञा इह विज्ञायते । तेन संज्ञासङ्करोऽत्र न भवति, तदेतदाह – लुक् श्लुलुप् शब्दैरित्यादिना ।<\/w> सति तु संज्ञासङ्करे हन्तीत्यत्र शब्लुकि <<श्लौ>>[[6.1.10]] इति द्वित्वं स्यात् । जुहोतीत्यत्र श्लौ सति <<उतो वृद्धिर्लुकि हलि>>[[7.3.89]] इति वृद्धिः स्यादिति भावः ।", "11062": "प्रत्ययलोपे प्रत्ययलक्षणमिति ।<\/w> प्रत्ययः लक्षणं यस्य तत् प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादित्यर्थः ।", "11063": "न लुमताङ्गस्येति ।<\/w> प्रत्ययलोपे प्रत्ययलक्षणमित्यनुवर्तते । लुइत्येकदेशोऽस्यास्तीति लुमान् । लुक्शब्दः, श्लुशब्दः,लुप् शब्दश्च । तेन शब्देन प्रत्ययलोपे विहिते प्रत्ययनिमित्तकमङ्गकार्यं न स्यादित्यर्थः । कति ।<\/w> कतिशब्दस्य बहुत्वविशिष्टवाचकत्वात् प्रथमाबहुवचने जसि कृते <<बहुगणवतुडति संख्या>>[[1.1.23]] इत्यनेन डत्यन्तत्वात् कतिशब्दस्य संख्यासंज्ञायां सत्याम् <<डति च>>[[1.1.25]] इति षट्संज्ञा जाता । कति जस्<\/qt> इत्यवस्थायां <<षड्भ्यो लुक्>>[[7.1.22]] इति जसो लुकि सति <<प्रत्ययलोपे प्रत्ययलक्षणम्>>[[1.1.62]] इत्यनेन प्रत्ययलक्षणं मत्वा <<जसि च>>[[7.3.109]] इति कतिशब्दस्येकारस्य गुणे प्राप्ते <<न लुमताङ्गस्य>>[[1.1.63]] इत्यनेन अङ्गकार्यस्य गुणस्य निषेधे विहिते सति कति<\/qt> इति रूपम् । कति ।<\/w> कतिशब्दात् द्वितीयाबहुवचने शसि कृते संख्यासंज्ञां विधाय षट्संज्ञा कृताऽनन्तरम् <<षड्भ्यो लुक्>>[[7.1.22]] इति लुकि सति । कति<\/qt> इति रूपम् । त्रिष्विति ।<\/w> पुस्त्रीनपुंसकेष्वित्यर्थः । सरूपा इति ।<\/w> समानानि रूपाणि येषामित्यर्थः । त्रयः ।<\/w> त्रिशब्दस्य बहुत्ववाचकत्वात् प्रथमाबहुवचने जसि कृते <<चुटू>>[[1.3.7]] इति जसो जकारस्येत्संज्ञायां लोपे च 'त्रि - अस्' इति स्थिते <<जसि च>>[[7.3.109]] इति गुणे <<एचोऽयवायावः>>[[6.1.78]] इत्ययादेशे रुत्वे विसर्गे च त्रयः<\/qt> इति रूपम् । त्रीन् ।<\/w> त्रिशब्दात् शसि शसःशकारस्येत्संज्ञायां लोपे च <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घादेशे कृते <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति सकारस्य नकारादेशे कृते त्रीन्<\/qt> इति रूपम् ।", "11064": "शकन्धुरिति ।<\/w> शक-अन्धु<\/qt> इति स्थिते अत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन दीर्घे प्राप्ते तं बाधित्वा इत्यनेन पररूपे प्राप्ते तच्च पररूपं टेः (टिसंज्ञकस्य) भवति । टिसंज्ञा च <<अचोऽन्त्यादि टि>> [[1.1.64]] इत्यनेन ककारोत्तवर्ति-अकारस्य भवति । एवञ्च शक-अन्धुः<\/qt> इत्यत्र पूर्वपरयोः स्थाने पररूपे सति शकन्धुः<\/qt> इति भवतीति भावः । एवमेव कर्क-अन्धुः<\/qt> इत्यत्र <<अचोऽन्त्यादि टि>> [[1.1.64] इत्यनेन टिसंज्ञायाम् इत्यनेन पररूपे कर्कन्धुः<\/qt> इति भवति । मनस्-ईषा<\/qt> इति स्थितेऽत्र <<अचोऽन्त्यादि टि>> [[1.1.64]] इत्यनेन सूत्रेण अस्-इत्यस्य टिसंज्ञायाम् पररूपे चे मनीषा<\/qt> इति सिद्ध्यति । मार्त-अण्डः<\/qt> इति स्थिते प्रकृतवार्त्तिकेन पररूपे मार्तण्डः<\/qt> इति जायते ॥", "11065": "अलोऽन्त्यादिति ।<\/w> अल इति पञ्चमी अन्त्यादिति सामानाधिकरण्यात् । अल् प्रत्याहारः, वर्णपर्यायः । पूर्वोऽप्यलेव गृह्यते, साजात्यादित्याह - अन्त्यादल इत्यादिना ।<\/w>", "11066": "", "11067": "", "11069": "अणुदिदिति ।<\/w> अण् अविधीयमानः सवर्णबोधकः, उदित् विधीयमानोऽपि सवर्णबोधको भवतीत्यर्थः । तेन <<ऋत उत्>> [[6.1.111]] इत्यादौ विधीयमाने उति इति न सवर्णग्रहणम् । <<कुहोश्चुः>> [[7.4.62]], <<चोः कुः>> [[8.2.30]] इत्यादौ विधीयमानेऽपि सवर्णग्रहणमिति भावः । अत्रैवेति । <\/w> अस्मिन्नेव सूत्रे इत्यर्थः । अन्त्यत्र तु <<अणोप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इत्यादौ । पूर्वणकारेण सह प्रत्याहारः । अत्र व्याख्यानमेव शरणम् । 'पूर्वेणैवाण् ग्रहाः सर्वे परेणैवेण्ग्रहा मताः । ऋतेऽणुदित्सवर्णस्येत्येतदेकं परेण तु ॥' — इति भाष्यकारेणोक्तम् ॥ तदेवमिति ।<\/w> तत् <<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]] सूत्रम्, एवं वक्ष्यमाणप्रकारेण फलतीत्यर्थः । अष्टादशानामिति । <\/w> (1) ह्रस्वोदात्तानुनासिकः, (2) ह्रस्वोदत्ताननुनासिकः, (3) ह्रस्वानुदात्तानुनासिकः, (4) ह्रस्वानुदात्ताननुनासिकः, (5) ह्रस्वस्वरितानुनासिकः, (6) ह्रस्वस्वरिताननुनासिकः, (7) दीर्घोदात्तानुनासिकः, (8) दीर्घोदत्ताननुनासिकः, (9) दीर्घानुदात्तानुनासिकः, (10) दीर्घानुदात्ताननुनासिकः, (11) दीर्घस्वरितानुनासिकः, (12) दीर्घस्वरिताननुनासिकः, (13) प्लुतोदात्तानुनासिकः, (14) प्लुतोदत्ताननुनासिकः, (15) प्लुतानुदात्तानुनासिकः, (16) प्लुतानुदात्ताननुनासिकः, (17) प्लुतस्वरितानुनासिकः, (18) प्लुतस्वरिताननुनासिकः — इत्येतेषामित्यर्थः । तथेति । <\/w> अनया रीत्या इकार-उकारयोरपि बोध्यम् । ऋकार इति ।<\/w> अनेन प्रकारेण । ऋकारस्य अष्टादश । ऌकारस्य दीर्घाभावात्, ऌकारदीर्घषट्कं विहाय द्वादश । ऋकार-ऌकारयोः सावर्ण्यात् मिलित्वा त्रिंशत् — इति भावः । एवमिति ।<\/w> पूर्वोक्तप्रकारेणैव । एच इति । <\/w> द्वादशानां बोधकाः । तदेवम् - ए, ओ, ऐ, औ इति प्रत्येकं द्वादश इति भावः । ननु स्थानप्रयत्नयोस्तुल्यत्वात् सावर्ण्येन ए ऐकारस्य, ओ औकारस्य बोधकस्तेन चतुर्विंशतेः संज्ञकः एकारः, एवमोकारः स्यादिति चेद्, न । 'ऐऔच्' इति पृथक् सूत्रत्वेन तयोः सावर्ण्याभावज्ञापकत्वात् । तेन इति ।<\/w> यवलानां प्रकारद्वयेन ॥", "11070": " तः परः इति <\/w> तपरपदे बहुव्रीहितत्पुरुषसमासद्वयं व्याख्यानादतो वृत्तावाह — तः परो यस्मात्तात्परश्चेति ॥", "11071": "आदिरन्त्येन सहेतेति । <\/w> अन्ते भवः अन्त्यः । तेन इता सहोच्चार्यमाणः आदिः अण्-अच्-इत्यादिरूपः संज्ञेत्यर्थः । यस्मात्पूर्व नास्ति परञ्चास्ति स आदिः । यस्मात्परं नास्ति पूर्वञ्चास्ति सोऽन्तः । इहाद्यन्ताभ्यामवयवत्वेन बोधकाभ्यां शब्दाभ्यां मध्यगा आक्षिप्यन्ते । अतस्तेषां संज्ञेति लभ्यते । स्वं रूपमिति पूर्वसूत्रादनुवर्तते । तच्च षष्ठ्यन्तया विपरिणम्यते तदेतदाह — अन्त्येनेत्यादि<\/w> । स्वस्य चेति । <\/w> अत्र च स्वशब्देन संज्ञाकोटिप्रविष्ट आदिरेव परामृश्यत इति भावः ॥", "12009": "इको झलिति<\/w> । इगन्तादिति ।<\/w> सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति ।<\/w> <<रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च>> [[1.2.8]] इत्यतः सन् इति, <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यतश्च किद् इत्यनुवर्तत इति भावः । इत्वं स्मारयति - ॠत इद्धातोरिति<\/w> । चिकीर्षतीति<\/w> । कृधातोः <<धातोः कर्मणः>> [[3.1.7]] इत्यादिना सनि अनुबन्धलोपो आर्धधातुकत्वे <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमे प्राप्ते <<एकाच उपदेशेऽनुदात्तात्>> [[7.2.10]] इतीण्निषेधे <<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घे <<इको झल्>> [[1.2.9]] इति कित्वाद् गुणाभावे <<ॠत इद्धातोः>> [[7.1.100]] इति इत्वे रपरे किर् स<\/qt> इति भूते द्वित्वेऽभ्यासकार्ये <<हलि च>> [[8.2.77]] इति दीर्घे षत्वे च कृते चिकीर्ष<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां लटि तिपि शपि अनुबन्धलोपो <<अतो गुणे>> [[6.1.97]] इति पररूपे च कृते चिकीर्षति<\/qt> इति सिद्धम् ।", "12010": "हलन्ताच्चेति । <<इको झल्>>[[1.2.9]] इति पूर्वसूत्रमनुवर्तते <<रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च>>[[1.2.8]] इत्यतः सन्निति, <<असंयोगाल्लिट् कित्>>[[1.2.5]] इत्यतः किदिति च । हलिति लुप्तपञ्चमीकं पदम् । अन्तःशब्दः समीपवाची । तदाह - इक्समीपादित्यादि । निविविक्षते । निपूर्वाद्विश् धातोः सनि <<हलन्ताच्च>>[[1.2.10]] इति सनः कित्वाद्गुणाभावे द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये, <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति शस्य षत्वे, षस्य कत्वे, सस्य षत्वे, <<सनाद्यन्ता धातवः>>[[3.1.32]] इति धातुत्वाल्लटि, लटः स्थाने <<पूर्ववत् सनः>>[[1.3.62]] इत्थात्मनेपदत्वात् ते, शपि, अनुबन्धलोपे, <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे, टेरेत्वे च तत्सिद्भिः।", "12027": "ऊकाल इति । <\/w> ह्रस्वदीर्घप्लुतः इति समाहारद्वन्द्वः, सौत्रं पुंस्त्वम् । एकद्वित्रिमात्रिकोकाराणामुच्चारणकालसदृशोच्चारणकालविशिष्टोऽच् क्रमशो ह्रस्वदीर्घप्लुतसंज्ञको भवतीति सूत्रार्थः । प्राथम्यादकारोच्चारणमेव युक्तमिति न शङ्क्यम् । कुक्कुटोक्ते उकारे एकद्वित्रिमात्रत्वप्रसिद्धेरकारस्यानुक्तेः । वां काल इति ।<\/w> वः इति ऊशब्दस्य प्रथमाबहुवचनम् । वामिति षष्ठीबहुवचनम् । वां काल इव कालो यस्येति फलितार्थकथनमिति यावत् । एकमात्रात्मक उसदृशोच्चारणकालिको योऽच् स ह्रस्वसंज्ञको भवति । एवं द्विमात्रात्मकोकारोच्चारणकालसदृशः कालो यस्याचः स दीर्घसंज्ञको भवति । एवं त्रिमात्रात्मकोकारोच्चारणकालसदृशो योऽच् सः प्लुतसंज्ञको भवति । स प्रत्येकमिति ।<\/w> सः (लब्धह्रस्वादिसंज्ञकः) ह्रस्वः, दीर्घः, प्लुतश्च अच् प्रत्येकमुदात्तादिभेदेन उदात्तत्वेन, अनुदात्तत्वेन, स्वरितत्वेन च धर्मविशेषेण त्रिधा त्रिभिः प्रकारैर्वर्तत इत्यर्थः ॥", "12029": "उदात्तसंज्ञामाह — उच्चैरुदात्त<\/w> इति । नादधर्मविशेषः उच्चैस्त्वन्त्विह न विवक्षितम्, उपांशूच्चार्यमाणे अव्याप्तेः । किन्तु उच्चैः शब्दः अधिकरणशक्तिप्रधानः ऊर्ध्वभागे इत्यर्थे वर्तते । <<ऊकालोऽज्झ्रस्वदीर्घप्लुतः>> [[1.2.27]] इत्यत अच् इत्यनुवर्तते, तदेतदाह ताल्वादिष्वित्यादिना । सभागेष्विति<\/w> । ताल्वादीनां सावयवत्वकथनं ऊर्ध्वभागे इत्यस्योपपादनार्थम् ।। तेषामखण्डत्वे ऊर्ध्वभागे इत्यनुपपत्तेः ।", "12030": "नीचैश्शब्दः अधिकरणशक्तिप्रधानः, अधोभागे इत्यर्थे वर्तते, तदाह — नीचैरिति ।<\/w>", "12031": "समाहारः स्वरितः इति । <\/w> पूर्वसूत्राभ्यां उदात्तानुदात्तपदे अनुवृत्ते व्याख्यानात् धर्मप्रधाने षष्ठ्यन्ततया च विपरिणम्येते । यस्मिन् समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः । तदेतत्फलितमाह — उदात्तानुदात्तत्वे इति<\/w> । स नवविधोऽपीति ।<\/w> १. उदात्तह्रस्वः , २. अनुदात्तह्रस्वः, ३. स्वरितह्रस्वः, ४. उदात्तदीर्घः, ५. अनुदात्तदीर्घः, ६. स्वरितदीर्घः, ७. उदात्तप्लुतः, ८. अनुदात्तप्लुतः, ९. स्वरितप्लुतः, इति रीत्या य एकैकः अच् नवविधः स्थितः स प्रत्येकमनुनासिकत्वेन अननुनासिकत्वेन च द्विधा द्वाभ्यां प्रकाराभ्यां वर्तत इत्यर्थः ।", "12041": "", "12045": "अथ स्वौजस्<\/qt> इत्यादिना स्वादिप्रत्ययान्वक्ष्यति । तत्र <<ङ्याप्प्रातिपदिकात्>>[[4.1.1]] इत्यधिकृतम् । किं तत्प्रातिपदिकमिति जिज्ञासायामाह - अर्थवदधातुरिति ।<\/w> अर्थोऽस्यास्तीति अर्थवत् । नपुंसकलिङ्गनिर्देशानुसारात् शब्दस्वरूपमिति विशेष्यमध्याहार्यम् । अधातुरिति, अप्रत्यय इति च तद्विशेषणम् । न धातुरधातुरिति नञ् तत्पुरुषः । <<परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः>>[[2.4.26]] इति पुंस्त्वम् । अप्रत्ययः इत्यावर्तते । प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च विवक्षितम् । न चात्र <ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तिऽ> इति परिभाषया तदन्तविध्यभाव इति शङ्क्यम् । प्रत्ययस्य यत्र संज्ञा तत्रैव तद्विषयात् । तदाह - धातुं प्रत्ययमित्यादिना ।<\/w>", "12046": "कृत्तद्धितेति ।<\/w> कृच्च तद्धितश्च समासश्चेति विग्रहः। पूर्वसूत्रात् प्रातिपदिकमित्यनुवर्तते, बहुवचनान्ततया विपरिणम्यते । <ऽप्रत्ययग्रहणे तदन्ता ग्राह्याःऽ> इति परिभाषया कृत्तद्धितेति तदन्तग्रहणन्तदाह - कृत्तद्धितान्तावित्यादिना ।", "12047": "ह्रस्वो नपुंसके । इह ह्रस्वश्रुत्योपस्थितेन अच इत्यनेन प्रातिपदिकविशेषणात्तदन्तविधिरित्याह - अजन्तस्यति । श्रीपमिति । 'श्रीपा सु' अत्र <<ह्रस्वो नपुंसके प्रातिपदिकस्य>>[[1.2.47]] इति ह्रस्वत्वे <<अतोऽम्>>[[7.1.24]] इति सोरमि <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपैकादेशे 'श्रीपम्' इति रूपम् । ज्ञानवदिति । ह्रस्वविधानात् दीर्घान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः । जश्शसोः शिकृते श्रीपाणीति रूपम् । श्रीपेण, श्रीपाय, श्रीपात्, इत्यादि । द्वे । 'द्वि औ' अत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<नपुंसकाच्च>>[[7.1.19]] इति 'औ' इत्यस्य स्थाने श्यादेशे शकारस्येत्संज्ञायां लोपे च कृते <<आद्गुणः>>[[6.1.87]] इति गुणे कृते 'द्वे' इति रूपम् । त्रीणीति । त्रिशब्दात् जसि कृते <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने श्यादेशे कृते <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसंज्ञायां शकारस्येत्संज्ञायां लोपे च कृते <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमागमे मित्त्वादन्त्यादचः परे जाते उमोर्लोपे 'त्रिन् इ' इति जाते <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपघायाः दीर्घे कृते <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे 'त्रीणि' इति रूपम् ।", "12064": "", "13001": "", "13002": "प्रतिज्ञेति ।<\/w> प्रतिज्ञायते इति प्रतिज्ञा । अनुनासिकस्य भावः आनुनासिक्यम् । प्रतिज्ञा आनुनासिक्यं येषान्ते प्रतिज्ञानुनासिक्याः । लण्सूत्रस्थेति ।<\/w> 'लण्'-सूत्रे तिष्ठतीति लण्सूत्रस्थः स चासौ अवर्णश्च लण्सूत्रस्थावर्णः, तत्र सहोच्चार्यमाणो रेफः 'र' इत्येवं रूपः रेफलकारयोस्संज्ञेत्यर्थः ॥", "13003": "उपदेशेऽन्त्यमिति । <\/w> आद्योच्चारणविषयीभूतो यः शब्दस्तस्यान्त्यं हल् इत्संज्ञकः स्यादिति फलितोऽर्थः । आद्योच्चारणमिति ।<\/w> आद्यानां शिवपाणिनिप्रभृतीनामाद्यमुच्चारणमुपदेशः । यद्वा आद्यञ्च तदुच्चारणञ्चेत्याद्योच्चारणम्, प्रथममुच्चारणमित्यर्थः । शिवपाणिनिप्रभृतीनामाद्यमुच्चारणमुपदेशः । केचित्तु — धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः — इत्याहुः ।", "13004": "", "13007": "चुटू<\/w> इति । <<आदिर्ञिटुडवः>>[[1.3.5]] इत्यतः आदिरिति, <<षः प्रत्ययस्य>>[[1.3.6]] इत्यतः प्रत्ययस्येति चानुवर्तते, तदाह - प्रत्ययाद्याविति ।<\/w>", "13008": "लशकेति ।<\/w> लश्च कुछ अश्चेति समाहारद्वन्द्वः । <<आदिर्ञिटुडवः>>[[1.3.5]] इत्यत आदिरित्यनुवर्तते । <<षः प्रत्ययस्य>। इत्यतः प्रत्ययस्येत्यनुवर्तते तदाह - प्रत्ययाद्या इति ।<\/w>", "13009": "णादयोऽणाद्यर्था इति ।<\/w> अण् आदिर्येषां तेऽणादयस्तेऽर्थाः प्रयोजनं येषान्तेऽणाद्यर्थाः । णादयः — ण्-क्-ङ्-च्-प्रभृतयः — इत्संज्ञावर्णाः अणादिप्रत्याहारप्रयोजका इति यावत् ॥", "13010": "समसम्बन्धीति ।<\/w> समानामिति यदि 'कर्मणि षष्ठी', तर्हि स्थान्यादिभिः समसंख्यानां यत्र विधानं तत्रैव यथासंख्यमित्यस्य प्रवृत्तिः, यथा, <<एचोऽयवायावः>> [[6.1.78]] इत्यत्र, न तु <<समूलाकृतजीवेषु हन्कृञ्ग्रहः>> [[3.4.36]] इत्यत्र । तत्र विधेयस्य णमुल्-इत्यस्य एकत्वात् । अतः समानामिति 'सम्बन्धे षष्ठी' इति भावः । हरये इति ।<\/w> हरे-ए<\/qt> इति स्थिते, <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन एच्-प्रत्याहारघटकः 'हरे' इत्यत्र रेफोत्तरवर्ती एकारः, तस्य स्थाने 'अय' आदेशो जातः, अच्-प्रत्याहारघटक एकारे परे । तेन हरय्-ए<\/qt> इति जाते , अज्झीनं परेण संयोज्यम्, हरये<\/qt> इति सिद्धम् । विष्णवे इति<\/w> । विष्णो-ए<\/qt> इति स्थिते <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अचि एकारे परे विष्णो<\/qt> अत्रस्थो य ओकारः, तस्य स्थाने अव्-आदेशः कॄतः । विष्णव्-ए<\/qt> इति जाते मिलित्वा विष्णवे<\/qt> इति रूपं सिद्धम् । नायक इति ।<\/w> नै-अक:<\/qt> अत्र आय्-आदेशः, पौ-अकः<\/qt> अत्र आव्-आदेशः <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन इति भावः ॥", "13014": "कर्तरि कर्मेति । कर्मव्यतिहार इत्यत्र कर्मशब्दः क्रियापरः, व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति । व्यतिलुनीते । वि अति इति उपसर्गद्वयपूर्वकलूञधातोः <<वर्तमाने लट्>>[[3.2.123]] इति लटि, अनुबन्धलोपे, लटो लः स्थाने <<कर्तरि कर्मव्यतिहारे>>[[1.3.14]] इति कर्मव्यतिहारे द्योत्ये कर्तरि आत्मनेपदे प्राप्ते, तत्र प्रथमपुरुषैकवचनविवक्षायां ते कृते, <<क्र्यादिभ्यः श्ना>>[[3.1.81]] इति श्नाप्रत्यये अनुबन्धलोपे, उभयत्र सार्वधातुकसंज्ञायां <<प्वादीनां ह्रस्वः>>[[7.3.80]] इति लुञो ह्रस्वत्वे, <<ई हल्यघोः>>[[6.4.113]] इति श्नाआकारस्य ईत्वे, <<टित आत्मनेपदानां टेरे>>[[3.4.79]] इति टेरेत्वे 'वि अति' इत्यत्र यणि च कृते 'व्यतिलुनीते' इति रूपम् । अन्यस्येति । शूद्रादियोग्यं सस्यादिलवनं ब्राह्मणः करोतीत्यर्थः ।", "13015": "न गतिहिंसार्थेभ्य इति । कर्मव्यतिहारे द्योत्ये गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुभ्यो न आत्मनेपदमित्यर्थः । व्यतिगच्छन्ति । व्यतिघ्नन्ति । अत्र <<कर्तरि कर्मव्यतिहारे>>[[1.3.14]] इत्यात्मनेपदत्वे प्राप्ते <<न गतिहिंसार्थेभ्यः>>[[1.3.15]] इति निवार्यते ।", "13017": "नेविंशः । निपूर्वाद्विशः आत्मनेपदं स्यादित्यर्थः । निविशते । निपूर्वात् विश्धातोर्लट: स्थाने <<नेर्विशः>>[[1.3.17]] इति ते, शपि, अनुबन्धलोपे च तत्सिद्धिः।", "13018": "परिव्यवेभ्य इति । परि वि अव एभ्यः परस्मात् क्रीञ्धातोरात्मनेपदमित्यर्थः। ञित्वादात्मनेपदसिद्धेः अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते इत्यादि । परिपूर्वकक्रीञ्धातोः <<वर्तमाने लट्>>[[3.2.123]] इति लटः स्थाने <<स्वरितञितः कर्त्रभिप्राये क्रियाफले>>[[1.3.72]] इति कर्त्रभिप्राये क्रियाफले आत्मनेपदे प्राप्ते तम्बाधित्वा <<परिव्यवेभ्यः क्रियः>>[[1.3.18]] इत्यात्मनेपदे ते <<क्र्यादिभ्यः श्ना>>[[3.1.81]] इति श्ना, अनुबन्धलोपे, <<ई हल्यघोः>>[[6.4.113]] इति ईत्वे णत्वे टेरेत्वे च तत्सिद्धिः । एवं वि अवएतदुपसर्गाभ्यां परस्य क्रीञ् धातोरपि बोध्यम् ।", "13019": "विपराभ्यां जेरिति । वि परा आभ्यां परस्मात् जिधातोरात्मनेपदमित्यर्थः । विजयते । विपूर्वकजिधातोर्लटः स्थाने विपराभ्यां जेः इति ते, शपि, गुणे, अयादेशे टेरेत्वे च तत्सिद्धिः। विजयते - उत्कृष्टो भवतीत्यर्थः । पराजयते । निकृष्टो भवतीत्यर्थः ।", "13022": "समवप्रविभ्यः स्थ इति । स्थः इति पञ्चमी । सम् अव प्र वि एभ्यः परस्मात् स्थाघातोरात्मनेपदमित्यर्थः । सन्तिष्ठते । समाप्तं भवतीत्यर्थः । अवतिष्ठते । अत्र सर्वत्र स्थाधातोर्लटः स्थाने <<समवप्रविभ्यः स्थः>>[[1.3.22]] इत्यात्मनेपदे, शपि, <<पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः>>[[7.3.78]] इत्यादिना तिष्ठ आदेशः।", "13032": "गन्धनावक्षेपण । आत्मनेपदम्, अकर्त्रभिप्रायेऽपीति शेषः । सूचयतीति । परदोषमाविष्करोतीत्यर्थः । श्येनो वर्तिकामुत्कुरुते इति । <<गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः>>[[1.3.32]] इत्यनेन श्येनो वर्तिकामुत्कुरुते इत्यतः प्रारभ्य शतं प्रकुरुते इत्यन्तः प्रयोगा आत्मनेपदिनो भवन्ति । कटं करोति । अत्र गन्धनादिभिन्नत्वात् नात्मनेपदमिति भावः ।", "13044": "अपह्नवे ज्ञः। अपह्नवः – अपलापः । तद्वत्तेर्ज्ञाधातोरात्मनेपदमित्यर्थः । अपजानीते । अपोपसर्गपूर्वकज्ञाधातोर्लटः स्थाने <<अपह्नवे ज्ञः>>[[1.3.44]] इत्यात्मनेपदत्वे <<क्र्यादिभ्यः श्ना>>[[3.1.81]] इति श्ना, <<ई हल्यघोः>>[[6.4.113]] इति श्नाकारस्य ईत्वे च तत्सिद्धिः।", "13045": "अकर्मकाच्च । ज्ञः आत्मनेपदमिति शेषः । सर्पिषो जानीते इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते । ज्ञो ऽविदर्थस्य करणे इति तृतीयार्थे पष्ठी । तदाह - सर्पिषोपायेन प्रवर्तते इति ।", "13053": "उदश्चरः सकर्मकात् । उत्पूर्वाच्चरधातोः सकर्मकादात्मनेपदमित्यर्थः । धर्ममुच्चरते । उत्पूर्वकात् चर् धातोर्लट: स्थाने <<उदश्चरः सकर्मकात्>>[[1.3.53]] इति आत्मनेपदे टेरेत्वे च तत्सिद्धिः ।", "13054": "समस्तृतीयेति । सकर्मकादिति निवृत्तम् । सम्पूर्वात् तृतीयान्तसममिव्याहृताच्चरधातोरात्मनेपदमित्यर्थः। रथेन सञ्चरते । अत्र सम्पूर्वकचरघातुर्वर्तते, रथेन इति तृतीयान्तेन च युक्तः, तस्माद् <<समस्तृतीयायुक्तात्>>[[1.3.54]] इत्यनेनात्मनेपदम् ।", "13055": "दाणश्च सा । <<समस्तृतीयायुक्तात्>>[[1.3.54]] इत्यनुवर्तते । तदाह - संपूर्वादिति । दास्या संयच्छते कामी । इति वार्तिकेन दास्या इत्यन्त्र चतुर्थ्यर्थे तृतीया, ततश्च दास्या इति तृतीयान्तयुक्तात्सम्पूर्वाद्दाण् धातोर्लोटि तत्स्थाने प्रथमपुरुषैकवचनविवज्ञायां <<दाणश्च सा चेच्चतुर्थ्यर्थे>>[[1.3.55]] इत्यात्मनेपदत्वात्तप्रत्यये शपि अनुबन्धलोपे <<पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः>>[[7.3.78]] इत्यादिना दाणो यच्छादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे टेरेल्वे च कृते तत्सिद्धिः ।", "13062": "पूर्ववत्सन इति । एदिधिषते । एध् धातोः सनि इटि, 'एधिस' इति जाते तत्र <<सन्यङोः>>[[6.1.9]] इत्यनेन <<अजादेर्द्वितीयस्य>>[[6.1.2]] इति 'धि' इत्यस्य द्वित्वे अभ्यासत्वे, अभ्यासकार्ये षत्वे, जश्त्वे, <<सनाद्यन्ता धातवः>>[[3.1.32]] इति धातुत्वाल्लटि, लटो लः स्थाने <<पूर्ववत् सनः>>[[1.3.62]] इत्यात्मनेपदे ते, शपि, अनुबन्धलोपे, पररूपत्वे, टेरेवे च तत्सिद्धिः ।", "13066": "भुजोऽनवने । अवनं रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः। ओदनं भुङ्क्ते । भुज् धातोर्लटः स्थाने <<भुजोऽनवने>>[[1.3.66]] इति आत्मनेपदत्वात् ते, सार्वधातुकसंज्ञायां <<रुधादिभ्यः श्नम्>>[[3.1.78]] इति श्नमि, अनुबन्धलोपे, मित्वादन्त्यादचः परे <<श्नसोरल्लोपः>>[[6.4.111]] इति श्नमोऽकारस्य लोपे, जस्य कुत्वेन गत्वे गस्य चर्त्वेन कत्वे, अनुस्वारे, परसवर्णे टेरेवे च तत्सिद्धिः। मही मुनक्तीति । रक्षतात्यर्थः । इत्यात्मनेपदप्रक्रिया ।", "13074": "णिचश्चेति।<\/w> <<अनुदात्तङितः>> [[1.3.12]] इत्यत आत्मनेपदमिति, <<स्वरितञितः कर्त्रभिप्राये क्रियाफले>> [[1.3.72]] इति चानुवर्तते । प्रत्ययग्रहणपरिभाषया णिजन्तादिति लभ्यते । तदाह — णिजन्तादित्यादिना<\/w> । चोरयते।<\/qt> चुर्-धातोः पूर्ववत् स्वार्थे णिचि धातुसंज्ञायाम् <<वर्तमाने लट्>> [[3.2.123]] इति लटि लः स्थाने कर्तृगामिनि क्रियाफले सति <<णिचश्च>> [[1.3.74]] इत्यात्मनेपदे ते जाते शपि अनुबन्धलोपे गुणे अयादेशे टेरेत्वे च रूपम्। अग्रे — चोरयते<\/qt>, चोरयन्ते<\/qt> । चोरयसे<\/qt>, चोरयेथे<\/qt>, चोरयध्वे<\/qt> । चोरये<\/qt>, चोरयावहे<\/qt>, <\/qt>चोरयामहे<\/qt> इति । चोरयामास<\/qt> ।चुर्-धातोः स्वार्थ णिचि, धातुसंज्ञायाम् <<परोक्षे लिट्>> [[3.2.115]] इति लिटि <<कास्यनेकाच आम्वक्तव्यः>> (वार्त्तिकम् [[3.1.35]]) इत्यामि तस्य आर्धधातुकत्वे तत्परे चोरिधातोर्गुणे अयादेशे च कृते <<आमः>> [[2.4.81]] इति लिटो लुकि <<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इति लिट्परासोऽनुप्रयोगे कृते चोरयाम् अस् लिट्<\/qt> इति जाते लिटो लः स्थाने तिपि, तिपो णलि द्वित्वे अभ्यासत्वे अभ्यासकार्ये संयोगे च कृते तत्सिद्धिः । एवमन्यत्र चोरयामासतुः<\/qt>, चोरयामासुः<\/qt> । चोरयामासिथ<\/qt>, चोरयामासथुः<\/qt>, चोरयामास<\/qt> । चोरयामास<\/qt>, चोरयामासिव<\/qt>, चोरयामासिम<\/qt> । एवम्, चोरयाम्बभूव<\/qt> । तथा — चोरयाञ्चकार<\/qt> चोरयाञ्चक्रे<\/qt> । लुटि — चोरयिता<\/qt> । अत्र तास इडागमः, प्रकृतेर्गुणोऽयादेशश्च विशेषः, शेषं पूर्ववत्। चोरयिष्यति<\/qt>-<\/qt>चोरयिष्यते<\/qt>। चोरयतु<\/qt>-चोरयताम्<\/qt> । अचोरयत्<\/qt>-अचोरयत<\/qt>। चोरयेत्<\/qt>-चोरयेत<\/qt>। आशीर्लिङि परस्मैपदमे आह — चोर्यात्<\/qt> । चुर्-धातोः णिचि अनुबन्धलोपे प्रकृतेर्गुणे धातुसंज्ञायाम् आशिष्यर्थे लिङि, लः स्थाने तिपि अनुबन्धलोपे <<लिङाशिषि>> [[3.4.116]] इत्यार्धधातुकत्वे यासुटि तस्यापि यदागमन्यायेनार्धधातुकत्वात् <<णेरनिटि>> [[6.4.51]] इति णिलोपे चोर् यास् त्<\/qt> इति जाते तत्र सकारस्य <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति लोपे कृते चोर्यात्<\/qt> इति रूपम्। चोर्यास्ताम्<\/qt>, चोर्यासुः<\/qt> । चोर्याः<\/qt>, चोर्यास्तम्<\/qt>, चोर्यास्त<\/qt> । चोर्यासम्<\/qt>, चोर्यास्व<\/qt>, चोर्यास्म<\/qt> । चोरयिषीष्ट<\/qt> । चोरीति पूर्ववत्प्रसाध्य तस्य धातुत्वात् आशिषि लिङ आत्मनेपदे ते आर्धधातुकत्वे सीयुटि उटि गते टित्वादाद्यावयवे चोरि सी त<\/qt> इति भूते तस्य सुडागमे सियुट इडागमे प्रकृतेर्गुणे अयादेशे सियुटस्सस्य षत्वे तस्य ष्टत्वे च रूपम् । चोरयिषीयास्ताम्<\/qt>, चोरयिषीरन्<\/qt> । चोरयिषीष्टाः<\/qt>, चोरयिषीयास्थाम्<\/qt>, चोरयिषीध्वम्<\/qt> । चोरयिषीय<\/qt>, चोरयिषीवहि<\/qt>, चोरयिषीमहि<\/qt> । अचूचुरत् । चोरीति पूर्ववत्प्रसाध्य तस्य धातुत्वात् लुङस्तिपि अनुबन्धलोपे <<इतश्च>> [[3.4.100]] इति तिप इकारलोपे तस्य सार्वधातुकत्वे शपं बाधित्वा <<च्लि लुङि>> [[3.1.43]] इति च्लौ <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इति च्लेः चङि अनुबन्धलोपे <<णेरनिटि>> [[6.4.51]] इति णिलोपे स्थानिवद्भावेन <<णौ चङ्युपधाया ह्रस्वः>> [[7.4.1]] इति चोर उपधाया ह्रस्वे चुर् अ त्<\/qt> इति जाते <<चङि>> [[6.1.11]] इति द्वित्वे अभ्यासससंज्ञायाम् अभ्यासकार्ये च कृते <<सन्वल्लघुनि चङपरेऽनग्लोपे>> [[7.4.93]] इति सन्वद्भावे <<दीर्घो लघोः>> [[7.4.94]] इत्यभ्यासोकारस्य दीर्घे अङ्गस्य अडागमे च अचूचुरत्<\/qt> इति रूपम् । अचूचुरताम्<\/qt>, अचूचुरन्<\/qt>। अचूचुरः<\/qt>, अचूचुरतम्<\/qt>, अचूचुरत<\/qt> । अचूचुरम्<\/qt>, अचूचुराव<\/qt>, अचूचुराम <\/qt> । अचूचुरत<\/qt> । चोरीति पूर्ववत्प्रसाध्य लुङ्स्ते, तस्य सार्वधातुकसंज्ञायाम् प्राप्तं शपम्बाधित्वा <<च्लि लुङि>> [[3.1.93]] इति च्लौ, तस्य स्थाने <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इति चङि अनुबन्धलोपे <<णेरनिटि>> [[6.4.51]] इति णिलोपे <<चङि>> [[6.1.11]] इति द्वित्वे अभ्याससंज्ञायाम् अभ्यासकार्ये च जाते चु चुर् अ त<\/qt> इति भूते <<सन्वल्लघुनि चङपरेऽनग्लोपे>> [[7.4.93]] इति अडाcoगमे अचूचुरत<\/qt> इति रूपम् । अचूचुरेताम्<\/qt>, अचूचुरन्त<\/qt> । अचूचुरथाः<\/qt>, अचूचुरेथाम्<\/qt>, अचूचुरध्वम्<\/qt> अचूचुरे<\/qt>, अचूचुरावहि<\/qt>, अचूचुरामहि<\/qt> इति । लृङि - अचोरयिष्यत्<\/qt>—अचोरयिष्यत<\/qt> । अल्लोपे इति<\/w> । <<अतो लोपः>> [[6.4.48]] इत्यनेनेति भावः । अचः परस्मिन्निति<\/w> । <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इत्यस्मात् स्थानिवदादेशः इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति, अच आदेश इति । परस्मिन्निति सतिसप्तमी । ततश्च परनिमित्तक इति लभ्यते । तच्चादेशविशेषणम् । तदाह — निमितोऽजादेश इत्यादिना<\/qt> । कथयति<\/w> । कथ इत्यकारान्तादस्माण्णिचि अनुबन्धलोपे णिचः <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यार्धधातुकत्वात् <<अतो लोपः>> [[6.4.48]] इति यकारोत्तरवर्तिनः अकारस्य लोपे कृते णिच्-निमित्तिकायाम् <<अत उपधायाः>> [[7.2.116]] इति वृद्धौ प्राप्तायाम् <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति अल्लोपस्य स्थानिवद्वात् तदभावे जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायाम् लटि, लः स्थाने तिपि अनुबन्धलोपे सार्वधातुकसंज्ञायां शपि अनुबन्धलोपे शित्त्वात्सार्वधातुकसंज्ञायां गुणे अयादेशे च कृते कथयति<\/qt> इति रूपम् । लिटि कथयामास<\/qt>, कथयाञ्चकार<\/qt> । कथयाम्बभूव<\/qt> । लुटि कथयिता<\/qt> | लृटि कथयिष्यति<\/qt> । लङि अकथयत्<\/qt> । लिङि कथयेत्<\/qt>। आशिषि कथ्यात्<\/qt> । अचकथत्<\/qt> । कथ इत्यकारान्तधातोर्णिचि अलोपे तस्य स्थानिवद्भावात् वृद्ध्यभावे धातुत्वाल्लुङस्तिप इलोपे अटि च्लेः स्थाने <<णिश्रिदुस्रुभ्यः>> [[3.1.48]] इति चङि द्विस्वे अभ्यासत्वे अभ्यासकार्ये चुत्वे च कृते अ च कथ् अत्<\/qt> इति भूते अत्र थकारोत्तरवर्तिनः अकारस्य णिज्निमित्तेन लोपित्वात् <<सन्वल्लघुनि चङ्परेऽनग्लोपे>> [[7.4.93]] इति सन्वद्भावाभावेन <<सन्यतः>> [[7.4.79]] इतीत्वस्य <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घस्य चाप्राप्तौ अचकथत्<\/qt> इति रूपम् । गणयति<\/qt> । गणधातोर्णिचि अल्लोपे स्थानिवत्त्वाद् वृद्ध्यभावे धातुत्वाल्लटो लः स्थाने तिपि शपि अनुबन्धलोपे गुणे अयादेशे च तत्सिद्धिः । तसादौ — गणयतः<\/qt>, गणयन्ति<\/qt> इत्यादि । लिटि गणयामास<\/qt>, गणयाम्बभूव<\/qt>, गणयाञ्चकार<\/qt> इत्यादि । लुटि गणयिता<\/qt> । लृटि गणयिष्यति । लोटि गणयतु<\/qt> । लङि अगणयत्<\/qt> । लिङि गणयेत्<\/qt> । आशिषि गण्यात्<\/qt> ।", "13079": "अनुपराभ्यां कृञः। गन्धनादाविति ।<\/w> गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्वप्रकथनोपयोगेषु इत्यर्थः । अनुकरोति पराकरोति ।<\/w> अत्र <<गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः>> इति आत्मनेपदे प्राप्ते, <<अनुपराभ्यां कृञः>> इत्यपवादभूतेनानेन परस्मैपदम् ।", "13080": "अभिप्रत्यतिभ्य इति ।<\/w> अभि प्रति अति इत्येव पूर्वात् क्षिपः परस्पमैदं स्यादित्यर्थः । अभिक्षिपति ।<\/w> क्षिप प्रेरणे स्वरितेत् । ततः कर्त्रभिप्राये क्रियाफले विवक्षायामात्मनेपदे प्राप्ते <<अभिप्रत्यतिभ्यः क्षिपः>> इत्यनेन परस्मैपदं विधीयते ।", "13081": "प्राद्वह इति ।<\/w> प्रपूर्वाद्वहतेः परस्मैपदम्भवतीत्यर्थः । प्रवहति ।<\/w> वहप्रापणे स्वरितेत् । तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते <<प्राद्वहः>> इत्यनेन परस्मैपदमिति भावः ।", "13082": "परेर्मृष इति ।<\/w> परिपूर्वाद् मृषतेः परस्मैपदम्भवति । परिमृषति ।<\/w> मृषतितिक्षायां स्वरितेत् । ततस्तथैवात्मनेपदे प्राप्ते <<परेर्मृषः>> इति परस्मैपदं विधीयते ।", "13083": "व्याङ्परिभ्यो रम इति ।<\/w> वि आङ् परि इत्येवं पूर्वाद्रमतेः परस्मैपदम्भवति । विरमति ।<\/w> अत्र <<अनुदात्तङित आत्मनेपदम्>> इत्यात्मनेपदे प्राप्ते, <व्याङ्परिभ्यो रमः>> इति परस्मैपदमिति बोध्यम् । आरमति, परिरमति । इति ।", "13084": "उपाच्चेति ।<\/w> रम इत्येव । उपपूर्वाद्रमतेः परस्मैपदं भवति । ननु विरामार्थकत्वात् कथं सकर्मकतेत्यत आह - उपरमयतीत्यर्थ इति ।<\/w> ननु णिजभावात् कथमयमर्थो लभ्यते इत्यत आह - अन्तर्भावितण्यर्थोऽयमिति ।<\/w> धातूनामनेकार्थत्वादिति भावः । इति परस्मैपदप्रक्रिया ।<\/w>", "14001": "", "14002": "विप्रतिषेध इति ।<\/w> विप्रतिपूर्वात् सेधतेर्घञि उपसर्गवशात् परस्मपरविरोधे विप्रतिषेधशब्दः । विरोधश्च तुल्यबलयोरेव लोकसिद्धस्तदाह तुल्यबलेति ।<\/qt> द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः । कार्यस्य परत्वं परशास्त्रविहितत्वम् । मनोरथ इति ।<\/w> मनस् रथः<\/qt> इति स्थिते <<ससजुषो रुः>> [[8.2.66]] इति पदान्तस्य सस्य रुत्वे <<हशि च>> [[6.1.114]] इति रोरुत्वे प्राप्ते <<रो रि>> [[8.3.14]] इति रेफस्य लोपे च प्राप्ते, तर्हि प्राक् केन भाव्यमिति शङ्कायाम् <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रेण परं कर्तव्यम् । तत्र <<हशि च>> [[6.1.114]] इति सूत्रं षष्ठाध्यायस्थम्, <<रो रि>> [[8.3.14]] इति चाष्टमाध्यायस्थम् इति <<हशि च>> [[6.1.114]] इत्यपेक्षया <<रो रि>> [[8.3.14]] इत्यस्य परत्वम्, इति <<रो रि>> [[8.3.14]] इत्यनेन रेफस्य लोपे प्राप्ते; तत्र <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यधिकारसूत्रेण सपादसप्ताध्यायीसूत्रदृष्ट्या त्रैपादिकस्य <<रो रि>> [[8.3.14]] इत्यस्यासिद्धत्वप्रतिपादनात् न <<रो रि>> [[8.3.14]] इत्यनेन रेफस्य लोपः, किन्तु <<हशि च>> [[6.1.114]] इत्यनेन रोरुत्वे मन उ रथः<\/qt> इति जाते, तत्र <<आद्गुणः>> [[6.1.87]] इत्यनेन पूर्वपरयोः स्थाने ओकाररूपे गुणे कृते मनोरथः<\/qt> इति सिद्ध्यति ॥", "14003": "यू स्त्र्याख्याविति ।<\/w> ईश्च ऊश्व यू । व्याख्यानाद्दीर्घयोरेव ग्रहणम्, यू इति शब्दविशेषणम् । तदन्तविधिस्तदाह - ईदूदन्त्गविति । पूर्वमित्यादि ।<\/w> समासादिवृत्तिप्रवृत्तेः पूर्वं स्त्रीलिङ्गस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाभावेऽपि नदीत्वं वक्तव्यमिति वार्तिकार्थः ।", "14004": "नेयङुवङस्थानाविति ।<\/w> <<यू स्त्र्याख्यौ नदी>>[[1.4.3]] इत्यतो यू नदीत्यनुवर्तते । स्थानशब्दो भावे ल्युडन्तः । इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः । इयङुवङ्योग्याविति यावत् । तदाह - इयङुवङोरित्यादिना । हे श्रीरिति ।<\/w> श्रीशब्दात्सम्बोधने सावागते <<नेयङुवङ्स्थानावस्त्री>>[[1.4.4]] इति नदीत्वाभावे <<अम्बाऽर्थनद्योर्ह्रस्वः>>[[7.3.107]] इति ह्रस्वाभावे सस्य रुत्वे रस्य विसर्गत्वे च 'हे श्रीः' इति रूपम् । श्रियै श्रिये इति ।<\/w> 'श्री+ङे' इत्यत्र <<यू स्त्र्याख्यौ नदी>>[[1.4.3]] इति नदीसंज्ञायां प्राप्तायां <<नेयङुवङ्स्थानावस्त्री>>[[1.4.4]] इति निषेधे <<ङिति ह्रस्वश्च>>[[1.4.6]] इति ङिति विकल्पेन नदीसंज्ञायां कृतायाम् <<आण्नद्याः>>[[7.3.112]] इत्याटि <<आटश्च>>[[6.1.90]] इति पूर्वपरयोः स्थाने वृद्धौ कृतायाम् <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि मिलित्वा 'श्रियै' इति । पक्षे - <<ङिति ह्रस्वश्च>>[[1.4.6]] इति नदीसज्ञाभावे इयङि 'श्रिये' इति रूपम् । श्रियाः, श्रियः<\/w> इति । श्रीशब्दात् ङसिङसोः परयोः सतोः नदीसंज्ञायाम् आटि वृद्धौ इयङि च कृते 'श्रियाः' इति । नदीसंज्ञाभावे इयङेव 'श्रियः' इति ।", "14005": "वामीति ।<\/w> यूस्त्र्याख्यौ नदीत्यनुवर्तते । <<नेयङुवङ्स्थानावस्त्री>>[[1.4.4]] इति नञ्वर्जमनुवर्तते । वा आमीति छेदः । अमि नदीकार्याभावात् तदाह - इयङुवङ्स्थानावित्यादिना ।<\/w> 'श्री आम्' इति स्थिते अत्र <<यू स्त्र्याख्यौ नदी>>[[1.4.3]] इति नदीसंज्ञाया प्राप्तायां <<नेयङुवङ्स्थानावस्त्री>>[[1.4.4]] इति निषेधे <<वाऽऽमि>>[[1.4.5]] इति वा नदीसंज्ञायां <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नुटि पर्जन्यवल्लक्षणन्यायेन दीर्घे <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे 'श्रीणाम्' इति । नदीत्वाभावपक्षे - इयङि 'श्रियाम्' इति । श्रियि, श्रियामिति ।<\/w> 'श्री ङि' इत्यत्र <<ङिति ह्रस्वश्च>>[[1.4.6]] इति नदीत्वे <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति ङेरामि <<आण्नद्याः>>[[7.3.112]] इत्याटि <<आटश्च>>[[6.1.90]] इति वृद्धौ <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि 'श्रियाम्' इति । नदीत्वाभावपक्षे इयङि 'श्रियि' इति रूपम् । श्रियोः । श्रीषु । <<धनुर्मतिवदिति ।<> उकारस्य ओकारो गुणः । अवादेश इत्यादिविशेषस्तु सुगम इति भावः ।", "14006": "ङिति ह्रस्वश्चेति ।<\/w> <<यू स्त्र्याख्यौ नदी>>[[1.4.3]] इत्यनुवर्तते । <<नेयङुवङ्स्थानावस्त्री>>[[1.4.4]] इति सूत्रं नञ्वर्जमनुवर्तते । <<वाऽऽमि>>[[1.4.5]] इत्यतो वेत्यनुवर्तते, तदाह - इयङुवङ्स्थानावित्यादिना । मत्यै ।<\/w> 'मति + ए अत्र <<ङिति ह्रस्वश्च>>[[1.4.6]] इति नदीसंज्ञायाम् <<आण्नद्याः>>[[7.3.112]] इत्याडागमे टित्वादाद्यावयवे 'मति-आ ए' इति जाते 'आटश्च' इति वृद्धौ सत्याम् 'ऐ' इति भूते 'इको यणचि' इति यणि कृते 'मत्यै' इति रूपम् । नदीसंज्ञाभावे <<शेषो घ्यसखि>>[[1.4.7]] इति घिसंज्ञायां <<घेर्ङिति>>[[7.3.111]] इति गुणे कृते <<एचोऽयवायावः>>[[6.1.78]] इत्ययादेशे 'मतये' इति रूपं सिद्धम् । 'मत्याः' ।<\/w> मति ङसि<\/qt> इत्यत्र इकारस्य ङस्य चेत्सञ्ज्ञायां लोपे च <<ङिति ह्रस्वश्च>>[[1.4.6]] इति नदीसंज्ञायाम् <<आण्नद्याः>>[[7.3.112]] इत्याटि <<आटश्च>>[[6.1.90]] इति वृद्धौ <<इको यणचि>>[[6.1.77]] इति यणि च कृते सस्य रुत्वे विसर्गे च कृते 'मत्याः' इति रूपम् । घिसंज्ञायां हरिवत् ।", "14007": "शेष इति ।<\/w> <<यू स्त्र्याख्यौ नदी>>[[1.4.3]] इत्यतो यू इत्यनुवर्तते । <<ङिति ह्रस्वश्च>>[[1.4.6]] इत्यतो ह्रस्व इति चानुवर्तते; तदाह - ह्रस्वौ यावित्यादि । आङो नेति ।<\/w> <<अच्च घेः>>[[7.3.119]] इत्यतो घिग्रहणानुवृत्तेर्घेः परस्य आङो ना स्यादस्त्रियामित्यर्थः । प्राचामिति <\/w>- आचार्याणामिति शेषः । हरिणा<\/w> हरिशब्दात् तृतीयैकवचनविवक्षायां टासमागते <<शेषो घ्यसखि>>[[1.4.7]] इत्यनेन हरिशब्दस्य घिसंज्ञायाम् <<आङो नाऽस्त्रियाम्>>[[7.3.120]] इत्यनेन घिसंज्ञकात् हरिशब्दात् परस्य आङः टाइत्यस्य नादेशे कृते हरिना<\/qt> इति जाते <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इत्यनेन णत्वे हरिणा<\/qt> इति रूपम् । तृतीयाद्विवचनबहुवचने - हरिभ्याम्, हरिभिः इति ।", "14008": "पतिः समास इति ।<\/w> <<शेषो घ्यसखि>>[[1.4.7]] इत्यतो घीत्यनुवर्तते । पत्या ।<\/w> पतिशब्दात् टासमागते <<चुटू>>[[1.3.7]] इति टकारस्येत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे <<इको यणचि>>[[6.1.77]] इति यणि पत्या<\/qt> इति रूपम् । भ्यामि - पतिभ्याम्, भिसि - पतिभिः । पत्ये ।<\/w> पतिशब्दाच्चतुर्थ्येकवचनविवक्षायां ङेविभक्तौ समागतायां ङकारस्येत्संज्ञायां लोपे च पति-ए<\/qt> इति जाते <<इको यणचि>>[[6.1.77]] इति यणि पत्ये<\/qt> इति रूपम् । द्विवचनबहुवचने - पतिभ्यां,पतिभ्यः इति । पत्युः ।<\/w> पतिशब्दात्पञ्चम्येकवचनविवक्षायां ङसौ कृतेऽनुबन्धलोपे पति-अस्<\/qt> इति स्थिते <<इको यणचि>>[[6.1.77]] इति यणि <<ख्यत्यात् परस्य>>[[6.1.112]] इति ङसोऽकारस्योत्वे पत्युः<\/qt> इति रूपम् । पञ्चमीद्विवचनबहुवचने – पतिभ्याम्, पतिभ्यः । पत्युः ।<\/w> पतिशब्दात्षष्ठ्येकवचनविवक्षायाम् ङसि कृते ङकारस्येत्संज्ञायां लोपे च <<इको यणचि>>[[6.1.77]] इति यणि <<ख्यत्यात् परस्य>>[[6.1.112]] इत्युत्वे रुत्वविसर्गो पत्युः<\/qt> इति । ओसि - पत्योः, आमि -पतीनाम् । पत्यौ ।<\/w> पतिशब्दात्सप्तम्येकवचनविवक्षायां ङौ कृते <<औत्>>[[7.3.118]] इति ङरौत्वे यणि पत्यौ<\/qt> इति । द्विवचनबहुवचने -पत्योः, पतिषु, इति । समासे तु भूपतये इति ।<\/w> पतिशब्दस्य समासे घिसंज्ञात्वात् - भूपतिना, भूपतये, भूपतेः २, भूपती, इत्यादि रूपाणि । कति शब्द इति ।<\/w> <<किमः संख्यापरिमाणे डति च>>[[5.2.41]] इत्यनेन किंशब्दात् बहुत्वसंख्यावच्छिन्नसंख्येयविषयप्रश्न एव ढतिरित्याकरे स्पष्टम् ।", "14013": "यस्मात्प्रत्यय इति ।<\/w> यस्मात्प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद्वा तदादि शब्दरूपं प्रत्यये परतोऽङ्गसंज्ञं भवति । तदादीति ।<\/w> तत्प्रकृतिरूपमादिर्यस्येत्यर्थः । प्रत्यासत्तिन्यायल्ब्धार्थमाह - तस्मिन्निति ।<\/w> 'गुणः कृतात्मसंस्कारः प्रधानमनुरुध्यते' इति न्यायेनात्रापि <<तस्मिन्निति निर्दिष्टे पूर्वस्य>>[[1.1.66]] इति परिभाषाप्रवृत्तिर्बोध्या ।", "14014": "सुप्तिङिति । <\/w> <<स्वौजसमौट्...>> [[4.1.2]] इति सूत्रे 'सु'-इत्यारभ्य सुपः पकारेण प्रत्याहारः । न तु सप्तमीबहुवचनस्यैवात्र ग्रहणम्, व्याख्यानात् । <<तिप्तस्झि...>> [[3.4.78]] सूत्रे 'ति'-इत्यारभ्य महिङो ङकारेण प्रत्याहारः । सुप् च तिङ् च सुप्तिङौ, तावन्ते यस्य तत् सुप्तिङन्तं शब्दस्वरूपम् इति शब्दशास्त्रप्रस्तावाल्लभ्यते । अन्तशब्दश्च प्रत्येकं सम्बध्यते तदेतदभिप्रेत्याह — सुबन्तेत्यादिना ।<\/w> ॥ इति संज्ञाप्रकरणम् ॥", "14015": "नः क्ये इति ।<\/w> नकारादकार उच्चारणार्थः। <<सुप्तिङन्तम्>> [[1.4.14]] इत्यतः सुबन्तं पदमित्यनुवर्तते । सुबन्तं नकारेण विशेष्यते । तदन्तविधिः । नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते । सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम् । क्यग्रहणेन क्यच्क्यङोर्ग्रहणम् । न तु क्यषः, <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इति हलन्तात्क्यषोऽभावात् । तदाह - स्यचि क्यङि चेत्यादिना<\/w>। राजीयति <\/qt>। आत्मानं राजानमिच्छति इत्यर्थे <<सुप आत्मनः क्यच्>> [[3.1.8]] इति राजन् अम्<\/qt> इति सुबन्तात् क्यचि, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति अमो लुकि, कचयोरित्संज्ञायां लोपे च जाते <<नः क्ये>> [[1.4.15]] इति नियमेन अत्र पदत्त्वात् <<न लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नलोपे राज य<\/qt> इति भूते <<क्यचि च>> [[7.4.33]] इति जकारोत्तरवर्तिन अकारस्य ईत्वे राजीय<\/qt> इति सम्पन्ने धातुत्वाल्लटस्तिपि, शपि, अनुबन्धलोपे, <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे राजीयति<\/qt> इति रूपम् । राजीयाञ्चकार<\/qt> । राजीयिता<\/qt> । राजीयिष्यति<\/qt> । राजीयतु<\/qt> । अराजीयत्<\/qt> । राजीयेत्<\/qt> । राजीय्यात्<\/qt> । अराजीयीत्<\/qt> । अराजीयिष्यत्<\/qt> । इति लिट्प्रभृति प्रतिलकारमेकमेकं रूपं बोध्यम् । नान्तमेवेति किमिति ।<\/w> अन्तर्वर्तिनीं विभक्तिमादायैव पदत्वात् नलोपे सिद्धे <<नः क्ये>> [[1.4.15]] इति सूत्रस्य <ऽसिद्धे सति आरभ्यमाणो विधिर्नियमाय भवतिऽ> इति नियामकत्वात् नान्तस्यैव पदत्वम्, अन्यत्र पदत्वाभावः । तेन आत्मनो वाचमिच्छतीत्यर्थे <<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यचि, अनुबन्धलोपे वाच्यति<\/qt> इत्यत्र अन्तर्वर्तिनीं विभक्तिमादाय पदत्वाभावात् <<चोः कुः>> [[8.2.30]] इति कुत्वाभावः । <<वचिस्वपि>> [[6.1.15]] इति सम्प्रसारणन्तु न, <ऽधातोः कार्यमुच्यमानं धातुविहितप्रत्यये एवऽ> इति नियमात् । गीयति<\/qt>, पूर्यति<\/qt> ।<\/w> आत्मनो गिरमिच्छति, आत्मनः पुरमिच्छति इत्यत्र च <<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यचि, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति अमो लुकि, गिर् य<\/qt>, पुर् य<\/qt> इति जाते, <<हलि च>> [[8.2.77] इति उपधाया इको दीर्घत्वे गीर्य<\/qt>, पूर्य<\/qt> इति जाते धातुत्वालटस्तिपि, शपि, अनुबन्धलोपे, <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे गीर्यति<\/qt> पूर्यति<\/qt> इति रूपे स्तः । दिव्यति ।<\/w> दिवमिच्छति इत्यर्थे दिव् अम्<\/qt> इति सुबन्तात् <<सुप आत्मनः क्यच>> [3.1.8]] इति क्यचि, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वात् <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति अमो लुकि, कचयोर्लोपे दिव्य<\/qt> इति भूते, तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे, <<अतो गुणे>> [[6.1.97]] इति पररूपे च कृते तत्सिद्धिः । अत्र <<हलि च>> [[8.2.77]] इति दीर्घो न, धातुत्वाभावात् । दिव्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति भावः ।", "14017": "स्वादिष्विति ।<\/w> असर्वनामस्थान इति बहुत्वेऽप्येकवचनमार्षम् ।", "14018": "यचि भमिति ।<\/w> य् च अच्चेति समाहारद्वन्द्वः। स्वादिष्वसर्वनामस्थाने इत्यनुवृत्तं यचीत्यनेन विशेष्यते । इति तदादिविधिस्तदाह - यादिष्वित्यादिना ।<\/w> ननु भपदसंज्ञयोरिह समावेशः कुतो न स्यात् । न च <<विप्रतिषेधे परं कार्यम्>>[[1.4.2]] इति परैव भसंज्ञा भवतीति वाच्यम् । विरोधो हि विप्रतिषेधः । नह्यत्र द्वयोरपि संज्ञयोः समावेशे विरोधोऽस्ति तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्ययादिसंज्ञासमावेशदर्शनादित्यत आह - आकडारादिति ।<\/w>", "14022": "द्व्येकयोरिति ।<\/w> द्व्येकयोरिति भावप्रधाननिर्देशः । अन्यथा द्व्येकेष्विति स्यादित्यभिप्रेत्याह - द्वित्वैकत्वयोरिति ।<\/w>", "14054": " स्वतन्त्रः कर्तेति । <\/w> कारकाधिकारात् क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह - क्रियायामिति ।<\/w> स्वातन्त्र्यमिह प्राधान्यम् इति भाष्ये स्पष्टम् । ननु स्थाली पचति<\/qt> इत्यादौ कथं स्थाल्यादीनां कर्तृत्वम्, स्वातन्त्र्याभावादित्यत आह - विवक्षितोऽर्थ इति । <\/w> विवक्षातः कारकाणि भवन्ति इति भाष्यादिति भावः । स्वातन्त्र्यञ्च धात्वर्थव्यापाराश्रयत्वम् ।", "14055": "अथ <<हेतुमति च>> [[3.1.26]] इति णिज्विधिं वचयन् हेतुसंज्ञामाह - तत्प्रयोजको हेतुश्चेति<\/x> । <<स्वतन्त्रः कर्ता>> इति पूर्वसूत्रोपात्तः कर्ता तच्छब्देन परामृश्यते । तस्य = कर्तुः, प्रयोजकः = प्रवर्तयिता; तत्प्रयोजकः । तदाह - कर्तुः प्रयोजक<\/x> इत्यादिना ।", "14057": "अद्रव्यार्थाश्चेति । <\/w> लिङ्गसङ्ख्याकारकान्वितं द्रव्यम्, तद्भिन्नमद्रव्यमित्यर्थः ॥", "14058": "", "14059": "", "14060": "गतिश्चेति ।<\/w> <<प्रादयः>>[[1.4.58]] इति सम्पूर्णसूत्रमनुवर्तते । <<उपसर्गाः क्रियायोगे>>[[1.4.59]] इत्यतः क्रियायोग<\/qt> इत्यनुवर्तते तदाह - प्रादय इत्यादिना । क्रियायोग इति ।<\/w> क्रियया अन्वये सतीत्यर्थः । अत्र चकारबलात् <<आ कडारादेका संज्ञा>>[[1.4.1]] इति नियमं प्रबाध्य गत्युपसर्गयोः समावेशः । <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति सूत्रे इति वार्तिकं पठितम्, तत्तात्पर्यतःसंगृह्णाति - गतिकारकेतरेति । शुद्धधियो ।<\/w> शुद्धा धीर्यस्येति विग्रहः । अत्र शुद्धशब्दस्य गतिकारकेतरत्वात् तत्पूर्वकस्य न यणिति भावः । शुद्धधीशब्दस्य रूपाणि सुश्रीशब्दवद्बोध्यानि ।", "14103": "सुप इति ।<\/w> सुप् प्रत्याहारः, पष्ठ्येकवचनम् । <<तान्येकवचनद्विवचनबहुवचनान्येकशः>>[[1.4.102]] इति सूत्रं तानीति वर्जमनुवर्तते । <<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>>[[1.4.101]] इत्यतः त्रीणीत्यनुवर्तते तदाह - सुपस्त्रीणीत्यादिना ।<\/w>", "14104": "विभक्तिश्चेति ।<\/w> <<सुपः>>[[1.4.103]] इति पूर्वसूत्रात् सुप, <<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>>[[1.4.101]] इति सूत्रात् तिङ् इति चानुवर्तते; एकदेशे स्वरितत्वप्रतिज्ञानबलात् । तदाह - सुपतिङाविति । रामा इति ।<\/w> रामशब्दात् बहुवचनविवक्षायां प्रथमावहुवचने जसि कृते 'राम राम राम जस्' इति जाते तत्र <<सरूपाणामेकशेष एकविभक्तौ>>[[1.2.64]] इति एकरामशब्देऽवशिष्टे राम जस्<\/qt> अत्र <<चुटू>>[[1.3.7]] इत्यनेन प्रत्ययस्यादिभूतस्य चवर्गान्तःपातिनो जकारस्येत्संज्ञायाम् <<तस्य लोपः>>[[1.3.9]] इत्यनेन लोपे राम अस्<\/qt> इति दशायाम् अकारोत्तरवर्तिसकारस्य <<हलन्त्यम्>>[[1.3.3]] इत्यनेनेत्संज्ञा प्राप्ता, सा <<विभक्तिश्च>>[[1.4.104]] इति विभक्तिसंज्ञायां <<न विभक्तौ तुस्माः>>[[1.3.4]] इत्यनेन निषिद्धा । अथ च <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वपरयोः पूर्वसवर्णदीर्घादेशे कृते रामास्<\/qt> इति भूते <<ससजुषो रुः>>[[8.2.66]] इति सस्य रुत्वे अनुबन्धलोपे <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रेफस्य विसर्गे रामाः<\/qt> इति रूपम् ।", "14109": " परः सन्निकर्ष इति ।<\/w> परः अतिशयितः, सन्निकर्षः सामीप्यम्, अर्धमात्राधिककालव्यवधानाभावः । अर्धमात्राकालव्यवधानस्य अवर्जनीयत्वात् । तदेतदभिप्रत्याह — अतिशयित इत्यादिना ।<\/w> संहितेति ।<\/w> स्वभावसिद्धार्धमात्रातिरिक्तकालव्यवायशून्यः संहिता इति भावः ।", "14110": "विरामोऽवसानमिति ।<\/w> विरम्यते अस्मिन्निति विरामः सामीपिकेऽधिकरणे घञ् । विरमणम्-क्रियाया अभावः । स च शब्दशास्त्रप्रस्तावात् वर्णानामुच्चारणाभावात्मक इति लभ्यते । तदेतदाह - वर्णानामभाव इत्यादिना । राम इति ।<\/w> रमन्तेयोगिनोऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ इति श्रुतिः । अत्रैव यदि यौगिको रामशब्द आश्रीयते तदा <<कृत्तद्धितसमासाश्च>>[[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा । यदि च रूढो दशरथात्मजो रामशब्दस्तदा <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>>[[1.2.45]] इत्यनेन प्रातिपदिकसंज्ञा । तस्यां कृतायां <<ङ्याप्प्रातिपदिकात्>>[[4.1.1]] इतिसूत्रेण प्रातिपदिकसंज्ञकरामशब्दात् खले कपोतन्यायेन सर्वे स्वादयः प्राप्ताः, तत्र <<सुपः>>[[1.4.103]] इत्यनेन प्रथमादिसप्तम्यन्तत्रिके प्रत्येकम् एकद्विबहुवचनसंज्ञाः विहिताः । तेषु प्रथमायाः एकवचनविवक्षायां रामशब्दात् सुप्रत्यये राम सु<\/qt> इति जाते सकारोत्तरवर्त्युकारस्य <<उपदेशेऽजनुनासिक इत्>>[[1.3.2]] इतीत्संज्ञायाम् <<तस्य लोपः>>[[1.3.9]] इति लोपे रामस्<\/qt> अत्र <<ससजुषो रुः>>[[8.2.66]] इत्यनेन रुत्वे रेफोत्तरवर्तिन उकारस्येत्संज्ञायां लोपे च <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति विसर्गे रामः<\/qt> इति रूपम् । रामशब्दात् द्विवचनविवक्षायां प्रथमाया द्विवचने औ समागते 'राम राम औ' अत्र <<सरूपाणामेकशेष एकविभक्तौ>>[[1.2.64]] इति एकरामस्य शेषे सति <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घे प्राप्ते <<नादिचि>>[[6.1.104]] इत्यनेन तस्य निषेधे <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ - रामौ इति ।<\/w>", "23049": "एकवचनमिति ।<\/w> <<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>>[[2.3.46]] इत्यतः प्रथमा इत्यनुवृत्तं, तच्च पष्ठ्या विपरिणम्यते । <<सम्बोधने च>>[[2.3.47]] इत्यतः सम्बोधने इत्यनुवर्तते, तदाह - सम्बोधने इत्यादिना ।<\/w>", "24034": "द्वितीया टौस्स्वेन इति । <<इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ>>[[2.4.32]] इत्यतः इदम इति, अन्वादेश इति चानुवर्तते । <<एतदस्त्रतसोस्त्रतसौ चानुदात्तौ>>[[2.4.33]] इत्यतः एतद इति चानुवर्तते, तदाह - <>द्वितीया यामित्यादिना एनमिति ।<> इदम् + अम् इत्यत्र <<द्वितीयाटौस्स्वेनः>>[[2.4.34]] इति इदम एनादेशे विहिते <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपादेशे च कृते 'एनम्' इति रूपम् । <>राजा ।<> 'राजन् सु' इत्यत्र सोरुकारस्येत्सञ्ज्ञायां लपे च कृते <<सुडनपुंसकस्य>>[[1.1.43]] इति सर्वनामस्थानसञ्ज्ञायाम् <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तस्योपधाया दीर्घत्वे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे 'राजा' इति रूपम् ।", "24071": "सुपो धात्विति ।<\/w> धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह — एतयोरवयवस्येति<\/w> । लुक् स्यादिति ।<\/w> <<ण्यक्षत्रियार्षञितो यूनि लुक>> [[2.4.58]] इत्यतस्तदनुवृतेरिति भावः ।", "24074": "यङोऽचि चेति<\/w> । अचि इति प्रत्ययग्रहणम्, न तु प्रत्याहारः, यङा साहचर्यात् । <<ण्यक्षत्रियार्ष>> [[2.4.58]] इत्यतो लुगित्यनुवर्तते । तदाह — यङोऽचि प्रत्यये इति<\/w> । चकारात्तं विनापीति ।<\/w> अच्प्रत्ययाभावेऽपीत्यर्थः । तत इति<\/w> । यङो लुगनन्तरमित्यर्थः । <<न लुमता>> [[1.1.63]] इत्यनेन हि लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं निषिध्यते । द्वित्वादिकं तु यङन्तस्य कार्यम्, नतु यङ्निमित्तकम्, यङि परतस्तद्विध्यभावादिति भावः । द्वित्वमिति ।<\/w><<सन्यङोः>> [[6.1.9]] इत्यनेनेति भावः । अभ्यासकार्यमिति ।<\/w> गुणादीति भावः । धातुत्वादिति ।<\/w> यङो लुकि सत्यपि प्रत्ययलक्षणमाश्रित्य यङन्तत्वात् <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वम् । चर्करीतमिति ।<\/w> यङ्लुगन्तमदादौ बोध्यमिति व्याख्यातं प्राक् । अतो यङ्लुगन्ताच्छपो लुगित्यर्थः ॥", "31001": "", "31002": "", "31007": " धातोः कर्मण इति<\/w> <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] इत्यतः सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम् । तथा समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्दद्वारा धातौ सामानाधिकरण्येनान्वेति । तथा च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारः तद्वाचकाद्धतोरिच्छायां सन् वा स्यादिति फलति । तदाह - इषि कर्मण इत्यादि ।<\/w> इषिणा एककर्तृकात् इषिकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः ।", "31008": "सुप आत्मन इति ।<\/w> प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते । <<धातोः कर्मणः>> [[3.1.7]] इति सूत्रात्कर्मणः इच्छायां वा इत्यनुवर्तते । कर्मण इति पञ्चमी । कर्मकारकादिति लभ्यते । सन्निधानादिच्छां प्रत्येव कर्मत्वं विवक्षितम् । आत्मन्शब्दः स्वपर्यायः । तादर्थ्यस्य शेषत्वविवक्षायां षष्ठी । स्वार्थात्कर्मण इति लभ्यते, स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः । तथा च स्वस्मै यदिष्यते कर्मकारकं तदनुवृत्तेस्सुबन्तादिच्छायां क्यज्वा स्यादिति फलति । तदिदमभिप्रेत्य आह - इषि कर्मण एषितुः सम्बन्धिन इत्यादिना<\/w> ।", "31009": "काम्यच्चेति<\/w> । <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्युत्तरमिदं सूत्रम् । तदाह - उक्तविषये इति<\/w> । पुत्रकाम्यति<\/qt> । आत्मनः पुत्रमिच्छतीत्यर्थे पुत्र अम्<\/qt> इति सुबन्तात् काम्यच्प्रत्यये <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति अमो लुकि, पुत्रकाम्य<\/qt> इत्यस्मात् धातोर्लटस्तिपि, शपि, अनुबन्धलोपे, <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे पुत्रकाम्यति<\/qt> इति रूपम् । लिटि पुत्रकाम्याञ्चकार<\/qt> इति । पुत्रकाम्यिता ।<\/w> आत्मनः पुत्रमिषिता इत्यर्थे पुत्रम् इति सुबन्तात् काम्यचि, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वादमो लुकि, तस्मात् लुटि, लुटस्तिपो डात्वे अनुबन्धलोपे, तासि, तासः आर्धधातुकत्वाद् इटि <<अतो लोपः>> [[6.4.148]] इति काम्यचोऽकारस्य लोपे, पुत्रकाम्यिता<\/qt> इति रूपम् । लृट - पुत्रकाम्यिष्यति<\/qt> । लोटि - पुत्रकाम्यतु<\/qt> । लङि - अपुत्रकाम्यत्<\/qt> । लिङि - पुत्रकाम्येत्<\/qt> । आशिषि - पुत्रकाम्यात्<\/qt> । लुङि - अपुत्रकाम्यीत्<\/qt> । लृङि - अपुत्रकाम्यिष्यत्<\/qt> ।", "31010": "उपमानादाचारे इति <\/w> । <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यतः सुप् इत्यनुवर्तते । <<धातोः कर्मणः समानकर्तृकात्>> [[3.1.7]] इत्यतः कर्मण इति तदाह - उपमानात्कर्मण इत्यादिना<\/w> । पुत्रीयति छात्रमिति <\/w>। पुत्रमिवाचरति इत्यर्थे पुत्र अम्<\/qt> इति उपमानवाचककर्मणः <<उपमानादाचारे>> [[3.1.10]] इति क्यचि, कस्य चस्य च लोपे <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यमो लुकि, <<क्यचि च>> [[7.4.33]] इति अस्य ईत्वे पुत्रीय<\/qt> इति भूते, तस्माल्लटस्तिपि, शपि अनुबन्धलोपे <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे च कृते पुत्रीयति<\/qt> इति सिद्धम् । विष्णूयति द्विजमिति <\/w> । विष्णुमिवाचरति इत्यर्थे विष्णु अम्<\/qt> इति उपमानवाचकात्कर्मणः <<उपमानादाचारे>> [[3.1.10]] इति क्यचि, अनुबन्धलोपे, धातुसंज्ञायां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति अमो लुकि,विष्णु य<\/qt> इति जाते <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति दीर्घे विष्णूय<\/qt> इति भूते, तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे, <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे च कृते विष्णूयति<\/qt> इति रूपम् । लिडादौ - विष्णूयाञ्चकार<\/qt>, विष्णूयिता<\/qt>, विष्णूयिष्यति<\/qt>, विष्णूयतु<\/qt>, अविष्णूयत्<\/qt>, विष्णूयेत्<\/qt>, विष्णूय्यात्<\/qt>, अविष्णूयीत्<\/qt>, अविष्णूयिष्यत्<\/qt> । सर्वप्रातिपदिकेभ्य इति ।<\/w> आचारे इति शेषः। कृष्णति <\/qt> । कृष्ण इव आचरति इत्यर्थे कृष्ण इति प्रातिपदिकात् इति क्विपि, <<लशक्वतद्विते>> [[1.3.8]] इति कस्येत्संज्ञायां <<हलन्त्यम्>> [[1.3.3]] इति पस्येत्संज्ञायाम् <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इतीकारस्येत्संज्ञायां कृतायां <<तस्य लोपः>> [[1.3.9]] इति लोपे वस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपे <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां लटस्तिपि, शपि, अनुबन्धलोपे <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे च कृते कृष्णति<\/qt> इति रूपम् । लिटि - कृष्णाञ्चकार<\/qt> । लुटि - कृष्णिता<\/qt> । लृटि - कृष्णिष्यति<\/qt> । लोटि - कृष्णतु<\/qt> । लङि - अकृष्णत्<\/qt> । लिङि - कृष्णेत्<\/qt> । आशिषि - कृष्ण्यात्<\/qt> । लुङि - अकृष्णीत्<\/qt> । लृङि - अकृष्णिष्यत्<\/qt> इति । स्वति<\/qt> । एवमेव स्वशब्दात् उपमानवाचकात् आचरतीत्यर्थे क्विपि, क्विपः सर्वस्य अपहारे धातुसंज्ञायां लटस्तिपि, शपि, अनुबन्धलोपे पररूपे च तत्सिद्धिः । सत्वौ ।<\/qt> स्वशब्दात् इति क्विपि, तस्यापहारे धातुसंज्ञायां लिटि, लिटस्तिपि, तिपो णलि, अनुबन्धलोपे, द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये स स्व अ<\/qt> इति जाते, <<अचो ञ्णिति>> इति वृद्धौ, स स्वा अ<\/qt> इत्यत्र <<आत औ णल:>> [[7.1.34]] इति णलोऽकारस्यौत्वे <<वृद्धिरेचि>> इति वृद्धौ सस्वौ<\/qt> इति रूपम् । सस्वौ<\/qt>, सस्वतुः<\/qt>, सस्वुः<\/qt> । सस्विथ<\/qt>, सस्वथुः<\/qt>, सस्व<\/qt> । सस्वौ<\/qt>, सस्विव<\/qt>, सस्विम<\/qt> इति । लृडादौ - स्विता<\/qt>, स्विष्यति<\/qt> । इत्यादि ।", "31014": "कष्टाय क्रमणे <\/w> । क्रमणशब्दं विवृणोति - उत्साहे इति<\/w> । कष्टायते<\/qt> । कष्ट ङे<\/qt> इति चतुर्थ्यन्तात् क्रमते इत्यस्मिन्नथें <<कष्टाय क्रमणे>> [[3.1.14]] इत्यनेन क्यङि, अनुबन्धलोपे <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङेर्लुकि, <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति अजन्ताङ्गस्य दीर्घत्वे कष्टाय<\/qt> इति जाते, ङित्वात् तस्माल्लटस्ते, शपि, अनुबन्धलोपे <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे <<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति टेरेत्वे च तत्सिद्धिः।", "31017": "शब्दवैरकलहति <\/w> । करणं क्रिया । तदाह - करोत्यर्थे इति <\/w> । तत् करोतीति णिचोऽपवादः । शब्दायते <\/qt> । शब्दम्<\/qt> इति द्वितीयान्तात् करोतीत्यर्थे क्यङि, अनुबन्धलोपे, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति अमो लुकि, <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति अजन्ताङ्गस्य दीर्घत्वे शब्दाय<\/qt> इति जाते, तस्मात् लटि, धातोर्ङित्वात् लटो लस्स्थाने ते शपि, अनुबन्धलोपे, <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे <<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति टेरेत्वे च कृते रूपम् । <<तत्करोति तदाचष्टे>> इदं चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति, तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच स्यादित्यर्थः । आचारक्बिविव प्रातिपदिकादेवेदम् । प्रातिपदिकाच्चेति<\/w> । इष्ठवच्चेति<\/w> । इष्ठवदिति सप्तम्यन्ताद्वतिः । तदाह - इष्ठे यथेति<\/w>। पुंवद्भावेति ।<\/w> अतिशयेन पट्वी पटिष्ठ<\/qt> इत्यत्र इति पुंवत्वम् । अतिशयेन दृढ द्रढिष्ठ<\/qt> इत्यत्र <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इति रभावः । अतिशयेन साधुः साधिष्ठः<\/qt> इत्यत्र टिलोपः । अतिशयेन स्रग्वी स्रजिष्ठः<\/qt> इत्यत्र <<विन्मतोर्लुक्>> इति विनो लुक् । अतिशयेन गोमान् गविष्ठः<\/qt> इत्यत्र मतुपो लुक् । अतिशयेन स्थूलः स्थविष्ठः<\/qt> इत्यादौ <<स्थूलदूरयुव...>> [[6.4.156]] इत्यादिना यणादिलोपः पूर्वस्य च गुणः । अतिशयेन प्रियः प्रेष्ठः<\/qt> इत्यादौ <<प्रियस्थिर...>> [[6.4.157]] इत्यादिना प्रादेशः । अतिशयेन स्रग्वी स्रजिष्ठः<\/qt> इत्यन्त्र भत्वान्न कुत्वम् । एते इष्ठे इव णावपि परतः स्युरित्यर्थः । इत्यल्लोप इति <\/w> । इष्ठवद्भावाट्टिलोप इत्यर्थः । घटयति <\/qt> । घटं करोति घटमाचष्टे वा इत्यस्मिन्नर्थे इति वार्तिकाण्णिचि, णस्य चस्य च लोपे, घट इ<\/qt> इति जाते, इष्ठवद्भावाद् भसंज्ञायां <<यस्येति च>> [[6.4.148]] इत्यकारलोपे, घटि<\/qt> इति जाते, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<वर्तमाने लट्>> [[3.2.123]] इति लटि, अकारटकारयोरित्संज्ञायां लोपे च कृते लः स्थाने प्रथमपुरुषैकवचनविवक्षायां तिपि, अनुबन्धलोपे, <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इति सार्वधातुकसंज्ञायां शपि, शपयोरित्संज्ञायां लोपे च कृते मिलित्वा घटयति<\/qt> इति रूपम् । लिटि घटयाञ्चकार<\/qt> । लुडादौ - घटयिता<\/qt>, घटयिष्यति<\/qt>, घटयतु<\/qt>, अघटयत्<\/qt>, घटयेत्<\/qt>, घट्यात्<\/qt>, अजघटत्<\/qt>, अघटयिष्यत्<\/qt> इति । इति नामधातवः ।", "31022": "धातोरेकाचो हलादेरिति<\/w> । द्योत्ये इति<\/w> । वाच्यत्वे तु प्रत्ययवाच्यस्य प्रधानतया सन्नन्ते इच्छया इव तस्य विशेष्यत्वं स्यादिति भावः ।", "31023": "नित्यं कौटिल्य इति ।<\/w> नित्यशब्दः एवार्थे । कौटिल्ये इत्यस्योपरि द्रष्टव्यः । <<धातोरेकाचः>> [[3.1.22]] इत्यतो यङित्यनुवर्तते । तदाह — गत्यर्थात्कौटिल्य एविति ।<\/w>", "31025": "चुर स्तेय इति ।<\/w> रेफादकारः उच्चारणार्थः, न त्वित्संज्ञकः, प्रयोजनाभावात् । सत्यापेति<\/w> सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच् वर्मन् वर्ण चूर्ण चुरादि एषां द्वन्द्वात्पञ्चमी । तदाह — एभ्यो णिच् स्यादिति<\/w> । कस्मिन्नर्थे इत्याकाङ्क्षायामाह — चूर्णान्तेभ्य इति<\/w> । सत्यादिभ्यः चूर्णान्तेभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यर्थे इति वक्ष्यमाणवार्तिकेनैव सिद्धे पुनरेषां सत्यादीनां ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्त्विति<\/w> । अर्थान्तरस्यानिर्देशादिति भावः । अत्र <<धातोरेकाचः>> [[3.1.22]] इत्यतो धातोरित्यनुवर्तते । चुरादिभ्यो धातुभ्यो णिजिति फलितम्, एवञ्च णिच आर्धधातुकत्वं सिध्यति । अन्यथा धातोरितिविहितत्वाभावादार्धधातुकत्वं न स्यादिति बोध्यम् । तदाह — पुगन्तेति<\/w> । गुण इति<\/w> । चोरयति<\/qt> । चुर्-धातोः <<वर्तमाने लट्>> [[3.2.123]] इति लटि प्राप्ते तं बाधित्वा <<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्>> [[3.1.25]] इति चुरादित्वात् स्वार्थे णिचि णचयोरित्संज्ञायां लोपे च चुर् इ<\/qt> इत्यत्र णिच इकारस्य <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यार्धधातुकत्वे <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति चुर उपधाया गुणे चोरि<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायाम् धातुत्वाल्लटि अनुबन्धलोपे लः स्थाने तिपि पकारस्येत्संज्ञायां लोपे च <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इति सार्वधातुकसंज्ञायाम् <<कर्तरि शप्>> [[3.1.68]] इति शपि शपयोरित्संज्ञायां लोपे च शित्वात्सार्वधातुकत्वे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे चोरे अ ति<\/qt> जाते <<एचोऽयवायावः>> [[6.1.78]] इत्ययादेशे मिलित्वा चोरयति<\/qt> इति रूपम् । अग्रे — चोरयतः<\/qt>, चोरयन्ति<\/qt> । चोरयसि<\/qt>, चोरयथः<\/qt>, चोरयथ<\/qt> । चोरयामि<\/qt> ,चोरयावः<\/qt>, चोरयामः<\/qt> ॥", "31026": "हेतुमति चेति ।<\/w> <<सत्यापपाश...>> [[3.1.25]] इत्यतो णिजित्यनुवर्तते । हेतुः = प्रयोजकः आधारतया अस्यास्तीति हेतुमान् प्रयोजकनिष्ठः प्रेषणादिव्यापारः तस्मिन् वाच्ये णिच् स्यादित्यर्थः । <<धातोरेकाचो हलादेः...>> [[3.1.22]] इत्यतो धातोरित्यनुवर्तते तदाह — प्रयोजकव्यापार इति<\/w> । भवन्तमिति <\/w> । देवदेत्तो यज्वा भवति । तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्य भवनस्य मुख्यकर्ता यज्वा तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः, तन्निष्ठायां प्रेरणायां भूधातोः <<हेतुमति च>> [[3.1.26]] इति णिचि वृद्धौ, अवादेशे च भावि इति णिजन्तम् । तस्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायाम् <<वर्तमाने लट्>> [[3.2.123]] इति लटि, तिप्तस् शपि गुणे अयादेशे च भावयति<\/qt> इति । भवन्तं प्रेरयतीति<\/w> । फलितोऽर्थः । भावयतः<\/qt>, भावयन्ति<\/qt> । भावयसि<\/qt>, भावयथः<\/qt> भावयथ<\/qt> । भावयामि<\/qt>, भावयावः<\/qt>, भावयामः<\/qt> । एवमात्मनेपदे — भावयते<\/qt> । लिटि — भावयामास<\/qt>, भावयाम्बभूव<\/qt>, भावयाञ्चकार<\/qt>, भावयाञ्चक्रे<\/qt>, इत्यादि । लुटि — भावयिता<\/qt>, लृटि —भावयिष्यति<\/qt>, भावयिष्यते<\/qt> । लोटि — भावयतु<\/qt> — भावयताम्<\/qt> । लङि — अभावयत्<\/qt>, अभावयत<\/qt> । विधौ — भावयेत्<\/qt>, भावयेत<\/qt> । आशिषि — भाव्यात्<\/qt>, भावयिषीष्ट<\/qt> ।", "31027": "कण्ड्वादिभ्यो यक्। धातुभ्य इति ।<\/w> <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> इत्यतस्तदनुवृत्तेरितिभाव । नित्यमिति ।<\/w> वाग्रहणं तु निवृत्तमिति भावः । अन्यथा 'कड्वति' इत्याद्यपिस्यादिति भावः । द्विधा हि कण्ड्वादयः, धातवः, प्रातिपदिकानि च-धातुप्रकरणाद्धातुः ञस्य चासञ्जनादपि । आह चायमिमं दीर्घं, मन्ये धातुर्विभाषितः ॥ इति भाष्यादिति भावः । गात्रविघर्षणम् ।<\/w> गात्रखर्जनमिति यावत् । कण्डूयति ।<\/w> अनुबन्धविनिर्मुक्तात् गात्रविघर्षंणार्थंककण्डूञ्धातोः <<कण्ड्वादिभ्यो यक्>> इति स्वार्थे यकि, <<हलन्त्यम्>> इति कस्येत्संज्ञायां <<तस्य लोपः> इति लोपे, <<सनाद्यन्ता धातवः>> इति धातुसंज्ञायां <<वर्तमाने लट्>> इति लटि, लटस्तिपि, शपि, अनुबन्धलोपे, 'कण्डूय अ ति' इति जाते, <<अतो गुणे>> इति पररूपत्वे च विहिते 'कण्डूयति' इति रूपम् । कण्डूयते ।<\/w> कण्डूधातोः <<कण्ड्वादिभ्यो यक्>> इति यकि, <<सनाद्यन्ता धातवः>> इति धातुत्वाल्लटस्ते, शपि अनुबन्धलोपे, <<अतो गुणे>> इति पररूपत्वे <<टित आत्मनेपदानां टेरे>> इति टेरेत्वे च कृते 'कण्डूयते' इति रूपम् । लिटि -कण्डूयाञ्चकार - कण्डूयाञ्चक्रे । लुटि – कण्डूयितासि - कण्डूयितासे । लृटि - कण्डूयिष्यति, कण्डूयिष्यते । लोटि - कण्डूयतु - कण्डू यताम् । अकण्डूयत् - अकण्डूयत । कण्डूयेत् - कण्डूयेत । कण्डूय्यात् – कण्डूयिषीष्ट । अकण्डूयीत् - अकण्डूयिष्ट । अकण्डूयिष्यत् -अकण्डूयिष्यत इति । इति कण्ड्वादयः ।<\/w>", "31093": "कृदतिङिति । अत्र <<धातोः>>[[3.1.91]] इत्यधिकृतम्, प्रत्यय इति च ।", "32058": "स्पृशेऽनुदके । अनुदके सुपीति । उदक् शब्दभिन्ने सुबन्ते इत्यर्थः । <<सुपि स्थः>>[[3.2.4]] इत्यतः सुपीत्यनुवर्तते इति भावः । घृतस्पृक् -घृतस्पृग् । घृतं स्पृशतीति विग्रहे <<स्पृशोऽनुदके क्विन्>>[[3.2.58]] इति क्विनि, तस्य सर्वस्य लोपे <<उपपदमतिङ्>>[[2.2.19]] इति उपपदसमासे सुब्लुकि समासत्वात्प्रातिपदिकसञ्ज्ञायां सौ कृते 'वृतस्पृश् + सु इति स्थिते सोर्हल्ङ्यादिना लोपे <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वस्यासिद्धत्वात् पूर्वं <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति षः । तस्य जश्त्वेन डः । तस्य <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति गत्वे <<वाऽवसाने>>[[8.4.56]] इति चर्त्वेन कत्वे 'घृतस्पृक्' इति । पक्षे 'घृतस्पृग्' इति । दधृक् – दधृग् । <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इति क्विनि, तस्य सर्वस्य लोपे निपातनाद् द्वित् अभ्यासकार्ये निष्पन्नकृदन्तदधृष्शब्दात् सावागते, तस्य हल्ङ्यादिना लोपे जश्त्वं प्रति कुत्वस्यासिद्धत्वात्प्रथमं <<झलां जशोऽन्ते>>[[8.2.39]] इति जश्त्वेन डकारे तस्य <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वेन गकारे <<वाऽवसाने>>[[8.4.56]] इति वा चर्त्वेन ककारे 'दधृक्' इति । चर्त्वाभावपक्षे 'दधृग्' इति । दधृग्भ्याम् । दधृष् + भ्याम् अत्र पदसञ्ज्ञायां जश्त्वेन डः, तस्य कुत्वेन गः, 'दधृग्भ्याम्' इति रूपम् । रत्वमुट् – रत्नमुड् । रत्नमुष + सु अत्र सोर्लोपे <<झलां जशोऽन्ते>>[[8.2.39]] इति डत्वे <<वाऽवसाने>>[[8.4.56]] इति टकारे 'रत्नमुट्' इति । पक्षे - 'रत्नमुङ्' इति । अत्र क्विन्प्रत्ययाभावान्नकुत्वम् । रत्नमुड्भ्याम् । रत्नमुष् + भ्याम् इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसञ्ज्ञायां <<झलां जशोऽन्ते>>[[8.2.39]] इति जश्त्वेन डकारे कृते रूपम् । षट् – षड् । षष् शब्दो नित्यं बहुवचनान्तः । तेन षष् शब्दाज्जसि, षष् + जस् इति स्थिते <<ष्णान्ता षट्>>[[1.1.24]] इति षट्सञ्ज्ञायां <<षड्भ्यो लुक्>>[[7.1.22]] इति जसो लुकि, <<झलां जशोऽन्ते>>[[8.2.39]] इति ष् कारस्य डकारे तस्य चर्त्वे च 'षट्' इति, पक्षे - 'षड्' इति । एवं शसि परेऽपि बोध्यम् । षष्णाम् । षष् + आम् अत्र <<ष्णान्ता षट्>>[[1.1.24]] इति षट्संज्ञायां <<षट्चतुर्भ्यश्च>>[[7.1.55]] इति नुटि टित्वाद् आम आद्यावयवे जाते उटो लोपे पदसञ्ज्ञायां <<झलां जशोऽन्ते>>[[8.2.39]] इति षकारस्य डकारे इति डकारस्यानुनासिके णकारे <<ष्टुना ष्टुः>>[[8.4.41]] इति नामो नकारस्य ष्टुवे 'षण्णाम्' इति । न च <<न पदान्ताट्टोरनाम्>>[[8.4.42]] इति ष्टुत्वनिषेध इति वाच्यम् । इति तत्र पर्युदासात् । <>षट्त्सु - षट्सु । 'षष् सुप्' अत्र पकारस्येत्सञ्ज्ञायां लोपे च <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<झलां जशोऽन्ते>>[[8.2.39]] इति जश्त्वेन षकारस्य डकारे षड्+सु इति जाते <<डः सि धुट्>>[[8.3.29]] इति सकारस्य धुडागमे टित्वात् <<आद्यन्तौ टकितौ>>[[1.1.46]] इति आद्यावयवे जाते उटो लोपे <<खरि च>>[[8.4.55]] इति धकारस्य तकारे पुनश्च <<खरि च>>[[8.4.55]] इति डकारस्य टकारे 'षट्त्सु' इति । धुटोऽभावे 'षट्सु' इति ।", "32059": "ऋत्विग्दधृगिति । धातोरित्यधिकृतम् । <<स्पृशोऽनुदके क्विन्>>[[3.2.58]] इत्यतः क्विन् इत्यनुवर्तते । पञ्चम्यर्थे पष्ठी । तदाह - एभ्य इति । कनाविताविति । <<लशक्वतद्धिते>>[[1.3.8]] इति <<हलन्त्यम्>>[[1.3.3]] इति च सूत्राभ्यामिति शेषः ।", "32060": "त्यदादिष्विति । चक्रारात् <<स्पृशोऽनुदके क्विन्>>[[3.2.58]] इत्यतः क्विन् अनुकृष्यते ।", "34143": "टेरिति । <<अल्लोपोऽनः>>[[6.4.134]] इत्यस्माल्लोप इति <<ति विंशतेर्डिति>>[[6.4.142]] इत्यतो डितीति चानुवर्तते । भस्येत्यधिकृतम् । तदाह - डितीत्यादिना । कतरत् कतरद् । 'कतर सु' अत्र <<अद्ड् डतरादिभ्यः पञ्चभ्यः>>[[7.1.25]] इति 'सु' इत्यस्य स्थाने अद्डि कृते कतर + अद्ड् इति जाते <<हलन्त्यम्>>[[1.3.3]] इति डस्येत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे च कतर + अद् इति भूते <<यचि भम्>>[[1.4.18]] इति भसंज्ञायां <<टेः>>[[6.4.143]] इति टिसञ्ज्ञकस्य रेफोत्तरवर्त्यकारस्य लोपे मिलित्वा 'कतरद्' इति, अत्र <<वाऽवसाने>>[[8.4.56]] इति विकल्पेन चर्त्वे 'कतरत्' इति च रूपम् । औ - जसोः - कतरे, कतराणि, कतरशब्दात् अम्-औट्-शस्सु पूर्ववत् कतरत् कतरद्, कतरे, कतराणि । हे कतरत् इति । कतर + सु इति स्थिते <<एकवचनं संबुद्धिः>>[[2.3.49]] इति सम्बुद्धिसञ्ज्ञायाम् <<अद्ड् डतरादिभ्यः पञ्चभ्यः>>[[7.1.25]] इति सु - इत्यस्य स्थाने अद्डादेशे कृते डकारस्येत्संज्ञायां लोपे च भसंज्ञायां टिलोपे च कृते 'कतर् - अत्' अत्र यद् ह्रस्वान्तं तदङ्गं न, यच्चाङ्गं - 'कतर्' इति तद् ह्रस्वान्तं न । इति न <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति तलोप इति भावः । तदाह - हे कतरद् इति । शेष पुंवदिति । सर्ववदित्यर्थः । एवं कतमदिति । अस्य डतमन्तत्वादिति भावः । अन्यतमस्येति । तस्याव्युत्पन्नप्रातिपदिकत्वेन डतमप्रत्ययान्तत्वाभावेन तत्राद्डादेशो नेत्यर्थः । <<एकाच्च प्राचाम्>>[[5.3.94]] इति डतरन्तादेकत्तरशब्दात् स्वमोरद्डादेशे प्राप्ते आह - एकतरादित्यादिना । एकतरशब्दात्परयोः स्वमोरद्डादेशप्रतिषेधो वक्तव्यः इत्यर्थः ।", "41001": "ङ्याप् प्रातिपदिकादिति ।<\/w> ङी च आप् च प्रातिपदिकञ्चेति समाहारद्वन्द्वः । ङीइत्यनेन ङीप्-ङीप्-ङीनां सामान्येन ग्रहणम् । आप् इत्यनेन टाप् डाप् चापां च सामान्येन ग्रहणम् । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । तदेतदाह - ड्यन्तादित्यादिना ।<\/w>", "41002": "", "41005": "ऋन्नेभ्य इति ।<\/w> ऋतश्च नाश्चेति द्वन्द्वः । स्त्रियामित्यधिकृतम् । ङ्याप् प्रातिपदिकात् इत्यतः प्रातिपदिकग्रहणमनुवृत्तम्, ऋन्नकारैर्विशेष्यते । तदन्तविधिः । तदाह - ऋदन्तेभ्य इत्यादिना । क्रोष्ट्रीति ।<\/w> क्रोष्टशब्दात्स्त्रीत्वे द्योत्ये <<स्त्रियां च>>[[7.1.96]] इति तृज्वद्भावे 'क्रोष्ट्र' इति जाते ऋदन्तत्वात् <<ऋन्नेभ्यो ङीप्>>[[4.1.5]] इति ङीपि ङकारपकारयोरित्संज्ञकत्वे लोपे च 'क्रोष्ट्र + ई' इति स्थिते यणि निष्पन्नः 'क्रोष्ट्री' शब्दः । तस्मात्सौ समागते हल्ड्यादिना लोपे कृते सति 'क्रोष्ट्री' इति रूपम् । गौरीवदिति ।<\/w> क्रोष्ट्र्यौ, क्रोष्ष्ट्रयः । हे क्रोष्ट्रि, क्रोष्ट्र्यौ, क्रोष्ट्रयः । क्रोष्ट्रीम्, क्रोष्ट्र्यौ, क्रोष्ट्रीः । क्रोष्ट्र्या, क्रोष्ट्यै, क्रोष्ट्र्याः, क्रोष्ट्रीणाम, क्रोष्ट्र्याम् । <<यू स्त्र्याख्यौ नदी>>[[1.4.3]] इति नदीसंज्ञायाम् तत्र तत्र नदीकार्यमूह्यम् । भ्रूरिति ।<\/w> ङ सु इत्यत्र सस्य रुत्वे रस्य विसर्गत्वे च 'भ्रूः' इति रूपम् । 'भ्र + औ' <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इत्युवङि भ्रवौ । जसि - भ्रुवः । <<नेयङुवङ्स्थानावस्त्री>>[[1.4.4]] इति भ्रूशब्दस्य निषेधात् नदीत्वं न । तेन <<अम्बाऽर्थनद्योर्ह्रस्वः>>[[7.3.107]] इत्यादिना नदीकार्यं न । हे भ्रूः, भ्रुवौ, भ्रुवः । भ्रुव्म्, भ्रुवौ, भ्रुवः । भ्रुवा, भ्रूभ्याम् भ्रूभिः । 'भ्रू ङे' अत्र <<ङिति ह्रस्वश्च>>[[1.4.6]] इति नदीत्वे आटि वृद्धौ, उवङि च - भ्रुवै । पक्षे — उवङेव भ्रुवे । ङसिङसो: - भ्रुवाः, भ्रुवः । आमि <<वाऽऽमि>>[[1.4.5]] इति वा नदीत्वे नुटि 'भ्रूणाम्' | पक्षे - भ्रुवाम् । 'भ्रू + ङि' अत्र नदीसंज्ञायां <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति ङेरामि, आडागमे वृद्धौ उवङि च भ्रुवाम् । नदीत्वाभाव पक्षे - 'भ्रुवि' इति । स्वयम्भूः पुंवदिति । स्वयम्भूशब्दस्य चतुरानने रूढत्वात् नित्यस्त्रीत्वाभावेन न नदीत्वमिति भावः ।", "41010": "न षडिति ।<\/w> षट्इत्यनेन षट्संज्ञका गृह्यन्ते । ङीप्टापाविति ।<\/w> <<ऋन्नेभ्यो ङीप्>>[[4.1.5]] इत्यतो ङीविति, <<टाबृचि>>[[4.1.9]] इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः । स्वस्त्रादीन् पठति - स्वसा तिस्र इत्यादिना । स्वसेति । 'स्वसृ+ सु' अत्र <<ऋन्नेभ्यो ङीप्>>[[4.1.5]] इति ङीपि प्राप्ते <<न षट्स्वस्रादिभ्यः>>[[4.1.10]] इति ङीपो निषेधे <<ऋदुशनस्पुरुदंसोऽनेहसां च>>[[7.1.94]] इत्यनङि डित्त्वादन्त्यावयवे जाते अनुबन्धलोपे 'स्वसन् + स्' इति स्थिते <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इति दीर्घे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सलोपे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नस्य लोपे च कृते 'स्वसा' इति रूपम् । स्वसाराविति ।<\/w> 'स्वसृ + औ' अत्र <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणे अकारे <<उरण् रपरः>>[[1.1.51]] इति रपरे च जाते <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इत्युपधाया दीर्घत्वे 'स्वसारौ' इति रूपम् । जसि - स्वसारः । सम्बोधने <<ह्रस्वस्य गुणः>>[[7.3.108]] इति गुणे रपरे च हल्ङ्यादिना लोपे रस्य विसर्गे च - हे स्वसः, स्वसारौ, स्वसारः । स्वसारम्, स्वसारौ । शसि - पूर्वसवर्णदीर्घादेशे सस्य रुत्वे रस्य विसर्गत्वे च 'स्वसृः' इति । टा — स्वस्त्रा । ङे — स्वस्त्रे । ङसिङसोः - 'स्वसृ + अस्' इति स्थिते <<ऋत उत्>>[[6.1.111]] इति पूर्वपरयोः स्थाने उकारादेशे रपरत्वे च <<रात्सस्य>>[[8.2.24]] इति सलोपे रेफस्य विसर्गे च कृते स्वसुः । आमि - स्वसॄणाम् । ङौ - <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणे रपरे च 'स्वसरि' इति ॥ द्यौर्गोवदिति ।<\/w> <<गोतो णित्>>[[7.1.90]] इति णिद्वत्वातिदेशात् <<अचो ञ्णिति>>[[7.2.115]] इति वृद्धिः । राः पुंवदिति ।<\/w> <<रायो हलि>>[[7.2.85]] इत्यात्वम् । नौर्ग्लौवदिति ।<\/w> सर्वत्राजादौ विभक्तौ परे आवादेश इति भावः । इत्यजन्ताः स्त्रीलिङ्गाः |<\/w>", "61005": "उमेऽभ्यस्तमिति । <<एकाचो द्वे प्रथमस्य>>[[6.1.1]] इत्यतो द्वे इत्यनुवर्तते । तेनैव सिद्धे उभे ग्रहणं समुदायप्रतिपत्यर्थम् । 'द्वे' इत्यनेन च षष्ठाध्यायविहितमेव द्वित्वं विवक्षितम् तदाह – षाष्ठद्वित्वेत्यादिना ।", "61006": "जक्षित्यादय इति । जक्षिति पृथक् पदम् । इति शब्देन जक्षिरेव परामृश्यते । तत्र जक्षितिः आदिर्येषामिति तद्गुणसंविज्ञानबहुव्रीहिस्तदेतदाह - षड् धातवोऽन्ये इति । जक्षत् - जक्षद् । जक्षत् + सु अत्र <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमागमे प्राप्ते <<जक्षित्यादयः षट्>>[[6.1.6]] इति अभ्यस्तसञ्ज्ञायाम् <<नाभ्यस्ताच्छतुः>>[[7.1.78]] इति नुमो निषेधे हल्ङयादिना सुलोपे पदसंज्ञायाम् <<झलां जशोऽन्ते>>[[8.2.39]] इति जश्त्वेन तकारस्य दकारे तस्य <<वाऽवसाने>>[[8.4.56]] इति चर्त्वे 'जक्षत्' इति । पक्षे - 'जक्षद्' इति । एवमिति । जाग्रत् दरिद्रत्, शासत्, चकासत्, दीध्यत्,वेव्यत्, शब्दानां <<जक्षित्यादयः षट्>>[[6.1.6]] इत्यभ्यस्तसञ्ज्ञायां जातायां <<नाभ्यस्ताच्छतुः>>[[7.1.78]] इति नुमोऽभावे ददद् वद् रूपाणि ज्ञेयानि । गुप् – गुब् | गुप् + सु इत्यत्र सोर्लोपे <<झलां जशोऽन्ते>>[[8.2.39]] इति पस्य बत्वे <<वाऽवसाने>>[[8.4.56]] इति चर्त्वेन बस्य पत्वे 'गुप्' इति । पक्षे — 'गुब्' इति । गुब्भ्याम् । गुप् + भ्याम् इत्यत्र पदसंज्ञायां <<झलां जशोऽन्ते>>[[8.2.39]] इति पस्य बत्वे 'गुब्भ्याम्' इति ।", "61009": "सन्यङोरिति ।<\/w> अवयवषष्ठयेषा । प्रत्ययत्वात्तदन्तग्रहणम् । <<एकाचो द्वे प्रथमस्य>> इति <<अजादेर्द्वितीयस्य>> इति चाधिकृतम् । तदाह - सन्नन्तस्येत्यादिना ।<\/w> सनि यङि चपरे इति तु न व्याख्येयम् । तथा सति प्रतिपूर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति<\/qt>, अटाटयते<\/qt> इत्यत्र प्रत्ययसहितस्य द्वित्वानापत्तेः । अभ्यासस्य इत्वविधिं स्मारयति - सन्यत इति<\/w> । पठितुमिच्छतीति ।<\/w> भावस्तुमुनर्थः ।अव्ययकृतो भावे<\/hl> इत्युक्तेः । पिपठिषति<\/qt> । पठ्<\/qt> इत्यस्मात् <<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> [[3.1.7]] इति सन्प्रत्यये अनुबन्धलोपे पठ् स्<\/qt> इति जाते <<आर्धधातुकं शेषः>> [[3.4.114]] इति आर्धधातुकत्वे <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमे टलोपे टित्वादाद्यावयवे <<सन्यङो>> [[6.1.9]] इति द्वित्वे पठ् पठ इ स<\/qt> इति जाते <<पूर्वोभ्यासः>> [[6.1.4]] इत्यभ्यासत्वे <<हलादिः शेषः>> [[7.4.60]] इति ठलोपे <<सन्यतः>> [[7.4.79]] इतीत्वे <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वे <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपो पिपठिष अ ति<\/qt> इति जाते <<अतो गुणे>> [[6.1.97]] इति पररूपे पिपठिषति<\/qt> इति रूपम् ।", "61037": "", "61064": "धात्वादेरिति । धातुग्रहणं किम् ? षड् । आदेः किम् ? लषति । स्नुट् स्नुड् । ष्णुह + उद्रिरणे, अस्मात्क्विप । कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते <<धात्वादेः षः सः>>[[6.1.64]] इति षस्य सत्वे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सलोपे <<वा द्रुहमुहष्णुहष्णिहाम्>>[[8.2.33]] इत्यादिना घत्वे तस्य जश्त्वे <<वाऽवसाने>>[[8.4.56]] इति वा चर्त्व 'स्नुक' इति । चर्त्वाभावे 'स्नुग्' इति रूपम् । <<वा द्रुहमुहष्णुहष्णिहाम्>>[[8.2.33]] इति विकल्पाभावे <<हो ढः>>[[8.2.31]] इति ढत्वे तस्य जश्त्वे विकल्पेन चर्त्वे 'स्नुट्' इति । चर्त्वाभावपक्षे - 'स्नुड्' इति । शेषं पूर्ववत् । विश्वं वहतीत्यर्थे <<भजो ण्विः>>[[3.2.62]] इत्यतो ण्विरित्यनुवृत्तौ <<वहश्च>>[[3.2.64]] इति ण्विः । णकारः इत् । वेर्लोपः । <<अत उपधायाः>>[[7.2.116]] इति वृद्धिः। उपपदसमासः - 'विश्ववाह' इति रूपम् । ततस्सोर्हल्ङ्याबिति लोपे <<हो ढः>>[[8.2.31]] इति ढत्वे <<वाऽवसाने>>[[8.4.56]] इति चर्त्वविकल्पे विश्ववाट्, विश्ववाड्, विश्ववाहौ, विश्ववाहः। विश्ववाहं, विश्ववाहौ, इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादौ अचि सम्प्रसारणसंज्ञां दर्शयति - इग्यणः सम्प्रसारणमिति ।", "61067": "वेरपृक्तस्येति । अत्र <<लोपो व्योर्वलि>>[[6.1.66]] इत्यतो लोप इत्यनुवर्तते ।", "61068": "", "61069": "एङ्ह्रस्वादिति ।<\/w> <<लोपो व्योर्वलि>>[[6.1.66]] इत्यतो लोप इति <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इत्यतो हल् इति चानुवर्तते । हे राम इति ।<\/w> रामशब्दात्संबोधनार्थकप्रथमैकवचनविवक्षायां सौ कृते राम सु<\/qt> इति जाते <<एकवचनं संबुद्धिः>>[[2.3.49]] इति सोः सम्बुद्धिसंज्ञायां अनुबन्धलोपे सति <<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>>[[1.4.13]] इत्यनेन रामशब्दस्याङ्गत्वे <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इत्यनेन सम्बुद्धिसम्बन्धिनि हल् रूपे सकारे लुप्ते सम्बोधनद्योतक हे इत्यस्य पूर्वयोगे कृते हे राम<\/qt> इति सिद्धम् । रामौ<\/qt> इत्यत्र तु पूर्ववत्प्रक्रिया | रामाः<\/qt> इत्यत्र पूर्ववत् प्रक्रिया बोध्या ।", "61073": " छे चेति । <\/w> <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यतो ह्रस्वस्येति तुगिति चानुवर्तते । संहितायामित्यधिकृतम् । तदाह - ह्रस्वस्येत्यादिना ।<\/w> शिवच्छायेति ।<\/w> शिव-छाया<\/w> इत्यवस्थायां <<छे च>> [[6.1.73]] इति सूत्रेण ह्रस्वस्य — शिव इत्यत्रस्थवकारोत्तरवर्त्यकारस्य तुक् प्राप्तः छे परे सति । स च कित्त्वाद् <<आद्यन्तौ टकितौ>> [[1.1.21]] इत्यनेन अन्तावयवो जातः । तत्र <<हलन्त्यम्>> [[1.3.3]] इत्यनेन ककारस्येत्संज्ञायाम् <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपे उकारस्य निवृत्तौ शिव त् छाया<\/qt> इति जाते, इह <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन तकारस्य चत्वे विहिते शिवच्छाया<\/qt> इति सिद्धम् । एवमेव स्वच्छाया<\/qt> इत्यत्र बोध्यम् ॥", "61076": "पदान्ताद्वेति ।<\/w> तुक्, छे, दीर्घात् इत्यनुवर्तते । तदाह — दीर्घात्पदान्तादित्यादिना ।<\/w> अत्र दीर्घस्यैवायं तुक् बोध्यः । न च इति परिभाषया छकारस्यान्तावयवस्तुक् स्यादिति वाच्यम्, <<विभाषा सेनासुराच्छायाशालानिशानाम् >> [[2.4.25]] इति पाणिनीयसूत्रेण तस्याः प्रबाधनात् । लक्ष्मीच्छायेति । <\/w> लक्ष्मी छाया<\/qt> इत्यवस्थायाम् <<पदान्ताद्वा>> [[6.1.76]] इत्यनेन तुकि उको लोपे <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन तस्य चत्वे लक्ष्मीच्छाया<\/qt> इति निष्पन्नम् । तुगभावे च लक्ष्मीछाया<\/qt> इति ॥ इति हल्सन्धिप्रकरणम् ॥ विष्णुस्त्रातेति ।<\/w> विष्णुः त्राता<\/qt> इति स्थिते <<विसर्जनीयस्य सः>> [[8.3.34]] इति सूत्रेण खर्-प्रत्याहारान्तःपातिनि तकारे परे विसर्गस्य सत्वे कृते विष्णुस्त्राता<\/qt> इति रूपम् ॥", "61077": " इकः स्थान इति ।<\/w> इकः इति षष्ठी । <<षष्ठी स्थानेयोगा>> [[1.1.49]] इति सूत्रेण स्थान इति लभ्यते । स्थानञ्च प्रसङ्गः । तथाहि — इकामुच्चारणप्रसङ्गे यणामुच्चारणं कर्तव्यमित्यर्थः । सुधी इति ।<\/w> ध्यै चिन्तायामिति धातोः (वार्त्तिकम् [[3.2.178]]) इति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे <<हलः>> [[6.4.2]] च इति दीर्घे धीशब्दो निष्पन्नः । शोभना धीः येषान्ते सुधयः । सुधीभिः उपास्यः सुध्युपास्यः ।", "61078": "", "61079": "यकारादाविति ।<\/w> <ऽयस्मिन्विधिस्तदादावल्ग्रहणेऽ> इति परिभाषया तदादिलाभेन यकारादौ इत्यर्थस्य लाभः इति भावः । गव्यमिति ।<\/w> गोशब्दात् <<गोपयसोर्यत्>> [[4.3.160]] इत्यनेन विकारार्थे यति प्रत्यये रूपम् । अत्र गो-यम्<\/qt> इति स्थितौ ओकारस्य अच्-परकत्वाभावात् <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन आवादेशाप्राप्तौ, <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यनेन यादिप्रत्ययः 'य' इति, तस्मिन् परे 'अव्' आदेशे कृते गव्यम्<\/qt> इति रूपं सिद्धम् । नाव्यमिति ।<\/w> नौ-यम्<\/qt> इति स्थिते <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यनेन यकारादौ प्रत्यये परे आव्-आदेशे कृते नाव्यम्<\/qt> इति भवति । नावा तार्यं नाव्यमित्यर्थः ॥ अध्वपरिमाणे चेति<\/w> । मार्गपरिमाणे अर्थे गम्यमाने ओकारस्य स्थाने 'अव्' आदेशो भवति 'यूति' शब्दे परे । यथा — गो-युतिः<\/qt> इत्यत्र (वार्त्तिकम् [[6.1.79]] इत्यनेन अवादेशे, गव्यूतिः<\/qt> इति रूपं सिद्धम् । 'गव्यूतिः स्त्री क्रोशयुगम्' इत्यमरः । क्रोशयुगस्य संज्ञैषेति भावः ॥", "61085": "शिवेहि इति ।<\/w> शिव-आ-इहि<\/qt> इति स्थिते अत्र इति परिभाषया पूर्वम् आ-इहि<\/qt> इत्यत्र <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणे एहि<\/qt> इति जाते तत्र <<अन्तादिवच्च>> [[6.1.85]] इत्यनेन सूत्रेण अन्तवद्भावमादाय <<ओमाङोश्च>> [[6.1.95]] इत्यनेन पररूपे कृते सति शिवेहि<\/qt> इति रूपसिद्धिर्बोध्या ॥", "61087": "आद्गुण इति <\/w> । <<इको यणचि>> [[6.1.77]] इत्यतो अचि इति, <<एकः पूर्वपरयोः>> [[6.1.84]] इति सम्पूर्णं सूत्रमनुवर्तते अत आह — अचि परे पूर्वपरयोरिति ।<\/w> उपेन्द्र इति <\/w> उप-इन्द्र<\/qt> इति स्थिते अत्र <<आद्गुणः>> [[6.1.87]] इति सूत्रेण पूर्वपरयोः अकार-इकारयोः स्थाने गुणसंज्ञकः कण्ठतालुस्थानकः एकारो जातः । तेन उपेन्द्र<\/qt> इति रूपं सिद्धम् । गङ्गोदकमिति ।<\/w> गङ्गा-उदकम्<\/qt> इति स्थिते <<आद्गुणः>> [[6.1.87]] इत्यनेन सूत्रेण पूर्वपरयोः आकार-उकारयोः स्थाने ओकारे कृते गङ्गोदकमिति सिद्धम् ॥", "61088": "कृष्णैकत्वमिति । <\/w> कृष्ण-एकत्वम्<\/qt> इति स्थिते अत्र <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन अवर्णात् (कृष्णघटकणकारोत्तवर्ति-अवर्णात्) एचि (एच्-प्रत्याहारघटक-एकारे, एकत्वम् इति रूपस्थाद्यैकारे) परे पूर्वपरयोः (अ-ए इत्यत्र) वृद्धिसंज्ञकः (<<वृद्धिरादैच्>> [[1.1.1]] इति सूत्रेण वृद्धिसंज्ञकेषु 'आ ऐ औ' इत्येतेषु <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यनेन कण्ठस्थानिकाकारस्य कण्ठतालुस्थानीयैकारस्य च स्थाने कण्ठतालुसंज्ञकः आन्तरतम्यः) ऐ आदेशो जातः, तेन कृष्णैकत्वम्<\/qt> इति सिद्धम् । अनेनैव प्रकारेण गङ्गौघः<\/qt>, देवैश्वर्यम्<\/qt>, कृष्णौत्कण्ठ्यम्<\/qt> इति बोध्यम् । संक्षेपस्तु गङ्गा-ओघः<\/qt> इति स्थिते अत्र <<वृद्धिरादैच्>> [[1.1.1]] इति सूत्रेण पूर्वपरयोः आकारस्य ओकारस्य च स्थाने वृद्धिसंज्ञकः आन्तरतम्यः औ-आदेश । तेन गङ्गौघः<\/qt> इति जायते । देव-ऐश्वर्यम्<\/qt> इत्यत्र पूर्वपरयोः स्थाने ऐ-आदेशे देवैश्वर्यम्<\/qt> इति । कृष्ण-औत्कण्ठ्यम्<\/qt> इति स्थिते तत्र पूर्वपरयोः स्थाने औ-आदेशे कृते कृष्णौत्कण्ठ्यम्<\/qt> इति सिद्धम्भवति ।", "61089": "उपैतीति ।<\/w> उप-एति<\/qt> इति स्थिते अत्र <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यनेन अवर्णादेकादि इण्-धातु-एध्-धातु-ऊठ्सु परेषु पूर्वपरयोः स्थाने वृद्धिरूपैकादेशो भवतीत्यर्थकेन, अवर्णात् (उप इत्यत्र पकारोत्तवर्ति-अवर्णात्) एजादि-(इण्-धातु-)एति-परे पूर्वपरयोः (अ-ए-इत्यत्र) वृद्धिसंज्ञक आन्तरतम्य ऐ आदेशो जातः, तेन उपैति<\/qt> इति भवति । अत्र <<एङि पररूपम्>> [[6.1.94]] इत्यनेन पररूपस्य प्राप्तिरासीत्, परं तत्सूत्रमपवादत्वात् <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यनेन वृद्धौ सत्याम् उपैधते<\/qt> इति रूपम् । प्रष्ठ-उहः<\/qt> इति स्थिते अत्र <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणे प्राप्ते <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यनेन प्रबाध्य वृद्धौ सत्यां रूपम् । उप-इतः<\/qt>, मा भवात् प्र-इदिधत्<\/qt> इत्य्तर एजादिपरत्वाभावान्न वृद्धिः, किन्तु <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणे रूपम् — उपेतः<\/qt> इति, प्रेदिधत्<\/qt> इति च । अक्षौहिणीति<\/w> अत्र अक्ष-ऊहिनी<\/qt> इति दशायाम् <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणे प्राप्ते 'अक्षशब्दादूहिनीशब्दे परे वृद्धिः स्यात्' इत्यर्थकवार्त्तिकेन वृद्धौ अक्षौहिणी<\/qt> इति । प्रादूहोढेति ।<\/w> प्रशब्दात् उह-ऊह-ऊढि-एष-एष्यशब्दे परे पूर्वपरयोः स्थाने वृद्धिरूपैकादेशो भवति । तथाहि प्र-ऊहः<\/qt>, प्र-ऊढः<\/qt>, प्र-ऊढिः<\/qt> इत्यत्र पूर्वपरयोः स्थाने आन्तरतमो वृद्धिसंज्ञकः औकारो जातस्तेन प्रौहः<\/qt>, प्रौढः<\/qt>,प्रौढिः<\/qt> इति । प्र-एषः<\/qt>, प्र-एष्यः<\/qt> इत्यत्र वृद्धिसंज्ञक आन्तरतम्य ऐ आदेशः । तेन प्रैषः<\/qt>, प्रैष्यः<\/qt> इति रूपम् । अत्र पूर्वोक्तरूपत्रये <<आद्गुणः>> [[6.1.87]] इत्यस्य, प्र-एषः<\/qt>, प्र-एष्यः<\/qt> इत्यत्र च <<एङि पररूपम्>> [[6.1.94]] इत्यस्य प्राप्तिरासीत्, तस्य बाधनाय इति वार्त्तिकमिति भावः । ऋते चेति ।<\/w> तृतीयासमासघटकावर्णात् ऋतशब्दे परे पूर्वपरयोः स्थाने वृद्धिरित्यर्थः । सुख-ऋतः<\/qt> इति स्थिते अत्रावर्णात् (सुख<\/qt>इत्यत्र खकारोत्तवर्ति-अवर्णात्) ऋतशब्दे परे पूर्वपरयोः अ-ऋ<\/qt> इत्यत्र वृद्धिसंज्ञक आकारे <<उरण् रपरः>> [[1.1.51]] इत्यनेन रपरे सति प्रवृत्ते सुखार्तः<\/qt> इति सिद्धम् । परमर्त इति । <\/w> परम-ऋतः<\/qt> इति स्थितेऽत्र तृतीयासमासाभावात् न वृद्धिः किन्तु <<आद्गुणः>> [[6.1.87]] इति गुणे परे रपरे च रूपम् । प्रवत्सतरेति ।<\/w> प्र-वत्सतर-कम्बल-वसन-ऋण-दशन्-शब्दघटकाकारात् ऋणशब्दे परे पूर्वपरयोः स्थाने वृद्धिरूपैकादेशो भवतीत्यर्थः । प्र-ऋणम्<\/qt>, वत्सतर-ऋणम्<\/qt>, कम्बल-ऋणम्<\/qt>, वसन-ऋणम्<\/qt>, ऋण-ऋणम्<\/qt> इति स्थिते पूर्वपरयोः स्थाने आकाररूपवृद्धौ रपरे च प्रार्णम्<\/qt>,वत्सतरार्णम्<\/qt>,कम्बलार्णम्<\/qt>,वसनार्थणम्<\/qt>, ऋणार्णम्<\/qt> इति भवतीत्यर्थः ॥", "61090": "आटश्चेति ।<\/w> <<इको यणचि>>[[6.1.77]] इत्यतोऽचीति <<वृद्धिरेचि>>[[6.1.88]] इत्यतो वृद्धिरिति चानुवर्तते । <<एकः पूर्वपरयोः>>[[6.1.84]] इति चाधिकृतम्, तदाह - आटोऽचीत्यादिना । बहुश्रेयस्यै ।<\/w> बहुश्रेयसीशब्दाच्च्तुर्थ्येकवचनविवक्षायां ङे ससागते इति बहुश्रेयसीशब्दस्य नदीसञ्ज्ञायाम् <<आण्नद्याः>>[[7.3.112]] इति ङे आडागमे टकारस्येत्सञ्ज्ञायां लोपे च <<आद्यन्तौ टकितौ>>[[1.1.46]] इत्याद्यावयवे भूते ङकारस्येत्सञ्ज्ञायां लोपे च बहुश्रेयसी-आ ए<\/qt> इति स्थिते <<आटश्च>>[[6.1.90]] इति पूर्वपरयोः स्थाने वृद्धौ कृतायां <<इको यणचि>>[[6.1.77]] इति यणि बहुश्रेयस्यै<\/qt> इति रूपम् । बहुश्रेयसीभ्यां, बहुश्रेयसीभ्यः चतुर्थी । बहुश्रेयत्याः ।<\/w> बहुश्रयसीशब्दात् पञ्चम्येकवचनविवक्षायां ङसौ समागते ङकारस्येकारस्य चेत्सञ्ज्ञायां लोपे च इति नदीसञ्ज्ञायाम् <<आण्नद्याः>>[[7.3.112]] इत्याडागमे <<आटश्च>>[[6.1.90]] इति वृद्धौ यणि रुत्वे विसर्गे च बहुश्रेयस्याः<\/qt> इति रूपम् । बहुश्रेयसीभ्याम, बहुश्रेयसीभ्यः, पञ्चमी । बहुश्रेयस्याः ।<\/w> बहुश्रेयसीशब्दात् षष्ठ्येकवचने ङसि कृते पूर्ववत् साधनिका ज्ञेया । ओसि- बहुश्रेयस्योः । बहुश्रेयसी-आम्<\/qt> इति स्थिते नदीसञ्ज्ञायाम् <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नदीसञ्ज्ञकात्परस्यामो नुडागमे टित्वाद्यावयवे जाते उकारटकारयोरित्सञ्ज्ञायां लोपे च कृते परेण संयोज्य – बहुश्रेयसीनाम्<\/w> इति रूपम् ।", "61091": "प्रार्च्छति इति ।<\/w> प्र-ऋच्छति<\/qt> इति स्थितेऽत्र ऋच्छतीत्यस्य क्रियावाचकत्वात् <<भूवादयो धातवः>> [[1.3.1]] इत्यनेन धातुसंज्ञायाम, प्र इत्यस्य क्रियायोगात् <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन उपसर्गसंज्ञायाम् <<उपसर्गादृति धातौ>> [[6.1.91]] इत्यनेन पूर्वपरयोः स्थाने आरूपवृद्धौ रपरे च प्रार्च्छति<\/qt> इति सिद्ध्यति ॥", "61093": "औतोऽम्शसोरिति ।<\/w> आ ओत इति च्छेदः, व्याख्यानादिति भावः। ओत इति तपरकरणम् । <<इको यणचि>>[[6.1.77]] इत्यतोऽचीत्यनुवर्तते । <<एकः पूर्वपरयोः>>[[6.1.84]] इत्यधिकृतन्तदाह - ओकारादित्यादिना । गामिति ।<\/w> गोशब्दादमि समागते <<औतोऽम्शसोः>>[[6.1.93]] इत्यनेन पूर्वपरयोः स्थाने आकारादेशे कृते गाम्<\/qt> इति । गावाविति ।<\/w> गोशब्दादौटि कृते <<गोतो णित्>>[[7.1.90]] इति णिद्वद्भावे वृद्धावावादेशे च कृते गावौ<\/qt> इति । गाः इति ।<\/w> गोशब्दात् शसि समागते <<लशक्वतद्धिते>>[[1.3.8]] इति शस्येत्सञ्ज्ञायां लोपे च कृते <<औतोऽम्शसोः>>[[6.1.93]] इति पूर्वपरयोः स्थाने आकारादेशे च विहिते सस्य रुत्वे विसर्गे च गाः<\/qt> इति रूपम् । टादावचि अवादेशं मत्वाह - गवा गवे इति । गोरिति ।<\/w> <<ङसिङसोश्च>>[[6.1.110]] इति पूर्वरूपमिति भावः । इत्यादीति ।<\/w> गवोः गवाम्, गवि इत्यादिशब्दार्थः।", "61094": "प्रेजत इति ।<\/w> प्र-एजते<\/qt> इति स्थिते अत्र <<वृद्धिरादैच्>> [[1.1.1]] इत्यनेन वृद्धौ प्राप्तायां तां प्रबाध्य <<एङि पररूपम्>> [[6.1.94]] इत्यनेन पूर्वपरयोः स्थाने पररूपैकादेशे ए इत्याजारे कृते प्रेजते<\/qt> इति रूपम् । एवम् उप-ओषति<\/qt> इत्यत्रापि पूर्वपरयोः स्थाने पररूपे सति उपोषति<\/qt> इति सिद्धम्भवति ॥", "61095": "शिवायों नम इति ।<\/w> शिवाय-ओं नमः<\/qt> अत्र <<ओमाङोश्च>> [[6.1.95]] इत्यनेन अवर्णात् ओमि परे पूर्वपरयोः स्थाने पररूपे शिवायों नमः<\/qt> इति भवति ॥", "61097": "अतो गुणे इति । <<एङि पररूपम्>>[[6.1.94]] इत्यतः पररूपमित्यनुवर्तते । <<उस्यपदान्तात्>>[[6.1.96]] इत्यतः अपदान्तादित्यनुवर्तते । <<एकः पूर्वपरयोः>>[[6.1.84]] इत्यधिकृतम् । अत इति पञ्चमी । तदाह - अपदान्तादित्यादिना । दश्चेति । <<इदमो मः>>[[7.2.108]] इत्यनुवर्तते । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो मण्डूकप्लुत्या विभक्कावित्यनुवर्तते । द इति पष्ठी । इदमो दकारस्येति लभ्यते, तदाह - इदमो दस्येत्यादिना । इमौ । इदम् + औ इति स्थिते अत्र <<त्यदादीनामः>>[[7.2.102]] इति मस्य अत्वे 'इद अ औ' इति जाते <<अतो गुणे>>[[6.1.97]] इत्यनेन पररूपे 'इद औ' इति भूते <<दश्च>>[[7.2.109]] इत्यनेन दकारस्य मकारे विहिते वृद्धौ कृतायाम् 'इमौ' इति रूपं सिद्धम् । इमे । इदम् + जस् इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे 'इद अ जस्' इति स्थिते <<अतो गुणे>>[[6.1.97]] इति पररूपे <<जसः शी>>[[7.1.17]] इति शीत्वे शस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे <<दश्च>>[[7.2.109]] इति दकारस्य मकारे 'इमे' इति रूपम् । त्यदादेः सम्बोधनं नास्तीति । प्रचुरप्रयोगादर्शनादिति भावः ।", "61101": "दैत्यारिरिति ।<\/w> दैत्यानामसुराणाम् अरिः शत्रुरिति विग्रहः । सिद्धिप्रकारस्तु — दैत्य-अरिः<\/qt> इति स्थिते अत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सूत्रेणे सवर्णेऽचि (अकारे) परे पूर्वपरयोः स्थाने सवर्णदीर्घादेशे कृते सति दैत्यारिः<\/qt> इति भवति । श्री-ईशः<\/qt> अत्रापि <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन पूर्वपरयोः ई-ई इति स्थाने सवर्णदीर्घादेशे श्रीशः<\/qt> इति भवति । एवमेव विष्णु-उदयः<\/qt> इति स्थिते प्रकृतसूत्रेण सवर्णदीर्घादेशे विष्णूदयः<\/qt> इति रूपम् ॥", "61102": "", "61103": "तस्माच्छस इति ।<\/w> तच्छब्देन सन्निहितः पूर्वसवर्णदीर्घः परामृश्यते । शस इत्यवयवषष्ठी । स चावयवः परत्वेन विशेष्यते । तदेतदाह - परो यः शसः स इति ।<\/w>", "61104": "", "61105": "दीर्घाज्जसीति ।<\/w> <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इत्यतः पूर्वसवर्णः इति <<नादिचि>>[[6.1.104]] इत्यतो नेति इचीति चानुवर्ततेः इति भावः । विश्वपाविति ।<\/w> विश्वपाशब्दात्प्रथमाद्विवचनविवक्षायाम् औ समागते विश्वपा औ<\/qt> इति स्थिते <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति प्राप्ते <<दीर्घाज्जसि च>>[[6.1.105]] इति सूत्रेण पूर्वसवर्णदीर्घनिषेधे कृते <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ सत्यां विश्वपौ<\/qt> इति रूपम् । विश्वपाः इति ।<\/w> विश्वपाशब्दाज्जसि <<चुटू>>[[1.3.7]] इति जसो जकारस्येत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे च विश्वपा-अस्<\/qt> इति दशायां <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे प्राप्ते <<दीर्घाज्जसि च>>[[6.1.105]] इति सूत्रेण पूर्वसवर्णदीधनिषेधे जाते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति पूर्वपरयोः स्थाने दीर्घादेशे सति सस्य रुत्वे,रस्य विसर्गे च कृते विश्वपाः<\/qt> इति रूपम् । हे विश्वपा इति ।<\/w> हे विश्वपाः, हे विश्वपौ, हे विश्वपाः, इति प्रथमावत् । विश्वपामिति ।<\/w> विश्वपाशब्दाद् द्वितीयैकवचनविवक्षायाम् अमि समागते सति विश्वपा अम्<\/qt> अत्र <<अमि पूर्वः>>[[6.1.107]] इत्यनेन पूर्वरूपैकादेशे सति विश्वपाम्<\/qt> इति रूपम् । विश्वपौ<\/qt> इति यथापूर्वमूह्यम् ।", "61107": "अमि पूर्व इति ।<\/w> <<अकः सवर्णे दीर्घः>>[[6.1.101]] इत्यतः अक इति पञ्चम्यन्तमनुवर्तते । <<एकः पूर्वपरयोः>>[[6.1.84]] इत्यधिकारः । <<इको यणचि>>[[6.1.77]] इत्यतोऽचि इत्यनुवर्तते, तदाह - प्रकोऽन्यचीत्यादिना | राममिति ।<\/w> रामशब्दात् द्वितीयैकवचनविवक्षायां अमि प्रत्यये समागते राम अम्<\/qt> इतिदशायाम् <<अमि पूर्वः>>[[6.1.107]] इत्यनेन पूर्वपरयोः स्थाने पूर्वरूपैकादेशे कृते रामम्<\/qt> इति सिद्धम् । रामाविति ।<\/w> रामशब्दात् द्वितीयाया द्विवचनविवक्षायाम् औटि कृते 'राम राम औ' अत्र <<सरूपाणामेकशेष एकविभक्तौ>>[[1.2.64]] इति एकराम अवशिष्टे सति रेफस्येत्संज्ञायां लोपे च <<वृद्धिरेचि>>[[6.1.88]] इत्यनेन वृद्धौ प्राप्तायां ताम्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते तस्य <<नादिचि>>[[6.1.104]] इत्यनेन निषेधे कृते <<वृद्धिरेचि>>[[6.1.88]] इत्यनेन वृद्धौ कृतायाम् रामौ<\/qt> इति सिद्धयति ।", "61108": "सम्प्रसारणाच्चेति । <<इको यणचि>>[[6.1.77]] इत्यतः अचीति 'अमि पूर्वः' इत्यतः पूर्व इति चानुवर्तते । <<एकः पूर्वपरयोः>>[[6.1.84]] इत्यधिकृतम् । तदाह - <>सम्प्रसारणादित्यादिना . विश्वौह इति ।<> विश्ववाह् + शस् अत्र शस्येत्सज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<वाह ऊठ्>>[[6.4.132]] इति सम्प्रसारणे प्राप्ते किं नाम सम्प्रसारणम् ? <<इग्यणः सम्प्रसारणम्>>[[1.1.45]] इत्यनेन वरूपस्य यणः स्थाने उकाररूपे सम्प्रसारणे कृते 'विश्व ऊ आह् अस्' इति जाते <<सम्प्रसारणाच्च>>[[6.1.108]] इति पूर्वरूपैकादेशे विहिते 'विश्व + उह् + अस्' इत्यवशिष्ठे <<एत्येधत्यूठ्सु>>[[6.1.89]] इति पूर्वपरयोः स्थाने वृद्धौ संयोगे सस्य रुत्वे रस्य विसर्गे च कृते 'विश्वौहः' इति रूपम् । <>इत्यादीति ।<> विश्वोहा, विश्ववाड्भ्याम्, विश्ववाड्भिः, विश्ववाड्भ्यः । विश्वौहे । विश्वौहः । विश्वौहः । विश्वौहोः। विश्वौहाम् । विश्ववाट्त्सुविश्ववाट्सु ।", "61109": "हरेऽवेति । <\/w> हरे-अव<\/qt> इति स्थिते, अत्र <<एङः पदान्तादति>> [[6.1.109]] — को वात्र पदान्ते एङ् ? रेफान्तःपात्येकारः पदान्ते एङ्, ततः परः को वा अकराः ? अवेत्यस्याकारः, अत्र पूर्वपरयोः स्थाने पूर्वरूपादेशः प्राप्तः । को वा पूर्वः ? एकारः, तस्मिन् जाते सति हरेऽव<\/qt> इति रूपम्भवति । एवमेव, विष्णो-अव<\/qt> इति स्थिते अत्र <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन सूत्रेण पूर्वपरयोः स्थाने पूर्वरूपैकादेशे सति विष्णोऽव<\/qt> इति रूपम् ॥", "61110": "ङसिङसोश्चेति ।<\/w> <<एङः पदान्तादति>>[[6.1.109]] इत्यत एङ इति, अतीति चानुवर्तते । <<अमि पूर्वः>>[[6.1.107]] इत्यतः पूर्व इत्यनुवर्तते । <<एकः पूर्वपरयोः>>[[6.1.84]] इत्यधिकृतम् । तदाह – एङो ङसिङसोरित्यादिना । हरेः । <\/w> हरिशब्दात्पञ्चम्येकवचनविवक्षायां ङसौ समागते ङकारस्येकारस्य चेत्सञ्जायां लोपे च हरि अस्<\/qt> इति जाते <<शेषो घ्यसखि>>[[1.4.7]] इति घिसञ्ज्ञायां <<घेर्ङिति>>[[7.3.111]] इति गुणे कृते <<ङसिङसोश्च>>[[6.1.110]] इति पूर्वरूपे सकारस्य रुत्वे विसर्गे च हरेः<\/qt> इति रूपम् । पञ्चमीद्विवचनबहुवचने - हरिभ्याम, हरिभ्यः इति । हरेः ।<\/w> हरिशब्दात् षष्ठ्येकवचनविवक्षायां ङसि प्रत्यये कृते ङकारस्येत्सञ्ज्ञायां लोपे च हरि-अस्<\/qt> इति स्थिते घिसञ्ज्ञायाम् <<घेर्ङिति>>[[7.3.111]] इति गुणे <<ङसिङसोश्च>>[[6.1.110]] इति पूर्वरूपे सकारस्य रुत्वे विसर्गे च हरेः<\/qt> इति रूपम् । हर्योः ।<\/w> हरिशब्दात्षष्ठीद्विवचनविवक्षायाम् ओसि कृते <<इको यणचि>>[[6.1.77]] इति यणि सस्य रुत्वे रस्य विसर्गे च हर्योः<\/qt> इति रूपम् । हरीणाम् ।<\/w> हरि-आम्<\/qt> इति स्थिते <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नुटि <<नामि>>[[6.4.3]] इति दीर्घादेशे <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे हरीणाम्<\/qt> इति ।", "61111": "ऋत उदिति ।<\/w> <<एङः पदान्तादति>>[[6.1.109]] इत्यतः अतीति <<ङसिङसोश्च>>[[6.1.110]] इत्यतो ङसिङसोरिति चानुवर्तते । ङसिङसोरित्यवयवषष्ठी अतीत्यत्रान्वेति । अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशिष्यते, तदन्तविधिस्तदाह - ऋतो ङसिङसोरित्यादिना । रपर इति ।<\/w> ऋकारस्य अकारस्य च स्थाने प्राप्नुवतः उकारस्य ऋकारस्थानिकत्वानपायादिति भावः ।", "61112": "ख्यत्यादिति ।<\/w> खिखी इत्यनयोः, तिती इत्यनयोश्च कृतयणादेशयोः ख्य त्य इति निर्देशः । यकारादकार उच्चारणार्थः । <<एङः पदान्तादति>>[[6.1.109]] इत्यतो अतीत्यनुवर्तते । तच्च षष्ठ्यन्तं विपरिणम्यते । <<ङसिङसोश्च>>[[6.1.110]] इत्यतो ङसिङसोरित्यनुवर्तते। अवयवषष्ठ्येषा । ततश्चङसिङसोरवयवस्य अत इति लभ्यते । <<ऋत उत्>>[[6.1.111]] इत्यतः उदित्यनुवर्तते । तदाह - खितिशब्दान्यामित्यादिना । सख्युः ।<\/w> सखिशब्दात्पञ्चम्येकवचनविवक्षायां ङसौ समागते ङकारस्येत्सज्ञायां लोपे । च सखि अस्<\/qt> इति स्थिते <<इको यणचि>>[[6.1.77]] इति यणादेशे सख्य अस्<\/qt> इति जाते तत्र <<ख्यत्यात् परस्य>>[[6.1.112]] इत्यनेन असोऽकारस्य उत्वे सख्युस्<\/qt> इति,तत्र सस्य रुत्वे विसर्गे च कृते सख्युः<\/qt> इति रूपम् । पञ्चमीद्विवचनबहुवचने तु - सखिभ्याम्, सखिभ्यः इति । षष्ठ्येकवचनविवक्षायां सखि अस्<\/qt> इति स्थिते पूर्ववत् यणि अस्योत्वे रुत्वे विसर्गे च सख्युः इति । ओसि - सख्योः । आमि - सखीनाम् ।", "61113": "अतो रोरिति ।<\/w> <<ऋत उत्>> [[6.1.111]] इत्यतः उदित्यनुवर्तते । अतः इति पञ्चमी । <<एङः पदान्तादति>> [[6.1.109]] इत्यतोऽतीत्यनुवर्तते तदाह — अप्लुतादित्यादिना ।<\/w> शिवोऽर्च्य इति ।<\/w> शिवस् अर्च्यः<\/qt> इत्यवस्थायां <<ससजुषो रुः>> [[8.2.66]] इति सस्य रुत्वे <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति सूत्रेण पूर्वपरयोः स्थाने गुणे विहिते शिवो अर्च्यः<\/w> इति जाते, <<एङः पदान्तादति>> [[6.1.109]] इति सूत्रेणार्च्य इत्यस्याकारस्य पूर्वरूपादेशे च विहिते शिवोर्च्यः<\/qt> इति सिद्धम् ॥", "61114": "हशि चेति ।<\/w> अतो रोरप्लुतादिति पदत्रयं पूर्वसूत्रादनुवर्तते । <<ऋत उत्>> [[6.1.111]] इत्यतः उदिति च, तेन अप्लुतादतः परस्य रोरुः स्याद्धशि इति सूत्रार्थः । शिवो वन्द्यः इति ।<\/w> शिवस्-वन्द्यः<\/qt> इत्यत्र <<ससजुषो रुः>> [[8.2.66]] इत्यनेन सस्य रुत्वे <<हशि च>> [[6.1.114]] इत्यनेन हश्-प्रत्याहारान्तःपातिनि वन्द्यघटकवकारे परे रोरुत्वे <<आद्गुणः>> [[6.1.87]] इत्यनेन पूर्वपरयोः स्थाने गुणे च कृते शिवो वन्द्यः<\/qt> इति रूपम् ।", "61122": "गो अग्रमिति । <\/w>गो-अग्रम्<\/qt> इति स्थिते अत्र <<सर्वत्र विभाषा गोः>> [[6.1.122]] इत्यनेन पदान्ते विद्यमानस्य एङन्तस्य गोशब्दस्य अति परे विकल्पेन प्रकृतिभावे सति गोअग्रम्<\/qt> इति रूपम् । विभाषाग्रहणात्पक्षे <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूपैकादेशे कृते गोऽग्रम्<\/qt> इति रूपम् । चित्रग्वग्रमिति ।<\/w> चित्रगु-अग्रम्<\/qt> इति दशायां तत्र एङन्तत्वाभावात् न पूर्वरूपम् । नापि प्रकृतिभावः । किन्तु <<इको यणचि>> [[6.1.77]] इत्यनेन यणि रूपम् । पदान्ते किमिति । <\/w> गोशब्दात् ङसि प्रत्यये कृते ङकारेकारयोर्लोपे गो-अस्<\/qt> इति दशायां पदान्तत्वाभावात् न प्रकृतिभाव इति भावः । सूत्रे पदान्तत्वानाश्रयणे तु प्रकृते प्रकृतिभाव आपद्येतेति भावः । प्रकृते गो-अस्<\/qt> इत्यत्र <<ङसिङसोश्च>> [[6.2.110]] इत्यनेन पूर्वरूपादेशे सति गोः<\/qt> इति रूपम् ॥", "61123": " गवाग्रमिति ।<\/w>गो-अग्रम्<\/qt>इति दशायाम् <<अवङ् स्फोटायनस्य>> [[6.1.123]] इत्यनेन पदान्ते विद्यमानस्य एङन्तस्य गो<\/qt> इत्यस्य अवङादेशः प्राप्तः अग्रम्<\/qt> एतत् घटकाकारे परे । सः अवङादेशः कुत्र स्यात् ? अवङि अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन सर्वादेशे प्राप्ते <<ङिच्च>> [[1.1.53]] इत्यनेन ङिदादेशस्यानेकाल्त्वेऽपि अन्त्यादेश इति गोशब्दस्य गकारोत्तवर्ति-ओकारस्य अनुबन्धलोपपूर्वके अवङादेशे गव-अग्रम्<\/qt> इति जाते <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन दीर्घे गवाग्रम्<\/qt> इत्यपि रूपम्भवति । अत्रायं विचारः — <<सर्वत्र विभाषा गोः>> [[6.1.122]] इत्यनेन प्रकृतिभावो विकल्पेन भवति । तदभावे अवङादेशो विकल्पेन । तदभावे च पूर्वरूपमिति गो अग्रम्<\/qt>, गोऽग्रम्<\/qt>, गवाग्रम्<\/qt> इति रूपत्रयम् ॥", "61124": "गवेन्द्र इति । <\/w>गो-इन्द्रः<\/qt> इति स्थितेऽत्र <<इन्द्रे च>> [[6.1.124]] इत्यनेन गोशब्दस्य गकारोत्तवर्त्योकारस्य अवङादेशे सवर्णदीर्घे च सति रूपम् ॥", "61125": "आगच्छ कृष्णेति । <\/w> आगच्छ कृष्ण 3 अत्र गौश्चरति<\/qt> इति वाक्ये कृष्ण-अत्र<\/qt> इत्यत्र <<दूराद्धूते च>> [[8.2.84]] इत्यनेन सूत्रेण टिसंज्ञकस्य णकारोत्तवर्त्यकारस्य प्लुतत्वं विधाय <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे आगच्छ कृष्ण 3 अत्र गौश्चरति<\/qt> इति सिद्ध्यति ॥", "61127": "चक्रि अत्रेति ।<\/w> चक्रि-अत्र<\/qt> इत्यत्र <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इत्यनेन विकल्पेन ह्रस्वे कृते चक्रि अत्र<\/qt> इति भवति । तदभावे च <<इको यणचि>> [[6.1.77]] इत्यनेन यणि चक्र्यत्र<\/qt> इति जायते ॥ पदान्ता इति किमिति । <\/w> पदान्ता इति यदि आचार्या न अपठिष्यन् तदा गौरी-औ<\/qt> इत्यत्रापि <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इत्यनेन ह्रस्वसमुच्चितप्रकृतिभावोऽभविष्यत्, तन्निवारणाय पदान्ता<\/qt> इत्युक्तम् । अत्र पदान्ताभावात् न ह्रस्वत्वं, किन्तु <<इको यणचि>> [[6.1.77]] इत्यनेन यणि <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन विकल्पेन य-द्वित्वे गौर्यौ<\/qt> इति । पक्षे द्वित्वाभावे गौर्यौ<\/qt> इति ।", "61128": "ब्रह्मा ऋषि इति । <\/w> ब्रह्मा ऋषिः<\/qt> इति स्थितौ <<ऋत्यकः>> [[6.1.128]] इत्यनेन पदान्तस्य अक्-प्रत्याहारान्तर्गतमकारोत्तवर्तिनः आकारस्य ह्रस्वत्वे कृते ब्रह्म ऋषिः<\/qt> इति जायते । पक्षे <<आद्गुणः>> [[6.1.87]] इति पूर्वपरयोः स्थाने गुणे रपरे च कृते ब्रह्मर्षिः<\/qt> इति रूपंम्भवति । पदान्ता किमिति ।<\/w> अत्र पदान्ताः इत्यस्याग्रहणे तु आ ऋच्छत्<\/qt> इत्यत्र ह्रस्वत्वमापद्येत । तन्मा भूदेतदर्थं पदान्ताः<\/qt> इति । तेनात्र <<आटश्च>> [[6.1.90]] इत्यनेन वृद्धौ सत्याम् आर्च्छत्<\/qt> इति सिद्ध्यतीति दिक् ॥ इत्यच्सन्धिः ॥", "61131": "सुद्यभ्यामिति । सुदिव् + भ्याम् अत्र <<दिव उत्>>[[6.1.131]] इति वकारस्योकारादेशे <<इको यणचि>>[[6.1.77]] इति यणि 'सुद्यभ्याम्' इति रूपम् । इत्यादीति । सुदिवे, सुदिवोः, सुदिवाम् । सुद्युषु । चत्वारः । चतुर् + जस् अत्र <<सुडनपुंसकस्य>>[[1.1.43]] इति सर्वनामस्थानसंज्ञायां <<चतुरनडुहोरामुदात्तः>>[[7.1.98]] इति मित्त्वादन्त्यादचः परे आमिमस्येत्संज्ञायां लोपे च <<इको यणचि>>[[6.1.77]] इति यणि चत्वार् + जस् इति जाते जस्य <<चुटू>>[[1.3.7]] इतीत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे सस्य रुत्वे रेफस्य विसर्गत्वे च 'चत्वारः' इति रूपम् । चतुरः । शसादौ सर्वनामस्थानत्वाभावान्नाम् ।", "61132": "एतत्तदोरिति ।<\/w> एतत्तच्छब्दयोरनुकरणेन शब्दपरत्वम् । अतः सूत्रे नैकशेषः । सु इति लुप्तषष्ठीकं पदम् एतत्तदोरित्यनेनान्वेति — एतत्तदोः सकारस्येति ।<\/w> अत एव सोर्लोपः सुलोपः इति न षष्ठीसमासः, असामर्थ्यात् । अविद्यमानः ककारः ययोस्तौ अकौ, यतोः अकोरिति बहुव्रीहिस्तदाह - अककारयोरित्यादिना ।<\/w> एष विष्णुरिति । एतद्-सु विष्णुः<\/qt> इति दशायां <<त्यदादीनामः>> [[7.2.102]] इत्यनेन अकारादेशे <<अतो गुणे>> [[6.1.97]] इति पररूपे <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इत्यनेन तस्य सत्वे, सस्य च षत्वे एष सु विष्णुः<\/qt> इति जाते अत्र <<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> [[6.1.132]] इति सूत्रेण सोर्लोपे विहिते सति एष विष्णुः<\/qt> इति सम्पद्यते । स शम्भुरिति ।<\/w> तद्-सुँ शम्भुः<\/qt> इत्यत्र <<त्यदादीनामः>> [[7.2.102]] इत्यनेनाकारान्तादेशे <<अतो गुणे>> [[6.1.97]] इत्यनेन पररूपत्वे <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति तस्य सत्वे स सुँ शम्भुः<\/qt> इति जाते; अत्र <<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> [[6.1.132]] इति सोर्लोपे च कृते स शम्भुः<\/qt> इति रूपम् । अको किमिति ।<\/w> न च अकचि सति शब्दान्तरत्वात् प्रकृते प्राप्तिरेव नास्तीति वाच्यम्; <ऽतन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽ> इति परिभाषयात्र प्राप्तेः सत्वात् प्रकृतपरिभाषायामिदमेव ज्ञापकं बोध्यम् । एषकस् रुद्रः<\/qt> अत्र एतच्छब्दस्य सककारत्वान्न सुँलोपः, किन्तु <<ससजुषो रुः>> [[8.2.66]] इत्यनेन रुत्वे, <<हशि च>> [[6.1.114]] इत्युत्वे <<आद्गुणः>> [[6.1.87]] इति गुणे एषको रुद्रः<\/qt> इति रूपम् । अत्र सको रुद्रः<\/qt> इत्यपि प्रत्युदाहरणम्बोध्यम् । अनञ्समासे किमिति ।<\/w> अनञ्समासे इति न पर्युदासः किन्तु प्रसज्यप्रतिषेधः । प्रकृते अस सुँ शिवः<\/qt> इत्यत्र नञ्-समासत्वात् <<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> [[6.1.132]] इति सूत्रस्याप्राप्तौ <<ससजुषो रुः>> [[8.2.66]] इति सस्य रुत्वे <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इतो रेफस्य विसर्गत्वे असः शिवः<\/qt> इति भवति । एषोऽत्रेति ।<\/w> एष सु अत्र<\/qt> इत्यत्र हल्परत्वाभावात् <<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> [[6.1.132]] इत्यस्याप्राप्तौ सस्य <<ससजुषो रुः>> [[8.2.66]] इत्यनेन रुँत्वे <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्यनेन उत्वे <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणे <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूपे च कृते एषोऽत्र<\/qt> इति जायते ॥", "61134": "सोऽचि लोप इति ।<\/w> स इति प्रथमैकवचनान्तं स्वरूपपरम् । ततः षष्ठ्या लुक् सस् शब्दस्येति लभ्यते । सुलोप इत्यनुवर्तते; तदाह —स इत्यस्येत्यादिना ।<\/w> सस् इमामविड्ढिप्रभृतिम्<\/qt> इत्यत्र <<सोऽचि लोपे चेत्पादपूरणम्>> [[6.1.134]] इति सकारलोपाभावे पादोऽत्र न पूर्यते अतोऽनेन सकारलोपे <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणे सति सेमानविड्ढिप्रभृतिम्<\/qt> इति सिद्धम् । एवम् — सस् एष दाशरथी रामः<\/qt> इत्यत्र <<सोऽचि लोपे चेत्पादपूरणम्>> [[6.1.134]] इत्यनेन पादपूरणार्थं सलोपे विहिते <<वृद्धिरेचि>> [[6.1.88]] इत्यने वृद्धौ सैष दाशरथी रामः<\/qt> इति पादपूरणसिद्धिः ॥ इति विसर्गसन्धिप्रकरणम् ॥", "63091": "आ सर्वनाम्न इति । आ इत्यविभक्तिकनिर्देशः । <<दृग्दृशवतुषु>>[[6.3.89]] इति सूत्रमनुवर्तते । तदाह - सर्वनाम्न इत्यादिना । तादृक्-तादृग् । <ृततद् दृश>> इति स्थिते <<त्यदादिषु दृशोऽनालोचने कञ् च>>[[3.2.60]] इति क्विन् तस्य सर्वस्य लोपे कृते <<आ सर्वनाम्नः>>[[6.3.91]] इति तद्शब्दस्याकारान्तादेशे सवर्णदीर्घे च 'तादृश्' इति रूपम्, तस्य <<कृत्तद्धितसमासाश्च>>[[1.2.46]] इति प्रातिपदिकसंज्ञायां सावागते तस्य हल्ङ्यादिना लोपे <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इत्यस्यासिद्वत्वात् <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इत्यादिना षत्वे तस्य <<झलां जशोऽन्ते>>[[8.2.39]] इति डत्वे, <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वेन गकारे <<वाऽवसाने>>[[8.4.56]] इति चर्त्वेन पक्षे ककारे 'तादृक' इति । तदभावे 'तादृग्' इति । <>तादृग्भ्याम् ।<> तादृश् + भ्याम् अत्र <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इत्यादिना षत्वे जश्त्वेन डत्वे <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति इति गत्वे 'तादृग्भ्याम्' इति रूपम् । <>विट् – विड् । 'विश्- प्रवेशने' धातोः क्विपि, कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सौ हल्ङयादिना लोपे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इत्यादिना षत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति जश्त्वेन डत्वे <<वाऽवसाने>>[[8.4.56]] इति चर्त्वेन पक्षे टत्वे 'विट्' इति, चर्त्वाभावे - 'विड्' इति । विड्भ्याम् । 'विश् भ्याम्' अत्र पदसंज्ञायाम् <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति षत्वे तस्य जश्त्वेन डत्वे सति रूपम् ।", "63093": "समः समीति । समीत्यविभक्तिकोऽनिर्देशः । सम्यङ् । 'सम् अन् च् क्विन्' इत्यत्र <<समः समि>>[[6.3.93]] इति समः स्थाने सम्यादेशे विहिते, <<इको यणचि>>[[6.1.77]] इति यणि 'सम्यन् च् क्विन्' इति स्थिते क्विनः सर्वस्यापहारे <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति न् लोपे कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायाम् सावागते नुमि, हलङ्यादिना सुलोपे संयोगान्तलोपे कुत्वे च 'सम्यङ्' इति । सम्यञ्चौ । 'सम् अच् औ' इति स्थिते <<समः समि>>[[6.3.93]] इति सम्यादेशे, यणि, नुमि, अनुस्वारे, परसवर्णे च रूपम् । एवं सम्यञ्चः । सम्यञ्चम्, सम्यञ्चौ । समीचः । 'सम् अन् च् शस्' इति दशायां शस्येत्सञ्ज्ञायां लोपे च <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति नलोपे <<समः समि>>[[6.3.93]] इति सम्यादेशे 'समि अच् अस्' इति जाते भसञ्ज्ञायाम् <<अचः>>[[6.4.138]] इत्यकारलोपे <<चौ>>[[6.1.222]] इति पूर्वस्याणो दीर्घे संयोगे च कृते, रुत्वविसर्गयोः 'समीचः' इति । सम्यग्भ्याम् । 'सम् अच् भ्याम्' इत्यत्र <<समः समि>>[[6.3.93]] इति सम्यादेशे यणि कृते जश्त्वे च 'सम्यग्भ्याम्' इति । एवं सम्यग्भिः । समीचा, समीचे । समीचे । समीचोः । समीचाम् । समीचि । सम्यक्षु ।", "63094": "तिरसस्तिर्यलोप इति । अञ्चतावप्रत्यये इत्यनुवर्तते । न विद्यते <<अचः>>[[6.4.138]] इत्यल्लोपो यस्य सः, अलोपः, तस्मिन्निति विग्रहः । तदाह - अलुप्तेत्यादिना । तिर्यङ् । 'तिरस् अन् च्' इत्यत्र <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इत्यादिना क्विनि; तस्य सर्वस्यापहारे, <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति न् लोपे <<तिरसस्तिर्यलोपे>>[[6.3.94]] इति तिरसस्तिर्यादेशे <<इको यणचि>>[[6.1.77]] इति यणि कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते नुमि, हल्ङयादिना सुलोपे 'सध्र्यन् च' इति जाते चकारस्य संयोगान्तलोपे नकारस्य <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वेन ङकारे 'तिर्यङ्' इति रूपम् । तिर्यञ्चौ । 'तिरस्+अच् औ' इति स्थिते <<तिरसस्तिर्यलोपे>>[[6.3.94]] इति तिरसस्तिर्यादेशे यणि, नुमि, अनुस्वारे, परसवर्ण च रूपम् । तिरश्चः । 'तिरस् अच् शस्' इति दशायां शस्येत्सञ्ज्ञायां लोपे च भसञ्ज्ञायाम् <<अचः>>[[6.4.138]] इत्यकारलोपे अल्लोपसत्वात्तिर्यादेशाभावे <<स्तोः श्चुना श्चुः>>[[8.4.40]] इति तिरसः सकारस्य शकारादेशे संयोगे रुत्वविसर्गयोः 'तिरश्चः' इति । तिर्यग्भ्यामिति । 'तिरस् अच् भ्याम्' अत्र <<तिरसस्तिर्यलोपे>>[[6.3.94]] इति तिरि आदेशे यणि कुत्वे जश्त्वे च रूपम् । एवं तिर्यग्भिः । तिरश्चा, तिरश्चः, तिरश्चः , तिरश्चोः, तिरश्चाम, तिरश्चि, तिर्यक्षु ।", "63095": "सहस्य सध्रिः । तथेति । सहस्य सध्रिः स्यादप्रत्ययान्ते अञ्चतौ परे इत्यर्थः । सध्र्यङ् । 'सह अन् च' इत्यत्र <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इति क्विनि <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति न् लोपे क्विनः सर्वयापहारे कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते <<सहस्य सध्रिः>>[[6.3.95]] इति सध्र्यादेशे यणि, <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि, हल्ङ्यादिना सुलोपे चकारस्य संयोगान्तलोपे नकारस्य <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वेन ङकारे 'सध्र्यङ्' इति । सध्र्यञ्चौ, सध्र्यञ्चः । सध्र्यञ्चम्, सध्र्यञ्चौ, सध्रीचः । सध्रीचा, सध्र्यग्भ्याम, सध्र्यग्भिः । सध्रीचे । सध्रीचः । सध्रीचोः । सध्रीचाम् । सध्रीचि, सध्र्यक्षु ।", "63111": " ढ्रलोप इति ।<\/w> ढ् च रेफश्च ढ्रौ तौ लोपयतीति ढ्रलोपः । ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमासः । ढलोपनिमित्तकं रेफलोपनिमित्तञ्च विवक्षितम् । तच्च ढकाररेफात्मकमेव । <<ढो ढे लोपः>> [[8.3.13]], <<रो रि>> [[8.3.14]] इति तयोरेव ढ्रलोपनिमित्तत्वात् । तथा च ढलोपनिमित्ते ढकारे रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घः इति फलति तदाह— ढरेफयोरित्यादिना ।<\/w> पुना रमते इति ।<\/w> पुनर् रमते<\/qt> इति स्थिते <<रो रि>> [[8.3.14]] इत्यनेन रेफस्य लोपे पुन रमते<\/qt> इति जाते, अत्र <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति सूत्रेणात्र लोपनिमित्ते रेफे परे पूर्वाण्-रूपस्य नकारोत्तवर्तिनोऽकारस्य दीर्घे च विहिते पुना रमते<\/qt> इति सिद्धम् ।हरिस् रम्यः<\/qt> इत्यत्र <<ससजुषो रुः>> [[8.2.66]] इत्यनेन सस्य रुत्वे, अनुबन्धलोपे हरिर् रम्यः<\/qt> इति जाते; तत्र <<रो रि>> [[8.3.14]] इत्यनेन रेफस्य लोपे <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यनेन दीर्घे च कृते हरी रम्यः<\/qt> इति सिद्धम् । शम्भूस् राजते<\/qt> अत्र <<ससजुषो रुः>> [[8.2.66]] इत्यनेन रुत्वे उकारस्येत्संज्ञायां लोपे च शम्भुर् राजते<\/qt> इति जाते तत्र <<रो रि>> [[8.3.14]] इत्यनेन रेफस्य लोपे <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्येननोकारस्य दीर्घे शम्भू राजते<\/qt> इति भवति । तृहूँ हिंसायाम्, वृहूँ उद्यमने आभ्यां क्तप्रत्यये <<हो ढः>> [[8.2.31]] इति ढत्वे, <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धत्वे तस्य ष्टुत्वेन ढकारे तृढ् ढ<\/qt>,, वृढ् ढ<\/qt> इति जाते अत्र <<ढो ढे लोपः>> [[8.3.13]] इत्यनेन पूर्वढस्य लोपे सति <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यस्मिन् सूत्रे अण्-ग्रहणाभावे ढलोपनिमित्ते ढकारे परे पूर्वस्य ऋकारस्य दीर्घे प्राप्ते तन्मा भूत् इति अण्-ग्रहणमत्र कृतम् । तेनात्र न दीर्घस्तदेवाह — अणः किम्? तृढः वृढः इति <\/w> ॥", "63116": "उपानत् ।<\/w> णह – बन्धने । <<णो नः>> इति नत्वे उपनह्यते इति विग्रहे उपपूर्वात् सम्पदादित्वात् कर्मणि क्विप् । <<नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ>> इत्यादिना पूर्वपदस्य दीर्घः । उपानहशब्दः स्त्रीलिङ्गः, - 'पादुका । पादूरुपानत्स्त्री' इत्यमरः । कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते उपानह्+सु<\/qt> इति स्थिते सोरुकारे गते 'स्' इत्यस्य <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> इति लोपे <<नहो धः>> इति हकारस्य धत्वे <<झलां जशोऽन्ते>> इति धकारस्य दत्वे <<वाऽवसाने>> इति चर्त्वे 'उपानत्' इति । पक्षे - 'उपानद्' इति । उपानत्सु ।<\/w> उपानह + सुप्<\/qt> इत्यत्र पकारस्येत्संज्ञायां लोपे च <<नहो धः>> इति हस्य धत्वे <<झलां जशोऽन्ते>> इति धस्य दत्वे <<खरि च>> इति चर्त्वे 'उपानत्सु' इति रूपं सिद्धम् । उष्णिक् ।<\/w> उत्पूर्वात् ष्णिह् धातोः <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> इत्यादिना क्विनि तस्य सर्वस्य लोपे निपातनाद्दलोपषत्वे च निष्पन्नः – उष्णिह् शब्दः । कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते तस्य हल्ङ्यादिना लोपे <<क्विन्प्रत्ययस्य कुः>> इति कुत्वेन हकारस्य घत्वे <<झलां जशोऽन्ते>> इति जश्त्वेन गत्वे <<वाऽवसाने>> इति चर्त्वेन वा कत्वे 'उष्णिक्' इति । पक्षे - 'उष्णिग्' इति । उष्णिग्भ्याम् ।<\/w> उष्णिह् + भ्याम्<\/qt> इत्यत्र <<क्विन्प्रत्ययस्य कुः>> इति कुत्वेन घत्वे तस्य जश्त्वे च कृते रूपम् । सुपि - 'उष्णिक्षु' इति । द्यौः ।<\/w> दिव्+सु<\/qt> इत्यत्र <<दिव औत्>> इति वकारस्य औकारे <<इको यणचि>> इति यणि सस्य रुत्वे रेफस्य विसर्गत्वे च 'द्यौः' इति सिद्धम् । द्युभ्याम् ।<\/w> दिव्+भ्याम्<\/qt> इत्यत्र <<दिव उत्>> इति वस्योत्वे <<इको यणचि>> इति यणि 'द्यभ्याम्' इति रूपं सिद्धम् । गीः ।<\/w> 'गॄ-निगरणे' क्विप् <<ॠत इद्धातोः>> इति इत्वम्, <<उरण् रपरः>> इति रपरत्वम् । गिर् शब्दात्सुयुत्पत्तिः, सोर्लोपः, <<र्वोरुपधाया दीर्घ इकः>> इति दीर्घे, रेफस्य विसर्गः, इति भावः । एवं पूरिति ।<\/w> गीर्वदित्यर्थः । 'पृ-पालनपूरणयोः' क्विप् <<उदोष्ठ्यपूर्वस्य>> इत्युत्वं रपरत्वम् । पुर् शब्दात् सोर्लोपः <<र्वोरुपधाया दीर्घ इकः>> इति दीर्घः, रेफस्य विसर्ग इति भावः । चतस्रः ।<\/w> चतुर् + जस्<\/qt> इत्यत्र <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> इति चतुरशब्दस्य चतस्रादेशे विहिते जसो जकारस्य <<चुटू>> इतीत्संज्ञायां <<तस्य लोपः>> इति लोपे च <<अचि र ऋतः>> इति ऋकारस्य रेफत्वे, सस्य रुत्वे रेफस्य विसर्गत्वे च कृते 'चतस्रः' इति सिद्धम् । एवं शस्यपि - 'चतस्रः' इति । चतसृणाम् ।<\/w> चतुर् + आम्<\/qt> इति स्थिते <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> इति चतस्त्रादेशे चतस् + आम्<\/qt> इति जाते अत्र <<अचि र ऋतः>> इति ऋकारस्य रेफादेशे प्राप्ते इति पूर्वविप्रतिषेधेन तं बाधित्वा <<ह्रस्वनद्यापो नुट्>> इति नुटि, उटि गते टित्त्वादाद्यावयवे जाते चतसृ + नाम्<\/qt> इति स्थिते <<नामि>> इति दीर्घ प्राप्ते <<न तिसृचतसृ>> इति निषिद्धे इति णत्वे 'चतसृणाम्' इति रूपं सिद्धम् । का ।<\/w>किम् + सु<\/qt> अत्र 'किमः कः' इति कादेशे <<अनेकाल्शित्सर्वस्य>> इति सर्वस्य स्थाने जाते <<अजाद्यतष्टाप्>> इति टापि <<चुटू>> इति टकारस्य <<हलन्त्यम्>> इति पकारस्य चेत्संज्ञायां <<तस्य लोपः>> इति लोपे <<अकः सवर्णे दीर्घः>> इति दीर्घादेशे 'का सु' इति भूते उकारस्य <<उपदेशेऽजनुनासिक इत्>> इति इत्सज्ञायां <<तस्य लोपः>> इति लोपे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> इति स् लोपे 'का' इति सिद्धम् । के ।<\/w> किम् + औ<\/qt> इत्यत्र 'किमः कः' इति कादेशे <<अजाद्यतष्टाप्>> इति टापि टकारपकारयोरित्संज्ञायां लोपे च <<अकः सवर्णे दीर्घः>> इति दीर्घे <<औङ आपः>> इति 'शी' आदेशे शकारस्येत्संज्ञायां लोपे च <<आद्गुणः>> इति गुणे 'के' इति रूपम् । काः।<\/w> किम् + जस्<\/qt> अत्र कादेशे टापि, सवर्णदीर्घे, रुत्वे विसर्गे च रूपम् । सर्वावदिति ।<\/w> सर्वाशब्दवदित्यर्थः ।", "63128": "विश्वस्य वसुराटोरिति । अत्र <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] इत्यतो दीर्घ इत्यनुवर्तते । विश्वाराट् । विश्वराज् + सु इत्यत्र सोर्लोपे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति जस्य षत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति षस्य डत्वे <<वाऽवसाने>>[[8.4.56]] इति डस्य टत्वे <<विश्वस्य वसुराटोः>>[[6.3.128]] इति दीर्घत्वे च विहिते 'विश्वाराट्' इति । पक्षे - 'विश्वाराड्' इति ।", "63138": "चौ । <<चजोः कु घिण्ण्यतोः>>[[7.3.52]] इति निर्दशाच्चवर्गग्रहणं न भवतीत्याह - लुप्ताकारनकारेऽञ्चताविति । <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] इति सूत्रात् अणो दीर्घ इत्यनुवर्तते, तदाह - अणो दीर्घ इति । प्राचः । 'प्र अच् शस्' इति स्थिते अत्र शस्येत्संज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायाम् <<अचः>>[[6.4.138]] इति अच अकारस्य लोपे <<चौ>>[[6.1.222]] इति प्र-अकारस्य दीर्घत्वे संयोगे सस्य रुत्वे रस्य विसर्गत्वे च 'प्राच' इति रूपम् । सर्वत्राजादौ विभक्तौ परे एवं क्रमः । प्राग्भ्याम् । प्राच् + भ्याम् अत्र पदसञ्ज्ञायाम् <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वे प्राप्ते तस्यासिद्धत्वात् <<चोः कुः>>[[8.2.30]] इति कुत्वेन ककारे <<झलां जशोऽन्ते>>[[8.2.39]] इति गकारे 'प्राग्भ्याम्' इति रूपम् । प्राग्भिः । प्राचे । प्राचः, प्राचोः, प्राक्षु । प्रत्यङ् । 'प्रति अन् च्' इत्यवस्थायाम् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इति क्विनि तस्य सर्वस्य लोपे <<इको यणचि>>[[6.1.77]] इति यणि <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति नस्य लोपे कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि उमि गते मित्वादन्त्यादचः परे हल्ङ्यादिना सुलोपे चकारस्य संयोगान्तलोपे नुमो नकारस्य <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वेन ङकारे 'प्रत्यङ्' इति रूपम् । प्रत्यञ्चौ । प्रत्यच् + औ इति स्थिते <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि, तन्नकारस्य अनुस्वारे तस्य परसवर्णे ञकारे मिलित्वा 'प्रत्यञ्चौ' इति रूपम् । एवं प्रत्यञ्चः । प्रत्यञ्चम्, प्रत्यञ्चौ । प्रतीवः । 'प्रति अन् च् शस्' इत्यवस्थायाम् <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति नलोपे कृते शकारस्येत्संज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायाम् <<अचः>>[[6.4.138]] इत्यकारलोपे <<चौ>>[[6.1.222]] इति पूर्वस्याणो दीर्घत्वे सस्य रुत्वे रेफस्य विसर्गत्वे च 'प्रतीचः' इति रूपम् । प्रत्यग्भ्याम् । 'प्रति अन् च् भ्याम्' इत्यत्र <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति न लोपे 'इको यणचि' इति यणि <<चोः कुः>>[[8.2.30]] इति कुत्वे 'प्रत्यग्भ्याम्' इति रूपम् । एवं प्रत्यग्भिः । प्रतीचे, प्रतीचः । प्रतीचोः । प्रतीचाम् । प्रतीचि । प्रत्यक्षु । उदङ् । 'उद् अन् च सु' इति स्थिते, <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति न् लोपे <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि, हल्ङ्यादिना सुलोपे संयोगान्तलोपे कुत्वे च 'उदङ्' इति रूपम् ।", "64003": "नामीति ।<\/w> <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] इत्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या च अच इत्युपस्थितम् । तेन चाङ्गं विशेष्यते । अतस्तदन्तविधिस्तदाह - अजन्ताङ्गस्येत्यादिना । रामाणामिति ।<\/w> रामशब्दात् पष्ठीबहुवचनविवक्षायाम् आमि राम आम्<\/qt> अत्र <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नुटि टित्त्वादाद्यावयवे उकारटकारयोरित्संज्ञायां लोपे च राम नाम्<\/qt> इति जाते <<नामि>>[[6.4.3]] इति दीर्घे <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे रामाणाम्<\/qt> इति सिद्धम् । रामे इति ।<\/w> रामशब्दात्सप्तम्येकवचनविवक्षायां ङौ कृते <<लशक्वतद्धिते>>[[1.3.8]] इति ङकारस्येत्संज्ञायां लोपे च राम इ<\/qt> इति जाते तत्र <<आद्गुणः>>[[6.1.87]] इति गुणे रामे<\/qt> इति रूपम् । रामयोरिति ।<\/w> रामशब्दात् सप्तमीद्विवचनविवक्षायाम् ओसि प्रत्यये राम ओस<\/qt> अत्र <<ओसि च>>[[7.3.104]] इत्यनेन एकारे तस्य अयादेशे च कृते परेण संयुक्ते रामयोः<\/qt> इति रूपम् ।", "64004": "न तिसृचतस्त्रिति ।<\/w> तिसृचतसृ इति लुप्तषष्ठीकं पदम् । <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] इत्यतो दीर्घ इत्यनुवर्तते । <<नामि>>[[6.4.3]] इति सूत्रं चानुवर्तते, तदाह - एयोरित्यादिना । तिसृणामिति ।<\/w> 'तिसृ + आम्' इति स्थिते नुटं च बाधित्वा <<अचि र ऋतः>>[[7.2.100]] इति रत्वे प्राप्ते इति रत्वं बाधित्वा नुटि कृते 'तिसृ + नाम्' इति स्थिते 'नामि' इत्यनेन दीर्घे प्राप्ते <<न तिसृचतसृ>>[[6.4.4]] इति निषिद्धे इति वार्तिकेन णत्वे विहिते तिसृणाम्<\/qt> इति रूपम् । सुपि रत्वे <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे 'तिसृषु' इति रूपम् । द्वे इति ।<\/w> द्वि + औ<\/qt> अत्र <<त्यदादीनामः>>[[7.2.102]] इति अकारान्तादेशे कृते <<अजाद्यतष्टाप्>>[[4.1.4]] इति अकारान्तत्वादिहापि टापि <<चुटू>>[[1.3.7]] इति टकारस्य <<हलन्त्यम्>>[[1.3.3]] इति पकारस्य चेत्संज्ञायां लोपे च कृते 'द्व आ औ' इति जाते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घादेशे <<औङ आपः>>[[7.1.18]] इत्यौकारस्य शीत्वे कृते शकारस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे 'द्वे' इति रूपम् । शसि - 'द्वे' इति । द्वयोः ।<\/w> पूर्ववत् 'द्वा' इति कृते <<आङि चापः>>[[7.3.105]] इति आवन्ताङ्गत्यैकारे अयादेशे च कृते सस्य रुत्वे विसर्गे च जाते 'द्वयोः' इति रूपम् । गौरीति ।<\/w> गौरशब्दात् गौरादिलक्षणङीषि <<यस्येति च>>[[6.4.148]] इत्यकारलोपे गौरीशब्दः । तस्मात्सु तस्य हल्ङ्यादिना लोपे 'गौरी' इति रूपम् । गौर्यौ ।<\/w> 'गौरी + औ' अत्र <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घत्वे प्राप्ते <<दीर्घाज्जसि च>>[[6.1.105]] इति पूर्वसवर्णदीर्घनिषेधे <<इको यणचि>>[[6.1.77]] इति यणि <<अचो रहाभ्यां द्वे>>[[8.4.46]] इति द्वित्वे संयोगे च कृते 'गौर्यौ' इति रूपम् । गौर्य्यः ।<\/w> गौरीशब्दाज्जसि समागते 'गौरी + अस्' अत्र <<दीर्घाज्जसि च>>[[6.1.105]] इति पूर्ववर्णदीर्घनिषेधे सति यणि, रुत्वे विसर्गे च 'गौर्य्य:' इति रूपम् । हे गौरि ।<\/w> 'गौरी + सु' अत्र <<यू स्त्र्याख्यौ नदी>>[[1.4.3]] इति नदीसञ्ज्ञायाम् <<अम्बाऽर्थनद्योर्ह्रस्वः>>[[7.3.107]] इति ह्रस्वत्वे <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति सुलोपे 'हे गौरि' इति रूपम् । इत्यादति ।<\/w> ङे - गौर्य्यै, ङसिङसोः - गौर्य्याः । आमि — गौरीणाम् । ङौ — गौर्य्याम् । अत्र क्रमेण - <<आण्नद्याः>>[[7.3.112]] <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति नदीकार्यं बोध्यम् । लक्ष्मीः ।<\/w> इति लक्षधातोरीप्रत्यये मुडागमे लक्ष्मीशब्दः । तस्मात् सौ समागते उकारस्येत्सज्ञायां लोपे च अङ्यन्तत्वान्न सुलोपः किन्तु सस्य रुत्वे विसर्गे च 'लक्ष्मी:' इति रूपम् । गौरीवदिति ।<\/w> अम्बार्थेत्यादिनदीकार्यमित्यर्थः । हे लक्ष्मि, लक्ष्म्यै, लक्ष्म्याः,लक्ष्मीणाम, लक्ष्म्याम् ।", "64006": "नृ चेति ।<\/w> नृ इति लुप्तषष्ठीकम् । <<नामि>>[[6.4.3]] इत्यनुवर्तते,<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] इत्यतो दीर्घ इत्यनुवर्तते । <<छन्दस्युभयथा>> [[6.4.5]] इत्यत उभयथेत्यनुवर्तते, तदाह - अस्येत्यादिना । नृणामिति ।<\/w> नृशब्दादामि, नुट्, <<नामि>>[[6.4.3]] इति नित्यं दीर्घे प्राप्ते <<नृ च>>[[6.4.6]] इति नामि वा दीर्घे नृणाम्<\/qt> नृणाम्<\/qt> इति भवतः ।", "64007": "नोपधाया इति । अत्र <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] इत्यतो दीर्घ इत्यनुवर्तते । <<नामि>>[[6.4.3]] इति सूत्रञ्च । पञ्ञानाम् । पञ्चन् + आम् इत्यत्र <<षट्चतुर्भ्यश्च>>[[7.1.55]] इति आमो नुटि टित्वादाद्यावयवे जाते उटि गते 'पञ्चन् न् आम्' इति जाते नस्याकारेण सह संयोगे <<नोपधायाः>>[[6.4.7]] इति नान्तोपधाया दीर्घत्वे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नस्य लोपे च 'पञ्चानाम्' इति रूपम् ।", "64008": "सर्वनामस्थाने इति ।<\/w> नोपधायाः<\/qt> इति सूत्रमनुवर्तते । <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] इत्यतो दीर्घ इत्यनुवर्तते । तदाह - नान्तस्येत्यादिना । तदन्तस्येति ।<\/w> षष्ठीतत्पुरुषोऽयम् । तस्य प्रातिपदिकसञ्ञ्ज्ञकपदस्य अन्तो यो नकारस्तस्येत्यर्थः। प्रातिपदिकेति किम् ? अहन् । पदमिति किम् ? राजानौ, राजानः । सखा ।<\/w> सखिशब्दात् प्रथमैकवचनविवक्षायाम् सुसमागते उकारस्येत्सञ्ज्ञायां लोपे च सखि-स्<\/qt> इति स्थिते <<अनङ् सौ>>[[7.1.93]] इति अनङादेशे प्राप्ते क्व स्यात् इति शङ्कायाम् <<अनेकाल्शित्सर्वस्य>>[[1.1.55]] इति परिभाषया सर्वस्य स्थाने प्राप्ते परं <<ङिच्च>>[[1.1.53]] इत्यनेन तं प्रवाध्य अन्त्यस्य-खकारोत्तरवर्तिन इकारस्य स्थानेऽनङादेशे जाते ङकारस्येत्सञ्ज्ञायां लोपे च सखन् स्<\/qt> इति जाते <<अलोऽन्त्यात् पूर्व उपधा>>[[1.1.65]] इति उपधासञ्ज्ञात्वे <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तस्य पदस्योपधाया दीर्घे विहिते सखान् स्<\/qt> इत्यवस्थायाम् <<अपृक्त एकाल् प्रत्ययः>>[[1.2.41]] इति सस्यापृक्तसञ्ज्ञायां कृतायाम् <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सस्य लोपे सखान्<\/qt> इत्यवशिष्टे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे सखा<\/qt> इति रूपम् ।", "64010": "संयोगान्तस्येत्यनेन समानाधिकरणमिति व्याचष्टे – सान्तसंयोगस्येत्यादिना । महान् । 'महत् सु' इत्यत्र सकारोत्तरवर्त्युकारस्येत्सञ्ज्ञायां लोपे च <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सस्य लोपे <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि उमो लोपे मित्वात् <<मिदचोऽन्त्यात्परः>>[[1.1.47]] इत्यन्त्यादचः परे जाते 'महन् त्' इति स्थिते <<सान्तमहतः संयोगस्य>>[[6.4.10]] इत्युपधाया दीर्घत्वे <<संयोगान्तस्य लोपः>>[[8.2.23]] इति तलोपे 'महान्' इति । महान्तौ । 'महत् औ' इत्यत्र नुमि, दीर्घे, अनुस्वारे, परसवर्णे च रूपम् । एवं 'महान्तः' इति । हे महन् । महत् + सु इत्यत्र <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि, सोर्लोपे <<सान्तमहतः संयोगस्य>>[[6.4.10]] इत्यत्र 'असम्बुद्धौ' इत्यनुवृत्तेर्न दीर्घे संयोगान्तलोपे च कृते रूपम् । महद्भ्याम् । महत्+भ्याम् इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसञ्ज्ञायां <<झलां जशोऽन्ते>>[[8.2.39]] इति तस्य दत्वे च 'महद्भ्याम्' इति ।", "64011": "अप्तृन्निति ।<\/w> <<नोपधायाः>>[[6.4.7]] इत्यत उपधाया इत्यनुवर्तते । <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति चकारवर्ज सर्वमनुवर्तते । तदाह - अदादीनामिति ।<\/w> नप्ता - पौत्रो दौहित्रो वा, नेष्टा-अध्वर्युगणीय ऋत्विक् । पोता - ब्रह्मगणीय ऋत्विक्, होता-ऋग्वेदीय ऋत्विक्, प्रशास्ताऽपि - ऋत्विक्, इति बोध्यम् । क्रोष्टा ।<\/w> क्रोष्टुशब्दात्प्रथमैकवचने सावागते तस्य सर्वनामस्थानत्वात् <<तृज्वत् क्रोष्टुः>>[[7.1.95]] इति तृजज्वद्भावे विहिते <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति सर्वनामस्थानपरत्वात् गुणे प्राप्ते परन्त्वत्र <<विप्रतिषेधे परं कार्यम्>>[[1.4.2]] इत्यस्मिन् सूत्रे इष्टवाची परशब्द<\/qt> इति भाष्ये ध्वनितत्वात्पूर्वविप्रतिषेधं मत्वा <<ऋदुशनस्पुरुदंसोऽनेहसां च>>[[7.1.94]] इत्यनङि प्राप्ते <<ङिच्च>>[[1.1.53]] इत्यन्तादेशे विहिते ङकारस्येत्सञ्ज्ञायां लोपे च 'क्रोष्टन् + सु' इति जाते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सस्य लोपे <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इति सम्बुद्धिभिन्नसर्वनामस्थानपरत्वादुपधादीर्घत्वे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नस्य लोपे च कृते क्रोष्टा<\/qt> इति रूपम् । क्रोष्टारौ २ ।<\/w> 'क्रोष्टु + औ' इत्यत्र <<तृज्वत् क्रोष्टुः>>[[7.1.95]] इति तृज्वद्भावे कृते <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणेन अकारे, तस्य <<उरण् रपरः>>[[1.1.51]] इति रपरत्वे च कृते क्रोष्टर् औ<\/qt> इति जाते <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इत्यनेनोपधाया दीर्घत्वे संयोगे च विहिते क्रोष्टारौ<\/qt> इति रूपम् । एवमेव क्रोष्टारः इति । क्रोष्टारमिति ।<\/w> क्रोष्टुशब्दात् द्वितीयैकंवचनविवक्षायाम् अमि समागते <<तृज्वत् क्रोष्टुः>>[[7.1.95]] इत्यनेन तृजन्तेन तुल्यत्वे कृते <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपे प्राप्ते तं प्रबाध्य <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणे अकारे, कृते <<उरण् रपरः>>[[1.1.51]] इति रपरे च 'क्रोष्ट् अर् अम्' इति जाते <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इत्यनेनोपधाया दीर्घत्वे संयोगे च विहिते क्रोष्टारम्<\/qt> इति रूपम् । एवमेव क्रोष्टारौ<\/qt> इति बोध्यम् । <>wक्रोष्टून् इति ।<\/w> क्रोष्टुशब्दाच्छसि समागते शसोऽसर्वनामस्थानत्वात् क्रोष्टुशब्दस्य तृज्वद्भावे शसः शस्येत्सञ्ज्ञायां लोपे च <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति सस्य नत्वे क्राष्टून्<\/qt> इति रूपं सम्पन्नम् ।", "64012": "इन्हन्निति । <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] इत्यतो दीर्घ इत्यनुवर्तते । <<नोपधायाः>>[[6.4.7]] इत्यत 'उपधाया' इति । तदाह - <>एषामिति ।<> अङ्गविशेषणत्वेन तदन्तविधिः । <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति सिद्धे नियमार्थमित्याह - नान्यत्रेति । शेरन्यत्रेत्यर्थः । इति निषेधे प्राप्त इति । वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात् सौ परतः <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति दीर्घे अप्राप्ते सतीत्यर्थः ।", "64013": "सौ चेति । पूर्वसूत्रमनुवर्तते । तत्र यदनुवृत्तं तदाह - इन्नादीनामित्यादिना । असम्बुद्धाविति । <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इत्यतस्तदनुवृत्तेरिति भावः । वृत्रहा । वृत्रो नाम असुरः तं हतवान्नित्यर्थे <<ब्रह्मभ्रूणवृत्रेषु क्विप्>>[[3.2.87]] इति क्विप् । कपावितौ । अपृक्तलोपः। उपपदसमासः । इति निष्पन्नो वृत्रहन् शब्दः । तस्मात्सावागते सोरुकारस्येत्सञ्ज्ञाय लोपे च वृत्रहन् + स् इति स्थिते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे <<इन्हन्पूषार्यम्णां शौ>>[[6.4.12]] इति नियमादुपधाया दीर्घत्वाभावे प्राप्ते <<सौ च>>[[6.4.13]] इत्युपधाया दीर्घत्वे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे 'वृत्रहा' इति रूपम् । हे वृत्रहन् । अत्र स् लोपे कृते <<सौ च>>[[6.4.13]] इत्यत्र असम्बुद्धौ इत्यनुवृत्तेर्नोपधादीर्घः । <<न ङिसम्बुद्ध्योः>>[[8.2.8]] इति निषेधान्न नलोपः ।", "64014": "अत्वसन्तस्येति । <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>[[6.3.111]] सूत्राद्दीर्घस्य <<नोपधायाः>>[[6.4.7]] इति उपधाग्रहणस्य चानुवर्तनादाह - उपधाया दीर्घ इति । धीमान् । धीमत् + सु अत्र <<सुडनपुंसकस्य>>[[1.1.43]] इति सर्वनामस्थानसञ्ज्ञायाम् <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि उमि गते मित्वादन्त्यादचः परे <<अत्वसन्तस्य चाधातोः<< इत्युपधायाः दीर्घवे हल्ङ्यादिना सोर्लोपे तकारस्य संयोगान्तलोपे 'धीमान्' इति । धीमन्तौ । 'धीमत् औ' इत्यत्र <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि, उमि गते मित्वादन्त्यादचः परे अनुस्वारे तस्य परसवर्णे च रूपम् । हे धीमन् । असम्बुद्धौ इत्युक्तेर्न दीर्घः, शेषं पूर्ववत् । शसादौ महद्वदिति । धीमतः, धीमता, धीमद्भ्याम्, इत्यादि । भवान् । भवत् + सु अत्र हल्ङ्यादिना सुलोपे तस्य स्थानिवद्भावेन सर्वनामस्थानपरत्वात् <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि, उमि गते मित्वादन्त्यादचः परे <<अत्वसन्तस्य चाधातोः>>[[6.4.14]] इति उपधायाः दीर्घत्वे तकारस्य संयोगान्तलोपे कृते 'भवान्' इति । शत्रन्तस्य तु भवनिति । भूधातोः <<वर्तमाने लट्>>[[3.2.123]] इति लटि, तस्य स्थाने <<लटः शतृशानचावप्रथमासमानाधिकरणे>>[[3.2.124]] इति शत्रादेशे अनुबन्धलोपे भू +अत् इति जाते <<तिङ्शित्सार्वधातुकम्>>[[3.4.113]] इति सार्वधातुकसंज्ञायां <<कर्तरि शप्>>[[3.1.68]] इति शपि शकारपकारयोरित्संज्ञायां लोपेच 'भू अ अत्' इति स्थिते तत्र 'भू' इत्यस्य <<सार्वधातुकार्धधातुकयोः>>[[7.3.84]] इति ओकाररूपे गुणे कृते <<एचोऽयवायावः>>[[6.1.78]] इति अवादेशे 'भव् अ अत्' इति भूते <<अतो गुणे>>[[6.1.97]] इति अकारद्वयस्य स्थाने पररूपे संयोगे च कृते 'भवत्' इति निष्पन्नम् । तस्य कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते तस्य हल्ङ्यादिना लोपे <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि, उमि गते मित्वादन्त्यादचः परे अत्वन्तत्वाभावात् दीर्घाभावे तकारस्य संयोगान्तलोपे 'भवन्' इति । शेषं 'भवन्तौ' इत्यादि तु पूर्ववत् ।", "64015": "अनुनासिकस्य क्विझलोरिति <\/w> । <<अङ्गस्य>> [[6.4.1]] इत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः । <<नोपधायाः>> [[6.4.7]] इत्यतः उपधाया इति, <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यतो दीर्घ इति चानुवर्तते । तदाह - अनुनासिकान्तस्येत्यादिना<\/w> । इदामति<\/qt> । इदमिवाचरति इत्यर्थे इदमिति प्रातिपदिकात् इति क्विपि तस्य सर्वापहारे प्रत्ययलक्षणेन क्विबन्तत्वात् <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायाम् <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति उपधायाः दीर्घत्वे इदाम्<\/qt> इति भूते तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे मिलित्वा इदामति<\/qt> इति रूपम् । इदामतः<\/qt>, इदामन्ति<\/qt> इत्यादि । इदामाञ्चकार<\/qt>, इदामिता<\/qt>, इदामिष्यति<\/qt>, इदामतु<\/qt>, ऐदामीत्<\/qt>, इदामेत्<\/qt>, इदाम्यात्<\/qt>,ऐदामीत्<\/qt>, ऐदामिष्यत्<\/qt> इति । राजानति<\/w> । राजेवाचरति इत्यर्थे राजन्<\/qt> इति प्रातिपदिकात् इति क्विपि, क्विपो लुकि, प्रत्ययलक्षणेन क्विबन्तत्वात् <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायाम् <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति उपधाया दीर्घत्वे राजान्<\/qt> इति जाते तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे मिलित्वा राजानति<\/qt> इति रूपम् । राजानाञ्चकार<\/qt>, राजानिता<\/qt>, राजानिष्यति<\/qt>, राजानतु<\/qt>, अराजानत्<\/qt>, राजानेत्<\/qt>, राजान्यात्<\/qt>, अराजानीत्<\/qt>, अराजानिष्यत्<\/qt> इति । पथीनति <\/qt> । पन्था इव आचरति इत्यस्मिन्नर्थे पथिन्शब्दात् उक्तवार्तिकेण क्विपि, क्विपो लोपे, <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इत्युपधाया दीर्घत्वे, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां लटस्तिपि, शपि, अनुबन्धलोपे, संयुक्ते च कृते पथीनति<\/qt> इति रूपम् ।", "64016": "अज्झनगमां सनीति ।<\/w> अच्, हन्, गम् एषां द्वन्द्वः । <<नोपधायाः>> [[6.4.7]] इत्यतः उपधाया इत्यनुवृत्तं हनगमोरन्वेति । न त्वजन्ते, असम्भवात् । <<अङ्गस्य>> [[6.4.1]] इत्यधिकृतम् । अचस्तद्विशेषणत्वात्तदन्तविधिः, गमधातुरिह अजादेश एव विवक्षित इति प्रकृतभाष्ये स्पष्टम् । <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यतो दीर्घ इत्यनुवर्तते । तदाह - अजन्तानामित्यादिना<\/w> ।", "64024": "अनिदितामिति । इद्-ह्रस्वेकार इत्संज्ञको येषां तानि इदिन्ति न इदिन्ति - अनिदिन्ति, तेषामनिदिताम् । एतच्च अङ्गस्य विशेषणं, हल इत्यपि, तदाह - हलन्तानामित्यादिना । नुमिति । <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इत्यनेनेति शेषः । संयोगान्तस्य लोप इति । हल्ङ्यादिना सुलोपे सतीति शेषः । कुत्वेन ङ इति । नासिकास्थानसाम्यादिति भावः । प्राङ् । प्र + अन्च इत्यवस्थायाम् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इति क्विनि तस्य सर्वापहारे - (सर्वस्य लोपे) प्रत्ययलक्षणेन <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति उपाधानकारलोपे 'प्र अच्' इति स्थिते <<कृदतिङ्>>[[3.1.93]] इति क्विनः कृत्संज्ञकत्वात् 'प्र अच्' इत्यस्य <<कृत्तद्धितसमासाश्च>>[[1.2.46]] इति कृदन्तत्वात्प्रातिपदिकसज्ञायां सौ समागते तस्य <<सुडनपुंसकस्य>>[[1.1.43]] इति सर्वनामस्थानसंज्ञायाम् <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि उमि गते मित्वादन्त्यादचः परे 'प्र अन् च् सु' इति जाते सकारोत्तरवर्त्तिन उकारस्येत्संज्ञायां लोपे च <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]]इति स् लोपे <<संयोगान्तस्य लोपः>>[[8.2.23]] इति च् लोपे <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति नस्य नासिकास्थानसाम्यात् कुत्वेन ङ्कारे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति नस्यानुस्वारे <<अनुस्वारस्य ययि परसवर्णः>>[[8.4.58]] इति तस्य परसवर्णे ञकारें प्राञ्चौ इति रूपम् । एवं सर्वत्र सुटि बोध्यम् ।", "64030": "नाञ्चेरिति । नुमैव सिद्धे प्राञ्चः प्राञ्चा इत्यादौ नुमोऽभावेऽपि नकारश्रवणार्थमारम्भः । प्राङ् । 'प्र अन् च' इति स्थिते <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इति क्विनि, क्विनः सर्वापहारिलोपे <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति नलोपे प्राप्ते <<नाञ्चेः पूजायाम्>>[[6.4.30]] इति निषिद्धे, कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते तस्य हल्ङयादिना लोपे च् कारस्य संयोगान्तलोपे <<क्विन्प्रत्ययस्य कुः' इति नकारस्य ङकारे सवर्णदीर्घे 'प्राङ्' इति रूपम् । प्राञ्चा । अत्र <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति नलोपो न । <<नाञ्चेः पूजायाम्>>[[6.4.30]] इति निषेधात् । प्राञ्च: । 'प्र अन् च् शस्' इत्यत्र <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति नलोपे प्राप्ते <<नाञ्चेः पूजायाम्>>[[6.4.30]] इत्यनेन निषिद्धे नस्यानुस्वारे, तस्य परसवर्णे च कृते शसः शकारस्येत्सञ्ज्ञायां लोपे च 'प्र अ अस्' इति जाते तत्र सवर्णदीर्घे सस्य रुत्वे रेफस्य विसर्गत्वे च 'प्राञ्चः' इति रूपम् । प्राङ्भ्याम् । 'प्राञ्च् भ्याम्' इत्यत्र पदसञ्ज्ञायां <<संयोगान्तस्य लोपः>>[[8.2.23]] इति च लोपे <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति नस्य कुत्वेन ङकारे प्राङ्भ्याम् इति रूपम् । प्राङ्क्षु । प्राङ्षु इति पूर्ववत्प्रसाध्य <<ङ्णोः कुक्टुक् शरि>>[[8.3.28]] इति वा कुकि <<आद्यन्तौ टकितौ>>[[1.1.46]] इति कित्वादन्त्यावयवे जाते 'क् ष् संयोगेन क्षकारे 'प्राङ्क्षु' इति । एवमिति । सुटि पूर्ववदेव रूपाणि । शसादावचि प्रत्यञ्चः, प्रत्यञ्चा इति । प्रत्यङ्भ्याम् । इति पूर्ववत् । क्रुङ् । क्रुञ्च कौटिल्यापीभावयोः अस्मात् धातोः <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इत्यादिना क्विनि तस्य सर्वस्य लोपे <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति नलोपे प्राप्ते <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इत्यादिना निपातनान्नलोपाभावे कृते कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सौ प्रत्यये तस्य हल्ङ्यादिना लोपे चकारस्य सयोगान्तलोपे <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति नकारस्य कुत्वेन ङकारे 'क्रुङ्' इति । क्रुञ्चौ । 'कन् च औ' इत्यत्र नस्य अनुस्वारे तस्य परसवर्णे च कृते रूपम् । क्रुङ्भ्याम् । 'कन् च भ्याम्' अत्र पदसञ्ज्ञायां चकारस्य संयोगान्तलोपे नकारस्य <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वेन ङकारे 'क्रुङ्भ्याम्' इति रूपम् । पयोमुक्, पयोमुग् । पयोमुच् + सु इत्यत्र सोर्लोपे <<चोः कुः>>[[8.2.30]] इति चस्य कत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति कस्य गत्वे <<वाऽवसाने>>[[8.4.56]] इति गस्य कत्वे 'पयोमुक् । पक्षे – पयोमुग्' । पयोमुग्भ्याम् । 'पयोमुच् भ्याम्' इत्यत्र <<चोः कुः>>[[8.2.30]] इति चस्य कत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति कस्य गत्वे 'पयोमुग्भ्याम्' इति रूपम् । सान्तमहत इति । अत्र <<नोपधायाः>>[[6.4.7]] <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इत्यनुवर्तते ।", "64049": "यस्य हल इति ।<\/w> यकारादकारस्य उच्चारणार्थत्वभ्रमं वारयति - संघातग्रहणमिति ।<\/w> यकाराकारसमुदायस्येत्यर्थः । हलः इति पञ्चमी । <<आर्धधातुके>> [[6.4.46]] इत्यधिकृतम् । <<अतो लोपः>> [[6.4.48]] इत्यस्माल्लोप इत्यनुवर्तते । तदाह - हलः परस्येति ।<\/w> ननु <<अलोऽन्त्यस्य>> [[1.1.52]] इति यकारादकारस्य लोपः स्यादित्यत आह - आदेः परस्येति ।<\/w> <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यस्यायमपवाद इति भावः । अतो लोप इति ।<\/w> यकाराकारसंघाते यकारस्य लोपे सति परिशिष्टस्याकारस्य <<अतो लोपः>> [[6.4.48]]] इति भावः । वाव्रजाञ्चक्रे ।<\/w> व्रज्धातोर्यङि द्वित्वेऽभ्यासत्वे अभ्यासकार्ये <<दीर्घोऽकितः>> [[7.4.83]] इत्यभ्यासदीर्घे च कृते वाव्रज्य<\/qt> इति जाते धातुत्वाल्लिटि अनेकाच्त्वादाम्प्रत्यये <<आदेः परस्य>> [[1.1.54]] इति सूत्रबलात् <<यस्य हलः>> [[6.4.49]] इति यलोपे <<अतोः लोपः>> [[6.4.48]] इत्यल्लोपे <<आमः>> [[2.4.81]] इति लिटो लुकि वाव्रजाम्<\/qt> इति भूते <<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इति लिट्परकृञोऽनुप्रयोगे तप्रत्यये तस्य एशि द्वित्वेऽभ्यासत्वे अभ्यासकार्ये च कृते, कृते चानुस्वारे परसवर्णे वाव्रजाञ्चक्रे<\/qt> इति सिद्धम् । वाव्रजिता ।<\/qt> व्रज् धातोः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि द्वित्वेऽभ्यासकार्ये <<दीर्घोकितः>> [[7.4.83]] इति अभ्यासाकारस्य दीर्घे धातुत्वाल्लुटि तासि, लुटो लस्य तादेशे तस्य डात्वे डित्वसामर्थ्यादभस्यापि टेर्लोपे तस इटि च कृते <<आदेः परस्य>> [[1.1.54]] इति सूत्रबालाद् <<यस्य हलः>> [[6.4.49]] इति यलोपे <<अतो लोपः> [[6.4.48]] इत्यल्लोपे वाव्रजिता<\/qt> इति रूपम् । लृटि — वाव्रजिष्यते<\/qt> । लोटि — वाव्रज्यताम्<\/qt> । लङि — अवाव्रज्यत<\/qt> । लिङि — वाव्रज्येत<\/qt> । आशिषि — वाव्रजिषीष्ट<\/qt> । लुङि — अवाव्रजिष्ट<\/qt> । लृङि — अवाव्रजिष्यत<\/qt> ।", "64050": "क्यस्य विभाषेति ।<\/w> <<यस्य हलः>> [[6.4.49]] इत्यतो हल इति पञ्चम्यन्तमनुवर्तते । <<आर्धधातुके>> [[6.4.46]] इत्यधिकृतम् । तदाह-हल:परयोरित्यादिना ।<\/w> अन्तलोपमाशङ्क्याह - आदेः परस्येति ।<\/w> लटि समिध्यति<\/qt> इति रूपम् । लिटि समिधाञ्चकार<\/qt>, समिध्याञ्चकार<\/qt> इति । समिधिता<\/qt>, समिध्यिता<\/qt>। समिधमात्मानमिच्छति इत्यर्थे क्यचि, धातुसंज्ञायाम् अमो लुकि, कचयोर्लोपे, <<नः क्ये>> [[1.4.15]] इति नियमेन पदत्वाभावान्न जश्त्वम् । तस्मात् समिध्य<\/qt> इति धातोर्लुटि, लुटस्तिपि, तिपो डात्वे, तासौ, टिलोपे तास आर्धधातुकत्वादिटि समिध् य इ त् आ<\/qt> इति जाते <<क्यस्य विभाषा>> [[6.4.50]] इति यलोपे प्राप्ते, <<अलोऽन्त्यस्य>> [[1.1.52]] इति परिभाषां प्रबाध्य <<आदेः परस्य>> इत्यनेन य् मात्रस्य लोपे, <<अतो लोपः>> [[6.4.48]] इत्यनेन अकारस्य च लोपे समिधिता<\/qt> इति रूपम् । क्यचो लोपाभावे समिध्यिता<\/w> इति रूपम् । लृटि - समिधिष्यति<\/qt>, समिध्यिष्यति<\/qt> । लोटि - समिध्यतु<\/qt> । लङि -असमिध्यत्<\/qt> । लिङि - समिध्येत्<\/qt> । आशिषि - समिध्यात्<\/qt>, समिध्य्यात्<\/qt> । लुङि - असमिधीत्<\/qt>, असमिध्यीत्<\/qt> । लुङि - असमिधिष्यत्<\/qt>,असमिध्यिष्यत्<\/qt> इति ।", "64077": "", "64079": "स्त्री ।<\/w> स्त्यायतः संगते भवतः शुक्रशोणितेऽस्यामिति स्त्री, तस्मात्सौ हल्ङ्यादि लोपे 'स्त्री' इति रूपम् । हे स्त्रि ।<\/w> अत्र नदीसंज्ञायाम् <<अम्बाऽर्थनद्योर्ह्रस्वः>>[[7.3.107]] इति ह्रस्वे <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति सुलोपे 'हे स्त्रि' इति । स्त्रिया इति ।<\/w> <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इत्यतोऽचीति इयङिति चानुवर्तते, तदाह — अस्यैयङित्यादिना स्त्रियौ ।<\/w> 'स्त्री औ' इति स्थिते <<स्त्रियाः>>[[6.4.79]] इतीयङि कृते संयुक्ते च जाते 'स्त्रियौ' इति रूपम् । एवं जसि - 'स्त्रियः' इति ।", "64080": "वाम्शसोरिति ।<\/w> वा अम्शसोः इति च्छेदः । स्त्रिया इति इयङिति चानुवर्तते, तदाह - अमि शसि चेत्यादिना । स्त्रियम्, स्त्रीमिति ।<\/w> 'स्त्री + अम्' अत्र <<वाऽम्शसोः>>[[6.4.80]] इतीयङि कृते 'स्त्रियम्' इति । पक्षे <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपे 'स्त्रीम्' इति । स्त्रियः, स्त्रीरिति ।<\/w> 'स्त्री + शस्' अत्र शस्येत्संज्ञायां लोपे च <<वाऽम्शसोः>>[[6.4.80]] इतीयङि सस्य रुत्वे तस्य विसर्गे च 'स्त्रियः' इति रूपम् । पक्षे - 'स्त्री+अस्' अत्र <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे रुत्वे विसर्गे च 'स्त्रीः' इति । <>स्त्रियै ।<> 'स्त्री+ङे' इत्यत्र ङस्येत्संज्ञकत्वे लोपे च नदीसञ्ज्ञायाम् <<आण्नद्याः>>[[7.3.112]] इत्याटि <<आटश्च>>[[6.1.90]] इति वृद्धौ <<स्त्रियाः>>[[6.4.79]] इत्यनेन इयङि च विहिते 'स्त्रियै' इति रूपम् । स्त्रियाः ।<\/w> स्त्रीशब्दात् ङसिङसोः अनुबन्धलोपे नदीसंज्ञायाम् <<आण्नद्याः>>[[7.3.112]] इत्याटि <<आटश्च>>[[6.1.90]] इति वृद्धौ <<स्त्रियाः>>[[6.4.79]] इतीयङि च सञ्जाते रुत्वविसर्गयोः <<स्त्रियाः>>[[6.4.79]] २ इति रूपम् । परत्वान्नुडिति ।<\/w>आमि <<स्त्रियाः>>[[6.4.79]] इति इयङं बाधित्वा परत्वान्नुट् इत्यर्थः । स्त्रीणामिति ।<\/w> स्त्रीशब्दादामि 'स्त्री+आम्' इति स्थिते अत्र <<स्त्रियाः>>[[6.4.79]] इतीयङं परत्वात् बाधित्वा <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नुडागमे पर्जन्यवल्लक्षणप्रवृत्या दीर्घे कृते <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे विहिते 'स्त्रीणाम्' इति । ङौ - 'स्त्रियाम्' इति । ओसि - 'स्त्रियोः' इति । श्रीरिति ।<\/w> श्रयन्त्येतामिति श्रीः । श्रिञ् सेवायामितिधातोः इति क्विप्, प्रकृतेर्दीर्घश्चेति निष्पन्नात् श्रीशब्दात् सुः । अङयन्तत्वान्नसुलोपः । श्रियाविति ।<\/w> श्रीशब्दात् औ समागते <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति बाधित्वा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि कृते मिलित्वा 'श्रियौ' इति । एवमेव 'श्रियः' इति ।", "64082": "एरनेकाच इति ।<\/w> <<इको यणचि>>[[6.1.77]] इत्यतो यण् इति <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इत्यतो धातुरित्यनुवर्तते, तच्चावर्तते । तस्मादेव सूत्रात् अचीति चानुवर्तते । अङ्गस्येत्यधिकृतम् । ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधिः । तदाह - धात्ववयवेत्यादिना । प्रध्यौ ।<\/w> प्रधी-औ<\/qt> इति स्थिते, अत्र <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति प्राप्ते <<दीर्घाज्जसि च>>[[6.1.105]] इति निषिद्धे <<इको यणचि>>[[6.1.77]] इति यणि प्राप्ते तं प्रबाध्य <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इति प्राप्ते तं बाधित्वा <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि कृते 'प्र ध् य् औ' इति जाते अज्झीनं परेण संयुक्ते प्रध्यौ<\/qt> इति रूपम् । प्रधी-जस्<\/qt> इति स्थिते, अत्र <<चुटू>>[[1.3.7]] इत्यनेन जकारस्येत्सञ्ज्ञाय <<तस्य लोपः>>[[1.3.9]] इति लोपे कृते सति <<इको यणचि>>[[6.1.77]] इति यणि प्राप्ते तं बाधित्वा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि प्राप्ते तं प्रबाध्य <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि कृते सकारस्य रुत्वे रेफस्य विसर्गे च प्रध्यः<\/qt> इति रूपम् । सम्बोधने - हे प्रधीः, हे प्रध्यौ, हे प्रध्यः, इति ।अत्र प्रक्रिया प्रथमाविभक्तिवज्ज्ञेया । प्रध्यम् ।<\/w> प्रधी-अम्<\/qt> अत्र <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपे प्राप्ते तं बाधित्वा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि प्राप्ते तं प्रबाध्य <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि कृते प्रध्यम्<\/qt> इति रूपम् । प्रध्यौ ।<\/w> प्रथमाद्विवचनवत्प्रक्रिया । प्रध्यः<\/w> - प्रधीशब्दात् शसि, शकारस्येत्सञ्ज्ञायां लोपे च <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घे प्राप्ते तं प्रबाध्य <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि प्राप्ते तं बाधित्वा <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि कृते प्रध्यः<\/qt> इति रूपम् । अत्र पूर्वसवर्णदीर्घाभावान्न नत्वमिति भावः । प्रध्या, प्रधीभ्याम्, प्रधीभिः तृतीया । प्रध्ये, प्रधीभ्यां, प्रधीभ्यः, चतुर्थी । प्रध्यः, प्रधीभ्याम्, प्रधीभ्यः पञ्चमी । प्रध्यः, प्रध्योः, प्रध्याम्, षष्ठी । प्रध्यि ।<\/w> प्रधीशब्दात्सप्तम्येकवचनविवक्षायां ङौ समागते अनुबन्धलोपे प्रधी-ई<\/qt> इति जाते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घे प्राप्ते तं बाधित्वा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि प्राप्ते तं प्रबाध्य <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि कृते प्रध्यि<\/qt> इति रूपम् । एवं ग्रामणीरिति ।<\/w> ग्रामं नयति - नियच्छतीति ग्रामणीः । इति णत्वम् । सप्तम्येकवचनं विहाय एवमेव प्रधीशब्दवत् ग्रामणीशब्दस्य रूपाण्यूहनीयानि । प्रथमैकवचने - अङ्यन्तत्वान्न सुलोपः। अजादौ सर्वत्र <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणेव । अस्त्रीत्वान्नदीकार्यं न । हे ग्रामणीः, ग्रामण्यौ, ग्रामण्यः । ग्रामण्यम्, ग्रामण्यौ, ग्रामण्यः । ग्रामण्या । ग्रामण्ये । ग्रामण्योः । ग्रामण्यामिति । सप्तम्यां तु ग्रामणीशब्दात् ङौ समागते <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति डेः स्थाने आमि <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि ग्रामण्याम्<\/qt> इति भवति । अनेकाचः किमिति ।<\/w> <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इत्यत्रेति शेषः । नीः ।<\/w> नीशब्दात्सावागते उकारस्येत्सञ्ज्ञायां च सस्य रुत्वे रस्य विसर्गत्वे च विहिते नीः<\/w> इति । नीशब्दाव्यथमाद्विवचने औ समागते <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि कृते नियौ<\/qt> इति रूपम् । एवमेव जसि नियः<\/w> इति । अमि शसि चैति ।<\/w> नीशब्दात् अमि कृते <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपे प्राप्ते तं बाधित्वाऽनेनेयङि कृते नियम्<\/qt> इति । औटि-नियौ, शसि - <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति प्रबाध्यानेनेयङि नियः<\/qt> इति रूपम् । निया, नीभ्याम्, नीभिः, तृतीया । निये, नीभ्यां, नीभ्यः, चतुर्थी । नियः, नीभ्यां नीभ्यः पञ्चमी । नियः, नियोः, नियाम्, षष्ठी । नियामिति ।<\/w> नीशब्दात्सप्तम्येकवचनविवक्षायां ङौ समागते ङकारस्येत्सञ्ज्ञायां लोपे च सति <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति ङेरामि विहिते, विहिते चेयङि नियाम्<\/qt> इति रूपम् । सुश्रीः। श्रिञ् सेवायाम् इत्यादिना क्विप् प्रकृतेर्दीर्घश्च । सु श्रयतीति शोभमाना श्रीरस्येति वा सुश्रीः । सुश्रियाविति ।<\/w> <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति सूत्रे असंयोगपूर्वस्य<\/qt> इत्युक्तत्वात् सुश्रीशब्दान्तर्गतेवर्णस्य धात्ववयवसंयोगपूर्वत्वात् न यण् ; किन्तु <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इति योगेनैव सर्वत्राजादौ प्रत्यये परे इयङादेशं विधाय नीशब्दवद्रूपाणि ज्ञेयानि । सप्तम्येकवचने तु अङ्यन्तत्वात् <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति सूत्रस्याप्राप्तौ ङस्येत्सञ्ज्ञालोपौ कृत्वा इयङि कृते सुश्रियि<\/qt> इति रूपम्बोध्यम् । यवक्रियौ ।<\/w> यवान् क्रीणातीति यवक्रीः । क्रीञ् धातोः क्विपि रूपम् । अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यण्, किन्तु सर्वत्राजादौ प्रत्यये परे <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङ् बोध्यः ।", "64083": "ओः सुपीति ।<\/w> <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति सूत्रं एरितिवर्जमनुवर्तते । <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इत्यतोऽचीत्यनुवृत्तम् । तेन सुपीति विशिष्यते । तदादिविधिः । <<इणो यण्>>[[6.4.81]] इत्यतो यणित्यनुवर्तते, तदाह - धात्ववयवेत्यादिना । खलप्वौ, खलप्वः इति ।<\/w> 'खलपू + औ' खलपू असू<\/qt> इति स्थिते <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इति उवङि प्राप्ते तं बाधित्वा <<ओः सुपि>>[[6.4.83]] इति यणादेशे कृते खलप्वौ<\/qt> खलप्वः<\/qt> इति रूपे भवतः । अत्र इति वार्तिकप्रवृत्तिर्बोध्या । प्रकृते कारकपूर्वकत्वादिह यणितिभावः । हे खलपूः, हे खलप्वौ, हे खलप्वः, सम्बोधनम् । खलप्वम्, खलप्वौ, खलप्वः । खलप्वा, खलप्वेः, खलप्वः, खलप्वः, खलप्वोः, खलपप्वि । इह अजादौ <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणोऽसम्भवात् उवङि प्राप्ते अनेन सूत्रेण यणिति भावः । उवङोऽपवादो यणिति फलितम् । एवं सुल्वादय इति ।<\/w> सुष्ठु लुनातीति सुलूः । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलृरित्यादिसंग्रहः । स्वभूरिति ।<\/w> स्वस्माद्भवतीति क्विप् । कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागतेऽनुबन्धलोपे सस्य रुत्वे विसर्गे च स्वभूः<\/qt> इति रूपम् । स्वभुवौ<\/qt> स्वभुवः<\/qt> इति ।<\/w> 'स्वभू x औ' इतिस्थिते <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घे प्राप्ते तं बाधित्वा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इत्युवङि प्राप्ते तं प्रबाध्य <<ओः सुपि>>[[6.4.83]] इति यणि प्राप्ते <<न भूसुधियोः>>[[6.4.85]] इति निषिद्धे <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इत्युवङि विहिते <<ङिच्च>>[[1.1.53]] इत्यन्तादेशे जाते ङकारस्येत्सञ्ज्ञायां लोपे च स्वभुवौ<\/qt> इति रूपम् । एवमेव जसि परे स्वभुवः<\/qt> इति बोध्यम् । अजादौ विभक्तौ परे सर्वत्र उवङ् भवतीति ज्ञेयम् । वर्षाभूरिति ।<\/w> वर्षासु भवतीति वर्षाभूः । वर्षर्तादुत्पन्न इत्यर्थः । वर्षाभूर्दर्दुरे पुमान्<\/qt> इति यादवः ।", "64084": "वर्षाभ्वश्चेति ।<\/w> <<ओः सुपि>>[[6.4.83]] इत्यनुवर्तते । <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इत्यतोऽचीति च <<इणो यण्>>[[6.4.81]] इत्यतो यणितिचानुवर्तते, तदाह - अस्येत्यादिना । वर्षाभ्वौ<\/w> - वर्षाभूशब्दात् प्रथमाद्विवचने औ समागते <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घे प्राप्ते तं बाधित्वा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इति उवङि प्राप्ते तं बाधित्वा <<ओः सुपि>>[[6.4.83]] इति यणि प्राप्ते <<न भूसुधियोः>>[[6.4.85]] इति निषिद्धे <<वर्षाभ्वश्च>>[[6.4.84]] इति यणि कृते सति वर्षाभ्वौ<\/qt> इति रूपम्बोध्यम् । एवमेव सर्वत्राजादौ विभक्तौ परे बोध्यम् । दृन्भूरिति ।<\/w> दृन्निति नान्तमव्ययं हिंसायां वर्तते । तस्मिन्नुपपदे भूधातोः व्किविति भावः । दृन् - हिंसां, भवते प्राप्नोतीति विग्रहः | तरुविशेषः, सर्पविशेषो वेत्यन्ये । स्वाभाविक एवात्र नकारः । तस्य पदान्तत्वात् <<नश्चापदान्तस्य झलि>>[[8.3.24]] इति नानुस्वारः । अत एव न परसवर्णः। एवम्भूतात् दृम्भूशब्दात्सावागते उकारस्येत्सञ्ज्ञायां लोपे च सस्य रुत्वे विसर्गे च दृन्भूः<\/qt> इति रूपम् । दृन्भ्वाविति ।<\/w> दृन्भूशब्दात् औ समागते <<ओः सुपि>>[[6.4.83]] इति यणि प्राप्ते <<न भूसुधियोः>>[[6.4.85]] इति तस्य निषेधे कृते इति यणि कृते दृन्भ्वौ<\/qt> इति रूपम् । अमि - दृन्भ्वम्<\/qt> । यणा पूर्वरूपं बाध्यते इति भावः । शसि - दृन्भवः<\/qt> इति भवति, यणा पूर्वसवर्णदीर्घस्य बाधात् । सर्वत्राजादौ विभक्तौ परे इत्यनेन यण् विज्ञेयः । एवम्<\/w> - अनयैव रीत्या, दृन्भूशब्दवत् - करभूरिति ।<\/w> करात् करे वा भवतीति करभूः<\/qt> शब्दो बोध्य इति शेषः । धातेति ।<\/w> धातृशब्दात्प्रथमैकवचने सावागते <<ऋदुशनस्पुरुदंसोऽनेहसां च>>[[7.1.94]] इत्यनङि विहिते <<ङिच्च>>[[1.1.53]] इत्यनेनान्तावयवे कृते ङकारस्येत्सञ्ज्ञायां लोपे च कृते धातन् + सु<\/qt> इत्यवस्थायाम् <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इत्यादिनोपधाया दीर्घत्वे कृते सकारोत्तरवर्तिन उकारस्येत्सञ्ज्ञत्वे लोपे च <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सस्य लोपे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नस्य लोपे च धाता<\/qt> इति रूपम् । <>हे धातः इति ।<> धातृशब्दात्सम्बोधनस्यैकवचनविवक्षायां सावागते सकारोत्तरवर्तिन उकारस्येत्सञ्ज्ञकत्वे लोपे च कृते 'धातृ + स्' इत्यवस्थायाम् <<एकवचनं संबुद्धिः>>[[2.3.49]] इति सम्बुद्धिसञ्ज्ञायां <<ह्रस्वस्य गुणः>>[[7.3.108]] इति ऋकारस्य गुणे अ<\/qt> इति जाते <<उरण् रपरः>>[[1.1.51]] इति रपरे च धातर् स्<\/qt> इति भूते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सलोपे रेफस्य विसर्गे च हे धातः<\/qt> इति रूपम् । धाताराविति ।<\/w> धातृ + शब्दात् औ समागते <<सुडनपुंसकस्य>>[[1.1.43]] इति औ इत्यस्य सर्वनामस्थानसञ्ज्ञायाम् <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणे रपरे च जाते <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इति उपधादीर्घत्वे च विहिते धातारौ<\/qt> इति रूपम् । धातारः इति ।<\/w> धातृशब्दाज्जसि सर्वनामस्थानसञ्ज्ञायाम् <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणे रपरे च <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इति उपधादीर्घत्वे जकारस्येत्सञ्ज्ञायां लोपे च सस्य रुत्वे विसर्गे च धातारः<\/qt> इति रूपम् । शसि - पूर्वसवर्णदीर्घः ऋकारः, नत्वम्, धातॄन् । टा यण् - धात्रा । ङे यण् - धात्रे । ङसिङसोः । ऋत उत् रपरत्वम्, सलोपः, विसर्गः, धातुः । धातुः । धात्रोः । धात्रोः । आमि - <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नुट् । <<नामि>>[[6.4.3]] इति दीर्घः । नकारस्य रेफषकाराभ्यां परत्वाभावादप्राप्ते णत्वे इति वार्तिकेन णत्वे कृते धातॄणाम्<\/qt> इति । एवं नप्त्रादय इति ।<\/w> नप्तृनेष्टृत्वष्टृ क्षतृ होतृ पोतृ प्रशास्तृ शब्दाः धातृशब्दवदित्यर्थः । नप्त्रादिग्रहणमिति ।<\/w> व्युत्पत्तिपक्षे तृन्तृजन्तत्वादेव सिद्धे नप्त्रादिग्रहणं । तेन पितृभ्रातृप्रभृतीनां नेति बोध्यम् । पितेति ।<\/w> पितृशब्दात्सौ <<ऋदुशनस्पुरुदंसोऽनेहसां च>>[[7.1.94]] इत्यनङि विहिते ङित्वादाद्यावयवे अनुबन्धलोपे <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति दीर्घे सकारस्य <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति लोपे पिता<\/qt> इति रूपम् । पितराविति ।<\/w> पितृशब्दात् औ समागते सर्वनामस्थानसञ्ज्ञायाम् <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणे रपरे च कृते पितरौ<\/qt> इति रूपम् । अत्र व्युत्पत्तिपक्षे - नप्त्रादिग्रहणस्य नियमार्थत्वान्न दीर्घः । अव्युत्पत्तिपक्षे तु <<अप्तृन्तृजादिष्वनन्तर्भावात् दीर्घशङ्कैव नास्ति । एवमेव पितरः<\/qt> इति । सम्बोधने - हे पितः, पितरौ, पितरः । पितरम्, पितरौ, पितॄन्, इत्यादि धातृवत् । ना ।<\/w> नृशब्दो मनुष्यवाची । तस्मात् सुः । <<ऋदुशनस्पुरुदंसोऽनेहसां च>>[[7.1.94]] इत्यनङ् । <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>>[[6.4.11]] इति सूत्रे अनन्तर्भावात् <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तत्वप्रयुक्तो दीर्घः । हल्ङ्यादिलोपः। नलोपः। ना<\/qt> इति रूपम् । नरौ ।<\/w> <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणो रपरः । अप्तृन्नाद्यनन्तर्भावात् नान्तत्वाभावाच्च न दीर्घः। एवं नरः<\/qt> इति । हे नः- <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणो रपरः । हल्ङ्यादिलोपो विसर्गश्च । नरम्, नरौ । शसि — पूर्वसवर्णदीर्घ ॠकारः, नत्वम्, नॄन् । टादावचि यणि रेफः न्रा । न्रे । ङसिङसो: <<ऋत उत्>>[[6.1.111]] रपरः, सलोपः, विसर्गश्च । नुः । नुः । न्रोः ।", "64085": "न भूसुधियोरिति<\/w> <<इणो यण्>>[[6.4.81]] इत्यतो यण् इति <<ओः सुपि>>[[6.4.83]] इत्यतः सुपीति <<इको यणचि>>[[6.1.77]] इत्यतोऽचीति चानुवर्तते, तदाह - एतयोरित्यादिना ।<\/w> एतयोरित्यनेन सूत्रोक्तभूसुधियोः परामर्शः । अचीति ।<\/w> अजादावित्यर्थः । सुधियाविति ।<\/w> 'सुधी + औ' इत्यत्र <<गतिश्च>>[[1.4.60]] इति गतिसञ्ज्ञां कृत्वा <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि प्राप्ते <<न भूसुधियोः>>[[6.4.85]] इति यणादेशाभावे <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि विहिते सुधियौ<\/qt> । एवं सुधियः<\/qt> इत्यादि बोध्यम् । सुखीः सुतीः इति ।<\/w> सुखीशब्दात् सुतीशब्दाच्च सावागते अङ्यन्तत्वात्सुलोपाभावे 'सुखी + सु' 'सुती + सु' इति स्थिते उकारस्येत्सञ्ज्ञायां लोपे च कृते सस्य रुत्वे विसर्गे च सुखी:<\/qt> सुतीः<\/qt> इति रूपेसिध्यतः । सुख्यी, सुत्याविति ।<\/w> सुखीशब्दात् सुतीशब्दाच्च प्रथमाद्विवचने आवागते <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि सुख्यौ, सुत्यौ<\/qt> इति भवतः । सुख्युः, सुत्युरिति ।<\/w> सुखीशब्दात् सुतीशब्दाच्च पञ्चम्येकवचनविवक्षायां ङसि समागते ङकारस्येकारस्य चेत्सञ्ज्ञायां लोपे च 'सुखी + अस्' सुती+अस्<\/qt> इति स्थिते <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि <<ख्यत्यात् परस्य>>[[6.1.112]] इति ङसिसम्बन्धिनोऽकारस्योकारादेशे कृते सस्य रुत्वे विसर्गे च सुख्युः सुत्युः<\/qt> इति रूपे स्तः । 'सुखी + ङि' इत्यत्र ङस्येत्सञ्ज्ञायां लोपे च <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि सुख्यि<\/qt> इति रूपम् । शम्भुर्हरिवदिति ।<\/w> तत्र पूर्वसवर्णदीर्घः - ऊकारः, गुणस्तु - ओकारः, अव् इत्यादयो विशेषाः, आन्तरतम्यात्बोध्या इति यावत् । शम्भुः शम्भू शम्भवः प्रथमा । हे शम्भो हे शम्भू हे शम्भवः सम्बोधनम् । शम्भुं शम्भू शम्भून् द्वितीया । शम्भुना शम्भुभ्यां शम्भुभिः तृतीया । शम्भवे शम्भुभ्यां शम्भुभ्यः, चतुर्थी । शम्भोः शम्भुभ्यां शम्भुभ्यः पञ्चमी । शम्भोःशम्भ्वोः शम्भूनाम् षष्ठी । शम्भौ शम्भ्वोः शम्भुषु सप्तमी ।", "64092": "मितां ह्रस्व इति ।<\/w> <<ऊदुपधाया गोहः>> [[6.4.89]] इत्यत उपधाया इति । <<दोषो णौ>> [[6.4.90]] इत्यस्माद् णौ इति चानुवर्तते तदाह - ह्रस्व इति<\/w> । के ते मित्संज्ञका इत्यत आह - घटादीनां ज्ञपादीनां चेति<\/w> । घटयति<\/qt> । घट इत्यस्माण्णिचि <<अत उपधाया>> [[7.2.116]] इति उपधावृद्धौ घटादेर्मित्वात् <<मितां ह्रस्वः>> [[7.4.92]] इति ह्रस्वे धातुत्वाल्लटस्तिपि शपि गुणेऽयादेशे च तत्सिद्धिः । शपयति<\/qt> । ज्ञप धातोश्चुरादित्वाण्णिचि अनुबन्धलोपे <<अत उपधायाः>> [[7.2.116]] इति वृद्धौ 'ज्ञप मिच्च' इति मित्वात् <<मितां ह्रस्वः>> [[6.4.92]] इति उपधाया ह्रस्वत्वे <<सनाद्यन्ता>> [[3.1.32]] इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपे उभयत्र सार्वधातुकसंज्ञायां गुणे अयादेशे च तत्सिद्धिः । अजिज्ञपत ।<\/qt> ज्ञप इत्यस्माण्णिचि उपधावृद्धौ हृस्वे ज्ञपि<\/qt> इति जाते धातुत्वाल्लुङस्तिप इकारलोपेऽटि च्लेश्चङि <<णेरनिटि>> [[6.4.51]] इति णिलोपे <<चङि>> [[6.1.11]] इति द्वित्वेऽभ्यासकार्ये <<सन्वल्लघुनि चङ्परेऽनग्लोपे>> [[7.4.93]] इति सन्वद्भावे <<सन्यतः>> [[7.4.79]] इति अभ्यासस्याकारस्येत्वे लघुत्वाभावात् <<दीर्घो लघोः>> [[7.4.94]] इति दीर्घाभावे अजिज्ञपत्<\/qt> इति रूपम् । इति ण्यन्तप्रक्रिया ॥", "64127": "अर्वणस्तृ । <<अङ्गस्य>>[[6.4.1]] इति वर्तते । तच्च अर्वणा विशेष्यते, अनञ इत्यनेनापि, तदाह – नञा रहितस्येत्यादिना । अर्वन्तौ । अर्वन् +औ अत्र <<अर्वणस्त्रसावनञः>>[[6.4.127]] इति तृ इत्यन्ता देशे ऋगते <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि मित्वादन्त्यादचः परे उमि गते संयोगे च कृते 'अर्वन्तौ' इति रूपम् । एवम् - 'अर्वन्तः' इत्यादावपि प्रक्रिया ऊह्या । शसि सर्वनामस्थानत्वाभावान्न नुम् । 'अर्वतः' इति । टायाम् - अर्वता । अर्वद्भ्याम् । अर्वन् + भ्याम् अत्र <<अर्वणस्त्रसावनञः>>[[6.4.127]] इति तृ इत्यन्तादेशे ऋगते पदसंज्ञायां जश्त्वे च कृते 'अर्वद्भ्याम् इति रूपम् । इत्यादीति । अर्वद्भिः | अर्वते । अर्वद्भ्यः, अर्वतः, अर्वतोः, अर्वताम् । अर्वति, अर्वतोः, अर्वत्सु ।", "64128": "मघवा बहुलमिति । <<अर्वणस्त्रसावनञः>>[[6.4.127]] इत्यतः तृ इत्यनुवर्तते । तच्च लुप्तप्रथमाकम् । मघवेति पष्ठ्यर्थे प्रथमा । तदाह - मघवन् शब्दस्येत्यादिना । ऋ इदिति । <<उपदेशेऽजनुनासिक इत्>>[[1.3.2]] इति ऋकार इत्संज्ञक इत्यर्थः ।", "64130": "पादःपदिति । भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते । तदन्तविधिः । तदाह­‌ - पाच्छब्दान्तमिति । सुपद इति । 'सुपाद् + शस् अत्र शस्येत्संज्ञायां लोपे च भसंज्ञायां <<पादः पत्>>[[6.4.130]] इति पाद्शब्दस्य पदादेशे सस्य रुत्वे रस्य विसर्गत्वे च विहिते 'सुपदः' इति । अजादौ विभक्तौ परे सर्वत्र पदादेशः। सुपदे । सुपदः। सुपदः । सुपदोः। सुपदाम् । सुपदि । अग्निमत्, अग्निमद् । अग्निमथ् + सु इत्यत्र सोर्लोपे <<झलां जशोऽन्ते>>[[8.2.39]] इति थस्य दत्वे <<वाऽवसाने>>[[8.4.56]] इति दस्य तत्वे च कृते 'अग्निमत्' इति, पक्षे 'अग्निमद्' इति । भ्यामादौ - अग्निमथ् + भ्याम् इत्यत्र <<झलां जशोऽन्ते>>[[8.2.39]] इति थस्य दत्वे च कृते 'अग्निमद्भ्याम्' इति रूपम् ।", "64131": "वसोः सम्प्रसारणमिति । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणम् । <<भस्य>>[[6.4.129]] इत्यधिकृतम् । तदाह - वस्वन्तस्येत्यादिना । विदुषः । विद्वस् + शस् अत्र <<लशक्वतद्धिते>>[[1.3.8]] इति शकारस्येत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<वसोः सम्प्रसारणम्>>[[6.4.131]] इति वस्य स्थाने उकाररूपे सम्प्रसारणे कृते 'विद् उ अस् अस्' इति जाते <<सम्प्रसारणाच्च>>[[6.1.108]] इति पूर्वरूपैकादेशे विदुस्+अस् इति जाते <<आदेशप्रत्यययोः>>[[8.3.59]] इति प्रत्ययावयवत्त्वात् सस्य षत्वे संयोगे च कृते 'विदुषस्' इति भूते अन्त्यसकारस्य <<ससजुषो रुः>>[[8.2.66]] इति रुत्वे उकारस्येत्संज्ञायां लोपे च <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रेफस्य विसर्गत्वे 'विदुषः' इति रूपम् । विद्वद्भयाम् । विद्वस्+भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<वसुस्रंसुध्वंस्वनडुहां दः>>[[8.2.72]] इति सस्य दत्वे 'विद्वद्भ्याम्' इति । विद्वस्+सुप् इत्यत्र पकारस्येत्संज्ञायां लोपे च पदसंज्ञायां <<वसुस्रंसुध्वंस्वनडुहां दः>>[[8.2.72]] इति सस्य दत्वे तस्य <<खरि च>>[[8.4.55]] इत्यनेन चर्त्वे 'विद्वत्सु' इति ।", "64132": "वाह ऊठ् । 'भस्य' इत्यधिकृतम् । <<वसोः सम्प्रसारणम्>>[[6.4.131]] इत्यतः सम्प्रसारणमित्यनुवर्तते । तच्च ऊठ् इत्यनेनान्वेति । तदाह - भस्येत्यादिना ।", "64133": "श्वयुवेति । <<वसोः सम्प्रसारणम्>>[[6.4.131]] इत्यतः सम्प्रसारणमित्यनुवर्तते । <<भस्य>>[[6.4.129]] इत्यधिकृतम् । <<अल्लोपोऽनः>>[[6.4.134]] इत्यतः अनः इत्यपकृप्यते । तच्च श्वयुवमघोनां प्रत्येकं विशेषणम्, तदन्तविधिः, तदाह - अन्नन्तानामित्यादिना । मघोनः । 'मघवन् अस्' अत्र <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<श्वयुवमघोनामतद्धिते>>[[6.4.133]] इति सम्प्रसारणे यणो -वकारस्य, इकउकारे जाते 'मघ उ अ न् अस्' इति स्थिते <<सम्प्रसारणाच्च>>[[6.1.108]] इति पूर्वपरयोः स्थाने पूर्वरूपैकादेशे <<आद्गुणः>>[[6.1.87]] इति गुणे सस्य रुत्वे तस्य विसर्गत्वे च 'मघोनः' इति रूपम् । टायाम् - मघोना इति । मघवभ्याम । मघवन् + भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायाम् <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे 'मघवभ्याम्' इति रूपम् । मघोने । मघोनः । मघोनोः । मघोनाम् । मघोनि । एवं श्वन्युवन् इति । श्वा, श्वानौ, श्वानः । हे श्वन् । श्वानम्, श्वानौ, शसादावचि <<श्वयुवमघोनामतद्धिते>>[[6.4.133]] इति सम्प्रसारण वकारस्य उकारः । शु + अन् इति स्थिते <<सम्प्रसारणाच्च>>[[6.1.108]] इति पूर्वरूपे 'शुनः' इति । शुना, श्वभ्याम्,श्वभिः । शुने । शुनः शुनोः शुनाम् । शुनि । इत्यादि । युवा, युवानौ, युवानः । हे युवन् । युवानम्, युवानौ । यूनः 'युवन् शस्' अत्र शकारस्येत्संज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसज्ञायां <<श्वयुवमघोनामतद्धिते>>[[6.4.133]] इति वकारस्य सम्प्रसारणे <<सम्प्रसारणाच्च>>[[6.1.108]] इति पुर्वरूपैकादेशे 'यु + उन् अस्' इति जाते यकारस्यापि <<श्वयुवमघोनामतद्धिते>>[[6.4.133]] इति सम्प्रसारणे प्राप्ते <<न सम्प्रसारणे सम्प्रसारणम्>>[[6.1.37]] इति निषेधे सवणदीर्घे च कृते रुत्वविसर्गयोश्च सतोः 'यूनः' इति रूपम् । एवं यूना इत्यादावपि बोध्यम् । युवभ्याम् । युवन् + भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे 'युवभ्याम्' इति रूपम् । इत्यादीति । यूने । यूनः । यूनोः । यूनाम् । यूनि । अर्वा । 'अर्वन् + सु अत्र सोरुकारे गते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधायाः दीर्घत्वे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे 'अर्वा' इति रूपम् । हे अर्वन् । 'हे अर्वन् + सु' अत्र सोरुकारे गते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे जाते <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे प्राप्ते <<न ङिसम्बुद्ध्योः>>[[8.2.8]] इति निषिद्धे 'हे अर्वन्' इति रूपम् ।", "64134": "अल्लोपो न इति । <<भस्य>>[[6.4.129]] इत्यनेनाक्षिप्तः प्रत्ययविशेषः, अङ्गञ्चेति द्वयमनो विशेषणम् । अन् तु अकारस्येत्यभिप्रेत्य व्याचष्टे - अङ्गावयव इत्यादिना । दध्नेति । अस्थि, दधि, सक्थि,अक्षि, एतेषां प्रथमाद्वितीययोर्वारिवद्रूपाणि । तृतीयायान्तु - दधि + आ इति स्थिते <<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>>[[7.1.75]] इति दधिशब्दस्येकारस्यानङि कृते अनुबन्धलोपे च दधन् + आ इति जाते <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<अल्लोपोऽनः>>[[6.4.134]] इत्यनोऽकारस्य लोपे कृते सर्वस्मिन् संयुक्ते च सति 'दघ्ना' इति रूपम् । दध्ने । दधि + ए अत्र <<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>>[[7.1.75]] इत्यनङि ङित्वादन्त्यावयवे जाते अङोर्लोपे <<अल्लोपोऽनः>>[[6.4.134]] इति अनोऽकारस्य लोपे मिलित्वा 'दध्ने' इति रूपम् । अनयैव रीत्या अजादौ प्रत्यये परे अनङि अल्लोपो बोध्यः ।", "64136": "विभाषा ङिश्योरिति । <<अल्लोपोऽनः>>[[6.4.134]] इत्यनुवर्तते । अङ्गस्येति भस्येति चाधिकृतम् । भस्येत्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वं पूर्ववदनो लभ्यते । तदाह - अङ्गावयव इत्यादिना । ङिश्योरिति । ङिश्च शी चेति विग्रहः । <<नपुंसकाच्च>>[[7.1.19]] इति विहित एवात्र शी गृह्यते । न तु जश्शसोरिशः, तस्मिन् परे भत्वासम्भवात् । दध्नि, दधनि । दधि + ङि अत्र <<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>>[[7.1.75]] इत्यनङि <<विभाषा ङिश्योः>>[[6.4.136]] इत्यनेन अन्सम्बन्धिनोऽकारस्य लोपे 'दघ्नि' इति । लोपाभावपक्षे 'दधनि' इति रूपम् । शेष वारिवदिति । प्रथमाद्वितीययोः भ्यामादौ हलि च वारिवदित्यर्थः । सुधि । सुधी+सु अत्र <<ह्रस्वो नपुंसके प्रातिपदिकस्य>>[[1.2.47]] इति ह्रस्वत्वे <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे 'सुधि' इति रूपम् । सुधिनी । सुधी + औ अत्र <<ह्रस्वो नपुंसके प्रातिपदिकस्य>>[[1.2.47]] इति ह्रस्वत्वे <<नपुंसकाच्च>>[[7.1.19]] इति औकारस्य शीत्वे शस्येत्सञ्ज्ञायां लोपे च 'सुधि ई' इति जाते <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि च विहिते 'सुधिनी' इति रूपम् । सुधीनि । सुधी+जस् अत्र क्लीवत्वद्घ्रस्वे विहिते <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शित्वे <<शि सर्वनामस्थानम्>>[[1.1.42]] इति शेः सर्वनामस्थानत्वे शस्य लोपे <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि, उकारमकारयोरित्संज्ञकत्वे लोपे च <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधाया दीर्घत्वे संयोगे च कृते 'सुधीनि' इति रूपम् ।", "64137": "न संयोगादिति । <<अल्लोपोऽनः>>[[6.4.134]] इत्यनुवर्तते, तदाह - वमन्तसंयोगादित्यादिना । यज्वनः । यज्वन् + शस् इत्यत्र शकारस्येत्सञ्ज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायाम् <<अल्लोपोऽनः>>[[6.4.134]] इत्यनोऽकारस्य लोपे प्राप्ते <<न संयोगाद्वमन्तात्>>[[6.4.137]] इति निषिद्धे सकारस्य रुत्वे विसर्गे च कृते 'यज्वनः' इति रूपम् । एवमेवाजादौ प्रत्यये परे यज्वन् शब्दस्य रूपाणि बोध्यानि । यज्वभ्याम् । यज्वन् + भ्याम् इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इत्यनेन पदसञ्ज्ञायां <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे 'यज्वभ्याम्' इति रूपम् । अत्र नलोपस्यासिद्धत्वात् <<सुपि च>>[[7.3.102]] इति न दीर्घत्वमिति भावः । ब्रह्मणः । ब्रह्मन् + शस् इत्यत्र शकारस्येत्सञ्ज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायाम् <<अल्लोपोऽनः>>[[6.4.134]] इत्यनोऽकारस्य लोपे प्राप्ते <<न संयोगाद्वमन्तात्>>[[6.4.137]] इति मान्तसंयोगत्वात् अल्लोपनिषिद्धे सति <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे सस्य रुत्वे तस्य विसर्गे च 'ब्रह्मणः' इति रूपम् । ब्रह्मणेति । शसादावचि नाल्लोपः शेषं राजवदिति भावः । 'वेदस्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः ।", "64138": "अच इति । <<अल्लोपोऽनः>>[[6.4.134]] इत्यतोऽल्लोप इत्यनुवर्तते, 'भस्य' इति च । 'अच' इति लुप्तनकारस्य अनुधातोः षषठ्यन्तस्यानुकरणम् । तदाह - लुप्तनकारस्येत्यादिना ।", "64139": "उद इत् । <<अचः>>[[6.4.138]] इति सूत्रमनुवर्तते, अल्लोप इत्यतः अत् इति च । भस्येत्यधिकृतम् । तदाह - उच्छब्दादित्यादिना । उदीचः । 'उद् अन् च् शस्' इत्यत्रशस्येस्सब्ज्ञायां लोपे च नकारस्य <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति लोपे <<अचः>>[[6.4.138]] इति अकारस्यलोपे <<उद ईत्>>[[6.4.139]] इति अचोऽकारस्येत्वे संयोगे सस्य रुत्वे रेफस्य विसर्गत्वे च 'उदोचः' इति । एवमेव 'उदीचा' इत्यादिः । उदग्भ्याम् । 'उद् अन् च् भ्याम्' इत्यत्र <<अनिदितां हल उपधायाः क्ङिति>>[[6.4.24]] इति नलोपे कुत्वे जश्त्वे च रूपम् ।", "64140": "आतो धातोरिति ।<\/w> अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात इति षष्ठ्यन्तेन विशेष्यते । तदन्तविधिः । <<अल्लोपोऽनः>>[[6.4.134]] इत्यतो लोप इत्यनुवर्तते । तदाह - आकारान्तो य इति । अलोऽन्त्यस्येति ।<\/w> अन्त्यस्याकारस्य लोप इति शेषः । विश्वपाशब्दात् शसि समागते <<लशक्वतद्धिते>>[[1.3.8]] इति शसः शकारस्येत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे च कृते विश्वपा + अस्<\/qt> इति स्थितेऽत्र <<सुडनपुंसकस्य>>[[1.1.43]] इत्यनेन सु-औ-जस्-अम्-औट् इत्येतेषां सर्वनामस्थानसंज्ञाविहितत्वात् शसो न सर्वनामस्थानसंज्ञा, तेन <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इत्यनेन सर्वनामस्थानभिन्नस्वादिषु शसादिषु परेषु पूर्वस्य विश्वपाशब्दस्य पदसंज्ञा यां प्राप्तायां <<यचि भम्>>[[1.4.18]] इत्यनेन च सर्वनामस्थानभिन्नयजादिषु स्वादिषु परेषु भसंज्ञायां प्राप्तायां किमत्र विधेयम् इति शङ्कायाम् <<आ कडारादेका संज्ञा>>[[1.4.1]] इत्यनेन एकैव संज्ञा भवतीति नियमात् परत्वादनवकाशत्वाच्च अत्र भसंज्ञैव जाता, तस्यां जातायाम् <<आतो धातोः>>[[6.4.140]] इति सूत्रेण विश्वपाशब्दस्य लोपे प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यनेन पकारोत्तरवर्त्याकारस्य लोपे कृते पकारस्याकारेण सह संयोगे स् इत्यस्य रुत्वे अनुबन्धलोपे रेफस्य विसर्गे च विश्वपः<\/qt> इति रूपम् । विश्वपा इति ।<\/w> विश्वपाशब्दात् तृतीयैकवचनविवक्षायां टासमागते <<चुटू>>[[1.3.7]] इति टकारस्येत्संज्ञायां लोपे च विश्वपा-आ<\/qt> इति स्थितेऽत्र <<यचि भम्>>[[1.4.18]] इति भसंज्ञायां <<आतो धातोः>>[[6.4.140]] इत्याकारलोपे पकारस्याऽऽकारेण सह संयोगे विश्वपा<\/qt> इति रूपम् । विश्वपाभ्यामित्यादीति ।<\/w> विश्वपाशब्दात् भ्यामि विश्वपाभ्याम् । विश्वपाशब्दात् भिसि स् इत्यस्य रुत्वे विसर्गे च विश्वपाभिः । विश्वपाशब्दाच्चतुर्थ्येकवचनविवक्षायां ङेविभक्तौ ङकारस्य <<लशक्वतद्धिते>>[[1.3.8]] इतीत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<आतो धातोः>>[[6.4.140]] इत्याकारस्य लोपे परेण संयोगे विश्वपे<\/qt> इति रूपम् । अत्रेदं ज्ञातव्यम् – अजादिविभक्तौ परे सर्वत्र भसंज्ञा आकारस्य लोपः, हलादौ तु न किमपि कार्यम् । विश्वपाभ्याम्, विश्वपाभ्यः चतुर्थी । विश्वपः, विश्वपाभ्याम्, विश्वपाभ्यः पञ्चमी । विश्वपः, विश्वपोः, विश्वपाम् षष्ठी । विश्वपि, विश्वपोः, विश्वपासु सप्तमी । एवं शङ्खध्मादय इति ।<\/w> शङ्खं धमतीति शङ्खध्मा । घ्मा शब्दाग्निसंयोगयोः <<क्विप् च>>[[3.2.76]] इति क्विप् । आदिना सोमं पिबतीति सोमपाः । मधु पिबतीति मधुपाः इत्यादयो ग्राह्याः । हाहानिति । <\/w> हाहा इति गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमेतत् । 'हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसः' इत्यमरः । सुटि विश्वपावत् । हाहाशब्दात् शसि, अनुबन्धलोपे <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे कृते <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति सकारस्य नकारादेशे हाहान्<\/qt> इति । टाविभक्तौ सवर्णदीर्घः हाहा । ङयि वृद्धिः हाहै । ङसिङसोर्दीर्घः हाहाः । ओसि वृद्धिः हाहौः । ङौ आद्गुणः हाहे । हलादौ विश्वपावत् । हरिः ।<\/w> हरिशब्दात् प्रथमैकवचनविवक्षायां सुप्रत्यये उकारस्येत्संज्ञायां लोपे च हरि स्<\/qt> इति जाते सस्य रुत्वे रेफस्य विसर्ग च हरिः<\/qt> इति रूपम् । हरी ।<\/w> हरिशब्दात् औ समागते <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घादेशे कृते सति हरी<\/qt> इति रूपम् ।", "64148": "यस्येति चेति । यस्य ईतीति छेदः । इश्व अश्च तयोः समाहारः यं तस्य इवर्णस्य अवर्णस्य चेत्यर्थः । भस्येत्यधिकृतम् । <<नस्तद्धिते>>[[6.4.144]] इत्यतः तद्धिते इत्यनुवर्तते, तदाह - ईकारे तद्धित इत्यादिना । औङ: श्यामिति । औङः यः शी आदेशः तस्मिन् परतः <<यस्येति च>>[[6.4.148]] इति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । ज्ञाने इति । ज्ञान + औ इत्यत्र <<नपुंसकाच्च>>[[7.1.19]] इत्यौकारस्य शीत्वे शस्येत्सञ्ज्ञायां लोपे च 'ज्ञान ई' इति जाते <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायां <<यस्येति च>>[[6.4.148]] इति अकारलोपे प्राप्ते इति निषिद्धे <<आद्गुणः>>[[6.1.87]] इति गुणे च कृते 'ज्ञाने' इति रूपम् ।", "71009": "अतो मिस इति ।<\/w> अत इति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । अत इति तस्य विशेषणम् । विशेषणत्वात्तदन्त- विधिस्तेनाकारान्ताङ्गाद्भिस ऐस् इत्यर्थः। रामैरिति ।<\/w> रामशब्दात् तृतीयाबहुवचनविवक्षायां भिसि प्रत्यये राम भिस्<\/qt> इति जाते अत्र <<अतो भिस ऐस्>>[[7.1.9]] इति भिस ऐसादेशे प्राप्ते क्व स्यादिति जिज्ञासायाम् <<अनेकाल्शित्सर्वस्य>>[[1.1.55]] इति परिभाषया अनेकाल्त्वात्सर्वादेशे राम ऐस्<\/qt> इति भूते अत्र <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ सस्य रुत्वे विसर्गे च रामैः<\/qt> इति ।", "71011": "नेदमदसोरकोरिति । <<अतो भिस ऐस्>>[[7.1.9]] इत्यतो भिस ऐस् इत्यनुवर्तते । अकोरिति षष्ठी । न विद्यते ककारो ययोरिति बहुव्रीहिस्तदाह - अककारयोरित्यादिना । एभिरिति । इदम् + भिस् इति स्थिते <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे कृते इद + भिस् इति स्थिते <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे <<अतो भिस ऐस्>>[[7.1.9]] इत्येत्वे प्राप्ते <<नेदमदसोरकोः>>[[7.1.11]] इत्यनेन निषिध्य <<बहुवचने झल्येत्>>[[7.3.103]] इति एत्त्वे सस्य रुत्वे रस्य विसर्गे च 'एभिः' इति रूपम् । अस्मै । इदम् + ङे अत्र <<त्यदादीनामः> इति अकारान्तादेशे विहिते <<अतो गुणे>>[[6.1.97]] इति पररूपे इद + ङे इति स्थिते इदम् शब्दस्य सर्वनामस्वात् <<सर्वनाम्नः स्मै>>[[7.1.14]] इति ङे स्थाने 'स्मै' आदेशे <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे 'अस्मै' इति रूपम् । एभ्यः । इदम् + भ्यस् इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे अ + भ्यस् इति जाते <<आद्यन्तवदेकस्मिन्>>[[1.1.21]] इति अकारस्य अदन्तत्वे <<बहुवचने झल्येत्>>[[7.3.103]] इति एकारान्तादेशे रुत्वविसर्गयोः 'एभ्य' इति रूपम् । अस्मात् । इदम् + ङसि इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे इद + ङसि इति जाते 'ङसिङ्योः स्मात्स्मिनौ' इति 'स्मात्' आदेशे कृते <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे 'अस्मात्' इति रूपम् । अस्य इति । इदम् + ङस् इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे <<टाङसिङसामिनात्स्याः>>[[7.1.12]] इति ङसः स्थाने स्यादेशे <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे 'अस्य' इति रूपम् । अनयोः । इदम् + ओस् इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे <<अनाप्यकः>>[[7.2.112]] इति इद्भागस्यानादेशे कृते अन + ओस् इति जाते <<ओसि च>>[[7.3.104]] इति अनघटकनकारोत्तरवर्तिन अकारस्यैकारे <<एचोऽयवायावः>>[[6.1.78]] इति अयादेशे रुत्वे विसर्गे च मिलित्वा 'अनयोः' इति रूपम् । एषाम् । इदम् + आम् अत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे <<आमि सर्वनाम्नः सुट्>>[[7.1.52]] इति सुडागमे टित्वादाद्यावयवे उटि गते इद +साम् इति जाते <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे 'आसाम्' इति जाते <<आद्यन्तवदेकस्मिन्>>[[1.1.21]] इति एकस्मिन् अकारे अदन्तत्वमानीय <<बहुवचने झल्येत्>>[[7.3.103]] इति एत्वे <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे 'एषाम्' इति रूपम् । अस्मिन् । इदम् + ङि इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते <<ङसिङ्योः स्मात्स्मिनौ>>[[7.1.15]] इति ङे: स्थाने स्मिन् आदेशे कृते <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे च 'अस्मिन्' इति रूपम् । एषु । इदम् + सुप् अत्र स्यादाद्यत्वे पररूपत्वे च सुपः पकारस्येत्सञ्ज्ञायां लोपे च <<हलि लोपः>>[[7.2.113]] इति इद्भागस्य लोपे <<बहुवचने झल्येत्>>[[7.3.103]] इति एत्वे <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे 'एषु' इति रूपम् ।", "71012": "टाङसीति ।<\/w> अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतम् । <<अतो भिस ऐस्>>[[7.1.9]] इत्यतोऽत इति पञ्चम्यन्तमनुवृत्तम् अङ्गस्य विशेषणम्, तदन्तविधिः । अदन्तादिति ।<\/w> अकारान्तादङ्गादुत्तरेषां टाङसिङसाम् - इन आत् स्य इत्येते आदेशा भवन्ति यथासंख्यमिति सूत्रार्थः । रामेणेति ।<\/w> रामशब्दात् तृतीयैकवचनविवक्षायाम् टासमागते राम टा<\/qt> अत्र <<टाङसिङसामिनात्स्याः>>[[7.1.12]] इति टास्थाने इनादेशे कृते <<आद्गुणः>>[[6.1.87]] इति गुणे च विहिते <<अट्कुप्वाङ्नुम्व्यवायेऽपिः इति नस्य णत्वे रामेण<\/qt> इति ।", "71013": "ङेर्य इति ।<\/w> ङेरियेत्कारान्तात् पष्ठ्येकवचनम्, न तु ङि इति सप्तम्येकवचनात् ; व्याख्यानात् । <<अतो भिस ऐस्>>[[7.1.9]] इत्यतः अत इति पञ्चम्यन्तमनुवर्तते । तेन च <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते तदाह - अतोऽङ्गादिति ।<\/w> अदन्तादङ्गादित्यर्थः । रामायेति ।<\/w> रामशब्दात् चतुर्थ्येकवचनविवक्षायां ङे विहिते 'राम ङे' इति जाते तत्र <<ङेर्यः>>[[7.1.13]] इत्यनेन ङेइत्यस्य स्थाने यकारादेशे कृते राम य<\/qt> इति । अत्र यकारे <<स्थानिवदादेशोऽनल्विधौ>>[[1.1.56]] इति स्थानिवद्भावेन सुप्त्वमानीय <<सुपि च>>[[7.3.102]] इत्यनेनादन्ताङ्गस्य दीर्घे प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यनेन अन्त्यस्यालो जाते रामाय<\/qt> इति रूपं सिद्धम् । रामाभ्यामिति ।<\/w> रामशब्दात् चतुर्थ्याः द्विवचनविवक्षायां भ्यामि राम भ्याम्<\/qt> अत्र <<सुपि च>>[[7.3.102]] इति दीर्घे तृतीयाद्विवचनवत् रामाभ्याम्<\/qt> इति रूपम् ।", "71014": "सर्वनाम्नः स्मै इति ।<\/w> <<अतो भिस ऐस्>>[[7.1.9]] इत्यतोऽत इत्यनुवर्तते । <<ङेर्यः>>[[7.1.13]] इत्यतो ङेरिति च तदाह - अतः सर्वेत्यादिना । सर्वस्मै इति ।<\/w> सर्वशब्दात् चतुर्थ्येकवचनविवक्षायां ङे समागते <<सर्वादीनि सर्वनामानि>>[[1.1.27]] इति सर्वनामसंज्ञायां <<ङेर्यः>>[[7.1.13]] इति यादेशे प्राप्ते तम्बाधित्वा <<सर्वनाम्नः स्मै>>[[7.1.14]] इत्यनेन ङे इत्यस्य स्थाने स्मै आदेशे सर्वस्मै<\/qt> इति रूपम् ॥ रामशब्दवत् चतुर्थीद्विवचनं बहुवचनञ्च – सर्वाभ्यां सर्वेभ्यः<\/qt> इति बोध्यम् ।", "71015": "ङसिङ्योरिति ।<\/w> ङसिश्च डिश्चेति द्वन्द्वः। <<अतो भिस ऐस्>>[[7.1.9]] इत्यस्मादत इति, <<सर्वनाम्नः स्मै>>[[7.1.14]] इत्यतः सर्वनाम्नः इति चानुवर्तते तदाह - अतः सर्वेति । सर्वस्मादिति ।<\/w> सर्वशब्दात्पञ्चम्येकवचनविवक्षायां ङसौ विहिते सर्व ङसि<\/qt> अत्र <<ङसिङ्योः स्मात्स्मिनौ>>[[7.1.15]] इति ङसेः स्थाने स्मात्<\/qt> आदेशे कृते सर्वस्मात्<\/qt> इति रूपम् । द्विवचनबहुवचनन्तु रामशब्दवत् - सर्वाभ्याम्, सर्वेभ्यः<\/qt> इति बोध्यम् । षष्ठ्याः एकवचनं द्विवचनमपि रामशब्दवत्- सर्वस्य, सर्वयोः<\/qt> इति ।", "71016": "पूर्वादिभ्य इति ।<\/w> <<ङसिङ्योः स्मात्स्मिनौ>>[[7.1.15]] वित्यनुवर्तते इत्याह - एभ्य इति ।<\/w> पूर्वपरेत्यादित्रिसूत्रीनिर्दिष्टाः पूर्वादय इह विवक्षिताः। पूर्वस्मादिति ।<\/w> पूर्वशब्दात्पञ्चम्येकवचनविवक्षायां ङसौ समागते <<पूर्वादिभ्यो नवभ्यो वा>>[[7.1.16]] इति वैकल्पिकेन ङसेः स्थाने स्मादित्यादेशे पूर्वस्मात्<\/qt> इति, पक्षे पूर्वात् इति । पूर्वस्मिन् ; पूर्वे इति ।<\/w> पूर्वशब्दात्, सप्तम्येकवचनविवक्षायां ङौ समागते तस्य स्थाने <<पूर्वादिभ्यो नवभ्यो वा>>[[7.1.16]] इति स्मिन्नादेशे कृते पूर्वस्मिन्<\/qt> इति, पक्षे - पूर्वे<\/qt> इति । एवं परादीनामिति ।<\/w> तथाहि - 'परस्मात्, परात्, परस्मिन्, परे । अवरस्मात्, अवरात्, अवरस्मिन्, अवरे । दक्षिणस्मात्, दक्षिणात्, दक्षिण स्मन्, दक्षिणे । उत्तरस्मात्, उत्तरात्, उत्तरस्मिन्, उत्तरे । अपरस्मात्, अपरात्, अपरस्मिन्, अपरे । अधरस्मात्, अधरात्, अधरस्मिन्, अधरे । स्वस्मात्, स्वात्, स्वस्मिन्, स्वे । अन्तरस्मात्, अन्तरात्, अन्तरस्मिन्, अन्तरे' इति । शेषं सर्ववदिति ।<\/w> एषां पूर्वादीनां नवानां सर्वादिगणपठित्वात् जसि, ङयि, आमि च सर्वनामकार्यत्वमिति विशेषः ।", "71017": "जसः शीति ।<\/w> <<अतो भिस ऐस्>>[[7.1.9]] इत्यस्मादत इत्यनुवर्तते । <<सर्वनाम्नः स्मै>>[[7.1.14]] इत्यतः सर्वनाम्न् इत्यनुवर्तते । तदाह - अदन्तादित्यादिना । सर्वे इति ।<\/w> अत्र प्रथमाया एकवचनद्विवचने रामशब्दवत् सर्वः, सर्वौ<\/qt> इति ज्ञेयम् । सर्वशब्दात् प्रथमाबहुवचनविवक्षायां जसि समागते <<सर्वादीनि सर्वनामानि>>[[1.1.27]] इति सर्वशब्दस्य सर्वनामसंज्ञायाम् <<जसः शी>>[[7.1.17]] इति जसः स्थाने, <<अनेकाल्शित्सर्वस्य>>[[1.1.55]] इत्यनेकाल्त्वात्सर्वादेशे सर्व शी<\/qt> इति जाते <<लशक्वतद्धिते>>[[1.3.8]] इतीत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे सर्वे<\/qt> इति रूपम् । द्वितीयायाम् – रामवत् 'सर्वम्, सर्वौ, सर्वान्' इति । तृतीयायाम् - रामवत् 'सर्वेण सर्वाभ्यां सर्वैः' इति ।", "71018": "रमेति ।<\/w> रमाशब्दोऽत्र वर्तते <<ङ्याप्प्रातिपदिकात्>>[[4.1.1]] इत्यनेन सर्वेऽपि स्वादयः प्राप्ताः । एषां मध्यादत्र प्रथमैकवचने सावागते <<उपदेशेऽजनुनासिक इत्>>[[1.3.2]] इति सकारोत्तरवर्त्युकारस्येत्सञ्ज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इत्यनेन सस्य लोपे च कृते 'रमा' इति रूपं सिद्ध्यति । औङ आप इति ।<\/w> आपः इति पञ्चमी । प्रत्ययग्रहणपरिभाषया आवन्तं विवक्षितम् । <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतं पञ्चम्या विपरिणम्यते । औङः इति षष्ठी । <<जसः शी>>[[7.1.17]] इत्यतः शीत्यनुवर्तते, तदाह - आवन्तादित्यादिना ।<\/w> औङ्शब्दस्याप्रसिद्धार्थत्वादाह - औङितीति । संज्ञेति ।<\/w> प्राचां शास्त्रे स्थितेति शेषः । रमे इति ।<\/w> 'रमा + औ' इति स्थिते औकारस्य स्थाने <<औङ आपः>>[[7.1.18]] इति 'शी' आदेशे कृते <<लशक्वतद्धिते>>[[1.3.8]] इति शकारस्येत्सञ्ज्ञायां लोपे च 'रमा + ई' इति जाते <<आद्गुणः>>[[6.1.87]] इति पूर्वपरयोः स्थाने गुणादेशे च विहिते 'रमे' इति रूपम् । रमाः इति ।<\/w> रमाशब्दाज्जसि समागते <<चुटू>>[[1.3.7]] इति जकारस्येत्संज्ञायां लोपे च <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे सस्य रुत्वे विसर्गे च विहिते 'रमाः' इति रूपम् ।", "71019": "नपुंसकाच्चेति । <<जसः शी>>[[7.1.17]] इत्यतः शीति <<औङ आपः>>[[7.1.18]] इत्यतः औङ इति चानुवर्तते, तदाह - क्लीबादित्यादिना ।", "71020": "जश्शसोः शिरिति । <<स्वमोर्नपुंसकात्>>[[7.1.23]] इत्यतो नपुंसकादित्यनुवर्तते, तदाह - क्लीबादिति । उक्तसञ्ज्ञमिति । सर्वनामस्थानसञ्ज्ञकमित्यर्थः ।", "71021": "अष्टाभ्य औशिति । अत्र <<जश्शसोः शिः>>[[7.1.20]] इत्यतो जश्शसोरित्यनुवर्तते । अष्टभ्य इति वक्तव्ये इति । भ्यसि अष्टभ्यः, अष्टाभ्यः इति रूपद्वये सत्यपि औशविधौ लाघवात् अष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः। अष्टौ । अष्टन् + जस् इत्यत्र <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यनेनाकारान्तादेशे विहिते 'अष्ट आ जस्' इति जाते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घत्वे <<अष्टाभ्य औश्>>[[7.1.21]] इति जस औशि विहिते शस्येत्सञ्ज्ञायां लोपे च विहिते <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ 'अष्टौ' इति रूपम् । एवमेव शसि अष्टो । अष्टाभिः । अष्टन् + भिस् अत्र <<अष्टन आ विभक्तौ>>[[7.2.84]] इति आत्वे सवर्णदीर्घत्वे च कृते 'अष्टाभिः' इति । अष्टाभ्यः । हलादौ आत्वे सवर्णदीर्घः । अष्टानाम् । आदौ नुटि कृते सति हलादित्वादात्वम् । पञ्चवदिति । अष्ट । अष्ट । अष्टभिः । अष्टभ्यः । अष्टानाम् । अष्टसु ।", "71022": "षड्भ्यो लुगिति ।<\/w> अत्र जश्शसोः इत्यनुवर्तते ।", "71023": "स्वमोर्नपुंसकादिति । अत्र <<षड्भ्यो लुक्>>[[7.1.22]] इत्यतो लुगित्यनुदर्तते । वारि । वारि + सु इत्यत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे 'वारि' इति रूपम् ।", "71024": "अतोऽमिति । अत इति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । अत इत्यनेन विशेष्यते । तदन्तविधिः । <<स्वमोर्नपुंसकात्>>[[7.1.23]] इत्यनुवर्तते । तदाह - अतोऽङ्गादिति । ज्ञानमिति । ज्ञानशब्दात्सावागते <<अतोऽम्>>[[7.1.24]] इति सोरमि कृते <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपैकादेशे 'ज्ञानम्' इति रूपम् । हल्लोप इति । पूर्वरूपे कृते सम्बुद्धेर्मकारमात्र यत् परिशिष्टं तस्य <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति लोप इत्यर्थः । हे ज्ञान इति । 'ज्ञान - सु' अत्र <<अतोऽम्>>[[7.1.24]] इत्यमि <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपैकादेशे ज्ञानम् इति जाते <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति मलोपे 'हे ज्ञान' इति रूपम् ।", "71025": "अद्ड् डतरादिभ्य इति । अद्ड् डतरादिभ्य इति छेदः। डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः । <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सूत्रमनुवर्तते, तदाह - <>एभ्य इत्यादिना ।", "71027": "", "71028": "ङे प्रथमयोरिति । अत्र <<युष्मदस्मद्भ्यां ङसोऽश्>>[[7.1.27]] इत्यतो युष्मदस्मद्भ्यामित्यनुवर्तते ।", "71029": "शसो न इति । न इति लुप्तप्रथमाविभक्तिकमिति यावत् । युष्मान्, अस्मान् । युष्मद् + शस् अस्मद् + शस् इत्यत्र <<लशक्वतद्धिते>>[[1.3.8]] इति शस्येत्संज्ञायां लोपे च <<शसो न>>[[7.1.29]] इति नादेशे <<तस्मादित्युत्तरस्य>>[[1.1.67]] इत्यनेनोत्तरस्य सर्वस्य प्राप्ते <<आदेः परस्य>>[[1.1.54]] इति आद्याकारस्य जाते 'युष्मद् + न् स्' 'अस्मद् + न् स्' इति भूते <<संयोगान्तस्य लोपः>>[[8.2.23]] इति स् लोपे <<द्वितीयायां च>>[[7.2.87]] इत्यन्तस्य द् मात्रस्य आकारे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति पूर्वपरयोः स्थाने दीर्घादेशे 'युष्मान्' 'अस्मान्' इति रूपम् ।", "71030": "भ्यसो भ्यम् । आन्यामिति । <<युष्मदस्मद्भ्यां ङसोऽश्>>[[7.1.27]] इत्यतस्तदनुवृत्तेरिति भावः । युष्मभ्यम्, अस्मभ्यम् । 'युष्मद् भ्यस्' अस्मद् + भ्यस् इत्यत्र <<भ्यसो भ्यम्>>[[7.1.30]] इति भ्यसः स्थाने भ्यमादेशे कृते <<शेषे लोपः>>[[7.2.90]] इति द् लोपे कृते सति 'युष्मभ्यम्' 'अस्मभ्यम्' इति ।", "71031": "पञ्चम्या अदिति । अत्र <<युष्मदस्मद्भ्यां ङसोऽश्>>[[7.1.27]] इत्यतो युष्मदस्मद्भ्याम् इति <<भ्यसो भ्यम्>>[[7.1.30]] इत्यतो भ्यस इति चानुवर्तते । युष्मत्, अस्मद् । युष्मद् + भ्यस् अस्मद् + भ्यस् इत्यत्र <<पञ्चम्या अत्>>[[7.1.31]] इति भ्यसोऽति <<शेषे लोपः>>[[7.2.90]] इति दस्य लोपे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे च कृते 'युष्मत्' इति 'अस्मत्' इति च भवतः ।", "71032": "एकवचनस्यचेति । <<युष्मदस्मद्भ्यां ङसोऽश्>>[[7.1.27]] इत्यतो युष्मदस्मद्भ्यामित्यनुवर्तते, <<पञ्चम्या अत्>>[[7.1.31]] इति च तदाह -आभ्यामिति । त्वत्, मत् । युष्मद् + ङसि , अस्मद् + ङसि इत्यत्र <<त्वमावेकवचने>>[[7.2.97]] इति युष्मदो मपर्यन्तस्य त्वादेशे अस्मदो मपर्यन्तस्य च मादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे <<एकवचनस्य च>>[[7.1.32]] इति ङसेरति विहिते <<शेषे लोपः>>[[7.2.90]] इति द् मात्रलोपे त्व + अत् म + अत् इति जाते <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे च 'त्वत्' इति 'मत्' इति च भवतः । भ्यामि - पूर्ववत् - 'युवाभ्याम्' 'आवाभ्याम्' इति स्तः ।", "71033": "साम इति । 'सकारेण सहितः आम् साम् तस्येत्यर्थः ।' ससुट्कस्य आम इति यावत् । युष्माकम् अस्माकम् । युष्मद् + आम् अस्मद् + आम् इत्यत्र <<साम आकम्>>[[7.1.33]] इति आमि साम्त्वमारोप्य आकमादेशे विहिते युष्मद् + आकम् अस्मद् + आकम् इति जाते <<शेषे लोपः>>[[7.2.90]] इति दलोपे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति सवर्णदीर्घत्वे 'युष्माकम्' 'अस्माकम्' इति । त्वयि, मयि । युष्मद् + ङि अस्मद् + ङि इत्यत्र <<त्वमावेकवचने>>[[7.2.97]] इति युष्मदो मपर्यन्तस्य त्वादेशे अस्मदो मपर्यन्तस्य च मादेशे कृते <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे च कृते त्वद् + ङि मद् + ङि इति जाते ङकारस्येसंज्ञायां लोपे च <<योऽचि>>[[7.2.89]] इति दकारस्य यकारादेशे 'त्वयि' 'मयि' इति भवतः । ओसि - युवयोः, आवयोः पूर्ववत् । युष्मासु, अस्मासु । युष्मद् + सुप् अस्मद् +सुप् इत्यत्र पकारस्येत्संज्ञायां लोपे च कृते <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इति 'द्' इत्यस्यात्वे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घत्वे च जाते 'युष्मासु' 'अस्मासु' इति रूपे स्तः ।", "71052": "आमि सर्वनाम्न इति ।<\/w> <<आज्जसेरसुक्>>[[7.1.50]] इत्यत आत्<\/qt> इति पञ्चम्यन्तमनुवर्तते । तदनुरोधेन <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतं पञ्चम्या विपरिणतं विशेप्यते, तदन्तविधिः, परस्येत्यध्याहार्यम् । इति न्यायेन <<तस्मादित्युत्तरस्य>>[[1.1.67]] इति परिभाषया आमि इति सप्तमीः आम इति षष्ठ्यन्तमापद्यते । सर्वनाम्नः इति विहितविशेषणन्तदाह -अवर्णान्तादित्यादिना । सर्वेषामिति ।<\/w> सर्वशब्दात् षष्ठीबहुवचनविवक्षायाम् आमि, सर्व-आम्<\/qt> इति स्थिते <<आमि सर्वनाम्नः सुट्>>[[7.1.52]] इति सुटि उटो लोपे, टित्त्वादाद्यावयवे 'सर्व स् आम्' इति जाते <<बहुवचने झल्येत्>>[[7.3.103]] इत्यनेन वकारोत्तरवर्तिनोऽकारस्यैत्त्वे <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे च सर्वेषाम्<\/qt> इति रूपम् । सर्वस्मिन्निति ।<\/w> सर्वशब्दात् सप्तम्येकवचनविवक्षायां ङौ सति तस्य स्थाने <<ङसिङ्योः स्मात्स्मिनौ>>[[7.1.15]] इति स्मिनादेशे कृते सर्वस्मिन् इति रूपम् । शेषं रामवदिति ।<\/w> सर्वयोः सर्वेषु । एवं विश्वादय इति ।<\/w> सर्वशब्दवत् विश्वशब्दः । तथाहि – 'विश्वः, विश्वौ विश्वे' प्रथमा, विश्वं विश्वौ विश्वान्' द्वितीया । विश्वेन विश्वाभ्यां विश्वैः, तृतीया । विश्वस्मै विश्वाभ्यां विश्वेभ्यः, चतुर्थी । विश्वस्मात् विश्वाभ्याम् विश्वेभ्यः, पञ्चमी । विश्वस्य विश्वयोः विश्वेषाम् षष्ठी । विश्वस्मिन् विश्वयोः विश्वेषु सप्तमी इति ॥ तस्येह पाठोऽकजर्थं इति ।<\/w> उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । ननु एवं सति <<जसः शी>>[[7.1.17]] <<सर्वनाम्नः स्मै>>[[7.1.14]] <<ङसिङ्योः स्मात्स्मिनौ>>[[7.1.15]] <<आमि सर्वनाम्नः सुट्>>[[7.1.52]] इत्युक्तानां सर्वनामप्रयुक्तकार्याणां द्विवचने अभावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इति चेद्, न । <<अव्ययसर्वनाम्नामकच् प्राक् टेः>>[[5.3.71]] इति अकजर्थं सर्वादिगणे तस्य पाठस्यावश्यकत्वात् । यद्यत्र पाठो न क्रियेत ; तहिं सर्वनामसंज्ञा न स्यात्, सर्वनामसंज्ञाभावे तु नाकच् | तेन उभकौ<\/qt> इति न सिद्धयेतेति भावः । डतरडतमाविति ।<\/w> अत्र <ऽप्रत्ययग्रहणे तदन्ता ग्राह्याःऽ> इति परिभाषया डतरान्तडतमान्तौ ग्राह्यौ । केवलयोः तयोः संज्ञायाः प्रयोजनाभावात् । प्रत्ययाविति ।<\/w> <<किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्>>[[5.3.92]] <<वा बहूनां जातिपरिप्रश्ने डतमच्>>[[5.3.93]] <<एकाच्च प्राचाम्>>[[5.3.94]] इति विहितौ । तदन्ता ग्राह्या इति ।<\/w> डतरग्रहणेन कतरादिशब्दानाम्, डतमग्रहणेन कतमादिशब्दानाञ्च ग्रहणमिति भावः । नेम इत्यर्धं इति ।<\/w> 'प्र नेमस्मिन् ददृशे सोमो अन्तः' इत्यृचौ तथा दर्शनादिति भावः । समः सर्वपर्याय इति ।<\/w> सर्वशब्दसमानार्थक एव समशब्दः सर्वादिगणे पठित इत्यर्थः । तुल्यपर्यायस्त्विति ।<\/w> तुल्यशब्दसमानार्थक इत्यर्थः । ज्ञापकादिति ।<\/w> अन्यथा तत्र समेषामिति निर्दिशेदिति भावः ।", "71053": "त्रस्त्रय इति ।<\/w> <<आमि सर्वनाम्नः सुट्>>[[7.1.52]] इत्यत आमीत्यनुवर्तते, तदाह - त्रिशब्दस्येत्यादिना । त्रयाणाम् ।<\/w> त्रिशब्दात् षष्ठीबहुवचनविवक्षायाम् आमि कृते सति 'त्रि - आम्' इति स्थिते <<त्रेस्त्रयः>> [[7.1.53]] इति त्रिशब्दस्य त्रयादेशे कृते <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नुटि <<नामि>>[[6.4.3]] इति दीर्घे <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे त्रयाणाम्<\/qt> इति रूपम् । गौणत्वेऽपि प्रियत्रयाणामिति ।<\/w> ननु अत्र <ऽगौणमुख्ययोर्मुख्ये कार्ये सम्प्रत्ययःऽ> इति न्यायात् त्रिशब्दस्याऽन्यपदार्थे विशेषणत्वेन गौणत्वात् प्रियत्रयाणामित्यत्र <<त्रेस्त्रयः>> [[7.1.53]] इति त्रयादेशो न स्यादिति चेद्, न । तस्य पदकायें एव प्रवृत्तेः । अत एव उपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृतेति सङ्गच्छत इति दिक् ।", "71054": "ह्रस्वनद्याप इति ।<\/w> ह्रस्वश्च नदी च आप् चेति समाहारद्वन्द्वाद्दिग्योगे पञ्चमी । परस्य इत्यध्याहार्यम् । <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतं पञ्चम्या विपरिणम्य ह्रस्वादिभिर्विशेष्यते । अतस्तदन्तविधिः । <<आमि सर्वनाम्नः सुट्>>[[7.1.52]] इत्यतः आमि इत्यनुवर्तते । तच्च इति न्यायात् <<तस्मादित्युत्तरस्य>>[[1.1.67]] इति षष्ठ्यन्ते सम्पद्यते । तदाह - ह्रस्वान्तादित्यादिना ।<\/w>", "71055": "षट्चतुर्भ्यश्चेति । <<आमि सर्वनाम्नः सुट्>>[[7.1.52]] इत्यत आमीत्यनुवृत्तं षष्ठ्या विपरिणम्यते । षडिति पट्संज्ञकं गृह्यते । न तु पट्शब्दः, <कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययःऽ> इति न्यायात् । चतुर्ण्णामिति । चतुर् + आम् इत्यत्र <<षट्चतुर्भ्यश्च>>[[7.1.55]] इत्यामो नुडागमे टित्त्वादाद्यावयवे उटि गते 'चतुर् न आम्' इति जाते <<रषाभ्यां नो णः समानपदे>>[[8.4.1]] इति णत्वे <<अचो रहाभ्यां द्वे>>[[8.4.46]] इति णस्य च द्वित्वे विहिते 'चतुर्ण्णाम्' इति रूपम् ।", "71070": "उगिदचामिति । अत्र <<इदितो नुम् धातोः>>[[7.1.58]] इत्यतो नुमित्यनुवर्तते । मघवान् । मघवन् + सु इत्यत्र <<मघवा बहुलम्>>[[6.4.128]] इति तृ इत्यन्तादेशे कृते मघवतृ + सु इति जाते ऋकारस्येत्संज्ञत्वे लोपे च विहिते मघवत् + सु इति जाते <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि मित्वादन्त्यादचः परे उमि गते 'मघवन्त् सु' इति स्थिते सोरुकारस्येत्संज्ञायां लोपे च <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे त्कारस्य <<संयोगान्तस्य लोपः>>[[8.2.23]] इति लोपे <<मघवा बहुलम्>>[[6.4.128]] इति बहुलग्रहणात्संयोगान्तस्य लोपस्यासिद्धत्वाभावेन <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तस्योपधाया दीर्घत्वे च कृते 'मघवान्' इति रूपम् । मघवन्तौ । मघवन् + औ अत्र <<मघवा बहुलम्>>[[6.4.128]] इति 'तृ' इत्यन्तादेशे कृते ऋकारस्येत्संज्ञायां लोपे च <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि मित्वादन्त्यादचः परे उमि गते संयोगे च कृते 'मघवन्तौ' इति रूपम् । एवं 'मघवन्तः' इति बोध्यम् । सुटि त्रादेशे नुम् चेति भावः । शसादौ त्रादेशः, न तु नुम् ।असर्वनामस्थानत्वात् । <>हे मधवन् ।<> मघवन् + सु अत्र तृआदेशे ऋगते, नुमि, उमि गते सोरुकारे गते च 'मधवन् त् स्' इति स्थिते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सलोपे त् इत्यस्य संयोगान्तलोपे संयोगान्तलोपस्यासिद्धत्वान्नलोपाभावे 'हे भधववन्' इति रूपम् । मघवद्भ्याम् । मघवन् + भ्याम् अत्र <<मघवा बहुलम्>>[[6.4.128]] इति तृ इत्यन्तादेशे ऋगते <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<झलां जशोऽन्ते>>[[8.2.39]] इति जश्त्वे 'मघवद्भ्याम्' इति रूपम् । तृत्वाभावे मघवेति । नान्तात्सौ राजवद्रूपमिति भावः । <>सुटि राजवदिति ।<> मघवा, मघवानौ, मघवानः । हे मघवन् । मघवानम्, मघवानौ ।", "71071": "युजेरसमास इति । <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इत्यतः सर्वनामस्थान इत्यनुवर्तते । <<इदितो नुम् धातोः>>[[7.1.58]] इत्यतो नुमिति च । तदाह - सर्वनामस्थान इत्यादिना । युङ् । युज् + सु इत्यत्र सुबुत्पतेः प्राक् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इति क्विनि, क्विनो लोपे क्विनः कृत्सञ्ज्ञायां कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते सोरुकारे गते <<युजेरसमासे>>[[7.1.71]] इति नुमि उमि गते मित्वादन्त्यादचः परे 'युन् ज् स्' इति जाते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे <<संयोगान्तस्य लोपः>>[[8.2.23]] इति ज् लोपे <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति नकारस्य कुत्वेन ङत्वे 'युङ्' इति रूपम् । युञ्जौ । युज + औ इत्यत्र <<युजेरसमासे>>[[7.1.71]] इति नुमि उमि गते मित्वादन्त्यादचः परे <<नश्चापदान्तस्य झलि>>[[8.3.24]] इत्यनुस्वारे <<अनुस्वारस्य ययि परसवर्णः>>[[8.4.58]] इति परसवर्णे ञकारे च कृते संयोगे सति 'युञ्जौ' इति रूपम् । एवमेव 'युञ्जः' इति रूपम् । युज् + शस् अत्र शकारस्येत्सञ्ज्ञायां लोपे च जस्य अकारेण सह संयोगे सस्य रत्वे रस्य विसर्गत्वे च 'युजः' इति । टायाम् -युजा । युग्भ्याम् । युज् + भ्याम् अत्र पद सञ्ज्ञायाम् <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कवर्गादेशे विहिते 'युग्भ्याम्' इति रूपम् । युग्भिः । युजे, युग्भ्याम्, युग्भ्यः । युजः, युजोः, युजाम् । युजि । युज् + सुप् इत्यत्र पकारस्येत्सञ्ज्ञायां लापे च <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसञ्ज्ञायां <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वेन गकारे <<खरि च>>[[8.4.55]] इति चर्त्वेन ककारे <<आदेशप्रत्यययोः>>[[8.3.59]] इति सुपः सकारस्य मूर्धन्यादेशेन षकारे क् ष् संयोगेन क्षकारे 'युक्षु' इति ।", "71072": "नपुंसकस्य झलच इति । झल् च अच्चेति समाहारद्वन्द्वः | तेन च अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । <<इदितो नुम् धातोः>>[[7.1.58]] इत्यतो नुमित्यनुवर्तते । <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इत्यतः सर्वनामस्थाने इत्यनुवर्तते । तदाह – झलन्तेति ।", "71073": "इकोऽचीति । <<इदितो नुम् धातोः>>[[7.1.58]] इत्यतो नुमित्यनुवर्तते, <<नपुंसकस्य झलचः>>[[7.1.72]] इत्यतो नपुंसकस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतम् इको विशेष्यते, तदन्तविधिस्तदाह - इगन्तस्येत्यादिना । 'वारिणी' । वारि + औ इत्यत्र <<नपुंसकाच्च>>[[7.1.19]] इत्यौकारस्य शीत्वे शस्य लोपे च कृते 'वारि ई' इति जाते <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि कृते उमि गते 'वारिन् ई' इति जाते <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति नस्य णत्वे 'वारिणी' इति रूपम् । वारीणि । वारि +जस् इत्यत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शीत्वे <<शि सर्वनामस्थानम्>>[[1.1.42]] इति शीत्यस्य सर्वनामस्थानत्वे <<लशक्वतद्धिते>>[[1.3.8]] इति शस्येत्संज्ञकत्वे <<तस्य लोपः>>[[1.3.9]] इति लोपे <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि उकारमकारयोरित्संज्ञकत्वे लोपे च <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधाया दीर्घत्वे <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे च कृते 'वारीणि' इति रूपम् । न लुमतेत्यस्यानित्यत्वादिति । अत्र <<इकोऽचि विभक्तौ>>[[7.1.73]] इत्यत्राज्ग्रहणं ज्ञापकम् । तथाहि - हलादिषु भ्यामादिषु सत्यपि नुमि <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति तस्य लोपसम्भवात्, सम्बुद्धौ तु लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः प्राप्तेरभावाच्च अचीति व्यर्थं सत् <<न लुमताङ्गस्य>>[[1.1.63]] इत्यस्यानित्यतां ज्ञापयतीति भावः । हे वारे - हे वारि । 'हे वारि सु' इत्यत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे 'हे वारि' इति । <<न लुमताङ्गस्य>>[[1.1.63]] इत्यस्यानित्यत्वेन <<प्रत्ययलोपे प्रत्ययलक्षणम्>>[[1.1.62]] इत्यनेन प्रत्ययलक्षणत्वात्पक्षे <<ह्रस्वस्य गुणः>>[[7.3.108]] इति गुणे <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति सोर्लोपे 'हे वारे' इति । आङो नेति । रूपे विशेषाभावेऽपि नुमपेक्षया परत्वेन ना भावस्यैव न्याय्यत्वादिति भावः । वारिणेति । वारि + टा अत्र <<शेषो घ्यसखि>>[[1.4.7]] इति घिसंज्ञायाम् <<आङो नाऽस्त्रियाम्>>[[7.3.120]] इति टास्थाने नादेशे णत्वे च विहिते 'वारिणा' इति रूपम् । वृद्धयौत्वेति । अतिसखिनीत्यत्र <<सख्युरसम्बुद्धौ>>[[7.1.92]] इति णिद्वद्भावाद् वृद्धिः प्राप्ता, वारिणीत्यत्र तु <<अच्च घेः>>[[7.3.119]] इत्यौवम् । प्रियक्रोष्टुनीत्यादौ तृज्वद्भावः प्राप्तः । वारिण इत्यत्र <<घेर्ङिति>>[[7.3.111]] इति गुणः प्राप्तः । तान् सर्वान् पूर्वर्विप्रतिषेधेन बाधित्वा नुमित्यर्थः। वारिणे । वारि + ङे अत्र अनुबन्धलोपे घित्वात् <<घेर्ङिति>>[[7.3.111]] इति गुणे प्राप्ते इति पूर्वविप्रतिषेधस्य प्रबलत्वात् <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि णत्वे च कृते 'वारिणे' इति रूपम् । वारिण इति । ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारिणोः । वारि + ओस अत्र यणं बाधित्वा नुमि णत्वे च रूपम् । वारीणामिति । वारि + आम् अत्र परत्वान्नुटं बाधित्वा नुमि प्राप्ते इति पूर्वविप्रतिषेधेन नुटि <<नामि>>[[6.4.3]] इति दीर्घे णत्वे च कृते 'वारीणाम्' इति रूपम् । वारिणीति । वारि + इ इति स्थिते अत्र <<अच्च घेः>>[[7.3.119]] इत्यौत्त्वं परमपि बाधित्वा इति पूर्वविप्रतिषेधे नुमि उकारमकारयोरित्सञ्ज्ञकत्वे लोपे नस्य णत्वे च कृते मिलित्वा 'वारिणि' इति रूपम् ।", "71074": "तृतीयादिष्विति । भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत् भाषितपुंस्कं तदस्यास्तीति अर्श आद्यच् । शब्दस्वरूपम्, विशेष्यम् । पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । <<इकोऽचि विभक्तौ>>[[7.1.73]] इत्यतः इकोऽचीति <<नपुंसकस्य झलचः>>[[7.1.72]] इत्यतो नपुंसकस्येति चानुवर्तते । पष्ठी च प्रथमया विपरिणम्यते । तदाह - प्रवृत्तिनिमित्तैक्य इत्यादिना । सुधिया, सुधिनेति । सुध्यातृत्वस्य शोभनज्ञानवत्वस्य वा प्रवृत्तिनिमित्तस्य पुंसि नपुंसके च एकत्वात् पुंवत्त्वविकल्पः । तेन पुंवद्भावपक्षे अजादौ विभक्तौ परे <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इतीयङि 'सुधिया' इति । पुंवद्भावाभावपक्षे – नुमि - 'सुधिना' इति । मधु । मधु + सु इत्यत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे 'मधु' इति । मधुनी । मधु + औ अत्र <<नपुंसकाच्च>>[[7.1.19]] इत्यौकारस्य शीत्वे अनुबन्धलोपे <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि उमि गते संयोगे च कृते 'मधुनी' इति रूपम् । मधूनि । मधु + जस् इत्यत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः शीत्वे <<शि सर्वनामस्थानम्>>[[1.1.42]] इति शेः सर्वनामस्थानत्वे <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि उमि गते <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तस्योपधायाः दीर्घत्वे कृते च संयोगे 'मधूनि' इति रूपम् । हे मधो - हे मधु । अत्र <<न लुमताङ्गस्य>>[[1.1.63]] इति निषेधस्यानित्यत्वात्पक्षे सम्बुद्धिनिमित्तको गुणः । तदभावे च द्वितीयं रूपमिति स्पष्टं वारिशन्दनिरूपणे उक्तम् । सुलु । सुष्ठु लुनातीति क्विप् । <<ह्रस्वो नपुंसके प्रातिपदिकस्य>>[[1.2.47]] इति ह्रस्वः । सुलु + सु अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे 'सुलु' इति । सुलुनी । सुलु+ औ अत्र <<नपुंसकाच्च>>[[7.1.19]] इति औस्थाने श्यादेशे अनुबन्धलोपे <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि उमि गते मिलित्वा 'सुलुनी' इति । सुलूनि । सुलु + जस् अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने 'शि' आदेशे <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसंज्ञकत्वे <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि मित्त्वादन्त्यादचः परे सति उमि गते <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति दीर्घे 'सुलूनि' इति । सुल्वा, सुलुनेत्यादि । शोभनलवनकर्तृत्वं प्रवृत्तिनिमित्तमेकमिति पुंवत्वविकल्पः। पुंवत्वे ह्रस्वाभावेनाघित्वात् नाभावो न, नुमभावश्च । <<ओः सुपि>>[[6.4.83]] इति यण् सुल्वा । पुंवत्वाभावपक्षे तु यणं बाधित्वा नुम् । 'सुलुना' इति । ङेप्रभृतिषु तु पुंवत्वाभावे इति पूर्वविप्रतिषेधेन नुमि सुलुने, पुंवत्वे तु सुल्वे, ङसिङसोः - सुलुनः, सुल्वः, ओसि - सुलुनोः, सुल्वोः । आमि -सुलनाम्, सुल्वाम् । ङौ - सुलुनि, सुल्वि, इति बोध्यम् । धातृ । धातृ + सु इत्यत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे 'धातृ' इति । धातृणी । धातृ + औ इत्यत्र <<नपुंसकाच्च>>[[7.1.19]] इत्यौकारस्य शीत्वे अनुबन्धलोपे <<इकोऽचि विभक्तौ>>[[7.1.73]] इति नुमि उमि गते णत्वे च कृते 'धातृणी' इति । धातॄणि । धातृ + जस् अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः शित्वे <<शि सर्वनामस्थानम्>>[[1.1.42]] इति शेः सर्वनामस्थानत्वे शकारस्येत्संज्ञायां लोपे च <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि उमि गते सति <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तस्योपधाया दीर्घत्वे इति णत्वे 'धातृणि' इति रूपम् । हे धात:, हे धातृ । हे घातृ + सु अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लोपे <<न लुमताङ्गस्य>>[[1.1.63]] इत्यस्यानित्यत्वात्प्रत्ययलक्षणे सम्बुद्धिनिमित्तकगुणे अकारे रपरे च जाते रेफस्य विसर्गे 'हे धातः' इति । पक्षे - 'हे घातृ' इति । धारणकर्तृत्वरूपप्रवृत्तिनिमित्तैक्यात् टादावचि पुंवत्त्वविकल्पः । तेन धात्रा - धातृणा । धात्रे - धातृणे । धातुः - धातृणः । धात्रोः - धातृणोः । इति नुट् । धातृणाम् । धातरि - धातृणि ।", "71075": "अस्थिदधीति । तृतीयादिष्विति, अचीति चानुवर्तते । तदाह - एषामिति ।", "71078": "नाभ्यस्तादिति । <<इदितो नुम् धातोः>>[[7.1.58]] इत्यतो नुमित्यनुवर्तते । तदाह - अभ्यस्तादित्यादिना । ददत् - ददद् । ददत् +सु इत्यत्र <<उभे अभ्यस्तम्>>[[6.1.5]] इति अभ्यस्तसंज्ञायाम् <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि प्राप्ते <<नाभ्यस्ताच्छतुः>>[[7.1.78]] इति नुमो निषेधे हल्ङ्यादिना सुलोपे <<सुप्तिङन्तं पदम्>>[[1.4.14]] इति पदसंज्ञायां <<झलां जशोऽन्ते>>[[8.2.39]] इति तकारस्य दकारे <<वाऽवसाने>>[[8.4.56]] इति दकारस्य तकारे 'ददत्' इति । चर्त्वाभावपक्षे - 'ददद्' इति रूपम् ।", "71079": "वा नपुंसकस्येति<\/w> । <<नाभ्यस्ताच्छतुः>>[[7.1.78]] इत्यत अभ्यस्ताच्छतुरित्यनुवर्तते, <<इदितो नुम् धातोः>>[[7.1.58]] इत्यतो नुम् इति, <<उगिदचाम्>> इत्यतः सर्वनामस्थाने इति च अनुवर्तते । तदाह - अभ्यस्तादित्यादिना । ददन्ति, ददति । ददत् + जस्<\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शौ कृते शस्येत्सञ्ज्ञायां लोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसञ्ज्ञायां <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि प्राप्ते <<नाभ्यस्ताच्छतुः>>[[7.1.78]] इति निषिद्धे <<वा नपुंसकस्य>>[[7.1.79]] इति विकल्पेन नुमि उमि गते मित्वादन्त्यादचः परे <<नश्चापदान्तस्य झलि>>[[8.3.24]] इति अनुस्वारे, <<अनुस्वारस्य ययि परसवर्णः>>[[8.4.58]] इति परसवर्णे 'ददन्ति' इति । नुमभावे - 'ददति' इति । तुदत् । तुद व्यथने अस्माच्छतृप्रत्यये <<तुदादिभ्यः शः>> [[3.1.77]] इति शः, शपोऽपवादः, <<अतो गुणे>>[[6.1.97]] इति शतुरकारेण पररूपे तुदच्छब्दः तस्मात्स्वमोर्लुक इति भावः ।", "71080": "आच्छीनद्योर्नुमिति । अत्र <<नाभ्यस्ताच्छतुः>>[[7.1.78]] इत्यतः शतुरिति <<वा नपुंसकस्य>>[[7.1.79]] इत्यतो वेति चानुवर्तते । तुदन्ती, तुदती । तुदत् + औ <\/qt> इत्यत्र <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च तुदत् + ई <\/qt> इति स्थिते अत्र <<आच्छीनद्योर्नुम्>>[[7.1.80]] इति नुमि, उमि गते मित्वादन्त्यादचः परे जाते <<नश्चापदान्तस्य झलि>>[[8.3.24]] इत्यनुस्वारे <<अनुस्वारस्य ययि परसवर्णः>>[[8.4.58]] इति परसवर्णे 'तुदन्ती' इति । नुमभावे 'तुदती' इति । तुदन्ति । तुदत् + जस् <\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शौ कृते शस्येत्सञ्ज्ञायां लोपे च सर्वनामस्थानसञ्ज्ञायाम् <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि, उमि गते मित्वादन्त्यादचः परे अनुस्वारे परसवर्णे च कृते 'तुदन्ति' इति ।", "71081": "शप्श्यनोर्नित्यमिति । <<आच्छीनद्योर्नुम्>>[[7.1.80]] इत्यनुवर्तते, <<नाभ्यस्ताच्छतुः>>[[7.1.78]] इत्यतः शतुरित्यनुवर्तते । अवयव इति चाध्याहियते । तदाह - शप्श्यनारादित्यादिना । पचन्ती । पचत् + औ<\/qt> इत्यत्र <<नपुंसकाच्च>>[[7.1.19]] इति औस्थाने श्यादेशे शस्येत्सञ्ज्ञायां लोपे च <<शप्श्यनोर्नित्यम्>>[[7.1.81]] इति नुमि उमि गते मित्वादन्त्यादच: परे अनुस्वारे परसवर्णे च कृते, कृते च संयोगे 'पचन्ती' इति । पचन्ति । जश्शसोः शौ सर्वनामस्थानत्वान्नुमि रूपम् । दीव्यत् । दिवुधातोः लटः शतरि, श्यन् <<हलि च>>[[8.2.77]] इति दीर्घः । दीव्यच्छब्दात् स्वमोर्लुगिति भावः । दीव्यन्ती । औङः श्याम्, <<शप्श्यनोर्नित्यम्>>[[7.1.81]] इति नुमि रूपम् । दीव्यन्ति । जश्शसोः शौ सर्वनामस्थानत्वात् नुमिति भावः । धनुः । 'धनुष्+सु' अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि, षस्य असिद्धत्वात् <<ससजुषो रुः>>[[8.2.66]] इति रुत्वे अनुबन्धलोपे <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रेफस्य विसर्गत्वे च कृते 'धनुः' इति रूपम् । धनुषी । धनुष् + औ<\/qt> अत्र <<नपुंसकाच्च>>[[7.1.19]] इति औस्थाने श्यादेशे शस्येत्सञ्ज्ञायां लोपे संयोगे च कृते 'धनुषी' इति । धनूंषि । धनुष् + जस्<\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः शौ कृते शस्येत्सञ्ज्ञायां लोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसञ्ज्ञायाम् <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि, उमि गते मित्वादन्त्यादचः परे जाते <<सान्तमहतः संयोगस्य>>[[6.4.10]] इति सान्तसंयोगस्योपधायाः दीर्घत्वे <<नश्चापदान्तस्य झलि>>[[8.3.24]] इत्यनुस्वारे <<नुम्विसर्जनीयशर्व्यवायेऽपि>>[[8.3.58]] इति सस्य षत्वे संयोगे च कृते 'धनूंषि' इति रूपम् । धनुषा । धनुष् + टा<\/qt> अत्र <<चुटू>>[[1.3.7]] इति टकारस्येत्सञ्ज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे संयोगे च कृते 'धनुषा' इति । धनुर्भ्याम् । धनुष् + भ्याम्<\/qt> अत्र षत्वस्यासिद्धत्वात् <<ससजुषो रुः>>[[8.2.66]] इति रुत्वे उकास्य <<उपदेशेऽजनुनासिक इत्>>[[1.3.2]] इतीसञ्ज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे संयोगे च कृते 'धनुर्भ्याम्' इति रूपम् । एवं चक्षुर्हविरादय इति । चक्षुः, चक्षुषी, चक्षूंषि । चक्षुषा, चक्षुर्भ्याम् । इत्यादि । हविः, हविषी, हर्वीषि । हविषा, हविर्भ्याम् । इत्यादि । पयः । पयस् + सु<\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि, सस्य <<ससजुषो रुः>>[[8.2.66]] इति रुत्वे उकारस्येत्सञ्ज्ञायां लोपे च कृते रेफस्य <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति विसर्गे 'पयः' इति । पयसी । 'पयस्+औ' अत्र <<नपुंसकाच्च>>[[7.1.19]] इति औस्थाने श्यादेशे शस्येत्सञ्ज्ञायां लोपे संयोगे च कृते 'पयसी' इति । पयांसि । पयस् + जस्<\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शौ कृते शस्येत्सञ्ज्ञायां लोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसञ्ज्ञायां <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि उमि गते मित्वादन्त्यादचः परे <<सान्तमहतः संयोगस्य>>[[6.4.10]] इति सान्तसंयोगस्योपधायाः दीर्घत्वे अनुस्वारे परसवर्णे च जाते संयोगे च कृते 'पयांसि' इति । पयसा । 'पयस्+टा' अत्र टकारस्येत्सञ्ज्ञायां लोपे च कृते, कृते च संयोगे 'पयसा' इति । पयोभ्याम् । सस्य रुत्वे, <<हशि च>>[[6.1.114]] इति रोरुत्वे, गुणे च रूपम् । सुपुम् । सु-शोभनः पुमान् यस्य गृहस्य इति बहुव्रीहौ, सुपुंस् शब्दात् स्वमोर्लुक, संयोगान्तलोपः। सुपुंसी । सुपुंस् + औ<\/qt> अत्र <<नपुंसकाच्च>>[[7.1.19]] इति औस्थाने श्यादेशे शस्येत्सञ्ज्ञायां लोपे संयोगे च कृते 'सुपुंसी' इति । सुपुमांसि । सुपुंस् + जस् <\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शौ कृते शस्येत्सञ्ज्ञायाम्, लोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसञ्ज्ञायां <<पुंसोऽसुङ्>>[[7.1.89]] इति असुङि, ङस्येत्सञ्ज्ञायां लोपे च उकारे गते <<अनेकाल्शित्सर्वस्य>>[[1.1.55]] इति सर्वस्यादेशे प्राप्ते <<ङिच्च>>[[1.1.53]] इत्यन्तादेशे जाते । सुपुम् स् + इ<\/qt> इति जाते <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि, उमि गते, मित्वादन्त्यादचः परे <<सान्तमहतः संयोगस्य>>[[6.4.10]] इति सान्तसंयोगगतस्य नान्तस्योपधाया दीर्घत्वे नस्यानुस्वारे च कृते 'सुपुमांसि' इति रूपम् । अदः । अदस् शब्दात् स्वमोर्लुक्, रूत्वविसर्गौ, सान्तत्वात् न् मुत्वम्, लुका लुप्तत्वात् त्यदाद्यत्वं नेति भावः । औङादावाह् - विभक्तिकार्यामिति । त्यदाद्यत्वादिकमित्यर्थः । उत्वमत्वे । <<पूर्वत्रासिद्धम्>>[[8.2.1]] इति विभक्तिकार्योत्तरम् उत्वमत्वे इत्यर्थः । अमू । अदस् + औ<\/qt> इति स्थिते अत्र <<त्यदादीनामः>>[[7.2.102]] इत्यत्वे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<नपुंसकाच्च>>[[7.1.19]] इति औस्थाने श्यादेशे शस्येत्सञ्ज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे 'अदे' इति जाते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति दात्परस्योत्वे दस्य च मत्वे 'अमू' इति । अमूनि । अदस् + जस्<\/qt> अत्र त्यदाद्यत्वे पररूपत्वे <<जश्शसोः शिः>>[[7.1.20]] इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसञ्ज्ञायां <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि, उमि गते मित्वादन्त्यादचः परे <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधाया दीर्घत्वे 'अदानि' इति जाते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति दात्परस्याकारस्योत्वे दस्य च मत्वे 'अमूनि' इति रूपम । शेषम् । अमुना, अमूभ्याम्, अमीभिः । इत्यादिः । पुंवदिति । पुँल्लिङ्गे यथोक्तं, तद्वदिति यावत् । इति हलन्तनपुंसकलिङ्गप्रकरणम् ॥", "71082": "सावनडुह इति । <<आच्छीनद्योर्नुम्>>[[7.1.80]] इत्यतो नुमित्यनुवर्त्याह - नुम् स्यादिति । अनड्वान् । अनडुह् + सु इत्यत्र <<चतुरनडुहोरामुदात्तः>>[[7.1.98]] इत्याम् प्राप्तः स क्व स्यादित्याशङ्कायाम् <<मिदचोऽन्त्यात्परः>>[[1.1.47]] इति मित्त्वात् उकारोत्तरवर्त्यकारात् परो जातः । एवं सति अनडु आम् ह् सु इति जाते मकारस्येत्संज्ञायां लोपे च 'अनडु आह् सु' इति भूते <<सावनडुहः>>[[7.1.82]] नुमि उमि गते 'अनडु आ न् ह् सु' इति जाते सोरुकारे गते सस्य <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति लोपे <<संयोगान्तस्य लोपः>>[[8.2.23]] इति हलोपे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे प्राप्ते <<पूर्वत्रासिद्धम्>>[[8.2.1]] इत्यनेन संयोगान्तस्य लोपस्य असिद्धत्वात् लोपे न जाते सति डकारोत्तरवर्तिन उकारस्य यणि मिलित्वा 'अनड्वान्' इति भवति ।", "71084": "दिव औदिति । <<सावनडुहः>>[[7.1.82]] इत्यतः सौ इत्यनुवर्तते । दिव इति षष्ठ्यन्तम् । इत्यौणादिकम् वा प्रातिपदिकं गृह्यते, न तु दिवु क्रीडादौ इति धातुः, <ऽनिरनुबन्धकग्रहणे न सानुबन्धकस्यऽ> इति न्यायात् । तदाह - दिविति प्रातिपदिकस्येति । सुद्योरिति । सुदिव् + सु इत्यत्र <<दिव औत्>>[[7.1.84]] इति वकारस्यौत्वे <<इको यणचि>>[[6.1.77]] इति यणि सस्य रुत्वे रस्य विसर्गत्वे च कृते 'सुद्यौः' इति रूपम् । सुदिवाविति । अजादिषु सुदिव् शब्दः अविकृत एवेति भावः ।", "71085": "पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ताः । तेषु विशेषमाह - पथिमथ्यृभुक्षामादिति । <<सावनडुहः>>[[7.1.82]] इत्यतः सावित्यनुवर्तते, आदिति तपरकरणम् । आकार एव विधेयः । तदाह - एषामित्यादिना । इतोऽदिति । पथिमथ्यृभुक्षाम् इत्यनुवर्तते ।", "71086": "", "71087": "थोन्थ इति । थः इति पष्ठी । आदेशे अकार उच्चारणार्थः । पथिमथिग्रहणमनुवर्तते । <<इतोऽत् सर्वनामस्थाने>>[[7.1.86]] इत्यतः सर्वनामस्थानग्रहणमनुवर्तते । तदाह - पृथिमथोरित्यादिना । पन्थाः । पथिन् + सु इत्यत्र <<पथिमथ्यृभुक्षामात्>>[[7.1.85]] इत्याकारान्तादेशे विहिते 'पथि आ सु' इति जाते <<इतोऽत् सर्वनामस्थाने>>[[7.1.86]] इति थकारान्तः पातिनः इकारस्याकारादेशे विहिते 'पथ् अ आ सु' इति जाते <<थो न्थः>>[[7.1.87]] इति थस्य न्थादेशे विहिते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घत्वे सस्य रुत्वे रेफस्य विसर्गत्वे च 'पन्थाः' इति रूपम् । पन्थानौ । पथिन् + औ इत्यत्र <<इतोऽत् सर्वनामस्थाने>>[[7.1.86]] इति थकारान्तः पातिन इकारस्याकारे कृते पथन् + औ इति जाते <<थो न्थः>>[[7.1.87]] इति थकारस्य न्थादेशे <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति दीर्घे 'पन्थानौ' इति रूपम् । एवं पन्थानः । पन्थानम् । पन्थानौ ।", "71088": "भस्य टेर्लोप इति । अत्र <<पथिमथ्यृभुक्षामात्>>[[7.1.85]] इत्यतः पथिमथ्यृभुक्षाम् इत्यनुवर्तते । पथः । पथिन्+शस् अत्र शकारस्येत्संज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<अचोऽन्त्यादि टि>>[[1.1.64]] इति इन् इत्यस्य टिसंज्ञायां <<भस्य टेर्लोपः>>[[7.1.88]] इत्यनेन टिसंज्ञकस्य इन् इत्यस्य लोपे, स्इत्यस्य रुत्वे रेफस्य विसर्गत्वे च 'पथः' इति रूपम् । पथा । पथिन् + आ अत्र इनो लोपे रूपम् । पथिभ्याम् । पथिन् + भ्याम् अत्र पदसञ्ज्ञायां नलोपे सति रूपम् । पथिभिः । पथे । पथिभ्यः । पथः । पथोः । पथाम् । पथि पथोः । पथिषु । एवं मन्थाः ऋभुक्षाः इति । मन्थदण्डवाची मथिन् शब्दः । नस्य आत्वं, न्थादेशः, इकारस्याकारः रुत्वे विसर्गत्वे च मन्थाः, मन्थानौ, मन्थानः । मन्थानम्, मन्थानौ, मथः । मथा, मर्थिभ्याम् । मथे । मथः । मथोः, मथाम् । मथि, मथिषु । ऋभुक्षिन् शब्दस्तु इन्द्रवाची । तत्र <<थो न्थः>>[[7.1.87]] इति वर्जमात्वादिर्भवति । षात्परत्वाण्णत्वञ्च । ऋभुक्षाः, ऋभुक्षाणौ इत्यादि ।", "71089": "पुंसोऽसुङ् । अत्र <<इतोऽत् सर्वनामस्थाने>>[[7.1.86]] इत्यतः 'सर्वनामस्थाने' इत्यनुवर्तते । पुमान् । पंस्+सु इत्यत्र <<पुंसोऽसुङ्>>[[7.1.89]] इत्यसुङि विहिते <<ङिच्च>>[[1.1.53]] इति अन्तिमसकारस्य स्थाने जाते पुमसुङ्+सु इति भूते <<हलन्त्यम्>>[[1.3.3]] इति ङकारस्य <<उपदेशेऽजनुनासिक इत्>>[[1.3.2]] इति उकारस्य चेत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति उभयोर्ङ्कारोकारयोर्लोपे पुमस्+सु इति स्थिते सोर्हल्ङ्यादिना लोपे प्रत्ययलक्षणे <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि उमि गते मित्वादन्त्यादचः परे <<सान्तमहतः संयोगस्य>>[[6.4.10]] इति उपधायाः दीर्घत्वे <<संयोगान्तस्य लोपः>>[[8.2.23]] इति स् लोपे च 'पुमान्' इति । हे पुमन् । पुंस्+सु अत्र <<पुंसोऽसुङ्>>[[7.1.89]] इत्यसुङि ङित्वादन्त्यावयवे जाते अनुबन्धलोपे सोर्लोपे च जाते नुमि, <<सान्तमहतः संयोगस्य>>[[6.4.10]] इत्यत्र 'असम्बुद्धौ' इत्युक्तत्वात् दीर्घाभावे संयोगान्तलोपे च रूपम् । पुमांसौ । पुंस्+औ अत्र <<पुंसोऽसुङ्>>[[7.1.89]] इत्यसुङि <<ङिच्च>>[[1.1.53]] इत्यन्तावयवे जाते उङो लोपे <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि मित्वादन्त्यादचः परे उमि गते 'पुमन् स् औ' इति जाते <<सुडनपुंसकस्य>>[[1.1.43]] इति सर्वनामस्थानसंज्ञायां <<सान्तमहतः संयोगस्य>>[[6.4.10]] इति सान्तसंयोगस्योपधायाः दीर्घे <<नश्चापदान्तस्य झलि>>[[8.3.24]] इति अनुस्वारे 'पुमांसौ' इति रूपम् । पुंसः । पुंस्+शस् अत्र शकारस्येत्संज्ञायां लोपे च कृते, कृते च संयोगे अन्तिमसकारस्य रुत्वे, तस्य विसर्गे च रूपम् । पुंभ्याम् । पुंस्+भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<संयोगान्तस्य लोपः>>[[8.2.23]] इति स् लोपे 'पुम्भ्याम्' इति । पुंसु । अत्र पदसञ्ज्ञायां सस्य संयोगान्तलोपः । उशना । उशनस्+सु अत्र <<ऋदुशनस्पुरुदंसोऽनेहसां च>>[[7.1.94]] इति अनङि <<ङिच्च>>[[1.1.53]] इत्यन्तस्य सः स्थाने कृते ङकारस्येत्सञ्ज्ञायां लोपे च अकारस्योच्चारणार्थत्वात्तस्मिन् गते 'उशनन् सु' इति स्थिते <<सुडनपुंसकस्य>>[[1.1.43]]इति सर्वनामस्थानसञ्ज्ञायां <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधायाः दीर्घत्वे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सोर्लोपे <<नलोपः प्रातिपदिकान्तस्य' इति नलोपे 'उशना' इति रूपम् । हे उशन - हे उशनन् - हे उशनः । 'हे उशनस्+सु' अत्र सोर्लोपे इति वार्तिकेन अनङि कृते नलोपे च कृते 'हे उशन' इति । वाग्रहणान्नलोपाऽभावे 'हे उशनन्' इति । अनङादेशाभावे सस्य रुत्वे रेफस्य विसर्गत्वे च कृते 'हे उशनः' इति । उशनोभ्याम् । उशनस् +भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<ससजुषो रुः>>[[8.2.66]] इति सकारस्य रुत्वे <<हशि च>>[[6.1.114]] इत्युत्वे <<आद्गुणः>>[[6.1.87]] इति गुणे च कृते उशनोभ्याम् इति रूपम् । <>उशनस्सु ।<> उशनस् + सु अत्र पदसंज्ञायां <<ससजुषो रुः>>[[8.2.66]] इति रुत्वे उकारस्येत्संज्ञायां लोपे च <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रेफस्य विसर्गत्वे <<वा शरि>>[[8.3.36]] इति विसर्गस्य स्थाने विसर्गे विहिते 'उशनःसु' इति । पक्षे <<विसर्जनीयस्य सः>>[[8.3.34]] इति विसर्गस्य सत्वे 'उशनस्सु' इति । अनेहा अनेहस् + सु अत्र <<ऋदुशनस्पुरुदंसोऽनेहसां च>>[[7.1.94]] इत्यनङि ङित्वादन्त्यस्य स्थाने कृते अनुबन्धलोपे हल्ङयादिना सोर्लोपे <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इत्युपधाया दीर्घत्वे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे 'अनेहा' इति रूपम् । हे अनेहः । 'हे अनेहस्+सु' अत्र सोर्लोपे सस्य रुत्वे कृते रेफस्य विसर्गः । वेधाः । वेधस् + सु अत्र <<अत्वसन्तस्य चाधातोः>>[[6.4.14]] इत्यसन्तत्वाद्दीर्घे सोर्लोपे च कृते रुत्वविसर्गौ 'वेधाः' । हे वेधः । अत्र 'असम्बुद्धौ' इत्युक्तेर्न दीर्घः । वेधोभ्याम् । वेधस् + भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<ससजुषो रुः>>[[8.2.66]] इति सकारस्य रुत्वे <<हशि च>>[[6.1.114]] इति रोरुत्वे <<आद्गुणः>>[[6.1.87]] इति गुणे 'वेधोभ्याम्' इति ।", "71090": "गोतो णिदिति ।<\/w> गोत इति तपरकरणम् । <<इतोऽत् सर्वनामस्थाने>>[[7.1.86]] इत्यतः सर्वनामस्थाने इत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह - ओकाराद्विहितमित्यादिना । गौरिति ।<\/w> गोशब्दात्सावागते <<गोतो णित्>>[[7.1.90]] इति णिद्वद्भावे <<अचो ञ्णिति>>[[7.2.115]] इति वृद्धौ औकारे रुत्वे विसर्गे च गौः<\/qt> इति । गावौ गाव इति ।<\/w> णिद्वत्वे वृद्धिः, अवादेशश्चेति भावः । हे गौः । वृद्धौ एङः परत्वाभावात् न सम्बुद्धिलोपः ।", "71092": "सख्युरसम्बुद्धाविति ।<\/w> इह <<इतोऽत् सर्वनामस्थाने>>[[7.1.86]] इत्यतः सर्वनामस्थाने इत्यनुवर्तते तदसम्बुद्धावित्यनेन विशेष्यते । <<गोतो णित्>>[[7.1.90]] इति सूत्राण्णिदित्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यते, इत्याह - सम्बुद्धिवर्जमित्यादिना ।<\/w>", "71093": "अनङ् साविति ।<\/w> <<सख्युरसम्बुद्धौ>>[[7.1.92]] इत्यनुवर्तते । <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतम् । तदाह – सख्युरङ्गस्येत्यादिना ।<\/w>", "71094": "ऋदुशनसिति ।<\/w> <<सख्युरसम्बुद्धौ>>[[7.1.92]] इत्यतः असम्बुद्धाविति <<अनङ् सौ>>[[7.1.93]] इत्यतोऽनङिति चानुवर्तते । अङ्गस्येत्यधिकृतम् ऋदादिभिर्विशिष्यते तदाह - ऋदन्तानामित्यादिना ।<\/w> उशना - शुक्राचार्यः, पुरुदंसा-मार्जारः, अनेहा-कालः ।", "71095": "तृज्वत्क्रोष्टुरिति ।<\/w> प्रत्ययग्रहणपरिभाषया तृच इत्यनेन तृजन्तं गृह्यते । <<तेन तुल्यं क्रिया चेद्वतिः>>[[5.1.115]] इति तृतीयान्ताद्वतिः । <<इतोऽत् सर्वनामस्थाने>>[[7.1.86]] इत्यतः सर्वनामस्थाने इति <<सख्युरसम्बुद्धौ>>[[7.1.92]] इत्यतोऽसम्बुद्धाविति चानुवर्तते । तदाह - सम्बुद्धावित्यादिना ।<\/w>", "71096": "स्त्रियां चेति ।<\/w> <<तृज्वत् क्रोष्टुः>>[[7.1.95]] इत्यनुवर्तते तदाह - स्त्रीवाचीत्यादिना ।<\/w>", "71097": "विभाषा तृतीयादिष्विति ।<\/w> <<तृज्वत् क्रोष्टुः>>[[7.1.95]] इत्यनुवर्तते । अचीति तृतीयादिविभक्तेर्विशेषणम् । तदादिविधिस्तदाह - अजादिष्वित्यादिना । क्रोष्ट्रा ।<\/w> 'क्रोष्टु + टा' इत्यत्र <<चुटू>>[[1.3.7]] इति टस्येत्सञ्ज्ञायां लोपे च <<विभाषा तृतीयादिष्वचि>>[[7.1.97]] इति तृज्वद्भावे <<इको यणचि>>[[6.1.77]] इति यणि विहिते क्रोष्ट्रा<\/qt> इति रूपम् । क्रोष्टुना ।<\/w> तृज्वद्भावाभावे 'क्रोष्टु + टा' इत्यत्र <<शेषो घ्यसखि>>[[1.4.7]] इति घिसञ्ज्ञायाम् <<आङो नाऽस्त्रियाम्>>[[7.3.120]] इति टाइत्यस्य स्थाने नादेशे कृते क्रोष्टुना<\/qt> इति रूपम् । क्रोष्ट्रे |<\/w> क्रोष्टुशब्दाच्चतुर्थ्येकवचनविवक्षायां ङेसमागते 'क्रोष्टु + ङे' इति स्थिते, ङकारस्येत्सञ्ज्ञायां लोपे च 'क्रोष्टृ + ए' इति जाते <<विभाषा तृतीयादिष्वचि>>[[7.1.97]] इति तृज्वद्भावे <<इको यणचि>>[[6.1.77]] इति यणि क्रोष्ट्रे<\/qt> इति रूपम् । पक्षे घिसञ्ज्ञायां <<घेर्ङिति>>[[7.3.111]] इति गुणे विहिते <<एचोऽयवायावः>>[[6.1.78]] इत्यवादेशे क्रोष्टवे<\/qt> इति रूपम् ।", "71098": "चतुरनडुहो: । <<इतोऽत् सर्वनामस्थाने>>[[7.1.86]] इत्यतः सर्वनामस्थाने इत्यनुवर्तते तदाह - सर्वनामस्थान इति ।", "71099": "अम्सम्बुद्धाविति । <<चतुरनडुहोरामुदात्तः>>[[7.1.98]] इत्यनुवर्तते इति भावः । हे अनड्वान् । 'हे अनडुह् + सु' अत्र <<अम् सम्बुद्धौ>>[[7.1.99]] इत्यमि मित्त्वादन्त्यादचः परे कृते मस्येत्संज्ञायां लोपे च <<सावनडुहः>>[[7.1.82]] इति नुमि मित्त्वादन्त्यादचः परे जाते उमि गते सोरुकारे गते सस्य हल्ङ्यादिना लोपे हस्य <<संयोगान्तस्य लोपः>>[[8.2.23]] इति लोपे डकारोत्तरवर्तिन उकारस्य यणि कृते 'अनड्वन्' इति रूपम् । अनड्वाहौ, अनड्वाहः । अनड्ह् + औ इत्यत्र <<चतुरनडुहोरामुदात्तः>>[[7.1.98]] इत्यामि मलोपे मित्त्वादन्त्यादचः परे <<इको यणचि>>[[6.1.77]] इति यणि संयोगे च कृते 'अनड्वाहौ' इति रूपम् । एवम् जसि परे आमि कृते अनड्वाहः । अनड्वाहम्, अनड्वाहौ । 'अनहुह् + शस्, शकारस्येत्संज्ञायां लोपे च कृते सस्य रुत्वे विसर्ग च कृते 'अनडुहः' इति ।", "72012": "सनि ग्रहगुहोश्चेति ।<\/w> चकारात् <<श्र्युकः किति>> [[7.2.11]] इत्यतः उक इत्यनुकृष्यते, न तु श्रयति, तस्य <<सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्>> [[7.2.49]] इति विकल्पस्य वक्ष्यमाणत्वात् । <<नेड्वशिकृति>> [[7.2.8]] इत्यतो नेडिति चानुवर्तते । तदाह - ग्रहेरित्यादिना<\/w> । बुभूषति<\/qt> । भूधातोः <<धातोः कर्मणः समानकर्तुकादिच्छायां वा>> [[3.2.7]] इति सनि <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यार्धधातुकसंज्ञायाम् <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमे प्राप्ते <<सनि ग्रहगुहोश्च>> [[7.2.12]] इत्यनेन निषिद्धे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे प्राप्ते <<इको झल्>> [[1.2.9]] इति कित्वेन <<क्ङिति च>> [[1.1.5]] इत्यनेन निषिद्धे <<सन्यङोः>> [[6.1.9]] इति द्वित्वे <<पूर्वोऽभ्यासः>> [[6.1.4]] इत्यभ्यासत्वे <<हलादिः शेषः>> [[7.4.60]] इत्यादिहलः शेषे <<ह्रस्वः>> [[7.4.59]] इति ह्रस्वे <<अभ्यासे चर्च>> [[8.4.54]] इति अभ्यासभकारस्य बत्वे <<आदेशप्रत्यययोः>> [[8.3.59]] इति सनः सस्य षत्वे बुभूष<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपो <<अतो गुणे>> [[6.1.97]] इति पररूपे बुभूषति<\/qt> इति रूपम् । इति सन्नन्तप्रक्रिया ।", "72084": "अष्टन आ विभक्ताविति । अत्र <<रायो हलि>>[[7.2.85]] इत्यतो हलीत्यनुवर्तते । तदादिविधिः । तदाह - हलादाविति ।", "72085": "रायो हलीति ।<\/w> राय इति रैशब्दस्य षष्टयन्तम् । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतः आ इति विभक्ताविति चानुवर्तते । हलीत्यनेन विभक्ताविति विशिष्यते । तदादिविधिस्तदाह – अस्याकारादेश इत्यादिना ।<\/w> रैशब्दात्प्रथमैकवचने सावागते <<रायो हलि>>[[7.2.85]] इति रैशब्दस्य सर्वस्य स्थाने आकारादेशे प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यन्त्यस्यैकारस्याकारादेशे सस्य रुत्वे विसर्गे च कृते राः<\/qt> इति रूपम् । रायाविति ।<\/w> रैशब्दादौकारे समागते <<एचोऽयवायावः>>[[6.1.78]] इत्यायादेशे रायौ<\/qt> इति । रायः इति ।<\/w> एवमेव सर्वत्राजादौ विभक्तौ आयादेशः। हलादौ विभक्तौ च <<रायो हलि>>[[7.2.85]] इत्यात्वम्बोध्यम् । रायम्, रायौ, रायः। राया, राभ्याम्, राभिः। राये, राभ्यां, राभ्यः । रायः, राभ्यां, राभ्यः । रायः, रायोः, रायाम् । रायि, रायोः, रासु । ग्लौरिति ।<\/w> ग्लौशब्दश्चन्द्रवाची । ग्लौर्मृगाङ्कः कलानिधिः<\/qt> इत्यमरः । तस्य हलादौ न कश्चिद्विकारः। अचि तु आवादेशः इति मत्वाह - ग्लौः ग्लावौ ग्लाव इति ।<\/w> ग्लावम्, ग्लावौ, ग्लावः । ग्लावा ग्लौभ्याम्, ग्लौभिः । ग्लावे, ग्लौभ्यां ग्लौभ्यः । ग्लावः ग्लौभ्यां ग्लौभ्यः। ग्लावः ग्लावोः ग्लावाम् । ग्लावि, ग्लावोः, ग्लौषु । इत्यजन्ताः पुंल्लिङ्गाः ।<\/w>", "72086": "युष्मदस्मदोरिति । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतः 'आ' इति विभकाविति चानुवर्तते । <<रायो हलि>>[[7.2.85]] इत्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम् । तदादिविधिस्तदाह - अनयोरित्यादिना । युवाभ्याम्, आवाभ्याम् । 'युष्मद् भ्याम्' अस्मद् +भ्याम् इत्यत्र <<युवावौ द्विवचने>>[[7.2.92]] इति मपर्यन्तस्य युवादेशे आवादेशे च विहिते 'युव अद् भ्याम्' 'आव अद् भ्याम्' इति जाते <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इति दकारस्य 'आ' आदेशे विहिते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घादेशे 'युवाभ्याम्' 'आवाभ्याम्' इति स्तः । युष्माभिः अस्माभिः । युष्मद् + भिस् अस्मद् + भिस् इत्यत्र <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इति दस्य स्थाने आकारे विहिते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घत्वे सस्य रुत्वे विसर्गत्वे च कृते 'युष्माभिः' 'अस्माभिः' इति ।", "72087": "द्वितीयायाञ्चेति । अत्र <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इत्यतो युष्मदस्मदोः, <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो 'विभक्तौ' इति 'आ' इति चानुवर्तते । तथाच - द्वितीयाविभक्तौ परतः युष्मदस्मदोराकारः स्यादिति च फलति । <<अलोऽन्त्यस्य>>[[1.1.52]] इति अन्त्यस्य भवति । त्वाम्, माम् । युष्मद् + अम् अस्मद् + अम् इत्यत्र <<त्वमावेकवचने>>[[7.2.97]] इति युष्मदो मपर्यन्तस्य त्वादेशे अस्मदो मपर्यन्तस्य च मादेशे विहिते 'त्व अद् अम्' 'म अद् अम्' इति जाते <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<द्वितीयायां च>>[[7.2.87]] इत्यन्त्यस्य दस्यात्वे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति सवर्णदीर्घत्वे <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपैकादेशे च कृते 'त्वाम्' इति, 'माम्' इति ।", "72088": "प्रथमायाश्चेति । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यत 'आ' इति <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इत्यतो युष्मदस्मदोरिति चात्रानुवर्तते । युवाम्, आवाम् । । <<युष्मदस्मद्भ्यां ङसोऽश्>>[[7.1.27]] युष्मद् + औ अस्मद् + औ इत्यत्र <<ङे प्रथमयोरम्>>[[7.1.28]] इति औकारस्य स्थाने अमि <<युवावौ द्विवचने>>[[7.2.92]] इति युष्मदो मपर्यन्तस्य युव आदेशे अस्मदो मपर्यन्तस्य आवादेशे च 'युव अद् अम्' 'आव अद् अम्' अत्र 'अतो गुणे' इति पररूपत्वे <<प्रथमायाश्च द्विवचने भाषायाम्>>[[7.2.88]] इति आकारान्तादेशे 'युव आ अम्' 'आव आ अम्' इति भूते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घे <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपैकादेशे च कृते 'युवाम्' इति 'आवाम्' इति च । यूयम् । वयम् । युष्मद् + जस् 'अस्मद् जस्' इत्यत्र <<ङे प्रथमयोरम्>>[[7.1.28]] इति जसः स्थाने अमि कृते <<यूयवयौ जसि>>[[7.2.93]] इति युष्मदो मपर्यन्तस्य यूयादेशे अस्मदो मपर्यन्तस्य वयादेशे च विहिते 'यूय अद् अम्' 'वय + अद् अम्' इति जाते <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<शेषे लोपः>>[[7.2.90]] इति दकारस्य लोपे <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपैकादेशे 'यूयम्' इति, 'वयम्' इति । एकस्योक्ताविति । 'त्वमावेकत्वे' इति वक्तव्ये वचनग्रहणादयमर्थो लभ्यत इति भावः ।", "72089": "योऽचीति । <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इत्यनुवर्तते । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो विभक्तावित्यनुवर्तते । अचीति विभक्तिविशेषणम् । तदादिविधिस्तदाह - अनयोरिति । त्वया, मया । युष्मद् + टा अस्मद् + टा इत्यत्र <<त्वमावेकवचने>>[[7.2.97]] इति मपर्यन्तस्य युष्मदः त्वादेशे अस्मदश्च मादेशे सति 'त्व अद् टा' 'म अद् टा' इति जाते <<अतो गुणे>>[[6.1.97]] इति पररूपे टागतटकारत्स्येत्संज्ञायां लोपे च <<योऽचि>>[[7.2.89]] इति योगेन सर्वस्य यकारादेशे प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यन्तस्य दस्य जाते सति 'त्व य् आ' 'म य् आ' इति भूते संयोगे च कृते 'त्वया' 'मया' इति ।", "72090": "शेषे लोप इति । उक्तादन्यः शेषः, आत्वयत्वञ्च प्रागुक्तम्, तद्विषयादन्यविभक्तिरितिशेषशब्दार्थस्तदेतद्व्याचष्टे - आत्वयत्वनिमित्तेतरेति । त्वम्, अहम् । युष्मद् + सु इत्यत्र <<ङे प्रथमयोरम्>>[[7.1.28]] इति सोरमादेशे विहिते युष्मद् + अम् इति जाते <<त्वाहौ सौ>>[[7.2.94]] इति युष्मदो मपर्यन्तस्य त्वादेशे विहिते 'त्व अद् अम्' इति जाते <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<शेषे लोपः>>[[7.2.90]] इति दस्य लोपे 'त्व अम्' इत्यवशिष्टे <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपत्वेः कृते 'त्वम्' इति रूपम् । अस्मद् + सु इत्यत्र <<ङे प्रथमयोरम्>>[[7.1.28]] इति सोरमादेशे <<त्वाहौ सौ>>[[7.2.94]] इत्यस्मदो मपर्यन्तस्य अहादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे कृते 'अहद् अम्' इति जाते <<शेषे लोपः>>[[7.2.90]] इति दस्य लोपे <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपे 'अहम्' इति ।", "72092": "युवावौ द्विवचन इति । उक्तिर्वचनं, द्वयोर्वचनम्-द्विवचनम्, तत्र समर्थयोरित्यर्थः । द्वित्वविशिष्टार्थवाचिनोरिति यावत् ।", "72093": "", "72094": "त्वाहौ साविति । अत्र <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इत्यतो युष्मदस्मदोरित्यनुवर्तते ।", "72095": "तुभ्यमह्यौ ङ्यीति । ङे इत्यस्य सप्तम्येकवचने ङयीति । <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इत्यतो युष्मदस्मदोरित्यनुवर्तते । <<मपर्यन्तस्य>>[[7.2.91]] इत्यधिकृतम् । तदाह - अनयोरित्यादिना । तुभ्यम्, मह्यम् । युष्मद् + ङे अस्मद् + ङे इत्यत्र <<तुभ्यमह्यौ ङयि>>[[7.2.95]] इति मपर्यन्तस्य युष्मदः तुभ्यादेशे, अस्मदो मह्यादेशे च कृते 'तुभ्य अद् ङे' 'मह्य अद् ङे' इति जाते <<अतो गुणे>>[[6.1.97]] इति पररूपे <<शेषे लोपः>>[[7.2.90]] इत्यन्त्यस्य दकारस्य लोपे <<ङे प्रथमयोरम्>>[[7.1.28]] इति ङेरमादेशे <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपैकादेशे 'तुभ्यम्' इति, 'मह्यम्' इति च जायेते । भ्यामि – युवाभ्याम्, आवाभ्याम्, इति तृतीयाद्विवचनवदिति भावः ।", "72096": "तवममाविति । <<युष्मदस्मदोरनादेशे>>[[7.2.86]] इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह - अनयोरिति । तव, मम । 'युष्मद् - ङस्' 'अस्मद् -ङस्' इत्यत्र <<तवममौ ङसि>>[[7.2.96]] इति युष्मदो मपर्यन्तस्य तवादेशे अस्मदो मपर्यन्तस्यममादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<युष्मदस्मद्भ्यां ङसोऽश्>>[[7.1.27]] इति ङसोऽशि विहिते शस्येत्संज्ञायां लोपे च भूयोऽपि <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे च कृते 'तव, मम' इति रूपे स्तः । युवयोः, आवयोः । युष्मद् +ओस् अस्मद् + ओस् इति स्थिते <<युवावौ द्विवचने>>[[7.2.92]] इति युष्मदो मपर्यन्तस्य युवादेशे अस्मदो मपर्यन्तस्य आवादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<योऽचि>>[[7.2.89]] इति दकारस्य यकारे विहिते संयोगे च कृते सस्य रुत्वे रेफस्य विसर्गत्वे च कृते 'युवयोः' 'आवयोः' इति । आभ्यामिति । <<युष्मदस्मद्भ्यां ङसोऽश्>>[[7.1.27]] इत्यतस्तदनुवृत्तेरिति भावः ।", "72097": "", "72099": "त्रिचतुरोरिति ।<\/w> <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो विभक्तावित्यनुवर्तते, तदाह - विभक्त्ताविति ।<\/w>", "72100": "अचिर ऋत इति ।<\/w> पूर्वसूत्रात् तिसृचतसृ इत्यनुवर्तते । तच्चेह लुप्तषष्ठीकमाश्रीयते । तदाह - तिसृ इत्यादिना । गुणदीर्घोत्वानामिति ।<\/w> <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणस्य <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घस्य <<ऋत उत्>>[[6.1.111]] इत्युत्त्वस्य च रत्वमपवादः इत्यर्थः । तिस्र इति ।<\/w> 'त्रि जस्' इत्यत्र <<त्रिचतुरोः स्त्रियां तिसृचतसृ>>[[7.2.99]] इति तिसृ इत्यादेशे जस्येत्सञ्ज्ञत्वे लोपे च 'तिसृ + अस्' इति जाते <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इति गुणे प्राप्ते तं प्रबाध्य <<अचि र ऋतः>>[[7.2.100]] इति रेफादेशे संयोगे सस्य रुत्वे रस्य विसर्गत्वे च 'तिस्रः' इति रूपम् । शसि तु <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति प्रबाध्य <<अचि र ऋतः>>[[7.2.100]] इति रेफादेशे संयोगे सस्य रुत्वे रस्य विसर्गत्वे च कृते 'तिस्रः' इति रूपम् । भिसितिसृभिः । भ्यसि - तिसृभ्यः।", "72101": "जराया इति ।<\/w> <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो विभक्तावित्यनुवृत्तम् । <<अचि र ऋतः>>[[7.2.100]] इत्यतोऽचीत्यनुवर्तते, तदादिविधिस्तदाह - अजादावित्यादिना ।<\/w> ननु जराशब्दस्य विधीयमानो जरसादेशः कथं निर्जरशब्दस्य भवेदित्यत आह - पदेति ।<\/w> पदाधिकारे अङ्गाधिकारे च यस्य यद्विहितम् तत् तस्य तदन्तस्य च भवतीत्यर्थः । जरसादेशश्चायमङ्गाधिकारस्थत्वात् जराशब्दस्य तदन्तस्य च भवति । निर्दिश्यमानस्येति ।<\/w> प्रत्यक्षनिर्दिश्यमानस्यैवेत्यर्थः । अनया परिभाषया जराशब्दस्यैव जरस् । जराशब्द एव ह्यत्र स्थानी प्रत्यक्षनिर्दिष्टः । जराशब्दान्तस्य तु निर्देशस्तदन्तविधिलभ्यत्वाद् आनुमानिक इति भावः । ननु निर्जरशब्दस्य जराशब्दान्तत्वाभावात् कथमिह जरसादेश इत्यत आह - एकदेशेति ।<\/w> 'छिन्नेऽपि पुच्छे श्वा श्वैव, न चाश्वो, न च गर्दभः' इति लौकिकन्यायादित्यर्थः । निर्जरसाविति ।<\/w> निर्जरशब्दात् प्रथमाद्विवचने औ समागते <<जराया जरसन्यतरस्याम्>>[[7.2.101]] इति जरसादेशे लब्धे, सूत्रे जराशब्दस्य जरसादेशः प्रोक्तो न तु निर्जरशब्दस्य, इति कथमत्र जरसादेश इति शङ्कायां <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> इति ; अत्राङ्गाधिकारात् तदन्तस्यापि स्यादिति प्राप्ते <ऽनिर्दिश्यमानस्यादेशा भवन्तिऽ> इति परिभाषया जराशब्दस्यैव जरसादेशः स्यात् इति कथमत्र जरशब्दस्य जरस् इति शङ्कायाम् <ऽएकदेशविकृतमनन्यवत्ऽ> इति जरसादेशे निर्जरसौ<\/qt> इति । निर्जरस इति ।<\/w> निर्जरशब्दाज्जसि अनुबन्धलोपे <<जराया जरसन्यतरस्याम्>>[[7.2.101]] इति जरशब्दस्य जरशादेशे परेणाचा युक्ते रुत्वे विसर्गे च निर्जरसः<\/qt> इति । इत्यादीति ।<\/w> अमि – निर्जरसम् औटि - निर्जरसौ, शसि-निर्जरसः । टापरे – निर्जरसा, ङेपरे-निर्जरसे, ङसिङसो: - निर्जरसः, ओसि-निर्जरसोः, ङौ-निर्जरसिः इति । पक्षे हलादौ च रामवदिति ।<\/w> अजादिविभक्तौ परे विकल्पेन जरसादेशे सति रूपाण्युक्तानि । जरसादेशाभावे रामशब्दवत् रूपाणि । हलादौ तु जरसादेशाभाव इति हलादौ विभक्तौ परे रामशब्दवत् रूपाणीति भावः । विश्वपा इति ।<\/w> विश्वं पाति रक्षतीत्यर्थे <<आतोऽनुपसर्गे कः>>[[3.2.3]] इति प्राप्ते वासरूपन्यायेन <<आतो मनिन्क्वनिब्वनिपश्च>>[[3.2.74]] इति चकारात् विच् । तस्य सर्वापहारे कृदन्तत्वात्प्रातिपदिकसंज्ञायां प्रथमैकवचनविवक्षायां सुप्रत्ययेऽनुबन्धलोपे <<ससजुषो रुः>>[[8.2.66]] इति रुत्वे उकारस्येत्संज्ञायाम् <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति विसर्गे च कृते विश्वपाः<\/qt> इति रूपम् ।", "72102": "त्यदादीनाम इति ।<\/w> <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो विभक्तावित्यनुवर्तते । एषामिति ।<\/w> त्यदादीनामित्यर्थः । त्यद् आदिर्येषामिति विग्रहः । द्विपर्यन्तानामिति ।<\/w> सर्वादिगणे ये त्यदादयः पठिताः तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्येच्छेत्यर्थः । द्वौ ।<\/w> द्विशब्दस्य द्वित्वनियतत्वात् द्विशब्दो नित्यं द्विवचनान्तः । अतो द्विशब्दात् प्रथमाद्विवचने औ समागते द्वि औ<\/qt> इति स्थिते <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]]इति पूर्वसवर्णदीर्घादेशे प्राप्ते <<नादिचि>>[[6.1.104]] इति निषिद्धे <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ कृतायां सत्यां द्वौ<\/qt> इति रूपम् । द्वौ ।<\/w> द्वितीयाद्विवचने औटि <<त्यदादीनामः>>[[7.2.102]] इति अत्वे वृद्धौ द्वौ<\/qt> इति । द्वाभ्याम् ।<\/w> द्विशब्दात् भ्यामि त्यदाद्यत्वे <<सुपि च>>[[7.3.102]] इति दीर्घे द्वाभ्याम्<\/qt> इति । द्वयोः ।<\/w> द्विशब्दाद् ओसि <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे द्व ओस<\/qt> इति जाते <<ओसि च>>[[7.3.104]] इति द्वशब्दगताऽकारस्य एत्वे <<एचोऽयवायावः>>[[6.1.78]] इत्ययादेशे सस्य रुत्वे विसर्ग च द्वयोः<\/qt> इति रूपम् । पपीः ।<\/w> पा रक्षणे इति धातोः औणादिकेन (उणादिः 3.159) इति सूत्रेण ईप्रत्यये द्वित्वे अभ्यासकार्ये ईप्रत्ययस्य कित्वात् <<आतो लोप इटि च>>[[6.4.64]] इत्याकारलोपे निष्पन्नपपीशब्दस्य कृदन्तत्वात्प्रातिपदिकसंज्ञायां प्रथमैकवचनसुप्रत्यये समागते पपी-सु<\/qt> अत्र उकारस्येत्संज्ञायां लोपे च <<ससजुषो रुः>>[[8.2.66]] इति सस्य रुत्वे अनुबन्धलोपे रेफस्य <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति विसर्गे सति रूपम् । पप्यौ ।<\/w> 'पपी - औ' इति स्थिते <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे प्राप्ते <<दीर्घाज्जसि च>>[[6.1.105]] इति निषेधे <<इको यणचि>>[[6.1.77]] इति यणि पप्यौ<\/qt> इति रूपम् । पप्यः ।<\/w> पूर्ववत्साधनिका । हे पपी: ।<\/w> ह्रस्वान्तत्वाभावान्न सुलोपः । सम्बोधनद्विवचनबहुवचने पप्यौ, पप्यः इति । अमि - पपीम् <<अमि पूर्वः>>[[6.1.107]] । औटि - पप्यौ, साधनिकापूर्ववत् । शसि - अनुबन्धलोपे पूर्वसवर्णदीर्घादेशे कृते <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति शसः सकारस्य नकारादेशे - पपीन्<\/w> इति रूपम् । पप्या ।<\/w> पपी-आ<\/qt> अत्र <<इको यणचि>>[[6.1.77]] इति यणि रूपम् । पपीशब्दाद्भ्यामि- पपीभ्याम्<\/w> इति रूपम् । भिसि - पपीभिः ।<\/w> चतुर्थ्येकवचने ङे परे यणि रूपम् – पप्ये ।<\/w> भ्यसि रुत्वे विसर्गे च - पपीभ्यः ।<\/w> ङसि अनुबन्धलोपे यणि - पप्यः ।<\/w> ओसि परे यणि - पप्योः । पप्याम् ।<\/w> आमि <<इको यणचि>>[[6.1.77]] इति यणि रूपम् । सप्तम्येकवचने ङौ परे अनुबन्धलोपे <<इको यणचि>>[[6.1.77]] इति यणि प्राप्ते तं प्रबाध्य <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घे कृते - पपीः<\/qt> इति रूपम् । सप्तमीद्विवचने ओसि - पप्योः |<\/w> सुपि परे पकारस्य <<हलन्त्यम्>>[[1.3.3]] इतीत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे <<आदेशप्रत्यययोः>>[[8.3.59]] इति सकारस्य मूर्धन्यादेशे (आन्तरतम्यात्) षकारे कृते सति पपीषु<\/w> इति रूपम् । वातप्रम्यादय इति ।<\/w> वातप्रमीः निःशृङ्गो मृगाकृतिः पशुरिति <<ईदूतौ च सप्तम्यर्थे>>[[1.1.19]] इति सूत्रे कौस्तुभे । आदिना यान्त्यनेनेति ययीमर्गः इति ग्राह्यम् । रूपाणि - वातप्रमीः, वातप्रम्यौ, वातप्रम्यः, प्र... । हे वातप्रमीः, हे बातप्रम्यौ, हे वातप्रम्यः, सम्बो... । वातप्रमीम्, वातप्रम्यौ, वातप्रमीन्, द्वि... । वातप्रम्या, वातप्रमीभ्याम् वातप्रमीभिः, तृ... । वातप्रम्ये, वातप्रमीभ्याम् वातप्रमीभ्यः, च... । वातप्रम्य, वातप्रमीभ्याम् वातप्रमीभ्यः, पं... । वातप्रम्यः, वातप्रम्योः, वातप्रम्यम्, ष... । वातप्रमी, वातप्रम्योः, वातप्रमीषु सप्तमी । क्विबन्तवातप्रमीशब्दस्य तु अमि - शसि-ङौ च - <<एरनेकाचोऽसंयोगपूर्वस्य>>[[6.4.82]] इति यणि - वातप्रम्यम्, वातप्रम्यः, वातप्रम्यि इति विशेषो ज्ञेयः । बहुश्रेयसी ।<\/w> इति निषेधादुपसर्जनह्रस्वो न । समासत्वात्प्रातिपदिकसंज्ञायां प्रथमैकवचने सौ समागते उकारस्येत्संज्ञायां लोपे च बहुश्रेयसी-स्<\/qt> इति स्थिते ङ्यन्तत्वात् <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् इत्यस्य लोपे बहुश्रेयसी<\/qt> इति रूपम् । औ परे - बहुश्रेयस्यौ, जसि - बहुश्रेयस्यः । अत्र दीर्घत्वात् पूर्वसवर्णदीर्घनिषेधे सति यणि कृते रूपम् ।", "72103": "किमः कः स्याद्विभक्ताविति । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतस्तदनुवृत्तेरिति भावः । कः, कौ, के । किम् + सु इत्यत्र <<किमः कः>>[[7.2.103]] इति किमः कादेशे सोरुकारे गते सस्य रुत्वे रेफस्य विसर्गे च 'कः' इति रूपम् । किम् + औ इत्यत्र <<किमः कः>>[[7.2.103]] इति कादेशे वृद्धौ च कृतायाम् 'कौ' इति । किम् + जस् अत्र <<किमः कः>>[[7.2.103]] इति कादेशे <<जसः शी>>[[7.1.17]] इति जसः शीत्वे शस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे कृते 'के' इति रूपम् । इत्यादीति । कम्, कौ, कान् । केन, काभ्यां, कैः । कस्मै, काभ्यां, केभ्यः। कस्मात् काभ्याम्,केभ्यः। कस्य, कयोः, केषाम् । कस्मिन्, कयोः, केषु ।सर्ववदिति । सर्वनामसंज्ञकत्वादिति भावः ।", "72106": "तदोः स इति । अत्र <<त्यदादीनामः>>[[7.2.102]] इत्यतः त्यदादीनाम् इत्यनुवर्तते । स्यः । त्यद् + सु इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इति 'द्' इत्यस्य स्थाने अकारादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे कृते 'त्य सु' इति जाते <<तदोः सः सावनन्त्ययोः>>[[7.2.106]] इति अनन्त्यस्य तकारस्य सत्वे सोरुकारे गते रेफस्य विसर्गत्वे च 'स्यः' इति । त्यौ । त्यद् + औ इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ 'त्यौ' इति रूपम् । त्ये । त्यद् +जस् इत्यत्र त्यादाद्यत्वे पररूपत्वे च सर्वादित्वात्सर्वनामसंज्ञायां 'जसः शी' इति जसः स्थाने 'शी' आदेशे श् गते गुणे च 'त्ये' इति । त्यम्, त्यौ, त्यान् । त्येन, त्याभ्याम्, त्यैः । त्यस्मै, त्याभ्याम्, त्येभ्यः । त्यस्मात् । त्यस्य, त्ययोः, त्येषाम् । त्यस्मिन्, त्येषु । सः । तद् + सु अत्र त्यदाद्यत्वे पररूपत्वे च कृते <<तदोः सः सावनन्त्ययोः>>[[7.2.106]] इति तस्य सत्वे सोरुकारे गते रेफस्य विसर्गत्वे च 'सः' इति रूपम् । तौ । अत्वे, पररूपत्वे । वृद्धौ च । ते । त्यदाद्यत्वे पररूपत्वे, जसः शीत्वे गुणे च रूपम् । तम्, तौ, तान् । तेन, ताभ्यां, तैः । तस्मै, ताभ्याम्, तेभ्यः । तस्मात् । तस्य, तयोः, तेषाम् । तस्मिन्, तेषु । एवमेव यत् शब्दः । एषः । एतद् + सु इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते <<तदोः सः सावनन्त्ययोः>>[[7.2.106]] इति तकारस्य सकारे कृते <<आदेशप्रत्यययोः>>[[8.3.59]] इति सस्य षत्वे च कृते एष + सु इति जाते सोरुकारे गते रेफस्य विसर्गत्वे च 'एषः' इति रूपम् । एते । एतद्शब्दस्य त्यदाद्यत्वे पररूपत्वे च सर्ववदेव रूपाणि । अन्वादेशे इति । <<द्वितीयाटौस्स्वेनः>>[[2.4.34]] इत्यस्य एतद्शब्देऽपि प्रवृत्तेरिति भावः ।", "72107": "अदस औ सुलोपश्चेति । अदसः इति षष्ठी । <<तदोः सः सावनन्त्ययोः>>[[7.2.106]] इत्यतः सावित्यनुवर्तते, तदाह - अदसः औत्स्यात्सौ परे इति । असौ । अदस् + सु इत्यत्र <<अदस औ सुलोपश्च>>[[7.2.107]] इति सस्य स्थाने औत्वे सलोपे च विहिते, अद औ इति जाते <<तदोः सः सावनन्त्ययोः>>[[7.2.106]] इति दस्य सत्वे <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ च कृतायाम् 'असौ' इति सिद्ध्यति ।", "72108": "इदमो म इति । <<तदोः सः सावनन्त्ययोः>>[[7.2.106]] इत्यतः सौ इत्यनुवर्तते । इदमो मस्य मः स्यात्सौ परे इत्यर्थः । ननु मस्य मविधानं व्यर्थमित्यत आह – स्यदाद्यत्वापवाद इति ।", "72109": "दश्चेति । <<इदमो मः>>[[7.2.108]] इत्यनुवर्तते । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो मण्डूकप्लुत्या विभक्कावित्यनुवर्तते । द इति पष्ठी । इदमो दकारस्येति लभ्यते, तदाह - इदमो दस्येत्यादिना । इमौ । इदम् + औ इति स्थिते अत्र <<त्यदादीनामः>>[[7.2.102]] इति मस्य अत्वे 'इद अ औ' इति जाते <<अतो गुणे>>[[6.1.97]] इत्यनेन पररूपे 'इद औ' इति भूते <<दश्च>>[[7.2.109]] इत्यनेन दकारस्य मकारे विहिते वृद्धौ कृतायाम् 'इमौ' इति रूपं सिद्धम् । इमे । इदम् + जस् इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे 'इद अ जस्' इति स्थिते <<अतो गुणे>>[[6.1.97]] इति पररूपे <<जसः शी>>[[7.1.17]] इति शीत्वे शस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे <<दश्च>>[[7.2.109]] इति दकारस्य मकारे 'इमे' इति रूपम् । त्यदादेः सम्बोधनं नास्तीति । प्रचुरप्रयोगादर्शनादिति भावः ।", "72110": "यः साविति ।<\/w> <<इदमो मः>> इत्यतः इदमः इत्यनुवर्तते, <<दश्च>> [[7.2.109]] इत्यतो 'दः' इति च षष्ठ्यन्तमनुवर्तते । तदाह - इदमो दस्येति । इयम् ।<\/w> इदम् + स्<\/qt> इति स्थिते <<यः सौ>> इति दस्य यकारादेशे इयम् + स्<\/qt> इति जाते <<त्यदादीनामः>> इत्यकारादेशे प्राप्ते तं बाधित्वा <<इदमो मः>> इति मकारस्य मकारादेशे कृते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> इति लोपे 'इयम्' इति सिद्धम् । इमे ।<\/w> इदम् + औ<\/qt> इत्यत्र <<त्यदादीनामः>> इत्यकारान्तादेशे <<अतो गुणे>> इति पररूपे 'इद औ' इति जाते <<अजाद्यतष्टाप्>> इति टापि, टकारपकारयोरित्संज्ञायां लोपे च <<अकः सवर्णे दीर्घः>> इति सवर्णदीर्घे इदा+औ<\/qt> इति भूते <<औङ आपः>> इति औ स्थाने श्यादेशे शकारस्येत्संज्ञायां लोपे च <<आद्गुणः>> इति गुणे 'इदे' इति जाते <<दश्च>> [[7.2.109]] इति द्कारस्य मकारे कृते 'इमे' इति रूपम् । इमाः ।<\/w> इदम् + जस्<\/qt> इत्यत्र त्यदाद्यत्वे पररूपत्वे च, टापि अनुबन्धलोपे, सवर्णदीर्घे इदा+जस्<\/qt> इति स्थिते जकारस्य <<चुटू>> इतीत्संज्ञायां <<तस्य लोपः>> इति लोपे च कृते <<दश्च>> [[7.2.109]] इति दस्य मत्वे विहिते <<अकः सवर्णे दीर्घः' इति सवर्णदीर्घे सकारस्य रुत्वे रेफस्य विसर्गत्वे च 'इमाः' इति रूपं सिद्धम् । इमाम् ।<\/w> इदम् +अम्<\/qt> इत्यत्र त्यदाद्यत्वे पररूपे च कृते <<अजाद्यतष्टाप्>> इति टापि, टकारपकारयोरित्संज्ञायां लोपे च <<अकः सवर्णे दीर्घः>> इति दीर्घे इदा + अम्<\/qt> इति जाते <<दश्च>> [[7.2.109]] इति दस्य मत्वे <<अमि पूर्वः>> इति पूर्वरूपैकादेशे 'इमाम्' इति रूपम् । अनया ।<\/w> इदम् +टा<\/qt> इत्यत्र त्यदाद्यत्वे, पररूपत्वे, टापि, इदा+टा<\/qt> इति जाते <<चुटू>> इति टकारस्येसंज्ञायां <<तस्य लोपः>> इति लोपे सवर्णदीर्घे इदा+आ<\/qt> इति जाते <<अनाप्यकः>> इतीदम इद्भागस्य अनादेशे 'अना आ' इति जाते <<आङि चापः>> इत्यावन्ताङ्गस्यैकारे कृते <<एचोऽयवायावः>> इत्ययादेशे संयोगे च कृते 'अनया' इति रूपम् । आभ्याम् ।<\/w> इदम् + भ्याम्<\/qt> अत्र त्यदाद्यत्वे, पररूपत्वे, टापि अनुबन्धलोपे सवर्णदीर्घे इदा +भ्याम्<\/qt> इति जाते <<हलि लोपः>> इति इद्भागस्य लोपे कृते 'आभ्याम्' इति । आभिः ।<\/w> इदम् + भिस्<\/qt> इति स्थिते <<त्यदादीनामः>> इत्यत्वे <<अतो गुणे>> इति पररूपत्वे <<अजाद्यतष्टाप्>> इति टापि टकारपकारयोरित्संज्ञायां लोपे च <<अकः सवर्णे दीर्घः>> इति दीर्घे इदा + भिस्<\/qt> इति जाते <<हलि लोपः>> इतीद्भागस्य लोपे भिसः सकारस्य रुत्वे रेफस्य विसर्गत्वे च 'आभिः' इति रूपम् । अस्यै ।<\/w> इदम् + ङे<\/qt> इति स्थिते <<त्यदादीनामः>> इत्यत्वे <<अतो गुणे>> इति पररूपत्वे <<अजाद्यतष्टाप्>> इति टापि टकारपकारयोरित्संज्ञायां लोपे च <<अकः सवर्णे दीर्घः>> इति सवर्णदीर्घे इदा+ङ<\/qt> इति जाते <<लशक्वतद्धिते>> इति ङकारस्येत्संज्ञायां <<तस्य लोपः>> इति लोपे च कृते <<सर्वनाम्नः स्याड्ढ्रस्वश्च>> इति ङेरेकारस्य स्याडागमे आपो ह्रस्वे च जाते टित्वादाद्यावयवे भूते टकारस्य <<हलन्त्यम्>> इतीत्संज्ञायां <<तस्य लोपः>> इति लोपे इदस्या+ए<\/qt> इति स्थिते <<वृद्धिरेचि>> इति वृद्धौ इद + स्यै<\/qt> इति जाते <<हलि लोपः>> इतीद्भागस्य लोपे 'अस्यै' इति । अस्याः ।<\/w> इदम् + ङसि<\/qt> इत्यत्र त्यदाद्यत्वे पररूपत्वे च <<अजाद्यतष्टाप्>> इति टापि अनुबन्धलोपे च <<अकः सवर्णे दीर्घः>> इति दीर्घे ङकारेकारयोरित्संज्ञायां लोपे च इदा+अस्<\/qt> इति जाते <<सर्वनाम्नः स्याड्ढ्रस्वश्च>> इति स्याटि, टित्वादाद्यावयवे आपो ह्रस्वे च टकारस्येत्संज्ञायां लोपे च 'इद+स्या अस्' इति भूते <<अकः सवर्णे दीर्घः>> इति दीर्घे <<हलि लोपः>> इति इदमो इद्भागस्य लोपे सस्य रुत्वे रेफस्य विसर्गत्वे च 'अस्याः' इति रूपम् । अनयोः ।<\/w> इदम् + ओस्<\/qt> इत्यत्र त्यदाद्यत्वे, पररूपत्वे च कृते <<अजाद्यतष्टाप्>> इति टापि अनुबन्धलोपे सवर्णदीर्घे इदा + ओस्<\/qt> इति स्थिते <<अनाप्यकः>> इति इद्भागस्य अनादेशे <<आङि चापः>> इति आवन्ताङ्गस्यैकारे <<एचोऽयवायावः>> इत्ययादेशे सस्य रुत्वे रेफस्य विसर्गत्वे च 'अनयोः' इति रूपम् । आसाम् ।<\/w> इदम् + आम्<\/qt> इत्यत्र त्यदाद्यत्वे, पररूपत्वे च कृते टापि, सवर्णदीर्घे इदा+आम्<\/qt> इति जाते, तत्र <<आमि सर्वनाम्नः सुट्>> इति सुटि, उटि गते, टित्वादाद्यावयवे जाते <<हलि लोपः>> इति इद्भागस्य लोपे 'आसाम्' इति रूपम् । अस्याम् ।<\/w> इदम् + ङि<\/qt> इत्यत्र त्यदाद्यत्वे, पररूपत्वे, टापि, सवर्णदीर्घे, <<ङेराम्नद्याम्नीभ्यः>> इति ङेरामि <<स्थानिवदादेशोऽनल्विधौ>> इति स्थानिवद्भावेन ङित्वमादाय <<सर्वनाम्नः स्याड्ढ्रस्वश्च>> इति स्याटि, आपश्च ह्रस्वे, <<हलि लोपः>> इतीद्भागस्य लोपे अस्या + आम्<\/qt> इति जाते <<अकः सवर्णे दीर्घः>> इति दीर्घे 'अस्याम्' इति । आसु ।<\/w> इदम् + सुप्<\/qt> त्यदाद्यत्वे, पररूपत्वे च कृते, टापि अनुबन्धलोपे सवर्णदीर्घे इदा+सुप्<\/qt> इति भूते <<हलन्त्यम्>> इति पकारस्येत्संज्ञायां <<तस्य लोपः>> इति लोपे <<हलि लोपः>> इति इद्भागस्य लोपे 'आसु' इति रूपं सिद्धम् । स्या ।<\/w> त्यद् + सु<\/qt> इत्यत्र त्यदाद्यत्वे, पररूपत्वेच कृते टापि, टकारपकारयोरित्संज्ञायां लोपे च सवर्णदीर्घे, <<तदोः सः सावनन्त्ययोः>> इति तस्य सत्वे हल्ङ्यादिना सोर्लोपे 'स्या' इति रूपम् । त्ये ।<\/w> त्यद् + औ<\/qt> इत्यत्र <<त्यदादीनामः>> इत्यत्वे <<अतो गुणे>> इति पररूपत्वे टापि, टकारपकारयोरित्संज्ञायां लोपे च <<अकः सवर्णे दीर्घः>> इति दीर्घे त्या+औ<\/qt> इति जाते <<औङ आपः>> इति औकारस्य श्यादेशे शकारस्येत्संज्ञायां लोपे च <<आद्गुणः>> इति गुणे 'त्ये' इति रूपम् । त्याः । त्यद् + जस्<\/qt> इत्यत्र त्यदाद्यत्वे, पररूपत्वे टापि च, टकारपकारयोरित्संज्ञायां लोपे च त्या+जस्<\/qt> इति स्थिते <<चुटू>> इति जकारस्येत्सञ्ज्ञायां <<तस्य लोपः>> इति लोपे <<प्रथमयोः पूर्वसवर्णः>> इति पूर्वसवर्णदीर्घादेशे प्राप्ते <<नादिचि>> इति निषिद्धे <<अकः सवर्णे दीर्घः>> इति दीर्घादेशे कृते सस्य <<ससजुषो रुः>> इति रुत्वे उकारस्येत्संज्ञायां लोपे च रेफस्य विसर्गत्वे च 'त्याः' इति रूपम् । एवं तद्, यद्, एतदिति ।<\/w> तद्, यद् एतद् एतेभ्यो विभक्तौ परे अत्वपररूपटाप्सु सर्वावद्रूपाणि । तच्छब्दस्य तु तकारस्य सत्वम् । एतच्छब्दस्य तु तकारस्य सत्वे <<आदेशप्रत्यययोः>> इति षत्वमिति विशेषः । वाग् ।<\/w> वाच् + सु<\/qt> इत्यत्र सकारोत्तरवर्तिन उकारस्येत्संज्ञायां लोपे च कृते स् इत्यस्य हल्ङ्यादिना लोपे चकारस्य <<चोः कुः>> इति कुत्वेन कत्वे तस्य <<झलां जशोऽन्ते>> इति गत्वे <<वाऽवसाने>> इति विकल्पेन कत्वे 'वाक्' इति । विकल्पाभावपक्षे 'वाग' इति । वाग्भ्याम् ।<\/w> वाच+भ्याम्<\/qt> अत्र <<चोः कुः>> इति कत्वे <<झलां जशोऽन्ते>> इति गत्वे 'वाग्भ्याम्' इति । वाक्षु ।<\/w> वाच + सुप्<\/qt> अत्र पकारस्येत्संज्ञायां लोपे च <<चोः कुः>> इति चकारस्य कुत्वेन कत्वे <<आदेशप्रत्यययोः>> इति सकारस्य कात्परकत्वात् मूर्धन्यादेशेन षत्वे क् ष् संयोगेन क्षजाते 'वाक्षु' इति । अप् + जस्<\/qt> इत्यत्र <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> इत्यादिना उपधादीर्घे कृते <<चुटू>> इति जकारस्येत्सञ्ज्ञायां <<तस्य लोपः>> इति लोपे च कृते, कृते च संयोगे सस्य रुत्वे रेफस्य विसर्गस्वे च 'आपः' इति ।", "72111": "इदोऽय् पुंसीति । इद इति स्थानषष्ठी । इदम इत्यनुवर्तते । अवयवषष्ठ्येषा । <<यः सौ>>[[7.2.110]] इत्यतः सावित्यनुवर्तते । तदाह - इदम इत्यादिना । इदम् + स् इति स्थिते <<त्यदादीनामः>>[[7.2.102]] इत्यकारे प्राप्ते तं बाधित्वा <<इदमो मः>>[[7.2.108]] इत्यपवादभूते मकारे कृते <<इदोऽय् पुंसि>>[[7.2.111]] इतीदम इद्भागस्य अयादेशे कृते यकारस्याऽकारेण सह संयोगे सस्य <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति लोपे 'अयम्' इति रूपम् ।", "72112": "अनाप्यक इति । <<इदमो मः>>[[7.2.108]] इत्यतः इदम इति <<इदोऽय् पुंसि>>[[7.2.111]] इत्यतः इद इति चानुवर्तते । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो विभक्ताविति । तदाह - इदम इद इत्यादिना । अनेन । इदम् + आ इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे इद + आ इति जाते <<अनाप्यकः>>[[7.2.112]] इति इदोऽनादेशे कृते 'अन आ' इति भूते <<टाङसिङसामिनात्स्याः>>[[7.1.12]] इति इनादेशे <<आद्गुणः>>[[6.1.87]] इति गुणे 'अनेन' इति ।", "72113": "हलि लोप इति । आप्यक इति पूर्वसूत्रादनुवर्तते । <<इदमो मः>>[[7.2.108]] इत्यतः इदम इति । <<इदोऽय् पुंसि>>[[7.2.111]] इत्यत इद इति । <<अष्टन आ विभक्तौ>>[[7.2.84]] इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणम् । तदादिविधिस्तदाह - अककारस्येति । नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम् शब्दे इद् इत्यस्यानर्थकत्वात् तदन्तस्येति न लभ्यते । ततश्च इद् इत्यस्य कृत्स्नस्यैव लोप इति भावः ।", "72115": "अचो ञ्णितीति ।<\/w> <<मृजेर्वृद्धिः>>[[7.2.114]] इत्यतो वृद्धिरित्यनुवर्तते, <<अङ्गस्य>>[[6.4.1]] इति चाधिकारः । सखायौ ।<\/w> सखि औ<\/qt> अत्र <<सख्युरसम्बुद्धौ>>[[7.1.92]] इति णिद्वद्भावे <<अचो ञ्णिति>>[[7.2.115]] इति वृद्धौ <<एचोऽयवायावः>>[[6.1.78]] इति आयादेशे परेण संयोगे कृते सखायौ<\/qt> इति । सखायः ।<\/w> सखिशब्दाज्जसि <<चुटू>>[[1.3.7]] इति जकारस्येत्सञ्ज्ञायां लोपे च <<सख्युरसम्बुद्धौ>>[[7.1.92]] इति णिद्वद्भावे <<अचो ञ्णिति>>[[7.2.115]] इति वृद्धौ <<एचोऽयवायावः>>[[6.1.78]] इत्यायादेशे सस्य रुत्वे विसर्गे च सखायः<\/qt> इति । हे सखे ।<\/w> हरिशब्दवत् गुणे लोपे च हे सखे इति । औपरे जसि परे च पूर्ववत्-णिद्वद्भाववृद्ध्यायादेशा: - हे सखायौ, हे सखायः। सखायम् ।<\/w> सखि अम्<\/qt> अत्र <<अमि पूर्वः>>[[6.1.107]] इति सूत्रं प्रवाध्य <<सख्युरसम्बुद्धौ>>[[7.1.92]] इति णिद्वद्भावे, वृद्धौ आयादेशे च सखायम्<\/qt> इति । औटि पूर्ववत् सखायौ । सखीन् ।<\/w> सखि-शस्<\/qt> अत्र शसः शकारस्येत्सञ्ज्ञायां लोपे च कृते <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घादेशे कृते <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति शसःसकारस्य नकारादेशे सखीन्<\/qt> इति । सख्या ।<\/w> सखि आ<\/qt> अत्र असखि<\/qt> इति पर्युदासात् घिसंज्ञा न, किन्तु <<इको यणचि>>[[6.1.77]] इति यणि सख्या<\/qt> इति । सखिशब्दस्य तृतीयाद्विवचनबहुवचने - सखिभ्याम्, सखिभिः, हरिशब्दवत् । सख्ये ।<\/w> सखिशब्दाच्चतुथ्येंकवचन विवक्षायां ङयि समागते ङस्येत्सञ्ज्ञायां लोपे च सखि-ए<\/qt> अत्र <<इको यणचि>>[[6.1.77]] इति यणि सख्ये इति ॥ चतुर्थीद्विवचनबहुवचने - सखिभ्याम्, सखिभ्यः इति ॥", "73036": "अर्तिह्रीति । <\/w> अर्ति ह्री ब्ली री क्नूयी चमायी आत् एषां द्वन्द्वात् षष्ठी । पुक् णौ इति च्छेदः । तदाह - एषां पुक् स्याण्णौ<\/w> । स्थापयति<\/qt> । ष्ठा गतिनिवृत्तौ इत्यत्र <<धात्वादेः षः सः>> [[6.4.164]] इति षस्य सत्वे <<निमित्तपाये नैमित्तिकस्याप्यपायः>> इति निमित्तस्य षत्वस्य अपाये = नाशे, नैमित्तिकस्यापि = ष्टुत्वस्यापि, अपायः = नाशः। ष्टुत्वनिवृत्तौ च स्था इत्यस्माण्णिचि अनुबन्धलोपे <<अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ>> [[7.3.36]] इति पुगागमे स्थापि<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपे उभयत्र सार्वधातुकसंज्ञायां स्थापेरिकारस्य गुणेऽयादेशे च स्थापयति<\/qt> इति रूपम् । आत्मनेपदे — स्थापयते<\/qt> । लिटि — स्थापयामास<\/qt> । <\/qt>स्थापयिता<\/qt> । स्थापयिष्यति<\/qt>, स्थापयिष्यते<\/qt> । स्थापयतु<\/qt>, स्थापयताम्<\/qt> । अस्थापयत्<\/qt>, अस्थापयत<\/qt> । स्थापयेत्<\/qt>, स्थापयेत<\/qt> । स्थाप्यात्<\/qt>, स्थापिषीष्ट<\/qt> ।", "73054": "हो हन्तेरिति । अङ्गाधिकारात्प्रत्ययत्वं ञ्णितो लभ्यते । <<चजोः कु घिण्ण्यतोः>>[[7.3.52]] इत्यतः कुग्रहणमनुवर्तते । तदाह - ञिति णितीत्यादिना । वृत्रघ्नः । वृत्रहन् + शस् अत्र शस्येत्सञ्ज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<अल्लोपोऽनः>>[[6.4.134]] इत्यनोऽकारस्य लोपे 'वृत्रहन् अस्' इति स्थिते <<हो हन्तेर्ञ्णिन्नेषु>>[[7.3.54]] इत्यनेन नकारे परे हकारस्य कुत्वेन घकारे सस्य रुत्वे रेफस्य विसर्गत्वे च कृते मिलित्वा 'वृत्रघ्नः' इति रूपम् । <>इत्यादीति ।<> आदिना अजादौ प्रत्यये भसञ्ज्ञायाम् अनोऽकारस्य लोपः । हलादौ विभक्तौ परे नलोपश्च बोध्यः । वृत्रघ्ना, वृत्रहभ्याम्, वृत्रहभिः । वृत्रघ्ने | वृत्रघ्नः २ । वृत्रघ्नोः । वृत्रघ्नाम् । वृत्रघ्नि - वृत्रहनि । इति । एवमित्यादि । शार्ङ्गी, शार्ङ्गिणौ, शार्ङ्गिणः । हे शार्ङ्गिन् । शसि - शार्ङ्गिणः । भ्यामि - शार्ङ्गिभ्याम् । यशस्वी, यशस्विनौ, यशस्विनः । हे यशस्विन् । शसि - यशस्विनः । भ्यामि - यशस्विभ्यामित्यादि । अर्यमा, अर्यमणौ, अर्यमणः । हे अर्यमन् । शसि - अल्लोपे णत्वे च 'अर्यम्णः' । भ्यामि - अर्यमभ्यामित्यादि । पूषा, पूषणौ, पूषणः । हे पूषन् । शसि - अल्लोपेणत्वे च 'पूष्णः' । भ्यामि -पूषभ्यामित्यादि ।", "73094": "यङो वेति ।<\/w> <<उतो वृद्धिर्लुकि हलि>> [[7.3.89]] इत्यतो हलीति, <<नाभ्यस्तस्याचि>> [[7.3.87]] इत्यतः पिति सार्वधातुके इति, <<ब्रुव ईट्>> [[7.3.93]] इत्यत ईडिति चानुवर्तते । तदाह — यङ्लुगन्तादित्यादिना ।<\/w> <<भूसुवोस्तिङि>> [[7.3.88]] इति गुणनिषेधमाशङ्क्य आह - भूसुवोरिति<\/w> । निपातनादिति ।<\/w> <<कृषेश्छन्दसि>> [[7.4.64]] इत्यतः छन्दसीत्यनुवृत्तौ <<दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते...>> [[7.4.65]] इत्यादिसूत्रे भूधातोर्यङ्लुगन्तस्य गुणाभावो निपात्यते । <<भूसुवोस्तिङि>> [[7.3.88]] इत्येव तत्र गुणनिषेधे सिद्धे गुणाभावनिपातनं नियमार्थम् — यङ्लुकि छन्दस्येवायं <<भूसुवोः>> [[7.3.88]] इति गुणनिषेधो, नान्यत्र इति । अतो लोकेऽपि यङ्लुगस्तीति विज्ञायते । बोभवीति<\/qt> । भूधातोर्यङि, <<यङोऽचि च>> [[2.4.74]] इति द्वित्वापेक्षया आदौ यङो लुकि, ततः प्रत्ययलक्षणेन यङन्तत्वात् द्वित्वे, <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणे, जश्त्वे, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वाल्लटस्तिपि, <<कर्तरि शप्>> [[3.1.68]] इति शपि, <=चर्करीतं च=> इति यङ्लुगन्तस्य अदादौ पाठाददादित्वात् <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपो लुकि, बो भू ति<\/qt> इति स्थिते <<यङो वा>> [[7.3.94]] इति पाक्षिक ईडागमे, <<दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते...>> [[7.4.65]] इति छन्दसि निपातनात् <<भूसुवोस्तिङि>> [[7.3.88]] इति गुणनिषेधस्य यङ्लुकि भाषायामप्रवृत्या गुणेऽवादेशे च बोभवीति<\/qt> इति रूपम् । इडभावे बोभोति<\/qt> इति रूपम् । बोभूतः<\/qt> । भूधातोः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि, <<यङोऽचि च>> [[2.4.74]] इति यङ्लुकि, <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययलक्षणत्वे <<सन्यङोः>> [[6.1.9]] इति धातोर्द्वित्वे अभ्याससंज्ञायां <<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्याचो ह्र्स्वत्वे <<अभ्यासे चर्च>> [[8.4.54]] इति अभ्यासभकारस्य बत्वे <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्याचो गुणे, बोभू<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वाल्लटि, लटः स्थाने प्रथमपुरुषद्विवचने तसि, <<कर्तरि शप्>> [[3.1.68]] इति शपि, यङ्लुगन्तस्य अदादौ पाठात् <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपो लुकि, तसः सस्य रुत्वे विसर्गे च बोभूतः<\/qt> इति रूपम् । बोभवीति<\/qt> । भूधातोः <<धातोरेकाचो...>> [[3.1.22]] इति यङि, <<यङोऽचि च>> [[2.4.74]] इति यङो लुकि, प्रत्ययलक्षणेन यङन्तत्वात् <<सन्यङोः>> [[6.1.9]] इति द्वित्वे, अभ्याससंज्ञायां <<हलादिः शेषः>> [[7.4.60]] इति आदिहलः शेषे, <<ह्रस्वः>> [[7.4.59]] इति हस्वे <<अभ्यासे चर्च>> [[8.4.54]] इति अभ्यासभकारस्य बत्वे, <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणे बोभू<\/qt> इति जाते, प्रत्ययलक्षणेन यङन्तत्वात् <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वाल्लटि, तत्स्थाने प्रथमपुरुषबहुवचने झौ, <<कर्तरि शप्>> [[3.1.68]] इति शपि <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपो लुकि, <<उभे अभ्यस्तम्>> [[6.1.5]] इति अभ्यस्तत्वात् <<अदभ्यस्तात्>> [[7.1.4]] इति झेः स्थाने अदादेशे बोभू अ ति<\/qt> इति जाते <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति उवङि, मिलित्वा बोभुवति<\/qt> इति रूपम् । अग्रे बोभवीषि<\/qt>-बोभोषि<\/qt>, बोभूथः<\/qt>, बोभूथ<\/qt> । बोभवीमि<\/qt>-बोभोमि<\/qt>, बोभूवः<\/qt>, बोभूमः<\/qt> इति रूपाणि । साधनिका पूर्ववत् । बोभवाञ्चकार<\/qt> । भूधातुतो <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि, <<यङोऽचि च>> [[2.4.74]] ‍ इति यङो लोपे प्रत्ययलक्षणेन यङन्तत्वात् <<सन्यङोः>> [[6.1.9]] इति द्वित्वे अभ्यासत्वे अभ्यासकार्ये <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्याचो गुणे, बोभू<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वात् <<परोक्षे लिट्>> [[3.2.115]] इति लिटि, <<कास्यनेकाच आम्वक्तव्यः>> (वार्त्तिकम्, [[3.1.35]] इति आमि, तस्य <<आर्धधातुकं शेषः>> [[3.4.114]] इति आर्धधातुकत्वे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति बोभू<\/qt> इत्यस्य गुणे अवादेशे च कृते, <<आमः>> [[2.4.81]] इति लिटो लुकि, <<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इति लिट्परकस्य कृञोऽनुप्रयोगे बोभवाम् कृ लिट्<\/qt> इति स्थिते लिटः स्थाने तिपि, तिपः स्थाने <<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति णलि, अनुबन्धलोपे, <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति कृ-इत्यस्य द्वित्वे अभ्यासत्वे <<उरत्>> [[7.4.66]] इति उः स्थानेऽत्वे रपरत्वे <<हलादिः शेषः>> [[7.4.60]] इति आदिहलः शेषे <<कुहोश्चुः>> [[7.4.62]] इति अभ्यासकस्य चत्वे बोभवाम् चकृ अ<\/qt> इति जाते, <<अचो ञ्णिति>> [[7.2.115]] इति कृ-इत्यस्य वृद्धौ रपरे मस्य अनुस्वारे परसवर्णे च कृते बोभवाञ्चकार<\/qt> इति । अग्रे - बोभवाञ्चक्रतुः<\/qt>, बोभवाञ्चकृः<\/qt> । बोभवाञ्चकर्थ<\/qt>, बोभवाचक्रथुः<\/qt> बोभवाञ्चक्र<\/qt> । बोभवाञ्चकार<\/qt>-बोभवाञ्चकर<\/qt>, बोभवाञ्चकृव<\/qt> बोभवाञ्चकृम<\/qt> । इति । साधनिका बोभवाञ्चकारवत् ज्ञेया । बोभवामास<\/qt> । बोभू<\/qt> इति यङ्लुगन्तं प्रसाध्य ततो लिटि, आमि, लिटो लुकि लिट्परेऽसि प्रयुक्ते उक्तरूपस्य सिद्धिः । बोभविता<\/qt> । भृधातोर्यङि, यङो लुकि, द्वित्वे अभ्यासत्वे, अभ्यासकार्ये च कृते, <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणे बोभू<\/qt> इति जाते, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां लुटि, तत्स्थाने तिपि, तिपो डात्वे, तासि, तासः आर्धधातुकत्वाद् इडागमे, गुणेऽवादेशे च बोभविता<\/qt> इति रूपम् । बोभवितारौ<\/qt>, बोभवितारः<\/qt>। बोभवितासि<\/qt>, बोभवितास्थः<\/qt>, बोभवितास्थ<\/qt> । बोभवितास्मि<\/qt>, बोभवितास्वः<\/qt>, बोभवितास्मः<\/qt> इति । बोभविष्यति<\/qt> । बोभू<\/qt> इति पूर्ववत् यङ्लुगन्तं प्रसाध्य धातुसंज्ञायां लृटि, लः स्थाने प्रथमपुरुषैकवचने तिपि, <<स्यतासी लृलुटोः>> [[3.1.33]] इति स्ये, <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यार्धधातुकसंज्ञायाम् <<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे, <<एचोऽयवायावः>> [[6.1.78]] इत्यवादेशे <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वे बोभविष्यति<\/qt> इति । बोभविष्यतः<\/qt>, बोभविष्यन्ति <\/qt> । बोभविष्यसि<\/qt>, बोभविष्यथः<\/qt>, बोभविष्यथ<\/qt> । बोभविष्यामि<\/qt>, बोभविष्यावः<\/qt>, बोभविष्यामः<\/qt> इति । बोभवीतु<\/qt> । भूधातोः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि, <<यङोऽचि च>> [[2.4.74]] इति यङो लुकि, प्रत्ययलक्षणेन यङन्तत्वात् <<सन्यङोः>> [[6.1.9]] इति द्वित्वे अभ्याससंज्ञायाम् अभ्यासकार्य च कृते, <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणे बोभू<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां लोटः प्रथमपुरुषेकवचने तिपि, शपि, यङ्लुगन्तस्य अदादौ पाठात् <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपो लुकि, <<यङो वा>> [[7.3.94]] इति तिपः ईडागमे गुणे अवादेशे च कृते, <<एरुः>> [[3.4.86]] इति तिप इकारस्योत्वे च कृते बोभवीतु<\/qt> इति रूपम् । ईडभावे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे बोभोतु<\/qt> इति रूपम् । तातङि — बोभुतात्<\/qt> । बोभूताम्<\/qt> । भूधातोः यङ्लुगन्तं प्रसाध्य लोटि, तसि, तसः स्थाने <<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इति तामादेशे च कृते शेषं पूर्ववत् । बोभुवतु<\/qt> । यङ्लुगन्तं पूर्ववत्प्रसाध्य लोटः स्थाने झौ कृते <<अदभ्यस्तात्>> [[7.1.4]] इति झेरदादेशे <<एरुः>> [[3.4.86]] इति उत्वे <<अचि श्नुधातु...>> [[6.4.77]] इति उवङि च कृते बोभुवतु<\/qt> इति रूपम् । बोभूहि<\/qt> । भूधातोर्यङि, यङ्लुकि, द्वित्वेऽभ्यासत्वे, अभ्यासकार्ये च कृते, <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्याचो गुणे बाभू<\/qt> इति जाते प्रत्ययलक्षणेन यङन्तत्वात् <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<लोट् च>>[[3.3.162]] इति लोटि, लोटस्सिपि, शपि, <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपो लुकि <<सेर्ह्यपिच्च>> [[3.4.87]] इति सेर्हौ कृते बोभूहि<\/qt> इति रूपम् । एवं बोभृतात्<\/qt>, बोभूतम्<\/qt>, बोभूत<\/qt> । बोभवानि<\/qt> । लोट उत्तमपुरुषैकवचने मिपि समागते - बोभूमि<\/qt> इति भूते <<मेर्निः>> [[3.4.89]] इति मेर्नित्वे <<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आटि, <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे, <<एचोऽयवायावः>> [[6.1.78]] इत्यावादेशे बोभवानि<\/qt> इति रूपम् । बोभवाव<\/qt>, बोभवाम<\/qt> इत्यत्राप्येवं बोध्यम् । अबोभवीत्<\/qt> । भूधातोः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि, <<यङोऽचि च>> [[2.4.74]] इति यङो लुकि, <<सन्यङोः>> [[6.1.9]] इति द्वित्वे अभ्यासत्वे, <<हलादिः शेषः>> [[7.4.60]] इत्यादि हलःशेषे <<ह्रस्वः>> [[7.4.59]] इत्यभ्यासस्य ह्रस्वत्वे, <<अभ्यासे चर्च>> [[8.4.54]] इति भस्य बत्वे, <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्याचो गुणे बोभू<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वे <<अनद्यतने लङ्>> [[3.2.111]] इति लङि, लङस्तिपि, शपि <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपो लुकि, <<यङो वा>> [[7.3.94]] इति वेटि, <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे, <<एचोऽयवायावः>> [[6.1.78]] इति अवादेशे <<इतश्च>> [[3.4.100]] इति तिप इकारस्य लोपे, अङ्गस्याडागमे च कृते अबोभवीत्<\/qt> इति सिद्धम् । इडागमाभावे अबोभोत्<\/qt> इति । अबोभूताम्<\/qt> । बोभू<\/qt> इति यङ्लगन्तात् लङस्तसि, तसस्ताम्, शपो लुकि अटि च अबोभूताम्<\/qt> इति । अबोभवुः<\/qt> । बोभू<\/qt> इति यङ्लुगन्तात् लङः प्रथमपुरुषबहुवचने झौ, शपि, शपो लुकि, <<सिजभ्यस्तविदिभ्यश्च>> [[3.4.109]] इति झेर्जुसि, अटि, <<जुसि च>> [[7.3.83]] इति भकारोत्तरवर्त्युकारस्य गुणे अवादेशे रुत्वे विसर्गे च अबोभवुः<\/qt> इति रूपम् । लङः मध्यमपुरुषे अबाभवीः<\/qt>-अबोभोः<\/qt>, अबोभुतम्<\/qt> अबोभूत<\/qt> । लङ उत्तमपुरुषे अबोभवम्<\/qt>, अबोभूव<\/qt>, अबोभूम<\/qt> । बोभूयात्<\/qt> । भूधातोर्यङि, यङो लुकि, प्रत्ययलक्षणेन यङन्तत्वात् <<सन्यङोः>> [[6.1.9]] इति द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये च कृते भस्य बत्वे <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यभ्यासस्य गुणे बोभू<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वात् <<विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्>> [[3.3.161]] इति लिङि, तत्स्थाने तिपि, शपि, शपो लुकि, यासुटि, उटि गते <<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सलोपे, <<इतश्च>> [[3.4.100]] इति तिप इकारस्य लोपे, बोभूयात्<\/qt> इति रूपम् । बोभूयाताम्<\/qt> । यङ्लुगन्तं बोभू<\/qt> इति प्रसाध्य धातुसंज्ञायां विधौ लिङि, लिङस्तसि, तसस्तामि, शपि, शपो लुकि, यासुटि, उटि गते, स् लोपे च तत्सिद्धिः । बोभूयुः<\/qt>। बोभू<\/qt> इति यङ्लुगन्तम्प्रसाध्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वात् विधौ लिङि तत्स्थाने झौ, <<झेर्जुस्>> [[3.4.108]] इति झेः स्थाने जुसि, जस्येत्संज्ञायां लोपे च, शपि शपो लुकि, यासुटि, उटि गते, <<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति स् लोपे, बोभू या उस्<\/qt> इति जाते, <<उस्यपदान्तात्>> [[6.1.96]] इति पररूपत्वे, सस्य रुत्वे, रेफस्य विसर्गत्वे च बोभूयुः<\/qt> इति रूपम् । मध्यमपुरुषे बोभूयाः<\/qt>, बोभूयातम्<\/qt>, बोभूयात<\/qt> । उत्तमपुरुषे बोभूयाम्<\/qt>, बोभूयाव<\/qt>, बोभूयाम<\/qt> इति । बोभूयात्<\/qt> । भूधातोः <<धातोरेकाचोहलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि, <<यङोऽचि च>> [[2.4.74]] इति यङो लुकि, स्थानिवद्भावेन यङन्तत्वमानीय <<सन्यङोः>> [[6.1.9]] इति द्वित्वे, अभ्यासत्वे अभ्यासकार्ये भस्य बत्वे <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणे बोभू<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वात् <<आशिषि लिङ्लोटौ>> [[3.3.173]] इति आशिषि लिङि, लिङः स्थाने तिपि, अनुबन्धलोपे <<लिङाशिषि>> [[3.4.116]] इति तिप आर्धधातुकत्वे, तेन शबभावे, <<किदाशिषि>> [[3.4.104]] इति यासुटि, उटि गते <<इतश्च>> [[3.4.100]] इति तिप इकारस्य लोपे बोभूयास्त्<\/qt> इति भूते <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति स् लोपे बोभूयात्<\/qt> इति रूपम् । बोभूयास्ताम्<\/qt> । बोभू<\/qt> इति यङ्लुगन्तम्प्रसाध्य आशिषि लिङि, तत्स्थाने तसि, तसस्तामि यासुटि, उटि गते, बोभूयास्ताम्<\/qt> इति रूपम् । बोभूयासुः<\/qt> । बोभू<\/qt> इति यङ्लुगन्तम्प्रसाध्य आशिषि लिङो झौ, <<झेर्जुस्>> [[3.4.108]] इति जुसि, अनुबन्धलोपे, यासुटि, उटि गते, संयोगे सस्य रुत्वे रेफस्य विसर्गे च बोभूयासुः<\/qt> इति रूपम् । मध्यमपुरुषे बोभूयाः<\/qt>, बोभूयास्तम्<\/qt>, बोभूयास्त<\/qt> । बोभूयासम्<\/qt>, बोभूयास्व<\/qt>, बोभूयास्म<\/qt> इति रूपाणि । अबोभूवीत्<\/qt> । भूधातोः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि, <<यङोऽचि च>> [[2.4.74]] इति यङो लुकि, प्रत्ययलक्षणेन यङन्तत्वात् <<सन्यङोः>> [[6.1.9]] इति द्वित्वे अभ्याससंज्ञायाम् <<हलादिः शेषः>> [[7.4.60]] इत्यादिहलः शिष्टे, <<ह्रस्वः>> [[7.4.59]] इत्यभ्यासस्याचो ह्रस्वे <<अभ्यासे चर्च>> [[8.4.54]] इति अभ्यासभकारस्य बत्वे, <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणे बोभू<\/qt> इति जाते, <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायाम् <<लुङ्>> [[3.2.110]] इति लुङि, लुङः स्थाने प्रथमपुरुषैकवचनविवक्षायां तिपि, अनुबन्धलोपे, <<च्लि लुङि>> [[3.1.43]] इति च्लौ, <<च्लेः सिच्>> [[3.1.44]] इति सिचि, इचि गते, बोभू स् ति<\/qt> इति भूते, <<इतश्च>> [[3.4.100]] इति तिपः इकारस्य लोपे, <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इति तिपस्तकारस्य सार्वधातुकसंज्ञायाम् <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति सिचः सो लोपे, <<यङो वा>> [[7.3.94]] इति तिपस्तकारस्य ईडागमे, <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे प्राप्ते नित्यत्वात् तम्बाधित्वा <<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुगागमे बोभूवीत्<\/qt> इति जाते <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यङ्गस्य अडागमे अबोभूवीत्<\/qt> इति रूपम् । अबोभोत्<\/qt> । <<यङो वा>> [[7.3.94]] इति ईडागमाभावपक्षे लुङ्सम्बन्ध्यच्परत्वाभावेन वुगभावे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणे अबोभोत्<\/qt> इति रूपम् । अबोभूताम्<\/qt> । बोभू<\/qt> इति यङ्लुगन्तप्रसाध्य धातुसंज्ञायां लुङस्तसि, तसस्तामि, च्लौ, च्लेः सिचि, <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति सिचो लोपे, अटि च कृते तत्सिद्धिः। अबोभूवुः<\/qt> । बोभू<\/qt> इति यङलुगन्ताद्धातोर्लुङो झौ, <<सिजभ्यस्तविदिभ्यश्च>> [[3.4.109]] इति झेर्जुसि, अनुबन्धलोपे, <<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुगागमे, अनुबन्धलोपे कित्त्वादन्त्यावयवे जाते, अडागमे च कृते सस्य रुत्वे विसर्गे च तत्सिद्धिः । मध्यमपुरुषे अबोभृवीः<\/qt>-अबोभोः<\/qt>, अबोभूतम्<\/qt>, अबोभूत<\/qt> । अबोभूवम्<\/qt>, अबोभूव<\/qt>, अबोभूम<\/qt> इति रूपाणि । अबोभविष्यत्<\/qt> । बोभू<\/qt> इति पूर्ववत्प्रसाध्य लृङस्तिपि, स्ये इटि गुणे अवादेशे, स्यस्य षत्वे तिप इकारस्य लोपे, अङ्गस्याढागमे च तत्सिद्धिः । अबोभविष्यत्<\/qt>, अबोभविष्यताम्<\/qt>, अबोभविष्यन्<\/qt> । अबोभविष्यः<\/qt>, अबोभविष्यतम्<\/qt>, अबोभविष्यत<\/qt> । अबोभविष्यम्<\/qt>, अबोभविष्याव<\/qt>, अबोभविष्याम<\/qt> इति रूपाणि । इति यङ्लगन्तप्रक्रिया ॥", "73102": "सुपि चेति ।<\/w> <<अतो दीर्घो यञि>>[[7.3.101]] इत्यनुवर्तते । यञीत्यनेन सुपीति विशेष्यते । इति तदादिविधिरित्याह - यञादावित्यादिना । रामाभ्यामिति ।<\/w> रामशब्दात् तृतीयाद्विवचनविवक्षायां भ्यामि प्रत्यये राम भ्याम्<\/qt> इति दशायां <<सुपि च>>[[7.3.102]] इति यञादिसुबन्तःपातिनि भ्यामि परे अदन्ताङ्गस्य राम इत्यस्य दीर्घे दीर्घ प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यनेनाकारस्य दीर्घे रामाभ्याम्<\/qt> इति ।", "73103": "बहुवचने इति ।<\/w> <<अतो दीर्घो यञि>>[[7.3.101]] इत्यतोऽत इति <<सुपि च>>[[7.3.102]] इत्यतः सुपि इति चानुवर्तते । झलीत्यनेन सुपीति विशेष्यते । यस्मिन् विधिरिति तदादिविधिस्तदाह - झलादाविति । रामेभ्य इति ।<\/w> रामशब्दात् चतुर्थीबहुवचन विवक्षायां भ्यसि प्रत्यये विहिते राम भ्यस्<\/qt> इति जाते, तत्र यञादित्वात्सुप्त्वाच्च <<सुपि च>>[[7.3.102]] इत्यनेन दीर्घे प्राप्ते तम्बाधित्वा <<बहुवचने झल्येत्>>[[7.3.103]] इत्यनेन एकारे विहिते <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यनेनान्त्यस्य मकारोत्तरवर्तिनोऽकारस्यैत्त्वे सस्य रुत्वे अनुबन्धलोपे रेफस्य विसर्गे च कृते रामेभ्यः<\/qt> इति रूपम् । सुपि किमिति ।<\/w> <<बहुवचने झल्येत्>>[[7.3.103]] अस्मिन् सूत्रे पूर्वसूत्रतो यदि सुपीति नान्ववर्तिष्यत तदा पचध्वम् इत्यन्त्र झलादिबहुवचने ध्वमि परे अदन्ताङ्गस्य दीर्घोऽभविष्यत् । तन्माभूदिति सुपीत्यनुवर्तनमावश्यकम् ।", "73104": "ओसि चेति ।<\/w> <<अतो दीर्घो यञि>>[[7.3.101]] इत्यतोऽत इत्यनुवर्तते । <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतम् । <<बहुवचने झल्येत्>>[[7.3.103]] इत्यत एदित्यनुवर्त्यते । रामयोरिति ।<\/w> रामशब्दात् पष्ष्ठीद्विवचनविवक्षायाम् ओसि राम ओस्<\/qt> अत्र <<ओसि च>>[[7.3.104]] इत्यनेन अदन्ताङ्गस्यैकारे प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यनेनाकारस्य जाते रामे ओस्<\/qt> अत्र <<एचोऽयवायावः>>[[6.1.78]] इत्यनेन अयादेशे सस्य रुत्वे विसर्गे च रामयोः<\/qt> इति ।", "73105": "आङि चाप इति ।<\/w> ओसि च इत्यनुवर्तते आप इति षष्ठी । अङ्गस्येत्यधिकृतम् । तदन्तविधिः । <<बहुवचने झल्येत्>>[[7.3.103]] इत्यतः एदित्यनुवर्तते, तदाह - आङि ओसि चेत्यादिना । रमया ।<\/w> 'रमा + टा' इत्यत्र <<चुटू>>[[1.3.7]] इति टस्येत्सञ्ज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे — 'रमा आ' इति जाते <<आङि चापः>>[[7.3.105]] इत्यावन्ताङ्गस्यैकारादेशे <<एचोऽयवायावः>>[[6.1.78]] इत्ययादेशे च विहिते 'रमया' इति रूपम् ।", "73106": "सम्बुद्धौ चेति ।<\/w> <<बहुवचने झल्येत्>>[[7.3.103]] इत्यत एदिति <<आङि चापः>>[[7.3.105]] इत्यतः आप इति चानुवर्तते, तदाह - आप एकार इत्यादिना । एड्ह्रस्वादिति ।<\/w> हल् ङ्यादिलोपस्तु न, परत्वात् प्रतिपदोक्तत्वाच्च एत्वे कृते हल् ङ्यादिलोपस्याप्राप्तेः, <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः । हेरमे ।<\/w> रमाशब्दात्सावागते <<सम्बुद्धौ च>>[[7.3.106]] इत्यावन्ताङ्गस्यैकारादेशे <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति सलोपे 'हे रमे' इति रूपम् । हे रमे हे रमा इति ।<\/w> औस्थाने शीभावे गुणे च सति- 'हे रमे' इति । पूर्वसवर्णदीर्घादेशे रुवे विसर्गे च कृते 'रमाः' इति । रमारमेति ।<\/w> <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपम् । औङः शीभावे आद्गुणं मत्वाह - रमे इति । रमा:<\/w> - शसि 'रमा + अस्' इति स्थिते पूर्वसवर्णदीर्घे सति कृतपूर्वसवर्णदीर्घात् परत्वेऽपि <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति नत्वं स्त्रीलिङ्गत्वान्न भवतीत्यर्थः ।", "73107": "अम्बार्वेति ।<\/w> <<सम्बुद्धौ च>>[[7.3.106]] इत्यतः सम्बुद्धावित्यनुवर्तते । अम्बार्थानां नद्यन्तानां च ह्रस्वःस्यात्सम्बुद्धौ इत्यर्थः । हे बहुश्रेयसि ।<\/w> बहुश्रेयसीशब्दात् सम्बोधनप्रथमैकवचनविवक्षायां सुप्रत्यये उकारस्येत्सञ्ज्ञायां लोपे च <<यू स्त्र्याख्यौ नदी>>[[1.4.3]] इति नदीसञ्ज्ञायां बहुश्रेयसी स्<\/qt> इति स्थिते <<अम्बाऽर्थनद्योर्ह्रस्वः>>[[7.3.107]] इति ह्रस्वे <<एकवचनं संबुद्धिः>>[[2.3.49]] इति सम्बुद्धिसञ्ज्ञायां <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति सलोपे सति हे बहुश्रेयसि<\/qt> इति रूपम् । द्विवचनबहुवचने - बहुश्रेयस्यौ, बहुश्रेयस्यः । द्वितीया - बहुश्रेयसीम, बहुश्रेयस्यौ, बहुश्रेयस्यः । तृतीया - बहुश्रेयस्या, बहुश्रेयसीभ्यां, बहुश्रेयसीभिः ।", "73108": "ह्रस्वस्य गुण इति ।<\/w> <<सम्बुद्धौ च>>[[7.3.106]] इत्यतः सम्बुद्धावित्यनुवर्तते, तेन ह्रस्वस्य गुणः सम्बुद्धावित्यर्थः । हे हरे इति ।<\/w> हरिशब्दात्सम्बोधनप्रथमैकवचनविवक्षायां सुसमागते अनुबन्धलोपे, तस्य <<एकवचनं संबुद्धिः>>[[2.3.49]] इति सम्बुद्धिसंज्ञायां <<ह्रस्वस्य गुणः>>[[7.3.108]] इति गुणे हरे-स्<\/qt> इति जाते <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति स् लोपे हे हरे<\/qt> इति रूपम् । औ परे - है हरी<\/qt> इति । जसि- हे हरयः<\/qt> पूर्ववत् । हरिमिति |<\/w> हरि-अम्<\/qt> अत्र <<अमि पूर्वः>>[[6.1.107]] इति पूर्वपरयोः स्थाने पूर्वरूपादेशे हरिम्<\/qt> इति सिद्धम् । औटि हरी<\/qt> इति यथापूर्वम् । हरीन् इति ।<\/w> हरिशब्दात् शसि शसः शकारस्येत्संज्ञायां लोपे च हरि-अस्<\/qt> इति स्थितेऽत्र <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे कृते <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति स् इत्यस्य नकारादेशे सति हरीन्<\/qt> इति रूपम् ।", "73109": "जसि चेतीति ।<\/w> <<ह्रस्वस्य गुणः>>[[7.3.108]] इत्यनुवर्तते । <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतं ह्रस्वेन विशेष्यते । तदन्तविधिस्तदाह -ह्रस्वान्तस्येत्यादिना । हरय इति ।<\/w> हरिशब्दाज्जसि समागतेऽनुबन्धलोपे हरि-अस्<\/qt> इति स्थिते पूर्वसवर्णदीर्घे प्राप्ते त प्रवाध्य <<जसि च>>[[7.3.109]] इति गुणे प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]] इति परिभाषयाऽन्त्यस्य जाते हरे-अस्<\/qt> इति भूते <<एचोऽयवायावः>>[[6.1.78]] इति अयादेशे कृते सस्य रुत्वे विसर्गे च कृते हरयः<\/qt> इति रूपम् ।", "73110": "ऋतो ङीति ।<\/w> <<ह्रस्वस्य गुणः>>[[7.3.108]] इत्यतो गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । ऋत इत्यनेन विशिष्यते । तदन्तविधिः । तदाह - ऋतोऽङ्गस्येत्यादिना ।<\/w>", "73111": "घोङितीति ।<\/w> <<सुपि च>>[[7.3.102]] इत्यतः सुपीति, <<ह्रस्वस्य गुणः>>[[7.3.108]] इत्यतो गुण इत्यनुवर्तते, तदाह - घिसंज्ञकस्येत्यादिना । हरये<\/w> - हरिशब्दात् ङेकृते <<लशक्वतद्धिते>>[[1.3.8]] इति ङस्येत्सञ्ज्ञायां लोपे च <<शेषो घ्यसखि>>[[1.4.7]] इति घिसञ्ज्ञायां <<घेर्ङिति>>[[7.3.111]] इति गुणे <<एचोऽयवायावः>>[[6.1.78]] इति अयादेशे हरये<\/qt> इति । चतुर्थीद्विवचनबहुवचने - हरिभ्याम्, हरिभ्यः, इति ।", "73112": "आण्नद्या इति ।<\/w> <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतं पञ्चम्या विपरिणम्यते । नद्याः<\/qt> इति पञ्चम्यन्तेन विशेपष्यते । तदन्तविधिः । <<घेर्ङिति>>[[7.3.111]] इत्यतो ङितीत्यनुवृत्तं षष्ठ्या विपरिणम्यते, तदाह – नद्यन्तादित्यादिना ।<\/w>", "73113": "याडाप इति ।<\/w> आपः इति पञ्चमी । <<घेर्ङिति>>[[7.3.111]] इत्यतो ङितीत्यनुवृत्तं षष्ठ्या विपरिणम्यते, तदाह - आपः परस्येत्यादिना । रमायै इति ।<\/w> 'रमा ङे' इत्यत्र ङस्येत्सञ्ज्ञायां लोपे च कृते 'रमा+ए' इति जाते <<याडापः>>[[7.3.113]] इत्यनेन ङित एकारस्य याडागमे कृते टित्वादाद्यावयवे जाते टकारस्येत्संज्ञायां लोपे च विहिते 'रमा या ए' अत्र <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ 'रमायै' इति रूपम् । ङसिङसोस्तु 'रमा + असू' इति स्थिते याडागमे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति सवर्णदीर्घे 'रमायाः' । रमयोरिति ।<\/w> 'रमा + ओस्' इति स्थिते <<आङि चापः>>[[7.3.105]] इत्यावन्ताङ्गस्यैकारे जाते अयादेशे च कृते रुत्वविसर्गयोः सत्योः 'रमयोः' इति रूपम् । रमाणामिति ।<\/w> 'रमा + आम्' अत्र <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इत्यत्राव्ग्रहणान्नुटि, पर्ज्जन्यवल्लक्षणप्रवृत्या <<नामि>>[[6.4.3]] इति दीर्घे <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति णत्वे च सति रूपम् । रमायामिति ।<\/w> 'रमा ङि' इत्यत्र <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति ङेरामि कृते 'रमा + आम्' इति जाते अत्र <<याडापः>>[[7.3.113]] इति याटि टलोपे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घादेशे च कृते 'रमायाम' इति रूपम् ।", "73114": "सर्वनाम्न इति ।<\/w> <<याडापः>>[[7.3.113]] इत्यत आप इति पञ्चम्यन्तमनुवृत्तम् । तेन सर्वनाम्न इत्येतद्विशिष्यते । तदन्तविधिः । <<घेर्ङिति>>[[7.3.111]] इत्यतो ङितीत्यनुवृत्तं पष्ठ्या विपरिणम्यते; तदाह - आवन्तादित्यादिना । सर्वस्यै ।<\/w> सर्वशब्दाट्टापि सर्वाशब्दः । सोऽपि प्रायेण रमावत् । 'सर्वा + ङे' इत्यत्र ङस्येत्सञ्ज्ञायां लोपे च कृते <<याडापः>>[[7.3.113]] इति प्राप्ते तं बाधित्वा <<सर्वनाम्नः स्याड्ढ्रस्वश्च>>[[7.3.114]] इति स्याटि आबन्तस्य च ह्रस्वे कृते सर्व स्याट् ए<\/qt> इति जाते टस्येत्सञ्ज्ञत्वे लोपे च <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ कृतायां 'सर्वस्यै' इति रूपम् । सर्वस्याः ।<\/w> सर्वा ङसि<\/qt> इत्यत्र ङकारस्येकारस्य चेत्सञ्ज्ञायां लोपे च <<सर्वनाम्नः स्याड्ढ्रस्वश्च>>[[7.3.114]] इति स्याटि आबन्तस्य ह्रस्वत्वे च सर्व स्याट् अस्<\/qt> इति जाते टस्य लोपे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घादेशे च कृते सस्य रुत्वे विसर्गे च 'सर्वस्याः' इति रूपम् । सर्वासामिति ।<\/w> सर्वा + आम्<\/qt> इत्यत्र <<आमि सर्वनाम्नः सुट्>>[[7.1.52]] इति सुटि उटि गते सकारेण सह संयोगे च कृते 'सर्वासाम्' इति रूपम् । सर्वस्यामिति ।<\/w> 'सर्वा + ङि' इत्यत्र <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति ङेरामि <<सर्वनाम्नः स्याड्ढ्रस्वश्च>>[[7.3.114]] इति स्याटि आबन्तस्य च ह्रस्वत्वे सर्व स्या आम्<\/qt> इति जाते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घत्वे 'सर्वस्याम' इति रूपम् । एवमिति ।<\/w> सर्वादिगणपठितविश्वादयः आबन्तत्वं प्राप्ताः सर्वाशब्दवदित्यर्थः । उत्तरस्याः पूर्वस्याश्च दिशोर्यदन्तरालम् - सा उत्तरपूर्वा । <<दिङ्नामान्यन्तराले>>[[2.2.26]] इति बहुव्रीहिविशेषोऽयम् ।", "73116": "ङेरामिति ।<\/w> अङ्गत्वात् प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह - नद्यन्तादित्यादिना | बहुश्रेयस्याम् ।<\/w> बहुश्रेयसीशब्दात् सप्तम्येकवचने ङौ समागते <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति ङेरामि कृते नदीसञ्ज्ञायां सत्यां स्थानिवद्भावेन ङित्वमानीय <<आण्नद्याः>>[[7.3.112]] इत्याडागमे टित्वादाद्यावयवे बहुश्रेयसी-आ आम्<\/qt> इति जाते <<आटश्च>>[[6.1.90]]' इति वृद्धौ <<इको यणचि>>[[6.1.77]] इति यणि बहुश्रेयस्याम्<\/qt> इति रूपम् । सप्तमीद्विवचनबहुवचने - बहुश्रेयस्योः, बहुश्रेयसीषु<\/qt> इति । अङ्यन्तत्वादिति ।<\/w> औणादिकप्रत्ययान्तत्वादिति भावः । तथाह्यत्र सङ्ग्रहः - अवी तन्त्री तरी लक्ष्मी धी ही श्रीणामुणादिषु । सप्तस्त्रीलिङ्गशब्दानां न सुलोपः कदाचन । अतिलक्ष्मीः ।<\/w> लक्ष्मीमतिक्रान्त इति विग्रहे इति समासः । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्रस्वः । <<अतिलक्ष्मी - सु' अत्रानुबन्धलोपे सस्य रुत्वे विसर्गत्वे च रूपम् । शेषं बहुश्रेयसीवदिति ।<\/w> इति नदीत्वादिति भावः । प्रधीः ।<\/w> प्रध्यायतीति प्रधीः । इति क्विप् । यकारस्य सम्प्रसारणमिकारः। <<सम्प्रसारणाच्च>>[[6.1.108]] इति पूर्वरूपम् । <<हलः>>[[6.4.2]] इति दीर्घः । कृदन्तत्वेन प्रातिपदिकत्वात् सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः। रुत्वविसर्गौ प्रधीः<\/qt> इति रूपम् । प्रधी + औ इति स्थिते <<इको यणचि>>[[6.1.77]] इति यणपवादमियङमाशङ्कितुमाह - अचि अनुधात्विति ।<\/w> इश्च उश्च यू तयोः य्वोः इवर्णोवर्णयोरित्यर्थः । श्नुश्च धातुश्च भ्रूश्चेति द्वन्द्वः। प्रत्ययग्रहण परिभाषया श्नुप्रत्ययान्तं विवक्षितम् । य्वोरिति धातोरेव विशेषणम् । तदन्तविधिः । <<अङ्गस्य>>[[6.4.1]] इत्यधिकृतम् । ततश्च <<प्रत्ययः>>[[3.1.1]] इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधिस्तदाह - श्नुप्रत्ययान्तस्येत्यादिना । इति प्राप्ते इति ।<\/w> प्रधी-औ<\/qt> इत्यादाविति शेषः।", "73117": "इदुद्भ्यामिति ।<\/w> <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति सूत्रान्नदीग्रहणं ङेरामिति चानुवर्तते, तदाह - इदुद्भ्यामित्यादिना ।<\/w> 'मति + ङि' इत्यत्र <<ङिति ह्रस्वश्च>>[[1.4.6]] इति नदीसंज्ञायां <<इदुद्भ्याम्>>[[7.3.117]] इति ङेरामि विहिते सति तत्र स्थानिवद्भावेन ङित्वामानीय <<आण्नद्याः>>[[7.3.112]] इत्याडागमे <<आटश्च>>[[6.1.90]] इति वृद्धौ <<इको यणचि>>[[6.1.77]] इति यणि 'मत्याम्' इति रूपम् । नदीसंज्ञाभावे <<शेषो घ्यसखि>>[[1.4.7]] इति घिसंज्ञायाम् <<अच्च घेः>>[[7.3.119]] इति ङेरौत्वे घेरकारादेशे च कृते <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ च विहितायां 'मतौ' इति रूपम् ।", "73118": "औदिति ।<\/w> अत्र <<इदुद्भ्याम्>>[[7.3.117]] इति सूत्रमनुवर्तते । <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इत्यतो ङेरिति च । इदुद्भ्यां परस्य ङेरौत्स्यादित्यर्थः । सख्यौ ।<\/w> सखिशब्दात्सप्तम्येकवचनविवक्षायां ङिसमागते डकारस्येत्सञ्ज्ञायां लोपे च सखि-इ<\/qt> इति जाते । तत्र ङेरिकारस्य स्थाने <<औत्>>[[7.3.118]] इति औ<\/qt> आदेशे <<इको यणचि>>[[6.1.77]] इति यणि सख्यौ इति रूपम् । सप्तमीद्विवचनबहुवचने सख्योः, सखिषु । पतिशब्दस्य द्वितीयाबहुवचनपर्यन्तं हरिशब्दवत् साधनिका, रूपाणि च - पतिः, पती, पतयः प्रथमा । हे पते, हे पती, हे पतयः सम्बोधनम् । पति, पती, पतीन् द्वितीया ।", "73119": "अच्च घेरिति ।<\/w> <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इत्यतो ङेरित्यनुवर्तते । <<इदुद्भ्याम्>>[[7.3.117]] इति <<औत्>>[[7.3.118]] इति च सूत्रमनुवर्तते । तदाह - इदुद्भ्यामित्यादिना । हरौ ।<\/w> हरिशब्दात् सप्तम्येकवचनविवक्षायां ङिसमायते ङस्येत्सञ्ज्ञायां लोपे च हरि-इ<\/qt> इति स्थिते <<शेषो घ्यसखि>>[[1.4.7]] इति घिसञ्ज्ञायाम् <<अच्च घेः>>[[7.3.119]] इत्यनेन ङे स्थाने औकारे, घिसञ्ज्ञकस्य - हरि<\/qt> इत्यस्य स्थाने अकारे प्राप्ते <<अलोऽन्त्यस्य>>[[1.1.52]]' इत्यनेन रेफोत्तरवर्तिन इकारस्य स्थानेऽकारे च विहिते हर-औ<\/qt> इति जाते 'वृद्धिरेचि>> इति वृद्धौ हरौ<\/qt> इति रूपम् । हर्योः ।<\/w> षष्ठीद्विवचनवद्बोध्यम् । हरिषु ।<\/w> हरि-सु<\/qt> इति दशायाम् <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे हरिषु<\/qt> इति ।", "73120": "आङो नेति ।<\/w> <<अच्च घेः>>[[7.3.119]] इत्यतो घिग्रहणानुवृत्तेर्घेः परस्य आङो ना स्यादस्त्रियामित्यर्थः । प्राचामिति <\/w>- आचार्याणामिति शेषः । हरिणा<\/w> हरिशब्दात् तृतीयैकवचनविवक्षायां टासमागते <<शेषो घ्यसखि>>[[1.4.7]] इत्यनेन हरिशब्दस्य घिसंज्ञायाम् <<आङो नाऽस्त्रियाम्>>[[7.3.120]] इत्यनेन घिसंज्ञकात् हरिशब्दात् परस्य आङः टाइत्यस्य नादेशे कृते हरिना<\/qt> इति जाते <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इत्यनेन णत्वे हरिणा<\/qt> इति रूपम् । तृतीयाद्विवचनबहुवचने - हरिभ्याम्, हरिभिः इति ।", "74005": "तिष्ठतेरिदिति । <\/w> <<णौ चङ्युपधाया ह्रस्वः>> [[7.4.1]] इत्यनुवर्तते । तदाह - उपधाया इति<\/w> । अतिष्ठिपत् <\/qt> । स्थाधातोर्णिचि ण्यन्तत्वात् <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इति चङि अनुबन्धलोपे 'णिच्यच आदेशो न स्यात्, द्वित्वे कार्ये' इति निषेधात् इत्वापेक्षया पूर्व <<चङि>> [[6.1.11]] इति द्वित्वे अभ्यासत्वे <<शर्पूर्वाः खयः>> [[7.4.61]] इति सलोपेऽभ्यासह्रस्वे चर्त्वे <<णौ चङ् युपधाया ह्रस्वः>> [[7.4.1]] इति उपधाया ह्रस्वे <<णेरनिटि>> [[6.4.51]] इति णिलोपे <<सन्वल्लघुनि चङ्परेऽनग्लो>> [[7.4.93]] इति इत्वे षत्वे ष्टुत्वे <<तिष्ठतेरित्>> [[7.4.5]] इति इत्वे च अतिष्ठिपत्<\/qt> इति रूपम् । अत्र केचित् ओणृ अपनयने, इत्यत्र ॠदित्करणाल्लिङ्गात् उपधाकार्यं द्वित्वात्प्रबलम् इति कल्पनया पूर्वं <<तिष्ठतेरित्>> [[7.4.5]]इति इत्वं, ततो द्वित्वम् - इति न समीचिनमिति प्रामाणिकाः । तत्र प्रमाणमन्यत्र स्पष्टम् ।", "74033": "क्यचि चेति ।<\/w> <<अस्य च्वौ>> [[7.4.32]] इत्यतोऽस्येत्यनुवर्तते । <<ई घ्राध्मोः>> [[7.4.31]] इत्यत ईग्रहणञ्चेति मत्वा शेषं पूरयति-अवर्णस्येति<\/w> । पुत्रीयति <\/qt> । आत्मनः पुत्रमिच्छतीत्यर्थे द्वितीयान्तपुत्रशब्दात् <<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यचि पुत्र अम् क्यच्<\/qt> इति स्थिते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति सूत्रेण समुदायस्य धातुसंज्ञाया <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति अमो लुकि, पुत्र क्यच्<\/qt> इत्यत्र <<लशक्वतद्विते>> [[1.3.8]] इति ककारस्येत्संज्ञायां <<हलन्त्यम्>> [[1.3.3]] इति चस्येत्संज्ञायां <<तस्य लोपः>> [[1.3.9]] इति उभयोः कचयोर्लोपे, <<क्यचि च>> [[7.4.33]] इत्यनेन पुत्र<\/qt> इत्यत्र अकारस्य ईत्वे पुत्रीय<\/qt> इति जाते तस्मात् <<वर्तमाने लट्>> [[3.2.123]] इति लटि, लटस्तिपि, शपि अनुबन्धलोपे, <<अतो गुणे>> [[6.1.97]] इति पररूपत्वे च पुत्रीयति<\/qt> इति रूपम् । एवं सर्वत्र । लिटि - पुत्रीयाञ्चकार<\/qt> इत्यादि । लुटि - पुत्रीयिता<\/qt> । लृटि - पुत्रीयिष्यति<\/qt> । लोटि - पुत्रीयतु<\/qt> । लङि - <\/qt>अपुत्रीयत्<\/qt> । लिङि - पुत्रीयेत्<\/qt> । आशिषि - पुत्रीय्यात्<\/qt> । लुङि - अपुत्रीयीत्<\/qt> । लृङि - अपुत्रीयिष्यत्<\/qt> । इत्यादि ।", "74048": "अपोभिरिति ।<\/w> <<अच उपसर्गात्तः>> इत्यतः त इत्यनुवर्तते, तदाह - अपस्तकार इति । अद्भिः ।<\/w> अप् + भिस्<\/qt> इत्यत्र <<अपो भि>> इति पस्य तकारे <<झलां जशोऽन्ते>> इति तस्य दत्वे सस्य रुत्वे रेफस्य विसर्गत्वे च कृते 'अद्भिः' इति । दिक् दिग् ।<\/w> 'दिश्-अतिसर्जने' <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> इत्यादिना क्विनि तस्य सर्वस्यापहारे कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते लोपे कृते हल्ङयादिना सलोपे कृते 'दिश' इति जाते तत्र <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> इति षत्वे <<झलां जशोऽन्ते>> इति डत्वे <<क्विन्प्रत्ययस्य कुः>> इति डस्य कुत्वेन गत्वे <<वाऽवसाने>> इति विकल्पेन कत्वे 'दिक्' इति । पक्षे - 'दिग्' इति । दिग्भ्याम् ।<\/w> दिश् + भ्याम्<\/qt> इति स्थिते अत्र 'व्रश्च' इति षत्वे <<झलां जशोऽन्ते>> इति डत्वे <<क्विन्प्रत्ययस्य कुः>> इति कुत्वेन गत्वे 'दिग्भ्याम्' इति । दृक् - दृग् ।<\/w> दृश् + सु<\/qt> अत्र उकारस्येत्संज्ञायां लोपे च <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> इति स् लोपे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> इति षत्वे षस्य <<झलां जशोऽन्ते>> इति डत्वे <<क्विन्प्रत्ययस्य कुः>> इति (क्विन्प्रत्ययो यस्माद्विहित इति बहुव्रीह्याश्रयणात्) कुत्वेन गकारे <<वाऽवसाने>> इति गस्य कत्वे 'दृक्' इति । पक्षे 'दृग्' इति । दृग्भ्याम् ।<\/w> दृश् + भ्याम्<\/qt> अत्र षडगाः प्राग्वत् । त्विट् ।<\/w> त्विष् — दीप्तौ क्विप् । सुलोपः। जश्त्वे चर्त्वे च रूपम् । त्विङ्भ्याम् ।<\/w> त्विष् + भ्याम्<\/qt> अत्र <<झलां जशोऽन्ते>> इति जश्त्वेन डत्वे 'त्विङ्भ्याम्' इति । सजूः ।<\/w> सजुष् + सु<\/qt> अत्र सकारोत्तरवर्तिन उकारस्येत्संज्ञायां लोपे च स् इत्यस्य <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> इति लोपे <<ससजुषो रुः>> इति षस्य रुत्वे उकारलोपे <<र्वोरुपधाया दीर्घ इकः>> इति जकारोत्तरवत्युकारस्य दीर्घत्वे रेफस्य विसर्गत्वे च 'सजूः' इति रूपम् । सजुर्भ्याम् ।<\/w> सजुष् + भ्याम्<\/qt> इत्यत्र <<स्वादिष्वसर्वनामस्थाने>> इति पदसंज्ञायां <<ससजुषो रुः>> इति षकारस्य रुत्वे उकारस्येत्संज्ञायां लोपे च कृते <<र्वोरुपधाया दीर्घ इकः>> इति जकारोत्तरवर्तिन उकारस्य दीर्घत्वे संयोगे च कृते 'सजुर्भ्याम्' इति । आशीः ।<\/w> आशिष् + सु<\/qt> इत्यत्र उकारस्येत्संज्ञायां लोपे च सकारस्य हल्ङ्यादिना लोपे षत्वस्यासिद्धत्वात् <<ससजुषो रुः>> इति रुत्वे उकारस्येत्संज्ञायां लोपे च <<र्वोरुपधाया दीर्घ इकः>> इति शकारोत्तरवर्तिन इकारस्य दीर्घत्वे रेफस्य <<खरवसानयोर्विसर्जनीयः>> इति विसर्गत्वे 'आशीः' इति रूपम् । आशीर्भ्याम् ।<\/w> आशिष् + भ्याम्<\/qt> इत्यत्र <<स्वादिष्वसर्वनामस्थाने>> इति पदसंज्ञायां षत्वस्यासिद्धत्वात् <<ससजुषो रुः>> इति रुत्वे उकारस्येत्संज्ञायां लोपे च जाते <<र्वोरुपधाया दीर्घ इकः>> इति उपधाभूतेकारस्य दीर्घत्वे 'आशीर्भ्याम्' इति रूपम् । असौ ।<\/w> अदस् + सु<\/qt> इत्यत्र <<अदस औ सुलोपश्च>> इति सस्योत्वे सुलोपे च विहिते अद + औ<\/qt> इति जाते <<तदोः सः सावनन्त्ययोः>> इति दकारस्य सकारे <<वृद्धिरेचि>> इति वृद्धौ च कृतायाम् 'असौ' इति । अमू ।<\/w> अदस्+औ<\/qt> इति स्थिते <<त्यदादीनामः>> इत्यत्वे <<अतो गुणे>> इति पररूपे च कृते <<अजाद्यतष्टाप्>> इति टापि, टकारपकारयोरित्संज्ञायां लोपे च कृते <<अकः सवर्णे दीर्घः>> इति दीर्घे अदा+औ<\/qt> इति जाते, अत्र <<औङ आपः>> इति औस्थाने श्यादेशे <<लशक्वतद्धिते>> इति शस्येत्संज्ञायां लोपे च <<आद्गुणः>> इति गुणे 'अदे' इति भूते अत्र <<अदसोऽसेर्दादु दो मः>> इति दात्परस्योत्वे दस्य च मत्वे 'अमू' इति रूपम् । अमूः ।<\/w> अदस्+जस्<\/qt> अत्र त्यदाद्यत्वे पररूपत्वे च टापि सवर्णदीर्घे जसो जकारस्य <<चुटू>> इतीत्संज्ञायां <<तस्य लोपः>> इति लोपे अदा+अस्<\/qt> इति जाते, तत्र <<अकः सवर्णे दीर्घः>> इति दीर्घे च कृते 'अदास्' इति भूते <<अदसोऽसेर्दादु दो मः>> इति दात्परस्याकारस्योत्वे दस्य च मत्वे सो रुत्वे विसर्गत्वे च 'अमूः' इति रूपम् । द्वितीयायाम् - अमि, औटि, शसि च - अमुम्, अमू, अमूः, इति । अमुया ।<\/w> अदस् + टा<\/qt> इत्यत्र अत्वे पररूपत्वे टापि, सवर्णदीर्घे टकारस्येत्संज्ञायां लोपे च अदा+आ<\/qt> इति स्थिते <<आङि चापः>> इत्येत्वे अयादेशे संयोगे च कृते 'अदया' इति जाते तत्र <<अदसोऽसेर्दादु दो मः>> इति दात्परस्योत्वे दस्य च मत्वे 'अमुया' इति । अमूभ्याम् ।<\/w> अदस्+भ्याम्<\/qt> अत्र त्यदाद्यत्वे पररूपत्वे च कृते टापि, अनुबन्धलोपे सवर्णदीर्घे अदा+भ्याम्<\/qt> इति स्थिते <<अदसोऽसेर्दादु दो मः>> इति दात्परस्योत्वे दस्य च मत्वे 'अमूभ्याम्' इति । अमूभिः ।<\/w> अत्वपररूपटाप्सु उत्वमत्वे, रुत्वविसर्गयोः सतोः रूपम् । अमुष्यै ।<\/w> अदस्+ए<\/qt> अत्र अत्वपररूपटाप्सु जातेषु अदा+ए<\/qt> इति जाते तत्र <<सर्वनाम्नः स्याड्ढ्रस्वश्च>> इति ङे स्याडागमे आबन्ताङ्गस्य ह्रस्वे च कृते <<वृद्धिरेचि>> इति वृद्धौ उत्वमत्वे षत्वे च 'अमुष्यै' इति । अमूभ्यः ।<\/w> अदस्+भ्यस्<\/qt> इत्यत्र अव्वपररूपटाप्सु, ऊत्वमत्वे, रुत्वे, विसर्गे च रूपम् । अमुष्याः ।<\/w> ङसिङसोङवत् रुत्वविसर्गौ तु विशेषः । अमुयोः ।<\/w> अदस्+ओस्<\/qt> अत्र अत्वपररूपटाप्सु, <<आङि चापः>> इत्येत्वे, अयादेशे च कृते 'अदयोस्' इति जाते <<अदसोऽसेर्दादु दो मः>> इत्युत्वे मत्वे च रुत्वविसर्गयोः 'अमुयोः' इति रूपम् । अमूषाम् ।<\/w> अदस्+आम्<\/qt> अत्र त्यदाद्यत्वे पररूपत्वे टापि, सवर्णदीर्घे अदा + आम्<\/qt> इति जाते तत्र <<आमि सर्वनाम्नः सुट्>> इति सुटि टित्वादाम आद्यावयवे जाते अनुबन्धलोपे ऊत्वमत्वे सस्य षत्वे च 'अमूषाम्' इति रूपम् । अमुष्याम् ।<\/w> अदस्+ङि<\/qt> इति स्थिते, अत्वपररूपटाप्सु, <<ङेराम्नद्याम्नीभ्यः>> इति ङेरामि <<सर्वनाम्नः स्याड्ढ्रस्वश्च>> इत्यामः स्याढि आपो ह्रस्वे च कृते अदस्या + आम्<\/qt> इति जाते <<अकः सवर्णे दीर्घः>> इति दीर्घे <<अदसोऽसेर्दादु दो मः>> इति दात्परस्योत्वे दस्य च मत्वे <<आदेशप्रत्यययोः>> इति षत्वे 'अमुष्याम्' इति । अमूषु ।<\/w> अदस्+सुप्<\/qt> इत्यत्र त्यदाद्यत्वे पररूपत्वे टापि, सवर्णदीर्घत्वे 'अदासु' इति भृते <<अदसोऽसेर्दादु दो मः>> इति दात्परस्योत्वे दस्य च मत्वे <<आदेशप्रत्यययोः>> इति सस्य षत्वे 'अमूषु' इति रूपं सिद्धम् । इति हलन्तस्त्रीलिङ्गप्रकरणम् ।<\/w>", "74049": "सः स्यार्धधातुक इति। <\/w> सः इति षष्ठयन्तम् । सि इति सप्तम्यन्तम्, आर्धधातुकविशेषणम् । तदादिविधिः । <<अच उपसर्गात्तः>> [[7.4.47]] इत्यतः तः इत्यनुवर्तते । अकार उच्चारणार्थः तदाह - सस्य तः स्यादिति ।<\/w> आदेशे अकारस्य उच्चारणार्थत्वात्तकारः स्यादित्यर्थः । जिघत्सति ।<\/qt> अद् इत्यस्माद्धातोः <<धातोः कर्मणः>> [[3.1.7]] इति सन् प्रत्यये <<लुङ्सनोर्घसॢ>> [[2.4.37]] इत्यतो घस्लादेशेऽनुबन्धलोपे घस् स<\/qt> इति भूते अत्र सनस्सस्य <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यार्धधातुकसंज्ञायाम् <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इतीडागमे प्राप्ते <<एकाच उपेदेशेऽनुदात्तात्>> [[7.2.10]] इतिनिषिद्धे <<सन्यङोः>> [[6.1.9]] इति द्वित्वे अभ्यासत्वे अभ्यासकार्ये च कृते जघस् स<\/qt> इति जाते अभ्याससकारस्य <<सः स्यार्धधातुके>> इति तकारे जिघत्स<\/qt> इति भूते <<सनाद्यन्ता धातवः>>[[3.1.32]] इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपे <<अतो गुणे>> [[6.1.97]] इति पररूपे च कृते जिघत्सति<\/qt> इति रूपम् ।", "74080": "ओः पुयणिति<\/w> । उ इत्यस्य ओः इति षष्ठी । पुयण्जि इति च्छेदः । पुश्च यण् च ज् च् इति समाहारद्वन्द्वात्सप्तमी । अः परो यस्मादिति बहुव्रीहिः । <<सन्यतः>> [[7.4.79]] इत्यस्मात्सनीत्यनुवर्तते । <<अङस्य>> [[6.4.1]] इत्यधिकृतम् । <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यस्मादभ्यास्येति, <<भृञामित्>> [[7.4.76]] इत्यस्मादिदिति चानुवर्तते । तदाह — सनि परे इत्यादिना<\/w> । अवीभवत्<\/qt> । भू इत्यस्मात् <<हेतुमति च>> [[3.1.26]] इति णिचि 'णिच्यच आदेशो न स्याद् द्वित्वे कर्तव्ये' इति निषेधात् पूर्वं वृद्ध्यभावे <<सनाद्यन्ता>> [[3.1.32]] इति धातुत्वाल्लुङस्तिप इकारलोपे अटि च्लौ <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इति च्लेश्चङि अनुबन्धलोपे <<णेरनिटि>> [[6.4.51]] इति णिलोपे अ भू अ त्<\/qt> इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद् वृद्ध्यावादेशाभ्यां प्रागेव भू इत्यस्य <<चङि>> [[6.1.11]] इत्यनेन द्वित्वे अभ्यासत्वे <<ह्रस्वः>> [[7.4.59]] इति ह्रस्वे <<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वेन भस्य बत्वे अ बु भू अ त्<\/qt> इति जाते प्रत्ययलक्षणत्वात् वृद्धौ आवादेशे <<णौ चङ्युपधाया ह्रस्वः>> [[7.4.1]] इति उपधाह्रस्वे अ बु भव् अ त्<\/qt> इति भूते <<सन्वल्लघुनि चङ्परेऽनङ्लोपे>> [[7.4.93]] इति सन्वद्भावे <<ओः पुयण्ज्यपरे>> [[7.4.80]] इत्यभ्यासोकारस्य इत्वे <<दीर्घो लघोः>> [[7.4.4]] इति दीर्घे च अबीभवत्<\/qt> इति रूपम् । कर्तृगामिनि क्रियाफले अबीभवत<\/qt> इत्यात्मनेपदविशेषः, शेष पूर्ववत् । लृङि — अभावयिष्यत्<\/qt>, अभावयिष्यत<\/qt> ।", "74082": "गुणो यङ्लुकोरिति ।<\/w> यङ् च लुक् च इति द्वन्द्वात् सप्तमी । लुगिह यङ एव विवक्षितः उपस्थितत्वात् । <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — अभ्यासस्येति ।<\/w> इक्परिभाषया इगन्तस्येति लभ्यते । बोभूयते<\/qt> भूधातोः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङ् प्रत्यये ङकारेत्संज्ञायां लोपे च <<सन्यङो>> [[6.1.9]] इति द्वित्वे <<पूर्वोऽभ्यासः>> [[6.1.4]] इत्यभ्याससंज्ञायां <<हलादिः शेषः>> [[7.4.60]] इत्यादिहलःशिष्टे ह्रस्वे <<अभ्यासे चर्च>> [[8.4.54]] इति भस्य बत्वे <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यभ्यासस्य गुणे बोभूय<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वात् <<वर्तमाने लट्>> [[3.2.123]] इति लटि, यङो ङित्वात् <<अनुदात्तङित आत्मनेपदम्>> [[1.3.12]] इति लटो लः स्थाने तङि <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इति तस्य सार्वधातुकसंज्ञायां <<कर्तरि शप्>> [[3.1.68]] इति शपि अनुबन्धलोपे <<अतो गुणे>> [[6.1.97]] इति पररूपे <<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति तस्य टेरेत्वे बोभूयते<\/qt> इति रूपम् । बोभूयेते<\/qt>, बोभूयन्ते<\/qt> । बोभूयसे<\/qt>, बोभूयेथे<\/qt>, बोभूयध्वे<\/qt> । बोभूये<\/qt>, बोभूयावहे<\/qt>, बोभूयामहे<\/qt> । बोभूयाञ्चक्रे<\/qt> । भूधातोः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि <<सन्यङो>> [[6.1.9]] इति द्वित्वे अभ्यासत्वे अभ्यासकार्ये च जाते <<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणे बोभूय<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायाम् <<परोक्षे लिट्>> [[3.2.115]] इति लिटि (वार्त्तिकम् [[3.1.35]]) इति आमि, <<आमः>> [[2.4.81]] इति लिटो लुकि, <<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इति लिट्परकृञोऽनुप्रयोगे बोभूयाम् कृ लिट्<\/qt> इति जाते लिटो लः स्थाने ते, <<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इति तस्य एशि आदेशे <<लिटि धातोः>> [[6.1.8]] इति कृञो द्वित्वे अभ्यासत्वे अभ्यासकार्ये बोभूयाम् चकृ ए<\/qt> इति भूते यणि कृते आमो मस्य अनुस्वारे परसवर्णे च कृते बोभूयाञ्चक्रे<\/qt> इति रूपम् । लुटि — बोभूयिता<\/qt> । लृटि — बोभूयिष्यते<\/qt> । लोटि — बोभूयताम्<\/qt> । लङि — अबोभूयत<\/qt> । लिङि — बोभूयेत<\/qt> । आशिषि — बोभूयिषीष्ट<\/qt> । अबोभूयिष्ट ।<\/qt> भू-इत्यस्माद् धातोः यङि द्वित्वेऽभ्यासगुणे जश्त्वे बोभूय<\/qt> इत्यस्य धातुत्वाल्लुङो लः स्थाने तप्रत्ययेऽटि च्लेः सिचि इचावितौ तयोर्लोपे च कृते स् इत्यस्य आर्धधातुकत्वे इटि <<अतो लोपः>> [[6.4.48]] इति यङोऽकारय लोपे षत्वे ष्टुत्वे च अबोभूयिष्ट<\/qt> इति रूपम् । आताम्प्रभृतिषु —अबोभूयिषाताम्<\/qt>, अबोभूयिषत<\/qt> । अबोभूयिष्ठाः<\/qt>, अबोभूयिषाथाम्<\/qt>, अबोभूयिध्वम्<\/qt> । अबोभूयिषि<\/qt>, अबोभूयिष्वहि<\/qt>, अबोभूयिष्महि<\/qt> ।", "74083": "दीर्घोऽकित इति<\/w> । अभ्यासस्येति ।<\/w> <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यतोऽभ्यासस्येत्यनुवर्तते इति भावः । यङि यङ्लुकि चेति ।<\/w> <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यतस्तदनुवृत्तेरिति भावः । वाव्रज्यते ।<\/qt> व्रजधातोः <<नित्यं कौटिल्ये गतौ>> [[3.1.23]] इति यङि द्वित्वेऽभ्यासत्वे अभ्यासकार्ये च कृते । व व्रज् य<\/qt> इति जाते <<दीर्घोऽकितः>> [[7.4.83]] इति दीर्घे <<सनाद्यन्ता>> [[3.1.32]] इति धातुत्वाल्लटस्ते शपि, <<अतो गुणे>> [[6.1.97]] इति पररूपे टरेत्वे च वाव्रज्यते<\/qt> इति । वाव्रज्येते<\/qt>, वाव्रज्यन्ते<\/qt> । वाव्रज्यसे<\/qt>, वाव्रज्येथे<\/qt>, वाव्रज्यध्वे<\/qt> । वाव्रज्ये<\/qt>, वाव्रज्यावहे<\/qt>, वाव्रज्यामहे<\/qt> ।", "74090": "रीगृदुपधस्येति<\/w> । अभ्यासस्येति ।<\/w> <<अत्र लोपः>> इत्यतस्तदनुवृत्तेरिति भावः । यङ्लुकोरिति ।<\/w> <<गुणो यङ्लुकोः>> [[7.4.82]] इत्यतो यङ्लुकोः<\/hl> इत्यनुवर्तत इति भावः । व्रीवृत्यते<\/qt> वृत्धातोर्यङि द्वित्वे अभ्यासंज्ञायाम् <<उरत्>>[[7.4.66]] इत्यभ्यासस्य अत्वे <<उरण् रपरः>> [[1.1.51]] इति रपरे <<हलादिः शेषः>> [[7.4.60]] इत्यादिहलोऽवशिष्टे <<रीगृदुपधस्य च>> [[7.4.90]] इति अभ्यासस्य रीगागमे वरीवृत्य<\/qt> इत्यस्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुत्वाल्लटस्ते शपि अनुबन्धलोपे <<अतो गुणे>> [[6.1.97]] इति पररूपे टेरेत्वे च कृते वरीवृत्यते<\/qt> इति रूपम् । पुनः पुनः वर्तते इति हि तस्यार्थः । वरीवृताञ्चक्रे ।<\/qt> वृत् धातोः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङि, अनुबन्धलोपे <<सन्यङो>> [[6.1.9]] इति द्वित्वे <<पूर्वोऽभ्यासः>> [[6.1.4]] इति अभ्याससज्ञायाम् <<उरत्>> [[7.4.66]] इति अभ्यासस्य अकारे <<उरण् रपरः>> [[1.1.51]] इति रपरे <<हलादिः शेषः>> [[7.4.60]] इत्यादिहलः शेषे व वृत् य<\/qt> इति जाते <<रीगृदुपधस्य च>> [[7.4.90]] इति अभ्यासस्य रीगागमे अनुबन्धलोपे, वरीवृत्य<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायां <<परोक्षे लिट्>> [[3.2.115]] इति लिटि, <<कास्यनेकाच आम् वक्तव्यः>> (वार्त्तिकम् [[3.1.35]]) इति आमि, <<यस्य हलः>> [[6.4.49]] इति यलोपे <<अतो लोपः>> [[6.4.48]] इति अकारस्य लोपे वरीवृताम् लिट्<\/qt> इति जाते <<आमः>> [[2.4.81]] इति लिटो लुकि, <<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इति लिट्परके कृञि अनुप्रयुक्ते, लिटो लः स्थाने ते, तस्य एशि कृते द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये च कृते, यणि, आमो मस्यानुस्वारे परसवर्णे चकृते वरीवृताञ्चक्रे<\/qt> इति रूपम् । वरीवृताञ्चक्राते<\/qt>, वरीवृताञ्चक्रिरे<\/qt> । वरीवृताञ्चकृषे<\/qt>, वरीवृताञ्चक्राथे<\/qt>, वरीवृताञ्चकृढ्वे<\/qt> । वरीवृताञ्चक्रे<\/qt>, वरीवृताञ्चकृवहे<\/qt>, वरीवृताञ्चकृमहे<\/qt> । वरीवृतिता<\/qt> । वृत्-धातोर्यङि, द्वित्वेऽभ्यासत्वे अभ्यासकार्ये च जाते, <<रीगृदुपधस्य च>> [[7.4.90]] इति धातोरभ्यासस्य रीगागामे वरीवृत्य<\/qt> इति जाते <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञायाम् लुटि, लुटो लः स्थाने तिपि तासि तिपो डादेशे, <<यस्य हलः>> [[6.4.49]] इति यमात्रस्य लोपे <<अतो लोपः>> [[6.4.48]] इत्यकारस्य लोपे, वरीवृत् तास् डा<\/qt> इति जाते डकारे गते डित्वाट्टिलोपे, तास ईडागमे, वरीवृतिता<\/qt> इति रूपम् । वरीवृतितारौ<\/qt>, वरीवृतितारः<\/qt> । वरीवृतितासे<\/qt>, वरीवृतितासाथे<\/qt>, वरीवृतिताध्वे<\/qt> । वरीवृतिताहे<\/qt>, वरीवृतितास्वहे<\/qt>, वरीवृतितास्महे<\/qt> । लृटि — वरीवृतिष्यते<\/qt> । लोटि — वरीवृत्यताम्<\/qt> । लङि — अवरीवृत्यत<\/qt> । लिङि — वरीवृत्येत<\/qt> । आशिषि — वरीवृतिषीष्ट<\/qt> । लुङि — अवरीवृतिष्ट<\/qt> । लृङि — अवरीवृतिष्यत<\/qt> । इति ।", "74097": "ई च गण इति ।<\/w> <<सन्वल्लघुनि चङ्परेऽनग्लोपे>> [[7.4.93]] इत्यतः चङ्परे इति, <<अत्र लोपोऽभ्यासस्य>> [[7.4.58]] इत्यतोऽभ्यासस्येति चानुवर्तते । तदाह — गणयतेरभ्यासस्येति ।<\/w> <<अत् स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्>> [[7.4.95] इति पूर्वसुत्रात् 'अद्' ग्रहणम् चकारादनुकृष्यते । तदाह — चाददिति<\/w> | अजीगणत्<\/qt> , अजगणत्<\/qt> । गणधातोर्णिचि अल्लोपे तस्य स्थानिवत्त्वात् वृद्ध्यभावे लुङस्तिप्, इकारलोपेऽटि च्लेश्चङि द्वित्वे अभ्यासत्वे हलादेः शेषे चुत्वे अग्लोपित्वाद्दीर्घसन्वद्भावयोरभावे <<ई च गणः>> [[7.4.97]] इति ईत्वे अजीगणत्<\/qt> इति रूपम्। पक्षे अजगणत्<\/qt> इति । अजीगणताम्<\/qt>-अजगणताम्<\/qt>, अजीगणन्<\/qt>-अजगणन्<\/qt> । अजीगणम्<\/qt>-अजगणम्<\/qt> । अजीगणाव<\/qt>-अजगणाव<\/qt> । अजीगणाम<\/qt>-अजगणाम<\/qt> इति । लृङि अगणयिष्यत्<\/qt> । इति चुरादयः ॥", "81002": "", "81020": "युष्मदस्मदोः षष्ठीति । षष्ठीचतुर्थीद्वतीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ तयोरिति विग्रहः । षष्ठ्यादिविशिष्टयोरिति यावत् । उक्तविधयोरिति । षष्ठ्यादिविशिष्टयोर्युष्मदस्मदोरित्यर्थः ।", "81021": "", "81022": "तेमयेति । तेश्च मेश्चेति विग्रहः । अयं वांनावोरपवादः । अत्र द्वितीयाग्रहणं नानुवर्तते, तत्र त्वामादेशयोर्वचयमाणत्वात् ।", "81023": "त्वामाविति । त्वाश्च माश्चेति विग्रहः । एकवचनस्येत्यनुवर्तते । तदाह - द्वितीयेत्यादिना । श्रीशस्त्वावतु मापीहेति । श्रीशः-विष्णुः, त्वा-त्वाम्, मा अपि-मामपि, पातु – रक्षतु । अत्र त्वाम्, माम् इति द्वितीयैकवचनान्तयोः स्थाने <<त्वामौ द्वितीयायाः>>[[8.1.23]] इति त्वामावादेशौ स्तः । दत्तात्ते मेऽपि शर्म सः । सः-श्रीशः, ते-तुभ्यम्, मे-मह्यम्, अपि शर्म-सुखम्, दत्तात्-ददातु । अत्र चतुर्थ्येकवचनान्तयोः तुभ्यम् मह्यम्, अनयोः स्थाने <<तेमयावेकवचनस्य>>[[8.1.22]] इति ते मे आदेशौ । स्वामी ते मेऽपि स हरिः । सः हरिः ते-तव, मे-मम स्वामी-प्रभुरित्यर्थः । अत्र तव मम इति षष्ठ्येकवचनान्तयोः स्थाने <<तेमयावेकवचनस्य>>[[8.1.22]] इति ते मे आदेशः । पातु वामपि नौ विभुः । विभुः-सर्वव्यापको हरिः, वाम्-युवाम्, नौ-आवाम् अपि पातु-रक्षतु, इत्यर्थः । अत्र युवाम्, आवाम् इति द्वितीयाद्विवचनयोः स्थाने <<युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ>>[[8.1.20]] इति वां नौ आदेशौ भवतः । सुखं वां नौ ददात्वीशः । 'ईशः वां-युवाभ्याम्, नौ-आवाभ्याम्, सुखं ददातु' इत्यर्थः । अत्र युवाभ्याम्, आवाभ्याम्, इति चतुर्थीद्विवचनान्तयोः स्थाने <<युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ>>[[8.1.20]] इति वां नौ इत्यादेशौ स्तः । पतिर्वामपि नौ हरिः । हरिः वाम्-युवयोः, नावपि-आवयोरपि, पतिः स्वामीत्यर्थः । अत्र युवयोः, आवयोः इति षष्ठीद्विवचनान्तयोः स्थाने <<युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ>>[[8.1.20]] इति वां नावौ इत्यादेशौ स्तः । सोऽव्याद्वो न इति । सः वः-युष्मान् नः-अस्मान्, अव्या रक्षत्वित्यर्थः । अत्र-युष्मान् अस्मान् इति बहुत्वविशिष्टद्वितीयान्तयोः स्थाने <<बहुवचनस्य वस्नसौ>>[[8.1.21]] इति 'वस्नसौ' स्तः । शिवं वो न इति । सः वः-युष्मभ्यम्, नः-अस्मभ्यम्, शिवं-कल्याणं, दद्यात् । अत्र 'युष्मभ्यम्', 'अस्मभ्यम्' इति चतुर्थीबहुवचनान्तयोः स्थाने <<बहुवचनस्य वस्नसौ>>[[8.1.21]] इति वस्नसौ स्तः । सेव्योऽत्र वः स नः इति । अत्र-संसारे, सः-हरिः, वः-युष्माकम्, नः-अस्माकम्, सेव्यः-भजनीयः । अत्र युष्माकम् अस्माकम् इतिषष्ठीबहुवचनान्तयोः स्थाने <<बहुवचनस्य वस्नसौ>>[[8.1.21]] इति वस्नसो स्तः । एकवाक्ये इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः । एकतिङिति । तिङित्यनेन तिङन्तं विवक्षितम् । अस्माकम्, एकः तिङ् यस्येति विग्रहः । धाता ते भक्तोऽस्तीति । अत्र इत्यनेन तव स्थाने ते आदेशो विहितः । यत्र ते आदेशो न भवति तत्र धाता तव भक्तोऽस्तीति भवत्येव । तस्मै ते नमः इत्येवेति । अत्र अन्वादेशत्वान्नित्य आदेशो जायते । सुपात्, सुपाद । शोभनौ पादौ यस्य इति विग्रहः । सुपाद् + सु इत्यत्र अनुबन्धलोपे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सस्य लोपे <<वाऽवसाने>>[[8.4.56]] इति दस्य तत्वे च कृते 'सुपात्' इति । चर्त्वाभावपक्षे - 'सुपाद्' इति ।", "82001": "पूर्वत्रासिद्धमिति ।<\/w> पाणिनिप्रणीया अष्टाध्यायी, तत्र अष्टमाध्याये द्वितीयपादस्येदमादिमं सूत्रम् । इतः प्राक्तनं कृत्स्नं सूत्रजालं सपादसप्ताध्यायीति व्यवह्रियते । उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवह्रियते इति भावः । हर इह इति ।<\/w> हरे इह इति स्थिते <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अयादेशे कृते हरय् इह<\/qt> इति दशायाम् <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन अवर्णपूर्वकपदान्ते वर्तमानस्य य् इत्यस्य विकल्पेन लोपः अचि 'इ' इति परे । तेन हर इह<\/qt> इति जाते अत्र शङ्क्यते — लोपानन्तरम् हर इह<\/qt> इत्यत्र <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणः कथं न भवति ? उत्तरम् — <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन सूत्रेण सपादसप्ताध्यायीस्थसूत्रदृष्ट्या (<<आद्गुणः>> [[6.1.87]] इति सूत्रदृष्ट्या) त्रैपादिकः <<लोपः शाकल्यस्य>> [[8.3.19]] इति लोपोऽसिद्धः । तत्र यलोपे जातेऽपि यकारोऽस्तीति भावनया <<आद्गुणः>> [[6.1.87]] इति सूत्रार्थो न घटते इति भावः । लोपाभावपक्षे — हरयिह<\/qt> इति । एवमेव, विष्ण इह<\/qt>, विष्णविह<\/qt> इत्यत्रापि बोध्यम् ॥", "82002": "नलोपः सुपिति । नस्य लोपो नलोपः । विधिशब्दो भावसाधनः । विधानं विधिः । सुप् च स्वरश्च सञ्ज्ञा च तुक् च तेषां विधय इति सम्बन्धसामान्यषष्ठ्या समासः । कृतीति तु तुकैव सम्बध्यते । अन्यत्रासम्भवात् । तदाह - सुब्विधावित्यादिना । राजाश्व इत्यादाविति । अत्र सवर्णदीर्घयणादिविधीनां सुब्विध्याद्यनन्तर्भावात् तेषु कर्तव्येषु नलोपस्यासिद्धत्वाभावे सति नकारलोपस्य सत्वात् सवर्णदीर्घादिकं निर्बाधमिति भावः । राजभ्यामिति । राजन् +भ्याम् इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे <<सुपि च>>[[7.3.102]] इति दीर्घत्वे प्राप्ते तर्हि <<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>>[[8.2.2]] इति नलोपस्याऽसिद्धत्वात् दीर्घत्वाभावे 'राजभ्याम्' इति रूपम् । एवं 'राजभिः' 'राजभ्यः' इति बोध्यम् । राज्ञि, राजनि । राजन् + ङि इत्यत्र <<लशक्वतद्धिते>>[[1.3.8]] इति ङकारस्येत्संज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<विभाषा ङिश्योः>>[[6.4.136]] इति विकल्पेन अनोऽकारस्य लोपे कृते श्चुत्वे च जाते 'राज्ञि' इति रूपम् । लोपाभावे च 'राजनि' इति रूपम् । यज्वा । यज्वन् + सु अत्र सोरुकारस्येत्संज्ञायां लोपे च कृते <<सुडनपुंसकस्य>>[[1.1.43]] इति सर्वनामस्थानसंज्ञायां <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तस्योपधाया दीर्घत्वे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे 'यज्वा' इति रूपम् । यज्वानौ । यज्वन् + औ अत्र नान्तोपधाया दीर्घत्वे 'यज्वानौ' इति । एवं 'यज्वान' इत्यत्रापि ।", "82003": "न मु ने । ने इति विषयसप्तमीत्याह - <>नाभावे कर्तव्य इति ।<> अन्यथा घेः परत्वाभावान्नाभावो न स्यादिति भावः । नन्वेवमपि कृते नाभावे <<सुपि च>>[[7.3.102]] इति दीर्घः स्यात्, दीर्घं प्रति मुत्वस्यासिद्धत्वादत आह - कृते चेति । एतच्च ने इत्यस्यावृत्त्या लभ्यते । अमुना । अदस् + टा अत्र त्यदाद्यत्वे पररूपत्वे च <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति अकारस्य उत्वे दस्य च मत्वे अमु+टा इति जाते नाभावे कर्तव्ये <<न मु ने>>[[8.2.3]] इत्यनेन मुत्वस्यासिद्धत्वाभावबोधनात् <<शेषो घ्यसखि>>[[1.4.7]] इति घिसंज्ञायाम् <<आङो नाऽस्त्रियाम्>>[[7.3.120]] इति टाइत्यस्य नादेशे 'अमुना' इति रूपं सिद्धम् । न च मुत्वस्यासिद्धत्वात् <<सुपि च>>[[7.3.102]] इति दीर्घः स्यादिति वाच्यम् । <<न मु ने>>[[8.2.3]] इत्यनेन कृते च नाभावे नासिद्धस्वमित्यस्यापि बोधनात् । अमूभ्याम् । अदस् + भ्याम् इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते <<सुपि च>>[[7.3.102]] इति दीर्घे 'अदाभ्याम्' इति जाते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति ऊत्वे मत्वे च रूपम् । अमीभिः । अद् + भिस् इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते अद + भिस् इति जाते <<अतो भिस ऐस्>>[[7.1.9]] इति भिसः स्थाने ऐसादेशप्राप्ते <<नेदमदसोरकोः>>[[7.1.11]] इत्यनेन निषिद्धे <<बहुवचने झल्येत्>>[[7.3.103]] इत्येत्वे अदे + भिस् इति निष्पन्ने <<एत ईद्बहुवचने>>[[8.2.81]] इति एकारस्य ईत्वे दस्य च मत्वे कृते सस्य रुत्वे रेफस्य विसर्गत्वे च 'अमीभिः' इति रूपम् । अमुष्मै । अदस् शब्दाच्चतुर्थ्येकवचनविवक्षायां ङेविभक्तौ समागतायां त्यदाद्यत्वे पररूपत्वे च कृते <<सर्वनाम्नः स्मै>>[[7.1.14]] इति ङे स्थाने 'स्मै' आदेशे 'अदस्मै' इति जाते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति अकारस्योत्वे दस्य मत्वे <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे 'अमुष्मै' इति सिद्धम् । अमीभ्यः । अदस् + भ्यस् इत्यत्र त्यदाद्यत्वे, पररूपत्वे च कृते <<बहुवचने झल्येत्>>[[7.3.103]] इत्येत्वे कृते अदे + भ्यस् इति जाते <<एत ईद्बहुवचने>>[[8.2.81]] इति एकारस्य ईत्वे दस्य च मत्वे सकारस्य रुत्वे रेफस्य विसर्गत्वे च 'अमीभ्यः' इति रूपम् । अमुष्मात् । अदस् + ङसि इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते <<ङसिङ्योः स्मात्स्मिनौ>>[[7.1.15]] इति ङसेः स्थाने स्मात् आदेशे उत्वमत्वयोः कृतयोः षत्वे च कृते 'अमुष्मात्' इति रूपम् । अमुष्य । अदस् + ङस् इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते <<टाङसिङसामिनात्स्याः>>[[7.1.12]] इति ङसः स्थाने स्यादेशे 'अदस्य' इति जाते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इत्यकारस्योत्वे दस्य च मत्वे कृते <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे, च जाते 'अमुष्य' इति रूपं सिद्धयति । अमुयोः । अदस् + ओस् इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते <<ओसि च>>[[7.3.104]] इत्येकारे कृते <<एचोऽयवायावः>>[[6.1.78]] इत्ययादेशे 'अदयोस्' इति जाते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति दात्परस्योत्वे दस्य च मत्वे सस्य रुत्वे रेफस्य विसर्गत्वे च 'अमुयोः' इति रूपम् । अमीषाम् । अदस् + आम् इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते <<आमि सर्वनाम्नः सुट्>>[[7.1.52]] इति सुडागमे टित्वादाद्यावयवे उटि गते <<बहुवचने झल्येत्>>[[7.3.103]] इत्येत्वे 'अदेसाम्' इति जाते <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे <<एत ईद्बहुवचने>>[[8.2.81]] इति दात्परस्यैकारस्येत्वे दस्य च मत्वे 'अमीषाम्' इति । अमुष्मिन् । अदस्+ङि इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे च कृते अद + ङि इति जाते <<ङसिङ्योः स्मात्स्मिनौ>>[[7.1.15]] इति ङिः स्थाने स्मिनादेशे <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति दात्परस्योत्वे दस्य च मत्वे <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे 'अमुष्मिन्' इति रूपं सिद्धम् । इति हलन्तपुंलिङ्गप्रकरणम् ।", "82007": "", "82008": "न ङिसम्बुद्ध्यारिति । <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इस्यतो न लोप इत्यनुवर्तते । तत्र नेति लुप्तषष्ठीकम् । तदाह - नस्य लोप इत्यादिना । हे राजन् । 'हे राजन् + सु' इत्यत्र सोरुकारस्येत्सञ्ज्ञायां लोपे च तस्य सर्वनामस्थानसंज्ञत्वाद् दीर्घ प्राप्ते 'असम्बुद्धौ' इत्युक्तत्वान्न भवति । तदनन्तरम् <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे प्राप्ते परमत्र <<न ङिसम्बुद्ध्योः>>[[8.2.8]] इति निषेधे 'हे राजन्' इति रूपम् । ङावुत्तरपदे इति । उत्तरपदे परतो यः ङिः तस्मिन् परे <<न ङिसम्बुद्ध्योः>>[[8.2.8]] इति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः । एवं च चर्मतिलः इत्यत्र उत्तरपदे परतः <<न ङिसम्बुद्ध्योः>>[[8.2.8]] इति प्रतिषेधाभावात् नकारस्य लोपो निर्बाध इति भावः । राजानौ । राजन् + औ इति स्थिते <<सुडनपुंसकस्य>>[[1.1.43]] इति सर्वनामस्थानसंज्ञायां <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधाया दीर्घत्वे 'राजानौ' इति रूपम् । राजानः । राजन् + अस् इति स्थिते पूर्ववत्सर्वनामस्थानसञ्ज्ञायां <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधाया दीर्घत्वे सस्य रुत्वे रेफस्य विसर्गत्वे च 'राजानः' इति रूपम् । राज्ञः। राजन् + शस् इति स्थिते शस्येत्सञ्ज्ञायां लोपे च कृते <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायाम् <<अल्लोपोऽनः>>[[6.4.134]] इति अनोऽकारस्य लोपे <<स्तोः श्चुना श्चुः>>[[8.4.40]] इति नस्य ञत्वे जञोर्ज्ञः 'राज्ञः' इति ।", "82023": "", "82024": "रात्सस्येति ।<\/w> <<संयोगान्तस्य लोपः>>[[8.2.23]] इत्येव सिद्धे नियमार्थमिदमित्याह - सस्यैवेति ।<\/w> तेन ऊर्क्<\/qt> इत्यादौ न संयोगान्तलोपः । रस्य विसर्ग इति ।<\/w> <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इत्यनेनेत्यर्थः । क्रोष्टुरिति ।<\/w> क्रोष्टुशब्दात् ङसि; अत्र सकारोत्तरवर्तिन इकारस्य तथा ङस्येत्सञ्ज्ञायां लोपे च <<विभाषा तृतीयादिष्वचि>>[[7.1.97]] इति तृज्वद्भावे कृते 'क्रोष्टृ + अस्' इत्यवस्थायाम् <<ऋत उत्>>[[6.1.111]] इति पूर्वपरयोरुत्वे रपत्वे च क्रोष्टुर् स् इति भूते <<रात्सस्य>>[[8.2.24]] इति सस्य लोपे <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रस्य विसर्गत्वे च कृते क्रोष्टुः<\/qt> इति रूपम् । तृज्वद्भावाभावपक्षे घिसञ्ज्ञायां <<घेर्ङिति>>[[7.3.111]] इति गुणे 'क्रोष्टो + अस्' इति जाते<<ङसिङसोश्च>>[[6.1.110]] इति पूर्वरूपे सस्य रुत्वे विसर्गे च क्रोष्टोः<\/qt> इति । पञ्चमीद्विवचनबहुवचने तु – क्रोष्टुभ्यां, क्रोष्टुभ्यः । षष्ठ्येकवचनं पञ्चम्येकवचनवद् बोध्यम् । क्रोष्ट्रो: २ ।<\/w> क्रोष्टुशब्दादोसि <<विभाषा तृतीयादिष्वचि>>[[7.1.97]] इति तृज्वद्भावे <<इको यणचि>>[[6.1.77]] इति यणि रुत्वे विसर्गे च क्रोष्ट्रोः<\/qt> इति रूपम् । तृज्वद्भावाभावपक्षे - 'क्रोष्टु + ओस्' इति दशायाम् <<इको यणचि>>[[6.1.77]] इति यणि सस्य रुत्वे विसर्गे च क्रोष्ट्वोः<\/qt> इति रूपम् । नुमचिरेति ।<\/w> अचिरेत्यनुकरणम् । तेन <<अचि र ऋतः>>[[7.2.100]] इति विहितो रेफो विवक्षितः । क्रोष्टूनामिति ।<\/w> क्रोष्टुशब्दात् पष्ठीबहुवचनविवक्षायाम् आमि कृते 'क्रोष्टु + आम्' इति स्थिते अत्र <<विभाषा तृतीयादिष्वचि>>[[7.1.97]] इति तृज्वद्भावे प्राप्ते तं बाधित्वा <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नुटि उकारटकारयोरित्सञ्ज्ञायां लोपे च टित्त्वादाद्यावयवे जाते 'क्रोष्टु + नाम्' इति भूते <<नामि>>[[6.4.3]] इति अजन्ताङ्गस्य दीर्घे क्रोष्टूनाम्<\/qt> इति रूपम् । क्रोष्टरि ।<\/w> क्रोष्टुशब्दात् सप्तम्येकवचनविवक्षायां ङौ समागते ङस्येत्सञ्ज्ञायां लोपे च <<विभाषा तृतीयादिष्वचि>>[[7.1.97]] इति तृज्वद्भावे विहिते <<ऋतो ङिसर्वनामस्थानयोः>>[[7.3.110]] इत्यनेन अकाररूपे गुणे विहिते <<उरण् रपरः>>[[1.1.51]] इति रपरे च कृते सर्वस्मिन् संयुक्ते सति क्रोष्टरि<\/qt> इति रूपम् । तृज्वद्भावाभावपक्षे - क्रोष्टु +ङि<\/qt> इत्यवस्थायां घिसञ्ज्ञायाम् <<अच्च घेः>>[[7.3.119]] इत्यनेन ङेः स्थाने औकारे घिसञ्ज्ञकस्य च स्थानेऽकारे जाते <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ क्रोष्टौ<\/qt> इति रूपम् । ओसि पूर्ववद् - क्रोष्ट्रोः, क्रोष्ट्वोः<\/qt> इति रूपम् । सप्तमीबहुवचने - क्रोष्टुपु<\/qt> इति। पक्षे इति ।<\/w> तृतीयादिष्वजादिषु तृज्वत्वाभावपक्षे इत्यर्थः । हलादाविति ।<\/w> हलादिषु विभक्तिषु परेष्वित्यर्थः । शम्भुवदिति ।<\/w> शम्भुशब्दवद्रूपाणि बोध्यानि । हूहूरिति ।<\/w> गन्धर्वविशेषवाचि अव्युत्पन्नं प्रातिपदिकमेतत् । हूहूशब्दात्प्रथमैकवचने सावागते उकारनिवृत्तौ सत्यां सस्य रुत्वे विसर्गे च हूहूः<\/qt> इति रूपम् । हूह्वाविति ।<\/w> हूहूशब्दात्प्रथमाद्विवचने औ समागते <<इको यणचि>>[[6.1.77]] इति यणि विहिते हूह्वौ<\/qt> इति रूपम् । एवमेव हूहूशब्दस्याजादौ विभक्तौ कार्यं विज्ञेयम् । हूहूम् इति ।<\/w> अत्र <<इको यणचि>>[[6.1.77]] इति यणं बाधित्वा <<अमि पूर्वः>>[[6.1.107]] इति पूर्वरूपे हूहूमि<\/qt>ति रूपम् । शसि - हूहून्<\/qt> इति विज्ञेयम् । टायाम् - यणि हूह्वा<\/qt> इत्यादि । अतिचमूशब्दे त्विति ।<\/w> चमूमतिक्रान्तः, अतिचमूः । इति समासः । स्त्रीप्रत्ययान्तत्वाभावात् <<गोस्त्रियोरुपसर्जनस्य>>[[1.2.48]] इति ह्रस्वो न भवति । नदीकार्यमिति ।<\/w> इति वचनादिति भावः । अतिचमूः, अतिचम्वौ, अतिचम्वः प्रथमा । हे अतिचमु इति ।<\/w> अतिचमूशब्दाद् सम्बोधनैकवचने सौ उगते इति नदीसञ्ज्ञायाम् <<अम्बाऽर्थनद्योर्ह्रस्वः>>[[7.3.107]] इति ह्रस्वत्वे <<एङ्ह्रस्वात् सम्बुद्धेः>>[[6.1.69]] इति सस्य लोपे च कृते हे अतिचमु<\/qt> इति रूपम् । अतिचम्वै<\/qt> इति ।<\/w> अतिचमूशब्दात् चतुर्थ्येकवचने ङेकृते ङकारस्येसञ्ज्ञायां लोपे च कृते नदीसञ्ज्ञायाम् <<आण्नद्याः>>[[7.3.112]] इत्यनेन ङकारेत्सञ्जकस्यैकारस्याडागमे टित्वादाद्यावयवे टकारस्येत्सञ्ज्ञायां लोपे च 'अतिचमू आ ए' इति जाते, अत्र <<आटश्च>>[[6.1.90]] इत्यनेन वृद्धौ कृतायाम् <<इको यणचि>>[[6.1.77]] इति यणि सति अतिचम्वै<\/qt> इति रूपम् । अतिचम्वाः<\/qt> इति ।<\/w> अतिचमूशब्दात् ङसौ विहिते अनुबन्धलोपे च कृते नदीसञ्ज्ञायाम् <<आण्नद्याः>>[[7.3.112]] इत्याडागमे <<आटश्च>>[[6.1.90]] इति वृद्धौ <<इको यणचि>>[[6.1.77]] इति यणि सति सस्य रुत्वे विसर्गे च विहिते अतिचम्वाः<\/qt> इति रूपम् । एवमेव पष्ठ्येकवचनमपि बोध्यम् । अतिचमूनामिति ।<\/w> अतिचमूदशब्दात्षष्ठीबहुवचनविवक्षायाम् आमि समागते नदीसञ्ज्ञायाम् <<ह्रस्वनद्यापो नुट्>>[[7.1.54]] इति नुडागमे टित्वादाद्यावयवे च जाते अतिचमूनाम्<\/qt> इति रूपम् । सप्तम्येकवचने डौ समागते ङकारस्येत्सञ्ज्ञायां लोपे च 'अतिचमू + इ' इति जाते अत्र नदीसञ्ज्ञायाम् <<ङेराम्नद्याम्नीभ्यः>>[[7.3.116]] इति ङेकारेत्सञ्ज्ञकेकारस्य स्थाने आमि विहिते स्थानिवद्भावेन तत्र ङित्वमानीय <<आण्नद्याः>>[[7.3.112]] इत्याडागमे टित्वदाद्यावयवे जाते <<आटश्च>>[[6.1.90]] इति वृद्धौ <<इको यणचि>>[[6.1.77]] इति यणि अतिचम्वाम्<\/qt> इति रूपम्बोध्यम् । खलपूरिति ।<\/w> खलं पुनातीति क्विप् । कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते उकारस्य लोपे सस्य रुत्वे विसर्गे च खलपूः<\/qt> इति ।", "82029": "स्कोः संयोगाद्योरिति । <<पदस्य>>[[8.1.16]] इत्यधिकृतम् । चकारात् <<झलो झलि>>[[8.2.26]] इत्यतो झलीत्यनुवर्तते । <<संयोगान्तस्य लोपः>>[[8.2.23]] इत्यतो 'लोप' इत्यनुवर्तते । तदाह - पदान्ते झलि चेत्यादिना । भृट् । 'भ्रस्ज - पाके' क्विप् । <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>>[[6.1.16]] इति सम्प्रसारण रेफस्य ऋकारः । <<सम्प्रसारणाच्च>>[[6.1.108]] इति पूर्वरूपम् । तस्मात्सौ 'भृस्ज् सु' इत्यत्र सोर्लोपे <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इति संयोगाद्यस्य 'स्' इत्यस्य लोपे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इत्यादिना जस्य षत्वे, षस्य डत्वे <<वाऽवसाने>>[[8.4.56]] इति टत्वे 'भृट्' इति । पक्षे - 'भृड्' इति । भृज्जौ । भृस्ज् + औ इत्यत्र <<स्तोः श्चुना श्चुः>>[[8.4.40]] इति सस्य शत्वे <<झलां जश् झशि>>[[8.4.53]] इति शस्य जत्वे संयोगे च 'भृज्जौ' इति रूपम् । एव सर्वत्राजादौ विभक्तौ बोध्यम् । भृड्भ्याम् । भृस्ज् + भ्याम् इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इति संयोगाद्यस्य स् इत्यस्य लोपे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति षत्वे, तस्य जश्त्वेन डत्वे 'भृड्भ्याम्' इति । एवं हलादौ सर्वत्र । त्यदाद्यत्वं पररूपत्वमिति । सर्वत्र विभक्तावुत्पन्नायां <<त्यदादीनामः>>[[7.2.102]] इत्यन्तस्य अकारः, <<अतो गुणे>>[[6.1.97]] इति पररूपञ्चेत्यर्थः । ततश्च अदन्तवद्रुपाणीति तात्पर्यम् ।", "82030": "चोः कुरिति । <<झलो झलि>>[[8.2.26]] इत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम् । <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इत्यतोऽन्ते इत्यनुवर्तते । तदाह - चवर्गस्येति । सुयुक्, सुयुग् । सुयुज् + सु इत्यत्र सुष्ठु युननीति विग्रहे <<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>>[[3.2.61]] इति क्विपि क्विपो लोपे सौ समागते सोर्लोपे <<चोः कुः>>[[8.2.30]] इति जस्य गत्वे <<वाऽवसाने>>[[8.4.56]] इति गस्य कत्वे 'सुयुक्' इति, पक्षे 'सुयुग्' इति । खन् । 'खन्ज् स' इत्यत्र सोर्लोपे <<संयोगान्तस्य लोपः>>[[8.2.23]] इति जस्य लोपे 'खन्' इति रूपम् । खञ्जा । खन्ज् + औ इत्यत्र नस्य अनुस्वारे, अनुस्वारस्य परसवर्णे च कृते जकारस्यौकारेण सह संयोगे 'खञ्जौ' इति रूपम् । खन् भ्याम् । 'खन् ज् भ्याम्' इत्यत्र <<संयोगान्तस्य लोपः>>[[8.2.23]] इति जस्य लोपे 'खन्भ्याम्' इति रूपम् ।", "82031": "हो ढ इति । <<झलो झलि>>[[8.2.26]] <<पदस्य>>[[8.1.16]] <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इत्यतः क्रमेण झलीति, पदस्य, अन्ते, इति चानुवर्तते, तदाह - झलि पदान्ते इति । झलि परतः पदान्ते वा विद्यमानस्य हस्येत्यर्थः । लिट् लिङ् । 'लिह-आस्वादने' क्विप् । कृदन्तत्वात्प्रातिपदिकसंज्ञायाम् लिह् + सु इति स्थिते उकारस्येत्संज्ञायां लोपे च <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे हो ढः इति हस्य ढत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति ढस्य डत्वे <<वाऽवसाने>>[[8.4.56]] इति चर्त्वे च कृते 'लिट्' इति । चर्त्त्वाभावपक्षे 'लिड्' इति । लिढ्भ्यामिति । लिहू + भ्याम् अत्र हो ढः इति हस्य ढत्वे <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदत्वात् <<झलां जशोऽन्ते>>[[8.2.39]] इति ढस्य डत्वे 'लिड् भ्याम्' इति । लिट्सु । लिह् +सुप् अत्र पकारस्येत्संज्ञायां लोपेच हो ढः इति हस्य ढत्वे <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<झलां जशोऽन्ते>>[[8.2.39]] इति ढस्य, डत्वे <<डः सि धुट्>>[[8.3.29]] इति सस्य धुडागमे टित्वादाद्यावयवे उकारटकारयोर्निवृत्तौ <<खरि च>>[[8.4.55]] इति चर्त्वे पुनश्च डकारस्य <<खरि च>>[[8.4.55]] इति चर्त्वे च 'लिट्त्सु' इति रूपम् । धुडागमाभावे 'लिट्सु' इति ।", "82032": "दादेर्धातोरिति । धातोरित्यावर्तते । तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयतीत्याशयेनाह - उपदेश इति ।", "82033": "वा द्रुहेति । 'दादेः'इत्यतो घ इत्यनुवर्तते । झलीति, पदस्येति, अन्ते इति पूर्ववदनुवर्तते, तदाह - एषामिति । ध्रुक् - ध्रुग्, ध्रुट् – ध्रुड् । द्रुह जिघांसायाम् अस्मात् क्विपि तस्य सर्वापहारलोपे कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते उकारलोपे द्रुह् + स् इति स्थिते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे <<हो ढः>>[[8.2.31]] इति ढत्वे प्राप्ते तं बाधित्वा <<दादेर्धातोर्घः>>[[8.2.32]] इति घत्वे प्राप्ते तं बाधित्वा <<वा द्रुहमुहष्णुहष्णिहाम्>>[[8.2.33]] इत्यनेन विकल्पेन हस्य घत्वे <<एकाचो बशो भष् झषन्तस्य स्ध्वोः>>[[8.2.37]] इति भष्भावेन दकारस्य धकारे जाते घस्य च <<झलां जशोऽन्ते>>[[8.2.39]] इति गत्वे <<वाऽवसाने>>[[8.4.56]] इति विकल्पेन चर्त्वे 'ध्रुक' इति । चर्त्वाभावपक्षे 'ध्रुग्' इति रूपम् । घत्वाभावपक्षे - <<हो ढः>>[[8.2.31]] इति ढत्वे भष्भावे ढस्य जश्त्वेन डत्वे तस्य विकल्पेन चर्त्वे 'ध्रुट्' इति, चर्त्त्वाभावपक्षे 'ध्रुड्' इति रूपम् । ध्रुग्भ्याम्, ध्रुड्भ्याम् । 'द्रुह-भ्याम्' अत्र <<वा द्रुहमुहष्णुहष्णिहाम्>>[[8.2.33]] इति घत्वे भष्भावे घस्य जश्त्वे च इति । घत्वाभावे <<हो ढः>>[[8.2.31]] इति हस्य ढत्वे भष्भावे ढस्य जश्त्वे च कृते 'ध्रुड्भ्याम्' इति । ध्रुक्षु । द्रुह् + सु अत्र <<वा द्रुहमुहष्णुहष्णिहाम्>>[[8.2.33]] इति घत्वे भष्भावे <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे <<खरि च>>[[8.4.55]] इति चर्त्वे 'ध्रुक्षु' इति । ध्रुट्त्स । घत्वाभावपक्षे <<हो ढः>>[[8.2.31]] इति ढत्वे भष्भावे ढस्य जश्त्वे 'डः सि धुट्' इति धुटि चर्त्वे ढस्य चर्त्वे च 'ध्रुट्त्सु' इति रूपम् । ध्रुट्सु । धुडभावपक्षे - हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चर्त्वेन ट: 'ध्रुट्सु' इति रूपम् । एवमिति । भष्भाववर्जमिति शेषः । मुह् इति । सौ – मुक्, मुग्, मुट् मुड् । मुग्भ्याम्, मुड्भ्याम् । मुक्षु, मुट्त्सु मुट्सु ।", "82034": "नहो ध इति ।<\/w> <<हो ढः>> इत्यतो 'हः' इत्यनुवर्तते, <<पदस्य>> इत्यधिकृतम् <<स्कोः संयोगाद्योरन्ते च>> इत्यतोऽन्ते इत्यनुवर्तते । <<झलो झलि>> इत्यतो झलि इत्यनुवर्तते । तदाह - नहो हस्येत्यादिना<\/w> ।", "82036": "व्रश्चभ्रस्जेति । अत्र <<झलो झलि>>[[8.2.26]] इत्यतो झलीत्यनुवर्तते । <<पदस्य>>[[8.1.16]] इत्यधिकृतम् । <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इत्यतोऽन्ते चेत्यनुवर्तते । तदाह - झलि पदान्ते चेति । राट्, राड् । राज् + सु इत्यत्र सोर्लोपे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति षकारान्तादेशे <<झलां जशोऽन्ते>>[[8.2.39]] इति षस्य डत्वे <<वाऽवसाने>>[[8.4.56]] इति डस्य टत्वे कृते 'राट्' इति रूपम् । पक्षे 'राड्' इति । राड्भ्याम् । राज् + भ्याम् इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति षत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति डत्वे 'राड्भ्याम्' इति रूपम् । राज् + सु इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदत्वात् षत्वं जश्त्वं च । <<डः सि धुट्>>[[8.3.29]] इति धुटि राट्त्सु । तदभावे 'राट्सु' । एवं विभ्राडिति । राज् शब्दवत् षत्वादीत्यर्थः । परौ व्रजेरिति । औणादिकसूत्रमेतत् । (उणादिः 2.58) इत्यादिपूर्वसूत्रात् क्विबिति दीर्घ इति चानुवर्तते । पदान्त इति ष इत्यनेनैव सम्बध्यते । तदाह - परावुपपदे इत्यादिना । परिव्राट् । परिपूर्वकत्रजधातुतः इति क्विपि व्रजेश्व दीर्घत्वे कृते च षत्वे क्विपो लोपे सावागते सोर्लोपे <<झलां जशोऽन्ते>>[[8.2.39]] इति षस्य डत्वे <<वाऽवसाने>>[[8.4.56]] इति डस्य टत्वे 'परिव्राट्' । पक्षे - 'परिव्राड्' ।", "82037": "एकाचो वश इति । <<दादेर्धातोर्घः>>[[8.2.32]] इत्यतो धातोरित्यवयवषष्ठ्यन्तमनुवर्तते । तच्च झषन्तशब्देनान्वेति । पदस्येत्यधिकृतम् । <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इत्यतोऽन्ते चेत्यनुवर्तते । तदाह - धातोरवयव इत्यादिना । धुक्, धुग् । 'दुह् प्रपूरणे' क्विप् । क्विवन्तत्वात्प्रातिपदिकसंज्ञायां सत्यां सावागते उकारलोपे दुह् + स् अत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सलोपे हस्य <<हो ढः>>[[8.2.31]] इति ढत्वे प्राप्ते तं बाधित्वा <<दादेर्धातोर्घः>>[[8.2.32]] इति घत्वे <<एकाचो बशो भष् झषन्तस्य स्ध्वोः>>[[8.2.37]] इति दस्य धत्वे 'धुघ्' इति जाते तत्र <<झलां जशोऽन्ते>>[[8.2.39]] इति जश्त्वेन गकारे <<वाऽवसाने>>[[8.4.56]] इति विकल्पेन चर्त्वे 'धुक-धुग्' इति भवतः । घुग्भ्यामिति । दुह् + भ्याम् अत्र <<दादेर्धातोर्घः>>[[8.2.32]] इति हस्य घत्वे <<एकाचो बशो भष् झषन्तस्य स्ध्वोः>>[[8.2.37]] इति भष्भावेन दकारस्य धकारे धुघ् + भ्याम् इति जाते <<झलां जशोऽन्ते>>[[8.2.39]] इति धकारस्य गकारे 'धुग्भ्याम्' इति । धुक्षु । दुह् + सुप् अत्र पकारस्येत्संज्ञायां लोपे च <<दादेर्धातोर्घः>>[[8.2.32]] इति धत्वे भष्भावे जश्त्वे च कृते धग् + सु इति जाते तत्र <<खरि च>>[[8.4.55]] इति चर्त्वे <<आदेशप्रत्यययोः>>[[8.3.59]] इति सोः सस्य षत्वे क् ष् संयोगेन 'क्ष' इति जाते 'धुक्षु' इति रूपम् ।", "82039": "वागीश इति ।<\/w> वाक्-ईशः<\/qt> अत्र <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन क्<\/qt>-इत्यस्य स्थाने <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यनेन सूत्रेण कण्ठस्थानीयो गकारादेशो जायते; यतेन वागीशः<\/qt> इति रूपम्भवति ॥", "82056": "तदाह - साड् रूपस्येति । तुराषाट्, तुराषाड् । तुरासाह् + स् अत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति सलोपे <<हो ढः>>[[8.2.31]] इति हस्य ढत्वे तस्य पदान्तत्वात् जश्त्वेन डत्वे कृते <<सहेः साडः सः>>[[8.3.56]] इति साड् रूपस्य सकारस्य षत्वे डस्य च <<वाऽवसाने>>[[8.4.56]] इत्यनेन वा चर्त्वे 'तुराषाट' इति । चर्त्वाभावपक्षे 'तुराषाड्' इति रूपम् । तुरासाहौ । अपदान्तत्वान्न मूर्धन्य इति भावः । <>तुराषाड्भ्यामिति ।<> तुरासाह् + भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदान्तत्वात् <<हो ढः>>[[8.2.31]] इति हस्य ढत्वे तस्य जश्त्वेन डत्वे <<सहेः साडः सः>>[[8.3.56]] इति सस्य मूर्धन्यादेशे 'तुरावाड्भ्याम्' इति रूपम् । इत्यादीति । तुराषाड्भिः । तुरापाड्भ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः तुराषाट्सु ।", "82062": "क्विन्प्रत्ययस्य कुरिति । <<पदस्य>>[[8.1.16]] इत्यधिकृतम् । <<झलां जशोऽन्ते>>[[8.2.39]] इत्यतोऽन्त इत्यनुवर्तते । क्विन् प्रत्ययो यस्मात् सः क्विन्प्रत्ययः तस्येति बहुव्रीहिः । तदाह - क्विन्प्रत्ययो यस्मादित्यादिना । ऋत्विक् । ऋतौ उपपदे यज् धातोः <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>>[[3.2.59]] इति क्विनि <<वचिस्वपियजादीनां किति>>[[6.1.15]] इति सम्प्रसारणे <<सम्प्रसारणाच्च>>[[6.1.108]] इति पूर्वपरयोः स्थाने पूर्वरूपैकादेशे ऋतु इज इति जाते <<इको यणचि>>[[6.1.77]] इति यणि ऋत्विज् क्विन् अत्र <<लशक्वतद्धिते>>[[1.3.8]] इति ककारस्येत्सञ्ज्ञायां लोपे च <<हलन्त्यम्>>[[1.3.3]] इति नस्येत्सञ्ज्ञायाम् लोपे च इकारस्योच्चारणार्थत्वेन तस्मिन् गते व् कारस्य <<अपृक्त एकाल् प्रत्ययः>>[[1.2.41]] इति अपृक्तसंज्ञायां <<वेरपृक्तस्य>>[[6.1.67]] इत्यपृक्तसञ्ज्ञकस्य वस्य लोपे <<कृदतिङ्>>[[3.1.93]] इति क्विनः कृत्संज्ञायां कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते सोरुकारे गते ऋत्विज् + स् इति स्थिते <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इति स् लोपे <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कवर्गान्तादेशे आन्तरतम्यात् जकारस्य गकारे जाते <<वाऽवसाने>>[[8.4.56]] इति चर्त्वेन वा ककारे 'ऋत्विक्' इति । चर्त्वाभावे 'ऋत्विग्' इति । ऋत्विग्भ्याम् । ऋविज् + भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसञ्ज्ञायां <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वे ॠत्विग्भ्याम् इति ।", "82063": "नशेर्वेति । <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इत्यतः कुरित्यनुवर्तते, <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इत्यत अन्ते इति च । <<पदस्य>>[[8.1.16]] इत्यधिकृतम् । तदाह - नशेः कवर्गोऽन्तादेश इत्यादिना । नक्-नग्, नट्-नड् । णश् अदर्शने क्विप् । नश् इति रूपम् । ततः सौ, हल्ङ्यादिना सोर्लोपे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति षत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति डत्वे । तस्य <<नशेर्वा>>[[8.2.63]] इति कुत्वेन गत्वे <<वाऽवसाने>>[[8.4.56]] इति चर्त्वेन कत्वे 'नक्' इति । पक्षे 'नग्' इति । कुत्वाभावपक्षे - 'नट् – नड्' इति । नग्भ्याम् - नड्भ्याम् । नश् + भ्याम् अत्र <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>>[[8.2.36]] इति षत्वे जश्त्वेन डत्वे <<नशेर्वा>>[[8.2.63]] इति कुत्वेन गत्वे 'नग्भ्याम्' इति । कुत्वाभावपक्षे - 'नड्भ्याम्' इति ।", "82064": "मो नो धातोरिति । म इति षष्ठयन्तं धातोरित्यस्य विशेषणम् । तदन्तविधिः। <<पदस्य>>[[8.1.16]] इत्यधिकृतम् । <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इत्यतः अन्ते इत्यनुवर्तते । तदाह - धातोर्मस्येत्यादिना । प्रशान् । प्रशाम् + सु इत्यत्र सोरुकारलोपे <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>>[[6.1.68]] इत्यादिना स् लोपे <<सुप्तिङन्तं पदम्>>[[1.4.14]] इति पदसंज्ञायां <<मो नो धातोः>>[[8.2.64]] इति मस्य नत्वे कृते 'प्रशान्' इति रूपम् । प्रशाम् + भ्याम् इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदत्वे <<मो नो धातोः>>[[8.2.64]] इति मस्य नत्वे प्रशान्भ्याम् । प्रशान्भिः । प्रशामे । प्रशान्भ्यः । प्रशामः । प्रशामः । प्रशामोः । प्रशामाम् । प्रशामि । प्रशान्त्सु, प्रशान्सु ।", "82066": "ससजुष इति ।<\/w> पदस्येत्यधिकृत्य सकारेेण सजुष्-शब्देन च विशेष्यते । अतस्तदन्तविधिः । सकारान्तं सजुष्-शब्दान्तं च यत्पदं तस्य रुः स्यादिति । स च <<अलोऽन्त्यस्य>> [[1.1.52]] इति परिभाषया अन्त्यस्य भवति । ततश्च फलितमाह — पदान्तस्य सत्येत्यादिना ।<\/w> ॥", "82068": "स्वनुडुत्, स्वनुडुद् । सु-शोभनाः अनड्वाहः यस्य कुलस्येति बहुव्रीहौ, स्वनडुह् शब्दात् नपुंसकलिङ्गात् सावागते स्वनडुह् + सु <\/qt> इति स्थिते अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सुलोपे <<वसुस्रंसुध्वंस्वनडुहां दः>>[[8.2.72]] इति हस्य दत्वे <<वाऽवसाने>>[[8.4.56]] इति दस्य तत्वे स्वनडुत् इति । पक्षे - स्वनडुद् इति । स्वनडुही । । स्वनडुह् + औ <\/qt> इत्यत्र <<नपुंसकाच्च>>[[7.1.19]] इति औस्थाने श्यादेशे शकारस्य <<लशक्वतद्धिते>>[[1.3.8]] इतीत्सञ्ज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे संयोगे च कृते स्वनडुही इति । स्वनड्वांहि । स्वनडुह् + जस् <\/qt> <\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने श्यादेशे शस्येत्सञ्ज्ञायां लोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसञ्ज्ञायाम् <<चतुरनडुहोरामुदात्तः>>[[7.1.98]] इति आमि, मकारस्येत्संज्ञायां लोपे च <<इको यणचि>>[[6.1.77]] इति यणि स्वनड्वाह् + इ <\/qt> <\/qt> इति जाते <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि, उमि गते मित्वादन्त्यादचः परे <<नश्चापदान्तस्य झलि>>[[8.3.24]] इत्यनुस्वारे स्वनड्वांहि इति रूपम् । पुनस्तद्वदिति । स्वनडुत् – स्वनडुद् । स्वनडुही । स्वनड्वांहि । शेषं पुंवदिति ।स्वनडुहा, स्वनडुद्भ्याम्, स्वनडुद्भिः तृतीया । एवं सर्वत्र । वा: । वार + सु <\/qt> इत्यत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सुलोपे पदान्तत्वात् <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रेफस्य विसर्गे वाः इति रूपम् । वारी । वार् + औ <\/qt> इत्यत्र औ इत्यस्य स्थाने <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे संयोगे च कृते वारी इति । वारि । वार् + जस् <\/qt> इत्यत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने श्यादेशे शस्येत्संज्ञायां लोपे च, कृते संयोगे वारि इति । चत्वारि । चतुर् + जस् <\/qt> इति स्थिते अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने श्यादेशे कृते शस्येत्संज्ञायां लोपे च विहिते <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसंज्ञायां <<चतुरनडुहोरामुदात्तः>>[[7.1.98]] इत्यामि, मकारस्येत्संज्ञायां लोपे च मित्वादन्त्यादचः परे जाते <<इको यणचि>>[[6.1.77]] इति यणि संयोगे च कृते चत्वारि इति रूपम् । किम् । किम् + सु <\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि किम् इति । के । किम् + औ <\/qt> इति दशायां <<किमः कः>>[[7.2.103]] इति क आदेशे <<नपुंसकाच्च>>[[7.1.19]] इति औ इत्यस्य स्थाने शी आदेशे कृते शस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे के इति । कानि । किम् + जस् <\/qt> अत्र किमः कः इति कादेशे <<जश्शसोः शिः>>[[7.1.20]] इति श्यादेशे शस्येत्संज्ञायां लोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसंज्ञायां <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि उमि गते मित्वादन्त्यादचः परे <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति दीर्घत्वे संयोगे च कृते कानि इति रूपम् । इदम् । इदम् + सु <\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि इदम् इति । इमे । इदम् + औ <\/qt> इत्यत्र <<त्यदादिनामः>> इत्यत्वे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<नपुंसकाच्च>>[[7.1.19]] इति शी आदेशे शस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे जाते <<दुश्च>> इति दस्य मत्वे इमे इति । इमानि । इदम् + जस् <\/qt> अत्र <<त्यदादीनामः>>[[7.2.102]] इत्यत्वे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे <<जश्शसोः शिः>>[[7.1.20]] इति शौ, शस्येत्संज्ञायांलोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसंज्ञायां <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि, उमि गते मित्वात् <<मिदचोऽन्त्यात्परः>>[[1.1.47]] इत्यन्त्यादचः परे जाते <<सर्वनामस्थाने चासम्बुद्धौ>> इति नान्तोपधायाः दीर्घत्वे इदानि इति जाते <<दश्च>>[[7.2.109]] इति दस्य मत्वे इमानि इति रूपम् । अन्वादेशे नपुंसके इति । इदमेतदोरिति शेषः । एनत्, एनद् । इदम् अम् इति स्थिते <<स्वमोर्नपुंसकात्>>[[7.1.23]] इत्यमो लुकि <<अन्वादेशे नपुंसके एनद् वक्तव्यः>> इतीदम एनदादेशे <<वावसाने>> इति विकल्पेन चर्त्वे एनत् इति । पक्षे - एनद् इति । एने । इदम् + औ <\/qt> अत्र <<अन्वादेशे नपुंसके>> इति एनदादेशे, त्यदाद्यत्वे, पररूपत्वे <<नपुंसकाच्च>>[[7.1.19]] इति शी आदेशे शस्येत्संज्ञायां लोपे गुणे च कृते एने इति । एनानी । इदम् + शस् <\/qt> अत्र एनदादेशे त्यदाद्यत्वे, पररूपत्वे, <<जश्शसोः शिः>>[[7.1.20]] इति शौ सर्वनामस्थानसंज्ञायां नुमि, दीर्घे च एनानि इति । एनेन । इदम् +टा अत्र अन्वादेशे सति एनदादेशे त्यदाद्यत्वे पररूपत्वे च कृते <<टाङसिङसामिनात्स्याः>>[[7.1.12]] इति टास्थाने इनादेशे <<आद्गुणः>>[[6.1.87]] इति गुणे <<एनेन>> इति । एनयोः । इदम् + ओस् <\/qt> अत्र एनदादेशे त्यदाद्यत्वे, पररूपत्वे <<ओसि च>>[[7.3.104]] इत्यदन्ताङ्गस्यैकारे अयादेशे रुत्वे विसर्गे च एनयोः इति । अहः । अहन् + सु<\/qt> इत्यत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि <<रोऽसुपि>>[[8.2.69]] इति नस्य रेफादेशे <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति विसर्गे च अहः इति । अह्नी - अहनी । अहन्+औ अत्र <<नपुंसकाच्च>>[[7.1.19]] इति शी आदेशे शस्येत्सञ्ज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायां <<विभाषा डिश्योः>> इति अनोऽकारस्य विकल्पेन लोपे अन्ही इति । लोपाभावपक्षे - अहनी इति । अहानि । अहन् + जस्<\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शौ कृते शस्येत्संज्ञायां लोपे च <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसंज्ञायां <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तस्योपधाया दीर्घत्वे अहानि इति । भ्यामादौ हलि विशेषमाह - अहन्निति । <<ससजुषो रुः>>[[8.2.66]] इत्यतो रुरित्यनुवर्तते, <<स्कोः संयोगाद्योः>> इत्यतः अन्त इति च, पदस्य इत्यधिकृतम्, अहन् इति लुप्तषपष्ठीकम् । तदाह - अहन्नित्यस्येत्यादिना । अहोभ्याम् । अहन् + भ्याम्<\/qt> इत्यत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसञ्ज्ञायाम् अहन् इति नस्य रुत्वे <<हशि च>>[[6.1.114]] इत्युत्वे <<आद्गुणः>>[[6.1.87]] इति गुणे अहोभ्याम् इति । दण्डि । दण्डिन्+सु अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि नस्य <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति नलोपे दण्डि इति । हे दण्डिन् - हे दण्डि । हे दण्डिन् + सु <\/qt> अत्र <<स्वमोर्लुक्>> इति सोर्लुकि कृते नस्य पदान्तत्वात् <<नलोपः प्रातिपदिकान्तस्य>>[[8.2.7]] इति लोपे प्राप्ते <<सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः>> इति विकल्पेन निषिद्धे हे दण्डिन् इति । विकल्पाभावपक्षे हे दण्डि इति । दण्डिनी । दण्डिन् + औ <\/qt> अत्र <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च कृते, दण्डिनी इति । दण्डीनि । दण्डिन् + जस् <\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शौ <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसंज्ञायां <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधाया दीर्घत्वे संयोगे च कृते दण्डीनि इति रूपम् । दण्डिना । दण्डिन् + टा <\/qt> इत्यत्र <<चुटू>>[[1.3.7]] इति टकारस्येत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे कृते संयोगे च कृते दण्डिना इति । दण्डिभ्याम् । दण्डिन् + भ्याम् <\/qt> इत्यत्र <<स्वादिषु...>> इति पदत्वात् <<नलोपः प्राति...>> इति नलोपे दण्डिभ्याम् इति । सुपथि । सुपथिन् + सु <\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि <<नलोपः प्राति...>> इति नलोपे सुपथि इति । सुपथी । सुपथिन् + औ <\/qt> इत्यत्र <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशे शस्येत्संज्ञायाम् लोपे च <<यचि भम्>>[[1.4.18]] इति भसंज्ञायाम् <<भस्य टेर्लोपः>>[[7.1.88]] इति टिसंज्ञकस्य भस्य इन्नित्यस्य लोपे संयोगे च कृते सुपथी इति । सुपन्थानि । सुपथिन् + जस् <\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने शौ कृते शस्येत्संज्ञायां लोपे च कृते <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनाम स्थानसंज्ञायाम् <<इतोऽत्सर्वनामस्थाने>> इति थकारान्तः पातिन इकारस्याकारे कृते सुपथन् + इ <\/qt> इति जाते <<थोन्थः>> इति थस्य न्थादेशे <<सर्वनामस्थाने चाऽसम्बुद्धौ>> इति नान्तोपधायाः दीर्घत्वे सुपन्थानि इति । ऊर्क । ऊर्ज् + सु <\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि <<चोः कुः>>[[8.2.30]] इति जस्य कुत्वेन गत्वे <<वाऽवसाने>>[[8.4.56]] इति विकल्पेन कत्वे ऊर्क इति । पक्षे - ऊर्ग इति । ऊर्जी । ऊर्ज + औ <\/qt> अत्र <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च जाते संयोगे कृते ऊर्जी इति । ऊर्न्जी । ऊर्ज + जस् <\/qt> अत्र <<जश्शसोः शिः>>[[7.1.20]] इति जसः स्थाने श्यादेशे <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वमस्थानसञ्ज्ञायाम्, शसः शस्येत्संज्ञायां लोपे च <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि उमि गते मित्वादन्त्यादचः परे <<नश्चापदान्तस्य झलि>>[[8.3.24]] इत्यनुस्वारे <<अनुस्वारस्य ययि परसवर्णः>>[[8.4.58]] इति परसवर्णे च कृते ऊर्न्जि इति रूपम् । तत् । तत् + सु <\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि तत् इति । अत्र <<त्यदादीनामः>>[[7.2.102]] इति अत्वं न शङ्क्यम् । विभक्तिपरत्वाभावात् । ते । तत् + औ <\/qt> अत्र <<त्यदादीनामः>>[[7.2.102]] इत्यत्वे <<अलोऽन्त्यस्य>>[[1.1.52]] इत्यन्त्यस्य जाते त+अ+औ इति स्थिते <<अतो गुणे>>[[6.1.97]] इपि पररूपत्वे कृते <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशे शस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे कृते ते इति । तानि । तत् + औ <\/qt> अत्र त्यदाद्यत्वे, पररूपत्वे, जसः शौ, अनुबन्धलोपे, सर्वनामस्थानसंज्ञायाम्, <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि, उमि गते मित्वादन्त्यादुचः परे <<सर्वनामस्थाने चासम्बुदौ>> इति नान्तोपधाया दीर्घत्वे संयोगे च कृते तानि इति रूपम् । यत् । यत् + सु <\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि कृते यत् इति । ये । यत् + औ <\/qt> अत्र त्यदाद्यत्वे पररूपत्वे च कृते औस्थाने श्यादेशे शस्येत्सञ्ज्ञायाम् लोपे च जाते <<आद्गुणः>>[[6.1.87]] इति गुणे ये इति । यानि । यत् + जस् <\/qt> अत्र अत्वे, पररूपत्वे जसः शौ अनुबन्धलोपे, सर्वनामस्थानसंज्ञायाम् नुमि, उमि गते नान्तोपधायाः दीर्घत्वे च कृते यानि इति रूपम् । एतत् । एतत् + सु <\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि एतत् इति । एते । एतत् + औ <\/qt> अत्र त्यदाद्यत्वे पररूपत्वे <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशे शस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे एते इति । एतानि । एतत् + जस् <\/qt> अत्र त्यदाद्यत्वे पररूपत्वे <<जश्शसोः शिः>>[[7.1.20]] इति जसः शौ <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसंज्ञायां शस्येत्संज्ञायां लोपे च <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि उमि गते मित्वादन्त्यादचः परे <<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नान्तोपधाया दीर्घत्वे संयोगे च कृते एतानि इति । गवाक् । गामञ्चतीति विग्रहे क्विनि उपपदसमासे सुब्लुकि, <<गो अन् च्>> इति स्थिते कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते गोअ न् च् सु इति <<अनिदितां हल उपधाया क्ङिति>> इति नलोपे गो अच सु इत्यवशिष्टे <<अवङस्फोटायनस्य>> इत्यवङि ङस्येत्संज्ञायां लोपे च <<ङिच्च>>[[1.1.53]] इत्यन्तादेशे <<अक: सवर्णे दीर्घः>> इति दीर्घे <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति चस्य कत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति गत्वे <<वाऽवसाने>>[[8.4.56]] इति वा कत्वे गवाक् इति । चर्त्वाभावपक्षे - गवाग् इति । गोचो । गो अन् च औ इत्यत्र <<अनिदितां हल उपघायाः क्ङिति>> इति नलोपे <<नपुंसकाच्च>>[[7.1.19]] इति औस्थाने श्यादेशे शस्येत्सञ्ज्ञायां लोपे च <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायाम् <<अचः>>[[6.4.138]] इति अचोऽकारस्य लोपे संयोगे च कृते गोची इति रूपम् । गवाञ्चि । गो-अन् च् + जस् <\/qt> इति स्थिते <<अनिदितां हल उपघायाः क्ङिति>> इति नलोपे <<जश्शसोः शिः>>[[7.1.20]] इति जसः शौ कृते <<शि सर्वनामस्थानम्>>[[1.1.42]] इति सर्वनामस्थानसञ्ज्ञायां शस्येत्सञ्ज्ञायां लोपे च <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमि, उमि गते मित्वादन्त्यादचः परे गो अन् च् इ इति जाते <<अवङ्स्फोटायनस्य>> इत्यवङि ङस्येत्सञ्ज्ञायां लोपे च <<ङिच्च>>[[1.1.53]] इत्यन्तादेशे <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घे गवान् च् इ इति जाते <<नश्चापदान्तस्य झलि>>[[8.3.24]] इत्यनुस्वारे <<अनुस्वारस्य ययि परसवर्णः>>[[8.4.58]] इति परसवर्णे संयोगे च कृते गवाञ्चि इति भवति । पुनस्तद्वदिति । गवाक् – गवाग्, गोची, गवाञ्चि, इति यावत् । गोचा । गो अन् च् टा इत्यत्र <<चुटू>>[[1.3.7]] इति टस्येत्सञ्ज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे <<अनिदिताम्>> इति नलोपे <<यचि भम्>>[[1.4.18]] इति भसञ्ज्ञायाम् <<अचः>>[[6.4.138]] इति अचोऽकारस्य लोपे संयोगे च कृते गोचा इति । <>गवाग्भ्याम् ।<> गोअन् च भ्याम् इत्यत्र <<अनिदिताम्>> इति नलोपे <<अवङ्स्फोटायनस्य>> इत्यवङि ङस्येत्सञ्ज्ञायां लोपे च <<ङिच्च>>[[1.1.53]] इत्यन्तादेशे सवर्णदीर्घे च गवाच् + भ्याम् <\/qt> इति जाते <<क्विन्प्रत्ययस्य कुः>>[[8.2.62]] इति कुत्वे <<झलां जशोऽन्ते>>[[8.2.39]] इति गत्वे च गवाग्भ्याम् इति रूपम् । एवं सर्वत्र बोध्यम् । शकृत् । शकृत् + सु <\/qt> अत्र <<स्वमोर्नपुंसकात्>>[[7.1.23]] इति सोर्लुकि सति शकृत् इति । शकृती । <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशोऽत्रबोध्यः । शकृन्ति । अत्र जसः <<जश्शसोः शिः>>[[7.1.20]] इति श्यादेशो, अङ्गस्य च <<नपुंसकस्य झलचः>>[[7.1.72]] इति नुमागमश्च बोध्यः । ददत् । शतृप्रत्ययान्तोऽयं ददत् शब्दः तस्मात् स्वमोर्लुक् । ददती । ददत् + औ <\/qt> अत्र <<नपुंसकाच्च>>[[7.1.19]] इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च संयोगे च कृते ददती इति ।", "82069": "रोऽसुपीति । <\/w> रः असुपीति च्छेदः । <<अहन्>> [[8.2.68]] इति सूत्रमनुवर्तते । तच्च लुप्तषष्ठीकं पदम् । तदाह — अह्नो रेफादेश इत्यादिना ।<\/w> अहरह इति ।<\/w> <<नित्यवीप्सयोः>> [[8.1.4]] इति द्विर्वचनम् । अहन् अहन्<\/qt> इति स्थिते <<रोऽसुपि>> [[8.2.69]] इत्यनेन सर्वस्याहन् शब्दस्य रेफादेशे प्राप्ते <<अलोऽन्त्यस्य>> [[1.1.52]] इति परिभाषया उभयत्रान्त्यस्य नस्य जाते, अहर् अहर्<\/qt> इति जाते तत्र <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यन्तस्य विसर्गे, कृते च संयोेगे अहरहः<\/qt> इति भवति । अहन् गणः<\/qt> अत्र <<रोऽसुपि>> [[8.2.69]] इति सर्वस्य रेफादेशे प्राप्ते <<अलोऽन्त्यस्य>> [[1.1.52]] इति परिभाषया अन्त्यस्य विहिते सयुक्ते च कृते अहर्गणः<\/qt> इति रूपम् ॥", "82072": "वसुस्रंस्विति । वस्विति प्रत्ययः, तेन तदन्तं ग्राह्यम् । <<ससजुषो रुः>>[[8.2.66]] इति सूत्रात्सेत्यनुवर्तते, तच्च वसोरेव विशेषणन्तदाह - सान्तवस्वन्तस्येति । अनडुद्भयामित्यादि । अनडुह् + भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<वसुस्रंसुध्वंस्वनडुहां दः>>[[8.2.72]] इति हस्य दत्वे 'अनडुद्भ्याम्' इति । इत्यादीति । आदिना - 'अनडुत्सु' एवं बोध्यम् । तथाहि - अनडुह् + सुप् अत्र पकारस्येत्संज्ञायां लोपे च <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<वसुस्रंसुध्वंस्वनडुहां दः>>[[8.2.72]] इतिहस्य दत्वे <<खरि च>>[[8.4.55]] इति चर्त्वे 'अनडुत्सु' इति रूपम् । साड इतिकृतढत्वडत्ववृद्धेरनुकरणम् ।", "82076": "र्वोरुपधाया इति । <<सिपि धातो रुर्वा>>[[8.2.74]] इत्यतो धातोरित्यनुवर्तते । र्वो इति तद्विशेषणम् । तदन्तविधिः । <<पदस्य>>[[8.1.16]] इत्यधिकृतम् । <<स्कोः संयोगाद्योरन्ते च>>[[8.2.29]] इत्यतो अन्ते इत्यनुवर्तते तदाह - रेफवान्तयोरित्यादिना । पिपठीः । पिपठिष + सु इत्यत्र सोर्लोपे, रुत्वे कर्तव्ये <<पूर्वत्रासिद्धम्>>[[8.2.1]] इति षत्वस्यासिद्धत्वाद् <<ससजुषो रुः>>[[8.2.66]] इति रुत्वे उकारस्येत्संज्ञायां लोपे च 'पिपठिर्' इति जाते <<र्वोरुपधाया दीर्घ इकः>>[[8.2.76]] इति उपधाया इकारस्य दीर्घे <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रेफस्य विसर्गत्वे 'पिपठीः' इति रूपम् । पिपठिषौ । पिपठिस् + औ अत्र <<आदेशप्रत्यययोः>>[[8.3.59]] इति षत्वे संयोगे च कृते 'पिपठिषौ' इति । पिपठीर्भ्याम् । पिपठिष् + भ्याम् अत्र <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां षत्वस्यासिद्धत्वात् <<ससजुषो रुः>>[[8.2.66]] इति रुत्वे उकारस्येत्सञ्ज्ञायां लोपे च <<र्वोरुपधाया दीर्घ इकः>>[[8.2.76]] इति ठकारोत्तरवर्तिन इकारस्य दीर्घे 'पिपठीर्भ्याम्' इति रूपम् ।", "82080": "अदसोऽसेरिति । अदस इत्यवयवषष्ठ्यन्तम् । असेरिति तद्विशेषणम् । इकार उच्चारणार्थः । दादिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् । तदाह - अदसोऽसान्तस्येति । अमू । अदस् + औ अत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इतिपररूपे अद + औ इति जाते <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ कृते 'अदौ' इति भूते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति औकारस्य उकारे दस्य मत्वे च 'अमू' इति रूपं सिद्ध्यति ।", "82081": "एत ईद्बहुवचने इति । <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इत्यस्मात् अदसो दादिति, दो मः इति चानुवर्तते । तदाह - अदसो दात्परस्येत्यादिना । अमी । अदस + जस् अत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपे अद+जस् इति स्थिते <<जसः शी>>[[7.1.17]] इति जसः स्थाने श्यादेशे शकारस्येत्संज्ञायां लोपे च <<आद्गुणः>>[[6.1.87]] इति गुणे 'अदे' इति जाते <<एत ईद्बहुवचने>>[[8.2.81]] इति एकारस्य ईकारे दस्य च मत्वे 'अमी' इति रूपम् । विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । अमुम् । अदस् + अम् इत्यत्र <<त्यदादीनामः>>[[7.2.102]] इत्यकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे च कृते 'अमि पूर्वः' इति पूर्वरूपकादेशे 'अदम्' इति जाते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति दात्परस्य अस्य उत्वे दस्य मत्वे च 'अमुम्' इति रूपम् । अमू । अदस् + औ इति स्थिते <<त्यदादीनामः>>[[7.2.102]] इति अकारान्तादेशे <<अतो गुणे>>[[6.1.97]] इति पररूपत्वे च कृते <<वृद्धिरेचि>>[[6.1.88]] इति वृद्धौ सत्याम् 'अदौ' इति जाते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति औकारस्य ऊत्वे दस्य मत्वे च 'अमू' इति रूपम् । अमून् । अदस् + शस् इते स्थिते त्यदाद्यत्वे, पररूपत्वे च कृते शकारस्येत्संज्ञायां लोपे च <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति सस्य नत्वे 'अदान्' इति भूते <<अदसोऽसेर्दादु दो मः>>[[8.2.80]] इति आकारस्य ऊत्वे दस्य च मत्वे 'अमून्' इति रूपम् ।", "82084": "", "83002": "", "83004": "", "83005": "समः सुटीति । <\/w> सम इति षष्ठ्यन्तम् । <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यतो रुग्रहणमनुवर्तते, तदाह — समो रुः स्यात् सुटी<\/w> इति । सँस्कर्तेति ।<\/w> सम्-कर्ता<\/qt> इत्यत्र <<सम्परिभ्यां करोतौ भूषणे>> [[6.1.137]] इति सूत्रेण सुडागमेऽनुबन्धलोपे सति सम् स कर्ता<\/qt> इति जाते अत्र <<समः सुटि>> [[8.3.5]] इति सुट्सम्बन्धिनि सकारे परे सर्वस्य समो रुत्वे प्राप्ते <<अलोऽन्त्यस्य>> [[1.1.52]] इति योगेनान्त्यस्य मस्य रुत्वे उकारकलोपे च विहिते स र् स् कर्ता<\/qt> इति भूते <<अत्रानुनासिक पूर्वस्य तु वा>> [[8.3.2]] इत्यनेन रोः पूर्वमनुनासिके जाते सँर् स् कर्ता<\/qt> इति जाते, यस्मिन् पक्षे वाग्रहणादनुनासिको नाभूत् तस्मिन् पक्षे <<अनुनासिकात्परोऽनुस्वारः>> [[8.3.4]] इति योगेनानुस्वारे कृते <संर् स् कर्ता<\/qt> इति जाते अत्र <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन खर्-प्रत्याहारान्तःपातिनि सकारे परे रेफस्य विसर्गे विहिते सः कर्ता, संः कर्ता<\/qt> इति जाते अत्र <<विसर्जनीयस्य सः>> [[8.3.34]] इति विसर्जनीयस्य सत्वे प्राप्ते <<वा शरि>> [[8.3.36]] इति विसर्जनीयस्य विसर्जनीयत्वे च लब्धे इहोभयमपि प्रबाध्य इति वार्त्तिकेन विसर्गस्य सत्वे कृते सँस्कर्ता<\/qt> इति, संस्कर्ता<\/qt> इति च रूपद्वयं सिद्ध्यति ॥", "83006": "पुनः खय्यम्पर इति । <\/w> <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यतो रुग्रहणमनुवर्तते अम् परो यस्मादिति विग्रहस्तदाह — अम्परे खवि<\/w> इति । पुंस्कोकिल इति । <\/w> पुमांश्चासौ कोकिलश्चेति कर्मधारयसमासः । पुम्-कोकिलः<\/qt> इत्यत्र <<पुमः खय्यम्परे>> [[8.3.6]] इत्यनेन पुमो मस्य रुत्वे रेफोत्तरवर्त्युकारलोपे पुर् कोकिल<\/qt> इति जाते <<अत्रानुनासिक: पूर्वस्य तु वा>> [[8.3.2]] इत्यनुनासिके <\/qt>पुँर्-कोकिलः<\/qt>, पक्षे <<अनुनासिकात्परोऽनुस्वारः>> [[8.3.4]] इत्यनेनानुस्वारे पुंर् कोकिल<\/qt> इति भूते अत्र <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गत्वे <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन जिह्वामूलीये प्राप्ते तं बाधित्वा इति विसर्गस्य सत्वे कृते पुँस्कोकिलः<\/qt>, पुंस्कोकिलः<\/qt> इति रूपद्वयं सिद्ध्यति ॥", "83007": "नश्छव्यप्रशानिति ।<\/w> न इति षष्ठ्यन्तं पदस्येत्यधिकृत्य विशेषणम् । तदन्तविधिः । अम्परे इति रुँ इति चानुवर्तते, तदाह — अम्पर इत्यादिना । <\/w> चक्रिंस्त्रायस्वेति । <\/w> चक्रिन्-त्रायस्व<\/qt> इति स्थिते <<नश्छव्यप्रशान्>> [[8.3.7]] इत्यनेन नान्तस्य पदस्य चक्रिन्<\/qt> इत्यस्य रुँत्वे प्राप्ते <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन न् इत्यस्य स्थाने रुँ कृते अम्परकछव्प्रत्याहारान्तःपातिनि ककारे परे चक्रिरुँ त्रायस्व<\/qt> इति जाते रेफोत्तरवर्त्युकारस्येत्संज्ञायां लोपे च चक्रिर् त्रायस्व<\/qt> इति जाते <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अनुनासिके, पक्षे <<अनुनासिकात्परोऽनुस्वारः>> [[8.3.4]] इत्यनुस्वारे च चक्रिँर् त्रायस्व<\/qt>, चक्रिंर् त्रायस्व<\/qt> इति जाते <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति उभयत्र रेफस्य विसर्गे कृते सति <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन विसर्गस्य सत्वे चक्रिँस्त्रायस्व<\/qt>, चक्रिंस्त्रायस्व<\/qt> इति रूपद्वयं बोध्यम् ॥ अप्रशान् किमिति ।<\/w> प्रशान् तनोति<\/qt> इत्यत्र सूत्रार्थसमन्वयात् नकारस्य रुत्वं प्राप्तम्, तन्नेष्टमिति शास्त्रे अप्रशान्<\/w> इति पर्युदस्यते ॥", "83010": "नॄन् पे इति । <\/w> नॄन् इति द्वितीयान्तशब्दस्वरूपपरम्बोध्यम् । तच्च षष्ठ्यन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यतो रुँ इत्यनुवर्तते । <<उभयथर्क्षु>> [[8.3.8]] इत्यत उभयथेत्यनुवर्तते । कदाचिद्भवति, कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाह — नॄनित्यस्येत्यादिना ।<\/w>", "83012": "कानाम्रेडित इति ।<\/w> कानिति द्वितीयान्तं शब्दस्वरूपपरं षष्ठ्यन्तम् । षष्ठ्याश्च सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । <<अलोऽन्त्यस्य>> [[1.1.52]] इति परिभाषया कान्शब्दान्तस्येति लभ्यते । रुँ इत्यनुवर्तते । तदाह — कान्नकारस्येत्यादिना ।<\/w> कान् इत्यस्य वीप्सास्यां द्विर्वचने कान् कान्<\/qt> इति स्थिते प्रथमनकारस्य <<कानाम्रेडिते>> [[8.3.12]] इत्यनेन रुत्वे उकारलोपे <<अत्रानुनासिक: पूर्वस्य तु वा>> [[8.3.2]] इत्यनुनासिके काँर् कान्<\/qt> इति जाते पक्षे <<अनुनासिकात्परोऽनुस्वारः>> [[8.3.4]] इत्यनुस्वारे कांर् कान्<\/qt> इति भूते अत्र <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गे <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन जिह्वामूलीये च प्राप्ते तं प्रबाध्य इति वार्त्तिकेन सत्वे च कृते काँस्कान्, कांस्कान्<\/qt> इति ॥", "83014": "रो रीति ।<\/w> रः इति षष्ठी । <<ढो ढे लोपः>> [[8.3.13]] इत्यतो लोप इत्यनुवर्तते, तदाह — रेफस्येति <\/qt> ॥", "83015": "", "83016": "रोः सुपीति । खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप् । <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इत्येव सिद्धे नियमार्थम् एवैष विधिरित्याह -रोरेवेति । शरोऽचीति । <<अचो रहाभ्यां द्वे>>[[8.4.46]] इति, <<नादिन्याक्रोशे पुत्रस्य>>[[8.4.48]] इत्यतो नेति चानुवर्तते । तदाह - अचि पर इत्यादिना । चतुर्षु । चतुर् + सुप् इत्यत्र <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रस्य विसर्गत्वे प्राप्ते <<रोः सुपि>>[[8.3.16]] इति निषेधे चतुर् + सुप् इति जाते <<आदेशप्रत्यययोः>>[[8.3.59]] इति सस्य षत्वे <<अचो रहाभ्यां द्वे>>[[8.4.46]] इति षस्य द्वित्वे प्राप्ते <<शरोऽचि>>[[8.4.49]] इति षस्य द्वित्वाभावे षस्येत्संज्ञायां लोपे च 'चतुर्षु' इति रूपम् ।", "83017": " भो भगो इति ।<\/w> <<रोः सुपि>> [[8.3.16]] इत्यतो रोरित्यनुवर्तते । भो भगो अघो अ इत्येतेषां द्वन्दः । एते पूर्वे यस्मादिति बहुव्रीहिः । पूर्वशब्दश्च प्रत्येकं सम्बध्यते । <ऽद्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यतेऽ> इति नियमात् । तेन भोपूर्वकस्य, भगोपूर्वकस्य, अघोपूर्वकस्य, अवर्णपूर्वकस्य च रोर्यादेशः स्यादशि इति सूत्रार्थः । देवा इहेति ।<\/w> देवास् इह<\/qt> इति दशायां <<ससजुषो रुः>> [[8.2.66]] इति सूत्रेण सस्य रुत्वे <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति सूत्रेण रोर्यादेशे देवाय् इह<\/qt> इति जाते तत्र <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन यलोपे देवा इह<\/qt> इति जायते । शाकल्यग्रहणात्पक्षे देवायिह<\/qt> इति ॥", "83019": "लोपः शाकल्यस्येति । <\/w> <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यतः अपूर्वस्येति अशीति चानुवर्तते । <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इत्यततः व्योरित्यनुवर्तते अत आह — अवर्णेति ।<\/w> ॥", "83022": "भोस् देवाः<\/qt> इत्यत्र <<ससजुषो रुः>> [[8.2.66]] इति सस्य रुत्वे <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यनेन रोर्यत्वे <<हलि सर्वेषाम्>> [[8.3.22]] इति यलोपे च भो देवा<\/qt> इति रूपम् । भगोस् नमस्ते<\/qt> इति दशायां <<ससजुषो रुः>> [[8.2.66]] इति सस्य रुत्वे <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रोर्यत्वे <<हलि सर्वेषाम्>> [[8.3.22]] इति यलोपे च भगो नमस्ते<\/qt> इति जायते । अघोस् याहि<\/qt> इत्यत्र <<ससजुषो रुः>> [[8.2.66]] इति सस्य रुत्वे <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रोर्यादेशे <<हलि सर्वेषाम्>> [[8.3.22]] इति यलोपे च कृते अघो याहि<\/qt> इति रूपं सिद्धम् ॥", "83023": "मोऽनुस्वार इति । <\/w> <<पदस्य>> [[8.1.16]] इत्यधिकारात् पदस्य इत्यनुवर्तते । म इति षष्ठ्यन्तम् । पदस्य विशेषणं तदन्तविधिः । <<हलि सर्वेषाम्>> [[8.3.22]] इत्यतः हलीत्यनुवर्तते । तदेतदाह — मान्तस्येत्यादिना ।<\/w> हरिं वन्दे<\/qt> इत्यत्र मान्तं पदं हरिम्<\/qt> इति, तस्यानुस्वारो <<मोऽनुस्वारः>> [[8.3.23]] इत्येनन प्राप्तः, <<अलोऽन्त्यस्य>> [[1.1.52]] इति परिभाषया अन्त्यस्य म् इत्यस्य स्थाने जातः । तेन हरिं वन्दे<\/qt> इति जायते ।", "83024": "नश्चापदान्तस्येति<\/w> । चकारान्मस्येत्यनुकृष्यते अनुस्वार इति च । यशांसीति । <\/w> यशान्-सि<\/qt> इत्यत्र <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेन पदान्तरहितस्य नकारस्य झल्प्रत्याहारान्तःपातिनि सकारे परे नस्यानुस्वारे कृते यशांसि<\/qt> इति । आक्रम् स्यते <\/qt> इत्यवस्थायां मकारस्य अपदान्तत्वात् <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेनैव खरि परे सत्यनुस्वारे विहिते आक्रंस्यते<\/qt> इति जायते ॥", "83025": " मो राजीति ।<\/w> म इति प्रथमान्तम् । <<मोऽनुस्वारः>> [[8.3.23]] इत्यतो म इति स्थानषष्ठ्यन्तमनुवर्तते । समः इत्यवयवषष्ठी । प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्रत्ययान्तलाभः । तदाह — क्विब्ते इत्यादिना । <\/w> सम्-राड्<\/qt> इति स्थितेऽत्र <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य स्थाने अनुस्वारे प्राप्ते तं बाधित्वा <<मो राजि समः क्वौ>> [[8.3.25]] इत्यनेन मकारस्य स्थाने म एव विधीयते । तेन सम्राट्<\/qt> इति भवति । मकारस्य स्थाने मकारविधानमनुस्वारनिवृत्त्यर्थमिति भावः ॥", "83026": "हे मपर इति । <\/w> <<मोऽनुस्वारः>> [[8.3.23]] इत्यतः म इति षष्ठ्यन्तमनुवर्तते । <<मो राजि समः क्वौ>> [[8.3.25]] इत्यतः म इति प्रथमान्तमनुवर्तते । मः परो यस्मादिति विग्रहस्तदाह — मपरे इत्यादिना ।<\/qt> किम्-ह्वलयति<\/qt> इत्यत्र <<मोऽनुस्वारः>> [..]] इत्यनेनानुस्वारे प्राप्ते तं प्रबाध्य <<हे मपरे वा>> [[8.3.26]] इत्यनेन मस्य मत्वे कृते किम् ह्वलयति<\/qt> इति भवति । पक्षे <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेनानुस्वारे किंह्वलयति<\/qt> इति भवति । यवलपरे इति । <\/w> यवलाः परे यस्मादिति विग्रहः । यवलपरके हकारे परे मस्य क्रमेण यवला एव वा स्युरित्यर्थः । किय्ँ ह्य इति<\/w> किम्-ह्यः<\/qt> इत्यत्र इत्यनेन वार्त्तिकेन यपरके हकारे परे <<मोऽनुस्वारः>> [[8.3.23]] इति प्राप्तमनुस्वारं बाधित्वा मकारस्यानुनासिके यकारे विकल्पेन विहिते किय्ँ ह्यः<\/qt> इति भवति । पक्षे अनुस्वारे किंह्यः<\/qt> इति । एवमेव - किम् ह्वलयति<\/qt>, किम् ह्लादयति<\/qt> इत्यत्र वपरके व्ँ इति, लपरके ल्ँ इति चानुनासिके कृते किव्ँह्वलयति<\/qt>, किल्ँह्लादयति<\/qt> च जायेते ॥", "83027": "नपरे न इति ।<\/w> हे इति वेति म इति चानुवर्तते । नः परो यस्मादितोि विग्रहस्तदाह — नपरे हकार इत्यादिना । <\/w> किन्ह्नुते इति ।<\/w> किम्-ह्नुते<\/qt> इत्यत्र <<नपरे नः>> [[8.3.27]] इत्यनेन सूत्रेण नपरे हकारे परे मस्य नत्वे कृते किन्ह्नुते<\/qt> इति रूपम् । पक्षे मस्यानुस्वार किंह्नुते<\/qt> इति ॥", "83028": "ङ्णोः कुगिति ।<\/w> <<हे मपरे वा>> [[8.3.26]] इत्यतः वेत्यनुवर्तते । कुक् च टुक् चेति समाहारद्वन्द्वः । ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि इत्यर्थः । उभयत्र ककार इत्संज्ञकः । उकार उच्चारणार्थः । प्राङ्-षष्ठः<\/qt> इति स्थिते, अत्र <<ङ्णोः कुक् टुक् शरि>> [[8.3.28]] इत्यनेन ङकारस्य कुगागमे <<आद्यन्तौ टकितौ>> [[1.1.21]] इत्यनेन ङकारस्यान्ते जाते प्राङ् कुक् षष्ठः<\/qt> इति निष्पन्ने सति क्<\/qt> इत्यस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेनेत्संज्ञायां <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपे चे प्राङ्क् षष्ठः<\/qt> इति जाते, तत्र विकल्पेन इति वार्त्तिकेन खत्वे विहिते प्राङ्षष्ठः<\/qt> इत्यभवत् । द्वितीयाक्षराभावे क्-ष्-संयोगे प्राङ्क्षष्ठः<\/qt> इति भवति । कुगागमाभावे प्राङ्षष्ठः<\/qt> इति । एवम् सुगण् षष्ठः<\/qt> इति दशायां <<ङ्णोः कुक् टुक् शरि>> [[8.3.28]] इत्यनेन णकारस्य टुगागमे, <<आद्यन्तौ टकितौ>> [[1.1.21]] इत्यनेन अन्तावयवे जाते सुगण्-टुक् षष्ठः<\/qt> इति जाते, उकारे निवृत्ते ककारस्येत्संज्ञायां लोपे च सुगण् ट् षष्ठः<\/qt> इति । तत्र इत्यनेन द्वितीयाक्षरे ठकारे विकल्पेन जाते सुगण्ठ्षष्ठः<\/qt> इत्यभवत् । द्वितीयाक्षराभावे सुगण्ट्षष्ठः<\/qt> इति भवति । टुगागमाभावे सुगण् षष्ठः<\/qt> इति रूपम्बोध्यम् ॥", "83029": "डः सीति । <\/w> डः इति पञ्चमी । सि इति सप्तमी । अत्र <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति, <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति च परिभाषयोः प्राप्तयोः इति न्यायेन <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति परिभाषया सीति सप्तमी षष्ठी सम्पद्यते — डात्परस्य सस्येति ।<\/w> षड्-सन्तः<\/qt> इत्यत्र <<डः सि धुट्>> [[8.3.29]] इत्यनेन डात् परस्य धुट्प्राप्तिः; सः क्व स्यादित्याशङ्कायामाह — <<आद्यन्तौ टकितौ>> [[1.1.21]] इति टित्वात्सस्यादौ धुटि जाते षड् धुट् सन्तः<\/qt> इति जातम् । अत्र टस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेनेत्संज्ञायां धकारोत्तरवर्तिन उकारस्य च <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेनेत्संज्ञायां <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपे च कृते षड् ध् सन्तः<\/qt> इति भूतम् । अत्र <<खरि च>> [[8.4.55]] इत्यनेन धस्य तकारे, डकारस्य टकारे च कृते षट्सन्तः<\/qt> इति जातम् । धुडभावपक्षे <<खरि च>> [[8.4.55]] इति डस्य चर्त्वे टत्वे कृते षट्सन्तः<\/qt> इति जायते । अत्र <<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन ष्टुत्वं न शङ्क्यम्, <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति निषेधात् ॥", "83030": " नश्चेति ।<\/w> सि धुट् इति, वेति चानुवर्तते । न इति पञ्चमी, <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति परिभाषया सीति षष्ठी सम्पद्यते तदाह — नान्तात्परस्येत्यादिना ।<\/w> सन्त्स इति । <\/w> सन् सः<\/qt> इत्यवस्थायाम् <<नश्च>> [[8.3.30]] इति सूत्रेण धुटि विहिते क्व भवति इति शङ्कायाम् <<आद्यन्तौ टकितौ>> [[1.1.21]] इत्यनेन सस्याद्यावयवे सन् धुट् स<\/qt> इति जाते तत्र उकारस्य निवृत्तिः । टकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेनेत्संज्ञायाम् <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपे च सन् ध् स<\/qt> इति जाते तत्र <<खरि च>> [[8.4.55]] इत्यनेन धकारस्य चर्त्वेन तकारे कृते सति सन्त्सः<\/qt> इति जायते । धुडागमाभावे सन्सः<\/qt> इति भवति ॥", "83031": "शि तुगिति । <\/w> पूर्वसूत्रात् न इति पञ्चम्यन्तमनुवृत्तमिह षष्ठ्यन्तमाश्रीयते; शब्दाधिकाराश्रयणात् । <<पदस्य>> [[8.1.16]] इत्यधिकृतम् अवयवषष्ठ्यन्तमाश्रीयते । <<हे मपरे वा>> [[8.3.26]] इत्यतो वेत्यनुवर्तते तदाह — पदान्तस्य नस्येत्यादिना । <\/w> सन्-शम्भुः<\/qt> इत्यत्र कस्य सूत्रस्य प्राप्तिः ? <<शि तुक्>> [[8.3.31]] इत्यस्य, तेन पदान्तस्य तुकि कृते <<आद्यन्तौ टकितौ>> [[1.1.21]] इत्यनेन नस्यान्तावयवे कृते सन् तुक् शम्भुः<\/qt> इति जाते अत्र <<हलन्त्यम्>> [[1.3.3]] इत्यनेन कस्येत्संज्ञायाम् <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपे उकारनिवृत्तौ सत्याम् सन् त् शम्भुः<\/qt> इति जाते, <<शश्छोऽटि>> [[8.4.63]] इत्यनेन शम्भुरित्यस्य शस्य छत्वे कृते सन् त् छम्भुः<\/qt> इति जाते, <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति तस्य चर्त्वे, पुनः <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति नस्य ञत्वे च विहिते सञ्च्छम्भुः<\/qt> इति जायते । यत्र <<झरो झरि सवर्णे>> [[8.4.65]] इति वैकल्पिकचलोपः, तत्र सञ्छम्भुः<\/qt> इति । चलोपाभावे च सञ्च्छम्भुः<\/qt> इति । <<शश्छोऽटि>> [[8.4.63]] इति छत्वाभावे <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति तस्य चत्वे पुनः <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन नस्य ञत्वे च विहिते सञ्च्शम्भुः<\/qt> इति, तुकश्चाभावे तस्य श्चुत्वे च कृते सञ्शभ्भुः<\/qt> इति रूपचतुष्टयमत्र बोध्यम् । तथाहि सङ्ग्रहः — 'ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥' — इति ॥", "83032": " ङमो ह्रस्वादिति ।<\/w> ङम् इति प्रत्याहारः । ङमः इति पञ्चम्यन्तम् । तद्विशेषणत्वात्पदस्येत्यधिकृतं पञ्चम्यन्ततया विपरिणम्यते । ङम इति च ह्रस्वादिति विशेषणसम्बन्धमनुभूय पदविशेषणत्वं भवत् तदन्तपरम् । ङम इति पञ्चमीबलात् अचीति सप्तमी षष्ठ्यर्थे । तदाह — ह्रस्वात्पर इत्यादिना <\/w> । ङमुडागम इति । <\/w> टकार इत्, उकार उच्चारणार्थः । संज्ञायां कृतं टित्त्वमानर्थक्यात्तदङ्गन्यायात् संज्ञिभिः सम्बध्यते । ततश्च ङुट् णुट् नुट् इति त्रय आगमाः फलिताः इति भावः । प्रत्यङ्ङात्मेति ।<\/w> प्रत्यङ्-आत्मा<\/qt> इत्यत्र <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इत्यनेन ह्रस्वात्परस्य ङम्प्रत्याहारान्तःपातिनो ङकारात्परस्याच्प्रत्याहारान्तवर्तिन आकारस्य टित्त्वादादौ ङमुटि जाते प्रत्यङ् ङुट् आत्मा<\/qt> इति जातम्, उकारस्योच्चारणार्थत्त्वान्निवृत्तौ टकारस्येत्संज्ञायां लोपे च प्रत्यङ् ङ् आत्मा<\/qt> इति तत्र सर्वस्मिन् संयुक्ते प्रत्यङ्ङात्मा<\/qt> इति रूपम्भवति । एवं सुगण्-ईशः<\/qt> इत्यत्र <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इत्यनेन ई इत्यस्य णुडागमे उकारस्यानुबन्धस्य च निवृत्तौ संयोगे च सति सुगण्णीशः<\/qt> इति भवति । एवमेव सन्-अच्युतः<\/qt> इति दशायां <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इत्यनेन पूर्ववत् नुटि सन्नच्युतः<\/qt> इति सिद्ध्यति ॥", "83033": "किम्वुक्तमिति ।<\/w> किम् उ उक्तम्<\/qt> इत्यवस्थायाम् <<मय उञो वो वा>> [[8.3.33]] इति सूत्रेण मयः परस्य उञः ('उ' इत्यस्य) 'व्' आदेशो भवति; अचि ('उक्तम्') घटकोकारे परे, तेन किम् व् उक्तम्<\/qt> इति जाते 'अज्झिनं परेण संयोज्यम्', किम्वुक्तम्<\/qt> इति निष्पन्नम् । व् आदेशो विकल्पेन भवति, तदभावे च <<निपात एकाजनाङ्>> [[1.1.14]] इत्यनेन प्रगृह्यसंज्ञायां प्रकृतिभावे च किमु उक्तम्<\/qt> इति जायते ॥", "83034": "", "83036": "वा शरीति । <\/w> विसर्जनीयस्येति, विसर्जनीय इति चानुवर्तते । विसर्गस्य विसर्गविधानञ्च तस्य सत्वपरिसंख्यानार्थम् । वाग्रहणाच्च सत्वपरिसंख्यानं पाक्षिकम् । तदाह — शरि परे इत्यादिना ।<\/w> हरिः शेते इति ।<\/w> हरिः शेते<\/qt> इत्यत्र <<वा शरि>> [[8.3.36]] इति सूत्रेण शर्-प्रत्याहारान्तःपातिनि शकारे परे सति विसर्गस्य विसर्गे विहिते हरिःशेते<\/qt> इति रूपम् । पक्षे <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन विसर्गस्य सत्वे विहिते हरिस् शेते<\/qt> इति जाते, तत्र <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन सकारस्य शकारे च कृते हरिश्शेते<\/qt> इति रूपम् ॥", "83037": "नॄँ≍पाहीति । <\/w> नॄन् पाहि<\/qt> इत्यत्र <<नॄन् पे>> [[8.3.10]] इत्यनेन नस्य रुत्वे उकारलोपे <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इत्यनुनासिके, पक्षे <<अनुनासिकात्परोऽनुस्वारः>> [[8.3.4]] इत्यनुस्वारे <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गे, <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्युपध्मानीये च नॄँ≍पाहि<\/qt>, नॄंपाहि<\/qt> इति । उपध्मानीयाभावे सति विसर्गे नॄँः पाहि<\/qt>, नॄंः पाहि<\/qt> इति । पक्षे — नॄन्पाहि<\/qt> इति पञ्च रूपाणि । सूत्रे पे इत्यत्राकार उच्चारणार्थः । तेन नॄन् पुनाति<\/qt> इत्यादावपि पञ्च रूपाणि बोध्यानि ॥", "83058": "नुम् विसर्जनीयेति । इण्कोः इति, मुर्धन्यः इति चानुवर्तते । तदाह - एतैः प्रत्येकमित्यादिना । पिपठीष्षु, पिपठीःषु । पिपठिस् + सुप् अत्र <<हलन्त्यम्>>[[1.3.3]] इति पकारस्येत्संज्ञायां <<तस्य लोपः>>[[1.3.9]] इति लोपे <<स्वादिष्वसर्वनामस्थाने>>[[1.4.17]] इति पदसंज्ञायां <<ससजुषो रुः>>[[8.2.66]] इति सस्य रुत्वे उकारलोपे <<र्वोरुपधाया दीर्घ इकः>>[[8.2.76]] इत्युपधाया दीर्घत्वे <<खरवसानयोर्विसर्जनीयः>>[[8.3.15]] इति रेफस्य विसर्गत्वे 'पिपठीः सु' इति जाते <<विसर्जनीयस्य सः>>[[8.3.34]] इति विसर्गस्य सत्वे <<नुम्विसर्जनीयशर्व्यवायेऽपि>>[[8.3.58]] इति शर्व्यवायेऽपि सुप् प्रत्ययस्य षत्वे <<ष्टुना ष्टुः>>[[8.4.41]] इति पूर्वस्य सकारस्य षत्वे 'पिपठीष्षु' इति । पक्षे - <<वा शरि>>[[8.3.36]] इति विसर्गस्य विसर्गे <<नुम्विसर्जनीयशर्व्यवायेऽपि>>[[8.3.58]] इति विसर्गव्यवधानेऽपि षत्वे 'पिपठीःषु' इति । चिकीः । चिकीर्ष + सु अत्र सोर्लोपे षकारस्य असिद्धत्वात्सकारबुद्धया <<रात्सस्य>>[[8.2.24]] इति स् लोपे रेफस्य विसर्गत्वे च रूपम् । चिकीर्भ्यम् । चिकीर्ष् +भ्याम् अत्र पदसंज्ञायां षत्वस्यासिद्धत्वात् <<रात्सस्य>>[[8.2.24]] इति स् लोपे 'चिकीर्भ्याम्' इति । चिकीर्षु । चिकीर्ष् + सुप् अत्र षकारस्येत्संज्ञायां लोपे च पदसंज्ञायां <<रात्सस्य>>[[8.2.24]] इति स् लोपे <<रोऽसुपि>>[[8.2.69]] इति नियमात् विसर्गाभावे <<आदेशप्रत्यययोः>>[[8.3.59]] इति सुपः सकारस्य मूर्धन्यादेशे 'चिकीर्षु' इति । विद्वान् । विद्वस्+सु अत्र सोर्लोपे <<प्रत्ययलोपे प्रत्ययलक्षणम्>>[[1.1.62]] इति प्रत्ययलक्षणे <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि उमो लोपे मित्वादन्त्यावयवे <<सान्तमहतः संयोगस्य>>[[6.4.10]] इति उपधाया दीर्घत्वे <<संयोगान्तस्य लोपः>>[[8.2.23]] इति स् लोपे 'विद्वान्' इति रूपम् । विद्वांसौ । विद्वस् + औ अत्र <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि उमि गते मित्त्वादन्त्यादचः परे <<सान्तमहतः संयोगस्य>>[[6.4.10]] इत्युपधाया दीर्घत्वे <<नश्चापदान्तस्य झलि>>[[8.3.24]] इति अनुस्वारे संयोगे च कृते 'विद्वांसौ' इति । हे विद्वन् । विद्वस्+सु अत्र <<एकवचनं संबुद्धिः>>[[2.3.49]] इति सम्बुद्धिसंज्ञायाम् <<उगिदचां सर्वनामस्थानेऽधातोः>>[[7.1.70]] इति नुमि उमि गते मित्त्वादन्त्यादचः परे जाते हल्ङ्यादिना सोर्लोपे <<सान्तमहतः संयोगस्य>>[[6.4.10]] इत्यत्र 'असम्बुद्धौ' इत्युक्तत्वात् दीर्घाभावे संयोगान्तलोपे 'हे विद्वन्' इति ।", "83059": "आदेशप्रत्यययोरिति ।<\/w> मूर्धन्य इति वर्तते स इति च । आदेशप्रत्यययोरिति षष्ठी भेदेन सम्बद्ध्यते । प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकस्तदेतदाह - आदेशस्य प्रत्ययावयवस्य चेति । रामेध्विति ।<\/w> रामशब्दात्सप्तमीबहुवचनविवक्षायां सुपि राम सुप्<\/qt> इति तत्र पकारस्य <<हलन्त्यम्>>[[1.3.3]] इतीत्संज्ञायाम् <<तस्य लोपः>>[[1.3.9]] इति लोपे <<बहुवचने झल्येत्>>[[7.3.103]] इत्येकारे रामेसु<\/qt> इति जाते तत्र <<आदेशप्रत्यययोः>>[[8.3.59]] इति सस्य षत्वे विहिते रामेषु<\/qt> इति सिद्धम् । एवं कृष्णादय इति ।<\/w> कृष्णः, कृष्णौ, कृष्णाः प्रथमा । हे कृष्ण, हे कृष्णौ, हे कृष्णाः, सम्बोधनम् । कृष्णं कृष्णौ कृष्णान् द्वितीया । कृष्णेन कृष्णाभ्यां कृष्णैः तृतीया । कृष्णाय कृष्णाभ्यां कृष्णेभ्यः चतुर्थी । कृष्णात् कृष्णाभ्यां कृष्णेभ्यः पञ्चमी । कृष्णस्य कृष्णयोः कृष्णानाम् षष्ठी । कृष्णे कृष्णयोः कृष्णेषु सप्तमी । प्रक्रिया पूर्ववदूह्या ॥", "84001": "", "84002": "अट्कुप्वाङिति ।<\/w> <<रषाभ्यां नो णः समानपदे>>[[8.4.1]] इति सम्पूर्णं सूत्रमनुवर्तते । रषाभ्यामिति पञ्चमीनिर्देशाद्व्यवहितस्याप्राप्तौ वचनमिदम् । तत्र सर्वैर्व्यवायोऽसम्भवी । एकैकमात्रव्यवाय इत्यपि नार्थः, क्षुभ्नादिषु क्षुन्नशब्दपाठसामर्थ्यात्सरूपाणामित्यादिनिद् र्देशाच्चेत्यभिप्रेत्याह - व्यस्तैर्यथासम्भवेत्यादिना ।<\/w>", "84012": "एकाजुत्तरपदे ण इति । समासस्य, चरभावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एकः अच् यस्मिन् तत् एकाच् । तत् उत्तरपदं यस्य स एकाजुत्तरपदः । तस्मिन् समासे इति बहुव्रीहिः । <<रषाभ्यां नो णः समानपदे>>[[8.4.1]] इत्यनुवर्तते । <<पूर्वपदात् संज्ञायामगः>>[[8.4.3]] इत्यतः पूर्वपदादित्यनुवर्तते । <<प्रातिपदिकान्तनुम्विभक्तिषु च>>[[8.4.11]] इत्यनुवर्तते । तदाह - एकाजुत्तरपदमित्यादिना । वृत्रहणौ । वृत्रहन् + औ अत्र <<इन्हन्पूषार्यम्णां शौ>>[[6.4.12]] इति नियमात् दीर्घाभावे <<एकाजुत्तरपदे णः>>[[8.4.12]] इति णत्वे वृत्रहणौ इति रूपम् । एवं सुटि वृत्रहणः । वृत्रहणम् । वृत्रहणौ । इति बोध्यम् ।", "84037": "पदान्तस्येति ।<\/w> <<न भाभूपूकमिगमिप्यायीवेपाम्>>[[8.4.34]] इत्यतो न इत्यनुवर्तते । रामानिति ।<\/w> रामशब्दाद् द्वितीयाबहुवचन -विवक्षायां शसि समागते <<लशक्वतद्धिते>>[[1.3.8]] इति शस्येत्संज्ञायां लोपे च राम अस्<\/qt> इत्यवशिष्टे, अत्र <<प्रथमयोः पूर्वसवर्णः>>[[6.1.102]] इति पूर्वसवर्णदीर्घादेशे विहिते रामास्<\/qt> इति जाते <<तस्माच्छसो नः पुंसि>>[[6.1.103]] इति सस्य नत्वे कृते रामान्<\/qt> इति रूपम् । अत्र <<अट्कुप्वाङ्नुम्व्यवायेऽपि>>[[8.4.2]] इति नस्य णत्वे प्राप्ते <<पदान्तस्य>>[[8.4.37]] इति निषिद्धे सति णत्वाभावेन रामान्<\/qt> इति जायते ।", "84039": "क्षुभ्नादिष्विति ।<\/w> <<रषाभ्यां नो णः>> [[8.4.1]] इत्यतो ण इति, <<न भाभूपूकमिगमिप्यायीवेपाम्>> [[8.4.34]] इत्यतो नेति चानुवर्तते । तदाह - णत्व नेति><\/w> । नरीनृत्यते ।<\/qt> नृत् धातोर्यङि, द्वित्वेऽभ्यासकार्ये, रीगागमे धातुत्वाल्लटस्तादेशे शपि, अनुबन्धलोपे, पररूपे टेरेत्वे नरीनृत्यते<\/qt> इति स्थितौ <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वे प्राप्ते <<क्षुभ्नादिषु च>> [[8.4.39]] इति णत्वनिषेधे सति नरीनृत्यते<\/qt> इति रूपम् । लिटि — नरीनृताञ्चक्रे<\/qt> । लुटि — नरीनृतिता<\/qt> । लृटि — नरीनृतिष्यते<\/qt> । लोटि — नरीनृत्यताम्<\/qt> । लङि — अनरीनृत्यत<\/qt> । विधौ — नरीनृत्येत<\/qt> । आशिषि — नरीनृतिषीष्ट<\/qt> । लुङि — अनरीनृतिष्ट<\/qt> । लृङि — अनरीनृतिष्यत<\/qt> इति । जरीगृह्यते ।<\/qt> ग्रह् धातोर्यङि ङित्वात्सम्प्रसारणे <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपे गृह् य<\/qt> इति जाते <<सन्यङोः>> [[6.4.9]] इति द्वित्वेऽभ्यासत्वे, अभ्यासकार्ये, <<रीगृदुपधस्य च>> [[7.4.90]] इत्यभ्यासस्य रीगागमे, धातुत्वाल्लटस्ते प्रत्यये, शपि, अनुबन्धलोपे, <<अतो गुणे>> [[6.1.97]] इति पररूपे टेरेत्वे च कृते जरीगृह्यते<\/qt> इति रूपम् । जरीगृह्येते<\/qt>, जरीगृह्यन्ते<\/qt> । जरीगृह्यसे<\/qt>, जरीगृह्येथे<\/qt>, जरीगृह्यध्वे<\/qt> । जरीगृह्ये<\/qt>, जरीगृह्यावहे<\/qt>, जरीगृह्यामहे<\/qt> । लिटि — जरीगृहाञ्चक्रे<\/qt> । लुटी — जरीगृहिता<\/qt> । लृटि — जरीगृहिष्यते<\/qt> । लोटि — जरीगृह्यताम्<\/qt> । लङि — अजरीगृह्यत<\/qt> । लिङि — जरीगृह्येत<\/qt> । आशिषि — जरीगृहिषीष्ट<\/qt> । लुङि — अजरीगृहिष्ट<\/qt> । लृङि — अजरीगृहिष्यत<\/qt> । इति यङन्तप्रक्रिया ॥", "84040": "सकारतवर्गयोरिति ।<\/w> अत्र स्थान्यादेशयोर्यथासङ्ख्यम्, निमित्तकार्यिणोस्तु न । <<शात्>> [[8.4.44]] इति ज्ञापकात् । रामश्शेत इति । <\/w> रामश्शेते<\/qt> इति स्थितौ <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन सूत्रेण सकारस्य शकारेण सहात्र योगे सति सकारस्य शकारादेशे रामश्शेते<\/qt> इति रूपम्भवति । एवम् रामस्-चिनोति<\/qt> इत्यत्र चयोगे सकारस्य शकारादेशे रामश्चिनोति<\/qt> इति जायते । सत्-चित्<\/qt> इत्यवस्थायां प्रकृतसूत्रेण त्-<\/qt>इत्यस्य स्थाने च्<\/qt>- इत्यादेशे सच्चित्<\/qt> इति रूपम् । शार्ङ्गिन् जय<\/qt> इत्यत्र <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन न्<\/qt>-इत्यस्य स्थाने ञ्<\/qt>-इत्यादेशे शार्ङ्गिञ्जय<\/qt> इति रूपम् ॥", "84041": "ष्टुना ष्टुरिति ।<\/w> अत्र 'स्तोः' इत्यनुवर्तते । पूर्ववदत्रापि कार्यिनिमित्तयोर्यथासङ्ख्यं न भवति । <<तोः षिः>> [[8.4.43]] इति ज्ञापकात् । रामस्-षष्ठः<\/qt> अत्र <<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन सकारस्य षकारयोगेन सकारस्य षकारादेशे रामष्षष्ठः<\/qt> इति रूपम् । एवं रामस् टीकते<\/qt> इत्यत्र टकारेण योगे सकारस्य षकारादेशे रामष्टीकते<\/qt> इति रूपम् । पेष्-ता<\/qt> इत्यत्र <<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन तकारस्य ष्टुत्वे पेष्टा<\/qt> इति जायते । तत्-टीका<\/qt> इति दशायां प्रकृतसूत्रेण त्<\/qt> इत्यस्य ट्<\/qt> इत्यादेशे तट्टीका<\/qt> इति रूपम् । चक्रिन्-ढौकसे<\/qt> इत्यत्र <<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन न्<\/qt> इत्यस्य ण्<\/qt> इत्यादेशे चक्रिण्ढौकसे<\/qt> इति रूपम्भवति ॥", "84042": "नपदान्तादिति ।<\/w> षट्-सन्तः<\/qt>, षट्-ते<\/qt> इत्यत्र टवर्गस्य पदान्ते वर्तमानान्न ष्टुत्वम् । पदान्तादित्यस्यास्वीकारे ईट्-ते<\/qt> इत्यत्रापि निषेध आपद्येत । अतः सूत्रे तन्निवेशः आवश्यकः । टोः किमिति ।<\/w> ननु सर्पिष्-तमम्<\/qt> इत्यत्र <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पदसंज्ञायामत्र <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन जश्त्वं स्यादिति चेन्न, <<ह्रस्वात् तादौ तद्धिते>> [[8.3.101]] इत्यनेन कृतस्य षत्वस्य जश्त्वदृष्ट्यासऽसिद्धत्वात् । टोर्ग्रहणाभावे षकारोऽप्यनुवर्तेत । तेन प्रकृतेऽपि निषेधः स्यात्तन्मा भूदिति टोर्ग्रहणम् । षण्णामिति ।<\/w> षष्-नाम<\/qt> इत्यवस्थायां <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन जश्त्वे षड्-नाम<\/qt> इति स्थितौ इत्यनेन पर्युदासात् (निषेधस्य निषेधात्) ष्टुत्वे षड्-नाम<\/qt> इति जाते इति वार्त्तिकेन ड्<\/qt>-इत्यस्य नित्यानुनासिके सति, षण्णाम्<\/qt> इति रूपम्बोध्यम् । षण्णवतिरिति ।<\/w> षडधिका नवतिरिति विग्रहः । षड्-नवतिः<\/qt> इत्यत्र <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति निषेधे प्राप्ते इत्यनेन पर्युदासात् ष्टुत्वे जाते <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्यनेन पूर्वस्य ड्<\/qt>-इत्यस्यानुनासिके षण्णवतिः<\/qt> इति रूपम् । एवमेव षण्णगर्यः<\/qt> इत्यत्रापि बोध्यम् ॥", "84043": "तोः षीति । <\/w> तवर्गस्य षकारे परे न ष्टुत्वम् । तेन सन्-षष्ठः<\/qt> इत्यत्र तवर्गान्तःपातिनो नकारस्य षकारे परे न ष्टुत्वम् ॥", "84044": "विश्न इति ।<\/w> विश्-न<\/qt>, प्रश्-न<\/qt> इत्यत्र पूर्वसूत्रेण नकारस्य श्चुत्वे प्राप्ते <<शात्>> [[8.4.44]] इत्यनेन शात्परस्य तवर्गस्य — न-इत्यस्य — श्चुत्वं निषिध्यते । तेनात्र न्-<\/qt> इत्यस्य न ञ्-<\/qt> इत्यादेश इति भावः ॥", "84045": "यरोनुनासिक इति ।<\/w> <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इत्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते तदाह — यरः पदान्तस्येति । <\/w> एतद्-मुरारिः<\/qt> इति स्थितौ <<यरोनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति सूत्रेण समेष्वनुनासिकेषु प्राप्तेषु सत्सु <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यनेन दस्य दन्त्यत्वात् दन्त्येषु चानुनासिकान्तःपातिनः नस्यैव विद्यमानत्त्वान्नकारे विकल्पेन जाते एतन्मुरारिः<\/qt> इति सिद्धम् । पक्षे — एतद्मुरारिः<\/w> इति । एष चासौ मुरारिः इति कर्मधारयसमासोऽत्र बोध्यः । प्रत्यये भाषायामिति । <\/w> प्रत्यये अनुनासिकात्मके परे लोके नित्यमनुनासिकः स्यादित्यर्थः । तन्मात्रमिति <\/w> । तत्प्रमाणमस्येति तन्मात्रम्; <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन मात्रच्प्रत्ययः । तद्-मात्रम्<\/qt> इत्यवस्थायाम् इत्यनेन स्थानत आन्तर्यमाश्रित्य दकारस्य स्थाने नकारे जाते तन्मात्रम्<\/w> इति निष्पन्नम् । चिन्मयमिति । <\/w> चिदेव चिन्मात्रम्<\/qt>, अत्र <<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]] इत्यत्र नित्यमिति योगविभागात्ताद्रूप्ये मयट् । प्रक्रिया तु पूर्ववद्बोध्या ॥", "84046": " वाप्यश्व इति । <\/w> वाप्यामश्वः वाप्यश्वः, वापी-अश्व<\/qt> इति वार्तिकेन निषिध्यते । अतोऽत्र न प्रकृतिभावः, किन्तु <<इको यणचि>> [[6.1.77]] इत्यनेन यणि वाप्यश्वः<\/qt> इति रूपम् ॥", "84047": "", "84053": "", "84055": "", "84056": "वाऽवसाने इति ।<\/w> <<झलां जश् झशि>>[[8.4.53]] इत्यतो झलामिति <<अभ्यासे चर्च>>[[8.4.54]] इत्यतश्चरिति चानुवर्तते । तदाह - अवसान इत्यादिना । रामादिति ।<\/w> रामशब्दात् पञ्चम्येकवचनविवक्षायां ङसौ समागते राम ङसि<\/qt> इत्यत्र <<टाङसिङसामिनात्स्याः>>[[7.1.12]] इति ङसेरादादेशे कृते <<अकः सवर्णे दीर्घः>>[[6.1.101]] इति दीर्घे <<झलां जशोऽन्ते>>[[8.2.39]] इति तस्य दत्वे <<वाऽवसाने>>[[8.4.56]] इति दस्य विकल्पेन तत्वे रामात्<\/qt> इति । पक्षे - रामाद्<\/qt> इति । रामाभ्यामिति ।<\/w> राम भ्याम्<\/qt> अत्र <<सुपि च>>[[7.3.102]] इति दीर्घे रामाभ्याम्<\/qt> इति । रामेभ्य इति ।<\/w> 'राम भ्यस् अत्र <<बहुवचने झल्येत्>>[[7.3.103]] इत्येवे रामेभ्यः<\/qt> इति । रामस्येति ।<\/w> रामशब्दात् पष्ठ्येकवचनविवक्षायां ङसि राम ङस्<\/qt> अत्र <<टाङसिङसामिनात्स्याः>>[[7.1.12]] इति ङसः स्यादेशे रामस्य<\/qt> इति रूपम् ।", "84058": "स्पष्टमिति ।<\/w> अनुवर्त्यपदान्तराभावादिति भावः । अनुस्वारस्य परसवर्णः भवति ययि परे इत्यर्थः ॥ शान्त इति ।<\/w> शाम्-त<\/qt> इति स्थिते अत्र <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेन म् इत्यस्यानुस्वारे कृते शां-तः<\/qt> इति जाते <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यनेन परसवर्णे नकारे विहिते शान्तः<\/qt> इति सिद्धम् । एवमेव अङ्कितः<\/qt>, अञ्चितः<\/qt>, कुण्ठितः<\/qt>, गुम्फितः<\/qt> इत्यत्रापि बोध्यम् ॥", "84059": "वा पदान्तस्येति । <\/w> <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति सम्पूर्णं सूत्रमनुवर्तते । त्वम्-करोषि<\/qt> इति स्थिते <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन पदान्तस्य मस्यानुस्वारे विहिते सति तस्य स्थाने <<वा पदान्तस्य>> [[8.4.59]] इत्यनेन विकल्पेन परस्य ककारस्य सवर्णे क् ख् ग् घ् ङ् इति सर्वस्मिन् प्राप्ते <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यनेन अनुस्वारस्य नासिकास्थानत्वात् तत्स्थानतुल्यो ङकारो जातः । तेन त्वङ्करोषि<\/qt> इति भवति । पक्षे अनस्वारात्मकम् त्वं करोषि<\/qt> इति रूपम् ॥", "84060": "तोर्लीति । <\/w> <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यतः परसवर्ण इत्यनुवर्तते तदाह — परसवर्ण इति ।<\/w> तद्-लयः<\/qt> इत्यत्र <<तोर्लि>> [[8.4.60]] इत्यनेन तवर्गान्तःपातिनो दस्य स्थाने परसवर्णः (परनिमित्तभूतलकारसवर्णः) ल एव जातः । तेन तल्लयः<\/qt> इति सिद्धम् । तस्य लयः तल्लय इति विग्रहोऽत्र बोध्यः । विद्वाल्ँलिखतीति ।<\/w> विद्वान्-लिखति<\/qt> इति स्थिते नकारस्य स्थानिनोऽनुनासिकस्य परसवर्णो लकारो भवन् आन्तर्यादनुनासिक एव लकारो जातस्तेन विद्वाल्ँलिखति<\/qt> इति सिद्धम् ॥", "84061": "उदः स्थास्तस्म्भोरिति ।<\/w> एकदेशे स्वरितत्वप्रतिज्ञानात् <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यत्रस्थं समासनिर्दिष्टमपि सवर्णग्रहणमिह निकृष्य सम्बध्यते । उद उति पञ्चमी । अतः <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति परिभाषया उदः परयोः इति लभ्यते । तदाह — उदः परयोरिति ।<\/w> उद्-स्थानम्<\/qt>, उद्-स्तम्भनम्<\/qt> इति स्थिते । अत्र उदः परयोः स्था इत्यस्य स्तम्भ इत्यस्य च पूर्वसवर्णः - दकारसवर्णः प्राप्तः । तत्र <<आदेः परस्य>> [[1.1.54]] इति परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवति । तत्र पूर्वदकारसवर्णाश्च — तथदधनाः पञ्चैव । दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च । न तु ऌकारः सकारश्च । तयोः स्थानसान्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णाः भिन्नस्थानिकत्वान्न दकारसवर्णाः । एवञ्च पूर्वनिमित्रभूतदकारसवर्णाः तथदधनाः पञ्चापि सकारस्य प्राप्ताः । तत्र सकारस्य विवारश्वासाघोषमहाप्राणवतः सादृश्यात् तत्स्थाने तादृक् विवारश्वासाघोषमहाप्राणवान् थ् एव लभ्यते । तेन सस्य थकारादेशे उद् थ् थानम्<\/qt>, उद् थ् तम्भनम्<\/qt> इति जाते <<झरो झरि सवर्णे>> [[8.4.65]] इत्यनेन दकारोत्तवर्तिनः थकारस्य विकल्पेन लोेपे <<खरि च>> [[8.4.55]] इत्यनेन दकारस्य चर्त्वे उत्थानम्<\/qt>, उत्तम्भनम्<\/qt> इति भवतः । पक्षे उत्थ्थानम्<\/qt>, उत्थ्तम्भनम्<\/qt> इत्येव, न तु थकारस्य चर्त्वम् । चर्त्वं प्रति थकारस्यासिद्धत्वात् ॥", "84062": " झयो ह इति<\/w> झयः इति पञ्चमी । परस्येत्यध्याहार्यम् । ह इति षष्ठौ । <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इत्यतः पूर्वस्येति, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यतः सवर्ण इति चानुवर्तते, तदेवाह — झय परस्येत्यादिना । <\/w> वाग्घरिरिति । <\/w> वाक्-हरिः<\/qt> इति स्थिते, अत्र <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन जश्त्वे गकारे कृते झय्-प्रत्याहारान्तःपातिनो गकारात् परस्य हकारस्य पूर्वसवर्णः — गकारसवर्णाः क्, ख्, ग्, घ्, ङ् इति प्राप्ताः । तत्र हकारेण संवारनादघोषमहाप्राणवता तुल्यः संवारनादघोषमहाप्राणवान् घकारः विकल्पेन हकारस्य स्थाने जातः । तेन वाग्घरिः<\/qt> इति रूपं जायते । पक्षे वाग्हरिः<\/qt> इति भवति ।", "84063": "शश्छोटीति ।<\/w> <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इत्यतः झयः इति पञ्चम्यन्तमनुवर्तते । शः इति षष्ठ्येकवचनम् । तदाह झयः परस्येत्यादीना ।<\/w> तद्-शिवः<\/qt> इति स्थितेऽत्र दकारस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन सूत्रेण श्चुत्वे - जकारे कृते, तस्य जकारस्य <<खरि च>> [[8.4.55]] इत्यनेन चकारे कृते तच्-शिवः<\/qt> इति जाते, तदनन्तरम् <<शश्छोटि>> [[8.4.63]] इत्यनेन झयन्तःपातिनश्चकारात्परस्य शस्य अट्प्रत्याहारान्तःपातिनि शकारोत्तरवर्तिनीकारे परे छत्वे च विहिते तच्छिवः<\/qt> इति निष्पन्नम् । छत्वाभावे तच् शिवः<\/qt> इति भवति । छत्वममीति ।<\/w> <<शश्छोऽटि>> [[8.4.63]] इति सूत्रे अटीति विहाय अमीति वक्तव्यमित्यर्थः । <<शश्छोऽमि>> इति सूत्रं पठनीयमिति यावत् । तच्छ्लोकेनेति ।<\/w> तद्-श्लोकेन<\/qt> इत्यत्र <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन दकारस्य जकारे कृते <<खरि च>> [[8.4.55]] इत्यनेन चकारे तच्-श्लोकेन<\/qt> इत्यवस्थायां इति वार्त्तिकेन शस्य छत्वे च कृते तच्छ्लोकेन<\/qt> इति सिद्ध्यति । पक्षे तच्श्लोकेन<\/qt> इति ।", "84065": "" }